सङ्कल्पकल्पद्रुम श्रीराधादामोदराभ्यां नमः१ श्रीकृष्ण कृष्णचैतन्य ससनातनरूपक । गोपाल रघुनाथाप्त व्रजवल्लभ पाहि माम् ॥१॥२ नन्दनन्दन इत्युक्तस्त्रैलोक्यानन्दवर्धनः । अनादिजन्मसिद्धानां गोपीनां पतिरेव यः३ ॥२ नवीननीरदश्यामं तं राजीवविलोचनम् । वल्लवीनन्दनं वन्दे कृष्णं गोपालरूपिनम् ॥३ [युग्मम्]४ वृन्दारण्ये जरन् जीवः कश्चित्प्राह मनः प्रति । म्रियसे साम्प्रतं५ मूढः गूढामेतां सुधां पिब ॥४ तां पिबन्नेव हे स्वान्त स्वं च गोकुलसङ्गतम् । सेवां च वाञ्छितां काञ्चिद्भावभेदेन भावय ॥५ मङ्गलः सर्वलोकानां गोपक्षौणीभृदङ्गजः । भव्यं पल्लवयन् पायाद्वल्लवीजनवल्लभः ॥६ अहो बकीत्य्६ आदिकीर्तिः कृष्णस्तु भगवान् स्वयम् ।७ अस्ति यस्तस्य पित्रादितया चित्राय क्प्तवान् ॥७ स्तुतस्तद्भूरिभाग्येति८ तथा चेत्थं सतामिति९ । नेमं विरिञ्च इत्य्१० वं नायं श्रिय इति११ व्रजः ॥८ यस्तं को वाश्रयेन्नात्र क्षिताविन्द्रियवान्नरः । तस्माद्भ्रातर्निजत्रातः स्वान्त स्वान्तस्तमाश्रय ॥९ [त्रिभिः कुलकम्] उपदेशं देशरूपं मम मानय मानस । सुधाधाराधरः सोऽयं कल्पः स्यात्कल्पभूरुहः ॥१०॥ मूलं जन्मादिलीलास्य स्कन्धः स्यान्नित्यलीलता । शाखास्तत्तदृतुश्लोकाः फलं प्रेममयी स्थितिः ॥११॥ अथ महाकुलकेन जन्मादिलीला ॥ यस्तन्त्रमन्त्रयोर्गुप्तमुक्तः श्रीनन्दनन्दनः । तद्रूपतां निजां व्याञ्जीत्कुतश्चित्कुतुकाद्भुवि ॥१२॥ यः प्रागिति१२ हि पद्याभ्यां नन्दात्मजतया स्वतः । वासुदेवतया कार्यवशाद्गर्गेण निश्चितः ॥१३॥ १. (ब्) श्रीश्रीराधाकृष्णाभ्यां नमः॑ २. ग्च्प्१ १॑ ३. गौत्त्. २.२४॑ थेरे अनेकजन्मशुद्धानाम्, ग्च्प्१५.७२ अनेकजन्मसिद्धानां॑ ४. (ब्) नोत्fओउन्द्॑ ५. (ब्) म्रियतेऽसाम्प्रतम्॑ ६, भागवतमिइइ.२.२३॑ ७. भागवतमि.३.२८॥॑ ८. भागवतम् x.१४.३४॥॑ ९. भागवतम् x.१२.११॑ १०. भागवतम् x.९.२०॑ ११. भागवतम् x.४७.६०॑ १२. भागवतम् x.८.१४ यः श्रीनन्दयशोदान्तर्हृदि स्फूर्तिं गतस्ततः । उद्यंश्चक्रे दुग्धसिन्धोरिन्दोर्जन्मविडम्बनम् ॥१४॥ यः सर्वर्द्धिव्रजं नन्दव्रजं स्वं जन्ममात्रतः । रमाणां जायमानानामारामं१ धाम निर्ममे ॥१५॥ यः स्वमाधुर्यपीयूषं सम्पूर्य२ परिवेशयन् । जिगाय मोहिनीरूपं क्षीरनीरधितीरगम् ॥१६॥ यः कृपां जन्मना व्यञ्जन् पूतनामपि पूतताम् । नीतां धात्रीगतिं स्फीतां चाकार्षीन्नूतनार्भकः ॥१७॥३ यः कोमलपदाग्रेण शकटं तद्विशङ्कटम् । स्वज्योत्स्नावरणं मत्वा चिक्षेपाक्षेपवानिव ॥१८॥ यः पूजितपदक्षेपकूजितस्मितरोचिषाम् । शोभया लोभयामास बालिकाः कुलपालिकाः ॥१९॥ यः स्वनामाद्यमासाद्य गर्गाद्वर्गान्निजाननु । हर्षं ववर्ष न्यग्जल्पन्नोमित्थं सोमजिन्मुखः ॥२०॥ यस्तृणावर्तमासाद्य सद्यः संवर्तवर्तनम् । संवर्तयंस्तमानिन्ये विपरीतपरीतताम् ॥२१॥ यः श्रीरामं निजारामं सङ्गच्छन्नच्छखेलया । बालानानन्दयन्नन्दराजकेशरिनन्दनः ॥२२॥ यः पुण्ड्रं रोचनारुच्यं कञ्चुकं काञ्चनप्रभम् । दधन्मातुस्तत्तदासीदुत्सङ्गसी यदाजनि ॥२३॥ यः कुर्वन् कर्दमक्रीडां निर्व्याजमनया धृतः । द्वयोः सुखेन दुःखेन स्निग्धान् दिग्धान् विनिर्ममे ॥२४॥ यः समं सहजातेन रङ्गन्नङ्गणकर्दमे । किञ्चित्कातरधीः पश्यन्मातरं द्रुतमीयिवान्४ ॥२५॥ यस्तयालिङ्गितः सा स्मितं स्तन्यमनन्यधीः । अपायि सुष्ठु चाप्यायि स्मितं बिभ्रदुदैक्षि च ॥२६॥ यस्तदा मातुरानिन्ये सर्वं विस्मृतिविस्मृतम् । वदन्निव स५ अंमुग्धबालसिंहावलोकनः ॥२७॥ यस्तदा मृत्तिकां भक्षन्नलक्ष्यमनया धृतः । दयया किं भयादस्यास्त्रातः स्राग्योगमायया ॥२८॥ यः श्रीरामान्वयी कामान्ननाट सहपाटवम्६ । वृद्धानां सुखमृद्धानां कुर्वाणस्तालपालनम् ॥२९॥ यः क्रीणन् करविभ्रष्टमूल्यत्वेऽप्यमितं फलम् । फलान्यनन्यलभ्योअनि ददे विक्रीणतीं प्रति ॥३०॥ १. (अ) ओं मारामं॑ २. (ब्) सर्वत्र॑ ३. थिस्वेर्से मिस्सिन्ग्fरोम् (ब्)॑ ४. (ब्) इयिवान्॑ ५. (ब्) सुओ॑ ६. (ब्) सहपाटवः यस्तर्णकान् पुरा मुञ्चन्नञ्चन् बालबलान्वितः । दोहानुकरणं कुर्वन् सुखदोहाय क्प्तवान् ॥३१॥ यः कर्षन्नपि वत्सस्य पुच्छं सङ्कर्षणान्वितः । तेन कर्षं व्रजन् भ्रातृभायाभिः पर्यहस्यत ॥३२॥ यः कुर्वन्नपि गव्यानां चौर्यं भव्याय दिद्युते । यस्य ताभिर्विवादश्च सुखसंवादसिद्धये ॥३३॥ यः स्वं दामोदरं श्र्ण्वन् सामोदव्रीडमञ्चति । प्रसूशिक्षामयस्नेहाद्बाल्य१ वेहान्तरादपि ॥३४॥ यः सुष्ठु खेलयाविष्टः स्वमात्रा प्रणयान्मुहुः । कृष्ण कृष्णारविन्दाक्षेत्य्२ आहूतोऽप्याशु नाययौ ॥३५॥ यः श्रीवृन्दावनं प्राञ्चन् भ्रात्रा सह वनास्पदम् । हासयन् भासयामास३ मातरौ यातरौ मिथः ॥३६॥ यः श्रीवृन्दावने लब्धे प्रारब्धक्रीडमन्वभूत् । रामदामादिभिः सख्यं तत्प्रख्यं भ्रमरादिभिः ॥३७॥ यः श्रीरामेण तत्रापि वीक्ष्य प्रीतिमगात्पराम् । वृन्दावनं गोवर्धनं यमुनापुलिनानि च४ ॥३८॥ यः प्राप्तमध्यकौमारः पित्रा सार्धं वनं व्रजन् । पृच्छन्नामानि धामानि पश्यन्मुदमवाप्तवान् ॥३९॥ यः क्रीडन् शिशुरव्रीडमग्रजेन व्रजेन्द्रजः । जल्पाजल्पि मिथश्चक्रे हस्ताहस्ति पदापदि ॥४०॥ यश्चारयन्निजान् वत्सान् वत्सकं नाम दानवम् । बकं बकवदाकारं दारयन्मुक्तमार्दयत् ॥४१॥ यः स्वैर्विहरणं चक्रे मेषीहरणसंज्ञितम् । व्योमं च व्योमतां निन्ये कुर्वन्तं प्रतिलोमताम् ॥४२॥ यः कुर्वंस्तमघं खण्डं विधेरघमतः परम् । निन्ये स्वज्योतिषि प्राञ्चं तदर्वाग्भक्तितेजसि ॥४३॥ यः कौमारमतिक्रम्य रम्यपौगण्डमण्डनः । चक्रे गोपालतां गच्छन् लोकपालकपालताम् ॥४४॥ यः कालकूटनिष्पिष्टचेतनान् व्रजकेतनान् । चेतयामास कृपया लोचनामृतवृष्टिभिः ॥४५॥ यः कालियमपि व्यक्तं निजाङ्घ्रियुगमुद्रया । व्यञ्जन्ममेति शरणागतानन्यानरञ्जयत् ॥४६॥ यः शुकेन व्रजप्रेमास्पदत्वेनेत्थमीरितः । कृष्णेऽर्पितात्मसुहृदित्यादि प्रोच्य प्रशोच्य च ॥४७॥ १. (ब्) बाल्यं॑ २. भागवतम् x.११.१५॑ ३. (ब्) भाषयामास॑ ४. भागवतम् x.११.३६ आबालवृद्धवनिताः सर्वेऽङ्ग१ पशुवृत्तयः । निर्जग्मुर्गोकुलाद्दीनाः कृष्णदर्शनलालसाः ॥४८॥ २[महाकुलकान्तर्युग्मकम्]२ यस्तस्मिन् सम्भ्रमे रोधान्निष्क्रमे३ व्रजकन्यकाः । मेने ताः प्रथमं पश्यन् स्वं कृतार्थं कृताविह ॥४९॥ यस्तदा दहनं गोष्ठप्रेम्नाकृष्टविवेचनः । प्रेम्नस्तस्य परीक्षार्थमिव द्रागपिबत्प्रभुः ॥५०॥ यः स्पर्शादनृतीकुर्वन् विषं विषधरं च तम् । स्वाश्रितानमृतीकर्तुं कृती कैमुत्यमैक्षयत् ॥५१॥ तस्तु भाण्डीरमासाद्य मल्लताण्डवमाचरन् । सुभद्र४ अण्डलीभद्रभद्रवर्धनगोभटाः ॥५२॥ यक्षेन्द्रभट इत्य्५ एवं क्प्तसङ्गैः कुमारकः । सवयोभिः सुखं लेभे यत्र काश्चित्कुमारिकाः ॥५३॥ गोपाली पालिका धन्या विशाखा ध्याननिष्ठिका६ । राधानुराधा सोमाभा तारका दशमी तथा७ ॥५४॥ कौतुकाय गता यासु मल्ली मल्लीति नर्मकृत् । मध्वाज्यनिभमास्वाद्य याभिः क्प्तं स्म माद्यति ॥५५॥ [पूर्ववन्महाकुलकान्तश्चतुर्भिरन्वयः] यः काम्ये काम्यके गत्वा सरः सागरसन्निभम् । लङ्काकल्पाकृताकल्पं नित्यं दीव्यति सङ्गिभिः ॥५६॥ यः कैशोरं ततः सज्जन् वसन्तमिव षट्पदः । लोलयन्नात्मनश्चित्तं लोलयामास पद्मिनीः ॥५७॥ यस्ता व्रजरमा नित्यप्रेयसीः कुतुकात्मना । लीलाशक्त्यान्यथाभानं नीता गुप्तमरञ्जयत् ॥५८॥ यः श्रीरामेण धेनूनां रक्षायां धेनुकासुरम् । निघ्नन् विघ्नमपाकार्षीदकार्षीदभयं दिवि ॥५९॥ यश्चक्रे धेनुमादाय सायं व्रजमुपागतः । पूर्वरागं किशोरीणामपूर्वं व्यतिवीक्षया ॥६०॥ यः पूर्वं लज्जया दूतकामलेखाद्युपायताम् । विजहन्निजनेत्रान्तं निन्ये नूतनदूतताम् ॥६१॥ यस्तासु स्फुटमासज्य विरज्य लघु सर्वतः । तदङ्गसङ्गभिक्षार्थं वेणुशिक्षामसाधयत् ॥६२॥ यश्चेतनाचेतनालिं कर्षन्नप्याशु वेणुना । ताः क्रष्टुं सुष्ठु नाशक्नोद्यतस्ता लज्जया सिताः ॥६३॥ १. (ब्) सर्वाङ्गो॑ २. मिस्सिन्ग्fरोम् (ब्)॑ ३. (ब्) निष्क्रान्ता॑ ४. (ब्) शुभद्र॑ ५. ब्र्सिइइ.३.२३॑ ६. (ब्) ओध्याननिष्ठिकाः॑ ७. भविष्यपिव्(च्f. क्स्प्११२)॑ ८ यः श्रीभाण्डीरनामानं बटं शश्वदटन्नधात् । नानाक्रीडां सनीडानामदभ्रं बिभ्रदुत्सवम् ॥६४॥ यः श्रीदाम्ना सुदाम्ना च भद्रसेनार्जुनादिभिः । खेलादम्भबलाच्चक्रे तत्प्रलम्बप्रलम्भनम् ॥६५॥ यः प्रलम्बं लम्बमानं जीवनाद्बलतेजसा । विधाय विदधे तीव्रान्१ नवशक्तिं दवीयसीम् ॥६७॥ यः कानने सुदीर्घाहे निदाघे कृतकेलिकः । अपराह्णे प्रेयसीनामानन्दं विदधे यथा ।६८॥ गोपीनां परमानन्दमासीद्गोविन्ददर्शने । क्षणं युगशतमिव यासां येन विनाभवत्२ ॥६९॥ [पूर्ववद्युग्मकम्] यः सदा दृष्टिकृद्वृष्टिवर्षारूपनिशाक्षये । शरदं प्रातरासाद्य प्रियाणामहृतान्धताम् ॥७०॥ यः श्रीगोवर्धनप्रेमस्वप्रेमधनजीविषु । स्वगोत्रेष्वपि सञ्चार्यान्यानप्यार्यानशिक्षयत् ॥७१॥ यः श्रीगोवर्धनं बिभ्रच्छक्रविभ्रष्टगर्वताम् । निन्ये गोष्ठं यदुन्निन्ये श्रेष्ठं स्वप्रेष्ठजातिषु ॥७२॥ श्रीगोविन्दतां विन्दन्नविन्दद्विश्वनन्दिताम् । यन्मिथः शक्रजन्तूनां नैत्र्याव्यधित शम्भुताम् ॥७३॥ यः पाशिलोकादानीय पितरं मातृजीवनम् । अजीवयद्व्रजं सर्वं तं विना गतजीवनम् ॥७४॥ यः स्वानां व्रजलोकानां हृदोकास्तान् विशोकयन् । तेषां स्वस्य च गोलोकं नित्यलोकमलोकयत् ॥७५॥ यश्चित्तवाससी नीत्वा कुमारीणां परं ददे । न पूर्वं येन ता बद्धाः सम्बद्धा नित्यमात्मनि ॥७६॥ यः स्ववंशिकया मोहबाधितां राधिकामनु । पूर्णाः पुलिन्द्य इत्य्३आदि वृत्तं वृत्तं विनिर्ममे ॥७७॥ यः सखीनखिलाग्रीयान् ग्रीष्मान्तः प्रेमसम्पदा । संमदादाजुहावामून् क्रमादेवं मुदां प्रदः ॥७८॥ हे स्तोककृष्ण हे अंशो श्रीदामन् सुबलार्जुन । विशाल वृषभौजस्विन् देवप्रस्थ वरूथप४ ॥७९॥ एवमाहूय भूयस्तान्नर्मसूनृतगीर्वृतम् । आह वृन्दावनस्थानां स्थावराणां वरां गतिम् ॥८०॥ [पूर्ववत्त्रिभिः] १. (ब्) तीव्रां॑ २. भागवतम् x.१९.१६॑ ३. भागवतम् x.२१.१७॑ ४. भागवतम् x.२.३१. यस्तासां यज्ञपत्नीनां महिमस्नेहवृद्धये । बुभुक्षां सखिभिर्व्यञ्जन्नन्नभिक्षां१ विनिर्ममे ॥८१॥ यस्तत्राशोकवन्यायां धन्यायां सखिभिः सह । क्रीडन्निर्वर्णितस्ताभिः श्याममित्यादि२ वर्णितः ॥८२॥ यः सदा नर्मशर्मार्थी मधुमङ्गलनामिनम् । नर्ममन्त्रिणमासज्य भोज्यन्मित्राण्यरञ्जयत् ॥८३॥ यः स्वजीवनजीवानां चातकीनामिवाम्बुदः । स्वजीवनेन तादात्म्यमकरोद्व्रजसुभ्रुवाम् ॥८४॥ यः परेषां ह्रेपणतां शक्तिसङ्ख्याल्पतां विदन् । गुप्तागण्यस्वकान्तासु वंशीदूतीममन्यत ॥८५॥ यश्चिरादेव मुरलीशिक्षायां वीक्ष्य पूर्णताम् । तया माद्यप्रियास्तूर्णं पूर्णं मेने स्वमञ्जसा ॥८६॥ यस्त्यागव्याजभृन्नर्म व्याजहार प्रियाः प्रति । प्रतिनर्मप्रियावृन्दाद्विन्दन् शर्मान्वविन्दत ॥८७॥ यः सदा योगमायाख्यां शक्तिमासक्तितः श्रितः । पौर्णमासीमिति नामासीद्व्रजे यासीत्तपस्विनी ॥८८॥ यस्तया दिव्यया शक्त्यानन्तधानन्तसुभ्रुवाम् । बिभ्रद्विना सनर्मादिशर्मालभत सर्वदा ॥८९॥ यः कृत्वा रासखेलायां मुदं द्वन्द्वं पुनर्मुदम् । खेलेयमिति तद्व्यञ्जन्नमुमुददमूः प्रियाः ॥९०॥ यस्त्यजन्नपि ताः सर्वाः पर्वातनुत कुत्रचित् । अप्येणपत्नीत्याद्यं३ यत्तत्र कर्णामृतं मतम् ॥९१॥ यस्तासां जयतीत्य्४ आदि विलापाद्व्यग्रतां गतः । तासामाविरभूद्५ एवं सुधीभिरधिवर्णितः ॥९२॥ यासां स्तनकाश्मीरशस्तवस्त्रासनं गतः । रराज तारकाराजराजत्पुलिनधामनि ॥९३॥ यः प्रहेलिकया तासां स्वपराजयमामृशन् । न पारयेऽहमित्य्६ आदि रीत्या स्वं मतवानृणी ॥९४॥ यः श्यामः स्वर्णगौरीभिः परां शोभां ययौ यथा । तत्रातिशुशुभे राजन्न् भगवानिति७ सत्प्रथा ॥९५॥ यस्तासां स्वविहारेण श्रान्तानां मुखपङ्कजम् । प्रामृजत्करुणः प्रेम्ना शन्तमेनाङ्गपाणिना ॥९६॥८ यः क्रीडन् वारिवनयोर्विक्रीड९ इव ताः पुनः । अनुनीय विनिर्णीय स्वसङ्गं निलयं गतः ॥९७॥ १. (अ) व्यञ्जन्नन्नभिक्षा॑ (ब्) व्यञ्जनन्नभिक्षाम्॑ २. भागवतम् x.२३.२२॑ ३. भागवतम् x.३०.११॑ ४. भागवतम् x.३१.१॑ ५. भागवतम् x.३२.२॑ ६. भागवतम् x.३२.२२॑ ७. भागवतम् x.३३.६॑ ८. भागवतम् x.३३.२१॑ ९. (ब्) चिक्रीड यस्तीर्थव्याजमव्राजीद्व्रजेन वनमाम्बिकम् । यत्राशेषेण वेशेन च्छलयामास चाबलाः ॥९८॥ यः सर्वजीवनं जीवं वितरन् पितरं प्रति । पदासर्पन् स्पृशन् सर्पं मुनेः शापादपाकरोत् ॥९९॥ यः सुदर्शनतां निन्ये महासर्पं कुदर्शनम् । कारुण्यकारुः कञ्चारं१ न चकारापि दारुणम् ॥१००॥ यः पूर्वं निर्ममे होरीपर्वं यक्षस्य धूर्वणम्२ । अन्तर्यामिवत्तन्३ मन्ये तादृग्ग्रामीणपर्वसु ॥१०१॥ यः प्रातरादिजाः क्रीडाः कुर्वंस्तासु स्फुरन्नपि । श्लोकानां युग्मसङ्घेन श्लोकितस्ताभिरन्वहम् ॥१०२॥ यः श्रीगोवर्धने रासवर्धनेच्छाविवर्धनेयः । संगम्य प्रेयसीसङ्घं नर्मसङ्गररङ्गवान् ॥१०३॥ गोष्ठप्रकोष्ठतः क्रुष्टं श्रुत्वारिष्टकृतं कटु । तत्र संगत्य संयत्य तं निहत्य मुदं गतः ॥१०४॥ पुनः शीघ्रं गिरिं गच्छन् सङ्गिनीभिः सभङ्गिभिः । रासमुल्लासयामास भासयामास चाखिलम् ॥१०५॥ [पूर्ववत्त्रिभिः] यः कुण्डं पुण्डरीकाक्षस्तन्निर्माय सुनर्मकृत् । श्रीराधिकां धन्यमन्यत्कारयामास सारभृत् ॥