महाखाता महाशाला पुर्यस्त्युज्जयिनीति या महाम्भोधिमहाशैल मेखलैव महामही ॥ १.१ प्रासादान् यत्र पश्यन्तः संततान् हैमराजतान् मेरुकैलासकूटेभ्यः स्पृहयन्ति न नागराः ॥ १.२ वेदमौर्वीविपञ्चीनाम् ध्वनयः प्रतिमन्दिरम् यत्र संनिपतन्तोऽपि न बाधन्ते परस्परम् ॥ १.३ कृतं वर्णनया तस्या यस्यां सततमासते महाकालप्रभृतयस्त्यक्त्वा शिवपुरं गणाः ॥ १.४ तस्यामासीन्महासेनो महासेनः क्षितीश्वरः यस्य देवीसहस्राणि षोडश श्रीपतेरिव ॥ १.५ चिरं पालयतस्तस्य प्रजाः शास्तोक्तकारिणः गोपालः पालकश्चेति सुतौ जातौ गुणाम्बुधी ॥ १.६ बृहस्पतिसमश्चास्य मन्त्री भरतरोहकः रोहन्तकः सुरोहश्च तस्यास्तां तत्समौ सुतौ ॥ १.७ नरेन्द्रमन्त्रिपुत्राणाम् चतुर्विद्यार्थवेदिनाम् प्रयोगेषु च दषाणाम् यान्ति स्म दिवसाः सुखम् ॥ १.८ अथ गां पालयामास गोपालः पितृपालिताम् पालकोऽपि यवीयस्त्वाद् यौवराज्यमपालयत् ॥ १.९ मन्त्रिपुत्रौ तु मन्त्रित्वम् थ भूमिर्नवेश्वरा नवमन्त्रिकृतारक्षा जायते स्म पुनर्वा ॥ १.१० गजराजमथो राजा दानराजिविराजितम् अधिष्ठाय जगत्सारम् निर्जगाम बहिः पुरः ॥ १.११ तद्दर्शनाशयायातम् नेकं नृकदम्बकम् बिभ्यद्व्याडाद्गजात्तस्माद् ितश्चेतश्च विद्रुतम् ॥ १.१२ कन्यकान्यतमा तत्र गृह्यमाणाथ हस्तिना प्रांशुप्राकारतः प्रांशोर् गम्यां परिखामगात् ॥ १.१३ खातपातव्यथाजात संज्ञानाशात्क्षणं ततः तटस्था हस्तिपृष्ठस्थम् साभाषत रुषा नृपम् ॥ १.१४ अवध्यमवधीर्यस्त्वम् पितरं तस्य किं मया अधीतवेदं यो हन्ति ब्राह्मणं तस्य के मृगाः ॥ १.१५ इति कन्यावचः श्रुत्वा दुःश्रवं श्वपचैरपि चिन्तेषु भिन्नहृदयः प्रविवेश निवेशनम् ॥ १.१६ अतिवाह्य च दुःखेन दिनशेषं समासमम् जनवादोपलम्भाय प्रदोषे निर्ययौ गृहात् ॥ १.१७ कालकम्बलसंवीतः सासिचर्मासिपुत्रिकः समन्त्रागदसंनाहः संचचार शनैः शनैः ॥ १.१८ अथ शुश्राव कस्मिंश्चित् देवतायतने ध्वनिम् अभिसारिकया सार्धम् भाषमाणस्य कामिनः ॥ १.१९ हतं मुष्टिभिराकाशम् तुषाणां कण्डनं कृतम् मया येन त्वया सार्धम् बद्धा प्रीतिरबुद्धिना ॥ १.२० इयमेतावती वेला खिद्यमानेन यापिता मया त्वं तु गृहादेव न निर्यासि पतिव्रता ॥ १.२१ कौमारः सुभागो भर्ता यदि नाम प्रियस्तव खलीकृतैः किमस्माभिर् वृथेव कुलपुत्रकैः ॥ १.२२ एवमादि ततः श्रुत्वा सा प्रगल्भाभिसारिका विहस्य विटमाह स्म त्वादृशा हि हतत्रपाः ॥ १.२३ ननु चित्तं मयाराध्यम् तस्यापि भवतः कृते न हि भर्तॄनविश्वास्य रमन्ते कुलटा विटैः ॥ १.२४ अथ निर्मक्षिकं भद्र मधु पातुं मनोरथः जहि घातय बालं मे पतिं नित्यप्रमादिनम् ॥ १.२५ अथ पापादसि त्रस्तः स्फुटं नाहं तव प्रिया ननु दुर्वाररागान्धः सुतां याति प्रजापतिः ॥ १.२६ अथवालं विवादेन वैधर्म्यं किं न पश्यसि येन राज्यसुखान्धेन प्रजापालः पिता हतः ॥ १.२७ सुदुःश्रवमिदं श्रुत्वा गोपालो दुर्वचं वचः गच्छन्नन्यत्र शुश्राव ध्वनिं विप्रस्य जल्पतः ॥ १.२८ अयि ब्राह्मणि जागर्षि नन्दिनि क्रन्दते शिशुः त्वरितं याजते देहि स्तन्यं कण्ठोऽस्य मा शुषत् ॥ १.२९ इति श्रुत्वा गिरं भर्तुर् विनिद्रा ब्राह्मणी सुतम् पितृघातिन्म्रियस्वेति निर्दयं निरभर्त्सयत् ॥ १.३० आः पापे किमसंभद्धम् पितृघातिन्निति त्वया बालोऽयमुक्तेत्येनम् ब्राह्मणः कुपितोऽब्रवीत् ॥ १.३१ किमार्यपुत्र पुत्रेण यदा राज्ञा पिता हतः श्रुतिस्मृतिविदित्येतद् ुवाच ब्राह्मणी पतिम् ॥ १.३२ श्रुत्वैवमादि कौलीनम् प्रविश्यान्तःपुरं नृपः अनयत्क्षणदाशेषम् संमीलितलोचनः ॥ १.३३ अथ गाढान्धकारायाम् वेलायां मंत्रिणौ रहः अपृच्छत्कोऽयमस्मासु प्रवादः कथ्यतामिति ॥ १.३४ ततस्तावूचतुस्त्रस्तौ सत्रासं नृपचोदितौ कौलीनहेतुश्रुतये चित्तं देवावधीयताम् ॥ १.३५ सुगृहीताभिधानस्य प्रद्योतस्य पितुस्तव आसन्नव्यभिचारीण्य् रिष्टान्यष्टौ मुमूर्षतः ॥ १.३६ उद्धार्ये धवले केशे प्रमादात्कृष्णए उद्धृते उद्धर्तारं महीपालः कर्तयामास नापितम् ॥ १.३७ भुञ्जानेन च पाषाणे दशनाग्रेण खण्डिते कुलक्रमागतो वृद्धः सूपकारः प्रमापितः ॥ १.३८ प्रकृतेर्विपरीतत्वम् जानन्नप्येवमादिभिः प्रभो विधेर्विधेयत्वाद् ब्राह्मणानप्यबाधत ॥ १.३९ भर्तुरीदृशि वृत्तान्ते मन्त्री तस्यावयोः पिता अदृष्टभर्तृव्यसनः पूर्वमेवागमद्दिवम् ॥ १.४० श्रुतमन्त्रिविनाशस्तु स राजा राजयक्ष्मणा गुरुशोकसहायेन सहसैवाभ्यभूयत ॥ १.४१ ततस्ताते दिवं याते यातुकामे च भूपतौ प्रजासु च विरक्तासु जातौ स्वः किंक्रियाकुलौ ॥ १.४२ प्राप्तकालमिदं श्रेय िति बुद्ध्वा प्रसारितम् कौलीनमिदमावाभ्याम् सपर्यन्तेष्ववन्तिषु ॥ १.४३ क्रोधबाधितबोधत्वाद् बाधमानं निजाः प्रजाः बन्धयामास राजानम् राजपुत्रः प्रियप्रजः ॥ १.४४ शृङ्खलातन्त्रचरणः स्वतन्त्राद्भ्रंशितः पदात् सुखस्य महतो दध्यौ स राजेन्द्रो गजेन्द्रवत् ॥ १.४५ चिन्तामुषितनिद्रत्वाद् ाहारविरहेण च स क्षपाः क्षपयन् क्षीणः संवत्सरशतायताः ॥ १.४६ पुत्रेणैवमवस्थोऽपि प्रजाप्रियचिकीर्षुणा न मुक्त एव मुक्तश्च यावत्प्राणैः प्रियैरिति ॥ १.४७ निदानमिदमेतस्य कौलीनस्य विगर्हितम् इतरद्वाधुना देवः प्रभुरित्यथ भूपतिः ॥ १.४८ अधोमुखः क्षणं स्थित्वा तलाहतमहीतलः दृष्ट्वा च सास्रमाकाशम् नाथ इदमब्रवीत् ॥ १.४९ तुल्यौ शुक्रबृहस्पत्योर् युवां मुक्त्वा सुहृत्तमौ अनपायमुपायं कः प्रयुञ्जीतैतमीदृशम् ॥ १.५० किं तु सत्त्ववतामेष शङ्काशून्यधियां क्रमः दृष्टादृष्टभयग्रस्त चेतसां न तु मादृशाम् ॥ १.५१ तस्मत्पालयतं भद्रौ पालकं पालकं बुवः इदं त्वलीककौलीनम् शक्तोऽहमुपेक्षितुम् ॥ १.५२ तस्यैवं भाषमाणस्य व्रीडाधोमुखमन्त्रिणः कूजन् प्रकाशयामास क्षीणां ताम्रशिखः क्षपाम् ॥ १.५३ अथ शुश्रुविरे वाचः सूतमागधबन्दिनाम् यशोधवलितानन्त दिगन्तोद्बुध्यतामिति ॥ १.५४ दीनदीनं तदाकर्ण्य कर्णदारणमप्रियम् पिधाय पार्थिवः कर्णाव् ुत्तमाङ्गमकम्पयत् ॥ १.५५ स चावोचत्प्रतीहारी निवार्यन्ताममी मम क्षते क्षारावदेकेन किं फलं भवतामिति ॥ १.५६ आसीच्चास्याथ वा धिङ्माम् ेवमात्मापवादिनम् ननु प्रशस्यमात्मानम् नाहमर्हामि निन्दितुम् ॥ १.५७ निर्यन्त्रणविहारेण चिरजीविनि राजनि राजपुत्रेण लडितः केनान्येन यथा मया ॥ १.५८ समुच्छिन्नदुरुच्छेद बाह्याभ्यन्तरवैरिणा वर्णाश्रमाः स्वधर्मेभ्यः किं वा विचलिता मया ॥ १.५९ अवन्तिवर्धनसमो निजाहार्यगुणाकरः पुत्रः पुन्नरकात्त्राता कस्यान्यस्य यथा मम ॥ १.६० अथवास्तामिदं सर्वम् ेकेनैवास्मि वर्धितः नरवाहनदेवेन जामात्रा चक्रवर्तिना ॥ १.६१ एक एव तु मे नासीद् गुणः सोऽप्ययमागतः प्रसादान्मन्त्रिवृषयोर् यत्तपोवनसेवनम् ॥ १.६२ इति निष्कम्पसंकल्पश् चोदयामास मन्त्रिणौ ससिंहासनमास्थानम् मण्डपे दीयतामिति ॥ १.६३ तयोस्तु गतयोः केशान् वापयित्वा सवल्कलः कमण्डलुसनाथश्च भूपालो निर्ययौ गृहात् ॥ १.६४ विषादविप्लुताक्षेण वक्षोनिक्षिप्तपाणिना दृश्यमानोऽवरोधेन विवेशास्थानमण्डपम् ॥ १.६५ त्रासम्लानकपोलेन दृष्टः पृथुलचक्षुषा पालकेनाब्रवीत्तं च स्थित एव स्थितं स्थितम् ॥ १.६६ प्रसादात्तात तातस्य वत्सराजस्य च त्वया बुद्धेः स्वस्याश्च शुद्धायाः किं नाम न परीक्षितम् ॥ १.६७ अतोऽनुशासितारं त्वाम् नुशासति बालिशाः येन लोके तए उच्यन्ते वियाताः पितृशिक्षकाः ॥ १.६८ एतावत्तु मया वाच्यम् पित्र्यं सिंहासनं त्वया वर्णाश्रमपरित्रार्थम् िदमध्यास्यतामिति ॥ १.६९ तच्चावश्यमनुष्ठेयम् स्माकीनं वचस्त्वया मादृशां हि न वाक्यानि विमृशन्ति भवादृशाः ॥ १.७० इतीदं पालकः श्रुत्वा स्थित्वा चाधोमुखः क्षणम् उत्तरं चिन्तयामास नासाग्राहितलोचनः ॥ १.७१ कृतकृत्रिमरोषस्तु राजा पालकमब्रवीत् भोः सिंहासनमारोह किं तवोत्तरचिन्तया ॥ १.७२ किं चोत्तरशतेनापि त्वयाहं सोपपत्तिना वेगः प्रावृषि शोणस्य चरणेनेव दुर्धरः ॥ १.७३ इति द्विजातयः श्रुत्वा पुरोहितपुरःसराः विषादगद्गदगिरः प्रमृज्याश्रु बभाषिरे ॥ १.७४ पालकस्ते नियोज्यत्वाद् ाज्ञां मा स्म विचारयत् त्वन्नियोगान्नियोक्तारः कस्माद्वयमुदास्महे ॥ १.७५ ध्रियमाणे प्रजापाले ज्येष्ठे भ्रातरि पालकः मृगेन्द्रासनमारोहन् खट्वारूढो भवेन्ननु ॥ १.७६ राज्याग्निमादधद्वापि त्वयि वर्षशतायुषि परिवेत्तारमात्मानम् यं मन्येत निन्दितम् ॥ १.७७ तस्मादस्मान्निवर्तस्व संकल्पदतिभीषणात् शोकजान्यश्रुवारीणि भवन्त्वानन्दजानि नः ॥ १.७८ बद्धाञ्जलिरथोवाच किंचिन्नमितकंधरः अलं वः पीडयित्वा माम् वचोभिरिति पार्थिवः ॥ १.७९ मयायमभ्यनुज्ञातो रक्षणे च क्षमः क्षितेः खट्वारूढो न भविता निन्दितः शब्दवेदिभिः ॥ १.८० असमर्थे च राज्याग्नेः पालने पतिते मयि परिवेत्तापि नैवायम् भविष्यति नराधिपः ॥ १.८१ यच्चापि पिहिताः कर्णा ाकर्ण्य पतितध्वनिम् प्रजाभिस्तच्च न मृषा मया हि निहतः पिता ॥ १.८२ तदिदं पातकं कृत्वा युष्मत्पीडाप्रशान्तये प्रायश्चित्तं व्रजन् कर्तुम् न निवार्योऽस्मि केनचित् ॥ १.८३ मया चात्यक्तधर्मेण यत्प्रजानां कृते कृतम् तस्य प्रत्युपकाराय पालकः पाल्यतामयम् ॥ १.८४ इतीदं प्रकृतीरुक्त्वा पालकं पुनरब्रवीत् अवन्तिवर्धनं पुत्रम् मत्प्रीत्या पालयेरिति ॥ १.८५ विलक्षहसितं कृत्वा गोपालं पालकोऽब्रवीत् अवन्तिवर्धनो राजा राजन् कस्मान्न जायताम् ॥ १.८६ सत्सु भार्तृषु भूपाल गुणवत्स्वपि भूभुजः निक्षिप्तवन्तः श्रूयन्ते पुत्रेष्वेव गुरुं धुरम् ॥ १.८७ गोपालस्तमथोवाच भविष्यति युवा यदा त्वं च वृद्धस्तदा युक्तम् स्वयमेव करिष्यसि ॥ १.८८ एवं निरुत्तराः कृत्वा प्रकृतीस्ताः सपालकाः सर्वतीर्थाम्बुकलशैर् भ्यषिञ्चत्स पालकम् ॥ १.८९ आरोप्य चैनं त्वरितम् सिंहासनमुदङ्मुखः निर्जगाम पुरात्स्वस्माद् ेकरात्रोषितो यथा ॥ १.९० अथ राजनि काननावृते पुरमास्पन्दितलोकलोचनाम् निभृतश्वसितामयध्वनिं मृतकल्पां प्रविवेश पालकः ॥ १.९१ अथ बिभ्रद्दुरुच्छेदम् शोकं भ्रातृवियोगजम् उत्सृष्टपृथिवीचिन्तः पालकः कालमक्षिपत् ॥ २.१ तं पुरोधःप्रभृतयः कदाचिदवदन् प्रजाः उत्सीदन्तीः प्रजा राजन् नार्हसि त्वमुपेक्षितुम् ॥ २.२ भ्रातुः पुरः प्रतिज्ञाय दूरक्षां रक्षितुं क्षितिम् किं शोचसि न शोकोऽयम् ुपायः क्षितिरक्षणे ॥ २.३ षष्ठं पापांशमादत्ते रक्षन्नपि नृपः प्रजाः निक्षिप्तक्षितिरक्षस्तु सर्वमेव न मुञ्चति ॥ २.४ तस्माज्जिघांसता पापम् पुण्यं चोपचिचीषता राजन् धन्याः प्रजाः कार्याः सुखं चानुबुभूषता ॥ २.५ न चेदर्थयमानानाम् वचनं नः करिष्यसि ध्रुवं द्रक्ष्यसि संक्रान्ता देशान् राजन्वतः प्रजाः ॥ २.६ अवृत्तपूर्वमस्माभिर् ुदासीने त्वयि श्रुतम् बलादग्निगृहान्नीतः पुरोडाशः शुना किल ॥ २.७ बटोश्च भ्राम्यतो भिक्षाम् भिक्षापात्रादनावृतात् बटुत्वात्क्षिप्तचित्तस्य हृतः काकेन मोदकः ॥ २.८ इति श्रुत्वा ससंत्रासो राजा ताडितदुन्दुभिः मृगेन्द्रासनमध्यास्ते सुमेरुं मघवानिव ॥ २.९ तस्मिन्नारूढमात्रे च समं विकसिताः प्रजाः उदयाचलकूटस्थे नलिन्य इव भास्करे ॥ २.१० अथातीते क्वचित्काले विप्रान् पप्रच्छ पार्थिवः धर्ममाचक्षतां पूज्याः शुद्धमित्यथ तेऽब्रुवन् ॥ २.११ सर्वविद्याविदा धर्मः कस्त्वया नावलोकितः आचारोऽयमिति व्यक्तम् नुयुक्तास्त्वया वयम् ॥ २.१२ रागादिमन्तः पुरुषास्तैरुक्ता ह्यप्रमाणता सांख्यादीनामकार्यत्वाद् वेदस्यैव प्रमाणता ॥ २.१३ तस्माद्वेदेषु विहितम् यत्तदासेव्यतामिति श्रुत्वेदं नृपतिर्यज्ञैर् ीजे निःसंख्यदक्षिणैः ॥ २.१४ अथोत्सृष्टप्रजाकार्यम् दीक्षासन्तानसेवया मन्त्रिनौ जातसंत्रासौ तं कदाचिदवोचताम् ॥ २.१५ उद्धृतः शोकपङ्कात्त्वम् बलिभिर्द्विजकुञ्जरैः उद्धार्यः सांप्रतं केन दीक्षापङ्काद्दुरुत्तरात् ॥ २.१६ कामार्थौ यद्यपि त्यक्तौ सेव्यावेव तथापि तौ दुर्लभो हि विना ताभ्याम् धर्मः सुद्धो नृपैरिति ॥ २.१७ उपपन्नमिदं श्रुत्वा प्रतिश्रुत्य तथेति च देवतायाचनव्यग्र स्त्रीकमन्तःपुरं ययौ ॥ २.१८ पानाभरणवासः स्रक् प्रियवाग्दानमानिताः अन्तःपुरचरीः प्रैश्याश् चचार परितोषिताः ॥ २.१९ अनन्तरमनुज्येष्ठम् देवीः संमान्य भूपतिः वासुकिन्या महादेव्या निनाय सह यामिनीम् ॥ २.२० स ताम्रचूडरुतिभिर् बन्दिवृन्दैर्विबोधितः उपासिष्ट पुरःसंध्याम् ादिवाकरदर्शनात् ॥ २.२१ ततो धवलवासः स्रग् लंकारानुलेपनः स्तूयमानो जयाशीर्भिर् ास्थानस्थानमागतः ॥ २.२२ पुरोधःप्रभृतीस्तत्र प्रकृतीः प्रकृतिप्रियः मानयित्वा यथायोग्यम् सोपचारं व्यसर्जयत् ॥ २.२३ स्मयमानस्ततो राजा मन्त्रिणाविदमब्रवीत् आपानभूमिरुद्याने रमणीया प्रकल्प्यताम् ॥ २.२४ को हि युष्मद्विधसुहृद् विहितापत्प्रतिक्रियः विषयान्न निषेवेत दृष्टादृष्टाविरोधिनः ॥ २.२५ सोऽहं पौरजनं भृत्यान् न्तःपुरविचारिणः आत्मानं च भवन्नाथम् योजयामि सुखैरिति ॥ २.२६ अथ तौ प्रह्वमूर्धानौ स्वाम्यभिप्रायवेदिनौ पानोपकरणं सर्वम् सज्जमेवेत्यवोचताम् ॥ २.२७ व्याहार्य स ततस्तत्र सबालस्थविरां पुरीम् वस्त्राभरणमाल्यान्न दानैः प्रीतामकारयत् ॥ २.२८ पद्मरागादिशुक्तिष्ठम् ुत्पलाद्यधिवासितम् कृतजोत्कारमन्योऽन्यम् पीयते स्म ततो मधु ॥ २.२९ मधुपानान्तरालेषु सविपञ्चीस्वनं मुहुः गीयते स्म मनोहारि नटाद्यैर्नृत्यते स्म च ॥ २.३० विहृत्य दिनमेवं च शीतरश्मौ दिवाकरे विसृज्य प्रकृती राजा विवेशान्तःपुरं ततः ॥ २.३१ तत्रापि श्रुतसंगीतो दृष्टस्त्रीपात्रनाटकः पायिताशेषभार्यश्च पश्चान्निद्रामसेवत ॥ २.३२ एवमासेवमानस्य सार्तवं विषयान् गताः विवृद्धसुखरागस्य बहवस्तस्य वासराः ॥ २.३३ स कदाचिद्द्विजादिभ्यः सविषादो न्यवेदयत् स्वप्नो मयाद्य यो दृष्टः प्रशस्यैः श्रूयतामसौ ॥ २.३४ वाह्यावलोकनायाहम् निर्गतस्तत्र दृष्टवान् मत्तं महान्तमायान्तम् मातङ्गं वनचारिणम् ॥ २.३५ तन्मदामोदमाघ्राय राज्यहस्त्यपि मामकः क्रोधादुन्मूलितालानो यातः प्रति वनद्विपम् ॥ २.३६ वन्यस्तु हस्तमुत्क्षिप्य किंचिदाकुञ्चिताङ्गुलिः आहूतवानिव युद्धम् सगर्वैः कण्ठगर्जितैः ॥ २.३७ मदीयेनाथ नागेन वेगेनापत्य दूरतः संनिपातो महान् दत्तो दन्तयोर्वनदन्तिनः ॥ २.३८ स्फटिकस्तम्भशुभ्राभ्याम् दन्ताभ्यां तेन मामकः दूरमुत्क्षिप्य निक्षिप्तस्ततो यातः पराङ्मुखः ॥ २.३९ पराजितं परेणाथ दृष्ट्वा स्वं राज्यहस्तिनम् निवर्त्तयितुकामोऽहम् ासन्नानिदमुक्तवान् ॥ २.४० निवर्तयामि राज्येभम् शीघ्रमानयताङ्कुशम् शिक्षितो वत्सराजेन हस्तिशिक्षामहं ननु ॥ २.४१ इति मन्त्रयमाणोऽहम् लब्धप्रार्थिताङ्कुशः प्रतिबुद्धः ससंत्रासः किमेतदिति चिन्तयन् ॥ २.४२ इति स्वप्नो मया दृष्टः क्षणदायाः परिक्षये फलमिष्टमनिष्टं वा पूज्यैरत्रोच्यतामिति ॥ २.४३ अथानिष्टफलं स्वप्नम् जानन्तोऽपि द्विजातयः राजोपचारचतुराः स्थापयामासुरन्यथा ॥ २.४४ यौऽसौ राजन् गजो वन्यस्तं बुध्यस्व विनायकम् यश्चाभिषेकहस्ती तम् राज्यविघ्नं शरीरिणम् ॥ २.४५ तत्ते गणपतिः प्रीतः प्रसह्योद्धरति प्रभुः त्वमप्युन्मूलितानर्थश् चिरं पाहि महीमिति ॥ २.४६ इति दुःश्लिष्टमाकर्ण्य फलं स्वप्नस्य कल्पितम् सुखं नालभताथैनम् ब्रूतां मन्त्रिणाविदम् ॥ २.४७ श्रूयतां देव यद्वृत्तम् वृद्धस्य जगतीपतेः आवाभ्यां श्रुतमेतच्च गृहे कथयतः पितुः ॥ २.४८ मृगेन्द्रासनमारोढुम् प्रद्योतेन किलेच्छता यथाप्रधानमिलिताः पृष्टाः स्वप्नं द्विजातयः ॥ २.४९ मम सिंहासनस्थस्य स्थितो मूर्ध्नि विहंगमः विचित्रैः सप्तभिः पक्षैः कोऽसौ व्याक्रियतामिति ॥ २.५० तेषु निर्वचनेष्वेको द्विजः शाण्डिल्यनामकः सकम्पवचनोऽवोचन् नीचै.श्चञ्चलभीरुकः ॥ २.५१ राज्ञा स्वप्नफलं पृष्टाः किं तूष्णीमास्थ कथ्यताम् त्रस्यद्भिः परुषाद्वापि मादृक्कस्मान्न युज्यताम् ॥ २.५२ अनिष्टमपि वक्तव्यम् स्वनुष्ठानप्रतिक्रियम् दुष्करप्रतिकारे तु युक्तमित्थमुदासितुम् ॥ २.५३ इति श्रुत्वा महासेनः संशयामृष्टमानसः शाण्डिल्यमिदमप्राक्षीद् विवक्षुं स्फुरिताधरम् ॥ २.५४ ब्रह्मन् कथय विश्रब्धम् नुज्ञातो द्विजैरपि यस्मात्व्याहर्तुमारब्धः प्रतिषिद्धो न केनचित् ॥ २.५५ इत्युक्तः क्षितिपालेन व्याहर्तुमुपचक्रमे अहितादि हितान्तं च श्रूयतां देव मा कुपः ॥ २.५६ योऽसौ सप्तच्छदः पक्षी सोऽशनिर्दुःश्रवध्वनिः सप्त पक्षास्तु ये तस्य सप्त पक्षान्निबोध तान् ॥ २.५७ सर्वथा विस्तरेणालम् लं सिंहासनेन ते कश्चिदारोप्यतामेतद् यस्य नेच्छसि जीवितम् ॥ २.५८ कञ्चिदद्येदमारूढम् र्धमासेषु सप्तासु अतीतेष्वशनिर्हन्ति पतित्वा मूर्धनि ध्रुवम् ॥ २.५९ इति श्रुत्वा स्फुरत्क्रोधः प्रभूर्भरतरोहकम् अक्षिणी मुखरस्यास्य खन्येतामित्यचोदयत् ॥ २.६० यथाज्ञापयसीत्युक्त्वा बध्नन् परिकरं द्विजान् मन्त्री साक्षिनिकोचेन ग्राह्यवाक्यानसूचयत् ॥ २.६१ मृदुपूर्वं ततो विप्रा महीपालमबोधयन् देव नोन्मत्तवाक्यानि गृह्यन्ते पटुबुद्धिभिः ॥ २.६२ न च केवलमुन्मत्तो ब्राह्मणश्चैष मूढकः तेनापि नयनोद्धारम् नैव निग्रहमर्हति ॥ २.६३ किं तु तावदयं बद्धः स्थाप्यतां विधवासुतः पक्षाः सप्त गता यावत् ततः प्राप्स्यति निग्रहम् ॥ २.६४ सिंहासनमपि क्षिप्रम् ारोहतु नराधिपः लग्नेऽस्मिन्नेव सौवर्णः परीक्षार्थं द्विजन्मनः ॥ २.६५ यदि सत्यैव वागस्य ततः सत्कारमाप्स्यति विपर्यये खलीकारम् मन्वादिपरिभाषितम् ॥ २.६६ देवोऽपि दिवसानेतान् विद्भिः ब्राह्मणैः सह कुर्वद्भिः शान्तिकर्माणि महाकालं निषेवताम् ॥ २.६७ इति श्रुत्वा द्विजातिभ्यो युक्तमित्यवधार्य च बन्धयित्वा च शाण्डिल्यम् महाकालं ययौ नृपः ॥ २.६८ तत्र सप्त स्थितः पक्षान् पश्यद्दिवसेऽन्तिमे मध्यंदिने पयोदालीम् ुन्नमन्तीं रविं प्रति ॥ २.६९ अथ सा क्षणमात्रेण व्याप्तानन्तदिगन्तरा नीलकण्ठगलच्छाया प्रवृष्टा वृष्टिमश्मनाम् ॥ २.७० चण्डं चटचटाघोषम् ुद्घोष्याशनिरुत्कटः राजप्रतिकृतिं पिष्ट्वा तत्रैवान्तर्दधे ततः ॥ २.७१ अथ शाण्डिल्यमाह्वाय्य कृत्वा विगतबन्धनम् क्षमयित्वा च विपुलैः संप्रदानैरतोषयत् ॥ २.७२ राज्ञा चास्य कृतं नाम तच्च लोके प्रतिष्ठितम् सोऽयं मुखरशाण्डिल्यः सिद्धादेशोऽनुयुज्यताम् ॥ २.७३ तेन चाहूय पृष्टेन निःशङ्केन निवेदितम् शृणु राजन्न कोपं च पितृवत्कर्तुमर्हसि ॥ २.७४ योऽसौ वन्यो गजः सोऽन्यो राजा राजन्नुपागतः भवदीयो भवानेव सर्वथा श्रूयतामिदम् ॥ २.७५ त्वमन्येन महीपाल महीपालेन राज्यतः स्वतः प्रच्यावितस्तस्माद् युक्तमास्थीयतामिति ॥ २.७६ इति श्रुत्वा महीपाले विषादानतमूर्धनि शनैर्मुखरशाण्डिल्य प्रमुखा निर्ययुर्द्विजाः ॥ २.७७ मन्त्रिमात्रसहायस्तु राजा कृत्वा अवगुण्ठनम् कः स्याद्राजेति चिन्तावान् निषसाद नृपासने ॥ २.७८ सिद्धादेशस्य तु वचः श्रद्दधानः सुरोहकः विषादाद्दीनया वाचा महीपालमभाषत ॥ २.७९ महासेनेन दुःस्वप्नः स यथा वञ्चितस्तथा वञ्चय त्वमपि क्षिप्रम् त्यासन्नफलो ह्यसौ ॥ २.८० तिर्यग्योनिगतः कश्चिद् ध्यास्तां पार्थिवासनम् देवोऽपि दिवसान् कांचिद् वनवासी भवत्विति ॥ २.८१ तुष्णीभूतं तु राजानम् ेव ब्रुवति मन्त्रिणि गोपालतनयस्तत्र विवेशावन्तिवर्धनः ॥ २.८२ तस्य संक्रीडमानस्य दूरमुत्पत्य कन्दुकः निपत्योत्पत्य च पुनः सिंहासनतलं गतः ॥ २.८३ अवन्तिवर्धनयशा भगिनि तेन चोदिता सिंहासनतलादेव कन्दुकः कृष्यतामिति ॥ २.८४ तयोक्तं स्वयमेव त्वम् किं न कर्षसि कन्दुकम् किं चाहं भवतः प्रैष्या येनादिशसि मामिति ॥ २.८५ ततः पश्येति तामुक्त्वा तदुत्क्षिप्य नृपासनम् अवन्तिवर्धनोऽन्यत्र स्थापयामास निर्व्यथः ॥ २.८६ स तु कन्दुकमादातुम् ारब्धश्च नृपेण तु सिंहासनादवप्लुत्य परिष्वक्तस्त्रपानतः ॥ २.८७ अथानन्तरमाहूय राजा प्रकृतिमण्डलम् उवाच राजपुत्रोऽयम् द्य रज्येऽभिषिच्यताम् ॥ २.८८ युष्मत्समक्षमुक्तो हं भ्रात्रा ज्येष्ठेन गच्छता अवन्तिवर्धनं पुत्रम् मत्प्रीत्या पालयेरिति ॥ २.८९ तदादेशात्सुतत्वाच्च सोऽयं संवर्धितोऽधुना पित्र्यमासनमध्यास्ताम् न्यासं प्रत्यर्पितं मया ॥ २.९० अथास्मिन् संकटे कार्ये पालकेन प्रदर्शिते सभायामानताङ्गायाम् न कश्चिद्किंचिदुक्तवान् ॥ २.९१ ततो धर्मार्थकामानाम् मात्रामाख्याय पालकः पुत्रमारोपयामास सिंहासनमवन्तियम् ॥ २.९२ कृष्णाजिनाम्बरधरः कृतकेशनाशः स्कन्धावसक्तकरको नृपतिः पुराणः अध्यासित मुनिवरैः सह काश्यपेन मन्दस्पृहोऽसितगिरिं तपसे जगाम ॥ २.९३ अथावन्तिषु जन्तूनाम् क्षुद्राणामपि केनचित् जन्यते स्म न संतापः पार्थिवेऽवन्तिवर्धने ॥ ३.१ एवं बहुषु यातेषु वासरेषु महीपतिः कदाचिद्वाहयित्वाश्वान् निवृत्तो दृष्टवान् क्वचित् ॥ ३.२ तमालालम्बिदोलान्तर् विलसन्तीं कुमारिकाम् कालिन्दीह्रदसंक्रान्ताम् लोलामिन्दुकलामिव ॥ ३.३ उत्तरीयान्तसंसक्तम् ाकर्षन्तीं शिखण्डकम् निर्मुच्यमाननिर्मोकम् भोगं भोगवधूमिव ॥ ३.४ दृश्यमानस्तया राजा तां च पश्यन् पुनः पुनः आवृतो हयशालाभिः स्वं विवेश निवेशनम् ॥ ३.५ तत्र संक्षिप्तमासेव्य मज्जनादि रहोगतः दोलायमानहृदयो दोलामेव व्यचिन्तयत् ॥ ३.६ मन्दाशनाभिलाषस्य मन्दनिद्रस्य भूपतेः मन्दधर्मार्थचिन्तस्य दिवसाः कतिचिद्गताः ॥ ३.७ कदाचिदथ वेलायाम् मन्दरश्मौ दिवाकृति क्षुभितानामिवाश्रौषीत् स निर्घोषमुदन्वताम् ॥ ३.८ दिदृक्षुः कारणं तस्य समुद्भूतकुतूहले प्रासादतलमरोहद् न्तःपुरचरावृतः ॥ ३.९ नृमातङ्गतुरंगोष्ट्र गवाजैडकरासभान् संप्रमर्दन्तमद्राक्षीन् मातङ्गं संघमर्दनम् ॥ ३.१० उन्मूलितमहावृक्षश् चूर्णितप्रांशुमंदिरः भृङ्गमालापरीवारः स ययौ प्रति पक्षणम् ॥ ३.११ पानप्रसक्तमातङ्ग मण्डलप्रहितेक्षणम् मातङ्गराजमद्राक्षीन् मातङ्गग्रामणीस्ततः ॥ ३.१२ आदिदेश समीपस्थाम् कन्यकामविलम्बितम् हस्तिकीटोऽयमुद्दामो दुर्दान्तो दम्यतामिति ॥ ३.१३ कराम्भोरुहसंस्पर्श सुभगेनाथ साम्भसा आरात्सिषेच करिणम् करे कुञ्चितपुष्करे ॥ ३.१४ अथ संरम्भसंहारात् संवेल्लितकरः करी ववन्दे चरणौ तस्याः संस्पृश्य शिरसा महीम् ॥ ३.१५ तामवन्तिपतिर्दृष्ट्वा दृष्टपूर्वां तथागताम् चित्रीयमाणहृदयश् चिन्तयामास चेतसा ॥ ३.१६ किं चित्रं यदयं नागः सहरागः सचेतनः वशीकृतः शरीरिण्या वशीकरणविद्यया ॥ ३.१७ इयं हि वीतरागादीन् मुनीनपि निरीक्षिता वशीकुर्याद्विशन्ती च चलयेदचलानपि ॥ ३.१८ अथेन्द्रायुधरागेण सोत्तरीयेण दन्तयोः बद्धां दोलामधिष्ठाय नागं याहीत्यचोदयत् ॥ ३.१९ ततो मन्दतराभ्यासैश् चरणैः संघमर्दनः अभिस्तम्भमगाद्वीत भयपौरजनावृतः ॥ ३.२० तयोक्तमातपश्चण्डः संतापयति मामिति अशोकपल्लवैश्छायाम् थ तस्याश्चकार सः ॥ ३.२१ बन्धयित्वा गजं स्तम्भे प्रासादतलवर्तिनम् वन्दित्वा च महीपालम् मातङ्गी पक्षणं ययौ ॥ ३.२२ मातङ्गीवन्दनापूतम् ात्मानं प्रेक्ष्य पार्थिवः केयं कस्य कुतो वेति पृच्छति स्म सुरोहकम् ॥ ३.२३ स तस्मै कथयामास देव न ज्ञायते कुतः सहसैवेदमायातम् परुन्मातङ्गपक्षणम् ॥ ३.२४ ऋद्धिमन्तोऽत्र मातङ्गास्तेषामुत्पलहस्तकः ग्रामणीस्तस्य कन्येयम् सुता सुरसमञ्जरी ॥ ३.२५ इति श्रुत्वा प्रविश्यान्तर् ध्यायन् सुरसमञ्जरीम् स्वदेहं यापयामास पित्तज्वरचिकित्सितैः ॥ ३.२६ सुरोहकस्तु तं दृष्ट्वा मातङ्गीदूषिताशयम् आख्यदङ्गारवत्यै स तन्नप्तुर्वृत्तमीदृशम् ॥ ३.२७ सा तु स्थित्वा क्षणं तूष्णीम् विचारस्तिमितेक्षणा स्मितापगमितत्रासम् सुरोहकमभाषत ॥ ३.२८ मातङ्गरूपधारिण्यो यथान्या दिव्ययोषितः तथेयमपि केनापि निमित्तेनागता महीम् ॥ ३.२९ क्व संघमर्दनो व्यालः क्व च तद्दन्तलम्बनम् व्यापारोऽयमदिव्यस्य प्रेक्षितः केन कस्यचित् ॥ ३.३० अथ वालं विमर्शेन स्वयं सबन्धिनो गृहम् कन्यां वरयितुं यामि नात्मतुल्यास्ति दूतिका ॥ ३.३१ साथ प्रवहणारूढा वृद्धविप्रपुरःसरा गत्वा पक्कणमध्यस्थम् ददर्शोत्पलहस्तकम् ॥ ३.३२ दूरादेव स दृष्ट्वा ताम् ात्तकर्करवेणुकः सह मातङ्गसंघेन ववन्दे दूरमुत्सृतः ॥ ३.३३ अथाङ्गारवती यानाद् वतीर्णा तमब्रवीत् अहं त्वां द्रष्टुमायाता त्वमप्येष पलायसे ॥ ३.३४ कार्यं मे महदासन्नम् ाधीनं चापि तत्त्वयि दूरोत्सरणमुत्सृज्य तेन ढौकस्व मामिति ॥ ३.३५ तमुत्सारितमातङ्गम् सासन्नासीनमब्रवीत् मन्नप्त्रे दीयतां राज्ञे राज्ञी सुरसमञ्जरी ॥ ३.३६ चाण्डालीस्पर्शनं राजा नार्हतीत्येवमादिभिः न च ग्रामेयकालापैस्त्वं मां बाधितुमर्हसि ॥ ३.३७ यश्च दिव्याभिमानस्ते तत्रापीदं ममोत्तरम् ममापि भद्र दौहित्रश् चक्रवर्ती भवादृशाम् ॥ ३.३८ इत्यङ्गारवतीवाक्यम् ाकर्ण्योत्पलहस्तकः अनुक्तोत्तर एवास्यै तथेति प्रतिपन्नवान् ॥ ३.३९ अथ प्रच्छन्नमारोप्य युग्यं सुरसमञ्जरीम् मृतसंजीविनी नप्तूर् सावोषधिमानयत् ॥ ३.४० परिणीय तु मातङ्गीम् न्तरन्तःपुराद्बहिः स बुद्ध्यापि न याति स्म प्रत्यक्षमपि तां स्मरन् ॥ ३.४१ इयमेवास्ति तत्त्वेन मिथ्यान्यदिति चिन्तयन् गन्धर्वनगराकारम् स संसारममन्यत ॥ ३.४२ गमयन् दिवसानेवम् ेकदा सह कान्तया स प्रासादगतोऽपश्यत् पक्षणं निर्जनंगमम् ॥ ३.४३ तं च दृष्ट्वा त्रियामान्ते मन्दं सुरसमञ्जरी क्रन्दन्ती परिमृज्याश्रुम् नुयुक्तेति भूभृता ॥ ३.४४ किं शून्यं पक्कणं दृष्ट्वा रुद्यते सुन्दरि त्वया उतान्यदस्ति दुःखस्य कारणं कथ्यतामिति ॥ ३.४५ साब्रवीत्किं ममाद्यापि पक्कणेन बवद्गतेः किं तु कारणमस्त्यन्यद् भीषणं तन्निशाम्यताम् ॥ ३.४६ सिद्धमातङ्गविद्योऽयम् पिता मम महर्द्धिकः सप्तवर्णपुरे पूर्वम् वायुमुक्ते पुरेऽवसत् ॥ ३.४७ तत्र कालः श्वपाकोऽस्ति विद्याधरगणाधमः इप्फको नाम तस्यैव पित्राहं च प्रतिश्रुता ॥ ३.४८ तातस्य वियतायातः कदाचिदथ मारुतः रजःपिशङ्गभृङ्गालीम् हरत्कुसुमस्रजम् ॥ ३.४९ सा तु संध्यामुपासीनम् गङ्गारोधसि नारदम् स्थाणुस्थिरं भुजंगीव विलोला पर्यवेष्टयत् ॥ ३.५० व्युत्थितश्च समाधेस्तम् दृष्ट्वा लोहितलोचनः नारदश्चण्डकोपत्वाद् ुच्चैरिदमभाषत ॥ ३.५१ शरीरोपहता माला येनेयं मालभारिणा क्षिप्ता मयि मनुष्येषु चण्डालः स भवत्विति ॥ ३.५२ सोऽथ शापोपतप्तेन पित्रा विज्ञापितो मम तीव्रस्य ब्रह्मशापस्य प्रतीकारो भवत्विति ॥ ३.५३ अथ कृपाम्बुशमित क्रोधज्वालाकदम्बकः नारदाग्निरुवाचेदम् म्लानमुत्पलहस्तकम् ॥ ३.५४ न शक्यः प्रतिसंहर्तुम् शापवह्निर्मयाप्ययम् उत्सृष्टः कृतपुङ्खेन धानुष्केणेव सायकः ॥ ३.५५ किं त्वनिच्छाशमाः शापाः प्राज्ञैरभिमुखा गताः स्वल्पेनापि हि वञ्च्यन्ते तेन त्वमपि वञ्चय ॥ ३.५६ परिणेष्यति गौपालिर् भवतस्तनयां यदा तदा त्वं दारुणादस्माद् स्मच्छापाद्विमोक्ष्यसे ॥ ३.५७ इति शापे वरं लब्ध्वा वयं त्वत्पादपालिताः उषिता वर्जिता दुःकैर् होरात्रसमां समाम् ॥ ३.५८ साहं मुनेः प्रसादेन जाता त्वत्पादपालिका तेनापि शान्तशापेन स्वर्गादस्मान्निराकृता ॥ ३.५९ स कदाचिदितो दृष्ट्वा गतमुत्पलहस्तकम् मत्कृते त्वामपि क्रूर िप्फकः पीडयेदिति ॥ ३.६० निर्मातङ्गमिदं दृष्ट्वा मया पितृनिवेशनम् चण्डालभयशङ्किन्या रुदितं निःसहायया ॥ ३.६१ अस्ति चात्रापि सुकर ुपायः स तु दुष्करः महाराजस्य साध्यत्वात् प्रतिकूलो हि पार्थिवः ॥ ३.६२ यदि विज्ञापयन्तीं मम् नान्यथा वक्तुमिष्यसि ततो विज्ञापयिष्यामि कर्तव्ये तु भवान् प्रभुः ॥ ३.६३ अथोक्तं जनराजेन यदिच्छसि तदुच्यताम् मुक्त्वान्यस्त्रीकथां भीरु सर्वं संपादयामि ते ॥ ३.६४ अथानन्दजनेत्राम्बु सिक्ताननपयोधरा अतिप्रसाद इत्युक्त्वा ब्रवीत्सुरसमञ्जरी ॥ ३.६५ विद्याधरादिराजेन व्यवस्था स्थापिता यथा हिंसितव्यः सदोषोऽपि न अन्तःपुरगतो नृपः ॥ ३.६६ इतीदं नृपतिः श्रुत्वा तामुवाच कृतस्मितः अनुग्रहेऽपि याच्ञेति यदिदं तदिदं ननु ॥ ३.६७ ततश्चारभ्य दिवसाद् हर्निशमवन्तिपः अमावास्यां शशीवासीज् जनदुर्लभदर्शनः ॥ ३.६८ कदाचिदथ निर्यान्तीम् पुरीमुदकदानकम् श्रुत्वा हर्म्यावलीशेषाम् राजाप्यासीत्समुत्सुकः ॥ ३.६९ शैशवप्राप्तराज्यत्वाद् िन्द्रियानीतमानसः तदाल्पदर्शी समयम् विसस्मार स तं ततः ॥ ३.७० प्रसुप्तामेव दयिताम् ारोप्य शिबिकां निशि तटं शिवतडागस्य चित्रवृत्तान्तमानयत् ॥ ३.७१ ततस्तन्मकराकीर्णम् पोतेनेव महार्णवम् प्लवेन व्यचरत्सार्धम् भार्यया वीतनिद्रया ॥ ३.७२ अनुज्ञातावगाहांश्च पश्यन् पौरकुमारकान् सोऽपश्यद्दयितां भीताम् मा भैषीरिति चाब्रवीत् ॥ ३.७३ सावदत्पालिता येन प्रजाः सर्वा न बिभ्यति तस्यैवोरसि तिष्ठन्ती बिभेमीति न युज्यते ॥ ३.७४ किं तु यात्रानुभूतेयम् िदानीं निष्प्रयोजनम् इहासितमहं मन्ये तस्मादावर्त्यतामिति ॥ ३.७५ यात्रापहृतचेतस्त्वात् तद्वाक्यमवकर्णयन् सभार्यं बद्धमात्मानम् ैक्षतावन्तिवर्धनः ॥ ३.७६ क्रन्दतामथ पौराणाम् पश्यतां चोर्ध्वचक्षुषाम् इप्फकः स्फुरितक्रोधः समुत्क्षिप्य जहार तम् ॥ ३.७७ अथाङ्गारवतीं मूढाम् पौत्रापहरणश्रवात् ह्लादयामासतुर्वाक्यैः सचिवौ सजलानिलैः ॥ ३.७८ सा तावुवाच संभ्रान्ता गत्वासितगिरिं लघु पालकः श्राव्यतां सूनोर् वृत्तान्तमिति तौ गतौ ॥ ३.७९ काश्यपप्रमुखांस्तत्र नमस्कृत्य च तापसान् वन्दितायाचचक्षाते पालकाय हृतं सुतम् ॥ ३.८० अथ कण्ठगतप्राणम् काश्यपः समजीवयत् स्वन्तः खल्वेष वृत्तान्त िति वाक्यामृतेन तम् ॥ ३.८१ संदेहश्चेन्निरीक्षस्व नभःप्रस्थापितेक्षणः आयान्तीमेव जानीहि पुत्रवार्त्तां शिवामिति ॥ ३.८२ अथागच्छन्तमैक्षन्त नभःप्रहितदृष्टयः चकासदसिचर्माणम् दिवि दिव्यं तपस्विनः ॥ ३.८३ सोऽवतीर्य मरुन्मार्गाद् स्वतन्त्रीकृतेप्फकः सह चावन्तिनाथेन काश्यपादीनवन्दत ॥ ३.८४ वधूवन्दितपादे च चेतनावति पालके विद्याधरः कथितवान् वृत्तान्तं मुनिसंनिधौ ॥ ३.८५ नरवाहनदत्तस्य विद्याधरपतेः प्रियम् मां दिवाकरदेवाख्यम् जानीत परिचारकम् ॥ ३.८६ सोऽहं हिमवतो गच्छन् नभसा मलयाचलम् उपरिष्टादवन्तीनाम् चण्डालं दृष्टवानिमम् ॥ ३.८७ अपहृत्यापगच्छन्तम् सदारं मेदिनीपतिम् इप्फकं नाम मातङ्गम् विद्याधरकुलाधमम् ॥ ३.८८ मुञ्चेति च मयोक्तः सन् यदायं न विमुक्तवान् तदा युद्धेन निर्जित्य प्राप्तितश्चक्रवर्तिनम् ॥ ३.८९ अनुयुक्तश्च तेनायम् यं राजा हृतस्त्वया किमित्यवोचदेतेन यन्मे दारा हृता इति ॥ ३.९० अथ भर्त्राहमादिष्टः संयम्य प्राप्यतामयम् सभासद्भिः सभां सद्भिः काश्यपाद्यैरधिष्ठिताम् ॥ ३.९१ व्यवहारे विनिर्जित्य लब्धा सुरसमञ्जरीम् वर्धमानकमालां वा निर्जितोऽयं सरासभाम् ॥ ३.९२ अहमप्यार्युषं द्रष्टुम् काश्यपं स्वं च मातुलम् आगन्ता स्वः प्रतिज्ञातम् तेषामागमनं मया ॥ ३.९३ ततः संमान्य राजानम् दिव्यैरम्बरभूषणैः आलिङ्ग्य च ससौहार्दम् मया सह विसृष्टवान् ॥ ३.९४ स चायमिप्फको बद्धः सदारश्चैष भूपतिः चक्रवर्ती च वो द्रष्टुम् ागन्ता सावरोधनः ॥ ३.९५ ते दिवाकरदेवस्य श्रुत्वेदमृषयो वचः हर्षाश्रुसिक्ततनवः कृच्छ्रादक्षपयन् क्षपाम् ॥ ३.९६ अथ प्रातर्नभोव्यापि निरभ्रे व्योम्नि गर्जितम् आकर्ण्य मुनयोऽपृच्छन् किमेतदिति खेचरम् ॥ ३.९७ सोऽब्रवीदेष निर्घोषो दुन्दुभीनां विमानिनाम् विमानगर्भवर्तित्वात् श्रूयते गर्जिताकृतिः ॥ ३.९८ अयमायाति नः स्वामी विद्याधरपतीश्वरः गर्जद्दुन्दुभिजीमूतो नभसा दृश्यतामिति ॥ ३.९९ रोहितेन्द्रधनुर्विद्युत् बलाकाद्युतिपिञ्जरम् अम्भोदानामिव व्याप्त सकलाशानभस्तलम् ॥ ३.१०० नानारत्नप्रभाजाल करालमथ तापसैः आरादायाद्विमानानाम् दिवो वृन्दमदृश्यत ॥ ३.१०१ अवतीर्याश्रमद्वारि विमानं चक्रवर्तिनः स्थितमन्यानि शैलस्य कन्दरासानुमूर्धसु ॥ ३.१०२ विद्याधराधिराजस्य विमानं कमलाकृति पद्मरागपलाशानाम् षड्विंशत्या परिष्कृतम् ॥ ३.१०३ स्वयं गरुडपाषाण कर्णिकामध्यमास्थितः स्थितास्तस्य पलाशेषु भार्याश्चित्रविभूषणाः ॥ ३.१०४ सभार्याकरिणीयूथः स विद्याधरकुञ्जरः सभां कमलिनीमागात् फुल्लाननसरोरुहाम् ॥ ३.१०५ अभिवाद्य ततस्तत्र काश्यपप्रमुखान्मुनीन् हर्षातिशयनिश्चेष्टम् ववन्दे मातुलं मुनिम् ॥ ३.१०६ भर्तारमनुयान्तीभिर् नुज्येष्ठतपस्विनः देवीभिर्वन्दितास्तस्य श्वशुरस्तदनन्तरम् ॥ ३.१०७ अनुज्ञातासनासीनम् काश्यपश्चक्रवर्तिनम् प्रसृष्टानन्दनेत्राम्बुर् ब्रवीद्गद्गदाक्षरम् ॥ ३.१०८ अप्राप्तेष्टार्थसंपत्ति वाञ्छाशीरभिधीयते आयुष्मता तु तत्प्राप्तम् ाशिषां यदगोचरम् ॥ ३.१०९ किं तु संभाषितैः कार्यम् प्रतिसंभाषणं यतः आचारमनुगच्छद्भिर् स्माभिरिदमुच्यते ॥ ३.११० अनिन्द्यमिदमैश्वर्यम् सभार्यासुहृदस्तव महाकल्पावसानेऽपि कूटस्थं तिष्ठतामिति ॥ ३.१११ पालकेनानुयुक्तस्तु वधूनां गोत्रनामनी गोमुखः कथयामास प्रेरितश्चक्रवर्तिना ॥ ३.११२ एवमादिकथान्ते च चक्रवर्ती तपस्विनः अब्रवीदिप्फकः पूज्या मातङ्ग अनुयुज्यताम् ॥ ३.११३ कं दोषमयमुद्दिश्य यात्राव्यापृतमानसम् सार्धं सुरसमञ्जर्या राजानं हृतवानिति ॥ ३.११४ स पृष्टः प्रत्युवाचेदम् मह्यमुत्पलहस्तकः दत्त्वा दुहितरं पश्चाद् ेतस्मै दत्तवानिति ॥ ३.११५ अथ ब्रूहीति पृष्टः सन्न् ुवाचावन्तिवर्धनः दत्त्वा न दत्तवान् योऽस्मै नन्वसौ पृच्छ्यतामिति ॥ ३.११६ अथोज्झितासनः सभ्यान् ुवाचोत्पलहस्तकः यथाहायं तथैवेदम् विशेषं तु निबोधत ॥ ३.११७ नारदेन पुरा शप्तः क्रुद्धेनाहं यथा तथा प्रत्यक्षमेव पूज्यानाम् दिव्यलोचनचक्षुषाम् ॥ ३.११८ तदा मयैष दीर्घायुर् बहुकृत्वः प्रबोधितः सुता दत्ता मया तुभ्यम् ुपयच्छस्व तामिति ॥ ३.११९ उक्तश्चैवमुवाचायम् निन्दितां कः सचेतनः कन्यकामुपयच्छेत शापदग्धात्कुलादिति ॥ ३.१२० प्रत्याख्याता यदानेन चण्डसिंहादिसंनिधौ अवन्तिपतये दत्ता तदा सुरसमञ्जरी ॥ ३.१२१ संदेहश्चेदमी सर्वे विद्याधरगणेश्वराः पृच्छ्यन्तामिति पृष्टैश्च तत्तथेति निवेदितम् ॥ ३.१२२ काश्यपस्तमथावोचद् वसन्नोऽसि खेचर चण्डसिंहादिभिर्यस्मात् प्रमाणैः प्रतिपादितः ॥ ३.१२३ अस्य चाविनयस्येदम् प्रायश्चित्तं समाचर वाराणस्यां मृताङ्गानि गङ्गाम्भसि निमज्जय ॥ ३.१२४ प्रेतावासकृतावासो वसानः प्रेतचीवरम् भैक्षाशनश्च वर्षान्ते मुक्तशापो भविष्यसि ॥ ३.१२५ अथोज्जयन्याः कथमप्युपागतैर् जरान्धजात्यन्धजडार्भकैऋ अपि दिदृक्षुभिर्वत्सनरेन्द्रनन्दनम् तपोवनं सप्रमदैस्तदावृतम् ॥ ३.१२६ अथ विद्याधरपतिः काश्यपेनार्युषा पुरः ऋषिमातुलमित्राणाम् पृष्टो भार्यागणस्य च ॥ ४.१ आयुष्मन् वयमेते च तपोवित्ताः सपालकाः त्वत्कथाश्रवणोत्कण्ठ निष्कम्पमनसः स्थिताः ॥ ४.२ ऐश्वर्यं दुर्लभं लब्धम् िदमायुष्मता यथा स्वीकृताश्च यथा वध्वस्तथा नः कथ्यतामिति ॥ ४.३ अथ विद्याधरेशस्य पृष्टस्येति तपस्विना त्रासात्पृथुतराक्षस्य जातमच्छायमाननम् ॥ ४.४ अचिन्तयच्च कष्टेयम् ापदापतिता यतः अत्यासन्नोऽतिचपलः को न दह्येत वह्निना ॥ ४.५ इयमपि भृशं रक्ता प्रीत्याहमनयाहृतः इदं सचेतनः को नु कथयेद्गुरुसंनिधौ ॥ ४.६ शूरो मया हतः शत्रुर् मां शूरः शरणं गतः इति शूरकथां शूरः कुर्यात्कः शूरसंनिधौ ॥ ४.७ अनाख्याने मुनेः शापो महापातकमन्यथा सुलभान्तो वरं शापो दुस्तरं न तु पातकम् ॥ ४.८ कृत एव तु गौर्या मे प्रसादः संकटेषु माम् स्मरेरिति न च न्याय्यम् तामपि स्मर्तुमीदृशि ॥ ४.९ इति चिन्तितमात्रैव पुरस्ताच्चक्रवर्तिनः अभाषत महागौरी प्रभोपहतभास्करा ॥ ४.१० ऋषिमातुलभार्याणाम् सुहृदां च सभूभुजाम् श्रोतुं यदुचितं यस्य स तच्छ्रोष्यति नेतरः ॥ ४.११ इत्युक्त्वा वदने तस्य पटूभूत्वा सरस्वती चरितं कथयामास सा चित्रं चक्रवर्तिनः ॥ ४.१२ मुनिमातुलमित्राणि राजानो दयिताश्च ये आख्यायमानं चरितम् शृण्वन्त्वचलचेतसः ॥ ४.१३ अस्ति वत्सेषु नगरी कौशाम्बी हृदयं भुवः संनिविष्टानुकालिन्दि तस्यामुदयनो नृपः ॥ ४.१४ मनाग्जनपदस्यास्य नगर्याः पार्थिवस्य च कथयेयं यदि गुणान् न कथा कथिता भवेत् ॥ ४.१५ यो हि सप्तार्णवद्वीपाम् द्रष्टुमुच्चलितः क्षितिम् रत्नानि गणयेन्मेरोः कदा द्रष्टा स मेदिनीम् ॥ ४.१६ तस्मादलं प्रसङ्गेन कथाव्यासङ्गकारिणा कथ्यमानां कथामेव शृणुत प्रकृतां मया ॥ ४.१७ महावरोधनस्यापि भार्याबुद्धिर्द्वये स्थिता तस्य वासवदत्तायाम् पद्मावत्यां च भूपतेः ॥ ४.१८ महाप्रभावा नृपतेः शार्ङ्गपाणेर्भुजा इव सकाया इव चोपायाश् चत्वारो मित्रमन्त्रिणः ॥ ४.१९ ऋषभश्च रुमण्वांश्च तथा यौगन्धरायणः वसन्तकश्चेति स तैः सह कालमयापयत् ॥ ४.२० कदाचिदास्थानगतम् नृपं वाणिजदारकौ जानुस्पृष्टमही पृष्टौ संविज्ञापयतामिदम् ॥ ४.२१ देवावयोः पिता यातः सभयं मकरालयम् सह तेन स पोतेन नागलोकं प्रवेशितः ॥ ४.२२ ज्येष्ठश्च तनयस्तस्य पितृभक्त्यैव सागरम् गतस्तत्रैव च गतः सोऽपि तातगतां गतिम् ॥ ४.२३ यच्च नो द्रविणं सारम् तद्गृहीत्वा प्रजावती स्थिता न मृग्यमाणापि बहुकृत्वः प्रयच्छति ॥ ४.२४ तेन देव यदि न्याय्यम् पितृद्रविणमावयोः भ्रातृजाया ततः सा नौ व्युत्थिता दाप्यतामिति ॥ ४.२५ अथ राजावदत्पह्वाम् प्रतीहारीं यशोधराम् दुष्करं कुलनारीभी राजास्थानप्रवेशनम् ॥ ४.२६ तेन गत्वा गृहं तस्यास्त्वया वाणिजयोषितः सा यदाह सभायास्तत् समक्षं कथ्यतामिति ॥ ४.२७ अथ विज्ञापयामास यातायाता यशोधरा विज्ञापयति सा यत्तद् ाकर्णयितुमर्हथ ॥ ४.२८ सा दूरादेव मां दृष्ट्वा प्रत्युद्गम्य ससंभ्रमा स्वाग्तं राजजिह्वाया ित्यवोचत्कृतस्मिता ॥ ४.२९ अथ वेत्रासनासीनाम् प्रयुक्तार्घादिसत्क्रियाम् सा मामाहागमे कार्यम् ार्यया ज्ञाप्यतामिति ॥ ४.३० देवादेशे तु कथिते तयोक्तं पटुलज्जया आर्ये सर्वमिदं सत्यम् देवरौ मे यदाहतुः ॥ ४.३१ किं तु तस्यानयोर्भ्रातुर् विपन्नं वहनं श्रुतम् वहनस्य पुनः स्वामी विपन्न इति न श्रुतम् ॥ ४.३२ सांयात्रिकाश्च बहवः श्रुतपोतविपत्तयः अविपन्ना गृहानेव श्रूयन्ते पुनरागताः ॥ ४.३३ तथा कदाचिदनयोः स भ्राता वहनापदः विमुक्तः पुनरायायान् ममावैधव्यलक्षणैः ॥ ४.३४ अन्यच्चापन्नसत्त्वाया मासोऽयं दशमो मम वर्तते भ्रातृपुत्रोऽपि कदाचिदनयोर्भवेत् ॥ ४.३५ पुत्रो मे यदि जायेत जीवन् वा पतिरापतेत् ततः स्वीकृतसर्वस्वौ देवरौ मे क्व यास्यतः ॥ ४.३६ एतन्मनसि कृत्वार्थम् द्रव्यं देवरयोरहम् न निक्षिप्तवती शेषम् ार्यया ज्ञाप्यतामिति ॥ ४.३७ इति श्रुत्वा महीपालो वाणिजाविदमब्रवीत् कुटुम्बाचारचतुरा युक्तमाह कुटुम्बिनी ॥ ४.३८ भ्रातृव्ये भवतोर्जाते भ्रातुरागमनेऽथ वा उभयोर्नोभयोर्वापि युक्तं भोक्ष्यामहे तदा ॥ ४.३९ अथानिष्ठितए एवास्मिन्न् ालापे पूरिताम्बरः तूर्यगर्जितसंभिन्नस्तारः कलकलोऽभवत् ॥ ४.४० सहासया च सहसा वासोवासादिहस्तया वणिग्गणिकया राजा व्यज्ञाप्यत वियातया ॥ ४.४१ वर्धतां नश्चिरं देवो दिष्ट्या प्रकृतिसंपदा वणिजो भ्रातृजायाया जातः पुत्रोऽनयोरिति ॥ ४.४२ चित्रीयमाणचित्तेन चिन्तितं च महीभुजा अहो पुत्रस्य माहात्म्यम् प्रत्यक्षमनुभूयते ॥ ४.४३ कुटुम्बिनः पुत्रनाम्नि जाते शोणितबिन्दुके हर्षविभ्रान्तचित्तानाम् वणिजां पश्य डम्बरम् ॥ ४.४४ वणिजो द्रविणस्यायम् तः पालक इत्यमी समं हर्षविषादाभ्याम् मित्रामित्रसमा गताः ॥ ४.४५ अस्माकं तु धनस्यास्य मेदिनीमण्डलस्य च अवसाने विना पुत्रात् पालकः को भविष्यति ॥ ४.४६ इति पुत्रगतां चिन्ताम् ुपासीनस्य भूपतेः दीर्घश्वाससहायस्य दिवसाः कतिचिद्ययुः ॥ ४.४७ तमेकदा सुखासीनम् सेनापतिरभाषत यात्रा मृगाजिनोद्याने त्वद्दृष्ट्या मण्डतामिति ॥ ४.४८ गतश्च दृष्टवांस्तत्र तत्र तत्र निवेशिताः विशालाश्चित्रशालाः स चित्रन्यस्तनराधिपाः ॥ ४.४९ अपृच्छच्च रुमण्वन्तम् यं कः कः क्षितीश्वरः ये चैताननुतिष्ठन्ति ते के के पुरुषा इति ॥ ४.५० सोऽब्रवीदेष सगरः कीर्तिलङ्घितसागरः षष्त्या पुत्रसहस्राणाम् शूराणां परिवारितः ॥ ४.५१ अयं दशरथो राजा वृतो रामादिभिः सुतैः अयं पाण्डुरमी चास्य तनयाः पञ्च पाण्डवाः ॥ ४.५२ एवमादीनसौ दृष्ट्वा स्वर्गिणः पुत्रिणो नृपान् विचिन्तश्चिन्तयामास चित्रां यात्रामचिन्तयन् ॥ ४.५३ पुण्यवन्त इमे भूपाः पुत्रवन्तो दिवं गताः मन्दपुण्येन यातव्यम् मन्ये पुंनरकं मया ॥ ४.५४ स मृगाजिनयात्रायाः परीतः पुत्रचिन्तया निवृत्यापश्यदावन्त्याम् मन्दिरोद्यानसेविनीम् ॥ ४.५५ स्वकराम्बुरुहछाया संलोहितितपल्लवम् ताम्राशोकलताप्रान्तम् वलम्ब्य व्यवस्थिताम् ॥ ४.५६ अनादरादनाहितैर् माल्यचन्दनभूषणैः उद्वेगमिव शंसन्तीम् म्लानाननसरोरुहाम् ॥ ४.५७ उपगम्याब्रवीच्चैनाम् किमशोकः सशोकया वन्द्येत लब्धविजयो रक्तो बालो निषेव्यते ॥ ४.५८ साब्रवीत्सहसायात भर्तृकारितसंभ्रमा महाराज कुतः शोको नामापि तव गृह्यताम् ॥ ४.५९ किं तु पारावतीमेनाम् चञ्च्वा चञ्चुषु तण्डुलान् आवपन्तीं स्वशावानाम् ीक्षे पुत्रवतीमिति ॥ ४.६० आसिच्च नृपतेश्चिन्ता यथाहं पुत्रचिन्तया अनन्तया संततया तथेयमपि खिद्यते ॥ ४.६१ अथ तत्र क्षणं स्थित्वा गत्वा पद्मावतीगृहम् अदृष्ट्वा तत्र तां तस्याः पृष्टवान् परिचारिकाम् ॥ ४.६२ क्व देवीत्युक्तयाख्यातम् ुद्याने पुत्रकस्य सा माधव्या सहकारस्य विवाहमनुतिष्ठति ॥ ४.६३ श्रुत्वेति वत्सराजस्य बुद्धिरासीदहो मम भार्याणां दिवसा यान्ति सह पुत्रमनोरथैः ॥ ४.६४ लोकस्यानिच्छतः पुत्रैः कीर्णगृहकरोदिभिः फलकेषु कृताक्रन्दैर् वकाशो न लभ्यते ॥ ४.६५ अस्माकमिच्छतामेकः कुलजीवितकारणम् न लभ्यते सुतः पश्य वैपरीत्यं विधेरिति ॥ ४.६६ निर्याय स ततः स्वस्मिन् मन्दिरोद्यानमण्डपे अनागतागतसुहृत् परिवार उपाविशत् ॥ ४.६७ अपृच्छत्सुहृदस्तत्र भवतां जीवितौषधम् मूलं कुलतरोः कस्य कियन्तः पुत्रका इति ॥ ४.६८ तेषु निष्प्रतिवाक्येषु किंचिन्नमितमूर्धसु वसन्तकः परिहसन् प्रणयित्वादभास्.अत ॥ ४.६९ स्वामिभक्ता वयं देव स्वामिवृत्तानुवर्तिनः यावन्तः स्वामिनः पुत्रास्तावन्तोऽस्माकमप्यतः ॥ ४.७० तमवोचत्समीपस्थः शनैर्यौगन्धरायणः अप्रस्तावेऽपि भवतो मुखमेतदनावृतम् ॥ ४.७१ पुत्रचिन्तारुजार्तस्य कुर्वाणः शल्यघट्टनम् नन्वनेकगुणां भर्तुर् ुत्पादयसि वेदनाम् ॥ ४.७२ तस्मादेवंविधे काले भृत्यवृत्तविदा त्वया स्वामिचित्तानुकुलैव वृत्तिरास्थीयतामिति ॥ ४.७३ सोऽब्रवीत्पुत्रचिन्तैनम् यदि सत्येन पीडयेत् ततः पिङ्गलिकैवेयम् देवमाराधयेदिति ॥ ४.७४ अथेदं नीयकैरुक्तम् युक्तं श्रुत्वा महीभुजा यासौ पिङ्गलिका सा नः पुत्रिणी कथ्यतामिति ॥ ४.७५ अनन्तरं च ढौकित्वा जयशब्दपुरःसरम् पुत्रवान् भव देवेति ब्राह्मणी तमवर्धयत् ॥ ४.७६ अभिवाद्य महीपलस्तामपृद्धदथार्यया आगम्यते कुतः के वा तवामी बालका इति ॥ ४.७७ गृहाद्वासवदत्ताया राजन्नागम्यते मया बालकाश्च सुता एते ममेति कथितं तया ॥ ४.७८ अथ तामब्रवीद्राजा चित्रमेतत्त्वयोदितम् न हि भर्त्रा न च सुतैर् भवितव्यं तवेदृशैः ॥ ४.७९ त्वं लेखाभिः पतिघ्नीभिः सकलैव करालिता चिरप्रोषितकान्ताया गृहभित्तिरिव स्त्रियः ॥ ४.८० न च पत्या विना पुत्रैर् भवितव्यं यतः स्त्रियः तस्मादिदं महच्चित्रम् स्फुटं नः कथ्यतामिति ॥ ४.८१ अथावोचदसौ देव यथात्थ न तदन्यथा महती तु कथा श्रोतुम् िच्छा चेच्छ्रूयतामियम् ॥ ४.८२ अस्त्यवन्तिषु विप्राणाम् धिवासः कपिष्ठलः अग्निकुण्डचितसीमा स्फीतगोधूमगोकुलः ॥ ४.८३ उवास ब्राह्मणस्तत्र सोमदत्तस्त्रयीधनः यस्यान्तेवासिभिर्व्याप्ता वसुधा वेदवेदिभिः ॥ ४.८४ पत्नी वसिष्ठकल्पस्य वासिष्ठी तस्य सुव्रता वसिष्ठपत्नीमपि या साधुवृत्तामलज्जयत् ॥ ४.८५ तस्य तस्यामपुत्रस्य काले महति गच्छति उत्पन्नोल्केव संध्यायाम् सुता लोचनदुर्भगा ॥ ४.८६ सोमदत्तस्तु तां दृष्ट्वा स्त्रीलक्षणविशारदः पतिपुत्रधनैर्हीनाम् ादिदेश भविष्यतीम् ॥ ४.८७ अनर्थानां बलीयस्त्वाद् चिरेणैव दुर्भगा धूमकेतुशिखेवोच्चैः परुषा सा व्यवर्धत ॥ ४.८८ भिक्षामाच्छिद्य शिष्येभ्यो बुभुक्षाक्षपितत्रपा अप्रक्षालितहस्तैव तत्समक्षमभक्षयत् ॥ ४.८९ दुर्भगत्वाद्विरूपत्वात् कलिकारितया च ताम् न कश्चिद्वरयामास वरः प्राप्तवरामपि ॥ ४.९० न च तां सोमदत्तोऽपि कस्मैचिदशुभामदात् मा स्म युज्यत दुःखेन प्राप्यैनां निन्दितामिति ॥ ४.९१ ग्राम्याग्निनेव संकार कूटिका साप्यदह्यत सर्वंकषप्रभावेन प्रबलेनाङ्गजन्मना ॥ ४.९२ कदाचित्कश्चिदागत्य वाचाटो बटुरुच्चकैः मस्तकस्थो भयकरः सोमदत्तमभाषत ॥ ४.९३ उपाध्यायस्य दुहिता मामाक्रुध्य निरागसम् इष्टकालोष्टकैर्हन्ति तेनासौ वार्यतामिति ॥ ४.९४ सोमदत्तस्ततः क्रुद्धः सुतां चण्डमभर्त्सयत् उल्के पिशाचिके गच्छ शीघ्रं मम गृहदिति ॥ ४.९५ सा तु तत्परुषं श्रुत्वा मनस्विजनदुःश्रवम् स्मरपीडासहत्वाच्च मरणाय मनो दधे ॥ ४.९६ अरण्यानिं ततो गत्वा मरणोपायकाङ्क्षया अद्राक्षित्क्वचिदुद्देशे प्रासादं दैत्यघातिनः ॥ ४.९७ तस्यादूरे च सरसीम् कूजत्कुररसारसाम् गुञ्जन्मधुकरश्रेणीम् नुमातव्यरोधसम् ॥ ४.९८ आसीच्चास्या मया तावन् मर्तव्यमिति निश्चितम् उपायेषु तु संदेहस्तत्रोपायोऽयमुत्तमः ॥ ४.९९ देवं माधवमर्चन्ती कमलेन्दीवरादिभिः पङ्कजावयवाहारात् क्षीणा त्यक्ष्यामि जीवितम् ॥ ४.१०० कृतपुण्या मृता स्वर्गम् यास्यामि निरुपद्रवम् नरकं तु न यास्यामि स्त्रीमृत्युमृतसंकुलम् ॥ ४.१०१ साकरोदिति निश्चित्य यथासंकल्पमादृता रात्रौ च बद्धपर्यङ्का देवं माधवमस्मरत् ॥ ४.१०२ मासमात्रे गतेऽपश्यत् स्वप्नान्ते मधुसूदनम् वरं वरय पुत्रीति भाषमाणं मुदायुतम् ॥ ४.१०३ साथ व्यज्ञापयत्प्रह्वा देवं विरचिताञ्जलिः मरणं मे जगन्नाथ प्रसादः क्रियतामिति ॥ ४.१०४ देवस्तामवदन्नेदम् देवताराधनात्फलम् प्राणिहत्याविपाकोऽयम् ात्महत्या च निन्दिता ॥ ४.१०५ तस्मादन्यं वरं ब्रूहि पतिपुत्रधनाधिकम् येन हीनासि वैराग्यान् निर्याता स्वगृहादिति ॥ ४.१०६ साब्रवीत्कृतपुण्याभिः पत्यादिः स्त्रीभिराप्यते अहं त्वाचरितापुण्या दुःखैरेव विभाविता ॥ ४.१०७ तेनालं पतिपुत्रादि चिन्तया फलहीनया मृत्युना शान्तिमिच्छामि सा मे संपाद्यतामिति ॥ ४.१०८ सोऽब्रवीत्सत्यमेवेदम् किं तु जन्मान्तरे त्वया यवाढकः पितुर्गृहे ब्राह्मणायोपपादितः ॥ ४.१०९ स च जातश्चतुर्वेदः स्वपुण्यैरिह जन्मनि सुरूपः साधुवृत्तश्च स ते भर्ता भविष्यति ॥ ४.११० स च त्वामुर्वशीरूपाम् ेको द्रक्ष्यति नापरः क्रीतो यवाढकेन त्वम् िति यावन्न वक्ष्यसि ॥ ४.१११ जन्मान्तरे च पूर्वस्मिन् भक्षयन्त्यास्तिलास्तव अष्टौ निपतिता वह्नाव् ञ्जलेर्विरलाङ्गुलेः ॥ ४.११२ ते ते पुत्रा भविष्यन्ति पुत्रि चन्द्रनिभाननाः मरणाद्दारुणात्तेन चित्तमावर्त्यतामिति ॥ ४.११३ इत्युक्त्वान्तर्हिते देवे प्रतिबुद्धा ददर्श सा सशिष्यवर्गं पितरम् तद्गवेषिणमागतम् ॥ ४.११४ तपःकृशां सकरुणः पिता कारितपारणाम् श्राम्यन्तीमनयद्गेहम् विश्राम्यन्तीं तरौ तरौ ॥ ४.११५ या सा पिङ्गलिका देव देवमाराध्य केशवम् वरं लब्धवती तस्मात् तां मामेव निबोध ताम् ॥ ४.११६ एकदा तु चतुर्वेदः सान्तेवासी यदृच्छया गृहमस्माकमायातः कृतातिथ्यो ददर्श माम् ॥ ४.११७ मम तातं तु सोऽपृच्छद् ब्रह्मन् कस्येयमात्मजा कान्तिनिन्दितचन्द्राभा युक्तं चेत्कथ्यतामिति ॥ ४.११८ ममेति कथिते पित्रा मां प्रार्थयत स द्विजः पित्रा दत्तं च विधिवन् मुदितः परिणीतवान् ॥ ४.११९ ततश्चारभ्य दिवसात् स सिद्ध इव किंकरः न कांचिन्न करोति स्म ममाज्ञां निन्दितामपि ॥ ४.१२० अमी चाष्टौ सुतास्तस्माद् चिरेणैव दुर्लभाः लब्धा मया सुता येऽस्य प्रसादाल्लोकधारिणः ॥ ४.१२१ इति काले गते भर्ता मां कदाचिदभाषत पृष्ठं दुःखायमानं मे चण्डि संवाह्यतामिति ॥ ४.१२२ अनुक्तपूर्ववचनम् ुक्तवन्तमथाब्रुवम् किमहं भवता क्रीता पृष्ठसंवाहिकेति तम् ॥ ४.१२३ सोऽब्रविन्नीचकैस्त्रासाद् ङ्गुष्ठाग्रेण गां लिखन् अहं वा किं त्वया क्रीतो येन प्रेष्यत्वमागतः ॥ ४.१२४ ततो विस्मृत्य समयम् भर्तारं रोषदूषिता क्रीतो यवाढकेनासि मयेत्यप्रियमब्रुवम् ॥ ४.१२५ असावपि च मां दृष्ट्वा सहजाकारवञ्चिताम् संनिकर्षादपक्रम्य संभ्रान्त इदमब्रवीत् ॥ ४.१२६ अपि कासि कुतश्चासि केनासि विकृता कृता कच्चित्पिङ्गलिका नासि कश्च नाम यवाढकः ॥ ४.१२७ इति तेनानुयुक्ताहम् यथावृत्तमवर्णयम् सोऽपि संजातनिर्वेदो न जाते क्व पलायितः ॥ ४.१२८ तस्मिन् देशान्तरं याते ताते च त्रिदशालयम् पितृभर्तृविहीनाहम् ेनं देशमुपागता ॥ ४.१२९ स्वदेशप्रीतियोगाच्च देव्या वसवदत्तया सपुत्रानुगृहीता अस्मि भक्ताच्छादनरक्षणैः ॥ ४.१३० तेन देवेन यत्पृष्टम् कुतस्ते बालका इति एवमेते मया लब्धास्तुष्टान्नारायणादिति ॥ ४.१३१ इति हृष्तमतिर्निशाम्य तस्याश् चरितं पुत्रसमूहलाभहेतुम् सचिवैः सहितश्चकार राजा सुतसंप्राप्तिफलं क्रियाविचारम् ॥ ४.१३२ अथ संप्रेषितास्थानः सचिवानब्रवीन्नृपः यद्ब्रवीमि निबोधन्तु भवन्तस्तत्सचेतसः ॥ ५.१ ऋणैः किल समाघ्रातः पुरुषो जायते त्रिभिः ब्रह्मचर्येष्टिसंतानैर् ृषिदेवस्वधाभुजाम् ॥ ५.२ तत्राधिगतवेदोऽहम् िष्टाशेषमहाक्रतुः अपुत्रत्वात्तु पितृभिर् गृहीतः पिण्डभोजिभिः ॥ ५.३ न च पुत्राङ्गसंस्पर्शात् सुखहेतुरनुत्तरः सुखिभिः स हि निर्दिष्टश् चन्दनादपि शीतलः ॥ ५.४ अलं चातिप्रसङ्गेन सर्वथा गृहमेधिनाम् दृष्टादृष्टसुखप्राप्तेः पुत्रादन्यन्न कारणम् ॥ ५.५ तदस्ति यदि वः काङ्क्षा निष्प्रजानां प्रजां प्रति आरभध्वं मया सार्धम् देवताराधनं ततः ॥ ५.६ ते तु सप्रमदाः श्रुत्वा राज्ञः पुत्रार्थिनः कथाम् सिद्धकल्पात्मसंकल्पाः प्रत्यूचुर्दर्शितस्मिताः ॥ ५.७ पुत्रजन्म वणिग्वध्वा यात्रायां चित्रदर्शनम् पिङ्गलीदर्शनं चेति प्रयोगोऽयमनुष्ठितः ॥ ५.८ अस्माभिः स च देवेन तथैव सफलीकृतः कृतः काले प्रयोगो हि नाफलो जातु जायते ॥ ५.९ तेन संकल्पसदृशीम् ारभध्वं क्रियामिति सचिवैरभ्यनुज्ञातस्तथेति प्रतिपन्नवान् ॥ ५.१० स पुण्येऽहनि संपूज्य देवताग्निद्विजन्मनः ययौ नागवनोद्यानम् सदारः सह मन्त्रिभिः ॥ ५.११ मागधी तु कृतोत्साहा देव्या वासवदत्तया अलमालि तवानेन खेदेनेति निवारिता ॥ ५.१२ उक्ता च ननु बालासि मृणालीतन्तुकोमला अनुभूतसुखा चासि भ्रातुर्भर्तुश्च वेश्मनि ॥ ५.१३ दुःसहानि तु दुःखानि मया निन्दितभाग्यया अनुभूतानि तेनाहम् शक्ता दुःखमुपासितुम् ॥ ५.१४ यश्च मे भविता पुत्रः स भवत्या भविष्यति कृत्तिकागर्भसंभूतो भवान्या इव षण्मुखः ॥ ५.१५ इति तस्यां निवृत्तायाम् सह वासवदत्तया तपोभिरचिराद्राजा राजराजमतोषयत् ॥ ५.१६ एकदा प्रतिभुद्धौ तु दंपती जातसंभ्रमौ हा देवि हार्यपुत्रेति व्याहरन्तौ परस्परम् ॥ ५.१७ अथोपस्पृश्य नृपतिर् नमस्कृत्वा धनाधिपम् पुरः पुरोहितादीनाम् ाचख्यौ स्वप्नमादृतः ॥ ५.१८ अद्य पश्याम्यहं स्वप्ने व्योम्नि कामपि देवताम् प्रभाम्भःसंततिव्यस्त नभोमण्डलनीलताम् ॥ ५.१९ सा मामुक्तवती वाचा घम्भीरसुकुमारया त्वामाह्वयति वित्तेशस्तदाशां गम्यतामतः ॥ ५.२० मयौमिति प्रतिज्ञाते संध्यारक्ततरं करम् आरोप्य प्रस्थिता व्योम्नि दिशं वित्तेशपालिताम् ॥ ५.२१ शर्वेणेह धृता गङ्गा परिणीतात्र पार्वती इत्यादीन् दर्शयन्ती नौ प्रदेशं पार्वतीपितुः ॥ ५.२२ नीयमानः क्रमेणेत्थम् थाहं दृष्टवान् पुरः चन्द्रपाषाणनिर्माण प्राकारामलकापुरीम् ॥ ५.२३ गणानां पार्वतीभर्तुर् गणैरगणितैर्युतम् यस्या बाह्यमदृष्टान्तम् कल्पपादपकाननम् ॥ ५.२४ नानामणिप्रभाजाल कल्माषशिखराण्यपि शुभ्रयत्येव हर्म्याणि यस्यां रुद्रेन्दुचन्द्रिका ॥ ५.२५ अवतार्य तु मां द्वारे गुह्यकेश्वरवेश्मनः वदति क्षणमत्रैव स्थीयतामिति देवता ॥ ५.२६ सा प्रविश्य प्रतीहार्या सह निर्गम्य भाषते अनुज्ञातप्रवेशोऽसि देवेनागम्यतामिति ॥ ५.२७ भवनानीव देवानाम् षडतिक्रम्य सप्तमे कक्षान्तरे प्रकृष्टर्द्धौ पश्यामि द्रविणेश्वरम् ॥ ५.२८ अथ तत्राप्सराः काचित् कांचिदाह निरीक्ष्य माम् सखि नूनमसावेष यस्यासौ भविता सुतः ॥ ५.२९ मया मन्त्रयमाणानाम् ृषीणामग्रतः श्रुतम् भरतानामयं वंशे विशुद्धे जायतामिति ॥ ५.३० न चैष केवलं धन्यस्तेन पुत्रेण पार्थिवः सोऽपि साधूपमानस्य पुत्रः पात्रं भविष्यति ॥ ५.३१ तेन तत्तादृशं पुत्रम् लभतामेष भूपतिः असावपि शचीशक्र चरितौ पितरावपि ॥ ५.३२ कार्ये गुरुणि सक्तत्वात् तृणीकृतसुराङ्गनः सकिंकरगणं प्रह्वः प्रणमामि धनाधिपम् ॥ ५.३३ मनुष्यधर्मा तु भुजम् भुजगेश्वरपीवरम् उद्यम्याह मनुष्येन्द्र स्वागतं स्थीयतामिति ॥ ५.३४ आसन्ने रत्नचरणे दापिते कनकासने व्यवधाय तु मामास्ते देवी नीचैस्तरासना ॥ ५.३५ स्वनन्ति परिवादिन्यस्ताडिता नारदादिभिः अनेकाकारकरणः श्रूयते पुष्करध्वनिः ॥ ५.३६ उर्वशीमेनकारम्भा चित्रलेखाक्रतुस्थलाः गायन्त्यः कुट्टिततला नर्तयन्ते तिलोत्तमाम् ॥ ५.३७ एवंप्राये च वृत्तान्ते कुमारो नलकूबरः राजराजसुतः क्रीडन्न् ायातः सह बालकैः ॥ ५.३८ मेरुसारमहारत्न संघातकृतसंहतिम् क्रीडाशकटिकां कर्षन्न् ितश्चेतश्च गच्छति ॥ ५.३९ अथ स्खलितचक्रायास्तस्याः कुसुमसंचये उत्प्लुत्य पतितं रत्नम् वैडूर्यक्षोदकुट्टिमे ॥ ५.४० अथ प्रसारितकरः कुवेरो नलकूबरम् मह्यमेतद्ददस्वेति तद्रत्नमुदयाचत ॥ ५.४१ न्यस्तं च राजपुत्रेण राजराजकरोदरे रत्नं पङ्कजगर्भस्थ बन्धूकमिव राजते ॥ ५.४२ दुष्टलक्षणमुक्तानाम् मुक्तानां परिवारितम् षड्विंशत्या पद्मरागम् ष्टाश्रि बहलप्रभम् ॥ ५.४३ वित्ताधिपतिना मह्यम् दत्तं देव्यै च तन्मया स्तनयोरन्तरे न्यस्तम् नयापि स्फुरन्मुदा ॥ ५.४४ सिंहशावस्ततो भूत्वा चञ्चद्वालधिकेशरः विदार्य दक्षिणं कुक्षिम् ेतस्याः प्रविशत्यसौ ॥ ५.४५ तदवस्थामिमां दृष्ट्वा हा देवीति वदन्नहम् प्रतिबुद्ध इति स्वप्नम् ाचष्टे स्म नराधिपः ॥ ५.४६ अथ नक्षत्रशास्त्रज्ञः सिद्धादेशः ससंमदः आदित्यशर्मा स्वप्नस्य द्विजः फलमवर्णयत् ॥ ५.४७ विजयस्व महाराज पुत्रेण द्विषतां गणम् समाधिनेव बलिना रागादीनां बलीयसाम् ॥ ५.४८ विमानघनसंघात स्थगितेन्दुदिवाकरः विद्याधरसमूहेन्द्रः पुत्रस्तव भविष्यति ॥ ५.४९ यास्ता मुक्तापरीवारास्तस्य षड्विंशति मणेः महाकुला भविष्यन्ति भार्यास्तव सुतस्य ताः ॥ ५.५० ये चाष्टावश्रयो रत्नम् परितो लक्षितास्त्वया विद्यास्ता विद्धि पुत्रस्य भविष्यन्ती भविष्यतः ॥ ५.५१ एवं च स्थापिते स्वप्ने राजकीये द्विजन्मना स्वस्वप्नः कथितस्तत्र देव्या वासवदत्तया ॥ ५.५२ आर्यपुत्रेण यो दृष्टः स एव सकलो मया कुक्षौ विदार्यमाणे च हार्यपुत्रेति भाषितम् ॥ ५.५३ इति श्रुतवतः स्वप्नौ तुल्यावादित्यशर्मणः भविष्यद्विषये ज्ञाने दृढतां निश्चयो गतः ॥ ५.५४ अथ विज्ञापयामास रुमण्वान्मेदिनीपतिम् दृष्टः स्वप्नो मया यः स श्रवणेनानुगृह्यताम् ॥ ५.५५ देवे सनियमे जाते चेदिवत्सनिवेशिनः देवस्यापत्यलाभाय सर्वे सनियमाः स्थिताः ॥ ५.५६ तत्राहमद्य पश्यामि स्वप्ने गरुडवाहनम् मार्गितश्च मया देहि स्वामिने नः प्रजा इति ॥ ५.५७ स विहस्योक्तवान् पूर्णः स्वामिनस्ते मनोरथः तवापि पूरयामीति मह्यं बाणं वितीर्णवान् ॥ ५.५८ सप्रणामं तमादाय हृदये निदधामि च अकालकौमुदीं चेमाम् पश्यामि प्रतिबोधितः ॥ ५.५९ एषोऽपि स्थापितः स्वप्नः प्रीतेनादित्यशर्मणा यादृशोऽस्य सुतो भवी तादृशः श्रूयतामिति ॥ ५.६० सायको हि गुणेनार्थी तस्मादस्य भविष्यति पुत्रः षाड्गुण्यतत्त्वज्ञो युक्तश्चायं गुणैर्गुणैः ॥ ५.६१ परतन्त्रगतिस्थानः खगामी च यतः शरः तेन राजसुतप्रैष्यः खेचरश्च भविष्यति ॥ ५.६२ अथाकथयदात्मीयम् स्वप्नं यौगन्धरायणः ममाद्यैकोनपञ्चाशन् मरुतो दर्शनं गताः ॥ ५.६३ तेषामेकः स्फुरद्द्योतः खद्योतनिकरद्युतिम् स्वं विमुच्य मुदा मह्यम् संनाहं दत्तवानिति ॥ ५.६४ भर्तुः संनाहसदृशः शूरोऽध्यवसितः सुतः भवतो भवितेत्येवम् स्वप्नमास्थापयद्द्विजः ॥ ५.६५ ऋषभेणेति कथितम् दृष्टवानस्मि गोगणम् ब्रवीति तत्र मामेका प्रविशेमां गुहामिति ॥ ५.६६ तत्र प्रविशता दृष्टाश् चतुःषष्टिर्मया कलाः चतस्रश्च महाविद्या विन्यस्ताश्चित्रकर्मणि ॥ ५.६७ तत्र चित्रीयमाणोऽहम् चित्रं चित्रं विलोकयन् बोधितो जृम्भणैर्मन्द्रैर् भेरीणां गर्जितैरिति ॥ ५.६८ स्थपितोऽयमिति स्वप्नः पुत्रस्तव भविष्यति अशेषचित्रविन्यस्त कलाकुशलधीरिति ॥ ५.६९ दृष्टं वसन्तकेनापि स्वप्नं कथितमित्यथ दत्तवान् पावको मह्यम् कुण्डलं रुचिरोज्ज्वलम् ॥ ५.७० [थे एxप्लनतिओनोf वसन्तकश्द्रेअमिस्मिस्सिन्ग्] ॥ ५.७१ इति व्याक्रियमाणेषु स्वप्नेषु रविसारथेः भिन्नं भाभिस्तमो जातम् चकोरनयनारुणम् ॥ ५.७२ कोमलानिलविक्षिप्त नलिनस्पर्शबोधताः रेसुर्विवादरसिताः सरसीषु शकुन्तयः ॥ ५.७३ गम्भीरप्रतिनिर्घोष भीषितेन्द्रावरोधनः देवतागारभेरीणाम् ुच्चैर्ध्वनिरजृम्भत ॥ ५.७४ अवदन्त च वृन्दानि बन्दिनां मेदिनीपतिम् पूरितार्थिसमूहाश तवाशा पूर्यतामिति ॥ ५.७५ युवा धीरः सभे योग्यो यजमानस्य जायताम् इत्यादिभिर्द्विजाश्चैनम् मन्त्रवाद्यैरवर्धयन् ॥ ५.७६ निमित्तैरेवमाकारैः कार्यसंसिद्धिशंसिभिः आदित्यशर्मणो जातम् ङ्गं रोमाञ्चकर्कशम् ॥ ५.७७ पद्मावत्या ततो हर्षाद् विवाहए इव नृत्यति वसन्तके ध्वनत्ताले ननर्त गणिकागणः ॥ ५.७८ अलं चातिप्रसङ्गेन संक्षेपादवधार्यताम् वधूवृन्दपरीवाराः प्रनृत्ताः श्वशुरा अपि ॥ ५.७९ अतिहर्षपरीतत्वाद् वितन्त्रीपरिवादिनीः ताडयन्ति स्म गन्धर्वाः स्वराविस्मृतसारणाः ॥ ५.८० एवमादौ तु वृत्तान्ते वर्तमाने महीपतिः कृताभिषेकादिविधिः सुरविप्रानपूजयत् ॥ ५.८१ प्रविश्य स्तूयमानश्च वृन्दैर्ब्राह्मणबन्दिनाम् पौरमन्तःपुरं चैव दानादिभिरमानयत् ॥ ५.८२ मासद्वयपरीमाणे ततः कालेऽतिगच्छति देव्यां सत्त्वसमावेश वार्त्तां प्रावर्तयत्क्षितौ ॥ ५.८३ येन येन श्रुता वार्त्ता शबरेण शुकेन वा गिरिष्ठः पञ्जरस्थो वा मुग्धस्तत्रैव तत्र सः ॥ ५.८४ स्त्रियः प्रसूतिकुशलाः कुमारादिचिकित्सकाः गर्भकर्मविदश्चान्ये नित्यं तां पर्यचारयन् ॥ ५.८५ म्लायन्मधूकविच्छाय कपोलं जिह्मलोचनम् श्वश्रूस्तस्या मुखं दृष्ट्वा बुबुधे दोहदव्यथाम् ॥ ५.८६ पृच्छति स्म च तां पुत्रि शीघ्रमाचक्ष्व दोहदम् अनाख्याते हि गर्भस्य वैफल्यमपि दृश्यते ॥ ५.८७ लज्जमाना यदा नासौ कथयामास दोहदम् तदा स्ववृत्तं सा वध्वै व्याहर्तुमुपचक्रमे ॥ ५.८८ अन्तर्वत्नीमपृच्छन्माम् ेकदा श्वशुरस्तव बाधते दोहदो यस्त्वाम् स क्षिप्रं कथ्यतामिति ॥ ५.८९ मया तु प्रणयिन्यापि प्रकृष्टतरलज्जया सखीमुखेन कथितम् बहुकृत्वोऽनुयुक्तया ॥ ५.९० इयं मां बाधते श्रद्धा साशु संपाद्यतामिति सा च संपादितामात्यैः शतानीकस्य शासनात् ॥ ५.९१ बालभास्करबिम्बाभा दधानाः सानुलेपनाः व्यचरन्त पुरीं रक्ताम् म्बराभरणस्रजः ॥ ५.९२ रक्तातपत्रव्यजना रक्तकम्बलवाह्यकाः रक्ताशोकवनाकार परिवारकदम्बकाः ॥ ५.९३ सुयमुनमथारुह्य पद्मरागनगारुणम् दिग्दाहादिव रक्तानाम् पश्यं मण्डलं दिशाम् ॥ ५.९४ अथ पक्षानिलभ्रान्त संभान्तजनवीक्षितः ज्येष्ठपुत्र इवागच्छद् गरुडस्य विहंगमः ॥ ५.९५ सरसामिषगृद्धश्च मुग्धामादाय मामसौ अगमद्गगनं वेगाच् छतानीकस्य पश्यतः ॥ ५.९६ ततः प्रदेशे कस्मिंस्चिद् वतारितवान् स माम् भक्षयिष्यन्निषिद्धश्च केनाप्याकाशमाश्रयत् ॥ ५.९७ पश्यामि स्म च तत्र द्वौ कृशावृस्.इकुमारकौ प्रभामण्डलसंसर्ग पिङ्गलाङ्गौ ज्वलज्जटौ ॥ ५.९८ तौ मामवोचतां देवि मा भैषीरयमाश्रमः वसिष्ठस्याश्रितः पुण्याम् ुदयाद्रेरुपत्यकाम् ॥ ५.९९ आगच्छ ननु पावस्त्वाम् तत्रेत्युक्ते गता सती पश्यामि स्म जगज्ज्येष्ठम् श्रेष्ठतापसवेष्टितम् ॥ ५.१०० वन्दितश्च मया दूराद् ाशिषा मामवर्धयत् पुत्रि पुत्रं विजायस्व यशःपात्रमजर्जरम् ॥ ५.१०१ न चोत्कण्ठा त्वया कार्या स्वजने मत्सनाथया आदित्यवंशजानां हि संनिवेशः परायणः ॥ ५.१०२ इति विश्वास्य मां वाक्यैर् मधुरैरेवमादिभिः आवासः क्रियतां वध्वा िति शिष्यान् समादिशत् ॥ ५.१०३ क्षिप्रमावसथं कृत्वा ते शिलादारुवेणुभिः खातशालपरिक्षिप्तम् वसिष्ठाय न्यवेदयन् ॥ ५.१०४ तापसी कृतसानाथ्या तत्राहमवसं सुखम् ऋषिभिः क्रियमाणेषु गर्भसंस्कारकर्मसु ॥ ५.१०५ प्रसूता चास्मि दशमे मासे पुत्रं पतिं तव अनुकूलसवितृआदि ग्रहसूचितसंपदम् ॥ ५.१०६ जातकर्म ततः कृत्वा सूर्यवंशगुरुः स्वयम् दिवसे द्वादशे नाम पुत्रस्य कृतवान्मम ॥ ५.१०७ बालो जातः सुजातोऽयम् यस्मादुदयपर्वते तस्मादुदयनो नाम प्रसिद्धिमुपयात्विति ॥ ५.१०८ वेदे गन्धर्ववेदे च सकलासु कलासु च सास्त्रेषु चास्त्रशस्त्रेषु बुद्धिरस्य विनीयत ॥ ५.१०९ गच्छत्सु दिवसेष्वेवम् वसिष्ठेनैष वारितः मा कदाचिद्भवानस्माद् दूरं गा आश्रमादिति ॥ ५.११० निसर्गकर्कशत्वात्तु क्षत्रजातेस्तपोवनात् निर्याय मृगयामेष समक्रीडत कानने ॥ ५.१११ एकदा भ्राजमानोऽयम् दिव्यैः स्रक्चन्दनादिभिः अभिवादितवान् भीतो वसिष्ठं दर्शितस्मितम् ॥ ५.११२ वसिष्ठः पृष्टवानेनम् पि दृष्टाः कुमारकाः नलिन्यां प्रस्तुतक्रीडा भवता भोगिनामिति ॥ ५.११३ आम दृष्टा इति प्रोक्ते सुतेन मम नीचकैः आचक्ष्व विस्तरेणेति वसिष्ठस्तमभाषत ॥ ५.११४ पृष्टेनोदयेनोक्तम् हमाज्ञापितस्त्वया न गन्तव्यं त्वया दूरम् ेतस्मादाश्रमादिति ॥ ५.११५ आरभ्य च ततः कालात् किं पुनः कारणं गुरुः मां निवारयतीत्यासम् हं कौतूहलाकुलः ॥ ५.११६ सोऽहं दोषमसंचिन्त्य गुर्वाज्ञाभङ्गसंभवम् दूरमद्याश्रमादस्माद् गच्छामि दिशमुत्तराम् ॥ ५.११७ तत्र पश्यामि नलिनीम् नानासरसिजाण्डजाम् वनवारणसंक्षोभ संघट्टितनदाम्भसम् ॥ ५.११८ तस्याममानुषाकारा मया दृष्टाः कुमारकाः उन्मज्जन्तो निमज्जन्तस्तरन्तश्चारुणेक्षणाः ॥ ५.११९ ते मां तटस्थमालोक्य पुञ्जीभूय ससंभ्रमाः दीर्घदीर्घभुजाक्षेपैर् गाधं जलमाश्रिताः ॥ ५.१२० अहं तानुक्तवानस्मि मा पलायध्वमास्यताम् नन्वहं भवतो द्रष्टुम् ाश्रमादृषिरागतः ॥ ५.१२१ इति मद्वचनं श्रुत्वा तेषामेकेन भाषितम् किं तेऽस्माभिर्महासत्त्व भाषितैर्गम्यतामिति ॥ ५.१२२ सत्यसत्यं न यक्षोऽस्मि न पिशाचो न राक्षसः तेन मा भैष्ट ढौकध्वम् िति तानहमुक्तवान् ॥ ५.१२३ तैस्तु संजातविश्रम्भैः संहरन् वा मुहूर्तकम् आगच्छ प्रार्थितो मित्र गृहं नो गम्यतामिति ॥ ५.१२४ मया तदनुरोधेन गच्छामीति प्रतिश्रुते मामादाय निमग्नास्ते तस्यैव सरसोऽम्भसि ॥ ५.१२५ अथानुदितचन्द्रार्क ग्रहनक्षत्रतारकम् चन्द्रसूर्यमणिद्योत प्रध्वस्तध्वान्तसंचयम् ॥ ५.१२६ स्थविरातुरनिर्वृत्त विरूपजनवर्जितम् रम्यहर्म्यावलीगर्भ जृम्भितातोद्यनिस्वनम् ॥ ५.१२७ अशेषैर्वियुतं दोषैर् शेषैः संयुतं गुणैः प्रवेशितोऽस्मि मुदितैर् धिष्ठानं कुमारकैः ॥ ५.१२८ तेषामेकस्तु मामाह भोगिनां भोगिनामियम् पुरी भोगवती नाम वसतिः कल्पजीविनाम् ॥ ५.१२९ तनयः कम्बलस्याहम् यमश्वतरस्य तु अन्ये च सूनवोऽन्येषाम् नागसेनाभृतामिति ॥ ५.१३० ततः कम्बलपुत्रेण नीत्वाहं स्वं गृहं महत् ग्राहितार्घादिसत्कारः कारितो वेषमीदृशम् ॥ ५.१३१ इतरे नेतुमैच्छन्त स्वगृहान्मां मयोदिताः अनुजानीत मामद्य सुहृदो मा स्म कुप्यत ॥ ५.१३२ गुरुणा प्रतिषिद्धोऽहम् ेतां भूमिमुपागतः भीतश्च कुपितात्तस्मात् तस्मान्नयत मामिति ॥ ५.१३३ ते तु मामाहुरुत्तिष्ठ गम्यतां स्वमिदं पुरम् पुनरागच्छता कार्यम् नुत्कण्ठभुजंगमम् ॥ ५.