श्रियः पति श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि । वसन् ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ १.०१ ॥ गतं तिरश्चीनमनूरुसारधेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । पतत्यधो धाम विसारि सर्वतः किमेदतित्याकुलमीक्षितं जनैः ॥ १.०२ ॥ चयस्तविषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् । विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ १.०३ ॥ नवानधोऽधो बृहतः पयोधरान् समूढकर्पूरपरागपाण्डुरम् । क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्घुना ॥ १.०४ ॥ दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्र मरीचिरोचिषम् । विपाकस्तुङ्गास्तुहिनस्थलीरुहो धरादरेन्द्रं व्रततीततीरिव ॥ १.०५ ॥ पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्नद्युति । सुवर्मसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ॥ १.०६ ॥ विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितत्नुभिः । कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तटितां गणैरिव ॥ १.०७ ॥ निसर्गचित्रोज्वलसूक्ष्मपक्ष्मणा लसद्बिसच्छेदसिताङ्गसङ्गिना । चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥ १.०८ ॥ अजस्रमास्फालितवल्लकीगुणक्षतोज्वलाङ्गुष्ठनखांशुभिन्नया । पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया ॥ १.०९ ॥ रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः । स्फुटीभवद्ग्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः ॥ १.१० ॥ निवर्त्य सोऽनुव्रजतः कृतानतीनतीन्द्रयज्ञाननिधिर्नभः सदः । समासदत्सादितदैत्यसंपदः पदं महेन्द्रलायचारु चक्रिणः ॥ १.११ ॥ पतत्पतङ्गप्रतिमस्तपोनिधिः पुरोऽस्य यावन्न भुवि व्लीयत । गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुतिष्ठदच्युतः ॥ १.१२ ॥ अथ प्रयत्नोन्नमितानत्फणैर्धृते कथञ्चित्फणिनां गणैरधः । न्यधायिषातामभि देवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥ १.१३ ॥ तमर्घ्यमर्घ्यादिकयादिपुरुषः सपर्यया साधु स पर्यपूजयत् । गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥ १.१४ ॥ न यावदेतावुदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्वताविव । स्वहस्तदत्ते मुनिमासने मुनिश्चिरंस्तावदभिन्यवीविशत् ॥ १.१५ ॥ महामहानीलशिलारुचः पुरो निषेदिवान् कंसकृषः स विष्टरे । श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसोऽभिरामताम् ॥ १.१६ ॥ विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः । ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः ॥ १.१७ ॥ अशेषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषीणाभ्युदीरिताः । अघौघविध्वंसविधौ पटीयसीर्नतेन मूर्द्ना हरिरग्रहीदापः ॥ १.१८ ॥ स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदशयामवपुर्न्यविक्षत । जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनम् ॥ १.१९ ॥ स तप्ताकार्तस्वरभास्वराम्बरः कठोरधाराधिपलाञ्छनच्छविः । विदिद्युते बाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥ १.२० ॥ रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे । चलत्पलाशान्तरगोचरस्तरोतुषारमूर्तेरिव नक्तमंशवः ॥ १.२१ ॥ प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः । परम्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः ॥ १.२२ ॥ युगान्तकालमतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनभ्यागमसंभवा मुदः ॥ १.२३ ॥ निदाधधामानमिवाधिदीधितिं मुदाविकासं मुनिमभ्युपेयुषी । विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डराकाक्ष इति स्फुटाभवत् ॥ १.२४ ॥ सितंसितिम्ना सुतरां मुनेर्वपुः विसारिभिः सौधमिवाथ लम्भयन् । द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥ १.२५ ॥ हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितै कृतर्ं शुभै । शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥ १.२६ ॥ जगत्पर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना । प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुन्नमनुत्तमं तमः ॥ १.२७ ॥ कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेनिराकुलात्मना । सदोपयोगेऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसंपदामिव ॥ १.२८ ॥ विलोकनेनैव तवामुना मुने कृतः कृतार्थोस्मि निबर्हितांहसा । तथापिशुश्रूषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन वा तृप्यते ॥ १.२९ ॥ गतस्पृहोऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया । तनोति नस्तामुदित्मगौरवो गुरुस्तवैवागम एव धृष्यताम् ॥ १.३० ॥ इतिब्रुवन्तमुवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया । त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरु योगिनामपि ॥ १.३१ ॥ उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमम् । उपेयुषोमोक्षपथं मनस्विनस्त्वमग्रमूर्तिर्निरपायसंश्रया ॥ १.३२ ॥ उदासितारं निग्रहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन । बहिर्विकरं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥ १.३३ ॥ निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः । जगतैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसुभूतलम् ॥ १.३४ ॥ अनन्यगुर्वास्तव केन केवलः पुराणमूर्तेमहिमावगम्यते । मनुष्यजन्मापि सुरासुरान्गुणैर्भवान्भवच्छेदकरै करोत्यधः ॥ १.३५ ॥ लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः । उदूढलोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥ १.३६ ॥ निजोजसोज्जासयितुं जगद्रहामुपजिहीथा न महीतले यदि । समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश मादृशाम् ॥ १.३७ ॥ उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे । ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं तमः ॥ १.३८ ॥ करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम् । हरे हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥ १.३९ ॥ प्रवृत्त एव स्वयमुज्झिश्रमः क्रमेण पेष्टुं भुवनद्वषामसि । तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥ १.४० ॥ तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते । समस्तकार्येषु गतेन धुर्यतामहिद्विषस्तद्भवता निशम्यताम् ॥ १.४१ ॥ अभूदभूमि प्रतिपक्षजन्मनां भियां तनूजस्पनद्युतिर्दितेः । यमिन्द्रशब्दार्थनिषूदनं हरेर्हरण्यपूर्वं कशिपुं प्रचक्षते ॥ १.४२ ॥ समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयतां । भयस्यपूर्वावतरस्तरस्विना मनस्तु येन द्युसदां न्यधीयत ॥ १.४३ ॥ दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागाहृताः सिषेविरे । अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ॥ १.४४ ॥ पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्चकञ्चुकाः । स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे ॥ १.४५ ॥ स संचरिष्णु भुवनान्तरेषु यां यदृच्छयाशिश्रियादाश्रयः श्रियः । अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥ १.४६ ॥ सटाच्छटभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया । स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्किरे नखैः ॥ १.४७ ॥ विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशै समं पुनः । स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥ १.४८ ॥ प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागाद्दशमं चिकर्तिषुः । अतर्कयद्विघ्नमिवेष्टसाधसः प्रसादमिच्छासद्दृशं पिनाकिनः ॥ १.४९ ॥ समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः । त्रसत्तुषाराद्रिसुताससंभ्रमस्वयङ्ग्रहाश्लेषसुखेन निष्क्रयम् ॥ १.५० ॥ पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ॥ १.५१ ॥ सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैश्रवसः पदक्रमम् । अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥ १.५२ ॥ अशुक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् । प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ॥ १.५३ ॥ बृहच्छलानिष्ठुरकण्ठघट्टनाविकीर्णलोलाग्निकणं सुरद्विषः । जगत्प्रभोरप्रसिहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धरं ॥ १.५४ ॥ बिभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः । निरस्तघांभीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः ॥ १.५५ ॥ रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः । प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे ॥ १.५६ ॥ परेभर्तुर्महिषोऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः । हृतेऽपिभारे महतस्त्रपाभरादुवाह दुःखेन भृशानृतं शिरः ॥ १.५७ ॥ सृपशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः । अघघर्मोदकबिन्दुमौक्तिकैरलञ्चकारास्य वधूरहस्करः ॥ १.५८ ॥ कलासमग्रेणगृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा । विसासिनस्तस्य वितन्वतारतिं न नर्मसाचिव्यमकारिनेन्दुना ॥ १.५९ ॥ विदग्धलीलोचितदन्तपत्रिकाविधित्सया नूनमनेन मानिना । न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति ॥ १.६० ॥ निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः । प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः ॥ १.६१ ॥ तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसां । बभार बाष्पैर्द्वगुणीकृतं तनुतनूनपाद्धूममवितानमाधिजैः ॥ १.६२ ॥ परस्यमर्मविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः । तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता ॥ १.६३ ॥ तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः । गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यमलम्बि दिग्गजैः ॥ १.६४ ॥ अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रवन्दीश्वसितानिलैर्यथा । सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्वबौ ॥ १.६५ ॥ तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च । प्रसूनकॢप्तिं दधतः सदर्तवः पुरोस्य वास्तव्यकुटुम्बितां ययौ ॥ १.६६ ॥ अमानवं जातमजं कुले मनोः प्रभाविनं भाविन्नमन्तमात्मनः । मुमोच जानन्नपि जानकीं न यः सदभिमानैकधना हि मानिनः ॥ १.६७ ॥ स्मरत्यदो दाशरथिर्भवानमुं वनान्ताद्वनितापहारिणम् । पयोधिमाबद्धचलज्जलाबिलं विलङ्घ्यलङ्गां निकषा हनिष्यति ॥ १.६८ ॥ अतोपपत्तिं छलनापरोऽपरामवाप्य शैलूष इवैष भूमिकां । तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति साप्यसः परैः ॥ १.६९ ॥ स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः । युवाकराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः ॥ १.७० ॥ स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया । दशाननादीनभिराद्धदैवतावितीर्णवीर्यातिशयान् हसत्यसौ ॥ १.७१ ॥ बलावलेपादधुनापिपूर्ववप्रबाद्ध्यते तेन जगज्जिगीषुणा । सतीव योषित्प्रकृतिः सुनिश्चला पुमांसंमब्येति भवान्तरेष्वपि ॥ १.७२ ॥ तदेनमुल्लङ्घितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिम् । शुभेतराचारविपक्त्रिमापदो विपादनीया हि सतामसाधवः ॥ १.७३ ॥ हृदयमविरोधोदयददूढद्रढिम दधातु पुनः पुरन्दरस्य । घनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम् ॥ १.७४ ॥ ओमित्युक्तवतोऽथ शाङ्गिणा इति व्याहृत्य वाचं नभस्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति । शत्रुणामनिश विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति व्योम्नि भ्रकुटिच्छलेन वदने केतुशचकारास्पदम् ॥ १.७५ ॥ _____________________________________________________________ यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् । अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥ २.१ ॥ सार्थमुध्धवसीरिभ्यामथासावसदत्सदः गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् ॥ २.२ ॥ जाज्वल्यमाना जगतः शान्तये समुपेयुषी व्यद्योतिष्टसभावेद्यामसौ नरशिखित्रयी ॥ २.३ ॥ रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे । एकाकिनोऽपि परितः पौरुषेयवृता इव ॥ २.४ ॥ अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी । तैरूहे केशारिक्रान्तत्रिकूटशिखिरोपमा ॥ २.५ ॥ गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः । हरिविप्रतिषेधं तममाचचक्षे विचक्षणः ॥ २.६ ॥ द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः । स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥ २.७ ॥ भवद्गिरामवसरप्रदानाय वचांसि नः । पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ॥ २.८ ॥ करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् । विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः ॥ २.९ ॥ उत्तिष्ठमानस्तु परो नोपेक्ष्यः पत्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ २.१० ॥ न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति । यत्तु दह्यन्ते लोकमदो दुःखाकरोतिमाम् ॥ २.११ ॥ मम तावन्मतमिदं श्रूयतामङ्ग वामपि । ज्ञातसारोऽपि खल्वेकः संदिग्धे कार्यवस्तुनि ॥ २.१२ ॥ यावदर्थपदां वाचमेवमादाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ २.१३ ॥ ततः सपत्नापनयस्मरणानुशयस्फुरा । ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना ॥ २.१४ ॥ विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृतां । प्रापयन्पवनव्याधेर्गिरमुत्तरपक्षताम् ॥ २.१५ ॥ घूर्णयन्मदिरास्वादमदपाटलितद्युती । रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥ २.१६ ॥ आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीं । म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥ २.१७ ॥ दधत्संन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः । द्वषद्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ॥ २.१८ ॥ प्रोल्लसत्कुणडलप्रोतपद्मरागदलत्विषा । कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीम् ॥ २.१९ ॥ ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया । मुखमोदं मदिरया कृतानुव्याधमुद्वमन् ॥ २.२० ॥ जगादवदनछद्मपद्मपर्यन्तपातिनः । नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ॥ २.२१ ॥ यद्वासुदेवेनादीनमनादीनवमीरितम् । वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ॥ २.२२ ॥ नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते । इन्धनौघधगप्यग्नित्विषा नात्येति पूषणम् ॥ २.२३ ॥ संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः । सुविस्तरतरा वाचो भूष्यभूता भवन्तु मो ॥ २.२४ ॥ विरोधिवचसो मूकान्वगीशानपि कुर्वते । जडानप्यनुलोमार्थान्प्रवाचः कृतिनां गिरः ॥ २.२५ ॥ षड्गुणाः शक्तयस्तिस्रः सिद्धयोदयास्त्रयः । ग्रन्धानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम् ॥ २.२६ ॥ अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा । निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥ २.२७ ॥ सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्दपञ्चकम् । सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥ २.२८ ॥ मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि । चिरं न स्थातुं परेभ्यो भेदशङ्कया ॥ २.२९ ॥ आत्मोदयः परज्यानिर्द्वयं नीतिरितीयति । तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ २.३० ॥ तृप्तियोगः परेणापिमहिम्ना न महात्मनाम् । पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टानतोऽत्र महार्णवः ॥ २.३१ ॥ संपदासुस्थिरंमन्यो भवति स्वल्पयापि यः । कृतकृत्यो विधिर्मन्ये न वर्धयन्ति तस्य ताम् ॥ २.३२ ॥ शमूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः । प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ २.३३ ॥ विपक्षममखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ २.३४ ॥ ध्रियतेयावदेकोऽपि रिपुस्तावत्कुतः सुखम् । पुरः क्लश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम् ॥ २.३५ ॥ सखागरीयान् शत्रुश्छकृत्रिमस्तौ हि कार्यतः । स्याताममित्रौ मित्रेच सहजप्रकृतावपि ॥ २.३६ ॥ उपकर्त्ररिणा संधिर्न मित्रेणापकारिणा । उपकारापकारौ हि लक्ष्यं लक्षममेतयोः ॥ २.३७ ॥ त्वयाविप्रकृतश्चैद्यो रुक्मिणीं हरताहरे । बद्धमूलस्यमूलं हि महद्वैरतरोः स्त्रियः ॥ २.३८ ॥ त्वयि भौमं गते जेतुमरौत्सीत्स पुरीमिमाम् । प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥ २.३९ ॥ आलाप्यालमिदं बभ्रोयत्स दारानपाहरत् । कथापि खलु पापानामलमश्रेयसे यतः ॥ २.४० ॥ विराद्ध एवं भमता विराद्धा बहुधा च नः । निर्वत्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः ॥ २.४१ ॥ विधायवैरं सामर्षेनरेऽरौ यः उदासते । प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम् ॥ २.४२ ॥ मनागनभ्यवृत्या वा कामं क्षाम्यततु यः क्षमी । क्रयासमभिहारेण विराद्यन्तं क्षमेत कः ॥ २.४३ ॥ अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ २.४४ ॥ माजीवन्यः परावज्ञादुखदग्धोऽपि जीवति । तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥ २.४५ ॥ पदाहतं यदुत्थाय मूर्धानमधिरोहति । स्वस्थादेववपमानेऽपि देहिनस्तद्वरं रजः ॥ २.४६ ॥ असंपादयतः कञ्चिदर्थं जातिक्रियागुणैः । यदृच्छशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥ २.४७ ॥ तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावागाधता । अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥ २.४८ ॥ तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् । हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् ॥ २.४९ ॥ स्वयं प्रणतेऽल्पेऽपि परवायावुपेयुषी । निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥ २.५० ॥ तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते । पञ्चम पञ्चपसस्तपनो जातवेदसाम् ॥ २.५१ ॥ अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्वषाम् । कथङ्कारमनालम्बा कीर्तिद्यामधिरोहति ॥ २.५२ ॥ अङ्गाधिरोपितश्चन्द्रमा मृगलाञ्छनः । केशरी निष्ठुराक्षिप्तमृगयूथो मृगाधिपः ॥ २.५३ ॥ चतुर्थोपायसाध्येतु रिपौ सान्त्वमपक्रिया । स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥ २.५४ ॥ सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः । प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ २.५५ ॥ गुणानामायथातथ्यादर्थं विप्लावयन्ति ये । अमात्यव्यञ्जनाराज्ञां दूष्यास्ते शत्रुसंज्ञिताः ॥ २.५६ ॥ स्वशक्त्युपचये केचित्परस्य व्यसनेऽपरे । यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ॥ २.५७ ॥ लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः । यादवाम्भोनिधीन्रुन्धे वेलेव भवतः क्षमा ॥ २.५८ ॥ विजयस्वयि सेनायाः साक्षिमात्रेऽपादिश्यताम् । फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥ २.५९ ॥ हृतेहिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि । चिरस्य मित्त्रव्यसनि सुदमो दमघोषजः ॥ २.६० ॥ नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये । विधुर्विधुन्तस्येव पूर्णस्तस्योत्सवाय सः ॥ २.६१ ॥ अन्यदुच्छृङ्घलं सत्वमन्यत्छ्छास्त्रनियन्त्रितं । सामानाधिकरण्यं हि तेजस्तमिरयोः कुतः ॥ २.६२ ॥ इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः । आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ॥ २.६३ ॥ निरुद्धवीवधासारप्रसारा गा इव व्रजम् । उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥ २.६४ ॥ यजतां पाण्डवः स्वर्गमवत्विन्द्रस्पस्विनः । वयं हनाम द्विषतः सर्वः स्वार्थं समीहते ॥ २.६५ ॥ प्राप्यतां विद्युतां संपद्संपर्कादर्करोचिषाम् । शस्त्रैद्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः ॥ २.६६ ॥ इतिसंरम्भिणो वाणीर्बलस्यालेख्यदेवताः । सभाभित्तिप्रतिध्वनैर्भयादन्ववदन्निव ॥ २.६७ ॥ निशम्य ताः शेषगवीरमभिधातुमधोक्षजः । शिष्याय बृहतां प्रत्युः प्रस्तावमदिशद्दृशा ॥ २.६८ ॥ भारतीमाहितभरामथानुद्धतमुद्धवः । तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजम् ॥ २.६९ ॥ संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना । निर्धारितेर्ऽथे लेखेनखलूक्त्वा खलुवाचिकम् ॥ २.७० ॥ तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् । तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः ॥ २.७१ ॥ वर्णै कतिपयैरेव ग्रथितस्य स्वरैरिव । अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥ २.७२ ॥ बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते । अनुज्झितर्थसंबन्धः प्रबन्धो दुरुदाहरः ॥ २.७३ ॥ म्रदीयसीमपि घनामनल्पगुणकल्पिताम् । प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ॥ २.७४ ॥ विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते पुरः । हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥ २.७५ ॥ पज्ञोत्साहवतः स्वामी यतेताधातुमात्मनि । तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥ २.७६ ॥ सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये । तत्रानिशं निषम्ण्णास्ते जानते जातु न श्रमंम् ॥ २.७७ ॥ स्पृशन्ति शरवत्तीक्ष्णस्तोकमन्तर्विशन्ति च । बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् ॥ २.७८ ॥ आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च । महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ २.७९ ॥ उपायमस्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः । हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ॥ २.८० ॥ उदेतुमत्यजन्नीहां राजसु द्वदशस्वपि । जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ २.८१ ॥ बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चुकः । चारेक्षणो दूतमुखः पपुरुषः कोऽपि पार्थिवः ॥ २.८२ ॥ तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः । नैकमोजः प्रसादो वा रसभावविदः कवेः ॥ २.८३ ॥ कृतापचारोऽपि परैरनाविष्कृतविक्रियः । असाध्यः कुरुते वा रसभावविदः कवेः ॥ २.८४ ॥ मृदुव्यवहितं तेजो भोक्तमर्थान्प्रकल्पते । प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया ॥ २.८५ ॥ नालम्बते नैष्ठिकतां न निषीदति पौरुषे । शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते ॥ २.८६ ॥ स्थायिनोर्ऽथे प्रवर्तन्ते भावाः संचारिणो यथा । रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥ २.८७ ॥ तन्त्रवापविदा योगैर्मण्डलान्यधिष्ठिता । सुनिग्रहानरेन्द्रेण फणीन्द्रा इव शत्रवः ॥ २.८८ ॥ करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रतीयसीम् । प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥ २.८९ ॥ अल्पत्वात्प्रबलत्वाद्वंशस्येवेतरे स्वराः । विजीगीषोनृपतयः प्रयान्ति परिवारतां ॥ २.९० ॥ अप्यनारभमाणस्य विभोरुत्पादिताः परैः । व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥ २.९१ ॥ यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः । एकार्थतन्तुप्रोतायां नायको नायकायते ॥ २.९२ ॥ षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनं । भवन्त्यस्येवमङ्गानि स्थास्नूनि बलवन्ति च ॥ २.९३ ॥ स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनां । अयथाबलमारम्भो निदानं क्षयसंपदः ॥ २.९४ ॥ तदीशितारं चेदिनां भवांस्तमवमंस्त मा । निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ॥ २.९५ ॥ मा वेदि यदसावेको जेतव्यश्चेदिराडिति । राजयक्ष्मेव रोगाणां समूह स महीभृतां ॥ २.९६ ॥ संपादितफलस्तेन सपक्षः परभेदनः । कार्मुकेणेवगुणिना बाणः संधानमेष्यति ॥ २.९७ ॥ ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः । तमःस्वभावस्त्प्येनं प्रदोषमनुयायिनः ॥ २.९८ ॥ उपजापः कृतस्तेन तानाकोपवतस्त्वयि । आशु दीपयिताल्पोऽपि साग्नीनेधानिवानिलः ॥ २.९९ ॥ बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति । संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥ २.१०० ॥ तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः । अबियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ॥ २.१०१ ॥ मखविघ्नाय सकलमित्थमित्युत्थाप्य राजकम् । हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥ २.१०२ ॥ संभाव्य त्वामतिभरक्षमस्कन्धं सबान्धवः । सहायमध्वरधुरां धर्मराजो विवक्षते ॥ २.१०३ ॥ महात्मनोऽनुगृह्णन्ति भजमानान्रिपूनपि । सपन्तीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगा ॥ २.१०४ ॥ चिरादपि बलात्कारो बलिनः सिद्धयेऽरिषु । छन्दानुवृत्तिदुःःसाध्याः सुहृदो विमनीकृताः ॥ २.१०५ ॥ मन्यसेऽरिवधः श्रेयान्प्रीतये नाकिनामिति । पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तरां ॥ २.१०६ ॥ अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति । शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥ २.१०७ ॥ सहिष्ये शतमागांसि सूनोस्त इति यत्वया । प्रतीक्ष्यन्तत्प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतम् ॥ २.१०८ ॥ तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत् । नोपतापि मनः सोषमवागेका वाग्मिनः सतः ॥ २.१०९ ॥ स्वयङ्कृतप्रसादस्य तस्याह्नो भानुमानिव । समयावधिमप्राप्यय नान्तायालं भवानपि ॥ २.११० ॥ कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् । विदां कुर्वन्तु महतस्तलं विद्विषम्भसः ॥ २.१११ ॥ अनुत्सूत्रपदन्यासा सद्वृत्ति सन्निबन्धना । शब्दविद्येव नो भाति राजनीतिरस्पशा ॥ २.११२ ॥ अज्ञातदोषैर्देषज्ञैरुद्दूष्योभयवेतनैः । भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥ २.११३ ॥ उपेयिवांसि कर्तारः पुरीमाजातशत्रवीम् । राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥ २.११४ ॥ सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति । वैरायितारस्तरलाः स्वयं मत्सरिणस्तरले ॥ २.११५ ॥ य इहात्मविदो विपक्षमध्ये सह संवृद्धियुजोऽपि भूभुजः स्युः । बलिपुष्टकुलादिवान्यपुष्टैः पृथगस्मादचिरेण भाविता तैः ॥ २.११६ ॥ सहजदोषचापलसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः । तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः ॥ २.११७ ॥ इति विशकलितार्थमौद्धवींवाचमेनामनुगतनयमार्गमर्गलां दुर्नयस्य । जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान्सः ॥ २.११८ ॥ _____________________________________________________________ कौबेरदिग्भागमपास्य मार्गमागस्त्यमिव आशुः इव अवतार्णः । अपेतयुद्धाभिनिवेशसौम्यो हरिहरप्रस्थमथ प्रतस्थे ॥ ३.१ ॥ जगत्पवित्रैः अपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यत अर्कः । यतः बृहत्पार्वणचारु तस्यातपत्रं बिभरांबभूवे ॥ ३.२ ॥ मृणालसूत्रामलमन्तरेण स्थितश्चलचामरयोर्द्वयं सः । भेजेऽभितःपातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः ॥ ३.३ ॥ चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामणीयसीभिः । अनेकधातुच्छुरिताश्मराशेर्गोवनर्धनस्याकृतिरन्वकारि ॥ ३.४ ॥ तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुग्मतरस्रभासा । अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥ ३.५ ॥ तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनतया मणीनाम् । बंहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती ॥ ३.६ ॥ निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिच्छुरितैर्नखाग्रैः । व्यद्योताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासो ॥ ३.७ ॥ उभौयदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयते तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ३.८ ॥ तेनाम्भसां सारसमयः पयोधेर्दधे मणिदीधितिदीपिताशः । अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥ ३.९ ॥ मुक्तामयं सारसानावलम्बिसभाति स्म दामाप्रपदीयमानस्य । अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिसस्रोतसः संततधारामम्भः ॥ ३.१० ॥ स इन्द्रनीलसस्थलनीलमूर्ती रराज कर्पूरपिशङ्गवासाः । विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥ ३.११ ॥ प्रसाधितस्यास्य मुधाद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् । वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु ॥ ३.१२ ॥ कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य । आनन्दिताशेषजना बभूव सर्वङ्गसङ्गिन्यपरैव लक्ष्मीः ॥ ३.१३ ॥ प्राणच्छिदां दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन । प्रकाशकार्कश्यगुणै दधानाः स्तनौ तरुण्यः परिव्रुरेनम् ॥ ३.१४ ॥ आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन । ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् ॥ ३.१५ ॥ यां यां प्रियः प्रैक्षत कातराश्क्षीं सा सा ह्रिया नम्रमुखी बभूव । निःःशङ्गमन्या सममाहितेर्ष्यास्तत्रान्तरे जघ्रुरमुं कटाक्षैः ॥ ३.१६ ॥ तस्यातसीसून समानभासो भ्राम्यन्मयूखावलीमण्डलेन । चक्रेण रेजे यमुनाजलौघः स्फुरन्महागर्त इवैकबाहुः ॥ ३.१७ ॥ विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचितस्खलन्ती । नित्यं हरेः संनिहिता निकामं मोदयति स्म चेतः ॥ ३.१८ ॥ न केवलं यः स्वतया मुरारेरसाधारणतां दधानः । अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव नन्दकोऽभूत् ॥ ३.१९ ॥ न नीतमन्येन नतिं कदाचिकर्णान्तिकप्रप्तगुणं क्रयासु । विधेयमस्या भवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः ॥ ३.२० ॥ प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः । मनेदानिलापूरकृतं दधानो निध्वानमश्रूयत पाञ्चजन्यः ॥ ३.२१ ॥ रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रसिद्घमार्गम् । महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः ॥ ३.२२ ॥ ध्वजाग्रधामा ददृशेऽथशौरैः संक्रन्तमूर्तिर्मणिमेदिनीषु । फणावतस्त्रासयितुं रसायास्तलं विवक्षन्निव पन्नगारिः ॥ ३.२३ ॥ यियासतस्तस्य महीधरन्ध्रभिदपटीयान्पटहप्रणादः । जलान्तराणीव महार्णवौघः शशब्दान्तराण्यन्तरायाञ्चकार ॥ ३.२४ ॥ यतः स भर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिनाततोऽधः । महाभराभुग्नशिरःसहस्रसहायकव्यग्रभुजं प्रसस्रे ॥ ३.२५ ॥ अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्राकृतकेतनानि । क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयन्वयुस्तम् ॥ ३.२६ ॥ श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्ञ्चनभूपराः । आनेमि मग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुदिरे रथौघैः ॥ ३.२८ ॥ न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम । अचेष्टताष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः ॥ ३.२७ ॥ निरुद्ध्यमाना यदुभिः कथञ्चिन्मुहुर्यदुच्चिक्षिपुरग्रपादान् । ध्रुवं गुरून्मार्गरुधः करान्द्रानुल्लङ्घ्य गन्तुं तुरगास्ततीषुः ॥ ३.२९ ॥ अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः । प्रकीडितान्रेणुभिरेत्य तूर्णं निन्ययुर्जनन्यः पृथुकान्पथिभ्यः ॥ ३.३० ॥ दिदृक्षमाणः प्रतिरथ्यमीयुर्मुरारिमारादनघं जनौघाः । अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रतिरहो करोति ॥ ३.३१ ॥ उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकनीभिः । रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान्विदामास शनैर्न यातम् ॥ ३.३२ ॥ मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा । तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्वा जलमुल्ललास ॥ ३.३३ ॥ कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः । अनिर्विदा या विदधे विधात्रा पृथिवी पृथिव्याः प्रतियातनेव ॥ ३.३४ ॥ त्वष्टुः सदाभ्यासगृहीतशिल्पविदज्ञानसंपत्प्रसरस्य सीमा । अदृश्यतादर्शतलामलेषु छायेव या स्वर्जलधेर्जलेषु ॥ ३.३५ ॥ रथाङ्गभर्त्रेऽभिनवं वराय यस्याः पितेव प्रतिपादितायाः । प्रेम्णोपकण्ठं मुहुरङ्गभाजो रत्नवलीरम्बुधिराबबन्ध ॥ ३.३६ ॥ यस्याश्चलद्वारिधिवीचिछ्छटोच्छलच्छङ्खकुलाकुलेन । वप्रेण पर्न्तचरोडुचक्रः सुमेरुवप्रोऽहमन्वकारि ॥ ३.३७ ॥ वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः । लोलैरलोद्युतिभाञ्जि मुष्णन्रत्नानि रत्नाकरतामवाप ॥ ३.३८ ॥ अम्भुच्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः । त्रातपे दातुमिवाधितल्पं विस्तारायमास तरङ्गहस्तैः ॥ ३.३९ ॥ यच्छालमुत्तङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य । महोर्मिभिव्याहतवाञ्छितार्थैर्वीडादिवाभ्याशगतैर्विलिल्ये ॥ ३.४० ॥ कुतूहलेन जवादुपेत्य प्राकारभित्या सहसा निषिद्धः । रसन्नरोदीद्भृशमम्बुवर्षव्याजेन यस्या बहिरम्बुवाहः ॥ ३.४१ ॥ यदङ्गनरूपसरूपतायाः कञ्चिद्गुणं भेदकमिच्छतीभिः । आराधितोऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥ ३.४२ ॥ स्फुरत्तुषारांशुमरीचिजालैर्विनुह्नुताः स्फटिकपङ्क्तीः । आरुह्य नार्यः क्षणदासु यत्र नभोगता देव्य इव व्याराजन् ॥ ३.४३ ॥ कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्र । उच्चैरधपातिपयोमुचोऽपि समूहमूहुः पययसां प्रणाल्यः ॥ ३.४४ ॥ रतौ ह्रिया यत्र निशाम्यदीपाञ्जालगताभ्योऽधिगृहं गृहिण्यः. बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥ ३.४५ ॥ यस्यामतिश्लक्षणतया गृहेषु विधातुमालेख्यमशुक्नुवन्तः । चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥ ३.४६ ॥ सावर्ण्यभाजां प्रतिमागतानां लक्ष्यैः स्मरपाण्डुतयाङ्गनानाम् । यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥ ३.४७ ॥ शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनां । यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि ॥ ३.४८ ॥ गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकाणां कलापैः । हरिन्मणिश्यामतृणाभिरामैगृहाणि नीध्रैरिव यत्र रेजुः ॥ ३.४९ ॥ बृहत्तुलैरपिप्यतुलैर्वतानमालापिनद्धैरपि चावितानै । रेजे विचित्रैरपि या सचित्रैगृहैर्विशालैरपि भूरिशालै ॥ ३.५० ॥ चिक्रंसया कृत्रिमपत्त्रिपंङ्कतेः कपोतपालीषु निकेतनानां । मार्जारमप्यातनिश्चलाङ्कं यस्यां जनः कृत्रिममेव मेने ॥ ३.५१ ॥ क्षितिप्रतिष्ठोपि मुखारविन्दैर्वधूजनश्चन्द्रमधश्चकार । अतीतनक्षत्रपथानि यत्र प्रसादशृङ्गाणि वृथाध्यरुक्षत् ॥ ३.५२ ॥ रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः । यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥ ३.५३ ॥ सुगन्धितामप्रतियत्नपूर्वां बिभ्रन्ति यत्र प्रमदाय पुंसाम् । मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥ ३.५४ ॥ रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्नीडः । रुतानिश्रुण्वन्वयसां गणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम् ॥ ३.५५ ॥ छन्नेऽपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु । आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतःऽपि ॥ ३.५६ ॥ यस्यामजिह्मा महतीमपङ्गाः सीमानमत्यायतयोऽत्यजन्तः । जनैरजास्खलनै जातु द्वयेप्यमुच्यन्त विनीतमार्गाः ॥ ३.५७ ॥ परस्पस्फर्धिपरार्घ्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः । श्रीनिर्मितप्राप्तगुणक्षतैकवर्णोपमावाच्यमलं ममार्ज ॥ ३.५८ ॥ क्षुण्णं यदन्तःकरणेनवृक्षाः फलन्ति कल्पोपदास्तदेव । अध्यूषुषो यामभवञ्जनस्य याः सम्पदस्ता मनसोऽप्यगम्याः ॥ ३.५९ ॥ कला दधानः सकलाः स्भाभिरुद्भासयन्सौधसिताभिराशाः । यां रेवतीजानिरियेष हातुं न रौहिणीयो न च रोहिणीशः ॥ ३.६० ॥ बाणाहवव्याहतशंभुशक्तेरासत्तिमासाद्य जनार्दनस्य । शरीरिणा जैत्रशरेण यत्र निःशङ्घमूषे मकरध्वजेन ॥ ३.६१ ॥ निषेव्यमाणेन शिवैमरुद्भिरध्यास्यमाना हरिणा चिराय । उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाहास्त मेरावमरावतीं या ॥ ३.६३ ॥ स्नग्धाञ्जनस्यमरुचिः सुवृत्तः बद्वा इवाद्वंसितवर्णकान्तेः । विशेषको वा विशिशेष यस्याः श्रियन्त्रिलोकीतिलकः स एव ॥ ३.६२ ॥ तामीक्षमाणः स पुरं पुरस्तात्प्रापत्प्रतोलीमतुलप्रतापः । वज्रप्रभोद्भासिसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥ ३.६४ ॥ प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः । मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्ध्वजिन्यः ॥ ३.६५ ॥ श्लिःष्यद्भिरन्योनमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः । परस्परोत्पीडितजानुभागा दुःखेन निशचक्रमुरश्ववाराः ॥ ३.६६ ॥ निरन्तरालेऽपि विमुच्माने दूरं पथि प्राणभृतां गणेन । तेजोमहद्भिस्तमसेव दीपैर्द्वीपैरसंबधमयांबभूवे ॥ ३.६७ ॥ शनैरनीयन्त रयात्पतन्तोरथाः क्षितिं हस्तिनखादखेदैः । सयत्नसूतायतरशमिभुग्नग्रीवाग्रसंसक्तयुगैस्तुरङ्गै ॥ ३.६८ ॥ बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः । प्रायेणनिष्क्रामतिचक्रपाणै नेषेटं परो द्वारवतीत्वमासीत् ॥ ३.६९ ॥ पारेजलंनीरनिधेरपश्यन्मुरारिरानीलपलाशराशीः । वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥ ३.७१ ॥ लक्षीभृतःऽम्भोधितटाधिवासान्द्रमानसौ नीरदनीलभासः । लतावधूसंप्रयुजोऽदिवेलं बहूकृतान्स्वानिव पशयति स्म ॥ ३.७० ॥ आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्ध्वजाकार बृहत्तरङ्गं । फेनायमानं पतिमापगानामसावपस्मारिणमाशसङ्गे ॥ ३.७२ ॥ पीत्वा जलानां निधिनातिगार्ध्याद्वृद्धिङ्गतेऽप्यात्मनि नैव मान्तीः । क्षिप्ता इवेन्दोः स रुचोऽधिवेलं मुक्तावलीराकलयाञ्चकार ॥ ३.७३ ॥ साटोपमुर्वीमनिशं नदन्तः यैः प्लवयिष्यन्ति समन्ततःऽमी । तान्यकदेशान्निभृतंपयोधेः सोऽम्भांसि मेघान्पिबतः ददर्श ॥ ३.७४ ॥ उद्धृत्यमेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः । आलोकयामास हरिः पतन्तीर्नदीः स्मृतिर्वदमिवाम्बुराशिम् ॥ ३.७५ ॥ विक्रीय दिश्यानि धनान्युरूणिदैप्यानसावुत्तमलाभबाजः । तरीषु तत्रत्यमफल्गु भाण्डं सांयान्त्रिकानावापतःऽभ्यनन्दत् ॥ ३.७६ ॥ उत्पित्सवोऽन्तर्नदभर्तुरुच्चैर्गरीयसा निःश्वसितानिलेन । पयांसि भक्त्या गरुडध्वजस्य ध्वाजानिवोच्चिक्षिपिरे फणीन्द्राः ॥ ३.७७ ॥ तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः । प्रत्युज्जगामेव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गबाहुः ॥ ३.७८ ॥ उत्सङ्गिताम्भःकणक नभस्वानुदन्वतः स्वदलवान्ममार्ज । तस्यानुवेलं व्रजतःऽधिवेलंमेलालतासेफालनलबेधगन्धः ॥ ३.८० ॥ उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः । आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥ ३.७९ ॥ लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः । आस्वादिताद्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमीयुः ॥ ३.८१ ॥ तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता । परिचलतः बलानुजबलस्य पुरः सततं धृतश्रियश्चिरविगतश्रियो जलनिधेश्च तदाभवददन्तरं महत् ॥ ३.८२ ॥ _____________________________________________________________ निशवासधूमं सहरत्नभार्भित्त्वोत्थितं भूमिमिवोरगाणां । नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥ ४.१ ॥ गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचांवितानैः । विन्ध्यायमानं दिवसस्य भर्तुमार्गं पुना रोद्धुमिवोन्नमद्भिः ॥ ४.२ ॥ क्रान्तं रुचा श्यामलिताभिरामंलताभिरामन्त्रितषट्पदाभिः । श्रितं शिलाश्यामलताभिरामं लताभिरामनत्रितषट्पदाभिः ॥ ४.३ ॥ सहस्रसंख्यैर्गगनं पादैर्भुवं व्याप्य वितिष्ठमानम् । विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम् ॥ ४.४ ॥ क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि । अभ्राणिबिभ्रामुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिम् ॥ ४.५ ॥ छायां निजस्त्रीचटुलालसानां मदेन किञ्चिच्चटुलालसानाम् । कुर्वाणमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रै ॥ ४.६ ॥ स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः । प्रनर्तितानेकलताभुजाग्रान्रुद्राननेकानिव धारयन्तम् ॥ ४.७ ॥ विलम्बिनीलोत्पलकर्णपूरा कपोलभित्तीरिव लोध्रगौरीः । नवोलपालङ्कृतसैकताभाः शुचीरपःशैवलनीर्दधानम् ॥ ४.८ ॥ राजीवराजीवशलोलभृङ्गं मुष्णान्तमुष्णं ततिभिस्तरूणाम् । कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षेभितमुद्वहन्तम् ॥ ४.९ ॥ मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः । भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥ ४.१० ॥ यतः परार्घ्यानि भृतान्यनूनै प्रस्थैर्मुहुर्भूरिभिरुच्चिखानि । आढ्यादिवप्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ॥ ४.११ ॥ अखिध्यतासन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने । भृङ्गावलिर्यस्यतटे निपीतरसा नमत्तामरसा न मत्ता ॥ ४.१२ ॥ यत्राधिरूढेनमहीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा । सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ॥ ४.१३ ॥ विभिन्नवर्णागरुडाग्रजेन सूर्यस्यरथ्याः परितः स्फुरन्त्या । रत्नैः पुनर्यत्र रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ ४.१४ ॥ यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भि । वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानाम् ॥ ४.१५ ॥ फलद्भिरुष्णांशुकराभिमर्शात्कर्शानवं धाम पतङ्गकान्तैः । शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकाम् ॥ ४.१६ ॥ दृषटोऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान । क्षणेक्षमे यन्नवतामुपैति तदेवरूपं रमणीयतायाः ॥ ४.१७ ॥ उच्चारणज्ञेऽथगिरादधानमुच्चा रणत्पक्षिगणास्तटीस्तम् । उत्कं धरं द्रष्टुमवेक्ष्य शौरिणुत्कन्धरं दारुक इत्युवाच ॥ ४.१८ ॥ आच्छादितायतददिगम्बरमुच्चकैर्गामाक्रम्यसंस्थितमुदग्रविशालशृङ्गम् । मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेनमुद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥ ४.१९ ॥ उदयतिविततर्ःध्वरशमिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् । वहतिगिरिरयं विलम्बिधणटाद्वयपरिवारितवारणेन्द्रलीलाम् ॥ ४.२० ॥ वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः । अचलेषभवानिव राजते स हरितालसमाननवांशुकः ॥ ४.२१ ॥ पाश्चात्यभागमिह सानुषु सन्निषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालम् । संपूर्णलब्धललनालापनोपमानमुत्सङ्गसह्गिहरिणमस्य मृगाङ्गमूर्तेः ॥ ४.२२ ॥ कृत्वापुंवत्पादमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः । कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्णमत्र ॥ ४.२३ ॥ स्थगयन्त्यमूः शामितचातकार्तस्वरा जलदास्तडित्तुलितकान्तकार्तस्वराः । जगतीरिहस्फुरितचारुचामीकराः सवितुः कचित्कपिशयन्ति चामी कराः ॥ ४.२४ ॥ उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैरुत्तम्भितोडुभिरतिवतरां शिरोभिः । श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरीक्षम् ॥ ४.२५ ॥ एकत्रस्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसोऽपरत्र । कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ॥ ४.२६ ॥ इतस्ततःऽस्मिन्विलसन्ति मेरोः समानवप्रेमणिसानुरागाः । स्त्रियशच पत्यौ सुरसुन्दरीभिः समा नवप्रेमणिसानुरागाः ॥ ४.२७ ॥ उच्चैमहारजतराजिविराजितासौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा । अभ्येति भस्मपरिपाण्डुरितस्मरारेरुद्वह्निलोचनललामललाटलीलाम् ॥ ४.२८ ॥ अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः । सततमसुगतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥ ४.२९ ॥ धूमाकारं दधति पुरः सौवर्णे वर्णेनाग्नेः सदृशि तटे पश्यामी । श्यामीभूताः कुसुमसमूहोऽलीनां लीनामालीमिह तरवो बिभ्राणाः ॥ ४.३० ॥ व्योमस्पृशः प्रथयता कलधौतभित्तीरुन्निद्रपुष्पचणचम्पकपिङ्गभासः । सौमेरवीमधिगतेन नितम्बशोभामेतेन भारतमिलावृतवद्विभाति ॥ ४.३१ ॥ रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः । विवधरत्नमयैरभिबात्यसाववयवैरिव जङ्गमतां गतैः ॥ ४.३२ ॥ कुशशयैरत्र जलाशयोषिता मुदारमन्ते कलभाविकस्वरैः । प्रगीयते सिद्धगणैश्च योषितामुदारम कलभाविकस्वरैः ॥ ४.३३ ॥ आसादितस्य तमसा नियतेर्नियोगादाकाङ्क्षतःपुनरपक्रमणेन कालम् । पत्युस्त्वषामिह महौषधयः कलत्रस्थानं परैननभिभूतममूर्वहन्ति ॥ ४.३४ ॥ वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र । पुष्पेक्षणैलम्भितलोचकैर्वा मधुव्रतव्रातवृतैर्व्रतत्यः ॥ ४.३५ ॥ विहगाः कदम्बसुरभाविह गाः कलयन्तनुक्षणमनेकलयम् । भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥ ४.३६ ॥ विद्वद्भिरागमपरैर्विवृतं कथञ्चिच्छ्रुत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः । श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं गूठार्थमेष निधिमन्त्रगणं बिभर्ति ॥ ४.३७ ॥ बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्रश्चुम्बन्तं मुखमिह किंनरं प्रियायाः । श्लिष्यन्तंमुहुरितरोऽपि तं निजस्त्रीमुत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥ ४.३८ ॥ यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालम् । न पुष्पितात्र स्थगितार्करस्मावनान्तताने कतमा लतालम् ॥ ४.३९ ॥ दन्तोज्ज्वलासु विमलोपलमेखलान्ताः सद्रत्नचित्रकटकासु बृहन्नितम्बाः । अस्मिन्भजन्ति घनकोमलगण्डशैला नार्योऽनुरूपमधिवासमधित्यकासु ॥ ४.४० ॥ अनतिचिरोज्झितस्य जलदेन चिरस्थितबुद्ध्युदयस्य पयसोऽनुकृतिम् । विरलविकीर्णवज्रशकला सकलामिह विदधाति धौतकलधौतमही ॥ ४.४१ ॥ वर्जयन्त्या जनैः संगमेकान्ततस्तर्कयन्त्या सुखं सङ्गमे कान्ततः । योषयैष स्मरासन्नतापाङ्गया सेव्यतेऽनेकया संन्नतापङ्गया ॥ ४.४२ ॥ संकीर्णकीचकवनस्खलितैकवालविच्छेदकातरधियश्चलितुं चमर्यः । अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्रर्यत्स्वनश्रुतिसुखादिव नोत्सहन्ते ॥ ४.४३ ॥ मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रैर्वापीष्वन्तर्लीनमहानीलदलासु । शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भश्छायामच्छामृच्छति नीलीसलिलस्य ॥ ४.४४ ॥ या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम् । तेन सहेत बिभर्ति रसः स्त्री सा रतरागमनायतानाम् ॥ ४.४५ ॥ भिन्नेषुरत्नकिरणैः किरणेष्विहेन्दोरुच्चावचैरुपगतेषु सहस्रसंख्यां । दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥ ४.४६ ॥ अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः । अनुरोदितीव करुणेन पत्त्रिणां विरुतेन वत्सलतययैष निम्नगाः ॥ ४.४७ ॥ मधुकरविटपानमितास्तरुपङ्क्तीर्बिभ्रतःऽस्य विटपानमिताः । परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥ ४.४८ ॥ प्राग्भागतः पतदिहेदमुपत्यकासु शृङ्गारितायतमहेभकराभमम्भः । संलक्ष्यतेविविधरत्नकरानुविद्धमूर्ध्वप्रसारितसुराधिपचापचारु ॥ ४.४९ ॥ दधाति च विकसद्विचित्रकल्पद्रुमकुसुमैरभिगुम्फितानिवैताः । क्षणमलघुविलम्बिपिच्छदाम्नः शिखरशिखाः शिखिशेखरानमुष्य ॥ ४.५० ॥ सवधूकाः सुखिनोऽस्मन्ननवरतममन्दरामतामरसदृशः । नासेवन्ते रसवन्नवरतममन्दरागतामरसदृशः ॥ ४.५१ ॥ आच्छाद्य पुष्पपटमेव महान्तमन्तरावर्तिभिर्गृहकपोतशिरोधराभैः । शस्वङ्गानि धूमरुचिमागुरवीं दधानैर्धूपायतीव पटलैर्नीरदानाम् ॥ ४.५२ ॥ अन्योन्यव्यतिकरचारुभिर्विचित्रैरत्रस्यन्नवमणिर्जन्मभिर्मयूखैः । विस्मेरान्गगनसदः करोत्यमुष्मिन्नाकाशेरचितमभित्ति चित्रकर्म ॥ ४.५३ ॥ समीरशिशिरः शिरःसुवसता सता जवनिका निकानसुखिनाम् । बिभर्तिजनयन्नयं मुदमपामपायधवला वलाहकततीः ॥ ४.५४ ॥ मैर्त्त्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः । ख्यातिं चसत्त्वपुरुषान्यतयाधिगम्य वाञ्चन्ति तामपि समाधिभृतः निरोद्धुम् ॥ ४.५५ ॥ मरकतमयमेदिनीषु भानोस्तरुविटपान्तरपातिनो मयूखाः । अवनतशितिकण्ठकण्ठलक्ष्मीमिह दधति श्फुरिताणुरेणुजालाः ॥ ४.५६ ॥ या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया । नात्र कान्तमुपगीतया तया स्वानमानमति कालिमालया ॥ ४.५७ ॥ सायं शशाङ्गकिरणाहतचन्द्रकान्तनिस्यन्दिनीरनिकरेण कृताभिषेकाः । अर्कोपलोल्लसितवह्निभिरह्नि तप्तास्तीव्रं महाव्रतमिवात्र चरनति वप्राः ॥ ४.५८ ॥ एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः । वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ॥ ४.५९ ॥ इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः । स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ॥ ४.६० ॥ त्वक्साररन्ध्रपरिपूरणलब्धगीतिरस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः । कस्तूरिकामृगविमर्दसुगन्धिरेति रागीव सक्तिमधिकां विषयेषु वायुः ॥ ४.६१ ॥ प्रीत्यै यूनां व्यवहिततपनाः प्रौढद्वान्तं दिनमिह जलदाः । दोषामन्यं विदधाति सुरतक्रीडायासश्रमपटवः ॥ ४.६२ ॥ भग्ने निवासोऽयमिहास्य पुष्पैः सदानतः येन विषाणि नागः । तीव्राणि तेनोज्झति कोपितोऽसौ ससानतोयेन विषाणि नागः ॥ ४.६३ ॥ प्रालेयशीतलमचलेश्वरमीश्वरोऽपि सान्द्रभचर्मवसनावरणाधिशेते । सर्वर्तुनिवृत्तिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि ॥ ४.६४ ॥ नवनगवनलेखाश्यामध्याभिराभिः स्फटिककटकभूमिनाटयत्येष शैलः । अहिपरिकरभाजो भास्मनैरङ्गरागैरधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥ ४.६५ ॥ दधद्भिरभितस्तटौ विकचवारिजाम्बूनदैर्विनोदितदिनक्लमाः कृतरुचश्चजाम्बूनदैः । निषेव्य मधु माधवाः सरसमत्र कादम्बरं हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥ ४.६६ ॥ दर्पणनिर्मलासु पतिते घनतिमिरमुषि ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः । व्रीडमसंंमुखोऽपि रमणैरपहृतवसनाः खाञ्चनकन्दरासु तरुणीरिह नयति रविः ॥ ४.६७ ॥ अनुकृतिशिखरौघश्रीभिरभ्यगतेऽसौ त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः । द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं हलधरपरिधानश्यामलैरम्बुवाहैः ॥ ४.६८ ॥ _____________________________________________________________ इत्थं व्यलीकाः प्रियतमा इव सोऽव्यलीकः शुश्राव सूततनयस्य तदा व्यलीकाः । रन्तुं निरन्तरमियेष ततोऽवसाने तासां गिरौ च वनराजिपटं वसाने ॥ ५.१ ॥ तं स द्विपेन्द्रतुलितातुलतुङ्गशृङ्गमभ्युल्लसत्कदलिकावनराजिमुच्चैः । विस्ताररुद्धवसुधोऽन्वचलं चचाल लक्ष्मीं दधत्प्रतिगिरेरलघुर्बलौघः ॥ ५.२ ॥ भास्वत्करव्यतिकरोल्लसिताम्बरान्तस्तापत्रपा इव महाजनदर्शनेन । संविव्युरम्बरविकासि चमूसमुत्थं पृत्वीरजः करभकण्ठकडारमाशः ॥ ५.३ ॥ आवर्तिनः शुभफलप्रदशुक्तियुक्ताः संपन्नदेवमणयो भृतरन्ध्रभागाः । अश्वाः प्यधुर्वसुमतीमतिरोचमानास्तूर्णं पयोधय इवोर्मिभिरापततन्तः ॥ ५.४ ॥ आरक्षमग्नमवमत्य सृणिं शिताग्रमेकः पलायत जवेन कृतार्तनादः । अन्यपुनर्मुहुरुदप्लवतास्तभारमन्योन्यतः पथि बताबिभातमिभोष्ट्रौ ॥ ५.५ ॥ आयास्तमैक्षत जनशचटुलाग्रपादं गच्छन्तमुच्चलितचामरचारुमश्वम् । नागं पुनर्मृदु सलीलनिमीलिताक्षं सर्वःप्रयः खलु भवतयनुरूपचेष्टः ॥ ५.६ ॥ त्रस्तः समस्तजनहासकरः करेणोस्तावत्खरः प्रखरमुल्ललयाञ्चकार । यावच्चलासनविलोलनितम्बबिम्बविस्रस्तवस्त्रमवरोधवधूः पपात ॥ ५.७ ॥ शैलोपशल्यनिपतद्रथनेमिधारानिष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः । भूरेणवोनभसि नद्धपयोदचक्राश्चक्रवदङ्गरुहधूम्ररुचो विसस्रुः ॥ ५.८ ॥ उद्य्त्कृशानुशकलेषु सुराभिघाताद्भूमीसमायातशिलाफलकाचितैषु । पर्न्तवर्त्मसु व्चक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादयन्तः ॥ ५.९ ॥ तेजोनिरोधसमतावहितेन यन्त्रा समय्क्कशात्रयविचारवाता नियुक्तः । आराट्टजश्चटुलनिष्ठुरपातमुच्चैश्चित्रं चकार पदमर्दपुलायितेन ॥ ५.१० ॥ नीहारजालमालिनः पुनरुक्तसान्द्राः कुर्न्वधूजनविलोचनपक्ष्ममालाः । क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः पांशुर्दिसां मुखमतुत्थयदुत्थितोऽद्रेः ॥ ५.११ ॥ उच्छिद्य विद्विष इव प्रस्रभं मृगेन्द्रानिन्द्रानुजाचरभूतपतयोऽध्यवात्सुः । वन्येभमस्तकनिखातनखाग्रयमुक्तमुक्ताफलप्रकरभाञ्जि गुहागृहाणि ॥ ५.१२ ॥ विभ्राणया बहलयावकङ्कपिङ्कपिच्छावचूडामनुमाधवमास जग्मुः । चञ्च्वग्रदष्टचटुलाहितपताकयान्ये स्वावासभागमुरगाशनकेतुयष्ट्या ॥ ५.१३ ॥ छायामपास्य महतीमपि वर्तमानामागामिनीं जगृहिरे जनतास्रूणाम् । सर्वो हि नोपागतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥ ५.१४ ॥ अग्रगतेन वसतिं परिगृह्य रम्यामापात्यसैनिकनिराकराणाकुलेन । यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूरादुद्बाहुना जुहुवविरे मुहुरात्मवर्ग्याः ॥ ५.१५ ॥ सिक्ता इवामृतरसेन मुहुर्जनानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् । शाखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥ ५.१६ ॥ यानाज्जनः परिजनैरवतार्यमाणा राज्ञीर्नरापनयनाकुलसौविदल्लाः । स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाणवक्रश्रियः सभयकौतुकमीक्षते स्म ॥ ५.१७ ॥ कण्ठावसक्तमृदुबाहुलतातुरङ्गाद्राजावरोधनवधूरवतारयन्तः । आलिङ्गनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया न चुचुम्बुरासाम् ॥ ५.१८ ॥ दृष्ट्वेव निर्जतकलापभरामधस्ताद्व्याकीर्णमान्यकबरां कबरीं तरुण्याः । प्रादुद्रुवत्सपदि चन्द्रकवान्द्रुमाग्रात्संघर्षिणा सह गुणाभ्यधिकैर्दुरापम् ॥ ५.१९ ॥ रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः । भूभर्तुरायत निरन्तरसंनिवृष्टाः पादा इवाभिवभुरावलयो रथानाम् ॥ ५.२० ॥ छायाविधायिभिरनुज्झितभूतिशोभैरुच्छ्रायिभिर्बहलपाटलधातुरागैः । दूष्यैरपि क्षितिभृतां द्विरदैरुदारतारावलीविरचनैर्व्यरुचन्निवासाः ॥ ५.२१ ॥ उत्क्षप्तपटकान्तरलीयमानमन्दानिलप्रशमितश्रमघर्मतोयैः । दुर्वाप्रतानसहजास्तरणेषु भेजे निद्रसुखं वसनसद्मसु राजदारैः ॥ ५.२२ ॥ प्रस्वेदवारिसविशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती । आविर्भवद्वनपयोधरबाहुमूला शातोदरी युवदृशां क्षणमुत्सवोऽभूत् ॥ ५.२३ ॥ यावत्स एव समयः सममेव तावदव्याकुलाः पटमयान्यभितो वितत्य । पर्यापतत्क्रयिकलोकमगण्यपण्यपूर्णपणा विणुनो विपणीर्विभेजुः ॥ ५.२४ ॥ अल्पप्रयोजनकृतोरुतरप्रयातसैरुद्गूर्णलोष्टगुडैः परितोऽनुविद्धम् । उद्यातमुद्रतमनोकहझालमध्यादन्याः शशङ्गुणमनल्पमवन्नवाप ॥ ५.२५ ॥ त्रासाकुलः परिपतन्परितो निकेतान् पुंभिर्न कैश्चिदपि धन्वभिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनानामाकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥ ५.२६ ॥ आस्तीर्णतल्परचितावासथः क्षणेन वेशयाजनः कृतनवकर्मकाम्यः । खिन्नानखिन्नमतिरापततो मनुष्यान् प्रत्यग्रहीच्चिरनिविष्ट इवोपचारैः ॥ ५.२७ ॥ सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्बिसं धृतविकासिभिसप्रसूना । सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादममृजन्नगनिमन्गानाम् ॥ ५.२८ ॥ नाभिह्रदैः परिगृहीतरयाणि निम्नैः सत्रीणांबृहज्जघनसेतुनिवारितानि । जग्मुर्जलानि जलमुड्डकवाद्यवल्गुवल्गद्धनस्तनतटस्खलितानि मन्दम् ॥ ५.२९ ॥ आलोलपुष्करमुखोल्लसितैरभीक्ष्णमुक्षांबभूवुरभितोवपुरम्बुवर्षैः । स्वेदायत श्वसितनिरस्तवेगमुग्धमूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥ ५.३० ॥ ये पक्षिणः प्रथममम्बुनिधिं गतास्ते येऽपीन्द्रपाणितुलायुधलूनपक्षाः । तेजग्मुरद्रिपतयः सरसीर्विगाढुमाक्षिप्तकेतुकुथसैन्यगजच्छलेन ॥ ५.३१ ॥ आत्मानमेव जलधेः प्रतिबिम्बिताङ्गमूर्मौ महत्यभिमुखापातितं निरीक्ष्य । क्रोधादधावदपभीरभिहन्तुमन्यनागाभियुक्त इव युक्तमहो महेभः ॥ ५.३२ ॥ नादातुमन्यकरिमुक्तमदाम्बुतिक्तं धूताङ्कुशेन न विहातुमपीच्छताम्भः । रुद्धे गजेन सरितः सरुषावतारे रिक्तोदपात्रकरमास्त चिरं जनौघः ॥ ५.३३ ॥ पन्थानमाशु विजहीहि पुरः स्तनौ ते पश्यन्प्रतिद्वरदकुम्भविशङ्गिचेताः । स्तम्बेरमः पारिणिनंसुरावुपैति षिङ्गैरगद्यत ससंभ्रममेव काचित् ॥ ५.३४ ॥ कीर्णं शनैरनुकपोलमनेकपानां हस्तौर्विगाढमदतापरुजः शमाय । आकर्णमुल्लसितमम्बु विकाशिकाशनीकाशमाप समतां सितचामरस्य ॥ ५.३५ ॥ गण्डूषमुज्झितवता पयसः सरोषं नागेन लब्धपरवारणमारुतेन । अम्भोधिरोधसि पृथुप्रतिमानभागरुद्धोरुदन्तमुसलप्रसरं निपेते ॥ ५.३६ ॥ दानन्ददत्तयपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहते । यद्दन्तिनः कटकटाहतटान्मिमङ्क्षोर्मङ्क्षूदपाति परितः पटलैरसीनाम् ॥ ५.३७ ॥ अन्तर्जलौघमवगाढवतः कपोलौ हित्वा क्षणं विततपक्षतिरन्तरीक्षे । द्रव्यश्रयेष्वपि गणेषु रराज नीलो वर्णः पृथग्गत इवालिगणो गजस्य ॥ ५.३८ ॥ संसर्पिभिः पयसि गैरिकरेणुरागैरम्भोजगर्भरससाङ्गनिषङ्गिणा च । क्रीडोपभोगमनुभूय सरिन्महेभावन्योन्यवस्त्रपरिवर्तमिव व्यधत्ताम् ॥ ५.३९ ॥ यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः । तां प्रत्यवापुरविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजवस्त्रैः ॥ ५.४० ॥ प्रत्यन्यदन्ति निशिताङ्गुशदूरभिन्ननिर्याणनिर्यदसृजं चलितं निपादी । रोद्धुं महेभपरिव्रढिमानमागादाक्रन्तितो न वशमेति महान्परस्य ॥ ५.४१ ॥ सेव्योऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः । नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभतः सहन्ते ॥ ५.४२ ॥ अद्रीन्दुकुञ्चचरकुञ्जरगण्डकाषसंक्रान्तदानपयसो वनपादपस्य । सेनागजेन मथितस्य निजप्रसूनैर्मम्ले यथागतमगामि कुलैरलीनाम् ॥ ५.४३ ॥ नोच्चैर्यदा तरुतलेषु ममुस्तदानीमाधोरणैरभिहिताः पृथुमूलशाखाः । बन्धाय चिच्छिदुरिभास्तरसात्मनैव नैवात्मनीनमथ वा क्रियते मदान्धैः ॥ ५.४४ ॥ उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्तरुत्फुल्लनीलनलिनोदरतुल्यभासः । एकान्वशालशिरसो हरिचन्दनेषु नागान्बबन्धुरपारान्मनुजा निरासुः ॥ ५.४५ ॥ कण्डूयतः कटुभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य । स्थूलेन्द्रनीलशकलावलिकोमलेन कणठेगुणत्वमलीनां वलयेन भेजे ॥ ५.४६ ॥ निर्धूतवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्जनाभिः । शिक्षावशेन शनकैर्वशमानिनाय शाश्त्रं हि निश्चितधियां क्व न सिद्धमेति ॥ ५.४७ ॥ स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सरसाग्रहस्तः । बद्धपराणि परितो निगडानेयलावीत्स्वातन्त्र्यमुज्वलमवाप करेणुराजः ॥ ५.४८ ॥ जज्ञे जनैर्मुकुलितताक्षमनाददाने संरब्धहस्तिपकनिष्टुरचोदनाभिः । गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दोऽपि नाम न महानवगृह्य साध्यः ॥ ५.४९ ॥ क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुं । सस्मार वारणपतिः परिमीलिताक्षमिच्छाविहारवनवासमहोत्सवनाम् ॥ ५.५० ॥ दुःखेन भोजयितुमाशयिता शशाक तुङ्गाग्रकायमनमन्तमनादरेण । उत्क्षिप्तहस्ततलदत्तविधानपिण्डस्नेहस्रुति स्नपितबाहुरिभाधिराजम् ॥ ५.५१ ॥ शुक्लांशुकोपरचितानि निरन्तराभिर्वेश्मनि रस्मिविततानि नराधिपानाम् । चन्द्राकृतानि गजमणडलिकाभिरुच्चैर्नीलाभ्रपङ्क्तिपरिवेषमिवाधिजग्मुः ॥ ५.५२ ॥ गत्यूनमर्गगतयोऽपि गतोरुमार्गाः स्वैरं समाचकृषिरे भुवि वेल्लनाय । दर्पोदयोल्लसितफेनजलानुसारसंलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः ॥ ५.५३ ॥ आजिघ्रति प्रणतमूर्धनि बाह्लजेऽश्वे तिस्याङ्गसङ्गमसुखानुभवोत्सुकायाः । नासाविरोकपवनोल्लसितं तनीयो रोमाञ्चतामिव जगाम रजः पृथिव्याः ॥ ५.५४ ॥ हेम्नः स्थलीषु परितः परिवृत्य वाजी धुन्वन्वपुः प्रविततायतकेशपङ्क्तिः । ज्वलाकणारुणरुचा निकरेणरेणोः शेषेणतेजसः इवोल्लसता रराज ॥ ५.५५ ॥ दन्तालिकाधरणनिश्चलपाणियुग्ममर्धोदितो हरिरिवोदयशैलमूर्ध्नः । स्तोकेन नाक्रमत वल्लभपालमुच्चैः श्रीवृक्षकी पुरुषकोन्नमिताग्रकायः ॥ ५.५६ ॥ रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्तिर्देवैरिवानिमिषद्दृष्टिभिरीक्ष्यमाणः । श्रीसंनिधानरमणीयतरोऽश्व उच्चैरुच्चैश्रवा जलनिधेरिव जातमात्रः ॥ ५.५७ ॥ अश्रावि भूमिपतिभिः क्षणवीतनिद्रैरश्नुन्पुरो हरितकं मुदमादधानः । ग्रीवाग्रलोलकलकिङ्गिणीकानिनाद मिश्रं दधद्दशनचर्चुरशब्दमश्वः ॥ ५.५८ ॥ उत्खाय दर्पचलितेन सहैव रज्ज्वा कीलं प्रयत्नपरमानवदुर्ग्रहेण । आकुल्यकारि कटकस्तुरगेण तूर्णमश्वेति विद्रुतमनुद्रुताश्वमन्यम् ॥ ५.५९ ॥ अव्याकुलं प्रकृतमुत्तरधेयकर्म धाराः प्रसाधयितुव्यतिकीर्णरूपाः । सिद्धं मुखे नवसु वाथिषु कश्चिदश्वं वल्गाविभागकुशलो गमयांबभूव ॥ ५.६० ॥ मुक्तासृणानि परितः कचकं चरन्तस्त्रुट्याद्वितानतनिकाव्यतिषङ्गभाजः । सस्रुः सरोषपरिचारकवार्यमाणा दमाञ्चलस्खलितलोलपदं तुरङ्गाः ॥ ५.६१ ॥ उत्तीर्णभारलघुनाप्यलघूलपौघसौहित्यनिःसहतरेण तरोरधस्तात् । रोमन्थमन्थरचलद्गुरुसास्नमासांचक्रे नीमीलदलसेक्षणमौक्षकेण ॥ ५.६२ ॥ मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं शृङ्गै शिखाग्रगतलक्ष्ममलं हसद्भिः । उच्छृङ्गितान्यवृषभा सरितां नदन्तो रोधांसि धीरमपचस्किरिरे महोक्षाः ॥ ५.६३ ॥ मेदस्विनः सरभसोपगतानभीकान् भङ्कत्वा पराननडुहो मुहुराहवेन । ऊर्जस्वलेन सुरभीरनुनिनिःसपत्नं जग्मे जयोद्धुरविशालविषाणमुक्ष्णा ॥ ५.६५ ॥ बिभ्राणमायतिमतीमवृथा शिरोधिं प्रत्यग्रतामतिरसामधिकं दधन्ति । लोलोष्ट्रमौष्ट्रकमुदग्रमुखं तरूणामभ्रंलिहानि लिलिहे नवपल्लवानि ॥ ५.६४ ॥ सार्धं कथञ्चिदुचितैः पिचुमर्दपत्त्रैरास्यान्तरालगतमाम्रदलं म्रदीयः । दासेरकःसपदि संवलितं निषादैर्विप्रं पुरा पतगराडिव निर्जगार ॥ ५.६६ ॥ स्पष्टं बहिः स्थितवतेरपि निवेदयन्तश्चेष्टाविशेषमनुजीविजनाय राज्ञाम् । वैतालिकाः स्फुटपदप्रकटार्थमुच्चैर्भोगावलीः कलगिरोऽवसरेषु पेठुः ॥ ५.६७ ॥ उन्नम्रताम्रपटमण्डपमण्डितं तदानीलननागकुलसंकुलमाबभासे । संध्याशुभिन्नघनकर्बुरितान्तरीक्षलक्ष्मीविडम्बि शिविरं शिवकीर्तनस्य ॥ ५.६८ ॥ धरस्योद्धर्तासित्वमितिननु सर्वत्र जगति प्रतीतस्तत्किं मामतिभरमधः प्रापिपायिषुः । उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ बलाक्रान्तः क्रडद्द्विरदमथितोर्वीरुहरवैः ॥ ५.६९ ॥ _____________________________________________________________ अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया । ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सतां ॥ ६.१ ॥ नवपलाशपलाशवनं पुरः स्फुटस्फटपरागतपङ्गजम् । मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुमनोभरैः ॥ ६.२ ॥ विलुलितालकसंहृतिरामृशन्मृगदृशां श्रमवारि ललाटजम् । तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥ ६.३ ॥ तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषह्किणि । गुणवदाश्रयलब्धगुणोददये मालिनिमालिनि माधवयोषितां ॥ ६.४ ॥ स्फुटमिवोज्वलकाञ्चकान्तिभिर्युतमशोकमशोभत चम्पकैः । विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ॥ ६.५ ॥ स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः । निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशम् ॥ ६.६ ॥ रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका । बकुलपुष्परसासवपेशलध्वनिरगान्निरगात्मधुपावलिः ॥ ६.७ ॥ प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया । प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरनाचिमङ्गनाः ॥ ६.८ ॥ मधुकरैरपवादकरैरिव स्मृतिभुवः पथिकाः हरिणा इव । कलतया वचसः परिवादिनीस्वरजिता वशमाययुः ॥ ६.९ ॥ समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया । अविनमन्न रराजवृथोच्चकैरनृतया नृतया वनपादपः ॥ ६.१० ॥ इदमपास्य विरागि परागीरलिकदम्बकमम्बुरुहां ततीः । स्तनभरेण जितस्तबकानमन्नवलते वलतेऽभिमुखं तव ॥ ६.११ ॥ सुरभिणिश्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे । अलमलेरिव गन्धरसावमू मम न सौमनसौ मनसो मुदे ॥ ६.१२ ॥ इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी । प्रणयिनं रभसादुदरश्रिया वलिभयादलिभयादिव सस्वजे ॥ ६.१३ ॥ वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया । चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया ॥ ६.१४ ॥ अजगणन् गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः । सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः ॥ ६.१५ ॥ कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः । मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुहुर्गतभर्तृकाः ॥ ६.१६ ॥ रुरुधिषा वदनाम्बुरुहश्रियः सुतनु सत्मलङ्करणाय ते । तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः ॥ ६.१७ ॥ त्यजति कष्टामसावचिरादसून् विरहवेदनयेत्यघशङ्गिभिः । प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः ॥ ६.१८ ॥ न खलु दूरगतोऽप्यधिवर्तते महमसाविति बन्धुतयोदितैः । प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ॥ ६.१९ ॥ मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया । मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥ ६.२० ॥ अरुणिताखिशैलवना मुहुर्विदधती पथिकान् परितापिनः । विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम् ॥ ६.२१ ॥ रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः । उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः ॥ ६.२२ ॥ दलितकोमलपाटलकुड्मले निजवधूश्वसितानुविधायिनि । मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ॥ ६.२३ ॥ निदधिरे दयितोरसि तत्क्षणस्पनवारितुषारभृतः स्तनाः । सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ॥ ६.२४ ॥ स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा । जलधरावलिरप्रतिपालितस्वसमया समयाञ्जगतीधरम् ॥ ६.२५ ॥ गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे । अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ॥ ६.२६ ॥ अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् । धुततनुर्वलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ॥ ६.२७ ॥ द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी । नततमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ॥ ६.२८ ॥ पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती । सनयनाम्बुसखीजन संभ्रमाद्विधुरबन्धुरबन्धुरमैक्षत ॥ ६.२९ ॥ प्रवसतः सुतरामुदकम्पयद्विलकन्दलकम्पनलालितः । नमयति स्म वनानि मनस्विनीजननमनो घनमारुतः ॥ ६.३० ॥ जलदपङ्क्तिरनर्तयदुन्मदंकलविलापि कलापिकदम्बकम् । कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसंपदा ॥ ६.३१ ॥ नवकदम्बजोऽरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः । मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥ ६.३२ ॥ शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसां । प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे ॥ ६.३३ ॥ द्विरदवलक्षमलक्ष्यत स्फुरितभृङ्गमृच्छवि केतकम् । घनघनौघविघट्टनया दिवः कृशसिखं शशिखण्डमिव च्युतम् ॥ ६.३४ ॥ दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः । कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनाम् ॥ ६.३५ ॥ नवपयःकणकोमलमालतीकुसुमसंततिसंततसङ्गिभिः । प्रचलितोडुनिभैः परिपाण्डिमाः शुभरजोभरजोऽलिभिराददे ॥ ६.३६ ॥ निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशां । प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः ॥ ६.३७ ॥ प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः । प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ॥ ६.३८ ॥ विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभस्वति । अभिहितेऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ॥ ६.३९ ॥ अरमयन् भवनादचिरद्युतेः किल भयादमपयातुमनिच्छवः । यदुनरेन्द्रगणं तरुणागणास्तमथ मन्मथमन्थरभाषिणः ॥ ६.४० ॥ ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायिताम् । जलदकालमबोधकृतं दिशामपराथाप रथवयवायुधः ॥ ६.४१ ॥ स विकचोत्पलचक्षुषमैक्षत क्षितिभृतोऽङगगतां दयितामिव । शरदमच्छगलद्वसनोपमाक्षमधनामघनाशनकीर्तनः ॥ ६.४२ ॥ जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः । जलजराजिषु नैन्द्रमदिद्रवन्न महतामहताः क्व च नारयः ॥ ६.४३ ॥ समय एव करोति बलाबलं प्रणिगतवन्त इतीव शरीरिणाम् । शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयताम् ॥ ६.४४ ॥ तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहङ्गमकूजितैः । जगलुरक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः ॥ ६.४५ ॥ अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि । विकचबाणवलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥ ६.४६ ॥ कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः । प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ॥ ६.४७ ॥ मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः । धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि ॥ ६.४८ ॥ विगतसस्यजिधत्समघट्टयत्कलमगोपवधूर्न मृगव्रजम् । श्रुततदीरितकोमलगीतकध्वनिमिषेऽनिमेषेक्षणमग्रतः ॥ ६.४९ ॥ कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजम् । ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः ॥ ६.५० ॥ विगतवारिधरावरणाः क्वचिददृशुरुल्लसितासितासिताः । क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदेवो दिशः ॥ ६.५१ ॥ विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसम्भवाम् । विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुधक्षिपत् ॥ ६.५२ ॥ हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा । मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ॥ ६.५३ ॥ स्मितसरोरुहनेत्रसरोजलामतिसितङ्गविहङ्गहसद्दिवम् । अकलयन्मुदितामिव सर्वतः स शरदन्तुरदिह्मुखाम् ॥ ६.५४ ॥ गजद्वयसीरपि हैमनस्तुहिनयन् सरितः पृषतां पतिः । सलिलसन्ततिमध्वगयोषितामतुनतातनुतापकृतं दृशां ॥ ६.५५ ॥ इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलोऽन्यदा । स्मृसयौवनसोष्मपयोधरान् सतुहिनस्तु हिनस्तु वियोगिनः ॥ ६.५६ ॥ प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् । श्लथयितुं क्षणमक्षमतामङ्गना न सह सा सहसा कृतवेपथुः ॥ ६.५७ ॥ भृशमदूयत याधरपल्लवक्षतिरनावरणा हिममारुतैः । दशनरश्मिपटेन च सीत्कृतैर्निवासितेव सितेन सुनिर्ववौ ॥ ६.५८ ॥ व्रणभृता सुतनोः कलसीकृतस्फुरितदन्तमरीचिमयं दधे । स्फुटमिवावरणं हिमारुतैर्मृदुतया दुतयाधरलेखया ॥ ६.५९ ॥ धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः । पृथु निरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे ॥ ६.६० ॥ हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणौ. प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः ॥ ६.६१ ॥ कुसुमयन्फलिनीरवैमर्दविकासिभिरहितहुंकृतिः । उपवनं निरभर्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ॥ ६.६२ ॥ उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि । तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमनिकरोऽभवत् ॥ ६.६३ ॥ अबिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यात लोध्ररचश्चयः । क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुभूद्दिशः ॥ ६.६४ ॥ शिशिरमासमपास्य गुणोस्य नः क इव शीतहरस्य कुचोष्मणः । इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान् प्रियाः ॥ ६.६५ ॥ अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः । स्फुटमिति प्रसवेन पुरोऽहसत्सपदि कुन्दलता दलतालिनः ॥ ६.६६ ॥ अतिसुरभिभाजि पुष्पश्रियामतुनुतरतयेष सन्तानकः । तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः ॥ ६.६७ ॥ नोज्झितुं युवतिमानसनिरासे दक्षमिष्टमधुवासरसां । चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारम् ॥ ६.६८ ॥ जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः । इत्यस्य तेने कदलीर्मधुश्रीः प्रभावनी केतनवैजयन्तीः ॥ ६.६९ ॥ स्मररागमयी वपुस्तमिस्रा परिसस्तार रवेरसत्यवशम् । प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्वश्यम् ॥ ६.७० ॥ वपुरम्बुविहारमिहं शुचिना रुचिरं कमनीयतरा गतिमा । रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ॥ ६.७१ ॥ मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे । अलिना रतमालिनी शिल्लीन्ध्रे सह सायन्तनदीपपाटलाभे ॥ ६.७२ ॥ कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि । गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि ॥ ६.७३ ॥ अभीष्ठमासाद्य चिराय काले समुद्धृताशां कमनी चकाशे । योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्गमनीचकाशे ॥ ६.७४ ॥ स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन । परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ॥ ६.७५ ॥ जातप्रीतिर्या मधुरेणानुवनान्तं कामे कान्ते सारसिकाकुरुतेन । तत्सम्पर्क प्राप्य पुरा मोहनलीलां कामेकान्ते सा रसिका का कुरुते न ॥ ६.७६ ॥ कान्ताजनेन रहसि प्रसभं गृहीत केशे रते स्मरसहासवतोपितेन । प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोपितेन ॥ ६.७७ ॥ गतवतामपि विस्मयमुच्चकैरसकलामलपल्लवलीलया । मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया ॥ ६.७८ ॥ कुर्वन्तमित्यतिभरेण नगानवाचः पुष्पैविराममलिनां च न गानवाचः । श्रीमान्समस्तमनुसानु गिरौविहर्तु बिभ्रत्यचोदि स मयूरगिरा विहर्तुम् ॥ ६.७९ ॥ _____________________________________________________________ अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम् । निरगमदभिराद्धुमदृतानां भवति महत्सु न निष्फलः प्रयासः ॥ ७.१ ॥ दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः । मनसिमहास्त्रमन्यथामी न कुसुमपञ्चकमलं विसोढुम् ॥ ७.२ ॥ अवसमधिगम्य तं हरन्तयो हृदयमयत्नकृतोज्वलस्वरूपाः । अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदोऽङगनासु ॥ ७.३ ॥ नखरुचिरचिन्द्रचापं ललितगतेषु गतागतं दधाना । मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ॥ ७.४ ॥ अतियपरिणाह्ववान् वितेने बहुतरमर्पितकिङ्किणीकः । अलघुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ॥ ७.५ ॥ गुरुनिबिडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य । चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ॥ ७.६ ॥ तव सपदि समीपमानये तामहमिति तस्य मयाग्रतोऽभ्यधायि । अतिरभसाकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा माम् ॥ ७.७ ॥ न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण । वितथयति न जानातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः ॥ ७.८ ॥ सततमनभिभाषणं मया ते परिणमितं भवतीमनानयन्तया । त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः ॥ ७.९ ॥ गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः । प्रणयति यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः ॥ ७.१० ॥ प्रियमिति वनिता नितान्तमागःस्मरणसरोषषकषायिताक्षी । चरणगतसखीवचोऽनुरोधात्किल कथमप्यनुकूलयाञ्चकार ॥ ७.११ ॥ द्रुतपदमिति मा वयस्य यासिर्ननु सुतनुं परिपालयानुयान्तीम् । नहि न विदितखेदमेदतीयस्तनजघनोद्वहने तवापि चेतः ॥ ७.१२ ॥ इति वदति सखीजनेऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य । तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि ॥ ७.१३ ॥ यदि मयि लघिमानमागतायां तव धृतिरस्ति गतास्मि सम्प्रतीयम् । द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि संख्या ॥ ७.१४ ॥ अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः । घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार ॥ ७.१५ ॥ अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिस्तनेन । हृषिततनुरुहा भुजेन भर्तृर्मृदुममृदु व्यतिविद्धमेकबाहुं ॥ ७.१६ ॥ मुहुरसुसममाध्नती नितान्तं प्रणदितकाञ्चि नितम्बमण्डलेन । विषमितपृथुहारयष्टि तिर्यक्कुचमितरं तदुरस्थले निपीड्य ॥ ७.१७ ॥ गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा । इतरदतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ॥ ७.१८ ॥ लधुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या । सकठिनकुचचूचुकप्रणोदं प्रियमबला सविलासमन्विनाय ॥ ७.१९ ॥ जघनमेलघपीवरोरु कृच्छ्रादुरुनिबिरीसनितम्बभारखेदि । दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिदूहे ॥ ७.२० ॥ अनुवपुरपरेण बाहुमूलप्रहितभुजाकलितस्तनेन निन्ये । निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या ॥ ७.२१ ॥ अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः । उरसि सरसरागपदलेखाप्रतिमतयानुययावसंशयानः ॥ ७.२२ ॥ मदनरसमहौघपूर्णनाभीह्रदपरिवाहितरोमराजयस्ताः । सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ॥ ७.२३ ॥ श्रुतिपथमधुराणि सारसानामनुनदि सुश्रुविरे रुतानि ताभिः । विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ॥ ७.२४ ॥ मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि । तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङुगुलीभिः ॥ ७.२५ ॥ असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणाम् । मरुदवनिरुहां रजो वधूभ्यः मुपहरन् विचकार कोरकाणि ॥ ७.२६ ॥ उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनाजनस्य । परिमलविषयस्तदुन्नतानामनुगमने खलु सम्पदोऽग्रतःस्थाः ॥ ७.२७ ॥ रथचरणधराङ्गनाकराब्जव्यतिकरसम्पदुपात्तसौमनस्याः । जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतोऽभिधानम् ॥ ७.२८ ॥ अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्वलां दधानैः । तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानां ॥ ७.२९ ॥ मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः । तरुरतिशायितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षम् ॥ ७.३० ॥ अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन । सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ॥ ७.३१ ॥ प्रियमभिकुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या । मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधेऽंशुकेन ॥ ७.३२ ॥ विततवलिविभाव्यपाण्डुलेखाकृतपरभाघविलीनरोमराजिः । कृशमपि कृशतां पुनर्नयन्ती विपुलतरोन्मुखलोचनावलग्नं ॥ ७.३३ ॥ प्रसकलकुचबन्धुरोद्धुरोरःप्रसभविभिभिन्नतनूत्तरीयबन्धा । अनमवदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाबिमूला ॥ ७.३४ ॥ व्यवहितमविजानाती किलान्तवर्णभुवि वल्लभमाभिमुख्यभाजम् । अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचित् ॥ ७.३५ ॥ अथ किल कथिते सखीभिरत्र क्षणमपरेव ससंभ्रमा भवन्ती । शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी ॥ ७.३६ ॥ कृतभयपरितोषसन्निपातं सचकितसस्मितवक्त्रवारिजश्रीः । मनसिजगुरुतत्क्षणोपदिष्टं किमपि रासेन रसन्तरं भजन्ती ॥ ७.३७ ॥ अवनदवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै । अहरत सुतरामतोऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ॥ ७.३८ ॥ किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गकेनिधेयाः । नखपदलिपयोऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः ॥ ७.३९ ॥ कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव । अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ॥ ७.४० ॥ अभिमुखमुपयाति मा स्म किञ्चित्त्वमभिदधाः पटले मधुव्रतानाम् । मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधित्वदनेन मा निपाति ॥ ७.४१ ॥ सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः । ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवाजिहीते ॥ ७.४२ ॥ इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपक्ष्ममाला । अपदतलिभयेन भर्तुरङ्गं भवति हि विक्लवता गुणोऽङ्गनानाम् ॥ ७.४३ ॥ मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि । तदपि न किल बालपल्लवाग्रग्रहयापरया विविदे विदग्धसक्या ॥ ७.४४ ॥ व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः । यदधयदधरावलोपनृत्यत्करवलयस्वनितेन तद्विवव्रे ॥ ७.४५ ॥ विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः । रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग ॥ ७.४६ ॥ सललिकमवलम्ब्य पाणिनांसे सहचरमुच्छ्रतगुच्छवाञ्छयान्या । सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्यां ॥ ७.४७ ॥ मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य । उपरिनिरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या ॥ ७.४८ ॥ उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपोऽन्यः । प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्याम् ॥ ७.४९ ॥ इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरोऽन्या । अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥ ७.५० ॥ विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकोऽन्या । अभिपतितुमना लघुत्वभीतेरभवदमुञचति वल्लभेऽतिगुर्वी ॥ ७.५१ ॥ अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः । पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानां ॥ ७.५२ ॥ न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वां । व्रज विचपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥ ७.५३ ॥ तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः । ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥ ७.५४ ॥ मुहुरुपहसितामिवालिनादैर्वितरसि नः कालिकां किमर्थमेनाम् । वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ॥ ७.५५ ॥ इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण । श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥ ७.५६ ॥ विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन । तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरझोभिरापुपूरे ॥ ७.५७ ॥ स्फुचमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानाम् । वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत् ॥ ७.५८ ॥ समदनमवतंसितेऽद्कर्णं प्रणयवता कुसुमे सुमध्यमायाः । व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ॥ ७.५९ ॥ अवजितमधुना तवाहमक्ष्णो रुचितयेत्यवनम्य लज्जयेव । श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥ ७.६० ॥ अवचितकुसुमा विहाय वल्लीर्युवतीषु कोमलमाल्यमालिनीषु । पदमुपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानम् ॥ ७.६१ ॥ श्लथशिरसिजपातभारादिव नितरां नतिमद्भिरंसभागैः । मुकुलितनयनैर्मुखारविन्दैर्घनमहतामिव पक्ष्मणां भरेण ॥ ७.६२ ॥ अदिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरशमिजालैः । परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ॥ ७.६३ ॥ अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन । सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तभाभिः ॥ ७.६४ ॥ स्मरसरसमुरःस्थलेन पत्युर्विनिमयसंक्रमिताङ्गरागरागैः । भृशमतिशयखेदसम्पदेव स्तनयुगलैरितरेतरं निषण्णैः ॥ ७.६५ ॥ अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकेण । अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरूरुभिर्दधानैः ॥ ७.६६ ॥ अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः । कथमपि चरणोत्पलैश्चलद्भिर्भृशाविनिवेशात्परस्परस्य ॥ ७.६७ ॥ मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः । मृदुतरतनवोऽनलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ॥ ७.६८ ॥ प्रतममलघुमौक्तकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु । कठिनकुचतटाग्रपाति पश्चादथ शतसर्करतां जगाम तासाम् ॥ ७.६९ ॥ विपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमलं चकाशे । परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेष कामिनीनाम् ॥ ७.७० ॥ अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् । विपुलतरनिरन्तरालग्नस्तनपिहितप्रियवक्षसा ललम्बे ॥ ७.७१ ॥ अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य । तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥ ७.७२ ॥ हिमलतसदृशः श्रमोदबिन्दूनुपनयता किल नूतनोढवध्वाः । कुचकलशकिशोरकौ कथञ्चित्तरलतया तरुणेन पस्पृशाते ॥ ७.७३ ॥ गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः क्रमन्नूरुद्रुमभुजलताः पूर्णनाभीह्रदान्ताः । उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन् रोकूपान् स्वेदपूरो युवतिसरितां व्याप गण्डस्थलानि ॥ ७.७४ ॥ प्रियकरपरिमार्गदङ्गनानां यदाभूत्पुनरधिकतरैव स्वेदतोयोदयश्रीः । अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुर्वनविहरणखेदम्लानमम्लानशोभाः ॥ ७.७५ ॥ _____________________________________________________________ आयासादलघुतरस्तनैः स्वनद्भिः श्रान्तानामविकचलोचनारविन्दैः । अभ्यम्भः कथमपि योषितां समूहैस्तैरुर्वीनिहितचलत्पदं प्रचेले ॥ ८.१ ॥ यान्तीनां सममसितभ्रुवां नतत्वादंसानां महति नितान्तमन्तरेऽपि. संसक्तैविपुलतया मिथो नितम्बैः सम्बाधं बृहदपि तद्बभूव वर्त्म ॥ ८.२ ॥ नीरन्ध्रद्रुशिशिरां भुवं व्रजन्तीः साशङ्कं मुहुरिव कौतुकात्करैस्ताः । पस्पर्श क्षणमनिलाकुलीकृतानां शाखानामतुहिनरश्मिरन्तरालैः ॥ ८.३ ॥ एकस्यास्तपनकरैः करालितया बिभ्राणः सपदि सितोष्णावरणत्वम् । सेवायै वदनसरोजनिर्जितश्रीरागस्य प्रियमिव चन्द्रमाश्चकार ॥ ८.४ ॥ स्वं रागादुपरि वितन्वतोत्तरीयं कान्तेन प्रतिवारितातपायाः । सच्छत्रादपरविलासिनीसमूहच्छायासीदधिकतरा तदापरस्याः ॥ ८.५ ॥ संस्पर्शसुखोपचीयमाने सर्वाङ्गे करतललग्नवल्लभायाः । कौशेयं व्रजदपि गाढतामजस्रं सस्रंसे विगलितनीवि नीरजाक्ष्याः ॥ ८.६ ॥ गच्छन्तीरलसमवेक्ष्य विस्मयिन्यस्तास्तन्वीर्न विदधिरे गतानि हंस्यः । बुद्ध्वा वा जितमपरेण काममाष्कुर्वीत स्वगुणमपत्रपः क एव ॥ ८.७ ॥ श्रीमद्भिर्जितपुलिनानि माधवीनामारोहैर्निबिडबृहन्नितम्बबिम्बैः । पाषाणस्खलनविलोलमाशु नूनं वैलक्ष्याद्ययुरवरोधनानि सिन्धोः ॥ ८.८ ॥ मुक्ताभिः सलिलरयास्तशुक्तिमुक्ताभिः कृतरुचि सैकतं नदीनाम् । स्त्रीलोकः परिकलयाञ्चकार तुल्यं पल्यङ्कैर्विगलितहारचारुभिः स्वैः ॥ ८.९ ॥ आध्राय श्रमजमनिन्द्यबन्धुं निश्वासश्वसनमसक्तमङ्गनानाम् । आरण्याः सुमनस ईषिरे न भृङ्गैरौचित्यं गणयति को विशेषकामः ॥ ८.१० ॥ आयान्त्यां निजयुवतौ वनात्सशङ्कं बर्हाणामपरशिखण्डिनीं भरेण । आलोक्य व्यवदधतं पुरो मयूरं कामिन्यः श्रदधुरनार्जवं नरेषु ॥ ८.११ ॥ आलापैस्तुलितरवाणि माधवीनां माधुर्यादमलपतत्रिणां कुलानि । अन्तर्धामुपययुरुत्पलावलीषु प्रादुष्कात्क इव जितः पुरः परेण ॥ ८.१२ ॥ मुग्धायाः स्मरललितेषु चक्रवाक्या निशङ्कं दयिततमेन चुम्बितायाः । प्रणेशानभि विदधुर्वधूतहस्ताः सीत्कारं समुचितमुत्तरं तरुण्यः ॥ ८.१३ ॥ उत्क्षिप्तस्फुटितसरोरुहार्घ्यमुच्चैः सस्नेहं विहगरुतैरिवालपन्तो । नारीणामथ सरसी सफेनहासा प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ॥ ८.१४ ॥ नित्याया निजवसतेर्निरासिरे यद्रागेण श्रियमरविन्दतः कराग्रैः । व्यक्तत्वं नियतमनेन निन्युरस्याः सापत्न्यं क्षितिसुतविद्विषो महिष्यः ॥ ८.१५ ॥ आस्कन्दन् कथमपि योषितो न यावद्भीमत्यः प्रियकरधार्यमाणहस्ताः । औत्सुक्यात्त्वरितममूस्तदम्बु तावत्संक्रान्तप्रतिमतया दधाविवान्तः ॥ ८.१६ ॥ ताः पूर्वं सचकितमागमय्य गाधं कृत्वाथो मृदु पदमन्तराविशन्त्यः । कामिन्यो मन इव कामिनः सरागैरङ्गैस्तज्जलमनुरञ्जयांबभू ॥ ८.१८ ॥ संक्षोभं पयसि मुहुर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने । विश्लेषं युगमगमद्रथाङ्गनाम्नोरुद्वृत्तः क इव सुखावहः परेषां ॥ ८.१७ ॥ आसीना तटभुवि सस्मितेन भर्त्रा रम्भोरुवतिरुतं सरस्यनिच्छुः । धुन्वाना करयुगमीक्षितुं विलासाञ्शीतालुः सलिलगतेन सिच्यते स्म ॥ ८.१९ ॥ नेच्छन्ती सममुना सरोऽवगाढुं रोधस्तः प्रतिजलमीरिता सखीभिः । आश्लक्षद्भयचकितेक्षणं नवोढा वोढारं विपदि न दूषितातिभूमिः ॥ ८.२० ॥ तिष्ठन्तं पयसि पुमांसमंसमात्रे तद्दघ्नं तदवयती किलात्मनोऽपि । अभ्येतुं सुतनुरभीरियेष मौग्ध्यादाश्लेषि द्रुतममुना निमज्जतीति ॥ ८.२१ ॥ आनाभेः सरसि नतभ्रुवावगाढे चापल्यादथ पयसस्तरङ्गहस्तैः । उच्छ्रायिस्तनयुगमध्यरोहि लब्धस्पर्शानां भवति कुतोऽथवाव्यवस्था ॥ ८.२२ ॥ कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव । संहर्षादलिविरुतैरितीव गायल्लोलोर्मौ पयसि महोत्पलं ननर्त ॥ ८.२३ ॥ त्रस्यन्ती चलशफरीविघट्टितोरूवामोरूरतिशयमाप विभ्रमस्य । क्षुभ्यन्ति पसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणे रमण्यः ॥ ८.२४ ॥ आकृष्टवपुर्लतैस्तरदभिस्तस्याम्भस्तदथ सरोमहार्णवस्य । अक्षोभि प्रसृतविलोबाहुपक्षैर्योषाणांमुरुभिरुरोजगणडस्शैलैः ॥ ८.२५ ॥ गाम्भीर्यं दधदपिरन्तुमङ्गनाभिः संक्षोभं जधनविघट्टनेन नीतः । अम्भोधिविकसितवारिजाननोऽसौ मर्यादां सपदि विलङ्घयांबभूव ॥ ८.२६ ॥ आदातुं दयितमिवावगाढमारादूर्मीणां ततिभिरभिप्रसार्यमाणः । कस्याश्चिद्विततचलच्छिखाङ्गुलीको लक्ष्मीवान् सरसि रराज केशहस्तः ॥ ८.२७ ॥ उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव । युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवत्यलं जलौघः ॥ ८.२८ ॥ किं तावत्सरसि सरोजमेतदाहोस्विन्मुखमवभासते युवत्याः । संशय्य क्षणमिति निश्चिकाय कश्चिद्विव्योकैर्बकसहवासिनां परोक्षैः ॥ ८.२९ ॥ शृङ्गाणि द्रुतकनकोज्वलानि गन्धाः कौसुम्भं पृथुकुचकुम्भसङ्गिवासः । मार्द्वीकं प्रयतमसन्निधानंमासन्नारीणामिति जलकेलिसाधनानि ॥ ८.३० ॥ उत्तुङ्गादनिलचलांशुकास्तटान्ताच्चेतोभिः सह भयदर्शितनां प्रियाणां । श्रेणिभिर्गुरुभिरतूर्णमुत्पतन्तयस्तोयेषु द्रुततरमङ्गना निपेतुः ॥ ८.३१ ॥ मुग्धत्वादविदितकैतवप्रयोगा गच्छन्त्यः सपदि पराजयं तरुण्यः । ता कान्तैः सह करपुष्करेरिताम्बुव्यात्युक्षीमभिसरणग्लहामदीव्यन् ॥ ८.३२ ॥ योग्यस्य त्रिनयनलोचनार्चिर्निदग्धस्मरपूतनाधिराज्यलक्ष्म्याः । कान्तायाः करकलशोद्यतैः पयोभिरवक्त्रेन्दोरकृतमहाभिषेकमेकः ॥ ८.३३ ॥ शिञ्चन्त्याः कथमपि बाहुमुन्नमय्य प्रेयांसं मनसिजदुःखदुर्लायाः । सौवर्णं वलयमवागलत्कराग्राल्लवण्यश्रिय इव शेषमङ्गनायाः ॥ ८.३४ ॥ स्निह्यन्ती दृशमपरा निधाय पूर्णं मूर्तेन प्रणयरसेन वारिणेव । कन्दर्पप्रवणमानाः सखीसिसिक्षालक्ष्येण प्रतियुवमञ्जलिं चकार ॥ ८.३५ ॥ आनन्दं दधति मुखे करोदकेन श्यामाया दयिततमेन सिच्यमाने । ईर्ष्यन्त्या वदनमसिक्तमप्यनल्पस्वेदाम्बुस्नपितमजायतेतरस्याः ॥ ८.३६ ॥ उद्वीक्ष्य प्रियकरकुड्मलापविद्धैर्वक्षोजद्वयमभिषिक्तमन्यनार्याः । अम्भोभिर्मुहुरसिचद्वधूरमर्षदात्मीयं पृथुतरनेत्रयुगममुक्तैः ॥ ८.३७ ॥ कुर्वद्भिमुखरुचिमुज्जवलामजस्रं यैस्तोयैरसिचत वल्लभां विलासी । तैरेव प्रतियुवतेरकारि दूरात्कालुष्यं शशधरदीधितिच्छटाच्छैः ॥ ८.३८ ॥ रागान्धीकृतनयनेन नामधेयव्यत्यासादभिमुखमीरितः प्रियेण । मानिन्या वपुषि पतन्निसर्गमन्दो भिन्दानो हृदयमसाहि नोदवज्रः ॥ ८.३९ ॥ प्रेम्णोरः प्रणयिनि सिञ्चति प्रियायाः संतापं नवजलविप्रुषो गृहीत्वा । उद्धूताः कठिनकुचस्थलाभिघातादासन्नां भृशमपराङ्गनामधाक्षुः ॥ ८.४० ॥ संक्रान्तं प्रियतमवक्षसोऽङ्गरागंसाध्वस्याः सरसि हरिष्यतेऽधुनाम्भः । तुष्ट्वैवं सपदि हृतेऽपि तत्र तेपे कस्यश्चित्स्फुटनखलक्ष्मणः सपत्न्या ॥ ८.४१ ॥ हृतायाः प्रतिसखिकामिनान्यनाम्ना ह्रीमत्याः सरसि गलन्मुखेन्दुकान्तेः । अन्तधिं द्रुतमिव कर्तुमश्रुवर्षैर्भूमानं गमयितुमीषिरे पयांसि ॥ ८.४२ ॥ सिक्तायाः क्षणमभिषिच्य पूर्वमन्यामन्यस्याः प्रणयवता बताबलायः । कालिम्ना समधित मन्.रेव वक्त्रं प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः ॥ ८.४३ ॥ उद्वोढुं कनकविभूषणान्यशक्तः सध्रीचा वलयितपद्मनालसूत्रः । आरूढप्रतिवनिताकटाक्षभारः साधीयो गुररभवद्भुजस्तरुण्याः ॥ ८.४४ ॥ आबद्धप्रचुरपरार्घ्यकिङ्किणीको रामाणामनवरतोदगाहभाजाम् । नारावं व्यतनुत मेखलाकलापः कस्मिन्वा सजलगुणे गिरां पटुत्वम् ॥ ८.४५ ॥ पर्यच्छे सरसि हृतेंऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः । सुश्रेण्या दलवसनेन वीचिहस्तन्यस्तेन द्रुतमकृताब्जिनि सखात्वम् ॥ ८.४६ ॥ नारीभिर्गुरुजघनस्थलानामास्यश्रीविजितविकासिवारिजानाम् । लोलत्वादपहरतां तदङ्गरागसंजज्ञे स कलुष आशयो जलानाम् ॥ ८.४७ ॥ सौगन्धं दधदपि काममङ्गनानां दूरत्वाद्गतमाननोपमानम् । नेदीयो जितमिति लज्जयेव तासामालोले पयसि मनोत्पलं ममज्ज ॥ ८.४८ ॥ प्रभ्रष्टै सरभसमम्भसोऽवगाहक्रीडाभिर्विदलितयूथिकापिशङ्गैः । आकल्पैः सरसि हिरण्मयैर्वधूनामौर्वाग्निद्युतिशकलैरिव व्यराजि ॥ ८.४९ ॥ आस्माकी युवतिदृशामसौ तनोति च्छायेव श्रियमनपायिनीं किमेभिः । मत्वैवं स्वगुणपिधानसाभ्यसूयैः पनीयैरिति विदधाविरेऽञ्जनानि ॥ ८.५० ॥ निर्धौते सति हरिचन्दने जलौघैरापाण्डोर्गतपरभागयाङ्गनायाः । अह्नाय स्तनकलशद्वयादुपेये विच्छेदः सहृदययेव हारयष्ट्या ॥ ८.५१ ॥ अन्यूनं गुणममृतस्य धारयन्ती सम्फुल्लस्फुरितसरोरुहावतंसा । प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशां सुरा च ॥ ८.५२ ॥ स्नान्तीनां बृहदमलोदबिन्दुचित्रै रेजाते रुचिरदृशामुरोजकुम्भौ । हाराणां मणिभिरुपाश्रितौ समन्तादुत्सूत्रैर्गुणवदुपघ्नकाम्ययेव ॥ ८.५३ ॥ आरूढः पतित इति स्वसम्भवोऽपि स्वच्छानां परिहरणीयतामुपैति । कर्णेभ्यश्च्युतमसितोल्पलं वधूनां वीचिभिस्तटमनु यन्निरासुरापः ॥ ८.५४ ॥ दन्तानामधरमयावकं पदानि प्रत्यग्रास्तनुमविलेपनां नखाङ्गाः । आनिन्युः श्रियमधितोयमङ्गनानां शोभायै विपदि सदाश्रिता भवन्ति ॥ ८.५५ ॥ कस्याश्चिनमुखमनु धौतपत्रलेखं व्यातेने सलिलभरावलम्बिनीभिः । किञ्चल्कव्यतिकरपिञ्चरान्तराभिश्चित्रश्रीरलमलकाग्रवल्लरीभिः ॥ ८.५६ ॥ वक्षेभ्यो घनमनुलेपनं यदूनामुत्तंसानाहरत वारि मूर्धजेभ्यः । नेत्राणां मदरुचिरक्षतैव तस्थौ चक्षुष्यः खलु महतां परैरलङ्घ्यः ॥ ८.५७ ॥ यो बाह्यः स खलु जलैर्निरासि रागो यश्चित्ते स तु तदवस्थ एव तेषाम् । धीराणां व्रजति हि सर्व एव नान्तःपातित्वादभिभवनीयतां परस्य ॥ ८.५८ ॥ फेनानामुरसिरुहेषु हारलीला चेलश्रीर्जघनस्थलेषु शैवलानाम् । गण्डेषु स्फुटरचनाब्जपत्र्त्रवल्ली पर्याप्तं पयसि विभूषणं वधूनाम् ॥ ८.५९ ॥ भ्रश्द्भिर्जलमभि भूषणैर्वधूनामङ्गेभ्यो गुरुभिरमज्जि लज्जयेव । निर्माल्यैरथ ननृतेऽवधीरितानामप्युच्चैर्भवति लघीयसां हि धार्ष्ट्यम् ॥ ८.६० ॥ आमृष्टस्तिलकरुचः स्रजो निरस्ता नीरक्तं वसनमपाकृतोङ्गरागः । कामः स्त्रीरनुशायवानिव स्वपक्षव्याघातादिति सुतरां चकार चारूः ॥ ८.६१ ॥ शीतार्तिं बलवदुपेयुषतेव नीरैरासेकाच्छिशिरसमीरकम्पितेन । रामाणामभिनवयौवनोष्मभाजोराश्लेषि स्तनतटयोर्नवंशुकेन ॥ ८.६२ ॥ श्च्योतद्भिः समधिकमात्तमङ्गसङ्गाल्लावण्यन्तनुमदिवाम्बु वाससोऽन्तैः । उत्तेरे तरलतरङ्गलीलानिष्णातैरथ सरसः प्रियासमूहैः ॥ ८.६३ ॥ दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्यश्रियमिव काञ्चिदुत्तरन्तींमस्मार्षीज्जलनिधिमन्मथनस्य शौरिः ॥ ८.६४ ॥ श्लक्ष्णं यत्परिहितमेतयोः किलान्तर्धानार्थं तदुकसेकसक्तमूर्वोः । नारीणां विमलतरौ समुल्लसन्त्या भासन्तर्दधतुरुरूदुकूलमेव ॥ ८.६५ ॥ वासांसि न्यवसत यानि योषितस्ताः शुभ्राभ्रद्युतिभिरहासि तैर्मुदेव । अत्याक्षुः स्नपनगलज्जलानि यानि स्थूलाश्रुस्रुतिभिररोदिः तैः शुचेव ॥ ८.६६ ॥ आर्द्रत्वदतिशायिनीमुपेयिवद्भिः संसक्तिं भृशमपि भूरिशोवधूतैः । अङ्गेभ्यः कथमपि वामलोचनां विश्लेषो बत नवरक्तकैः प्रपेदे ॥ ८.६७ ॥ प्रत्यंसं विलुलितमूर्धजा चिराय स्नानार्द्रं वपुरुदवापयत्किलैका । नाजानादभिमतमन्तिकेऽभिवीक्ष्य स्वेदाम्बुद्रवमभवत्तरां पुनस्तत् ॥ ८.६८ ॥ सीमन्तं निजमनुबध्नती कराभ्यामालक्ष्यस्तनतटबाहुमूलभागा । भर्त्रान्या मुहुरभिलष्यता निदध्ये नैवाहो विरमति कौतुकं प्रियेभ्यः ॥ ८.६९ ॥ स्वच्छाम्भःस्नपनविधौतमङ्गमोष्ठस्ताम्बूलद्युतिविशदो व्लासिनीनाम् । वासश्च प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः ॥ ८.७० ॥ इति धौतपुरन्ध्रिमत्सरान्सरसिमज्जनेन श्रियमाप्तवतोऽतिशायिनीमपमलाङ्गभासः । अवलोक्य तदैव यादवानपरवारिराशेः शिसिरेतररोचिषाप्यपां ततिषु मङ्क्तुमीषे ॥ ८.७१ ॥ _____________________________________________________________ अभितापसंपदमथोष्णरुचिर्निजतेसामसहमान इव । पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥ ९.१ ॥ गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकतां । मुहुरन्तारालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ॥ ९.२ ॥ विरलात पच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः । अभवद्गतः परिणतिं शिथिलः परमन्दसूर्यनयनो दिवसः ॥ ९.३ ॥ अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये । निलयाय शाखिन इवाह्रयते दुदुराकुलाः खगकुलानि गिरः ॥ ९.४ ॥ उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः । करजालमस्तमयेऽपि सतामुतितं खलूच्चतरमेव पदम् ॥ ९.५ ॥ प्रतिकूलमुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ ९.६ ॥ नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया । अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः ॥ ९.७ ॥ गतवत्यराजत जपाकुसुमस्तबकद्युतौ दिनकरेऽवनतिम् । बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयम् ॥ ९.८ ॥ द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि । रुरुचे विरिञ्चिनखभिन्नबृहद्दणडकैकतरखण्डमिव ॥ ९.९ ॥ अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् । निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ॥ ९.१० ॥ अभितिग्मरश्मि चिरमविरमादवधानखिन्नमनिमेषतया । विगलन्नमधुव्रतकुलाश्रुजलं न्ममीलदब्जनयनं नलिनी ॥ ९.११ ॥ अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः । अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ॥ ९.१२ ॥ रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विवशुः । ज्वलनं त्विषः कथमितरथा सुलभोऽन्यजन्मनि स एव पतिः ॥ ९.१३ ॥ विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् । चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ॥ ९.१४ ॥ अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः । पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ॥ ९.१५ ॥ निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया । दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ॥ ९.१६ ॥ दिवसोऽनुमित्रमगमद्वलयं किमिहास्यते बत मयाबलया । रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि सपदि व्यगमि ॥ ९.१७ ॥ पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ । अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥ ९.१८ ॥ व्यसरन्नु भूधरगुहान्तरतः पचलं बहिर्भहलपङ्करुचि । दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ॥ ९.१९ ॥ किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः । विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः ॥ ९.२० ॥ स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति । दधिरे रसाञ्जनमपूर्वतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ॥ ९.२१ ॥ अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसम् । सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥ ९.२२ ॥ ददृशेऽपि भास्कररुचाह्नि न यः स तमीं तमोबिरभिगम्य तताम् । द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥ ९.२३ ॥ अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु धीपशिखाः । समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत ॥ ९.२४ ॥ वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् । स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माधवनीम् ॥ ९.२५ ॥ विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः । मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ॥ ९.२६ ॥ कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् । क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणादिपतिमूर्तिरिति ॥ ९.२७ ॥ नवचन्द्रकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्रमिव । ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलम् ॥ ९.२८ ॥ प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः । दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयम् ॥ ९.२९ ॥ उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा । प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ॥ ९.३० ॥ अथ लक्षमणागतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः । परिवारितः परित ऋक्षगणैस्तिरौघराक्षसकुलं बिभिदे ॥ ९.३१ ॥ उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः । घनवीथवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥ ९.३२ ॥ रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसावपि ताम् । अविलम्बितक्रममहो महतामितरेतरकृतिमच्चरितम् ॥ ९.३३ ॥ दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतलिरुतैः । मुहुरामृशन्मृगधरोऽग्रकरैरुदशिस्वसत्कुमुदिनीवनिताम् ॥ ९.३४ ॥ प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मघर्मपयसोपचिताम् । सुदृशोभिभर्तृशशैरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूम् ॥ ९.३५ ॥ अमृतद्रवैर्विदधब्जदृशाममपमार्गमोषधिपतिः स्म करैः । परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषम् ॥ ९.३६ ॥ अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः । विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः ॥ ९.३७ ॥ उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुपदधीशमपि । रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुम् ॥ ९.३८ ॥ भवनोदरेषु परिमन्दतया शयितोऽलसः स्फटिकयष्टिरुचः । अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ॥ ९.३९ ॥ अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत्तमसा । उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुराचकृषे ॥ ९.४० ॥ युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणोऽलभत । द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदेऽङ्गनामनसि चावसरम् ॥ ९.४१ ॥ ककुभां मुखानि सहसोज्ज्वलयन् दधदाकुलत्वमधिकं रतये । अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥ ९.४२ ॥ इति निश्चितप्रियतमागतयः सितदीधितावदयवत्यबलाः । प्रतिकर्म कर्तुमुचक्रमिरे समये हि सर्वमुपकारि कृतम् ॥ ९.४३ ॥ सममेकमेव दधतुः सुतनोरु हारभूषणमुरोजतटौ । घटते हि संहततया जनितामिदमेव निर्विरतां दधतोः ॥ ९.४४ ॥ कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति । रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत् ॥ ९.४५ ॥ अदरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः । नवमञ्जनं नयनपङ्कजयोर्बिभिदे न शङ्खनिहितात्पयसः ॥ ९.४६ ॥ स्फुरदुज्वलाधरदलैर्विसद्दशनांशुकेशकरैः परितः । धृतमुग्धगण्डफलकैर्विबभुविकसद्भिरास्यकमलैः प्रमदाः ॥ ९.४७ ॥ भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः । मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशत् ॥ ९.४८ ॥ ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटेमहति । इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुतां ॥ ९.४९ ॥ न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमिति । गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः ॥ ९.५० ॥ वपुरन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः । क्षमस्य वाढमिदमेव हि यत्प्रियसंगमेष्वनवलेपमदः ॥ ९.५१ ॥ निजपाणिपल्लवतलस्खलनादभिनासिकविवरमुत्पतितैः । अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः ॥ ९.५२ ॥ विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति । हिमधाम्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः ॥ ९.५३ ॥ अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलम् । उदकण्ठि कण्ठपरिवर्तिकलस्वरसून्यगानपयापरया ॥ ९.५४ ॥ प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः । प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः ॥ ९.५५ ॥ न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे ॥ ९.५६ ॥ दयितया मानपरयापरया त्वरितं ययावगदितापि सखी । किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदाम् ॥ ९.५७ ॥ प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया । क्रियतेऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि माम् ॥ ९.५८ ॥ अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह । तव गोप्यते किमिव कर्तुमिदं न सहास्मि साहसमसाहसिकी ॥ ९.५९ ॥ तदुपेत्य मा स्म तमुपालभथाः क्ल दोषमस्य न हि विद्म वयम् । इति सम्प्रधार्य रमणाय वधूर्विहितागसेऽपि विससर्ज सखीं ॥ ९.६० ॥ ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किलाभिदधे । निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशीरशरैः ॥ ९.६१ ॥ ब्रुवते स्म दूत्य उपसृत्य नरान्तरवत्प्रगल्भमतिगर्भगिरः । सुहृदर्थमीहितमजिह्मधियां प्रकृतेर्विराजति विरुद्धमपि ॥ ९.६२ ॥ मम रूपकीर्तिमहरद्भुवि यस्तदनु प्रविष्टहृदयेयमिति । त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥ ९.६३ ॥ तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः । घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥ ९.६४ ॥ उपतप्यमानमलघूष्णिभिः श्वसितैः सितेतरसरोजदृशः । द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ॥ ९.६५ ॥ दधति स्फुटं रत्पतेरिषवः शिततां यदुत्पलपलाशदृशः । हृदयं निरन्तरबृहत्कठिनस्तनमणडलावरणमप्यभिदन् ॥ ९.६६ ॥ कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा । अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपाति यद्विशिखैः ॥ ९.६७ ॥ विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः । अमृतुतस्रुऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः ॥ ९.६८ ॥ उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः । विदितेङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ॥ ९.६९ ॥ दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमम् । उदिते ततः सपदि लब्धपदैः क्षणदाकरेऽनुपदिभिः प्रयये ॥ ९.७० ॥ निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितासिकुलम् । दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ॥ ९.७१ ॥ उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलितां । रभसोत्थितामुपगतः सहसा परिरभ्य कञ्चन वधूमरुधत् ॥ ९.७२ ॥ अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता । मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ॥ ९.७३ ॥ अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता । दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ॥ ९.७४ ॥ कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया । क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे ॥ ९.७५ ॥ पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद कोऽयमिति । अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधून्यगदत् ॥ ९.७६ ॥ उदितोरुसादमतिवेपथुमत्सुदृशोऽभिभर्तृ विधुरं त्रपया । वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि वाढमभूत् ॥ ९.७७ ॥ पिमन्धराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ । स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः ॥ ९.७८ ॥ मधुरान्नतभ्रू ललितं च दृशोः सकरप्रयोगचतुरं च वचः । प्रकृति स्थमेव निपुणागमितं स्फुचनृत्तलीलमभवत्सुतनोः ॥ ९.७९ ॥ तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयम् । प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य मयि गोत्रभिदा ॥ ९.८० ॥ न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया । हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतामाम् ॥ ९.८१ ॥ इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम् । स्वकरावलम्बनविमुक्तगलत्कलकाञञ्चि काञ्चिदरुणत्तरुणः ॥ ९.८२ ॥ अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुषे मृगाक्ष्या । कलयन्नपि सव्यथोऽवतस्थेऽशकुनेन स्खलितः किलेतरोऽपि ॥ ९.८३ ॥ आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नामितमुखेन्दु मानवत्या । तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ॥ ९.८४ ॥ सुदृशः सरसव्यलीक तप्तस्तरसास्लष्टवतः सयौवनोष्मा । कथमप्यभवत्स्मरानलोष्मणः स्तनभारो न नखंपचः प्रियस्य ॥ ९.८५ ॥ दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् । बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ॥ ९.८६ ॥ इत्थं नारीर्घटयितुमलं कामिभिः काममासन् प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः । आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासाम् ॥ ९.८७ ॥ _____________________________________________________________ सञ्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि । आयुषः शुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ॥ १०.१ ॥ सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन । ते मुहूर्तमथ मूर्तमपीप्यन् प्रम मानमवधूय वधूः स्वाः ॥ १०.२ ॥ कान्ताकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ । स्वादुनि प्रणदितालिनि शीते निर्विवार मधुनीन्द्रियवर्गः ॥ १०.३ ॥ कापिशायनसुगन्धि विघूर्णन्नुन्मदोऽधिशयितुं समशेत । फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्ध्रिः ॥ १०.४ ॥ बिम्बितं बृतपरिस्रुति जानन् भाजने जलजमित्यबलायाः । घ्रातुमक्षि पतति भ्रमरः स्म भ्रान्तिभाजि भवति क्व विवेकः ॥ १०.५ ॥ दत्तमिष्टतमया मधु पत्युर्बाडमाप पिबतो रसवत्ताम् । यत्सुवर्णमुकुटांशुभिरासाच्चेतनाविरहितैरपि पतिम् ॥ १०.६ ॥ स्वदनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसोऽत्र । अन्यमन्यदिव यन्मनधु यूनः स्वादमिष्टमतनिष्ट तदेव ॥ १०.७ ॥ बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते । आननैर्मधुरसो विकसदभिर्नासिकाभिरसितोत्पलगन्धः ॥ १०.८ ॥ पतिवत्यभिमते मधुतुल्यस्वादमोष्ठकं विददङ्क्षौ । लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः ॥ १०.९ ॥ कस्यचित्समदनं मदनीयप्रयसीवदनपानपरस्य । स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभूत् ॥ १०.१० ॥ पीतशीतधुमधुरैर्मिधुनानामाननैः परिहृतं चषकान्तः । व्रीडया रुददिवालिविरावैर्नीलनीरजमगच्छदधस्तात् ॥ १०.११ ॥ प्रातिभत्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः । गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ॥ १०.१२ ॥ हावकारि हसितं वचनानां खौशलं दृशि विकारविशेषाः । चकिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥ १०.१३ ॥ अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् । क्षालितं नु शमितं नु वधूनां द्रवितं नु हृदयं मधुवारैः ॥ १०.१४ ॥ सन्तमेव चिरप्रकृतत्वादप्रकाशितमद्द्युतङ्गे । विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥ १०.१५ ॥ सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु । गन्तुमुत्थिमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥ १०.१६ ॥ मद्यमन्दविगलत्त्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या । वीक्ष्यते स्म शनकैर्नववध्वा कामिनोमुखमधोमुखयैव ॥ १०.१७ ॥ या कथञअचन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे । व्रीडाजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ॥ १०.१८ ॥ छादितः कथमपि त्रपययान्तर्यः प्रियं प्रति चिराय रमण्याः । वारुणीमदविशङअगमथाविश्चक्षुषोऽभवदसाविव रागाः ॥ १०.१९ ॥ आगतानगणितप्रतियातान् वल्लभानभिसिसारयिषूणाम् । प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ॥ १०.२० ॥ मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता । योषिदित्यभिलाष न हालां दुस्त्यजः खलु सुखादपि मानः ॥ १०.२१ ॥ ह्रीविमोहमहरद्दयितानामन्तिकं रतिसुखाय निनाय । सप्रसादमिव सेवितमासीत्सद्य एव फलदं मधु तासाम् ॥ १०.२२ ॥ दत्तमात्तमदनं दयितेन व्याप्तमतिशाकेन रसेन । सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ॥ १०.२३ ॥ लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः । मोदितालिरितरेतरयोगादन्यतामभजतातिशयं नु ॥ १०.२४ ॥ मानभङ्गपचटुना सुरतेच्छां तन्वता प्रथयता दृशि रागम् । लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन ॥ १०.२५ ॥ पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः । प्रेयसामधररागरसेन स्वं किलाधरमुपालि ररञ्जुः ॥ १०.२६ ॥ अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन । उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ॥ १०.२७ ॥ अन्यान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या । पीतभूरिसुरयापि नमेदे निर्वृतिर्हिमनसो मदहेतुः ॥ १०.२८ ॥ कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा । कोपितं विरहखेदितचित्ता कान्तमेव कलयन्त्यनुनिन्ये ॥ १०.२९ ॥ कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवगचाम् । ईर्ष्ययेव हरता ह्रियमासां तद्गुणः स्वयमकारि मदेन ॥ १०.३० ॥ गण्डभित्तिषु पुरा सदृशीषु व्याञ्जि नाञ्जितदृशां प्रतिमेन्दुः । पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृतिरासीत् ॥ १०.३१ ॥ उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः । योषितामतिमदेन जुघूर्णुर्विभ्रमातिशयपुंसि वपूंषि ॥ १०.३२ ॥ चारुता वपुरभूषयदासां तामनूननवयौवनयोगः । तं पुनर्मकरकेतनलक्षक्ष्मीस्तां मदो दयितसंगमभूषः ॥ १०.३३ ॥ क्षीबतामनुगतास्वनुवेलं तासु रोषपरितोषवतीषु । अग्रहीन्न सशरं धनुरुज्झामास नूज्झितनिषङ्गमनङ्गः ॥ १०.३४ ॥ शहङ्गयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव । न क्षमं भवति तत्वविचारे मत्सरेण हतसंवृति चेतः ॥ १०.३५ ॥ आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि । आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम् ॥ १०.३६ ॥ रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि । चाटु चाकृतकसंभ्रममासां कार्मणत्वमगमन्रमणेषु ॥ १०.३७ ॥ लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन । मानवञ्जनविदा वदनेन क्रीतमेव हृदयं दयितस्य ॥ १०.३८ ॥ स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय । सन्नतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च ॥ १०.३९ ॥ यूनि रागतरलैरपि तिर्यक्पातिभिः श्रुतिगुणेन युतस्य । दीर्घदर्शिभिरकारि वधूनां लङ्घनं न नयनैः श्रवणस्य ॥ १०.४० ॥ संकथेच्छुरभिधातुमनीशा संमुखी न च बभूव दिदृक्षुः । स्पर्शनेन दयितस्य नतभ्रूरङ्गचपलापि चकम्पे ॥ १०.४१ ॥ उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गम् । आचरिष्ट विकटेन विवोढुर्वक्षसैव कुचमणडलमन्या ॥ १०.४२ ॥ अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा । भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥ १०.४३ ॥ संजहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम् । संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुम् ॥ १०.४४ ॥ स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपक्षि रसेन । आत्मनैव रुरुधे कृतिनेव स्वसङ्गि वसनं जघनेन ॥ १०.४५ ॥ पीडिते पुर उरः प्रतिषेधं भर्तरि स्तनयुगेन युवत्याः । स्पष्टमेव दलतः प्रतिनार्यस्तन्मयत्वमभवद्धृदयस्य ॥ १०.४६ ॥ दीपितस्मरमुरस्यपपीडं वल्लभे घनमभिष्वजमाने । वक्रतां न ययतुः कुचकुम्भौ सुभ्रुवः कठिनतातिशयेन ॥ १०.४७ ॥ संप्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानाम् । आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन् ॥ १०.४८ ॥ स्नहनिर्भरमदत्त वधूनामार्द्रतां वपुरसंशयमन्तः । यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृषे यदनेन ॥ १०.४९ ॥ न स्म माति वपुषः प्रमदानामन्तरिष्टतमसङ्गमजन्मा । तद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ॥ १०.५० ॥ यत्प्रियव्यतिकराद्वनितानमङ्गजेन पुलकेन बभूवे । प्रापि तेन भृशमुच्छ्वसिभिर्नीविभिः सपदि बन्धनमोक्षः ॥ १०.५१ ॥ ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य । अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीत् ॥ १०.५२ ॥ पल्वोपमितसाम्यसपक्षं दष्टत्यधरबिम्बमभीष्टे । पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ॥ १०.५३ ॥ केनचितन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु । ओष्ठपल्लवमवाप्य मुहूर्त सुभ्रुवः सरसमक्षि चुचुम्बे ॥ १०.५४ ॥ रेचितं परिजनेन महीयः केवलाभिरतदम्पति धाम । साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः ॥ १०.५५ ॥ आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वतयेन । रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ॥ १०.५६ ॥ कामिनामसकलानि विभुग्नैः स्वदवारिमृदुभिः करजाग्रैः । आक्रियन्त कठिनेषु कथञ्चित्कामिनीकुचतटेषु पदानि ॥ १०.५७ ॥ सोष्मणः स्तनशिलाशिखराग्रादात्तघर्मसलिलैस्तरुणानाम् । उच्छ्वसत्कमलचारुषु हस्तैनिम्ननाभिसरसीषु निपेते ॥ १०.५८ ॥ आमृशद्भिरभितो वलिवीचिर्लोलमानवितताङ्गुलिहस्तैः । सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मघ्यमभीष्टैः ॥ १०.५९ ॥ प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय । औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम् ॥ १०.६० ॥ कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि । मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत्परिधानम् ॥ १०.६१ ॥ अम्बरं विनयतः प्रियपाणेर्योषितस्य करयोः कलहस्य । वारणमिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्चे ॥ १०.६२ ॥ ग्रन्थिमुद्ग्रथयितुं हृदयदेशे वाससः स्पृशति मानधनायाः । भ्रूयुगेण सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ॥ १०.६३ ॥ आशु लङ्घितवतीष्टकराग्रे नीवीमर्धमुकुलीकृतदृष्ट्या । रक्तवैणिक हताधरतन्त्रीमण्डलक्वणितचारु चुकूजे ॥ १०.६४ ॥ आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये । श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ॥ १०.६५ ॥ चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणाम् । कामिनामनिभृतान्यपि रम्भास्त म्भकोमलतलेषु नखानि ॥ १०.६६ ॥ ऊरुमूलचपलेक्षणमघ्नन् यैर्वतंसकुसुमैः प्रियमेताः । चक्रिरे सपदि तानि यथार्थ मन्मथस्य कुसुमायुधनाम ॥ १०.६७ ॥ धैर्यमुल्बणमनोभवभवा वामतां च वपुरर्पितवत्यः । व्रीडितं ललित सौरतधार्ष्ट्यअस्तेनिरेऽभिरुचितेषु तरुण्यः ॥ १०.६८ ॥ पाणिरोधमविरोधवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः । कामिनः स्म कुरुते करभोरुर्हअरि शुष्करुदितं च सुखऽपि ॥ १०.६९ ॥ वारणार्थपदगद्गदवाचामीर्ष्यया मुहुरपत्रपया च । कुर्वते स्म सुदृशामनुकूलं प्रतिकूलिकतयैव युवानः ॥ १०.७० ॥ अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव । धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥ १०.७१ ॥ बाहुपीडनकचग३ अणाभ्यामाहतेन नखदन्तनिपातैः । बोधितस्तनुशयतरुणीनामुन्मिमील विशदं विषमेषु ॥ १०.७२ ॥ कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष । संहतस्तनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलमपश्यत् ॥ १०.७३ ॥ आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात । त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्चटरिव मौक्तिकवृष्टिः ॥ १०.७४ ॥ सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि । हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥ १०.७५ ॥ उद्धतैर्निभृतमेकमनेकैश्छदवन्मृगदृशामविरामैः । श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ॥ १०.७६ ॥ ईदृशस्य भवतः खतमेतल्लाघवं मुहुरतीव रतेषु । क्षिप्तमायतमदर्शयदुर्व्या काञ्चिदाम जघनस्य महत्वम् ॥ १०.७७ ॥ प्रप्यते स्म गतचित्रकचित्रैश्चत्रमार्द्रनखलक्ष्मकपोलैः । दध्रिरेऽथ रभसच्युतपुष्पाः स्वबिन्दुकुसुमान्यलकान्ताः ॥ १०.७८ ॥ यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि त्तदकुर्वन् । आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः ॥ १०.७९ ॥ प्राप्य मन्मथरसादतिभूमिं दुर्वहस्तनभराः सुरतस्य । शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः ॥ १०.८० ॥ संगताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव । भूय एव समगंस्त रतान्ते ह्रीवधूभिरसहा विरहस्य ॥ १०.८१ ॥ प्रेक्षणीयकमेव क्षणमासन् ह्रीविभङ्गुरविलोचनपाताः । संभ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः ॥ १०.८२ ॥ अप्रभूतमतनीयसि तन्वी काञ्चिधाम्निपिहितैकतरोरु । क्षौममाकुलकरा विचकर्ष कान्तापल्लवमभीष्टतमेन ॥ १०.८३ ॥ मृष्टचन्दनविशेषकभक्तिर्म्रषअटभूषणकदर्थितमाल्यः । सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः ॥ १०.८४ ॥ योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे । मेखलेव परितः स्म विचित्रा राजते वननखक्षतलक्ष्मीः ॥ १०.८५ ॥ भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगणडतलेषु । दन्तवाससि समानगुणश्रीः संमुखोऽपि परभागमवाप ॥ १०.८६ ॥ सुभ्रुवामधिपयोधरपीठं पीडनैस्त्रुटितवत्यपि पत्युः । णुक्तमौक्तिकलघुगुणशेषा हारयष्चिरभवत्गुरुरेव ॥ १०.८७ ॥ विश्रमार्थमुपगूढमजस्रं यत्प्रियैः प्रथमरत्यवसाने । योषितामुदितमन्मथमादौ तद्द्वितीयसुरतस्य बभूव ॥ १०.८८ ॥ आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः । दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः ॥ १०.८९ ॥ योषितामतितरां नखलूनं गात्रमुज्जवलतया न खलूनम् । क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनाम् ॥ १०.९० ॥ इति मदमदनाभ्यां रागिणः स्पष्टरागननवरतरतश्रीसङ्गिनस्तानवेक्ष्य । अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाधोमुखीव ॥ १०.९१ ॥ _____________________________________________________________ श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततममृषभहीनं भिन्नकीकृत्य षड्जम् । प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ॥ ११.१ ॥ रतिरभसविलासाभ्यासतान्तं न यावन्नयनयुगममीलत्तावदेवाहतोऽसौ । रजनिविरतिशंसी कामिनीनां भविष्यद्विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः ॥ ११.२ ॥ स्फुटतरमुपरिष्टादल्पमूर्तेर्ध्रुवस्य स्फुरति सुरमुनीनां मण्डलं व्यस्तमेत् । शकटमिव महीयः शैशवे शार्ङ्गपाणेश्चपलचरणकाब्जप्रेरणोत्तुङ्गिताग्रम् ॥ ११.२ ॥ प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति । मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुद्ध्यते नो मनुष्यः ॥ ११.४ ॥ विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छञ्जीवितेशोऽवकाशम् । रतिपरिचयनश्यन्नैन्द्रतन्द्रः कथञ्चिद्गमयति शयनीये शर्वरी किं करोतु ॥ ११.५ ॥ क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगानुदधिमहति राज्ये काव्यवद्दुर्विगाहे । गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ॥ ११.६ ॥ क्षितितटशयनान्तादुत्थितं दानपङ्गप्लुतबहुलशरीरं शाययत्येष भूयः । मृदुचलदपरान्तोदीरितान्दूनिनादं गजपतिमधिरोहः पक्षकव्यत्ययेन ॥ ११.७ ॥ द्रुततरकरदक्षाः क्षिप्तवैशखशैले दधति दधनि धीरानारवान्वारिणीव । शशिनमिव सुरौघाःसारमुद्धर्तुमेते कलशिमुदधिगुर्वी वल्लवा लोडयन्ति ॥ ११.८ ॥ अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्पे । कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैवा शिलिष्यति प्राणनाथम् ॥ ११.९ ॥ गतमनुगतवीणैरेकतां वेणुनादैः कलमविकलतालं गायकैर्बोधहेतोः । असकृदनवगीतं गीतमाकर्णयन्तः सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः ॥ ११.१० ॥ परिशिथिलितकर्णग्रीवमामीलिताक्षः क्षणमयमनुभूय स्वप्नमूर्ध्वज्ञुरेव । रिरसयिषति भूयः शष्पमग्रे विकीर्णं पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥ ११.११ ॥ उदयमुदितदीप्तिर्याति यः संगतौ मे पतति न वरमिन्दुः सोऽपरामेष गत्वा । स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति स्फुरति विशदमेषा पूर्वकाष्ठाङ्गनायाः ॥ ११.१२ ॥ चिररतिपरिखेद प्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः । अपरिचलितगात्राः कुर्वतेन प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥ ११.१३ ॥ कृतधवलिमभेदैः कुङ्कुमेनेव किञ्चिन्मलयरुहरजोभिर्भूषयन्पश्चिमाशाम् । हिमरुचिररुणिम्ना राजते रज्यमानैर्जरठकमलकन्दच्छेदगौरैर्मयूखैः ॥ ११.१४ ॥ दधदसकलमेकं खण्डितामानमद्भिः श्रियमपरमपूर्णामुच्छ्वसद्भिः पलाशैः । कलरवमुपगीते षट्पदौघेन धत्तः कुमुदकमल षण्डे तुल्यरूपामवस्थाम् ॥ ११.१५ ॥ मदरुचिमरुणेनोद्गच्छता लम्भितस्य त्यजत इव चिराय स्थायिनीमाशु लज्जाम् । वसनमिव मुखस्य स्रंसते संप्रतीदं सितकरकरजालं वासवाशायुवत्याः ॥ ११.१६ ॥ अविरतरतलीलायाःसजातश्रमाणामुपशममुपयान्तं निःसहेऽङ्गेऽङ्गनानाम् । पुनरुषसि विविक्तैमर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥ ११.१७ ॥ अनिमिषमविरामा रागिणां सर्वरात्रं नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य । इदमुदवसितानामस्फुटालोकसंपन्नयनमिव सनिद्रं घूर्णते दैपमर्चिः ॥ ११.१८ ॥ विकचकमलगन्धैरन्धयन्भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वातः । प्रमदनमदनमाद्यद्यौवनोद्दामरामारमणरभसखेदस्वेदविच्छेददक्षः ॥ ११.१९ ॥ लुलितनयनताराः क्षामवक्त्रेन्दुबिम्बा रजनय इव निन्द्राक्लान्तनीलोत्पलाक्ष्यः । तिमिरमिव दधानाः स्रंसिनः केशपाशानवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥ ११.२० ॥ शिशिरकिरणकान्तं वासरान्तेऽभिसार्य श्वसनसुरभिगन्धिः साम्प्रतं सत्वरेव । व्रजति रजनिरेषा तन्मयूखाङ्गरागैः परिमलितमनिन्द्यैरम्बरान्तं वहन्ती ॥ ११.२१ ॥ नवकुमुदवनश्रीहासकेलिप्रसङ्गादधिकरुचिरशेषामप्युषां जागरित्वा । अयमपरदिशोऽङ्गे मुञ्चति स्रस्तहस्तः शिशयिषुरपि पाण्डुं म्लानमात्मानमिन्दुः ॥ ११.२२ ॥ सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं वल्लभेनाङ्गनायाः । वसनमपि निशान्ते नेष्यते तत्प्रदातु रथचरणविशालश्रेणिलोलेक्षणेन ॥ ११.२३ ॥ सपदि कुमुदिनीभिर्मीलितं हा क्षपापि क्षयमगमदपेतास्तारकास्ताः समस्ताः । इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दुर्वहति कृशमशेषं भ्रष्टशोभं शुचेव ॥ ११.२४ ॥ व्रजतिविषयमक्ष्णामंशुमाली न यावत्तिमिरमखिलमस्तं तावदेवारुणेन । परपरिभवि तेजस्तन्वतामाशु कर्तुं प्रभवति हि विपक्षोच्छेदमग्रेसरोऽपि ॥ ११.२५ ॥ विगततिमिरपङ्गं पश्यति व्योम यावद्धुवति विरहखिन्नः पक्षती यावदेव । रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता चक्रवाकी ॥ ११.२६ ॥ मुदितयुवमनस्कास्तुल्यमेव प्रदोषे रुचमदधुरुभय्यः कल्पिता भूषिताश्च । परिमलरुचिराभिर्न्यक्कृतास्तु प्रभाते युवतिभिरुपभोगान्नीरुचः पुष्पमालाः ॥ ११.२७ ॥ विलुलितकमलौघः कीर्णवल्लीवितानः प्रतिवनमवधूताशेषशाखिप्रसूनः । क्वचिदयमनवस्थः स्थास्नुतामेति वायुर्वधुकुसुमविमर्देद्गन्धिवेश्मान्तरेषु ॥ ११.२८ ॥ नखपदवलिनाभीसन्धिभागेषु लक्ष्यः क्षतिषु च दशनानामङ्गनायाः सशेषः । अपि रहसि कृतानां वाग्विहीनोऽपिजातः सुरतविलसितानां वर्णको वर्णकोऽसौ ॥ ११.२९ ॥ प्रकटमलिनलक्ष्मा मृष्टपत्रावलीकैरधिगतरतिशोभैः प्रत्युषः प्रोषितश्रीः । उपहसित इवासौ चान्द्रमाः कामिनीनां परिणतशरकाण्डापाण्डुभिर्गण्डभागैः ॥ ११.३० ॥ सकलमपि निकामं कामलोलान्यनारीरतिरभसविमर्दैर्भिन्नवत्यङ्गरागे । इदमतिमहदेवाश्चर्यमाश्चर्यधाम्नस्तव खलु मुखरागो यन्न भेदं प्रयातः ॥ ११.३१ ॥ प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः स्फुटमिति सविशङ्गं कान्तया तुल्यवर्णः । चरणतलसरोजाक्रान्तिसंक्रान्तयासौ वपुषि नखविलेखो लाक्षया रक्षितस्ते ॥ ११.३२ ॥ तदवितथमवादीर्यन्मम त्वं प्रियजनपरिभुक्तं यद्दुकूलं दधानः । मदधिवसतिमागाःकामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन ॥ ११.३३ ॥ नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥ ११.३४ ॥ इतिकृतवचनायाः कश्चिदभेत्य बिभ्यद्गलितनयनवारेर्याति पादावनामम् । करुणमपि समर्थं मानिनां मानभेदे रुदितमुदितमस्त्रं योषितां विग्रहेषु ॥ ११.३५ ॥ मदनमदनविकासस्पष्टधार्ष्ट्येदयानां रतिकलहविकीर्णैर्भूषणैरर्चितेषु । विदधति न गृहेषूत्फुल्लपुष्पोपहारं विफलविनययत्नाः कामिनीनां वयस्याः ॥ ११.३६ ॥ करजदशनचिह्नं निशमङ्गेऽन्यनारीजनितमिति सरोषमीर्ष्यया शङ्कमानाम् । स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं व्रीडमानां विलासी ॥ ११.३७ ॥ कृतगुरुतरहारच्छेदमालिङ्ग्य पत्यौ परिशिथिलितगात्रे गन्तुमापृच्छमाने । विगलितनवमुक्तास्थूलभाष्पाम्बुबिन्दु स्तनयुगमबलायास्तत्क्षणं रोदितीव ॥ ११.३८ ॥ बहुजगदपुरस्तात्तस्य मत्ता किलाहं चकर च किल चाटु प्रौढयोषिद्वदस्य । विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य व्यपगतमदयाह्नि व्रीडितं मुग्धवध्वा ॥ ११.३९ ॥ अरुणजलजराजीमुग्धहस्ताग्रपादा बहुलमधुपमालाकज्जलेन्दीवराक्षी । अनुपतति विरावैः पत्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसन्ध्या सुतेव ॥ ११.४० ॥ प्रतिशरणमशीर्णज्योतिरग्न्याहितानां विधिविहितविरिब्धैः सामिधेनीरधीत्य । कृतगुरुदुरितौघध्वंसमध्वर्युवर्यैर्हुतमयमुपलीढे साधु साम्नाय्यमग्निः ॥ ११.४१ ॥ प्रकृतजपविधीनामास्यमुद्रश्मिदन्तं मुहुरपिहितमोष्ठ्यैरक्षरैर्लक्ष्यमन्यैः । अनुकृतिमनुवेलं घट्टितोद्घट्टितस्य व्रजति नियमभाजां मुग्धमुक्तापुटस्य ॥ ११.४२ ॥ नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणेर्भाति भासां वितानम् । जनितभुवनदाहारम्भमम्भांसि दग्ध्वा ज्वलितमिव महाब्धेरूर्ध्वमौर्वानलार्चिः ॥ ११.४३ ॥ विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव गरीयान्दिग्भिराकृष्यमाणः । कृतचपलविहङ्गालापकोलाहलाभिर्जलनिधिजलमध्यादेष उत्तार्यतेर्ऽकः ॥ ११.४४ ॥ पयसि सलिलराशेर्नक्तमन्तर्निमग्नः स्फुटमनिशमतापि ज्वालया बाडवाग्नेः । यदयमिदमिदानीमङ्गमुद्यन्दधाति ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् ॥ ११.४५ ॥ अतुहिनरुचिनासौ केवलं नोदयाद्रिः क्षणमुपरिगतेन क्ष्माभृतः सर्व एव । नवकरनिकरेण स्पष्टबन्धूकसूनस्तबकरचितमेते शेखरं बिभ्रतीव ॥ ११.४६ ॥ उदयशिखरिशृङ्गप्राङ्गणेष्वेव रिङ्गन् सकमलमुखहासं वीक्षितः पद्मिनीभिः । विततमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवोऽङ्गके हेलया बालसूर्यः ॥ ११.४७ ॥ क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः प्रणतिपरमवेक्ष्य प्रीतमह्नाय लोकम् । भुवनतलमशेषं प्रत्यवेक्षिष्यमाणः क्षितिधरपीठादुत्थितः सप्तसप्तिः ॥ ११.४८ ॥ परिणतमदिराभं भास्करेणोंशुबाणैस्तिमिरकरिघटायाः सर्वदिक्षु क्षतायाः । रुधिरमिव वहन्त्यो भान्ति बालातपेनच्छुरितमुभयरोधोवारितं वारि नद्यः ॥ ११.४९ ॥ दधतिपरिपतन्त्यो जालवातायनेभ्यस्तरुणतपनभासो मन्दिराभ्यन्तरेषु । प्रणयिषु वनितानां प्रातरिच्छत्सु गन्तुं कुपितमदनमुक्तोत्तप्तनाराचलीलाम् ॥ ११.५० ॥ अधिरजनि वधूभिः पीतमैरेयरिक्तं कनकचषकमेतद्रोचनालोहितेन । उदयदहिमरोचिर्ज्योतिषाक्रान्तमन्तर्मधुन इव तथैवापूर्णमद्यापि भाति ॥ ११.५१ ॥ सितरुचिशयनीये नक्तमेकान्तमुक्तं दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति । निजमिति रतिबन्धोर्जानतीमुत्तरीयं परिहसति सखी स्त्रीमाददानां दिनादौ ॥ ११.५२ ॥ प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु स्फटिकमयराजद्राजताद्रिस्थलाभम् । अरुणितमकठोरैर्वेश्म काश्मीरजाम्भःस्नपितमिव तदेतद्भानुभिर्भाति भानोः ॥ ११.५३ ॥ सरसनखपदान्तर्दष्टकेशप्रमोकं प्रणयिनि विदधाने योषितामुल्लसन्त्यः । विदधति दशनानां सीत्कृताविष्कृतानामभिनवरविभासः पद्मरागानुकारम् ॥ ११.५४ ॥ अविरतदयिताङ्गासङ्गसञ्चरितेन छुरितमभिनवासृक्कान्तिना कुङ्कुमेन । कनकनिकषरेखा कोमलं कामिनीनां भवति वपुरवाप्तच्छायमेवातपेऽपि ॥ ११.५५ ॥ सरसिजवनकान्तं बिभ्रदभ्रान्तवृत्तिः करनयनसहस्रं हेतुमालोकशक्तेः । अखिलमतिमहिम्ना लोकमाक्रान्तवन्तं हरिरिव हरिदश्वः साधु वृत्रं हिनस्ति ॥ ११.५६ ॥ अवतमसभिदायै भास्वताम्युद्गतेन प्रसभमुडुगणोऽसौ दर्शनीयोऽप्यपास्तः । निरसितुमरिमिच्छोर्ये तदीयाश्रयेण श्रियमधिगतवन्तस्तेऽपि हन्तव्यपक्षे ॥ ११.५७ ॥ प्रतिफलति करौघे संमुखावस्थितायां रजतकटकभित्तौ सान्द्रचन्द्रांशुगौर्याम् । बहिरभिहतमद्रेः संहतं कन्दरान्तर्गतमपि तिमिरौघं घर्मभानुर्भिनत्ति ॥ ११.५८ ॥ बहिरपि विलसन्त्यः काममानिन्यिरे यद्दिवसकररुचोऽन्तं ध्वान्तमन्तर्गृहेषु । नियतविषयवृत्तेरप्यनल्पप्रतापक्षतसकलविपक्षस्तेजसः स स्वभावः ॥ ११.५९ ॥ चिरमतिरसलौल्याद्बन्धनं लम्भितानां पुनरयमुदयाय प्राप्य धाम स्वमेव । दलितदलकपाटः षट्पदानां सरोजे सरभस इव गुप्तिस्फोटमर्कः करोति ॥ ११.६० ॥ युगपदयुगसप्तिस्तुल्यसंख्यैर्मयूखैर्दशशतदलभेदं कौतुकेनाशुकृत्वा । श्रियमलिकुलगीतैर्लालितां पङ्कजान्तर्भवनमधिशयानामादरात्पश्यतीव ॥ ११.६१ ॥ अदयमिव कराग्रैरेष निपीड्य सद्यः शशधरमहरादौ रागवानुष्णरश्मिः । अवकिरति नितान्तं कान्तिनिर्यासमब्दस्रुतनवजलपाण्डुं पुण्डरीकोदरेषु ॥ ११.६२ ॥ प्रविकसति चिराय द्योतिताशेषलोके दशशतकरमूर्तावक्षिणीव द्वितीये । सितकरवपुषासौ लक्ष्यते संप्रति द्यौर्विगलितकिरणेन व्यङ्गितैकेक्षणेव ॥ ११.६३ ॥ कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मुदमुलूकः प्रीतिमाश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः ॥ ११.६४ ॥ क्षणमतुहिनधाम्नि प्रेष्य भूयः पुरस्तादुपगतवति पाणिग्राहवद्दिग्वधूनाम् । द्रुततरमुपयाति स्रंसमानांशुकोऽसावुपपातिरिति नीचैः पश्चिमान्तेन चन्द्रः ॥ ११.६५ ॥ प्रलयमखिलतारालोकमह्नाय नीत्वा श्रियमनतिशयश्रीः सानुरागां दधानः । गगनसलिलराशिं रात्रिकल्पावसाने मधुरिपुरिव भास्वानेष एकोऽधिशेते ॥ ११.६६ ॥ कृतसकलजगद्विबोधोऽवधूतान्धकारोदयः क्षयितकुमुदतारकश्रीर्वियोगं नयन्कामिनः । बहुतरगुणदर्शनादभ्युपेताल्पदोषः कृती तव वरद करोतु सुप्रातमह्नामयं नायकः ॥ ११.६७ ॥ _____________________________________________________________ इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्बहिः । प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपमुदैक्षताच्युतम् ॥ १२.१ ॥ स्वक्षं सुपत्रं कनकोज्वलद्युतिं जवेन नागाञ्जितवन्तमुच्चकैः । आरुह्य तार्क्ष्य नभसीव भूतले ययावनुद्घातमुखेन सोऽध्वना ॥ १२.२ ॥ हस्तस्थिताखण्डितचक्रशालिनं द्वजेन्द्रकान्तं श्रितवक्षसं श्रिया । सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शाङ्गिणमन्ययासिषुः ॥ १२.३ ॥ शुक्लैः सतारैर्मुकुलीकृतैः स्थूलैः कुमुद्वतीनां कुमुदाकरैरिव । व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकमभूत्समं तदा ॥ १२.४ ॥ उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः । आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम् ॥ १२.५ ॥ स्वैरं कृतास्फालनललितान्पुरः स्फुरत्नून्दर्शितलाघवक्रियाः । वङ्गावलग्नैकसवल्गपाणयस्तुरङ्गमानारुरुहुस्तुरङ्गिणः ॥ १२.६ ॥ अह्नाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने । तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ॥ १२.७ ॥ गण्डोज्वलामुज्ज्वनाभिचक्रया विराजमानां नवयोदरश्रिया । कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोजाधिधुरां वधूमिव ॥ १२.८ ॥ उत्थातुमिच्छन्विधृतः पुरो बलान्निधीयमाने भरभाजि यन्त्रके । अर्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणः स्फुटार्थताम् ॥ १२.९ ॥ नस्यागृहीतोऽपि धुवन्विषाणयोर्युगं ससूत्कारविवर्तितत्रिकः । गोणीं जनन स्म निधातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति ॥ १२.१० ॥ नानाविधाविष्कृसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः । गान्धर्वभूय्ष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः ॥ १२.११ ॥ प्रत्यन्यनागं चल्तस्तरावता निरस्य कुण्ठं दधतान्यमङ्कुशम् । मूर्धानमूर्ध्वायतदन्तमण्डलं धुवन्नरोधि द्विरदां निषादिना ॥ १२.१२ ॥ समूर्च्छदुच्छृङ्खलशङ्खनिस्वनः स्वनः प्रयाते पटहस्य शार्ङ्गिणि । स्वानिनिन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीघृताम् ॥ १२.१३ ॥ कालीयकक्षोदविलेपनश्रियं दिशद्दिशमुल्लसदंशुमद्द्युति । खातं खुरैमुद्गभुजां विपप्रते गिरेरधः काञ्चनभूमिजं रजः ॥ १२.१४ ॥ मन्द्रैगजानां रथमण्डलस्वनैर्निजुह्नुवे तादृशमेव बृंहितम् । तारैर्बभूवे परभागलाभतः परिश्फुटैस्तेषु तुरङ्गहेषितैः ॥ १२.१५ ॥ अन्वेतुकामोऽवमताङ्गुशग्रहस्तिरोगतं साङ्गुशमुद्वहञ्शिरः । स्थूलोच्चयेनागमदन्तिकगतां गजोऽग्रयाताग्रकरः करेणुकाम् ॥ १२.१६ ॥ यन्तोऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः । अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः ॥ १२.१७ ॥ ऋज्वीर्दधानैरवतत्य कन्धराश्चलावचूडाः कलाघर्घररारवैः । भूमिर्महत्यप्यविलम्बितक्रमं क्रमेलकैस्तक्षणमेव चिच्छिदे ॥ १२.१८ ॥ तूर्ण प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्मध्वनि । आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाक्रान्तभयादिवाद्रवत् ॥ १२.१९ ॥ व्यावृत्तवक्त्रैरखिलैश्चमूचरैर्व्रजिद्भिरेव क्षणमीक्षिताननाः । वल्गद्गरीयःस्तनकम्प्रकञ्चुकं ययुस्तुरङ्गाधिरुहोऽवरोधिकाः ॥ १२.२० ॥ पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः । भग्नोन्नतानन्तरपूरितान्तरा बभुर्भुवः कृष्टसमीकृता इव ॥ १२.२१ ॥ दुर्दुन्तमुपकृत्य निरस्तसादिनं सहासहाकारमलोकयज्जनः । पर्याणतः स्रस्तमुरोविलम्बिनस्तुरङ्गमं प्रद्रुतमेकया दिशा ॥ १२.२२ ॥ भूभृद्भिरप्यस्खलिताः खलून्नतैरप्यपह्नवाना सरितः पृथूरपि । अन्वर्थसंज्ञयैव परं त्रिमार्गगा ययावसंख्यैः पथिभिश्चमूरसौ ॥ १२.२३ ॥ त्रस्तौ समासन्नकरेणुसूत्कृतान्नियन्तरि व्याकुलमुक्तरज्जुके । क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घ्य लघ्वीं करभौ बभञ्जतुः ॥ १२.२४ ॥ स्रस्ताङ्गसन्धौ विगताशापाटवे रुजा निकामं विकलीकृते रथे । आप्तेन तत्क्षणा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः ॥ १२.२५ ॥ धूर्भङ्गसंक्षोभविदारितोष्ट्रिका गलन्मधुप्लावितदूरवर्त्मनि । स्थाणौ निषङ्गिण्यनसि क्षणं पुरः शुशोच लाभाय कृतक्रयो वणिक् ॥ १२.२६ ॥ भेरिभिराक्रुष्टमहागुहामुखो ध्वजांशुकैस्तर्जितकन्दलीवनः । उत्तङ्गमातङ्गजितालघूपलो बलैः स पश्चात्कियते स्म भूधरः ॥ १२.२७ ॥ वन्येभदानानिलगन्धददुर्धुराः क्षणं तरुच्छेदविनोदितक्रुधः । व्यालद्विपा यन्तृभिरुन्मतिष्णवः कथंचिदीरादपनयेन निन्यिरे ॥ १२.२८ ॥ तैर्वजयन्तीवनराजिराजिभिर्गिरिप्रतिच्छन्दमहामतङ्गजैः । बह्व्यः प्रसर्पज्जनतानानदीशतैर्भुवो बलैरन्तरायामबभूविरे ॥ १२.२९ ॥ तस्थेमुहूर्त हरिणीविलोचनैः सदृशि दृष्ट्वा नयनानि योषिताम् । त्वाथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत ॥ १२.३० ॥ निम्नानि दुःखादवतार्य सादिभिः सयत्नमाकृष्टकशाः शनैः शनैः । उत्तेरुरुत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः ॥ १२.३१ ॥ अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धृतः । दाक्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दासेरयुवा वनावलीः ॥ १२.३२ ॥ शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः । एकातपत्रा पृथिवीभृतां गणैरभूदबहुच्छात्रतया पताकिनी ॥ १२.३३ ॥ आगच्छतोऽनूचिगजस्य घण्डयोः स्वनं समापकर्ण्य समाकुलाङ्गनाः । दूरापवर्तितभारवाहणाः पथोऽपस्रुस्त्वरितं चमूचराः ॥ १२.३४ ॥ ओजस्विवर्णोज्वलवृत्तशालिनः प्रसादिनोऽनुज्झित गोत्रसंविदः । श्लोकानुपेन्द्रस्य पुरः स्म भूयसो गुणान्समुद्दिश्य पठन्ति वन्दिनः ॥ १२.३५ ॥ निःश्शेषमाक्रान्तमहीतलो जलैश्चलन्समुद्रोऽपि समुज्झति स्थितिम् । ग्रामेषु सैन्यैरकरोदवारितैः किमव्यवस्थां चलितोऽपि केशवः ॥ १२.३६ ॥ कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः । ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं मृतानामुपरि व्यलोकयन् ॥ १२.३७ ॥ गोष्ठेषु गोष्ठीकृतमण्डलासनान्सनादमुत्थाय मुहुः स वल्गतः । ग्राम्यानपश्यत्कपिशं पिपासतः स्वगोत्रसङ्कीर्तनभावितात्मनः ॥ १२.३८ ॥ पश्यन्कृतार्थैरपि वल्लवीजनो जनाधिनाथं न ययौ वितृष्णताम् । एकान्तमौग्ध्यानवबुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः ॥ १२.३९ ॥ प्रीत्या नियुक्तांल्लिहती स्तनन्धयान्निगृह्य पारीमुभयेन जानुनोः । वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदधौ दुहतः स गोदुहः ॥ १२.४० ॥ अभ्याजतोऽभ्यागततूर्णतर्णकान्निर्याणहस्तस्य पुरोदुधुक्षतः । वर्गाद्गवां हुंकृतिचारु निर्यतीमरिर्मधोरैक्षत गोमततल्लिकाम् ॥ १२.४१ ॥ स व्रीहिणां यावदपासितुं गताः शुकान्मृगैस्तावदुपद्रुतश्रियाम् । कैदारिकाणामभितः समाकुलाः सहासमालोकयति स्म गोपिकाः ॥ १२.४२ ॥ व्येद्धुमस्मानवधानतः पुरा चलत्यसवित्युपकर्णयन्नसौ । गीतानि गोप्याः कलमं मृगव्रजो न नूनमत्तीति हरिव्यलोकयत् ॥ १२.४३ ॥ लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटिनिनादकोमलः । शौरेरुपानूपमापाहरन्मनः स्वनान्तरादुन्मदसारसारवः ॥ १२.४४ ॥ उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः । एके समूहुर्बलरेणुसंहतिं शिरोभिराज्ञामपरे महीभृतः ॥ १२.४५ ॥ प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाधिरोहति । सेना मुरारेः पथ एव सा पुनर्महामहीध्रान्परितोऽध्यरोहयत् ॥ १२.४६ ॥ दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः शिलोच्चयानारुरुहुर्महीयसः । तिर्यक्कटप्लाविमदाम्बुनिम्नगाविपूर्यमाणश्रवणोदरमं द्विपाः ॥ १२.४७ ॥ श्च्योतमन्मदाम्भकणकेन केनचिज्जनस्य जीमूतकदम्बकद्युता । नगेन गरीयसोच्चकैररोधि पन्थाः पृथुदन्तशालिना ॥ १२.४८ ॥ भग्नद्रुमाश्चक्रुरितस्ततो दिशः समुल्लसत्केतननाकुलाः । पिष्टाद्रिपृष्ठास्तरसा च दन्तिनश्चलन्निजाङ्गाचलदुर्गमा भुवः ॥ १२.४९ ॥ आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः । उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ॥ १२.५० ॥ शैलाधिरोहाब्यसनाधिकोद्धुरैः पयोधरैरामलकीवनाश्रिताः । तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविभ्रमेक्षणाः ॥ १२.५१ ॥ सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृजेन्द्रेण सुषुप्सुना पुनः । सैन्यान्न यातः समयापि विव्यथे कथं सुराजंभवमन्मथाथवा ॥ १२.५२ ॥ उत्सेधनिर्धूतमहीरुहां ध्वजैर्जनावरुद्धोद्धतसिन्धुरंहसाम् । नागैरधिक्षिप्तमहाशिलं मुहुर्बलं बभूवोपरि तन्महीभृताम् ॥ १२.५३ ॥ श्मश्रूयमाणे मघुजालके तरोर्गजेन गण्डं कषता विधूनिते । क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ॥ १२.५४ ॥ नीते पलाशिन्युचिते शरीरवत्गजान्तकेनान्तमदान्तकर्मणा । संचेरुरात्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवंगमाः ॥ १२.५५ ॥ प्रह्वानतीव क्वचिदुद्धतिश्रितः क्वचित्प्रकाशानथ गह्वरनापि । साम्यादपेतानिति वाहिनी हरेस्तदातिचक्राम गिरीन्गुरूनपि ॥ १२.५६ ॥ स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तया । अम्भोभिरुल्लङ्घित तुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः ॥ १२.५७ ॥ यावद्व्यगाहन्त न दन्तिनां घटास्तुरङ्गमैस्तावदुदीरितं खुरैः । क्षिप्तं समीरैः सरितां पुरः पतज्जलान्यनैषीद्रज एव पङ्कताम् ॥ १२.५८ ॥ रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्व्रजन्तः प्रमदं मदोद्धताः । पङ्गं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः ॥ १२.५९ ॥ रुग्णोरुरोधः परिपूरिताम्भसः समस्थलीकृत्य पुरातनीर्नदीः । कूलंकषौघाः सरितस्थापराः प्रवर्तयामासुरिभा मदाम्बुभिः ॥ १२.६० ॥ पद्मैरनन्वीतवधूमुखद्युतो गताः न हंसैः श्रियमातपत्रजाम् । दूरेऽभवन्भोजवलयस्य गच्छतः शैलोपमातीतगजस्य निम्नगाः ॥ १२.६१ ॥ स्नग्धाञ्जनश्यामतनूभिरुन्नतैर्निरन्तराला करिणां कदम्बकैः । सेना सुधाक्षालितसौधसंपदां पुरां बहूनां परभागमाप सा ॥ १२.६२ ॥ प्रासदशोभातिशयालुभिः पथि प्रभोनिवासाः पटवेश्मभिर्बभुः । नूनं सहानेन वियोगविक्लवा पुरः पुरश्रीरपि निर्ययौ तदा ॥ १२.६३ ॥ वर्ष्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरमाचचक्षिरे । गण्डस्थलाघर्षगलन्मदोदकद्रवद्रमस्कन्धनिलायिनोऽलयः ॥ १२.६४ ॥ आयामवद्भिः करिणां घटाशतैरधःकृताट्टालसपङ्क्तिरुच्चकैः । दूष्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराण्यवर्तत ॥ १२.६५ ॥ उद्धूतमुच्चैर्ध्वजिनाभिरंशुभिः प्रतप्तमभ्यर्णतयाविवस्वतः । आह्लादिकह्लारसमीरणाहते पुरः पपाताम्भसि यमुने रजः ॥ १२.६६ ॥ या घर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः । कृष्णापि शुद्धेरधिकं विधातृभिर्विहन्तुमहांसि जलैः पटीयसी ॥ १२.६७ ॥ यस्या महानीलतटीरिव द्रुताः प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः । कालीरपास्ताभिरिवानुरञ्जिताः क्षणेन भिन्नाञ्जनवर्ता घनाः ॥ १२.६८ ॥ व्यक्तं बलीयान् यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी । गङ्गौघनिर्भस्मितशम्भुकन्धरासवर्णमर्णः कथमन्यथास्य तत् ॥ १२.६९ ॥ अभ्युद्यतस्य क्रमितुं जवेन गां तमालनीला गिरां धृतायतिः । सीमेव सा तस्य पुरः क्षणं बभौ बलाम्बुराशेर्महतो महापगा ॥ १२.७० ॥ लोलैररित्रैश्चरणैरिवाभितो जवात्व्रजन्तीभिरसौ सरिज्जनैः । नौभिः प्रतेरे परितः प्लवोदितभ्रमीनिमीलल्ललनावलम्बितैः ॥ १२.७१ ॥ तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे । सद्यस्ततस्तेरुरनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः ॥ १२.७२ ॥ प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरङ्गमैरायतकीर्णवालधि । उत्कर्णमुद्वाहितधीरकन्धरैरतीर्यताग्रे तटदत्तदृष्टिभिः ॥ १२.७३ ॥ तीर्त्वा जनेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीम् । शृङ्गैरपस्कीर्णमहत्तटीभुवामशोभतोच्चैर्नदितं ककुद्मताम् ॥ १२.७४ ॥ सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरिद्भिर्गवलासितद्युतिः । सिन्दूरितानेकपकङ्गणाङ्किता तरङ्गिणी वेणिरिवायता भुवः ॥ १२.७५ ॥ अव्याहतक्षिप्रगतैः समुच्छ्रिताननुज्झितद्रामबिर्गरीयसः । नाव्यं पयःकेचिदतारिषुर्भुजैः क्षिपद्भिरूर्मीनपरैरिवोर्मिभिः ॥ १२.७६ ॥ विदलितमहाकूलामुक्ष्णां विषाणविघट्टनै रलघुचरणाकृष्टग्राहां विपणिभिरुन्मदैः । सपदि सरितं सा श्रीभर्तुर्बृहद्रथमण्डल स्खलिलमुल्लङ्घ्यैनां जगाम वरूथिनी ॥ १२.७७ ॥ _____________________________________________________________ यमुनामतीतमथ शुश्रुवानमुमुं तपसस्तनूज इति नाधुनोच्यते । स यदाचलन्निजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया ॥ १३.१ ॥ यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि । सहसा ततः स सहितोऽनुजन्मभिर्वसुधाधिपोऽभिमुखमस्यनिर्ययौ ॥ १३.२ ॥ रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः । समवादि वक्तृभिरभीष्टसङ्कथाप्रकृतार्थशेषमथ हस्तसंज्ञया ॥ १३.३ ॥ अपदान्तरं च परितः क्षितिक्षितामपतन्द्रुतभ्रमितहेमनेमयः । जविमारुताञ्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः ॥ १३.४ ॥ द्रुतमध्वनन्नुपरि पाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः । ननृतुश्च वारिधरधीरवारणध्वनिहृष्टकूजितकलाः कलापिनः ॥ १३.५ ॥ व्रजतोरपि प्रणयपूर्वमेकतामसुरारिपाण्डुसुतसैन्ययोस्तदा । ररुषे विषाणिभिरनुक्षणंमिथो मदमूढबुद्धिषु विवेकिता कुतः? ॥ १३.६ ॥ अवलोक एव नृपतेः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः । अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति सम्भ्रमेण सः ॥ १३.७ ॥ वपुषा पुराणपुरुषः पुरः क्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना । भुवनैर्नतोऽपि विहितात्त्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः ॥ १३.८ ॥ मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलम् । क्षितिपेन तावदनपेक्षितक्रमं भुजपञ्जरेण रभसादगृह्यत ॥ १३.९ ॥ न ममौ कपाटतटविस्तृतं तनौ मुरवैरिमवक्ष उरसि क्षमाभुजः । भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितोऽभिषस्वजे ॥ १३.१० ॥ गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजम् । कुरराजनिर्दय निपीडनाभयान्मुखमध्यरोहि मुरविद्विषः श्रिया ॥ १३.११ ॥ शिरसि स्म जिघ्रति सुरारिबन्धने छलवामनं विनयवामनं तदा । यशसेव वीर्यविजितामरद्रुमप्रसवेन वासितशिरोरुहे नृपः ॥ १३.१२ ॥ सुखवेदनाहृषितरोमकूपया शिथिलीकृतेऽपि वसुदेवजन्मनि । कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता ॥ १३.१३ ॥ इतरानपि क्षितिभुजोऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः । स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभोऽसभाजयत् ॥ १३.१४ ॥ समपेत्य तुल्यमहसः शिलाघनान्घनपक्षदीर्घतरबाहुशालिनः । परिशिश्लिषुः क्षितिपतीन्क्षितीश्वराः कुलिशात्परेण गिरयो गिरीनिव ॥ १३.१५ ॥ इभकुम्भतुंङ्गकठिनेतरेतरस्तनभारदूरविनिवारितोदराः । परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ॥ १३.१६ ॥ रथवाजिपत्तिकरिणीसमाकुलं तदनीकयोः समगत द्वयं मिथः । दधिरे पृथक्करिण एव दूरतो महतां हि सर्वमथवा जनातिगम् ॥ १३.१७ ॥ अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः । अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः ॥ १३.१८ ॥ रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामिव रिपोर्मुरद्विषः । अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः ॥ १३.१९ ॥ शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृति । पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुरघुवत्प्रकीर्णकम् ॥ १३.२० ॥ विकसत्कलायकुसुमासितद्युतेरलघूडुपाण्डु जगतामधीशितुः । यमुनाह्रदोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणम् ॥ १३.२१ ॥ पवनात्मजेन्द्रसुतमध्यवर्तिना नितरामरोचि रुचिरेण चक्रिणा । दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुना ॥ १३.२२ ॥ वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा । विजयश्रिया वृतमिवार्कमारुतावनुसस्रतुस्तमथ दस्रयोः सुतौ ॥ १३.२३ ॥ मुदितैस्तदेति दितिजन्मनांरिपावविनीयसम्भ्रमविकासिभक्तिभिः । उपसेदिवद्भिरुपदेष्टरीव तैर्ववृते विनीतमविनीतशासिभिः ॥ १३.२४ ॥ गतयोरभेदमिति सैन्ययोस्तयोरथ भानुतजह्नुतनयाम्भसोरिव । प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने ॥ १३.२५ ॥ मखमाक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः । उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिरैक्षत ॥ १३.२६ ॥ प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः । रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः ॥ १३.२७ ॥ असकृद्गृहीतबहुदेहसम्भवस्तदसौ विभक्तनवगोपुरान्तरम् । पुरुषः पुरं प्रविशति स्म पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः ॥ १३.२८ ॥ तनुभिस्त्रिनेत्रनयनानवेक्षितस्मरविग्रहद्युतिभिरद्युतन्नराः । प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः ॥ १३.२९ ॥ अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः । अवधीरितान्यकरणीयसत्वराः प्रतिरथ्यमीयुरथ पौरयोषितः ॥ १३.३० ॥ अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः । दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्त्यः ॥ १३.३१ ॥ रभसेन हारपददन्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः । परिवर्तिताम्बरयुगाः समापतन्वलयीकृतश्रवणपूरकाः स्त्रियः ॥ १३.३२ ॥ व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन । द्रुतयावकैकपदचित्रितावनिं पदवीं गतेव गिरिजा हरार्धताम् ॥ १३.३३ ॥ व्यचलन्विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः । भवनानि तुङ्गतपनीयसंक्रमक्रमणक्वणत्कनकनूपुराः स्त्रियः ॥ १३.३४ ॥ अधिरुक्ममन्दिरगवाक्षमुल्लसत्सदृशो रराज मुरजिद्दिदृक्षया । वदनारविन्दमुदयाद्रिकन्दराविवरोदरस्थतमिवेन्दुमण्डलम् ॥ १३.३५ ॥ अधिरूढया निजनिकेतमुच्चकैः पवनावधूतवसनान्तयैकया । विहितोपशोभमुपयाति माधवे नगरं व्यरोचत पताकयेव तत् ॥ १३.३६ ॥ करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसमैरवाकिरन् । अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः ॥ १३.३७ ॥ हिममुक्तचन्द्ररुचिरः सपद्मको मदयन्द्विजाञ्जनितमीनकेतनः । अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ॥ १३.३८ ॥ धरणीधरेन्द्रहितुर्भयादसौविषमेक्षणः स्फुटममूर्न पश्यति । मदनेनवीतभयमित्यधिष्ठिताः क्षणमीक्षते स्म स पुरोविलासिनीः ॥ १३.३९ ॥ विपुलेन सागरशयस्यकुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥ १३.४० ॥ अधिकोन्नमद्घनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना । अभिकृष्णमङ्गुलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयत् ॥ १३.४१ ॥ परिपाटलाब्जदलचारुणासकृच्चलिताङ्गुलीकिसलयेन पाणिना । सशिरःप्रकम्पमपरा रिपुं मधोरनुदीर्णवर्णनिभृतार्थमाह्वयत् ॥ १३.४२ ॥ नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना । स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्गुरमजृम्भतापरा ॥ १३.४३ ॥ वलयार्पितासितमहोपलप्रभाबहुलीकृतप्रतनुरोमराजिना । हरिवीक्षणाक्षणिकचक्षुषान्यया करपल्लवेन गलदम्बरं दधे ॥ १३.४४ ॥ निजसौरभभ्रमितभृङ्गपक्षतिव्यजनानिलक्षयितघर्मवारिणः । अभिशौरि काचिदनिमेषदृष्टिना पुरदेवतेव वपुषा व्यभाव्यत ॥ १३.४५ ॥ अभियाति नः सतृष एव चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः । न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि ॥ १३.४६ ॥ अकृतस्वसद्मगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत । गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः ॥ १३.४७ ॥ अलसैर्मदेन सुदृशः शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैः शनैः । अलघुप्रसारित विलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः ॥ १३.४८ ॥ नवगन्धवारिविरजीकृताः पुरो घनधूपधूम कृतरेणुविभ्रमाः । प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयोऽथ हरिणातिपेतिरे ॥ १३.४९ ॥ उपनीय बिन्दुसरसो मयेन या मणिदारु चारु किल वार्षपर्वणम् । विदधेऽवधूतसुरसद्मसम्पदं समुपासदत्सपदि संसदं स ताम् ॥ १३.५० ॥ अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलावेश्मनां रुचौ । पुनरप्यवापदिव दुग्धवारिधिक्षणगर्भवासमनिदाघदीधितिः ॥ १३.५१ ॥ लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः । जमदग्निसूनुपितृतर्पणीरपोवहति स्म या विरलशैवला इव ॥ १३.५२ ॥ विशदाश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचेकतां गताः । गृहपङ्क्तयश्चिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः ॥ १३.५३ ॥ निलयेषुनक्तमसिताश्मनां चयैर्बिसिनीवधूपरिभवस्पुटागसः । मुहरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांशव उपांशु जध्निरे ॥ १३.५४ ॥ सुखिनः पुरोऽभिमुखतामुपागतैः प्रतिमासु यत्र गृहरत्नभित्तिषु । नवसङ्गमैरबिभरुः प्रियाजनैः प्रमदं त्रपाभरपराङ्मुखैरपि ॥ १३.५५ ॥ तृणवाञ्छया मुहुरवाञ्चिताननान्निचयेषु यत्र हरिताश्मवेश्मनाम् । रसनाग्रलग्नकिरणाङ्कुराञ्जनो हरिणान्गृहीतकवलानिवैक्षत ॥ १३.५६ ॥ विपुलालवालभृतवारिदर्पणप्रतिमागतैरभिविरेजुरात्मभिः । यदुपान्तिकेषु दधतो महीरुहः सपलाशराशिमिव मूलसंहतिम् ॥ १३.५७ ॥ उरगेन्द्रमूर्धरुहरत्नसन्निधेर्मुहुरुन्नतस्य रसितैः पयोमुचः । अभवन्यदङ्गणभुवः समुच्छ्वसन्नववालवायजमणिस्थलाङ्कुराः ॥ १३.५८ ॥ नलिनी निगूढसलिला च यत्र सा स्थलमित्यधः पतति या सुयोधने । अनिलात्मजप्रहसनाकुलाखिलक्षितिपक्षयागमनिमित्ततां ययौ ॥ १३.५९ ॥ हसितुं परेण परितः परिस्फुरत्करवालकोमलरुचावुपेक्षितैः । उदकर्षि यत्र जलशङ्कया जनैर्मुहुरिन्द्रनीलभुवि दूरमम्बरम् ॥ १३.६० ॥ अभितः सदोऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू । अवतेरतुर्नयननन्दनौ नभः शशिभार्गवावुदयपर्वतादिव ॥ १३.६१ ॥ तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे । धवलाश्मरश्मिपटलाविभावितप्रतिहारमाविशदसौ सदः शनैः ॥ १३.६२ ॥ नवहाटकेष्टकचितं ददर्श स क्षितिपस्य पस्त्यमथ तत्र संसदि । गगनस्पृशां मणिरुचां चयेन यत्सदनान्युदयस्मयत नाकिनामपि ॥ १३.६३ ॥ उदयाद्रिमूर्ध्नि युगपच्चकासतोर्दिननाथपूर्णशशिनोरसम्भवाम् । रुचिमासने रुचिरधाम्नि बिभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ ॥ १३.६४ ॥ सुतरां सुखेन सकलक्लमच्छिदा सनिदाधमङ्गमिव मातरिश्वना । यदुनन्दनेन तदुदन्वतः पयः शसिनेव राजकुलमाप नन्दथुम् ॥ १३.६५ ॥ अनवद्यवाद्यलयगामि कोमलं नवगीतमप्यनवगीततां दधत् । स्फुटसात्विकाङ्गिकमनृत्यदुज्ज्वलं सविलासलासिकविलासनीजनः ॥ १३.६६ ॥ सकले च तत्र गृहमागते हरौ नगरेऽप्यकालमहमादिदेश सः । सततोत्सवं तदिति नूनन्मुन्मुदो रभसेन विस्मृतमभून्महीभृतः ॥ १३.६७ ॥ हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमयमन्वयुङ्क्त च । महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किञ्चन ॥ १३.६८ ॥ मर्त्यलोकदुरवापमवाप्तरसोदयं नूतनत्वमतिरिक्ततयानुपदं दधत् । श्रीपतिः पतिरसाववनेश्च परस्परं सङ्कथामृतमनेकमसिस्वदताममुभौ ॥ १३.६९ ॥ _____________________________________________________________ तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा । यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकमद्वदो नृपः ॥ १४.१ ॥ लज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका । व्रीडमेतिन तव प्रियं वदन्ह्रीमतात्रभवतैव भूयते ॥ १४.२ ॥ तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः । अस्ति न स्तुतिवचोऽनृतं तव स्तोत्रयोग्यन च तेन तुष्यसि ॥ १४.३ ॥ बह्वपि प्रियमयं तव ब्रुवन्न व्रजत्यनृतवादितां जनः । सम्भवन्ति यददोषदूषिते सार्व सर्वगुणसम्पदस्त्वयि ॥ १४.४ ॥ सा विभूतिरनुभाव सम्पदां भूयसी तव यदायतायति । एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ॥ १४.५ ॥ सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुज्ञया मम । मूलतामुपगते प्रभो त्वयि प्रापि धर्ममयवृक्षता मया ॥ १४.६ ॥ सम्भृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया । त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता ॥ १४.७ ॥ वीतविघ्नमनघेन भाविता सन्निधेस्तव मखेन मेऽधुना । को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ॥ १४.८ ॥ स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत् । तीर्थगामी करवै विधानतस्तज्जुषस्व जुहवानि चानले ॥ १४.९ ॥ पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि । सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥ १४.१० ॥ किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसम्पदा । शाधि शासक जगत्त्रयस्य मामाश्रवोऽस्मि भवतः सहानुजः ॥ १४.११ ॥ तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः । व्याजहार दशनांशुमण्डलव्याजहार शबलं दधद्वपुः ॥ १४.१२ ॥ सादिताखिलनृपं महन्महः सम्प्रति स्वनयसंपदैव ते । किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगिताम् ॥ १४.१३ ॥ तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणम् । उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ॥ १४.१४ ॥ शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्क्ष्व कामतः । त्वत्प्रयोजनघनं धनञ्जयादन्य एव इति मां च मावगाः ॥ १४.१५ ॥ यस्तवेह सवने न भूपतिः कर्म कर्मकरवत्करिष्यति । तस्य नेष्यति वपुः कबन्धतां बन्धुरेव जगतां सुदर्शनः ॥ १४.१६ ॥ इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम । सर्वसम्पदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित क्रतौ ॥ १४.१७ ॥ आननेन शशिनः कलां दधद्दर्शनक्षयितकामविग्रहः । आप्लुतः स विमलैर्जलैरभूदष्टमूर्तिधरमूर्तिरष्टमी ॥ १४.१८ ॥ तस्य सांख्यपुरुषेण तुल्यतां बिभ्रतः स्वयमकुर्वतः क्रियाः । कर्तृता तदुपलम्भतोऽभवद्वृत्तिभाजि करणे यथर्त्विजि ॥ १४.१९ ॥ शब्दितामनपशब्दमुच्चकैर्वाक्यलक्षणविदोऽनुवाक्यया । याज्यया यजनकर्मिणोऽत्यजन्द्रव्यजातमपदिश्य देवताम् ॥ १४.२० ॥ सप्तमभेदकरकल्पितस्वरं साम सामविदसङ्गमुज्जगौ । तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥ १४.२१ ॥ बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया । शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवांबभूविरे ॥ १४.२२ ॥ नाञ्ञ्जसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे । तत्र कर्मणि विपर्यणीनमन्मन्त्रमूहकुशलः प्रयोगिणः ॥ १४.२३ ॥ संशयाय दधतोः सरूपता दूरभिन्नफलयोः क्रियां प्रति । शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ॥ १४.२४ ॥ लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव । प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीमसमलीढ पावकः ॥ १४.२५ ॥ तत्र मन्त्रपवितं हविः क्रतावश्नतो न वपुरेव केवलम् । वर्णसम्पदमतिस्फुटां दधन्नाम चोज्ज्वलमभूद्धविर्भुजः ॥ १४.२६ ॥ स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तत् । गन्धतोऽपि हुतहव्यसम्भवाद्देहिनामदहदोघमंहसाम् ॥ १४.२७ ॥ उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदधःकृताम्बुदः । द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियम् ॥ १४.२८ ॥ निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे । नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे ॥ १४.२९ ॥ तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषिताम् । गुम्फिताः शिरसि वेणयोऽभवन्न प्रफुल्लसुरपादपस्रजः ॥ १४.३० ॥ प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः । उद्धतानधिक मेधितौजसो दानवांश्च विबुधाः विजिग्यिरे ॥ १४.३१ ॥ नापचारमगमन्क्कच्चित्क्रियाः सर्वमत्र समपादि साधनम् । अत्यशेरत परस्परं धियः सत्त्रिणां नरपतेश्चसंपदः ॥ १४.३२ ॥ दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजम् । दक्षिणः क्षितिपतिर्व्यशिश्रणद्दक्षिणाः सदसि राजसूयकीः ॥ १४.३३ ॥ वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि बीजवत् । भावि बिभ्रति फलं महद्द्विजक्षेत्रभूमिषु नराधिपोऽवपत् ॥ १४.३४ ॥ किं नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणानपूयत । राजतः पुपुविरे निरेनसः प्राप्य तेऽपि विमलं प्रतिग्रहम् ॥ १४.३५ ॥ स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः । आशशाङ्कतपनार्णवस्थितोर्विप्रसादकृत भूयसीर्भुवः ॥ १४.३६ ॥ शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलवर्णसङ्करैः । पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोद्द्विजन्मनाम् ॥ १४.३७ ॥ तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् । आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स नाश्रमत् ॥ १४.३८ ॥ मृग्यमाणमपि यद्दुरासदं भूरिसारमुपनीय तत्स्वयम् । आसतावसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ॥ १४.३९ ॥ एक एव वसु यद्ददौ नृपस्तत्समापकमतर्क्यत क्रतोः । त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयम् ॥ १४.४० ॥ प्रीतिरस्य ददतोऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः । स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः ॥ १४.४१ ॥ यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि । सस्पृहं नृपतिभिर्नृपोऽपरैर्गौरवेण ददृशेतरामसौ ॥ १४.४२ ॥ आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि । वाचिरोपितवतामुना महीं राजकाय विषया विभेजिरे ॥ १४.४३ ॥ आगताद्व्यवसितेन चेतसा सत्त्वसम्पदविकारिमानसः । तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः ॥ १४.४४ ॥ नैक्षतार्थिनमवज्ञया मुहुर्याचितस्तु न च कालमाक्षिपत् । नादिताल्पमथ न व्यकत्थयद्दत्तमिष्टमपि नान्वशेत सः ॥ १४.४५ ॥ निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरोऽभवत् । वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् ॥ १४.४६ ॥ प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः । दित्सया तदपि पार्थिवोऽर्थिनं गुण्यगुण्य इति न व्यजीगणत् ॥ १४.४७ ॥ दर्शनानुपदमेव कामतः स्वं वनीयकजनेऽधिगच्छति । प्रार्थनार्थरहितं तदाभवद्दीयतामिति वचोऽतिसर्जने ॥ १४.४८ ॥ नानवाप्तवसुनार्ऽथकाम्यता नाचिकित्सितगदेन रोगिणा । इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः ॥ १४.४९ ॥ स्वादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसङ्करैः । भावशुद्धिसहितैर्मुदं जनो नाटकैरिव बभार भोजनैः ॥ १४.५० ॥ रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिम् । अक्षतानि निरवर्तयत्तदा दानहोमयजनानि भूपतिः ॥ १४.५१ ॥ एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोच्चकैः । यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकम् ॥ १४.५२ ॥ इत्थमत्र विततक्रमे क्रतौ वीक्ष्य धर्ममथ घर्मजन्मना । अर्घदानमनुचोदितो वचः सभ्यमभ्यधित शन्तनोः सुतः ॥ १४.५३ ॥ आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु । यत्तथापि न गुरून्नपृच्छसि त्वं क्रमोऽयमिति तत्र कारणम् ॥ १४.५४ ॥ स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिम् । अर्घभाज इति कीर्तयन्ति षट्ते च ते युगपदागताः सदः ॥ १४.५५ ॥ शोभयन्ति परितः प्रतापिनो मन्त्रशक्तिविनिवारितापदः । त्वन्मखमुखभुवः स्वयम्भुवो भूभुजश्च परलोकजिष्णवः ॥ १४.५६ ॥ आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी । एक एव गुणवत्तमोऽथवापूज्य इत्ययमपीष्यते विधिः ॥ १४.५७ ॥ अत्र चैष सकलेऽपिभाति मां प्रत्यशेषगुणबन्धुरर्हति । भूमिदेवनरदेवसङ्गमे पूर्वदेवरिपुरर्हणां हरिः ॥ १४.५८ ॥ मर्त्यमात्रमवदीधरद्भवान्मैनमानमितदैत्यदानवम् । अंश एष जनतातिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः ॥ १४.५९ ॥ ध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथम् । आमनन्ति यमुपास्यमादराद्दूरवर्तिनमतीव योगिनः ॥ १४.६० ॥ पद्मभूरिति सृजञ्जगद्रजः सत्वमच्युत इति स्थितिं नयन् । संहरन्हर इति श्रितस्तमस्रैधमेष भजति त्रिभिर्गुणैः ॥ १४.६१ ॥ सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः । क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरंविदुः ॥ १४.६२ ॥ भक्तिमन्त इह भक्तवत्सले सन्ततस्मरणरीणकल्मषाः । यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः ॥ १४.६३ ॥ ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा । दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः ॥ १४.६४ ॥ आदितामजननाय देहिनामन्ततां च दधतेऽनपायिने । बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ॥ १४.६५ ॥ केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि । धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ॥ १४.६६ ॥ पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ । तच्च कारणमभूद्धिरण्मयं ब्रह्मणोऽसृजदसाविदं जगत् ॥ १४.६७ ॥ मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ॥ १४.६८ ॥ श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलम् । श्रीमुखेन्दुसविधेऽपि शोभते यस्य नाभिसरसीसरोरुहम् ॥ १४.६९ ॥ सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकम् । जन्म बिभ्रतमजं नवं बुधा यं पुराणपुरुषं प्रचक्षते ॥ १४.७० ॥ स्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयम् । उद्धृतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुन्धराम् ॥ १४.७१ ॥ दिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि । दुर्निवाररणकण्डु कोमलैर्वक्ष एष निरदारयन्नखैः ॥ १४.७२ ॥ वारिधेरिव कराग्रवीचिभिर्दिङ्मतङ्गजमुखान्यभिघ्नतः । यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ॥ १४.७३ ॥ दीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः । आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ ॥ १४.७४ ॥ किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः । तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ॥ १४.७५ ॥ गच्छतापि गगनाग्रमुच्चकैर्यस्य भूधरगरीयसाङ्घ्रिणा । क्रान्तकन्धर इवाबलो बलिः स्वर्गभर्तुरगमत्सुबन्धताम् ॥ १४.७६ ॥ कामतोऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतम् । व्योम्नि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौघमुत्थितम् ॥ १४.७७ ॥ यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ॥ १४.७८ ॥ सम्प्रदायविगमादुपेयुषीरेव नाशमविनाशिविग्रहः । स्मर्तुमप्रतिहतस्मृतिः श्रुतीर्दत्त इत्यभवदत्रिगोत्रजः ॥ १४.७९ ॥ रेणुकातनयतामुपागतः शातितप्रचुरपत्रसंहति । लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधादयम् ॥ १४.८० ॥ एष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि । राक्षसीमकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीम् ॥ १४.८१ ॥ निष्प्रहन्तुममरेशविद्विषामर्थितः स्वयमथ स्वयंभुवा । सम्प्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ॥ १४.८२ ॥ तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे । यः सुरैरिति सुरौघवल्लभो बल्लवैश्च जगदे जगत्पतिः ॥ १४.८३ ॥ नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमम् । योऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयद्दिवः ॥ १४.८४ ॥ यं समेत्य च ललाटलेखया बिभ्रतः सपदि शंभुविभ्रमम् । चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवाद्विलोचनम् ॥ १४.८५ ॥ यः कोलतां बल्लवतां च बिभ्रद्दंष्ट्रामुदस्याशु भुजां च गुर्वीम् । मग्नस्य तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चकार ॥ १४.८६ ॥ धन्योऽसि यस्य हरिरेष समक्ष एव दूरादपि क्रतुषु यज्वभिरिज्यते यः । दत्वार्घमत्रभवते भुवनेषु यावत्संसारमण्डलमवाप्नुहि साधुवादम् ॥ १४.८७ ॥ भीष्मोक्तं तदिति वचो निशम्य सम्यक्साम्राज्यश्रियमधिगच्छता नृपेण । दत्तेर्ऽधे महति महीभृतां पुरोऽपि त्रैलोक्ये मधुभिदभूदनर्घ एव ॥ १४.८८ ॥ _____________________________________________________________ अथतत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः । मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम् ॥ १५.१ ॥ पुर एव शार्ङ्गिणि सवैरमथ पुनरमुं तदर्चया । मन्युरभजदवगाढतरः समदोषकाल इव देहिनं ज्वरः ॥ १५.२ ॥ अभितर्जयन्निव समस्तनृपगणमसावकम्पयत् । लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्त्रयं शिरः ॥ १५.३ ॥ स वमन्रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः । स्वेदजलकणकरालकरो व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा ॥ १५.४ ॥ स निकामघर्मितमभीक्ष्णमधुवदवधूतराजकः । क्षिप्तबहुलजलबिन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः ॥ १५.५ ॥ क्षणमाश्लिषद्द्घटितशैलशिखरकठिनांसमण्डनः । स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदम् ॥ १५.६ ॥ कनकाङ्गदद्युतिभिरस्य गमितमरुचत्पिशङ्गताम् । क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलम् ॥ १५.७ ॥ कृतसन्निधानमिव तस्य पुनरपि तृतीयचक्षुषा । क्रूरमजनि कुटिलभ्रु गुरुभ्रुकुटीकठोरितललाटमाननम् ॥ १५.८ ॥ अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे । दृष्टिरगणितभयासिलतामलम्बते स्म सभया सखीमिव ॥ १५.९ ॥ करकुड्मलेन निजमूरुमुरुतरनगाश्मकर्कशम् । त्रस्तचपलचलमानजनश्रुतभीमनादमयमाहतोच्चकैः ॥ १५.१० ॥ इति चक्रुधे भृशमनेन ननु महदवाप्य विप्रियम् । याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः ॥ १५.११ ॥ प्रथमं शरीरजविकारकृतमुकुलबन्धमव्यथी । भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसत् ॥ १५.१२ ॥ ध्वनयन्सभामथ सनीरघनरवगभीरवागभीः । वाचमवददतिरोषवशादतिनिष्ठुरस्फुटतराक्षरमसौ ॥ १५.१३ ॥ यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम् । प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते ॥ १५.१४ ॥ यदराज्ञि राजवदिहार्घ्यमुपहितमिदं मुरद्विषि । ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु ॥ १५.१५ ॥ अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे । निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्यसत्यता ॥ १५.१६ ॥ तव धर्मराज इति नाम कथमिदमपष्ठु पठ्यते । भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः ॥ १५.१७ ॥ यदि वार्चनीयतम एष किमपि भवतां पृथासुताः । शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह किं निमन्त्रितैः ॥ १५.१८ ॥ अथवा न धर्ममसुबोधसमयमवयात बालिशाः । खाममयमिह वृथापालितो हतबुद्धिरप्रणिहितः सरित्सुतः ॥ १५.१९ ॥ स्वयमेव शन्तनुतनूज यमपि गणमर्घ्यमभ्यधाः । तत्र मुररिपुरयं कतमो यमनिन्द्यबन्दिवदभिष्टुषे वृथा ॥ १५.२० ॥ अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतम् । नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः ॥ १५.२१ ॥ प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमर्हणम् । कृष्ण कलय ननु कोऽहमिति स्फुटमापदां पदमनात्मवेदिता ॥ १५.२२ ॥ असुरस्त्वया न्यवधि कोऽपि मधुरिति कथं प्रतीयते । दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ॥ १५.२३ ॥ मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः । सिद्धमबल सबलत्वमहो तव रोहिणीततनयसाहचर्यतः ॥ १५.२४ ॥ छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः । प्रीतिमनुभवसि नग्नजितः सुतयेष्टसत्य इति सम्प्रतीयसे ॥ १५.२५ ॥ धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजम् । चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये ॥ १५.२६ ॥ जगति श्रिया विरहितोऽपि यदुदधिसुतामुपायथाः । ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः ॥ १५.२७ ॥ अभिशत्रु संयति कदाचिदविहितपराक्रमोऽपि यत् । व्योम्नि कथमपि चकर्थ पदं व्यपदिश्यते जगति विक्रमीत्यतः ॥ १५.२८ ॥ पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय वर्तते । भूमिभृदिति परहारितभूस्त्वमुदाह्रियस्व कथमन्यथा जनैः ॥ १५.२९ ॥ तव धन्यतेयमपि सर्वनृपतितुलितोऽपि यत्क्षणम् । क्लान्तकरतलधृताचलकः पृथिवीतले तुलितभूभृदुच्यसे ॥ १५.३० ॥ त्वमशक्नुवन्न शुभकर्मनिरत! परिपाकदारुणम् । जेतुमकुशलमतिर्नरकं यशसेऽधिलोकमजयः सुतं भुवः ॥ १५.३१ ॥ सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव । त्यक्तमपगुण गुणस्त्रितयत्यजनप्रयासमुपयासि किं मुधा ॥ १५.३२ ॥ त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः । हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे ॥ १५.३३ ॥ मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः । अस्य वनशुन इवापचितिः परिभाव एव भवतां भुवोऽधिपाः ॥ १५.३४ ॥ अवधीज्जनङ्गम इवैष यदि हतवृषो वृषं ननु । स्पर्शमशुचिवपुरर्हति न प्रतिमाननां तु नितरां नृपोचिताम् ॥ १५.३५ ॥ यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति । स्तन्यमघृणमनसः पिबतः किल धर्मतो भवति सा जनन्यपि ॥ १५.३६ ॥ शकटव्युदासतरुभङ्गधरणिधरधारणादिकम् । कर्म यदयमकरोत्तरलः स्थिरचेतसां क इव तेन विस्मयः ॥ १५.३७ ॥ अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् । स्वमिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतम् ॥ १५.३८ ॥ इतिवाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा । सोढरिपुबलभरोऽसहनः स जहास दत्तकरतालमुच्चकैः ॥ १५.३९ ॥ कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः । सत्यनियतवचसं वचसा सुजनं जनाश्चलयितुं क ईशते ॥ १५.४० ॥ न चतं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः । शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनोऽनुवर्तते ॥ १५.४१ ॥ विहितागसो मुहुरसङ्घ्यनिजवचनदामसंयतः । तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः ॥ १५.४२ ॥ स्मृतिवर्त्म तस्य न समस्तमपकृतमियाय विद्विषः । स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः ॥ १५.४३ ॥ नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः । स्माह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः ॥ १५.४४ ॥ अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः । प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः ॥ १५.४५ ॥ विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनम् । यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् ॥ १५.४६ ॥ इतिभीष्मभाषितवचोर्ऽथमधिगतवतामिव क्षणात् । क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः ॥ १५.४७ ॥ शितितारकानुमितताम्रनयनमरुणीकृतं क्रुधा । बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् ॥ १५.४८ ॥ प्रविदारितारुणतरोग्रनयनकुसुमोज्ज्वलः स्फुरन् । प्रातरहिमकरताम्रतनुर्विषजद्रुमोऽपर इवाभवद्द्रुमः ॥ १५.४९ ॥ अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रताम् । कोपमरुदभिहितेन भृशं नरकात्मजेन तरुणेव जज्वले ॥ १५.५० ॥ अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत । ग्रस्तशशधरमिवोपलसत्सितदन्तपङ्क्ति मुखमुत्तमौजसः ॥ १५.५१ ॥ कुपिताकृतिं प्रथममेव हसितमशनैरसूचयत् । क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणम् ॥ १५.५२ ॥ प्रतिघः कुतोऽपि समुपेत्य नरपतिगणं समाश्रयत् । जामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः ॥ १५.५३ ॥ चरणेन हन्ति सुबलः स्म शिथिलितमहीध्रबन्धनाम् । तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवम् ॥ १५.५४ ॥ कुपितेषु राजषु तथापि रथचरणपाणिपूजया । चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकां दधौ ॥ १५.५५ ॥ गुरुकोपरुद्धपदमापदसितयवनस्य रोद्रताम् । व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः ॥ १५.५६ ॥ विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता । हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले ॥ १५.५७ ॥ इति तत्तदा विकृतरूपमभजत्तदविभिन्नचेतसम् । मारबलमिव भयङ्करतां हरिबोधिसत्वमभि राजमण्डलम् ॥ १५.५८ ॥ रमसादुदस्थुरथ युद्धमनुचितभियोऽभिलाषुकाः । सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ॥ १५.५९ ॥ स्फुरमाणनेत्रकुसुमोष्ठदलमभृतभूभृदङ्घ्रिपैः । धूतपृथुभुजलतं चलितैर्द्रुतवातपातवनविभ्रमं सदः ॥ १५.६० ॥ हरिमप्यमंसत तृणाय कुरुपतिमजीगणन्न वा । मानतुलितभुवनत्रितयाः सरितः सुतादबिभयुर्नभूभृतः ॥ १५.६१ ॥ गुरुनिःश्वसन्नथ विलोलसदवथुवपुर्वचोविषम् । कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ॥ १५.६२ ॥ किमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः । वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ॥ १५.६३ ॥ अथवाध्वमेव खलु यूयमगणितमरुद्गणौजसः । वस्तु कियदिदमयं न मृधे मम केवलमस्य मुखमीक्षितुं क्षमः ॥ १५.६४ ॥ विदतुर्यमुत्तमशेषपरिषदि नदीजधर्मजौ । यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा ॥ १५.६५ ॥ अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः । तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा ॥ १५.६६ ॥ अभिधाय रूक्षमिति मा स्म गम इति पृथासुतेरिताम् । वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः ॥ १५.६७ ॥ गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः । क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः ॥ १५.६८ ॥ चलितं ततोऽनभिहतेच्छमवनिपतियज्ञभूमितः । तूर्णमथ ययुमिवानुययुर्दमघोषसूनुमवनीशसूनवः ॥ १५.६९ ॥ विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः । द्रष्टुमलघुरभसापातिता वनिताश्चकार न सकामचेतसः ॥ १५.७० ॥ क्षणमीक्षतः पथि जनेन किमिदमिति जल्पता मिथः । प्राप्य शिबिरमविशङ्किमनाः समनीनहद्द्रुतमनीकिनीमसौ ॥ १५.७१ ॥ त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः । शैलकटकतटभिन्नरवः प्रणनाद सांनहनिकोऽस्य वारिजः ॥ १५.७२ ॥ जगदन्तकालसमवेतविषदविषमेरितारवम् । धीरनिजरवविलीनगुरुप्रतिशब्दमस्य रणतूर्यमावधि ॥ १५.७३ ॥ सहसा ससभ्रमविलोलसकलजनतासमाकुलम् । स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमाम् ॥ १५.७४ ॥ दधतो भयानकतरत्वमुपगतवतः समानताम् । धूमपटलपिहितस्य गिरेः समवर्मयन्सपदि मेदिनीभृतः ॥ १५.७५ ॥ परिमोहिणा परिजनेन कथमपि चिरादुपाहृतम् । वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद्रुषा परः ॥ १५.७६ ॥ रणसंमदोदयविकासिबलकलकलाकुलीकृते । शारिमशकधिरोपयितुं द्विरदे मदच्युति जनः कथञ्चन ॥ १५.७७ ॥ परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः । तेनुरतनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः ॥ १५.७८ ॥ प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः । पेतुरशनाय इवाशनकैर्गुरुनिःस्वनव्यथितजन्तवो रथाः ॥ १५.७९ ॥ दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः । चक्रुरथ सह पुरन्धिजनैरयथार्थसिद्धिं सरकं महीभृतः ॥ १५.८० ॥ दयिताय सासवमुदस्तमपतदवसादिनः करात् । कांस्यमुपहितसरोजपतद्भ्रमरौघभारगुरु राजयोषितः ॥ १५.८१ ॥ भृशमङ्गसादकरुणत्वमविशददृशः कपोलयोः । वाक्यमसकलमपास्य मदं विदधुस्तदीयगुणमात्मना शुचः ॥ १५.८२ ॥ सुदृशः समीकगमनाय युवभिरथ संबभाषिरे । शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः ॥ १५.८३ ॥ विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः । पीनकुचतटनिपीडदलद्वरवारबाणमुरसालिलिङ्गिरे ॥ १५.८४ ॥ न मुमोच लोचनजलानि दयितजयमङ्गलैषिणि । यातमवनिभवसन्नभुजान्न गलद्विवेद वलयं विलासिनी ॥ १५.८५ ॥ प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुरक्षिपत् । नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी ॥ १५.८६ ॥ व्रजतः क्व तात वजसीति परिचयगतार्थमस्फुटम् । धैर्यमभिनदुदितं शिशुना जननीनिर्भत्सनविवृद्धमन्युना ॥ १५.८७ ॥ शठ नाकलोकललनाभिरविरतरतं रिरंससे । तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीर्ष्ययापरा ॥ १५.८८ ॥ ध्रियमाणमप्यगलदश्रु चलति दयिते नतभ्रुवः । स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसाम् ॥ १५.८९ ॥ सह कज्जलेन विरराज नयनकमलाम्बुसन्ततिः । गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः ॥ १५.९० ॥ क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रुवः । स्रस्तभुजयुगगलद्वलयस्वनितं प्रतिक्षुतमिवोपशुश्रुवे ॥ १५.९१ ॥ अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका । भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ॥ १५.९२ ॥ समरोन्मुखे नृपगणेऽपि तदनुमरणोद्यतैकधीः । दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमनाः विचक्लमे ॥ १५.९३ ॥ विदुषीव दर्शनममुष्य युवतिरतिदुर्लभं पुनः । यान्तमनिमिषमतृप्तमनाः पतिमीक्षते स्म भृशया दृशः पथः ॥ १५.९४ ॥ सम्प्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता । सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रियाः ॥ १५.९५ ॥ काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्त्रेन्दुलक्ष्मीरश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्वाः । भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ॥ १५.९६ ॥ _____________________________________________________________ दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ । उपगम्यहरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः ॥ १६.१ ॥ अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः । भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ १६.२ ॥ विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः । प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहेण सः ॥ १६.३ ॥ प्रणतः शिरसा करिष्यते सकलैरेत्य समं धराधिपैः । तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः ॥ १६.४ ॥ अधिवह्निपतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः । तव सर्वविधेयवर्तिनः प्रणतिं बिभ्रति केन भूभृतः ॥ १६.५ ॥ जनतां भयशून्यधीः परैरभिभूतामवलम्बसे यतः । तव कृष्ण गुणास्ततो नरैरसमानस्य दधत्यगण्यताम् ॥ १६.६ ॥ अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः । विनयोपहितस्त्वया कुतः सदृशोन्यो गुणवानविस्मयः ॥ १६.७ ॥ कृतगोपवधूरतेर्घ्नतो वृषमुग्रे नरकेऽपि संप्रति । प्रतिपत्तिरधःकृतैनसो जनताभिस्तव साधु वर्ण्यते ॥ १६.८ ॥ विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः । भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम् ॥ १६.९ ॥ घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव । नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ॥ १६.१० ॥ सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः । रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते ॥ १६.११ ॥ विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुषः । यदुपुङ्गव बन्धुसौहृदात्त्वयि पाता ससुरो नवासवः ॥ १६.१२ ॥ चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम् । समितौ रभसादुपागतः सगदः संप्रतिपत्तुमर्हसि ॥ १६.१३ ॥ समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य संप्रति । सुचिरं सह सर्वसात्वतैर्भव विश्वस्तविलासिनीजनः ॥ १६.१४ ॥ विजितक्रुधमीक्षतामसौ महतां त्वामहितं महीभृताम् । असकृज्जितसंयतं पुरो मुदितः सप्रमदं महीपतिः ॥ १६.१५ ॥ इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः । वदति स्म वचोऽथ चोदितश्चलितैकभ्रू रथाङ्गपाणिना ॥ १६.१६ ॥ मधुरं बहिरन्तरप्रियं कृतिनावाचि वचस्तथा त्वया । सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ॥ १६.१७ ॥ अतिकोमलमेकतोन्यतः सरसाम्भोरुहवृन्तकर्कशम् । वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम् ॥ १६.१८ ॥ प्रकटं मृदु नाम जल्पतः परुषं सूचयतोर्थमन्तरा । शकुनादिव मार्गवर्तिभिः परुषादुद्विजितव्यमीदृशात् ॥ १६.१९ ॥ हरिमर्चितवान्महीपतिर्यदि राज्ञस्तव कोऽत्र मत्सरः । न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ॥ १६.२० ॥ सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः । सहसैव समुद्गिरन्त्यमी जरयन्त्येव हि तन्मनीषिणः ॥ १६.२१ ॥ उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः । असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ॥ १६.२२ ॥ परितप्यत एव नोत्तमः परितप्तोऽप्यपरः सुसंवृतिः । परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयोऽधमः ॥ १६.२३ ॥ अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झिताम् । खलतां खलतामिवासतीं प्रतिपद्येत कथं बुधो जनः ॥ १६.२४ ॥ प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे । अनुहुङ्कुरुते घनध्वनिं न हि गोमायुरुतानि केसरी ॥ १६.२५ ॥ जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः । विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥ १६.२६ ॥ वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः । किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ॥ १६.२७ ॥ परितोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः । परदोषकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति ॥ १६.२८ ॥ सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः । स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥ १६.२९ ॥ प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् । विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ॥ १६.३० ॥ किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः । वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥ १६.३१ ॥ विसृजन्त्यविकत्थिनः परे विषमाशीविषवन्नराः क्रुधम् । दधतोऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ॥ १६.३२ ॥ नरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः । द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम् ॥ १६.३३ ॥ समनद्ध किमङ्ग भूपतिर्यदि संधित्सुरसौ सहामुना । हरिराक्रमणेन संनति किल विभ्रति भियेत्यसंभवः ॥ १६.३४ ॥ महतस्तरसा विलङ्घयन्निजदोषेण कुधीर्विनश्यति । कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ॥ १६.३५ ॥ यदपूरि पुरा महीपतिर्न मुखेन स्वयमगसा शतम् । अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः ॥ १६.३६ ॥ यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किञ्चिदप्रियम् । विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधम् ॥ १६.३७ ॥ निशम्य तदूर्जितं शिनेर्वचनं नप्तुरनाप्तुरेनसाम् । पुनरुज्झितसाध्वसो द्विषामभिधत्ते स्म वचो वचोहरः ॥ १६.३८ ॥ विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः । यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत् ॥ १६.३९ ॥ विदुरेष्यदपायमात्मना परतः श्रद्दधतेऽथवा बुधाः । न परोपहितं न च स्वतः प्रमिमीतेऽनुभवादृतेऽल्पधीः ॥ १६.४० ॥ कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् । उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः ॥ १६.४१ ॥ उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते । प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि ॥ १६.४२ ॥ अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् । रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ॥ १६.४३ ॥ अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोनुधावति । अपहाय महीशमर्चिचत्सदति त्वां ननु भीमपूर्वजः ॥ १६.४४ ॥ त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः । प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः ॥ १६.४५ ॥ क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः । शिरसौधमधत्त श्ङ्करः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा ॥ १६.४६ ॥ अबुधैः कृतमानसम्विदस्तव पार्थैः कुत एव योग्यता । सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम् ॥ १६.४७ ॥ अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया । हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यत् ॥ १६.४८ ॥ गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः । जनकोऽसि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः ॥ १६.४९ ॥ अनिरूपिरूपसंपदस्तमसो वान्यभृतच्छदच्छवेः । तव सर्वगतस्य संप्रति क्षितिपः क्षिप्नुरभीशुमानिव ॥ १६.५० ॥ क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम । प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् ॥ १६.५१ ॥ प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता । न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥ १६.५२ ॥ तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः । अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः ॥ १६.५३ ॥ परिपाति स केवलं शिशूनिति तन्नामनि मा स्म विश्वसीः । तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः ॥ १६.५४ ॥ न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् । भजते कुपितोऽप्युदारधीरनुनीतिं नतिमात्रकेण सः ॥ १६.५५ ॥ हितमप्रियमिच्छसि श्रुतं यदि संधत्स्व पुरा न नश्यसि । अनृतैरथ तुष्यसि प्रियैर्जयताज्जीव भवावनीश्वरः ॥ १६.५६ ॥ प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान् । ग्रसते हि तमोपहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः ॥ १६.५७ ॥ अचिराज्जितमीनकेतनो विलसन्वृष्णिगणैर्नमस्कृतः । क्षितिपः क्षयितोद्धतान्तको हरलीलां स विडम्बयिष्यति ॥ १६.५८ ॥ निहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितम् । न बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु ॥ १६.५९ ॥ न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः । द्रवतां ननु पृष्ठमीक्षते वदनं सोऽपि न जातु विद्विषाम् ॥ १६.६० ॥ प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः । दधतेऽरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः ॥ १६.६१ ॥ मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः । नृपमौलिमरीचिवर्णकैरथ यस्याङ्घियुगं विलिप्यते ॥ १६.६२ ॥ समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च । धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिम् ॥ १६.६३ ॥ तुहिनांशुममुं सुहृज्जनाः कलयन्त्युष्णकरं विरोधिनः । कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे ॥ १६.६४ ॥ दधतोऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीम् । भुवि सम्प्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः ॥ १६.६५ ॥ अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किञ्चन । यदुमुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयम् ॥ १६.६६ ॥ चलितोर्ध्वकबन्धसम्पदो मकरव्यूहनिरूद्धवर्त्मनः. अतरत्स्वभुजौजसा मुहुर्महतः सङ्गरसागरानसौ ॥ १६.६७ ॥ न चिकीर्षति यः स्मयोद्धतो नृपतित्तच्चरणोपपगं शिरः । चरणं कुरुते गतस्मयः स्मसावेव तदीयमूर्धनि ॥ १६.६८ ॥ स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् । बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवम् ॥ १६.६९ ॥ अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया । युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः ॥ १६.७० ॥ भूतभूतिरहीनभोगभाग्विजितानेकपुरोऽपि विद्विषाम् । रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः ॥ १६.७१ ॥ नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गुरोदयः । गमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिम् ॥ १६.७२ ॥ अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः । खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित् ॥ १६.७३ ॥ घनपत्रभृतोऽनुगामिनस्तरसाकृष्य करोति कांश्चन । दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ॥ १६.७४ ॥ इति पूर इवोदकस्य यः सरितां प्रवृषिजस्तटद्रुमैः । क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ॥ १६.७५ ॥ अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः । अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ॥ १६.७६ ॥ कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः । नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः ॥ १६.७७ ॥ इतियस्य ससंपदः पुरा यदवापुर्भवनेष्वरिस्त्रियः । स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु ॥ १६.७८ ॥ महतः कुकुरान्धकद्रुमानतिमात्रं दववद्दहन्नपि । अतिचित्रमिदं महीपतिर्यदकृष्णामवनीं करिष्यति ॥ १६.७९ ॥ परितः प्रमिताक्षरापि सर्वं विषयं व्याप्तवती गता प्रतिष्ठाम् । न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ॥ १६.८० ॥ यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः । तेनोह्यते सांप्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः ॥ १६.८१ ॥ भूयांस क्वचिदपि काममस्खलन्तस्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि । कल्लोलाः सलिलनिधेरवाप्य पारं शीर्यन्ते न गुणमहोर्मयस्तदीयाः ॥ १६.८२ ॥ लोकालोकव्याहतं घर्मरश्मेः शालीनं वा धाम नालं प्रसर्तुम् । लोकस्याग्रे पश्यतो धृष्टमाशु क्रामत्युच्चैर्भूभृतो यस्य तेजः ॥ १६.८३ ॥ विच्छित्तिर्नवचन्दनेन वपुषो भिन्नोऽधरोऽलक्तकैरच्छाच्छे पतिताञ्जने च नयने श्रोण्योऽलसन्मेखलाः । प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषामित्थं नित्यविभूषणा युवतयः संपत्सु चापत्स्वपि ॥ १६.८४ ॥ विनिहत्य भवन्तमूर्जितश्रीयुधि सद्यः शिशुपालतां यथार्थाम् । रुदतां भवदङ्गनागणानाङ्करुणान्तःकरणः करिष्यतेऽसौ ॥ १६.८५ ॥ _____________________________________________________________ इतीरिते वचसि वचस्विनामुना युगक्षयक्षुभितमरुद्गरीयसि । प्रचक्षुभे सपदि तदम्बुराशिना समं महाप्रलयसमुद्यतं सदः ॥ १७.१ ॥ सरागया स्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया । मुहुर्मुहुर्दशनविखण्डितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे ॥ १७.२ ॥ अलक्ष्यत क्षणदलिताङ्गदे गदे करोदरप्रहितनिजांसधामनि । समुल्लसच्छकलितपाटलोपलैः स्फुलिङ्गवान्स्फुटमिव कोपपावकः ॥ १७.३ ॥ अवज्ञया यदहसदुच्चकैर्बलः समुल्लसद्दशनमयूखमण्डलः । रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरयन्निजां रुचिम् ॥ १७.४ ॥ यदुत्पतत्पृथुतरहारमण्डलं व्यवर्तत द्रुतमभिदूतमुल्मुकः । बृहच्छिलातलकठिनांसघट्टितं ततोऽभवद्भ्रमितामिवाखिलं सदः ॥ १७.५ ॥ प्रकुप्यतः श्वसनसमीरणाहतिस्फुटोष्मभिस्तनुवसनान्तमारुतैः । युधाजितः कृतपरितूर्णवीजनं पुनस्तरां वदनसरोजमस्विदत् ॥ १७.६ ॥ प्रजापतिक्रतुनिधनार्थमुत्थितंव्यतर्कयज्ज्वरमिव रौद्रमुद्धतम् । समुद्यतं सपदि वधाय विद्विषामतिक्रुधं निषधमनौषधं जनः ॥ १७.७ ॥ परस्परं परिकुपितस्य पिंषतः क्षतोर्मिकाकनकपरागपङ्किलम् । करद्वयं सपदि सुधन्वनो निजैरनारतस्रुतिभिरधाव्यताम्बुभिः ॥ १७.८ ॥ निरायतामनलशिखोज्ज्वलां ज्वलन्नखप्रभाकृतपरिवेषसंपदं । अविभ्रमद्भ्रमदनलोल्मुकाकृतिं प्रदेशिनीं जगदिव दग्धुमाहुकिः ॥ १७.९ ॥ दुरीक्षतामभजत मन्मथस्तथा यथा पुरा परिचितदाहधार्ष्ट्याया । ध्रुवं पुरः सशरममुं तृतीयया हरोऽपि न व्यसहत वीक्षितुं दृशा ॥ १७.१० ॥ विचिन्तयन्नुपनतमाहवं रसादुरः स्फुरत्तनुरुहमग्रपाणिना । परामृशत्कठिनकठोरकामिनीकुचस्थलप्रमुषितचन्दनं पृथुः ॥ १७.११ ॥ विलङ्घितस्थितिमभिवीक्ष्य रुक्षया रिपोर्गिरागुरुमपि गान्दिनीसुतम् । जनैस्तदा युगपरिवर्तवायुभिर्विवर्तिता गिरिपतयः प्रतीयिरे ॥ १७.१२ ॥ विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवावरवः । क्रुधा दधत्तनुमतिलोहिनीमभूत्प्रसेनजिद्गज इव गैरिकारुणः ॥ १७.१३ ॥ सकुङ्कुमैरविरलमम्बुबिन्दुभिर्गवेषणः परिणतदाडिमारुणैः । स मत्सरस्फुटितवपुर्विनिःसृतैर्बभौ चिरं निचित इवासृजां लवैः ॥ १७.१४ ॥ ससंभ्रमं चरणतलाभिताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः । रवेः करैरनुचिततापितोरगं प्रकाशतां शिनिरनयद्रसातलम् ॥ १७.१५ ॥ प्रतिक्षणं विधुवति शारणे शिरः शिखिद्युतः कनककिरीटरश्मयः । अशङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव ॥ १७.१६ ॥ दधौ चलत्पृथुरसनं विवक्षया विदारितं विततबृहद्भुजालतः । विदूरथः प्रतिभयमास्यकन्दरं चलत्फणाधरमिव कोटरं तरुः ॥ १७.१७ ॥ समाकुले सदसि तथापि विक्रियां मनोऽगमन्न मुरभिदः परोदितैः । घनाम्बुभिर्बहुलितनिम्नगाजलैर्जलं न हि व्रजति विकारमम्बुधेः ॥ १७.१८ ॥ परानमी यदपवदन्त आत्मनः स्तुवन्ति च स्थितिरसतामसाविति । निनाय नो विकृतिमविस्मितः स्मितं मुखं शरच्छशधरमुग्धमुद्धवः ॥ १७.१९ ॥ निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् । मुरद्विषः स्वनितभयानकानकं बलं क्षणादथ समनह्यताजये ॥ १७.२० ॥ मुहुः प्रतिस्खलितपरायुधा युधि स्थवीयसीरचलनितम्बनिर्भराः । अदंशयन्नरहितशौर्यदंशनास्तनूरयं नय इति वृष्णिभूभृतः ॥ १७.२१ ॥ दुरुद्वहाः क्षणमपरैस्तदन्तरे रणश्रवादुपचयमाशु बिभ्रति । महीभुजां महिमभृतां न संममुर्मुदोऽन्तरावपुषि बहिश्च कञ्चुकाः ॥ १७.२२ ॥ संकल्पं द्विरदगणं वरूथिनस्तुरङ्गिणो जयनयुजश्च वाजिनः । त्वरायुजः स्वयमपि कुर्वतो नृपाः पुनः पुनस्तदधिकृतानतत्वरन् ॥ १७.२३ ॥ युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया । अदीयत द्विपघटया सवारिभिः करोदरैः स्वयमथ दानमक्षयम् ॥ १७.२४ ॥ सुमेखलाः सिततरदन्तचारवः समुल्लसत्तनुपरिधानसंपदः । रणैषिणां पुलकभृतोऽधिकन्धरं ललम्बिरे सदसिलताः प्रिया इव ॥ १७.२५ ॥ मनोहरैः प्रकृतिमनोरमाकृतिर्भयप्रदैः समितिषु भीमदर्शनः । सदैवतैः सततमथानपायिभिर्निजाङ्गवन्मुरजिदसेव्यतायुधैः ॥ १७.२६ ॥ अवारितं गतमुभयेषु भूरिशः क्षमाभृतामथ कटकान्तरेष्वपि । मुहुर्युधि क्षतसुरशत्रुशोणितप्लुतप्रधिं रथमधिरोहति स्म सः ॥ १७.२७ ॥ उपेत्यच स्वनगुरुपक्षमारुतं दिवस्त्विषा कपिशितदूरदिङ्मुखः । प्रकम्पितस्थिरतरयष्टि तत्क्षणं पतत्पतिः पदमधिकेतनं दधौ ॥ १७.२८ ॥ गभीरताविजितमृदङ्गनादया स्वनश्रिया हतरिपुहंसहर्षया । प्रमोदयन्नथ मुखरान्कलापिनः प्रतिष्ठते नवघनवद्रथः स्म सः ॥ १७.२९ ॥ निरन्तरस्थगितदिगन्तरं ततः समुच्चलद्बलमवलोकयञ्जनः । विकौतुकः प्रकृतमहाप्लवेऽभवद्विशृङ्खलं प्रचलितसिन्धुवारिणि ॥ १७.३० ॥ बबृंहिरे गजपतयो महानकाः प्रदध्वनुर्जयतुरगा जिहेषिरे । असंभवद्गिरिवरगह्वरैरभूत्तदा रवैर्दलित इव स्व आश्रयः ॥ १७.३१ ॥ अनारतं रसति जयाय दुन्दुभौ मधुद्विषः फलदलघुप्रतिस्वनैः । विनिष्पतन्मृगपतिभिर्गुहामुखैर्गताः परां मुदमहसन्निवाद्रयः ॥ १७.३२ ॥ जडीकृतश्रवणपथे दिवौकसां चमूरवे विशति सुराद्रिकन्दराः । अनर्थकैरजनि विदग्धकामिनीरतान्तरक्वणितविलासकौशलैः ॥ १७.३३ ॥ अरातिभिर्युधि सहयुध्वनो हताञ्जिघृक्षवः श्रुतरणतूर्यनिःस्वनाः । अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनम् ॥ १७.३४ ॥ प्रचोदिताः परिचितयन्तृकर्मभिर्निषादिभिर्विदितयताङ्कुशक्रियैः । गजाः सकृत्करतललोलनालिकाहता मुहुः प्रणदितघण्डमाययुः ॥ १७.३५ ॥ सविक्रमक्रमणचलैरितस्ततः प्रकीर्णकैः क्षिपत इव क्षिते रजः । व्यरंसिषुर्न खलु जनस्य दृष्टयस्तुरङ्गमादभिनवभाण्डभारिणः ॥ १७.३६ ॥ चलाङ्गुलीकिसलयमुद्धतैः करैरनृत्यत स्फुटकृतकर्णतालया । मदोदकद्रवकटभित्तिसङ्गिभिः कलस्वरं मधुपगणैरगीयत ॥ १७.३७ ॥ असिच्यत प्रशमितपांशुभिर्मही मदाम्बुभिर्धृतनवपूर्णकुम्भया । अवाद्यत श्रवणसुखं समुन्नमत्पयोधरध्वनिगुरु तूर्यमाननैः ॥ १७.३८ ॥ उदासिरे पवनविधूतवाससस्ततस्ततो गगनलिहश्च केतवः । यतः पुरः प्रतिरिपु शार्ङ्गिणः स्वयं व्यधीयत द्विपघटयेति मङ्गलम् ॥ १७.३९ ॥ न शून्यतामगमदसौ निवेशभूः प्रभूततां दधति बले चलत्यपि । पयस्यभिद्रवति भुवं युगावधौ सरित्पतिर्न हि समुपैति रिक्तताम् ॥ १७.४० ॥ यियासितामथ मधुभिद्विवस्वता जनो जरन्महिषविषाणधूसराम् । पुरः पतत्परबलरेणुमालिनीमलक्षयद्दिशमभिधूमितामिव ॥ १७.४१ ॥ मनस्विनामुदितगुरुप्रतिश्रुतिः श्रुतस्तथा न निजमृदङ्गनिःस्वनः । यथा पुरःसमरसमुद्यतद्विषद्वलानकध्वनिरुदकर्षयन्मनः ॥ १७.४२ ॥ यथा यथा पटहरवः समीपतामुपागमत्स हरिवराग्रतः सरः । तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूरजनि जनीव चेतसा ॥ १७.४३ ॥ प्रसारिणि सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता । व्यभाव्यत प्रलयजकालिकाकृतिर्विदूरतः प्रतिबलकेतनावलिः ॥ १७.४४ ॥ क्षणेन च प्रतिमुखतिग्मदीधितिप्रतिप्रभास्फुरदसिदुःखदर्शना । भयङ्करा भृशमपि दर्शनीयतां ययावसावसुरचमूश्च भूभृताम् ॥ १७.४५ ॥ पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः । समक्रमः समविषमेष्वथ क्षणात्क्षमातलं बलजलराशिरानशे ॥ १७.४६ ॥ ममौ पुरः क्षणमिव पश्यतो महत्तनूदरस्थितभुवनत्रयस्य तत् । विशालतां दधति नितान्तमायते बलं द्विषां मधुमथनस्य चक्षुषि ॥ १७.४७ ॥ भृशस्विदः पुलकविकासिमूर्तयो रसाधिके मनसि निविष्टसाहसाः । मुखे युधः सपदि रतेरिवाभवन्ससम्भ्रमाः क्षितिपचमूवधूगणाः ॥ १७.४८ ॥ ध्वजांशुकैर्ध्रुवमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः । यदूनभि द्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे ॥ १७.४९ ॥ हरेरपि प्रति परकीयवाहिनीरधिस्यदं प्रववृतिरे चमूचराः । विलम्बितुं न खलु सहा मनस्विनो विधित्सतः कलहमवेक्ष्य विद्विषः ॥ १७.५० ॥ उपाहितैर्वपुषि निवातवर्मभिः स्फुरन्मणिप्रसृतमरीचिसूचिभिः । निरन्तरं नरपतयो रणाजिरे रराजिरे शरनिकराचिता इव ॥ १७.५१ ॥ अथोच्चकैर्जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरद्युति । वलैश्चलच्चरणविधूतमुच्चरद्धनावलीरुदचरत क्षमारजः ॥ १७.५२ ॥ विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरङ्गमैरुपरि निरुद्धनिर्गमाः । चलाचलैरनुपदमाहताः खुरैर्विबभ्रमुश्चिरमध एव धूलयः ॥ १७.५३ ॥ गरीयसः प्रचुरमुखस्य रागिणो रजोऽभवद्व्यवहितसत्वमुत्कटम् । सिसृक्षतः सरसिजजन्मनो जगद्बलस्य तु क्षयमपनेतुमिच्छतः ॥ १७.५४ ॥ पुरा शरक्षतिजनितानि संयुगे नयन्ति नः प्रसभमसृञ्जि पङ्कताम् । इति ध्रुवं व्यलगिषुरात्तभीतयः खमुच्चकैरनलसखस्य केतवः ॥ १७.५५ ॥ क्वचिल्लसद्घननिकुरम्बकर्बुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः । क्वचिच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययौ ॥ १७.५६ ॥ महीयसा महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिणि । विसारितामजिहत कोकिलावलीमलीमसा जलदमदाम्बुराजयः ॥ १७.५७ ॥ शिरोरुहैरलिकुलकोमलैरमी मुधा मृधे मृषत युवान एव मा । बलोद्धतं धवलितमूर्धजानिति ध्रुवं जनाञ्जरत इवाकरोद्रजः ॥ १७.५८ ॥ सुसंहतैर्दधदपि धाम नीयते तिरस्कृतिं बहुभिरसंशयं परैः । यतः क्षितेरवयवसंपदोऽणवस्त्विषां निधेरपि वपुरावरीषत ॥ १७.५९ ॥ द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्बहुलरजोऽवगुण्ठितम् । युगक्षयक्षणनिरवग्रहे जगत्पयोनिधेर्जल इव मग्नमाबभौ ॥ १७.६० ॥ समुल्लसद्दिनकरवक्त्रकान्तयो रजस्वलाः परिमलिताम्बरश्रियः । दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां ययुः ॥ १७.६१ ॥ निरीक्षितुं वियति समेत्यकौतुकात्पराक्रमं समरमुखे महीभृताम् । रजस्ततावनिमिषलोचनोत्पलव्यथाकृति त्रिदशगणैः पलाय्यत ॥ १७.६२ ॥ विषङ्गिणि प्रतिपदमापिबत्यपो हताचिरद्युतिनि समीरलक्ष्मणि । शनैःशनैरुपचितपङ्कभारिकाः पयोमुचः प्रययुरपेतवृष्टयः ॥ १७.६३ ॥ नभोनदीव्यतिकरधौतमूर्तिभिर्वियद्गतैरनधिगतानि लेभिरे । चलच्चमूतुरगखुराहतोत्पतन्महीरजःस्नपनसुखानि दिग्गजैः ॥ १७.६४ ॥ गजव्रजाक्रमणभरावनम्रया रसातलं यदखिलमानशे भुवा । नभस्तलं भहुलतरेण रेणुना ततोऽगमत्त्रिजगदिवैकतां स्फुटम् ॥ १७.६५ ॥ समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः । रहस्त्रपाविधुरवघूरतार्थिनां नभःसदामुपकरणीयतां ययुः ॥ १७.६६ ॥ गते मुखच्छदपटसादृशीं दृशः पथस्थिरो दधति घने रजस्यपि । मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रंहसा ॥ १७.६७ ॥ मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः शमितरजश्चयानधः । उपर्यवस्थितघनपांशुमण्डलानलोकयत्ततपटमण्डपानिव ॥ १७.६८ ॥ अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृतः स्तन्वन्तः कनकावलीभिरुपमां सौदामनीदामभिः । वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले कालियकायकालवपुषः पांसून्गजाम्भोमुचः ॥ १७.६९ ॥ _____________________________________________________________ सञ्जग्माते तावपायनपेक्षौ सेनाम्भोधी धीरनादौ रयेण । पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ॥ १८.१ ॥ पत्तिः पत्तिं वाहमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्थम् । इत्थं सेना वल्लभस्येव रागादङ्गेनाङ्गं प्रत्यनीकस्य भेजे ॥ १८.२ ॥ रथ्याघोषैर्बृंहणैर्वारणानामैक्यं गच्छन्वाजिनां ह्रेषया च । व्योमव्यापी सन्ततं दुन्दुभीनामव्यक्तोऽभूदीशितेव प्रणादः ॥ १८.३ ॥ रोषावेशाद्गच्छतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलबाहुध्वजानाम् । दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां भ्रेजिरे खड्गलेखाः ॥ १८.४ ॥ वर्ध्राबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुच्चलन्तः । रौक्मा रेजुः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्यशेषाः ॥ १८.५ ॥ सान्द्रत्वक्कास्तल्पलाश्लिष्टकक्षा आङ्गीं शोभामाप्नुवन्तश्चतुर्थीम् । कल्पस्यान्ते मारुतेनोपनुन्नाश्चेलुश्चण्डं गण्डशैला इवेभाः ॥ १८.६ ॥ संक्रीडन्ती तेजिताश्वस्य रागादुद्यम्यारामग्रकायोत्थितस्य । रंहोभाजामक्षधूः स्यन्दनानां हाहाकारं प्राजितुः प्रत्यनन्दत् ॥ १८.७ ॥ कुर्वाणानां साम्परायान्तरायं भूरेणूनां मृत्युना मार्जनाय । सम्मार्जन्यो नूनमुद्धूयमाना भान्ति स्मोच्चैः केतनानां पताका ॥ १८.८ ॥ उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति । आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ॥ १८.९ ॥ घण्डानादो निस्वनो डिण्डिमानां ग्रैवेयाणामारवो बृंहितानि । आमेतीव प्रत्यवोचन् गजानामुत्साहार्थं वाचमाधोरणस्य ॥ १८.१० ॥ यातैश्चातुर्विध्यमस्त्रादिभेदादव्यासङ्गैः सौष्ठवाल्लाघवाच्च । शिक्षाशक्तिं प्राहरन्दर्शयन्तो मुक्तामुक्तैरायुधैरायुधीयाः ॥ १८.११ ॥ रोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रंहसैवोपयातौ । हित्वा हेतीर्मल्लवन्मुष्टिघातं घ्नन्तौ बाहूबाहवि व्यासृजेताम् ॥ १८.१२ ॥ शुद्धाः सङ्गं न कौचित्प्राप्तवन्तो दूरान्मुक्ता शीघ्रतां दर्शयन्तः । अन्तःसेनं विद्विषामाविशन्तो युक्तं चक्रुः सायका वाजितायाः ॥ १८.१३ ॥ आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च । हेलालोला वर्त्म गत्वातिमर्त्यं द्यामारोहन्मानभाजः सुखेन ॥ १८.१४ ॥ रोदोरन्ध्रं व्यश्नुवानानि लोलैरङ्गस्यान्तर्मादितैः स्थावराणि । केचित्गुर्वीमेत्य संयन्निषद्यां क्रीणन्ति स्म प्राणमूल्यैर्यशांसि ॥ १८.१५ ॥ वीर्योत्साहश्लाघि कृत्वावदानं सङ्ग्रामाग्रे मानिनां लज्जितानाम् । अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्ति स्म नग्नाः ॥ १८.१६ ॥ आधावन्तः सम्मुखं धारितानामन्यैरन्ये तीक्ष्णकौक्षेयकाणाम् । वक्षःपीठैरात्सरोरात्मनैव क्रोधेनान्धाः प्रविशन्पुष्कराणि ॥ १८.१७ ॥ मिश्रीभूते तत्र सैन्यद्वयेऽपि प्रायेणायं व्यक्तमासीद्विशेषः । आत्मीयास्ते ये पराञ्चः पुरस्तादभ्यावर्ती संमुखो यः परोऽसौ ॥ १८.१८ ॥ सद्वंशत्वादङ्गसंसङ्गिनीत्वं नीत्वा कामं गौरवेणाबबब्द्धा । नीता हस्तं वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कृपाणी ॥ १८.१९ ॥ नीते भेदं धौतधाराभिघातादम्भोदाभे शात्रवेणापरस्य । सासृग्राजिस्तीक्ष्णमार्गस्य मार्गो विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ॥ १८.२० ॥ आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः । प्रप्यासह्यां वेदनामस्तधैर्यादप्यभ्रश्यच्चर्म नान्यस्य पाणेः ॥ १८.२१ ॥ भित्वा घोणामायसेनाधिवक्षः स्थूरीपृष्ठो गार्ध्रपक्षेण विद्धः । शिक्षाहेतोर्गाढरज्ज्वेव बद्धो हर्तुं वक्त्रं नाशकद्दुर्मुखोऽपि ॥ १८.२२ ॥ कुन्तेनोच्चैः सादिना हन्तुमिष्टान्नाजानेयो दन्तिनस्त्रस्यति स्म । कर्मोदारं कीर्तये कर्तुकामान्किंवा जात्याः स्वामिनोह्रेपयन्ति ॥ १८.२३ ॥ जेतुं जैत्राः शेकिरे नारिसैन्यैः पश्यन्तोऽधो लोकमस्तेषुजालाः । नागारूढाः पार्वतानि श्रयन्तो दुर्गाणीव त्रासहीनास्त्रसानि ॥ १८.२४ ॥ विष्वद्रीचीर्विक्षपन्सैन्यवीचीराजावन्तः क्वापि दूरं प्रयातम् । बभ्रामैकोबन्धुमिष्टं दिदृक्षुः सिन्धौ वाद्यो मण्डलं गोर्वराहः ॥ १८.२५ ॥ यावच्चक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो हस्तिचारी मदस्य । सेनास्वानाद्दन्तिनामात्मनैव स्थूलास्तावत्प्रावहन्दानकुल्याः ॥ १८.२६ ॥ क्रुध्यन् गन्धादन्यनागाय दूरादारोढारं धूतमूर्धावमत्य । घोरारावध्वनिताशेषदिक्के विष्के नागः पर्याणंसीत्स्व एव ॥ १८.२७ ॥ प्रत्यासन्ने दन्तिनि प्रातिपक्षे यन्त्रा नागः प्रास्तवक्त्रच्छदोऽपि । क्रोधाक्रान्तः क्रूरनिर्दारिताक्षः प्रेक्षांचक्रे नैव किञ्चिन्मदान्धः ॥ १८.२८ ॥ तूर्णं यावन्नापनिन्ये निषादी वासश्चक्षुर्वारणं वारणस्य । तावत्पूगैरन्यनागाधिरूढः कादम्बानामेकपातैरसीव्यत् ॥ १८.२९ ॥ आस्थद्दृष्टेराच्छदं च प्रमत्तो यन्ता यातुः प्रत्यरीभं द्विपस्य । भग्नस्योच्चैर्बर्हभारेण शङ्कोरवव्राते वीक्षणे च क्षणेन ॥ १८.३० ॥ यत्नाद्रक्षन्सुस्थितत्वादनाशं निश्चत्यन्यश्चेतसा भावितेन । अन्त्यावस्थाकालयोग्योपयोगं दध्रेऽभीष्टं रागमापद्धनं वा ॥ १८.३१ ॥ अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैभुग्नवालाः । उन्मूर्धानः सन्निपत्यपरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ॥ १८.३२ ॥ द्राधीयांस संहताः स्थेमभाजश्चारूदग्रास्तीक्ष्णतामत्यजन्तः । दन्ता दन्तैराहताः सामजानां भङ्गं जग्मुर्न स्वयं सामजाताः ॥ १८.३३ ॥ मातङ्गानां दन्तसंघट्टजन्मा हेमच्छेदछ्छायाचञ्चच्छिखाग्रः । लग्नोऽप्यग्निश्चामरेषु प्रकामं माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः ॥ १८.३४ ॥ ओषामासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः । योगान्तैर्वा वह्निभिर्वारणानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥ १८.३५ ॥ सान्द्राण्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम् । दन्ताः शोभामापुरम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव ॥ १८.३६ ॥ आकम्पाग्रैः केतुभिः सन्निपातं तारोदीर्णग्रैवनादं व्रजन्तः । मग्नानङ्गे गाढमन्यद्विपानां दन्तान्दुःखादुत्त्खनन्ति स्म नागाः ॥ १८.३७ ॥ उत्क्षप्योच्चैः प्रस्फुरन्तं रदाभ्यामीषादन्तः कुञ्जरं शात्रवीयम् । शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य ॥ १८.३८ ॥ भग्नेऽपीभे स्वे परावर्त्य देहं योद्ध्रा सार्धं व्रीडया मुञ्चतेषून् । साकं यन्तुः संमदेनानुबन्धी दूनोऽभीक्ष्णं वारणः प्रत्यरोधि ॥ १८.३९ ॥ व्याप्तं लोकैर्दुःखलभ्यापसारं संरंभित्वादेत्य धीरो महीयः । सेनामध्यं गाहते वारणः स्म ब्रह्मैव प्रागादिदेवोदरान्तः ॥ १८.४० ॥ भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः । निर्भीकत्वादाहवेनाहतेच्छो हृष्यन्हस्ती हृष्टरोमेव रेजे ॥ १८.४१ ॥ आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन । निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा ॥ १८.४२ ॥ क्रामन्दन्तौ दन्तिनः साहसिक्यादीषादण्डौ मृत्युशय्यातलस्य । सैन्यैरन्यस्तत्क्षणादाशशङ्के स्वर्गस्योच्चैरर्धमार्गाधिरूढः ॥ १८.४३ ॥ कुर्वञ्ज्योत्स्नाविप्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम् । खड्गाघातैर्दारिताद्दन्तिकुम्भादाभाति स्म प्रोच्छलन्मौक्तिकौघः ॥ १८.४४ ॥ दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव । भीमं भूमौ लोलमानं सरोषः पादेनासृक्पङ्कपेषं पिपेष ॥ १८.४५ ॥ आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोपाङ्मुखस्य । लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥ १८.४६ ॥ लब्धस्पर्शं भूव्यधादव्यथेन स्थित्वा किंचिद्दन्तयोरन्तराले । ऊर्ध्वार्धासिच्छिन्नदन्तप्रवेष्टं जित्वोत्तस्थे नागमन्येन सद्यः ॥ १८.४७ ॥ हस्तेनाग्रे वीतभीतिं गृहीत्वा कञ्चिद्व्यालः क्षिप्तवानूर्ध्वमुच्चैः । आसीनानां व्योम्नि तस्यैव हेतोः स्वर्गस्त्रीणामर्पयामास नूनम् ॥ १८.४८ ॥ कंचिद्दूरादायतेन द्रढीयःप्रासप्रोतस्रोतसान्तःक्षतेन । हस्ताग्रेण प्राप्तमप्यग्रतोऽभूदानैश्वर्यं वारणस्य ग्रहीतुम् ॥ १८.४९ ॥ तन्वाः पुंसो नन्द गोपात्मजायाः कंसेनेव स्फोटितायाः गजेन । दिव्या मूर्तिर्व्योमगैरुत्पतन्ती वीक्षामासे विस्मितैश्चण्डिकेव ॥ १८.५० ॥ आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण । संस्थितस्वानं दारुवद्दारुणात्मा कञ्चिन्मध्यात्पाटयामास दन्ती ॥ १८.५१ ॥ शोचित्वाग्रे भृत्ययोर्मृत्युभाजोरर्यः प्रेम्णा नो तथा वल्लभस्य । पूर्वं कृत्वा नेतरस्य प्रसादं पश्चात्तापादाप दाहं यथान्तः ॥ १८.५२ ॥ उत्प्लुत्यारादर्धचन्द्रेण लूने वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते । सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो बिभ्ये वल्गतः सासिपाणेः ॥ १८.५३ ॥ तूर्यारावैराहितोत्तालतालैर्गायन्तीभिः काहलं काहलाभिः । नृत्ते चक्षुःशून्यहस्तप्रयोगं काये कूजन्कम्बुरुच्चैर्जहास ॥ १८.५४ ॥ प्रत्यावृत्तं भङ्गभाजि स्वसैन्ये तुल्यं मुक्तैराकिरन्ति स्म कश्चित् । एकौघेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धाः माल्यैः साधुवादैर्द्वयेऽपि ॥ १८.५५ ॥ बाणाक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैग्रहीतुम् । संरब्धानां भ्राम्यतामाजिभूमौ वारी वारैः सस्मरे वारणानाम् ॥ १८.५६ ॥ पौनः पुन्यादस्रगन्धेन मत्तो मृद्गन्कोपाल्लोकमायोधनोर्व्यां । पादे लग्नमत्र मालामिभेन्द्रः पाशीकल्पामायतामाचकर्ष ॥ १८.५७ ॥ कश्चिन्मूर्च्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य । उच्छ्वास प्रस्थिता तं जिघृक्षुर्व्यर्थाकूता नाकनारी मुमूर्च्छ ॥ १८.५८ ॥ लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः । त्रेसे मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवक्त्रचन्द्रैः ॥ १८.५९ ॥ वृत्तं युद्धे शूरमाश्लिष्य काचिद्रन्तुं तूर्णं मेरुकुञ्जं जगाम । त्यक्त्वा नाग्नौ देहमेति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्था ॥ १८.६० ॥ त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासु । प्राप्याखण्डं देवभूयं सतीत्वादाशिश्लेष स्वैव कञ्चित्पुरन्ध्री ॥ १८.६१ ॥ स्वर्गेवासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या । कश्चिद्भेजे दिव्यनार्या परस्मिंल्लोके लोकं प्रीणयन्त्येह कीर्त्या ॥ १८.६२ ॥ गत्वा नूनं वैबुधं सद्म रम्यं मूच्छाभाजामाजगामान्तरात्मा । भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः साधीयस्ते यद्रणायाद्रियन्ते ॥ १८.६३ ॥ कश्चिच्छ्स्त्रापातमूढोऽपवोढुर्लब्ध्वा भूयश्चेतनामाहवाय । व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः ॥ १८.६४ ॥ भिन्नोरस्कौशत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषेणैव । अन्योऽन्यावष्टम्भसामर्थ्ययोगार्ध्वावेव स्वर्गतावप्यभूताम् ॥ १८.६५ ॥ भिन्नानस्त्रैर्मोहभाजोऽभिजातान्हन्तुं लोलं वारयन्तः स्ववर्गम् । जीवग्राहं ग्राहयामासुरन्ये योग्येनार्थाः कस्य न स्याज्जनेन ॥ १८.६६ ॥ भग्नैर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि । आहाराय प्रेतराजस्य रौप्यस्थालानीव स्थापितानि स्म भान्ति ॥ १८.६७ ॥ रेजुर्भ्रष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम् । हासाल्लक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पीतरक्तासवस्य ॥ १८.६८ ॥ निम्नेष्वोधीभूतमस्त्रक्षतानामस्रं भूमौ यच्चकासाञ्चकार । रागार्थं तत्किं नु कौसुम्भमम्भः संव्यानानामन्तकान्तः पुरस्य ॥ १८.६९ ॥ रामेण त्रिःसप्तकृत्वो ह्रदानां चित्रं चक्रे पञ्चकं क्षत्रियास्त्रैः । रक्ताम्भोभिःस्तत्क्षणादेव तस्मिन्संख्येऽसंख्याः प्रवहन्द्वीपवत्यः ॥ १८.७० ॥ संदानान्तादस्त्रिभिः शिक्षितास्त्रैरविश्याधः शातशस्त्रावलूनाः । कूर्मौपम्यं व्क्तमन्तर्नदीनामैभाः प्रापन्नङ्घ्रयोऽसृङ्मयीनाम् ॥ १८.७१ ॥ पद्माकारैर्योधवक्त्रैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसैः । सोपस्काराः प्रावहन्नस्रतोयाः स्रोतस्विन्यो वीचिषुच्चैस्तरद्भिः ॥ १८.७२ ॥ उत्क्रान्तानामामिषायोपरिष्टादध्याकाशं बभ्रुमुः पत्रवाहाः । मूर्ताः प्राणाः नूनमद्याप्यवेक्षामासुः कायं त्यजिताः दारुणास्त्रैः ॥ १८.७३ ॥ आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैदूरादाशु तीक्ष्णैर्मुखाग्रैः । आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्रिपूगैरपायि ॥ १८.७४ ॥ ओजोभाजां यद्रणे संस्थितानामादत्तीव्रं सार्धमङ्गेन नूनम् । ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा ववाशे ॥ १८.७५ ॥ नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्षस्य ज्वालिना वाशितेन । योद्धुर्बाणप्रोतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः ॥ १८.७६ ॥ ग्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् । स्वादुंकारं कालखण्डोपदंशं क्रोष्टा डिम्बं व्यष्वणद्व्यस्वनञ्च ॥ १८.७७ ॥ क्रव्यात्पूगैः पुष्कराण्यनकानां प्रत्याशाभिर्मेदसो दारितानि । आभीलानि प्राणिनः प्रत्यवस्यन्कालो नूनं व्यददावाननानि ॥ १८.७८ ॥ कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः । बह्वारम्भैरर्धसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ॥ १८.७९ ॥ आयन्तीनामविरतरयंराजकानीकिनीनामित्थं सैन्यैः सममलुघुभिः श्रीपतेरूर्मिमद्भिः । आसीदोघैर्मुहुरिव महद्वारिधेरापगानां दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभाजाम् ॥ १८.८० ॥ _____________________________________________________________ अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा । नृपाङ्घ्रिपौघसंघर्षादग्निवद्वेणुदारिणा ॥ १९.१ ॥ आपतन्तममुन्दूरादूरीकृतपराक्रमः । बलोऽवलोकयामास मातङ्गमिव केसरी ॥ १९.२ ॥ जजौजोजाजिजिज्जाजी तं ततोऽतिततातितुत् । भाभोऽभीभाभिभूभारारारिररिरीररः ॥ १९.३ ॥ भवन्भवाय लोकानामाकम्पितमहीतलः । निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ॥ १९.४ ॥ रामे रिपुः शरानाजिमहेष्वास विचक्षणे । कोपादथैनं शितमा महेष्वा स विचक्षणे ॥ १९.५ ॥ दिशमर्कमिवावाचीं मूर्च्छागतमपाहरत् । मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ॥ १९.६ ॥ कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जिताम् । ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जिताम् ॥ १९.७ ॥ उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंपदम् । तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत ॥ १९.८ ॥ पृथोरध्यक्षिपधृद्रुक्मी यया चापमुदायुधः । तयैव वाचापगमं ययाचापमुदायुधः ॥ १९.९ ॥ समं समन्ततो राज्ञामापतन्तीरनीकिनीः । कार्ष्णिः प्रत्यग्रहीदेकः सारस्वानिव निम्नगाः ॥ १९.१० ॥ दधानैर्घनसादृश्यं लसदायसदंशनैः । तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः ॥ १९.११ ॥ नखांशुमञ्जरीकीर्णमसौतरुरिवोच्चकैः । बभौ विभ्रमद्धनुःशाखामधिरूढशिलीमुखाम् ॥ १९.१२ ॥ प्रप्य भीममसौ जन्यं सौजन्यं दधदानते । विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः ॥ १९.१३ ॥ कृतस्य सर्वक्षितिपैर्विजयाशंसया पुरः । अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनम् ॥ १९.१४ ॥ याबभार कृतानेकमाया सेना ससारताम् । धनुः स कर्षन्रहितमायासेनाससार ताम् ॥ १९.१५ ॥ ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः । कुर्वन्नाजावमुख्यत्वमनमन्नाम मुख्यताम् ॥ १९.१६ ॥ दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः । न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः ॥ १९.१७ ॥ निपीड्य तरसा तेन मुक्ताः काममनास्थया । उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः ॥ १९.१८ ॥ तस्यावदानैः समरे सहसा रोमहर्षिभिः । सुरैरशंसि व्योमस्थैः सह सारो महर्षिभिः ॥ १९.१९ ॥ सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः । भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः ॥ १९.२० ॥ सोढुं तस्य द्विषो नालमवयोधरवा रणम् । ऊर्णुनाव यशश्च द्यामपयोधरवारणम् ॥ १९.२१ ॥ केशप्रचुरलोकस्य पर्यस्कारि विकासिना । शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ॥ १९.२२ ॥ सादरं युद्धमानापि तेनान्यनरसादरम् । सा दरं पृतना निन्ये हीयमाना रसादरम् ॥ १९.२३ ॥ इत्यालिङ्गतामालोक्य जयलक्ष्म्या झषध्वजम् । क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ॥ १९.२४ ॥ अहितानभि वाहिन्या स मानी चतुरङ्गया । चचाल वल्ल्गत्कलभसमानीचतुरङ्गया ॥ १९.२५ ॥ ततस्ततधनुर्मौर्वीविस्फारस्फारिनिःस्वनैः । तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ॥ १९.२६ ॥ सकारनानारकास कायसाददसायका । रसाहवावाहसार नादवाददवादना ॥ १९.२७ ॥ लोलासिकालियकुला यमस्यैव स्वसा स्वयम् । चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम् ॥ १९.२८ ॥ सासेनागमनारम्भे रसेनासीदनारता । तारनादजनामत्त धीरनागमनामया ॥ १९.२९ ॥ धूतधौतासयः प्रष्ठाः प्रतिष्ठन्तक्षमाभृताम् । शौर्यनुरागनिकषः सा हि वेलानुजीविनाम् ॥ १९.३० ॥ दिवमिन्युधा गन्तुं कोमलामलसम्पदम् । दधौ दधानोऽसिलतां कोऽमलामलसम्पदम् ॥ १९.३१ ॥ कृतोरुवेगं युगपद्व्यजिगीषन्त सैनिकाः । विपक्षं बाहुपरिघैर्जङ्घाभिरितरेतरम् ॥ १९.३२ ॥ वाहनाजनि मानासे साराजावनमा ततः. मत्तसारगराजेभे भारीहावज्जनध्वनि ॥ १९.३३ ॥ निध्वनज्जवहारीभा भेजे रागरसात्तमः । ततमानवजारासा सेना मानिजनाहवा ॥ १९.३४ ॥ अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः । चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लताः ॥ १९.३५ ॥ करेणुः प्रम्थितोऽनेको रेणुर्घण्टाः सहस्रशः । करेणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ॥ १९.३६ ॥ धृतप्रत्यग्रशृङ्गाररसरागरपि द्विपैः । सरोषसम्भ्रमैर्बर्भ्रे रौद्र एव रणे रसः ॥ १९.३७ ॥ न तस्थौ भर्तृतः प्राप्तमानसम्प्रतिपत्तिषु । रणैकसर्गेषु भयं मानसं प्रति पत्तिषु ॥ १९.३८ ॥ बाणाहितपूर्णतूणीरकोटरैर्धन्विशाखिभिः । गोधाश्लिष्टभुजाशाखैरभूद्भीमा रणाटवी ॥ १९.३९ ॥ नानाजाववजानाना सा जनौघघनौजसा । परानिहऽहानिराप तान्वियाततयान्विता ॥ १९.४० ॥ विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः । श्लोकैरिवमहाकाव्यं व्यूहैस्तदभवद्बलम् ॥ १९.४१ ॥ संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया । ववले योद्धुमुत्पन्नप्रतिमा स्वरसेन या ॥ १९.४२ ॥ विस्तीर्णमायामवती लोललोकनिरन्तरा । नरेन्द्रमार्गं रथ्येव पपात द्विषतां बलम् ॥ १९.४३ ॥ वारणागगभीरा सा साराभीगगणारवा । कारितारिवधा सेना नासेधा वारितारिका ॥ १९.४४ ॥ अधिनागं प्रजविनो विकसत्पिच्छचारवः । पेतुर्बर्हिणदेशीयाः शङ्कवः प्राणहारिणः ॥ १९.४५ ॥ प्रवृत्तेविकसद्ध्वानंसाधनेप्यविषादिभिः । ववृषेविकसद्दानंयुधमाप्यविषाणिभिः ॥ १९.४६ ॥ पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः । आलापैरिव गान्धर्वमदीप्यत पदातिभिः ॥ १९.४७ ॥ केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता । प्रापे कीर्तिप्लुतमहीमण्डलाग्रानवद्यत ॥ १९.४८ ॥ विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः । परिवारात्पृथक्चक्रे खड्गश्चात्मा च केनचित् ॥ १९.४९ ॥ अन्येन विदधेऽरीणामतिमात्रा विलासिना । उद्गूर्णेन चमूस्तूर्णमतिमात्राविलासिना ॥ १९.५० ॥ सहस्रपूरणः कश्चिल्लूनमूर्धासिना द्विषः । तथोर्ध्व एव काबन्धीमभजन्नर्तनक्रियाम् ॥ १९.५१ ॥ शस्त्रव्रणमयश्रीमदलङ्करणभूषषितः । ददृशेऽन्यो रावणवदलङ्करणभूषितः ॥ १९.५२ ॥ द्विषद्विशसनच्छेदनिरस्तोरुयुगोऽपरः । सिक्तश्चास्त्रैरुभयथा बभूवारुणविग्रहः ॥ १९.५३ ॥ भीमतामपरोऽम्भोधिसमेऽधित महाहवे । दाक्षे कोपः शिवस्येव समेधितमहा हवे ॥ १९.५४ ॥ दन्तौश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव । परनिस्त्रिंशनिर्लूनकरवालाः पदातयः ॥ १९.५५ ॥ रणे रभसनिर्भिन्नद्विपपाटविकासिनि । न तत्र गतभीः कश्चिद्विपपाट विकासिनि ॥ १९.५६ ॥ यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः । अमर्षादितरैस्तावत्तत्यजे युधि जीवितम् ॥ १९.५७ ॥ अयशोभिदुरालोके कोपधामरणादृते । अयशोभिदुरा लोके कोपधा मरणादृते ॥ १९.५८ ॥ स्खलन्ती नक्वचित्तैक्ष्णादभ्यग्रफलशालिनी । अमोचि शक्तिः शक्तिकैर्लोहजा न शरीरजा ॥ १९.५९ ॥ अपादि व्यापृतनयांस्तथा युयुधिरे नृपाः । आप दिव्या पृतनया विस्मयं जनता यथा ॥ १९.६० ॥ स्वगुणैराफलप्राप्तेराकृष्य गणिका इव । कामुकानिव नालीकांस्त्रिणन्ताः सहसामुचन् ॥ १९.६१ ॥ वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः । वाजिनश्च शरा मध्यमविशन्द्रुतवाजिनः ॥ १९.६२ ॥ पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रययशालिभिः । कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ॥ १९.६३ ॥ रक्तश्रुतिं जपासूनसमरागामिषुव्यधात् । कश्चित्पुरः सपत्नेषु समरागमिषुव्यधात् ॥ १९.६४ ॥ रयेण रणकाम्यन्तौ दूरादुपगतविभौ । गतासुरन्तरा दन्ती वरण्डक इवाभवत् ॥ १९.६५ ॥ भूरिभिर्भारिभिर्भीरैर्भूभारैरभिरेभिरे । भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥ १९.६६ ॥ निशितासिलतालूनैस्तथा हस्तैर्न हस्तिनः । युध्यमाना यथा दन्तैर्भग्नैरापुर्विहस्ततां ॥ १९.६७ ॥ निपीडनादिव मिथो दानतोयनारतम् । वपुषामदयापातादिभानामभितोऽगलत् ॥ १९.६८ ॥ रणाङ्गणं सर इव प्लावितं मदवारिभिः । गजः पृथुकराकृष्टशतपत्रमलोडयत् ॥ १९.६९ ॥ शरक्षते गजे भृङ्गैः सविषादिविषादिनि । रुतव्याजेन रुदितं तत्रासीदतिसीदति ॥ १९.७० ॥ अन्तकस्य पृथौ तत्र शयनीय इवाहवे । दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः ॥ १९.७१ ॥ अभीकमतिकेनेद्धे भीतानन्दस्यनाशने । कनत्सकामसेनाके मन्दकामकमस्यति ॥ १९.७२ ॥ दधतोऽपि रणे भीममभीक्ष्णं भावमासुरम् । हताः परैरभिमुखाः सुरभूयमुपाययुः ॥ १९.७३ ॥ येनाङ्गमूहे व्रणवत्सरुचा परतोऽमरैः । समत्वं स ययौ खड्गत्सरुचापरतोऽमरैः ॥ १९.७४ ॥ निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् । पाणिनीयमिवावलोकि धीरैस्तत्समराजिरम् ॥ १९.७५ ॥ अभावि सिन्ध्वा सन्ध्याभ्रसदृग्रुधिरतोयया । हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यथा ॥ १९.७६ ॥ विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः । तरत्पत्ररथा नद्यः प्रासर्पन्रक्तवारिजाः ॥ १९.७७ ॥ असृग्जनोऽस्त्रक्षतिमानवमज्जवसादनम् । रक्षःपिशाचं मुमुदे नवमज्जवसादनम् ॥ १९.७८ ॥ चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहृदम् । पयोदजालमिव तद्वीराशंसनमाबभौ ॥ १९.७९ ॥ बन्धौ विपन्नेऽनेकेन नरेणेह तदन्तिके । अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ॥ १९.८० ॥ कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनाम् । क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ॥ १९.८१ ॥ युद्धमित्थं विधूतान्यमानवानभियो गतः । चैद्यः परान्पराजिग्ये मानवानभियोगतः ॥ १९.८२ ॥ अथ वक्षोमणिच्छायाच्छुरितापीतवाससा । स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ॥ १९.८३ ॥ नीलेनानालनलिननिलीनोल्ललनालिना । ललनालालनेनालं लीलालोलेन लालिना ॥ १९.८४ ॥ अपूर्वयेव तत्कालसमागमसकामया । दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया ॥ १९.८५ ॥ विभावी विभवी भाभो विभाभावी विवो विभीः । भवाभिभावी भावावो भवाभावो भुवो विभुः ॥ १९.८६ ॥ उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः । देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥ १९.८७ ॥ तं श्रिया घनयानस्तरुचा सारतया तया । यातया तरसा चारुस्तनयानघया श्रितम् ॥ १९.८८ ॥ विद्विषोऽद्विषुरुद्वीक्ष्य तथाप्यासन्निरेनसः । अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम् ॥ १९.८९ ॥ विदितं दिवि केऽनीके तं यातं निजिताजिनि । विगदं गवि रोद्धारो योद्धा यो नतिमेति नः ॥ १९.९० ॥ नियुज्यमानेन पुरः कर्मण्यतिगरीयसि । आरोप्यमाणोरुगुणं भर्त्रा कार्मुकमानमत् ॥ १९.९१ ॥ तत्र बाणाः सुपरुषः समधीयन्त चारवः । द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः ॥ १९.९२ ॥ पश्चात्कृतानामप्यस्य नराणामिव पत्रिणाम् । योयो गुणेन संयुक्तः स स कर्णान्तमाययौ ॥ १९.९३ ॥ प्रपे रूपी पुरारेपाः परिपूरी परः परैः । रोपैरपारैरुपरि पुपूरेऽपि पुरोऽपरैः ॥ १९.९४ ॥ दिङ्मुखव्यापिनस्तीक्ष्णान्ह्रदिनो मर्मभेदिनः । चिक्षेपैकक्षणेनैव सायकानहितांश्च सः ॥ १९.९५ ॥ शरवर्षी महानादः स्फुरत्कार्मुककेतनः । नीलच्छविरसौ रेजे केशवच्छलनीरदः ॥ १९.९६ ॥ न केवलं जनैस्तस्य लघुसंधायिनो धनुः । मण्डलीकृतमोकान्ताद्बलमैक्षि द्विषामपि ॥ १९.९७ ॥ लोकालोकी कलोऽकल्ककलिलोऽलिकुलालकः । कालोऽकलोऽकलिः काले कोलकेलिकिलः किल ॥ १९.९८ ॥ अक्षितारासु विव्याध द्विषतः स तनुत्रिणः । दानेषु स्थूललक्ष्यत्वं न हि तस्य शरासने ॥ १९.९९ ॥ वररोऽविवरो वैरिविवारी वारिरारवः । विववार वरो वैरं वीरो रविरिवौर्वरः ॥ १९.१०० ॥ मुक्तानेकशरं प्रणानहरद्भूयसां द्विषां । तदीयं धनुरन्यस्य न हि सेहे सजीवताम् ॥ १९.१०१ ॥ राजराजी रुरोजाजेरजिरेऽजोऽजरोऽरजाः । रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः ॥ १९.१०२ ॥ उद्धतान्द्विषतस्तस्य निध्नतो द्वितयं ययुः । पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः ॥ १९.१०३ ॥ क्रूरारिकारि कीरेककारकः कारिकाकरः । कोरकाकारकरकः करीरः कर्करोर्ऽकरुक् ॥ १९.१०४ ॥ विधातुमवतीर्णोऽपि लघिमानमसौ भुवः । अनेकमरिसंघातमकरोद्भूमिवर्धनम् ॥ १९.१०५ ॥ दारी दरदरिद्रोऽरिदारूदारोऽद्रिदूरदः । दूरादरौद्राददरद्रोदोरुद्दारुरादरी ॥ १९.१०६ ॥ एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव । स जन्मान्तररामस्य चक्रे सदृशमात्मनः ॥ १९.१०७ ॥ शूरः शौरिरशिशिरैराशाशैराशु राशिशः । शरारुः श्रीशरीरेशः शुशूरेऽरिशिरः शरैः ॥ १९.१०८ ॥ व्क्तासीदरितारिणां यत्तदीयास्तदा मुहुः । मनोहृतोऽपि हृदये लेगुरेषां न पत्रिणः ॥ १९.१०९ ॥ नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटम् । अगृह्णत पराङ्गनामसूनस्रं न मार्गणाः ॥ १९.११० ॥ आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः । ऐकागारिकवद्भूमौ दूराज्जग्मुरदर्शनम् ॥ १९.१११ ॥ भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः । कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ॥ १९.११२ ॥ मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् । शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः ॥ १९.११३ ॥ दाददो दद्ददुद्दादी दादादो दूददीददोः । दुद्दादं दददे दुद्दे ददाददददोऽददः ॥ १९.११४ ॥ प्लुतेभकुम्भोरसिजैर्हृदयक्षतिजन्मभिः । प्रावर्तयन्नदीरस्रैर्द्विषां तद्योषितां च सः ॥ १९.११५ ॥ सदामदबलप्रायः समुद्धृरसो बभौ । प्रतीतविक्रमः श्रीमन्हारिर्हरिरिवापरः ॥ १९.११६ ॥ द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः । पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः ॥ १९.११७ ॥ सदैव संपन्नवपू रणेषु स दैवसंपन्नवपूरणेषु । महो दधेऽस्तारि महानितान्तं महोदधेस्तारिमहा नितान्तम् ॥ १९.११८ ॥ इष्टं कृत्वार्थं पत्रिणः शार्ङ्गपाणेरेत्याधोमुख्यं प्रविशन्भूमिमाशु । शुद्धया युक्तानां वैरिवर्गस्य मध्ये भर्त्रा क्षिप्तानामेतदेवानुरूपम् ॥ १९.११९ ॥ सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा । मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरेरेकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥ १९.१२० ॥ _____________________________________________________________ मुखमुल्लसितत्रिरेखमुच्चैर्भिदुरभ्रूयुगभीषणं दधानः । समिताविति विक्रमानमृष्यन्गतभीराह्वतचेदिराण्मुरारिम् ॥ २०.१ ॥ शितचक्रनिपातसंप्रतीक्ष्यं वहतः स्कन्धगतं च तस्य मृत्युम् । अभिशौरि रथोऽथनोदिताश्वः प्रययौ सारथिरूपया नियत्या ॥ २०.२ ॥ अभिचैद्यमगाद्रथोऽपि शौरेरवनिं जागुडकुङ्कुमाभिताम्रैः । गुरनेमिनिपीडनावदीर्णव्यसुदेहस्रुतशोणितैर्विलिम्पन् ॥ २०.३ ॥ स निरायतकेतनांशुकान्तः कलनिक्वाणकरालकिङ्किणीकः । विरराज रिपुक्षयप्रतिज्ञामुखरो मुक्तशिखः स्वयं नु मृत्युः ॥ २०.४ ॥ सजलाम्बुधरारवानुकारी ध्वनिरापूरितदिङ्मुखो रथस्य । प्रगुणीकृतकेकमूर्ध्वकण्ठैः शितिकण्ठैरुपकर्णयाम्बभूवे ॥ २०.५ ॥ अभिवीक्ष्य विदर्भराजपुत्रीकुचकाश्मीरजचिह्नमच्युतोरः । चिरसेवितयापि चेदिराजः सहसावाप रुषा तदैव योगम् ॥ २०.६ ॥ जनिताशनिशब्दशङ्कमुच्चैर्धनुरास्फालितमध्वनन्नृपेण । चपलानिलचोद्यमानकल्पक्षयकालाग्निशिखानिभस्फुरज्ज्यम् ॥ २०.७ ॥ समकालमिवाभिलक्षणीयग्रहसंधानविकर्षणापवर्गैः । अथ साभिसारं शरैस्तरस्वी स तिरस्कर्तुमुपेन्द्रमध्यवर्षत् ॥ २०.८ ॥ ऋजुताफलयोगशुद्धिभाजां गुरुपक्षाश्रयिणां शिलीमुखानाम् । गुणिना नतिमागतेन सन्धिः सह चापेन समञ्जसो बभूव ॥ २०.९ ॥ अविषह्यतमे कृताधिकारं वशिना कर्मणि चेदिपार्थिवेन । अरसद्धनुरुच्चकैदृढार्तिप्रसभाकर्षणवेपमानजीवम् ॥ २०.१० ॥ अनुसन्ततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः । वदनादिव वादिनोऽथ शब्दाः क्षितिभर्तुर्धनुषः शराः प्रसस्रुः ॥ २०.११ ॥ गवलासितकान्ति तस्य मध्यस्थितघोरायतबाहुदण्डनासम् । ददृशे कुपितान्तकोन्न्मद्भ्रूयुगभीमाकृति कार्मुकं जनेन ॥ २०.१२ ॥ तडिदुज्ज्वलजातरूपपुङ्खैः खमयःश्याममुखैरभिध्वनद्भिः । जलदैरिव रंहसा पतद्भिः पिदधे संहतिशालिभिः शरौघैः ॥ २०.१३ ॥ शितशल्यमुखावदीर्णमेघक्षरदम्भः स्फुटतीव्रवेदनानाम् । स्रवदस्रुततीव चक्रवालं ककुभामौर्णविषुः सुवर्णपुङ्खाः ॥ २०.१४ ॥ अमनोरमतां यती जनस्य क्षणमालोकपथान्नभः सदां वा । रुरुधे पिहिताहिमद्युतिर्धीर्विशिखैरन्तरिता च्युता धरित्रत्री ॥ २०.१५ ॥ विनिवारितभानुतापमेकं सकलस्यापि मुरद्विषो बलस्य । शरजालमयं समं समन्तादुरु सद्मेव नराधिपेन तेने ॥ २०.१६ ॥ इति चेदिमहीभृता तदानीं तदनीकं दनुसूनुसूदनस्य । वयसमिव चक्रमक्रियाकं परितोऽरोधि विपाटपञ्चरेण ॥ २०.१७ ॥ इषुवर्षमनेकमेकवीरस्तदरिप्रच्युतमच्युतः पृषत्कैः । अथ वादिकृतं प्रमाणमन्यैः प्रतिवादीव निराकरोत्प्रमाणैः ॥ २०.१८ ॥ प्रतिकुञ्चितकूर्परेण तेन श्रवणोपान्तिकनीयमानगव्यम् । ध्वनति स्म धनुर्घनान्तमत्तप्रचुरक्रौञ्चरवानुकारमुच्चैः ॥ २०.१९ ॥ उरसा विततेन पातितांसः स मयूराञ्चितमस्तकस्तदानीम् । क्षणमालिखितो नु सौष्ठवेन स्थिरपूर्वापरमुष्टिराबभौ वा ॥ २०.२० ॥ ध्वनतो नितरां रयेण गुर्व्यस्तडिदाकारचलद्गुणादसंख्याः । इषवो धनुषः सशब्दमाशु न्यपतन्नम्बुधरादिवाम्बुधराः ॥ २०.२१ ॥ शिखरोन्नतनिष्ठुरांसपीठः स्थगयन्नेकदिगन्तमायतान्तः । निरवर्णि सकृत्प्रसारितोऽस्य क्षितिभर्तेव चमूभिरेकबाहुः ॥ २०.२२ ॥ तमकुण्ठमुखाः सुपर्णकेतोरिषवः क्षिप्तमिषुव्रजं परेण । विभिदामनयन्त कृत्यपक्षं नृपतेर्नेतुरिवायथार्थवर्णाः ॥ २०.२३ ॥ दयितैरिव खण्डिता मुरारेर्विशिखैः संमुखमुज्ज्वलाङ्गलेखैः । लघिमानमुपेयुषी पृथिव्यां विफला शत्रुशरावलिः पपात ॥ २०.२४ ॥ प्रमुखेऽभिहताश्च पत्रवाहाः प्रसभं माधवमुक्तवत्सदन्तैः । परिपूर्णतरं भुवो गतायाः परतः कातरवत्प्रतीपमीयुः ॥ २०.२५ ॥ इतरेतरत्सन्निकर्षजन्मा गलसंघट्टविकीर्णविस्फुलिङ्गः । पटलानि लिहन्वलाहकानामपरेषु क्षणमज्ज्वलत्कृशानुः ॥ २०.२६ ॥ शरदीव शरश्रिया विभिन्ने विभुना शत्रुशिलीमुखाभ्रजाले । विकसन्मुखवारिजाः प्रकामं बभुराशा इव यादवध्वजिन्यः ॥ २०.२७ ॥ स दिवं समचिच्छदच्छरौघैः कृततिग्मद्युतिमण्डलापलापैः । ददृशेऽथ च तस्य चापयष्ट्यामिषुरेकैव जनै सकृद्विसृष्टा ॥ २०.२८ ॥ भवति स्फुटमागतो विपक्षान्न सपक्षोऽपि हि निर्वृतेर्विधाता । शिशुपालबलानि कृष्णमुक्तः सुतरां तेन तताप तोमरौघः ॥ २०.२९ ॥ गुरुवेगविराविभिः पतत्रैरिषवः काञ्चनपिङ्गलभासः । विनतासुतवत्तलं भुवः स्म व्यथितभ्रान्तभुजङ्गमं विशन्ति ॥ २०.३० ॥ शतशः परुषाः पुरो विशङ्कं शिशुपालेन शिलीमुखाः प्रयुक्ताः । परमर्मभिदोऽपि दानवारेरपराधा इव न व्यथां वितेनुः ॥ २०.३१ ॥ विहिताद्भुतलोकसृष्टिमाये जममिच्छन्किल मायया मुरारौ । भुवनक्षयकालयोगनिद्रे नृपतिः स्वापनमस्त्रमाजहार ॥ २०.३२ ॥ सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम् । प्रचलायतलोचनारविन्दं विदधे तद्बलमन्धकारः ॥ २०.३३ ॥ गुरवोऽपि निषद्य यन्निदद्रुर्धनुषि क्ष्मापतयो न वाच्यमेतत् । क्षयितापदि जाग्रतोऽपि नित्यं ननु तत्रैव हि तेऽभवन्निषण्णाः ॥ २०.३४ ॥ श्लथतां व्रजतस्तथा परेषामगद्धारणाशक्तिमुज्झतः स्वाम् । सुगृहीतमपि प्रमदभाजां मनसः शास्त्रमिवामस्त्रमग्रपाणेः ॥ २०.३५ ॥ उचितस्वपनोऽपि नीरराशौ स्वबलाम्भोनिधिमध्यगस्तदीनीम् । भुवनत्रयकार्यजागरूकः स परं तत्र परः पुमानजागः ॥ २०.३६ ॥ अथसूर्यरुचीव तस्य दृष्टावुद्भूत्कौस्तुभदर्पणं गतायाम् । पटुः धाम ततो न चाद्भुतं तद्विभुरिन्द्वर्कविलोचनः किलासौ ॥ २०.३७ ॥ महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुंमुखेषु । व्यकसद्विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः ॥ २०.३८ ॥ प्रकृतिं प्रतिपादुकैश्च पादैश्चकॢषे भानुमतः पुनः प्रसर्तुम् । तमसोऽभिभवादपास्य मूर्च्छामुपजीवत्सहसैव जीवलोकः ॥ २०.३९ ॥ घनसंतमसैर्जवेन भूयो यदुयोधैर्युधि रेधिरे द्विषन्तः । ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणाम् ॥ २०.४० ॥ व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथप्रकाशे । रिपुरुल्बणभीमभोगभाजां भुजगानां जननीं जजाप विद्याम् ॥ २०.४१ ॥ पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः । अभवन्युगपद्विलोलजिह्वायुगलीढोभयसृक्कभागमाविः ॥ २०.४२ ॥ कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छुभिश्छलेन । अमृताग्रभुवः पुरेव पुच्छं बडवाभर्तुरवारि काद्रवेयैः ॥ २०.४३ ॥ दधतस्तनिमानमानपूर्व्या बभुरक्षिश्रवसो मुखे विशालाः । भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चाः ॥ २०.४४ ॥ सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानाम् । उपरागवतेव तिग्मभासा वपुरौदुम्बरमण्डलाभमूहे ॥ २०.४५ ॥ शिखिपिच्छकृतध्वजावचूडक्षणसाशङ्कविवर्तमानभोगाः । यमपाशवदाशुबन्धनाय न्यपतन्वृष्णिगणेषु लेलिहानाः ॥ २०.४६ ॥ पृथुवारिधिवीचिमण्डलान्तर्विलसत्फेनवितानपाण्डुराणि । दधति स्म भुजङ्गमाङ्गमध्ये नवनिर्मोकरुचिं ध्वजांशुकानि ॥ २०.४७ ॥ कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः । व्यरुचज्जनता भुजङ्गभोगैर्दलितेन्दीवरमालभारिणीव ॥ २०.४८ ॥ परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः । दधुरायतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् ॥ २०.४९ ॥ बहुलाञ्जनपङ्कपट्टनीलद्युतयो देहमितस्ततः श्रमन्तः । दधिरे फणिनस्तुरङ्गमेषु स्फुटपल्याणनिबद्धवर्ध्रलीलाम् ॥ २०.५० ॥ प्रसृतं रभसादयोभिनीला प्रतिपदं परितोऽभिवेष्टयन्ती । तनुरायतिशालिनी महाहेर्गजमन्दुरिव निश्चलं चकार ॥ २०.५१ ॥ अथ सस्मितवीक्षितादवज्ञाचलितैकोन्नमितभ्रु माधवेन । निजकेतुशिरःश्रितः सुपर्णादुदपप्तन्नयुतानि पक्षिराजाम् ॥ २०.५२ ॥ द्रुतहेमरुचः खगाः खगेन्द्रादलघूदीरितनादमुत्पतन्तः । क्षणमैक्षिषतोच्चकैश्चमूभिर्ज्वलतः सप्तरुचेरिव स्फुलिङ्गाः ॥ २०.५३ ॥ उपमानमलाभि लोलपक्षक्षणविक्षिप्तमहाम्बुवाहमत्स्यैः । गगनार्णवमन्तरासुमेरोः कुलजानां गरुडैरिलाधराणाम् ॥ २०.५४ ॥ पततां परितः परिस्फुरद्भिः परिपिङ्गीकृतदिङ्मुखैर्मयूखैः । सुतरामभवदद्दुरीक्ष्यबिम्बस्तपनस्तत्किरणैरिवात्मदर्शः ॥ २०.५५ ॥ दधुरम्बुधिमन्थनाद्रिमन्थभ्रमणायस्तफणीन्द्रपित्तजानाम् । रुचमुल्लसमानवैनतेयद्युतिभिन्नाः फणभारिणो मणीनाम् ॥ २०.५६ ॥ अभितः क्षुभिताम्बुराशिधीरध्वनिराकृष्टसमूलपादपौघः । जनयन्नभवद्युगान्तशङ्कामनिलो नागविपक्षपक्षजन्मा ॥ २०.५७ ॥ प्रचलत्पतगेन्द्रपत्रवातप्रसभोन्मूलितशैलदत्तमार्गैः । भयविह्वलमाशु दन्दशूकैर्विवशैराविविशे स्वमेव धाम ॥ २०.५८ ॥ खचरैः क्षयमक्षयेऽहिसैन्ये सुकृतैर्दुष्कृतवत्तदोपनीते । अयुगाचिरिव ज्वलन्रुषाथो रिपुरौदर्चिषमाजुहाव मन्त्रम् ॥ २०.५९ ॥ सहसा दधदुद्धताट्टहासश्रियमुत्त्रासितजन्तुना स्वनेन । वियतायतहेतिबाहुरुच्चैरथ वेताल इवोत्पपात वह्निः ॥ २०.६० ॥ चलितोद्धतधूमकेतनोऽसौ रभसादम्बररोहिरोहिताश्वः । द्रुतमारुतसारथिः शिखावान्कनकस्यन्दनसुन्दरश्चचाल ॥ २०.६१ ॥ ज्वलदम्बरकोटरान्तरालं बहुलार्द्राम्बुदपत्रबद्धधूमम् । परिदीपितदीर्घकाष्ठमुच्चैस्तरुवद्विश्वमुवोष जातवेदाः ॥ २०.६२ ॥ गुरुतापविशुष्यदम्बुशुभ्राः क्षणमालग्नकृशानुताम्रभासः । स्वमसारतया मषीभवन्तः पुनराकारमवापुराम्बुवाहाः ॥ २०.६३ ॥ ज्वलितानललोलपल्लवान्ताः स्फुरदष्टापदपत्रपीतभासः । क्षणमात्रभवामभावकाले सुतरामापुरिवायतिं पताकाः ॥ २०.६४ ॥ निखिलामिति कुर्वतश्चिरायद्रुतचामीकरचारुतामिव द्याम् । प्रतिघातसमर्थमस्त्रमग्नेरथ मेघङ्करमस्मरन्मुरारिः ॥ २०.६५ ॥ चतुरम्बुधिगर्भधीरकुक्षेर्वपुषः सन्धिषु लीनसर्वसिन्धोः । उदगुः सलिलात्मनस्त्रिधाम्नो जलवाहावलयः शिरोरुहेभ्यः ॥ २०.६६ ॥ ककुभः कृतनादमास्तृणन्तस्तिरयन्तः पटलानि भानुभासम् । उदनंसिषुरभ्रमभ्रसङ्घाः सपदि श्यामलिमानमानयन्तः ॥ २०.६७ ॥ तपनीयनिकर्षराजिगौरस्फुरदुत्तालतडिच्छटाट्टहासम् । अनुबद्धसमुद्धताम्बुवाहध्वनिताडम्बरमम्बरं बभूव ॥ २०.६८ ॥ सवितुः परिभावुकैर्मरीचीनचिराभ्यक्तमतङ्गजाङ्गभाभिः । जलदैरभितः स्फुरद्भिरुच्चैर्विदधे केतनतेव धूमकेतोः ॥ २०.६९ ॥ ज्वलतः शमनाय चित्रभानोः प्रलयाप्लावमिवाभिदर्शयन्तः । ववृषुर्वृषनादिनो नदीनां प्रतटारोपितवारि वारिवाहाः ॥ २०.७० ॥ मधुरैरपि भूयसा स मेध्यैः प्रथमं प्रत्युत वारिभिर्दिदीपे । पवमानसखस्ततः क्रमेण प्रणयक्रोध इवाशमद्विवादैः ॥ २०.७१ ॥ परितः प्रसभेन नीयमानः शरवर्षैरवसायमाश्रयाशः । प्रबलेषु कृती चकार विद्युद्व्यपदेशेन घनेष्वनुप्रवेशम् ॥ २०.७२ ॥ प्रयतः प्रशमं हुताशनस्य क्वचिदालक्ष्यत मुक्तमूलमर्चिः । बलभित्प्रहितायुधाभिघातात्त्रुटितं पत्रिपतेरिवैकपत्रम् ॥ २०.७३ ॥ व्यगमन्सहसा दिशां मुखेभ्यः शमयित्वा शिखिनाङ्घनाघनौघाः । उपकृत्यनिसर्गतः परेषामुपरोधं न हि कुर्वते महान्तः ॥ २०.७४ ॥ कृतदाहमुदर्चिषः शिखाभिः परिषिक्तं मुहुरम्भसा नवेन । विहिताम्बुधरव्रणं प्रपेदे गगनं तापितपायितासिलक्ष्मीम् ॥ २०.७५ ॥ इति नरपतिरस्त्रं यद्यदाविश्चकार प्रकुपित इव रोगः क्षिप्रकारी विकारम् । भिषगिव गुरुदोषच्छेदिनोपक्रमेण क्रमविदथ मुरारिः प्रत्यहंस्तत्तदाशु ॥ २०.७६ ॥ शुद्धिं गतैरपि परामृजुभिर्विदित्वा बाणैरजय्यमविघट्टितमर्मभिस्तम् । मर्मातिगैरनृजुभिर्नितरामशुद्धैर्वाक्सायकैरथ तुतोद तदा विपक्षः ॥ २०.७७ ॥ राहुस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गनव्यापारैकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वृथा । तेनाक्रोशत एव तस्य मुरजित्तत्काललोलानलज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ॥ २०.७८ ॥ श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षैर्वपुष्टचैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय । प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विस्मिताक्षैर्नरेन्द्रैरौपेन्द्रं वपुरथ विशद्धाम वीक्षांबभूवे ॥ २०.७९ ॥ _____________________________________________________________