तत्र विक्रमसेनस्य पुत्रः शक्रपराक्रमः । प्राक्त्रिविक्रमसेनाख्यः ख्यातकीर्तिरभून्नृपः ॥ कथासरित्सागर १२,८.२२ (वेतालपञ्चविंशतिका ) ॥ तस्य प्रत्यहमास्थानगतस्योपेत्य भूपतेः । सेवार्थं क्षान्तिशीलाख्यो भिक्षुः फलमुपानयत् ॥ कथासरित्सागर १२,८.२३ (वेतालपञ्चविंशतिका ) ॥ सोऽपि राजा तदादाय फलमासन्नवर्तिनः । हस्ते ददौ प्रतिदिनं कोषागाराधिकारिणः ॥ कथासरित्सागर १२,८.२४ (वेतालपञ्चविंशतिका ) ॥ इत्थं गतेषु वर्षेषु दशस्वत्र किलैकदा । दत्त्वा राज्ञे फलं तस्मै भिक्षावास्थानतो गते ॥ कथासरित्सागर १२,८.२५ (वेतालपञ्चविंशतिका ) ॥ स राजा तत्फलं प्रादात्प्रविष्टायात्र दैवतः । क्रीडामर्कटपोताय हस्तभ्रष्टाय रक्षिणाम् ॥ कथासरित्सागर १२,८.२६ (वेतालपञ्चविंशतिका ) ॥ स मर्कटस्तदश्नाति यावत्तावत्फलात्ततः । विभिन्नमध्यान्निरगादनर्घं रत्नमुत्तमम् ॥ कथासरित्सागर १२,८.२७ (वेतालपञ्चविंशतिका ) ॥ तद्दृष्ट्वादाय पप्रच्छ तं भाण्डागारिकं नृपः । भिक्षूपनीतानि मया यानि नित्यं फलानि ते ॥ कथासरित्सागर १२,८.२८ (वेतालपञ्चविंशतिका ) ॥ हस्ते दत्तानि तानि क्व स्थापितानि सदा त्वया । तच्छ्रुत्वा तं स सभयः कोषाध्यक्षो व्यजिज्ञपत् ॥ कथासरित्सागर १२,८.२९ (वेतालपञ्चविंशतिका ) ॥ क्षिप्तानि तान्यनुद्घाट्य मया गञ्जे गवाक्षतः । यद्यादिशसि तद्देव तमुद्घाट्य गवेषये ॥ कथासरित्सागर १२,८.३० (वेतालपञ्चविंशतिका ) ॥ इति ऊचिवाननुमतो रज्ञा गत्वा क्षणेन सः । कोषाध्यक्षः समागत्य प्रभुं व्यज्ञापयत्पुनः ॥ कथासरित्सागर १२,८.३१ (वेतालपञ्चविंशतिका ) ॥ शीर्णानि नात्र पश्यामि कोषे तानि फलान्यहम् । रत्नराशिं तु पश्यामि रश्मिज्वालाकुलं विभो ॥ कथासरित्सागर १२,८.३२ (वेतालपञ्चविंशतिका ) ॥ तच्छ्रुत्वा तान्मनीन् दत्त्वा तुष्टोऽस्मै कोषरक्षिणे । राजान्येद्युरपृच्छत्स भिक्षुं तं प्राग्वदागतम् ॥ कथासरित्सागर १२,८.३३ (वेतालपञ्चविंशतिका ) ॥ भिक्षो धनव्ययेनैवं सेवसे मां किमन्वहम् । नेदानीं ते ग्रहीष्यामि फलं यावन्न वक्ष्यसि ॥ कथासरित्सागर १२,८.३४ (वेतालपञ्चविंशतिका ) ॥ इत्युक्तवन्तं राजानं भिक्षुस्तं विजनेऽब्रवीत् । वीरसाचिव्यसापेक्षं मन्त्रसाधनमस्ति मे ॥ कथासरित्सागर १२,८.३५ (वेतालपञ्चविंशतिका ) ॥ तत्र वीरेन्द्र साहाय्यं क्रियमानं त्वयार्थये । तच्छ्रुत्वा प्रतिपेदे तत्तथेत्यस्य स भूपतिः ॥ कथासरित्सागर १२,८.३६ (वेतालपञ्चविंशतिका ) ॥ ततः स श्रमणस्तुष्टो नृपं पुन उवाच तम् । तर्हि कृष्णचतुर्दश्यामागामिन्यां निशागमे ॥ कथासरित्सागर १२,८.३७ (वेतालपञ्चविंशतिका ) ॥ इतो महाश्मशानान्तःवटस्याधः स्थितस्य मे । आगन्तव्यं त्वया देव प्रतिपालयतोऽन्तिकम् ॥ कथासरित्सागर १२,८.३८ (वेतालपञ्चविंशतिका ) ॥ बाढमेवं करिष्यामीत्युक्ते तेन महीभुजा । स क्षान्तिशीलः श्रमणो हृष्टः स्वनिलयं ययौ ॥ कथासरित्सागर १२,८.३९ (वेतालपञ्चविंशतिका ) ॥ अथ तां स महासत्त्वः प्राप्य कृष्णचतुर्दशीम् । प्रार्थनां प्रतिपन्नां तां भिक्षोस्तस्य नृपः स्मरन् ॥ कथासरित्सागर १२,८.४० (वेतालपञ्चविंशतिका ) ॥ प्रदोषे नीलवसनस्तमालकृतशेखरः । निर्ययौ राजधानीतः खड्गपाणिरलक्षितः ॥ कथासरित्सागर १२,८.४१ (वेतालपञ्चविंशतिका ) ॥ ययौ च घोरनिबिडध्वान्तव्रातमलीमसम् । चितानलोग्रनयनज्वालादारुणदर्शनम् ॥ कथासरित्सागर १२,८.४२ (वेतालपञ्चविंशतिका ) ॥ असंख्यनरकङ्कालकपालास्थिविशङ्कटम् । हृष्यत्संनिहितोत्तालभूतवेतालवेष्टितम् ॥ कथासरित्सागर १२,८.४३ (वेतालपञ्चविंशतिका ) ॥ भैरवस्यापरं रूपमिव गम्भीरभीषणम् ॥ कथासरित्सागर १२,८.४४ (वेतालपञ्चविंशतिका ) ॥ स्फूर्जन्महाशिवारावं श्मशानं तदविह्वलः विचित्य चात्र तं प्राप्य भिक्षुं वटतरोरधः । कुर्वाणं मण्डलन्यासमुपसृत्य जगाद सः ॥ कथासरित्सागर १२,८.४५ (वेतालपञ्चविंशतिका ) ॥ एषोऽहमागतो भिक्षो ब्रूहि किं करवाणि ते । तच्छ्रुत्वा स नृपं दृष्ट्वा हृष्टो भिक्षुरुवाच तम् ॥ कथासरित्सागर १२,८.४६ (वेतालपञ्चविंशतिका ) ॥ राजन् कृतः प्रसादश्चेत्तदितो दक्षिणामुखम् । गत्वा विदूरमेकाकी विद्यते शिंशपातरुः ॥ कथासरित्सागर १२,८.४७ (वेतालपञ्चविंशतिका ) ॥ तस्मिन्नुल्लम्बितमृतः कोऽप्येकः पुरुषः स्थितः । तमिहानय गत्वा त्वं सानाथ्यं कुरु वीर मे ॥ कथासरित्सागर १२,८.४८ (वेतालपञ्चविंशतिका ) ॥ तच्छृउत्वैव तथेत्युक्त्वा स राजा सत्यसंगरः । दक्षिणां दिशमालम्ब्य प्रवीरः प्रययौ ततः ॥ कथासरित्सागर १२,८.४९ (वेतालपञ्चविंशतिका ) ॥ आत्तदीप्तचितालातलक्षितेन पथात्र सः । गत्वा तमसि तं प्राप कथंचिच्छिंशपातरुम् ॥ कथासरित्सागर १२,८.५० (वेतालपञ्चविंशतिका ) ॥ तस्य स्कन्धे चिताधूमदग्धस्य क्रव्यगन्धिनः । सोऽपश्यल्लम्बमानं तं भूतस्येव शवं तरोः ॥ कथासरित्सागर १२,८.५१ (वेतालपञ्चविंशतिका ) ॥ आरुह्य चात्र भूमौ तं छिन्न रज्जुमपातयत् । पतितश्चात्र सोऽकस्माच्चक्रन्द व्यथितो यथा ॥ कथासरित्सागर १२,८.५२ (वेतालपञ्चविंशतिका ) ॥ ततोऽवरुह्य कृपया जीवाशङ्की स तस्य यत् । राजाङ्गं प्रामृशत्तेन सोऽट्टहासं व्यधाच्छवः ॥ कथासरित्सागर १२,८.५३ (वेतालपञ्चविंशतिका ) ॥ ततः स राजा मत्वा तं वेतालाधिष्ठितं तदा । किं हसस्येहि गच्छाव इति यावदकम्पितः ॥ कथासरित्सागर १२,८.५४ (वेतालपञ्चविंशतिका ) ॥ वक्ति तावन्न भूमौ सवेतालं शवमैक्षत । ऐक्षतात्रैव वृक्षे तु लम्बमानं स्थितं पुनः ॥ कथासरित्सागर १२,८.५५ (वेतालपञ्चविंशतिका ) ॥ ततोऽधिरुह्य भूयोऽपि तमवातारयत्ततः । वज्रादपि हि वीराणां चित्तरत्नमखण्डितम् ॥ कथासरित्सागर १२,८.५६ (वेतालपञ्चविंशतिका ) ॥ आरोप्य च सवेतालं स्कन्धे मौनेन तं शवम् । स त्रिविक्रमसेनोऽथ राजा गन्तुं प्रचक्रमे ॥ कथासरित्सागर १२,८.५७ (वेतालपञ्चविंशतिका ) ॥ यान्तं च तं शवान्तःस्थो वेतालोऽंसस्थितोऽब्रवीत् । राजन्नध्वविनोदाय कथामाख्यामि ते शृणु ॥ कथासरित्सागर १२,८.५८ (वेतालपञ्चविंशतिका ) ॥ अस्ति वाराणसी नाम पुरारिवसतिः पुरी । स्थलीव कैलासगिरेर्या पुण्यजनसेविता ॥ कथासरित्सागर १२,८.५९ (वेतालपञ्चविंशतिका १) ॥ भूरिवारिभृता शश्वदुपकण्ठनिवेशिनी । हारयष्टिरिवाभाति यस्याः स्वर्गतरङ्गिणी ॥ कथासरित्सागर १२,८.६० (वेतालपञ्चविंशतिका १) ॥ प्रतापानलनिर्दग्धविपक्षकुलकाननः । तस्यां प्रतापमुकुटो नाम राजाभवत्पुरा ॥ कथासरित्सागर १२,८.६१ (वेतालपञ्चविंशतिका १) ॥ तस्याभूद्वज्रमुकुटस्तनयो रूपशौर्ययोः । कुर्वाणो दर्पदलनं स्मरस्यारिजनस्य च ॥ कथासरित्सागर १२,८.६२ (वेतालपञ्चविंशतिका १) ॥ राजपुत्रस्य तस्यात्र मन्त्रिपुत्रो महामतिः । आसीद्बुद्धिशरीराख्यः शरीराभ्यधिकः सखा ॥ कथासरित्सागर १२,८.६३ (वेतालपञ्चविंशतिका १) ॥ तेन सख्या सह क्रीडन् स कदाचिन्नृपात्मजः । जगाम दूरमध्वानं मृगयाति प्रसङ्गतः ॥ कथासरित्सागर १२,८.६४ (वेतालपञ्चविंशतिका १) ॥ शौर्यशृईचामरानीव सिंहानां मस्तकानि सः । छिन्दच्छरैः सटालानि विवेशैकं महावनम् ॥ कथासरित्सागर १२,८.६५ (वेतालपञ्चविंशतिका १) ॥ तत्रास्थाने स्मरस्येव पठत्कोकिलबन्दिनि । दत्तोपकारे तरुभिर्मञ्जरीचलचामरैः ॥ कथासरित्सागर १२,८.६६ (वेतालपञ्चविंशतिका १) ॥ सोऽन्वितो मन्त्रिपुत्रेण तेनापश्यत्सरःवरम् । विचित्रकमलोत्पत्तिधामाम्बुधिमिवापरम् ॥ कथासरित्सागर १२,८.६७ (वेतालपञ्चविंशतिका १) ॥ तस्मिंस्तदैव सरसि स्नानार्थं काचिदागता । तेन दिव्याकृतिः कन्या ददृशे सपरिच्छदा ॥ कथासरित्सागर १२,८.६८ (वेतालपञ्चविंशतिका १) ॥ पूरयन्तीव लावण्यनिःझरेण सरःवरम् । दृष्टिपातैः सृजन्तीव तत्रोत्पलवनं नवम् ॥ कथासरित्सागर १२,८.६९ (वेतालपञ्चविंशतिका १) ॥ प्रत्यादिशन्तीव मुखेनाम्बुजानि जितेन्दुना । सा जहार मनस्तस्य राजपुत्रस्य तत्क्षणम् ॥ कथासरित्सागर १२,८.७० (वेतालपञ्चविंशतिका १) ॥ सोऽप्यहार्षीत्तथा तस्या युवा दृष्ट्वा विलोचने । यथा नैक्षत सा कन्या लज्जां स्वामप्यलंकृतिम् ॥ कथासरित्सागर १२,८.७१ (वेतालपञ्चविंशतिका १) ॥ यूनि पश्यति तस्मिन् सा केयं स्यादिति सानुगे । संज्ञां स्वदेशाद्याख्यातुं विलासछद्मनाकरोत् ॥ कथासरित्सागर १२,८.७२ (वेतालपञ्चविंशतिका १) ॥ करोति स्मौत्पलं कर्णे गृहीत्वा पुष्पशेखरात् । चिरं च दन्तरचनां चकारादाय च व्यधात् ॥ कथासरित्सागर १२,८.७३ (वेतालपञ्चविंशतिका १) ॥ पद्मं शिरसि साकूतं हृदये चादधे करम् । राजपुत्रश्च तस्यास्तां संज्ञां न ज्ञातवांस्तदा ॥ कथासरित्सागर १२,८.७४ (वेतालपञ्चविंशतिका १) ॥ मन्त्रिपुत्रस्तु बुबुधे स सखा तस्य बुद्धिमान् । क्षणाच्च सा ययौ कन्या नीयमानानुगैस्ततः ॥ कथासरित्सागर १२,८.७५ (वेतालपञ्चविंशतिका १) ॥ प्राप्य च स्वगृहं तस्थौ पर्यङ्गेऽङ्गं निधाय सा । चित्तं तु निजसंज्ञार्थमास्थात्तस्मिन्नृपात्मजे ॥ कथासरित्सागर १२,८.७६ (वेतालपञ्चविंशतिका १) ॥ सोऽपि राजसुतो भ्रष्टविद्यो विद्याधरो यथा । गत्वा स्वनगरीं कृच्छ्रां प्रापावस्थां तया विना ॥ कथासरित्सागर १२,८.७७ (वेतालपञ्चविंशतिका १) ॥ सख्या च मन्त्रिपुत्रेण तेन पृष्टस्तदा रहः । शंसता तामदुष्प्रापां त्यक्तधैर्यो जगाद सः ॥ कथासरित्सागर १२,८.७८ (वेतालपञ्चविंशतिका १) ॥ यस्या न नाम न ग्रामो नान्वयो वावबुध्यते । सा कथं प्राप्यते तन्मामाश्वासयसि किं मृषा ॥ कथासरित्सागर १२,८.७९ (वेतालपञ्चविंशतिका १) ॥ इत्युक्तो राजपुत्रेण मन्त्रिपुत्रस्तमभ्यधात् । किं न दृष्टं त्वया तद्यत्संज्ञया सूचितं तया ॥ कथासरित्सागर १२,८.८० (वेतालपञ्चविंशतिका १) ॥ न्यस्तं यदुत्पलं कर्णे तेनैतत्ते तयोदितम् । कर्णोत्पलस्य राष्ट्रेऽहं निवसामि महीभृतः ॥ कथासरित्सागर १२,८.८१ (वेतालपञ्चविंशतिका १) ॥ कृता यद्दन्तरचना तेनैतत्कथितं तया । तत्र जानीहि मां दन्तघाटकस्य सुतामिति ॥ कथासरित्सागर १२,८.८२ (वेतालपञ्चविंशतिका १) ॥ पद्मावतीति नामोक्तं तयोत्तंसितपद्मया । त्वयि प्राणा इति प्रोक्तं हृदयार्पितहस्तया ॥ कथासरित्सागर १२,८.८३ (वेतालपञ्चविंशतिका १) ॥ कलिङ्गदेशे ह्यस्त्यत्र ख्यातः कर्णोत्पलो नृपः । तस्य प्रसादवित्तोऽस्ति महान् यो दन्तघटकः ॥ कथासरित्सागर १२,८.८४ (वेतालपञ्चविंशतिका १) ॥ सङ्ग्रामवर्धनाख्यस्य तस्याप्यस्ति जगत्त्रये । रत्नं पद्मावती नाम कन्या प्राणाधिकप्रिया ॥ कथासरित्सागर १२,८.८५ (वेतालपञ्चविंशतिका १) ॥ एतच्च लोकतो देव यथावद्विदितं मम । अतो ज्ञाता मया संज्ञा तस्या देशादिशंसिनी ॥ कथासरित्सागर १२,८.८६ (वेतालपञ्चविंशतिका १) ॥ इत्युक्तो मन्त्रिपुत्रेन तेन राजसुतोऽथ सः । तुतोष तस्मै सुधिये लब्धोपायो जहर्ष च ॥ कथासरित्सागर १२,८.८७ (वेतालपञ्चविंशतिका १) ॥ संमन्त्र्य च समं तेन स तद्युक्तः स्वमन्दिरात् । प्रियार्थी मृगयाव्याजात्पुनस्तामगमद्दिशम् ॥ कथासरित्सागर १२,८.८८ (वेतालपञ्चविंशतिका १) ॥ अर्धमार्गे च वाताश्ववेगवञ्चितसैनिकः । तं मन्त्रिपुत्रैकयुतः कलिङ्गविषयं ययौ ॥ कथासरित्सागर १२,८.८९ (वेतालपञ्चविंशतिका १) ॥ तत्र तौ प्राप्य नगरं कर्णोत्पलमहीभृतः । अन्विष्य दृष्ट्वा भवनं दन्तघाटस्य तस्य च ॥ कथासरित्सागर १२,८.९० (वेतालपञ्चविंशतिका १) ॥ तददूरे च वासार्थमेकस्य वृद्धयोषितः । गृहं प्राविशतां मन्त्रिपुत्रराजसुतावुभौ ॥ कथासरित्सागर १२,८.९१ (वेतालपञ्चविंशतिका १) ॥ दत्ताम्बुयवसौ वाहौ गुप्तेऽवस्थाप्य चात्र सः । राजपुत्रे स्थिते वृद्धां मन्त्रिपुत्रो जगाद ताम् ॥ कथासरित्सागर १२,८.९२ (वेतालपञ्चविंशतिका १) ॥ कच्चिद्वेत्स्यम्ब सङ्ग्रामवर्धनं दन्तघाटकम् । तच्छृउत्वा सा जरद्योषित्सश्रद्धा तमभाषत ॥ कथासरित्सागर १२,८.९३ (वेतालपञ्चविंशतिका १) ॥ वेद्म्येव धात्री तस्यास्मि स्थापिता तेन चाधुना । पद्मावत्याः स्वदुहितुः पार्श्वे ज्येष्ठतरेत्यहम् ॥ कथासरित्सागर १२,८.९४ (वेतालपञ्चविंशतिका १) ॥ किं त्वहं न सदा तत्र गच्छाम्युपहताम्बरा । कुपुत्रः कितवो वस्त्रं दृष्ट्वा हि हरते मम ॥ कथासरित्सागर १२,८.९५ (वेतालपञ्चविंशतिका १) ॥ एवमुक्तवतीं प्रीतः स्वोत्तरीयादिदानतः । संतोष्य सोऽत्र वृद्धां तां मन्त्रिपुत्रोऽब्रवीत्पुनः ॥ कथासरित्सागर १२,८.९६ (वेतालपञ्चविंशतिका १) ॥ माता त्वं तद्वदामस्ते गुप्तं यत्तत्कुरुष्व नः । दन्तघाटसुतामेतां गत्वा पद्मावतीं वद ॥ कथासरित्सागर १२,८.९७ (वेतालपञ्चविंशतिका १) ॥ सोऽत्रागतो राजपुत्रो दृष्टो यः सरसि त्वया । तेन चेह तदाख्यातुं प्रेषिता प्रणयादहम् ॥ कथासरित्सागर १२,८.९८ (वेतालपञ्चविंशतिका १) ॥ तच्छृउत्वा सा तथेत्युक्त्वा वृद्धा दानवशीकृता । गत्वा पद्मावतीपार्श्वमाजगाम क्षणान्तरे ॥ कथासरित्सागर १२,८.९९ (वेतालपञ्चविंशतिका १) ॥ पृष्टा जगाद तौ राजसुतमन्त्रिसुतौ च सा । युष्मदागमनं गत्वा गुप्तं तस्या मयोदितम् ॥ कथासरित्सागर १२,८.१०० (वेतालपञ्चविंशतिका १) ॥ तया श्रुत्वा च निर्भर्त्स्य पाणिभ्यामहमाहता । द्वाभ्यां कर्पूरलिप्ताभ्यामुभयोर्गण्डयोर्मुखे ॥ कथासरित्सागर १२,८.१०१ (वेतालपञ्चविंशतिका १) ॥ ततः परिभवोद्विग्ना रुदत्यहमिहागता । एतास्तदङ्गुलीमुद्राः पुत्रौ मे पश्यतं मुखे ॥ कथासरित्सागर १२,८.१०२ (वेतालपञ्चविंशतिका १) ॥ एवं तयोक्ते नैराश्यविषण्णं तं नृपात्मजम् । जगाद स महाप्राज्ञो मन्त्रिपुत्रो जनान्तिकम् ॥ कथासरित्सागर १२,८.१०३ (वेतालपञ्चविंशतिका १) ॥ मा गा विषादं रक्षन्त्या मन्त्रं निर्भर्त्स्य यत्तया । कर्पूरशुभ्रा वक्त्रेऽस्याः स्वाङ्गुल्यो दश पातिताः ॥ कथासरित्सागर १२,८.१०४ (वेतालपञ्चविंशतिका १) ॥ तदेतदुक्तं पक्षेऽस्मिञ्शुक्ले चन्द्रवतीरिमाः । रात्रीर्दश प्रतीक्षध्वं संगमानुचिता इति ॥ कथासरित्सागर १२,८.१०५ (वेतालपञ्चविंशतिका १) ॥ इत्याश्वास्य स तं राजसुतं मन्त्रिसुतस्ततः । विक्रीय गुप्तं हस्तस्थं काञ्चनं किम्चिदापणे ॥ कथासरित्सागर १२,८.१०६ (वेतालपञ्चविंशतिका १) ॥ वृद्धया साधयामास महार्हं भोजनं तया । ततस्तौ बुभुजाते द्वौ तत्तया सह वृद्धया ॥ कथासरित्सागर १२,८.१०७ (वेतालपञ्चविंशतिका १) ॥ एवं नीत्वा दशाहानि जिज्ञासार्थं पुनः स ताम् । पद्मावत्यन्तिकं वृद्धां मन्त्रिपुत्रो विसृष्टवान् ॥ कथासरित्सागर १२,८.१०८ (वेतालपञ्चविंशतिका १) ॥ सापि मृष्टान्नपानादिलुब्धा तदनुरोधतः । गत्वा वासगृहं तस्या भूयोऽभ्येत्य जगाद तौ ॥ कथासरित्सागर १२,८.१०९ (वेतालपञ्चविंशतिका १) ॥ इतो गत्वाद्य तूष्णीमप्यहं तत्र स्थिता तया । युष्मत्कथापराधं तमुद्गिरन्त्या स्वयं पुनः ॥ कथासरित्सागर १२,८.११० (वेतालपञ्चविंशतिका १) ॥ सा लक्तकाभिस्तिसृभिः कराङ्गुलिभिराहता । उरस्यस्मिन्नथैषाहमिहायाता तदन्तिकात् ॥ कथासरित्सागर १२,८.१११ (वेतालपञ्चविंशतिका १) ॥ तच्छ्रुत्वा राजपुत्रं तं स्वैरं मन्त्रिसुतोऽब्रवीत् । मा कार्षीरन्यथा शङ्कामस्या हि हृदये तया ॥ कथासरित्सागर १२,८.११२ (वेतालपञ्चविंशतिका १) ॥ सा लक्तकाङ्गुलीमुद्रात्रयं विन्यस्य युक्तितः । रजस्वला निशास्तिस्रः स्थिताहमिति सूचितम् ॥ कथासरित्सागर १२,८.११३ (वेतालपञ्चविंशतिका १) ॥ एवमुक्त्वा नृपसुतं मन्त्रिपुत्रस्त्र्यहे गते । पद्मावत्यै पुनस्तस्यै वृद्धां तां प्रजिघाय सः ॥ कथासरित्सागर १२,८.११४ (वेतालपञ्चविंशतिका १) ॥ सा गता मन्दिरं तस्यास्तया संमान्य भोजिता । प्रीत्या पानादिलीलाभिर्दिनं चात्र विनोदिता ॥ कथासरित्सागर १२,८.११५ (वेतालपञ्चविंशतिका १) ॥ सायं च यावत्सा वृद्धा गृहमागन्तुमिच्छति । उदभूद्भयकृत्तावत्तत्र कोलाहलो बहिः ॥ कथासरित्सागर १२,८.११६ (वेतालपञ्चविंशतिका १) ॥ हा हा भ्रष्टोऽयमालानाज्जनान्मथ्नन् प्रधावति । मत्तहस्तीति लोकस्य तत्राक्रन्दोऽथ शुश्रुवे ॥ कथासरित्सागर १२,८.११७ (वेतालपञ्चविंशतिका १) ॥ ततः पद्मावती सा तां वृद्धामेवमभाषत । स्पष्टेन हस्तिरुद्धेन गन्तुं युक्तं न ते पथा ॥ कथासरित्सागर १२,८.११८ (वेतालपञ्चविंशतिका १) ॥ तत्पीठिकां समारोप्य बद्धालम्बनरज्जुकाम् । बृहद्गवाक्षेणानेन त्वामत्र प्रक्षिपामहे ॥ कथासरित्सागर १२,८.११९ (वेतालपञ्चविंशतिका १) ॥ गृहोद्याने ततो वृक्षमारुह्यामुं विलङ्घ्य च । प्राकारमवरुह्यान्यवृक्षेण स्वगृहं व्रज ॥ कथासरित्सागर १२,८.१२० (वेतालपञ्चविंशतिका १) ॥ इत्युक्त्वा सा गवाक्षेण क्षेपयामास तत्र ताम् । वृद्धां चेटीभिरुद्याने रज्जुपीठिकया ततः ॥ कथासरित्सागर १२,८.१२१ (वेतालपञ्चविंशतिका १) ॥ साथ गत्वा यथोक्तेन पथा सर्वं शशंस तत् । यथावद्राजपुत्राय तस्मै मन्त्रिसुताय च ॥ कथासरित्सागर १२,८.१२२ (वेतालपञ्चविंशतिका १) ॥ ततः स मन्त्रिपुत्रस्तं राजपुत्रमभाषत । सिद्धं तवेष्टं मार्गो हि युक्त्या ते दर्शितस्तया ॥ कथासरित्सागर १२,८.१२३ (वेतालपञ्चविंशतिका १) ॥ तद्गच्छाद्यैव तत्र त्वं प्रदोषेऽस्मिन्नृपागते । एतेनैव पथा तस्याः प्रियाया मन्दिरं विश ॥ कथासरित्सागर १२,८.१२४ (वेतालपञ्चविंशतिका १) ॥ इत्युक्तस्तेन तद्युक्तो राजपुत्रो ययौ स तत् । उद्यानं वृद्धयोक्तेन तेन प्राकारवर्त्मना ॥ कथासरित्सागर १२,८.१२५ (वेतालपञ्चविंशतिका १) ॥ तत्रापश्यच्च रज्जुं तां लम्बमानां सपीठिकाम् । मार्गोन्मुखाभिश्चेटीभिरुपरिष्टादधिष्ठिताम् ॥ कथासरित्सागर १२,८.१२६ (वेतालपञ्चविंशतिका १) ॥ आरूढस्तां च दृष्ट्वैव दासीभिस्ताभिराशु सः । रज्जूत्क्षिप्तो गवाक्षेण प्रविवेश प्रियान्तिकम् ॥ कथासरित्सागर १२,८.१२७ (वेतालपञ्चविंशतिका १) ॥ तस्मिन् प्रविष्टे स ययौ मन्त्रिपुत्रः स्वमास्पदम् । राजपुत्रस्तु तां पद्मावतीं तत्र ददर्श सः ॥ कथासरित्सागर १२,८.१२८ (वेतालपञ्चविंशतिका १) ॥ पूर्णामृताम्शुवदनां प्रसरत्कान्तिचन्द्रकाम् । कृष्णपक्षभयाद्गुप्तस्थितां राकानिशामिव ॥ कथासरित्सागर १२,८.१२९ (वेतालपञ्चविंशतिका १) ॥ सापि दृष्ट्वा तमुत्थाय चिरौत्सुक्योचितैस्ततः । कण्ठग्रहादिभिस्तैस्तैरुपचारैरमानयत् ॥ कथासरित्सागर १२,८.१३० (वेतालपञ्चविंशतिका १) ॥ ततस्तया स गान्धर्वविधिनोदूढया सह । गुप्तं राजसुतस्तस्थौ पूर्णेच्छस्तत्र कान्तया ॥ कथासरित्सागर १२,८.१३१ (वेतालपञ्चविंशतिका १) ॥ स्थित्वा चाहानि कतिचिद्रात्रौ तामवदत्प्रियाम् । सखा मम सहायातो मन्त्रिपुत्र इति स्थितः ॥ कथासरित्सागर १२,८.१३२ (वेतालपञ्चविंशतिका १) ॥ स चात्र तिष्ठत्येकाकी त्वज्ज्येष्ठतरिकागृहे । गत्वा संभाव्य तं तन्वि पुन एष्यामि तेऽन्तिकम् ॥ कथासरित्सागर १२,८.१३३ (वेतालपञ्चविंशतिका १) ॥ तच्छृउत्वा तमवोचत्सा धूर्ता पद्मावती प्रियम् । हन्तार्यपुत्र पृच्छामि ताः संज्ञा मत्कृतास्त्वया ॥ कथासरित्सागर १२,८.१३४ (वेतालपञ्चविंशतिका १) ॥ ज्ञाता किं किमुवा तेन सख्या मन्त्रिसुतेन ते । एवमुक्तवतीमेतां राजपुत्रो जगाद सः ॥ कथासरित्सागर १२,८.१३५ (वेतालपञ्चविंशतिका १) ॥ न ज्ञातं तन्मया किम्चिज्ज्ञात्वा सर्वं च तेन मे । आख्यातं मन्त्रिपुत्रेण दिव्यप्रज्ञानशालिना ॥ कथासरित्सागर १२,८.१३६ (वेतालपञ्चविंशतिका १) ॥ एतच्छृउत्वा विचिन्त्यैव भामिनी सा जगाद तम् । तर्ह्ययुक्तं कृतं यन्मे चिरात्स कथितस्त्वया ॥ कथासरित्सागर १२,८.१३७ (वेतालपञ्चविंशतिका १) ॥ स मे भ्राता सखा यस्ते तस्य च प्रथमं मया । ताम्बूलादिसमाचारः कर्तव्यो हि सदा भवेत् ॥ कथासरित्सागर १२,८.१३८ (वेतालपञ्चविंशतिका १) ॥ इत्युक्तवत्यानुमतस्तया पूर्वपथेन सः । रजापुत्रोऽन्तिकं तस्य सख्युरागात्ततो निशि ॥ कथासरित्सागर १२,८.१३९ (वेतालपञ्चविंशतिका १) ॥ शशंस च कथामध्ये तत्तस्मै यत्तदाश्रयम् । संज्ञाविज्ञानकथनं कृतं तेन प्रियान्तिके ॥ कथासरित्सागर १२,८.१४० (वेतालपञ्चविंशतिका १) ॥ मन्त्रिपुत्रस्तु सोऽयुक्तमिति न श्रद्दधेऽस्य तत् । तावच्च सा तयोस्तत्र विभाताभूद्विभावरी ॥ कथासरित्सागर १२,८.१४१ (वेतालपञ्चविंशतिका १) ॥ अथैतयोर्विधौ सांध्ये निवृत्ते कुर्वतोः कथाः ॥ कथासरित्सागर १२,८.१४२ (वेतालपञ्चविंशतिका १) ॥ आगात्पक्वान्नताम्बूलहस्ता पद्मावतीसखी सा मन्त्रिपुत्रं कुशलं पृष्ट्वा दत्तोपचारिका । निषेद्धुं रजापुत्रस्य भोजनं तत्र युक्तितः ॥ कथासरित्सागर १२,८.१४३ (वेतालपञ्चविंशतिका १) ॥ कथान्तरे स्वामिनीं स्वां भोजनादौ तदागमम् । प्रतीक्षमाणामावेद्य क्षणाद्गुप्तं ततो ययौ ॥ कथासरित्सागर १२,८.१४४ (वेतालपञ्चविंशतिका १) ॥ ततस्तं मन्त्रिपुत्रः स राजपुत्रमभाषत । कौतुकं पश्य देवैकं दर्शयाम्यधुना तव ॥ कथासरित्सागर १२,८.१४५ (वेतालपञ्चविंशतिका १) ॥ इत्युक्त्वा भक्ष्यमेकं स पक्वान्नं दत्तवांस्ततः । सारमेयाय स च तत्खादित्वैव व्यपद्यत ॥ कथासरित्सागर १२,८.१४६ (वेतालपञ्चविंशतिका १) ॥ तद्दृष्ट्वा किमिदं चित्रमिति राजसुतोऽत्र सः । पप्रच्छ मन्त्रिपुत्रं तं स चैतं प्रत्यभाषत ॥ कथासरित्सागर १२,८.१४७ (वेतालपञ्चविंशतिका १) ॥ संज्ञाज्ञानेन धूर्तं मां विदित्वा हन्तुकामया । तया विषान्नं प्रहितं मम त्वदनुरक्तया ॥ कथासरित्सागर १२,८.१४८ (वेतालपञ्चविंशतिका १) ॥ नास्मिन् सति मदेकाग्रो राजपुत्रो भवेदयम् । एतद्वशश्च मुक्त्वा मां नगरीं स्वां व्रजेदिति ॥ कथासरित्सागर १२,८.१४९ (वेतालपञ्चविंशतिका १) ॥ तन्मुञ्च मन्युमेतस्यां बन्धुत्यागान्महात्मनः । कुर्यास्त्वं हरणे युक्तिं वक्ष्याम्यालोच्य यामहम् ॥ कथासरित्सागर १२,८.१५० (वेतालपञ्चविंशतिका १) ॥ इत्युक्तवन्तं तं मन्त्रिसुतो राजसुतोऽत्र सः । सत्यं बुद्धिशरीरस्त्वमिति यावत्प्रशंसति ॥ कथासरित्सागर १२,८.१५१ (वेतालपञ्चविंशतिका १) ॥ अशङ्कितं बहिस्तावद्दुःखाकुलजनारवः । हा धिग्राज्ञः सुतो बालो विपन्न इति शुश्रुवे ॥ कथासरित्सागर १२,८.१५२ (वेतालपञ्चविंशतिका १) ॥ तदाकर्णनहृष्टोऽथ मन्त्रिपुत्रो नृपात्मजम् । जगाद हन्त गच्छाद्य पद्मावत्या गृहं निशि ॥ कथासरित्सागर १२,८.१५३ (वेतालपञ्चविंशतिका १) ॥ तत्र तां पाययेस्तावद्यावत्पानमदेन सा । निःसंज्ञा नष्टचेष्टा च गतजीवेव जायते ॥ कथासरित्सागर १२,८.१५४ (वेतालपञ्चविंशतिका १) ॥ ततस्तस्याः सनिद्रायाः शूलेनाङ्कं कटीतटे । दत्त्वाग्नितप्तेनादाय तदाभरणसंचयम् ॥ कथासरित्सागर १२,८.१५५ (वेतालपञ्चविंशतिका १) ॥ आगच्छेस्त्वं गवाक्षेण रज्जुलम्बविनिर्गतः । ततः परं यथा भद्रं भवेज्ज्ञास्याम्यहं तथा ॥ कथासरित्सागर १२,८.१५६ (वेतालपञ्चविंशतिका १) ॥ इत्युक्त्वा कारयित्वा च क्रोडवालनिभाश्रिकम् । मन्त्रिपुत्रो ददौ तस्मै त्रिशूलं राजसूनवे ॥ कथासरित्सागर १२,८.१५७ (वेतालपञ्चविंशतिका १) ॥ राजपुत्रः स हस्ते तत्कृत्वा कुटिलकर्कशम् । कालायस दृढं चित्तमिव कान्तावयस्ययोः ॥ कथासरित्सागर १२,८.१५८ (वेतालपञ्चविंशतिका १) ॥ तथेति पूर्ववद्रात्रावगात्पद्मावतीगृहम् । अविचार्यं प्रभूणां हि शुचेर्वाक्यं स्वमन्त्रिणः ॥ कथासरित्सागर १२,८.१५९ (वेतालपञ्चविंशतिका १) ॥ तत्र तां मद्यनिःचेष्टां शूलेन जघनेऽङ्किताम् । हृतालंकरणां कृत्वा तस्यागात्सख्युरन्तिकम् ॥ कथासरित्सागर १२,८.१६० (वेतालपञ्चविंशतिका १) ॥ दर्शिताभरणस्तस्मै शशंस च यथाकृतम् । ततः स मन्त्रिपुत्रोऽपि सिद्धं मेने मनीषितम् ॥ कथासरित्सागर १२,८.१६१ (वेतालपञ्चविंशतिका १) ॥ प्रातर्गत्वा श्मशानं च सोऽभूत्तापसवेषभृत् । स्वैरं राजसुतं तं च विदधे शिष्यरूपिणम् ॥ कथासरित्सागर १२,८.१६२ (वेतालपञ्चविंशतिका १) ॥ अब्रवीत्तं च गच्छैकमितोऽलंकरणादिमाम् । मुक्तावलीं समादाय त्वं विक्रेतुमिवापणे ॥ कथासरित्सागर १२,८.१६३ (वेतालपञ्चविंशतिका १) ॥ बहुमूल्यं वदेश्चास्या येनैतां नैव कश्चने । गृह्णीयाद्भ्राम्यमाणां च सर्वः कोऽपि विलोकयेत् ॥ कथासरित्सागर १२,८.१६४ (वेतालपञ्चविंशतिका १) ॥ गुरुणा मम विक्रेतुमियं दत्तेत्यनाकुलः । ब्रूयाश्च यदि गृह्णीयुरत्र त्वां पुररक्षिणः ॥ कथासरित्सागर १२,८.१६५ (वेतालपञ्चविंशतिका १) ॥ इति स प्रेषितस्तेन गत्वा राजसुतस्तदा । अतिष्ठदापणे भ्राम्यन् व्यक्तं मुक्तावलीं दधत् ॥ कथासरित्सागर १२,८.१६६ (वेतालपञ्चविंशतिका १) ॥ तथाभूतश्च जगृहे स दृष्ट्वा पुररक्षिभिः । दन्तघाटसुतामोषज्ञप्तेश्चौरेगवेषिभिः ॥ कथासरित्सागर १२,८.१६७ (वेतालपञ्चविंशतिका १) ॥ निन्ये च नगराध्यक्षनिकटं तैः स तत्क्षणात् । स च तं तापसाकारं दृष्ट्वा पप्रच्छ सान्त्वतः ॥ कथासरित्सागर १२,८.१६८ (वेतालपञ्चविंशतिका १) ॥ कुतो मुक्तावलीयं ते भगवन्निह हारिता । दन्तघाटककन्याया हृतं ह्याभरणं निशि ॥ कथासरित्सागर १२,८.१६९ (वेतालपञ्चविंशतिका १) ॥ तच्छृउत्वा राजपुत्रस्तं सोऽवादीत्तापसाकृतिः । गुरुणा मम दत्तेयमेत्यासौ पृच्छ्यतामिति ॥ कथासरित्सागर १२,८.१७० (वेतालपञ्चविंशतिका १) ॥ ततश्चोपेत्य तं नत्वा पप्रच्छ नगराधिपः । मुक्तावलीयं भगवन् कुतस्ते शिष्यहस्तगा ॥ कथासरित्सागर १२,८.१७१ (वेतालपञ्चविंशतिका १) ॥ शृउत्वैतद्विजनं कृत्वा स धूर्तस्तमभाषत । अहं तपस्वी भ्राम्यामि सदारण्येष्वितस्ततः ॥ कथासरित्सागर १२,८.१७२ (वेतालपञ्चविंशतिका १) ॥ सोऽहं दैवादिह प्राप्तः श्मशानेऽत्र स्थितो निशि । अपश्यं योगिनीचक्रं समागतमितस्ततः ॥ कथासरित्सागर १२,८.१७३ (वेतालपञ्चविंशतिका १) ॥ तन्मध्ये चैकयानीय योगिन्या राजपुत्रकः । उद्घाटितहृदम्भोजो भैरवाय निवेदितः ॥ कथासरित्सागर १२,८.१७४ (वेतालपञ्चविंशतिका १) ॥ पानमत्ता च सा हर्तुं जपतो मेऽक्षमालिकाम् । प्रावर्तत महामाया विकारान् कुर्वती मुखे ॥ कथासरित्सागर १२,८.१७५ (वेतालपञ्चविंशतिका १) ॥ अतिप्रवृत्ता च मया क्रुद्धेन जघनस्थले । अङ्किता सा त्रिशूलेन मन्त्रप्रज्वालिताश्रिणा ॥ कथासरित्सागर १२,८.१७६ (वेतालपञ्चविंशतिका १) ॥ हृता मुक्तावली चेयं तस्याः कण्ठान्मया तदा । सैषाद्य तापसानर्हा विक्रेया मम वर्तते ॥ कथासरित्सागर १२,८.१७७ (वेतालपञ्चविंशतिका १) ॥ एतच्छृउत्वा पुराध्यक्षो गत्वा भूपं व्यजिज्ञपत् । भूपोऽप्याकर्ण्य तत्तां च बुद्ध्वा तन्मौक्तिकावलीम् ॥ कथासरित्सागर १२,८.१७८ (वेतालपञ्चविंशतिका १) ॥ प्रेक्षणप्रेषितायातवृद्धाप्तवनितामुखात् । श्रुत्वा च दृश्यशूलाङ्कां जघने सत्यमेव ताम् ॥ कथासरित्सागर १२,८.१७९ (वेतालपञ्चविंशतिका १) ॥ ग्रस्तः सुतो मे डकिन्या तयेत्युत्पन्ननिश्चयः । स्वयं तस्यान्तिकं गत्वा मन्त्रिपुत्रतपस्विनः ॥ कथासरित्सागर १२,८.१८० (वेतालपञ्चविंशतिका १) ॥ पृष्ट्वा च निग्रहं तस्याः पद्मावत्याः स तद्गिरा । पितृभ्यां शोच्यमानायाः पुरान्निःवासनं व्यधात् ॥ कथासरित्सागर १२,८.१८१ (वेतालपञ्चविंशतिका १) ॥ निर्वासिताटवीस्था सा विग्नापि न जहौ तनुम् । उपायं मन्त्रिपुत्रेण तं संभाव्य तथा कृतम् ॥ कथासरित्सागर १२,८.१८२ (वेतालपञ्चविंशतिका १) ॥ दिनान्ते तां च शोचन्तीमश्वारूढावुपेयतुः । त्यक्ततापसवेषौ तौ मन्त्रिपुत्रनृपात्मजौ ॥ कथासरित्सागर १२,८.१८३ (वेतालपञ्चविंशतिका १) ॥ आश्वास्यारोप्य तुरगे स्वराष्ट्रं निन्यतुश्च ताम् । तत्र तस्थौ तया साकं राजपुत्रः स निर्वृतः ॥ कथासरित्सागर १२,८.१८४ (वेतालपञ्चविंशतिका १) ॥ दन्तघाटस्त्वरण्ये तां क्रव्यादैर्भक्षितां सुताम् । मत्वा व्यपादि शोकेन भार्या चानुजगाम तम् ॥ कथासरित्सागर १२,८.