१३४ तस्यामेव च रम्यत्वात् क्रीडामः संततं वयम् सुहृदोऽपि यदीच्छा स्याद् गच्छेत्तां नलिनीमिति ॥ ५.१३५ इत्युक्त्वा मम तैर्वक्त्रे पटान्तेनावगुण्ठिते उत्तीर्णमहमात्मानम् पश्यामि सरसस्ततः ॥ ५.१३६ इति भोगवतीं दृष्ट्वा सोऽहमायामि संप्रति ममास्मिन्नपराधे च प्रमाणं भगवानिति ॥ ५.१३७ वसिष्ठस्तमथावोचद् ुपायोऽयं मया कृतः येन नागकुमारास्ते दृष्टिगोचरतां गताः ॥ ५.१३८ इदानीमपि तैः सार्धम् गत्वा भोगवतीं त्वया गान्धर्वं हस्तिविद्या च शिक्षितव्याः सविस्तराः ॥ ५.१३९ यदि च ग्राहयेत्किंचित् त्वां नागाधिपतिस्ततः सनागमूर्छना ग्राह्या वीणा घोषवती त्वया ॥ ५.१४० अङ्कमारोपितायां च तन्त्र्यो यस्यामनाहताः मधुरं निस्वनेयुस्ताम् विद्यां घोषवतीमिति ॥ ५.१४१ गुरोरुदयनः श्रुत्वा नागलोकं गतस्ततः गते बहुतिथे काले वीणापाणिरुपागतः ॥ ५.१४२ कृताभिवादो गुरुणा परिष्वक्तश्च साश्रुणा तद्वियोगाग्नितप्ताङ्गीम् म्बामङ्गैरशीतयत् ॥ ५.१४३ एकदा तु सुखासीनो वसिष्ठस्तमभाषत तात घोषवतीघोष संगीतं श्राव्यतामिति ॥ ५.१४४ तन्निदेशाच्च पत्यौ ते प्रगीते सह वीणया जगत्प्रचलनाचार्यो नभस्वानपि नाचलत् ॥ ५.१४५ निश्चेष्टमाश्रमं दृष्ट्वा मूककेशरिवारणम् रक्तां घोषवतीं मुक्त्वा तुष्णीमासीत्पतिस्तव ॥ ५.१४६ उक्तश्चैष वसिष्ठेन न त्वयास्मिंस्तपोवने वादनीया पुनर्वीणा गेयं वा शनकैरपि ॥ ५.१४७ अन्येऽपि ध्वनयः प्रायश् चलयन्ति समाहितान् समाधेः किं पुनर्येन साक्षिणोऽपि विमोहिताः ॥ ५.१४८ तस्मादवीतरागाणाम् समाधिमविहिंसता दूरे तपोवनादस्माद् वीणेयं वाद्यतामिति ॥ ५.१४९ ततश्चारभ्य दिवसाद् ुदयाचलचारिणः नागानुदयनोऽगृह्णाद् रम्यैर्घोषवतीरुतैः ॥ ५.१५० दान्तव्यालगजारूढः सिंहादिव्यालवेल्लितः क्वणद्घोषवतीपाणिर् ायाति स्म तपोवनम् ॥ ५.१५१ एवं याति क्वचित्काले भगवान्मामभाषत दारकस्तरुणो जातः कौशाम्बीं गम्यतामिति ॥ ५.१५२ मया तु निर्वचनया कथितेऽस्मिन्मनोरथे गुरुणा तीर्थसलिलैर् भिषिक्तः सुतो मम ॥ ५.१५३ तच्छिष्यास्तु तदादिष्टा मामादाय सपुत्रकाम् आकाशेन नयन्ति स्म क्षणेन नगरीमिमाम् ॥ ५.१५४ अथाहं नगरोद्याने रम्ये तैरवतारिता मुहूर्तं प्रेरितवती गगनागमनश्रमम् ॥ ५.१५५ अवतीर्य तु ते भर्ता क्रीडापुष्करिणीं पितुः पद्मभञ्जिकया क्रीडन् दृष्ट उद्यानपालकैः ॥ ५.१५६ तैर्गत्वा कथितं राज्ञे देव देवकुमारकः अधुनैवागतः स्वर्गाद् गाहते नलिनीमिति ॥ ५.१५७ राजा तु द्रुतमागत्य दृष्ट्वा देवसमं सुतम् देव एवायमित्युक्त्वा प्रणामं कर्तुमुद्यतः ॥ ५.१५८ ततस्तपस्विभिः खस्थैः संभ्रान्तैः स निवारितः राजन्नुदयनपुत्रम् न नमस्कर्तुमर्हसि ॥ ५.१५९ संदेहश्चेदिमां पृच्छ महिषी मृगयावतीम् प्रेमसंभ्रमसंत्रास लज्जाभिः खेदितामिति ॥ ५.१६० राजा तु तानथो दृष्ट्वा मामपश्यत्सुतं ततः मुहूर्तं चिन्तयित्वा तु विहसन् प्रस्थितो गृहान् ॥ ५.१६१ अथायमृषिभिः प्रोक्तः पुरःस्थित्वा ससंभ्रमैः न गन्तव्यं न गन्तव्यम् नैष स्वप्नो निवर्त्यताम् ॥ ५.१६२ अथ वा भवतु स्वप्नः स्वप्नेऽपि न विरुध्यते दुर्लभेनापि हि स्वप्ने वल्लभेन समागमः ॥ ५.१६३ यच्च ब्रूमस्तदाकर्ण्य चेतःकर्णसुखावहम् ततो यस्यासि सापत्याम् ादाय दयितामिति ॥ ५.१६४ निवृत्ताय च ते तस्मै भारुण्डहरणादिकम् आचक्षते स्म वृत्तान्तम् ाश्रमानयनादिति ॥ ५.१६५ राजा तु पुत्रमालिङ्ग्य हर्षमूर्छाविचेतनः निपतन् धरणीपृष्टे पुत्रेण लम्भितः क्षणम् ॥ ५.१६६ मां च दृष्ट्वा चिरम् दृष्ट्वा देवदृष्टिविचेष्टया निश्वासैरक्षिपद्दीर्घैर् नेत्राम्बुकणिकागणम् ॥ ५.१६७ बद्धाञ्जलिर्नरपतिर् ब्रवीति स्म च तानृषीन् अवतारेण गुरुभिः प्रसादः क्रियतामिति ॥ ५.१६८ तैरुक्तं न समादिष्टा वसिष्ठेन वयं ततः गच्छामो नावतीर्यैव स्वस्ति तुभ्यं भवत्विति ॥ ५.१६९ तानयाचत भूपालो यत्किंचित्स्वाङ्गधारितम् अस्मत्पावनमुज्झित्वा यथेष्टं गम्यतामिति ॥ ५.१७० मृगाजिनानि ते क्षिप्त्वा तडित्कान्तिजटागुणाः तत्रैवान्तर्दधुश्चण्ड मरुद्व्यस्ता इवाम्बुदाः ॥ ५.१७१ मृगाजिनानि तु नृपो दैवतानीव भक्तिमान् पूजयित्वा तदुद्यानम् नम्नावोचन्मृगाजिनम् ॥ ५.१७२ सा मृगाजिनयात्रेयम् ततः प्रभृति वासरात् प्रवर्तिता नृपतिना प्रसिद्धिमगमद्भुवि ॥ ५.१७३ ततः कृत्वा सुतं राजा युवराजं मृगाजिने प्रविष्टो हृष्टहृदयः प्रहृष्टां नगरीमिति ॥ ५.१७४ सोऽयं मयेदृशो लब्धः पुत्रः संपाद्य दोहदम् तवापि दोहदो यः स पुत्रि संपाद्यतामिति ॥ ५.१७५ यदा तु नैवाकथयल् लज्जया नृपतिस्तदा मागधीमुक्तवान् पृच्छ दोहदं भगिनीमिति ॥ ५.१७६ पद्मावती तु तां पृष्ट्वा तदाख्यातमवर्णयत् दुःसंपादा किल श्रद्धा ममेत्याह शनैरियम् ॥ ५.१७७ अथ तामब्रवीदुच्चैर् हसित्वा मृगयावती मुग्धे किं नाम दुःसाध्यम् ुपायचतुरैर्नृभिः ॥ ५.१७८ श्रूयतां वा पुरावृत्तम् मथुरायामभून्नृपः उग्रसेनो महासेनः शत्रुसेनाम्बुदानिलः ॥ ५.१७९ तस्य स्त्री गुणसंपन्ना शुच्याचारकुलोद्भवा आसीन्मनोरमाचारा या नाम्नापि मनोरमा ॥ ५.१८० कदाचिदागते काले समृद्धकुटजार्जुने रसन्मयूरसारङ्ग मेघमण्डूकमण्डले ॥ ५.१८१ मनोरमं गृहोद्यानम् प्रविवेश मनोरमा कदम्बानिलमाघ्रातुम् ुद्भूतप्रथमार्तवा ॥ ५.१८२ तदा च द्रुमिलो नाम दानवो नभसा व्रजन् उद्यानशोभयाकृष्ट दृष्टिस्तां तत्र दृष्टवान् ॥ ५.१८३ कृतोग्रसेनरूपेण तेन सापायचेतसा समगच्छत सद्यश्च ससत्त्वा समपद्यत ॥ ५.१८४ स्त्रीभिश्च दोहदं पृष्टा कृच्छ्रादुक्तवती ह्रिया विष्णोः शोणितमांसान्त्रैर् गमयामि तृषामिति ॥ ५.१८५ श्रुत्वेदमुग्रसेनेन चिरं संमन्त्र्य मन्त्रिभिः सृष्टः पिष्टमयो विष्णुर् मेषामिषभृतोदरः ॥ ५.१८६ मन्दप्रदीपकिरणे तस्या वसतिमन्दिरे न्यस्तः पिष्टमयो विष्णुः क्षपायां क्षपितस्तया ॥ ५.१८७ दुःसंपादेऽपि संपन्ने दोहदेऽस्मिन्नुपायतः वध्यं यादवसिंहस्य कंसं सुतमसुत सा ॥ ५.१८८ तेन ब्रवीमि नास्त्येव दुःसंपादा क्रिया नृभिः तस्मात्तवापि या श्रद्धा सापि संपाद्यतामिति ॥ ५.१८९ कथितं च ततः श्रुत्वा पद्मावत्येयमिच्छति अम्बरस्थविमानस्था कृत्स्नां द्रष्टुं महीमिति ॥ ५.१९० अथोवाच हसन्नुच्चैः क्रीडाशीलो वसन्तकः देवस्य दासभार्याणाम् यमेव मनोरथः ॥ ५.१९१ मया तु भणिताः सर्वा दीर्घस्थम्भावलम्बिनीम् दोलामारुह्य नभसा मुहुरायात यात च ॥ ५.१९२ उपायमन्यं पतयो भवतीनां न जानते तेनाकाशगतिश्रद्धा तथा च पूर्यतामिति ॥ ५.१९३ ततः प्रहसिता सर्वे रुमण्वानिदमब्रवीत् निवर्त्यतां परीहासः प्रस्तुतं वर्त्यतामिति ॥ ५.१९४ यौगन्धरायणेनोक्तम् किमत्र परिचिन्त्यते असाधारण एवायम् विषयः शिल्पिनामिति ॥ ५.१९५ रुमण्वता तु तक्षाणः संनिपात्य प्रचोदिताः यन्त्रमाकाशसंचारि त्वरितैः क्रियतामिति ॥ ५.१९६ अथोत्क्रम्य चिरं सर्वे मन्त्रयित्वा च शिल्पिनः रुमण्वन्तमभाषन्त संत्रासप्रस्खलद्गिरः ॥ ५.१९७ चतुर्विधानि जानीमो वयं यन्त्राणि तद्यथा जलाश्मपांशुयन्त्राणि काण्डराशिकृतानि च ॥ ५.१९८ आकाशयन्त्राणि पुनर् यवनाः किल जानते अस्माकं तु न यातानि गोचरं चक्षुषामिति ॥ ५.१९९ तत्र च ब्राह्मणः कश्चिद् ब्रवीदाग्रहारिकः भोः सभे श्रूयतां तावद् यन्मयाख्यानकं श्रुतम् ॥ ५.२०० अस्ति पुक्वसको नाम महासेनस्य वर्धकी स्कन्धावारेण सार्धं स सुराष्ट्रविषयं गतः ॥ ५.२०१ तेन तत्रापरो दृष्टः सुरूपः शिल्पिदारकः विश्विलो नाम यः शिल्पी सदृशो विश्वकर्मणा ॥ ५.२०२ अथ पुक्वसकस्तस्य पितरं मयमब्रवीत् तव पुत्राय दुहिता दत्ता रत्नावली मया ॥ ५.२०३ प्रष्टव्यश्च त्वया नाहम् कीदृशी सा गुणैरिति कुलरूपाभिजात्यादि गुणरत्नावली हि सा ॥ ५.२०४ संपद्यते च नः किंचिन् महासेनपरिग्रहात् तस्मात्संवर्धसिद्ध्यर्थम् पुत्रं प्रस्थापयेरिति ॥ ५.२०५ मयेन च प्रतिज्ञातो गत्वा पुक्वसको गृहान् जामात्रागमनाकाङ्क्षी महान्तं कालमक्षिपत् ॥ ५.२०६ कृत्वा राजकुले कर्म कदाचिद्गृहमागतम् भणति स्म न तं कश्चित् स्नाहि भुङ्क्ष्वेति चाकुलः ॥ ५.२०७ भार्यया कथितं तस्मै किमेतदिति पृष्टया आगन्तुकेन केनापि सर्वमाकुलितं गृहम् ॥ ५.२०८ आत्मीयास्तण्डुलास्तेन रन्धनाय समर्पिताः मन्दकोऽहममीभिर्मे मण्डः संपाद्यतामिति ॥ ५.२०९ काष्ठभारशतं दग्धम् न च स्विद्यन्ति तण्डुलाः तेनायमाकुलो लोकस्तत्किमेतद्भवेदिति ॥ ५.२१० अथ पुक्वसकेनोक्तम् परिष्वज्य कुटुम्बिनीम् गृहस्थे वर्धसे दिष्ट्या प्राप्तस्ते दुहितुर्वरः ॥ ५.२११ क्वासौ क्वासौ विश्वभद्र िति पृच्छति भर्तरि शिरः प्रावृत्य भार्यास्मै कर्मशालामदर्शयत् ॥ ५.२१२ निष्क्रम्य कर्मशालातः सत्वरं विश्विलस्ततः अभिवादितवान् प्रह्वः प्रसारितभुजं गुरुम् ॥ ५.२१३ उत्क्षिप्य श्वशुरेणापि हर्षनेत्राम्बुवर्षिणा निरन्तरं परिष्वक्तश् चिरादृष्टः सुहृद्यथा ॥ ५.२१४ कृतार्घादिसपर्यश्च पृष्टः पुक्वसकेन सः किंमयास्तण्डुलास्तात कथ्यतामिति सोऽब्रवीत् ॥ ५.२१५ एते पाण्डरकाष्ठस्य काष्ठेन तण्डुला मया घटिता घटिकामात्रात् करघाटतरोरिति ॥ ५.२१६ अथ पुक्वसकेनोक्तम् कर्मेदं विश्वकर्मणः तवापि शिल्पिसिंहस्य तृतीयस्य न विद्यते ॥ ५.२१७ अद्यैव च दिनं भद्रम् तो रत्नाव्लईकरः गृह्यतामिति तेनोक्ते विश्विलेनोक्तमोमिति ॥ ५.२१८ रत्नावल्या स संगम्य स्फुरदुज्ज्वलशोभया संमीयते स्म नाङ्गेषु दरिद्र इव कामुकः ॥ ५.२१९ आलेख्यविद्याधरयोर् यथा संमुखयोस्तयोः महान् कालोऽतियाति स्म निमेषोज्झितचक्षुषोः ॥ ५.२२० अथ रत्नावलीं दृष्ट्वा विचिन्तामिव विश्विलः किमेतदिति संदिह्य किमेतदिति पृष्टवान् ॥ ५.२२१ तस्यामभाषमाणायाम् ेकाभाषत दारिका भर्तृदारक यद्यस्ति श्रोतुमिच्छा ततः शृणु ॥ ५.२२२ स्यालकास्तव जल्पन्ति पूर्वमेकाकिनीं वयम् अधुना सह जामात्रा पुष्णीमो भगिनीमिति ॥ ५.२२३ इति श्रुत्वा वनं गत्वा चित्त्वा दारूणि कान्यपि यन्त्राणि घटयामास यावनान्यथ विश्विलः ॥ ५.२२४ वृक्षायुर्वेदनिर्दिष्टैः पादपाङ्गैश्चकार सः आयुरारोग्यकारीणि पाकोपकरणानि च ॥ ५.२२५ सहस्रगुणमूल्यानि तानि विक्रीय तद्धनम् श्वशुराय ददाति स्म स च प्रीतस्तदाददे ॥ ५.२२६ एवं दिनेषु गच्छत्सु विद्राण इव पुक्वसः विश्विलादीन् समाहूय सविषादमभाषत ॥ ५.२२७ अहमाज्ञापितो राज्ञा ब्रह्मदत्तः सुहृद्मम काशिदेशपतिस्तेन प्रणयादहमर्थितः ॥ ५.२२८ तव पुक्वसको नाम तक्षास्ति कुशलः किल धर्माधिकारकाराय स मे प्रस्थाप्यतामिति ॥ ५.२२९ तच्च देवकुलं कृत्वा स्वबुद्धिसमकर्मकम् वाराणस्यामविघ्नेन भवानावर्ततामिति ॥ ५.२३० अवश्यं च मया तत्र गन्तव्यमनुजीविना मर्तव्यं चास्य चण्डस्य राज्ञो वाक्यमकुर्वता ॥ ५.२३१ दीर्घकालं च तत्कर्म दशा चेयमनुत्तरा तस्मात्पुक्वसकः सर्वैः सुदृष्टः क्रियतामिति ॥ ५.२३२ विश्विलेन ततः प्रोक्तम् लं त्रासमुपास्य वः भृत्यं वाराणसीं यान्तम् नुजानीत मामिति ॥ ५.२३३ श्वशुरेणाभ्यनुज्ञातः प्रीतेन च महीभुजा दूतैः स प्रतिदूतैश्च सह वाराणसीं गतः ॥ ५.२३४ बहुकालप्रयातेऽपि पत्यौ रत्नावली मुखम् संतताश्रुजलासार धौतं म्लानकपोलकम् ॥ ५.२३५ आयताशीतनिश्वासम् नासाग्राहितलोचनम् दन्तावरणसंस्कार शून्यमगलितालकम् ॥ ५.२३६ विस्रंसमानरशनम् जघनं मलिनांशुकम् न दधाति स्म शोकान्धा बाहू च स्खलदङ्गदौ ॥ ५.२३७ तस्यामित्थमवस्थायाम् मन्त्रयत पुक्वसः गृहिणीं चकितः पश्य निश्चिन्तां तनयामिति ॥ ५.२३८ साब्रवित्सुष्ठु पश्यामि लज्जमाना च ते मुखम् न दर्शयामि नन्वेवम् स्त्रैणं किमपि चापलम् ॥ ५.२३९ यस्यासमेन रूपेण गुणैश्चागणितैः पुरी वृता न लभते शान्तिम् पश्यन्ती तमुत्सुका ॥ ५.२४० दर्शनस्पर्शनालापैश् चिरं या तेन लालिता सेयमेवमशोकेति मन्दभाग्या भणामि किम् ॥ ५.२४१ जायापत्योस्तयोरित्थम् मिथो मन्त्रयमाणयोः दिनस्तोकेषु यातेषु गर्भं रत्नावली दधौ ॥ ५.२४२ कृतक्रोधस्मितो भार्याम् थ पुक्वसकोऽब्रवीत् भो पश्य दयितापत्ये दुहितुः प्रक्रियामिति ॥ ५.२४३ भर्तृकोपनिमित्तेन तनयादोषजन्मना जातेन च नृपाच्चण्डात् प्राकम्पत भयेन सा ॥ ५.२४४ आसीदयं च वृत्तान्तो राज्ञाहृतश्च पुक्वसः सुतादोषविपाकं च पश्यन् राजकुलं गतः ॥ ५.२४५ स विहस्य नृपेणोक्तो मा भैषिर्दुहितुस्तव जामात्रैवाहितो गर्भस्तच्चेदमवधीयताम् ॥ ५.२४६ ये मया प्रेषिता दूता जामात्रा भवतः सह निवृत्तमत्रैस्तैरेव मह्यमावेदितं यथा ॥ ५.२४७ आरभ्य प्रथमादेव प्रयाणादेष विश्विलः यन्त्रकुक्कुटमास्थाय प्रदेशे क्वापि यातवान् ॥ ५.२४८ रात्रौ च यामशेषायाम् प्रावृत्यागत्य मस्तकम् अविज्ञातः किलास्माभिर् ध्यशेत स्वसंस्तरे ॥ ५.२४९ कदाचित्प्रतिबुद्धेषु दूतेषु स परागतः पादेषु पतितस्तेषाम् याचत विषण्णकः ॥ ५.२५० नेदं कस्यचिदाख्येयम् शिल्पिकस्येतरस्य वा आकाशयन्त्रविज्ञानम् सुर्विज्ञानमयावनैः ॥ ५.२५१ खट्वाघटनविज्ञानम् िवेदं प्रचुरीभवेत् लोकेन परिभूयेत क्षणरागा हि मानुषाः ॥ ५.२५२ निन्दिते वन्दनीयेऽस्मिन्न् ास्तां तावच्च पातकम् दृष्ट एव महान् दोषो जीवनस्यापहारणम् ॥ ५.२५३ अहं हि भार्यया सार्धम् ुषित्वा रजनीं दिवा कुर्वन्नरपतेराज्ञाम् नेष्यामि दिवसानिति ॥ ५.२५४ तच्च देवकुलं तेन घटितं किल तादृशम् द्रष्टुमिच्छा समुत्पन्ना येन दुश्चक्षुषामपि ॥ ५.२५५ ब्रह्मदत्तेन दत्तं च धनराशिमनुत्तमम् न गृह्णाति स्म वक्ति स्म गुरुर्मे लभतामिति ॥ ५.२५६ एवमुक्त्वा महासेनो महता धनराशिना सर्वस्वहरणात्त्रस्तम् तोषयामास पुक्वसम् ॥ ५.२५७ विश्विलोऽपि मुहूर्तेन वाराणस्याः परागतः आकाशयन्त्रमास्थाय प्रविष्टश्च गृहान्निशि ॥ ५.२५८ अतीते मासमात्रे च विश्विलं पुक्वसोऽब्रवीत् अद्य मामाह नृपतिः शनैरुत्सार्य सस्मितम् ॥ ५.२५९ आकाशयन्त्रविज्ञानम् जामात्रे कथितं त्वया यन्मह्यमपि तत्सर्वम् र्थिने कथ्यतामिति ॥ ५.२६० मया तु कथितं तस्मै न तस्मै कथितं मया तस्मै तु कथितं प्रीतैः शिल्पिभिर्यावनैरिति ॥ ५.२६१ राज्ञा तु कुपितेनोक्तम् नेदं लोकवचो मृषा शिल्पिनः सह शाठ्येन जायन्त इति घुष्यते ॥ ५.२६२ तमिदं शाठ्यमुज्झित्वा मन्निदेशं समाचर अन्यथा जीवलोकोऽयम् सुदृष्टः क्रियतामिति ॥ ५.२६३ तद्रक्षता मम प्राणान् सपुत्राननुजीविनः राज्ञे तद्यन्त्रविज्ञानम् र्थिने कथ्यतामिति ॥ ५.२६४ विश्विलस्तु प्रतिज्ञाय श्वशुराय तथास्त्विति रात्रौ रत्नावलीं सुप्ताम् प्रतिबोध्येदमब्रवीत् ॥ ५.२६५ आमन्त्रयेऽहं भवतीम् गच्छामि स्वगृहान् प्रति उपायैस्तव पित्राहम् स्मात्स्थानाद्विवासितः ॥ ५.२६६ आकाशयन्त्रविज्ञानम् प्राप्तुं मत्तः स वाञ्छति प्रच्छाद्यं च तदस्माभिर् निधानं कृपणैरिव ॥ ५.२६७ तदास्तां तावदात्मा मे तव वा दयितः पिता विज्ञानस्यास्य रक्षायै त्यजेयं भवतीमपि ॥ ५.२६८ इति रत्नावली श्रुत्वा भर्तारमिदमब्रवीत् किं चाहं दुर्भगा येन भक्तां त्यजसि मामिति ॥ ५.२६९ यानं कुक्कुटसंस्थानम् ास्थाय सह भार्यया रात्रावाकाशमुत्पत्य स्वस्थानं विश्विलो ययौ ॥ ५.२७० ते चैवमौरसान् बन्धूञ् छिल्पगुप्त्यै त्यजन्ति ये ते शिल्पं दर्शयन्तीति कस्येयमसती मतिः ॥ ५.२७१ तस्मादमी शठा बद्धाः पीड्यन्तां ताडनादिभिः असाध्याः सामदानाभ्याम् नीचा हि वधसाधनाः ॥ ५.२७२ इति सेनापतिः श्रुत्वा सर्वान् संयम्य शिल्पिनः अताडयदवोचच्च यन्त्रमायोज्यतामिति ॥ ५.२७३ एतस्मिन्नेव वृत्तान्ते कश्चिदागन्तुकोऽब्रवीत् अहं करोमि वो यन्त्रम् मा स्म ताड्यन्त शिल्पिनः ॥ ५.२७४ यन्त्रोपकरणं चेदम् िदानीं दीयतामिति तच्च संपादितं सर्वम् चिरेण रुमण्वता ॥ ५.२७५ तेषु चान्यतमः शिल्पी तमागन्तुमभाषत आरोहकपरीमाणम् सेनानीरनुयुज्यताम् ॥ ५.२७६ अज्ञातवाह्यसंख्याभिर् बहवः शिल्पिनो नृपैः विपन्नयन्त्रैः श्रूयन्ते मथिताः कुपितैरिति ॥ ५.२७७ अथ तेनोक्तं मन्ये ते वराका ग्राम्यशिल्पिकाः किं वा वचोभिर्बहुभिः क्षणमास्थीयतामिति ॥ ५.२७८ इत्युक्त्वा गरुडाकारम् चिरेण चकार सः विमानमम्बरोपेतम् मन्दारकुसुमार्चितम् ॥ ५.२७९ स चाभाषत राजानम् राजन् राजजनार्दनः आक्रम्य गरुडं क्राम क्रान्तपूर्वां महीमिमाम् ॥ ५.२८० अथ राजावदद्देवीम् देवि किं स्थीयतेऽधुना विमानमिदमारुह्य यथेष्टं गम्यतामिति ॥ ५.२८१ अवोचत्सा च राजानम् र्यपुत्र त्वया विना नोद्यानमपि गच्छामि कुतोऽनालम्बनां दिवम् ॥ ५.२८२ एवं देवी ब्रवीतीति राज्ञोक्ते शिल्पिनोदितम् ननु वोढुमिदं शक्तम् सकलां नगरीमिति ॥ ५.२८३ सान्तःपुरपरीवारः सदारसचिवस्ततः सपौरश्रेणिवर्गश्च यानमध्यास्त भूपतिः ॥ ५.२८४ तेन केतुपताकादि छायाविच्छुरिताम्बराम् पुण्यमाकाशमाविश्य प्राक्प्राचीमगमद्दिशम् ॥ ५.२८५ ददर्श दर्शकस्तत्र यानं यान्नगरोपरि देवो विद्याधरो वापि भोः कोऽयमिति चाब्रवीत् ॥ ५.२८६ पद्मावतीद्वितीयेन स च राज्ञाभिवादितः अनुज्ञातश्च संयातो नृपः पवनवर्त्मना ॥ ५.२८७ इति प्रदक्षिणीकृत्य स भुवं सागराम्बराम् अवन्तिनगरीं प्रायात् प्रवृत्तोदकदानकाम् ॥ ५.२८८ यात्रानुभवनोत्कण्ठम् ज्ञात्वा शिल्पी महीपतिम् स्तम्भयामास तद्यन्त्रम् थातुष्यन्नराधिपः ॥ ५.२८९ प्रद्योतस्य तदालोक्य रत्नप्रद्योतपिञ्जरम् किमेतदिति संदेह दोलादोलमभून्मनः ॥ ५.२९० महांश्चेदयमुत्पातो रमणीयमतः कथम् इष्टसंप्राप्तिलम्भश्चेद् नास्माभिः श्रुतमीदृशम् ॥ ५.२९१ संदिहन्मानसस्येति प्रद्योतस्य पुरः शरम् पातयामास वत्सेशः शनकैर्लेखिताक्षरम् ॥ ५.२९२ महासेनस्तमादाय चित्रमेतदवाचयत् राजन्नुदयनश्चौरः सदारस्त्वां नमस्यति ॥ ५.२९३ इति श्रुत्वा महासेनो जामातरमभाषत चौराय दत्तमभयम् तस्मादवतरत्विति ॥ ५.२९४ आलोक्यावन्तिकौशाम्ब्याम् विमानोदकदानके द्रष्टव्येषु तनूभूतम् ुद्भूतेषु कुतूहलम् ॥ ५.२९५ कांचिद्वेलामुपास्यैवम् ामन्त्र्य श्वशुरौ ततः लोकालोकितयानश्च कौशाम्ब्यामवरूढवान् ॥ ५.२९६ पूजितामरविप्राग्नि गुरुपौरानुजीविना आज्ञापितं नृपतिना शिल्पी संमान्यतामिति ॥ ५.२९७ अथाभिभूय प्रभया सुप्रभामचिरप्रभाम् तिष्ठन्तीमम्बरेऽपश्यद् देवतामवनीश्वरः ॥ ५.२९८ ततश्चित्रीयमाणं सा तमभाषत पार्थिवम् पूजितैव त्वया यत्त्वाम् पूज्यं पूजितवत्यहम् ॥ ५.२९९ विज्ञाप्यं श्रूयतां चेदम् स्त्यहं गुह्यकाङ्गना गुह्यकाधिपतेराप्ता भद्रेति परिचारिका ॥ ५.३०० कदाचिन्नभसा यान्ती सती दृष्टवती सरः कन्दरायां नगेन्द्रस्य महेन्द्रस्य नभःप्रभम् ॥ ५.३०१ तत्र संक्रीडमानं च करेणुकरधारितैः वीज्यमानं सरसिजैः कान्तारकरियूथपम् ॥ ५.३०२ आसीच्च मम तं दृष्ट्वा करामृष्टवशामुखम् कर्तारो हस्तिशिक्षायाम् सत्यमाहुरिदं यथा ॥ ५.३०३ देवदानवगन्धर्व पिशचोरगराक्षसाम् कन्याः सुजाता दिङ्नागैर् नानासत्त्वास्ततो गताः ॥ ५.३०४ ततः सपदि निर्माय हस्तिनीरूपमात्मना मदामोदविभिन्नाम्भस्तदेवावतरं सरः ॥ ५.३०५ सामर्षकरिणीयूथ कटाक्षेक्षितरूपया प्रीतेन यूथपतिना चिरमाक्रीडितं मया ॥ ५.३०६ अथेन्दुकिरणाकार किरणेऽरुणसारथौ स गजः क्षालितकटः कटकं प्राविशद्गिरेः ॥ ५.३०७ अहं तु व्यसनसेवा फलमुत्प्रेक्ष्य दारुणम् सद्यः कृतनिजाकारा राजराजसभामगाम् ॥ ५.३०८ धनदस्योरुमालम्ब्य तस्य यूथपतेः करम् स्मरन्ती ताडयामि स्म चामरेण धनाधिपम् ॥ ५.३०९ स कटाक्षेण मां दृष्ट्वा क्रोधविस्फुरिताधरः त्रासोत्कम्पितदिक्चक्रः कृतवाञ्छापभाजनम् ॥ ५.३१० ध्यायन्त्या हस्तिनं यस्माच् चामरेणाहमाहतः त्वमवन्तिपतेस्तस्माद् भव्ये हस्तिनी भव ॥ ५.३११ तत्रोक्तं पूर्णभद्रेण यक्षेणागसि तुच्छके प्रभुना देवदेवेन मुक्तः शापो महानिति ॥ ५.३१२ श्रुत्वेदं पूर्णभद्रोऽपि शप्तो यस्मात्त्वमेतया शप्तया पीडितस्तस्माद् भव हस्ती महानिति ॥ ५.३१३ शोकदीनमुखावावाम् दृष्ट्वा वित्तपतेरभूत् करणोत्खातकोपस्य नवनीतनिभं मनः ॥ ५.३१४ अब्रवीच्च यदाहं वाम् स्मरिष्यामि क्वचित्तदा शापादस्माद्विमोक्ष्येथे विभीतं मा स्म पुत्रकौ ॥ ५.३१५ साहं भद्रवती जाता महासेनस्य हस्तिनी पूर्णभद्रोऽपि तस्यैव नागो व्यालो नलागिरिः ॥ ५.३१६ महासेनस्य भवने परतन्त्रस्य तिष्ठतः आवयोश्चरितं यत्तत् सर्वं प्रत्यक्षमेव ते ॥ ५.३१७ तदा चापहरन्ती त्वाम् धनाधिपतिना स्मृता अहमप्रप्य कौशाम्बीम् विपन्ना गहने वने ॥ ५.३१८ न तथा व्यसनेनासि पीडितस्तेन तादृशा यथा मयि विपन्नायाम् प्रियदारः स्त्रियामिव ॥ ५.३१९ यक्षयोनिमवाप्याहम् तिर्यग्योनिमिवाप्सराः त्वामेव शोचितवती सेव शप्तं शतक्रतुम् ॥ ५.३२० आसीच्च मे कदा नाम कथं नाम च भूपतेः कं नाम च करिष्येऽहम् ुपकारं मनागिति ॥ ५.३२१ नीतश्चासि मया स्वप्ने तदा धनपतेः सभाम् भ्रामितश्च विमानेन सुगर्भस्थसुतो महीम् ॥ ५.३२२ भविष्यन्तं च ते पुत्रम् मग्नं कस्यांचिदापदि विद्याधरेन्द्रमुद्धर्ता सुखमास्तां भवानिति ॥ ५.३२३ प्राकारस्य ततः खण्डम् पनीय जगाम सा यत्तद्भद्रवतीद्वारम् कौशाम्ब्यां प्रथितं भुवि ॥ ५.३२४ अथाश्रूयन्त पौराणाम् जल्पितानि गृहे गृहे सिद्धादेशवचः सत्यम् कृतं व्योमचरैरिति ॥ ५.३२५ सीमन्तोन्नयनान्तकर्मविरतावौत्सुक्यगर्भा पुरी प्रत्यासन्नकरगृहेव तरुणी कृच्छ्रान्निनाय क्षपाम् शुद्धान्ते च शुकादिपञ्जरवयःकोलाहलेऽपि श्रुते राजा दारकजन्मसंपदघनप्रह्लादमुत्प्रैक्षत ॥ ५.३२६ ततः स्मरसखे काले पुष्पयुक्ते निशाकरे दिवाकरे मृदुकरे देवी पुत्रं व्यजायत ॥ ६.१ पुत्रजन्म नरेन्द्रस्य जगतः सुखजन्म च शङ्काजन्म च शत्रूणाम् समं समभवत्त्रयम् ॥ ६.२ अथ संभूय गणकैर् ुक्तं गणितजातकैः चक्रवर्तिपिता लोकाव् ुभौ विजयतामिति ॥ ६.३ ततः सचिवभार्याणाम् तस्मिन्नेव दिने सुताः अल्पकालान्तरे जाताः कनीयांसो नृपात्मजात् ॥ ६.४ किमुत्सवः किं व्यसनम् किं प्राणाः प्राणयन्तु किम् आगतं चेदिवत्सानाम् िति नासीद्विनिश्चयः ॥ ६.५ जातकर्मणि निर्वृत्ते प्राप्ते च द्वादशेऽहनि अन्वर्थनाम्नस्तनयान् कुर्वन् राजमन्त्रिणः ॥ ६.६ वाहनेन नरेणैव कुवेरो नरवाहनः नरवाहनदत्तोऽस्तु दत्तस्तेन यतस्ततः ॥ ६.७ इति नाम कृतं राज्ञा पुत्रस्य सपुरोधसा भूमिहेमगजाश्वादि दानप्रीतद्विजन्मना ॥ ६.८ नम्ना हरिशिखं चक्रे रुमण्वानात्मजं यतः तस्मै वितीर्णवान् स्वप्ने देवदेवः शरं हरिः ॥ ६.९ यौगन्धरायणः पुत्रम् चकार मरुभूतिकम् संनाहछद्मना तस्मै यतस्तं मरुतो ददुः ॥ ६.१० चकार गोमुखं पुत्रम् ृषभः संज्ञया यतः स्वयं गोभिः प्रसन्नाभिश् चित्रं तस्मै प्रदर्शितम् ॥ ६.११ पुत्रं तपन्तकं नम्ना करोति स्म वसन्तकः यस्मात्तं तपनस्तस्मै कुण्डलछद्मना ददौ ॥ ६.१२ एवं लब्धश्च जातश्च यः कृतं नाम यस्य च अहमेव स ते चैते सर्वे हरिशिखादयः ॥ ६.१३ ते वयं तु यथाकालम् कृतान्नप्राशनादयः अवर्धामहि लघ्वेव सनाथाः पादपा इव ॥ ६.१४ ततः कुमारवटकाम् ुपाध्यायैरधिष्ठिताम् सब्रह्मचर्यकैश्छात्त्रैर् धात्रीभिश्चाश्रयामहि ॥ ६.१५ अव्रतैरेव चास्माभिर् भ्यस्ताः सकलाः कलाः सव्रतैस्तु चतस्रोऽपि विद्याः सर्वं च वाङ्मयम् ॥ ६.१६ गच्छत्सु दिवसेष्वेवम् ेकदा मरुभूतिकः बालभावादनध्याये क्रीडति स्म सकन्दुकः ॥ ६.१७ तं तु बालस्वभावेन तस्मादाच्छिद्य कन्दुकम् अहं जवेन महता प्रयातः पितुरन्तिकम् ॥ ६.१८ अथानुबध्नन्मां वेगात् पटुश्वसितसंततिः बद्धमुष्टिकरः क्रोधाद् ागतो मरुभूतिकः ॥ ६.१९ किं किं तातेति तातेन स पृष्ट इदमुक्तवान् कन्दुको मे हृतोऽनेन तमयं दाप्यतामिति ॥ ६.२० ततो राज्ञा परिष्वज्य दापितापरकन्दुकः तर्जनीतर्जितः पित्रा कुमारवटकां गतः ॥ ६.२१ अहमप्यङ्कमारोप्य तातेन परिभाषितः मा स्म तात पुनर्भ्रातॄन् कोपयेः कोपनानिति ॥ ६.२२ तथापि प्रतिषिद्धोऽहम् केलिशीलतया शिशोः यथैनान् कोपयामि स्म तथैते मामकोपयन् ॥ ६.२३ अभ्यासमेकदा कुर्वन् नाराचं मरुभूतिकः इच्छति स्म च विस्रष्टुम् मया च चलितं धनुः ॥ ६.२४ असावपि च नाराचश् चलिताच्चापतश्च्युतः मालतीमुकुलं लक्षम् तन्मात्रेणैव नास्पृशत् ॥ ६.२५ उत्सृज्य कुपितश्चापम् धावमानः स मामनु आस्थानस्थमहीपाल समीपमगमत्ततः ॥ ६.२६ यौगन्धरायणो दृष्ट्वा कुपितं मरुभूतिकम् कुपितो भर्त्सयित्वेदम् भाषत महीपतिम् ॥ ६.२७ वेदिता सर्वविद्यानाम् ासन्ननवयौवनः राजपुत्रो महाराज यौवराज्येऽभिषिच्यताम् ॥ ६.२८ यावद्यावद्धि शास्त्रज्ञाः शास्त्रार्थान्न प्रयुञ्जते तावत्तावद्भवन्त्येषाम् कुण्ठाः कार्येषु बुद्धयः ॥ ६.२९ अमी रुमण्वदादीनाम् पुत्रा हरिशिखादयः विजानन्तोऽपि शास्त्राणि सुतरामन्धबुद्धयः ॥ ६.३० वस्तुन्यल्पेऽप्यनात्मज्ञाः संरब्धालोहिताननाः प्रभुमेव जिघांसन्ति मृगेन्द्रं मर्कटा इव ॥ ६.३१ तदेतेऽपि नियोज्यन्ताम् धिकारेषु केषुचित् विज्ञापना मदीयेयम् सफलीक्रियतामिति ॥ ६.३२ यौगन्धरायणवचः सुभगं निशम्य प्रीत्या नरेन्द्रसभमुच्छ्रयिताग्रहस्तम् भोः साधु साधुनरकुञ्जरसाधुमन्त्रिन् ित्युज्झितासनमभाषत निर्व्यवस्थम् ॥ ६.३३ ततस्तातः सभां दृष्ट्वा तथा संजातसंपदम् यथाप्रधानमाभाष्य विनीतवदभाषत ॥ ७.१ किमत्र पृच्छ्यते यत्र क्षिप्ताङ्गिरसबुद्धयः अपृष्टा एव भाषध्वे प्रीतिनिर्वासितत्रपाः ॥ ७.२ तेन यद्रोचते साधु पूज्येभ्यः पूजितं दिनम् तत्रायं स्वसुतः प्रीत्या बालः संस्क्रियतामिति ॥ ७.३ अथ प्रस्तावए एतस्मिन्न् नुज्ञातप्रवेशया कलिङ्गसेनया राजा दूरादेव नमस्कृतः ॥ ७.४ एहीति सा नृपेणोक्ता न अतिमन्थरविक्रमा उपगम्योपपर्यङ्कम् ध्यास्तादिष्टमासनम् ॥ ७.५ आयुक्तमौक्तिकस्तोक भूषणा विमलाम्बरा सरद्विमलहंसेव चकाशत्काशचामरा ॥ ७.६ कंधरामूलविस्रस्त श्लथबन्धशिरोरुहा पश्चिमाचलकूटस्थ तिमिरा द्यौरिवोषसि ॥ ७.७ यौवनान्तमनुप्राप्ता प्रावृडन्तमिवापगा चलच्चटुलताकारा भृतापि निभृताकृतिः ॥ ७.८ विनीतापि प्रगल्भेव स्थविरेव तरुण्यपि मितवागपि वाचाला व्याख्यातव्या हि तन्मतिः ॥ ७.९ उपविष्टा पुरस्तस्या दशवर्षेव बालिका तया मे दृष्टिराकृष्टा गुणैर्नौरिव मन्थरा ॥ ७.१० अचिरस्थापितस्फीत भङ्गुरस्निग्धमूर्धजा निलीनकोकिलकुला तन्वी चूतलतेव सा ॥ ७.११ निमेषोन्मेषशून्येन सहजायामशोभिना चक्षुषा वीक्ष्यमाणा माम् सहस्राक्षमिवाकरोत् ॥ ७.१२ रूढा दाडिमगर्भाभ दशनोद्भासतिआनना द्राडिमीमुकुलाकार विभक्तदशनच्छदा ॥ ७.१३ सितसारसनोन्नध महारजनकञ्चुका रक्तेन्दीवरमालेव मृणालदलबन्धना ॥ ७.१४ उन्नीयन्ते स्म बालायाश् चिह्नैरङ्गानि कोमलैः लतायाः सहकारस्य फलानि मुकुलैरिव ॥ ७.१५ अथापृच्छन्महीपालः कस्येयं रूपिणीरिति दुहितृत्वमनुप्राप्ता नामास्याः कथ्यतामिति ॥ ७.१६ कलिङ्गसेनयाख्यातम् शोच्येयं तनया मम यामेव पृच्छति स्वामी भृत्यां मदनमञ्जुकाम् ॥ ७.१७ ततः सस्नेहमाहूय मातरेहीति भूपतिः ऊरूमारोपयद्बालाम् सा चेमां वामलोचनाम् ॥ ७.१८ द्रुतमादित्यशर्मा च गृहीत्वा लग्नमब्रवीत् अहो चित्रमिति स्मेरम् भूच्च नृपतेर्मुखम् ॥ ७.१९ युधमानरजन्मेष विषाणोन्मेषजन्मना ध्वनिनापि न तच्चक्षुर् ाक्षिप्तं निहितं मयि ॥ ७.२० राजा तु वस्त्राभरणम् नल्पमपकल्मषम् साम्बायै दापयित्वास्यै तदास्थानं व्यसर्जयत् ॥ ७.२१ अन्तःपुरं महीपालः कुमारवटकामहम् दीर्घमुष्णं च विश्वस्य बाला स्वं भवनं ययौ ॥ ७.२२ अथ पुण्ये दिने राजा द्विजराजजनावृतः स्वयं भद्रासनस्थं माम् यौवराज्येऽभिषिक्तवान् ॥ ७.२३ तथा हरिशिखं राजा मुदाज्ञापितवानिति यत्र प्रस्थाप्यते भर्ता गन्तव्यं तव निर्व्यथम् ॥ ७.२४ सेनापतिश्च मन्त्री च भवान् भवतु सोद्यमः इत्याज्ञापितवान् राजा प्रह्वं हरिशिखं ततः ॥ ७.२५ खड्गचर्मधरो रक्षेद् प्रमत्तः प्रभुं भवान् इत्याज्ञया प्रमुदितम् कृतवान्मरुभूतिकम् ॥ ७.२६ आदिशद्गोमुखं भर्तू रमणीयं मनस्त्वया रमणीयैः क्रियालापैर् पवादोज्झितैरिति ॥ ७.२७ तपन्तकमथावोचत् कर्णकुण्डलवृत्तिना न त्याज्यो भवता स्वामी कदाचिदिति पार्थिवः ॥ ७.२८ तैरहं संवृतोऽन्यैश्च गृहीतछत्त्रचामरैः मङ्गलालंकृताङ्गश्च सुरविप्रानवन्दिषि ॥ ७.२९ पितुर्मातरमासीनाम् पितरं च समन्त्रिणम् अम्बाद्वयप्रधानं च स्फीतं राजावरोधनम् ॥ ७.३० ततः पुष्परथारूढः प्रसर्पन्मङ्गलध्वनिम् पुष्पपल्लवलाजाद्याम् ाक्रामं परितः पुरीम् ॥ ७.३१ ततः प्राप्ताभिषेकोऽहम् सार्धं हरिशिखादिभिः स्वाधिकारपरैः क्रीडन् संवत्सरमयापयम् ॥ ७.३२ वर्षाभिषेके निर्वृत्ते पूर्वेण समडम्बरे आवृत्त्या सर्वविद्यानाम् स्थिरतामुदपादयम् ॥ ७.३३ एवं मे समतीतेषु केषुचिद्दिवसेष्वहम् प्रातर्भोजनवेलायाम् न पश्यामि स्म गोमुखम् ॥ ७.३४ न चानेन विना मह्यम् निर्वाणमपि रोचते तेनानेन विनास्मभिर् भुक्तैर्गमितं दिनम् ॥ ७.३५ ज्ञायतां गोमुखः क्वेति मयोक्ते मरुभूतिकः उन्मत्तकः स संवृत्त ित्यवोचद्गतागतः ॥ ७.३६ यदि चात्रार्यपुत्रस्य नास्ति संप्रत्ययस्ततः गत्वा तपन्तकस्तस्य विकारान् प्रेक्षतामिति ॥ ७.३७ ततस्तपन्तको गत्वा पुनरागत्य चोक्तवान् आर्यपुत्र न तन्मिथ्या यदाह मरुभूतिकः ॥ ७.३८ विमलादर्शसंक्रान्तम् मुखमालोक्य गोमुखः कम्पयित्वा शिरः क्रोधान् निर्दारयति लोचने ॥ ७.३९ कदाचिच्च स्मितं कृत्वा प्रसन्ने नेत्रतारके संचारयति कर्णान्तम् कदाचिन्नासिकान्तरम् ॥ ७.४० मधूच्छिष्टनिगृष्टौ च ताम्बूलद्रवलोहितौ विवृत्य दूरमधरौ दन्तान्तेनापि निश्यति ॥ ७.४१ विकारानेवमाकारान् दृष्ट्वा तस्याहमागतः तेनार्यपुत्र त्वरितम् क्रियास्य क्रियतामिति ॥ ७.४२ अथानन्तरमागत्य संभोगमृदिताम्बरः प्रागल्भ्यान्मृदुवैलक्ष्यो मामवन्दत गोमुखः ॥ ७.४३ कच्चित्स्वस्थोऽसि भद्रेति मयोक्तः सन्नभाषत किमर्थं चाहं स्वस्थो न ह्यहं मरुभूतिकः ॥ ७.४४ यो हि नागरकं मन्यो मन्यते मामनामयम् उन्मत्तकं स उन्मत्तः प्रकृतिभ्रष्टमानसः ॥ ७.४५ अथ शास्त्रोपनिषदस्तात यौगन्धरायणात् अहं शिक्षितुमारब्धः स चापि व्यापृतः सदा ॥ ७.४६ व्याचष्टे च तदा मह्यम् न्तरं लभते यदा तेन मां मा प्रतीक्षध्वम् भोजनायोद्यता इति ॥ ७.४७ ततश्चारभ्य दिवसात् सायमायातवानयम् कदाचिद्दिवसेऽन्यस्मिन् द्वयोस्त्रिषु गतेषु च ॥ ७.४८ एकदा भोजनस्यान्ते कुतोऽप्यागत्य सादरः अहो शोभन्तए इत्युच्चैः प्राशंसत्खण्डमोदकान् ॥ ७.४९ मया तु दापितानन्यान् क्रुध्यन्निव विहाय सः बलादाकृष्य गतवान् स्वयमुच्छिष्टमोदकान् ॥ ७.५० आर्यपुत्र स्फुटीभूतम् ुन्मत्तत्वं प्रियस्य वः अचिकित्स्यश्च संवृत्त ित्यवोचत्तपन्तकः ॥ ७.५१ एवमाभरणं वासस्ताम्बूलं चन्दनादि च लब्धलब्धं गच्छति स्म गृहीत्वा क्वापि गोमुखः ॥ ७.५२ एवंप्राये च वृत्तान्ते कुमारवटकं गतः निवेदिताभ्यागमनो रुमण्वान्मामवन्दत ॥ ७.५३ तं तातमिव दृष्ट्वाहम् ुपक्रान्तश्च वन्दितुम् तेन चोद्धतहस्तेन तात मा मेति वारितः ॥ ७.५४ उक्तं च न त्वया तात बालेन वास्मदादयः वन्द्यस्त्वमधुना प्राप्तो लोकेऽस्मिंल्लोकपालताम् ॥ ७.५५ अन्यच्च राजसंदेशम् ाख्यातुमहमागतः यत्त्वामाह महाराजः सभृत्यं तन्निबोध्यताम् ॥ ७.५६ पुर्यामत्र शरत्काले यात्रा चित्रा प्रवर्तिता या नागवनयात्रेति न क्वचिन्न विकथ्यते ॥ ७.५७ एतावन्तं च सा कालम् युष्मभ्यं न प्रकाशिता मा भूद्विद्याविघातो वस्तद्व्याक्षिप्तधियामिति ॥ ७.५८ चित्तापहारिणी यात्रा हार्यचित्ता च बालता चित्तविद्या च विद्येत दुर्घटस्त्रिकसंगमः ॥ ७.५९ उक्तं चाजागरूकस्य मन्दबुद्धेः सुखात्मनः ग्रन्थभीरोश्च सिध्यन्ति न शास्त्राणि तपांसि च ॥ ७.६० अधुना बुद्धबोद्धव्याः प्राप्तकोमलयौवनाः भवन्तो निःसुखाः सन्तः संतपन्तीव मे मनः ॥ ७.६१ तदस्ति यदि वः काङ्क्षा तं यात्रोत्सवमीक्षितुम् ततो यात निराशङ्का नास्ति चेदास्यतामिति ॥ ७.६२ मयोक्तं सुहृदः पृष्ट्वा यद्नो निष्पद्यते हितम् तद्वो विज्ञापयिष्यामि तावत्पृच्छामि तानिति ॥ ७.६३ रुमण्वता ततः प्रोक्तम् कपोलागलिताश्रुणा हैहयानां कुलं तुङ्गम् चिरं विजयतां जगत् ॥ ७.६४ भवता साधुवृत्तेन गोत्रदासाः कृता वयम् यन्नः संभाविताः पुत्राः प्रश्नप्रतिवचःक्षमाः ॥ ७.६५ इत्युक्त्वा निर्गते तस्मिन् सुहृदः पृष्टवानहम् यस्य यद्वः स्थितं बुद्धौ तेन तत्कथ्यतामिति ॥ ७.६६ ततो हरिशिखेनोक्तम् न मे गमनमीप्सितम् यतः शून्यानि दुर्गाणि गृह्यन्तेऽनन्तरैर्नृपैः ॥ ७.६७ श्रुतमेवार्यपुत्रेण प्रोषिते जगतीपतौ विज्ञाय नगरीं शून्याम् यत्तदारुणिना कृतम् ॥ ७.६८ दुर्गस्य च कृता रक्षा राजा च परितोषितः ख्यापितं धीरचित्तत्वम् ात्मनश्च भवेदिति ॥ ७.६९ त्वं किमात्थेति पृष्टः सन्न् वोचन्मरुभूतिकः युक्तं हरिशिखेनोक्तम् ित्येतच्च तपन्तकः ॥ ७.७० अथोक्तवान् स्मितमुखः सासूय इव गोमुखः किमत्र भण्यते कोऽन्यो मन्त्री हरिशिखाद्वरः ॥ ७.७१ इदं त्वाचक्ष्व केनायम् नियुक्तो दुर्गरक्षणे रक्षतश्चानियुक्तस्य दोषमन्ध न पश्यसि ॥ ७.७२ युवराजो युवा विद्वान् कृतास्त्रो मन्दकौतुकः भवदादिसहायश्च कथं यायादचित्तताम् ॥ ७.७३ यच्च राजोदितं वक्ष्ये नास्ति चेदास्यतामिति तदाशयपरीक्षार्थम् पि चेत्तन्न दुष्यति ॥ ७.७४ अतः पुस्तकविन्यस्त ग्रन्थबद्धार्थबुद्धयः प्रश्नानुग्रहमर्हन्ति नेदृशकूटमन्त्रिणः ॥ ७.७५ अहं पुनर्गुणोपाय प्रयोगकुशलो यतः चेतस्यैः सह संपर्कः प्रयोगकुशलैर्मम ॥ ७.७६ सुखं नः सेवितुं कालो न षाड्गुण्यकदर्थनाम् यच्चोक्तं धर्मशास्त्रेण तत्तावदवधीयताम् ॥ ७.७७ वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च वेषवाग्बुद्धिसारूप्यम् ाचरन् विचरेदिह ॥ ७.७८ तेनोत्तिष्ठत गच्छामो यात्रामद्भुतदर्शनाम् क्रीडिष्यामश्च कान्तासु स्थलीषु मृगयामिति ॥ ७.७९ तच्च मे गोमुखेनोक्तम् प्रविष्टं हृदयं यतः युक्तसच्चानुकूलं च वचः कस्मै न रोचते ॥ ७.८० पुनश्च गोमुखेनोक्तम् यात्रां लोकस्य गच्छतः प्रासादतलमारुह्य समृद्धिर्दृश्यतामिति ॥ ७.८१ अथाहमभ्रंलिहशङ्गचक्रम् ध्वजप्रभापीडितशक्रचापम् प्रासादमारोहमुदारशोभम् शशीव पूर्वाचलराजकूटम् ॥ ७.८२ तत्रापश्यं पुरद्वारान् निर्यान्तीं जनतामहम् चित्रालंकारसंस्काराम् वाचं कविमुखादिव ॥ ८.१ तुरंगरथमातङ्ग करेणुशिबिकादिभिः कुटुम्बिपरिवारोऽपि यत्रागच्छदमण्डनः ॥ ८.२ इति संपश्यमानोऽहम् पश्यं हस्तिनीगतम् निष्क्रामन्तं रुमण्वन्तम् ार्यवेषसहायकम् ॥ ८.३ अध्यासितवशायूथम् म्बाद्वयपुरःसरम् कञ्चुक्यादिपरीवारम् न्तःपुरमतः परम् ॥ ८.४ सार्धं मकरयष्ट्या च चञ्चद्रक्तपताकया गणिकागणमाकृष्ट प्रमत्तजनमानसम् ॥ ८.५ अथ मां गोमुखोऽवोचद् र्यपुत्र किमास्यते अयं वः समयो गन्तुम् ित्यथाहमवातरम् ॥ ८.६ संचारिमेरुकूटाभम् ारुह्य ससुहृद्रथम् नदन्नन्दिमृदङ्गादि तूर्यः प्रचलमध्वगम् ॥ ८.७ तुरंगहेषितैस्तारैर् मन्द्रैश्च गजगर्जितैः शिखण्डिघनसंघात निर्घोषए इव जृम्भितम् ॥ ८.८ जनसंघट्टनिष्पिष्ट तुलाकोटिकमेखलम् राजमार्गमतिक्रम्य राजद्वारमयासिषम् ॥ ८.९ सुयामुनस्थस्तत्रस्थम् नुज्ञाभिनयेन माम् गच्छ गच्छेति भूपलः क्षिप्तपाणिरचोदयत् ॥ ८.१० अहं तु तं नमस्कृत्य हर्षमस्याभिवर्धयन् प्रातिष्ठे बन्दिसंघात प्रयुक्तजयघोषणः ॥ ८.११ प्राग्द्वारेण च निर्याय जनसंपद्दिदृक्षया राजमार्गमधिष्ठाय मन्दिरं गन्तुमारभे ॥ ८.१२ अथाष्टाभिः शशाङ्काभैः कुङ्कुमस्थासकाङ्कितैः हेमभाण्डैः प्रवहणम् युक्तमुक्षकुमारकैः ॥ ८.१३ धवलाम्बरसंवीतम् सज्योत्स्नमिव मन्दिरम् गृहीतमन्दसंचारम् पश्यामि स्म समीपगम् ॥ ८.१४ तत्र प्रवहणाच्छाद छन्नार्धमहमाननम् अपश्यं मेघरुद्धार्धम् िव प्रालेयदीपितम् ॥ ८.१५ ललाटतटविन्यस्त मृदुताम्राङ्गुलिद्वयम् निबद्धमञ्जलिं चारु सरोजमुकुलाकृतिम् ॥ ८.१६ कामोपचारविज्ञान शून्यो यस्मादहं ततः न जानामि स्म केनापि तं बद्धं वन्दनाञ्जलिम् ॥ ८.१७ अथ मां गोमुखोऽवोचत् स्रस्तेन मुकुटेन वः ललाटमावृतं तेन तत्समाधीयतामिति ॥ ८.१८ अथामृष्टे ललाटान्ते मया दक्षिणपाणिना याने कन्याभिरुन्मुक्तस्तस्मिन् कलकलः पटुः ॥ ८.१९ अन्यतश्च मुखं कृत्वा पार्श्वस्पन्दनसूचितम् गोमुखेन स्मितं सद्य ुपक्षिप्तं कथान्तरम् ॥ ८.२० क्रीडास्थानानि पश्यन्तः कारितानि रुमण्वता समासीदाम कालिन्दीम् तरज्जननिरन्तराम् ॥ ८.२१ यत्तत्प्रवहणं पूर्वम् दृष्टं दृष्टं च तन्मया उत्तार्यमाणं यमुनाम् सादरेण रुमण्वता ॥ ८.२२ उत्साहितनिषादेन सिद्धयात्रेति वादिना नावः संचरता नावम् तेनैवोत्तारिता वयम् ॥ ८.२३ सुखं विहितसंभारे नदीतटनिवेशिते स्थित्वा क्रीडागृहे रात्रिम् ुत्थिताः प्रस्थितास्ततः ॥ ८.२४ नातिदूरमतिक्रम्य कृच्छ्राल्लब्धान्तराः पथि प्राप्ता नागवनोद्यानम् शोभानिन्दितनन्दनम् ॥ ८.२५ संततानन्तवृत्तान्ताम् नितान्तहितकौतुकः यात्रां पश्यन् प्रयामि स्म जनताङ्गुलिदर्शितः ॥ ८.२६ सेनापतिस्तु मां नीत्वा प्रांशु काञ्चनतोरणम् कॣप्तनानाविधाक्रीडम् यात्रागृहमवशयत् ॥ ८.२७ तत्राहं ससुहृद्वर्गः क्रीडास्नानाशनादिकः क्रियाः कुर्वन्नयामि स्म नेत्रोन्मेषसमं दिवम् ॥ ८.२८ अथ प्रदोषे सेनानीर् ागत्यास्मानभाषत श्वः संपादयिता क्रीडा या वः सा कथ्यतामिति ॥ ८.२९ मृगयेति मयाख्याते याते सेनापतौ वयम् अभिनीय निशां प्रातः प्रतिष्ठामहे काननम् ॥ ८.३० अन्येऽपि मदनुज्ञाताः प्रीताः पौरकुमारकाः करेणुकरभाश्वादि वाहनाः संघशोऽव्रजन् ॥ ८.३१ अथ दुष्परिसंख्यानम् पश्यं वनरन्ध्रगम् प्लुष्टस्थाणुवनाकार पुलिन्दबलमग्रतः ॥ ८.३२ ततो निर्याय पीनाङ्गो निखर्वस्ताम्रलोचनः सेनापतिः सिंहशत्रुः सेनापतिमवन्दत ॥ ८.३३ तेनोक्तं भ्रातृजाया मे कीदृशी चिन्त्यमेखला तौ वा शाम्बरसारङ्गौ पुत्रौ कुशलिनाविति ॥ ८.३४ सिंहशत्रुरवोचत्तम् शिवं नः सकले कुले यदर्थं वयमाहूतास्तत्समाज्ञाप्यतामिति ॥ ८.३५ रुमण्वानब्रवीदेष कुमारः ससुहृत्तव न्यासस्तेन ससैन्येन प्रयत्नात्पाल्यतामिति ॥ ८.३६ नैलहारिद्रकौसुम्भ वासोराशिमदापयत् तैलकुम्भसहस्रं च रुमण्वान् सिंहशत्रवे ॥ ८.३७ सुसंविहितरक्षं माम् नुज्ञाप्य रुमण्वति निवृत्ते गोमुखेनोक्तम् हो तातेन शोभितम् ॥ ८.३८ विज्ञातास्मदभिप्रायो न निवर्तेत यद्वयम् कुमारवटकेवेयम् भवेद्दारुणयन्त्रणा ॥ ८.३९ ततो द्वारादिमृगया प्रकारैर्बहुभिर्मृगान् निघ्नन्तो घातयन्तश्च न तृप्तिमलभामहि ॥ ८.४० अथ नाथमरण्यान्या द्विषन्तं वाजिकुञ्जरान् यमाय प्रहिणोति स्म महिषं मरुभूतिकः ॥ ८.४१ रत्नबुद्बुदचित्राङ्गास्ततोऽदृश्यन्त संघशः चरन्तः संचरन्तश्च तत्र वातमजा मृगाः ॥ ८.४२ तान् हन्तुं दर्शितोत्साहाश् चिरं हरिशिखादयः भग्नोत्साहा न्यवर्तन्त वीरेभ्य इव भीरवः ॥ ८.४३ तैस्तु सेनापतिः पृष्टो न दृष्टाः कैश्चिदीदृशाः मृगा यदि च जानासि ततो नः कथ्यतामिति ॥ ८.४४ तेनोक्तमहमप्येतान् न जानामि पिता तु मे प्रस्तावे क्वचिदाचष्ट यां वार्त्तां कथयामि ताम् ॥ ८.४५ उत्पद्यते यदा लोके चक्रवर्ती तदा किल एवंरूपजवाकारा दृश्यन्ते मृगजातयः ॥ ८.४६ न चेश्वरशरेणापि त्रिपुरेन्धनदाहिना समासादयितुं शक्याः कुत एवान्यसायकैः ॥ ८.४७ एतान् प्रदक्षिणीकृत्य येन क्षिप्तः शरः किल तूणमायाति तस्यैव वित्त तं चक्रवर्तिनम् ॥ ८.४८ तानहं बद्धसंरम्भः प्रस्थितश्च विहिंसितुम् ते च मां दूरमाकृष्य दिवं हंसा इवास्थिताः ॥ ८.४९ अथावतीर्य तुरंगाद् गृहीतप्रबलश्रमः रमणीयसरस्तीर तरुच्छायामुपाश्रयम् ॥ ८.५० चिरान्मृगयमाणा माम् तुरंगपदवर्त्मना सेनानुबद्धवर्त्मानः प्राप्ता हरिशिखादयः ॥ ८.५१ ततः कुर्वन् परीहासम् मामभाषत गोमुखः कियन्तो वातहरिणा युष्माभिर्निहता इति ॥ ८.५२ मयोक्तं न मयैकोऽपि हतः क्षिप्तस्तु यः शरः प्रदक्षिणीकृत्य स तान् ेष तूणं ममागतः ॥ ८.५३ अथ तेनोक्तमेतस्य शरराजस्य पूजनम् यश्चक्रवर्तिचिह्नानाम् स्फुटानामग्रणीरिति ॥ ८.५४ सिंहशत्रुरथ तामिषुं मुदा गोमुखादिभिरपूजयत्सह सिद्धसार्थवधजातसंमदो दत्तकाङ्क्षितवरामिवाम्बिकाम् ॥ ८.५५ ततो मदान्धवनिता कपोलस्थलकौशलम् सरोजपत्त्रं करजैश् छेत्तुमारब्ध गोमुखः ॥ ९.१ पत्त्रच्छेद्यं ततस्तस्याः सरितस्तरदम्भसि सजीवमिव संपन्नम् चलत्वात्पटुरंहसः ॥ ९.२ अनुकूलं प्रसर्पन्तम् प्रशंसन्तश्च गोमुखम् पत्त्रच्छेद्यमपश्यामो मुक्तावयवसंकरम् ॥ ९.३ अस्त्माभिरनुयुक्तश्च कथयेति सविस्तरम् गोमुखो व्याकरोति स्म पत्त्रच्छेदस्य लक्षणम् ॥ ९.४ इहार्यपुत्र विज्ञेयम् पत्त्रच्छेद्यं समासतः त्र्यस्रं च चतुरस्रं च दीर्घं वृत्तं च भेदतः ॥ ९.५ त्र्यस्रैः चतुष्पदशैला निष्पद्यन्ते गृहादि च चतुरस्रैः सशालानि पुराणि पुरुषादि च ॥ ९.६ दीर्घे नदनदीमार्ग प्रतानभुजगादयः वृत्ते भूषणसंयोग शकुन्तमिथुनादयः ॥ ९.७ गोमुखे कथयत्येवम् ागत्य मरुभूतिकः अहो नु महदाश्चर्यम् ार्यपुत्रेत्यभाषत ॥ ९.८ असौ हरिशिखेनोक्तः सर्वमेव भवादृशाम् कूपकच्छपकल्पानाम् ाश्चर्यं स्थूलचक्षुषाम् ॥ ९.९ पश्य दुःश्रद्दधानेति तमुक्त्वा मरुभूतिकः इदमाश्चर्यमित्युच्चैः पुलिनं नो व्यदर्शयत् ॥ ९.१० ततो हरिशिखेनोक्तम् कृत्वा हसितमुल्बणम् आश्चर्यं पुलिनं पश्य नमस्तस्मै सचक्षुषे ॥ ९.११ निम्नेन सलिलं याति पुलिनं सिकतास्थलम् आश्चर्यं यदि तन्मूढ द्वेषः कः सलिले तव ॥ ९.१२ सोऽब्रवीत्केन पुलिनम् ाश्चर्यमिति भाषितम् पुलिने यत्तदाश्चर्यम् थ वा दृश्यतामिति ॥ ९.१३ तेनोक्तं पुलिने सन्ति सिकताः किं तदद्भुतम् नेत्युक्ते तेन दृष्ट्वा तु पुलिनं गोमुखोऽब्रवीत् ॥ ९.१४ मा मा भद्रमुखं कश्चित् परिभून्मरुभूतिकम् मया हि पुलिने दृष्टम् संनिविष्टं पदद्वयम् ॥ ९.१५ उक्तं हरिशिखेनापि यद्याश्चर्यं पदद्वयम् अत्याश्चर्यमिदं पश्य पदकोटीश्चतुर्दश ॥ ९.१६ तेनोक्तं सानुबन्धासु नाश्चर्यं पदकोटिषु इदं विच्छिन्नसंतानम् तेनाश्चर्यं पदद्वयम् ॥ ९.१७ तेनोक्तं यदि शेषाणि परामृष्टानि पाणिना भवेयुरिति तेनोक्तम् ततः स्यादेव वालुका ॥ ९.१८ येयं तीरतरोः शाखा पुलिनं यावदागता तया गत्वावतीर्णः स्यात् कश्चिन्नागरको यदि ॥ ९.१९ एतामेव समालम्ब्य दूरमालम्बपल्लवाम् निवर्तेतेति तेनोक्ते पर्णाकीर्णा मही भवेत् ॥ ९.२० कस्य तर्हीति तेनोक्ते दिव्यस्येत्यब्रवीत्स तम् दिव्यानां कतमस्येति स विद्याधरमादिशत् ॥ ९.२१ न स्पृशन्ति भुवं देवाः स्थूलत्वाद्यक्षरक्षसाम् दूरं पदानि मज्जन्ति पुलिनेषु विशेषतः ॥ ९.२२ तपःक्षामशरीरत्वात् सिद्धानामृषिभिः सह अव्यक्ताङ्गुलिपार्ष्ण्यादि निक्षेपं जायते पदम् ॥ ९.२३ अन्येषां च मनुष्याणाम् ुपपत्त्या नियुज्यते अवगाढं भवत्यग्रे विपरीतं तु योषितः ॥ ९.२४ भाराक्रान्तः स चेत्युक्ते भुयो हरिशिखोऽब्रवीत् शिलापादपशत्रूणाम् कोऽस्य भारो भवेदिति ॥ ९.२५ शिलायामवगाढं स्यात् पर्णकीर्णं च पादपे शत्रौ न शत्रुं पुलिने रमणीयेऽवतारयेत् ॥ ९.२६ तस्मादसिद्धविद्यास्य भारो विद्याधरी यतः न विद्यासिद्धिमाप्त्वापि जायन्ते पङ्गुवृत्तयः ॥ ९.२७ आरोपितं च तेनास्या जघनं दक्षिणं भुजम् निमग्नं येन तस्येदम् दक्षिणं कामिनः पदम् ॥ ९.२८ पतितैरुत्तमाङ्गाच्च केशधूपाधिवासितैः मालतीकुसुमैर्वासम् वकीर्णं न पश्यसि ॥ ९.२९ रमणीयतरां चैषाम् न त्यक्ष्यति स निमग्नाम् तेनान्यत्रापि दृश्यन्ताम् पदानि निपुणैरिति ॥ ९.३० ततः पौरैर्मदीयैश्च विचिन्वद्भिरितस्ततः स्त्रीपुंसयोरदृश्यन्त पदानि सलिलान्तिके ॥ ९.३१ सहास्माभिस्तमुद्देशम् गत्वा दृष्ट्वा च गोमुखः तेन नागरकेनापि भाव्यमित्येतदुक्तवान् ॥ ९.३२ कथं वेत्थेति पृष्टश्च स विहस्येदमुक्तवान् ज्ञेयं किमत्र दुर्ज्ञानम् थ वा कथयामि वः ॥ ९.३३ परचित्तानुवृत्तिश्च स्वचित्तस्य च निग्रहः येयं नागरकैरुक्ता सा नागरकता मता ॥ ९.३४ मन्थरं परिसर्पन्तीम् कामिनीमनुगच्छति अयं नागरको यस्माद् तिक्रम्य न गच्छति ॥ ९.३५ इदानीमेव तौ यातौ पदवी दृश्यतामियम् तथा हि चरणाक्रान्ति नतमद्यापि शाद्वलम् ॥ ९.३६ इति तामनुगच्छन्तो नवां चरणपद्धतिम् सप्तपर्णमपश्याम प्रवृत्तभ्रमरोत्सवम् ॥ ९.३७ तन्मूले यानि वृत्तानि रहो विहरमाणयोः स्वयमाचरितानीव गोमुखस्तान्यवर्णयत् ॥ ९.३८ इह सा कुपिता तस्मै तेन चेह प्रसादिता अयं सकुसुमश्चात्र कॣप्तः पल्लवसंस्तरः ॥ ९.३९ श्रान्ता चात्रोपविष्टा सा तथा चेदं निरूप्यताम् आसनं जघनाक्रान्ति जातजर्जरपल्लवम् ॥ ९.४० निधाय जघने हस्तौ विनमय्य गुरुत्रिकम् इयं विजृम्भमाणाया मग्नाग्रचरणा मही ॥ ९.४१ एवं निरूपयन्तश्च सप्तपर्णतलाद्वयम् निर्यान्तीमन्वगच्छाम तयोश्चरणपद्धतिम् ॥ ९.४२ अथागम्यमपश्याम चन्द्रसूर्यानलानिलैः माधवीगहनं वेश्म कामिनामनिवारितम् ॥ ९.४३ वारुणीपानसंजात मदभृङ्गविलुप्तया पुष्पवत्या परिष्वक्तम् श्यामया तन्निरन्तरम् ॥ ९.४४ दृष्ट्वा च गोमुखेनोक्तम् त्रैवास्ते स कामुकः प्रच्छन्नं रमणीयं च न हीदं त्यागमर्हति ॥ ९.४५ न चापि दर्शनं युक्तम् ासीनस्य यथासुखम् तस्मान्मुहूर्तमन्यत्र क्वचिद्विश्रम्यतामिति ॥ ९.४६ नीलशीतलमूलस्य दूर्वया वटशाखिनः छायया च पलाशानाम् तिष्ठाम तले ततः ॥ ९.४७ गोमुखस्तु तदालोक्य लतागृहकमुन्मुखः नास्त्यसावत्र कामीति सशिरःकम्पमुक्तवान् ॥ ९.४८ ततो हरिशिखेनोक्तम् पूर्वमस्तीति भाषसे इदानीमपि नास्तीति सर्वथोन्मत्तको भवान् ॥ ९.४९ तेनोक्तमिदमत्रस्तम् निष्क्रान्तं माधवीगृहात् शिखण्डिमिथुनं कस्मान् मूकमन्ध न पश्यसि ॥ ९.५० यदि कश्चिद्भवेदत्र त्रस्तमेतत्ततस्ततः मुक्तार्तकेकमुड्डीय वृक्षदुर्गं विशेदिति ॥ ९.५१ ततः प्रस्थापयामि स्म विचेतुं परिवारकान् चलयन्तश्तु हस्तांस्ते शून्यमाख्यंल्लतागृहम् ॥ ९.५२ स्वयं तत्राप्यपश्याम रचितं प्रस्तरं महत् प्रकीर्णपल्लवन्यासम् किशोरलुठितैरिव ॥ ९.५३ तरुशाखावसक्तं च हारनूपुरमेखलम् अन्यत्रान्यत्र च क्षौमम् म्भोरुहदलारुणम् ॥ ९.५४ पतितार्कनिकाशं च विद्याधरधनं क्वचित् वर्मरत्नं स्फुरद्रत्न प्रभाकुञ्चितलोचनम् ॥ ९.५५ सर्वं तद्ग्राहयामि स्म पुरुषैर्भूषणादिकम् तस्मै निर्यातयिष्यामि दृष्टायेत्यथ गोमुखः ॥ ९.५६ अब्रवीद्वैरिणा नूनम् स नीतः सह कान्तया ताभ्यां हि परतन्त्राभ्याम् भूषणादीदमुज्झितम् ॥ ९.५७ दीर्घायुष्कं च तं वित्त स्निग्धास्तस्य शिरोरुहाः लग्नाः पादपशाखायाम् द्यापि हि सुगन्धयः ॥ ९.५८ एवं निरूपयन्तश्च समन्ताद्दत्तदृष्टयः नातिदूरमतिक्रम्य क्वचित्तुङ्गतरौ वने ॥ ९.५९ बद्धं स्कन्धे कदम्बस्य पञ्चभिर्लोहशङ्कुभिः विद्याधरमपश्याम लेपविद्याधराचलम् ॥ ९.६० अथावतार्यतामेष स्कन्धादित्यभिधाय तान् अपसृत्य ततश्छायाम् ाश्रयामि स्म शाखिनः ॥ ९.६१ गोमुखस्त्वब्रवीन्नैते केनचिल्लोहशङ्कवः शक्याः क्रष्टुमुपयेन सर्वैरपि सुरैरिति ॥ ९.६२ अथाहमब्रुवं स्मृत्वा राजाजल्पन्मया श्रुतम् एता ओषधयः पञ्च सदास्थाः किल वर्मणि ॥ ९.६३ विशल्यकरणी काचित् काचिन्मांसविवर्धनी व्रणसंरोहिणी काचित् काचिद्वर्णप्रसादनी ॥ ९.६४ मृतसंजीवनी चासाम् पञ्चमी परमौषधिः यदि वर्मणि ताः सन्ति ताभिः संजीव्यतामिति ॥ ९.६५ मुहूर्तादिव चागत्य विस्मितो गोमुखोऽब्रवीत् प्रसादादर्यपुत्रस्य जीवितः स नभश्चरः ॥ ९.६६ ता महौषधयो दृष्टा निहितास्तस्य वर्मणि शल्यप्रोते च हरिणे प्रयुक्ताः क्रमशस्ततः ॥ ९.६७ तत्र दृष्टप्रभावाभिः स विद्याधरसुन्दरः अकृताङ्गः कृतः सद्यः समाश्वस्येति भाषते ॥ ९.६८ जीवितः केन बद्धोऽहम् ित्यथाहं तमुक्तवान् अस्माकमर्यपुत्रेण प्रकारैस्चतुरैरिति ॥ ९.६९ तेनोक्तं किं च युष्माकम् र्यपुत्रोऽपि विद्यते आमेति च मया प्रोक्ते तेनोक्तं न स मानुषः ॥ ९.७० अस्माकमर्यपुत्रोऽपि देवो विद्याधरोऽपि वा प्रसीदन्तु तमाख्यात प्रसादं चक्षुषामिति ॥ ९.७१ मयोक्तमर्यपुत्रेण वयमाज्ञापिता यथा जीवयित्वाभ्यनुज्ञेयो मा स्म पश्यत्स मामिति ॥ ९.७२ कृतोपकारस्त्वां द्रष्टुम् नायमिच्छति लज्जया पुनःसंदर्शनायातस्तात प्रस्थीयतामिति ॥ ९.७३ अथ विस्रस्तहस्तेन दत्त्वा जानुनिपातनम् विनिश्वस्य च तेनोक्तम् दैन्यगद्गदया गिरा ॥ ९.७४ इदानीमस्मि सुमृतः प्राणदानोपकारिणम् स्वामिनं यन्न पश्यामि भविष्यचक्रवर्तिनम् ॥ ९.७५ प्रदाय यदि मे प्राणान् पश्चात्तापेन खेद्यते एवं मुञ्चामि भूयस्तान् न चेत्पश्यतु मामिति ॥ ९.७६ मया दत्तेऽभ्यनुज्ञाने पश्यत्वेवं करोत्विति गां स्पृशञ्जानुशिरसा स मामिदमभाषत ॥ ९.७७ विद्याधरोऽमृतगतिः कौशिकस्य मुनेः सुतः सर्वविद्याधरेशेन प्रणमन् दृश्यतामिति ॥ ९.७८ एहीह च मयाहूय स्पृष्टः पृष्ठे निरामयः सुहृद्दृष्ट्या च दृष्टः सन् प्रहृष्टः समुपाविशत् ॥ ९.७९ ततो हरिशिखेनोक्तम् ुक्तं वृषसुतेन यत् सत्यं तत्प्रियसंभाषो महानागरको ह्ययम् ॥ ९.८० इदं श्रुत्वामितगतिर् िदमस्मानभाषत नेदं नागरकत्वं मे श्रूयतां च कथा यथा ॥ ९.८१ अस्ति प्रालेयशैलस्य मनोनयनहारिणि शिखरे कौशिको नाम मुनिस्तुल्याश्मकाञ्चनः ॥ ९.८२ तं च बिन्दुमती नाम त्यक्तनन्दनकानना आराधितवती यत्नात् सुदीर्घं कालमप्सराः ॥ ९.८३ एकदा कौशिकेनोक्ता वरं ब्रूहीति साब्रवीत् यदि मे भगवान् प्रीतः ततोऽपत्यं ददात्विति ॥ ९.८४ तेन चोत्पादितं तस्याम् पत्ययुगलं क्रमात् अहं च पुत्रः पुत्री च मत्स्वसा मत्सनामिका ॥ ९.८५ सोऽहं संवर्धितस्तेन नास्ति तद्यन्न शिक्षितम् धारयामि च तद्विद्यास्तेन विद्याधरोऽभवम् ॥ ९.८६ एकदा पितरं दृष्ट्वा रुदन्तमहमब्रुवम् मादृशं पुत्रमुत्पाद्य किं रोदिति भवानिति ॥ ९.८७ तेनोक्तं चक्रवर्तित्वम् न ते पश्यामि पुत्रक अङ्गादङ्गान्मदीयात्तु वृथा जातो भवानिति ॥ ९.८८ मयोक्तं मम यः स्वामी स मह्यं कथ्यतामिति तेनोक्तं चक्रचर्ती यः स चाप्यन्विष्यतामिति ॥ ९.८९ मयोक्तं चक्रवर्तित्वम् यैश्चिह्नैरवगम्यते दृष्ट्वा तानि धिया मह्यम् ाचष्टां भगवानिति ॥ ९.९० तेनोक्तं शत्रुणा बद्धम् यस्त्वां शङ्कुभिरायसैः जीवयिष्यति जानीयात् स्वामिनं तं भवानिति ॥ ९.९१ मम त्वङ्गारको नाम व्यालकश्चाभवत्सुहृत् सौदर्यो गमयामि स्म ताभ्यां कालं सुखं सह ॥ ९.९२ अथ वायुपथो नाम राजा तेन सहागमम् काश्यपस्थलकं नाम पुरं मानसलोभनम् ॥ ९.९३ तत्रैकदा विचरता मयोपवनचरिणी दृष्टा कन्यापरिवारा कन्यका कुसुमालिका ॥ ९.९४ प्रशस्यवर्णसंस्थाना सा मे बुद्धौ स्थिरा स्थिता प्रशस्तिरिव विन्यस्ता भित्तौ विन्ध्यशिलाभृतः ॥ ९.९५ तामादाय तया सार्धम् सुहृद्भ्यां च मनोहराः रतये संचरामि स्म सरिद्गिरितरुस्थलीः ॥ ९.९६ अङ्गारकमथापश्यम् पश्यन्तं कुसुमालिकाम् रागादपत्रपात्रासम् वक्रग्रीवानिरीक्षितम् ॥ ९.९७ लक्षितोऽहमनेनेति लक्षयित्वा सहानुजः अनामन्त्र्यैव मां नीचो नीचैरुत्थाय यातवान् ॥ ९.९८ अहं तु जातवैलक्ष्यात् संरक्ताच्च ततस्त्रसन् न जानामि क्व यामीति चकितः सह कान्तया ॥ ९.९९ अद्य चेमां समासाद्य रमणीयां नगापगाम् अवतीर्णोऽस्मि पुलिने कोमलामलवालुके ॥ ९.१०० सुरतानुभवे योग्यम् दृष्ट्वा तच्च सुसंवृतम् लतागृहमहं प्राप्तः फुल्लश्यामालतावृतम् ॥ ९.१०१ यच्च शेषमशेषं तत् कथितं गोमुखेन वः तस्मादाप्तोपदेशोऽयम् न नागरकता मम ॥ ९.१०२ को हि विद्याधरैर्बद्धम् विद्याधरसैन्यपः मोचयेन्मादृशं तस्मात् तथेदमृषिभाषितम् ॥ ९.१०३ सेवन्ते सेवकाः सेव्यान् प्रज्ञाप्राणधनादिभिः येन तेनात्मरक्षार्थम् मद्विद्या गृह्यतामिति ॥ ९.१०४ सद्यः कृतोपकारेण मया मन्दादरेण च न गृहीताब्रुवं चैनम् नुगच्छ प्रियामिति ॥ ९.१०५ अब्रवीच्च दिनादस्मात् परेणाहमहर्निशम् अप्रमत्तो भविष्यामि भवतो देहरक्षणे ॥ ९.१०६ स्मर्तव्यः संकटे चाहम् ित्युक्त्वा नः प्रणम्य च वेगेनाकाशमुत्पत्य प्रागादङ्गारकं प्रति ॥ ९.१०७ आदित्यशर्मवचनं वचनं च यक्ष्या यानं प्रदक्षिणमिषोश्च मरुन्मृगाणाम् प्रह्लादिनामितगतेः कथितेन जातम् ुत्खातसंशयकलङ्कतया विशुद्धम् ॥ ९.१०८ अथ संपादितं तत्र यात्रास्थेन रुमण्वता अशित्वोदारमाहारम् यात्रायै गन्तुमारभे ॥ १०.१ उक्षवृन्दारकैर्युक्तम् ास्थाय स्यन्दनं सुखम् हंसैरिव शशाङ्काभैर् विमानं यादसां पतिः ॥ १०.२ अखण्डशशिबिम्बाभम् गोमुखश्छत्रमग्रहीत् मृष्टहाटकदण्डं च चामरं मरुभूतिकः ॥ १०.३ रथाग्रावस्थितो रश्मीन् ालम्बत तपन्तकः आततज्यधनुष्पाणिः पार्श्वं हरिशिखोऽभवत् ॥ १०.४ आशितं मृदुघासानाम् शेषं स्नापितपायितम् मन्दं मन्दं च नः सैन्यम् स्यन्दनं परितोऽगमत् ॥ १०.५ एवंप्राये च वृत्तान्ते चामरं चलयन्मनाक् दृष्ट्वा हरिशिखं वाक्यम् वोचन्मरुभूतिकः ॥ १०.६ चरता मृगयाक्रीडाम् र्यपुत्रेण पापिकाम् प्रदाय प्राणिनः प्राणान् धर्मः प्राप्तो महानिति ॥ १०.७ तेनोक्तं किमिहाश्चर्यम् नुपासितसाधुना श्रमव्यायामसारेण भाषितं यत्त्वयेदृशम् ॥ १०.८ भूमिमित्रहिरण्यानाम् मित्रमेवातिरिच्यते तन्मूलत्वादितरयोस्तस्मान्मित्रमुपार्जितम् ॥ १०.९ तयोः संजल्पतोरेवम् हं गोमुखमब्रुवम् धर्मादीनां प्रधानं यत् तदाचष्टां भवानिति ॥ १०.१० तेनोक्तं धर्ममित्रार्था यतः कामप्रयोजनाः प्राधान्यं तेन कामस्य कामश्चेच्छासुखात्मकः ॥ १०.११ पुलिने हि पदं दृष्ट्वा पूर्वमिच्छा प्रभोरभूत् येनेदमिह विन्यस्तम् तं पश्येयं कथं न्विति ॥ १०.१२ तं च दृष्ट्वार्यपुत्रेण सुखमासादितं यतः तन्न मित्रं न धर्मार्थौ किं तु कामोऽयमर्जितः ॥ १०.१३ अन्योऽप्यस्ति महाकामः स युष्माकं न गोचरः यूयं हि सर्वकामिभ्यो बाह्या दारुमनुष्यकाः ॥ १०.१४ निर्दिष्टाः कामशास्त्रज्ञैः पुरुषास्तु चतुर्विधाः उत्तमा मध्यमा हीनाश् चतुर्थास्तु नकेचन ॥ १०.१५ उत्तमो गोमुखस्तेषाम् र्यपुत्रस्तु मध्यमः अधमान् कथयिष्यामि भवन्तस्तु नकेचन ॥ १०.१६ ततः क्रोधाद्विहस्येदम् वोचन्मरुभूतिकः अहो नागरकत्वं ते निष्पन्नमनुजीविनः ॥ १०.१७ अपि बालबलीवर्द सत्यमेवासि गोमुखः को नाम मानुषमुखः सन्नशुद्धमुदाहरेत् ॥ १०.१८ उत्तमो गोमुखस्तेषाम् र्यपुत्रस्तु मध्यमः प्रभोरधिकमात्मानम् ित्थं कः कथयेदिति ॥ १०.१९ तेनोक्तं दृढमूढोऽसि न किंचिदपि बुध्यसे न हि प्रभुत्वमात्रेण भवत्युत्तमकामुकः ॥ १०.२० यः काम्यते च कामी च स प्रधानमहं यथा अकामी काम्यते यस्तु मध्योऽसावर्यपुत्रवत् ॥ १०.२१ यस्तु कामयते कांचिद् कामां सोऽधमः स्मृतः ते नकेचन भण्यन्ते ये न काम्या न कामिनः ॥ १०.२२ इतीदं लक्षणं येषाम् तान् विजानीत कामिनः नकेचन भवन्तस्तु येन निर्लक्षणा इति ॥ १०.२३ अथ चामरमुज्झित्वा स्फुटन्निव कुतूहलात् अपृच्छद्गर्जितमुखम् गोमुखं मरुभूतिकः ॥ १०.२४ योषिन्मधुकरी यासाव् ुपभोक्तुं व्यवस्यति स्वामिनो यौवनमधु क्वासौ कथय तामिति ॥ १०.२५ तेनोक्तमर्यपुत्राय ब्रवीमि यदि पृच्छति न तुभ्यं स्थलमण्डूक न हि भस्मनि हूयते ॥ १०.२६ अथ बद्धाञ्जलिः प्रह्वो मावोचन्मरुभूतिकः पृच्छ्यतां स्थिरगर्वोऽयम् प्रसादः क्रियतामिति ॥ १०.२७ इच्छतापि तमालापम् लज्जां भावयता मया अप्रत्याख्यातकथितम् कथयेत्यनुमोदितम् ॥ १०.२८ अथानन्दाश्रुतिमिरे नेत्रे संमृज्य गोमुखः संकास्य शुद्धकण्ठश्च रम्यामकथयत्कथाम् ॥ १०.२९ अथाहमर्यपुत्रेण यौवराज्ये विभूषिते अभिवादयितुं देव्यौ नरेन्द्रान्तःपुरं गतः ॥ १०.३० तत्र चित्रं मया दृष्टम् दृष्टं दिव्यमानुषैः वर्णक्रमविशुद्ध्या यद् राज्यमस्येव भूपतेः ॥ १०.३१ पद्मावत्या च पृष्टोऽहम् किमस्मिन् पुत्र गोमुख पश्यसीति ततो देवि त्रयमित्यहमुक्तवान् ॥ १०.३२ किं पुनस्त्रयमित्युक्ते देव्यै कथितवानहम् ऋद्धिं वः शिल्पिनां शिल्पम् बहुरत्नां च गामिति ॥ १०.३३ अथ देव्या विहस्योक्तम् चेतस्यः खलु गोमुखः अचेतस्यो हि पुरुषः कथमेवं वदेदिति ॥ १०.३४ आसीच्च मम तच्छ्रुत्वा संदेहाध्यासितं मनः चेतस्यः किं नु गुणवान् ाहो स्विद्दोषवानिति ॥ १०.३५ न च पृष्टा मया देवी ससंदेहेऽपि चेतसि मा स्म बुध्यत सा बालम् चेतस्यं च मामिति ॥ १०.३६ अपृष्टः को नु कथयेच् चेतस्यमिति चिन्तयन् संचरन्मन्दिरमहम् निर्गतो राजवेश्मनः ॥ १०.३७ पश्यामि स्म रथं युक्तम् चित्रचामरमण्डनैः निरन्तरखुरन्यासैः पारसीकैस्तुरंगमैः ॥ १०.३८ रथस्य प्राजिता तस्य पुरुषो मां विनीतवत् प्रतोदगर्भमाधाय मूर्धन्यञ्जलिमब्रवीत् ॥ १०.३९ भर्तृदारक विज्ञाप्यम् स्मिन् राजकुले वयम् कुलक्रमागता भृत्या रथवाहनजीविनः ॥ १०.४० सोऽहमाज्ञापितो राज्ञा यथैते पृष्ठवाह्निअः अचिराद्भवता रथ्याः क्रियन्तां तुरगा इति ॥ १०.४१ मया चैते यथाशक्ति स्कन्धदान्तास्त्वरावता न तु संभावयाम्येतान् कुशलैरपरीक्षितान् ॥ १०.४२ तदेवं रथमारुह्य परीक्ष्यन्ताममी त्वया पदवाक्यप्रमाणार्थ चतुरेण आगमा इव ॥ १०.४३ इदमादि ततः श्रुत्वा क्षणमानमिताननः उपचारो भवेदेष सत्यमेवेत्यचिन्तयम् ॥ १०.४४ लम्बकर्णमथापश्यम् विनीतं लम्बशाटकम् कायस्थं समषीपात्रम् लेखनीकर्णपूरकम् ॥ १०.४५ सोऽब्रवीन्महति क्लेशे पातिताः प्रभुणा वयम् सर्वथा धिगिमां क्षुद्राम् श्ववृत्तिमनुजीविनः ॥ १०.४६ पृथिव्यां सन्ति यावन्तश् चेतस्याः पुरुस्.ओत्तमाः अचेतस्याश्च कर्तव्यम् तेषां लेख्यं मया किल ॥ १०.४७ न चैकमपि पश्यामि युक्तं चेतस्यलक्षणैः अचेतस्यास्तु सकलाम् क्षोभयन्ति महीमिति ॥ १०.४८ पुस्तकद्वयहस्तेन तत्र चैकेन भाषितम् प्रसारिताङ्गुलीकेन मामुद्दिश्य सकौतुकम् ॥ १०.४९ आगत्यार्याकृतिममुम् निर्दाक्षिण्यं न पश्यसि आजीवार्थचिकित्साकम् चिकित्सकमिवाधनम् ॥ १०.५० अयं तावदचेतस्य पुस्तकादौ निवेश्यताम् य एवमनुनीतोऽपि रथं नारोढुमिच्छति ॥ १०.५१ अप्रार्थितोऽपि यः कश्चिद् ारोहति स लिख्यताम् चेतस्यपुस्तकस्यादौ नमस्कारादनन्तरम् ॥ १०.५२ ततश्चेतस्यतालोभाद् दूरमुत्प्लुत्य सत्वरः मा स्मान्यः कश्चिदारोहद् ित्यारोहमहं रथम् ॥ १०.५३ तेन वेगवता गच्छन्न् पश्यं गजमग्रतः सुखायमानं मधुरैर् ालापैर्परिकर्मिणाम् ॥ १०.५४ हस्त्यारोहं रथारोहो विधार्य रथमुक्तवान् अन्यतो नय मातङ्गम् मा चेतस्यरथं रुधः ॥ १०.५५ तेनोक्तमन्यतो यातु चेतस्याध्यासितो रथः विहन्तुमहमेतस्य नेच्छामिच्छामि दन्तिनः ॥ १०.५६ अप्रवृत्तमदस्यास्य मदः सान्त्वैः प्रवर्तते इच्छायाश्चाविघातेन तेन नः क्षम्यतामिति ॥ १०.५७ अवोचमथ यन्तारम् न नाम यदि नेच्छति आधोरणः पथान्येन रथः प्रस्थाप्यतामिति ॥ १०.५८ एवं नामेति चोक्त्वा सः परिवर्तितवान् रथम् चेतस्यावासमध्येन त्वां नयामीति चोक्तवान् ॥ १०.५९ आसीच्च मम दीर्घायुर् यं भवतु कुञ्जरः रुन्धता येन मे मार्गम् चेतस्या दर्शिता इति ॥ १०.६० पश्यामि स्म च विस्तीर्ण शिलातलधरातलम् माल्यभूषणधूपादि प्रायपण्यं वणिक्पथम् ॥ १०.६१ तमतिक्रम्य रम्याग्रा हर्म्यमालाः सनिष्कुटाः सशरीरा इव न्यस्ता वास्तुविद्याकृतां धियः ॥ १०.६२ उत्कटाकारचरिताः समदाः प्रमदाः क्वचित् तादृशानेव पुरुषान् सेवमानाः पराङ्मुखान् ॥ १०.६३ पृष्ठतोऽनुनयन्तं च युवानं युवतिं क्वचित् तया निर्भर्त्स्यमानं च वाक्यैर्मधुरदारुणैः ॥ १०.६४ अयि बल्लवकापेहि किं मा छुपसि दुर्भगाम् बहुबल्लवकच्छुप्ताम् छुप बल्लविकामिति ॥ १०.६५ चलयन्तीं क्वचित्कांचिद् विपञ्चीमञ्चिताङ्गुलिम् कांचित्कोणपरामर्श शिञ्जानपरिवादिनीम् ॥ १०.६६ इति संचरमाणोऽहम् रथेन मृदुगामिना पठन्तीः पट्टिका व्यग्राः पश्यामि स्म कुमारिकाः ॥ १०.६७ कः पुनः स्यादयं ग्रन्थ िति श्रोतुं मयेच्छता दूरात्प्रहितकर्णेन स्फुटमाकर्णितं यथा ॥ १०.६८ समेत्य पूर्वं न स्वप्यात् सुप्तं च न परित्यजेत् प्राणापानौ च यत्नेन समं संधारयेदिति ॥ १०.६९ आसीच्च मम का एता विटशास्त्रमधीयते मन्ये सारथिनोपायैर् हं वेशं प्रवेशितः ॥ १०.७० कामदेवालयं चान्यः कुर्वन् कोऽपि प्रदक्षिणम् अभाषत कृतार्थोऽहम् निद्रां प्राप्स्यामि संप्रति ॥ १०.७१ योऽसौ विनयगर्वेण दुःखमास्ते स गोमुखः अवन्ध्यं यौवनं कर्तुम् ेष वेशं विगाहते ॥ १०.७२ अवोचमथ यन्तारम् शोभनमनुष्ठितम् अधुना तु रथः क्षिप्रम् प्रतीपं नीयतामिति ॥ १०.७३ तेनोक्तं मा त्रसीर्वेशान् नेदं मातङ्गपक्षणम् न च दर्शनमात्रेण कश्चिद्भवति दोषवान् ॥ १०.७४ अतीतश्च महानध्वा शिष्यते स्तोकमन्तरम् रथः किं पृष्ठतो यातु किं पुरः प्रेर्यतामिति ॥ १०.७५ मया तु पुर इत्युक्ते त्वरितः सारथी रथम् प्रैरयत्तत्र चापश्यम् मन्दिरं मन्दरोन्नतम् ॥ १०.७६ राजावरोधनाकारम् द्वास्थाध्यासिततोरणम् योषिद्वर्षवरप्रायम् विनीतजनसंकुलम् ॥ १०.७७ तस्मात्कन्या विनिर्याय हारिहारादिभूषणाः कान्तिबाधितपद्मिन्यः परिवार्य रथं स्थिताः ॥ १०.७८ तासामेकाब्रवित्प्रौढा शिरोविरचिताञ्जलिः भर्तृदारक विज्ञाप्यम् ागच्छत किलेति माम् ॥ १०.७९ मम त्वासीदहो शक्तिर् बत पुण्यस्य कर्मणः जगतः प्रभुरप्येषा येन प्रैष्येव भाषते ॥ १०.८० अचेतनैरलं पुण्यैः किलशब्दः प्रलीयताम् यैः कृता परतन्त्रेयम् लक्ष्मीर्येन च सूचिता ॥ १०.८१ किं तु यानि न यानीति संशयाने क्षणं मयि दैन्यम्लानमुखाम्भोजास्ता निरैक्षन्त पृष्ठतः ॥ १०.८२ अनुयाता च तद्दृष्टिम् दृष्टमुद्घाटितं मया वातायनं कवाटस्थ मणिजालांशुभासुरम् ॥ १०.८३ तेन शृङ्गारसंचारम् तालवृन्तत्रयं चलत् विभ्रान्तग्राहिणीपाणि करप्रकरपिञ्जरम् ॥ १०.८४ तालवृत्तान्तरालीनम् मुखमुन्नतकण्ठकम् सरस्तरंगरन्ध्रस्थम् ुन्नालमिव पङ्कजम् ॥ १०.८५ चञ्चत्प्रदेशिनीकं च पाणिमुच्चैः प्रसारितम् सुकुमारमरुत्प्राप्तम् िव विद्रुमपल्लवम् ॥ १०.८६ केयमाहूयतीत्येतद् विचार्यैव यानतः भुवमागतमात्मानम् ाशु चेतितवानहम् ॥ १०.८७ उक्तः सारथिना चास्मि प्रणयं प्रणयीजनः करोतु सफलं तेन भर्तृपुत्र प्रविश्यताम् ॥ १०.८८ यावतीं च भवान् वेलाम् िहास्ते तावतीमहम् धुर्यान् विश्रमयन्नासे जाततीव्रश्रमानिति ॥ १०.८९ गणिकाभिस्त्वहं ताभिर् ारण्यक इव द्विपः वारीमिव दृढद्वाराम् ाद्यां कक्ष्यां प्रवेशितः ॥ १०.९० प्रशस्तैरन्वितां तत्र प्रदेशैः पुष्करादिभिः अधीयमानविनयाम् पश्यं नागकन्यकाम् ॥ १०.९१ द्वितीयायां तु कक्ष्यायाम् शिल्पिकौशलशंसिनी कर्णीरथप्रवहणे शिबिकां च शिवाकृतिम् ॥ १०.९२ प्रशस्तलक्षणगणान् रणदाभरणस्रजः नानादेशांस्तृतीयाणाम् वाजिनः साधुवाहिनः ॥ १०.९३ चतुर्थ्यां विरुवत्केक चकोरशुकशारिकम् सरावकुक्कुटव्रातम् वयःपञ्जरमण्डलम् ॥ १०.९४ कलाविन्यासकुशलैर् नानाकाराणि शिल्पिभिः सुवर्णतारताम्राणि कल्पितानि ततः परम् ॥ १०.९५ षष्ठ्यां तु योज्यमानानि गन्धशास्त्रविशारदैः धूपानुलेपनम्लान वासनानि ततस्ततः ॥ १०.९६ सप्तम्यां रच्यमानानि रङ्गधूपनवासनैः वासांसि पट्टकौशेय दूकूलप्रभृतीनि तु ॥ १०.९७ अष्टम्यां मणिमुक्तस्य प्रकीर्णबहलत्विषः संस्कारान् दृष्टवानस्मि निशानव्यधनादिकान् ॥ १०.९८ अष्टस्वपि च कक्ष्यासु महामात्रादयश्चिरम् स्वकौशलानि शंसन्तो विघ्नन्ति स्म गतिं मम ॥ १०.९९ आगत्यागत्य ताः कन्याः कान्तरूपविभूषणाः अब्रुवन् कारणीमूल्याद् भवन्तो मूढबुद्धयः ॥ १०.१०० अयं केनापि कार्येण प्रविशन् भर्तृदारकः दुर्भगैर्धार्यते कस्मात् स्वशिल्पकथितैरिति ॥ १०.१०१ हेमकुण्डलधारिण्यः पाण्डराम्बरमूर्धजाः प्रयुक्तरत्नपुष्पार्घम् वोचन्मामथ स्त्रियः ॥ १०.१०२ दीर्घायुषा गृहमिदम् चिन्तामणिसधर्मणा अलंकृतं च गुप्तं च गमितं च पवित्रताम् ॥ १०.१०३ ततः संगत्य चेतस्यैश् चेतस्यग्रामणीर्भव गुणिसङ्गनिमित्ता हि गुणा गुणवतामिति ॥ १०.१०४ सूर्यकान्तशिलाकान्ति निरस्ततिमिरां ततः कन्यायूथपरीवारः प्राप्तः सोपानपद्धतिम् ॥ १०.