प्रथमः सर्गः अथ माल्यवतः प्रस्थे काकुत्स्थस्य वियोगिनः । दुर्निवाराश्रुसंवेगो जगाम जलदागमः ॥ १.१ ॥ शशाम वृष्टिर्मेघानामुत्सङ्गे तस्य भूभृतः । विरराम न रामस्य धारासन्ततिरश्रुणः ॥ १.२ ॥ इतस्ततः परिणतिं भेजे बर्हिणकूजितम् । हा प्रिये राजपुत्रीति न रामपरिदेवितम् ॥ १.३ ॥ काप्यभिख्या विरजसोः सूर्याचन्द्रमसोरभूत् । दाशरथ्योस्तथैवासीदयोगोपहता रुचिः ॥ १.४ ॥ निर्मलेन्दु नभो रेजे विकचाब्जं बभौ सरः । परं पर्यश्रुवदनौ मम्लतुर्भ्रातरावुभौ ॥ १.५ ॥ स्मर्तव्यकलिकाजालं जज्ञे कुटजकाननम् । आसीत्तथैव तु मनो रामस्योत्कलिकाकुलम् ॥ १.६ ॥ प्रपेदे पुनरुद्भेदः शुचिना कच्छकेतकैः । उपक्रियायाः सदृशं नारेभे रविसूनुना ॥ १.७ ॥ आकृष्टमालतीगन्धः सिषेवे राघवं मरुत् । आनीतमैथिलीवार्तस्तमार्तं न तु मारुतिः ॥ १.८ ॥ रामाय पूरापगमव्यक्तोद्देशाश्चकाशिरे । आस्तेऽस्मासु न सीतेति शंसन्त्य इव निम्नगाः ॥ १.९ ॥ यदार्द्रविरहो रामः प्रापितः प्राणसंशयम् । नूनं तेनानुतापेन जग्मुर्जलदराजयः ॥ १.१० ॥ द्यौर्मुक्तमेघावरणा सवितर्कोन्मुखं मुहुः । ययाचे सारसरुतैर्विचारमिव राघवम् ॥ १.११ ॥ दिशो ददृशिरे तेन स्तेनं तं परिमार्गता । मार्गदानापराधिन्यो गता दूरं भयादिव ॥ १.१२ ॥ तस्याकृतिविशेषस्य विशेषात्कष्टमीदृशम् । कच्छाः काशच्छलादूहुरितीव पलितागमम् ॥ १.१३ ॥ पश्यन्त्या इव कष्टां तामवस्थां मैथिलीपतेः । शुष्कपङ्कचयव्याजाद्विदद्रे हृदयं भुवः ॥ १.१४ ॥ वृष्टिविच्छेदजातेन तानवेनासमाप्तिना । प्रपेदिरे जलधरास्तस्य सब्रह्मचारिताम् ॥ १.१५ ॥ ययौ विरहसंवर्तः पद्मिनीराजहंसयोः । अपारदुःखार्णवयोर्न सीतारामभद्रयोः ॥ १.१६ ॥ शान्तनिर्झरझात्कारधाराः शिखरिणो बभुः । रामस्य विशदालापशुश्रूषानिभृता इव ॥ १.१७ ॥ तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि । स्मिताभमुकुलोद्भेदाः कदम्बवनराजयः ॥ १.१८ ॥ अदृश्यन्त पुरस्तेन खेलाः खञ्जनपङ्क्तयः । अस्मर्यन्त च निश्वस्य प्रियानयनविभ्रमाः ॥ १.१९ ॥ अब्रवीदथ कालज्ञस्तत्कालप्रतिपत्तये । प्रणम्य लक्ष्मणो रामं रामाविरहनिःसहम् ॥ १.२० ॥ जातं विभातममलं पश्य प्रावृण्णिशा गता । उत्साहकमलस्यायं विकासावसरस्तव ॥ १.२१ ॥ उच्छ्रयं तीरतरवो रवेरूर्जमभीषवः । मदं गोपतयो गृह्णन्त्यभियोगं जिगीषवः ॥ १.२२ ॥ प्रसीद दीयतां कर्णः कूजद्भिः कुररैरमी । प्रार्थयन्तीव संचारं तटाः कर्दमदुर्गताः ॥ १.२३ ॥ भुवि भास्वदभीषूणां त्वदिषूणां च शत्रुषु । अयं सम्पतितुं कालः स दुष्कालोऽतिवाहितः ॥ १.२४ ॥ सुदूरोन्नतपर्यन्तास्तीर्यन्ते संक्रमैरिव । अनल्पगाधाः सरितस्तरुभिः पूरपातितैः ॥ १.२५ ॥ आविष्कृतविशुद्धिभ्यां नद्यः सुमहिला इव । कुलाभ्यामिव कूलाभ्यामापत्स्वपि चकासति ॥ १.२६ ॥ जलजानां सुमनसां वयसां जलसेविनाम् । अस्य प्रतिजलाधारं सामग्र्यमवलोक्यते ॥ १.२७ ॥ युयुत्सारभसोत्खातसरित्खातकरोधसः । कुकुद्मन्तो मदकलाः कलयन्ति जगन्त्यधः ॥ १.२८ ॥ विश्वेश कुरु विश्वासमावर्तन्ते न ते घनाः । अमी श्यामलयन्त्याशाः शुकाः शालिवनोन्मुखाः ॥ १.२९ ॥ मृगाः सम्प्रति शालेयं सम्पन्नं सम्पतन्त्यमी । साकेतमधितिष्ठन्तमर्थिनस्त्वामिवोन्मुखाः ॥ १.३० ॥ कार्यदिग्गृह्यतां कापि किमार्य स्थीयते वृथा । एवमेवायमस्माकमिष्टोऽपि किमुपैष्यति ॥ १.३१ ॥ विजयाय भवासीनो मय्यर्पितवपुर्भरः । मूर्च्छानुवलनव्यस्तः प्रस्तरस्त्यज्यतामयम् ॥ १.३२ ॥ प्रतीष्टोपत्यकासालदलाग्रजलबिन्दवः । सार्यन्तां क्षणमुद्धूय स्थगितांसतटा जटाः ॥ १.३३ ॥ मुहूर्तं क्रियतामार्य कपोलविरही करः । व्युषितो वल्कलग्रन्थिरंसादुन्मोच्यतामयम् ॥ १.३४ ॥ इतो वितत्य दीयन्तामिषवः क्लिन्नयन्त्रणाः । निर्मुक्तार्द्रजरच्चैलमादत्तामायतं धनुः ॥ १.३५ ॥ इतोऽवतीर्यतां प्रास्थादस्वास्थ्यमिदमुज्झ्यताम् । जहीषुभिर्दशग्रीवं दशदिग्वेधशोधितैः ॥ १.३६ ॥ ऋजुरादीयतां पन्थाः कार्यकन्था गरीयसी । उत्सार्यतामिदं दूरं तमः किंकार्यतामयम् ॥ १.३७ ॥ आर्यायाः शिवमेवास्ति शत्रुर्निहत एव ते । अलं दत्त्वावसादाय त्रैलोक्यशरणं वपुः ॥ १.३८ ॥ राक्षसापशदः कोऽसौ त्वयि सज्यशरासने । अनेन तेऽवसादेन दूरमारोपितः पुनः ॥ १.३९ ॥ अश्रुवेगैः प्रमीलाभिर्विलापैरखिलः स ते । आमृष्टदेहयात्रस्य मासः प्रौष्ठपदो गतः ॥ १.४० ॥ क्रियतामधुनोत्साहश्चिन्त्यतां निधनं द्विषः । कः स्वबाहुसहायानां महतामात्मनिग्रहः ॥ १.४१ ॥ भद्रं भाद्रपदच्छेदच्छिन्नाभ्राजिनरज्जवे । तुभ्यं पुरुषनागाय निर्विघ्नतरसेऽधुना ॥ १.४२ ॥ प्रसीद कुरु भूयोऽपि देहयात्रां यथा तथा । अनुल्लङ्घितविज्ञप्तिर्लक्ष्मणोऽवरजेषु ते ॥ १.४३ ॥ अगाधं धैर्यमार्यस्य त्रिषु लोकेषु गीयते । जनमात्रोचितः कोऽयमाकल्पकपरिग्रहः ॥ १.४४ ॥ अरोपशमितोदग्रजामदग्न्याग्नितेजसः । प्रतीच्छति शरासारं तवार्य रुषितस्य कः ॥ १.४५ ॥ स्वकृत्यभारसन्न्यासी यावदित्थं विषीदसि । तावदन्तकदंष्ट्राणामरातिरतिथिर्न ते ॥ १.४६ ॥ आततायी स विज्ञातो जीवत्यार्येति च श्रुतम् । प्राप्तो यात्रासहः कालः कालक्षेपस्य को गुणः ॥ १.४७ ॥ न ज्ञायते परं व्यक्तमरेर्मायाविनः पदम् । तन्मार्गणं च सुहृदा सुग्रीवेण प्रतिश्रुतम् ॥ १.४८ ॥ दिङ्मुखाहूतविख्यातकपियूथः कपीश्वरः । क्षणान्नूनमसवार्यपादमूले पतिष्यति ॥ १.४९ ॥ शालिपिङ्गमहीपृष्ठस्पर्धयेव भविष्यति । रंहस्विहरिसंघातसम्पातकपिलं नभः ॥ १.५० ॥ तेषामारोषरुचिरैरचिरान्मुखमण्डलैः । द्रक्ष्यते तरुणादित्यशतच्छन्नमिवाम्बरम् ॥ १.५१ ॥ अहो दीप्तिरहो कान्तिरहो शीलमहो बलम् । अहो शक्तिरहो भक्तिरहो प्रज्ञा हनूमतः ॥ १.५२ ॥ प्रगल्भेनाप्रमत्तेन तेनाभ्यन्तरमन्त्रिणा । नूनमस्मत्कृते स्वप्तुं सुग्रीवाय न दीयते ॥ १.५३ ॥ स च प्रत्युपकाराय त्वरयत्येनमादृतः । ध्रुवं बुद्धिवयोवृद्धः सचिवो जाम्बवानपि ॥ १.५४ ॥ तदेवं हेतुना केन वानरेन्द्रो विलम्बते । नासौ कृतघ्नस्य भवेद्गुणवद्भृत्यसंग्रहः ॥ १.५५ ॥ आगन्तव्यं ध्रुवं तेन मार्गितार्या प्रवृत्तिना । प्रपन्नपरकृत्यानामत्युष्णो हि समुद्यमः ॥ १.५६ ॥ त्वत्प्रसादाप्तसम्भोगसुखसंमीलितेन वा । न तेनामूर्ददृशिरे दिशः प्रोषितकालिकाः ॥ १.५७ ॥ कियच्चिरं पुनरसौ तस्य न श्रुतिमेष्यति । क्रीडातटाकहंसानां निनादो मदमूर्छितः ॥ १.५८ ॥ उक्तैः किमथ भूयोभिरद्य श्वो वागमिष्यति । पर्युत्सुकितकिष्किन्धः सत्यसन्धो हरीश्वरः ॥ १.५९ ॥ व्यतिरेकेऽपि यत्कार्यं तदप्यार्य प्रधार्यताम् । गृह्यतां कार्यसिद्धिर्नस्तद्विलम्बतिरस्कृता ॥ १.६० ॥ यस्तथोपकृतः पूर्वमार्येणार्याकृतेऽधुना । स शीतलः स्यादथवा परचित्तानि वेत्ति कः ॥ १.६१ ॥ स प्रतिश्रुतमर्थं नः स्फीतो विस्मृतवानिव । गत्वाशु स्मार्यतामार्य कार्यतप्तस्य का क्षमा ॥ १.६२ ॥ तमहं बोधयिष्यामि दण्डगर्भाभिरुक्तिभिः । साम संमीलयत्येव सुखसक्तान् प्रमादिनः ॥ १.६३ ॥ प्रसीद जीयतां मोहः कोऽहमित्यवधीयताम् । द्रुतमुत्तीर्ण एवास्ते व्यसनाब्धिः कियानयम् ॥ १.६४ ॥ सूनृतैरिति सौमित्रेः प्रीतः पीयूषवर्षिभिः । तमन्तर्वेदनावेगं जिगायेव रघूद्वहः ॥ १.६५ ॥ उन्मीलयामास दृशौ दिशः किंचिदलोकत । उन्ननाम च तल्पान्तान्मोचयन् पक्ष्मला जटाः ॥ १.६६ ॥ सत्वरप्रह्वसौमित्रिचीरोत्सारितरेणुनि । शुचिनि क्वचिदासन्ने निषसाद शिलातले ॥ १.६७ ॥ उपविष्टस्तदा रामो न रेजे सीतया विना । ध्वजो निर्वैजयन्तीकः पौरन्दर इवोच्छ्रितः ॥ १.६८ ॥ अनूपविष्टमनुजं दनुजारिमिवाद्रिजित् । प्रत्यभाषत वात्सल्यगद्गदानि पदानि सः ॥ १.६९ ॥ एह्येहि प्रियसंलाप ह्लादयालिङ्गितेन माम् । रुद्धं रुद्धमुपैत्यश्रु त्वामपीक्षे न लक्ष्मण ॥ १.७० ॥ हा वत्स भवतोऽपीयमवस्थाङ्गेषु वर्तते । ध्रियतां रामहतकः क्लेशयन्नेकबान्धवम् ॥ १.७१ ॥ नास्ति वत्स चिकित्सास्य व्याधेर्विधुरजन्मनः । यस्य यापनया क्षीणमिदं ते सान्त्वनामृतम् ॥ १.७२ ॥ नैकदुर्वारघोराधिघट्टनाचलिता अपि । तवाश्वासनया वत्स न गच्छन्ति ममासवः ॥ १.७३ ॥ पितुर्नः प्रियमित्रस्य लूनपक्षस्य मद्द्विषा । संस्मरन्नोत्सहे वत्स मर्मच्छेदं जटायुषः ॥ १.७४ ॥ तातस्य तातमित्रस्य वत्सवत्सलयोस्तयोः । अहमेव गतः पापो निधनाय निमित्तताम् ॥ १.७५ ॥ प्रियापहारजः शाम्येत्सम्यगुन्मूलिते रिपौ । मन्युर्देहावधिरयं तातमित्रविपत्तिभूः ॥ १.७६ ॥ नभस्तलात्खगपतौ पतति च्छिन्नपक्षतौ । कोऽपरस्तां मम सुहृन्मा भैषीरित्यभाषत ॥ १.७७ ॥ स्याद्वत्स रामहतकात्क्लीबः कः पुरुषोऽपरः । एकपत्नीमनुगतामरातेर्यो न रक्षति ॥ १.७८ ॥ तया तेषु तपस्विन्या सीदतोरावयोरपि । दण्डकारण्यकष्टेषु मुखं न विधुरीकृतम् ॥ १.७९ ॥ विदेहराजस्य सुता स्नुषा दशरथस्य सा । हतरामस्य जायेति भ्रमति स्म वने वने ॥ १.८० ॥ स्वमप्यपुष्णता कायमपि जायामरक्षता । मया समः श्रुतः कोऽपि जातः क्लीबो रघोः कुले ॥ १.८१ ॥ त्वं केवलं न सुभ्राता तथा विलपता मुहुः । तिर्यञ्चोऽपि मयामुष्मिन् वने लक्ष्मण रोदिताः ॥ १.८२ ॥ दिक्षु सन्नद्धमेघासु मम घोराधिसाक्षिणाम् । अवहन्निर्झरनिभान्नगानामश्रुनिम्नगाः ॥ १.८३ ॥ आरादाकर्णितस्निग्धनवाब्दनिनदैरपि । मत्कारुण्यादरण्येऽपि नानृत्यत कलापिभिः ॥ १.८४ ॥ सत्यमेष्यति सुग्रीवः सत्यं जीवति जानकी । त्वद्वचो न विपर्येति भ्रातर्ब्रूहि पुनः पुनः ॥ १.८५ ॥ त्वद्वाक्यशीकरैरेभिर्निरुद्धबहिरुद्गमः । ममान्तर्लेढि मर्माणि सीताविरहमुर्मुरः ॥ १.८६ ॥ तस्मादपि दहत्युच्चैरयं मामपरः शिखी । यद्वनौकसि निर्वैरे मुक्तो वालिनि मार्गणः ॥ १.८७ ॥ गुर्वी पुनश्च लज्जेयमुत्तमर्णैरिवाधुना । मार्गितव्यो यदस्माभिः प्लवगाः प्रत्युपक्रियाम् ॥ १.८८ ॥ नास्ति प्रत्युपकाराशा तत्र नश्चपले कपौ । येनातिलघुनोत्तुङ्गो लङ्घितः सत्यपादपः ॥ १.८९ ॥ उत्तिष्ठ वत्स गच्छावः साधयामोऽन्यतोऽधुना । नवैश्वर्यसुखव्यग्रः सुग्रीवो नागमिष्यति ॥ १.९० ॥ तपस्वी रमतामेवं चिराद्दारैः समागतः । स पीड्यमानः प्रणयाद्विरसः किं करिष्यति ॥ १.९१ ॥ किं च वत्स दशासाम्याज्जाताः स्मः सुहृदः पुरा । तस्याधुना तु विस्तीर्णविभवान्धस्य के वयम् ॥ १.९२ ॥ गृहीतसाधुवर्त्मापि सद्यः सम्प्राप्य सम्पदम् । पतति स्खलितोऽतीव प्रमत्तः प्रहते पथि ॥ १.९३ ॥ स वत्स विरलो जन्तुर्विपत्कालप्रतिश्रुतम् । सद्यः सम्पन्मदो यस्य न विलुम्पति चेतसि ॥ १.९४ ॥ अस्तु साधुरसाधुर्वा न विचार्यः स मेऽधुना । वत्स नोत्सहते चेतस्तत्र दोग्धुमुपक्रियाम् ॥ १.९५ ॥ असावनागतः श्रेयानागच्छन् वत्स वार्यताम् । प्रवेशयन्ति सुहृदं न धीराः स्वार्थसंकटे ॥ १.९६ ॥ कर्तव्योपकृतिः सद्भिर्यत्र तत्र विपद्गते । अविमृश्य कृतोऽस्माभिः स पुनः कृपणः पणः ॥ १.९७ ॥ किं क्षिप्तमचलप्रान्तादन्तःसुप्तशिवाशतम् । निर्देशपुरुषेणेव कङ्कालं दुन्दुभेर्मया ॥ १.९८ ॥ कस्यार्थस्य कृते विद्धाः सप्त सालास्तपस्विनः । स मा प्रत्येतु वैधेयः किं न साधितमन्यतः ॥ १.९९ ॥ अक्षात्रं क्षत्रिययुवा को नु राम इव क्षिपेत् । विशिखं वालिनि व्यग्रे सुग्रीवस्य पशोः कृते ॥ १.१०० ॥ न परित्यज्यते मार्गस्तावन्निर्वाच्यकर्दमः । यावत्पिहितकष्टाय कार्यायात्मा न दीयते ॥ १.१०१ ॥ इष्वैकया मया विद्धो बालिशेन वलीमुखः । अनुद्धाराः शरास्तेन रोपिता मयि वाङ्मयाः ॥ १.१०२ ॥ अनवाप्तविपत्पारः स्मरिष्यामि कियन्ति वा । वत्स कालोचितं शाधि न रामः किंचिदीक्षते ॥ १.१०३ ॥ अवलम्बस्व मां भ्रातः सीतास्मरणनिस्सहम् । दूरं पुनः प्रभवता मनो मोहेन लुप्यते ॥ १.१०४ ॥ सनाथोभयपार्श्वस्य त्वया वत्स तया च मे । वनेषु च सतः कष्टमजनिष्ट न किंचन ॥ १.१०५ ॥ हा भीरु हा प्रियतमे हा मद्विरहकातरे । क्वासीत्यर्धोक्तिनिस्संज्ञो जगाम स महीतलम् ॥ १.१०६ ॥ मातः कैकेयि तुष्टासि भुङ्क्ष्व राज्यमकण्टकम् । वदन्नित्यपतत्तस्य लक्ष्मणश्चरणाब्जयोः ॥ १.१०७ ॥ ततस्तौ साश्रुनयनौ मृगैर्विधुरवीक्षितौ । निपेततुर्दिव इव भ्रष्टौ विधुरवी क्षितौ ॥ १.१०८ ॥ इति निपतितयोस्तयोर्द्वयोर्दशरथनन्दनयोर्महीतले । दशभिरपि दिगङ्गनामुखैरधृतिवशादिव तत्यजे रुचिः ॥ १.१०९ ॥ एते निकामरसिकस्य जयन्ति पादाः श्रीहारवर्षयुवराजमहीतलेन्दोः । यैर्द्वादशार्ककिरणोत्करदुर्निवारः सृष्टोऽभिनन्दकुमुदस्य महाविकासः ॥ १.११० ॥ इत्यभिनन्दकृतौ रामचरिते महाकाव्ये प्रथमः सर्गः समाप्तः ॥ *********************************************************************** द्वितीयः सर्गः तामनीक्षितचरीमधीरतामात्मनोऽथ विनियम्य लक्ष्मणः । सान्त्वनार्थमिति वाचमब्रवीत्तीव्रमन्युरयमूढमग्रजम् ॥ २.१ ॥ कार्यमार्य परिशिष्टमुच्यतां मुच्यतामिदमयोगजं तमः । राजतूद्यमदिवाकरोदयस्मेरमाशु मुखपङ्कजं तव ॥ २.२ ॥ आसितुं समय एष नावयोर्मोहमित्थमवलम्बितुं न च । उत्सहस्व ननु हृष्यतां चिरादिष्वधीनमधुनाभिकाङ्क्षितम् ॥ २.३ ॥ केवलं फलभुजो न तस्य नस्तस्करस्य निलयेऽस्ति निश्चयः । अभ्युपैतु रविनन्दनः क्षणादन्धकारमिदमप्यपैष्यति ॥ २.४ ॥ औरसानपि सुतानरीनिव घ्नन्ति कारणवशान्महीभुजः । निग्रहादनुजविद्विषः कपेः किं पृथग्जन इवानुतप्यसे ॥ २.५ ॥ क्रीडतां मृगवनेषु धन्विनां जीवकोटिकदनेऽपि का क्षतिः । खिद्यसे किमनिशं प्रयोजनादेकवानरवधः कुतः कृतः ॥ २.६ ॥ तस्य च प्रवयसो जटायुषः स्वर्गिणः किमधुनानुशोच्यते । येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः ॥ २.७ ॥ एतदेकमतिवाह्यतामहः श्वो न स प्लवगराट्प्रतीक्ष्यते । तत्प्रसीद परितो विचीयतात्मनैव सनगार्णवावनिः ॥ २.८ ॥ तत्कबन्धशबरीहनूमतामावयोरजनि सङ्गतं यथा । इष्टशंसि वनशैलपान्थयोः किं तथान्यदपि नापतेत्पुनः ॥ २.९ ॥ यत्र यत्र तव सिद्धिरग्रतः कः करिष्यति न ते समीहितम् । उज्ज्वले कृतविदां न केवलं तेन वर्त्मनि दुरात्मना स्थितम् ॥ २.१० ॥ सम्भवत्यभिमरः पुरेऽथवा तस्य तीव्रमयशः किमुच्यते । दुःखमुत्खनति कण्टकावलीरङ्गसन्धिषु नवः किलेश्वरः ॥ २.११ ॥ सम्प्रति प्रथममार्य गृह्यतां तत्प्रवृत्तिमुपलब्धुमुद्यमः । मर्षणीयपरिलम्बदूषणः सोऽधुनाप्यकपटो घटते चेत् ॥ २.१२ ॥ मुञ्च मोहमवतीर्यतामितः सेव्यतामियमनाविला नदी । एष गच्छति जवाज्जपारुणो वारुणीमरुणसारथिर्दिशम् ॥ २.१३ ॥ उन्मिमील रघुनन्दनश्चिरात्तन्निशम्य वचनं चमत्कृतः । अप्ययोगविधुरा न शेरते संमुखीनविधयस्तथाविधाः ॥ २.१४ ॥ मुक्तमोहमवलोक्य लक्ष्मणस्तं मृगाङ्कमिव मेघनिर्गतम् । आददेऽथ शशिकान्तभूधरस्यन्दबिन्दुशिशिरां सरस्वतीम् ॥ २.१५ ॥ एष पश्य पतितो नभस्तलादस्तशैलगहनेषु नश्यति । सन्ध्यया चरमदिक्प्रगल्भया भग्नसान्द्रकरपञ्जरः खगः ॥ २.१६ ॥ शक्यमर्चितुमनुच्चपाणिभिः पाशपाणिनगरीनिवासिभिः । सानुरोध इव दूरबन्धुरो बन्धुजीवकुसुमारुणो रविः ॥ २.१७ ॥ एष मुक्तकरपाटवो रविर्नाटयत्यनुगुणत्वमप्पतौ । आपदि प्रकृतिरुज्झिता वरं नाश्रयस्य विसदृग्विचेष्टितम् ॥ २.१८ ॥ बिम्बमूलरुचिरा रवेरमी रेचयन्ति गगनं गभस्तयः । पूरयन्ति च महीं महीरुहामायताः प्रतिशरीरयष्टयः ॥ २.१९ ॥ अग्रतः शिखरशाखिसंहतेश्छाययोपचितयापसारितः । पृष्ठतोऽतिनिभृतं महीभृतामातपः कटकमाशु नोज्झति ॥ २.२० ॥ स्वीकरोति शनकैरनोकहच्छायमद्रिशिखरस्थलीरपि । हीयते निजवपुष्यपि क्रमादातपस्य ममता तपस्विनः ॥ २.२१ ॥ अप्पतेर्दिशि विचेष्टते रविर्व्याकुलाः शकुनयः स्वनन्त्यमी । ध्वान्तदृष्टिविषदर्शनाद्दिने दुर्निवारनिधने निमीलति ॥ २.२२ ॥ कीर्यते कृतरवैः खगव्रजैरेष तल्लतटचैत्यपादपः । सायमध्वनिकटे निरर्गलः सज्जनालय इव प्रवासिभिः ॥ २.२३ ॥ यान्ति खिन्नजनसेव्यताममी सौम्य सोर्मिशुचिवालुकाचयाः । प्रान्तसुप्तकलहंसपङ्क्तयः स्वैरनीरमरुतो नदीतटाः ॥ २.२४ ॥ धिक्तटान्तवसतीन् सितच्छदान् पश्यतः कमलषण्डवैशसम् । स्तौमि तं दिवसमार्य केवलं योऽस्तमेति सममब्जबन्धुना ॥ २.२५ ॥ दन्तमूलनिहितैकसल्लकीपल्लवोऽलसविलोकितानुगः । एष मुक्तगिरिकन्दरः शनैर्वारि वारणपतिः प्रतिष्ठते ॥ २.२६ ॥ शीलयन्ति करिणः स्ववासितावारि सैरिभसमूहरेचितम् । मालतीवनविकासवासिता वान्ति पल्वलतटान्तवायवः ॥ २.२७ ॥ संत्यजन्ति मसृणं सरःसरित्तल्लमूलसलिलानि सैरिभाः । सम्भजन्ति सहसा भयद्रुतैरीक्षिताः कुररसारसैरिभाः ॥ २.२८ ॥ संमुखीनघनपत्रबन्धनात्पश्य पङ्कजवनादनारतम् । पीतकोशमकरन्दसंचयाः संचरन्ति मधुपाः कुमुद्वतीम् ॥ २.२९ ॥ नोपनीतमुखमुद्रमम्बुजं मुक्तमुद्रमथ नैव कैरवम् । एतदीक्षितपरस्परं पुनः पत्रियुग्ममपनिद्रवैशसम् ॥ २.३० ॥ रोधसः पुलिनमब्जिनीं ततस्तामतीत्य भजते कुमुद्वतीम् । तत्र तप्त इव गाहते पयः सायमार्द्रविरहो विहङ्गमः ॥ २.३१ ॥ स्वीकृतं न नलिनैर्निमीलितं न स्फुटं कुमुदकुड्मलस्मितम् । एतदीक्षितपरस्परं परं मूढमम्भसि विहङ्गमद्वयम् ॥ २.३२ ॥ जर्जरं त्यजति वासरप्लवं न प्रसारयति मन्थरान् करान् । एत्यदृष्टमवलम्ब्य केवलं व्योमवारिनिधिशेषमंशुमान् ॥ २.३३ ॥ श्रावितागममिव द्विजारवैर्ध्वान्तमों इति जगत्प्रतीच्छति । त्रातुमूष्मरहितः क्षमोऽधुना न स्वमण्डलमपि प्रभाकरः ॥ २.३४ ॥ दृश्यतामुदयति स्म यादृशस्तादृशस्तरणिरस्तमीयते । उत्सवव्यसनयोः प्रभुर्विधिर्विक्रियासु महतामनीश्वरः ॥ २.३५ ॥ स्फीतमब्जकुलमीक्ष्यतामितस्तल्लमुल्लसितहंससारसम् । निश्चलाच्छपरिमण्डलोदकप्रान्तमन्थरमृणालकण्टकम् ॥ २.३६ ॥ शीलयन्त्यचलमेखलास्वमी शीतलासु रुरवो निरुद्यमाः । पूर्वशष्पकबलानुवर्तिनः स्तोकचञ्चलमुखाः सुखासिकाम् ॥ २.३७ ॥ दीधितीः परिचिताः परित्यजत्यब्जिनीरपि च नानुरुध्यते । सन्ध्यया वरुणदिग्वधूमनुप्रापितः कमपि रागमंशुमान् ॥ २.३८ ॥ द्यऊ रवीन्दुरहितापि निर्मला भूरवृक्षसलिलापि शीतला । अन्तरालमवलम्ब्य शोभते वासरक्षणदयोः क्षणं जगत् ॥ २.३९ ॥ निर्झरोऽयमियमापगा सरः पल्वलं च विमलं विभात्यदः । यत्र चित्तमिह पर्युपास्यतां तत्र तत्रभवती पितृप्रसूः ॥ २.४० ॥ इत्युभौ व्यवहितान्तरव्यथौ तौ समाप्य समयोचितं विधिम् । सत्कृतिं दधतुरानने मिथः प्रार्थनां किमपि रामलक्ष्मणौ ॥ २.४१ ॥ यत्र वाति न कुमुद्वतीमरुत्कौमुदी बत न यत्र वीक्ष्यते । तं निरूपितसमन्तमञ्जसा भेजतुः परिसरं रघूद्वहौ ॥ २.४२ ॥ दृष्टिपाणितलप्पातशोधितामुद्धृतस्थगितकण्टकावटाम् । अस्तृणान्नवतृणेन मेदिनां रामभद्रशयनाय लक्ष्मणः ॥ २.४३ ॥ निर्णिनेज सहसा सुषुप्सतः पादपद्मयुगमग्रजन्मनः । स्वांशुकोद्धृतजलं कराब्जयोः कौशलाच्च समवाहयत्पुनः ॥ २.४४ ॥ अध्वजर्जरितराजलक्षणं लक्ष्मणश्चरणमग्रजन्मनः । आममर्श चिरमश्रु वर्तयन् केवलोपकरणेन पाणिना ॥ २.४५ ॥ स्वैरमग्रकरजैर्विवृत्य च व्याकुलां समनयज्जटाटवीम् । अङ्गदेशमनयद्विधूय च स्रस्तरातिसृतमञ्चलं त्वचः ॥ २.४६ ॥ पार्श्वयोरुपदधे महेषुधी आददे शिरसि पूजितं धनुः । उन्ममार्ज धुतसंहृतेन च स्वाञ्चलेन पुनरुक्तमास्तरम् ॥ २.४७ ॥ इत्यजस्रमनुजातसेवया जीयमानवनवासयातनः । स्वप्तुकाम इव सालसेन्द्रियः संविवेश रघुनन्दनः क्षणम् ॥ २.४८ ॥ मीलितोन्मिषितलोचनः शनैर्जागरूकमवलोक्य सोऽनुजम् । उच्चवामकरपङ्कजोदरन्यस्तमौलिरवदन्मितं वचः ॥ २.४९ ॥ गच्छ वत्स शयनीयमात्मनः क्लिश्यसे कृशतरः कियच्चिरम् । निद्रया विशदतां व्रज क्षणं न क्षमः प्रतिनिशीथजागरः ॥ २.५० ॥ प्रातरस्ति बहु कृत्यमावयोर्भ्रातरात्मनि किमस्यतत्परः । चिन्त्यतामुषसि तस्य संगतिः शीतलस्य कपिचक्रवर्तिनः ॥ २.५१ ॥ आस्पदाधिगमगर्वितोऽस्तु वाप्यस्तु वानुदितभूतिविक्रियः । आवयोः समयबद्धयोः पुनो निश्चयार्थमधिगम्य एव सः ॥ २.५२ ॥ तद्विभातु रजनी सुखेन ते यास्यतः प्लवगराजमन्दिरम् । पक्षयोर्यदनुरूपमुक्तयोस्तत्तदैव च समर्थयिष्यते ॥ २.५३ ॥ ऊचिवानिति बभूव निर्वचाः कुड्मलीकृतविलोचनोत्पलः । अध्यशेत चरणाम्बुजान्तिकं तस्य जोषमनघो जघन्यजः ॥ २.५४ ॥ तत्र तत्र च शयानयोश्चिराद्वीरयोर्विगतसाध्वसा इव । उद्धतैर्ददुरुलूकहुंकृतैरन्धकारजयघोषणां द्रुमाः ॥ २.५५ ॥ व्याततोडुदशनापि मुच्यसे न त्वमर्कचिरसंस्तुताधुना । इत्यरिष्टरिपुकूजितैस्तमो द्यां ब्रुवाणमिव दूरमुद्ययौ ॥ २.५६ ॥ केवलं शकुनयो न नीडगाः शाखिनोऽपि शयिताः समन्ततः । जज्ञिरे तिमिरतस्करावलीलुप्यमानविभवाश्च भूभृतः ॥ २.५७ ॥ न स्थली न पुलिनं न सिन्धवो नाचला न तरवश्चकाशिरे । दूषितद्वितयवादमुद्बभावेकमेव तिमिरं विभूतिमत् ॥ २.५८ ॥ तत्र मुग्धपृषतस्तमोघने पार्श्वगामपि मृगीमहारयत् । प्राप कोकयुवतिर्यदृच्छया पत्युराधितरलस्य संगमम् ॥ २.५९ ॥ वृद्धमङ्कमनयच्छिशुभ्रमाच्चुम्बति स्म दयितेति यूथपम् । स्वीयमप्युदितसंशयः शनैरङ्गमङ्गममृशद्वलीमुखः ॥ २.६० ॥ सर्वतः परिगतेव पर्वतैराचितेव तरुभिर्निरन्तरम् । आप्लुतेव सलिलैरितस्ततः शक्यते स्म चिरसंस्तुतापि भूः ॥ २.६१ ॥ दिक्षु दक्षमवनावनाकुलं खेऽतिखेलमटवीषु भीषणम् । मत्तमद्रिषु दरीषु दुर्जयं प्रादुरास विषमे समं तमः ॥ २.६२ ॥ भेजुरैक्यमिव तुल्यवैशसाः सायमेव मलिनैर्मुखैर्दिशः । गृह्यमाणशिखरा तमश्चयैर्द्यौः पपात वसुधासखीतले ॥ २.६३ ॥ प्रत्यभान्न पुरतो न पृष्ठतः पार्श्वयोश्च विशदं न किंचन । व्यानशे भुवनमञ्जनाचलप्रस्थपङ्क्तिनिबिडं निशातमः ॥ २.६४ ॥ न द्वितीयमनुभूयते स्म वस्त्वन्तिकादपि तमस्तिरस्कृतम् । केवलात्मविषयं तदाभवज्ज्ञानमुल्बपरिवासिनामिव ॥ २.६५ ॥ दूरमिश्रितपरस्पराङ्गकैरप्ययोगजनितज्वरैरिव । दुर्लभाननविलोकनामृतैर्दूयते स्म मिथुनैर्मिथो भृशम् ॥ २.६६ ॥ सोऽतिशीतहिमशीकरो मरुन्नूनमुल्मुकचयानवाकिरत् । यच्चुकूज भृशमार्तिकाहलं चक्रवाकयुवतिस्तपस्विनी ॥ २.६७ ॥ उच्चचार न वनस्थलीष्वसौ मर्मरः पतितपत्रनिस्वनः । नाविरास करिकृष्टसल्लकीभङ्गयोनिरसकृच्चटत्कृतिः ॥ २.६८ ॥ तस्थुरास्थितमनुष्यमूर्तयो यामिका इव विदूरतोऽद्रयः । प्रह्वबालविटपाग्रपाणयस्तौ परीत्य तरवः सिषेविरे ॥ २.६९ ॥ द्राङ्निदाघमनुदद्रजोऽधुनाद्विश्लथां बृहतिकामसारयत् । प्रत्यपद्यत वनानिलस्तयोरेकसन्निहितयामिकव्रतम् ॥ २.७० ॥ सानुजस्य तमसि प्रमीलतस्तस्य भाविममताहृता इव । उज्ज्वलायतविषाणसूचिताश्चक्रिरे परिकरं मतङ्गजाः ॥ २.७१ ॥ दीपकृत्यमकरोदुपान्तिके निष्प्रकम्परुचिरोषधीगणः । तेनुरद्रिवनमध्यसुप्तयोर्मङ्गलानि वनदेवतास्तयोः ॥ २.७२ ॥ एहि जानकि भुजान्तरं खरः प्रस्तरोऽयमसि किं पराङ्मुखी । मत्कपोलमुपधाय सुप्यतामप्रसक्तिरियती कदा नु ते ॥ २.७३ ॥ क्षिप्तमंशुकमिदं मयोरसि प्रीयतां तव निरानन्दः स्तनः । नीविनोदिनि करे कुरु क्षमामायताक्षि नुदसीव किं पुनः ॥ २.७४ ॥ सुप्तवाक्यमिति मैथिलीपतेर्मैथिलीविरहदूयमानया । दिक्सखीनिवहवारितास्रया शुश्रुवे वसुधयोपसन्नया ॥ २.७५ ॥ मद्बिभेति विरही रघूद्वहो मद्विना च न जगत्प्रमोदते । तत्करोमि किमितीव चिन्तयन्नोज्जगाम सहसा निशाकरः ॥ २.७६ ॥ न स्म भाति किमपि स्फुटं पुरः किंचिदीरितकरेण केवलम् । दृश्यते स्म दिवि दूरवर्तिना तर्ज्यमानमिव केनचित्तमः ॥ २.७७ ॥ जायते स्म घनमालतीगुणश्रेणिगर्भकबरीमनोहरम् । मेघवाहनदिगङ्गनामुखे मुग्धचन्द्रकरकर्बुरं तमः ॥ २.७८ ॥ सानुरागमुपगूढमग्रिमैरंशुभिः शशभृतो दवीयसः । उन्ननाम नमुचिद्विषो दिशि स्रस्तस्तंतमसभारमम्बरम् ॥ २.७९ ॥ उज्ज्वलाग्रकिरणप्रवेशकप्रोक्तसत्वरसमागमोऽपि सन् । प्रेक्ष्यते स्म जनितोत्सुकश्चिराद्व्योमरङ्गमुखसंमुखः शशी ॥ २.८० ॥ औदयेन शशिनो गभस्तिना भिन्नशेषतिमिरं व्यराजत । मृज्यमानमिव शक्रदिङ्मुखं कुङ्कुमेन मृगनाभोयोगिन् ॥ २.८१ ॥ तं बभार न विधुर्नवोदयं किं तु कुङ्कुमविलेपनारुणम् । एकमुत्सुकवशात्पयोधरं व्याचकार हरिदिग्विलासिनी ॥ २.८२ ॥ आत्तजैत्रनिजपुष्पधन्वनो मन्मथस्य भुवनानि जेष्यतः । उन्ननाम पुरतः शशिच्छलात्पूर्णरुक्मकलशः पयोनिधेः ॥ २.८३ ॥ दिक्सरागमुखसन्निधापितस्फीतचन्द्रचषका शतक्रतोः । क्षीबभावमिव बिभ्रती बभौ विश्लथाच्छतिमिरांशुकोच्चया ॥ २.८४ ॥ नन्दयन् भुवनमुन्मुखं चिरान्मन्दयन् स्मरविरुद्धमुद्यमम् । क्रन्दयन् विरहिणो विहङ्गमान् सान्द्रयन् प्रमदमिन्दुरुद्ययौ ॥ २.८५ ॥ लोचनालिनिवहैकपङ्कजं चित्तहंसशयनीयसैकतम् । उज्जगाम रतिकेलिमन्दिरं यामिनीयुवतिजीवितं शशी ॥ २.८६ ॥ आलिलिङ्ग रजनीमहासयद्बिद्यमानमुकुलां कुमुद्वतीम् । अग्रहीदुडुवधूकरान् करैर्द्यां प्रसादमनयत्समं शस्शी ॥ २.८७ ॥ आददे वियदलाञ्छनव्रतं लाञ्छनं निजमगूहदंशुभिः । प्राहिणोदपसृतासु कौमुदीं दिक्षु दक्षतनयापरिग्रही ॥ २.८८ ॥ व्याप्य दूरमथ निर्मलं वियद्वीतपङ्कमिव पङ्कजाकरम् । रेजुरग्रकिरणाः क्षपापतेः पूतकोकनदकन्दकोमलाः ॥ २.८९ ॥ खे ककुप्सु भुवि च क्षपापतेः पेतुरूढनिचया मरीचयः । यत्र तत्र कुहराणि कानिचित्कम्पमानमविशन्निशातमः ॥ २.९० ॥ क्षिप्तमिन्दुरुचिभिर्व्यलम्बत त्र्यम्बकस्य शिखिनश्च दिङ्मुखे । तत्र नुन्नमनुबन्धनिःसहं कान्दिशीकमिव निष्ठितं तमः ॥ २.९१ ॥ कन्दराणि च महामहीभृतां कोटराणि च जरन्महीरुहाम् । अध्युवास कमलोदराणि च ध्वान्तमध्वगवधूमुखानि च ॥ २.९२ ॥ स्वीचकार करकोटिलालनालम्बितोडुततिमेखलां दिवम् । रागभङ्गमतिसंस्तवाद्गतां देवराजदिशमिन्दुरत्यजत् ॥ २.९३ ॥ आततान गगनाङ्गणाधिकैर्मेदिनीममृतवर्षिभिर्विधुः । विप्रयुक्तजनधूमकेतुभिः केतकाग्रशुचिभिर्मरीचिभिः ॥ २.९४ ॥ संकुचद्भिरभिरामताधिके साधु चन्द्रमसि पुष्करैः कृतम् । उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥ २.९५ ॥ उच्चखान रुषमुच्चमण्डलः खण्डनामगमयद्विषह्यताम् । मानपङ्कमपनीय कामिनीः कान्तहस्तमनयन्निशापतिः ॥ २.९६ ॥ व्यक्तवर्त्मबिलवाहिनीवनग्रामगुल्मगहनाद्रिभेदया । सौम्यताधिकविशेषयाजनि ज्योत्स्नया दिवसनिःस्पृहो जनः ॥ २.९७ ॥ पीयते स्म कुमुदं न लोचनैश्चन्द्रिका तपति रोहितच्छदम् । प्रादुरास परमुत्पिबन्नलिः सौरभं निरवलम्बमम्बुनि ॥ २.९८ ॥ एकिकेव निजवृन्दमध्यगाप्युच्चुकूज सभया सितच्छदी । दन्तमूलमसकृच्च संशयादाममर्श करिणः करेणुका ॥ २.९९ ॥ केतकीषु कदलीषु वालुकास्वश्मसु स्फुटितकैरवेऽम्भसि । लम्भितेव लहरीपरम्परामुल्ललास शशिकान्तिवाहिनी ॥ २.१०० ॥ प्राप्तसूक्ष्मघनपल्लवान्तरैश्चित्रिताः शशिकरैरितस्ततः । बिभ्रति स्म तरुमूलशायिनः शम्बराः पृषतयूथविभ्रमम् ॥ २.१०१ ॥ कृच्छ्रलब्धनगशृङ्गसन्धयो दत्तमन्मथजयाभिसन्धयः । मैथिलीतरवधूदुरासदं राघवाङ्कमविशच्छशित्विषः ॥ २.१०२ ॥ जागर्षि काश्मरि निषीदसि कोविदार कुत्रासि वत्स कृतमाल तमाल पश्य । किं वर्तते रघुपतेरिति सत्वराभिरुक्तं द्रुमौघमवलोक्य वनस्थलीभिः ॥ २.१०३ ॥ अन्योन्यदूरपरिषक्तविशालसान्द्रशाखाशतैस्तरुभिरन्तरयांबभूवे । उद्भूतघोरविरहज्वरलङ्घितस्य चन्द्रातपः स खलु दाशरथेरपथ्यः ॥ २.१०४ ॥ कुमुदवनमहेतु त्यक्तनिद्रं तदासीद्गगनमुडुवितानैर्धिग्वृथैव प्रफुल्लम् । अजनि जगदधीशस्यागृहीतेस्तदानीं विधुरपि विधवस्त्रीयौवनोद्भेदशोच्यः ॥ २.१०५ ॥ श्वसिति जनकपुत्री सत्वरो भानुपुत्रः कपिपतिरुपसन्नं सुप्रभातं तवेति । जगुरिव रघुनाथायार्धबुद्धाः स्वनन्तो मधुरमपररात्रे पत्रिणः केऽपि केऽपि ॥ २.१०६ ॥ इत्यभिनन्दकृतौ रामचरिते महाकाव्ये सन्ध्यातमश्चन्द्रोदयवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ कवीनां किं दत्तैर्नृपपशुभिरन्यैरवसरे परं पृथ्वीपालः क्षणमपि स कर्णो वितरतु । अनात्तं तत्त्वज्ञैरपि सुविपुलार्थव्ययभिया प्रतिष्ठां येनोच्चैर्जगति गमितं रामचरितम् ॥ न्ब् ।म्स् रेअद्स्हेरे (इन्स्तेअदोf थिस्वेर्से?) पालान्वयाम्बुजवनैकविरोचनाय तस्मै नमोऽस्तु युवराजनरेश्वराय । कोटिप्रदानघटितोज्ज्वलकीर्तिमूर्तिर्येनामरत्वपदवीं गमितोऽभिनन्दः ॥ *********************************************************************** तृतीयः सर्गः अथ प्रबुद्धः प्रथमं विबुद्धमासीनमादाय तदङ्घ्रियुग्मम् । प्रकामनिद्राभिगमाभिरामो रामः सुमित्रासुतमित्युवाच ॥ ३.१ ॥ किमित्थमेव क्षपितो निशीथः कच्चिन्मुहूरार्धमसि प्रसुप्तः । अस्मिन् प्रसादावसरे धियां च प्रतिष्ठितश्चेतसि कस्तवार्थः ॥ ३.२ ॥ वनौकसस्तस्य नवेश्वरस्य भावावबोधाय पुनर्विमृश्य । यत्प्राप्तकालं तदुदाहराशु प्रस्थानकालोऽयमतिप्रशस्तः ॥ ३.३ ॥ स्वकार्यलाभस्तिमितः कपिश्चेन्न कश्चिदर्थोऽनुसृतेन तेन । रिपऊपेतं वरमर्थिभावाद्विकारसंदेहसहे न मित्रे ॥ ३.४ ॥ कार्यान्तराशारहितेन तेन व्यक्तं खलेनाद्य वयं निरस्ताः । दत्तः प्रदीर्घाग्रहणाभिधानो येनायमारादपि नोऽर्धचन्द्रः ॥ ३.५ ॥ रुद्धस्तपस्वी स कथं न कैश्चिन्मोहान्धकूपे निपतन्मदान्धः । किं देशकास्तेऽपि हनूमदाद्याः सद्यः पदं प्राप्य समं विपन्नाः ॥ ३.६ ॥ रिष्टं न दृष्टं पवमानसूनोर्न चाग्निसूनोर्न च वालिसूनोः । सर्वेऽपि किंकारणमेकदैव प्रमीतकल्पाः कपिदारकास्ते ॥ ३.७ ॥ स दुर्निवारो हरिरद्य शेतामास्वादितैश्वर्यमधुर्मदेन । कथं पुनर्जागरकाल एव सुप्तास्तदाप्ता इति मे वितर्कः ॥ ३.८ ॥ देवात्प्रसूतेन हिमेतरांशोरूर्जस्वलैस्तैः सखिभिर्वृतेन । उदारदेहद्युतिनास्मदर्थे निरन्वयं तेन तमः प्रपन्नम् ॥ ३.९ ॥ अहो महन्मोहजमन्धकारं येनाद्य मध्येसभमुद्धुरेण । उत्सार्य तान्मन्त्रिमणिप्रदीपान् प्लवङ्गराजः प्रसभं गृहीतः ॥ ३.१० ॥ लोभस्य मोहस्य मनोभवस्य मदस्य चातिप्रसरो न रुद्धः । रुद्धः परं पूर्णमनोरथेन तेनाद्य नः प्रत्युपकारवेगः ॥ ३.११ ॥ सम्राट्पदस्थस्य पदादपेताः सम्प्रीतये सम्प्रति मा स्म भूमः । दृष्टास्त्रसारा अपि तस्य भीरोः किं भीतये वत्स वयं न भूताः ॥ ३.१२ ॥ स्थाने निरस्तः सुधियाग्रजेन स तेन मायामसृणो दुरात्मा । मया मदान्धेन पुनर्वृथैव क्रोष्टा मृगेन्द्रस्य पदेऽभिषिक्तः ॥ ३.१३ ॥ निर्वेशनिर्यातनशाठ्यनिद्रां नीचेषु दण्डः परुषो निहन्ति । तथापि दाक्षिण्यविलम्बितव्यमिदं धनुस्तं प्रति मामकीनम् ॥ ३.१४ ॥ यावन्न विश्राम्यति वेगजन्मा दिक्षु ध्वनिर्वालिभिदः शरस्य । तावत्पुनस्तङ्क इह त्रिलोक्यामाक्रान्तकिष्किन्धमुपक्रमेत ॥ ३.१५ ॥ अस्मासु नावेदयति स्म गर्वात्कुर्वीत शेषारिवधं भुजाभ्याम् । विधाय सौराज्यमसऊपेयादित्यर्थिता पश्यति न प्रमाणम् ॥ ३.१६ ॥ तदेष मे निर्मलसर्गसर्गः षड्वर्गरुद्धो रिपुवत्स हेयः । नासौ निषिद्धस्तव यानपक्षो मया बत प्रागसमाहितेन ॥ ३.१७ ॥ असंशयं स प्रतिहारपालीससम्भ्रमावेदितसन्निकर्षम् । त्वां प्रत्यसूयां हृदयेन धास्यत्युपस्थितान्तःपुरविप्रयोगः ॥ ३.१८ ॥ तद्वक्त्रमार्केस्तरुणार्कताम्रं त्वत्प्रीतिवाक्यैरकृतप्रमोदम् । भविष्यति प्रत्युपकारभारनिर्वाहचिन्तागमसान्धकारम् ॥ ३.१९ ॥ स्मरिष्यति त्वां न स बोध्यमानोऽप्यालोकयिष्यत्यथवा न पृष्टः । प्रत्येषि कान्ताजनमध्यवर्ती स चिन्तयास्मद्गतयाधुनास्ते ॥ ३.२० ॥ आवां यदैवाद्रितटे निविष्टौ स कालिकां वीक्ष्य पुरीं प्रविष्टः । आमृष्टमासीच्चपलेन तेन सौहार्दमस्मद्विषयं तदैव ॥ ३.२१ ॥ अहःस्वमीषु क्षण एव नासीदासीन्न संदेशहरोऽनुरूपः । इत्यादि स व्यक्तमलीकमेव त्वत्प्रीत्युपालम्भपदेषु वक्ता ॥ ३.२२ ॥ कृतावहेलः प्रणयप्रसन्नं निरुत्तरः सत्वरकार्यवादम् । प्रेक्षिष्यते रोषलवानुरक्तं वलीमुखः शुष्कमुखो मुखं ते ॥ ३.२३ ॥ तस्यागमाद्यः सहसा भविष्यत्यर्थस्य तस्याभवनं ममास्तु । बाधिष्यते वालिवधातिरिक्तस्तद्वेश्मयात्रानुशयः सदा नौ ॥ ३.२४ ॥ स प्राक्तनो नूनमनर्थभाजा नीतस्तलं तेन हितैषिवर्गः । उत्थापितैर्दूरमसाविदानीं दिवानिशं दीव्यति दुर्विदग्धैः ॥ ३.२५ ॥ अक्षा मृगाक्ष्यो मृगया मधूनि प्रेक्षाश्च तस्याद्य हरन्ति कालम् । न प्राप्नुवन्ति क्षणमाप्तवाचः सदादृताश्चारणचाटुवादाः ॥ ३.२६ ॥ वदन्ति भीताः सचिवा न किंचित्किं चिन्तयास्मद्गतया विटानाम् । स्वयं न सम्प्रत्यनुसंदधाति पूर्वापरं कामपरः स राजा ॥ ३.२७ ॥ न सूरयो न स्थविरा न धीराः पुरःस्थिताः प्राश्निकतां प्रयान्ति । संतिष्ठते संसदि संशयानः पृष्ठोपविष्टासु विलासिनीषु ॥ ३.२८ ॥ इत्थंगते तत्र गतस्य केन मन्युस्तवोदीर्णरयो निवार्यः । विचायमाणो न गुणाय नः स्यादसौ कपीनां कदनानुबन्धः ॥ ३.२९ ॥ प्रपन्नशाठ्यस्य हठोपनामादानेष्यमाणस्य गुणं न वीक्षे । तथाविधा हि द्विषतां स्तवेन कषन्ति कर्णौ परमन्तिकस्थाः ॥ ३.३० ॥ स्पृष्.ओ न चेद्विक्रियया कयापि नोपस्थितः कार्यवशादिदानीम् । एतु स्वयं न क्रियते वृथैव स त्वद्बलात्कारनिरुद्धशोभः ॥ ३.३१ ॥ यथावयोस्तातजटायुषोक्तमुक्तं कबन्धेन यथा च तेन । तथोपयास्यत्यचिरादवश्यमाहूतचक्रो हरिचक्रवर्ती ॥ ३.३२ ॥ यत्सत्यमादित्यसमुद्भवत्वादुद्भूतिमेष्यन्ति गुणास्तदीयाः । तुलाग्रसम्पातविलम्बदोषे तस्मिन् विसंवादमहं न शङ्के ॥ ३.३३ ॥ विरोपतप्तस्य विदेशवासादाजग्मुषस्तस्य निजाधिवासम् । इयन्त्यहान्युत्सुकबन्धुवर्गसंवर्गणव्यग्रतयैव यान्ति ॥ ३.३४ ॥ स नूनमायास्यति वानरेन्द्रः संदेशकार्पण्यमसंमतं मे । सर्वस्वभूतं विसृजन्ति वत्स कार्यातिपातेऽपि न धैर्यमार्याः ॥ ३.३५ ॥ व्यतीतविघ्नः सुहृदर्थनिघ्नो न शीतलः स्थास्यति किं गतेन । स त्वर्यमाणस्त्वरमाण एव धैर्यस्य नः पारमवाप्स्यतीव ॥ ३.३६ ॥ धिगस्तु मां तं प्रति विप्रतीपमाशङ्कितं तद्बहु येन यद्वा । स्वकार्यदोलासु जनोऽल्पभाग्यः प्राङ्निश्चिनोति व्यतिरेकमेव ॥ ३.३७ ॥ इत्थं न मां प्रत्युपपत्तिमेति तत्राद्यपक्षद्वितयेऽपि यात्रा । वरं विसोढानि कियन्त्यपीह सङ्ख्यातकालाभ्यधिकान्यहानि ॥ ३.३८ ॥ स्वालोचितं वक्तु भवानिदानीमित्यनुष्ठेयमसंशयं यत् । बाल्यात्प्रभृत्येव तवोत्तरा धीर्न पूर्वपक्षेऽभिनिवेशमेति ॥ ३.३९ ॥ इति प्रसन्नां गिरमग्रजस्य श्रुत्वा चिराद्वीतविषादपङ्कः । मुखश्रियैवोज्ज्वलयाभिनन्दन्निदं सुमित्रातनयो जगाद ॥ ३.४० ॥ समर्थितं साधु समस्तमेव कृती कपिः किं बहुनोदितेन । प्रव्यक्तमप्येतददोषदृष्ट्या गृहीतमार्येण न यत्तदागः ॥ ३.४१ ॥ तस्योर्जितेनातिरवेरवद्यं नैवेक्षतेऽन्तःकरणं ममापि । अयं पुनस्तेन कुतो न जानाम्यतिक्रमः कालकृतो न दृष्टः ॥ ३.४२ ॥ विसर्जिता वा पुनरागमाय समापतन्त्यद्य न ते नलाद्याः । समाहरतिउद्यतवित्तवर्षो वर्षान्तरेभ्यः प्रवरान् हरीन् वा ॥ ३.४३ ॥ अष्टादशद्वीपकपीन्द्रमौलिर्मौलानसौ वालिवधप्रलीनान् । नैकाभ्युपायोपहितानिदानीमुत प्रतीच्छत्यतिसत्क्रियाभिः ॥ ३.४४ ॥ अप्राप्तसंतोषमसंविभक्तसम्भुक्तसर्वस्वमनुप्लवेषु । अथादिशत्यर्पितसारकोशः प्रकामपाथेयपरिग्रहाय ॥ ३.४५ ॥ अथो स भीतातुरबालवृद्धान् वृद्धोपसेवी सनिभं नियुङ्क्ते । यथायथं सद्मनि पद्मसंख्यासमेतशाखामृगयूथनाथः ॥ ३.४६ ॥ तदित्थमुत्थानसमाकुलत्वान्न त्वर्यमाणोऽपि स दूषणाय । आर्येण तत्राप्यसमागतस्य छायाच्युतिः कैव निरूपिता मे ॥ ३.४७ ॥ ज्ञेयोऽस्ति नः पूर्वमरेरुदन्तस्ततस्तदन्ताय विधेयमस्ति । इत्याकुलत्वान्मम तावदार्य कार्योपतप्तिः क्षमते न धैर्यम् ॥ ३.४८ ॥ अनर्थिभावादुपचारवादादाकारगुप्तेश्च परीभवन्ति । यथातथार्थप्रतिपादनेन प्रयान्ति मित्राणि निरन्तरत्वम् ॥ ३.४९ ॥ मिथः प्रसादस्खलनादुपाधेरुपैति सख्यं खलयोः खिलत्वम् । गृह्णाति सत्पूरुषयोर्न दोषमौदार्यसंवादकृता तु मैत्री ॥ ३.५० ॥ निर्यन्त्रणं यत्र न वर्तितव्यं न मोदितव्यं प्रणयातिवादे । विशङ्कितान्योन्यभयं विदूरान्नमस्क्रियामर्हति सौहृदं तत् ॥ ३.५१ ॥ विस्रब्धमाज्ञापय किं करोमि कथं घटेन प्लवगाधिराजः । यत्किंचिदादिश्य निभेन किं मां निषेधसि क्लेशमिवेक्षमाणः ॥ ३.५२ ॥ स्थितोऽस्मि तावद्दिनमेतदेष्यत्यन्येद्युराज्ञां तव न प्रतीक्षे । आर्योऽनुरोधान्न युनक्ति यत्र तत्राहमम्बानियमात्स्वतन्त्रः ॥ ३.५३ ॥ तदेष निष्क्रम्य तथा करोमि तत्पूर्वसङ्गः प्लवगो यथाशु । तं वैरिसंहारमहोपकारमार्याय निर्यातयितुं यतेन ॥ ३.५४ ॥ धिक्तं धनुष्पाणिमनुप्लवं मां मुधा मनःपर्युषितावलेपम् । अन्वीक्षते यस्य ममावसादादार्यः सहायान्तरमन्तरज्ञः ॥ ३.५५ ॥ धिक्शाततां सन्नतपर्वतां धिग्धिक्पातवेगं च ममाशुगानाम् । अलक्षितोद्देशमपि द्विषन्तं निहत्य नायान्ति हि यत्क्षणेन ॥ ३.५६ ॥ खरादिरक्षःकदनेषु दीर्घममी परिज्ञातरसाः किमन्यत् । असृग्भुजां भोक्तुमसृक्त्वरन्तां भूयोऽपि भूचन्द्र तवार्धचन्द्राः ॥ ३.५७ ॥ आताटकासंज्ञपनात्प्रपन्नस्त्वयैष वर्णाश्रमरक्षणाय । समाप्यतां शेषनिबर्हणेन क्षपाचराणां निधनाधिकारः ॥ ३.५८ ॥ उद्धृत्य घोरायुधवृन्दवृष्टिमनुष्ठितामोघशरव्ययेन । स राक्षसेभ्योऽम्बरगोचरेभ्यस्त्रातस्त्वयैकेन मखो महर्षेः ॥ ३.५९ ॥ तं कालकल्पं कियता श्रमेण तथावधीर्मार्गरुधं विराधम् । आसन्मुहूर्ताः कति च घ्नतस्ते सैन्यं जनस्थानपतेः स्वरस्य ॥ ३.६० ॥ आसीत्क्षुरप्रस्य कियान् विलम्बः क्रूरेषु तेषु त्रिशिरःशिरःसु । कतीषवो दूषणदेहयात्रानिवारणार्थं च रणे विसृष्टाः ॥ ३.६१ ॥ कस्यावलम्बादकरोत्परासुं मारीचमुच्चावचमायमार्यः । ज्ञाता च दिक्संज्ञपितस्त्वयैव क्षपाचराणामधिपश्च सोऽपि ॥ ३.६२ ॥ इत्यप्रपञ्चोदितकारणानि मिथस्तयोस्तथ्यगुणग्रहाणि । नेदुः स्तुवाना इव सूनृतानि खगाः कुलायेषु कृतैकमत्याः ॥ ३.६३ ॥ आरोप्य सन्ध्यां दिशि वज्रपाणेः पर्यस्य चन्द्रं ककुभि प्रतीच्याम् । उत्सङ्गितोडुप्रकरा खगानामादाय निद्रां रजनी जगाम ॥ ३.६४ ॥ कविश्च जीवश्च सुतश्च भूमेः स दक्षिणाशातिलको मुनिश्च । आसन्नसूर्यांशुभयद्रुतस्य क्षणं ररक्षुर्भगणस्य पृष्ठम् ॥ ३.६५ ॥ दिग्दर्शयामास मुखं सरागं न यावदैन्द्री गणिकेव मत्ता । तावद्द्विजेशोऽङ्कमियाय सिन्धोः सन्ध्यासुराशीकरसेकशङ्की ॥ ३.६६ ॥ विसर्जितोडुः क्षणमिन्दुरासीदासीदुपान्तेष्वपि नान्धकारम् । भृशं दिशीन्द्रस्य रराज सन्ध्या सिन्दूरिणीव ग्रहराजमुद्रा ॥ ३.६७ ॥ उच्चेतुमुच्चैरुडुकुड्मलानि व्याकुर्वती रागमतिप्रगाढम् । शाखामिवालम्ब्य दिशं मघोनः सन्ध्या वियद्भूरुहमारुरोह ॥ ३.६८ ॥ शेषोडुपुष्पस्तबकोच्चयाय संजातरागातिशयेव सन्ध्या । अप्युच्चकैः पूर्वमहीध्रमूर्ध्नि स्थित्वा वियद्भूरुहमारुरोह ॥ ३.६९ ॥ (तदेवेदम्) विसृज्य पाण्डुच्छदनौघतुल्यं तारागणं व्योमतरुस्तदानीम् । बभार सन्ध्यारुचिमञ्जरीणां जालानि बालाधरकोमलानि ॥ ३.७० ॥ उत्सारितेवाभ्रकरेणुकुम्भाज्जम्भारियुग्याधिकृतैर्मरुद्भिः । ततान सन्ध्येति समुल्लसन्ती नभोङ्गणं रङ्गविकारधूलिः ॥ ३.७१ ॥ संवित्तयस्तत्त्वविगाहशुभ्राः सांसारिके राग इवाधिरूढे । शनैः शनैर्म्लानरुचो ममज्जुस्ताराः प्रसर्पत्यरुणे चिरेण ॥ ३.७२ ॥ कैः शिक्षिता वर्तयितुं तदासीदुन्मीलितं तूलिकयेव चित्रम् । तरङ्गवत्तुङ्गशरद्घनालीविसंस्थुले व्योमनि बालसन्ध्या ॥ ३.७३ ॥ प्रत्युप्तमात्रं दिशि देवभर्तुरभ्यक्तखण्डाभ्रतरङ्गमालम् । बभौ विसर्पत्ययसीव तैलं नभस्तले बालपतङ्गतेजः ॥ ३.७४ ॥ प्रसत्तिनिर्व्यूढसुधामयूखं खमुष्णरश्मावपि रक्तिमूहे । भरं प्रतीच्छन्ति महोदयानां पात्राणि पर्यायवशंवदानि ॥ ३.७५ ॥ तापिञ्छकल्पः ककुभि प्रतीच्यामाच्छादयामास मृगो मृगाङ्कम् । दूराधिरूढं जनमापदीव प्रकाशमानोऽतिशयादवर्णः ॥ ३.७६ ॥ प्रदीप्तसन्ध्याग्नि नदद्द्विजौघं निरंशुकध्वस्तपराङ्मुखेन्दु । वियद्विलुप्तोडुकुलं तदाभूच्चक्रान्तराक्रान्तपुरोपमेयम् ॥ ३.७७ ॥ मिथः कृतालोकमहोत्सवानां कृतारवः सारसदम्पतीनाम् । न बालभानोः किरणादभैषीन्नदीषु नीहारमयोऽन्धकारः ॥ ३.७८ ॥ ततार संतीर्य हिमान्धकारं तता रसन्ती सरितः खगाली । रक्तारविन्दस्य रजोभिरार्द्रैरक्ता रविं वारिणि वीक्षमाणा ॥ ३.७९ ॥ स्मरव्ययक्लान्तवलत्पुलिन्दीसर्वाङ्गसंवाहकलाविदग्धः । विलम्ब्य कोशेषु कुशेशयानां ससार कासारतरङ्गवातः ॥ ३.८० ॥ अतीत्य शैत्यं तटवालुकानां कोष्णासु सस्नुर्मुनयो नदीषु । अपामपूर्यन्त च नैर्झरीणां कुटा गिरिग्रामकुटुम्बिनीभिः ॥ ३.८१ ॥ जातप्रकाशासु बहिःस्थलीषु प्रकामचारोत्सवजागरूकः । इभो भुवि प्रस्खलदग्रहस्तः सस्मार शय्योदरकुञ्जशय्याम् ॥ ३.८२ ॥ समेत्य जृम्भानुपदं स्वयूथ्यैर्मिथः क्षणं लीढतुषारलेपाः । प्रतस्थिरे दिग्वलयं विलोक्य यथायथं कच्छभुवः कुरङ्गाः ॥ ३.८३ ॥ अदृश्यतारात्तरलैः स्थलीषु वनेचराणां पृतना कुरङ्गैः । पपौ रवेः संज्वलितोग्रभासं भुजङ्गमौघः श्रितनाकुरन्ध्रैः ॥ ३.८४ ॥ स्थलं कुरङ्गीनयनैरनिद्रैरुन्मुक्तमुद्रैर्जलजैर्जलं च । विलोलतारैस्तरलद्विरेफैरुवाह भेदं न मिथस्तदानीम् ॥ ३.८५ ॥ जृम्भाभराद्दूरविसंगतानां मुद्राविलम्बेन दलावलीनाम् । निर्विश्य निःशेषमलिः परागमगादबद्धः कुमुदाकरेभ्यः ॥ ३.८६ ॥ विवेश गर्तं गतमुत्तमोहिरुच्चैः पदं सन्ततमुत्तमो हि । आसीन्महः सम्पदि तुङ्गतायां नभो न कैश्चिद्गदितुं गतायाम् ॥ ३.८७ ॥ नैःसङ्ग्यमालम्ब्यत कैरवेषु यैः शान्तिमद्भिः शनकई रवेषु । सौजन्यमम्भोजगृहे समेतैश्चिराद्द्विरेफैर्जगृहे समे तैः ॥ ३.८८ ॥ रेजेऽरविन्दैररविन्दबन्धोः संदर्शने दर्शितहर्षवेगैः । विधोर्विषेहे विरहः कथंचिन्निद्रावलम्बात्कुमुदाकरेण ॥ ३.८९ ॥ ऊहे जलैराहितकोपरागः क्षोभादल्नीनां नलिनीपरागः । व्यसर्जयद्द्यां विवृतापरागः शशी चिरादध्युषितापरागः ॥ ३.९० ॥ यथा विलुप्तोडुकदम्बकायां बालार्कपादैर्दिवि दीप्यते स्म । तथैव सुप्ताखिलकैरवायां रक्तारविन्दैरभितः सरस्याम् ॥ ३.९१ ॥ मुखेन भाति स्म सहस्रपत्रं मित्रोदयालोकविकस्वरेण । मञ्जुस्वनानामलिमार्गणानां स्वयंग्रहायैअव्विमुद्रकोशम् ॥ ३.९२ ॥ श्लथेन केचिद्विविशुर्मुखेन तलेन केचिद्दलसंहतीनाम् । मधूत्सुकानां मधुपव्रजानामब्जेषु न द्वारविनिश्चयोऽभूत् ॥ ३.९३ ॥ लुलोठ धूलीषु पपौ मधूनि पक्ष्माणि लीढानि पुनर्लिलेह । आगन्तवे स्तोकमपि द्विरेफः स्थितो ददौ नान्तरमब्जमध्ये ॥ ३.९४ ॥ भेजे विनिद्रां नलिनीं न कूलान्न शीलयामास नवार्कभासम् । प्रियां प्रतीयाय तथैव मूढां खगः स्वबोधागमसाभ्यसूयः ॥ ३.९५ ॥ बहूनसौ पत्ररथस्तपस्वी चकार चाटूनुपकण्ठलीनः । दृशं प्रमीलापगमात्कषायामुन्मीलयामास चिरेण चक्री ॥ ३.९६ ॥ पारं तुषारक्षणसान्धकारमपि स्मरार्तित्वरितः पवित्री । श्रुतप्रियाह्न्वानरवः प्रतस्थे सीमन्तयन्नब्जवनं विनिद्रम् ॥ ३.९७ ॥ जगाम भञ्जन्कमलानि कोकः कोकीपरिष्वङ्गमनोरथोत्कः । साप्युत्सुका तत्क्षणमाजगाम विलोकयन्ती वनमुत्पलानाम् ॥ ३.९८ ॥ कुर्वाणयोः सरसि पद्मवनावनद्धे भिन्नाध्वनोर्वितथमेव गतागतानि । संवादिदिक्पतितयोः पततोः कथंचिद्द्वन्द्वं चिराद्घटितमर्धपथे बभूव ॥ ३.९९ ॥ व्यस्मर्यतामृतमरीचिकराभितापः प्रातः पतत्रिमिथुनैस्तपनं विलोक्य । जात्यैव शीतलमथोष्णमलं न किंचिच्चित्रा गतिर्जगति जन्तुदशावशेन ॥ ३.१०० ॥ कर्तव्यनिर्णयविरूढमनःप्रसादशंसिस्मितेन मुखचन्द्रमसा विराजन् । रामः प्रभातपवनाहितवीचिकम्पां पम्पामियाय सरसीं सह लक्ष्मणेन ॥ ३.१०१ ॥ पार्श्वस्थावरजससम्भ्रमोपनीतप्रत्यग्रस्फुटितविलोहितारविन्दः । सुस्नातः कृतविधिरञ्जसोपतस्थे काकुत्स्थः कनकरसावदातमर्कम् ॥ ३.१०२ ॥ तौ दीर्घं विधिवदुपास्य पूर्वसन्ध्यां पूष्णीषत्प्रकटितरश्मिबर्बरीके । आसातां रहितमहीरुहोपकण्ठऊद्वेल्लस्तिमितजटावनौ वनान्ते ॥ ३.१०३ ॥ इत्यभिनन्दकविकृतौ रामचरिते महाकाव्ये मन्त्रविनिश्चयपूर्वकप्रातःस्सन्ध्यावर्णनो नाम तृतीयः सर्गः समाप्तः ॥