१०६॥ कंसेनेशिनं४ गोष्ठक्लेशिनं वाजिवेशिनम् । केशिने५ केशिनं चक्रे यमस्य प्रतिवेशिनम् ॥१०७॥ यः पित्राद्यनुरागेण चित्राभः सर्वविस्मृतिः । कंसं ध्वंसकमप्यार्च्छान्न हन्तुं गन्तुकामताम् ॥१०८॥ यः स्निग्धस्मितया दृष्ट्या वाचा पीयूषकल्पया । चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥१०९॥ इमं लोकममुञ्चाभिरमयन् सुतरां व्रजम् । रेमे क्षणदया दत्तक्षणस्त्रीक्षणसौहृदः ॥११०॥ [पूर्ववद्युग्मकम्]६ यस्तथा सह गोपीभिश्चिक्रीड व्रजराजजः । यथाब्दकोटिप्रतिमः क्षणस्तेन विनाभवत्७ ॥१११॥ यः कान्तामुखचन्द्राणां भासा भासिनि८ दिग्गणे । रागसागरनिर्मग्नश्चलितुं नापि च क्षमः ॥११२॥ किञ्चित्तद्व्यक्तिवातालिलज्जावीचिविचालितः । कंसघातमिषापातनिजेच्छाभासमागतः ॥११३॥ १. (अ) कञ्जारं, (ब्) कं चारिं॑ २. (ब्) धर्षणम्॑ ३. (अ) अन्तर्यामीव तनो॑ ४. (ब्) कंसेनेशितम्॑ ५. (ब्) वेशिनं॑ ६. नोत्fओउन्दिन् (ब्)॑ ७. विप्व्.२३.५७॑ ८. (ब्) भासिनम् तटस्थतामटन्नुरीचक्रे मधुपरीगतिम् । आः किं वाच्या व्रजे याच्या प्राणिमात्रे तनोः स्थितिः ॥११४॥ [पूर्ववत्त्रिभिः] यः स्वांस्तत्तद्गुणः सर्वानलं हातुं न ते च यम् । आस्तां व्रजे प्रेमशूरा दूरादेव तथा कथा ॥११५॥ यः पृथ्व्या प्रथमस्कन्धे धर्माग्रेवर्णितान् गुणान् ।१ नित्यमाप्तस्तथात्रापि वर्ण्यः सन्नवकर्ण्यताम् ॥११६॥ सर्वानन्दप्रदानन्दकन्दस्तद्वद्गुणावलिः । सर्वपर्वदमाहात्म्याद्वरः सर्वत ईश्वरः ॥११७॥ सर्वदा वृद्धिभागृद्धिः सर्वाराधनभूधनम् । स्वरूपरूपसाद्गुण्यपुण्यकृत्कर्मशर्मदः ॥११८॥ दृष्टिः प्रतिसुधावृष्टिप्रभसुन्दरताप्रभः२ । वर्णानां स्यन्ददिङ्मात्रात्३ कर्णानन्दकरस्वरः४ ॥११९॥ अश्वासानामपि श्वासकारिसौरभगौरवः । अधरस्पृष्टनीरादिसृष्टश्रीरसनारसः ॥१२०॥ स्वस्पर्शिस्पर्शनास्पर्शाद्विश्वतापापयापनः । जगतः शुचिताधाम नामधामस्मृतीडितः ॥१२१॥ अनन्तसच्चिदानन्दज्योतिर्द्योतिकलेवरः । वपुरंशुकयोरंशुसम्पद्विष्णुरमाजयी ॥१२२॥ जगद्दूषणशोभाभृद्विभूषणविभूषणः । तूर्णं यथारुचि व्यापिरुचिधार्यगुणाकृतिः ॥१२३॥ लक्ष्मीदृक्पक्ष्म५ इष्कम्भिलक्ष्मलक्षितविग्रहः । शङ्खचक्रादिचिह्नश्रीदुर्निह्नवनिजस्थितिः ॥१२४॥ जेतुं स्वमप्यविश्रान्तं शश्वद्वल्गु६ अलावलिः । किशोरतामनःसारचोरताविश्वमोहनः ॥१२५॥ विलासहासलीलास्यकृतलास्यकलाजयः । विकाररहिताकारः स्फुरत्प्रेमविकारवान् ॥१२६॥ पुरापि नव इत्येवं पुराणादिविनिश्चितः । अनूतनतनूः७ श्रीमान् सदा नूतनवत्तनुः ॥१२७॥ सर्वेषां मनसः कर्तुं प्रमनस्तां स्फुरन्मनाः । वैदग्धीदिग्धसद्वृद्धि८ आतुरीप्रचुरीकरः ॥१२८॥ विश्वेषां बुद्धिकृद्बुद्धिः सिद्धीनामपि सिद्धिकृत् । दक्षतालक्षशिक्षाकृद्दक्षताभिर्विलक्षणः ॥१२९॥ तुच्छोपकारिताबिन्दुसिन्धुकारी कृतज्ञतः । १. भागवतमि.१६.२७॥३०॥॑ २. (ब्) ओप्रभा॑ ३. (ब्) दिङ्मात्रओ॑ ४ (अ) करणानन्द(?)॑ ५ (ब्) पक्ष॑ ६ (अ) ओवल्गाद्॑ ७. (ब्) तनुः॑ ८. (ब्) ओबुद्धिओ सुदृढव्रतताव्रातत्रातशश्वदनुव्रतः ॥१३०॥ निजमर्यादया बद्धश्रुतिमर्यादचेष्टितः । चेष्टितं१ तावदास्तां तद्दृष्टमात्रस्तथा गुणः ॥१३१॥ यज्ञज्ञः कालदेशादिप्रज्ञः सर्वज्ञशेखरः । सर्वज्ञतामवज्ञाय प्रज्ञतातर्किताखिलः ॥१३२॥ धीरता स्थिरता शोभि वीरता निरतान्तरः । क्षान्त्या दान्त्या च शान्त्या च सह कान्त्या स्वयं वृतः ॥१३३॥ धर्मदाननिदानश्रीः शूरः२ सुरतमानसः । मान्यसामान्यवर्धिष्णुमान्यताक्रियताप्रियः३ ॥१३४॥ अक्षीणविनयः सुष्ठु लज्जितः कूटवर्जितः । कीर्तिप्रतापपूर्तिभ्यां कृतसल्लोकजूर्तिकः ॥१३५॥ साधूनां माधुरीदानान्नित्यं साधुसमाश्रयः । द्विषां च मुक्तिकृन्मुक्तिभागाकर्षिगुणाम्बुधिः ॥१३६॥ नानाभाषालिसम्भाषो देव४ अर्यन्तदेवनः । प्रत्यग्वादिन्यपि प्रीति५ अत्यतास्फुरदीरितः ॥१३७॥ वावदूकः६ सुधीमूकस्थितिकारिसुधीधरः । दृष्टमात्रतया सर्वबुधतां७ बुधतागुरुः ॥१३८॥ योग्यानामपि योग्याशी८ रङ्काङामपि शङ्करः । शरणागतरक्षायाः शरणं शर्मकर्मठः ॥१३९॥ न च भक्तिं विनासक्ति९ इन्दुः सिन्धुवदन्तरः । समः सर्वत्र भक्तानां भक्त इत्यप्यसौ समः ॥१४०॥ भक्तानां भक्ततानन्दी प्रेमस्थेमवशीकृतः । तत्तद्रूपगुणक्रीडाकृतस्वावधिविस्मयः ॥१४१॥ स्नेहाभिषेकाद्विश्वेषां प्राज्यसाम्राज्यपूजितः । सर्वत्र स्नेहपीयूषवर्षिनित्यनवम्बुदः ॥१४२॥ गोष्ठवृन्दाटवीशंसिवंशीगानमधून्मदः । निजप्रियावलीभाग्यस्पृहिविष्णुप्रियार्चितः ॥१४३॥ किं बहूक्तेन सूक्तेन सूक्तेन श्रूयतामिदम् । कृष्ण एव हि कृष्णः स्यात्कृष्णः स्यात्कृष्ण एव हि ॥१४४॥ [पूर्ववदेकोनत्रिंशभिः] यस्तादृग्गुणवान् गोष्ठं नात्यन्तं त्यक्तुमर्हति । तादृग्गुणान्वयिप्रेम्ना तस्य बद्धश्च तद्यथा ॥१४५॥ दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् । यः सज्जन् कालियक्रोडं व्रजं सज्जन्तमाम्तनि । नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिकः कथम्? ॥१४६१ [पूर्ववदेव युग्मकम्] १. (ब्) चेष्टतः॑ २. (ब्) शूरओ॑ ३. (ब्) ओपरः॑ ४. (अ) ओसम्भाषादेव॑ ५. (ब्) प्रीतिः॑ ६. (ब्) वावदूकओ॑ ७. (ब्) बुधताओ॑ ८. (अ) योग्याशा॑ ९. (अ) विनासक्तिं विमृशन्नुन्ममज्ज द्राग्वर्षन् हर्षं जगत्यपि ॥१४७ यः शक्रे वक्रतां पश्यन् प्रेम्ना यन् व्रजवश्यताम् । हृद्यर्थं तमिमं विद्वानत्र व्यानग्यथार्थताम् ॥१४८ तस्मान्मच्छरणं गोष्टं मन्नाथं मत्परिग्रहम् । गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥१४९*fन् [पूर्ववदेव युग्मकम्] यः सङ्कल्पं व्यधादेवंकिञ्च भूधरधारणम् । सप्ततराप्यहोरात्रां स्तन्मात्रङ्गीकृतिस्थितिः ॥१५०॥ किं च यः सखिवत्सेषु लुञ्चितेषु विरिञ्चिना । ससर्जान्त्यांस्तदाकारन् परं स्वेनापरेण न ॥१५१॥ तथाप्यनिर्वृतिं गच्छंस्तानायच्छद्विरिञ्चितः । स्वप्रेमाधिकतत्प्रेमवशतामासदद्यतः ॥१५२॥ [पूर्ववदेव युग्मकम्] यस्तान् स्वस्मिन् बकग्रस्ते ग्रस्तेहाप्राणतामितान् । स्वमात्रप्राणपात्राङ्गान् विदन् विन्दन्नपि स्थितः ॥१५३॥ यस्तेष्वघनिगीर्णेषु स्वयं कीर्णे हतां व्रजन् । तद्गलान्तर्विशन्नात्मनिर्विशेषान् विवेद तान् ॥१५४॥ यस्तत्राप्यद्भुतं प्रेम श्रीमन्नन्दयशोदयोः । दम्पत्योर्नितरामासीद्गोपगोपीष्विति स्मरन् ॥१५५॥ सदापि वेदवद्वेद तदशेषविदां वरः । यदेव शुकदेवाद्या वाद्याभं जगुरुच्चकैः ॥१५६॥ [पूर्ववद्युग्मकम्] यः स्वीयामृणितां व्यक्तां त्यक्तां कर्तुमशक्नुवन् । न पारयेऽहमित्य्५ आद्यं प्रतिजज्ञे प्रियाः प्रति ॥१५७॥ यः कंसाद्यान् दन्तवक्रप्रान्तान्६ सान्तान्७ विनिर्ममे । तद्विना व्रजमागन्तुं शान्तिः स्यान्८ नेत्यचिन्तयत् ॥१५८॥ यस्तन्मध्ये समुत्कण्ठामुत्कण्ठां शमयन्निव । स्वस्थान् कर्तुं व्रजान्तःस्थान्मुहुः सान्त्वनमादधे ॥१५९ यः स्वप्रस्थानसमये "शरीरस्था इमा नहि । भवेयुर्" इति सञ्जज्ञे प्रतिजज्ञे९ निजागतिम् ॥१६०॥ १. भागवतम् x.२६॥.१३॑ २. (ब्) हृद्यार्थम्॑ ३. भागवतम् x.२५.१८॑ ४. (ब्) स्वेन परेण॑ ५. भागवतम् x.३२॥.२२॑ ६. (ब्) ओप्राप्तान्॑ ७. (अ) सोऽन्तान्॑ ८. (अ) शान्तुः स्यां (?)॑ ९. (अ) प्रतियज्ञे॑ यस्तत्र शुकदेवेन द्राघितश्लाघितं१ स्तुतः । उभयेषां प्रेमसाम्यं व्यञ्जता व्यञ्जितास्पदः ॥१६१॥ तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तमः । सान्त्वयामास सप्रेमैरायस्य इति द्योतकैः ॥१६२॥२ [पूर्ववद्युग्मकम्] यः कंसघ्नः शशंसेदं हरिवंशेऽप्यनूदितम्३ । निश्वासा यस्य वेदाः स्युस्तदेतत्कथमन्यथा? ।१६३॥ अहं स एव गोमध्ये गोपैः सह वनेचरः । प्रीतिमान् विचरिष्यामि कामचारी यथा गजः ॥१६४॥४ [पूर्ववद्युग्मकम्] यः कंसे लम्भितध्वंसे स्वं विनातिविलम्बितम् । कुर्वन्तं पितरं प्रोचे "शोचेः कथमितः पितः ॥१६५ यात यूयं व्रजं तात वयं च स्नेहदुःखितान् । ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् ॥१६६॥५ स्नेहेन दुःखितानित्येतत्प्रोच्य स्नेहवस्तुनि । अतृप्तिं व्यानगत्रापि द्रष्टुमित्येव दर्शनम् ॥१६७॥ पुरुषार्थतयावोचद्भाविकालतयापि च । अदृप्तेर्भाविकालस्य चानन्त्यात्तदनन्तकम् ॥१६८॥ तातज्ञातिपदाभ्यां च तद्युक्तमिदमुक्तवान् । सुहृदां सुखमित्याख्यास्यते यद्वत्तथा नहि ॥१६९॥ सुहृच्छब्देनोपकार्योपकारित्वं प्रतीयते । सुखं च सुहृदां गम्यमुपकारमयं परम् ॥१७०॥ विधायेति च पूर्वस्य कालस्य च्छिन्नरूपताम् । निर्दिशंस्तद्विधानस्य न्यदिशत्च्छिन्नरूपताम् ॥१७१॥ तस्मात्तेषां शत्रुवधः सुखं यत्तत्समाप्स्यति । ज्ञातीनां स्नेहशीलानां तत्तु वो न समाप्स्यति ॥१७२॥ इति प्रोच्येदमव्याञ्जीत्तेषां धैर्यप्रदं६ परम् । मागधादिवधान्तस्थं७ स्वस्थता धाम यद्भवेत् ॥१७३॥ जरासन्धादिशत्रूणां प्रतिबन्धानुपेक्ष्य च । यद्येष्याम्यनुसन्धानं कुर्युस्तत्रापि ते द्विषः ॥१७४॥ स्वेषामेव प्रतिज्ञाय व्रजागमनमीश्वरः । न यूयमत्रायातेति व्यज्य व्याञ्जीदिदं पुनः ॥१७५॥ यदि वात्र भवन्तः स्युर्गमागमविधायिनः । तथाप्यच्छिन्नमत्स्नेहं ज्ञात्वा हन्युर्व्रजं द्विषः ॥१७६॥ १. (ब्) द्राघितः श्लाघितः॑ २. भागवतम् x.३९.३५॑ ३. (ब्) अनुदितम्॑ ४. ह्व्७८.३५॑ ५. भागवतम् x.४५.२३॑ ६. (ब्) ओप्रदः॑ ७. (ब्) ओस्थओ तस्मात्तावद्धीरभावं विधत्त व्रजसंसदि । मां च युष्मत्प्रियं नित्यं लालनं च समाप्स्यथ ॥१७७॥ [पूर्ववन्नवभिः] यः सङ्गत्य गुरोर्गेहात्प्रतत्य स्वव्रजस्मृतिम् । प्राहिणोदुद्धवं वक्तुं सुनिश्चितमिदं यथा ॥१७८॥ हत्वा कंसं रङ्गमेध्ये प्रतीपं सर्वसात्वताम् । यदाह वः समागत्य कृष्णः सत्यं करोति तत् ॥१७९॥१ आगमिष्यत्यदीर्घेण कालेन व्रजमच्युतः । प्रियं विधास्यते पित्रोर्भगवान् सात्वतां पतिः ॥१८०॥२ [पूर्ववद्त्रिभिः] यः सास्रमुद्धवं सास्रः पतिस्तासां स्वयं रहः । असङ्कोचमवोचेत्थं प्रेष्ठमेकान्तिनं क्वचित् ॥१८१॥ गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः । गच्छोद्धव व्रजं सौम्य पित्रोर्नः प्रीतिमावह ॥१८२॥ गोपीनां मद्वियोगाधिं मत्सन्देशैर्विमोचय । ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः ॥१८३॥ मामेव दयितं प्रेष्ठमात्मानं मनसा गताः । ये त्यक्तलोकधर्माश्च मदर्थे तान् बिभर्म्यहम् ॥१८४॥ मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः । स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः ॥१८५॥ धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन । प्रत्यागमनसन्देशैर्वल्लव्यो मे मदात्मिकाः ॥१८६॥३ [पूर्ववत्षड्भिः] यस्तथा प्रोच्य यत्प्रत्याययत्तच्च विलोच्यताम् । यद्विलोचनमात्रेण भ्रमस्ते श्वभ्रतां व्रजेत् ॥१८७॥ मामेवेत्यादिना तासामन्तःपतिरहं परम् । बहिर्व्यवहृतिर्लोकदृष्टेति स्पष्टमातनोत् ॥१८८॥ यत्पित्रोरित्युरीचक्रे पितृत्वं वल्लवेन्द्रयोः । तस्माद्वल्लवमानित्वमात्मानश्च व्यजिज्ञपत् ॥१८९॥ तत्र चाह न इत्येतद्बहुवाचिपदादिदम् । मयि जाते तयोः पुत्रे रामे त्वयि च पुत्रता ॥१९०॥ ततश्च ताः प्रति प्राख्यद्वल्लव्यो म इति स्फुटम् । यदमूषु स्वदारत्वे४ व्यानञ्ज स्वयमञ्जसा ॥१९१॥ १. भागवतम् x.४६.३५॑ २. भागवतम् x.४६.३४॥॑ ३. भागवतम् x.४६.२६॑ ४. (ब्) ओत्वं॑ मद्दारत्वंच तासां ताः सदा यस्मान्मदात्मिकाः । मदात्मकत्वमाशु स्यादभेदाच्छक्तितद्वतोः ॥१९२॥ इति व्यञ्जन्मन्मनस्का इत्युक्तं नात्यपैक्षतः । न चान्यवदिहापेक्ष्यमन्यदित्यप्यमन्यत ॥१९३॥ धारयन्तीति च प्रोच्य प्रत्यागमनमुद्दिशन् । वल्लव्यो म इति प्राख्यत्तस्मादेव न्यजीगमत् ॥१९४॥ गमनं मम तज्जज्ञे स्वामवश्यं कृतिं प्रति । आगम्य स्वीयतां तासां पूरयिष्याम्यदूरतः ॥१९५॥ [पूर्ववद्नवभिः] यस्तासु बहुधा ज्ञानं निदिश्यापि मुधा विदन् । साक्षादात्मीयसम्प्राप्ति१ साक्षादेव निदिष्टवान् ॥१९६॥ मय्यावेश्य मनः कृष्णे विमुक्ताशेसवृत्ति यत् । अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ॥१९७॥२ या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः । अलब्धरासाः कल्याण्यो मापुर्मद्वीर्यचिन्तया ॥१९८॥३ [पूर्ववद्त्रिभिः] यस्तदा सन्दिशन् सन्दीपितमेतद्विनिर्ममे । तदेतच्छृणु मच्चित्त गुप्तवित्तं मनुष्व च ॥१९९॥ वृत्तिर्यदन्या निर्मुच्य मय्यामुच्य मनः स्थिताः । मामाप्स्यथ द्रुतं तस्मान्मम नात्र स्वतन्त्रता ॥२००॥ मयीत्यनेन प्राप्तेऽपि कृष्णे कृष्णपदं ब्रुवन् । अन्यरूपं मन्यमानान् हन्यमानान् व्यधात्प्रभुः ॥२०१ मयीत्येवं मामिति च प्रोच्य मामित्यवोचत । तच्चावृत्त्या दृढीकृत्य मतं परिदृढीकृतम् ॥२०२॥ कृष्ण इति पदं लब्धे मयीत्यस्य विशेषणे । मां द्वयेऽप्युपलब्धासा तद्विशेषणता स्वतः ॥२०३॥ मयि कृष्णेऽत्र मां कृष्णं मां कृष्णमिति सिध्यति । कल्याण्य इति सम्बोध्य प्रबोध्यं कृतवानिदम् ॥२०४॥ न तासामिव मत्प्राप्तिर्देहं वः परमीहते । इत्येवमन्यदप्यत्र मन्यमानं मनः कुरु ॥२०५॥ [पूर्ववद्पञ्चभिः] यः श्रीरामेण सन्दिश्य प्रियासु निजहृद्गतम् । यथावद्व्यञ्जयामास श्रीपराशरगीर्यथा ॥२०६॥ १. (ब्) ओप्राप्तिं॑ २. भागवतम् x.४७.३६॑ ३. भागवतम् x.४७.