१०५ तया प्रासादमारुह्य वाक्प्रस्पन्दितवर्जिते प्रसुप्तए इव संसारे चित्रे दृष्टिं न्यवेशयम् ॥ १०.१०६ कलाभिरथ चित्राभिर् बुद्धिं सर्वविदामिव अप्रमेयगुणाकाराम् कन्यां कन्याभिरावृताम् ॥ १०.१०७ अनुमानोपमाशब्दौ सुदूरे तावुपासताम् प्रत्यक्षेणापि तद्रूपम् दुर्निरूपं निरूपकैः ॥ १०.१०८ चक्षुर्निरीक्ष्य तस्यां हि मूर्छामुषितचेतनः पाषाणपुरुषाकारः प्रत्यक्षेण किमीक्षते ॥ १०.१०९ नेश्वरेण च धर्मेण न प्रधानेन नाणुभिः न च कालस्वभावाद्यैस्तादृशी सुकराकृतिः ॥ १०.११० अलं तद्रूपकथया तद्गुणाख्यानदीर्घया करिष्यथ स्वयं तस्या गुणरूपविचारणाम् ॥ १०.१११ तदहं तां नमस्कर्तुम् ुत्तमाङ्गाहिताञ्जलिः तद्रूपं विस्मितः पश्यंस्तूष्णीमासं मुहूर्तकम् ॥ १०.११२ उन्नमय्य मुखं सापि विकसल्लोचनोत्पलम् चिरं गोमुख जीवेति मां पूर्वं समभाषत ॥ १०.११३ मम त्वासीदहो धूर्ता मुग्धाभा चापि खल्वियम् एवं निरभिमाना च ययाहं समयार्थितः ॥ १०.११४ निन्दिता च मयात्मीया बुद्धिर्वाक्च प्रमादिनी हस्तौ प्रशस्तौ ताभ्यां हि पूर्वमेव कृताञ्जलिः ॥ १०.११५ सर्वतो हस्तमात्रोऽहम् चेतनमुखादिकः अप्रमत्ता हि जीवन्ति मृता एव प्रमादिनः ॥ १०.११६ इति चिन्तयते मह्यम् तया दापितमानसम् निखर्वदन्तचरणम् तत्र चाहमुपाविशम् ॥ १०.११७ सा ह मां क्षणमासीनम् पृच्छद्गोमुखः कुतः आगच्छतीति कथितम् मया राजकुलादिति ॥ १०.११८ तयोक्तं कुशली राजा देव्यौ चान्तःपुराणि च रुमण्वदादयो वापि मन्त्रिणः सपरिग्रहाः ॥ १०.११९ कुमारिति ततः किंचिद् ुल्लाप्यास्फुटरेफकम् तूष्णींभूता क्षणं दृष्टिम् नासाग्रे निश्चलामधात् ॥ १०.१२० पृष्टे हरिशिखादीनाम् क्रमेण कुशले तया मया कुशलमित्युक्तम् मामपृच्छदसौ पुनः ॥ १०.१२१ जानाम्येव यथा बुद्धिः सर्वैः सर्वा सुखेदिता प्रकर्षो यस्य यस्यां वो विद्यां कथय तामिति ॥ १०.१२२ मयोक्तमर्यपुत्रस्य प्रावीण्यं गजनीतिषु मानुषैरविगह्ये च गान्धर्वज्ञानसागरे ॥ १०.१२३ दण्डनीतौ हरिशिखः शास्त्रेषु मरुभूतिकः रथादियानविद्यासु निष्ठायातस्तपन्तकः ॥ १०.१२४ मया तु करभेणेव शमीनामग्रपल्लवाः गृहीताः सर्वविद्यानाम् ेकदेशा मनीषिताः ॥ १०.१२५ साब्रवीदथ विद्यानाम् ासामासेवनस्य कः भवतामुचितः कालः कतमद्वा विनोदनम् ॥ १०.१२६ मयोदितं त्रियामान्ते प्रबुद्धाः स्तुतदेवताः मङ्गलालंकृताः पश्चाद् ितिहासमधीमहे ॥ १०.१२७ अनुज्ञातास्ततो वैद्यैः सुगन्धिस्नेहधारिणः अभ्यस्यामः सयानानि नियुद्धान्यायुधानि च ॥ १०.१२८ ततः स्नात्वा च भुक्त्वा च मुहूर्तं यापितश्रमाः अर्थशास्त्राणि शंसन्तो महाकाव्यानि चास्महे ॥ १०.१२९ निशामुखे ततः सौधे सान्द्रचन्द्रप्रभाजिति रमामहे सुखं कान्तैर् वेणुतन्त्रीरुतैरिति ॥ १०.१३० अथ सा नयनान्तेन श्रवणान्तविसारिणा बालिकामन्तिकासीनाम् दृष्ट्वापश्यन्मदन्तिकम् ॥ १०.१३१ ततः कृच्छ्रादिवोत्थाय नितम्बभरमन्थरम् मयासन्ने निविष्टा सा मनागपि न लक्षिता ॥ १०.१३२ एवमन्यापि गणिका तृणवद्गणिता मया यदापरा तदायाता रूपिणी रूपदेवता ॥ १०.१३३ साब्रवीत्कष्टमायातम् ितो गुरु गुरोर्वचः इतश्चातिथिसत्कारः किमत्र क्रियतामिति ॥ १०.१३४ मयोक्तं देवताभ्योऽपि गुरवो गुरवो यतः तस्माद्गुरुर्गुरोराज्ञा सैव संपाद्यतामिति ॥ १०.१३५ साब्रवीन्न त्वयोत्कण्ठा कार्या मित्राण्यपश्यता करिष्यति निरुत्कण्ठम् िवं त्वा पद्मदेविका ॥ १०.१३६ ममाभिप्रायमूहित्वा लज्जमानेव साब्रवीत् न युक्तमननुज्ञातैः प्रेष्यैरासन्नमासितुम् ॥ १०.१३७ इदं त्वास्तीर्णपर्यङ्कम् शरणं भर्तृदारकः प्रविश्य रथसंक्षोभ खेदं विनयतामिति ॥ १०.१३८ तत्प्रविश्य तदादेशाद् विकसद्रमणीयकम् शयनं हेमरत्नाङ्गम् सापाश्रयमपाश्रयम् ॥ १०.१३९ पादस्थाने ततः स्थित्वा साब्रवीत्कः करोतु वः मन्दपुण्यैरसंभाव्याम् पादसंवाहनामिति ॥ १०.१४० पादसंवाहनं कार्यम् भद्रं स्याद्येन केनचित् संवाहकविशेषेण किमत्रेति मयोदितम् ॥ १०.१४१ तया त्वालम्बिते पादे पाणिभ्यामभवन्मम निर्दोषे मयि केनेयम् प्रयुक्ता विषकन्यका ॥ १०.१४२ करणान्यस्वतन्त्राणि न जाने कीदृशं मनः विचेष्टानि च मेऽङ्गानि धिगनार्यामिमामिति ॥ १०.१४३ सा तु संवाह्य चरणौ मुहूर्तमिदमब्रवीत् कथं दासजनो वक्षः श्रान्तं वः सेवतामिति ॥ १०.१४४ मम त्वासीत्प्रगल्भेयम् नाचारा च या मम स्पृष्टपादतलौ हस्ताव् ुरस्याधातुमिच्छति ॥ १०.१४५ ममाभिप्रायमूहित्वा साब्रवीद्दर्शितस्मिता उरः स्पृशति वः को वा कराभ्यां मूढधीरिति ॥ १०.१४६ आसीच्च मम काप्येषा देवता ब्रह्मवादिनी परचित्तज्ञता यस्मान् नास्ति रागवतामिति ॥ १०.१४७ तयोक्तं रथसंक्षोभ जातखेदस्य वक्षसः स्तनोत्पीडितकं नाम संवाहनमनिन्दितम् ॥ १०.१४८ यदि वाहमनुग्राह्या वक्षो वा प्रबलश्रमम् ततो मामनुजानीत भर्तृतन्त्रा हि योषितः ॥ १०.१४९ आसीच्च मम धीरेयम् निरस्तकरुणा च या अनुज्ञां लभते यावत् तावदास्ते निराकुला ॥ १०.१५० अथैनामब्रुवं बाले परायत्तं निबोध माम् यः संवाहनशास्त्रज्ञः स स्वतन्त्रः प्रवर्तताम् ॥ १०.१५१ उरसा स्तनसारेण सा मदीयमुरस्ततः संवाहयितुमारब्धा सकम्पेन सवेपथु ॥ १०.१५२ सर्वथालं विसर्पन्त्या प्रसङ्गकथयानया संक्षिप्तवस्तु रम्येऽर्थे न कदाचिद्विरज्यते ॥ १०.१५३ ततः क्रीडागृहात्तस्माद् बाह्यां तामेव वीथिकाम् उपागच्छं मुहूर्ताच्च तामेवार्यसुतागता ॥ १०.१५४ वन्दित्वा प्रस्थितं सा माम् क्षणमालोक्य विस्मिता आलपन्मधुरालापा स्मितप्रच्छादितारतिः ॥ १०.१५५ इदं भवनमात्मीयम् प्रत्यवेक्ष्यं सदा त्वया दृश्यमानो भुजंगोऽपि कालेन परिचीयते ॥ १०.१५६ अथ वस्त्रान्तमालम्ब्य मदीयं पद्मदेविका विज्ञाप्यमस्ति मे किंचित् तच्च नाद्येत्यभाषत ॥ १०.१५७ ततो हृदयवासिन्या पद्मदेविकया सह तमेव रथमारुह्य कुमारागारमागमम् ॥ १०.१५८ तत्र युष्मानभुञ्जानान् पश्यामि स्म मया विना उपहासं च कुर्वन्तम् तं तथा मरुभूतिकम् ॥ १०.१५९ दिनेऽन्यत्र च सेवित्वा क्षणं युष्मानहं पुनः गत्वार्यदुहितुर्मूलम् ासेवे पद्मदेविकाम् ॥ १०.१६० उक्तश्चार्यदुहित्राहम् धीराः सुहृदस्तव वृत्तान्तोऽयमतस्तेषाम् मा गमत्कर्णगोचरम् ॥ १०.१६१ ततः प्रतिष्ठमानं माम् वोचत्पद्मदेविका तद्वः किं विस्मृतं कार्यम् िति मेति मयोदितम् ॥ १०.१६२ तयोक्तं कथयिष्यामि पुनरप्यागताय ते धत्ते संध्रियमाणं हि रहस्यं रम्यतामिति ॥ १०.१६३ अथापरस्मिन् दिवसे गत्वार्यदुहितुर्गृहम् शोकमूकप्रवृद्धास्रम् पश्यमबलाजनम् ॥ १०.१६४ करद्वयावृतमुखी स्तम्भे लग्ना पराङ्मुखी मन्दशब्दं मया दृष्टा क्रन्दन्ती पद्मदेविका ॥ १०.१६५ तामपृच्छं महाराज्ये वत्सराजे सुराजनि जङ्गमस्य कुतः शोको युवराजे च राजति ॥ १०.१६६ न किंचिदपि सावोचन् मया पृष्टासकृद्यदा तदा किल विषण्णोऽहम् मुमोह च पपात च ॥ १०.१६७ तत्र चैका प्रमृज्यास्रम् मामवोचत्सचेतनम् त्वन्नाथाश्लाघनीयेयम् शोच्या पद्मदेविका ॥ १०.१६८ अस्यास्तु स्वामिनीं पश्य युवराजे विराजति यस्याः शोकोपतप्ताया यतो रक्षस्ततो भयम् ॥ १०.१६९ अथ वा पश्य तामेव पश्यतामेव पीड्यते त्वादृशां सुहृदां यस्याः समदुःखसजीवनम् ॥ १०.१७० तदावेदितमार्गेण गत्वा प्रमदकाननम् दृष्टा कमलिनीकूले तत्रार्यदुहिता मया ॥ १०.१७१ मृणालशैवलाम्भोज नलिनीदलसंस्तरम् शोषयन्ती सनिश्वासैर् मुहुर्विपरिवर्तनैः ॥ १०.१७२ मुद्रिकालतिका नाम दारिका हारिका दृशः तदङ्कन्यस्तचरणा ध्यायन्ती पुरुषोत्तमम् ॥ १०.१७३ अथोपगम्य संभ्रान्तस्तां कृताञ्जलिरब्रवम् देवी दुःखाङ्गदानेन संभावयतु मामिति ॥ १०.१७४ साब्रवीदलमाकर्ण्य प्रवृद्धसुखभागिनः तथा ममाप्रतीकाराम् लज्जाशोककरीं कथाम् ॥ १०.१७५ को हि नन्दनसंचारि कामिनीजनकामुकः तरन्मकरगम्भीराम् विशेद्वैतरणीमिति ॥ १०.१७६ ततः प्रसादयन्ती ताम् मुद्रिकालतिकाब्रवीत् भर्तृदारिकया कश्चित् स्मर्यते न विमानितः ॥ १०.१७७ यदि च स्वयमाख्यातुम् शक्ता भर्तृदारिका ततो मामनुजानातु धृष्टो हि गणिकाजनः ॥ १०.१७८ एवमुक्ताब्रवीदेवम् ेवं नाम निगद्यताम् अकृत्वा साहसं कैर्वा महाल्लब्धो मनोरथः ॥ १०.१७९ न चेमं गोमुखादन्यः श्रोतुमालापमर्हति भेदसंधानदक्षो हि दूतः कार्ये नियुज्यते ॥ १०.१८० अथोत्सार्य ततो देशान् मुद्रिकालतिका कथाम् मह्यमाख्यातुमारब्धा क्षणमधीयतां मनः ॥ १०.१८१ भरतो नाम राजासीत् त्रिवर्गान्तपरायणः स समाहृतवान् कान्ताः कुमारीरा महोदधेः ॥ १०.१८२ युगपत्परिनियाहम् ेताः सर्वा रहोगताः सुखान्यनुभविष्यामि संततानीत्यचिन्तयत् ॥ १०.१८३ यस्याश्च प्रथमं तेन गृहीतः कम्पनः करः तस्यामेव स संतुष्टः शुद्धपुण्यार्जिताकृतौ ॥ १०.१८४ परिशेषास्तु यास्तासाम् मनोनयनहारिणः मनोरुहकराकारान् ष्टौ प्राकल्पयद्गणान् ॥ १०.१८५ गणे गणे च प्रमुखाम् मुखराभरणावृताम् अनुज्ञातासनच्छत्र चामरामकरोन्नृपः ॥ १०.१८६ ता गणान्तर्गता यस्माद् न्यासां च महत्तमाः तं महागणिकाशब्दम् लभन्त नराधिपात् ॥ १०.१८७ महागुणास्ततश्चान्यास्ततोऽप्यन्यास्ततः पराः यावद्घटकसंघट्ट कठोरकटयः खलाः ॥ १०.१८८ य एष गणिकाभेद िदानीमपि दृश्यते ततः कालात्प्रभृत्येव भरतेन प्रवर्तितः ॥ १०.१८९ गणमुख्यास्तु यास्तासाम् ेकस्यां किल संततौ जाता कलिङ्गसेनेयम् सरस्यामिव पद्मिनी ॥ १०.१९० सुरासुरोरगस्त्रीणाम् निन्दन्ती रूपसंपदम् अनया तनया लब्धा सेयं मदनमञ्जुका ॥ १०.१९१ एषा राजकुलं यान्तीम् दृष्ट्वा मातरमेकदा अहमप्याचि यामीति पुनः पुनरभाषत ॥ १०.१९२ ज्ञात्वा तु दृढनिर्बन्धाम् साची दुहितरं प्रियाम् गृहीतबालाभरणाम् नयन्नृपसंसदम् ॥ १०.१९३ अथ राजकुलादेषा निवृत्ता लक्षिता मया सविकासैः सतोषेव कपोलनयनाधरैः ॥ १०.१९४ स्थिता संप्रस्थितासीना निषीदन्ती च संतताः करोति स्म सखीमध्ये राजास्थानगताः कथाः ॥ १०.१९५ दिनशेषमतिप्रेर्य क्षणदां च सजागरा प्रातः सादरमादत्त चित्रं मण्डनमात्मनः ॥ १०.१९६ प्रस्थिता प्रस्थितां दृष्ट्वा राजास्थानाय मातरम् तया पृष्टा क्व यासीति यत्र त्वमिति चाब्रवीत् ॥ १०.१९७ तयोक्तमननुज्ञातैः पुत्रि गन्तुं न लभ्यते राजास्थानं तनुस्नेहाः परुषा हि नराधिपाः ॥ १०.१९८ तेन मातर्निवर्तस्व लब्धानुज्ञा गमिष्यसि धृष्टा हि द्वेष्यतां यान्ति प्रणयिन्योऽपि योषितः ॥ १०.१९९ मधुराश्चोपपन्नाश्च श्रुत्वा मातुरिमा गिरः कटुका दुर्घटाश्चेयम् मन्यमाना न्यवर्तत ॥ १०.२०० दृष्टनष्टनिधानेव दरिद्रवणिगङ्गना मुक्तनिद्राशनालापा शय्यैकशरणाभवत् ॥ १०.२०१ एकदा प्रस्तुतकथाः सखीरियमभाषत स्वप्तुमिच्छाम्यहं सख्यस्तावन्निर्गम्यतामिति ॥ १०.२०२ यातासु तासु मनसा यत्सत्यं मम शङ्कितम् एताः प्रस्थापिताः सख्यः किमकारणमेतया ॥ १०.२०३ या सखीभिर्विना निद्राम् नैव लब्धवती पुरा तस्यास्ता एव निघ्नन्ति निद्रामिति न बध्यते ॥ १०.२०४ चिन्तयित्वेति तिष्ठन्ती जालवातायनावृता मण्डनव्यापृतामेताम् पश्यामि स्म सदर्पणा ॥ १०.२०५ अभिराजकुलं स्थित्वा बद्धाञ्जलिरभाषत जन्मान्तरेऽपि भूयासम् हं तस्मिन् वधूरिति ॥ १०.२०६ दुकूलपाशमासज्य कंधरायामनन्तरम् उदलम्बयदात्मानम् सत्वरा नागदन्तके ॥ १०.२०७ वेगादिषुरिवागत्य प्राणापहरणोद्यतम् कण्ठपाशं तमेतस्याः कालपाशमिवाक्षिपम् ॥ १०.२०८ शयनीयमथानीय सजलैर्व्यजनानिलैः बलात्प्रत्यानयं संज्ञाम् प्रेतराजकुलादहम् ॥ १०.२०९ क्रमेणोन्मील्य नयने मन्थरा ताम्रतारके निनीय मयि मत्तश्च प्रत्याहृत्येदमब्रवीत् ॥ १०.२१० तद्मित्रमतिकष्टाद्यद् व्यसनात्किल रक्षति व्यसने प्रहरन्त्या तु शत्रुत्वं दर्शितं त्वया ॥ १०.२११ अहं हि सर्वदुःकानाम् िदमुत्पन्नमालयम् त्वया जीवितमुज्झन्ती विधृता किमकारणम् ॥ १०.२१२ आनुकूल्येन निर्वाह्य कालमेकपदे त्वया विघ्नन्त्या मम संकल्पम् दर्शिता प्रतिकूलता ॥ १०.२१३ यदेतदुच्यते लोके सर्वथा न तदन्यथा अशेषोपायदुःसाध्यो मित्रं शत्रुर्महानिति ॥ १०.२१४ ब्रुवाणामित्यसंबद्धम् ित्येनामहमब्रुवम् स्वामिनि प्रभुरित्यस्मान् ुपालम्भेन तक्षसि ॥ १०.२१५ इदं कथय नस्तावद् व्यसनेऽभ्युदयेऽपि वा स्वामिन्या वयमायाते कस्मिन्नाभ्यन्तरीकृताः ॥ १०.२१६ जातासि कृपणेदानीम् दासवर्गमपास्य या तनुमेकाकिनी त्यक्त्वा सुखमासितुमिच्छसि ॥ १०.२१७ दुःखहेतुमतः शंस यदि साध्यं भविष्यति जीविष्यामस्ततः सर्वा मरिष्यामो विपर्यये ॥ १०.२१८ अथ स्थित्वा क्षणं तूष्णीम् शनकैरिदमब्रवीत् एकजीवशरीरायै किं तुभ्यमपि कथ्यते ॥ १०.२१९ अथ जानन्त्यपि त्वं माम् निर्लज्जयितुमिच्छसि इदमाख्याय ते को वा स्त्रीभ्यः साहसिकः परः ॥ १०.२२० अहं राजकुलं याता देवेनाहूय सादरम् दक्षिणं परिघाकारम् ूरुमारोपिता तदा ॥ १०.२२१ उपविष्टस्तु नृपतेर् ूरौ वामे नृपात्मजः मया दृष्टः प्रविष्टश्च हृदयं मे अनिवारितः ॥ १०.२२२ दहनेऽपि वसन्नन्तर् न दहत्यरणीं स तु सौम्योऽपि पुण्यवानस्मान् निर्धूमं दग्धुमिच्छति ॥ १०.२२३ स हेतुरस्य दुःखस्य सकृद्दर्शनमागतः अधुना श्रूयमाणोऽपि किं वा विलपितैरिति ॥ १०.२२४ श्रुत्वेदमहमस्यास्तु जाता यत्सत्यमाकुला उपायमेतमाशङ्क्य समुद्रोत्सेकदुष्करम् ॥ १०.२२५ हा हेति हसितेनोच्चैर् गूहमाना विषण्णताम् एतामाश्वासयामि स्म निःसारैर्वचनैरिति ॥ १०.२२६ मुञ्च स्वामिनि संतापम् पि विद्याधरेश्वरम् वशयेयं तव प्रीत्यै किं पुनः पुरुषेश्वरम् ॥ १०.२२७ किं तु त्वारवता शक्यम् न लब्धं फलमीप्सितम् राजानोऽपि हि सामादीन् क्रमेणैव प्रयुञ्जते ॥ १०.२२८ तेन धैर्यप्रकर्षेण मनः स्.अम्धृत्य चञ्चलम् लोकेनालक्षिता कांश्चित् सहस्व दिवसानिति ॥ १०.२२९ तं चेयं सिद्धमेवार्थम् र्थिभावादबुध्यत अन्तश्चाकथयत्तोषम् विकसन्मुखपङ्कजा ॥ १०.२३० दिवसे दिवसे चैताम् वचोभिर्मधुरानृतैः कार्यसंसिद्धसंबद्धैर् दर्शिताशामयापयम् ॥ १०.२३१ वन्ध्योत्तरैर्यदात्मानम् वञ्च्यमानाममन्यत मोक्तुकामा तदा प्राणान् पुनरुत्प्रेक्षिता मया ॥ १०.२३२ ततः संभ्रान्तया गत्वा मयास्या मातुरन्तिकम् संप्रधार्य तया सार्धम् ुपायोऽयमनुष्ठितः ॥ १०.२३३ शरीरं राजपुत्रस्य द्वितीयमिव गोमुखः स केनचिदुपायेन वेशमाशु प्रवेश्यताम् ॥ १०.२३४ स एव सहचारित्वाद् ानेष्यति नृपात्मजम् मनःश्रोत्रहरालापो वसन्तमिव कोकिलः ॥ १०.२३५ कलिङ्गसेनया चायम् वृत्तान्तः कथितस्तदा पद्मावत्यै तया चासि चेतस्य इति भाषितः ॥ १०.२३६ ततः सारथिकायस्थ हस्त्यारोहादिभिस्तथा धूर्तैरस्मत्प्रयुक्तैस्त्वम् वेशमेतं प्रवेशितः ॥ १०.२३७ तिसृणां च प्रयुक्तानाम् भवद्भवतः प्रिया तन्त्रीणां वर्णतन्त्रीव मधुरा पद्मदेविका ॥ १०.२३८ सा तु निर्वर्तितस्वार्था सुहृदर्थपराङ्मुखी न निवेदयते तुभ्यम् स्वार्थभ्रंशविशङ्कया ॥ १०.२३९ नोपायमपरं दृष्ट्वा प्रयुक्तं भर्तृदारिका असाध्यायतनिश्वासा निराशा दृश्यतामिति ॥ १०.२४० तदिदं दुःसहं दुःखम् यस्मादस्माकमागतम् त्वदायत्तः स शेषश्च संविधत्तां भवानिति ॥ १०.२४१ अथाहमब्रुवं कस्मान् नखच्छेद्यमुपेक्षया कुठारच्छेद्यतां नीतम् भवतीभिरिदं तृणम् ॥ १०.२४२ स्वयमेव ततो गत्वा देवी विज्ञापिता मया मुच्यतामेष संतापः सिद्धं विद्धि प्रयोजनम् ॥ १०.२४३ युवराजार्थिनी देवी स चर्तगुणवत्सलः संधाता गोमुखश्चेति धन्यस्त्रिकसमागमः ॥ १०.२४४ नास्त्येव च ममायासः शरत्कान्त्युन्मना यतः राजहंसो हि नलिनीम् स्वयमेवोपसर्पति ॥ १०.२४५ अलं चालापजालेन सर्वथाहं नृपात्मजम् स्वामिन्यै कारयिष्यामि प्रणाममचिरादिति ॥ १०.२४६ साब्रवीन्न नसंभाव्यम् िदं नागरके त्वयि किं तु प्रस्तावमासाद्य यतेथाः कार्यसिद्धये ॥ १०.२४७ अप्रस्तावप्रयुक्ता हि यान्ति निष्फलतां क्रियाः अनिष्टफलतां वापि कोपयित्वा प्रभूनिति ॥ १०.२४८ ततस्तस्यै नमस्कृत्य कुमारवटकामगाम् उच्छिष्टानागतश्चास्मि गृहीत्वा मोदकादिकान् ॥ १०.२४९ तां च विज्ञापयामि स्म राजपुत्रेण मोदकः स्वयमारभ्य हस्ताभ्याम् युष्मभ्यं प्रहिता इति ॥ १०.२५० साब्रवीज्जालमप्येतद् ाश्वासयति मादृशम् आश्वासन्ति क्षणं दृष्ट्वा मृगा हि मृगतृष्णिकाम् ॥ १०.२५१ माल्यचन्दनताम्बूल वासोभूषणधूपनैः युष्माभिः प्रेषितानीति तामाश्वासितवानहम् ॥ १०.२५२ एष विज्ञापयाम्यद्य श्वो विज्ञापयितेति च अलब्धावसरः कालम् ेतावन्तमयापयम् ॥ १०.२५३ अथ मामब्रवीद्देव्याः पुरतो मुद्रिकालता अहो संभावना कार्या महानागरको भवान् ॥ १०.२५४ प्रणामं कारयामीति विस्फूर्ज्य भवता तथा किमियं वञ्च्यते मुग्धा पत्रपुष्पफलादिभिः ॥ १०.२५५ अथ वा तिष्ठ तावत्त्वम् हमेवानयामि तम् विरक्तमपि संधातुम् लं कौशलमस्ति नः ॥ १०.२५६ एवमुत्तेज्जितस्तस्या गुरुभिर्वचनैरहम् फलेन ज्ञास्यसीत्युक्त्वा प्रस्तावावहितोऽभवम् ॥ १०.२५७ यात्रायां तु प्रवृत्तायाम् भ्यासेऽत्र यदेव मे तन्मया कारिता यूयम् क्षिप्त्वा हरिशिखादिकान् ॥ १०.२५८ यत्तत्प्रवहणं गच्छत् पथि युष्माभिरीक्षितम् तदर्यदुहिताध्यास्त विद्युदभ्रमिव ध्वनत् ॥ १०.२५९ यत्र यत्तन्मुखस्यार्द्धम् ललाटनिहिताङ्गुलि युष्मभ्यं दर्शितं वन्द्यम् तत्तया वन्दमानया ॥ १०.२६० यच्च विज्ञापिता यूयम् ानतं मुकुटं मनाक् उन्नम्यतामिति मया तत्रापीदं प्रयोजनम् ॥ १०.२६१ आसीदासां प्रणामोऽयम् र्यपुत्रेण नागरः कृतस्तोषयता कान्ताम् स्माकं स्वामिनीमिति ॥ १०.२६२ सेयं कामयते देवम् देवी मदनमञ्जुका प्रज्ञापराक्रमप्राणम् लक्ष्मीरिव नराधिपम् ॥ १०.२६३ अयत्नोपनता चेयम् न प्रत्याख्यातुमर्हति नवेव मालती माला लोभनीयगुणाकृतिः ॥ १०.२६४ दष्टानङ्गभुजंगेन लघु संभाव्यतामसौ न ह्याशीविषदग्ध न्त्राः क्षमन्ते दिवसानिति ॥ १०.२६५ इति गोमुखतः श्रुत्वा कथां नवदशप्रियाम् तत्कथापहृतव्रीडः प्रकाशमहमब्रवम् ॥ १०.२६६ तदैव हृदयेऽस्माकम् राजोत्सङ्गनिषण्णया अशीर्णं मन्मथतरोः प्रकीर्णं बीजमेतया ॥ १०.२६७ तद्गुणश्रवणाम्भोभिः सिच्यमानं तदा तदा बाधमानं मनो जातम् ुच्छ्वसत्कर्कशाङ्कुरम् ॥ १०.२६८ तद्दोहदमिवासाद्य प्रियां प्रवहणे स्थिताम् कम्पनिःश्वासजननान् मुञ्जत्पल्लवानिव ॥ १०.२६९ समाप्तावयवो यावन् मनोभवमहातरुः न समाक्रम्य मृद्नाति तावद्दर्शय तामिति ॥ १०.२७० तेनोक्तं नर्तनाचार्याव् स्पर्धेतां परस्परम् त्वत्प्रवीणोऽहमित्युक्तौ तौ च भूपतिना किल ॥ १०.२७१ अलं वां कलहं कृत्वा कर्मशास्त्रविदौ युवाम् यस्य या कुशला शिष्या स नर्तयतु तामिति ॥ १०.२७२ श्वः सुयामुनदन्तां च तस्मादर्यसुतां च नः नृत्यन्तीं नृपतिर्द्रष्टा तत्र द्रष्टास्थ तामिति ॥ १०.२७३ या स्वाभाविकरूपखण्डितजगद्रूपाभिमाना प्रिया शृङ्गारादिरसप्रयोगसुभगा जायेत सा कीदृशी इत्यध्यासितचेतसा कथमपि प्रक्रान्तया चिन्तया पर्यङ्काङ्कविवर्तिनार्ततनुना नीता त्रियामा मया ॥ १०.२७४ अथ नागरकाकारस्तदाकारसुहृद्वृतः संप्रस्थाप्य मनः पूर्वम् नृपास्थानमगामहम् ॥ ११.१ तत्र पुष्पकसंस्थान मञ्चस्थानं महीपतिम् प्रणम्य तदनुज्ञातम् मञ्चान्तरमसेविषि ॥ ११.२ रङ्गाङ्गणमथालोक्य कुशलप्रेक्षकाकुलम् नृत्याचार्यौ नमस्कृत्य महीपालमवोचताम् ॥ ११.३ राजन्नुपान्तनेपथ्ये भृत्ये वः समुपागते द्रष्टुमिच्छथ यां पूर्वम् ाज्ञापयत तामिति ॥ ११.४ सोऽब्रवीन्नृत्यगीतादि कलाशास्त्रविशारदः गोमुखः स च यामाह सा पूर्वं नृत्यतामिति ॥ ११.५ ताभ्यामागत्य पृष्टश्च का पूर्वं नृत्यतामिति स सुयामुनदन्तेति तदुपाध्यायमादिशत् ॥ ११.६ ततस्तस्यां प्रनृत्तायाम् प्रनृत्ता नृत्यवेदिनः रङ्गशेषस्तु निश्चेष्टः सुषुप्तावस्थां गतः ॥ ११.७ प्रत्याहृत्य ततश्चेतो ह्रियमाणं बलात्तया मनोनेत्राङ्गसंचारैर् नाहार्यैरचिन्तयम् ॥ ११.८ नानुगन्तुमलं रम्भा नृत्तमस्याः समेनका कुत एव पराजेतुम् बला बालिका प्रिया ॥ ११.९ राजहंसः पिपासान्धः प्राप्तः पङ्कजिनीं यथा पङ्काविलजलां पश्येत् तथाध्यासमहं प्रियाम् ॥ ११.१० अवोचं गोमुखं चेदम् जीयमानां प्रियामहम् अशक्तः प्रेक्षितुं तेन रङ्गान्निर्गम्यतामिति ॥ ११.११ तेनोक्तमिच्छया गन्तुम् ागन्तुं वा न लभ्यते वत्सराजकुलात्तेन मुहूर्तं स्थीयतामिति ॥ ११.१२ विरतायां ततस्तस्याम् पुराणार्करुचाविव जीवलोकमिव ज्योत्स्ना प्रिया रङ्गमरञ्जयत् ॥ ११.१३ अपृच्छं गोमुखं चासाम् कतमा पद्मदेविका मुद्रिकालतिका चेति स विहस्येदमब्रवीत् ॥ ११.१४ कीर्तिकान्त्योरियं मध्ये या लक्ष्मीरिव राजते एषा नः स्वामिनी देवी वामतो मुद्रिकालता ॥ ११.१५ न चेयं शक्यते जेतुम् लं वः शङ्कया यतः दृष्टा केन शरज्ज्योत्स्ना खद्योतप्रभया जिता ॥ ११.१६ मया विजयमानेयम् नेकं नर्तकीशतम् दृष्टा संभावयाम्यस्यास्तेन नृत्तगुणानिति ॥ ११.१७ गोमुखाभिमुखो यावत् सावधानं शृणोम्यहम् तावज्जय जयेत्युच्चैर् विमुक्तः प्रेक्षकैर्ध्वनिः ॥ ११.१८ रङ्गाद्दृष्टा च निर्यान्ती बाध्यमानेव सा मया दैन्यवेपथुवैवर्ण्य विषादैः सहजैरिव ॥ ११.१९ ततो विसर्जितास्थानम् नमस्कृत्य महीपतिम् स्वमावासं व्रजामि स्म कान्ताचिन्तापुरःसरः ॥ ११.२० गोमुखं चाब्रवं कस्मान् मामिदानीमुपेक्षसे न ह्यादेशमुपेक्षन्ते त्वादृशा मादृशामिति ॥ ११.२१ तेनोक्तमपरः कश्चित् प्रत्ययार्थं विसर्ज्यताम् श्रद्धास्यति न मे वाक्यम् विप्रलब्धा हि सा मया ॥ ११.२२ एषामन्यतमं याहि गृहीत्वेति मयोदिते मरुभूतिक एवात्र योग्य इत्ययमुक्तवान् ॥ ११.२३ अयं हरिशिखस्तावन् नीत्या वक्रगतिः कृतः अपायशतमालोक्य कदाचिज्जालमालिखेत् ॥ ११.२४ कथं कष्टतमे बालो व्यसनानां चतुष्टये यत्प्रधानस्त्रियस्तत्र राजपुत्रः प्रवर्त्यते ॥ ११.२५ एवमङ्गुलिभङ्गेन विचार्यालीकपण्डितः विहन्यादपि नः कार्यम् तस्मादेष न युज्यते ॥ ११.२६ तपन्तकोऽपि बालत्वान् मूढः शून्यमुखो यतः तस्मादेवंविधे कार्ये नियोगं नायमर्हति ॥ ११.२७ विक्रमैकरसत्वाच्च समर्थो मरुभूतिकः अभ्यस्तसाहसस्तस्माद् ेष प्रस्थाप्यतामिति ॥ ११.२८ ततस्तौ सहितौ यातौ चिरात्तु मरुभूतिकम् प्राप्तं हरिशिखोऽपृच्छत् किं वृत्तं भवतोरिति ॥ ११.२९ तेनोक्तमावयोस्तावद् वेशमधेन गच्छतोः आयात्यभिमुखी यैव सैव याति पराङ्मुखी ॥ ११.३० भञ्जन्ती चाङ्गुलीः क्रोधाद् वदत्यारक्तलोचना न स्प्रष्टव्यो न संभाष्यो गोमुखः पापवानिति ॥ ११.३१ क्रुद्धदौवारिकाक्रान्त हाटकस्तम्भतोरणैः कक्ष्याद्वारैः प्रविष्टौ स्वः स्थानमर्यसुतास्थितम् ॥ ११.३२ तत्रैका दारिकावोचद् दारिकाः पश्यताद्भुतम् धूर्तेनानेन चातुर्याद् गोमयं पायसीकृतम् ॥ ११.३३ अपराधोऽयमेतावत् सर्पः प्राणहरः कृतः तमेव पश्यतानेन वाचालेन गुणीकृतम् ॥ ११.३४ वन्दमानो यदा कोपात् स्वामिन्या नाभिनन्दितः संभ्रान्तश्च विलक्षश्च तदा तामाह गोमुखः ॥ ११.३५ मन्ये निष्कारणं कोपम् देव्याः को नाम मादृशः सेवकः परिचित्तज्ञः स्वामिनं कोपयेदिति ॥ ११.३६ तथान्यतमया कोपात् तालवृन्तभृतोदितम् कथं निष्कारणो नाम किमिदं लघु कारणम् ॥ ११.३७ उत्कण्ठादर्शमिच्छन्ती कस्यापि चिरकाङ्क्षितम् त्वया नर्तयता कान्ता किमियं सुखमासिता ॥ ११.३८ अथ वा तद्गतं नाम स्वामी किं करणं त्वया पश्यन्नभिमुखं प्रीत्या स तथा विमुखीकृतः ॥ ११.३९ भवान् पश्यतु वा मा वा त्वद्विधेयो युवा जनः त्वमिच्छसि जयं यस्याः किमसौ न पराजिता ॥ ११.४० ततो भियावनमितम् मुखमुन्नम्य गोमुखः उक्तवान् पश्यतानर्थम् दोषो भूतो गुणोऽपि नः ॥ ११.४१ यदि प्राक्स्वामिनी नृत्येत् तया राजा सुतोषितः कदाचिदितरां नैव पश्येद्वृत्तकुतूहलः ॥ ११.४२ तदा च गुणविद्वेषी जनो वक्ता भवेद्यथा पक्षपातान्नरेन्द्रेण दृष्टा मदनमञ्जुका ॥ ११.४३ इतरा यदि नृत्यन्ती तेन दृष्टा भवेत्तदा नोर्वशीमपि पश्येत्सः कुतो मदनमञ्जुकाम् ॥ ११.४४ प्रीत्या यश्चोन्मुखः पश्यन् कृतः स्वामी पराङ्मुखः मयोपायः प्रयुक्तोऽसौ कथमित्यवधीयताम् ॥ ११.४५ न सुयामुनदन्तायाः शक्यः कर्तुं पराभवः कृतानुकरणैः साक्षाद् भरतेनापि नृत्यता ॥ ११.४६ अर्यपुत्रे तु विमुखे युष्माभिः सा पराजिता सहजैरिव वैवर्ण्य विवादस्वेदवेपनैः ॥ ११.४७ तेन ब्रवीमि सेवापि याति यद्यपराधताम् भक्त्याराधितभर्तारः सेवका हन्त दुःस्थिताः ॥ ११.४८ अथवा सापराधोऽपि दूतः संमानमर्हति संदेशश्रवणात्तेन संमानयत मामिति ॥ ११.४९ अथ सात्र परावृत्य प्रसादविशदानना ईषद्विहसितज्योत्स्ना सलिलस्नपिताधरा ॥ ११.५० अयि चन्द्रमुखं मा स्म गोमुखं पुरुषं वद न हि वत्सेश्वरासन्नाः श्रूयन्ते स्त्रीसुहृद्द्रुहः ॥ ११.५१ अनालापेन यच्चासि क्षणमायासितो मया तत्क्षमस्व न हि स्वास्था बाधन्ते त्वादृशामिति ॥ ११.५२ ततः सा गोमुखेनोक्ता द्रष्टुमिच्छति वः प्रियः संदेहश्चेदियं मुद्रा तदीया दृश्यतामिति ॥ ११.५३ तयोक्तं कुम्भकाराणाम् कोटिर्वसति वः पुरे कोटिः किमिति नानीता न हि ते क्षीणमृत्तिकाः ॥ ११.५४ तेनोक्तं केन वानीता मुद्रा वा मृत्तिकामयी न ह्यारभ्यमहाकार्याः प्रमाद्यन्ति सचेतसः ॥ ११.५५ यौगन्धरायणसुतः प्रियं मित्रं प्रियस्य वः स्वामिना प्रेषितः प्रीत्या दृश्यतां मरुभूतिकः ॥ ११.५६ अथ देवी नमस्कृत्य प्रीता विज्ञापिता मया यत्संदिशति नः स्वामी युष्मभ्यं तन्निशाम्यताम् ॥ ११.५७ प्रेरितः त्वामहं द्रष्टुम् येन लक्ष्मीमिवालसः क्रीडतास्मद्विधैरेष विलक्षः क्रियतामिति ॥ ११.५८ प्रस्थितायां ततो देव्याम् ाह मां पद्मदेविका इयं प्रसाध्यते यावत् तावदास्तां भवानिति ॥ ११.५९ देव्या सह प्रविश्यान्तर् मुहूर्तादिव सा ततः आह प्रकृष्टप्रमुदा प्रफुल्लनयनोत्पला ॥ ११.६० मया कलिङ्गसेनायै तया गत्वा रुमण्वते तेनापि भूमिपतये वृत्तान्तोऽयं निवेदितः ॥ ११.६१ तेनोक्तं किमिहाख्येयम् तरुणो ननु दारकः जीवलोकसुखान्येष तस्मादनुभवत्विति ॥ ११.६२ सेयं राज्ञाभ्यनुज्ञाता गुरुणा मन्मथेन च इयमायाति ते पश्चाद् यातु तावद्भवानिति ॥ ११.६३ अथ प्रविश्य संभ्रान्ता प्रतीहारी न्यवेदयत् सयानो गोमुखः प्राह लघु श्रावय मामिति ॥ ११.६४ मयोक्तं गोमुखस्तावद् ेकाकी प्रविशत्विति स प्रविश्योक्तवान् द्वारे देवी किं विधृतेति माम् ॥ ११.६५ अज्ञातप्रमदासङ्गम् ाकुलीभूतमानसम् कुरु नागरकं तावत् त्वं मामित्यहमुक्तवान् ॥ ११.६६ तेनोक्तं युद्धवेलायाम् दम्यन्ते तुरगा इति यदेतद्घुष्यते लोके तदेतत्तथ्यतां गतम् ॥ ११.६७ न नागरकतां प्राप्तुम् ुपदेशेन शक्यते इयं हि मोक्षविद्येव प्रयोगावृत्तिसाधना ॥ ११.६८ संक्षेपतस्तु वक्ष्यामि यद्यद्देवी करिष्यति तत्तदेवानुकुर्यास्त्वम् दक्षो हि लभते श्रियम् ॥ ११.६९ अनुशिष्य स मामेवम् निर्यायानीय च प्रियाम् सुखं सुप्यास्तमित्युक्त्वा यथास्वं ससुहृद्गतः ॥ ११.७० ततः प्रविश्य दयिता मामर्धाक्ष्णा निरैक्षत कृतं तथैव च मया वन्दितेन च वन्दिता ॥ ११.७१ सर्वथा यद्यदेवाहम् नया कारितस्तदा तदेवानुकरोमि स्म नर्तनाचार्यशिष्यवत् ॥ ११.७२ अथ बुद्ध्वानुकूलं माम् ियमन्वर्थवेदिनम् स्मित्वा सोत्कम्परोमाञ्चम् गाढमङ्गमपीडयत् ॥ ११.७३ ततोऽहमनपेक्ष्यैव तत्कृतानुकृतक्रमम् अशरीरस्य कस्यापि गतो भूतस्य वश्यताम् ॥ ११.७४ स्त्रीपुंसतामागतयोर् नभिप्रेतनिद्रयोः प्रदोष एव क्षणदा क्षीणा क्षणवदावयोः ॥ ११.७५ प्रातः प्रवहणेनैव प्रियामादाय गोमुखः मातुरेवानयद्गेहम् मन्मानसपुरःसराम् ॥ ११.७६ वर्धमानरतेरेवम् तियातेषु केषुचित् दिनेषु मम संप्राप्तः सेनानीरिदमब्रवीत् ॥ ११.७७ अद्याष्टासु प्रयातेषु मुहूर्तेषु प्रवक्ष्यति मौहूर्तानुमतो राजा रात्रेः शान्तिपुरःसरम् ॥ ११.७८ तारयिष्यामि यमुनाम् हं यात्रागतं जनम् युष्माभिरपि कर्तव्यम् यत्तदाज्ञाप्यतामिति ॥ ११.७९ मयोक्तं गोमुखो गत्वा युष्मान् विज्ञापयिष्यति इति तस्मिन्नते मह्यम् गोमुखेन निवेदितम् ॥ ११.८० अध सकामुकगणः श्वो गन्ता गणिकागणः तेनैव सहिता यूयम् गन्तारः शनकैरिति ॥ ११.८१ गोमुखेन तु वृत्तान्ते कथितेऽस्मिन् रुमण्वते प्रतिष्ठे ससुहृत्प्रातः पृष्ठतो जनसंहतेः ॥ ११.८२ तच्च क्रीडागृहं प्राप्य कल्पितं यमुनातटे दिवसं गमयामि स्म तं त्रियामामुखोत्सुकः ॥ ११.८३ गोमुखानीतया सार्धम् ासित्वा कान्तया सह निशायां यातकल्पायाम् पश्यं रुदतीमिमाम् ॥ ११.८४ किमेतदिति पृष्टा च मया संभ्रान्तचेतसा यदा नोक्तवती किंचित् तदान्या दारिकाब्रवीत् ॥ ११.८५ अपैति गुणवत्सङ्गाद् दोषो दोषवतां किल गणिकाशब्ददोषस्तु नैनामद्यापि मुञ्चति ॥ ११.८६ काशिराजस्य या कन्या वृता तुभ्यं पुरोधसा तस्याश्चामरधारिण्या भवितव्यं किलानया ॥ ११.८७ सेयमुत्प्रेक्ष्य तद्दुःखम् दारुणं मरणादपि विषपानकृतोत्साहा हातुमिच्छत्यसूनिति ॥ ११.८८ मयोक्तमहमप्यङ्गम् त्वद्वियोगरुजातुरम् नित्योत्क्षपितमक्षीबम् त्यक्त्वा स्थास्याम्यवेदनः ॥ ११.८९ इत्यस्मिन्नेव समये प्राप्ता हरिशिखादयः वृत्तान्तमेवमाकर्ण्य भीषणं सभियोऽभवन् ॥ ११.९० ततः संभाष्य सुहृदाव् वोचन्मरुभूतिकः वयमेव व्.इसं पूर्वम् पिबामः कल्प्यतामिति ॥ ११.९१ ततो हरिशिखेनोक्तम् क्वासौ संप्रति गोमुखः यो हि मूलमनर्थस्य स तावत्पाय्यतामिति ॥ ११.९२ तेन गोमुखमाह्वातुम् प्रहितागत्य दारिका अब्रवीद्गोमुखो वक्ति किं मयातः प्रयोजनम् ॥ ११.९३ दीर्घजीवितनामानम् ध्यायं चिरविस्मृतम् अहमध्येतुमारभ्दो वैद्याद्प्राणप्रदादिति ॥ ११.९४ ततो हरिशिखेनोक्तः क्रुद्धेन मरुभूतिकः प्रेर्यमाणं गलाष्ट्राभिः शीघ्रमानय तं शठम् ॥ ११.९५ [थे अर्रिवलोf गोमुख अन्द्थे बेगिन्निन्गोf हरिशिखश्स्पेएछिस्मिस्सिन्ग्] ॥ ११.९६ यस्त्वया घटितोऽनर्थः स्वामिनो जीवितः सुखम् स्वामिन्या सह संयोगः सोऽयमेवं विजृम्भते ॥ ११.९७ सोऽब्रवीत्सोऽयमायातो वादः संप्रति सत्यताम् ज्वरिष्यामीति संचिन्त्य मण्डं पिबति मुण्डितः ॥ ११.९८ स कालस्तावदायातु स्वामिनी यद्विशङ्किता तत्रैव विद्याम न्यञ्चो पास्यामस्त्यज्यतां त्वरा ॥ ११.९९ अथ वालं प्रलापेन महीपालं तपन्तकः विज्ञापयतु तेनास्य दत्तः पूर्वमयं वरः ॥ ११.१०० अप्रसङ्गेऽपि भवता कार्या विज्ञापिना मयि सिद्धिं यास्यति चावश्यम् मा स्म शङ्कां करोदिति ॥ ११.१०१ इतीमामनुकूलाभिर् वाग्भिराश्यास्य गोमुखः मातुरेवानयन्मूलम् प्राविशाम ततः पुरीम् ॥ ११.१०२ कुमारवटकास्थेन मयानूक्तस्तपन्तकः गोमुखेन यदाख्यातम् तत्कार्यं साध्यतामिति ॥ ११.१०३ तपन्तकस्तु सास्फोटम् िदं सिद्धिमिति ब्रुवन् गत्वा राजकुलं तस्माद् ागत्येदमभाषत ॥ ११.१०४ राजपादैरहं पृष्टस्तात किं क्रियतामिति शालीनेन मयाप्युक्तम् मोदको दीयतामिति ॥ ११.१०५ एवं मालाफलादीनि निःसाराणि तपन्तकः याचते स्म प्रहीणत्वाद् गत्वा गत्वा महीपतिम् ॥ ११.१०६ इति सशरीरया क्षणमिव क्षणदाः क्षपयन् सह विशरीरया दयितया विरसान् दिवसान् दिनरजनीविहारविपरीतमहं चरितै रथचरणाह्वयस्य चरितानि विडम्बितवान् ॥ ११.१०७ अथ मां कृतकर्तव्यम् सुखासीनमहर्मुखे वादी जित इवाच्छायस्त्रपया गोमुखोऽब्रवीत् ॥ १२.१ अहमर्यसुतां नीत्वा गृहं स्वगृहमागतः ततोऽपि वन्दितुं देव्यौ नरेन्द्रान्तःपुरं गतः ॥ १२.२ वन्दिता च विहस्याह देवी पद्मावती यथा किंकारणं वधूरद्य नास्मानायाति वन्दितुम् ॥ १२.३ भ्रात्रा ते किं न मुक्तैव न वाद्यापि विबुध्यते कोपिता वा भवेद्भर्त्रा शिष्टा दुश्चरितैरिति ॥ १२.४ अथागथतोरस्का क्रन्दन्ती पद्मदेविका नास्ति नः स्वामिनीत्युक्त्वा देव्योर्निपतिता पुरः ॥ १२.५ ततो देव्यौ ततः शेषम् शेषमवरोधनम् राजा च श्रुतवृत्तान्तः सास्थानो धैर्यमत्यजत् ॥ १२.६ ततः प्राप्याचिरात्संज्ञाम् मागध्या पद्मदेविका कथं जानासि नास्तीति पृष्टाचष्ट निशाम्यताम् ॥ १२.७ यथैव गोमुखेनासौ स्वमावासं प्रवेशिता तथैव कगिति घ्रातो गन्धोऽस्माभिरमानुषः ॥ १२.८ अकस्माच्च क्षणं निद्राम् गच्छामः प्रतिबुध्य च शून्यामीक्षामहे शय्याम् श्रीकां नलिनीमिव ॥ १२.९ ततो हा हेति विक्रुष्य समूर्छाः क्षणमास्महे न क्वचिच्च विचिन्वत्यः पश्यामः स्वामिनीमिति ॥ १२.१० कलिङ्गसेनया त्वत्र शोकगद्गदयोदितम् इदं तदागतं मन्य दुर्विद्याधरचेष्टितम् ॥ १२.११ बालिकामहमादाय पूर्वं मदनमञ्चुकाम् हर्म्याग्रे क्रीडयामि स्म चन्द्रिकासङ्गशीतले ॥ १२.१२ एहि विद्याधरा३ एहि गृहाणेमां सुरूपिकाम् एकामेव मया लब्धाम् सुतां दुर्लभिकामिति ॥ १२.१३ ततश्चर्मासिकेयूर हारादिकरभासुरः अवातरद्दिवः कोऽपि दिव्यगन्धस्रगम्बरः ॥ १२.१४ दूरादेव च मां भीताम् मा भैषीरिति सान्त्वयन् गम्भीरध्वनिवित्रस्त तनयामिदमब्रवीत् ॥ १२.१५ यदि मह्यमियं दत्ता सत्येन तनया त्वया ततो मुञ्च नयाम्येनाम् न्यासभूता हि कन्यका ॥ १२.१६ नाम्ना मानसवेगोऽहम् विद्याधरगणाधिपः सर्वविज्ञेयविज्ञान मनोज्वलितधीरिति ॥ १२.१७ अनिच्छन्ती ततस्तस्य संनिधौ चिरमासितुम् प्रयत्नाद्धैर्यमाधाय प्रगल्भेव तमब्रवम् ॥ १२.१८ अर्हत्यवश्यमेवेयम् ीदृशी त्वादृशं पतिम् न पुनर्दीयते तावद् बालिका शैशवादिति ॥ १२.१९ अथ मामभिवाद्यासाव् ुल्कासंघातभासुरः दृश्यमानो महावेगः क्षणेनान्तर्हितोऽभवत् ॥ १२.२० तेन ब्रवीमि तेनाद्य तत्स्मृत्वा क्षुद्रबुद्धिना विद्याधराधमेनासौ नीता यदि भवेदिति ॥ १२.२१ सर्वथा दृश्यते नेह देवी मदनमञ्जुका यदत्रानन्तरं न्याय्यम् तदनुष्ठीयतामिति ॥ १२.२२ ततः समुत्पतन्नेव शोकः क्रोधेन मामकः प्रेरितः पवनेनेव प्रबलेन बलाहकः ॥ १२.२३ स्त्रीतस्कर दुराचार मूढ मानसवेगक तिष्ठ तिष्ठ क्व यासीति प्रालपं गगनोन्मुखः ॥ १२.२४ युगपत्क्रोधशोकाभ्याम् शोषितोऽहं क्रमेण च यथानिलतुषाराभ्याम् शिशिरे कमलाकरः ॥ १२.२५ गोमुखस्तु नृपाहुतः प्रत्यागत्येदमब्रवीत् किमेतदिति पृष्टेन वृत्तान्तोऽयं मयोदितः ॥ १२.२६ ततः संभ्रमविस्रस्तम् ाकर्षन्नुत्तराम्बरम् विषादाकुलितो राजा प्रस्थितो युष्मदन्तिकम् ॥ १२.२७ अन्तरे च रुमण्वन्तम् ाह केयं प्रमादिता सर्वथा ख्यापितं लोकैर् भवतां नीतिकौशलम् ॥ १२.२८ युक्तं तदा यदालोच्य महत्सीदत्प्रयोजनम् विप्रलब्धोऽस्मि युष्माभिर् देव्या वासवदत्तया ॥ १२.२९ अधुना ध्रियमाणेऽपि समर्थसचिवे मयि अपनीता वधूः कस्माद् बालान्मम सुतादिति ॥ १२.३० स तमाह निवर्तध्वम् लं तत्र गतेन वः युष्मान् दृष्ट्वा हि स शिशुः प्राणानपि परित्यजेत् ॥ १२.३१ आज्ञापयथ मां यच्च यच्च विज्ञापयामि वः आसीनानासने तेन निवृत्य स्थीयतामिति ॥ १२.३२ उपविष्टाय चाचष्ट स्फुटं दिव्येन सा हृता अनाथापि न वः काचित् केनचित्परिभूयते ॥ १२.३३ यावदन्तःपुराटव्यौ यावच्च गृहपक्षिणः नास्त्यसौ यो न चास्माभिर् ीक्षितश्चारचक्षुषा ॥ १२.३४ आकाशे तु न मे प्रज्ञा क्रमते दिव्यगोचरे तेन विद्याधरेणासौ हृतेति हृदये मम ॥ १२.३५ अथ वा भवतूद्याने युवराजः परीक्षताम् कदाचित्कुपिता भर्त्रे तत्रासीत वधूरिति ॥ १२.३६ कुपितानां हि भर्तृभ्यः श्रूयन्ते कुलयोषिताम् साधुभिः कथ्यमानानि पञ्च स्थानानि तद्यथा ॥ १२.३७ श्वश्रूभ्रातृननान्दृणाम् भर्तृमित्रस्य वा गृहम् दुष्टसंचारशून्यानि मन्दिरोपवनानि वा ॥ १२.३८ अत्रान्तरे कथितवान् ाख्यानं मरुभूतिकः प्रस्तावे यन्मया पूर्वम् श्रुतं तदवधीयताम् ॥ १२.३९ अष्टावक्रस्य दुहिता सावित्री नाम कन्यका आसीद्या चरिताकारैः सावित्रीमतिरिच्यते ॥ १२.४० अष्टावक्रमयाचिष्ट कदाचिदृषिरङ्गिराः ब्रह्मन्नकृतदारोऽस्मि सुता मे दीयतामिति ॥ १२.४१ सोऽब्रवीद्भवतः कोऽन्यस्त्रैलोक्येऽपि वरो वरः किं तु दत्तेयमन्यस्मै क्षमतां भगवानिति ॥ १२.४२ तस्य भ्राता वृषो नाम स चाङ्गिरसमब्रवीत् अमृता नाम दुहिता मम सा गृह्यतामिति ॥ १२.४३ परिणीय तु तां कन्याम् मृताममृतोपमाम् आत्मानमङ्गिरा मेने पीतामृतमिवामृतम् ॥ १२.४४ सा कदाचित्कथंचित्तम् कारणेऽल्पेऽपि पीडिता उपालब्धवती नाथम् ृषिपुत्रस्य वल्लभा ॥ १२.४५ चक्षूरक्तेन भवता सावित्री स्वयमर्थिता अहं त्वनिच्छते तुभ्यम् पित्रा दत्ता बलादिति ॥ १२.४६ नानाविधैः स शपथैर् मृतां परिसन्त्वयन् कंचिदभ्यनयत्कालम् ेकदास्तंगते रवौ ॥ १२.४७ पश्चात्सन्ध्यामुपासीनम् ासीनं मौनधारिणम् अपृच्छदमृतागत्य किं ध्यायति भवानिति ॥ १२.४८ तेन वन्दितसंध्येन चिरादुक्तं ननु प्रिये देवीं विहाय सावित्रीम् किमन्यच्चिन्तयाम्यहम् ॥ १२.४९ अथ सा श्रुतमित्युक्त्वा स्वस्मिन्नाश्रमपादपे देवताभ्यो नमस्कृत्य शरीरमुदलम्बयत् ॥ १२.५० आकृष्टकण्ठपाशा च पुरः प्रैक्षत देवताम् विद्युत्पिङ्गजटाभाराम् साक्षमालाकमण्डलुम् ॥ १२.५१ ततो दन्तप्रभाजाल प्रभासिततपोवना देवतावोचदमृताम् मृतेनेव सिञ्चती ॥ १२.५२ पुत्रि मा स्म त्यज प्राणान् दुस्त्यजान् धर्मसाधनान् स्त्रैणमज्ञानमाश्रित्य संतुष्टो हि पतिस्त्वया ॥ १२.५३ नाष्टावक्रस्य दुहिता सावित्री तेन चिन्तिता किं त्वहं ब्रह्मरुद्र ादिसप्तलोकनमस्कृता ॥ १२.५४ सर्वथा मत्प्रसादात्ते पुत्रि पुत्रो भविष्यति बलेन तपसा यस्य न समानो भविष्यति ॥ १२.५५ इति दत्त्वा वरं तस्यै सावित्री दिवमाश्रयत् अमृतापि गताशङ्का भर्त्रा सह समेयुषी ॥ १२.५६ तेन ब्रवीमि कुपिता कदाचिदमृतेव सा उद्यानं प्रविशेत्त्तत्र स्वयमन्विष्यतामिति ॥ १२.५७ अथाहं शिबिकारूढः प्रस्थितो वेशमस्मृतिः चक्षुश्चेतोहराकाराः पश्यन् वेश्याः समूहशः ॥ १२.५८ आसीच्च मम देवीभ्याम् प्रयोगोऽयमनुष्ठितः अपि नामास्य कस्यांचित् स्त्रियां भावो भवेदिति ॥ १२.५९ तदायं मोहसंकल्पो न हि संकल्पजन्मनः रतेरन्यासु संकल्पः प्रमदासु प्रवर्तते ॥ १२.६० ततः संकल्पयन्नेवम् चन्द्रिकमिवाम्बरम् कान्तामातुर्गृहं कान्तम् कान्ताशून्यमुपागमम् ॥ १२.६१ प्रकाशानप्रकाशांश्च प्रदेशान् बहुशो बहून् अन्विष्यन्तो भ्रमाम स्म न चापश्याम तत्र ताम् ॥ १२.६२ गोमुखोद्दिष्टमार्गश्च प्रविश्य गृहकाननम् पृच्छामि स्म प्रियावार्त्ताम् साक्षिशाखामृगाण्डजान् ॥ १२.६३ केभ्यश्चित्कुपितः शापान् केभ्यश्चिद्वितरन् करान् विडम्बयन्नशास्त्रज्ञम् ित्युत्कटरसं नटम् ॥ १२.६४ अथोपगम्य त्वरितः प्रहृष्टो मरुभूतिकः अर्यपुत्रार्यदुहिता मया दृष्टेत्यभाषत ॥ १२.६५ ततस्तस्य परामृज्य पाणिना विकसन्मुखम् अपि सत्यमिदं सौम्य स्यात्क्रीडेत्यहमब्रवम् ॥ १२.६६ सोऽब्रवीत्सत्यमप्येतत् क्रीडा यैषातिहर्षजा असत्ये ह्यत्र या क्रीडा तदुन्मत्तविजृम्भितम् ॥ १२.६७ अथ वालं विमर्शेन महाभ्युदयवैरिणा त्वरितं गम्यतां यस्मान् नार्तः कालमुदीक्षते ॥ १२.६८ पश्यामि स्म ततो गच्छन्न् शोकशिशुमग्रतः रक्तं कुसुमसंघातम् यमाभूमिपल्लवम् ॥ १२.६९ अकाले किमशोकस्य कुसुमानीति चिन्तयन् तस्य स्कन्धे ह्रियालीनम् पश्यं प्राणदायिनीम् ॥ १२.७० आसीच्च मम किं चित्रम् यत्पादस्पर्शदोहदः सद्यः कुसुमितोऽशोकः प्राप्य सर्वाङ्गसंगतिम् ॥ १२.७१ इदमत्र महत्चित्रम् यदालोकितमेतया वनदेवतयोद्यानम् सकलं न विजृम्भितम् ॥ १२.७२ सर्वथाचेतना वृक्षाः कान्ताया दर्शने सति सुभगे निर्विकारत्वाद् ङ्गारतुषभस्मवत् ॥ १२.७३ अथालिङ्गितुमारब्धः सानुरागमहं च ताम् तया चाङ्गानि संहृत्य मा तावदिति वारितः ॥ १२.७४ ततः प्रसरभङ्गेन विलक्षमुपलक्ष्य माम् साब्रवीदपरोधोऽयम् र्यपुत्रेण मृष्यताम् ॥ १२.७५ आराधितवती यक्षम् हं कन्या सती यथा अर्यपुत्रस्य भूयासम् दयिता परिचारिका ॥ १२.७६ तुभ्यं कार्ये च संसिद्धे शमीलाजसुगन्धिना पानं हस्तेन दास्यामि प्रसीदतु भवानिति ॥ १२.७७ स च तस्य प्रसादान्मे यातः सिद्धिं मनोरथः आयाचितं तु यक्षाय न मया प्रतियाचितम् ॥ १२.७८ तेनाहं पानशौण्डेन नीता धनपतेः सभाम् वृत्तान्तः कथितश्चायम् थोक्तो धनदेन सः ॥ १२.७९ आयाचितमियं तुभ्यम् चिरेणैव दास्यति नीत्वा समर्पय क्षिप्रम् दारकाय वधूमिति ॥ १२.८० तेन चाहमिहानीता गगनागमनाच्च मे शरीरं परुषीभूतम् वारिता स्थ ततो मया ॥ १२.८१ [थे fइर्स्थल्f ओf थे वेर्से इस्मिस्सिन्ग्] तस्मै यक्षाय युष्माभिः स मे संपाद्यतामिति ॥ १२.८२ अथास्यै गनिकाध्यक्षो राजादेशं न्यवेदयत् अद्यारभ्य कुलस्त्रीत्वम् भवतीनां भवत्विति ॥ १२.८३ तं चाकर्ण्य महामनोरथमिदं पूर्णं चिरात्काङ्क्षितम् नैव प्रीतिविकासिहारिहसितं धत्ते स्म कान्तामुखम् याच्ञावृत्तिकदर्थितैर्बहुभिरप्याप्तैर्न हि प्रार्थकाः प्रीतिं यान्ति तथा यथा तनुभिरप्यर्थैः सुखाभ्यागतैः ॥ १२.८४ ततो दिवसमासित्वा कान्तामातुरहं गृहे प्रियां नववधूवेषाम् प्रदोषे परिणीतवान् ॥ १३.१ प्रसादादर्यपादानाम् कुलस्त्रीत्वमुपागताम् तामादाय स्वमावासम् प्रवृत्तोत्सवमागमम् ॥ १३.२ तत्र सा सधनाध्यक्षम् तं यक्षं कुसुमादिभिः अभ्यर्च्य पानदानेन सुदुष्तोषमतोषयत् ॥ १३.३ पद्मरागमयीं शुक्तिम् पद्मरागद्रवत्विषः आदाय मधुनः पूर्णाम् ततो मामब्रवीत्प्रिया ॥ १३.४ मङ्गलानां प्रधानत्वात् कार्यसंसिद्धिदायिनी एषा धनपतेः शेषा स्वादुरास्वाद्यतामिति ॥ १३.५ मयोक्तमननुज्ञातस्तातपादैर्गुणानपि नाहं सेवितुमिच्छामि किं पुनर्व्यसनं महत् ॥ १३.६ ततः सा दृढसंरम्भा शपथैरव्यतिक्रमैः चिरान्निरुत्तरीकृत्य मामनिच्छुमपाययत् ॥ १३.७ पीतैकमधुशुक्तिं च मां सापृच्छत्कृतस्मिता किमास्वादमिदं पानम् िति प्रत्यब्रवं ततः ॥ १३.८ आपाने मधुरास्वादम् नुस्वादे तु तिक्तकम् क्षये कषायकटुकम् वच्छेदे मनागिति ॥ १३.९ साब्रवीद्व्यक्तमद्यापि न जानीथ रसं पुनः पीयतामिति पीतं च पुनस्तद्वचनाद्मया ॥ १३.१० इदं कीदृशमित्यस्यै पृच्छत्यै कथितं मया किमर्थमपि मे चित्तम् गतमस्वस्थतामिति ॥ १३.११ तयोक्तमपराप्येका शुक्तिरास्वाद्यतां ततः गमिष्यत्यचिरादेव चित्तं ते स्वस्थतामिति ॥ १३.१२ तस्यामपि च पीतायाम् पश्यं वेगवद्भ्रमान् तरुप्रासादशैलादीन् स्थावरानपि जङ्गमान् ॥ १३.१३ यथा चाहं तयोपायैर् ग्राम्यैः शपथादिभिः अनिच्छन् पायितः पानम् तथा तामप्यपाययम् ॥ १३.१४ बलवद्भ्यामथाक्रम्य मदेन मदनेन च यदेव रुचितं ताभ्याम् तत्तैवास्मि प्रवर्तितः ॥ १३.१५ यः संतोषयितुं यक्षम् विवाहः कृत्रिमः कृतः तेन कृत्रिममेवासौ कन्यात्वं प्रतिपादिता ॥ १३.१६ ततः प्रातरुपागम्य मधुगन्धाधिवासितम् घ्रात्वा हरिशिखो वेश्म संभ्रान्तमतिरुक्तवान् ॥ १३.१७ अपूर्व इव गन्धोऽयम् र्यपुत्र विभाव्यते मन्येऽर्यपुत्रया यूयम् निच्छाः पायिता इति ॥ १३.१८ स मयोक्तः सखे सख्या तवाहं पायितो बलात् भवतापि रुचौ सत्याम् स्थीयतां पीयतामिति ॥ १३.१९ सोऽब्रवीद्व्यसनग्राम ग्रामण्यं भवतामपि पानं साधु न पश्यामि किं पुनर्मन्त्रिणामिति ॥ १३.२० मयोक्तमर्यपादेषु समित्रेषु समाशतम् पालयत्सु किमस्माकम् ात्मभिर्वञ्चितैरिति ॥ १३.२१ तेनोक्तं मन्त्रिसचिवैर् विज्ञाप्यं कार्यमागतम् अनुष्ठाने पुनस्तस्य स्वातन्त्र्यं स्वामिनामिति ॥ १३.२२ तं पिबन्तं सहावाभ्याम् ालोक्य मरुभूतिकः निःशङ्कः पातुमारब्धस्तं च दृष्ट्वा तपन्तकः ॥ १३.२३ राजमानस्ततो रक्तैर् ङ्गरागस्रगम्बरैः पुनरुक्तप्रियालापो मामवन्दत गोमुखः ॥ १३.२४ तमत्यासन्नमासीनम् तिमात्रप्रियंवदम् पादौ संवाहयन्तं मे क्रुद्धो हरिशिखोऽब्रवीत् ॥ १३.२५ उन्मत्त किमसंबद्धम् भाषमाणः पुरः प्रभोः उद्वेजयसि भर्तारम् पसृत्यास्यतामिति ॥ १३.२६ तेनोक्तं मूर्ख नैवेदम् मदसामर्थ्यजृम्भितम् स्वामिनो निःसपत्नौ तु पादाविच्छामि सेवितुम् ॥ १३.२७ यदा तूभयवैतर्द्ध भर्तृमूर्धभिरर्चितौ भविष्यतस्तदास्माकम् ससपत्नौ भविष्यतः ॥ १३.२८ वैतर्द्धनामग्रहणात् ततो मदनमञ्जुका स्मितसंदर्शितप्रीतिर् ब्रवीत्साश्रुलोचना ॥ १३.२९ अहो चातुर्यमाधुर्य प्रधानगुणभूषणाः आलापा निर्गताः सौम्याद् गोमुखस्य मुखादिति ॥ १३.३० मयोक्तं भण पश्यामस्त्वया कस्माच्चिरं स्थितम् को वा तवेदमाकारम् ुज्ज्वलं कृतवानिति ॥ १३.३१ तेनोक्तं वयमाहूय मागध्या राजसंनिधौ आज्ञापितास्तव भ्रात्रा पानमासेवितं निशि ॥ १३.३२ तेन पानगृहात्पानम् स्वाद्यमानं स्वदेत यत् स्वयमास्वाद्य तद्भ्रात्रे त्वया प्रस्थाप्यतामिति ॥ १३.३३ सोऽहं देवीद्वयेनापि मण्डयित्वा स्वपाणिभिः पानागाराय गमितः पानाध्यक्षपुरःसरः ॥ १३.३४ तत्र चास्वादयन्नेव तत्तत्पानं मनाङ्मनाक् मत्तोऽहं प्रेषयामि स्म युष्मभ्यमपि संततम् ॥ १३.३५ तस्मात्पिबत निःशङ्काः कापिशायनमासवम् अनुज्नाताः सहामात्यैर् गुरुभिर्मुदितैरिति ॥ १३.३६ सेवमानस्ततः पानम् सकान्तामित्रमण्डलः दिवसान् गमयामि स्म प्रहृष्टपरिचारकः ॥ १३.३७ कदाचिदेकपर्यङ्क स्थिता मदनमञ्जुका युष्माभिः सुखसुप्ताहम् न द्रष्टव्येत्यभाषत ॥ १३.३८ मम त्वासीत्किमित्येषा निवारयति मामिति यत्सत्यं सुतरां चेतः कुतूहलतरङ्गितम् ॥ १३.३९ कदाचिदर्धरात्रेऽहम् स्थावराकारजङ्गमे पाने परिणतिं याति प्रतिबुद्धः पिपासितः ॥ १३.४० ततः परिजनं दृष्ट्वा प्रसुप्तमभवन्मम न युक्तं सुखसुप्तस्य शत्रोरपि निबोधनम् ॥ १३.४१ भार्या पुनः शरीरार्धम् तो मदनमञ्जुकाम् प्रतिबोध्य जलं याचे तद्धि मे न विरूप्यते ॥ १३.४२ इति निर्धार्य तस्यां च मया दृष्टिर्निपातिता यावदन्यैव सा कापि नारीरूपैव चन्द्रिका ॥ १३.४३ आसीच्च मम किं यक्षी किं गन्धर्वी किमप्सराः मानुषी स्यात्कुलस्त्री स्याद् गणिका स्यादियं न हि ॥ १३.४४ यस्मादन्यतमाप्यासाम् लक्षणैर्नोपपद्यते तस्माद्विद्याधरी प्राप्ता कापि केनापि हेतुना ॥ १३.४५ इति निर्णीय निपुणम् करिणीतालुकोमलौ गाढं संवाहयामि स्म तस्याश्चरणपल्लवौ ॥ १३.४६ सा तु संत्यीजता निद्राम् सद्यश्चरणपीडया मामालोक्य तथाभूतम् भीता भूमावुपाविशत् ॥ १३.४७ अब्रवीच्च न कर्तव्यम् र्यपुत्रेण साहसम् त्वादृशामनुकम्प्यो हि बलिनां प्रमदाजनः ॥ १३.४८ ततः श्रूत्वेति यत्सत्यम् ात्मन्येवास्मि लज्जितः एवं कारिणमप्येषा संभावयति मामिति ॥ १३.४९ सा मां लज्जितमालोक्य जानुसंनिहिताननम् लज्जामपहरन्तीव त्वरितेदमभाषत ॥ १३.५० श्रूयतां चाप्रियं सा ते प्रिया मदनमञ्जुका त्वद्गुणस्मरणव्यग्रा नयते दिवसानिति ॥ १३.५१ आसीन्मे मनसि हृता न सा मृता सा या दृष्टेर्व्रजति न गोचरं प्रिया मे ज्योत्स्ना हि स्फुटधवलापि कौमुदीन्दोर् न्धानां बहलतमोमलीमसैव ॥ १३.५२ ततस्तामब्रवं भीरु त्वमेव हि मम प्रिया तथापि तु विनोदेन तिष्ठामः कथ्यतामिति ॥ १४.१ ग्रहीतव्यानि नामानि गुरुदेवद्विजन्मनाम् यस्मात्तेन विशुद्ध्यर्थम् स्वानमाचरितं तया ॥ १४.२ अस्ति मेरुगिरिप्रांशुर् ाषाढो नाम पर्वतः शूरपण्डितवित्ताढ्य विद्याधरकुलालयः ॥ १४.३ तत्र विद्याधरस्वामी वेदवान् वेगवानिति यः कुबेराधिकस्वोऽपि निःस्व एव दिनात्यये ॥ १४.४ तस्यापि पृथिवी नाम महिषी प्रांशुवंशजा तृणाय मन्यते स्थैर्याद् या देवीं पृथिवीमपि ॥ १४.५ तौ च पुत्रमविन्दन्तौ चिरं दुःखमतिष्ठताम् प्रौढाया इव कन्यायाः पितरौ सदृशं वरम् ॥ १४.६ तौ मनःपुत्रिका नाम कुलविद्यां सुतार्थिनौ आराधयितुमारब्धौ तया चोक्तं प्रसन्नया ॥ १४.७ सर्वविद्याधरोत्कृष्ट विद्याधरपराक्रमः भविता भवतोः पुत्रः पुत्रकौ दुःखमुज्झतम् ॥ १४.८ एका च दुहिता यस्याः कलाशाली भविष्यति शूरः साङ्ग इवानङ्गो विद्याधरपतिः पतिः ॥ १४.९ काले क्वचिदतीते च प्रसूता पृथिवी सुतम् त्रिवर्गमक्षतं देवी पृथिवीव सुरक्षिता ॥ १४.१० मनःपुत्रिकया दत्तः स यस्मात्कुलविद्यया तस्मान्मानसवेगाख्यः पुत्रः पित्रा प्रसाधितः ॥ १४.११ संवत्सरत्रयेऽतीते जाताया दुहितुः कृतम् नाम वेगवतात्मीयम् सौ वेगवती ततः ॥ १४.१२ लब्धेष्टतनयौ तौ च मोदमानावहर्निशम् नीतवन्तौ चिरं कालम् ेकाहर्निशसंमितम् ॥ १४.१३ वेगवानेकदा स्नातः प्रीणिताग्निसुरद्विजः भद्रासनस्थमात्मानम् ददर्श आदर्शमण्डले ॥ १४.१४ अथ हंसमिवासीनम् ञ्जनाचलमूर्धनि मृणालधवलं केशम् दृष्टवानात्ममूर्धनि ॥ १४.१५ ततो भद्रासनं त्यक्त्वा वसुधास्थण्डिले स्थितः पृष्टो मानसवेगेन किमेतदिति वेगवान् ॥ १४.१६ तेनोक्तं पलितं दृष्ट्वा मनःपुत्रिकवंशजाः तपांसि वा निषेवन्ते वेदान्तविहितानि वा ॥ १४.१७ तत्प्रजाः पालयेः पुत्र प्रजास्त्वां पालयन्तु च पालितैर्हि मृगेन्द्रोऽपि काननैरेव पाल्यते ॥ १४.१८ अथ मानसवेगेन क्रोशन्तीषु प्रजासु च राजा मन्दसुखोत्कण्ठः प्रतियातस्तपोवनम् ॥ १४.१९ भर्त्रा निवर्त्यमानापि वचोभिः सोपपत्तिभिः न निवृत्ता यदा देवी तदोपायं प्रयुक्तवान् ॥ १४.२० अद्यैवाहं च्युतो राज्याद् द्यैवेयं पतिव्रता न मे संपादयत्याज्ञाम् हो धर्मः सतामिति ॥ १४.२१ ततो ह्रीता च भीता च साश्रुश्रेणिः सवेपथुः पादयोः पतिता पत्युर् व्यज्ञापयदसौ शनैः ॥ १४.२२ यदा तर्हि मया यूयम् पावयन्तस्तपोवनम् उपास्याः पावनतमम् स कालः कथ्यतामिति ॥ १४.२३ सोऽब्रवीद्दुर्लभं पुत्रम् स्थिरसिंहासनास्थितम् भर्तारं वेगवत्याश्च दृष्ट्वा द्रष्टासि मामिति ॥ १४.२४ एवं चैव च कल्याणि पिता विज्ञाप्यतामिति उक्ता वेगवती मात्रा पितरं प्रणताब्रवीत् ॥ १४.२५ तात त्वयि वनं याते को मे दास्यति मोदकान् कल्पवृक्षप्रसूतानि फलानि कुसुमानि वा ॥ १४.२६ तेनोक्तं येन येनार्थो दुर्लभेनापि केनचित् तत्तन्मानसवेगस्ते भ्राता दातास्यतामिति ॥ १४.२७ इति राज्यकलत्रमित्रपुत्रान् गृहधामं च तृणाय मन्यमानः गुरुसत्त्वरजस्तमःकलङ्काम् प्रकृतिं हातुमगाद्वनं नरेन्द्रः ॥ १४.२८ श्रियं मानसवेगोऽपि कदलीदलचञ्चलाम् शक्तित्रयप्रयोगज्ञः कृतवानचलाचलाम् ॥ १४.२९ अथ याते क्वचित्काले मातङ्गाधिपतेः सुता आषाढं वायुमुक्तेति सखीपरिवृतागमत् ॥ १४.३० सा स्म वेगवतीमाह राजपुत्रि किमास्यते उत्तिष्ठाकाशमार्गेण गच्छामो मलयाचलम् ॥ १४.३१ शृङ्गकुञ्जनितम्बेषु तस्य रम्येषु रम्यताम् नेत्रापिधानिकाख्यान पुत्रिकाकन्दुकैरिति ॥ १४.३२ तयोक्तं नास्ति मे शक्तिर् गन्तुमाकाशवर्त्मना अलब्धकुलविद्यायाः सखि तन्मृष्यतामिति ॥ १४.३३ उपहस्य ततस्तास्ताम् ुच्चैस्ताडितपाणयः आधताम्बरपक्षाः खम् हंसकन्या इवास्थिताः ॥ १४.३४ भ्रातुरन्तिकमायाता सावेगा वेगवत्यपि तेन चोक्ताङ्कमारोप्य मातः किं दीयतामिति ॥ १४.३५ तयोक्तं देहि मे विद्याम् महाराज ससाधनाम् सिद्धविद्याभिरद्याहम् सखीभिर्हासिता यतः ॥ १४.३६ अचिरेणैव दास्यामि मातरित्यभिधाय सा भ्राता विसर्जितासार बालालङ्कारवञ्चिता ॥ १४.३७ एकदा गौरिमुण्डस्य भगिनी गौरिमद्यशाः गता वेगवतीं द्रष्टुम् ाषाढं ससखी सखीम् ॥ १४.३८ उपहस्य च तां सापि विपक्षामिव सारसीम् सपक्षा राजहंसीव गता प्रति हिमाचलम् ॥ १४.३९ वेगवत्यपि सास्थानम् गत्वा भ्रातरमब्रवीत् किमयं क्षिप्यते कालो विद्या मे दीयतामिति ॥ १४.४० तेनोक्तमपि दास्यामि त्वरसे किमकारणम् गुरुकार्यक्रियाव्यग्रम् किं न पश्यसि मामिति ॥ १४.४१ सा गत्वा मन्युभारेण स्फुरन्तीव त्वरावती अपतन्मातुरुत्सङ्गे संतप्तेव वशा ह्रदे ॥ १४.४२ पृथिवी तु समाहूय सचिवौ भर्तुरब्रवीत् अचिरेण पितुर्मूलम् दारिकां नयतं युवाम् ॥ १४.४३ अन्तरङ्गो हि संबन्धः पुत्रैः पित्रोरकृत्रिमः भ्रातरस्तु द्विषन्त्येव भ्रातॄनेकोदरानपि ॥ १४.४४ तौ तामाकाशमार्गेण नीतवन्तौ तपोवनम् मार्गायतनमार्गेषु साम्भःसु गमितश्रमाम् ॥ १४.४५ अथास्थिमयकायानाम् तडिद्बभ्रुजटाबृताम् तेऽपश्यंस्तत्र वृन्दानि तापसानां तपस्यताम् ॥ १४.४६ पृच्छन्ति स्म च तत्रैकम् भिवाद्य तपस्विनम् ब्रह्मन् ब्रूहि तमुद्देशम् यत्रास्ते वेगवानिति ॥ १४.४७ सोऽब्रवीत्पर्वताग्रेऽसाव् ङ्गुष्ठाग्रेण तिष्ठति अनुगच्छति गच्छन्तम् ंशुमन्तं च चक्षुषा ॥ १४.४८ पर्णशाला च तस्येयम् यस्याः सिंहमतङ्गजौ अङ्गणे क्रीडतः प्रीताव् िमौ च शिखिपन्नगौ ॥ १४.४९ आसन्नागमनश्चासौ दग्धं हि कठिनैः करैः तस्याह्लादयितुं चक्षुर् ेष मन्दायते रविः ॥ १४.५० तपस्तान्तं ततः कायम् सकायमिव वेगवान् कायक्लेशं वहन्नागाद् वैखानसमृगावृतः ॥ १४.५१ अथ वेगवती दृष्ट्वा वेगवन्तं तथाविधम् अब्रवीन्मन्त्रिणौ नायम् मम तातः स वेगवान् ॥ १४.५२ तस्य चन्द्रप्रभच्छत्त्र प्रभाः समुकुटप्रभाः प्रभासयन्ति धावन्तीम् पुरः सामन्तसन्ततिम् ॥ १४.५३ अयं तु सिंहमातङ्ग शार्दूलमृगतापसैः त्यक्तवैरैः सहायाति नूनं कोऽपीन्द्रजालिकः ॥ १४.५४ ताभ्यामुक्तं स एवायम् तथा चेत्थं च दृश्यते तादृशा एव दृश्यन्ते तथा चेत्थं च साधवः ॥ १४.५५ वन्द्यतां च पितेत्युक्ता वन्दमानार्द्रचक्षुषा अङ्कमारोपिता पित्रा रूढदर्भाङ्कुरव्रणम् ॥ १४.५६ मन्त्रिणावपि भर्तारम् ुचितान्तरवर्तिनौ शिरोवाग्भिरवन्देताम् थ वेगवतोदितौ ॥ १४.५७ आगच्छ तं ममाभ्याशम् लं स्थित्वातिदूरतः जनरञ्जनमात्रं हि गतं तद्राज्यनाटकम् ॥ १४.५८ आसन्नस्थण्डिलस्थौ तौ पृष्टवानथ वेगवान् राज्ञो मानसवेगस्य राज्यं नो वर्ण्यतामिति ॥ १४.५९ ताभ्यामुक्तमशक्यं तद् गुणाढ्येनापि शंसितुम् तमपेक्ष्य तु राजानः शेषाश्छत्त्रविडम्बकाः ॥ १४.६० इयं माणविका कस्माद् ानीतेति च पृच्छते विद्यालाभार्थमित्युक्तम् तस्मै ताभ्यां सविस्तरम् ॥ १४.६१ तेनोक्तमचिरादेषा लब्धविद्या गमिष्यति युवाभ्यां नीतिपन्नाभ्याम् स बालः पाल्यतामिति ॥ १४.६२ वगवत्यपि सोत्साहा करोति स्म महत्तपः कल्पिताहारकर्तव्या फलमूलजलानिलैः ॥ १४.६३ जलाहरणसंमार्ग कुसुमप्रचयादिभिः आराधयद्दुराराधान् सौ वैखानसानपि ॥ १४.६४ उच्चिन्वन्ती कदाचित्सा फुल्लां काननमल्लिकाम् हा सर्पेणास्मि दष्टेति साक्रन्दागमदाश्रमम् ॥ १४.६५ यथासंनिहितैस्तत्र वैखानसकुमारकैः मा राजदारिके भैषीर् ित्युक्त्वा परिवारिता ॥ १४.६६ क्वासौ क्वासौ खलः सर्प िति पृष्टा कुमारकैः अमुष्मिन्मल्लिकागुल्मए िति तेभ्यो न्यवेदयत् ॥ १४.६७ ते त्वालोक्य तमुद्देशम् वोचन्नुच्चकैस्तराम् राजपुत्रि न सर्पोऽयम् यं सर्पान्तकः शिखी ॥ १४.६८ दृष्ट्वा प्रसारितां ग्रीवाम् ुत्फणाशीविषोपमाम् त्वया सर्प इति ज्ञातम् तस्मादाश्वस्यतामिति ॥ १४.६९ उटजाङ्गणमानीतः स मयूरः कुमारकैः विचित्रैर्नर्तितो मार्गैस्तया कुट्टिततालया ॥ १४.७० प्रेक्षणीयं च तद्द्रष्टुम् दृष्टं वनवासिभिः मिलिताः सर्वए एवास्थुस्तपोवननिवासिनः ॥ १४.७१ एतस्मिन्नेव वृत्तान्ते वेगवन्तमुपागतम् विश्रान्तमुपगम्येदम् वोचंस्तं तपस्विनः ॥ १४.७२ राजदारिकया राजंस्तपस्तप्तं सुदुस्तपम् वयमाराधिताः प्रीतास्तद्विद्यां लभतामिति ॥ १४.७३ तेनोक्तं यदि च प्रीता नो भवन्तोऽनुजानते ततो गृह्णात्वियं विद्याः पञ्चाङ्गपरिवारिताः ॥ १४.७४ अनया यत्तपस्तप्तम् स्माभिश्चेदमीदृशम् तदस्याः कुलविद्यानाम् लं भवतु सिद्धये ॥ १४.७५ यच्च मानसवेगस्य विद्यासिद्धिप्रभावितम् बलं चतुर्गुणं तस्माद् बालेयं प्रतिपद्यताम् ॥ १४.७६ यश्चास्याः कोऽपि दीर्घायुर् ग्रहीष्यति वरः करम् राज्यस्य दशमं भागम् स मदीयस्य भोक्ष्यति ॥ १४.७७ एवमुक्त्वा ततस्तस्यास्तत्सर्वं कृतवान् पिता सापि लब्धाभ्यनुज्ञाना वेगेनोदपतन्नभः ॥ १४.७८ ततः कनकलेखेव भासा कषशिलामसौ पिशङ्गभवती यान्ती श्यामलामम्बरस्थलीम् ॥ १४.७९ दृष्टा मानसवेगेन संभ्रमभ्रान्तचक्षुषा अवातरत्तदास्थाने हंसीवाम्भोजकानने ॥ १४.८० कथंचित्प्रत्यभिज्ञाय लज्जितेनेव तेन सा आलिङ्ग्योत्सङ्गमारोप्य गमिता मातुरन्तिकम् ॥ १४.८१ मातापि दुहितृस्नेहम् नादृत्यैव सत्वरा अपृच्छदपि कल्याणि कुशली वेगवानिति ॥ १४.८२ किं वाफलप्रलापेन सारमेवावधीयताम् यासौ वेगवती साहम् तस्य वेगवतः सुता ॥ १४.८३ अतीते तु क्वचित्काले सशरीरेव चारुता नीता मानसवेगेन कापि भूमौ वराङ्गना ॥ १४.८४ सा च तद्गुणभूयिष्ठाम् दृढं द्वेष्टि कथामपि क्षीणदोषगुणा साध्वी कामस्तुतिकथामिव ॥ १४.८५ स कदाचित्क्वचित्काचिद् दृष्ट्वा तापसकन्यकाम् बलाद्भोक्तुमुपक्रान्तस्तया चोक्तं स्फुरद्रुषा ॥ १४.८६ युक्तं शापाग्निना दग्धुम् त्वादृशं पापचेतसम् किं तु वेगवतः साधोः पुत्रत्वं तेन मुच्यसे ॥ १४.८७ सर्वथा शापनामानम् प्रतीच्छतु वरं भवान् अधीरहृदयाः प्रायस्त्रासगम्या भवादृशाः ॥ १४.८८ बलात्कामयमानस्य निःकामां काञ्चिदङ्गनाम् भवतः शतधा मूर्धा दग्धबुद्धेः स्फुटेदिति ॥ १४.८९ ततस्त्रस्तस्ततः शापाद् कामां कामिनीमसौ अपि नोत्सहते द्रष्टुम् कुत एव निषेवितुम् ॥ १४.९० स तु मामब्रवीन्मातस्तथा मदनमञ्जुका प्रोत्साह्यतां यथा क्षिप्रम् ुपसर्पति मामिति ॥ १४.९१ अथ बालस्वभावेन सकुतूहलया मया अशोकवनिकामध्ये दृष्टा मदनमञ्जुका ॥ १४.९२ संक्षिप्तमधितिष्ठन्ती रूढपर्णलतोटजम् म्लानचम्पकमालेव पुराणकदलीपुटम् ॥ १४.९३ पर्णशय्याशिरोभागे निहितः संपिधानकः उटजाभ्यन्तरे न्यस्तः सजलः कलशस्तया ॥ १४.९४ अथ लम्भितविश्रम्भाम् मञ्जुकामहमब्रवम् कस्ते मानुषकेणार्थः कुरु विद्याधरं पतिम् ॥ १४.९५ मुग्धे मानुषकास्तावद् बहुरोगाद्युपद्रवाः विद्याधरास्तु विद्यानाम् प्रभावान्निरुपद्रवाः ॥ १४.९६ राजा मानसवेगस्तु भर्ता ते वर्ण्यतां कथम् यो विद्याधरराजानाम् राजा स्फीतश्रियामिति ॥ १४.९७ दोषानपि मनुष्याणाम् गृह्णामि स्म यथा यथा तथा तथाभवत्तस्याः प्रीतिस्फीताक्षमाननम् ॥ १४.९८ गुणान् विद्याधराणां तु गृह्णामि स्म यथा यथा तथा तथाभवत्तस्याः क्रोधजिह्माक्षमाननम् ॥ १४.९९ आगन्तुकौ यदा चैनाम् प्रीतिक्रोधावमुञ्चताम् गृह्णाति स्म तदा शोकः सनिश्वासास्रवेपथुः ॥ १४.१०० अथास्याः परिमृज्यास्रम् शीतस्पर्शमब्रवम् अलं भगिनि संतप्य जीवितं रक्ष्यतामिति ॥ १४.१०१ तया तूक्तं मया नेदम् ात्मदुःखेन रुद्यते अशक्यं तु भयं भीमम् ाहृतं मन्दया मया ॥ १४.१०२ सर्वविद्याकलाभिज्ञः सर्वरूपवतां तुला कुलविद्याधनैर्यश्च तुङ्गैरपि न माद्यति ॥ १४.१०३ स मद्वृत्तान्तमज्ञात्वा दशां यास्यति कामपि ततः सान्तःपुरामात्य राष्ट्रः सोमान्वयो नृपः ॥ १४.१०४ किं तु प्रत्याशया प्राणान् ेकया धारयाम्यहम् यदादिष्टः स्फुटादेशैर् सौ विद्याधरादिभिः ॥ १४.१०५ विद्यालवविषाध्मातान् विद्याधरभुजङ्गकान् विद्याधरनरेन्द्रोऽयम् कर्ता वान्तविषानिति ॥ १४.१०६ ततः श्रुत्वेति यत्सत्यम् जाताहं जातसंशया विद्याधरनरेन्द्रः स्याद् ुत न स्यादसाविति ॥ १४.१०७ किं काचिद्दूतिका यातु साप्यसक्ता परीक्षितुम् दूतिका मत्समा नास्ति स्वयमेव व्रजाम्यतः ॥ १४.१०८ ततः स्वार्थाहितोत्साहा पृच्छामि स्म तव प्रियाम् तव प्रियाय किं वार्ता त्वदीया दीयतामिति ॥ १४.१०९ अथ क्षणमिव ध्यात्वा तयोक्तं स्मयमानया तुल्यमेवावयोः कार्यम् शक्तौ सत्यां किमास्यते ॥ १४.११० इदं हि गुरु कर्तव्यम् क्षिप्तकालं च सीदति ईदृशं त्वादृशी कर्म कार्यते कथमन्यथा ॥ १४.१११ इयं मण्डलिता वेणी मया सखि तवाग्रतः दष्टुकामेव चपला भीषणाशीविषाङ्गना ॥ १४.११२ दाह्या वा दहनेनेयम् मोच्या वा गृध्रजम्बुकैः अर्यपुत्रेण वा दग्ध दारुणा गतिदारुणा ॥ १४.११३ गत्वा चागच्छ दोलेव न स्थातव्यं क्वचिच्चिरम् असङ्गा हि गतिः सख्याः कान्तं यान्त्याः स्मृतेरिव ॥ १४.११४ इत्युक्ताज्जुकया क्षिप्रम् नभसाहमिहागता अपश्यमर्यपुत्रं च हा क्वासीति प्रवादिनम् ॥ १४.११५ अनिन्दितमुपायं च विचिन्त्यात्मसमर्पणे अज्जुकारूपया तुभ्यम् ात्मा संदर्शितो मया ॥ १४.११६ निवारिताश्च यद्यूयम् तदालिङ्गनलालसाः स दोषः कन्यकात्वस्य विशुद्धकुलजन्मनः ॥ १४.११७ यच्चायाचितदानाय विवाहः कारितो मया स च संस्कर्तुमात्मानम् क्वात्र यक्षः क्व चाज्जुका ॥ १४.११८ यच्च पातुमनिच्छन्तः पायिताः स्थ बलान्मधु तत्र यत्कारणं तच्च प्रायः प्रत्यक्षमेव च ॥ १४.११९ न द्रष्टव्यास्मि सुप्तेति प्रतिषिद्धाः स्थ यन्मया तत्कुतूहलवृद्ध्यर्थम् वामशीला हि बालता ॥ १४.१२० सर्वथा विस्तरेणालम् ज्जुका मदमञ्जुका नीता मानसवेगेन लक्ष्मीरिव दुरात्मना ॥ १४.१२१ तदाज्ञापय मां क्षिप्रम् िमां मदनमञ्जुकाम् आनयामि परैर्नीताम् शुद्धा नीतिरिव श्रियम् ॥ १४.१२२ आसीच्च मम न न्याय्यम् प्रैषणीयजनोचितम् भर्तुः कारयितुं कर्म भार्यां तुङ्गकुलोद्भवाम् ॥ १४.१२३ अथैनामब्रुवं चण्डि श्रुतमेहि शयावहै न हि ताम्रशिखण्डानाम् द्यापि स्फुरति ध्वनिः ॥ १४.१२४ अहमपि धवलेन्दुवंशजन्मा कुलिशकठोरकनिष्ठिकाप्रकोष्ठः प्रियसमरपरावरोधरुद्धान् हतरिपुः कथमाहरेय दारान् ॥ १४.१२५ परिपाट्या ततः प्राप्तास्त्रयो हरिशिखादयः प्रभाते मामवन्दन्त न तु वेगवतः सुताम् ॥ १५.१ गोमुखस्त्वचिरात्प्राप्तः प्रथमं मामवन्दत अस्मदासन्नमासीनाम् भक्त्या वेगवतीं ततः ॥ १५.२ असौ हरिशिखेनोक्तः सुष्ठु खल्वसि पण्डितः वन्द्यावन्द्यविचारे हि पण्डिताः समदर्शिनः ॥ १५.३ अथोक्तं तेन मत्तोऽस्ति भवानेवातिपण्डितः वन्द्यलक्षणयुक्तां यो वन्द्यामपि न वन्दते ॥ १५.४ भण केन न पूज्येयम् या नः पूज्येन पूजिता ननु मन्दमते लोकः पूज्यपूजितपूजकः ॥ १५.५ स्वामिनी स्वामिसंबन्धात् स्वामीवार्हति वन्दनाम् चन्द्रासन्नैर्हि नक्षत्रैर् लोकः कार्याणि कार्यते ॥ १५.६ इत्यादि वदतस्तस्य पक्षमुत्कर्षयन्निव अहं वेगवतीवृत्तम् तद्वर्णितमवर्णयम् ॥ १५.७ विद्याधरकुमारीणाम् प्रवृत्तावर्तनीति ते वन्दतो मुदिता गत्वा सेनाभर्त्रे न्यवेदयन् ॥ १५.८ तेनापि तातपादेभ्यस्तैरम्बाभ्यां निवेदितम् हर्षदुन्दुभिवृन्दैस्तु नदद्भिर्वृत्रशत्रवे ॥ १५.९ गम्भीरोत्पातजीमूत संपातह्रादभीषणे प्रमोदध्वनिते यातम् तन्यमाने दिवानिशम् ॥ १५.१० अथ सेनापतिः प्राप्तः प्रातर्मामिदमब्रवीत् इदानीमेव देवीभ्याम् देवो विज्ञापितो यथा ॥ १५.११ द्वितीयया वधुकया गृहीतो दारकः स्वयम् कस्याश्चिदपि नास्मभिर् दृष्टः परिणयोत्सवे ॥ १५.१२ तेन प्रसादो यद्यस्ति वेगवत्या ततः सह नरवाहनदत्तस्य विवाहः कार्यतामिति ॥ १५.१३ देवेन तु विहस्योक्तम् ेवमस्तु किमास्यते ममापि हि मनस्यासीद् यमेव मनोरथः ॥ १५.१४ किं तु माता वरस्यात्र देवी भवतु मागधी पिताहं वरपक्षेऽस्य समस्तमवरोधनम् ॥ १५.१५ अस्तु वासवदत्तायाः सुता वेगवतः सुता रुमण्वदादयः पक्षे तस्या एवं भवन्त्विति ॥ १५.१६ अथान्तःपुरमम्बायाः पद्मावत्याः सुहृद्वृतः नीतोऽहं चित्रविन्यास रत्नमङ्गलमण्डलम् ॥ १५.१७ सभर्तृबहुपुत्राभिर् नारीभिर्वेगवत्यपि ज्येष्ठाम्बाभवनं नीता केलिकोलाहलाकुलम् ॥ १५.१८ तपन्तकस्तु मागध्या प्रेषितः प्रेक्षितुं वधूम् मषीकालमुखोरस्कः कारितो ज्येष्ठयाम्बया ॥ १५.१९ कम्पमानश्च कोपेन ततः प्रत्यागतोऽब्रवीत् अर्यपुत्र खलीकारम् पश्यतेमं ममेदृशम् ॥ १५.२० श्वश्रूस्ते मां खलीकृत्य सान्तर्हासमवोचत क्व यासि जाल्म लब्धोऽसि प्रेषितस्त्वं चरः किल ॥ १५.२१ एकैव मम बालेयम् ायाचितशतार्जिता अस्याः सौभाग्यमुत्पाद्यम् वश्यं कार्मणैर्मया ॥ १५.२२ माता जामातृकस्यैव महाकार्मणकारिका यया हस्ततले भर्ता गुरुधैर्योऽपि नर्तितः ॥ १५.२३ वर्धयन्त्याश्चिरं पुत्रम् तस्याः कार्मणमालया किं मया प्रेषितः कश्चिद् भवानिव चरस्तया ॥ १५.२४ इत्युक्त्वालम्भितो भीमाम् र्धचन्द्रपरंपराम् देव्याः निष्क्रमितः स्वस्माद् हमन्तःपुरादिति ॥ १५.२५ तपन्तकेन या प्राप्ता तत्र गत्वा विडम्बना तामनेकगुणां प्रापञ् ज्येष्ठाम्बाप्रेषिताश्चराः ॥ १५.२६ इति प्रवृत्तवृत्तान्ते मत्तेऽन्तःपुरसागरे मया वेगवतीपाणिर् गृहीतो मन्त्रसंस्कृतः ॥ १५.२७ अथ गत्वा स्वमावासम् वासावासं प्रविश्य च अन्यादृशप्रपञ्चेव दृष्टा वेगवती मया ॥ १५.२८ व्याहृता वचनं नादाद् गादालम्बितांशुका शयनं च नवोढेव सेवते स्म पराङ्मुखी ॥ १५.२९ उपसृत्य शनैश्चैनाम् ब्रवीमि स्म विलक्षकः व्रीडाक्रीडाकृता पीडा दुर्भगा त्यज्यतामिति ॥ १५.३० तया तु कथमप्युक्तम् स्फुटितस्मितचन्द्रिकम् अर्यपुत्र कुतः क्रीडा गुर्वाज्ञेयं गरीयसी ॥ १५.३१ मया हि श्वशुरादेशाद् स्मिन् विवाहनाटके दुष्करा क्षिप्तवेलापि वधूकाभूमिका कृता ॥ १५.३२ तथा नाटयितव्येयम् ुज्ज्वला जायते यथा तस्माद्गुरुनियोगोऽयम् लङ्घ्यः क्षम्यतामिति ॥ १५.३३ तया सह विसर्पन्त्या विवाहकथयानया अनयं क्षणसंक्षिप्ताम् ायातामपि यामिनीम् ॥ १५.३४ गते तु नातिसंक्षिप्ते काले चटुलसम्भ्रमः त्वरावान् स्खलदालापो मामवोचत्तपन्तकः ॥ १५.३५ अर्यपुत्र मया दृष्टाश् चतस्रः पुरदेवताः भ्राम्यता नगरोद्याने दैन्यम्लानाननेन्दवः ॥ १५.३६ नृपस्यानिष्टमाशङ्क्य मन्ये किमपि दारुणम् अन्यदुच्चलिताः स्थानम् विहायेमां पुरीमिति ॥ १५.३७ मया वेगवती पृष्टा कास्ता इति तयोदितम् क्रोधान्मानसवेगेन मम सख्यो विवासिताः ॥ १५.३८ मम प्रसादः क्रियताम् स्वयमादाय ताः सखीः नयनोन्मेषमात्रेण पश्य मामागतामिति ॥ १५.३९ उत्पतन्ती मया दृष्टा वेगाद्वेगवती नभः आसीना चासने स्वस्मिन् सखीभिः परिवारिता ॥ १५.४० तदागमनवार्त्ता च व्यापज्झगिति मेदिनीम् सद्यः स्वर्भानुमुक्तस्य ताराभर्तुरिव प्रभा ॥ १५.४१ सेनापतिरथागत्य प्रवीणैर्ब्राह्मणैः सह प्रीतिस्निग्धविशालाक्षः सप्रणाममभाषत ॥ १५.४२ राजा वेगवतीमाह प्रत्यासन्नकरग्रहाः चतस्रः किल तिष्ठन्ति भगिन्यः कन्यकास्तव ॥ १५.४३ ममाप्यकृतवीवाहा युवानो रम्यदर्शनाः पुत्रास्तिष्ठन्ति चत्वारः शस्त्रशास्त्रकलाविदः ॥ १५.४४ यदि संबन्धयोग्यान्नो मन्यते राजदारिका ततस्ता दारिकास्तेभ्यः पुत्रेभ्यो मे ददात्विति ॥ १५.४५ तयोक्तं धीरगणिका वक्त्रसंक्रान्तवाक्यया देवेनानुगृहीतास्मि प्रसादैः फलितैरिति ॥ १५.४६ अभूच्च दारिकापक्षे तदा देवी कनीयसी अहं च वरपक्षे तु तातः सान्तःपुरोऽभवत् ॥ १५.४७ या समृद्धिस्तदा दृष्टा वत्सराजकुले मया तामद्यापि न पश्यामि प्राप्यापि श्रियमीदृशम् ॥ १५.४८ विद्याधरकुमारीणाम् ततो हरिशिखादयः अग्रहीषत सस्वेदान् म्भोरुहरुचः करान् ॥ १५.४९ निवर्तितविवाहास्तु राजराजसुता इव राजराजगृहाणीव गताः पितृगृहाणि ते ॥ १५.५० प्रभाते तानहं प्राप्तान् सव्रीडानिव पृष्टवान् याता यस्य यथा रात्रिः स तथा वर्णयत्विति ॥ १५.५१ गोमुखेन ततः प्रोक्तम् ुच्चैस्ताडितपाणिना तथैतेषां गता रात्रिर् मा स्म गच्छद्यथा पुनः ॥ १५.५२ अयं हरिशिखस्तावत् कन्याराधनकोविदः अवेहि मन्त्रिपुत्रेति भार्यया भर्त्सितः स्पृशन् ॥ १५.५३ ततः शय्यां समालिङ्ग्य कूर्मसंकोचपिण्डितः दारुणामनयद्रात्रिम् निद्रयापि निराकृतः ॥ १५.५४ अयं तु घट्ट्यमानोऽपि भार्ययां मरुभूतिकः शूरोऽहमिति भार्यायाः पादस्थानं न मुक्तवान् ॥ १५.५५ तपन्तकः पुनः शय्याम् त्यक्त्वा सुप्तो महीतले प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १५.५६ तदेवं दुर्भगानेतान् कान्तासङ्गमकातरान् प्रगल्भा रमयिष्यन्ति कथं विद्याधराङ्गनाः ॥ १५.५७ ततो हरिशिखेनोक्तम् हो नागरको भवान् भार्यया योऽतिसौभाग्याद् गृहादपि निराकृतः ॥ १५.५८ यो हि वासगृहे सुप्तः प्रीतया सह कान्तया स कथं परवृत्तान्तैः क्षपां क्षपितवानिति ॥ १५.५९ तथोपहसतामेषाम् ालापैरपयन्त्रणैः रममाणः क्षणं स्थित्वा ससुहृत्पानमाचरम् ॥ १५.६० अथापरस्मिन् दिवसे वेगवत्या निमन्त्रिताः सभार्याः सुहृदस्तेऽपि ताभिरेव सहागताः ॥ १५.६१ मयोक्तं यस्य यस्याश्च पानं सह न दुष्यति स तया सा च तेनैव पानमासेवतामिति ॥ १५.६२ भार्यां हरिशिखस्यापि पाणावाकृष्य गोमुखः शोभाजितमृणालिन्याम् पानभूमावुपाविशत् ॥ १५.६३ भार्यया गोमुखस्योक्तम् यदि लभ्यः स्वयंग्रहः गृहीतस्तर्हि निःशङ्कम् मया हरिशिखः स्वयम् ॥ १५.६४ आसीनायां ततस्तस्याम् तेन सार्धमनन्तरम् तपन्तकस्य गृहिणीम् गृह्णान्मरुभूतिकः ॥ १५.६५ मरुभूतिकभार्या तु समुपेत्य तपन्तकम् अब्रवीत्परिशेषोऽयम् किमन्यत्क्रियतामिति ॥ १५.६६ एवं सह सुहृद्दारैः सुहृदः शुद्धबुद्धयः वयं च सहिता दारैः क्रीडन्तः सुखमास्महि ॥ १५.६७ कदाचित्कुपिता मह्यम् येन केनापि हेतुना मयानुनीयमानापि सुप्ता वेगवती पृथक् ॥ १५.६८ जागरित्वा चिरं सुप्तस्ततोऽहं गाढनिद्रया सहसा प्रतिबुद्धश्च स्फुरल्लोचनतारकः ॥ १५.६९ उन्मील्य च चिरान्नेत्रे बालनिद्राकषायिते केनाप्यपश्यमात्मानम् नीयमानं विहायसा ॥ १५.७० अमरासुरगन्धर्व पिशाचप्रेतराक्षसाम् को नु मा नयतीत्यासम् संदेहाधीनमानसः ॥ १५.७१ देवादीनामयं स्पर्शो लक्षणैर्न हि विद्यते तस्माद्विद्याधरेणाहम् गृहीतो दुष्टबुद्धिना ॥ १५.७२ शत्रुहस्ते गतस्यापि क्षत्रियस्य न शोभते हस्तपादास्त्रमित्रस्य पङ्गोरिव मुधा वधः ॥ १५.७३ तस्मादहं यथाशक्ति व्यायम्य द्विषता सह मरिष्यामीति निर्धार्य तं ताडयितुमुद्यतः ॥ १५.७४ अथ तेन विहस्योक्तम् साधु क्षत्रियकुञ्जर स्वस्याः सुसदृशं जातेः कर्म व्यवसितं त्वया ॥ १५.७५ वन्ध्यस्तु तव संकल्पः फूत्कारो वासुकेरिव मन्त्रयन्त्रितवीर्यस्य तस्माच्चिन्तय देवताम् ॥ १५.७६ प्रीतश्चास्मि तवानेन शौर्यशौण्डेन चेतसा तस्माद्ददामि तेऽभीष्टम् द्वयोरन्यतरं वरम् ॥ १५.७७ ब्रूहि किं म्रियसे दृष्ट्वा प्रियां मदनमञ्जुकाम् किं महासागराधारैः पाट्यसे मकरैरिति ॥ १५.७८ मम त्वासीन्मृणालीव चिक्खलात्कलुषादियम् अरातेरपि निर्याता भारती स्वच्छकोमला ॥ १५.७९ यदि नाम प्रियां दृष्ट्वा न्यसेयं कायशृङ्खलाम् ततो मे शत्रुमित्रेण भवेदुपकृतं महत् ॥ १५.८० यं यमेव स्मरन् भावम् त्यजत्यन्ते कडेवरम् तं तमेव किलाप्नोति तदा तद्भावभावितः ॥ १५.८१ यस्तु पश्यन् पुरः प्रीत्या प्रियां प्राणैर्वियुज्यते तयानन्तरमेवासौ सुकृती संप्रयुज्यते ॥ १५.८२ इति संकल्पयन्नेव रणन्तीं किङ्किणीमधः शृणोमि स्म प्रभातेन्दोः पश्यामि स्म तनुप्रभाम् ॥ १५.८३ तां दिशं प्रहिताक्षेण दृष्टा वेगवती मया निवारबाणनिस्त्रिंस प्रभादलितचन्द्रिका ॥ १५.८४ पीवरक्रोधसंजात प्रज्वलज्ज्वलनद्युतिः लोकानिव दिधक्षन्ती प्रलयानलसंततिः ॥ १५.८५ सान्द्रं मद्दर्शनादेव प्रीतिनिश्वसितानिलैः क्रोधानलमविच्छिन्नैः स्थूलैश्च निरवापयत् ॥ १५.८६ अथांसयोः समासज्य नतयोरसिचर्मणी मूर्ध्नि चाञ्जलिमाधाय लज्जादीनमभाषत ॥ १५.८७ वत्सराजसुतं दान्तम् ाकारेण तमीदृशम् युवराजं महाराज मा वधीर्भगिनीपतिम् ॥ १५.८८ यथाहं तव मातुश्च तथायं मम वल्लभः स्वदारसहितस्तस्माद् क्षतो मुच्यतामिति ॥ १५.८९ ततः सप्रबलाक्षेपो दष्टदन्तच्छेदः स्फुरन् स्वसारमब्रवीद्वाचा सिंहफूत्कारघोरया ॥ १५.९० स्वयंगृहीतनिर्वार्य धरागोचरभर्तृकाम् धिक्त्वां शारदचन्द्राभ मनःपुत्रिकपांसनीम् ॥ १५.९१ तस्याः पुरो निहत्यैनम् यासौ मामवमन्यते तां च त्वां च ततस्तस्य गमयिष्यामि पृष्ठतः ॥ १५.९२ इदानीं निहतोऽसीति सा भ्रातरमभाषत तेनापि त्वरितेनाहम् भ्रमध्ये निपातितः ॥ १५.९३ अथ वेगवती ध्यात्वा कुलविद्यामभाषत भगवत्यार्यपुत्रोऽयम् स्वपुत्र इव रक्ष्यताम् ॥ १५.९४ वातमण्डलिकोत्क्षिप्तम् यथा पत्त्रं भ्रमद्भ्रमत् शनैः शनैर्महीं यायात् तथायं नीयतामिति ॥ १५.९५ अथ निस्त्रिंशमुद्गूर्य निर्धर्माकरुणः खलः हन्तुं वेगवतीमेव प्रवृत्तः प्रार्थितस्तया ॥ १५.९६ स्त्रीषु स्वसृषु बालासु लालितास्वङ्कवक्षसि निपतन्ति न निस्त्रिंशाः शूराणां त्वादृशामिति ॥ १५.९७ स तु वेगवतीमध्ये दुकूलस्पर्शभीलुके वज्रस्थम्भच्छिदादक्षाम् सिधारां न्यपातयत् ॥ १५.९८ अथ वेगवतीरष्टौ प्रचण्डायुधमण्डलाः अपश्यं युद्धसंनद्धाश् चण्डिकागणिका इव ॥ १५.९९ एकमानसवेगस्य मध्यं कुलिशकर्कशम् रम्भास्थम्भमिवासारम् लुनादसिधारया ॥ १५.१०० ततो मानसवेगौ द्वौ विकरालासिभासुरौ उत्पन्नौ सकलावेव शरीरशकलद्वयात् ॥ १५.१०१ एका वेगवती कृत्ता भवन्त्यष्टौ तथाविधाः तथा मानसवेगौ द्वौ प्रागल्भेतामितस्ततः ॥ १५.१०२ एवं मानसवेगानाम् वृन्दैरम्बरमावृतम् क्षणाद्वेगवतीनां च युध्यमानैश्चतुर्गुणैः ॥ १५.१०३ अहं तु तन्महायुद्धम् पश्यन्नेव शनैः शनैः प्रोषिताम्भसि गम्भीरे पतितः कूपसागरे ॥ १५.१०४ ततस्तीव्रविषादोऽपि विहस्य स्मृतवानिदम् संजयस्य वचः कष्टे वर्तमानस्य संकटे ॥ १५.१०५ धृष्टद्युम्नादहं मुक्तः कथंचित्क्रान्तवाहनः पतितः सात्यकानीके दुष्कृती नरके यथा ॥ १५.१०६ कथं दुरुत्तरादस्मान् ममोत्तारो भवेदिति उपायं चिन्तयन्नेव स्मरामि स्म कथामिमाम् ॥ १५.१०७ बभूवुर्भ्रातरः केचित् त्रयो ब्राह्मणदारकाः एकतः पूर्वजस्तेषाम् मध्यमान्त्यौ द्वितत्रितौ ॥ १५.१०८ तैश्चाधीतत्रयीविद्यैर् गुरुर्विज्ञापितः किल गुरवे दातुमिच्छामः काङ्क्षितां दक्षिणामिति ॥ १५.१०९ तेनोक्तं स्वगृहान् गत्वा कृत्वा दारपरिग्रहम् उत्पाद्यतामपत्यं च क्रतुभिश्चेज्यतामिति ॥ १५.११० तैरुक्तमपरा काचिद् दक्षिणा मृग्यतामिति तेनोक्तमलमेतेन ग्रहेण भवतामिति ॥ १५.१११ तस्मान्नैवातिनिर्बन्धान् निवर्तन्ते स्म ते यदा तदा क्रुद्धेन गुरुणा याचिता दक्षिणामिमाम् ॥ १५.११२ एकतः श्वेतकर्णानाम् गवां कोकिलवर्चसाम् कुम्भोध्नीनां सहस्रं मे दत्त स्थात च मा चिरम् ॥ १५.११३ ते तु भ्रांत्वा महीं कृत्स्नाम् ारूढास्तुहिनाचलम् ज्ञाताः किल कुवेरेण कौवेरीं प्रस्थिता दिशम् ॥ १५.११४ कुवेरस्यापि किं नास्ति तेन ते गुरुदक्षिणाम् दत्त्वा प्रस्थापिताः प्रीतास्तुहिनाद्रेरवातरन् ॥ १५.११५ संचरन्तो बहून् देशांश् चारयन्तश्च गाः शनैः प्राप्ताश्चण्डेश्वरासन्नाश् चण्डार्ककिरणाः स्थलीः ॥ १५.११६ कदाचिदेकतेनोक्तौ गाः संप्रेक्ष्य द्वितत्रितौ लोभनीयमिदं द्रव्यम् न परित्यागमर्हति ॥ १५.११७ साधुकारश्रुतेर्लुब्धः कश्चिदुन्मत्तको यथा अग्निप्रवेशं कुर्वीत तथेदं नश्चिकीर्षितम् ॥ १५.११८ तेनेदमुपपन्नं च गुरुणा च मयोदितम् रमणीयविपाकं च वाक्यं नः क्रियतामिति ॥ १५.११९ अथोवाच द्वितः प्रीतो युक्तमार्येण चिन्तितम् न हि स्वार्थेषु मुह्यन्ति बुद्धयस्त्वादृशामिति ॥ १५.१२० एकतस्तु त्रितं दृष्ट्वा तूष्णीमासीनमुक्तवान् यदत्र युक्तं तद्ब्रूताम् किमुदास्ते भवानिति ॥ १५.१२१ तेनोक्तं निन्दितं कुर्वन् न कश्चिन्न निवार्यते पितापि हि विषं खादन् नैव पुत्रैरुपेक्ष्यते ॥ १५.१२२ तेन विज्ञापयामि त्वाम् क्रियतां च वचो मम बुद्धिवृद्धेन हि ग्राह्यम् बालादपि सुभाषितम् ॥ १५.१२३ अनार्यप्रियमार्येण न कार्यं कार्यमीदृशम् कार्यं चेन्मह्यमात्मीयम् ंशमार्यः प्रयच्छतु ॥ १५.१२४ तमहं गुरवे दत्त्वा दक्षिणायोपकारिणे प्रतिज्ञाभारविक्षेपाद् यास्यामि लघुतामिति ॥ १५.१२५ ततः क्रुद्धौ च लुब्धौ च कनिष्ठं ज्येष्ठमध्यमौ दुग्धगर्धान्धबुद्धित्वात् प्रमापयितुमिच्छतः ॥ १५.१२६ तैः कदाचित्पिपासान्धैः पान्थसंहातसंकुलम् अदृश्यमानपानीयम् दृष्टं कूपरसातलम् ॥ १५.१२७ जलमत्रास्ति नास्तीति संदेहविनिवृत्तये तेषामन्यतमः पान्थः कूपे लोष्टुमपातयत् ॥ १५.१२८ ततः ष्वादिति कृत्वा तज् जर्जरं घटकर्परम् बभञ्ज स च संदेहः पथिकानां न्यवर्तत ॥ १५.१२९ अवतीर्य ततः कूपम् त्रितः करुणयावृतः पान्थैरुत्तारयामास रज्जुभिर्भाण्डमण्डलम् ॥ १५.१३० तेन गावश्च पान्थाश्च भ्रातरौ च महात्मना उत्तार्योत्तार्य पानीयम् कृताः स्नापितपायिताः ॥ १५.१३१ पथिकेषु तु यातेषु कृतार्थावेकतद्वितौ कूपए एव त्रितं त्यक्त्वा सगोयुथौ पलायितौ ॥ १५.१३२ त्रितस्तु घटमालोक्य रज्ज्वैव सह पातितम् निराशिश्चिन्तयामास क्षणमुत्तारकारणम् ॥ १५.१३३ आं स्मृतं लब्धमित्युक्त्वा वेदवृत्तान्तपेशलः माहेन्द्रीमकरोदिष्टिम् मनसैव महामनाः ॥ १५.१३४ अथानन्तरमुन्नम्य निशीथध्वान्तकर्बुराः धनुष्मन्तस्तडित्वन्तो घना जलमपातयन् ॥ १५.१३५ शनकैः शनकैः कूपात् पूर्यमाणान्नवाम्बुभिः प्रतरन् प्रतरन् धीरम् गोलेह्यादुत्थितस्त्रितः ॥ १५.१३६ गत्वा च स्तोकमध्वानम् गोखुरालीं निरूपयन् अपवर्गमिवाद्राक्षीन् मूर्तिमन्तं त्रिदण्डिनम् ॥ १५.१३७ अभिवाद्य तमप्राक्षीन् मार्गे भगवता क्वचित् न दृष्टावेवमाकारौ सगोयूथौ द्विजाविति ॥ १५.१३८ तेनोक्तं न मया दृष्टौ तौ महापापकारिणौ यौ त्वां पातालगम्भिरे कूपे भ्रातरमौज्झताम् ॥ १५.१३९ प्रष्टव्यावपि न क्षुद्रौ द्रष्टव्यावपि न त्वया यावेवं निन्दिताचारौ प्रष्टव्यौ कुत एव तौ ॥ १५.१४० तमुवाच त्रितः क्रोधाद् धूर्तं कलुषमानसम् दुष्टमस्करिणं धिक्त्वाम् साधुनिन्दाविशारदम् ॥ १५.१४१ ज्ञानेन्दुकिरणव्यस्त संमोहध्वान्तसंचयाः तादृशा एव जानन्ति साधवं न भवादृशाः ॥ १५.१४२ ततस्तस्य परिव्राजः शुचिताम्रघटारुणम् जातं विकसितज्योतिः किरीटाभरणं शिरः ॥ १५.१४३ शरीरं च सहस्राक्षम् करं च कुलिशाकुलम् कृतैवमादिकाकारः स जातः सर्वथा हरिः ॥ १५.१४४ वरं ब्रूहीति तेनोक्तस्त्रितस्तुष्टस्तमब्रवीत् भ्रातरौ मे सपापौ चेद् पापौ भवतामिति ॥ १५.१४५ पुनर्ब्रूहीति तेनोक्तः पुनरप्यब्रवीत्त्रितः गुरू मे गुरवे गास्ताः प्रीतौ वितरतामिति ॥ १५.१४६ पुनः प्रीततमेनोक्तम् हरिणा याच्यतामिति पर्याप्तमिति तेनोक्ते प्रीतः शक्रो दिवं ययौ ॥ १५.१४७ एवं महेन्द्रदैवत्याम् िष्टिं निर्वर्त्य मानसीम् तस्मात्पातालगम्भीराद् वटादुत्तिथस्त्रितः ॥ १५.१४८ तथाहमपि तामिष्टिम् किं न कुर्यां मनोमयीम् याजकैस्तु विना यज्ञम् क्षत्रियस्य विरुध्यते ॥ १५.१४९ तस्मादस्मादुपायेन केनोत्तिष्ठेयमित्यहम् इति चेति च निर्धार्य स्मृत्यामितगतिं गतः ॥ १५.१५० शङ्कुबन्धनमुक्तेन तेनाहं याचितस्तदा कष्टामापदमापन्नो विधये मां स्मरेरिति ॥ १५.१५१ असोढप्रार्थनादुःखम् वरं त्यक्तं शरीरकम् न तु प्रत्युपकाराशा रुजाजर्जरितं धृतम् ॥ १५.१५२ एवं च चिन्तयन्नेव कूपे कूपतरोस्तले अपश्यमहमात्मानम् तं चामितगतिं पुरः ॥ १५.१५३ मां चावोचत्स वन्दित्वा हर्षघर्घरया गिरा युष्मत्स्मरणपूतोऽयम् जनः किं कुरुतामिति ॥ १५.१५४ खे संग्रामयमाणायाः सह भ्रात्रा बलीयसा वेगवत्याः सहायत्वम् ाचरेति तमादिशम् ॥ १५.१५५ तेनोक्तमर्यदुहितुर् वेगवत्याः सहायताम् कर्तुमिच्छति यो मोहान् महागौरिं स रक्षति ॥ १५.१५६ आज्ञा तु प्रथमं दत्ता कर्तव्यैवानुजीविना आज्ञासंपत्तिमात्रेण भृत्याद्भर्ता हि भिद्यते ॥ १५.१५७ तावत्सरोजजलजध्वजवज्रलक्ष्म्या त्वत्पादपङ्कजयुगं न नमामि यावत् शत्रोर्गलद्गलसिरारुधिरेण मूर्ध्ना नाभ्यर्चितं मदसिलूनशिरोधरेण ॥ १५.१५८ अथासौ मामवन्दित्वा निस्त्रिंशकरकङ्कटः आरोहदम्बरं काले मन्देन्दुग्रहचन्द्रिके ॥ १६.१ तं चोत्पतन्तमाकाशम् शरं वालम्बितत्वरम् न पृच्छामि स्म पन्थानम् देशं नगरमेव वा ॥ १६.२ गाहमानश्च वल्मीक स्थाणुकण्टकसंकटाम् अटवीं सिंहमातङ्ग पुण्डरीकाकुलामगाम् ॥ १६.३ अथामितगतिक्रोध वह्निभासेव भासिताम् अपश्यं लोहितायन्तीम् प्राचीमरुणशोचिषा ॥ १६.४ कंचिच्चाध्वानमाक्रम्य देशे नातिघनद्रुमे विवादिध्वनिघण्टानाम् पश्यं मण्डलं गवाम् ॥ १६.५ अनुमाय ततस्तेन वसन्तं देशमन्तिके जाताश्वासमतिर्गच्छन् क्षणेनारण्यमत्यजम् ॥ १६.६ तुषारसमयारम्भ भीयेव कमलाकरान् अपश्यं धूसरच्छायान् गच्छन् दिनकरोदये ॥ १६.७ अथालिकुलनीलाग्र विलसत्कुन्दकाननम् आलवालपरिक्षिप्त मूलमुद्यानमासदम् ॥ १६.८ तत्र संमार्जनव्यग्रम् ुद्यानपरिचारकम् पृष्टवानस्मि कस्येदम् ुद्यानमिति सोऽब्रवीत् ॥ १६.९ किं च देवकुमारोऽपि दिव्यज्ञानामलाशयः अस्मदादीनबोधान्धान् संदिहन्निव पृच्छति ॥ १६.१० अथ वा किं न एतेन महात्मनो हि मादृशैः क्रीडन्ति तेन देवेन स्वयं विज्ञायतामिति ॥ १६.११ अथ द्वितीयमुद्यानम् रमणीयतरं ततः प्रविश्यापश्यमुद्यान मन्दिरं तुङ्गतोरणम् ॥ १६.१२ प्रविशामि स्म तत्राहम् ेको दौवारिकश्च माम् अन्तरे वेत्रमाधाय तिष्ठेति द्वार्यधारयत् ॥ १६.१३ अथावोचद्द्वितीयस्तम् धिक्त्वां निर्बुद्धचक्षुषम् निवारयसि यो मोहाद् ेनमम्बरचारिणम् ॥ १६.१४ किं कदाचित्त्वया दृष्टः श्रुतो वा कश्चिदीदृशः एवं वा प्रविशन् धीरम् धरणीधीरधीरिति ॥ १६.१५ तेनोक्तमननुज्ञातम् भर्त्रा नारदमप्यहम् विशन्तं नानुजानामि किं पुनः सौम्यमीदृशम् ॥ १६.१६ अयं तु ध्रियमाणोऽपि दिग्दन्तिगतिधीरतः प्रविशत्येव पारुष्य मात्रसारा हि मादृशाः ॥ १६.१७ अथ निष्कारणोत्कण्ठा करमुद्यानमन्दिरम् प्राविशं निस्वनद्वीनम् विनीताण्डजवानरम् ॥ १६.१८ तत्रासीनं शिलापट्टे चित्रपट्टोपधानके अपश्यममराकारम् नरं नागरकेश्वरम् ॥ १६.१९ उपसृत्य तमाभाष्य भोः साधो सुखमास्यते कच्चिद्वा प्रत्यवेक्ष्यन्ते बहुकृत्वः कला इति ॥ १६.२० वीणाव्यासक्तचित्तत्वात् पश्यति स्म न मामसौ अवक्षिप्तं हि दृश्यानि मनः पश्यति नेक्षणे ॥ १६.२१ मया तु चलिता वीणा गृहीत्वाग्रे यदा तदा वीणातश्चक्षुराक्षिप्य मयि निक्षिप्तवानसौ ॥ १६.२२ ततः संभ्रान्तमुत्थाय स्रंसमानोत्तराम्बरः मामुपावेशयत्प्रीतस्तस्मिन्नेव शिलासने ॥ १६.२३ पादचारपरिश्रान्तम् ङ्गं संवाह्य मामकम् प्रक्षाल्य च स्वयं पादौ दत्तार्घः समुपाविशत् ॥ १६.२४ अनुयुक्तश्च स मया कोऽयं जनपदस्त्वया भूषितः कतमच्चेदम् पुरं सच्चरितैरिति ॥ १६.२५ अथ तेन विहस्योक्तम् संभाव्या नभसा गतिः त्वादृशां देवपुत्राणाम् ज्ञानं तु न युज्यते ॥ १६.२६ यो हि देशान्तरं याति मुग्धोऽपि धरणीचरः अग्रतो भावितं देशम् नाबुद्ध्वा संप्रपद्यते ॥ १६.२७ देशश्चन्द्रप्रकाशोऽयम् चन्द्रिकाप्रकटा पुरी न ज्ञाता पथिकेनेति दुःश्लिष्टमिव दृश्यते ॥ १६.२८ तेनामरकुमारस्त्वम् वतीर्णो विहायसः अज्ञानच्छद्मना छन्नः क्रीडितुं मद्विधैरिति ॥ १६.२९ अथाहं चिन्तयित्वेदम् ुत्तराभासमुक्तवान् द्विजोऽहं वत्सविषये वसतः पितरौ मम ॥ १६.३० सोऽहं कर्णसुखाचारः कदाचिन्मन्त्रवादिनाम् श्रुत्वा दारैरसंतुष्टो यक्षीं कांचिदसाधयम् ॥ १६.३१ सा चाहं च ततः प्रीतौ शैले शैले वने वने यद्वा यद्रुचितं तस्यै तत्र तत्रारमावहि ॥ १६.३२ चिन्तितं च मया रात्रौ न मे यक्ष्या प्रयोजनम् पातालमन्त्रमाराध्य रमयाम्यसुरीमिति ॥ १६.३३ अथेर्ष्यादूषितधिया तयाहं यक्षकन्यया आनीय नभसा न्यस्तः पुरेऽस्मिन् भवतामिति ॥ १६.३४ तेनोक्तं न न संभाव्या यक्षरक्षःसु चण्डता पश्चात्तापगृहीता तु न सा युस्ंान् विमोक्ष्यति ॥ १६.३५ कोऽयं जनपदः स्यात्का पुरीति च यदुच्यते अङ्गा जनपदः स्फीतश् चम्पा चेयं महापुरी ॥ १६.३६ अहं च दत्तको नाम वणिक्पौरपुरस्कृतः प्रसिद्धः प्रियवीणत्वाद् वीणादत्तकनामकः ॥ १६.३७ अथाहूयाब्रवीदेकम् स कर्णे परिचारकम् गाढं परिकरं बध्नन् धावमानः स चागमत् ॥ १६.३८ क्षणेन च परावृत्य श्वसितस्पन्दितोदरः स्वामिप्रवहणं प्राप्तम् िति दत्तकमब्रवीत् ॥ १६.३९ अथावतार्य मुदितः स्वाङ्गुलेरङ्गुलीयकम् दत्तवान् दत्तकस्तस्मै शीघ्रप्रेषणकारिणे ॥ १६.४० कृताञ्जलिरथोवाच यक्षीकामुक धाव्यताम् पावनैर्दासभवनम् पादनिक्षेपणैरिति ॥ १६.४१ अथारुह्य प्रवहणम् वीणादत्तकवाहकम् गृहीतचारुसंचारम् चम्पामभिमुखोऽगमम् ॥ १६.४२ शृणोमि स्म च पौराणाम् जल्पतामितरेतरम् चिरंजीवद्भिराश्चर्यम् पृथिव्यां किं न दृश्यते ॥ १६.४३ क्व नागरकसेनानीर् दत्तकस्तुङ्गमस्तकः क्व च कस्यापि पान्थस्य रज्जुभागे व्यवस्थितः ॥ १६.४४ अथापरेण तत्रोक्तम् त एवायुमत्तमः येन लोकोत्तमस्यास्य रज्जुभागे व्यवस्थितः ॥ १६.४५ आकारानुमितं चैतद् गुणसंभारभारिणः ननु चास्य वसन्तोऽपि सारथ्येन विकथ्यते ॥ १६.४६ दृष्टवान् परितश्चाहम् क्वचिदुत्सृष्टलाङ्गलान् हालिकान् हलमूलेषु वीणावादनतत्परान् ॥ १६.४७ क्वचिदुद्दामगोवर्गम् वटे गोपालमण्डलम् वितन्त्रीस्ताडयद्वीणाः कर्णशूलप्रदायिनीः ॥ १६.४८ आसन्नश्च पुरद्वारम् विक्रयाय प्रसारिताम् वीणावयवसंपूर्णाम् पश्यं शकटावलीम् ॥ १६.४९ विजर्जरितकर्णश्च वितन्त्रीध्वनिमुद्गरैः व्यस्तपद्मनिधानाभम् प्राप्नोमि स्म वणिक्पथम् ॥ १६.५० कुङ्कुमं क्रेतुमायातः कश्चिद्वाणिजमब्रवीत् वीणाविक्षिप्तचेतस्को वीणा मे दीयतामिति ॥ १६.५१ चिरादाकर्ण्य तद्वाक्यम् कुपितः स तमब्रवीत् वणिजोऽन्ये किमुत्सन्ना येन खादसि मामिति ॥ १६.५२ एवं वर्धकिकर्मार कुलालवरुडादयः निकृष्टजन्मकर्माणः सक्ता वीणामवादयन् ॥ १६.५३ अथ प्रायं चिरं द्वारम् वीणादत्तकवेश्मनः शातकुम्भमयैः कुम्भैर् म्भोगर्भैः समङ्गलम् ॥ १६.५४ तत्र यानादवप्रुत्य प्राविशं गृहमृद्धिमत् उत्थास्नुरिव मेधावी विशालं हृदयं श्रियः ॥ १६.५५ दत्तकस्तु पुरोऽस्माकम् दासीदासमभाषत अद्यारभ्यास्य युष्माभिर् ाज्ञा संपाद्यतामिति ॥ १६.५६ अथ व्यज्ञापयन् प्रह्वाः सूपकाराः समेत्य माम् आज्ञापयत युष्मकाम् कः पाकः साध्यतामिति ॥ १६.५७ मम त्वासीन्मया तावद् ब्राह्मणत्वं प्रकाशितम् ब्राह्मणाश्च घृतक्षीर गुडादिमधुरप्रियाः ॥ १६.५८ तदिदं युक्तमित्येतच् चिन्तयित्वेदमुक्तवान् ननु हस्तपुटग्राह्यम् पायसं साध्यतामिति ॥ १६.५९ अथ हस्तं विधूयोक्तम् सूपकारेण गच्छता अन्नसंस्कारशास्त्रज्ञाः कां दिशं यान्तु संप्रति ॥ १६.६० भीमसेनादिभिर्यानि सूदशास्त्राणि चक्रिरे कर्मकर्योऽपि तान्यस्मिन् गृहे प्रायेण जानते ॥ १६.६१ यक्षीकामुकमासाद्य प्रभुं भोजनकोविदम् अनर्थकानि जातानि चरितार्थानि पायसे ॥ १६.६२ अहो नागरकः स्वामी स्वयं प्रवहणेन यः आलेख्ययक्षमादाय यक्षीकामुकमागतः ॥ १६.६३ सर्वथा धिगकार्यज्ञम् ैश्वर्यजनितं मदम् गमितः प्रेष्यतां येन मादृशोऽपीदृशामिति ॥ १६.६४ अथ मर्दनशास्त्रज्ञस्तरुणः परिचारकः ममाङ्गं गन्धतैलेन मृद्नाति स्म यथासुखम् ॥ १६.६५ पश्चादुद्वर्तनं स्नानम् हताम्बरधारणम् कृत्वा देवप्रणामं च प्रायं भोजनमण्डपम् ॥ १६.६६ तत्र भोजनभूमिष्ठम् मां नमस्कृत्य दत्तकः सभ्रातृभागिनेयादि पङ्क्तिमध्यए उपाविशत् ॥ १६.६७ कुलालचक्रपात्री च पात्री मम हिरण्मयी पायसेनेन्दुवर्णेन सूपकारेण पूरिता ॥ १६.६८ पार्श्वे पायसपात्र्याश्च तेजस्विमणिभाजने महासारमुसारस्थे स्थापिते मधुसर्पिषी ॥ १६.६९ चिन्तितं च मया जातो महानयमुपद्रवः मधुमांसोचितः क्वाहम् क्व चेदं घृतपायसम् ॥ १६.७० केन नाम प्रकारेण त्यजेयमिदमित्यहम् विचार्य पायसग्रासम् दग्धोऽस्मीति निरस्तवान् ॥ १६.७१ तेषां संप्रत्ययार्थं च हरन् दाहरुजं किल शीतपानीयगण्डूषैर् मुखं मुहुरशीतयम् ॥ १६.७२ बल्लवस्तु पुरः स्थित्वा वीणादत्तकमुक्तवान् नायं विप्रः कथं विप्रः प्रद्विष्याद्घृतपायसम् ॥ १६.७३ आचष्ट मर्दकश्चेदम् ासवामोदवासितः निश्वासोऽस्य मया घ्रातः शनकैर्निश्चरन्निति ॥ १६.७४ दत्तकोऽपि कराग्रेण पिधाय मुखमात्मनः कम्पयित्वोत्तमाङ्गं च तं ब्रुवन्तं न्यवारयत् ॥ १६.७५ अब्रवीच्च पयःपानम् यूयं पिबत पानकम् पानकस्यापि पानेन गोष्ठी संमान्यतामिति ॥ १६.७६ मया तु जाततर्षेण पाने परिणतिं गते तत्पीतं पानसादृश्यात् पानबुद्ध्यैव पानकम् ॥ १६.७७ खण्डमांसप्रकाराद्यम् नानाधिष्ठानसंकुलम् सेवित्वाहारमग्राम्यम् ुदतिष्ठं सदत्तकः ॥ १६.७८ संमृष्टभोजनस्थाने पुष्पच्छुरितकुट्टिमे कान्तमध्यासि पर्यङ्कम् न्यस्तं तत्रैव मण्डपे ॥ १६.७९ कर्पूरत्रिफलानाभि लवङ्गैलासुगन्धिना मुखस्य गन्धरागौ च ताम्बुलेनोदपादयम् ॥ १६.८० एवं च सुखमासीनो वीणादत्तकमब्रवम् वीनोन्मत्तिरियं कस्माच् चम्पायां कथ्यतामिति ॥ १६.८१ तेनोक्तमिह चम्पायाम् सानुदासो वणिक्पतिः तस्य गन्धर्वदत्तेति सुता त्रैलोक्यसुन्दरी ॥ १६.८२ स च तां ध्रियमाणोऽपि वरैर्वरगुणाकरैः अभिप्रायेण केनापि न कस्मैचित्प्रयच्छति ॥ १६.८३ प्रत्याख्यातुमशक्तेन याचितेन क्षणे क्षणे तेन शुल्कमुपन्यस्तम् दुःसंपादं सुरैरपि ॥ १६.८४ अपूर्वं किल गायन्त्यास्तस्याः किमपि गीतकम् योऽनुवादयिता वीणाम् परिणेता स तामिति ॥ १६.८५ मयेयं परिणेतव्या मयेयमिति निस्त्रपः न कश्चिद्यो न चम्पायाम् वीणयोन्मत्तकः किल ॥ १६.८६ पुरो नागरकाणां च चतुःषष्टेस्तदर्थिनाम् षष्ठे षष्ठे गते मासे सा तद्गायति गीतकम् ॥ १६.८७ अनेन च प्रकारेण यातः कालो महानयम् न चापि वीणया कश्चिद् नुगच्छति तामिति ॥ १६.८८ एतत्कथावसाने च पुरुषौ श्रोत्रियाकृती वीणादत्तकमब्रूताम् स्थविरौ वेत्रधारिणौ ॥ १६.८९ श्रेष्ठिना प्रेषितावावाम् संदेशेन त्वदन्तिकम् यदि सज्जा सुहृद्गोष्ठी समस्या क्रियतामिति ॥ १६.९० तेनोक्तं सुहृदः सज्जा यदि वः सुस्थिता गृहाः कल्या गन्धर्वदत्ता वा स्व एव क्रियतामिति ॥ १६.९१ ततस्तं पृष्टवानस्मि महोत्साहेन चेतसा रूपं गन्धर्वदत्ताया कीदृगित्यथ सोऽब्रवीत् ॥ १६.९२ तस्याः स्वकान्तिपरिवेषपटापिधानम् नेत्रप्रभाप्रकरसारितहर्म्यगर्भम् उत्कृष्टविस्मयविमोहितमानसेन रूपं निरूपयितुमेव मया न शक्यम् ॥ १६.९३ अथ गन्धर्वदत्तायास्तां गुणाकारसंपदम् समाकर्ण्यैव कर्णाभ्याम् मनो नीतं विधेयताम् ॥ १७.१ पृच्छामि स्म च भूयस्तम् पि शक्या भवेन्मया द्रष्टुं गन्धर्वदत्तेति तेन चोक्तं न शक्यते ॥ १७.२ अगान्धर्वेण सा द्रष्टुम् देवेनापि न शक्यते यदि चेच्छथ तां द्रष्टुम् गान्धर्वं शिक्ष्यतामिति ॥ १७.३ मयोक्तं नारदीयेऽपि निवृत्ते किल लभ्यते गान्धर्वशब्दस्तत्तस्माद् स्माकं कार्यतामिति ॥ १७.४ ततो व्याहरितस्तेन वीणाचार्यः खरस्वरः नष्टश्रुतिस्वरज्ञानो भूतिको नाम दुर्भगः ॥ १७.५ आसीच्च मम तं दृष्ट्वा विकृतं नरवानरम् अलं मे नारदीयेन कृतं गन्धर्वदत्तया ॥ १७.६ ईदृशः शिष्यतां गत्वा राज्यलाभोऽपि गर्हति अन्यायागतमैश्वर्यम् निन्दन्त्येव हि साधवः ॥ १७.७ अभ्युत्थानाभिवादाभ्याम् तं वीणादत्तकादयः अपूजयन्मया चासौ न द्रष्टुमपि पारितः ॥ १७.८ अथ रुष्टकटाक्षेण लोहिताक्षः स वीक्ष्य माम् वीणादत्तकदत्तायाम् पीठिकायामुपाविशत् ॥ १७.९ अब्रवीद्दत्तकस्तं च यक्षीभर्तुर्द्विजन्मनः भवानस्योपपन्नस्य नारदीयं करोत्विति ॥ १७.१० तेनोक्तं साभिमानत्वाद् यं मामवमन्यते न च पारयते दातुम् दारिद्र्यात्काकणीमपि ॥ १७.११ गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा न चास्मिन्नेकमप्यस्ति यद्यस्ति प्रतिपद्यताम् ॥ १७.१२ दत्तकेनोक्तमाचार्य विरूपं मन्त्रितं त्वया को यक्षीकामुकं शक्तो दरिद्रमिति जल्पितुम् ॥ १७.१३ यस्य दासः सदासोऽहम् त्वं जानास्येव मादृशः स यक्षीकामुकः कस्माद् दरिद्र इति भण्यते ॥ १७.१४ सुवर्णानां शतं वापि गृह्यतां त्वाद्.शोचितम् पतिते द्रोणमेघोऽपि न तिष्ठति जलं स्थले ॥ १७.१५ नारदादिपरीवाराम् स चाभ्यर्च्य सरस्वतीम् दुर्व्यवस्थिततन्त्रीकाम् वीणां मह्यमुपानयत् ॥ १७.१६ मया तु सा विपर्यक्स्था स्थापिताङ्के यदा तदा भूतिको मां धिगित्युक्त्वा वीणादत्तकमुक्तवान् ॥ १७.१७ न यक्षीकामुको मन्दः शक्यः शिक्षयितुं मया वीणाग्रहणमप्येष न जानाति सुखैदितः ॥ १७.१८ न नाम स्वयमेतेन यदि वीणा न वादिता आलेख्यवादकाः केऽपि न दृष्टा नष्टदृष्टिना ॥ १७.१९ इति संतक्ष्य मां वाग्भिर् ातोद्यं परिवर्त्य च स निषादो निषादं मे षड्ज इत्युपदिष्टवान् ॥ १७.२० अथामर्षपरीतेन दृढं ताडयता मया चतस्रः पञ्च वा तन्त्र्यश् छिन्नाश्चडिति विस्वराः ॥ १७.२१ अथोक्तो दत्तकस्तेन तन्त्रीवर्तकसंग्रहम् अकृत्वा किं करोत्यस्य नारदीयं भवानिति ॥ १७.२२ अहं तु विस्मृतच्छद्मा छिन्नतन्त्रीमपि क्षणम् श्रुतिवासितकर्णत्वान् मृदु वीणामवादयम् ॥ १७.२३ अथ विस्फारितैर्नेत्रैर् ुत्कर्णा दत्तकादयः किमेतदिति जल्पन्तो मामैक्षन्त सविस्मयाः ॥ १७.२४ भूतिकस्तु भयक्रोध लज्जाविस्मयनिष्प्रभः काकतालीयमित्युक्त्वा गत एव सदक्षिणः ॥ १७.२५ एवं च दिवसं नित्वा कृतप्रादोषिकाशनः आवसं शयनावासम् मालाघूपाधिवासितम् ॥ १७.२६ हंसपक्षांशुकप्राय कोमलास्तरणास्तृतम् भास्वद्वज्रशिलापादम् ासेवे शयनं ततः ॥ १७.२७ रूपाकृष्टजगन्नेत्रे युवती सारभूषणे रूपाजीवे शनैः पादौ समवाहयतां मम ॥ १७.२८ सहजाहार्यमाधुर्य रमणीयतराक्षरैः वचोभिः किल ते चित्तम् मदीयं हर्तुमैच्छताम् ॥ १७.२९ वेगवत्या विमुक्तं च प्रतिभान्ति स्म तानि माम् रासभीरसितानीव विरसानि स्वकर्णयोः ॥ १७.३० तानि चाश्रोतुकामेन निद्राव्याजः कृतो मया अथ प्रसुप्त एवास्मि निराशे ते च जग्मतुः ॥ १७.३१ अर्धे याते च यामिन्याः श्वासानुमितचेतने दृष्टतत्त्व इवाविद्याम् निद्रामत्यजमुत्कटाम् ॥ १७.३२ चित्रपट्टपिधानायाम् तिष्ठन्त्यां नागदन्तके वीणादत्तकवीणायाम् ततो दृष्टिं न्यपातयम् ॥ १७.३३ मम त्वसीदवश्यं माम् नेता श्वस्तत्र दत्तकः वीणा च वादनीया स्याच् चिरोत्सृष्टा च सा मया ॥ १७.३४ विद्या चाराध्यमानापि दुःखेन परिचीयते भक्त्या मातुः सपत्नीव निसर्गकुटिला हि सा ॥ १७.३५ वीणा संनिहिता चेयम् वेला चेयं निराकुला जिज्ञासे तावदित्येनाम् विचार्याहं गृहीतवान् ॥ १७.३६ उत्कर्षन्नपकर्षंश्च काश्चित्काश्चिन्मनाङ्मनाक् व्यवस्थापयितुं तन्त्रीः करशाखभिरस्पृशम् ॥ १७.३७ अथाशृणवमालापान् स्वस्माद्वासगृहाद्बहिः समुद्रसेन गोदत्त धाव धाव सखे द्रुतम् ॥ १७.३८ वीणादत्तकभद्रस्य गृहेषु कृतकर्मणः सरस्वती भगवती वीणां सारयति स्वयम् ॥ १७.३९ वीणायाः सार्यमाणायाः स्वनस्योदय ईदृशः समाप्तसारणायास्तु कीदृङ्नाम भविष्यति ॥ १७.४० तस्मात्सरस्वतीवीणे दृष्ट्वा श्रुत्वा च संहते नेत्रश्रोत्राणि नो यान्ति पवित्रकरतामिति ॥ १७.४१ अथावलम्ब्यत्तां वीणाम् त्वरया नागदन्तके प्रावृत्य सशिरःपादम् कायं निद्रां किलागमम् ॥ १७.४२ नागरास्तु न्यवर्तन्त जल्पन्तो दीनचेतसः कथं सरस्वती क्षुद्रैर् दृश्यतेऽस्मद्विधैरिति ॥ १७.४३ यापितायां तु यामिन्याम् कृतपूर्वाह्णिकक्रमम् मामनुल्बणवेषं च वन्दित्वा दत्तकोऽब्रवीत् ॥ १७.४४ अमी नागरकाः प्राप्ताश् चित्रयानप्रसाधनाः तद्गन्धर्वसमस्यायै युष्माभिरपि गम्यताम् ॥ १७.४५ आज्ञापयत यानं च करेणुतुरगादिकम् येन वो रोचते गन्तुम् तेन प्रस्थीयतामिति ॥ १७.४६ मयोक्तं गच्छतु भवान् वाहनेन यथासुखम् अहं तु पादचारेण गच्छामि शनकैरिति ॥ १७.४७ अथास्मदनुरोधेन मां पुरोधाय दत्तकः प्रस्थितः पादचारेण सनागरकमण्डलः ॥ १७.४८ अमन्त्रयन्त यान्तश्च क्रुद्धा नागरका मिथः यक्षीकामुकरूपोऽयम् नर्थोऽस्मानुपागतः ॥ १७.४९ वयमस्य प्रसादेन त्यक्तमण्डितवाहनाः आशादीर्घासु रथ्यासु चरणैः संचरामहे ॥ १७.५० मेरोर्द्रोणीरिवाक्रमन् विशिखा विस्तृतायताः अपश्यं वेश्मनां मालास्तस्यैव सिरसामिव ॥ १७.५१ प्रासादेषु च जल्पन्तीर् गवाक्षप्रेरितेक्षणाः कोकिलासुभगालापाः शृणोमि स्म कुलाङ्गनाः ॥ १७.५२ अयि मागधि वैदेहि मलयावति यावनि यक्षीकामुकमायातुम् सख्यः पश्यत धावत ॥ १७.५३ खलया किल यक्ष्यायम् ीर्ष्यामुषितचेतसा आकाशात्पातितः प्राप्तो दत्तकेन सुजन्मना ॥ १७.५४ ध्रुवं सा राक्षसी यक्षी यदि वा मृत्तिकामयी क्रुद्धया मुग्धया वापि यया स्वार्थो न चेतितः ॥ १७.५५ अथ वा सर्वमेवेदम् लीकं प्रतिभाति माम् क्व यक्षीकामिकः क्वायम् कामः कामी रतेरिव ॥ १७.५६ इति निर्दिश्यमानोऽहम् ङ्गुलीभिरितस्ततः नयनोत्पलमालाभिर् र्च्यमानश्च यातवान् ॥ १७.५७ अथ नागरकाः प्रापन् सुधां गृहपतेर्गृहम् अङ्गं गन्धर्वदत्तायास्तेषामिव मनोरथाः ॥ १७.५८ मणिहाटकदन्ताद्यैर् ङ्गैस्तैरेव कल्पितम् स्फुरद्दिव्यप्रभावात्तु न विद्म किंमयैरिति ॥ १७.५९ ततः प्रथमकक्षायाम् पश्यं संनिधापिताम् आसनानां चतुःषष्टिम् महापट्टोर्णवेष्टितम् ॥ १७.६० तेषु नागरकः कश्चित् कांश्चिदाह स्म सस्मितम् अहो महाखलीकारो यक्षीकामुकमागतः ॥ १७.६१ सानुदासाभ्यनुज्ञाताः सुहृदो दत्तकादयः समायाताश्चतुःषष्टिस्तावन्त्येवासनान्यपि ॥ १७.६२ यक्षीकामुकमालोक्य पञ्चषष्टमनासनम् यत्सत्यं लज्जितोऽस्मीति ततश्चोक्तमृजुर्भवान् ॥ १७.६३ आयत्तो दत्तको यस्य सपुत्रपशुबान्धवः तेन गन्धर्वदत्तापि सुलभा किमुतासनम् ॥ १७.६४ पञ्चषष्टमदृष्ट्वा तु निक्षिप्तं तत्र दत्तकः दत्तवान् स्वयमाकृष्य मह्यमात्मीयमासनम् ॥ १७.६५ तेऽपि नागरकाः शेषाः स्थिते तिष्ठति दत्तके तिष्ठन्ति स्म स्थिता एव भृतका इव भर्तरि ॥ १७.६६ अथान्यदासनं दत्तम् दत्तकायोज्ज्वलप्रभम् स तदध्यास्त शेषाश्च यथासनमुपाविशन् ॥ १७.६७ ततस्त्रिंशच्छतं तस्माद् गणिकानां विनिर्गतम् गृहादसुरकन्यानाम् महासुरपुरादिव ॥ १७.६८ आत्तशृङ्गारभृङ्गारा काचिदावर्जयज्जलम् तासां प्रत्येकमेकैका तेषां पादानधावत ॥ १७.६९ मदीयस्तु यया पादः पाणिभ्यामवलम्बितः तया स्वेदजलेनैव धौतः श्लथशरीरया ॥ १७.७० आवर्जितवती या च जलं लुलितलोचना विस्रस्तहस्तया हस्ताद् भृङ्गारः पातितस्तया ॥ १७.७१ प्रविशन् धौतपादश्च शृणोमि स्म प्रजल्पिताः प्रांशुप्राकारगर्भस्थाः श्रुतिहारिगिरः स्त्रियः ॥ १७.७२ अनर्थोऽयमुपन्यस्तः सानुदासेन दारुणः शुल्कं गन्धर्वदत्ताया वीणावादननामकम् ॥ १७.७३ यदि रूपमुपन्यस्येच् छुल्कं गृहपतिस्ततः न यक्षीकामुकादन्यम् प्राप्नुयाद्भर्तृदारिका ॥ १७.७४ वीनायां तु प्रयुक्तायाम् भग्नोऽयं नो मनोरथः ह्यो यस्माद्भूतिकेनास्य नारदीयं कृतं किल ॥ १७.७५ इदं तावन्महद्दुःखम् यद्यक्षीकामुकोऽनया अयं नासुलभीभूतः शुल्कदोषान्न लभ्यते ॥ १७.७६ इदं तु दुःसहतरम् यदिमां बकुलावलीम् अनात्मज्ञो बलात्कोऽपि गले तां लम्बयिष्यति ॥ १७.७७ वीणावादनशुल्केयम् साभियोगाश्च नागराः प्रजापतिश्च दुर्लग्नः सर्वथा शिवमस्त्विति ॥ १७.७८ अथ निष्कम्पकालिन्दी सलिलस्वच्छकुट्टिमाम् ज्वलन्मणिशिलास्तम्भाम् विशालां प्राविशं सभाम् ॥ १७.७९ सभा नागरकैः साभाद् भिन्नप्रभविभूषणैः उपत्यकास्थली मेरोः फुल्लैः कल्पद्रुमैरिव ॥ १७.८० अथ हंस इवोत्सार्य नलिनीदलमण्डलम् निर्गतः कञ्चुकी प्रेर्य तिरस्करिणिकाम्बरम् ॥ १७.८१ स नागरकसंघातम् वोचद्विनयानतः विज्ञापयति वः श्रेष्ठी स्वागतं गुणरागिणाम् ॥ १७.८२ भवद्भिर्वर्णसंपन्नैर् न्तःसारैरिदं गृहम् शातकुम्भमयैः पूतम् गङ्गाम्भःकलशैरिव ॥ १७.८३ यदि सर्वे समायाता यातो वागमनश्रमः ततो गन्धर्वदत्तायै निर्देशो दीयतामिति ॥ १७.८४ ते परस्परमालोक्य विद्राणवदनप्रभाः ह्रीताः सदिशमाकाशम् पश्यन् प्रोषितोत्तराः ॥ १७.८५ ततः कन्?चुकिना वक्त्रम् क्षणाद्दीनतया कृतम् समरे कातरस्येव सन्नचक्षुःकपोलकम् ॥ १७.८६ प्रत्येकं च मुखान्येषाम् वलोक्य चिरं चिरम् स यदा यातुमारब्धस्तदाहूय मयोदितः ॥ १७.८७ समाप्तप्रतिकर्मा वा कल्या वा यदि सा ततः आगच्छतु किमद्यापि दृष्टैर्नागरकैरिति ॥ १७.८८ एतावतैव दत्तस्य तत्तादृग्म्लानमाननम् जातमुच्छ्वसितं स्विन्न कपोलस्थलपीवरम् ॥ १७.८९ अलपत्सानुदासस्य प्रीतः परिजनस्ततः यक्षीकामुक वन्द्योऽसि सर्वथा शोभितं त्वया ॥ १७.९० वाङ्मात्रेणापि भवतश् चिरादुच्छ्वसिता वयम् अवग्रहे हि जीमूतो विस्फूर्जन्नपि शोभते ॥ १७.९१ तदेवं यादृशं रूपम् यादृशी चातिधीरता तादृशं यदि विज्ञानम् भवेत्किं न भवेदिति ॥ १७.९२ एको नागरकश्चैकम् वोचद्दर्शितस्मितः उद्दामितमुखा लोके सुखं जीवन्ति निस्त्रपाः ॥ १७.९३ को हि वेदजडं मुक्त्वा छान्दसं छात्त्रमत्रपम् मध्ये महामनुष्याणाम् ेवमुद्दामयेन्मुखम् ॥ १७.९४ यक्षीकामुकशब्दोऽपि शब्द एवास्य केवलम् क्व च प्रियगुणा यक्षी गुण ऋद्धिः क्व चेदृशः ॥ १७.९५ यत्किंचिदपि बालानाम् चेतस्तोषाय कल्पते उत्कटेन हि नाम्नापि प्रायस्तुष्यन्ति डिण्डिकाः ॥ १७.९६ श्रुत्वेदमितरेणोक्तम् मा स्म निन्दद्भवानिमम् को जानाति मनुष्याणाम् चरितं गूढचारिणाम् ॥ १७.९७ यक्षीकान्तः प्रकृष्टेन धार्ष्ट्येनाज्ञापयन्नपि यथा परिचितश्रीकस्तथा मां प्रति शोभते ॥ १७.९८ ततो जवनिकां प्रेर्य कन्या कञ्चुकिभिर्वृता देवी गन्धर्वदत्तागाद् भिभूतसभाप्रभा ॥ १७.९९ कथयामि कथं रूपम् तस्याः संक्षिप्तमुच्यते प्रव्रज्यामास्थिता नूनम् िदानीमप्सरोगणाः ॥ १७.१०० कल्पितं च सभामध्ये पद्मरागशिलामयम् चन्द्रलेखेव संध्याभ्रम् ध्यास्त चतुरन्तकम् ॥ १७.१०१ तेजसोऽभिभवात्तस्याः संकुचन्ति स्म नागराः बालायाः शशिलेखायाः पुण्डरीकाकरा इव ॥ १७.१०२ साथ प्रज्ञावचःशून्याम् रूपमात्रकशालिनीम् परिभूतवती गोष्ठीम् सभास्तम्भावलीमिव ॥ १७.१०३ अथ दक्षिणमुत्क्षिप्य करं कञ्चुकिनोदितम् श्रूयतां श्रेष्ठिनो वाक्यम् भो नागरककुञ्जराः ॥ १७.१०४ आस्ते गन्धर्वदत्तेयम् ियं वीणा च सारिता यो वो वादयितुं शक्तः स किं तिष्ठति ढौकताम् ॥ १७.१०५ अशेषैर्न च कर्तव्या परिपाटिरपार्थिका सा हि युष्माकमस्याश्च लज्जाखेदप्रयोजना ॥ १७.१०६ ततः स्वयं भवद्भिश्च यस्मिन् वो भावनाहिता युष्मानात्मानमेतां च स क्लेशान्मोचयत्विति ॥ १७.१०७ अथ नागरकाः सर्वे वीणादत्तकमब्रुवन् त्वं नः पूज्यः प्रवीणश्च तस्मादुत्थीयतामिति ॥ १७.१०८ स यदा कम्पितशिरा नेच्छति स्म तदापरः संभाविततमस्तेषाम् गत्वा वीणामवादयत् ॥ १७.१०९ तस्मिन् दोषैरसंकीर्णान् गुणान्मधुरतोत्तरान् संपादयति शब्दोऽभूद् ुच्चकैः साधु साध्विति ॥ १७.११० ततो गन्धर्वदत्तायाम् प्रगीतायामभून्मम अरे ज्ञातं मयेदानीम् तेनैवामी वृथाश्रमाः ॥ १७.१११ पुरा वामनरूपेण बलिं छलयता किल त्रिपिष्टपं त्रिभिः क्रान्तम् विक्रमैश्चक्रपाणिना ॥ १७.११२ तं च विश्वावसुर्नाम गन्धर्वगणसेवितः क्रामन्तं गगनं वेगात् त्रिश्चकार प्रदक्षिणम् ॥ १७.११३ तेन च स्वयमुत्पाद्य स्तुवता गरुडध्वजम् नारायणस्तुतिं नाम गीतं गीतकमद्भुतम् ॥ १७.११४ नारदेन ततः प्राप्तम् नारदाद्वृत्रशत्रुणा अर्जुनेन ततस्तस्माद् विराटसुतया किल ॥ १७.११५ परीक्षित्प्राप्नुयान्मातुस्ततोऽपि जनमेजयः इति क्रमागतं तातस्तातादागमितं मया ॥ १७.११६ गान्धारग्रामसंबद्धम् क्व गान्धारः क्व मानुषाः स्वर्गान्नान्यत्र गान्धार ित्याहुर्नारदादयः ॥ १७.११७ तेन योऽयं न जानाति न चेदभ्युपगच्छति तदसंपादयन्नेव जायते दोषवानसौ ॥ १७.११८ अहं पुनरिदं जानन् सद्यः परिणमत्फलम् पुरो नागरकाणां च यथासामर्थ्यमुत्सहे ॥ १७.११९ मयि संकल्पयत्येवम् सौ नागरकर्षभः स्मयमानो विलक्ष्यत्वात् स्वमेवाभजतासनम् ॥ १७.१२० ततः प्रतिहते तस्मिन् सुहृद्मण्डलमण्डने रङ्गो भङ्गमगृह्णात्स निगृह्यज्येष्ठमल्लवत् ॥ १७.१२१ अथ मां जनितोत्साहम् ुत्तिष्ठासन्तमासनात् दृष्ट्वा संभाविताज्ञानम् लज्जयाग्राहि दत्तकः ॥ १७.१२२ अन्येन च निमित्तेन चलितोऽहं किलासनात् तेनोक्तं संकटास्थानाद् न्यत्र स्थीयतामिति ॥ १७.१२३ ततस्तमुक्तवानस्मि किमिदं न त्वया श्रुतम् पथा सकृत्प्रवृत्तायाः किं करोत्यवगुण्ठनम् ॥ १७.१२४ प्रविष्टोऽहं सुहृद्गोष्ठीम् यथैव बटुचापलात् तथा गन्धर्वदत्तापि धृष्तमाज्ञापिता मया ॥ १७.१२५ तदस्या बटुविद्यायाः प्रान्तमप्राप्य मादृशः हा कष्टं वञ्चितोऽस्मीति पश्चात्तापेन खेद्यते ॥ १७.१२६ यत्र चामी न लज्जन्ते सलज्जाः सुहृदस्तव तत्र निर्लज्जताश्लाघी लज्जयैव हि लज्जते ॥ १७.१२७ समर्थयति मय्येवम् दत्तकोऽपि निरुत्तरः अहो साहसमित्युक्त्वा तूष्णींभावमुपेयिवान् ॥ १७.१२८ अहमप्यासनं त्यक्त्वा तिर्यक्पश्यति दत्तके पार्श्वे गन्धर्वदत्ताया दत्तमासनमास्थितः ॥ १७.१२९ अथ कञ्चुकिनानीताम् वीणां दृष्ट्वाहमुक्तवान् अपरानीयतामार्य नैतां स्पृशति मादृशः ॥ १७.१३० उदरं दृष्टमेतस्या लूतातन्तुनिरन्तरम् जडतां गमिता येन पटुतन्त्रीपरंपरा ॥ १७.१३१ स्मितदर्शितदन्ताग्रैर् न्यतः क्षिप्तदृष्टिभिः मामालोक्य तथाभूतम् ुक्तं नागरकैरिति ॥ १७.१३२ ब्राह्मणः पूज्यतामेष निर्लज्जाग्रपताकया येन साहसमारब्धम् स्वगुणाख्यापनोपमम् ॥ १७.१३३ तन्त्रीकिणकठोराग्रा विशीर्णकरजातताः करशाखाश्च नो जाता न च संभावनेदृशी ॥ १७.१३४ अयं तु कोमलाग्रभिस्तन्त्रीरङ्गुलिभिः स्पृशन् कदा वादयिता वीणाम् वेदवेदाङ्गपारगः ॥ १७.१३५ सर्वथायमभिप्रायो मयैतस्योपलक्षितः प्रीतिमुत्पादयिष्यामि तावल्लोचनयोरिति ॥ १७.१३६ यावदुत्सार्यते वीणा यावच्चानीयतेऽपरा तावद्गन्धर्वदत्ताया रूपं पश्याम्यवारितः ॥ १७.१३७ रथ्याचत्वरयात्रासु वक्ष्यामि जनसंनिधौ ईदृशी तादृसी दृष्टा रूपिणी युवतिर्मया ॥ १७.१३८ लूतातन्तुततं चायम् वीणाकर्परमाह यत् किं तत्सत्यं मृषेत्येतद् देवैर्विज्ञायतामिति ॥ १७.१३९ उद्वेष्टिते च तत्तस्मिन् दृष्टं वेष्टनचर्मणि तन्तुचक्रं भयोद्भ्रान्त लूतामण्डलसंकुलम् ॥ १७.१४० अथ गन्धर्वदत्ताया जातमङ्गं निरीक्ष्य माम् वेपथुस्वेदरोमाञ्च लज्जाविधुरमाकुलम् ॥ १७.१४१ अपरापि मया वीणा समास्फाल्य पटुक्वणा केशदूषिततन्त्रीका प्रथमेव विवर्जिता ॥ १७.१४२ सानुदासस्ततो वीणाम् सुगन्धिकुसुमार्चिताम् कच्छपाकारफलकाम् ादाय स्वयमागतः ॥ १७.१४३ मां च प्रदक्षिणीकृत्य सविकारतनूरुहः गन्धर्वदत्तामिव ताम् ददात्सुभगस्वनाम् ॥ १७.१४४ मया तु धौतपादेन वीणां कृत्वा प्रदक्षिणाम् अभुक्ताम्बरसंवीतम् पीठपृष्ठमधिष्ठितम् ॥ १७.१४५ मनाक्संस्पृष्टमात्राश्च करशाखामुखैः स्वयम् तन्त्रीबन्धा यथास्थानम् सरन् धैवतादिकम् ॥ १७.१४६ ततस्तन्त्रीषु गान्धारे जृम्भमानासु मन्थरम् गन्धर्वदत्तामवदम् भीरु संगीयतामिति ॥ १७.१४७ सा प्रगल्भापि गान्धारम् ाकर्ण्यामरगोचरम् तथा च धृष्टमादिष्टा बालाशालीनतां गता ॥ १७.१४८ तां च प्रवर्तयन् भीताम् त्रपाजनितमूकताम् तदेव गीतकं दिव्यम् हं मन्दमवादयम् ॥ १७.१४९ हृते तस्यास्त्रपासेनौ संदर्शितपथा यथा लोकं पावयितुं पुण्या प्रावर्तत सरस्वती ॥ १७.१५० वृत्तिभिर्दक्षिणाद्याभिस्तद्गीतं गीतकं तया उपर्युपरि पाण्यन्तैः पाणिभिर्योजितं मया ॥ १७.१५१ आसीदिदं तमोभूतम् प्रज्ञातमलक्षणम् तद्गीतमात्रविषय श्रोत्रमात्रजगद्तदा ॥ १७.१५२ सभायां गाढमूर्च्छायाम् मृदु तद्गीतवादिनम् पटुभिर्दुन्दुभिध्वानैर् भिभूतं विमानिनाम् ॥ १७.१५३ पतितासु सरत्नासु दिवः कुसुमवृष्टिषु कञ्चुकी चेतनाप्राप्तान् भाषत सभासदः ॥ १७.१५४ भो भो निर्मत्सराः सन्तः सत्यमाख्यात साधवः गीतं यदनयानेन किं तत्संवादितं न हि ॥ १७.१५५ अथोद्यमितहस्तैस्तैः समस्तैरुक्तमुच्चकैः धर्म्यशुल्कार्जितामेष कन्यकां लभतामिति ॥ १७.१५६ तिरस्करिणिकां नीत्वा ततः कञ्चुकिनान्तरा बहिष्कृता नागरका नास्तिकास्त्रिदिवादिव ॥ १७.१५७ निर्गच्छन्ति हतच्छायास्ते खण्डितमनोरथाः स्वभ्यस्तगुणवैफल्यम् गुणिनः कान्न तापयेत् ॥ १७.१५८ सवीणादत्तकोऽहं तु श्रेष्ठिनाभ्यन्तरीकृतः परीक्ष्य बहुशो राज्ञा सचिवो गुणवानिव ॥ १७.१५९ अभाषत च निर्गच्छंस्तेषु नागरकर्षभः यक्षीकामुक देवस्त्वम् मानुषपराक्रमः ॥ १७.१६० वयं गन्धर्वदत्ता च सानुदासश्च सानुगः कृच्छ्रामापदमापन्ना लीलयैव त्वयोद्धृताः ॥ १७.१६१ काश्मर्यः खदिराः शाकाश् चम्पकाश्च सवेणवः आतोद्याङ्गार्थमुत्खाताः प्ररोहन्तु यथा पुरा ॥ १७.१६२ अग्निहोत्राणि हूयन्ताम् द्विजाः संध्यामुपासताम् कुमार्यः परिणीयन्ताम् प्रसूयन्तां कुलस्त्रियः ॥ १७.१६३ परिव्राजकनिर्ग्रन्थ भिक्षुपाशुपतादयः गुरुवक्त्राभिसंक्रान्तान् स्वसिद्धान्तानधीयताम् ॥ १७.१६४ शान्तवीनोपसर्गत्वात् सकीरनगराः सुखम् सचम्पामगधाश्चाङ्गाः स्वस्थाङ्गाः शेरतामिति ॥ १७.१६५ ततो गृहपतिर्दीनः प्रार्थनाभङ्गशङ्कया वीणादत्तकमालोक्य प्रावोचन्नीचकैस्तराम् ॥ १७.१६६ प्रशस्तं दिनमद्यैवम् तेनायं पौरुषार्जितः श्लाघ्यो गन्धर्वदत्तायाः करः संस्क्रीयतामिति ॥ १७.१६७ अहं तु साभिलाषोऽपि दर्शितालीकधीरतः अवोचं स्मितसंकीर्णाम् नास्थामन्थरां गिरम् ॥ १७.१६८ द्विजोऽहं मेरुकैलास तुल्यामलकुलोद्भवः परिणेतुं न मे युक्तम् सवर्णामिमामिति ॥ १७.१६९ अथोक्तं सानुदासेन विश्रब्धं परिणीयताम् युष्माकं हि सवर्णेयम् ुत्कृष्टा वा भवेदिति ॥ १७.१७० आसीच्च मम किं मत्तः किमुन्मत्तः किमार्जवः अयं यस्मादसंबद्धम् बुद्धिरिव भाषते ॥ १७.१७१ अहं चेयं च यद्यस्य ब्राह्मणाविति निश्चयः ततो मत्कथमुत्कृष्टा ब्राह्मणी ब्राह्मणादियम् ॥ १७.१७२ अथ इमां ब्राह्मणीमेष मन्यते क्षत्रियं तु माम् तथा सति कथाप्येषा क्रियमाणा विरुध्यते ॥ १७.१७३ किं तु संभाव्यते नायम् संबद्धं प्रभाषितुम् येन धर्मार्थशास्त्रार्थ क्षुण्णधीरिव भाषते ॥ १७.१७४ अग्रजोऽवरजां भार्याम् स्वीकुर्वन्न प्रदुष्यति ते च स्वा चैव नृपतेर् ित्युक्तं मनुना यतः ॥ १७.१७५ प्रत्याख्यानं च नितराम् ियं नार्हति निन्दितम् यस्मादखण्डिताज्ञेन दापिता गुरुणैव मे ॥ १७.१७६ यदहं ग्राहितस्तेन विज्ञानमतिमानुषम् दापिता येन तेनैव तेन तेनैव दापिता ॥ १७.१७७ न चावश्यपरिग्राह्या कुमारी चिरमर्हति साभिलाषा विशेषेण प्रत्याख्यानकदर्थनाम् ॥ १७.१७८ तस्मादलं ममानेन निर्बन्धेनेति निश्चितम् अर्थितां सानुदासस्य तथेति सममानयम् ॥ १७.१७९ अथ वैश्रवणस्येव सूनोराखण्डलात्मजः करं गन्धर्वदत्तायाः ससंस्कारमुपाददे ॥ १७.१८० मन्दं पादतलेन तालमनया यत्कुट्टयन्त्याचिरम् गीतं मामभि विस्फुरत्कुहरितं तारैः सुभुग्नभ्रुवा तेनैव प्रतनूकृतामपहरन्नस्याः क्रमेण त्रपाम् निर्वाणान्महतान्तरेण सुभगं संसारमज्ञासिषम् ॥ १७.१८१ गन्धर्वदत्तया सार्धम् दिवसान् दत्तकेन च यथा रतिवसन्ताभ्याम् स्मरः सुखमयापयम् ॥ १८.१ अथ गन्धर्वदत्तायाम् गतायां वन्दितुं गुरून् सानुदासो नमस्कृत्य वदति स्म कृतासनः ॥ १८.२ युष्माकं हि सवर्णेयम् ुत्कृष्ता वेति यन्मया यूयं विज्ञापिताः पूर्वम् तदेतदवधीयताम् ॥ १८.३ आसीदिहैव चम्पायाम् मित्रवर्मेति वाणिजः नामित्रो नापि मध्यस्थः साधोर्यस्याभवद्भुवि ॥ १८.४ तस्य मित्रवती नाम नाम्ना सुसदृशी प्रिया भार्या मैत्रीव साधोर्या शत्रोरपि हितैषिणी ॥ १८.५ तयोर्गुणवतोः पुत्रम् गुणवन्तमविन्दतोः अपुत्रानात्मनः पौराः सपुत्रानपि मेनिरे ॥ १८.६ एकदा पिण्डपाताय सानुर्नाम दिगम्बरः त्रिरात्रक्षपणक्षमो वर्धमान इवागतः ॥ १८.७ दंपतिभ्यामसौ ताभ्याम् क्रीताभ्यां प्रीणितस्तथा अपृष्टोऽपि यथाचष्ट धर्मानृषभभाषितान् ॥ १८.८ प्रश्नादिग्रन्थसारज्ञश् चित्तं बुद्ध्वा तयोरसौ आदिदेश स्फुटदेशो भाविनं गुणिनं सुतम् ॥ १८.९ यश्च पुत्रस्तयोर्जातस्तस्य नामाकरोत्पिता आदिष्टः सानुना यत्तत् सानुदासो भवत्विति ॥ १८.१० एकपुत्रोऽप्यसौ पित्रा दुर्लभत्वाच्च वल्लभः विद्याः शिक्षयता नीतो बाललीलानभिज्ञाताम् ॥ १८.११ उपाध्यायै.श्च सोत्साहैर् विनीतः स तथा यथा स्वदारानेव सव्रीडः परदारानमन्यत ॥ १८.१२ तेनातिविनयेनास्य लोकबाह्येन पार्थिवः पितरौ सुहृदो दारा न कश्चिन्नाकुलीकृतः ॥ १८.१३ आदिष्टः सानुना योऽसौ तयोः पुत्रः सुवृत्तयोः अहमेव स वो दासः सानुदासस्तथागुणः ॥ १८.१४ मम तु ध्रुवको नाम ध्रुवमैत्रीसुखः सखा स च मामब्रवीन्मित्र क्रियतां तद्ब्रवीमि यत् ॥ १८.१५ उद्याननलिनीकूले सदाराः सुहृदस्तव अनुभूतजलक्रीडाः खादन्ति च पिबन्ति च ॥ १८.१६ भवतापि सदारेण तत्र गत्वा मया सह साफल्यं क्रियतामद्य रूपयौवनजन्मनाम् ॥ १८.१७ धर्मार्थयोः फलं येन सुखमेव निराकृतम् विफलीकृतधर्मार्थात् पापकर्मा कुतस्ततः ॥ १८.१८ जन्मान्तरसुखप्राप्त्यै यश्च धर्मं निषेवते त्यक्तदृष्टसुखः सोऽपि वद को नाम पण्डितः ॥ १८.१९ न चापि स्वार्थसिद्ध्यर्थम् मया त्वं विप्रलभ्यसे तथा हि भीमसेनस्य वाक्यमाकर्ण्यतां यथा ॥ १८.२० प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् अनागतसुखाशा च नैष बुद्धिमतां नयः ॥ १८.२१ मया तु स विहस्योक्तस्तुच्छए एव प्रयोजने इदं संरम्भगाम्भीर्यम् शङ्कामिव करोति सः ॥ १८.२२ यदि पीतं न वा पीतम् स्वदारसहितैर्मधु लाभः कस्तत्र हानिर्वा रागोऽयमभिवासितः ॥ १८.२३ रागाग्निः प्राणिनां प्रायः प्रकृत्यैव प्रदीप्यते तमिन्धयति यन्मित्र तत्र किं नाम पौरुषम् ॥ १८.२४ यस्तं विषयसंकल्प सर्पिरिन्धनमुद्धतम् वैराग्यवचनाम्भोभिर् निर्वापयति स क्षमः ॥ १८.२५ फलं यदि च धर्मस्य सुखमीदृशमिष्यते धर्मस्याभवनिर्भूयात् तत्फलस्य सुखस्य च ॥ १८.२६ यां यथासुखमासीनाम् श्नन्तीं च स्त्रियं प्रति नेक्ष्यते प्रतिषेधात्सा कथमेवं विडम्ब्यते ॥ १८.२७ गोष्ठीमण्डलमध्यस्था मदोपहतचेतना विषमूर्च्छापरीतेव भर्तुर्भार्या विडम्बना ॥ १८.२८ अथ वा गच्छतु भवान् यथासुखमहं पुनः न यास्यामि न धास्यामि दारैः सह सभामिति ॥ १८.२९ स ततः स्थिरसंकल्पम् मां दृष्ट्वा प्रत्यवस्थितम् हस्ते सस्मितमालम्ब्य सविषाद इवावदत् ॥ १८.३० सुहृदामग्रतः कृत्वा प्रतिज्ञामहमागतः सानुदासोऽयमानीतः सदारो दृश्यतामिति ॥ १८.३१ तेनोपहसितस्योच्चैः सुहृद्भिर्वदनं मम प्रतिज्ञाखण्डनम्लानम् कथं शक्ष्यसि वीक्षितुम् ॥ १८.३२ तत्प्रसीदासतां नाम दारा यदि विरुध्यते त्वयैकेन प्रतिज्ञायाः साफल्यमुपपाद्यताम् ॥ १८.३३ सदोषं यदि पानं च स्वयं मा स्म पिबस्ततः सुहृदः पिबतः पश्य सदारतनयानिति ॥ १८.३४ ततस्तत्सहितो गत्वा पुरोपवनपद्मिनीम् तां तदा दृष्टवानस्मि सकलत्रां सुहृत्सभाम् ॥ १८.३५ निन्दितेन्द्रायुधच्छायैः कुसुमाभरणाम्बरैः क्षिप्ताम्भःपद्मिनीच्छायाम् स्थलीकमलिनीमिव ॥ १८.३६ ततः समञ्जरीजालैर् माधवीचूतपल्लवैः कल्पितं ध्रुवको मह्यम् ुच्चमाहरदासनम् ॥ १८.३७ अपश्यं तत्र चासीनः सुहृदः पायितप्रियान् पिबतश्च मधु प्रीत प्रियाकरतलार्पितम् ॥ १८.३८ क्वचिद्वसन्तरागं च वेणुतन्त्रीरुतान्वितम् गीयमानं शृणोमि स्म रुदन्ताश्चालिकोकिलाः ॥ १८.३९ हित्वा कुरबकाग्राणि वर्णसंस्थानचारुषु पतिताः कर्णिकारेषु लूननासा इवालिनः ॥ १८.४० आमूलशिखरं फुल्लास्तिलकाशोककिंशुकाः असारस्य हि जायन्ते नटस्यात्युत्कटा रसाः ॥ १८.४१ अथ कर्दमदिग्धाङ्गः शैवलाविलशाटकः उत्थितः पुरुषः कोऽपि सरसः सरसस्ततः ॥ १८.४२ आदाय नलिनीपत्र पुटं केनापि पूरितम् भोः पुष्करमधु प्राप्तम् मयेति च मुदावदत् ॥ १८.४३ प्रतिषिद्धः स चैकेन मूर्ख मा चण्डमारटीः न पुष्करमधु प्राप्तम् त्वयानर्थोऽयमर्जितः ॥ १८.४४ यदि तावदिदं सर्वे पिबन्ति सुहृदस्ततः परमाणुप्रमाणोऽपि बिन्दुरंशो न जायते ॥ १८.४५ दीयते यदि वा राज्ञे दुर्लभं पार्थिवैरपि अपरं सोऽपि याचेत रत्नगृद्धा हि पार्थिवाः ॥ १८.४६ तं च कर्णेजपाः केचिद् वक्ष्यन्ति प्रियवादिनः राजन्नपरमप्यस्ति तत्र प्राप्तमिदं यतः ॥ १८.४७ एतावदेव तत्रासीन् नातिरिक्तमिति ब्रुवन् अभावमतिरिक्तस्य केनोपायेन साधयेत् ॥ १८.४८ इति प्रोत्साहितः पापैर् लब्धास्वादश्च पार्थिवः हरेत्सर्वस्वमस्माकम् तस्मात्तस्मै न दीयते ॥ १८.४९ किं तु रस्यतरास्वादम् न च मद्यं यतस्ततः इदं पुष्करमध्वेष सानुदासः पिबत्विति ॥ १८.५० दुर्लभत्वात्ततस्तस्य सुहृदभ्यर्थनेन च न च मद्यमिति श्रुत्वा पीतवानस्मि तन्मधु ॥ १८.५१ आसीच्च मम को नाम षण्णामेष रसो भवेत् लक्ष्यते न हि सादृश्यम् ेतस्य मधुरादिभिः ॥ १८.५२ न चाहं षड्भिरारब्धः संहत्य मधुरादिभिः सर्वज्ञैरपि दुर्ज्ञाना येनास्मिन्नेकशो रसाः ॥ १८.५३ तेन मन्यतए एवायम् सप्तमः सुरसो रसः रसितेऽमृतमप्यस्मिन् गच्छेद्विरसतामिति ॥ १८.५४ ततस्तद्रसगन्धेन तृषा च गमितत्रपः बाधते मां पिपासेति शनैर्ध्रुवकमब्रुवम् ॥ १८.५५ तेन दत्तं तु तत्पीत्वा स्वभावापोढमानसः तत्पुरोपवनं वेगाच् चक्रवद्भ्रमदभ्रमम् ॥ १८.५६ ततश्च तारमधुरम् दीर्घवेणोरिवोषसि दीनमन्थरमश्रौषम् प्रमदाक्रन्दितध्वनिम् ॥ १८.५७ अथ गत्वा तमुद्देशम् पश्यं माधवीगृहे स्त्रियं साक्षादिवासीनाम् माधवीवनदेवताम् ॥ १८.५८ आख्यायिकाकथाकाव्य नाटकेष्वपि तादृशी वर्ण्यमानापि नास्माभिः कदाचित्प्रमदा श्रुता ॥ १८.५९ ततस्तामब्रवं साम्ना भद्रे यदि न दुष्यति दुःखस्यास्य ततो हेतुर् मह्यमाख्यायतामिति ॥ १८.६० ततो रुदितसंभिन्नम् नीचकैरुदितं तया दुःसहस्यास्य दुःखस्य ननु हेतुर्भवानिति ॥ १८.६१ लज्जाप्रह्वशिरस्केन ततो नीचैर्मयोदितम् यदीदं मत्कृतं दुःखम् भीरु मा त्वं रुदस्ततः ॥ १८.६२ यदनन्तमनन्तार्घम् तन्मन्ये द्रविणं तृणम् शरीरकमपीदं मे क्वचिद्व्यापार्यतामिति ॥ १८.६३ अथावोचदसौ स्मित्वा हर्षाश्रुकलुषेक्षणा अनेनैव त्वदीयेन शरीरेणाहमर्थिनी ॥ १८.६४ अहं हि गङ्गदत्तेति यक्षकन्या नभश्चरी संकल्पजन्मनानल्पम् संकल्पं कारिता त्वयि ॥ १८.६५ तदेहि गृहमस्माकम् सत्यं मन्त्रयसे यदि शरीरस्यास्य ते तत्र विनियोगो भवत्विति ॥ १८.६६ कृष्यमाणस्तया चाहम् पाणावादाय मन्थरम् असुरान्तःपुराकारम् प्राविशं भवनेश्वरम् ॥ १८.६७ तत्रापश्यं स्त्रियं गौरीम् सितासितशिरोरुहाम् स्थूलोदरवलीलेखाम् शुद्धसूक्ष्माम्बरावृताम् ॥ १८.६८ सा मामर्घ्येण संभाव्य मूर्द्ध्नि चाघ्राय सादरम् अब्रवीदध्वखिन्नोऽसि पुत्र विश्रम्यतामिति ॥ १८.६९ आदृता चादिशत्प्रेष्याः सानुदासः पिपासितः तत्पुष्करमधु स्वादु शीघ्रमानीयतामिति ॥ १८.७० मम त्वासीद्ध्रुवं यक्षी गङ्गदत्तान्यथा कुतः गृहे पुष्करमध्वस्या दुष्प्रापं मानुषैरिति ॥ १८.७१ गन्धेन पुष्करमधु प्रभवेणाधिवासितम् वसन्तकुसुमाकीर्णम् प्राविशं वासमन्दिरम् ॥ १८.७२ पीत्वा च पुष्करमधु प्रीतया सहितस्तया अस्यै पूर्वप्रतिज्ञातम् स्वशरीरमुपाहरम् ॥ १८.७३ स्वशरीरप्रदानेन मह्यं पूर्वोपकारिणे सापि प्रत्युपकाराय स्वशरीरं न्यवेदयत् ॥ १८.७४ आसीन्मे यन्मया दत्त्वा शरीरं पुण्यमर्जितम् तस्य कन्याशरीराप्त्या सद्यः परिणतं फलम् ॥ १८.७५ इति तत्र चिरं स्थित्वा पृच्छामि स्म प्रियां प्रिये किमिदानीं सुहृद्गोष्ठी करीतीत्यथ साब्रवीत् ॥ १८.७६ यदि ते द्रष्टुमिच्छास्ति मयैव सहितस्ततः गत्वा पश्य सुहृद्गोष्ठीम् मदातिशयविह्वलाम् ॥ १८.७७ मयालम्बितहस्तं त्वाम् न कश्चिदपि पश्यति तेनादृष्टः सुहृद्गोष्ठ्या विश्रब्धः पश्यतामिति ॥ १८.७८ गत्वा ततस्तदुद्यानम् गङ्गदत्तावलम्बितः पश्यामि स्म सुहृद्गोष्ठीम् स्मितव्यावर्तिताननाम् ॥ १८.७९ अथ स्वाभाविकमुखः सुहृत्कश्चिदभाषत न दृश्यते सानुदासः क्व नु यातो भवेदिति ॥ १८.८० अपरेणोक्तमाश्चर्यम् दृष्टं किं न पश्यसि सानुदासेन दुःसाध्या साधिता यक्षकन्यका ॥ १८.८१ यक्ष्यावलम्बितः पाणाव् दृश्यो दृश्यतामयम् सानुदासः सुहृन्मध्ये विचरन् पुण्यवानिति ॥ १८.८२ गङ्गदत्तामथावोचम् दृश्यो यद्यहं ततः भद्रे कथमनेनोक्तम् दृश्यो दृश्यतामिति ॥ १८.८३ ततः संरुध्यमानोऽपि यत्नेन जनसंसदा प्रवृत्तः सहसा हासः सलिलौघ इवोल्बणः ॥ १८.८४ तेषामन्यतमो नृत्यन् सतालहसितध्वनिः मामवोचददृश्याय यक्षीभर्त्रे नमोऽस्तु ते ॥ १८.८५ क्व पुष्करमधु क्वात्र दुर्लभा यक्षकन्यका द्राक्षामधु त्वया पीतम् साधिता च विलासिनी ॥ १८.८६ सर्वथा दुश्चिकित्सोऽयम् भवतो विनयामयः सुहृद्वैद्यगणेनाद्य कुशलेन चिकित्सितः ॥ १८.८७ स भवान् गङ्गदत्ताया गृहं यातु निरामयः सुहृदोऽपि कृतस्वार्थाः सर्वे यान्तु यथायथम् ॥ १८.८८ अहं तु पुष्करमधु च्छद्मना छलितोऽपि तैः ज्ञातकान्तासवस्वादो न तेभ्यः कुपितोऽभवम् ॥ १८.८९ आसीच्च मम ते धीरा ये स्वभ्यस्तमधुप्रियाः विदूषितमधुस्पर्शाः प्रव्रजन्ति मुमुक्षवः ॥ १८.९० अहं तु सकृदास्वाद्य प्रमदामदिरारसम् न प्राणिमि विना तस्माद् धिङ्निकृष्टं च मामिति ॥ १८.९१ अथ गच्छति स्म रविरस्तभूधरम् वसितद्रुमानधि शकुन्तपङ्क्तयः मदमन्दमात्मभवनानि नागराः प्रियया सहाहमपि तन्निवेशनम् ॥ १८.९२ तत्र प्रसन्नया कालम् प्रियया च प्रसन्नया प्रसन्नो ध्रुवकादीनाम् सुहृदामत्यवाहयम् ॥ १८.९३ दशभिर्दशभिर्याति सहस्रैर्दिवसव्यये धनराशिः परिक्षीणः कालेन महता महान् ॥ १८.९४ कदाचिच्चाहमाहूय नीतो दारिकया गृहम् दुःश्रवं श्रावितो मात्रा पितुः स्वर्गाधिरोहणम् ॥ १८.९५ गुरुणा गुरुशोकेन पीड्यमानं च मां नृपः समाह्वाय्यावदत्पुत्र मित्रवर्माहमेव ते ॥ १८.९६ कुलपुत्रकवृत्तेन स्थातव्यमधुना त्वया स हीह परलोके च सुखाय प्राणिनामिति ॥ १८.९७ अलंकृताय स च मे भूषणाम्बरचन्दनैः पित्र्यं श्रेष्ठिपदं कृत्वा गृहं याहीत्यभाषत ॥ १८.९८ कालस्तोके प्रयाते च सदैन्यो ध्रुवकोऽब्रवीत् सशोका गङ्गदत्तापि सा समाश्वस्यतामिति ॥ १८.९९ मया तूक्तमिदानीं मे बालकालश्चलो गतः अन्य एवायमायातः कुटुम्बभरदारुणम् ॥ १८.१०० क्व वेशवनितासक्तिः क्व कुटुम्बपरिग्रहः न हि वानरशावस्य युक्ता स्यन्दनधुर्यता ॥ १८.१०१ अधुना गङ्गदत्ताया बालता लोलतां गता मार्गमासेवतां सापि मातृमातामहीगतम् ॥ १८.१०२ दुराचारैव सा वेश्या चिरं यस्याः सतीव्रतम् न हि वेदमधीयानः शूद्रः सद्भिः प्रशस्यते ॥ १८.१०३ सदोषमपि न त्याज्यम् सहजं कर्म साधुभिः इतीदं वचनं विष्णोः सापि संमानयत्विति ॥ १८.१०४ तेनोक्तं गणिकासक्तिः प्रतिषिद्धा कुटुम्बिनाम् न तु शोकोपतप्ताया गणिकायाः सभाजनम् ॥ १८.१०५ तद्ब्रवीमि समाश्वस्य गङ्गदत्तां समातृकाम् अयमागत एवासि त्यज निष्ठुरतामिति ॥ १८.१०६ तस्यामुद्भूतरागत्वाद् ध्रुवकाभ्यर्थितेन च दोषमुत्प्रेक्षमाणोऽपि गत एवास्मि तद्गृहम् ॥ १८.१०७ अथ सा मद्वियोगेन मद्दुःखेन च कर्शिता क्रन्दत्परिजना कृच्छ्रात् परिसंस्थापिता मया ॥ १८.१०८ मयैव च सह स्नाता निरुप्तसलिलाञ्जलिः शरावं मदिरापूर्णम् न्यस्यति स्म गृहाङ्गणे ॥ १८.१०९ माता तु गङ्गदत्ताया गृहीतचषकावदत् पुत्र दुःखविनोदार्थम् तर्पणं क्रियतामिति ॥ १८.११० मम त्वासीत्प्रपञ्चोऽयम् विषमः प्रस्तुतोऽनया नूनमस्मानियं वृद्धा मुग्धानाकृष्टुमिच्छति ॥ १८.१११ ईदृशी च वचोदक्षा सदाक्षिण्यश्च मादृशः निर्दाक्षिण्या च देवी श्रीर् िति जातोऽस्मि शङ्कितः ॥ १८.११२ अवश्यं च मदीया श्रीर् गङ्गदत्तां गमिष्यति प्रायः समानशीलेषु सख्यं बध्नन्ति जन्तवः ॥ १८.११३ अथ वा गङ्गदत्तैव क्षेत्रं दानस्य पूजितम् दानं हि तत्र दातव्यम् यत्र चित्तं प्रसीदति ॥ १८.११४ इति चेति च निश्चित्य त्रासास्वादितचेतसा त्रिफलाविरसास्वादम् पानमासेवितं मया ॥ १८.११५ न वर्तते सकृत्पातुम् तस्त्रिः पीयतामिति गणिकामातुरादेशम् ोमिति प्रत्यपूजयम् ॥ १८.११६ यथा यथा च मां मन्दम् ारोहन्मदिरामदः पितृशोकोऽपि बलवान् वारोहत्तथा तथा ॥ १८.११७ अतः परं मदादेशान् मदीयाः परिचारिकाः मदिरामन्दिरान्मद्यम् ाहरन्ति स्म संततम् ॥ १८.११८ तदीयाश्च मदीयाश्च गतशोकमवेक्ष्य माम् गायन्ति स्म हसन्ति स्म केचित्तत्रारुदन्नपि ॥ १८.११९ इति विस्मारितस्ताभिः पितृशोकमहं तदा दिवसान् गमयामि स्म सुरास्मरपरायणः ॥ १८.१२० एकदा गणिकामात्रा प्रेषिता गणिकावदत् श्वश्रूस्त्वामाह रूक्षोऽसि गात्रमभ्यज्यतां तव ॥ १८.१२१ गङ्गदत्तापि परुषा जाता स्नेहविवर्जनात् तस्मादियमपि स्नेहम् ङ्गेषु निदधात्विति ॥ १८.१२२ शाटकं चाहरन्मह्यम् स्थूलं तैलमलीमसम् स्कन्धः कटुकतैलेन म्रक्षितश्च तया मम ॥ १८.१२३ उक्तश्चास्मि पुनर्यावद् दारिकाया मुहूर्तकम् अभ्यङ्गः क्रियते तावद् भवानवतरत्विति ॥ १८.१२४ अथोपरिपुरात्षष्ठम् नन्तरमवातरम् शिल्पिनस्तत्र चापश्यम् रत्नसंस्कारकारकान् ॥ १८.१२५ ससंभ्रमैश्च तैरुक्तः कृताञ्जलिपुतैरहम् श्रेष्ठिपुत्र प्रवीणोऽसि त्वत्तो लज्जामहे वयम् ॥ १८.१२६ सर्वविद्याकलाशिल्प कोविदस्य पुरस्तव सर्वज्ञानामपि त्रासात् प्रसरन्ति न पाणयः ॥ १८.१२७ तस्मादवतरत्वस्माद् दीर्घायुः पञ्चमं पुरम् अलंकरणकर्मेदम् ाशु निष्ठां व्रजत्विति ॥ १८.१२८ एवं च परिशेषेभ्यः क्रमाच्चित्रकरादिभिः पञ्चेभ्योऽपि पुरेभ्योऽहम् ुपायैरवतारितः ॥ १८.१२९ सान्तःकर्मारिकाभिश्च घटदासीभिरङ्गणात् सिच्यसे गोमयाम्भोभिर् िति निर्धारितो बहिः ॥ १८.१३० श्रूयते स्म च तस्यैव प्रासादस्योपरि ध्वनिः बन्दिनः पठतः श्लोकम् ुच्चकैरुच्चरन्निति ॥ १८.१३१ जय राजसिंह परदन्तिमण्डलम् विजितैव वादिमृगसंहतिस्त्वया परिमण्डलग्रहपतिप्रभाप्रभैर् गुणकेसरांशुविसरश्च राजसे ॥ १८.१३२ चिन्तितं च मया मन्ये प्रविष्टः कोऽप्ययं विटः रण्डापुत्रस्य यस्यैते श्रूयन्ते बन्दिभिर्गुणाः ॥ १८.१३३ कुतोऽस्य गुणगन्धोऽपि येन लज्जैव खादिता वेशनारीग्रहस्थेन स्वयं ख्यापयता गुणान् ॥ १८.१३४ इत्यसूयन्नहं तस्मै लज्जावर्जितकंधरः स्वगृहाभिमुखं प्रायाम् पौरधिक्कारकारितः ॥ १८.१३५ य एव मां सुहृत्कश्चिद् पश्यत्संमुखागतम् स एवामीलयद्दृष्टिम् हा किं दृष्टमिति ब्रुवन् ॥ १८.१३६ येनाङ्गणेन यामि स्म संस्तुतस्यैतरस्य वा तत्र गोमयपानीयम् पातयन्ति स्म नागराः ॥ १८.१३७ एवंप्रायप्रपञ्चाभिर् जनताभिर्जुगुप्सितः अपूर्वपुरुषाक्रान्तम् स्वगृहद्वारमागमम् ॥ १८.१३८ तेन च प्रविशन्नेव पूर्वाभ्यासादशङ्कितः तिष्ठ तिष्ठेति रुष्टेन द्वारपालेन वारितः ॥ १८.१३९ ततस्तं पृष्टवानस्मि शङ्कामन्दीकृतत्रपः भद्र सर्वं न जानामि तत्त्वमाख्यायतामिति ॥ १८.१४० तेनोक्तमीदृशं तत्त्वम् न त्वं परगृहं पुनः तिष्ठद्दौवारिकद्वारम् शङ्कः प्रविशेरिति ॥ १८.१४१ मयोक्तमथ सासूयम् किं च मित्रवती मृता तेनोक्तं कच्चिदायुष्मान् सानुदासो भवानिति ॥ १८.१४२ अहं तु कटुकालापस्तस्मान्मधुरभाषिणः लज्जमानः स्थितस्तूष्णीम् थ तेनोदितं पुनः ॥ १८.१४३ जीवत्येव मृता तात माता मित्रवती तव स्पृहयत्यनपत्याभ्यो या स्त्रीभ्यः पुत्रवत्यपि ॥ १८.१४४ एकेनैव प्रवृद्धेन कामेनागन्तुना तव संहतावपि धर्मार्थाव् ुच्छिन्नौ स्वकुलोचितौ ॥ १८.१४५ गृहं विक्रीय निःसारम् नाथा जननी तव सह पौत्रेण वध्वा च कुत्राप्यन्यत्र तिष्ठति ॥ १८.१४६ योऽयं प्रथमकक्षायाम् कुरुते कर्म वर्धकिः आस्ते मित्रवती यत्र तदयं पृच्छ्यतामिति ॥ १८.१४७ स च गत्वा मया दृष्टः प्रत्यभिज्ञाय मां चिरात् हा कष्टमिति कृत्वोच्चैर् दुःखस्खलितमब्रवीत् ॥ १८.१४८ हृतार्थजनदारिद्र्यात् त्वत्प्रसादात्सह स्नुषा दरिद्रवाटके तात जननी तव तिष्ठति ॥ १८.१४९ दरिद्रवाटकं पृष्टः कुत्रेति स मया पुनः चण्डालवाटकादूरम् दक्षिणेनेत्यभाषत ॥ १८.१५० शनैः संचरमाणश्च दरिद्रग्रामरथ्यया दरिद्रान् दृष्टवानस्मि क्षयक्षीणान्मृताकृतीन् ॥ १८.१५१ अथ निम्बतरोर्मूले दत्तकं नाम पुत्रकम् दृष्टवानस्मि बहुभिर् बालकैः परिवारितम् ॥ १८.१५२ बालकानामयं राजा तेऽन्ये मन्त्र्यादयः किल ददाति स्म ततस्तेभ्यः स्वाः स कुल्माषपिण्डिकाः ॥ १८.१५३ यस्तु तेषां प्रतीहारः स राजांशं प्रकल्पिताम् कुल्माषपिण्डिकां हृत्वा क्षुधितत्वादभक्षयत् ॥ १८.१५४ दत्तकोऽपि हृतस्वांशस्तारं मातरमाह्वयन् अगच्छत्कुटिकामेकाम् संकारस्थगिताजिराम् ॥ १८.१५५ कटैः कृतपरिक्षेपाम् जरद्विरलवीरणैः अनन्तपटलच्छिद्र प्रविष्टातपचन्द्रिकाम् ॥ १८.१५६ पृष्टतो दत्तकस्याहम् गतस्तत्कुटिकाङ्गणम् दास्या च प्रत्यभिज्ञाय मित्रवत्यै निवेदितम् ॥ १८.१५७ सा तु निष्क्रम्य संभ्रान्ता मामालिङ्ग्य तथाविधम् गाढनिद्राप्रसुप्तेव नाकम्पत न चाश्वसीत् ॥ १८.१५८ सद्यः पुत्रेण संयुक्ता स्वामिना च विनाकृता अनुष्णाशीतसंस्पर्शैर् मामस्नापयदश्रुभिः ॥ १८.१५९ निलीनां च कुटीकोणे पश्यामि स्म कुटुम्बिनीम् अलं वा विस्तरं कृत्वा मूर्तामिव दरिद्रताम् ॥ १८.१६० सतुषैः कोद्रवकणैर् पनीतं ममाङ्गतः तद्दुष्टचेटिकादत्तम् ादरात्स्वयमम्बया ॥ १८.१६१ लाक्षावृतबहुच्छिद्रा खण्डौष्ठी शीर्णतालुका आनीतोष्णोदकं दातुम् ालुका परगेहतः ॥ १८.१६२ स्नपयन्त्या च मां भग्ना कर्मकर्या प्रमत्तया अथास्याः स्वामिनी चण्डम् ाक्रन्दत्तडितोदरी ॥ १८.१६३ अयि त्वयि विपन्नायाम् ालुकादेवि गोमिनि शून्यमद्य जगज्जातम् द्य माता मृता मम ॥ १८.