[१.१] अस्ति कश्चिद्वणिजकः । नगरसमीपे तेन देवतायतनं क्रियते । तत्र ये कर्मकारास्स्थपत्यादयः ! मध्याह्नवेलायाम् आहारनिमित्तं भोजनमण्डपमनुप्रविष्टाः । अकस्माच्चानुषङ्गिकं देवगृहे वानरयूथमागतम् । अथ तत्रैकस्य शिल्पिनोऽर्धस्फोटितकाष्ठस्तम्भो अर्जुनमयः खदिरकीलकेन मध्ये यन्त्रनिखातेनावस्तब्धो अवतिष्ठते । तत्र कदाचिद्वानरयूथो गिरिशिखरादवतीर्य स्वेच्छया तरुशिखरप्रासादशृङ्गदारुनिचयेषु प्रक्रीडितुमारब्धः । एकस्तु तत्रासन्नविनाशश्चापलादुपविश्य स्तम्भे यन्त्रचारम् उद्दिश्येदमाह । केनायमस्थाने कीलको निखातः । इति पाणिभ्यामेव सङ्गृह्योत्पाटितुमारब्धः । स्थानाच्चलिते कीले यद्वृत्तम् ! तदनाख्येयम् ! एवमेव भवता ज्ञातमिति । [१,२] अस्ति कश्चिद्गोमायुराहारविच्छेदात्क्षुत्क्षामकण्ठ इतश्च इतः परिभ्रमन्नुभयसैनस्यायोधनभूमिमपश्यत् । तत्र च महान्तं शब्दमशृणोत् । तद्भयसंक्षुभितहृदयः किमिदम् ! विनष्टोऽस्मि ! कस्यायं शब्दः ! क्व वा कीदृशो वैष शब्द इति ! चिन्तयता दृष्टा गिरिशिखराकारा भेरी । तां च दृष्ट्वाचिन्तयत् । किमयं शब्दोऽस्यास्स्वाभाविकः ! उत परप्रेरित इति । अथ सा यदा वायुप्रेरितैर्वृक्षाग्रैस्स्पृश्यते ! तदा शब्दं करोति ! अन्यदा न ! इति तूष्णीमास्ते । स तु तस्यास्सारासारतां ज्ञातुं संनिकर्षमुपश्लिष्टः । स्वयं च कौतुकादुभयोर्मुखयोरताडयत्! अचिन्तयच्च। गम्यं चैतद्भक्स्यं च मम । इत्यवधार्यैकदंष्ट्रया क्षुधाविष्टः पाटितवान् । परुषत्वाच्च चर्मणः कथमपि न दंष्ट्राभङ्गमवाप्तवान् । प्रतिबद्धाश्च पुनरप्यचिन्तयत् । नूनमस्या अन्तर्भक्ष्यं भविष्यतीति । इत्यध्यवस्य भेर्या मुखं विदार्यान्तः प्रविष्टः । तस्मिन्नपि न किञ्चिदासादितवान् । प्रतिनिवर्तितुमशक्तोऽन्तर्लीनार्धकायो विहस्याब्रवीत् । पूर्वमेव मया ज्ञातमिति । [१,३] अस्ति कस्मिंश्चित्प्रदेशे परिव्राड्देवशर्मा नाम । तस्यानेकसाधूपपादितसूक्ष्मवासोविशेषोपचयान्महत्य् अर्थमात्रा संवृत्ता । स च न कस्यचिदपि विश्वासं याति । अथ कदाचिदाषाढभूतिर्नाम परवित्तापहृत्कथमियम् अर्थमात्रास्य मया परिहर्तव्येति वितर्क्यावलगनरूपेण उपगम्य तत्कालेन च विश्वासमनयत् । अथ कदाचिदसौ परिव्राजकस्तीर्थयात्राप्रसङ्गे तेन आषाढभूतिना सह गन्तुमारब्धः । तत्र च कस्मिंश्चिद्वनोद्देशे नदीतीरे मात्रान्तिक आषाढभूतिमवस्थाप्यैकान्तमुदकग्रहणार्थं गतः । अपश्यच्च महन्मेषयुद्धम् । अनवरतयुद्धशक्तिसम्पन्नयोश्च तयोश् शृङ्गपञ्जरान्तरोद्भूतसृग्बहु भूमौ निपतितं दृष्ट्वा आशाप्रतिबद्धचित्तः पिशितलोभतया गोमायुस्तज्जिघृक्षुस् सम्पीडितोद्घातात्सद्यः पञ्चत्वमगमत् । अथ परिव्राड्विस्मयाविष्टोऽब्रवीत् । जम्बुको हुडुयुद्धेनेति । कृतशौचश्चागतस्तमुद्देशमाषाढभूमिमपि गृहीतार्थमात्रासारमपक्रान्तं नापश्यद्देवशर्मा । केवलं त्व् अपविद्धत्रिदण्डकाष्ठकुण्डिकापरिस्रावणकूर्चकाद्य् अपश्यत्! अचिन्तयच्च । क्वासावाषाढभूतिः । नूनमहं तेन मुषितः । इत्युक्तवान् । वयं चाषाढभूतिनेति । अथासौ कपालशकलग्रन्थिकावशेषः कञ्चिद्ग्राममस्तं गच्छति रवौ प्रविष्टः । प्रविशन्नेकान्तवासिनं तन्त्रवायमपश्यत्! आवासकं च प्रार्थितवान् । तेनापि तस्यात्मीयगृहैकदेशे स्थानं निर्दिश्य भार्या अभिहिता । यावदहं नगरं गत्वा सुहृत्समेतो मधुपानं क्र्त्वा आगच्छामि ! तावदप्रमत्तया गृहे त्वया भाव्यम् । इत्यादिश्य गतः । अथ तस्य भार्या पुंश्चली दूतिकासञ्चोदिता शरीरसंस्कारं कृत्वा परिचितसकाशं गन्तुमारब्धा । अभिमुखश्चास्या भर्ता मदविलोपासमाप्ताक्षरवचनः परिस्खलितगतिरवस्रस्तवासास्समायातः । तं च दृष्ट्वा प्रत्युत्पन्नमतिः कौशलादाकल्पमपनीय पूर्वप्रकृतमेव वेषमास्थाय पादशौचशयनाद्यारम्भम् अकरोत् । कौलिकस्तु गृहं प्रविश्य निद्रावशमगमत् । सुप्तप्रतिबुद्धश्चासौ तामाक्रोष्टुमारब्धः । पुंश्चलि ! त्वद्गतमपचारं सुहृदो मे वर्णयन्ति । भवतु । पुष्टं निग्रहं करिष्यामीति । असावपि निर्मर्यादा प्रतिवचनं दातुमारब्धा । पुनरपि चासौ प्रतिबुद्धस्तां मध्यस्तूणायां रज्ज्वा सुप्रतिबद्धां कृत्वा प्रसुप्तः । दूतिकैतां पुनर्गमनाय प्रचोदितवती । सा तूत्पन्नप्रतिभा दूतिकामात्मीयदर्शनसंविधानेन बद्ध्वा कामुकसकाशं ययौ । असावपि प्रतिबुद्धस्तथैव तामाक्रोष्टुमारब्धः । दूतिका तु शङ्कितहृदयानुचितवाक्योदाहरणभीता न किञ्चिद् उक्तवती । तन्त्रवायस्तु शाठ्यादियं न किञ्चिन्ममोत्तरं प्रयच्छति इत्युत्थाय तस्यास्तीक्ष्णशस्त्रेण नासिकां छित्त्वाब्रवीत् । तिष्ठैवंलक्षणा । कस्त्वामधुना वार्त्तां पृच्छति । इत्युक्त्वा निद्रावशमुपागमत् । आगता च सा तन्त्रवायी दूतिकामपृच्छत् । का ते वार्त्ता । किमयं प्रतिबुद्धोऽभिहितवान् । कथय कथयेति । दूतिका तु कृतनिग्रहा नासिकां दर्शयन्ती सामर्षमाह । शिवास्ते सर्वा वार्त्ताः । मुञ्च । गच्छामीति । तथा त्वनुष्ठिते नासिकामादायापक्रान्ता । तन्त्रवाय्यप्य्कृतकबद्धमात्मानं तथैवाकरोत् । कौलिकस्तु यथापूर्वमेव प्रतिबुद्धस्तामाक्रोशत् । असावपि दुष्टा बहु धृष्टरमाह । धिग्घतोऽसि । को मां निरागसं विरूपयितुं समर्थः । शृण्वन्तु मे लोकपालाः । यथाहं कौमारं भर्तारं मुक्त्वा नान्यं परपुरुषं मनसापि वेद्मि ! तथा ममानेन सत्येनाव्यङ्ग्यं मुखमस्त्व् इति । अथासौ मूर्खः कृतकवचनव्यामोहितचित्तः प्रज्वाल्योल्काम् अव्यङ्गमुखीं जायां दृष्ट्वा प्रोत्फुल्लनयनः परिचुम्ब्य हृष्टमना बन्धवादवमुच्य पीडितं च परिष्वज्य शय्याम् आरोपितवान् । परिव्राजकस्त्वादित एवारभ्य यथावृत्तमर्थमभिज्ञातवान् । दूतिकापि हस्तकृतनासापुटा स्वगृहं गत्वाचिन्तयत् । किमधुना कर्तव्यमिति । अथ तस्या भर्ता नापितो राजकुलात्प्रत्यूषस्यागत्य तां भार्यामाह । समर्पय ! भद्रे ! क्षुरभाण्डम् । राजकुले कर्म कर्तव्यमिति । सा च दुष्टाभ्यन्तरस्थैव क्षुरमेव प्राहिणोत् । स च समस्तक्षुरभाण्डासमर्पणात्क्रोधाविष्टचित्तो नापितस्तमेव तस्याः क्षुरं प्रतीपं प्राहिणोत् । अथासावार्तरवमुच्छैः कृत्वा पाणिना नासापुटं प्रमृज्य असृक्पातसमेतां नासिकां क्षितौ प्रक्षिप्याब्रवीत् । परित्रायध्वम् ! परित्रायध्वम् । अनेनाहमदृष्टदोषा विरूपितेति । तथाभ्यागतै राजपुरुषैः प्रत्यक्षदर्शनां तां दृष्ट्वा विरूपां कीलपार्ष्णिलगुडैरतीव हतं पश्चाद्बाहुबन्धश् च तया सह धर्मस्थानमुपनीतो नापितः । पृच्छ्यमानश्चाधिकृतैः किमिदं महद्विशसनं स्वदारेषु त्वया कृतमिति यदा बहुश उच्यमानो नोत्तरं प्रयच्छति ! तदा धर्माधिकृताश्शूलेऽवतंस्यतामित्याज्ञापितवन्तः । निष्पापं च परिव्राट्च्छूलस्थानं नीयमानं नापितं दृष्ट्वा सत्त्वानुकम्पया चोपलब्धतत्त्वार्थोऽधिकरणमुपगम्य धर्मस्थानाधिकृतानब्रवीत् । नार्हथैनमदोषकर्तारं नापितं शूले समारोपयितुम् । यत्कारणम् ! इदमाश्चर्यत्रयं श्रूयताम् । [ जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना । दूतिका तन्त्रवायेन त्रयोऽनर्थास्स्वयं कृतः ॥५५॥ ] समुपलब्धतत्त्वार्थैश्चाधिकृतैः परित्रायितो नापित इति । [१,४] अस्ति कस्मिंश्चित्प्रदेशे वृक्षः ! तस्मिंश्च वायसौ दम्पती प्रतिवसतस्स्म । तयोस्तु प्रसवकाले तद्वृक्षविवरानुसार्यसञ्जातक्रियाण्य् एवापत्यानि कृष्णसर्पो भक्षयति स्म । अथ तेनापकारनिर्वेदनादन्यवृक्षमूलवासिनं प्रियसुहृदं गोमायुमपृच्छ्यत ! यथा । भद्र ! किमेवं गते प्राप्तकालं भवान्मन्यते । बालघातित्वाच्च वृद्धयोरभाव एवावयोः । गोमायुः । [ भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् । अतिलौल्याद्बकः पश्चान्मृतः कर्कटविग्रहात् ॥६०॥ ] वायसः । कथं चैतत् । गोमायुः । [१,५] अस्ति ! कश्चिद्बको वृद्धभावात्सुखोपायां वृत्तिम् आकाङ्क्षमाणः कस्मिंश्चित्सरःप्रदेशेऽधृतिपरीतमिव आत्मनो रूपं प्रदर्शयन्नवस्थितः । तत्रानेकमत्स्यपरिवृत एकः कुलीरकोऽब्रवीत् । माम ! किमद्याहारकृत्यं नानुष्ठीयते यथा पुरेति । बकः । अहं मत्स्यादः । तेनोपाधिना विना युष्मान् ब्रवीमि । मया युष्मानासाद्य पूर्वं प्राणरक्षा कृता । सम्प्राप्तो ममाद्य वृत्तिविच्छेदः । अतोऽहं विमनाः । कुलीरकः । माम ! केन कारणेन । बकः । अद्य मत्स्यबन्धैरेतत्सरस्समीपेनातिक्रामद्भिरभिहितम् । बहुमत्स्योऽयं ह्रदः । अस्मिञ्जालं प्रक्षिपामः । नगरसमिपेऽन्ये ह्रदा अनासादिताः । तानासाद्य पुनरागमिष्याम इति कथयामासुः । तत्! भद्र ! विनष्टा नाम यूयम् । अहमपि वृत्तिच्छेदादुत्सन्न एव । ततस्तैर्विज्ञप्तः ! यथा । यतैवापायश्श्रूयते ! तत एवोपायोऽपि लभ्यते । तदर्हस्यस्मान् परित्रातुम् । बकः । अण्डजोऽहमसमर्थो मानुषविरोधे । किन्त्वस्माद्ध्रदादन्यं जलाशयं युष्मान् सङ्क्रामयिष्यामि । ततस्तैर्विश्वासमुपगतैस्तात ! भ्रातर्! मातुल ! मातुल ! मां नय ! मां नय ! प्रथमतरं नयस्वेत्यभिहितम् । असावपि दुष्टमतिः क्रमेण नीत्वा कौशलादजस्रं तान् भक्षयन् परं परितोषमुपागतः । कुलीरकस्तु मृत्युभयोद्विग्नो मुहुर्मुहुस्तं प्रार्थितवान् । माम ! मामपि तावदर्हसि मृत्युमुखात्परित्रातुमिति । स तु दुष्टात्माचिन्तयत् । निर्विण्णोऽस्म्यनेनैकरसेन मत्स्यपिशितेन । एनमपि तावद्रसविशेषमास्वादयिष्यामि । ततस्समुत्क्षिप्य वियत्सर्वाम्भस्स्थानानि परिहृत्यैकदेशे तप्तशिलायामवतीर्णः । कुलीरकोऽपि पूर्वभक्षितमत्स्यशरीरावयवराशिं दृष्ट्वा एवाचिन्तयत् । निहता अनेन दुरात्मना प्रज्ञापूर्वकं ते मीनाः । तत्किमधुना प्राप्तकालम् । अथवा । [ अभियुक्तो यदा पश्येन्न काञ्चिद्गतिमात्मनः । युध्यमानस्तदा प्राज्ञो म्रियेत रिपुणा सह ॥६१॥ ] अनभिज्ञोऽपि बकः कुलीरकसन्दंशग्रहस्य मौर्ख्यात् कुलीरकसकाशाच्छिरश्छेदमवाप्नवान् । कुलीरकोऽपि गृहीत्वा बकग्रीवामुत्पलनालवद् आकाशगमनप्रसाधितचिह्नमार्गो मत्स्यान्तिकमेव प्रायात् । तैश्चाभिहितः । भ्रातः ! क्वासौ माम इति । अथासावब्रवीत् । पञ्चत्वमुपगतः । तस्यैतद्दुरात्मनश्शिरः । भक्षितास्तेनोपधिना बहवस्स्वयूथ्या वः । सोऽपि मत्सकाशाद्विनष्ट इति । अतोऽहं ब्रवीमि । भक्षयित्वा बहून्मत्स्यानिति । अथ वायसो जम्बुकमाह । आवयोः किं प्राप्तकालं मन्यसे । गोमायुः । सुवर्णसूत्रमादायात्रावासके स्थाप्यताम् । असंशयं तत्स्वामी तं कृष्णसर्पं घातयिष्यति । इत्युक्त्वा स सृगालोऽपक्रान्तः । अथ वायसस्सुवर्णसूत्रान्वेषी राजगृहं प्रायात् । दृष्टं च तेनान्तःपुरैकदेशे धौतवस्त्रयुगलोपरि सुवर्णसूत्रमुत्तममणिविरचितं महार्हं प्रक्षाल्य चेटिकया स्थापितम् । तच्चावस्थाप्यान्यया सह कथां कर्तुमारब्धा । वायसस्तु तद्गृहीत्वा वियता शनैरात्मानं दर्शयन् स्वमालयं प्रति प्रायात् । अथारक्षिपुरुषैः प्रासमुद्गरतोमरपाणिभिर्महता जवेन गत्वा वृक्षोऽवलोकितः ! यावत्तेन तत्स्वनीडे स्थापितम् । तत्रैकेनारोहता दृष्टम् ! कृष्णभुजङ्गो वायसपोतान् भक्षयित्वा निद्रावशमगमत् । तेन चासौ सुप्त एव घातितः । तत्कृत्वा सुवर्णसूत्रमादाय गत इति । [१,६] अस्ति ! कस्मिंश्चिद्वनान्तरे महान् सिंहः प्रतिवसति स्म । सोऽजस्रं मृगोत्सादं कुरुते । अथ ते मृगास्सर्वए एवाभिमुखाः प्रणतचित्ता हरिततृणाङ्कुरवक्त्रधारिणोऽवनितलासक्तजानवस्तं मृगराजं विज्ञापयामासुः । भो मृगराज किमनेन परलोकविरुद्धेन स्वामिनो नृशंसेन निष्कारणं सर्वमृगोत्सादनकर्मणा कृतेन । वयं तावद्विनष्टा एव ! तवाप्याहारस्याभावः । तदुभयोपद्रवः । तत्प्रसिद । वयं तु स्वामिन एकैकं वनचरं वारेण स्वजातिसमुत्थं प्रेषयामः । तथा कृते कालपर्ययाच्छशकस्य वारोऽभ्यागतः । स तु सर्वमृगाज्ञापितो रुषितमनाश्चिन्तयामास । अन्तकरोऽयं मृत्युमुखप्रवेशः । किमधुना प्राप्तकालं ममेति । अथवा बुद्धिमतां किमशक्यम् । अहमेवोपायेन व्यापादयामि सिंहम् । इति तस्याहारवेलां क्षपयित्वा गतः । असावपि क्षुत्क्षामकण्ठः क्रोधसंरक्तनयनस् स्फुरद्वदनदशनसङ्घर्षदंष्ट्राकरालो लाङ्गूलास्फालनाकारभयकृत्तमाह । सुक्रुद्धैरपि किं क्रियतेऽन्यत्र प्राणवियोगात् । स त्वमद्य गतासुरेव । कोऽयं तव वेलात्ययः । शशकः । न ममात्मवशस्यातिक्रान्ता ! स्वामिन् ! आहारवेला । सिंहः । केन विधृतोऽसि । शशः । सिंहेनेति । तच्छ्रुत्वा परमोद्विग्नहृदयस्सिंहोऽब्रवीत् । कथमन्योऽत्र मद्भुजपरिरक्षिते वने सिंह इति । शशो बाढमित्याह । अथ सिंहो व्यचिन्तयत् । किमनेन हतेन कारणं मम । तं सपत्नं सन्दर्शयिष्यतीति । तं च व्यापाद्यैनं भक्षयिष्यामि । इति तमाह । मम तं दुरात्मानं दर्शयस्वेति । असावपि शशोऽन्तर्लीनमवहस्य बृहस्पत्युशनसोर्नीतिशास्त्रं प्रमाणीकृत्य स्वार्थसिद्धये विमलजलसंपन्नं द्विपुरुषप्राप्योदकमिष्टकाचितं महान्तं कूपमदर्शयत् । असावप्यात्मकायप्रतिबिम्बानभिज्ञतया कुमार्गापन्नचित्तोऽयमसौ सपत्न इति मत्वा सहसैव तस्य उपरि सन्निपतितो मौर्ख्यात्पञ्चत्वमगमत् । [१,७] अस्ति कस्यचिद्राज्ञस्सर्वगुणोपेतमनन्यसदृशं शयनम् । तस्मिन् प्रच्छदपटैकदेशे मन्दविसर्पिणी नाम यूका प्रतिवसति स्म । अथ तस्मिंष्टिण्टिभो नाम मत्कुणो वायुना प्रेरितस्सन्निपतितः । स तु तच्छयनमतिसूक्ष्मोत्तरच्छदमुभयोपधानं जाह्नवीपुलिनविपुलं परममृदु सुरभि च दृष्ट्वा परं परितोषमुपगतः । तत्स्पर्शाकृष्टमना इतश्चेतः परिभ्रमन् कथमपि तया मन्दविसर्पिण्या समेतः । तयाभिहितः । कुतस्त्वमस्मिन्नयोग्याधिवास आगतः । अपगम्यतामस्मादिति । मत्कुणः । आर्ये ! मया तावदिहानेकप्रकाराणि मांसान्यास्वादितानि ब्राह्मणक्षत्रियविट्छूद्रान्तस्स्थानि रुधिराणि च । तानि तु रूक्षाणि पिच्छिलान्यतुष्टिकराण्यमनोज्ञानि । यः पुनरस्य शयनस्याधिष्ठाता ! तस्य मनोरमममृतोपमम् असृग्भविष्यति । अजस्रं भिषग्भिः प्रयत्नादौषधाद्युपक्रमाद् वातपित्तश्लेष्मनिरोधादनामयतया स्निग्धपेशलद्रवैस् सखण्डगुडदाडिमत्रिकटुकपटुभिस् स्थलजजलजखेचरबलवत्प्रधानपिशितोपब्र्ंहितैराहारैर् उपचितं रुधिरं रसायनमिव मन्ये । तच्च सुरभि पुष्टिकरं चेच्छाम्यहं त्वत्प्रसादाद् आस्वादयितुमिति । अतोऽसौ मन्दविसर्पिण्याह । असम्भाव्यमेतत्त्वद्विधानामग्निमुखानां दंशवृत्तीनाम् । अपगम्यतामस्माच्छयनात् । ततोऽसौ तस्याः पादयोर्निपतितः । सा तु दाक्षिण्यात्तथा नामेति प्रतिपन्ना । किन्तु नैवाकाले न चातिमृदुभागे त्वयास्य प्रहर्तव्यमिति । सोऽब्रवीत् । कोऽस्य कालः । अनभिज्ञोऽहमपरिचितत्वात् । सा त्वकथयत् । मधुपानश्रमागतनिद्रस्य रतिविलासनिर्भरसुप्तस्य च शनैर्मृदुतया भवता विचारणीयम् । मदश्रमनिद्रापरीतकायो नाशु प्रबुध्यतएइति । एवमवस्थापिते प्रथमप्रदोषए एवाकालज्ञेन दष्टः । असावपि पर्थिव उल्मुकदग्ध इव संलीनकुक्षिप्रदेशस् ससम्भ्रममुत्थायाह । अहो ! दष्टोऽस्मि केनापि । अथ मत्कुणश्चकितत्वाद्राजवचनं श्रुत्वा शयनादवतीर्य अन्यद्विवरमाश्रितः । शय्यापालैरपि स्वाम्यादेशात्सुनिपुणमन्विषद्भिर्वस्त्रं परिवर्तयद्भिरन्तर्लीना मन्दविसर्पिणी समासादिता व्यापादिता च । [१,८] अस्ति कस्मिंश्चिन्नगरसमीपे सन्निकृष्टविवराभ्यन्तरशायी जम्बुकश्चण्डरवो नाम । स कदाचिदाहारमन्वेषमाणः क्षपामासाद्य क्षुत्क्षामगलस् सम्मीलितलोचनः परिभ्रमन्नगरं प्रविष्टः । तन्नगरवासिभिश्च सारमेयैस् तीक्ष्णदशनकोटिविलुप्यमानावयवो भयभैरवफेत्काररवपूरितदिग्विवर इतस्ततः प्रस्खलन् पलायमानः कस्मिंश्चिदज्ञानान्नीलीकलशे सन्निपतितः । श्वगणश्च यथागतं प्रायात् । असावपि कृच्छ्रेणायुश्शेषतयास्मान्नीलीकलशात्समुत्तस्थौ । अथास्य तच्छरीरं नीलीरसरञ्जितं दृष्ट्वा समीपवर्तिनः क्रोष्टुकगणाः कोऽयमिति भयतरलदृशस्सर्वा दिशः प्रदुद्रुवुः । असावप्यचिन्तयत् । नूनमिमां स्वरूपविकृतिं दृष्ट्वैते पलायन्तए इति । अथ धीरचित्तस्तांश्छनैरवादीत् । अलं सम्भ्रमेण । अहमाखण्डलाज्ञया सकलश्वापदकुलपालनक्षमः क्षितितलमागत इति । अथ तद्वचनमाकर्ण्य