३७॑ सन्देशैः साममधुरैः प्रेमगर्भैरगर्वितैः । रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥२०७॥१ [पूर्ववद्युग्मकम्] यः कुरुक्षेत्रयात्राया व्याजान्मात्रादिकान् चिरात् । संसज्यामून् विसृज्यान्यान् सहवासमुदं दधे ॥२०८॥ यः सुरघ्नान् व्रजे गन्तुं विघ्नान् हन्तुं व्रजेशितुः । व्रजे गमनमाचर्य द्वारकागतिमाददे ॥२०९॥ यः क्रामद्भिः सुदीर्घेण सुष्ठु क्रष्टुं व्रजं प्रति । आमुक्तः पाशसङ्काशमनसा व्रजवासिभिः ॥२१०॥ यः प्रकाशं महाराजसम्पदं दधदीक्षितः । व्रजाय व्रजराजाद्येनाहूतः पूर्ववद्गिरा ॥२११॥ यस्तेषां सुष्ठु निर्निन्ये यन्मनः स्वागतिस्पृहिः२ । तेनान्तःकर्षणं प्राप्तः कर्षमन्येन नार्हति ॥२१२॥ यः स्वीयसहितस्तेषां स्वीयकामानपूरयत् । कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसा ॥२१३॥ आगमिष्यत्यधीर्घेणेत्य्३ आशालब्धं यदीप्सितम् । तदर्थमेव तानर्थान् ये स्वीचक्रुः परानपि ॥२१४॥ [पूर्ववद्युग्मकम्] यः स्वागमनमर्यादां प्रेयसीषु निजां व्यधात् । दन्तवक्रान्तशत्रूणां मारणं सर्वतारणम् ॥२१५॥ अपि स्मरथ नः सख्यः स्वानामर्थं४ चिकीर्षया । गतांश्चिरायितान् शत्रुपक्षक्षपणचेतसः ॥२१६॥ ५ मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते । दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मदापनः ॥२१७॥६ यस्तात्कालिकशान्त्यर्थे तथापि ज्ञानमादिशत् । आहूश्चेत्य्७आदिके पद्ये प्रार्थितस्ताभिरन्यथा ॥२१८॥ तत्राङ्घ्रिस्मृतियाच्ञा तु लक्ष्यमेव विनिर्ममे । तत्प्रत्यागतितात्पर्या सा तु पर्यवसाय्यते ॥२१९॥ मयि ताः प्रेयसामित्य्८ आद्युक्तं तेन स्वयं यतः । तस्मात्तच्चिन्तनाशक्त्या व्यक्त्या तद्दर्शनार्थिता ॥२२०॥ तथानुगृह्य भगवान् गोपीनां स गुरुर्गतिः ।९ इत्यनेन मुनिः प्रोच्य तासां वाञ्छितपूरणम् ॥२२१॥ मयि भक्तिर्हीति कृष्णप्रोक्तमेव न्यजीगमत् । मय्यावेश्य मनः कृष्ण इत्य्१० आद्यपि च तद्वचः ॥२२२॥ [पूर्ववद्त्रिभिः] १. विप्व्.२४.२०॑ २. (ब्) स्वागतस्पृहि॑ ३. भागवतम् x.६५.६॑ ४. (ब्) अर्थओ॑ ५. भागवतम् x.८२॥.४१॑ ६ भागवतम् x.८२॥.४४॑ ७. भागवतम् x.८२॥.४८॑ ८. भागवतम् x.४६.५॑ ९. भागवतम् x.८३.१॑ १०. भागवतम् x.४७.३६. यः पृथिव्या गुणस्तोमे सत्येनादावभिष्टुतः सत्यं विधातुं सत्यं तन्नाव्रजेत्किं व्रजे बत ॥२२३॥ सम्भावना ममैवेयमिति नात्र विचार्यताम् । व्रजस्थानां व्रजप्राणवर्यस्याप्यवधार्यताम् ॥२२४॥ श्रीमद्व्रजाधिराजस्य कृष्णकान्तागणस्य च । उद्धवं प्रति गीरीदृग्दृश्यतां दशमादिषु ॥२२५॥ [युग्मकम्] यस्तु यर्ह्यम्बुजाक्षेति१ स्तुवद्भिर्द्वारकाजनैः । कदाचिद्व्रजमागादित्यभ्युधायि कदाचन ॥२२६॥ यस्तथा श्रूयते पाद्मोत्तरखण्डादपि स्फुटम् । अदाद्व्रजाय स्वप्राप्तिमङ्गलं नित्यमित्यपि ॥२२७॥ दत्त्वा तत्कृतकृत्यः सन् प्रादुर्भावान्तरं गतः । जगाम द्वारकामित्यप्यश्रावीत्यपि युक्तिमत् ॥२२८॥ आगमिष्यत्यदीर्घेणेत्युद्धवाद्बुद्धमन्यथा । यथा न स्यात्तथा भाष्यं२ कथान्या वितथा मता ॥२२९॥ यस्त्यजन्नपि गामाख्यत्तमुद्धवकमुत्सुकः । रामेण सार्धमित्य्३आद्यं तासां कामितलम्भनम् ॥२३०॥ रामेणेति द्वयेनाह वियुक्तेर्यद्व्यतीतताम् । तेन नास्ति वियुक्तिः सा तदानीमिति भाव्यते ॥२३१॥ मयि ताः प्रेयसां प्रेष्ठ इति४ प्राक्तनवाग्द्वये । वियुक्तेर्वर्तमानत्वं दृष्ट्वा निष्टङ्कतामिदम् ॥२३२॥ स्वेन तासां पुनः सङ्गे यद्वृत्तं प्रथमेऽहनि । तदप्यतीतरीत्याह प्रीत्या समदधदुद्धवम् ॥२३३॥ ता नाविदन्निति५ प्रोचे यत्र तासां मदात्मताम् । बभूव स महाभावः सर्वासां परतः परः ॥२३४॥ ततश्च नामरूपात्मन्युद्भूते स्वीयवैभवे । प्रविष्टा इव न स्पष्टं प्रविष्टा गत्यभावतः ॥२३५ दृष्टान्तयुगलं तत्तु नाविदन्निति केवले । अवेदनं नदीपक्षे प्यब्ध्यन्यरसताहतिः ॥२३६ समाधाविति दृष्टान्तस्याङ्गरूपतयोरितम् । दार्ष्टान्तिकस्यानुषङ्गं स्यादङ्गं तद्भिदाद्वयोः ॥२३७ मत्कामा रमणं जारमस्वरूपविदोऽबलाः । ब्रह्म मां परमं प्रापुरिति६ पद्ये तु तत्परे ॥२३८॥ पच्यन्तां विविधाः पाका७ इतीवात्रार्थिकः क्रमः । ता ब्रह्म प्रापुरित्येवं ता इत्यस्यात्र चान्वयः ॥२३९॥ १. भागवतमि.११.९॑ २. (ब्) भाव्यम्॑ ३. भागवतम् xइ.१२.१०॑ ४. भागवतम् x.४६.५॑ ५. भागवतम् xइ.१२.१२॑ ६. भागवतम् xइ.१२.१३॑ ७. भागवतम् x.२४.२६॥ कीदृग्ब्रह्मेति बोधाय यत्प्राह परमं पदम् । तत्राप्याकाङ्क्षयावादीन्मामिति स्वं पुनः प्रभुः ॥२४०॥ मयि भक्तिर्हीति वाक्यादाह प्रागेतदेव हि । धारयन्त्यतिकृच्छ्रेणेत्युक्त्या व्यानगिदं पुरा ॥२४१॥ प्राणत्यागेन मत्प्राप्तिर्नान्यवत्तासु मन्मता । मत्कामा इति पूर्वार्धे चाख्यत्प्राप्तिविभक्तताम् ॥२४२॥ अस्वरूपविदः सत्यः प्रापुर्जारधियेत्यवक् । नित्यतत्प्रेयसीरूपस्वरूपं हि तदीयकम् ॥२४३॥ यत्पूर्वं भावयन् भावं भाविनीनाममूदृशाम् । मत्कामा इति निःक्षिप्य जारत्वे स्थैर्यम्१ आक्षिपत् ॥२४४॥ मयि कामः सदा यासां ता मत्कामा इतीरिताः । कामश्च रमणत्वेन स्पृहात्र प्रतिपद्यते ॥२४५॥ अस्मिन्नपि बतेत्य्२आदि श्रीराधागीरलिं प्रति । विविच्यतां ततः सर्वमन्यदन्यद्विविच्यताम् ॥२४६॥ अत्रार्यपुत्र३ शब्दः स्यात्पत्यावेव प्रसिद्धिभाक् । तथापि स्वेषु कैङ्कर्यं दैन्यात्कन्यावदीरितम् ॥२४७॥ सङ्क्प्तापतिता ताभिः पुनरित्थमुदीरितम् । श्यामसुन्दर ते दास्य इति४ यद्वत्तथेह च ॥२४८॥ आर्यपुत्रः कदास्माकं किङ्करीणां तु मूर्धनि । भुजं धास्यत्येवमासां तत्पत्नीपदकामता ॥२४९॥ तत्कामता हि सिद्धा चेत्तेन तद्दानमव्ययम् । ये यथा मां प्रपद्यन्ते इति५ यत्वत्६ प्रतिश्रवः ॥२५०॥ वल्लव्यो मे मदात्मान इति७ यत्प्रोक्तमात्मना । सर्वेषां वचसामूर्ध्वं तदास्तां सर्वमूर्धनि ॥२५१॥ यन्मत्कामा इति प्रोचे तासां प्राप्तिस्तथा स्वयम् । तन्मया साधु तत्प्रोक्तं तासां कामितलम्भनम् ॥२५२॥ मत्कामा इति पद्यस्य तुर्यांशे त्विदमुच्यते । पराश्च सङ्गतस्तासां प्रापुः शतसहस्रशः८ ॥२५३॥ [पूर्ववदेकविंशत्या] यः श्रीगर्गवचः पूर्णं तूर्णं चक्रे स्वयं द्वयम् । एष वः श्रेय आधस्यद्य एतस्मिन्महेति९ दिक् ॥२५४॥ नाशाद्विघ्नस्य कंसादेः पत्याभासादिजस्य च । १. (ब्)ऽस्थैर्यम्॑ २. भागवतम् x.४७.२१॑ ३. इबिद्.॑ ४. x.२२.१५॑ ५. गीता ४.११॑ ६. (अ) यत्तत्॑ ७. भागवतम् x.४६.६॑ ८. भागवतम् xइ.१२.१३॑ ९. भागवतम् x.८.१६ सदा स्वमददाद्यस्माद्व्रजे कान्ताव्रजेष्वपि ॥२५५॥ [पूर्ववद्युग्मकम्] यः प्रादाद्व्रजवासिभ्यः पूर्वरीत्या निजां गतिम् । वृन्दावनस्थां गोलोकनाम्नीं यां प्रागलोकयत् ॥२५६॥ यां श्रीबृहद्गौतमीये प्राह वृन्दावनं प्रति । सर्वदेवमयश्चाहं न त्यजामि वनं क्वचित् ॥२५७॥ आविर्भावस्तिरोभावो भवेन्मेऽत्र युगे युगे । तेजोमयमिदं रम्यमदृश्यं चर्मचक्षुषा ॥२५८॥१ तदेतद्विस्तराद्ब्रह्मसंहितायां निरूपितम् । गोलोकनाम्ना२ तन्मध्ये गोकुलाख्यं हरेः पदम् ॥२५९॥ न त्यजामीति यत्तत्तु द्विधाभिप्रायकं मतम् । विरहेऽपि व्रजे स्फूर्त्या पूर्त्या शीघ्रागतेरपि ॥२६०॥ [पूर्ववच्चतुर्भिः] यः स्वपुर्योरपि स्थैर्यं याति नित्यं यथाह च । मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥२६१॥३ द्वारकां हरिणा त्यक्तां समुद्रोत्प्लावयत्क्षणात् । वर्जयित्वा महाराज श्रीमद्भगवदालयम् ॥२६२॥४ स्मृत्वाशेषाशुभहरं सर्वमङ्गलमङ्गलः । नित्यं सन्निहितस्तत्र भगवान्मधुसूदनः ॥२६३॥५ [पूर्ववद्त्रिभिः] यस्तस्मादुभयत्रापि राजतीति शुकेन च । जयतीत्य्६ आदिवाक्येन वर्णितः क्षितिपं प्रति ॥२६४॥ यश्चम्पूयुगलप्रान्तमीदृक्सिद्धान्तमीरितम् । जीवान्तर्यामितां प्राप्तस्तूर्णं पूर्णमचीकरत् ॥२६५॥ स तु हरिरधिवर्त्म दन्तवक्रं युधि शमयन् व्रजवासमाससाद । तमभिययुरमी व्रजेशमुख्याः शशिनमिव क्षुधिताश्चकोरवाराः ॥२६६॥ [आदिमारभ्य महाकुलकम्] स च जनकमुखान्निरीक्ष्य शुष्कान् स्वदृगमृतेन सिञ्चति स्म । पुलककुलमिषाद्यथाङ्कुराणां ततिमदधुर्बत तेऽपि गोपवृक्षाः ॥२६७॥ अथ हरिहरिणीदृशश्च तर्हि स्फुरणमिव प्रतिपद्य पूर्वतुल्यम् । नयनगततयान्यथा च मत्वा मुहुरगमन् भ्रममभ्रमं च तत्र ॥२६८॥ १. ग्च्प्१.१८॑ ग्चु २९.९६ एत्च्.॑ २. (ब्) नाम्नीं॑ ३. भागवतम् x.१.२८॑ ४. भागवतम् xइ.३१.२३॑ ५. भागवतम् xइ.३१.२४॑ ६. भागवतम् x.९०.४८॑ व्रजमथ विशतः सरत्नमारात्रिकमनुलब्धवतश्च तस्य लोकः । कुसुमकुलसहोदरं वितन्वन् जयजयघोषमुवाच भद्रवाचम् ॥२६९॥ व्रजमथ सुखयन् विनीतवाचा क्रममनुलब्धतदीयसङ्गमश्च । द्रुतगति जननीं सुखेन सेक्तुं गृहमदसीयमियाय कृष्णचन्द्रः ॥२७०॥ चिरमपि विरचय्य शर्म तस्यास्तदनुमतिं प्रतिलभ्य तत्तनूजः । सहसखिनिकरेण दिव्यशय्यां सुखमधिशय्य निशाविरामदृष्टः ॥२७१॥ पुनरपि निजवृन्दसौख्यवृन्दं विदधदुदित्य स नित्यचित्रमित्रः । निजमुखकमलं विकास्य नेत्रभ्रमरमधूत्सवमाततान तत्र ॥२७२॥ [युग्मकम्] अहरहरिदमेव तत्र पूर्व१ रतिनवभावमवाप केवलं न । जनसमुदितिरप्यदृष्टपूर्वां वपुरनुकान्तिमियाय शश्वदेव ॥२७३॥ दिवसकतिपये तदातियाते२ पशुपतिपालकताप्ततादृगिच्छुः । निजरथतरसा निनाय गोष्ठं सहजननीकबलं तमुद्धवं च ॥२७४॥ अघरिपुसुदृशां धवाभिमानिष्वकृततनुप्रतिमाः पुरा तु माया । सरभसमधुना स्म ता विभज्य प्रकृततनूस्तनुते प्रेमास्पदानि ॥२७५॥ अथ गतवति मूर्तिभेदरीत्या यदुपुरमत्र च राजमानधाम्नि । व्रजभवजनमात्रदृश्यरूपे मतिरुदियात्तव चित्त गोपकृष्णे ॥२७६॥ इति जन्मादिलीला ॥१॥ १. (ब्) पूर्वं॑ २. (अ) तदादिओ  [२] अथ नित्यलीला प्रकटतरविकासभाजि वृन्दावन इह भाति किमप्यदृश्यधाम । व्रजजनसहितः स यत्र कृष्णः सुखविहृतिं विदधद्विभाति नित्यम् ॥१॥ परिलसति पयःसमुद्रसीमा व्रजयुवराजसमाजलोक एषः । अमुमनु चतुरस्रमत्र वन्यागिरिसरिदञ्चितचारुतातिधन्या ॥२॥ गिरिसमुदितिरत्र सुष्ठु गोवर्धनवलिता परिभाति चित्रतुल्या । विलसति यमुनादिकानदीनां ततिरपि मानसगङ्गयानुषक्ता ॥३॥ अभिरुचिददरत्नचित्रमित्रं भुवनमिदं परिभाति यत्र वृक्षाः । तदनुकृतिपरारुचा समृद्ध्या हरिरतिदायितया च ये विभाताः ॥४॥ विलसति चतुरस्रधाम्नि घस्रक्षितिपतिबिम्बमहः सहस्रपत्रम् । उपवनमधिपत्रमत्र कृष्णप्रियतम१ आरविहारसारवारः ॥५॥ इह कमलदलद्वयालिमध्यस्थितिपथिवृन्दमतिस्फुटं विभाति । अपरपरगतावचाक्षुषाणि श्रुतिविहितान्ययनानि यत्तु जेतृ ॥६॥ मणिजनि२ अमलस्य तस्य चाग्रावलिवलयप्रतिसन्धिलब्धसन्धि । सुरभिगणवृतासुधाभदुग्धासुरभिततिः श्रयते शुभंयुगोष्ठम् ॥७॥ अथ दलवलयस्य मध्यभागं३ प्रतिलसति व्रजराजराजधानी । परिधिवद्४ अभितः समस्तगोपप्रकरगृहावलिरत्र यत्र भाति ॥८॥ रुचिलसदवरोधमध्यभागं सपरिषदन्तिमषष्ठभागपुष्टम् । व्रजनृपभवनं तु तत्र चान्तर्दिनकरवद्विदधाति रश्मिसृष्टिम् ॥९॥ यदपि मणिमयं तदेकरूपं तदपि सदद्भुतमध्यमध्यभागम् । यदि बहुविधमूहितुं समीहा स्मर मम मानस गोपचम्पूयुग्मम् ॥१०॥ इह सहचरतारकालिपुष्टः स्वकपरिचारिचकोरवारजुष्टः । स्मितमनुयश इत्यनुद्य कौमुद्यवतरतीत्युदितातरेः सुतुष्टः ॥११॥ व्रजकुलकुमुदावलीमुदां यः सततमहामहकृद्विधावतन्द्रः । पितृमुखसदसि प्रियावलीनां महसि च नन्दति गोपकृष्णचन्द्रः ॥१२॥ सुरपतिमणिमानिताङ्गिसङ्घपटपपटुताकृतहेमरङ्गभङ्गः । गुणगणभृतभारतीसमाजः स जयति गोकुलराजवंशराजः ॥१३॥ [त्रिभिः कुलकम्] इह हरिविहृतीरतीतरीत्या शृणु कथयामि सदापि नातिभिन्नाः । यदनृतमपि पूर्वरीति चेतः प्रविशति नाद्यतनं तथा यथार्थम् ॥१४॥ १. (ब्) प्रियतमुदारओ॑ २. (ब्) चिन्तामणिओ॑ ३. ओभासं॑ ४. (ब्) परिविधद्॑ ५. प्रतिलवमपि चित्रमस्य तत्तत्क इव सुधीरवसानमाददीत? ॥१५॥ अथ निशि रहसागतान्तरायां वलजमिते स्तववाद्यविद्यलोके । व्रजभवनजनः सहैव जाग्रन्मनसि हरिं दधदागतं ननन्द ॥१६॥ स मथननिनदं सगीतनादं ससुरभिदोहरवं सगोपवादम् । अमृतमथनयुक्पयोधितुल्यं व्रजकुलमुल्लसितं दिधिन्व कृष्णम् ॥१७॥ व्रजपतिमिथुनं तदाथ पुत्रप्रमदमदश्लथितप्रदानसेतु । तनयजय१ इरुत्ततिं पठद्भ्यः प्रचुरतरं विततार वारवारम्२ ॥१८॥ इह लसति हरेर्विलासगेहप्रततिरुदारसुदारसारवारा । शयनसुखमयी निकुञ्जवीथिः क्वचन च तादृशतां गता विभाति ॥१९॥ निजनिजशयनं गतं तमालिङ्गनवलितं विदधुर्विधुसुतन्वः । रजनि विरमणं यथा यथासीदघटत दोर्द्रढिमा तथा तथासाम् ॥२०॥ इह परमरमा विभाति राधा सदुडुगणे गगने यथेन्दुमूर्तिः । तदियमधिकया गिरा सभाज्या तदनुगतिं दधतां पराः सपत्न्यः ॥२१॥ व्रजसुकृतविलाससाररत्नाकरवृषभानुसुजातशातलक्ष्मीः । अघरिपुरमणीरमासु मुख्या स्वयमनुरागविहारहारिमूर्तिः ॥२२॥ दयितघनतडिद्विलासिवर्णा प्रियतमवर्णस्व३ अर्णशस्तवस्त्रा । हरिमणितरलादिदिव्यदीव्यन्मणिमयभूषणभूषणाङ्गभङ्गिः ॥२३॥ उपमितिपदवीं स्वमेव यान्तीं सुपरिमितिव्यतिशोभिताङ्गसङ्घा । प्रतिककुभशुभङ्करप्रथाभिः सहजविलक्षणाङ्कितश्रीः ॥२४॥ शशिकमलरुचां पदापि जेत्री निजनखकान्तिभिरुज्ज्वलेन तेन । अवयवकुलमन्यद्४ अन्यदस्तु प्रतिनवरोचिरुपात्तकान्तचित्तम् ॥२५॥ सुकुसुमसुकुमारतावतारस्त्रिजगति सौरभसौरभाकरश्रीः । ऋतमितमधुरप्रियार्थरीतिप्रवलितवर्णनरीतिलब्धवर्णा ॥२६॥ सुमतिमतिगुरुः समस्तविद्या सकलकलावलितातिनम्रचित्ता । ह्रियमनु विनयं नयं समज्ञामपि दधती स्वजनादि शर्मदात्री ॥२७॥ निखिलगकरुणादिकैर्गुणैस्तं स्वदयितमेव तुलां सदापि धर्त्री । गुरुनिकरदयास्पदातिभक्तिः स्थिरचरहार्दसुखामृताभिषिक्ता ॥२८॥ प्रियपदनखकान्तिलेशनिर्मञ्छनपरचित्तदशावशानुवेलम् । भ्रमरमपि तदीयदूतबुद्ध्या प्रणयजचित्रगिरा विचित्रयन्ती ॥२९॥ मरुदपि चलति स्वभावतश्चेत्क्वचिदनुकूलतया निजाभिसारे । नवविधमपि तत्र भक्तभावं विनिदधती प्रियभक्तचित्तसक्ता ॥३०॥ बहिरनुमितिदूरभावपूरस्वचरित५ आरुतया सदावसन्ती । रचयति रहसि प्रियाजने सा स्वदयितमन्वपि नर्मकेलिशर्म ॥३१॥ [नवभिः] १. (ब्) ओजनओ॑ २. (अ) वारं वारम्॑ ३. (ब्) ओसओ॑ ४. (ब्) अन्यम्॑ ५. (ब्) ओरचितओ॑ भ्रुकुटिनयनभङ्गिसङ्गि१ कुत्राप्यतिविनयप्रथि चाटु कुत्रचिच्च । वशयति दयितं हरिं प्रिया सा किमिदमिति प्रथनाय नाहमीशे ॥३२॥ हरिरपि शुशुभे स याभिरुच्चैरनुगतिमादितया सुगानधाम्नि । प्रणयऋणिदशाम्२ अवाप यासां प्रथतमा खलु तासु सैव सेव३ ॥३३॥ शृणु गुणमपरं कृपाविलासं वृषरविजामनु रासकेलिनक्तम् । मररिपुरमुकां निनाय दूरं निजनयनं बुबुधे मुदा तु नेयम् ॥३४॥ तदपि तदसहिष्णवः सपत्न्यः किमपि जजल्पुरमूरमूं विनिन्द्य । इयमपि तु मुरारिमेलनाय स्वयमुपपत्तिमदादमूषु सुष्ठु ॥३५॥ [युग्मकम्] गुणकुलमपरं किमङ्ग वर्ण्यं हरिरतिवारिधिभङ्गसङ्घरूपम् । अयि शृणु हृदय४ प्रगे च तस्याश्चरितमिदं मृदु तत्प्रियस्य चाथ ॥३६॥ अनुमितमकरोद्यदाल्पकल्पं रजनिविभागम्५ इयं तदा तु कान्तम् । अकुरुत भुजपाशबद्धमस्रस्नपितनिभं कुरुते स्म वर्ष्म चास्य ॥३७॥ अथ बहुविनयं दधन्मुरारिनयनपयांस्यपसारयनमुष्याः । स्वनयनसलिलेन सार्धम्६ अङ्गं निजमकरोतिदमियमप्यभीक्ष्णम् ॥३८॥ तदनु च ललिताविशाखिके द्वे समवयसावनयोरुपेत्य पार्श्वम् । अहिमकरहिमर्तुरश्मितुल्यात्खरवचनात्पटु लुम्पतः स्म जाड्यम् ॥३९॥ ह्रियमियमबला तदा तु याता दयिततनोरुपगूहनं विसृज्य । स्वपनमिव गता क्षणं निरीहा पुनरिव जागरणं भयाद्ददम्भ ॥४०॥ अहरुदितनिभं पराश्च याता हरिदयिता हरिमातरं भवेयुः । इति तदुदितसम्भ्रमादयासीदहरुदयानुगकर्मधर्मधाम ॥४१॥ रजनिविलसितप्रसङ्गिवासः कुलमजहात्तदियं यदेव हृद्यम् । अपरमकुरुताङ्गसङ्गि यत्स्खलयितुम्७ इष्टमहो बली तु दिष्टः ॥४२॥ पदकरवदनं मुहुः पुनाना यदिह जलं विससर्ज शुभ्रपात्रे । भुवमपि तदिदं भुवःस्वरादीन्यपि भुवनानि सदा पुनद्विभाति ॥४३॥ अकुरुत न परं बहिः स्निहं सा हरिदयिता मुहुरन्तरस्निहं च । हरिवपुरुपयुक्ततैलशेषं विनिदधती खलु या तुलां सिषेवे ॥४४॥ सुरभिभिरथ मर्दनानि कृत्वास्नपयदमूमुदकेन तादृशेन । सहजसुरभिता ततस्तदङ्गादुदयमिता विजिता दिशश्चकार ॥४५॥ [युग्मकम्] तनुमनु ववसे वरांशुकं सा तदपि तनुश्छविमुज्जगार तस्याः । घनततिपिहितेऽपि सूर्यबिम्बे दिशि दिशि राजति तस्य रश्मिसङ्घः ॥४६॥ अथवा, हरिरतिरतिगुप्यते तया सा तदपि च तच्छविरीक्ष्यते बहिश्च । १. (ब्) सङ्गिभङ्गि॑ २. जीव हस्नोत्मदे सन्धि ओf ऋ. ३. (ब्) सैव सैव॑ ४. (ब्) हृदये॑ ५. (ब्) विभावम्॑ ६. (ब्) सार्द्रम्॑ विविधमणिविभूषणं वराक्ष्याः सुखयति ताः स्वसखीरितीदमित्थम् । इह च हरिगुणस्मृतिप्रदीप्तं पुलकमुखं सुखभूषणं किमीडे ॥४७॥१ व्रजनृपमिथुनस्य चाङ्घ्रितीर्थं व्रजनृपतेस्तनयस्य च प्रपीय । जपविधिविहितद्विवर्णमन्त्रा हरिजननीमवलोकितुं प्रतस्थे ॥४८॥ अथ हरिजननीं प्रति प्रयाताप्यभिमुखमेति न सा सखीवृतापि । अपि तु कुटिलवर्त्मनानुगम्य प्रणमति तत्पदयोर्निधाय भालम् ॥४९॥ अथ हरिजननी स्वयं कराभ्यां शिरसि समुन्नमिते सयत्नमस्याः । परिमलमुपलभ्य सास्रमेनां पिहिततनुं परिरभ्यनन्दति स्म ॥५०॥ तदनु तदुपदेशतः समस्तां गुरुवनितामवनम्य रम्यचित्ता । पृथगुपविशती समस्तदृष्टीरहरत चन्द्रमुखी चकोरतुल्याः ॥५१॥ यदपि मुहुरियं सदानुभूता तदपि तदा मिलती प्रतिस्वमार्द्रम् । रजनि विरहिता२ च कारवर्षाजनिरिव घर्मकनीयसी समस्तम् ॥५२॥ इति सति चरिते हरिप्रियाया हरिचरितं शृणु चित्त वर्णयामि । गृहगतविभवे सुवर्णिते स्याद्गृहपतिवर्णनमाशु सौख्यदायि ॥५३॥ हरिदयिततमा यदाशु तल्पाद्दिनमुखकृत्यकृते कृतेहमासीत्३ । हरिरपि स तदा तदर्थमात्मप्रियसखदासगणेन सेव्यते स्म ॥५४॥ स रजनिवसनं ससर्ज तच्च स्फुटमिव सूचयति स्म गूढवृत्तम् । इह च तदिदमन्तरङ्गमित्थं पिशुनमितीव तदा स्मितं सुहृद्भिः ॥५५॥ मुखकरचरणं हरेः सुधौतं कमलवनानि जिगाय तच्च पश्य । व्रजमनु कमलालयापि यस्य श्रयति रजः पदयोर्यथात्र वन्दी ॥५६॥ बहुविधमपि तैलमिष्टगन्धं धृतमभितः स विदग्धतानिदिग्धः । सुरभितमिह राधया तु देव्या स्वयमुररीकुरुते स्म कृष्णचन्द्रः ॥५७॥ तदघजिति सुतैलमाददाने समजनि पूषिता न तत्तु चित्रम् । प्रथममपि स तन्मुदाभिजिघ्रन्नगमदमूदृशतां तदेव चित्रम् ॥५८॥ स शुचिसुरभिणा जलेन सिक्तं स्ववपुरकारयदीदृशं विधातुम् । अहह शृणु मनस्तदेव तत्तद्गुणमहसा समभूदतीवसान्द्रम् ॥५९॥ हरितनुमनु मार्जनं विधित्सन्मृदुरियमित्यधिगत्य कम्पते स्म । जलगुरुवसनं विसर्जयंस्तद्द्वयमपरं स दधत्४ प्रफुल्लति स्म ॥६०॥ कनकनिभपटद्वयं पटीयान् परिदधदम्बुदरोचिरुप्तकेशः । सतिलकलघुभूषणः स्वकान्त्या त्रिजगति कान्तिदया सखीन् दिधिन्व ॥६१॥ हरिरथ कनकासने निविश्य व्यरचयदाचमनं यथा निदिष्टम् । परिदधदुपवीतमन्यदासीज्जपमनु सन्दधदप्यदीपि तत्र ॥६२॥ यदुपुरमनु यत्प्रधानभावं हरिरकरोज्जनकेऽपि विद्यमाने । तदुचितमुचितं तु नात्र यस्मात्पितृसुततागततारतम्यमस्ति ॥६३॥ १. थिस्लिने नोत्fओउन्दिन् (ब्)॑ २. चिरहिता॑ ३. (ब्) कृतेहयासीत्॑ ४. (अ) ददत् व्रजपतिमिथुने१ सदापि बाल्यं हरिमनुचिन्तयदेवमाह नित्यम् । वयमिह२ सुकृतानि यानि कुर्मः प्रतिनिधयस्तव तत्र न स्वतन्त्राः ॥६४॥ इति हरिरिह नातिधर्मकर्माण्युषसि करोति पितुः प्रमोदकारी । अपि तु तदनुमोदनानुकूलां भविककृतिं विदधाति मातुरग्रे ॥६५॥ हरिरथ चलति स्म मातृपार्श्वं सह सखिभिर्ध्वनयन् भूषणानि । स तदवकलयन् वधूनिकायः सपदि ससार रहस्यपाकधाम ॥६६॥ अथ हरिजननी हरिं निरीक्ष्य व्रजमहिलाभिरियाय तस्य पार्श्वम् । सुतमनुगमनं व्यलोकि धेनोः सममनया नतरां गवां परमासाम्॥६७॥ पदमनु पतनं भवेन्न तस्याः सविधजुषा हरिणा द्रुतं मिलन्त्याः इति हरिरवनम्य दूरदेशाच्चिरमिव तद्वदतिष्ठदिष्टभक्तिः३ ॥६८॥ द्रुतमथ जननी तमेत्य पुत्रं द्रुतमुदनीनयद्४ आग्रहं दधाना । तदनु च सुचिरं प्रसज्य मूर्ध्नि स्रवदुदकाक्षियुगं तमालुलोके ॥६९॥ हरिरवकलयन् सरोहिणीका व्रजमहिला जननीसमानभावाः । तदनुगुणकभक्तिभागमूषां नमनकृदस्रजलेन सिच्यते स्म ॥७०॥ अथ बलवलिताः परे सखायः सहमधुमङ्गलकाः समागतास्ते । यदजितमभजंस्तदह्नि चित्रं विधुमनुषज्य सुभग्रहा विरेजुः ॥७१॥ अथ पुनरुपवेशमागतास्ते हरिबलमातृमुखाः सुखादशेषाः । हरिबलवलिता यथास्वमासन्नधि विविधासनमुद्यदस्रनेत्राः ॥७२॥ अथ पुरुगुरुदारलम्भिताशीर्बटुसहिताः प्रतिपद्य विप्रभार्याः । वलयितसकलः सरामकृष्णः प्रणमनसङ्गतमुन्नमन् दिधिन्व ॥७३॥ द्विजकुलमहिला बटुप्रधाना दिनदिनमाशिषमद्भुतां ददानाः । तदुदयमपि शश्वदीक्षमाणा विदधति साक्षतलाजपुष्पवृष्टिम् ॥७४॥ हरिरथ कपिलाः सनव्यवत्सा रजतखुरप्रकराः सुवर्णशृङ्गाः । विविधमणिभूषणाः समर्च्य द्विजबटुसादकरोद्विधानयुक्तम् ॥७५॥ धृतमणिनवकं सुवर्णपात्रं घृतपरिपूरितभूरिकान्तिमध्यम् । परिचितमुखबिम्बबिम्बमीशस्तिथिगणकाय दिदेश देशरूपम् ॥७६॥ द्विजकुलजसतीर्बटूंश्च कृष्णः प्रणमन५ ऊर्वकमीप्सयाभिनन्द्य । मधुरतरगिरा विसृज्य धाम्ने निजजननीरुचिमङ्गलं पुपोष ॥७७॥ जनयितृजननीस्वसृः पितृव्यादिकवनिताश्च वधूसुताविमिश्राः । अनुनयविनयप्रणामपूजादिभिरुपवेशतया हरिर्दिधिन्व ॥७८॥ इति पुरुकृतमङ्गलः स कृष्णः स्वकगृहनिर्मिततत्कृतिर्बलश्च । सखिचितमुचितप्रदेशमञ्चन्नशनविधिं विधिना विधित्सति स्म ॥७९॥ असितकुटिलकेशवेशभङ्गीजनजनलोभनशोभया मनोज्ञम् । निरुपमवदनं६ सनीलशुभ्रच्छवि सविलाससशोणकोणनेत्रम् ॥८१॥ १. (ब्) ओमिथुनं॑ २. (ब्) अपि॑ ३. (अ) ओभक्ति॑ ४. (अ) उदनीनममत्॑ ५. (अ) प्रणमनं॑ ६. (ब्) ओवदनः अलकविततभालमण्डितपुण्ड्रं पृथुतरनीरदमुक्तं मुक्तनासम् । मणिगणमयकुण्डलप्रभाभिः शवलितगण्डरुचातिरोचितुण्डम् ॥८२॥ गलवलयविभूषणातिरम्यं मणिसरमध्यनिबद्धरत्नवर्यम् । वलयविलसदूर्मिकाङ्गदानां च्छविचलदूर्मिभुजद्वयातिचारु ॥८३॥ नृहरिवदवलग्नलग्नकाञ्चीस्तवकचलाञ्चलचञ्चदंसुजालम्१ । कनकघनजिदन्तरांशुकांशस्पृशमणिनूपुरकान्तिपूरपूर्णम् ॥८४॥ अभिमुखमुपविष्टमिष्टपारस्परिकनिरीक्षणाक्षियुग्मम् । नवघनघनसारकान्तिप्रदवपुरुन्नतदासजुष्टपृष्टम् ॥८५॥ विविधविधविचित्रमित्रपङ्क्तिद्वयरचितद्रवतर्षिमातृहर्षि । निजनिजवधुदृश्यदृश्यरूपं रहसि विनिर्मितजालवन्त्रवृन्दात् ॥८६॥ स्वयमपि समिषं निरीक्षमाणं तदनुगवाक्षकुलं क्रियाकुलाक्षम् । दिनमुखमधिकृत्य भव्यकृत्यं स्मर सहजद्वयमिष्टमिष्टभुक्ति ।८७॥ [सप्तभिः] बहुषु दिनमुखेषु गोषु शीघ्रं व्रजनमिति व्रजभूभृता सुभोज्यम् । स्वयमशनकृता प्रहेयमित्यप्यशनमिदं लघु वष्टि कृष्णचन्द्रः ॥८८॥ अथ मरिचसितासितांशुमिश्रं घृतपरमान्नमदन्नसावमीभिः । निजरुचिमियता निचाययंश्च प्रतिकवलं प्रशशंस कंसशत्रुः ॥८९॥ नववधूनिहितं बलस्य मात्रा स्वयमुपनीय धृतं व्रजाधिराज्ञ्याम् । अकुरुत परिवेषणं तथा सा लवमपि नात्र यथा स हातुमैष्ट ॥९०॥ सपरिमलजलं तथा जनन्योर्मृदु मृदु जल्पविकासिमन्दहासम् । अनुभवदिह रामकृष्णयुग्मं क्रममनु भोजनतृष्णतामहासीत् ॥९१॥ पुनरपि जननीद्वयी शिशूनामशनरसं व्यतिहासनात्पुपोष । हरिरथ च गवावनाय खेलावनगमनाय च तं क्रमात्ततार ॥९२॥ परिमलजलधौतवक्त्रबिम्बा नवहरिचन्दनचारुचर्चिताङ्गाः । खपुरफनिदलीपुटीभिरेते सुरभितरञ्जितमूहुरास्यमध्यम् ॥९३॥ व्रजनृपतिभृतिभुक्२ उमारवृन्दार्पितमहराभरणाञ्चिकञ्चुकादि । सुततनुमनु सा विराजयन्ती जननयनान्यकरोद्विराजितानि ॥९४॥ तमसितमणिकान्तिदेहकान्तिस्नपितसुवर्णजवर्णकान्तवस्त्रम् । स्वविरचितविभूषणं निरीक्ष्य स्तननयनादमृतान्यवोढ माता ॥९५॥ मणिरुचिमुरलीसुवऋनयष्टिप्रवरशिखण्डकशोभया तु३ कृष्णः । असुखयदवरोधलोकदृष्टिं सुखयितुमित्थमियेष सभ्यदृष्टिम्४ ॥९६॥ हरिमनुकथनीयमत्र यद्यद्बलमनु तत्तदवेहि किन्तु योग्यम् । हरिबलजननीयुगं च तुल्यं परिकलय प्रियता हि तत्र तुल्या ॥९७॥ दिनदिनमनु सावनाय गन्तुं कृतमनसस्तनयस्य मङ्गलाय । सजलकलसदीपसारमारात्रिकमुखमङ्गलवस्तु विसृणोति ॥९८॥ १. (ब्) जलदांशुजालम्॑ २. (ब्) ओभृतिभृतो॑ ३. (ब्) च॑ ४. (अ) ओसृष्टिम्॑ अथ चलितमनाः स्वमातुरारादरचयदञ्जलिमच्युतः प्रणम्य । इयमवमृशती करेण चामूं स्तननयनामृतसार्धमाह चेदम् ॥९९॥ "वयमपि भवता समं प्रयामः कृतपचनं द्रुतमुष्णमर्पयामः । परिणतवयसश्चिरादभूम प्रथयसि लज्जितमत्र किं नु वत्स ॥१००॥ यदि वदति भवान् स्वधाम्नि का स्यादवसरमावकयोस्तदा विदध्याम् । गृहमहमहनि क्वचाधिवत्स्याम्यथ बलसूरपि वत्स्यति क्व चापि ॥१०१॥ कथमिव वदसि त्वमेतदेवं गृहकृतिरुद्धतिमाप्स्यतीति वत्स । तव वनगमने पुनस्तदेतत्किमपि न सिध्यति पृच्छ्यतामिदं च ॥१०२॥ अहरहरयतां वनानि वत्सः स्वसदनवाससुखं त्यजाव नावाम् । इतिमति पितरावमू न शङ्कां न च ह्रियमत्र लभावहे तनूज ॥"१०३॥ इति स तु जननीरितं निशम्य स्मितवलितं धृतबाष्पमाललाप । "द्विविदरिपुरपि प्रणम्रमूर्ध्ना१ मृदु तदनूदितमन्तरा चचार ॥१०४॥ जननि यदि पिता तथा च माता परिणमति स्म शिशुर्बभूव योग्यः । शिशुरयमुभयत्र तत्र राजन्यति यदि तर्हि विभाति सुष्ठु योग्यः ॥१०५॥ वनमनु धवलावनाय मादृक्यदटति तन्मिषसिद्धिमम्ब विद्धि । सुखविहरणमेव तत्र सार्धं सखिभिरमीभिरनुक्षणं बिभर्ति ॥१०६॥ विपिनमनु विहापितं भवत्यो जननि चतुर्विधमन्नजातमद्मः । अमृतजयिफलानि येन वन्यान्यभिरुचिमत्तुमयाम२ तत्र भूरि ॥१०७॥ व्रजरिपुकुलमूलमाशु हन्तुं पुनरगमं३ पुनरागमं व्रजं च । अजनि च जगतामदृश्य एष स्फुरतु कथं बत मातरथ भीतिः ॥१०८॥ अहह बत गवां कुलं समस्तं मम पथि तिष्ठति मद्गतिं प्रतीक्ष्य । मयि गतवति शष्पमत्ति चैवं हृदि मम धीरदशामशाश्यते स्म ॥"१०९॥ अथ हरिजननीं पुरन्ध्रि४ आन्याततिरवदद्धृतनीरवृष्टिदृष्टि । "भविकमनु मनुष्व नित्यकृत्यं भवति तदेव गतिः परावरा च ।"११०॥ तनुजमनु पुरन्ध्रिभिः शुभाशीर्व्रततिरकारि ततः स्वयं तु माता । विधृतकरतयाङ्गनाय सास्राप्यमुमवतारयति स्म मन्दमन्दम् ॥१११॥ स्पृशति दिशति वाञ्छति प्रयाति प्रणयति मन्दति नन्दति ब्रवीति । इति बहुविधलालनां दधाना सुतमनु सा जननी न तृप्तिमाप ॥११२॥ अथ गुरुवनितागणेन मात्राप्यनुसरणादवरोध५ एतुमाप्तः । प्रणयविषरबन्धतस्तु दामोदरपदवीं पुनरेष शश्वदाप ॥११३॥ अथ हरिगमने क्रमेण सिद्धे हरिजननी निजगेहमेव गत्वा । गृहकृतिकलनान्निनाय कालं वृषरविजा चरितानि तु स्मरामि ॥११४॥ यदवधि हरिरेति मातृपार्श्वं तदवधि सा च पराश्च जालरन्ध्रात् । हरिमवकलयन्ति यत्र सर्वा मुहुरपि मोहमयन्ति संहरन्ति ॥११५॥ १. (अ) मूर्धा॑ २. (ब्) उत्तमयाम॑ ३. (अ) पुरगमं॑ ४. (अ) पुरेध्रिओ॑ ५. (ब्) अवरोधिओ यदनुपदमियं तदार्यपत्न्यां दयितकृते विनिधाय दिव्यमन्नम् । सुखमनुभवति स्म तत्तु मां च क्षिपति सुधाजलधावहो क्व यामि ॥