१८५ (वेतालपञ्चविंशतिका १) ॥ इत्याख्याय स भूयस्तं वेतालो नृपमब्रवीत् । तन्मेऽत्र संशयं छिन्द्धि दंपत्योरेतयोर्वधात् ॥ कथासरित्सागर १२,८.१८६ (वेतालपञ्चविंशतिका १) ॥ मन्त्रिपुत्रस्य किं पापं राजपुत्रस्य किं नु वा । पद्मावत्याः किमथ वा त्वं हि बुद्धिमतां वरः ॥ कथासरित्सागर १२,८.१८७ (वेतालपञ्चविंशतिका १) ॥ जानानश्च न चेद्राजन्मम तत्त्वं वदिष्यसि । तदेष शतधा मूर्धा निःचितं ते स्फुटिष्यति ॥ कथासरित्सागर १२,८.१८८ (वेतालपञ्चविंशतिका १) ॥ इत्युक्तवन्तं वेतालं विजानञ्शापभीतितः । स त्रिविक्रमसेनस्तमेवं प्रत्यब्रवीन्नृपः ॥ कथासरित्सागर १२,८.१८९ (वेतालपञ्चविंशतिका १) ॥ योगेश्वर किमज्ञेयमेतन्नैषां हि पातकम् । त्रयाणामपि राज्ञस्तु पापं कर्णोत्पलस्य तत् ॥ कथासरित्सागर १२,८.१९० (वेतालपञ्चविंशतिका १) ॥ वेतालोऽप्याह राज्ञः किं ते हि तत्कारिणस्त्रयः । काकाः किमपराध्यन्ति हंसैर्जग्धेषु शालिषु ॥ कथासरित्सागर १२,८.१९१ (वेतालपञ्चविंशतिका १) ॥ राजा ततोऽब्रवीच्चैनं न दुष्यन्ति त्रयोऽपि ते । मन्त्रिसूनोर्हि तत्तावत्प्रभुकार्यमपातकम् ॥ कथासरित्सागर १२,८.१९२ (वेतालपञ्चविंशतिका १) ॥ पद्मावतीराजपुत्रौ तौ हि कामशराग्निना । संतप्तावविचारार्हावदोषौ स्वार्थमुद्यतौ ॥ कथासरित्सागर १२,८.१९३ (वेतालपञ्चविंशतिका १) ॥ कर्णोत्पलस्तु राजा स नीतिशास्त्रेष्वशिक्षितः । चरैः प्रजास्वनन्विष्यंस्तत्त्वशुद्धिं निजास्वपि ॥ कथासरित्सागर १२,८.१९४ (वेतालपञ्चविंशतिका १) ॥ अजानन् धूर्तचरितानीङ्गिताद्यविचक्षणः । तथा तन्निःविचारं यच्चक्रे तेन स पापभाक् ॥ कथासरित्सागर १२,८.१९५ (वेतालपञ्चविंशतिका १) ॥ इत्याकर्ण्य विमुक्तमौनमुदिते सम्यङ्नृपेणोत्तरे स्कन्धात्तस्य स दार्ढ्यमाकलयितुं मायाबलात्तत्क्षणम् । वेतालो नृकलेवरान्तरगतः क्वाप्यप्रतर्क्यो ययौ निःकम्पः स च भूपतिः पुनरमुं प्राप्तुं व्यधान्निःचयम् ॥ कथासरित्सागर १२,८.१९६ (वेतालपञ्चविंशतिका १) ॥ ततोऽत्र पुन आनेतुं तं वेतालमगान्नृपः । स त्रिविक्रमसेनस्तच्छिंशपापादपान्तिकम् ॥ कथासरित्सागर १२,९.१ (वेतालपञ्चविंशतिका २) ॥ प्राप्तोऽत्र वीक्षते यावच्चितालोकवशान्निशि । तावद्ददर्श तं भूमौ कूजन्तं पतितं शवम् ॥ कथासरित्सागर १२,९.२ (वेतालपञ्चविंशतिका २) ॥ अथ तं मृतदेहस्थं वेतालं स महीपतिः । आरोप्य स्कन्धमानेतुं तूष्णीं प्रववृते जवात् ॥ कथासरित्सागर १२,९.३ (वेतालपञ्चविंशतिका २) ॥ ततः स्कन्धात्स वेतालो भूयस्तं नृपमब्रवीत् । राजन्महत्यनुचिते क्लेशेऽस्मिन् पतितो भवान् ॥ कथासरित्सागर १२,९.४ (वेतालपञ्चविंशतिका २) ॥ अतस्तव विनोदाय खतयामि खतां शृणु । अस्त्यग्रहारः कालिन्दीकूले ब्रह्मस्थलाभिधः ॥ कथासरित्सागर १२,९.५ (वेतालपञ्चविंशतिका २) ॥ अग्निस्वामीति तत्रासीद्ब्राह्मणो वेदपारगः । तस्यातिरूपा मन्दारवतीत्यजनि कन्यका ॥ कथासरित्सागर १२,९.६ (वेतालपञ्चविंशतिका २) ॥ यां निःमाय नवानर्घलावण्यां नियतं विधिः । स्वर्गस्त्रीपूर्वनिर्माणं निजमेवाजुगुप्सत ॥ कथासरित्सागर १२,९.७ (वेतालपञ्चविंशतिका २) ॥ तस्यां च यौवनस्थायामाययुः कान्यकुब्जतः । समसर्वगुणास्तत्र त्रयो ब्राह्मणपुत्रकाः ॥ कथासरित्सागर १२,९.८ (वेतालपञ्चविंशतिका २) ॥ तेषां चात्मार्थमेकैकस्तत्पितुस्तामयाचत । अनिच्छन् दानमन्यस्मै तस्याः प्रानव्ययादपि ॥ कथासरित्सागर १२,९.९ (वेतालपञ्चविंशतिका २) ॥ तत्पिता स तु तन्मध्यान्नैकस्मा अपि तां ददौ । भीतोऽन्ययोर्वधात्तेन तस्थौ कन्यैव सा ततः ॥ कथासरित्सागर १२,९.१० (वेतालपञ्चविंशतिका २) ॥ ते च त्रयोऽपि तद्वक्त्रचन्द्रैकासक्त दृष्ठयः । चकोरव्रतमालम्ब्य तत्रैवासन् दिवानिशम् ॥ कथासरित्सागर १२,९.११ (वेतालपञ्चविंशतिका २) ॥ अथाकस्मात्समुत्पन्न दाहज्वरवशेन सा । जगाम मन्दारवती कुमारी किल पञ्चताम् ॥ कथासरित्सागर १२,९.१२ (वेतालपञ्चविंशतिका २) ॥ ततस्तां विप्रपुत्रास्ते परासुं शोकविक्लवाः । कृतप्रसाधनां नीत्वा श्मशानं चक्रुरग्निसात् ॥ कथासरित्सागर १२,९.१३ (वेतालपञ्चविंशतिका २) ॥ एकश्च तेषां तत्रैव विधाय मठिकां ततः । कृततद्भस्मशय्यः सन्नास्तायाचितभैक्षभुक् ॥ कथासरित्सागर १२,९.१४ (वेतालपञ्चविंशतिका २) ॥ द्वितीयोऽस्थीन्युपादाय तस्या भागीरथीं ययौ । तृतीयस्तापसो भूत्वा भ्रान्तुं देशान्तराण्यगात् ॥ कथासरित्सागर १२,९.१५ (वेतालपञ्चविंशतिका २) ॥ स भ्राम्यंस्तापसः प्राप ग्रामं वक्रोलकाभिधम् । तत्रातिथिः सन् कस्यापि विप्रस्य प्राविशद्गृहम् ॥ कथासरित्सागर १२,९.१६ (वेतालपञ्चविंशतिका २) ॥ तत्पूजितः स यावच्च भोक्तुं तत्र प्रचक्रमे । तावदेकः शिशुस्तत्र प्रवृत्तोऽभूत्प्ररोदितुम् ॥ कथासरित्सागर १२,९.१७ (वेतालपञ्चविंशतिका २) ॥ स सान्त्व्यमानोऽपि यदा न व्यरम्सीत्तदा क्रुधा । बाहवादाय गृहिणी ज्वलत्यग्नौ तमक्षिपत् ॥ कथासरित्सागर १२,९.१८ (वेतालपञ्चविंशतिका २) ॥ क्षिप्त मात्रः स मृद्वङ्गो भस्मीभावमवाप्तवान् । तद्दृष्ट्वा जातरोमाञ्चः सोऽब्रवीत्तापसोऽतिथिः ॥ कथासरित्सागर १२,९.१९ (वेतालपञ्चविंशतिका २) ॥ हा धिक्कष्टं प्रविष्टोऽस्मि ब्रह्मराक्षसवेश्मनि । तन्मूर्तं किल्बिषमिदं न भोक्ष्येऽन्नमिहाधुना ॥ कथासरित्सागर १२,९.२० (वेतालपञ्चविंशतिका २) ॥ एवं वदन्तं तं सोऽत्र गृहस्थः प्राह पश्य मे । शक्तिं पठितसिद्धस्य मन्त्रस्य मृतजीवनीम् ॥ कथासरित्सागर १२,९.२१ (वेतालपञ्चविंशतिका २) ॥ इत्युक्त्वादाय तन्मन्त्रपुस्तिकामनुवाच्य च । तत्र भस्मनि चिक्षेप स धूलिमभिमन्त्रिताम् ॥ कथासरित्सागर १२,९.२२ (वेतालपञ्चविंशतिका २) ॥ तेनोदतिष्ठत्तद्रूप एव जीवन् स बालकः । ततः स निर्वृतस्तत्र भुक्तवान् विप्रतापसः ॥ कथासरित्सागर १२,९.२३ (वेतालपञ्चविंशतिका २) ॥ गृहस्थोऽपि स तां नागदन्तेऽवस्थाप्य पुस्तिकाम् । भुक्वा च शयनं भेजे रात्रौ तत्रैव तद्युतः ॥ कथासरित्सागर १२,९.२४ (वेतालपञ्चविंशतिका २) ॥ सुप्ते गृहपतौ तस्मिन् स्वैरमुत्थाय शङ्कितः । स प्रियाजीवितार्थी तां पुस्तिकां तापसोऽग्रहीत् ॥ कथासरित्सागर १२,९.२५ (वेतालपञ्चविंशतिका २) ॥ गृहीत्वैव च निर्गत्य ततो रात्रिदिनं व्रजन् । क्रमाच्छ्मशानं तत्प्राप यत्र दग्धास्य सा प्रिया ॥ कथासरित्सागर १२,९.२६ (वेतालपञ्चविंशतिका २) ॥ ददर्श चात्र तत्कालं तं द्वितीयमुपागतम् । यः स गङ्गाम्भसि क्षेप्तुं तदस्थीनि गतोऽभवत् ॥ कथासरित्सागर १२,९.२७ (वेतालपञ्चविंशतिका २) ॥ ततस्तं च तमाद्यं च तस्या भस्मनि शायिनम् । निबद्धमठिकं तत्र द्वावप्येतौ जगाद सः ॥ कथासरित्सागर १२,९.२८ (वेतालपञ्चविंशतिका २) ॥ मठिकापास्यतामेषा यावदुत्थापयामि ताम् । जीवन्तीं भस्मतः कान्तां मन्त्रशक्त्या कयाप्यहम् ॥ कथासरित्सागर १२,९.२९ (वेतालपञ्चविंशतिका २) ॥ इति तौ प्रेर्य निर्बन्धान्निर्लोठ्य मठिकां च सः । उद्घाट्य तापसो विप्रः पुस्तिकां तामवाचयत् ॥ कथासरित्सागर १२,९.३० (वेतालपञ्चविंशतिका २) ॥ अभिमन्त्र्य च मन्त्रेण धूलिं भस्मन्यवाक्षिपत् । उदतिष्ठच्च जीवन्ती सा मन्दारवती ततः ॥ कथासरित्सागर १२,९.३१ (वेतालपञ्चविंशतिका २) ॥ वह्निं प्रविश्य निष्क्रान्तं वपुः पूर्वाधिकद्युति । तदा बभार सा कन्या कञ्चनेनेव निःमितम् ॥ कथासरित्सागर १२,९.३२ (वेतालपञ्चविंशतिका २) ॥ तादृशीं तां पुनर्जातां ते दृष्ट्वैव स्मरातुराः । प्राप्तुकामास्त्रयोऽप्येवमन्योऽन्यं कलहं व्यधुः ॥ कथासरित्सागर १२,९.३३ (वेतालपञ्चविंशतिका २) ॥ एकोऽब्रवीदियं भार्या मम मन्त्रबलार्जिता । तीर्थप्रभावजा भार्या ममेयमिति चापरः ॥ कथासरित्सागर १२,९.३४ (वेतालपञ्चविंशतिका २) ॥ रक्षित्वा भस्म तपसा जीवितेयं मयेह यत् । तदेषा मम भार्येति तृतीयोऽत्र जगाद सः ॥ कथासरित्सागर १२,९.३५ (वेतालपञ्चविंशतिका २) ॥ विवादनिर्णये तेषां त्वं तावन्मे महीपते । निश्चयं ब्रूहि कस्यैषा कन्या भार्योपपद्यते ॥ कथासरित्सागर १२,९.३६ (वेतालपञ्चविंशतिका २) ॥ विदलिष्यति मूर्धा ते यदि जानन्न वक्ष्यसि । इति वेतालतः श्रुत्वा तं स राजैवमभ्यधात् ॥ कथासरित्सागर १२,९.३७ (वेतालपञ्चविंशतिका २) ॥ यः क्लेशमनुभूयापि मन्त्रेणैतामजीवयत् । पिता स तस्यास्तत्कार्यकरणान्न पुनः पतीः ॥ कथासरित्सागर १२,९.३८ (वेतालपञ्चविंशतिका २) ॥ यश्चास्तीनि निनायास्य गङ्गायां स सुतो मतः । यस्तु तद्भस्मशय्यं तामाश्लिष्यासीत्तपश्चरन् ॥ कथासरित्सागर १२,९.३९ (वेतालपञ्चविंशतिका २) ॥ श्मशान एव तत्प्रीत्या भर्ता तस्याः स उच्यते । कृतं तदनुरूपमिह तेन गाड्ःानुरागिण ॥ कथासरित्सागर १२,९.४० (वेतालपञ्चविंशतिका २) ॥ एवं नृपात्त्रिविक्रमसेनाच्छृउत्वैव मुक्तमौनात्सः । तस्य स्कन्धादगमद्वेतालोऽतर्कितः स्वपदम् ॥ कथासरित्सागर १२,९.४१ (वेतालपञ्चविंशतिका २) ॥ राजाथ भिक्ष्वर्थसमुद्यतस्तं प्राप्तुं स भूयोऽपि मनो बबन्ध । प्राणात्ययेऽपि प्रतिपन्नमर्थं तिष्ठन्त्यनिर्वाह्य न धीरसत्त्वाः ॥ कथासरित्सागर १२,९.४२ (वेतालपञ्चविंशतिका २) ॥ अथ भूयोऽपि वेतालमानेतुं नृपसत्तमः । स त्रिविक्रमसेनस्तमुपागाच्छिंशम्पातरुम् ॥ कथासरित्सागर १२,१०.१ (वेतालपञ्चविंशतिका ३) ॥ तत्रस्थमेतं संप्राप्य मृतदेहगतं पुनः । स्कन्धे गृहीत्वैवागन्तुं तूष्णीं प्रववृते ततः ॥ कथासरित्सागर १२,१०.२ (वेतालपञ्चविंशतिका ३) ॥ प्रयान्तं च तमाह स्म स वेतालोऽस्य पृष्ठगः । चित्रं नोद्विजसे राजन्निशि कुर्वन् गमागमम् ॥ कथासरित्सागर १२,१०.३ (वेतालपञ्चविंशतिका ३) ॥ तदखेदाय भूयस्ते वर्णयामि कथां शृणु । अस्ति पाटलिपुत्राख्यं ख्यातं भूमण्डले पुरम् ॥ कथासरित्सागर १२,१०.४ (वेतालपञ्चविंशतिका ३) ॥ तत्रासीन्नृपतिः पूर्वं नाम्ना विक्रमकेसरी । गुणानामिव रत्नानामाश्रयं यं व्यधाद्विधिः ॥ कथासरित्सागर १२,१०.५ (वेतालपञ्चविंशतिका ३) ॥ तत्र शापावतीर्णोऽभूद्दिव्यविज्ञानवाञ्शुकः । विदग्धचूदमणिरित्याख्यया सर्वशास्त्रवित् ॥ कथासरित्सागर १२,१०.६ (वेतालपञ्चविंशतिका ३) ॥ तेनोपदिष्टां सदृशीं राजपुत्रीं नृपात्मजः । मागधीमुपयेमे स भार्यां चन्द्रप्रभाभिधाम् ॥ कथासरित्सागर १२,१०.७ (वेतालपञ्चविंशतिका ३) ॥ तस्या अपि तथाभूता सर्वविज्ञानशालिनी । शारिका सोमिका नाम राजपुत्र्याः किलाभवत् ॥ कथासरित्सागर १२,१०.८ (वेतालपञ्चविंशतिका ३) ॥ ते चैकपञ्जरस्थे द्वे तत्रास्तां शुकशारीके । सेवमाने स्वविञ्जानैर्दंपती तौ निजप्रभू ॥ कथासरित्सागर १२,१०.९ (वेतालपञ्चविंशतिका ३) ॥ एकदा साभिलाषस्तां शारिकां सोऽब्रवीच्छुकः । एकशय्यासनाहारं सुभगे भज मामिति ॥ कथासरित्सागर १२,१०.१० (वेतालपञ्चविंशतिका ३) ॥ नाहं पुरुषसंसर्गमिच्छामि पुरुषा यतः । दुष्टाः कृतघ्ना इति सा सारिका प्रत्युवाच तम् ॥ कथासरित्सागर १२,१०.११ (वेतालपञ्चविंशतिका ३) ॥ न दुष्टाः पुरुषा दुष्टा नृशंसहृदयाः स्त्रियः । इति भूयः शुकेनोक्ते विवादोऽत्रालगत्तयोः ॥ कथासरित्सागर १२,१०.१२ (वेतालपञ्चविंशतिका ३) ॥ कृतदासत्वभार्यात्वपणौ तौ शकुनी मिथः । निश्चयायाथे सभ्यं तं राजपुत्रमुपेयतुः ॥ कथासरित्सागर १२,१०.१३ (वेतालपञ्चविंशतिका ३) ॥ स विवादपदं श्रुत्वा तयोरास्थानगः पितुः । कथं कृतघ्नाः पुरुषा ब्रूहीत्याह स्म शारिकाम् ॥ कथासरित्सागर १२,१०.१४ (वेतालपञ्चविंशतिका ३) ॥ ततः सा शृणुतेत्युक्त्वा निजपक्षप्रसिद्धये । पुंदोषाख्यायिनीमेतां शारिकाकथयत्कथाम् ॥ कथासरित्सागर १२,१०.१५ (वेतालपञ्चविंशतिका ३) ॥ अस्ति कामन्दिका नाम या महानगरी भुवि । अर्थदत्ताभिधानोऽस्ति वणिक्तस्यां महाधनः ॥ कथासरित्सागर १२,१०.१६ (वेतालपञ्चविंशतिका ३) ॥ धनदत्ताभिधानश्च पुत्रस्तस्योदपद्यत । पितर्युपरते सोऽपि बभूवोच्छृङ्खलो युवा ॥ कथासरित्सागर १२,१०.१७ (वेतालपञ्चविंशतिका ३) ॥ द्यूतादिसङ्गे दूर्ताश्च मिलित्वा तमपातयन् । कामं व्यसनवृक्षस्य मूलं दुःजनसंगतिः ॥ कथासरित्सागर १२,१०.१८ (वेतालपञ्चविंशतिका ३) ॥ अचिराद्व्यसनक्षीणधनो दौर्गत्यलज्जया । सोऽथ त्यक्त्वा स्वदेशं तं भ्रान्तुं देशान्तराण्यगात् ॥ कथासरित्सागर १२,१०.१९ (वेतालपञ्चविंशतिका ३) ॥ गच्छंश्च चन्दनपुरं नाम स्थानमवाप्य सः । विवेश भोजनार्थी सन्नेकस्य वणिजो गृहम् ॥ कथासरित्सागर १२,१०.२० (वेतालपञ्चविंशतिका ३) ॥ स वणिक्सुकुमारं तं दृष्ट्वा पृष्ट्वान्वयादिकम् । ज्ञात्वा कुलीनं सत्कृत्य स्वीचक्रे दैवयोगतः ॥ कथासरित्सागर १२,१०.२१ (वेतालपञ्चविंशतिका ३) ॥ ददौ च सधनां तस्मै नाम्ना रत्नावलीं सुताम् । ततः स धनदत्तोऽत्र तस्थौ श्वशुरवेश्मनि ॥ कथासरित्सागर १२,१०.२२ (वेतालपञ्चविंशतिका ३) ॥ दिनेष्वेव च यातेषु सुखविस्मृतदुःगतिः । स्वदेशं गन्तुकामोऽभूत्प्राप्तार्थो व्यसनोन्मुखः ॥ कथासरित्सागर १२,१०.२३ (वेतालपञ्चविंशतिका ३) ॥ ततोऽनुमान्य कथमप्यवशं श्वशुरं शठः । तं दुहितृएकसंतानं गृहीत्वा तामलंकृताम् ॥ कथासरित्सागर १२,१०.२४ (वेतालपञ्चविंशतिका ३) ॥ भार्यां रत्नावलीं युक्तामेकया वृद्धया स्त्रिया । स आत्मना तृतीयः सन्देशात्प्रस्थितवांस्ततः ॥ कथासरित्सागर १२,१०.२५ (वेतालपञ्चविंशतिका ३) ॥ क्रमात्प्राप्याटवीं दूरामुक्त्वा तस्करजां भियम् । गृहीत्वाभरणं तस्या भार्यायाः स्वीचकार सः ॥ कथासरित्सागर १२,१०.२६ (वेतालपञ्चविंशतिका ३) ॥ दृश्यतां द्यूतवेश्यादिकष्टव्यसनसङ्गिनाम् । हृदयं हा कृतघ्नानां पुंसां निस्त्रिंशकर्कशम् ॥ कथासरित्सागर १२,१०.२७ (वेतालपञ्चविंशतिका ३) ॥ सोऽथ पापोऽर्थहेतोस्तां भार्यां गुणवतीमपि । हन्तुं श्वभ्रे निचिक्षेप तया वृद्धस्त्रिया युताम् ॥ कथासरित्सागर १२,१०.२८ (वेतालपञ्चविंशतिका ३) ॥ क्षिप्त्वैव च गते तस्मिन् साथ वृद्धा व्यपद्यत । तद्भार्या तु लतागुल्मविग्नया न व्यपादि सा ॥ कथासरित्सागर १२,१०.२९ (वेतालपञ्चविंशतिका ३) ॥ उत्तस्थौ च ततः श्वभ्रात्क्रोशन्ती करुणं शणैः । आलम्ब्य तृणगुल्मादि सशेषत्वात्किलायुषः ॥ कथासरित्सागर १२,१०.३० (वेतालपञ्चविंशतिका ३) ॥ आययौ विक्षताङ्गी च पृष्ट्वा मार्गं पदे पदे । यथागतेनैव पथा कृच्छ्रात्तत्सदनं पितुः ॥ कथासरित्सागर १२,१०.३१ (वेतालपञ्चविंशतिका ३) ॥ तत्राकस्मात्तथाभूता प्राप्ता पृष्टा ससंभ्रमम् । मात्रा पित्रा च रुदती साध्वी सैवमभाषत ॥ कथासरित्सागर १२,१०.३२ (वेतालपञ्चविंशतिका ३) ॥ मुषिताः स्म पथि स्तेनैर्नीतो बद्ध्वा च मत्पतिः । वृद्धा मृता निपत्यापि श्वभ्रे नाहं मृता पुनः ॥ कथासरित्सागर १२,१०.३३ (वेतालपञ्चविंशतिका ३) ॥ अथागतेन केनापि पथिकेन कृपालुना । उद्धृताहं ततः श्वभ्रात्प्राप्तास्मीह च दैवतः ॥ कथासरित्सागर १२,१०.३४ (वेतालपञ्चविंशतिका ३) ॥ एवमुक्तवती मात्रा पित्रा चाश्वासिता ततः । भर्तृचित्तैव सा तस्थौ तत्र रत्नावली सती ॥ कथासरित्सागर १२,१०.३५ (वेतालपञ्चविंशतिका ३) ॥ याति काले च तद्भर्ता स स्वदेशगतः पुनः । द्यूतक्षपिततद्वित्तो दनदत्तो व्यचिन्तयत् ॥ कथासरित्सागर १२,१०.३६ (वेतालपञ्चविंशतिका ३) ॥ आनयामि पुनर्गत्वा मार्गित्वा श्वशुराद्धनम् । गृहे स्थिता मे त्वत्पुत्रीत्यभिधास्ये च तत्र तम् ॥ कथासरित्सागर १२,१०.३७ (वेतालपञ्चविंशतिका ३) ॥ एवं स हृदये ध्यात्वा प्रायाच्छ्वशुरवेश्म तत् । प्राप्तं च तत्र तं दूरात्स्वभार्या पश्यति स्म सा ॥ कथासरित्सागर १२,१०.३८ (वेतालपञ्चविंशतिका ३) ॥ धावित्वा चापतत्तस्य सा पापस्यापि पादयोः । दुष्टेऽपि पत्यौ साध्वीनां नान्यथावृत्तिमानसम् ॥ कथासरित्सागर १२,१०.३९ (वेतालपञ्चविंशतिका ३) ॥ भीताय च ततस्तस्मै तदशेषं न्यवेदयत् । यन्मृषा चौरपातादि पित्रोः प्राग्वर्णितं तया ॥ कथासरित्सागर १२,१०.४० (वेतालपञ्चविंशतिका ३) ॥ ततस्तया समं तत्र निर्भयः श्वाशुरे गृहे । प्रविष्टः श्वशुराभ्यां स हर्षाद्दृष्ट्वाभ्यनन्द्यत ॥ कथासरित्सागर १२,१०.४१ (वेतालपञ्चविंशतिका ३) ॥ दिष्ट्या जीवन्नयं मुक्तश्चौरैरिति महोत्सवः । तेन तच्छ्वशुरेणाथ चक्रे मिलितबन्धुना ॥ कथासरित्सागर १२,१०.४२ (वेतालपञ्चविंशतिका ३) ॥ ततः स धनदत्तोऽत्र भुञ्जानः श्वशुरश्रियम् । रत्नावल्या तया साकमासीत्पत्न्या यथासुखम् ॥ कथासरित्सागर १२,१०.४३ (वेतालपञ्चविंशतिका ३) ॥ एकदा तत्र रात्रौ च स नृशंसश्चाकर यत् । कथोपरोधतः शान्तमवाच्यमपि कथ्यते ॥ कथासरित्सागर १२,१०.४४ (वेतालपञ्चविंशतिका ३) ॥ हत्वाङ्कसुप्तां भार्यां तां तदाभरणसंचयम् । अपहृत्य ततः प्रायात्स स्वदेशमलक्षितः ॥ कथासरित्सागर १२,१०.४५ (वेतालपञ्चविंशतिका ३) ॥ ईदृशाः पुरुषाः पापा इति शारिकयोदिते । त्वमिदानीं वदेत्याह राजपुत्रस्तदा शुकम् ॥ कथासरित्सागर १२,१०.४६ (वेतालपञ्चविंशतिका ३) ॥ ततो जगाद स शुको देव दुःसहसाहसाः । स्त्रियो दुःचरिताः पापास्तथा च श्रूयतां कथा ॥ कथासरित्सागर १२,१०.४७ (वेतालपञ्चविंशतिका ३) ॥ अस्ति हर्षवती नाम नगरी तत्र चाभवत् । अग्रणीर्धर्मदत्ताख्यो बहुकोटीश्वरो वणिक् ॥ कथासरित्सागर १२,१०.४८ (वेतालपञ्चविंशतिका ३) ॥ वसुदत्ताभिधाना च रूपेऽनन्यसमा सुता । बभूव तस्य वणिजः प्राणेभ्योऽप्यधिकप्रिया ॥ कथासरित्सागर १२,१०.४९ (वेतालपञ्चविंशतिका ३) ॥ सा च तेन समानाय रूपयौवनशालिने । दत्ता वराङ्गनानेत्रचकोरामृतरश्मये ॥ कथासरित्सागर १२,१०.५० (वेतालपञ्चविंशतिका ३) ॥ नाम्ना समुद्रदत्ताय वणिक्पुत्राय साधवे । नगर्यामार्यजुष्टायां ताम्रलिप्त्यां निवासिने ॥ कथासरित्सागर १२,१०.५१ (वेतालपञ्चविंशतिका ३) ॥ कदाचित्सा स्वदेशस्थे पत्यौ स्वस्य पितुर्गृहे । स्थिता वणिक्सुता दूरात्कम्चित्पुरूषमैक्षत ॥ कथासरित्सागर १२,१०.५२ (वेतालपञ्चविंशतिका ३) ॥ तं युवानं सुकान्तं सा चपला मारमोहिता । गुप्तं सखीमुखानीतं भेजे प्रच्छन्नकामुकम् ॥ कथासरित्सागर १२,१०.५३ (वेतालपञ्चविंशतिका ३) ॥ ततःप्रभृति तेनैव सह तत्र सदा रहः । रात्रौ रात्रावरंस्तासौ तदेकासक्तमानसा ॥ कथासरित्सागर १२,१०.५४ (वेतालपञ्चविंशतिका ३) ॥ एकदा च स कौमारः पतिस्तस्याः स्वदेशतः । आजगामात्र तत्पित्रोः प्रमोद इव मूर्तिमान् ॥ कथासरित्सागर १२,१०.५५ (वेतालपञ्चविंशतिका ३) ॥ सोत्सवे च दिने तस्मिन् सा नक्तं कृतमण्डना । मात्रानुप्रेषिता भेजे शय्यास्थापि न तं पतिम् ॥ कथासरित्सागर १२,१०.५६ (वेतालपञ्चविंशतिका ३) ॥ प्रार्थिता तेन चालीकसुप्तं चक्रेऽन्यमानसा । पानमत्तोऽध्वखिन्नश्च सोऽपि जह्रेऽथ निद्रया ॥ कथासरित्सागर १२,१०.५७ (वेतालपञ्चविंशतिका ३) ॥ ततश्च सुप्ते सर्वस्मिन् भुक्तपीते जने शनैः । संधिं भित्त्वा विवेशात्र चौरो वासगृहान्तरे ॥ कथासरित्सागर १२,१०.५८ (वेतालपञ्चविंशतिका ३) ॥ तत्कालं तमपश्यन्ती साप्युत्थाय वणिक्सुता । स्वजारकृतसंकेता निरगान्निभृतं ततः ॥ कथासरित्सागर १२,१०.५९ (वेतालपञ्चविंशतिका ३) ॥ तदालोक्य स चौरोऽत्र विघ्नितेच्छो व्यचिन्तयत् । येषामर्थे प्रविष्टोऽहं तैरेवाभरणैर्वृता ॥ कथासरित्सागर १२,१०.६० (वेतालपञ्चविंशतिका ३) ॥ निशीथे निर्गतैषा तद्वीक्षेऽहं सा क्व गच्छति । इत्याकलय्य निर्गत्य स चौरस्तां वणिक्सुताम् ॥ कथासरित्सागर १२,१०.६१ (वेतालपञ्चविंशतिका ३) ॥ वसुदत्तामनु ययौ दत्तदृष्टिरलक्षितः । सापि पुष्पादिहस्तैकससंकेतसखीयुता ॥ कथासरित्सागर १२,१०.६२ (वेतालपञ्चविंशतिका ३) ॥ गत्वा बाह्यं प्रविष्टाभूदुद्यानं नातिदूरगम् । तत्रापश्यच्च तं वृक्षे लम्बमानं स्वकामुकम् ॥ कथासरित्सागर १२,१०.६३ (वेतालपञ्चविंशतिका ३) ॥ संकेतकागतं रात्रौ लब्ध्वा नगररक्षिभिः । उल्लम्बितं चौरबुद्ध्या पाशकण्ठं मृतं स्थितम् ॥ कथासरित्सागर १२,१०.६४ (वेतालपञ्चविंशतिका ३) ॥ ततः सा विह्वलोद्भ्रान्ता हा हतास्मीति वादिनी । पपात भूमौ कृपणं विलपन्ती रुरोद च ॥ कथासरित्सागर १२,१०.६५ (वेतालपञ्चविंशतिका ३) ॥ अवतार्याथ वृक्षात्तं गतासुं निजकामुकम् । उपवेश्याङ्गरागेण पुष्पैश्चालम्चकार सा ॥ कथासरित्सागर १२,१०.६६ (वेतालपञ्चविंशतिका ३) ॥ समालिङ्ग्य च निःसंज्ञं रागशोकान्धमानसा । उन्नमय्य मुखं यावत्तस्यार्ता परिचुम्बति ॥ कथासरित्सागर १२,१०.६७ (वेतालपञ्चविंशतिका ३) ॥ तावत्स तस्याः सहसा निःजीवः परपूरुषः । वेतालानुप्रविष्टः सद्दन्तैश्चिच्छेद नासिकाम् ॥ कथासरित्सागर १२,१०.६८ (वेतालपञ्चविंशतिका ३) ॥ तेन सा विह्वला तस्मात्सव्यथापसृताप्यहो । किं स्विज्जीवेदिति हता पुन एत्य तमैक्षत ॥ कथासरित्सागर १२,१०.६९ (वेतालपञ्चविंशतिका ३) ॥ दृष्ट्वा च वीतवेतालं निःचेष्टं मृतमेव तम् । सा भीता परिभूत च चचाल रुदती शनैः ॥ कथासरित्सागर १२,१०.७० (वेतालपञ्चविंशतिका ३) ॥ तावच्छन्नः स्थितः सोऽथ चौरः सर्वं व्यलोकयत् । अचिन्तयच्च किमिदं पापया कृतमेतया ॥ कथासरित्सागर १२,१०.७१ (वेतालपञ्चविंशतिका ३) ॥ अहो बताशयः स्त्रीणां भीषणो घनतामसः । अन्धकूप इवागाधः पाताय गहनः परम् ॥ कथासरित्सागर १२,१०.७२ (वेतालपञ्चविंशतिका ३) ॥ तदिदानीमियं किं नु कुर्यादिति विचिन्त्य सः । कौतुकाद्दूरतश्चौरो भूयोऽप्यनुससार ताम् ॥ कथासरित्सागर १२,१०.७३ (वेतालपञ्चविंशतिका ३) ॥ सापि गत्वा प्रविश्यैव तत्सुप्तस्थितभर्तृकम् । गृहं तदा स्वकं प्रौच्चैः प्ररुदत्येवमब्रवीत् ॥ कथासरित्सागर १२,१०.७४ (वेतालपञ्चविंशतिका ३) ॥ परित्रायध्वमेतेन दुष्टेन मम नासिका । छिन्ना निरपराधाया भर्तृरूपेण शत्रुणा ॥ कथासरित्सागर १२,१०.७५ (वेतालपञ्चविंशतिका ३) ॥ श्रुत्वैतं मुहुराक्रन्दं तस्याः सर्वे ससंभ्रमम् । उदतिष्ठन् प्रबुध्यात्र पतिः परिजनः पिता ॥ कथासरित्सागर १२,१०.७६ (वेतालपञ्चविंशतिका ३) ॥ एत्याथ तत्पिता दृष्ट्वा तामार्द्रछिन्ननासिकाम् । क्रुद्धस्तं बन्धयामास भार्याद्रोहीति तत्पतिम् ॥ कथासरित्सागर १२,१०.७७ (वेतालपञ्चविंशतिका ३) ॥ स तु नैवाब्रवीत्किम्चिद्बध्यमानोऽपि मूकवत् । विपर्यस्तेषु सर्वेषु शृण्वत्सु श्वशुरादिषु ॥ कथासरित्सागर १२,१०.७८ (वेतालपञ्चविंशतिका ३) ॥ ततो ज्ञत्वैव तच्चौरे तस्मिन्नपसृते लघु । कोलाहलेन तस्यां च व्यतीतायां क्रमान्निशि ॥ कथासरित्सागर १२,१०.७९ (वेतालपञ्चविंशतिका ३) ॥ स निन्ये वणिजा तेन श्वशुरेण वणिक्सुतः । राजान्तिकं तया सार्धं भार्यया छिन्ननासया ॥ कथासरित्सागर १२,१०.८० (वेतालपञ्चविंशतिका ३) ॥ राजा च कृतविज्ञप्तिः स्वदारद्रोह्यसाविति । तस्यादिशद्वणिक्सूनोर्वधं न्यक्कृततद्वचाः ॥ कथासरित्सागर १२,१०.८१ (वेतालपञ्चविंशतिका ३) ॥ ततो वध्यभुवं तस्मिन्नीयमाने सडिण्डिमम् । उपागम्य स चौरोऽत्र बभाषे राजपूरुषान् ॥ कथासरित्सागर १२,१०.८२ (वेतालपञ्चविंशतिका ३) ॥ निःकारणं न वध्योऽयं यथावृत्तं तु वेद्म्यहम् । मां प्रापयत राजाग्रं यावत्सर्वं वदाम्यतः ॥ कथासरित्सागर १२,१०.८३ (वेतालपञ्चविंशतिका ३) ॥ इत्यूचिवान् स नीतस्तैर्नृपस्याग्रं वृताभयः । आ मूलाद्रात्रिवृत्तान्तं चौरः सर्वं न्यवेदयत् ॥ कथासरित्सागर १२,१०.८४ (वेतालपञ्चविंशतिका ३) ॥ अब्रवीच्च न चेद्देव मद्वाचि प्रत्ययस्तव । तत्सा नासा मुखे तस्य शवस्याद्यापि वीक्ष्यताम् ॥ कथासरित्सागर १२,१०.८५ (वेतालपञ्चविंशतिका ३) ॥ तच्छ्रुत्वा वीक्षितुं भृत्यान् प्रेष्य सत्यमवेत्य तत् । स राजा तं वणिक्पुत्रं मुक्तवान् वधनिग्रहात् ॥ कथासरित्सागर १२,१०.८६ (वेतालपञ्चविंशतिका ३) ॥ तां च कर्णावपि छित्वा दुष्टां देशान्निरस्तवान् । तद्भार्यां श्वशुरं चास्य तं सर्वस्वमदण्डयत् ॥ कथासरित्सागर १२,१०.८७ (वेतालपञ्चविंशतिका ३) ॥ चौरं च तं पूराध्यक्षं तुष्टश्चक्रे स भूपतिः । एवं स्त्रियो भवन्तीह निसर्गविषमाः शठाः ॥ कथासरित्सागर १२,१०.८८ (वेतालपञ्चविंशतिका ३) ॥ इत्युक्तवानेव शुको भूत्वा चित्ररथाभिधः । क्षीणेन्द्रशापो गन्धर्वो दिव्यरूपो दिवं ययौ ॥ कथासरित्सागर १२,१०.८९ (वेतालपञ्चविंशतिका ३) ॥ शारिका सापि तत्कालं भूत्वा स्वःस्त्री तिलोत्तमा । तथैव क्षीणतच्छापा जगाम सहसा दिवम् ॥ कथासरित्सागर १२,१०.९० (वेतालपञ्चविंशतिका ३) ॥ विवादश्चाप्यनिर्णितः सभायां सोऽभवत्तयोः । इत्याख्याय कथां भूयस्तं वेतालोऽब्रवीन्नृपम् ॥ कथासरित्सागर १२,१०.९१ (वेतालपञ्चविंशतिका ३) ॥ तद्भवान् वक्तु किं पापाः पुरुषाः किमुत स्त्रियः । अजल्पतो जान तस्ते शिरो यस्यति खण्डशः ॥ कथासरित्सागर १२,१०.९२ (वेतालपञ्चविंशतिका ३) ॥ एतन्निशम्य वचनं वेतालस्यांसवर्तिनस्तस्य । स जगाद भूपतिस्तं योगेश्वर योषितः पापाः ॥ कथासरित्सागर १२,१०.९३ (वेतालपञ्चविंशतिका ३) ॥ पुरुषः कोऽपीह तादृक्क्वापि कदाचिद्भवेद्दुःाचारः । प्रायः सर्वत्र सदा स्त्रियस्तु तादृग्विधा एव ॥ कथासरित्सागर १२,१०.९४ (वेतालपञ्चविंशतिका ३) ॥ इत्युक्तवतो नृपतेः प्राग्वत्स्कन्धात्स तस्य वेतालः । नष्टोऽभूत्स च राजा जग्राह पुनस्तदानयनयत्रम् ॥ कथासरित्सागर १२,१०.९५ (वेतालपञ्चविंशतिका ३) ॥ ततो गत्वा पुनस्तस्य निकटं शिंशपातरोः । स त्रिविक्रमसेनोऽत्र श्मशानं निशि भूपतिः ॥ कथासरित्सागर १२,११.१ (वेतालपञ्चविंशतिका ४) ॥ लब्ध्वा मुक्तात्तहासं तं वेतालं नृशरीरगम् । निःकम्पः स्कन्धमारोप्य तूष्णीमुदचलत्ततः ॥ कथासरित्सागर १२,११.२ (वेतालपञ्चविंशतिका ४) ॥ चलन्तं च तमंसस्थो वेतालः सोऽब्रवीत्पुनः । राजन् कुभिक्षोरेतस्य कृते कोऽयं तव श्रमः ॥ कथासरित्सागर १२,११.३ (वेतालपञ्चविंशतिका ४) ॥ आयासे निष्फलेऽमुष्मिन् विवेको बत नास्ति ते । तदिमां शृणु मत्तस्त्वं कथां पथि विनोदिनीम् ॥ कथासरित्सागर १२,११.४ (वेतालपञ्चविंशतिका ४) ॥ अस्ति शोभावती नाम सत्याख्या नगरी भुवि । तस्यां च शूद्रकाख्योऽभूद्भूपतिः प्राज्यविक्रमः ॥ कथासरित्सागर १२,११.५ (वेतालपञ्चविंशतिका ४) ॥ यस्य जज्वाल जयिनः प्रतापज्वलनो निशम् । बन्दीकृतारिललनाधूतचामरमारुतैः ॥ कथासरित्सागर १२,११.६ (वेतालपञ्चविंशतिका ४) ॥ अलुप्तधर्मचरणस्फीता मन्थे वसुंधरा । राज्ञि यस्मिन् विसस्मार रामादीनपि भूपतीन् ॥ कथासरित्सागर १२,११.७ (वेतालपञ्चविंशतिका ४) ॥ तं कदाचिन्महीपालं प्रियशूरमुपाययौ । सेवार्थं मालवादेको नम्ना वीरवरो द्विजः ॥ कथासरित्सागर १२,११.८ (वेतालपञ्चविंशतिका ४) ॥ यस्य धर्मवती नाम भार्या सत्ववरः सुतः । कन्या वीरवती चेति त्रयं गृहपरिच्छदः ॥ कथासरित्सागर १२,११.९ (वेतालपञ्चविंशतिका ४) ॥ सेवापरिच्छदश्चान्यत्त्रयं कट्यां कृपाणिका । करे करतलैकत्र चारु चर्म परत्र च ॥ कथासरित्सागर १२,११.१० (वेतालपञ्चविंशतिका ४) ॥ तावन्मात्रपरीवारो दीनारशतपञ्चकम् । प्रत्यहं प्रार्थयामास राज्ञस्तस्मात्स वृत्तये ॥ कथासरित्सागर १२,११.११ (वेतालपञ्चविंशतिका ४) ॥ राजापि स तमाकारसूचितोदारपौरुषम् । वीक्ष्य तस्मै ददौ वृत्तिं सूद्रकस्तां यथेप्सिताम् ॥ कथासरित्सागर १२,११.१२ (वेतालपञ्चविंशतिका ४) ॥ अल्पे परिकरेऽप्येभिरियद्भिः स्वर्णरूपकैः । किमेष व्यसनं पुष्णात्यथ कंचन सद्व्ययम् ॥ कथासरित्सागर १२,११.१३ (वेतालपञ्चविंशतिका ४) ॥ इत्यन्वेष्टुं समाचारं कौतुकात्स महीपतिः । प्रच्छन्नान् स्थापयामास चारानस्यात्र पृष्ठतः ॥ कथासरित्सागर १२,११.१४ (वेतालपञ्चविंशतिका ४) ॥ स च वीरवरः प्रातः कृत्वा भूपस्य दर्शनम् । स्थित्वा च तस्या मध्याह्नं सिंहद्वारे धृतायुधः ॥ कथासरित्सागर १२,११.१५ (वेतालपञ्चविंशतिका ४) ॥ गत्वा स्ववृत्तिलब्धानां दीनाराणां शतं गृहे । भोजनार्थं स्वभार्याया हस्ते प्रादात्किलान्वहम् ॥ कथासरित्सागर १२,११.१६ (वेतालपञ्चविंशतिका ४) ॥ वस्त्राङ्गरागताम्बूलं क्रीणाति स्म शतेन च । शतं स्नात्वा च पूजार्थं व्यधाद्विष्णोः शिवस्य च ॥ कथासरित्सागर १२,११.१७ (वेतालपञ्चविंशतिका ४) ॥ विप्रेभ्यः कृपणेभ्यश्च ददौ दानं शतद्वयम् । एवं विभेजे पञ्चापि तानि नित्यं शतान्यसौ ॥ कथासरित्सागर १२,११.१८ (वेतालपञ्चविंशतिका ४) ॥ ततः कृत्वाग्निकार्यादि भूक्त्वा गत्वैकको निशि । सिंहद्वारे पुनस्तस्थौ पाणौ करतलां दधत् ॥ कथासरित्सागर १२,११.१९ (वेतालपञ्चविंशतिका ४) ॥ एतां सततचर्यां च तस्य वीरवरस्य सः । राजा चारमुखाच्छ्रुत्वा तुतोष हृदि शुद्रकः ॥ कथासरित्सागर १२,११.२० (वेतालपञ्चविंशतिका ४) ॥ निवारयामास च तांश्चारांस्तस्यानुमार्गगान् । मेने विशेषपूजार्हं पुरुषातिशयं च तम् ॥ कथासरित्सागर १२,११.२१ (वेतालपञ्चविंशतिका ४) ॥ अथ यातेषु दिवसेष्ववहेलावलङ्घिते । ग्रीष्मे वीरवरेणात्र सुप्रचण्डार्कतेजसि ॥ कथासरित्सागर १२,११.२२ (वेतालपञ्चविंशतिका ४) ॥ तदीर्ष्यात इवोद्भूतविद्युत्करतलां दधत् । धाराप्रहारी निनदन्नाजगाम घनागमः ॥ कथासरित्सागर १२,११.२३ (वेतालपञ्चविंशतिका ४) ॥ तदा च घोर मेघौघे प्रवर्षति दिवानिशम् । सिंहद्वारे तथैवासीत्सोऽत्र वीरवरोऽचलः ॥ कथासरित्सागर १२,१.२४ (वेतालपञ्चविंशतिका ४) ॥ तं च दृष्ट्वा दिवा राजा प्रासादाग्रात्स शूद्रकः । निशि भूयस्तदारोहज्जिज्ञासुस्तस्य तां स्थितिम् ॥ कथासरित्सागर १२,११.२५ (वेतालपञ्चविंशतिका ४) ॥ जगाद च ततः को नु सिंहद्वारे स्थितोऽत्र भोः । तच्छ्रुत्वाहं स्थितोऽत्रेति सोऽपि वीरवरोऽब्रवीत् ॥ कथासरित्सागर १२,११.२६ (वेतालपञ्चविंशतिका ४) ॥ अहो सुदृढसत्त्वोऽयं भक्तो वीरवरो मयि । तदेष प्रापणीयो मेऽवश्यमेव महत्पदम् ॥ कथासरित्सागर १२,११.२७ (वेतालपञ्चविंशतिका ४) ॥ इति संचिन्त्य नृपतिः प्रासादादवतीर्य सः । शूद्रकः शयनं भेजे प्रविश्यान्तःपुरं ततः ॥ कथासरित्सागर १२,११.२८ (वेतालपञ्चविंशतिका ४) ॥ अन्येद्युश्च भृशं मेघे धारासारेण वर्षति । प्रदोषे गुप्तभवने काले तमसि जृम्भिते ॥ कथासरित्सागर १२,११.२९ (वेतालपञ्चविंशतिका ४) ॥ पुनः स राजा जिज्ञासुः प्रासादमधिरुह्य तम् । सिंहद्वारे स्थितः कोऽत्रेत्येकाकी प्राह तं स्फुटम् ॥ कथासरित्सागर १२,११.३० (वेतालपञ्चविंशतिका ४) ॥ अहं स्थित इति प्रोक्ते पुनर्वीरवरेण च । यावद्विस्मयते सोऽत्र राजा तद्धैर्यदर्शनात् ॥ कथासरित्सागर १२,११.३१ (वेतालपञ्चविंशतिका ४) ॥ तावद्विदूरे शुश्राव सहसा रुदतीं स्त्रियम् । विषादविकलामेकां प्रलापकरुणस्वनम् ॥ कथासरित्सागर १२,११.३२ (वेतालपञ्चविंशतिका ४) ॥ न मे राष्ट्रे पराभूतो न दरिद्रो न दुःखितः । कश्चिदस्ति तदेषा का रोदित्येकाकिनी निशि ॥ कथासरित्सागर १२,११.३३ (वेतालपञ्चविंशतिका ४) ॥ इति चाचिन्तयच्छ्रुत्वा स जातकरुणो नृपः । आदिदेश च तं वीरवरमेकमधः स्थितम् ॥ कथासरित्सागर १२,११.३४ (वेतालपञ्चविंशतिका ४) ॥ भो वीरवर शृण्वेषा दूरे स्त्री कापि रोदिति । कासौ रोदिति किं चेति त्वया गत्वा निरूप्यताम् ॥ कथासरित्सागर १२,११.३५ (वेतालपञ्चविंशतिका ४) ॥ तच्छृउत्वा स तथेत्युक्त्वा गन्तुं वीरवरस्ततः । प्रावर्तत निबद्धासिधेनुः करतलाकरः ॥ कथासरित्सागर १२,११.३६ (वेतालपञ्चविंशतिका ४) ॥ न च मेघान्धकारं तज्ज्वलद्विद्युद्विलोचनम् । स्थूलधाराशिलावार्षि रक्षःरूपमजीगणत् ॥ कथासरित्सागर १२,११.३७ (वेतालपञ्चविंशतिका ४) ॥ प्रस्थितं वीक्ष्य तादृश्यां तस्यां रात्रौ तमेककम् । करुणाकौतुकाविष्टो राजा प्रासादपृष्ठतः ॥ कथासरित्सागर १२,११.३८ (वेतालपञ्चविंशतिका ४) ॥ आवतीर्य गृहीतासिरेकाकी तस्य पृष्ठतः । सोऽपि प्रतस्थे तत्रैव शुद्रकोऽनुपलक्षितः ॥ कथासरित्सागर १२,११.३९ (वेतालपञ्चविंशतिका ४) ॥ स च वीरवरो गत्वा रुदितानुसृतिक्रियः । बहिःनगर्याः प्रापैकं सरस्तत्र ददर्श च ॥ कथासरित्सागर १२,११.४० (वेतालपञ्चविंशतिका ४) ॥ हा शूर हा कृपालो हा त्यागिञ्शून्या त्वया कथम् । वत्सिआमीत्यादि रुदतीं तां स्त्रियं वारिमध्यगाम् ॥ कथासरित्सागर १२,११.४१ (वेतालपञ्चविंशतिका ४) ॥ का त्वं रोदिषि किं चैवमित्यन्वक्प्राप्तभूपतिः । पप्रच्छ तां च साश्चर्यस्ततः साप्येवमभ्यधात् ॥ कथासरित्सागर १२,११.४२ (वेतालपञ्चविंशतिका ४) ॥ भो वीरवर जानीहि वत्स मां पृथिवीमिमाम् । तस्या ममाधुना राजा शूद्रको धार्मिकः पतिः ॥ कथासरित्सागर १२,११.४३ (वेतालपञ्चविंशतिका ४) ॥ तृतीये च दिने तस्य राज्ञो मृत्युर्भविष्यति । तादृशं च पतिं प्राप्स्याम्यहमन्यं नृपं कुतः ॥ कथासरित्सागर १२,११.४४ (वेतालपञ्चविंशतिका ४) ॥ अतस्तमनुशोचामि दुःखितात्मानमेव च । एतच्छृउत्वा स तां त्रस्त इव वीरवरोऽब्रवीत् ॥ कथासरित्सागर १२,११.४५ (वेतालपञ्चविंशतिका ४) ॥ हे देवि कच्चिदप्यस्ति कोऽप्युपायः स तादृशः । येनास्य न भवेन्मृत्युर्जगद्रक्षामणेः प्रभोः ॥ कथासरित्सागर १२,११.४६ (वेतालपञ्चविंशतिका ४) ॥ इति तद्वचनं श्रुत्वा सा जगाद वसुम्धरा । एकोऽस्त्युपायस्तं चैकः कर्तुं शक्तो भवानिति ॥ कथासरित्सागर १२,११.४७ (वेतालपञ्चविंशतिका ४) ॥ ततो वीरवरोऽवादीत्तर्हि देवि वद द्रुतम् । यावत्तत्साधयाम्याशु कोऽर्थः प्राणैर्ममान्यथा ॥ कथासरित्सागर १२,११.४८ (वेतालपञ्चविंशतिका ४) ॥ तच्छ्रुत्वोवाच वसुधा विरः कोऽन्यस्त्वया समः । स्वामिभक्तस्तदेतस्य शर्मोपायमिमं शृणु ॥ कथासरित्सागर १२,११.४९ (वेतालपञ्चविंशतिका ४) ॥ राज्ञा कृतप्रतिष्टा अस्ति यैषा राजकुलान्तिके । उत्तमा चण्डिका देवी सांनिध्योत्कर्षशालिनी ॥ कथासरित्सागर १२,११.५० (वेतालपञ्चविंशतिका ४) ॥ तस्यै सत्त्ववरं पुत्रमुपहारीकरोषि चेत् । तन्नैषो राजा म्रियते जीवत्यन्यत्समाशतम् ॥ कथासरित्सागर १२,११.५१ (वेतालपञ्चविंशतिका ४) ॥ अद्यैव चैतद्भवता कृतं चेदस्ति तच्छिवम् । अन्यथास्य तृतीयेऽह्नि प्राप्ते नास्त्येव जीवितम् ॥ कथासरित्सागर १२,११.५२ (वेतालपञ्चविंशतिका ४) ॥ इत्युक्तः स तया पृथ्व्या वीरो वीरवरस्तदा । यामि देवि करोम्येतदधुनैवेत्यभाषत ॥ कथासरित्सागर १२,११.५३ (वेतालपञ्चविंशतिका ४) ॥ ततो भद्रं तवेत्युक्त्वा वसुधा सा तिरःदधे । तच्च सर्वं स शुश्राव गुप्तमन्वक्स्थितो नृपः ॥ कथासरित्सागर १२,११.५४ (वेतालपञ्चविंशतिका ४) ॥ ततश्च गूढे जिज्ञासौ तस्मिन् राज्ञ्यनुगच्छति । शूद्रके त्वरितं गेहं निशि वीरवरो ययौ ॥ कथासरित्सागर १२,११.५५ (वेतालपञ्चविंशतिका ४) ॥ तत्र पुत्रोपहारोऽस्य राजार्थे धरया यथा । उक्तस्तथाब्रवीत्पत्न्यै धर्मवत्यै विबोध्य सः ॥ कथासरित्सागर १२,११.५६ (वेतालपञ्चविंशतिका ४) ॥ तच्छ्रुत्वा सा तमाह स्म नाथ कार्यं शिवं प्रभोः । तत्प्रबोध्य सुतस्यास्य शिशोर्वक्तु भवानिति ॥ कथासरित्सागर १२,११.५७ (वेतालपञ्चविंशतिका ४) ॥ ततः प्रबोध्य सुप्तं तं बालं सत्त्ववरं सुतम् । आख्याय तं च वृत्तान्तमेवं वीरवरोऽब्रवीत् ॥ कथासरित्सागर १२,११.५८ (वेतालपञ्चविंशतिका ४) ॥ तत्पुत्र चण्डिकादेव्या उपहारीकृते त्वयि । राजा जीवत्यसौ नो चेत्तृतीयेऽह्नि विपद्यते ॥ कथासरित्सागर १२,११.५९ (वेतालपञ्चविंशतिका ४) ॥ एतच्छ्रुत्वैव बालोऽपि यथार्थं नाम दर्शयन् । अक्लीबचित्तः पितरं तं स सत्त्ववरोऽब्रवीत् ॥ कथासरित्सागर १२,११.६० (वेतालपञ्चविंशतिका ४) ॥ कृतार्थोऽहं मम प्राणई राजा चेत्तात जीवति । भुक्तस्य हि तदन्नस्य दत्ता स्यान्निष्कृतिर्मया ॥ कथासरित्सागर १२,११.६१ (वेतालपञ्चविंशतिका ४) ॥ तत्किं विलम्ब्यते नीत्वा भगवत्याः पुरोऽधुना । उपहारीकुरुध्वं मामस्तु शान्तिर्मया प्रभोः ॥ कथासरित्सागर १२,११.६२ (वेतालपञ्चविंशतिका ४) ॥ इति सत्त्ववरेणोक्ते तेन वीरवरोऽत्र सः । साधु सत्यं प्रसूतोऽसि मत्तः पुत्रेत्यभाषत ॥ कथासरित्सागर १२,११.६३ (वेतालपञ्चविंशतिका ४) ॥ एतत्सोऽन्वागतो राजा सर्वं श्रुत्वा बहिः स्थितः । अह एषां समं सत्त्वं सर्वेषामित्यचिन्तयत् ॥ कथासरित्सागर १२,११.६४ (वेतालपञ्चविंशतिका ४) ॥ ततो वीरवरः स्कन्धे कृत्वा सत्त्ववरं सुतम् । भर्या धर्मवती चास्य कन्यां वीरवतीमपि ॥ कथासरित्सागर १२,११.६५ (वेतालपञ्चविंशतिका ४) ॥ उभौ तौ ययतुस्तस्यां रात्रौ तच्चण्डिकागृहम् । राजापि शूद्रकश्छन्नः पृष्टतः स तयोर्ययौ ॥ कथासरित्सागर १२,११.६६ (वेतालपञ्चविंशतिका ४) ॥ तत्र देव्याः पुरः स्कन्धात्सोऽथ पित्रावतारितः । देवीं सत्त्ववरो नत्वा धैर्यराशिर्व्यजिज्ञपत् ॥ कथासरित्सागर १२,११.६७ (वेतालपञ्चविंशतिका ४) ॥ मम मूर्धोपहारेण राजा जीवतु शुद्रकः । अन्यद्वर्षशतं देवि कुर्याद्राज्यमकण्टकम् ॥ कथासरित्सागर १२,११.६८ (वेतालपञ्चविंशतिका ४) ॥ एवमुक्तवतस्तस्य साधु साध्वित्युदीर्य सः । सूनोः सत्त्ववरस्याथ कृष्ट्वा करतलां शिशोः ॥ कथासरित्सागर १२,११.६९ (वेतालपञ्चविंशतिका ४) ॥ छित्त्वा शिरश्चण्डिकायै देव्यै वीरवरो ददौ । मत्पुत्रेणोपहारेण राजा जीवत्विति ब्रुवन् ॥ कथासरित्सागर १२,११.७० (वेतालपञ्चविंशतिका ४) ॥ साधु कः स्वामिभक्तोऽन्यः समो वीरवर त्वया । येनैवमेकसत्पुत्रप्राणव्ययविधायिना ॥ कथासरित्सागर १२,११.७१ (वेतालपञ्चविंशतिका ४) ॥ दत्तो जीवश्च राज्यं च शुद्रकस्यास्य भूपतेः । इत्यन्तरिक्षादुदगात्तत्क्षणं तत्र भारती ॥ कथासरित्सागर १२,११.७२ (वेतालपञ्चविंशतिका ४) ॥ तच्च सर्वं नृपे तस्मिंश्छन्ने शृण्वति पस्यति । कन्या वीरवती सा तु बाला वीरवरात्मजा ॥ कथासरित्सागर १२,११.७३ (वेतालपञ्चविंशतिका ४) ॥ उपेत्याश्लिष्य मूर्धाणं तस्य भ्रातुर्हतस्य तम् । विलपन्त्युरुशोकान्धा हृत्स्फोटेन व्यपद्यत ॥ कथासरित्सागर १२,११.७४ (वेतालपञ्चविंशतिका ४) ॥ ततो वीरवरं भार्या धर्मवत्येवमब्रवीत् । राज्ञस्तावत्कृतं श्रेयस्तदिदानीं वदामि ते ॥ कथासरित्सागर १२,११.७५ (वेतालपञ्चविंशतिका ४) ॥ निःज्ञाना यत्र बालापि भ्रातृशोकादियं मृता । नष्टेऽपत्यद्वयेऽप्यस्मिंस्तत्र किं जीवितेन मे ॥ कथासरित्सागर १२,११.७६ (वेतालपञ्चविंशतिका ४) ॥ प्रागेव राज्ञः श्रेयोऽर्थं मूढया स्वशिरो मया । देव्यै नोपहृतं तस्माद्देह्यनुज्ञां ममाधुना ॥ कथासरित्सागर १२,११.७७ (वेतालपञ्चविंशतिका ४) ॥ प्रविषम्यनलं तावदात्तापत्यकलेवरा । इत्याग्रहाद्वदन्तीं तां सोऽथ वीरवरोऽब्रवीत् ॥ कथासरित्सागर १२,११.७८ (वेतालपञ्चविंशतिका ४) ॥ एवं कुरुष्व भद्रं ते का हि संप्रति ते रतिः । अपत्यदुःखैकमये जीवितव्ये मनस्विनि ॥ कथासरित्सागर १२,११.७९ (वेतालपञ्चविंशतिका ४) ॥ किं न दत्तो मयैवात्मेत्येषा मा भूच्च ते व्यथा । दद्यां किं नाहमात्मानमन्यसाध्यं भवेद्यदि ॥ कथासरित्सागर १२,११.८० (वेतालपञ्चविंशतिका ४) ॥ तत्प्रतीक्षस्व यावत्ते चितामत्र करोम्यहम् । अमीभिर्दारुभिर्देवीक्षेत्रनिर्माणसंभृतैह् ॥ कथासरित्सागर १२,११.८१ (वेतालपञ्चविंशतिका ४) ॥ इत्युक्त्वा दारुभिस्तैः स कृत्वा वीरवरश्चिताम् । दीपाग्रे ज्वालयामास न्यस्तापत्यशवद्वयाम् ॥ कथासरित्सागर १२,११.८२ (वेतालपञ्चविंशतिका ४) ॥ ततो धर्मवती पत्नी पतित्वा सास्य पादयोः । प्रणम्य देवीं चण्डीं तां व्यजिज्ञपदपांसुला ॥ कथासरित्सागर १२,११.८३ (वेतालपञ्चविंशतिका ४) ॥ जन्मान्तरेऽप्ययं भूयादार्यपुत्रः पतिर्मम । एतत्प्रभोस्तु राज्ञोऽस्तु मद्देहेनामुना शिवम् ॥ कथासरित्सागर १२,११.८४ (वेतालपञ्चविंशतिका ४) ॥ इत्युदीर्यैव सा साध्वी तस्मिन्नम्भोऽवहेलया । ज्वालाकलापजटिले निपपात चितानले ॥ कथासरित्सागर १२,११.८५ (वेतालपञ्चविंशतिका ४) ॥ ततश्च चिन्तयामास वीरो वीरवरोऽत्र सः । निष्पन्नं राजकार्यं मे वाग्दिव्या ह्युद्गता यथा ॥ कथासरित्सागर १२,११.८६ (वेतालपञ्चविंशतिका ४) ॥ भुक्तस्य चान्नपिण्डस्य जातोऽहमनृणः प्रभोः । तदिदानीं ममैकस्य केयं जीवितगृध्नुता ॥ कथासरित्सागर १२,११.८७ (वेतालपञ्चविंशतिका ४) ॥ भरणीयं प्रियं कृत्स्नं व्ययीकृत्य कुटुम्बकम् । जीवयन्नेकमात्मानं मादृशः को हि शोभते ॥ कथासरित्सागर १२,११.८८ (वेतालपञ्चविंशतिका ४) ॥ तत्किमात्मोपहारेणाप्येतां प्रीणामि नाम्बिकाम् । इत्यालोच्य स देवीं तां स्तुत्या प्रागुपतस्थिवान् ॥ कथासरित्सागर १२,११.८९ (वेतालपञ्चविंशतिका ४) ॥ जय महिषासुरमारिणि दारिणि रुरुदानवस्य शूलकरे । जय विबुधोत्सवकारिणि ढरिणि भूवन त्रयस्य मातृवरे ॥ कथासरित्सागर १२,११.९० (वेतालपञ्चविंशतिका ४) ॥ जय जगदर्चितचरणे शरणे निःश्रेयसस्य भक्तानाम् । जय धृतभास्करकिरणे हरणे दुरितान्धकारवृन्दानाम् ॥ कथासरित्सागर १२,११.९१ (वेतालपञ्चविंशतिका ४) ॥ जय कालि जय कपालिनि जय कङ्कालिनि शिवे नमस्तेऽस्तु । शूद्रकनृपतेरधुना प्रसीद मन्मस्तकोपहारेण ॥ कथासरित्सागर १२,११.९२ (वेतालपञ्चविंशतिका ४) ॥ इत्युपस्थाय देव्यां स तस्यां वीरवरः पुनः । सद्यः करतलाघातेनोत्तमाङ्गं स्वमच्छिनत् ॥ कथासरित्सागर १२,११.९३ (वेतालपञ्चविंशतिका ४) ॥ तदालोक्याखिलं तत्र छन्नस्थः शुद्रको नृपः । साकुलश्च सदुःखश्च साश्चर्यश्च व्यचिन्तयत् ॥ कथासरित्सागर १२,११.९४ (वेतालपञ्चविंशतिका ४) ॥ अहो किमप्यनेनैतदन्यत्रादृष्टमश्रुतम् । साधुना सकुटुम्बेन दुःकरं मत्कृते कृतम् ॥ कथासरित्सागर १२,११.९५ (वेतालपञ्चविंशतिका ४) ॥ विचित्रेऽप्यत्र संसारे धीरः स्यादीदृशः कुतः । अख्यापयन् प्रभो अर्थे परोक्षं यो ददात्यसून् ॥ कथासरित्सागर १२,११.९६ (वेतालपञ्चविंशतिका ४) ॥ एतस्य चोपकारोस्य न कुर्यां सदृशं यदि । तन्मे का प्रभुता किं च जीवितव्यं पशोरिव ॥ कथासरित्सागर १२,११.९७ (वेतालपञ्चविंशतिका ४) ॥ इति संचिन्त्य नृपतिः खड्गमाकृष्य कोपतः । उपेत्य शूद्रको देवीं तां प्रवीरो व्यजिज्ञपत् ॥ कथासरित्सागर १२,११.९८ (वेतालपञ्चविंशतिका ४) ॥ सततानुप्रपन्नस्य भगवत्यधुनामुना । मम मूर्धोपहारेण सुप्रीता कुर्वनुग्रहम् ॥ कथासरित्सागर १२,११.९९ (वेतालपञ्चविंशतिका ४) ॥ अयं वीरवरो विप्रो नामानुगुणचेष्टितः । मदर्थमुज्झितप्राणः सकुटुम्बोऽपि जीवतु ॥ कथासरित्सागर १२,११.१०० (वेतालपञ्चविंशतिका ४) ॥ इत्युदीर्यासिना राजा शिरश्छेत्तुं स शूद्रकः । यावत्प्रवर्तते तावदुदभूद्भारती दिवः ॥ कथासरित्सागर १२,११.१०१ (वेतालपञ्चविंशतिका ४) ॥ मा साहसं कृथास्तुष्टा सत्त्वेनानेन ते ह्यहम् । प्रत्युज्जीवतु सापत्यदारो वीरवरो द्विजः ॥ कथासरित्सागर १२,११.१०२ (वेतालपञ्चविंशतिका ४) ॥ इत्युक्त्वा व्यरमद्वाक्सा स चोत्तस्थौ सपुत्रकः । साकं दुहित्रा पत्न्या च जीवन् वीरवरोऽक्षतः ॥ कथासरित्सागर १२,११.१०३ (वेतालपञ्चविंशतिका ४) ॥ तद्विलोक्याद्भुतं राजा छन्नो भूत्वा पुनश्च सः । पश्यन्नतृप्तस्तामासीद्दृष्ट्या हर्षाश्रुपूर्णया ॥ कथासरित्सागर १२,११.१०४ (वेतालपञ्चविंशतिका ४) ॥ सोऽपि वीरवरो दृष्ट्वा सुप्तोत्थित इवाशु तम् । पुत्रदारं तथात्मानमभूद्विभ्रान्तमानसः ॥ कथासरित्सागर १२,११.१०५ (वेतालपञ्चविंशतिका ४) ॥ पप्रच्छ च पृथङ्नामग्राहं दारसुतान् स तान् । भस्मीभूताः कथं यूयं जीवन्तः पुन उत्थिताः ॥ कथासरित्सागर १२,११.१०६ (वेतालपञ्चविंशतिका ४) ॥ मयापि स्वशिरश्छिन्नं जीवाम्येषश्च किं न्विदम् । किं विभ्रमोऽयमाहो स्विद्सुस्पष्टो देव्यनुग्रहः ॥ कथासरित्सागर १२,११.१०७ (वेतालपञ्चविंशतिका ४) ॥ एवं वदन् स तैरूचे दारापत्यैरलक्षितः । देव्यनुग्रह एवायं  जीवामो यदमी इति ॥ कथासरित्सागर १२,११.१०८ (वेतालपञ्चविंशतिका ४) ॥ ततः स तत्तथा मत्वा नत्वा वीरवरोऽम्बकाम् । आदाय पुत्रदारांस्तान्सिद्धकार्यो गृहं ययौ ॥ कथासरित्सागर १२,११.१०९ (वेतालपञ्चविंशतिका ४) ॥ तत्र प्रवेश्य पुत्रं तं भार्यां दुहितरं च ताम् । सिंहद्वारमगाद्राज्ञो रात्रौ तस्यां स पूर्ववत् ॥ कथासरित्सागर १२,११.११० (वेतालपञ्चविंशतिका ४) ॥ राजा स शूद्रकोऽप्येतद्दृष्ट्वा सर्वमलक्षितः । गत्वारुरोह स्वावासप्रासादं तं पुनस्तदा ॥ कथासरित्सागर १२,११.१११ (वेतालपञ्चविंशतिका ४) ॥ व्याहरच्च स्थितः कोऽत्र सिंहद्वारीति पृष्ठतः । ततो वीरवरोऽवादीत्सैष तिष्ठाम्यहं प्रभो ॥ कथासरित्सागर १२,११.११२ (वेतालपञ्चविंशतिका ४) ॥ देवादेशाद्गतश्चाहमभूवं तां स्त्रियं प्रति । राक्षसीव च सा क्वापि दृष्टनष्टैव मे गता ॥ कथासरित्सागर १२,११.११३ (वेतालपञ्चविंशतिका ४) ॥ एतच्छ्रुत्वा वचस्तस्य राजा वीरवरस्य सः । सुतरां विस्मयाविष्टो दृष्टोदन्तो व्यचिन्तयत् ॥ कथासरित्सागर १२,११.११४ (वेतालपञ्चविंशतिका ४) ॥ अहो समुद्रगम्भीरधीरचित्ता मनस्विनः । कृत्वाप्यनन्यसामान्यमुल्लेखं नोद्गिरन्ति ये ॥ कथासरित्सागर १२,११.११५ (वेतालपञ्चविंशतिका ४) ॥ इत्याद्याकलयंस्तूष्णीं प्रासादादवरुह्य सः । प्रविश्यान्तःपुरं राजा रात्रिशेषं निनाय तम् ॥ कथासरित्सागर १२,११.११६ (वेतालपञ्चविंशतिका ४) ॥ प्रातश्चास्थानसमये दर्शनोपगतस्थिते । तस्मिन् वीरवरे प्रीतस्तथा कृत्स्नं स भूपतिः ॥ कथासरित्सागर १२,११.११७ (वेतालपञ्चविंशतिका ४) ॥ तदीयं रात्रिवृत्तान्तं मन्त्रिभ्यस्तमवर्णयत् । यथा बभूवुराश्चर्यमोहिता इव तेऽखिलाः ॥ कथासरित्सागर १२,११.११८ (वेतालपञ्चविंशतिका ४) ॥ ददौ तस्मै सपुत्राय प्रीत्या वीरवराय च । लाटदेशे ततो राज्यं स कर्णाटयुते नृपः ॥ कथासरित्सागर १२,११.११९ (वेतालपञ्चविंशतिका ४) ॥ ततोऽत्र तुल्यविभवावन्योन्यस्योपकारिणौ । आसातां तौ सुखं वीरवरशूद्रकभूपती ॥ कथासरित्सागर १२,११.१२० (वेतालपञ्चविंशतिका ४) ॥ इत्याख्याय कथामेतां वेतालोऽत्यद्भुतां तदा । तं त्रिविक्रमसेनं स राजानमवदत्पुनः ॥ कथासरित्सागर १२,११.१२१ (वेतालपञ्चविंशतिका ४) ॥ तद्ब्रूहि राजन्नेतेषु वीरः सर्वेषु कोऽधिकः । पूर्व एव स शापस्ते यदि जानन्न वक्ष्यसि ॥ कथासरित्सागर १२,११.१२२ (वेतालपञ्चविंशतिका ४) ॥ एतच्छ्रुत्वा स भूपालो वेतालं प्रतिउवच तम् । एतेषु शुद्रको राजा प्रवीरः सोऽखिलेष्विति ॥ कथासरित्सागर १२,११.१२३ (वेतालपञ्चविंशतिका ४) ॥ ततोऽब्रवीत्स वेतालो राजन् वीरवरो न किम् । सोऽधिको यस्य तुल्योऽस्यां पृथ्व्यामेव न जायते ॥ कथासरित्सागर १२,११.१२४ (वेतालपञ्चविंशतिका ४) ॥ तत्पत्नी नाधिका किं वा स्त्रीभुता यान्वमन्यत । तथोपहारपशुतां सूनोः प्रत्यक्षदर्शिनी ॥ कथासरित्सागर १२,११.१२५ (वेतालपञ्चविंशतिका ४) ॥ स वा सत्त्ववरो नात्र तत्पुत्रोऽभ्यधिकः कथम् । बालस्यापि सतो यस्य सत्त्वोत्कर्षः स तादृशः ॥ कथासरित्सागर १२,११.१२६ (वेतालपञ्चविंशतिका ४) ॥ तत्कस्माच्छुद्रकं भूपमेभ्यस्त्वं भाषसेऽधिकम् । इत्युक्तवन्तं वेतालं स जगाद पुनर्नृपः ॥ कथासरित्सागर १२,११.१२७ (वेतालपञ्चविंशतिका ४) ॥ मैवं वीरवरस्तावत्स तादृक्कुलपुत्रकः । तस्य प्राणैः सुतैर्दारैः स्वामिसंरक्षणं व्रतम् ॥ कथासरित्सागर १२,११.१२८ (वेतालपञ्चविंशतिका ४) ॥ तत्पत्नी सापि कुलजा साद्वी पत्येकदेवता । भर्तृवर्त्मानुसारेण तस्या धर्मोऽस्तु कोऽपरः ॥ कथासरित्सागर १२,११.१२९ (वेतालपञ्चविंशतिका ४) ॥ ताभ्यां जातस्तु तद्रूप एव सत्त्ववरोऽपि सः । यादृशास्तन्तवः कामं तादृशो जायते पटः ॥ कथासरित्सागर १२,११.१३० (वेतालपञ्चविंशतिका ४) ॥ येषां प्राणैस्तु भृत्यानां नृपैरात्माभिरक्ष्यते । तेषामर्थे त्यजन्देहं शुद्रकोऽत्र विशिष्यते ॥ कथासरित्सागर १२,११.१३१ (वेतालपञ्चविंशतिका ४) ॥ इत्याकर्ण्य वचः स तस्य नृपतेरंसादसंलक्षितः वेतालः सहसा ययौ निजपदं भूयोऽपि तन्मायया । राजाप्युच्चलितो बभूव पुनरप्यानेतुमेतं पथा पूर्वेणैव सुनिश्चितः पितृवने तस्मिन् स तस्यां निशि ॥ कथासरित्सागर १२,११.१३२ (वेतालपञ्चविंशतिका ४) ॥ ततस्तस्य पुनर्गत्वा शिंशपाशाखिनोऽन्तिकम् । तथैवोल्लम्बमानं तं दृष्ट्वा नरशरीरगम् ॥ कथासरित्सागर १२,१२.१ (वेतालपञ्चविंशतिका ५) ॥ वेतालमवतार्यैव कृत्वास्मै बहु वैकृतम् । स त्रिविक्रमसेनो द्राग्गन्तुं प्रववृते ततः ॥ कथासरित्सागर १२,१२.२ (वेतालपञ्चविंशतिका ५) ॥ आगच्छन्तं च तं तूष्णीं वेतालः पूर्ववत्पथि । रात्रौ महाश्मशानेऽत्र स्कन्धस्थो व्याजहार सः ॥ कथासरित्सागर १२,१२.३ (वेतालपञ्चविंशतिका ५) ॥ राजन्नभिनिविष्टोऽसि कष्टेऽत्यन्तप्रियोऽसि च । तत्ते चेतोविनोदाय वर्णयामि कथां शृणु ॥ कथासरित्सागर १२,१२.४ (वेतालपञ्चविंशतिका ५) ॥ उज्जयिन्यामभूद्विप्रः पुण्यसेनस्य भूपतेः । अनुजीवी प्रियोऽमात्यो हरिस्वामीति सद्गुणः ॥ कथासरित्सागर १२,१२.५ (वेतालपञ्चविंशतिका ५) ॥ तस्यात्मनोऽनुरूपायां भार्यायां गृहमेधिनः । गुणवान् सदृशः पुत्रो देवस्वामीत्यजायत ॥ कथासरित्सागर १२,१२.६ (वेतालपञ्चविंशतिका ५) ॥ तद्वच्चानन्य सामान्य रूपलावण्य विश्रुता । कन्या सोमप्रभा नाम तस्यान्वर्थोदपद्यत ॥ कथासरित्सागर १२,१२.७ (वेतालपञ्चविंशतिका ५) ॥ सा प्रदेया सती कन्या रूपोत्कर्षाभिमानिनी । मातुर्मुखेन पितरं भ्रातरं च जगाद तम् ॥ कथासरित्सागर १२,१२.८ (वेतालपञ्चविंशतिका ५) ॥ शूरस्य ज्ञानिनो वाहं देया विज्ञानिनोऽपि वा । अन्यस्मै नास्मि दातव्या कार्यं मज्जीवितेन चेत् ॥ कथासरित्सागर १२,१२.९ (वेतालपञ्चविंशतिका ५) ॥ तच्छ्रुत्वा तादृशं तस्याश्चिन्वन्नेकतमं वरम् । तत्पिता स हरिस्वामी यावच्चिन्तां वहत्यलम् ॥ कथासरित्सागर १२,१२.१० (वेतालपञ्चविंशतिका ५) ॥ तावद्व्यसर्जी रज्ञा स पुण्यसेनेन दूत्यया । संध्यर्थं विग्रहायात दाक्षिणात्यनृपान्तिकम् ॥ कथासरित्सागर १२,१२.११ (वेतालपञ्चविंशतिका ५) ॥ कृतकार्यश्च तत्रासावेकेनाभ्येत्य तां सुताम् । याचितोऽभूद्द्विजाग्र्येण श्रुततद्रूपसंपदा ॥ कथासरित्सागर १२,१२.१२ (वेतालपञ्चविंशतिका ५) ॥ विज्ञानिनो ज्ञानिनो वा शूराद्वा नापरं पतिम् । मत्पुत्रीच्छति तत्तेषां मध्यात्कथय को भवान् ॥ कथासरित्सागर १२,१२.१३ (वेतालपञ्चविंशतिका ५) ॥ इत्युक्तस्तेन भार्यार्थः स हरिस्वामिना द्विजः । अहं जानामि विज्ञानमिति तं प्रत्यभाषत ॥ कथासरित्सागर १२,१२.१४ (वेतालपञ्चविंशतिका ५) ॥ तर्हि तद्दर्शयस्वेति पुन उक्तश्च तेन सः । विज्ञानी कल्पयामास स्वशक्त्या द्युचरं रथम् ॥ कथासरित्सागर १२,१२.१५ (वेतालपञ्चविंशतिका ५) ॥ मायायन्त्ररथे तत्र तं हरिस्वामिनं क्षणात् । आरोप्य नीत्वा स्वर्गादीं लोकांस्तस्मा अदर्शयत् ॥ कथासरित्सागर १२,१२.१६ (वेतालपञ्चविंशतिका ५) ॥ आनिनाय च तुष्टं तं तत्रैव कटकं पुनः । दाक्षिणात्यस्य नृपतेर्यत्रायातः स कार्यतः ॥ कथासरित्सागर १२,१२.१७ (वेतालपञ्चविंशतिका ५) ॥ ततः सोऽस्मै हरिस्वामी प्रतिशुश्राव तां सुताम् । विज्ञानिने विवाहं च निश्चिकायाह्नि सप्तमे ॥ कथासरित्सागर १२,१२.१८ (वेतालपञ्चविंशतिका ५) ॥ तत्कालमुज्जयिन्यामप्यन्येनैत्य द्विजन्मना । देवस्वामी स तत्पुत्रः स्वसारं तामयाच्यत ॥ कथासरित्सागर १२,१२.१९ (वेतालपञ्चविंशतिका ५) ॥ ज्ञानिविज्ञ्नानिशूरेभ्यो नान्यमिच्छति सा पतिम् । इति तेनापि सोऽप्युक्तः शूरमात्मानमभ्यधात् ॥ कथासरित्सागर १२,१२.२० (वेतालपञ्चविंशतिका ५) ॥ ततो दर्शितशस्त्रास्त्रश्रिये तस्मै द्विजोऽनुजाम् । देवस्वामी स शूराय दातुं तां प्रत्यपद्यत ॥ कथासरित्सागर १२,१२.२१ (वेतालपञ्चविंशतिका ५) ॥ सप्तमेऽह्नि च तत्रैव विवाहं गणकोक्तितः । तस्यापि सोऽभ्यधान्मातुः परोक्षं कृतनिश्चयः ॥ कथासरित्सागर १२,१२.२२ (वेतालपञ्चविंशतिका ५) ॥ तन्मातापि ःरिस्वामिभार्या तत्कलमेव सा । केनाप्येत्य तृतीयेन सुतां तां याचिता पृथक् ॥ कथासरित्सागर १२,१२.२३ (वेतालपञ्चविंशतिका ५) ॥ ज्ञानी शूरोऽथ विज्ञनी भर्तास्मद्दुहितुर्मतः । इत्युक्तश्च तया मातरहं ज्ञनीति सोऽभ्यधात् ॥ कथासरित्सागर १२,१२.२४ (वेतालपञ्चविंशतिका ५) ॥ पृष्ट्वा भूतं भविष्यच्च तस्मै तां ज्ञानिने सुताम् । प्रतिजज्ञे प्रदातुं साप्यह्नि तत्रैव सप्तमे ॥ कथासरित्सागर १२,१२.२५ (वेतालपञ्चविंशतिका ५) ॥ अन्येद्युश्चागतः सोऽत्र हरिस्वामी यथा कृतम् । पत्न्यैः पुत्राय चाचख्यौ तं कन्यादाननिश्चयम् ॥ कथासरित्सागर १२,१२.२६ (वेतालपञ्चविंशतिका ५) ॥ तौ च तं स्वकृतं तस्मै भिन्नं भिन्नमेवोचताम् । सोऽपि तेनाकुलो जज्ञे वरत्रयनिमन्त्रणात् ॥ कथासरित्सागर १२,१२.२७ (वेतालपञ्चविंशतिका ५) ॥ अथोद्वाहदिने तस्मिन् हरिस्वामिगृहे वराः । आययुर्ज्ञानिविज्ञानिशूरास्तत्र त्रयोऽपि ते ॥ कथासरित्सागर १२,१२.२८ (वेतालपञ्चविंशतिका ५) ॥ तत्कालं चात्र सा चित्रं कन्या सोमप्रभा वधुः । अशङ्कितं गता क्वापि न विचित्याप्यलभ्यत ॥ कथासरित्सागर १२,१२.२९ (वेतालपञ्चविंशतिका ५) ॥ ततोऽब्रवीद्धरिस्वामी ज्ञानिनं तं ससंभ्रमः । ज्ञानिन्निदानीं ब्रूह्याशु दुहिता मे क्व सा गता ॥ कथासरित्सागर १२,१२.३० (वेतालपञ्चविंशतिका ५) ॥ तच्छ्रुत्वा सोऽवदज्ज्ञानी राक्षसेनापहृत्य सा । नीता विन्ध्याटवीं धूमशिखेन वसतिं निजाम् ॥ कथासरित्सागर १२,१२.३१ (वेतालपञ्चविंशतिका ५) ॥ इत्युक्तो ज्ञानिना भीतो हरिस्वामी जगाद सः । हा धिक्कथं सा प्रप्येत विवाहश्चापि हा कथम् ॥ कथासरित्सागर १२,१२.३२ (वेतालपञ्चविंशतिका ५) ॥ श्रुत्वैतत्प्राह विज्ञानी धीरो भव नयामि वः । तत्राधुनैव यत्रैषो ज्ञानी वदति तां स्थिताम् ॥ कथासरित्सागर १२,१२.३३ (वेतालपञ्चविंशतिका ५) ॥ इत्युक्त्वा तत्क्षणं कृत्वा रथं सर्वास्त्रसंयुतम् । तत्रारोप्य हरिस्वामिज्ञानिशूरान् खगामिनि ॥ कथासरित्सागर १२,१२.३४ (वेतालपञ्चविंशतिका ५) ॥ तान् स संप्रापयामास क्षणाद्विन्ध्याटवीभुवि । ज्ञानिना तां समाख्यातां वसतिं तत्र रक्षसः ॥ कथासरित्सागर १२,१२.३५ (वेतालपञ्चविंशतिका ५) ॥ तत्र तं राक्षसं क्रुद्धं ज्ञातवृत्तान्तनिर्गतम् । शूरोऽथ योधयामास हरिस्वामिपुरस्कृतः ॥ कथासरित्सागर १२,१२.३६ (वेतालपञ्चविंशतिका ५) ॥ तदाश्चर्यमभूद्युद्धं तयोर्मानुषरक्षसोः । चित्रास्त्रयोधिनोः स्त्र्यर्थं रामरावणयोरिव ॥ कथासरित्सागर १२,१२.३७ (वेतालपञ्चविंशतिका ५) ॥ क्षणेन च स सङ्ग्रामदुःमदस्यापि रक्षसः । अर्धचन्द्रेण बाणेन शूरस्तस्याच्छिनच्छिरः ॥ कथासरित्सागर १२,१२.३८ (वेतालपञ्चविंशतिका ५) ॥ हते रक्षसि तां सोमप्रभामाप्तां तदास्पदात् । आदाय विज्ञानिरथेनाजग्मुस्ते ततोऽखिलाः ॥ कथासरित्सागर १२,१२.३९ (वेतालपञ्चविंशतिका ५) ॥ हरिस्वामिगृहं प्राप्य तेषां लग्नेऽप्युपस्थिते । ज्ञानिविज्ञानिशूराणां विवाद उदभून्महान् ॥ कथासरित्सागर १२,१२.४० (वेतालपञ्चविंशतिका ५) ॥ ज्ञानी जगाद नाहं चेज्जानीयां तदियं कथम् । प्राप्येत कन्या गूढस्था देया मह्यमसावितः ॥ कथासरित्सागर १२,१२.४१ (वेतालपञ्चविंशतिका ५) ॥ विज्ञानी त्ववदन्नाहं कुर्यां चेद्व्योमगं रथम् । गमागमौ कथं स्यातां देवानामिव वः क्षणात् ॥ कथासरित्सागर १२,१२.४२ (वेतालपञ्चविंशतिका ५) ॥ कथं स्याच्चारथं युद्धं रथिना रक्षसा सह । तस्मान्मह्यमियं देया लग्नो ह्येष मयाजितः ॥ कथासरित्सागर १२,१२.४३ (वेतालपञ्चविंशतिका ५) ॥ शूरोऽप्युवाच हन्यां चेन्नाहं तं राक्षसं रणे । तद्युवाभ्यां कृते यत्नेऽप्येतां कन्यां क आनयेत् ॥ कथासरित्सागर १२,१२.४४ (वेतालपञ्चविंशतिका ५) ॥ तन्मह्यमेषा दातव्येत्येवं तेषु विवादिषु । हरिस्वामी क्षणं तूष्णीमासीदुद्भ्रान्तमानसः ॥ कथासरित्सागर १२,१२.४५ (वेतालपञ्चविंशतिका ५) ॥ तत्कस्मै सात्र देयेति राजन् वदतु मे भवान् । न वदिष्यसि जानंश्चेत्तत्ते मूर्धा स्फुटिष्यति ॥ कथासरित्सागर १२,१२.४६ (वेतालपञ्चविंशतिका ५) ॥ इति वेतालतस्तस्माच्छ्रुत्वा मौनं विहाय च । स त्रिविक्रमसेनस्तमुवाचैवं महीपतिः ॥ कथासरित्सागर १२,१२.४७ (वेतालपञ्चविंशतिका ५) ॥ शूराय सा प्रदातव्या येन प्राणपणोद्यमात् । अर्जिता बहुवीर्येण हत्वा तं युधि राक्षसम् ॥ कथासरित्सागर १२,१२.४८ (वेतालपञ्चविंशतिका ५) ॥ ज्ञानिविज्ञानिनौ त्वस्य धात्रा कर्मकरौ कृतौ । सदा गणकतक्षणौ परोपकरणे न किम् ॥ कथासरित्सागर १२,१२.४९ (वेतालपञ्चविंशतिका ५) ॥ इत्युक्तं मनुजपतेर्निशम्य तस्य स्कन्धाग्रात्सपदि स पूर्ववज्जगाम । वेतालो निजपदमेव सोऽपि राजानुद्वेगस्तं प्रति प्रतस्थे ॥ कथासरित्सागर १२,१२.५० (वेतालपञ्चविंशतिका ५) ॥ ततो गत्वा पुनस्तस्मात्प्राप्य तं शिंशपातरोः । वेतालं प्राग्वदादाय स्कन्धे मौनेन भूपतिः ॥ कथासरित्सागर १२,१३.१ (वेतालपञ्चविंशतिका ६) ॥ स त्रिविक्रमसेनोऽत्र यावदागच्छति द्रुतम् । तावत्पथि स वेतालो भूयोऽप्येवमुवाच तम् ॥ कथासरित्सागर १२,१३.२ (वेतालपञ्चविंशतिका ६) ॥ राजन् सुधीः सुसत्त्वश्च भवांस्तेन प्रियोऽसि मे । अतो विनोदिनीं वच्मि कथां प्रश्नं च मे शृणु ॥ कथासरित्सागर १२,१३.३ (वेतालपञ्चविंशतिका ६) ॥ आसीद्राजा यशःकेतुरिति ख्यातो महीतले । तस्य शोभावती नाम राजधान्यभवत्पुरी ॥ कथासरित्सागर १२,१३.४ (वेतालपञ्चविंशतिका ६) ॥ तस्यामभून्नगर्यां च गौर्यायतनमुत्तमम् । तस्य दक्षिणतश्चासीद्गौरीतीर्थाभिधं सरः ॥ कथासरित्सागर १२,१३.५ (वेतालपञ्चविंशतिका ६) ॥ तस्याषाढचतुर्दश्यां शुक्लायां प्रतिवत्सरम् । यात्रायां स्नातुमेति स्म नानादिग्भ्यो महाजनः ॥ कथासरित्सागर १२,१३.६ (वेतालपञ्चविंशतिका ६) ॥ एकदा च तिथौ तस्यां स्नातुमत्राययौ युवा । रजको धवलो नाम ग्रामाद्ब्रह्मस्थलाभिधात् ॥ कथासरित्सागर १२,१३.७ (वेतालपञ्चविंशतिका ६) ॥ सोऽपश्यद्रजकस्यात्र तीर्थे स्नानागतां सुताम् । कन्यां शुद्धपटाख्यस्य नाम्ना मदनसुन्दरीम् ॥ कथासरित्सागर १२,१३.८ (वेतालपञ्चविंशतिका ६) ॥ इन्दोर्लावण्यहारिण्या तया स हृतमानसः । अन्विष्य तन्नामकुले कामार्तोऽथ गृहं ययौ ॥ कथासरित्सागर १२,१३.९ (वेतालपञ्चविंशतिका ६) ॥ तत्रानवस्थितस्तिष्ठन्निराहारस्तया विना । पृष्ठो मात्रार्तया तस्यै तच्छशंस मनःगतम् ॥ कथासरित्सागर १२,१३.१० (वेतालपञ्चविंशतिका ६) ॥ सा गत्वा विमलाख्याय तत्स्वभर्त्रे न्यवेदयत् । सोऽप्यागत्य तथावस्थं दृष्ट्वा तं सुतमभ्यधात् ॥ कथासरित्सागर १२,१३.११ (वेतालपञ्चविंशतिका ६) ॥ किं विषीदसि पुत्रैवमदुष्प्राप्येऽपि वाञ्छिते । स हि मद्याचितः शुद्धपटो दास्यति ते सुताम् ॥ कथासरित्सागर १२,१३.१२ (वेतालपञ्चविंशतिका ६) ॥ अन्यूना हि वयं तस्मात्कुलेनार्थेन कर्मणा । तं वेद्म्यहं स मां वेत्ति तेनैतन्मे न दुःकरम् ॥ कथासरित्सागर १२,१३.१३ (वेतालपञ्चविंशतिका ६) ॥ इत्याश्वास्य स तं पुत्रमाहारादौ प्रवर्त्य च । तद्युक्तो विमलोऽन्येद्युर्ययौ स शुद्धपटास्पदम् ॥ कथासरित्सागर १२,१३.१४ (वेतालपञ्चविंशतिका ६) ॥ ययाचे चात्र पुत्रस्य तस्यार्थे धवलस्य सः । कन्यां तस्मात्स चास्मै तां प्रतिशुश्राव सादरम् ॥ कथासरित्सागर १२,१३.१५ (वेतालपञ्चविंशतिका ६) ॥ लग्नं निश्चित्य चान्येद्युस्तां स शुद्धपटः सुताम् । धवलाय ददौ तस्मै तुल्यां मदनसुन्दरीम् ॥ कथासरित्सागर १२,१३.१६ (वेतालपञ्चविंशतिका ६) ॥ कृतोद्वाहश्च स तया साकं दर्शनसक्तया । भार्यया स्वपितुर्गेहं जगाम धवलः कृती ॥ कथासरित्सागर १२,१३.१७ (वेतालपञ्चविंशतिका ६) ॥ सुखस्थितस्य तस्याथ कदाचिच्छ्वशुरात्मजः । तस्या मदनसुन्दर्या भ्राता तत्रागतोऽभवत् ॥ कथासरित्सागर १२,१३.१८ (वेतालपञ्चविंशतिका ६) ॥ स कृतप्रश्रयः सर्वैः स्वस्राश्लिष्याभिनन्दितः । संबन्धिपृष्टकुशलो विश्रान्तश्च जगाद तान् ॥ कथासरित्सागर १२,१३.१९ (वेतालपञ्चविंशतिका ६) ॥ अहं मदनसुन्दर्या जामातुश्च निमन्त्रणे । तातेन प्रेषितो यस्माद्देवीपूजोत्सवोऽस्ति नः ॥ कथासरित्सागर १२,१३.२० (वेतालपञ्चविंशतिका ६) ॥ श्रद्धाय चैतत्तद्वाक्यं यथार्हैः पानभोजनैः । ते संबन्ध्यादयः सर्वे तदहस्तमुपाचरन् ॥ कथासरित्सागर १२,१३.२१ (वेतालपञ्चविंशतिका ६) ॥ प्रातर्मदनसुन्दर्या स्वशुर्येण च तेन सः । सहितो धवलः प्रायाद्गृहं तच्छ्वाशुरं प्रति ॥ कथासरित्सागर १२,१३.२२ (वेतालपञ्चविंशतिका ६) ॥ प्राप्य शोभावतीं तां च पुरीमात्मतृतीयकः । ददर्श निकटं प्राप्य स गौर्यायतनं महत् ॥ कथासरित्सागर १२,१३.२३ (वेतालपञ्चविंशतिका ६) ॥ निजगाद च तौ भार्याश्वशुर्यौ श्रद्धया ततः । एतमेतां भगवतीं पश्यामो देवतामिह ॥ कथासरित्सागर १२,१३.२४ (वेतालपञ्चविंशतिका ६) ॥ तच्छ्रुत्वा स श्वशुर्यस्तं निषेधं प्रत्यभाषत । इयन्तो रिक्तहस्ताः किं पश्यामो देवतामिति ॥ कथासरित्सागर १२,१३.२५ (वेतालपञ्चविंशतिका ६) ॥ अहं तावद्व्रजाम्येको युवामत्रैव तिष्ठतम् । इत्युक्त्वा धवलो द्रष्टुं देवीं तां स ततो ययौ ॥ कथासरित्सागर १२,१३.२६ (वेतालपञ्चविंशतिका ६) ॥ प्रविश्यायतनं तस्याः प्रणम्य च विभाव्य च । तामष्टादशदोःदण्डखण्डितोच्चण्डदानवाम् ॥ कथासरित्सागर १२,१३.२७ (वेतालपञ्चविंशतिका ६) ॥ पादपद्मतलाक्षिप्तमहिषासुरमर्दिनीम् । स विधिप्रेरणोत्पन्नबुद्धिरेवमचिन्तयत् ॥ कथासरित्सागर १२,१३.२८ (वेतालपञ्चविंशतिका ६) ॥ जीवोपहारैर्विविधैरिमां देवीं जनोऽर्चति । अहं तु सिद्ध्यै किं नैतां प्रीणाम्यात्मोपहारतः ॥ कथासरित्सागर १२,१३.२९ (वेतालपञ्चविंशतिका ६) ॥ इति ध्यात्वैव तद्गर्भगृहादादाय निःजनात् । खड्गं सांयात्रिकैः कैःचिद्देव्याः प्राक्प्राभृतीकृतम् ॥ कथासरित्सागर १२,१३.३० (वेतालपञ्चविंशतिका ६) ॥ बद्ध्वा शिरःरुहैर्घण्टाशृङ्खलायां निजं शिरम् । चिच्छेदैतेन खड्गेन तच्छिन्नं चापतद्भुवि ॥ कथासरित्सागर १२,१३.३१ (वेतालपञ्चविंशतिका ६) ॥ चिरं यावत्स नायाति तावद्गत्वा तमीक्षितुम् । तत्रैव देवीभवने तच्छ्वशुर्यो विवेश सः ॥ कथासरित्सागर १२,१३.३२ (वेतालपञ्चविंशतिका ६) ॥ सोऽपि दृष्ट्वा तमुत्कृत्तमूर्धानं भगिनीपतिम् । व्यामोहितस्तथैव स्वं शिरस्तेनासिनाच्छिनत् ॥ कथासरित्सागर १२,१३.३३ (वेतालपञ्चविंशतिका ६) ॥ सोऽपि यावच्च नायाति तावदुद्भ्रान्तमानसा । तद्देवीभवनं सापि ययौ मदनसुन्दरी ॥ कथासरित्सागर १२,१३.३४ (वेतालपञ्चविंशतिका ६) ॥ प्रविश्य दृष्ट्वैव पतिं भ्रातरं च तथागतौ । हा किमेतद्धतास्मीति विलपन्त्यपतद्भुवि ॥ कथासरित्सागर १२,१३.३५ (वेतालपञ्चविंशतिका ६) ॥ क्षणाच्चोत्थाय शोचन्ती तावकाण्डहतावुभौ । किं ममाप्यधुनानेन जीवितेनेत्यचिन्तयत् ॥ कथासरित्सागर १२,१३.३६ (वेतालपञ्चविंशतिका ६) ॥ व्यजिज्ञपच्च देवीं तां देहत्यागोन्मुखी सती । देवि सौभाग्यचारित्रविधानैकाधिदेवते ॥ कथासरित्सागर १२,१३.३७ (वेतालपञ्चविंशतिका ६) ॥ अध्यासितशरीरार्धे भर्तुर्माररिपोरपि । अशेषललनालोकशरण्ये दुःखहारिणि ॥ कथासरित्सागर १२,१३.३८ (वेतालपञ्चविंशतिका ६) ॥ हृतावेकपदे कस्माद्भर्ता भ्राता च मे त्वया । न युक्तमेतन्मयि ते नित्यभक्ता ह्यहं त्वयि ॥ कथासरित्सागर १२,१३.३९ (वेतालपञ्चविंशतिका ६) ॥ तन्मे श्रितायाः शरणं शृण्वेकं कृपणं वचः । एतां तावत्त्यजाम्यत्र दौर्भाग्योपहतां तनुम् ॥ कथासरित्सागर १२,१३.४० (वेतालपञ्चविंशतिका ६) ॥ जनिष्ये देवि भूयस्तु यत्र कुत्रापि जन्मनि । तत्रैतावेव भूयास्तां द्वौ भर्तृभ्रातरौ मम ॥ कथासरित्सागर १२,१३.४१ (वेतालपञ्चविंशतिका ६) ॥ इति संस्तुत्य विज्ञप्य देवीं नत्वा च तां पुनः । पाशं विरचयामास लतयाशोकपादपे ॥ कथासरित्सागर १२,१३.४२ (वेतालपञ्चविंशतिका ६) ॥ तत्रार्पयति यावच्च पाशे कण्ठं वितत्य सा । तावत्तत्रोच्चचारैवं भारती गगनाङ्गणात् ॥ कथासरित्सागर १२,१३.४३ (वेतालपञ्चविंशतिका ६) ॥ मा कृथाः साहसं पुत्रि बालाया अपि तेऽमुना । सत्त्वोत्कर्षेण तुष्टास्मि पाशमेतं परित्यज ॥ कथासरित्सागर १२,१३.४४ (वेतालपञ्चविंशतिका ६) ॥ संश्लेषय शिरः स्वं स्वं भर्तृभ्रातृकबन्धयोः । उत्तिष्ठतां ते जीवन्तावेतौ द्वावपि मद्वरात् ॥ कथासरित्सागर १२,१३.४५ (वेतालपञ्चविंशतिका ६) ॥ एतच्छ्रुत्वैव संत्यज्य पाशं हर्षादुपेत्य सा । अविभाव्यातिरभसाद्भ्रान्ता मदनसुन्दरी ॥ कथासरित्सागर १२,१३.४६ (वेतालपञ्चविंशतिका ६) ॥ बाला भर्तृशिरो भ्रातृदेहेन समयोजयत् । भर्तृदेहेन च भ्रातृशिरो विधिनियोगतः ॥ कथासरित्सागर १२,१३.४७ (वेतालपञ्चविंशतिका ६) ॥ ततोऽक्षताङ्गौ जीवन्तावुभावुत्तस्थतुश्च तौ । शिरःविनिमयाज्जातसंकरौ काययोर्मिथः ॥ कथासरित्सागर १२,१३.४८ (वेतालपञ्चविंशतिका ६) ॥ अथान्योन्योदितस्वस्वयथावृत्तान्ततोषिणः । प्रणम्य देवीं शर्वनीं यथेष्टं ते ययुस्त्रयः ॥ कथासरित्सागर १२,१३.४९ (वेतालपञ्चविंशतिका ६) ॥ यान्ती च दृष्ट्वा स्वकृतं शिरःविनिमयं तयोः । विग्ना किम्कार्यतामूढा साभून्मदनसुन्दरी ॥ कथासरित्सागर १२,१३.५० (वेतालपञ्चविंशतिका ६) ॥ तद्ब्रूहि राजन् को भर्ता तस्याः संकीर्णयोस्तयोः । पुर्वोक्तः स्यात्स शापस्ते जानानो न ब्रवीषि चेत् ॥ कथासरित्सागर १२,१३.५१ (वेतालपञ्चविंशतिका ६) ॥ इत्याकर्ण्य कथाप्रश्नं राजा वेतालतस्ततः । स त्रिविक्रमसेनोऽत्र तमेवं प्रत्यभाषत ॥ कथासरित्सागर १२,१३.५२ (वेतालपञ्चविंशतिका ६) ॥ यत्संस्थं तत्पतिशिरः सैष तस्याः पतिस्तयोः । प्रधानं च शिरोऽङ्गेषु प्रत्यभिज्ञा च तद्गता ॥ कथासरित्सागर १२,१३.५३ (वेतालपञ्चविंशतिका ६) ॥ इत्युक्तवतो नृपतेस्तस्यांसात्पुनरतर्कितः स ययौ । वेतालः स च राजा जगाम भुयस्तमानेतुम् ॥ कथासरित्सागर १२,१३.५४ (वेतालपञ्चविंशतिका ६) ॥ ततो गत्वा पुनः प्राप्य वेतालं शिंशपातरोः । स त्रिविक्रमसेनस्तं स्कन्धे जग्राह भूपतिः ॥ कथासरित्सागर १२,१४.१ (वेतालपञ्चविंशतिका ७) ॥ गृहीत्वा प्रस्थितं तं च वेतालः सोऽब्रवीत्पथि । राजञ्श्रमविनोदार्थं कथामाख्यामि ते शृणु ॥ कथासरित्सागर १२,१४.२ (वेतालपञ्चविंशतिका ७) ॥ अस्तीह ताम्रलिप्तीति पुरी पूर्वाम्बुधेस्तटे । चण्डसेनाभिधानश्च राजा तस्यामभूत्पुरि ॥ कथासरित्सागर १२,१४.३ (वेतालपञ्चविंशतिका ७) ॥ पराङ्मुखः परस्त्रीषु यो न सङ्ग्रामभूमिषु । हर्ता च शत्रुलक्ष्मीणां न परद्रव्यसंपदाम् ॥ कथासरित्सागर १२,१४.४ (वेतालपञ्चविंशतिका ७) ॥ तस्यैकदा दाक्षिणात्यो राजपुत्रो जनप्रियः । आययौ सत्त्वशीलाख्यः सिंहद्वारेऽत्र भूपतेः ॥ कथासरित्सागर १२,१४.५ (वेतालपञ्चविंशतिका ७) ॥ तत्र चात्मानमावेद्य नैर्धन्यात्तं नृपं प्रति । कपटं पाटयामास राजपुत्रैः सहापरैः ॥ कथासरित्सागर १२,१४.६ (वेतालपञ्चविंशतिका ७) ॥ ततः कार्पटिको भूत्वा बहून्यब्दानि तत्र सः । तस्थौ कुर्वन् सदा सेवान्नैव प्राप फलं नृपात् ॥ कथासरित्सागर १२,१४.७ (वेतालपञ्चविंशतिका ७) ॥ यदि राजान्वये जन्म निःधनत्वं किमीदृशम् । निःधनत्वेऽपि किं धात्रा कृतेयं मे महेच्छता ॥ कथासरित्सागर १२,१४.८ (वेतालपञ्चविंशतिका ७) ॥ अयं हि सेवमानं मामेवं क्लिष्टपरिच्छदम् । चिरं क्षुधावसीदन्तं राजा नाद्यापि वीक्षते ॥ कथासरित्सागर १२,१४.९ (वेतालपञ्चविंशतिका ७) ॥ इति यावच्च स ध्यायत्यत्र कार्पटिकस्ततः । तावदाखेटकार्थं स निरगादेकदा नृपः ॥ कथासरित्सागर १२,१४.१० (वेतालपञ्चविंशतिका ७) ॥ तस्मिन् कार्पटिके धावत्यग्रे लगुडवाहिनि । जगाम चाश्वपादातयुतः सोऽथ मृगाटवीम् ॥ कथासरित्सागर १२,१४.११ (वेतालपञ्चविंशतिका ७) ॥ कृताखेटश्च तत्रारान्महान्तं मत्तसूकरम् । अनुधावन् क्षणात्प्रापदतिदूरं वनान्तरम् ॥ कथासरित्सागर १२,१४.१२ (वेतालपञ्चविंशतिका ७) ॥ तत्र पर्णतृणछन्नमार्गे हारितसूकरः । श्रान्तो महावने सोऽथ राजा दिङ्मोहमाययौ ॥ कथासरित्सागर १२,१४.१३ (वेतालपञ्चविंशतिका ७) ॥ एकः कार्पटिकश्चाथ स तं वाताश्वपृष्ठगम् । प्रानानपेक्षोऽनुययौ पदातिः क्षुत्तृषार्दितः ॥ कथासरित्सागर १२,१४.१४ (वेतालपञ्चविंशतिका ७) ॥ तं च दृष्ट्वा तथाभूतमन्वायातं स भूपतिः । सस्नेहमवदत्कच्चिद्वेत्सि मार्गं यथागतम् ॥ कथासरित्सागर १२,१४.१५ (वेतालपञ्चविंशतिका ७) ॥ तदाकर्ण्याञ्जलिं बद्ध्वा स तं कार्पटिकोऽभ्यधात् । वेद्मि किं च क्षणं तावदिह विश्राम्यतु प्रभुः ॥ कथासरित्सागर १२,१४.१६ (वेतालपञ्चविंशतिका ७) ॥ द्युवधूमेखलामध्यमणिरेष हि संप्रति । देदीप्यते स्फुरद्रश्मिशिखाजालोऽब्जिनीपतिः ॥ कथासरित्सागर १२,१४.१७ (वेतालपञ्चविंशतिका ७) ॥ एतच्छ्रुत्वा स राजा तं सोपरोधमभाषत । तर्हि क्वापीह पानीयं भवता प्रेक्ष्यतामिति ॥ कथासरित्सागर १२,१४.१८ (वेतालपञ्चविंशतिका ७) ॥ तथेत्यारुह्य स ततस्तुङ्गं कार्पटिकस्तरुम् । नदीं दृष्ट्वावरुह्याथ नृपं तत्र निनाय तम् ॥ कथासरित्सागर १२,१४.१९ (वेतालपञ्चविंशतिका ७) ॥ तद्वाहं च विपर्यानीकृतं कृतविवर्तनम् । दत्ताम्बुशष्पकवलं विदधे विगतश्रमम् ॥ कथासरित्सागर १२,१४.२० (वेतालपञ्चविंशतिका ७) ॥ कृतस्नानाय राज्ञे च प्रोन्मुच्य वसनाञ्चलात् । प्रक्षाल्योपानयत्तस्मै हृद्यान्यामलकानि सः ॥ कथासरित्सागर १२,१४.२१ (वेतालपञ्चविंशतिका ७) ॥ एतानि कुत इत्येतं पृच्छन्तं स च भूपतिम् । एवं व्यजिज्ञपज्जानुस्थितः सामलकाञ्जलिः ॥ कथासरित्सागर १२,१४.२२ (वेतालपञ्चविंशतिका ७) ॥ एतद्वृत्तिरहं नित्यं व्यतीतदशवत्सरः । चराम्याराधयन् देवमनेकान्तमुनिव्रतम् ॥ कथासरित्सागर १२,१४.२३ (वेतालपञ्चविंशतिका ७) ॥ तच्छ्रुत्वा सत्यनामा त्वं सत्त्वशीलः किमुच्यते । इत्युक्त्वा स कृपाक्रान्तो ह्रीतश्चाचिन्तयन्नृपः ॥ कथासरित्सागर १२,१४.२४ (वेतालपञ्चविंशतिका ७) ॥ धिङ्नृपान् क्लिष्टमक्लिष्टं ये भृत्येष न जानते । धिक्च तं परिवारं यो न ज्ञापयति तांस्तथा ॥ कथासरित्सागर १२,१४.२५ (वेतालपञ्चविंशतिका ७) ॥ इति संचिन्त्य जग्राह स राजामलकद्वयम् । हस्तात्कार्पटिकस्याथ कथम्चिदनुबध्नतः ॥ कथासरित्सागर १२,१४.२६ (वेतालपञ्चविंशतिका ७) ॥ भुक्त्वा च तन्निपीयाम्बु विशश्रामात्र स क्षणम् । जग्धामलकसंपीतजलकार्पटिकान्वितः ॥ कथासरित्सागर १२,१४.२७ (वेतालपञ्चविंशतिका ७) ॥ ततः सज्जीकृतं तेन वाहं कार्पटिकेन सः । आरुह्याग्रेसरे तस्मिन्नेव मार्गप्रदर्शिनि ॥ कथासरित्सागर १२,१४.२८ (वेतालपञ्चविंशतिका ७) ॥ पश्चाद्भागमनारूढे हयस्याभ्यर्थितेऽप्यलम् । ययौ स राजा स्वपूरिं पथि प्राप्तात्मसैनिकः ॥ कथासरित्सागर १२,१४.२९ (वेतालपञ्चविंशतिका ७) ॥ तत्र प्रख्याप्य तद्भक्तिं वसुभिर्विषयैश्च तम् । अपूरयत्कार्पटिकं न चामन्यत निष्कृतिम् ॥ कथासरित्सागर १२,१४.३० (वेतालपञ्चविंशतिका ७) ॥ ततः कृतार्थः पार्श्वेऽस्य चण्डसिंहस्य भूपतेः । मुक्तकार्पटिकाचारः सत्त्वशीलः स तस्थिवान् ॥ कथासरित्सागर १२,१४.३१ (वेतालपञ्चविंशतिका ७) ॥ एकदा तेन राज्ञा च स सिंहलपतेः सुताम् । याचितुं सिंहलद्वीपमात्मार्थं प्रेषितोऽभवत् ॥ कथासरित्सागर १२,१४.३२ (वेतालपञ्चविंशतिका ७) ॥ तत्राब्धिवर्त्मना गच्छन्नर्चिताभीष्टदेवतः । आरुरोह प्रवहणं राजादिष्टैः सह द्विजैः ॥ कथासरित्सागर १२,१४.३३ (वेतालपञ्चविंशतिका ७) ॥ गते तस्मिन् प्रवहणे मध्यभागमशङ्कितम् । उत्तस्थौ जलधेस्तस्माद्ध्वजो जनितविस्मयः ॥ कथासरित्सागर १२,१४.३४ (वेतालपञ्चविंशतिका ७) ॥ अभ्रम्लिहाग्रः सुमहाञ्जाम्बूनदविनिर्मितः । विचित्रवर्णविचलद्वैजयन्तीविराजितः ॥ कथासरित्सागर १२,१४.३५ (वेतालपञ्चविंशतिका ७) ॥ तत्कालं चात्र सहसा समुन्नम्य घनावली । भृशं वर्षितुमारेभे ववौ तीव्रश्च मारुतः ॥ कथासरित्सागर १२,१४.३६ (वेतालपञ्चविंशतिका ७) ॥ तैर्वर्षवातैः स बलादाकृष्याधोरनैरिव । आसज्यत ध्वजस्तम्भे तस्मिन् प्रवहणद्विपः ॥ कथासरित्सागर १२,१४.३७ (वेतालपञ्चविंशतिका ७) ॥ तावच्च स ध्वजस्तस्मिन् वारिधौ वीचिविप्लुते । वहनेन समं तेन प्रावर्तत निमज्जितुम् ॥ कथासरित्सागर १२,१४.३८ (वेतालपञ्चविंशतिका ७) ॥ ततो द्विजास्ते तत्रस्थाश्चण्डसिंहं स्वभूपतिम् । उद्दिश्योद्घोषयामासुरभ्रह्मण्यं भयाकुलाः ॥ कथासरित्सागर १२,१४.३९ (वेतालपञ्चविंशतिका ७) ॥ तदाकर्ण्यासहिष्णुश्च स्वामिभक्तेरनुध्वजम् । स सत्त्वशीलो निःत्रिंशहस्तो बद्धोत्तरीयकः ॥ कथासरित्सागर १२,१४.४० (वेतालपञ्चविंशतिका ७) ॥ आत्मानमक्षिपत्तत्र निःपेक्षो महोदधौ । उदधेः कारणाशङ्की वीरः प्रतिविधित्सया ॥ कथासरित्सागर १२,१४.४१ (वेतालपञ्चविंशतिका ७) ॥ मग्ने च तस्मिन् वातोर्मिदूरोत्क्षिप्तमभज्यत । वहनं तच्च तत्स्ताश्च निपेतुर्यादसां मुखे ॥ कथासरित्सागर १२,१४.४२ (वेतालपञ्चविंशतिका ७) ॥ स च मग्नोऽम्बुधौ तत्र सत्त्वशीलो निरीक्षते । यावत्तावद्ददर्शात्र पुरीं दिव्यां न वारिधिम् ॥ कथासरित्सागर १२,१४.४३ (वेतालपञ्चविंशतिका ७) ॥ तस्मिन्मणिमयस्थम्भैर्भास्वरे हेममन्दिरे । सद्रत्नबद्धसोपानवापीकोद्यानशोभिनि ॥ कथासरित्सागर १२,१४.४४ (वेतालपञ्चविंशतिका ७) ॥ नानामणिशिलाभित्तिरत्नचित्रोच्छ्रितध्वजम् । कात्यायनीदेवगृहं मेरुप्रोन्नतमैक्षत ॥ कथासरित्सागर १२,१४.४५ (वेतालपञ्चविंशतिका ७) ॥ तत्र प्रणम्य देवीं तां स्तुत्याभ्यर्च्य तदग्रतः । इन्द्रजालं किमेतत्स्यादित्याश्चर्यादुपाविशत् ॥ कथासरित्सागर १२,१४.४६ (वेतालपञ्चविंशतिका ७) ॥ तावच्च देव्यग्रगतप्रभामण्डलकान्तरात् । अकस्मान्निरगात्कन्या दिव्योद्घाट्य कवाटकम् ॥ कथासरित्सागर १२,१४.४७ (वेतालपञ्चविंशतिका ७) ॥ इन्दी वराक्षी फुल्लाब्जवदना कुसुमस्मिता । मृणालनालमृद्वङ्गी जङ्गमेव सरोजिनी ॥ कथासरित्सागर १२,१४.४८ (वेतालपञ्चविंशतिका ७) ॥ स्त्रीसहस्रपरीवारा देवीगर्भगृहं च सा । विवेश सत्त्वशीलस्य हृदयं च ततः समम् ॥ कथासरित्सागर १२,१४.४९ (वेतालपञ्चविंशतिका ७) ॥ निरगात्कृतपूजा च देवीगर्भगृहात्ततः । न पुनः सत्त्वशीलस्य हृदयात्सा कथं चन ॥ कथासरित्सागर १२,१४.५० (वेतालपञ्चविंशतिका ७) ॥ प्राविशत्सा च तत्रैव प्रभामण्डलकान्तरे । सत्त्वशीलोऽप्यसौ तस्याः पश्चात्तत्र प्रविष्टवान् ॥ कथासरित्सागर १२,१४.५१ (वेतालपञ्चविंशतिका ७) ॥ प्रविश्य च ददर्शान्तरन्यदेवोत्तमं पुरम् । संकेतोद्यानमिव यत्सर्वासां भोगसंपदाम् ॥ कथासरित्सागर १२,१४.५२ (वेतालपञ्चविंशतिका ७) ॥ तत्रान्तःमणिपर्यङ्कनिषण्णां तां विलोक्य सः । कन्यामुपेत्य तत्पार्श्वे सत्त्वशील उपाविशत् ॥ कथासरित्सागर १२,१४.५३ (वेतालपञ्चविंशतिका ७) ॥ आसीच्च तन्मुखासक्तलोचनो लिखितो यथा । अङ्गैः सोत्कम्पपुलकैर्वदन्नालिङ्गनोत्कताम् ॥ कथासरित्सागर १२,१४.५४ (वेतालपञ्चविंशतिका ७) ॥ दृष्ट्वा च तं स्मराविष्टं चेटीनामत्र सा मुखम् । अद्राक्षीत्ताश्च तत्कालमिङ्गितज्ञास्तमब्रुवन् ॥ कथासरित्सागर १२,१४.५५ (वेतालपञ्चविंशतिका ७) ॥ अतिथिस्त्वमिह प्राप्तस्तदस्मत्स्वामिनीकृतम् । भजस्वातिथ्यमुत्तिष्ठ स्नाहि भुङ्क्स्व ततः परम् ॥ कथासरित्सागर १२,१४.५६ (वेतालपञ्चविंशतिका ७) ॥ तच्छ्रुत्वा सोऽवलम्ब्याशां खतमप्युत्थितस्ततः । ययौ प्रदर्शितां ताभिरेकामुद्यानवापिकाम् ॥ कथासरित्सागर १२,१४.५७ (वेतालपञ्चविंशतिका ७) ॥ तस्यां निमग्नश्चोत्तस्थौ ताम्रलिप्त्यां स तत्क्षणात् । चण्डसिंहनृपोद्यानवापीमध्यात्ससंभ्रमः ॥ कथासरित्सागर १२,१४.५८ (वेतालपञ्चविंशतिका ७) ॥ तत्र प्राप्तमकस्माच्च विक्ष्यात्मानमचिन्तयत् । अहो किमेतत्क्वोद्यानमिदं दिव्यं क्व तत्पुरम् ॥ कथासरित्सागर १२,१४.५९ (वेतालपञ्चविंशतिका ७) ॥ तत्रामृतासारसमं क्व तत्तस्याश्च दर्शनम् । क्व चानन्तरमेवेदं तद्विश्लेषमहाविषम् ॥ कथासरित्सागर १२,१४.६० (वेतालपञ्चविंशतिका ७) ॥ स्वप्नश्च नायं सुस्पष्टो विनिद्रोऽनुभवो हि मे । ध्रुवं पातालकन्याभिस्ताभिर्मूढोऽस्मि वञ्चितः ॥ कथासरित्सागर १२,१४.६१ (वेतालपञ्चविंशतिका ७) ॥ इति ध्यायन् विना तां स कन्यामुन्मादवानिव । उद्याने तत्र बभ्राम कामार्तो विललाप च ॥ कथासरित्सागर १२,१४.६२ (वेतालपञ्चविंशतिका ७) ॥ तदवस्थं च तं दृष्ट्वा पिशङ्गैः पुष्परेणुभिः । वातोद्धूतैः परीताङ्गं विप्रयोगानलैरिव ॥ कथासरित्सागर १२,१४.६३ (वेतालपञ्चविंशतिका ७) ॥ उद्यानपाला गत्वैव चण्डसिंहमहीभृतम् । व्यजिज्ञपन् स चोद्भ्रान्तः स्वयमेत्य ददर्श तम् ॥ कथासरित्सागर १२,१४.६४ (वेतालपञ्चविंशतिका ७) ॥ सान्त्वयित्वा च पप्रच्छ किमिदं ब्रूहि नः सखे । क्व प्रस्थितस्त्वं क्व प्राप्तः क्वास्तः क्व पतितः शरः ॥ कथासरित्सागर १२,१४.६५ (वेतालपञ्चविंशतिका ७) ॥ तच्छ्रुत्वा स स्ववृत्तान्तं तस्मै सर्व शशंस तम् । सत्त्वशीलो नृपतये सोऽप्यथैवमचिन्तयत् ॥ कथासरित्सागर १२,१४.६६ (वेतालपञ्चविंशतिका ७) ॥ हन्त वीरोऽपि मत्पुण्यैः कामेनैषो विडम्बितः । आनृण्यं गन्तुमेतस्य लब्धो ह्यवसरो मया ॥ कथासरित्सागर १२,१४.६७ (वेतालपञ्चविंशतिका ७) ॥ इत्यन्तश्चिन्तयित्वा स वीरो राजा जगाद तम् । तह्रि मुञ्च मुधा शोकमहं त्वां प्रापयामि ताम् ॥ कथासरित्सागर १२,१४.६८ (वेतालपञ्चविंशतिका ७) ॥ नीत्वा तेनैव मार्गेण प्रियामसुरकन्यकाम् । इति चाश्वासयामास तं स स्नानादिना नृपः ॥ कथासरित्सागर १२,१४.६९ (वेतालपञ्चविंशतिका ७) ॥ अन्येद्युर्मन्त्रिविन्यस्तराज्यस्तेन समं च सः । प्रायात्प्रवहणारूढस्तद्दर्शितपथोऽम्बुधिम् ॥ कथासरित्सागर १२,१४.७० (वेतालपञ्चविंशतिका ७) ॥ प्राप्य तन्मध्यभागं च दृष्ट्वा तं प्राग्वदुत्थितम् । सपताकं ध्वजं सत्त्वशीलस्तं नृपमभ्यधात् ॥ कथासरित्सागर १२,१४.७१ (वेतालपञ्चविंशतिका ७) ॥ सोऽयमभ्युत्थितो दिव्यप्रभावोऽत्र महाध्वजः । मयि मग्नेऽत्र मङ्क्तव्यं देवेनैतमनु ध्वजम् ॥ कथासरित्सागर १२,१४.७२ (वेतालपञ्चविंशतिका ७) ॥ इत्युक्त्वा निकटं प्राप्य ध्वजस्यास्य निमज्जतः । मार्गे स सत्त्वशीलोऽसौ पूर्वमात्मानमक्षिपत् ॥ कथासरित्सागर १२,१४.७३ (वेतालपञ्चविंशतिका ७) ॥ ततो राजापि चिक्षेप तत्रात्मानं तथैव सः । अन्तो मग्नौ च तौ क्षिप्रं तद्दिव्यं प्रापतुः पुरम् ॥ कथासरित्सागर १२,१४.७४ (वेतालपञ्चविंशतिका ७) ॥ तत्र दृष्ट्वा स साश्चर्यो राजा देवीं प्रणम्य ताम् । पार्वतीं सत्त्वशीलेन सहितः समुपाविशत् ॥ कथासरित्सागर १२,१४.७५ (वेतालपञ्चविंशतिका ७) ॥ तावच्च निरगात्तत्र सा सखीजनसंगता । रूपिनीव प्रभा कन्या प्रभामण्डलकात्ततः ॥ कथासरित्सागर १२,१४.७६ (वेतालपञ्चविंशतिका ७) ॥ इयं सा सुमुखीत्युक्ते सत्त्वशीलेन तां नृपः । दृष्ट्वा युक्तमभिष्वङ्गं तस्य तस्याममन्यत ॥ कथासरित्सागर १२,१४.७७ (वेतालपञ्चविंशतिका ७) ॥ सापि तं वीक्ष्य राजानं शुभशारीरलक्षणम् । पुरुषातिशयोऽपूर्वः कोऽयं स्यादित्यचिन्तयत् ॥ कथासरित्सागर १२,१४.७८ (वेतालपञ्चविंशतिका ७) ॥ विवेश चाम्बिकाधाम पूजायै सा नृपोऽपि सः । जगामोद्यानमादाय सत्त्वशीलमवज्ञया ॥ कथासरित्सागर १२,१४.७९ (वेतालपञ्चविंशतिका ७) ॥ क्षणाच्च कृतपूजा सा निरगाद्दैत्यकन्यका । याचित्वा सत्पतिप्राप्तिं देव्या गर्भगृहान्तरात् ॥ कथासरित्सागर १२,१४.८० (वेतालपञ्चविंशतिका ७) ॥ निर्गत्य सा जगादैकां सखीं सखि गवेष्यताम् । योऽसाविह मया दृष्टो महात्मा क्व स तिष्ठति ॥ कथासरित्सागर १२,१४.८१ (वेतालपञ्चविंशतिका ७) ॥ आतिथ्यं गृह्यतामेत्य प्रसादः क्रियतां त्वया । इति चैषोऽर्थ्यतां पूज्यः पुमान् कोऽप्युत्तमो ह्यसौ ॥ कथासरित्सागर १२,१४.८२ (वेतालपञ्चविंशतिका ७) ॥ एवं सखी तयोक्ता सा विचित्योद्यानवर्तिने । स्वस्वामिनीनिदेशं तं प्रह्वा तस्मै न्यवेदयत् ॥ कथासरित्सागर १२,१४.८३ (वेतालपञ्चविंशतिका ७) ॥ तच्छ्रुत्वा स नृपो वीरः सावहेलमुवाच ताम् । एषैवातिथ्यमस्माकमन्यत्किमुपयुज्यते ॥ कथासरित्सागर १२,१४.८४ (वेतालपञ्चविंशतिका ७) ॥ एतच्छ्रुत्वा तया गत्वा सख्या सा श्राविता तदा । मेने मान्यमुदारं तं सर्वथा दैत्यकन्यका ॥ कथासरित्सागर १२,१४.८५ (वेतालपञ्चविंशतिका ७) ॥ ततश्चाकृष्यमानेव धैर्यपाशेन तेन सा । नृपेण मानुषायोग्येऽप्यातिथ्ये निःस्पृहात्मना ॥ कथासरित्सागर १२,१४.८६ (वेतालपञ्चविंशतिका ७) ॥ पत्यर्थं पार्वतीसेवापरिपाकसमर्पितम् । मत्वा तत्स्वयमुद्यानं विवेशासुरपुत्रिका ॥ कथासरित्सागर १२,१४.८७ (वेतालपञ्चविंशतिका ७) ॥ विचित्रशकुनालापैर्वाताञ्चितलताभुजैः । विकीर्णकुसुमैरारान्नन्द्यमानेव पादपैः ॥ कथासरित्सागर १२,१४.८८ (वेतालपञ्चविंशतिका ७) ॥ उपगम्य च सा तत्र यथावत्प्रश्रयानता । आतिथ्यग्रहणार्थं तं प्रार्थयामास पार्थिवम् ॥ कथासरित्सागर १२,१४.८९ (वेतालपञ्चविंशतिका ७) ॥ ततः स सत्त्वशीलं तमुद्दिश्योवाच तां नृपः । अनेन कथितां देवीमिहाहं द्रष्टुमागतः ॥ कथासरित्सागर १२,१४.९० (वेतालपञ्चविंशतिका ७) ॥ गौरीं ध्वजपथप्राप्यपरमाद्भुतकेतनाम् । सा दृष्टा तदनु त्वं च कान्यातिथ्यार्थितात्र नः ॥ कथासरित्सागर १२,१४.९१ (वेतालपञ्चविंशतिका ७) ॥ तच्छ्रुत्वा साब्रवीत्कन्या कौतुकात्तर्हि वीक्षितुम् । आगम्यतां द्वितीयं मे पुरं त्रिजगदद्भुताम् ॥ कथासरित्सागर १२,१४.९२ (वेतालपञ्चविंशतिका ७) ॥ एवमुक्तवतीं तां च स विहस्य नृपोऽब्रवीत् । तदप्यनेनैवोक्तं मे यत्र सा स्नानवापिका ॥ कथासरित्सागर १२,१४.९३ (वेतालपञ्चविंशतिका ७) ॥ ततः सा कन्यकावादीद्देव मा स्मैवमादिश । न विडम्बनशीलाहं का वा पूज्ये विडम्बना ॥ कथासरित्सागर १२,१४.९४ (वेतालपञ्चविंशतिका ७) ॥ अहं हि सत्त्वोत्कर्षेण युष्माकं किम्करीकृता । तन्मम प्रार्थनाभङ्गं नैवैवं कर्तुमर्हथ ॥ कथासरित्सागर १२,१४.९५ (वेतालपञ्चविंशतिका ७) ॥ एतच्छ्रुत्वा तथेत्युक्त्वा सत्त्वशीलसखः स तत् । प्रभामण्डलकोपान्तं ययौ राजा तया सह ॥ कथासरित्सागर १२,१४.९६ (वेतालपञ्चविंशतिका ७) ॥ अपावृतकवाटे च तस्मिन्नन्तस्तथैव सः । प्रवेशितो ददर्शास्यास्तद्दिव्यमपरं पुरम् ॥ कथासरित्सागर १२,१४.९७ (वेतालपञ्चविंशतिका ७) ॥ नित्य संनद्धसर्वऋतु सदापुष्पफलद्रुमम् । मेरुपृष्ठमिवाशेषं निर्मितं रत्नकाञ्चनैः ॥ कथासरित्सागर १२,१४.९८ (वेतालपञ्चविंशतिका ७) ॥ रत्नासने महार्हे तं राजानमुपवेश्य सा । यथोचितोपनीतार्घ्या दैत्यराजसुताब्रवीत् ॥ कथासरित्सागर १२,१४.९९ (वेतालपञ्चविंशतिका ७) ॥ कन्याहमसुरेन्द्रस्य कालनेमेर्महात्मनः । चक्रायुधेन च स मे स्वःगतिं प्रापितः पिता ॥ कथासरित्सागर १२,१४.१०० (वेतालपञ्चविंशतिका ७) ॥ विश्वकर्मकृतं चेदं पैतृकं मे पुरद्वयम् । न जरात्र न मृत्युश्च बाधते सर्वकामदे ॥ कथासरित्सागर १२,१४.१०१ (वेतालपञ्चविंशतिका ७) ॥ इदानीं च पिता त्वं मे सपुराहं वशे तव । इत्यर्पितात्मसर्वस्वां तामुवाच स भूपतिः ॥ कथासरित्सागर १२,१४.१०२ (वेतालपञ्चविंशतिका ७) ॥ यद्येवं तत्सुते ह्यस्मै मया दत्तास्यनिन्दिते । सत्त्वशीलाय वीराय सुहृदे बान्धवाय च ॥ कथासरित्सागर १२,१४.