सिंहव्याघ्रचित्रकवानरशशहरिणवृषदंशजम्बुका दयश्श्वापदगणास्तं प्रणेमुः । प्रतिदिनं च केसरिकरजकुलिशदारितमत्तेभपिशितैर् आपूर्यमाणकुक्षिः कक्षमिव तं जम्बुकपूगं बहिः कृत्वा सिंहव्याघ्रादीनासन्नवर्तिनश्चकार । एकदा त्वसौ विविधपिशितनाशितक्षुद्दिक्षु स्थितानां क्रोष्टुकानां क्रोशतां निनादं श्रुत्वा त्वरिततरमुच्चैर्निननाद । अतस्ते सिंहादयस्त्रपया भूभागदृष्टिभाजः कष्टमहो ! वञ्चितास्स्मः ! क्रोष्टायमित्यवधार्य रुषा तं परुषगिरं नाशितवन्त इति । [१,९] अस्ति ! कस्मिंश्चिद्वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवसति स्म । तस्यानुचरास्त्रयः पिशिताशिनो द्वीपिवायसगोमायवः । अथ तैर्भ्रमद्भिर्दृष्टस्सार्थवाहपरिभ्रष्ट उष्ट्रः । तं चाज्ञातपूर्वरूपं हास्यजननं दृष्ट्वा सिंहः पृष्टवान् । इदमपूर्वं सत्त्वमिह वने पृच्छ्यताम् । कस्त्वमिति । ततोऽवगततत्त्वार्थो वायसोऽब्रवीत् । आख्यातनामोष्ट्रोऽयमिति । ततस्तेन सिंहसकाशं विश्वास्यानीतः । तेनापि यथावृत्तमात्मनो वियोगस्सार्थवाहात्समाख्यातः । सिंहेन चास्याभ्यवपत्तिरभयप्रदानं च दत्तम् । एवं च वर्तमाने कदाचित्सिंहो वन्यगजयुद्धरदनक्षतशरीरो गुहावासी संवृत्तः । पञ्चषड्दिवसातिक्रान्ते च काले सर्वए एव तए आहारवैकल्याद् आत्ययिकमापतिताः । यतोऽवसन्नाः ! ततस्सिंहेनाभिहिताः । अहमनया रुजा न क्षमः पूर्ववदाहारं भवतामुत्पादयितुम् । ते यूयमात्मार्थेऽपि तावदभ्युद्गमं कुरुत । ते तमाहुः । एवं गते किमस्माकमात्मपुष्ट्यर्थेनेति । सिंहः । साध्वनुजीविवृत्तं मदुपरि भक्तिश्च भवताम् । अतिशोभनमभिहितम् । शक्ता भवन्तः ! सरुजश्चाहम् । तन्ममैतदवस्थस्योपनयताहारमिति । यदा च न किञ्चिदूचुः ! तदा तेनाभिहिताः । किमनया व्रीडया । अन्विष्यतां किञ्चित्सत्त्वम् । अहमेतदवस्थोऽपि युष्माकमात्मनश्चोत्पादयिष्ये प्राणयात्रार्थमिति । एवमुक्त्वा तेऽप्युत्थाय सह क्रथनकेन वनान्तरं प्रविष्टाः । व्युदस्य क्रथनकं दुष्टमन्त्रमारब्धाः । तत्र वायस आह । विनाशिता वयमनेन स्वामिना स्वाधीनेऽप्यर्थे । तावाहतुः । कथम् । सोऽब्रवीत् । नन्वयं क्रथनक इति । तए आहुः । अयमस्माकं विश्वासोपगतशरणागतो वयस्यत्वेऽनुज्ञातः । स आह । शष्पभुजः पिशिताशिनश्च विषमसम्बन्धाः । ततस्तावूचतुः । स्वामिनायमभयप्रदानेन रक्ष्यते । तेन चायुक्तमशक्यं चैतदिति । पुनरपि वायसोऽब्रवीत् । तिष्ठत यूयं यावदहमेवैतदर्थं सम्प्रतिपादयिष्यामि । इत्युक्त्वा सिंहसकाशमगमत् । सिंहेन चाभिहितम् । अन्विष्टं युष्माभिः किञ्चित्सत्त्वमिति । काकः । यस्य चक्षुर्बलं वा स्यात्! सोऽन्विष्यतु । वयं तु सर्वए एवाहारवैकल्यादन्धाः परिक्षीणशक्तयश् च। किन्तु प्राप्तकालमवश्यं विज्ञप्यसे । स्वामिना विनाशितस्स्वात्मनात्मा स्वाधीनेऽप्यर्थे । सिंहः । कथम् । काकः । नन्वयं क्रथनक इति । सिंहः । कष्टम् । नृशंसमेतत् । मयास्याभ्यवपत्तिरभयं च प्रसादीकृतम् । अपि च । [ न गोप्रदानं न महीप्रदानं न चान्नदानं हि तथा प्रधानम् । यथा वदन्तीह महाप्रधानं सर्वप्रधानेष्वभयप्रदानम् ॥११७॥ ] काकः । अहो स्वामिनो धर्मशास्त्रं प्रति प्रतिभा । एतदन्यदपि प्रधानं महर्षिवचनम् ! यथा श्रेयसामर्थे पापीयानारम्भः । अपि चोक्तम् । [ त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥११८॥ ] पुनश्चाह । मा स्वामी स्वयं व्यापादयतु । मयास्योपधिना वध आरब्धः । सिंहः । कथमिव । काकः । अयं तावदेतदवस्थं स्वामिनमस्मांश्च दृष्ट्वा स्वयम् आत्मानमन्यपुष्ट्यर्थं स्वर्गगमनाय सत्त्वहिताय निवेदयति । एवमभिहितवति वायसे सिंहो मतिभ्रममिवार्पितो न किञ्चिदप्य् उदाहृतवान् । असावपि पुनस्तत्सकाशं गत्वा कृतकवचनैः प्रत्येकं विज्ञापितवान् । सिंहान्तिकं गतैर्युष्माभिरेवं वक्तव्यमिति । ततः कृतसंविदस्सह क्रथनकेन सिंहसकाशं गताः । अथ वायसः प्रणम्य सिंहं विज्ञापितवान् । देव ! स्वामिशरीरं सर्वथा रक्ष्यमस्मच्छरीरेणेति । अथासावाह । अकल्पकायो भवान् । न युष्मच्छरीरोपभोगे कृतेऽप्यस्माकं किञ्चित् तृप्तिकारणं भवति । तस्मिंश्चापयाते गोमायुरभिहितवान् । अस्मान्मम विशिष्टतरं शरीरम् । तन्मत्प्राणैः क्रियतां प्राणयात्रेति । तमपि तथैवाभिहितवान् । अपयाते च तस्मिन् द्वीप्याह । आभ्यां मम विशिष्टतरं शरीरमिदमुपयुज्यतामिति । तमप्यसावाह । अकल्पकायो भवानपीति । तच्छ्रुत्वा क्रथनकोऽचिन्तयत् । नैवात्र कश्चिद्विनाश्यते । तदहमप्येवमेव ब्रवीमि । तत उत्थाय सिंहान्तिकमुपगम्याब्रवीत् । देव ! एभ्यो मम विशिष्टतरं शरीरम् । तस्मान्मच्छरीरेणात्मनः प्राणयात्रा क्रियतामिति । एवमभिवदन्नेव द्वीपिगोमायुभ्यां विदारितोभयकुक्षिस्सद्यः पञ्चत्वमुपगतो भक्षितश्चेति । [१,१०] अस्ति ! समुद्रतीरैकदेशे टीटिभदम्पती प्रतिवसतस्स्म । अथ कदाचित्प्रसोष्यमाणया टीटिभ्या भर्ताभिहितः । किञ्चित्स्थानमन्विष्यताम् ! यत्राहं प्रसुवे । असावकथयत् । नन्वेतदेव स्थानं वृद्धिकरम् । अत्रैव प्रसूष्वेति । साब्रवीत् । अलमनेन सापायेन । अवश्यमेव समुद्रजलवेलाप्लवनान्ममापत्यविनाशो भवति । असावाह । भद्रे ! न शक्तो महोदधिर्मया सार्धमीदृशं वैरानुबन्धं कर्तुमिति । साब्रवीत् । बह्वसदृशं तव समुद्रेण बलम् । कथमात्मनो ज्ञायते सारासारता । उक्तं च । [ दुःखमात्मा परिच्छेत्तुमेवं योग्यो न वेति वा । एवंविद्यस्य विज्ञानं सफलास्तस्य बुद्धयः ॥१२६॥ ] अपि च । [ मित्राणां हितकामानां यो वाक्यं नाभिनन्दति । स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति ॥१२७॥ ] टीटिभः । कथं चैतत् । टीटिभी । [१,११] अस्ति ! कस्मिंश्चित्सरसि कम्बुग्रीवो नाम कच्छपः प्रतिवसति स्म । तस्य द्वौ सुहृदौ विकटसंकटनामानौ हंसौ । अथ कालविपर्यये द्वादशवार्षिक्यनावृष्टिरापतिता । ततस्तयोर्मतिरुत्पन्ना । क्षीणतोयमिदं सरः । अन्यं जलाशयं गच्छावेति । किं पुनश्चिरोषितं प्रियमित्रं कम्बुग्रीवमामन्त्रयावहे । तथा चानुष्ठिते कच्छपेनाभिहितौ । कस्मान्ममामन्त्रणं क्रियते । यदि तु स्नेहोऽस्ति ! ततो मामप्यस्मान्मृत्युमुखात्त्रातुमर्हथः । यत्कारणम् ! युवयोस्तावदाहारवैकल्यं केवलमस्मिन् स्वल्पोदके सरसि ! ममात्र तु मरणमेव । तद्विचिन्त्यताम् ! आहारसुहृद्वियोगयोः को गरीयान् । ताभ्यामभिहितम् । युक्तमात्थ । एवमेतत् । किं पुनः प्राप्तकालं भवाञ्जानाति । अवश्यं नयावावां भवन्तम् । त्वया पुनश्चापलान्न किञ्चिद्वक्तव्यम् । इमां तु यष्टिं मध्ये दशनैरापीडय । एवमनयैवोद्धृत्य षष्टिमात्राणि योजनानि महत्सरो भवन्तं नयावः । तत्र सुखं यापयिष्याम इति । एवं च निष्पन्ने तज्जलाशयसन्निकृष्टनगरस्योपरिष्टान् नीयमानं दृष्ट्वा ! किमिदं शकटचक्रप्रमाणं वियता नीयतए इति जनस्सकलकलस्सम्वृत्तः । तच्च श्रुत्वासन्नविनाशः कच्छपो यष्टिं त्यक्त्वाभिहितवान् । अहं कच्छपः । चापलादेष लोकः प्रलपति ! इति ब्रुवन् वचनसमकालमेवाश्रयात् परिभ्रष्टो भूमौ निपतितः ! मांसार्थिना च लोकेन पातसमकालमेव तीक्ष्णशस्त्रैः खण्डशो विभक्त इति । [१,१२] अस्ति ! कस्मिंश्चिन्महाह्रदे महाकायास्त्रयो मत्स्याः प्रतिवसन्ति स्म ! तद्यथा । अनागतविधाता प्रत्युत्पन्नमतिर्यद्भविष्यश्चेति । तत्रानागतविधात्रा तदुदकान्तर्गतेन कदाचित्तत्समीपे मत्स्यबन्धानामतिक्रामतां वचनं श्रुतम् । बहुमत्स्योऽयं ह्रदः । अत्र मत्स्यबन्धं कुर्मः । तच्च श्रुत्वानागतविधात्रा चिन्तितम् । अवश्यमेतए आगन्तारः । तदहं प्रत्युत्पन्नमतिं यद्भविष्यं च गृहीत्वान्यम् अच्छिन्नस्रोतस्कं ह्रदं संश्रयामीति । ततस्तावाहूय पृष्टवान् गमनाय । तत्र प्रत्युत्पन्नमतिर्मतिनिवारितोऽभयचित्तः कथमपि प्रमादान्नानुयातः । यद्भविष्यस्त्वासन्नविनाशस्तद्वचनमनादृत्य निरारम्भ एव आसीत् । अन्येद्युश्चापयातेऽनागतविधातरि मत्स्यबन्धैरन्तस्स्रोतो निरुध्य प्रक्षिप्तं