११६॥ तदशनमनु यद्विहासजल्पं हरिकृतमन्वधित स्वकर्णयुग्मम् । स्मितनयनयुगं तथा निजालीः प्रति तदिदं मम चित्तमावृणोति ॥११७॥ हरिरहह तदा वनं प्रयातुं निजतनुमास्तृत दिव्यवस्त्रलक्ष्म्या । इयमसहनमानसा सपत्न्यामिव निदधे सकटाक्षमक्षि तस्याम् ॥११८॥ स विपिनगतये यदाप्युदस्थादधित धृतिं नहि तर्हि खञ्जनाक्षी । वपुरिव जहता स्वचेतसा तं प्रसजति सा स्म वनाय निर्गमाय ॥११९॥ सरसिजदृगथाङ्गनेऽवतीर्णः स्मितममृतं विचकार यर्हि दिक्षु । इयमतुलरुचिः सखीषु गुप्ता स्वनयनमञ्जलिमाचचार तर्हि ॥१२०॥ मुरजिति निरिते वरावरोधाद्गुरुवनितासु निवृत्य चागतासु । इयमथ ललितादिभिः स्वगेहं प्रति गमितागमयत्क्लमेन कालम् ॥१२१॥ प्रथममजितमीक्षते गवाक्षात्तदनु च वर्णयति प्रियाभिरेषा । इह मुहुरपि तर्षधर्षमस्याः पुरु दधदक्षियुगं न शान्तिमेति ॥१२२॥ सृजति हरिकृते सहारमाल्याद्यतुलमियं निजसङ्गिनीसहाया । हरिगुणगणगानमप्यपूर्वं मृदु विदधाति तथापि नैति शान्तिम् ॥१२३॥ मृगमदतिलका स१ ईलरत्नश्रुतियुगलाभरणा घनाभवस्त्रा । हरिवसनसनाभिकान्तिरेषा स्वकरतिदीपनतां स्वयं जगाम ॥१२३ जगुरिह हरिरागि राधिकायाश्चरितमनूतनमालयः प्रसज्य । स्वयमियमपि तत्र तासु कस्याश्चिदपि जगावनुरागिपूर्वरागम् ॥१२४२ मुरजिति जननीगृहात्प्रयाते वनमनु वर्षवरान् सुसख्यदिग्धान् । अवसरमनु वेषभङ्गिभाषादिषु वधुपुंस्तुलितान् दिदेश सुभ्रूः ॥१२५ "प्रतिनिधितनवः स्थ यूयमस्माकमिति निजप्रभुना समं प्रयात । प्रभुमपि तमुपेत्य मद्विधार्हं परिचरणं कुरुत व्यतिप्रसज्य ॥ मुहुरथ च भवादृगेक एकः सुचरितमस्य निरीक्ष्य नः समेतु ।" इति तदनुमतः स सक्रमात्तं मुहुरनुभूय जगाद तामुपेत्य ॥१२७॥ अथ हरिरगमत्पितुः सभायां दिविजगणस्तुतभावभावितायाम् । पशुपतिपरिपूज्यपाशुपत्यव्रजजनभास्कारभासिताम्बरायाम् ॥१२८॥ द्विजकलकलपोषवेदघोषप्रकरजमङ्गलसङ्गतिं व्रजन्त्याम् । दिशि दिशि कविसूतमागधादिप्रकररवस्तवविस्तरं भजन्त्याम् ॥ भरतविवृतगीतवाद्यनृत्यप्रचयभिदादिविदां मुदां३ धरण्याम् । निजपितृकुलमातृवंशतत्तद्विवहनपुण्ययुजां प्रमोदखन्याम् ॥१३०॥ बल४ अखिसहितः स सर्वचक्षुस्ततिषु ववर्ष सुधामिवाङ्गकान्तिम् । जयजयजयकारवारसारः समजनि येन तदानशे जगच्च ॥१३१॥ [चतुर्भिः] १. (ब्) सुओ॑ २. थिस्वेर्से मिस्सिन्ग्fरोम् (ब्)॑ ३. (ब्) मुदा॑ ४. (अ) मर्गिन् स्वकओ अपि वरगुरवस्तमाशु दृष्ट्वा निजनिजपीठवरा उपेतवन्तः । जलनिधिमिव रागितानदी तान् प्रसभममुं वहतीति तच्च युक्तम् ॥१३२॥ क्रममनु स गुरून् वराननंसीद्युगपदथ प्रणनाम कांश्चिदन्यान् समगमदपरान्नतान् भुजाभ्यां करकमलेन तथा दृशा परांस्तु ॥ व्रजमनु परमा वरादिभेदा दवरतया यदपि स्फुरन्ति लोकाः । तदपि विधिरजल्पदत्र मित्रं पदमिति हार्दममुष्य वक्ति सुष्ठु१ ॥ हरिरसितमणिप्रवेकमूर्तिर्लसति बलः पृथुपूर्तिहीरमूर्तिः । निजनिधिरिति पुण्यजातलब्धः स्वयमिति सक्रममाकलि व्रजेन ॥१३५ व्रजनृपतिरथ स्वबाष्पनीरस्थगितगलः क्षमते स्म नापि वक्तुम् । तदपि हरिरवेत्य तस्य हृद्यं स्मितनयनाम्बुवृतामुवाच वाचम् ॥१३६ "अयि पितृचरणा न चास्ति किञ्चिद्व्रजविपिने भयदं पुरावदत्र । स्वयमपि धवला वनादुपेयुस्तदपि वयं खलु खेलितुं व्रजामः ॥" तमवददुपनन्दमुख्यवृन्दं "व्रजसदसामसवः पिता तवायम् । त्वमसि तदसवस्तदत्र वाच्यं किमिव भवेन्निखिलं त्वमेव वेत्सि ॥१३८ व्रजपतिरथ याचकान् समीक्ष्य स्वसुतसुखाय पुनर्ददे बहूनि । व्रजपतिसुतमण्वमी यदाशीस्ततिमददुर्न स तत्र साम्यमाप ॥१३९ अथ वनगतयेऽञ्जलिं दधाने मुरजिति तद्गतितर्षमूहमानाः । श्रुतिभणितशुभान् द्विजाननुप्राग्गति तममी धवलान्तिकाय निन्युः ॥१४० स्वयमसविधतः समीक्ष्य धेनूर्२ न ययुरमी प्रययुस्तु कृष्णमुख्याः । रभसवशममूरमूंस्तु वीक्ष्या त्मजसदृशानु समं समं प्रणेदुः ॥१४१ अथ जिहि जिहि कारतः समस्ता विदधुरमी धवला वनाय नुन्नाः । हरिसुरभिममूस्तु विन्दमाना हरिमनुगम्य मुहुर्निवृत्तिमापुः ॥ तदपि गुरुगणे स्थिते हरिस्तु विगतमनःस्थितिसूचनां चकार । हरिमतिमवबुध्य बाष्पकण्ठः स च कथमप्यपसर्यणं बभाज । वचनवदनमार्जनानुशिक्षाद्यनुगतिमुज्जहदप्यमुष्यतातः । अमुमनुनयनानुवृत्तिचर्यां न तु शिथिलामिव कर्तुमीशितासीत् ॥१४४ कथमपि विनिवृत्य सद्म याति व्रजधरणीशितरि व्रजे च कृत्स्ने । हरिमनु विनिवृत्य दृष्टिरस्मान्न विघटितुं घटते स्म तस्य तस्य ॥ मुरजिदथ विशन् वनान्तरालं गुरुकुलसन्नतिकृद्विदूरतोऽपि । गुरुभिरतितरां तदाशीस्ततिभिरपुष्यत तुष्यदक्षिलक्ष्मि ॥१४६ अथ हरिरटवीमटन् सुहृद्भिः सहजवरेण च गाः स्थिरीविभाव्य । अभिरुचितपथः प्रयाणयुक्ता समवलयन्मृदुगानरीतिहूति ॥१४७ १. (अ) स स्म [?]॑ २. (ब्) गावः॑  अथ वनमगमद्बलादिसङ्गं परमसुखप्रदमेष मन्यमानः । विविधतरुलतासु१ कोकिलादिद्विजमृगसङ्गीतमाविशत्परन्तु ॥१४८ मधुपपिकशिखिप्रधानपक्षिप्लवगरुरुप्रियकादिजन्तुभेदान् । ध्वनितनटकलाभिरन्वकुर्वन्नजितबलादि२ उदामुदारबाल्याः२ ॥१४९ इति बहुविधखेलया मुकुन्दं सुखयति बान्धववृन्दमेतमेव । निजनिजविविधस्वभावतश्च प्रमदयति प्रतिदिष्टमिष्टमिष्टम् ॥१४९ स्थिरतरवरबुद्धयः सखायः सचिवचरित्रतया हरिं भजन्ति । चपलमतिमिलद्विदूषकार्हप्रहसन३ आव्यगिरः प्रहासयन्ति ॥१५० ऋजुतमचरितप्रयुक्तयुक्तस्थितिगतिरीतिसमाः सभाजयन्ति । प्रतिमुहुरपि वामतायमानस्वचरचितजल्पकलाविकल्पयन्ति ॥१५१४ अतुलकुलजशीलमीलदुग्रप्रकृतिकगीर्मृदुलाः सदार्द्रयन्ति । गिरिगिरि च वितण्डयातिचण्डप्रभरचनप्रभवो विचित्रयन्ति ॥१५२ इति निखिलगणा विचित्रतत्तद्गुणगुणितप्रणयप्रकर्षचित्ताः । बहुविधविधयः परे परे ते सुखदममुं सततं सुखाययन्ति ॥१५३ क्वचिदपि दिवसे समित्य गोवर्धनमिह मानससञ्ज्ञितां च गङ्गाम् । रविदुहितरमत्र चाह्नि लीलाः स्थलगलगा विदधे त्वदीयकान्तः ॥१५४ क्वचन च सखीभिः समेति भाण्डीरकमधियोजनमस्ति यः प्रसज्य । स्थलवनयमुनादि केलिमस्मिन् विविधविधं विदधाति कृष्णचन्द्रः ॥१५५ अयि तव दयितः कलेन वेणोश्चलयति देवगणांस्तथा पतङ्गान् । इदमपि घटतां परन्तु चित्रं स हि धुनुते निरसूनचेतनांश्च ।१५६ ह्वयति च धवलाजनाय यर्हि त्वदधिपतिर्मधुरेण शब्दितेन । जलमपि करकायमाणमासां मृदु मृदु चर्वणया५ रसं बिभर्ति ॥१५७ निरुदकगिरिसानुगाः कदाचिद्बहुधवलाः शवलास्तृषा निरीक्ष्य । ध्वनयति मुरलीं पतिस्तवास्माद्धरणिधरद्रवता हि ताः पिपर्ति६ ॥१५८ कलयति यमुनादिसञ्ज्ञया ताः शुषिरकलाश्रितया स एष धेनूः । इह निजनिजनामबुद्धिनद्यः किमयुरमुं किमु वा कलान्तकृष्टि ॥१५९ क्वचन च दिवसे निदाघमाध्याह्निकसमये विगता वृष्टि७ रदेशे । दधदथ मुरलीकलं पयोदांश्च्युतसलिलान् विदधाति गोषु गोषु ॥१६० क्वचन च दिवसे समार्द्रचित्तः कलयति वेणुकलं तथा यथानु । द्रवति गिरिगणे पदाङ्कमुद्रा जहति शिला न कदापि तत्र तेषाम् ॥१६१ रचयति मुरलीं कदापि नावं सरिति पशून् पशुपांश्च तारयन् सः । मधुरकलतया यदा तु तस्या घटयति तां कठिनां कुतूहलेन ॥१६२ क्वचिदपि कवयः शिलाद्रवाद्यं बत कवयन्ति कविप्रचारवृत्त्या । १. (अ) ओलतालिओ॑ २. (अ) मर्गिन्मुदे मुदा वयस्याः॑ ३. (ब्) प्रहसनं॑ ४. थिस्वेर्से अब्सेन्त्fरोम् (ब्)॑ ५. (अ) च वर्णया॑ ६. (अ) पिपर्त्तिः॑ ७. (ब्) विगतावृतिओ दधति सरसतां च तत्र विज्ञा हरिमनु तत्तु निजं किमत्र वर्ण्यम् ॥१६३॥ सखिवृषमहिषान्मुदा युधा तान् वलयति संवलते च तत्र तत्र । क्व च विजयपराजयावभीक्ष्य प्रहसितमञ्चति युष्मदीयकान्तः ॥१६४॥ क्वचन च रचनाञ्चिवस्त्रयुग्मं क्वच सतिरीटम्१ अकुञ्चकान्तरीयम् । क्वच नटरुचिभृत्पटं क्वचापि प्रवलितमल्लतुलं स वष्टि वेषम् ॥१६५॥ क्वचिदपि विदधाति मल्ललीलां क्वचिदपि नृत्यकलां सुहृद्भिरेषः । द्वयमपि भिदया मृशामि नेदं गतिरतिचित्रतमा समा द्वयेऽपि ॥१६६॥ हरिणविहरणं सतुण्डयुद्धं नयननिमीलन्शालिनर्मगालिः । इति बहुविधखेलनाप्तवेलं स्वमशनमप्यनिशं विसस्मरुस्ते ॥१६७॥ अथ बहुविहृतिं विचित्रचर्यां स रचितवान् सखिभिः सुखं निषण्णः । शयनमनुगतश्च वीजनाद्यैः परिचरितः सुखमेति तद्ददाति ॥१६८॥ इति हरिचरिते तु तेन तेन श्रवसि चिते मुरलीनिनादरम्ये । सपदि तदवधानमादधाना मुहुरभजन्त दशाममूममूश्च ॥१६९॥ अधि हरिमुरलिस्वपूर्वरागस्फुरणदशावशापुरावदीहः२ । वृषरवितनयामुखाः सुदुःखास्तदमिलनान्मुमुहुर्मुहुर्मुहुश्च ॥१७०॥ इति सति सचिवायमानरामा जगदुर्"अहो कथमत्र विह्वलाः स्थ? । व्रजनृपगृहिणीनिदेशवर्यं कथमथ विस्मृतमार्तिभिः कुरुध्वे ॥१७१ अदिशत सदया हरेः प्रसूर्यद्द्विविदरिपोरपि सा विधाय युक्तिम् । तदनुसरत कान्तरागशान्तस्मृतिततयस्तदुपायमातनुध्वम् ॥१७२ प्रथममशनमीशितुः प्रभाते स्फुटमपरं प्रतिभाति सार्धयामे । अवरमपि तुरीययामालम्भे परमथ रात्रिमुखे व्यतीतमात्रे ॥१७३ प्रथममशनमर्प्यते जनन्या तदपरमाव्रियते सुहृद्गणेन । पितृमुखगुरुभिर्व्रियेत तुर्यं भवदुपयुक्तमतस्तृतीयमेव ॥१७४ व्रजतटमटतः मुरारिशत्रोरभिगमनं भवतीभिरत्र युक्तम् । स हि मिषमुपधाय युष्मदीयं परिसरमेष्यति धास्यते च शर्म ॥१७५ त्वरितमिह तु कान्तभोज्यवर्यं कुरुत किमप्यधुना तु ताः प्रयान्ति व्रजनरपतिना समश्नता या व्यधिशत दापयितुं सुताय भोज्यम्" ॥१७६ इति हरिवनितासु सुस्थितासु व्रजपतिगीर्वशतः पुरन्ध्रिमुख्याः । बहुविधमशनं विधाय शीर्ष्णि प्रमदभरं मनसि व्रजान्तमीयुः ॥ अथ निजनिजकुल्यबालसङ्घा कुतुकपरीततया द्रवन्नमूभिः । क्वचिदपि पुरतः क्वचिच्च पश्चात्क्वचिदपि दक्षिणवामतः प्रसज्य ।८ वनलसदशनप्रधानखेलाकुतुककुलं बत चित्त तस्य पश्य । त्वमसि किल कियन्मुनीन्द्रवर्यानपि यदिदं निजवन्दिनः करोति ॥१७९॥ क इह बत भवन्ति ते मुनीन्द्राः स्वयमपि यच्छ्रवणेऽपि राधिका सा । १.(ब्) सकिरीटम्॑ २. (ब्) ओईहाः अजितमपि गुणेन मोहयन्ती मुहुरपि मोहमुपैति तत्र कस्त्वम्? ।१८०॥ हरिहरिसुहृदः स्फुरद्विहारा ददृशुरमूरमुकानमूश्च तत्र । तदपि तदुभयं कुलं न भोगं प्रति विविवेच विहारमग्नबुद्धि ।१८१॥ कथमपि मधुमङ्गलस्तु पश्यन्नथ विविवेच जवादुवाच तत्र । "धृतविहृतिमदा न चेत्पुरस्तात्कृतमपि पश्यथ का क्षुधा वराकी?" ॥ जगदुरथ धृतस्मितं सखायः "क्वचिदपि चेन्न भवेत्प्रयोजनाय । प्रकटतरमजागलस्तनस्य प्रतिमदशां द्विज एष संवलेत ॥१८३ इति बहुहसितं विधाय तस्मिन् स्थलवलये विनिविश्य कृष्णमुख्याः । चरणकरमुखं विशद्य वार्भिः समशनशर्मकृते धृतेहमासन् ॥१८४॥ बहुरुचिरुचिरांशुकं दुकूलादिकमधिकृत्य शुभः शुभंयुवेशः । सहसखिनिकरः स एष कृष्णः सरभसभोजनतृष्णतां बभाज ॥१८५॥ विधुमनु कमलं बलिं प्रदत्ते हसति चकोरयुगं तदेव वीक्ष्य । इति हरिमवलोक्य तत्र तस्थुर्व्रजमहिला बत चित्रतां भजन्त्यः ॥१८६॥ पृथकदुपविशन्१ विलोकयन्त्यः स च मधुमङ्गलकः सनर्मजल्पः । पृथगिव परिवेषयन् प्रहासं रसमितवान् सुरसान् षडप्यमुष्णात् ॥ सममशनसमर्पिणीभिराप्तान् व्रजपृथुकान् सविधे विधाय सास्रः । मुरजिददनभाजनादमीभ्यः प्रतिकवलं कवलं ददन्ननन्द ॥१८८॥ सुरभिघृतपरिष्कृतान् समस्तान्२ षडपि रसान् प्रतिचर्वणं रुचिप्रान् । प्रतिलवरुचिभोक्तृषु प्रदाय प्रतिलवमाप रुचिं पुरन्ध्रिवर्गः ॥१८९॥ इह बहुविधसन्धितानि निम्बूप्रभृतिफलानि रुचार्पितानि रेजुः । निकटविनिहितानि यानि चासन् प्रतिमुहुरेव च सर्वरोचनानि ॥१९०॥ अभिनवपरिपक्वनारिकेलद्रववलितं मरिचादिचारुगन्धम् । लवलवणरसप्रियं कदुष्णं समुचितपात्रभृतं च मुद्गयूषम् ॥१९१॥ सुरभिसुरभिजातजातसर्पिःप्लुतमथ पीतनपीतमिष्टगन्धम् । अपि परिमलशालिदिव्यशालिप्रभवसुकोमलशुभ्रशोचिरन्नम् ॥१९२॥ शृतघृतमुहुरुद्धृतप्रमृष्टद्विदलवटीविविधप्रकारवारम् । हरिरभिजलसिक्तनिक्ततिक्तस्वरसविविक्तविचित्रपाकभेदम् ॥१९३॥ नवचणककलायमाषमुद्गप्रवरजयुक्तकटुप्रसक्तसूपम् । फलदलकुसुमत्वगष्टिकन्दप्रसवकृतप्रथयुक्तिपङ्क्तिभेदम् ॥१९४॥ शृतघृतधृतजीरकाञ्चिधात्रीफलरसपाककषायरम्यचुक्रम्३ । बहुविधरचनाचणाम्लसङ्घं घनदधिमण्डकरोटिकाज्यपक्वम् ॥१९५॥ श्रपितपयसि बाष्पपङ्कपिष्टप्रवलितशर्करमुग्धदुग्धसारम् । अमृतजयिरसप्रसारशालानिभविभवप्रसराग्रणीरसानाम् ॥१९६॥ सपरिमलं जलं तथाम्बधात्री४ प्रणयजकोपविलासवल्गुवाचम् । १. (ब्) पृथक्समुपविशन्॑ २. (ब्) समाप्तान्॑ ३. (अ) ओचुक्रुः॑ ४. (ब्) ओस्वधात्रीः कुलवरपरिवेषिकाततीनां सखिवलयेन विवादशर्मजातम् ॥१९७॥ अनुभवदिह रामकृष्णयुग्मं मुहुरपि भोजनतृष्णतामवाप । तदपि च निजसेवकेषु फलावितरणकामतया ततो व्यरंसीत् ॥१९८॥ [अष्टभिः]१ अरसयदिह तेमनानि षष्टिं सहसखिसङ्घतया स्वयं मुरारिः । मुहुरतिसरसानि यानि तत्र स्पृहिजनभावभिदां विधुन्वते स्म ॥१९९॥ सपरिमलजलेन वक्त्रशुद्धिं विदधुरमी बत तादृशेन यत्तु । अशनजसुखपूरि सुष्ठु चक्रे हृदयगतं किमपि प्रसादशातम् ॥२००॥ हिमजलहिमबालुकासिताभिर्विरचितपानकपायकाः सखायः । हिमकरवरगन्धवीटिकाभिः कृतमुखवासतया सुखं विरेजुः ॥२०१॥ इति हरिमुपलभ्य तृप्तिमेता हरिजननीमुपलम्भयाम्बभ्हूवुः । तदशनममृतं विभाति तस्मिन् कथमथ तत्कथनं तथा न तस्याम् ॥२०२॥ तदनु तदनुगा तु कापि कापि व्रजकमलाः सजती तदेकशर्मा । हरिचरितकथासु लम्भिताशा हरिमपि लम्भयितुं द्रुतं ववाञ्छ२ ॥२०३॥ अथ पशुपकुलक्षितीशपत्न्याः स्वमशनकालमधीत्य तत्र याताः । तदशनमनु तां निषेव्य तद्गीर्वशमशनं रहसा चरन्त्वमूश्च ॥२०४॥ अथ मुहुरुपलब्धगोपराज्ञीवचनबलाः स्वयमिच्छमानसाश्च । निजनिजकरसाधितं वितर्तुं निजरमणाय रमा बभूवुरुत्काः ॥२०५॥ दयितमभिसरन्तु तं तु धन्याः शतशतयूथमिताः स एव चासु । विरचयतु गतिं कयापि शक्त्या स्मर मम चित्त मुदा सदापि राधाम् ॥२०६॥ शृणु हृदय दिशामि राधिकायां हरिमभिसारय तत्र तां कदापि । द्वयमिदमनु पूजनं तदेव द्वयमनु यत्पुरुतोषपोषकारि ॥२०७॥ अथ सह धवलाभिराव्रजन्तं व्रजतटमह्नि तुरीययामभागे । पुरुयुगविरहादिवातिखिन्ना व्यतिकृतसत्वरताविधायिजल्पाः ॥२०८॥ घृतरचितपचं सुमिष्टमिष्टं तदनु च षाडवसङ्गिनीं रसालाम् । द्रुततरगमना वृषार्कजाता व्रजदभिगृह्य सखीभिरात्मकान्तम् ॥२०९॥ [युग्मकम्] निजवनगमनार्हसूक्ष्मरन्ध्रं द्रुतमतिगम्य वनं प्रविश्य सर्वाः । प्रणयि सविधदूरतस्तु तस्थुर्जडहृदयाः स्पृहया च लज्जया च ॥२१०॥ हरिरिदमवगम्य रम्यचेताश्छलमकरोन्निखिलेषु वच्मि तच्च । दिनदिनमनु कापि देवता मां कलयितुमेति रहस्ततः प्रयामि ॥२११॥ त्वरितमिह तु यूयमाव्रजन्तं कलयत मामिति दूरतामुपेत्य । अथ किमुचितमित्थमूहमानस्त्रिचतुरवालकसङ्गि तिष्ठति स्म ॥२१२॥ १. (ब्) अद्द्स्कुलकम्॑ २. (अ) मर्गिन् गतं रसाञ्चि॑ अथ कथितचराः सखीसदृक्षा नवनववर्षवरा हरिं परीत्य । स्वगतमुत तदीयमिष्टमर्थं समघटयन् सह सा बभाषिरे च ॥२१३ "व्रजनृपसुत ताः सदा भजन्ते नवनवतां तदमूः सदा कुमार्यः । अपि धृतसुबृहद्व्रतास्तदासां तव मुरली क्षिपति व्रतं मुहुश्च ॥"२१४॥ हरिरिदमवबुध्य सुध्यधीशः सहसितमाह "कथं क्व वात्र दोषः । अहमपि स कुमार एव तस्मादभिगमनं मयि युक्तमेव तासाम् ॥२१५॥ तदपि च बत ता व्रतेन खिन्नाः पुनरियदागमनं न तासु युक्तम् । इति यदभिगतं तदेव तासां वयमनुयाम तथा सदाश्रयाम ॥"२१६॥ इति स परिहसन्नमूनमूषां हृदि मुरलीजनिमोहनं तु जानन् । सकरुणदृगमूं समीपमञ्चन् प्रचुरसखीमिलितां ददर्श राधाम् ॥२१७॥ हरिमिलनविदूरभावनातः क्वचन च दृष्टिविसृष्टियुक्तं नेत्राः । हरितनुमवलोक्च्य तास्तु साक्षात्कुचितवपुर्लघु लिल्यिरे लतासु ॥२१८॥ अथ हरिरनुनीय ताः पुरस्तात्परिवलयन्नुपहारमाददानः । स्वहृदि सुखसुखं प्रसज्य ताभिः प्रततपरस्परशर्मतां दधार ॥२१९॥ यदपि समयभेदतः समग्रा दधति तदास्पदतां भुवः क्रमस्थाः । तदपि दिगवलोकनाय योग्यं निशमय चित्त तदेतदद्य धाम ॥२२०॥ पुरुमणिचयचारुशोभगोवर्धनशिवदिग्गतसाणुनि प्रशस्ते । सुरतरुजयिभूरुहालिशालिप्रसवसमुच्चयमण्डिकुण्डयुग्मम् ॥२२१॥ अनुपमितितदन्तरालवाले मृदुमृदुमारुतभाजि केलिधाम्नि । परिमलवनकृष्टधृष्टहृष्टभ्रमररवक्रमजातजातसाम्नि ॥२२२॥ मुरजिदुपविशन् स्मितार्पिताशीरसितमणिप्रणिधानहारिभासी । कनकगणमनःप्रकाममानप्रवसशनकृद्वसनश्रियां निवासी ॥२२३॥ निजवररमणीसुवर्णवर्णव्रततिततिस्मितपारिजातजातिम् । अनुभवपदवीं नयन्नयं प्रमदमदस्थगनाय नाप सातिम् ॥२२४॥ [चतुर्भिः] क्व च यदि गणनातिगाः सहायाः स्थलमपुरुप्रथमेककश्च कृष्णः । तदपि भवति सावकाशरीतित्रयमपि चित्त विचित्रमत्र पश्य ॥२२५॥ यदपि सुबहवस्तदीयकान्ता निजनिजगर्वधराधरादबन्ध्याः । तदपि कलय चित्त सा तु राधा निखिलपुरःसरतां गता विभाति ॥२२६॥ हरिमनु रसनीयमेतया यत्परिपरिवेषितमत्र तत्तु भाव्यम् । रसततिरिह पर्यवेषि यान्या कथमथ सा परिचेयतां प्रयातु ॥२२७॥ नयनवलययान्वसूचि किञ्चिन्निटिलकचालनया तथान्यदत्र । मृदुतरवचसा तथा परं च प्रियतमपृष्टतमं तया रमण्या ॥२२८॥ हरिरथ विविधं विभज्य भोज्यं पृथुपृथुकानपि तान्मुदोपयोज्य । मुखमनु सरसं जगाम यं यं१ नहि मुखतः प्रथनाय तस्य शेके ॥२२९॥ अशनरसनया जगां तृप्तिं न तु दृशि रोचनया मुरारिरस्याः । तदपि मुररिपुर्२ गावां व्रजाय व्रजनमनुव्रजितुं ततो व्यरंसीत् ॥२३०॥ अथ मुख३ अरशोधनाय तस्मिन् सुरभिजलादिकमर्पितं सखीभिः । यदनु सुरभिता न चास्य मात्रं सुरभितमाचरदप्यमुष्य चित्तम् ॥२३१॥ अशनपदमिदं विसृज्य कृष्णः सुभगमनु४ पुरतः स्थलं समित्य । सुखमनुमुखवासनं प्रियाभिः सह रसयन्मुखवासनं जगाम ॥२३२॥ तदनु च परितः सखीसखीभिर्निजनिजशिल्पविलासहारमाल्यम् । उपहृतिपदतामनायि तच्च प्रतिरुचिभिश्चितमुल्लालस तस्य ॥२३३॥ असितमणिसुवर्णवर्णमागादभिमुखतां मिथुनं मिथस्तदग्रे । प्रतिफलिततया विलोक्य यत्तु व्यतिषज्यमानमिव स्मितं सखीभिः ॥२३४॥ अथ विदधदमूषु नर्मवाचं स्वयमनुसन्दधदप्यमूममूषाम् । अमृतसरिति सेककेलिमाभिः समममत स्फुटमच्युतश्चिराय ॥२३५॥ अथ हरिरवदद्गवावनाय त्वरिगहनान्तरहं रहः प्रयामि । पुरु मम जननी निदेशतुष्टिप्रथनकृते त्वमपि व्रजं प्रयाहि ॥२३६॥ अथ वरसुदृशां श्रुतिस्तदेतत्प्रवणतया निरधारयद्यथार्थम् । निजगृहगमहाक्षमा तु दृष्टिः श्रुतिपथरोधनकृद्विघूर्णति स्म ॥२३७॥ नयनयुगलमश्नुते सदाम्भः क्व नु निवसेद्बत दुर्लभः स एषः । इति हरिवनिता हरिं निरीक्ष्य ध्रुवमजहुर्नयनाम्भसां कुलानि५ ॥२३८॥ मुरजिदुचितचारुचातुरीभिर्मुहुरपि नेत्रविनोदनक्रियाभिः । स्वसदनवदनं विधातुमासां निकरमशक्यत न स्वमग्नमन्तः ॥२३९॥ यदपि मुररिपुः प्रियावदेव प्रवसनकातरतामवाप तत्र । तदपि तमनु पौरुषं बभूव स्फुटमबलावलयावलम्बनाय ॥२४०॥ दिविजफलजयीनि तर्हि वृन्दावनजफलानि बलीन् प्रियावलीशाम् । सुखयितुमयमालिसादकर्षीत्परिमलसात्कृतवन्ति तानि ताश्च ॥२४१॥ अथ कियदपि दूरवर्त्म याता वनवलयं जलतीरगं निरीक्ष्य । श्रमविरतिकृते मुरारिरामा निविविशिरे वृषभानुजाप्रधानाः ॥२४२॥ अथ वृषरविदेहजा सखीभिर्व्यतिहसितप्रथया मुदाञ्चिताभिः । मुरविजिदशनाविशेषमादत्तदशनशर्मकलामभावयच्च ॥२४३॥ समगुणपरिचारिकाभिरेताः सुरभिजलव्यजनादिधारिणीभिः । सरभसमुपसेविताः समन्ताज्जितकमलादिगुणाद्विरेजुः ॥२४४॥ अथ सखिगणवेषमाश्रयन्त्यः पटुगतिवर्षवरा मुरारिपार्श्वम् । प्रति सपदि गतास्तदा च गोष्ठं हरिदयिता निजसद्मपद्ममाप ॥२४५॥ १. (ब्) यत्तन्॑ २. (ब्) मधुरिपुर्॑ ३. (अ) मर्गिन् सुखओ॑ ४. (अ) अतः॑ ५. (ब्) कुलालि॑ व्रजपदमनुगम्य गोपराज्ञीम्१ अपि तदनुज्ञपिता स्वधाम गत्वा । स्वदयितमुपसेवितुं रजन्यां बहुविधशिल्पविकल्पमाचचार ॥२४६॥ इह मृदु मृदु कृष्णगानकर्त्री वृषरविजा ललितादिभिः सखीभिः । मुहुरपि समसान्त्विकृष्णवृत्तान्मुदमनु वर्षवरेण तेन तेन ॥२४७॥ शृणु सखि मुरजिद्यदा तु युष्मद्व्यवहितिमाप तदा जगाम धेनुः । मधुमधुरकलान्न धेनुमात्रं परमपरं च चकर्ष जीवमात्रम् ॥२४८॥ मुरजिदथ समस्तजीवजातिव्यतिकरवीक्षणतः क्षमामविन्दन् । अकुरुत मुरलीकलीविशेषं यदजनि सर्वकमेव तत्र भिन्नम् ॥२४९॥ वयमखिलसखिप्रसक्तनाना हरिचरिताकलनाय यर्हि याताः । अपरहरिरमाभिरन्यदाराद्२ बहुविधभोज्यमदायि तर्हि गुप्तम् ॥२५०॥ दनुजरिपुरशेषमेव सर्वान् प्रति विबभाज च भाजनावलीषु । अतिगणिततया नयाद्विविक्तं समुपहृतं तदिदं कया कयेति ॥२५१॥ हरिरथ जलपायनाय धेनूर्ह्वयति यदा स्म तदा स्रवत्पदाङ्काः३ । अपि निखिलममूस्तृषा विहीनं विदधुरमूषु तथा कथास्तु४ दूरे ॥२५२॥ तदपि च सलिलानि पाययित्वा निजकरसङ्करतासुधायितानि । बहूनि कटमुखीश्चकार धेनूर्निजमुखतामपि बिभ्रतीः प्रयत्य५ ॥२५३॥ न भवति विनिवर्तनाद्युपायः प्रतिगतियष्टिविचालनादिरूपः । अपि तु हरिगवीषु दृष्टिवेणू सपदि हरेः स्फुरतः स्म तत्र तत्र ॥२५४॥ अभिगृहमजितस्य या निवृत्य प्रतिगतिरत्र च कौतुकं विभाति । उपसुरसुरजातयः समन्तान्नटनकलाघटनप्रथामटन्ति ॥२५५॥ अथ च यदि तदा समस्तहृद्भिर्भरतकलामनुविन्दते मुकुन्दः । दिवि फलकरवे तदा दिवीशा दिशि दिशि चित्रनिभानि भालयति ॥"२५६॥ इति भणति तदा तदीयवर्गे कलकलभागजनि प्रर्मोदिगोष्ठम् । इह सति वृषभानुजादिवर्गस्त्वरिगति चन्द्रनिवेशमारुरोह ॥२५७॥ उपरिगृहगतः स तत्र तत्र द्रवदिव गोपकुलद्रवाद्ददर्श । दृशमथ भृशमग्रतः प्रयच्छन् नभसि गतां रजसां नदीमपश्यत् ॥२५८॥ स्फुरदथ खुररम्भणादिशब्दप्रसरणमावृतसर्वमेष६ शृण्वन् । अवददपि परस्परं तदित्थं स्वहृदयरङ्गतरङ्गनृत्यतुल्यम् ॥२५९॥ कलय सखि पुरः सुरभ्यनीकं तदनु च युक्तनियुक्तलोकसङ्घः । तमनु सखिसुहृत्कुमारवृन्दं विलसति तत्र च शुभ्रकृष्णयुग्मम् ॥२६०॥ क्वचिदपि पशुनाम भाषमाणः क्वचिदपि रक्षकनाम वेणुपाणिः । क्वचिदपि सखिनाम मिष्टवंशीस्वरकलयाखिलमोहमातनोति ॥२६१॥ १. (अ) ओराजीम्॑॑ २. (ब्) अन्यदावद्॑ ३. (अ) पद्योस्काः (?)॑ ४. (ब्) तथास्तु॑ ५. (ब्) प्रयत्तः॑ ६. (ब्) एव॑ उपरिरचितपुष्पवृष्टिसृष्टिः स्तवकृतसंस्तव एव दिव्यलोकः । सुखयति सखि गोकुलस्य लोकान् प्रियमनु सप्रियतां हि सुष्ठु धत्ते ॥२६२॥ हरिमथ धवलानिवासमाप्तं स्वमनु च सन्नतमग्रजेन सार्धम् । व्रजपतिरुपलभ्य तच्छ्रमापं मुहुरपमृज्य चिरं ददर्श सास्रम् ॥२६३॥ स्वयमथ जनकः समस्तयुक्तः पशुकुलमाकुलमालयाय नीत्वा । सकलमघहरं श्रमापनुत्तिं प्रतिनिदिदेश यतः स एष एति ॥२६४॥ इति वदति सखीजने समन्ताद्वृषरविजां वदति स्म काचिदेत्य । "व्रजनृपदयिता समं वधूभिश्चलति सुतं प्रति मङ्गलानुसङ्गि ॥२६५॥ इदमवकलयन् सखीसमूहस्त्वरिनिखिलाधिकराधिकं प्रतस्थे । व्रजनृपवनितानुषङ्गः कामः करमनु चासजति स्म मङ्गलानि ॥२६६॥ अघरिपुजननी तु सर्वयुक्ता स्वपथमभीक्ष्णमसावभीक्षमाणा । वृषरवितनुजादिभिः स्नुषाभिः समनुगता स्वसुखा चकार१ ॥२६७॥ अथ जयजयशब्दभव्यगीतस्तवघृतदीपकपूर्णकुम्भलाजान् । वचसि शिरसि हस्तयोः श्रयन्ती हरिजननीप्रभृतिस्ततिः प्रतस्थे ॥२६८॥ समगमदवरोधनिष्क्रमद्वारवधिमियं स तदा तु कृष्णचन्द्रः । सहबलमभियन् पुरः प्रदेशं श्रमजरुचाप्यभितः सुखं ववर्ष ॥२६९॥ अथ सकुसुमलाजवृष्टिनीराजनसुखमन्वनु मातुरङ्घ्रिलग्नः । अपरगुरुजनेषु२ चान्वतिष्ठत्तदथ यथा युगपद्बलश्च तद्वत् ॥२७०॥ तदनु च जननी हृदासदाशीस्ततिमददाद्वचसा तु नेति सर्वा । सनयनजलगद्गदं गदन्ती कलकलवल्गुगिराशिषः शशंस ॥२७१॥ अथ बलजननीयुता यशोदा सुतयुगलं दधती करेण दोष्णि । स्वसदनमुपनीय खेदरिक्तं करणलघुव्यजनं विधूनुते स्म ॥२७२॥ क्षणकतिपयमातृलालनायां जडवदुपेयतुरस्मृतिं सहोत्थौ । तदनु च तनुसेवकाः समूचुः स्नपनजलप्रमुखं समस्तमस्ति ॥२७३॥ हरिरथ हरिचन्दनेन रक्तं मृगजमदेन बलस्तु वस्त्रयुग्मम् । दधदनुदधदङ्गरागमेवं भूषणमाप मातृपार्श्वम् ॥२७४॥ सकलमवयवं निजं सवेशं सुरभितमप्यतुलं करोति कृष्णः । निटिलमतितमां३ यदस्य पश्यत्यपि पुरुजिघृतितातमातृयुग्मम् ॥२७५॥ सुतयुगमथ मातृयुग्ममाप्तं तदुचितचित्रकचित्रमाशु कृत्वा । अमृतरुचिधरेण पानकेन क्रमुकपुटेन च नन्दयाञ्चकार ॥२७६॥ स्फुरदिह जननीयुगं प्रसूत्योर्युगमपि चित्रतया विभाति नित्यम् । युगयुगमनुतर्क्यते न शीलात्क्व नु जननी जननीयताविभागः ॥२७७॥ शिरसि दधदपूर्वपट्टपाशं करमनु रत्नजचित्रमित्रयष्टिम् । बलसहिततयाचलज्जनन्योश्चरणनतिं विदधत्पयांसि दोग्धुम् ॥२७८॥ १. (ब्) सुखीचकार॑ २. (अ) ओजनीसुचान्वतिष्ठत्॑ ३. (ब्) अतितमं अथ कनकजदोहनादिपात्राण्यनुगजनाः सममेव ते गृहीत्वा । व्यतिजयमनसा द्रवं दधाना द्रवगमनाः समयुस्तदीयपद्याम् ॥२७९॥ पुनरथ वृषभानुजादिवर्गः सदनशिरोगृहजालरन्ध्रलग्नः । उपदिशति परस्परं स्म वीक्ष्य प्रियचरितं गविदोहनाय जातम् ॥२८०॥ कलय सखि हरिः पितृनिदेशं स्वयमनु याचनया प्रपद्यमानः । पशुपजननियोजनानुपूर्व्या सहबलमाचरति स्म गोषु दोहम् ॥२८१॥ यदपि च हरिहूतिमाधुरीभिः स नदति सर्वक एव धेनुसङ्घैः । तदपि च बत कापि तस्य शिक्षावशागतया तमियर्ति तेन हूता ॥२८२॥ अथ परिहितमुत्तरीयबद्धं द्रढयति गाढतया गवामधीन्द्रः । तदनु च मृदुपाशनद्धवत्सं नवधवलाचरणेन संयुनक्ति ॥२८३॥ क्षितिमनु चरणाग्रदत्तभारः प्रणमितजानुयुगान्तरस्थपात्रः । मुहुरपि कलयन् सगोस्तनाग्रं स्मितमपि दुग्धमपि स्म दोग्धि कृष्णः ॥२८४॥ कलय हरिरमूमदुग्ध धेनुं कथमपरा दुहते स्वयं विलोक्य । अहह तदवलोक्य पश्य दूरादनुकुरुते जरदङ्गनागणश्च ॥२८५॥ द्रुतमथ पयसां निपान् प्रहृत्य प्रययुरमी व्रजरान्मुखा गृहाय । हरिरथ सकलः सुहृद्वृतिश्रीः कविकवितः स ससार राजसद्म ॥२८६॥ बलमनु सखिभिः सहासजल्पः करकरताडनया मिथः प्रमोदी । समदगजगतिर्विचित्रवेत्रः परिसरमेति सरन् सरोजनेत्रः ॥२८७॥ सरणिमनुसरन्नमुं प्रदेशं पुनरमुमप्यमुमप्यमुं विवेश मुरजिदधिरुरोह कर्णिकाग्रं निजनिजसेवनसिद्धये प्रयामः ॥२८८॥ इति विविधतयानुवर्ण्यमानः सविधसमेततयावकर्ण्यमानः । उपजननैस एत्य तन्निदेशात्क्लममपनेतुमियाय वाससद्म ॥२८९॥ द्रुतमथ वृषभानुजादिवर्गः प्रियमुपसेवितुमावृतीयमानः । अकुरुत जलतालवृन्तचर्चाद्युपकरणं कलयंस्तदीयशर्म ॥२९०॥ रुचिरमृदुलतूलिकाञ्चिखट्टामुपरि निवेशममुं निषेव्यमाणाः । यदिह सुखममुष्य तन्निजात्मप्रतिफलितं निजमेव ता विदुः स्म ॥२९१॥ यदपि तमनुसेवते समस्ता ततिरियमुत्तमकल्पमल्पकं न । तदपि च वृषभानुजा यदा यत्कलयति तन्नवतां सदा प्रयाति ॥२९२॥ नवमिव मिथुनं मिथः स्थितं यन् नवमिव रागजनुश्च यस्य नित्यम् । कथमिव नवतां न तस्य विन्देद् व्यतिभजनं हरिराधिकाभिधस्य ॥२९३॥ इति रजनिमुखे गते सुखेन प्रहितचरः शिशुरागतः स्म वक्ति । व्रजपतिरधुना स्वभोगधाम प्रविशति तेन समं बलादयश्च ॥