१०३ (वेतालपञ्चविंशतिका ७) ॥ एवं देवीप्रसादेन मूर्तेनेव नृपेण सा । उक्ता गुणज्ञा विनता तत्तथेत्यन्वमन्यत ॥ कथासरित्सागर १२,१४.१०४ (वेतालपञ्चविंशतिका ७) ॥ ततः कृतार्थं तं तस्याः कृतपाणिग्रहं नृपः । दत्तासुरपुरैश्वर्यं सत्त्वशीलमुवाच सः ॥ कथासरित्सागर १२,१४.१०५ (वेतालपञ्चविंशतिका ७) ॥ बुक्तयोरामलकयोस्तयोरेकं मया तव । संशोधितमसंशुद्धादृणी तेऽहं द्वितीयतः ॥ कथासरित्सागर १२,१४.१०६ (वेतालपञ्चविंशतिका ७) ॥ इति प्रणतमुक्त्वा तं दैत्यपुत्रीं जगाद ताम् । मार्गो मे दर्श्यतां येन स्वपुरीं प्राप्नुयामिति ॥ कथासरित्सागर १२,१४.१०७ (वेतालपञ्चविंशतिका ७) ॥ ततोऽपराजितं नाम खड्गं भक्ष्यं फलं च सा । एकं जरामृत्युहरं तस्मै दैत्यसुता ददौ ॥ कथासरित्सागर १२,१४.१०८ (वेतालपञ्चविंशतिका ७) ॥ ताभ्यां युक्तस्तयोक्तायां वाप्यं मग्नः स्वदेशतः । उत्थाय सर्वसंसिद्धकामोऽभूत्स क्रमान्नृपः ॥ कथासरित्सागर १२,१४.१०९ (वेतालपञ्चविंशतिका ७) ॥ सत्त्वशीलोऽपि दैत्यस्त्रीपुरराज्यं शशास सः । तद्ब्रूहि कोऽब्धिपतने द्वयोः सत्त्वाधिकोऽनयोः ॥ कथासरित्सागर १२,१४.११० (वेतालपञ्चविंशतिका ७) ॥ इति श्रुत्वा तथा प्रश्नं वेतालाच्छपभीतितः । स त्रिविक्रमसेनस्तं भूपतिः प्रत्यभाषत ॥ कथासरित्सागर १२,१४.१११ (वेतालपञ्चविंशतिका ७) ॥ एतयोः सत्त्वशीलोऽत्र स मे सत्त्वाधिको मतः । स ह्यविज्ञाततत्त्वार्थो निरास्थः पतितोऽम्बुधौ ॥ कथासरित्सागर १२,१४.११२ (वेतालपञ्चविंशतिका ७) ॥ राजा तु तत्त्वं विज्ञाय विवेशाम्भःधिमास्थया । दैत्यकन्यां च नावञ्छदसाध्या स्पृहयेति सः ॥ कथासरित्सागर १२,१४.११३ (वेतालपञ्चविंशतिका ७) ॥ इति तस्याकर्ण्य वचो निरस्तमौनस्य भूपतेः स्कन्धात् । स जगाम पूर्ववत्तं वेतालः शिंशपातरुं स्वपदम् ॥ कथासरित्सागर १२,१४.११४ (वेतालपञ्चविंशतिका ७) ॥ राजापि तथैव स तं पुनरप्यानेतुमनुजगाम जवात् । प्रारब्धे ह्यसमाप्ते कार्ये शिथिलीभवन्ति किं सुधियः ॥ कथासरित्सागर १२,१४.११५ (वेतालपञ्चविंशतिका ७) ॥ गत्वा तां शिंशपां भूयो वेतालं प्राप्य भूमिपः । तं त्रिविक्रमसेनोऽत्र स्कन्धे कृत्वोच्चचाल सः ॥ कथासरित्सागर १२,१५.१ (वेतालपञ्चविंशतिका ८) ॥ प्रयान्तं स पुनस्तं च वेतालः स्कन्धतोऽब्रवीत् । श्रमविस्मृतये राजन्मत्तः प्रश्नमिमं शृणु ॥ कथासरित्सागर १२,१५.२ (वेतालपञ्चविंशतिका ८) ॥ अङ्गदेशेऽग्रहारोऽस्ति महान् वृक्षघटाभिधः । विष्णुस्वामीति तत्रासीद्द्विजो यज्वा महाधनः ॥ कथासरित्सागर १२,१५.३ (वेतालपञ्चविंशतिका ८) ॥ तस्य च स्वानुरूपायां पत्न्यां जाताः क्रमात्त्रयः । बभूवुस्तरुणाः पुत्रा दिव्यवैदग्ध्यशालिनः ॥ कथासरित्सागर १२,१५.४ (वेतालपञ्चविंशतिका ८) ॥ ते पित्रा प्रेषितास्तेन कूर्महेतोः कदाचन । प्रारब्धयज्ञेन ययुस्ते त्रयो भ्रातरोऽम्बुधिम् ॥ कथासरित्सागर १२,१५.५ (वेतालपञ्चविंशतिका ८) ॥ प्राप्य कूर्मं ततो ज्यायान् कनिष्ठौ तावभाषत । गृह्णातु युवयोरेकः कूर्मं क्रतुकृते पितुः ॥ कथासरित्सागर १२,१५.६ (वेतालपञ्चविंशतिका ८) ॥ अहमेतं न शक्नोमि ग्रहीतुं विस्रपिच्छलम् । इत्युक्तवन्तं तं ज्येष्ठं कनिष्ठौ ताववोचताम् ॥ कथासरित्सागर १२,१५.७ (वेतालपञ्चविंशतिका ८) ॥ तवात्र विचिकित्सा चेन्नावयोरपि सा कथम् । तच्छ्रुत्वा सोऽब्रवीज्ज्येष्ठो गृह्णीतं गच्छतं युवाम् ॥ कथासरित्सागर १२,१५.८ (वेतालपञ्चविंशतिका ८) ॥ पितुर्यज्ञक्रियालोपो भवेद्युष्मत्कृतोऽन्यथा । ततो नरकपातः स्याद्युवयोस्तस्य च ध्रुवम् ॥ कथासरित्सागर १२,१५.९ (वेतालपञ्चविंशतिका ८) ॥ इत्युक्तावनुजौ तेन तौ विहस्य तमूचतुः । धर्मं वेत्स्यावयोरेव समानमपि नात्मनः ॥ कथासरित्सागर १२,१५.१० (वेतालपञ्चविंशतिका ८) ॥ ततो ज्येष्ठोऽब्रवीत्किं मे जानीथो नैव चङ्गताम् । अहं भोजनचङ्गोऽस्मि नार्हः स्प्रष्टुं जुगुप्सितम् ॥ कथासरित्सागर १२,१५.११ (वेतालपञ्चविंशतिका ८) ॥ एतत्तस्य वचः श्रुत्वा भ्रातरं मध्यमोऽब्रवीत् । अहं तर्ह्यधिकश्चङ्गो नारीचङ्गो विचक्षणः ॥ कथासरित्सागर १२,१५.१२ (वेतालपञ्चविंशतिका ८) ॥ मध्यमेनैवमुक्ते तु ज्यायान् पुन उवाच सः । कूर्मं गृह्णातु तर्ह्येष कनीयानावयोरिति ॥ कथासरित्सागर १२,१५.१३ (वेतालपञ्चविंशतिका ८) ॥ ततः स भ्रुकुटिं कृत्वा कनीयानप्युवाच तौ । हे मूर्खौ तूलिकाचङ्गश्चङ्गोऽहं हि विशेषतः ॥ कथासरित्सागर १२,१५.१४ (वेतालपञ्चविंशतिका ८) ॥ एवं ते कलहासक्तास्त्रयोऽपि भ्रातरो मिथः । निर्णयायाभिमानैकग्रस्ताः कूर्मं विहाय तम् ॥ कथासरित्सागर १२,१५.१५ (वेतालपञ्चविंशतिका ८) ॥ राज्ञः प्रसेनजिन्नाम्नस्तत्प्रदेशभुवोऽन्तिकम् । नगरं सहसा जग्मुर्विटङ्कपुरनामकम् ॥ कथासरित्सागर १२,१५.१६ (वेतालपञ्चविंशतिका ८) ॥ तत्र प्रतीहारमुखेनावेद्यान्तः प्रविश्य च । नृपं विज्ञापयामासुः स्ववृत्तान्तं तथैव ते ॥ कथासरित्सागर १२,१५.१७ (वेतालपञ्चविंशतिका ८) ॥ तिष्ठतेहैव यावद्वः परीक्षिष्ये क्रमादहम् । इत्युक्तस्तेन राज्ञा च तस्थुस्तत्र तथेति ते ॥ कथासरित्सागर १२,१५.१८ (वेतालपञ्चविंशतिका ८) ॥ स्वाहारकाले चानाय्य तेभ्यः सोऽग्रासनं नृपः । राजार्हं दापयामास षड्रसं स्वादुभोजनम् ॥ कथासरित्सागर १२,१५.१९ (वेतालपञ्चविंशतिका ८) ॥ भुञ्जानेषु च सर्वेषु तदैको बुभुजे न सः । विप्रो भोजनचङ्गोऽत्र जुगुप्साकूणिताननः ॥ कथासरित्सागर १२,१५.२० (वेतालपञ्चविंशतिका ८) ॥ कथं न भोजनं भुङ्क्ते ब्रह्मन् स्वादु सुगन्ध्यपि । इति रज्ञा स्वयं पृष्टः शनैर्विप्रो जगाद सः ॥ कथासरित्सागर १२,१५.२१ (वेतालपञ्चविंशतिका ८) ॥ शवधूमदुःामोदः शालिभक्तेऽत्र विद्यते । तेन नाहमिदं भोक्तुमुत्सहे स्वाद्वपि प्रभो ॥ कथासरित्सागर १२,१५.२२ (वेतालपञ्चविंशतिका ८) ॥ इत्युक्ते तेन सर्वेऽपि तत्राघ्राय नृपाज्ञया । ऊचुः कलमशाल्यन्नमदोषं तत्सुगन्धि च ॥ कथासरित्सागर १२,१५.२३ (वेतालपञ्चविंशतिका ८) ॥ स तु भोजनचङ्गस्तन्नाश्नात्पिहितनासिकः । ततः स राजा संचिन्त्य यावदन्विष्यति क्रमात् ॥ कथासरित्सागर १२,१५.२४ (वेतालपञ्चविंशतिका ८) ॥ तावन्नियोगिजनतस्तदन्नं बुबुधे तथा । ग्रामश्मशाननिकटक्षेत्रसंभवशालिजम् ॥ कथासरित्सागर १२,१५.२५ (वेतालपञ्चविंशतिका ८) ॥ ततोऽतिविस्मितस्तुष्टः स राजा तमभाषत । सत्यं भोजनचङ्गस्त्वं तदन्यद्भुज्यतामिति ॥ कथासरित्सागर १२,१५.२६ (वेतालपञ्चविंशतिका ८) ॥ कृताहारश्च स नृपो विप्रान् वासगृहेषु तान् । विसृज्यानाययामास स्वमेकां गणिकोत्तमाम् ॥ कथासरित्सागर १२,१५.२७ (वेतालपञ्चविंशतिका ८) ॥ तां च तस्मै द्वितीयस्मै प्राहिणोत्कृतमण्डनाम् । विप्राय नारिचङ्गाय सायं सर्वाङ्गसुन्दरीम् ॥ कथासरित्सागर १२,१५.२८ (वेतालपञ्चविंशतिका ८) ॥ सा च वासगृहं तस्य राजभृत्यान्विता ययौ । राकानिशेव पुर्णेन्दुमुखी कम्दर्पदीपिनी ॥ कथासरित्सागर १२,१५.२९ (वेतालपञ्चविंशतिका ८) ॥ प्रविष्टायां च तस्यां स प्रभाभासितवेश्मनि । उत्पन्नमूर्च्छः संरुद्धनासाग्रो वामपाणिना ॥ कथासरित्सागर १२,१५.३० (वेतालपञ्चविंशतिका ८) ॥ नारीचङ्गोऽब्रवीद्राजभृत्यान्निष्कास्यतामिति । न चेन्मृतोऽहं निर्याति गन्धोऽस्याश्छागलो यतः ॥ कथासरित्सागर १२,१५.३१ (वेतालपञ्चविंशतिका ८) ॥ इत्युक्तास्तेन निन्युस्ते विग्नां तां राजपूरुषाः । राज्ञोऽन्तिकं वारवधूं वृत्तान्तं जगदुश्च तम् ॥ कथासरित्सागर १२,१५.३२ (वेतालपञ्चविंशतिका ८) ॥ राजाप्यानाय्य तत्कालं नारीचङ्गमुवाच तम् । येयं श्रीखण्डकर्पूरकालागुरुमदोत्तमैः ॥ कथासरित्सागर १२,१५.३३ (वेतालपञ्चविंशतिका ८) ॥ कृतप्रसाधना दिक्षु प्रसरच्चारुसौरभा । तस्या वारविलासिन्या गन्धः स्याच्छागलः कुतः ॥ कथासरित्सागर १२,१५.३४ (वेतालपञ्चविंशतिका ८) ॥ इत्युक्तोऽपि स राज्ञा तन्नारीचङ्गस्तदा न यत् । प्रतिपेदे तदा राजा विचारपतितोऽभवत् ॥ कथासरित्सागर १२,१५.३५ (वेतालपञ्चविंशतिका ८) ॥ पृच्छंश्च युक्त्या बुबुधे तामजक्षीरवर्धिताम् । तन्मुखादेव बालत्वे मातृधात्रीवियोगतः ॥ कथासरित्सागर १२,१५.३६ (वेतालपञ्चविंशतिका ८) ॥ ततोऽतिविस्मितस्तस्य नारीचङ्गस्य चङ्गताम् । प्रशंसन्नृपतिस्तस्मै तृतीयाय द्विजन्मने ॥ कथासरित्सागर १२,१५.३७ (वेतालपञ्चविंशतिका ८) ॥ तद्रसात्तूलिकाचङ्गायाशु शय्यामदापयत् । पर्यङ्कोपरि विन्यस्तसप्तसंख्याकतूलिकाम् ॥ कथासरित्सागर १२,१५.३८ (वेतालपञ्चविंशतिका ८) ॥ तस्यां च तूलिकाचङ्गो महार्हे वासवेस्मनि । सुष्वाप धौतसुश्लक्ष्णपटप्रच्छदवाससि ॥ कथासरित्सागर १२,१५.३९ (वेतालपञ्चविंशतिका ८) ॥ यामार्ध एव च गते स रात्रौ शयनात्ततः । उत्तस्थौ पाण्यवष्टब्धपार्श्वः क्रन्दन् व्यथार्दितः ॥ कथासरित्सागर १२,१५.४० (वेतालपञ्चविंशतिका ८) ॥ ददृशे तस्य पार्श्वे च तत्र त्यई राजपूरुषैः । गाढलग्नस्य बालस्य मुद्रेव कुटिलारुणा ॥ कथासरित्सागर १२,१५.४१ (वेतालपञ्चविंशतिका ८) ॥ गत्वा च तैस्तदाख्यातं राज्ञे राजाप्युवाच तान् । तूलिकानां तले किम्चिन्मा स्यात्तद्वीक्ष्यतामिति ॥ कथासरित्सागर १२,१५.४२ (वेतालपञ्चविंशतिका ८) ॥ गत्वेक्षन्ते च ते यावदेकैकं तूलिकातलम् । तावत्सर्वतलादापुर्वालं पर्यङ्कपृष्टतः ॥ कथासरित्सागर १२,१५.४३ (वेतालपञ्चविंशतिका ८) ॥ नीत्वा चादर्शयन् राज्ञे सोऽप्यानीतस्य वीक्ष्य तत् । तद्रूपं तूलिकाचङ्गस्याङ्गं राजा विसिस्मिये ॥ कथासरित्सागर १२,१५.४४ (वेतालपञ्चविंशतिका ८) ॥ सप्तभ्यस्तूलिकाभ्योऽस्य वालो लग्नस्तनौ खतम् । इति चित्रीयमाणस्तां राजा रात्रिं निनाय सः ॥ कथासरित्सागर १२,१५.४५ (वेतालपञ्चविंशतिका ८) ॥ प्रातश्चाद्भुतवैदग्ध्यसौकुमार्या अमी इति । तेभ्यस्त्रिभ्योऽपि चङ्गेभ्यो हेमलक्षत्रयं ददौ ॥ कथासरित्सागर १२,१५.४६ (वेतालपञ्चविंशतिका ८) ॥ ततस्ते सुखितास्तत्र तस्थुर्विस्मृतकच्छपाः । पितुर्विघ्नितयज्ञार्थफलोपार्जितपातकाः ॥ कथासरित्सागर १२,१५.४७ (वेतालपञ्चविंशतिका ८) ॥ इत्याख्याय कथाद्भुतमंसनिषण्णः पुनः स वेतालः । पप्रच्छ तं त्रिविक्रमसेनं पृथ्वीपतिं प्रश्नम् ॥ कथासरित्सागर १२,१५.४८ (वेतालपञ्चविंशतिका ८) ॥ राजन् विचिन्त्य शापं पूर्वोक्तं ब्रूहि मे त्वमेतेषाम् । भोजननारीशय्याचङ्गानां कोऽधिकश्चङ्गः ॥ कथासरित्सागर १२,१५.४९ (वेतालपञ्चविंशतिका ८) ॥ तच्छ्रुत्वैव स धीमान् वेतालं प्रत्युवाच तं नृपतिः । अहमेषां निःकैतवमधिकं जानामि तूलिकाचङ्गम् ॥ कथासरित्सागर १२,१५.५० (वेतालपञ्चविंशतिका ८) ॥ यस्याङ्गे प्रत्यक्षं वालप्रतिबिम्बमुद्गतं दृष्टम् । इतराभ्यां हि भवेत्तत्पूर्वं जात्वन्यतोऽवगतम् ॥ कथासरित्सागर १२,१५.५१ (वेतालपञ्चविंशतिका ८) ॥ इति तस्योक्तवतोऽंसाद्वेतालो भूपतेर्ययौ प्राग्वत् । सोऽपि तथैव च राजा तमन्वयासीदनिर्विण्णः ॥ कथासरित्सागर १२,१५.५२ (वेतालपञ्चविंशतिका ८) ॥ ततो गत्वा पुनस्तस्माच्छिंशपापादपान्नृपः । स त्रिविक्रमसेनस्तं स्कन्धे वेतालमग्रहीत् ॥ कथासरित्सागर १२,१६.१ (वेतालपञ्चविंशतिका ९) ॥ प्रस्थितश्च ततस्तेन वेतालेनाभ्यधायि सः । राजन् क्व राज्यं क्वैतस्मिञ्श्मशाने भ्रमणं निशि ॥ कथासरित्सागर १२,१६.२ (वेतालपञ्चविंशतिका ९) ॥ किमेतन्नेक्षसे भूतसंकुलं रात्रिभीषणम् । चिताधूमैरिव ध्वान्तैर्निरुद्धं पितृकाननम् ॥ कथासरित्सागर १२,१६.३ (वेतालपञ्चविंशतिका ९) ॥ कष्टं कीदृग्ग्रहोऽयं ते भिक्षोस्तस्यानुरोधतः । तदिदं शृणु तावन्मे प्रश्नं मार्गविनोदनम् ॥ कथासरित्सागर १२,१६.४ (वेतालपञ्चविंशतिका ९) ॥ अवन्तिष्वस्ति नगरी युगादौ देवनिर्मिता । शैवी तनुरिवोद्दामभोगिभूतिविभूषिता ॥ कथासरित्सागर १२,१६.५ (वेतालपञ्चविंशतिका ९) ॥ पद्मावती भोगवती या हिरण्यवतीति च । कृतादिषु त्रिषु ख्याता कलावुज्जयिनीति च ॥ कथासरित्सागर १२,१६.६ (वेतालपञ्चविंशतिका ९) ॥ तस्यां च वीरदेवाख्यो राजाभूद्भूभृतां वरः । तस्य पद्मरतिर्नाम महादेवी बभूव च ॥ कथासरित्सागर १२,१६.७ (वेतालपञ्चविंशतिका ९) ॥ सोऽथ राजा तया साकं गत्वा मन्दाकिनीतटे । हरमाराधयामास तपसा पुत्रकाम्यया ॥ कथासरित्सागर १२,१६.८ (वेतालपञ्चविंशतिका ९) ॥ चिरं तपःस्थितश्चात्र परितुष्टेश्वरोदिताम् । कृतस्नानार्चनविधिः शुश्रावेमां गिरं दिवः ॥ कथासरित्सागर १२,१६.९ (वेतालपञ्चविंशतिका ९) ॥ राजन्नुत्पत्स्यते पुत्रः शूरस्तव कुलोद्भवः । कन्या चानन्यसामान्यलावण्यन्यक्कृताप्सराः ॥ कथासरित्सागर १२,१६.१० (वेतालपञ्चविंशतिका ९) ॥ श्रुत्वैतां नाभसीं वाणीं सिद्धाभीष्टः स भूपतिः । वीरदेवः स्वनगरीमाययौ महिषीसखः ॥ कथासरित्सागर १२,१६.११ (वेतालपञ्चविंशतिका ९) ॥ तत्रास्य शूरदेवाख्ये जाते प्रथममात्मजे । तस्यां पद्मरतौ देव्यां क्रमादजनि कन्यका ॥ कथासरित्सागर १२,१६.१२ (वेतालपञ्चविंशतिका ९) ॥ अनङ्गस्यापि रूपेण रतिमुत्पादयेदियम् । इत्यनङ्गरतिर्नाम्ना पित्रा तेन व्यधायि सा ॥ कथासरित्सागर १२,१६.१३ (वेतालपञ्चविंशतिका ९) ॥ वृद्धिं गतायास्तस्याश्च स पिता सदृशं वरम् । प्रेप्सुरानाययत्पृथ्व्यां पटेषु लिखिथान्नृपान् ॥ कथासरित्सागर १२,१६.१४ (वेतालपञ्चविंशतिका ९) ॥ तेष्वेकोऽपि न यत्तस्य तत्तुल्यः प्रत्यभासत । तेन राजा स वात्सल्यात्तां सुतां प्रत्यभाषत ॥ कथासरित्सागर १२,१६.१५ (वेतालपञ्चविंशतिका ९) ॥ अहं तावन्न पश्यामि सदृशं पुत्रि ते वरम् । तत्कुरुष्व नृपान् सर्वान्मेलयित्वा स्वयम्वरम् ॥ कथासरित्सागर १२,१६.१६ (वेतालपञ्चविंशतिका ९) ॥ एतत्पितृवचः श्रुत्वा राजपुत्री जगाद सा । तात स्वयम्वरं कर्तुं ह्रेपणान्नाहमुत्सहे ॥ कथासरित्सागर १२,१६.१७ (वेतालपञ्चविंशतिका ९) ॥ किं त्वेकं वेत्ति योऽपूर्वं विज्ञानं स्वाकृतिर्युवा । तस्मै त्वयाहं दातव्या नार्थोऽन्येनाधिकेन मे ॥ कथासरित्सागर १२,१६.१८ (वेतालपञ्चविंशतिका ९) ॥ इत्यनङ्गरतेस्तस्याः श्रुत्वा स्वदुहितुर्वचः । तादृशं तद्वरं यावदन्विष्यति स भूपतिः ॥ कथासरित्सागर १२,१६.१९ (वेतालपञ्चविंशतिका ९) ॥ तावत्तल्लोकतो बुद्ध्वा चत्वारस्तमुपाययुः । वीरा विज्ञानिनो भव्याः पुरुषा दक्षिणापथात् ॥ कथासरित्सागर १२,१६.२० (वेतालपञ्चविंशतिका ९) ॥ ते राज्ञा पूजितास्तस्मै स्वं स्वं विज्ञानमेकशः । शशंसुः संनिधौ तस्या राजपुत्र्यास्तदर्थिनः ॥ कथासरित्सागर १२,१६.२१ (वेतालपञ्चविंशतिका ९) ॥ एको जगाद शूद्रोऽहमाख्यया पञ्चपट्टिकः । पञ्चाग्र्यवस्त्रयुग्मानि करोम्येकोऽहमन्वहम् ॥ कथासरित्सागर १२,१६.२२ (वेतालपञ्चविंशतिका ९) ॥ तेभ्य एकं प्रयच्छामि देवायैकं द्विजन्मने । एकं च परिगृह्णामि वाससोरात्मनः कृते ॥ कथासरित्सागर १२,१६.२३ (वेतालपञ्चविंशतिका ९) ॥ एकं ददामि भार्यायै यदि सा भवतीह मे । एकं विक्रीय चाहारपानादि विदधाम्यहम् ॥ कथासरित्सागर १२,१६.२४ (वेतालपञ्चविंशतिका ९) ॥ एवं विज्ञानिनेऽनङ्गरतिर्मे दीयतामिति । इत्येकेनोदिते तेन द्वितीयः पुरुषोऽब्रवीत् ॥ कथासरित्सागर १२,१६.२५ (वेतालपञ्चविंशतिका ९) ॥ भाषाज्ञो नाम वैश्योऽहं सर्वेषां मृगपक्षिणाम् । रुतं वेद्मि तदेषा मे राजपुत्री प्रदीयताम् ॥ कथासरित्सागर १२,१६.२६ (वेतालपञ्चविंशतिका ९) ॥ एवमुक्ते द्वितीयेन तृतीयः प्रोक्तवांस्ततः । अहं खड्गधरो नाम दोःशाली क्षत्रियो नृप ॥ कथासरित्सागर १२,१६.२७ (वेतालपञ्चविंशतिका ९) ॥ न खड्गविद्याविज्ञाने प्रतिमल्लोऽस्ति मे क्षितौ । तदेषा तनया राजंस्त्वया मह्यं वितीर्यताम् ॥ कथासरित्सागर १२,१६.२८ (वेतालपञ्चविंशतिका ९) ॥ इत्युक्ते तु तृतीयेन चतुर्थ इदमभ्यधात् । विप्रोऽहं जीवदत्ताख्यो विज्ञानं च ममेदृशम् ॥ कथासरित्सागर १२,१६.२९ (वेतालपञ्चविंशतिका ९) ॥ जन्तूं मृतानप्यानीय दर्शयाम्याशु जीवतः । तद्वीरचर्यासिद्धं मां पतिमेषा प्रपद्यताम् ॥ कथासरित्सागर १२,१६.३० (वेतालपञ्चविंशतिका ९) ॥ एवं वक्तॄन् स तान् पश्यन् दिव्यवेषाकृतीन्नृपः । वीरदेवः सुतायुक्तो दोलारूढ इवाभवत् ॥ कथासरित्सागर १२,१६.३१ (वेतालपञ्चविंशतिका ९) ॥ इत्याख्याय कथामेतां वेतालः पृष्टवान्नृपम् । स त्रिविक्रमसेनं तं दत्तपूर्वोक्तशापभीः ॥ कथासरित्सागर १२,१६.३२ (वेतालपञ्चविंशतिका ९) ॥ तद्भवान् वक्तु तावन्मे कस्मै देया विशाम्पते । तेषां चतुर्णां मध्यात्सा कन्यानङ्गरतिर्भवेत् ॥ कथासरित्सागर १२,१६.३३ (वेतालपञ्चविंशतिका ९) ॥ एतच्छ्रुत्वा स राजा तं वेतालं प्रत्यभाषत । मौनं त्याजयति प्रायः कालक्षेपाय मां भवान् ॥ कथासरित्सागर १२,१६.३४ (वेतालपञ्चविंशतिका ९) ॥ अन्यथा गहनः कोऽयं प्रश्नो योगेश्वरोच्यताम् । शूद्राय हि कुविन्दाय क्षत्रिया दीयते कथम् ॥ कथासरित्सागर १२,१६.३५ (वेतालपञ्चविंशतिका ९) ॥ वैश्यायापि कथं देया क्षत्रिया यच्च तद्गतम् । मृगादिभाषाविज्ञानं कार्ये तत्क्वोपयुज्यते ॥ कथासरित्सागर १२,१६.३६ (वेतालपञ्चविंशतिका ९) ॥ योऽपि विप्रस्तृतीयोऽत्र तेनापि पतितेन किम् । स्वकर्मप्रच्युतेनेन्द्रजालिना वीरमानिना ॥ कथासरित्सागर १२,१६.३७ (वेतालपञ्चविंशतिका ९) ॥ तस्मात्तस्मै क्षत्रियाय चतुर्थाय समाय सा । देया खड्गधरायैव स्वविद्यावीर्यशालिने ॥ कथासरित्सागर १२,१६.३८ (वेतालपञ्चविंशतिका ९) ॥ एतत्तस्य वचो निशम्य नृपतेरंसस्थलात्पूर्ववत् वेतालः स जगाम योगबलतः स्वस्थानमेवाशु तत् । भूपालोऽपि स तं तथैव पुनरप्यानेतुमन्वग्ययौ उत्साहैकघने हि वीरहृदये नाप्नोति खेदोऽन्तरम् ॥ कथासरित्सागर १२,१६.३९ (वेतालपञ्चविंशतिका ९) ॥ स त्रिविक्रमसेनोऽथ गत्वा तं शिंशपातरोः । राजा जग्राह वेतालं पुनरंसे चचाल च ॥ कथासरित्सागर १२,१७.१ (वेतालपञ्चविंशतिका १०) ॥ प्रयान्तं च तमाह स्म वेतालः सोऽंसपृष्ठगः । श्रान्तोऽसि राजंस्तदिमां शृणु श्रमहरां कथाम् ॥ कथासरित्सागर १२,१७.२ (वेतालपञ्चविंशतिका १०) ॥ अभूत्सकलभूपालमस्तकन्यस्तशासनः । वीरबाहुरिति ख्यातो नाम्ना पार्थिवसत्तमः ॥ कथासरित्सागर १२,१७.३ (वेतालपञ्चविंशतिका १०) ॥ तस्यानङ्गपुरं नाम बभूव नगरोत्तमम् । तत्रासीदर्थदत्ताख्यः सार्थवाहो महाधनः ॥ कथासरित्सागर १२,१७.४ (वेतालपञ्चविंशतिका १०) ॥ तस्यासीद्धनदत्ताख्यज्येष्ठपुत्रकनीयसी । सुता मदनसेनेति कन्यारत्नं वणिक्पतेः ॥ कथासरित्सागर १२,१७.५ (वेतालपञ्चविंशतिका १०) ॥ तामेकदा निजोद्याने क्रीडन्तीं ससखीजनाम् । ददर्श धर्मदत्ताख्यो भ्रातृमित्रं वणिक्सुतः ॥ कथासरित्सागर १२,१७.६ (वेतालपञ्चविंशतिका १०) ॥ स तामालोक्य लावण्यरसनिःभरनिःझराम् । आलक्ष्य कुचकुम्भाग्रां वलित्रयतरङ्गिताम् ॥ कथासरित्सागर १२,१७.७ (वेतालपञ्चविंशतिका १०) ॥ यौवनद्विरदस्येव क्रीडामज्जनवापिकाम् । सद्योऽभूत्स्मरबाणौघसंतापहृतचेतनः ॥ कथासरित्सागर १२,१७.८ (वेतालपञ्चविंशतिका १०) ॥ अहो धाराधिरूढेन रूपेण द्योतितामुना । इयं मे मानसं भेत्तुं भल्ली मारेण निर्मिता ॥ कथासरित्सागर १२,१७.९ (वेतालपञ्चविंशतिका १०) ॥ इत्यादि यावद्ध्यायन् स निर्वर्णयति तां चिरम् । तावत्तस्यातिचक्राम चक्राह्वस्येव वासरः ॥ कथासरित्सागर १२,१७.१० (वेतालपञ्चविंशतिका १०) ॥ ततो मदनसेना सा विवेश स्वगृहान्तरम् । चित्तं च धर्मदत्तस्य तदनालोकनव्यथा ॥ कथासरित्सागर १२,१७.११ (वेतालपञ्चविंशतिका १०) ॥ तददर्शनदुःखाग्निसंतापेनेव च ज्वलन् । लोहितो निपपाताशु भास्वानप्यपराम्बुधौ ॥ कथासरित्सागर १२,१७.१२ (वेतालपञ्चविंशतिका १०) ॥ तां विज्ञायैव सुमुखीं नक्तमभ्यन्तरे गताम् । उदियाय शनैश्चन्द्रस्तन्मुखाब्जविनिर्जितः ॥ कथासरित्सागर १२,१७.१३ (वेतालपञ्चविंशतिका १०) ॥ तावद्गत्वा गृहं तां स धर्मदत्तोऽनुचिन्तयन् । तस्थौ निपत्य शयने चन्द्रपादाहतो लुठन् ॥ कथासरित्सागर १२,१७.१४ (वेतालपञ्चविंशतिका १०) ॥ यत्नेन पृच्छ्यमानोऽपि सखिभिर्बन्धुभिस्तथा । न किम्चित्कथयामास स्मरग्रहविमोहितः ॥ कथासरित्सागर १२,१७.१५ (वेतालपञ्चविंशतिका १०) ॥ निशि कृच्छ्राच्च संप्राप्तनिद्रः स्वप्ने तथैव ताम् । पश्यन्ननुनयन् कान्तां किं किं चक्रे न सोत्सुकः ॥ कथासरित्सागर १२,१७.१६ (वेतालपञ्चविंशतिका १०) ॥ प्रातः प्रबुद्धो गत्वा च ददर्शैकाकिनीं रहः । सखीं प्रतीक्षमानां तां तत्रोद्यानस्थितां पुनः ॥ कथासरित्सागर १२,१७.१७ (वेतालपञ्चविंशतिका १०) ॥ उपेत्य च परिष्वङ्गलालसः प्रेमपेशलैः । तामुपच्छन्दयामास वचोभिश्चरणानतः ॥ कथासरित्सागर १२,१७.१८ (वेतालपञ्चविंशतिका १०) ॥ कन्याहं परदाराश्च न तवास्मीह संप्रतम् । पित्रा समुद्रदत्ताय दत्ताहं वणिजे यतः ॥ कथासरित्सागर १२,१७.१९ (वेतालपञ्चविंशतिका १०) ॥ दिनैः कतिपयैरेव विवाहो भविता च मे । तद्गच्छ तूष्णीं मा कश्चित्पश्येद्दोषो भवेत्ततः ॥ कथासरित्सागर १२,१७.२० (वेतालपञ्चविंशतिका १०) ॥ इत्युक्तः स तयात्यर्थं धर्मदत्तो जगाद ताम् । यदस्तु मे न जीवेयं विना हि भवतीमहम् ॥ कथासरित्सागर १२,१७.२१ (वेतालपञ्चविंशतिका १०) ॥ तच्छ्रुत्वा सा वाणिक्कन्या बलात्कारभयाकुला । तमुवाच विवाहो मे तावत्संपद्यतामिह ॥ कथासरित्सागर १२,१७.२२ (वेतालपञ्चविंशतिका १०) ॥ कन्यादानफलं तातः प्राप्नोतु चिरकाङ्क्षितम् । ततोऽहं त्वामुपैष्यामि निःचितं प्रणयार्जिता ॥ कथासरित्सागर १२,१७.२३ (वेतालपञ्चविंशतिका १०) ॥ श्रुत्वैतत्सोऽब्रवीन्नेष्टा ह्यन्यपूर्वा मम प्रिया । परभुक्ते हि कमले किमलेर्जायते रतिः ॥ कथासरित्सागर १२,१७.२४ (वेतालपञ्चविंशतिका १०) ॥ इत्युक्ता तेन सावादीत्कृतोद्वाहैव तर्ह्यहम् । पूर्वं त्वामुपयास्यामि ततोऽभ्येष्यामि तं पतिम् ॥ कथासरित्सागर १२,१७.२५ (वेतालपञ्चविंशतिका १०) ॥ एवमुक्तवतीं तस्मिन्नोज्झति प्रत्ययं विना । वणिक्पुत्रे सशपथं सत्यवाचं बबन्ध सा ॥ कथासरित्सागर १२,१७.२६ (वेतालपञ्चविंशतिका १०) ॥ ततस्तेनोज्झता विग्ना सा विवेश स्वमन्दिरम् । प्राप्ते च लग्नदिवसे निःवृत्तोद्वाहमङ्गला ॥ कथासरित्सागर १२,१७.२७ (वेतालपञ्चविंशतिका १०) ॥ गत्वा पतिगृहं नीत्वा सोत्सवेन च तद्दिनम् । सा पत्या सममध्यास्त शयनीयगृहं निशि ॥ कथासरित्सागर १२,१७.२८ (वेतालपञ्चविंशतिका १०) ॥ तत्र शय्यानिषण्णापि न तस्य प्रत्यपद्यत । पत्युः समुद्रदत्तस्य परिष्वङ्गमसंमुखी ॥ कथासरित्सागर १२,१७.२९ (वेतालपञ्चविंशतिका १०) ॥ तेनानुनीयमानापि यदुदश्रुर्बभूव सा । तत्स नाभिमतोऽस्म्यस्या नूनमित्यकरोद्धृदि ॥ कथासरित्सागर १२,१७.३० (वेतालपञ्चविंशतिका १०) ॥ जगाद चानभिमतो यद्यहं तव सुन्दरि । तन्मे नार्थस्त्वया गच्छ यः प्रियस्तव तं प्रति ॥ कथासरित्सागर १२,१७.३१ (वेतालपञ्चविंशतिका १०) ॥ तच्छ्रुत्वा सा नतमुखी शनैरेवमुवाच तम् । त्वं मे प्राणाधिकः प्रेयान् विज्ञप्तिं किं तु मे शृणु ॥ कथासरित्सागर १२,१७.३२ (वेतालपञ्चविंशतिका १०) ॥ अनुतिष्ठ सहर्षं च प्रयच्छ च ममाभयम् । कुरुष्व शपथं यावदार्यपुत्र वदामि ते ॥ कथासरित्सागर १२,१७.३३ (वेतालपञ्चविंशतिका १०) ॥ एवमुक्तवती कृच्छ्रात्तथा तेन कृते पुनः । सलज्जं सविषादं च सभयं च जगाद सा ॥ कथासरित्सागर १२,१७.३४ (वेतालपञ्चविंशतिका १०) ॥ एकाकिनीं गृहोद्याने दृष्ट्वा मामेकदा युवा । अरुणद्धर्मदत्ताख्यः सखा भ्रातुः स्मरातुरः ॥ कथासरित्सागर १२,१७.३५ (वेतालपञ्चविंशतिका १०) ॥ रक्षन्त्या सपरीवादं कन्यादानफलं पितुः । मया हठप्रवृत्तस्य तस्य वाक्संयमः कृतः ॥ कथासरित्सागर १२,१७.३६ (वेतालपञ्चविंशतिका १०) ॥ पूर्वं कृतविवाहा त्वामुपैष्यामि ततः प्रियम् । तन्मे सत्यवचः पाल्यमनुमन्यस्व तत्प्रभो ॥ कथासरित्सागर १२,१७.३७ (वेतालपञ्चविंशतिका १०) ॥ यावत्तन्निकटं गत्वा क्षणेनोपैमि तेऽन्तिकम् । न हि शक्नोम्यतिक्रान्तुं सत्यमाबाल्य सेवितम् ॥ कथासरित्सागर १२,१७.३८ (वेतालपञ्चविंशतिका १०) ॥ इति तस्या वचःवज्रपातेन सहसा हतः । समुद्रदत्तः सत्येन बद्धः क्षणमचिन्तयत् ॥ कथासरित्सागर १२,१७.३९ (वेतालपञ्चविंशतिका १०) ॥ अहो धिगन्यरक्तेयं गन्तव्यं ध्रुवमेतया । तत्सत्यं हन्मि किं यातु कोऽस्याः परिणयग्रहः ॥ कथासरित्सागर १२,१७.४० (वेतालपञ्चविंशतिका १०) ॥ इत्यालोच्यानुमेने तां यथेष्टगमनाय सः । साप्युत्थाय ततस्तस्मान्निर्ययौ पतिवेश्मनः ॥ कथासरित्सागर १२,१७.४१ (वेतालपञ्चविंशतिका १०) ॥ तावदत्रोदयाद्रीन्द्रहर्म्याग्रं हिमदीधितिः । आरुरोह कराक्रान्तहसत्पूर्वदिगङ्गनः ॥ कथासरित्सागर १२,१७.४२ (वेतालपञ्चविंशतिका १०) ॥ ततस्तमःस्वप्याश्लिष्य स्थितेष्वद्रिदरी प्रियाः । सेवमानेषु भृङ्गेष्वप्यपरं कुमुदाकरम् ॥ कथासरित्सागर १२,१७.४३ (वेतालपञ्चविंशतिका १०) ॥ यान्ती मदनसेना सा मार्गे दृष्ट्वैकका निशि । चौरेणाधाव्य केनापि रुरुधे वसनाञ्चले ॥ कथासरित्सागर १२,१७.४४ (वेतालपञ्चविंशतिका १०) ॥ का त्वं ब्रूहि क्व यासीति तेनोक्ता बिभ्यती च सा । उवाच किं तवानेन मुञ्च कार्यमिहास्ति मे ॥ कथासरित्सागर १२,१७.४५ (वेतालपञ्चविंशतिका १०) ॥ ततश्चौरोऽब्रवीन्मत्तश्चौरात्त्वं मुच्यसे कथम् । तच्छ्रुत्वा सावदत्तं च गृहाणाभरणानि मे ॥ कथासरित्सागर १२,१७.४६ (वेतालपञ्चविंशतिका १०) ॥ अथ चौरोऽभ्यधान्मुग्धे किमेभिरुपलैर्मम । चन्द्रकान्ताननां तार्क्ष्यरत्नासितशिरःरुहाम् ॥ कथासरित्सागर १२,१७.४७ (वेतालपञ्चविंशतिका १०) ॥ वज्रमध्यां सुवर्णाङ्गीं पद्मरागाङ्घ्रिहारिणीम् । जगदाभरणं नैव मोक्ष्यामि भवतीमहम् ॥ कथासरित्सागर १२,१७.४८ (वेतालपञ्चविंशतिका १०) ॥ इत्युक्ता तेन चौरेण विवशा सा वणिक्सुता । आख्याय निजवृत्तान्तमेवं प्रार्थयते स्म तम् ॥ कथासरित्सागर १२,१७.४९ (वेतालपञ्चविंशतिका १०) ॥ क्षमस्व मे क्षणं यावत्कृत्वा सत्यानुपालनम् । इहस्थस्यैव ते पार्श्वमागमिष्यामि सत्वरम् ॥ कथासरित्सागर १२,१७.५० (वेतालपञ्चविंशतिका १०) ॥ नाहमुल्लङ्घयिष्यामि भद्र सत्यामिमां गिरम् । श्रुत्वैतत्सत्यसंधां तां मत्वा चौरो मुमोच सः ॥ कथासरित्सागर १२,१७.५१ (वेतालपञ्चविंशतिका १०) ॥ तस्थौ प्रतीक्षमानश्च तत्रैव स तदागमम् । सापि तस्यान्तिकं धर्मदत्तस्य वणिजो ययौ ॥ कथासरित्सागर १२,१७.५२ (वेतालपञ्चविंशतिका १०) ॥ स चाभीष्टामपि प्राप्तां तथा तां विजने स्थिताम् । दृष्ट्वा पृष्ट्वा यथावृत्तं विचिन्त्य क्षणमब्रवीत् ॥ कथासरित्सागर १२,१७.५३ (वेतालपञ्चविंशतिका १०) ॥ सत्येन तव तुष्टोऽस्मि किं त्वया मे परस्त्रिया । यावत्त्वां नेक्षते कश्चित्तावद्गच्छ यथागतम् ॥ कथासरित्सागर १२,१७.५४ (वेतालपञ्चविंशतिका १०) ॥ इति तेन परित्यक्ता सा तथेत्याययौ ततः । चौरस्य निकटं तस्य प्रतिपालयतः पथि ॥ कथासरित्सागर १२,१७.५५ (वेतालपञ्चविंशतिका १०) ॥ ब्रूहि कस्तेऽत्र वृत्तान्तो गताया इति पृच्छते । तस्मै सा तेन वणिजा यथा मुक्ता तथाब्रवीत् ॥ कथासरित्सागर १२,१७.५६ (वेतालपञ्चविंशतिका १०) ॥ ततः स चौरोऽवादीत्तां यद्येवं तन्मयाप्यसि । विमुक्ता सत्यतुष्टेन गृहं साभरणा व्रज ॥ कथासरित्सागर १२,१७.५७ (वेतालपञ्चविंशतिका १०) ॥ एवं तेनापि सा त्यक्ता रक्षिता चानुयायिना । अलुप्तशीला मुदिता पत्युरेवाययौ गृहम् ॥ कथासरित्सागर १२,१७.५८ (वेतालपञ्चविंशतिका १०) ॥ तत्र गुप्तं प्रविष्टा सा प्रहृष्टोपागता सती । दृष्ट्वा पृष्टवते तस्मै पत्ये सर्वमवर्णयत् ॥ कथासरित्सागर १२,१७.५९ (वेतालपञ्चविंशतिका १०) ॥ सोऽप्यलुप्तमुखछायां तामसंभोगलक्षणाम् । संभाव्याभग्नचारित्रां सत्यलाभरतां सतीम् ॥ कथासरित्सागर १२,१७.६० (वेतालपञ्चविंशतिका १०) ॥ अदृष्टमनसं भार्यामभिनन्द्य कुलोचितम् । तस्थौ समुद्रदत्तोऽथ तया सह यथासुखम् ॥ कथासरित्सागर १२,१७.६१ (वेतालपञ्चविंशतिका १०) ॥ इति तत्र कथामुक्त्वा पितृवनभूमौ तदा स वेतालः । वदति स्म तं त्रिविक्रमसेनं वसुधाधिपं भूयः ॥ कथासरित्सागर १२,१७.६२ (वेतालपञ्चविंशतिका १०) ॥ तद्ब्रूहि चौरवणिजामेषां मध्यान्नरेन्द्र कस्त्यागी । जानन् यदि न वदिष्यसि विदलिष्यति ते शिरः शतधा ॥ कथासरित्सागर १२,१७.६३ (वेतालपञ्चविंशतिका १०) ॥ तच्छ्रुत्वा स महीपतिरुज्झितमौनस्तमाह वेतालम् । एषां चौरस्त्यागी न पुनर्वणिजावुभावपि तौ ॥ कथासरित्सागर १२,१७.६४ (वेतालपञ्चविंशतिका १०) ॥ यो हि पतिस्तामजहादत्याज्यां तादृशीं विवाह्यपि । कुलजः सोऽन्यासक्तां भार्यां जानन् कथं वहतु ॥ कथासरित्सागर १२,१७.६५ (वेतालपञ्चविंशतिका १०) ॥ योऽप्यपरः स भयात्तामत्याक्षीत्कालजीर्णसंवेगः । विदितार्थो भर्तास्याः प्रातर्ब्रूयान्नृपायेति ॥ कथासरित्सागर १२,१७.६६ (वेतालपञ्चविंशतिका १०) ॥ चौरस्तु गुप्तचारी निरपेक्षः पापकर्मकृत्प्राप्तम् । स्त्रीरत्नं यदमुञ्चत्साभरणं तेन स त्यागी ॥ कथासरित्सागर १२,१७.६७ (वेतालपञ्चविंशतिका १०) ॥ एतच्छ्रुत्वैवांसतस्तस्य राज्ञो वेतालोऽगात्पूर्ववत्स्वं पदं सः । राजा भूयोऽप्यत्र संप्राप्तुमेतत्प्रायादेवाखन्डितोद्दामधैर्यः ॥ कथासरित्सागर १२,१७.६८ (वेतालपञ्चविंशतिका १०) ॥ ततो गत्वा पुनः प्राप्य शिंशपातोऽग्रहीन्नृपः । स त्रिविक्रमसेनोऽंसे वेतालं तं चचाल च ॥ कथासरित्सागर १२,१८.१ (वेतालपञ्चविंशतिका ११) ॥ आयान्तं च तमंसस्थो वेतालः सोऽब्रवीन्नृपम् । राजन् विचित्रामेकां ते वर्णयामि कथां शृणु ॥ कथासरित्सागर १२,१८.२ (वेतालपञ्चविंशतिका ११) ॥ उज्जयिन्यामभूत्पूर्वं नाम्ना धर्मध्वजो नृपः । तिस्रस्तस्याभवन् भार्या राजपुत्र्योऽतिवल्लभाः ॥ कथासरित्सागर १२,१८.३ (वेतालपञ्चविंशतिका ११) ॥ एका तास्विन्दुलेखेति तारावल्यपरा तथा । नाम्ना मृगाङ्कवत्यन्या निःसामान्यवपुःगुणाः ॥ कथासरित्सागर १२,१८.४ (वेतालपञ्चविंशतिका ११) ॥ ताभिः स विहरन् राजा राज्ञीभिस्तिसृभिः सह । आसांचक्रे कृती तत्र जिताशेषरिपुः सुखम् ॥ कथासरित्सागर १२,१८.५ (वेतालपञ्चविंशतिका ११) ॥ एकदा तत्र संप्राप्ते वसन्तसमयोत्सवे । प्रियाभिः सहितस्ताभिरुद्यानं क्रीडितुं ययौ ॥ कथासरित्सागर १२,१८.६ (वेतालपञ्चविंशतिका ११) ॥ तत्रालिमालामौर्वीकाः पश्यन् पुष्पानता लताः । चापयष्टीरनङ्गस्य मधुना सज्जिता इव ॥ कथासरित्सागर १२,१८.७ (वेतालपञ्चविंशतिका ११) ॥ शृण्वंश्च तद्द्रुमाग्रस्थकोकिलोदीरितां गिरम् । सम्भोगैकरसस्याज्ञामिव मानसजन्मनः ॥ कथासरित्सागर १२,१८.८ (वेतालपञ्चविंशतिका ११) ॥ सिषेवेऽन्तःपुरैः साकं स राजा वासवोपमः । पानं मदस्य कंदर्पजीवितस्यापि जीवितम् ॥ कथासरित्सागर १२,१८.९ (वेतालपञ्चविंशतिका ११) ॥ तन्निःश्वाससुगन्धीनि तद्बिम्बौष्ठरुचीनि च । प्रियापीतावशेषाणि पिबन् रेमे मधूनि सः ॥ कथासरित्सागर १२,१८.१० (वेतालपञ्चविंशतिका ११) ॥ तत्र तस्येन्दुलेखाया राज्ञः केलिकचग्रहात् । तस्याः पपात कर्णाग्रादुत्सङ्गे त्वङ्गदुत्पलम् ॥ कथासरित्सागर १२,१८.११ (वेतालपञ्चविंशतिका ११) ॥ तेनोरुपृष्ठे सहसा क्षते जातेऽभिघातजे । अभिजाता महादेवी हा हेत्युक्त्वा मुमूर्च्छ सा ॥ कथासरित्सागर १२,१८.१२ (वेतालपञ्चविंशतिका ११) ॥ तद्दृष्ट्वा विह्वलेनार्त्या राज्ञा परिजनेन च । समाश्वास्यत राज्ञी सा शनैः शीताम्बुमारुतैः ॥ कथासरित्सागर १२,१८.१३ (वेतालपञ्चविंशतिका ११) ॥ ततो नीत्वा स राजा तां राजधानीं भिषक्कृतैः । प्रियामुपाचरद्दिव्यैरामुक्तव्रणपट्टिकाम् ॥ कथासरित्सागर १२,१८.१४ (वेतालपञ्चविंशतिका ११) ॥ रात्रौ च सुस्थितां दृष्ट्वा तां स राजा द्वितीयया । तारावल्या सहारोहच्चन्द्रप्रासादमीश्वरः ॥ कथासरित्सागर १२,१८.१५ (वेतालपञ्चविंशतिका ११) ॥ तत्र तस्याङ्कसुप्ताया राज्ञस्तस्या हिमत्विषः । करा जालपथैः पेतुरङ्गे चलितवाससि ॥ कथासरित्सागर १२,१८.१६ (वेतालपञ्चविंशतिका ११) ॥ ततः क्षणात्प्रबुद्धा सा हा दग्धास्मीति वादिनी । शयनात्सहसोत्तस्थौ तदङ्गपरिमर्शिनी ॥ कथासरित्सागर १२,१८.१७ (वेतालपञ्चविंशतिका ११) ॥ किमेतदिति संभ्रान्तः प्रबुद्धोऽथ ददर्श सः । उत्थाय राजा विस्फोटानङ्गे तस्या विनिर्गतान् ॥ कथासरित्सागर १२,१८.१८ (वेतालपञ्चविंशतिका ११) ॥ पृच्छन्तं सा च तं प्राह राज्ञी तारावली तदा । नग्नाङ्गे पतितैरिन्दोः करैरेतत्कृतं मम ॥ कथासरित्सागर १२,१८.१९ (वेतालपञ्चविंशतिका ११) ॥ इत्युक्तवत्याः क्रन्दन्त्याः सार्तिराह्वयति स्म सः । तस्याः परिजनं राजा विह्वलाकुलधावितम् ॥ कथासरित्सागर १२,१८.२० (वेतालपञ्चविंशतिका ११) ॥ तेनास्याः कारयामास सजलैर्नलिनीदलैः । शय्यामदापयच्चाङ्गे श्रीखण्डार्द्रविलेपनम् ॥ कथासरित्सागर १२,१८.२१ (वेतालपञ्चविंशतिका ११) ॥ तावद्बुद्ध्वा तृतीयास्य सा मृगाङ्कवती प्रिया । तत्पार्श्वमागन्तुमना निर्ययौ निजमन्दिरात् ॥ कथासरित्सागर १२,१८.२२ (वेतालपञ्चविंशतिका ११) ॥ निर्गता साशृणोत्क्वापि गृहे धान्यावघातजम् । निःशब्दायां निशि व्यक्तं विदूरे मुसलध्वनिम् ॥ कथासरित्सागर १२,१८.२३ (वेतालपञ्चविंशतिका ११) ॥ श्रुत्वैव हा मृतास्मीति ब्रुवाणा धुन्वती करौ । उपाविशद्व्यथाक्रान्ता मार्गे सा मृगलोचना ॥ कथासरित्सागर १२,१८.२४ (वेतालपञ्चविंशतिका ११) ॥ ततः प्रतिनिवृत्यैव नीत्वा परिजनेन सा । स्वमेवान्तःपुरं बाला रुदती शयनेऽपतत् ॥ कथासरित्सागर १२,१८.२५ (वेतालपञ्चविंशतिका ११) ॥ ददर्श तत्र तस्याश्च चिन्वन् साश्रुः परिच्छदः । आलीनभ्रमरौ पद्माविव हस्तौ किणाङ्कितौ ॥ कथासरित्सागर १२,१८.२६ (वेतालपञ्चविंशतिका ११) ॥ गत्वा च सोऽब्रवीद्राज्ञे राजाप्यागत्य विह्वलः । किमेतदिति पप्रच्छ सोऽथ धर्मध्वजः प्रियाम् ॥ कथासरित्सागर १२,१८.२७ (वेतालपञ्चविंशतिका ११) ॥ सापि प्रदर्श्य हस्तौ तमित्युवाच रुजान्विता । श्रुते मुसलशब्दे मे जतावेतौ किणाङ्कितौ ॥ कथासरित्सागर १२,१८.२८ (वेतालपञ्चविंशतिका ११) ॥ ततः स दाहशमनं दापयामास हस्तयोः । तस्याश्चन्दनलेपादि राजाद्भुतविषादवान् ॥ कथासरित्सागर १२,१८.२९ (वेतालपञ्चविंशतिका ११) ॥ एकस्या उत्पलेनापि पतता क्षतमाहितम् । द्वितीयस्याः पुनर्दग्धमङ्गं शशिकरैरपि ॥ कथासरित्सागर १२,१८.३० (वेतालपञ्चविंशतिका ११) ॥ एकस्यास्तु तृतीयस्याः श्रुतेनापि विनिर्गताः । कष्टं मुसलशब्देन हस्तयोरीदृशाः किणाः ॥ कथासरित्सागर १२,१८.३१ (वेतालपञ्चविंशतिका ११) ॥ अहो युगपदेतासां प्रेयसीनां ममाधुना । गुणोऽप्यत्यभिजातत्वं जातो दोषाय दैवतः ॥ कथासरित्सागर १२,१८.३२ (वेतालपञ्चविंशतिका ११) ॥ इति चिन्तयतस्तस्य भ्रमतोऽन्तःपुरेषु च । त्रियामा शतयामेव कृच्छ्रात्सा नृपतेर्ययौ ॥ कथासरित्सागर १२,१८.३३ (वेतालपञ्चविंशतिका ११) ॥ प्रातश्च स भिषक्शल्यहर्तृभिः सह संव्यधात् । तथा यथाभूदचिरात्स्वस्थान्तःपुरनिर्वृत्तः ॥ कथासरित्सागर १२,१८.३४ (वेतालपञ्चविंशतिका ११) ॥ एवमेतां कथामुक्त्वा वेतालोऽत्यद्भुतां तदा । स त्रिविक्रमसेनं तं पप्रच्छांसस्थितो नृपम् ॥ कथासरित्सागर १२,१८.३५ (वेतालपञ्चविंशतिका ११) ॥ अभिजाततरैतासु राजन् राज्ञीषु का वद । पूर्वोक्तः सोऽस्तु शापस्ते जानन् यदि न जल्पसि ॥ कथासरित्सागर १२,१८.३६ (वेतालपञ्चविंशतिका ११) ॥ तच्छ्रुत्वा सोऽब्रवीद्राजा सुकुमारतरात्र सा । अस्पृष्टे मुसले यस्याः शब्देनैवोद्गताः किणाः ॥ कथासरित्सागर १२,१८.३७ (वेतालपञ्चविंशतिका ११) ॥ उत्पलेन्दुकरैः स्पर्शे वृत्ते त्वितरयोर्द्वयोः । संजाता व्रणविस्फोटास्तेन तस्या न ते समे ॥ कथासरित्सागर १२,१८.३८ (वेतालपञ्चविंशतिका ११) ॥ इति तस्योक्तवतोऽंसाद्राज्ञो भूयो जगाम स स्वपदम् । वेतालः स च राजा तथैव तं सुदृढनिश्चयोऽनुययौ ॥ कथासरित्सागर १२,१८.३९ (वेतालपञ्चविंशतिका ११) ॥ स त्रिविक्रमसेनोऽथ पुनस्तं शिंशपातरुम् । गत्वा प्राप्य च वेतालं राजा स्कन्धे चकार तम् ॥ कथासरित्सागर १२,१९.१ (वेतालपञ्चविंशतिका १२) ॥ प्रतस्थे च तमादाय तूष्णीमेव स पूर्ववत् । ततो भूयस्तमाह स्म वेतालः सोऽंसपृष्ठतः ॥ कथासरित्सागर १२,१९.२ (वेतालपञ्चविंशतिका १२) ॥ राजन्नेवमनुद्विग्नः पर्याप्तमसि मे प्रियः । तदेतां शृण्वखेदाय हृद्यामाख्यामि ते कथाम् ॥ कथासरित्सागर १२,१९.३ (वेतालपञ्चविंशतिका १२) ॥ अङ्गदेशे यशःकेतुरिति राजाभवत्पुरा । क्ष्मामाश्रितोऽङ्गगुप्त्यर्थमदग्धोऽन्य इव स्मरः ॥ कथासरित्सागर १२,१९.४ (वेतालपञ्चविंशतिका १२) ॥ बाहुवीर्यजिताशेषवैरिवर्गस्य तस्य च । दीर्घदर्शीत्यभून्मन्त्री शक्रस्येव बृहस्पतिः ॥ कथासरित्सागर १२,१९.५ (वेतालपञ्चविंशतिका १२) ॥ तस्मिन्मन्त्रिणि विन्यस्य राज्यं स हतकण्टकम् । शनैः सुखैकसक्तोऽभूद्वयःरूपमदान्नृपः ॥ कथासरित्सागर १२,१९.६ (वेतालपञ्चविंशतिका १२) ॥ तस्थावन्तःपुरे शश्वन्नास्थाने प्रमदास्पदे । शुश्राव रक्तिमद्गीतं वचनं न हितैषिणाम् ॥ कथासरित्सागर १२,१९.७ (वेतालपञ्चविंशतिका १२) ॥ रज्यति स्म च निःचिन्तो जालवातायनेषु सः । न पुना राजकार्येषु बहुछिद्रेषु जात्वपि ॥ कथासरित्सागर १२,१९.८ (वेतालपञ्चविंशतिका १२) ॥ दीर्घदर्शी तु तद्राज्यचिन्ताभारं समुद्वहन् । अतिष्ठत्स महामन्त्री दिवानिशमतन्द्रितः ॥ कथासरित्सागर १२,१९.९ (वेतालपञ्चविंशतिका १२) ॥ नाममात्रे कृतधृतिं प्रक्षिप्य व्यसने नृपम् । मन्त्री राज्ञः श्रियं भुण्क्ते दीर्घदर्शीह साम्प्रतम् ॥ कथासरित्सागर १२,१९.१० (वेतालपञ्चविंशतिका १२) ॥ इत्युत्पन्ने महत्यत्र जनवादेऽथ गेहिनीम् । स्वैरं मेधाविनीं नाम दीर्घदर्शी जगाद सः ॥ कथासरित्सागर १२,१९.११ (वेतालपञ्चविंशतिका १२) ॥ प्रिये राज्ञि सुखासक्ते तद्भारं वहतोऽपि मे । राज्यं भक्षितमेतेनेत्युत्पन्नमयशो जने ॥ कथासरित्सागर १२,१९.१२ (वेतालपञ्चविंशतिका १२) ॥ लोकवादश्च मिथ्यापि महतामिह दोषकृत् । तत्याज किं न रामोऽपि जनवादेन जानकीम् ॥ कथासरित्सागर १२,१९.१३ (वेतालपञ्चविंशतिका १२) ॥ तदत्र किं मया कार्यमित्युक्ते तेन मन्त्रिणा । भार्या मेधाविनी धीरा सान्वर्था तमभाषत ॥ कथासरित्सागर १२,१९.१४ (वेतालपञ्चविंशतिका १२) ॥ तीर्थयात्रापदेशेन युक्त्यापृच्छ्य महीपतिम् । कम्चित्कालं विदेशं ते गन्तुं युक्तं महामते ॥ कथासरित्सागर १२,१९.१५ (वेतालपञ्चविंशतिका १२) ॥ एवं ते निःस्पृहस्यैष जनवादो निवर्त्स्यति । त्वय्यस्थिते ततो राज्यमुद्वक्ष्यति नृपः स्वयम् ॥ कथासरित्सागर १२,१९.१६ (वेतालपञ्चविंशतिका १२) ॥ ततश्चास्य शनैरेतद्व्यसनं हानिमेष्यति । आगतस्यात्र निःगर्हा भवित्री मन्त्रिता च ते ॥ कथासरित्सागर १२,१९.१७ (वेतालपञ्चविंशतिका १२) ॥ इत्युक्तो भार्यया गत्वा दीर्घदर्शी तथेति सः । कथाप्रसङ्गे तं भूपं यशःकेतुं व्यजिज्ञपत् ॥ कथासरित्सागर १२,१९.१८ (वेतालपञ्चविंशतिका १२) ॥ अनुजानीहि मां राजन् दिवसान् कान्चिदप्यहम् । व्रजामि तीर्थयात्रायै धर्मो हि प्रेप्सितः स मे ॥ कथासरित्सागर १२,१९.१९ (वेतालपञ्चविंशतिका १२) ॥ तच्छ्रुत्वा सोऽब्रवीद्राजा मैवं तीर्थैर्विना परः । दानादिः किं न धर्मोऽस्ति स्वर्ग्यस्ते स्वगृहेष्वपि ॥ कथासरित्सागर १२,१९.२० (वेतालपञ्चविंशतिका १२) ॥ अथावोचत्स मन्त्री तमर्थशुद्ध्यादि मृग्यते । दानादौ नित्यशुद्धानि तीर्थानि नृपते पुनः ॥ कथासरित्सागर १२,१९.२१ (वेतालपञ्चविंशतिका १२) ॥ यावच्च यौवनं राजंस्तावद्गम्यानि धीमता । अविश्वास्ये शरीरे हि संगमस्तैः कुतोऽन्यदा ॥ कथासरित्सागर १२,१९.२२ (वेतालपञ्चविंशतिका १२) ॥ इति तस्मिन् वदत्येव राज्ञि चैवं निषेधति । प्रविश्यात्र प्रतीहारो राजानं तं व्यजिज्ञपत् ॥ कथासरित्सागर १२,१९.२३ (वेतालपञ्चविंशतिका १२) ॥ देव व्योमसरःमध्यमंशुमाली विगाहते । तदुत्तिष्ठत सैषा वः स्नानवेलातिवर्तते ॥ कथासरित्सागर १२,१९.२४ (वेतालपञ्चविंशतिका १२) ॥ श्रुत्वैतत्सहसा स्नातुमुदतिष्ठन्महीपतिः । यात्रोन्मुखः स मन्त्री च तं प्रणम्य गृहं ययौ ॥ कथासरित्सागर १२,१९.२५ (वेतालपञ्चविंशतिका १२) ॥ तत्रावस्थाप्य भार्यां तामनुयात्रानिवारिताम् । स प्रतस्थे ततो युक्त्या स्वभृत्यैरप्यतर्कितः ॥ कथासरित्सागर १२,१९.२६ (वेतालपञ्चविंशतिका १२) ॥ एकाकी च भ्रमंस्तांस्तान् देशांस्तीर्थानि च व्रजन् । स प्राप पुण्ड्रविषयं दीर्घदर्शी सुनिःचयः ॥ कथासरित्सागर १२,१९.२७ (वेतालपञ्चविंशतिका १२) ॥ तत्र पत्तन एकस्मिन्नदूरेऽब्धेः प्रविश्य सः । एकं देवकुलं शैवं तत्प्राङ्गण उपाविशत् ॥ कथासरित्सागर १२,१९.२८ (वेतालपञ्चविंशतिका १२) ॥ तत्रार्ककरसंतापक्लान्तं दूराध्वधूसरम् । ददर्श निधिदत्ताख्यो वणिग्देवार्चनागतः ॥ कथासरित्सागर १२,१९.२९ (वेतालपञ्चविंशतिका १२) ॥ स तं तथाविधं दृष्ट्वा सोपवीतं सुलक्षणम् । संभाव्य चोत्तमं विप्रमातिथेयोऽनयद्गृहम् ॥ कथासरित्सागर १२,१९.३० (वेतालपञ्चविंशतिका १२) ॥ तत्र चापूजयत्स्नानभोजनाद्यैस्तमुत्तमैः । कः कुतस्त्वं क्व यासीति विश्रान्तं च स पृष्टवान् ॥ कथासरित्सागर १२,१९.३१ (वेतालपञ्चविंशतिका १२) ॥ दीर्घदर्शीति विप्रोऽहमङ्गदेशादिहागतः । तीर्थयात्रार्थमित्येव गाम्भीर्यात्सोऽप्युवाच तम् ॥ कथासरित्सागर १२,१९.३२ (वेतालपञ्चविंशतिका १२) ॥ ततः स निधिदत्तोऽपि तं जगाद महावणिक् । सुवर्णद्वीपगमनायोद्यतोऽहं वणिज्यया ॥ कथासरित्सागर १२,१९.३३ (वेतालपञ्चविंशतिका १२) ॥ तत्त्वं तिष्ठेह मद्गेहे यावदेष्याम्यहं ततः । तीर्थयात्रापरिश्रान्तो विश्रान्तो ह्यथ यास्यसि ॥ कथासरित्सागर १२,१९.३४ (वेतालपञ्चविंशतिका १२) ॥ तच्छ्रुत्वा सोऽब्रवीद्दीर्घदर्शी तर्हि ममेह किम् । त्वयैव सह यास्यामि सार्थवाह यथासुखम् ॥ कथासरित्सागर १२,१९.३५ (वेतालपञ्चविंशतिका १२) ॥ एवमस्त्विति तेनोक्ते साधुना सोऽथ तद्गृहे । चिरादवाप्तशयनो निशां मन्त्री निनाय ताम् ॥ कथासरित्सागर १२,१९.३६ (वेतालपञ्चविंशतिका १२) ॥ अन्येद्युरथ तेनैव वणिजा सह वारिधिम् । गत्वारुरोह तद्भाण्डपूर्णं प्रवहणं च सः ॥ कथासरित्सागर १२,१९.३७ (वेतालपञ्चविंशतिका १२) ॥ तेन गच्छन् प्रवहणेनाब्धिमद्भुतभीषणम् । विलोकयन् स संप्राप स्वर्णद्वीपं क्रमेण तत् ॥ कथासरित्सागर १२,१९.३८ (वेतालपञ्चविंशतिका १२) ॥ क्व मन्त्रिमुख्यता चास्य क्व वाध्वोल्लङ्घिताम्बुधिः । अयशःभीरवः किं न कुर्वते बत साधवः ॥ कथासरित्सागर १२,१९.३९ (वेतालपञ्चविंशतिका १२) ॥ तत्र द्वीपे समं तेन कम्चित्कालमुवास सः । वणिजा निधिदत्तेन कुर्वता क्रयविक्रयौ ॥ कथासरित्सागर १२,१९.४० (वेतालपञ्चविंशतिका १२) ॥ आगच्छंश्च ततोऽकस्मात्तद्युक्तो वहनस्थितः । कल्पवृक्षं ददर्शाब्धऊर्मेः पश्चात्समुत्थितम् ॥ कथासरित्सागर १२,१९.४१ (वेतालपञ्चविंशतिका १२) ॥ प्रवालशाखासुभगैः स्कन्धैर्जाम्बूनदोज्ज्वलैः । फलैर्मणिमयैः कान्तैः कुसुमैश्चोपशोभितम् ॥ कथासरित्सागर १२,१९.४२ (वेतालपञ्चविंशतिका १२) ॥ तस्य स्कन्धे च सद्रत्नपर्यङ्कोत्सङ्गवर्तिनीम् । कन्यामत्यद्भुताकारकमनीयामवैक्षत ॥ कथासरित्सागर १२,१९.४३ (वेतालपञ्चविंशतिका १२) ॥ अहो किमेतदित्येवं यावद्ध्यायति स क्षणम् । तावत्सा वीणिनी कन्या गातुमेवं प्रचक्रमे ॥ कथासरित्सागर १२,१९.४४ (वेतालपञ्चविंशतिका १२) ॥ यत्कर्मबीजमुप्तं येन पुरा निःचितं स तद्भुङ्क्ते । पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुमन्यथाभावः ॥ कथासरित्सागर १२,१९.४५ (वेतालपञ्चविंशतिका १२) ॥ इत्युद्गाय क्षणात्तस्मिन्नम्भःधौ दिव्यकन्यका । सकल्पद्रुमपर्यङ्कशय्यात्रैव ममज्ज सा ॥ कथासरित्सागर १२,१९.४६ (वेतालपञ्चविंशतिका १२) ॥ किमप्यपूर्वमद्येदं मया दृष्टमिहाद्भुतम् । क्वाब्धिः क्व दृष्टनष्टोऽत्र गायद्दिव्याङ्गनस्तरुः ॥ कथासरित्सागर १२,१९.४७ (वेतालपञ्चविंशतिका १२) ॥ यदि वा वन्द्य एषोऽब्धिराकरः शश्वदीदृशाम् । लक्ष्मीन्दुपारिजाताद्या नास्मात्ते ते किमुद्गताः ॥ कथासरित्सागर १२,१९.४८ (वेतालपञ्चविंशतिका १२) ॥ इति तं चिन्तयन्तं च तत्क्षणं दीर्घदर्शिनम् । विलोक्य विस्मयाविष्टं कर्णधारादयोऽब्रुवन् ॥ कथासरित्सागर १२,१९.४९ (वेतालपञ्चविंशतिका १२) ॥ एवमेषा सदैवेह दृश्यते वरकन्यका । निमज्जति च तत्कालं तवैतद्दर्शनं नवम् ॥ कथासरित्सागर १२,१९.५० (वेतालपञ्चविंशतिका १२) ॥ इत्युक्तस्तैः समं तेन निधिदत्तेन स क्रमात् । मन्त्री चित्रीयमाणोऽब्धेस्तीरं पोतगतोऽभ्यगात् ॥ कथासरित्सागर १२,१९.५१ (वेतालपञ्चविंशतिका १२) ॥ तत्रोत्तारितभाण्डेन तेनैव वणिजा सह । जगाम हृष्टभृत्येन सोत्सवं सोऽथ तद्गृहम् ॥ कथासरित्सागर १२,१९.५२ (वेतालपञ्चविंशतिका १२) ॥ स्थित्वा नातिचिरं तत्र निधिदत्तमुवाच तम् । सार्थवाह भवद्गेहे विश्रान्तोऽहं चिरं सुखम् ॥ कथासरित्सागर १२,१९.५३ (वेतालपञ्चविंशतिका १२) ॥ इदानीं गन्तुमिच्छामि स्वदेशं भद्रमस्तु ते । इत्युक्त्वा तमनिच्छन्तमप्यामन्त्र्य वणिक्पतिम् ॥ कथासरित्सागर १२,१९.५४ (वेतालपञ्चविंशतिका १२) ॥ दीर्घदर्शी स सत्त्वैकसहायः प्रस्थितस्ततः । क्रमोल्लङ्घितदूराध्वा प्रापाङ्गविषयं निजम् ॥ कथासरित्सागर १२,१९.५५ (वेतालपञ्चविंशतिका १२) ॥ तत्र तं ददृशुश्चारा बहिर्नगरमागतम् । ये यशःकेतुना राज्ञा प्राङ्न्यस्तास्तद्गवेषणे ॥ कथासरित्सागर १२,१९.५६ (वेतालपञ्चविंशतिका १२) ॥ तैश्च गत्वा स विज्ञप्तश्चारई राजा तमभ्यगात् । स्वयं निःगत्य नगरात्तद्विश्लेषसुदुःखितः ॥ कथासरित्सागर १२,१९.५७ (वेतालपञ्चविंशतिका १२) ॥ उपेत्य च परिष्वङ्गपूर्वं तमभिनन्द्य सः । निनायाभ्यन्तरं भूपश्चिराध्वक्षामधूसरम् ॥ कथासरित्सागर १२,१९.५८ (वेतालपञ्चविंशतिका १२) ॥ त्यक्त्वास्मान् किं त्वया नीतं न परं बत मानसम् । यावच्छरीरमप्येतन्निःस्नेहपरुषां दशाम् ॥ कथासरित्सागर १२,१९.५९ (वेतालपञ्चविंशतिका १२) ॥ किं वा भगवतो वेत्ति भवितव्यस्य को गतिम् । यदकस्मात्तवैषाभूत्तीर्थादिगमने मतिः ॥ कथासरित्सागर १२,१९.६० (वेतालपञ्चविंशतिका १२) ॥ तद्ब्रूहि के त्वया भ्रान्ता देशा दृष्टं च किं नवम् । इति तत्र च तं राजा स जगाद स्वमन्त्रिणम् ॥ कथासरित्सागर १२,१९.६१ (वेतालपञ्चविंशतिका १२) ॥ ततः सुवर्णद्वीपान्तं सोऽध्वानं वर्णयन् क्रमात् । अब्धावुद्गमिनीं तस्मै तां दृष्टां दिव्यकन्यकाम् ॥ कथासरित्सागर १२,१९.६२ (वेतालपञ्चविंशतिका १२) ॥ गायन्तीं त्रिजगत्सारभूतां कल्पतरुस्थिताम् । यथावत्कथयामास दीर्घदर्शी महीभृते ॥ कथासरित्सागर १२,१९.६३ (वेतालपञ्चविंशतिका १२) ॥ स तां श्रुत्वैव च नृपस्तथा स्मरवशोऽभवत् । यथा तया विना मेने निष्फले राज्यजीविते ॥ कथासरित्सागर १२,१९.६४ (वेतालपञ्चविंशतिका १२) ॥ जगाद च तमेकान्ते नीत्वा स्वसचिवं तदा । द्रष्टव्यासौ मयावश्यं जीवितं नास्ति मेऽन्यथा ॥ कथासरित्सागर १२,१९.६५ (वेतालपञ्चविंशतिका १२) ॥ यामि त्वदुक्तेन पथा प्रणम्य भवितव्यताम् । निवारणीयो नाहं ते नानुगम्यश्च सर्वथा ॥ कथासरित्सागर १२,१९.६६ (वेतालपञ्चविंशतिका १२) ॥ गुप्तमेको हि यास्यामि राज्यं रक्ष्यं तु मे त्वया । मद्वचो मान्यथा कार्षीः शापितोऽसि ममासुभिः ॥ कथासरित्सागर १२,१९.६७ (वेतालपञ्चविंशतिका १२) ॥ इत्युक्त्वा तत्प्रतिवचो निरस्य विससर्ज तम् । मन्त्रिणं स्वगृहं राजा चिरोत्कं स्वजनं प्रति ॥ कथासरित्सागर १२,१९.६८ (वेतालपञ्चविंशतिका १२) ॥ तत्रानल्पोत्सवेऽप्यासीद्दीर्घदर्शी सुदुःमनाः । स्वामिन्यसाध्यव्यसने सुखं सन्मन्त्रिणां कुतः ॥ कथासरित्सागर १२,१९.६९ (वेतालपञ्चविंशतिका १२) ॥ अन्येद्युश्च स तद्धस्तन्यस्तराज्यभरो नृपः । यशःकेतुस्ततः प्रायान्निशि तापसवेषभृत् ॥ कथासरित्सागर १२,१९.७० (वेतालपञ्चविंशतिका १२) ॥ गच्छंश्च कुशनाभाख्यं मुनिं मार्गे ददर्श सः । सोऽत्र तं तापसाकल्पं प्रणतं मुनिरादिशत् ॥ कथासरित्सागर १२,१९.७१ (वेतालपञ्चविंशतिका १२) ॥ लक्ष्मीदत्तेन वणिजा सह पोतेन वारिधौ । गत्वा प्रप्स्यसि तामिष्टां कन्यां व्रज निःाकुलः ॥ कथासरित्सागर १२,१९.७२ (वेतालपञ्चविंशतिका १२) ॥ इति तद्वचसा प्रीतास्तं प्रणम्य स पार्थिवः । गच्छन् देशान्नदीरद्रीन् क्रान्त्वा तं प्रापदम्बुधिम् ॥ कथासरित्सागर १२,१९.७३ (वेतालपञ्चविंशतिका १२) ॥ सुतारशङ्खधवलैर्वीचिभ्रूभिर्विकस्वरैः । वीक्षमाणमिवावर्तनेत्रैरातिथ्यसंभ्रमात् ॥ कथासरित्सागर १२,१९.७४ (वेतालपञ्चविंशतिका १२) ॥ तत्तीरे वणिजा तेन मुनिप्रोक्तेन संगतिः । लक्ष्मीदत्तेन जज्ञेऽस्य स्वर्णद्वीपं यियासुना ॥ कथासरित्सागर १२,१९.७५ (वेतालपञ्चविंशतिका १२) ॥ तेनैव सह चक्राङ्कपादमुद्रादि दर्शनात् । प्रह्वेणारुह्य वहनं प्रतस्थे सोऽम्बुधौ नृपः ॥ कथासरित्सागर १२,१९.७६ (वेतालपञ्चविंशतिका १२) ॥ मध्यमब्धेश्च संप्राप्ते वहने वारिमध्यतः । उदगात्कल्पविटपिस्कन्धस्था सात्र कन्यका ॥ कथासरित्सागर १२,१९.७७ (वेतालपञ्चविंशतिका १२) ॥ यावत्पश्यति तां राजा चकोर इव चन्द्रिकाम् । तावत्सा गायति स्मैवं वल्लकीवाद्यसुन्दरम् ॥ कथासरित्सागर १२,१९.७८ (वेतालपञ्चविंशतिका १२) ॥ यत्कर्मबीजमुप्तं येन पुरा निःचितं स तद्भुङ्क्ते । पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुमन्यथाभावः ॥ कथासरित्सागर १२,१९.७९ (वेतालपञ्चविंशतिका १२) ॥ तस्माद्यत्र यथा यद्भवितव्यं यस्य दैवयोगेन । तत्र तथा तत्प्राप्त्यै विवशोऽसौ नीयतेऽत्र न भ्रान्तिः ॥ कथासरित्सागर १२,१९.८० (वेतालपञ्चविंशतिका १२) ॥ इति सूचितभव्यार्थां गायन्तीं तां विभावयन् । निःस्पन्दः स क्षणं तस्थौ राजा स्मरशराहतः ॥ कथासरित्सागर १२,१९.८१ (वेतालपञ्चविंशतिका १२) ॥ रत्नाकर नमः सत्यमगाधहृदयाय ते । येन त्वयैतां प्रच्छाद्य विप्रलब्धो हरिः श्रिया ॥ कथासरित्सागर १२,१९.८२ (वेतालपञ्चविंशतिका १२) ॥ तत्सुरैरप्यलभ्यान्तं सपक्षक्ष्माभृदाश्रयम् । शरणं त्वां प्रपन्नोऽहमिष्टसिद्धिं विधत्स्व मे ॥ कथासरित्सागर १२,१९.८३ (वेतालपञ्चविंशतिका १२) ॥ एवं यावत्समुद्रं तं स नतः स्तौति भूमिपः । तावत्सा कन्यका तत्र निममज्ज सपादपा ॥ कथासरित्सागर १२,१९.८४ (वेतालपञ्चविंशतिका १२) ॥ तद्दृष्ट्वैवानुमार्गेऽस्याः स राजात्मानमक्षिपत् । वारिधावत्र कामाग्निसंतापस्येव शान्तये ॥ कथासरित्सागर १२,१९.८५ (वेतालपञ्चविंशतिका १२) ॥ तद्वीक्ष्याशङ्कितं मत्वा विनष्टं तं स सज्जनः । लक्ष्मीदत्तो वणिग्दुःखाद्देहत्यागोद्यतोऽभवत् ॥ कथासरित्सागर १२,१९.८६ (वेतालपञ्चविंशतिका १२) ॥ मा कार्षीः साहसं नास्ति मग्नस्यास्याम्भुधौ भयम् । एषो राजा यशःकेतुर्नाम्ना तापसवेषभृत् ॥ कथासरित्सागर १२,१९.८७ (वेतालपञ्चविंशतिका १२) ॥ एतत्कन्यार्थमायातः पूर्वभार्येयमस्य च । एतां प्राप्य पुनश्चासावङ्गराज्यं समेष्यति ॥ कथासरित्सागर १२,१९.८८ (वेतालपञ्चविंशतिका १२) ॥ इत्यथाश्वासितो वाचा तत्कालं गगनोत्थया । सार्थवाहो यथाकामं स जगामेष्टसिद्धये ॥ कथासरित्सागर १२,१९.८९ (वेतालपञ्चविंशतिका १२) ॥ स राजापि यशःकेतुर्निमग्नोऽन्तो महोदधौ । अकस्मान्नगरं दिव्यमपश्यज्जातविस्मयः ॥ कथासरित्सागर १२,१९.९० (वेतालपञ्चविंशतिका १२) ॥ भास्वन्मणिमयस्तम्भैः काञ्चनोज्ज्वलभित्तिभिः । विराजमानं प्रासादैर्मुक्ताजालगवाक्षकैः ॥ कथासरित्सागर १२,१९.९१ (वेतालपञ्चविंशतिका १२) ॥ नानारत्नशिलापट्टबद्धसोपानवापिकैः । कामदैः कल्पवृक्षाढ्यैरुद्यानैरुपशोभितम् ॥ कथासरित्सागर १२,१९.९२ (वेतालपञ्चविंशतिका १२) ॥ समृद्धेऽपि पुरे तत्र निःजनेऽथ गृहं गृहम् । अनुप्रविश्य न यदा तां ददर्श प्रियां क्वचित् ॥ कथासरित्सागर १२,१९.९३ (वेतालपञ्चविंशतिका १२) ॥ तदा विचिन्वन् दृष्ट्वैकमुत्तुङ्गं मणिमन्दिरम् । आरुह्य द्वारमुद्घाट्य प्रविवेश स भूपतिः ॥ कथासरित्सागर १२,१९.९४ (वेतालपञ्चविंशतिका १२) ॥ प्रविश्य चान्तः सद्रत्नपर्यङ्कस्थितमेककम् । वस्त्राच्छादितसर्वाङ्गं शयानं कम्चिदैक्षत ॥ कथासरित्सागर १२,१९.९५ (वेतालपञ्चविंशतिका १२) ॥ किं स्यात्सैवेति सोत्कण्ठमुद्घाटयति तन्मुखम् । यावत्तावदपश्यत्तां स्वेप्सितामेव सोऽङ्गनाम् ॥ कथासरित्सागर १२,१९.९६ (वेतालपञ्चविंशतिका १२) ॥ स्रस्तनीलांशुकध्वान्तहसन्मुखशशिश्रियम् । ज्योत्स्नावदातां पातालगतामिव दिवा निशाम् ॥ कथासरित्सागर १२,१९.९७ (वेतालपञ्चविंशतिका १२) ॥ तद्दर्शनेन चास्याभूदवस्था कापि सा तदा । ग्रीष्मऋतौ मरुपान्थस्य सरित्संदर्शनेन या ॥ कथासरित्सागर १२,१९.९८ (वेतालपञ्चविंशतिका १२) ॥ साप्युन्मीलितचक्षुस्तं कल्याणाकृतिलक्षणम् । वीक्ष्याकस्मात्तथाप्राप्तं संभ्रमाच्छयनं जहौ ॥ कथासरित्सागर १२,१९.९९ (वेतालपञ्चविंशतिका १२) ॥ कृतातिथ्या नतमुखी पूजयन्तीव पादयोः । फुल्लेक्षणोत्पलन्यासैः शनैरेतमुवाच च ॥ कथासरित्सागर १२,१९.१०० (वेतालपञ्चविंशतिका १२) ॥ को भवान् किमगम्यं च प्रविष्ठोऽसि रसातलम् । राजचिह्नाङ्किततनोः किं च ते तापसव्रतम् ॥ कथासरित्सागर १२,१९.१०१ (वेतालपञ्चविंशतिका १२) ॥ इत्यादिश महाभाग प्रसादो यदि ते मयि । एवं तस्या वचः श्रुत्वा स राजा प्रत्युवाच ताम् ॥ कथासरित्सागर १२,१९.१०२ (वेतालपञ्चविंशतिका १२) ॥ अङ्गराजो यशःकेतुरिति नाम्नास्मि सुन्दरि । आप्तादन्वहदृश्यां च त्वामश्रौषमिहाम्बुधौ ॥ कथासरित्सागर १२,१९.१०३ (वेतालपञ्चविंशतिका १२) ॥ ततस्त्वदर्थं कृत्वेमं वेषं राज्यं विमुच्य च । आगत्यैष प्रविष्टोऽहमनुमार्गेण तेऽम्बुधिम् ॥ कथासरित्सागर १२,१९.१०४ (वेतालपञ्चविंशतिका १२) ॥ तन्मे कथय कासि त्वमित्युक्ते तेन चाथ सा । सलज्जा सानुरागा च सानन्दा चैवमभ्यधात् ॥ कथासरित्सागर १२,१९.१०५ (वेतालपञ्चविंशतिका १२) ॥ मृगाङ्कसेन इत्यस्ति श्रीमान् विद्याधराधिपः । मां मृगाङ्कवतीं नाम्ना विद्धि तस्य सुतामिमाम् ॥ कथासरित्सागर १२,१९.१०६ (वेतालपञ्चविंशतिका १२) ॥ स मामस्मिन् स्वनगरे विमुच्यैकाकिनीं पिता । न जाने हेतुना केन गतः क्वापि सपौरकः ॥ कथासरित्सागर १२,१९.१०७ (वेतालपञ्चविंशतिका १२) ॥ तेनाहं शून्यवसतेर्निर्विण्णोन्मज्ज्य वारिधेः । यन्त्रकल्पद्रुमारूढा गायामि भवितव्यताम् ॥ कथासरित्सागर १२,१९.१०८ (वेतालपञ्चविंशतिका १२) ॥ एवमुक्तवती तेन स्मरता तन्मुनेर्वचः । तथारज्यत सा राज्ञा वचोभिः प्रेमपेशलैः ॥ कथासरित्सागर १२,१९.१०९ (वेतालपञ्चविंशतिका १२) ॥ यथानुरागविवशा भार्यात्वं तस्य तत्क्षणम् । अङ्गीचकार वीरस्य समयं त्वेकमभ्यधात् ॥ कथासरित्सागर १२,१९.११० (वेतालपञ्चविंशतिका १२) ॥ शुक्लकृष्णचतुर्दश्यामष्टम्यां चार्यपुत्र ते । प्रतिमासमनायत्ता चतुरो दिवसानहम् ॥ कथासरित्सागर १२,१९.१११ (वेतालपञ्चविंशतिका १२) ॥ यत्र क्वापि दिनेष्वेषु गच्छन्ती चास्मि न त्वया । प्रष्टव्या न निषेद्धव्या कारणं ह्यत्र विद्यते ॥ कथासरित्सागर १२,१९.११२ (वेतालपञ्चविंशतिका १२) ॥ एवं तामुक्तसमयां स राजा दिव्यकन्यकाम् । तथेत्युक्त्वैव गान्धर्वविधिना परिणीतवान् ॥ कथासरित्सागर १२,१९.११३ (वेतालपञ्चविंशतिका १२) ॥ भेजे ततश्च संभोगसुखं तत्र तया सह । यथाभूदन्य एवास्या मान्मथो मण्डनक्रमः ॥ कथासरित्सागर १२,१९.११४ (वेतालपञ्चविंशतिका १२) ॥ केशेषु स्रस्तमाल्येषु कचग्रहनखावली । बिम्बाधरेऽथ निष्पीतनीरागे दशनक्षतिः ॥ कथासरित्सागर १२,१९.११५ (वेतालपञ्चविंशतिका १२) ॥ कुचयोः करजश्रेणिर्भिन्नमाणिक्यमालयोः । लुप्ताङ्गरागेष्वङ्गेषु गाढालिङ्गनरागिता ॥ कथासरित्सागर १२,१९.११६ (वेतालपञ्चविंशतिका १२) ॥ इति तद्दिव्यसंभोगसुखावस्थितमत्र तम् । सा मृगाङ्कवती भार्या भूपं प्राहेदमेकदा ॥ कथासरित्सागर १२,१९.११७ (वेतालपञ्चविंशतिका १२) ॥ त्वमिहैव प्रतीक्षेथाः कार्यार्थं क्वापि याम्यहम् । अद्य सैषा हि संप्राप्ता मम कृष्णचतुर्दशी ॥ कथासरित्सागर १२,१९.११८ (वेतालपञ्चविंशतिका १२) ॥ इह स्थस्त्वार्यपुत्रामुं मा स्म गाः स्फाटिकं गृहम् । मात्र वाप्यां निपतितो भूलोकं त्वं गमिष्यसि ॥ कथासरित्सागर १२,१९.११९ (वेतालपञ्चविंशतिका १२) ॥ इत्युक्त्वा सा तमामन्त्र्य ययौ तस्मात्पुराद्बहिः । राजापि प्राप्तखड्गस्तां छन्नो जिज्ञासुरन्वगात् ॥ कथासरित्सागर १२,१९.१२० (वेतालपञ्चविंशतिका १२) ॥ तत्रापश्यत्तमःश्यामं व्यात्तवक्रबिलं च सः । साकारमिव पातालमायान्तं राक्षसं नृपः ॥ कथासरित्सागर १२,१९.१२१ (वेतालपञ्चविंशतिका १२) ॥ स राक्षसो निपत्यैव मुक्तघोररवस्तदा । तां मृगाङ्कवतीं वक्त्रे निक्षिप्यैव निगीर्णवान् ॥ कथासरित्सागर १२,१९.१२२ (वेतालपञ्चविंशतिका १२) ॥ तद्दृष्ट्वैवातिकोपेन सहसा स ज्वलन्निव । निःमोकमुक्तभुजगश्यामलेन महासिना ॥ कथासरित्सागर १२,१९.१२३ (वेतालपञ्चविंशतिका १२) ॥ कोषाकृष्टेन धावित्वा राजसिंहोऽभिधावतः । चिच्छेद रक्षसस्तस्य संदष्टौष्ठपुटं शिरः ॥ कथासरित्सागर १२,१९.१२४ (वेतालपञ्चविंशतिका १२) ॥ रक्षःकबन्धवान्तेन राज्ञस्तस्यास्रवारिणा । क्रोधजोऽथ शशामाग्निर्न तु कान्तावियोगजः ॥ कथासरित्सागर १२,१९.१२५ (वेतालपञ्चविंशतिका १२) ॥ ततो मोहनिशान्धेऽस्मिन् विनष्टगतिके नृपे । अकस्मान्मेघमलिनस्याङ्गं भित्त्वेव रक्षसः ॥ कथासरित्सागर १२,१९.१२६ (वेतालपञ्चविंशतिका १२) ॥ तस्योद्द्योतितदिक्चक्रा चन्द्रमूर्तिरिवामला । सा मृगाङ्कवती जीवन्त्यक्षताङ्गी विनिर्ययौ ॥ कथासरित्सागर १२,१९.१२७ (वेतालपञ्चविंशतिका १२) ॥ तां तथा संकटोत्तीर्णां दृष्ट्वा कान्तां ससंभ्रमम् । एह्येहीति वदन् राजा प्रधाव्यैवालिलिङ्ग सः ॥ कथासरित्सागर १२,१९.१२८ (वेतालपञ्चविंशतिका १२) ॥ प्रिये किमेतत्स्वप्नोऽयमुत मायेति तेन सा । पृष्टा नृपेण संस्मृत्य विद्याधर्येवमब्रवीत् ॥ कथासरित्सागर १२,१९.१२९ (वेतालपञ्चविंशतिका १२) ॥ शृण्वार्यपुत्र न स्वप्नो न मायेयमयं पुनः । विध्याधरेन्द्रात्स्वपितुः शापोऽभूदीदृशो मम ॥ कथासरित्सागर १२,१९.१३० (वेतालपञ्चविंशतिका १२) ॥ बहुपुत्रोऽपि स हि मे पिता पूर्वं वसन्निह । मया विनातिवात्सल्यान्नाहरमकरोत्सदा ॥ कथासरित्सागर १२,१९.१३१ (वेतालपञ्चविंशतिका १२) ॥ अहं च सर्वदा शर्वपूजासक्तेह निःजने । चतुर्दश्योरथाष्टम्योरागच्छं पक्षयोर्द्वयोः ॥ कथासरित्सागर १२,१९.१३२ (वेतालपञ्चविंशतिका १२) ॥ एकदा च चतुर्दश्यामिहागत्य रसान्मम । चिरं गौरीं समर्चन्त्या दैवादवसितं दिनम् ॥ कथासरित्सागर १२,१९.१३३ (वेतालपञ्चविंशतिका १२) ॥ तदहर्मत्प्रतीक्षः सन् क्षुधितोऽपि स मत्पिता । नाभुङ्क्त नापिबत्किम्चिदासीत्क्रुद्धस्तु मां प्रति ॥ कथासरित्सागर १२,१९.१३४ (वेतालपञ्चविंशतिका १२) ॥ ततो रात्रावुपेतां मां सापराधामधःमुखीम् । भवितव्यबलग्रस्तमत्स्नेहः शपति स्म सः ॥ कथासरित्सागर १२,१९.१३५ (वेतालपञ्चविंशतिका १२) ॥ यथा त्वदवलेपेन ग्रस्तोऽद्याहमयं क्षुधा । मासि मासि तथाष्टम्योश्चतुर्दश्योश्च केवलम् ॥ कथासरित्सागर १२,१९.१३६ (वेतालपञ्चविंशतिका १२) ॥ हरार्चनरसाद्यन्तीमत्रैव त्वां बहिः पुरे । नाम्ना कृतान्तसंत्रासो राक्षसो निगरिष्यति ॥ कथासरित्सागर १२,१९.१३७ (वेतालपञ्चविंशतिका १२) ॥ भित्त्वा भित्त्वास्य हृदयं जीवन्ती च निरेष्यसि । न स्मरिष्यसि शापं च न तां निगरणव्यथाम् ॥ कथासरित्सागर १२,१९.१३८ (वेतालपञ्चविंशतिका १२) ॥ स्थास्यस्येकाकिनी चात्रेत्युक्तशापवचाः शनैः । सोऽनुनीतो मया ध्यात्वा शापान्तं मेऽब्रवीत्पिता ॥ कथासरित्सागर १२,१९.१३९ (वेतालपञ्चविंशतिका १२) ॥ भर्ता भूत्वा यशःकेतुनामाङ्गनृपतिर्यदा । राक्षसेन निगीर्णां त्वां दृष्ट्वा तं निहनिष्यति ॥ कथासरित्सागर १२,१९.१४० (वेतालपञ्चविंशतिका १२) ॥ तदा त्वं मोक्ष्यसे शापाद्धृदयात्तस्य निःगता । संस्मरिष्यसि शापादि विद्याः सर्वास्तथा निजाः ॥ कथासरित्सागर १२,१९.१४१ (वेतालपञ्चविंशतिका १२) ॥ इत्यादिश्य स शापान्तं त्यक्त्वा मामेककामिह । निषधाद्रिं गतस्तातो भूलोकं सपरिच्छदः ॥ कथासरित्सागर १२,१९.१४२ (वेतालपञ्चविंशतिका १२) ॥ अहं तथा चरन्ती च शापमोहादिहावसम् । क्षीणश्चैष स शापो मे जाता सर्वत्र च स्मृतिः ॥ कथासरित्सागर १२,१९.१४३ (वेतालपञ्चविंशतिका १२) ॥ तत्तातपार्श्वमधुना निषधाद्रिं व्रजाम्यहम् । शापान्ते स्वां गतिं याम इत्येष समयो हि नः ॥ कथासरित्सागर १२,१९.१४४ (वेतालपञ्चविंशतिका १२) ॥ त्वमिहास्व स्वराष्ट्रं वा व्रज स्वातन्त्र्यमत्र ते । एवं तयोक्ते स नृपो दुःखितोऽर्थयते स्म ताम् ॥ कथासरित्सागर १२,१९.१४५ (वेतालपञ्चविंशतिका १२) ॥ सप्ताहानि न गन्तव्यं प्रसीद सुमुखि त्वया । क्षिपाव तावदौत्सुक्यमुद्याने क्रीडनैरिह ॥ कथासरित्सागर १२,१९.१४६ (वेतालपञ्चविंशतिका १२) ॥ त्वं गच्छाथ पितुः स्थानं यास्याम्यहमपि स्वकम् । एतत्तद्वचनं मुग्धा तथेत्यङ्गीचकार सा ॥ कथासरित्सागर १२,१९.१४७ (वेतालपञ्चविंशतिका १२) ॥ ततोऽत्र रेमे स तया सहोद्यानेषु कान्तया । सजलोत्पलनेत्रासु वापीषु षडहं नृपः ॥ कथासरित्सागर १२,१९.१४८ (वेतालपञ्चविंशतिका १२) ॥ मा स्म यातं विहायास्मानिति पूत्कुर्वतीष्विव । उत्क्षिप्तवीचिहस्तासु हंससारसनिःस्वनैः ॥ कथासरित्सागर १२,१९.१४९ (वेतालपञ्चविंशतिका १२) ॥ सप्तमेऽह्नि स युक्त्या तां प्रियां तत्रानयद्गृहे । भूलोकप्रापिणी यत्र सा यन्त्रद्वारवापिका ॥ कथासरित्सागर १२,१९.१५० (वेतालपञ्चविंशतिका १२) ॥ तत्र कण्ठे गृहीत्वा तां तस्यां वाप्यां निपत्य सः । उत्तस्थौ स्वपुरोद्यानवापीमध्यात्तया सह ॥ कथासरित्सागर १२,१९.१५१ (वेतालपञ्चविंशतिका १२) ॥ तत्र कान्तासखं प्राप्तं तं दृष्ट्वोद्यानपालकाः । हृष्टास्तन्मन्त्रिणे गत्वा जगदुर्दीर्घदर्शिने ॥ कथासरित्सागर १२,१९.१५२ (वेतालपञ्चविंशतिका १२) ॥ सोऽप्येत्य पादपतितस्तमानीतेप्सिताङ्गनम् । दृष्ट्वा प्रावेशयन्मन्त्री सपौरोऽभ्यन्तरं नृपम् ॥ कथासरित्सागर १२,१९.१५३ (वेतालपञ्चविंशतिका १२) ॥ अहो सैषा कथं प्राप्ता राज्ञा दिव्याङ्गनामुना । व्योम्नीव विद्युदिव या क्षणदृश्या मयेक्षिता ॥ कथासरित्सागर १२,१९.१५४ (वेतालपञ्चविंशतिका १२) ॥ यद्यस्य लिखितं धात्रा ललाटाक्षरपङ्क्तिषु । तदवश्यमसंभाव्यमपि तस्योपतिष्ठते ॥ कथासरित्सागर १२,१९.१५५ (वेतालपञ्चविंशतिका १२) ॥ इत्यत्र मन्त्रिमुख्येऽस्मिन् ध्यायत्यन्यजनेऽपि च । दिव्यस्त्रीप्राप्तिसाश्चर्यं राजागमनसोत्सवे ॥ कथासरित्सागर १२,१९.१५६ (वेतालपञ्चविंशतिका १२) ॥ सा मृगाङ्कवती दृष्ट्वा तं स्वदेशगतं नृपम् । इयेष पूर्णसप्ताहा यातुं वैद्याधरीं गतिम् ॥ कथासरित्सागर १२,१९.१५७ (वेतालपञ्चविंशतिका १२) ॥ नाविरासीच्च विद्यास्याः स्मृताप्युत्पतनी तदा । ततः सा मुषितेवात्र विषादमगमत्परम् ॥ कथासरित्सागर १२,१९.१५८ (वेतालपञ्चविंशतिका १२) ॥ किमकस्माद्विषण्णेव दृश्यसे वद मे प्रिये । इत्युक्ता तेन राज्ञा सा विध्यादर्येवमब्रवीत् ॥ कथासरित्सागर १२,१९.१५९ (वेतालपञ्चविंशतिका १२) ॥ स्थिताहं शापमुक्तापि त्वत्स्नेहाद्यदियच्चिरम् । तेन विद्या मम भ्रष्टा नष्टा दिव्या च सा गतिः ॥ कथासरित्सागर १२,१९.१६० (वेतालपञ्चविंशतिका १२) ॥ तच्छ्रुत्वा हन्त सिद्धेयं मम विद्याधरीति सः । राजा ततो यशःकेतुः पूर्णं चक्रे महोत्सवम् ॥ कथासरित्सागर १२,१९.१६१ (वेतालपञ्चविंशतिका १२) ॥ तद्दृष्ट्वा दीर्घदर्शी स मन्त्री गत्वा गृहं निशि । शयनीयगतोऽकस्माद्धृत्स्फोटेन व्यपद्यत ॥ कथासरित्सागर १२,१९.१६२ (वेतालपञ्चविंशतिका १२) ॥ ततोऽनुभूय तच्छोकं धृतराज्यभरः स्वयम् । यशःकेतुश्चिरं तस्थौ स मृगाङ्कवतीयुतः ॥ कथासरित्सागर १२,१९.१६३ (वेतालपञ्चविंशतिका १२) ॥ इत्येतां कथयित्वा मार्गे तस्मै कथां स वेतालः । अवदत्पुनस्त्रिविक्रमसेनं नृपतिं तमंसगतः ॥ कथासरित्सागर १२,१९.१६४ (वेतालपञ्चविंशतिका १२) ॥ तद्ब्रूहि भूपते ते संपन्ने स्वामिनस्तथाभ्युदये । हृदयं सपदि स्फुटितं तस्य महामन्त्रिणः किमिति ॥ कथासरित्सागर १२,१९.१६५ (वेतालपञ्चविंशतिका १२) ॥ दिव्यस्त्री न मया किं प्राप्तेति शुचास्फुटद्धृदयम् । किं वा राज्यमभीप्सोर्राजागमजेन दुःखेन ॥ कथासरित्सागर १२,१९.१६६ (वेतालपञ्चविंशतिका १२) ॥ एतच्च यदि न वक्ष्यसि मह्यं जानन्नपीह तद्राजन् । धर्मश्च तव विनङ्क्ष्यति यास्यति दलशश्च झटिति शिरः ॥ कथासरित्सागर १२,१९.१६७ (वेतालपञ्चविंशतिका १२) ॥ श्रुत्वेति तु त्रिविक्रमसेनो राजा जगाद वेतालम् । नैतत्तस्मिन् द्वयमपि शुभचरिते युज्यते हि मन्त्रिवरे ॥ कथासरित्सागर १२,१९.१६८ (वेतालपञ्चविंशतिका १२) ॥ किं तु स्त्रीमात्ररसादुपेक्षितं येन भूभुजा राज्यम् । तस्याधुना तु दिव्यस्त्रीरक्तस्यात्र का वार्ता ॥ कथासरित्सागर १२,१९.१६९ (वेतालपञ्चविंशतिका १२) ॥ तन्मे कष्टेऽपि कृते प्रत्युत दोषो बताधिकीभूतः । इति तस्य विभावयतो हृदयं तन्मन्त्रिणः स्फुटितम् ॥ कथासरित्सागर १२,१९.१७० (वेतालपञ्चविंशतिका १२) ॥ इत्युक्ते नरपतिना पुनः स मायी वेतालो निजपदमेव तज्जगाम । राजापि प्रसभमवाप्तुमन्वधावद्भूयोऽपि द्रुतमथ तं स धीरचेताः ॥ कथासरित्सागर १२,१९.१७१ (वेतालपञ्चविंशतिका १२) ॥ अथ गत्वा पुनः प्राप्य शिंशपातस्ततो नृपः । स त्रिविक्रमसेनस्तं स्कन्धे वेतालमाददे ॥ कथासरित्सागर १२,२०.१ (वेतालपञ्चविंशतिका १३) ॥ आयान्तं च स वेतालो भूयस्तं नृपमब्रवीत् । राजञ्शृणु कथामेकां संक्षिप्तां वर्णयामि ते ॥ कथासरित्सागर १२,२०.२ (वेतालपञ्चविंशतिका १३) ॥ अस्ति वाराणसी नाम पुरी हरनिवासभूः । देवस्वामीति तत्रासीन्मान्यो नरपतेर्द्विजः ॥ कथासरित्सागर १२,२०.३ (वेतालपञ्चविंशतिका १३) ॥ महाधनस्य तस्यैको हरिस्वामीत्यभूत्सुतः । तस्य भार्या च लावण्यवतीत्यत्युत्तमाभवत् ॥ कथासरित्सागर १२,२०.४ (वेतालपञ्चविंशतिका १३) ॥ तिलोत्तमादिनाकस्त्रीनिःमाणे प्राप्तकौशलः । अनर्घरूपलावण्यां मन्ये यां निर्ममे विधिः ॥ कथासरित्सागर १२,२०.५ (वेतालपञ्चविंशतिका १३) ॥ तया स कान्तया साकं हरिस्वामी कदाचन । रतिश्रान्तो ययौ निद्रां हर्म्ये चन्द्रांशुशीतले ॥ कथासरित्सागर १२,२०.६ (वेतालपञ्चविंशतिका १३) ॥ तत्कालं तेन मार्गेण कामचारी विहायसा । आगान्मदनवेगाख्यो विद्याधरकुमारकः ॥ कथासरित्सागर १२,२०.७ (वेतालपञ्चविंशतिका १३) ॥ स तत्र लावण्यवतीं पत्युः पार्श्वे ददर्श ताम् । सुप्तां रतिक्लमस्रस्तवस्त्रव्यक्ताङ्गसौष्ठवाम् ॥ कथासरित्सागर १२,२०.८ (वेतालपञ्चविंशतिका १३) ॥ तद्रूपहृतचित्तः सन्मदनान्धः स तत्क्षणम् । सुप्तामेव निपत्यैतां गृहीत्वा नभसा ययौ ॥ कथासरित्सागर १२,२०.९ (वेतालपञ्चविंशतिका १३) ॥ क्षणात्प्रबुद्धोऽथ युवा हरिस्वामी स तत्पतिः । प्राणेश्वरीमपश्यंस्तामुदतिष्ठत्ससंभ्रमः ॥ कथासरित्सागर १२,२०.१० (वेतालपञ्चविंशतिका १३) ॥ अहो किमेतत्क्व गता कुपिता सा नु किं मयि । छन्ना जिज्ञासितुं किं मे चित्तं परिहसत्युत ॥ कथासरित्सागर १२,२०.११ (वेतालपञ्चविंशतिका १३) ॥ इत्यनेकविकल्पौघव्याकुलस्तामितस्ततः । हर्म्यप्रासादवलभीष्वन्विष्यन् सोऽभ्रमन्निशि ॥ कथासरित्सागर १२,२०.१२ (वेतालपञ्चविंशतिका १३) ॥ अगृहोद्यानतश्चिन्वन् यन्न प्राप कुतोऽपि ताम् । तत्स शोकाग्निसंतप्तो विललापाश्रुगद्गदम् ॥ कथासरित्सागर १२,२०.१३ (वेतालपञ्चविंशतिका १३) ॥ हा चन्द्रबिम्बवदने हा ज्योत्स्नागौरी हा प्रिये । रात्र्या तुल्यगुणद्वेषात्किं नु सोढासि नानया ॥ कथासरित्सागर १२,२०.१४ (वेतालपञ्चविंशतिका १३) ॥ त्वया कान्त्या जितो बिभ्यदिव चन्दनशीतलैः । करैरसुखयद्यो मां सोऽयमिन्दुस्त्वया विना ॥ कथासरित्सागर १२,२०.१५ (वेतालपञ्चविंशतिका १३) ॥ लब्धान्तर इवेदानीं तैरेव तुदति प्रिये ॥ कथासरित्सागर १२,२०.१६ (वेतालपञ्चविंशतिका १३) ॥ प्रज्वलद्भिरिवाङ्गारैर्विषदिग्धैरिवाशुगैः इत्यादि क्रन्दतस्तस्य सा हरिस्वामिनस्तदा । कृच्छ्राद्व्यतीयाय निशा न पुनर्विरहव्यथा ॥ कथासरित्सागर १२,२०.१७ (वेतालपञ्चविंशतिका १३) ॥ प्रातर्बिभेद विश्वस्य करैः संतमसं रविः । भेत्तुं न चक्षमे तस्य मोहान्धतमसं पुनः ॥ कथासरित्सागर १२,२०.१८ (वेतालपञ्चविंशतिका १३) ॥ विलब्ध इव चक्राह्वैस्तस्य तीर्णनिशैस्तदा । भेजे शतगुनीभावं करुणाक्रन्दितध्वनिः ॥ कथासरित्सागर १२,२०.१९ (वेतालपञ्चविंशतिका १३) ॥ स्वजनैः सान्त्व्यमानोऽपि वियोगानलदीपितः । न च लेभे द्विजयुवा धृतिं तां प्रेयसीं विना ॥ कथासरित्सागर १२,२०.२० (वेतालपञ्चविंशतिका १३) ॥ इह स्थितमिह स्नातं कृतमत्र प्रसाधनम् । विहृतं च तयात्रेति ययौ त्वित इतो रुदन् ॥ कथासरित्सागर १२,२०.२१ (वेतालपञ्चविंशतिका १३) ॥ मृता तावन्न सा तत्किमात्मैवं हन्यते त्वया । अवश्यं तामवाप्तासि जीवञ्जातु कुतःचन ॥ कथासरित्सागर १२,२०.२२ (वेतालपञ्चविंशतिका १३) ॥ तद्धैर्यमवलम्बस्व तां गवेषय च प्रियाम् । अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः ॥ कथासरित्सागर १२,२०.२३ (वेतालपञ्चविंशतिका १३) ॥ इति बन्धुसुहृद्वाक्यैर्बोधितः सोऽथ कृच्छ्रतः । दिनैः कैःचिद्धरिस्वामी बबन्ध धृतिमास्थया ॥ कथासरित्सागर १२,२०.२४ (वेतालपञ्चविंशतिका १३) ॥ अचिन्तयच्च सर्वस्वं कृत्वा ब्राह्मणसादहम् । भ्रमामि तावत्तीर्थानि क्षपयाम्यघसंचयम् ॥ कथासरित्सागर १२,२०.२५ (वेतालपञ्चविंशतिका १३) ॥ पापक्षयाद्धि तां जातु प्रियां भ्राम्यन्नवाप्नुयाम् । इत्यालोच्य यथावस्थं स्नानाद्युत्थाय सोऽकरोत् ॥ कथासरित्सागर १२,२०.२६ (वेतालपञ्चविंशतिका १३) ॥ अन्येद्युश्च विचित्रान्नपानं सत्त्रे द्विजन्मनाम् । चकारावारितं किं च ददौ धनमशेषतः ॥ कथासरित्सागर १२,२०.२७ (वेतालपञ्चविंशतिका १३) ॥ ब्राह्मण्यमात्रवित्तस्य निःगत्यैव स्वदेशतः । प्रियाप्राप्तीच्छया सोऽथ तीर्थानि भ्रमितुं ययौ ॥ कथासरित्सागर १२,२०.२८ (वेतालपञ्चविंशतिका १३) ॥ भ्राम्यतश्च जगामास्य भीमो ग्रीष्मर्तुकेसरी । प्रचण्डादित्यवदनो दीप्ततद्रश्मिकेसरः ॥ कथासरित्सागर १२,२०.२९ (वेतालपञ्चविंशतिका १३) ॥ प्रियाविरहसंतप्तपान्थनिःश्वासमारुतैः । न्यस्तोष्माण इवात्युष्णा वान्ति स्म च समीरणाः ॥ कथासरित्सागर १२,२०.३० (वेतालपञ्चविंशतिका १३) ॥ शुष्यद्विदीर्णपङ्काश्च हृदयैः स्फुटितैरिव । जलाशया ददृशिरे घर्मलुप्ताम्बुसंपदः ॥ कथासरित्सागर १२,२०.३१ (वेतालपञ्चविंशतिका १३) ॥ चीरीचीत्कारमुखरास्तापम्लानदलाधराः । मधुश्रीविरहान्मार्गेष्वरुदन्निव पादपाः ॥ कथासरित्सागर १२,२०.३२ (वेतालपञ्चविंशतिका १३) ॥ तस्मिन् कालेऽर्कतापेन वियोगेन क्षुधा तृषा । नित्याध्वना च स क्लान्तो विरूक्षक्षामधूसरः ॥ कथासरित्सागर १२,२०.३३ (वेतालपञ्चविंशतिका १३) ॥ भोजनार्थि हरिस्वामी प्राप ग्रामं क्वचिद्भ्रमन् । पद्मनाभाभिधानस्य गृहं विप्रस्य सत्त्रिणः ॥ कथासरित्सागर १२,२०.३४ (वेतालपञ्चविंशतिका १३) ॥ तत्र दृष्ट्वा स भुञ्जानान् विप्रानभ्यन्तरे बहून् । द्वारशाखां समालम्ब्य तस्थौ निःशब्दनिःचलः ॥ कथासरित्सागर १२,२०.३५ (वेतालपञ्चविंशतिका १३) ॥ तथास्थितं तमालोक्य सत्त्रिणस्तस्य गेहिनी । पद्मनाभस्य संजातदया साध्वी व्यचिन्तयत् ॥ कथासरित्सागर १२,२०.३६ (वेतालपञ्चविंशतिका १३) ॥ अहो क्षुन्नाम गुर्व्येषा न कुर्यात्कस्य लाघवम् । यदेवमयमन्नार्थी कोऽप्यास्ते द्वार्यधःमुखः ॥ कथासरित्सागर १२,२०.३७ (वेतालपञ्चविंशतिका १३) ॥ दूराध्वाभ्यागतः स्नातस्तावत्क्षीणेन्द्रियः क्षुधा । तदेषश्चान्नदानस्य पात्रमित्यवधार्य सा ॥ कथासरित्सागर १२,२०.३८ (वेतालपञ्चविंशतिका १३) ॥ परमान्नभृतं साध्वी तस्मै सघृतशर्करम् । पात्रमुत्क्षिप्य पाणिभ्यामानीय प्रश्रिता ददौ ॥ कथासरित्सागर १२,२०.३९ (वेतालपञ्चविंशतिका १३) ॥ जगाद चैतं भुङ्क्ष्वैतद्गत्वा वापीतटे क्वचित् । इदं स्थानं समुच्छिष्टं भुञ्जानैर्ब्राह्मनैर्वृतम् ॥ कथासरित्सागर १२,२०.४० (वेतालपञ्चविंशतिका १३) ॥ तथेति सोऽन्नपात्रं तद्गृहीत्वा नातिदूरतः । गत्वा स्थापितवान् वाप्यास्तटे वटतरोरधः ॥ कथासरित्सागर १२,२०.४१ (वेतालपञ्चविंशतिका १३) ॥ प्रक्षाल्य पाणिपादं च वाप्यामाचम्य चात्र सः । यावद्भक्षयितुं तुष्टः परमान्नमुपैति तत् ॥ कथासरित्सागर १२,२०.४२ (वेतालपञ्चविंशतिका १३) ॥ तावद्गृहीत्वा कृष्णाहिं चञ्च्वा पादयुगेन च । श्येनः कुतःचिदागत्य तरौ तस्मिन्नुपाविशत् ॥ कथासरित्सागर १२,२०.४३ (वेतालपञ्चविंशतिका १३) ॥ तेन तस्योह्यमानस्य सर्पस्याक्रम्य पक्षिणा । उत्क्रान्तजीवितस्यास्याद्विषलाला विनिर्ययौ ॥ कथासरित्सागर १२,२०.४४ (वेतालपञ्चविंशतिका १३) ॥ सा तत्राधःस्थिते तस्मिन्नन्नपात्रेऽपतत्तदा । तच्चादृष्ट्वा हरिस्वामी स एत्यान्नमभुङ्क्त तत् ॥ कथासरित्सागर १२,२०.४५ (वेतालपञ्चविंशतिका १३) ॥ क्षुधार्तस्य तदा तस्य मृष्टान्नं तत्क्षणेन तत् । कृत्स्नं भुक्तवतस्तीव्रा प्रोदभूद्विषवेदना ॥ कथासरित्सागर १२,२०.४६ (वेतालपञ्चविंशतिका १३) ॥ अहो विधौ विपर्यस्ते न विपर्यस्यतीह किम् । यद्विषीभूतमन्नं मे सक्षीरघृटशर्करम् ॥ कथासरित्सागर १२,२०.४७ (वेतालपञ्चविंशतिका १३) ॥ इति जल्पन् विषार्तः स हरिस्वामी परिस्खलन् । गत्वा तां सत्त्रिणस्तस्य विप्रस्योवाच गेहिनीम् ॥ कथासरित्सागर १२,२०.४८ (वेतालपञ्चविंशतिका १३) ॥ त्वद्दत्ताद्विषमन्नान्मे जातं तद्विषमन्त्रिणम् । कम्चिन्ममानय क्षिप्रं ब्रह्महत्यान्यथास्ति ते ॥ कथासरित्सागर १२,२०.४९ (वेतालपञ्चविंशतिका १३) ॥ इत्युक्त्वैव स तां साध्वीं किमेतदिति विह्वलाम् । हरिस्वामी परावृत्तनेत्रः प्राणैर्व्ययुज्यत ॥ कथासरित्सागर १२,२०.५० (वेतालपञ्चविंशतिका १३) ॥ ततः सा तेन निःदोषाप्यातिथेय्यपि सत्त्रिणा । भार्या निष्कासिता गेहान्मिथ्यातिथिवधक्रुधा ॥ कथासरित्सागर १२,२०.५१ (वेतालपञ्चविंशतिका १३) ॥ साप्युत्पन्नमृषावद्या सुशुभादपि कर्मणः । जातावमाना तपसे साध्वी तीर्थमशिशृइयत् ॥ कथासरित्सागर १२,२०.५२ (वेतालपञ्चविंशतिका १३) ॥ कस्य विप्रवधः सोऽस्तु सर्पश्येनान्नदेश्विति । तदभूद्धर्मराजाग्रे वादो नासीत्तु निःणयः ॥ कथासरित्सागर १२,२०.५३ (वेतालपञ्चविंशतिका १३) ॥ तत्त्रिविक्रमसेन त्वं रजन् ब्रूहि ममाधुना । कस्य सा ब्रह्महत्येति पूर्वः शापः स तेऽन्यथा ॥ कथासरित्सागर १२,२०.५४ (वेतालपञ्चविंशतिका १३) ॥ इति वेतालतो राजा श्रुत्वा शापनियन्त्रितः । स त्रिविक्रमसेनस्तं मुक्तमौनोऽब्रवीदिदम् ॥ कथासरित्सागर १२,२०.५५ (वेतालपञ्चविंशतिका १३) ॥ तस्य तत्पातकं तावत्सर्पस्य यदि वास्य कः । विवशस्यापराधोऽस्ति भक्ष्यमाणस्य शत्रुणा ॥ कथासरित्सागर १२,२०.५६ (वेतालपञ्चविंशतिका १३) ॥ अथ स्येनस्य तेनापि किं दुष्टं क्षुधितात्मना । अकस्मात्प्राप्तमानीय भक्ष्यं भक्षयता निजम् ॥ कथासरित्सागर १२,२०.५७ (वेतालपञ्चविंशतिका १३) ॥ दंपत्योरन्नदात्रोर्वा तयोरेकस्य वा कुतः । अभाव्यदोषौ धर्मैकप्रवृत्तौ तावुभौ यतः ॥ कथासरित्सागर १२,२०.५८ (वेतालपञ्चविंशतिका १३) ॥ तदहं तस्य मन्ये सा ब्रह्महत्या जडात्मनः । अविचार्यैव यो ब्रूयादेषामेकतमस्य ताम् ॥ कथासरित्सागर १२,२०.५९ (वेतालपञ्चविंशतिका १३) ॥ इत्युक्तवतोऽस्य नृपस्यांसाद्भूयोऽप्यगात्स वेतालः । निजपदमेव नृपोऽपि स पुनरपि धीरस्तमन्वगादेव ॥ कथासरित्सागर १२,२०.६० (वेतालपञ्चविंशतिका १३) ॥ स त्रिविक्रमसेनोऽथ गत्वा तं शिंशपातरोः । भूयोऽप्यासाद्य वेतालं स्कन्धे जग्राह भूपतिः ॥ कथासरित्सागर १२,२१.१ (वेतालपञ्चविंशतिका १४) ॥ प्रस्थितं च तमुर्वीशं स वेतालोऽभ्यधात्पुनः । राजञ्श्रान्तोऽसि तच्चित्रां कथामाख्यामि ते शृणु ॥ कथासरित्सागर १२,२१.२ (वेतालपञ्चविंशतिका १४) ॥ अस्त्ययोध्येति नगरी राजधानी बभूव या । रक्षःकुलकृतान्तस्य रामरूपस्य शार्ङ्गिणः ॥ कथासरित्सागर १२,२१.३ (वेतालपञ्चविंशतिका १४) ॥ तस्यां राजाभवद्वीरकेतुर्नाम ररक्ष यः । क्षोणीमिमां महाबाहुः प्राकारो नगरीमिव ॥ कथासरित्सागर १२,२१.४ (वेतालपञ्चविंशतिका १४) ॥ तस्मिन्महीपतावस्यां पुर्यामेको महावणिक् । रत्नदत्ताभिधानोऽभूद्वणिङ्नीवहनायकः ॥ कथासरित्सागर १२,२१.५ (वेतालपञ्चविंशतिका १४) ॥ नन्दयन्त्यभिधानायां पत्न्यां तस्योदपद्यत । सुता रत्नवती नाम देवताराधनार्जिता ॥ कथासरित्सागर १२,२१.६ (वेतालपञ्चविंशतिका १४) ॥ सा च तस्य पितुर्वेश्मन्यवर्धत मनस्विनी । रूपलावण्यविनयैः सहैव सहजैर्गुणैः ॥ कथासरित्सागर १२,२१.७ (वेतालपञ्चविंशतिका १४) ॥ यौवनस्थां च तां तस्माद्रत्नदत्तान्न केवलम् । महान्तो वणिजो यावद्राजानोऽपि ययाचिरे ॥ कथासरित्सागर १२,२१.८ (वेतालपञ्चविंशतिका १४) ॥ सा तु पुम्द्वेषिणी नैच्छद्भर्तारमपि वासवम् । प्राणत्यागोद्यता सेहे न विवाहकथामपि ॥ कथासरित्सागर १२,२१.९ (वेतालपञ्चविंशतिका १४) ॥ तेन तस्याः पिता तूष्णीं तस्थौ वात्सल्यदुःस्थितः । स च प्रवादोऽयोद्यायां तस्यां सर्वत्र पप्रथे ॥ कथासरित्सागर १२,२१.१० (वेतालपञ्चविंशतिका १४) ॥ अत्रान्तरे सदा चौरैर्मुष्यमाणाः किलाखिलाः । संभूयात्र नृपं पौरा वीरकेतुं व्यजिज्ञपन् ॥ कथासरित्सागर १२,२१.११ (वेतालपञ्चविंशतिका १४) ॥ नित्यं मुष्यामहे चौरई रात्रौ रात्राविह प्रभो । लक्ष्यन्ते ते च नास्माभिस्तद्देवो वेत्तु यत्परम् ॥ कथासरित्सागर १२,२१.१२ (वेतालपञ्चविंशतिका १४) ॥ इति पौरैः स विज्ञप्तो राजा तामभितः पुरीम् । तस्करान्वेषणे छन्नानादिशद्रत्रिरक्षकान् ॥ कथासरित्सागर १२,२१.१३ (वेतालपञ्चविंशतिका १४) ॥ तेऽपि प्रापुर्न यच्चौरान् पुरी सामुष्यतैव च । तदैकदा स्वयं राजा निशि स्वैरं विनिर्ययौ ॥ कथासरित्सागर १२,२१.१४ (वेतालपञ्चविंशतिका १४) ॥ एकाकी चात्तशस्त्रोऽत्र भ्रमन् सोऽपश्यदेकतः । एकं प्राकारपृष्टेन यान्तं कमपि पूरुषम् ॥ कथासरित्सागर १२,२१.१५ (वेतालपञ्चविंशतिका १४) ॥ निःशब्दपदविन्यासविचित्रगतिकौशलम् । सशङ्कलोलनयनं पश्यन्तं पृष्टतो मुहुः ॥ कथासरित्सागर १२,२१.१६ (वेतालपञ्चविंशतिका १४) ॥ अयं स नूनं चौरो मे मुष्णात्येकचरः पुरीम् । इति मत्वैव निकटं स तस्योपययौ नृपः ॥ कथासरित्सागर १२,२१.१७ (वेतालपञ्चविंशतिका १४) ॥ ततः स चौरो दृष्ट्वा तं नृपं कोऽसीत्यभाषत । चौरोऽहमिति राजा तं चौरं प्रत्यब्रवीत्स तम् ॥ कथासरित्सागर १२,२१.१८ (वेतालपञ्चविंशतिका १४) ॥ सोऽथ चौरोऽभ्यधाद्दृष्ट्वा तर्हि तुल्योऽसि मे सुहृत् । तदेहि मद्गृहं तावन्मित्राचारं करोमि ते ॥ कथासरित्सागर १२,२१.१९ (वेतालपञ्चविंशतिका १४) ॥ तच्छ्रुत्वा स तथेत्युक्त्वा तेनैव सह भूपतिः । ययौ वनान्तःधरणीखातान्तःवर्ति तद्गृहम् ॥ कथासरित्सागर १२,२१.२० (वेतालपञ्चविंशतिका १४) ॥ अशेषभोगभोगाढ्यं भास्वद्दीपप्रकाशितम् । नवीनमिव पातालं बलिराजानधिष्ठितम् ॥ कथासरित्सागर १२,२१.२१ (वेतालपञ्चविंशतिका १४) ॥ तत्र प्रविष्टे तस्मिंश्च कृतासनपरिग्रहे । राज्ञि सोऽभ्यन्तरगृहं प्रविवेशाथ तस्करः ॥ कथासरित्सागर १२,२१.२२ (वेतालपञ्चविंशतिका १४) ॥ तत्क्षणं च तमेत्यैका दासी तत्रावदन्नृपम् । महाभाग प्रविष्टस्त्वमिह मृत्युमुखे कथम् ॥ कथासरित्सागर १२,२१.२३ (वेतालपञ्चविंशतिका १४) ॥ एकचौरो ह्यसौ पापं निःगत्यातः करिष्यति । ध्रुवं विस्वासघातीति तदितस्त्वरितं व्रज ॥ कथासरित्सागर १२,२१.२४ (वेतालपञ्चविंशतिका १४) ॥ इत्युक्तः स तया राजा निःगत्यैव ततो द्रुतम् । गत्वा स्वराजधानीं च निशि सैन्यान्यसज्जयत् ॥ कथासरित्सागर १२,२१.२५ (वेतालपञ्चविंशतिका १४) ॥ संनद्धसैन्यश्चागत्य दस्योस्तस्य रुरोध तत् । भूगृहद्वारविवरं रसत्तूर्याकुलैर्बलैः ॥ कथासरित्सागर १२,२१.२६ (वेतालपञ्चविंशतिका १४) ॥ ततो रुद्धे गृहे वृत्तं प्रतिभेदमवेत्य सः । मरणे निःचितश्चौरः शूरो युद्धाय निर्ययौ ॥ कथासरित्सागर १२,२१.२७ (वेतालपञ्चविंशतिका १४) ॥ निःगतश्च रणे चक्रे पराक्रमममानुषम् । करांश्चकर्त करिणां जङ्घाश्चिच्छेद वाजिनाम् ॥ कथासरित्सागर १२,२१.२८ (वेतालपञ्चविंशतिका १४) ॥ जहार च शिरांस्येको भटानां खड्गचर्मभृत् । ततस्तं क्षपितानीकमभ्यधावत्स्वयं नृपः ॥ कथासरित्सागर १२,२१.२९ (वेतालपञ्चविंशतिका १४) ॥ स तस्य खड्गविद्याज्ञो राजा करणयुक्तितः । हस्ताज्जहार निःत्रिंशमथ तां क्षुरिकामपि ॥ कथासरित्सागर १२,२१.३० (वेतालपञ्चविंशतिका १४) ॥ अशस्त्रं मुक्तशस्त्रोऽथ बाहुयुद्धेन तं नृपः । चौरं निहत्य धरणौ सजीवग्राहमग्रहीत् ॥ कथासरित्सागर १२,२१.३१ (वेतालपञ्चविंशतिका १४) ॥ निनाय तं च संयम्य सधनं नगरीं निजाम् । प्रातश्चाज्ञापयत्तस्य शूलारोपणनिग्रहम् ॥ कथासरित्सागर १२,२१.३२ (वेतालपञ्चविंशतिका १४) ॥ नीयमानं च तं वध्यभूमिं चौरं सडिण्डिमम् । ददर्श सा रत्नवती वणिक्कन्यात्र हर्म्यतः ॥ कथासरित्सागर १२,२१.३३ (वेतालपञ्चविंशतिका १४) ॥ व्रणितं धूलिलिप्ताङ्गमप्येतं मारमोहिता । दृष्ट्वैव गत्वा पितरं रत्नदत्तमुवाच सा ॥ कथासरित्सागर १२,२१.३४ (वेतालपञ्चविंशतिका १४) ॥ वधाय नीयते योऽयमेष भर्ता वृतो मया । तन्नृपाद्रक्ष तातैनं न चेदेनमनु म्रिये ॥ कथासरित्सागर १२,२१.३५ (वेतालपञ्चविंशतिका १४) ॥ तच्छ्रुत्वा तां पितावादीत्किमिदं पुत्रि भाषसे । या त्वं नेच्छसि भूपालामपि भर्तॄनभीप्सतः ॥ कथासरित्सागर १२,२१.३६ (वेतालपञ्चविंशतिका १४) ॥ सा पापं तस्करमिमं वाञ्छस्यापद्गतं कथम् । इत्यादि पित्रा प्रोक्तापि निःचयान्न चचाल सा ॥ कथासरित्सागर १२,२१.३७ (वेतालपञ्चविंशतिका १४) ॥ ततः स तत्पिता गत्वा तस्य चौरस्य सत्वरम् । सर्वस्वेनापि राजानं वधान्मोक्षमयाचत ॥ कथासरित्सागर १२,२१.३८ (वेतालपञ्चविंशतिका १४) ॥ राजा तु तं न तत्याज हेमकोटिशतैरपि । स्वशरीरपणानीतं चौरं सर्वापहारिणम् ॥ कथासरित्सागर १२,२१.३९ (वेतालपञ्चविंशतिका १४) ॥ ततः पितर्युपायाते विमुखे सा वणिक्सुता । अनुमर्तुं कृतस्नाना वार्यमाणापि बन्धुभिः ॥ कथासरित्सागर १२,२१.४० (वेतालपञ्चविंशतिका १४) ॥ आरुह्य शिबिकां तस्य दस्योर्वध्यभुवं ययौ । अन्वीयमाना रुदता पित्रा मात्रा जनेन च ॥ कथासरित्सागर १२,२१.४१ (वेतालपञ्चविंशतिका १४) ॥ तावच्च वधकैः सोऽत्र चौरः शूलेऽधिरोपितः । तां ददर्श गलत्प्राणस्तथा सज्ञातिमागताम् ॥ कथासरित्सागर १२,२१.४२ (वेतालपञ्चविंशतिका १४) ॥ जनाच्छ्रुत्वा च वृत्तान्तमश्रु मुक्त्वा क्षणं ततः । हसन् स चौरः किमपि प्राणाञ्शूलगतो जहौ ॥ कथासरित्सागर १२,२१.४३ (वेतालपञ्चविंशतिका १४) ॥ ततोऽवतारितं शूलात्सा तच्चौरकलेवरम् । आदाय चारुरोहात्र चितां साध्वी वणिक्सुता ॥ कथासरित्सागर १२,२१.४४ (वेतालपञ्चविंशतिका १४) ॥ तत्क्षणं च श्मशानेऽत्र भैरवः कृतसंनिधिः । अदृश्यो भगवानेवं तामुवाचान्तरिक्षतः ॥ कथासरित्सागर १२,२१.४५ (वेतालपञ्चविंशतिका १४) ॥ अस्मिन् स्वयम्वरपतावेवं भक्त्या तवानया । तुष्टोऽस्मि तद्वरं मत्तः प्रार्थयस्व पतिव्रते ॥ कथासरित्सागर १२,२१.४६ (वेतालपञ्चविंशतिका १४) ॥ तच्छ्रुत्वैव वरं देवादेवं वव्रे प्रणम्य सा । नाथ पुत्रशतं भूयादपुत्रस्यापि मत्पितुः ॥ कथासरित्सागर १२,२१.४७ (वेतालपञ्चविंशतिका १४) ॥ येनानन्यसुतो नैषः प्राणाञ्जह्यान्मया विना । इति प्रोक्तवतीमेनां साध्वीं देवोऽब्रवीत्पुनः ॥ कथासरित्सागर १२,२१.४८ (वेतालपञ्चविंशतिका १४) ॥ पितुः पुत्रशतं तेऽस्तु वरमन्यं वृणीष्व च । त्वादृशी दृढसत्त्वा हि नैतावन्मात्रमर्हति ॥ कथासरित्सागर १२,२१.४९ (वेतालपञ्चविंशतिका १४) ॥ तदाकर्ण्याथ सावादीत्प्रसन्नो मयि चेत्प्रभुः । तज्जीवत्वेष भर्ता मे धार्मिकश्च सदास्त्विति ॥ कथासरित्सागर १२,२१.५० (वेतालपञ्चविंशतिका १४) ॥ एवमस्त्वक्षतो जीवन्नुत्तिष्ठत्वेष ते पतिः । धार्मिकश्चास्तु राजास्य वीरकेतुश्च तुष्यतु ॥ कथासरित्सागर १२,२१.५१ (वेतालपञ्चविंशतिका १४) ॥ इत्युक्तवत्यनालक्ष्यमूर्तौ शर्वे नभःस्थिते । उत्तस्थावक्षताङ्गोऽत्र चौरो जीवंस्तदैव सः ॥ कथासरित्सागर १२,२१.५२ (वेतालपञ्चविंशतिका १४) ॥ ततो विस्मितहृष्टः सन् रत्नदत्तः सुतां वणिक् । आदाय तां रत्नवतीं चौरं जामातरं च तम् ॥ कथासरित्सागर १२,२१.५३ (वेतालपञ्चविंशतिका १४) ॥ प्रहृष्टैर्बान्धवैः साकं प्रविश्य निजमन्दिरम् । लब्धपुत्रवरश्चक्रे स्वानन्दोचितमुत्सवम् ॥ कथासरित्सागर १२,२१.५४ (वेतालपञ्चविंशतिका १४) ॥ ज्ञातवृत्तान्ततुष्टश्च तदैवानाय्य तं नृपः । एकवीरं वीरकेतुश्चौरं सेनापतिं व्यधात् ॥ कथासरित्सागर १२,२१.५५ (वेतालपञ्चविंशतिका १४) ॥ चौर्यान्निवृत्तोऽथ स तां परिणीय वणिक्सुताम् । एकवीरः सुखं तस्थौ मार्गस्थो राजसंमतः ॥ कथासरित्सागर १२,२१.५६ (वेतालपञ्चविंशतिका १४) ॥ इति कथयित्वा स कथां वेतालो दत्तपूर्वशापभयम् । अंसस्थितस्त्रिविक्रमसेनं पप्रच्छ तं क्षितिपम् ॥ कथासरित्सागर १२,२१.५७ (वेतालपञ्चविंशतिका १४) ॥ राजन् ब्रूहि सपितृकामुपस्थितां तां वणिक्सुतां दृष्ट्वा । चौरेण शूलपृष्टे रुदितं हसितं च किं तेन ॥ कथासरित्सागर १२,२१.५८ (वेतालपञ्चविंशतिका १४) ॥ अथ राजा प्रत्यवदद्रुदितं चौरेण दुःखतस्तेन । नास्यानृण्यमकारणबन्धोर्यातोऽस्मि वणिज इति ॥ कथासरित्सागर १२,२१.५९ (वेतालपञ्चविंशतिका १४) ॥ आश्चर्यतश्च हसितं किमियं कन्या नृपान् वरान् हित्वा । मय्यस्मिन्ननुरक्ता स्त्रीचित्तमहो विचित्रमिति ॥ कथासरित्सागर १२,२१.६० (वेतालपञ्चविंशतिका १४) ॥ इत्युक्तवाक्यस्य महीभृतोऽंसान्मायी स्वशक्त्यैव तदा जगाम । स्वं धाम वेतालवरः स राजाप्येतं पुनः पूर्ववदन्वगच्छत् ॥ कथासरित्सागर १२,२१.६१ (वेतालपञ्चविंशतिका १४) ॥ ततो गत्वा पुनः प्राप्य वेतालं शिंशपातरोः । स त्रिविक्रमसेनस्तमादायोदचलत्पुनः ॥ कथासरित्सागर १२,२२.१ (वेतालपञ्चविंशतिका १५) ॥ आयान्तं तं च राजानं स वेतालोऽंसपृष्ठगः । जगाद भूयोऽप्येतां ते राजन् वच्मि कथां शृणु ॥ कथासरित्सागर १२,२२.२ (वेतालपञ्चविंशतिका १५) ॥ अभून्नेपालविषये नाम्ना शिवपुरं पुरम् । यथार्थनामा तत्रासीद्यशःकेतुः पुरा नृपः ॥ कथासरित्सागर १२,२२.३ (वेतालपञ्चविंशतिका १५) ॥ स मन्त्रिणि न्यस्य भरं प्रज्ञासागरसंज्ञके । चन्द्रप्रभाख्यया देव्या सार्धं भोगानसेवत ॥ कथासरित्सागर १२,२२.४ (वेतालपञ्चविंशतिका १५) ॥ कालेन तस्यां देव्यां च तस्याजायत कन्यका । राज्ञः शशिप्रभा नाम जगन्नेत्रशशिप्रभा ॥ कथासरित्सागर १२,२२.५ (वेतालपञ्चविंशतिका १५) ॥ क्रमेण यौवनस्था सा मधुमासे कदाचन । ययौ यात्रोत्सवं द्रष्टुमुद्यानं सपरिच्छदा ॥ कथासरित्सागर १२,२२.६ (वेतालपञ्चविंशतिका १५) ॥ तत्रैकदेशेऽपश्यत्तां कुसुमावचयोद्यताम् । उत्क्षिप्तबाहुलतिकालक्षितैकपयःधराम् ॥ कथासरित्सागर १२,२२.७ (वेतालपञ्चविंशतिका १५) ॥ प्रसूनवृन्तविगलत्संदंशकरशोभिनीम् । आढ्यपुत्रो मनःस्वामी नाम यात्रागतो द्विजः ॥ कथासरित्सागर १२,२२.८ (वेतालपञ्चविंशतिका १५) ॥ स तया दृष्टया सद्यो हृतस्य मनसो युवा । मनःस्वाम्यपि नैवाभूत्स्वामी मदनमोहितः ॥ कथासरित्सागर १२,२२.९ (वेतालपञ्चविंशतिका १५) ॥ मार्गणानां कृते किं स्विद्रतिरेषा मनःभुवः । वसन्तसंभृतानीह पुष्पाण्युच्चिनुते स्वयम् ॥ कथासरित्सागर १२,२२.१० (वेतालपञ्चविंशतिका १५) ॥ किं वार्चयितुकामेयं माधवं वनदेवता । इति संचिन्तयन्तं तं साप्यपश्यन्नृपात्मजा ॥ कथासरित्सागर १२,२२.११ (वेतालपञ्चविंशतिका १५) ॥ दृष्टमात्रे च सा तस्मिन् साङ्गे नव इव स्मरे । न पुष्पाणि न चाङ्गानि सोत्का नात्मानमस्मरत् ॥ कथासरित्सागर १२,२२.१२ (वेतालपञ्चविंशतिका १५) ॥ इत्यन्योऽन्यनवप्रेमसरसौ यावदत्र तौ । तिष्ठतस्तावदुदभूद्धाहाहेति महारवः ॥ कथासरित्सागर १२,२२.१३ (वेतालपञ्चविंशतिका १५) ॥ किमेतदिति चोत्क्षिप्तकम्धरं पश्यतोस्तयोः । आयादत्रोपलब्धान्यगजगन्धोत्थया रुषा ॥ कथासरित्सागर १२,२२.१४ (वेतालपञ्चविंशतिका १५) ॥ भग्नालानो विनिर्गत्य मत्तो मार्गद्रुमान् रुजन् । पतिताधोरनो धावंल्लम्बमानाङ्कुशः करी ॥ कथासरित्सागर १२,२२.१५ (वेतालपञ्चविंशतिका १५) ॥ ततः परिजने त्रस्तविद्रुते तां ससंभ्रमम् । राजपुत्रीं प्रधाव्यैव दोर्भ्यामुत्क्षिप्य चैककाम् ॥ कथासरित्सागर १२,२२.१६ (वेतालपञ्चविंशतिका १५) ॥ अङ्गैः किम्चित्कृताश्लेषां भयप्रेमत्रपाकुलाम् । निनाय स मनःस्वामी सुदूरं गजगोचरात् ॥ कथासरित्सागर १२,२२.१७ (वेतालपञ्चविंशतिका १५) ॥ अथागतैः परिजनैः स्तुवद्भिस्तं द्विजोत्तमम् । मुहुर्विवृत्य पश्यन्ती सा निन्ये निजमन्दिरम् ॥ कथासरित्सागर १२,२२.१८ (वेतालपञ्चविंशतिका १५) ॥ तत्र तस्थौ तमेवार्ता स्मरन्ती प्राणदायिनम् । स्मराग्निपुटपाकेन पच्यमाना दिवानिशम् ॥ कथासरित्सागर १२,२२.१९ (वेतालपञ्चविंशतिका १५) ॥ सोऽप्युद्यानान्मनःस्वामी तदा तस्मादनुव्रजन् । स्वान्तःपुरप्रविष्टां तां दृष्ट्वा सोत्को व्यचिन्तयत् ॥ कथासरित्सागर १२,२२.२० (वेतालपञ्चविंशतिका १५) ॥ नैतां विनाधुना स्थातुं जीवितुं वाहमुत्सहे । तन्मे श्रीमूलदेवोऽत्र धूर्थः सिद्धो गुरुर्गतिः ॥ कथासरित्सागर १२,२२.२१ (वेतालपञ्चविंशतिका १५) ॥ इति संचिन्त्य कथमप्यस्मिन्नवसिते दिने । प्रतो ययौ गुरोस्तस्य मूलदेवस्य सोऽन्तिकम् ॥ कथासरित्सागर १२,२२.२२ (वेतालपञ्चविंशतिका १५) ॥ ददर्श तं च मित्रेण शशिना नित्य संगतम् । सिद्धमायाद्भुतपथं सशरीरमिवाम्बरम् ॥ कथासरित्सागर १२,२२.२३ (वेतालपञ्चविंशतिका १५) ॥ न्यवेदयच्च तत्तस्मै प्रणम्य स्वमनीषितम् । सोऽपि साधयितुं तस्य प्रतिपेदे विहस्य तत् ॥ कथासरित्सागर १२,२२.२४ (वेतालपञ्चविंशतिका १५) ॥ ततः स योगगुलिकां क्षिप्त्वा धूर्तपतिर्मुखे । मूलदेवो व्यधाद्वृद्धब्राह्मणाकृतिमात्मनः ॥ कथासरित्सागर १२,२२.२५ (वेतालपञ्चविंशतिका १५) ॥ द्वितीयां गुलिकां दत्त्वा मुखक्षेप्यां चकार च । सुकान्तकन्यकारूपं तं मनःस्वामिनं द्विजम् ॥ कथासरित्सागर १२,२२.२६ (वेतालपञ्चविंशतिका १५) ॥ तद्रूपं तं समादाय गत्वा धूर्ताधिपोऽथ सः । तत्प्रियाजनकं भूपमास्थाने तं व्यजिज्ञपत् ॥ कथासरित्सागर १२,२२.२७ (वेतालपञ्चविंशतिका १५) ॥ राजन्नेकोऽस्ति मे पुत्रः कन्या दूराच्च तत्कृते । मयैषा याचितानीता स च क्वापि गतोऽधुना ॥ कथासरित्सागर १२,२२.२८ (वेतालपञ्चविंशतिका १५) ॥ तमन्वेष्टुमहं यामि तदेषा रक्ष्यतां त्वया । आनयामि सुतं यावत्त्वं हि विश्वस्य रक्षिता ॥ कथासरित्सागर १२,२२.२९ (वेतालपञ्चविंशतिका १५) ॥ तच्छ्रुत्वा शापभीत्या च प्रतिपद्य स भूपतिः । सुतामानाययामास यशःकेतुः शशिप्रभाम् ॥ कथासरित्सागर १२,२२.३० (वेतालपञ्चविंशतिका १५) ॥ जगाद चैतां पुत्रीमां कन्यां रक्षेः स्वमन्दिरे । स्वपार्श्व एव चाहारं शय्यां चास्याः प्रकल्पयेः ॥ कथासरित्सागर १२,२२.३१ (वेतालपञ्चविंशतिका १५) ॥ इति पित्रोक्तया निन्ये कन्यारूपस्तथेति सः । अन्तःपुरं मनःस्वामी राजपुत्र्या तया निजम् ॥ कथासरित्सागर १२,२२.३२ (वेतालपञ्चविंशतिका १५) ॥ यथारुचि ततो याते मुलदेवे द्विजाकृतौ । कन्यारूपः स तत्रासीन्मनःस्वामी प्रियान्तिके ॥ कथासरित्सागर १२,२२.३३ (वेतालपञ्चविंशतिका १५) ॥ दिनैश्च तां सखीप्रीतिविस्रम्भं सम्यगागताम् । एकदा विरहक्षामां शयनीयलुठत्तनुम् ॥ कथासरित्सागर १२,२२.३४ (वेतालपञ्चविंशतिका १५) ॥ रात्रौ रहो राजसुतामासन्नशयनस्थितः । कन्यारूपप्रतिच्छन्नो मनःस्वामी स पृष्टवान् ॥ कथासरित्सागर १२,२२.३५ (वेतालपञ्चविंशतिका १५) ॥ सखि किं पाण्डुरछाया क्षीयमाणा दिने दिने । कान्तपक्षवियुक्तेव दुःखितासि शशिप्रभे ॥ कथासरित्सागर १२,२२.३६ (वेतालपञ्चविंशतिका १५) ॥ ब्रूहि मे को ह्यविश्वासः स्निग्धमुग्धे सखिजने । इदानीं नैव भोक्ष्येऽहं न वदिष्यसि चेन्मम ॥ कथासरित्सागर १२,२२.३७ (वेतालपञ्चविंशतिका १५) ॥ तच्छ्रुत्वा सा विनिःश्वस्य शनई राजसुताब्रवीत् । किं मे त्वय्यप्यविश्वासः शृणु तत्सखि वच्मि ते ॥ कथासरित्सागर १२,२२.३८ (वेतालपञ्चविंशतिका १५) ॥ एकदाहं मधूद्यानयात्रां द्रष्टुं गताभवम् । तत्रापश्यं च सुभगं कम्चिद्ब्राह्मणपुत्रकम् ॥ कथासरित्सागर १२,२२.३९ (वेतालपञ्चविंशतिका १५) ॥ हिममुक्तेन्दुसश्रीकं दर्शनोद्दीपितस्मरम् । मधुमासमिवालोकक्रीडालंकृतकाननम् ॥ कथासरित्सागर १२,२२.४० (वेतालपञ्चविंशतिका १५) ॥ चकोरायितुमेते च प्रवृत्ते यावदुन्मुखे । तन्मुखेन्दुद्युतिसुधापायिनी मे विलोचने ॥ कथासरित्सागर १२,२२.४१ (वेतालपञ्चविंशतिका १५) ॥ तावत्स्रवन्मदजलस्तत्राकस्मान्निःर्गलः । अकालकालमेघाभो गर्जन्नागान्महागजः ॥ कथासरित्सागर १२,२२.४२ (वेतालपञ्चविंशतिका १५) ॥ तत्संभ्रमात्परिजने नष्टेऽहं भयविह्वला । उत्क्षिप्य विप्रपुत्रेण नीता तेनैव दूरतः ॥ कथासरित्सागर १२,२२.४३ (वेतालपञ्चविंशतिका १५) ॥ श्रीखण्डेनानुलिप्तेव सिक्तेव सुधया तथा । अहं तदङ्गस्पर्शेन न जाने कां दशामगाम् ॥ कथासरित्सागर १२,२२.४४ (वेतालपञ्चविंशतिका १५) ॥ क्षनाच्च परिवारेण मिलितेनावशा ततः । इहानीतास्मि निक्षिप्ता स्वर्गादिव भुवस्तले ॥ कथासरित्सागर १२,२२.४५ (वेतालपञ्चविंशतिका १५) ॥ तदाप्रभृति संकल्पैस्तैस्तैः कल्पितसंगमम् । पश्यामि तं प्रबुद्धापि पार्श्वस्थं प्राणदं पतिम् ॥ कथासरित्सागर १२,२२.४६ (वेतालपञ्चविंशतिका १५) ॥ सुप्ता स्वप्ने च कुर्वाणं चाटून्यालोकयामि तम् । त्याजयन्तं हठाल्लज्जां चुम्बनालिङ्गनाधिभिः ॥ कथासरित्सागर १२,२२.४७ (वेतालपञ्चविंशतिका १५) ॥ न च प्राप्नोम्यभव्या तन्नामाद्यज्ञानमोहिता । तदेवं मां दहत्येष प्राणेशविरहानलः ॥ कथासरित्सागर १२,२२.४८ (वेतालपञ्चविंशतिका १५) ॥ इति वाक्सुधया तस्याः पूर्णस्वश्रवणोदरः । सानन्दः स मनःस्वामी विप्रकन्यावपुःधरः ॥ कथासरित्सागर १२,२२.४९ (वेतालपञ्चविंशतिका १५) ॥ कृतार्थमानी मत्वा तं कालमात्मप्रकाशने । स्वरूपं प्रकटीचक्रे निष्कृष्य गुलिकां मुखात् ॥ कथासरित्सागर १२,२२.५० (वेतालपञ्चविंशतिका १५) ॥ जगाद च विलोलाक्षि सोऽहमेवैषो यस्त्वया । उद्याने दर्शनक्रीतो नीतो निःव्याजदासताम् ॥ कथासरित्सागर १२,२२.५१ (वेतालपञ्चविंशतिका १५) ॥ त्वत्संस्तवक्षणभ्रंशात्क्लेशं तं चाप्तवानहम् । यस्यैषः परिणामो मे कन्यारूपग्रहोऽभवत् ॥ कथासरित्सागर १२,२२.५२ (वेतालपञ्चविंशतिका १५) ॥ तस्मात्सफलयैतां मे विसोढां विरहव्यथाम् । आत्मनश्च न तन्वङ्गि क्षमतेऽतः परं स्मरः ॥ कथासरित्सागर १२,२२.५३ (वेतालपञ्चविंशतिका १५) ॥ एवं वदन्तं सहसा प्राणेशं तं विलोक्य सा । आसीद्राजसुता क्षिप्रं स्नेहाश्चर्यत्रपाकुला ॥ कथासरित्सागर १२,२२.५४ (वेतालपञ्चविंशतिका १५) ॥ अथात्यौत्सुक्यनिर्वृत्तगान्धर्वोद्वाहयोस्तयोः । प्रेम्णस्तस्य मतो यादृक्तादृशोऽभूद्रतोत्सवः ॥ कथासरित्सागर १२,२२.५५ (वेतालपञ्चविंशतिका १५) ॥ ततः सोऽत्र मनःस्वामी कृती तस्थौ द्विरूपभृत् । दिवा सगुलिकाः कन्या रात्रावगुलिकाः पुमान् ॥ कथासरित्सागर १२,२२.५६ (वेतालपञ्चविंशतिका १५) ॥ गतेष्वथ दिनेष्वत्र यशःकेतोर्महीपतेः । मृगाङ्कदत्तसंज्ञेन स्वशुर्येण निजा सुता ॥ कथासरित्सागर १२,२२.५७ (वेतालपञ्चविंशतिका १५) ॥ दत्ता मृगाङ्कवत्याख्या महार्हविभवोत्तरा । द्विजातये महामन्त्रिप्रज्ञासागरसूनवे ॥ कथासरित्सागर १२,२२.५८ (वेतालपञ्चविंशतिका १५) ॥ तस्मिन्मातुलपुत्र्याः सा राजपुत्री शशिप्रभा । विवाहे मातुलगृहं तज्जगाम निमन्त्रिता ॥ कथासरित्सागर १२,२२.५९ (वेतालपञ्चविंशतिका १५) ॥ तया सह ययौ सोऽपि कन्यकापरिवारया । विप्रपुत्रो मनःस्वामी कान्तकन्यास्वरूपधृत् ॥ कथासरित्सागर १२,२२.६० (वेतालपञ्चविंशतिका १५) ॥ तत्र तं कन्यकारूपधरं मन्त्रिसुतोऽथ सः । दृष्ट्वा किल स्मरव्याधगाढबाणाहतोऽभवत् ॥ कथासरित्सागर १२,२२.६१ (वेतालपञ्चविंशतिका १५) ॥ ततो मुषितचित्तः संस्तया कपटकन्यया । ययौ मन्त्रिसुतः शून्यं स्वगृहं स्ववधूसखः ॥ कथासरित्सागर १२,२२.६२ (वेतालपञ्चविंशतिका १५) ॥ तत्र तन्मुखलावन्यध्यानासक्तो जगाम सः । तीव्ररागमहाव्यालदष्टो मोहमशङ्कितम् ॥ कथासरित्सागर १२,२२.६३ (वेतालपञ्चविंशतिका १५) ॥ किमेतदिति संभ्रान्ते जने तत्रोत्सवोज्झिते । तमुपागाद्द्रुतं बुद्ध्वा स प्रज्ञासागरः पिता ॥ कथासरित्सागर १२,२२.६४ (वेतालपञ्चविंशतिका १५) ॥ तेन चाश्वास्यमानोऽपि पित्रा मोहात्प्रबुध्य सः । प्रलपन्निव सोन्मादमुज्जगार मनःगतम् ॥ कथासरित्सागर १२,२२.६५ (वेतालपञ्चविंशतिका १५) ॥ अस्वाधीनं च तं मत्वा तत्पितर्यतिविह्वले । तस्मिन् राजापि तद्बुद्ध्वा तत्रैव समुपाययौ ॥ कथासरित्सागर १२,२२.६६ (वेतालपञ्चविंशतिका १५) ॥ स तं दृष्ट्वा झटित्येव गाढाभिष्वङ्गतो गतम् । सप्तमीं मदनावस्थां जगाद प्रकृतीर्नृपः ॥ कथासरित्सागर १२,२२.६७ (वेतालपञ्चविंशतिका १५) ॥ कथं ब्राह्मणनिक्षेपः कन्या सास्मै प्रदीयते । तया विना च नियतं पश्चिमामेत्यसौ दशाम् ॥ कथासरित्सागर १२,२२.६८ (वेतालपञ्चविंशतिका १५) ॥ अस्मिन्नष्टे पितास्यैषो मम मन्त्री विनङ्क्ष्यति । एतन्नाशे राज्यनाशस्तदिह ब्रूत का गतिः ॥ कथासरित्सागर १२,२२.६९ (वेतालपञ्चविंशतिका १५) ॥ इत्युक्तास्तेन राज्ञा ताः सर्वाः प्रकृतयोऽब्रुवन् । राज्ञो धर्मं निजं प्राहुः प्रजानां धर्मरक्षणम् ॥ कथासरित्सागर १२,२२.७० (वेतालपञ्चविंशतिका १५) ॥ मूलं तस्य विदुर्मन्त्रं स च मन्त्रिष्ववस्थितः । मन्त्रिनाशे मूलनाशाद्रक्ष्या धर्मक्षतिर्ध्रुवम् ॥ कथासरित्सागर १२,२२.७१ (वेतालपञ्चविंशतिका १५) ॥ पापं च स्याद्द्विजस्यास्य ससूनोर्मन्त्रिणो वधात् । तस्माद्रक्ष्योऽयमासन्नोऽवश्यं ते धर्मविप्लवः ॥ कथासरित्सागर १२,२२.७२ (वेतालपञ्चविंशतिका १५) ॥ दातव्या मन्त्रिपुत्राय विप्रन्यस्ता कुमारिका । कालान्तरागते विप्रे क्रुद्धे प्रतिविधास्यते ॥ कथासरित्सागर १२,२२.७३ (वेतालपञ्चविंशतिका १५) ॥ एवमुक्तः प्रकृतिभिस्तथेति प्रत्यपद्यत । स राजा मन्त्रिपुत्राय दातुं तां कूटकन्यकाम् ॥ कथासरित्सागर १२,२२.७४ (वेतालपञ्चविंशतिका १५) ॥ आनीतश्च स निश्चित्य लग्नं राजसूतागृहात् । कन्यारूपो मनःस्वामी तं जगाद महीपतिम् ॥ कथासरित्सागर १२,२२.७५ (वेतालपञ्चविंशतिका १५) ॥ अन्येनान्यार्थमानीतामन्यस्मै मां ददासि चेत् । कामं तदस्तु राजा त्वं धर्माधर्मौ तवाद्य तौ ॥ कथासरित्सागर १२,२२.७६ (वेतालपञ्चविंशतिका १५) ॥ अहं विवाहमिच्छामि समयेनेदृशेन तु । एकशय्यां न नेतव्या पत्या तावदहं हठात् ॥ कथासरित्सागर १२,२२.७७ (वेतालपञ्चविंशतिका १५) ॥ यावत्तीर्थानि षण्मासान् परिभ्रम्य स नागतः । एवं न चेत्कृत्तजिह्वां दन्तैर्जानीहि मां मृताम् ॥ कथासरित्सागर १२,२२.७८ (वेतालपञ्चविंशतिका १५) ॥ इत्युक्ते समये तेन यूना कन्यावपुःभृता । राज्ञा स बोधितः प्राप निःवृत्तिं मन्त्रिपुत्रकः ॥ कथासरित्सागर १२,२२.७९ (वेतालपञ्चविंशतिका १५) ॥ तथेति प्रतिपद्यैतत्कृत्वोद्वाहं किलाशु तम् । एकस्मिन् स्थापयित्वा च वासके ते सुरक्षिते ॥ कथासरित्सागर १२,२२.८० (वेतालपञ्चविंशतिका १५) ॥ तां मृगाङ्कवतीमाद्यां वधूं कूटवधूं च ताम् । जगाम तीर्थयात्रायै मूडः कान्ताप्रियेच्छया ॥ कथासरित्सागर १२,२२.८१ (वेतालपञ्चविंशतिका १५) ॥ स चोवास मनःस्वामी स्त्रीरूपोऽत्र तया सह । मृगाङ्कवत्येकगृहे समानशयनासनः ॥ कथासरित्सागर १२,२२.८२ (वेतालपञ्चविंशतिका १५) ॥ तथा स्थितं कदाचित्तं सा मृगाङ्कवती निशि । शय्यागृहे रहोऽवादीद्बहिःसुप्ते परिच्छदे ॥ कथासरित्सागर १२,२२.८३ (वेतालपञ्चविंशतिका १५) ॥ कथां काम्चित्त्वमाख्याहि निद्रा नास्ति हि मे सखि । तच्छ्रुत्वाकथयत्सोऽस्यै स्त्रीरूपस्तां कथां युवा ॥ कथासरित्सागर १२,२२.८४ (वेतालपञ्चविंशतिका १५) ॥ यत्रेलाख्यस्य राजऋषेः सूर्यवंशभुवः पुरा । प्राप्तस्य गौरीशापेन स्र्तीत्वं विश्वैकमोहनम् ॥ कथासरित्सागर १२,२२.८५ (वेतालपञ्चविंशतिका १५) ॥ अन्योन्यदर्शनप्रीत्या देवोद्यानवनान्तरे । अभूद्बुधेन संयोगः समभूच्च पुरूरवाः ॥ कथासरित्सागर १२,२२.८६ (वेतालपञ्चविंशतिका १५) ॥ तां कथां कथयित्वा च धूर्तः पुन उवाच सः । तदेवं देवतादेशान्मन्त्रौषधवशेन वा ॥ कथासरित्सागर १२,२२.८७ (वेतालपञ्चविंशतिका १५) ॥ पुरुषः स्त्री कदाचित्स्यात्स्त्री वा जातु पुमान् भवेत् । भवन्ति चैवं संयोगाः कामजा महतामपि ॥ कथासरित्सागर १२,२२.८८ (वेतालपञ्चविंशतिका १५) ॥ श्रुत्वैतत्तरुणी मुग्धा विवाहप्रोषितानुका । सा मृगाङ्कवती स्माह विश्वस्ता सहवासतः ॥ कथासरित्सागर १२,२२.८९ (वेतालपञ्चविंशतिका १५) ॥ श्रुत्वैतां मे कथामेतदङ्गं सिमिसिमायते । हृदयं सीदतीवेदं तदेतत्सखि किं वद ॥ कथासरित्सागर १२,२२.९० (वेतालपञ्चविंशतिका १५) ॥ तच्छ्रुत्वा सोऽङ्गनारूपो विप्रः पुन उवाच ताम् । एतानि कामचिह्नानि नन्वपूर्वाणि ते सखि ॥ कथासरित्सागर १२,२२.९१ (वेतालपञ्चविंशतिका १५) ॥ मयैतान्यनुभूतानि निगूहे न ह्यहं तव । इति तेनोदितावादीत्सा मृगाङ्कवती शनैः ॥ कथासरित्सागर १२,२२.९२ (वेतालपञ्चविंशतिका १५) ॥ सखि प्राणसमा त्वं मे तत्कालज्ञा न वच्मि किम् । अपि पुंसः प्रवेशः स्यादुपायेन हि केनचित् ॥ कथासरित्सागर १२,२२.९३ (वेतालपञ्चविंशतिका १५) ॥ एवमुक्तवतीमेतां स च लब्धाशयस्तदा । प्राह धूर्तपतेः शिष्यो यद्येवं तद्वदामि ते ॥ कथासरित्सागर १२,२२.९४ (वेतालपञ्चविंशतिका १५) ॥ वैष्णवोऽस्ति प्रसादो मे येनाहं स्वेच्छया निशि । पुरुषः स्यां तदेष अद्य भवामि त्वत्कृते पुमान् ॥ कथासरित्सागर १२,२२.९५ (वेतालपञ्चविंशतिका १५) ॥ इत्युक्त्वा स मनःस्वामी निष्कृष्य गुलिकां मुखात् । यौवनोद्दाममात्मानं तस्यै कान्तमदर्शयत् ॥ कथासरित्सागर १२,२२.९६ (वेतालपञ्चविंशतिका १५) ॥ ततः कथितविस्रम्भः सर्वस्वगतयन्त्रणः । कालोचितरसः कोऽपि तयोरासीद्रतोत्सवः ॥ कथासरित्सागर १२,२२.९७ (वेतालपञ्चविंशतिका १५) ॥ अथ तत्र तया साकं स मन्त्रिसुतभार्यया । तस्थौ द्विजो दिवा नारी रात्रौ च पुरुषो भवन् ॥ कथासरित्सागर १२,२२.९८ (वेतालपञ्चविंशतिका १५) ॥ आसन्नागमनं तं च बुद्ध्वा मन्त्रिसुतं दिनैः । तामादाय निशि स्वैरं पलाय्य स ययौ ततः ॥ कथासरित्सागर १२,२२.९९ (वेतालपञ्चविंशतिका १५) ॥ एतस्मिंश्च कथासंधौ मूलदेवः स तद्गुरुः । बुद्ध्वा तदखिलं भूत्वा भूयो वृद्धद्विजाकृतिः ॥ कथासरित्सागर १२,२२.१०० (वेतालपञ्चविंशतिका १५) ॥ शशिनानुगतः सख्या तरुणद्विजरूपिणा । आगत्य तं यशःकेतुं प्रह्वो राजानमब्रवीत् ॥ कथासरित्सागर १२,२२.१०१ (वेतालपञ्चविंशतिका १५) ॥ आनीतोऽयं मया पुत्रो देहि मे तां स्नुषामिति । ततः संमन्त्र्य स नृपः शापभीतस्तमभ्यधात् ॥ कथासरित्सागर १२,२२.१०२ (वेतालपञ्चविंशतिका १५) ॥ ब्रह्मन्न जाने क्व गता सा स्नुषा ते क्षमस्व तत् । अपराधात्सुतस्यार्थे ददामि स्वसुतां तव ॥ कथासरित्सागर १२,२२.१०३ (वेतालपञ्चविंशतिका १५) ॥ इत्युक्त्वा धूर्तराजं तं कृतकक्रोधनिष्ठुरम् । विब्रुवाणं जरद्विप्ररूपं प्रार्थ्य स भूपतिः ॥ कथासरित्सागर १२,२२.१०४ (वेतालपञ्चविंशतिका १५) ॥ तत्सख्ये कृततत्पुत्रव्यपदेशाय तां ददौ । तनयां शशिने तस्मै यथाविधि शशिप्रभाम् ॥ कथासरित्सागर १२,२२.१०५ (वेतालपञ्चविंशतिका १५) ॥ ततः स मूलदेवस्तौ यथाभूतौ वधूवरौ । आदाय स्वास्पदं प्रायाद्राजार्थेष्वकृतस्पृहः ॥ कथासरित्सागर १२,२२.१०६ (वेतालपञ्चविंशतिका १५) ॥ तत्र तस्मिंश्च मिलिते मनःस्वामीन्यभून्महान् । विवादो मूलदेवाग्रे शशिनस्तस्य चोभयोः ॥ कथासरित्सागर १२,२२.१०७ (वेतालपञ्चविंशतिका १५) ॥ मनःस्वाम्यब्रवीदेषा दीयतां मे शशिप्रभा । कन्यैव हि मयोदूडा प्रागसौ गुर्वनुग्रहात् ॥ कथासरित्सागर १२,२२.१०८ (वेतालपञ्चविंशतिका १५) ॥ शशी जगाद कोऽस्यास्त्वं मूर्ख दारा इयं मम । अग्निसाक्षिकमेषा हि पित्रा मे प्रतिपादिता ॥ कथासरित्सागर १२,२२.१०९ (वेतालपञ्चविंशतिका १५) ॥ एवं मायाबलप्राप्तराजपुत्रीनिमित्ततः । विवादासक्तयोर्नासीत्परिच्छेदस्तयोर्द्वयोः ॥ कथासरित्सागर १२,२२.११० (वेतालपञ्चविंशतिका १५) ॥ तद्राजंस्त्वं मम ब्रूहि तावत्कस्योपपद्यते । भार्या सा संशयं छिन्धि पूर्वोक्तः समयोऽस्ति ते ॥ कथासरित्सागर १२,२२.१११ (वेतालपञ्चविंशतिका १५) ॥ इति वेतालतः श्रुत्वा तस्मात्स्कन्धाग्रवर्तिनः स त्रिविक्रमसेनस्तं नृपतिः प्रत्यभाषत ॥ कथासरित्सागर १२,२२.११२ (वेतालपञ्चविंशतिका १५) ॥ मन्ये शशिन एवासौ भार्या न्याय्या नृपात्मजा । यस्मै प्रदत्ता प्रकटं पित्रा धर्म्येण वर्त्मना ॥ कथासरित्सागर १२,२२.११३ (वेतालपञ्चविंशतिका १५) ॥ मनःस्वामी तु तां भेजे चौर्याद्गान्धर्वधर्मतः । चौरस्य तु परस्वेषु स्वत्वं न्याय्यं न जातु चित् ॥ कथासरित्सागर १२,२२.११४ (वेतालपञ्चविंशतिका १५) ॥ इति तस्य वचो निशम्य राज्ञो वेतालः स ययौ पुनस्तदेव । सहसैव तदंसतः स्वधाम क्षितिपः सोऽपि तमन्वियाय तूर्णम् ॥ कथासरित्सागर १२,२२.११५ (वेतालपञ्चविंशतिका १५) ॥ अथ गत्वा पुनः स्कन्धे वेतालं शिंशपाद्रुमात् । स त्रिविक्रमसेनस्तमादायोदचलत्ततः ॥ कथासरित्सागर १२,२३.१ (वेतालपञ्चविंशतिका १६) ॥ आगच्छन्तं च तं भूपं स वेतालोऽब्रवीत्पुनः । राजञ्शृणु कथामेकामुदारां कथयामि ते ॥ कथासरित्सागर १२,२३.२ (वेतालपञ्चविंशतिका १६) ॥ अस्तीह हिमवान्नाम नगेन्द्रः सर्वरत्नभूः । यो गौरीगङ्गयोस्तुल्यः प्रभवो हरकान्तयोः ॥ कथासरित्सागर १२,२३.३ (वेतालपञ्चविंशतिका १६) ॥ शूरासंस्पृष्टस्पृष्ठश्च यो मध्ये कुलभूभृताम् । अभिमानोन्नतः सत्यं गीयते भुवनत्रये ॥ कथासरित्सागर १२,२३.४ (वेतालपञ्चविंशतिका १६) ॥ तस्यास्ति सानुन्यन्वर्थं तत्काञ्चनपुरं पुरम् । न्यासीकृतमिवार्केण रश्मिवृन्दं विभाति यत् ॥ कथासरित्सागर १२,२३.५ (वेतालपञ्चविंशतिका १६) ॥ जीमूतकेतुरित्यासीत्तस्मिन् पुरवरे पुरा । विद्याधरेश्वरः श्रीमान्मेराविव शतक्रतुः ॥ कथासरित्सागर १२,२३.६ (वेतालपञ्चविंशतिका १६) ॥ तस्यासीत्स्वगृहोद्याने कल्पवृक्षोऽन्वयागतः । यथार्थनामा प्रथितो यो मनःरथदायकः ॥ कथासरित्सागर १२,२३.७ (वेतालपञ्चविंशतिका १६) ॥ तं प्रार्थ्य देवतात्मानं स राजा तत्प्रसादतः । प्राप जातिस्मरं पुत्रं बोधिसत्त्वांशसंभवम् ॥ कथासरित्सागर १२,२३.८ (वेतालपञ्चविंशतिका १६) ॥ दानवीरं महासत्त्वं सर्वभूतानुकम्पिनम् । गुरुशुश्रूषणपरं नाम्ना जीमूतवाहनम् ॥ कथासरित्सागर १२,२३.९ (वेतालपञ्चविंशतिका १६) ॥ संप्राप्तयौवनं तं च यौवराज्येऽभिषिक्तवान् । तनयं प्रेरितः सद्भिस्तद्गुणैः सचिवैश्च सः ॥ कथासरित्सागर १२,२३.१० (वेतालपञ्चविंशतिका १६) ॥ यौवराज्यस्थितश्चैषो जातु जीमूतवाहनः । हितैषिभिरुपागत्य जगदे पितृमन्त्रिभिः ॥ कथासरित्सागर १२,२३.११ (वेतालपञ्चविंशतिका १६) ॥ देव कल्पतरुर्योऽयमस्ति वः सर्वकामदः । अधृष्यः सर्वभूतानां सैष पूज्यः सदा तव ॥ कथासरित्सागर १२,२३.१२ (वेतालपञ्चविंशतिका १६) ॥ नास्मिन् सति हि शक्रोऽपि बाधेतास्मान् कुतोऽपरः । एतच्छ्रुत्वा स जीमूतवाहनोऽन्तरचिन्तयत् ॥ कथासरित्सागर १२,२३.१३ (वेतालपञ्चविंशतिका १६) ॥ अहो बतेदृशमिमं संप्राप्यामरपादपम् । नासादितं किमप्यस्मात्पूर्वैर्नस्तादृशं फलम् ॥ कथासरित्सागर १२,२३.१४ (वेतालपञ्चविंशतिका १६) ॥ केवलं कैःचिदप्यर्थैरर्थितैः कृपणोचितैः । आत्मा चैषो महात्मा च नीतौ द्वावपि लाघवम् ॥ कथासरित्सागर १२,२३.१५ (वेतालपञ्चविंशतिका १६) ॥ तदहं साधयीष्यामि काममस्मान्मनःगतम् । इति निश्चित्य स ययौ महासत्त्वोऽन्तिकं पितुः ॥ कथासरित्सागर १२,२३.१६ (वेतालपञ्चविंशतिका १६) ॥ तत्र संविहिताशेषशुश्रूषापरितोषितम् । सुखासीनं तमेकान्ते पितरं स व्यजिज्ञपत् ॥ कथासरित्सागर १२,२३.१७ (वेतालपञ्चविंशतिका १६) ॥ तत त्वमेव जानासि यदेतस्मिन् भवाम्बुधौ । आशरीरमिदं सर्वं वीचिविभ्रमचञ्चलम् ॥ कथासरित्सागर १२,२३.१८ (वेतालपञ्चविंशतिका १६) ॥ विशेषेनाचिरस्थायिप्रकाशप्रविलायिनी । संध्या विद्युच्च लक्ष्मीश्च दृष्टा कुत्र कदा स्थिरा ॥ कथासरित्सागर १२,२३.१९ (वेतालपञ्चविंशतिका १६) ॥ एकः परोपकारस्तु संसारेऽस्मिन्ननश्वरः । यो धर्मयशसी सूते युगान्तशतसाक्षिणी ॥ कथासरित्सागर १२,२३.२० (वेतालपञ्चविंशतिका १६) ॥ तत्तात क्षणिकेष्वेषु भोगेष्वस्माभिरीदृशः । एष कल्पतरुः कस्य कृते मोघोऽभिरक्ष्यते ॥ कथासरित्सागर १२,२३.२१ (वेतालपञ्चविंशतिका १६) ॥ यैर्वा मम ममेत्येवमाग्रहेनैषो रक्षितः । पूर्वैस्ते कुत्र कुत्रायं तेषां कश्चैषः कोऽस्य वा ॥ कथासरित्सागर १२,२३.२२ (वेतालपञ्चविंशतिका १६) ॥ तस्मात्परोपकारैकफलसिद्ध्यै त्वदाज्ञया । तातैनं विनियुञ्जेऽहं कामदं कल्पपादपम् ॥ कथासरित्सागर १२,२३.२३ (वेतालपञ्चविंशतिका १६) ॥ एवमस्त्विति पित्रा च दत्तानुज्ञोऽथ तेन सः । जीमूतवाहनो गत्वा कल्पद्रुममुवाच तम् ॥ कथासरित्सागर १२,२३.२४ (वेतालपञ्चविंशतिका १६) ॥ अभीष्टाः पूरिताः कामाः पूर्वेषां देव नस्त्वया । तन्ममैकमिमं काममनन्यं परिपूरय ॥ कथासरित्सागर १२,२३.२५ (वेतालपञ्चविंशतिका १६) ॥ अदरिद्रां यथा पृथ्वीमिमां द्रक्ष्ये तथा कुरु । भद्रं ते व्रज दत्तोऽसि लोकायार्थार्थिने मया ॥ कथासरित्सागर १२,२३.२६ (वेतालपञ्चविंशतिका १६) ॥ इत्युक्तवति जीमूतवाहने रचिताञ्जलौ । त्यक्तस्त्वयैषो जातोऽस्मीत्युदभूद्वाक्तरोस्ततः ॥ कथासरित्सागर १२,२३.२७ (वेतालपञ्चविंशतिका १६) ॥ क्षणाच्चोत्पत्य स दिवं कल्पवृक्षस्तथा वसु । ववर्ष भुवि नैवासीत्कोऽप्यस्यां दुःगतो यथा ॥ कथासरित्सागर १२,२३.२८ (वेतालपञ्चविंशतिका १६) ॥ ततस्तस्य तया तीव्र्