१६४ मम मातुर्विवाहे त्वम् लब्धा ज्ञातिकुलात्किल तेन त्वामनुशोचामि द्वितीयां जननीमिव ॥ १८.१६५ विलपत्यै तथा दीनम् करुणार्द्रीकृताशयः शाटकं पाटयित्वाहम् र्धं तस्यै वितीर्णवान् ॥ १८.१६६ पुष्करिण्यां ततः स्नात्वा पिबन्तीव विषाणकाः काञ्जिकव्यञ्जनं कृच्छ्राद् भुञ्जे कोद्रवौदनम् ॥ १८.१६७ अथ वालमिदं श्रुत्वा दरिद्रचरितं चिरम् श्रूयमाणमपि ह्येतद् दुःखायैव भवादृशाम् ॥ १८.१६८ सोऽहं कथमपि क्षिप्त्वा वर्षलक्षायतां क्षपाम् जातदुर्वारवैराग्यः प्रातर्मातरमब्रवम् ॥ १८.१६९ ततः प्रक्षपिताद्द्रव्याद् ुपादाय चतुर्गुणम् गृहं मया प्रवेष्टव्यम् न प्रवेष्टव्यमन्यथा ॥ १८.१७० तस्मादजातपुत्रेव मातर्मृतसुतेव वा दुःखकर्मविनोदेन गमयेर्दिवसानिति ॥ १८.१७१ तयोक्तं मा गमः पुत्र त्वां सदारं सदारकम् जीवयामि सुखासीनम् कर्मभिर्गर्हितैरिति ॥ १८.१७२ मयोक्तं वृद्धया मात्रा जीव्यते दुःखकर्मभिः यः शक्तः पुरुषस्तस्य श्लाघ्यमेकस्य जीवितम् ॥ १८.१७३ तेनालमवलम्ब्येमाम् म्ब कातरतां तव ननु तातस्य दाराः स्थ सुमेरुगुरुचेतसः ॥ १८.१७४ इत्यवस्थितनिर्बन्धः प्रणम्य जननीमहम् दरिद्रवाटकाद्घोरान् निरयां निरयादिव ॥ १८.१७५ अम्बा दूरमनुव्रज्य हितं मह्यमुपादिशत् ताम्रलिप्तीं व्रजे पुत्र यत्रास्ते मातुलस्तव ॥ १८.१७६ नराणां हि विपन्नानाम् शरणं मातृबान्धवाः त्याज्यास्तु निजशत्रुत्वात् प्राज्ञेन पितृबान्धवाः ॥ १८.१७७ एवमादि समादिश्य दत्त्वा चौदनमल्लकम् सा निवृत्ता प्रवृत्तोऽहम् पथा प्राग्देशगामिना ॥ १८.१७८ पश्यामि स्म च वैदेशाञ् जर्जरच्छत्त्रपादुकान् स्कन्धासक्तजरच्चर्म स्थगिकापचनालिकान् ॥ १८.१७९ एवमादिप्रकारास्ते तत्प्रकारं निरीक्ष्य माम् करुणागोचरीभूतम् भाषन्त परस्परम् ॥ १८.१८० अहो कष्टमिदं दृष्टम् स्माभिश्चेष्टितं विधेः क्व साधुः सानुदासोऽयम् क्वेयमेतादृशी दशा ॥ १८.१८१ अथ वा नैव शोच्योऽयम् विपन्नमहाधनः अविपन्नगुणानां हि किं विपन्नं महात्मनाम् ॥ १८.१८२ मां चावोचन् वयं सर्वे भवतः परिचारकाः एतस्मादसहायत्वान् मा स्म शङ्कां करोरिति ॥ १८.१८३ अथ मां रमयन्तस्ते रमणीयकथाः पथि अगच्छन् कंचिदध्वानम् चेतितपथक्लमम् ॥ १८.१८४ संकोचितजगच्छाये प्रतापेन विसारिणा सर्वोपरि स्थिते भानौ संप्रापं सुमहत्सरः ॥ १८.१८५ वञ्चयित्वा तु तद्दृष्टिम् दूरे स्नात्वामृतोपमम् तत्कोद्रवान्नमस्नेह लवणं भुक्तवानहम् ॥ १८.१८६ तेऽपि प्लुतैरुदात्तैश्च व्याहारैः परितो दिशम् सानुदासा क्व यासीति व्याहरन्मां ससंभ्रमाः ॥ १८.१८७ उक्तवन्तश्च मां दृष्ट्वा निवृत्तस्नानभोजनम् धिक्प्रमादहतानस्मान् भवता छलिता वयम् ॥ १८.१८८ अस्माभिः कारितं कन्दौ खादितव्यमनेकधा भवता च न संभुक्तम् ेतदस्मादनर्थकम् ॥ १८.१८९ इदानीमपि यत्किंचित् त्वया तत्रोपयुज्यताम् अन्यथास्माभिरप्यद्य स्थातव्यं क्षुधितैरिति ॥ १८.१९० ततस्तदर्थितः किंचिद् भक्षयित्वा सहैव तैः सायाह्ने प्रस्थितो ग्रामम् गच्छं सिद्धकच्छपम् ॥ १८.१९१ तत्र मां रथ्ययायान्तम् कश्चिद्दृष्ट्वा कुटुम्बिकः प्रणिपत्याब्रवीदेहि स्वगृहं गम्यतामिति ॥ १८.१९२ अनुज्ञातस्य पथिकैः प्रविष्टस्य गृहं मम स्वयं प्रक्षालयत्पादौ वारितोऽपि कुटुम्बिकः ॥ १८.१९३ अभ्यङ्गोच्छादनस्नान गमिताङ्गश्रमाय मे धातुरक्तमदात्स्थूलम् प्रक्षालं पटशाटकम् ॥ १८.१९४ ततः क्षीरौदनप्रायम् भुक्त्वा नवतकाज्झके शयनीये निषण्णं माम् वोचत्स कुटुम्बिकः ॥ १८.१९५ त्वदीयस्तात वृत्तान्तः सर्वः संविदितो मम भानोः स्वर्भानुना ग्रासः कस्य नेक्षणगोचरः ॥ १८.१९६ मेरुसागरसारस्य प्रसादान्मित्रवर्मनः सहस्राणि समृद्धानि मादृशामनुजीविनाम् ॥ १८.१९७ अहं सिद्धार्थको नाम वणिग्भृत्यः पितुस्तव तेन त्वदीयमेवेदम् यत्किंचिद्द्रविणं मम ॥ १८.१९८ मूलमेतदुपादाय वर्धन्तां ते विभूतयः बहुसत्त्वोपकारिण्यः शाखा इव वनस्पतेः ॥ १८.१९९ दिनस्तोकेषु यातेषु सार्थेन सहितो मया ताम्रलिप्तीं प्रयातासि तावद्विश्रम्यतामिति ॥ १८.२०० अथोपपन्नमाहेति विचार्य सह चेतसा प्रातिष्ठे सह सार्थेन तेन सिद्धर्थकेन च ॥ १८.२०१ ततो विचित्रशस्त्राणाम् हर्षेण स्फुटतामिव शृणोमि स्म प्रचण्डानाम् डिण्डिकानां विकत्थिताम् ॥ १८.२०२ श्रूयतां धातकीभङ्ग प्रतिज्ञापर्वतस्थिराः खण्डचर्मेति मे नाम मुण्डाः पाशुपता वयम् ॥ १८.२०३ सहस्रमपि चौराणाम् शूराणां युद्धमूर्धनि न नयेयं यदि स्वर्गम् गच्छेयं निरयं ततः ॥ १८.२०४ तस्करान् यदि पश्यामस्ततस्त्वां देवि चण्डिके प्रत्यग्रैस्तर्पयिष्यामो महिषच्छागशोणितैः ॥ १८.२०५ इति गत्वाटवीमध्ये नदीं गम्भीरकन्दराम् आवसाम कृतापुण्याश् चण्डां वैतरणीमिव ॥ १८.२०६ कृष्णपक्षक्षपाकाली प्रणादपरिहारिणी कालरात्रिरिवासह्या पुलिन्दपृतनापतत् ॥ १८.२०७ तथा कथितवन्तस्ते तामालोक्यैव डिण्डिकाः अपाक्रामन् परित्यक्त शस्त्रलज्जायशोधनाः ॥ १८.२०८ लुण्ठ्यमानात्त्वहं सार्थात् प्राणत्राणपरायणः संभ्रमभ्रान्तदिग्भागः कान्दिशीकः पलायितः ॥ १८.२०९ तस्करोऽयमिति भ्रष्टः सार्थिकादपि धावतः गहनान्तं दिनान्तेन वनान्तग्राममासदम् ॥ १८.२१० तस्य मधेन गच्छन्तम् मां परिष्वज्य वृद्धिका इति रोदितुमारब्धा वृद्धताघर्घरध्वनिः ॥ १८.२११ पुत्र निष्ठुरचित्तोऽसि यो मामुत्सन्नबान्धवाम् वृद्धां दुःखितकामस्वाम् त्यक्त्वा देशान्तरं गतः ॥ १८.२१२ मादृशीं मातरं दीनाम् त्यक्त्वा यदुपचीयते तत्प्रयागगतेनापि न पापमपचीयते ॥ १८.२१३ तीर्थयात्राकृतं पापम् तः क्षपयता त्वया मामाराधयमानेन स्वगृहे स्थीयतामिति ॥ १८.२१४ मम त्वासीदहो कष्टम् परोऽयमुपद्रवः मन्ये मूर्तिमती कापि विपत्तिरियमागता ॥ १८.२१५ मादृशां हि प्रमत्तानाम् प्रमत्ता विपत्तयः संतताः संनिधीयन्ते प्राज्ञानामिव संपदः ॥ १८.२१६ अथ मां चिरमीक्षित्वा तयोक्तं लज्जमानया पुत्र स्वपुत्रसादृश्यात् त्वं मयेत्थं कदर्थितः ॥ १८.२१७ अथ वा पुत्र एवासि ममेत्युक्त्वानयद्गृहम् तत्राकरोदखेदं माम् ङ्गाभ्यङ्गाशनादिभिः ॥ १८.२१८ प्रभाते प्रस्थितश्चैनाम् भिवाद्याहमब्रवम् चम्पायां सानुदासस्य गृहमम्ब व्रजेरिति ॥ १८.२१९ श्रान्तश्रान्तश्च विश्रान्तः पृष्ट्वा पन्थानमन्तरे ताम्रलिप्तीं व्रजामि स्म परिभूतामरावतीम् ॥ १८.२२० भोः साधो गङ्गसत्तस्य गृहमाख्यायतामिति यं यमेव स्म पृच्छामि स स एवैवमब्रवीत् ॥ १८.२२१ ताम्रलिप्त्यां पुरे भ्रान्तस्त्वत्तो धूर्ततरो जनः दुर्विदग्धजनालापो ग्राम्यनागरको भवान् ॥ १८.२२२ इति संपृच्छमानाय यदा मह्यं न कश्च न आचष्टे स्म तदा खिन्नः सन्नुपाविशमापणे ॥ १८.२२३ तत्र मां पृष्टवानेको वणिक्पाण्डरमस्तकः उद्विग्न इव विच्छायः किं निमित्तं भवानिति ॥ १८.२२४ मयापि कथितं तस्मै सानुकम्पाय पृच्छते उद्वेगस्य निमित्तं तत् तेनापि हसितोदितम् ॥ १८.२२५ त्वाममी कुटिलालापम् मन्यन्ते ताम्रलिप्तिकाः गृहं हि गङ्गदत्तस्य न पृच्छन्ति यथास्थिताः ॥ १८.२२६ पौर्णमासीशशाङ्कस्य यो न जानाति मण्डलम् न स जानाति धूर्तो वा गङ्गदत्तस्य मन्दिरम् ॥ १८.२२७ अथ वा धर्मकामार्थान् कूटस्थानत्र पश्यसि प्रवृद्धांश्च विशुद्धाम्शु गङ्गदत्तस्य तद्गृहम् ॥ १८.२२८ अथ वा गच्छ मुग्धेति मामुक्त्वा स्वयमेव सः गङ्गदत्तगृहद्वारम् नयत्प्रीतयाचकम् ॥ १८.२२९ तस्मान्मामागतं श्रुत्वा दौवारिकपरंपरा अन्तःकक्षान्तरस्थाय मातुलाय न्यवेदयत् ॥ १८.२३० गङ्गौघस्येव पततस्तुषारगिरिगह्वरे अथान्तस्तारगम्भीरः प्रवृत्तः क्रन्दितध्वनिः ॥ १८.२३१ ततः सदारभृत्येन तस्मान्निर्याय मन्दिरात् गङ्गायां गङ्गदत्तेन पित्रे दत्तं जलं मम ॥ १८.२३२ तत्राहमुपभुञ्जानः सान्तर्दुःखं महत्सुखम् कालस्तोकं नयामि स्म विषभिन्नमिवामृतम् ॥ १८.२३३ एकदा लब्धविश्रमम् मामभाषत मातुलः भागिनेयार्थये यत्त्वाम् तदनुष्ठातुमर्हसि ॥ १८.२३४ यदनन्तमकुप्यं च द्रविणं मम पश्यसि गुणद्रविणराशेस्तद् ुत्पन्नं मित्रवर्मणः ॥ १८.२३५ स्वस्मात्स्वस्मात्तदादाय प्रतिज्ञाताच्चतुर्गुणम् द्रष्टुं त्वद्विरहम्लानाम् मातरं परिगम्यताम् ॥ १८.२३६ तस्मिंश्च क्षीणए एवान्या गन्त्री ते द्रव्यसंहतिः अक्षयप्रभवो ह्यस्या गङ्गाया हिमवानिव ॥ १८.२३७ स्वे स्वस्मिन् सति चानन्ते लिप्सान्यस्मिन् विगर्हिता विज्ञातसाङ्गवेदार्थः कः पठेन्मातृकामिति ॥ १८.२३८ अनुशासतमित्यादि गङ्गदत्तमथावदम् सारेऽर्थे दृढनिर्बन्धम् मा मां व्याहत मातुल ॥ १८.२३९ प्रवर्त्यो गुरुभिः कार्ये यत्र बालो बलादपि स्वयमेव प्रवृत्तस्तैर् निवर्त्येत कथं ततः ॥ १८.२४० यच्चोक्तं मामकैरर्थैः कुटुम्बं जीव्यतामिति एतत्सहस्तपादाय मादृशे नोपदिश्यते ॥ १८.२४१ मातुलाद्धनमादाय यो जीवति समातृकः ननु मातुलमात्रैव क्लीबसत्त्वः स जीव्यते ॥ १८.२४२ स्थिरसत्त्वं स बुद्ध्वा माम् ालापैरेवमादिभिः आप्तैरकारयद्भृत्यैश् चक्षूरक्षितमादृतैः ॥ १८.२४३ पलायमानं कः शक्तो म्रियमाणं च रक्षितुम् इति लोकादिदं श्रुत्वा पलाय्नपरोऽभवम् ॥ १८.२४४ अथ सांयात्रिकं कंचिद् गमिष्यन्तं महोदधिम् अदृष्टः केनचिद्गत्वा विनयेनाभ्यवादयम् ॥ १८.२४५ तस्मै च कथयामि स्म प्रकृष्टानात्मनो गुणान् तृष्णादासीविधेया हि किं न कुर्वन्ति पातकम् ॥ १८.२४६ अहं चम्पानिवेशस्य तनयो मित्रवर्मणः सर्वरत्नपरीक्षादि कलाकुलविशारदः ॥ १८.२४७ युष्माभिश्च सनाथत्वम् हमिच्छामि साधुभिः त्वादृङ्नाथो ह्यनथोऽपि मुख्यो नाथवतामिति ॥ १८.२४८ स मित्रवर्मणो नाम श्रुत्वैवानन्दविह्वलः श्रद्दधाति स्म दुःसाध्याम् मयि सर्वज्ञतामपि ॥ १८.२४९ अवोचच्च पुराभूम सनाथा मित्रवर्मणा अधुना भवता तात ततः प्रस्थीयतामिति ॥ १८.२५० अथ देवद्विजगुरून् र्चित्वा मङ्गलोज्ज्वले प्रशस्ते तिथिनक्षत्रे बोहित्थममुचद्वणिक् ॥ १८.२५१ तरङ्गजलदालयं मकरनक्रचक्रग्रहम् पिनाकधरकंधरप्रभमनन्तमप्रक्षयम् महार्णवनभस्तलं लवणसिन्धुनौछद्मना वियत्पथरथेन तेन वणिजस्ततः प्रस्थिताः ॥ १८.२५२ कथं वा न विमानं तद् येन मानसरंहसा लोचनोन्मेषमात्रेन योजनानां शतं गतम् ॥ १८.२५३ ततो जलगजेन्द्रेण जलादुन्मज्जताहतः विशीर्णबन्धनः पोतः पट्टशः स्फुतति स्म सः ॥ १८.२५४ यस्य केशेषु जीमूता िति गीतामनुस्मरन् दैवात्फलकमालम्ब्य प्रापं तोयनिधेस्तटम् ॥ १८.२५५ क्षणं विश्रम्य तत्राहम् हा किं वृत्तमिति ब्रुवन् उद्भ्रान्तोद्भ्रान्तदिक्कत्वाद् भ्रान्तवान् सिन्धुरोधसि ॥ १८.२५६ चन्दनागरुकर्पूर लवङ्गलवलीवनैः यत्राक्रान्ताः सरित्वन्तः शैलोपान्ताः समन्ततः ॥ १८.२५७ कदलीनारिकेरादि फलिनद्रुमसंकटाः आरण्यकैररण्यान्यो भज्यन्ते यत्र कुञ्जरैः ॥ १८.२५८ शिलापिहितपूर्वार्धे दरीद्वारे ततः क्वचित् शिलापिहितपूर्वाङ्गीम् ङ्गनामस्मि दृष्टवान् ॥ १८.२५९ ततो यथाप्रमाणेन निर्निमेष्.एण चक्षुषा ऋजुतानिर्विकारत्वान् मामसौ त्रस्तमैक्षत ॥ १८.२६० आसीच्च मम काप्येषा दानवी देवतापि वा न हि रूपं मया दृष्टम् नार्याः कस्याश्चिदीदृशम् ॥ १८.२६१ अथ वा क्षुधिता कापि देवतारूपकञ्चुका मामिहैकाकिनं दृष्ट्वा प्राप्ता नक्तंचराङ्गना ॥ १८.२६२ राक्षस्यो ह्यप्सरोरूपा मादृशेषु प्रमादिषु रन्ध्रेषु प्रहरन्तीति यत्तन्मामिदमागतम् ॥ १८.२६३ तस्मादस्मादहं देशात् पलाये सभयादिति प्रस्थितश्चिन्तयित्वा च सा च मामित्यभाषत ॥ १८.२६४ भोः साधो मा भवत्ते भीर् नाहं नक्तंचराङ्गना बोहित्थव्यसनभ्रष्टाम् विद्धि मां मानुषीमिति ॥ १८.२६५ अथ श्रुत्वेदमुत्कृष्टात् साध्वासादूर्ध्वमूर्धजः त्रातारौ जगतो वन्दे पार्वतीपरमेश्वरौ ॥ १८.२६६ आसीच्च मम दिव्येयम् िति संप्रति निश्चितम् निर्निमेषा यतो यच्च परिचित्तज्ञमानसा ॥ १८.२६७ यद्येषा राक्षसी तस्मात् क्व गतः स्यां पलायितः निश्चित्येति परावृत्य बिभ्यन्तीमिदमब्रवम् ॥ १८.२६८ यदि त्वं मानुषी सत्यम् दरीद्वारादितस्ततः निर्गत्यात्मानमाचक्ष्व दिव्या चेत्पाहि मामिति ॥ १८.२६९ अथ ह्रीतेव सा किंचिन् नेत्रे संमील्य्साश्रुणी शिलानुष्ठितवस्त्रार्धे पूर्वकाये न्यपातयत् ॥ १८.२७० ततः संमीलिते दृष्ट्वा तया नेत्रे ममाभवत् ननु मानुषयोषैव वराक्येषा निरम्बरा ॥ १८.२७१ ततः पराङ्मुखीभूय स्वशातकमपाटयम् इदं वस्स्वेति तामुक्त्वा तस्यै तस्यार्धमक्षिपम् ॥ १८.२७२ छादितच्छादनीयाङ्गी बाहुवस्त्रार्धमूर्धजैः ततः स्वजघनस्फीताम् ध्यशेत शिलामसौ ॥ १८.२७३ अथ नातिसमीपस्थः परित्रस्तः परस्त्रियाः भद्रे कस्यासि का वेति तामपृच्छमवाङ्मुखः ॥ १८.२७४ मानुषी मानुषं दृष्ट्वा देशे दुर्लभमानुषे लब्धबन्धुरिवारण्ये विश्रब्धारब्ध भाषितुम् ॥ १८.२७५ साधुधर्मार्थसर्वार्थः सार्थवाहोऽस्ति सागरः राजराजगृहाकार गृहे राजगृहे पुरे ॥ १८.२७६ यावनीनामिका यस्य जाया यवनदेशजा या प्रकृष्टेऽपि सौभाग्ये पतिं देवमिवार्चति ॥ १८.२७७ तयोः सागरदिन्नाख्यः पुत्रः पित्रोर्गुणैः समः ज्येष्ठः समुद्रदिन्नश्च तत्सनामा च कन्यका ॥ १८.२७८ चम्पाभूषणभूतस्य सत्पतेर्मित्रवर्मणः सुताय सानुदासाय सा च पित्रा प्रतिश्रुता ॥ १८.२७९ सानुदासश्च रूपेण स्मरेण सदृशः किल सकलं च कलाजालम् वेदेति जगति श्रुतिः ॥ १८.२८० अथ वा न कलाजालम् जालं वेद स केवलम् को हि नाम कलाशाली कर्म तादृशमाचरेत् ॥ १८.२८१ स हि वेश्याहृताशेष गुणद्रविणसंचयः समब्राह्मणचण्डालैश् चौरैः सार्थवधे हतः ॥ १८.२८२ तच्च वैशसमाकर्ण्य सानुदासस्य दुःश्रवम् सागरस्य कुटुम्बं तत् प्रस्थितं यवनीं प्रति ॥ १८.२८३ यानपात्रविपत्तौ च विपन्नं लवणाम्भसि मेदिनीमण्डलध्वंसे जन्तूनामिव मण्डलम् ॥ १८.२८४ यासौ समुद्रदिन्नेति कन्या निन्दितलक्षणा न तस्यै निर्दयेनापि सिन्धुना दत्तमन्तरम् ॥ १८.२८५ सागरेण च या कन्या सानुदासाय कल्पिता सागरेण निरस्ता च मन्दभाग्याहमेव सा ॥ १८.२८६ किं कर्तव्यं क्व गन्तव्यम् किं वृत्तं किं नु वर्तते इति चिन्ताविनोदाहम् िहासे प्रियजीविता ॥ १८.२८७ शुक्तीनां तटभिन्नानाम् मांसैर्दावाग्निसाधितैः प्रज्ञातैः फलमूलैश्च पुष्णामि विफलां तनुम् ॥ १८.२८८ लुब्धत्वाच्च वणिग्जातेर् ाहृत्याहृत्य सैकतात् मौक्तिकस्य गुहाकोणे राशिः प्रांशुर्मया कृतः ॥ १८.२८९ मम तावदियं वार्त्ता त्वदीयाख्यायतामिति इति पृष्टस्य मे चित्तम् िति चित्तमभूत्तया ॥ १८.२९० सादुदासोऽहमेवेति यद्यस्यै कथयाम्यहम् अन्यदेव किमप्येषा मयि संभावयिष्यति ॥ १८.२९१ संभावयतु नामेयम् हं पुनरिमां कथम् विपन्मग्नामुपेक्षेयम् पुरुषः सन् स्त्रियं सतीम् ॥ १८.२९२ अपि चेदं स्मराम्येव तातपादैर्यथा वृता पित्रा चेयं प्रतिज्ञाता तेन व्यर्था विचारणा ॥ १८.२९३ अथेत्थं कथयामि स्म चम्पायामभवद्वणिक् मित्रवर्मेति यः स्वस्थो यशसाद्यापि तिष्ठति ॥ १८.२९४ यस्य मित्रवती जाया सानुदासः सुतस्तयोः स ताभ्यामेकपुत्रत्वाज् ज्ञापितः सकलाः कलाः ॥ १८.२९५ असौ चालीकपाण्डित्याल् लोकवृत्तपराङ्मुखः सुहृद्भिर्धूर्तचित्तज्ञैर् दास्या संगमितः सह ॥ १८.२९६ सानुदासः स एवाहम् सर्वस्वं मे तया हृतम् साथ मानर्थकं ज्ञात्वा निर्वासयितुमैहत ॥ १८.२९७ अथास्मिन्नन्तरे सा माम् भाषमाणमभाषत किंचित्पृच्छामि यत्तन्मे यूयमाख्यातुमर्हथ ॥ १८.२९८ स्नानशाटकमानीय स्थूलं तैलमलीमसम् प्रासादाग्रे यदुक्ताः स्थ दास्या तत्कथ्यतामिति ॥ १८.२९९ मया तूक्तं तयोक्तोऽहम् दारिकाया मुहूर्तकम् अभ्यङ्गः क्रियते तस्माद् भवानवतरत्विति ॥ १८.३०० साथापृच्छत्पुरे षष्ठे रत्नसंस्कारकारकैः किमुक्ताः शिल्पिभिर्यूयम् िति प्रत्यब्रुवं ततः ॥ १८.३०१ तैरुक्तोऽहं प्रवीनोऽसि त्वत्तो लज्जामहे वयम् तस्मादस्मात्पुरात्षष्ठत् पञ्चमं गम्यतामिति ॥ १८.३०२ इत्यादि यत्तया पृष्टम् वृत्तं वृत्तं मयाखिलम् सार्थध्वंसावसानान्तम् प्रत्युक्तं सकलं मया ॥ १८.३०३ अथ कूर्माङ्गनेवाङ्गैर् ङ्गेऽलीनापि लज्जया मामालिङ्गदपाङ्गेन सानङ्गाभ्यङ्गचारुणा ॥ १८.३०४ ततस्तां पृष्टवानस्मि भीरु किं क्रियतामिति साथ प्रसारयत्स्विन्नम् स्फुरन्तं दक्षिणं करम् ॥ १८.३०५ गम्भीरं ध्वनति ततः समुद्रतूर्ये गायत्सु श्रुतिमधुरं शिलीमुखेषु नृत्यत्सु स्फुटरटितेषु नीलकण्ठेष्व् ालम्बे करमिभतालुताम्रमस्याः ॥ १८.३०६ ततस्तत्तादृशं दुःखम् पोतभङ्गादिहेतुकम् सर्वमेकपदे नष्टम् साधावपकृतं यथा ॥ १८.३०७ पाषण्डिनो गृहस्थांश्च मोक्षस्वर्गाभिकाङ्क्षिणः चिन्तितांस्तान् हसामि स्म प्रत्युत्पन्नमहासुखः ॥ १८.३०८ मीनकूर्मकुलीरादि वृष्यवारिचरामिषैः नारिकेलादिभिश्चाङ्गम् पुषावोपबृम्हिभिः ॥ १८.३०९ पुलिनैः सिन्धुराजस्य मुक्ताविद्रुमसंकटैः राजहंसाविवोत्कण्ठौ प्रीतौ समचरावहि ॥ १८.३१० कदाचित्कुञ्जशिखरैर् चलानां सनिर्झरैः सफलद्रुमसंनाहैः करेणुकलभाविव ॥ १८.३११ लवङ्गपूगकर्पूर ताम्बूलाद्यैरदुर्लभैः नित्यमङ्गमनङ्गाङ्गैः समस्कुर्व सचन्दनैः ॥ १८.३१२ गुहालतागृहावासौ वसितद्रुमवल्कलौ देवमात्मभुवं ध्यान्तौ जातौ स्वः कामयोगिनौ ॥ १८.३१३ ततः समुद्रदिन्ना माम् ित्यवोचत्कदाचन भिन्नपोतवणिग्वृत्तम् र्यपुत्र समाचर ॥ १८.३१४ दिवा प्रांशोस्तरोरग्रे प्रांशुरुच्छ्रीयतां ध्वजः ज्वलनो ज्याल्यतां रात्रौ तुङ्गे सागररोधसि ॥ १८.३१५ कदाचिन्नाविकः कश्चिद् ालोक्यावान्तरं द्वयोः स्वदेशमानयेदावाम् धर्मोऽयं वणिजामिति ॥ १८.३१६ युक्तमाहेति निर्धार्य तथैव कृतवानहम् आप्तानामुपदेशो हि प्रमाणं योषितामपि ॥ १८.३१७ ततस्तुङ्गेषु रंहन्ती भङ्गशृङ्ग्षु भङ्गिषु मद्गुपङ्क्तिरिवागच्छद् ुपनौकारुणोदये ॥ १८.३१८ तां द्विनिर्यामकारूढाम् ारूढः पटुरंहसम् प्राग्वातालीमिवाम्भोदः प्रातिष्ठं दूरमन्तरम् ॥ १८.३१९ पश्यामि स्म ततः सिन्धौ बोहित्थं स्थिरमस्थिरे कातराणामिव व्राते स्थिरसत्त्वमवस्थितम् ॥ १८.३२० तत्र वाणिजमद्राक्षम् महाद्रविणभाजनम् कैलासए इव शुभाग्रम् महापद्ममहानिधिम् ॥ १८.३२१ अभिवादयमानं च मां दृष्ट्वा तेन सस्पृहम् बाष्पवद्दृष्टिकण्ठेन भाषितं प्रस्खलद्गिरा ॥ १८.३२२ किं जातिः कस्य पुत्रोऽसि किं वा मातेति सर्वथा किं त्वया तात पृष्टेन मित्रवर्मसुतो भवान् ॥ १८.३२३ कथं पुनरमुं देशम् ागतोऽसीति पृच्छते विस्तरेण मया तस्मै सर्वपूर्वं निवेदितम् ॥ १८.३२४ तेनोक्तमसि दीर्घायुर् जामाता तनयश्च मे आत्मा सागरदत्तश्च मित्रवर्मा च मे यतः ॥ १८.३२५ गच्छ सागरदत्तस्य तनयां तच्च मौक्तिकम् बहुनाविकया नावा तटादानीयतामिह ॥ १८.३२६ अन्यच्चासिद्धरात्रोऽहम् किं च पोतं न पश्यसि अवग्रहहृताम्भस्कम् तडागमिव रिक्तकम् ॥ १८.३२७ ममेदं वहनं रिक्तम् वोढव्यं सारवत्तव नष्टाश्वदग्धरथवद् योगः श्लाघ्योऽयमावयोः ॥ १८.३२८ मूल्यं तस्य च यत्तन्नौ समभागं भविष्यति पूर्वं संमन्त्रितार्घस्त्वम् धर्मोऽयं वणिजामिति ॥ १८.३२९ तच्च मौक्तिकमानीय पोतस्तेन प्रपूरितः समुद्रदिन्नया पादौ वाणिजस्य च वन्दितौ ॥ १८.३३० तस्यै दशसहस्राणि वस्त्राण्याभरणानि च तेन दत्तानि वदता वधूस्त्वं मे सुतेति च ॥ १८.३३१ कृतं चातिप्रसङ्गेन संक्षेपः श्रूयतामयम् प्रेरितं यानपात्रं च तद्विपन्नं च पूर्ववत् ॥ १८.३३२ जीवितेऽपि निराशेन यानपात्रे निमज्जति निगृहीताः शिखामध्ये मुक्ताः कतिपया मया ॥ १८.३३३ ताश्च विज्ञापयामि स्म परस्मिन्मम जन्मनि भगवत्यः सदा भक्तम् ुपतिष्ठत मामिति ॥ १८.३३४ एवंप्राये च वृत्तान्ते तरंगान्तरतारणी पट्टश्लिष्टा मया दृष्टा संनिकृष्टागता प्रिया ॥ १८.३३५ मामुपाहूयमानैव सा प्रसारितपाणिका चपलेन तरंगेण बलादपहृताबला ॥ १८.३३६ तस्मै क्रुद्धस्तरंगाय महामोहमहं गतः चेतये यावदात्मानम् लोटन्तमुदधेस्तटे ॥ १८.३३७ कान्तां मुक्त्वा विमुक्तत्वात् प्रिवाविश्लेषविक्लवः प्रक्रामन् विलपामि स्म निर्जने निरवग्रहः ॥ १८.३३८ नमस्ते भगवन्मोह निर्वाणप्रीतिदायिने कालाकालविदाशून्यम् चेतनां धिगचेतनाम् ॥ १८.३३९ मौक्तिकं गृह्यतां नाम तत्ते स्वं स्वं महोदधे साधो साध्वी विपद्बन्धुः प्रिया मे मुच्यतामिति ॥ १८.३४० याश्च ताः शिरसि न्यस्ता मुक्ताः पोते निमज्जति सिरः कण्डूयमानेन ताः स्पृष्टाः पाणिना मया ॥ १८.३४१ ताः परीक्षितवानस्मि तन्मात्रद्रविणस्तदा तत्किं परीक्षितं तासाम् या न दृष्टाः परीक्षकैः ॥ १८.३४२ स शोकस्तासु दृष्टासु यत्सत्यमभवत्तनुः यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः ॥ १८.३४३ शाटकान्ते च ता बुद्ध्वा दृढया ग्रन्थिमालया वेलाकुलेन यामि स्म धीरधीर्द्रविणोष्मणा ॥ १८.३४४ कदलीफलचिक्खल्ल प्रस्खलच्चरणः क्वचित् नारिकेलजलोच्छिन्न पिपासावेदनः क्वचित् ॥ १८.३४५ एलामरिचताम्बूल वल्लीवेल्लितपल्लवैः पनसक्रमूकारामैर् नीतदृक्फलबन्धुरैः ॥ १८.३४६ गोलाङ्गूलादिविक्रान्त विशीर्णकुसुस्मेषु च क्वचिच्चम्पकषण्डेषु गमयन् गमनश्रमम् ॥ १८.३४७ दिनान्तकपिशाङ्गे च दिवसान्तदिवाकरे धावद्धेनुधनोद्धूत धूलीकं ग्राममासदम् ॥ १८.३४८ ततस्तत्र वसत्यर्थम् यं यं याचे स्म कंचन धन्निनुं चोल्लिदिति च ब्रवीति स्म हसन् स सः ॥ १८.३४९ अथैकेन द्विभाषेण गृहं नीत्वा कुटुम्बिना जामातेव चिरात्प्राप्तः प्रियः प्रीत्यास्मि सत्कृतः ॥ १८.३५० तं च स्वशयनासन्नम् पृच्छं रजनीमुखे देशोऽयं कतमः साधो कतमद्वात्र पत्तनम् ॥ १८.३५१ तेनोक्तं पाण्ड्यदेशोऽयम् नुदक्षिणसागरम् महापद्मनिधिप्राप्ति रम्यं यत्रार्थिदर्शनम् ॥ १८.३५२ इतश्च पाण्ड्यमथुरा ग्रामान्मृदुनि योजने विश्रम्य रजनीमत्र प्रातर्गन्तासि तामिति ॥ १८.३५३ सुप्तेन प्रियया सार्धम् सुप्तेनार्थचिन्तया संक्षिप्ता च निरस्ता च यापिता यामिनी मया ॥ १८.३५४ प्रातः क्रोशद्वयातीतः कदलीषण्डसंवृतम् पान्थसंहातसंबाधम् पश्यं सत्त्रमण्डपम् ॥ १८.३५५ पश्यामि स्म च वैदेशान् क्रियमाणक्षुरक्रियान् अभ्यङ्गोच्छादनाच्छाद भोजनाद्यैश्च सत्कृतान् ॥ १८.३५६ कृतक्षौरादिकर्मा तु लब्धवस्त्रोत्तमाशनः पृष्टोऽस्मि सत्त्रपतिना शय्यास्थः शर्वरीमुखे ॥ १८.३५७ क्वचित्कश्चित्त्वया दृष्टः प्राज्ञो वाणिजदारकः सानुदास इति प्रांशुः श्यामस्ताम्रान्तलोचनः ॥ १८.३५८ ततस्तं पृष्टवानस्मि सानुदासेन किं तव कस्य वा सानुदासोऽसाव् िति तेनोदितं ततः ॥ १८.३५९ गङ्गदत्ताभिधानस्य ताम्रलिप्तीविभूषणः गुणवान् भागिनेयोऽसौ गतः पोतेन सागरम् ॥ १८.३६० स च पोतः किलाम्भोधौ प्रभञ्जनपराहतः प्रविशीर्णः पयःपूर्णः पयोधर इवाम्बरे ॥ १८.३६१ वार्त्ता चेयं प्रसर्पन्ती मूर्छातिशयदायिनी क्रूराशीविषयोषेव गङ्गद्दत्तममूर्छयत् ॥ १८.३६२ तेनापि सर्वदेशेषु कान्तारेषु तरेषु च प्रवर्तितानि सत्त्राणि वेलातटपुरेषु च ॥ १८.३६३ कदाचित्सानुदासस्य पोतापेतस्य जीवतः पान्थः कश्चित्क्वचित् सत्रे प्रवृत्तिं कथयेदिति ॥ १८.३६४ तत्ते यदि स दीर्घायुर् ायुष्मन्दर्शनं गतः आचक्ष्व नस्ततो दीना जनता जीव्यतामिति ॥ १८.३६५ मम त्वासीत्प्रतिज्ञायाः कियत्संपादितं मया अस्मै यदहमात्मानम् ाचक्षेऽपहतत्रपः ॥ १८.३६६ तस्मादिति ब्रवीमीति विनिश्चित्येदमब्रवम् सानुदासः पुनः पोतम् ारुह्य गतवानिति ॥ १८.३६७ प्रातश्च पाण्ड्यमथुराम् ाश्चर्यशतशालिनीम् प्रायं पूरितसर्वेच्छाम् चिन्तामणिशिलामिव ॥ १८.३६८ तस्यामध्यासि भिन्नाभ रत्नपञ्जरसंकुलम् अगस्त्यपीतपानीय सागराकारमापणम् ॥ १८.३६९ तत्रालंकारमादाय द्वावुपागमतां नरौ तस्य चैक्तरः क्रेता विक्रेतान्यतरस्तयोः ॥ १८.३७० तौ तं वाणिजमब्रूताम् रत्नतत्त्वविदा त्वया उचितं भूषणस्यास्य मूल्यमाख्यायतामिति ॥ १८.३७१ तेनापि तच्चिरं दृष्ट्वा न जानामीति भाषिते तौ मां निश्चलया दृष्ट्या दृष्टवन्तमपृच्छताम् ॥ १८.३७२ निश्चलस्निग्धया दृष्ट्या सुष्ठु दृष्टमिदं त्वया मन्यावहे विजानाति मूल्यमस्य भवानिति ॥ १८.३७३ अनास्थोत्तानहस्तेन ततः स्मित्वा मयोदितम् नैवेदमतिदुर्ज्ञानम् किं मुधेवाकुलौ युवाम् ॥ १८.३७४ कोटिरस्य समं मूल्यम् रत्नतत्त्वविदो विदुः तस्मादधिकमूनं वा क्रेतृविक्रायकेच्छया ॥ १८.३७५ अथ विक्रायकस्तोषान् मुक्ताश्रुर्मामवोचत यदीयं मूल्यमेतस्य धनं धन्यास्ततो वयम् ॥ १८.३७६ अपि भूषणमेतन्मे कोटिमूल्यं भवेदिति सदैव मे मनस्यासीद् यमेव मनोरथः ॥ १८.३७७ अथेति क्रायकेणोक्तम् ममाप्यासीन्मनोरथः अपि नाम लभेयाहम् िदं कोट्येति चेतसि ॥ १८.३७८ ततस्तावस्तुवातां माम् नमस्ते विश्वकर्मणे को हि मानुषदुर्बोधम् िदं बुध्यते मानुषः ॥ १८.३७९ क्रयविक्रयकामाभ्याम् ावाभ्यां बहुशः पुरी द्रव्यस्यास्य परीक्षार्थम् परिक्रान्ता समन्ततः ॥ १८.३८० पृथिवी मूल्यमस्येति कश्चिदाह परीक्षकः अजानन् काकिनीत्यन्यो न किंचिदिति चापरः ॥ १८.३८१ त्वत्कृतेन तु मूल्येन जनितं नौ महत्सुखम् एतदेकार्थयोरासीद् भीष्टमुभयोरपि ॥ १८.३८२ इत्यादि तौ प्रशस्ताय प्रादिषातां ससंमदौ अयुतं मे सुवर्णानाम् ससाराभरणाम्बरम् ॥ १८.३८३ अथ वार्त्तामिमां श्रुत्वा नृपेणाहूय सादरम् परीक्षितोऽस्मि रत्नानि वर्जितानि परीक्षकैः ॥ १८.३८४ बहुभृत्यं बहुधनम् बहुवृत्तान्तनिष्कुटम् विशालं बहुशालं च प्रीतः प्रादात्स मे गृहम् ॥ १८.३८५ अतः परमहं तस्याम् ासं पुरि परीक्षकः धर्मेणैव च मां कश्चिन् न परीक्षामकारयत् ॥ १८.३८६ एवं च वसतस्तत्र ममेयमभवन्मतिः केन नामाल्पमूल्येन महालाभो भवेदिति ॥ १८.३८७ उपलभ्यस्ततो लोकात् कर्पासो गुणवानिति तस्य कैलासकूटाभान् सप्त कूटानकारयम् ॥ १८.३८८ धिक्कर्पासकथं तुच्छाम् सर्वथा मूषकेण ते प्रदीपशिखया कूटा गमिता भस्मकूटताम् ॥ १८.३८९ मथुरायां च मर्यादा गृहं यस्य प्रदीप्यते प्रक्षिप्यते स तत्रैव सकुटुम्बो रटन्निति ॥ १८.३९० अथ हस्तद्वितीयोऽहम् ियं दिगिति संभ्रमन् उदीचीं दिशमुद्दिश्य कान्दिशीकः पलायितः ॥ १८.३९१ धावित्वा च त्रियामार्धम् हरर्धं च रंहसा दुर्गादुत्क्रम्य सुप्तोऽहम् वटमुले महाश्रमः ॥ १८.३९२ अथांशुमति शीतांशौ प्रशान्तप्रबलश्रमः जनताध्वनिमश्रौषम् भितो वटमुत्कटम् ॥ १८.३९३ आसीच्च मम हा कष्टम् हन्त नष्टोऽस्मि संप्रति ज्वलति ज्वलने क्षिप्तो निर्घृनैर्द्रविडैरिति ॥ १८.३९४ अथ कन्थाजरच्छत्त्र पादुकादिपरिच्छदान् अद्राक्षं पथिकाकल्पाञ् जल्पतो गौडभाषया ॥ १८.३९५ हा मातर्जीवितोऽस्मीति तानालोक्याश्वसं ततः रक्षोमुक्तो हि नाश्वस्यात् को वा दृष्ट्वा नरान्नरः ॥ १८.३९६ आस्तीर्णपर्णशय्यास्ते ततो न्यस्तपरिच्छदाः परितो मामुपासीनाः समपृच्छन्त विश्रमाः ॥ १८.३९७ आगच्छति कुतो देशान् नगराद्वा भवानिति मयापि कथितं तेभ्यः पाण्ड्यदेशपुरादिति ॥ १८.३९८ अथ तैः सस्पृहैः पृष्टम् मथुरायां त्वया यदि सानुदासो वणिग्दृष्टस्ततो नः कथ्यतामिति ॥ १८.३९९ मयोक्तं सानुदासाख्यो वणिक्तत्र न विद्यते भवन्तः कतमत्तत्र पृच्छन्तीत्युच्यतामिति ॥ १८.४०० ततस्ते कथयन्ति स्म ताम्रलिप्त्यां वणिक्पतिः गङ्गदत्तो गुणान् यस्य न न वेद भवानपि ॥ १८.४०१ ये गुणान्न विदुस्तस्य सद्वीपात्प्राङ्महोदधेः व्यापिन्या कीर्तितान् कीर्त्या न जातास्तेऽथ वा मृताः ॥ १८.४०२ स्वस्रीयः सानुदासोऽस्य पोतभङ्गात्किल च्युतः अध्यास्ते पाण्ड्यमथुराम् कृतकर्पाससंग्रहः ॥ १८.४०३ गङ्गदत्तस्तु पान्थेभ्यः प्रवृत्तिमुपलभ्य ताम् आहूयाह स्म सुहृदः प्रीतांश्च परिचारकान् ॥ १८.४०४ ये मे शोणितमायान्ति गृहीत्वा दक्षिणापथात् तानहं सुहृदः स्फीतैस्तोषयामि धनैरिति ॥ १८.४०५ तद्वयं गङ्गदत्तेन तमानेतुं विसर्जिताः यदि चासौ त्वया दृष्टस्तदाचष्टां भवानिति ॥ १८.४०६ मम त्वासीद्वरं क्षिप्तस्तत्रैवाहं विभावसौ न त्वपूर्णप्रतिज्ञेन मातुराननमीक्षितुम् ॥ १८.४०७ अथेत्थं कथयामि स्म सानुदासस्तपस्विकः कर्पासे ज्वलति क्षिप्तः पाण्ड्यैर्निष्करुणैरिति ॥ १८.४०८ ततस्ताडितवक्षस्कास्तारमारट्य ते चिरम् इति संमन्त्रयन्ते स्म विषादक्षामवाचकाः ॥ १८.४०९ गङ्गदत्तार्थिता यूयम् सानुदासार्थमागताः तस्मै तन्मृत्युवृत्तान्तम् कथं शक्ष्यथ शंसितुम् ॥ १८.४१० वार्त्तां चेमामुपश्रुत्य वैवस्वतहसाशिवाम् चम्पायां ताम्रलिप्त्यां च जीवितव्यं न केनचित् ॥ १८.४११ तदात्मानं परित्यज्य स्वामिनो भवतानृणाः गङ्गदत्तोऽपि तद्वार्त्ताम् न्यतो लभतामिति ॥ १८.४१२ ते काष्ठस्कन्धमादीप्य प्रवेष्टुमनसस्ततः स्तुवन्तो देवताः स्वाः स्वाः पर्यक्रामन् प्रदक्षिणम् ॥ १८.४१३ मम त्वासीदहो कष्टम् बद्धोऽहं नरशम्बरः सोत्साहैरपि दुर्लङ्घ्यम् जालं जाल्मैः प्रसारितम् ॥ १८.४१४ अथोच्चैरारटामि स्म भो भो त्यजत साहसम् सानुदासः स एवाहम् विधेयो भवतामिति ॥ १८.४१५ विषादेन ततस्तेषाम् सवो निर्यियासवः अस्मत्संप्राप्तिहर्षेण जाताः कण्ठोपकण्ठगाः ॥ १८.४१६ शेषत्वादायुषस्तेऽपि विनिवृत्तप्रियासवः हर्षार्द्राः समकूर्दन्त तालक्षोभितकाननाः ॥ १८.४१७ ते स्तुवन्तस्ततो हृष्टाः सुगतं सौगता इव बहुकृत्वः परिक्रम्य मामवन्दत मूर्धिभिः ॥ १८.४१८ तेऽथ मां शिबिकारूढम् नातिदीर्घैः प्रयानकैः निधिलाभादिव प्रीतास्ताम्रलिप्तीमनेषत ॥ १८.४१९ अथ क्षितिपतेः पुत्रम् परिणेतुमिवागतम् हृष्टः प्रत्युदगच्छन्माम् मातुलः स्फीतडम्बरः ॥ १८.४२० व्यासेनापि न शक्योऽसौ व्यासेनाख्यातुमुत्सवः समासेन तवाख्यामि वाक्कुण्ठानामयं विधिः ॥ १८.४२१ तिष्ठन्तु तावदकलङ्ककुटुम्बिदाराः शीतांशुभास्वदनिलैरपि ये न दृष्टाः सिन्दूरपाटलितखण्डनटैर्नटद्भिर् नग्नाटकैरपि नरेन्द्रपथेषु गीतम् ॥ १८.४२२ विद्यावृत्तैस्ततो विप्रैर् गङ्गदत्तः स्वयं च माम् मधुरैरुपपन्नैश्च वचनैरित्यबोधयत् ॥ १८.४२३ पिता मे ध्रियते भर्ता भृत्यानात्तेन किं मम आत्मनायासितेनेति प्रागभूस्त्वमुपेक्षकः ॥ १८.४२४ अधुना जननीजाया प्रजागुरुजनादिभिः अवश्यभरणीयैश्च रक्ष्यैश्च परवान् भवान् ॥ १८.४२५ तद्भवद्भर्तृके तत्र वर्गे प्रोषितभर्तृके असारथाविव रथे ध्रुवं यन्न ब्रवीमि तत् ॥ १८.४२६ तस्मादुत्कण्ठयोत्कण्ठम् त्वयि तात दिदृक्षया स्वकुटुम्बमनुकण्ठम् कुरु याहि गृहानिति ॥ १८.४२७ एकदा क्.अम्चिदद्राक्षम् ाचेरं नाम वाणिजम् सुवर्णभूमये यान्तम् नन्तैः सह वाणिजैः ॥ १८.४२८ तैर्गत्वा सह पोतेन कंचिदध्वानमम्बुधेः तटे बोहित्थमुज्झित्वा प्रातिष्ठामहि रोधसा ॥ १८.४२९ अथाभ्रंलिहशृङ्गस्य पादं पादपसंकटम् आवसाम नगेन्द्रस्य लोहितायति भास्वति ॥ १८.४३० ततस्तत्राहृताहारान् निषण्णान् पर्णसंस्तरे इत्यस्माननुशास्ति स्म सार्थवाहः क्षपाक्षये ॥ १८.४३१ त्रिधा पृष्ठेषु बध्नीत पाथेयस्थगिका दृढम् ग्रीवासु तैलकुतुपान् समासजत वाणिजाः ॥ १८.४३२ एताश्च कोमलाः स्थूलाः शोषदोषादिवर्जिताः हस्तैर्वेत्रलता गाढम् ालम्ब्यारोहताचलम् ॥ १८.४३३ लतामनीदृशीं मोहाद् यः कश्चिदवलम्बते प्रमीतो हिमवत्यस्मिन् स प्रयाति परां गतिम् ॥ १८.४३४ एष वेत्रपथो नाम सर्वोत्साहविघातकृत् सुवर्णाशाप्रवृत्तानाम् महानिव विनायकः ॥ १८.४३५ एवमादि ततः श्रुत्वा विषण्णैरस्मदादिभिः हेमगर्धग्रहग्रस्तैस्तथैव तदनुष्ठितम् ॥ १८.४३६ अथैको दूरमारूढश् छिन्नवेत्रलताशिखः क्षुरप्रक्षुरितज्याकः क्षोणीं शूर इवागमत् ॥ १८.४३७ वयमेवाचलाग्रं तद् ारुह्य परिदेव्य च निरुप्य च जलं तस्मै तत्रैवानेष्महि क्षपाम् ॥ १८.४३८ प्रातर्महान्तमध्वानम् गत्वापश्याम निम्नगाम् गवाश्वाजैडकाकार पाषाणकुलसंकुलाम् ॥ १८.४३९ अथाचेरः पुरःस्थित्वा पान्थानुच्चैरवारयत् मा मा स्पृक्षत वार्येतद् भो भो तिष्ठत तिष्ठत ॥ १८.४४० मूढैः स्पृष्टमिदं यैर्यैस्ते ते पाषाणतां गताः अथ वा स्वयमेवैनाम् सुहृदः किं न पश्यथ ॥ १८.४४१ वंशान् पश्यथ यानस्याः परस्मिन् सरितस्तटे अर्वाक्कूलं नुदत्येनान् पटुः परतटानिलः ॥ १८.४४२ कार्श्यकौमलसंकोथ शोषदोषाविदूषितम् एषामन्यतमं गाढम् गृह्णीध्वं मस्करं करैः ॥ १८.४४३ वाते मन्थरतां याते मस्करात्तुङ्गतां गतात् परस्मिन्नापगपारे शनकैरवरोहत ॥ १८.४४४ कोथशोषादिदोषं तु योऽवलम्बेत मस्करम् स ततः पतितो गच्छेच् छैलस्थिरशरीरताम् ॥ १८.४४५ एष वेणुपथो नाम महापथविभीषणः कुशलैः कुशलेनाशु निर्विषादैश्च लङ्घ्यते ॥ १८.४४६ यथासुरबिलं बालः शासनान्मन्त्रवादिनः प्रविवेशाविचार्यैव तथास्मभिस्तदीहितम् ॥ १८.४४७ तेषामेकं कृशाद्वंशाद् विशीर्णादपतत्ततः शिलाभूतां तनुं त्यक्त्वा गतिं माहेश्वरीमगात् ॥ १८.४४८ अवतीर्य तु वंशेभ्यस्तक्त्वा दूरेण तां नदीम् तस्मै सलिलमन्यस्य मदाम न्यवसाम च ॥ १८.४४९ वाहयित्वा च पन्थानम् योजनद्वयसं प्रगे भुजंगस्यातिसंक्षिप्ताम् द्राक्षं पदवीं ततः ॥ १८.४५० तस्याश्चोभयतो भीमम् दृष्टान्तं रसातलम् अन्धान्धकारसंघात वित्रासिततमोनुदम् ॥ १८.४५१ अथाचेरोऽवदत्पान्थान् दारुपर्णतृणादिभिः आर्द्रशुष्कैररण्यानी सधूमा क्रियतामियम् ॥ १८.४५२ एतां दृष्ट्वा सपर्याणाञ् छार्दूलाजिनकङ्कटान् छागान् विक्रेतुमायान्ति किराताः परितो दिशः ॥ १८.४५३ तान् क्रीणीयात कौसुम्भ नैलशाकलिकाम्बरैः खण्डतण्डुलसिन्दूर लवणस्नेहनैरपि ॥ १८.४५४ छागपृष्ठानि चारुह्य गृहीतायतवेणवः अतिगाहत चाध्वानम् कालभ्रूदण्डभङ्गुरम् ॥ १८.४५५ आदाय यदि चान्येऽपि काञ्चनं काञ्चनाकरात् अनेनैव निवर्तेरन् पथा पान्थाः कदाचन ॥ १८.४५६ ततस्तैरस्मदीयैश्च संमुखीनैरिहान्तरे रसातलं प्रवेष्टव्यम् ससुवर्णमनोरथैः ॥ १८.४५७ न महासंकटादस्मान् मार्गादुत्क्रम्य विद्यते छागपङ्क्तेरवस्थानम् न निवर्तितुमन्तरम् ॥ १८.४५८ तस्मादभ्यस्तकुन्तेन वीरेण प्रतिभावता अनुभूतसमीकेन पङ्क्तेः प्रस्थीयतां पुरः ॥ १८.४५९ समर्थस्तादृगेकोऽपि हन्तुं परपरंपराम् न पराभाव्यते यावद् परेण परेण सः ॥ १८.४६० अयं चाजपथो नाम श्रूयमाणो विभीषणः दृश्यमानो विशेषेण भृगुः पातार्थिनामिव ॥ १८.४६१ इत्याचेरे ब्रुवत्येवम् प्रांशुकोदण्डमण्डला आगच्छन्म्लेच्छपृतना छागपूगपुरःसरा ॥ १८.४६२ तेषु तु प्रतियातेषु निष्कार्य क्रयविक्रयौ स्नात्वावन्दन्त क्रदन्तः पान्थाः शंकरकेशवौ ॥ १८.४६३ अथ पान्थास्थिता दीर्घा प्रस्थिता छागसंततिः रंहसिन्यपि निष्कम्पा निवाते नौरिवाम्भसि ॥ १८.४६४ तस्याश्च पथिकश्रेण्याः सप्तमः पश्चिमादहम् आचेरश्चाभवत्षष्ठः पृष्ठतोऽनन्तरो मम ॥ १८.४६५ एवंप्राये च वृत्तान्ते दूरादाश्रूयतोच्चकैः वंशानां ताड्यमानानाम् पुरः ष्ठा ष्ठोदितस्वनः ॥ १८.४६६ छागानां पुरुषाणां च धीराणामपि सादकः मज्जतां ध्वान्तजम्बाले मे मे हा हेति च ध्वनिः ॥ १८.४६७ सर्वथा क्षणमात्रेण प्रक्षीणा परवाहिनी एकशेषास्मदीया या सप्तमप्रमुखा स्थिता ॥ १८.४६८ अथ मामवशास्ति स्म ग्रामणीः किमुदास्यते एककः पुरुषश्चायम् परः स्वर्नीयतामिति ॥ १८.४६९ परस्तु वंशमुज्झित्वा बद्ध्वा मूर्धनि चाञ्जलिम् हतस्वपान्थसार्थत्वाद् नाथो मामनाथत ॥ १८.४७० एकशाखावशेषस्य मद्वंशस्यावसीदतः शाखाच्छेदेन नोच्छेदम् त्यन्तं कर्तुमर्हसि ॥ १८.४७१ एक एव प्रियः पुत्रः पित्रोरहमचक्षुषोः अन्धयष्ठिस्तयोस्तस्माद् भ्रातर्मां मा वधीरिति ॥ १८.४७२ आसीच्च मम धिक्प्राणान् पापपांसुविधूसरान् धिग्धिगेव सुवर्णं तत् प्राप्यं प्राणिवधेन यत् ॥ १८.४७३ तस्मान्निहन्तु मामेष वराकः प्रियजीवितः प्राणा यस्योपयुज्यन्ते पित्रोर्दुश्चक्षुषोरिति ॥ १८.४७४ अथ रोषविस्.आदाभ्याम् ाचेरस्ताम्रनिष्प्रभः अम्बूकृतमचोवन्माम् वाचा निष्ठुरमन्दया ॥ १८.४७५ अरे बालबलीवर्द कालाकालाविचक्षणः क्व कृपाणोचितः कालः क्व कृपा कृपणोचिता ॥ १८.४७६ अहो कारुणिकत्वं ते सिद्धं सिद्धान्तवेदिनः एकस्य क्षुद्रकस्यार्थे यः षोडश जिघांसति ॥ १८.४७७ सच्छागे निहते ह्यस्मिञ् जीविताः स्युश्चतुर्दश अहते तु सहानेन भवता च हता वयम् ॥ १८.४७८ न चापि रक्षितुं क्षुद्रम् ात्मानं दुस्त्यजं त्यजेत् आत्मा तु सततं रक्ष्यो दारैरपि धनैरपि ॥ १८.४७९ इत्यादि भगवद्गीता मात्रं दण्डकमीरयन् स पार्थमिव मां विष्णुः कर्म क्रूरमकारयत् ॥ १८.४८० अथाहं प्रबलव्रीडो गर्हमाणश्च कर्मवत् चरणेषु परच्छागम् सुकुमारमताडयम् ॥ १८.४८१ छागपोते ततस्तस्मिन् ध्वान्तसिन्धौ निमज्जति पान्थसांयात्रिको मग्नः सहैव धनतृष्णया ॥ १८.४८२ वयं तु दुर्गमान्मार्गात् प्रक्षीणस्वल्पसैनिकाः भारतादिव संग्रामात् सप्तशेषा हतोद्यमाः ॥ १८.४८३ तं च देशं परिक्रम्य प्राप्य विष्णुपदीतटम् अश्रुमिश्रां प्रमीतेभ्यः प्रादाम सलिलाञ्जलिम् ॥ १८.४८४ ततस्तत्तादृशं दुःखम् बाधितं नो बुभुक्षया शरीरवेदना नास्ति देहिनां हि क्षुधासमा ॥ १८.४८५ अथासंपादिताहारान् पर्णशय्याधिशायिनः मन्दनिद्राकुलाक्षान्नः प्रबोध्याह स्म नायकः ॥ १८.४८६ अमी छागाः प्रमाप्यन्ताम् ततस्तन्मांसमद्यताम् सीव्यन्तामजिनैर्भस्त्रास्तेषां विपरिवर्तितैः ॥ १८.४८७ तथा च परिधीयन्ताम् मुक्त्वा विघ्नकृतं घृणाम् यथा तासामसृक्क्लिन्नम् यदन्तस्तद्बहिर्भवेत् ॥ १८.४८८ पक्षवन्त इवाहार्या दरीदारितचञ्चवः हेमभूमेरिमां भूमिम् ागच्छन्ति विहंगमाः ॥ १८.४८९ मांसपिण्डधिया तेऽस्मान् नभसादाय चञ्चुभिः सुवर्णभूमये यान्ति तत्तत्संपाद्यतामिति ॥ १८.४९० अथाहमब्रवं ब्रूते जनता यत्तथैव तत् त्यज्यतां तत्सुवर्णं यच् छिनत्ति श्रवणे इति ॥ १८.४९१ येनाहं दुर्गमान्मार्गाद् धर्मेणैव तु दुर्गतेः तारितश्छागनागेन हन्यां तं निर्घृणः कथम् ॥ १८.४९२ तस्मादलं सुवर्णेन प्राणैरेवाथ वा कृतम् येन तेनैव दत्तेभ्यस्तेभ्यो हन्यां सुहृत्तमम् ॥ १८.४९३ अथाचेरोऽवदत्पान्थान् जः स्वः स्वः प्रमाप्यताम् अयं तु सानुदासीयः सुदूरे मुच्यतामिति ॥ १८.४९४ तेषामेकतमः पान्थस्तमजं क्वापि नीतवान् दण्डालम्बितकृत्तिश्च प्रतागत्येदमुक्तवान् ॥ १८.४९५ छागेन सानुदासस्य मयान्यः परिवर्तितः तदीयं चेदमानीतम् जिनं दृश्यतामिति ॥ १८.४९६ मया तु प्रत्यभिज्ञाय तस्यैवाजस्य चर्म तत् उक्तं नासौ त्वया मुक्तः प्राणैर्मुक्तः प्रियैरिति ॥ १८.४९७ अथाप्तवचनाद्भीमम् समुद्रतरणादपि युक्तिहीनं तदस्माभिर् नभोगमनमिङ्गितम् ॥ १८.४९८ ततो दुर्भगनिह्रादैः पाण्डुच्छविभिरण्डजैः शारदैरिव जीमूतैः साशमाकाशमावृतम् ॥ १८.४९९ तत्पक्षतिमरुत्पिष्ट गुरुस्कन्धनगो नगः शक्रशस्त्रशिखाकृत्त पत्त्रचक्र इवाभवत् ॥ १८.५०० अथ कण्ठगतप्राणान् स्मानादाय खं खगाः आक्रामन् सप्त सप्तापि गरुत्मन्त इवोरगान् ॥ १८.५०१ परिशिष्टोऽपरस्तेषाम् स च मद्ग्राहिणो बलात् निरंशत्वान्निरांशसो मामेवाच्छेतुमैहत ॥ १८.५०२ अथ रौद्रमभूद्युद्धम् गृध्रयोः स्वार्थगृद्धयोः यथाम्बरचरत्रासि दशकण्ठजटायुषोः ॥ १८.५०३ पर्यायेणाहमाकृष्टश् चञ्चोश्चञ्चौ पतत्रिणोः कच्चिच्च स्खलितस्तस्याः खस्तः शंकरमस्मरम् ॥ १८.५०४ वज्रकोटिकठोराभिश् चञ्चूचरणकोटिभिः कुट्टितं तत्तयोश्चर्म जातं तितौजर्जरम् ॥ १८.५०५ ततो निष्कुषितश्चाहम् कुट्टिताच्चर्मकञ्चुकात् पतितः सरसि क्वापि शोभाविस्मितमानसे ॥ १८.५०६ तत्र शोणितशोणानि घृष्ट्वा गात्राणि पङ्कजैः स्नातस्तर्पितदेवश्च पश्चादमृतमाहरम् ॥ १८.५०७ तत्तटे क्षणमासित्वा निषद्य च गतश्रमः अपूर्वबहुवृत्तान्तम् दृष्टवानस्मि तद्वनम् ॥ १८.५०८ यत्र विस्मृतवानस्मि दुःखं भारुण्डयुद्धजम् असिपत्त्रवनापेतः संचरन्निव नन्दने ॥ १८.५०९ शीर्णदुर्वणपर्णो वा विद्युद्दाहहतोऽपि वा अपुष्पः फलहीनो वा यत्रैकोऽपि न पादपः ॥ १८.५१० कदम्बमालतीकुन्द माधवीमल्लिकादयः भृङ्गानीकैः सदा यत्र कृष्णकल्माषपल्लवाः ॥ १८.५११ चतुरङ्गुलतुङ्गैश्च नीलकण्ठगलासितैः शशोर्णसुकुमारैश्च तृणैर्भूषितभूतलम् ॥ १८.५१२ यत्र केसरिशार्दूल शिखण्डिभुजगादयः व्रतयन्ति दयावन्तः पर्णपुष्पजलानिलान् ॥ १८.५१३ अनिवृत्तदिदृक्षश्च काननं परितो भ्रमन् कस्यापि चरणैः क्षुण्णाम् द्राक्षं पदवीमिव ॥ १८.५१४ तया संचरमाणश्च मन्थरं दूरमन्तरम् वामनोभयरोधस्काम् गम्भीराम्भसं नदीम् ॥ १८.५१५ तां च काञ्चनगाहादि रत्नकाञ्चनवालुकाम् उत्तीर्याचर्य च स्नानम् ार्चिषं देवतागुरून् ॥ १८.५१६ सरित्तटोपकण्ठे च कदलीकाननावृतम् तपःकाननमद्राक्षम् बद्धपर्यङ्कवानरम् ॥ १८.५१७ तत्राचिरद्युतिपिशङ्गजटं मुनीन्द्रम् ैक्षे निखर्वकुशविष्टरपृष्ठभाजम् आज्याहुतिस्तिमितनीरसदारुयोनि कुण्डोदराहितमिवाहवनीयमग्निम् ॥ १८.५१८ तं वन्दितुमुपासर्पम् ुत्सर्पत्सौम्यचन्द्रिकम् सान्तसंतापकस्पर्शम् ुष्णांशुमिव हैमनम् ॥ १८.५१९ अथासौ संमदास्रार्द्र कपोलो मामभाषत कुशलं सानुदासाय श्रेष्ठिने भवतामिति ॥ १८.५२० मम त्वासीत्ततो नाम दिव्यं चक्षुस्तपस्विनाम् सर्वं पश्यति येनार्थम् मांसचक्षुरगोचरम् ॥ १८.५२१ यन्मे यादृच्छिकं नाम यच्च व्यापारहेतुकम् तत्कीर्तितमनेनाद्य न कदाचिदपि श्रुतम् ॥ १८.५२२ इति विचिन्तितवन्तं माम् ास्थितादिष्टविष्टरम् व्रीडामन्थरमाह स्म स्मित्वेति मुनिपुंगवः ॥ १८.५२३ त्वया यच्चिन्तितं तात ततः प्रति तथैव तत् नाममात्रकथा नाति चित्रं हि तपसः फलम् ॥ १८.५२४ ध्रुवकाद्यैर्यथा मद्यम् ुपायैः पायितो भवान् यथा वधुकयोद्याने संगतो गङ्गदत्तया ॥ १८.५२५ यावद्भारुण्डसंग्रामाद् यमद्रंष्ट्रान्तरादिव विमुक्तस्त्वमिह प्राप्तः सर्वं तद्विदितं मम ॥ १८.५२६ अनुभूता त्वया तात यानपात्रविपत्तयः लङ्घिताश्च सुदुर्लङ्घ्याः शैलकान्तारनिम्नगाः ॥ १८.५२७ यदर्थं चायमायासः प्राप्तः कृच्छ्रतमस्त्वया मित्रवत्येव तत्सर्वम् माता ते कथयिष्यति ॥ १८.५२८ सकलश्चायमारम्भः सुवर्णप्राप्तये तव तच्च संप्राप्तदेशीयम् तो मा विषदद्भवान् ॥ १८.५२९ त्वादृशः स्थिरसत्त्वस्य मादृशादेशकारिणः सुप्रापं प्राज्ञसोत्साहैः सुवर्णं क्व गमिष्यति ॥ १८.५३० पर्णशालाशयेनातः पादपावयवाशिना अहःकतिपयान्यस्मिन्न् ाश्रमे स्थीयतामिति ॥ १८.५३१ अथाभिलषितास्वादम् मृजौजःपुष्टिवर्धनम् वानेयमाहरन्नन्नम् कृष्टपच्यमहं द्विषन् ॥ १८.५३२ पर्णशालान्तरास्तीर्णे शयानः पर्णसंस्तरे तुङ्गपर्यङ्कमद्वेषम् गङ्गदत्तानिवेशनम् ॥ १८.५३३ इति विस्मृतदुःखोऽपि सुखास्वादैरमानुषैः दरिद्रवाटकस्थायाः सततं मातुरध्यगाम् ॥ १८.५३४ आकाशपथयानान्ताः प्रशंसामि स्म चापदः सुवर्णप्राप्तये प्राप्ता या विपत्संपदेव सा ॥ १८.५३५ एकदा तं महात्मानम् भितः प्राप्तमम्बरात् मूर्तं पुण्यमिवाद्राक्षम् विमानं मेरुभास्वरम् ॥ १८.५३६ कन्यास्तस्मान्निरक्रामन् द्युतिद्योतितकाननाः सेन्द्रचापादिवाम्भोदात् क्रान्तात्सौदामनीलता ॥ १८.५३७ ततस्ताः संपरिक्रम्य प्रणम्य च यतिप्रभुम् विहायस्तलमाक्रामन्न् िन्दोरिव मरीचयः ॥ १८.५३८ एका तु न गता तासाम् ङ्कमारोप्य तां मुनिः प्रमोदगद्गदालापः प्रमृष्टाक्षीमभाषत ॥ १८.५३९ पुत्रि गन्धर्वदत्तेऽयम् सानुदासः पिता त्वया अस्मानपि तिरस्कृत्य श्रद्धयाराध्यतामिति ॥ १८.५४० तं चाहमतिसत्कारम् मन्येऽतिविडम्बनाम् वन्द्यमानो महागौर्या क्रीडया प्रमथो यथा ॥ १८.५४१ सा कदाचिन्मया पृष्टा कोऽयं का वा त्वमित्यथ श्रूयतामिति भाषित्वा तयोर्वृत्तमवर्तयत् ॥ १८.५४२ भरद्वाजसगोत्रोऽयम् ुपधानं तपस्विनाम् विद्याधरभरद्वाजो यद्विद्यासाधनोद्यतः ॥ १८.५४३ महतस्तपसश्चास्य व्यथमानः पुरंदरः आसनेनाचलाभेन चलता चलितः किल ॥ १८.५४४ शच्यालिङ्गनकालेऽपि ध्यात्वा कंचित्तपस्विनम् विषादाकुलचेतस्को दुःखं जीवति वासवः ॥ १८.५४५ नारदात्तु भरद्वाजम् ुपलभ्य तपस्विनम् हरिणा सुप्रभादिष्टा गन्धर्वाधिपतेः सुता ॥ १८.५४६ रूपयौवनसौभाग्यैर् गर्वितामुर्वशीमपि अतिशेषे त्वमित्येषा प्रतीतिः पिष्टपत्रये ॥ १८.५४७ भरद्वाजमतो गत्वा त्वमाराधय सुन्दरि तथा ते रूपसौभाग्ये सफलीभवतामिति ॥ १८.५४८ सुप्रभाथ मुनेरस्य वचःप्रेक्षितचेष्टितैः शृङ्गारैरैच्छदाक्रष्टुम् सतत्त्वालमबनं मनः ॥ १८.५४९ यदा नाशकदाक्रष्टुम् ब्दैर्बहुतिथैरपि तदा कर्मकरीकर्म निर्वेदादकरोदसौ ॥ १८.५५० पुष्पोच्चयजलाहार कुटीसंमार्जनादिभिः तोषितोऽयमवोचत्ताम् वरः कस्ते भवत्विति ॥ १८.५५१ तयोक्तं स्पृहयन्ति स्म यस्मै त्रिदशयोषितः तन्मे भगवता धैर्यात् सौभाग्यं दुर्भगीकृतम् ॥ १८.५५२ निष्प्रयोजनचारुत्व भूषणस्रग्विलेपनम् सौभाग्यमात्रकं स्त्रैणम् कामकामेषु भर्तृषु ॥ १८.५५३ तेन विज्ञापयाम्येतत् प्रीतश्चेद्दयसे वरम् जगतोऽपि वरस्तस्माद् भवानेवास्तु नो वरः ॥ १८.५५४ तरुणीनां हि कन्यानाम् चेतोजक्षुण्णचेतसाम् चेतश्चक्षुप्रियात्पुंसः कीदृशोऽन्यो वराद्वरः ॥ १८.५५५ तस्मादप्रियरागोऽपि भगवाननुकम्पया वशित्वाद्रागमालम्ब्य सौभाग्यं मे ददात्विति ॥ १८.५५६ अनुरोधाच्च तेनास्याम् ेकैव जनिता सुता चिरमाराधितो भक्त्या विरक्तोऽपि हि रज्यते ॥ १८.५५७ सा तु सुप्रभया नीत्वा पित्र्यं विश्वावसोः पुरम् वर्धिता च विनीता च विद्यासु च कलासु च ॥ १८.५५८ अथ गन्धर्वराजस्ताम् ानीय दुहितुः सुताम् अभाषत भरद्वाजम् नामास्याः क्रियतामिति ॥ १८.५५९ अस्तु गधर्वदत्तेयम् मह्यं दत्ता यतस्त्वया इति तस्याः कृतं नाम भरद्वाजेन सार्थकम् ॥ १८.५६० सुप्रभायां तु या कन्या भरद्वाजादजायत नाम्ना गन्धर्वदत्तेति वित्त मामेव तामिति ॥ १८.५६१ एकदा कृष्णशर्वर्याम् पश्यामि स्म शिलोच्चयम् जातरूपशिलाजाल ज्योतिरुज्ज्वलितद्रुमम् ॥ १८.५६२ मम त्वासीदयं शैलो हिरण्मयशिलः स्फुटम् कल्याणं काञ्चनं चास्मिन्न् स्मत्कल्याणकारणम् ॥ १८.५६३ निर्धार्येति सुवर्णाशा पाशयन्त्रितचेतसा विशाला पर्णशालासौ शिलाभिः पूरिता मया ॥ १८.५६४ तास्तु प्रातः शिला दृष्ट्वा पृष्टो गन्धर्वदत्तया किमेतदिति तस्यै च यथावृत्तं न्यवेदयम् ॥ १८.५६५ तया तु कथितं पित्रे मामाहूय स चावदत् आयुष्मन्न हिरण्मय्यः शिला एव हि ताः शिलाः ॥ १८.५६६ ओषधीनामिदं ज्योतिर् ध्वान्ते हाटकसप्रभम् भास्वद्भासाभिभाविन्या मुक्तं रात्रौ विजृम्भते ॥ १८.५६७ दृष्टवानसि सौवर्णास्तत्संपर्कादिमाः शिलाः पश्यन्ते च दिशः पीतास्तृष्णातिमिरमीलिताः ॥ १८.५६८ अहमेव सुवर्णं च चम्पां प्रतिगमं च ते अचिरात्संविधास्यामि तत्त्यजाकुलतामिति ॥ १८.५६९ याश्च तास्तुष्टतुष्टेन मुहूर्तेनाहृताः शिलाः ता मया दुःखदुःखेन सर्वाह्णेन निराकृताः ॥ १८.५७० एकदा कच्छपीं वीणाम् मह्यं दत्त्वावदत्मुनिः यद्ब्रवीमि तदाकर्ण्य त्वमनुष्ठातुमर्हसि ॥ १८.५७१ गन्धर्वदत्तया यस्ते मद्वृत्तान्तो निवेदितः स तथैव यतस्तस्माद् स्माकमियमात्मजा ॥ १८.५७२ विद्याधरपतेश्चेयम् भाविनो भागिनी प्रिया न हि सागरजन्मा श्रीः श्रीपतेरन्यमर्हति ॥ १८.५७३ तेन चम्पामियं नीत्वा देया ते चक्रवर्तिने चिह्नैर्यैश्च स विज्ञेयः क्रियन्तां तानि चेतसि ॥ १८.५७४ षष्ठे षष्ठे भवान्मासे गन्धर्वान् संनिपातयेत् पुरस्तेषामियं गायाद् गेयं नारायणस्तुतिम् ॥ १८.५७५ यस्तु संवादयेत्कश्चिद् गन्धर्वस्तेषु वीणया वादयेत्तच्च यस्तस्मै दद्याः स्वतनयामिति ॥ १८.५७६ सर्वथा भवतां यद्यद् वृत्तं गन्धर्वसंसदि वीणावादनपर्यन्तम् तत्तत्तेन निवेदितम् ॥ १८.५७७ अथावां मुनिराह स्म खिन्नौ स्थः पुत्रकौ चिरम् खेदोच्छेदाय तच्चम्पाम् प्रतिष्ठेथां युवामिति ॥ १८.५७८ ततस्तं प्रणिपत्याहम् चलितः प्रचलो मुदा यामत्रयं त्रियामाया यापयित्वा प्रसुप्तवान् ॥ १८.५७९ अथामानुषमश्रौषम् दारवीमात्रवीणयोः सवेणुनिस्वनं स्वानम् मनःश्रवणवल्लभम् ॥ १८.५८० सताम्रशिखरासानि तारं मङ्गलवादिनाम् निद्रात्याजनदक्षाणि बन्दिनां वन्दितानि च ॥ १८.५८१ आत्मानमथ निर्निद्रो जातरूपाङ्गपञ्जरम् पर्यङ्कमधितिष्ठन्तम् द्राक्षं रत्नपिञ्जरम् ॥ १८.५८२ चित्रचीनांशुकास्तीर्णम् म्बरं स्वच्छकुट्टिमे मृष्टहाटकदण्डाली तटिते पटमण्डपे ॥ १८.५८३ नीलरत्नशिलोत्सङ्गे वितानावृतभास्करे वीणापरिचयव्यग्राम् ासीनां सुप्रभासुताम् ॥ १८.५८४ विचित्रोज्ज्वलवर्णं च सुवेषाकारभर्तृकम् गोणीभिर्हेमपूर्णाभिः पूर्णं पटकुटीकुलम् ॥ १८.५८५ क्रीणतो मणिहेमादि विक्रीणानांश्च वाणिजान् समाहितैश्च सीमान्तान् संकटानौष्ट्रकौक्षकैः ॥ १८.५८६ सर्वथा दुष्करं मन्दैर् लं कृत्वातिविस्तरम् स्वप्नेऽपि न नरैर्दृष्टा समृद्धिः कैश्चिदप्यसौ ॥ १८.५८७ भारद्वाजीमथापृच्छम् मातः किमिदमद्भुतम् गन्धर्वनगरं माया स्वप्नो वायं भवेदिति ॥ १८.५८८ भरद्वाजार्जितस्येदम् तपःकल्पतरोः फलम् अप्रमेयप्रभावं हि सद्भिः सुचरितं तपः ॥ १८.५८९ तस्मादिदमनन्तत्वाद् धनमिच्छाव्ययक्षमम् भूमेरन्यत्र सर्वत्र सत्पात्रादौ निधीयताम् ॥ १८.५९० आयचिन्तां परित्यज्य व्ययचिन्तापरो भव आयस्थानं हि तेऽस्त्येव मुनिकाञ्चनपर्वतः ॥ १८.५९१ कदा पश्यामि जननीम् िति चाकुलतां त्यज सार्थस्थानादितश्चम्पा ननु क्रोशेषु पञ्चसु ॥ १८.५९२ स च मे स्वप्नमायादि विषयः संशयस्तया निश्चयात्मिकया सद्यः प्रज्ञयेव निवर्तितः ॥ १८.५९३ अथ ध्रुवकमद्राक्षम् वैलक्ष्यान्नमिताननम् धूर्तं तादृग्विधैरेव सुहृद्भिः परिवारितम् ॥ १८.५९४ तमुत्थायाथ पर्यङ्कात् परिरभ्य च सादरम् अध्यस्थापयमात्मीयाम् शय्यां गतविलक्षतम् ॥ १८.५९५ संभाषणपरिष्वङ्ग शातकुम्भासनादिभिः सुहृद्गणमनुज्येष्ठम् ुदारैः पर्यतोषयम् ॥ १८.५९६ अतः परमशेषैव नटन्नटपुरःसरा प्रवृद्धप्रमदोन्मादा चम्पा तं सार्थमावृणोत् ॥ १८.५९७ प्रहर्षोत्कर्षविच्छिन्न निश्वासानिलसंततिः अमृतैव जनः कश्चिच् चिरात्कश्चिदुदश्वसत् ॥ १८.५९८ सुस्वादेनान्नपातेन रत्नवासःस्रगादिभिः स्फीतैर्हेमातिसर्गैश्च पौरश्रेणिमवर्धयम् ॥ १८.५९९ यैश्च गोमयपानीयम् क्षिप्तं मम पुरःसराः उद्धृतास्ते विशेषेण दारिद्र्यनिरयान्मया ॥ १८.६०० अथ ध्रुवकमाभाषे भद्र रौद्रतराकृतेः दरिद्रवाटकादम्बा स्वमेवानीयतां गृहम् ॥ १८.६०१ यावन्मात्रेण विक्रीतम् द्रविणेन तदम्बया ततः शतगुणेनापि क्रेतुर्निष्क्रेतुमर्हसि ॥ १८.६०२ तादृशीमीश्वरामम्बाम् दरिद्रकुटिकागताम् द्रष्टुं शक्नोति यस्तस्य क्षुद्रकान् धिगसूनिति ॥ १८.६०३ ततस्तेन विहस्योक्तम् क्व देवी क्व दरिद्रता केन भागीरथी दृष्टा विच्छिन्नजलसंहतिः ॥ १८.६०४ तदेव भवनं देव्याः समृद्धिः सैव चाचला उज्ज्वला तु त्वयेदानीम् कुमुद्वत्या इवेन्दुना ॥ १८.६०५ इति तत्क्षणसंक्षिप्तम् क्षिप्त्वा सक्षणदं दिनम् सुप्रातः प्राविशं चम्पाम् धनाधिप इवालकाम् ॥ १८.६०६ रथ्याभिर्विशिखाभिश्च श्रेणिश्रेणिपुरःसरः गत्वा नरेन्द्रमद्राक्षम् सुरेन्द्रमिव भास्वरम् ॥ १८.६०७ वन्दनाय ततो दूराद् धरणीमहमाश्लिषम् असावपि मुदाहूय मामाश्लिषदकैतवम् ॥ १८.६०८ सारवद्भिरनन्तैश्च मामसौ भूषणाम्बरैः सत्कृत्याज्ञापयत्पुत्र जननी दृश्यतामिति ॥ १८.६०९ ततः सुमेरुसारेण रत्नकाञ्चनराशिना दुष्पूरं पूरयामि स्म राज्ञस्तृष्णारसातलम् ॥ १८.६१० नरेन्द्रपरिवारेण प्रतीतेनावृतस्ततः पठद्भिश्च ततो विप्रैर् ात्मीयमगमं गृहम् ॥ १८.६११ मन्दध्वनिमृदङ्गादौ तस्मिन्नुद्दामताण्डवे पौरैर्हर्षकृतोत्साहैर् न क्षुण्णः कथमप्यहम् ॥ १८.६१२ अम्बामथार्घजलपात्रभृतं निरीक्ष्य दूरादपासरदसौ जनता विहस्ता पूर्णादिवान्धतमसानि तुषारकान्तेर् ार्यात्पृथग्जनशतानि हि संभ्रमन्ति ॥ १८.६१३ लब्धान्तरस्ततः पादौ शिरसा मातुरस्पृशम् सापि सार्धपयःपात्रा पतति स्म ममोपरि ॥ १८.६१४ चिराच्च लब्धनिश्वासा मामुदस्थापयत्ततः अनयत्पाणिनाकृष्य गृहाभ्यन्तरमण्डपम् ॥ १८.६१५ देवद्विजगुरूंस्तत्र सदुर्गतवनीपकान् स्फीतैः परिजनं च स्वम् विभवैः समयोजयम् ॥ १८.६१६ ततो निवर्तिताहार पर्यन्तकरणस्थितिः प्राविशं मातुरादेशाद् ावासं गुरुचारुतम् ॥ १८.६१७ तत्रासीनश्च पर्यङ्के महीतलसमासनाम् अपश्यं प्रथमां जायाम् करशाखावृताननाम् ॥ १८.६१८ तस्याः करुणया नेत्रे मार्जता संतताश्रुणी गङ्गदत्ता मया दृष्टा श्लिष्टभित्तिः पराङ्मुखी ॥ १८.६१९ वाङ्मात्रेणापि यत्सत्यम् न सा संमानिता मया स्मरन्ति हि तिरस्कारान् मुनयोऽपि गरीयसः ॥ १८.६२० तच्चावासगृहं दृष्ट्वा कुसुमस्थगितक्षिति सिन्धुरोधः स्मरामि स्म फुल्लनानालतागृहम् ॥ १८.६२१ समुद्रदिन्नया सार्धम् नुभूतं च तत्र यत् स्थितप्रस्थितगीतादि विश्रब्धाचरितं मया ॥ १८.६२२ मम त्वासीद्वरं दुःखम् नुभूतं महन्मया हृदयाद्व्यावृताद्येन क्वापि प्रियतमा गता ॥ १८.६२३ दुःखशून्यं तु तद्दृष्ट्वा रन्ध्रान् वेषणतत्परा अधुना निरनुक्रोशा सा प्रविष्टानिवारिता ॥ १८.६२४ प्रविष्टा हृदयं सा मे यथावासगृहं तथा प्रविशेदपि नामेयम् दुर्घटोऽयं मनोरथः ॥ १८.६२५ सा हि हि मामाह्वयत्येव परित्रायस्व मामिति तरंगपाणिनाकृष्य हृता पापेन सिन्धुना ॥ १८.६२६ इति चिन्तातुरं सा माम् हर्षत्याजितधीरता प्रविश्य त्वरयालिङ्गद् ङ्गैस्तुङ्गतनूरुहम् ॥ १८.६२७ अत्यन्तानुपपन्नं तु दृष्ट्वा तस्याः समागमम् तामेव ध्यातवानस्मि सिन्धुभङ्गाग्रतारणीम् ॥ १८.६२८ विस्मृतापरवृत्तान्तस्तदासक्तमनस्तया तामेवाश्वासयामि स्म मा स्म भीरुर्भवेरिति ॥ १८.६२९ अथ भीतेव सावोचत् स्वगृहे वर्तते भवान् विपन्नवहनः कष्टे न तु क्षाराम्भुधाविति ॥ १८.६३० ततः क्षाराम्बुधेर्भीमात् प्रत्याहृतमनास्तया गृहं तत्परितः पश्यन्न् पश्यं वनिताद्वयम् ॥ १८.६३१ स्मरता च सदाचारम् सपत्नीजनसंनिधौ वक्षःस्थापि सती नासौ दोर्भ्यामालिङ्गिता मया ॥ १८.६३२ अथावस्थान्तरे तस्मिन् दारसंनिधिसंकटे अस्राविता ममागच्छद् म्बात्रासाकुलेक्षणा ॥ १८.६३३ समुद्रदिन्नया सार्धम् ुच्छ्रिते संभ्रमान्मयि अम्बा शयनमध्यास्ते शेषास्त्वासत भूतले ॥ १८.६३४ ततः किंचिदिवाम्बायै यत्सत्यं कुपितोऽभवम् अकालज्ञा हि मातापि पुत्रेण परिभूयते ॥ १८.६३५ अथाम्बया विहस्योक्तम् कालज्ञेति मा ग्रहीः ननु सर्वज्ञकल्पस्य भार्याहं मित्रवर्मणः ॥ १८.६३६ त्वद्भार्यासंनिधावस्मिन्न् ागमिष्यमहं यदि व्यनशिष्यन्महत्कार्यम् तच्चेदमवधीयताम् ॥ १८.६३७ आयाचितशतैर्जातः पुत्रः पुत्रत्वमावयोः वर्धितः शिक्षितश्चासि पित्रा विद्याचतुष्टयम् ॥ १८.६३८ परिव्राच्छक्यनिर्ग्रन्थ ग्रन्थाभ्यासाच्च सर्वदा कुटुम्बपालनालापस्तव जातोऽतिदुर्भगः ॥ १८.६३९ ततः समन्त्रिना राज्ञा संमन्त्र्य गुरुभिश्च ते सुहृद्भिर्ध्रुवकाद्यैस्त्वम् ुद्याने मधु पायितः ॥ १८.६४० गङ्गदत्ता च तैरेव योजिता भवता सह तया तथा कृतश्चासि यथा वेत्थ त्वमेव तत् ॥ १८.६४१ प्रकारेण च येन त्वम् गृहं निवासितस्तया जनन्यै गङ्गदत्तायाः कथितो भूभृतैव सः ॥ १८.६४२ दरिद्रवाटके यच्च रात्रिंदिवमसि स्थितः तदेवैकमसौ राज्ञा कल्पितश्चारणादिभिः ॥ १८.६४३ जानात्येव च दीर्घायुः क्व चम्पा क्व दरिद्रता पौर्णमासी क्षपा केन दृष्टा ध्वान्तमलीमसा ॥ १८.६४४ सर्वदैव हि चम्पायाम् स्मिन् बलिनि पालके बलाविव महीपाले बलिराज्यं न दुर्लभम् ॥ १८.६४५ यां च रात्रिं भवान् सुप्तस्तस्मिन् दुर्गतवाटके मम खट्वातले तस्मिञ् छयितं गङ्गदत्तया ॥ १८.६४६ तस्याः प्रभृति भीमाया यावदद्यतनीं निशाम् अत्रान्तरे निषण्णेयम् मत्खट्वातलभूतले ॥ १८.६४७ यच्च तद्धनमेतस्यै त्वया दत्तं तदेतया भाण्डागारे तव न्यस्तम् शेषं कृतलेखकम् ॥ १८.६४८ तदियं सानुरागत्वाद् भवद्दर्शनकाङ्क्षिणी स्मृत्वा मिथ्यातिरस्कारम् न तिरस्कारमर्हति ॥ १८.६४९ भवता परिभूता च सपत्नीजनसंनिधौ कातरा प्रमदाभावात् प्राणानपि परित्यजेत् ॥ १८.६५० एतन्मनसि कृत्वार्थम् कालेऽप्यहमागता सीदद्गुरुतरार्थानाम् कः कालो नाम कार्यिणाम् ॥ १८.६५१ एष ते गङ्गदत्ताया वृत्तान्तः कथितोऽधुना वधूः समुद्रदिन्नापि यथायाता तथा शृणु ॥ १८.६५२ दरिद्रवाटकाद्यैस्त्वम् पथिकैः सह निर्गतः प्रयुक्तास्ते नृपेणैव स च सिद्धार्थको वणिक् ॥ १८.६५३ अन्तरे यच्च ते वृत्तम् सार्थध्वंसादि भीषणम् ताम्रलिप्तीप्रवेशान्तम् शिष्टं सिद्धार्थकेन तत् ॥ १८.६५४ भ्रष्टेन वहनभ्रंशाद् भ्राम्यता जलधेस्तटे यथा समुद्रदिन्नायाः पाणिरालम्बितस्त्वया ॥ १८.६५५ पुनश्च भिन्नपोतश्च पाण्ड्यपुर्यां च यत्तव वृत्तं कर्पासदाहान्तम् ताम्रलिप्त्यागमश्च यः ॥ १८.६५६ गङ्गदत्तेन तन्मह्यम् संततैर्लेखहारिभिः ख्यापितं यावदाचेरो भवन्तं क्वापि नीतवान् ॥ १८.६५७ अतः परं भवद्वार्त्ताम् विच्छिन्नत्वादविन्दती नैराश्यकृतनिर्वेदात् परलोकोत्सुकाभवम् ॥ १८.६५८ एवंप्राये च वृत्तान्ते दौवारिकनिवेदितौ समुद्रदिन्नया सार्धम् स्यालौ प्राविशतां ततः ॥ १८.६५९ प्रयुक्तार्घ्यादिसत्कारौ क्षणं तौ गमितश्रमौ विलक्ष्यावीक्षमाणौ माम् ाभाष्येसमवोचताम् ॥ १८.६६० तव पुत्राय पित्रा नस्तनयेयं प्रतिश्रुता स च यौवनमूढत्वात् स्वीकृतो गङ्गदत्तया ॥ १८.६६१ तया च स्वीकृतस्वस्य गच्छतो मातुलालयम् न शक्यते यदाख्यातुम् पुलिन्दैः किल तत्कृतम् ॥ १८.६६२ वैशसं दुःश्रवं श्रुत्वा तत्सूनोर्मित्रवर्मणः निष्प्रत्याशं कुटुम्बं नः प्रस्थितं यवनान् प्रति ॥ १८.६६३ अथ बोहित्थमास्थाय पूजितद्विजदेवताः संभाव्यव्यसनध्वंसम् समगाहाम सागरम् ॥ १८.६६४ ततः प्रजविनं पोतम् तं प्रचण्डः प्रभञ्जनः मृगेन्द्र इव नागेन्द्रम् प्रस्फुरन्तं प्रभिन्नवान् ॥ १८.६६५ वयं तु कर्मसामर्थ्यात् तरंगैः शरगत्वरैः आरूढाः पट्टपृष्ठानि प्रापिता जलधेस्तटम् ॥ १८.६६६ वधूस्त्वेकार्णवाम्भोधौ लोलकल्लोलसंकुले भ्रान्तमेघ इवोद्भ्रान्ता व्योम्नि सारसकन्यका ॥ १८.६६७ मुक्त्वा समुद्रदिन्नाशाम् र्थाशां च महाश्रुभिः यवनस्थमगच्छाम मातामहगृहं ततः ॥ १८.६६८ तत्रास्माकं कुटुम्बं तद् दूरादुत्सुकमागतम् समृद्धे सरसीवासीत् तृप्तं हंसकदम्बकम् ॥ १८.६६९ एथ याते क्वचित्काले पिता वामित्थमादिशत् आसाते किमुदासीनौ भवन्तौ स्थविराविव ॥ १८.६७० तरुणौ सकलौ स्वस्थौ वार्त्ताविद्याविशारदौ स्वजनान्नेन जीवन्तौ कुमुच्येथे जनैर्युवाम् ॥ १८.६७१ तस्मान्मुक्ताप्रवालादि सारं सागरसंभवम् गृहीत्वा यानपात्रेण सिन्धुरुत्तार्यतामिति ॥ १८.६७२ तथेति च प्रतिज्ञाय तथैवावामकुर्वहि श्लिष्टपट्टामथाद्राक्ष्व तरन्तीं रुदतीं स्त्रियम् ॥ १८.६७३ अस्पृशन्तः करैरेनाम् परस्त्रीमुपनौकया आरोपयत बोहित्थम् ित्यवोचाव वाहकान् ॥ १८.६७४ तां चारूढामपृच्छाम परस्त्रीति पराङ्मुखौ मातः कस्यासि का वेति सा च नीचैरवोचत ॥ १८.६७५ वाचा प्रत्यभिजानामि चिरमभ्यस्तया युवाम् कच्चित्सागरदत्तस्य भवन्तौ तनयाविति ॥ १८.६७६ ततस्तस्याश्चिराभ्यस्तम् प्रत्यभिज्ञाय तद्वचः कच्चित्समुद्रदिन्नासि सुन्दरीत्यवदाव ताम् ॥ १८.६७७ आक्रन्दन्ती ततस्तारम् ावयोर्वामदक्षिणे सापराङ्मुखयोर्जङ्घे बाहुभ्यां गाढमाश्लिषत् ॥ १८.६७८ अभाषत च हा तात हा ममाम्बा प्रियात्मजा धिक्कारः सागरं पापम् येन तौ क्वापि यापितौ ॥ १८.६७९ हार्यपुत्र क्व यातोऽसि हतस्नेह विहाय माम् आपन्नप्रियदाराणाम् नैष धर्मः सतामिति ॥ १८.६८० अथार्यपुत्रशब्देन भयसंशयहेतुना निःस्नेहीकृतचेतस्काव् भाषावहि तामिति ॥ १८.६८१ अलं सुन्दरि क्रन्दित्वा जीवतः पितरौ तव आर्यपुत्रः पुनर्यस्ते स नौ निश्चीयतामिति ॥ १८.६८२ ततः श्रुतपितृक्षेमा सा शोकोज्झितमानसा आवां मा भैष्टमित्युक्त्वा स्वं वृत्तं वृत्तमब्रवीत् ॥ १८.६८३ अस्त्यहं वहनाद्भ्रष्टा भ्राम्यन्ती जलधेस्तटे यस्मै दत्तास्मि युष्माभिस्तमद्राक्षं विपद्गतम् ॥ १८.६८४ संवादितस्ववृत्तेन गृहीतस्तेन मे करः जायन्ते हि सुपुण्यानाम् ुत्सवा व्यसनेष्वपि ॥ १८.६८५ स मामलालयद्बाल नारीलालनपेशलः तथा यथा प्रियतमौ नास्मरं पितरावपि ॥ १८.६८६ अथाद्य पोतमारुह्य समायतं यदृच्छया प्रस्थितौ स्वः स्वदेशाय विपन्नः स च पूर्ववत् ॥ १८.६८७ स च वां भागिनीभर्ता साक्रन्दायाः पुरो मम संप्रत्येव तरंगेण गमितः क्वापि वैरिणा ॥ १८.६८८ नभस्वज्जवनैर्भङ्गैर् भङ्गुरैरावृतः स च अकस्माज्जातशत्रुभ्याम् भवद्भ्यां चाहमुद्धृता ॥ १८.६८९ सत्वथा तद्वियोगाग्नि तप्तान्यङ्गानि सागरे शीते शीतलयिष्यामि मुञ्चतं मां युवामिति ॥ १८.६९० उपपन्नैरथालापैर् जनितप्रत्ययौ तया उत्पन्नपरमानन्दाव् ालिङ्गाम परस्परम् ॥ १८.६९१ विपन्नपोतयोरासीद् युवयोः संगमो यथा भविष्यति तथा भूयश् चित्रं हि चरितं विधेः ॥ १८.६९२ एवमादिभिरालापैश् चेतोविक्षेपहेतुभिः परिसंस्थापयन्तौ ताम् तराव महोदधिम् ॥ १८.६९३ तच्च मुक्ताप्रवालादि गुरुमूल्यं यदाहृतम् सहस्रगुणलाभं तद् ावाभ्यां परिवर्तितम् ॥ १८.६९४ वधूः समुद्रदिन्ना ते गुरुसारं च तद्धनम् सर्वमर्पितमावाभ्याम् तुभ्यं तत्परिगृह्यताम् ॥ १८.६९५ वहनध्वंसमुक्तानाम् समेतानां च बन्धुभिः एवं समुद्रदिन्ना च त्वत्पुत्रस्य निदर्शनम् ॥ १८.६९६ पूर्ववत्सानुदसोऽपि मुक्तः पोतविपत्तितः आगमिष्यति तद्देवि मुञ्च कातरतामिति ॥ १८.६९७ इत्युक्त्वा सधनस्कन्धाम् निक्षिप्य भागिनीं मयि सुसत्कारप्रयुक्तौ तौ यथागतमगच्छताम् ॥ १८.६९८ एवं समुद्रदिन्नेयम् ागता भवतो गृहम् दैवपौरुषयुक्तस्य श्रीरिव श्लाघ्यजन्मनः ॥ १८.६९९ तदेतान् भवतो दारान् धर्मचारित्ररक्षितान् रक्षन्त्या गुरुमानिन्या चरिते चरितं मया ॥ १८.७०० व्रीडितद्रविणेशस्य समृद्ध्या दिव्ययानया पित्रा तुल्यो भवत्वेष शापो नाशंसितस्तव ॥ १८.७०१ तस्माद्धनमिदं भुञ्जन् भुञ्जानश्च यथागमम् देवतानां पितॄणां च यात्वानृण्यं भवानिति ॥ १८.७०२ [थे fइनल्वेर्से सेएम्स्तो बे मिस्सिन्ग्] ॥ १८.७०३ स्निधैर्दारैः सुहृद्भिश्च मैत्रीमात्रनिबन्धनैः चम्पायां रममाणस्य कालः कश्चिदगाद्मम ॥ १९.१ एकदा प्रासकैः क्रीडन् सह गन्धर्वदत्तया सहसा प्रमदावेषम् पश्यं पुरुषं पुरः ॥ १९.२ कपालशिखिपिञ्छाभ्याम् विराजितकरद्वयम् अयुक्तेन्द्रधनुश्छाय शृङ्गारगलकण्ठिकम् ॥ १९.३ गन्धर्वदत्तया चासौ दत्तस्वासनया स्वयम् प्रक्षाल्य चरणौ भक्त्या स्वालंकारैरलंकृतः ॥ १९.४ तच्च मे गुरुगाम्भीर्यम् क्वापि नीतमसूयया यथा केसरिशावस्य गन्धहस्तिजिघांसया ॥ १९.५ ममासीदियमेवात्र सदोषा कुलमानिनी एष स्त्रीपुरुषः शोच्यो यो न स्त्री न पुमानिति ॥ १९.६ मामुद्दिश्य ततस्तेन क्रोधारुणितचक्षुषा वदता निहतोऽसीति विमुक्तः शिखिपिच्छकः ॥ १९.७ स मे केशकलापाग्रम् ीषदामृश्य यातवान् नागेषुरिव कर्णास्त्रः किरीटाग्रं किरीटिनः ॥ १९.८ स्वयमेव च तत्तस्य कपालमपतत्करात् निःस्थाम्नः कुञ्जरस्येव विधानं विनशिष्यतः ॥ १९.९ सोऽथ ग्रामेयकेनेव धिया धूर्तोऽतिसंधितः धूम्रछायः शनैर्जल्पन् धिग्धिङ्मामिति निर्गतः ॥ १९.१० अथ गन्धर्वदत्ता माम् दीप्तामर्षमशङ्किता सवाडवमुपासर्पन् निम्नगेव महार्णवम् ॥ १९.११ मम त्वासीदहो स्त्रीणाम् त्रासमत्रपं मनः यत्पुरेव प्रगल्भेयम् ुपसर्पति मामिति ॥ १९.१२ सा मामवोचद्भीतेव शीतलीभवत क्षणम् किंचिद्विज्ञापयाम्येष यातु वः क्रोधपावकः ॥ १९.१३ अयं विकचिको नाम गौरीशिखरवासिनः विद्याधरपतेर्भ्राता गौरिमुण्डस्य साधकः ॥ १९.१४ भूतव्रतं च नामेदम् बहुविध्नं चरत्ययम् समाप्तेऽस्मिन्नविघ्नेन वन्ध्याः स्युर्नो मनोरथः ॥ १९.१५ या च पूजयते तं स्त्री गौरीव्रतविचारिणम् तस्यै वरं महागौरी दयते शापमन्यथा ॥ १९.१६ विज्ञापयामि संक्षिप्तम् क्रोधादन्यो महाबलः विहन्ता सर्वसिद्धीनाम् नास्ति विघ्नविनायकः ॥ १९.१७ सिद्धकल्पं च तस्येदम् खण्डयत्या महाव्रतम् तुष्टया तोषिता गौरी मया यूयं च रोषिताः ॥ १९.१८ तदेतस्यास्य युष्मभ्यम् क्रुद्धेभ्यः क्रुध्यतस्तथा गौरीभ्रष्टा महाविद्या विद्येव तनुमेधसः ॥ १९.१९ तेन युष्माकमेवेदम् कार्यं कुर्वाणया गुरु यन्मया रोषिता यूयम् ेतन्मे मृष्यतामिति ॥ १९.२० स च क्रोधग्रहश्चण्डः शनकैः शनकैर्मम दयितामन्त्रवादिन्या हृदयादपसर्पितः ॥ १९.२१ इति संजनितोत्साहस्तयाहं मन्त्रसाधनैः आसीनः सानुदासेन कदाचिदिति भाषितः ॥ १९.२२ आसीदिहैव चम्पायाम् िष्टभार्यो महीपतिः तेन दोहदकं पृष्टा भार्यावोचत्त्रपावती ॥ १९.२३ क्रीडन्मकरकुम्भीर कुलीरझषकच्छपे क्रीडेयं सह युष्माभिर् जले जलनिधेरिति ॥ १९.२४ राज्ञापि मगधैर्साङ्गैर् बन्धयित्वाशु निम्नगाम् सरः सागरविस्तारम् वन्ध्याज्ञेन खानितम् ॥ १९.२५ तत्र नक्रादिसंस्थान दारुयन्त्रनिरन्तरे विमानाकारपोतस्थौ तौ राजानौ विचेरतुः ॥ १९.२६ आरभ्य च ततः कालात् तत्र यात्रा प्रवर्तिता आहृष्टपरपुष्टेषु दिवसेषु महीभुजा ॥ १९.२७ ते चैते दिवसाः प्राप्ताः पटुकोकिलकूजिताः सा च यात्रेयमायाता रम्यामृतभुजामपि ॥ १९.२८ इष्यते यदि च द्रष्टुम् सह गन्धर्वदत्तया अस्मदादिपरीवारैस्ततः सा दृश्यतामिति ॥ १९.२९ अभिनीय ततो रात्रिम् प्रातः प्रवहणाश्रितः निर्गच्छामि स्म चम्पायाः पौरनेत्रोत्पलार्चितः ॥ १९.३० चक्षुर्मनोहराराम च्छायामध्यासितं ततः पक्कणं दृष्टवानस्मि राजराजपुरोज्ज्वलम् ॥ १९.३१ तस्य मध्ये च मातङ्गम् गन्धमातङ्गधीरतम् कालमप्युज्ज्वलायामम् घनाघनमिवाम्बुदम् ॥ १९.३२ कालिन्दीनीलकालीं च वृद्धां पिङ्गशिरोरुहाम् दीप्तसौदामनीचक्राम् प्रावृषेण्यामिव क्षपाम् ॥ १९.३३ दोलालिलाविलोला च तत्रादृश्यत कन्यका नीलनीरजमालेव कोमलानिललासिता ॥ १९.३४ चिन्तितं च मया कान्ता यदि मे कालिका भवेत् इयमेव ततस्तन्वी क्षिप्तकुङ्कुमगौरता ॥ १९.३५ स्थानाच्चाचलितैवासौ दृष्ट्या मां दूरमन्वगात् मालयेव पलाशानाम् ंशुमन्तं सुवर्चला ॥ १९.३६ तां चालिङ्गितवानस्मि दृष्ट्या दूरीभवन्नपि नितान्तस्निग्धया प्राचीम् प्रभयेव दिवाकरः ॥ १९.३७ स्निग्धे दृष्टी विसर्ज्येति दूतिकाप्रतिदूतिके तया मम मया तस्या नीताः प्राणा विधेयताम् ॥ १९.३८ अथारामानभिक्रुध्यन्न् ावयोर्व्यवधायकान् मातङ्गीं मनसागच्छम् शरीरेण महासरः ॥ १९.३९ स च यात्रोत्सवश्चित्रो मयान्याहितचेतसा तत्रस्थेनैव नो दृष्टः संसार इव योगिना ॥ १९.४० अथ यात्रोत्सवे तत्र पीत्वेव मधु भास्करः मन्दमन्दपरिस्पन्दस्ताम्रमण्डलतामयात् ॥ १९.४१ मम त्वासीद्यथा देवः प्राचीं कमलिनीप्रियः अप्रसाद्यैव तां भानुः प्रतीचिमुपसर्पति ॥ १९.४२ तथा गन्धर्वदत्तायाः पुर एवानुवर्ण्य ताम् मातङ्गीमनुसर्पामि यथा राजा तथा प्रजाः ॥ १९.४३ अथ वा मानुषैरेव यः पन्थाः कामिभिर्गतः तमेवानुगमिष्यामि न देवचरितं चरेत् ॥ १९.४४ सानुदासमथावोचम् भरद्वाजात्मजा त्वया पूर्वमेव सयानेन नगरीमभिनीयताम् ॥ १९.४५ पश्चाज्जनसमूहस्य गच्छन्त्याः पथि पांसवः पराधूसरयन्त्यस्याः सोत्पलामलकावलीम् ॥ १९.४६ शोभां यात्रिकलोकस्य पश्यन् प्रविशतः पुरम् पुरस्तादहमायामि सह नागरकैरिति ॥ १९.४७ अथ गन्धर्वदत्तायाम् प्रवृत्तायां पुरं प्रति दारिके द्वे परावृत्य वन्दित्वा मामवोचताम् ॥ १९.४८ आवामाज्ञापिते देव्या स्वामिनं निर्विनोदनम् विनोदयतमालापैर् युवामपरुषैरिति ॥ १९.४९ ततस्ते मदयित्वाहम् तोषयित्वा च भूषणैः पटुवेगेन यानेन पक्कणान्तिकमागमम् ॥ १९.५० सापि तत्रैव दोलायाम् स्थिता मातङ्गसुन्दरी गच्छन्तमिव निर्व्याजम् ागच्छन्तं समैक्षत ॥ १९.५१ विश्रब्धमथ तां द्रष्टुम् शनैर्यानमचोदयम् ततस्तदपि संप्राप्तम् जवेन कुलटाद्वयम् ॥ १९.५२ आसीच्च मम यल्लोके प्रसिद्धमभिधीयते श्रेयांसि बहुविघ्नानि भवन्तीति तथैव तत् ॥ १९.५३ दुःखेन च गृहं गत्वा शून्यः संमान्य च प्रियाम् निद्रामभिलषामि स्म मातङ्गीसंगमाशया ॥ १९.५४ अर्धरात्रे तु सहसा प्रतिबुद्धा मुनेः सुता प्रयुक्ते मयि ये दास्यौ ते पानीयमयाचत ॥ १९.५५ धौतप्रमृष्टवदना स्वादिताननभूषणा उपवेश्य पुरोऽक्लेशैर् पृच्छद्बन्धकीद्वयम् ॥ १९.५६ अर्यपुत्रेण मातङ्गी तया वा लोलनेत्रया दृष्टोऽयं तरलेनेति ततस्ताभ्यां निवेदितम् ॥ १९.५७ न तथा सार्यपुत्रेण प्रेक्षिता जीर्णकन्यका नेत्राभ्यामनिमेषाभ्याम् र्यपुत्रस्तया यथा ॥ १९.५८ ततः प्राक्प्रतिबुद्धं माम् पृच्छत्सुप्रभासुता जाग्रथ स्वपिथेत्युच्चैर् जाग्रमीति मयोदितम् ॥ १९.५९ तयोक्तमयमारम्भो युष्माकं दृश्यते यथा तथा नलिनिकां नूनम् कर्तुमिच्छसि मामिति ॥ १९.६० क्वासौ नलिनिका का वा कस्य वेति मयोदिते भरद्वाजसुताख्यातुम् ुपाक्रामत वृत्तकम् ॥ १९.६१ अस्ति पश्चात्समुद्रान्ते स्वाचारधनवत्प्रजम् नगरं काननद्वीपम् महेन्द्रनगरोपमम् ॥ १९.६२ अमहेन्द्रगुणस्तत्र मनुजेन्द्रः प्रजाप्रियः पुत्रो मनोहरस्तस्य संज्ञायापि मनोहरः ॥ १९.६३ विदिताशेषवेद्योऽपि गन्धशास्त्रप्रियोऽधिकम् नानारुचिषु सत्त्वेषु कस्यचित्किंचिदीप्सितम् ॥ १९.६४ सुहृदौ बकुलाशोकौ वसन्तस्येव तस्य यौ वसन्तमिव तं प्रेम्णा न कदाचिदमुञ्चताम् ॥ १९.६५ कदाचिद्द्वारपालेन वन्दित्वा राजसूनवे कुमारावसथस्थाय समित्राय निवेदितम् ॥ १९.६६ युष्मान् सुमङ्गलो नाम बुद्धगन्धानुशासनः अग्राम्यो धीरवचनः कस्मादपि दिदृक्षते ॥ १९.६७ गच्छ प्रवेशयेत्युक्त्वा द्वारपालं मनोहरः विलेपनमुपादत्त धूपं च त्वरितोऽदहत् ॥ १९.६८ सुमङ्गलोऽप्यनुज्ञातः प्रविश्य द्वारदेशतः शिरो निपीड्य पाणिभ्याम् संकोच्याङ्गमपासरत् ॥ १९.६९ अनेन मम धूपेन गन्धमाल्यविवादिना आघ्रातेन शिरःशूलम् ुत्पन्नमिति चावदत् ॥ १९.७० आकृष्टे स्थगिकायाश्च स्वस्याः फलकसंपुटे मनोहरं मुहुः पश्यन् स्वयं धूपमयोजयत् ॥ १९.७१ ततः कृतनमस्कारः स मनोहरमब्रवीत् सुमनोगन्धसंवादी धूपोऽयं दाह्यतामिति ॥ १९.७२ ततः सबकुलाशोकस्तस्मिन् गन्धे मनोहरः प्रतीतो गन्धशास्त्रज्ञम् सुमङ्गलमपूजयत् ॥ १९.७३ एवं च कृतसत्कारो राजपुत्रं सुमङ्गलः दिनैस्त्रिचतुरैरेव चतुरः पर्यतोषयत् ॥ १९.७४ एकदा बकुलाशोक सुमङ्गलपुरःसरः मनोहरामगाद्द्रष्टुम् यक्षसत्त्रां मनोहरः ॥ १९.७५ तत्र तत्र ततस्तेन पश्यता तत्तदद्भुतम् यक्षीप्रतिकृतिर्दृष्टा विन्यस्ता चित्रकर्मणि ॥ १९.७६ निर्जीवापि स्फुरन्तीव मूकापि मृदुवागिव चित्रे न्यस्तापि सा तेन चित्ते न्यस्तातिरागिणा ॥ १९.७७ द्रष्टव्यं चान्यदुज्झित्वा रमणं चित्तचक्षुषाम् सुमनोगन्धधूपाद्यैस्तामेवैकामसेवत ॥ १९.७८ बलवन्मन्मथापास्त भोग्याभोग्यविचारणः नितम्बादम्बरं तस्याः स किलाक्रष्टुमैहत ॥ १९.७९ चित्रभित्तिमथ त्यक्त्वा सापि पद्मेव पद्मिनीम् विष्णोर्वक्ष इव श्यामम् सेवत नभस्तलम् ॥ १९.८० उवाच राजपुत्रं च नाम्नाहं सुकुमारिका यक्षी यक्षपतेः शापात् प्राप्तालेख्यशरीरताम् ॥ १९.८१ तेन क्षणिकरोषेण नारीषु च दयालुना शापान्तमर्थितेनाहम् िति निध्याय धीरिता ॥ १९.८२ चित्रन्यस्ततनुं यस्त्वाम् मनुष्योऽभिभविष्यति स एव कृतशापान्तस्तव भर्ता भविष्यति ॥ १९.८३ इति त्वं राजराजेन भर्ता मे प्रतिपादितः सदृशो वरदानेन शापोऽपि हि महात्मनाम् ॥ १९.८४ यदि तेऽस्ति मयि प्रीतिस्ततः क्रीडत्सुरासुरम् शैलं श्रीकुञ्जनामानम् यक्षावासं व्रजेरिति ॥ १९.८५ अथान्तर्धिं गता यक्षी महामोहं मनोहरः तं चालोक्य तथावस्थम् विषादं बकुलादयः ॥ १९.८६ लब्धसंज्ञश्च तैरुक्तः श्रुत्वा यक्षीकथामसौ अलमाकुलतां गत्वा सुलभा सुकुमारिका ॥ १९.८७ यद्यसौ दुर्गमः शैलस्ततस्तं सुकुमारिका युष्मत्संभोगमिच्छन्ती न तथा कथयेदिति ॥ १९.८८ एकदा पितरं द्रष्टुम् स गतः ससुहृद्गणः सिद्धयात्रं परावृत्तम् पश्यत्पोतवाणिजम् ॥ १९.८९ राज्ञो दत्तमहारत्नः स राज्ञा कृतसत्क्रियः पृष्टस्तेन भवान् किं किम् ाश्चर्यं दृष्टवानिति ॥ १९.९० तेनोक्तमम्बुधेस्तीरे देवेन वसता सता दृष्टं किं नाम नाश्चर्यम् ाश्चर्यनिधिरम्बुधिः ॥ १९.९१ किं त्वेकदाहमद्राक्षम् हृतपोतो नभस्वता सान्द्रहेमप्रभापिङ्गम् तुङ्गशृङ्गस्रजं नगम् ॥ १९.९२ किमेतदिति पृष्टश्च मया निर्यामकोऽवदत् वृद्धैरेष समाख्यातः श्रीकुञ्जः शृङ्गवानिति ॥ १९.९३ एवमादि निवेद्यासौ वाणिजः स्वगृहानगात् राजपुत्रोऽपि राजानम् नत्वा वाणिजमन्वगात् ॥ १९.९४ प्रददावथ सर्वस्वम् तस्मै त्रासेन वाणिजः राजपुत्राद्गृहप्राप्ताद् ाढ्यः को नाम न त्रसेत् ॥ १९.९५ तेनापि सुमनोमाला मात्रमालभ्य भाषितम् न सत्कारखलीकारम् र्हन्ति शिशवो गुरोः ॥ १९.९६ किं तु यस्तातपादेभ्यः श्रीकुञ्जः कथितस्त्वया स कुतूहलिने मह्यम् स्पष्टमाख्यायतामिति ॥ १९.९७ प्रत्याश्वस्तस्ततस्तस्य वचोभिर्मधुरैरसौ श्रीकुञ्जं सहितं चिह्नैर् ित्याख्यातुं प्रचक्रमे ॥ १९.९८ अथैकदा मदेनेव महाव्यालो मतङ्गजः मरुता त्याजितस्थैर्यो यातः पोतः स्वतन्त्रताम् ॥ १९.९९ प्रशान्तोत्पातवातत्वात् सागरे चाम्बरस्थिरे चित्राकारानपश्याम प्राणिनो जलचारिणः ॥ १९.१०० क्वचित्केसरिशार्दूल द्वीपिखड्गर्क्षशम्बरान् यूथशः प्रस्तुतक्रीडान् ुन्मज्जननिमज्जनैः ॥ १९.१०१ अन्यत्राविद्धकर्णानाम् स्त्रीपुंसानामवाससाम् ध्वनिमात्रकभाषाणाम् द्वंद्वानि पशुधर्मणाम् ॥ १९.१०२ क्वचिदुत्पततस्तुङ्गान् नागानायतपक्षतीन् पक्षच्छेदभयालीनान् नगानिव महार्णवात् ॥ १९.१०३ अवाच्च सहसा मोदः कौवेर्याः पवनाहृतः यस्याघ्राणाय संपन्नम् मन्ये घ्राणमयं जगत् ॥ १९.१०४ द्रक्ष्यन्तः संभवं तस्य सकुतूहलदृष्टयः दूराद्गिरिमपश्याम रत्नकूटस्थकिंनरम् ॥ १९.१०५ किमेतदिति प्र्ष्टश्च मया निर्यामकोऽब्रवीत् वृद्धैरेष समाख्यातः श्रीकुञ्जः शृङ्गवानिति ॥ १९.१०६ इत्यादि कथितं तेन यद्यत्तत्तन्मनोहरः सहसागरदिग्देशम् स्पष्टं संपुटकेऽलिखत् ॥ १९.१०७ आगमय्य ततः पोतम् ाप्तनिर्यामकास्थितम् बकुलादिसहायोऽसाव् गाहत महार्णवम् ॥ १९.१०८ अनुकूलमहावेग समीरप्रेरितेन सः आसीददचिरेणैव पोतेन दिशमीप्सिताम् ॥ १९.१०९ सदृशैः स्फलकस्थानाम् चिह्नैर्जनितनिश्चयः मनश्चक्षुःशरीरैः सः श्रीकुञ्जं युगपद्गतः ॥ १९.११० अम्भोधिजलकल्लोल धौतनीलोपलं ततः आकाशाशविशालोच्चम् पोतः सोपानमासदत् ॥ १९.१११ तत्रैव सुहृदस्त्यक्त्वा यदुत्कण्ठो मनोहरः तेन शैलाग्रमारोहद् धर्मेनेव त्रिपिष्टपम् ॥ १९.११२ यक्षस्त्रीपुंसवृन्दैश्च प्रेक्ष्यमाणः ससंमदैः संकल्पचक्षुषा पश्यन्न् गच्छत्सुकुमारिकाम् ॥ १९.११३ तत्र काश्चिदभाषन्त कृतार्था सुकुमारिका ययास्मिन्नाहितं प्रेम नरामरकुमारके ॥ १९.११४ सुरासुरनराणां हि कस्यायं न मनोहरः यो वृतः सहजाहार्यैः शरीरादिगुणैरिति ॥ १९.११५ प्रक्रीडन्तीमथापश्यद् विशाले मन्दिराजिरे स्वे संकल्पमये यक्षीम् वक्षसीव मनोहरः ॥ १९.११६ प्रत्युद्गम्य तया चासौ रूपाजीवाप्रगल्भया स्विन्नकण्टकिते पाणौ गृहीत्वान्तः प्रवेशितः ॥ १९.११७ तस्याः पितरमद्राक्षीत् तत्रारब्धदुरोदरम् रक्ताक्षं शातकौम्भाभम् समदं मेदुरोदरम् ॥ १९.११८ उपवेश्य च तेनाङ्के घ्रात्वा मूर्ध्नि महोहरः श्वश्रूः पश्येत्यनुज्ञातः प्रविवेशावरोधनम् ॥ १९.११९ यत्र संपूर्णतारुण्याः कर्णिकारस्रगुज्ज्वलाः श्वश्रूश्वशुरयोस्तस्य पितामह्योऽपि योषितः ॥ १९.१२० अभिवाद्य च तास्तत्र स ताभिरभिनन्दितः अनुज्ञातश्च सस्नेहम् प्राविशत्कन्यकागृहम् ॥ १९.१२१ दिव्यस्य मधुनः पानम् दिव्यतन्त्रीरुतिश्रुतिः दिव्यस्त्रीसंप्रयोगाश्च मनोहरमनोऽहरन् ॥ १९.१२२ इत्यसौ क्षणमासीनः सुकुमारिकयोदितः अतीता दिवसाः पञ्च कुमार प्रतिगम्यताम् ॥ १९.१२३ देवलोकैकदेशोऽयम् यत्ततोऽस्मिन्न लभ्यते स्थातुं मानुषमात्रेण पञ्चमाद्दिवसात्परम् ॥ १९.१२४ भवन्तं च परित्यज्य गच्छेयुः पोतवाहकाः वहनस्वामिनं पञ्च प्रतीक्षन्ते दिनानि ते ॥ १९.१२५ श्रुत्वेदं राजपुत्रस्य देवपुत्रस्य यादृशी स्वर्गतश्च्यवमानस्य ध्यामध्यामाभवत्प्रभा ॥ १९.१२६ तं दृष्ट्वा तादृशाकारम् वोचत्सुकुमारिका अद्यारभ्य गमिष्यामि तवैवाहं गृहानिति ॥ १९.१२७ स तया धीरितो गत्वा पोतमुद्विग्नवाहकम् तत्रैव सुहृदोऽपश्यद् दिव्यरत्नाम्बरस्रजः ॥ १९.१२८ स्थिताः स्थ दिवसानेतान् क्व कथं वेति चोदिताः तेन ते कथयन्ति स्म यथा यूयं तथा वयम् ॥ १९.१२९ सुकुमारिकयादिष्टाः प्रहृष्टा गुह्यकाङ्गनाः अस्मानुपचरन्ति स्म सुरानिव सुराङ्गनाः ॥ १९.१३० महादेवमुपासीना मृता गच्छन्ति मानुषाः सेवमाना वयं देवम् देवताममृता गताः ॥ १९.१३१ इति यक्षीकथारक्ता महाध्वानं महाभयम् तासामेवानुभावेन संतेरुस्ते महोदधिम् ॥ १९.१३२ व्यापारैरुज्झितं सर्वैस्त्रिवर्गप्राप्तिहेतुभिः प्राविशंस्तद्वियोगार्तम् शून्यराजपथं पुरम् ॥ १९.१३३ अथैका ब्राह्मणी वृद्धा किमर्थमपि निर्गता अवगुष्ठितमूर्धानम् पश्यति स्म मनोहरम् ॥ १९.१३४ तमसौ प्रत्यभिज्ञाय परितोषस्खलद्गतिः गत्वा ध्यानपरास्थानम् महीपालमतोषयत् ॥ १९.१३५ मन्त्रिप्रभृतयस्तेन वारिताः पुरवासिनः मा वोचद्दारकं कश्चित् क्व गतोऽभूद्भवानिति ॥ १९.१३६ राजपुत्रोऽपि राजानम् वन्दत विलक्षकः सोऽपि तस्याङ्कमारोप्य हरति स्म विलक्षताम् ॥ १९.१३७ स्वं च मन्दिरमागत्य स सुमङ्गलमुक्तवान् गन्धशास्त्रफलं सारम् धूपमायोज्यतामिति ॥ १९.१३८ अद्यागच्छति युष्माकम् सखीभिः सहिता सखी सुगन्धिताप्रधानं च रतमाहुरनिन्दितम् ॥ १९.१३९ गन्धराजश्च योऽस्माकम् घुष्यते यक्षकर्दमः स कर्दमसमस्तासाम् तोऽसौ यक्षकर्दमः ॥ १९.१४० तस्मादादरमास्थाय शास्त्रमद्य प्रकाश्यताम् धनुर्वेदस्य कृत्स्नस्य विद्धसारं हि सौष्ठवम् ॥ १९.१४१ इति प्रोत्साहितस्तेन स्वार्थेन च सुमङ्गलः धूपस्नानीयगन्धादि यथादेशमयोजयत् ॥ १९.१४२ मनोहरस्तु ससुहृत् कृतकामुकडम्बरः आसन्नदयिताशून्याम् दुःखशय्यामसेवत ॥ १९.१४३ ततः स तादृशो गन्धस्तथायत्नेन साधितः प्रेरितः पटुनान्येन समीरेणेव तोयदः ॥ १९.१४४ भासा विच्छाययन्तीव चन्द्रकान्तादिचन्द्रिकाम् प्रविश्य सहसाछ्यास्त पर्यङ्कं सुकुमारिका ॥ १९.१४५ ततः सस्मितमालोक्य बकुलादीनुवाच सा ससहायाहमायाता यात विश्रम्यतामिति ॥ १९.१४६ प्रणम्य तेषु यातेषु कुमारसुकुमारिके यथा तथाविधोत्कण्ठे तथागमयतां निशाम् ॥ १९.१४७ संभोगरमणीयैश्च शरीरैर्बकुलादयः प्रभाते राजपुत्राय रात्रिवृत्तं न्यवेदयन् ॥ १९.१४८ रात्रौ रात्रौ समेतानाम् वियुक्तानां दिवा दिवा इति संवत्सरो यातस्ताभिस्तेषामचेतितत्ः ॥ १९.१४९ एकदा स्यन्दमानाश्रुः साक्रन्दा सा तमब्रवीत् स्वाधीनानां पराधीनैः सह संगतिरीदृशी ॥ १९.१५० अद्यारभ्य मया देवः सेवितव्यो धनेश्वरः सखीसहितया वर्षम् गृहीतब्रह्मचर्यया ॥ १९.१५१ पितरौ वन्दितुं चाहम् ष्टम्यादिषु पर्वसु स्वगृहाय गमिष्यामि तत्र गच्छेद्भवानिति ॥ १९.१५२ त्वत्सङ्गसुभगा या दिक् तामपि प्रेक्ष्य जीव्यते निन्दितामृतपानेन किं पुनर्दर्शनेन ते ॥ १९.१५३ तस्यामुक्त्वेति यातायाम् ायाता बकुलादयः खं पश्यन्तमपश्यंस्तम् ियं यातीति वादिनम् ॥ १९.१५४ ततः सबकुलाशोके सशोके पार्थिवात्मजे तोषगद्गदवागुच्चैर् भाषत सुमङ्गलः ॥ १९.१५५ किमस्ताने विषादेन पोतमारुह्य मामकम् दृष्टमार्गा मुहूर्तेन यामस्तं गुह्यकाचलम् ॥ १९.१५६ ध्यायन्तस्तत्र ताः कान्ताः पश्यन्तश्चान्तरान्तरा संगमाशाधनप्राणा यापयाम समामिति ॥ १९.१५७ ततः स तेन पोतेन प्रस्थितश्च महार्णवम् स च पोतः समीरेण दूरं हृत्वा विपादितः ॥ १९.१५८ राजपुत्रस्तु दयिताम् सिद्धां विद्यामिव स्मरन् तां न चेतितवानेव विपत्तिं मारदारुणाम् ॥ १९.१५९ उत्तीर्णस्यैव जलधेर् वेलारोधासि सर्पतः चौरसैन्येन संयम्य तस्यालंकरणं हृतम् ॥ १९.१६० ततस्तस्करसैन्यं तद् वाजिसैन्येन सर्वतः वेष्टितं कुट्टितं बद्धम् ुद्बद्धं पादपेषु च ॥ १९.१६१ एकश्चारुतराकारः पुरुषः प्रणिपत्य तम् करिणीपृष्ठमारोप्य ससैन्यः प्रस्थितः पुरः ॥ १९.१६२ अदूरं चान्तरं गत्वा बन्दिस्तुतिगुणान्वयः मनोहरः पुरं प्रापत् कुङ्कुमालिप्तचत्वरम् ॥ १९.१६३ रत्नवन्दनमालानाम् स शृण्वन् पटुशिञ्जितम् आगच्छत्कलरासानाम् नानापत्त्रिस्रजामिव ॥ १९.१६४ पुरानुरूपशोभं च प्राविशत्स नृपालयम् विशालमण्डपासीनम् शक्राकारं नराधिपम् ॥ १९.१६५ अवतीर्य च हस्तिन्याः स राजानमवन्दत गाढमालिङ्ग्य तेनापि चिरं प्रीत्या निरूपितः ॥ १९.१६६ शरीरावयवान् दृष्ट्वा मुहुस्तस्यावदत्ततः कुतः सुमङ्गलादन्यश् चक्षुष्मानिति भूपतिः ॥ १९.१६७ आसीच्च राजपुत्रस्य स एवायं सुमङ्गलः भवेदहमिव भ्रष्टः पोतभङ्गभयादिति ॥ १९.१६८ गच्छ विश्रम्य तातेति राज्ञोक्तः प्राविशत्पुरम् अपश्यन्नतमूर्धानम् स तमेव सुमङ्गलम् ॥ १९.१६९ पृच्छति स्म च तं भद्र मित्रे प्राणसमे तव भुजौ मे बकुलाशोकौ कच्चित्कुशलिनाविति ॥ १९.१७० तेनोक्तं बकुलाशोकौ गृहान् कुशलिनौ गतौ यथा चाहमिहायातस्तथाश्रोतुं प्रसीदत ॥ १९.१७१ पुनरुक्तगुणाख्यानम् ेतत्नागपुरं पुरम् दृष्टमेव हि युष्माभिर् नृपश्चैष पुरंदरः ॥ १९.१७२ जयन्त इति पुत्रोऽस्य शूरः चारुः कविः पटुः स येन यूयमानीताः सागरोपान्तकाननात् ॥ १९.१७३ सुता नलिनिका नाम नृपतेस्तस्य तादृशी यस्या न प्रमदालोके न चास्ति सदृशो वरः ॥ १९.१७४ वरं वरयता तस्याः पित्रा द्वीपान्तराण्यपि गुणरूपान्तरज्ञान शालिनः प्रहिता हताः ॥ १९.१७५ अनेन च प्रपञ्चेन यदा कालो बहुर्गतः तदा मामयमाहूय सदैन्यस्मितमुक्तवान् ॥ १९.१७६ त्वं न केवलमस्माकम् सर्वाध्यक्षगणाग्रणीः नाथोऽपि भव नस्तात संकटादुद्धरन्नितः ॥ १९.१७७ कुलशीलवयोरूपैर् यः स्यादस्याः समो वरः आदरेण तमन्विष्येस्त्यज श्रीमदिरारुजम् ॥ १९.१७८ भूरिसारधनाढ्योऽपि गुणद्रविणदुर्गतः दुर्गतेभ्यः सुदूरेण शोचनीयः सतामिति ॥ १९.१७९ ततो नलिनिकारूपम् ालिख्य फलके मया मही साष्टादशद्वीपा परिक्रान्ता वरार्थिना ॥ १९.१८० यदा तु पटुयत्नोऽपि नालभे वरमीप्सितम् तदा त्यक्तुमनः प्राणान् प्राविविक्षं महोदधिम् ॥ १९.१८१ गतश्च काननद्वीपम् दृष्टवानस्मि संचरन् युष्मद्गुणकथासक्ताः संतताः साधुसंपदः ॥ १९.१८२ ततः स मे स्थिराधैर्यस्तादृङ्मरणनिश्चयः ज्योत्स्नयेव तमोराशिर् युष्मत्कीर्त्या निराकृतः ॥ १९.१८३ गन्धशास्त्रव्यसनिनो युष्मान् बुद्ध्वा च लोकतः आत्मापि गन्धशास्त्रज्ञस्तदा वः श्रावितो मया ॥ १९.१८४ तुल्यज्ञानस्वभावा हि भर्तॄणामनुजीविनः रञ्जयन्ति मनः क्षिप्रम् गुणैरपि निराकृताः ॥ १९.१८५ गन्धमाल्यविसंवादी धूपो यच्चापि दाहितः सुहृद्भिः सह युष्माभिर् हं जिज्ञासितस्तदा ॥ १९.१८६ यच्च योजितवानस्मि गन्धमाल्यानुवादिनम् धूपं तत्फलके न्यस्ताम् पश्यं भर्तृदारिकाम् ॥ १९.१८७ तामालोक्य ततो युष्मान् मन्येऽहं धन्यजन्मनाम् आत्मनो राजपुत्र्याश्च विधातुश्च कृतार्थताम् ॥ १९.१८८ सोऽहं स्वार्थपरो युष्मान् पहर्तुमितो गतः यावद्युष्मद्गुणैरेव हृतः साधुमनोहरैः ॥ १९.१८९ तथापि सत्कृतो युष्मान् हर्तुमेवाहमुद्यतः पापमध्याचरन्त्येव भृत्या भर्तृप्रियेप्सवः ॥ १९.१९० पुण्यैर्नलिनिकायाश्च युष्मत्संगमहेतुभिः सेवाचारापदेशेन गतैव सुकुमारिका ॥ १९.१९१ इदं चान्तरमासाद्य मया यूयं त्वरावता संनिधापितपोतेन समुद्रमवतारिताः ॥ १९.१९२ प्रदेशे यत्र चाम्भोधिर् विपन्नं वहनं वहेत् विपन्नवहनस्तत्र न च कश्चन विद्यते ॥ १९.१९३ तेन तौ बकुलाशोकाव् विपन्नौ गृहान् गतौ इदं च पुरमायाता यथा यूयं तथा वयम् ॥ १९.१९४ तस्मान्नलिनिकाद्यैव युष्माभिरनुगम्यताम् न हि श्रीः स्वयमायान्ती कालातिक्रममर्हति ॥ १९.१९५ मनोहरस्तु तां प्राप्य सर्वाकारमनोहराम् यथाकाममुपाभुङ्क्त करी कमालिनीमिव ॥ १९.१९६ सुमङ्गलेन सा चोक्ता मा स्म शेथाः पृथङ्निशि पत्युस्ते दयिता यक्षी मैवं नैषीदसाविति ॥ १९.१९७ कुपिता राजपुत्राय राजपुत्री कदाचन उन्निद्रैव सनिद्रेव सुप्ता किल पृथक्क्षणम् ॥ १९.१९८ अथ सेवावधौ पूर्णे वर्षान्ते सुकुमारिका शयितं पृथगासाद्य मनोहरमपाहरत् ॥ १९.१९९ यथा नलिनिकाभर्ता सुकुमारिकया हृतः युष्मानपि हरेदेषा तथा मातङ्गकन्यका ॥ १९.२०० मन्यध्वे यादृशीमेनाम् कन्यका नेयमीदृशी न हि चण्डालकन्यासु रज्यन्ते देवसूनवः ॥ १९.२०१ इदं नलिनिकावृत्तम् स्मृत्वा यूयं मयोदिताः न मे नलिनिकावार्त्ता विरसान्ता भवेदिति ॥ १९.२०२ अनन्यगतसंकल्पम् ेवं मां मा स्म कल्पयः इति जिह्मं पुरस्तस्याः कामुकाचारमाचरम् ॥ १९.२०३ गन्धर्वदत्तावचनात्प्रियत्वम् मातङ्गकन्या सुतरामगान्मे मदं विधत्ते मदिरा प्रकृत्या किमङ्ग कान्ताननसङ्गरम्या ॥ १९.२०४ इति शेषं वसन्तस्य तनुपाटलकुङ्मलम् दिवसांश्च नयामि स्म सुभगानिलचन्दनान् ॥ २०.१ एकदा दत्तकेनाहम् ागत्य हसतोदितः अर्यपुत्र विचित्रं वः क्रीडास्थानमुपागतम् ॥ २०.२ राजमार्गे मया दृष्टा वृद्धा स्त्री भास्वरप्रभा नागरैर्देवि देवीति वन्द्यमाना वरार्थिभिः ॥ २०.३ सा चाह प्रभवन्तीव दारक प्रतिगृह्यताम् तव भर्त्रे मया दत्ता कन्याजिनवतीति माम् ॥ २०.४ उक्ता सा च मया देवि भृत्यत्वात्परवानहम् दृष्ट्वा स्वामिनमायामि तत्क्षणं क्षम्यतामिति ॥ २०.५ स मयोक्तस्तया साकम् हसन्तः सुखमास्महे तेनागच्छतु सात्रैव मद्वचश्चेदमुच्यताम् ॥ २०.६ बहून् संपृच्छ्य कन्यायाः कार्यौ दानप्रतिग्रहौ प्रष्टव्याः सन्ति चास्माकम् तावत्पृच्छामि तानहम् ॥ २०.७ अन्यच्चागम्यतामेतद् गृहं यदि न दुष्यति त्वादृशातिथिसत्कारः कारणं श्रेयसामिति ॥ २०.८ ततः प्रस्थापितो गत्वा प्रत्यागत्य च दत्तकः मामभाषत भारत्या गम्भीरभयगर्भया ॥ २०.९ युष्मत्संदेशमाकर्ण्य तयोक्तं भीमहासया अहो महाकुलीनानाम् ाचारः साधुसेविनाम् ॥ २०.१० किमत्रोदयनो राजा प्रष्टव्यः सुहृदा तव देवी वासवदत्ता वा किं वा मगधवंशजा ॥ २०.११ रुमण्वदादयः किं वा किं वा हरिशिखादयः आह यत्सन्ति मे केचित् तावत्पृच्छामि तानिति ॥ २०.१२ आज्ञापयति यच्चैष मामिहागम्यतामिति किमेवमपमान्यन्ते गुरवो गुरुसेविभिः ॥ २०.१३ अथ वा किमहं तस्य समीपं किमसौ मम अचिराद्यास्यतीत्येतत् स एवानुभविष्यति ॥ २०.१४ इत्युक्त्वा निश्चरन्तीभिर् ज्वालामालाभिराननात् दग्ध्वा चम्पैकदेशं सा महोल्केव तिरोहिता ॥ २०.१५ मम त्वासीद्विदग्धेयम् वृद्धा विप्रश्निका ध्रुवम् इन्द्रजालाभियुक्ता वा मायाकारी भवेदिति ॥ २०.१६ भरद्वाजसुतायास्तु तीव्रः संत्रासकारणः अस्मद्धृदयसंतापी परितापज्वरोऽभवत् ॥ २०.१७ मृणालानिलमुक्ताली जलार्द्रपटचन्दनैः अस्मदङ्गपरिश्वङ्गैर् नास्यास्तापो न्यवर्तत ॥ २०.१८ ततः शक्रधनुःसम्पा बलाकाचक्रलाञ्छनैः निरम्बुदाम्बरच्छायैश् छन्नमम्बरमम्बुदैः ॥ २०.१९ संतापमपनेतुं च सासारैः पश्चिमानिलैः समारोहाम हर्म्यस्य सान्द्रशुभ्रसुधं शिरः ॥ २०.२० तत्रारुद्धप्रणालादि दासीदसोत्तराम्बरैः पाश्चात्यमरुदाद्योति जडं जलमधारयम् ॥ २०.२१ तत्रान्येषामुरोमात्रे मज्जन्तः कुब्जवामनाः शनकैः शान्तसंतापाम् भारद्वाजीमहासयत् ॥ २०.२२ इति नः क्रीडतो दृष्ट्वा प्रासादाग्रमहाह्रदे जले रन्तुमिवोष्णांशुः प्राविशत्पश्चिमार्णवम् ॥ २०.२३ भरद्वाजतनूजा तु निषेव्य शिशिरं चिरम् प्रशान्तागन्तुसंतापा शीतपीडातुराभवत् ॥ २०.२४ तामुरोबाहुवासोभिः समाच्छाद्य निरन्तरम् विशीतां कृतवानस्मि तापशीतापहारिभिः ॥ २०.२५ अपनीतपिधानैश्च प्रणालैर्मकराननैः प्रासादात्प्रास्रवत्तोयम् सुमेरोरिव निर्झरैः ॥ २०.२६ प्रकीर्णसलिलक्रीडा पीडनच्छिन्नभूषणम् मुनिपीताम्बुधिच्छायम् हर्म्याग्रं तददृश्यत ॥ २०.२७ तस्मिन्नभिनवाम्भोद कुम्भाम्भःक्षालनामले दानैः परिचरामि स्म समानैः परिचारकान् ॥ २०.२८ इति कान्ते त्रियामादौ गमिते मानितप्रियः उपायि प्रबलां निद्राम् सुखदुःखाभिभाविनीम् ॥ २०.२९ याते च क्षणदापादे कठोरस्पर्शबोधितः गम्भीरेक्षणमद्राक्षम् नरं व्यात्तास्यकन्दरम् ॥ २०.३० अनुमाय च तं प्रेतम् मन्त्रगर्भमुपागतम् क्वापि मां नेतुमिच्छन्तम् नेतुमैच्छं यमालयम् ॥ २०.३१ भरद्वाजात्मजा त्रस्ता मा स्म निद्रां जहादिति न तं तत्र निहन्मि स्म भीषणारटिशङ्कितः ॥ २०.३२ तुषारजडमारोप्य स्वपृष्टं काष्ठनिष्ठुरम् स मां सोपानमार्गेण प्रासादाग्रादवातरत् ॥ २०.३३ तत्प्रभावाच्च निद्रान्धाः सुप्ता जागरिकाः क्षितौ कक्षारक्षास्तमद्राक्षुर् न निर्यान्तमचेतनाः ॥ २०.३४ निष्क्रान्तश्च परावृत्य कक्षाद्वारं यदैक्षत कवाटसंपुटस्तत्र शनैरघटयत्स्वयम् ॥ २०.३५ गृहाद्दूरमतीतश्च जानुभ्यां तमताडयम् प्रहारः स तु मे जातो जानुपीडाप्रयोजनः ॥ २०.३६ यच्च किंचिदहं द्रष्टुम् ैच्छं पटुकुतूहलः कुलपुत्रः स तत्र स्म किंचित्कालं न गच्छति ॥ २०.३७ आशाकाशविशालासु विशिखासु प्रसारिताः अपश्यं द्वीपिनां कृत्तीस्तथेदमभवन्मम ॥ २०.३८ एतावन्ति कुतः सन्ति द्वीपिचर्माणि कानने आस्तीर्णानि किमर्थं वा केनापि विशिखास्विति ॥ २०.३९ यावत्प्रासादमालाभ्यो जालवातायनच्युतैः संततैर्वितता रथ्या प्रदीपार्चिःकदम्बकैः ॥ २०.४० अपनीतवितर्कश्च तैर्गतः स्तोकमन्तरम् प्रासादे क्वचिदश्रौषम् वचः कस्यापि कामिनः ॥ २०.४१ अयि चन्द्रक किं शेषे ननु भ्रातर्विबुध्यताम् नाकर्णयसि कूजन्तम् ुलूकं सुभगध्वनिम् ॥ २०.४२ अस्मै दशसहस्राणि दीयन्तां भूषणानि च अयं नः सुखहेतूनाम् ग्रणीः सुहृदामिति ॥ २०.४३ अनन्तरं च सारङ्ग दर्दूराम्भोदबन्धुना उत्कण्ठागर्भकण्ठेन नीलकण्ठेन कूजितम् ॥ २०.४४ ततः कामी ज्वलत्क्रोधश् चन्द्रकं चण्डमब्रवीत् दुष्टस्य चटकस्यास्य मस्तकश्छिद्यतामिति ॥ २०.४५ मया तर्कयता चेदम् विरुद्धमिति निश्चितम् आज्ञातमनयोर्न्याय्ये संमाननविमानने ॥ २०.४६ भार्या नागरकस्यास्य परसंक्रान्तमानसा एकपर्यङ्कसुप्तापि सुप्ता भर्तुः पराङ्मुखी ॥ २०.४७ तयोलूकध्वनिं श्रुत्वा भीरुनारीविभीषणम् त्रस्तयातः परावृत्य गाढमालिङ्गितः पतिः ॥ २०.४८ ततो विरक्तभार्येण भार्यारक्तेन चामुना उलूकभयपूर्वोऽपि कान्ताश्लेषोऽभिनन्दितः ॥ २०.४९ तेन पूजामुलूकस्य सुहृदः कृतवानयम् येनास्य विमुखी कान्ता त्रासादभिमुखी कृता ॥ २०.५० श्रुत्वा च शिखिनः केकाः कान्तोत्कण्ठाविधायिनीः पत्युः कण्ठं परित्यज्य स्थिता भूयः पराङ्मुखी ॥ २०.५१ तेनानेन मयूरस्य मस्तकश्छेदितो रुषा येनास्याभिमुखी कान्ता कूजता विमुखी कृता ॥ २०.५२ अथातीत्य तमुद्देशम् श्रौषं मदविद्धयोः कृतनिग्रहयोर्वाचम् कुलटाविटयोर्यथा ॥ २०.५३ मनोघ्राणहरा गन्धा यया प्रतनुतुङ्गया आघ्राता मम सा नासा त्वत्कृते विकृता कृता ॥ २०.५४ कर्तरीपाशसंकाशौ पुरा मण्डितकुण्डलौ कर्णौ मम तथा भूतौ भवतां भवतो यथा ॥ २०.५५ साहमेवंविधा जाता विप्रलब्धा खलु त्वया कृतघ्न त्वमपीदानीम् वजानासि मामिति ॥ २०.५६ अथावोचत्पतिस्तस्याः किं मामिन्दसि नन्दिनि मयापि ननु यत्प्राप्तम् त्वदर्थं तन्न दृश्यते ॥ २०.५७ देवाः कुसुमधूपाद्यैः पितरः पिण्डवारिभिः समस्तास्तर्पिता येन दक्षिणाभिर्द्विजातयः ॥ २०.५८ शूराधिष्ठितपृष्ठानाम् चूर्णितप्रतिदन्तिनाम् येन चासिसनाथेन निकृत्ताः करिणां कराः ॥ २०.५९ पृथुलाः कोमलास्तुङ्गाः पीनाः सत्कृतचन्दनाः आत्मशेषपरस्त्रीणाम् येन भुक्ताः पयोधराः ॥ २०.६० स मे वामेतरः पाणिः फुल्लतामरसारुणः कृत्तः शस्त्रेण संधानाद् बन्धनादिव पल्लवः ॥ २०.६१ अधुना वामपादस्य शृणु चण्डि पराक्रमम् येन क्रान्ता समुद्रान्ता तीर्थस्नानाय मेदिनी ॥ २०.६२ येन चान्तःपुरारक्ष परिक्षिप्तेन लीलया वप्रप्राकारपरिखाः शतकृत्वो विलङ्घिताः ॥ २०.६३ सोऽयं मारुतसंचारस्ताम्रस्तुङ्गनखाङ्गुलिः पादो मे यादृशो जातस्तादृशः कस्य कथ्यताम् ॥ २०.६४ अथ वा यः समुद्रस्य तुलया तुलयेज्जलम् स गुणान् पाणिपादस्य गणयेन्मन्दधीर्गिरा ॥ २०.६५ सर्वथा धिगधीरं माम् यस्त्वादृश्याः स्त्रियः पुरः आत्मनः पाणिपादस्य प्रशंसामि गुणानिति ॥ २०.६६ अथान्यत्र शृणोमि स्म पादः श्लोकस्य शोभनः आगतस्तं लिखाम्याशु दत्त मे वर्तिकामिति ॥ २०.६७ एवं चानन्तवृत्तान्तम् चम्पां पश्यन् कुतूहली आगच्छं नगरीद्वारम् ुत्तरं प्रेतवाहनः ॥ २०.६८ मम त्वासीन्न मामेष गतप्राणो जिघांसति उत्तरेण हि नीयन्ते न द्वारेण जिघांसितुम् ॥ २०.६९ चिन्तयन्निति निर्यातः प्राकारं समया व्रजन् क्षीणमांसकमद्राक्षम् बालकं गतजीवकम् ॥ २०.७० अथाचिन्तयमालोक्य क्षणं बालचिकित्सितम् शोषितः शुष्करैवत्या वराकोऽयं मृतः शिशुः ॥ २०.७१ यदि जीवन्तमद्रक्ष्यम् लिखित्वा मण्डलं ततः अत्रास्ये मरणादेनम् िष्ट्वा क्रूरग्रहानिति ॥ २०.७२ दृष्टवानस्मि चान्यत्र चित्रवस्त्रविभूषणम् पुरुषं प्रोषितप्राणम् थेदमभवन्मम ॥ २०.७३ रज्जुशस्त्राग्निपानीय जराज्वरगरक्षुधाम् नायमन्यतमेनापि केन नाम मृतो भवेत् ॥ २०.७४ अये नूनमयं कामी कामयित्वान्यकामिनीम् निद्रासुखमुपासीनः प्रतिबुद्धः पिपासितः ॥ २०.७५ सुखसुप्तेति चानेन न सा स्त्री प्रतिबोधिता गवाक्षस्थोदपात्रस्थम् ुदकं पीतमात्मना ॥ २०.७६ अपनीतपिधानं च दृष्ट्वा तज्जलभाजनम् स्वविषानलदाहान्धः प्रविष्टः प्राग्भुजंगमः ॥ २०.७७ तेन तद्विषमुद्गीर्णम् तेन तद्दूषितं जलम् तेन पीतेन मूढोऽयम् सद्यः प्राणैर्वियोजितः ॥ २०.७८ तस्याश्च परकामिन्या दारिकाभिः ससंभ्रमम् प्राकारशृङ्गरन्ध्रेण निक्षिप्तः परिखातटे ॥ २०.७९ अमृतो यदि दृष्टः स्याज् जीवितः स्यादयं मया मन्त्रमण्डलमुद्राणाम् ुपांशुस्मरणादिति ॥ २०.८० अथान्यत्राहमद्राक्षम् निन्दितासुरकन्यकाम् अशोकशाखिशाखायाम् ुद्बद्धां कामपि स्त्रियम् ॥ २०.८१ अङ्गैः कुसुमसिन्दूर कुङ्कुमालक्तकोज्ज्वलैः नीलार्धोरुकसंवीत विशालजघनस्थलाम् ॥ २०.८२ निक्षिप्तं च तयादूरम् करच्छुरितचन्द्रिकम् चीनपट्टांशुकन्यस्तम् नर्घ्यं रत्नमण्डनम् ॥ २०.८३ किमर्थमनया स्त्रैणम् कृतं साहसमित्यहम् परामृश्य बहून् पक्षान् िदं निश्चितवान् धिया ॥ २०.८४ इयं पतिव्रता योषिन् नूनं भर्तुश्च वल्लभा न विमानितवानेताम् पतिः परिहसन्नपि ॥ २०.८५ तेन सुप्तेन मत्तेन जिज्ञासाकुपितेन वा गृहीतं नाम कस्याश्चित् प्रमदायाः प्रमादिना ॥ २०.८६ तेन चाश्रुतपूर्वेण वज्रपातप्रमाथिना गाढं ताडितया क्रूरम् कृतं कर्मेदमेतया ॥ २०.८७ सर्वथा पुत्रदाराणाम् पिताभर्तृसमो रिपुः नास्ति यस्तानितस्नेहाल् लालयत्येव केवलम् ॥ २०.८८ वरं चातितिरस्कारो बालानां नातिलालना दृश्यन्ते ह्यवसीदन्तो धीमन्तोऽप्यतिलालिताः ॥ २०.८९ वसनाभरणं यच्च भूतले स्वयमुज्झितम् तत्तस्करकरस्पर्श परिहारार्थमेतया ॥ २०.९० निश्चौरा चेदृशी चम्पा यन्मेरुगुरुरप्ययम् अलंकारोऽप्यसत्कारः संकार इव दृश्यते ॥ २०.९१ एतानि चान्यानि च नागराणाम् पश्यन् विचित्राणि विचेष्टितानि चितानलालोकहृतान्धकारम् गच्छमुज्जीवजनाधिवासम् ॥ २०.९२ अथापश्यं शिवास्तत्र त्रासिताः पिशिताशिनीः दीनभीषणफेत्काराः कुक्कुरैः खरबुक्कितैः ॥ २०.९३ उज्झिताम्बरमुद्बाहु प्रकीर्णकचसंचयम् परितः कुणपं नृत्यड् डाकिनीमण्डलं क्वचित् ॥ २०.९४ क्वचित्पुरुषमुत्खड्गम् ुपात्तघटकर्परम् महामांसं महासत्त्वाः क्रीयतामिति वादिनम् ॥ २०.९५ सशस्त्रपुरुषव्रात रक्षिताशाचतुष्टयम् साधकं सिद्धिनिस्त्रिंशम् ुत्पतन्तं नभः क्वचित् ॥ २०.९६ इत्यादिबहुवृत्तान्तम् पश्यता प्रेतकेतकम् यात्रां या गच्छता दृष्टा सा दृष्टा स्थविरा मया ॥ २०.९७ वटमूले चितावह्नौ वामहस्तार्पितस्रुवा हंकारान्तेन मन्त्रेण जुह्वती नरशोणितम् ॥ २०.९८ तं च प्रेतमसौ दृष्ट्वा साधितादेशमागतम् गुरुहर्षविालाक्षी कर्मशेषं समापयत् ॥ २०.९९ तं च दत्तार्घसत्कारम् वोचत्कृतकर्मणे स्वागतं चन्द्रवक्त्राय कुमारो मुच्यतामिति ॥ २०.१०० मम त्वासीदहो कष्टा चन्द्रमस्यापदागता येन काकमुखस्यास्य मुखमेतेन तुल्यते ॥ २०.१०१ स तु मां शनकैर्मुक्त्वा बाहुजङ्घं प्रसार्य च दक्षिणाभिमुखस्तारम् ारट्यापतितः क्षितौ ॥ २०.१०२ अथ मातङ्गवृद्धा माम् वोचद्दत्तविष्टरा श्मशानमागतोऽस्मीति खेदं मा मनसो गमः ॥ २०.१०३ श्मशाने भगवान् रुद्रः सरुद्राणीविनायकः समातृप्रमथानीकस्त्रिसंध्यं संनिधीयते ॥ २०.१०४ यत्र रुद्रः सुरास्तत्र सर्वे हरिपुरःसराः न ह्यन्यत्र तुषारांशुर् न्यत्रास्य मरीचयः ॥ २०.१०५ मोक्षस्वर्गार्थकामाश्च श्रूयन्ते बहवो द्विजाः प्राप्ताः प्रेतवने सिद्धिम् तस्मान्नेदममङ्गलम् ॥ २०.१०६ यदर्थं त्वं ममानीतस्तदेतत्संनिशाम्यताम् न हि निष्कारणः खेदस्त्वादृशामुपपद्यते ॥ २०.१०७ आसीन्मातङ्गनाथेन्द्रः क्षुण्णशत्रुर्मतङ्गजः शरीरीव महद्बाहोर् महासिंहः पतिर्मम ॥ २०.१०८ अहं धनमती नाम मन्त्रशक्तिश्च या मम सा दिनेषु गमिष्यत्सु विज्ञाता भवता स्वयम् ॥ २०.१०९ चण्डसिंहं महासिंहः पुत्रमुत्पाद्य निष्ठितः फलभारमिवानन्तम् धनः कुसुमसंचयः ॥ २०.११० सुताजिनवती नाम चण्डसिंहस्य कन्यका रात्रिं दिवमसूयन्ति यस्यै त्रिदशकन्यकाः ॥ २०.१११ तया महासरोयात्राम् स्माभिः सह यातया भारद्वाजीद्वितीयस्त्वम् दृष्टः प्रवहणाश्रितः ॥ २०.११२ अथावस्थाभवत्तस्याः कापि दुर्ज्ञानकारणा दुर्लभे भवति स्त्रीणाम् दृष्टे त्वादृशि यादृशी ॥ २०.११३ सखीभिरनुयुक्तासौ बहुशः क्लेशकारणम् यदा नाकथयज्ज्ञाता मन्त्रशक्त्या मया तदा ॥ २०.११४ प्रार्थनाभङ्गजं दुःखम् संचिन्त्य स्वयं मया पौत्र्याः प्राणपरित्राणम् करिष्यन्त्या भवान् वृतः ॥ २०.११५ दीर्घायुषा यदा चाहम् परिभूता तथा त्वया साधयित्वा तथा प्रेतम् त्वमिहानायितो मया ॥ २०.११६ तेनाजिनवतीं तुभ्यम् प्रयच्छामि बलादपि मालामधारयन्तोऽपि लभन्ते हि दिवौकसः ॥ २०.११७ साथ पश्चान्मुखी स्थित्वा पौत्रीमेहीत्यभाषत अथादृश्यत तत्रैव साप्यनागत्मागता ॥ २०.११८ चेदिवत्सेशदायादम् मया मन्त्रैर्वशीकृतम् वरं पाणौ गृहाणेति तामवोचत्पितामही ॥ २०.११९ मदीयं च तदीयेन स्विन्नं स्विन्नेन पाणिना स्फुरन्तं स्फुरतागृह्णाद् दक्षिणं दक्षिणेन सा ॥ २०.१२० तस्याः कररुचा ताम्रे दृष्टपातैः सितासितैः अपश्यं कुङ्कुमाभेऽपि स्वकरे वर्णसंकरम् ॥ २०.१२१ अथ मामवदद्वृद्धा श्वशुरो दृश्यतामिति ततस्तामवदं देवि जनोऽयं परवानिति ॥ २०.१२२ ततः पुरुषमद्राक्षम् र्कमण्डलभासुरम् आवर्तयन्तमुत्कान्तिम् चन्द्रकान्ताक्षमण्डलम् ॥ २०.१२३ धनमत्या ममाख्यातम् यं विद्याधरेश्वरः गौरिमुण्डो महागौरीम् ाराधयितुमिच्छति ॥ २०.१२४ व्यालकाङ्गारकौ चास्य भ्रातारौ परिचारकौ यावेतौ पार्श्वयोरस्य भुजाविव महाबलौ ॥ २०.१२५ येनामितगतिर्बद्धः कदम्बे मोचितस्त्वया सोऽयमङ्गारको योऽसौ जहार कुसुमालिकाम् ॥ २०.१२६ आरभ्य च ततः कालाद् गौरिमुण्डः सहानुजः द्विषन्तमन्तरं प्राप्य भवन्तं हन्तुमिच्छति ॥ २०.१२७ तेन मानसवेगश्च गौरिमुण्डादयश्च ते अनन्ताश्च महान्तश्च भविष्यन्तश्च शत्रवः ॥ २०.१२८ प्रमत्तमसहायं च दिव्यसामर्थ्यदुर्गतम् त्वामेतद्विपरीतारिम् पान्तु देवगुरुद्विजाः ॥ २०.१२९ तन्नायं तव संबन्धः कन्यामात्रप्रयोजनः चण्डसिंहसहायोऽपि महदस्य प्रयोजनम् ॥ २०.१३० मम त्वभूदभून्मित्रम् ेकोऽमितगतिर्मम इदानीं चण्डसिंहोऽपि सुमहाबलमातृकः ॥ २०.१३१ इति संकल्पयन्नेव छायाच्छुरितचन्द्रिकम् विमानमहमद्राक्षम् वरूढं विहायसः ॥ २०.१३२ गच्छतापि स्थिरेणेव तेन मानसरंहसा खमगच्छन्निवागच्छम् वहनेनेव सागरम् ॥ २०.१३३ अथापश्यं विमानस्य दूरादवनिमण्डलम् लोकालोकादिपर्यन्तम् ादर्शपरिमण्डलम् ॥ २०.१३४ इदमीदृशमाकाशम् नावरणमीक्ष्यते स तु नास्ति प्रदेशोऽस्य यो विमानैरनावृतः ॥ २०.१३५ अप्सरःशतसंबाधम् सक्रीडागिरिनिष्कुटम् निकृष्टस्यापि देवस्य विमानं योजनायतम् ॥ २०.१३६ सोऽहमेवमनन्तानि कान्तिमन्ति महान्ति च गच्छामि स्म विमानानि पश्यन्नायान्ति यान्ति च ॥ २०.१३७ कस्मिन्नपि ततो देशे कस्यापि शिखरे गिरेः कस्यामपि दिशि स्फीतम् दृश्यत पुरः पुरम् ॥ २०.१३८ तस्माच्चोदपतद्भास्वद् विमानं व्याप्नुवन्नभः शृङ्गात्प्रागचलस्येव सहस्रकरमण्डलम् ॥ २०.१३९ मामकेन विमानेन सह तत्समगच्छत शरीरमिव मातङ्ग्याः शरीरेण निरन्तरम् ॥ २०.१४० कृष्णाङ्गश्यामतुङ्गाङ्गस्ताम्रापाङ्गायतेक्षणः आगमत्पुरुषस्तस्मात् प्रभाव इव देहवान् ॥ २०.१४१ ततस्तं प्रत्यभिज्ञाय दृष्टं यात्रामहोत्सवे कथितं धनमत्याहम् चण्डसिंहमवन्दिषि ॥ २०.१४२ असौ चानन्दजस्वेद स्तिमितैरुत्तनूरुहैः अङ्गैरङ्गं समालिङ्ग्य स्नेहाद्रैः कर्कशैरपि ॥ २०.१४३ अपसृत्य ततो दूरम् नमयित्वोन्नतं शिरः ज्योग्भर्तर्जय देवेति स मामुक्त्वेदमब्रवीत् ॥ २०.१४४ अस्माभिः सेवकैः कार्यम् िदं युष्मासु भर्तृषु आलिङ्गनं तु भर्तॄणाम् भृत्यैः परिभवो महान् ॥ २०.१४५ बालोऽपि नावमन्तव्यो जामातेति भवादृशः महती देवता ह्येषा त्वादृग्रूपेण तिष्ठति ॥ २०.१४६ इत्यादि बहु तत्तन्माम् यावदेव वदत्यसौ चण्डसिंहपुरं तावत् तुमुलोत्सवमासदम् ॥ २०.१४७ तस्य किं वर्ण्यते यत्र विशालं विशिखातलम् चित्रं चित्रैर्महारत्नैर् िन्द्राणीजघनोचितैः ॥ २०.१४८ एतेन परिखाशाल प्रासादसुरसद्मनाम् अवश्याधेयशोभानाम् ाख्यातं रामणीयकम् ॥ २०.१४९ तस्य किं वर्ण्यते यस्य माणवाः स्मितिमानसाः न स्तन्यमपि यावन्ते जननीरपि बालकाः ॥ २०.१५० तस्य किं वर्ण्यते यत्र पशुपालसुतैरपि सकलाः सकला विद्या मातृकेवानुशीलिताः ॥ २०.१५१ तस्य किं वर्ण्यते यत्र योगिनामेव केवलम् प्रक्षयो न च जायन्ते रथ्याः प्रासादसंकटाः ॥ २०.१५२ येन दोषेण संसारात् परित्रस्यन्ति मोक्षवः स तस्मिन्मोक्षशास्त्रेषु श्रूयते कपिलादिभिः ॥ २०.१५३ यच्च दूषितसंसारैर् वस्तुदोषैरदूषितम् अकल्मषगुणात्तस्माद् रमणीयतमं कुतः ॥ २०.१५४ न चेदं चण्डसिंहस्य पुरमेकं प्रशस्यते अन्येषामपि सिद्धानाम् ीदृशान्यधिकान्यपि ॥ २०.१५५ अवरुह्य च भूमिष्ठात् तस्मादम्बरमन्दिरात् प्राविशं कन्यकागारम् हसिताम्बरमन्दिरम् ॥ २०.१५६ तस्मिन् परिजनो दिव्यैः प्रकारैर्मामुपाचरत् किमर्थमपि चाहुता मात्राजिनवती गता ॥ २०.१५७ सा यदा तन्निशाशेषम् ुत्तरं च दिवानिशम् नागतैव तदासीन्मे त्वरातुरमतेर्मतिः ॥ २०.१५८ दर्शनस्मितसंभाषा स्पर्शनालिङ्गनादिभिः समस्तैरसमस्तैश्च रमयन्ति प्रियाः प्रियान् ॥ २०.१५९ किरणैरिन्दुलेखेव गतैव सह तैरसौ अहमप्येष तिष्ठामि दुःखसंतप्तमानसः ॥ २०.१६० तत्किमेतत्कथं न्वेतद् ित्यादि बहु चिन्तयन् विवाहविघ्नसंभ्रान्तम् ैक्षे सान्तःपुरं पुरम् ॥ २०.१६१ आसीच्च मम चम्पायाः प्रेतो मामनयन्निशि ज्येष्ठकृष्णचतुर्दश्याम् ार्द्रस्थे तारकापतौ ॥ २०.१६२ नूनमाषाढशुक्लादौ पञ्चम्यामुत्तरासु च फल्गुणीषु विवाहोऽयम् राज्ञा कारयितावयोः ॥ २०.१६३ अयं महाकुलो राजा श्रुतिस्मृतिविशारदः तद्ब्राह्मेण विवाहेन सूनोः संस्कारमिच्छति ॥ २०.१६४ उपास्य चतुरः कष्टान् पावकानिव वासरान् तां प्रापं कन्यकामन्ते तपःसिद्धिमिवेप्सिताम् ॥ २०.१६५ घनाघनाम्भोधरजालकालीम् दृष्टतारागणराजबिम्बाम् तया सह प्रावृषमासि रम्याम् शुक्लपक्षान्तनिशामिवैकाम् ॥ २०.१६६ सैकदा सपरीवारा निभृतक्रन्दितध्वनिः अनुयुक्ता मया कच्चिन् नृपः कुशलवानिति ॥ २०.१६७ तया तु प्रतिषिद्धापि दारिका मेघराजिका निवेदयितुमारब्धा श्रूयतां भर्तृदारक ॥ २०.१६८ पूर्वं विकचिको नाम स्वच्छन्दः खेचराधमः स्वैस्त्यक्तः सापराधत्वात् किंचित्कालमिहास्थितः ॥ २०.१६९ कन्या सर्वस्य दृश्येति तेनासौ भर्तृदारिकाम् आसीनां पितुरुत्सङ्गे दृष्ट्वा राजानमुक्तवान् ॥ २०.१७० दुहिता तव यद्येषा ततो मह्यं प्रदीयताम् मदीयगुणसंख्या च बुद्धैव भवतामिति ॥ २०.१७१ तेनोक्तं केन न ज्ञाताः प्रसिद्धा हि गुणास्तव किं तु कोमलजन्मेयम् प्रौढा तावद्भवत्विति ॥ २०.१७२ तेनाप्यामन्त्र्य राजानम् स्वदेशाय गमिष्यता आयोषिद्बालगोपालम् ालापः श्रावितः पुरे ॥ २०.१७३ राज्ञा मह्यं ससत्कारम् दत्ताजिनवती सुता दिष्ट्या वृद्धिर्भवत्यद्य ममेव भवतामिति ॥ २०.१७४ स भर्तृदारिकां श्रुत्वा भर्तृदारकभर्तृकाम् विस्मृतोपकृतः क्रोधाद् ाह राजानमत्रपः ॥ २०.१७५ भवतः कोऽयमाचारः सदाचाराभिमानिनः यद्दत्त्वा तनयां मह्यम् न्यस्मै दत्तवानिति ॥ २०.१७६ अथ वालमुपालभ्य भवन्तमभयत्रपम् सुता वा व्यवहारो वा युद्धं वा दीयतामिति ॥ २०.१७७ अथाह विहसन् राजा न युद्धं न ममात्मजाम् लब्धुमर्हति दीर्घायुर् व्यवहारस्तु दीयते ॥ २०.१७८ इत्युक्त्वा तं महीपालः समन्त्रिगणमातृकः वायुमुक्तमहाध्यक्षम् सप्तपर्णपुरं गतः ॥ २०.१७९ युवामपि रुचौ सत्याम् शोभिताशाविहायसौ तत्रैव सहितौ यातम् रोहिणीशशिनाविव ॥ २०.१८० मयोक्तं भीरु मा भैषीः किंनरीकण्ठि मा रुदः मेघराज्या यथाख्यातम् जितः स चपलस्तथा ॥ २०.१८१ इति तस्याः परित्रास तुषारम्लापितं मया सान्त्वबालातपस्पर्शान् मुखाम्भोजं विकाशितम् ॥ २०.१८२ मामादाय ततः पाणौ सा गत्वाम्बरवर्त्मना सप्तपर्णपुरोद्याने सप्तपर्णपुरे स्थिता ॥ २०.१८३ अब्रवीच्च निरुत्कण्ठैः क्षणमेकमिहास्यताम् यावदेमि सखीं दृष्ट्वा वन्दित्वा च गुरूनिति ॥ २०.१८४ तस्यामुत्पत्य यातायाम् ुद्याने संचरन्नहम् स्थूलमौक्तिकवर्णानि सप्तपर्णानि दृष्टवान् ॥ २०.१८५ तैश्च ग्रथितवानस्मि कदलीपटुतन्तुभिः बन्धूकतरलं हारम् ुत्पलैश्छुरितोदरम् ॥ २०.१८६ पद्मरागेन्द्रनीलादि नानारत्नोपलप्रभैः कुसुमैः कल्पयामि स्म कम्बूनूपुरमेखलाः ॥ २०.१८७ अवतीर्य ततो व्योम्नः सा प्रिया प्रियवादिनी निर्जितः स दुरात्मेति हृष्टा मामप्यहर्षयत् ॥ २०.१८८ कथमित्यनुयुक्ता च मया सादरमब्रवीत् अनुयोगमुपेक्षन्ते विवक्षन्तोऽपि वाचकाः ॥ २०.१८९ वायुमूलान्मया गत्वा वन्दितान्तःपुरस्त्रिया वायुमुक्ता सखी दृष्टा कन्यान्तःपुरवर्तिनी ॥ २०.१९० तत्राहं क्षणमासीना जितजीमूतगर्जिताम् प्रध्वनन्तीं शृणोमि स्म भेरीं भैरवगर्जिताम् ॥ २०.१९१ किमेतदिति पृष्टा सा संभ्रमोत्कर्णया मया सखी स्वां दारिकामाह याहि विज्ञायतामिति ॥ २०.१९२ सा मुहूर्तादिवागत्य श्वसितोत्कम्पितस्तनी वर्धसे देवि दिष्ट्येति मामुक्त्वोक्तवती पुनः ॥ २०.१९३ भेरीं ताडितवानेष गत्वा विकचिकः सभाम् वायुमुक्ताक्षदर्शनाश् च समायाताः सभासदः ॥ २०.१९४ ते तमाहुर्भवान् कस्माद् भेरीं ताडितवानिति आर्यवेषः स तानाह पुरः स्थित्वा निरासनः ॥ २०.१९५ चण्डसिंहः सुतां दत्त्वा मह्यं नगरसंनिधौ अन्यस्मिन् दत्तवान् यत्र नागरं पृच्छ्यतामिति ॥ २०.१९६ उच्यतामिति चोक्तेन तातेन किल संसदा मेघराज्या यदाख्यातम् तदेवाख्यातमाह च ॥ २०.१९७ मदीयपुरवास्तव्यान् साक्षिणश्चायमाह यान् पृच्छ्यन्तां तेऽपि तेषां चेद् विरुद्धा प्रमाणता ॥ २०.१९८ अथोक्तं वायुमुक्तेन संभाषितसभासदा नृपतेर्मनुकल्पस्य किमेतस्य परीक्षया ॥ २०.१९९ न हि प्रामाण्यराजस्य जिज्ञासासंशयच्छिदः प्रत्यक्षस्यानुमानेन प्रमाणत्वं प्रमीयते ॥ २०.२०० तस्मात्प्रत्यर्थिना राज्ञा व्यवहारे पराजितः अर्थी विकचिकः कन्याम् न्यां मृगयतामिति ॥ २०.२०१ ततो विकचिकः क्रुद्धः झटित्युत्थाय संसदः उत्पत्य नभसा गच्छन्न् ुच्चैराह सभासदः ॥ २०.२०२ धिक्खलान् खलु चण्डालान् पक्षपातहताञ्जडान् अहमेव हि कर्तव्ये कर्तव्ये बुद्धिवानिति ॥ २०.२०३ आसीच्च मम यत्सत्यम् ाशङ्काकलुषं मनः कस्मिन् पुनरसौ कार्ये कर्तव्ये बुद्धिमानिति ॥ २०.२०४ ततस्तैस्तामलंकृत्य शरत्कुसुमभूषणैः शरीरशरदाकार तस्करामिदमब्रवम् ॥ २०.२०५ प्रियाख्यानप्रहृष्टेन विभ्रमाभरणं मया तवारोपितमङ्गेषु सुभगाङ्गि विराजते ॥ २०.२०६ सा ततस्तानलंकारान् द्विषती कण्टकानिव मामवोचद्विधूयाङ्गम् सूयामन्थरस्मिता ॥ २०.२०७ अपरास्वपि भार्यासु युष्माभिरिदमाहितम् न हि दृष्टं विनाभ्यासात् क्रियाकौशलमीदृशम् ॥ २०.२०८ तस्मान्निर्माल्यतुल्येन न कार्यममुना मम का हि दुर्लभमात्मानम् कितवैः परिभावयेत् ॥ २०.२०९ मम त्वासीदपूर्वेयम् स्या विषमशीलता उपायैर्दुर्निवर्त्यैव प्राणामशपथादिभिः ॥ २०.२१० नारी च लघुसारत्वात् तरंगश्रेणिचञ्चला नौकेव प्रतिकूलाशु कुशलैः परिवर्त्यते ॥ २०.२११ भार्याज्ञातिगृहे वासश् चिरं दौर्भाग्यकारणम् यदि विप्रत्ययः कश्चिद् भर्तारं किं न पश्यसि ॥ २०.२१२ भर्त्रा ते चाटुकारेण भार्यां तोषयता किल तत्कृतं दुर्विदग्धेन येन भार्यैव रोषिता ॥ २०.२१३ सुभगं करणं यद्यत् समाचरति दुर्भगः सुतरां तेन तेनास्य दौर्भाग्यमुपचीयते ॥ २०.२१४ सर्वथा वारयिष्यामि पुत्रानपि भविष्यतः मा चिरं पुत्रकाः स्थात भार्याज्ञातिगृहेष्विति ॥ २०.२१५ तया तु मन्मुखं दृष्ट्वा ह्रीतत्रस्तविलक्षया अस्निग्धस्मितया हा हा किमेतदिति भाषितम् ॥ २०.२१६ अतः परमयुक्तोऽयम् प्रपञ्च इति तामहम् अनयं वेपमानाङ्गीम् ालिङ्ग्योत्सङ्गमङ्गनाम् ॥ २०.२१७ सा तु लब्धसमाश्वासा दीर्घिकातीर्थवर्तिनी अर्यपुत्र प्रसीदेति व्याहरत्तारमातुरा ॥ २०.२१८ पश्यामि स्म ततः खस्थम् तं विद्याधरपांसनम् परितः स्फुरितस्फीत मण्डलाग्रांशुमण्डलम् ॥ २०.२१९ रोषभीषणघोषेण तेनोक्तं धरणीचर ते पश्यत इयं कान्ता ह्रियते ध्रियतामिति ॥ २०.२२० क्रोधापहतधैर्यत्वाद् वाच्यावाच्याविवेचिना संभावितस्वसारेण मयासाविति भर्त्सितः ॥ २०.२२१ आकाशगोचरोऽस्मीति किं त्वं नीच विकत्थसे काकोऽपि हि नभश्चारी न च मुञ्चति नीचताम् ॥ २०.२२२ यः सिंहशिरसि न्यस्य काकश्चरणमुत्पतेत् न तेन परिभूतः स्यात् केसरी धरणीचरः ॥ २०.२२३ एवमुत्तेज्यमानोऽपि नावतीर्णः स भूतलम् परितश्चकितः पश्यन् सावज्ञानमिवाब्रवीत् ॥ २०.२२४ स्थलकच्छपकल्पाय वैनतेयपराक्रमः त्वादृशे मादृशः क्रुध्यन् केन पापान्न शोच्यताम् ॥ २०.२२५ इत्युक्त्वा करुणाक्रन्दाम् तामसौ खेचराधमः भुवः श्येन इव श्यामाम् ादायोदपतद्दिवम् ॥ २०.२२६ अथापश्यं महाज्वाला ज्वालसंकुचिताम्बराम् आपतन्तीं दिवं देवीम् ुत्पातोल्कामिवाशिवाम् ॥ २०.२२७ चण्डविद्याधरानीक परिवारं च भूपतिम् महाकालमिव क्रुद्धम् गणामरगणानुगम् ॥ २०.२२८ उत्तानवदनश्चाहम् चण्डसिंहमनुव्रजन् अन्यत्रैव गतः क्वापि दिङ्मोहमुषितस्मृतिः ॥ २०.२२९ भ्राम्यता श्राम्यता रूक्ष वृक्षेषूपवने घने चिरादाकर्णितो धीराद् ुच्चकैरुच्चरन् ध्वनिः ॥ २०.२३० हे हे कालाक्षि कालाक्षि गङ्गे गङ्गे महीति च वत्सलानां विवत्सानाम् रम्भश्च सुभगो गवाम् ॥ २०.२३१ गत्वा च त्वरयापश्यम् याष्टीकं पालमग्रतः कुलत्थस्थूलपुलकम् ुरुजङ्घोरुविस्तृतम् ॥ २०.२३२ प्रतिमल्लभुजानाम बन्धुरस्कन्धकंधरम् वेगवच्चर्पटाताड किणकर्कशकर्णकम् ॥ २०.२३३ ततस्तमब्रवं साम्ना सततं महितं गवाम् भ्रष्टः पन्था ममाटव्याम् तमाख्यातु भवानिति ॥ २०.२३४ तेनोक्तं गोकुले रात्रिम् गमयित्वा गतश्रमः प्रगे द्रष्टा स्वपन्थानम् तदेत स्वगृहानिति ॥ २०.२३५ गत्वा तेन सहापश्यम् घोषमासन्नगोकुलम् मन्द्रमन्थध्वनिक्षिप्त मन्दरास्फालितार्णवम् ॥ २०.२३६ अकुट्टिमसमा यत्र साङ्गणोटजभूमयः हरिद्गोमयसंमार्ग संप्रसारितमानसाः ॥ २०.२३७ बन्धूकचूतकास्तम्बैः परिक्षिप्तोटजाङ्गणैः यत्र नाभीरनारीणाम् परिभूतं कराधरम् ॥ २०.२३८ यत्र तुम्बीलताजालैः कुटीपटलरोधिभिः लज्जिताः पङ्कजिन्योऽपि कलिकाङ्गुलितार्जिताः ॥ २०.२३९ यस्मिन्नदृष्टदुर्दर्श पांसुसंकारसंकटाः निरवाच्यतला रथ्याः कूर्ददुद्दामतर्णकाः ॥ २०.२४० कर्णिकारामलैरङ्गैः पृथुलैर्जघनस्थलैः स तादृङ्मलिनः स्त्रीणाम् यत्र वेषो विभूषितः ॥ २०.२४१ वनगोकुलवृद्धत्वाद् यत्र गोपा गवार्जवाः गोप्यस्तु चतुराचारा नटीरप्यतिशेरते ॥ २०.२४२ एवमादिप्रकारेण घोषेण हृतमानसम् मां गोपः स्वगृहं नीत्वा गृहिणीमाह्वयन्मुदा ॥ २०.२४३ सुदेवदुहितः क्वासि ननु गोपालदारिके देवस्ते गृहमायातः स भक्त्याराध्यतामिति ॥ २०.२४४ ततः पयोदशकलात् सा कलेव कलावतः गृहान्निरगमद्गौरी प्रकीर्णतनुचन्द्रिका ॥ २०.२४५ दारुदन्तशिलामय्यः प्रतिमास्तावदासताम् न तां वेधाः क्षमः स्रष्टुम् मधूच्छिष्टमयीमपि ॥ २०.२४६ भावभिर्वर्तमानैश्च कविभिः किमुदाहृतैः न तां वर्णयितुं शक्तौ व्यासवाल्मीकिनावपि ॥ २०.२४७ सा मां गोमयपीठस्थम् स्वसेव स्वच्छमानसा आशिरःपादमश्रान्ता संवाहितवती चिरम् ॥ २०.२४८ यं यमेवोपसारं सा तुच्छमप्याचरेन्मयि सर्वमन्वसहे तं तम् दाक्षिण्यक्षयशङ्कया ॥ २०.२४९ सलिलैः कांस्यपात्रस्थैर् धावच्चरणौ मम सोत्तमाङ्गेषु चाङ्गेषु नवनीतमदान्मुदा ॥ २०.२५० उच्छाद्य कणकल्केन तत्र स्तीमितमस्तकः लोध्रकर्बूरमुस्ताभिर् घृष्टोऽहं स्नपितस्तया ॥ २०.२५१ अशित्वा चाशनं मेध्यम् ल्पान्नं बहुगोरसम् विपाप्मानमिवात्मानम् मन्ये मद्यपायिनम् ॥ २०.२५२ कल्पयित्वा तु मे गोपः शय्यां वल्कलपल्लवैः एतत्ते गृहमित्युक्त्वा ंसभारो व्रजमव्रजत् ॥ २०.२५३ मम त्वासीदयं मन्ये वीतरागादिबन्धनः सक्लेशः को नु विश्वस्याद् दारेषु च परेषु च ॥ २०.२५४ साधारणकलत्राणाम् ीर्श्याक्षोभितचेतसाम् तिरश्चामपि दृश्यन्ते प्रकाशमरणा रणाः ॥ २०.२५५ अयं तु दयितान् दारान् मुनिमानसहारिणः मयि निक्षिप्य यातीति व्यक्त एष स पुंगवः ॥ २०.२५६ अथ वा निष्प्रवीणेषु बहिर्वृत्तिकुटुम्बिषु नारीतन्त्रेषु तन्त्रेषु किमाचारपरीक्षया ॥ २०.२५७ रजकध्वजगोपाल मालाकारनटस्त्रियः दृश्यन्ते याः सदाचाराः सा तासां बालशीलता ॥ २०.२५८ एषा तु गोपयोषापि रूपिण्यपि तरुण्यपि एवं गम्भीरधैर्येति दुर्बोधाः परबुद्धयः ॥ २०.२५९ चिन्तामेतां कुर्वतः कार्यवन्ध्याम् ासीत्सा मे सोपकारैव रात्रीः सद्यः कान्ताकण्ठविश्लेषदुःखम् ारात्सह्यं चेतसा यन्न सोढम् ॥ २०.२६० ततः प्रातः स मां गोपः कृपालुरिव तत्त्ववित् घोरात्कान्तारसंसाराद् चिरदुदतारयत् ॥ २०.२६१ एष ते संभवग्रामः प्रांशुप्राग्वंशकाननः दृश्यन्ते यस्य सीमान्ताः सीरमन्तः ससंकटाः ॥ २०.२६२ देशान्तरमभिप्रेतम् त्र विश्रम्य गम्यताम् इति मामिदमुक्त्वासौ निवृत्तः कृतबन्धनः ॥ २०.२६३ अथेक्षुगहनछायाः क्षिप्तशारदिकातपाः सेवमानः प्रयामि स्म संतप्तो भानुभानुभिः ॥ २०.२६४ विकाशिकुमुदारामाः प्रशंसन् सरसीः क्वचित् स्थलीरिव निदाघान्ते फुल्लाविरलकन्दराः ॥ २०.२६५ क्वचिद्गर्भितशालीनि शालेयानि कुतूहली सगुन्द्रागहनानीव पल्वलानि विलोकयन् ॥ २०.२६६ क्वचिदुत्कूलकालिन्दी सराम्भःपूरितैरिव कृतहंसद्विजातीर्यैः सरोभिः प्रीणितेक्षणः ॥ २०.२६७ सत्त्वाकारसतीकार कोमलापाण्डुपांसुभिः कृष्टैराकृष्टदृष्टिश्च जाह्नवीपुलिनैरिव ॥ २०.२६८ एवमादिशरत्काल कान्तिविस्मारितप्रियः गच्छन् पुरुषमद्राक्षम् ग्रामादायान्तमन्तिके ॥ २०.२६९ स तु मां चिरमीक्षित्वा ब्रवीति स्म सविस्मयः चित्रमार्यकनिष्ठस्य यूयं सुसदृशा इति ॥ २०.२७० मम त्वासीदसंदिग्धम् दृष्टवानेष गोमुखम् न हि तस्मादृते कश्चिद् स्ति मत्सदृशः क्षितौ ॥ २०.२७१ पृच्छामि स्म च तं भद्र स कनिष्ठः क्व तिष्ठति कीदृशा वा विनोदेन गमयेद्दिवसानिति ॥ २०.२७२ ततस्तेनोक्तमत्रैव ग्रामे गृहपतिर्द्विजः अस्ति साधारणार्थार्थः प्रियवादी प्रसन्नकः ॥ २०.२७३ एकदा ब्राह्मणः पृष्टस्तेन ब्रह्मसभां गतः आगतः कतमाद्देशात् किमर्थं वा भवानिति ॥ २०.२७४ तेनोक्तमागतावावाम् वन्तिविषयाद्द्विजौ भ्रातरौ स च मे ज्येष्ठो यात्रायामन्यतो गतः ॥ २०.२७५ तद्गवेषयमाणोऽहम् ेतं ग्राममुपागतः छात्त्राणामत्र सर्वेषाम् ुपपन्नः समागमः ॥ २०.२७६ इत्युक्ते तेन तेनोक्तम् िदं वः सधनं गृहम् येन येनात्र वः कार्यम् तत्तदादीयतामिति ॥ २०.२७७ गृहे गृहपतेस्तस्य क्षमावानपि शीलतः त्रस्तभृत्यकृताराधो दुर्वासोवद्वसत्यसौ ॥ २०.२७८ हालिकत्वान्न जानामि ज्ञाता किं किमसाविति यन्मात्रं तु विजानामि तन्मात्रं कथयामि वः ॥ २०.२७९ छात्त्रैस्तावत्किमुद्दिष्टैर् प्राप्तसकलागमैः आचार्या अपि विद्यासु तस्यैव छात्त्रतां गताः ॥ २०.२८० इति चाहुः किमस्माभिर् वृथैवात्मावसादिभिः विश्वकर्माथ वा ब्रह्मा कस्मान्नायमुपासितः ॥ २०.२८१ एवमादिविनोदोऽसाव् ार्यज्येष्ठं प्रतीक्षते उत्कण्ठः सर्वतः पश्यञ् जीमूतमिव चातकः ॥ २०.२८२ आर्यज्येष्ठो भवानेव यदि तल्लघु कथ्यताम् अकालकौमुदी ग्रामे सहसा जृम्भतामिति ॥ २०.२८३ आम सौम्य स एवाहम् िति संवादितो मया ऊर्ध्वचूडः स वेगेन प्रति ग्राममधावत ॥ २०.२८४ सहसा तेन चोत्क्षिप्तो ग्रामे त्रासितकातरः उत्थितस्तोषनिर्घोषस्तालसंपातसंकुलः ॥ २०.२८५ विनिःसृत्य ततो ग्रामाद् गोमुखो विकसन्मुखः दूरादेव यथादीर्घम् पतन्मम पादयोः ॥ २०.२८६ बालैरालिङ्गितैः पुत्रैर् दारैश्च न तथा प्रियैः जन्यते जनिता प्रीतिस्तेन मे सुहृदा यथा ॥ २०.२८७ प्रसन्नवदनं चारात् तदाख्यातं प्रसन्नकम् आलिङ्ग्य सहितस्तेन संभवग्राममासदम् ॥ २०.२८८ उभेटीकूटपटल प्रासादादिगता च माम् ग्रामीणा जनता यान्तम् ङ्गुलीभिरदर्शयत् ॥ २०.२८९ प्रीतानुचरवर्गेण प्रसन्नकनिवेशने कृतासुकरसत्कारः प्रेरयं दिवसं क्षणम् ॥ २०.२९० शयनीयगृहस्थं च मामभाषत गोमुखः नीतवन्तः कथं यूयम् ियतो दिवसानिति ॥ २०.२९१ घोषवासावसाने च स्ववृत्ते कथिते मया पृष्टः स्ववृत्त आचष्ट गोमुखः प्रियविस्तरः ॥ २०.२९२ अस्त्यहं स्वगृहात्प्रातर् युष्मान् सेवितुमागतः प्रतिबुद्धान्न चापश्यम् पाण्डावपि दिवाकरे ॥ २०.२९३ संभ्रान्तमत्प्रयुक्ता च प्रविश्य परिचारिका हा शून्यमिति साक्रन्दा निर्गता वासमन्दिरात् ॥ २०.२९४ ततः सवत्सकौशाम्बी क्रन्दितह्रादपूरिताः विन्ध्याकाशदिशश्चण्डम् ारटन्निव पीडिताः ॥ २०.२९५ अथ ताडितहस्तेन मा मा भैष्टेति वादिना आदित्यशर्मणा लोकः सिद्धादेशेन वारितः ॥ २०.२९६ स चावोचन्महीपालम् लं गत्वा विषण्णताम् न ह्यदर्शनमात्रेण भानोः संभाव्यते च्युतिः ॥ २०.२९७ यस्य वेगवती रक्षा क्षमासंरक्षणक्षमा ब्रह्मजातिरिवावध्या स कस्माद्दुःस्थतामियात् ॥ २०.२९८ अथ वोत्तिष्ठत स्नात जुहताश्नीत गायत पश्चाद्वार्त्तोपलम्भाय वियदालोच्यतामिति ॥ २०.२९९ इदं श्रुत्वापि नैवासीत् कस्मैचिदशने रुचिः उत्कण्ठाविषयादन्यत् किं सोत्कण्ठाय रोचते ॥ २०.३०० अथोत्तानमुखाः पौराः खं पश्यन्तः समन्ततः विच्छिन्नाभ्रलवाकारम् किमप्यैक्षन्त पूर्वतः ॥ २०.३०१ किमेतदिति पौराणाम् यावद्वाक्यं समाप्यते तावदासन्नमद्राक्षम् पुरोऽमितगतिं दिवः ॥ २०.३०२ शरपातान्तरे चास्य वधूवेषविभूषणाम् वेगवत्तनयां देवीम् यान्तीमन्तःपुरं प्रति ॥ २०.३०३ अथ व्यज्ञापयं देवम् देव प्राज्ञप्तिकौशिकिः दिष्ट्यामितगतिः प्राप्तः प्रीत्या संभाव्यतामिति ॥ २०.३०४ स तु मामब्रवीत्कर्णे कथं कथमयं मया विद्याधरो मनुष्येण सता संमान्यतामिति ॥ २०.३०५ ततस्तमुक्तवानस्मि यया हरिशिखादयः तयामितगतिर्दृष्ट्या विश्रब्धं दृश्यतामिति ॥ २०.३०६ आगच्छागच्छ तातेति स तमाहूतमागतम् प्रसारितभुजः प्रह्वम् ामृशत्पृष्ठमूर्धनि ॥ २०.३०७ सोऽपि न्युब्जिकया दूरम् पसृत्य प्रणम्य च आहूतः पुनरादिष्टम् ध्यास्तानुच्चमासनम् ॥ २०.३०८ तं राजा क्षणमासीनम् खेदमिदमुक्तवान् भ्रातुः कथय वृत्तान्तम् िति तेनोदितं ततः ॥ २०.३०९ राज्ञा मानसवेगेन चक्रवर्ती नभस्तलात् पातितोऽन्धतमे कूपे स्ववीर्याच्चोत्थितस्ततः ॥ २०.३१० वेगवत्यपि सक्रोधा जित्वा भ्रातरमम्बरे इयं मत्सहितागत्य गता राजावरोधनम् ॥ २०.३११ युवराजोऽपि चम्पायाम् वीणादत्तकवेश्मनि सुखं तिष्ठति मा भूत्तद् विशङ्का भवतामिति ॥ २०.३१२ मातरौ पुत्र पश्येति समादिष्टो महीभुजा स मया सहितो गत्वा देव्यौ दूरादवन्दत ॥ २०.३१३ क्षणं चान्तःपुरे स्थित्वा निर्यातः स मयोदितः विस्तरेण सखे मह्यम् भर्तुर्वृत्तं निवेद्यताम् ॥ २०.३१४ भिद्यन्ते न रहस्यानि गुरूणां संनिधौ तथा यथाभिन्नरहस्यानाम् शङ्कैः सुहृदामिति ॥ २०.३१५ अथोक्तं तेन यद्येवम् विविक्ते क्वचिदास्यताम् न हीदं शक्यमाख्यातुम् न श्रोतुं प्रस्थितैरिति ॥ २०.३१६ अथान्तःपुरनिर्यूहे निराकृतमहाजने आसीनाय स मे वृत्तम् युष्मद्वृत्तमवर्तयत् ॥ २०.३१७ अस्त्यहं युवराजेन मोचितः शङ्कुबन्धनात् तेनैव च कृतानुज्ञः प्रायामङ्गारकं प्रति ॥ २०.३१८ चक्रवर्तिभयाच्चासौ त्यक्तवान् कुसुमालिकाम् बलवत्संश्रयात्केन दुर्बलेन न भीयते ॥ २०.३१९ सोऽहमादाय विश्रब्धम् त्वत्सखीमाश्रमे पितुः अवसं दिवसानेतान् कदाचित्काश्यपस्थले ॥ २०.३२० अद्य चानुगृहीतोऽस्मि स्मरता चक्रवर्तिना स च गत्वा मया दृष्टस्तिष्ठन्नवटसंकटे ॥ २०.३२१ स चावटतटस्थो माम् ाज्ञयानुगृहीतवान् युध्यामानां सह भ्रात्रा रक्ष वेगवतीमिति ॥ २०.३२२ उत्पत्य च मया दृष्टा निर्जिता भ्रातृशात्रवा उत्खातनिजरागेव योगिनीचक्रवर्तिनी ॥ २०.३२३ सा तु मां प्रणतं दूराद् ाज्ञापितवती लघु भ्रातः प्रज्ञप्तिमावर्त्य स्वामी विज्ञायतामिति ॥ २०.३२४ तां विज्ञापितवानस्मि देवि चम्पानिवासिनः भवने दत्तकस्यास्ते तत्र संभाव्यतामिति ॥ २०.३२५ अथ दूरेण मां जित्वा वेगाद्वेगवती गता प्रावृड्जडमिवाम्भोदम् समीरणपरंपरा ॥ २०.३२६ प्राप्य चातिचिराच्चम्पाम् हं दत्तकवेश्मनि दृष्टवान्मानुषादृश्याम् देवीं देवस्य संनिधौ ॥ २०.३२७ नागभोगाङ्कपर्यङ्के निषण्णं च नभःपतिम् जगत्पतिमिवानन्त भुजङ्गोत्सङ्गशायिनम् ॥ २०.३२८ पृष्टश्च युवराजेन सादरेणैव दत्तकः रूपं गन्धर्वदत्तायाः कीदृगित्युच्यतामिति ॥ २०.३२९ वेगवत्या ततः क्रोध दैन्यवैलक्ष्यधूम्रया पश्यामितगते भर्तुर् ाचारमिति भाषितम् ॥ २०.३३० वर्णितं दत्तकेनापि रूपं तस्यास्तथा यथा सद्यो विकसितं भर्तुर् देव्यास्तु म्लानमाननम् ॥ २०.३३१ अथोक्तं शनकैर्भर्त्रा दत्तकः कूपकच्छपः येन गन्धर्वदत्ताया रूपमेष प्रशंसति ॥ २०.३३२ यदि पश्येदयं मुग्धः प्रियां मदनमञ्जुकाम् दूरे गन्धर्वदत्तास्ताम् रम्भामपि न वर्णयेत् ॥ २०.३३३ उक्तश्चार्यदुहित्राहम् कम्पयित्वा शनैः शिरः बहु श्रोतव्यमत्रास्ति निपुणं श्रूयतामिति ॥ २०.३३४ पुनरप्युक्तवान् स्वामी सा तथापि प्रिया प्रिया प्रियां वेगवतीं प्राप्य यत्सत्यं विस्मृतैव मे ॥ २०.३३५ ततः सद्यस्तदङ्गानि लज्जामुकुलितान्यपि अद्राक्षं विकसन्तीव तुङ्गीभूतैस्तनूरुहैः ॥ २०.३३६ उक्तश्चास्मि तया स्मित्वा भ्रातर्गच्छाव संप्रति यावन्नापरमेतेन किंचिद्दुर्वच उच्यते ॥ २०.३३७ एकेन पटुनानेकम् दूष्यते मधुरं वचः विषतोयलवेनेव दुग्धकुण्डमुरूदरम् ॥ २०.३३८ यावत्या वेलया देव्या वाक्यमित्यादि कल्पितम् देवः संचिन्त्य तावत्या पश्चादूहितवानिदम् ॥ २०.३३९ यथा प्राप्य द्वितीयां मे विस्मृता प्रथमा प्रिया तृतीयायास्तथ प्राप्त्या द्वितीया विस्मरिष्यते ॥ २०.३४० काव्यस्त्रीवस्त्रचन्द्रेषु प्रायेण विगुणेष्वपि अपुराणेषु रज्यन्ते स्वभावादेव जन्तवः ॥ २०.३४१ तेन गन्धर्वदत्तायाः शुल्कं संपाद्यतामहम् प्रसह्य स्वीकरिष्यामि कृष्णामिव धनंजयः ॥ २०.३४२ इति दारुणया पत्युर् ियं वाचा विमोहिता दृष्ट्या दृष्टिविषस्येव निश्चेष्टा वसुधामगात् ॥ २०.३४३ ततः किंकार्यमूढेन मया कथमपि प्रभुः प्रतीकारशतावध्यम् वृत्तान्तं तं न बोधितः ॥ २०.३४४ उत्थाय च ससंज्ञेयम् दिवमुत्पत्य भाषते वन्दमाना गुरोः पादान् क्षपयामि शरीरकम् ॥ २०.३४५ अथवा कुरु बन्धुत्वम् भ्रातः काष्ठानि संहर राजद्वारे श्मशाने वा यस्तिष्ठति स बान्धवः ॥ २०.३४६ दुःखानि ह्यनुभूयन्ते सशरीरैः शरीरिभिः दुःखाधिकरणं तन्मे शरीरं दह्यतामिति ॥ २०.३४७ मयोक्तेयं क्व देवस्य देवी वेगवतः सुता क्व चासदृशमेतत्ते वदनान्निर्गतं वचः ॥ २०.३४८ यदि त्यक्तशरीराणाम् शरीरं न पुनर्भवेत् ततो नैव विरुध्येरन् नात्मानैरात्म्यवादिभिः ॥ २०.३४९ चित्तवृत्तिनिरोधेन यत्खिन्नैर्मोक्षुभिश्चिरम् मुस्ताग्रन्थिप्रमाणेन तद्विषेणैव लभ्यते ॥ २०.३५० तस्मान्नास्तिक्यमुज्झित्वा सर्वसर्वज्ञनिन्दितम् धर्माधिकरणं देवि शरीरं पाल्यतामिति ॥ २०.३५१ तया तु सर्वमेवेदम् श्रुत्वा शून्यचेतसा ननु संहर दारूणि किं चिरेणेति भाषितम् ॥ २०.३५२ मयोक्तं यदि युष्माकम् यं चेतसि निश्चयः अहमेव ततः पूर्वम् प्रविशामि चितामिति ॥ २०.३५३ अथाहं परुषालापम् ुक्तः कुपितया तया मामनुम्रियमाणस्त्वम् ुच्यसे किं जनैरिति ॥ २०.३५४ अथैनामुक्तवानस्मि सत्यमेतद्विरुध्यते जीवितं तु महादोषम् तथा च श्रूयतां कथा ॥ २०.३५५ अस्यास्त्वाकाशए आसानो दुःश्लिष्टालापकर्पटाम् चित्तमाक्षिप्तवानस्मि कथाकन्थां प्रसारयन् ॥ २०.३५६ अस्ति भागीरथीकच्छः प्रांशुकाशशराकारः बदरीखदिरप्राय कान्तारतरुदुर्गमः ॥ २०.३५७ स्फीतसीमान्तलुण्ठाकाः खड्गिशम्बरतस्कराः दुर्गराजं यमाश्रित्य राजभ्योऽपि न बिभ्यति ॥ २०.३५८ प्रभावाद्यस्य शार्दूलैर् विरलीकृतगोकुलैः गोष्ठश्वा इव गायन्ते मत्ता मृगयुदन्तिनः ॥ २०.३५९ यच्च घर्मान्तवादाग्नि ज्वालाजनितवेदनम् पयःश्वेतपयःपूरैर् निर्वापयति जाह्नवी ॥ २०.३६० तत्रान्यत्र शरस्तम्बे बदरीझाटवेष्टिते बिलं कृत्वा शतद्वारम् ुवास किल मूषिक ॥ २०.३६१ वानेयैः पावनैरन्नैर् जाह्नवीयैश्च वारिभिः स भृत्यान् बिभरामास वैखानस इवाश्रमे ॥ २०.३६२ कदाचित्प्रोषिते तस्मिन्न् ाहाराहारकाङ्क्षिणि गृहमस्यागमन्मित्रम् ाखुर्नगरगोचरः ॥ २०.३६३ आसीनश्चार्घ्यपाद्याभ्याम् सौ मूषिकयार्चितः तामपृच्छत्क्व यातो नः सखा सखि भवेदिति ॥ २०.३६४ तयाहारार्ह्तमित्युक्ते प्रस्थितं तमुवाच सा अयमायाति ते भ्राता सुमुहूर्तमुदीक्ष्यताम् ॥ २०.३६५ असत्कारे गृहाद्याते कृतघ्नेऽपि स ते सखा निद्राहाराभिलाषाभ्याम् सप्तरात्रं वियुज्यते ॥ २०.३६६ त्वं पुनस्तस्य मित्रं च चिराच्च गृहमागतः निरातिथ्यश्च यामीति वृषस्त्वमविषाणकः ॥ २०.३६७ यावच्चेयं कथा तावन् निर्ग्रन्थाङ्गमलीमसैः धूमैर्धूसरितो भानुः स्वर्भानुतिमिरैरिव ॥ २०.३६८ अनन्तरं च साङ्गार भस्मसंतानहारिणः अपवन्त नभस्वन्तो गङ्गाताण्डवहेतवः ॥ २०.३६९ ततः पृषतगोकर्ण परंपरपरंपराः लङ्घितोद्भ्रान्तशार्दूलाः प्राधावन्नभि जाह्नवीम् ॥ २०.३७० अथासौ मूषिकः पापस्तामामन्त्र्य ससंभ्रमः अपगन्तुमुपक्रान्तस्तया संभ्रान्तयोदितः ॥ २०.३७१ अहो नगरवासित्वम् देवरेण प्रकाशितम् महासाहसमारब्धम् ात्मानं येन रक्षता ॥ २०.३७२ नागराः किल भाषन्ते धर्मार्थग्रन्थकोविदाः आत्मार्थे सकलां जह्यात् पण्डितः पृथिवीमिति ॥ २०.३७३ त्वदीयेन तु मित्रेण मित्रामित्रा विपद्गताः शरीरनिरपेक्षेण स्वगुणा इव रक्षिताः ॥ २०.३७४ अथ वा कृतमालापैर् कालोऽयमुदासितुम् दावदाहभयाद्बालान् परित्रायस्व पुत्रकान् ॥ २०.३७५ बहूनेतानहं मुग्धान् नुन्मीलितलोचनान् पञ्चरात्रप्रसूतत्वात् संचारयितुमक्षमा ॥ २०.३७६ त्वं पुनः पुरुषः शक्तः प्रियापत्यश्च यत्नतः तुङ्गगङ्गातटीं येन संचारय सुतानिति ॥ २०.३७७ स तु पापाखुरालम्ब्य संभ्रान्तव्याघ्रवालधिम् मुषिकामवकर्ण्यैव गङ्गारोधः परागमत् ॥ २०.३७८ ततः पाषाणवर्षस्य पततः कुट्टिमेष्विव उत्थितः परितः कच्छम् पटुः पटपटाध्वनिः ॥ २०.३७९ अथालोच्य बुभुक्षोस्तम् कक्षं कक्षं विभावसोः सर्वं ज्वालाच्छलेनाङ्गम् जिह्वामयमिवाभवत् ॥ २०.३८० दावकालानलः स्तम्ब कक्षसंसारमायतम् दग्ध्वा निरिन्धनः शान्तः प्राप्य गङ्गातटाम्बरम् ॥ २०.३८१ ततः पटुमरुद्व्यस्त भम्सस्कन्धवसुंधरः क्षणेन ददृशे कच्छः प्रांशुवल्मीकसंकुलः ॥ २०.३८२ एतस्मिन्नीदृशे काले शङ्काग्रस्तः स मूषिकः अनुमाय चिराच्चिह्नैर् ाजगाम स्वमालयम् ॥ २०.३८३ तत्रापश्यत्ततः कान्ताम् न्तर्गृहमचेतनाम् ज्वालाव्यतिकरोष्णाभिर् ुत्स्विन्नां धूमवर्तिभिः ॥ २०.३८४ सर्वानालिङ्ग्य सर्वाङ्गैः शावकान् गतजीवकान् दीर्घनिद्रामुपासीनाम् संमीलितलोचनान् ॥ २०.३८५ अथ मूढश्चिरं स्थित्वा प्रबुद्धो विललाप सः विलापैकविनोदा हि बन्धुव्यसनपीडिताः ॥ २०.३८६ महाभूतानि भूतानि भूतानां भूतये किल महाभूतेन भूताङ्गे भवता किमिदं कृतम् ॥ २०.३८७ वरं ब्रह्मवधादीनि पातकानि महान्त्यपि न पुनर्यत्त्वया पाप दुष्करं दुष्कृतं कृतम् ॥ २०.३८८ ननु ब्रह्मवधादीनि यान्ति निष्कृतिभिः क्षयम् शरणागतबालस्त्री कृतहत्यास्तु दुःक्षयाः ॥ २०.३८९ यस्मान्निष्करुणेनेदम् दग्धमाखुकुलं त्वया दशजन्मसहस्राणि तस्मादाखुर्भविष्यसि ॥ २०.३९० अथ वा निर्दहत्वेष दीप्तशापहुताशनः तमेव चपलं येन सर्वभक्षः कृतो भवान् ॥ २०.३९१ इत्यादि विलपन्तं तम् समेत्य स सुहृद्ध्रुवः मूषिकैरपरैः सार्धम् लीकमवदद्वचः ॥ २०.३९२ स्वयमेव सखे सख्या स्त्रीत्वाद्वामस्वभावया मयि प्रार्थयमानेऽपि कुटुम्बमवसादितम् ॥ २०.३९३ दशकृत्वो मयोक्तेयम् भवती सहिता मया गङ्गाकूलं त्रिभिर्वारैः शावकान्नयतामिति ॥ २०.३९४ असंभ्रान्ता च मामाह कातराणां भवादृशाम् अपायशतदर्शिन्यः स्वच्छवृत्तेऽपि बुद्धयः ॥ २०.३९५ वेतस्वन्नड्वलोपान्तम् न्तरे पल्वलं महत् नीलाविरलपर्णाश्च जम्बूवञ्जुलराजयः ॥ २०.३९६ न चाग्नेरस्ति सामर्थ्यम् दाह्यं दग्धुमीदृशम् सोऽतिदूरेण विच्छिन्नः कथमस्मान् दहेदिति ॥ २०.३९७ स तु मित्रीयमाणस्तम् चिरमालोक्य पृष्टवान् एवमुक्तः प्रजावत्या भवान् किं कृतवानिति ॥ २०.३९८ तेनोक्तं वामशीलत्वाद् यदेयं प्रत्यवस्थिता निष्प्रत्याशस्तदा प्राणान् हं रक्षितवानिति ॥ २०.३९९ लज्जमाने नते तस्मिन् स्थितेऽसाधावधोमुखे आखुरन्यतमस्तेषाम् तमसाधुमभाषत ॥ २०.४०० तुषान् गोपयता त्यक्ताः प्राज्ञेन कलमास्त्वया रक्षता सुत्यजान् प्राणांस्त्यक्ता यद्दुस्त्यजा गुणाः ॥ २०.४०१ प्राणानां च गुणानां च विशेषः स्यात्कियानिति मीमांसित्वा चिरं देवाः साम्यमेषामकल्पयन् ॥ २०.४०२ तान् प्रजापतिराहैत्य मा कृध्वं विषमं समम् तरंगतरलाः प्राणा गुणा मेरुस्थिरा इति ॥ २०.४०३ अथ वा मृत एव त्वम् ुत्क्रान्तं पश्य ते यशः अयशोमरणात्त्रस्ता यशोजीवा हि साधवः ॥ २०.४०४ सखे सावाग्निना दग्धम् त्वत्कुटुम्बं ममाग्रतः अहं जीवित इत्येतत् को ब्रूयान्मूषिकादृते ॥ २०.४०५ इति ते तमुपालभ्य परिसंस्थाप्य चेतरम् कुटुम्बं चास्य संस्कृत्य प्रतिजग्मुर्यथागतम् ॥ २०.४०६ स चाखुर्मूषिकश्रेण्या तस्मादारभ्य वासरात् आसनस्थानसंभाषा संभोगैर्वर्जितः कृतः ॥ २०.४०७ अहं तु स्वामिनीं दृष्ट्वा पवित्रितचितानलाम् अक्षताङ्गः स्वयं मन्दः किं वक्ष्यामि पुरः प्रभोः ॥ २०.४०८ चतुर्वर्गस्य धर्मादेर् हेतुः साधुसमागमः साधुभिर्वर्ज्यमानस्य नष्टमेतच्चतुष्टयम् ॥ २०.४०९ तद्गरिष्ठादतो दोषाल् लघिष्ठं मरणं मया अङ्गीकृतमलं प्राणैर् कीर्तिमलिनैरिति ॥ २०.४१० यावच्च समयं बद्ध्वा कथा परिसमाप्यते तावदावामनुप्राप्ताव् ास्थानं भवतामिति ॥ २०.४११ ततः स सत्कृतो राज्ञा वसनाभरणादिभिः प्रीतः प्रीतं महीपालम् प्रणिपत्य तिरोऽभवत् ॥ २०.४१२ तत्राचिरगते देवम् सेनापतिरभाषत तन्त्रेण सह गच्छन्तु चम्पां हरिशिखादयः ॥ २०.४१३ राजपुत्रस्य नागन्तुम् न स्थातुं तत्र युज्यते पान्थस्येवासहायस्य पुराधिष्ठानवासिनः ॥ २०.४१४ शतानि पञ्च नागानाम् भ्यस्तास्त्रनिषादिनाम् तावन्त्येव सहस्राणि तादृशामेव वाजिनाम् ॥ २०.४१५ पत्तयश्च प्रतिष्ठन्ताम् वाजिसंख्याचतुर्गुणाः पत्तिरक्ष्या हि मातङ्गाः कर्मण्याः समरेष्विति ॥ २०.४१६ प्राप्तकालमिदं स्तुत्वा राजा सेनापतेर्वचः तन्त्रेण साहितानस्मान् प्राहिणोद्युष्मदन्तिकम् ॥ २०.४१७ अथ विन्ध्याचलच्छायाम् गुञ्जद्वानरकुञ्जराम् आक्रामन्तः प्रयामः स्म स्वच्छशैलसरिज्जलाम् ॥ २०.४१८ संनिविष्टं च तत्तन्त्रम् न्यस्मिन् विन्ध्यसानुषु ध्वनत्पटहशृङ्गं च चौरचक्रमुपागतम् ॥ २०.४१९ अदृष्टतरुपाषाण शकुन्तमृगचारणः दृष्टः पुलीन्द्रभावेन विन्ध्यः परिणमन्निव ॥ २०.४२० ततः पुलिन्द्रकोदण्ड षण्डमुक्तैः शिलीमुखैः संततैर्वयमाक्रान्ताः शलभैरिव शालयः ॥ २०.४२१ अथ नागाधिरूढेन सैनापत्येन तत्कृतम् प्रत्यक्षमपि यद्दृष्टम् न कश्चित्समभावयत् ॥ २०.४२२ तत्करभ्रमितप्रास चक्रप्रान्तपरागताः परावृत्य परानेव पराघ्नन्परमार्गणाः ॥ २०.४२३ भ्रान्तकुन्तपरिक्षिप्तम् न शरीरमदृश्यत तस्य बाहुसहस्रं तु फलेन समभाव्यत ॥ २०.४२४ आक्रान्तचतुराशेषु विन्ध्यकान्तारवासिषु तद्विसृष्टानपश्याम युगपत्पततः शरान् ॥ २०.४२५ स्फुरत्किरणनिस्त्रिंश पाणिर्यौगन्धरायणिः दृष्टः सर्वेण सर्वेषाम् पुलीन्द्राणां पुरः स्थितः ॥ २०.४२६ सर्वथानेन संदृष्टम् परचक्रमुदायुधम् तदासन्नविमानस्थैर् दृष्टमप्सरसां गणैः ॥ २०.४२७ प्रतिपक्षक्षयं घोरम् करोत्तं तपन्तकः कृतब्रह्मास्त्रमोक्षेण द्रोणेनापि न यः कृतः ॥ २०.४२८ मयापि सतुरंगेण तत्र तत्राभिधावता निष्प्रयोजनयत्नेन स्वे परे चोपहासिताः ॥ २०.४२९ ततस्तस्करचक्रेण व्यतिभिन्नं भवद्बलम् नीहारनिकरेणेव भास्वत्करकदम्बकम् ॥ २०.४३० एतस्मिन्नाकुले काले शालस्कन्धावृतः परः दृढं मर्मणि बाणेन मत्तुरंगमताडयत् ॥ २०.४३१ तुरंगस्तु तथा पाद ताडनान्यविचिन्तयन् स्थाणुपाषाणगर्तांश्च यथावेगमधावत ॥ २०.४३२ दिनान्तेन च निर्गत्य गहनाद्विन्ध्यकाननात् स्थित एवामुचत्प्राणान् पश्चात्कायमपातयत् ॥ २०.४३३ ततः संहृत्य दारूणि गुरूणि च बहूनि च तस्यानुष्थितवानस्मि संस्कारं सोदकक्रियम् ॥ २०.४३४ दिङ्मोहभ्रान्तचेताश्च प्रांशुमारुह्य शाखिनम् एतं ग्रामकमद्राक्षम् ारादाकुलगोकुलम् ॥ २०.४३५ आगतश्चाहमेतेन साधुनाराधितस्तथा यथा गुरुर्यथा देवो यथा राजा यथाव्वरः ॥ २०.४३६ तं च तस्करसेनान्यम् घ्नन् हरिशिखादयः इति मह्यमियं वार्त्ता कथिता पथिकैरिति ॥ २०.४३७ कान्तासुहृद्गुणकथाश्रवणोत्सुकस्य रम्या विनिद्रनयनस्य गता ममासौ सर्वेन्द्रियार्थजनितानि हि सेव्यमाना दीर्घास्ववृत्तिरिव हन्ति सुखानि निद्रा ॥ २०.४३८ तत्र मित्रप्रकाण्डेन गोमुखेन विनोदितः मासमासिषि विप्रैश्च प्रसन्नैः सप्रसन्नकैः ॥ २१.१ एकदा गोमुखेनोक्तम् योजने ग्रामकादितः अविमुक्ताविमुक्तत्वात् पुण्या वाराणसी पुरी ॥ २१.२ आप्राग्ज्योतिषकश्मीर द्वारकाताम्रपर्णि यत् तत्सर्वं सुलभं तस्याम् मनोहारिविनोदनम् ॥ २१.३ कदाचिच्चोपलभ्येत तत्र पान्थात्कुतश्चन वार्त्ता हरिशिखादीनाम् तः सागम्यतामिति ॥ २१.४ तमुक्त्वा युक्तमात्थेति तं चामन्त्र्य प्रसन्नकम् साक्रन्दात्संभवग्रामात् प्रति वाराणसीमगाम् ॥ २१.५ अथ स्तोकान्तरातीतम् मामभाषत गोमुखः वहानि किमहं युष्मान् यूयं वहत मामिति ॥ २१.६ चिन्तितं च मया हन्त विनष्टः खलु गोमुखः यूयं मां वहतेत्येष नो ब्रूयात्कथमन्यथा ॥ २१.७ आसनस्यापि यश्छायाम् मदीयस्य नमस्यति अरिष्टाविष्टतां मुक्त्वा कथमित्थं स वक्ष्यति ॥ २१.८ स मयोक्तः सदैन्येन भवान् गुरुपदश्रमः तन्मदीयमशङ्केन पृष्ठमारुह्यतामिति ॥ २१.९ तेन चोक्तं विलक्षेण मा ग्रहीत यथा श्रुतम् नेयं संभाव्यते चिन्ता जातारिष्टेऽपि मादृशि ॥ २१.१० किं तु यः किंचिदाचष्टे पान्थस्य पथिकः पथि वोढा भवति तस्यासौ खेदविस्मरणादिति ॥ २१.११ स मयोक्तो भवानेव सर्ववृत्तान्तपेशलः आख्यातुं च विजानाति यत्ततः कथयत्विति ॥ २१.१२ तेनोक्तं पञ्च कथ्यन्ते कथावस्तूनि कोविदैः धर्मार्थसुखनिर्वाण चिकित्साः सहविस्तराः ॥ २१.१३ तत्र सत्त्वोपकारार्था कायवाङ्मानसक्रिया प्रभवः सर्वधर्माणाम् जगती जगतामिव ॥ २१.१४ येनोपायेन मित्रत्वम् यान्ति मध्यस्थशत्रवः सर्वार्थानामसौ हेतुर् गुणानामिव सज्जनः ॥ २१.१५ परस्त्रीगणिकात्यागः संतोषो मन्दरोषता नातिसक्तिश्च दारेषु सुखं दुःखं विपर्ययः ॥ २१.१६ साङ्गस्य सुखरागादेर् नङ्गस्य च देहिनः संबन्धाभावमत्यन्तम् निर्वाणं विदुरीश्वराः ॥ २१.१७ अर्धरात्रेऽपि भुञ्जानः परमार्थबुभुक्षितः कूटवैद्यपरित्यागी रोगैर्दूरेण वर्ज्यते ॥ २१.१८ दृष्टसंसारसाराणाम् ृषीणां को हि मादृशः असारो गुरुसाराणि दर्शनानि विडम्बयेत् ॥ २१.१९ तेन यत्किंचिदुच्छास्त्रम् बालभावादुदाहृतम् शुकवाशितनिःसारम् िदं मे मृष्यतामिति ॥ २१.२० इदमादीः कथाः शृण्वन् निरन्तरसुरालयाम् गङ्गाभरणमाख्याताम् प्रापं वाराणसीं ततः ॥ २१.२१ तत्र बाह्यनिविष्टस्य शून्यस्य पुरसद्मनः जरद्दारुसुधाचित्रम् ध्यतिष्ठाम मण्डपम् ॥ २१.२२ गोमुखस्तु क्षणं स्थित्वा मामवोचद्गतश्रमम् मुहूर्तकमनुत्कण्ठैर् िह युष्माभिरास्यताम् ॥ २१.२३ यत्र स्थातव्यमस्माभिर् ुपलभ्य तमाश्रयम् आगच्छामीति मामुक्त्वा चलैरुच्चलितः पदैः ॥ २१.२४ गत्वा षोडशविंशानि पदानि सहसा स्थितः ततः किमपि निश्चित्य निवृत्तो मामभाषत ॥ २१.२५ यदिदं युष्मदङ्गेषु दिव्यं भूषणमाहितम् इदमादाय गच्छामि स्थातुं नास्येह युज्यते ॥ २१.२६ त्रिदण्डिपाण्डराङ्गादि पाषण्डैश्छद्मकङ्कटैः वाराणसी महाचौरैस्तीर्थध्वाङ्क्षैरधिष्ठिता ॥ २१.२७ युष्मानेकाकिनो दृष्ट्वा सालङ्कारान्निरायुधान् तेषां साहसिकः कश्चिद् नर्थं चिन्तयेदिति ॥ २१.२८ एवं भवतु नामेति मयासावनुमोदितः तदाभरणमादाय प्राविशत्त्वरितः पुरम् ॥ २१.२९ अथाचिरगते तस्मिन् परिव्राड्ब्रह्मचारिणौ परिचङ्क्रमणश्रान्तौ तस्मिन्नेव न्यसीदताम् ॥ २१.३० आसीच्च मम तावेतौ नूनं पाषण्डितस्करौ निरायुधासहायं माम् मुषितुं किल वाञ्छतः ॥ २१.३१ तदेतेषां सहस्रेषु सकृपाणकरेष्वपि गवामिवोद्विषाणानाम् मतिर्मे मन्थरादरा ॥ २१.३२ ऊरुमूलस्थशस्त्रेषु प्रव्रज्याकङ्कटेषु यः प्रयुङ्क्ते निर्घृणः शस्त्रम् कोऽन्यः क्लीबतमस्ततः ॥ २१.३३ एवमादिविकल्पं माम् सावालोक्य मस्करी निराश इव विद्राणो ब्रह्मचारिणमुक्तवान् ॥ २१.३४ जल्पाकग्रथितैर्ग्रन्थैः सांख्ययोगादिभिर्वयम् विप्रलब्धाः सुखं त्यक्त्वा मोक्षमार्गे किल स्थिताः ॥ २१.३५ यथा तृणमुपादातुम् म्बराम्भोजमेव वा कश्चिन्महत्तपः कुर्यान् मोक्षार्थो नस्तथा श्रमः ॥ २१.३६ तृणवत्सुलभो मोक्षो यदि खेदोऽफलस्ततः अथ खाम्बोजदुष्प्रापस्ततो नष्टा मुमुक्षवः ॥ २१.३७ परलोकस्य सद्भावे हेतुः सर्वज्ञभाषितः सर्वज्ञस्यापि सद्भावः पञ्चदिव्यप्रमाणकः ॥ २१.३८ योऽप्युपादीयते हेतुः सर्वज्ञास्तित्वसिद्धये सोऽप्यसिद्धविरुद्धादि दोषाशीविषदूषितः ॥ २१.३९ तदलं विटवाचाट घटितैः काव्यकर्पटैः सेवमाना यथाच्छन्दम् ास्महे विषयानिति ॥ २१.४० ब्रह्मचारी तु सावेगः परिव्राजकमुक्तवान् प्रसारितस्त्वया कस्माद् सारो मल्लदण्डकः ॥ २१.४१ प्रतिज्ञाहेतुदृष्टान्ताः साधवस्तावदासताम् सर्वतन्त्राविरुद्धेन सिद्धान्तेनैव बाध्यसे ॥ २१.४२ असत्तां परलोकस्य शुष्कतर्केण साधयन् वितण्डावादवार्त्तार्तः साधु शोच्यो भविष्यसि ॥ २१.४३ अथ वास्तामिदं तावद् िदं तावन्निगद्यताम् स्मृतीनां विटकाव्यत्वम् कथं वेद भवानिति ॥ २१.४४ तेनोक्तं मानुषाणां च प्रायः सर्वशरीरिणाम् नन्दीशप्रमुखैरुक्तम् हं जानामि लक्षणम् ॥ २१.४५ यश्चैष पुरुषः कोऽपि पान्थः पांसुलपादकः एष विद्याधरेन्द्राणाम् िन्द्रः किल भविष्यति ॥ २१.४६ एनं दृष्ट्वाधितिष्ठन्तम् ेतं जर्जरमण्डपम् मल्लदण्डकनिःसारान् ुत्प्रेक्षे सकलागमान् ॥ २१.४७ अदृष्टार्थाः किल ग्रन्था दृष्टार्थैर्गारुडादिभिः अर्थवन्तोऽनुमीयन्ते याचकैरिव दायकाः ॥ २१.४८ यथा च विटकाव्यत्वान् मृषा पुरुषलक्षणम् श्रुतिस्मृतिपुराणादि तथा संभाव्यतामिति ॥ २१.४९ इतरस्तमथावोचद् तीतभवसंचितम् इष्टानिष्टफलं कर्म दैवमाहुर्विचक्षणाः ॥ २१.५० यच्चेदं लक्षणं नाम शरीरेषु शरीरिणाम् एतद्दैवाभिधानस्य लक्षणं पूर्वकर्मणः ॥ २१.५१ न चापुरुषकारस्य दैवं फलति कस्यचित् कालकारणसामग्रीम् ीश्वरोऽपि ह्यपेक्षते ॥ २१.५२ अयं तु तरुणः कल्यः कान्तिक्षिप्तसुरासुरः कुण्ठया गण्डमण्डानाम् मन्दचेष्टतया समः ॥ २१.५३ यथा धनुरधानुष्कम् यथा बीजमवापकम् सत्तामात्रफलं पुंसस्तथा दैवमपौरुषम् ॥ २१.५४ परिव्राडब्रवीद्दैवम् पौरुषाद्बलवत्तरम् ज्ञापकं चास्य पक्षस्य श्रूयतां यन्मया श्रुतम् ॥ २१.५५ अस्ति सिन्धुतटे ग्रामो ब्रह्मस्थलकनामकः तत्रासीद्वेदशर्मेति चतुर्वेदो द्विजोत्तमः ॥ २१.५६ तस्य योऽन्यतमः शिष्यः पाठं प्रति दृढोद्यमः तस्मादेव च स छात्रैर् ाहूयत दृढोद्यमः ॥ २१.५७ तमोभेदकनाम्नश्च गृहस्थस्य गृहे सदा दापितं भोजनं तस्य ाच्छादनं वेदशर्मणा ॥ २१.५८ तत्र भिन्नतमा नाम परिव्राट्पाञ्चरात्रिकः वासमावसथे तस्य करोति स्म दृढोद्यमः ॥ २१.५९ अनेन च प्रकारेण पटुश्रद्धानमेधसा अधीतं दशभिर्वर्षैस्तेन वेदचतुष्टयम् ॥ २१.६० अथ भिन्नतमाः कृत्वा वर्णाश्रमकथां चिरम् प्रशान्तजनसंपाते प्रदोषे तमभाषत ॥ २१.६१ बहुगोमहिषीभूमि दासीदासमिदं मया तन्त्रस्थानमुपान्तं च चाटादिभ्यश्च रक्षितम् ॥ २१.६२ ध्यानाध्यायप्रधानं च विहितं भिक्षुकर्म यत् वैश्यकर्माभियुक्तस्य तस्य नामापि नास्ति मे ॥ २१.६३ अधुना तु वचःकाय परिस्पन्दापहारिणी परलोकसमासन्ना जरातन्द्रीरिवागता ॥ २१.६४ गृहमेधिव्रतस्थानाम् लसानां स्वकर्मसु धर्मसाधनमुद्दिष्टम् ृषिभिस्तीर्थसेवनम् ॥ २१.६५ आह वेदान्तवादश्च तारकं ब्रह्म तन्त्रयेत् एतस्मान्न विमुञ्चेयुर् विमुक्तं मुमुक्षवः ॥ २१.६६ श्वः प्रस्थातास्महे तस्मात् प्रातर्वाराणसीं प्रति बुद्धधर्मे प्रशस्ता हि धर्मस्य त्वरिता गतिः ॥ २१.६७ भवतापि श्रुतिस्मृत्योः प्रामाण्यमनुजानता नियोगेनैव कर्तव्यः पत्नीपुत्रपरिग्रहः ॥ २१.६८ गृहस्थाश्रमधर्मश्च गवादिधनसाधनः न च प्रतिग्रहादन्यद् विप्रस्य धनसाधनम् ॥ २१.६९ तत्सुखोपनतं चैतद् निन्द्यमतिभूरि च सदासीदासमस्माकम् धनमादीयतामिति ॥ २१.७० तेनोक्तं युष्मदादिष्टम् कार्यमपि मादृशः न विकल्पयितुं शक्तः किं पुनर्न्याय्यमीदृशम् ॥ २१.७१ किं त्वामन्त्र्य पितृस्थानौ विद्याजीवितदायिनौ कर्तास्मि भवदादेशम् तिवाह्य निशामिति ॥ २१.७२ यातायां तु त्रियामायाम् तमामन्त्रयितुं गतम् संप्रतिष्ठासमानोऽपि चिरं भिक्षुरुदैक्षत ॥ २१.७३ यदा तु दिवसार्धेऽपि गते छात्त्रः स नागतः तं गवेषयितुं भिक्षुः स्वयमेव तदा गतः ॥ २१.७४ स तु तेनाङ्गणे दृष्टस्तमोभेदकवेशमनः शनैश्चङ्क्रमणं कुर्वन् नीचैश्चाम्नायमानसम् ॥ २१.७५ उक्तं च भवता कस्माद् ियच्चिरमिह स्थितम् अथार्थेनैव तेनार्थस्तथा नः कथ्यतामिति ॥ २१.७६ ततस्तेनोक्तमेतस्मिन् गृहे केनापि हेतुना व्यग्रः परिजनः सर्वस्तत्र तत्राभिधावति ॥ २१.७७ यां यामेव च पृच्छामि किमेतदिति दारिकाम् सा सा मामाह संरब्धा शिवं ध्यातु भवानिति ॥ २१.७८ तं चाद्यापि न पृच्छामि तमोभेदकमाकुलम् तेनाहं नागतः क्षिप्रम् सकाशं भवतामिति ॥ २१.७९ अथ भिन्नतमाः स्मित्वा दृढोद्यममभाषत येनायमाकुलो लोकस्तदहं कथयामि ते ॥ २१.८० तमोभेदकभार्यायाः प्रसूतिः प्रत्युपस्थिता अयं परिजनस्तत्र तत्रतत्राकुलाकुलः ॥ २१.८१ दारिका जायते चास्य तां च त्वं परिणेष्यसि सा च रागग्रहाविष्टा दुष्टचेष्टा भविष्यति ॥ २१.८२ इति तस्मिन् कृतादेशे गते स्वविवधं प्रति इतरश्चिन्तयामास शङ्काकम्पितमानसः ॥ २१.८३ ब्राह्मणी ब्राह्मणस्यास्य यदि कन्यां विजायते ततो भिन्नतमोवाक्यम् भूतार्थं न जायते ॥ २१.८४ स्तोभावेशविषाच्छेद क्रियासु व्यक्तशक्तिभिः शेषाणामपि मन्त्राणाम् सामर्थ्यमनुमीयते ॥ २१.८५ इति चिन्तयतस्तस्य दीनो गृहपतिर्गृहात् हा दैवं खलमित्यादि लपन्नीचैर्विनिर्गतः ॥ २१.८६ क्षणाच्च श्वगृहीतस्य मार्जारस्येव कूजतः अन्तर्भवनमुद्भूतः श्वागारपरुषश्रुतिः ॥ २१.८७ ततः प्रसाधिता नार्यो लज्जाप्रावृतमस्तकाः पक्षद्वारेण निर्जग्मुर् नैराश्योत्तानपाणयः ॥ २१.८८ परिचारकवर्गश्च शोचद्बन्धुकदम्बकम् अमन्त्रयत वामस्य विधेः किं क्रियतामिति ॥ २१.८९ एवंप्रायप्रपञ्चे तु गृहे तस्मिन् दृढोद्यमः सिद्धप्रव्रजितादेश जातभीतिरचिन्तयत् ॥ २१.९० परिव्राजकवाक्येन तथाभूतेन साधितम् दैवं पुरुषकारेण जनाः पश्यन्तु बाधितम् ॥ २१.९१ सिन्धुदेशं परित्यज्य दाद्देशं परिव्रजन् अयं परिहराम्येनाम् दूरतः कर्दमामिति ॥ २१.९२ एवमादि विमृश्यासाव् संमन्त्र्यैव संस्कृतान् दशयोजनमध्वानम् ेकाहेन पलायितः ॥ २१.९३ सद्वीपां च परिक्रम्य वर्षैर्द्वादशभिर्महीम् गङ्गातटमुपागच्छत् तीर्थोपासनकाम्यया ॥ २१.९४ अथातपपिपासार्तश् छायासलिलवाञ्छया कस्मिंश्चिद्ब्राह्मणग्रामे कंचन प्राविशद्गृहम् ॥ २१.९५ तत्र चालिन्दकासीनाम् र्कतूलाभमूर्धजाम् ययाचे ब्राह्मणीमम्ब पानीयं दाप्यतामिति ॥ २१.९६ सा त्वभाषत संभ्रान्ता हले पुत्रि तमालिके आसनोदकमादाय लघु निर्गम्यतामिति ॥ २१.९७ ततः पीठालुकाहस्ता वसितासितकञ्चुका आपिङ्गापान्तकेशान्ता कन्यका निरगाद्गृहात् ॥ २१.९८ दिशस्तरलया दृष्ट्या पश्यन्ती संततस्मिता पङ्गुभङ्गुरसंचारा चिरात्प्रापद्दृढोद्यमम् ॥ २१.९९ आस्यतामत्र मित्रेति वदन्त्या शून्यया तया पीठबुद्ध्या पुरस्तस्य निक्षिप्तं जलभाजनम् ॥ २१.१०० अथ तामब्रवीद्वृद्धा मुक्त्वैतामविनीतताम् अपरेणोदपात्रेण जलमावर्ज्यतामिति ॥ २१.१०१ सा तु कृत्रिमसंत्रास जनितोत्कटवेपथुः अन्तर्हसितभुग्नौष्ठी वृद्धाज्ञां समपादयत् ॥ २१.१०२ ततो गतश्रमं वृद्धा पृच्छति स्म दृढोद्यमम् आगच्छति कुतो देशात् कं वा याति भवानिति ॥ २१.१०३ तेनोक्तं न स देशोऽस्ति नागच्छामि यतः क्षितौ यच्च ब्रूथ क्व यासीति तत्र विञापयामि वः ॥ २१.१०४ कस्मिंश्चिद्ब्राह्मणग्रामे कुर्वन् बटुकपाठनाम् संतुष्टो ग्रामवासोभिर् निनीषे दिवसानिति ॥ २१.१०५ ततस्तमब्रवीद्वृद्धा नीतिज्ञैः सत्यमुच्यते न ह्यतप्तेन लोहेन तप्तं संधीयते क्वचित् ॥ २१.१०६ मम द्वौ पुत्रनप्ताराव् धुनैवोपनीतकौ तौ च संयोजितौ पुण्यैर् र्थिनावर्थिना त्वया ॥ २१.१०७ भवानध्यापनेनार्थी तौ चाध्ययनकाङ्क्षिणौ नष्टाश्वदग्धरथवद् योगोऽस्तु भवतामिति ॥ २१.१०८ ततस्तस्यै प्रतिज्ञाय तौ बटू पाठयन्नसौ अन्तेवासिगणं चान्यम् स्थात्संवत्सरद्वयम् ॥ २१.१०९ एकदा तामभाषन्त वृद्धामागत्य बान्धवाः कस्माद्दृढोद्यमायेयम् दीयते न तमालिका ॥ २१.११० ये जामातृगुणास्तेषाम् कश्चिदस्ति क्वचिद्वरे दृढोद्यमे पुनः पश्य यदि कंचिन्न पश्यसि ॥ २१.१११ दुर्लभः सुलभीभूतस्तस्मात्स्वीक्रियतामयम् केन वन्यः करी वारीम् ागतः स्वयमुज्झितः ॥ २१.११२ इति तैर्बोधिता वृद्धा प्रतीता तानयाचत यद्येवं स्वयमेवायम् पूज्यैरभ्यर्थ्यतामिति ॥ २१.११३ ते ततस्तमभाषन्त भौतिक ब्रह्मचारिणा आम्नाताश्चावबुद्धाश्च वेदाः सस्मृतयस्त्वया ॥ २१.११४ अवश्यं चाधुना कार्यः शुद्धपत्नीपरिग्रहः उरःकण्ठौष्ठशोषस्य मा भूद्वैफल्यमन्यथा ॥ २१.११५ अतः प्रतीष्यतामेषा सर्वशुद्धा तमालिका ज्येष्ठं ज्येष्ठाश्रमस्याङ्गम् त्रयी विद्येव देहिनी ॥ २१.११६ एवमादि स तैरुक्तः क्षणमेतदचिन्तयत् युक्तं यद्ब्राह्मणैरुक्तम् त्र तावत्किमुच्यते ॥ २१.११७ यश्चासौ सिन्धुविषये दूषितः कृत्यया तया पारे सागरवत्सोऽपि दूरत्वात्सुदुरागमः ॥ २१.११८ अथ दैवेन सैवेयम् ानीता सिन्धुदेशतः सूचीसूत्रगते दैवात् ततः कः कुत्र मोक्ष्यते ॥ २१.११९ एवमादि स निश्चित्य प्रतिश्रुत्य तथेति च परिणीय च तां कन्याम् संवत्सरमयापयत् ॥ २१.१२० अथ यातत्रियामायाम् त्रियामायां दृढोद्यमः जृम्भावेदितनिद्रान्ताम् पृच्छति स्म तमालिकाम् ॥ २१.१२१ ब्रूहि सुन्दरि पश्याम कुटुम्बस्यास्य कः प्रभुः केयं भवति ते वृद्धा कावेतौ बटुकाविति ॥ २१.१२२ तया त्वायतनिश्वास कथितायतदुःखया स्रुताश्रुकणिकाश्रेण्या कथितं स्खलदक्षरम् ॥ २१.१२३ अस्या ब्राह्मणवृद्धायाः प्रियः साधुरभूत्पतिः यस्य विद्याधनैस्तृप्ताः शिष्ययाजकयाचकाः ॥ २१.१२४ तेन चाशेषवेदाय क्षमादिगुणशालिने दुहिता गृहजामात्रे छात्त्राय प्रतिपादिता ॥ २१.१२५ ताडितश्चरणेनापि यः क्षमावानभूत्पुरा स जामातृतया क्रोधाद् गमितः कृष्णसर्पताम् ॥ २१.१२६ महान्तमपि संमानम् मन्यमानो विमानताम् श्वश्रूश्वशुरयोः खेदम् ात्मनश्चाकरोद्वृथा ॥ २१.१२७ एकदा परिहासेन स्यालकस्तमभाषत दुर्वासःसदृशस्तात दुराराधो भवानिति ॥ २१.१२८ यद्येवं दुर्दुरूढेन किं मयाराधितेन वः इत्युक्त्वा मन्थरालापः सदारो गत एव सः ॥ २१.१२९ श्वश्रूश्वशुरमित्राणाम् वकर्ण्य कदर्थनाम् निरपेक्षं स्वदेशाय सिन्धुदेशाय यातवान् ॥ २१.१३० तत्र च ग्राममध्यास्य ब्रह्मस्थलकनामकम् अचिरान्नित्यकाम्यानि कर्माणि निरवर्तयत् ॥ २१.१३१ तस्य तस्यां च भार्यायाम् कालरात्रिसमा सुता यमौ च तनयौ जातौ यमकालौ कुलस्य यौ ॥ २१.१३२ अहमेव च सा कन्या तौ चैतौ काकतालुकौ यैर्मातापितरावेव बालैरेव समाहितौ ॥ २१.१३३ सिन्धुदेशैकदेशश्च सिन्धुना चण्डरंहसा दुर्वारगुरुपूरेण सहसाकृष्य नीयते ॥ २१.१३४ अथ मातापितृभ्यां नस्तद्भयादवधारितम् मातामहगृहं यान्तु बाला मे निविशन्त्विति ॥ २१.१३५ ततः शङ्केषुभिन्नस्ताम् भाषत दृढोद्यमः शेषं सुज्ञानमेवास्याः कथायाः स्थीयतामिति ॥ २१.१३६ आसीच्चास्य स सर्वज्ञः परिव्राजकभास्करः स्फुटं भिन्नतमा एव भिन्नाज्ञानतमा यतः ॥ २१.१३७ अनुभूतौ तथाभूतौ तदादेशौ मयाधुना तृतीयपरिहाराय त्यजामि पृथिवीमिति ॥ २१.१३८ अथ द्वादशवर्षानि भ्रांत्वा द्वीपान्तराणि सः निर्विण्णश्चिन्तयामास किंचिद्धवलमूर्धजः ॥ २१.१३९ आदिष्टं यत्परिव्राजा तत्तयोन्मादमत्तया कालेनैतावता नूनम् कृत्यं कृत्यया कृतम् ॥ २१.१४० अस्माभिश्च न वेदोक्तम् न वेदान्तोक्तमोहितम् व्रणैरिव विसर्पद्भिः क्वापीतं पुरुषायुषम् ॥ २१.१४१ तेन वाराणसीं गत्वा तीर्थोपासनहेतुकम् पुण्यं स्वर्गफलं कुर्वन्न् यामि दिवसानिति ॥ २१.१४२ ततः सागरमुत्तीर्य गङ्गासागरमागमत् ततो वाराणसीं प्रापद् मुञ्चन्नेव जाह्नवीम् ॥ २१.१४३ पाविशन्नेव चापश्यन् नरधातुपरिच्छदम् स्खलदालापसंचारम् महापाशुपतं पुरः ॥ २१.१४४ तं चानु स्फटिकप्राय कर्णकण्ठविभूषणाम् मदिराताम्रजिह्माक्षाम् विचित्रगलकण्ठिकाम् ॥ २१.१४५ द्विगुणीकुर्वतीं मार्गम् वङ्कैर्गतिनिवर्तनैः अमुक्तनिजनिर्मोकाम् भुजंगीमिव योषितम् ॥ २१.१४६ सा तु कापालिकेनोक्ता द्रुतमेहि कपालिनि न यावदविमुक्तस्य धूपवेलातिवर्तते ॥ २१.१४७ हुंहुंकारादिभिः स्तुत्वा संस्थात्रयपरं ध्रुवम् ततः शुण्डिकशालेषु मार्गयामि सुरामिति ॥ २१.१४८ एवंप्राये च वृत्तान्ते चिरं दृष्ट्वा दृढोद्यमम् पपात पादयोस्तस्य ताराक्रन्दा कपालिनी ॥ २१.१४९ पुनः कापालिक्नोक्तम् मुञ्च ब्राह्मणमध्वगम् परिहासश्चिरं चण्डि विरुद्धस्त्यज्यतामिति ॥ २१.१५० साब्रवीदेष मे भर्ता दैवतैः प्रतिपादितः त्वं तु धृष्टविटो भूत्वा किं व्याहरसि मामिति ॥ २१.१५१ तं च प्रपञ्चमालोक्य स प्रदेशः सकौतुकैः जनैरगणितैर्व्याप्तः श्रमणब्राह्मणादिभिः ॥ २१.१५२ सा चावोचच्चतुर्वेद रिक्तवेदोऽसि सर्वथा सवेदः को हि निर्वेदम् वेदोक्तैः कर्मभिर्व्रजेत् ॥ २१.१५३ न त्वयोत्पादिताः पुत्रा नाग्निहोत्रमुपासितम् नार्चिताः पितरः पिण्डैर् वायुभूतेन हिण्डितम् ॥ २१.१५४ त्वया दृढोद्यम त्यक्ता साहं मन्दा तमालिका कुलात्कुलमटन्तीदम् चरामि कुलटाव्रतम् ॥ २१.१५५ अवृद्धकुलवासिन्यस्तरुण्यः पतिवर्जिताः यैरदुष्टाः स्त्रियो दृष्टास्ते दृष्टाः केनचित्क्वचित् ॥ २१.१५६ तेन त्यक्तवता दारान् यत्त्वया पापमर्जितम् तानेव भरमाणेन तत्समुच्छिद्यतामिति ॥ २१.१५७ अथ लज्जाविषादान्धम् ूचुर्विप्रा दृढोद्यमम् भगवत्या यदुक्तं तत् तत्त्वतः कथ्यतामिति ॥ २१.१५८ तेनात्मनश्च तस्याश्च द्विजादिजनसंनिधौ ब्रह्मस्थलकवासादि यद्वृत्तं तन्निवेदितम् ॥ २१.१५९ अथोक्तं ब्राह्मणैर्ब्रह्मन् ब्राह्मणी परिगृह्यताम् रक्तदारपरित्यागम् ाचरन्ति न साधवः ॥ २१.१६० यच्च किंचिदकर्तव्यम् नाथ्यादनया कृतम् तस्य कृच्छ्रतमैः कृच्छ्रैर् विशुद्धिः क्रियतामिति ॥ २१.१६१ तेनोक्तं यादृशं पापम् प्रायश्चित्तैरपोह्यते पूज्यानामेव तद्बुद्धम् िदं बुध्यत यादृशम् ॥ २१.१६२ हीनवर्णाभिगामिन्यः पातकिन्यः किल स्त्रियः इयं त्वशुभसावर्णम् यमुपास्ते स दृश्यताम् ॥ २१.१६३ तदुपास्तामियं भद्रा यमुपासच्छिवं ध्रुवम् सुखानां चोपहर्तारम् महापाशुपतं पतिम् ॥ २१.१६४ इत्युक्तवति सा तस्मिन्न् ुवाचोपचितत्रपा आ मृत्योस्त्वत्समीपस्था नयामि दिवसानिति ॥ २१.१६५ अथैको ब्राह्मणस्तेषु दृढोद्यममभाषत मदीया दुहिता ब्रह्मन् रूपिणी परिणीयताम् ॥ २१.१६६ धनं मे धनदस्येव सैव चैका सुता यतः ततस्तस्य च तस्याश्च भवेद्भर्ता भवानिति ॥ २१.१६७ आसीच्चास्य किमद्यापि स्यान्न स्यादिति चिन्तया परिव्राजकवाक्यं हि कृतार्थीकृतमेतया ॥ २१.१६८ प्रतिज्ञाय च तां कन्याम् ददानाद्ब्राह्मणात्स्वयम् समहाद्रविणस्कन्धाम् ुपयेमे दृढोद्यमः ॥ २१.१६९ तमालिकापि संहार्य केशान् काषायचीवरा दृढोद्यमगृहासन्ना वसती कालमक्षिपत् ॥ २१.१७० दृढोयमोऽपि संततम् द्विजातिकर्म साधयन् हरोत्तमाङ्गलालिताम् ुपास्त जह्नुकन्यकाम् ॥ २१.१७१ तत्तेन येन कृतदुष्करपौरुषेण वाक्यं न भिन्नतमसः कृतमप्रमाणम् शूरेण दैवहरिणा प्रभुणा प्रसह्य तस्माज्जितः पुरुषकारगजाधिराजः ॥ २१.१७२ ततः किंचिद्विहस्योक्तः परिव्राड्ब्रह्मचारिणा यथा पुरुषकारस्य प्राधान्यं तन्निशाम्यताम् ॥ २२.१ आसीदुज्जयनीवासी सार्थकार्थपरिग्रहः वणिक्सागरदत्ताख्यः सागरागाधमानसः ॥ २२.२ सागरं तेन यातेन मुक्तपोतेन गच्छता अपरः प्रेक्षितः पोतस्तरलध्वजलक्षणः ॥ २२.३ अङ्गापोतममुं येन पोतं प्रेरयतेति सः यावन्निर्यामकानाह तावत्पोतौ समीयतुः ॥ २२.४ ततः सागरदत्तस्तम् पोतस्वामिनमुक्तवान् यूयं ये वा यतस्त्या वा तन्नः प्रत्युच्यतामिति ॥ २२.५ तेनोक्तं बुद्धवर्माहम् वणिग्राजगृहालयः भवन्तः के कुतो वेति ततः सोऽपि न्यवेदयत् ॥ २२.६ अथ काव्यकथापान तन्त्रीगीतदुरोदरैः सविनोदौ जगाहाते तौ दुर्गाधं महोदधिम् ॥ २२.७ गत्वा च काञ्चनद्वीपम् ुपान्तानन्तकाञ्चनौ प्राप्तवन्तौ परावृत्य समुद्रतटपत्तनम् ॥ २२.८ अथ सागरदत्तेन बुद्धवर्मेति भाषितः प्रीतिर्नः स्थिरतां यायाद् यथा संपाद्यतां तथा ॥ २२.९ भार्यायां गुरुगर्भायाम् निरगच्छमहं गृहात् तस्याश्च दिवसिरेभिर् जातमन्यतरद्द्वयोः ॥ २२.१० दुहिता चेत्ततो दत्ता भवत्पुत्राय सा मया पुत्रश्चेत्त्वं ततस्तस्मै दद्याः स्वतनयामिति ॥ २२.११ तेनोक्तं महदाश्चर्यम् ियमेव हि नो मतिः अथ वा किमिहाश्चर्यम् ेकमेवावयोर्वपुः ॥ २२.१२ इति तौ कृतसंबन्धौ परिष्वज्य परस्परम् महामहिषसार्थाभ्याम् यथास्थानमगच्छताम् ॥ २२.१३ प्रणिपत्य च राजानाव् वन्तिमगधाधिपौ तत्प्रयुक्तातिसत्कारौ ययतुः स्वगृहान् प्रति ॥ २२.१४ तत्र सत्क्रियमाणौ च सत्कुर्वाणौ च संततम् बन्धुभिर्ब्राह्मणादींश्च गमयामासतुर्दिनम् ॥ २२.१५ ततः सागरदत्तस्य पर्यङ्कमधितिष्ठतः उत्सङ्गे दारिका न्यस्ता विराजत्कुन्दमालिका ॥ २२.१६ कस्येयं कुन्दमालेति स भार्यामनुयुक्तवान् सापि कस्यापरस्येति शनैराचष्ट लज्जिता ॥ २२.१७ तेन चोक्तमिदं यादृग् बालिका कुन्दमालिका ययोः स्यादीदृशः पुत्रः पितरौ तौ सपुत्रकौ ॥ २२.१८ तस्माद्दुहितृमातेति मा गास्त्वं भीरु भीरुताम् न कीर्तिजननी विद्या निन्द्या भवितुमर्हति ॥ २२.१९ तामित्यादि समाश्यस्य पयोनिधिसमागमम् बुद्धवर्मसखित्वं च तस्यै कथितवानसौ ॥ २२.२० कस्येयं कुन्दमालेति तामपृच्छद्यतः पिता प्रसिद्धा तस्य नाम्नापि सा ततः कुन्दमालिका ॥ २२.२१ बुद्धवर्मापि पप्रच्छ निरालापां कुटुम्बिनीम् तस्मिन् गर्भे तवोत्पन्नम् यत्तन्नः कथ्यतामिति ॥ २२.२२ अथ वामनमेकाक्षम् रूक्षं तुन्दिलदन्तुरम् लम्बौष्ठं भुग्नपृष्ठं च सा तं पुत्रं समर्पयत् ॥ २२.२३ सोऽब्रवीत्किं वृथैवायम् धृतः कुरुभकस्त्वया कस्मादीक्षणिकां पृष्ट्वा गर्भ एव न पातितः ॥ २२.२४ यः स सागरदत्तेन सह संबन्धकः कृतः विकृताकृतिनानेन स प्रेतेन निराकृतः ॥ २२.२५ संदिशेद्यदि नामासाव् हं दुहितृवानिति तदा किं प्रतिसंदेश्यम् मयाहं पुत्रवानिति ॥ २२.२६ भार्यां चावोचदागच्छेद् दूतो मालवकाद्यदि एनं कुरुभकं तस्मै न कश्चित्कथयेदिति ॥ २२.२७ अयं कुरुभकः कस्माद् िति यत्तं पिताब्रवीत् व्याहरन्ति स्म तं पौरास्ततः कुरुभकाख्यया ॥ २२.२८ अथातीते क्वचित्काले बुद्धिवर्मा रहः स्थितः लेखं सागरदत्तेन प्रस्थापितमवाचयत् ॥ २२.२९ स्वस्ति राजगृहे पूज्यम् बुद्धवर्माणमूर्जितम् उज्जयन्याः परिष्वज्य विज्ञापयति सागरः ॥ २२.३० सख्यास्ते दुहिता जाता श्रेयोलक्षणभूषणा रूपेण सदृशी यस्याः प्रमदा न भविष्यति ॥ २२.३१ तवापि यदि भार्यायाः पुत्रो जातः शिवं ततः कन्या चेद्वामशीलेन देवेन मुषिता वयम् ॥ २२.३२ निर्निमित्तापि हि प्रीतिर् या न संबन्धबृंहिता श्रीरुत्साहसनाथेव प्रयाति स्थिरतामिति ॥ २२.३३ ततः सत्कृत्य तं दूतम् पृच्छद्गृहिणीं वणिक् तस्मिन्नेवं गते कार्ये ब्रूहि किं क्रियतामिति ॥ २२.३४ तयोक्तं द्व्यङ्गुलप्रज्ञा जानीयुर्वा स्त्रियः कियत् किं तु पृष्टेति वक्ष्यामि पृष्टधृष्टा हि मादृशी ॥ २२.३५ सत्यानृतं वणिक्वृत्तम् परित्याज्यं न वाणिजैः सहजं हि त्यजन् वृत्तम् दुर्वृत्त इति निन्द्यते ॥ २२.३६ पुत्रस्तावत्तवोत्पन्नस्तत्र कानृतवादिता ये पुनस्तस्य दोषास्तान् मिथ्या भण गुणा इति ॥ २२.३७ आख्यायन्ते हि सर्वार्थाः कृत्रिमैरेव नामभिः आहुर्मधुरकं केचित् तं तादृङ्मारकं विषम् ॥ २२.३८ कार्ये हि गुरुणि प्राप्ते मिथ्या सत्यमपीष्यते अश्वत्थामा हतो द्रौणिर् ित्यूचे किं न पाण्डवः ॥ २२.३९ धनगर्धपराधीनाः कालहुंकारदारुणे क्रीडाकमलिनीं यान्ति त्वद्विधाः क्षारसागरे ॥ २२.४० सांयात्रिकपतेस्तस्य दुहिता भवतो गृहे न विनाम्भोधिसारेण प्रवेष्टा धनराशिना ॥ २२.४१ तस्मान्मा स्मावमन्यध्वम् धन्यैर्दुर्लभां श्रियम् कृच्छ्रायासशतप्राप्याम् न कृच्छ्राधिगतामिति ॥ २२.४२ इत्यादिवचनं तस्याः सूक्तमित्यभिनन्द्य सः ददौ सागरदत्ताय संदेशं दूतसंनिधौ ॥ २२.४३ वक्तव्यः सुहृदस्माकम् स्माकमपि दारकः उत्पन्नस्तादृशो यस्य कथिता कथमाकृतिः ॥ २२.४४ अथ वा ये गुणाः केऽपि तस्य शारीरमानसाः स्वयमेवासि तान् दृष्टा किं नस्तैः कथितैरिति ॥ २२.४५ इत्यादि बहु संकीर्णम् सौ संदिश्य सादरम् दूतं प्रस्थापयामास सपाथेयप्रदेशनम् ॥ २२.४६ एवमष्टावतिक्रान्ताः समा दूतसमागमैः अथ दूतः स्फुटालापो बुद्धवर्माणमुक्तवान् ॥ २२.४७ अहं सागरदत्तेन सकलत्रेण भाषितः जामातरमनालोक्य मा स्मागच्छद्भवानिति ॥ २२.४८ तन्मामुज्जयनीं यूयम् यदि गच्छन्तमिच्छथ तं मे दारकमाख्यात तदीयांश्च गुणानिति ॥ २२.४९ तेन तु क्षणमुत्प्रेक्ष्य समग्रस्मृतिनोदितम् आस्ते मातुलशालेऽसौ ताम्रलिप्त्यां पठन्निति ॥ २२.५० अनेनापि प्रपञ्चेन चतुष्पञ्च समा ययुः अथ त्रिचतुराः प्रापुर् दूताश्चतुरभाषिणः ॥ २२.५१ ते चादृतमनादृत्य बुद्धवर्माणमब्रुवन् आह संबन्धिनी यत्त्वाम् सदारं तन्निशाम्यताम् ॥ २२.५२ अमी संवत्सरा यातास्त्रयोदशचतुर्दशाः अद्यापि च न पश्यामो वयं जामातुराकृतिम् ॥ २२.५३ दृष्टस्य किल पण्यस्य भवतः क्रयविक्रयौ इति लोकप्रवादोऽयम् भवतापि न किं श्रुतः ॥ २२.५४ त्वं यच्चात्थ पठन्नास्ते ताम्रलिप्त्यामसाविति इदमप्यतिदुर्बद्धम् सव्याजमिव वाचकम् ॥ २२.५५ येषां कर्म च वृत्तिश्च विहिते पाठपाठने तेषामपि परिच्छिन्नः पाठकालः कियानपि ॥ २२.५६ त्वदीयेन तु पुत्रेण त्यक्तसर्वान्यकर्मणा पठता सकलं जन्म नेयमित्यसमञ्जसम् ॥ २२.५७ तस्मात्क्रीडामिमां त्यक्त्वा यमहासविभीषणाम् अत्र वा ताम्रलिप्त्यां वा दारको दर्श्यतामिति ॥ २२.५८ इति यावदसौ तावत् पूज्यैर्विश्रम्यतामिति तानुक्त्वा गृहिणीमूचे बुद्धवर्मा ससंभ्रमः ॥ २२.५९ अनुत्प्रेक्ष्यैव मन्देन दोषमागामिनं मया दूराशाग्रस्तचित्तेन प्रमदावचनं कृतम् ॥ २२.६० त्वत्पुत्रस्य हि ये दोषाः काणदन्तुरतादयः कालेनैतावता तेषाम् कतमः प्रक्षयं गतः ॥ २२.६१ वर्धमाणे शरीरे हि निजा दोषाः शरीरिणाम् सुतरामुपचीयन्ते शरीरावयवा इव ॥ २२.६२ तस्माद्दर्शय दूतेभ्यः पुत्रं हरगणाकृतिम् अथ वा पण्डितेनैवम् ुपायश्चिन्त्यतामिति ॥ २२.६३ तया चोक्तं मयोपायः कीदृशोऽप्यत्र चिन्तितः यद्यसौ रोचते तुभ्यम् ततः प्रस्तूयतामिति ॥ २२.६४ उच्यतामिति तेनोक्ता कर्णे किमपि साब्रवीत् सोऽपि शोभनमित्युक्त्वा तमुपायं प्रयुक्तवान् ॥ २२.६५ विविक्ते ब्राह्मणं मित्रम् तत्प्रतिग्रहजीविनम् प्रियालापशतप्रीतम् याचत सदीनतः ॥ २२.६६ श्वेतकाकप्रसिद्धस्य मम पुत्रस्य ये गुणाः आकारश्च प्रकारश्च यादृक्किं तस्य कथ्यते ॥ २२.६७ यच्च सागरदत्तेन मया च परिभाषितम् बुद्धं तद्भवतः सर्वम् सहदूतसमागमम् ॥ २२.६८ तेन नस्तेन सौहार्दम् सुहृदा स्थिरतां नय अथ वा स्वार्थ एवायम् तव धिङ्मां मुधाकुलम् ॥ २२.६९ य एष भवतः पुत्रो यज्ञगुप्तः सुरूपवान् श्रुतिस्मृत्यादितत्त्वज्ञः कलासु च विशारदः ॥ २२.७० एष सागरदत्तस्य तनयामुपयच्छताम् तादृशीमेव चानीय मत्पुत्राय प्रयच्छतु ॥ २२.७१ यच्च रत्नसुवर्णादि लप्स्यते द्रविणं ततः तस्यांशस्तव भावीति लज्जते कथयानया ॥ २२.७२ एवमादि स तेनोक्तः सोत्साहं स्वार्थतृष्णया अब्रवीत्त्वद्विधेयैः किम् मद्विधैः प्रार्थितैरिति ॥ २२.७३ यज्ञगुप्तमथाहूय संनिधौ बुद्धवर्मणः पिता श्रावितवानेतम् वृत्तान्तं पूर्वमन्त्रितम् ॥ २२.७४ तेनोक्तं गुरुवाक्यानि युक्तिमन्तीतराणि वा शिशुभिर्न विचार्याणि तस्मादेवं भवत्विति ॥ २२.७५ ततः कतिचिदासित्वा दिवसान् बुद्धवर्मणा यज्ञगुप्तः स्वलंकारः संबन्धिभ्यः प्रदर्शितः ॥ २२.७६ अब्रवीच्चायमायातस्ताम्रलिप्त्याः स दारकः आकारश्च गुणाश्चास्य दृश्यन्तां यादृशा इति ॥ २२.७७ ततस्तैर्विस्मितैरुक्तम् निन्द्या कुन्दमालिका सह बालवसन्तेन यदनेन समेष्यति ॥ २२.७८ गुणानां त्वेतदीयानाम् न्वेषणमनर्थकम् दृश्यते निर्गुणानां हि नेदृशाकारधीरता ॥ २२.७९ किं तु नामास्य दुःश्लिष्टम् यं कुरुभकः किल न हि कुब्जपलाशाख्या पारिजातस्य युज्यते ॥ २२.८० अथ वा दुःश्रवं नाम श्रूयते महतामपि क्लेदुरित्युच्यते चन्द्रो मातरिश्वेति मारुतः ॥ २२.८१ न चापि गुणवद्वाच्य वाचकं परिभूयते आश्रयस्य हि दौर्बल्याद् ाश्रितः परिभूयते ॥ २२.८२ सर्वथा सार्थवाहस्य प्रसूताद्य कुटुम्बिनी युवयोरद्य सौहार्दम् गतं कूटस्थनित्यताम् ॥ २२.८३ तस्मादाशुतरं गत्वा त्यक्तनिद्राशनादिकाम् वर्धयामो वयं दिष्ट्या सार्थवाहकुटुम्बिनीम् ॥ २२.८४ भवद्भिरपि पुण्याहे वरयात्रा प्रवर्त्यताम् न हीदानीं विवाहस्य कश्चिदस्ति विघातकः ॥ २२.८५ इत्युक्त्वा तेषु यातेषु सारवत्प्राभृतेषु सः यज्ञगुप्तं वरीकृत्य वरयात्रां व्यसर्जयत् ॥ २२.८६ योऽसौ कुरुभकस्तं च यज्ञगुप्तं चकार सः संज्ञया यज्ञगुप्तं तु वरं कुरुभकं वणिक् ॥ २२.८७ कल्पितब्राह्मणाकल्पस्तुलहेमाङ्गुलीयकः श्रेष्ठिपुत्रोऽपि जामातुर् ासीत्तत्र वयस्यकः ॥ २२.८८ वरयात्रा चिरात्प्रापद् वन्तिनगरीं ततः उत्कान्तिकान्तवृत्तान्ताम् यक्षसेनालकामिव ॥ २२.८९ सिप्रातटे निविष्टं च जन्यावासकमावसत् वसन्तोपहृतश्रीक पुरोद्यानमनोहरम् ॥ २२.९० तृणीकृतमहाकालास्तदहः सकुतूहलाः अतृप्तदृष्टयोऽपश्यन् वरं पौरपरंपराः ॥ २२.९१ स चोज्जयनकैर्धूर्तैर् वङ्कवाचकपण्डितैः वेणुवीणाप्रवीणैश्च कांचिद्वेलामयापयत् ॥ २२.९२ अथासौ स्यालकेनोक्तः कल्पिताहारभूषिणा सज्जं वः पानमन्नं च किमाध्वे भुज्यतामिति ॥ २२.९३ स चानेकासनामेकाम् ालोक्य मनुभूमिकाम् केन केनात्र भोक्तव्यम् िति स्यालकमुक्तवान् ॥ २२.९४ तेनोक्तं जातरूपाङ्गम् तुङ्गविद्रुमपादकम् यूयं मध्यममध्याध्वम् ासनं पटुवासनम् ॥ २२.९५ ये चैते दत्तवेत्राङ्गे युष्मानुभयतः समे एते ज्येष्ठकनिष्ठौ ते स्यालकावधितिष्ठतः ॥ २२.९६ पार्श्वयोरुभयोर्दीर्घा या चासनपरंपरा तवास्यामुपवेष्टव्यम् शेषया स्यालमालया ॥ २२.९७ वरस्तु क्षणमव्यूह स्यालमेतदभाषत अस्माभिः सह युष्माभिर् न कार्यं पानभोजनम् ॥ २२.९८ गोत्राचारोऽयमस्माकम् तावत्पानं न सेव्यते भुज्यते वापरैः सार्धम् यावन्न परिणीयते ॥ २२.९९ परिणीय निवृत्तेन लब्धाज्ञेन सता पितुः कार्यमेतन्न वा कार्यम् विनादेशाद्गुरोरिति ॥ २२.१०० एवं नामेत्यनुज्ञातः श्वशुरेण वरः पृथक् दुर्मनायितसंबन्धी पूतमाहारमाहरत् ॥ २२.१०१ याते यामे च यामिन्या गर्जद्वादित्रमण्डलः गृहं सागरदत्तस्य परिणेतुमगादसौ ॥ २२.१०२ तत्रालम्बितवान् वध्वाः स्फुरच्चामीकरं करम् स्मरन् गुरुवचो धीर्यान् निर्विकारकरो वरः ॥ २२.१०३ स चात्राग्निं परिक्रम्य चण्डशूलाकुलः किल पाणिभ्यामुदरं धृत्वा मुमोह च पपात च ॥ २२.१०४ प्रशान्तोच्छ्वासनिःश्वासे तस्मिन् संमीलितेक्षणे मूकितोद्दामधूर्येण क्रन्दितेन विजृम्भितम् ॥ २२.१०५ श्वश्रूर्जामातरं दृष्ट्वा ताडितोरःशिरास्ततः उच्चैर्भर्तृसमावस्थाम् ाक्रोशत्कुन्दमालिकाम् ॥ २२.१०६ हा हतासि विनष्टासि धिक्त्वां प्रच्छन्नराक्षसीम् जितप्रद्युम्नरूपोऽयम् पतिरुत्सादितो यया ॥ २२.१०७ त्वमेव न मृता कस्माद् हं वा दुःखभागिनी यया त्वं सकलं जन्म द्रष्टव्यामृतया मृता ॥ २२.१०८ कथं जीवति सा या स्त्री बालैव मृतभर्तृका दूरान्तरगरिष्ठो हि नारीणां जीवितात्पतिः ॥ २२.१०९ या च माता सुतामिष्टाम् चारुताशीलशालिनीम् शक्ता विधविकां द्रष्टुम् ज्येष्ठा कालस्य सा स्वसा ॥ २२.११० इत्यादि विलपन्त्येव सा च निश्चेष्टनाभवत् हृदयोदरसंधिश्च जामातुः स्पन्दितः शनैः ॥ २२.१११ ततः पौरसमूहस्य जामातरि तथाविधे हर्षहासाट्टहासानाम् ासीन्नान्तरमम्बरे ॥ २२.११२ शनकैश्च स निःश्वस्य जिह्मस्फुरितपक्ष्मणी उदमीलयदाताम्रे लोचने गुरुतारके ॥ २२.११३ ततः सागरदत्तेन कृतस्तादृङ्महोत्सवः वृद्धतालब्धपुत्रेण यो नृपेणापि दुष्करः ॥ २२.११४ किमेतदिति पृष्टश्च स वैद्यैः प्रत्युवाच तान् आमाशयगतं शूलम् बाधते गुरु मामिति ॥ २२.११५ अथ वासगृहस्थस्य वैद्या जामातुरादृताः शूलस्यामनिदानस्य कृतवन्तश्चिकित्सितम् ॥ २२.११६ शूलैरायास्यमानस्य लब्धनिद्रस्य चान्तरे तस्य जाग्रद्वधूकस्य कथमप्यगमन्निशा ॥ २२.११७ नागरातिविषामुस्ता क्वथपानावतर्पितः अस्नेहाल्पतराहारः सोऽभवत्प्रत्यहः कृशः ॥ २२.११८ स्वयं भेषजपेषादि व्यापृता कुन्दमालिका विस्मृतेव वधूलज्जाम् भर्तृमान्द्यभयातुरा ॥ २२.११९ ततः पतिमुपासीनाम् स कुब्जः कुन्दमालिकाम् अङ्गेषु भयसन्नाङ्गीम् कुर्वन् केलीं किलास्पृशत् ॥ २२.१२० अब्रवीच्च विमुञ्चैनम् किराटमपटुं विटम् देवतागुरुभिर्दत्तम् कान्तं तोषय मामिति ॥ २२.१२१ अथोत्थाय ततः स्थानाद् भर्तृशय्यातिरस्कृता केयं केलिरनार्येति वधूर्भर्तारमब्रवीत् ॥ २२.१२२ स तां सस्मितमाह स्म मा स्म ग्रामेयिका भव का हि नागरिकंमन्या हास्यात्नटबटोस्त्रसेत् ॥ २२.१२३ धनिनामीदृशाः क्षुद्राः प्रायो वाचालताफलाः न हि मूकं शुकं कश्चिच् चिरं धरति पञ्जरे ॥ २२.१२४ तस्मात्क्रीडनकादस्माद् बद्धभाषमाणकात् हसतः स्पृशतश्चाङ्गम् भीरु मा वित्रसीरिति ॥ २२.१२५ तेन सा बोधिताप्येवम् सदाचारकुलोद्भवा चण्डाभिर्घटदासीभिस्तं भुक्तं निरभर्त्सयत् ॥ २२.१२६ आसीच्च यज्ञगुप्तस्य यावदेवैष मूढकः रहस्यं न भिनत्त्येतत् तावन्न्याय्यमितो गतम् ॥ २२.१२७ तं कदाचिदभाषन्त भिषजो निष्फलक्रियाः पानाहारविहारेषु किमिच्छति भवानिति ॥ २२.१२८ ततः क्षामतरालापस्तानवोचच्चिरादसौ पितरौ द्रष्टुमिच्छामि प्रियपुत्रौ प्रियाविति ॥ २२.१२९ अथ सागरदत्ताय वैद्यैरेवं निवेदितम् एवं वदति जामाता तच्च प्रतिविधीयताम् ॥ २२.१३० यद्यद्वैद्येन कर्तव्यम् ामाशयचिकित्सितम् कृतमप्यकृतं तत्तद् ेतस्मिञ्जातमातुरे ॥ २२.१३१ स्वदेशाय तु यातोऽयम् भवेदपि निरामयः जगत्प्रसिद्धिसिद्धं हि सुहृद्दर्शनमौषधम् ॥ २२.१३२ धात्रीप्रधानपरिवारचमूसनाथाम् म्भोधिसारधनहारमहोष्ट्रयूथाम् श्यामां निशामिव कृशेन तुषारभासा प्रास्थापयत्सह वरेण वणिक्तनूजाम् ॥ २२.१३३ प्रयाणकैश्च यावद्भिर् गाद्राजगृहं वरः श्रेष्ठी च द्विगुणान् प्रीतान् प्राहिणोत्परिचारकान् ॥ २२.१३४ अन्यजामातृवार्त्ताभ्याम् द्वाभ्यां द्वाभ्यां प्रयाणकात् निवर्तितव्यं युष्माभिर् िति चासावुवाच तान् ॥ २२.१३५ प्रथमाद्वासकाद्यौ च निवृत्तौ परिचारकौ श्रेष्ठिने कथितं ताभ्याम् वरः स्वस्थो मनागिति ॥ २२.१३६ यथा यथा च याति स्म वासकानुत्तरोत्तरान् शनकैः शनकैर्मान्द्यम् त्यजत्स तथा तथा ॥ २२.१३७ अन्यात्तु वासकादन्यौ निवृत्तपरिचारकौ वरं सागरदत्ताय हृष्टपुष्टाङ्गमाख्यताम् ॥ २२.१३८ अथासाविति हर्षान्धस्त्यक्तपात्रपरीक्षणः आचतुर्वेदचण्डालम् विततार निधीनपि ॥ २२.१३९ कृत्रिमस्तु वरः प्रातस्त्यक्तजामातृडम्बरः गृहीतब्राह्मणाकल्पः प्रस्थितः पदगः पथि ॥ २२.१४० वैषेणागन्तुना मुक्तः स रेजे निजया श्रिया सेन्द्रचापतडिद्दाम्ना घनेनेव निशाकरः ॥ २२.१४१ वरप्रवहणं तच्च कुन्दमालिकयास्थितम् आरुरोह वराकारः प्रीतः कुरुभकः खलः ॥ २२.१४२ तं दृष्ट्वा विकृताकारम् जितशंकरकिंकरम् प्रविधूय वधूरङ्गम् लोचने सममीलयत् ॥ २२.१४३ वधूवरमथ द्रष्टुम् सकला सकुतूहला निरगात्त्यक्तकर्तव्या जवना जनता पुरात् ॥ २२.१४४ तौ च दुर्बद्धसम्बन्धौ मुक्तालोहगुडाविव दृष्ट्वा धुतकरैः पौरैर् धिक्षिप्तः प्रजापतिः ॥ २२.१४५ कामचारेण कामोऽपि तावन्नैव प्रशस्यते किं पुनर्यः सदाचारः सर्गहेतुर्भवादृशः ॥ २२.१४६ सर्वथा वामशीलानाम् त्वमेव परमेश्वरः येनैतावप्सरःप्रेतौ दुर्योज्यौ योजिताविति ॥ २२.१४७ बुद्धवर्मापि निर्याय सर्वश्रेणिपुरःसरः वधूमभ्यनयत्कान्त्या जितराजगृहं गृहम् ॥ २२.१४८ अङ्कस्थवधुकस्तत्र स चावोचत्कुटुम्बिनीम् इयमेवास्तु ते पुत्रस्तनया च वधूरिति ॥ २२.१४९ मन्यमानेषु मानेषु वन्दमानेषु बन्दिषु नटादिषु च नृत्यत्सु सार्कं तदगमद्दिनम् ॥ २२.१५० अथ चक्षुर्मनःकान्तम् ावासं कुन्दमालिका यज्ञगुप्तवयस्येन कुब्जकेन सहाविशत् ॥ २२.१५१ तत्र शय्यासमीपस्थम् ास्थिता चित्रमासनम् वधूर्वरवयस्योऽपि तदनन्तरमुन्नतम् ॥ २२.१५२ चिन्तयन्तस्ततः तत्र सर्वे मोहान्धमानसाः अमूलाग्राणि पत्त्राणि लिलिखुर्नमिताननाः ॥ २२.१५३ अस्मिन्नचिन्तयत्कष्टे वृत्तान्ते कुन्दमालिका अपि नामैष मां मुक्त्वा ब्राह्मणो न व्रजेदिति ॥ २२.१५४ आसीत्कुरुभकस्यापि विविक्ते रन्तुमिच्छतः अपि नामैष निर्यायाद् बहिर्वासगृहादिति ॥ २२.१५५ यज्ञगुप्तस्तयोर्बुद्ध्वा तत्कालोचितमिङ्गितम् गमनं चात्मनः श्रेयस्ततो निर्गन्तुमैहत ॥ २२.१५६ सा तमुच्छलितं दृष्ट्वा सविषादमभाषत दारानापद्गतान्मुक्त्वा प्रस्थितः क्व भवानिति ॥ २२.१५७ तेनोक्तं यस्य दारास्त्वम् विधात्रा परिकल्पिता आपन्नास्मीति मा वोचस्तिष्ठन्ती तस्य संनिधौ ॥ २२.१५८ तत्समालभतामेष त्वदालिङ्गनचुम्बनम् वयं तु खरधर्माणो भारमात्रस्य भागिनः ॥ २२.१५९ इत्थमुक्त्वा स चान्याभिः प्रेष्याभिः सह निर्ययौ अनिच्छामैच्छदाक्रष्टुम् ग्राम्यः कुरुभकश्च ताम् ॥ २२.१६० ततस्तारतरारावैः श्रोणीचरणभूषणैः व्याहरन्तीव तं विप्रम् निर्जगाम जवेन सा ॥ २२.१६१ मत्तप्रमत्तपौरे च नृत्यद्भृत्यनिरन्तरे यज्ञगुप्तस्तया नैव दृष्टस्तत्र गृहाङ्गणे ॥ २२.१६२ एष यात्येष यातीति सादृश्यभ्रान्तिवञ्चिता यं कंचिदपि सा यान्तम् न्वयासीत्तदाशया ॥ २२.१६३ रभसेन च निर्याय रथ्यापथमवातरत् हिण्डीवादित्रभीता च कुम्भकारकुटीगमात् ॥ २२.१६४ तत्र कापालिकं दृष्ट्वा सुषुप्तं मदमूर्छया सुश्लिष्टा हन्त रक्षेयम् ित्यध्यवसितं तया ॥ २२.१६५ अथाभरणमुन्मुच्य महासारं शरीरतः अभ्यस्तवणिगाचारा बबन्ध दृढमम्बरे ॥ २२.१६६ खट्वाङ्गादिकमादाय कापालिकपरिच्छदम् घूर्णमाना मदाद्ग्रामम् बाह्यं निरगमत्पुरात् ॥ २२.१६७ तत्र च ब्राह्मणी काचित् तया श्वेतशिरोरुहा स्वगृहालिन्दकासीना दृष्टा कर्पासकर्त्त्रिका ॥ २२.१६८ एकाकिन्येव सा दैवम् निन्दित्वा करुणस्वना धिक्क्षुद्रं बुद्धवर्माणम् िति सक्रोधमब्रवीत् ॥ २२.१६९ तामपृच्छदसावार्ये निर्व्याजगुणशालिनः साधोः किं दुष्कृतं तस्य निन्द्यते यदसाविति ॥ २२.१७० तयोक्तमतिमुग्धो वा धूर्तो वा भगवन्नसि तदीयं दुष्कृतं येन प्रकाशमपि न श्रुतम् ॥ २२.१७१ अथ वा श्रोष्यति भवान् न्यतस्तत्सुदुःश्रवम् मादृशी तु न शक्तैव वक्तुं प्रकृतिकातरा ॥ २२.१७२ यावच्चेदमसावाह तावदुच्चैस्तरां पुरे डिण्डिमध्वनिसंभिन्ना परिबभ्राम घोषणा ॥ २२.१७३ अहो राजसमादेशो यो वधूं बुद्धवर्मणः नागरः कश्चिदाचष्टे स दारिद्र्येण मुच्यते ॥ २२.१७४ यः पुनः स्वगृहे मोहात् प्रच्छादयति तं नृपः पाटयत्यधनं कृत्वा दारुणैः क्रकचैरिति ॥ २२.१७५ अथेदं ब्राह्मणी श्रुत्वा नेत्राम्बुप्लावितानना परितोषपराधीना जहास च रुरोद च ॥ २२.१७६ अब्रवीच्च किमाश्चर्यम् यदुज्जयनिको जनः नातिसंधीयते धूर्तैर् मूलदेवसमैरिति ॥ २२.१७७ साधु साधु महाप्राज्ञे सुजाते कुन्दमालिके यया सकुब्जकः पापो बुद्धवर्मातिसंधितः ॥ २२.१७८ यथा राजगृहं पुत्रि त्वयेदं सुखमासितम् यज्ञगुप्तेन संगम्य त्वयापि स्थीयतां तथा ॥ २२.१७९ इत्यादि ब्रुवतीं श्रुत्वा चिन्तयामास तामसौ निष्कारणजनन्येषा गोपायिष्यति मामिति ॥ २२.१८० शनैश्चाकथयत्तस्यै वृत्तं वृत्तान्तमात्मनः गाढमालिङ्ग्य सा चैनाम् प्रीता प्रावेशयद्गृहम् ॥ २२.१८१ अवतार्य च तत्रास्यास्तां कापालिकतण्डिकाम् तद्भारपरिखिन्नानि गात्राणि पर्यवाहयत् ॥ २२.१८२ अभ्यज्य स्नपयित्वा च सुखोष्णैः सलिलैरसौ स्थूलचेलदलास्तीर्णे शयने समवेशयत् ॥ २२.१८३ परिधाय च तामेव बीभत्सामस्थिशृङ्खलाम् भ्राम्यत्संभ्रान्तपौरं तत् सा प्रातः प्राविशत्पुरम् ॥ २२.१८४ किंनिमित्तमयं लोकः संचरत्याकुलाकुलः इति पृष्टवती कंचिद् सौ पुरनिवासिनम् ॥ २२.१८५ तेनोक्तमिह च स्थाने श्रेष्ठिनो बुद्धवर्मणः पुत्रः कुरुभको नाम स्वनामविकृताकृतिः ॥ २२.१८६ तस्मै चान्येन षण्ढेन परिणीय द्विजन्मना शैलूषेणेव लुब्धेन स्वभार्या प्रतिपादिता ॥ २२.१८७ सा तं कुरुभकं त्यक्त्वा मार्गयन्ती च तं द्विजम् प्रदोषे क्वाप्यपक्रान्ता लोकस्तेनायमाकुलः ॥ २२.१८८ ततस्ततस्तया श्रुत्वा सान्तःस्मितमुदाहृतम् भद्र षण्ढस्य तस्याशु गृहं नयत मामिति ॥ २२.१८९ ततस्तन्मधुरालाप रक्तपौरपुरःसरा यज्ञगुप्तगृहं प्रापद् ब्रह्मनिर्घोषभूषणम् ॥ २२.१९० तत्र चाग्निगृहद्वारि व्याख्यानकरणाकुलम् सान्तेवासिनमासीनम् यज्ञगुप्तं ददर्श सा ॥ २२.१९१ ततो निधाय खट्वाङ्गम् रचितस्वस्तिकासना कोऽयं व्याख्यायते ग्रन्थ ित्यपृच्छत्समत्सरा ॥ २२.१९२ सोऽब्रवीद्भगवन्नेषा मानवी धर्मसंहिता एतस्यां चातुराश्रम्यम् चातुर्वर्ण्यं च वर्ण्यते ॥ २२.१९३ तयोक्तं किमलीकेन न हीयं धर्मसंहिता लोकायतमिदं मन्ये निर्मर्यादजनप्रियम् ॥ २२.१९४ क्व धर्मसंहिता क्वेदम् धर्मचरितं तव न हि वैद्यः स्वशास्त्रज्ञः कुष्ठी मांसं निषेवते ॥ २२.१९५ व्याचख्यानेन विप्रेण मानवीं धर्मसंहिताम् व्यतिक्रान्तसवर्णेन परिणीता वरा त्वया ॥ २२.१९६ सा चाखण्डशरीरेण सुरूपेण कलाविदा यूना च काणकुण्ठाय मत्कुणाय किलार्पिता ॥ २२.१९७ तन्माहेश्वर पृच्छामि किमर्थमिदमीदृशम् त्वया कृतमकर्तव्यम् युक्तं चेत्कथ्यतामिति ॥ २२.१९८ सोऽब्रवीद्भगवन् युक्तम् युक्तं वा भवत्विदम् विधेयैरविकार्यार्थाद् गुरुवाक्यादनुष्ठितम् ॥ २२.१९९ तथा हि जामदग्न्येन दुर्लङ्घ्याद्वचनात्पितुः मातुः कृत्तं शिरस्तत्र किमाह भगवानिति ॥ २२.२०० तयोक्तं दिव्यवृत्तान्ता नादिव्यस्य निदर्शनम् न हि रुद्रेण पीतेति पिबन्ति ब्राह्मणाः सुराम् ॥ २२.२०१ न च प्राज्ञेन कर्तव्यम् सर्वमेव गुरोर्वचः गुरुः किं नाम न ब्रूयाद् दुःखक्रोधादिबाधितः ॥ २२.२०२ तीव्रशूलातुरशिराः पुत्रं ब्रूयात्पिता यदि शिरो मे छिन्द्धि पुत्रेति किं कार्यं तेन तत्तथा ॥ २२.२०३ यच्च मातुः शिरः कृत्तम् रामेण वचनात्पितुः तत्तस्यैव प्रभावेन सद्यः संघटितं पुनः ॥ २२.२०४ त्वया तु गुरुवाक्येन कृताकर्तव्यकर्मणा दिव्यप्रभावहीनेन तत्कथं कार्यमन्यथा ॥ २२.२०५ इदानीमपि तामेव भवान् विनेष्यति प्रियाम् गुरुवाक्यं कृतं पूर्वम् यद्गतं गतमेव तत् ॥ २२.२०६ तस्यामित्युक्तवाक्यायाम् सावासीन्निरुत्तरः वादिवाच्ये हि निर्दोषे किं वाच्यं प्रतिवादिनः ॥ २२.२०७ एवं च चिरमासित्वा नभोमध्यगते रवौ भिक्षावेलापदेशेन तमामन्त्योच्चचाल सा ॥ २२.२०८ तेन चोक्ता स्वमेवेदम् ृद्धिमच्च गृहं तव तेनात्रैव सदाहारम् करोतु भगवानिति ॥ २२.२०९ ततस्तया विहस्योक्तम् नास्तिकस्य भवादृशः असंभोज्यमभोज्यत्वाद् न्नं कापालिकैरपि ॥ २२.२१० कृत्वापि तु महत्पापम् पश्चात्तापं करोति यः पुनःसंवरणं चासौ याति भोज्यान्नतामिति ॥ २२.२११ एवमादि तमुक्त्वासौ गत्वा च ब्राह्मणीगृहम् अपनीय च तं वेषम् ाचरन्मज्जनादिकम् ॥ २२.२१२ तं च कापालिकं कल्पम् सायमादाय सा पुनः यज्ञगुप्तगृहं गत्वा दिनशे.अमयापयत् ॥ २२.२१३ अन्नकालं च रात्रिं च नयन्ती ब्राह्मणीगृहे शेषं च यज्ञगुप्तस्य सानयद्दिवसान् बहून् ॥ २२.२१४ कदाचिच्चाभवत्तस्यास्तृष्णावशगचेतसा अकार्यमिदमेतेन कृतं कर्म द्विजन्मना ॥ २२.२१५ तेन शक्यो मयानेतुम् यं दर्शिततृष्णया कार्ये हि सुलभोपाये न मुह्यन्ति सुमेधसः ॥ २२.२१६ अथ मुक्तालतामेकाम् रुणां तरलांशुभिः असौ विक्रापयामास तया ब्राह्मणवृद्धया ॥ २२.२१७ हेमरूप्यं च तन्मूल्यम् ाहतानाहतं शुचि ताम्रकुम्भयुगन्यस्तम् सीमान्ते निहितं तया ॥ २२.२१८ अथ धातुक्रियावाद निधिवादाश्रयैरसौ आलापैश्चिरमासित्वा यज्ञगुप्तमभाषत ॥ २२.२१९ एकरात्रं वसेद्ग्रामे पञ्चरात्रं मुनिः पुरे इति प्रव्रजिताचारम् ेतं वेद भवानिति ॥ २२.२२० एतावन्तमहं कालम् वत्स राजगृहे स्थितः त्यक्तप्रव्रजिताचारस्तदभवत्प्रीतिवञ्चितः ॥ २२.२२१ गृहिणोऽपि हि सीदन्ति स्नेहशृङ्खलयन्त्रिताः विरक्ताः स्वशरीरेऽपि निःसङ्गाः किं मुमुक्षवः ॥ २२.२२२ तेन वाराणसीं गन्तुम् हमिच्छामि संप्रति तीर्थदर्शनतन्त्रा हि सोमसिद्धान्तवादिनः ॥ २२.२२३ अन्यच्चाहं विजानामि दारिद्र्यव्याधिवैद्यकम् महाकालमतं नाम निधानोत्पाटनागमम् ॥ २२.२२४ मया च ध्यानखिन्नेन वनान्ते परिसर्पता उज्ज्वलैर्लक्षितश्चिह्नैः केनापि निहितो निधिः ॥ २२.२२५ यदि चास्ति मयि प्रीतिस्ततः स्वीक्रियतामसौ सफलाः खलु संपर्काः साधुभिस्त्वादृशैरिति ॥ २२.२२६ यज्ञगुप्तस्तमुत्खाय निधिं तत्सहितस्ततः सधीराप्ततरच्छात्त्रः प्रच्छन्नं गृहमानयत् ॥ २२.२२७ तत्र पित्रे निधानं तत् प्रीतः कथितवानसौ महाकालमतज्ञात्वम् तस्य कापालिकस्य च ॥ २२.२२८ तमुवाच पिता पुत्रम् त्यक्त्वा वेदाननर्थकान् महाभिक्स्.ओर्महाज्ञानम् महाकालमतं पठ ॥ २२.२२९ दिव्यं चक्षुरिदं तात महाकालमतं मतम् निधिगर्भां नरो येन छिद्रां पश्यति मेदिनीम् ॥ २२.२३० महापाशुपतस्तस्मान् महाकाल इव त्वया महाकालमतस्यार्थे यत्नादाराध्यतामिति ॥ २२.२३१ इति प्रोत्साहितस्तेन महाकालमतार्थिना यज्ञगुप्तो ब्रवीति स्म प्रस्थितां कुन्दमालिकाम् ॥ २२.२३२ अहमप्यनुगच्छामि भवन्तं तीर्थमस्थिरम् दृष्टादृष्टमहाश्रेयः कारणं मादृशामिति ॥ २२.२३३ तया तु वार्यमाणोऽपि वाचा मन्दप्रयत्नया महाकालमतप्रेप्सुर् सौ नैव निवृत्तवान् ॥ २२.२३४ अथ वाराणसीं गत्वा यज्ञगुप्ताय सा ददौ रत्नं नातिमहामूल्यम् िति चैनमभाषत ॥ २२.२३५ अस्य रत्नस्य मूल्येन यथासुखमिहास्यताम् न तु तारुण्यमूढेन संभाष्या गणिका त्वया ॥ २२.२३६ त्वादृङ्नवदशप्रायः श्रोत्रियः सकुतूहलः वेश्यावश्यः स्वदाराणाम् यात्यवश्यमवश्यताम् ॥ २२.२३७ गणिकाडाकिनीभिश्च पीतसर्वाङ्गलोहितः यज्जीवति तदाश्चर्यम् क्व धर्मः क्व यशःसुखे ॥ २२.२३८ इत्यादिमादेशमसौ तदीयम् तथेत्यनुज्ञाय तथा चकार आराध्यवाक्यानि हि भूतिकामाः सेवाविधिज्ञा न विकल्पयन्ति ॥ २२.२३९ चतुरः पञ्च वा मासान् वाराणस्यां विहृत्य तौ नैमिषं जग्मतुस्तस्माद् गङ्गाद्वारं ततः कुरून् ॥ २२.२४० कुरुभ्यः पुष्करं तत्र गमयित्वा घनागमम् कार्त्तिकान्ते महापुण्यम् दृष्टवन्तौ महालयम् ॥ २२.२४१ यज्ञगुप्तमथावोचद् ेकदा कुन्दमालिका बहुद्रविणमुत्पाद्य ददामि भवते निधिम् ॥ २२.२४२ तमादाय गृहान् गच्छ दृष्टादृष्टार्थसाधनम् त्रिवर्गेण हि युज्यन्ते गृहस्था गृहमेधिनः ॥ २२.२४३ अश्रुतश्रुतयो मूढा रण्डा निर्वसवोऽपि वा भवन्ति खलु धर्मार्थम् तीर्थयात्रापरायणाः ॥ २२.२४४ अहमप्यधुना गच्छाम्य् वन्तिनगरीं प्रति सा हि कापालिकालीना गणिकानामिवाकरः ॥ २२.२४५ महापाशुपतास्तत्र निशातशितपट्टिशाः यात्रायां किल युध्यन्ते युद्धमात्रप्रयोजनाः ॥ २२.२४६ तत्र कापालिकः कश्चिन् निहन्यादपि मां बली काकतालीयमोक्षा हि शस्त्रपञ्जरचारिणः ॥ २२.२४७ उज्जयन्यां च यत्पापम् दुष्कृतं कृतवानसि स्वर्गवद्ब्रह्मघातेन तेन सा दुर्गमा त्वया ॥ २२.२४८ तेनायासफलं तत्र विशङ्के गमनं तव प्रावृत्य च ततः पश्य सनिधिः पितराविति ॥ २२.२४९ आसीच्चास्य प्रसन्नौ मे पादावस्य महात्मनः हन्त संप्रति संप्राप्तम् महाकालमतं मया ॥ २२.२५० लोको हि प्राणसंदेहे प्राणधारणकारणम् सर्वमप्युज्झति स्फीतम् किमु ग्रन्थमनर्थकम् ॥ २२.२५१ चिरमाराधितश्चायम् निरपेक्षः स्वजीविते महाकालमतं तन्मे कथं नाम न दास्यति ॥ २२.२५२ यं च दोषमहं तत्र कृतवान् गुरुशासनात् तस्य प्रच्छादनोपायो यत्किंचिदिव तुच्छकः ॥ २२.२५३ मां देवकुलकोणेषु लीनं कालपटच्चरम् परुषाकुलकेशं च न कश्चिल्लक्षयैष्यति ॥ २२.२५४ युक्तमित्यादि निर्धार्य सोऽब्रवीत्कुन्दमालिकाम् किं चान्तेवासिनां युक्तम् मोक्तुमाचार्यमापदि ॥ २२.२५५ या गतिर्भवतः सैव ममापि सहचारिणः न हि गच्छति पूर्णेन्दौ कलङ्कोऽस्य न गच्छति ॥ २२.२५६ इत्यादि वदतो वल्गु जातसंमदमानसा अनुज्ञातवती तस्य गमनं कुन्दमालिका ॥ २२.२५७ अथावन्तिपुरीं गत्वा यज्ञगुप्तमुवाच सा इह भद्रवटे भद्र विनयस्व पथिश्रमम् ॥ २२.२५८ आगच्छामि निधिं दृष्ट्वा निहितं केनचित्क्वचित् यावत्तावत्त्वयोत्कण्ठा न कार्या मामपश्यता ॥ २२.२५९ उज्जयन्यां निधानानि दुर्लभानि यतस्ततः आशङ्के चिरमात्मानम् परिभ्रान्तमितस्ततः ॥ २२.२६० आयुष्मन्तः प्रजावन्तो पितृवन्तोऽपि वा समाः न ह्यौज्जयनकाः पौराः स्थिरान्निदधते निधीन् ॥ २२.२६१ एवमादि तमुक्त्वासौ गत्वा सिप्रासरित्तटम् मुक्त्वा कापालिकाकल्पम् मलामकरोत्तनुम् ॥ २२.२६२ कुन्दशुभ्रपरीधाना शङ्खस्फटिकमण्डना शरद्द्यौरिव साभासीज् ज्योत्स्नाताराकुलाकुला ॥ २२.२६३ भिन्नवर्णां च भिन्दन्ती स्तनाभ्यां कण्ठकण्ठिकाम् जालशिक्यस्थितालाबूः सा प्रतस्थे सपिण्डिका ॥ २२.२६४ ततः कापालिका मत्ताः पिबन्तो बद्धमण्डलाः व्याहरन्ति स्म तामुच्चैः कुञ्चिताङ्गुलिपाणयः ॥ २२.२६५ एह्येहि तरलापाङ्गि यस्ते कापालिकः प्रियः तेन सार्धं यथाश्रद्धम् पानमासेव्यतामिति ॥ २२.२६६ ततस्तत्रापि सा तेभ्यः प्रकृत्या प्रतिभावती तानतिद्रुतया गत्या जगाम च जगाद च ॥ २२.२६७ पश्यन्तीं च रमणीयाम् स्पृश्यमानां च भीषणाम् अलं भगवतां दृष्ट्वा मां दृष्टिविषकन्यकाम् ॥ २२.२६८ पतिर्मम हि गन्धर्वः क्रूरताजितराक्षसः ईर्ष्यावानप्रमत्तश्च सदा रक्षति मामसौ ॥ २२.२६९ तेन मामभियुञ्जाना कन्दर्पशरताडिता यमेनेव क्षयं नीता कोटिर्युष्मादृशामिति ॥ २२.२७० ततः कापालिकैरुक्तम् ुक्तं यदनया श्रिया तन्न केवलमेतस्याम् धिकं चोपपद्यते ॥ २२.२७१ त्रैलोक्येऽनिद्रताहेतोर् स्याः कान्ताकृतेः कृते आश्चर्यं यन्न युध्यन्ते ब्रह्मविष्णुमहेश्वराः ॥ २२.२७२ तस्माद्गन्धर्वमन्यं वा कंचित्त्रैलोक्यसुन्दरम् अनुगृह्णातु सस्नेहैर् ियमालोकितैरिति ॥ २२.२७३ ततः सा परिकर्षन्ती सपाषण्डिगणा पुरीम् आशीःकलकलोन्नीतम् गच्छद्भवनं पितुः ॥ २२.२७४ हृष्टार्थे वर्गसंबाधम् सप्तकक्षं प्रविश्य तत् मातुर्वासगृहद्वारि भिक्षां देहीति चाब्रवीत् ॥ २२.२७५ गृहाद्गृहीतभिक्षा च निर्याय परिचारिका आशिरश्चरणाङ्गुष्ठम् पश्यत्कुन्दमालिकाम् ॥ २२.२७६ चिराच्च प्रत्यभिज्ञाय घ्नती सहृदयं शिरः प्रविश्य कथयामास स्वामिन्यै शनकैरसौ ॥ २२.२७७ उत्सन्नासि विनष्टासि यस्यास्ते धरणीधृता शिरीषामालिकालोला दुहिता कुन्दमालिका ॥ २२.२७८ सा हि कापालिकाकल्प कलङ्कां दधती तनुम् इयं तिष्ठति ते द्वारि स्वयं वा दृश्यतामिति ॥ २२.२७९ इदमाकर्ण्य निष्क्रान्ता सा तां दृष्ट्वा तथाविधाम् वाच्यतामनपेक्ष्यैव स्नेहादेतच्चचार सा ॥ २२.२८० बिभेद लवशः पिच्छम् कपालं च कपालशः चिच्छेद गुडिकां शश्वत् शङ्खस्फतिकमण्डनम् ॥ २२.२८१ पाटयित्वा च तां तस्यास्तन्तुशः कण्ठकण्ठिकाम् मङ्गलस्नानशुद्धान्ताम् शुद्धान्तमनयत्ततः ॥ २२.२८२ तत्रैनामब्रवीन्माता मातर्विश्रब्धमुच्यताम् किमेतदेवमेवेति सा ततस्तामभाषत ॥ २२.२८३ अकस्माद्भ्रान्तिरम्बायाः कथं तव सुता सती असतीभिरपि क्षिप्तम् चरेत्कापालिकव्रतम् ॥ २२.२८४ आस्तां तावत्कथा चेयम् तातपादानिहाह्वय अस्ति मे गुरु कर्तव्यम् साध्यते तच्च तैरिति ॥ २२.२८५ अथ सागरदत्तस्ताम् ालोक्य व्याहृतागतः किं किमेतत्कथं चेति शशङ्के विषसाद च ॥ २२.२८६ तं च दृष्ट्वा तथाभूतम् त्रस्ता कुन्दमालिका आश्वासयितुमालिङ्ग्य ववन्दे विजहास च ॥ २२.२८७ अब्रवीच्चैनमाश्वस्तम् ास्ते भद्रवटाश्रमे जामाता तव स स्यालैस्तस्मादानाय्यतामिति ॥ २२.२८८ तदादिष्टैश्च संरब्धैर् गृहीतः स्यालकैरसौ लब्धोऽसि पुत्रचौरेति मृषा परुषभाषिभिः ॥ २२.२८९ किं तिष्ठसि शठोत्तिष्ठ प्रतिष्ठ स्वपुरं प्रति त्वामाहूयति राजेति सस्मिताश्चैनमब्रुवन् ॥ २२.२९० ततस्तान् प्रत्यभिज्ञाय संभाव्य वधबन्धने मानस्तोकमृचं जप्त्वा शिखाबन्धं चकार सः ॥ २२.२९१ ससान्त्वं चाब्रवीदङ्ग क्षणमेतदुदीक्ष्यताम् मम कापालिको मित्रम् यावदायात्यसाविति ॥ २२.२९२ स तैस्तारं विहस्योक्तस्त्वं यन्मित्रमुदीक्षसे स गतः प्रथमं तत्र तेनैव ग्राहितो भवान् ॥ २२.२९३ निष्प्रयोजनसौहार्दा वचःसदृचेतसः सुहृदोऽपि विरज्यन्ते खलानां त्वादृशामिति ॥ २२.२९४ तं विषण्णं प्रहृष्टास्ते मूकं बहुपटुस्वनाः गृहीत्वा गृहमाजग्मुः प्रीतबन्धुजनावृतम् ॥ २२.२९५ तत्र सागरदत्तेन प्रीतिकण्टकितत्वचा परिष्वक्तस्य जामातुः सप्राणमभवद्वपुः ॥ २२.२९६ कृतार्घादिसपर्यश्च स निवर्तितभोजनः अध्यशेत महाशय्याम् रम्यमण्डपसंस्तृताम् ॥ २२.२९७ तत्रास्य श्वशुरौ स्यालाः स्यालभार्याश्च सात्मजाः आप्ताश्च श्रेष्ठिनः पौराः परितः समुपाविशन् ॥ २२.२९८ साथागच्छद्वणिक्कन्या मधुराभरणक्वणा वाचालकलहंसेव निष्कलङ्काम्बरा शरत् ॥ २२.२९९ गुरवः सत्कृता मूर्ध्ना वाचा सवयसस्तया यज्ञगुप्तः पुनर्दृष्ट्या सरागाञ्जनगर्भया ॥ २२.३०० अध्यास्य च पुरः पित्रोर् सौ वामनमासनम् विवाहादियथावृत्तम् ात्मवृत्तं न्यवेदयत् ॥ २२.३०१ आसीच्च यज्ञगुप्तस्य धिग्धिङ्मे विफलाः कलाः द्व्यङ्गुलप्रज्ञया यो हं वञ्चितः कुलकन्यया ॥ २२.३०२ अथ वा द्व्यङ्गुलप्रज्ञाः पुरुषा एव मादृशाः कुशाग्रीयधियो योषा यासां कर्मेसमीदृशम् ॥ २२.३०३ किमतः परमाश्चर्यम् यन्नागरिकयानया तिष्ठतां गतिसंस्थाने स्वरोऽपि परिवर्तितः ॥ २२.३०४ विराटनगरे पार्थैः कथं मूढात्मभिः स्थितम् इति ये विचिकित्सेयुस्तेषामेषा निदर्शनम् ॥ २२.३०५ सर्वथा गुरुवाक्येन यन्मया चरितं महत् तस्मादस्म्यनयैवाद्य मोचितः पातकादिति ॥ २२.३०६ वृत्तान्तं चैतदाकर्ण्य प्रहृष्टेन महीभृता सहजामातृकानीता स्वगृहं कुन्दमालिका ॥ २२.३०७ तस्मिन् बहुमहाग्रामम् दानं बहुसुवर्णकम् स दत्त्वा यज्ञगुप्ताय सस्मितस्तामभाषत ॥ २२.३०८ यथा द्विजातिकर्मभ्यो न हीयते पतिस्तव त्वया धीरतया पुत्रि तथा संपाद्यतामिति ॥ २२.३०९ तयातिधैर्याङ्कुशवारितेर्ष्यया द्विजातिकन्यां परिणायितः पतिः न हि क्षितीशानविलङ्घ्यशासनान् विलङ्घयन्ति प्रियजीवितश्रियः ॥ २२.३१० द्विजातिकन्यां रतिपुत्रकाम्यया सुखाय शुद्धाय च कुन्दमालिकाम् निषेवमानः सुकृतं च संततम् निनाय विप्रः सफलं समाशतम् ॥ २२.३११ पौगण्डाय वितीर्णयापि विधिना यस्माद्वणिक्कन्यया चित्रोपायपरंपराचतुरया प्राप्तः पतिर्वाञ्छितः संतोषक्षतसत्त्वसत्त्वदयितः संसेवितः कातरैस्तस्मात्पौरुषमारुतेन बलिना दैवाद्रिरुन्मूलितः ॥ २२.३१२ इत्याख्याय कथितौ च मिथः प्रव्रजितौ गतौ द्रुतप्रवहणारूढो गोमुखश्च परागतः ॥ २३.१ मामवोचत्स वन्दित्वा प्रीतिदासः पुनर्वसुः सर्वनागरकश्रेणि ग्रामणीर्दृश्यतामिति ॥ २३.२ अथ प्रणतमद्राक्षम् नुल्बणविभूषणम् युवानमपि वैनीत्याल् लज्जितस्थविरं नरम् ॥ २३.३ गोमुखाख्यातमाहात्म्यम् तं चालिङ्गितवानहम् संभावितगुणाः सद्भिर् र्हन्त्येव च सत्क्रियाम् ॥ २३.४ अथ यानं समारुह्य तत्पुनर्वसुवाहकम् सांयात्रिक इवाम्भोधिम् तदावासमवातरम् ॥ २३.५ सेविताहारपर्यन्त शरीरस्थितिसाधनः दिनशेषं नयामि स्म गीतिश्रुतिविनोदनः ॥ २३.६ ततः सुप्तजने काले पृष्टवानस्मि गोमुखम् कथमेष त्वया प्राप्तः सुहृदित्यथ सोऽब्रवीत् ॥ २३.७ श्रूयतामस्त्यहं युष्मान् वन्दित्वा पुनरागतः न च कंचन पश्यामि योग्यमाश्रयदायिनम् ॥ २३.८ ततश्चिन्तितवानस्मि धनविद्यादिदायिनाम् संभवः सर्वसाधूनाम् नास्ति राजकुलादृते ॥ २३.९ योगक्षेमप्रयुक्ता हि प्रायः सज्जनसंसदः राजद्वारं विगाहन्ते समुद्रमिव सिन्धवः ॥ २३.१० राजद्वारं ततो गत्वा याचिष्ये कंचिदाश्रयम् राजद्वारं हि कार्याणाम् द्वारमुक्तं बुधैरिति ॥ २३.११ निग्रहानुग्रहप्राप्त लोककोलाहलाकुलम् तद्गत्वा स्मृतवानस्मि प्रेताधिपधनाधिपौ ॥ २३.१२ महामनुष्यचरितः पुरुषोऽयं विभाव्यते आश्रयप्रार्थना तस्मान् नास्मिन् संपद्यते मृषा ॥ २३.१३ अयमन्यः सुवेषोऽपि कीनाशविरसाकृतिः तेन संभाव्यते नास्मात् प्रार्थनाफलमण्वपि ॥ २३.१४ पुरुषं पुरुषं तत्र चिरमित्थं विचारयन् अभ्यन्तरात्प्रतीहारम् दृष्टवानस्मि निर्गतम् ॥ २३.१५ स्वस्तिकारनमस्कार ज्योत्कारान् स च कार्यिणाम् प्रतिमानितवान् सर्वान् सकृन्नमितमस्तकः ॥ २३.१६ अथ विज्ञापनामात्रम् पश्यद्भिः कार्यसाधनम् कार्यिभिर्युगपत्तत्र कार्यविज्ञापना कृता ॥ २३.१७ तेभ्यस्तेनापि सामान्यम् ेकमेवोत्तरं कृतम् भवतः सुमुखो राजा मा त्वरिष्ट भवानिति ॥ २३.१८ स प्रतीहारवेषं च वारबाणादिमङ्गतः अवतार्य समीपस्थे न्यस्तवान् परिचारके ॥ २३.१९ तं च दृष्ट्वा समाप्तैव समाश्रयगवेषणा न हि दृष्टसुवर्णाद्रिः ताम्रं धमति वातिकः ॥ २३.२० स्वस्तिकृत्वा ततस्तस्मै स्वगृहान् प्रतिगच्छते मां मुहुः पश्यता प्रीत्या तेनैव सहितोऽगमम् ॥ २३.२१ गृहे च कृतसत्कारम् सौ मामनुयुक्तवान् आगच्छति कुतः किं वा मदिच्छति भवानिति ॥ २३.२२ मयोक्तं भ्रातरावावाम् द्विजौ द्वावागमार्थिनौ विद्यास्थानमिदं श्रुत्वा वन्तिदेशात्समागतौ ॥ २३.२३ इह वासितुमिच्छावो युष्मत्कृतपरिग्रहौ बलवत्तरगुप्तो हि कृशोऽपि बलवानिति ॥ २३.२४ तेनोक्तं त्वादृशामेतद् गुणग्रहणकाङ्क्षिणाम् अग्राम्यालापरूपाणाम् स्वगृहं भवतामिति ॥ २३.२५ मुहूर्तं तत्र चासीनः श्रुतवानहमुत्थितम् क्षुभिताम्भोधिकल्लोल कोलाहलमिव क्षणम् ॥ २३.२६ मां तदाकर्णनोत्कर्णम् सौ सस्मितमुक्तवान् किं त्वमेतन्न वेत्थेति न वेदेति मयोदितम् ॥ २३.२७ अयं पुनर्वसुर्नाम दाता वाणिजदारकः वृतः कितवसंघेन दीव्यति द्यूतमण्डपे ॥ २३.