मङ्गलाचरणम् सिद्धिः साध्ये सतामस्तु प्रसादात्तस्य धूर्जटेः । जाह्नवीफेनलेखेव यन्मूर्ध्नि शशिनः कला ॥ ०.१ ॥ श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु । वाचां सर्वत्र वैचित्र्यं नीतिविद्यां ददाति च ॥ ०.२ ॥ विद्याप्रशंसा अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ०.३ ॥ सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् । अहार्यत्वादनर्घत्वादक्षयत्वाच्च सर्वदा ॥ ०.४ ॥ संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रमिव दुर्घर्षं नृपं भाग्यमतः परम् ॥ ०.५ ॥ विद्या ददाति विनयं विनयाद्याति पात्रताम् । पात्रत्वात्धनमाप्नोति धनाद्धर्मं ततः सुखम् ॥ ०.६ ॥ विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये । आद्या हास्यय वृद्धत्वे द्वितीयाद्रियते सदा ॥ ०.७ ॥ यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत् । कथाच्छलेन बालानां नीतिस्तदिह कथ्यते ॥ ०.८ ॥ मित्रलाभः सुहृद्भेदो विग्रहः सन्धिरेव च । पञ्चतन्त्रात्तथान्यस्माद्ग्रन्थादाकृष्य लिख्यते ॥ ०.९ ॥ अथ कथामुखम् अस्ति भागीरथीतीरे पाटलिपुत्रनामधेयं नगरम् । तत्र सर्वस्वामिगुणोपेतः सुदर्शनो नाम नरपतिरासीत् । स भूपतिरेकदा केनापि पाठ्यमानं श्लोकद्वयं शुश्राव अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥ ०.१० ॥ यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ ०.११ ॥ इत्याकर्ण्यात्मनः पुत्राणामनधिगतशास्त्राणां नित्यमुन्मार्गगामिनां शास्त्राननुष्ठानेनोद्विग्नमनाः स राजा चिन्तयामास । कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः । काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम् ॥ ०.१२ ॥ अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः । सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे ॥ ०.१३ ॥ किं च वरं गर्भस्रावो वरमपि च नैवाभिगमनं वरं जातः प्रेतो वरमपि च कन्यावजनिता । वरं बन्ध्या भार्या वरमपि च गर्भेषु वसतिर् न वाविद्वान् रूपद्रविणगुणयुक्तोऽपि तनयः ॥ ०.१४ ॥ स जातो येन जातेन याति वंशः समुन्नतिम् । परिवर्तिनि संसारे मृतः को वा न जायते ॥ ०.१५ ॥ अन्यच्च गुणिगणगणनाऽरम्भे न पतति कठिनी ससम्भ्रमाद्यस्य । तेनाम्बा यदि सुतिनी वद बन्ध्या कीदृशी भवति ? ॥ ०.१६ ॥ अपि च दाने तपसि शौर्ये च यस्य न प्रथितं मनः । विद्यायामर्थलाभे च मातुरुच्चार एव सः ॥ ०.१७ ॥ अपरं च वरमेको गुणी पुत्रो न च मूर्खशतैरपि । एकश्चन्द्रमस्तमो हन्ति न च तारागणैरपि ॥ ०.१८ ॥ पुण्यतीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् । तस्य पुत्रो भवेद्वश्यः समृद्धो धार्मिकः सुधीः ॥ ०.१९ ॥ तथा चोक्तं अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रोऽर्थकरी च विद्या षड्जीवलोकस्य सुखानि राजन् ॥ ०.२० ॥ को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः । वरमेकः कुलालम्बी यत्र विश्रूयते पिता ॥ ०.२१ ॥ ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥ ०.२२ ॥ यस्य कस्य प्रसूतोऽपि गुणवान् पूज्यते नरः । धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति ॥ ०.२३ ॥ हा हा पुत्रक नाधीतं गतास्वेतासु रात्रिषु । तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ॥ ०.२४ ॥ तत्कथमिदानीमेते मम पुत्रा गुणवन्तः क्रियन्ताम् ? यतः आहारनिद्राभयमैथुनानि सामान्यमेतत्पशुभिर्नराणाम् । ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ ०.२५ ॥ यतः धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ ०.२६ ॥ यच्चोच्यते आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ ०.२७ ॥ किं च अवश्यं भाविनो भावा भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥ ०.२८ ॥ अन्यच्च यदभावि न तद्भावि भावि चेन्न तदन्यथा । इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥ ०.२९ ॥ एतत्कार्याक्षमाणां केषांचिदालस्यवचनम् । पुरुषकारौत्कार्ष्यमाह यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥ ०.३० ॥ तथा च पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते । तस्मात्पुरुषकारेण यत्नं कुर्यादतन्द्रितः ॥ ०.३१ ॥ न दैवमपि संचिन्त्य त्यजेदुद्योगमात्मनः । अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति ॥ ०.३२ ॥ अन्यच्च उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर् दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ ०.३३ ॥ यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति । एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥ ०.३४ ॥ काकतालीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः । न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥ ०. उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ०.३६ ॥ तथा चोक्तं माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ ०.३७ ॥ रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ ०.३८ ॥ अपरच्च पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ । न शोभते सम्भामध्ये जारगर्भ इव स्त्रियाः ॥ ०.३९ ॥ एतच्चिन्तयित्वा राजा पण्डितसभां कारितवान् । राजोवाचभो भोः पण्डिताः ! श्रूयतां मम वचनम् । अस्ति कश्चिदेवम्भूतो विद्वान् यो मम पुत्राणां नित्यमुन्मार्गगामिनामनधिगतशास्त्राणामिदानीं नीतिशास्त्रोपदेशेन पुनर्जन्म कारयितुं समर्थः ? यतः काचः काञ्चनसंसर्गाद्धत्ते मारकतीर्द्युतीः । तथा सत्सन्निधानेन मूर्खो याति प्रवीणताम् ॥ ०.४० ॥ उक्तं च हीयते हि मतिस्तात हीनैः सह समागमात् । समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ ०.४१ ॥ अत्रान्तरे विष्णुशर्मनामा महापण्डितः सकलनीइतिशास्त्रतत्त्वज्ञो बृहस्पतिरिवाब्रवीत्देव महाकुलसम्भूता एते राजपुत्राः । तत्मया नीतिं ग्राहयितुं शक्यन्ते । यतः नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत् । न व्यापारशतेनापि शुकवत्पाठ्यते बकः ॥ ०.४२ ॥ अन्यच्च अस्मिंस्तु निर्गुणं गोत्रे नापत्यमुपजायते । आकरे पद्यरागानां जन्म काचमणेः कुतः ॥ ०.४३ ॥ अतोऽहं षण्मासाभ्यन्तरे भवत्पुत्रान्नीतिशास्त्राभिज्ञान् करिष्यामि । राजा सविनयं पुनरुवाच । कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः । अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ ०.४४ ॥ अन्यच्च यथोदयगिरेर्द्रव्यं सन्निकर्षेण दीप्यते । तथा सत्सन्निधानेन हीनवर्णोऽपि दीप्यते ॥ ०.४५ ॥ गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । आस्वाद्यतोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्युपेयाः ॥ ०.४६ ॥ तदेतेषामस्मत्पुत्राणां नीतिशास्त्रोपदेशाय भवन्तः प्रमाणमित्युक्त्वा तस्य विष्णुशर्मणो करे बहुमानपुरःसरं पुत्रान् समर्पितवान् ॥ ओ)०(ओ इ. मित्रलाभः अथ प्रासादपृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात्प्रस्तावक्रमेण पण्डितोऽब्रवीत्भो राजपुत्राः शृणुत काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ १.१ ॥ तद्भवतां विनोदाय काककूर्मादीनां विचित्रां कथां कथयिष्यामि । राजपुत्रैरुक्तमार्य ! कथ्यताम् । विष्णुशर्मोवाचशृणुत यूयम् । सम्प्रति मित्रलाभः प्रस्तूयते । यस्यायमाद्यः श्लोकः असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः । साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥ १.२ ॥ राजपुत्रा ऊचुःकथमेतत्? सोऽब्रवीतस्ति गोदावरीतीरे विशालः शाल्मलीतरुः । तत्र नानादिग्देशादागत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिदवसन्नायां रात्रौ अस्ताचलचूडावलम्बिनि भगवति कुमुदिनीनायके चन्द्रमसि । लघुपतननामा वायसः प्रबुद्धः कृतान्तमिव द्वितीयमटन्तं पाशहस्तं व्याघमपश्यत् । तमालोक्याचिन्तयतद्य प्रातरेवानिष्टदर्शनं जातम् । न जाने किमनभिमतं दर्शयिष्यति । इत्युक्त्वा तदनुसरणक्रमेण व्याकुलश्चलति । यतः शोकस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ १.३ ॥ अन्यच्चविषयिणामिदमवश्यं कर्तव्यम् । उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् । आयुषः खण्डमादाय रविरस्तं गमिष्यति ॥ १.४ ॥ अथ तेन व्याधेन तण्डुलकणान् विकीर्य जालं विस्तीर्णम् । स च तत्र प्रच्छन्नो भूत्वा स्थितः । अस्मिन्नेव काले चित्रग्रीवनामा कपोतराजः सपरिवारो वियति विसर्पंस्तण्डुलकणानवलोकयामास । ततः कपोतराजस्तण्डुलकणलुब्धान् कपोतान् प्राहकुतोऽत्र निर्जने वने तण्डुलकणानां सम्भवः । तन्निरूप्यतां तावत् । भद्रमिदं न पश्यामि प्रायेणानेन तण्डुलकणलोभेनास्माभिरपि तथा भवितव्यम् । कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे । वृद्धव्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ॥ १.५ ॥ कपोता ऊचुःकथमेतत्? कथा १ सोऽब्रवीतहमेकदा दक्षिणारण्ये चरन्नपश्यमेको वृद्धो व्याघ्रः स्नातः कुशहस्तः सरस्तीरे ब्रूतेभो भो पन्थाः ! इदं सुवर्णकङ्कणं गृह्यताम् । ततो लोभाकृष्टेन केनचित्पान्थेन आलोचितम्भाग्येन एतत्सम्भवति । किन्तु अस्मिनात्मसन्देहे प्रवृत्तिर्न विधेया । यतः अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा । यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ॥ १.६ ॥ किन्तु सर्वत्रार्थार्जनप्रवृत्तौ सन्देह एव । तथा चोक्तम् न संशयमनारुह्य नरो भद्राणि पश्यति । संशयं पुनरारुह्य यदि जीवति पश्यति ॥ १.७ ॥ तन्निरूपयामि तावत् । प्रकाशं ब्रूते । कुत्र तव कङ्कणम् ? व्याघ्रो हस्तं प्रसार्य दर्शयति । पान्थोऽवदत्कथं मारात्मके त्वयि विश्वासः ? व्याघ्र उवाचशृणु रे पान्थ ! प्रागेव यौवनदशायामहमतीव दुर्वृत्त आसम् । अनेकगोमानुषाणां वधाद्मे पुत्रा मृता दाराश्च । वंशहीनश्चाहम् । ततः केनचिद्धार्मिकेणाहमुपदिष्टः । दानधर्मादिकं चरतु भवानिति । तदुपदेशादिदानीमहं स्नानशीलो दाता वृद्धो गलितनखदन्तः न कथं विश्वासभूमिः ? उक्तं च इज्याऽध्ययनदानानि तपः सत्यं धृतिः क्षमा । अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ १.८ ॥ तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते । उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति ॥ १.९ ॥ मम चैतावान् लोभविरहः । येन स्वहस्तस्थमपि सुवर्णकङ्कणं यस्मै कस्मैचिद्दातुमिच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः । यतः गतानुगतिको लोकः कुट्टनीमुपदेशिनीम् । प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम् ॥ १.१० ॥ मया च धर्मशास्त्राणि अधीतानि । शृणु मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा । दरिद्रे दीयते दानं सफलं पाण्डुनन्दन ॥ १.११ ॥ प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥ १.१२ ॥ अपरं च प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये । आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥ १.१३ ॥ अन्यच्च मातृवत्परदारेषु परद्रव्येषु लोष्ट्रवत् । आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ १.१४ ॥ त्वं च अतीवदुर्गतः । तेन तत्तुभ्यं दातुं सयत्नोऽहम् । तथा चोक्तम् दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥ १.१५ ॥ अन्यत्च दातव्यमिति यद्दानं दीयतेऽनुपकारिणि । देशे काले च पात्रे च तद्दानं सात्त्विकं विदुः ॥ १.१६ ॥ तदत्र सरसि स्नात्वा सुवर्णकङ्कणमिदं गृहाण । ततो यावदसौ तद्वचःप्रतीतो लोभात्सरः स्नातुं प्रविष्टः, तावन्महापङ्के निमग्नः पलायितुमक्षमः । तं पङ्के पतितं दृष्ट्वा व्याघ्रोऽवदतहह महापङ्के पतितोऽसि । अतस्त्वामहमुत्थापयामि । इत्युक्त्वा शनैः शनैरुपगम्य तेन व्याघ्रेण धृतः स पान्थोऽचिन्तयत् न धर्मशास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मनः । स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥ १.१७ ॥ किं च अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया । दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥ १.१८ ॥ तन्मया भद्रं न कृतम् । यदत्र मारात्मके विश्वासः कृतः । तथा चोक्तम् नदीनां शस्त्रपाणीनां नखिनां शृङ्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ १.१९ ॥ अपरं च सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥ १.२० ॥ अन्यच्च स हि गगनविहारी कल्मषध्वंसकारी दशशतकरधारी ज्योतिषां मध्यचारी । विधुरपि विधियोगाद्ग्रस्यते राहुणासौ लिखितमपि ललाटे प्रोज्झितं कः समर्थः ॥ १.२१ ॥ इति चिन्तयन्नेवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश्च । अतोऽहं ब्रवीमिकङ्कणस्य तु लोभेनेत्यादि । अत एव सर्वथाविचारितं कर्म न कर्तव्यमिति । यतः सुजीर्णमन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत्कृतं सुदीर्घकालेऽपि न याति विक्रियाम् ॥ १.२२ ॥ एतद्वचनं श्रुत्वा कश्चित्कपोतः सदर्पमाहआः ! किमेवमुच्यते ? वृद्धस्य वचनं ग्राह्यमापत्काले ह्युपस्थिते । सर्वत्रैवं विचारे च भोजनेऽपि प्रवर्तताम् ॥ १.२३ ॥ यतः शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा ? ॥ १.२४ ॥ यथा चोक्तम् ईर्ष्यी घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः । परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ १.२५ ॥ एतच्छ्रुत्वा तण्डुल्कणलोभेन नभोमण्डलादवतीर्यसर्वे कपोतास्तत्रोपविष्टाः । यतः सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः । छेत्ताः संयानां च क्लिश्यन्ते लोभमोहिताः ॥ १.२६ ॥ अन्यच्च लोभात्क्रोधः प्रभवति लोभात्कामः प्रजायते । लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ॥ १.२७ ॥ अन्यच्च असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय । प्रायः समापन्नविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥ १.२८ ॥ अनन्तरं ते सर्वे जालनिबद्धा बभूवुः, ततो यस्य वचनात्तत्रावलम्बितास्तं सर्वे तिरस्कुर्वन्ति स्म । यतः, न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम् । यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥ १.२९ ॥ तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाचनायमस्य दोषः, यतः आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् । मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥ १.३० ॥ अन्यच्च स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः । न तु भीतपरित्राणवस्तूपालम्भपण्डितः ॥ १.३१ ॥ विपत्काले विस्मय एव कापुरुषलक्षणम् । तदत्र धैर्यमवलम्ब्य प्रतीकारश्चिन्त्यताम्, यतः विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्यपटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ १.३२ ॥ सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ १.३३ ॥ अन्यच्च षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥ १.३४ ॥ इदानीमपि एवं क्रियताम्सर्वैरेकचित्तीभूय जालमादाय उड्डीयताम् । यतः अल्पानामपि वस्तूनां संहतिः कार्यसाधिका । तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥ १.३५ ॥ संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि । तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ १.३६ ॥ इति विचित्य पक्षिणः सर्वे जालमादाय उत्पतिताः । अनन्तरं च व्याधः सुदूराज्जालापहारकांस्तानवलोक्य पश्चाद्धावितोऽचिन्तयत् संहतास्तु हरन्त्येते मम जालं विहङ्गमाः । यदा तु निपतिष्यन्ति वशमेष्यन्ति मे तदा ॥ १.३७ ॥ ततस्तेषु चक्षुर्विषयमतिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः । अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुःस्वामिन् ! किमिदानीं कर्तुमुचितम् ? चित्रग्रीव उवाच माता मित्रं पिता चेति स्वभावात्त्रितयं हितम् । कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥ १.३८ ॥ तन्मे मित्रं हिरण्यको नाम मूषिकराजो गण्डकीतीरे चित्रवने निवसति । सोऽस्माकं पाशांश्छेत्स्यति इत्यालोच्य सर्वे हिरण्यकविवरसमीपं गताः । हिरण्यकश्च सर्वदा अपायशङ्कया शतद्वारं विवरं कृत्वा निवसति । ततो हिरण्यकः कपोतावपातभयाच्चकितः तूष्णीं स्थितः । चित्रग्रीव उवाचसखे हिरण्यक ! कथमस्मान्न सम्भाषसे ? ततो हिरण्यकस्तद्वचनं प्रत्यभिज्ञाय ससम्भ्रमं बहिर्निःसृत्य अब्रवीताः ! पुण्यवानस्मि प्रियसुहृन्मे चित्रग्रीवः समायातः । यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः । यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥ १.३९ ॥ अथ पाशबद्धांश्चैतान् दृष्ट्वा सविस्मयः क्षणं स्थित्वा उवाचसखे ! किमेतत्? चित्रग्रीव उवाचसखे ! अस्माकं प्राक्तनजन्मकर्मणः फलमेतत् । यस्माच्च येन च यथा च यदा च यच्च यावच्च यत्र च शुभाशुभमात्मकर्म । तस्माच्च तेन च तथा च तदा च तच्च तावच्च तत्र च विधातृवशादुपैति ॥ १.४० ॥ रागशोकपरीतापबन्धनव्यसनानि च । आत्मापराधवृक्षाणां फलान्येतानि देहिनाम् ॥ १.४१ ॥ एतच्छ्रुत्वा हिरण्यकश्चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरमुपसर्पति । तत्र चित्रग्रीव उवाचमित्र ! मा मैवं कुरु । प्रथममस्मदाश्रितानामेतेषां तावत्पाशांश्छिन्धि । मम पाशं पश्चाच्छेत्स्यसि । हिरण्यकोऽप्याहअहमल्पशक्तिः । दन्ताश्च मे कोमलाः । तदेतेषां पाशांश्छेत्तुं कथं समर्थो भवामि ? तत्यावन्मे दन्ता न त्रुट्यन्ति, तावत्तव पाशं छिनद्मि । तदनन्तरमप्येतेषां बन्धनं यावत्शक्यं छेत्स्यामि । चित्रग्रीव उवाचअस्त्वेवम् । तथापि यथाशक्ति बन्धनमेतेषां खण्डय । हिरण्यकेनोक्तमात्मपरित्यागेन यदाश्रितानां परिरक्षणं तन्न नीतिवेदिनां सम्मतम् । यतः आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १.४२ ॥ अन्यच्च धर्मार्थकाममोक्षाणां प्राणाः संस्थितहेतवः । तान्निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥ १.४३ ॥ चित्रग्रीव उवाचसखे ! नीतिस्तावदीदृश्येव, किन्त्वहमस्मदाश्रितानां दुःखं सोढुं सर्वथासमर्थस्तेनेदं ब्रवीमि । यतः धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ १.४४ ॥ अयमपरश्चासाधारणो हेतुः । जातिद्रव्यबलानां च साम्यमेषां मया सह । मत्प्रभुत्वफलं ब्रूहि कदा किं तद्भविष्यति ॥ १.४५ ॥ अन्यच्च विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् । तन्मे प्राणव्ययेनापि जीवयैतान्ममाश्रितान् ॥ १.४६ ॥ किं च मांसमूत्रपुरीषास्थिपूरितेऽत्र कलेवरे । विनश्वरे विहायास्थां यशः पालय मित्र मे ॥ १.४७ ॥ अपरं च पश्य यदि नित्यमनित्येन निर्मलं मलवाहिना । यशः कायेन लभ्येत तन्न लब्धं भवेन्नु किम् ॥ १.४८ ॥ यतः शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥ १.४९ ॥ इत्याकर्ण्य हिरण्यकः प्रहृष्टमनाः पुलकितः सनब्रवीत्साधु मित्र ! साधु । अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते । एवमुक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि । ततो हिरण्यकः सर्वान् सादरं सम्पूज्य आहसखे चित्रग्रीव ! सर्वथात्र जालबन्धनविधौ सति दोषमाशङ्क्य आत्मनि अवज्ञा न कर्तव्या । यतः योऽधिकाद्योजनशतान् पश्यतीहामिषं खगः । स एव प्राप्तकालस्तु पाशबन्धं न पश्यति ॥ १.५० ॥ अपरं च शशिदिवाकरयोर्ग्रहपीडनं गजभुजङ्गमयोरपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥ १.५१ ॥ अन्यच्च व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि । दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥ १.५२ ॥ इति प्रबोध्य आतिथ्यं कृत्वा आलिङ्ग्य च तेन सम्प्रेषितश्चित्रग्रीवोऽपि सपरिवारो यथेष्टदेशान् ययौ, हिरण्यकोऽपि स्वविवरं प्रविष्टः । यानि कानि च मित्राणि कर्तव्यानि शतानि च । पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः ॥ १.५३ ॥ अथ लघुपतनकनामा काकः सर्ववृत्तान्तदर्शी साश्चर्यमिदमाहअहो हिरण्यक ! श्लाघ्योऽसि, अतोऽहमपि त्वया सह मैत्रीं कर्तुमिच्छामि । अतस्त्वं मां मैत्र्येणानुग्रहीतुमर्हसि । एतच्छ्रुत्वा हिरण्यकोऽपि विवराभ्यन्तरादाहकस्त्वम् ? स ब्रूतेलघुपतनकनामा वायसोऽहम् । हिरण्यको विहस्याहका त्वया सह मैत्री ? यतः यद्येन युज्यते लोके बुधस्तत्तेन योजयेत् । अहमन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ॥ १.५४ ॥ अपरं च भक्ष्यभक्षयोः प्रीतिर्विपत्तेः कारणं मतम् । शृगालात्पाशबद्धोऽसौ मृगः काकेन रक्षितः ॥ १.५५ ॥ वायसोऽब्रवीत्कथमेतत्? हिरण्यकः कथयति कथा २ अस्ति मगधदेशे चम्पकवती नाम अरण्यानी । तस्यां चिरात्महता स्नेहेन मृगकाकौ निवसतः । स च मृगः स्वेच्छया भ्राम्यन् हृष्टपुष्टाङ्गः केनचित्शृगालेनावलोकितः । तं दृष्ट्वा शृगालोऽचिन्तयताः ! कथमेतन्मांसं सुललितं भक्षयामि ? भवतु, विश्वासं तावदुत्पादयामि इत्यालोच्य उपसृत्याब्रवीत्मित्र ! कुशलं ते ? मृगेणोक्तम्कस्त्वम् ? स ब्रूतेक्षुद्रबुद्धिनामा जम्बुकोऽहम् । अत्रारण्ये बन्धुहीनो मृतवतेकाकी निवसामि । इदानीं त्वां मित्रमासाद्य पुनः सबन्धुर्जीवलोकं प्रविष्टोऽस्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यमिति । मृगेणोक्तमेवमस्तु । ततः पश्चादस्तं गते सवितरि भगवति मरीचिमालिनि तौ मृगस्य वासभूमिं गतौ । तत्र चम्पकवृक्षशाखायां सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति । तौ दृष्ट्वा काकोऽवदत्सखे चित्राङ्ग ! कोऽयं द्वितीयः ? मृगो ब्रूतेमित्र ! अकस्मादागन्तुना सह मैत्री न युक्ता । तन्न भद्रमाचरितम् । तथा चोक्तम् अज्ञातकुलशीलस्य वासो देयो न कस्यचित् । मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः ॥ १.५६ ॥ तौ आहतुःकथमेतत्? काकः कथयति कथा ३ अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते महान् पर्कटीवृक्षः तस्य कोटरे दैवदुर्विपाकात्गलितनखनयनो जरद्गवनामा गृध्रः प्रतिवसति । अथ कृपया तज्जीवनाय तद्वृक्षवासिनः पक्षिणः स्वाहारात्किंचित्किंचिदुद्धृत्य तस्मै ददति, तेनासौ जीवति, तेषां शावकरक्षां च करोति । अथ कदाचित्दीर्घकर्णनामा मार्जारः पक्षिशावकान् भक्षयितुं तत्रागतः । ततस्तमायान्तं दृष्ट्वा पक्षिशावकैर्भयार्तैः कोलाहलः कृतः । तच्छ्रुत्वा जरद्गवेन उक्तम्कोऽयमायाति ? दीर्घकर्णो गृध्रमवलोक्य सभयमाहहा हतोऽस्मि यतो ऽयं मां व्यापादयिष्यति । अथवा तावद्भयस्य भेतव्यं यावद्भयमनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद्यथोचितम् ॥ १.५७ ॥ अधुनातिसन्निधाने पलायितुमक्षमः । तद्यथा भवितव्यं तथा भवतु, तावत्विश्वासमुत्पाद्यास्य समीपमुपगच्छामीत्यालोच्य तमुपसृत्याब्रवीतार्य ! त्वामभिवन्दे । गृध्रोऽवदत्कस्त्वम् ? सोऽवदत्मार्जारोऽहम् । गृध्रो ब्रूतेदूरमपसर नो चेथन्तव्योऽसि मया । मार्जारोऽवदत्श्रूयतां तावत्मद्वचनम् । ततो यद्यहं वध्यस्तदा हन्तव्यः । यतः जातिमात्रेण किं कश्चिद्वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत् ॥ १.५८ ॥ गृध्रो ब्रूतेब्रूहि किमर्थमागतोऽसि ? सोऽवदतहमत्र गङ्गातीरे नित्यस्नायी निरामिषाशी ब्रह्मचारी चान्द्रायणव्रतमाचरंस्तिष्ठामि । युष्मान् धर्मज्ञानरताः प्रेमविश्वासभूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति, अतो भवद्भ्यो विद्यावयोवृद्धेभ्यो धर्मं श्रोतुमिहागतः । भवन्तश्चैतादृशा धर्मज्ञाः, यन्मामतिथिं हन्तुमुद्यताः ? गृहस्थधर्मश्च एषः अरावप्युचितं कार्यमातिथ्यं गृहमागते । छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥ १.५९ ॥ किं चयदि अन्नं नास्ति, तदा सुप्रीतेनापि वचसा तावदतिथिः पूज्य एव । तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ १.६० ॥ अन्यच्च बालो वा यदि वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥ १.६१ ॥ अपरं च निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥ १.६२ ॥ अन्यच्च अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ १.६३ ॥ अन्यच्च उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः । पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥ १.६४ ॥ गृध्रोऽवदत्मार्जारो हि मांसरुचिः । पक्षिशावकाश्चात्र निवसन्ति । तेनाहमेव ब्रवीमि । तच्छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, ब्रूते चमया धर्मशास्त्रं श्रुत्वा वीतरागेनेदं दुष्करं व्रतं चान्द्रायणमध्यवसितम् । यतः परस्परं विवदमानानामपि धर्मशास्त्राणामहिंसा परमो धर्मः इत्यत्रैकमत्यम् । यतः सर्वहिंसानिवृत्ता ये नराः सर्वसहाश्च ये । सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ १.६५ ॥ अन्यच्च एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यधि गच्छति ॥ १.६६ ॥ किं च योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥ १.६७ ॥ अपि च मर्तव्यमिति यद्दुःखं पुरुषस्योपजायते । शक्यस्तेनानुमानेन परोऽपि परिरक्षितुम् ॥ १.६८ ॥ शृणु पुनः स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते । अस्य दग्धोदरस्यार्थे कः कुर्यात्पातकं महत् ॥ १.६९ ॥ एवं विश्वास्य स मार्जारस्तरुकोटरे स्थितः । ततो दिनेषु गच्छत्सु असौ पक्षिशावकानाक्रम्य स्वकोटरमानीय प्रत्यहं खादति । अथ येषामपत्यानि खादितानि । तैः शोकार्तैर्विलपद्भिरितस्ततो जिज्ञासा समारब्धा । तत्परिज्ञाय मार्जारः कोटरान्निःसृत्य बहिः पलायितः । पश्चात्पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरुकोटरे शावकाः खादिता इति सर्वैः पक्षिभिर्निश्चित्य च गृध्रो व्यापादितः । अतोऽहं ब्रवीमिअज्ञातकुलशीलस्य इत्यादि । ओ)०(ओ इत्याकर्ण्य स जम्बुकः सकोपमाहमृगस्य प्रथमदर्शनदिने भवानपि अज्ञातकुलशील एव आसीत् । तत्कथं भवता सह एतस्य स्नेहानुवृत्तिरुत्तरोत्तरं वर्धते ? अथवा यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥ १.७० ॥ अन्यच्च अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ १.७१ ॥ यथा चायं मृगो मम बन्धुस्तथा भवानपि । मृगोऽब्रवीत्कमनेन उत्तरोत्तरेण ? सर्वैरेकत्र विश्रम्भालापैः सुखमनुभवद्भिः स्थीयताम् । यतः न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः । व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ॥ १.७२ ॥ काकेन उक्तमेवमस्तु । अथ प्रातः सर्वे यथाभिमतदेशं गताः । एकदा निभृतं शृगालो ब्रूतेसखे मृग ! एतस्मिन्नेव वनैकदेशे सस्यपूर्णं क्षेत्रमस्ति । तदहं त्वां तत्र नीत्वा दर्शयामि । तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति । ततो दिनकतिपयेन क्षेत्रपतिना तद्दृष्ट्वा पाशास्तत्र योजिताः । अनन्तरं पुनरागतो मृगः तत्र चरन् पाशैर्बद्धोऽचिन्तयत्को मामितः कालपाशादिव व्याधपाशात्त्रातुं मित्रादन्यः समर्थः ? अत्रान्तरे जम्बुकस्तत्रागत्य उपस्थितोऽचिन्तयत्फलितस्तावदस्माकं कपटप्रबन्धः । मनोरथसिद्धिरपि बाहुल्यान्मे भविष्यति । यतः एतस्य उक्तृत्यमानस्य मांसासृग्लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि । तानि च बाहुल्येन मम भोजनानि भविष्यन्ति । स च मृगस्तं दृष्ट्वा उल्लासितो ब्रूतेसखे ! छिन्धि तावन्मम बन्धनम् । सत्वरं त्रायस्व माम् । यतः आपत्सु मित्रं जानीयाद्रणे शूरमृणे शुचिम् । भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥ १.७३ ॥ अपरं च उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ १.७४ ॥ जम्बुकः पाशं मुहुर्मुहुर्विलोक्याचिन्तयत्दृढस्तावदयं बन्धः । ब्रूते चसखे ! स्नायुनिर्मिताः पाशाः, तदद्य भट्टारकवारे कथमेतान् दन्तैः स्पृशामि ? मित्र ! यदि चित्ते न अन्यथा मन्यसे, तदा प्रभाते यत्त्वया वक्तव्यं तत्कर्तव्यमिति । अनन्तरं स काकः प्रदोषका मृगमनागतमवलोक्य इतस्ततोऽन्विष्यन् तथाविधं तं दृष्ट्वा उवाचसखे ! किमेतत्? मृगेणोक्तमवधीरितसुहृद्वाक्यस्य फलमेतत्तथा चोक्तम् सुहृदां हितकामानां यः शृणोति न भाषितम् । विपत्सन्निहिता तस्य स नरः शत्रुनन्दनः ॥ १.७५ ॥ काको ब्रूतेस वञ्चकः क्वास्ते ? मृगेणोक्तंमन्मांसार्थी तिष्ठत्यत्रैव । काको ब्रूतेमित्र ! उक्तमेव मया पूर्वम् । अपराधो न मेऽस्तीति नैतद्विश्वासकारणम् । विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ १.७६ ॥ दीपनिर्वाणगन्धं च सुहृद्वाक्यमरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न प्श्यन्ति गतायुषः ॥ १.७७ ॥ परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ १.७८ ॥ ततः काको दीर्घं निःश्वस्य उवाचअरे वञ्चक ! किं त्वया पापकर्मणा कृतम् । यतः संलापितानां मधुरैर्वचोभिर् मिथ्योपचारैश्च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यमस्ति ॥ १.७९ ॥ अन्यच्च उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम् । तं जनमसत्यसन्धं भगवति वसुधे कथं वहसि ॥ १.८० ॥ दुर्जनेन समं सख्यं वैरं चापि न कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ १.८१ ॥ अथवा स्थितिरियं दुर्जनानाम् प्राक्पादयोः पतति खादति पृष्ठमांसं कर्णे फलं किमपि रौति शनैर्विचित्रम् । छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः सर्वं खलस्य चरितं मशकः करोति ॥ १.८२ ॥ तथा च दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ १.८३ ॥ अथ प्रभाते स क्षेत्रपतिर्लगुडहस्तस्तं प्रदेशमागच्छन् काकेनावलोकितः । तमवलोक्य काकेनोक्तम्सखे मृग ! त्वमात्मानं मृतवत्सन्दर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ । अहं तव चक्षुषी चञ्च्वा किमपि विलिखामि, यदाहं शब्दं करोमि, तदा त्वमुत्थाय सत्वरं पलायिष्यसे । मृगस्तथैव काकवचनेन स्थितः । ततः क्षेत्रपतिना हर्षोत्फुल्ललोचनेन तथाविधो मृग आलोकितः । अथासौआः ! स्वयं मृतोऽसि ? इत्युक्त्वा मृगं बन्धनात्मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव । ततः कियद्दूरे अन्तरिते क्षेत्रपतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरमुत्थाय पलायितः । तमुद्दिश्य तेन क्षेत्रपतिना प्रकोपात्क्षिप्तेन लगुडेन शृगालो व्यापादितः । तथा चोक्तम् त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः । अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते ॥ १.८४ ॥ अतोऽहं ब्रवीमिभक्ष्यभक्ष्यकयोः प्रीतिरित्यादि । इति मृगवायसशृगालकथा काकः पुनराह भक्षितेनापि भवता नाहारो मम पुष्कलः । त्वयि जीवति जीवामि चित्रग्रीव इवानघ ॥ १.८५ ॥ अन्यच्च तिरश्चामपि विश्वासो दृष्टः पुण्यैककर्मणाम् । सतां हि साधुशीलत्वात्स्वभावो न निवर्तते ॥ १.८६ ॥ किं च साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् । न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ॥ १.८७ ॥ हिरण्यको ब्रूतेचपलस्त्वम् । चपलेन सह स्नेहः सर्वथा न कर्तव्यः । तथा चोक्तम् मार्जारो महिषो मेषः काकः कापुरुषस्तथा । विश्वासात्प्रभवन्त्येते विश्वासस्तत्र नो हितः ॥ १.८८ ॥ किं चान्यत्शत्रुपक्षो भवानस्माकम् । शत्रुणा सन्धिर्न विधेयम् । उक्तं चैतत् शत्रुणा न हि सन्दध्यात्संश्लिष्टेनापि सन्धिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ १.८९ ॥ दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ १.९० ॥ यदशक्यं न तच्छक्त्यं यच्छक्त्यं शक्यमेव तत् । नोदके शकटं याति न च नौर्गच्छति स्थले ॥ १.९१ ॥ अपरं च महताप्यर्थसारेण यो विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥ १.९२ ॥ लघुपतनको ब्रूतेश्रुतं मया सर्वं, तथापि ममैतावनेव सङ्कल्पः । यत्त्वया सह सौहृद्यमवश्यं करणीयमिति । अन्यथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति । तथा हि मृद्घटवत्सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति । सुजनस्तु कनकघटवद्दुर्भेद्यश्चाशु सन्धेयः ॥ १.९३ ॥ किं च द्रवत्वात्सर्वलोहानां निमित्ताद्मृगपक्षिणाम् । भयाल्लोभाच्च मूर्खाणां सङ्गतः दर्शनात्सताम् ॥ १.९४ ॥ किं च नारिकेलसमाकारा दृश्यन्ते हि सुहृज्जनाः । अन्ये बदरिकाकारा बहिरेव मनोहराः ॥ १.९५ ॥ अन्यच्च स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम् । भङ्गेऽपि हि मृणालानामनुबध्नन्ति तन्तवः ॥ १.९६ ॥ अन्यच्च शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः । दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः ॥ १.९७ ॥ एतैर्गुणैरुपेतो भवद्=अन्यो मया कः सुहृत्प्राप्तव्यः ? इत्यादि तद्वचनमाकर्ण्य हिरण्यको बहिः निःसृत्याहआप्यायितोऽहं भवतामेतेन वचनामृतेन । तथा चोक्तम् घर्मार्तं न तथा सुशीतलजलैः स्नानं न मुक्तावली न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम् । प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः सद्युक्त्या च परिष्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम् ॥ १.९८ ॥ अन्यच्च रहस्यभेदो याच्ञा च नैष्ठुर्यं चलचित्तया । क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥ १.९९ ॥ अनेन वचनक्रमेण ततेकमपि दूषणं त्वयि न लक्ष्यते । यतः पटुत्वं सत्यवादित्वं कथायोगेन बुद्ध्यते । अस्तब्धत्वमचापल्यं प्रत्यक्षेनावगम्यते ॥ १.१०० ॥ अपरं च अन्यथैव हि सौहार्दं भवेत्स्वच्छान्तरात्मनः । प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥ १.१०१ ॥ मनस्यन्यद्वचस्यन्यत्कर्मण्यन्यद्दुरात्मनाम् । मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ १.१०२ ॥ तद्भवतु भवतः अभिमतमेव इत्युक्त्वा हिरण्यको मैत्र्यं विधाय भोजनविशेषैर्वायसं सन्तोष्य विवरं प्रविष्टः । वायसोऽपि स्वस्थानं गतः ततःप्रभृति तयोः अन्योऽन्याहारप्रदानेन कुशलप्रश्नैः विश्रम्भालापैश्च कियत्कालोऽतिवर्तने । एकदा लघुपतनको हिरण्यकमाहसखे ! वायसस्य कष्टतरलभ्याहारमिदं स्थानम् । तदेतत्परित्यज्य स्थानान्तरं गन्तुमिच्छामि । हिरण्यको ब्रूते स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः । इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥ १.१०३ ॥ काको ब्रूतेमित्र ! कापुरुषस्य वचनमेतत् । यतः स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥ १.१०४ ॥ अन्यच्च को वीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतः यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् । यद्दंष्ट्रानखलाङ्गुलप्रहरणः सिंहो वनं गाहते तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिन्नत्त्यात्मनः ॥ १.१०५ ॥ हिरण्यको ब्रूतेमित्र क्व गन्तव्यम् ? तथा चोक्तम् चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् । नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १.१०६ ॥ वायसो ब्रूतेमित्र ! अस्ति सुनिरूपितं स्थानम् । हिरण्यकोऽवदत्किं तत्? वायसः कथयतिअस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः । तत्र चिरकालोपार्जितः प्रियसुहृन्मे मन्थराभिधानः कूर्मः सहजधार्मिकः प्रतिवसति । पश्य मित्र ! परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः ॥ १.१०७ ॥ स च भोजनविशेषैर्मां संवर्धयिष्यति । हिरण्यकोऽप्याहतत्किमत्रावस्थाय मया कर्तव्यम् ? यतः यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः । न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥ १.१०८ ॥ अपरं च धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ १.१०९ ॥ अपरं च लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता । पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥ १.११० ॥ अन्यच्च तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥ १.१११ ॥ अतो मामपि तत्र नय । वायसोऽवदतेवमस्तु । अथ वायसस्तेन मित्रेण सह विचित्रालापसुखेन तस्य सरसः समीपं ययौ । ततो मन्थरो दूरादेव लघुपतनकमवलोक्य उत्थाय यथोचितमातिथ्यं विधाय मूषिकस्याप्यतिथिसत्कारं चकार । यतः बालो वा यदि वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥ १.११२ ॥ तथा गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ १.११३ ॥ अपरं च उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः । पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥ १.११४ ॥ वायसोऽवदत्सखे ! मन्थर ! सविशेषपूजामसमि विधेहि, यतोऽयं पुण्यकर्मणां धुरीणः कारुण्यरत्नाकरो हिरण्यकनामा मूषिकराजः । एतस्य गुणस्तुतिं जिह्वासहस्रद्वयेनापि यदि सर्पराजः कदाचित्कर्तुं समर्थः स्यातित्युक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् । ततो मन्थरः सादरं हिरण्यकं सम्पूज्याहभद्र ! आत्मनो निर्जनवनागमनकारणमाख्यातुमर्हसि ? हिरण्यकोऽवदत्कथयामि, श्रूयताम् । कथा ४ अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति । स च भोजनावशिष्टभिक्षान्नसहितं भिक्षापात्रं नागदन्तकेऽवस्थाप्य स्वपिति । अहं च तदन्नमुत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि । अनन्तरं तस्य प्रियसुहृद्वीणाकर्णो नाम परिव्राजकः समायातः, तेन सह नानाकथाप्रसङ्गावस्थितो मम त्रासार्थं जर्जरवंशखण्डेन चूडाकर्णो भूमिमताडयत् । तं तथाविधं दृष्ट्वा वीणाकर्ण उवाचसखे ! किमिति मम कथाविरक्तोऽन्यासक्तो भवान् ? यतः मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी । स्नेहोऽधिकः सम्भ्रमदर्शनं च सदानुरक्तस्य जनस्य लक्ष्म ॥ १.११५ ॥ अदृष्टिदानं कृतपूर्वनाशनम् आननं दुश्चरितानुकीर्तनम् । कथाप्रसङ्गेन च नामविस्मृतिर् विरक्तभावस्य जनस्य लक्षणम् ॥ १.११६ ॥ चूडाकर्णेनोक्तम्भद्र ! नाहं विरक्तः, किन्तु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नमुत्प्लुत्य भक्षयति । वीणाकर्णो नागदन्तमवलोक्याहकथमयं मूषिकः स्वल्पबलोऽप्येतावद्दूरमुत्पतति ? तदत्र केनापि कारणेन भवितव्यम् । क्षणं विचिन्त्य परिव्राजकेनोक्तम्कारणं चात्र धनबाहुल्यमेव प्रतिभाति । यतः धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते ॥ १.११७ ॥ ततः खनित्रमादाय तेन परिव्राजकेन विवरं खनित्वा चिरसञ्चितं मम धनं गृहीतम् । ततः प्रभृति प्रत्यहं निजशक्तिहीनः सत्त्वोत्साहरहितः स्वाहारमप्युत्पादयितुमक्षमः सन्नासं मन्दं मन्दमुपसर्पन् चूडाकर्णेनावलोकितः । ततस्तेनोक्तम् धनेन बलवान् लोको धनाद्भवति पण्डितः । पश्यैनं मूषिकं पापं स्वजातिसमतां गतम् ॥ १.११८ ॥ किं च अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः । क्रिया सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ १.११९ ॥ अपरं च यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥ १.१२० ॥ अपरं च अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च । मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥ १.१२१ ॥ अपरं च दारिद्र्यान्मरणाद्वापि दारिद्र्यमवरं स्मृतम् । अल्पक्लेशेन मरणं दारिद्र्यमतिदुःसहम् ॥ १.१२२ ॥ अन्यच्च तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः स एव अन्यः क्षणेन भवतीति विचित्रमेतत् ॥ १.१२३ ॥ एतत्सर्वमाकर्ण्य मयालोचितंममान्नावस्थानमयुक्तमिदानीम् । तथा चोक्तम् अत्यन्तविमुखे दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनो दरिद्रस्य वनादन्यत्कुतः सुखम् ॥ १.१२४ ॥ अन्यच्च मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणमायाति नानलो याति शीतताम् ॥ १.१२५ ॥ किं च कुसुमस्तवकस्येव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद्विशीर्येत वनेऽथवा ॥ १.१२६ ॥ यच्चान्यस्मै एतद्वृत्तान्तकथनं तदप्यनुचितम् । यतः अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ १.१२७ ॥ यच्चात्रैव याच्ञया जीवनं तदप्यतीवगर्हितम् । यतः वरं विभवहीनेन प्राणैः सन्तर्पितोऽनलः । नोपचारपरिभ्रष्टः कृपणः प्रार्थ्यते जनः ॥ १.१२८ ॥ अन्यच्च दारिद्र्याद्ध्रियमेति ह्रीपरिगतः सत्त्वात्परिभ्रश्यते निःसत्त्वं परिभूयते परिभवान्निर्वेदमापद्यते । निर्विण्णः शुचमेति शोकफिहितो बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ १.१२९ ॥ किं च वरं मौनं कार्यं न च वचनमुक्तं यदनृतं वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् । वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचिर् वरं भिक्षाशित्वं न च परधनास्वादनसुखम् ॥ १.१३० ॥ वरं शून्या शाला न च खलु वरो दुष्टवृषभो वरं वेश्या पत्नी न पुनरविनीता कुलवधूः । वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे वरं प्राणत्यागो न पुनरधमानामुपगमः ॥ १.१३१ ॥ अपि च सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव लावण्यम् । हरिहरकथेव दुरितं गुणशतमप्यर्थिता हरति ॥ १.१३२ ॥ तत्किमहं परपिण्डेन आत्मानं पोषयामि ? कष्टं भोः ! तदपि द्वितीयं मृत्युद्वारम् । अन्यच्च रोगी चिरप्रवासी परान्नभोजी परावसथशायी । यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥ १.१३३ ॥ इत्यालोच्यापि लोभात्पुनरपि तदीयमन्नं ग्रहीतुं ग्रहमकरवम् । तथा चोक्तम् लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् । तृषार्तो दुःखमाप्नोति परत्रेह च मानवः ॥ १.१३४ ॥ ततोऽहं मन्दं मन्दमुपसर्पंस्तेन वीणाकर्णेन जर्जरवंशखण्डेन ताडितश्चाचिन्तयम्लुब्धो ह्यसन्तुष्टो नियतमात्मद्रोही भवति । तथा च धनलुब्धो ह्यसन्तुष्टोऽनियतात्माजितेन्द्रियः । सर्वा एवापदस्तस्य यस्य तुष्टं न मानसम् ॥ १.१३५ ॥ सर्वाः सम्पत्तस्यस्तस्य सन्तुष्टं यस्य मानसम् । उपानद्गूढपादस्य ननु चर्मावृतेव भूः ॥ १.१३६ ॥ अपरं च सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ १.१३७ ॥ किं च तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥ १.१३८ ॥ अपि च असेवितेश्वरद्वारमदृष्टविरहव्यथम् । अनुक्तक्लीबवचनं धन्यं कस्यापि जीवनम् ॥ १.१३९ ॥ न योजनशतं दूरं वाह्यमानस्य तृष्णया । सन्तुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः ॥ १.१४० ॥ तदत्र अवस्थोचितकार्यपरिच्छेदः श्रेयान् । को धर्मो भूतदया किं सौख्यं नित्यमरोगिना जगति । कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥ १.१४१ ॥ तथा च परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः । अपरिच्छेदकर्तॄणां विपदः स्युः पदे पदे ॥ १.१४२ ॥ तथा हि त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १.१४३ ॥ अपरं च पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् । विचार्यं खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ १.१४४ ॥ इत्यालोच्याहं निर्जनवनमागतः । यतः वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयः पत्रफलाम्बुभक्षितम् । तृणानि शय्या वसनं च वल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥ १.१४५ ॥ अतः संसारविषयवृक्षस्य द्वे एव रसवत्फले । काव्यामृतरसास्वादः सङ्गमः सज्जनैः सह ॥ १.१४६ ॥ अपरं च सत्सङ्गः केशवे भक्तिर्गङ्गाम्भसि निमज्जनम् । असारे खलु संसारे त्रीणि साराणि भावयेत् ॥ १.१४७ ॥ मन्थर उवाच अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनम् आयुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवनम् । धर्मं यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं पश्चात्तापहतो जरापरिणतः शोकाग्निना दह्यते ॥ १.१४८ ॥ युष्माभिरतिसञ्चयः कृतः । तस्यायं दोषः । शृणु उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परीवाहैवाम्भसाम् ॥ १.१४९ ॥ अन्यच्च यदधोऽधः क्षितौ वित्तं निचखान मितम्पचः । तदधो निलयं गन्तुं चक्रे पन्थानमग्रतः ॥ १.१५० ॥ यतः निजसौख्यं निरुन्धानो यो धनार्जनमिच्छति । परार्थभारवाहीव स क्लेशस्यैव भाजनम् ॥ १.१५१ ॥ तथा चोक्तं दानोपभोगहीनेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयम् ॥ १.१५२ ॥ यतः धनेन किं यो न ददाति नाश्नुते बलेन किं यश्च रिपून्न याधत्ते । श्रुतेन किं यो न च धर्ममाचरेत् किमात्मना यो न जितेन्द्रियो भवेत् ॥ १.१५३ ॥ अन्यच्च असम्भोगेन सामान्यं कृपणस्य धनं परैः । अस्येदमिति सम्बन्धो हानौ दुःखेन गम्यते ॥ १.१५४ ॥ अपि च न देवाय न विप्राय न बन्धुभ्यो न चात्मने । कृपणस्य धनं याति वह्नितस्करपार्थिवैः ॥ १.१५५ ॥ तथा चोक्तम् दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं सौर्यम् । त्यागं सहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥ १.१५६ ॥ उक्तं च कर्तव्यः सञ्चयो नित्यं न तु कार्योऽतिसञ्चयः । अतिसञ्चयशीलोऽयं धनुषा जम्बुको हतः ॥ १.१५७ ॥ तावाहतुःकथमेतत्? मन्थरः कथयति कथा ५ आसीत्कल्याणकटकवास्तव्यो भैरवो नाम व्याधः । स चैकदा मांसलुब्धो धनुरादाय मृगमन्विष्यन् विन्ध्याटवीमध्यं गतः । तत्र तेन मृग एको व्यापादितः । ततो मृगमादाय गच्छता तेन घोराकृतिः शूकरो दृष्टः । ततस्तेन मृगं भूमौ निधाय शूकरः शरेण हतः । शूकरेणाप्यागत्य प्रलयघनघोरगर्जनं कुर्वाणेन स व्याधो मुष्कदेशे हतः छिन्नद्रुम इव पपात । तथा चोक्तम् जलमग्निर्विषं शस्तं क्षुद्व्याधिः पतनं गिरेः । निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते ॥ १.१५८ ॥ अथ तयोः पादास्फालनेन एकः सर्पोऽपि मृतः । अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्था तान्मृतान्मृगव्याधसर्पशूकरानपश्यत् । आलोक्याचिन्तयच्चअहो भाग्यम् ! अद्य महद्भोज्यं मे समुपस्थितम् । अथवा अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १.१५९ ॥ मासमेकं नरो याति द्वौ मासौ मृगशूकरौ । अहिरेकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ॥ १.१६० ॥ ततः प्रथमबुभुक्षायामिदं निःस्वादु कोदण्डलग्नं स्नायुबन्धनं खादामि, इत्युक्त्वा तथाकरोत् । ततश्छिन्ने स्नायुबन्धने द्रुतमुत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः । अतोऽहं ब्रवीमि कर्तव्यः सञ्चयो नित्यमित्यादि । तथा च यद्ददाति यदश्नाति तदेव धनिनो धनम् । अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥ १.१६१ ॥ किं च यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने । तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ॥ १.१६२ ॥ यातु, किमिदानीमतिक्रान्तोपवर्णनेन । यतः नाप्रायमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्स्वपि न मुह्यन्ति नराः पण्डितबुद्धयः ॥ १.१६३ ॥ तत्सखे ! सर्वदा त्वया सोत्साहेन भवितव्यम्, यतः शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान् पुरुषः स विद्वान् । सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम् ॥ १.१६४ ॥ अन्यच्च न स्वल्पमप्यध्यवसायभीरोः करोति विज्ञानविधिर्गुणं हि । अन्धस्य किं हस्ततलस्थितोऽपि प्रकाशयत्यर्थमिह प्रदीपः ॥ १.१६५ ॥ तदत्र सखे दशातिशेषेण शान्तिः करणीया । एतदप्यतिकष्टं त्वया न मन्तव्यम् । सुखमापतितं सेव्यं दुःखमापतितं तथा । चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च ॥ १.१६६ ॥ अपरं च निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः । सोद्योगं नरमायान्ति विवशाः सर्वसम्पदः ॥ १.१६७ ॥ अपि च उत्साहसंपन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं वाञ्छति वासहेतोः ॥ १.१६८ ॥ विशेषतश्च विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नतिपदं समायुक्तोऽप्यर्थैः परिभवपदं याति कृपणः । स्वभावादुद्भूतां गुणसमुदयावाप्तिविषयां द्युतिं सैंहीं श्वा किं धृतकनकमालोऽपि लभते ॥ १.१६९ ॥ किं च धनवानिति हि मदस्ते किं गतविभवो विषादमुपयासि । करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ १.१७० ॥ अन्यच्च वृत्त्यर्थं नातिचेष्टते सा हि धात्रैव निर्मिता । गर्भादुत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥ १.१७१ ॥ अपि च सखे शृणु येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः । मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति ॥ १.१७२ ॥ अपरं च सतां रहस्यं शृणु, मित्र ! जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु । मोहयन्ति च सम्पत्तौ कथमर्थाः सुखावहाः ॥ १.१७३ ॥ अपरं च धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १.१७४ ॥ यतः यथाआमिषमाकाशे पक्षिभिः श्वापदैर्भुवि । भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान् ॥ १.१७५ ॥ अन्यच्च राजतः सलिलादग्नेश्चोरतः स्वजनादपि । भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ १.१७६ ॥ तथा हि जन्मनि क्लेशबहुले किं नु दुःखमतः परम् । इच्छासम्पद्यतो नास्ति यच्चेच्छा न निवर्तते ॥ १.१७७ ॥ अन्यच्च भ्रातः शृणु धनं तावदसुलभं लब्धं कृच्छ्रेण पाल्यते । लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत् ॥ १.१७८ ॥ सा तृष्णा चेत्परित्यक्ता को दरिद्रः क ईश्वरः । तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरसि स्थितम् ॥ १.१७९ ॥ अपरं च यद्यदेव हि वाञ्छेत ततो वाञ्छा प्रवर्तते । प्राप्त एवार्थतः सोऽर्थो यतो वाञ्छा निवर्तते ॥ १.१८० ॥ किं बहुना, विश्रम्भालापैर्मयैव सहात्र कालो नीयताम् । यतः आम्रणान्ताः प्रणयाः कोपाश्च क्षणभङ्गुराः । परित्यागाश्च निःसङ्गा न भवन्ति महात्मनाम् ॥ १.१८१ ॥ इति श्रुत्वा लघुपतनको ब्रूतेधन्योऽसि मन्थर ! सर्वथा आश्रयणीयोऽसि । यतः सन्त एव सतां नित्यमापदुद्धरणक्षमाः । गजानां पङ्कमग्नानां गजा एव धुरन्धराः ॥ १.१८२ ॥ अपरं च श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्पुरुषः स धन्यः । यस्यार्थिनो वा शरणागता वा नाशाविभङ्गा विमुखाः प्रयान्ति ॥ १.१८३ ॥ तदेवं ते स्वेच्छाहारविहारं कुर्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म । अथ कदाचित्चित्राङ्गनामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः । तत्पश्चादायान्तं भयहेतुं सम्भाव्य मन्थरो जलं प्रविष्टः । मूषिकश्च विवरं गतः, काकोऽपि उड्डीय वृक्षाग्रमारूढः । ततो लघुपतनकेन सुदूरं निरूप्य भयहेतुर्न कोऽप्यवलम्बितः । पश्चात्तद्वचनादागत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः । मन्थरेणोक्तंभद्र मृग ! कुशलं ते ? स्वेच्छया उदकाद्याहारोऽनुभूयताम् । अत्रावस्थानेन वनमिदं सनाथीक्रियताम् । चित्राङ्गो ब्रूतेलुब्धकत्रासितोऽहं भवतां शरणमागतः । ततश्च, भवद्भिः सह मित्रत्वमिच्छामि । भवन्तश्च अनुकम्पयन्तु मैत्र्येण । यतः लोभाद्वाथ भयाद्वापि यस्त्यजेच्छरणागतम् । ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिणः ॥ १.१८४ ॥ हिरण्यकोऽप्यवदत्मित्रत्वं तावदस्माभिः सह, अयत्नेन निष्पन्नं भवतः । यतः औरसं कृतसम्बन्धं तथा वंशक्रमागतम् । रक्षकं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ १.१८५ ॥ तदत्र भवता स्वगृहनिर्विशेषेण स्थीयताम् । तच्छ्रुत्वा मृगः सानन्दो भूत्वा कृतस्वेच्छाहारः पानीयं पीत्वा जलासन्नवटतरुच्छायायामुपविष्टः । अथ मन्थरो ब्रूतेसखे मृग ! केन त्रासितोऽसि ? अस्मिन्निर्जने वने कदाचित्किं व्याधाः सञ्चरन्ति ? मृगेणोक्तमस्ति कलिङ्गविषये रुक्माङ्गदो नाम नृपतिः । स च दिग्विजयव्यापारक्रमेण आगत्य चन्द्रभागानदीतीरे समावेशितकटको वर्तते, प्रातश्च तेनात्रागत्य कर्पूरसरः समीपे भवितव्यमिति व्याधानां मुखात्किंवदन्ती श्रूयते । तदत्रापि प्रातरवस्थानं भयहेतुकमित्यालोच्य यथा कार्यं तथा आरभ्यताम् । तच्छ्रुत्वा कूर्मः सभयमाहमित्र ! जलाशयान्तरं गच्छामि । काकमृगावपि उक्तवन्तौमित्र ! एवमस्तु ! हिरण्यको विमृश्याब्रवीत्पुनर्जलाशये प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छतोऽस्य का विधा ? अम्भांसि जलजन्तूनां दुर्गं दुर्गनिवासिनाम् । स्वभूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ १.१८६ ॥ उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः । काकी कनकसूत्रेण कृष्णसर्पमघातयत् ॥ १.१८७ ॥ तद्यथा कथा ६ अस्ति ब्रह्मारण्ये कर्प्¨ऊरतिलको नाम हस्ती । तमवलोक्य सर्वे शृगालाश्चिन्तयन्ति स्म । यद्ययं केनाप्युपायेन मिर्यते, तदास्माकमेतेन देहेन मासचतुष्टयस्य स्वेच्छाभोजनं भवेत् । ततस्तन्मध्यादेकेन वृद्धशृगालेन प्रतिज्ञा कृता । मया बुद्धिप्रभावादस्य मरणं साधयितव्यम् । अनन्तरं स वञ्चकः कर्पूरतिलकसमीपं गत्वा साष्टाङ्गपातं प्रणम्योवाचदेव ! दृष्टिप्रसादं कुरु । हस्ती ब्रूतेकस्त्वम् ? कुतः समायातः ? सोऽवदत्जम्बुकोऽहं सर्वैर्वनवासिभिः पशुभिर्मिलित्वा भवत्सकाशं प्रस्थापितः । यद्विना राज्ञा स्थातुं न युक्तम् । तदत्राटवीराज्येऽभिषेक्तुं भवान् सर्वस्वामिगुणोपेतो निरूपितः । यतः कुलाचारजनाचारैरतिशुद्धः प्रतापवान् । धार्मिको नीतिकुशलः स स्वामी युज्यते भुवि ॥ १.१८८ ॥ अपरं च पश्य राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । राजन्यसति लोकेऽस्मिन् कुतो भार्या कुतो धनम् ॥ १.१८९ ॥ अन्यच्च पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ १.१९० ॥ किं च नियतविषयवर्ती प्रायशो दण्डयोगाज् जगति परवशेऽस्मिन् दुर्लभः साधुवृत्तेः । कृशमपि विकलं वा व्याधितं वाधनं वा पतिमपि कुलनारी दण्डभीत्याभ्युपैति ॥ १.१९१ ॥ तद्यथा लग्नवेला न चलति तथा कृत्वा सत्वरमागम्यतां देवेन । इत्युक्त्वा उत्थाय चलितः । ततोऽसौ राज्यलाभाकृष्टः कर्पूरतिलकः शृगालदर्शितवर्त्मना धावन्महापङ्के निमग्नः । हस्तिनोक्तम्सखे शृगाल ! किमधुना विधेयम् ? महापङ्के पतितोऽहं म्रिये । परावृत्य पश्य ! शृगालेन विहस्योक्तम्देव ! मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ । यस्मात्मद्विधस्य वचसि त्वया विश्वासः कृतः, तस्य फलमेतत् । तदनुभूयतामशरणं दुःखम् । तथा चोक्तम् यदासत्सङ्गरहितो भविष्यसि भविष्यसि । यदासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥ १.१९२ ॥ ततो महापङ्के निमग्नो हस्ती शृगालैर्भक्षितः । अतोऽहं ब्रवीमिउपायेन हि यच्छक्यमित्यादि । ओ)०(ओ ततस्तद्धितवचनमवधीर्य महता भयेन विमुग्ध इव मन्थरस्स्तज्जलाशयमुत्सृज्य प्रचलितः । तेऽपि हिरण्यकादयः स्नेहादनिष्टं शङ्कमानास्तमनुजग्मुः । ततः स्थले गच्छन् केनापि व्याधेन वने पर्यटता स मन्थरः प्राप्तः । स च तं गृहीत्वा उत्थाय धनुषि बद्ध्वा धन्योऽस्मीत्यभिधाय भ्रमणक्लेशात्क्षुत्पिपासाकुलः स्वगृहाभिमुखं प्रयातः । अथ ते मृगवायसमूषिकाः परं विषादमुपगताः तमनुगच्छन्ति स्म । ततो हिरण्यको विलपति एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य । तावद्द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति ॥ १.१९३ ॥ स्वभावजं तु यन्मित्रं भाग्येनैवाभिजायते । तदकृत्रिमसौहार्दमापत्स्वपि न मुञ्चति ॥ १.१९४ ॥ अपि च न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्वासस्तादृशः पुंसां यादृङ्मित्रे स्वभावजे ॥ १.१९५ ॥ इति मुहुः विचिन्त्य प्राहअहो मे दुर्दैवम् । यतः स्वकर्मसन्तानविचेष्टितानि कालान्तरावर्तिशुभाशुभानि । इहैव दृष्टानि मयैव तानि जन्मान्तराणीव दशान्तराणि ॥ १.१९६ ॥ अथवा इत्थमेवैतत् । कायः संनिहितापायः सम्पदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ १.१९७ ॥ पुनर्विमृश्याह शोकारातिभयत्राणं प्रीतिविश्रम्भभाजनम् । केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १.१९८ ॥ किं च मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः पात्रं यत्सुखदुःखयोः सममिदं पुण्यात्मना लभ्यते । ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुलास् ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत् ॥ १.१९९ ॥ इति बहु विलप्य हिरण्यकश्चित्राङ्गलघुपतनकावाहयावदयं व्याधो वनान्न निःसरति, तावन्मन्थरं मोचयितुं यत्नः क्रियताम् । तावूचतुःसत्वरं यथाकार्यमुपदिश । हिरण्यको ब्रूतेचित्राङ्गो जलसमीपं गत्वा मृतमिवात्मानं निश्चेष्टं दर्शयतु । काकश्च तस्योपरि स्थित्वा चञ्च्वा किमपि विलिखतु । नूनमनेन लुब्धकेन मृगमांसार्थिना तत्र कच्छपं परित्यज्य सर्वरं गन्तव्यम् । ततोऽहं मन्थरस्य बन्धनं छेत्स्यामि । सन्निहिते लुब्धके भवद्भ्यां पलायितव्यम् । ततश्चित्राङ्गलघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः परिश्रान्तः पानीयं पीत्वा तरोरधस्तादुपविष्टः सन् तथाविधं मृगमपश्यत् । ततः कच्छपं जलसमीपे निधाय कर्तरिकामादाय प्रहृष्टमना मृगान्तिकं चलितः । अत्रान्तरे हिरण्यकेन आगत्य मन्थरस्य बन्धनं छिन्नम् । छिन्नबन्धनः कूर्मः सत्वरं जलाशयं प्रविष्टः । स च मृग आसन्नं तं व्याधं विलोक्योत्थाय द्रुतं पलायितः । प्रत्यावृत्त्य लुब्धको यावत्तरुतलमायाति तावत्कूर्ममपश्यन्नचिन्तयतुचितमेवैतत् ममासमीक्ष्यकारिणः । यतः यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥ १.२०० ॥ ततोऽसौ स्वकर्मवशान्निराशः कटकं प्रविष्टः । मन्थरादयश्च सर्वे मुक्तापदः स्वस्थानं गत्वा यथासुखमास्थिताः । अथ राजपुत्रैः सानन्दमुक्तम्सर्वे श्रुतवन्तः सुखिनो वयम् । सिद्धं नः समीहितम् । विष्णुशर्मोवाचएतद्भवतामभिलषितमपि सम्पन्नम् । अपरमपीदमस्तु मित्रं यान्तु च सज्जना जनपदैर्लक्ष्मीः समालभ्यतां भूपालाः परिपालयन्तु वसुधां शश्वत्स्वधर्मे स्थिताः । आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोढेव वः कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्धचूडामणिः ॥ १.२०१ ॥ ओ)०(ओ इइ. सुहृद्भेदः अथ राजपुत्रा ऊचुःार्य ! मित्रलाभः श्रुतस्तावदस्माभिः । इदानीं सुहृद्भेदं श्रोतुमिच्छामः । विष्णुशर्मोवाचसुहृद्भेदं तावच्छृणुत, यस्यायमाद्यः श्लोकः वर्धमानो महान् स्नेहो मृगेन्द्रवृषयोर्वने । पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ २.१ ॥ राजपुत्रैरुक्तम्कथमेतत्? विष्णुशर्मा कथयतिअस्ति दक्षिणापथे सुवर्णवती नाम नगरी । तत्र वर्धमानो नाम वणिग्निवसति । तस्य प्रचुरेऽपि वित्तेऽ परान् बन्धूनतिसमृद्धान् समीक्ष्य पुनरर्थवृद्धिः करणीयेति मतिर्बभूव । यतः, अधोऽधः पश्यतः कस्य महिमा नोपचीयते । उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥ २.२ ॥ अपरं च ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् । शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ॥ २.३ ॥ अन्यच्च अव्यवसायिनमलसं दैवपरं सहसाच्च परिहीणम् । प्रमदेव हि वृद्धपतिं नेच्छत्यवगूहितुं लक्ष्मीः ॥ २.४ ॥ किं च आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम् । सन्तोषो भीरुत्वं षड्व्याघाता महत्त्वस्य ॥ २.५ ॥ यतः सम्पदा सुस्थिरंमन्यो भवति स्वल्पयापि यः । कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ २.६ ॥ अपरं च निरुत्साहं निरानन्दं निर्वीर्यमरिनन्दनम् । मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् ॥ २.७ ॥ तथा चोक्तम् अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः । रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ २.८ ॥ यतोऽलब्धमिच्छतोऽर्थयोगादर्थस्य प्राप्तिरेव । लब्धस्याप्यरक्षितस्य निधेरपि स्वयं विनाशः । अपि च, अवर्धमानश्चार्थः काले स्वल्पव्ययोऽप्यञ्जनवत्क्षयमेति । नौपभुज्यमानश्च निष्प्रयोजन एव सः । तथा चोक्तम् धनेन किं यो न ददाति नाश्नुते बलेन किं यश्च रिपून्न बाधते । श्रुतेन किं यो न च धर्ममाचरेत् किमात्मना यो न जितेन्द्रियो भवेत् ॥ २.९ ॥ यतः, जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ २.१० ॥ दानोपभोगरहिता दिवसा यस्य यान्ति वै । स कर्मकारभस्त्रेव श्वसन्नपि न जीवति ॥ २.११ ॥ इति संचिन्त्य नन्दकसजीवकनामानौ वृषभौ धुरि नियोज्य शकटं नानाविधद्रव्यपूर्णं कृत्वा वाणिज्येन गतः कश्मीरं प्रति । अन्यच्च अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च सञ्चयम् । अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥ २.१२ ॥ यतः कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥ २.१३ ॥ अथ गच्छतस्तस्य सुदुर्गनाम्नि महारण्ये सञ्जीवको भग्नजानुर्निपतितः । तमालोक्य वर्धमानोऽचिन्तयत् करोतु नाम नीतिज्ञो व्यवसायमितस्ततः । फलं पुनस्तदेव स्याद्यद्विधेर्मनसि स्थितम् ॥ २.१४ ॥ किन्तु विस्मयः सर्वथा हेयः प्रत्यूहः सर्वकर्मणाम् । तस्माद्विस्मयमुत्सृज्य साध्ये सिद्धिर्विधीयताम् ॥ २.१५ ॥ इति संचिन्त्य संजीवकं तत्र परित्यज्य वर्धमानः पुनः स्वयं धर्मपुरं नाम नगरं गत्वा महाकायमन्यं वृषभमेकं समानीय धुरि नियोज्य चलितः । ततः संजीवकोऽपि कथं कथमपि खुरत्रये भरं कृत्वोत्थितः । यतः निमग्नस्य पयोराशौ पर्वतात्पतितस्य च । तक्षकेणापि दष्टस्य आयुर्मर्माणि रक्षति ॥ २.१६ ॥ नाकाले मिर्यते जन्तुर्विद्धः शरशतैरपि । कुशाग्रेणैव संस्पृष्टः प्राप्तकालो न जीवति ॥ २.१७ ॥ अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥ २.१८ ॥ ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहारविहारं कृत्वारण्यं भ्राम्यन् हृष्टपुष्टाङ्गो बलवन्ननाद । तस्मिन् वने पिङ्गलकनामा सिंहः स्वभुजोपार्जितराज्यसुखमनुभवन्निवसति । तथा चोक्तम् नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः । विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता ॥ २.१९ ॥ स चैकदा पिपासाकुलितः पानीयं पातुं यमुनाकच्छमगच्छत् । तेन च तत्र सिंहेनाननुभूतपूर्वकमकालघनगर्जितमिव संजीवकनर्दितमश्रावि । तच्छ्रुत्वा पानीयमपीत्वा सचकितः परिवृत्य स्वस्थानमागत्य किमिदमित्यालोचयंस्तूष्णीं स्थितः । स च तथाविधः करटकदमनकाभ्यामस्य मन्त्रिपुत्राभ्यां दृष्टः । तं तथाविधं दृष्ट्वा दमनकः करटकमाहसखे करटक ! किमित्ययमुदकार्थी स्वामी पानीयमपीत्वा सचकितो मन्दं मन्दमवतिष्ठते । करटको ब्रूतेमित्र दमनक ! अस्मन्मतेनास्य सेवैव न क्रियते । यदि तथा भवति तर्हि किमनेन स्वामिचेष्टानिरूपेणास्माकम् । यतोऽनेन राज्ञा विनापराधेन चिरमवधीरिताभ्यामावाभ्यां महद्दुःखमनुभूतम् । सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥ २.२० ॥ अपरं च शीतवातातपक्लेशान् सहन्ते यान् पराश्रिताः । तदंशेनापि मेधावी तपस्तप्त्वा मुखी भवेत् ॥ २.२१ ॥ अन्यच्च एतावज्जन्मसाफल्यं देहिनामिह देहिषु । प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा ॥ २.२२ ॥ अपरं च एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । इति वित्रस्तसारङ्गनेत्रया को न वञ्चितः ॥ २.२३ ॥ किं च अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम् । आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ॥ २.२४ ॥ किं च या प्रकृत्यैव चपला निपतत्यशुचावपि । स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः ॥ २.२५ ॥ अपरं च मौनान्मूर्खः प्रवचनपटुर्बातुलो जल्पको वा क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः । धृष्टः पार्श्वे वसति नियतं दूरतश्चाप्रगल्भः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ २.२६ ॥ विशेषतश्च प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान् । दुःखीयति सुखहेतोः को मूढः सेवकादन्यः ॥ २.२७ ॥ दमनको ब्रूतेमित्र सर्वथा मनसापि नैतत्कर्तव्यम्, यतः कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः । अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान् ॥ २.२८ ॥ अन्यच्च कुतः सेवाविहीनानां चामरोद्धूतसम्पदः । उद्दण्डधवलच्छत्रं वाजिवारणवाहिनी ॥ २.२९ ॥ करटको ब्रूतेतथापि किमनेनास्माकं व्यापारेण । यतोऽव्यापारेषु व्यापारः सर्वथा परिहरणीयः । पश्य अव्यापरेषु व्यापारं यो नरः कर्तुमिच्छति । स एव निधनं याति कीलोत्पटीव वानरः ॥ २.३० ॥ दमनकः पृच्छतिकथमेतत्? करकटः कथयति कथा १ अस्ति मगधदेशे धर्मारण्यसंनिहितवसुधायां शुभदत्तनाम्ना कायस्थेन विहारः कर्तुमारब्धः । तत्र करपत्रदार्यमाणैकस्तम्भस्य कियद्दूरस्फाटितस्य काष्ठखण्डद्वयमध्ये कीलकः सूत्रधारेण निहितः । तत्र बलवान् वानरयूथः क्रीडन्नागतः । एको वानरः कालप्रेरित इव तं कीलकं हस्ताभ्यां धृत्वोपविष्टम् । अनन्तरं स च सहजचपलतया महता प्रयत्नेन तं कीलकमाकृष्टवान् । आकृष्टे च कीलके चूर्णिताण्डद्वयः पञ्चत्वं गतः । अतोऽहं ब्रवीमिअव्यापरेषु व्यापारमित्यादि । दमनको ब्रूतेतथापि स्वामिचेष्टानिरूपणं सेवकेनावश्यं करणीयम् । करटको ब्रूतेसर्वस्मिन्नधिकारे य एव नियुक्तः प्रधानमन्त्री स करोतु । यतोऽनुजीविना पराधिकारचर्चा सर्वथा न कर्तव्या । पश्य पराधिकारचर्चा यः कुर्यात्स्वामिहितेच्छया । स विषीदति चीत्काराद्गर्दभस्ताडितो यथा ॥ २.३१ ॥ दमनकः पृच्छतिकथमेतत्? करटको ब्रूते कथा २ अस्ति वाराणस्यां कर्पूरपटको नाम रजकः । स रात्रौ गाढनिद्रायां प्रसुप्तः । तदनन्तरं तद्गृहद्रव्याणि हर्तुं चौरः प्रविष्टः । तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति । कुक्कुरश्चोपविष्टोऽस्ति । अथ गर्दभः श्वानमाहसखे ! भवतस्तावदयं व्यापारः । तत्किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि । कुक्कुरो ब्रूतेभद्र ! मम नियोगस्य चर्चा त्वया न कर्तव्या । त्वमेव किं न जानासि यथा तस्याहर्निशं गृहरक्षां करोमि । यतोऽयं चिरान्निर्वृतो ममोपयोगं न जानाति । तेनाधुनापि ममाहारदाने मन्दादरः । यतो विना विधुरदर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति । गर्दभो ब्रूतेशृणु रे बर्बर ! याचते कार्यकाले यः स किंभृत्यः स किंसुहृत् । कुक्कुरो ब्रूते भृत्यान् सम्भाषयेद्यस्तु कार्यकाले स किंप्रभुः ॥ २.३२ ॥ यतः आश्रितानां भृतौ स्वामिसेवायां धर्मसेवने । पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥ २.३३ ॥ ततो गर्दभः सकोपमाहअरे दुष्टमते ! पापीयांस्त्वं यद्विपत्तौ स्वामिकार्ये उपेक्षां करोषि । भवतु तावत् । यथा स्वामी जागरिष्यति, तन्मया कर्तव्यम् । यतः पृष्ठतः सेवयेदर्कं जठरेण हुताशनम् । स्वामिनं सर्वभावेन परलोकममायया ॥ २.३४ ॥ इत्युक्त्वातीव चीत्कारशब्दं कृतवान् । ततः स रजकस्तेन चीत्कारेण प्रबुद्धो निद्राभङ्गकोपादुत्थाय गर्दभं लगुडेन तादयामास । तेनासौ पञ्चत्वमगमत् । अतोऽहं ब्रवीमिपराधिकारचर्चामित्यादि । पश्य, पशूनामन्वेषणमेवास्मन्नियोगः । स्वनियोगचर्चा क्रियताम् । किन्त्वद्य तया चर्चया न प्रयोजनम् । यत आवयोर्भक्षितशेषाहारः प्रचुरोऽस्ति । दमनकः सरोषमाहकथमाहारार्थी भवान् केवलं राजानं सेवते ? एतदयुक्तमुक्तं त्वया । यतः सुहृदामुपकारकारणाद् द्विषतामप्यपकारकारणात् । नृपसंश्रय इष्यते बुधैर् जठरं को न बिभर्ति केवलम् ॥ २.३५ ॥ जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः । सफलं जीवितं तस्य आत्मार्थे को न जीवति ॥ २.३६ ॥ अपि च यस्मिन् जीवति जीवन्ति बहवः स तु जीवतु । काकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूरणम् ॥ २.३७ ॥ पश्य पञ्चभिर्याति दासत्वं पुराणैः कोऽपि मानवः । कोऽपि लक्षैः कृती कोऽपि लक्षैरपि न लभ्यते ॥ २.३८ ॥ अन्यच्च मनुष्यजातौ तुल्यायां भृत्यत्वमतिगर्हितम् । प्रथमो यो न तन्नापि स किं जीवत्सु गण्यते ॥ २.३९ ॥ तथा चोक्तं वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं हदहन्तरम् ॥ २.४० ॥ तथा हि स्वल्पमप्यतिरिच्यते स्वल्पस्नायुवसावशेषमलिनं निर्मांसमप्यस्थिकं श्वा लब्ध्वा परितोषमेति न भवेत्तस्य क्षुधः शान्तये । सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ २.४१ ॥ अपरं च, सेव्यसेवकयोरन्तरं पश्य लाङ्गूलचालनमधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥ २.४२ ॥ किं च यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर् विज्ञानविक्रमयशोभिरभज्यमानम् । तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ २.४३ ॥ अपरं च यो नात्मजे न च गुरौ न च भृत्यवर्गे दीने दयां न कुरुते न च बन्धुवर्गे । किं तस्य जीवितफलेन मनुष्यलोके काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ २.४४ ॥ अपरमपि अहितहितविचारशून्यबुद्धेः श्रुतिसमयैर्बहुभिर्बहिष्कृतस्य । उदरभरणमात्रकेवलेच्छोः पुरुषपशोश्च पशोश्च को विशेषः ॥ २.४५ ॥ करटको ब्रूतेआवां तावदप्रधानौ । तदाप्यावयोः किमनया विचारणया । दमनको ब्रूतेकियता कालेनामात्याः प्रधानतामप्रधानतां वा लभन्ते, यतः न कस्यचित्कश्चिदिह स्वभावाद् भवत्युदारोऽभिमतः खलो वा । लोके गुरुत्वं विपरीततां वा स्वचेष्टितान्येव नरं नयन्ति ॥ २.४६ ॥ किं च आरोप्यते शिला शैले यत्नेन महता यथा । निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥ २.४७ ॥ यात्यधोऽधः व्रजत्युच्चैर्नरः स्वैरेव कर्मभिः । कूपस्य खनिता यद्वत्प्राकारस्येव कारकः ॥ २.४८ ॥ तद्भद्रम् । स्वयत्नायत्तो ह्यात्मा सर्वस्य । करटको ब्रूतेअथ भवान् किं ब्रवीति ? स आहअयं तावत्स्वामी पिङ्गलकः कुतोऽपि कारणात्सचकितः परिवृत्योपविष्टः । करटको ब्रूते उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥ २.४९ ॥ आकाररिङ्गतैर्गत्या चेष्टया भाषणेन च । नेत्रवक्त्रविकारेण लक्ष्यतेऽन्तर्गतं मनः ॥ २.५० ॥ अत्र भयप्रस्तावे प्रज्ञाबलेनाहमेनं स्वामिनमात्मीयं करिष्यामि । यतः प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम् । आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥ २.५१ ॥ करटको ब्रूतेसखे त्वं सेवानभिज्ञः । पश्य अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते । आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः ॥ २.५२ ॥ दमनको ब्रूतेभद्र ! कथमहं सेवानभिज्ञः ? पश्य किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् । यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥ २.५३ ॥ यतः यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ २.५४ ॥ अन्यच्च कोऽत्रेत्यहमिति ब्रूयात्सम्यगादेशयेति च । आज्ञामवितथां कुर्याद्यथाशक्ति महीपतेः ॥ २.५५ ॥ अपरं च अल्पेच्छुर्धृतिमान् प्राज्ञश्छायेवानुगतः सदा । आदिष्टो न विकल्पेत स राजवसतिं वसेत् ॥ २.५६ ॥ करटको ब्रूतेकदाचित्त्वामनवसरप्रवेशादवगम्यते स्वामी । स चाहअस्त्वेवम् । तथाप्यनुजीविना स्वामिसांनिध्यमवश्यं करणीयम् । यतः दोषभीतेरनारम्भस्तत्कापुरुषलक्षणम् । कैरजीर्णभयाद्भ्रातर्भोजनं परिहीयते ॥ २.५७ ॥ पश्य आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्तुतं वा । प्रायेण भूमिपतयः प्रमदालताश्च यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ २.५८ ॥ करटको ब्रूतेअथ तत्र गत्वा किं वक्ष्यति भवान् । स आहशृणु ! किमनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि । करटको ब्रूतेकिं तज्ज्ञानलक्षणम् । दमनको ब्रूतेशृणु दूरादवेक्षणं हासः सम्प्रश्नेष्वादरो भृशम् । परोक्षेऽपि गुणश्लाघा स्मरणं प्रियवस्तुषु ॥ २.५९ ॥ असेवके चानुरक्तिर्दानं सप्रियभाषणम् । अनुरक्तस्य चिह्नानि दोषेऽपि गुणसङ्ग्रहः ॥ २.६० ॥ अन्यच्च कालयापनमाशानां वर्धनं फलखण्डनम् । विरक्तेश्वरचिह्नानि जानीयान्मतिमान्नरः ॥ २.६१ ॥ एतज्ज्ञात्वा यथा चायं ममायत्तो भविष्यति । तथा वदिष्यामि । अपायसं दर्शनजां विपत्तिम् उपायसन्दर्शनजां च सिद्धिम् । मेधाविनो नीतिविधिप्रयुक्तां पुरः स्फुरन्तीमिव दर्शयन्ति ॥ २.६२ ॥ करटको ब्रूतेतथाप्यप्राप्ते प्रस्तावे न वक्तुमर्हसि, यतः अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बुद्ध्यवज्ञानमवमानं च भारत ॥ २.६३ ॥ दमनको ब्रूतेमित्र ! मा भैषीः ! नाहमप्राप्तावसरं वचनं वदिष्यामि । यतः आपद्युन्मार्गगमने कार्यकालात्ययेषु च । अपृष्टोऽपि हितान्वेषी ब्रूयात्कल्याणभाषितम् ॥ २.६४ ॥ यदि च प्राप्तावसरेणापि मया मन्त्रो न वक्तव्यस्तदा मन्त्रित्वमेव ममानुपपन्नम् । यतः कल्पयति येन वृत्तिं येन च लोके प्रशस्यते । स गुणस्तेन गुणिना रक्ष्यः संवर्धनीयश्च ॥ २.६५ ॥ तद्भद्र ! अनुजानीहि माम् । गच्छामि । करटको ब्रूतेशुभमस्तु । शिवास्ते पन्थानः । यथाभिलषितमनुष्ठीयतामिति । ततो दमनको विस्मित इव पिङ्गलकसमीपं गतः । अथ दूरादेव सादरं राज्ञा प्रवेशितः साष्टाङ्गप्रणिपातं प्रणिपत्योपविष्टः । राजाहचिराद्दृष्टोऽसि । दमनको ब्रूतेयद्यपि मया सेवकेन श्रीमद्देवपादानां न किंचित्प्रयोजनमस्ति, तथापि प्राप्तकालमनुजीविना सांनिध्यमवश्यं कर्तव्यमित्यागतोऽस्मि । किं च दन्तस्य निर्घर्षणकेन राजन् कर्णस्य कण्डूयनकेन वापि । तृणेन कार्यं भवतीश्वराणां किमङ्गवाक्पाणिमता नरेण ॥ २.६६ ॥ यद्यपि चिरेणावधीरितस्य देवपादैर्मे बुद्धिनाशः शक्यते, तदपि न शङ्कनीयम् । यतः कदर्थितस्यापि च धैर्यवृत्तेर् बुद्धेर्विनाशो नहि शङ्कनीयः । अधःकृतस्यापि तनूनपातो नाधः शिखा याति कदाचिदेव ॥ २.६७ ॥ देव ! तत्सर्वथा विशेषज्ञेन स्वामिना भवितव्यम् । यतः मणिर्लुठति पादेषु काचः शिरसि धार्यते । यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः ॥ २.६८ ॥ अन्यच्च निर्विशेषो यदा राजा समं सर्वेषु वर्तते । तदोद्यमसमर्थानामुत्साहः परिहीयते ॥ २.६९ ॥ किं च त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः । नियोजयेत्तथैवैतांस्त्रिविधेष्वेव कर्मसु ॥ २.७० ॥ यतः स्थान एव निज्योज्यन्ते भृत्याश्चाभरणानि च । नहि चूडामणिः पादे नूपुरं शिरसा कृतम् ॥ २.७१ ॥ अपि च कनकभूषणसङ्ग्रहणोचितो यदि मणिस्त्रपुणि प्रणिधीयते । न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता ॥ २.७२ ॥ अन्यच्च मुकुटे रोपिता काचश्चरणाभरणे मणिः । नहि दोषो मणेरस्ति किन्तु साधोरविज्ञता ॥ २.७३ ॥ पश्य बुद्धिमाननुरक्तोऽयमयं शूर इतो भयम् । इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः ॥ २.७४ ॥ तथा हि अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ २.७५ ॥ अन्यच्च किं भक्तेनासमर्थेन किं शक्तेनापकारिणा । भक्तं शक्तं च मां राजन्नावज्ञातुं त्वमर्हसि ॥ २.७६ ॥ यतः अवज्ञानाद्राज्ञो भवति मतिहीनः परिजनस् ततस्तत्प्रामाण्याद्भवति न समीपे बुधजनः । बुधैस्त्यक्ते राज्ये न हि भवति नीतिर्गुणवती विपन्नायां नीतौ सकलमवशं सीदति जगत् ॥ २.७७ ॥ अपरं च जनं जनपदा नित्यमर्चयन्ति नृपार्चितम् । नृपेणावमतो यस्तु स सर्वैरवमन्यते ॥ २.७८ ॥ किं च बालादपि गृहीतव्यं युक्तमुक्तं मनीषिभिः । रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥ २.७९ ॥ पिङ्गलकोऽवदत्भद्र दमनक ! किमेतत्? त्वमस्मदीयप्रधानामात्यपुत्र इयन्तं कालं यावत्कुतोऽपि खलवाक्यान्नागतोऽसि । इदानीं यथाभिमतं ब्रूहि । दमनको ब्रूतेदेव ! पृच्छामि किंचित् । उच्यताम् । उदकार्थी स्वामी पानीयमपीत्वा किमिति विस्मित इव तिष्ठति । पिङ्गलकोऽवदत्भद्रमुक्तं त्वया । किन्त्वेतद्रहस्यं वक्तुं काचिद्विश्वासभूमिर्नास्ति । तथापि निभृतं कृत्वा कथयामि । शृणु, सम्प्रति वनमिदमपूर्वसत्त्वाधिष्ठितमतोऽस्माकं त्याज्यम् । अनेन हेतुना विस्मितोऽस्मि । तथा च श्रुतो मयापि महानपूर्वशब्दः । शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् । दमनको ब्रूतेदेव ! अस्ति तावदयं महान् भयहेतुः । स शब्दोऽस्याभिरप्याकर्णितः । किन्तु स किं मन्त्री यः प्रथमं भूमित्यागं पश्चाद्युद्धं चोपविशति अस्मिन् कार्यसन्देहे भृत्यानामुपयोग एव ज्ञातव्यः । यतः बन्धुस्त्रीभृत्यवर्गस्य बुद्धेः सत्त्वस्य चात्मनः । आपन्निकषपाषाणे नरो जानाति सारताम् ॥ २.८० ॥ सिंहो ब्रूतेभद्र ! महती शङ्का मां बाधते । दमनकः पुनराह स्वगतमन्यथा राज्यसुखं परित्यज्य स्थानान्तरं गन्तुं कथं मां सम्भाषसे ? प्रकाशं ब्रूतेदेव ! यावदहं जीवामि तावद्भयं न कर्तव्यम् । किन्तु करटकादयोऽप्याश्वास्यन्तां यस्मादापत्प्रतीकारकाले दुर्लभह्पुरुषसमवायः । ततस्तौ दमनककरटकौ राज्ञा सर्वस्वेनापि पूजितौ भयप्रतीकारं प्रतिज्ञाय चलितौ । करटको गच्छन् दमनकमाहसखे ! किं शक्त्यप्रतीकारो भयहेतुरशक्यप्रतीकारो वेति न ज्ञात्वा भयोपशमं प्रतिज्ञाय कथमयं महाप्रसादो गृहीतः ? यतोऽनुपकुर्वाणो न कस्याप्युपायनं गृह्णीयाद्विशेषतो राज्ञः । पश्य यस्य प्रसादे पद्मास्ते विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ २.८१ ॥ तथा हि बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥ २.८२ ॥ दमनको विहस्याहमित्र ! तूष्णीमास्यताम् । ज्ञातं मया भयकारणम् । बलीवर्दनर्दितं तत् । वृषभाश्चास्माकमपि भक्ष्याः । किं पुनः सिंहस्य । करटको ब्रूतेयद्येवं तदा किं पुनः स्वामित्रासस्तत्रैव किमिति नापनीतः । दमनको ब्रूतेयदि स्वामित्रासस्तत्रैव मुच्यते तदा कथमयं महाप्रसादलाभः स्यात् । अपरं च निरपेक्षो न कर्तव्यो भृत्यै स्वामी कदाचन । निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद्दधिकर्णवत् ॥ २.८३ ॥ करटकः पृच्छतिकथमेतत्? दमनकः कथयति कथा ३ अस्त्युत्तरपथेऽर्बुदशिखरनाम्नि पर्वते दुर्दान्तो नाम महाविक्रमः सिंहः । तस्य पर्वतकन्दरमधिशयानस्य केसराग्रं कश्चिन्मूषिकः प्रत्यहं छिनत्ति । ततः केसराग्रं लूनं दृष्ट्वा कुपितो विवरान्तर्गतं मूषिकमलभमानोऽचिन्तयत् क्षुद्रशत्रुर्भवेद्यस्तु विक्रमान्नैव लभ्यते । तमाहन्तुं पुरस्कार्यः सदृशस्तस्य सैनिकः ॥ २.८४ ॥ इत्यालोच्य तेन ग्रामं गत्वा विश्वासं कृत्वा दधिकर्णनामा बिडालो यत्नेवानीय मांसाहारं दत्त्वा स्वकन्दरे स्थापितः । अनन्तरं तद्भयान्मूषिकोऽपि विलान्न निःसरति । तेनासौ सिंहोऽक्षतकेशरः सुखं स्वपिति । मूषिकशब्दं यदा यदा शृणोति, तदा तदा मांसाहारदानेन तं बिडालं संवर्धयति । आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः । पृथक्शय्या च नारीणामशस्त्रविहितो वधः ॥ २.८५ ॥ ततो देशव्यवहारानभिज्ञः संजीवकः सभयमुपसृत्य साष्टाङ्गपातं करटकं प्रणतवान् । तथा चोक्तम् मतिरेव बलाद्गरीयसी यदभावे करिणामियं दशा । इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् ॥ २.८६ ॥ अथ संजीवकः साशङ्कमाहसेनापते ! किं मया कर्तव्यम् । तदभिधीयताम् । करटको ब्रूतेवृषभ ! अत्र कानने तिष्ठसि । अस्मद्देवपादारविन्दं प्रणय । संजीवको ब्रूतेतदभयवाचं मे यच्छ । गच्छामि । करटको ब्रूतेशृणु रे बलीवर्द ! अलमनया शङ्कया । यतः प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे । अनुहुङ्कुरुते घनध्वनिं न हि गोमायुरुतानि केसरी ॥ २.८७ ॥ अन्यच्च तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणलानि सर्वतः । समुच्छ्रितानेव तरून् प्रबाधते महान्महत्येव करोति विक्रमम् ॥ २.८८ ॥ ततस्तौ संजीवकं कियद्दूरे संस्थाप्य पिङ्गलकसमीपं गतौ । ततो राजा सादरमवलोकितौ प्रणम्योपविष्टौ । राजाहत्वया स दृष्टः ? दमनको ब्रूतेदेव ! दृष्टः । किन्तु यद्देवेन ज्ञातं तत्तथा । महानेवासौ देवं द्रष्टुमिच्छति । किन्तु महाबलोऽसौ ततः सज्जीभूयोपविश्य दृश्यताम् । शब्दमात्रादेव न भेतव्यम् । तथा चोक्तम् शब्दमात्रान्न भेतव्यमज्ञात्वा शब्दकारणम् । शब्दहेतुं परिज्ञाय कुट्टनी गौरवं गता ॥ २.८९ ॥ राजाहकथमेतत्? दमनकः कथयति कथा ४ अस्ति श्रीपर्वतमध्ये ब्रह्मपुराख्यं नगरम् । तच्छिखरप्रदेशे घण्टाकर्णो नाम राक्षसः प्रतिवसतीति जनप्रवादः श्रूयते । एकदा घण्टामादाय पलायमानः कश्चिच्चौरो व्याघ्रेण व्यापादितः । तत्पाणिपतिता घण्टा वानरैः प्राप्ता । वानरास्तां घण्टामनुक्षणं वादयन्ति । ततो नगरजनैः स मनुष्यः खादितो दृष्टः प्रतिक्षणं घण्टारवश्च श्रूयते । अनन्तरं घण्टाकर्णः कुपितो मनुष्यान् खादति घण्टां च वादयतीत्युक्त्वा सर्वे जना नगरात्पलायिताः । ततः करालया नाम कुट्टन्या विमृश्यानवरोऽयं घण्टानादः । तत्किं मर्कटा घण्टां वादयन्तीति स्वयं विज्ञाय राजा विज्ञापितःदेव ! यदि कियद्धनोपक्षयः क्रियते, तदाहमेनं घण्टाकर्णं साधयामि । ततो राजा तस्यै धनं दत्तम् । कुट्टन्या मण्डलं कृत्वा तत्र गणेशादिपूजागौरवं दर्शयित्वा स्वयं वानरप्रियफलान्यादाय वनं प्रविश्य फलान्याकीर्णानि । ततो घण्टां परित्यज्य वानराः फलासक्ता बभूवुः । कुट्टनी च घण्टां गृहीत्वा नगरमागता सर्वजनपूज्याभवत् । अतोऽहं ब्रवीमिशब्दमात्रान्न भेतव्यमित्यादि । ततः संजीवकमानीय दर्शनं कारितवन्तौ । पश्चात्तत्रैव परमप्रीत्या निवसति । ओ)०(ओ अथ कदाचित्तस्य सिंहस्य भ्राता स्तब्धकर्णनामा सिंहः समागतः । तस्यातिथ्यं कृत्वा सिंहमुपवेश्य पिङ्गलकस्तदाहाराय पशुं हन्तुं चलितः । अत्रान्तरे संजीवको वदतिदेव ! अद्य हतमृगाणां मांसानि क्व ? राजाहदमनककरटकौ जानीतः । संजीवको ब्रूतेज्ञायतां किमस्ति नास्ति वा ? सिंहो विमृश्याहनास्त्येव तत् । संजीवको ब्रूतेकथमेतावन्मांसं ताभ्यां खादितम् ? राजाहखादितं व्ययितमवधीरितं च । प्रत्यहमेष क्रमः । संजीवको ब्रूतेकथं श्रीमद्देवपादानामगोचरेणैव क्रियते ? राजाहमदीयागोचरेणैव क्रियते । अथ संजीवको ब्रूतेनैतदुचितम् । तथा चोक्तम् नानिवेद्य प्रकुर्वीत भर्तुः किंचिदपि स्वयम् । कार्यमापत्प्रतीकारादन्यत्र जगतीपते ॥ २.९० ॥ अन्यच्च कमण्डलूपमोऽमात्यस्तनुत्यागी बहुग्रहः । नृपते किङ्क्षणो मूर्खो दरिद्रः किंवराटकः ॥ २.९१ ॥ स ह्यमात्यः सदा श्रेयान् काकिनीं यः प्रवर्धयेत् । कोषः कोषवतः प्राणाः प्राणाः प्राणा न भूपतेः ॥ २.९२ ॥ किं चार्थैर्न कुलाचारैः सेवतामेति पूरुषः । धनहीनः स्वपत्न्यापि त्यज्यते किं पुनः परैः ॥ २.९३ ॥ एतच्च राज्ञः प्रधानं दूषणम् अतिव्ययोऽनपेक्षा च तथार्जनमधर्मतः । मोषणं दूरसंस्थानां कोषव्यसनमुच्यते ॥ २.९४ ॥ यतः क्षिप्रमायतमनालोच्य व्ययमानः स्ववाञ्छया । परिक्षीयत एवासौ धनी वैश्रवणोपमः ॥ २.९५ ॥ स्तब्धकर्णो ब्रूतेशृणु भ्रातः चिराश्रितादेतौ दमनककरटकौ सन्धिविग्रहकार्याधिकारिणौ च कदाचिदर्थाधिकारे न नियोक्तव्यौ । अपरं च नियोगप्रस्तावे यन्मया श्रुतं तत्कथ्यते । ब्राह्मणः क्षत्रियो बन्धुर्नाधिकारे प्रशस्यते । ब्राह्मणः सिद्धमप्यर्थं कृच्छ्रेणापि न यच्छति ॥ २.९६ ॥ नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम् । सर्वस्वं ग्रसते बन्धुराक्रम्य ज्ञातिभावतः ॥ २.९७ ॥ अपराधेऽपि निःशङ्को नियोगी चिरसेवकः । स स्वामिनमवज्ञाय चरेच्च निरवग्रहः ॥ २.९८ ॥ उपकर्ताधिकारस्थः स्वापराधं न मन्यते । उपकारं ध्वजीकृत्य सर्वमेव विलुम्पति ॥ २.९९ ॥ उपंशुक्रीडितोऽमात्यः स्वयं राजायते यतः । अवज्ञा क्रियते तेन सदा परिचयाद्ध्रुवम् ॥ २.१०० ॥ अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल । शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥ २.१०१ ॥ सदामत्यो न साध्यः स्यात्समृद्धः सर्व एव हि । सिद्धानामयमादेशः ऋद्धिश्चित्तविकारिणी ॥ २.१०२ ॥ प्राप्तार्थग्रहणं द्रव्यपरीवर्तोऽनुरोधनम् । उपेक्षा बुद्धिहीनत्वं भोगोऽमात्यस्य दूषणम् ॥ २.१०३ ॥ नियोग्यर्थग्रहोपायो राज्ञा नित्यपरीक्षणम् । प्रतिपत्तिप्रदानं च तथा कर्मविपर्ययः ॥ २.१०४ ॥ निपीडिता वमन्त्युच्चैरन्तःसारं महीपतेः । दुष्टव्रणा इव प्रायो भवन्ति हि नियोगिनः ॥ २.१०५ ॥ मुहुर्नियोगिनी बाध्या वसुधारा महीपते । सकृत्किं पीडितं स्नानवस्त्रं मुञ्चेद्धृतं पयः ॥ २.१०६ ॥ एतत्सर्वं यथावसरं ज्ञात्वा व्यवहर्तव्यम् । सिंहो ब्रूतेअस्ति तावदेवम् । किन्त्वेतौ सर्वथा न मम वचनकारिणौ । स्तब्धकर्णो ब्रूतेएतत्सर्वमनुचितं सर्वथा । यतः आज्ञाभङ्गकरान् राजा न क्षमेत सुतानपि । विशेषः को नु राज्ञश्च राज्ञश्चित्रगतस्य च ॥ २.१०७ ॥ स्तब्धस्य नश्यति यशो विषमस्य मैत्री नष्टेन्द्रियस्य कुलमर्थपरस्य धर्मः । विद्याफलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ २.१०८ ॥ अपरं च तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृपवल्लभात् । नृपतिर्निजलोभाच्च प्रजा रक्षेत्पितेव हि ॥ २.१०९ ॥ भ्रातः ! सर्वथास्मद्वचनं क्रियताम् । व्यवहारोऽप्यस्माभिः कृत एव । अयं संजीवकः सस्यभक्षकोऽर्थाधिकारे नियुज्यताम् । एतद्वचनात्तथानुष्ठिते सति तदारभ्य पिङ्गलकसंजीवकयोः सर्वबन्धुपरित्यागेन महता स्नेहेन कालोऽतिवर्तते । ततोऽनुजीविनामप्याहारदाने शैथिल्यदर्शनाद्दमनककरटकावन्योन्यं चिन्तयतः । तदाह दमनकः करटकम्मित्र ! किं कर्तव्यम् ? आत्मकृतोऽयं दोषः । स्वयं कृतेऽपि दोषे परिदेवनमप्यनुचितम् । तथा चोक्तम् स्वर्णरेखामहं स्पृष्ट्वा बद्ध्वात्मानं च दूतिका । आदित्सुश्च मणिं साधुः स्वदोषाद्दुःखिता इमे ॥ २.११० ॥ करटको ब्रूतेकथमेतत्? दमनकः कथयति कथा ५ अस्ति काञ्चनपुरनाम्नि नगरे वीरविक्रमो राजा । तस्य धर्माधिकारिणा कश्चिन्नापितो वध्यभूमिं नीयमानः कन्दर्पकेतुनाम्ना परिव्राजकेन साधुद्वितीयकेन नायं हन्तव्यः इत्युक्त्वा वस्त्राञ्चलेन धृतः । राजपुरुषा ऊचुःकिमिति नायं वध्यः । स आहश्रूयताम् । स्वर्णरेखामहं स्पृष्ट्वा इत्यादि पठति । त आहुःकथमेतत्? परिव्राजकः कथयतिअहं सिंहलद्वीपस्य भूपतेर्जीमूतकेतः पुत्रः दन्दर्पकेतुर्नाम । मध्ये चतुर्दश्यामाविर्भूतकल्पतरुतले रत्नावलीकिरणकबूतरपर्यङ्कस्थिता सर्वालङ्कारभूषिता लक्ष्मीरिव वीनां वादयन्ती कन्या काचिद्दृश्यते इति । ततोऽहं पोतव्णिजमादाय पोतमारुह्य तत्र गतः । अनन्तरं तत्र गत्वा पर्यङ्केऽधमग्रा तथैव सावलोकिता । ततस्तल्लावण्यगुणाकृष्टेन मयापि तत्पश्चाज्झम्पो दत्तः । तदनन्तरं कनकपत्तनं प्राप्य सुवर्णप्रासादे तथैव पर्यङ्के स्थिता विद्याधरीभिरुपास्यमाना मयालोकिता । तथाप्यहं दूरादेव दृष्ट्वा सखीं प्रस्थाप्य सादरं सम्भाषितः । तत्सख्या च मया पृष्टया समाख्यातमेषा कन्दर्पकेलिनाम्नो विद्याधरचक्रवर्तिनः पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते । यः कनकवर्तनं स्वचक्षुषागत्य पश्यति, स एव पितुरगोचरोऽपि मां परिणेष्यतीति मनसः सङ्कल्पः । तदेनां गान्धर्वविवाहेन परिणयतु भवान् । अथ तत्र वृत्ते गन्धर्वविवाहे तथा सह रममाणस्तत्राहं तिष्ठामि । तत एकदा रहसि तयोक्तम्स्वामिन् ! स्वेच्छया सर्वमिदमुपभोक्तव्यम् । एषा चित्रगता स्वर्णरेखा नाम विद्याधरी न कदाचित्स्प्रष्टव्या । पश्चादुपजातकौतुकेन मया स्वर्णरेखा स्वहस्तेन स्पृष्टा । तथा चित्रतयाप्यहं चरणपद्मेन ताडित आगत्य स्वराष्ट्रे पतितः । अथ दुःखितोऽहं परिव्रजितः पृथिवीं परिभ्राम्यन्निमां न्गरीमनुप्राप्तः । अत्र चातिकान्ते दिवसे गोपगृहे सुप्तः सन्नपश्यम् । प्रदोषसमये पशूनां पालनं कृत्वा स्वगेहमागतो गोपः स्ववधूं दूत्या सह किमपि मन्त्रयन्तीमपश्यत् । ततस्तां गोपीं ताडयित्वा स्तम्भे बद्ध्वा सुप्तः । ततोऽर्धरात्रे एतस्य नापितस्य वधूर्दूती पुनस्तां गोपीमुपेत्यावदत्तव विरहानलदग्धोऽसौ स्मरशरजर्जरितो मुमूर्षुरिव वर्तते । तथा चोक्तम् रजनीचरनाथेन खण्डिते तिमिरे निशि । यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः ॥ २.१११ ॥ तस्य तादृशीमवस्थामवलोक्य परिक्लिष्टमनास्त्वामनुवर्तितुमागता । तदहमत्रात्मानं बद्ध्वा तिष्ठामि । त्वं तत्र गत्वा तं सन्तोष्य सत्वरमागमिष्यसि । तथानुष्ठिते सति स गोपः प्रबुद्धोऽवदतिदानीं त्वां पापिष्ठां जारान्तिकं नयामि । ततो यदासौ न किंचिदपि ब्रूते तदा क्रुद्धो गोपःदर्पान्मम वचसि प्रत्युत्तरमपि न ददासि इत्युक्त्वा कोपेन तेन कर्तरिकामादायास्या नासिका छिन्ना । तथा कृत्वा पुनः सुप्तो गोपो निद्रामुपगतः । अथागत्य गोपी दूतीमपृच्छत्का वार्ता ? दूत्योक्तम्पश्य माम् । मुखमेव वार्तां कथयति । अनन्तरं सा गोपी तथा कृत्वात्मानं बद्ध्वा स्थिता । इयं च दूती तां छिन्ननासिकां गृहीत्वा स्वगृहं प्रविश्य स्थिता । ततः प्रातरेवानेन नापितेन स्ववधूः क्षुरभाण्डं याचिता सती क्षुरमेकं प्रादात् । ततोऽसमग्रभाण्डे प्राप्ते समुपजातकोपोऽयं नापितस्तं क्षुरं दूरादेव गृहे क्षिप्तवान् । अथ कृतार्तरायेयं मे नासिकानेन छिन्नेत्युक्त्वा धर्माधिकारिसमीपमेतमानीतवती । सा च गोपी तेन गोपेन पुनः पृष्टोवाचअरे पाप ! को मां महासती विरूपयितुं समर्थः । मम व्यवहारमकल्मषमष्टौ लोकपाला एव जानन्ति, यतः आदित्यचन्द्रावनिलानलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ २.११२ ॥ अतथ्यान्यपि तथ्यानि दर्शयन्ति हि पेशलाः । समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥ २.११३ ॥ उत्पन्नेषु च कार्येषु मतिर्यस्य न हीयते । स निस्तरति दुर्गाणि गोपी जारद्वयं यथा ॥ २.११४ ॥ करटकः पृच्छतिकथमेतत्? कथा ६ दमनकः कथयतिअस्ति द्वारवत्यां पुर्यां कस्यचिद्गोपस्य वधूर्बन्धकी । सा ग्रामस्य दण्डनायकेन तत्पुत्रेण च समं रमते । तथा चोक्तम् नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ २.११५ ॥ न दानेन न मानेन नार्जवेन न सेवया । न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः ॥ २.११६ ॥ यतः गुणाश्रयं कीर्तियुतं च कान्तं पतिं रतिज्ञं सधनं युवानम् । विहाय शीघ्रं वनिता व्रजन्ति नरान्तरं शीलगुणादिहीनम् ॥ २.११७ ॥ अपरं च न तादृशीं प्रीतिमुपैति नारी विचित्रशय्या शयितापि कामम् । यथा हि दूर्वादिविकीर्णभूमौ प्रयाति सौख्यं परकान्तिसङ्गात् ॥ २.११८ ॥ अथ कदाचित्सा दण्डनायकपुत्रेण सह रममाणा तिष्ठति । अथ दण्डनायकोऽपि रन्तुं तत्रागतः । तमायान्तं दृष्ट्वा तत्पुत्रं कुसूले निक्षिप्य दण्डनायकेन सह तथैव क्रीडति । अनन्तरं तस्य भर्ता गोपो गोष्ठात्समागतः । तमवलोक्य गोप्योक्तम्दण्डनायक ! त्वं लगुडं गृहीत्वा कोपं दर्शयन् सत्वरं गच्छ । तथा तेनानुष्ठिते गोपेन गृहमागत्य पृष्ठाकेन कार्येण दण्डनायकः समागत्यात्र स्थितः ? सा ब्रूतेअन्यं केनापि कार्येण पुत्रस्योपरि क्रुद्धः । स च मार्यमाणोऽप्यत्रागत्य प्रविष्टो मया कुसूले निक्षिप्य रक्षितः । तत्पित्रा चान्विष्यात्र न दृष्टः । अत एवायं दण्डनायकः क्रुद्ध एव गच्छति । ततः सा तत्पुत्रं कुषुलाद्बहिष्कृत्य दर्शितवती । तथा चोक्तम् आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा । षड्गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ॥ २.११९ ॥ अतोऽहं ब्रवीमिउतपन्नेष्वपि कार्येषु इत्यादि । करटको ब्रूतेअस्त्वेवम् । किन्त्वनयोर्महानन्योग्न्यनिसर्गोपजातस्नेह कथं भेदयितुं शक्यः ? दमनको ब्रूतेउपायः क्रियताम् । तथा चोक्तम् उपायेन जयो यादृग्रिपोस्तादृङ्न हेतिभिः । उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥ २.१२० ॥ करटकः पृच्छतिकथमेतत्? दमनकः कथयति कथा ७ कस्मिंश्चित्तरौ वायसदम्पती निवसतः । तयोश्चापृत्यानि तत्कोटरावस्थितेन कृष्णसर्पेण खादितानि । ततः पुनर्गर्भवती वायसी वायस्माहनाथ ! त्यज्यतामयं वृक्षः । अत्रावस्थितकृष्णसर्पेणावयोः सन्ततिः सततं भक्ष्यते । यतः दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः । ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥ २.१२१ ॥ वायसो ब्रूतेप्रिये ! न भेतव्यम् । वारं वारं मवैतस्य सोढः । इदानीं पुनर्न क्षन्तव्यः । वायस्याहकथमेतेन बलवता सार्धे भवान् विग्रहीतुं समर्थः । वायसो ब्रूतेअलमनया शङ्कया । यतः बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ २.१२२ ॥ वायसी विहस्याहकथमेतत्? वायसः कथयति कथा ८ अस्ति मन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः । स च सर्वदा पशूनां वधं कुर्वन्नास्ते । ततः सर्वैः पशुभिर्मिलित्वा स सिंहो विज्ञप्तःमृगेन्द्र ! किमर्थमेकदा बहुपशुघातः क्रियते । यदि प्रसादो भवति तदा वयमेव भवदाहाराय प्रत्यहमेकैकं पशुमुपढौकयामः । ततः सिंहेनोक्तम्यद्येतदभिमतं भवतां तर्हि भवतु तत् । ततःप्रभृत्येकैकं पशुमुपकल्पितं भक्षयन्नास्ते । अथ कदाचिद्वृद्धशशकस्य वारः समायातः । सोऽचिन्तयत् त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया । पञ्चत्वं चेद्गमिष्यामि किं सिंहानुनयेन मे ॥ २.१२३ ॥ तन्मन्दं मन्दं गच्छामि । ततः सिंहोऽपि क्षुधापीडितः कोपात्तमुवाचकुतस्त्वं विलम्ब्य समागतोऽसि । शशकोऽब्रवीत्देव ! नाहमपराधी । आगच्छन् पथि सिंहान्तरेण बलाद्धृतः । तस्याग्रे पुनरागमनाय शपथं कृत्वा स्वामिनं निवेदयितुमत्रागतोऽसिम् । सिंहः सकोपमाहसत्वरं गत्वा दुरात्मानं दर्शय । क्व स दुरात्मा तिष्ठति । ततः शशकस्तं गृहीत्वा गभीरकूपं दर्शयितुं गतः । तत्रागत्य स्वयमेव पश्यतु स्वामीत्युक्त्वा तस्मिन् कूपजले तस्य सिंहस्यैव प्रतिबिम्बं दर्शितवान् । ततोऽसौ क्रोधाध्मातो दर्पात्तस्योपर्यात्मानं निक्षिप्य पञ्चत्वं गतः । अतोऽहं ब्रवीमि बुद्धिर्यस्य इत्यादि । वायस्याहश्रुतं मया सर्वम् । सम्प्रति यथा कर्तव्यं ब्रूहि । वायसोऽवदतत्रासन्ने सरसि राजपुत्रः प्रत्यहमागत्य स्नाति । स्नानसमये मदङ्गादवतारितं तीर्थशिलानिहितं कनकसूत्रं चञ्च्वा विधृत्यानीयास्मिन् कोटरे धारयिष्यसि । अथ कदाचित्स्नातुं जलं प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम् । अथ कनकसूत्रानुसरणप्रवृत्तै राजपुरुषैस्तत्र तरुकोटरे कृष्णसर्पो दृष्टो व्यापादितश्च । अतोऽहं ब्रवीमिउपायेन हि यच्छक्यमितेन हि यच्छक्यमित्यादि । करटको ब्रूतेयद्येवं तर्हि गच्छ । शिवास्ते सन्तु पन्थानः । ततो दमनकः पिङ्गलकसमीपं गत्वा प्रणम्योवाचदेव ! आत्यन्तिकं किमपि महाभयकारि कार्यं मन्यमानः समागतोऽस्मि । यतः आपद्युन्मार्गगमने कार्यकालात्ययेषु च । कल्याणवचनं ब्रूयादपृष्टोऽपि हितो नरः ॥ २.१२४ ॥ अन्यच्च भोगस्य भाजनं राजा न राजा कार्यभाजनम् । राजकार्यपरिध्वंसी मन्त्री दोषेण लिप्यते ॥ २.१२५ ॥ तथा हि पश्य । अमात्यानामेष क्रमः । वरं प्राणपरित्यागः शिरसा वापि कर्तनम् । न तु स्वामिपदावाप्तिपातकेच्छोरुपेक्षणम् ॥ २.१२६ ॥ पिङ्गलकः सादरमाहअथ भवान् किं वक्तुमिच्छति । दमनको ब्रूतेदेव ! संजीवकस्तवोपयसदृशव्यवहारीव लक्ष्यते । तथा चास्मत्सन्निधाने श्रीमद्देवपादानां शक्तित्रयनिन्दां कृत्वा राज्यमेवाभिलषति । एतच्छ्रुत्वा, पिङ्गलकः सभयं साश्चर्यं मत्वा तूष्णीं स्थितः । दमनकः पुनराहदेव ! सर्वामात्यपरित्यागं कृत्वैक एवायं यत्त्वां सर्वाधिकारी कृतः । स एव दोषः । यतः अत्युच्छ्रिते मन्त्रिणि पार्थिवे च विष्टभ्य पादावुपतिष्ठते श्रीः । सा स्त्रीस्वभावादसहा भरस्य तयोर्द्वयोरेकतरं जहाति ॥ २.१२७ ॥ अपरं च एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहात्श्रयते मदः स च मदालस्येन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥ २.१२८ ॥ अन्यच्च विषदग्धस्य भक्तस्य दन्तस्य चलितस्य च । अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् ॥ २.१२९ ॥ किं च यः कुर्यात्सचिवायत्तां श्रियं तद्व्यसने सति । सोऽन्धवज्जगतीपालः सीदेत्सञ्चारकैर्विना ॥ २.१३० ॥ सर्वकार्येषु स्वेच्छातः प्रवर्तते । तदत्र प्रमाणं स्वामी । एतं च जानाति । न सोऽस्ति पुरुषो लोके यो न कामयते श्रियम् । परस्य युवतिं रम्यां सादरं नेक्षतेऽत्र कः ॥ २.१३१ ॥ सिंहो विमृश्याहभद्र ! यद्यप्येवं तथापि संजीवकेन सह मम महान् स्नेहः । पश्य कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः । अशेषदोषदुष्टोऽपि कायः कस्य न वल्लभः ॥ २.१३२ ॥ अन्यच्च अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः । दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः ॥ २.१३३ ॥ दमनकः पुनरे एवाहदेव ! स एवातिदोषः, यतः यस्मिन्नेवाधिकं चक्षुरारोहयति पार्थिवः । सुतेऽमात्येऽप्युदासीने स लक्ष्म्याश्रीयते जनः ॥ २.१३४ ॥ शृणु देव ! अप्रियस्यापि पथ्यस्य परिणामः सुखावहः । वक्ता श्रोता च यत्रास्ति रमन्ते तत्र सम्पदः ॥ २.१३५ ॥ त्वया च मूलभृत्यानपास्यायमागन्तुकः पुरस्कृतः । एतच्चानुचितं कृतम् । यतः मूलभृत्यान् परित्यज्य नागन्तून् प्रतिमानयेत् । नातः परतरो दोषो राज्यभेदकरो यतः ॥ २.१३६ ॥ सिंहो ब्रूतेकिमाश्चर्यम् । मया यदभयवाचं दत्त्वानीतः संवर्धितश्च तत्कथं मह्यं द्रुह्यति । दमनको ब्रूतेदेव ! दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः । स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम् ॥ २.१३७ ॥ अपरं च स्वेदितो मर्दितश्चैव रञ्जुभिः परिवेष्टितः । मुक्तो द्वादशभिर्वर्षैः श्वपुच्छः प्रकृतिं गतः ॥ २.१३८ ॥ अन्यच्च वर्धनं वा सम्मानं खलानां प्रीतये कुतः । फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः ॥ २.१३९ ॥ अतोऽहं ब्रवीमि अपृष्टस्तस्य न ब्रूयाद्यश्च नेच्छेत्पराभवम् । एष एव सतां धर्मो विपरीतोऽसतां मतः ॥ २.१४० ॥ तथा चोक्तम् स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं सा स्त्री यातुविधायिनी स मतिमान् यः सद्भिरभ्यर्च्यते । सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया मुच्यते तन्मित्रं यत्कृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः ॥ २.१४१ ॥ यदि सञ्जीवकव्यसनादितोऽविज्ञापितोऽपि स्वामी न निवर्तते, तदीदृशे भृत्ये न दोषः । तथा च नृपः कामासक्तो गणयति न कार्ये न च हितं यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव । ततो मानध्मातः स पतति यदा शोकगहने तदा भृत्ये दोषान् क्षिपति न निजं वेत्त्यविनयम् ॥ २.१४२ ॥ पिङ्गलकः स्वगतम् न परस्यापराधेन परेषां दण्डमाचरेत् । आत्मनावगतं कृत्वा बध्नीयात्पूजयेच्च वा ॥ २.१४३ ॥ तथा चोक्तम् गुणदोषावनिश्चित्य विधिनं ग्रहनिग्रहे । स्वनाशाय यथा न्यस्तो दर्पात्सर्पमुखे करः ॥ २.१४४ ॥ प्रकाशं ब्रूतेतदा संजीवकः किं प्रत्यादिश्यताम् । दमनकः ससम्भ्रममाहदेव ! मा मैवम् । एतावता मन्त्रभेदो जायते । तथा ह्युक्तम् मन्त्रबीजमिदं गुप्तं रक्षणीयं यथा तथा । मनागपि न भिद्येत तद्भिन्नं न प्ररोहति ॥ २.१४५ ॥ किं च आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ २.१४६ ॥ तदवश्यं समारब्धं महता प्रयत्नेन सम्पादनीयम् । किं च मन्त्रो योधः इवाधीरः सर्वाङ्गैः संवृतैरपि । चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥ २.१४७ ॥ यद्यसौ दृष्टदोषोऽपि दोषान्निवत्यं सन्धातव्यस्तदतीवानुचितम् । यतः सकृद्दुष्टं तु यो मित्रं पुनः सन्धातुमिच्छति । स मृत्युरेव गृह्णाति गर्भमश्वतरी यथा ॥ २.१४८ ॥ अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः । पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥ २.१४९ ॥ सिंहः पृच्छतिकथमेतत्? दमनकः कथयति कथा ९ दक्षिणसमुद्रतीरे टिट्टिभदम्पती निवसतः । तत्र चासन्नप्रसदा टिट्टिभी भर्तारमाहनाथ ! प्रसवयोग्यस्थानं निभृतमनुसन्धीयताम् । टिट्टिभोऽवदत्भार्ये, नन्विदमेव स्थानं प्रसूतियोग्यम् । सा ब्रूतेसमुद्रवेलया व्याप्यते स्थानमेतम् । टिट्टिभोऽवदत्किमहं त्वया निर्बलः समुद्रेण निग्रहीतव्यः । टिट्टिभी विहस्याहस्वामिन् ! त्वया समुद्रेण च महदन्तरम् । अथवा पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः । अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति ॥ २.१५० ॥ अपि च अनुचितकार्यारम्भः स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि ॥ २.१५१ ॥ ततः कृच्छ्रेण स्वामिवचनात्मा तत्रैव प्रसूता । एतत्सर्वं श्रुत्वा समुद्रेणापि यच्छक्तिज्ञानार्थं तदण्डान्यवहृतानि । ततष्टिट्टिभी शोकार्ता भर्तारमाहनाथ ! कष्टमापतितम् । तान्यण्डानि मे नष्टानि । टिट्टिभोऽवदत्प्रिये ! मा भैषीः इत्युक्त्वा पक्षिणां मेलकं कृत्वा पक्षिस्वामिनो गरुडस्य समीपं गतः । तत्र गत्वा सकलवृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्देव, समुद्रेणाहं स्वगृहावस्थितो विनापराधनेनैव निगृहीतः । ततस्तद्वचनमाकर्ण्य गरुत्मना प्रभुर्भगवान्नारायणः सृष्टिस्थितिप्रलयहेतुर्विज्ञप्तः । स समुद्रमण्डदानायादिदेश । ततो भगवदाज्ञां मौलौ निधाय समुद्रेण तान्यण्डानि टिट्टिभाय समर्पितानि । अतोऽहं ब्रवीमिअङ्गाङ्गिभावमज्ञात्वा इत्यादि । राजाहकथमसौ ज्ञातव्यो द्रोहबुद्धिरिति । दमनको ब्रूतेयदासौ सदर्पः शृङ्गाग्रप्रहरणाभिमुखश्चकितमिवागच्छति तदा ज्ञास्यति स्वामी । एवमुक्त्वा संजीवकसमीपं गतः । तत्र गतश्च मन्दं मन्दमुपसर्पन् विस्मितमिवात्मानमदर्शयत् । संजीवकेन सादरमुक्तम्भद्र ! कुशलं ते । दमनको ब्रूतेअनुजीविनां कुतः कुशलम् । यतः सम्पत्तयः पराधीनाः सदा चित्तमनिर्वृत्तम् । स्वजीइवितेऽप्यविश्वासस्तेषां ये राजसेवकाः ॥ २.१५२ ॥ अन्यच्च कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रिया । कः कालस्य भुजान्तरं न च गतः कोऽर्थी गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥ २.१५३ ॥ संजीवकेनोक्तम्सखे ! ब्रूहि किमेतत्? दमनक आहकिं ब्रवीमि मन्दभाग्यः । पश्य मज्जन्नपि पयोराशौ लब्ध्वा सर्पावलम्बनम् । न मुञ्चति न चादत्ते तथा मुग्धोऽस्मि सम्प्रति ॥ २.१५४ ॥ यतः एकत्र राजविश्वासो नश्यत्यन्यत्र बान्धवः । किं करोमि क्व गच्छामि पतितो दुःखसागरे ॥ २.१५५ ॥ इत्युक्त्वा दीर्घः निःश्वस्योपविष्टः । संजीवको ब्रूतेमित्र ! तथापि सविस्तरं मनोगतमुच्यताम् । दमनकः सुनिभृतमाहयद्यपि राजविश्वासो न कथनीयस्तथापि भवानस्मदीयप्रत्ययादागतः । मया परलोकार्थिनावश्यं तव हितमाख्येयम् । शृणु, अयं स्वामी तवोपरि विकृतबुद्धी रहस्युक्तवान् संजीवकमेव हत्वा स्वपरिवारं तर्पयामि । एतच्छ्रुत्वा संजीवकः परं विषादमगमत् । दमनकः पुनराहअलं विषादेन । प्राप्तकालकायमनुष्ठीयताम् । संजीवकः क्षणं विमृश्याह स्वगतम्सुष्ठु खल्विदमुच्यते । किं वा दुर्जनचेष्टितं न वेत्येतद्व्यवहारान्निर्णेतुं न शक्यते । यतः दुर्जनगम्या नार्यः प्रायेणापात्रभृद्भवति राजा । कृपणानुसारि च धनं देवो गिरिजलधिवर्षी च ॥ २.१५६ ॥ कश्चिदाश्रयसौन्दर्याद्धत्ते शोभामसज्जनः । प्रमदालोचनन्यस्तं मलीमसमिवाञ्जनम् ॥ २.१५७ ॥ आराध्यमानो नृपतिः प्रयत्नान्न तोषमायाति किमत्र चित्रम् । अयं त्वपूर्वप्रतिमाविशेषो यः सेव्यमानो रिपुतामुपैति ॥ २.१५८ ॥ तदयमशक्यर्थः प्रमेयः, यतः निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति । अकारणद्वेषि मनस्तु यस्य वै कथं जनस्तं परितोषयिष्यति ॥ २.१५९ ॥ किं मयापकृतं राज्ञः । अथवा निर्निमित्तापकारिणश्च भवन्ति राजानः । दमनको ब्रूतेएवमेतत् । शृणु विज्ञैः स्निग्धैरुपकृतमपि द्वेष्यतामेति कैश्चित् साक्षादन्यैरपकृतमपि प्रीतिमेवोपयाति । चित्रं चित्रं किमथ चरितं नैकभावाश्रयाणां सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ २.१६० ॥ अन्यच्च कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु । वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ २.१६१ ॥ किं च चन्दनतरुषु भुजङ्गा जलेषु कमलानि तत्र च ग्राहाः । गुणघातिनश्च भोगे खला न च सुखान्यविघ्नानि ॥ २.१६२ ॥ मूलं भुजङ्गैः कुसुमानि भृङ्गैः शाखाः प्लवङ्गैः शिखराणि भल्लैः । नास्त्येव तच्चन्दनपादपस्य यन्नाश्रितं दुष्टतरैश्च हिंस्रैः ॥ २.१६३ ॥ अयं तावत्स्वामी वाचि मधुरो विषहृदयो ज्ञातः । यतः दूरादुच्छ्रितपाणिराद्रनयनः प्रोत्सारितार्धासनो गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तादरः । अन्तर्भूतविषो बहिर्मधुमयश्चातीव मायापटुः को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥ २.१६४ ॥ तथा हि पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्त्यै सृणिः । इत्थं तद्भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ॥ २.१६५ ॥ संजीवकः पुनर्निःश्वस्यकष्टं भोः ! कथमहं सस्यभक्षकः सिंहेन निपातयितव्यः ? यतः ययोरेव समं वित्तं ययोरेव समं बलम् । तयोर्विवादो मन्तव्यो नोत्तमाधमयोः क्वचित् ॥ २.१६६ ॥ अयुद्धे हि यदा पश्येन्न काञ्चिधितमात्मनः । युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ २.१७० ॥ अपरं च भूम्येकदेशस्य गुणान्वितस्य भृत्यस्य वा बुद्धिमतः प्रणाशः । भृत्यप्रणाशो मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः ॥ २.१७७ ॥ दमनको ब्रूतेस्वामिन् ! कोऽयं नूतनो न्यायो यदरातिं हत्वा सन्तापः क्रियते ? तथा चोक्तम् पिता वा यदि वा भ्राता पुत्री वा यदि वा सुहृत् । प्राणच्छेदकरा राज्ञा हन्तव्या भूतिमिच्छता ॥ २.१७८ ॥ अपि च धर्मार्थकामतत्त्वज्ञो नैकान्तकरुणो भवेत् । नहि हस्तस्थमप्यन्नं क्षमावान् भक्षितुं क्षमः ॥ २.१७९ ॥ किं च क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् । अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥ २.१८० ॥ अपरं च राज्यलोभादहङ्कारादिच्छतः स्वामिनः पदम् । प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम् ॥ २.१८१ ॥ अन्यच्च राजा घृणी ब्राह्मणः सर्वभक्षी स्त्री चावज्ञा दुष्प्रकृतिः सहायः । प्रेष्यः प्रतीपोऽधिकृतः प्रमादी त्याज्या इमे यश्च कृतं न वेत्ति ॥ २.१८२ ॥ विशेषतश्च सत्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या । नित्यव्यया प्रचुररत्नधनागमा च वाराङ्गनेव नृपनीतिरनेकरूपा ॥ २.१८३ ॥ इति दमनकेन सन्तोषितः पिङ्गलकः स्वां प्रकृतिमापन्नः सिंहासने समुपविष्टः । दमनकः प्रहृष्टमनाः विजयतां महाराजः शुभमस्तु सर्वजगतामित्युक्त्वा यथासुखमवस्थितः । विष्णुशर्मोवाचसुहृद्भेदः श्रुतस्तावद्भवद्भिः । राजपुत्रा ऊचुःभवत्प्रसादाच्छ्रुतः । सुखिनो भूता वयम् । विष्णुशर्माब्रवीतपरमपीदमस्तु सुहृद्भेदस्तावद्भवतु भवतां शत्रुनिलये खलः कालाकृष्टः प्रलयमुपसर्पत्वहरहः । जनो नित्यं भूयात्सकलसुखसम्पत्तिवसतिः कथारम्भे रम्भ्ये सततमिह बालोऽपि रमताम् ॥ २.१८४ ॥ इति हितोपदेशे सुहृद्भेदो नाम द्वितीयः कथासङ्ग्रहः समाप्तः ओ)०(ओ इइइ. विग्रहः अथ पुनः कथारम्भकाले राजपुत्रा ऊचुःार्य ! राजपुत्रा वयम् । तद्विग्रहं श्रोतुं नः कुतूहलमस्ति । विष्णुशर्मणोक्तम्यदेवं भवद्भ्यो रोचते तत्कथयामि । विग्रहः श्रूयतां, यस्यायमाद्यः श्लोकः हंसैः सह मयूराणां विग्रहे तुल्यविक्रमे । विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारिमन्दिरे ॥ ३.१ ॥ राजपुत्रा ऊचुःकथमेतत्? विष्णुशर्मा कथयति अस्ति कर्पूरद्वीपे पद्मकेलिनामधेयं सरः । तत्र हिरण्यगर्भो नाम राजहंसः प्रतिवसति । स च सर्वैर्जलचरैः पक्षिभिर्मिलित्वा पक्षिराज्येऽभिषिक्तः । यतः यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा । अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥ ३.२ ॥ अपरं च प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् । वर्धनाद्रक्षणं श्रेयस्तदभावे सदप्यसत् ॥ ३.३ ॥ एकदासौ राजहंसैः सुविस्तीर्णकमलपर्यङ्के सुखासीनः परिवारपरिवृतस्तिष्ठति । ततः कुतश्चिद्देशादागत्य दीर्घमुखो नाम बकः प्रणम्योपविष्टः । राजोवाचदीर्घमुख ! दशान्तरादागतोऽसि । वार्तां कथय । स ब्रूतेदेव ! अस्ति महती वार्ता । तामाख्यातुकाम एव सत्वरमागतोऽहम् । श्रूयताम् अस्ति जम्बूद्वीपे विन्ध्यो नाम गिरिः । तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति । तस्यानुचरैश्चरद्भिः पक्षिभिरहं दग्धारच्यमध्ये चरन्नवलोकितः । पृष्टश्चकस्त्वम् ? कुतः समागतोऽसि ? तदा मयोक्तम्कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य र्जहंसस्यानुचरोऽहं, कौतुकाद्देशान्तरं द्रष्टुमागतोऽस्मि । एतच्छ्रुत्वा पक्षिभिरुक्तमनयोर्देशयोः को देशो भद्रतरो राजा च ? ततो मयोक्तमाः किमेवमुच्यते महदन्तरम् । यतः कर्पूरद्वीपः स्वर्ग एव । राजहंसश्च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते । अत्र मरुस्थले पतिता यूयं किं कुरुथ । अस्मद्देशे गम्यताम् । ततोऽस्मद्वचनमाकर्ण्य सर्वपक्षिणः सकोपा बभूवुः । तथा चोक्तम् पयःपानं भुजङ्गानां केवलं विषवर्धनम् । उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥ ३.४ ॥ अन्यच्च विद्वानेवोपदेष्टव्यो नाविद्वांस्तु कदाचन । वानरानुपदिश्याथ स्थानभ्रष्टा ययुः खगाः ॥ ३.५ ॥ राजोवाचकथमेतत्? दीर्घमुखः कथयति कथा १ अस्ति नर्मदातीरे पर्वतोपत्यकायां विशालः शाल्मलीतरुः । तत्र निर्मितनीडकोडे पक्षिणः सुखेन निवसन्ति । अथैकदा वर्षासु नीलपटैरिव जलधरपटलैरावृते नभस्तले । धारासारैर्महती वृष्टिर्बभूव । ततो वानरांश्च तरुतलेऽवस्थितान् शीताकुलान् कम्पमानानवलोक्य, कृपया पक्षिभिरुक्तम्भो भो वानराः ! शृणुत अस्माभिर्निर्मिता नीडाश्चञ्चुमात्राहृतैस्तृणैः । हस्तपादादिसंयुक्ता यूयं किमवसीदथ ॥ ३.६ ॥ तच्छ्रुत्वा वानरैर्जातामर्षैरालोचितमहो ! निर्वातनीडगर्भावस्थिताः सुखिनः पक्षिणोऽस्मान्निन्दन्ति । तद्भवतु तावद्वृष्टेरुपशमः । अनन्तरं शान्ते पानीयवर्षे तैर्वानरैर्वृक्षमारुह्य, सर्वे नीडा भग्नाः, तेषामण्डानि चाधः पातितानि । अतोऽहं ब्रवीमि विद्वानेवोपदेष्टव्यः इत्यादि । राजोवाचततस्तैः पक्षिभिः किं कृतम् ? बकः कथयतिततस्तैः पक्षिभिः कोपादुक्तम्केनासौ राजहंसो राजा कृतः ? ततो मयोपजातकोपेनोक्तमयं युष्मदीयो मयूरः केन राजा कृतः ? एतच्छ्रुत्वा ते पक्षिणो मां हन्तुमुद्यताः । ततो मयापि स्वविक्रमो दर्शितः । यतः अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ ३.७ ॥ राजा विहस्याह आत्मनश्च परेषां च यः समीक्ष्य बलाबलम् । अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः ॥ ३.८ ॥ सुचिरं हि चरन्नित्यं क्षेत्रे सत्यमबुद्धिमान् । द्वीपिचर्मपरिच्छन्नो वाग्दोषाद्गर्दभो हतः ॥ ३.९ ॥ बकः पृच्छतिकथमेतत्? राजा कथयति कथा २ अस्ति हस्तिनापुरे विलासो नाम रजकः । तस्य गर्दभोऽतिभारवहनाद्दुर्बलो मुमूर्षुरिवाभवत् । ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यकसमीपे सस्यक्षेत्रे विमुक्तः । ततो दूरात्तमवलोक्य व्याघ्रबुद्ध्या क्षेत्रपतयः सत्वरं पलायन्ते । अथैकदा केनापि सस्यरक्षकेण धूसरकम्बलकृततनुत्राणेन धनुष्काण्डं सज्जीकृत्यानतकायेनैकान्ते स्थितम् । तं च दूराद्दृष्ट्वा गर्दभः पुष्टाङ्गो येथेष्टसस्यभक्षणजातबलो गर्दभोऽयमिति मत्वोच्चैः शब्दं कुर्वाणस्तदभिमुखं धावितः । ततस्तेन सस्यरक्षकेण चीत्कारशब्दाद्गर्दभोऽयमिति निश्चित्य, लीलयैव व्यापादितः । अतोऽहं ब्रवीमिसुचिरं हि चरन्नित्यमित्यादि । दीर्घमुखो ब्रूतेततः पश्चात्तैः पक्षिभिरुक्तमरे पापा दुष्टबक ! अस्माकं भूमौ चरन्नस्माकं स्वामिनमधिक्षिपसि । तन्न क्षन्तव्यमिदानीम् । इत्युक्त्वा सर्वे मां चञ्चुभिर्हत्वा, सकोपा ऊचुःपश्य रे मूर्ख ! स हंसस्तव राजा सर्वथा मृदुः । तस्य राज्याधिकारो नास्ति । यत एकान्तमृदुः करतलस्थमप्यर्थं रक्षितुमक्षमः । स कथं पृथिवीं शास्ति ? राज्यं वा तस्य किम् ? त्वं च कूपमण्डूकः । तेन तदाश्रयमुपदिशसि । शृणु सेवितव्यो महावृक्षः फलच्छायासमन्वितः । यदि दैवात्फलं नास्ति च्छाया केन निवार्यते ॥ ३.१० ॥ अन्यच्च हीनसेवा न कर्तव्या कर्तव्यो महदाश्रयः । पयोऽपि शौण्डिकीहस्ते वारुणीत्यभिधीयते ॥ ३.११ ॥ अन्यच्च महानप्यल्पतां याति निर्गुणे गुणविस्तरः । आधाराधेयभावेन गजेन्द्र इव दर्पणे ॥ ३.१२ ॥ किन्तु अजा सिंहप्रसादेन वने चरति निर्भयम् । राममासाद्य लङ्कायां लेभे राज्यं विभीषणः ॥ ३.१३ ॥ विशेषतश्च व्यपदेशेऽपि सिद्धिः स्यादतिशक्ते नराधिपे । शशिनो व्यपदेशेन शशकाः सुखमासते ॥ ३.१४ ॥ मयोक्तम्कथमेतत्? पक्षिणः कथयन्ति कथा ३ कदाचिद्वर्षास्वपि वृष्टेरभावात्तृषार्तो गजयूथो यूथपतिमाहनाथ ! कोऽभ्युपायोऽस्माकं जीवनाय ? नास्ति क्षुद्रजन्तूनामपि निमज्जनस्थानम् । वयं च निमज्जनस्थानाभावान्मृताः । अन्धा इव किं कुर्मः ? क्व यामः ? ततो हस्तिराजो नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान् । ततो दिनेषु गच्छत्सु तत्तीरावस्थिताः क्षुद्रशशका गजपादाहतिभिश्चूर्णिताः । अनन्तरं शिलीमुखो नाम शशकश्चिन्तयामासअनेन गजयूथेन पिपासाकुलितेन प्रत्यहमत्रागन्तव्यम् । ततो विनष्टमस्मत्कुलम् । ततो विजयो नाम वृद्धशशकोऽवदत्मा विषीदत । मयात्र प्रतीकारः कर्तव्यः । ततोऽसौ प्रतिज्ञाय चलितः । गच्छता च तेनालोचितम्कथं मया गजयूथनाथसमीपे स्थित्वा वक्तव्यम् । यतः स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः । पालयन्नपि भूपालः प्रहसन्नपि दुर्जनः ॥ ३.१५ ॥ अतोऽहं पर्वतशिखरमारुह्य यूथनाथं संवादयामि । तथानुष्ठिते सति यूथनाथ उवाचकस्त्वम् ? कुतः समायातः ? स ब्रूतेशशकोऽहम् । भगवता चन्द्रेण भवदन्तिकं प्रेषितः । यूथपतिराहकार्यमुच्यताम् । विजयो ब्रूते उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा । सदैवावध्यभावेन यथार्थस्य हि वाचकः ॥ ३.१६ ॥ तदहं तदाज्ञया ब्रवीमि, शृणु । यदेते चन्द्रसरोरक्षकाः शशकास्त्वया निःसारितास्तदनुचितं कृतम् । ते शशकाश्चिरमस्माकं रक्षिताः । अत एव मे शशाङ्क इति प्रसिद्धिः । एवमुक्तवति दूते यूथपतिर्भयादिदमाहप्रणिधे ! इदमज्ञानतः कृतम् । पुनर्न तत्र गमिष्यामि । दूत उवाचयद्येवं तदत्र सरसि कोपात्कम्पमानं भगवन्तं शशाङ्कं प्रणम्य, प्रसाद्य च गच्छ । ततस्तेन रात्रौ यूथपतिं नीत्वा, तत्र जले चञ्चलं चन्द्रबिम्बं दर्शयित्वा स यूथप्तिः प्रणामं कारितः । उक्तं च तेनदेव ! अज्ञानादनेनापराधः कृतः । ततः क्षम्यताम् । नैवं वारान्तरं विधास्यते । इत्युक्त्वा प्रस्थापितः । अतो वयं ब्रूमःव्यपदेशेऽपि सिद्धिः स्यातिति । ओ)०(ओ ततो मयोक्तम्स एवास्मत्प्रभू राजहंसो महाप्रतापोऽतिस्मर्थः । त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते, किं पुना राज्यमिति । तदाहं तैः पक्षिभिःदुष्ट ! कथमस्मद्भूमौ चरसि इत्यभिधाय राज्ञश्चित्रवर्णस्य समीपं नीतः । ततो राज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तम्देव ! अवधीयताम् । एष दुष्टोऽस्मद्देशे चरन्नपि देवपादानधिक्षिपति । राजाहकोऽयम् ? कुतः समायातः ? ते ऊचुःहिरण्यगर्भनाम्नो राजहंसस्यानुचरः कर्पूरद्वीपादागतः । अथाहं गृध्रेण मन्त्रिणा पृष्टःकस्तत्र मुख्यो मन्त्री ? इति । मयोक्तम्सर्वशास्त्रार्थपारगः शर्वज्ञो नाम चक्रवाकः । गृध्रो ब्रूतेयुज्यते । स्वदेशजोऽसौ । यतः स्वदेशजं कुलाचारविशुद्धमुपधाशुचिम् । मन्त्रज्ञमवसनिनं व्यभिचारविवर्जितम् ॥ ३.१७ ॥ अधीतव्यवहारार्थं मौलं ख्यातं विपश्चितम् । अर्थस्योत्पादकं चैव विदध्यान्मन्त्रिणं नृपः ॥ ३.१८ ॥ अत्रान्तरे शुकेनोक्तम्देव ! कर्पूरद्वीपादयो लघुद्वीपा जम्बूद्वीपान्तर्गता एव । तत्रापि देवपादानामेवाधिपत्यम् । ततो राज्ञाप्युक्तमेवमेव । यतः राजा मत्तः शिशुश्चैव प्रमदा धनगर्वितः । अप्राप्यमपि वाञ्छन्ति किं पुनर्लभ्यतेऽपि यत् ॥ ३.१९ ॥ ततो मयोक्तम्यदि वचनम्मात्रेणैवाधिपत्यं सिद्ध्यति । तदा जम्बूद्वीपेऽप्यस्मत्प्रभोर्हिरण्यगर्भस्य स्वाम्यमस्ति । शुको ब्रूतेकथमत्र निर्णयः ? मयोक्तंसङ्ग्राम एव । राज्ञा विहस्योक्तम्स्वस्वामिनं गत्वा सज्जीकुरु । तदा मयोक्तम्स्वदूतोऽपि प्रस्थाप्यताम् । राजोवाचकः प्रयास्यति दौत्येन ? यत एवम्भूतो दूतः कार्यः भक्तो गुणी शुचिर्दक्षः प्रगल्भोऽव्यसनी क्षमी । ब्राह्मणः परमर्मज्ञो दूतः स्यात्प्रतिभानवान् ॥ ३.२० ॥ गृध्रो वदतिसन्त्येव दूता बहवः, किन्तु ब्राह्मण एव कर्तव्यः । यतः, प्रसादं कुरुते पत्युः सम्पत्तिं नाभिवाञ्छति । कालिमा कालकूटस्य नापैतीश्वरसङ्गमात् ॥ ३.२१ ॥ राजाहततः शुक एव व्रजतु । शुक ! त्वमेवानेन सह तत्र गत्वास्मदभिलषितं ब्रूहि । शुको ब्रूतेयथाज्ञापयति देवः । किन्त्वयं दुर्जनो बकः । तदनेन सह न गच्छामि । तथा चोक्तम् खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननोऽहरत्सीतां बन्धनं स्यान्महोदधेः ॥ ३.२२ ॥ अपरं च न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् । काकसङ्गाद्धतो हंसस्तिष्ठन् गछंश्च वर्तकः ॥ ३.२३ ॥ राजोवाचकथमेतत्? शुकः कथयति कथा ४ अस्त्युज्जयिनीवर्त्मप्रान्तरे प्लक्षतरुः । तत्र हंसकाकौ निवसतः । कदाचित्ग्रीष्मसमये परिश्रान्तः कश्चित्पथिकस्तत्र तरुतले धनुष्काण्डं संनिधाय सुप्तः । तत्र क्षणान्तरे तन्मुखाद्वृक्षच्छायापगता । ततः सूर्यतेजसा तन्मुखं व्याप्तमवलोक्य, तद्वृक्षस्थितेन पुण्यशीलेन शुचिना राजहंसेन कृपया पक्षौ प्रसार्य पुनस्तन्मुखे छाया कृता । ततो निर्भरनिद्राशुखिना पथिभ्रमणपरिश्रान्तेन पान्थेन मुखव्यादानं कृतम् । अथ परसुखमसहिष्णुः स्वभावदौर्जन्येन स काकस्तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः । ततो यावदसौ पान्थ उत्थायोर्ध्वं निरीक्षते, तावत्तेनावलोकितो हंसः काण्डेन हतो व्यापादितः । अतोऽहं ब्रवीमिन स्थातव्यमिति । ओ)०(ओ देव ! वर्तककथामपि कथयामि । श्रूयताम् कथा ५ एकत्र वृक्षे काकवर्तुकौ सुखं निवसतः । एकदा भगवतो गरुडस्य यात्राप्रसङ्गेन सर्वे पक्षिणः समुद्रतीरं गताः । ततः काकेन सह वर्तकश्चलितः । अथ गच्छतो गोपालस्य मस्तकावस्थितदधिभाण्डाद्वारं वारं तेन काकेन दधि खाद्यते । ततो यावदसौ दधिभाण्डं भूमौ निधायोर्ध्वमवलोकते, तावत्तेन काकवर्तकौ दृष्टौ । ततस्तेन दृष्टः काकः पलायितः । वर्तकः स्वभावनिरपराधो मन्दगतिस्तेन प्राप्तो व्यापादितः । अतोऽहं ब्रवीमिन गन्तव्यमित्यादि । ओ)०(ओ ततो मयोक्तम्भ्रातः शुक ! किमेवं ब्रवीषि ? मां प्रति यथा श्रीमद्देवपादास्तथा भवानपि । शुकेनोक्तमस्त्वेवम् । किन्तु, दुर्जनैरुच्यमानानि संमतानि प्रियाण्यपि । अकालकुसुमानीव भयं संजनयन्ति हि ॥ ३.२४ ॥ दुर्जनत्वं च भवतो वाक्यादेव ज्ञातम् । यदनयोर्भूपालयोर्विग्रहे भवद्वचनमेव निदानम् । पश्य प्रत्यक्षेऽपि कृते दोषे मूर्खः सान्त्वेन तुष्यति । रथकारो निजां भार्यां सजारां शिरसाकरोत् ॥ ३.२५ ॥ राज्ञोक्तम्कथमेतत्? शुकः कथयति कथा ६ अस्ति यौवनश्रीनगरे मन्दमतिर्नाम रथकारः । स च स्वभार्यां बन्धकीं जानाति । किन्तु जारेण समं स्वचक्षुषा नैकस्थाने पश्यति । ततोऽसौ रथकारः अहमन्यं ग्रामं गच्छामीत्युक्त्वा चलितः । स कियद्दूरं गत्वा पुनरागत्य पर्यङ्कतले स्वगृहे निभृतं स्थितः । अथ रथकारो ग्रामान्तरं गत इत्युपजातविश्वासः स जारः सन्ध्याकाल एवागतः । पxचात्तेन जारेण समं तस्मिन् पर्यङ्के निर्भरं क्रीडन्ती, पर्यङ्कतलस्थितस्य भर्तुः किञ्चिदङ्गस्पर्शात्स्वामिनं मायाविनं विज्ञाय, मनसि सा विषण्णाभवत् । ततो जारेणोक्तम्किमिति त्वमद्य मया सह निर्भरं न रमसे ? विस्मितेव प्रतिभासि मे त्वम् । अथ तयोक्तमनभिज्ञोऽसि । योऽसौ मम प्राणेश्वरो, येन ममाकौमारं सख्यं सोऽद्य ग्रामान्तरं गतः । तेन विना सकलजनपूर्णोऽपि ग्रामो मां प्रत्यरण्यवत्प्रतिभाति । किं भावि ? तत्र परस्थाने किं खादितवान् ? कथं वा प्रसुप्तः ? इत्यस्मद्धृदयं विदीर्यते । जारो ब्रूतेतव किमेवंविधा स्नेहभूमी रथकारः ? बन्धक्यवदत्रे बर्बर ! किं वदसि ? शृणु परुषाण्यपि या प्रोक्ता दृष्टा या क्रोधचक्षुषा । सुप्रसन्नमुखी भर्तुः सा नारी धर्मभाजनम् ॥ ३.२६ ॥ अपरं च नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः । यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ ३.२७ ॥ अन्यच्च भर्ता हि परमं नार्या भूषणं भूषणैर्विना । एषा विरहिता तेन शोभनापि न शोभते ॥ ३.२८ ॥ त्वं च जारः पापमतिः, मनोलौल्यात्पुष्पताम्बूलसदृशः कदाचित्सेव्यसे, कदाचिन्न सेव्यसे च । स च पुनर्मे स्वामी , मां विक्रेतुं, देवेभ्यो, ब्राह्मणेभ्यो वा दातुमीश्वरः । किं बहुना ? तस्मिन् जीवति जीवामि । तन्मरणे चानुमरणं करिष्यामीति प्रतिज्ञा वर्तते । यतः तिस्रः कोट्योऽर्धकोटी च यानि लोमानि मानवे । तावत्कालं वसेत्स्वर्गे भर्तारं योऽनुगच्छति ॥ ३.२९ ॥ अन्यच्च व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् । तद्वद्भर्तारमादाय स्वर्गलोके महीयते ॥ ३.३० ॥ अपरं च चितौ परिष्वज्य विचेतनं पतिं प्रिया हि या मुञ्चति देहमात्मनः । कृत्वापि पापं शतलक्षमप्यसौ पतिं गृहीत्वा सुरलोकमाप्नुयात् ॥ ३.३१ ॥ यतः यस्मै दद्यात्पिता त्वेनां भ्राता वानुमते पितुः । तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ ३.३२ ॥ एतत्सर्वं श्रुत्वा मन्दमतिः स रथकारःधन्योऽहं यस्येदृशी प्रियवादिनी, स्वामिवत्सला च भार्या इति मनसि निधाय, तां खट्वां स्त्रीपुरुषसहितां मूर्ध्नि कृत्वा सानन्दं ननर्त । अतोऽहं ब्रवीमि प्रयक्षेऽपि कृते दोषे इत्यादि । ओ)०(ओ अतोऽहं तेन राज्ञा यथाव्यवहारं सम्पूज्य प्रस्थापितः । शुकोऽपि मम पश्चादागच्छन्नास्ते । एतत्सर्वं परिज्ञाय यथाकर्तव्यमनुसन्धीयताम् । चक्रवाको विहस्याहदेव ! बकेन तावद्देशान्तरमपि गत्वा यथाशक्ति राजकार्यमनुष्ठितम् । किन्तु देव स्वभाव एष मूर्खानाम् । यतः, शतं दद्यान्न विवदेदिति विज्ञस्य संमतम् । विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य लक्षणम् ॥ ३.३३ ॥ राजाहअलमनेनातीतोपालम्भनेन । प्रस्तुतमनुसन्धीयताम् । चक्रवाको ब्रूतेदेव ! विजने ब्रवीमि । यतः, वर्णाकारप्रतिध्वानैर्नेत्रवक्त्रविकारतः । अप्यूहन्ति मनो धीरास्तस्माद्रहसि मन्त्रयेत् ॥ ३.३४ ॥ ततो राजा मन्त्री च तत्र स्थितौ अन्येऽन्यत्र गताः । चक्रवाको ब्रूतेदेव ! अहमेवं जानाम्कस्याप्यस्मन्नियोगिनः प्रेरणया बकेनेदमनुष्ठितम् । यतः, वेद्यानामातुरः श्रेयान् व्यसनी यो नियोगिनाम् । विदुषां जीवनं मूर्खः सद्वर्णो जीवनं सताम् ॥ ३.३५ ॥ राजाब्रवीत्भवतु, कारणमत्र पश्चान्निरूपणीयम् । सम्प्रति यत्कर्तव्यं तन्निरूप्यताम् । चक्रवाको ब्रूतेदेव ! प्रणिधिस्तावत्तत्र प्रहीयताम् । ततस्तदनुष्ठानं बलाबलं च जानीमः । तथा हि भवेत्स्वपरराष्ट्राणां कार्याकार्यावलोकने । चारश्चक्षुर्महीभर्तुर्यस्य नास्त्यन्ध एव सः ॥ ३.३६ ॥ स च द्वितीयं विश्वासपात्रं गृहीत्वा यातु । तेनासौ स्वयं तत्रावस्थाय, द्वितीयं तत्रत्यमन्त्रकार्यं सुनिभृतं निश्चित्य निगद्य प्रस्थापयति । तथा चोक्तं तीर्थाश्रमसुरस्थाने शास्तरविज्ञानहेतुना । तपस्विव्यञ्जनोपेतैः स्वचरैः सह संवसेत् ॥ ३.३७ ॥ गूढचारश्चयो जले स्थले च चरति । ततोऽसावेव बको नियुज्यताम् । एतादृश एव कश्चिद्बको द्वितीयत्वेन प्रयातु । तद्गृहलोकाश्च राजद्वारे तिष्ठन्तु । किन्तु एतदपि सुगुप्तमनुष्ठातव्यम् । यतः षट्कर्णो भिद्यते मन्त्रस्तथा प्राप्तश्च वार्तया । इत्यात्मना द्वितीयेन मन्त्रः कार्यो महीभृता ॥ ३.३८ ॥ पश्य मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीपतेः । न शक्यास्ते समाधातुमिति नीतिविदां मतम् ॥ ३.३९ ॥ राजा विमृश्योवाचप्राप्तस्तावन्मयोत्तमः प्रतिनिधिः । मन्त्री ब्रूतेदेव ! सङ्ग्रामे विजयोऽपि प्राप्तः । अत्रान्तरे प्रतीहारः प्रविश्य प्रणम्योवाचदेव ! जम्बूद्वीपादागतो द्वारि शुकस्तिष्ठति । राजा चक्रवाकमालोकते । चक्रवाकेनोक्तम्कृतावासे तावद्गत्वा तिष्ठतु, पश्चादानीय द्रष्टव्यः । यथाज्ञापयति देवः इत्यभिधाय प्रतीहारः शुकं गृहीत्वा तमावासस्थानं गतः । राजाहविग्रहस्तावत्समुपस्थितः । चक्रवाको ब्रूतेदेव ! तथापि प्रागेव विग्रहो न विधिः । यतः स किं भृत्यः स किं मन्त्री य आदावेव भूपतिम् । युद्धोद्योगं स्वभूत्यागं निर्दिशत्यविचारितम् ॥ ३.४० ॥ अपरं च विजेतुं प्रयतेतारीन्न युद्धेन कदाचन । अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः ॥ ३.४१। अन्यच्च साम्ना दानेन भेदेन समस्तैरथवा पृथक् । साधितुं प्रयतेतारीन्न युद्धेन कदाचन ॥ ३.४२ ॥ अपरं च सर्व एव जनः शूरो ह्यनासादितविग्रहः । अदृष्टपरसामर्थ्यः सदर्पः को भवेन्न हि ॥ ३.४३ ॥ किं च न तथोत्थाप्यते ग्रावा प्राणिभिर्दारुणा यथा । अल्पोपायान्महासिद्धिरेतन्मन्त्रफलं महत् ॥ ३.४४ ॥ किन्तु विग्रहमुपस्थितं विलोक्य व्यवह्रियताम्, यतः यथा कालकृतोद्योगात्कृषिः फलवती भवेत् । तद्वन्नीतिरियं देव चिरात्फलति न क्षणात् ॥ ३.४५ ॥ अपरं च दूरे भीरुत्वमासन्ने शूरता महतो गुणः । विपत्तौ हि महान् लोके धीरत्वमधिगच्छति ॥ ३.४६ ॥ अन्यच्च प्रत्यूहः सर्वसिद्धीनामुत्तापः प्रथमः किल । अतिशीतलमप्यम्भः किं भिनत्ति न भूभृतः ॥ ३.४७ ॥ बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । तद्युद्धं हस्तिना सार्धं नराणां मृत्युमावहेत् ॥ ३.४८ ॥ अन्यच्च स मूर्खः कालमप्राप्य योऽपकर्तरि वर्तते । कलिर्बलवता सार्धं कीटपक्षोद्गमो यथा ॥ ३.४९ ॥ किं च कौर्मं सङ्कोचमास्थाय प्रहारमपि मर्षयेत् । प्राप्तकाले तु नीतिज्ञ उत्तिष्ठेत्क्रूरसर्पवत् ॥ ३.५० ॥ महत्यल्पेऽप्युपायज्ञः सममेव भवेत्क्षमः । समुन्मूलयितुं वृक्षांस्तृणानीव नदीरयः ॥ ३.५१ ॥ अतो दूतोऽयं शुकोऽत्राश्वास्य तावद्ध्रियतां यावद्दुर्गं सज्जीक्रियते, यतः एकः शतं योधयति प्राकारस्थो धनुर्धरः । शतं शतसहस्राणि तस्माद्दुर्गं विशिष्यते ॥ ३.५२ ॥ किं च अदुर्गविषयः कस्य नारेः परिभवास्पदम् । अदुर्गोऽनाश्रयो राजा पोतच्युतमनुष्यवत् ॥ ३.५३ ॥ दुर्गं कुर्यान्महाखातमुच्चप्राकारसंयुतम् । सयन्त्रं सजलं शैलसरिन्मरुवनाश्रयम् ॥ ३.५४ ॥ विस्तीर्णतातिवैषम्यं रसधान्येध्मसङ्ग्रहः । प्रवेशश्चापसारश्च सप्तैता दुर्गसम्पदः ॥ ३.५५ ॥ राजाहदुर्गानुसन्धाने को नियुज्यताम् ? चक्रवाको ब्रूते यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत् । कर्मस्वदृष्टकर्मा यः शास्त्रज्ञोऽपि विमुह्यति ॥ ३.५६ ॥ तदाहूयतां सारसः । तथानुष्ठिते सति समागतं सारसमवलोक्य राजोवाचभोः सारस ! त्वं सत्वरं दुर्गमनुसन्धेहि । सारसः प्रणम्योवाचदेव ! दुर्गं तावदिदमेव चिरात्सुनिरूपितमास्ते महत्सरः । किन्त्वेतन्मध्यद्वीपे द्रव्यसङ्ग्रहः क्रियताम् । यतः धान्यानां सङ्ग्रहो राजन्नुत्तमः सर्वसङ्ग्रहात् । निक्षिप्तं हि मुखे रत्नं न कुर्यात्प्राणधारणम् ॥ ३.५७ ॥ किं च ख्यातः सर्वरसानां हि लवणो रस उत्तमः । गृह्णीयात्तं विना तेन व्यञ्जनं गोमयायते ॥ ३.५८ ॥ राजाहसत्वरं गत्वा सर्वमनुष्ठीयताम् । पुनः प्रविश्य प्रतीहारो ब्रूतेदेव ! सिंहलद्वीपादागतो मेघवर्णो नाम वायसः सपरिवारो द्वारि वर्तते । स च देवपादान् द्रष्टुमिच्छति । राजाहकाकः प्राज्ञो बहुदृश्वा च तद्भवति स सङ्ग्राह्यः । चक्रवाको ब्रूतेदेव ! अस्त्येवम् । किन्तु अस्मद्विपक्षः काकः स्थलचरः । तेनास्मद्विपक्षपक्षे नियुक्तः कथं सङ्गृह्यते ? तथा चोक्तम् आत्मपक्षं परित्यज्य परपक्षेषु यो रतः । स परैर्हन्यते मूढो नीलवर्णशृगालवत् ॥ ३.५९ ॥ राजोवाचकथमेतत्? मन्त्री कथयति कथा ७ अस्त्यरण्ये कश्चिच्छृगालः स्वेच्छया नगरोपान्ते भ्राम्यन्नीलीभाण्डे निपतितः । पश्चात्तत उत्थातुमसमर्थः, प्रातरात्मानं मृतवत्सन्दर्श्य स्थितः । अथ नीलीभाण्डस्वामिना मृति इति ज्ञात्वा, तस्मात्समुत्थाप्य, दूरे नीत्वासौ परित्यक्तः । तस्मात्पलायितः । ततोऽसौ वने गत्वा आत्मानं नीलप्वर्णमवलोक्याचिन्तयतहमिदानीमुत्तमवर्णः । तदहं स्वकीयोत्कर्षं किं न साधयामि इत्यालोच्य शृगालानाहूय, तेनोक्तंहं भगवत्या वनदेवतया स्वहस्तेनारण्यराज्ये सर्वौषधिरसेनाभिषिक्तः । पश्यन्तु मम वर्णम् । तदद्यारभ्यास्मदाज्ञयास्मिन्नरण्ये व्यवहारः कार्यः । शृगालाश्च तं विशिष्टवर्णमवलोक्य, साष्टाङ्गपातं प्रणम्योचुःयथाज्ञापयति देवः इति । अनेनैव क्रमेण सर्वेष्वरण्यवासिष्वाधिपत्यं तस्य बभूव । ततस्तेन स्वज्ञातिभिरावृतेनाधिक्यं साधितम् । ततस्तेन व्याघ्रसिंहादीनुत्तमपरिजनान् प्राप्य, सदसि शृगालानवलोक्य लज्जमानेनावज्ञया स्वज्ञातयः सर्वे दूरीकृताः । ततो विषण्णान् शृगालानवलोक्य केनचिद्वृद्धशृगालेनैतत्प्रतिज्ञातंमा विषीदत, यदनेनानीतिज्ञेन वयं मर्मज्ञाः । स्वसमीपात्परिभूतास्तद्यथायं नश्यति तथा विधेयम् । यतोऽमी व्याघ्रादयो वर्णमात्रविप्रलब्धाः शृगालमज्ञात्वा राजानमिमं मन्यन्ते । तद्यथायं परिचीयते तथा कुरुत । तत्र चैवमनुष्ठेयम्, यथा वदामिसर्वे सन्ध्यासमये तत्सन्निधाने महारावमेकदैव करिष्यथ । ततस्तं शब्दमाकर्ण्य जातिस्वभावात्तेनापि शब्दः कर्तव्यः । यतः यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः । श्वा यदि क्रियते राजा तत्किं नाश्नात्युपानहम् ॥ ३.६० ॥ ततः शब्दादभिज्ञाय स व्याघ्रेण हन्तव्यः । ततस्तथानुष्ठिते सति तद्वृत्तम् । तथा चोक्तम् छिद्रं मर्म च वीर्यं च सर्वं वेत्ति निजो रिपुः । दहत्यन्तर्गतश्चैव शुष्कं वृक्षमिवानलः ॥ ३.६१ ॥ अतोऽहं ब्रवीमिआत्मपक्षं परित्यज्येत्यादि । ओ)०(ओ राजाहयद्येवं तथापि दृश्यतां तावदयं दूरादागतः । तत्सङ्ग्रहे विचारः कार्यः । चक्रो ब्रूतेदेव ! प्रणिधिस्तावत्प्रहितो, दुर्गं च सज्जीकृतम् । अतः शुकोऽप्यानीय प्रस्थाप्यताम् । किन्तु योधबलसमन्वितो भूत्वा, दूरादेव तमवलोकय । यतः नन्दं जघान चाणक्यस्तीक्ष्णदूतप्रयोगतः । तद्दूरान्तरितं दूतं पश्येद्वीरसमन्वितः ॥ ३.६२ ॥ ततः सभां कृत्वाहूतः शुकः काकश्च । शुकः किंचिदुन्नतशिरा दत्तासने उपविश्य ब्रूतेभो हिरण्यगर्भ ! त्वां महाराजाधिराजः श्रीमच्चित्रवर्णः समाज्ञापयतियदि जीवितेन श्रिया वा प्रयोजनमस्ति, तदा सत्वरमागत्यास्मच्चरणौ प्रणम । नो चेदवस्थातुं स्थानान्तरं परिचिन्तय । राजा सकोपमाहआः, सभायामस्माकं न कोऽपि विद्यते य एनं गलहस्तयति ? तत उत्थाय मेघवर्णो ब्रूतेदेव ! आज्ञापय, हमि चैनं दुष्टशुकम् । सर्वज्ञो राजानं काकं च सान्त्वयन् ब्रूतेभद्र ! मा मैवम् । शृणु तावत् न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् । धर्मः स नो यत्र न सत्यमस्ति सत्यं न तद्यच्छलमभ्युपैति ॥ ३.६३ ॥ यतो राजधर्मश्चैषः दूतो म्लेच्छोऽप्यवध्यः स्याद्राजा दूतमुखो यतः । उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ॥ ३.६४ ॥ अन्यच्च स्वापकर्षं परोत्कर्षं दूतोक्तैर्मन्यते तु कः । सदैवावध्यभावेन दूतः सर्वं हि जल्पति ॥ ३.६५ ॥ ततो राजा काकश्च स्वां प्रकृतिमापन्नौ । शुकोऽप्युत्थाय चलितः । पश्चाच्चक्रवाकेणानीय प्रबोध्य कनकालङ्कारादिकं दत्वा सम्प्रेषितः स्वदेशं ययौ । शुकोऽपि विन्ध्याचलं गत्वा, स्वस्य राजानं चित्रवर्णं प्रणतवान् । तं विलोक्य राजोवाचशुक ! का वार्ता ? कीदृशोऽसौ देशः ? शुको ब्रूतेदेव ! संक्षेपादियं वार्ता । सम्प्रति युद्धोद्योगः क्रियताम् । देशश्चासौ कर्पूरद्वीपः स्वर्गैकदेशो, राजा च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते । ततः सर्वान् शिष्टानाहूय राजा मन्त्रयितुमुपविष्टः । आह च तान्सम्प्रति कर्तव्ये विग्रहे यथाकर्तव्यमुपदेशं ब्रूत । विग्रहः पुनरवश्यं कर्तव्यः । तथा चोक्तम् असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥ ३.६६ ॥ दूरदर्शी नाम गृध्रो मन्त्री ब्रूतेदेव ! व्यसनितया विग्रहो न विधिः । यतः मित्रामात्यसुहृद्वर्गा यदा स्युर्दृढभक्तयः । शत्रूणां विपरीताश्च कर्तव्यो विग्रहस्तदा ॥ ३.६७ ॥ अन्यच्च भूमिर्मित्रं हिरण्यं च विग्रहस्य फलं त्रयम् । यदैतन्निश्चितं भावि कर्तव्यो विग्रहस्तदा ॥ ३.६८ ॥ राजाहमद्बलं तावदवलोकयतु मन्त्री । तदैतेषामुपयोगो ज्ञायताम् । एवमाहूयतां मौहूर्तिकः । स यात्रार्थं शुभलग्नं निर्णीय ददातु । मन्त्री ब्रूतेदेव ! तथापि सहसा यात्राकरणमनुचितम् । यतः विशन्ति सहसा मूढा येऽविचार्य द्विषद्बलम् । खड्गधारापरिष्वङ्गं लभन्ते ते सुनिश्चितम् ॥ ३.६९ ॥ राजाहमन्त्रिन् ! ममोत्साहभङ्गं सर्वथा मा कृथाः । विजिगीषुर्यथा परभूमिमाक्रमति तथा कथय । गृध्रो ब्रूतेदेव ! तत्कथयामि । किन्तु तदनुष्ठितमेव फलप्रदम् । तथा चोक्तम् किं मन्त्रेणाननुष्ठाने शास्त्रवित्पृथिवीपतेः । न ह्यौषधपरिज्ञानाद्व्याधेः शान्तिः क्वचिद्भवेत् ॥ ३.७० ॥ राजादेशश्चानतिक्रमणीय इति यथाश्रुतं निवेदयामि शृणुदेव ! नद्यद्रिवनदुर्गेषु यत्र यत्र भयं नृप । तत्र तत्र च सेनानीर्यायाद्व्यूहीकृतैर्बलैः ॥ ३.७१ ॥ बलाध्यक्षः पुरो यायात्प्रवीरपुरुषान्वितः । मध्ये कलत्रं स्वामी च कोशः फल्गु च यद्बलम् ॥ ३.७२ ॥ पार्श्वयोरुभयोरश्वा अश्वानां पार्श्वतो रथाः । रथानां पार्श्वतो नागा नागानां च पदातयः ॥ ३.७३ ॥ पश्चात्सेनापतिर्यायात्खिन्नानाश्वासयन् छनैः । मन्त्रिभिः सुभटैर्युक्तः प्रतिगृह्य बलं नृपः ॥ ३.७४ ॥ समेयाद्विषमं नागैर्जलाढ्यं समहीधरम् । सममश्वैर्जलं नीमिः सर्वत्रैव पदातिभिः ॥ ३.७५ ॥ हस्तिनां गमनं प्रोक्तं प्रशस्तं जलदागमे । तदन्यत्र तुरङ्गाणां पत्तीनां सर्वदैव हि ॥ ३.७६ ॥ शैलेषु दुर्गमार्गेषु विधेयं नृपरक्षणम् । स्वयोधै रक्षितस्यापि शयनं योगनिद्रया ॥ ३.७७ ॥ नाशयेत्कर्षयेच्छत्रून् दुर्गकण्टकमर्दनैः । परदेशप्रवेशे च कुर्यादाटविकान् पुरः ॥ ३.७८ ॥ यत्र राजा तत्र कोशो विना कोशं न राजता । सुभटेभ्यस्ततो दद्यात्को हि दातुर्न युध्यते ॥ ३.७९ ॥ यतः न नरस्य नरो दासो दासस्त्वर्थस्य भूपते । गौरवं लाघवं वापि धनाधननिबन्धनम् ॥ ३.८० ॥ अभेदेन च युध्येत रक्षेच्चैव परस्परम् । फल्गु सैन्यं च यत्किंचिन्मध्ये व्यूहस्य कारयेत् ॥ ३.८१ ॥ पदातींश्च महीपालः पुरोऽनीकस्य योजयेत् । उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् ॥ ३.८२ ॥ स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा । वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥ ३.८३ ॥ दूषयेच्चास्य सततं यवसान्नोदकेन्धनम् । भिन्द्याच्चैव तडागानि प्रकारारान् परिखास्तथा ॥ ३.८४ ॥ बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः । निजैरवयवैरेव मातङ्गोऽष्टायुधः स्मृतः ॥ ३.८५ ॥ बलमश्वश्च सैन्यानां प्राकारो जङ्गमो यतः । तस्मादश्वाधिको राजा विजयी स्थलविग्रहे ॥ ३.८६ ॥ तथा चोक्तम् युध्यमाना हयारूढा देवानामपि दुर्जयाः । अपि दूरस्थितास्तेषां वैरिणो हस्तवत्तिनः ॥ ३.८७ ॥ प्रथमं युद्धकारित्वं समस्तबलपालनम् । दिङ्मार्गाणां विशोधित्वं पत्तिकर्म प्रचक्षते ॥ ३.८८ ॥ स्वभावशूरमस्त्रज्ञमविरक्तं जितश्रमम् । प्रसिद्धक्षत्रियप्रायं बलं श्रेष्ठतमं विदुः ॥ ३.८९ ॥ यथा प्रभुकृतान्मानाद्युध्यन्ते भुवि मानवाः । न तथा बहुभिर्दत्तैर्द्रविणैरपि भूपते ॥ ३.९० ॥ वरमल्पबलं सारं न कुर्यान्मुण्डमण्डलीम् । कुर्यादसारभङ्गो हि सारभङ्गमपि स्फुटम् ॥ ३.९१ ॥ अप्रसादोऽनधिष्ठानं देयांशहरणं च यत् । कालयापोऽप्रतीकारस्तद्वैराग्यस्य कारणम् ॥ ३.९२ ॥ अपीडयन् बलं शत्रूञ्जिगीषुरभिषेणयेत् । सुखसाध्यं द्विषां सैन्यं दीर्घप्रयाणपीडितम् ॥ ३.९३ ॥ दायादादपरो यस्मान्नास्ति भेदकरो द्विषाम् । तस्मादुत्थापयेद्यत्नाद्दायादं तस्य विद्विषः ॥ ३.९४ ॥ सन्धाय युवराजेन यदि वा मुख्यमन्त्रिणा । अन्तःप्रकोपणं कुर्यादभियोक्ता स्थिरात्मनः ॥ ३.९५ ॥ क्रूरामित्रं रणे चापि भङ्गं दत्त्वा विघातयेत् । अथवा गोग्रहाकृष्ट्या तन्मुख्याश्रितबन्धनात् ॥ ३.९६ ॥ स्वराज्यं वासयेद्राजा परदेशापहरणात् । अथवा दानमानाभ्यां वासितं धनदं हि तत् ॥ ३.९७ ॥ अथवा बहुनोदितेन आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती । तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतीयते ॥ ३.९८ ॥ राज्ञा विहस्योक्तम्सर्वमेतद्विशेषतश्चोच्यते । किन्तु, अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम् । सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥ ३.९९ ॥ तत उत्थाय राजा मौहूर्तिकावेदितलग्ने प्रस्थितः । अथ प्रहितप्रणिधिश्चरो हिरण्यगर्भमागत्य प्रणम्योवाचदेव ! समागतप्रायो राजा चित्रवर्णः । सम्प्रति मलयपर्वताधित्यकायां समावासितकटको वर्तते । दुर्गशोधनं प्रतिक्षणमनुसन्धातव्यम् । यतोऽसौ गृध्रो महामन्त्री । किं च केनचित्सह तस्य विश्वासकथाप्रसङ्गेनेतदिङ्गितमवगतं मया । यतनेन कोऽप्यस्मद्दुर्गे प्रागेव नियुक्तः । चक्रवाको ब्रूतेदेव ! काक एवासौ सम्भवति । राजाहन कदाचिदेतत् । यद्येवं तदा कथं तेन शुकस्याभिभवोद्योगः कृतः ? अपरं च, शुकस्यागमनात्तस्य विग्रहोत्साहः । स च चिरादत्रास्ते । मन्त्री ब्रूतेतथाप्यागन्तुकः शङ्कनीयः । राजाहआगन्तुका अपि कदाचिदुपकारका दृश्यन्ते । शृणु परोऽपि हितवान् बन्धुर्बन्धुरप्यहितः परः । अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥ ३.१०० ॥ अपरं च आसीद्वीरवरो नाम शूद्रकस्य महीभृतः । सेवकः स्वल्पकालेन स ददौ सुतमात्मनः ॥ ३.१०१ ॥ चक्रवाकः पृच्छतिकथमेतत्? राजा कथयति कथा ८ अहं पुरा शूद्रकस्य राज्ञः क्रीडासरसि कर्पूरकेलिनाम्नो राजहंसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवानभवम् । वीरवरो नाम राजपुत्रः कुतश्चिद्देशादागत्य राजद्वारमुपगम्य प्रतीहारमुवाचअहं तावद्वर्तनार्थी राजपुत्रः । मां रजदर्शनं कारय । ततस्तेनासौ राजदर्शनं कारितो ब्रूतेदेव ! यदि मया सेवकेन प्रयोजनमस्ति, तदास्मद्वर्तनं क्रियताम् । शूद्रक उवाचकिं ते वर्तनम् ? वीरवरो ब्रूतेप्रत्यहं सुवर्णपञ्चशतानि देहि । राजाहका ते सामग्री ? वीरवरो ब्रूतेद्वौ बाहू । तृतीयश्च खड्गः । राजाहनैतच्छक्यम् । तच्छ्रुत्वा वीरवरः प्रणम्य चलितः । अथ मन्त्रिभिरुक्तम्देव ! दिनचतुष्टयस्य वर्तनं दत्त्वा ज्ञायतामस्य स्वरूपम् । किमुपयुक्तोऽयमेतावद्वर्तनं गृह्णाति अनुपयुक्तो वेति । ततो मन्त्रिवचनादाहुहूय वीरवराय ताम्बूलं दत्त्वा पञ्चशतानि सुवर्णानि दत्तानि । वर्तनविनियोगश्च राज्ञा सुनिभृतं निरूपितः । तदर्धं वीरवरेण देवेभ्यो ब्राह्मणेभ्यो दत्तम् । स्थितस्यार्धं दुःखितेभ्यः । तदवशिष्टं भोज्यविलासव्ययेन । एतत्सर्वं नित्यकृत्यं कृत्वा, राजद्वारमहर्निशं खड्गपाणिः सेवते । यदा च राजा स्वयं समादिशति तदा स्वगृहमपि याति । अथैकदा कृष्णचतुर्दश्यां रात्रौ स राजा सकरुणक्रन्दनध्वनिं शुश्राव । तत्श्रुत्वा राजा ब्रूतेकः कोऽत्र द्वारि तिष्ठति ? तदा तेनोक्तंदेव ! अहं वीरवरः । राजोवाचक्रन्दनानुसरणं क्रियताम् । वीरवरोऽपियथाज्ञापयति देवः, इत्युक्त्वा चलितः । राज्ञा च चिन्तितमयमेकाकी राजपुत्रो मया सूचीभेद्ये तमसि प्रहितः । नैतदुचितम् । तदहमपि गत्वा किमेतदिति निरूपयामि । ततो राजापि खड्गमादाय तदनुसरणक्रमेण नगराद्बहिर्निर्जगाम । गत्वा च वीरवरेण रुदती रुपयौवनसम्पन्ना सर्वालङ्कारभूषिता काचित्स्त्री दृष्टा, पृष्टा चका त्वम् ? किमर्थं रोदिषि ? इति । स्त्रियोक्तमहमेतस्य शूद्रकस्य राजलक्ष्मीः । चिरादेतस्य भुजच्छायायां महता सुखेन विश्रान्ता । इदानीमन्यत्र गमिष्यामि । वीरवरो ब्रूतेयतापायः सम्भवति, तत्रोपायोऽप्यस्ति । तत्कथं स्यात्पुनरिहावासो भवत्याः ? लक्ष्मीरुवाचयदि त्वमात्मनः पुत्रं शक्तिधरं द्वात्रिंशल्लक्षणोपेतं भगवत्याः सर्वमङ्गलाया उपहारीकरोषि, तदाहं पुनरत्र सुचिरं निवसामि । इत्युक्त्वादृश्याभवत् । ततो वीरवरेण स्वगृहं गत्वा निद्रायमाणा स्ववधूः प्रबोधिता पुत्रश्च । तौ निद्रां परित्यज्योत्थायोपविष्टौ । वीरवरस्तत्सर्वं लक्ष्मीवचनमुक्तवान् । तच्छ्रुत्वा सानन्दः शक्तिधरो ब्रूतेधन्योऽहमेवम्भूतः । स्वामिराज्यरक्षार्थं यस्योपयोगः । तात ! तत्कोऽधुना विलम्बस्य हेतुः ? एवंविधे कर्मणि देहस्य विनियोगः श्लाघ्यः । यतः धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । तन्निमित्तो वरं त्यागो विनाशे नियते सति ॥ ३.१०२ ॥ शक्तिधरमातोवाचयद्येतन्न कर्तव्यं तत्केनान्येन कर्मणा गृहीतस्य महावर्तनस्य निष्क्रयो भविष्यति । इत्यालोच्य सर्वे सर्वमङ्गलायाः स्थानं गताः । तत्र सर्वमङ्गलां सम्पूज्य वीरवरो ब्रूतेदेवि ! प्रसीद । विजयतां शूद्रको महाराजः । गृह्यतामयमुपहारः । इत्युक्त्वा पुत्रस्य शिरश्चिच्छेद । ततो वीरवरश्चिन्तयामासगृहीतराजवर्तनस्य निस्तारः कृतः । अधुना निष्पुत्रस्य मे जीवनेनालम् । इत्यालोच्यात्मनः शिरश्चिच्छेद । ततः स्त्रियापि स्वामिपुत्रशोकार्तया तदनुष्ठितम् । तत्सर्वं दृष्ट्वा राजा साश्चर्यं चिन्तयामास जायन्ते च म्रियन्ते च मद्विधाः क्षुद्रजन्तवः । अनेन सदृशो लोके न भूतो न भविष्यति ॥ ३.१०३ ॥ तदेतत्परित्यक्तेन मम राज्येनापि किं प्रयोजनम् । ततः शूद्रकेणापि स्वशिरश्छेत्तुं खड्गः समुत्थापितः । अथ भगवत्या सर्वमङ्गलया प्रत्यक्षभूतया राजा हस्ते धृतः । उक्तं चपुत्र ! प्रसन्नोऽस्मि ते, एतावता साहसेनालम् । जीवनान्तेऽपि तव राजभङ्गो नास्ति । राजा च साष्टाङ्गपातं प्रणम्योवाचदेवि ! किं मे राज्येन ? जीवितेन वा मम किं प्रयोजनम् ? यद्यहमनुकम्पनीयस्तदा ममायुःशेषेणाप्ययं सदारपुत्रो वीरवरो जीवतु । अन्यथाहं यथाप्राप्तां गतिं गच्छामि । भगवत्युवाचपुत्र ! अनेन ते सत्त्वोत्कर्षेण भृत्यवात्सल्येन च सर्वथा सन्तुष्टास्मि । गच्छ विजयी भव । अयमपि सपरिवारो राजपुत्रो जीवतु । इत्युक्त्वा देव्यदृश्याभवत् । ततो वीरवरः सपुत्रदारः प्राप्तजीवनः स्वगृहं गतः । राजापि तैरलक्षितः सत्वरमन्तःपुरं प्रविष्टः । अथ प्रभाते वीरवरो द्वारस्थः पुनर्भूपालेन पृष्टः सन्नाहदेव ! सा रुदती मामवलोक्यादृश्याभवत् । न काप्यन्या वार्ता विद्यते । तद्वचनमाकर्ण्य सन्तुष्टो राजा साश्चर्यं चिन्तयामासकथमयं श्लाघ्यो महासत्त्वः ? यतः प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः । दाता नापात्रवर्षी च प्रगल्भः स्यादनिष्ठुरः ॥ ३.१०४ ॥ एतन्महापुरुषलक्षणमेतस्मिन् सर्वमस्ति । ततः स राजा प्रातः शिष्टसभां कृत्वा, सर्वं वृत्तान्तं प्रस्तुत्य प्रसादात्तस्मै कर्णाटकराज्यं ददौ । तत्किमागन्तुको जातिमात्राद्दुष्टः ? तत्राप्युत्तमाधममध्यमाः सन्ति । चक्रवाको ब्रूते योऽकार्यं कार्यवच्छास्ति स किं मन्त्री नृपेच्छया । वरं स्वामिमनोदुःखं तन्नाशो न त्वकार्यतः ॥ ३.१०५ ॥ वैद्यो गुरुश्च मन्त्री च यस्य राज्ञः प्रियंवदाः । शरीरधर्मकोशेभ्यः क्षिप्रं स परिहीयते ॥ ३.१०६ ॥ शृणु देव ! पुण्याल्लब्धं यदेकेन तन्ममापि भविष्यति । हत्वा भिक्षुं यतो मोहान्निध्यर्थी नापितो हतः ॥ ३.१०७ ॥ राजा पृच्छतिकथमेतत्? मन्त्री कथयति कथा ९ अस्त्ययोध्यायां पुरि चूडामणिर्नाम क्षत्रियः । तेन धनार्थिना महता क्लेशेन भगवांश्चन्द्रार्धचूडामणिश्चिरमाराधितः । ततः क्षीणपापोऽसौ स्वप्ने दर्शनं दत्त्वा, भगवदादेशाद्यक्षेश्वरेणादिष्टो यत्त्वमद्य प्रातः क्षौरं कारयित्वा, लगुडहस्तः सन् स्वगृहद्वारि निभृतं स्थास्यसि, ततो यमेवागतं भिक्षुकं प्राङ्गणे पश्यसि तं निर्दक्षं लगुडप्रहारेण हनिष्यसि । ततोऽसौ भिक्षुकस्तत्क्षणात्सुवर्णकलसो भविष्यति । तेन त्वया यावज्जीवं सुखिना भवितव्यम् । ततस्तथानुष्ठिते तद्वृत्तम् । तत्र क्षौरकरणायानीतेन नापितेन तत्सर्वमालोक्य चिन्तितमये निधिप्राप्तेरयमुपायः । तदहमप्येवं किं न करोमि ? ततः प्रभृति स नापितः प्रत्यहं तथाविधो लगुडहस्तः सुनिभृतं भिक्षोरागमनं प्रतीक्षते । एकदा तेन प्राप्तो भिक्षुर्लगुडेन व्यापादितः । तस्मादपराधात्सोऽपि नापितो राजपुरुषैर्व्यापादितः । अतोऽहं ब्रवीमिपुण्याल्लब्धं यदेकेन इत्यादि । ओ)०(ओ राजाह पुरावृत्तकथोद्गारैः कथं निर्णीयते परः । स्यान्निष्कारणबन्धुर्वा किं वा विश्वासघातकः ॥ ३.१०८ ॥ यातु, प्रस्तुतमनुसन्धीयताम् । मलयाधित्यकायां चेच्चित्रवर्णस्तदधुना किं विधेयम् ? मन्त्री वदतिदेव ! आगतप्रणिधिमुखान्मया श्रुतं, यत्महामन्त्रिणो गृध्रस्योपदेशे चित्रवर्णेनानादरः कृतः ततोऽसौ मूढो जेतुं शक्यः । तथा चोक्तम् लुब्धः क्रूरोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः । मूढो योधावमन्ता च सुखच्छेद्यो रिपुः स्मृतः ॥ ३.१०९ ॥ ततोऽसौ यावदस्मद्दुर्गद्वाररोधं न करोति, तावन्नद्यद्रिवनवर्त्मसु तद्बलानि हन्तुं सारसादयः सेनापतयो नियुज्यन्ताम् । तथा चोक्तम् दीर्घवर्त्मपरिश्रान्तं नद्यद्रिवनसङ्कुलम् । घोराग्निभयसन्त्रस्तं क्षुत्पिपासार्दितं तथा ॥ ३.११० ॥ प्रमत्तं भोजनव्यग्रं व्याधिदुर्भिक्षपीडितम् । असंस्थितमभूयिष्ठं वृष्टिवातसमाकुलम् ॥ ३.१११ ॥ पङ्कपांशुजलाच्छन्नं सुव्यस्तं दस्युविद्रुतम् । एवम्भूतं महीपालः परसैन्यं विघातयेत् ॥ ३.११२ ॥ अन्यच्च अवस्कन्दभयाद्राजा प्रजागरकृतश्रमम् । दिवासुप्तं सदा हन्यान्निद्राव्याकुलसैनिकम् ॥ ३.११३ ॥ अतस्तस्य प्रमादितो बलं गत्वा यथावकाशं दिवानिशं घ्नन्त्वस्मत्सेनापतयः । तथानुष्ठिते चित्रवर्णस्य सैनिकाः सेनापतयश्च बहवो निहताः । ततश्चित्रवर्णो विषण्णः स्वमन्त्रिणं दूरदर्शिनमाहतात ! किमित्यस्मदुपेक्षा क्रियते ? किं क्वाप्यविनयो ममास्ति ? तथा चोक्तम् न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम् । श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥ ३.११४ ॥ अपि च दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां सुखमरोगी । उद्युक्तो वियान्तं धर्मार्थयशांसि च विनीतः ॥ ३.११५ ॥ गृध्रोऽवदत्देव ! शृणु अविद्वानपि भूपालो विद्यावृद्धोपसेवया । परां श्रियमवाप्नोति जलासन्नतरुर्यथा ॥ ३.११६ ॥ अन्यच्च पापं स्त्री मृगया द्यूतमर्थदूषणमेव च । वाग्दण्डयोश्च पारुष्यं व्यसनानि महीभुजाम् ॥ ३.११७ ॥ किं च न साहसैकान्तरसानुवर्तिना न चाप्युपायोपहतान्तरात्मना । विभूतयः शक्यमवाप्तुमूर्जिता नये च शौर्ये च वसन्ति सम्पदः ॥ ३.११८ ॥ त्वया स्वबलोत्साहमवलोक्य, साहसैकरसिकेन मयोपन्थस्तेष्वपि मन्त्रेष्वनवधानं, वाक्पारुष्यं च कृतम् । अतो दुर्नीतेः फलमिदमनुभूयते । तथा चोक्तम् दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः ? सन्तापयन्ति कमपथ्यभुजं न रोगाः ? कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः कं स्त्रीकृता न विषयाः परितापयन्ति ॥ ३.११९ ॥ अपरं च मुदं विषादः शरदं हिमागमस् तमो विवस्वान् सुकृतं कृतघ्नता । प्रियोपपत्तिः शुचमापदं नयः श्रियः समृद्धा अपि हन्ति दुर्नयः ॥ ३.१२० ॥ ततो मयाप्यालोचितम्प्रज्ञाहीनोऽयं राजा । न चेत्कथं नीतिशास्त्रकथाकौमुदीं वागुल्काभिस्तिमिरयति । यतः यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ? लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ ३.१२१ ॥ इत्यालोच्याहमपि तूष्णीं स्थितः । अथ राजा बद्धाञ्जलिराहतात ! अस्त्ययं ममापराधः, इदानीं यथाहमवशिष्टबलसहितः प्रत्यावृत्त्य विन्ध्याचलं गच्छामि, तथोपदिश । गृध्रः स्वगतं चिन्तयतिक्रियतामत्र प्रतीकारः । यतः, देवतासु गुरौ गोषु राजसु ब्राह्मणेषु च । नियन्तव्यः सदा कोपो बालवृद्धातुरेषु च ॥ ३.१२२ ॥ मन्त्री प्रहस्य ब्रूतेदेव मा भैषीः । समाश्वसिहि । शृणु देव मन्त्रिणां भिन्नसन्धाने भिषजां सांनिपातिके । कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ॥ ३.१२३ ॥ अपरं च आरम्भन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च । महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ ३.१२४ ॥ तदत्र भवत्प्रतापादेव दुर्गं भङ्क्त्वा, कीर्तिप्रतापसहितं त्वामचिरेण कालेन विन्ध्याचलं नेष्यामि । राजाहकथमधुना स्वल्पबलेन तत्सम्पद्यते ? गृध्रो वदतिदेव ! सर्वं भविष्यति । यतो विजिगीषोरदीर्घसूत्रता विजयसिद्धेरवश्यम्भावि लक्षणम् । तत्सहसैव दुर्गद्वारावरोधः क्रियताम् । अथ प्रहितप्रणिधिना बकेनागत्य हिरण्यगर्भस्य कथितम्देव ! स्वल्पबल एवायं राजा चित्रवर्णो गृध्रस्य वचनोपष्टम्भादागत्य दुर्गद्वारावरोधं करिष्यति । राजहंसो ब्रूतेस्वबले सारासारविचारः क्रियताम् । तज्ज्ञात्वा सुवर्णवस्त्रादिकं यथार्हं प्रसादप्रदानं च क्रियताम् । यतः यः काकिणीमप्यपथप्रपन्नां समुद्धरेन्निष्कसहस्रतुल्याम् । कालेषु कोटिष्वपि मुक्तहस्तस् तं राजसिंहं न जहाति लक्ष्मीः ॥ ३.१२५ ॥ अन्यच्च क्रतौ विवाहे व्यसने रिपुक्षये यशस्करे कर्मणि मित्रसङ्ग्रहे । प्रियासु नारीष्वधनेषु बान्धवेष्व् अतिव्ययो नास्ति नराधिपाष्टसु ॥ ३.१२६ ॥ यतः मूर्खः स्वल्पव्ययत्रासात्सर्वनाशं करोति हि । कः सुधीः सन्त्यजेद्भाण्डं शुक्लस्यैवातिसाध्वसात् ॥ ३.१२७ ॥ राजाहकथमिह समयेऽतिव्ययो युज्यते ? उक्तं चआपदर्थे धनं रक्षेदिति । मन्त्री ब्रूतेश्रीमतां कथमापदः ? राजाहकदाचिच्चलिता लक्ष्मीः । मन्त्री ब्रूतेसञ्चितापि विनश्यति । तद्देव ! कार्पण्यं विमुच्य स्वभटा दानमानाभ्यां पुरस्क्रियन्ताम् । तथा चोक्तम् परस्परज्ञाः संहृष्टास्त्यक्तुं प्राणान् सुनिश्चिताः । कुलीनाः पूजिताः सम्यग्विजयन्ते द्विषद्बलम् ॥ ३.१२८ ॥ अपरं च सुभटाः शीलसम्पन्नाः संहताः कृतनिश्चयाः । अपि पञ्चशतं शूरा निघ्नन्ति रिपुवाहिनीम् ॥ ३.१२९ ॥ किं च शिष्टैरप्यवशेषज्ञ उग्रश्च कृतनाशकः । त्यज्यते किं पुनर्नान्यैर्यश्चाप्यात्मम्भरिर्नरः ॥ ३.१३० ॥ यतः सत्यं शौर्यं दया त्यागो नृपस्यैते महागुणाः । एतैस्त्यक्तो महीपालः प्राप्नोति खलु वाच्यताम् ॥ ३.१३१ ॥ ईदृशि प्रस्तावेऽमात्यास्तावदवश्यमेव पुरस्कर्तव्याः । तथा चोक्तम् यो येन प्रतिबद्धः स्यात्सह तेनोदयी व्ययी । स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च ॥ ३.१३२ ॥ यतः धूर्तः स्त्री वा शिशुर्यस्य मन्त्रिणः स्युर्महीपतेः । अनीतिपवनक्षिप्तोऽकार्याब्धौ स निमज्जति ॥ ३.१३३ ॥ शृणु देव! हर्षक्रोधौ यतौ यस्य शास्त्रार्थे प्रत्ययस्तथा । नित्यं भृत्यानुपेक्षा च तस्य स्याद्धनदा धरा ॥ ३.१३४ ॥ येषां राज्ञा सह स्यातामुच्चयापचयौ ध्रुवम् । अमात्या इति तान् राजा नावमन्येत्कदाचन ॥ ३.१३५ ॥ महीभुजो मदान्धस्य सङ्कीर्णस्येव दन्तिनः । स्खलतो हि करालम्बः सुशिष्टैरेव कीयते ॥ ३.१३६ ॥ अथागत्य प्रणम्य मेघवर्णो ब्रूतेदेव ! दृष्टिप्रसादं कुरु । इदानीं विपक्षो दुर्गद्वारि वर्तते । तद्देवपादादेशाद्बहिर्निःसृत्य स्वविक्रमं दर्शयामि । तेन देवपादानामानृण्यमुपगच्छामि । चक्रवाको ब्रूतेमैवम् । यदि बहिर्निःसृत्य योद्धव्यम् । तदा दुर्गाश्रयणमेव निष्प्रयोजनम् । अपरं च विषमोऽपि यथा नक्रः सलिलान्निसृतो वशः । वनाद्विनिर्गतः शूरः सिंहोऽपि स्याच्छगालवत् ॥ ३.१३७ ॥ अथ ते सर्वे दुर्गद्वारं गत्वा महाहवं कृतवन्तः । अपरेद्युश्चित्रवर्णो राजा गृध्रमुवाचतात ! स्वप्रतिज्ञातमधुना निर्वाहय । वायसो ब्रूतेदेव ! स्वयं गत्वा दृश्यतां युद्धम् । यतः पुरस्कृत्य बलं राजा योधयेदवलोकयन् । स्वामिनाधिष्ठितः श्वापि किं न सिंहायते ध्रुवम् ॥ ३.१३८ ॥ गृध्रो ब्रूतेदेव ! शृणु तावत् अकालसहमत्यल्पं मूर्खव्यसनिनायकम् । अगुप्तं भीरुयोधं च दुर्गव्यसनमुच्यते ॥ ३.१३९ ॥ तत्तावदत्र नास्ति उपजापश्चिरारोधोऽवस्कन्दस्तीव्रपौरुषम् । दुर्गस्य लङ्घनोपायाश्चत्वारः कथिता इमे ॥ ३.१४० ॥ अत्र यथाशक्ति क्रियते यत्नः । कर्णे कथयतिएवमेवम् । ततोऽनुदित एव भास्करे चतुर्ष्वपि दुर्गद्वारेषु प्रवृत्ते युद्धे, दुर्गाभ्यन्तरगृहेष्वेकदा काकैरग्निनिक्षिप्तः । ततः गृहीतं गृहीतं दुर्गमिति कोलाहलं श्रुत्वा सर्वतः प्रदीप्ताग्निमवलोक्य राजहंससैनिका बहवो दुर्गवासिनश्च सत्वरं ह्रदं प्रविष्टाः, यतः सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् । कार्यकाले यथाशक्ति कुर्यान्न तु विचारयेत् ॥ ३.१४१ ॥ राजा हंसश्च स्वभावान्मन्दगतिः । सारसद्वितीयश्चित्रवर्णस्य सेनापतिना कुक्कुटेनागत्य वेष्टितः । हिरण्यगर्भः सारसमाहसेनापते ! सारस ! ममानुरोधादात्मानं कथं व्यापादयसि । अधुनाहं गन्तुमसमर्थः । त्वं गन्तुमधुनापि समर्थः । तद्गत्वा जलं प्रविश्यात्मानं परिरक्ष । अस्मत्पुत्रं चूडामणिनामानं सर्वज्ञस्य संमत्या राजानं करिष्यसि । सारसो ब्रूतेदेव ! न वक्तव्यमेवं दुःसहं वचः, यावच्चन्द्रार्कौ दिवि तिष्ठतस्तावद्विजयतां देवः । अहं देव दुर्गाधिकारी । तन्मम मांसासृग्विलिप्तेन द्वारवर्त्मना तावत्प्रविशतु शत्रुः । अपरं च, देव दाता क्षमी गुणग्राही स्वामी दुःखेन लभ्यते । राजाहसत्यमेवैतत् । किन्तु शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः ॥ ३.१४२ ॥ सारसो ब्रूतेशृणु देव! यदि समरमपास्य नास्ति मृत्योर् भयमिति युक्तमितोऽन्यतः प्रयातुम् । अथ मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः क्रियते ? ॥ ३.१४३ ॥ अन्यच्च भवेऽस्मिन् पवनोद्भ्रान्तवीचिविभ्रमभङ्गुरे । जायते पुणय्योगेन परार्थे जीवितव्ययः ॥ ३.१४४ ॥ स्वाम्यमात्यश्च राष्ट्रं च दुर्गं कोशो बलं सुहृत् । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ ३.१४५ ॥ देव ! त्वं च स्वामी सर्वथा रक्षणीयः । यतः प्रकृतिः स्वामिनं त्यक्त्वा समृद्धापि न जीवति । अपि धन्वन्तरिर्वैद्यः किं करोति गतायुषि ॥ ३.१४६ ॥ अपरं च नरेशे जीवलोकोऽयं निमीलति निमीलति । उदेत्युदीयमाने च रवाविव सरोरुहम् ॥ ३.१४७ ॥ अत्रापि प्रधानाङ्गं राजा । अथ कुक्कुटेनागत्य राजहंसस्य शरीरे खरतरनखाघातः कृतः । तदा सत्वरमुपसृत्य सारसेन स्वदेहान्तरितो राजा जले क्षिप्तः । अथ कुक्कुटनखप्रहारजर्जरीकृतेनापि सारसेन कुक्कुटसेना बहुशो हता । पश्चात्सारसोऽपि बहुभिः पक्षिभिः समेत्य चञ्चुप्रहारेण विभिद्य व्यापादितः । अथ चित्रवर्णो दुर्गं प्रविश्य, दुर्गावस्थितं द्रव्यं ग्राहयित्वा वन्दिभिर्जयशब्दैरानन्दितः स्वस्कन्धावारं जगाम । अथ राजपुत्रैरुक्तंतस्मिन् राजहंसपक्षे पुण्यवान् स सारस एव, येन स्वदेहत्यागेन स्वामी रक्षितः । यतः जनयन्ति सुतान् गावः सर्वा एव गवाकृतीन् । विषाणोल्लिखितस्कन्धं काचिदेव गवां पतिम् ॥ ३.१४८ ॥ विष्णुशर्मोवाचस तावत्सत्त्वक्रीतानक्षयलोकान् विद्याधरीपरिवृत्तोऽनुभवतु महासत्त्वः । तथा चोक्तम् आहवेषु च ये शूराः स्वाम्यर्थे त्यक्तजीविताः । भर्तृभक्ताः कृतज्ञाश्च ते नराः स्वर्गगामिनः ॥ ३.१४९ ॥ यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः । अक्षयान् लभते लोकान् यदि क्लैब्यं न गच्छति ॥ ३.१५० ॥ अथ विष्णुशर्मा प्राहविग्रहः श्रुतो भवद्भिः । राजपुत्रैरुक्तम्श्रुत्वा सुखिनो भूता वयम् । विष्णुशर्माब्रवीतपरमप्येवमस्तु विग्रहः करितुरङ्गपत्तिभिर् नो कदापि भवतान्महीभुजाम् । नीतिमन्त्रपवनैः समाहताः संश्रयन्तु गिरिगह्वरं द्विषः ॥ ३.१५१ ॥ इति श्रीनारायणपण्डितकृते हितोपदेशे नीतिशास्त्रे विग्रहो नाम तृतीयः कथासङ्ग्रहः । ओ)०(ओ इव्. सन्धिः पुनः कथारम्भकाले राजपुत्रैरुक्तमार्य ! विग्रहः श्रुतोऽस्माभिः । सन्धिरधुनाभिधीयताम् । विष्णुशर्मेणोक्तम्श्रूयताम् । सन्धिमपि कथयामि । यस्यायमाद्यः श्लोकः वृत्ते महति सङ्ग्रामे राज्ञोर्निहतसेनयोः । स्थेयाभ्यां गृध्रचक्राभ्यां वाचा सन्धिः कृतं क्षणत् ॥ ४.१ ॥ राजपुत्रा ऊचुःकथमेतत्? विष्णुशर्मा कथयतिततस्तेन राजहंसेन उक्तम्केनास्मद्दुर्गे निक्षिप्तोऽग्निः ? किं पारक्येण ? किं वास्मद्दुर्गवासिना केनापि विपक्षप्रयुक्तेन ? चक्रवाको ब्रूतेदेव ! भवतो निष्कारणबन्धुरसौ मेघवर्णः सपरिवारो न दृश्यते । तन्मन्ये तस्यैव विचेष्टितमिदम् । राजा क्षणं विचिन्त्याहअस्ति तावदेवम् । मम दुर्दैवमेतत् । तथा चोक्तम् अपराधः स दैवस्य न पुनर्मन्त्रिणामयम् । कार्यं सुचरितं क्वापि दैवयोगाद्विनश्यति ॥ ४.२ ॥ विषमां हि दशां प्राप्य दैवं गर्हयते नरः । आत्मनः कर्मदोषांश्च नैव जानात्यपण्डितः ॥ ४.३ ॥ अपरं च सुहृदां हितकामानां यो वाक्यं नाभिनन्दति । स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति ॥ ४.४ ॥ अन्यच्च रक्षितव्यं सदा वाक्यं वाक्याद्भवति नाशनम् । हंसाभ्यां नीयमानस्य कूर्मस्य पतनं यथा ॥ ४.५ ॥ राहाहकथमेतत्? मन्त्री कथयति कथा १ अस्ति मगधदेशे फुल्लोत्पलाभिधानं सरः । तत्र चिरं सङ्कटविकटनामानौ हंसौ निवसतः । तयोर्मित्रं कम्बुग्रीवनामा कूर्मश्च प्रतिवसति । अथैकदा धीवरैरागत्य तथोक्तं यतत्रास्माभिरद्योषित्वा प्रातर्मत्स्यकूर्मादयो व्यापादयितव्याः । तदाकर्ण्य कूर्मो हंसावाहसुहृदौ ! श्रुतोऽयं धीवरालापः । अधुना किं मया कर्तव्यम्? हंसावाहतुःज्ञायतां तावत् । पुनस्तावत्प्रातर्यदुचितं तत्कर्तव्यम् । कूर्मो ब्रूतेमैवम् । यतो दृष्टव्यतिकरोऽहमत्र । यथा चोक्तम् अनागतविधाता च प्रत्युत्पन्नमतिस्तथा । द्वावेव सुखमेधेते यद्भविष्यो विनश्यति ॥ ४.६ ॥ तावूचतुःकथमेतत्? कूर्मः कथयति कथा २ पुरास्मिन्नेव सरस्येवंविधेष्वेव धीवरेषूपस्थितेषु मत्स्यत्रयेणालोचितम् । तत्रानागतविधाता नामैको मत्स्यः । तेनोक्तंहं तावज्जलाशयान्तरं गच्छामि । इत्युक्त्वा स ह्रदान्तरं गतः । अपरेण प्रत्युत्पन्नमतिनाम्ना मस्त्येनाभिहितम्भविष्यदर्थे प्रमाणाभावात्कुत्र मया गन्तव्यम् ? तदुत्पन्ने यथाकार्यं तदनुष्ठेयम् । तथा चोक्तम् उत्पन्नामापदं यस्तु समाधत्ते स बुद्धिमान् । वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥ ४.७ ॥ यद्भविष्यः पृच्छतिकथमेतत्? प्रत्युत्पन्नमतिः कथयति कथा ३ पुरा विक्रमपुरे समुद्रदत्तो नाम वणिगस्ति । तस्य रत्नप्रभा नाम गृहिणी स्वसेवकेन सह सदा रमते । यतः न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते । गावस्तृणमिवारण्ये प्रार्थयन्ते नवं नवम् ॥ ४.८ ॥ अथैकदा सा रत्नप्रभा तस्य सेवकस्य मुखे चुम्बनं ददती समुद्रदत्तेनावलोकिता । ततः सा बन्धकी सत्वरं भर्तुः समीपं मत्वाहनाथ ! एतस्य सेवकस्य महती निकृतिः । यतोऽयं चौरिकां कृत्वा कर्पूरं खादतीति । मयास्य मुखमाघ्राय ज्ञातम् । तथा चोक्तम् आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा । षड्गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ॥ ४.९ ॥ तच्छ्रुत्वा सेवकेनापि प्रकुप्योक्तंनाथ ! यस्य स्वामिनो गृहे एतादृशी भार्या तत्र सेवकेन कथं स्थातव्यम् ? यत्र च प्रतिक्षणं गृहिणी सेवकस्य मुखं जिघ्रति । ततोऽसावुत्थाय चलितः । साधुना च यत्नात्प्रबोध्य धृतः । अतोऽहं ब्रवीमिउत्पन्नामापदमित्यादि । ओ)०(ओ ततो यद्भविष्येणोक्तम् यदभावि न तद्भावि भावि चेन्न तदन्यथा । इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥ ४.१० ॥ ततः प्रातर्जालेन बद्धः प्रत्युत्पन्नमतिर्मृतवदात्मानं सन्दर्श्य स्थितः । ततो जालादपसारितो यथाशक्त्युत्प्लुत्य गभीरं नीरं प्रविष्टः । यद्भविष्यश्च धीवरैः प्राप्तो व्यापादितः । अतोऽहं ब्रवीमिअनागतविधाता च इत्यादि । तद्यथाहमन्यं ह्रदं प्राप्नोमि तथा क्रियताम् । हंसावाहतुःजलाशयान्तरे प्राप्ते तव कुशलम् । स्थले गच्छतस्ते को विधिः ? कूर्म आहयथाहं भवद्भ्यां सहाकाशवर्त्मना यामि, तथा विधीयताम् । हंसाव्ब्रूतःकथमुपायः सम्भवति ? कच्छपो वदतियुवाभ्यां चञ्चुधृतं काष्ठखण्डमेकं मया मुखेनावलम्बितव्यम् । ततश्च युवयोः पक्षबलेन मयापि सुखेन गन्तव्यम् । हंसौ ब्रूतःसम्भवत्येष उपायः । किन्तु उपायं चिन्तयेत्प्राज्ञो ह्यपायमपि चिन्तयेत् । पश्यतो बकमूर्खस्य नकुलैर्भक्षिताः सुताः ॥ ४.११ ॥ कूर्मः पृच्छतिकथमेतत्? तौ कथयतः कथा ४ अस्त्युत्तरापथे गृध्रकूटनाम्नि पर्वते महान् पिप्पलवृक्षः । तत्रानेके बका निवसन्ति । तस्य वृक्षस्याधस्ताद्विवरे सर्पस्तिष्ठति । स च बकानां बालापत्यानि खादति । अथ शोकार्तानां विलापं श्रुत्वा केनचिद्वृद्धबकेनाभिहितंभो एवं कुरुत, यूयं मत्स्यानुपादाय नकुलविवरादारभ्य सर्पविवरं यावत्पङ्क्तिक्रमेण एकैकशो विकिरत । ततस्तदाहारलुब्धैर्नकुलैरागत्य सर्पो द्रष्टव्यः । स्वभावद्वेषाद्व्यापदयितव्यश्च । तथानुष्ठिते सति तद्वृत्तम् । अथ नकुलैर्वृक्षोपरि बकशावकानां रावः श्रुतः । पश्चात्तद्वृक्षमारुह्य बकशावकाः खादिताः । अत आवां ब्रूवःुपायं चिन्तयनित्यादि । आवाभ्यां नीयमानं त्वामवलोक्य लोकैः किंचिद्वक्तव्यमेव । यदि त्वमुत्तरं दास्यसि, तदा त्वन्मरणम् । तत्सर्वथैव स्थीयताम् । कूर्मो वदतिकिमहमप्राज्ञः ? नाहमुत्तरं दास्यामि । न किमपि मया वक्तव्यम् । तथानुष्ठिते तथाविधं कूर्ममालोक्य सर्वे गोरक्षकाः पश्चाद्धावन्ति, वदन्ति चअहो ! महदाश्चर्यम् ! पक्षिभ्यां कूर्मो नीयते । कश्चिद्वदतियद्ययं कूर्मः पतति, तदात्रैव पक्त्वा खादितव्यः । कश्चिद्वदतिसरसस्तीरे दग्ध्वा खादितव्योऽयम् । कश्चिद्वदतिगृहं नीत्वा भक्षणीयः । इति । तद्वचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृतपूर्वसंस्कारः प्राहयुष्माभिर्भस्म भक्षितव्यमिति वदन्नेव पतितस्तैर्व्यापादितश्च । अतोऽहं ब्रवीमिसुहृदां हितकामानामित्यादि । अथ प्रणिधिर्बकस्तत्रागत्योवाचदेव ! प्रागेव मया निगदितं दुर्गशोध हि प्रतिक्षणं कर्तव्यमिति । तच्च युष्माभिर्न कृतं, तदनवधानस्य फलमिदमनुभूतम् । दुर्गदाहो मेघवर्णेन वायसेन गृध्रप्रत्युक्तेन कृतः । राजा निःश्वस्याह प्रणयादुपकाराद्वा यो विश्वसिति शत्रुषु । स सुप्त इव वृक्षाग्रात्पतितः प्रतिबुध्यते ॥ ४.१२ ॥ अथ प्रणिधिरुवाचैतो दुर्गदाहं विधाय, यदा यतो मेघवर्णस्तदा चित्रवर्णेन प्रसादितेनोक्तमयं मेघवर्णोऽत्र कर्पूरद्वीपराज्येऽभिषिच्यताम् । तथा चोक्तम् कृतकृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत् । फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत् ॥ ४.१३ ॥ चक्रवाको ब्रूतेदेव ! श्रुतं यत्प्रणिधिः कथयति ? राजा प्राहततस्ततः ? प्रणिधिरुवाचततः प्रधानमन्त्रिणा गृध्रेणाभिहितम्देव ! नेदमुचितम् । प्रसादान्तरं किमपि क्रियताम् । यतः अविचारयतो युक्तिकथनं तुषखण्डनम् । नीचेषूपकृतं राजन् बालुकास्विव मूत्रितम् ॥ ४.१४ ॥ महतामास्पदे नीचः कदापि न कर्तव्यः । तथा चोक्तम् नीचः श्लाघ्यपदं प्राप्य स्वामिनं हन्तुमिच्छति । मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा ॥ ४.१५ ॥ चित्रवर्णः पृच्छतिकथमेतत्? मन्त्री कथयति कथा ५ अस्ति गौतमस्य महर्षेस्तपोवने महातपा नाम मुनिः । तत्र तेन आश्रमसंनिधाने मूषिकशावकः काकमुखाद्भ्रष्टो दृष्टः । ततो दयायुक्तेन तेन मुनिआ नीवारकणैः संवर्धितः । ततो बिडालस्तं मूषिकं खादितुमुपधावति । तमवलोक्य मूषिकस्तस्य मुनेः क्रोडे प्रविवेश । ततो मुनिनोक्तम्मूषिक ! त्वं मार्जारो भव । ततः स बिडालः कुक्कुरं दृष्ट्वा पलायते । ततो मुनिनोक्तंकुक्कुराद्बिभेषि, त्वमेव कुक्कुरो भव । स च कुक्कुरो व्याघ्राद्बिभेति ततस्तेन मुनिना कुक्कुरो व्याघ्रः कृतः । अथ तं व्याघ्रं मुनिर्मूषिकोऽयमिति पश्यति । अथ तं मुनिं व्याघ्रं च दृष्ट्वा सर्वे वदन्तिअनेन मुनिना मूषिको व्याघ्रतां नीतः । एतच्छ्रुत्वा सव्यथो व्याघ्रोऽचिन्तयत्यावदनेन मुनिना स्थीयते, तावदिदं मे स्वरूपाख्यानमकीर्तिकरं न पलायिष्यते इत्यालोच्य मूषिकस्तं मुनिं हन्तुं गतः । ततो मुनिना तज्ज्ञात्वापुनर्मूषिको भव इत्युक्त्वा मूषिक एव कृतः । अतोऽहं ब्रवीमिनीचः श्लाघ्यपदं प्राप्येत्यादि ॥ ४. ओ)०(ओ अपरं च, देव ! सुकरमिदमिति न मन्तव्यम् । शृणु भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् । अतिलोभाद्बकः पश्चान्मृतः कर्कटकग्रहात् ॥ ४.१६ ॥ चित्रवर्णः पृच्छतिकथमेतत्? मन्त्री कथयति कथा ६ अस्ति मालवविषये पद्मगर्भाभिधानं सरः । तत्रैको वृद्धो बकः सामर्थ्यहीन उद्विग्नमिवात्मानं दर्शयित्वा स्थितः । स च केनचित्कुलीरणे दूरादेव दृष्टः । पृष्टश्चकिमिति भवानत्राहारत्यागेन तिष्ठति ? बकेनोक्तम्मत्स्या मम जीवनहेतवः । ते कैवर्तैरागत्य व्यापादयितव्या इति वार्ता नगरोपान्ते मया श्रुता । अतो वर्तनाभावादेवास्मन्मरणमुपस्थितमिति ज्ञात्वाहारेऽप्यनादरः कृतः । ततो मत्स्यैरालोचितमिह समये तावदुपकारक एवायं लक्ष्यते । तदयमेव यथाकर्तव्यं पृच्छ्यताम् । तथा चोक्तम् उपकर्त्रारिणा सन्धिर्न मित्रेणापकारिणा । उपकारापकारो हि लक्ष्यं लक्षणमेतयोः ॥ ४.१७ ॥ मत्स्या ऊचुःभो बक ! कोऽत्र अस्माकं रक्षनोपायः ? बको ब्रूतेअस्ति रक्षणोपायो जलाशयान्तराश्रयणम् । तत्राहमेकैकशो युष्मान्नयामि । मत्स्या आहुःेवमस्तु । ततोऽसौ दुष्टबकस्तान्मत्स्यानेकैकशो नीत्वा खादति । अनन्तरं कुलीरस्तमुवाचभो बक ! मामपि तत्र नय । ततो बकोऽप्यपूर्वकुलीरमांसार्थी सादरं तं नीत्वा स्थले धृतवान् । कुलीरोऽपि मस्त्यकण्टकाकीर्णं तं स्थलमालोक्याचिन्तयथा हतोऽस्मि मन्दभाग्यः । भवतु इदानीं समयोचितं व्यवहरिष्यामि । यतः तावद्भयेन भेतव्यं यावद्भयमनागतम् । आगतं तु भयं दृष्ट्वा प्रहरत्वयमभीतिवत् ॥ ४.१८ ॥ किं च अभियुक्तो यदा पश्येन्न किञ्चिद्गतिमात्मनः । युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ ४.१९ ॥ इत्यालोच्य स कुलीरकस्तस्य बकस्य ग्रीवां चिच्छेद । अथ स बकः पञ्चत्वं गतः । अतोऽहं ब्रवीमिभक्षयित्वा बहून्मत्स्यानित्यादि । ओ)०(ओ ततश्चित्रवर्णोऽवदत्शृणु तावन्मन्त्रिन् ! मयैतदालोचितम् । अस्ति यदत्रावस्थितेनानेन मेघवर्णेन राज्ञा यावन्ति वस्तूनि कर्पूरद्वीपस्योत्तमानि तावन्त्यस्माकमुपनेतव्यानि । तेनास्माभिर्महासुखेन विन्ध्याचले स्थातव्यम् । दूरदर्शी विहस्याहदेव ! अनागतवतीं चिन्तां कृत्वा यस्तु प्रहृष्यति । स तिरस्कारमाप्नोति भग्नभाण्डो द्विजो यथा ॥ ४.२० ॥ राजाहकथमेतत्? मन्त्री कथयति कथा ७ अस्ति देवीकोटनाम्नि नगरे देवशर्मा नाम ब्राह्मणः । तेन महाविषुवत्सङ्क्रान्त्यां सक्तुपूर्णशराव एकः प्राप्तः । ततस्तमादायासौ कुम्भकारस्य भाण्डपूर्णमण्डपैकदेशे रौद्रेणाकुलितः सुप्तः । ततः सक्तुरक्षार्थं हस्ते दण्डमेकमादायाचिन्तयतद्याहं सक्तुशरावं विक्रीय दश कपर्दकान् प्राप्स्यामि, तदात्रैव तैः कपर्दकैर्घटशरावादिकमुपक्रीयानेकधा वृद्धैस्तद्धनैः पुनः पुनः पूर्गवस्त्रादिमुपक्रीय, विक्रीय लक्षसङ्ख्यानि धनानि कृत्वा, विवाहचतुष्टयं करिष्यामि । अनन्तरं तासु स्वपत्नीषु या रूपयौवनवती तस्यामधिकानुरागं करिष्यामि । सपत्न्यो यदा द्वन्द्वं करिष्यामि, तदा कोपाकुलोऽहं ताः सर्वा लगुडेन ताडयिष्यामीत्यभिधाय तेन लगुडः प्रक्षिप्तः । तेन सक्तुशरावश्चूर्णितो भाण्डानि च बहूनि भग्नानि । ततस्तेन शब्देनागतेन कुम्भकारेण तथाविधानि भाण्डान्यवलोक्य, ब्राह्मणस्तिरस्कृतो मण्डपाद्बहिष्कृतश्च । अतोऽहं ब्रवीमि अनागतवतीं चिन्तामित्यादि । ओ)०(ओ ततो राजा रहसि गृध्रमुवाचतात ! यथा कर्तव्यं तथोपदिश । गृध्रो ब्रूते मदोद्धतस्य नृपतेः प्रकीर्णस्येव दन्तिनः । गच्छन्त्युन्मार्गयातस्य नेतारः खलु वाच्यताम् ॥ ४.२१ ॥ शृणु देव ! किमस्माभिर्बलदर्पाद्दुर्गं भग्नम् ? उत तव प्रतापाधिष्ठितेनोपायेन ? राजाहभवतामुपायेन । गृध्रो ब्रूतेयद्यस्मद्वचनं क्रियते, तदा स्वदेशे गम्यताम् । अन्यथा वर्षाकाले प्राप्ते पुनस्तुल्यबलेन विग्रहे सत्यस्माकं परभूमिष्ठानां स्वदेशगमनमपि दुर्लभं भविष्यति । तत्सुखशोभार्थं सन्धाय गम्यताम् । दुर्गं भग्नं, कीर्तिश्च लब्धेव । मम संमतं तावदेतत् । यतः यो हि धर्मं पुरस्कृत्य हित्वा भर्तुः प्रियाप्रिये । अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ ४.२२ ॥ अन्यच्च सुहृद्बलं तथा राज्यमात्मानं कीर्तिमेव च । युधि सन्देहदोलास्थं को हि कुर्यादबालिशः ॥ ४.२३ ॥ अपरं च सन्धिमिच्छेत्समेनापि सन्दिग्धो विजयो युधि । नहि संशयितं कुर्यादित्युवाच बृहस्पतिः ॥ ४.२४ ॥ अपि च युद्धे विनाशो भवति कदाचिदुभयोरपि । सुन्दोपसुन्दावन्योन्यं नष्टौ तुल्यबलौ न किम् ॥ ४.२५ ॥ राजोवाचकथमेतत्? मन्त्री कथयति कथा ८ पुरा दैत्यौ सहोदरौ सुन्दोपसुन्दनामानौ महता कायक्लेशेन त्रैलोक्यराज्यकामनया चिराच्चन्द्रशेखरमाराधितवन्तौ । ततस्तयोर्भगवान् परितुष्टः सन् वरं वरयतमित्युवाच । अनन्तरं तयोः कण्ठाधिष्ठितायाः सरस्वत्याः प्रभावात्तावन्यद्वक्तुकामावन्यदभिहितवन्तौयद्यावयोर्भवान् परितुष्टस्तदा स्वप्रियां पार्वतीं परमेश्वरो ददातु । अथ भगवता क्रुद्धेन वरदानस्यावश्यकतया, विचारमूढयोः पार्वती प्रदत्ता । ततस्तस्या रूपलावण्यलुब्धाभ्यां, जगद्घातिभ्यां मससोत्सुकाभ्यां, पापतिमिराभ्याम्, ममेत्यन्योन्यं कलहायमानाभ्यां, प्रमाणपुरुषः कश्चित्पृच्छ्यतामिति मतौ कृतायां, स एव भट्टारको वृद्धद्विजरूपः समागत्य तत्रोपस्थितः । अनन्तरंावाभ्यामियं स्वबललब्धा, कस्येयमावयोर्भवति इति ब्राह्मणमपृच्छताम् । ब्राह्मणो ब्रूते ज्ञानश्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवानपि । धनधान्याधिको वैश्यः शूद्रस्तु द्विजसेवया ॥ ४.२६ ॥ तद्युवां क्षात्रधर्मानुगौ । युद्द एव युवयोर्नियम इत्यभिहिते सति साधूक्तमनेनेति कृत्वान्योन्यतुल्यवीर्यौ, समकालमन्योन्यघातेन विनाशमुपागतौ । अतोऽहं ब्रवीमिसन्धिमिच्छेत्समेनापि इत्यादि । ओ)०(ओ राजाहतत्प्रागेव किं नेदमुपदिष्टं भवद्भिः ? मन्त्री ब्रूतेतदा मद्वचनं किमवसानपर्यन्तं श्रुतं भवद्भिः ? तदापि मम संमत्या नायं विग्रहारम्भः । यतःसाधुगुणयुक्तोऽयं हिरण्यगर्भो न विग्राह्यः । तथा चोक्तं सत्यार्थौ धार्मिकोऽनार्यो भ्रातृसङ्हातवान् बली । अनेकयुद्धविजयी सन्धेयाः सप्त कीर्तिताः ॥ ४.२७ ॥ सत्योऽनुपालयन् सत्यं सन्धितो नैति विक्रियाम् । प्राणबाधेऽपि सुव्यक्तमार्यो नायात्यनार्थताम् ॥ ४.२८ ॥ धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते । प्रजानुरागाद्धर्माच्च दुःखोच्छेद्यो हि धार्मिकः ॥ ४.२९ ॥ सन्धिः कार्योऽप्यनार्येण विनाशे समुपस्थिते । विना तस्याश्रयेणार्यो न कुर्यात्कालयापनम् ॥ ४.३० ॥ संहतत्वाद्यथा वेणुर्निविडैः कण्टकैर्वृतः । न शक्यते समुच्छेत्तुं भ्रातृसङ्घातवांस्तथा ॥ ४.३१ ॥ बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । प्रतिवातं न हि घनः कदाचिदुपसर्पति ॥ ४.३२ ॥ जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा । अनेकयुद्धजयिनः प्रतापादेव भज्यते ॥ ४.३३ ॥ अनेकयुद्धविजयी सन्धानं यस्य गच्छति । तत्प्रतापेन तस्याशु वशमायान्ति शत्रवः ॥ ४.३४ ॥ तत्र तावद्बहुभिर्गुणैरुपेतः सन्धेयोऽयं राजा । चक्रवाकोऽवदत्प्रणिधे ! सर्वमवगतम् । व्रज । पुनरागमिष्यसि । अथ राजा हिरण्यगर्भश्चक्रवाकं पृष्ठवान्मन्त्रिन् ! असन्धेयाः कति ? तान् श्रोतुमिच्छामि । मन्त्री ब्रूतेदेव ! कथयामि । शृणु बालो वृद्धो दीर्घरोगी तथाज्ञातिबहिष्कृतः । भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा ॥ ४.३५ ॥ विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रस्तु देवब्राह्मणनिन्दकः ॥ ४.३६ ॥ दैवोपहतकश्चैव तथा दैवपरायणः । दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः ॥ ४.३७ ॥ अदेशस्थो बहुरिपुर्युक्तः कालेन यश्च न । सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी ॥ ४.३८ ॥ एतैः सन्धिं न कुर्वीत विगृह्णीयात्तु केवलम् । एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर्वशम् ॥ ४.३९ ॥ बालस्याल्पप्रभावत्वान्न लोको योद्धुमिच्छति । युद्धायुद्धफलं यस्माज्ज्ञातुं शक्तो न बालिशः ॥ ४.४० ॥ उत्साहशक्तिहीनत्वाद्वृद्धो दीर्घामयस्तथा । स्वैरेव परिभूयेते द्वावप्येतावसंशयम् ॥ ४.४१ ॥ सुखच्छेद्यो हि भवति सर्वज्ञातिबहिष्कृतः । त एवैनं विनिघ्नन्ति ज्ञातयस्त्वात्मसात्कृताः ॥ ४.४२ ॥ भीरुर्युद्धपरित्यागात्स्वयमेव प्रणश्यति । तथैव भीरुपुरुषः सङ्ग्रामे तैर्विमुच्यते ॥ ४.४३ ॥ लुब्धस्यासंविभागित्वान्न युध्यन्तेऽनुजीविनः । लुब्धानुजीवी तैरेव दानभिन्नैर्निहन्यते ॥ ४.४४ ॥ सन्त्यज्यते प्रकृतिभिर्विरक्तप्रकृतिर्युधि । सुखाभियोज्यो भवति विषयेवतिसक्तिमान् ॥ ४.४५ ॥ अनेकचित्तमन्त्रस्तु द्वेष्यो भवति मन्त्रिणाम् । अनवस्थितचित्तत्वात्कर्यतः स उपेक्ष्यते ॥ ४.४६ ॥ सदाधर्मबलीयस्त्वाद्देव ब्राह्मणनिन्दकः । विशीर्यते स्वयं ह्येष दैवोपहतकस्तथा ॥ ४.४७ ॥ सम्पत्तेश्च विपत्तेश्च दैवमेव हि कारणम् । इति दैवपरो ध्यायन्नात्मना न विचेष्टते ॥ ४.४८ ॥ दुर्भिक्षव्यसनी चैव स्वयमेव विषीदति । बलव्यसनसक्तस्य योद्धुं शक्तिर्न जायते ॥ ४.४९ ॥ अदेशस्थो हि रिपुणा स्वल्पकेनापि हन्यते । ग्राहोऽल्पीयानपि जले जलेन्द्रमपि कर्षति ॥ ४.५० ॥ बहुशत्रुस्तु सन्त्रस्तः श्येनमध्ये कपोतवत् । येनैव गच्छति पथा तेनैवाशु विपद्यते ॥ ४.५१ ॥ अकालयुक्तसैन्यस्तु हन्यते कालयोधिना । कौशिकेन हतज्योतिर्निशीथ इव वायसः ॥ ४.५२ ॥ सत्यधर्मव्यपेतेन सन्दध्यान्न कदाचन । स सन्धितोऽप्यसाधुत्वादचिराद्याति विक्रियाम् ॥ ४.५३ ॥ अपरमपि कथयामिसन्धिविग्रहयानासनसंश्रयद्वैधीभावाः षाड्गुण्यम् । कर्मणामारम्भोपायः । पुरुषद्रव्यसम्पत् । देशकाअविभागः । विनिपातप्रतीकारः । कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः । सामदानभेददण्डाश्चत्वार उपायाः । उत्साहशक्तिः, मन्त्रशक्तिः, प्रभु शक्तिश्चेति शक्तित्रयम् । एतत्सर्वमालोच्य नित्यं विजिगीषवो भवन्ति महान्तः । यतः या हि प्राणपरित्यागमूल्येनापि न लभ्यते । सा श्रीर्नीतिविदं पश्य चञ्चलापि प्रधावति ॥ ४.५४ ॥ यथा चोक्तं वित्तं सदा यस्य समं विभक्तं गूढश्चरः संनिभृतश्च मन्त्रः । नचाप्रियं प्राणिषु यो ब्रवीति स सागरान्तां पृथिवीं प्रशास्ति ॥ ४.५५ ॥ किन्तु देव यद्यपि महामन्त्रिणा गृध्रेण सन्धानमुपन्यस्तं, तथापि तेन राज्ञा सम्प्रति भूतजयदर्पान्न मन्तव्यम् । देव ! तदेवं क्रियताम् । सिंहलद्वीपस्य महाबलो नाम सारसो राजास्मन्मित्रं जम्बुद्वीपे कोपं जनयतु । यतः सुगुप्तिमाधाय सुसंहतेन बलेन वीरो विचरन्नरातिम् । सन्तापयेद्येन समं सुतप्तस् तप्तेन सन्धानमुपैति तप्तः ॥ ४.५६ ॥ राज्ञा एवमस्त्विति निगद्य विचित्रनामा बकः सुगुप्तलेखं दत्त्वा सिंहलद्वीपं प्रहितः । अथ प्रणिधिः पुनरागत्योवाचदेव ! श्रूयतां तावत्तत्रत्यप्रस्तावः । एवं तत्र गृध्रेणोक्तम्देव ! मेघवर्णस्तत्र चिरमुषितः । स वेत्ति किं सन्धेयगुणयुक्तो हिरण्यगर्भो राजा, न वा ? इति । ततोऽसौ मेघवर्णश्चित्रवर्णेन राज्ञा समाहूय पृष्टःवायस ! कीदृशो हिरण्यगर्भो राजा ? चक्रवाको मन्त्री वा कीदृशः ? वायस उवाचदेव ! स हिरण्यगर्भो राजा युधिष्ठिरसमो महाशयः सत्यवाक् । चक्रवाकसमो मन्त्री न क्वाप्यवलोक्यते । राजाहयद्येवं तदा कथमसौ त्वया वञ्चितः ? विहस्य मेघवर्णः प्राहदेव ! विश्वासप्रतिपन्नानां वञ्चने का विदग्धता । अङ्कमारुह्य सुप्तं हि हत्वा किं नाम पौरुषम् ॥ ४.५७ ॥ शृणु देव ! तेन मन्त्रिणाहं प्रथमदर्शने एवं विज्ञातः, किन्तु महाशयोऽसौ राजा, तेन मया विप्रलब्धः । तथा चोक्तम् आत्मौपम्येन यो वेत्ति दुर्जनं सत्यवादिनम् । स तथा वञ्च्यते धूर्तैर्ब्राह्मणाश्छागतो यथा ॥ ४.५८ ॥ राजोवाचकथमेतत्? मेघवर्णः कथयति कथा ९ अस्ति गौतमस्यारण्ये प्रस्तुतयज्ञः कश्चिद्ब्राह्मणः । स च यज्ञार्थं ग्रामान्तराच्छागमुपक्रीय, स्कन्धे नीत्वा, गच्छ धूर्तत्रयेणावलोकितः । ततस्ते धूर्ताःयद्येष छागः केनाप्युपायेन लभ्यते, तदा मतिप्रकर्षो भवतीति समालोच्य, वृक्षत्रयतले क्रोशान्तरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः । तत्रैकेन धूर्तेन गच्छन् स ब्राह्मणोऽभिहितःभो ब्राह्मण ! किमिति त्वया कुक्कुरः स्कन्धेनोह्यते । विप्रेणोक्तंनायं श्वा, किन्तु यज्ञच्छागः । अथान्तरस्थितेनान्येन धूर्तेन तथैवोक्तम् । तदाकर्ण्य ब्राह्मणश्छागं भूमौ निधाय मुहुर्निरीक्ष्य, पुनः स्कन्धे कृत्वा दोलायमानमतिश्चलितः । यतः मतिर्दोलायते सत्यं सतामपि खलोक्तिभिः । ताभिर्विश्वासितश्चासौ म्रियते चित्रकर्णवत् ॥ ४.५९ ॥ राजाहकथमेतत्? स कथयति कथा १० अस्ति कस्मिंश्चिद्वनोद्देशे मदोत्कटो नाम सिंहः । तस्य सेवकास्त्रयः काको व्याघ्रो जम्बुकश्च । अथ तैर्भ्रमद्भिः सार्थभ्रष्टः कश्चिदुष्ट्रो दृष्टः । पृष्टश्चकुतो भवानागतः सार्थाद्भ्रष्टः ? स चात्मवृत्तान्तमकथयत् । ततस्तैर्नीत्वा सिंहायासौ समर्पितः । तेन चाभयवाचं दत्त्वा, चित्रकर्ण इति नाम कृत्वा स्थापितः । अथ कदाचित्सिंहस्य शरीरवैकल्याद्भूरिवृष्टिकारणाच्चाहारमलभमानास्ते व्यग्रा बभूवुः । ततस्तैरालोचितम् । चित्रकर्णमेव यथा स्वामी व्यापादयति तथानुष्ठीयताम् । किमनेन कण्टकभुजास्माकम् ? व्याघ्र उवाचस्वामिनाभयवाचं दत्त्वानुगृहीतोऽयं, तत्कथमेवं सम्भवति ? काको ब्रूतेइह समये परिक्षीणः स्वामी पापमपि करिष्यति । यतः त्यजेत्क्षुधार्ता महिला स्वपुत्रं खादेत्क्षुधार्ता भुजगी स्वमण्डम् । बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ॥ ४.६० ॥ अन्यच्च मत्तः प्रमत्तश्चोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः । लुब्धो भीरुस्त्वरायुक्तः कामुकश्च न धर्मवित् ॥ ४.६१ ॥ इति सञ्चिन्त्य सर्वे सिंहान्तिकं जग्मुः । सिंहेनोक्तमाहारार्थं किञ्चित्प्राप्तम् ? तैरुक्तम्देव ! यत्नादपि प्राप्तं किञ्चित्? सिंहेनोक्तंकोऽधुना जीवनोपायः ? काको वदतिदेव ! स्वाधीनाहारपरित्यागात्सर्वनाशोऽयमुपस्थितः ? सिंहेनोक्तमत्राहारः कः स्वाधीनः ? काकः कर्णे कथयतिचित्रकर्ण इति । सिंहो भूमिं स्पृष्ट्वा कर्णौ स्पृशति । अब्रवीच्चअभयवाचं दत्त्वा धृतोऽयमस्माभिः । तत्कथमेवं सम्भवति ? तथा हि न भूतदानं न सुवर्णदानं न गोप्रदानं न तथान्नदानम् । यथा वदन्तीह महाप्रदानं सर्वेषु दानेष्वभयप्रदानम् ॥ ४.६२ ॥ अन्यच्च सर्वकामसमृद्धस्य अश्वमेधस्य यत्फलम् । तत्फलं लभते सम्यग्रक्षिते शरणागते ॥ ४.६३ ॥ काको ब्रूतेनासौ स्वामिना व्यापादयितव्यः । किन्त्वस्माभिरेव तथा कर्तव्यं, यथासौ स्वदेहदानमङ्गीकरोति । सिंहस्तच्छ्रुत्वा तूष्णीं स्थितः । ततोऽसौ लब्धावकाशः कूटं कृत्वा सर्वानादाय सिंहान्तिकं गतः । अथ काकेनोक्तंदेव ! यत्नादप्याहारो न प्राप्तः । अनेकोपवासक्लिष्टश्च स्वामी । तदिदानीं मदीयमांसमुपभुज्यताम् । यतः स्वामिमूला भवन्त्येव सर्वाः प्रकृतयः खलु । समूलेष्वपि वृक्षेषु प्रयत्नः सफलो नृणाम् ॥ ४.६४ ॥ सिंहेनोक्तंभद्र ! वरं प्राणपरित्यागो, न पुनरीदृशे कर्मणि प्रवृत्तिः । जम्बुकेनापि तथोक्तम् । ततः सिंहेनोक्तंमैवम् । अथ व्याघ्रेणोक्तंमद्देहेन जीवतु स्वामी । सिंहेनोक्तंन कदाचिदेवमुचितम् । अथ चित्रकर्णोऽपि जातविश्वासस्तथैवात्मदेहदानमाहततस्तद्वचनात्तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः । सर्वैर्भक्षितश्च । अतोऽहं ब्रवीमिमतिर्दोलायते सत्यमित्यादि । ततस्तृतीयधूर्तवचनं श्रुत्वा, स्वमतिभ्रमं निश्चित्य छागं त्यक्त्वा, ब्राह्मणः स्नात्वा गृहं ययौ । छागश्च तैर्धूर्तैर्नीत्वा भक्षितः । अतोऽहं ब्रवीमिआत्मौपम्येन यो वेत्तीत्यादि । राजाहमेघवर्ण ! कथं शत्रुमध्ये त्वया सुचिरमुषितम् ? कथं वा तेषामनुनयः कृतः ? मेघवर्ण उवाचदेव ! स्वामिकार्यार्थितया स्वप्रयोजनवशाद्वा किं किं न क्रियते ? पश्य लोको वहति किं राजन्न मूर्ध्ना दग्धुमिन्धनम् । क्षालयन्त्यपि वृक्षाङ्घ्रिं नदीवेला निकृन्तति ॥ ४.६५ ॥ तथा चोक्तम् स्कन्धेनापि वहेच्छत्रून् कार्यमासाद्य बुद्धिमान् । यथा वृद्धेन सर्पेण मण्डूका विनिपातिताः ॥ ४.६६ ॥ राजाहकथमेतत्? मेघवर्णः कथयति कथा ११ अस्ति जीर्णोद्याने मन्दविषो नाम सर्पः । सोऽतिजीर्णतया स्वाहारमप्यन्वेष्टुमक्षमः सरस्तीरे पतित्वा स्थितः । ततो दूरादेव केनचिन्मण्डूकेन दृष्टः, पृष्टश्चकिमिति त्वामाहारं नान्विष्यति ? सर्पोऽवदत्गच्छ भद्र ! किं ते मम मन्दभाग्यस्य वृत्तान्तप्रश्नेन ? ततः सञ्जातकौतुकः स च भेकः सर्वथा कथ्यतामित्याह । सर्पोऽप्याहभद्र ! पुरवासिनः श्रोत्रियस्य कौण्डिन्यस्य पुत्रो विंशतिवर्षदेशीयः सर्वगुणसम्पन्नो दुर्दैवान्मया नृशंसेन दष्टः । ततस्तं सुशीलनामानं पुत्रं मृतमवलोक्य, शोकेन मूर्च्छितः कौण्डिन्यः पृथिव्यां लुलोठ । अनन्तरं ब्रह्मपुरवासिनः सर्वे बान्धवास्तत्रागत्योपविष्टाः । तथा चोक्तम् उत्सवे व्यसने युद्धे दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ४.६७ ॥ तत्र कपिलो नाम स्नातकोऽवदतरे कौण्डिन्य ! मूढोऽसि येनैवं विलपसि । शृणु क्रोडीकरोति प्रथमं यदा जातमनित्यता । धात्रीव जननी पश्चात्तदा शोकस्य कः क्रमः ॥ ४.६८ ॥ तथा च क्व गताः पृथिवीपालाः ससैन्यबलवाहनाः । वियोगसाक्षिणी येषां भूमिरद्यापि तिष्ठति ॥ ४.६९ ॥ तथा च जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ ४.७० ॥ अपरं च कायः संनिहितापायः सम्पदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ ४.७१ ॥ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते । आमकुम्भ इवाम्भःस्थो विशीर्णः सन् विभाष्यते ॥ ४.७२ ॥ आसन्नतरतामेति मृत्युर्जन्तोर्दिने दिने । आघातं नीयमानस्य वध्यस्येव पदे पदे ॥ ४.७३ ॥ यतः अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः । ऐश्वर्यं प्रियसंवासो मुह्येत्तत्र न पण्डितः ॥ ४.७४ ॥ यथा काष्ठं च काष्ठं च समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ ४.७५ ॥ यथा हि पथिकः कश्चिच्छायामाश्रित्य तिष्ठति । विश्रम्य च पुनर्गच्छेद्तद्वद्भूतसमागमः ॥ ४.७६ ॥ अन्यच्च पञ्चभिर्निर्मिते देहे पञ्चत्वं च पुनर्गते । स्वां स्वां योनिमनुप्राप्ते तत्र का परिदेवना ॥ ४.७७ ॥ यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः ॥ ४.७८ ॥ नायमत्यन्तसंवासो लभ्यते येन केनचित् । अपि स्वेन शरीरेण किमुतान्येन केनचित् ॥ ४.७९ ॥ अपि च संयोगो हि वियोगस्य संसूचयति सम्भवम् । अनतिक्रमणीयस्य जन्म मृत्योरिवागमम् ॥ ४.८० ॥ आपातरमणीयानां संयोगानां प्रियैः सह । अपथ्यानामिवान्नानां परिणामो हि दारुणः ॥ ४.८१ ॥ अपरं च व्रजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा । आयुरादाय मर्त्यानां तथा रात्र्यहनी सदा ॥ ४.८२ ॥ सुखास्वादपरो यस्तु संसारे सत्समागमः । स वियोगावसानत्वाद्दुःखानां धुरि युज्यते ॥ ४.८३ ॥ अत एव हि नेच्छन्ति साधवः सत्समागमम् । यद्वियोगासिलूनस्य मनसो नास्ति भेषजम् ॥ ४.८४ ॥ सुकृतान्यपि कर्माणि राजभिः सगरादिभिः । अथ तान्येव कर्माणि ते चापि प्रलयं गताः ॥ ४.८५ ॥ संचिन्त्य संचिन्त्य तमुग्रदण्डं मृत्युं मनुष्यस्य विचक्षणस्य । वर्षाम्बुसिक्ता इव चर्मबन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति ॥ ४.८६ ॥ यामेव रात्रिं प्रथमामुपैति गर्भे निवासं नरवीर लोकः । ततः प्रभृत्यस्खलितप्रयाणः स प्रत्यहं मृत्युसमीपमेति ॥ ४.८७ ॥ अज्ञानं कारणं न स्याद्वियोगो यदि कारणम् । शोको दिनेषु गच्छत्सु वर्धतामपयाति किम् ॥ ४.८८ ॥ तद्भद्र ! तदात्मानमनुसन्धेहि । शोकचर्चां च परिहर, यतः अकाण्डपातजातानामस्त्राणां मर्मभेदिनाम् । गाढशोकप्रहाराणामचिन्तैव महौषधम् ॥ ४.८९ ॥ ततस्तद्वचनं निशम्य, प्रबुद्ध इव कौण्डिन्य उत्थायाब्रवीत् । तदलमिदानीं गृहनरकवासेन वनमेव गच्छामि । कपिलः पुनराह वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते त्रिवृत्तरागस्य गृहं तपोवनम् ॥ ४.९० ॥ यतः दुःखितोऽपि चरेद्धर्मं यत्र कुत्राश्रमे रतः । समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ४.९१ ॥ उक्तं च वृत्त्यर्थं भोजनं येषां सन्तानार्थं च मैथुनम् । वाक्सत्यवचनार्थाय दुर्गाण्यपि तरन्ति ते ॥ ४.९२ ॥ तथा हि आत्मा नदी संयमपुण्यतीर्था सत्योदका शीलतटा दयोर्मिः । तत्राभिषेकं कुरु पाण्डुपुत्र ! न वारिणा शुष्यति चान्तरात्मा ॥ ४.९३ ॥ विशेषतश्च जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम् । संसारमिममुत्पन्नमसारं त्यजतः सुखम् ॥ ४.९४ ॥ यतः दुःखमेवास्ति न सुखं यस्मात्तदुपलक्ष्यते । दुःखार्तस्य प्रतीकारे सुखसंज्ञा विधीयते ॥ ४.९५ ॥ कौण्डिन्यो ब्रूतेएवमेव । ततोऽहं तेन शोकाकुलेन ब्राह्मणेन शप्तो, यदद्यारभ्य मण्डूकानां वाहनं भविष्यतीति । कपिलो ब्रूतेसम्प्रत्युपदेशासहिष्णुर्भवान् । शोकाविष्टं ते हृदयम् । तथापि कार्यं शृणु सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥ ४.९६ ॥ अन्यच्च कामः सर्वात्मना हेयः स चेद्धातुं न शक्यते । स्वभार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥ ४.९७ ॥ एतच्छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृतप्रशान्तशोकानलो यथाविधि दण्डग्रहणं कृतवान् । अतो ब्राह्मणशापान्मण्डूकान् वोढुमत्र तिष्ठामि । अनन्तरं तेन मण्डूकेन गत्वा मण्डूकनाथस्य जालपादनाम्नोऽग्रे तत्कथितम् । ततोऽसावागत्य मण्डूकनाथस्तस्य सर्पस्य पृष्ठमारूढवान् । स च सर्पस्तं पृष्ठे कृत्वा चित्रपदक्रमं बभ्राम । परेद्युश्चलितुमसमर्थं तं मण्डूकनाथमवदत्किमद्य भवान्मन्दगतिः ? सर्पो ब्रूतेदेव ! आहारविरहादसमर्थोऽस्मि । मण्डूकनाथोऽवदतस्मादाज्ञया मण्डूकान् भक्षय । ततः गृहीतोऽयं महाप्रसाद इत्युक्त्वा क्रमशो मण्डूकान् खादितवान् । अथ निर्मण्डूकं सरो विलोक्य मण्डूकनाथोऽपि तेन खादितः । अतोऽहं ब्रवीमिस्कन्धेनापि वहेच्छत्रूनित्यादि । देव ! यात्विदानीं पुरावृत्ताख्यानकथनं सर्वथा सन्धेयोऽयं हिरण्यगर्भराजा सन्धीयतामिति मे मतिः । राजोवाचकोऽयं भवतो विचारः ? यतो जितस्तावदयमस्माभिः । ततो यद्यस्मत्सेवया वसति, तदास्ताम् । नो चेद्विगृह्यताम् । अत्रान्तरे जम्बूद्वीपादागत्य शुकेनोक्तंदेव ! सिंहलद्वीपस्य सारसो राजा सम्प्रति जम्बूद्वीपमाक्रम्यावतिष्ठते । राजा ससम्भ्रमं ब्रूतेकिं किम् ? शुकः पूर्वोक्तं कथयति । गृध्रः स्वगतमुवाचसाधु रे चक्रवाक मन्त्रिन् ! साधु ! राजा सकोपमाहआस्तां तावदयं गत्वा तमेव समूलमुन्मूलयामि । दूरदर्शी विहस्याह न शरन्मेघवत्कार्यं वृथैव घनगर्जितम् । परस्यार्थमनर्थं वा प्रकाशयति नो महान् ॥ ४.९८ ॥ अपरं च एकदा न विगृह्णीयाद्बहून् राजाभिघातिनः । सदर्पोऽप्युरगः कीटैर्बहुभिर्नाश्यते ध्रुवम् ॥ ४.९९ ॥ देव ! किमितो विना सन्धानं गमनमस्ति ? यतस्तदास्माकं पश्चात्प्रकोपोऽनेन कर्तव्यः । अपरं च योऽर्थतत्त्वमविज्ञाय क्रोधस्यैव वशं गतः । स तथा तप्यते मूढो ब्राह्मणो नकुलाद्यथा ॥ ४.१०० ॥ राजाहकथमेतत्? दूरदर्शी कथयति कथा ११ अस्त्युज्जयिन्यां माधवो नाम विप्रः । तस्य ब्राह्मणी प्रसूता, बालापत्यस्य रक्षार्थं ब्राह्मणमवस्थाप्य स्थातुं गता । अथ ब्राह्मणाय राज्ञः पार्वणश्राद्धं दातुमाह्वानमागतम् । तच्छ्रुत्वा ब्राह्मणोऽपि सहजदारिद्र्यादचिन्तयत्यदि सत्वरं न गच्छामि, तदान्या कश्चिच्छ्रुत्वा श्राद्धं ग्रहीष्यति । यतः आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ ४.१०१ ॥ किन्तु बालाकस्यात्र रक्षको नास्ति । तत्किं करोमि ? यातु, चिरकालपालितमिमं नकुलं पुत्रनिर्विशेषं बालकरक्षायां व्यवस्थाप्य गच्छामि । तथा कृत्वा गतः । ततस्तेन नकुलेन बालकसमीपमागच्छन् कृष्णसर्पो दृष्टो व्यापाद्य कोपात्खण्डं खण्डं कृत्वा भक्षितश्च । ततोऽसौ नकुलो ब्राह्मणमायान्तमवलोक्य रक्तविलिप्तमुखपदः सत्वरमुपगम्य तच्चरणयोर्लुलोठ । ततः स विप्रस्तथाविधं दृष्ट्वा मम बालकोऽनेन खादित इत्यवधार्य नकुलः व्यापादितवान् । अनन्तरं यावदुपसृत्यापत्यं पश्यति ब्राह्मणस्तावद्बालकः सुस्थः स्वपिति सर्पश्च व्यापादितस्तिष्ठति । ततस्तमुपकारकं नकुलं निरीक्ष्य, भावितचेताः स ब्राह्मणः परं विषादमगमत् । अतोऽहं ब्रवीमियोऽर्थतत्त्वमविज्ञाय इत्यादि । अपरं च कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा । षड्वर्गमुत्सृजेदेनं तस्मिंस्त्यक्ते सुखी नृपः ॥ ४.१०२ ॥ राजाहमन्त्रिन् ! एष ते निश्चयः ? मन्त्री ब्रूतेएवमेव । यतः स्मृतिस्तत्परतार्थेषु वितर्को ज्ञाननिश्चयः । दृढता मन्त्रगुप्तिश्च मन्त्रिणः परमो गुणः ॥ ४.१०३ ॥ तथा च सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् । वृणुते हि विमृश्य कारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ ४.१०४ ॥ तद्देव ! यदीदानीमस्मद्वचनं क्रियते, तदा सन्धाय गम्यताम् । यतः यद्यप्युपायाश्चत्वारो निर्दिष्टाः सध्यसाधने । सङ्ख्यामात्रं फलं तेषां सिद्धिः साम्नि व्यवस्थिता ॥ ४.१०५ ॥ राजाहकथमेवं सत्वरं सम्भाव्यते ? मन्त्री ब्रूतेदेव ! सत्वरं भविष्यति । यतः मृद्घटवत्सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति । सुजनस्तु कनकघटवद् दुर्भेद्यश्चाशु सन्धेयः ॥ ४.१०६ ॥ अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ ४.१०७ ॥ कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः । तस्मात्परोक्षवृत्तीनां फलैः कर्म विभावयेत् ॥ ४.१०८ ॥ राजाहअलमुत्तरोत्तरेण, यथाभिप्रेतमनुष्ठीयताम् । एतन्मन्त्रयित्वा गृध्रो महामन्त्रीतत्र यथार्हं कर्तव्यमित्युक्त्वा दुर्गाभ्यन्तरं चलितः । ततः प्रणिधिबकेनागत्य राज्ञी हिरण्यगर्भस्य निवेदितंदेव ! सन्धिकर्तुं महामन्त्री गृध्रोऽस्मत्समीपमागच्छति । राजहंसो ब्रूतेमन्त्रिन् ! पुनरभिसन्धिना केनचिदत्रागमनम् । सर्वज्ञो विहस्याहदेव ! न शङ्कास्पदमेतत् । यतोऽसौ महाशयो दूरदर्शी । अथवा स्थितिरियं मन्दमतीनां, कदाचिच्छङ्कैव न क्रियते, कदाचित्सर्वत्र शङ्का । तथा हि सरसि बहुशस्ताराच्छायेक्षणात्परिवञ्चितः कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः । न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं कुहुकचकितो लोकः सत्येऽप्यपायमपेक्षते ॥ ४.१०९ ॥ दुर्जनदूषितमनसः सुजनेष्वपि नास्ति विश्वासः । बालः पायसदग्धो दध्यपि फूत्कृत्य भक्षयति ॥ ४.११० ॥ तद्देव ! यथाशक्ति तत्पूजार्थं रत्नोपहारादिसामग्री सुसज्जीक्रियताम् । तथानुष्ठिते सति स गृध्रो दुर्गद्वाराच्चक्रवाकेणोपगम्य, सत्कृत्यानीय राजदर्शनं कारितो दत्तासने चोपविष्टः । चक्रवाक उवाचमन्त्रिन् ! युष्मदायत्तं सर्वं स्वेच्छयोपभुज्यतामिदं राज्यम् ‘ राजहंसो ब्रूतेएवमेव । दूरदर्शी कथयतिएवमेवैतत् । किन्त्विदानीं बहुप्रपञ्चवचनं निष्पर्योजनम् । यतः लुब्धमर्थेन गृह्णीयात्स्तब्धमञ्जलिकर्मणा । मूर्खं छन्दानुरोधेन याथातथ्येन पण्डितम् ॥ ४.१११ ॥ अन्यच्च सद्भावेन हरेन्मित्रं सम्भ्रमेण तु बान्धवान् । स्त्रीभृत्यौ दानमानाभ्यां दाक्षिण्येनेतरान् जनान् ॥ ४.११२ ॥ तदिदानीं सन्धातुं गम्यताम् । महाप्रतापश्चित्रवर्णो राजा । चक्रवाको ब्रूतेयथा सन्धानं कार्यम् । तदप्युच्यताम् । राजहंसो ब्रूतेकति प्रकाराः सन्धीनां सम्भवन्ति ? गृध्रो ब्रूतेकथयामि श्रूयताम् बलीयसाभियुक्तस्तु नृपो नान्यप्रतिक्रियः । आपन्नः सन्धिमन्विच्छेत्कुर्वाणः कालयापनम् ॥ ४.११३ ॥ कपाल उपहारश्च सन्तानः संगतस्तथा । उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥ ४.११४ ॥ अदृष्टनर आदिष्ट आत्मामिष उपग्रहः । परिक्रयस्तथोच्छिन्नस्तथा च परदूषणः ॥ ४.११५ ॥ स्कन्धोपनेयः सन्धिश्च षोडशः परकीर्तितः । इति षोडशकं प्राहुः सन्धिं सन्धिविचक्षणाः ॥ ४.११६ ॥ कपालसन्धिर्विज्ञेयः केवलं समसन्धिकः । सम्प्रदानाद्भवति य उपहारः स उच्यते ॥ ४.११७ ॥ सन्तानसन्धिर्विज्ञेयो दारिकादानपूर्वकः । सद्भिस्तु सङ्गतः सन्धिर्मैत्रीपूर्व उदाहृतः ॥ ४.११८ ॥ यावदायुःप्रमाणस्तु समानार्थप्रयोजनः । सम्पत्तौ वा विपत्तौ वा कारणैर्यो न भिद्यते ॥ ४.११९ ॥ सङ्गतः सन्धिरेवायं प्रकृष्टत्वात्सुवर्णवत् । तथान्यैः सन्धिकुशलैः काञ्चनः समुदाहृतः ॥ ४.१२० ॥ आत्मकार्यस्य सिद्धिं तु समुद्दिश्य क्रियेत यः । स उपन्यासकुशलैरुपन्यास उदाहृतः ॥ ४.१२१ ॥ मयास्योपकृतं पूर्वं ममाप्येष करिष्यति । इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥ ४.१२२ ॥ उपकारं करोम्यस्य ममाप्येष करिष्यति । अयं चापि प्रतीकारो रामसुगृईवयोरिव ॥ ४.१२३ ॥ एकार्थां सम्यगुद्दिश्य यात्रां यत्र हि गच्छतः । सुसंहितप्रयाणस्तु सन्धिः संयोग उच्यते ॥ ४.१२४ ॥ आवयोर्योधमुख्याभ्यां मदर्थः साध्यतामिति । यस्मिन् पणः प्रक्रियते स सन्धिः पुरुषान्तरः ॥ ४.१२५ ॥ त्वयैकेन मदीयोऽर्थः सम्प्रसाध्यस्त्वसाविति । यत्र शत्रुः पणं कुर्यात्सोऽदृष्टपुरुषः स्मृतः ॥ ४.१२६ ॥ यत्र भूम्येकदेशेन पणेन रिपुरूर्जितः । सन्धीयते सन्धिविद्भिः स चादिष्ट उदाहृतः ॥ ४.१२७ ॥ स्वसैन्येन तु सन्धानमात्मादिष्ट उदाहृतः । क्रियते प्राणरक्षार्थं सर्वदानादुपग्रहः ॥ ४.१२८ ॥ कोशांशेनार्धकोशेन सर्वकोशेन वा पुनः । शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः ॥ ४.१२९ ॥ भुवां सारवतीनां तु दानादुच्छिन्न उच्यते । भूम्युत्थफलदानेन सर्वेण परभूषणः ॥ ४.१३० ॥ परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते । स्कन्धोपनेयं तं प्राहुः सन्धिं सन्धिविचक्षणाः ॥ ४.१३१ ॥ परस्परोपकारस्तु मैत्री सम्बन्धकस्तथा । उपहारश्च विज्ञेयाश्चत्वारश्चैव सन्धयः ॥ ४.१३२ ॥ एक एवोपहारस्तु सन्धिरेतन्मतं हि नः । उपहारस्य भेदास्तु सर्वेऽन्ये मैत्रवर्जिताः ॥ ४.१३३ ॥ अभियोक्ता बली यस्मादलब्ध्वा न निवर्तते । उपहारादृते तस्मात्संधिरन्यो न विद्यते ॥ ४.१३४ ॥ राजाहभवन्तो महान्तः पण्डिताश्च । तदत्रास्माकं यथाकार्यमुपदिश्यताम् । दूरदर्शी ब्रूतेआः किमेवमुच्यते? आधिव्याधिपरीतापादद्य श्वो वा विनाशिने । को हि नाम शरीराय धर्मापेतं समाचरेत् ॥ ४.१३५ ॥ जलान्तश्चन्द्रचपलं जीवितं खलु देहिनाम् । तथाविधमिति ज्ञात्वा शश्वत्कल्याणमाचरेत् ॥ ४.१३६ ॥ वाताभ्रविभ्रममिदं वसुधाधिपत्यम् आपातमात्रमधुरो विषयोपभोगः । प्राणास्तृणाग्रजलबिन्दुसमानलोला धर्मः सखा परमहो परलोकयाने ॥ ४.१३७ ॥ मृगतृष्णासमं वीक्ष्य संसारं क्षणभङ्गुरम् । सज्जनैः सङ्गतं कुर्याद्धर्माय च सुखाय च ॥ ४.१३८ ॥ तन्मम संमतेन तदेव क्रियताम् । यतः अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ४.१३९ ॥ अतः सत्याभिधानदिव्यपुरःसरमनयोर्भूपालयोः काञ्चनाभिधानः सन्धिर्विधीयताम् । सर्वज्ञो ब्रूतेएवमस्तु । ततो राजहंसेन राज्ञा वस्त्रालङ्कारोपहारैः स मन्त्री दूरदर्शी पूजितः । प्रहृष्टमनाश्चक्रवाकं गृहीत्वा, राज्ञो मयूरस्य संनिधानं गतः । तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्रवचनाद्बहुमानदानपुरःसरं सम्भाषितस्तथाविधं सन्धिं स्वीकृत्य राजहंससमीपं प्रस्थापितः । दूरदर्शी ब्रूतेदेव ! सिद्धं नः समीहितम् । इदानीं स्वस्थानमेव विन्ध्याचलं व्यावृत्य प्रतिगम्यताम् । अथ सर्वे स्वस्थानं प्राप्य, मनाभिलषितं फलं प्राप्नुवन्निति । विष्णुशर्मेनोक्तंपरं किं कथयामि, तदुच्यताम् । राजपुत्रा ऊचुःार्य ! तव प्रसादात्सकलराज्यव्यवहाराङ्गं जातम् । ततः सुखिनो भूता वयम् । विष्णुशर्मोवाचयद्यप्येवं तथाप्यपरमपीदमस्तु । सन्धिः सर्वमहीभुजां विजयिनामस्तु प्रमोदः सदा सन्तः सन्तु निरापदः सुकृतिनां कीर्तिश्चिरं वर्धताम् । नीतिवारविलासिनीव सततं वक्षःस्थले संस्थिता वक्त्रं चुम्बतु मन्त्रिणामहरहर्भूयान्महानुत्सवः ॥ ४.१४० ॥ अन्यच्चास्तु प्रालेयाद्रेः सुतायाः प्रणयनिवसतिश्चन्द्रमौलिः स यावद् यावल्लक्ष्मीर्मुरारेर्जलद इव तडिन्मानसे विस्फुरन्ती । यावत्स्वर्णाचलोऽयं दवदहनसमो यस्य सूर्यः स्फुलिङ्गस् तावन्नारायणेन प्रचरतु रचितः सङ्ग्रहोऽयं कथानाम् ॥ ४.१४१ ॥ किं च उर्वीमुद्दामसस्यां जनयतु विसृजन् वासवो वृष्टिमिष्टामिष्टैस्त्रैविष्टपानां विदधतु विधिवत्प्रीणनं विप्रमुख्याः । आकल्पान्तं च भूयात्स्थिरसमुपचिता सङ्गतिः सज्जनानां निःशेषं यान्तु शान्तिं पिशुनजनगिरो दुःसहा वज्रलेपाः ॥ ४.१४२ ॥ अपरं च श्रीमान्धवलचन्द्रोऽसौ जीयान्माण्डलिको रिपून् । येनायं सङ्ग्रहो यत्नाल्लेखयित्वा प्रचारितः ॥ ४.१४३ ॥ इति हितोपदेशे सन्धिर्नाम चतुर्थः कथासङ्ग्रहः ॥ समाप्तश्चायं हितोपदेशः ॥