सम्वर्तजालम् । अपकृष्टे च जाले तस्मिन् ह्रदे नाप्येकतरोऽवशिष्टः । एवं गते प्रत्युत्पन्नमतिर्मृतरूपं कृत्वात्मानं जलस्य उपरि दर्शितवान् । तैरपि स्वयमेव मृतो महामत्स्य इति कृत्वा परिस्रोतसि स्थापितः । तस्मादुत्प्लुत्यान्यं जलाशयं गतः । यद्भविष्यस्त्वनेकलगुडप्रहारजर्जरितशरीरः पञ्चत्वम् उपनीत इति । अतोऽहं ब्रवीमि । अनागतविधाता चेति । अथ कदाचित्प्रसूतायां टीटिभ्यां तद्भर्तृजिज्ञासया समुद्रेण अपहृतास्तेऽण्डकाः ! पश्यामि तावत्! अयं किमारम्भतए इति । अथ टीटिभी शून्यमपत्यस्थानं दृष्ट्वा परमाविग्नहृदया भर्तारमाह । इदं तदापतितं मन्दभाग्यायाः । असावन्तर्लीनमवहस्य तामाह । ममापि तावत्! भद्रे ! दृश्यतां सामर्थ्यमिति । ततस्तेन पक्षिसमाजं कृत्वा निवेदितं तदपत्यहरणजं दुःखम् । तत्रैकेनाभिहितम् । असमर्था वयं महोदधिविग्रहाय । किं पुनरत्र प्राप्तकालम् । सर्वए एव वयमाक्रन्देन गरुत्मन्तमुद्वेजयामः । सैव नो दुःखमपनेष्यति । इत्यवधार्य तत्सकाशं गताः । असावपि देवासुररणनिमित्तमाहूतो विष्णुना गरुडस्तत् स्वयूथ्यव्यसनं दृष्ट्वा मन्युमाजगाम । देवोऽपि विष्णुस्त्रैकाल्यदर्शनसामक्ष्यात्तस्यान्तर्गतं मत्वा स्वयमेव तत्सकाशमगमत् । अथ देवं दृष्ट्वा सुतरामाविग्नहृदयोऽब्रवीत् । युक्तं त्वया नाथेन सता समुद्रापसदान्ममायं परिभव इति । ज्ञात्वा च देवः परिहस्य समुद्रस्येदमुवाच । समर्पयाधुनापत्यानि टीटिभस्येति । अन्यथा त्वामाग्नेयास्त्रप्रतापितम् अनेकवडवामुखसहस्रपरिक्षीणतोयं सद्यः करिष्यामीति । एवमुक्तो महोदधिश्चिन्तयामास । ममाण्डजेन सर्वनाश एव प्रारब्धः । इति मत्वा प्रणम्य देवं समर्पितवानिति । [१,१३] अस्ति ! कस्मिंश्चिद्वनोद्देशे वृकजम्बुककरभसहितो वज्रदन्तो नाम सिंहः प्रतिवसति स्म । कदाचिदसौ वन्यद्विपरदनकोटिपाटितवक्षा एकदेशस्थः क्षुत्क्षामतनुः क्षुधा परिगतान् तान् सचिवानाह । किञ्चिदन्विष्यतां वने सत्त्वजातम् ! येनाहमेतदवस्थोऽपि भवतां वृत्तिमापादयिष्यामि । अथ तदाज्ञासमकालमेव तेऽरण्ये पर्यटन्तो यदा न किञ्चिद् आसेदुः ! तदासौ जम्बुकस्तं शङ्कुकर्णनामानं करभं विविक्तेऽभिहितवान् । किमत्र प्राप्तकालं मन्यते भवान् । स्वामी वज्रदन्तोऽस्मदीयपर्यटनमनर्थकं श्रुत्वा कदाचिद् विनाशाय प्रवर्तते । तदहं किञ्चिद्भवतः प्रार्थये ! यदि प्रतीच्छसीति । स आह । किं ममास्ति ! वयस्य ! यत्प्रार्थ्यते । शरीरमपि मे त्वदायत्तम् । यथाभिमतमुपयुज्यतामिति । अथ जम्बुकोऽब्रवीत् । एतदेवात्र कारणम् । अहं ते द्विगुणं शरीरं सिंहसकाशाद्दापयिष्ये । त्वयाप्येवं वयमात्मा च संवर्धितास्स्युरिति । प्रतिपन्नश्चासौ । एवमभिधाय सिंहसकाशं गत्वा तमाह । स्वामिन् ! न किञ्चित्सत्त्वमासादितम् । एष पुनश्शङ्कुकर्णोऽभिधत्ते । बृहत्प्रस्थेन द्विगुणया तुलयोज्जास्यं शरीरं सम्प्रयच्छामि इति । तच्छ्रुत्वा सिंहः प्रहृष्ट आह । एवं क्रियताम् । अथ प्रतिपन्ने शङ्कुकर्णः पपात भूमौ ! खण्डशश्च कृतः । ततश्चतुरकस्तं सिंहं रुधिररक्तसर्वगात्रं दृष्ट्वा अब्रवीत् । गच्छतु स्वामी स्नानमाचरितुम् ! यावदहं क्रव्यमुखसहितस् तिष्ठामि । गते च तस्मिंश्चतुरकस्तं क्रव्यमुखमाह । भक्षय तावदतः पिशितम् ! यावदसौ स्नातुं गतः । सोऽब्रवीत् । भक्षयित्वा किमुत्तरं दास्यामि । जम्बुकोऽब्रवीत् । किं तवानेन विचारेण । अहमेतस्य प्रतिवचनं दास्यामि । त्वया पुनर्मम मुखमेवावलोकितव्यमिति । एवमुक्ते ताभ्यां क्रव्यमतिबहु भक्षितम् । अत्रान्तरे सिंहस्सम्प्राप्तो यावत्पश्यति सकलं जठरपिशितम् उपभुक्तम् ! ततश्चतुरकमाह । माम ! क्व तज्जथरपिशितम् । एवं वदति सिंहे क्रव्यमुखो मुखं चतुरकस्यावलोकितवान् । चतुरकोऽब्रवीत् । किमधुना मन्मुखमवलोकयसि । स्वामिन् । भक्षितमनेनेति । अथ सिंहः कुलिशखरनकरो भ्रूकुटिलमुखः प्रकटितरोषस् तं हन्तुमैच्छत् । अथासावपि वृको मुखवैवर्ण्यवेपथुव्याप्ततनुर् अतनुपदविक्षेपः क्षिप्रपलायनपटुरटवीमुद्दिश्य जगाम । सिंहोऽपि किञ्चिदनुसृत्य प्रतिनिवृत्तः । एतस्मिंश्चान्तरे कथमपि च तत्समीपमथ कश्चित्सार्थवाहो अनेन पथायातः । तस्य च सार्थाग्रेसरं कटाहेन गलबद्धेन करभम् आगच्छन्तं दृष्ट्वा कृतकविषादो जम्बुकस्तं सिंहमाह । देव ! विनष्टावावाम् । मा खलु कश्चिद्वनं धारयतु । यावदद्यापि पिशितं नोपभुज्यते ! तावद्बृहत्प्रस्थमादाय धनिकाचारेणायं करभकस्सम्प्राप्तः । तत्किमत्र प्राप्तकालम् । गच्छतु स्वामी दिगन्तरमन्यत्! यावदहमेनं लब्धचित्ताभिप्रायं करोमीति । एवमभिहिते सिंहस्तस्मादपयातः । चतुरकोऽपि बहुदिनानि तत्पिशितमुपभुक्तवान् । [१,१४] अस्ति कस्मिंश्चिद्वनोद्देशे महान् वानरयूथः । स कदाचिद्धेमन्तकालेऽसुखासीनोऽतिविह्वलतया खद्योतं दृष्ट्वाग्निरयमित्याहार्यैश्शुष्कतृणपर्णैर् आच्छाद्य प्रसारितभुजः कक्षकुक्षिवक्षःप्रदेशान् कण्डूयमानः प्रतापमनोरथसुखानि किलानुभवति । तत्रैकश्शाखामृगस्तद्गतमना मुहुर्मुहुस्तमेव मुखेनोपाधमत् । अथ सूचीमुखो नाम । तेन वृक्षादवतीर्याभिहितः । मा क्लिशः । नायं वह्निः ! खद्योतोऽयमिति । अथासावधमत्तस्य तद्वचनमवमन्यैव । पुनश्च तेनासकृद्वार्यमाणो नैव शाम्यति । किं बहुना ! तावत्तेन कर्णाभाशमागत्यागत्य प्रबलम् उद्वेजितः ! यावत्तेन सहसा गृहीत्वा शिलायामाविध्य विगतप्राणः कृतो असाविति । [१,१५] अस्ति ! कस्मिंश्चिदधिष्ठाने वणिक्सुतौ सुहृदौ स्तः । एको दुष्टबुद्धिरपरो धर्मबुद्धिः । तावर्थोपार्जननिमित्तं विशिष्टं देशान्तरं गतौ । अथ तत्र धर्मबुद्धिर्नामैकस्सार्थवाहसुतो यस्तेन कस्यचित् साधोः पूर्वस्थापितं कलशिकागतं स्वभाग्यप्रचोदितं रौप्यदीनारसहस्रं प्राप्तम् । स दुष्टबुद्धिना सह सम्प्रधार्य कृतार्थावावां स्वदेशं गच्छाव इति प्रत्यागतौ । अधिष्ठानसमीपे धर्मबुद्धिनाभिहितम् । दीनारा अर्धविभागेन विभज्यन्ताम् । स्वगृहान् प्रविशावः । अधुना सुःर्त्स्वजनादिसमक्षमुज्ज्वलं वत्स्यावः । अथ दुष्टबुद्धिरन्तःकठिनहृदयस्स्वार्थसिद्धये तमाह । भद्र ! वित्तशेषो यावदावयोस्सामान्यः ! तावदविच्छिन्नस् स्नेहसद्भावः । किन्त्वेकमेकं शतं गृहीत्वा प्रविशावः । यत्कारणम् ! पुण्यपरीक्षा ह्रासवृद्धिभ्यां भविष्यत्य् एकार्थता च जनस्पृहणीया । तथा चानुष्ठिते शेषं कुत्रचित्सुगुप्तं कृत्वा प्रविष्टौ । अथ तद्वर्षाभ्यन्तरे दुष्टबुद्धिरसद्व्ययव्यसनित्वाद् भाग्यच्छिद्रतया च क्षीणप्रत्यंशः पुनरपि च निधितो धर्मबुद्धिना सहापरशतं विभक्तवान् । तदपि द्वितीयवर्षाभ्यन्तरे तथैव क्षीणम् । एवं गते दुष्टबुद्धिश्चिन्तयामास । यदि पुनश्शतविभागेन विभजावः ! तत्किं मया कृतं भवति । शेषैष्षड्भिरपहृतैस्समस्तान्येवासादयामि । एवं मत्वैकाकी भूत्वा तामर्थमात्रामपनीय प्रदेशं समीकृत्य मासातिक्रान्ते काले धर्मबुद्धिमभिहितवान् । भद्र ! समविभागं शेषवित्तस्य कुर्व इति । प्रतिपन्ने च धर्मबुद्धिना सह गत्वा तमेवोद्देशं खातकर्म कर्तुमारब्धः । खन्यमाने च यदा न दृश्यते ! तदा प्रथमतरं धृष्टतया दुष्टबुद्धिः पाषाणेनात्मनश्शिरोऽताडयदब्रवीच्च ससम्भ्रमम् । क्व तद्ब्रह्महृदयम् ! धर्मबुद्धे । नूनं त्वयापहृतमिति । एवं परस्परशङ्कया विवदमानौ धर्मस्थानमुपागतौ । आवेदिते च तस्मिन्नर्थेऽवगतेऽव्यक्तव्यवहारदुश्छेदतया सन्निरुद्धौ । पञ्चरात्राभ्यन्तराच्च दुष्टबुद्धिनाधिकृतानां प्रतिज्ञातम् । साक्षिणो मम सन्त्यत्रव्यवहारदीनाराणामिति । तैस्तु व्यवहारनिवर्तनार्थं पृष्टः । कस्ते साक्षी । दर्शयस्वेति । सोऽब्रवीत् । यस्यैव वृक्षस्याधस्तात्स्थापितं द्रव्यम् ! तेनैव विभावयामि इति । अथ ते विस्मयमुपगताः ! कथं वनस्पतिर्मन्त्रयिष्यतीति । कृतप्रतिभुवौ स्वगृहं विसर्जितौ । अथ दुष्टबुद्धिना स्वगृहं गतेन पिताभिहितः । तात ! मद्धस्तगतास्ते पणाः । किन्तु वाङ्मात्रावबद्धास्तिष्ठन्ति । अहं तु त्वामद्य रात्रौ वृक्षविवरेऽस्मिन् स्थापयामि । प्रभाते धर्माधिकृतसमक्षं पृष्टस्तं विभावयेति । ततस्तेनाभिहितम् । पुत्र ! विनष्टावावाम् । किं कारणम् ! अनुपाय एषः । तथा च । [ उपायं चिन्तयेत्प्राज्ञो ह्यपायमपि चिन्तयेत् । पश्यतो बकमूर्खस्य नकुलैर्भक्षितास्सुताः ॥