२९४॥ अथ मुरविजयी चचाल तस्मात्पितृसविधं पिदधन्निजस्मितादि । सुदृगियमपि तर्हि गोपराज्ञीनिकटमतिप्रकटं विहाय वर्त्म ॥२९५॥ मुरजिति सविधं गते व्रजेज्या नृपसहिता मुदिता बलादयश्च । सजलजलमुचीव चातकाद्याः कलकलवल्गु ययुस्तदाभिमुख्यम् ॥२९६॥ यदपि रविसमः शशी विभाति व्रजभुवि तर्ह्यपि कान्तिभेदरीत्या । रजनिदिनविभागमीक्षमाणा व्यवहृतिभेदममी सदा भजन्ति ॥२९७॥ अथ निविविशिरे व्रजेश्वराद्या दनुजरिपुप्रमुखाश्च भिन्नपङ्क्ति । इति१ हि हसरसः समस्तभोज्यं स्वदनविधिं नयते तदन्यथा न ॥२९८॥ दिनमुखमनु तत्र पाकवृन्दे दिनजठरप्रसरं दिनाङ्घ्रिपूर्तिम् । ऋतुवलयनिदेशदेशभेदं विविधविधानगतीः स्वयं तु विद्धि ॥२९९॥ प्रथममिह फुलं वनादुपात्तं बकरिपुना स्वदनाय सुष्ठु जातम् । पुनरिह हविर्२आदिगोरसान्तं शतविधतेमनजेमनं बभूव ॥३००॥ अथ सुरभिजलेन सुष्ठु ताम्बूलजपुटकेन च शोधितास्यपद्माः । व्रजनृपतितदीयनन्दनाद्या बहिरुपवेशसभामभासयन्त ॥३०१॥ अथ पुनरधिरुह्य चन्द्रशाला३ मुखममृतांशु४ उखीगणाः स्वकान्तम् । अभिमुखसदसि स्फूरन्निवेशं ददृशुरमुं निभृतं मिथोऽप्यनूचुः ॥३०२॥ इह विविषकलाकलापविज्ञाः समुदिततां समवापुरुत्कचित्ताः । अमुमुदितामिताः कलानिधानं स्वकुलकलां विनिवेद्य भर्तुमैच्छन् ॥३०३॥ यदपि हरिरसौ कलानिविज्ञस्तदपि तदल्पकलासु तोषमेति । यदपि कृतमुखाः कलासु सभ्यास्तदपि हरेर्मुखवीक्षया रमन्ते ॥३०४॥ न भजति सकलं सदा सभायाः समवसरं बत काव्यनाटकादि । इति निशि निशि भिन्नतानुमत्या व्रजपतिरिष्टतमं तदातनिष्ट ॥३०५॥ क्वच निशि नृपतिः स वष्टि काव्यं क्वचिदपि नाट्यकलां क्वचापि चित्रम् । पृथगपि न पृथग्विभाति सर्वं हरिरचितानि परं पुरः करोति ॥३०६॥ इति पुरुकुतुके गते तु यामे हरिबलसंवलिताः समस्तलोकाः । व्रजनरपतिमुत्थितं विलोक्य प्रति तदवस्थिति तस्थुरादरेण ॥३०७॥ मुरजिति गदितुं किमप्यनीशे पितरि च बाष्पनिरुद्धकण्ठदेशे । स्थविरगुरुजना द्वयं निवेद्य प्रतिविधये समनस्कमाचरन् स्म ॥३०८॥ अवनतपितृकः परान् यथार्हं नतिविनयादिभृतान् विधाय कृष्णः । सहबलमनुगत्य मातृयुग्मं तदुचितलालिततां चिरं जगाम ॥३०९॥ अनुमतिमथ मातृयुग्मदत्तामवकलयन् प्रणमन् सनम्रदृष्टिः । हलधरमनुगम्य तं प्रणम्य श्रितनववर्षवरः स्ववासमाप ॥३१०॥ १. (ब्) इह॑ २. (अ) हरिरादिओ॑ ३. (ब्) चन्द्रशालीओ ॑ ४. (अ) अमृताशुओ इति मुरहरवर्णनां स कुर्वन्मुरहरमप्यवलोक्य सद्मसीम्नि । द्रुततरमवरुह्य राधिकादिर्निजतदपह्णवमाचचार वर्गः ॥३११॥ इह मतमपरेण सर्वकान्तास्वनुनिशमञ्चति सोऽयमित्थमस्तु । हृदय कलय किन्तु चारु राधाहरिचरितं परितः स्मर त्वमत्र ॥३१२॥ वृषरवितनयादिभिस्तदा द्राक्समगमि हारि हरिः सुवेश एषः । नवघन इव विद्युतावलीभिर्यदमृतवृष्टिमयी बभूव दृष्टिः ॥३१३॥ व्रततिमणिविवेकखण्डिशोभा परिमलभागिह सद्म किन्तु कुञ्जम् । इह किमु कुसुमं किमंशुकं वा शयनमिदं मिथुनं यदध्यशेते ॥३१४॥ इति नित्यलीला ॥२ ॥ श्रीगोपालाय नमः,१ सा च जन्मादिका सा च नित्यलीला श्रुतिरिता । मिथः पूर्वा परा च स्याद्बीजवृक्षप्रवाहवत् ॥ो ॥ [३] अथ नित्यान्तर्वर्तिसर्वर्तुलीला अथ हृदि कुरु वल्लवीसुतस्य स्तवमनुगौतमतन्त्रलब्धमस्य । बहुविधसमयागमाद्विचित्रं शुभचरितं रचितस्वभक्तभक्ति ॥१॥ जनुषि मधुऋतोः कुमारभावे तरुणिमनि प्रवयस्तया च योगे । दयितदयितयोर्वसन्तरागप्रभृतिकला लसति स्म शाम्यति स्म ॥२॥ तदिदमृतुषु षट्सु रुच्यभेदात्पृथगनुवर्णनमिष्यते तथा हि । हरिरिह विहृतिप्रचारचर्यां विदधदवर्णयदेष तर्हि तर्हि ॥३॥ प्रथममिह शृणुष्व चित्त वाक्यं क्वच निशि यत्प्रभुमाह हारि राधा । अथ कलय हरेर्वचश्च तस्याम् अमृतवदन्तरशन्तमस्य दातृ ॥४॥ "अहह वनवनं निदाघदग्धस्थलमटसि स्ववपुः प्रपीद्य रुक्षः२ । मुरहर तव चिन्तनेन जीर्णान् कथमवितासि जनानिदं न जाने ॥"५॥ इदमभिहितमाकलय्य कृष्णः स्मितवदनः स्वयमाह यत्तु राधाम् । तदवकलय चित्त वित्तमेतत्तव बहुवृत्तिपदं भविस्यदस्ति ॥६॥ "अहह सुमुखि नेदमन्यदूह्यं तपऋतुमन्वपि तत्र चित्रतास्ति । क्वच स हि मधुवत्क्वचापि वर्षावदनुभवं ददते स्वयं क्वचापि ॥७॥ वनमिह यदनूपमस्ति तस्मिन्मधुरिव भाति निदाघकाल एषः । निरुदकतरुणि स्वयं निदाघः क्षितिधरनिर्झरभाजिवार्षिकश्रीः ॥८॥ मम समममरीभिरत्र वृन्दा निखिलवनं परितः परिष्करोति । यदहरहरहं भवत्या सह सहचारिभिरप्यलं भजामि ॥९॥ सुमधुरनवनारिकेलनीरं तदुपमतालफलाम्बु चास्य३ मज्ज । उपहृतमिह वृन्दया सतृष्णे सखिसहिते मयि तृप्तिमादधीत ॥१०॥ स पनससहकारगोस्तनीनां रसवसनं रचयाम्यहं समित्रः । त्वदधरमधु मां तु तत्र चित्रं स्मरयति सान्द्रतया स्वमेव सुभ्रु ॥११॥ अथ वयमपि तां विहारभूमिं तव कलयाम यदि त्वदीयमिष्टम् ।" १. (ब्) नोत्fओउन्द्॑ थे fओल्लोwइन्ग्वेर्से इस्प्लचेदfतेरथ एत्च्.॑ २. (अ) रुक्षः॑ ३.. (अ) मर्गिन् चाल्प॑ इति वृषरविजादिभिः प्रदिष्टस्त्वरितममूभिरमूं हरिः प्रतस्थे ॥१२॥ प्रथममभिययौ वसन्तवन्तं विपिनविशेषमथ प्रदेशमन्यम् । अनुभवतुलयानुभावयंश्च प्रवदति स स्म सनर्मसुष्ठु वाचम् ॥१३॥ अहनि वयममूं निरीक्ष्य सुभ्रु वरसरितं पुरतः समं सजन्तः । निजनिजधवलास्तु पाययित्वा विहरणमत्र सुहृद्भिराचराम ॥१४॥ शशिमुखि शुचिमासि मध्यमध्यं दिनमनु मन्दिरतुल्यशैलगर्भे । झरनिकरपरीतपार्श्वदेशे सह भवतीकमहं मुदा शयिष्ये ॥१५॥ सवितृदुहितृतुङ्गतीरगर्भे शशिमणिधामनि कुञ्जपुञ्जराजि । अनुरहसमहर्व्रजान्तरन्तः सह भवतीकमहं मुदाश्रयिष्ये ॥१६॥ वयमिह सरिति द्रवेण गत्वा विहरणं नर्मसशर्मतां नयाम । इति वृषरविजां विधृत्य बाहावपरसखीसहितां च चलन्नुवाच ॥१७॥ निकटनिकटतां चलंस्तटिन्या निरुदकमात्रपदं क्रमात्त्यजंश्च । "तपमधुनृपराष्ट्रयुग्ममध्यं गतमिव चन्द्रमुखि स्वमत्र पश्य ॥१८॥ इह कमलवनानि तापशीर्णान्यपि कमलानि कियन्ति धारयन्ति । तत इह सरिति प्रविश्य यूयं वयमपि तानि विचित्य चारु चिन्मः ॥१९॥ मुहुरिह परितः समाव्रजन्तः सरिति रसप्रसरं गवेषयन्तः । नवनवतनयाय पद्मिनीनां स्तनमिव वारिरुहं दुहन्ति भृङ्गाः ॥"२०॥ इति वनवलितं छलं विधाय व्रजसुमुखीः सरितं प्रवेश्यमाना. । कमलचयनलक्ष्यतः स्ववाञ्छालसितवशाः१ स चकार तत्र तत्र ॥२१॥ "कमलमिदमहो मया तु लब्धं कनकरुचिप्रथितं त्वया तु नीलम् ।" इति विविधमिषं परस्परं ताः सममजितेन विहारसारमीयुः ॥२२॥ हृदि किमु कमलं ललाग किं वा हरिकर इत्यमुका विशङ्कमानाः । व्रजजनिसुदृशस्तदा नवीनाः सपुलकशीत्कृतिकारितामवापुः ॥२३॥ अथ विहसति तत्र जिह्मनेत्रा मुरजिति चिक्षिपुरायुधाभमम्भः । स च तदकृत तासु किन्तु तासां तदपगमः क्रियते स्म तस्य तेन ॥२४॥ हरिरसुरसहस्रलक्षजेता स्वयमबलाभिरयं विजेतुमिष्टः । यदिह जयमवाप तन्न चित्रं यदथ जितस्तदतीव चित्रमत्र ॥२५॥ यदपि च जलसेचनेन कीर्णस्तदपि पराभवमपि नाघशत्रुः । इति भ्रुकुटिमधात्तु वार्षभानव्यथ स तु तत्र बभूव चित्रकल्पः ॥२६॥ हरिमथ सकलाबलाविलासाल्लघु जगृहुर्जितकाशितां दधानाः । पुनरपि हसितानुनापभङ्ग्या बहिरवधानमधापयन्मृगाक्ष्यः ॥२७॥ अवहितवति जीवनाधिनाथे वृषरविजा द्रुतमस्य कर्षणाय । तटमटितवतीह२ कृष्णनामाप्यनुगततां समवाप रागबद्धः ॥२८॥ १. (अ) ओवषाः॑ २. (अ) अटितवतीति द्रुतमथ परिचारिका मुरारिं वृषरविजां सवयस्ततीरमूश्च । मृदु मृदु वसनेन मार्जिताङ्गानकृषत वस्त्रवरानधारयंश्च ॥२९॥ स्वयमथ वृषभानुजा स्वकान्तं मृगमदकुङ्कुमचूर्णमर्जिताङ्गम् । सुलघु विदधती जहार जाड्यं बहिरबहिः पुनराजहार जाड्यम् ॥३०॥ अथ घुसृणविशेषकांशुयुक्तं लघुतरवेशविशेषशोभिमुक्तम् । अकुरुत वृषभानुजा स्वकान्तं स च रुचितामकरोदमूं नितान्तम् ॥३१॥ क्रमुकसितकराञ्चिपर्णवीटीरदित सखी हरिराधयोर्मुखान्तः । युगलमपि तयोः सखीजनानामधित सुखप्रथनाय वक्त्रमध्ये ॥३२॥ अथ कमलकराः सकान्तकान्ताः सविलसितं सदनाय गन्तुकामाः । विजितकमलपत्रचारुनेत्रा विरुरुचिरे निखिलेन खेलितेन ॥३३॥ क्वचिदपि हरिणा समं व्यधुस्ताः पुरु कमलाकमलि प्रहासयुक्तम् । इदमिह न विदुस्तु तेन शश्वज्जितमखिलं भुवनेषु केवलेन ॥३४॥ इति बहुविधखेलमालयान्तं जगृहुरमूरमुना समं समस्ताः । तदनु च वरनिष्कुटस्थधिष्ण्यं प्रविविशुराविविशुश्च तस्य भासि ॥३५॥ मणिसदनमिदं वृतीर्१ अतीतं वरसरसीसरसीरुहालिमध्यम् । सुकुसुमसुकुमारगर्भतूलीमिलदुपधानशुभंयुमञ्जुशय्यम्२ ॥३६॥ सरुचिनिहिततालवृन्तभृङ्गारकमुखशर्मदवस्तुसंस्तुताङ्गम् । द्रुततरमविशद्विशंश्च शय्यामधिवसति स्म हरिः स्मितांशुशोभि ॥३७॥ [युग्मकम्] तमथ कुसुमचामरं दधाना वृषरविजा स्वयमेव सेवते स्म । अनृजुदृशममुं बलं छलं च प्रणयि स तु प्रणयन्निनाय शय्याम् ॥३८॥ इयमपि तत एव खेददम्भादलसनिभस्थितितां बभाज तस्याम् । तदनु सवयसः सचन्द्रताम्बूलकमनु शर्म दधुस्तयोर्द्वयोश्च ॥३९॥ तदनु तदनुमाय तेन तस्या रहसि मिथः स्थितिवाञ्छितं वयस्याः । समिषमपगताः क्षणं तु काचिन्मृदुमर्दनमेतयोर्व्यधत्त ॥४०॥ इयमपि विगता द्वयस्य निद्रां छलरचितां छलमारचय्य यत्तु । नयनयुगलमीलनं विहाय प्रणयमयीमुदमीमिलन्निजेहाम् ॥४१॥ इति बहुविधाकेलिभिर्निदाघे विगतवति प्रविवेश वार्षिकश्रीः । जलदवलयविद्युतालिलक्ष्म्या हरिहरिदारतनूर्विलासमाप ॥४२॥ रुचिमिह कलयन् व्रजेशसूनुर्निशि निशि वर्णयितुं रुचिं जगाम । इदमवदधती च वार्षभानव्यपि सवयस्ततिरुद्यदुल्ललास ॥४३॥ इति घनसमयस्फुटप्रभाते निजजननीहितं पयः कृतान्नम् । मरिचवलितमुष्णमीषदश्नन्नहमनुराममुखं सुखं भजामि ॥४४॥ मम जनितिथिरेष्यतीह भाद्रे व्रजजनशर्म च तेन सार्धमङ्ग । द्वयमपि यदिदं जगन्ति धिन्वन् पुरतरपर्व तनिष्यति प्रहृष्य ॥४५॥ १. (ब्) ओवृतेर्॑ २. (ब्) ओशय्याम् गृहशिखरशिखामथाधिरूढाः कलयत निश्यपि गोष्ठवन्यधाम । प्रतिलवतडिदालिदीप्तिभूम्ना दिन इव सर्वमिदं मुहुर्विभाति ॥४६॥ नभसि जलदविद्युदालिलक्ष्मीर्भुवि हरितः स्फुरदिन्द्रगोपकान्तिः । मदनुगभवतीव काननश्रीततिमनुपषकतां सखि प्रयाति ॥४७॥ स्थलकुलमिह कूर्मपृष्ठतुल्यं नयनगतिप्रदरत्नवेशमध्यम् । विततमभिनवप्ररूढतार्णं परि धवलागणपालनं करोमि ॥४८॥ गिरिवरशिरसि व्युदस्तपार्श्वावृतिमणिसद्मनि लब्धधेनुदृष्टिः । बहुविधशतरञ्जमुख्यखेला विदधदहं सखिभिः सुखं प्रयामि ॥४९॥ स्रवति सलिलमम्बुदे तरूणां कुहरगृहे रसयन् फलं सकन्दम् । उपसलिलशिलासनः सदन्नं दधिसहितं सखिभिर्विभक्तमश्नन् ॥५०॥ क्वचिदपि गिरिमूर्ध्नि धेनुहूतिं विदधदमूश्च मुदा निविश्य पश्यन् । अधि वडभिगताभिरीक्षणीयः सततमहं भवतीभिरत्र तत्र ॥५१॥ [युग्मकम्] इह वहति कदम्बनीपयूथीशवलितकेतकगन्धसन्धवातः । अनुभवसविविक्ततं च यद्वत्तव मम चानुभवन्ति गन्धमल्पम्१ ॥५२॥ यदि पुलककुलाकुलासि कृष्णं कनकपटं पटु मां निरीक्ष्य भद्रे । घनतडिदुदयाद्विवर्धमानाङ्कुरधरनीतुलनां तदा प्रयासि ॥५३॥ घनसमयमनुध्वनिं प्लवाद्या विदधति ते च घना मुहुस्तमत्र । निशमयितुममुं परस्परं ये स्फुटमनिशं रचयन्ति सुष्ठु पुष्टम् ॥५४॥ जलदमनु कनिष्ठमध्यमुख्याः प्लवशिखिचातकनामकाः प्रपन्नाः । तरतमविधिना तदेकनन्दि द्वयमपरस्तु तदेकजीविजीवः ॥५५॥ अहमपि तदिदं विलोकमानः किल विमृशामि निजाननन्यभक्तान् । यदनु च भवदीयवृन्दमेतत्परमतया मम चित्तमाविवेश ॥"५६॥ इति वदति हरौ पपात वृष्टिर्विसृमरशीकरभाक्ततश्च मुख्यः । पटकुटमदधुर्द्वयस्य खट्टामनु परितः सदनं पटावृतं च ॥५७॥ बहिरनु घनगर्जितं सवर्षं गृहमनु तल्पवरेण्यमल्पशीतम् । तदनु वसितशस्तवस्त्रमेतन्मिथुनमनुस्मर चित्त गौरकृष्णम् ॥५८॥ इति बहुविधसुखखेलया प्रयाते घनसमये शरदा जगाम तां च । स्फुटमवकलयन् पुरावदाख्यद्वृषरविजां मुरजिन्निशि क्रमेण ॥५९॥ अहरहरुदये शरत्शरत्प्रवेशे निजजननीनिहितं पयः कृतान्नम् । सहसुहृदुपभुज्य२ धेनुसङ्गाद्वनकलितं भवतीं विविच्य वच्मि ॥६०॥ वहदनुनवमभ्रमच्छभावं प्रणिदधती क्षितिरात्मनानुचक्रे । तदुचितमुपजीवनीयभावे मयि भवती भवतीदृगेव सुभ्रू ॥६१॥ तडिदनुवलने गते पयोदाद्बत इति मानमिते तथा पयोदे । त्वदपगमदशां निजां पुराणीं मुहुरहमस्य तुलामनुस्मरामि ॥६२॥ १. (अ) अल्पः॑ २. (अ) उपयुज्य अथ यदि कलयामि तीरनीरव्रजमनु खञ्जनहंसकञ्जकान्तिम् । वरतनु भवदागतिं वितर्क्य भ्रमदशया बत विभ्रमं प्रयामि ॥६३॥ अभिलषति मदीयकेलिशिक्षागुरुमियमच्युतवल्लभाक्षिलक्ष्मीम् । इति किल कमलावलीं विधूतामुरु शफरीनिकरश्चरीकरीति ॥६४॥ जलमनुपरमाच्छतां निरीक्ष्य क्षणमनुसन्दधदन्तरं यदास्मि१ । प्रतिफलितमिह स्वमीक्षमाणस्तव मनसा तुलनामनुस्मरामि ॥६५॥ नवनवपुलिनं निरीक्ष्य तत्तत्पददलनां विनिषिध्य तत्र चाहम् । मनसि विनिदधे स्म हेतुमन्यं वचसि तदन्यमिदं त्वमेव वेत्सि ॥६६॥ पथि पथि कुसुमं विचित्य शश्वत्कुसुममयं धनुरादिकं विधाय । पुलिनकुलमदः प्रपद्य तस्मिन् कुसुमशराय वयं बलिं ददाम ॥६७॥ कुमुदमुकुलमल्पमल्पनालं शरतुलितं विरचय्य शिल्पशालि । धनुरपि नवकेतकस्य पर्णान् त्रिचतुरयोगदृढान् दृढं सृजामः ॥६८॥ इति हरिरचलत्प्रियासहायः कुसुमचितिं विदधद्विचित्रकेलि । पृथुतनुविषमच्छदांस्तनीयस्तनुलतिकाभिरितस्मितान् जहास ॥६९॥ अथ पुलिनमसावपश्यदिन्दोः प्रतितनुवत्पुलिनस्य तद्वदिन्दुम् । कुतुकरसवशाद्विशंश्च तस्मिन् स्वममृतसिक्तनिभं विदन्ननन्द ॥