॥ ओं नमो बुद्धाय ॥ सौन्दरनन्दं महाकाव्यम् प्रथमः सर्गः कपिलवस्तु वर्णन गौतमः कपिलो नाम मुनिर्धर्मभृतां वरः । बभूव तपसि श्रान्तः काक्षीवानिव गौतमः ॥ १.१ ॥ अशिश्रियद्यः सततं दीप्तं काश्यपवत्तपः । आशिश्राय च तद्वृद्धौ सिद्धिं काश्यपवत्पराम् ॥ १.२ ॥ हविःषु यश्च स्वात्मार्थं गामधुक्षद्वसिष्ठवत् । तपःशिष्टेषु च शिष्येषु गामधुक्षद्वसिष्ठवत् ॥ १.३ ॥ माहात्म्याद्दीर्घतपसो यो द्वितीय इवाभवत् । तृतीय इव यश्चाभूत्काव्याङ्गिरसयोर्धिया ॥ १.४ ॥ तस्य विस्तीर्णतपसः पार्श्वे हिमवतः शुभे । क्षेत्रं चायतनं चैव तपसामाश्रमोऽभवत् ॥ १.५ ॥ चारुवीरुत्तरुवनः प्रस्निग्धमृदुशाद्वलः । हविर्धूमवितानेन यः सदाभ्र इवाबभौ ॥ १.६ ॥ मृदुभिः सैकतैः स्निग्धैः केसरास्तरपाण्डुभिः । भूमिभागैरसंकीर्णैः साङ्गराग इवाभवत् ॥ १.७ ॥ शुचिभिस्तीर्थसंख्यातैः पावनैर्भावनैरपि । बन्धुमानिव यस्तस्थौ सरोभिः ससरोरुहैः ॥ १.८ ॥ पर्याप्तफलपुष्पाभिः सर्वतो वनराजिभिः । शुशुभे ववृधे चैव नरः साधनवानिव ॥ १.९ ॥ नीवारफलसन्तुष्टैः स्वस्थैः शान्तैरनुत्सुकैः । आकीर्णोऽपि तपोभृद्धिः शून्यशून्य इवाभवत् ॥ १.१० ॥ अग्नीनां हूयमानानां शिखिनां कूजतामपि । तीर्थानां चाभिषेकेषु शुश्रुवे यत्र निःस्वनः ॥ १.११ ॥ विरेजुर्हरिणा यत्र सुप्ता मेध्यासु वेदिषु । सलाजैर्माधवीपुष्पैरुपहाराः कृता इव ॥ १.१२ ॥ अपि क्षुद्रमृगा यत्र शान्ताश्चेरुः समं मृगैः । शरण्येभ्यस्तपस्विभ्यो विनयं शिक्षिता इव ॥ १.१३ ॥ संदिग्धेऽप्यपुनर्भावे विरुद्धेष्वागमेष्वपि । प्रत्यक्षिण इवाकुर्वंस्तपो यत्र तपोधनाः ॥ १.१४ ॥ यत्र स्म मीयते ब्रह्म कैश्चित्कैश्चिन्न मीयते । काले निमीयते सोमो न चाकाले प्रमीयते ॥ १.१५ ॥ निरपेक्षाः शरीरेषु धर्मे यत्र स्वबुद्धयः । संहृष्टा इव यत्नेन तापसास्तेपिरे तपः ॥ १.१६ ॥ श्राम्यन्तो मुनयो यत्र स्वर्गायोद्युक्तचेतसः । तपोरागेण धर्मस्य विलोपमिव चक्रिरे ॥ १.१७ ॥ अथ तेजस्विसदनं तपःक्षेत्रं तमाश्रमम् । केचिदिक्ष्वाकवो जग्मू राजपुत्रा विवत्सवः ॥ १.१८ ॥ सुवर्णस्तम्भवर्ष्माणः सिंहोरेस्का महाभुजाः । पात्रं शब्दस्य महतः श्रियां च विनयस्य च ॥ १.१९ ॥ अर्हरूपा ह्यनर्हस्य महात्मानश्चलात्मनः । प्राज्ञाः प्रज्ञाविमुक्तस्य भ्रातृव्यस्य यवीयसः ॥ १.२० ॥ मातृशुल्कादुपगतां ते श्रियं [च] विषेहिरे । ररक्षुश्च पितुः सत्यं यस्माच्छिशियिरे वनम् ॥ १.२१ ॥ तेषां मुनिरुपाध्यायो गौतमः कपिलोऽभवत् । गुरुगोत्रादतः कौत्सास्ते भवन्ति स्म गौतमाः ॥ १.२२ ॥ एकपित्रोर्यथा भ्रात्रोः पृथग्गुरुपरिग्रहात् । राम एवाभवद्गार्ग्यो वासुभद्रोऽपि गौतमः ॥ १.२३ ॥ शाकवृक्षप्रतिच्छन्नं वासं यस्माच्च चक्रिरे । तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इति स्मृताः ॥ १.२४ ॥ स तेषां गौतमश्चक्रे स्ववंशसदृशीः क्रियाः । मुनिरूर्ध्वं कुमारस्य सगरस्येव भार्गवः ॥ १.२५ ॥ कण्वः शाकुन्तलस्येव भरतस्य तरस्विनः । वाल्मिकिरिव धीमांश्च धीमतोर्मैथिलेययोः ॥ १.२६ ॥ तद्वनं मुनिना तेन तैश्च क्षत्रियपुङ्गवैः । शान्तां गुप्तां च युगपद्ब्रह्मक्षत्रश्रियं दधे ॥ १.२७ ॥ अथोदकलशं गृह्य तेषां वृद्धिचिकीर्षया । मुनिः स वियदुत्पत्य तानुवाच नृपात्मजान् ॥ १.२८ ॥ या पतेत्कलशादस्मादक्षय्यसलिलान्महीम् । धारा तामनतिक्रम्य मामन्वेत यथाक्रमम् ॥ १.२९ ॥ ततः परममित्युक्त्वा शिरोभिः प्रणिपत्य च । रथानारुरुहुः सर्वे शीघ्रवाहानलंकृतान् ॥ १.३० ॥ ततः स तैरनुगतः स्यन्दनस्थैर्नभोगतः । तदाश्रममहीप्रान्तं परिचिक्षेप वारिणा ॥ १.३१ ॥ अष्टापदमिवालिख्य निमित्तैः सुरभीकृतम् । तानुवाच मुनिः स्थित्वा भूमिपालसुतानिदम् ॥ १.३२ ॥ अस्मिन् धारापरिक्षिप्ते नेमिचिन्हितलक्षणे । निर्मिमीध्वं पुरं यूयं मयि याते त्रिविष्टपम् ॥ १.३३ ॥ ततः कदाचित्ते वीरास्तस्मिन् प्रतिगते मुनौ । बभ्रमुयौंवनोद्दामा गजा इव निरङ्कुशा ॥ १.३४ ॥ बद्धगोधाङ्गुलीत्राणा हस्तविष्ठितकार्मुकाः । शराध्मातमहातूणा व्यायताबद्धवाससः ॥ १.३५ ॥ जिज्ञासमाना नागेषु कौशलं श्वापदेषु च । अनुचक्रुर्वनस्थस्य दौष्यन्तेर्देवकर्मणः ॥ १.३६ ॥ तान् दृष्ट्वा प्रकृतिं यातान् वृद्धान्व्याघ्रशिशूनिव । तापसास्तद्वनं हित्वा हिमवन्तं सिषेविरे ॥ १.३७ ॥ ततस्तदाश्रमस्थानं शून्यं तैः शून्यचेतसः । पश्यन्तो मन्युना तप्ता व्याला इव निशश्वसुः ॥ १.३८ ॥ अथ ते पुण्यकर्माणः प्रत्युपस्थितवृद्धयः । तत्र तज्ज्ञैरुपाख्यातानवापुर्महतो निधीन् ॥ १.३९ ॥ अलं धर्मार्थकामानां निखिलानामवाप्तये । निधयो नैकविधयो भूरयस्ते गतारयः ॥ १.४० ॥ ततस्तत्प्रतिलम्भाच्च परिणामाच्च कर्मणः । तस्मिन् वास्तुनि वास्तुज्ञाः पुरं श्रीमन्न्यवेशयन् ॥ १.४१ ॥ सरिद्विस्तीर्णपरिखं स्पष्टाञ्चितमहापथम् । शैलकल्पमहावप्रं गिरिव्रजमिवापरम् ॥ १.४२ ॥ पाण्डुराट्टालसुमुखं सुविभक्तान्तरापणम् । हर्म्यमालापरिक्षिप्तं कुक्षिं हिमगिरेरिव ॥ १.४३ ॥ वेदवेदाङ्गविदुषस्तस्थुषः षट्सु कर्मसु । शान्तये वृद्धये चैव यत्र विप्रानजीजपन् ॥ १.४४ ॥ तद्भूमेरभियोक्तृणां प्रयुक्तान् विनिवृत्तये । यत्र स्वेन प्रभावेन भृत्यदण्डानजीजपन् ॥ १.४५ ॥ चरित्रधनसम्पन्नान् सलज्जान् दीर्घदर्शिनः । अर्हतोऽतिष्ठिपन् यत्र शूरान् दक्षान् कुटुम्बिनः ॥ १.४६ ॥ व्यस्तैस्तैस्तैर्गुणैयुक्तान्मतिवाग्विक्रमादिभिः । कर्मसु प्रतिरुपेषु सचिवांस्तान्न्ययूयुजन् ॥ १.४७ ॥ वसुमद्भिरविभ्रान्तैरलंविद्यैरविस्मितैः । यद्बभासे नरैः कीर्णं मन्दरः किन्नरैरिव ॥ १.४८ ॥ यत्र ते हृष्टमनसः पौरप्रीतिचिकीर्षया । श्रीमन्त्युद्यानसंज्ञानि यशोधामान्यचिकरन् ॥ १.४९ ॥ शिवाः पुष्करिणीश्चैव परमाग्र्यगुणाम्भसः । नाज्ञया चेतनोत्कर्षाद्दिक्षु सर्वास्वचीखनन् ॥ १.५० ॥ मनोज्ञाः श्रीमतीः प्रष्ठीः पथिषूपवनेषु च । सभाः कूपवतीश्चैव समन्तात्प्रत्यतिष्ठिपन् ॥ १.५१ ॥ हस्त्यश्वरथसंकीर्णमसंकीर्णमनाकुलम् । अनिगूढार्थिविभवं निगूढज्ञानपौरुषम् ॥ १.५२ ॥ सनिधानमिवार्थानामाधानमिव तेजसाम् । निकेतमिव विद्यानां संकेतमिव संपदाम् ॥ १.५३ ॥ वासवृक्षं गुणवतामाश्रयं शरणैषिणाम् । आनर्तं कृतशास्त्राणामालानं बाहुशालिनाम् ॥ १.५४ ॥ समाजैरुत्सवैर्दायैः क्रियाविधिभिरेव च । अलंचक्रुरलंवीर्यास्ते जगद्धाम तत्पुरम् ॥ १.५५ ॥ यस्मादन्यायतस्ते च कंचिन्नाचीकरन् करम् । तस्मादल्पेन कालेन तत्तदापूपुरन् पुरम् ॥ १.५६ ॥ कपिलस्य च तस्यर्षेस्तस्मिन्नाश्रमवास्तुनि । यस्मात्ते तत्पुरं चक्रुस्तस्मात्कपिलवास्तु तत् ॥ १.५७ ॥ ककन्दस्य मकन्दस्य कुशाम्बस्येव चाश्रमे । पुर्यो यथा हि श्रूयन्ते तथैव कपिलस्य तत् ॥ १.५८ ॥ आपुः पुरं तत्पुरुहूतकल्पास्ते तेजसार्येण न विस्मयेन । आपुर्यशोगन्धमतश्च शश्वत्सुता ययातेरिव कीर्तिमन्तः ॥ १.५९ ॥ तन्नाथवृत्तैरपि राजपुत्रैरराजकं नैव रराज राष्ट्रम् । तारासहस्त्रैरपि दीप्यमानैरनुत्थिते चन्द्र इवान्तरीक्षम् ॥ १.६० ॥ यो ज्यायानथ वयसा गुणैश्च तेषां भातॄणां वृषभ इवौजसा वृषाणाम् । ते तत्र प्रियगुरवस्तमभ्यषिचन्नादित्या दशशतलोचनं दिवीव ॥ १.६१ ॥ आचारवान्विनयवान्नयवान्क्रियावान् धर्माय नेन्द्रियसुखाय धृतातपत्रः । तद्भ्रातृभिः परिवृतः स जुगोप राष्ट्रं संक्रन्दनो दिवमिवानुसृतो मरुद्भिः ॥ १.६२ ॥ सौन्दरनन्द महाकाव्य में "कपिलवस्तु वर्णन" नामक प्रथम सर्ग समाप्त । _____________________________________________________________________________ द्वितीयः सर्गः राजा शुद्धोदन ततः कदाचित्कालेन तदवाप कुलक्रमात् । राजा शुद्धोदनो नाम शुद्धकर्मा जितेन्द्रियः ॥ २.१ ॥ यः ससञ्जे न कामेषु श्रीप्राप्तौ न विसिस्मिये । नावमेने परानृद्ध्या परेभ्यो नापि विव्यथे ॥ २.२ ॥ बलीयान् सत्त्वसंपन्नः श्रुतवान् बुद्धिमानपि । विक्रान्तो नयवांश्चैव धीरः सुमुख एव च ॥ २.३ ॥ वपुष्मांश्च न च स्तब्धो दक्षिणो न च नार्जवः । तेजस्वी न च न क्षान्तः कर्ता च न च विस्मितः ॥ २.४ ॥ आक्षिप्तः शत्रुभिः संख्ये सुहृद्भिश्च व्यपाश्रितः । अभवद्यो न विमुखस्तेजसा दित्सयैव च ॥ २.५ ॥ यः पूर्वैः राजभिर्यातां यियासुर्धर्मपद्धतिम् । राज्यं दीक्षामिव वहन् वृत्तेनान्वगमत्पितॄन् ॥ २.६ ॥ यस्य सुव्यवहाराच्च रक्षणाच्च सुखं प्रजाः । शिश्यिरे विगतोद्वेगाः पितुरङ्कगता इव ॥ २.७ ॥ कृतशास्त्रः कृतास्त्रो वा जातो वा विपुले कुले । अकृतार्थो न ददृशे यस्य दर्शनमेयिवान् ॥ २.८ ॥ हितं विप्रियमप्युक्तो यः सुश्राव न चुक्षुभे । दुष्कृतं बह्वपि त्यक्त्वा सस्मार कृतमण्वपि ॥ २.९ ॥ प्रणताननुजग्राह विजग्राह कुलद्विषः । आपन्नान् परिजग्राह निजग्राहास्थितान् पथि ॥ २.१० ॥ प्रायेण विषये यस्य तच्छीलमनुवर्तिनः । अर्जयन्तो ददृशिरे धनानीव गुणानपि ॥ २.११ ॥ अध्यैष्ट यः परं ब्रह्म न व्यैष्ट सततं धृतेः । दानान्यदित पात्रेभ्यः पापं नाकृत किंचन ॥ २.१२ ॥ धृत्यावाक्षीत्प्रतिज्ञां स सद्वाजीवोद्यतां धुरम् । न ह्यवाञ्छीच्च्युतः सत्यान्मुहूर्तमपि जीवितम् ॥ २.१३ ॥ विदुषः पर्युपासिष्ट व्यकाशिष्टात्मवत्तया । व्यरोचिष्ट च शिष्टेभ्यो मासीषे चन्द्रमा इव ॥ २.१४ ॥ अवेदीद्बुद्धिशास्त्राभ्यामिह चामुत्र च क्षमम् । अरक्षीद्धैर्यवीर्याभ्यामिन्द्रियाण्यपि च प्रजाः ॥ २.१५ ॥ अहार्षीद्दुःखमार्तानां द्विषतां चोर्जितं यशः । अचैषीच्च नयैर्भूमिं भूयसा यशसैव च ॥ २.१६ ॥ अप्यासीद्दुःखितान् पश्यन् प्रकृत्या करुणात्मकः । नाधौषीच्च यशो लोभादन्यायाधिगतैर्धनैः ॥ २.१७ ॥ सौहार्ददृढभक्तित्वान्मैत्रेषु विगुणेष्वपि । नादिदासीददित्सीत्तु सौमुख्यात्स्वं स्वमर्थवत् ॥ २.१८ ॥ अनिवेद्याग्रमर्हद्भ्यो नालिक्षत्किंचिदप्लुतः । गामधर्मेण नाधुक्षत्क्षीरतर्षेण गामिव ॥ २.१९ ॥ नासृक्षद्बलिमप्राप्तं नारुक्षन्मानमैश्वरम् । आगमैर्बुद्धिमाधिक्षद्धर्माय न तु कीर्तये ॥ २.२० ॥ क्लेशार्हानपि कांश्चित्तु नाक्लिष्ट क्लिष्टकर्मणः । आर्यभावाच्च नाधुक्षद्द्विषतोऽपि सतो गुणान् ॥ २.२१ ॥ आकृक्षद्वपुषा दृष्टीः प्रजानां चन्द्रमा इव । परस्वं भुवि नामृक्षन्महाविषमिवोरगम् ॥ २.२२ ॥ नाक्रुक्षद्विषये तस्य कश्चित्कैश्चित्क्वचित्क्षतः । आदिक्षत्तस्य हस्तस्थमार्तेभ्यो ह्यभयं धनुः ॥ २.२३ ॥ कृतागसोऽपि प्रणतान् प्रागेव प्रियकारिणः । अदर्शत्स्निग्धया दृष्ट्या श्लक्ष्णेन वचसासिचत् ॥ २.२४ ॥ बव्हीरध्यगमद्विद्या विषयेष्वकुतूहलः । स्थितः कार्तयुगे धर्मे धर्मात्कृच्छ्रेऽपि नास्रसत् ॥ २.२५ ॥ अवर्धिष्ट गुणैः शश्वदवृधन्मित्रसंपदा । अवर्तिष्ट च वृद्धेषु नावृतद्गर्हिते पथि ॥ २.२६ ॥ शरैरशीशमच्छत्रून् गुणैर्बन्धूनरीरमत् । रन्ध्रैर्नाचूचुदद्भृत्यान् करैर्नापीपिडत्प्रजाः ॥ २.२७ ॥ रक्षणाच्चैव शौर्याच्च निखिलां गामवीवपत् । स्पष्टया दण्डनीत्या च रात्रिसत्रानवीवपत् ॥ २.२८ ॥ कुलं राजर्षिवृत्तेन यशोगन्धमवीवपत् । दीप्त्या तम इवादित्यस्तेजसारीनवीवपत् ॥ २.२९ ॥ अपप्रथत्पितॄंश्चैव सत्पुत्रसदृशैर्गुणैः । सलिलेनेव चाम्भोदो वृत्तेनाजिह्णदत्प्रजाः ॥ २.३० ॥ दानैरजस्रविपुलैः सोमं विप्रानसूषवत् । राजधर्मस्थितत्वाच्च काले सस्यमसूषवत् ॥ २.३१ ॥ अधर्मिष्ठामचकथन्न कथामकथंकथः । चक्रवर्तीव च परान् धर्मायाभ्युदसीषहत् ॥ २.३२ ॥ राष्ट्रमन्यत्र च बलेर्न स किंचिददीदपत् । भृत्यैरेव च सोद्योगं द्विषद्दर्पमदीदपत् ॥ २.३३ ॥ स्वैरेवादीदपच्चापि भूयो भूयो गुणैः कुलम् । प्रजा नादीदपच्चैव सर्वधर्मव्यवस्थया ॥ २.३४ ॥ अश्रान्तः समये यज्वा यज्ञभूमिममीमपत् । पालनाच्च द्विजान् ब्रह्म निरुद्विग्नानमीमपत् ॥ २.३५ ॥ गुरुभिर्विधिवत्काले सौम्यः सोमममीमपत् । तपसा तेजसा चैष द्विषत्सैन्यममीमपत् ॥ २.३६ ॥ प्रजाः परमधर्मज्ञः सूक्ष्मं धर्ममवीवसत् । दर्शनाच्चैव धर्मस्य काले स्वर्गमवीवसत् ॥ २.३७ ॥ व्यक्तमप्यर्थकृच्छ्रेषु नाधर्मिष्ठमतिष्ठिपत् । प्रिय इत्येव चाशक्तं न संरागादवीवृधत् ॥ २.३८ ॥ तेजसा च त्विषा चैव रिपून् दृप्तानबीभसत् । यशोदीपेन दीप्तेन पृथिवीं च व्यबीभसत् ॥ २.३९ ॥ आनुशंस्यान्न यशसे तेनादायि सदार्थिने । द्रव्यं महदपि त्यक्त्वा न चैवाकीर्ति किञ्चन ॥ २.४० ॥ तेनारिरपि दुःखार्तो नात्याजि शरणागतः । जित्वा दृप्तानपि रिपून्न तेनाकारि विस्मयः ॥ २.४१ ॥ न तेनाभेदि मर्यादा कामाद्वेषाद्भयादपि । तेन सत्स्वपि भोगेषु नासेवीन्द्रियवृत्तिता ॥ २.४२ ॥ न तेनादर्शि विषमं कार्यं क्वचन किंचन । विप्रियप्रिययोः कृत्ये न तेनागामि निक्रियाः ॥ २.४३ ॥ तेनापायि यथाकल्पं सोमश्च यश एव च । वेदश्चाम्नायि सततं वेदोक्तो धर्म एव च ॥ २.४४ ॥ एवमादिभिरत्यक्तो बभूवासुलभैर्गुणैः । अशक्यः शक्यसामन्तः शाक्यराजः स शक्रवत् ॥ २.४५ ॥ अथ तस्मिन् तथा काले धर्मकामा दिवौकसः । विचेरुर्दिशि लोकस्य धर्मचर्यां दिदृक्षवः ॥ २.४६ ॥ धर्मात्मानश्चरन्तस्ते धर्मजिज्ञासया जगत् । ददृशुस्तं विशेषेण धर्मात्मानं नराधिपम् ॥ २.४७ ॥ देवेभ्यस्तुषितेभ्योऽथ बोधिसत्त्वः क्षितिं व्रजन् । उपपत्तिं प्रणिदधे कुले तस्य महीपतेः ॥ २.४८ ॥ तस्या देवी नृदेवस्य माया नाम तदाभवत् । वीतक्रोधतमोमाया मायेव दिवि देवता ॥ २.४९ ॥ स्वप्नेऽथ समये गर्भमाविशन्तं ददर्श सा । षड्दन्तं वारणं श्वेतमैरावतमिवौजसा ॥ २.५० ॥ तं विनिदिशिशुः श्रुत्वा स्वप्नं स्वप्नविदो द्विजाः । तस्य जन्म कुमारस्य लक्ष्मीधर्मयशोभृतः ॥ २.५१ ॥ तस्य सत्त्वविशेषस्य जातौ जातिक्षयैषिणः । साचला प्रचचालोर्वी तरङ्गाभिहतेव नौः ॥ २.५२ ॥ सूर्यरश्मिभिरक्लिष्टं पुष्पवर्षं पपात खात् । दिग्वारणकराधूताद्वनाच्चैत्ररथादिव ॥ २.५३ ॥ दिवि दुन्दुभयो नेदुर्दीव्यतां मरुतामिव । दिदीपेऽभ्यधिकं सूर्यः शिवश्च पवनो ववौ ॥ २.५४ ॥ तुतुषुस्तुषिताश्चैव शुद्धावासाश्च देवताः । सद्धर्मबहुमानेन सत्त्वानां चानुकम्पया ॥ २.५५ ॥ समाययौ यशःकेतुं श्रेयःकेतुकरः परः । बभ्राजे शान्तया लक्ष्म्या धर्मो विग्रहवानिव ॥ २.५६ ॥ देव्यामपि यवीयस्यामरण्यामिव पावकः । नन्दो नाम सुतो जज्ञे नित्यानन्दकरः कुले ॥ २.५७ ॥ दीर्घबाहुर्महावक्षाः सिंहांसो वृषभेक्षणः । वपुषाग्र्येण यो नाम सुन्दरोपपदं दधे ॥ २.५८ ॥ मधुमास इव प्राप्तश्चन्द्रो नव इवोदितः । अङ्गवानिव चानङ्गः स बभौ कान्तया श्रिया ॥ २.५९ ॥ स तौ संवर्धयामास नरेन्द्रः परया मुदा । अर्थः सज्जनहस्तस्थो धर्मकामौ महानिव ॥ २.६० ॥ तस्य कालेन सत्पुत्रौ ववृधाते भवाय तौ । आर्यस्यारम्भमहतो धर्मार्थाविव भूतये ॥ २.६१ ॥ तयोः सत्पुत्रयोर्मध्ये शाक्यराजो रराज सः । मध्यदेश इव व्यक्तो हिमवत्पारियात्रयोः ॥ २.६२ ॥ ततस्तयोः संस्कृतयोः क्रमेण नरेन्द्रसून्वोः कृतविद्ययोश्च । कामेष्वजस्रं प्रममाद नन्दः सर्वार्थसिद्धस्तु न संररञ्ज ॥ २.६३ ॥ स प्रेक्ष्यैव हि जीर्णमातुरं च मृतं च विमृशन् जगदनभिज्ञमार्तचित्तः । हृदयगतपरघृणो न विषयरतिमगमज्जननमरणभयमभितो विजिघांसुः ॥ २.६४ ॥ उद्वेगादपुनर्भवे मनः प्रणिधाय स ययौ शयितवराङ्गनादनास्थः । निशि नृपतिनिलयनाद्वनगमनकृतमनाः सरस इव मथितनलिनात्कलहंसः ॥ २.६५ ॥ सौन्दरनन्द महाकाव्ये "राजवर्णन" नाम द्वितीयः सर्ग समाप्त । _____________________________________________________________________________ तृतीयः सर्गः तथागत वर्णन तपसे ततः कपिलवास्तु हयगजरथौघसंकुलम् । श्रीमदभयप्रनुरक्तजनं स विहाय निश्चितमना वनं ययौ ॥ ३.१ ॥ विविधागमांस्तपसि तांश्च विविधनियमाश्रयान्मुनीन् । प्रेक्ष्य स विषयतृषाकृपणाननवस्थितं तप इति न्यवर्तत ॥ ३.२ ॥ अथ मोक्षवादिनमराडमुपशममतिं तथोद्रकम् । तत्त्वकृतमतिरुपास्य जहावयमप्यमार्ग इति मार्गकोविदः ॥ ३.३ ॥ स विचारयन् जगति किं नु परममिति तं तमागमम् । निश्चयमनधिगतः परतः परमं चचार तप एव दुष्करम् ॥ ३.४ ॥ अथ नैष मार्ग इति वीक्ष्य तदपि विपुलं जहौ तपः । ध्यानविषयमवगम्य परं बुभुजे वरान्नममृतत्त्वबुद्धये ॥ ३.५ ॥ स सुवर्णपीनयुगबाहुरृषभगतिरायतेक्षणः । प्लक्षमवनिरुहमभ्यगमत्परमस्य निश्चयविधेर्बुभुत्सया ॥ ३.६ ॥ उपविश्य तत्र कृतबुद्धिरचलधृतिरद्रिराजवत् । मारबलमजयदुग्रमथो बुबुधे पदं शिवमहार्यमव्ययम् ॥ ३.७ ॥ अवगम्य तं च कृतकार्यममृतमनसो दिवौकसः । हर्षतुलमगमन्मुदिता विमुखी तु मारपरिषत्प्रचुक्षुभे ॥ ३.८ ॥ सनगा च भूः प्रविचचाल हुतबहसखः शिवो ववौ । नेदुरपि च सुरदुन्दुभयः प्रववर्ष चाम्बुधरवर्जितं नभः ॥ ३.९ ॥ अवबुध्य चैव परमार्थमजरमनुकम्पया विभुः । नित्यममृतमुपदर्शयितुं स वराणसीपरिकरामयात्पुरीम् ॥ ३.१० ॥ अथ धर्मचक्रमृतनाभि धृतिमतिसमाधिनेमिमत् । तत्र विनयनियमारमृषिर्जगतो हिताय परिषद्यवर्तयत् ॥ ३.११ ॥ इति दुःखमेतदियमस्य समुदयलता प्रवर्तिका । शान्तिरियमयमुपाय इति प्रविभागशः परमिदं चतुष्टयम् ॥ ३.१२ ॥ अभिधाय च त्रिपरिवर्तमतुलमनिवर्त्यमुत्तमम् । द्वादशनियतविकल्पं ऋषिर्विनिनाय कौण्डिनसगोत्रमादितः ॥ ३.१३ ॥ स हि दोषसागरमगाधमुपधिजलमाधिजन्तुकम् । क्रोधमदभयतरङ्गचलं प्रततार लोकमपि च व्यतारयत् ॥ ३.१४ ॥ स विनीय काशिषु गयेषु बहुजनमथो गिरिव्रजे । पित्र्यमपि परमकारुणिको नगरं ययावनुजिघृक्षया तदा ॥ ३.१५ ॥ विषयात्मकस्य हि जनस्य बहुविविधमार्गसेविनः । सूर्यसदृशवपुरभ्युदितो विजहार सूर्य इव गौतमस्तमः ॥ ३.१६ ॥ अभितस्ततः कपिलवास्तु परमशुभवास्तुसंस्तुतम् । वस्तुमतिशुचि शिवोपवनं स ददर्श निःस्पृहतया यथा वनम् ॥ ३.१७ ॥ अपरिग्रहः स हि बभूव नियतमतिरात्मनीश्वरः । नैकविधभयकरेषु किमु स्वजनस्वदेशजनमित्रवस्तुषु ॥ ३.१८ ॥ प्रतिपूजया न स जहर्ष न च शुचमवज्ञयागमत् । निश्चितमतिरसिचन्दनयोर्न जगाम दुःखसुखयोश्च विक्रियाम् ॥ ३.१९ ॥ अथ पार्थिवः समुपलभ्य सुतमुपगतं तथागतम् । तूर्णमबहुतुरगानुगतः सुतदर्शनोत्सुकतयाभिनिर्ययौ ॥ ३.२० ॥ सुगतस्तथागतमवेक्ष्य नरपतिमधीरमाशया । शेषमपि च जनमश्रुमुखं विनिनीषया गगनमुत्पपात ह ॥ ३.२१ ॥ स विचक्रमे दिवि भुवीव पुनरुपविवेश तस्थिवान् । निश्चलमतिरशयिष्ट पुनर्बहुधाभवत्पुनरभूत्तथैकधा ॥ ३.२२ ॥ सलिले क्षिताविव चचार जलमिव विवेश मेदिनीम् । मेघ इव दिवि ववर्ष पुनः पुनरज्वलन्नव इवोदितो रविः ॥ ३.२३ ॥ युगपज्ज्वलन् ज्वलनवच्च जलमवसृजंश्च मेघवत् । तप्तकनकसदृशप्रभया स बभौ प्रदीप्त इव सन्ध्यया घनः ॥ ३.२४ ॥ तमुदीक्ष्य हेममणिजालवलयिनमिवोत्थितं ध्वजम् । प्रीतिमगमदतुलां नृपतिर्जनता नताश्च बहुमानमभ्ययुः ॥ ३.२५ ॥ अथ भाजनीकृतमवेक्ष्य मनुजपतिमृद्धिसंपदा । पौरजनमपि च तत्प्रवणं निजगाद धर्मविनयं विनायकः ॥ ३.२६ ॥ नृपतिस्ततः प्रथममाप फलममृतधर्मसिद्धये । धर्ममतुलमधिगम्य मुनेर्मुंनये ननाम स यतो गुराविव ॥ ३.२७ ॥ बहवः प्रसन्नमनसोऽथ जननमरणार्तिभीरवः । शाक्यतनयवृषभाः कृतिनो वृषभा इवानलभयात्प्रवव्रजुः ॥ ३.२८ ॥ विजहुस्तु येऽपि न गृहाणि तनयपितृमात्रपेक्षया । तेऽपि नियमविधिमामरणाज्जगृहुश्च युक्तमनसश्च दध्रिरे ॥ ३.२९ ॥ न जिहिंस सूक्ष्ममपि जन्तुमपि परवधोपजीविनः । किं बत विपुलगुणः कुलजः सदयः सदा किमु मुनेरुपासया ॥ ३.३० ॥ अकृशोद्यमः कृशधनोऽपि परपरिभवासहोऽपि सन् । नान्यधनमपहार तथा भुजगादिवान्यविभवाद्धि विव्यथे ॥ ३.३१ ॥ विभवान्वितोऽपि तरुणोऽपि विषयचपलेन्द्रियोऽपि सन् । नैव च परयुवतीरगमत्परमं हि ता दहनतोऽप्यमन्यत ॥ ३.३२ ॥ अनृतं जगाद न च कश्चिदृतमपि जजल्प नाप्रियम् । श्लक्ष्णमपि च न जगावहितं हितमप्युवाच न च पैशुनाच यत् ॥ ३.३३ ॥ मनसा लुलोभ न च जातु परवसुषु गृद्धमानसः । कामसुखमसुखतो विमृशन् विजहार तृप्त इव तत्र सज्जनः ॥ ३.३४ ॥ न परस्य कश्चिदपघातमपि च सघृणो व्यचिन्तयत् । मातृपितृसुतसुहृत्सदृशं स ददर्श तत्र हि परस्परं जनः ॥ ३.३५ ॥ नियतं भविष्यति परत्र भवदपि च भूतमप्यथो । कर्मफलमपि च लोकगतिर्नियतेति दर्शनमवाप साधु च ॥ ३.३६ ॥ इति कर्मणा दशविधेन परमकुशलेन भूरिणा । भ्रंशिनि शिथिलगुणोऽपि युगे विजहार तत्र मुनिसंश्रयाज्जनः ॥ ३.३७ ॥ न च तत्र कश्चिदुपपत्तिसुखमभिललाष तैर्गुणैः । सर्वमशिवमवगम्य भवं भवसंक्षयाय ववृते न जन्मने ॥ ३.३८ ॥ अकथंकथा गृहिण एव परमपरिशुद्धदृष्टयः । स्त्रोतसि हि ववृतिरे बहवो रजसंस्तनुत्वमपि चक्रिरे परे ॥ ३.३९ ॥ ववृतेऽत्र योऽपि विषयेषु विभवसदृशेषु कश्चन । त्यागाविनयनियमाभिरतो विजहार सोऽपि न चचाल सत्पथात् ॥ ३.४० ॥ अपि च स्वतोऽपि परतोऽपि न भयमभवन्न दैवतः । तत्र च सुसुखसुभिक्षगुणैर्जहृषुः प्रजाः कृतयुगे मनोरिव ॥ ३.४१ ॥ इति मुदितमनामयं निरापत्कुरुरघुपूरुपुरोपमं पुरं तत् । अभवदभयदैशिके महर्षौ विहरति तत्र शिवाय वीतरागे ॥ ३.४२ ॥ सौन्दरनन्दे महाकाव्ये "तथागतवर्णन" नाम तृतीय सर्ग समाप्त । _____________________________________________________________________________ चतुर्थः सर्गः भार्यायाचितक मुनौ ब्रुवाणेऽपि तु तत्र धर्मं धर्मं प्रति ज्ञातिषु चादृतेषु । प्रासादसंस्थो मदनैककार्यः प्रियासहायो विजहार नन्दः ॥ ४.१ ॥ स चक्रवाक्येव हि चक्रवाकस्तया समेतः प्रियया प्रियार्हः । नाचिन्तयद्वैश्रमणं न शक्रं तत्स्थानहेतोः कुत एव धर्मम् ॥ ४.२ ॥ लक्ष्म्या च रूपेण च सुन्दरीति स्तम्भेन गर्वेण च मानिनीति । दीप्त्या च मानेन च भामिनीति यातो बभाषे त्रिविधेन नाम्ना ॥ ४.३ ॥ सा हासहंसा नयनद्विरेफा पीनस्तनात्युन्नतपद्मकोशा । भूयो बभासे स्वकुलोदितेन स्त्रीपद्मिनी नन्ददिवाकरेण ॥ ४.४ ॥ रूपेण चात्यन्तमनोहरेण रूपानुरूपेण च चेष्टितेन । मनुष्यलोके हि तदा बभूव सा सुन्दरी स्त्रीषु नरेषु नन्दः ॥ ४.५ ॥ सा देवता नन्दनचारिणीव कुलस्य नन्दीजननश्च नन्दः । अतीत्य मर्त्याननुपेत्य देवान् सृष्टावभूतामिव भूतधात्रा ॥ ४.६ ॥ तां सुन्दरी चेन्न लभेत नन्दः सा वा निषेवेत न तं नतभ्रूः । द्वन्द्वं ध्रुवं तद्विकलं न शोभेतान्योन्यहीनाविव रात्रिचन्द्रौ ॥ ४.७ ॥ कन्दर्परत्योरिव लक्ष्यभूतं प्रमोदनान्द्योरिव नीडभूतम् । प्रहर्षतुष्ट्योरिव पात्रभूतं द्वन्द्वं सहारंस्त मदान्धभूतम् ॥ ४.८ ॥ परस्परोद्वीक्षणतत्पराक्षं परस्परव्याहृतसक्तचित्तम् । परस्पराश्लेषहृताङ्गरागं परस्परं तन्मिथुनं जहार ॥ ४.९ ॥ भावानुरक्तौ गिरिनिर्झरस्थौ तौ किन्नरीकिंपुरुषाविवोभौ । चिक्रीडतुश्चाभिविरेजतुश्च रूपश्रियान्योन्यमिवाक्षिपन्तौ ॥ ४.१० ॥ अन्योन्यसंरागविवर्धनेन तद्द्वन्द्वमन्योन्यमरीरमच्च । क्लमान्तरेऽन्योन्यविनोदनेन सलीलमन्योन्यममीमदच्च ॥ ४.११ ॥ विभूषयामास ततः प्रियां स सिषेविषुस्तां न मृजावहार्थम् । स्वेनैव रूपेण विभूषिता हि विभूषणानामपि भूषणं सा ॥ ४.१२ ॥ दत्त्वाथ सा दर्पणमस्य हस्ते ममाग्रतो धारय तावदेनम् । विशेषकं यावदहं करोमीत्युवाच कान्तं स च तं बभार ॥ ४.१३ ॥ भर्तुस्ततः श्मश्रु निरीक्षमाणा विशेषकं सापि चकार तादृक् । निश्वासवातेन च दर्पणस्य चिकित्सयित्वा निजघान नन्दः ॥ ४.१४ ॥ सा तेन चेष्टाललितेन भर्तुः शाठ्येन चान्तर्मनसा जहास । भवेच्च रुष्टा किल नाम तस्मै ललाटजिह्मां भृकुटिं चकार ॥ ४.१५ ॥ चिक्षेप कर्णोत्पलमस्य चांसे करेण सव्येन मदालसेन । पत्राङ्गुलिं चार्धनिमीलिताक्षे वक्त्रेऽस्य तामेव विनिर्दुधाव ॥ ४.१६ ॥ ततश्चलन्नूपुरयोक्त्रिताभ्यां नखप्रभोद्भासितराङ्गुलिभ्याम् । पद्भ्यां प्रियाया नलिनोपभाभ्यां मूर्ध्ना भयान्नाम ननाम नन्दः ॥ ४.१७ ॥ स मुक्तपुष्पोन्मिषितेन मूर्ध्ना ततः प्रियायाः प्रियकृद्बभासे । सुवर्णवेद्यामनिलावभग्नः पुष्पातिभारादिव नागवृक्षः ॥ ४.१८ ॥ सा तं स्तनोद्वर्तितहारयष्टिरुत्थापयामास निपीड्य दोर्भ्याम् । कथं कृतोऽसीति जहास चोच्चैर्मुखेन साचीकृतकुण्डलेन ॥ ४.१९ ॥ पत्युस्ततो दर्पणसक्तपाणेर्मुहुर्मुहुर्वक्त्रमवेक्षमाणा । तमालपत्रार्द्रतले कपोले समापयामास विशेषकं तत् ॥ ४.२० ॥ तस्या मुखं तत्सतमालपत्रं ताम्राधरौष्ठं चिकुरायताक्षम् । रक्ताधिकाग्रं पतितद्विरेफं सशैवलं पद्ममिवाबभासे ॥ ४.२१ ॥ नन्दस्ततो दर्पणमादरेण बिभ्रत्तदामण्डनसाक्षिभूतम् । विशेषकावेक्षणकेकराक्षो लडत्प्रियाया वदनं ददर्श ॥ ४.२२ ॥ तत्कुण्डलादष्टविशेषकान्तं कारण्डवक्लिष्टमिवारविन्दम् । नन्दः प्रियाया मुखमीक्षमाणो भूयः प्रियानन्दकरो बभूव ॥ ४.२३ ॥ विमानकल्पे स विमानगर्भे ततस्तथा चैव ननन्द नन्दः । तथागतश्चागतभैक्षकालो भैक्षाय तस्य प्रविवेश वेश्म ॥ ४.२४ ॥ अवाङमुखो निष्प्रणायश्च तस्थौ भ्रातुर्गृहेऽन्यस्य गृहे यथैव । तस्मादथो प्रेष्यजनप्रमादाद्भिक्षामलब्ध्वैव पुनर्जगाम ॥ ४.२५ ॥ काचित्पिपेषाङ्गविलेपनं हि वासोऽङ्गना काचिदवासयच्च । अयोजयत्स्नानविधिं तथान्या जग्रन्थुरन्याः सुरभीः स्रजश्च ॥ ४.२६ ॥ तस्मिन् गृहे भर्तुरतश्चरन्त्यः क्रीडानुरूपं ललितं नियोगम् । काश्चिन्न बुद्धं ददृशुर्युवत्यो बुद्धस्य वैषा नियतं मनीषा ॥ ४.२७ ॥ काचित्स्थिता तत्र तु हर्म्यपृष्ठे गवाक्षपक्षे प्रणिधाय चक्षुः । विनिष्पतन्तं सुगतं ददर्श पयोदगर्भादिव दीप्तमर्कम् ॥ ४.२८ ॥ सा गौरवं तत्र विचार्य भर्तुः स्वया च भक्त्यार्हतयार्हतश्च । नन्दस्य तस्थौ पुरतो विवक्षुस्तदाज्ञया चेति तदाचचक्षे ॥ ४.२९ ॥ अनुग्रहायास्य जनस्य शङ्के गुरुर्गृहं नो भगवान् प्रविष्टः । भिक्षामलब्ध्वा गिरमासनं वा शून्यादरण्यादिव याति भूयः ॥ ४.३० ॥ श्रुत्वा महर्षेः स गृहप्रवेशं सत्कारहीनं च पुनः प्रयाणम् । चचाल चित्राभरणाम्बरस्रक्कल्पद्रुमो धूत इवानिलेन ॥ ४.३१ ॥ कृत्वाञ्जलिं मूर्धनि पद्मकल्पं ततः स कान्तां गमनं ययाचे । कर्त्तु गमिष्यामि गुरौ प्रणामं मामभ्यनुज्ञातुमिहार्हसीति ॥ ४.३२ ॥ सा वेपमाना परिसस्वजे तं शालं लता वातसमीरितेव । ददर्श चाश्रुप्लुतलोलनेत्रा दीर्घे च निश्वस्य वचोऽभ्युवाच ॥ ४.३३ ॥ नाहं यियासोर्गुरुदर्शनार्थमर्हामि कर्तुं तव धर्मपीडाम् । गच्छार्यपुत्रैहि च शीघ्रमेव विशेषको यावदयं न शुष्कः ॥ ४.३४ ॥ सचेद्भवेस्त्वं खलु दीर्घसूत्रो दण्डं महान्तं त्वयि पातयेयम् । मुहुर्मुहुस्त्वां शयितं कुचाभ्यां विबोधयेयं च न चालपेयम् ॥ ४.३५ ॥ अथाप्यनाश्यानविशेषकायां मय्येष्यसि त्वं त्वरितं ततस्त्वाम् । निपीडयिष्यामि भुजद्वयेन निर्भूषणेनार्द्रविलेपनेन ॥ ४.३६ ॥ इत्येवमुक्तश्च निपीडितश्च तयासवर्णस्वनया जगाद । एवं करिष्यामि विमुञ्च चण्डि यावद्गुरुर्दूरगतो न मे सः ॥ ४.३७ ॥ ततः स्तनोद्वर्तिततचन्दनाभ्यां मुक्तो भुजाभ्यां न तु मानसेन । विहाय वेषं मदनानुरूपं सत्कारयोग्यं स वपुर्बभार ॥ ४.३८ ॥ सा तं प्रयान्तं रमणं प्रदध्यौ प्रध्यानशून्यस्थितनिश्चलाक्षी । स्थितोच्चकर्णा व्यपविद्धशष्पा भ्रान्तं मृगं भ्रान्तमुखी मृगीव ॥ ४.३९ ॥ दिदृक्षयाक्षिप्तमना मुनेस्तु नन्दः प्रयाणं प्रति तत्वरे च । विवृत्तदृष्टिश्च शनैर्ययौ तां करीव पश्यन् स लडत्करेणुम् ॥ ४.४० ॥ छातोदरीं पीनपयोधरोरुं स सुन्दरीं रुक्मदरीमिवाद्रेः । काक्षेण पश्यन्न ततर्प नन्दः पिबन्निवैकेन जलं करेण ॥ ४.४१ ॥ तं गौरवं बुद्धगतं चकर्ष भार्यानुरागः पुनराचकर्ष । सोऽनिश्चयान्नापि ययौ न तस्थौ तुरंस्तरंगेष्विव राजहंसः ॥ ४.४२ ॥ अदर्शनं तूपगतश्च तस्या हर्म्यात्ततश्चावततार तूर्णम् । श्रुत्वा ततो नूपुरनिस्वनं स पुनर्ललम्बे हृदये गृहीतः ॥ ४.४३ ॥ स कामरागेण निगृह्यमाणो धर्मानुरागेण च कृष्यमाणः । जगाम दुःखेन विवर्त्यमानः प्लवः प्रतिस्त्रोत इवापगायाः ॥ ४.४४ ॥ ततः क्रमैर्दीर्घतमैः प्रचक्रमे कथं नु यातो न गुरुर्भवेदिति । स्वजेय तां चैव विशेषकप्रियां कथं प्रियामार्द्रविशेषकामिति ॥ ४.४५ ॥ अथ स पथि ददर्श मुक्तमानं पितृनगरेऽपि तथा गताभिमानम् । दशबलमभितो विलम्बमानं ध्वजमनुयान इवैन्द्रमर्च्यमानम् ॥ ४.४६ ॥ सौन्दरनन्द महाकाव्ये "भार्यायाचितक" नाम चतुर्थ सर्ग समाप्त । _____________________________________________________________________________ पञ्चमः सर्गः नन्ददीक्षा अथावतीर्याश्वरथद्विपेभ्यः शाक्या यथास्वर्द्धिगृहीतवेषाः । महापणेभ्यो व्यवहारिणश्च महामुनौ भक्तिवशात्प्रणेमुः ॥ ५.१ ॥ केचित्प्रणम्यानुययुर्मुहूर्त्तं केचित्प्रणम्यार्थवशेन जग्मुः । केचित्स्वकेष्वावसथेषु तस्थुः कृत्वाञ्जलीन् वीक्षणतत्पराक्षाः ॥ ५.२ ॥ बुद्धस्ततस्तत्र नरेन्द्रमार्गे स्रोतो महद्भक्तिमतो जनस्य । जगाम दुःखेन विगाहमानो जलागमे स्त्रोत इवापगायाः ॥ ५.३ ॥ अथो महद्भिः पति संपतद्भिः संपूज्यमानाय तथागताय । कर्त्तुं प्रणामं न शशाक नन्दस्तेनाभिरेमे तु गुरोर्महिम्ना ॥ ५.४ ॥ स्वं चावसङ्गं पथि निर्मुमुक्षुर्भक्तिं जनस्यान्यमतेश्व रक्षन् । नन्दं च गेहाभिमुखं जिघृक्षन्मार्गं ततोऽन्यं सुगतः प्रपेदे ॥ ५.५ ॥ ततो विविक्तं च विविक्तचेताः सन्मार्गविन्मार्गमभिप्रतस्थे । गत्वाग्रतश्चाग्र्यतमाय तस्मै नान्दीविमुक्ताय ननाम नन्दः ॥ ५.६ ॥ शनैर्व्रजन्नेव स गौरवेण पटावृतांसो विनतार्धकायः । अधोनिबद्धाञ्जलिरूर्ध्वनेत्रः सगद्गदं वाक्यमिदं बभाषे ॥ ५.७ ॥ प्रासादसंस्थो भगवन्तमन्तःप्रविष्टमश्रौषमनुग्रहाय । अतस्त्वरावानहमभ्युपेतो गृहस्य कक्ष्यामहतोऽभ्यसूयन् ॥ ५.८ ॥ तत्साधु साहुप्रिय मत्त्प्रियार्थं तत्रास्तु भिक्षूत्तम भैक्षकालः । असौ हि मध्यं नभसो यियासुः कालं प्रतिस्मारयतीव सूर्यः ॥ ५.९ ॥ इत्येवमुक्तः प्रणतेन तेन स्नेहाभिमानोन्मुखलोचनेन । तादृङ्निमित्तं सुगतश्चकार नाहारकृत्यं स यथा विवेद ॥ ५.१० ॥ ततः स कृत्वा मुनये प्रणामं गृहप्रयाणाय मतिं चकार । अनुग्रहार्थं सुगतस्तु तस्मै पात्रं ददौ पुरष्करपत्रनेत्रः ॥ ५.११ ॥ ततः स लोके ददतः फलार्थं पात्रस्य तस्याप्रतिमस्य पात्रम् । जग्राह चापग्रहणक्षमाभ्यां पद्मोपमाभ्यां प्रयतः कराभ्याम् ॥ ५.१२ ॥ पराङ्मुखन्त्वन्यमनस्कमाराद्विज्ञाय नन्दः सुगतं गतास्थम् । हस्तस्थपात्रोऽपि गृहं यियासुः ससार मार्गान्मुनिमीक्षमाणः ॥ ५.१३ ॥ भार्यानुरागेण यदा गृहं स पात्रं गृहीत्वापि यियासुरेव । विमोहयामास मुनिस्ततस्तं रथ्यामुखस्यावरणेन तस्य ॥ ५.१४ ॥ निर्मोक्षबीजं हि ददर्श तस्य ज्ञानं मृदु क्लेशरजश्च तीव्रम् । क्लेशानुकूलं विषयात्मकं च नन्दं यतस्तं मुनिराचकर्ष ॥ ५.१५ ॥ संक्लेशपक्षो द्विविधश्च दृष्टस्तथा द्विकल्पो व्यवदानपक्षः । आत्माश्रयो हेतुबलाधिकस्य बाह्याश्रयः प्रत्ययगौरवस्य ॥ ५.१६ ॥ अयत्नतो हेतुबलाधिकस्तु निर्मुच्यते घट्टितमात्र एव । यत्नेन तु प्रत्ययनेयबुद्धिर्विमोक्षमाप्नोति पराश्रयेण ॥ ५.१७ ॥ नन्दः स च प्रत्ययनेयचेता यं शिश्रिये तन्मयतामवाप । यस्मादिमं तत्र चकार यन्नं तं स्नेहपङ्कान्मुनिरुज्जिहीर्षन् ॥ ५.१८ ॥ नन्दस्तु दुःखेन विचेष्टमानः शनैरगत्या गुरुमन्वगच्छत् । भार्यामुखं वीक्षणलोलनेत्रं विचिन्तयन्नार्द्रविशेषकं तत् ॥ ५.१९ ॥ ततो मुनिस्तं प्रियमाल्यहारं वसन्तमासेन कृताभिहारम् । निनाय भग्नप्रमदाविहारं विद्याविहाराभिमतं विहारम् ॥ ५.२० ॥ दीनं महाकारुणिकस्ततस्तं दृष्ट्वा मुहूर्त करुणायमानः । करेण चक्राङ्कतलेन मूर्ध्नि पस्पर्श चैवेदमुवाच चैनम् ॥ ५.२१ ॥ यावन्न हिंस्रः समुपैति कालः शमाय तावत्कुरु सौम्य बुद्धिम् । सर्वास्ववस्थास्विह वर्तमानं सर्वाभिसारेण निहन्ति मृत्युः ॥ ५.२२ ॥ साधारणात्स्वप्ननिभादसाराल्लोलं मनः कामसुखान्नियच्छ । हव्यैरिवाग्नेः पवनेरितस्य लोकस्य कामैर्न हि तृप्तिरस्ति ॥ ५.२३ ॥ श्रद्धाधनं श्रेष्ठतमं धनेभ्यः प्रज्ञारससृप्तिकरो रसेभ्यः । प्रधानमध्यात्मसुखं सुखेभ्योऽविद्यारतिर्दुःखतमारतिभ्यः ॥ ५.२४ ॥ हितस्य वक्ता प्रवरः सुहृद्भ्यो धर्माय खेदो गुणवान् श्रमेभ्यः । ज्ञानाय कृत्यं परमं क्रियाभ्यः किमिन्द्रियाणामुपगम्य दास्यम् ॥ ५.२५ ॥ तन्निश्चितं भील्कमशुग्वियुक्तं परेष्वनायत्तमहार्यमन्यैः । नित्यं शिवं शान्तिसुखं वृणीष्व किमिन्द्रियार्थार्थमनर्थमूढ्वा ॥ ५.२६ ॥ जरासमा नास्त्यमृजा प्रजानां व्याधेः समो नास्ति जगत्यनर्थः । मृत्योः समं नास्ति भयं पृथिव्यामेतत्त्रयं खल्ववशेन सेव्यम् ॥ ५.२७ ॥ स्नेहेन कश्चिन्न समोऽस्ति पाशः स्रोतो न तृष्णासममस्ति हारि । रागाग्निना नास्ति समस्तथाग्निस्तच्चेत्त्रयं नास्ति सुखं च तेऽस्ति ॥ ५.२८ ॥ अवश्यभावी प्रियविप्रयोगस्तस्माञ्च शोको नियतं निषेव्यः । शोकेन चोन्मादमुपेयिवांसो राजर्षयोऽन्येऽप्यवशा विचेलु ॥ ५.२९ ॥ प्रज्ञामयं वर्म बधान तस्मान्नो क्षान्तिनिघ्नस्य हि शोकबाणाः । महच्च दग्धुं भवकक्षजालं संघुक्षयाल्पाग्निमिवात्मतेजः ॥ ५.३० ॥ यथौषधैर्हस्तगतैः सविद्यो न दश्यते कश्चन पन्नगेन । तथानपेक्षो जितलोकमोहो न दश्यते शोकभुजंगमेन ॥ ५.३१ ॥ आस्थाय योगं परिगम्य तत्त्वं न त्रासमागच्छति मृत्युकाले । आबद्धवर्मा सुधनुः कृतास्रो जिगीषया शूर इवाहवस्थः ॥ ५.३२ ॥ इत्येवमुक्तः स तथागतेन सर्वेषु भूतेष्वनुकम्पकेन । धृष्टं गिरान्तर्हृदयेन सीदंस्तथेति नन्दः सुगतं बभाषे ॥ ५.३३ ॥ अथ प्रमादाच्च तमुज्जिहीर्षन्मत्वागमस्यैव च पात्रभूतम् । प्रब्राजयानन्द शमाय नन्दमित्यब्रवीन्मैत्रमना महर्षिः ॥ ५.३४ ॥ नन्दं ततोऽन्तर्मनसा रुदन्तमेहीति वैदेहमुनिर्जगाद । शनैस्ततस्तं समुपेत्य नन्दो न प्रव्रजिष्याम्यहमित्युवाच ॥ ५.३५ ॥ श्रुत्वाथ नन्दस्य मनीषितं तद्बुद्धाय वैदेहमुनिः शशंस । संश्रुत्य तस्मादपि तस्य भावं महामुनिर्नन्दमुवाच भूयः ॥ ५.३६ ॥ मय्यग्रजे प्रव्रजितेऽजितात्मन् भ्रातृष्वनुप्रव्रजितेषु चास्मान् । ज्ञातींश्च दृष्ट्वा व्रतिनो गृहस्थान् संविन्न किं तेऽस्ति न वास्ति चेतः ॥ ५.३७ ॥ राजर्षयस्ते विदिता न नूनं वनानि ये शिश्रियिरे हसन्तः । निष्ठीव्य कामानुपशान्तिकामाः कामेषु नैवं कृपणेषु सक्ताः ॥ ५.३८ ॥ भूयः समालोक्य गृहेषु दोषान्निशाम्य तत्त्यागकृतं च शर्म । नैवास्ति मोक्तुं मतिरालयं ते देशं मुमूर्षोरिव सोपसर्गम् ॥ ५.३९ ॥ संसारकान्तारपरायणस्य शिवे कथं ते पथि नारुरुक्षा । आरोप्यमाणस्य तमेव मार्गं भ्रष्टस्य सार्थादिव सार्थिकस्य ॥ ५.४० ॥ यः सर्वतो वेश्मनि दह्यमाने शयीत मोहान्न ततो व्यपेयात् । कालाग्निना व्याधिजराशिखेन लोके प्रदीप्ते स भवेत्प्रमत्तः ॥ ५.४१ ॥ प्रणीयमानश्च यथा वधाय मत्तो हसेच्च प्रलपेच्च वध्यः । मृत्यौ तथा तिष्ठति पाशहस्ते शोच्यः प्रमाद्यन् विपरितचेताः ॥ ५.४२ ॥ यदा नरेन्द्राश्च कुटुम्बिनश्च विहाय बन्धूंश्च परिग्रहांश्च । ययुश्च यास्यन्ति च यान्ति चैव प्रियेष्वनित्येषु कुतोऽनुरोधः ॥ ५.४३ ॥ किञ्चिन्न पश्यामि रतस्य यत्र तदन्यभावेन भवेन्न दुःखम् । तस्मात्क्वचिन्न क्षमते प्रसक्तिर्यदि क्षमस्तद्विगमान्न शोकः ॥ ५.४४ ॥ तत्सौम्य लोलं परिगम्य लोकं मायोपमं चित्रमिवेन्द्रजालम् । प्रियाभिधानं त्यज मोहजालं छेत्तुं मतिस्ते यदि दुःखजालम् ॥ ५.४५ ॥ वरं हितोदर्कमानिष्टमन्नं न स्वादु यत्स्यादहितानुबद्धम् । यस्मादहं त्वां विनियोजयामि शिवे शुचौ वर्त्मनि विप्रियेऽपि ॥ ५.४६ ॥ बालस्य धात्री विनिगृह्य लोष्ठं यथोद्धरत्यास्यपुटप्रविष्टम् । तथोज्जिहीर्षुः खलु रागशल्यं तत्त्वामवोचं परुषं हिताय ॥ ५.४७ ॥ अनिष्टमप्यौषधमातुराय ददाति वैद्यश्च यथा निगृह्य । तद्वन्मयोक्तं प्रतिकूलमेतत्तुभ्यं हितोदर्कमनुग्रहाय ॥ ५.४८ ॥ तद्यावदेव क्षणसंनिपातो न मृत्युरागच्छति यावदेव । यावद्वयो योगविधौ समर्थं बुद्धिं कुरु श्रेयसि तावदेव ॥ ५.४९ ॥ इत्येवमुक्तः स विनायकेन हितैषिणा कारुणिकेन नन्दः । कर्तास्मि सर्वं भगवन् वचस्ते तथा यथाज्ञापयसीत्युवाच ॥ ५.५० ॥ आदाय वैदेहमुनिस्ततस्तं निनाय संश्लिष्य विचेष्टमानम् । व्ययोजयच्चाश्रुपरिप्लुताक्षं केशश्रियं छत्रनिभस्य मूर्ध्नः ॥ ५.५१ ॥ अथो नतं तस्य मुखं सबाष्पं प्रवास्यमानेषु शिरोरुहेषु । वक्राग्रनालं नलिनं तडागे वर्षोदकक्लिन्नमिवाबभासे ॥ ५.५२ ॥ नन्दस्ततस्तरुकषायविरक्तवासाश्चिन्तावशो नवगृहीत इव द्विपेन्द्रः । पूर्णः शशी बहुलपक्षगतः क्षपान्ते बालातपेन परिषिक्त इवावभासे ॥ ५.५३ ॥ सौन्दरनन्द काव्ये "नन्ददीक्षा" नाम पञ्चम सर्ग समाप्त । _____________________________________________________________________________ षष्ठः सर्गः भार्याविलाप ततो हृते भर्त्तरि गौरवेण प्रीतौ हृतायामरतौ कृतायाम् । तत्रैव हर्म्योपरि वर्तमाना न सुन्दरी सैव तदा बभासे ॥ ६.१ ॥ सा भर्तुरभ्यागमनप्रतीक्षा गवाक्षमाक्रम्य पयोधराभ्याम् । द्वारोन्मुखी हर्म्यतलाल्ललम्बे मुखेन तिर्यङ्नतकुण्डलेन ॥ ६.२ ॥ विलम्बहारा चलयोक्त्रका सा तस्माद्विमानाद्विनता चकाशे । तपः क्षयादप्सरसां वरेव च्युतं विमानात्प्रियमीक्षमाणा ॥ ६.३ ॥ सा खेदसंस्विन्नललाटकेन निश्वासनिष्पीतविशेषकेण । चिन्ताचलाक्षेण मुखेन तस्थौ भर्त्तारमन्यत्र विशङ्कमाना ॥ ६.४ ॥ ततश्चिरस्थानपरिश्रमेण स्थितैव पर्यङ्कतले पपात । तिर्यक्च शिश्ये प्रविकीर्णहारा सपादुकैकार्धविलम्बपादा ॥ ६.५ ॥ अथात्र काचित्प्रमदा सबाष्पां तां दुःखितां द्रष्टुमनीप्समाना । प्रासादसोपानतलप्रणादं चकार पद्भ्यां सहसा रुदन्ती ॥ ६.६ ॥ तस्याश्च सोपानतलप्रणादं श्रुत्वैव तूर्णं पुनरुत्पपात । प्रीत्यां प्रसक्तैव च संजहर्ष प्रियोपयानं परिशङ्कमाना ॥ ६.७ ॥ सा त्रासयन्ती वलभीपुटस्थान् पारावतान्नूपूरनिस्वनेन । सोपानकुक्षिं प्रससार हर्षाद्भ्रष्टं दुकूलान्तमचिन्तयन्ती ॥ ६.८ ॥ तामङ्गनां प्रेक्ष्य च विप्रलब्धा निश्वस्य भूयः शयनं प्रपेदे । विवर्णवक्त्रा न रराज चाशु विवर्णचन्द्रेव हिमागमे द्यौः ॥ ६.९ ॥ सा दुःखिता भर्त्तुरदर्शनेन कामेन कोपेन च दह्यमाना । कृत्वा करे वक्त्रमुपोपविष्टा चिन्तानदीं शोकजलां ततार ॥ ६.१० ॥ तस्याः मुखं पद्मसपत्नभूतं पाणौ स्थितं पल्लवरागताम्रे । छायामयस्याम्भसि पङ्कजस्य बभौ नतं पद्ममिवोपरिष्टात् ॥ ६.११ ॥ सा स्त्रीस्वभावेन विचिन्त्य तत्तद्दृष्टानुरागेऽभिमुखेऽपि पत्यौ । धर्माश्रिते तत्त्वमविन्दमाना संकल्प्य तत्तद्विललाप तत्तत् ॥ ६.१२ ॥ एष्याम्यनाश्यानविशेषकायां त्वयीति कृत्वा मयि तं प्रतिज्ञाम् । कस्मान्नु हेतोर्दयितप्रतिज्ञः सोऽद्य प्रियो मे वितथप्रतिज्ञः ॥ ६.१३ ॥ आर्यस्य साधोः करुणात्मकस्य मन्नित्यभीरोरतिदक्षिणस्य । कुतो विकारोऽयमभूतपूर्वः स्वेनापरागेण ममापचारात् ॥ ६.१४ ॥ रतिप्रियस्य प्रियवर्तिनो मे प्रियस्य नूनं हृदय विरक्तम् । तथापि रागो यदि तस्य हि स्यान्मच्चित्तरक्षी न स नागतः स्यात् ॥ ६.१५ ॥ रूपेण भावेन च मद्विशिष्टा प्रियेण दृष्टा नियतं ततोऽन्या । तथा हि कृत्वा मयि मोघसान्त्वं लग्नां सतिं मामागमद्विहाय ॥ ६.१६ ॥ भक्तिं स बुद्धं प्रति याववोचत्तस्य प्रयातुं मयि सोऽपदेशः । मुनौ प्रसादो यदि तस्य हि स्यान्मृत्योरिवोग्रादनृताद्बिभीयात् ॥ ६.१७ ॥ सेवार्थमादर्शनमन्यचित्तो विभूषयन्त्या मम धारयित्वा । बिभर्ति सोऽन्यस्य जनस्य तं चेन्नमोऽस्तु तस्मै चलसौहृदाय ॥ ६.१८ ॥ नेच्छन्ति याः शोकमवाप्तुमेवं श्रद्धातुमर्हन्ति न ता नराणाम् । क्व चानुवृत्तिर्मयि सास्य पूर्वं त्यागः क्व चायं जनवत्क्षणेन ॥ ६.१९ ॥ इत्येवमादि प्रियविप्रयुक्ता प्रियेऽन्यदाशङ्क्य च सा जगाद । संभ्रान्तमारुह्य च तद्विमानं तां स्त्री सबाष्पा गिरमित्युवाच ॥ ६.२० ॥ युवापि तावत्प्रियदर्शनोऽपि सौभाग्यभाग्याभिजनान्वितोऽपि । यस्त्वां प्रियो नाभ्यचरत्कदाचित्तमन्यथा यास्यतिकातरासि ॥ ६.२१ ॥ मा स्वामिनं स्वामिनि दोषतो गाः प्रियं प्रियार्हं प्रियकारिणं तम् । न स त्वदन्यां प्रमदामवैति स्वचक्रवाक्या इव चक्रवाकः ॥ ६.२२ ॥ स तु त्वदर्थं गृहवासमीप्सन् जिजीविषुस्त्वत्परितोषहेतोः । भ्रात्रा किलार्येण तथागतेन प्रव्राजितो नेत्रजलार्द्रवक्त्रः ॥ ६.२३ ॥ श्रुत्वा ततो भर्तरि तां प्रवृत्तिं सवेपथुः सा सहसोत्पपात् । प्रगृह्य बाहू विरुराव चोच्चैर्हृदीव दिग्धाभिहत करेणुः ॥ ६.२४ ॥ सा रोदनारोषितरक्तदृष्टिः संतापसंक्षोभितगात्रयष्टिः । पपात शीर्णाकुलहारयष्टिः फलातिभारादिव चूतयष्टिः ॥ ६.२५ ॥ सा पद्मरागं वसनं वसाना पद्मानना पद्मदलायताक्षी । पद्मा विपद्मा पतितेव लक्ष्मीः शुशोष पद्मस्रगिवातपेन ॥ ६.२६ ॥ संचिन्त्य सचिन्त्य गुणांश्च भर्तुर्दीर्घं निशश्वास तताम चैव । विभूषणश्रीनिहिते प्रकोष्ठे ताम्रे कराग्रे च विनिर्दुधाव ॥ ६.२७ ॥ न भूषणार्थो मम संप्रतीति सा दिक्षु चिक्षेप विभूषणानि । निर्भूषणा सा पतिता चकाशे विशीर्णपुष्पस्तबका लतेव ॥ ६.२८ ॥ धृतः प्रियेणायमभून्ममेति रुक्मत्सरुं दर्पणमालिलिङ्गे । यत्नाच्च विन्यस्ततमालपत्रौ रुष्टेव धृष्टं प्रममाजं गण्डौ ॥ ६.२९ ॥ सा चक्रवाकीव भृशं चुकूज श्येनाग्रपक्षक्षतचक्रवाका । विस्पर्धमानेव विमानसंस्थैः पारावतैः कूजनलोलकण्ठैः ॥ ६.३० ॥ विचित्रमृद्वास्तरणेऽपि सुप्ता वैडूर्यवज्रप्रतिमण्डितेऽपि । रुक्माङ्गपादे शयने महार्हे न शर्म लेभे परिचेष्टमाना ॥ ६.३१ ॥ सन्दृश्य भर्तुश्च विभूषणानि वासांसि वीणाप्रभृतींश्च लीलाः । तमो विवेशाभिननाद चोच्चैः पङ्कावतीर्णेव च संससाद ॥ ६.३२ ॥ सा सुन्दरी श्वासचलोदरी हि वज्राग्निसंभिन्नदरीगुहेव । शोकाग्निनान्तर्हृदि दह्यमाना विभ्रान्तचित्तेव तदा बभूव ॥ ६.३३ ॥ रुरोद मम्लौ विरुराव जग्लौ बभ्राम तस्थौ विललाप दध्यौ । चकार रोषं विचकार माल्यं चकर्त वक्त्रं विचकर्ष वस्त्रम् ॥ ६.३४ ॥ तां चारुदन्तीं प्रसभं रुदन्तीं संश्रुत्य नार्यः परमाभितप्ताः । अन्तर्गृहादारुरुहुर्विमानं त्रासेन किन्नर्य इवाद्रिपृष्ठम् ॥ ६.३५ ॥ बाष्पेण ताः क्लिन्नविषण्णवक्त्रा वर्षेण पद्मिन्य इवार्द्रपद्माः । स्थानानुरूपेण यथाभिमानं निलिल्यिरे तामनुदह्यमानाः ॥ ६.३६ ॥ ताभिर्वृता हर्म्यतलेऽङ्गनाभिश्चिन्तातनुः सा सुतनुर्बभासे । शतह्रदाभिः परिवेष्टितेव शशाङ्कलेखा शरदभ्रमध्ये ॥ ६.३७ ॥ या तत्र तासां वचसोपपन्ना मान्या च तस्या वयसाधिका च । सा पृष्ठतस्तां तु समालिलिङ्गे प्रमृज्य चाश्रूणि वचांस्युवाच ॥ ६.३८ ॥ राजर्षिवध्वास्तव नानुरूपो धर्माश्रिते भर्तरि जातु शोकः । इक्ष्वाकुवंशे ह्यभिकाङ्क्षितानि दायाद्यभूतानि तपोवनानि ॥ ६.३९ ॥ प्रायेण मोक्षाय विनिःसृतानां शाक्यर्षभाणां विदिताः स्त्रियस्ते । तपोवनानीव गृहाणि यासां साध्वीव्रतं कामवदाश्रितानाम् ॥ ६.४० ॥ यद्यन्यया रूपगुणाधिकत्वाद्भर्त्ता हृतस्ते कुरु बाष्पमोक्षम् । मनस्विनी रूपवती गुणाढ्या हृदि क्षते कात्र हि नाश्रु मुञ्चेत् ॥ ६.४१ ॥ अथापि किंचिद्व्यसनं प्रपन्नो मा चैव तद्भूत्सदृशोऽत्र बाष्पः । अतो विशिष्टं न हि दुःखमस्ति कुलोद्गतायाः पतिदेवतायाः ॥ ६.४२ ॥ अथ त्विदानीं लडितः सुखेन स्वस्थः फलस्थो व्यसनान्यदृष्ट्वा । वीतस्पृहो धर्ममनुप्रपन्नः किं विक्लवा रोदिषि हर्षकाले ॥ ६.४३ ॥ इत्येवमुक्तापि बहुप्रकारं स्नेहात्तया नैव धृतिं चकार । अथापरा तां मनसोऽनुकूलं कालोपपन्नं प्रणयादुवाच ॥ ६.४४ ॥ ब्रवीमि सत्यं सुविनिश्चितं मे प्राप्तं प्रियं द्रक्ष्यसि शीघ्रमेव । त्वया विना स्थास्यति तत्र नासौ सत्त्वाश्रयश्चेतनयेव हीनः ॥ ६.४५ ॥ अङ्केऽपि लक्ष्म्या न स निर्वृतः स्यात्त्वं तस्य पार्श्वे यदि तत्र न स्याः । आपत्सु कृच्छ्रास्वपि चागतासु त्वां पश्यतस्तस्य भवेन्न दुःखम् ॥ ६.४६ ॥ त्वं निर्वृतिं गच्छ नियच्छ बाष्पं तप्ताश्रुमोक्षात्परिरक्ष चक्षुः । यस्तस्य भावस्त्वयि यश्च रागो न रंस्यते त्वद्विरहात्स धर्मे ॥ ६.४७ ॥ स्यादत्र नासौ कुलसत्त्वयोगात्काषायमादाय विहास्यतीति । अनात्मनादाय गृहोन्मुखस्य पुनर्विमोक्तुं क इवास्ति दोषः ॥ ६.४८ ॥ इति युवतिजनेन सान्त्व्यमाना हृतहृदया रमणेन सुन्दरी सा । द्रमिडमभिमुखी पुरेव रम्भा क्षितिमगमत्परिवारिताप्सरोभिः ॥ ६.४९ ॥ सौन्दरनन्द महाकाव्ये "भार्याविलाप" नाम षष्ठ सर्ग समाप्त । _____________________________________________________________________________ सप्तमः सर्गः नन्दविलाप लिङ्गं ततः शास्तृविधिप्रदिष्टं गात्रेण बिभ्रन्न तु चेतसा तत् । भार्यागतैरेव मनोवितर्कैर्जेह्रीयमाणो न ननन्द नन्दः ॥ ७.१ ॥ स पुष्पमासस्य च पुष्पलक्ष्म्या सर्वाभिसारेण च पुष्पकेतोः । यानीयभावेन च यौवनस्य विहारसंस्थो न शमं जगाम ॥ ७.२ ॥ स्थितः सः दीनः सहकारवीथ्यामालीनसंमूर्च्छितषट्पदायाम् । भृशं जजृम्भे युगदीर्घबाहुर्ध्यात्वा प्रियां चापमिवाचकर्ष ॥ ७.३ ॥ स पीतकक्षोदमिव प्रतीच्छन् चूतद्रुमेभ्यस्तनुपुष्पवर्षम् । दीर्घं निशश्वास विचिन्त्य भार्यां नवग्रहो नाग इवावरुद्धः ॥ ७.४ ॥ शोकस्य हर्ता शरणागतानां शोकस्य कर्त्ता प्रतिगर्वितानाम् । अशोकमालम्ब्य स जातशोकः प्रियां प्रियाशोककवनां शुशोच ॥ ७.५ ॥ प्रियां प्रियायाः प्रतनुं प्रियङ्गुं निशाम्य भीतामिव निष्पतन्तीम् । सस्मार तामश्रुमुखीं सबाष्पः प्रियां प्रियङ्गुप्रसवावदाताम् ॥ ७.६ ॥ पुष्पावनद्धे तिलकद्रुमस्य दृष्ट्वान्यपुष्टां शिखरे निविष्टाम् । संकल्पयामास शिखां प्रियायाः शुक्लांशुकेऽट्टालपाश्रितायाः ॥ ७.७ ॥ लतां प्रफुल्लामतिमुक्तकस्य चूतस्य पार्श्वे परिरभ्य जाताम् । निशाम्य चिन्तामगमत्तदैवं श्लिष्टा भवेन्मामपि सुन्दरीति ॥ ७.८ ॥ पुष्पोत्कराला अपि नागवृक्षा दान्तैः समुद्गैरिव हेमगर्भैः । कान्तारवृक्षा इव दुःखितस्य न चक्षुराचिक्षिपुरस्य तत्र ॥ ७.९ ॥ गन्धं वमन्तोऽपि च गन्धपर्णा गन्धर्ववेश्या इव गन्धपूर्णाः । तस्यान्यचित्तस्य शुगात्मकस्य घ्राणं न जन्हुर्हृदयं प्रतेपुः ॥ ७.१० ॥ संरक्तकण्ठैश्च विनीलकण्ठैस्तुष्टैः प्रहृष्टैरपि चान्यपुष्टैः । लेलिह्यमानैश्च मधु द्विरेफैः स्वनद्वनं तस्य मनो नुनोद ॥ ७.११ ॥ स तत्र भार्यारणिसंभवेन वितर्कधूमेन तमःशिखेन । कामाग्निनान्तर्हृदि दह्यमानो विहाय धैर्यं विललाप तत्तत् ॥ ७.१२ ॥ अद्यावगच्छामि सुदुष्करं ते चक्रुः करिष्यन्ति च कुर्वते च । त्यक्त्वा प्रियामश्रुमुखीं तपो ये चेरूश्चरिष्यन्ति चरन्ति चैव ॥ ७.१३ ॥ तावद्दृढं बन्धनमस्ति लोके न दारवं तान्तवमायसं वा । यावद्दृढं बन्धनमेतदेव मुखं चलाक्षं ललितं च वाक्यम् ॥ ७.१४ ॥ छित्त्वा च भित्त्वा च हि यान्ति तानि स्वपौरुषाच्चैव सुहृद्बलाच्च । ज्ञानाच्च रौक्ष्याच्च विना विमोक्तुं न शक्यते स्नेहमयस्तु पाशः ॥ ७.१५ ॥ ज्ञानं न मे तच्च शमाय यत्स्यान्न न चास्ति रौक्ष्यं करुणात्मकोऽस्मि । कामात्मकश्चास्मि गुरुश्च बुद्धः स्थितोऽन्तरे चक्रगतेरिवास्मि ॥ ७.१६ ॥ अहं गृहीत्वापि हि भिक्षुलिङ्गं भ्रातॄषिणा द्विगुरुणानुशिष्टः । सर्वास्ववस्थासु लभे न शान्तिं प्रियावियोगादिव चक्रवाकः ॥ ७.१७ ॥ अद्यापि तन्मे हृदि वर्तते च यद्दर्पणे व्याकुलिते मया सा । कृतानुतक्रोधकमब्रवीन्मां कथंकृतोऽसीति शठं हसन्ती ॥ ७.१८ ॥ यथैष्यनाश्यानविशेषकायां मयीति यन्मामवदच्च साश्रु । पारिप्लवाक्षेण मुखेन बाला तन्मे वचोऽद्यापि मनो रुणद्धि ॥ ७.१९ ॥ बुद्ध्वासनं पर्वतनिर्झरस्थः स्वस्थो यथा ध्यायति भिक्षुरेषः । सक्तः क्वचिन्नाहमिवैष नूनं शान्तस्तथा तृप्त इवोपविष्टः ॥ ७.२० ॥ पुंस्कोकिलानामविचिन्त्य घोषं वसन्तलक्ष्म्यामविचार्य चक्षुः । शास्त्रं यथाभ्यस्यति चैष युक्तः शङ्के प्रियाकर्षति नास्य चेतः ॥ ७.२१ ॥ अस्मै नमोऽस्तु स्थिरनिश्चयाय निवृत्तकौतूहलविस्मयाय । शान्तात्मनेऽन्तर्गतमानासाय चङ्क्रम्यमाणाय निरुत्सुकाय ॥ ७.२२ ॥ निरीक्षमाणस्य जलं सपद्मं वनं च फुल्लं परपुष्टजुष्टम् । कस्यास्ति धैर्यं नवयौवनस्य मासे मधौ धर्मसपत्नभूते ॥ ७.२३ ॥ भावेन गर्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः । जह्रुः स्त्रियो देवनृपर्षिसंघान् कस्माद्धि नास्मद्विधमाक्षिपेयुः ॥ ७.२४ ॥ कामाभिभूतो हि हिरण्यरेताः स्वाहां सिषेवे मधवानहल्याम् । सत्त्वेन सर्गेण च तेन हीनः स्त्रिनिर्जितः किं बत मानुषोऽहम् ॥ ७.२५ ॥ सूर्यः सरण्यूं प्रति जातरागस्तत्प्रीतये तष्ट इति श्रुतं नः । रतमश्वभूतोऽश्ववधूं समेत्य यतोऽश्विनौ तौ जनयांबभूव ॥ ७.२६ ॥ स्त्रीकारणं वैरविशक्तबुद्ध्योर्वैवस्वताग्न्योश्चलितात्मधृत्योः । बहूनि वर्षाणि बभूव युद्धं कः स्त्रीनिमित्तं न चलेदिहान्यः ॥ ७.२७ ॥ भेजे श्वपाकीं मुनिरक्षमालां कामाद्वसिष्ठश्च स सद्वरिष्ठः । यस्यां विवश्वानिव भूजलादः सुतः प्रसूतोऽस्य कपिञ्जलादः ॥ ७.२८ ॥ पराशरः शापशरस्तथर्षिः कालीं सिषेवे झषगर्भयोनिम् । सुतोऽस्य यस्यां सुषुवे महात्मा द्वैपायनो वेदविभागकर्त्ता ॥ ७.२९ ॥ द्वैपायनो धर्मपरायणश्च रेमे समं काशिषु वेश्यवध्वा । यया हतोऽभूच्चलनूपुरेण पादेन विद्युल्लतयेव मेघः ॥ ७.३० ॥ तथाङ्गिरा रागपरीतचेताः सरस्वतीं ब्रह्मसुतः सिषेवे । सारस्वतो यत्र सुतोऽस्य जज्ञे नष्टस्य वेदस्य पुनःप्रवक्ता ॥ ७.३१ ॥ तथा नृपर्षेर्दिलीपस्य यज्ञे स्वर्गस्त्रियां काश्यप आगतास्थः । स्रुवं गृहीत्वा स्रवदात्मतेजश्चिक्षेप वह्रावसितो यतोऽभूत् ॥ ७.३२ ॥ तथाङ्गदोऽन्तं तपसोऽपि गत्वा कामाभिभूतो यमुनामगच्छत् । धीमत्तरं यत्र रथीतरं स सारङ्गजुष्टं जनयाम्बभूव ॥ ७.३३ ॥ निशाम्य शान्तां नरदेवकन्यां वनेऽपि शान्तेऽपि च वर्तमानः । चचाल धैर्यान्मुनिऋष्यश्रृङ्गः शैलो महीकम्प इवोच्चश्रृङ्गः ॥ ७.३४ ॥ ब्रह्मर्षिभावार्थमपास्य राज्यं भेजे वनं यो विषयेष्वनास्थः । स गाधिजश्चापहृतो घृताच्या समा दशैकं दिवसं विवेद ॥ ७.३५ ॥ तथैव कन्दर्पशराभिमृष्टो रम्भां प्रति स्थूलशिरा मुमूर्च्छ । यः कामरोषात्मतयानपेक्षः शशाप तामप्रतिगृह्यमाणः ॥ ७.३६ ॥ प्रमद्वरायां च रुरुः प्रियायां भुजङ्गमेनापहृतेन्द्रियायाम् । संदृश्य संदृश्य जघान सर्पान् प्रियं न रोषेण तपो ररक्ष ॥ ७.३७ ॥ नप्ता शशाङ्कस्य यशोगुणाङ्को बुधस्य सूनुर्विबुधप्रभावः । तथोर्वशीमप्सरसं विचिन्त्य राजर्षिरुन्मादमगच्छदैडः ॥ ७.३८ ॥ रक्तो गिरेर्मूर्धनि मेनकायां कामात्मकत्वाच्च स तालजङ्घः । पादेन विश्वावसुना सरोषं वज्रेण हिन्ताल इवाभिजघ्ने ॥ ७.३९ ॥ नाशं गतायां परमाङ्गनायां गंगाजलेऽनङ्गपरीतचेताः । जन्हुश्च गङ्गां नृपतिर्भुजाभ्यां रुरोध मैनाक इवाचलेन्द्रः ॥ ७.४० ॥ नृपश्च गङ्गाविरहाज्जुघूर्ण गङ्गाम्भसा साल इवात्तमूलः । कुलप्रदीपः प्रतिपस्य सूनुः श्रीमत्तनुः शन्तनुरस्वतन्त्रः ॥ ७.४१ ॥ हृतां च सौनन्दकिनानुऽशोचन् प्राप्तामिवोर्वीं स्त्रियमुर्वशीं ताम् । सद्वृत्तवर्मा किल सोमवर्मा बभ्राम चितोद्भवभिन्नवर्मा ॥ ७.४२ ॥ भार्यां मृतां चानुममार राजा भीमप्रभावो भुवि भीमकः सः । बलेन सेनाक इति प्रकाशः सेनापतिर्देव इवात्तसेनः ॥ ७.४३ ॥ स्वर्गं गते भर्तरि शन्तनौ च कालीं जिहीर्षन् जनमेजयः सः । अवाप भीष्मात्समवेत्य मृत्युं न तद्गतं मन्मथमुत्ससर्ज ॥ ७.४४ ॥ शप्तश्च पाण्डुर्मदनेन नूनं स्त्रीसंगमे मृत्युमवाप्स्यसीति । जगाम माद्रीं न महर्षिशापादसेव्यसेवी विममर्श मृत्युम् ॥ ७.४५ ॥ एवंविधा देवनृपर्षिसङ्घाः स्त्रीणां वशं कामवशेन जग्मुः । धिया च सारेण च दुर्बलः सन् प्रियामपश्यन् किमु विक्लवोऽहम् ॥ ७.४६ ॥ यास्यामि तस्माद्गृहमेव भूयः कामं करिष्ये विधिवत्सकामम् । न ह्यन्यचित्तस्य चलेन्द्रियस्य लिङ्गं क्षमं धर्मपथाच्च्युतस्य ॥ ७.४७ ॥ पाणौ कपालमवधार्य विधाय मौण्ड्यं मानं निधाय विकृतं परिधाय वासः । यस्योद्धवो न धृतिरस्ति न शान्तिरस्ति चित्रप्रदीप इव सोऽस्ति च नास्ति चैव ॥ ७.४८ ॥ यो निःसृतश्च न च निःसृतकामरागः काषायमुद्वहति यो न च निष्कषायः । पात्रं बिभर्ति च गुणैर्न च पात्रभूतो लिङ्गं वहन्नपि स नैव गृही न भिक्षुः ॥ ७.४९ ॥ न न्याय्यमन्वयवतः परिगृह्य लिङ्गं भूयो विमोक्तुमिति योऽपि हि मे विचारः । सोऽपि प्रणश्यति विचिन्त्य नृपप्रवीरास्तान्ये तपोवनमपास्य गृहाण्यतीयुः ॥ ७.५० ॥ शाल्बाधिपो हि ससुतोऽपि तथाम्बरीषो रामोऽन्ध एव स च सांस्कृतिरन्तिदेवः । चीराण्यपास्य दधिरे पुनरंशुकानि छित्त्वा जटाश्च कुटिला मुकुटानि बभ्रुः ॥ ७.५१ ॥ तस्माद्भिक्षार्थं मम गुरुरितो यावदेव प्रयातस् त्यक्त्वा काषायं ऋहमहमितस्तावदेव प्रयास्ये । पूज्यं लिङ्गं हि स्खलितमनसो बिभ्रतः क्लिष्टबुद्धेर् नामुत्रार्थः स्यादुपहतमतेर्नाप्ययं जीवलोकः ॥ ७.५२ ॥ सौन्दरनन्द महाकाव्ये "नन्दविलाप" नाम सप्तम सर्ग समाप्त । _____________________________________________________________________________ अष्टमः सर्गः स्त्रीविघ्न अथ नन्दमधीरलोचनं गृहयानोत्सुकमुत्सुकोत्सुकम् । अभिगम्य शिवेन चक्षुषा श्रमणः कश्चिदुवाच मैत्रया ॥ ८.१ ॥ किमिदं मुखमश्रुदुर्दिनं हृदयस्थं विवृणोति ते तमः । धृतिमेहि नियच्छ विक्रियां न हि बाष्पश्च शमश्च शोभते ॥ ८.२ ॥ द्विविधा समुदेति वेदना नियतं चेतसि देह एव च । श्रुतविध्युपचारकोविदा द्विविधा एव तयोश्चिकित्सकाः ॥ ८.३ ॥ तदियं यदि कायिकी रुजा भिषजे तूर्णमनूनमुच्यताम् । विनिगुह्य हि रोगमातुरो नचिरात्तीव्रमनर्थमृच्छति ॥ ८.४ ॥ अथ दुःखमिदं मनोमयं वद वक्ष्यामि यदत्र भेषजम् । मनसो हि रजस्तमस्विनो भिषजोऽध्यात्मविदः परीक्षकाः ॥ ८.५ ॥ निखिलेन च सत्यमुच्यतां यदि वाच्यं मयि सौम्य मन्यसे । गतयो विविधा हि चेतसां बहुगुह्यानि महाकुलानि च ॥ ८.६ ॥ इति तेन स चोदितस्तदा व्यवसायं प्रविवक्षुरात्मनः । अवलम्ब्य करे करेण तं प्रविवेशान्यतरद्वनान्तरम् ॥ ८.७ ॥ अथ तत्र शुचौ लतागृहे कुसुमोद्गारिणि तौ निषेदतुः । मृदुभिर्मृदुमारुतेरितैरुपगूढाविव बालपल्लवैः ॥ ८.८ ॥ स जगाद ततश्चिकीर्षितं घननिश्वासगृहीतमन्तरा । श्रुतवाग्विशदाय भिक्षवे विदुषा प्रव्रजितेन दुर्वचम् ॥ ८.९ ॥ सदृशं यदि धर्मचारिणः सततं प्राणिषु मैत्रचेतसः । अधृतौ यदियं हितैषिता मयि ते स्यात्करुणात्मनः सतः ॥ ८.१० ॥ अत एव च मे विशेषतः प्रविवक्षा क्षमवादिनि त्वयि । न हि भावमिमं चलात्मने कथयेयं ब्रुवतेऽप्यसाधवे ॥ ८.११ ॥ तदिदं श्रृणु मे समासतो न रमे धर्मविधावृते प्रियाम् । गिरिसानुषु कामिनीमृते कृतरेता इव किन्नरश्चरन् ॥ ८.१२ ॥ वनवाससुखात्पराङ्मुखः प्रयियासा गृहमेव येन मे । न हि शर्म लभे तया बिना नृपतिर्हीन इवोत्तमश्रिया ॥ ८.१३ ॥ अथ तस्य निशम्य तद्वचः प्रियभार्याभिमुखस्य शोचतः । श्रमणः स शिरः प्रकम्पयन्निजगादात्मगतं शनैरिदम् ॥ ८.१४ ॥ कृपणं बत यूथलालसो महतो व्याधभयाद्विनिःसृतः । प्रविविक्षति वागुरां मृगश्चपलो गीतरवेण वञ्चितः ॥ ८.१५ ॥ विहगः खलु जालसंवृतो हितकामेन जनेन मोक्षितः । विचरन् फलपुष्पवद्वनं प्रविविक्षुः स्वयमेव पञ्चरम् ॥ ८.१६ ॥ कलभः करिणा खलूद्धृतोः बहुपङ्काद्विषमान्नदीतलात् । जलतर्षवशेन तां पुनः सरितं ग्राहवतीं तितीर्षति ॥ ८.१७ ॥ शरणे सभुजङ्गमे स्वपन् प्रतिबुद्धेन परेण बोधितः । तरुणः खलु जातविभ्रमः स्वयमुग्रं भुजगं जिघृक्षति ॥ ८.१८ ॥ महता खलु जातवेदसा ज्वलितादुत्पतितो वनद्रुमात् । पुनरिच्छति नीडतृष्णया पतितुं तत्र गतव्यथो द्विजः ॥ ८.१९ ॥ अवशः खलु काममूर्च्छया प्रियया श्येनभयाद्विनाकृतः । न धृतिं समुपैति न ह्रियं करुणं जीवति जीवजीवकः ॥ ८.२० ॥ अकृतात्मतया तृषान्वितो घृणया चैव धिया च वर्जितः । अशनं खलु वान्तमात्मना कृपणः श्वा पुनरत्तुमिच्छति ॥ ८.२१ ॥ इति मन्मथशोककर्षितं तमनुध्याय मुहुर्निरीक्ष्य च । श्रमणः स हिताभिकाङ्क्षया गुणवद्वाक्यमुवाच विप्रियम् ॥ ८.२२ ॥ अविचारयतः शुभाशुभं विषयेष्वेव निविष्टचेतसः । उपपन्नमलब्धचक्षुषो न रतिः श्रेयसि चेद्भवेत्तव ॥ ८.२३ ॥ श्रवणे ग्रहणेऽथ धारणे परमार्थावगमे मनःशमे । अविषक्तमतेश्चलात्मनो न हि धर्मेऽभिरतिर्विधीयते ॥ ८.२४ ॥ विषयेषु तु दोषदर्शिनः परितुष्टस्य शुचेरमानिनः । शमकर्मसु युक्तचेतसः कृतबुद्धेन रतिर्न विद्यते ॥ ८.२५ ॥ रमते तृषितो धनश्रिया रमते कामसुखेन बालिशः । रमते प्रशमेन सज्जनः परिभोगान् परिभूय विद्यया ॥ ८.२६ ॥ अपि च प्रथितस्य धीमतः कुलजस्यार्चितलिङ्गधारिणः । सदृशी न गृहाय चेतना प्रणतिर्वायुवशद्गिरेरिव ॥ ८.२७ ॥ स्पृहयेत्परसंश्रिताय यः परिभूयात्मवशां स्वतन्त्रताम् । उपशान्तिपथे शिवे स्थितः स्पृहयेद्दोषवते गृहाय सः ॥ ८.२८ ॥ व्यसनाभिहतो यथा विशेत्परिमुक्तः पुनरेव बन्धनम् । समुपेत्य वनं तथा पुनर्गृहसंज्ञं मृगयेत बन्धनम् ॥ ८.२९ ॥ पुरुषश्च विहाय यः कलिं पुनरिच्छेत्कलिमेव सेवितुम् । स विहाय भजेत बालिशः कलिभूतामजितेन्द्रियः प्रियाम् ॥ ८.३० ॥ सविषा इव संश्रिता लताः परिमृष्टा इव सोरगा गुहाः । विवृता इव चासयो धृता व्यसनान्ता हि भवन्ति योषितः ॥ ८.३१ ॥ प्रमदाः समदा मदप्रदाः प्रमदा वितमदा भयप्रदाः । इति दोषभयावहाश्च ताः कथमर्हन्ति निषेवणं नु ताः ॥ ८.३२ ॥ स्वजनः स्वजनेन भिद्यते सुहदश्चापि सुहृज्जनेन यत् । परदोषविचक्षणाः शठास्तदनार्याः प्रचरन्ति योषितः ॥ ८.३३ ॥ कुलजाः कृपणीभवन्ति यद्यदयुक्तं प्रचरन्ति साहसम् । प्रविशन्ति च यच्चमूमुखं रभसास्तत्र निमित्तमङ्गनाः ॥ ८.३४ ॥ वचनेन हरन्ति वल्गुना निशितेन प्रहरन्ति चेतसा । मधु तिष्ठति वाचि योषितां हृदये हालहलं महद्विषशम् ॥ ८.३५ ॥ प्रदहन् दहनोऽपि गृह्यते विशरीरः पवनोऽपि गृह्यते । कुपितो भुजगोऽपि गृह्यते प्रमदानां तु मनो न गृह्यते ॥ ८.३६ ॥ न वपुर्विमृशन्ति न श्रियं न मतिं नापि कुलं न विक्रमम् । प्रहरन्त्यविशेषतः स्त्रियः सरितो ग्राहकुलाकुला इव ॥ ८.३७ ॥ न वचो मधुरं न लालनं स्मरति स्त्री न च सौहृदं क्वचित् । कलिता वनितैव चञ्चला तदिहारिष्विव नावलम्ब्यते ॥ ८.३८ ॥ अददत्सु भवन्ति नर्मदाः प्रददत्सु प्रविशन्ति विभ्रमम् । प्रणतेषु भवन्ति गर्विताः प्रमदास्तृप्ततराश्च मानिषु ॥ ८.३९ ॥ गुणवत्सु चरन्ति भर्तृवद्गुणहीनेषु चरन्ति पुत्रवत् । धनवत्सु चरन्ति तृष्णया धनहीनेषु चरन्त्यवज्ञया ॥ ८.४० ॥ विषयाद्विषयान्तरं गता प्रचरत्येव यथा हृतापि गौ । अनवेक्षितपूर्वसौहृदा रमतेऽन्यत्र गता तथाङ्गना ॥ ८.४१ ॥ प्रविशन्त्यपि हि स्त्रियश्चितामनुबध्नन्त्यपि मुक्तजीविताः । अपि बिभ्रति चैव यन्त्रणा न तु भावेन वहन्ति सौहृदम् ॥ ८.४२ ॥ रमयन्ति पतीन् कथञ्चन प्रमदा याः पतिदेवताः क्वचित् । चलचित्ततया सहस्त्रशो रमयन्ते हृदयं स्वमेव ताः ॥ ८.४३ ॥ श्वपचं किल सेनजित्सुता चकमे मीनरिपुं कुमुद्वती । मृगराजमथो बृहद्रथा प्रमदानामगतिर्न विद्यते ॥ ८.४४ ॥ कुरुहैहयवृष्णिवंशजा बहुमायाकवचोऽथ शम्बरः । मुनिरुग्रतपाश्च गौतमः समवापुर्वनितोद्धतं रजः ॥ ८.४५ ॥ अकृतज्ञमनार्यमस्थिरं वनितानामिदमीदृशं मनः । कथमर्हति तासु पण्डितो हृदयं सञ्जयितुं चलात्मसु ॥ ८.४६ ॥ अथ सूक्ष्ममतिद्वयाशिवं लघु तासां हृदयं न पश्यसि । किमु कायमसद्गृहं स्रवद्वनितानामशुचिं न पश्यसि ॥ ८.४७ ॥ यदहन्यहनि प्रधावनैर्वसनैश्चाभरणैश्च संस्कृतम् । अशुभं तमसावृतेक्षणः शुभतो गच्छसि नावगच्छसि ॥ ८.४८ ॥ अथवा समवैषि तत्तनूमशुभां त्वं न तु संविदस्ति ते । सुरभिं विदधासि हि क्रियामशुचेस्तत्प्रभवस्य शान्तये ॥ ८.४९ ॥ अनुलेपनमञ्जनं स्रजो मणिमुक्तातपनीयमंशुकम् । यदि साधु किमत्र योषितां सहजं तासु विचीयतां शुचि ॥ ८.५० ॥ मलपङ्कधरा दिगम्बरा प्रकृतिस्थैर्नखदन्तरोमभिः । यदि सा तव सुन्दरी भवेन्नियतं तेऽद्य न सुन्दरी भवेत् ॥ ८.५१ ॥ स्त्रवतीमशुचिं स्पृशेच्च कः सघृणो जर्जरभाण्डवत्स्त्रियम् । यदि केवलया त्वचावृता न भवेन्मक्षिकपत्रमात्रया ॥ ८.५२ ॥ त्वचवेष्टितमस्थिपञ्जरं यदि कायं समवैषि योषिताम् । मदनेन च कृष्यसे बलादघृणः खल्वधृतिश्च मन्मथः ॥ ८.५३ ॥ शुभतामशुभेषु कल्पयन्नखदन्तत्वचकेशरोमसु । अविचक्षण किं न पश्यसि प्रकृतिं च प्रभवं च योषिताम् ॥ ८.५४ ॥ तदवेत्य मनःशरिरयोर्वनिता दोषवतीर्विशेषतः । चपलं भवनोत्सुकं मनः प्रतिसंख्यानबलेन वार्यताम् ॥ ८.५५ ॥ श्रुतवान्मतिमान् कुलोद्गतः परमस्य प्रशमस्य भाजनम् । उपगम्य यथा तथा पुनर्न हि भेत्तुं नियमं त्वमर्हसि ॥ ८.५६ ॥ अभिजनमहतो मनस्विनः प्रिययशसो बहुमानमिच्छतः । निधनमपि वरं स्थिरात्मनश्च्युतविनयस्य न चैव जीवितम् ॥ ८.५७ ॥ बद्ध्वा यथा हि कवचं प्रगृहीतचापो, निन्द्यो भवत्यपसृतः समराद्रथस्थः । भैक्षाकमभ्युपगतः परिगृह्य लिङ्गं, निन्द्यस्तथा भवति कामहृतेन्द्रियाश्वः ॥ ८.५८ ॥ हास्यो यथा च परमाभरणाम्बरस्त्रग्भैक्षं चरन् धृतधनुश्चलचित्रमौलिः । वैरूप्यमभ्युपगतः परपिण्डभोजी हास्यस्तथा गृहसुखाभिमुखः सतृष्णः ॥ ८.५९ ॥ यथा स्वन्नं भुक्त्वा परमशयनीयेऽपि शयितो वराहो निर्मुक्तः पुनरशुचि धावेत्परिचितम् । तथा श्रेयः श्रृण्वन् प्रशमसुखमास्वाद्य गुणवद्, वनं शान्तं हित्वा गृहमभिलषेत्कामतृषितः ॥ ८.६० ॥ यथोल्का हस्तस्था दहति पवनप्रेरितशिखा यथा पादाक्रान्तो दशति भुजगः क्रोधरभसः । यथा हन्ति व्याघ्रः शिशुरपि गृहीतो गृहगतः तथा स्त्रीसंसर्गो बहुविधमनर्थाय भवति ॥ ८.६१ ॥ तद्विज्ञाय मनःशरीरनियतान्नारीषु दोषानिमान्, मत्वा कामसुखं नदीजलचलं क्लेशाय शोकाय च । दृष्ट्वा दुर्बलमामपात्रसदृशं मृत्यूपसृष्टं जगन् - निर्मोक्षाय कुरुष्व बुद्धिमतुलामुत्कण्ठितुं नार्हसि ॥ ८.६२ ॥ सौन्दरनन्द महाकाव्ये "स्त्रीविघ्न" नाम अष्टम सर्ग समाप्त । _____________________________________________________________________________ नवमः सर्गः अभिमाननिन्दा अथैवमुक्तोऽपि स तेन भिक्षुणा जगाम नैवोपशमं प्रियां प्रति । तथा हि तामेव तदा स चिन्तयन्न तस्य शुश्राव विसंज्ञवद्वचः ॥ ९.१ ॥ यथा हि वैद्यस्य चिकीर्षतः शिवं वचो न गृण्हाति मुमूर्षुरातुरः । तथैव मत्तो बलरूपयौवनैर्हितं न जग्राह स तस्य तद्वचः ॥ ९.२ ॥ न चात्र चित्रं यदि रागपाप्मना मनोऽभिभूयेत तमोवृतात्मनः । नरस्य पाप्मा हि तदा निवर्तते यदा भवत्यन्तगतं तमस्तनु ॥ ९.३ ॥ ततस्तथाक्षिप्तमवेक्ष्य तं तदा बलेन रूपेण च यौवनेन च । गृहप्रयाणं प्रति च व्यवस्थितं शशास नन्दं श्रमणः स शान्तये ॥ ९.४ ॥ बलं च रूपं च नवं च यौवनं तथावगच्छामि यथावगच्छसि । अहं त्विदं ते त्रयमव्यवस्थितं यथावबुद्ध्ये न तथावबुध्यसे ॥ ९.५ ॥ इदं हि रोगायतनं जरावशं नदीतटानोकहवच्चलाचलम् । न वेत्सि देहं जलफेनदुर्बलं बलस्थतामात्मनि येन मन्यसे ॥ ९.६ ॥ यदान्नपानासनयानकर्मणामसेवनादप्यतिसेवनादपि । शरीरमासन्नविपत्ति दृश्यते बलेऽभिमानस्तव केन हेतुना ॥ ९.७ ॥ हिमातपव्याधिजराक्षुदादिभिर्यदाप्यनर्थैरुपमीयते जगत् । जलं शुचौ मास इवार्करश्मिभिः क्षयं व्रजन् किं बलदृप्त मन्यसे ॥ ९.८ ॥ त्वगस्थिमांसक्षतजात्मकं यदा शरीरमाहारवशेन तिष्ठति । अजस्रमार्तं सततप्रतिक्रियं बलान्वितोऽस्मीति कथं विहन्यसे ॥ ९.९ ॥ यथा घटं मृन्मयमाममाश्रितो नरस्तितीर्षेत्क्षुभितं महार्णवम् । समुच्छ्रयं तद्वदसारमुद्वरहन् बलं व्यवस्येद्विषयार्थमुद्यतः ॥ ९.१० ॥ शरीरमामादपि मृन्मयाद्घटादिदं तु निःसारतमं मतं मम । चिरं हि तिष्ठेद्विधिवद्धृतो घटः समुच्छ्रयोऽयं सुधृतोऽपि भिद्यते ॥ ९.११ ॥ यदाम्बुभूवाय्वनलाश्च धातवः सदा विरुद्धा विषमा इवोरगाः । भवन्त्यनर्थाय शरीरमाश्रिताः कथं बलं रोगविधो व्यवस्यसि ॥ ९.१२ ॥ प्रयान्ति मन्त्रैः प्रशमं भुजङ्गमा न मन्त्रसाध्यस्तु भवन्ति धातवः । क्वचिच्च कंचिच्च दशन्ति पन्नगाः सदा च सर्वं च तुदन्ति धातवः ॥ ९.१३ ॥ इदं हि शय्यासनपानभोजनैर्गुणैः शरीरं चिरमप्यवेक्षितम् । न मर्षयत्येकमपि व्यतिक्रमं यतो महाशीविषवत्प्रकुप्यति ॥ ९.१४ ॥ यदा हिमार्तो ज्वलनं निषेवते हिमं निदाधाभिहतोऽभिकाङ्क्षति । क्षुधान्वितोऽन्नं सलिलं तृषान्वितो बलं कुतः किं च कथं च कस्य च ॥ ९.१५ ॥ तदेवमाज्ञाय शरीरमातुरं बलान्वितोऽस्मीति न मन्तुमर्हसि । असारमस्वन्तमनिश्चितं जगज्जगत्यनित्ये बलमव्यवस्थितम् ॥ ९.१६ ॥ क्व कार्तवीर्यस्य बलाभिमानिनः सहस्रबाहोबलमर्जुनस्य तत् । चकर्त बाहून् युधि यस्य भार्गवः महान्ति श्रृङ्गाण्यशनिर्गिरेतिव ॥ ९.१७ ॥ क्व तद्वलं कंसविकर्षिणो हरेस्तुरङ्गराजस्य पुटावभेदिनः । यमेकबाणेन निजघ्निवान् जराः क्रमागता रूपमिवोत्तमं जरा ॥ ९.१८ ॥ दितेः सुतस्यामररोषकारिणश्चमूरुचेर्वा नमुचेः क्व तद्बलम् । यमाहवे क्रुद्धमिवान्तकं स्थितं जघान फेनावयवेन वासवः ॥ ९.१९ ॥ बलं कुरूणां क्व च तत्तदाभवद्युधि ज्वलित्वा तरसौजसा च ये । समित्समिद्धा ज्वलना इवाध्वरे हतासवो भस्मनि पर्यवस्थिताः ॥ ९.२० ॥ अतो विदित्वा बलवीर्यमानिनां बलान्वितानामवमर्दितं बलम् । जगज्जरामृत्युवशं विचारयन् बलेऽभिमानं न विधातुमर्हसि ॥ ९.२१ ॥ बलं महद्यदि वा न मन्यसे कुरुष्व युद्धं सह तावदिन्द्रियैः । जयश्च तेऽत्रास्ति महच्च ते बलं पराजयश्चेद्वितथं च ते बलम् ॥ ९.२२ ॥ तथा हि वीराः पुरुषा न ते मता जयन्ति ये साश्वरथद्विपानरीन् यथा मता वीरतरा मनीषिणो जयन्ति लोलानि षडिन्द्रियाणि ये ॥ ९.२३ ॥ अहं वपुष्मानिति यच्च मन्यसे विचक्षणं नैतदिदं च गृह्यताम् । क्व तद्वपुः सा च वपुष्मती तनुर्गदस्य शाम्बस्य च सारणस्य च ॥ ९.२४ ॥ यथा मयूरश्चलचित्रचन्द्रको बिभर्ति रूपं गुणवत्स्वभावतः । शरीरसंस्कारगुणादृते तथा बिभर्ति रूपं यदि रूपवानसि ॥ ९.२५ ॥ यदि प्रतीपं वृणुयान्न वाससा न शौचकाले यदि संस्पृशेदपः । मृजाविशेषं यदि नाददीत वा वपुर्वपुष्मन् वद कीदृशं भवेत् ॥ ९.२६ ॥ नवं वयश्चात्मगतं निशाम्य यद्गृ होन्मुखं ते विषयाप्तये मनः । नियच्छ तच्छैलनदीरयोपमं द्रुतं हि गच्छत्यनिवर्ति यौवनम् ॥ ९.२७ ॥ ऋतुर्व्यतीतः परिवर्तते पुनः क्षयं प्रयातः पुनरेति चन्द्रमाः । गतं गतं नैव तु संनिवर्तते जलं नदीनां च नृणां च यौवनम् ॥ ९.२८ ॥ विवर्णितश्मश्रु वलीविकुञ्चितं विशीर्णदन्तं शिथिलभ्रु निष्प्रभम् । यदा मुखं द्रक्ष्यसि जर्जरं तदा जराभिभूतो विमदो भविष्यसि ॥ ९.२९ ॥ निषेव्य पानं मदनीयमुत्तमं निशाविवासेषु चिराद्विमाद्यति । नरस्तु मत्तो बलरूपयोउवनैर्न कश्चिदप्राप्य जरां विमाद्यति ॥ ९.३० ॥ यथेक्षुरत्यन्तरसप्रपीडितो भुवि प्रविद्धो दहनाय शुष्यते । तथा जरायन्त्रनिपीडिता तनुर्निपीतसारा मरणाय तिष्ठति ॥ ९.३१ ॥ यथा हि नृभ्यां करपत्रमीरितं समुच्छ्रितं दारु भिनत्त्यनेकधा । तथोच्छ्रितां पातयति प्रजामिमामहर्निशाभ्यामुपसंहिता जरा ॥ ९.३२ ॥ स्मृतेः प्रमोषो वपुषः पराभवो रतेः क्षयो वाच्छ्रुतिचक्षुषां ग्रहः । श्रमस्य योनिर्बलवीर्ययोर्वधो जरासमो नास्ति शरीरिणां रिपुः ॥ ९.३३ ॥ इदं विदित्वा निधनस्य दैशिकं जराभिधानं जगतो महद्भयम् । अहं वपुष्मान् बलवान् युवेति वा न मानमारोढुमनार्यमर्हसि ॥ ९.३४ ॥ अहं ममेत्येव च रक्तचेतसां शरीरसंज्ञा तव यः कलौ ग्रहः । तमुत्सृजैवं यदि शाम्यता भवेद्भयं ह्यहं चेति ममेति चार्छति ॥ ९.३५ ॥ यदा शरीरे न वशोऽस्ति कस्यचिन्निरस्यमाने विविधैरुपप्लवैः । कथं क्षमं वेत्तुमहं ममेति वा शरीरसंज्ञं गृहमापदामिदम् ॥ ९.३६ ॥ सपन्नगे यः कुगृहे सदाशुचौ रमेत नित्यं प्रतिसंस्कृतेऽबले । स दुष्टधातावशुचौ चलाचले रमेत काये विपरीतदर्शनः ॥ ९.३७ ॥ यथा प्रजाभ्यः कुनृपो बलाद्बलीन् हरत्यशेषं च न चाभिरक्षति । तथैव कायो वसनादिसाधनं हरत्यशेषं च न चानुवर्तते ॥ ९.३८ ॥ यथा प्ररोहन्ति तृणान्ययत्नतः क्षितौ प्रयत्नात्तु भवन्ति शालयः । तथैव दुःखानि भवन्त्ययत्नतः सुखानि यत्नेन भवन्ति वा न वा ॥ ९.३९ ॥ शरीरमार्तं परिकर्षतश्चलं न चास्ति किञ्चित्परमार्थतः सुखम् । सुखं हि दुःखप्रतिकारसेवया स्थिते च दुःखे तनुनि व्यवस्यति ॥ ९.४० ॥ यथानपेक्ष्याग्र्यमपीप्सितं सुखं प्रवाधते दुःखमुपेतमण्वपि । तथानपेक्ष्यात्मनि दुःखमागतं न विद्यते किञ्चन कस्यचित्सुखम् ॥ ९.४१ ॥ शरीरमीदृग्बहुदुःखाध्रुवं फलानुरोधादथ नावगच्छसि । द्रवत्फलेभ्यो धृतिरश्मिभिर्मनो निगृह्यतां गौरिव शस्यलालसा ॥ ९.४२ ॥ न कामभोगा हि भवन्ति तृप्तये हवींषि दीप्तस्य विभावसोरिव । यथा यथा कामसुखेषु वर्तते तथा तथेच्छा विषयेषु वर्द्धते ॥ ९.४३ ॥ यथा च कुष्ठव्यसनेन दुःखितः प्रतापनान्नैव शमं निगच्छति । तथेन्द्रियार्थेष्वजितेन्द्रियश्चरन्न कामभोगैरुपशान्तिमृच्छति ॥ ९.४४ ॥ यथा हि भैषज्यसुखाभिकाङ्क्षया भजेत रोगान्न भजेत तत्क्षमम् । तथा शरीरे बहुदुःखभाजने रमेत मोहाद्विषयाभिकाङ्क्षया ॥ ९.४५ ॥ अनर्थकामः पुरुषस्य यो जनः स तस्य शत्रुः किल तेन कर्मणा । अनर्थमूला विषयाश्च केवला ननु प्रहेया विषमा यथारयः ॥ ९.४६ ॥ इहैव भूत्वा रिपवो वधात्मकाः प्रयान्ति काले पुरुषस्य मित्रताम् । परत्र चैवेह च दुःखहेतवो भवन्ति कामा न तु कस्यचिच्छिवाः ॥ ९.४७ ॥ यथोपयुक्तं रसवर्णगन्धवद्वधाय किम्पाकफलं न पुष्टये । निषेव्यमाणा विषयाश्चलात्मनो भवन्त्यनर्थाय तथा न भूतये ॥ ९.४८ ॥ तदेतदाज्ञाय विपाप्मनात्मना विमोक्षधर्माद्युपसहितं हितम् । जुषस्व मे सज्जनसंमतं मतं प्रचक्ष्व वा निश्चयमुद्गिरन् गिरम् ॥ ९.४९ ॥ इति हितमपि बह्वपीदमुक्तः श्रुतमहता श्रमणेन तेन नन्दः । न धृतिमुपययौ न शर्म लेभे द्विरद इवातिमदो मदान्धचेताः ॥ ९.५० ॥ नन्दस्य भावमवगम्य ततः स भिक्षुः पारिप्लवं गृहसुखाभिमुखं न धर्मे । सत्त्वाशयानुशयभावपरीक्षकाय बुद्धाय तत्त्वविदुषे कथयांचकार ॥ ९.५१ ॥ सौन्दरनन्द महाकाव्ये "अभिमाननिन्दा" नाम नवम सर्ग समाप्त । _____________________________________________________________________________ दशमः सर्गः स्वर्गदर्शन श्रुत्वा ततः सद्व्रतमुत्सिसृक्षुं भार्यां दिदृक्षुं भवनं विविक्षुम् । नन्दं निरानन्दमपेतधैर्यमभ्युज्जिहीर्षुर्मुनिराजुहाव ॥ १०.१ ॥ तं प्राप्तमप्राप्तविमोक्षमार्गं पप्रच्छ चित्तस्खलितं सुचित्तः । स ह्रीमते ह्रीविनतो जगाद स्वं निश्चयं निश्चयकोविदाय ॥ १०.२ ॥ नन्दं विदित्वा सुगतस्ततस्तं भार्याभिधाने तमसि भ्रमन्तम् । पाणौ गृहीत्वा वियदुत्पपात मलं जले साधुरिवोज्जिहीर्षुः ॥ १०.३ ॥ काषायवस्त्रौ कनकावदातौ विरेजतुस्तौ नभसि प्रसन्ने । अन्योन्यसंश्लिष्टविकीर्णपक्षौ सरःप्रकीर्णाविव चक्रवाकौ ॥ १०.४ ॥ तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तम् । आजग्मतुः काञ्चनधातुमन्तं देवर्षिमन्तं हिमवन्तमाशु ॥ १०.५ ॥ तस्मिन् गिरौ चारणासिद्धजुष्टे शिवे हविर्धूमकृतोत्तरीये । अगम्यपारस्य निराश्रयस्य तौ तस्थतुर्द्वीप इवाम्बरस्य ॥ १०.६ ॥ शान्तेन्द्रिये तत्र मुनौ स्थिते तु सविस्मयं दिक्षु ददर्श नन्दः । दरीश्च कुञ्जांश्च वनौकसश्च विभूषणं रक्षणमेव चाद्रेः ॥ १०.७ ॥ बह्वायते तत्र सिते हि शृङ्गे संक्षिप्तबर्हः शयितो मयूरः । भुजे बलस्यायतपीनबाहोर्वैडूर्यकेयूर इवाबभासे ॥ १०.८ ॥ मनःशीलाधातुशिलाश्रयेण पीताकृतांसो विरराज सिंहः । संतप्तचामीकरभक्तिचित्रं रूप्याङ्गदं शीर्णमिवाम्बिकस्य ॥ १०.९ ॥ व्याघ्रः क्लमव्यायतखेलगामी लाङ्गूलचक्रेण कृतापसव्यः । बभौ गिरेः प्रस्रवण पिपासुर्दित्सन् पितृभ्योऽम्भ इवावतीर्णः ॥ १०.१० ॥ चलत्कदम्बे हिमवन्नितम्बे तरौ प्रलम्बे चमरो ललम्बे । छेत्तुं विलग्नं न शशाक बालं कुलोद्गतां प्रीतिमिवार्यवृत्तः ॥ १०.११ ॥ सुवर्णगौराश्च किरातसंघा मयूरपित्रोज्ज्वलगात्रलेखाः । शार्दूलपातप्रतिमा गुहाभ्यो निष्पेतुरुद्गार इवाचलस्य ॥ १०.१२ ॥ दरीचरीणामतिसुन्दरीणां मनोहरश्रोणिकुचोदरीणाम् । वृन्दानि रेजुर्दिशि किन्नरीणां पुष्पोत्कचानामिव वल्लरीणाम् ॥ १०.१३ ॥ नगान्नगस्योपरि देवदारूनायासयन्तः कपयो विचेरुः । तेभ्यः फलं नापुरतोऽपजग्मुर्मोघप्रसादेभ्य इवेश्वरेभ्यः ॥ १०.१४ ॥ तस्मात्तु यूथादपसार्यमाणां निष्पीडितालक्तकरक्तवक्त्राम् । शाखामृगीमेकविपन्नदृष्टिं दृष्ट्वा मुनिर्नन्दमिदं बभाषे ॥ १०.१५ ॥ का नन्द रूपेण च चेष्टया च संपश्यतश्चारुतरा मता ते । एषा मृगी वैकविपन्नदृष्टिः स वा जनो यत्र गता तवेष्टिः ॥ १०.१६ ॥ इत्येवमुक्तः सुगतेन नन्दः कृत्वा स्मितं किंचिदिदं जगाद । क्व चोत्तमस्त्री भगवन् वधूस्ते मृगी नगक्लेशकरी क्व चैषा ॥ १०.१७ ॥ ततो मुनिस्तस्य निशम्य वाक्यं हेत्वन्तरं किंचिदवेक्षमाणः । आलम्ब्य नन्दं प्रययौ तथैव क्रीडावनं वज्रधरस्य राज्ञः ॥ १०.१८ ॥ ऋतावृतावाकृतिमेक एके क्षणे क्षणे बिभ्रति यत्र वृक्षाः । चित्रां समस्तामपि केचिदन्ये षण्णामृतूनां श्रियमुद्वहन्ति ॥ १०.१९ ॥ पुष्यन्ति केचित्सुरभीरुदारा मालाः स्रजश्च ग्रन्थिता विचित्राः । कर्णानुकूलानवतंसकांश्च प्रत्यर्थिभूतानिव कुण्डलानाम् ॥ १०.२० ॥ रक्तानि फुल्लाः कमलानि यत्र प्रदीपवृक्षा इव भान्ति वृक्षाः । प्रफुल्लनीलोत्पलरोहिणोऽन्ये सोन्मीलिताक्षा एव भान्ति वृक्षाः ॥ १०.२१ ॥ नानाविरागाण्यथ पाण्डराणि सुवर्णभक्तिव्यवभासितानि । अतान्तवान्येकघनानि यत्र सूक्ष्माणि वासांसि फलन्ति वृक्षाः ॥ १०.२२ ॥ हारान्मणिनुत्तमकुण्डलानि केयूरवर्याण्यथ नूपुराणि । एवंविधान्याभरणानि यत्र स्वर्गानुरूपाणि फलन्ति वृक्षाः ॥ १०.२३ ॥ वैडूर्यनालानि च काञ्चनानि पद्मानि वज्राङ्कुरकेसराणि । स्पर्शक्षमाण्युत्तमगन्धवन्ति रोहन्ति निष्कम्पतला नलिन्यः ॥ १०.२४ ॥ यत्रायतांश्चैव ततांश्च तांस्तान् वाद्यस्य हेतून् सुषिरान् घनांश्च । फलन्ति वृक्षा मणिहेमचित्राः क्रीडासहायास्त्रिदशालयानाम् ॥ १०.२५ ॥ मन्दारवृक्षांश्च कुशेशयांश्च पुष्पानतान् कोकनदांश्च वृक्षान् । आक्रम्य माहात्म्यगुणैर्विराजन् राजायते यत्र स पारिजातः ॥ १०.२६ ॥ कृष्टे तपःशीलहलैरखिन्नैस्त्रिविष्टपक्षेत्रतले प्रसूताः । एवंविधा यत्र सदानुवृत्ता दिवौकसां भोगविधानवृक्षाः ॥ १०.२७ ॥ मनःशिलाभैर्वदनैर्विहंगा यत्राक्षिभिः स्फाटिकसंनिभैश्च । शावैश्च पक्षैरभिलोहितान्तैर्माञ्जिष्ठकैरर्धसितैश्च पादैः ॥ १०.२८ ॥ चित्रैः सुवर्णच्छदनैस्तथान्ये वैडुर्यनीलैर्नयनैः प्रसन्नैः । विहंगमाः शिञ्जिरिकाभिधाना रुतैर्मनःश्रोत्रहरैर्भ्रमन्ति ॥ १०.२९ ॥ रक्ताभिरग्रेषु च वल्लरीभिर्मध्येषु चामीकरपिञ्जराभिः । वैडूर्यवर्णाभिरुपान्तमध्येष्वलंकृता यत्र खगाश्चरन्ति ॥ १०.३० ॥ रोचिष्णवो नाम पतत्रिणोऽन्ये दिप्ताग्निवर्णा ज्वलितैरिवास्यैः । भ्रमन्ति दृष्टीर्वपुषाक्षिपन्तः स्वनैः शुभैरप्सरसो हरन्तः ॥ १०.३१ ॥ यत्रेष्टचेष्टाः सततप्रहृष्टा निरर्तयो निर्जरसो विशोकाः । स्वैः कर्मभिर्हीनविशिष्टमध्याः स्वयंप्रभाः पुण्यकृतो रमन्ते ॥ १०.३२ ॥ पूर्वं तपोमूल्यपरिग्रहेण स्वर्गक्रयार्थं कृतनिश्चयानाम् । मनांसि खिन्नानि तपोधनानां हरन्ति यत्राप्सरसो लडन्त्यः ॥ १०.३३ ॥ नित्योत्सवं तं च निशाम्य लोकं निस्तन्द्रिनिद्रारतिशोकरोगम् । नन्दो जरामृत्युवशं सदार्तं मेने श्मशानप्रतिमं नृलोकम् ॥ १०.३४ ॥ ऐन्द्रं वनं तच्च ददर्श नन्दः समन्ततो विस्मयफुल्लदृष्टिः । हर्षान्विताश्चाप्सरसः परीयुः सगर्वमन्योन्यमवेक्षमाणाः ॥ १०.३५ ॥ सदा युवत्यो मदनैककार्याः साधारणाः पुण्यकृतां विहाराः । दिव्याश्च निर्दोषपरिग्रहाश्च तपःफलस्याश्रयणं सुराणाम् ॥ १०.३६ ॥ तासां जगुर्धीरमुदात्तमन्याः पद्मानि काश्चिल्ललितं बभञ्जुः । अन्योन्यहर्षान्ननृतुस्तथान्याश्चित्राङ्गहाराः स्तनभिन्नहाराः ॥ १०.३७ ॥ कासांचिदासां वदनानि रेजुर्वनान्तरेभ्यश्चलकुण्डलानि । व्याविद्धपर्णेभ्य इवाकरेभ्यः पद्मानि कारण्डवघट्टितानि ॥ १०.३८ ॥ ताः निःसृताः प्रेक्ष्य वनान्तरेभ्यस्तडित्पताका इव तोयदेभ्यः । नन्दस्य रागेण तनुर्विवेपे जले चले चन्द्रमसः प्रभेव ॥ १०.३९ ॥ वपुश्च दिव्यं ललिताश्च चेष्टास्ततः स तासां मनसा जहार । कौतूहलावर्जितया च दृष्ट्या संश्लेषतर्षादिव जातरागः ॥ १०.४० ॥ स जाततर्षोऽप्सरसः पिपासुस्तत्प्राप्तयेऽधिष्ठितविक्लवार्तः । लोलेन्द्रियाश्वेन मनोरथेन जेह्रीयमाणो न धृतिं चकार ॥ १०.४१ ॥ यथा मनुष्यो मलिनं हि वासः क्षारेण भूयो मलिनीकरोति । मलक्षयार्थं न मलोद्भवार्थं रजस्तथास्मै मुनिराचकर्ष ॥ १०.४२ ॥ दोषांश्च कायाद्भिषगुज्जिहीर्षुर्भूयो यथा क्लेशयितुं यतेत । रागं तथा तस्य मुनिर्जिघांसुर्भूयस्तरं रागमुपानिनाय ॥ १०.४३ ॥ दीपप्रभां हन्ति यथान्धकारे सहस्ररश्मेरुदितस्य दीप्तिः । मनुष्यलोके द्युतिमङ्गनानामन्तर्दधात्यप्सरसां तथा श्रीः ॥ १०.४४ ॥ महच्च रूपं स्वणु हन्ति रूपं शब्दो महान् हन्ति च शब्दमल्पम् । गुर्वी रुजा हन्ति रुजां च मृद्वीं सर्वो महान् हेतुरणोर्वधाय ॥ १०.४५ ॥ मुनेः प्रभावाच्च शशाक नन्दस्तद्दर्शनं सोढुमसह्यमन्यैः । अवीतरागस्य हि दुर्बलस्य मनो दहेदप्सरसां वपुःश्रीः ॥ १०.४६ ॥ मत्वा ततो नन्दमुदीर्णरागं भार्यानुरोधादपवृत्तरागम् । रागेण रागं प्रतिहन्तुकामो मुनिर्विरागो गिरमित्युवाच ॥ १०.४७ ॥ एताः स्त्रियः पश्य दिवौकसस्त्वं निरीक्ष्य च ब्रूहि यथार्थतत्त्वम् । एताः कथं रूपगुणैर्मतास्ते स वा जनो यत्र गतं मनस्ते ॥ १०.४८ ॥ अथाप्सरःस्वेव निविष्टदृष्टी रागाग्निनान्तर्हृदये प्रदीप्तः । सगद्गदं कामविषक्तचेताः कृताञ्जलिर्वाक्यमुवाच नन्दः ॥ १०.४९ ॥ हर्यङ्गनासौ मुषितैकदृष्टिर्यदन्तरे स्यात्तव नाथ वध्वाः । तदन्तरेऽसौ कृपणा वधूस्ते वपुष्मतीरप्सरसः प्रतीत्य ॥ १०.५० ॥ आस्था यथा पूर्वमभून्न काचिदन्यासु मे स्त्रीषु निशाम्य भार्याम् । तस्यां ततःसम्प्रति काचिदास्था न मे निशाम्यैव हि रूपमासाम् ॥ १०.५१ ॥ यथा प्रतप्तो मृदुनातपेन दह्येत कश्चिन्महतानलेन । रागेण पूर्वं मृदुनाभितप्तो रागाग्निनानेन तथाभिदह्ये ॥ १०.५२ ॥ वाग्वारिणां मां परिषिञ्च तस्माद्यावन्न दह्ये स इवाब्जशत्रुः । रागाग्निरद्यैव हिं मां दिधक्षुः कक्षं सवृक्षाग्रमिवोत्थितोऽग्निः ॥ १०.५३ ॥ प्रसीद सीदामि विमुञ्च मा मुने वसुन्धराधैर्य न धैर्यमस्ति मे । असून् विमोक्ष्यामि विमुक्तमानस प्रयच्छ वा वागमृतं मुमूर्षवे ॥ १०.५४ ॥ अनर्थभोगेन विघातदृष्टिना प्रमाददंष्ट्रेण तमोविषाग्निना । अहं हि दष्टो हृदि मन्मथाहिना विधत्स्व तस्मादगदं महाभिषक् ॥ १०.५५ ॥ अनेन दष्टो मदनाहिनाहिना न कश्चिदात्मन्यनवस्थितः स्थितः । मुमोह बोध्योर्ह्यचलात्मनो मनो बभूव धीमांश्च स शन्तनुस्तनुः ॥ १०.५६ ॥ स्थिते विशिष्टे त्वयि संश्रये श्रये यथा न यामीह वसन् दिशं दिशम् । यथा च लब्ध्वा व्यसनक्षयं क्षयं व्रजामि तन्मे कुरु शंसतः सतः ॥ १०.५७ ॥ ततो जिघांसुर्हृदि तस्य तत्तमस्तमोनुदो नक्तमिवोत्थितं तमः । महर्षिचन्द्रो जगतस्तमोनुदस्तमःप्रहीणो निजगाद गौतमः ॥ १०.५८ ॥ धृतिं परिष्वज्य विधूय विक्रियां निगृह्य तावच्छ्रुतचेतसी शृणु । इमा यदि प्रार्थयसे त्वमङ्गना विधत्स्व शुक्लार्थमिहोत्तमं तपः ॥ १०.५९ ॥ इमा हि शक्या न बलान्न सेवया न संप्रदानेन न रूपवत्तया । इमा ह्रियन्ते खलु धर्मचर्यया सचेत्प्रहर्षश्चर धर्ममादृतः ॥ १०.६० ॥ इहाधिवासो दिवि दैवतैः समं वनानि रम्याण्यजराश्च योषितः । इदं फलं स्वस्य शुभस्य कर्मणो न दत्तमन्येन न चाप्यहेतुतः ॥ १०.६१ ॥ क्षितौ मनुष्यो धनुरादिभिः श्रमैः स्त्रियः कदाचिद्धि लभेत वा न वा । असंशयं यत्त्विह धर्मचर्यया भवेयुरेता दिवि पुण्यकर्मणः ॥ १०.६२ ॥ तदप्रमत्तो नियमे समुद्यतो रमस्व यद्यप्सरसोऽभिलिप्ससे । अहं च तेऽत्र प्रतिभूः स्थिरे व्रते यथा त्वमाभिनियतं समेष्यसि ॥ १०.६३ ॥ अतःपरं परममिति व्यवस्थितः परां धृतिं परममुनौ चकार सः । ततो मुनिः पवन इवाम्बरात्पतन् प्रगृह्य तं पुनरगमन्महीतलम् ॥ १०.६४ ॥ सौन्दरनन्द महाकाव्ये "स्वर्गदर्शन" नाम दशम सर्ग समाप्त । _____________________________________________________________________________ एकादशः सर्गः स्वर्ग की हीनता ततस्ता योषितो दृष्ट्वा नन्दो नन्दनचारिणीः । बबन्ध नियमस्तम्भे दुर्दमं चपलं मनः ॥ ११.१ ॥ सोऽनिष्टनैष्क्रम्यरसो म्लानतामरसोपमः । चचार विरसो धर्मं निवेश्याप्सरसो हृदि ॥ ११.२ ॥ तथा लोलेन्द्रियो भूत्वा दयितेन्द्रियगोचरः । इन्द्रियार्थवशादेव बभूव नियतेन्द्रियः ॥ ११.३ ॥ कामचर्यासु कुशलो भिक्षुचर्यासु विक्लवः । परमाचार्यविष्टब्धो ब्रह्मचर्यें चचार सः ॥ ११.४ ॥ संवृतेन च शान्तेन तीव्रेण मदनेन च । जलाग्नेरिव संसर्गाच्छशाम च शुशोष च ॥ ११.५ ॥ स्वभावदर्शनीयोऽपि वैरूप्यमगमत्परम् । चिन्तयाप्सरसां चैव नियमेनायतेन च ॥ ११.६ ॥ प्रस्तावेष्वपि भार्यायां प्रियभार्यस्तथापि सः । वीतराग इवातस्थौ न जहर्ष न चुक्षुभे ॥ ११.७ ॥ तं व्यवस्थितमाज्ञाय भार्यारागात्पराङ्मुखम् । अभिगम्याब्रवीन्नन्दमानन्दः प्रणयादिदम् ॥ ११.८ ॥ अहो सदृशमारब्धं श्रुतमस्याभिजनस्य च । निगृहीतेन्द्रियः स्वस्थो नियमे यदि संस्थितः ॥ ११.९ ॥ अभिष्वक्तस्य कामेषु रागिणो विषयात्मनः । यदियं संविदुत्पन्ना नेयमल्पेन हेतुना ॥ ११.१० ॥ व्याधिरल्पेन यत्नेन मृदुः प्रतिनिवार्यते । प्रबलः प्रबलैरेव यत्नैर्नश्यति वा न वा ॥ ११.११ ॥ दुर्हरो मानसो व्याधिर्बलवांश्च तवाभवत् । विनिवृत्तो यदि [च] ते सर्वथा धृतिमानसि ॥ ११.१२ ॥ दुष्करं साध्वनार्येण मानिना चैव मार्दवम् । अतिसर्गश्च लुब्धेन ब्रह्मचर्यं च रागिणा ॥ ११.१३ ॥ एकस्तु मम संदेहस्तवास्यां नियमे धृतौ । अत्रानुनयमिच्छामि वक्तव्यं यदि मन्यसे ॥ ११.१४ ॥ आर्जवाभिहितं वाक्यं न च मन्तव्यमन्यथा । रूक्षमप्याशये शुद्धे रुक्षतो नैति सज्जनः ॥ ११.१५ ॥ अप्रियं हि हितं स्निग्धमस्निग्धमहितं प्रियम् । दुर्लभं तु प्रियहितं स्वादु पथ्यमिवौषधम् ॥ ११.१६ ॥ विश्वासश्चार्थचर्या च सामान्यं सुखदुःखयोः । मर्षणं प्रणयश्चैव मित्रवृत्तिरियं सताम् ॥ ११.१७ ॥ तदिदं त्वां विवक्षामि प्रणयान्न जिघांसया । त्वच्छ्रेयो हि विवक्षा मे यतो नार्हाम्युपेक्षितुम् ॥ ११.१८ ॥ अप्सरोभृतको धर्मं चरसीत्यभिधीयसे । किमिदं भूतमाहोस्वित्परिहासोऽयमीदृशः ॥ ११.१९ ॥ यदि तावदिदं सत्यं वक्ष्याम्यत्र यदौषधम् । औद्धत्यमथ वक्तृणामभिधास्यामि तद्रजः ॥ ११.२० ॥ श्लक्ष्णपूर्वमथो तेन हृदि सोऽभिहतस्तदा । ध्यात्वा दीर्घं निशश्वास किञ्चिच्चावाङ्मुखोऽभवत् ॥ ११.२१ ॥ ततस्तस्येङ्गितं ज्ञात्वा मनःसंकल्पसूचकम् । बभाषे वाक्यमानन्दो मधुरोदर्कमप्रियम् ॥ ११.२२ ॥ आकारेणावगच्छामि तव धर्मप्रयोजनम् । यज्ज्ञात्वा त्वयि जातं मे हास्यं कारुण्यमेव च ॥ ११.२३ ॥ यथासनार्थं स्कन्धेन कश्चिद्गुर्वीं शिलां वहेत् । तद्वत्त्वमपि कामार्थं नियमं वोढुमुद्यतः ॥ ११.२४ ॥ तिताडयिषया दृप्तो यथा मेषोऽपर्सति । तद्वदब्रह्मचर्याय ब्रह्मचर्यमिदं तव ॥ ११.२५ ॥ चिक्रीषन्ति यथा पण्यं वणिजो लाभलिप्सया । धर्मचर्या तव तथा पण्यभूता न शान्तये ॥ ११.२६ ॥ यथा फलविशेषार्थ बीजं वपति कार्षकः । तद्वद्विषयकार्पण्याद्विषयांस्त्यक्तवानसि ॥ ११.२७ ॥ आकाङ्क्षेच्च यथा रोगं प्रतीकारसुखेप्सया । दुःखमन्विच्छति भवांस्तथा विषयतृष्णया ॥ ११.२८ ॥ यथा पश्यति मध्वेव न प्रपातमवेक्षते । पश्यस्यप्सरसस्तद्वद्भ्रंशमन्ते न पश्यसि ॥ ११.२९ ॥ हृदि कामाग्निना दीप्ते कायेन वहतो व्रतम् । किमिदं ब्रह्मचर्यं ते मनसाब्रह्मचारिणः ॥ ११.३० ॥ संसारे वर्तमानेन यदा चाप्सरसस्त्वया । प्राप्तास्त्यक्ताश्च शतशस्ताभ्यः किमिति ते स्पृहा ॥ ११.३१ ॥ तृप्तिर्नास्तीन्धनैरग्नेर्नाम्भसा लवणाम्भसः । नापि कामैः सतृष्णस्य तस्मात्कामा न तृष्तये ॥ ११.३२ ॥ अतृप्तौ स कुतः शान्तिरशान्तौ च कुतः सुखम् । असुखे च कुतः प्रीतिरप्रीतौ च कुतो रतिः ॥ ११.३३ ॥ रिरंसा यदि ते तस्मादध्यात्मे धीयतां मनः । प्रशान्ता चानवद्या च नास्त्यध्यात्मसमा रतिः ॥ ११.३४ ॥ न तत्र कार्यं तूर्यैस्ते न स्त्रीभिर्न विभूषणैः । एकस्त्वं [यत्र]तत्रस्थस्तया रत्याभिरंस्यसे ॥ ११.३५ ॥ मानसं बलवद्दुःखं तर्षे तिष्ठति तिष्ठति । तं तर्षं छिन्धि दुःखं हि तृष्णा चास्ति च नास्ति च ॥ ११.३६ ॥ संपत्तौ वा विपत्तौ वा दिवा वा नक्तमेव वा । कामेषु हि सतृष्णस्य न शान्तिरुपपद्यते ॥ ११.३७ ॥ कामानां प्रार्थना दुःखा प्राप्तौ तृप्तिर्न विद्यते । वियोगान्नियतः शोको वियोगश्च ध्रुवो दिवि ॥ ११.३८ ॥ कृत्वापि दुष्करं कर्म स्वर्गे लब्ध्वापि दुर्लभम् । नृलोकं पुनरेवैति प्रवासात्स्वगृहं यथा ॥ ११.३९ ॥ यदा भ्रष्टस्य कुशलं शिष्टं किंचिन्न विद्यते । तिर्यक्षु पितृलोके वा नरके चोपपद्यते ॥ ११.४० ॥ तस्य भुक्तवतः स्वर्गे विषयानुत्तमानपि । भ्रष्टस्यार्तस्य दुःखेन किमास्वादः करोति सः ॥ ११.४१ ॥ श्येनाय प्राणिवात्सल्यात्स्वमांसान्यपि दत्तवान् । शिविः स्वर्गात्परिभ्रष्टस्तादृक्कृत्वापि दुष्करम् ॥ ११.४२ ॥ शक्रस्यार्धासनं गत्वा पूर्वपार्थिव एंव यः । स देवत्वं गतः काले मान्धाताधः पुनर्ययौ ॥ ११.४३ ॥ राज्यं कृत्वापि देवानां पपात नहुषो भुवि । प्राप्तः किल भुजंगत्वं नाद्यापि परिमुच्यते ॥ ११.४४ ॥ तथैवेलिविलो राजा राजवृत्तेन संस्कृतः । स्वर्गं गत्वा पुनर्भ्रष्टः कूर्मीभूतः किलार्णवे ॥ ११.४५ ॥ भूरिद्युम्नो ययातिश्च ते चान्ये च नृपर्षभाः । कर्मभिर्द्यामभिक्रीय तत्क्षयात्पुनरत्यजन् ॥ ११.४६ ॥ असुराः पूर्वदेवास्तु सुरैरपहृतश्रियः । श्रियं समनुशोचन्तः पातालं शरणं ययुः ॥ ११.४७ ॥ किं च राजर्षिभिस्तावदसुरैर्वा सुरादिभिः । महेन्द्राः शतशः पेतुर्माहात्म्यमपि न स्थिरम् ॥ ११.४८ ॥ संसदं शोभायित्वैन्द्रीमुपेन्द्रश्चेन्द्रविक्रमः । क्षीणकर्मा पपातोर्वीं मध्यादप्सरसां रसन् ॥ ११.४९ ॥ हा चैत्ररथ हा वापि हा मन्दाकिनि हा प्रिये । इत्यार्ता विलपन्तोऽपि गां पतन्ति दिवौकसः ॥ ११.५० ॥ तीव्रं ह्युत्पद्यते दुःखमिह तावन्मुमूर्षताम् । किं पुनः पततां स्वर्गादेवान्ते सुखसेविनाम् ॥ ११.५१ ॥ रजो गृण्हन्ति वासांसि म्लायन्ति परमाः स्रजः । गात्रेभ्यो जायते स्वेदो रतिर्भवति नासने ॥ ११.५२ ॥ एतान्यादौ निमित्तानि च्युतौ स्वर्गाद्दिवौकसाम् । अनिष्टानीव मर्त्यानामरिष्टानि मुमूर्षताम् ॥ ११.५३ ॥ सुखमुत्पद्यते यच्च दिवि कामानुपाश्नताम् । यच्च दुःखं निपततां दुःखमेव विशिष्यते ॥ ११.५४ ॥ तस्मादस्वन्तमत्राणमविश्वास्यमतर्पकम् । विज्ञाय क्षयिणं स्वर्गमपवर्गे मतिं कुरु ॥ ११.५५ ॥ अशरीरं भवाग्रं हि गत्वापि मुनिरुद्रकः । कर्मणोऽन्ते च्युतस्तस्मात्तिर्यग्योनिं प्रपत्स्यते ॥ ११.५६ ॥ मैत्रया सप्तवार्षिक्या ब्रह्मलोकमितो गतः । सुनेत्रः पुनरावृत्तो गर्भवासमुपेयिवान् ॥ ११.५७ ॥ यदा चैश्वर्यवन्तोऽपि क्षयिणः स्वर्गवासिनः । को नाम स्वर्गवासय क्षेष्णवे स्पृहयेद्बुधः ॥ ११.५८ ॥ सूत्रेण बद्धो हि यथा विहंगो व्यावर्तते दूरगतोऽपि भूयः । अज्ञानसूत्रेण तथावबद्धो गतोऽपि दूरं पुनरेति लोकः ॥ ११.५९ ॥ कृत्वा कालविलक्षणं प्रतिभुवा मुक्तो यथा बन्धनाद् भुक्त्वा वेश्मसुखान्यतीत्य समयं भूयो विशेद्वन्धनम् । तद्वद्द्यां प्रतिभूवदात्मनियमैर्ध्यानादिभिः प्राप्तवान् काले कर्मसु तेषु भुक्तविषयेष्वाकृषते गां पुनः ॥ ११.६० ॥ अन्तर्जालगताः प्रमत्तमनसो मीनास्तडागे यथा जानन्ति व्यसनं न रोधजनितं स्वस्थाश्चरन्त्यम्भसि । अन्तर्लोकगताः कृतार्थमतयस्तद्वद्दिवि ध्यायिनो मन्यन्ते शिवमच्युतं ध्रुवमिति स्वं स्थानमावर्तकम् ॥ ११.६१ ॥ तज्जन्मव्याधिमृत्युव्यसनपरिगतं मत्वा जगदिदं संसारे भ्राम्यमाणं दिवि नृषु नरके तिर्यक्पितृषु च । यत्त्राणं निर्भयं यच्छिवममरजरं निःशोकममृतं तद्धेतोर्ब्रह्मचर्यं चर जहि हि चलं स्वर्गं प्रति रुचिम् ॥ ११.६२ ॥ सौन्दरनन्द महाकाव्ये "स्वर्ग की हीनता" नाम एकादश सर्ग समाप्त ॥ _____________________________________________________________________________ द्वादशः सर्गः विवेक अप्सरोभृतको धर्मं चरसीत्यथ चोदितः । आनन्देन तदा नन्दः परं व्रीडमुपागमत् ॥ १२.१ ॥ तस्य व्रीडेन महता प्रमोदो हृदि नाभवत् । अप्रामोद्येन विमुखं नावतस्थे व्रते मनः ॥ १२.२ ॥ कामरागप्रधानोऽपि परिहाससमोऽपि सन् । परिपाकगते हेतौ न स तन्ममृषे वचः ॥ १२.३ ॥ अपरीक्षकभावाच्च पूर्वं मत्वा दिवं ध्रुवम् । तस्मात्क्षेष्णुं परिश्रुत्य भृशं संवेगमेयिवान् ॥ १२.४ ॥ तस्य स्वर्गान्निववृते संकल्पाश्वो मनोरथः । महारथ इवोन्मार्गादप्रमत्तस्य सारथेः ॥ १२.५ ॥ स्वर्गतर्षान्निवृत्तश्च सद्यः स्वस्थ इवाभवत् । मृष्टादपथ्याद्विरतो जिजीविषुरिवातुरः ॥ १२.६ ॥ विसस्मार प्रियां भार्यामप्सरोदर्शनाद्यथा । तथानित्यतयोद्विग्नस्तत्याजाप्सरसोऽपि सः ॥ १२.७ ॥ महतामपि भूतानामावृत्तिरिति चिन्तयन् । संवेगाच्च सरागोऽपि वीतराग इवाभवत् ॥ १२.८ ॥ बभूव स हि संवेगः श्रेयसस्तस्य वृद्धये । धातुरेधिरिवाख्याते पठितोऽक्षरचिन्तकैः ॥ १२.९ ॥ न तु कामान्मनस्तस्य केनचिज्जगृहे धृतिः । त्रिषु कालेषु सर्वेषु निपातोऽस्तिरिव स्मृतः ॥ १२.१० ॥ खेलगामी महाबाहुर्गजेन्द्र इव निर्मदः । सोऽभ्यगच्छद्गुरुं काले विवक्षुर्भावमात्मनः ॥ १२.११ ॥ प्रणम्य च गुरौ मुर्ध्ना बाष्पव्याकुललोचनः । कृत्वाञ्जलिमुवाचेदं ह्रिया किंचिदवाङ्मुखः ॥ १२.१२ ॥ अप्सरः प्राप्तये यन्मे भगवन् प्रतिभूरसि । नाप्सरोभिर्ममार्थोऽस्ति प्रतिभूत्वं त्यजाम्यहम् ॥ १२.१३ ॥ श्रुत्वा ह्यावर्तकं स्वर्गं संसारस्थ च चित्रताम् । न मर्त्येषु न देवेषु प्रवृत्तिर्मम रोचते ॥ १२.१४ ॥ यदि प्राप्य दिवं यत्नान्नियमेन दमेन च । अवितृप्ताः पतन्त्यन्ते स्वर्गाय त्यागिने नमः ॥ १२.१५ ॥ अतश्च निखिलं लोकं विदित्वा सचराचरम् । सर्वदुःखक्षयकरे त्वद्धर्मे परमे रमे ॥ १२.१६ ॥ तस्माद्व्याससमासाभ्यां तन्मे व्याख्यातुमर्हसि । यच्छ्रुत्वा शृण्वतां श्रेष्ठ परमं प्राप्नुयां पदम् ॥ १२.१७ ॥ ततस्तस्याशयं ज्ञात्वा विपक्षाणिन्द्रियाणि च । श्रेयश्चैवामुखीभूतं निजगाद तथागतः ॥ १२.१८ ॥ अहो प्रत्यवमर्शोऽयं श्रेयसस्ते पुरोजवः । अरण्यां मथ्यमानायामग्नेर्धूम इवोत्थितः ॥ १२.१९ ॥ चिरमुन्मार्गविहृतो लोलैरिन्द्रियवाजिभिः । अवतीर्णोऽसि पन्थानं दिष्ट्या दृष्ट्यविमूढया ॥ १२.२० ॥ अद्य ते सफलं जन्म लाभोऽद्य सुमहांस्तव । यस्य कामरसज्ञस्य नैष्क्रम्यायोत्सुकं मनः ॥ १२.२१ ॥ लोकेऽस्मिन्नालयारामे निवृत्तौ दुर्लभा रतिः । व्यथन्ते ह्यपुनर्भावात्प्रपातादिव बालिशाः ॥ १२.२२ ॥ दुःखं न स्यात्सुखं मे स्यादिति प्रयतते जनः । अत्यन्तदुःखोपरमं सुखं तच्च न बुध्यते ॥ १२.२३ ॥ अरिभूतेष्वनित्येषु सततं दुःखहेतुषु । कामादिषु जगत्सक्तं न वेत्ति सुखमव्ययम् ॥ १२.२४ ॥ सर्वदुःखापहं तत्तु हस्तस्थममृतं तव । विषं पीत्वा यदगदं समये पातुमिच्छसि ॥ १२.२५ ॥ अनर्हसंसारभयं मानार्हं ते चिकीर्षितम् । रागाग्निस्तादृशो यस्य धर्मोन्मुख पराङ्मुखः ॥ १२.२६ ॥ रागोद्दामेन मनसा सर्वथा दुष्करा धृतिः । सदोषं सलिलं दृष्ट्वा पथिनेव पिपासुना ॥ १२.२७ ॥ ईदृशी नाम बुद्धिस्ते विरुद्धा रजसाभवत् । रजसा चण्डवातेन विवस्वत इव प्रभा ॥ १२.२८ ॥ सा जिघांसुस्तमो हार्दं या संप्रति विजृम्भते । तमो नैशं प्रभा सौरी विनिर्गीर्णेव मेरुणा ॥ १२.२९ ॥ युक्तरूपमिदं चैव शुद्धसत्त्वस्य चेतसः । यत्ते स्यान्नैष्ठिके सूक्ष्मे श्रेयसि श्रद्दधानता ॥ १२.३० ॥ धर्मच्छन्दमिमं तस्माद्विवर्धयितुमर्हसि । सर्वधर्मा हि धर्मज्ञ नियमाच्छन्दहेतवः ॥ १२.३१ ॥ सत्यां गमनबुद्धौ हि गमनाय प्रवर्तते । शय्याबुद्धौ च शयनं स्थानबुद्धौ तथा स्थितिः ॥ १२.३२ ॥ अन्तर्भूमिगतं ह्यम्भः श्रद्दधाति नरो यदा । अर्थिंत्वे सति यत्नेन तदा खनति गामिमाम् ॥ १२.३३ ॥ नार्थी यद्यग्निना वा स्याच्छ्रद्दध्यात्तं न वारणौ । मथ्नीयान्नारणिं कश्चित्तभआवे सति मथ्यते ॥ १२.३४ ॥ सस्योत्पत्तिं यदि न वा श्रद्दध्यात्कार्षकः क्षितौ । अर्थी सस्येन वा न स्याद्बीजानि न वपेद्भुवि ॥ १२.३५ ॥ अतश्च हस्त इत्युक्ता मया श्रद्धा विशेषतः । यस्माद्गृण्हाति सद्धर्मं दायं हस्त यतो यथाः ॥ १२.३६ ॥ प्राधान्यादिन्द्रियमिति स्थिरत्वाद्बलमित्यतः । गुणदारिद्रयशमनाद्धनमित्यभिवर्णिता ॥ १२.३७ ॥ रक्षणार्थेन धर्मस्य तथेषीकेत्युदाहृता । लोकेऽस्मिन् दुर्लभत्वाच्च रत्नमित्यभिभाषिता ॥ १२.३८ ॥ पुनश्च बीजमित्युक्ता निमित्तं श्रेयसो यदा । पावनार्थेन पापस्य नदीत्यभिहिता पुनः ॥ १२.३९ ॥ यस्माद्धर्मस्य चोत्पत्तौ श्रद्धा कारणमुत्तमम् । मयोक्ता कार्यतस्तस्मात्तत्र तत्र तथा तथा ॥ १२.४० ॥ श्रद्धाङ्कुरमिमं तस्मात्संवर्धयितुमर्हसि । तद्वृद्धौ वर्धते धर्मो मूलवृद्धौ यथा द्रुमः ॥ १२.४१ ॥ व्याकुलं दर्शनं यस्य दुर्बलो यस्य निश्चयः । तस्य पारिप्लवा श्रद्धा न हिं कृत्याय वर्तते ॥ १२.४२ ॥ यावत्तत्त्वं न भवति हि दृष्टं श्रुतं वा तावच्छ्रद्धा न भवति बलस्था स्थिरा वा । दृष्टे तत्त्वे नियमपरिभूतेन्द्रियस्य श्रद्धावृक्षो भवति सफलश्चाश्रयश्च ॥ १२.४३ ॥ सौन्दरनन्द महाकाव्य में "विवेक" नामक द्वादश सर्ग समाप्त । _____________________________________________________________________________ त्रयोदशः सर्गः शील एवं इन्द्रियसंयम अथ संराधितो नन्दः श्रद्धां प्रति महर्षिणा । परिषिक्तोऽमृतेनेव युयुजे परया मुदा ॥ १३.१ ॥ कृतार्थमिव तं मेने संबुद्धः श्रद्धया तया । मेने प्राप्तमिव श्रेयः स च बुद्धेन संस्कृतः ॥ १३.२ ॥ श्लक्ष्णेन वचसा कांश्चित्कांश्चित्परुषया गिरा । कांश्चिदाभ्यामुपायाभ्यां स विनिन्ये विनायकः ॥ १३.३ ॥ पांसुभ्यः काञ्चनं जातं विशुद्धं निर्मलं शुचि । स्थितं पांसुष्वपि यथा पांसुदोषैर्न लिप्यते ॥ १३.४ ॥ पद्मपर्णं यथा चैव जले जातं जले स्थितम् । उपरिष्टादधस्ताद्वा न जलेनोपलिप्यते ॥ १३.५ ॥ तद्वल्लोके मुनिर्जातो लोकस्यानुग्रहं चरन् । कृतित्वान्निर्मलत्वाच्च लोकधर्मैर्न लिप्यते ॥ १३.६ ॥ श्लेषं त्यागं प्रियं रूक्षं कथां च ध्यानमेव च । मन्तुकाले चिकित्सार्थं चक्रे नात्मानुवृत्तये ॥ १३.७ ॥ अतश्च सन्दधे कायं महाकरुणया तया । मोचयेयं कथं दुःखात्सत्त्वानीत्यनुकम्पकः ॥ १३.८ ॥ अथ संहर्षणान्नन्दं विदित्वा भाजनीकृतम् । अब्रवीद्ब्रुवतां श्रेष्ठः क्रमज्ञः श्रेयसां क्रमम् ॥ १३.९ ॥ अतः प्रभृति भूयस्त्वं श्रेद्धेन्द्रियपुरःसरः । अमृतस्याप्तये सौम्य वृत्तं रक्षितुमर्हसि ॥ १३.१० ॥ प्रयोगः कायवचसोः शुद्धो भवति ते यथा । उत्तानो विवृतो गुप्तोऽनवच्छिद्रस्तथा कुरु ॥ १३.११ ॥ उत्तानो भावकरणाद्विवृतश्चाप्यगूहनात् । गुप्तो रक्षणतात्पर्यादच्छिद्रश्चानवद्यतः ॥ १३.१२ ॥ शरीरवचसोः शुद्धौ सप्तांगे चापि कर्मणि । आजीवसमुदाचारं शौचात्संस्कर्तुमर्हसि ॥ १३.१३ ॥ दोषाणां कुहनादीनां पञ्चानामनिषेवणात् । त्यागाच्च ज्योतिषादीनां चतुर्णां वृत्तिघातिनाम् ॥ १३.१४ ॥ प्राणिधान्यधनादीनां वर्ज्यानामप्रतिग्रहात् । भैक्षाङ्गानां निसृष्टानां नियतानां प्रतिग्रहात् ॥ १३.१५ ॥ परितुष्टः शुचिर्मञ्जुश्चौक्षया जीवसंपदा । कुर्या दुःखप्रतीकारं यावदेव विमुक्तये ॥ १३.१६ ॥ कर्मणो हि यथादृष्टात्कायवाक्प्रभवादपि । आजीवः पृथगेवोक्तो दुःशोधत्वादयं मया ॥ १३.१७ ॥ गृहस्थेन हि दुःशोधा दृष्टिर्विविधदृष्टिना । आजीवो भिक्षुणा चैव परेष्वायत्तवृत्तिना ॥ १३.१८ ॥ एतावच्छीलमित्युक्तमाचारोऽयं समासतः । अस्य नाशेन नैव स्यात्प्रव्रज्या न गृहस्थता ॥ १३.१९ ॥ तस्माच्चारित्रसम्पन्नो ब्रह्मचर्यमिदं चर । अणुमात्रेष्वद्येषु भयदर्शी दृढव्रतः ॥ १३.२० ॥ शीलमास्थाय वर्तन्ते सर्वा हि श्रेयसि क्रियाः । स्थानाद्यानीव कार्याणि प्रतिष्ठाय वसुन्धराम् ॥ १३.२१ ॥ मोक्षस्योपनिषत्सौम्य वैराग्यमिति गृह्यताम् । वैराग्यस्यापि संवेदः संविदो ज्ञानदर्शनम् ॥ १३.२२ ॥ ज्ञानस्योपनिषच्चैव समाधिरुपधार्यताम् । समाधेरप्युपनिषत्सुखं शारीरमानसम् ॥ १३.२३ ॥ प्रश्रब्धिः कायमनसः सुखस्योपनिषत्परा । प्रश्रब्धेरप्युपनिषत्प्रीतिरप्यवगम्यताम् ॥ १३.२४ ॥ तथा प्रीतेरुपनिषत्प्रामोद्यं परमं मतम् । प्रामोद्यस्याप्यहृल्लेखः कुकृतेष्वकृतेषु वा ॥ १३.२५ ॥ अहृल्लेखस्य मनसः शीलं तूपनिषच्छुचि । अतः शीलं नयत्यग्र्यमिति शीलं विशोधय ॥ १३.२६ ॥ शीलनाच्छीलमित्युक्तं शीलनं सेवनादपि । सेवनं तन्निदेशाच्च निदेशश्च तदाश्रयात् ॥ १३.२७ ॥ शीलं हि शरणं सौभ्य कान्तार इव दैशिकः । पित्रं बन्धुश्च रक्षा च धनं च बलमेव च ॥ १३.२८ ॥ यतः शीलमतः सौम्य शीलं संस्कर्तुमर्हसि । एतत्स्थानमथान्ये [नन्यं] च मोक्षारम्भेषु योगिनाम् ॥ १३.२९ ॥ ततः स्मृतिमधिष्ठाय चपलानि स्वभावतः । इन्द्रियाणीन्द्रियार्थेभ्यो निवारयितुमर्हसि ॥ १३.३० ॥ भेतव्यं न तथा शत्रोर्नाग्नेर्नाहेर्न चाशनेः । इन्द्रियेभ्यो यथा स्वेभ्यस्तैरजस्रं हि हन्यते ॥ १३.३१ ॥ द्विषद्भिः शत्रुभिः कश्चित्कदाचित्पीड्यते न वा । इन्द्रियैर्बाध्यते सर्वः सर्वत्र च सदैव च ॥ १३.३२ ॥ न च प्रयाति नरकं शत्रुप्रभृतिभिर्हतः । कृष्यते तत्र निघ्नस्तु चपलैरिन्द्रियैर्हतः ॥ १३.३३ ॥ हन्यमानस्य तैर्दुःखं हार्दं भवति वा न वा । इन्द्रियैर्बाध्यमानस्य हार्दं शारीरमेव च ॥ १३.३४ ॥ संकल्पविषदिग्धा हि पञ्चेन्द्रियमयाः शराः । चिन्तापुङ्खा रतिफला विषयाकाशगोचराः ॥ १३.३५ ॥ मनुष्यहरिणान् घ्नन्ति कामव्याधेरिता हृदि । विहन्यन्ते यदि न ते ततः पतन्ति तैः क्षताः ॥ १३.३६ ॥ नियमाजिरसंस्थेन धैर्यकार्मुकधारिणा । निपतन्तो निवार्यास्ते महता स्मृतिवर्मणा ॥ १३.३७ ॥ इन्द्रियाणामुपशमादरीणां निग्रहादिव । सुखं स्वपिति वास्ते वा यत्र तत्र गतोद्धवः ॥ १३.३८ ॥ तेषां हि सततं लोके विषयानभिकाङ्क्षताम् । संविन्नैवास्ति कार्पण्याच्छुनामाशावतामिव ॥ १३.३९ ॥ विषयैरिन्द्रियग्रामो न तृप्तिमधिगच्छति । अजस्रं पूर्यमाणोऽपि समुद्रः सलिलैरिव ॥ १३.४० ॥ अवश्यं गोचरे स्वे स्वे वर्तितव्यमिहेन्द्रियैः । निमित्तं तत्र न ग्राह्यमनुव्यञ्जनमेव च ॥ १३.४१ ॥ आलोक्य चक्षुषा रूपं धातुमात्रे व्यवस्थितः । स्त्री वेति पुरुषो वेति न कल्पयितुमर्हसि ॥ १३.४२ ॥ सचेत्स्त्रीपुरुषग्राहः क्वचिद्विद्येत कश्चन् । शुभतः केशदन्तादीन्नानुप्रस्थातुमर्हसि ॥ १३.४३ ॥ नापनेयं ततः किंचित्प्रक्षेप्यं नापि किञ्चन । द्रष्टव्यं भूततो भूतं यादृशं च यथा च यत् ॥ १३.४४ ॥ एवं ते पश्यतस्तत्त्वं शश्वदिन्द्रियगोचरम् । भविष्यति पदस्थानं नाभिध्यादौर्मनस्ययोः ॥ १३.४५ ॥ अभिध्या प्रियरूपेण हन्ति कामात्मकं जगत् । अरिर्मित्रमुखेनेव प्रियवाक्कलुषाशयः ॥ १३.४६ ॥ दौर्मनस्याभिधानस्तु प्रतिघो विषयाश्रितः । मोहाद्येनानुवृतेन परत्रेह च हन्यते ॥ १३.४७ ॥ अनुरोधविरोधाभ्यां शितोष्णाभ्यामिवार्दितः । शर्म नाप्नोति न श्रेयश्चलेन्द्रियमतो जगत् ॥ १३.४८ ॥ नेन्द्रियं विषये तावत्प्रवृत्तमपि सज्जते । यावन्न मनसस्तत्र परिकल्पः प्रवर्तते ॥ १३.४९ ॥ इन्धने सति वायौ च यथा ज्वलति पावकः । विषयात्परिकल्पाच्च क्लेशाग्निर्जायते तथा ॥ १३.५० ॥ अभूतपरिकल्पेन विषयस्य हि वध्यते । तमेव विषयं पश्यन् भूततः परिमुच्यते ॥ १३.५१ ॥ दृष्ट्वैकं रूपमन्यो हि रज्यतेऽन्यः प्रदुष्यति । कश्चिद्भवति मध्यस्थस्तत्रैवान्यो घृणायते ॥ १३.५२ ॥ अतो न विषयो हेतुर्बन्धाय न विमुक्तये । परिकल्पविशेषेण संगो भवति वा न वा ॥ १३.५३ ॥ कार्यः परमयत्नेन तस्मादिन्द्रियसंवरः । इन्द्रियाणि ह्यगुत्पानि दुःखाय च भवाय च ॥ १३.५४ ॥ कामभोगभोगवद्भिरात्मदृष्टिदृष्टिभिः प्रमादनैकमूर्द्धभिः प्रहर्षलोलजिव्हकैः । इन्द्रियोरगैर्मनोबिलश्रयैः स्पृहाविषैः शमागदादृते न दृष्टमस्ति यच्चिकित्सेत् ॥ १३.५५ ॥ तस्मादेषामकुशलकराणामरीणां चक्षुर्घ्राणश्रवणरसनस्पर्शनानाम् । सर्वावस्थं भव विनियमादप्रमत्तो मास्मिन्नर्थे क्षणमपि कृथास्त्वं प्रमादम् ॥ १३.५६ ॥ सौन्दरनन्द महाकाव्ये "शील एवं इन्द्रियसंयम" नाम त्रयोदश सर्ग समाप्त । _____________________________________________________________________________ चतुर्दशः सर्गः आदिप्रस्थान अथ स्मृतिकवाटेन पिधायेन्द्रियसंवरम् । भोजने भव मात्राज्ञो ध्यानायानामयाय च ॥ १४.१ ॥ प्राणापानौ निगृण्हाति ग्लानिनिद्रे प्रयच्छति । कृतो ह्यत्यर्थमाहारो विहन्ति च पराक्रमम् ॥ १४.२ ॥ यथा चात्यर्थमाहारः कृतोऽनर्थाय कल्पते । उपयुक्तस्तथात्यल्पो न सामर्थ्याय कल्पते ॥ १४.३ ॥ आचयं द्युतिमुत्साहं प्रयोगं बलमेव च । भोजनं कृतमत्यल्पं शरीरस्यापकर्षति ॥ १४.४ ॥ यथा भारेण नमते लघुनोन्नमते तुला । समा तिष्ठति युक्तेन भोज्येनेयं तथा तनुः ॥ १४.५ ॥ तस्मादभ्यवहर्त्तव्यं स्वशक्तिमनुपश्यता । नातिमात्रं न चात्यल्पं मेयं मानवशादपि ॥ १४.६ ॥ अत्याक्रान्तो हि कायाग्निर्गुरुणान्नेन शाम्यति । अवच्छन्न इवाल्पोऽग्निः सहसा महतेन्धसा ॥ १४.७ ॥ अत्यन्तमपि संहारो नाहारस्य प्रशस्यते । अनाहारो हि निर्वाति निरिन्धन इवानलः ॥ १४.८ ॥ यस्मान्नास्ति विनाहारात्सर्वप्राणाभृतां स्थितिः । तस्माद्दुष्यति नाहारो विकल्पोऽत्र तु वार्यते ॥ १४.९ ॥ न ह्येकविषयेऽन्यत्र सज्यन्ते प्राणिनस्तथा । अविज्ञाते यथाहारे बोद्धव्यं तत्र कारणम् ॥ १४.१० ॥ चिकित्सार्थं यथा धत्ते व्रणस्यालेपनं व्रणी । क्षुद्विघातार्थमाहारस्तद्वत्सेव्यो मुमुक्षुणा ॥ १४.११ ॥ भारस्योद्वहनार्थं च रथाक्षोऽभ्यज्यते यथा । भोजनं प्राणयात्रार्थं तद्वद्विद्वान्निषेवते ॥ १४.१२ ॥ समतिक्रमणार्थं च कान्तारस्य यथाध्वगौ । पुत्रमांसानि खादेतां दम्पती भृशदुःखितौ ॥ १४.१३ ॥ एवमभ्यवहर्त्तव्यं भोजनं प्रतिसंख्यया । न भूषार्थं न वपुषो न मदाय न दृप्तये ॥ १४.१४ ॥ धारणार्थं शरीरस्य भोजनं हि विधीयते । उपस्तम्भः पिपतिषोर्दुबलस्येव वेश्मनः ॥ १४.१५ ॥ प्लवं यत्नाद्यथा कश्चिद्बध्नीयाद्धारयेदपि । न तत्स्नेहेन यावत्तु महौघस्योत्तितीर्षया ॥ १४.१६ ॥ तथोपकरणैः कायं धारयन्ति परीक्षकाः । न तत्स्नेहेन यावत्तु दुःखौघस्य तितीर्षया ॥ १४.१७ ॥ शोचता पीड्यमानेन दीयते शत्रवे यथा । न भक्त्या नापि तर्षेण केवलं प्राणगुप्तये ॥ १४.१८ ॥ योगाचारस्तथाहारं शरीराय प्रयच्छति । केवलं क्षुद्विघातार्थं न रागेण न भक्तये ॥ १४.१९ ॥ मनोधारणया चैव परिणाम्यात्मवानहः । विधूय निद्रां योगेन निशामप्यतिनामयेत् ॥ १४.२० ॥ हृदि यत्संज्ञिनश्चैव निद्रा प्रादुर्भवेत्तव । गुणवत्संज्ञितां संज्ञां तदा मनसि मा कृथाः ॥ १४.२१ ॥ धातुरारम्भधृत्योश्च स्थामविक्रमयोरपि । नित्यं मनसि कार्यस्ते बाध्यमानेन निद्रया ॥ १४.२२ ॥ आम्नातव्याश्च विशदं ते धर्मा ये परिश्रुताः । परेभ्यश्चोपदेष्टव्याः संचिन्त्याः स्वयमेव च ॥ १४.२३ ॥ प्रक्लेद्यमद्भिर्वदनं विलोक्याः सर्वतो दिशः । चार्या दृष्टिश्च तारासु जिजागरिषुणा सदा ॥ १४.२४ ॥ अन्तर्गतैरचपलैर्वशस्थायिभिरिन्द्रियैः । अविक्षिप्तेन मनसा चंक्रम्यस्वास्व वा निशि ॥ १४.२५ ॥ भये प्रीतौ च शोके च निद्रया नाभिभूयते । तस्मान्निद्राभियोगेषु सेवितव्यमिदं त्रयम् ॥ १४.२६ ॥ भयमागमनान्मृत्योः प्रीतिं धर्मपरिग्रहात् । जन्मदुःखादपर्यन्ताच्छोकमागन्तुमर्हसि ॥ १४.२७ ॥ एवमादिः क्रमः सौम्य कार्यो जागरणं प्रति । वन्ध्यं हि शयनादायुः क प्राज्ञः कर्तुमर्हसि ॥ १४.२८ ॥ दोषव्यालानतिक्रम्य व्यालान् गृहगतानिव । क्षमं प्राज्ञस्य न स्वप्तुं निस्तितीर्षोर्महद्भयम् ॥ १४.२९ ॥ प्रदीप्ते जीवलोके हि मृत्युव्याधिजराग्निभिः । कः शयीत निरुद्वेगः प्रदीप्त इव वेश्मनि ॥ १४.३० ॥ तस्मात्तम इति ज्ञात्वा निद्रां नावेष्टुमर्हसि । अप्रशान्तेषु दोषेषु सशस्त्रेष्विव शत्रुषु ॥ १४.३१ ॥ पूर्वं यामं त्रियामायाः प्रयोगेणातिनाम्य तु । सेव्या शय्या शरीरस्य विश्रामार्थं स्वतन्त्रिणा ॥ १४.३२ ॥ दक्षिणेन तु पार्श्वेन स्थितयालोकसंज्ञया । प्रबोधं हृदये कृत्वा शयीथाः शान्तमानसः ॥ १४.३३ ॥ यामे तृतीये चोत्थाय चरन्नासीन एव वा । भूयो योगं मनःशुद्धौ कुर्वीथा नियतेन्द्रियः ॥ १४.३४ ॥ अथासनगतस्थानप्रेक्षितव्याहृतादिषु । संप्रजानन् क्रियाः सर्वाः स्मृतिमाधातुमर्हसि ॥ १४.३५ ॥ द्वाराध्यक्ष इव द्वारि यस्य प्रणिहिता स्मृतिः । धर्षयन्ति न तं दोषाः पुरं गुप्तमिवारयः ॥ १४.३६ ॥ न तस्योत्पद्यते क्लेशो यस्य कायगता स्मृतिः । चित्तं सर्वास्ववस्थासु बालं धात्रीव रक्षति ॥ १४.३७ ॥ शरव्यः स तु दोषाणां यो हीनः स्मृतिवर्मणा । रणस्थः प्रतिशत्रूणां विहीन इव वर्मणा ॥ १४.३८ ॥ अनाथं तन्मनो ज्ञेयं यत्स्मृतिर्नाभिरक्षति । निर्णेता दृष्टिरहितो विषमेषु चरन्निव ॥ १४.३९ ॥ अनर्थेषु प्रसक्ताश्च स्वार्थेभ्यश्च पराङ्मुखा । यद्भये सति नोद्विग्नाः स्मृतिनाशोऽत्र कारणम् ॥ १४.४० ॥ स्वभूमिषु गुणाः सर्वे ये च शीलादयः स्थिताः । विकीर्णा इव गा गोपः स्मृतिस्ताननुगच्छति ॥ १४.४१ ॥ प्रनष्टममृतं तस्य यस्य विप्रसृता स्मृतिः । हस्तस्थममृतं तस्य यस्य कायगता स्मृतिः ॥ १४.४२ ॥ आर्यो न्यायः कुतस्तस्य स्मृतिर्यस्य न विद्यते । यस्यार्यो नास्ति च न्यायः प्रनष्टस्तस्य सत्पथः ॥ १४.४३ ॥ प्रनष्टो यस्य सन्मार्गो नष्टं तस्यामृतं पदम् । प्रनष्टममृतं यस्य स दुःखान्न विमुच्यते ॥ १४.४४ ॥ तस्माच्चरन चरोऽस्मीति स्थितोऽस्मीति चाधिष्ठितः । एवमादिषु कार्येषु स्मृतिमाधातुमर्हसि ॥ १४.४५ ॥ योगानुलोमं विजनं विशब्दं शय्यासनं सौम्य तथा भजस्व । कायस्य कृत्वा हि विवेकमादौ सुखोऽधिगन्तुं मनसो विवेकः ॥ १४.४६ ॥ अलब्धचेतःप्रशमः सरागो यो न प्रचारं भजते विविक्तम् । स क्षण्यते ह्यप्रतिलब्धमार्गश्चरन्निवोर्व्यां बहुकण्टकायाम् ॥ १४.४७ ॥ अदृष्टतत्त्वेन परीक्षकेण स्थितेन चित्रे विषयप्रचारे । चित्तं निषेद्धुं न सुखेन शक्यं कृष्टादको गौरिव सस्यमध्यात् ॥ १४.४८ ॥ अनीर्यमाणस्तु यथानिलेन प्रशान्तिमागच्छति चित्रभानुः । अल्पेन यत्नेन तथा विविक्तेष्वघट्टितं शान्तिमुपैति चेतः ॥ १४.४९ ॥ क्वचिद्भुक्त्वा यत्तद्वसनमपि यत्तत्परिहितो वसन्नात्मारामः क्वचन विजने योऽभिरमते । कृतार्थः स ज्ञेयः शमसुखरसज्ञः कृतमतिः परेषां संसर्गं परिहरति यः कण्टकमिव ॥ १४.५० ॥ यदि द्वन्द्वारामे जगति विषयव्यग्रहृदये विविक्ते निर्द्वन्दो विहरति कृती शान्तहृदयः । ततः पीत्वा प्रज्ञारसममृतवत्तृप्तहृदयो विविक्तः संसक्तं विषयकृपणं शोचति जगत् ॥ १४.५१ ॥ वसञ्शून्यागारे यदि सततमेकोऽभिरमते यदि क्लेशोत्पादैः सह न रमते शत्रुभिरिव । चरन्नात्मारामो यदि च पिबति प्रीतिसलिलं ततो भुङ्क्ते श्रेष्ठं त्रिदशपतिराज्यादपि सुखम् ॥ १४.५२ ॥ सौन्दरनन्द महाकाव्ये "आदिप्रस्थान" नाम चतुर्दश सर्ग समाप्त ॥ _____________________________________________________________________________ पञ्चदशःसर्गः वितर्कप्रहाण यत्र तत्र विविक्ते तु बद्ध्वा पर्यङ्कमुत्तमम् । ऋजुं कायं समाधाय स्मृत्याभिमुखयान्वितः ॥ १५.१ ॥ नासाग्रे वा ललाटे वा भ्रुवोरन्तर एव वा । कुर्वीथाश्चपलं चित्तमालम्बनपरायणम् ॥ १५.२ ॥ सचेत्कामवितर्कस्त्वां धर्षयेन्मानसो ज्वरः । क्षेप्तव्यो नाधिवास्यः स वस्त्रे रेणुरिवागतः ॥ १५.३ ॥ यद्यपि प्रतिसंख्यानात्कामानुत्सृष्टवानसि । तमांसीव प्रकाशेन प्रतिपक्षेण ताञ्जहि ॥ १५.४ ॥ तिष्ठत्यनुशयस्तेषां छन्नोऽग्निरिव भस्मना । स ते भावनया सौम्य प्रशाम्योऽग्निरिवाम्बुना ॥ १५.५ ॥ ते हि तस्मात्प्रवर्तन्ते भूयो वीजादिवाङ्कुराः । तस्य नाशेन ते न स्युर्बीजनाशादिवाङ्कुराः ॥ १५.६ ॥ अर्जनादीनि कामेभ्यो दृष्ट्वा दुःखानि कामिनाम् । तस्मात्तान्मूलतश्छिन्धि मित्रसंज्ञानरीनिव ॥ १५.७ ॥ अनित्या मोषधर्माणो रिक्ता व्यसनहेतवः । बहुसाधारणाः कामा वर्ह्या ह्याशीविषा इव ॥ १५.८ ॥ ये मृग्यमाणा दुःखाय रक्ष्यमाणा न शान्तये । भ्रष्टाः शोकाय महते प्राप्ताश्च न वितृप्तये ॥ १५.९ ॥ तृप्तिं वित्तप्रकर्षेण स्वर्गावाप्त्या कृतार्थताम् । कामेभ्यश्च सुखोत्पत्तिं यः पश्यति स नश्यति ॥ १५.१० ॥ चलानपरिनिष्पन्नानसाराननवस्थितान् । परिकल्पसुखान् कामान्न तान्स्मर्तुमिहार्हसि ॥ १५.११ ॥ व्यापादो वा विहिंसा वा क्षोभयेद्यदि ते मनः । प्रसाद्यं तद्विपक्षेण मणिनेवाकुलं जलम् ॥ १५.१२ ॥ प्रतिपक्षस्तयोर्ज्ञेयो मैत्री कारुण्यमेव च । विरोधो हि तयोर्नित्यं प्रकाशतमसोरिव ॥ १५.१३ ॥ निवृत्तं यस्य दौःशील्यं व्यापादश्च प्रवर्तते । हन्ति पांसुभिरात्मानं स स्नात इव वारणः ॥ १५.१४ ॥ दुःखितेभ्यो हि मर्त्येभ्यो व्याधिमृत्युजरादिभिः । आर्यः को दुःखमपरं सघृणो धातुमर्हति ॥ १५.१५ ॥ दुष्टेन चेह मनसा बाध्यते वा परो न वा । सद्यस्तु दह्यते तावत्स्वं मनो दुष्टचेतसः ॥ १५.१६ ॥ तस्मात्सर्वेषु भूतेषु मैत्रीं कारुण्यमेव च । न व्यापादं विहिंसां वा विकल्पयितुमर्हसि ॥ १५.१७ ॥ यद्यदेव प्रसक्तं हि वितर्कयति मानवः । अभ्यासात्तेन तेनास्य नतिर्भवति चेतसः ॥ १५.१८ ॥ तस्मादकुशलं त्यक्त्वा कुशलं ध्यातुमर्हसि । यत्ते स्यादिह चार्थाय परमार्थस्य चाप्तये ॥ १५.१९ ॥ संवर्धन्ते ह्यकुशला वितर्काः संभृता हृदि । अनर्थजनकास्तुल्यमात्मनश्च परस्य च ॥ १५.२० ॥ श्रेयसो विघ्नकरणाद्भवन्त्यात्मविपत्तये । पात्रीभावोपघातात्तु परभक्तिविपत्तये ॥ १५.२१ ॥ मनःकर्मस्वविक्षेपमपि चाभ्यस्तुमर्हसि । न त्वेवाकुशलं सौम्य वितर्कयितुमर्हसि ॥ १५.२२ ॥ या विकामोपभोगाय चिन्ता मनसि वर्तते । न च तं गुणमाप्नोति बन्धनाय च कल्पते ॥ १५.२३ ॥ सत्त्वानामुपघाताय परिक्लेशाय चात्मनः । मोहं व्रजति कालुष्यं नरकाय च वर्तते ॥ १५.२४ ॥ तद्वितर्कैरकुशलैर्नात्मानं हन्तुमर्हसि । सुशस्त्रं रत्नविकृतं मृद्धतो गां खनन्निव ॥ १५.२५ ॥ अनभिज्ञो यथा जात्यं दहेदगुरु काष्ठवत् । अन्यायेन मनुष्यत्वमुपहन्यादिदं तथा ॥ १५.२६ ॥ त्यक्त्वा रत्नं यथा लोष्टं रत्नद्वीपाच्च संहरेत् । त्यक्त्वा नैःश्रेयसं धर्मं चिन्तयेदशुभं तथा ॥ १५.२७ ॥ हिमवन्तं यथा गत्वा विषं भुञ्जीत नौषधम् । मनुष्यत्वं तथा प्राप्य पापं सेवेत नो शुभम् ॥ १५.२८ ॥ तद्बुद्धवा प्रतिपक्षेण वितर्कं क्षेप्तुमर्हसि । सूक्ष्मेण प्रतिकीलेन कीलं दार्वन्तरादिव ॥ १५.२९ ॥ वृद्ध्यवृद्ध्योरथ भवेच्चिन्ता ज्ञातिजनं प्रति । स्वभावो जीवलोकस्य परीक्ष्यस्तन्निवृत्तये ॥ १५.३० ॥ संसारे कृष्यमाणानां सत्त्वानां स्वेन कर्मणा । को जनः स्वजनः को वा मोहात्सक्तो जने जनः ॥ १५.३१ ॥ अतीतेऽध्वनि संवृत्तः स्वजनो हि जनस्तव । अप्राप्ते चाध्वनि जनः स्वजनस्ते भविष्यति ॥ १५.३२ ॥ विहगानां यथा सायं तत्र तत्र समागमः । जातौ जातौ तथाश्लेषो जनस्य स्वजनस्य च ॥ १५.३३ ॥ प्रतिश्रयं बहुविधं संश्रयन्ति यथाध्वगाः । प्रतियान्ति पुनस्त्यक्त्वा तद्वज्ज्ञातिसमागमः ॥ १५.३४ ॥ लोके प्रकृतिभिन्नेऽस्मिन्न कश्चित्कस्यचित्प्रियः । कार्यकारणसम्बद्धं वालुकामुष्टिवज्जगत् ॥ १५.३५ ॥ बिभर्ति हि सुतं माता धारयिष्यति मामिति । मातरं भजते पुत्रो गर्भेणाधत्त मामिति ॥ १५.३६ ॥ अनुकूलं प्रवर्तन्ते ज्ञातिषु ज्ञातयो यदा । तदा स्नेहं प्रकुर्वन्ति रिपुत्वं तु विपर्ययात् ॥ १५.३७ ॥ अहितो दृश्यते ज्ञातिरज्ञातिर्दृश्यते हितः । स्नेहं कार्यान्तराल्लोकाश्छिनत्ति च करोति च ॥ १५.३८ ॥ स्वयमेव यथालिख्य रज्येच्चित्रकरः स्त्रियम् । तथा कृत्वा स्वयं स्नेहं संगमेति जने जनः ॥ १५.३९ ॥ योऽभवद्बान्धवजनः परलोके प्रियस्तव । स ते कर्मथं कुरुते त्वं वा तस्मै करोषि कम् ॥ १५.४० ॥ तस्माज्ज्ञातिवितर्केण मनो नावेष्टुमर्हसि । व्यवस्था नास्ति संसारे स्वजनस्य जनस्य च ॥ १५.४१ ॥ असौ क्षेमो जनपदः सुभिक्षोऽसावसौ शिवः । इत्येवमथ जायेत वितर्कस्तव कश्चन ॥ १५.४२ ॥ प्रहेयः स त्वया सौम्य नाधिवास्यः कथंचन । विदित्वा सर्वमादीप्तं तैस्तैर्दोषाग्निभिर्जगत् ॥ १५.४३ ॥ ऋतुचक्रनिवर्ताच्च क्षुत्पिपासाक्लमादपि । सर्वत्र नियतं दुःखं न क्वचिद्विद्यते शिवम् ॥ १५.४४ ॥ क्वचिच्छीतं क्वचिद्धर्मः क्वचिद्रोगो भयं क्वचित् । बाधतेऽभ्यधिकं लोकं तस्मादशरणं जगत् ॥ १५.४५ ॥ जरा व्याधिश्च मृत्युश्च लोकस्यास्य महद्भयम् । नास्ति देशः स यत्रास्य तद्भयं नोपपद्यते ॥ १५.४६ ॥ यत्र गच्छति कायोऽयं दुःखं तत्रानुगच्छति । नास्ति काचिद्गतिर्लोके गतो यत्र न बाध्यते ॥ १५.४७ ॥ रमणीयोऽपि देशः सन् सुभिक्षः क्षेम एव च । कुदेश इति विज्ञेयो यत्र क्लेशैर्विदह्यते ॥ १५.४८ ॥ लोकस्याभ्याहतस्यास्य दुःखैः शारीरमानसैः । क्षेमः कश्चिन्न देशोऽस्ति स्वस्थो यत्र गतो भवेत् ॥ १५.४९ ॥ दुःखं सर्वत्र सर्वस्य वर्तते सर्वदा यदा । छन्दरागमतः सौम्य लोकचित्रेषु मा कृथाः ॥ १५.५० ॥ यदा तस्मान्निवृत्तस्ते छन्दरागो भविष्यति । जीवलोकं तदा सर्वमादीप्तमिव मंस्यसे ॥ १५.५१ ॥ अथ कश्चिद्वितर्कस्ते भवेदमरणाश्रयः । यत्नेन स विहन्तव्यो व्याधिरात्मगतो यथा ॥ १५.५२ ॥ मुहूर्तमपि विश्रम्भः कार्यों न खलु जीविते । निलीन इव हि व्याघ्रः कालो विश्वस्तघातकः ॥ १५.५३ ॥ बलस्थोऽहं युवा वेति न ते भवितुमर्हति । मृत्युः सर्वास्वस्थासु हन्ति नावेक्षते वयः ॥ १५.५४ ॥ क्षेत्रभूतमनर्थानां शरीरं परिकर्षतः । स्वास्थ्याशा जीविताशा वा न दृष्टार्थस्य जायते ॥ १५.५५ ॥ निर्वृत्तः को भवेत्कायं महाभूताश्रयं वहन् । परस्परविरुद्धानामहीनामिव भाजनम् ॥ १५.५६ ॥ प्रश्वसित्ययमन्वक्षं यदुच्छ्वसिति मानवः । अवगच्छ तदाश्चर्यमविश्वास्यं हि जीवितम् ॥ १५.५७ ॥ इदमाश्चर्यमपरं यत्सुप्तः प्रतिबुध्यते । स्वपित्युत्थाय वा भूयो बह्वमित्रा हि देहिनः ॥ १५.५८ ॥ गर्भात्प्रभृति यो लोकं जिघांसुरनुगच्छति । कस्तस्मिन् विश्वसेन्मृत्यावुद्यतासावराविव ॥ १५.५९ ॥ प्रसूतः पुरुषो लोके श्रुतवान् बलवानपि । न जयत्यन्तकं कश्चिन्नाजयन्नापि जेष्यति ॥ १५.६० ॥ साम्ना दानेन भेदेन दण्डेन नियमेन वा । प्राप्तो हि रभसो मृत्युः प्रतिहन्तुं न शक्यते ॥ १५.६१ ॥ तस्मान्नायुषि विश्वासं चञ्चले कर्तुमर्हसि । नित्यं हरति कालो हि स्थाविर्यं न प्रतीक्षते ॥ १५.६२ ॥ निःसारं पश्यतो लोकं तोयबुद्बुद्दुर्बलम् । कस्यामरवितर्को हि स्यादनुन्मत्तचेतसः ॥ १५.६३ ॥ तस्मादेषां वितर्काणां प्रहाणार्थं समासतः । आनापानस्मृतिं सौम्य विषयीकर्तुमर्हसि ॥ १५.६४ ॥ इत्यनेन प्रयोगेण काले सेवितुमर्हसि । प्रतिपक्षान् वितर्काणां गदानामगदानिव ॥ १५.६५ ॥ सुवर्णहेतोरपि पांसुधावकौ विहाय पांसून् बृहतो यथादितः । जहाति सूक्ष्मानपि तद्विशुद्धये विशोध्य हेमावयवान्नियच्छति ॥ १५.६६ ॥ विमोक्षहेतोरपि युक्तमानसो विहाय दोषान् बृहतस्तथादितः । जहाति सूक्ष्मानपि तद्विशुद्धये विशोध्य धर्मावयवान्नियच्छति ॥ १५.६७ ॥ क्रमेणाद्भिः शुद्धं कनकमिह पांसुव्यवहितं यथाग्नौ कर्मारः पचति भृशमावर्तयति च । तथा योगाचारो निपुणमिह दोषव्यवहितं विशोध्य क्लेशेभ्यः शमयति मनः संक्षिपति च ॥ १५.६८ ॥ यथा च स्वच्छन्दादुपनयति कर्माश्रयसुखं सुवर्णं कर्मारो बहुविधमलङ्कारविधिषु । मनःशुद्धो भिक्षुर्वशगतमभिज्ञास्वपि तथा यथेच्छं यत्रेच्छं शमयति मनः प्रेरयति च ॥ १५.६९ ॥ सौन्दरनन्द महाकाव्ये "वितर्कप्रहाण" नाम पञ्चदश सर्ग समाप्त । _____________________________________________________________________________ षोडशः सर्गः आर्यसत्य एवं मनोधारणया क्रमेण व्यपोह्य किञ्चित्समुपोह्य किञ्चित् । ध्यानानि चत्वार्यधिगम्य योगी प्राप्नोत्यभिज्ञा नियमेन पञ्च ॥ १६.१ ॥ ऋद्धिप्रवेकं च बहुप्रकारं परस्य चेतश्चरितावबोधम् । अतीतजन्मस्मरणं च दीर्घं दिव्ये विशुद्धे श्रुतिचक्षुषी च ॥ १६.२ ॥ अतः परं तत्त्वपरिक्षणेन मनो दधात्यास्रवसंक्षयाय । ततो हि दुःखप्रभृतीनि सम्यक्चत्वारि सत्यानि पदान्यवैति ॥ १६.३ ॥ बाधात्मकं दुःखमिदं प्रसक्तं दुःखस्य हेतुः प्रभवात्मकोऽयम् । दुःखक्षयो निःसरणात्मकोऽयं त्राणात्मकोऽयं प्रशमाय मार्गः ॥ १६.४ ॥ इत्यार्यसत्यान्यवबुध्य बुद्ध्या चत्वारि सम्यक्प्रतिविध्य चैव । सर्वास्रवान् भावनयाभिभूय न जायते शान्तिमवाप्य भूयः ॥ १६.५ ॥ अबोधतो ह्यप्रतिवेधतश्च तत्त्वात्मकस्यास्य चतुष्टस्य । भवाद्भवं याति न शन्तिमेति संसारदोलामधिरुह्य लोकः ॥ १६.६ ॥ तस्माज्जरादेर्व्यसनस्य मूलं समासतो दुःखमवैहि जन्म । सर्वौषधीनामिव भूर्भवाय सर्वापदां क्षेत्रमिदं हि जन्म ॥ १६.७ ॥ यज्जन्मरूपस्य हि सेन्द्रियस्य दुःखस्य तन्नैकविधस्य जन्म । यः संभवश्चास्य समुच्छ्रयस्य मृत्योश्च रोगस्य च संभवः सः ॥ १६.८ ॥ सद्वाप्यसद्वा विषमिश्रमन्नं यथा विनाशाय न धारणाय । लोके तथा तिर्यगुपर्यधो वा दुःखाय सर्वं न सुखाय जन्म ॥ १६.९ ॥ जरादयो नैकविधाः प्रजानां सत्यां प्रवृत्तौ प्रभवन्त्यनर्थाः । प्रवात्सु घोरेष्वपि मारुतेषु न ह्यप्रसूतास्तरवश्चलन्ति ॥ १६.१० ॥ आकाशयोनिः पवनो यथा हि यथा शमीगर्भशयो हुताशः । आपो यथान्तर्वसुधाशयाश्च दुःखं तथा चित्तशरीरयोनिः ॥ १६.११ ॥ अपां द्रवत्वं कठिनत्वमुर्व्या वायोश्चलत्वं ध्रुवमौष्ण्यमग्नेः । यथा स्वभावो हि तथा स्वभावो दुःखं शरीरस्य च चेतसश्च ॥ १६.१२ ॥ काये सति व्याधिजरादि दुःखं क्षुत्तर्षवर्षोष्णहिमादि चैव । रूपाश्रिते चेतसि सानुबन्धे शोकारतिक्रोधभयादि दुःखम् ॥ १६.१३ ॥ प्रत्यक्षमालोक्य च जन्मदुःखं दुःखं तथातीतमपीति विद्धि । यथा च तद्दुःखमिदं च दुःखं दुःखं तथानागतमप्यवेहि ॥ १६.१४ ॥ बीजस्वभावो हि यथेह दृष्टो भूतोऽपि भव्योऽपि तथानुमेयः । प्रत्यक्षतश्च ज्वलनो यथोष्णो भूतोऽपि भव्योऽपि तथोष्ण एव ॥ १६.१५ ॥ तन्नामरूपस्य गुणानुरूपं यत्रैव निर्वृत्तिरुदारवृत्त । तत्रैव दुःखं न हि तद्विमुक्तं दुःखं भविष्यत्यभवद्भवेद्वा ॥ १६.१६ ॥ प्रवृत्तिदुःखस्य च तस्य लोके तृष्णादयो दोषगणा निमित्तम् । नैवेश्वरो न प्रकृतिर्नं कालो नापो स्वभावो न विधिर्यदृच्छा ॥ १६.१७ ॥ ज्ञातव्यमेतेन च कारणेन लोकस्य दोषेभ्य इति प्रवृत्तिः । यस्मान्म्रियन्ते सरजस्तमस्का न जायते वीतरजस्तमस्कः ॥ १६.१८ ॥ इच्छाविशेषे सति तत्र तत्र यानासनादेर्भवति प्रयोगः । यस्मादतस्तर्षवशात्तथैव जन्म प्रजानामिति वेदितव्यम् ॥ १६.१९ ॥ सत्त्वान्यभिष्वङ्गवशानि दृष्ट्वा स्वजातिषु प्रीतिपराण्यतीव । अभ्यासयोगादुपपादितानि तैरेव दोषैरिति तानि विद्धि ॥ १६.२० ॥ क्रोधप्रहर्षादिभिराश्रयाणामुत्पद्यते चेह यथा विशेषः । तथैव जन्मस्वपि नैकरूपो निर्वर्तते क्लेशकृतो विशेषः ॥ १६.२१ ॥ दोषाधिके जन्मनि तीव्रदोष उत्पद्यते रागिणि तीव्ररागः । मोहाधिके मोहबलाधिकश्च तदल्पदोषे च तदल्पदोषः ॥ १६.२२ ॥ फलं हि यादृक्समवैति साक्षात्तदागमाद्बीजमवैत्यतीतम् । अवेत्य बीजप्रकृतिं च साक्षादनागतं तत्फलमभ्युपैति ॥ १६.२३ ॥ दोषक्षयो जातिषु यासु यस्य वैराग्यतस्तासु न जायते सः । दोषाशयस्तिष्ठति यस्य यत्र तस्योपपत्तिर्विवशस्य तत्र ॥ १६.२४ ॥ तज्जन्मनो नैकविधस्य सौम्य तृष्णादयो हेतव इत्यवेत्य । तांश्छिन्धि दुःखाद्यदि निर्मुमुक्षा कार्यक्षयः कारणसंक्षयाद्धि ॥ १६.२५ ॥ दुःखक्षयो हेतुपरिक्षयाच्च शान्तं शिवं साक्षिकुरुष्व धर्मम् । तृष्णाविरागं लयनं निरोधं सनातनं त्राणमहार्यमार्यम् ॥ १६.२६ ॥ यस्मिन्न जातिर्न जरा न मृत्युर्न व्याधयो नाप्रियसंप्रयोगः । नेच्छाविपन्न प्रियविप्रयोगः क्षेमं पदं नैष्ठिकमच्युतं तत् ॥ १६.२७ ॥ दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न कांचिद्विदिशं न कांचित्स्नेहक्षयात्केवलमेति शान्तिम् ॥ १६.२८ ॥ एवं कृती निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न कांचिद्विदिशं न कांचित्क्लेशक्षयात्केवलमेति शान्तिम् ॥ १६.२९ ॥ अस्याभ्युपायोऽधिगमाय मार्गः प्रज्ञात्रिकल्पः प्रशमद्विकल्पः । स भावनीयो विधिवद्बुधेन शीले शुचौ त्रिप्रमुखे स्थितेन ॥ १६.३० ॥ वाक्कर्म सम्यक्सहाकायकर्म यथावदाजीवनयश्च शुद्धः । इदं त्रयं वृत्तविधौ प्रवृत्तं शीलाश्रयं कर्मपरिग्रहाय ॥ १६.३१ ॥ सत्येषु दुःखादिषु दृष्टिरार्या सम्यग्वितर्कश्च पराक्रमश्च । इदं त्रयं ज्ञानविधौ प्रवृत्तं प्रज्ञाश्रयं क्लेशपरिक्षयाय ॥ १६.३२ ॥ न्यायेन सत्याधिगमाय युक्ता सम्यक्स्मृतिः सम्यगथो समाधिः । इदं द्वयं योगविधौ प्रवृत्तं शमाश्रयं चित्तपरिग्रहाय ॥ १६.३३ ॥ क्लेशांकुरान्न प्रतनोति शीलं बीजाङ्कुरान् काल इवातिवृत्तः । शुचौ हि शीले पुरुषस्य दोषा मनः सलज्जा इव धर्षयन्ति ॥ १६.३४ ॥ क्लेशांस्तु विष्कम्भयते समाधिर्वेगानिवाद्रिर्महतो नदीनाम् । स्थिते समाधौ हि न धर्षयन्ति दोषा भुजंगा इव मन्त्रबद्धाः ॥ १६.३५ ॥ प्रज्ञा त्वशेषेण निहन्ति दोषांस्तीरद्रुमान् प्रावृषि निम्नगेव । दग्धा यया न प्रभवन्ति दोषा वज्राग्निनेवानुसृतेन वृक्षाः ॥ १६.३६ ॥ त्रिस्कन्धमेतं प्रविगाह्य मार्गं प्रस्पष्टमष्टाङ्गमहार्यमार्यम् । दुःखस्य हेतून् प्रजहाति दोषान् प्राप्नोति चात्यन्तशिवं पदं तत् ॥ १६.३७ ॥ अस्योपचारे धृतिरार्जवं च ह्रीरप्रमादः प्रविविक्तता च । अल्पेच्छता तुष्टिरसंगता च लोकप्रवृत्तावरतिः क्षमा च ॥ १६.३८ ॥ याथात्म्यतो विन्दति यो हि दुःखं तस्योद्भवं तस्य च यो निरोधम् । आर्येण मार्गेण स शान्तिमेति कल्याणमित्रैः सह वर्तमानः ॥ १६.३९ ॥ यो व्याधितो व्याधिमवैति सम्यग्व्याधेर्निदानं च तदौषधं च । आरोग्यमाप्नोति हि सोऽचिरेण मित्रैरभिज्ञैरुपचर्यमाणः ॥ १६.४० ॥ तद्व्याधिसंज्ञां कुरु दुःखसत्ये दोषेष्वपि व्याधिनिदानसंज्ञाम् । आरोग्यंज्ञां च निरोधसत्ये भैषज्यसंज्ञामपि मार्गसत्ये ॥ १६.४१ ॥ तस्मात्प्रवृत्तिंपरिगच्छ दुःखं प्रवर्तकानप्यवगच्छ दोषान् । निवृत्तिमागच्छ च तन्निरोधं निवर्तकं चाप्यवगच्छ मार्गम् ॥ १६.४२ ॥ शिरस्यथो वाससि संप्रदीप्ते सत्यावबोधाय मतिविचार्या । दग्धं जगत्सत्यनयं ह्यदृष्ट्वा प्रदह्यते संप्रति धक्ष्यते च ॥ १६.४३ ॥ यदैव यः पश्यति नामरूपं क्षयीति तद्दर्शनमस्य सम्यक् । सम्यक्च निर्वेदमुपैति पश्यन्नन्दीक्षयाच्च क्षयमेति रागः ॥ १६.४४ ॥ तयोश्च नन्दीरजसोः क्षयेण सम्यग्विमुक्तं प्रवदामि चेतः । सम्यग्विमुक्तिर्मनसश्च ताभ्यां न चास्य भूयः करणीयमस्ति ॥ १६.४५ ॥ यथास्वभावेन हि नामरूपं तद्धेतुमेवास्तगमं च तस्य । विजानतः पस्यत एव चाहं ब्रवीमि सम्यक्क्षयमास्रवाणाम् ॥ १६.४६ ॥ तस्मात्परं सौम्य विधाय वीर्यं शीघ्रं घटस्वास्त्रवसंक्षयाय । दुःखाननित्यांश्च निरात्मकांश्च धातून् विशेषेण परीक्षमाणः ॥ १६.४७ ॥ धातून् हि षड्भूसलिलानलादीन् सामान्यतः स्वेन च लक्षणेन । अवैति यो नान्यमवैति तेभ्यः सोऽत्यन्तिकं मोक्षमवैति तेभ्यः ॥ १६.४८ ॥ क्लेशप्रहाणाय च निश्चितेन कालोऽभ्युपायस्श्च परीक्षितव्यः । योगोऽप्यकाले ह्यनुपायतश्च भवत्यनर्थाय न तद्गुणाय ॥ १६.४९ ॥ अजातवत्सां यदि गां दुहीत नैवाप्नुयात्क्षीरमकालदोही । कालेऽपि वा स्यान्न पयो लभेत मोहेन शृङ्गाद्यदि गां दुहीत ॥ १६.५० ॥ आर्द्राच्च काष्ठाज्ज्वलनाभिकामो नैव प्रयत्नादपि वह्निमृच्छेत् । काष्ठाच्च शुष्कादपि पातनेन नैवाग्निमाप्नोत्यनुपायपूर्वम् ॥ १६.५१ ॥ तद्देशकालौ विधिवत्परीक्ष्य योगस्य मात्रामपि चाभ्युपायम् । बलाबले चात्मनि संप्रधार्य कार्यः प्रयत्नो न तु तद्विरुद्धः ॥ १६.५२ ॥ प्रग्राहकं यत्तु निमित्तमुक्तमुद्धन्यमाने हृदि तन्न सेव्यम् । एवं हि चित्तं प्रशम न याति प्रवायुना वह्निरिवेर्यमाणः ॥ १६.५३ ॥ शमाय यत्स्यान्नियतं निमित्तं जातोद्धवे चेतसि तस्य कालः । एवं हि चित्तं प्रशमं नियच्छेत्प्रदीप्यमानोऽग्निरिवोदकेन ॥ १६.५४ ॥ शमावहं यन्नियतं निमित्तं सेव्यं न तच्चेतसि लीयमाने । एवं हि भूयो लयमेति चित्तमनीर्यमाणोऽग्निरिवाल्पसारः ॥ १६.५५ ॥ प्रग्राहकं यन्नियतं निमित्तं लयं गते चेतसि तस्य कालः । क्रियासमर्थं हि मनस्तथा स्यान्मन्दायमानोऽग्निरिवेन्धनेन ॥ १६.५६ ॥ औपेक्षिकं नापि निमित्तमिष्टं लयं गते चेतसि सोद्धवे वा । एवं हि तीव्रं जनयेदनर्थमुपेक्षितो व्याधिरिवातुरस्य ॥ १६.५७ ॥ यत्स्यादुपेक्षानियतं निमित्तं साम्यं गते चेतसि तस्य कालः । एवं हि कृत्याय भवेत्प्रयोगो रथो विधेयाश्व इव प्रयातः ॥ १६.५८ ॥ रागोद्धवव्याकुलितेऽपि चित्ते मैत्रोपसंहारविधिर्न कार्यः । रागात्मको मुह्यति मैत्रया हि स्नेहं कफक्षोभ इवोपयुज्य ॥ १६.५९ ॥ रागोद्धते चेतसि धैर्यमेत्य निषेवितव्यं त्वशुभं निमित्तम् । रागात्मको ह्येवमुपैति शर्म कफात्मको रूक्षमिवोपयुज्य ॥ १६.६० ॥ व्यापाददोषेण मनस्युदीर्णे न सेवितव्यं त्वशुभं निमित्तम् । द्वेषात्मकस्य ह्यशुभा वधाय पित्तात्मनस्तीक्ष्ण इवोपचारः ॥ १६.६१ ॥ व्यापाददोषक्षुभिते तु चित्ते सेव्या स्वपक्षोपनयेन मैत्री । द्वेषात्मनो हि प्रशमाय मैत्री पित्तात्मनः शीत इवोपचारः ॥ १६.६२ ॥ मोहानुबद्धे मनसः प्रचारे मैत्राशुभा वैव भवत्ययोगः । ताभ्यां हि संमोहमुपैति भूयो वाय्वात्मको रूक्षमिवोपनीय ॥ १६.६३ ॥ मोहात्मिकायां मनसः प्रवृत्तौ सेव्यस्त्विदम्प्रत्ययताविहारः । मूढे मनस्येष हि शान्तिमार्गो वाय्वात्मके स्निग्ध इवोपचारः ॥ १६.६४ ॥ उल्कामुखस्थं हि यथा सुवर्णं सुवर्णकारो धमतीह काले । काले परिप्रोक्षयते जलेन क्रमेण काले समुपेक्षते च ॥ १६.६५ ॥ दहेत्सुवर्णं हि धमन्नकाले जले क्षिपन् संशमेयेदकाले । न चापि सम्यक्परिपाकमेनं नयेदकाले समुपेक्षमाणः ॥ १६.६६ ॥ संप्रग्रहस्य प्रशमस्य चैव तथैव काले समुपेक्षणस्य । सम्यङ्निमित्तं मनसा त्ववेक्ष्यं नाशो हि यत्नोऽप्यनुपायपूर्वः ॥ १६.६७ ॥ इत्येवमन्यायनिवर्तनं च न्यायं च तस्मै सुगतो बभाषे । भूयश्च तत्तच्चरितं विदित्वा वितर्कहानाय विओधीनुवाच ॥ १६.६८ ॥ यथा भिषक्पित्तकफानिलानां य एव कोपं समुपैति दोषः । शमाय तस्यैव विधिं विधत्ते व्यधत्त दोषेषु तथैव बुद्धः ॥ १६.६९ ॥ एकेन कल्पेन सचेन्न हन्यात्स्वभ्यस्तभावादसुभान् वितर्कान् । ततो द्वितीयं क्रमामरभेत न त्वेव हेयो गुणवान् प्रयोगः ॥ १६.७० ॥ अनादिकालोपचितात्मकत्वाद्बलीयसः क्लेशगणस्य चैव । सम्यक्प्रयोगस्य च दुष्करत्वाच्छेत्तुं न शक्याः सहसा हि दोषाः ॥ १६.७१ ॥ अण्व्या यथाण्या विपुलाणिरन्या निर्वाह्यते तद्विदुषा नरेण । तद्वत्तदेवाकुशलं निमित्तं क्षिपेन्निमित्तान्तरसेवनेन ॥ १६.७२ ॥ तथाप्यथाध्यात्मनवग्रहत्वान्नैवोपशाम्येदशुभो वितर्कः । हेयः स तद्दोषपरीक्षणेन सश्वापदो मार्ग इवाध्वगेन ॥ १६.७३ ॥ यथा क्षुधार्तोऽपि विशेष पृक्तं जिजीविषुर्नेच्छति भोक्तुमन्नम् । तथैव दोषावहमित्यवेत्य जहाति विद्वानशुभं निमित्तम् ॥ १६.७४ ॥ न दोषतः पश्यति यो हि दोषं कस्तं ततो वारयितुं समर्थः । गुणं गुणे पश्यति यश्च यत्र स वार्यमाणोऽपि ततः प्रयाति ॥ १६.७५ ॥ व्यपत्रपन्ते हि कुलप्रसूता मनःप्रचारैरशुभैः प्रवृतैः । कण्ठे मनस्वीव युवा वपुष्मानचाक्षुषैरप्रयतैर्विषक्तैः ॥ १६.७६ ॥ निर्धूयमानास्त्वथ लेशतोऽपि तिष्ठेयुरेवाकुशला वितर्काः । कार्यान्तरैरध्ययनक्रियाद्यैः सेव्यो विधिर्विस्मरणाय तेषाम् ॥ १६.७७ ॥ स्वप्तव्यमप्येव विचक्षणेन कायक्लमो वापि निषेवितव्यः । न त्वेव संचिन्त्यमसन्निमित्तं यत्रावसक्तस्य भवेदनर्थः ॥ १६.७८ ॥ यथा हि भीतो निशि तस्करेभ्यो द्वारं प्रियेभ्योऽपि न दातुमिच्छेत् । प्राज्ञस्तथा संहरति प्रयोगं समं शुभस्याप्यशुभस्य दोषैः ॥ १६.७९ ॥ एवं प्रकारैरपि यद्युपायैर्निवार्यमाणा न पराङ्मुखाः स्युः । ततो यथाश्थूलनिवर्हणेन सुवर्णदोषा इव ते प्रहेयाः ॥ १६.८० ॥ द्रुतप्रयाणप्रभृतींश्च तीक्ष्णात्कामप्रयोगात्परिखिद्यमानः । यथा नरः संश्रयते तथैव प्राज्ञेन दोषेष्वपि वर्तितव्यम् ॥ १६.८१ ॥ ते चेदलब्धप्रतिपक्षभावा नैवोपशाम्येयुरसद्वितर्काः । मुहूर्तमप्यप्रतिवध्यमाना गृहे भुजंगा इव नाधिवास्याः ॥ १६.८२ ॥ दन्तेऽपि दन्तं प्रणिधाय कामं ताल्वग्रमुत्पीड्य च जिव्हयापि । चित्तेन चित्तं परिगृह्य चापि कार्यः प्रयत्नो न तु तेऽनुवृत्ताः ॥ १६.८३ ॥ किमत्र चित्रं यदि वीतमोहो वनं गतः स्वस्थमना न मुह्येत् । आक्षिप्यमाणो हृदि तन्निमित्तैर्न क्षोभ्यते यः स कृती स धीरः ॥ १६.८४ ॥ तदार्यसत्याधिगमाय पूर्वं विंशोधयानेन नयेन मार्गम् । यात्रागतः शत्रुविनिग्रहार्थं राजेव लक्ष्मीमजितां जिगीषन् ॥ १६.८५ ॥ एतान्यरण्यान्यभितः शिवानि योगानुकूलान्यजनेरितानि । कायस्य कृत्वा प्रविवेकमात्रं क्लेशप्रहाणाय भजस्व मार्गम् ॥ १६.८६ ॥ कौण्डिन्यनन्दकृमिलानिरुद्धास्तिष्योपसेनौ विमलोऽथ राधः । बाष्पोत्तरौ धौतकिमोहराजौ कात्यायनद्रव्यपिलिन्दवत्साः ॥ १६.८७ ॥ भद्दालिभद्रायणसर्पदाससुभूतिगोदत्तसुजातवत्साः । संग्रामजिद्भद्रजिदश्वजिच्च श्रोणश्च शोणश्च च कोटिकर्णः ॥ १६.८८ ॥ क्षेमाजितो नन्दकनन्दमातावुपालिवागीशयशोयशोदाः । महाव्हयो वल्कलिराष्ट्रपालौ सुदर्शनस्वागतमेधिकाश्च ॥ १६.८९ ॥ स कप्फिनः काश्यप औरुविल्वो महामहाकाश्यपतिष्यनन्दाः । पूर्णश्च पूर्णश्च स पूर्णकश्च शोनापरान्तश्च स पूर्ण एव ॥ १६.९० ॥ शारद्वतीपुत्रसुबाहुचुन्दाः कोन्देयकाप्यभृगुकुण्ठधानाः । सशैवलौ रेवतकौष्ठिलौ च मौद्गल्यगोत्रश्च गवांपतिश्च ॥ १६.९१ ॥ यं विक्रमं योगविधावकुर्वंस्तमेव शीघ्रं विधिवत्कुरुष्व । ततः पदं प्राप्स्यसि तैरवाप्तं सुखावृतैस्त्वं नियतं यशश्च ॥ १६.९२ ॥ द्रव्यं यथा स्यत्कटुकं रसेन तच्चोपयुक्तं मधुरं विपाके । तथैव वीर्यं कटुकं श्रमेण तस्यार्थ सिद्ध्यै मधुरो विपाकः ॥ १६.९३ ॥ वीर्यं परं कार्यकृतौ हि मूलं वीर्यादृते काचन नास्ति सिद्धिः । उदेति वीर्यादिह सर्वसंपन्निर्वीर्यता चेत्सकलश्च पाप्मा ॥ १६.९४ ॥ अलब्धस्यालाभो नियतमुपलब्धस्य विगमस् तथैवात्मावज्ञा कृपणमधिकेभ्यः परिभवः । तमो निस्तेजस्त्वं श्रुतिनियमतुष्टिव्युपरमो नृणां निर्वीर्याणां भवति विनिपातश्च भवति ॥ १६.९५ ॥ नयं श्रुत्वा शक्तो यदयमभिवृद्धिं न लभते परं धर्मं ज्ञात्वा यदुपरि निवासं न लभते । गृहं त्यक्त्वा मुक्तौ यदयमुपशान्तिं न लभते । निमित्तं कौसीद्यं भवति पुरुषस्यात्र न रिपुः ॥ १६.९६ ॥ अनिक्षिप्तोत्साहो यदि खनति गां वारि लभते । प्रसक्तं व्यामथ्नन् ज्वलनमरणिभ्यां जनयति । प्रयुक्ता योगे तु ध्रुवमुपलभन्ते श्रमफलं द्रुतं नित्यं यान्त्यो गिरिमपि हि भिन्दन्ति सरितः ॥ १६.९७ ॥ कृष्ट्वा गां परिपाल्य च श्रमशतैरश्नोति सस्यश्रियं यत्नेन प्रविगाह्य सागरजलं रत्नश्रिया क्रीडति । शत्रूणामवधूय वीर्यमिषुभिर्भुङ्क्ते नरेन्द्रश्रियं तद्वीर्यं कुरु शान्तये विनियतं वीर्ये हि सर्वर्द्धयः ॥ १६.९८ ॥ सौन्दरनन्द महाकाव्ये "आर्यसत्य" नाम षोडश सर्ग समाप्त । _____________________________________________________________________________ सप्तदशः सर्गः अमृतप्राप्ति अथैवमादेशिततत्त्वमार्गो नन्दस्तदा प्राप्तविमोक्षमार्गः । सर्वेण भावेन गुरौ प्रणम्य क्लेशप्रहाणाय वनं जगाम ॥ १७.१ ॥ तत्रावकाशं मृदुनीलशष्पं ददर्श शान्तं तरुषण्डवन्तम् । निःशब्दया निम्नगयोपगूढं वैडूर्यनीलोदकया वहन्त्या ॥ १७.२ ॥ स पादयोस्तत्र विधाय शौचं शुचौ शिवे श्रीमति वृक्षमूले । मोक्षाय बद्ध्वा व्यवसायकक्षां पर्यङ्कमङ्कावहितं बबन्ध ॥ १७.३ ॥ ऋजुं समग्रं प्रणिधाय कायं काये स्मृतिं चाभिमुखीं विधाय । सर्वेन्द्रियाण्यात्मनि संनिधाय स तत्र योगं प्रयतः प्रपेदे ॥ १७.४ ॥ ततः स तत्त्वं निखिलं चिकीर्षुर्मोक्षानुकूलांश्च विधींश्चिकीर्षन् । ज्ञानेन शीलेन शमेन चैव चचार चेतः परिकर्मभूमौ ॥ १७.५ ॥ संधाय धैर्यं प्रणिधाय वीर्यं व्यपोह्य सक्तिं परिगृह्य शक्तिम् । प्रशान्तचेता नियमस्थचेताः स्वस्थस्ततोभूद्विषयेष्वनास्थः ॥ १७.६ ॥ आतप्तबुद्धेः प्रहितात्मनोऽपि स्वभ्यस्तभावादथ कामसंज्ञा । पर्याकुलं तस्य मनश्चकार प्रावृट्सु विद्युज्जलमागतेव ॥ १७.७ ॥ स पर्यवस्थानमवेत्य सद्यश्चिक्षेप तां धर्मविघातकर्त्रीम् । प्रियामपि क्रोधपरीतचेता नारीमिवोद्वृत्तगुणां मनस्वी ॥ १७.८ ॥ आरब्धवीर्यस्य मनःशमाय भूयस्तु तस्याकुशलो वितर्कः । व्याधिप्रणाशाय निविष्टवुद्धेरुपद्रवो घोर इवाजगाम ॥ १७.९ ॥ स तद्विघाताय निमित्तमन्यद्योगानुकूलं कुशलं प्रपेदे । आर्तायनं क्षीणबलो बलस्थं निरस्यमानो बलिनारिणेव ॥ १७.१० ॥ पुरं विधायानुविधाय दण्डं मित्राणि संगृह्य रिपून् विगृह्य । राजा यथाप्नोति हि गामपूर्वां नीतिर्मुमुक्षोरपि सैव योगे ॥ १७.११ ॥ विमोक्षकामस्य हि योगिनोऽपि मनः पुरं ज्ञानविधिश्च दण्डः । गुणाश्च मित्राण्यरयश्च दोषा भूमिर्विमुक्तिर्यतते यदर्थम् ॥ १७.१२ ॥ स दुःखजालान्महतो मुमुक्षुर्विमोक्षमार्गाधिगमे विविक्षुः । पन्थान्मार्यं परमं दिदृक्षुः शमं ययौ किंचिदुपात्तचक्षुः ॥ १७.१३ ॥ यः स्यान्निकेतस्तमसोऽनिकेतः श्रुत्वापि तत्त्वं स भवेत्प्रमत्तः । यस्मात्तु मोक्षाय स पात्रभूतस्तस्मान्मनः स्वात्मनि संजहार ॥ १७.१४ ॥ सम्भारतः प्रत्ययतः स्वभावादास्वादतो दोषविशेषतश्च । अथात्मवान्निःसरणात्मतश्च धर्मेषु चक्रे विधिवत्परीक्षाम् ॥ १७.१५ ॥ स रूपिणं कृत्स्नमरूपिणं च सारं दिदृक्षुर्विचिकाय कायम् । अथाशुचिं दुःखमनित्यमस्वं निरात्मकं चैव चिकाय कायम् ॥ १७.१६ ॥ अनित्यतस्तत्र हि शून्यतश्च निरात्मतो दुःखत एव चापि । मार्गप्रवेकेण स लौकिकेन क्लेशद्रुमं संचलयांचकार ॥ १७.१७ ॥ यस्मादभूत्वा भवतीह सर्वं भुत्वा च भूयो न भवत्यवश्यम् । सहेतुकं च क्षयि हेतुमच्च तस्मादनित्यं जगदित्यविन्दत् ॥ १७.१८ ॥ यतः प्रसूतस्य च कर्मयोगः प्रसज्यते बन्धविघातहेतुः । दुःखप्रतीकारविधौ सुखाख्ये ततो भवं दुःखमिति व्यपश्यत् ॥ १७.१९ ॥ यतश्च संस्कारगतं विविक्तं न कारकः कश्चन वेदको वा । समग्र्यतः संभवति प्रवृत्तिः शून्यं ततो लोकमिमं ददर्श ॥ १७.२० ॥ यस्मान्निरीहं जगदस्वतन्त्रं नैश्वर्यमेकः कुरुते क्रियासु । तत्तत्प्रतीत्य प्रभवन्ति भावा निरात्मकं तेन विवेद लोकम् ॥ १७.२१ ॥ ततः स वातं व्यजनादिवोष्णे काष्ठाश्रितं निर्मथनादिवाग्निम् । अन्तःक्षितिस्थं खननादिवाम्भो लोकोत्तरं वर्त्म दुरापमाप ॥ १७.२२ ॥ सज्ज्ञानचापः स्मृतिवर्म बद्ध्वा विशुद्धशीलव्रतवाहनस्थः । क्लेशारिभिश्चित्तरणाजिरस्थैः सार्धं युयुत्सुर्विजयाय तस्थौ ॥ १७.२३ ॥ ततः स बोध्यङ्गशितात्तशस्त्रः सम्यक्प्रधानोत्तमवाहनस्थः । मार्गाङ्गमातङ्गवता बलेन शनैः शनैः क्लेशचमूं जगाहे ॥ १७.२४ ॥ स स्मृत्युपस्थानमयैः पृषत्कैः शत्रून् विपर्यासमयान् क्षणेन । दुःखस्य हेतूंश्चतुरश्चतुर्भिः स्वैः स्वैः प्रचारायतनैर्ददार ॥ १७.२५ ॥ आर्यैर्बलैः पञ्चभिरेव पञ्च चेतःखिलान्यप्रतिमैर्बभञ्ज । मिथ्याङ्गनागांश्च तथाङ्गनागैर्विनिर्दुधावाष्टभिरेव सोऽष्टौ ॥ १७.२६ ॥ अथात्मदृष्टिं सकलां विधूय चतुर्षु सत्येष्वकथंकथः सन् । विशुद्धशीलव्रतदृष्टधर्मा धर्मस्य पूर्वां फलभूमिमाप ॥ १७.२७ ॥ स दर्शनादार्यचतुष्टयस्य क्लेशैकदेशस्य च विप्रयोगात् । प्रत्यात्मिकाच्चापि विशेषलाभात्प्रत्यक्षतो ज्ञानिसुखस्य चैव ॥ १७.२८ ॥ दार्ढ्यात्प्रसादस्य धृतेः स्थिरत्वात्सत्येष्वसंमूढतया चतुर्षु । शीलस्य चाच्छिद्रतयोत्तमस्य निःसंशयो धर्मविधौ बभूव ॥ १७.२९ ॥ कुदृष्टिजालेन स विप्रयुक्तो लोकं तथाभूतमवेक्षमाणः । ज्ञानाश्रयां प्रीतिमुपाजगाम भूयः प्रसादं च गुरावियाय ॥ १७.३० ॥ यो हि प्रवृत्तिं नियतामवैति निवान्यहेतोरिह नाप्यहेतोः । प्रतीत्य तत्तत्समवैति तत्तत्स नैष्ठिकं पश्यति धर्ममार्यम् ॥ १७.३१ ॥ शान्तं शिवं निर्जरसं विरागं निःश्रेयसं पश्यति यश्च धर्मम् । तस्योपदेष्टारमथार्यवर्यं स प्रेक्षते बुद्धमवाप्तचक्षुः ॥ १७.३२ ॥ यथोपदेशेन शिवेन मुक्तो रोगादरोगो भिषजं कृतज्ञः । अनुस्मरन् पश्यति चित्तदृष्ट्या मैत्र्या च शास्त्रज्ञतया च तुष्टः ॥ १७.३३ ॥ आर्येण मार्गेण तथैव मुक्तस्तथागतं तत्त्वविदार्यतत्त्वः । अनुस्मरन् पश्यति कायसाक्षी मैत्र्या च सर्वज्ञतया त तुष्टः ॥ १७.३४ ॥ स नाशकैर्दृष्टिगतैर्विमुक्तः पर्यन्तमालोक्य पुनर्भवस्य । भक्त्वा घृणां क्लेशविजृम्भितेषु मृत्योर्न तत्रास न दुर्गतिभ्यः ॥ १७.३५ ॥ त्वक्स्नायुमेदोरुधिरास्थिमांसकेशादिनामेध्यगणेन पूर्णम् । ततः स कायं समवेक्षमाणः सारं विचिन्त्याण्वपि नोपलेभे ॥ १७.३६ ॥ स कामरागप्रतिघौ स्थिरात्मा तेनैव योगेन तनू चकार । कृत्वा महोरस्कतनुस्तनू तौ प्राप द्वितीयं फलमार्यधर्मे ॥ १७.३७ ॥ स लोभचापं परिकल्पबाणं रागं महावैरिणमल्पशेषम् । कायस्वभावाधिगतौर्बिभेद योगायुधास्त्रैरशुभापृषत्कैः ॥ १७.३८ ॥ द्वेषायुधं क्रोधविकीर्णबाणं व्यापादमन्तःप्रसवं सपत्नम् । मैत्रीपृषत्कैर्धृतितूणसंस्थैः क्षमाधनुर्ज्याविसृतैर्जघान ॥ १७.३९ ॥ मूलान्यथ त्रीण्यशुभस्य वीरस्त्रिभिर्विमोक्षायतनैश्चकर्त । चमूमुखस्थान् धृतकार्मुकांस्त्रीनरीनिवारिस्त्रिभिरायसाग्रैः ॥ १७.४० ॥ स कामधातोः समतिक्रमाय पार्ष्णिग्रहांस्तानभिभूय शत्रून् । योगादनागामिफलं प्रपद्य द्वारीव निर्वाणपुरस्य तस्थौ ॥ १७.४१ ॥ कामैर्विविक्तं मलिनैश्च धर्मैर्वितर्कवच्चापि विचारवच्च । विवेकजं प्रीतिसुखोपपन्नं ध्यानं ततः स प्रथमं प्रपेदे ॥ १७.४२ ॥ कामाग्निदाहेन स विप्रमुक्तो ल्हादं परं ध्यानसुखादवाप । सुखं विगाह्याप्स्विव धर्मखिन्नः प्राप्येव चार्थ विपुलं दरिद्रः ॥ १७.४३ ॥ तत्रापि तद्धर्मगतान् वितर्कान् गुणागुणे च प्रसृतान् विचारान् । बुद्ध्वा मनःक्षोभकरानशान्तांस्तद्विप्रयोगाय मतिं चकार ॥ १७.४४ ॥ क्षोभं प्रकुर्वन्ति यथोर्मयो हि धीरप्रसन्नाम्बुवहस्य सिन्धोः । एकाग्रभूतस्य तथोर्मिभूताश्चित्ताम्भसः क्षोभकरा वितर्काः ॥ १७.४५ ॥ खिन्नस्य सुप्तस्य च निर्वृतस्य बाधं यथा संजनयन्ति शब्दाः । अद्यात्ममैकाग्र्यमुपागतस्य भवन्ति बाधाय तथा वितर्काः ॥ १७.४६ ॥ अथावितर्कं क्रमशोऽविचारमेकाग्रभावान्मनसः प्रसन्नम् । समाधिजं प्रीतिसुखं द्वितीयं ध्यानं तदाध्यात्मशिवं स दध्यौ ॥ १७.४७ ॥ तद्ध्यानमागम्य च चित्तमौनं लेभे परां प्रीतिमलब्धपूर्वाम् । प्रीतौ तु तत्रापि स दोषदर्शी यथा वितर्केष्वभवत्तथैव ॥ १७.४८ ॥ प्रीतिः परा वस्तुनि यत्र यस्य विपर्ययात्तस्य हि तत्र दुःखम् । प्रीतावतः प्रेक्ष्य स तत्र दोषान् प्रीतिक्षये योगमुपारुरोह ॥ १७.४९ ॥ प्रीतेर्विरागात्सुखमार्यजुष्टं कायेन विन्दन्नथ संप्रजानन् । उपेक्षकः स स्मृतिमान् व्यहार्षिद्ध्यानं तृतीयं प्रतिलभ्य धीरः ॥ १७.५० ॥ यस्मात्परं तत्र सुखं सुखेभ्यस्ततः परं नास्ति सुखप्रवृत्तिः । तस्माद्बभाषे शुभकृत्स्नभूमिः परापरज्ञः परमेति मैत्र्या ॥ १७.५१ ॥ ध्यानेऽपि तत्राथ ददर्श दोषं मेने परं शान्तमनिञ्जमेव । आभोगतोऽपीञ्जयति स्म तस्य चित्तं प्रवृत्तं सुखमित्यस्रम् ॥ १७.५२ ॥ यत्रेञ्जितं स्पन्दितमस्ति तत्र यत्रास्ति च स्पन्दितमस्ति दुःखम् । यस्मादतस्तत्सुखमिञ्जकत्वात्प्रशान्तिकामा यतयस्त्यजन्ति ॥ १७.५३ ॥ अथ प्रहाणात्सुखदुःखयोश्च मनोविकारस्य च पूर्वमेव । दध्यावुपेक्षास्मृतिमद्विशुद्धं ध्यानं तथादुःखसुखं चतुर्थम् ॥ १७.५४ ॥ यस्मात्तु तस्मिन्न सुखं न दुःखं ज्ञानं च तत्रास्ति तदर्थचारि । तस्मादुपेक्षास्मृतिपारिशुद्धिर्निरुच्यते ध्यानविधौ चतुर्थे ॥ १७.५५ ॥ ध्यानं स निश्रित्य ततश्चतुर्थमर्हत्त्वलाभाय मतिं चकार । संधाय मित्रं बलवन्तमार्यं राजेव देशानजितान् जिगीषुः ॥ १७.५६ ॥ चिच्छेद कार्त्स्न्येन ततः स पञ्च प्रज्ञासिना भावनयेरितेन । ऊर्ध्वङ्गमान्युत्तमबन्धनानि संयोजनान्युत्तमबन्धनानि ॥ १७.५७ ॥ बोध्यङ्गनागैरपि सप्तभिः स सप्तैव चित्तानुशयान्ममर्द । द्विपानिवोपस्थितविप्रणाशान् कालो ग्रहैः सप्तभिरेव सप्त ॥ १७.५८ ॥ अग्निद्रुमाज्याम्बुषु या हि वृत्तिः कबन्धवाय्वग्निदिवाकराणाम् । दोषेषु तां वृत्तिमियाय नन्दो निर्वापणोत्पाटनदाहशोषैः ॥ १७.५९ ॥ इति त्रिवेगं त्रिझषं त्रिविचमेकाम्भसं पञ्चरयं द्विकूलम् । द्विग्राहमष्टाङ्गवता प्लवेन दुःखार्णवं दुस्तरमुत्ततार ॥ १७.६० ॥ अर्हत्त्वमासाद्य स सत्क्रियार्हो निरुत्सुको निष्प्रणयो निराशः । विभीर्विशुग्वीतमदो विरागः स एव धृत्यान्य इवाबभासे ॥ १७.६१ ॥ भ्रातुश्च शास्तुश्च तयानुशिष्ट्या नन्दस्ततः स्वेन च विक्रमेण । प्रशान्तचेताः परिपूर्णकार्यो वाणीमिमामात्मगतां जगाद ॥ १७.६२ ॥ नमोऽस्तु तस्मै सुगताय येन हितैषिणा मे करुणात्मकेन । बहूनि दुःखान्यपवर्तितानि सुखानि भूयांस्युपसंहृतानि ॥ १७.६३ ॥ अहं ह्यनार्येण शरीरजेन दुःखात्मके वर्त्मनि कृष्यमाणः । निवर्तितस्तद्वचनाङ्कुशेन दर्पान्वितो नाग इवाङ्कुशेन ॥ १७.६४ ॥ तस्याज्ञया कारुणिकस्य शास्तुर्हृदिस्थमुत्पाट्य हि रागशल्यम् । अद्यैव तावत्सुमहत्सुखं मे सर्वक्षये किंबत निर्वृतस्य ॥ १७.६५ ॥ निर्वाप्य कामाग्निमहं हि दीप्तं धृत्यम्बुना पावकमम्बुनेव । ह्लादं परं सांप्रतमागतोऽस्मि शीतं ह्रदं घर्म इवावतीर्णः ॥ १७.६६ ॥ न मे प्रियं किंचन नाप्रियं मे न मेऽनुरोधोऽस्ति कुतो विरोधः । तयोरभावात्सुखितोऽस्मि सद्यो हिमातपाभ्यामिव विप्रमुक्तः ॥ १७.६७ ॥ महाभयात्क्षेममिवोपलभ्य महावरोधादिव विप्रमोक्षम् । महार्णवात्पारमिवाप्लवः सन् भीमान्धकारादिव च प्रकाशम् ॥ १७.६८ ॥ रोगादिवारोग्यमसह्यरूपादृणादिवानृण्यमनन्तसंख्यात् । द्विषत्सकाशादिव चापयानं दुर्भिक्षयोगाच्च यथा सुभिक्षम् ॥ १७.६९ ॥ तद्वत्परां शान्तिमुपागतोऽहं यस्यानुभावेन विनायकस्य । करोमि भूयः पुनरुक्तमस्मै नमो नमोऽर्हाय तथागताय ॥ १७.७० ॥ येनाहं गिरिमुपनीय रूक्मशृङ्गं स्वर्गं च प्लवगवधूनिदर्शनेन । कामात्मा त्रिदिवचरीभिरङ्गनाभिर्निष्कृष्टो युवतिमये कलौ निमग्नः ॥ १७.७१ ॥ तस्माच्च व्यसनपरादनर्थपङ्कादुत्कृष्य क्रमशिथिलः करीव पङ्कात् । शान्तेऽस्मिन् विरजसि विज्वरे विशोके सद्धर्मे वितमसि नैष्ठिके विमुक्तः ॥ १७.७२ ॥ तं वन्दे परमनुकम्पकं महर्षि मूर्ध्नाहं प्रकृतिगुणज्ञमाशयज्ञम् । संबुद्धं दशबलिनं भिषक्प्रधानं त्रातारं पुनरपि चास्मि संनतस्तम् ॥ १७.७३ ॥ सौन्दरनन्द महाकाव्य में "अमृतप्राप्ति" नामक सप्तदश सर्ग समाप्त । _____________________________________________________________________________ अष्टादशः सर्गः आज्ञाव्याकरण अथ द्विजो बाल इवाप्तवेदः क्षिप्रं वणिक्प्राप्त इवाप्तलाभः । जित्वा च राजन्य इवारिसैन्यं नन्दः कृतार्थो गुरुमभ्यगच्छत् ॥ १८.१ ॥ द्रष्टुं सुखं ज्ञानसमाप्तिकाले गुरुर्हि शिष्यस्य गुरोश्च शिष्यः । परिश्रमस्ते सफलो मयीति यतो दिदृक्षास्य मुनौ बभूव ॥ १८.२ ॥ यतो हि येनाधिगतो विशेषस्तस्योत्तमांसोऽर्हति कर्तुमीड्याम् । आर्यः सरागोऽपि कृतज्ञभावात्प्रक्षीणमानः किमु वीतरागः ॥ १८.३ ॥ यस्यार्थकामप्रभवा हि भक्तिस्ततोऽस्य सा तिष्ठति रूढमूला । धर्मान्वयो यस्य तु भक्तिरागस्तस्य प्रसादो हृदयावगाढः ॥ १८.४ ॥ काषायवासाः कनकावदातस्ततः स मूर्ध्ना गुरवे प्रणेमे । वातेरितः पल्लवताम्ररागः पुष्पोज्ज्वलश्रीरिव कर्णिकारः ॥ १८.५ ॥ अथात्मनः शिष्यगुणस्य चैव महामुनेः शास्तृगुणस्य चैव । संदर्शनार्थं स न मानहेतोः स्वां कार्यसिद्धिं कथयाम्बभूव ॥ १८.६ ॥ यो दृष्टिशल्यो हृदयावगाढः प्रभो भृशं मामतुदत्सुतीक्ष्णः । त्वद्वाक्यसंदंशमुखेन मे स समुद्धृतः शल्यहृतेव शल्यः ॥ १८.७ ॥ कथंकथाभावगतोस्मि येन छिन्नः स निःसंशय संशयो मे । त्वच्छासनात्सत्पथमागतोऽस्मि सुदेशिकस्येव पथि प्रनष्टः ॥ १८.८ ॥ यत्पीतमास्वादवशेन्द्रियेण दर्पेण कन्दर्पविषं मयासीत् । तन्मे हतं त्वद्वचनागदेन विषं विनाशीव महागदेन ॥ १८.९ ॥ क्षयं गतं जन्म निरस्तजन्मन् सद्धर्मचर्यामुषितोऽस्मि सम्यक् । कृत्स्नं कृतं मे कृतकार्य कार्यं लोकेषु भूतोऽस्मि न लोकधर्मा ॥ १८.१० ॥ मैत्रीस्तनीं व्यञ्जनचारुसास्नां सद्धर्मदुग्धां प्रतिभानशृङ्गाम् । तवास्मि गां साधु निपीय तृप्तस्तृषेव गामुत्तम वत्सवर्णः ॥ १८.११ ॥ यत्पश्यतश्चाधिगमो ममायं तन्मे समासेन मुने निबोध । सर्वज्ञ कामं विदितं तवैतत्स्वं तूपचारं प्रविवक्षुरस्मि ॥ १८.१२ ॥ अन्येऽपि सन्तो विमुमुक्षवो हि श्रुत्वा विमोक्षाय नयं परस्य । मुक्तस्य रोगादिव रोगवन्तस्तेनैव मार्गेण सुखं घटन्ते ॥ १८.१३ ॥ उर्व्यादिकान् जन्मनि वेदिम धातुन्नात्मानमुर्व्यादिषु तेषु किञ्चित् । यस्मादतस्तेषु न मेऽस्ति सक्तिर्बहिश्च कायेन समा मतिर्मे ॥ १८.१४ ॥ स्कन्धांश्च रूपप्रभृतीन् दशार्धान् पश्यामि यस्माच्चपलानसारान् । अनात्मकांश्चैव वधात्मकांश्च तस्माद्विमुक्तोऽस्म्यशिवेभ्य एभ्यः ॥ १८.१५ ॥ यस्माच्च पश्याम्युदयं व्ययं च सर्वास्ववस्थास्वहमिन्द्रियाणाम् । तस्मादनित्येषु निरात्मकेषु दुःखेषु मे तेष्वपि नास्ति संगः ॥ १८.१६ ॥ यतश्च लोकं समजन्मनिष्ठं पश्यामि निःसारमसच्च सर्वम् । अतो धिया मे मनसा विबद्धमस्मीति मे नेञ्जितमस्ति येन ॥ १८.१७ ॥ चतुर्विधे नैकविधप्रसङ्गे यतोऽहमाहारविधावसक्तः । अमूर्च्छितश्चाग्रथितश्च तत्र त्रिभ्यो विमुक्तोऽस्मि ततो भवेभ्यः ॥ १८.१८ ॥ अनिश्चितश्चाप्रतिबद्धचित्तो दृष्टश्रुतादौ व्यवहारधर्मे । यस्मात्समात्मानुगतश्च तत्र तस्माद्विसंयोगगतोऽस्मि मुक्तः ॥ १८.१९ ॥ इत्येवमुक्त्वा गुरुबाहुमान्यात्सर्वेण कायेन स गां निपन्नः । प्रवेरितो लोहितचन्दनाक्तो हैमो महास्तम्भ इवाबभासे ॥ १८.२० ॥ ततः प्रमादत्प्रसृतस्य पूर्वं श्रुवा धृतिं व्याकरणं च तस्य । धर्मान्वयं चानुगतं प्रसादं मेघस्वरस्तं मुनिराबभाषे ॥ १८.२१ ॥ उत्तिष्ठ धर्मे स्थित शिष्यजुष्टे किं पादयोर्मे पतितोऽसि मुर्ध्ना । अभ्यर्चनं मे न तथा प्रणामो धर्मे यथैषा प्रतिपत्तिरेव ॥ १८.२२ ॥ अद्यासि सुप्रव्रजितो जितात्मन्नैश्वर्यमप्यात्मनि येन लब्धम् । जितात्मनः प्रव्रजनं हि साधु चलात्मनो न त्वजितेन्द्रियस्य ॥ १८.२३ ॥ अद्यासि शौचेन परेण युक्तो वाक्कायचेतांसि शुचीनि यत्ते । अतः पुनश्चाप्रयतापसौम्यां यत्सौम्य नो वेक्ष्यसि गर्भशय्याम् ॥ १८.२४ ॥ अद्यार्थवत्ते श्रुतवच्छ्रुतं तच्छ्रुतानुरूपं प्रतिपद्य धर्मम् । कृतश्रुतो विप्रतिपद्यमानो निन्द्यो हि निर्वीर्य इवात्तशस्त्रः ॥ १८.२५ ॥ अहो धृतिस्तेऽविषयात्मकस्य यत्त्वं मतिं मोक्षविधावकार्षीः । यास्यामि निष्ठामिति बालिशो हि जन्मक्षयात्त्रासमिहाभ्युपैति ॥ १८.२६ ॥ दिष्ट्या दुरापः क्षणसंनिपातो नायं कृतो मोहवशेन मोघः । उदेति दुःखेन गतो ह्यधस्तात्कूर्मो युगच्छिद्र इवार्णवस्थः ॥ १८.२७ ॥ निर्जित्य मारं युधि दुर्निवारमद्यासि लोके रणशीर्षशूरः । शूरोऽप्यशूरः स हि वेदितव्यो दोषैरमित्रैरिव हन्यते यः ॥ १८.२८ ॥ निर्वाप्य रागाग्निमुदीर्णमद्य दिष्ट्या सुखं स्वप्स्यसि वीतदाहः । दुःखं हि शेते शयनेऽप्युदारे क्लेशाग्निना चेतसि दह्यमानः ॥ १८.२९ ॥ अभ्युच्छ्रितो द्रव्यमदेन पूर्वमद्यासि तृष्णोपरमात्समृद्धः । यावत्सतर्षः पुरुषो हि लोके तावत्समृद्धोऽपि सदा दरिद्रः ॥ १८.३० ॥ अद्यापदेष्टुं तव युक्तरूपं शुद्धोदनो मे नृपतिः पितेति । भ्रष्टस्य धर्मात्पितृभिर्निपातादश्लाघनीयो हि कुलापदेशः ॥ १८.३१ ॥ दिष्ट्यासि शान्तिं परमामुपेतो निस्तीर्णकान्तार इवाप्तसारः । सर्वो हि संसारगतो भयार्तो यथैव कान्तारगतस्तथैव ॥ १८.३२ ॥ आरण्यकं भैक्षचरं विनीतं द्रक्ष्यामि नन्दं निभृतं कदेति । आसीत्पुरस्तात्त्वयि मे दिदृक्षा तथासि दिष्ट्या मम दर्शनीयः ॥ १८.३३ ॥ भवत्यरूपोऽपि हि दर्शनीयः स्वलंकृतः श्रेष्ठतमैगुर्णैः स्वैः । दोषैः परीतो मलिनीकरैस्तु सुदर्शनीयोऽपि विरूप एव ॥ १८.३४ ॥ अद्य प्रकृष्टा तव बुद्धिमत्ता कृत्स्नं यया ते कृतमात्मकार्यम् । श्रुतोन्नतस्यापि हि नास्ति बुद्धिर्नोत्पद्यते श्रेयसि यस्य बुद्धिः ॥ १८.३५ ॥ उन्मीलितस्यापि जनस्य मध्ये निमीलितस्यापि तथैव चक्षुः । प्रज्ञामयं यस्य हि नास्ति चक्षुश्चक्षुर्न तस्यास्ति सचक्षुषोऽपि ॥ १८.३६ ॥ दुःखप्रतीकारनिमित्तमार्तः कृष्यादिभिः खेदमुपैति लोकः । अजस्रमागच्छति तच्च भूयो ज्ञानेन यस्याद्य कृतस्त्वयान्तः ॥ १८.३७ ॥ दुःखं न मे स्यात्सुखमेव मे स्यादिति प्रवृत्तः सततं हि लोकः । न वेत्ति तच्चैव तथा यथा स्यात्प्राप्तं त्वयाद्यासुलभं यथावत् ॥ १८.३८ ॥ इत्येवमादि स्थिरबुद्धिचित्तस्तथागतेनाभिहितो हिताय । स्तवेषु निन्दासु च निर्व्यपेक्षः कृताञ्जलिर्वाक्यमुवाच नन्दः ॥ १८.३९ ॥ अहो विशेषेण विशेषदर्शिन् स्त्वयानुकम्पा मयि दर्शितेयम् । यत्कामपङ्के भगवन्निमग्नस्त्रातोऽस्मि संसारभयादकामः ॥ १८.४० ॥ भ्रात्रा त्वया श्रेयसि दैशिकेन पित्रा फलस्थेन तथैव मात्रा । हतोऽभविष्यं यदि न व्यमोक्ष्यं सार्थात्परिभ्रष्ट इवाकृतार्थः ॥ १८.४१ ॥ शान्तस्य तुष्टस्य सुखो विवेको विज्ञाततत्त्वस्व परीक्षकस्य । प्रहीणमानस्य च निर्मदस्य सुखं विरागत्वमसक्तबुद्धेः ॥ १८.४२ ॥ अथो हि तत्त्वं परिगम्य सम्यङ्निर्धूय दोषानधिगम्य शान्तिम् । स्वं नाश्रमं सम्प्रति चिन्तयामि न तं जनं नाप्सरसो न देवान् ॥ १८.४३ ॥ इदं हि भुक्त्वा शुचि शामिकं सुखं न मे मनः कांक्षति कामजं सुखम् । महार्हमप्यन्नमदैवताहृतं दिवौकसो भुक्तवतः सुधामिव ॥ १८.४४ ॥ अहोऽन्धविज्ञाननिमीलितं जगत्पटान्तरे पश्यति नोत्तमं सुखम् । सुधीरमध्यत्मसुखं व्यपास्य हि श्रमं तथा कामसुखार्थमृच्छति ॥ १८.४५ ॥ यथा हि रत्नाकरमेत्य दुर्मतिर्विहाय रत्नान्यसतो मणीन् हरेत् । अपास्य संबोधिसुखं तथोत्तमं श्रमं व्रजेत्कामसुखोपलब्धये ॥ १८.४६ ॥ अहो हि सत्त्वेष्वतिमैत्रचेतसस्तथागतस्यानुजिघृक्षुता परा । अपास्य यद्ध्यानसुखं मुने परं परस्य दुःखोपरमाय खिद्यसे ॥ १८.४७ ॥ मया नु शक्यं प्रतिकर्तुमद्य किं गुरौ हितैषिण्यनुकम्पके त्वयि । समुद्धृतो येन भवार्णवादहं महार्णवाच्चूर्णितनौरिवोर्मिभिः ॥ १८.४८ ॥ ततो मिनिस्तस्य निशम्य हेतुमत्प्रहीणसर्वास्रवसूचकं वचः । इदं बभाषे वदतामनुत्तमो यदर्हति श्रीघन एव भाषितुम् ॥ १८.४९ ॥ इदं कृतार्थः परमार्थवित्कृती त्वमेव धीमन्नभिधातुमर्हसि । अतीत्य कान्तारमवाप्तसाधनः सुदैशिकस्येव कृतं महावणिक् ॥ १८.५० ॥ अवैति बुद्धं नरदम्यसारथिं कृती यथार्हन्नुपशान्तमानसः । न दृष्टसत्योऽपि तथावबुध्यते पृथग्जनः किंबत बुद्धिमानपि ॥ १८.५१ ॥ रजस्तमोभ्यां परिमुक्तचेतसस्तवैव चेयं सदृशी कृतज्ञता । रजःप्रकर्षेण जगत्यवस्थिते कृतज्ञभावो हि कृतज्ञ दुर्लभः ॥ १८.५२ ॥ सधर्म धर्मान्वयतो यतश्च ते मयि प्रसादोऽधिगमे च कौशलम् । अतोऽस्ति भूयस्त्वयि मे विवक्षितं नतो हि भक्तश्च नियोगमर्हसि ॥ १८.५३ ॥ अवाप्तकार्योऽसि परां गतिं गतो न तेऽस्ति किञ्चित्करणीयमण्वपि । अतःपरं सौम्य चरानुकम्पया विमोक्षयन् कृच्छ्रगतान् परानपि ॥ १८.५४ ॥ इहार्थमेवारभते नरोऽधमो विमध्यमस्तूभयलौकिकीं क्रियाम् । क्रियाममुत्रैव फलाय मध्यमो विशिष्टधर्मा पुनरप्रवृत्तये ॥ १८.५५ ॥ इहोत्तमेभ्योऽपि मतः स तूत्तमो य उत्तमं धर्ममवाप्य नैष्ठिकम् । अचिन्तयित्वात्मगतं परिश्रमं शमं परेभ्योऽप्युपदेष्टुमिच्छति ॥ १८.५६ ॥ विहाय तस्मादिह कार्यमात्मनः कुरु स्थिरात्मन् परकार्यमप्यथो । भ्रमत्सु सत्त्वेषु तमावृतात्मसु श्रुतप्रदीपो निशि धार्यतामयम् ॥ १८.५७ ॥ ब्रवीतु तावत्पुरि विस्मितो जनस्त्वयि स्थिते कुर्वति धर्मदेशनाः । अहो बताश्चर्यमिदं विमुक्तये करोति रागी यदयं कथामिति ॥ १८.५८ ॥ ध्रुवं हि संश्रुत्य तव स्थिरं मनो निवृत्तनानाविषयैर्मनोरथैः । वधूर्गृहे सापि तवानुकुर्वती करिष्यते स्त्रीषु विरागिणीः कथाः ॥ १८.५९ ॥ त्वयि परमधृतौ निविष्टतत्त्वे भवनगता न हि रंस्यते ध्रुवं सा । मनसि शमदमात्मके विविक्ते मतिरिव कामसुखैः परीक्षकस्य ॥ १८.६० ॥ इत्यर्हतः परमकारुणिकस्य शास्तुर्मूर्ध्ना वचश्च चरणौ च समं गृहीत्वा । स्वस्थः प्रशान्तहृदयो विनिवृत्तकार्यः पार्श्वान्मुनेः प्रतिययौ विमदः करीव ॥ १८.६१ ॥ भिक्षार्थं समये विवेश स पुरं दृष्टीर्जनस्याक्षिपन् लाभालाभसुखासुखादिषु समः स्वस्थेन्द्रियो निस्पृहः । निर्मोक्षाय चकार तत्र च कथां काले जनायार्थिने नैवोन्मार्गगतान् परान् परिभवन्नात्मानमुत्कर्षयन् ॥ १८.६२ ॥ इत्येषा व्युपशान्तये न रतये मोक्षार्थगर्भा कृतिः श्रोतृणां ग्रहणार्थमन्यमनसां काव्योपचारात्कृता । यन्मोक्षात्कृतमन्यदत्र हि मया तत्काव्यधर्मात् कृतं पातुं तित्कमिवौषधं मधुयुतं हृद्यं कथं स्यादिति ॥ १८.६३ ॥ प्रायेणालोक्य लोकं विषयरतिपरं मोक्षात्प्रतिहतं काव्यव्याजेन तत्त्वं कथितमिह मया मोक्षः परमिति । तद्बुद्ध्वा शमिकं यत्तदवहितमितो ग्राह्यं न ललितं पांसुभ्यो धातुजेभ्यो नियतमुपकरं चामीकरमिति ॥ १८.६४ ॥ सौन्दरनन्द महाकाव्य में "आज्ञाव्याकरण" नामक अष्टादश सर्ग समाप्त ।