२८ यदा विजयते द्यूते स सर्वं द्रविणं तदा वितरत्यर्थिवर्गाय तस्यैष तुमुलो ध्वनिः ॥ २३.२९ जीयमाने पुनस्तस्मिञ् जानुमूर्धस्थमस्तकाः विषादमुषितालापा ध्यायन्ति शिवमर्थिनः ॥ २३.३० यदि कौतूहलं तत्र ततोऽसौ दृश्यतामिति प्रतीहारेण कथिते ततश्चिन्तितवानहम् ॥ २३.३१ नीतिविद्यावयोवृद्धैर् मात्यैः किं प्रयोजनम् येषां यन्त्रितवाक्कायैर् ग्रतो दुःखमास्यते ॥ २३.३२ यः समानवयःशीलो मुक्तहस्तः सकिंचन व्यसनी च स्वतन्त्रश्च सोऽस्माकमधुना सुहृत् ॥ २३.३३ तस्माद्द्यूतसभामेव यामि द्रष्टुं पुनर्वसुम् निर्धार्येति तमामन्त्र्य द्यूतकारसभामगाम् ॥ २३.३४ साकीर्णा देवनव्यग्रैः सभा कितवचन्द्रकैः सरसीवामिषास्वाद गृद्धैर्बककदम्बकैः ॥ २३.३५ तत्रान्यतमयोरक्षान् दीव्यतोरक्षधूर्तयोः अक्षः कोणेन पतितः संदिग्धपदपञ्चकः ॥ २३.३६ पञ्चकोऽयं पदं नेदम् पदमेतन्न पञ्चकः इति जाता तयोः स्पर्धा परस्परजयैषिणोः ॥ २३.३७ तयोरेकतरेणोक्तम् मध्यस्थः पृच्छ्यतामिति प्रत्युक्तमितरेणापि यथेच्छसि तथास्त्विति ॥ २३.३८ अथैकः पुरुषः प्रांशुः पृष्टस्ताभ्यामनागरः कतरत्पश्यसि स्पष्टम् पदपञ्चकयोरिति ॥ २३.३९ तत्र चान्यतमेनोच्चैर् ुक्तमुत्क्षिप्तपाणिना दीर्घत्वादेष निर्बुद्धिर् तोऽन्यः पृच्छ्यतामिति ॥ २३.४० ततः पृष्टोऽपरो ह्रस्वः सोऽपि तेन निवारितः नेदृशाः प्रश्नमर्हन्ति बहुदोषा हि खट्वकाः ॥ २३.४१ अथ मां दृष्टवन्तौ तौ पृष्टवन्तौ च सादरम् साधो यदि न दोषोऽस्ति ततो नौ छिन्द्धि संशयम् ॥ २३.४२ त्वं न दीर्घो न च ह्रस्वस्तस्मात्प्राज्ञो न दुष्टधीः तेन मध्यप्रमाणत्वाद्गच्छ मध्यस्थतामिति ॥ २३.४३ चिन्तितं च मया कष्टः खलसंदिग्धनिर्णयः पारद्रविणगृद्धेषु कितवेषु विशेषतः ॥ २३.४४ अवश्यं तु कलाज्ञानम् ख्यापनीयं कलाविदा अप्रकाशं हि विज्ञानम् कृपणार्थनिरर्थकम् ॥ २३.४५ न च द्यूतकलान्यत्र कितवेभ्यः प्रकाश्यते न हि प्रयुञ्जते प्राज्ञाः वेशादन्यत्र वैशिकम् ॥ २३.४६ द्यूते जेष्यति यश्चात्र स मे मित्रं भविष्यति धनवन्मित्रलाभं हि निधिलाभादिकं विदुः ॥ २३.४७ इत्यादि बहु निश्चित्य पुरस्तेषां सविस्तरम् अक्षाष्टापदशारीणाम् ाख्यं भूमेश्च लक्षणम् ॥ २३.४८ ततः संदिग्धपातस्य तस्याहं कोणपातिनः सुपिष्टमिष्टकाक्षोदम् क्षस्योपरि दत्तवान् ॥ २३.४९ अथासाविष्टकाक्षोदः पदस्योपरि योऽपतत् सोऽपतत्सकलो भूमौ पञ्चकस्योपरि स्थितः ॥ २३.५० ततस्तानुक्तवानस्मि यो भागः पञ्चकाङ्कितः तस्योत्तानत्वमुत्कृष्टम् क्षोदस्तत्र यतः स्थितः ॥ २३.५१ एतावन्मम विज्ञानम् ित्युक्त्वावस्थिते मयि अहो साध्विति निर्घोषः समन्तात्सहसोत्थितः ॥ २३.५२ ततस्तत्रोदितं कैश्चिद् यमक्षविशारदौ ध्रुवं विजयते दूरान् नलकुन्तीसुताविति ॥ २३.५३ तेऽपरैः कुपितैरुक्ता जितौ नलयुधिष्ठिरौ अयं जयति जेताराव् पि पुषकरसौबलौ ॥ २३.५४ इति प्रशस्यमानं माम् तिर्यग्दृष्ट्वा समत्सरः पदवादी जितो योऽसाव् सौ मन्थरमुक्तवान् ॥ २३.५५ येषां द्यूतपणाभावस्ते किमर्थमिहासते द्यूतस्थाने हि किं कृत्यम् प्रवीणैः प्राश्निकैरिति ॥ २३.५६ आसीच्च मम कस्मान्माम् कौलटेयः क्षिपत्ययम् योऽहं त्रैलोक्यसारेण पणेन पणवानिति ॥ २३.५७ अथ निक्षिप्य सक्रोधम् यौष्माकं भूषणं भुवि एहि दीव्याव मित्रेति तमहं धूर्तमुक्तवान् ॥ २३.५८ स च धूर्तैरलंकारः प्रसर्पद्बहलप्रभः दृष्टस्तृष्णाविशालाक्षैः पतंगैरिव पावकः ॥ २३.५९ अथासौ क्रोधलोभाभ्याम् क्षधूर्तः प्रतारितः मया सह ससंरम्भम् क्षानारब्ध देवितुम् ॥ २३.६० तेन चाहं त्रिभिः पातैर् नक्षकुशलः किल प्रबुद्धैर्गर्धगृद्धेन सहस्रत्रितयं जितः ॥ २३.६१ ततस्तत्सकृदुन्मोच्य सहस्रत्रितयं मया लक्षमेकेन पातेन जितः स कितवाधमः ॥ २३.६२ विजयाज्जृम्भितोत्साहः शङ्कितश्च पराजयात् न विरन्तुं न वा रन्तुम् सावशकदाकुलः ॥ २३.६३ दीव्य वा देहि वा लक्षम् सौम्येति च मयोदितः वैलक्ष्याद्घट्टयन्नक्षान् न किंचित्प्रतिपन्नवान् ॥ २३.६४ एतस्मिन्नन्तरे भृत्यम् स्वमवोचत्पुनर्वसुः कितवोऽयमिदं लक्षम् चलं दाप्यतामिति ॥ २३.६५ मां चायं स्वं गृहं नीत्वा हर्षादृजुतनूरुहः तथा पूजितवान् देवम् हरं दत्तवरं यथा ॥ २३.६६ मां चावोचद्धनं यत्तद् भवद्भिः कितवार्जितम् तदुद्ग्राह्येदमानीतम् लक्षं ते गृह्यतामिति ॥ २३.६७ मयाप्युक्तमुपान्ते यद् द्रविणं त्वत्परिग्रहात् साधितं भवता यच्च तस्य स्वामी भवानिति ॥ २३.६८ उक्तं चानेन यन्नाम युष्माभिः स्वयमर्जितम् स्वामिनो यूयमेवास्य धनस्येत्यत्र का कथा ॥ २३.६९ यदपीदं मयावाप्तम् युष्मत्स्वामिकमेव तत् अधिगच्छति यद्दासो भर्तुरेव हि तद्धनम् ॥ २३.७० यच्च पृच्छामि तन्मह्यम् प्रसादे सति कथ्यताम् भूतलं यूयमायाताः किं निमित्तं त्रिपिष्टपात् ॥ २३.७१ मन्ये सत्यपि देवत्वे भवद्भिः क्रीडयाहृतैः आकारान्तरनिर्माणम् नात्यन्तमनुशीलितम् ॥ २३.७२ तथा च वर्णसंस्थान कलाविज्ञानसंपदः दृष्टाः केन मनुष्येषु यादृशो भवतामिति ॥ २३.७३ तेन यत्सत्यमित्युक्ते दुःखमाशितवानहम् दूरेण ह्यतिनिन्दाया दुःखहेतुरतिस्तुतिः ॥ २३.७४ वाराणसीप्रवेशेषु प्रतीहाराय पृच्छते यन्मया कार्यमाख्यातम् तदेवास्मै निवेदितम् ॥ २३.७५ अथानेनोक्तमाश्चर्यम् ज्येष्ठस्य जगतां गुणैः त्वादृशस्यापि यो ज्येष्ठः कीदृशः स भविष्यति ॥ २३.७६ किं वानेन विमर्देन ज्येष्ठस्तिष्ठति यत्र सः सर्वतीर्थाधिके देशे तं प्रापयत मामिति ॥ २३.७७ अथैनमहमादाय गतवान् भवदन्तिकम् यच्चोत्तरमतस्तत्र प्रत्यक्षं भवतामपि ॥ २३.७८ इति क्षिप्रमयं लब्धो मया वः परिचारकः न हिंसन्ति न सर्वत्र श्रियः पुण्यवतामिति ॥ २३.७९ ततस्तमुक्तवानस्मि विपदस्तेन दुर्लभाः फलं सुचरितस्यैव हृदयं यस्य गोमुखः ॥ २३.८० किं तु संश्रयमात्रेण पीडनीयः पुनर्वसुः परान्नं हि वृथाभुक्तम् दुःखायैव सतामिति ॥ २३.८१ एवमादिभिरालापैर् र्धमर्धं च निद्रया नीतवानस्मि यामिन्याः प्रातश्चागात्पुनर्वसुः ॥ २३.८२ तं च वन्दितमत्पादम् वोचदिति गोमुखः बल्लवः कुशलः कश्चित् कुतश्चन गवेष्यताम् ॥ २३.८३ त्वदन्यस्य गृहे नान्नम् र्यज्येष्ठेन सेवितम् परपाकनिवृत्ता हि साधुवृत्ता द्विजातयः ॥ २३.८४ आदराराधितश्चायम् त्वदीयं परिभुक्तवान् आराधनानुरोधो हि चरितं महतामिति ॥ २३.८५ प्रत्याख्यानविचित्तस्तु तमाह स्म पुनर्वसुः यद्येवं जगदीशानाम् किं नास्ति भवतामिति ॥ २३.८६ अचिराच्च तदानीतौ संभाव्यगुणसंपदौ आकारक्षिप्तनासत्याव् पश्यं पुरुषौ पुरः ॥ २३.८७ तौ च मां चिरमालोक्य वदनं च परस्परम् प्रसार्य सभुजान् पादाञ् जयेत्युक्त्वा भुवं गतौ ॥ २३.८८ तौ चाहूय मयायातौ स्पृष्टपृष्ठौ सभाजितौ वन्दित्वा पुनरब्रूताम् ब्रूत किं क्रियतामिति ॥ २३.८९ ततस्तौ गोमुखेनोक्तौ भवन्तौ किल बल्लवौ सत्यं चेदिदमार्यस्य पाकः संसाध्यतामिति ॥ २३.९० तौ च प्रीतौ प्रतिज्ञाय निकर्त्य नखमूर्धजान् स्नातौ सोष्णीषमूर्धानौ महानसमगच्छताम् ॥ २३.९१ अथ वा तिष्ठति व्यासः समासः श्रूयतामयम् सर्वा ताभ्यामपूर्वेव प्रक्रिया संप्रसारिता ॥ २३.९२ यावत्या चापरः स्थालीम् धिश्रयति बल्लवः तावत्या वेलया ताभ्याम् पाक एव समापितः ॥ २३.९३ ततो निर्वर्तितस्नान देवतानलतर्पणः आहारस्थानमध्यासि विप्रपङ्क्तिनिरन्तरम् ॥ २३.९४ पञ्च तित्तिरयः पक्वाश् चत्वारः कुक्कुटा इति आहारो यैः प्रशस्तस्तैर् शितं प्राकृताशनम् ॥ २३.९५ आहारं यदि सेवेरन् सकृत्तममृताशनम् समुत्सृष्टामृताहारा भवेयुर्नामरास्तदा ॥ २३.९६ ततः समापिताहारः कर्णे गोमुखमब्रवम् सूदाभ्यां भुक्तभक्ताभ्याम् युतं दीयतामिति ॥ २३.९७ स गत्वा सहितस्ताभ्याम् चिराच्चागत्य केवलः स्मितसंसूचितप्रीतिर् ुपाक्रमत भाषितुम् ॥ २३.९८ मया यावुदितावेतौ न यूवामेतदर्हथ अवस्थासादृशं किं तु यत्किंचिद्गृह्यतामिति ॥ २३.९९ तयोरेकतरेणाथ भर्तुर्दौःस्थित्यवर्तिनः न युक्तं धनमादातुम् ावाभ्यामिति भाषितम् ॥ २३.१०० स क्रुद्धेनेतरेणोक्तो धिक्त्वां दीनतराशयम् जितत्रैलोक्यवित्तेशम् वित्तेशं योऽनुकम्पसे ॥ २३.१०१ महापद्मसहस्राणि यत्प्रसादाद्विमानिनाम् सुस्थितानि भविष्यन्ति दौःस्थित्यं तस्य कीदृशम् ॥ २३.१०२ प्रयच्छत्ययुतं यश्च पाकस्यैकस्य निष्क्रयम् दुःस्थितस्तादृशो यस्य सुस्थितस्तस्य कीदृशः ॥ २३.१०३ एवमादि ब्रुवन्नेव स माल्यमिव तद्धनम् धारयित्वा क्षणं मूर्ध्ना प्रस्थाय प्राप्तवान् गृहम् ॥ २३.१०४ अथैनं पृष्टवानस्मि पटुकौतूहलाकुलः दिव्यमैश्वर्यमागामि कथं वेद भवानिति ॥ २३.१०५ ततस्तेनोक्तमस्यैव ब्रह्मदत्तस्य भूपतेः शतयज्ञाधिकश्रीकः पञ्चयज्ञः पिताभवत् ॥ २३.१०६ चिकित्सासूदशास्त्रज्ञः शिल्पित्वेऽप्यशठोऽभवत् द्वितीय इव तस्यात्मा देववानिति बल्लवः ॥ २३.१०७ शरीरमेतदायत्तम् ममेति कृतबुद्धिना राज्ञा तस्मै स्वराज्यस्य दशमोऽंशः प्रकल्पितः ॥ २३.१०८ नन्दोपनन्दनामानौ तस्य सूदपतेः सुतौ ईदृशाकारविज्ञानाव् ावामेव च विद्धि तौ ॥ २३.१०९ बालाभ्यामेव चावाभ्याम् सूदशास्त्रचिकित्सिते सहज्ञानप्रयोगाभ्याम् कुलविद्येति शिक्षिते ॥ २३.११० एकदा नौ पितावोचत् पुत्रकौ शृणुतं हितम् श्रोतारं गुरुवाक्यानाम् न स्पृशन्ति विपत्तयः ॥ २३.१११ पदवाक्यप्रमाणानि काव्यानि विविधानि च भवद्भ्यां शिक्षितव्यानि चित्रादिश्च कलागणः ॥ २३.११२ कदाचिदजितं जेतुम् यातो यातव्यमण्डलम् शास्त्रकाव्यकथालापैर् विनोदं प्रभुरिच्छति ॥ २३.११३ विज्ञाय तु तदास्थानम् संनिहितपण्डितम् विनोदं तस्य कुर्यातम् शास्त्रालापादिभिर्युवाम् ॥ २३.११४ प्रगल्भाः प्रतिभावन्तो बहुवृत्तान्तपण्डिताः प्रकाशितमनोवृत्तैर् भृत्याः क्रीडन्ति भर्तृभिः ॥ २३.११५ एकविद्यः पुनस्तत्र प्रगल्भोऽपि तपस्विकः स्वविद्यालापपर्याय खिन्नश्चिरमुदीक्षते ॥ २३.११६ अभ्यस्तबहुविद्यश्च निर्विपर्यायमानसः गतसंशयदुःखत्वात् सुखिनां परमेश्वरः ॥ २३.११७ उत्साहेन च शिक्षेथाम् ायुरैश्वर्यलक्षणम् दीर्घायुर्वित्तवन्तो हि संसेव्याः सेवकैरिति ॥ २३.११८ तच्च पित्राज्ञयाशेषम् ावाभ्यामनुशीलितम् रम्यास्वादं च पथ्यं च कोऽवमन्येत भेषजम् ॥ २३.११९ तद्विद्याधरचक्रस्य चक्रवर्ती भविष्यति ज्यैष्ठचन्द्रसहस्रांशु दीर्घायुश्चेति नौ मतिः ॥ २३.१२० तेन प्रसारिताङ्गाभ्याम् ावाभ्यामेष वन्दितः न हि वन्दनसामान्यम् र्हन्ति बहुवन्दिताः ॥ २३.१२१ बहवो हीह तिष्ठन्ति ब्राह्मणास्तीर्थकुक्कुटाः शिरःस्पन्दनमात्रेण तानावां पूजयावहे ॥ २३.१२२ तस्माद्यस्मादसङ्गेन सर्वत्रागमचक्षुषा ज्येष्ठस्य दृष्टमैश्वर्यम् तः श्रद्धीयतामिति ॥ २३.१२३ प्रज्ञप्तिकौशिकसुतप्रमुखैरुक्तम् नन्दस्य निश्चिततरं वचनात्तदासीत् भावं हि संशयतमः पटलापिनद्धम् ुद्भावयन्त्यवितथा वचनप्रदीपाः ॥ २३.१२४ अथ नन्दोपनन्दाभ्याम् सेव्यमानः स्वकर्मणा पुनर्वसुगृहे स्तोकान् दिवसानवसं सुखी ॥ २४.१ कदाचिन्मन्दिराग्रस्थः कुर्वन्नाशावलोकनम् श्रमणां दृष्टवानस्मि शिष्यासंघपुरःसरीम् ॥ २४.२ कविभिस्तैरनात्मज्ञैर् बुद्धिरायास्यते वृथा ये तस्या वर्णसंस्थाने वर्णयन्ति हतत्रपाः ॥ २४.३ सर्वथा तं विधातारम् धिग्यत्किंचनकारिणम् येनाकारविरुद्धोऽस्याम् ाचारो दुर्भगः कृतः ॥ २४.४ सर्वो हि विनियोगार्थम् र्थः सर्वेण सृज्यते घटयित्वा घटः केन लोष्टेन शकलीकृतः ॥ २४.५ धात्रा पुनरियं सृष्टा कोमलेव मृणालिनी शोषिता तुहिनेनेति धिक्तस्य खलतामिति ॥ २४.६ ततस्तां चिरमालोक्य निर्निमिषेण चक्षुषा गोमुखः स्फुरितोत्साहः पृच्छति स्म पुनर्वसुम् ॥ २४.७ अलंकृतपुरीमार्गैर् ूरुगौरवमन्थरैः एषा प्रव्रजिता भद्र क्व गच्छति गतैरिति ॥ २४.८ तेनोक्तमृषिदत्तेयम् ार्हतं धर्ममास्थिता वीतरागतया सिद्धान् तिशेते जिनानपि ॥ २४.९ एषा बालसखीं दृष्ट्वा सततं राजदारिकाम् कन्यकान्तःपुरादेति याति स्वशयनासनम् ॥ २४.१० इत्यादि कथयित्वासाव् ृषिदत्तामवन्दत अम्बिके सहशिष्यायास्ते नमोऽस्तु नमोऽस्त्विति ॥ २४.११ तं च प्रव्रजितावोचद् संभाष्यो भवानिति किमर्थमिति तेनोक्ते तयोक्तमवधीयताम् ॥ २४.१२ ज्ञानाधिक्षिप्तसर्वज्ञौ रूपविस्मारितस्मरौ द्विजौ ज्येष्ठकनिष्ठाख्यौ त्वद्गृहे किल तिष्ठतः ॥ २४.१३ तत्संदर्शनसंभाषा जनितं च सुखं त्वया द्रविणं कृपणेनेव प्रच्छन्नमुपभुज्यते ॥ २४.१४ सुहृत्साधारणं यस्य सुखं स परमं सुखी सुखसंवरणायासाद् विपरीतस्तु दुःखितः ॥ २४.१५ सुहृद्भिः कुपितैस्तस्माद् संभाष्यः कृतो भवान् तेषामत्रानयोपायः समर्थश्चिन्त्यतामिति ॥ २४.१६ अथोच्चैर्गोमुखेनोक्तम् चिरेण पुनर्वसुः [थे सेचोन्धल्f ओf थे वेर्से इस्मिस्सिन्ग्] ॥ २४.१७ [थे fइर्स्थल्f ओf थे वेर्से इस्मिस्सिन्ग्] सहनन्दोपनन्दश्च जिनायतनमण्डपम् ॥ २४.१८ अर्हतस्तत्र वन्दित्वा संघं चीवरवाससम् ऋषिदत्तां च तद्दत्ते विष्टरे समुपाविशम् ॥ २४.१९ अवलम्बितबाहुस्तु मुक्तकक्षश्च गोमुखः स्थित्वा देवकुलद्वारे जिनस्तोत्रमुदाहरत् ॥ २४.२० नमोऽस्तु सर्वसिद्धेभ्यः साधुभ्यश्च नमोऽस्तु वः ऋषभप्रमुखेभ्यश्च सर्वज्ञेभ्यो नमोऽस्त्विति ॥ २४.२१ साधु श्रावक धन्योऽसि यः सर्वज्ञं नमस्यसि इत्यादि बहु निर्ग्रन्थाः प्रीत्यास्तुवत गोमुखम् ॥ २४.२२ अथायमृषिदत्तायाः पादौ गाढं निपीडयन् अब्रवीत्सुप्रसन्नौ मे भवन्तौ भवतामिति ॥ २४.२३ तया त्वस्य प्रयुक्ताशीर् स्माकं लघुशासने श्रावकस्यापि संवाद्या प्रतिपत्तिर्भवत्विति ॥ २४.२४ अथोक्तमुपनन्देन वीणागोष्ठी प्रवर्त्यताम् एष संनिहितः संघः सकलः सुहृदामिति ॥ २४.२५ अन्येनोक्तमनायाते प्रवीणे गङ्गरक्षिते असंनिहितहंसेव नलिनी नीरवा सभा ॥ २४.२६ तस्मान्महाप्रतीहारम् भवन्तो गङ्गरक्षितम् उदीक्षन्तामिति ततः संप्राप्तो गङ्गरक्षितः ॥ २४.२७ तं दृष्ट्वा नागरैरुक्तम् ार्यज्येष्ठस्य वास्य वा आख्यात निपुणं दृष्ट्वा कतरो रूपवानिति ॥ २४.२८ आसीच्च मम यत्सत्यम् सत्यमेवास्मि रूपवान् गङ्गरक्षितरूपेण रूपं मे सदृशं यतः ॥ २४.२९ यदीयमेतदीयेन रूपेणाप्युपचर्यते उपमानमुपादेयः सोऽपि रूपवतामिति ॥ २४.३० वन्दित्वा जिनमग्रन्थान् ृषिदत्तां च मां च सः उपाविशत्पुनश्चोक्तम् ुपनन्देन पूर्ववत् ॥ २४.३१ ततः प्रव्रजिताह स्म श्रेष्ठिनि प्रियदर्शने अनायाते सदः सर्वम् िदमप्रियदर्शनम् ॥ २४.३२ अतः प्रतीक्ष्यतां श्रेष्ठी क्षणमित्युदितेक्षया अयमायात इत्याख्यन् नागराः प्रियदर्शनम् ॥ २४.३३ आसीच्च मम तं दृष्ट्वा नैवायं प्रियदर्शनः एषा पुरुषवेषेण भूषिता प्रियदर्शना ॥ २४.३४ स्त्रैणीभिर्गतिसंस्थान वाणीभिर्व्यक्तमेतया क्षिप्तत्रैलोक्यसौन्दर्यम् ाख्यातं स्त्रैणमात्मनः ॥ २४.३५ सा तु वन्दितदेवादिः सादरं मामवन्दत चिरं सुन्दरि जीवेति मयापि प्रतिवन्दिता ॥ २४.३६ ततः क्रोधारुणाक्षेण गोमुखेनाहमीक्षतः चित्रं नागरकैः कैश्चिल् लज्जितैः कैश्चिदम्बरम् ॥ २४.३७ ऋषिदत्ता पुनः सास्रम् सविकासचलेक्षणा सगोमुखमपश्यन्माम् ाशिरश्चरणं चिरम् ॥ २४.३८ अथ प्रपञ्चमाक्षेप्तुम् ेतं सपदि गोमुखः अभाषत सुहृद्वर्गम् गोष्ठी प्रस्तूयतामिति ॥ २४.३९ उपनन्दस्ततः पूर्वम् तथा वीणामवादयत् यथा विगतरागाद्यैर् निर्ग्रन्थैरपि मूर्छितम् ॥ २४.४० उपनन्दात्ततो नन्दम् नन्दादपि पुनर्वसुम् पुनर्वसोरगाद्वीणा क्रमात्तं गङ्गरक्षितम् ॥ २४.४१ उपनन्दादिकानां च जितनारदपर्वतम् पराजयत दूरेण पूर्वं पूर्वं परः परः ॥ २४.४२ क्रमप्राप्ता ततो वीणा गोमुखं गङ्गरक्षितात् सरस्वतीव वित्ताढ्याद् ीश्वराद्दुर्गतं गता ॥ २४.४३ गोमुखस्तु ततो वीणाम् वादयत लीलया यथा नागरिकैर्दीनैर् ीक्षितो गङ्गरक्षितः ॥ २४.४४ गोमुखाङ्कात्ततो वीणा याति स्म प्रियदर्शनम् कुलटेव प्रियोत्सङ्गात् कामिनं प्रियदर्शनम् ॥ २४.४५ ततः प्रवादिते तस्मिन् प्रगीते चातिमानुषम् वैलक्ष्याद्गोमुखस्यासीद् भिप्रायः पलायितुम् ॥ २४.४६ किं तु नारदशिष्योऽयम् सुतो वा तुम्बरोरिति यत्सत्यमहमप्यासम् द्भुतश्रुतिविस्मितः ॥ २४.४७ मुक्तवीणे ततस्तत्र शनैर्मां गोमुखोऽब्रवीत् अधुना प्राप्तपर्यायम् वादनं भवतामिति ॥ २४.४८ हसित्वा तमथावोचम् द्यापि हि शिशुर्भवान् यो मां यत्र क्वचित्तुच्छे प्रवर्तयति वस्तुनि ॥ २४.४९ नग्नश्रमणकानां च किराटानां च संनिधौ वीणां वादयमानस्य मादृशः कीदृशं फलम् ॥ २४.५० इति श्रुत्वेदमुक्तोऽहम् नेन कृतमन्युना चम्पायां कीदृशं कार्यम् भवद्भवतामिति ॥ २४.५१ ततस्तमुक्तवानस्मि श्रूयतां यदि न श्रुतम् प्राप्तिर्गन्धर्वदत्तायास्तत्र कार्यमभूदिति ॥ २४.५२ अथायमवदत्तत्र देवीप्राप्तिः फलं यदि इहापि गोमुखप्राप्तिः फलमुत्तममिष्यताम् ॥ २४.५३ युष्मदन्यो न मां कश्चिद् वीणया जितवानिति इदं मे श्रेष्ठमागम्य श्रेष्ठिनापहृतं यशः ॥ २४.५४ सोऽयमस्मद्यशश्चौरो यदि नाशु निगृह्यते त्यजाम्येष ततः प्राणान् दुःखभारातुरानिति ॥ २४.५५ मम त्वासीदसंदिग्धम् सर्वमत्रोपपद्यते मरणाभ्यधिकक्लेशो मानभङ्गो हि मानिनाम् ॥ २४.५६ शास्त्रार्थज्ञानमत्तस्य निगृहीतस्य वादिनः कान्तया च विमुक्तस्य दुःखं केनोपमीयते ॥ २४.५७ तस्मादेतदिह न्याय्यम् िति निश्चित्य सादरम् व्यवस्थापयितुं तन्त्रीर् ारभे दुर्व्यवस्थिताः ॥ २४.५८ ततः पृथुलितैर्नेत्रैः पुलकालिङ्गितत्वचः अन्योन्यस्य निरैक्षन्त वदनानि सदःसदः ॥ २४.५९ तन्त्रीषु करशाखाग्रैः परामृष्टासु ते ततः हा हा किमिदमित्युक्त्वा पुस्तन्यस्ता इवाभवन् ॥ २४.६० अथैतस्यामवस्थायाम् मया वीणा च संहृता तैश्च मुक्तायतोच्छ्वासैर् जीवलोकोऽवलोकितः ॥ २४.६१ हर्षारुणपरामृष्टम् विकसद्विशदप्रभम् अभ्राजत ततः सद्यो गोमुखाननपङ्कजम् ॥ २४.६२ जितगोमुखदर्पस्तु जितोऽपि प्रियदर्शनः जितदुर्जयवादीव प्रीतिमान्मामभाषत ॥ २४.६३ श्रेष्ठी ज्येष्ठेन वीणायाम् जगद्विजयिना जितः इति मे प्रस्थिता कीर्तिर् ापयोधि वसुंधराम् ॥ २४.६४ पूर्णा हि वसुधा शूद्रैर् न च तान् वेद कश्चन राघवोत्कृत्तमूर्ध्नस्तु शम्बूकस्यामलं यशः ॥ २४.६५ किं चाद्यारभ्य युष्मभ्यम् मयात्मैव निवेदितः वीणावादार्थिनं शिष्यम् परिगृह्णीत मामिति ॥ २४.६६ अस्यामेव तु वेलायाम् वोचद्गङ्गरक्षितः अयमेव ममाप्यर्थः सफलीक्रियतामिति ॥ २४.६७ ततस्तौ गोमुखेनोक्तौ भवन्तावागमार्थिनौ अनायासोपदेशौ च यत्तदेवं भवत्विति ॥ २४.६८ स मया शनकैरुक्तः क्षिप्रमेव त्वयानयोः प्रार्थना प्रतिपन्नेति गोमुखेनोदितं ततः ॥ २४.६९ शरीरं काशिराजस्य राज्यमन्तःपुरं पुरम् यच्चान्यदपि तत्सर्वम् गङ्गरक्षितरक्षितम् ॥ २४.७० यस्य च स्वयमेवायम् दास्यामभ्यनुगच्छति तस्यापद्भिरसंकीर्णा हस्तस्थाः सर्वसंपदः ॥ २४.७१ अशेषश्रेणिभर्ता च श्रेष्ठित्वात्प्रियदर्शनः स यस्य किंकरस्तस्य किंकरा सकला पुरी ॥ २४.७२ एतत्फलमभिप्रेत्य मयैताभ्यां प्रतिश्रुतम् न ह्यनालोच्यकर्तारः किंकरा भवतामिति ॥ २४.७३ प्रशंस्य तस्येति मतिप्रहर्षम् नन्दोपनन्दादिसुहृत्समग्रः नमस्कृतार्हद्व्रतचारिसंघः पुनर्वसोर्वेश्म गतस्ततोऽहम् ॥ २४.७४ तत्र नन्दादिभिर्मित्रैर् ाराधनविशारदैः अकृत्रिमसुहृद्भावैः स.गतः सुखमासिषि ॥ २५.१ एकदाहारवेलायाम् दृश्यते स्म न गोमुखः अथ नीतमनाहारैर् स्माभिरपि तद्दिनम् ॥ २५.२ असौ तु सायमागत्य नातिस्वाभाविकाकृतिः तदनाथमतोद्विग्नम् मां विनीतवदुक्तवान् ॥ २५.३ राजमार्गे मया दृष्टः पौरसंघातसंकटे भृत्यो हरिशिखस्यैव लोकेनान्तरितः स च ॥ २५.४ तद्गवेषयमाणेन मयाद्य गमितं दिनम् कार्ये हि गुरुणि व्यग्रम् जिघत्सापि न बाधते ॥ २५.५ स चावश्यं मयान्वेष्यः सुहृद्वार्त्तोपलब्धये तस्मान्मा मामपश्यन्तः कृध्वं दुःखासिकामिति ॥ २५.६ मया चायमनुज्ञातः क्षिप्तसप्ताष्टवासरः मदमन्थरसंचारो बहुजल्पन्नुपागमत् ॥ २५.७ अथैनमहमालोक्य क्रोधक्षोभितमानसः स्थित्वा क्षणमनालापः परुषालापमब्रवम् ॥ २५.८ ईदृशस्तादृशः प्राज्ञः प्रेक्षाकारी च गोमुखः इति पङ्गोस्तुरंगस्य कृता गरुडवेगता ॥ २५.९ पूर्वं ब्राह्मणमाख्याय समस्तायाः पुरः पुरः अधुना मधुना मत्तः कथं पश्यसि मामिति ॥ २५.१० अथ मामयमाह स्म न मदः पारमार्थिकः सदोषं तु वचो वक्तुम् मयायं कृत्रिमः कृतः ॥ २५.११ मत्तस्य किल वाग्दोषाः पारुष्यानृततादयः दूषयन्ति न वक्तारम् तोऽयं कृत्रिमो मदः ॥ २५.१२ ततस्तमुक्तवानस्मि संभावितगुणस्य ते मदप्रच्छादनोपायः किं न्वदोषोऽपि विद्यते ॥ २५.१३ अथानेनोक्तमस्तीति कथमित्युदिते मया अयमारभताख्यातुम् लज्जामन्थरिताक्षरम् ॥ २५.१४ श्रूयतामृषिदत्ता मे यत्र नेत्रपथं गता आरभ्य दिवसात्तस्माच् चेतोविषयतामिति ॥ २५.१५ निरवग्रहतां बुद्ध्वा चित्तस्याथ ममाभवत् कस्मादविषये चक्षुश् चेतसा मे प्रसारितम् ॥ २५.१६ ज्ञातधर्मार्थशास्त्रत्वात् स्थानात्साधुसभासु च रागाधीनं न मे चक्षुः प्रवृत्तं गणिकास्वपि ॥ २५.१७ नूनमेषा परिग्राह्या मम प्रव्रजिता यतः संकल्पेन ममैतस्याम् दुर्दान्ततुरगोऽयतः ॥ २५.१८ तस्मादस्यामनिष्टस्य संकल्पस्य निबन्धनम् जिज्ञास्ये तावदित्येनाम् गच्छं द्रष्टुमन्वहम् ॥ २५.१९ नानाकारैर्विनोदैश्च देशान्तरकथादिभिः द्वित्रैरेव दिनैस्तस्या विश्वासमुदपादयम् ॥ २५.२० एकदा प्रस्तुतालापः पृष्टोऽहमृषिदत्तया के के देशास्त्वया दृष्टाः क्रामता पृथिवीमिति ॥ २५.२१ समृद्धिः सशरीरेव कौशाम्बी यत्र पत्तनम् वत्सदेशः स दृष्टः प्राङ् ममेति कथिते मया ॥ २५.२२ तयोक्तमलमालापैर् परैस्तव दुर्भगैः क्रियतां वत्सकौशाम्बी संबन्धैव पुनः कथा ॥ २५.२३ अथ जानासि कौशाम्ब्याय्म् ाकारजितमन्मथम् गोमुखं नाम निष्णातम् सविद्यासु कलास्विति ॥ २५.२४ अथाचिन्तयमात्मानम् ेतस्यै कथयामि किम् अथ वा धिगधीरं माम् ेवं तावद्भवत्विति ॥ २५.२५ ततोऽहमुक्तवानार्ये जानासीति किमुच्यते आत्मानं को न जानाति स हि मे परमः सुहृत् ॥ २५.२६ अथ वा न विशेषोऽस्ति सूक्ष्मोऽपि मम गोमुखात् तेन मां पश्यता व्यक्तम् दृष्टो भवति गोमुखः ॥ २५.२७ अथासौ लोचनान्तेन बाष्पस्तिमितपक्ष्मणा सानुरागेव दृष्ट्वा माम् चिरं मन्थरमब्रवीत् ॥ २५.२८ गोमुखः किल रूपेण कलाकौशलचारिणा वत्सराजसुतं मुक्त्वा नान्येन सदृशः क्षितौ ॥ २५.२९ यदि चासौ त्वदाकारस्त्वत्कलाजालपेशलः विद्याधरकुमारेण गोमुखः सदृशस्ततः ॥ २५.३० यस्त्वदाकारविज्ञानः सर्वथा पुण्यवानसौ गन्धशैलोऽपि हि श्लाघ्यस्तुल्यमानः सुमेरुणा ॥ २५.३१ इत्युक्त्वा चीवरान्तेन मुखमावृत्य नीचकैः असौ रोदितुमारब्धा सोत्कमस्तनमण्डला ॥ २५.३२ ऋषिदत्तामथावोचम् ार्ये किं कारणं त्वया रुद्यते मृतपत्येव गोमुखश्रवणादिति ॥ २५.३३ तयोक्तं श्रूयतामस्ति विद्वान् राजगृहे वणिक् पद्मो नाम धनं यस्य पद्मस्येव महानिधेः ॥ २५.३४ कुटुम्बाचारचतुरे प्रिये पत्युः पतिव्रते सुमना महदिन्ना च तस्य भार्ये बभूवतुः ॥ २५.३५ तयोरभवतां पुत्रौ मातृनामसनामकौ पुत्राभ्यां दयिते पित्रोस्तथा दुहितरावपि ॥ २५.३६ तत्र या सुमना नाम तस्याः सुमनसः सुता नगर्यां परिणीतात्र श्रेष्ठिना कालियेन सा ॥ २५.३७ दुहिता महदिन्नाया या च मातुः सनामिका चेदिवत्सेशमित्रेण परिणीतर्षभेण सा ॥ २५.३८ ऋषभान्महदिन्नायाम् ुत्पन्नः किल गोमुखः न कुतश्चिन्न कस्यांचित् कश्चिज्जगति यादृशः ॥ २५.३९ अहं तु महदिन्नस्य तनया गुणशालिनः हिमाद्रेरपि नियान्ति सरितः क्षारवारयः ॥ २५.४० साहं बालैव गुरुभिर् गोमुखाय प्रतिश्रुता कं हि नाम न गच्छन्ति कन्यापित्रोर्मनोरथाः ॥ २५.४१ काले क्वचिदतीते तु तं गुणैर्जनवल्लभम् हिमकाल इवासाधुः कालः पद्ममनाशयत् ॥ २५.४२ तत्कुटुम्बं ततस्तेन धारकेन विना कृतम् उन्मूलितदृढस्तम्भ मन्दिरावस्थां गतम् ॥ २५.४३ वाराणस्यां ततः पित्रा स्वसुः सुमनसो गृहे स्थापिताहं पितृष्वस्रा दुहितेव च लालिता ॥ २५.४४ संतताद्यैः क्रमेणाथ ज्वरैः पञ्चभिरप्यहम् पीड्यमाना बभूवान्धा प्रत्याख्याता चिकित्सकैः ॥ २५.४५ अत्र चागाधजैनेन्द्र शास्त्रसागरपारगा असीच्छ्रुतधरा नाम श्रमणा करुणावती ॥ २५.४६ एतं वाचा समानीय मन्त्रागदविशारदा मामसावचिरेणैव तस्माद्व्याधेरमोचयत् ॥ २५.४७ स्वस्थावस्थां च मां दृष्ट्वा सुमना गृहमानयत् अथ क्रोधादिवागृह्णात् सैव ज्वरपरंपरा ॥ २५.४८ ततः श्रुतधारायै माम् र्पयत्सुमनाः पुनः स च यातः पुनर्व्याधिर् मन्त्रागदभयादिव ॥ २५.४९ श्रवणामवदद्दैन्याद् दुर्मनाः सुमनास्ततः प्रव्रज्याग्राहणेनेयम् बालिका जीव्यतामिति ॥ २५.५० तथा चाग्राहयत्सा माम् र्हत्प्रवचनं यथा सकलः श्रमनासंघः सिष्यतामगमन्मम ॥ २५.५१ केवलज्ञानदीपेन दृष्ट्वा संसारफल्गुताम् निर्वाणस्य च सारत्वम् निष्ठां श्रुतधरागमत् ॥ २५.५२ निर्वृत्तायां ततस्तस्याम् संहत्य श्रमणागणः गणनीमकरोदस्मिन् विहारे मामनिच्छतीम् ॥ २५.५३ ध्यानं यद्यत्समापद्य देवतालम्बनं निशि बलादालम्बनं तत्र गोमुखः संनिधीयते ॥ २५.५४ यदा यदा च गोशब्दम् धीयाना वदाम्यहम् मुखोत्तरपदस्तत्र जायते स तदा तदा ॥ २५.५५ जल्पन्ती मुखशब्दं च प्रयुञ्जे यदि केवलम् गोशब्दपूर्वपदताम् बलात्तत्रोपगच्छति ॥ २५.५६ गोमुखेन परामृष्टम् श्लाघनीयं तृणाद्यपि इति चिन्तापराधीना महान्तं कालमक्षिपम् ॥ २५.५७ तावच्च न मया त्यक्ता प्रत्याशा गोमुखाश्रया आगता यावदन्यैव वार्त्ता दत्तनिराशता ॥ २५.५८ चम्पास्थस्य प्रभोर्मूलम् प्रस्थितः सबलः किल गोमुखः ससुहृद्वर्गः पुलिन्दैरन्तरे हतः ॥ २५.५९ यच्चास्मि न मृता सद्यः श्रुत्वा गोमुखवैशसम् विचारणसमर्थायाः प्रज्ञायाः सा समर्थता ॥ २५.६० आसीच्च मम जीवन्ती जीवितस्य महत्फलम् रम्यामाकर्णयिष्यामि गोमुखस्य कथामिति ॥ २५.६१ अपि चापरमप्यस्ति जीवितालम्बनं मम हतः प्रवादमात्रेण गोमुखः शबरैरिति ॥ २५.६२ तेन गोमुखसंबन्धाम् ाकर्ण्य रुदितं मया अमृताभ्यधिकत्वेऽपि दुःखहेतुं कथामिति ॥ २५.६३ मम त्वासीद्यथाहेयम् सर्वं तदुपपद्यते युष्मद्दासाः कथं कुर्युः पापसंकल्पमन्यथा ॥ २५.६४ स्वैरियं गुरुभिर्दत्ता मदीयैरपि यार्थिता कुमारी सानुरागा च तस्मान्न त्यागमर्हति ॥ २५.६५ इत्यादि बहु निर्धार्य तत्स्वीकरणकारणम् अदुष्टं ग्रहणोपायम् हमेतं प्रयुक्तवान् ॥ २५.६६ स्वादुना पिण्डपातेन वन्दनेन चिकित्सया मर्दनाभ्यञ्जनाद्यैश्च लघु संघमतोषयम् ॥ २५.६७ व्यग्रेण चात्र वृत्तान्ते दत्तं वः कृतकोत्तरम् मित्रवार्ताविदाव्यग्रम् प्रतीक्षध्वं न मामिति ॥ २५.६८ ऋषिदत्तामथावोचम् स्वशिल्पे लब्धकौशलाः श्रावकैः संनिधार्यन्ताम् न्नसंस्कारकारकाः ॥ २५.६९ अर्हतामर्हणं कृत्वा गन्धवासस्रगादिभिः ऋषिभ्यः श्रमणाभ्यश्च दातुमिच्छामि भोजनम् ॥ २५.७० मिथ्यादृष्टिसहस्राणि भोजयित्वा यदर्ज्यते तदेकमर्हतं भक्त्या सद्यः पापं प्रमार्ज्यते ॥ २५.७१ तेन सन्तीह यावन्तः प्रियसर्वज्ञशासनाः सश्रावकगणानार्यांस्तांस्तदामन्त्र्यतामिति ॥ २५.७२ सर्वथा साधितः सूदैर् ाहारः स तथा यथा जितजिह्वैरपि प्रीतम् जिनशासनपारगैः ॥ २५.७३ अथाहमृषिदत्तायाः पुरः सकृतकज्वरः पतितस्तुङ्गरोमाञ्चः सवेपथुविजृम्भकः ॥ २५.७४ तादृशी च मया व्यक्ता ज्वरितानुकृतिः कृता दुष्करः परितापोऽपि यथा संभावितस्तया ॥ २५.७५ किमेतदिति चापृच्छत् सा मामुज्ज्वलसंभ्रमा दन्तकूजितसंभिन्नम् मयाप्येतन्निवेदितम् ॥ २५.७६ षड्रात्राभक्षणक्षामो गृहीतो वातहेतुना ज्वरेणानुभवाम्येताम् वस्थामीदृशीमिति ॥ २५.७७ ततः स्वस्वपनावासे श्रमणागणसंकुले मामसौ करुणाविष्टा संवाहितवती चिरम् ॥ २५.७८ अथ संघट्टयन् दन्तान् ुक्तवानस्मि तां शनैः महाजनविविक्तोऽयम् ावासः क्रियतामिति ॥ २५.७९ ऋषिदत्ताकृतानुज्ञास्ताश्च प्रव्रजिता गताः तदभिप्रायजिज्ञासुर् थ तामिदमब्रवम् ॥ २५.८० आर्ये विरुध्यते स्त्रीणाम् पितृभ्रातृसुतैरपि व्रतस्थानां विशेषेण स्थातुं सह रहश्चिरम् ॥ २५.८१ अहं च कितवः पान्थः संभाव्याविनयाक्र्टिः पृथग्जना जनाश्चैते तेन निर्गम्यतामिति ॥ २५.८२ तयोक्तं क्षणमप्येकम् शक्ता स्वस्थमप्यहम् मुक्त्वा त्वां स्थातुमन्यत्र किं पुनः संततज्वरम् ॥ २५.८३ संभावनापि रम्यैव मादृश्यास्त्वादृशा सह श्लाघ्या किंशुकशाखापि वसन्तसहचारिणी ॥ २५.८४ धन्यो ज्वरोऽपि येनेदम् त्वदङ्गमुपयुज्यते कालकूटमपि श्लाघ्यम् लीढशंकरकंधरम् ॥ २५.८५ एवमादि ब्रुवाणैव प्रखलीकृतसाधुना सा महाग्रहचण्डेन गृहीता भावजन्मना ॥ २५.८६ मम त्वासीदियं चिन्ता सत्यमाहुश्चिकित्सकाः सर्वे संक्रामिणो रोगाः स्पृशतां प्राणिनामिति ॥ २५.८७ मदीयः कृत्रिमोऽप्येनम् यत्र संक्रामति ज्वरः कथं नाम न संक्रमेत् तत्र यः परमार्थिकः ॥ २५.८८ तथा हि स्वेदरोमान्च बाष्पकम्पविजृम्भिका ज्वरस्य परिवारोऽयम् ङ्गमस्याः प्रबाधते ॥ २५.८९ सर्वथा स्मरशास्त्रेषु यदिङ्गितमुदाहृतम् लावण्यमिव गात्रेषु तदस्याः प्रास्फुरत्स्फुटम् ॥ २५.९० ततस्तामुक्तवानस्मि धिक्त्वां निष्करुणाशयाम् शीतज्वरार्तमङ्गैर्या न पीडयसि मामिति ॥ २५.९१ अथाश्लिष्यं तथा सा माम् नादृश्यत यथा पृथक् विरलेवारुणालोकम् निशान्तशशिचन्द्रिका ॥ २५.९२ ततस्तावावयोश्चण्डौ तथाश्लेषचिकित्सया अपायातां मुहूर्तेन कृत्रिमाकृत्रिमौ ज्वरौ ॥ २५.९३ यातायामथ यामिन्याम् बुद्ध्वा वृत्तान्तमीदृशम् संघः संहत्य तां स्वस्मान् निवासान्निरवासयत् ॥ २५.९४ अथ प्रवहणारूढाम् ृषिदत्तां मया सह अनयन्मुदितः श्रेष्ठी गृहं मङ्गलसंकुलम् ॥ २५.९५ तत्रावयोः ससुमनाः सुमनाः प्रियदर्शनः प्रीतनागरकानीकम् करग्रहमकारयत् ॥ २५.९६ तदेवमृषिदत्ता वः संवृत्ता परिचारिका अथ वा किं विकल्पेन स्वयमालोक्यतामिति ॥ २५.९७ तथापि कथितं तेन नैव संशयमत्यजम् दुःश्रद्धानं हि सहसा काकतालीयमीदृशम् ॥ २५.९८ मालालंकारवस्त्रादि गृहोपकरणानि च प्रस्थाप्य प्राक्तदार्हाणि तां दिदृक्षुस्ततोऽगमम् ॥ २५.९९ तत्र चासौ मया दृष्टा चित्रांशुकविभूषणा नानापुष्पां हसन्तीव वसन्तोपवनश्रियम् ॥ २५.१०० प्रतिमाः काष्ठमय्योऽपि शोभन्ते भूषितास्तथा लज्जितासुरकन्यासु तादृशीषु तु का कथा ॥ २५.१०१ प्रव्रज्यायां पुनर्यस्याः कान्तिर्यासीदकृत्रिमा दुर्लभाणि क्वचित्तस्या वाचकान्यक्षराण्यपि ॥ २५.१०२ आसीच्च मम दुःश्लिष्टम् कान्तरूपविरूपयोः अलंकारकलापस्य गुरुसारस्य धारणम् ॥ २५.१०३ अलंकारावृता तावत् कान्तरूपस्य चारुता न शक्या सर्वथा द्रष्टुम् जनैर्लोलेक्षणैरपि ॥ २५.१०४ विरूपस्य तु वैरूप्यम् यत्प्रच्छादनमर्हति प्रकाशयति तल्लोके पटुमण्डनडिण्डिमः ॥ २५.१०५ अथाधिष्ठितपर्यङ्कम् ृषिदत्तोपगम्य माम् अवन्दत प्रहृष्टापि प्रव्रज्यात्यागलज्जिता ॥ २५.१०६ ततस्तामुक्तवानस्मि सख्याः किं कार्यमाशिषा सरागैव सती या त्वम् वीतरागगतिं गता ॥ २५.१०७ मोक्षः कारुणिकैरुक्तः सिद्धैर्दुःखक्षयः किल क्षीणदुःसहदुःखत्वान् मोक्षं प्राप्तासि सर्वथा ॥ २५.१०८ सर्वथा सुभगतामहोद्धतः किंकरो भवतु गोमुखस्तव यो,सितो हि जितदृष्टभर्तृकास्तोषयन्ति जननीसखीजनम् ॥ २५.१०९ इत्यादिकुटिलालाप कलापगमितत्रपाम् तामामन्त्र्य स्वमावासम् गच्छं सहगोमुखः ॥ २६.१ एकदा पुनरायातस्तयानुष्ठितस्सत्क्रियः विपणेर्गृहमायातम् पश्यं प्रियदर्शनम् ॥ २६.२ कञ्चुकं मुञ्चतस्तस्य मया दृष्टः पयोधरः पयोधरान्तरालक्ष्यः शशीव परिमण्डलः ॥ २६.३ आसीच्च मम योषैषा यतस्तुङ्गपयोधरा स्तनकेशिवतीत्वं हि प्रथमं स्त्रीत्वलक्षणम् ॥ २६.४ लोकस्तु यदिमां सर्वः प्रतिपन्नः पुमानिति भ्रान्तिज्ञानमिदं तस्य किंचित्सादृश्यकारितम् ॥ २६.५ अथ वा किं विकल्पेन ममातिमिरचक्षुषः न हि दृष्टेन दृष्टार्थे द्रष्टुर्भवति संशयः ॥ २६.६ इत्यादि बहुसंकल्पम् निमेषविलोचनम् अपश्यदृषिदत्ता माम् पश्यन्तं प्रियदर्शनम् ॥ २६.७ अथासौ गद्गदालापा प्रीतिबाष्पावृतेक्षणा आत्मानं चेतयस्वेति प्रियदर्शनमब्रवीत् ॥ २६.८ असावपि तमुद्देशम् प्रकाश्य झगिति त्विषा तडिद्गुण इवाम्भोदम् प्राविशन्मन्दिरोदरम् ॥ २६.९ ऋषिदत्तामथापश्यम् क्रोधविस्फारितेक्षणः ययापक्रमितः श्रेष्ठी मम लोचनगोचरात् ॥ २६.१० उत्थाय च ततः स्थानात् सकामक्रोधगोमुखः पुनर्वसुगृहं प्राप्य पर्यङ्कशरणोऽभवम् ॥ २६.११ ततः क्रमं परित्यज्य कामावस्थापरंपरा तुमुलायुधिसेनेव युगपद्मामबाधत ॥ २६.१२ अथाचिरागतश्रीको यथा बालः पृथग्जनः तथाज्ञापितवानस्मि गोमुखं रूक्षया गिरा ॥ २६.१३ अपि प्रव्रजिताभर्तः प्रिया मे प्रियदर्शना अकृतप्रतिकर्मैव क्षिप्रमानीयतामिति ॥ २६.१४ स तु मामब्रवीत्त्रस्तः का नाम प्रियदर्शना त्याजिताः स्थ यया सद्यश् चेतसः स्थिरतामिति ॥ २६.१५ मयोक्तं तव यः स्यालः पुरुषः प्रियदर्शनः अयमेव जगत्सारः प्रमदा प्रियदर्शना ॥ २६.१६ यच्च वक्ष्यसि सर्वस्याम् वाराणस्यामयं पुमान् भवतः कथमेकस्य प्रमदेति तदुच्यते ॥ २६.१७ ऋषिदत्ता विरक्तेति परिच्छिन्ना पुरा तया अधुना भवतः कान्ता जातेत्यत्र किमुच्यते ॥ २६.१८ गतानुगतिको लोकः प्रवृत्तो हि यथा तथा परमार्थं पुनर्वेद सहस्रैकः पुमानिति ॥ २६.१९ तेनोक्तं जनतासिद्धम् विरुद्धमपि न त्यजेत् क्रियते छगलः श्वापि संहत्य बहुभिर्बलात् ॥ २६.२० तेन युष्मद्विधैः प्राज्ञैर् न वाच्यं सदपीदृशम् अश्रद्धेयं न वक्तव्यम् प्रत्यक्षमपि यद्भवेत् ॥ २६.२१ श्रूयतां च कथा तावद् र्थस्यास्य प्रकाशिका प्रमाणं हि प्रमाणज्ञैः पुराकल्पेऽपि वर्तितम् ॥ २६.२२ बभूव कौशिको नाम वेदवेदाङ्गविद्द्विजः सत्यव्रततया लोके प्रसिद्धः सत्यकौशिकः ॥ २६.२३ कदाचिदभिषेकाय तेन यातेन जाह्नवीम् सशिष्यपरिवारेण तरन्ती प्रेक्षिता शिला ॥ २६.२४ महतासौ प्रयत्नेन शिष्यानन्वशिषत्ततः नायमर्थो महानर्थः प्रकाश्यः पुत्रकैरिति ॥ २६.२५ अथैकश्चपलस्तेषाम् बटुः पिङ्गलनामकः विपणौ मन्त्रयां चक्रे कस्यचिद्वणिजः पुरः ॥ २६.२६ श्रेष्ठि किं न शृणोष्येकम् ाश्चर्यं कथयामि ते तरन्तीं दृष्टवानस्मि सोपाध्यायः शिलामिति ॥ २६.२७ अथान्तःपुरिका दासी किमपि क्रेतुमागता एतदालापमाकर्ण्य राजपत्न्यै न्यवेदयत् ॥ २६.२८ तयापि कथितं रज्ञे स तां पृष्ट्वा परंपराम् बटुनाख्यातमाह्वाय्य पृष्टवान् सत्यकौशिकम् ॥ २६.२९ सत्यं बूहीति नो वाच्यः सत्यवादिव्रतो भवान् मिथ्या ब्रूहीति नो वाच्यः कामी मिथ्याव्रतो हि सः ॥ २६.३० किं तु यत्पिङ्गलेनोक्तम् ेतद्युक्तं परीक्षितुम् प्रमदात्सत्यमप्येते वदन्ति बटवो यतः ॥ २६.३१ सशिष्यैः किल युष्माभिस्तरन्ती प्रेक्षिता शिला किमेतत्सत्यमाहो स्विन् मृषेत्याख्यायतामिति ॥ २६.३२ आसीच्चास्य धिगेतां मे निन्दितां सत्यवादिताम् दुःश्रद्धानमनिष्टं च यन्मया वाच्यमीदृशम् ॥ २६.३३ न सत्यमपि तद्वाच्यम् यदुक्तमसुखावहम् इति सत्यप्रवादोऽयम् न त्याज्यः सत्यवादिभिः ॥ २६.३४ तस्मात्सत्यमिदं त्यक्त्वा मृषावादशताधिकम् असत्यमभिधास्यामि सत्यवादशताधिकम् ॥ २६.३५ अथावोचत्स राजानम् राजन्मिथ्या बटोर्वचः अग्निं पश्यति यः शीतम् प्लवमानां शिलामसौ ॥ २६.३६ कः श्रद्दध्याद्बटोर्वाचम् निसर्गाधीरचेतसः चपलस्योपमानं हि प्रथमं बटुमर्कटाः ॥ २६.३७ विषण्णमिति विश्वास्य राजानं सत्यकौशिकः विरुद्धवादिनं क्रुद्धः पिङ्गलं निरवासयत् ॥ २६.३८ तदेवं लोकविद्विष्टम् नुयुक्तोऽपि भूभृता सत्यं सत्यप्रतिज्ञोऽपि नावदत्सत्यकौशिकः ॥ २६.३९ युष्माकं पुनरज्ञात शीलचारित्रजन्मनाम् विरुद्धमिदमीदृक्कः श्रद्दध्याद्वदतामिति ॥ २६.४० स मयोक्तो भवानेव दुःश्रद्धानस्य भाषिता यस्यास्मिन् प्रमदारत्ने पुमानिति विपर्ययः ॥ २६.४१ किं चानेन प्रलापेन स्त्रीरत्नं प्रियदर्शनाम् अचिरात्स्वीकरिष्यामि क्रोशतां त्वादृशामिति ॥ २६.४२ एवं च मम वृत्तान्तम् विजानन्नपि गोमुखः वैद्यराजं समाहूय वैद्यराजमुपागमत् ॥ २६.४३ स ममालापमाकर्ण्य कायच्छायां विलोक्य च प्रधार्य चापरैर्वैद्यैः शनकैरिदमब्रवीत् ॥ २६.४४ मानसोऽस्य विकारोऽयम् ीप्सितालाभहेतुकः तेनास्मै रुचितं यत्तद् ाशु संपाद्यतामिति ॥ २६.४५ अथ नन्दोपनन्दाभ्याम् संस्कार्याहारमादरात् मां पुनर्वसुहस्तेन गोमुखः प्रागभोजयत् ॥ २६.४६ स चाहारः सुसंस्कारो लोभनोऽप्यमृताशिनाम् त्रिफलाक्वाथवद्द्वेषान् ममाङ्गानि व्यधूनयत् ॥ २६.४७ ततो नन्दोपनन्दाभ्याम् भोज्यमानः क्रमेण तौ सविषादौ करोमि स्म विषादाविव वैरिणौ ॥ २६.४८ तेषु वन्ध्यप्रयत्नेषु गोमुखः प्रियदर्शनम् लज्जामन्दपदन्यासम् नमिताननमानयत् ॥ २६.४९ स मां समानपर्यङ्क मध्यमध्यासितस्ततः ग्रासानग्रासयत्षड्वा सप्त वा गोमुखाज्ञया ॥ २६.५० ये तत्पाणिसरोजसङ्गसुभगा ग्रासा मया स्वादितास्तैः सद्यस्तनुतामनीयत स मे संकल्पजन्मा ज्वरः शैलेन्द्राः शुचिशुक्रभानुदहनप्लुष्टोपलाधित्यका मन्दैरप्युदबिन्दुभिर्नवतरैरुज्झन्ति संतप्तताम् ॥ २६.५१ ततः समापिताहारः सुहृदामेव संनिधौ प्रियदर्शनमालिङ्गम् नङ्गोन्मूलितत्रपः ॥ २७.१ अथ क्रोधारुणमुखो गोमुखः प्रियदर्शनम् पाणावाकृष्य त्वरितः स्वगृहान् प्रतियातवान् ॥ २७.२ स मयोक्तः समायातः क्रोधविस्तीर्णचक्षुषा पाण्डित्यान्धक मित्रारे मा स्म तिष्ठः पुरो मम ॥ २७.३ पिपासोर्मधुशौण्डस्य मधुशुक्तिं हरेत्करात् यस्य यस्तस्य कस्तस्माद् रातिरपरः परः ॥ २७.४ इत्युक्तः स विषादेन त्याजितश्चम्पकाभताम् राहुणेव तुषारांशुर् गमद्धूमधूम्रताम् ॥ २७.५ तं च दीर्घमहःशेषम् ायतां च विभावरीम् प्रवृद्धैर्गमयामि स्म निषादासनचङ्क्रमैः ॥ २७.६ सुहृद्वृन्दवृतः प्रायो द्वेष्याशेषविनोदनः प्रियदर्शनसंप्राप्तेर् ुपायमगवेषयम् ॥ २७.७ एवंप्राये च वृत्तान्ते धवलोष्णीषकञ्चुकौ विस्मितौ चिरमालोक्य स्थविरौ मामवोचताम् ॥ २७.८ किंनिमित्तमपि ब्रह्मन् ब्रह्मदत्तः प्रजेश्वरः भवन्तमिच्छति द्रष्टुम् िष्टं चेद्गम्यतामिति ॥ २७.९ इदमाकर्ण्य यत्सत्यम् ीषदाकुलमानसः गोमुखस्य स्मरामि स्म विचारचतुरं मनः ॥ २७.१० किं गच्छानि न गच्छानि गच्छतः किं भवेदिति वितर्क्य क्षणमासीन्मे संदेहच्छेदनी मतिः ॥ २७.११ यो बन्धव्योऽथ वा वध्यो न स कञ्चुकिदूतकः स हि शृङ्खलनिस्त्रिंश पाणिभिः परिवार्यते ॥ २७.१२ ये च केचिज्जना येषाम् विषये सुखमासते राज्ञामाज्ञामवज्ञाय तेषां जीवन्ति ते कथम् ॥ २७.१३ अमन्दस्पन्दमेतच्च काङ्क्षितामक्षि दक्षिणम् आख्यतीव प्रियाप्राप्तिम् मह्यं तद्गमनं हितम् ॥ २७.१४ निश्चित्येत्यादि निर्गत्य गृहात्प्रवहणं बहिः कञ्चुक्यानीतमद्राक्षम् ारुक्षं चाविशङ्कितः ॥ २७.१५ पौरसंघातसंबाधम् राजमार्गं व्यतीत्य च राजद्वारं व्रजामि स्म चित्रमङ्गलमण्डलम् ॥ २७.१६ गोमुखाख्यापिताभिख्यम् तदध्यास्य क्षणं ततः प्राविक्षं प्रथमां कक्षाम् द्वाःस्थवृन्दाभिनन्दितः ॥ २७.१७ समृद्धिः स्रूयतां तस्याः कृतं वा तत्प्रशंसया को हि वर्णयितुं शक्तो नरो मेरोरधित्यकाम् ॥ २७.१८ तामतिक्रम्य पञ्चान्याः प्रकृष्टतररम्यताः सप्तम्यां दृष्टवानस्मि महास्थानं महीपतेः ॥ २७.१९ श्रुतिस्मृतिपुराणादि ग्रन्थसागरपारगैः धनुर्वेदादितत्त्वज्ञैः कलादक्षैश्च सेवितम् ॥ २७.२० विरुद्धं बिभ्रतं मूर्त्या चन्द्रमःसवितृप्रभाम् सुखसेव्यं दुरीक्षं च तप्तांशुमिव हैमनम् ॥ २७.२१ स्वस्तिकृत्वा ततस्तस्मै जातरूपाङ्गमानसम् अध्यतिष्ठं नृपादिष्टम् निर्विकाराम्बरावृतम् ॥ २७.२२ नृपस्तु मां चिरं दृष्ट्वा स्नेहस्निग्धायतेक्षणः ततस्तारकराजाख्यम् सेनाभृतारमैक्षत ॥ २७.२३ स तु मामभितः स्थित्वा कार्यमात्रस्य वाचकः अवोचद्वचनं चारु विस्पष्टमधुराक्षरम् ॥ २७.२४ आर्यज्येष्ठ मनस्तावद् विक्षिप्तं कुरु क्षणम् राजा मन्मुखसंक्रान्तैर् वाक्यैस्त्वामेष भाषते ॥ २७.२५ येयं भागीरथीशुभ्रा काशिभूपतिसंततिः सा किमाख्यायते तुभ्यम् प्रथिता पृथिवीव या ॥ २७.२६ अस्यामस्य प्रसूतस्य ब्रह्मदत्तस्य भूपतेः ये गुणास्तेऽपि ते बुद्धाः शिशिरांशोरिवांशवः ॥ २७.२७ अस्यासीत्कालियो नाम श्रेष्ठी प्राणप्रियः सुहृत् सफलैर्द्रविणैर्यस्माद् द्रविणेशोऽपि लज्जितः ॥ २७.२८ अन्तर्वत्यामसौ पत्न्याम् नीतः पुण्यैस्त्रिपिष्टपम् अथ सा गृहिणी तस्य काले पुत्रं व्यजायत ॥ २७.२९ तस्मिञ्जाते महाराजः स्वात्मजादपि हर्षदे पुरे सान्तःपुरे रम्यम् महामहमकारयत् ॥ २७.३० स कृताशेषसंस्कारः शिशुर्गच्छन् कुमारताम् अङ्गैर्विद्याकलाभिश्च सकलाभिरलंकृतः ॥ २७.३१ एवंप्राये च वृत्तान्ते द्वाःस्थैर्विज्ञापितो नृपः द्वारे वः कालियः श्रेष्ठी तिष्ठतीति ससंभ्रमैः ॥ २७.३२ ततश्चित्रीयमाणेन स नृपेण प्रवेशितः कस्त्वं कस्य कुतो वेति पृष्टश्चेदमभाषत ॥ २७.३३ देवाहं कालियः श्रेष्ठी देवेन स्वशरीरवत् लालितः पालितश्चासम् शिक्षितश्चाखिलाः कलाः ॥ २७.३४ सोऽहं सुचरितैरङ्गैः सुखाद्युष्मत्प्रसादजात् च्यावयित्वा दिवं नीतो न हि नाशोऽस्ति कर्मणाम् ॥ २७.३५ अथासौ भवतां दासी दुर्मनाः सुमनाः सुताम् जातां पुत्र इति ख्यातिम् नयल्लोभदूषिता ॥ २७.३६ मृषावादेन तेनास्याः सुरलोकादहं च्युतः भार्यया हि कृतं कर्म पत्यावपि विपच्यते ॥ २७.३७ कुले च कुलपुत्रस्य जातो जातिस्मरः पुनः एतमीदृशमाकारम् वहामि जननिन्दितम् ॥ २७.३८ असौ च युवतिर्जाता कान्ताकारा च दारिका कस्मैचिदभिरूपाय वराय प्रतिपाद्यताम् ॥ २७.३९ अहमप्येतमात्मानम् ङ्गवैकल्यनिन्दितम् प्रयागे संन्यसिष्यामि प्रस्थापयत मामिति ॥ २७.४० एवमाद्युक्तवानुक्तो विस्मितेन स भूभृता पूर्वं यदावयोर्वृत्तम् तत्किंचित्स्मर्यतामिति ॥ २७.४१ अनेनापि विहस्योक्तम् यद्यद्देवाय रोचते असंदिग्धं सुविश्रब्धस्तत्तत्पृष्टतु मामिति ॥ २७.४२ अथाध्याय चिरं राज्ञा यद्यत्पृष्टं चिरन्तनम् अशेषं तत्तदेतेन सविशेषं निवेदितम् ॥ २७.४३ अथात्यद्भुतमित्युक्त्वा जातसंप्रत्ययो नृपः आहैनं दारिका कस्मै जामात्रे दीयतामिति ॥ २७.४४ अयं तु परितोषेण स्खलदक्षरमुक्तवान् रोचते यो वरस्तस्यै तस्मै सा दीयतामिति ॥ २७.४५ ततोऽन्तःपुरमानाय्य सा सार्धमृषिदत्तया पृष्टा देवीसमूहेन ह्रिया कूर्माङ्गनाकृतिः ॥ २७.४६ असौ चासौ च जामाता कुलरूपादिभूषणः भवत्यै रोचते नेति मातराख्यायतामिति ॥ २७.४७ अथारुणकरछाय कपोलेक्षणयानया पुण्डरीकमिवावाते मन्थरं चलितं शिरः ॥ २७.४८ अथार्यज्येष्ठ इत्युक्ते प्रसन्नाक्षिकपोलया स्वेदार्द्रांशुकया प्राग्वन् न तद्विचलितं शिरः ॥ २७.४९ तद्भवान् रूचितस्तस्यै नृपाय च यतस्ततः अद्यैव श्रेष्ठिकन्यायाः पाणिमालम्बतामिति ॥ २७.५० ततो मन्दस्पृहेणेव मया अनादरमन्थरम् भीतान्तःपुरदृष्टेन चिरादिदमुदीरितम् ॥ २७.५१ अवन्तेरहमायातः सह भ्रात्रा कनीयसा वेदशास्त्रागमायैव न योषित्प्राप्तिवाञ्छया ॥ २७.५२ किं तु भूभर्तुरादेशो दुर्लङ्घ्यः पुरवासिभिः योगक्षेमार्थिभिर्भव्यैस्तस्मादेवं भवत्विति ॥ २७.५३ एतस्मिन्नन्तरे मन्द्रम् सतालतुमुलध्वनि प्रतिध्वानध्वनद्व्योम प्राध्वनत्तूर्यमण्डलम् ॥ २७.५४ यश्च संवत्सरेणापि दुःसंभारो नृपैः परैः विवाहार्थः स संभारो राज्ञा संभारितः क्षणात् ॥ २७.५५ ततः सान्तःपुरो राजा स सदारसुहृद्गणः राजाजिरे ममोदारम् करग्रहमकारयत् ॥ २७.५६ दत्वा ततः श्रेष्ठिपदं नगर्याम् वित्तं च भूमण्डलमूल्यतुल्यम् समृद्धिमन्वेष्य च कालियस्य प्रास्थापयन्मां मुदितो नरेन्द्रः ॥ २७.५७ आसीच्च मम लोकोक्तिर् ियं मय्येव संप्रति वर्धमानो यथा राजा श्रेष्ठी जात इति स्थिता ॥ २७.५८ अथ नन्दोपनन्दाद्यैः प्रवृद्धप्रीतिविस्मयैः प्रियदर्शनया चास्मि सह क्षिप्तशचीपतिः ॥ २७.५९ अहोरात्रे त्वतिक्रान्ते स गोमुखमपश्यतः महाव्यसनसंकीर्ण िवासीन्मे महोत्सवः ॥ २७.६० आसीच्च मे विलक्षस्य विलक्षं गोमुखं बलात् विदग्धसुहृदां कश्चिद् पि नामानयेदिति ॥ २७.६१ ततः संमानयन्तं तम् ानतान् पुरवासिनः अद्राक्षं भृत्यवर्गं च संचरन्तमितस्ततः ॥ २७.६२ चिन्तितं च मया दिङ्माम् विलक्षकमकारणे बलादानाययाम्येनम् किं दुःखासिकया मम ॥ २७.६३ अथ नन्दोपनन्दाभ्याम् सावानायितो मया आसीनः स्मयमानेन सोपालम्भमिवोदितः ॥ २७.६४ किं गोमुखः सखा यस्य प्राज्ञंमन्यो न विद्यते तस्य साध्यानि कार्याणि न सिध्यन्तीति सोऽब्रवीत् ॥ २७.६५ सर्वप्राणभृतामेव पुराकृतकृतं फलम् न तु तत्कारणैर्योग्यैर् विना सिध्यति कस्यचित् ॥ २७.६६ यदपीदं महत्कार्यम् युष्माभिः किल साधितम् तत्रापि गोमुखस्यैव प्राज्ञंमन्यस्य कौशलम् ॥ २७.६७ प्रभवः प्रभवन्तो हि दोषाभासे मनागपि भृत्यानुद्वेजयन्त्येव तेषां किं क्रियतामिति ॥ २७.६८ किमस्मिन् भवता कार्ये कृतमित्युदिते मया आख्यातुमयमारब्धः श्रूयतां यन्मया कृतम् ॥ २७.६९ अस्त्यहं भर्त्सितः क्रुद्धैर् युष्माभिः स्वगृहं गतः तत्र प्रावृत्य मूर्धानम् पतित्वा शयनो स्थितः ॥ २७.७० ततस्त्रसद्द्रुतगिरा पृष्टोऽहमृषिदत्तया किमेतदिति तस्यैव न मया दत्तमुत्तरम् ॥ २७.७१ सा यदा दृढनिबन्धा पृच्छति स्म पुनः पुनः युष्मद्वृत्तान्तमखिलम् तदा कथितवानहम् ॥ २७.७२ साथ प्रमोदबाष्पार्द्र कपोलापृच्छदादरात् वत्सेश्वरसुतः कश्चिद् ार्यज्येष्ठो भवेदिति ॥ २७.७३ शपथैः प्रतिषिध्यैनाम् त्वद्वृत्तान्तप्रकाशनात् आम सुभ्रू स एवायम् िति तस्यै न्यवेदयम् ॥ २७.७४ अथासौ स्थिरधीरत्वम् गोमुख श्रूयतामिति सासूया सप्रमोदेव मामुक्त्वाकथयत्कथाम् ॥ २७.७५ आसीत्सुमनसः कापि प्रिया विद्याधरी सखी दिव्यज्ञाना मरुद्वेगा नाम्ना च प्रियदर्शना ॥ २७.७६ सा यदृच्छागता चैनाम् प्रसङ्गे क्वचिदब्रवीत् त्वं मामापदि कष्टायाम् वर्तमाना स्मरेरिति ॥ २७.७७ ततः श्रेष्ठिनि कालेन नीते वैवस्वतक्षयम् श्रेष्ठिन्याः कन्यका जाता शोकानलघृताहुतिः ॥ २७.७८ अस्यास्त्वासीदपुत्राया द्रविणस्यातिभूरिणः सारस्यास्यास्मदीयस्य पालकः को भविष्यति ॥ २७.७९ उक्ता चास्मि पुरा सख्या व्यसने मां स्मरेरिति ततश्चिन्तितमात्रैव ददृशे प्रियदर्शना ॥ २७.८० तां चासौ दारिकां दृष्ट्वा प्रकर्षप्रमदस्मिता अवोचत्सखि मा भैषीर् जनयित्वेदृशीं सुताम् ॥ २७.८१ एषा विद्याधरेन्द्रस्य भविष्यति भविष्यतः प्रिया प्रियतमा तस्माज् जृम्भन्तां तूर्यपङ्क्तयः ॥ २७.८२ अथासावोषधीगर्भम् बद्ध्वा तस्याः स्फुरत्करम् कन्याया हाटकं दृष्ट्वा कण्ठे गण्डकमब्रवीत् ॥ २७.८३ प्रभावादोषधेरस्याः स्त्रियमेनां सतीं जनाः द्रक्ष्यन्ति पुरुषं मुक्त्वा भविष्यच्चक्रवर्तिनम् ॥ २७.८४ अमलानन्तपुण्यत्वात् सर्वज्ञाश्चक्रवर्तिनः पश्यन्ति हि यथाभूतम् र्थं दिव्येन चक्षुषा ॥ २७.८५ तेन यः स्त्रियमेवैनाम् द्रष्टा स भवति ध्रुवम् चक्रवर्ती पतिश्चास्याः सर्वविद्याधराधिपः ॥ २७.८६ ओषधिर्या च कण्ठेऽस्याः सा नाम्ना प्रियदर्शना इदमेव च नामास्याः प्रशस्तं क्रियतामिति ॥ २७.८७ तेन योऽयं पुरश्रेष्ठी पुरुषः प्रियदर्शनः विद्याधरेन्द्रयोग्येयम् प्रमदा प्रियदर्शना ॥ २७.८८ किं च वीणासमस्यायाम् यदुक्तं चक्रवर्तिना चिरं सुन्दरि जीवेति तेनैव विदितं मया ॥ २७.८९ न हि शक्तः स्त्रियं द्रष्टुम् ेनामवनिगोचरः यस्तु पश्यति स्म व्यक्तम् चक्रवर्तीत्यभून्मम ॥ २७.९० त्वं च गोमुख एवेति तदैव ज्ञातवत्यहम् सरूपः सवयाश्चान्यो नास्ति यच्चक्रवर्तिनः ॥ २७.९१ रूपं च युवराजस्य तव चानायितं मया कौशाम्बीतः पटे न्यस्तम् तच्च निश्चयकारणम् ॥ २७.९२ इत्यादिभिर्मया चिह्नैर् यमव्यभिचारितः चक्रवर्तीति विज्ञातः पश्चिमं स्तनदर्शनम् ॥ २७.९३ यः पुनर्घटनोपायः कार्यः स भवतानयोः घटने दुर्घटस्यापि चतुरो हि भवानिति ॥ २७.९४ एवमादि ततः श्रुत्वा स्पृहयामि स्म मृत्यवे यस्मान्निश्चितवानस्मि त्रयं मरणकारणम् ॥ २७.९५ मया सत्यं ब्रुवद्भर्ता मिथ्या ब्रूतेति खेदितः अत्र जीवति यस्तस्य मृत एवामृतोपमः ॥ २७.९६ पाण्डित्यान्धसुहृद्वैरि मा स्म तिष्ठ पुरो मम इति यः स्वामिनादिष्टस्तस्य मृत्युमर्होत्सवः ॥ २७.९७ न चास्ति दुर्घटस्यास्य घटने मम कौशलम् तस्मान्मरणमेवास्तु धिक्प्राणान् दुःस्थितानिति ॥ २७.९८ निर्यातश्च पुरीबाह्यम् मरणोपायलिप्सया कस्याप्यदृष्टरूपस्य वाचमश्रौषमम्बरे ॥ २७.९९ विपर्यस्त निवर्तस्व निन्द्यान्मरणनिश्चयात् न हि दुःखक्षयोपायो मृत्युरिष्टः सतामिति ॥ २७.१०० ततः शिथिलितोद्वेगो गिरा खेचरयानया पुरः पुरुषमद्राक्षम् स्कन्धारोपितदारकम् ॥ २७.१०१ असौ च दारकः कुण्ठः खञ्जः कुब्जः पृथूदरः इति संतक्षितः पित्रा कर्कशैर्वचनक्षुरैः ॥ २७.१०२ म्रियस्व धर्षिणीपुत्र प्रेतखादितमातृक न वहामि न पुष्णामि भवन्तं निष्प्रयोजनम् ॥ २७.१०३ एष त्वां गाढमावेष्ट्य ग्रीवां भित्त्वाथवा शिरः मारयिष्यामि तद्गच्छ वैवस्वतपुरीमिति ॥ २७.१०४ ततस्तेन विहस्योक्तम् मा वाक्षीर्मा च मां पुषः एतावता हि ते कार्यम् न मदीयेन मृत्युना ॥ २७.१०५ मयापि किल कर्तव्यम् महत्कार्यं महात्मनाम् तद्भवान्मां सहस्रेण विक्रीनीतां महात्मसु ॥ २७.१०६ सहस्रं यच्च तद्दत्तम् पर्याप्तं जीवनं यतः मा स्म तस्माद्विना कार्यान् मारयन्मां भवानिति ॥ २७.१०७ मम त्वासीन्महात्मानः केऽन्ये युष्मज्जगत्त्रये कुतश्चान्यन्महत्कार्यम् युष्मज्जीवितरक्षणात् ॥ २७.१०८ सहस्रं ते न यत्किंचित् कोट्यापि यदि लभ्यते तुच्छमूल्यस्तथाप्येष तृणमुष्टिसमा हि सा ॥ २७.१०९ तत्तदित्यादि निश्चित्य गृहमानाय्य तं ततः क्रीणामि स्म सहस्रेण चिन्तामणिमिवाश्मना ॥ २७.११० ऋषिदत्तामथावोचम् यावत्स्मरसि किंचन प्रच्छन्नं श्रेष्ठिनो वृत्तम् तावन्मे कथ्यतामिति ॥ २७.१११ कालियेन च राज्ञा च यद्यत्कार्यं रहः कृतम् तत्तत्सुमनसे भर्त्रा कथितं धीरचेतसे ॥ २७.११२ यच्च श्रुतधरा कार्यम् राज्ञः श्रुतवती गुरु तया तदृषिदत्तायै दुष्प्रकाशं प्रकाशितम् ॥ २७.११३ तया तया च तन्मह्यम् कुब्जाय कथितं मया कुब्जेन ब्रह्मदत्ताय शेषं प्रत्यक्षमेव च ॥ २७.११४ तद्युष्मभिर्यदादिष्टम् यदत्र भवता कृतम् तदाचक्ष्वेति कार्यं तद् ेतदत्र मया कृतम् ॥ २७.११५ इत्याद्याकर्ण्य तत्तस्माद् िन्द्रजालाधिकाद्भुतम् प्राशंसं चरितं तस्य प्रशस्या हि गुणाधिकाः ॥ २७.११६ का विद्याधरचक्रवर्तिपदके तुच्छा रतिर्मादृशः सुप्रापं धरणीचरैर्यदपरैः क्रोधादिवश्यैरपि प्रज्ञाधिक्कृतदेवदानवगुरुर्येषां सुहृद्गोमुखः ते यत्पिष्टपसप्तकाप्तिविमुखास्तत्कर्मणां जृम्भितम् ॥ २७.११७ एवं वाराणसीस्तं माम् दारमित्रैरुपासितम् उपातिष्ठन्त काशिक्याः श्रेणयः पण्यपाणयः ॥ २८.१ तांश्च भाषितवानस्मि सर्ववृत्तान्तकोविदः अयमार्यकनिष्ठो वः श्रेणिश्रेस्ठी भवत्विति ॥ २८.२ अथ याते क्वचित्काले सौधे सप्रियदर्शनः सोपाने तारमश्रौषम् हंसानामिव निस्वनम् ॥ २८.३ मम त्वासीन्न हंसानाम् नूपुराणामयं ध्वनिः पदमन्थरसंचारो यच्चाविच्छिन्नसंततिः ॥ २८.४ न चैष कुलनारीणाम् ुपपत्त्या विरुध्यते उत्सवाभ्युदयेष्वेव ता हि बिभ्रति भूषणम् ॥ २८.५ तेनान्तःपुरसंचार वारस्त्रीचरणोचितः किमर्थमपि सोपाने चरत्याभरणध्वनि ॥ २८.६ एवं च विमृशन्नेव ताराभरणशिञ्जिताः चित्रांशुकधरा नारीर् पश्यं रूढयौवनाः ॥ २८.७ तासां कुमुदिका नाम लोकलोचनकौमुदी प्रगल्भापि विनीतेव वन्दित्वा मामभाषत ॥ २८.८ आर्यज्येष्ठं यशोभागिन् भवतो भर्तृदारिका विज्ञापयति वन्दित्वा सादरं राजदारिका ॥ २८.९ मया व्रतकमुद्दिश्य पूजिता देवताद्विजाः वण्टकस्तस्य युष्माभिः सदारैर्गृह्यतामिति ॥ २८.१० अथ मह्यं सुसंस्कारम् सा समुद्रं समुद्गकम् वासःकुसुमगन्धांश्च हारिगन्धानुपासरत् ॥ २८.११ अथोद्वृत्य जगत्सारान् सौ मह्यमदर्शयत् द्विप्रकारानलंकारान् नरनारीजनोचितान् ॥ २८.१२ मयोक्तं द्वयमप्येतद् र्हति प्रियदर्शना प्रेषितं योषिता यत्तद् योषिदेव यतोऽर्हति ॥ २८.१३ इदमाकर्ण्य ताः प्रेक्ष्य विस्मिताः सस्मिताश्च माम् तस्यै दत्त्वा च तद्द्रव्यम् गच्छन् कृतवन्दनाः ॥ २८.१४ यशोभागिन्निति श्रुत्वा तयोक्तं पीडितोऽभवम् अनभ्यस्तं हि यद्येन तेन तद्वस्तु दुःसहम् ॥ २८.१५ ममामन्त्रयते यावान् पुरुषः प्रमदाजनः सर्वोऽसावार्यपुत्रेति मुक्त्वैतां पुरुषामिति ॥ २८.१६ किं चान्यत्कुलकन्यानाम् केयमीदृक्स्वतन्त्रता येयमस्मद्विधैः सार्धम् लोकयात्रा निरङ्कुशैः ॥ २८.१७ किं तु कामयमानापि कामिनि कामिनि प्रिये न धनायत्यपि स्वाङ्गम् किमङ्ग धनमध्रुवम् ॥ २८.१८ तदस्याः को भवेद्भावो मयीत्येतद्वितर्कयन् अन्धकारमुखेनाहम् गोमुखेन इति भाषितः ॥ २८.१९ अर्यपुत्र दुरन्तेयम् ीदृशीभिर्भवादृशाम् लोकयात्रेत्यथावोचम् ेनं परिहसन्निव ॥ २८.२० दुरन्ता वाथ वा स्वन्ता न हीयं प्रस्तुता मया अथ वा संकटात्त्राता ममास्त्येव भवानिति ॥ २८.२१ इति तस्मिन्नहोरात्रे गते कुमुदिकादिकाः आगत्येदमभाषन्त सव्रीडाविनया इव ॥ २८.२२ अर्यपुत्रार्यदुहिता वन्दित्वा राजदारिका अस्मद्दोषे कृतव्रीडा विज्ञापयति साञ्जलिः ॥ २८.२३ क्षमणीयोऽयमस्माकम् ाचारातिक्रमो यतः मुढभृत्यकृता दोषा न ग्राह्याः स्वामिनामिति ॥ २८.२४ मयाप्युक्तं न पश्यामि दोषमाचरितं तया अस्ति चेत्क्षान्त एवासौ तथाप्याख्यायतामिति ॥ २८.२५ ततः कुमुदिकाचष्टे मामपृच्छन्नृपात्मजा आर्यज्येष्ठस्त्वयालापान् भाषितः कीदृशानिति ॥ २८.२६ आर्यज्येष्ठ यशोभागिन्न् ित्यादौ कथिते मया सासूया सविषादेव वेपमानेदमब्रवीत् ॥ २८.२७ अयि वैरिणि भर्तारम् ेवं वदति काङ्गना यथोक्तो मन्दया ज्येष्ठो यशोभागिन्निति त्वया ॥ २८.२८ न च त्वदीयमेवेदम् वचः संभावयत्यसौ परसंदेशहारी हि प्रतीतो गणिकाजनः ॥ २८.२९ यः श्रेष्ठिदुहितुर्भर्ता सोऽस्माकमपि धर्मतः प्रियदर्शनया सार्धम् भिन्नैव हि मे तनुः ॥ २८.३० अर्यपुत्रस्त्वया तस्माद् र्यपुत्रेति भाष्यताम् तथा विज्ञाप्यतां चेदम् यथावज्ञां न मन्यते ॥ २८.३१ अस्मदर्थं मया चेयम् ुच्यतां प्रियदर्शना व्रतकोत्सवमासेव्य सायाह्ने प्रतियास्यति ॥ २८.३२ इति श्रुत्वेदमासीन्मे कोऽन्यः परिभवः परः एतस्माद्यदसावाह भार्या प्रस्थाप्यतामिति ॥ २८.३३ या वधूस्तातपादानाम् मम भार्या च सा कथम् कुटुम्बिजनयोषेव गच्छेत्परगृहानिति ॥ २८.३४ अथ मां गोमुखोऽवोचत् किमस्थाने विशङ्कया नेदं परगृहं देव्यास्तथा विदितमेव वः ॥ २८.३५ मङ्गलं हि विवाहान्तम् स्यास्तत्रैव कारितम् तच्चैतच्च गृहं तस्माद् भिन्नं दृश्यतामिति ॥ २८.३६ ततस्तद्वचनान्न्याय्याद् नुज्ञाता सती मया प्रासादाग्रादवारोहत् समं तु प्रियदर्शना ॥ २८.३७ अथ प्रासादपृष्ठस्थो दान्तैरुज्ज्वलमण्डनैः गोभिः प्रवहणं युक्तम् पश्यं राजवर्त्मनि ॥ २८.३८ राजकञ्चुकिभिर्वृद्धैर् नन्तैर्वेत्रपाणिभिः नारीवर्षवरप्राय जनवृन्दैश्च संवृतम् ॥ २८.३९ तच्च राजकुलाद्दृष्ट्वा गच्छत्प्रवहणं ततः तद्दिनं गमयामि स्म दीर्घबन्धनदुर्गमम् ॥ २८.४० सूर्योऽपि तदहर्मन्ये भग्नाक्षस्यन्दनो भवेत् दैत्योच्छिन्नतुरंगो वा येनास्तं कथमप्यगात् ॥ २८.४१ अथ प्रासादमारुह्य राजमार्गं निरूपयन् तदेव यानमद्राक्षम् दीपिकावलयावृतम् ॥ २८.४२ अवतीर्य च हर्म्याग्राद् दीपिकाचन्द्रिकासखीम् सोपाने दृष्टवानस्मि श्राम्यन्तीं प्रियदर्शनाम् ॥ २८.४३ तामादाय ततः पाणौ मदप्रमदबाधिताम् चिरादारोपयामि स्म हर्म्याग्रशयनान्तिकम् ॥ २८.४४ क्षणं च तत्र विश्रान्ताम् तामालिङ्गमसौ च माम् ततश्चडिति विच्छिन्नम् तत्काञ्चीगुणबन्धनम् ॥ २८.४५ शराटिकुररश्रेणिः पुलिनान्नलिनीमिव शिञ्जाना रशना शय्याम् तन्नितम्बादथापतत् ॥ २८.४६ तां च भिन्नमणिच्छायाच् छत्रच्छादितदीपिकाम् दृष्ट्वा पृष्टा मया तस्याः संप्राप्तिं प्रियदर्शना ॥ २८.४७ बहु श्रोतव्यमत्रास्ति क्रमेण श्रूयतामिति उक्त्वा रुष्टैव तां दृष्ट्वा साचष्ट स्म कथामिमाम् ॥ २८.४८ अस्त्यहं युष्मदादेशाद् गता कन्यावरोधनम् न च तत्र मया दृष्टा मार्गयन्त्या नृपात्मजा ॥ २८.४९ ततः परिजनस्तस्याः प्राह मां राजदारिका गृहोपवनमध्यास्ते तत्र संभाव्यतामिति ॥ २८.५० प्रविश्य च मया दृष्टा तस्मिन्नुद्यानपालिका वसन्तसुमनःकॣप्त मालाभरणधारिणी ॥ २८.५१ सा च पृष्टा मयावोचद् योऽयं संध्यावदारुणः अशोकषण्डस्तत्रास्ते विविक्ते राजदारिका ॥ २८.५२ अनेन चार्यदुहितुर् वक्रेणापि तथा व्रजः योऽयं प्रियङ्गुषण्डस्य याति मध्येन निर्भयः ॥ २८.५३ दूरात्कुरबकानां च [मिस्सिन्ग्तेxत्] काननम् माधवीसहकारानाम् ङ्कोलानां च वर्जय ॥ २८.५४ भ्राम्यन्मधुकरस्तेन सेनासंबाधपादपम् भृङ्गदंशभयात्कस्तम् नाप्रमत्तस्त्यजेदिति ॥ २८.५५ तेन च प्रस्थिताद्राक्षम् कदम्बकुटजानपि मालतीसप्तपर्णाश्च मञ्जरीच्छन्नपल्लवान् ॥ २८.५६ मम त्वासीदहो शक्तिर् दोहदस्य वरीयसी अनृतावपि येनैते जृम्भिताः पादपा इति ॥ २८.५७ साथ पङ्कजिनीकूले हिमवत्कंधराजते शिलापृष्ठे मया दृष्टा सान्द्रचन्दनकर्दमे ॥ २८.५८ समशीतातपेऽप्यस्मिन् वसन्ते शारदीव सा मध्यंदिने ज्वरेणैव खेद्यमाना बलीयसा ॥ २८.५९ संततैस्तालवृन्तैश्च चन्दनापाद्रमारुतैः वीज्यमाना वचोभिश्च सान्त्व्यमानातिकोमलैः ॥ २८.६० अथ तस्या मया गत्वा समीपं वन्दना कृता तयापि क्षिप्तचेतस्त्वान् न किंचिदपि भाषितम् ॥ २८.६१ ततः कुमुदिका तस्याः पादमालम्ब्य निष्ठुरम् प्रतिबुद्धामवोचत्ताम् भगिनी दृश्यतामिति ॥ २८.६२ ततः कुमुदिकाहस्तम् ालम्ब्योत्थाय मां चिरम् आलिङ्गितवती स्वाङ्गैर् ध्वान्ताङ्गाराग्निदुःसहैः ॥ २८.६३ सुखासीनां च मामाह भर्ता ते सुखभागिनि सततं कुशलीत्यादि तथेति च मयोदितम् ॥ २८.६४ पुनराह स ते भर्ता छात्त्रत्वाद्दुर्जनः किल आहाराद्यैर्दुराराधस्त्वया तदिति मे मतिः ॥ २८.६५ प्रीत्या नन्दोपनन्दाभ्याम् येनाहरति साधितम् तेन नैवोपचर्योऽसौ मयेति कथितं मया ॥ २८.६६ पुनरुक्तं तया स्मित्वा नेदं संभाव्यते तयोः राज्यांशो दशमस्ताभ्याम् भिमानात्किलोज्झितः ॥ २८.६७ तौ त्वद्भर्तुरवित्तस्य पान्थस्याज्ञातजन्मनः दासमभ्युपगच्छेताम् कथं नामेति दुर्घटम् ॥ २८.६८ मयोक्तं सर्वमस्त्येतत् किं तु तौ दिव्यचक्षुषौ यदेवादिशतः किंचित् तत्तथैव हि सिध्यति ॥ २८.६९ ज्येष्ठस्य च गुणा ज्येष्ठास्ताभ्यां कस्येति मानुषाः तेनाङ्गीकृतवन्तौ तौ मद्भर्तुर्भृत्यतामिति ॥ २८.७० भगीरथयशाः श्रुत्वा निष्कम्पाक्षी कथामिमाम् तनूरुहविकारेण साश्रुणालिङ्गिता बलात् ॥ २८.७१ एवं च क्षणमासीनाम् ाह मां राजदारिका अङ्गं प्रवहणक्षोभात् खिन्नमभ्यञ्ज्यतामिति ॥ २८.७२ आस्तामास्तामिति मया निच्छन्त्या यावदुच्यते तावद्बलाद्बलातैलम् न्यधात्कुमुदिका मयि ॥ २८.७३ सर्वथाक्षिनिकोचाद्यैर् ुक्त्वा कुमुदिकादिकाः सा मेऽभ्यङ्गापदेशेन विवृत्याङ्गानि पश्यति ॥ २८.७४ एतत्त्वत्करशाखाभिर् लिखितं [मिस्सिन्ग्तेxत्] म्भकम् मदीयमङ्गमालोक्य राजदारिकयोदितम् ॥ २८.७५ अहो सखे सलज्जासि बालिका कुलपालिका ययेह दुःसहा सोढा कोमलाङ्ग्या कदर्थना ॥ २८.७६ अथ वा त्वं पराधीना भर्तैव तव निर्दयः येन प्रबलदर्पेण कृतं वैषम्यमीदृशम् ॥ २८.७७ कोऽन्यो निष्करुणस्तस्मात् त्वं येनोत्पलकोमला दन्तिनेव महान्धेन मथिता पुण्डरीकिणी ॥ २८.७८ मत्संदेशं च वाच्योऽसौ किमस्थाने कृतं त्वया न हि चूडामणिः पादे प्रभवामीति बध्यते ॥ २८.७९ इदं हि कर्कशाः सोढुम् शक्ता राजन्यकन्यकाः छायाकोमलगात्र्यस्तु न हि वानिजदारिकाः ॥ २८.८० इत्यादि बहु जल्पित्वा सा मामुद्वर्तनादिभिः सत्कारैरन्नपानान्तैः संमानितवती चिरम् ॥ २८.८१ तस्याश्च क्षणसंक्षिप्तम् मम संवत्सरायतम् युष्मत्कथाप्रसङ्गेन सार्कं गतमिदं दिनम् ॥ २८.८२ अथाचलनितम्बाभात् स्वनितम्बाद्विमुच्य सा आमुचन्मेखलामेनाम् मन्नितम्बे लघीयसि ॥ २८.८३ बहुर्विस्रंसमानायाम् ग्रन्थिरस्यां तया कृतः स्वहस्तविलतैर्यत्नान् मृणालीतन्तुसूत्रकैः ॥ २८.८४ ततः प्रस्थापितवती मामित्यादि विधाय सा मेखला स्खलिता चेयम् छित्त्वा तत्तन्तुबन्धनम् ॥ २८.८५ इति तस्यास्तया चित्रे प्रपञ्चेऽस्मिन्निवेदिते संकल्पजन्मनामृष्टः संकल्पयितुमारभे ॥ २८.८६ तया यद्गुरु संदिष्टम् ुपलब्धं च यत्तया एतदेव सुपर्याप्तम् नुरागस्य लक्षणम् ॥ २८.८७ यत्पुनर्मेखला बद्धा निःसरैर्बिसतन्तुभिः सत्स्वप्यन्येषु सूत्रेषु तत्रेदं चिन्तितं तया ॥ २८.८८ निर्दयालिङ्गनक्षोभाद् िदं विच्छेदमेष्यति अथेयं मेखला स्रस्ता शय्यायां निपतिष्यति ॥ २८.८९ लम्बां चेमामसौ दृष्ट्वा मन्नितम्बविशालताम् अनया [मिस्सिन्ग्तेxत्] प्रीतिम् ाधास्यत्यपि कामिति ॥ २८.९० एकैकतोऽपि वृत्तान्त ुपपन्ने तया कृते मया तु ज्ञातकार्यत्वाद् ुत्प्रेक्षेयमुपेक्षिता ॥ २८.९१ अथाहमब्रवं श्यामा भगीरथयशाः स्फुटम् कथं वेत्थेति सापृच्छद् थेत्थमहमुक्तवान् ॥ २८.९२ गौराणामसिताभासम् सितानां सिताधिकम् श्यामानां मण्डनं तज्ज्ञैस्चित्रवर्णं तु वर्णितम् ॥ २८.९३ पारिजातस्रगाभाभा यदियं मेखला ततः बाला दूर्वादलश्यामा नियतं राजदारिका ॥ २८.९४ किं च नान्या ततः काचिद् दर्शनीयतमा यतः दर्शनीयतमा श्यामा नारीणामिति दर्शनम् ॥ २८.९५ तयोक्तं धिग्धिगस्त्वेषाम् रत्नलक्षणकारिणाम् जनः प्रच्छादनीयोऽपि ख्यापितो यैः शठैरपि ॥ २८.९६ इत्याद्या कथया तस्याः क्षपायाः प्रहरद्वयम् प्राप्त्युपायविचारेण तृतीयः प्रेरितो मया ॥ २८.९७ मम त्वसीदियं चिन्ता किं ममोपायचिन्तया देवतास्तत्करिष्यन्ति येन शान्तिर्भविष्यति ॥ २८.९८ वेगवत्यादिकाप्राप्ताव् ुपायः कः कृतो मया यथा ताः प्राप्तवानस्मि तथा राजसुतामिति ॥ २८.९९ अथ मामेकदागत्य सायं कुमुदिकावदत् भगीरथयशा युष्मान् वन्दित्वा याचते यथा ॥ २८.१०० ये मयारोपिताश्चूता माधवीचम्पकादयः ते जाता मञ्जरीभार भरभङ्गुरपल्लवाः ॥ २८.१०१ अतः श्वस्तत्र गत्वाहम् माधवीसहकारयोः कर्त्री विवाहसंस्कारम् परेषां च पूजनम् ॥ २८.१०२ तेन युष्मद्गृहद्वाराद् गृहीत्वा प्रियदर्शनाम् प्रातरेव प्रायातास्मि तदेषा मुच्यतामिति ॥ २८.१०३ अथ तस्यै प्रतिज्ञाय गच्छत्वेवं भवत्विति द्रष्टव्या राजपुत्रीति खिद्यमानोऽनयं निशाम् ॥ २८.१०४ प्रातः कुमुदिकागत्य भाषते स्म ससंभ्रमा भगीरथयशाः प्राप्ता गच्छत्वर्यसुतेति माम् ॥ २८.१०५ अथ तां दृष्टवानस्मि प्रस्थाप्य प्रियदर्शनाम् प्रासादाग्रस्थितो द्वाःस्थ स्वच्छप्रवहणास्थिताम् ॥ २८.१०६ आस्तां च मम तां दृष्ट्वा क्षणं मानसचक्षुषी सुषुप्तावस्थितस्येव नष्टसंकल्पदर्शने ॥ २८.१०७ सर्वथा पुण्यवन्तस्ते सुरासुरनरोरगाः असावकालमृत्युर्यैर् नारीरूपो न वीक्षितः ॥ २८.१०८ तया चाननमुन्नम्य हृष्टः संदृष्टवानहम् सहस्राक्षं स्वमात्मानम् तच्चक्षुष्कादिकोज्ज्वलम् ॥ २८.१०९ मां च मद्दयितां नासौ संमानितवती समम् मयि दृष्टमदात्तस्याम् गाढ [मिस्सिन्ग्तेxत्] ठग्रहार्हणाम् ॥ २८.११० अथ स्वयानमारोप्य सा प्रियां प्रियदर्शनाम् कञ्चुक्यादिचमूगुप्ता नगरोपवनं गता ॥ २८.१११ अहं तु तद्दिनं नीत्वा कृच्छ्रान्मन्दिरनिष्कुटे हर्म्यमूर्धानमारोहम् राजपुत्रीदिदृक्षया ॥ २८.११२ अथ प्रवहणेनासौ नभस्वत्पटुरंहसा मद्गृहद्वारमागच्छद् दूरादुन्नमितानना ॥ २८.११३ सा च मां तत्र पश्यन्ती संततं प्रियदर्शनाम् गाढं निष्पीडयन्ती च चिरमङ्गं न्यपीडयत् ॥ २८.११४ वन्दनाच्छद्मना पश्चान् माय्यात्मानं निधाय सा चेतोविनिमयं कृत्वा प्रवृत्ता शिबिकामिति ॥ २८.११५ आराधयामि नृपसूनुकृते नु गौरीम् किं खानयामि चतुरैस्त्वरितं सुरुङ्गाम् इत्याद्युपायशतचिन्तनतान्तचेताः कृच्छ्रान्निशामनयमप्रतिलब्धनिद्रः ॥ २८.११६