७०॥ अवददथ सखीततिर्मुकुन्दं "कुसुमशरः क्व नु यं प्रपूजयामः" । हरिरवदद्"अहं स एव साक्षादिति मम पूजनमेव तस्य विद्धि ॥७१॥ यदि कुसुमशरस्य शक्तिमस्मिन्मयि मनुषे नतरां तदालिवर्गः । मम कुसुमशरान् सहस्व साक्षाद्" इति कलयन् स तु कम्पते स्म वर्गः ॥७२॥ अथ वृषरविजावदन् "मुरारे शत्रुमिह भौमयुधि त्वमेक एव । परबलबहुकोटिशस्त्रमस्यन् जयमभजतस्तदिदं निचाययस्व२ ॥७३॥ उपपरिसरमस्य तर्हि सर्वाः कुसुमशरान् किरन्नमूरसङ्ख्यान् । अभिनदयममून् शरानमूषां कुसुमशरैरुत कञ्चुकान्यविध्यत् ॥७४॥ हरिमथ जितकाशिनं बभाषे हरिरमणीविततिः स्मितं दधाना । "वयमिह युवतीजनास्तदस्मत्परिचितमेव विहारमादिशस्व ॥"७५॥ हरिरथ विहसन् जगाद "यूयं भरतमतं प्रति राजथातिविज्ञाः । तदनुसरत गीतवाद्यनृत्यं मम भवतीभिरुदेतु तारतम्यम् ॥"७६॥ द्रव इव हरिगानतः शिलाद्यं हरिरमणीजनसीमकं बभूव । हरिरजनि कथञ्चनापि धीरः स च न तथाजनि गानतस्तु तासाम् ॥७७॥ अथ मिलिततया चकार लास्यं निजवनिताभिरयं न चाप साम्यम् । तमभिदधुरमूर्वयं न सन्दीपनिम् अभजाम गुरुं कथं नु विद्मः ॥७८॥ १. (अ) मर्गिन् यदास्ति॑ २. (अ) निचाययां स्म हरिरकुरुत तण्डुना प्रणीतं नटनमनेन जहार चित्तमासाम् । इह जगदुरमूर्वयं न पद्मातुलिततमा यदिहापि शिक्षिताः स्मः ॥७९॥ व्यतिमिलिततयाथ रासनृत्यं व्यधिषत ता दयितेन तेन सार्धम् । विलसितवरमाधुरीभिरेषां सुरवनिता मुमुहुर्मुहुर्मुहुश्च ॥८०॥ अथ हरिरकरोदिहापि चित्रं जवमहसा स तथानशे समस्तम् । यदखिलमहिलाः स्वपार्श्वलग्नं तमनुलवं बत मेनिरे निरीक्ष्य ॥८१॥ विलसितमिदमित्थमाचरन्तः श्रममुपलभ्य चिरादमी निविष्टाः । व्यजनसलिलपानकाङ्गरागक्रमुकपुटादिभिराश्रिताभिरिष्टाः ॥८२॥ अथ भृशमुपलभ्य शान्तिमेता हरिहरिणीनयना निशावसाने । वनमनुविहृतिं मुदा दधानाः स्वमुपवनीमणिमन्दिरं ससर्जुः ॥८३॥ अथ मुररिपुराधिकाख्ययुग्मं मृदुशयनं प्रतिलभ्य वल्गुशर्म । अतनुत शयनं तथा यथा तत्तनुमपि भेदमधात्तनुद्वयं न ॥८४॥ अथ गिरिवरपर्वणि स्वसृणां गृहगतं पर्वणि कार्तिके मासि । बहुविधमहसा१ सशर्मपूर्णे तदनु मुखं मुखरं सुखं करोति ॥८५॥ अथ शरदनुजा यदा ऋतुश्रीर्२ मृदुमृदुशीतमयी समाजगाम । अशनवसनकाननाद्रिखेलाशयनसुखादि हरिः प्रियामुवाच ॥८६॥ "सुरभिनवकशालितण्डुलीभिः पुरुसितवष्कयनीपयस्कृतान्नम् । सुपरिमलहरिः प्लुतं समन्ताद्विकलितवल्कलबीजनागरङ्गम् ।८७॥ बहुघृतपरिपक्वपिष्टभेदं प्रविततमण्डकरोटिकाभिरिष्टम् । परिकृतदलितार्द्रकं स्वमात्रार्पितमुषसि स्वदते वरोरु मह्यम् ॥८८॥ [युग्मकम्] तदनु च जननी ददाति वेषं मृगमदकुङ्कुमचूर्णपूर्णवस्त्रम् । तमहमहरहः सजन् सरामः सहसखिवीथिरतीव शर्म यामि ॥८९॥ यदपि विविधतेमनादिमध्यं दिनमुपलब्धमिहास्ति पङ्कजाक्षि । तदपि भवति सार्द्रकं घृतान्तःकृतपचशर्षपशाकमादराय ॥९०॥ अहरहरनुधेनुकञ्चुकादिच्छविसवितृच्छविमित्रताच्छभासः । सखिभिरखिलकेलिशालिहारीतकरुतकर्मणि नर्मशर्म यामः ॥९१॥ परिणततरजम्भनागरङ्गक्रमुकमुखद्युतिशोणकाननान्तम् । स्मितलसितकटिञ्जरादिपुष्पप्रमुदितसर्वमहर्दिवं भ्रमामः ॥९२॥ चलसखि तदिदं वनं निरीक्षेमहि हिमलेशिनि३ मार्गशीर्षमासि । परपरदिवसे तु शीतशीते नहि विहृतिर्४ बहिरौचितीं भजेत ॥९३॥ इति हरिवचनादनेन सार्धं वनमनुगम्य विरम्य रम्यरूपम् । समुचितफलपुष्पसङ्ग्रहेण प्रमदभृतः प्रमदागृहं समीयुः ॥९४॥ १. (अ) ओप(र्व)तया॑ २. (अ) ऋतुश्रीं॑ ३. (ब्) हिमने निशि॑ ४. (अ) विकृतिर् इति मृदुतरतुलिकानुकूलीकृतशयनं नयनाभिरामयुग्मम् । मधुरिपुवृषभानुजासमाख्यं न वपुषिभेदमवाप नापि चित्ते ॥९५॥ अथ धनुरपरांशमीनराजावधि रविभोगगताहसङ्घभागे । मुररिपुरवदत्पुरावदेतां वृषरविजां स निजां विलासलक्ष्मीम् ॥९६॥ घृतदधिकृसरार्द्रकादिजुष्टाः कटुवटका विविधानि सन्धितानि । अहरहरुदये मदीयमात्रा मयि निहितानि भृशं सुखं वहन्ति ॥९७॥ बहुविधमथ दुग्धबाष्पपक्वं मृदु मृदु पिष्टकमिष्टपूर्णम् । अधि दिनदिनमध्यमात्ममात्रा प्रहितमहं रमयन्मुदं भजामि ।९८॥ घुसृणरुचिरतूलसूक्ष्मवस्त्रद्विदलजकञ्चुकयुक्पिधानवक्षः१ । पवनरहितघर्मशर्मदातृस्थलमनु धेन्ववनेन शर्म यामि ॥९९॥ शिशिरमनु समस्तसत्त्वजाते रुतिरहिते किखिषु प्रगल्भवाक्षु । समवददिह कोऽपि नेति नूनं सखि हसितं दयया सहायति स्म ॥१००॥ शिशिरजनुषि दुर्दिनेऽपि जाते मितिरहिता धवलाः सुखं चरन्ति । शृणु सखि तदुपायमन्त्यमेकं मम मुरलीजनि यत्तु वायुसूक्तम् ॥१०१॥ शिशिरमकुसुमान्तरं निरीक्ष्य स्रजमिह कुन्दकृतां बिभर्मि चित्राम् । विपदि यदुपजीवनं तदेव प्रतिपदमादरभाजनं विभाति ॥१०२॥ इह द्रुतमितमहःसमूहमूहा विषयतया दधतः परे निनिन्दुः । भवदुपसृतिवर्धिरात्रिवृद्धेर् अलम् अहमस्य तु वश्मि२ दीर्घमायुः ॥१०३॥ अथ मधु ऋतुरेष्यति प्रफुल्लं वननिकरं विदधद्यदाततः प्राक् । हरिहरिवनिताकुलं प्रफुल्लं स्वयमभवद्बत पश्य तस्य वीर्यम् ॥१०४॥ प्रथमसममथात्र भोजनाद्यं समुचितमाप्रविधाय कृष्णचन्द्रः । निशि निशमयति स्म वन्यवृत्तं दिनदिनमप्यतुलं वृषार्कपुत्रीम् ॥१०५॥ निशमय कुतुकं वनेऽद्य दृष्टं वितरितरि प्रसभं बिभर्ति भिक्षुः । अमधुजनुषि पुण्ड्रके द्विरेफा मुहुरपि झङ्कृतितर्जनां वहन्ति ॥१०६॥ किमियमहह माधवीति नाम्ना जनविदितेति मदात्प्रफुल्लति स्म । शिव शिव न वयं मधोः किमित्थं कुसुममधुः किल सप्तलादयश्च ॥१०७॥ स बकुलसहकारकेतकीनां सकरुणकिंशुकनागकेशराणाम् । ततिरतिशुशुभे विलोक्य यान्तु भ्रमरपिकप्रवरा महः सजन्ति ॥१०८॥ मलयजमरुदेष इत्यभिख्यः पवनगणः प्रतिपद्य मत्कवन्याम् । मनयुजजयिसुरभातिशस्तां प्रसतिक्रीण इवात्र मन्दमन्दम् ॥१०९॥ इति मधुऋतुवर्णनं वितन्वन्मधुरिपुरन्यनिजप्रियाजनानाम् । चरितविवृतिमन्यनायिकानां३ चरितमिषात्कलयन्नमूं स्तुते स्म ॥११०॥ १. (अ) ओवृक्षः॑ २. (अ) रश्मि॑ ३. (अ) मर्गिन्नायिकाताम् कुसुमकुलमिदं दधाति तावद्भ्रमरपिकादिगणस्तथा स्वरूपम् । प्रियसहचरता यदा प्रियाणां परसमये शरतां च वज्रतां च ॥१११॥ अयि विधुमुखि सङ्गतप्रियाङ्गि प्रियविरहादपरा धृतावसादाः । उत कुसुमपिकादितुद्यमाना ध्रुवमधुना प्रियतावशा भ्रमन्ति ॥११२॥ स्फुरदसहनता मिथः सपत्न्यः पथि रहसि प्रियमात्मनाभिसृत्य । दिशि च विदिशि च स्फुरन्तमारान्नहि निरनैषुरमूः क्व वा लभेरन् ॥११३॥ नियमितचरणान्निकुञ्जधाम्नि क्वचन च वासकसज्जिकायमानाः । प्रियतममनवाप्य मानमाञ्चन् मुखमिव मानधना हि धन्यनार्यः ॥११४॥ अपि च तदपरास्तु वाससज्जा मुहुरपि चिन्तनलब्धकल्पतन्त्राः । प्रियतममुपलभ्य चात्र जाग्रद् वलितवदाप सुखं न चात्र भेदम् ॥११५॥ अपि दयिततमेन खण्डिताशा नहि कलहान्तरिता बभूव कापि । उचितमपि तदेतदेव यस्माद्दयिततमः कथमन्यथा घटते ॥११६॥ व्यवहितपदवीं ममास्ति नेतुं नहि भवतीमपि किञ्चनापि वस्तु । न पुरुषमिह जागराद्यवस्थात्रयमपि चेतनया वियोक्तुमीष्टे ॥११७॥ निशि सुमुखि तदद्य कुञ्जपुञ्जं सहसवयस्तति सद्रवं व्रजावः । इह हि कुमुदमुद्गरादिपुष्पं सितरुचिरोचिषि रोचमानमस्ति ॥११८॥ विधुरथ दयितान्वितः सखीभिः सह सहखेलमियाय पुष्पदेशम् । स्फुटमिह तु विधुः परः सवृन्दस्तदुपरि वन्दनमालिकायते स्म ॥११९॥ अधि कुसुमवनं विरजमानं हरिमथ कान्तिमती वृषार्कपुत्री । सुखकरललिताविशाखिकादिप्रियसवयस्ततिभिः समं समय्य ॥१२०॥ सुकुसुमनिकरानुपददानं स्वमपि तदप्यनु तन्वि योजयन्ती१ । द्वयमपि तदनुव्रतक्रियाभिर्द्रवततिभिश्च मुदाञ्चि कुर्वतीभिः ॥१२१॥ अलमुपरिगपुष्पवृन्दमिच्छुं२ स्वयमपि तत्तदुपग्रहं दिशन्ती । द्रुतमिव न किमस्मदीय राज्ञ्या वहसि निदेशमिति स्मिताञ्चिगीर्भिः ॥१२२॥ प्रसभमिव रमाममूं भुजाभ्यां हृदि दधतं३ मुहुरूर्ध्वपुष्पहेतोः । सरुदिव तदभीष्टमापयन्ती सकलकलं हसितं वितन्वतीभिः ॥१२३॥ सुकुसुमचयकूटमीक्षयन्तं स्वयमपि तं तुलितं निचाययन्ती । विविधमततया प्रहासभेदाच्छलमपि सत्यमपि प्रजल्पिनीभिः४ ॥१२४॥ कुसुमविरचनामयं कलापं विदधतमाशु च तं पृथक्सृजन्ती । नुतिमनुतिमपि द्वये पि तस्मिन् समिषवचः प्रचयेन तन्वतीभिः ॥१२६॥ १. (ब्) तन्नियोजयन्ती॑ २. (अ) इच्छं॑ ३. (अ) दधातं॑ ४. (अ) प्रजल्पितीभिः स्वरचिततदलङ्क्रियां स्तुवानं स्वरचिततत्तद्दलङ्कृतिं स्तुवाना । निजकृतिजनितामहत्त्वबुद्धिः प्रकृतिरिहेति विहस्य वादिनीभिः ॥१२७॥ वशमकृत गुणक्रियाङ्गभावप्रभृतिभिरत्र च पश्य चित्त चित्रम् । वहति पतिरधीनभर्तृकाज्ञां रचयति कर्म विनापि तां स तस्याः ॥१२७॥ [अष्टभिः कूलकम्] हरिरिह जनयन् वसन्तरागं हरिवनितानिकरश्च सुष्ठु पुष्टम् । अभिनयमयनृत्यतालजुष्टं व्यतिवशितः स्ववशीचकार विश्वम् ॥१२८॥ इति बहुविधखेलया रजन्याः प्रशममिव प्रतिपद्य नागरेन्द्रः । सुरभिकुसुमवृक्षवाटिकान्तः क्षणशयनक्षणमाप कान्तया सः ॥१२९॥ मणिमयवरचत्वरस्य शय्यामनु कुसुमानिललीलया सुसेवः । परमतमसखीभिरस्यमानभ्रमरततिः ससुखः सुखञ्चकार ॥१३०॥ इति सर्वर्तुलीला ॥३॥ [४] अथ फलनिष्पत्तिः घोषे स्वप्रेमकोषे पितृमुखसुखदस्वीयवृन्देन दीव्यन् कंसेन प्रेषितेभ्यस्तमतिभयमयं वीक्ष्य निघ्नन्मुहुस्तान् । हन्ति१ तेषामपश्यन्नधि मधुपुरि तं हन्तुमञ्चन् सवृन्दम् हत्वा तं घोषमागात्तदतुलसुखकृद्यः सदा तं भजामि ॥१॥ राधाद्याः कृष्णकान्ताः स्वयमवतरणं कृष्णवत्प्राप्य लीला शक्त्या विस्मृत्य नित्यां स्थितिमपरतया ज्ञातकृष्णास्तथापि । रागादस्पष्टकृष्णश्रयणसुखरता प्रान्ततः कृष्णमेव स्पष्टं जग्मुः स्वकान्तं तमतिसुखसुधासिन्धुमग्नान्तराः स्मः ॥२॥ हंहो सौख्यं मुरद्विट्कटुकटकघटा२ रेष्ठकंसादिदुष्टान् हत्वा तत्क्लिष्टचित्तां पितृमुखजनतां निर्वृतां सुष्ठु चक्रे । किं चान्यः स्वप्रियाणां पतिरिति बहिरख्याति३ उःखानि हृत्वा तत्तद्विश्लेषपीडाच्छिदयमतिजगददृष्टिगोष्ठे विभाति ॥३॥ प्रातर्मातुः सहस्तादशनसुखकृती लब्धताताद्यनुज्ञः श्रीरामादिप्रसक्तः सुरभिगणशतं पालयन्मोदयुक्तः । सन्ध्यायां गोपगोपीसुखदगृहगतिः सानुरागं क्षपायाम् तत्तद्दीव्यद्विहारः स्फुरतु तव मनः सर्वदा कृष्णचन्द्रः ॥४॥ जन्माद्यं स्वीयवृत्तं कविभरतकलाचित्रयोगेन दृश्य प्रायं तन्वन् सभायां रहसि तु दयिता पूर्वरागाद्युदन्तम् । वर्गं तत्तन्निसर्गं निजमनु विजयी सर्वसात्पर्व कुर्वन् दीव्यदीव्यश्रियाभिर्विहरणकुतुकी नन्दतान्नन्दसूनुः ॥५॥ यः श्रीपर्यन्तयाच्यान्वितिरिह पशुपश्रेणिबन्धुर्यशोदानन्द स्वीयाङ्गजातः सुबलमुखसखः किं च राधादिकान्तः । स श्रीगोपालनामा सुरभिकुलमहः पालयन् दिव्यकेलिर् नक्तं रासादिलीलाललिततमगतिः सर्वदा स्याद्गतिर्नः ॥६॥ श्रीमद्वृन्दावनेन्दो मधुपखगमृगाः श्रेणिलोका द्विजाता दासा लाल्याः सुरभ्यः सहचरहलभृत्तातमात्रादिवर्गाः । प्रेयस्यस्तासु राधाप्रमुखवरदृशाश्चेति वृन्दं यथोर्ध्वं तद्रूपालोकतृष्णक्प्रमदमनुदिनं हन्त पश्याम कर्हि ॥७॥ १. (अ) मर्गिन् वन्तिं, हानीम्॑ (ब्) हन्तुम्॑ २. (ब्) ओघटओ॑ ३. (अ) आख्याति शश्वद्ध्यायति दूरगस्थिति मिथः सूक्ष्मप्रथं चायति प्राज्यान्तर्गतमात्तनर्मस्तु सखीमध्यस्थितं पश्यति । राधामाधवनामधेयमिथुनं विघ्नानतीत्यामितान् दाम्पत्ये स्थितमत्र वा यदि रहः प्राप्तं तदा किं पुनः? ॥८॥ राधाकृष्णयुगं मुहुर्विघटनामुत्तीर्य दाम्पत्यभाक् प्रत्येकान्तमुदस्रमेकतरगस्वापान्तरन्तर्मिथः । वक्त्रं पश्यति मार्ष्टि लोचनपुटं नासाग्रमुद्दण्डयन् निंस्ते गण्डयुगं हृदा हृदि मिलल्लेलीयते शर्मणि१ ॥९॥ गौरश्यामरुचोज्ज्वलाभिर्२ अमलैरक्ष्णोर्विलासोत्सवैर् नृत्यन्तीभिरशेषमादनकला वैदग्ध्यदिग्धात्मभिः । अन्योन्यप्रियता सुधापरिमलस्तोमोन्मदाभिः सदा राधामाधवमाधुरीभिरमितश्३ चित्तं समाक्राम्यताम् ॥१०॥ इति फलनिष्पत्तिः ॥४॥ १. (अ) शर्माणि॑ २. ओरुचो ज्वलाभिर्॑ ३. (ब्) अभितश् [५] पूर्णाः पुलिन्द्य इति१ या स्तुता व्रजरमादिभिः२ । न वयं साध्वि साम्रेति३ श्रेणिभिर्द्वारिकाश्रियाम् ॥१ ॥ अनयाराराधितो नूनम्४ इत्थं पूर्वाभिरेव च । पुराणे क्वापि वैशिष्ट्यसामान्यं नेयमूह्यते ॥२॥ रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।५ इति. तस्याः कान्तः सदा कान्तः स स्यादेकान्तभाग्वशः ॥३॥ यावमू मम चित्तान्तर्भूरुहस्नेहमूहतु६ । सद्भक्तेष्वतुलं पितृव्य७ उगलं कृत्वा मदीयां गतिम् ॥४॥ स्वं दास्यं दिशदस्ति यत्प्रभुयुगं तन्मे सदास्तां गतिः ॥ गङ्गायां ककुचङ्गमुक्श्रुतिमदाज्जाग्रद्गतं मां प्रति श्रीवृन्दाविपिने त्रयीमपि परां स्वप्नादवस्थं पुनः । यः श्रीमान्मधुमर्दनः सुभगता सद्रूपता विश्रुतः संज्ञावान् लघुवंशशंसकतया वन्दे च वन्दे च तम् ॥६॥ श्रीकृष्ण कृष्णचैतन्य ससनातनरूपक । गोपाल रघुनाथाप्तव्रजवल्लभ पाहि माम् ॥७॥ इति श्रीसङ्कल्पद्रुमनाम काव्यमामकस्पृहा धाम श्रीराधाकृष्णरूपपूरमपि पूरयन्तम् । श्रीराधाकृष्णचरणार्पितमेव मम सर्वम् इति तदिदमपि तथा भवेदेवम् ॥८॥ इति श्रीसङ्कलपकल्पद्रुमनामकाव्यं समाप्तम् ॥ श्री हरये नमः ॥ १. भागवतम् x.२१.१७॑ २. (अ) ओरमालिभिः॑ ३. भागवतम् x.८४.४१॑ ४. भागवतम् x.३०.२८॑ ५. स्कन्दप्व्.३.१९७.७५ एत्च्.॑ ६. (अ) ऊहतुः॑ ७. (ब्) पितृओ. सङ्कल्पकल्पद्रुम