१६८ ॥ ] सोऽब्रवीत् । कथमेतत् । असावाह । [१,१६] अस्ति ! कस्मिंश्चिदर्जुनवृक्षे बकदम्पती प्रतिवसतस्स्म । तत्र च वृक्षविवरानुसारी महाकायोऽहिरसञ्जातक्रियाण्येव अपत्यानि भक्षयति स्म । तेन च निर्वेदेन नष्टसञ्ज्ञावाहारक्रियामुत्सृज्य जलाशयैकदेशे विमनस्कावासाते । अथ तत्रैकः कुलीरकस्तमाह । माम ! किमद्याप्याहारो अनुष्ठीयतए इति । बकः । अधृतिपरीतस्य मे कुत आहाराभिलाष इति । यतोऽसावाह । किंलक्षणसमुत्थाधृतिः । स तु तस्मै यथावृत्तमपत्यभक्षणमाख्यातवान् । कुलीरकस्तु तं समर्थितवान् । अहमुपायं तद्वधाय कथयामि । येयं नकुलवसतिरेतत्प्रभृत्यविच्छिन्नपरम्परया मत्स्यपिशितं प्रकीर्यताम् ! यावत्सर्पवसतिः । ततस्तए एवैनं घातयिष्यन्ति । तथा चानुष्ठिते नकुलैः पिशितमार्गानुसारिभिः पूर्ववैरक्रियामनुस्मरद्भिः खण्डशोऽहिं कुर्वद्भिः पूर्वदृष्टमार्गमाधावद्भिर्बकावासं गत्वा बकस्य शेषापत्यभक्षणं कृतमिति । [१,१५] अतोऽहं ब्रवीमि । उपायं चिन्तयेत्प्राज्ञो ह्यपायमपि चिन्तयेत् । इति ब्रुवन्नपि तेनासौ नीत्वा स्थापितो वृक्षविवरे । अथ प्रभातसमयेऽधिकरणप्रकृतिप्रत्यक्षं धर्मशास्त्रवचनाभिश्रावितेन वनस्पतिना यथाप्रस्तुतम् अभिहितम् । धर्मबुद्धिनार्थोऽपहृत इति । तच्च श्रुत्वा धर्मबुद्दिश्चिन्तयामास । कथमवाक्पादपो वाचं व्याहरिष्यति । तत्कारणेनात्र भवितव्यम् । सर्वथा बुद्धिसाध्यमेतत् । अथ धर्मस्थानीयानाह । अहो विस्मयः । अद्याप्यविप्लुतए एव लोके धर्मबुद्दिरहं विजनेऽस्मिन् वनए एकाक्यागम्य तद्द्रव्यं गृहीतवान् । अथापश्यमहिमतिकायमायान्तम् । चिन्तितं च मया । कष्टमिदमापतितम् । अभिहितं च । पुनरपि विषया लभ्यन्ते ! न तु प्राणाः । पुनरागमिष्यामि । इत्यत्रैव वृक्षमूलेऽवस्थापितम् । अधुनावश्यं राजवशात्समर्पितव्यम् । किन्त्वस्मात्स्थानादेकान्तेऽवस्थानं कुरुध्वम् ! यावदहम् एनं निधिपालं कृष्णसर्पं पराजयामि । इत्युक्त्वाहार्यैश्शुष्कदारुपर्णनिचयैर्वृक्षविवरम् आपूर्याग्निमादीपयितुमारब्धः । दुष्टबुद्धिस्त्वधोमुखेनाक्ष्णा विलोक्य वृक्षविवरान्तर्गतं वणिक्पुत्रं दृष्ट्वा व्यथितमना अभवत् । प्रदीप्ते च वह्नौ समन्तत उज्ज्वलीभूताद्वृक्षविवरात्स्फटिततनुः प्लुष्टकेशस्स्रस्तत्वग्यदा जातो वणिक्! तदा भूमौ निपतितः । तत्तु महद्वैकारिकं दृष्ट्वा किमिदमिति परं विस्मयमुपगताः । किञ्चिज्जीवितं च प्रत्यक्षमभिज्ञाय वणिक्पुत्रं पप्रच्छुः । किमिदमीदृशमग्निपतनमध्यवसितं भवतेति । ततोऽसावब्रवीत् । अनेन दुष्पुत्रेणाहमवस्थामिमां प्रापित इति । एवमभिवदन् पञ्चत्वमुपगतः । अनन्तरं धर्माधिकृतास्तमर्थं ज्ञात्वाभिहितवन्तः । दुष्टबुद्धिरयं पापश्शूलेऽवतंस्यतामिति । [१,१७] अस्ति कस्मिंश्चिदधिष्ठाने क्षीणबान्धवो वणिक्सुतः । स देशान्तरमर्थोपार्जननिमित्तं प्रस्थितः । तस्य तुला लोहसहस्रकृता विद्यते । सोऽन्यस्मिन् वणिक्पुत्रके तां निक्षिप्य देशान्तरमर्थोपार्जनाय प्रायात् । क्षीणभाग्यत्वाच्च तेन बहुनापि कालेन न किञ्चिदासादितम् । प्रत्यागतश्च तां तुलां तस्मात्प्रार्थितवान् । तेनोक्तं च । सा मूषकैर्भक्षितेति । अथासावचिन्तयत् । विस्मयनीयमेतत् । कथं लोहसहस्रमयीं तुलां मूषका भक्षयिष्यन्तीति । अन्तर्लीनमवहस्याब्रवीत्! अवश्यमेतदेवम् ! यत्कारणम् । वृष्यं स्वादु मृदु च लोहं कथमाखवो न भक्षयिष्यन्ति ! इति प्रतिपन्नवाक् । असावपि सुपरिहृष्टहृदयः पाद्यादिपुरस्सरां तस्य पूजां कर्तुमारब्धवान् भोजने च प्रार्थितवान् । तस्य च नातिदुरे नदी । तत्र स्नानाभ्युद्यतस्य च तस्य स्वीयं पुत्रमेकम् आमलकस्नानशाटिकासमेतं पृष्टतः प्रेषितवान् । असावपि प्रत्यागच्छन् दारकमन्यस्मिन्मित्रगृहे सुगुप्तं कृत्वा प्रविष्टः । अथ भोजनसमये सार्थवाहो दारकमदृष्ट्वा समाकुलमनाश् शङ्कितहृदयश्च तमपृच्छत् । क्वासौ दारकस्तवानुपदप्रेषितः । इह न प्रविष्ट इति । अथ सोऽब्रवीत् । श्येनेनापहृतः । तच्छ्रुत्वा परमाविग्नो निर्दयीभूतश्च तं बाहौ गृहीत्वा धर्मस्थानं नीतवान् ! आह च । परित्रायध्वम् । अनेन मे दारकः क्वापि गोपित इति । पृष्टश्चासौ प्राड्विवाकैः । किमेतत् । कथ्यतामिति । स विहस्याब्रवीत् । श्येनेनापहृत इति । ततस्तैर्विस्मितमनोभिरभिहितः । कथं श्येनो दारकमपहरिष्यतीति । धर्माधिकृतैस्तथ्यं पृच्छ्यमानोऽब्रवीत् । किमत्र चित्रम् । यत्र तुला लोहसहस्रस्यास्य गेहे मदीया मूषकैर्भक्षिता ! तत्र कथं दारकश्श्येनेन नापह्रियतए इति । तच्च श्रुत्वा प्रतिपादितवन्तस्ते प्राड्विवाकाः परस्परस्य तत्तुलातद्दारकदानमिति ।  [२,१] अस्ति दाक्षिणात्ये जनपदे मिहिलारोप्यं नाम नगरम् । तस्य नातिदूरे परिव्राजकावसथः । तत्र परिव्राड्जूटकर्णो नाम प्रतिवसति स्म । स भिक्षावेलायां तस्मान्नगरात्तीर्थभूत इति ब्राह्मणगृहेभ्यस्सखण्डगुडदाडिमगर्भाणां स्निग्धद्रवपेशलानामन्नविशेषाणां भिक्षाभाजनं परिपूर्णं कृत्वा तमावसथमवगम्य यथाविधि व्रतकालं कृत्वा तत्र शेषमापोतके सुगुप्तं कृत्वा नागदन्तके स्थापयति । अहं सपरिजनस्तेन वर्ते । एवं भक्ष्यमाणे तस्मिन् सुप्रयत्नस्थापितेऽपि निर्विण्णस्स्थानात् स्थानमुच्चैर्मत्प्रति भयात्सङ्क्रमयति । तदप्यहमनायासेन प्राप्नोमि भक्षयामि च । अथैवं गच्छति काले कदाचित्तस्य परिव्राड्बृहत्स्फिग्नाम प्राहुणक आगतः । स जूटकर्णस्तस्य स्वागताद्युपचारं कृत्वा कृतयथोचितव्रतकालस्तस्मिन्नापोतके शेषं सुगुप्तं कृत्वा खट्वासीनश्शयनगतं बृहत्स्फिजमपृच्छत् । भवानितोमया वियुक्तः । तत आरभ्य केषु देशान्तरेषु तपोवनेषु वा परिभ्रान्त इति । असावकथयत् । अथ कदाचिदहं महाकार्त्तिक्यां महातीर्थवरे पुष्करे स्नानं कृत्वा महतो जनसमूहदोषाद्भवता वियुक्तः । ततोऽहं गङ्गाद्वारप्रयागवाराणस्यादिष्व् अनुकूलप्रतिकूलं जाह्नवीमनु पर्यटन् ! किं बहुना ! कृत्स्नं महीमण्डलं समुद्रपर्यन्तमवलोकितवान् । अर्धाख्याते च तस्मिञ्जूटकर्णः परिव्राड्नागदन्तोपश्लिष्टो मुहुर्मुहुर्जर्जरमवादयत् । कथ्यमानविघ्ने च क्रियमाणे कुपितोबृहत्स्फिगाह । अहमादृतो भूत्वा भवतः कथयामि ! भवतस्तु किमर्थम् अनादरः । तथा च । [ विमानना दुश्चरितानुकीर्तनं कथाप्रसङ्गो वचनादविस्मयः । न दृष्टिदानं कृतपूर्वनाशनं विरक्तभावस्य नरस्य लक्षणम् ॥ ४४ ॥ ] सोऽब्रवीत् । भद्र ! न मन्युः करणीयः । पश्य ! अयं मे मूषको महतोऽपकारान् करोति ! भिक्षाभाजनप्रध्वंसान्न चाहमेनं शक्नोमि निवारयितुम् । सोऽब्रवीत् । किमेष एककोऽत्र मूषकः ! उतान्येऽपि मूषकाः । सोऽब्रवीत् । किमन्यैर्मूषकैः । अयं मां दुष्टो योगीवाजस्रं छलयति । तच्छ्रुत्वासावाह । जूटकर्ण ! न मूषकमात्रस्येदृशी शक्तिर्भवति ! किं तर्हि कारणेनात्र भवितव्यम् । उक्तं च । [ नाकस्माच्छाण्डिली माता विक्रीणाति तिलैस्तिलान् । लुञ्चितांल्लुञ्चितैरव कार्यमत्र भविष्यति ॥ ४५ ॥ ] जूटकर्ण आह । कथं चैतत् । सोऽब्रवीत् । [२,२ एन्थ्ल्स्तेन् सेसम् fरेन्थ्ल्स्तेन्] अस्ति ! अहं कदाचिदभ्यर्णासु वर्षासु कस्मिंश्चिदधिष्ठाने स्थितिग्रहणनिमित्तं कञ्चिद्ब्राह्मणमावासं प्रार्थितवान् । वर्षास्वतीतासु पुनर्विहारार्थं प्रहरशेषायां शर्वर्यां प्रतिबुद्धोऽचिन्तयम् । कतमेन दिग्भागेनावगन्तव्यम् । अथ युगपदसावपि ब्राह्मणस्तस्यां वेलायां प्रतिबुद्धो जालकान्तरितां भार्यामपृच्छत् । ब्राह्मणि ! श्रूयताम् । श्वः पर्वकालो भविता । तत्र त्वया यथाशक्ति ब्राह्मणभोजनं कर्तव्यमिति । असावाह बहुपरुषाक्षरया गिरा । कुतस्ते ब्राह्मणभोजनस्य शक्तिरत्यन्तदरिद्रस्येति । एवमुक्तोऽसौ कूपे प्रक्षिप्त इव न वचः किञ्चिदवोचत् । पुनरपि चिरादब्रवीत् । ब्राह्मणि ! [ कर्तव्यस्सञ्चयो नित्यं न तु कार्योऽतिसञ्चयः । अतिसञ्चयशीलोऽयं धनुषा जम्बुको हतः ॥ ४६ ॥ ] असावब्रवीत् । कथं चैतत् । ब्राह्मणोऽब्रवीत् । [२,३ देरल्ल्शुगिएरिगे स्छकल्] अस्ति कस्मिंश्चिदधिष्ठाने मांसवृत्तिर्व्याधः । स प्रत्युषस्युत्थाय किञ्चिद्वनमनुप्रविश्य शीघ्रमेव मृगं विद्ध्वा कृतमांससञ्चयः प्रत्यागच्छन्महति तीर्थावतारे अवतरन्महिषशावतुल्यमुद्धृतविषाणं कर्दमपिण्डावलिप्तगात्रं सूकरमपश्यत् । तं दृष्ट्वाशुभनिमित्तप्रचोदितोभयमागतः । प्रतिनिवृत्य च प्रतिबद्धगतिस्सूकरेण मांसं सङ्कोचितकं भूमौ प्रक्षिप्य धनुस्स शरं च कृत्वेदमुवाच । [ न मे धनुर्नापि च बाणसन्धनं किमेष शङ्कां समुपैति सूकरः । प्रसह्य पश्याम्यहमस्य निश्चयं यमेन नूनं प्रहितोममान्तिकम् ॥ ४७ ॥ ] इत्युक्त्वा तस्मै विषदिग्धमिषुं प्राहिणोज्जत्रुस्थाने विद्ध्वा परपार्श्वगतं च कृतवान् । सूकरेणापि प्रहारमूर्च्छितेनोत्तमं जवम् आस्थायावस्करप्रदेशे तथाभ्याहतः ! येन गतासुस् त्रिधागतशरीरो निपतितः । अथ तस्मिन्महति विषमे वृत्ते मृगलुब्धकसूकरप्रस्तरे क्षुत्क्षामकुक्षिर्दर्दुरको नाम गोमयुराहारार्थी तमुद्देशम् आगतोऽपश्यन्मृगसूकरलुब्धकान् । तांश्च दृष्ट्वा परं परितोषमुपागतः । आह च । [ नान्नपानानि सततमुत्पद्यन्ते हि देहिनाम् । लब्ध्वा प्रभूतमन्नाद्यं क्रमशस्तूपयोजयेत् ॥ ४८ ॥ ] इति । एवमुक्त्वा धनुःप्रतिबन्धं भक्षयितुमारब्धः । कथमपि दैवाच्छिन्ने प्रतिबन्धे वक्षःप्रदेशे भिन्नः पञ्चत्वम् उपगत इति । [२,२] अतोऽहं ब्रवीमि । कर्तव्यस्सञ्चयो नित्यमिति । तत्! ब्राह्मणि ! स्पाष्ट्याज्जीव्यते । तच्च श्रुत्वा ब्राह्मण्याह । अस्ति मे तिलस्तोकं तण्डुलस्तोकं च । स त्वं प्रत्युषस्युत्थाय समित्कुशाद्यानयनार्थं वनं गच्छ । अहमपि सहानेन शिष्येण कामन्दकिना ब्राह्मणत्रयस्य साधयिष्यामि कृसरमिति । तथा चानुष्ठिते तिलप्रस्थं कामन्दकिनाधिष्ठितं लुञ्चयेत्यास्तापितम् । तथा चातिव्यग्रत्वात्ते तिलाः कथमपि दैवाच्छुना विट्वालिताः ! तया चाभ्यन्तरस्थया दृष्टाः । ततोऽसावब्रवीत् । कामन्दके ! न शोभनमापतितम् । विघ्नमुत्पन्नं ब्राह्मणतर्पणस्य । तथापि गच्छ ! इमांस्तिलांल्लुञ्चितानपि कृष्णतिलैः परावर्तयित्वा शीघ्रमागच्छ । कृष्णकृसरमेव करिष्यामि । तथा चानुष्ठिते यस्मिन् वेश्मन्यहं भिक्षार्थमुपागतः ! तस्मिन्नेव कामन्दकिरपि तिलविक्रयार्थमनुप्रविष्टोऽकथयत् । गृह्यन्तामिमे तिलाः । ब्राह्मण्याभिहितः । कथं तिला दीयन्तए इति । कामन्दकिराह । [ शुक्लान् कृष्णैः प्रयच्छामि यदीष्टं गृह्यतामिति । तथेमे लुञ्चिता भद्रे लुञ्चितानेव देहि मे ॥४९ ॥ ] तथा च वृत्ते भर्तास्यास्समागतः । तेनाभिहितम् । भद्रे ! किमेतदिति । सा तमाह । समार्घास्तिला मया लब्धाः ! शुक्लाः कृष्णैः । ततोऽसौ विहस्याब्रवीत् । [ नाकस्माच्छाण्डिली माता विक्रीणाति तिलैस्तिलान् । लुञ्चितांल्लुञ्चितैरेव हेतुरत्र भविष्यति ॥ ५० ॥ ] इति । एवमाख्यायाब्रवीत्परिव्राट् । अस्ति किञ्चित्खनित्रमिति । जूटकर्ण आह । बाढम् ! अस्ति । उपनीते च तस्मिन् कक्ष्यां बद्ध्वा सन्दष्टौष्ठपुटः पृष्टवान् । कतरस्तस्य सञ्चरणमार्ग इति । आख्याते च तस्मिन् खातकर्म कर्तुमारब्धः । अहं चादावेव तयोरात्मगतमालापं श्रुत्वाहरमुत्सृज्य कौतुकपरोऽवस्थित आसम् । यदा त्वसौ दुर्गान्वेषणं कर्तुमारब्धः ! तदा मया ज्ञातम् । उपलब्धमनेन दुरात्मना मदीयविवरद्वारमिति । मयापि केनापि साधुना पूर्वस्थापितं सुवर्णमाप्तमासीत् । तत्प्राधान्याच्चाहं शक्तिमन्तमात्मानं मन्ये । असावपि दुष्टो विवरानुसारात्तदुपलभ्य गृहीत्वा च धनं पुनर् आवस्थं प्राप्तो जूटकर्णमब्रवीत् । इदं तस्य तद्ब्रह्महृदयम् ! यस्यासौ सामर्थ्यादशक्यमपि स्थानमुत्पतति । अधार्धं च विभज्य सुखासीनौ स्थितौ । तं चाहमात्मनोऽवसादं प्राप्याचिन्तयम् । कदाचिदिहस्थस्य मे प्रदीपमुज्ज्वाल्यासंशयमासाद्य मां हन्युः । इति तस्मात्स्थानादन्यद्दुर्गस्थानं कृतवान् । अन्ये च ! ये ममानुचराः ! तए आगत्य मामब्रुवन् । भद्र हिरण्य ! त्वत्समीपवर्तिनो वयमत्यन्तक्षुधार्ताः । ग्रासमात्रमप्यस्माकं नास्ति । अस्तं गतेऽपि दिवसे न किञ्चिदस्माभिरासादितम् । तदर्हस्यद्यापि तावदस्मान् सन्तर्पयितुमिति । तथा नामेत्युक्त्वाहमावसथं तैस्समं गतः । एकान्तावस्थितश्च तयोर्दुरात्मनोः पूर्वाख्याते शेषमालापम् अशृनवम् । अथ जूटकर्णस्तथैवाख्याने वंशं चालयति स्म । तेनाभिहितः । किमद्यापि निराकृते तस्मिन्मुहुर्मुहुश्चालयसि वंशम् । स्थीयताम् । अलमिति यतोऽसावाह । भद्र ! एष ममापकारी मूषकः पुनः पुनरायाति । स विहस्याब्रवीत् । मा भैषीः । न किञ्चिदस्त्येतत् । यतः । [ भवत्यर्थेन बलवानर्थाद्भवति पण्डितः । पश्येमं मूषकं पापं स्वजातिसमतां गतम् ॥ ५१ ॥ ] अपि च । यदस्योत्पतने शक्तिकारणम् ! तदावयोरेव हस्तगतम् । अहं तु तथैव समर्थितवान् । सत्यमाहायम् । न ममाद्याङ्कुलकस्याप्युत्पतने शक्तिरस्तीति । शृणोमि चानुचराणां परस्परालापम् । आगच्छत ! गच्छामः । नायमद्य तृणस्यापि कुब्जीकरणे समर्थः । एवमुक्त्वा पञ्चाशन्मात्रा गताः ! पुनरपि पञ्चविंशतिः ! दश पञ्च चेति ! अथान्ये द्वादशाष्टौ । अथावशिष्टौ द्वौ । तत्राप्येकोऽब्रवीत् । अयमात्मनोऽप्युदरभरणे न समर्थः ! किं पुनरन्येषाम् । इत्युक्त्वा निरपेक्षोऽसावपि प्रायात् । ततोऽहं परिचिन्त्यैतवदिति स्वमालयं गतः । प्रभातसमये सर्वए एव सपत्नसकाशं गताः ! दरिद्रोऽसाविति वदन्तः । तथा प्रवृत्तानामनुचराणामेकोऽपि न मत्सकाशमागच्छत् । पश्यामि च ! मां दृष्ट्वा सम्मुखं तए एव मत्सपत्नैस्सह परस्परं किलकिलायन्तो हस्तास्फालनैर्ममानुचरास्सङ्क्रीडन्ति स्म । चिन्तितं च मया ! यथा । एवमेतत् । [ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थास्स पुमांल्लोके यस्यार्थास्स च पण्डितः ॥ ५२ ॥ ] अपि च । [ अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः । विच्छिद्यन्ते क्रियास्सर्वा ग्रीष्मे कुसरितोयथा ॥ ५३ ॥ त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च । तमर्थवन्तं पुनराश्रयन्ते । अर्थो हि लोके पुरुषस्य बन्धुः ॥ ५४ ॥ दरिद्रस्य मनुष्यस्य प्राज्ञस्य मधुरस्य च । कालेऽप्युक्तं वाक्यं न कश्चित्प्रतिपद्यते ॥ ५५ ॥ चण्डालश्च दरिद्रश्च द्वावेतौ सदृशौ मतौ । चण्डालस्य न गृह्णन्ति दरिद्रो न प्रयच्छति ॥ ५६ ॥ अर्थेन परिहीणं तु नरमस्पृश्यतां गतम् । त्यजन्ति बान्धवास्सर्वे मृतं सत्त्वमिवासवः ॥ ५७ ॥ अर्थेन हीनः पुरुषस्त्यज्यते मित्रबान्धवैः । त्यक्तलोकक्रियादारः परासुरिव निष्प्रभः ॥ ५८ ॥ शून्यमपुत्रस्य गृहं चिरशून्यं यस्य नास्ति सन्मित्रम् । मूर्खस्य दिशश्शून्यास्सर्वं शून्यं दरिद्रस्य ॥ ५९ ॥ [ उत्तिष्ठ क्षणमेकमुद्वह सखे दारिद्र्यभारं गुरुं क्लिष्टो यावदहं चिरं मरणजं सेवे त्वदीयं सुखम् । इत्युक्तो धनवर्जितेन विदुषा गत्वा श्मशाने शवो दारिद्र्यान्मरणं वरं सुखकरं ज्ञात्वा स तूष्णीं स्थितः ॥ ६० ॥ ]] किमपरं भोः । न कश्चिदन्यः प्रतिवचनमपि ददाति । [ तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषस्स एव शेते हकार इव सङ्कुचिताखिलाङ्गः ॥ ६१ ॥ ] तत्प्रायशो लोके स्वरूपमीदृशम् । विनिपतितमार्यमपि जनं दृष्ट्वा धन्यन्धो मूकश्च भवति धनमदावलेपात् । तथा च । [ विलोचने चाविकले च वीक्षते स्फुटा च वागस्ति न चापभाषणम् । अहो नृशंसैर्विभवैस्तथा कृतं यथेश्वरो याचनयन्त्रतां गतः ॥ ६२ ॥ ] तन्मादृशानां किं नाम तद्वरं स्यात्! यस्य स्यादीदृशः फलविपाकः ! यत्सततं देहीति वक्ति । तत्सर्वथा धनहीनस्य ममाधुना नेह श्रेयः । उक्तं च । [ वसेन्मानाधिकं स्थानं मानहीनं न संवसेत् । मानहीनं सुरैस्सार्धं विमानमपि वर्जयेत् ॥ ६३ ॥ ] एवमुक्त्वाप्यहं पुनरप्येवमचिन्तयम् । किमर्थितां कस्यचित्करोमि । तदेतत्कष्टतरम् । यत्कारणम् ! [ कुब्जस्य कीटखातस्य दावनिष्कुषितत्वचः । तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ॥ ६४ ॥ कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू । म्रियमाणस्य चिह्नानि यानि तान्येव याचतः ॥ ६५ ॥ ] तदर्थित्वमपि जघन्यम् । [ वैराग्याहरणं धियोऽपहरणं मिथ्याविकल्पास्पदं पर्यायो मरणस्य दैन्यवसतिश्शङ्कानिधानं परम् । मूर्तं लाघवमास्पदं च विपदां तेजोहरं मानिनाम् अर्थित्वं हि मनस्विनां न नरकात्पश्यामि वस्त्वन्तरम् ॥ ६६ ॥ ] अपि च । [ निर्द्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णश्शुचमेति शोकमनसो बुद्धिः परिभ्रश्यति निर्धीकः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ ६७ ॥ ] अपि च । [ वरमहिमुखे क्रोधाविष्ठे करौ विनिवेशितौ विषमपि वरं पीत्वा सुप्तं यमस्य निवेशने । गिरिवरतटादात्मा मुक्तो वरं शतधा गतो न तु खलजनावाप्तैरर्थैः प्रियं कृतमात्मनः ॥ ६८ ॥ वरं विभवहीनेन प्राणैस्सन्तर्पितोअनलः नोपचारपरिभ्रष्टः कृपणोऽभ्यर्थितोजनः ॥ ६९ ॥ ] अथैवं गते केनोपायेन जीवितं स्यात् । किं चौर्येण । तदपि परस्वादानं कष्टतरम् । यत्कारणम् ! [ वरं युक्तं मौनं न च वचनमुक्तं यदनृतं वरं मृत्युश्श्लाघ्यो न च परकलत्राभिगमनम् । वरं प्राणत्यागो न च पिशुनवक्येष्वभिरतिर् वरं भिक्षार्थित्वं न च परधनास्वादमसकृत् ॥ ७० ॥ ] तदर्थित्वेऽपि हि पुरुषस्य ध्रुवोऽवमानः । कथम् । [ आकारपरिवृत्तिस्तु बुद्धेः परिभवः पुनः । आशाहानिरिवार्थित्वं परासुत्वमिवापरम् ॥ ७१ ॥ ] अथ किं परपिण्डेनात्मानं यापयामि । कष्टं भोः । तदपि द्वितीयं मृत्युद्वारम् । [ रोगी चिरप्रवासी परान्नभोजी परावसथशायी । यज्जीवति तन्मरणं सोऽस्य विश्रामः ॥ ७२ ॥ ] अपि च । [ जातः कुले महति मानधनावलिप्तस् सम्माननाभ्युदयकाल इव प्रहर्षी । तच्छेषपिण्डमपि नाम नृपस्य भुङ्क्ते यस्सारमेय इव कष्टतरं किमन्यत् ॥ ७३ ॥ ] [ आशाविप्लुतचेतसोऽभिलषिताल्लाभादलाभो वरस् तस्यालाभनिराकृता हि तनुतामापद्यते प्रार्थना । इष्टावाप्तिसमुद्भवस्तु सुतरां हर्षः प्रमाथी धृतेस् सेतोर्भङ्ग इवाम्भसां विवशतां वेगेन विस्तार्यते ॥ ७४ ॥ ] अपि च । [ तिर्यक्पातितचक्षुषां स्मयवतामुच्छैः कृतैकभ्रुवाम् आढ्यानामवलेपतुङ्गशिरसां श्रुत्वा गिरो दारुणाः । किं सद्यस्स्फुटनं प्रयुक्तमुरसस्सेवाकृतामर्थिनाम् अन्तस्तद्यदि वर्जसारदृढया नालिप्यते तृष्णया ॥ ७५ ॥ दीना दीनमुखैर्यदि स्वशिशुकैराकृष्टचीराम्बरा क्रोशद्भिः क्षुधितैर्निरन्नपिठिरा दृश्यते नो गेहिनी । याच्ञभङ्गभयेन गद्गदगलप्रोच्चारितार्धाक्षरं को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ ७६ ॥ ] तन्निस्स्वतेयम् अनेकप्रकारं मरणम् । अथ चेत्तदेव धनमात्मीकरोमि । मया तु तयोर्दुरात्मनोरुपधानीकृता दृष्टपूर्वास्ते दीनारास् स्थगिताः । एवं च सम्प्रधार्य गतोऽहं तमुद्देशम् । अथ तावन्यमनस्कौ मत्वा सञ्जिघृक्षुरहमुपश्लिष्टः । द्ष्ट्वा च मां बृहत्स्फिग्लगुडेनाताडयत् । अहमपि मुमूर्षुः कथमपि निवृत्तः । पुनरपि चिराद्बद्धाशस्समाश्वस्य दीनारान्तिकमुपश्लिष्टस् तेन निर्दयेनैवं शिरस्यभिहतः ! येनाद्यापि स्वप्नगतानामपि तादृशानामुद्विजे । पश्य चेमं तत्कालकृतं शिरसि मे व्रणम् । साधु चेदमुच्यते । [ सर्वप्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां प्रत्यासन्नभयो न वेत्ति विधुरं स्वं जीवितं काङ्क्षति । उत्तीर्णस्तु ततो धनार्थमपरां भूयो विशत्यापदं प्राणानां च धनस्य साधनधियामन्योन्यहेतुः पणः ॥ ७७ ॥ ] सोऽहं बहु विचिन्त्यास्तां धनमेतन्ममेति निवृत्तस् तृष्णातः । सुष्टु चेदमुच्यते । [ ज्ञानं चक्षुर्नेदं शीलं कुलपुत्रता न कुलजन्म । सन्तोषश्च समृद्धिः पाण्डित्यमवार्यविनिवृत्तिः ॥ ७८ ॥ सर्वास्सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम् । उपानद्गूढपादस्य सर्वा चर्मावृतैव भूः ॥ ७९ ॥ न योजनशतं दूरं वाह्यमानस्य तृष्णया । सन्त्.उष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः ॥ ८० ॥ सर्पाः पिबन्ति पवनं न च दुर्बलास्ते पर्णैस्तृणैर्वनगजा बलिनो भवन्ति । मूलैः फलैर्मुनिवराः क्षपयन्ति कालं सन्तोष एव महतां परमा विभूतिः ॥ ८१ ॥ ] तत्सर्वथासाध्येऽर्थे परिच्छेद एव श्रेयान् । [ दारिद्र्यस्य परा मूर्तिर्याच्ञा न द्रविणाल्पता । जरद्गवधनश्शम्भुस्तथापि परमेश्वरः ॥ ८२ ॥ ] तथा च । [ को धर्मो भूतदया किं सौख्यमरोगता जन्तोः । कस्स्नेहस्सद्भावः किं पाण्डित्यं परिच्छेदः ॥ ८३ ॥ सन्ति शाकान्यरण्येषु नद्यश्च विमलोदकाः । चन्द्रस्सामान्यदीपोऽयं विभवैः किं प्रयोजनम् ॥ ८४ ॥ ] इति । एवमवधार्याहं स्वभवनमागतोऽपश्यं चित्रग्रीवं पाशबद्धम् । इति च तं मोक्षयित्वानेन लघुपतनकेनाहं भवदन्तिकं प्रापितः । [२,४] अस्ति ! कस्मिंश्चिदधिष्ठाने सोमिलको नाम कौलिकः प्रतिवसति स्म । स यदुपार्जयति ! तत्तस्य दिवसव्ययादृतेऽधिकतां नोपयाति । जातनिवेदश्चासौ देशान्तरमगमत् । तत्र महता क्लेशेन वर्षत्रयाभ्यन्तरे दीनारशतमर्जितम् ! स्वदेशं च प्रायात् । अर्धपथे सन्ध्यासमये प्राप्ते न्यग्रोधपादमरण्यमध्ये समासादितवान् ! अचिन्तयच्च । क्व साम्प्रतं गमिष्यामि विप्रकृष्टतरं ग्रामस्येति । तदस्मिन्नेव न्यग्रोधपादपए आरूढो यामिनीं यापयामि । इत्यवधार्य तथा कृतवान् । अर्धरात्रे च कतञ्चित्स्वप्नए इव पश्यति स्म द्वौ पुरुषौ महाप्रमाणौ दिव्याकृती क्रोधसंरक्तनयनौ तस्याभ्याशम् आयातौ । तयोरेकेनाभिहितम् । भो वङ्कालक ! एवं भवान् । बहुशस्त्वं मया निवारितपूर्वः ! यथास्य सोमिलकस्य पानभोजनादृतेऽपरं न किञ्चिद्दातव्यम् । अस्याद्य दीनारशतं वर्तते । शीघ्रमपहरस्वेति । अथासावाह । यथाज्ञापयसि ! देव । एवं करोमि । इत्याकर्ण्य प्रतिबुद्धोऽसौ यावत्! दीनारशतं नापश्यत्! विषण्णहृदयश्चाचिन्तयत् । कष्टं भोः । किमेतत् । कथमिह केनापि भूतेन वञ्चितः । तत्किमधुना गृहं गत्वा करिष्ये । इतः प्रतिनिवृत्य पुनर्वित्तमासाद्य यावद्गच्छामि । एवं चिन्तयन् प्रभातायां रात्र्यां भूयोऽपि नगरमासाद्य वित्तोपार्जनाय चित्तमास्थाय कतिपयकालेन पञ्चाशद्दीनारान् उपार्ज्य पुनस्स्वदेशगमनाय तेनैव मार्गेण प्रवर्तितः । दैवचोदितस्सन्नाधिकं लभते ! नान्यमार्गगमनं वा । तत्रैव नीयते ! यावदस्तं गच्छति भानौ तमेव न्यग्रोधम् आसादितवान् ! अचिन्तयच्च । कष्ठं भोः । किमिदमारब्धं दैवहतकेन । पुनस्स एव न्यग्रोधरूपी राक्षस आपतित इति । एवं चिन्तयन् स्वप्नायमानः पश्यति स्म द्वावेतौ पुरुषौ । तयोरेकोऽब्रवीत् । भो वङ्काल ! सोमिलकस्य पञ्चाशद्दीनारा वर्तन्ते । तन्न युक्तम् । ततोऽसावाह । हृतानवधारयस्वेति । सोमिलकस्तु प्रतिबुद्धो नाद्राक्षीद्धृतानिति । अथ जातनिर्वेदोऽब्रवीत् । किं मम ज्वितेन प्रयोजनम् । कोऽयं वृत्तान्तः ! केन वा कारणेन मम क्लेशार्जितवित्तम् अपहरतीति न विजानामि । अथ प्राणांस्त्यक्ष्यामीति । एवं चिन्तयन्निराहारस्तत्र एव तस्थौ ! यावत्कतिपयैरेवाहोभिर् दिव्याकारं पुरुषं दृष्टवान् । तेनोक्तः । भोस्सोमिलक ! धनदोऽस्मि । नाभाव्यं कस्मैचित्प्रयच्छामि धनम् । तथा च । [ यदभावि न तद्भावि भावि यत्तदनन्यथा । इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥ ११३ ॥ शयान आकस्मिकमश्नुते फलं कृतप्रयत्नोऽप्यपरोऽवसीदति । असंयमान्नृत्यति केवलं जनो विधिस्तु यत्रेच्छति तत्र सम्पदः ॥ ११४ ॥ नैवाकृतिः फलति नैव गुणा न शौर्यं विद्या न चैव न च यत्नकृतो विशेषः । भाग्यानि कर्मफलसञ्चयसञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ ११५ ॥ क्रुद्धोऽपि कः कस्य करोति दुःखं सुखं च कः कस्य करोति हृष्टः । स्वकर्मग्रन्थिग्रथितोहि लोकः कर्ता करोतीति वृथाभिमानः ॥ ११६ ॥ बुद्धिमन्तो महोत्साहाः प्राज्ञाश्शूराः कुलोद्गताः । पाणिपादैरुपेताश्च परेषां भृत्यतां गताः ॥ ११७ ॥ ] किमत्र परिदेवितेन ! सोमिलक । पानभोजनादृते तव वित्तोपार्जनं न किञ्चिदस्ति । [ वहन्ति शिविकामन्ये सन्त्यन्ये शिविकां गताः । अकारणं हि वक्तृत्वं व्युत्थानं केवलं जरा ॥ ११८ ॥ न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा । अवश्यं लभते जन्तुरत्र का परिदेवना ॥ ११९ ॥ लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति । प्राप्तव्यान्येव चाप्नोति दुःखानि च सुखानि च ॥ १२० ॥ अप्रार्थितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १२१ ॥ तत्को विशेषयति केन कृतो विशिष्टः को वा धनैस्सह विजायति को दरिद्रः । भाग्यानि षट्पद इव स्थिरचञ्चलानि नित्यं मनुष्यकुसुमेषु परिभ्रमन्ति ॥ १२२ ॥ ] तथापि दैवपुरुषयोगादर्थोत्पत्तिः ! पुरुषश्चरति ! दैवं फलतीति । अत्रोद्योगपरेणाहं भवता दृष्टः । अमोघदर्शनोऽस्मि । किं नु ते करवै । असौ विज्ञापितवान् । धनं मे देहीति । धनदो विहस्याब्रवीत् । मूढ ! किं न्वनेन क्रियते । उपभोगोऽत्र कारणम् । गच्छ ! अस्मिन्नेवाधिष्ठाने द्वौ वणिजकौ पश्य । एको धनी ! अपरो भोगवान् । तौ दृष्ट्वा यादृक्तयोरभिवाञ्छसीति ! तादृग्भविष्यसि । इत्युक्त्वान्तर्हितः । सोमिलकोऽपि प्रभाते तन्नगरमुपविश्य सार्थवाहं धनगुप्तमाससाद । तत्रासौ निर्भर्त्स्यमानोऽपि कथमपि गृहे प्रविश्यालिन्दके निपत्यावस्थितः । सोऽपि वणिक्सन्ध्यामतिवाह्य निशामुखे किञ्चित्मात्रमशनम् अकरोत् । सोमिलकेऽपि किञ्चित्मात्रमशनमदापयत् । अथासौ कौलिकः कुशानास्तीर्य भूमौ निपत्य सुप्तोऽपश्यत्तावेव द्वौ पुरुषौ । तयोरेकोऽब्रवीत् । भो वङ्काल ! धनगुप्तेनाद्य कौलिकस्याशनं दापयता द्विगुणव्ययेनात्मा नियोजित इति । सर्वस्य निपुणं गणयामि । नास्य स्थापनादृते दाने भोजने वा किञ्चिद्विहितम् । तदहं प्रातस्समीकरोमीति । एवं श्रुत्वा प्रतिबुद्धः । धनगुप्तोऽपि प्रातर्विषूचिकया महानत्ययं गतः । स्वेदोष्णवारिपानादिना च परिक्लिष्योपोषितः । ततस्स कौलिकः प्रभाते दैवचोदितोअचिन्तयत् । ईदृशेन धनेन किं कारणम् । प्रकृतिर्दुस्त्यजेति । ततो द्वितीयं तं व्ययशीलं भोगवर्माणमुद्दिश्य सोमिलको गतः । तेनासौ महता भोजनपानादिना सत्कृतस्सोमिलकस्तथैव महति शयने सोपचारे स्वास्तीर्णे निशायां सुप्तोऽपश्यत्तावेव पुरुषौ । तयोरेकोऽब्रवीत् । भद्र वङ्काल ! शोभनमनुष्ठितं भोगवर्मणा प्राहुणकं सोमिलकं सम्मानयता । तद्भूयोऽपि प्रवर्धमानमर्थं व्ययोपभोगेऽस्य दातव्यम् । स चाह । एवं क्रियते । प्रतिबुद्धस्सोमिलकोऽचिन्तयत् । भोगा ईदृशो मे भवन्तु । किं धनेन नाममात्रेण क्रियतएइति । तथा च समर्थितवान् । [२.५] अस्ति ! अहं कदाचिद्यमुनाकच्छे शालिग्राममध्ये प्रियकमृग्यामुत्पन्नः । वयं षड्जातयः । तथा च । चमूरः कदली कन्दली प्रियक एणक एते मृगयोनयस्स्तुताः पञ्च एव । मातृदुग्धप्रसादेन द्वे गती जानन्ति । ऊर्ध्वा ! आञ्जसी चेति । एते न लुब्धकैः प्राप्यन्ते । प्रियकजातीयोऽहं मनुष्यप्रियश्चिरेणाक्षिणी निमीलयामि । तथा सति मे माता यदा गता ! तदाहं लुब्धकैः पोतक एव गृहितः । स्त्रीक्षीरेण विवर्धितोयावत्तद्गृहे निवसामि ! तावन्मे माता स्वयूथ्यैश्चरति । तयाभिहितम् । अहो दैवम् । अहमपुत्रवती क्व मे पुत्र इति । एवं मयाकर्ण्यावधारितम् । किं मे लुब्धकैः । निजकृत्रिमयोस्सहाययोर्निजस्सहायो गरीयानिति । ततो लुब्धकगृहात्स्वैरं गत आसम् । अथ लुब्धकसकाशादागत इति भयचकितदृशं मातरं प्राप्तः । तयाहमानन्दितः । किमेतदाश्चर्यमिति पृष्टः । स्तन्यक्षीरेण विवर्धितः । तेनातिमात्रमहं षण्मासजातशिशुस्स्वयूथ्यमध्यगतः । अभ्यधिकजवत्वाद्गच्छन्मृगानागतः प्रतिपालयामि । अस्माकं द्वे गती ! ऊर्ध्वा ! आञ्जसी च । तयोर्मातृकपयोविरहादहमाञ्जसीं वेद्मि ! नोर्ध्वम् । अथ कदाचिन्मृगांश्चरमाणान्नानुपश्यामि । आविग्नहृदयश्च क्व ते गता इति विलोकितवान् । पश्यामि तानूर्ध्वगत्यभिज्ञतया जालं विलङ्घ्याग्रतो गतान् । अहं त्वनभिज्ञस्स्त्रीक्षीरदोषात् । तथा च । कार्यकाले तु सम्प्राप्ते नावज्ञेयं त्रयं सदा । बीजमौषधमाहारो यथा लाभस्तथाक्रयः ॥ १४९ ॥ अहं तेन क्षीराख्येनौषधेनोर्ध्वगत्यनभिज्ञतयाञ्जस्या गत्या निष्पतितोजालेनाकुलीकृतः । ततश्च व्याधैर्दुरात्मभिर्जीवग्राहं गृहीत्वा क्रीडार्थं राजपुत्रायोपनीतः । सोऽपि मां दृष्ट्वातीव परितुष्टो व्याधान् प्रादेशिकेन सम्मानितवान् । मां चादरेणाङ्गोद्वर्तनस्नानभोजनधूपालङ्कारवासोविषे. सैर्भोजनप्रकारैश्चासम्भाव्यैस्स्निग्धद्रवपेशलैस् सखण्डगुडदाडिमचातुर्जातकविमिश्रैरन्यैश्च भोज्यैर् अतर्पयत् । अथान्तःपुरिकाजनस्य राजकुमाराणां च हस्ताद्धस्तं च कौतुकपरतया ग्रीवानयनकरचरणकर्णावकर्षणैः परस्परेर्ष्याभी राजाङ्गनाभिस्सम्मानपरम्परतया क्लेशितो अहम् । चिन्तितं च मया । किं सुवर्णेन श्रोत्रबाधाकरेण । हा कष्टम् । कदा तद्वनं प्राप्स्यामीति । निवृत्तकौतुकानां च कदाचिद्विविक्ते वर्तमाने राजपुत्रशयनाधस्तान्मया प्रावृट्समये मेघशब्दश्रवणोत्कण्ठितहृदयेन स्वयूथच्युतेन स्वयूथ्याननुस्मृत्याभिहितम् । वातवृष्ट्यवधूतस्य मृगयूथस्य धावतः । पृष्ठतो यद्गमिष्यामि कदा तन्मे भविष्यति ॥ १५० ॥ एवमुच्चारयतो राजपुत्रेण बालभावादभावितचित्तेनैतावच् छ्रुत्वा सन्त्रस्तेन द्वास्स्थोऽभिहितः । केनेदमभिहितमिति । सन्तापितहृदयस्समन्तादवलोकयन्मामपश्यत् । अहं च लुब्धकैर्मानुषीं वाचं शिक्षित आसम् । दृष्ट्वा च मां मानुषेणेवानेन मृगेनाभिहितम् ! विनष्टोऽस्मीति मत्वा परमावेगं गतः । अथ कथञ्चिद्विस्खलितवागसौ बहिर्निश्चक्राम । परमसत्त्वाधिष्ठित इव महदस्वास्थ्यमापेदे । ततस्सर्वाभिषग्भूततन्त्रिकान्महत्या अर्थमात्रया ज्वरपरीतः प्रार्थितवान् ! एवं चाब्रवीत् । यो ममैतां रुजमपनयति ! तस्याहमकृशां पूजां करिष्यामीति । अहमपि तत्रासमीक्षितकारिणा जनेन लगुडेष्टकादिभिर् द्रुह्यमाणः केनापि साधुनावच्छन्नः । किमनेन कृतमिति । अथ ममायुश्शेषतया तेनार्येण सर्वलक्षणविदा विज्ञापितो राजपुत्रः । अविमर्शपरेण लोकेनेमामवस्थां प्रापितस्त्वम् । पुनरपि तेनार्येणोक्तो यथा । प्रियको नामैष मृगो मानुषीं वाचं जानाति । नैष मानुषः । भद्र ! अनेन प्रावृट्कालमेघशब्दप्रतिबोधितचित्तेन स्वयूथ्यानुस्मरणौत्सुक्यादभिहितम् । वातवृस्ट्यवधूतस्येति । किमत्र चित्रम् । प्रायेण पक्षिणः पशवश्च भयाहारमैथुनमात्रवेदिनो भवन्ति ! इत्यधिगतमेव देवेन । अतोऽयममानुषः । तथा च । [ यादृशैस्सन्निवसते यादृशांश्चोपसेवते । यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ १५१ ॥ हीयते हि नरस्तात हीनैस्सह समागमात् । समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ १५२ ॥ ] तत्! देव ! मनुष्यसम्पर्कात्प्रियकजातिवशाच्च मानुषीं वाचं ददातीति सम्मानितः । तथा च । [ यथोदयगिरेर्द्रव्यं सन्निकर्षेण दीप्यते । ॥ १५३ ॥ ] इति । तत्र किमसम्बद्धं ज्वरकारणम् । अपि च । [ मन्त्राणां परतो नास्ति बीजमुच्चरणं तथा । असम्बद्धप्रलापा न कार्यं साधयितुं क्षमाह् ॥ १५४ ॥ ] तथा च । [ शङ्खः कदल्यां कदली च भेर्यां तस्यां च भेर्यां सुमहद्विमानम् । तच्छङ्खभेरीकदलीविमानम् उन्मत्तशङ्काप्रतिमं बभूव ॥ १५५ ॥ ] तत्क्व शङ्कः ! क्व कदली ! क्व भेरी ! क्व विमानमिति । तद्विधमिदमसम्बद्धतया त्वय्यागतम् । तच्च श्रुत्वापगतविकारो राजपुत्रः पूर्वप्रकृतिमापन्नः । विचार्य तस्यार्यस्य प्रज्ञाविभवं ततो महतीं पूजां कृत्वा मन्त्रिसमीपवर्ती मन्त्रित्वे कृतः । मां चापनीयाभ्यज्य प्रभूतेनाम्भसा प्रक्षालितशरीरं कृत्वारक्षिपुरुषाधिष्ठितं तत्रैव वने प्रतिमुक्तवान् । तत्किं बहुना ! अनुभूतबन्धनोऽप्यहं नियतिवशात्पुनर् बद्ध इति ।