वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ १.१ ॥ क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥ १.२ ॥ मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यताम् । प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥ १.३ ॥ अथ वा कृतवाग्द्वारे वंशेऽस्मिन् पूर्वसूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥ १.४ ॥ सोऽहमाजनमशुद्धानामाफलोदयकर्मणाम् । आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥ १.५ ॥ यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् । यथापराधदण्डानां यथाकालप्रभोधिनाम् ॥ १.६ ॥ त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् । यशसे विजिगीषुणां प्रजायै गृहमेन्धिनाम् ॥ १.७ ॥ शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्ध्हके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ १.८ ॥ रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् । तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥ १.९ ॥ तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः । हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥ १.१० ॥ वैवसतो मनुर्नाम माननीयो मनीषिणाम् । आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥ १.११ ॥ तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥ १.१२ ॥ व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥ १.१३ ॥ सर्वातिरितसारेण सर्वतेजोऽभिभाविना । स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना ॥ १.१४ ॥ आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः । आगमैः सदृशारम्भ[ः] आरम्भसदृशोदयः ॥ १.१५ ॥ भीमकान्तैर्नृपगुणैः स भभूवोपजीविनाम् । अधृष्यश्चाभि गम्यश्च याधोरत्नैरिवार्णवः ॥ १.१६ ॥ रेखामात्रमपि क्षुण्णादा मनोर्वर्त्मनः परम् । न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ॥ १.१७ ॥ प्रजानामेव भूत्यर्थं स ताब्य्हो बलिमग्रहीत् । सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥ १.१८ ॥ सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् । शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ॥ १.१९ ॥ तस्य संवृतमन्त्रस्य गूधाकारेङ्गितस्य च । फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ १.२० ॥ जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ॥ १.२१ ॥ ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥ १.२२ ॥ अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः । तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना ॥ १.२३ ॥ प्रजानां विनयाधानाद्रक्षणाद्भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः ॥ १.२४ ॥ स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये । अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥ १.२५ ॥ दुधोह गां स यज्ञाय सस्याय मघवा दिवम् । संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥ १.२६ ॥ न किलानुययुस्तस्य राजानो रक्षितुर्यशः । व्यावृत्त यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥ १.२७ ॥ द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् । त्वाज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥ १.२८ ॥ तं वेधा विदधे नूनं महाभूतसमाधिना । तथा हि सर्वे तस्यासन् परार्थैकफला गुणाः ॥ १.२९ ॥ स वेलावप्रवलयां परिखीकृतसागराम् । अनन्याशासनामुर्वीं शशासैकपुरीमिव ॥ १.३० ॥ तस्य दाक्षिण्यरुढेन नाम्ना मगधवंशजा । पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ॥ १.३१ ॥ कलत्रवन्तमात्मानमवरोधे महत्यपि । तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ॥ १.३२ ॥ तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः । विलम्बितफलैः कालं स निनाय मनोरथैः ॥ १.३३ ॥ संतानार्थाय विधये स्वभुजादवतारिता । तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ॥ १.३४ ॥ गङ्गां भगीरथेनेव पूर्वेषां पावनक्षमाम् । इच्छता संततिं न्यस्ता तेन मन्त्रिषु कोसला ॥ १.३४* ॥ अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया । तौ दंपती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ॥ १.३५ ॥ स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥ १.३६ ॥ मा भूदाश्रमपीडेति परिमेयपुरःसरौ । अनुभावविशेषात्तु सेनापरिवृताविव ॥ १.३७ ॥ सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः । पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः ॥ १.३८ ॥ मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥ १.३९ ॥ परपराक्षिसादृश्यमदूरोज्झितवर्त्मसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥ १.४० ॥ श्रेणीबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजम् । सारसैः कलनिर्ह्राधैः क्वचिदुन्नमिताननौ ॥ १.४१ ॥ पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः । रजोभिस्तुरगोत्कीर्णैरस्पृष्टालवेष्टनौ ॥ १.४२ ॥ सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् । आमोदमुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥ १.४३ ॥ ग्रामेष्वात्मविषृटेषु यूपचिह्नेषु यज्वनाम् । अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदमाशिषः ॥ १.४४ ॥ हैयंगवीनमादाय घोषवृद्धानुपस्थितान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥ १.४५ ॥ काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेषयोः । हिमनिर्मुक्तयोर्योगे चित्राचन्द्रम्सोरिव ॥ १.४६ ॥ तत्तद्भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः । सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥ १.४७ ॥ स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः । सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥ १.४८ ॥ वनान्तरादुपावृत्तैः समित्कुशफलहरैः । पूर्यमाणमदृश्याग्निप्रत्युद्यातैस्तपस्विभिः ॥ १.४९ ॥ आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः । अपत्यैरिव नीवारभागधेयोचितैर्मृगैः ॥ १.५० ॥ सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् । विश्वासाय विहंगानामालवालाम्बुपायिनाम् ॥ १.५१ ॥ आतपातयसंक्शिप्तनीवारासु निषादिभिः । मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥ १.५२ ॥ अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् । पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभिः ॥ १.५३ ॥ अथ यन्तारमादिष्य धुर्यान् विश्रमयेति सः । तामवारोपयत्पत्नीं रथादवततार च ॥ १.५४ ॥ तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः । अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥ १.५५ ॥ विधेः सायन्तनस्यान्ते स ददर्श तपोन्धिम् । अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ॥ १.५६ ॥ तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी । तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥ १.५७ ॥ तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् । पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥ १.५८ ॥ अथ्ऽ आथर्वनिधेस्तस्य विजितारिपुरः पुरः । अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः ॥ १.५९ ॥ उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे । दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥ १.६० ॥ तव मन्त्रकृतो मन्त्रैर्दूरात्प्रासमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्तलक्षभिदः शराः ॥ १.६१ ॥ हविरावर्जितं होतस्त्वया विधिवदग्निषु । वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ॥ १.६२ ॥ पुरुषायुषजीविन्यो निरातङ्का निरीतयः । यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम् ॥ १.६३ ॥ त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना । सानुबन्धाः कथं न स्युः संपदो मे निरापदः ॥ १.६४ ॥ किं तु वध्वां तवैतस्यामदृष्टसदृशप्रजम् । न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥ १.६५ ॥ नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥ १.६६ ॥ मत्परं दुर्लभं मत्वा नूनमावर्जितं मया । पयः पूर्वैः स्वनिःश्वासैः कवोष्णमुपभुज्यते ॥ १.६७ ॥ सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश्चाप्रकाशस्च लोकालोक इवाचलः ॥ १.६८ ॥ लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् । संततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥ १.६९ ॥ तया हीनं विधातर्मां कथं पश्यन्न दूयसे । सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम् ॥ १.७० ॥ असह्यपीडं भगवन्नृणमन्त्यमवेहि मे । अरुंतुदमिवालानमनिर्वाणस्य दन्तिनः ॥ १.७१ ॥ तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि । इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ॥ १.७२ ॥ इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः ॥ १.७३ ॥ सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणम् । भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ॥ १.७४ ॥ पुरा शक्रमुपस्थाय तवोर्वीं प्रति यास्यतः । आसीत्कल्पतरुच्छायामाश्रिता सुरभिः पथि ॥ १.७५ ॥ धर्मलोपभयाद्राज्ञीमृतुस्नातामिमां स्मरन् । प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः ॥ १.७६ ॥ अवजानासि मां यस्मादतस्ते न भविष्यति । मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥ १.७७ ॥ स शापो न त्वया राजन्न च सारथिना श्रुतः । नदत्याकाशङ्गायाः स्रोतस्युद्दामदिग्गजे ॥ १.७८ ॥ ईप्सितं तदवज्ञानाद्विद्धि सार्गलमात्मनः । प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ १.७९ ॥ हविषे दीर्घसत्त्रस्य सा चेदानीं प्रचेतसः । भुजंगपिहितद्वारं पातालमधितिष्ठति ॥ १.८० ॥ सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः । आराधय सप्त्नीकः प्रीता कामदुघा हि सा ॥ १.८१ ॥ इति वादिन एवास्य होतुराहुतिसाधनम् । अनिन्द्या नन्दिनी नाम धेनुराववृते वनात् ॥ १.८२ ॥ ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला । बिभ्रती श्वेतरोमाङ्कं संध्येव शशिनं नवम् ॥ १.८३ ॥ भुवं कोष्णेन कुण्शोध्नी मेध्येनावभृथादपि । पस्रवेणाभिवर्षन्ती वत्सालोकप्रवर्तिना ॥ १.८४ ॥ रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् । तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः ॥ १.८५ ॥ तां पुण्यदर्शनां दृष्त्वा निमित्तज्ञस्तपोनिधिः । याज्यमाशंसितावन्ध्य प्रार्थनं पुनरब्रवीत् ॥ १.८६ ॥ अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥ १.८७ ॥ वन्यवृत्तिरिमां शश्वद्(?) आत्मानुगमनेन गाम् । विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥ १.८८ ॥ प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः । निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः ॥ १.८९ ॥ वधूर्भक्तिमती चैनामर्चितामा तपोवनात् । प्रयता प्रातरन्वेतु पितेव धुरि पुत्रिणाम् ॥ १.९१ ॥ इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव । अविघ्नमस्तु ते स्थेयाः सायं प्रतुद्व्रजेदपि ॥ १.९० ॥ तथेति प्रतिजग्राह प्रीतिमान् सपरिग्रहः । आदेशं देशकालज्ञः शिष्यः शासितुरानतः ॥ १.९२ ॥ अथ प्रदोषे दोषज्ञः संवेशाय विशंपतिम् । सूनुः सूनृतवाक्स्रष्टुर्विससर्जोदित स्रियम् ॥ १.९३ ॥ सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः । कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥ १.९४ ॥ निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य प्रयतपरिग्रहद्वितीयः । तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय ॥ १.९५ ॥ _______________________________________________________________________________ अथ प्रजान्मामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥ २.१ ॥ तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया । मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥ २.२ ॥ निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः । पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ॥ २.३ ॥ व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः । न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥ २.४ ॥ आस्वादवद्भिः कवलैस्तृणानं कण्डूयनैर्दंशनिवार्णैश्च । अव्याहतैः स्वैरगतैः स तस्याः सम्राट्समाराधन्तत्परोऽभूत् ॥ २.५ ॥ स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्ध धीरः । जलाभिलाषी जलमादधानां छावेय तां भूपति अन्वगच्छत् ॥ २.६ ॥ स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः । आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥ २.७ ॥ लताप्रतानोद्ग्रथितैः स किशैरधिजय्धन्वा विचचार दावम् । रक्षापदेशान्मुनिहोमधेनोर्वन्यान् विनेष्यन्निव दुष्टसत्त्वान् ॥ २.८ ॥ च्(द्गुरु च्) विषृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य । उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ॥ २.९ ॥ मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् । अवाकिरन् बाललताः प्रसूनैरालोकशब्दं वयसां विरावैः ॥ २.१० ॥ धनुर्भृतोऽप्यस्य दयार्द्रभावमाख्यातमन्तःकरणैर्विशङ्कैः । विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥ २.११ ॥ स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंश्कृत्यम् । शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥ २.१२ ॥ ऋक्तस्तुशारैर्गिरिनिर्झराणामनोकहाकम्प्तपुष्पगन्धी । तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥ २.१३ ॥ शशाम वृष्ट्यापि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः । ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन् वनं गोपत्रि गाहमाने ॥ २.१४ ॥ संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा तस्मिन् वनं गोपत्रि गाहमाने ॥ २.१५ ॥ तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः । बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥ २.१६ ॥ स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि । ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥ २.१७ ॥ आपीनभारोद्वहनप्रयत्नाद्गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः । उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥ २.१८ ॥ वसिष्ठधेनोरनुयानिनं तमावर्तमानं वनिता वनान्तात् । पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥ २.१९ ॥ पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्म्पत्न्या । तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव संध्या ॥ २.२० ॥ प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता । प्रणम्य चानर्च विशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धेः ॥ २.२१ ॥ वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ । भक्त्योपपन्नेषु हि तविधानां प्रसादचिह्नानि पुरःफलानि ॥ २.२२ ॥ गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः । दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥ २.२३ ॥ तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः । क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरन्ऽ(?)ऊदतिष्ठत् ॥ २.२४ ॥ इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः । सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥ २.२५ ॥ अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेष ॥ २.२६ ॥ इत्यद्रिषोभाप्रहितेक्षणेन इत्यद्रिषोभाप्रहितेक्षणेन । अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥ २.२७ ॥ तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् । रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् ॥ २.२८ ॥ स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श । अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥ २.२९ ॥ ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ॥ २.३० ॥ वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्त्रे । सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इन्वावतस्थे ॥ २.३१ ॥ बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः । राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रौषधिरुद्धवीर्यः ॥ २.३२ ॥ तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् । विस्माययन् विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥ २.३३ ॥ अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् । न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्छति मारुतस्य ॥ २.३४ ॥ कैलासगौरं वृअमारुरुक्षोः पादार्पणानुग्रहपूतपृष्टम् । अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥ २.३५ ॥ अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन । यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥ २.३६ ॥ कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य । अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः ॥ २.३७ ॥ तदा प्रभृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमदिकुक्षौ । व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्ति ॥ २.३८ ॥ तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण । उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ॥ २.३९ ॥ स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान् दर्शितशिष्यभक्तिः । शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति ॥ २.४० ॥ इति प्रगल्भं पुरुसाधिराजो मृगाधिराजस्य वचो निशम्य । प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ॥ २.४१ ॥ प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वसङ्गे वितथप्रयत्नः । जडीकृतस्त्र्यम्बकविक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः ॥ २.४२ ॥ प्रत्याह वैनं शरमोक्षवन्ध्यो मा पत्त्रपर्वात्स्वरभेदमाप्तः । प्रहीणपूर्वध्वनिनाधिरूढस्तुलामसारेन शरद्घनेन ॥ २.४२* ॥ संरुद्धचेष्टस्य हेतुः हास्यं वचस्तद्यदहं विवक्षुः । अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान् भावमतोऽभिधास्ये ॥ २.४३ ॥ मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः । गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ॥ २.४४ ॥ स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद । दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः ॥ २.४५ ॥ अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् । भूयः स भूतेश्वरपार्श्ववर्ती किंचिद्विहस्यार्थपतिं बभाषे ॥ २.४६ ॥ एकातपत्रं जगतः प्रभुत्वं नवं ययः कान्तमिदं वपुश्च । अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूधः प्रतिभासि मे त्वम् ॥ २.४७ ॥ भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते । जीवन् पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥ २.४८ ॥ अथैकधेनोरपराधचण्डाद्गुरोः कृषानुप्रतिमाद्बिभेषि । शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥ २.४९ ॥ तद्रक्ष कल्याणपरंपराणां भोक्तारमूर्जस्वलमात्मदेहम् । महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः ॥ २.५० ॥ एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन । शिलोच्चयोऽपि क्षितिपालमुच्चैः प्रीत्या तमेवार्थमभाषतेव ॥ २.५१ ॥ निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच । धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥ २.५२ ॥ क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः । राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥ २.५३ ॥ कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनीनाम् । इमामनूनां सुरभेरवेहि रुद्रौजसा तु पहृतं त्वयास्याम् ॥ २.५४ ॥ सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः । न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः ॥ २.५५ ॥ भवानपीदं परवानवैति महान् हि यत्नस्तव देवदारौ । स्थातुं नियोक्तुर्न हि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥ २.५६ ॥ किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः । एकान्तविधंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ॥ २.५७ ॥ संबन्धमाभाषणपूर्वमाहुर्वृत्तः स नौ संगतयोर्वनान्ते । तद्भूतनाथानुग नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुम् ॥ २.५८ ॥ तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः । स न्यस्त शस्त्रो हरये स्वदेहमुपानयत्पिण्डमिवामिषस्य ॥ २.५९ ॥ तस्मिन् क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम् । अवाङ्मुखस्य्ऽओपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥ २.६० ॥ उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् । ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्रविणीं न सिंहम् ॥ २.६१ ॥ तं विस्मितं धेनुरुवाच साधो मायां मयोध्भाव्य परीक्षितोऽसि । ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः ॥ २.६२ ॥ भक्त्या गुरौ मय्यनुकम्पाय च प्रीतास्मि ते पुत्र वरं वृणीष्व । न केवलानां पयसां प्रसूतिमवेहि मां कामदुघां प्रसन्नाम् ॥ २.६३ ॥ ततः समानीय समानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः । वंशस्य कर्तारमनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे ॥ २.६४ ॥ संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा । दुग्ध्वा पयः पत्त्रपुटे मदीयं पुत्र्ऽ ओपभुङ्क्ष्व्ऽ एति तमादिदेश ॥ २.६५ ॥ वत्सस्य होमार्थविधेश्च शेषमृषेरनुज्ञामधिगम्य मातः । ऊधस्यमिच्छामि तवोपभोक्तुम्यं षष्ठाम्शमुर्व्या इव रक्षितायाः ॥ २.६६ ॥ इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव । तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रममश्रमेण ॥ २.६७ ॥ तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य । प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ॥ २.६८ ॥ स नन्दिनीस्तन्यमनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम् । पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तमिवातितृष्णः ॥ २.६९ ॥ प्रातर्यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज । तौ दंपती स्वां प्रति राजधानीं प्रस्थापयामास वशी वसिष्ठः ॥ २.७० ॥ प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तुररुन्धतीं च । धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभावः ॥ २.७१ ॥ श्रोताभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः । ययावनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥ २.७२ ॥ तमाहितौत्सुक्यमदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गम् । नेत्रैः पपुस्तृप्तिमनाप्नुवद्भिर्नवोदयं नाथमिवौषधीनाम् ॥ २.७३ ॥ पुरंदरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः । भुजे भुअंगेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥ २.७४ ॥ अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् । नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥ २.७५ ॥ _______________________________________________________________________________ अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् । निदानमिक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौर्हृदलक्षणं दधौ ॥ ३.१ ॥ शरीरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना । तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ॥ ३.२ ॥ ततो विशांपत्युरनन्यसंततेर्मनोरथं किंचिदिवोदयोन्मुखम् । अनन्यसौहार्दरसस्य दोहदं प्रिया प्रपेदे प्रकृतिप्रियंवदा ॥ ३.२ ॥ मुखेन सा केतकपत्त्रपाण्डुना कृशाङ्गयष्टिः परिमेयभूषणा । स्थिताल्पतारां करुणेन्दुमण्डलां विभातकल्पां रजनीं व्यडम्बयत् ॥ ३.२ ॥ तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ । करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥ ३.३ ॥ दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः । अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान् विलङ्घ्य सा ॥ ३.४ ॥ न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी । न हीष्टमस्य त्रिदिवेऽपि भूपतेर्प्रियासखीरुत्तरकोसलेश्वरः ॥ ३.५ ॥ उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम् । न हीष्टमस्य त्रिदिवेऽपि भूपतेरभूदनासाद्यमधिज्यधन्वनः ॥ ३.६ ॥ क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा । पुराणपत्त्रापगमादनन्तरं लतेव संनद्धमनोज्ञपल्लवा ॥ ३.७ ॥ दिनेषु गच्छत्सु नितान्तपीवरं तदीयमानीलमुखं स्तनद्वयम् । तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम्) ॥ ३.८ ॥ निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम् । नदीमिवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीममन्यत ॥ ३.९ ॥ प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसंपदाम् । यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः ॥ ३.१० ॥ सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया गृहागतः । तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः ॥ ३.११ ॥ कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि । पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रीतमिव ॥ ३.१२ ॥ ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्यसंपदम् । असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम् ॥ ३.१३ ॥ दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चिर्हविरग्निराददे । बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥ ३.१४ ॥ अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा । निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव ॥ ३.१५ ॥ जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम् । अदेयमासीत्त्रयमेव भूपतेः शशिप्रभं छत्त्रमुभे च चामरे ॥ ३.१६ ॥ समीक्ष्य पुत्रस्य चिरान्मुखं पिता निधानकुम्भस्य युवेव दुर्गतः । मुदा शरीरे प्रबभूव नात्मनः पयोधिरिन्दूदयमूर्छितो यथा ॥ ३.१६* ॥ निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम् । महोदधेः पूर इवेन्दुदर्शनाद्गुरुः प्रहर्षः प्रबभूव नात्मनि ॥ ३.१७ ॥ स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते । दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ ॥ ३.१८ ॥ सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम् । न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि ॥ ३.१९ ॥ न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षितः । ऋणाभिधानात्स्वयमेव केवलं तदा पित्ःणां मुमुचे स बन्धनात् ॥ ३.२० ॥ शुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः । अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसंभवम् ॥ ३.२१ ॥ पितुः प्रयत्नात्स समग्रसंपदः शुभैः शरीरावयवैर्दिने दिने । पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः ॥ ३.२२ ॥ उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ । तथा नृपः सा चु सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥ ३.२३ ॥ रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम् । विभक्तमप्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत ॥ ३.२४ ॥ उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम् । अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ॥ ३.२५ ॥ तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि । उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरस्ज्ञतां ययौ ॥ ३.२६ ॥ तमङ्कमारोप्य शरीरयोगजैः स्थितेरभेत्ता स्थितिमन्तमन्वयम् । स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानामिव सर्गमात्मनः ॥ ३.२७ ॥ स वृत्तचौलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः । लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ॥ ३.२८ ॥ अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् । अवन्ध्ययत्नाश्च बभूवुरर्भके ततार विद्याः पवनातिपातिभिर् ॥ ३.२९ ॥ धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः । ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः ॥ ३.३० ॥ त्वचं स मेध्यां परिधाय रौरवीमशिक्षतास्त्रं पितुरेव मन्त्रवत् । न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः ॥ ३.३१ ॥ महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव । रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गाम्भीर्यमनोहरं वपुः ॥ ३.३२ ॥ अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद्गुरुः । नरेन्द्रकन्यास्तमवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः ॥ ३.३३ ॥ युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकंधरः । वपुःप्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत ॥ ३.३४ ॥ ततः प्रजानां चिरमात्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरम् । निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् ॥ ३.३५ ॥ नरेन्द्रमूलायतनादनन्तरं घनव्यपायेन गभस्तिमानिव । अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम् ॥ ३.३६ ॥ विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव । बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ॥ ३.३७ ॥ नियुज्य तं होमतुरंगरक्षणे धनुर्धरं राजसुतैरनुद्रुतम् । अपूर्णमेकेन शतक्रतूपमः शतं क्रतूना अपविघ्नमाप सः ॥ ३.३८ ॥ ततः परं तेन मखाय वज्वना तुरंगमुत्सृष्टमनर्गलं पुनः । धनुर्भृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥ ३.३९ ॥ विषादलुप्तप्रतिपत्ति विस्मितं ममैव येनेह तुरंगमीक्षसे । धेन्वा निशम्येति वचः समीर्तं श्रुतप्रभावा ददृशेऽथ नन्दिनी ॥ ३.४० ॥ स्वेदाम्बुना मार्जय पुत्र लोचने ममैव येनेह तुरंगमीक्षसे । धेन्वा निशम्येति वचः समीरितं मुदं परामाप दिलीपनन्दनः ॥ ३.४०* ॥ तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् । अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥ ३.४१ ॥ स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः । पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयतम् ॥ ३.४२ ॥ स पूर्वतः पर्वतपक्षशातनं हरिं विदित्वा हरिभिश्च वाजिभिः । अवोचदेनं गन्गस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ॥ ३.४३ ॥ मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र सदा निगद्यसे । अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ॥ ३.४४ ॥ त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा । स चेत्स्वयं करमसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः ॥ ३.४५ ॥ तदङ्गमग्र्यं मघवन्महाक्रतोरमुं तुरंगं प्रतिमोक्तुमर्हसि । पतःश्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥ ३.४६ ॥ इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् । निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ॥ ३.४७ ॥ यदात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः । जगत्प्रकाशं तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः ॥ ३.४८ ॥ हरिर्यथैकः पुरुशोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः । तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ॥ ३.४९ ॥ अतोऽयमश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः । अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य संततेः ॥ ३.५० ॥ ततः प्रहस्यापभयः पुरंदरं पुनर्बभाषे तुरगस्य रक्षिता । गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥ ३.५१ ॥ स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् । अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥ ३.५२ ॥ रघोरवष्टम्भमयेन पत्त्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः । नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सायकम् ॥ ३.५३ ॥ दिलीपसूनोः स बृहद्(?) भुजान्तरं प्रविश्य भीमासुरशोणितोचितः । पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥ ३.५४ ॥ हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ । भुजे शचीपत्त्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ॥ ३.५५ ॥ जहार चान्येन मयूरपत्त्रिणा शरेण शक्रस्य महाशनिध्वजम् । चुकोप तस्मै स भृशं सुरश्रियः प्रसहय केशव्यपरोपणादिव ॥ ३.५६ ॥ तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविशभीमदर्शनैः । बभूव युद्धं तुमुउलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्त्रिभिः ॥ ३.५७ ॥ अतिप्रबन्धप्रहितास्त्रवृष्टिभिस्तमाश्रयं दुष्प्रहस्य तेजसः । शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः ॥ ३.५८ ॥ ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीर । रघुः शशाङ्कार्धमुखेन पत्त्रिणा शरासनज्यामलुनाद्विडौजसः ॥ ३.५९ ॥ स चापमुत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः । महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलमस्त्रमाददे ॥ ३.६० ॥ रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः । निमेषमात्रादवधूय तद्व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः ॥ ३.६१ ॥ तथापि शस्त्रव्यवहारनिष्ठुरे बिपक्षभावे चिरमस्य तस्थुषः । तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैर्निधीयते ॥ ३.६२ ॥ असङ्गमद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढमायुधम् । अवेहि मां प्रीतमृते तुरंगमात्किमिच्छसीति स्फुटमाह वासवः ॥ ३.६३ ॥ ततो निषङ्गादसमग्रमुद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् । नरेन्द्रसूनुः प्रतिसंहरन्निषुं प्रियंवदः प्रत्यवदत्सुरेश्वरम् ॥ ३.६४ ॥ अमोच्यमश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि । अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यताम् ॥ ३.६५ ॥ यथा च वृत्तान्तमिमं सदोगतस्त्रिलोचनैकांशतया दुरासदः । तवैव संदेषहराद्विशंपतिः शृणोति लोकेश तथा विधीयताम् ॥ ३.६६ ॥ तथेति कामं प्रतिशुश्रुवान् रघोर्यथागतं मातलिसारथिर्ययौ । नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिनासूनुरपि न्यवर्तत ॥ ३.६७ ॥ तमभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः । परामृशन् हर्षजडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् ॥ ३.६८ ॥ इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः । समारौरुक्षुर्दिवमायुषः क्षये ततान सोपानपरंपरामिव ॥ ३.६९ ॥ अथ स विषव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् । मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणा इदं हि कुलव्र्तम् ॥ ३.७० ॥ _______________________________________________________________________________ स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ । दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ ४.१ ॥ न्यस्तशस्त्रं दिलीपं च तं च शुश्रुवुषां पतिम् । राज्ञामुद्धृतनाराचे हृदि शल्यमिवार्पितम् ॥ ४.१* ॥ दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् । पूर्वं प्रदूमितो राज्ञां हृदयेऽग्निरिवोत्थितः ॥ ४.२ ॥ पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः । नवाभ्युत्थानदर्शिन्यो ननन्दुः स प्रजाः प्रजाः ॥ ४.३ ॥ सममेव समाक्रान्तं तस्योन्नयनपङ्क्तयः । तेन सिंहासनं पित्र्यमखिलं चारिमण्डलं ॥ ४.४ ॥ छायामण्डललक्ष्येन तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥ ४.५ ॥ परिकल्पितसांनिध्या काले काले च बन्दिषु । स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥ ४.६ ॥ मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः । तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुंधरा ॥ ४.७ ॥ स हि सर्वस्य लोकस्य युक्तदण्डतया मनः । आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥ ४.८ ॥ मन्दोत्कण्टः कृतास्तेन गुणाधिकतया गुरौ । फलेन सहकारस्य फुष्पोद्गम इव प्रजाः ॥ ४.९ ॥ नयविद्भिर्नवे राज्ञि सदसच्चोपदर्शितम् । पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः ॥ ४.१० ॥ पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः । नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् ॥ ४.११ ॥ यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥ ४.१२ ॥ कामं कर्णान्तविष्रान्ते विशाले तस्य लोचने । चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना ॥ ४.१३ ॥ लब्धप्रशमनस्वस्थमथैनं समुपस्थिता । पार्थिवश्रीर्द्वितीयेव शरत्पङ्कजलक्षणा ॥ ४.१४ ॥ निर्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा सुदुःसहः । स्वं धनुः शङ्कितेनेव युगपद्व्यानशे दिशः ॥ ४.१५ ॥ अधिज्यमायुधं कर्तुं मुक्तवर्त्मा सुदुःसहः । स्वं धनुः शङ्कितेनेव संजह्रे शतमन्युना ॥ ४.१५* ॥ वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ । प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ॥ ४.१६ ॥ पुण्डरीकातपत्रस्तं विकसत्काशचामरः । ऋतुर्विडम्बयामास आसीत्समरसा द्वयोः ॥ ४.१७ ॥ प्रसादरीकातपत्रस्तं चन्द्रे च विशदप्रभे । तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः ॥ ४.१८ ॥ हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु । विभूतयय्स्तदीयानां पर्यस्ता यशसामिव ॥ ४.१९ ॥ इक्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयम् । आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः ॥ ४.२० ॥ प्रससादोदयादम्भः कुम्भयोनेर्महौजसः । रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः ॥ ४.२१ ॥ मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः । लीलाखेलमनुप्रापुर्मोहक्षास्तस्य विक्रमम् ॥ ४.२२ ॥ प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः । असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥ ४.२३ ॥ सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् । यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥ ४.२४ ॥ सम्यक्तस्मै घुतो वह्निर्वाजिनीराजनाविधौ । प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ ॥ ४.२५ ॥ स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः । षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया ॥ ४.२६ ॥ अवाकिरन् वयोवृद्धास्तं लाजैः पौरयोषितः । पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम् ॥ ४.२७ ॥ स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा । अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः ॥ ४.२८ ॥ रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन् व्योमेव भूतलम् ॥ ४.२९ ॥ प्रतापोऽग्रे ततः शब्दः परागस्तदन्तरम् । ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः ॥ ४.३० ॥ मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः । विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः ॥ ४.३१ ॥ पुरोगैः कलुषास्तस्य सहप्रस्थायिभिः कृशाः । पश्चात्प्रयायिभिः पङ्काश्चक्रिरे मार्गनिम्नगाः ॥ ४.३१* ॥ स सेनां महतीं कर्षन् पूर्वसागरगामिनीम् । बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥ ४.३२ ॥ त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः । तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः ॥ ४.३३ ॥ पौरस्त्यानेवमाक्रामंस्तांस्ताञ्जनपदाञ्जयी । प्राप तालीवन्श्याममुपकञ्ठं महोदधेः ॥ ४.३४ ॥ अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव । आत्मा संरक्षितः सुह्मैर्वृत्तिमाश्रित्य वैतसीम् ॥ ४.३५ ॥ वङ्गानुत्खाय तरसा नेता नौसाधनोद्धतान् । निचखान जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः ॥ ४.३६ ॥ आपादपद्मप्रणताः कलमा इव ते रघुम् । फलैः संवर्धयामासुरुत्खातप्रतिर्पिताः ॥ ४.३७ ॥ स तीर्त्वा कपिषां सैन्यैर्बद्धद्विरदसेतुभिः । उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ ॥ ४.३८ ॥ स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् । अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ॥ ४.३९ ॥ प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः । पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः ॥ ४.४० ॥ द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनम् । सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥ ४.४१ ॥ वायव्यास्त्रविनिर्धूतात्पक्षाविद्धान्महोदधेः । गजानीकात्स कालिङ्गं तार्क्ष्यः सर्पमिवाददे ॥ ४.४१* ॥ ताम्बूलीनां दलैस्तत्र रचितापानभूमयः । नलिकेरासवं योधाः शात्रवं च पपुर्यशः ॥ ४.४२ ॥ गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः । श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥ ४.४३ ॥ ततो वेलातटेनैव फलवत्पूगमालिना । अगस्त्याचरितामाशामनाशास्यजयो ययौ ॥ ४.४४ ॥ स सैन्यपरिभोगेण गजदानसुगन्धिना । कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत् ॥ ४.४५ ॥ बलैरधुषितास्तस्य विजिगीषोर्गताध्वनः । मरिचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः ॥ ४.४६ ॥ ससञ्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः । तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ॥ ४.४७ ॥ आजानेयखुरक्षुण्णपक्वैलाक्षेत्रसंभवम् । व्यानशे सपदि व्योम त्रिपदीछेदिनामपि ॥ ४.४७* ॥ भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् । न्ऽआस्रसत्करिणां ग्रैवं त्रिपदीछेदिनामपि ॥ ४.४८ ॥ दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि । तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥ ४.४९ ॥ ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः । ते निपत्य ददुस्तस्मै यशः स्वमिव संचितम् ॥ ४.५० ॥ स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ । स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ ॥ ४.५१ ॥ तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः । रामास्त्रोत्सारितोऽप्यासीत्सह्यलग्न इवार्णवः ॥ ४.५३ ॥ भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् । अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः ॥ ४.५४ ॥ मुरलामारुतोद्धूतमगमत्कैतकं रजः । तद्योधवारबाणानामयत्नपटवासताम् ॥ ४.५५ ॥ अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः । वर्मभिः पवनोद्धूतराजतालीवनद्व्ह्वनैः ॥ ४.५६ ॥ खर्जूरीस्कन्धनद्धानां मदोद्गार्तसुगन्धिषु । कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः ॥ ४.५७ ॥ अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ । अपरान्तमहीपालव्याजेन रघवे करम् ॥ ४.५८ ॥ मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् । त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः ॥ ४.५९ ॥ पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना । इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी ॥ ४.६० ॥ यवनीमुखपद्मानां सेहे मधुमदं न सः । बालातपमिवाब्जानामकालजलदोदयः ॥ ४.६१ ॥ संग्रामस्तुमुलस्तस्य पाश्चात्यैरश्वसाधनैः । शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥ ४.६२ ॥ भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् । तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ॥ ४.६३ ॥ अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः । प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥ ४.६४ ॥ विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् । आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥ ४.६५ ॥ ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् । शरैरुस्रैरिवोदीच्यानुद्धरिष्यं रसानिव ॥ ४.६६ ॥ जितानजय्यस्तानेव कृत्वा रथपुरःसरान् । महार्णवमिवौराग्निः प्रविवेशोत्तरापथम् ॥ ४.६६* ॥ विनीताध्वश्रमास्तस्य सिन्धुतीरवेचेष्टनैः । दुधुवुर्वाजिनः स्कन्धांल्लग्नकुङ्कुमकेसरान् ॥ ४.६७ ॥ तत्र हूणावरोधानां भर्तृशु व्यक्तविक्रमम् । कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥ ४.६८ ॥ काम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः । गजालानपरिक्लिष्टैरक्षोटैः सार्धमानताः ॥ ४.६९ ॥ तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः । उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम् ॥ ४.७० ॥ ततो गौरीगुरुं शैलमारुरोहाश्वसाधनः । वर्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः ॥ ४.७१ ॥ शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसंभ्रमम् । गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥ ४.७२ ॥ भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः । गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे ॥ ४.७३ ॥ विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः । दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः ॥ ४.७४ ॥ सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः । आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः ॥ ४.७५ ॥ तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षत त्वचः । गजवर्ष्म किरातेभ्यः शशंसुर्देवदारवः ॥ ४.७६ ॥ तत्र जन्यं रघोर्घोरं पार्वतीयैर्गणैरभूत् । नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥ ४.७७ ॥ शरैरुत्सवसंकेतान् स कृत्वा विरतोत्सवान् । जयोदाहरणं बाह्वोर्गापयामास किंनरान् ॥ ४.७८ ॥ परस्परेण विज्ञातस्तेषूपायनपाणिषु । राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ॥ ४.७९ ॥ तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोभ सः । पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियम् ॥ ४.८० ॥ चकम्पे तीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः । तद्गालानतां प्राप्तैः सह कालागुरुद्रुअमैः ॥ ४.८१ ॥ न प्रसेहे स रुद्धार्कमधारावर्षदुर्दिनम् । रथवर्त्म रजोऽप्यस्य कुत एव पताकिनीम् ॥ ४.८२ ॥ तमीशः कामरूपाणामत्याखण्डलविक्रमम् । भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः ॥ ४.८३ ॥ कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् । रत्नपुष्पोपहारेण च्छायामानर्च पादयोः ॥ ४.८४ ॥ इति जित्वा दिषो जिष्णुर्न्यवर्तत रथोद्धतम् । रजो विश्रामयन् राज्ञां छत्त्रशून्येषु मौलिषु ॥ ४.८५ ॥ स विश्वजितमाजह्रे यज्ञं सर्वस्वदक्षिणम् । आदानं हि विसर्गाय सतं वारिमुचामिव ॥ ४.८६ ॥ सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर्गुर्वीभिः शमितपराजयव्यलीकान् । काकुत्स्थश्चिरविरहोत्सुकावरोधान् राजन्यान् स्वपुरनिवृत्तयेऽनुमेने ॥ ४.८७ ॥ यज्ञान्ते तमवभृथाबिषेकपूतं सत्कारैः शमितपराजयव्यलीकान् । आमन्त्र्योत्सुकवनितात्पतद्विसृष्टाः स्वानि स्वान्यवनिभुजः पुराणि जग्मुः ॥ ४.८७* ॥ ते रेकाध्वजकुलिशातपत्रैचिह्नं सम्राजश्चरणयुगं प्रसादलभ्यम् । प्रस्थानप्रणतिभिरङ्गुलीषु चक्रुर्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥ ४.८८ ॥ _______________________________________________________________________________ तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् । उपात्तविद्यो गुरुदक्षिनार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥ ५.१ ॥ स मृन्मये वीतहिरण्मयत्वात्पात्रे निधायार्गह्यमनर्घ्यशीलः । श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः ॥ ५.२ ॥ तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी । विशांपतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदित उवाच ॥ ५.३ ॥ अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते । यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः ॥ ५.४ ॥ कायेन वाचा मनसापि शश्वद्यत्संभृतं वासवधैर्यलोपि । आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत् ॥ ५.५ ॥ आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् । कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदमाश्रमपादपानाम् ॥ ५.६ ॥ क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु । तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूतिः ॥ ५.७ ॥ निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पित्ःणाम् । तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥ ५.८ ॥ नीवारपाकादि कडम्गरीयैरामृश्यते जानपदैर्न कच्चित् । कालोपपन्नातिथिकल्पभागं वन्यं शरीरस्थितिसाधनं वः ॥ ५.९ ॥ अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय । कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥ ५.१० ॥ तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे । अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्माम् ॥ ५.११ ॥ इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य । स्वार्थोपपत्तिं प्रति दुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्यः ॥ ५.१२ ॥ सर्वत्र नो वार्त्तमवेहि राजन्नाथे कुतस्त्वव्यशुभं प्रजानाम् । सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ॥ ५.१३ ॥ भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग तयाऽतिशेषे । व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः ॥ ५.१४ ॥ शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः । आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥ ५.१५ ॥ स्थाने भवानेकनराधिपः सन्नकिंचनत्वं मखजं व्यनक्ति । पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥ ५.१६ ॥ तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये । स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातकोऽपि ॥ ५.१७ ॥ एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य । किं वस्तु विद्वन् गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त ॥ ५.१८ ॥ ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय । वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥ ५.१९ ॥ समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै । स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ॥ ५.२० ॥ निर्बन्धसंजातरुषार्थकार्श्यमचिन्तयित्वा गुरुणाहमुक्तः । वित्तस्य विद्यापरिसंख्यया मे कोटीष्चतस्रो दश चाहरेति ॥ ५.२१ ॥ सोऽहं सपर्याविधिभाजनेन मत्वा बह्वन्तं प्रभुशब्दशेषम् । अभ्युत्सहे संप्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ॥ ५.२२ ॥ इत्थं द्विजेन द्विजराकान्तिरावेदितो वेदविदां वरेण । एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ॥ ५.२३ ॥ गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् । गतो वदायान्तरमित्ययं मे मा भूत्परीवादनवावतारः ॥ ५.२४ ॥ स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे । द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम् ॥ ५.२५ ॥ तथेति तस्य्ऽ आवितथं प्रतीतः प्रत्यग्रहीत्संगरमग्रजन्मा । गामात्तसारां रघुरप्यवेक्ष्य निष्कष्टुमर्थं चकमे कुबेरात् ॥ ५.२६ ॥ वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु । मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य ॥ ५.२७ ॥ अथाधिशिश्ये प्रयथः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम् । सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः ॥ ५.२८ ॥ प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोशगृहे नियुक्ताः । हिरण्मयीं कोशगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ॥ ५.२९ ॥ तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् । दिदेश कौतस्य समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥ ५.३० ॥ जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ । गुरुप्रदेयाधिकनीःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ॥ ५.३१ ॥ अथोष्ट्रवामीशतवाहितार्थं प्रजेष्वरं प्रीतमना महर्षिः । स्पृषन् करेणानतपूर्वकायं संप्रस्थितो वाचमुवाच कौत्सः ॥ ५.३२ ॥ किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानाम् । अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ॥ ५.३३ ॥ आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते । पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीडं भवतः पितेव ॥ ५.३४ ॥ इत्थं प्रयुज्याशिषमग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् । राजापि लेभे सुतमाशु तस्मादालोकमर्कादिव जीवलोकः ॥ ५.३५ ॥ ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् । अतः पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकार ॥ ५.३६ ॥ रूपं तदोजस्वि तदेव वीर्यं तदैव नैसर्गिकमुन्नतत्वम् । न कारणात्स्वाद्बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ॥ ५.३७ ॥ उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् । श्रीर्गन्तुकामापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ॥ ५.३८ ॥ अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः । आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ॥ ५.३९ ॥ तं श्लाघ्यसंबन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् । प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम् ॥ ५.४० ॥ तस्योपकार्यारचितोपकारा वन्येतरा जानपदोपदाभिः । मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः ॥ ५.४१ ॥ स नर्मदारोधसि शीकरार्द्रैर्मरुद्भिरानर्तितनक्तमाले । निवेशयामास विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ॥ ५.४२ ॥ अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः । निर्धौत दानामलगण्डभित्तिर्यन्यः सरित्तो गज उन्ममज्ज ॥ ५.४३ ॥ निःशेषविक्षालितधातुनापि वप्रक्रियामृक्षवतस्तटेषु । नीलोर्ध्वरेखाशबलेन शंसन् दन्तद्वयेनाश्मविकुण्ठितेन ॥ ५.४४ ॥ संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् । बभौ स भिन्दन् बृहतस्तरङ्गान् वार्यर्गलाभङ्ग इव प्रवृत्तः ॥ ५.४५ ॥ स भोगिभोगाधिकपीवरेण हस्तेन तीराभिमुखः सशब्दम् । संवर्धितार्त्धप्रहितेन दीर्घान् चिक्षेप वारीपरिघानिवोर्मीन् ॥ ५.४५* ॥ शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् । पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प ॥ ५.४६ ॥ कारण्डवोत्सृष्टमृदुप्रत्नानाः पुलिन्दयोषाम्बुविहारकाञ्चीः । कर्षन् स शैवाललता नदीषः स्कन्धावलग्नास्तटमुत्ससर्प ॥ ५.४६* ॥ तस्यैकनागस्य कपोलभित्त्योर्जलावगाहक्षणमात्रशान्ता । वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्रीः ॥ ५.४७ ॥ सप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् । विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः ॥ ५.४८ ॥ स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन । रामापरिताणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥ ५.४९ ॥ तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान् कुमारः । निवर्तयिष्यन् विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः ॥ ५.५० ॥ स विद्धमात्रः किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्टः । स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचरं प्रपेदे ॥ ५.५१ ॥ अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः । उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः ॥ ५.५२ ॥ मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् । अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥ ५.५३ ॥ स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत् । उष्णत्वमग्न्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य ॥ ५.५४ ॥ इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन । संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम् ॥ ५.५५ ॥ संमोचितः सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन । प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः ॥ ५.५६ ॥ संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् । गान्धर्वमाधत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते ॥ ५.५७ ॥ अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभुः प्रहरन्नपि त्वम् । तस्मादुपच्छन्दयति प्रयोजं मयि त्वया न प्रतिशेधरौक्ष्यम् ॥ ५.५८ ॥ तथेत्युपस्पृश्य पयः पवित्रं सोमोध्बवायाः सरितो नृसोमः । उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापात् ॥ ५.५९ ॥ एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु । एको ययौ चैत्ररथपदेशान् सौराज्यरम्यानपरो विदर्भान् ॥ ५.६० ॥ तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः । प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली ॥ ५.६१ ॥ प्रवेश्य चैनं पुरमग्रयायी नीचैस्तथोपाचरदर्पितश्रीः । मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् ॥ ५.६२ ॥ तस्य्ऽ आधिकारपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितपूर्ण कुम्भाम् । मेने यथा तत्र जनः समेतो बाल्यात्परामिव दशां मदनोऽध्युवास ॥ ५.६३ ॥ तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयमजस्य लिप्सोः । भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव ॥ ५.६४ ॥ तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागम् । सूतात्मजाः सवयसः प्रथितप्रबोधं) प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥ ५.६५ ॥ रात्रिर्गता मतिमतां वर मुञ्च शय्यां धात्रा द्विधैव ननु धूर्जगतो विभक्ता । तामेकतस्तव बिभर्ति गुरुर्विनिद्रस्तस्या भवानपरधुर्यपदावलम्बी ॥ ५.६६ ॥ निद्रावशेन भवताप्यनपेक्षमाणा पर्युत्सुकत्वमबला निशि खण्डितेव । लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सोऽपि त्वदाननरुचिं विजहाति चन्द्रः ॥ ५.६७ ॥ तद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परपरतुलामधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥ ५.६८ ॥ वृन्ताच्छ्लथं हरति पुष्पमनोकहानां संसृज्यते सरसिजैररुणाम्शुभिन्नैः । स्वाभाविकं परगुणेन विभातवायुः सौरभ्यमीप्सुरिव ते मुखमारुतस्य ॥ ५.६९ ॥ ताम्रोदरेषु पैतं तरुपल्लवेषु निर्धौत हारगुलिकाविशदं हिमाम्भः । आभाति लब्धपरभागतयाधरोष्ठे लीलास्मितं सदशनार्चिरिव त्वदीयम् ॥ ५.७० ॥ यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तम् । आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस्तव गुरुः स्वयमुच्छिनत्ति ॥ ५.७१ ॥ शय्यां जहत्युभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते । येषां विभान्ति तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोषाः ॥ ५.७२ ॥ दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष वनायुदेश्याः । वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥ ५.७३ ॥ भवति विरलभक्तिर्म्लानपुष्पोपहारः स्वकिरण्परिवेषोध्बेदशून्याः प्रदीपाः । अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्तामनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः ॥ ५.७४ ॥ इति विरचितवाग्भिर्बन्दिपुत्रैः कुमारः सपदि विगतनिद्रस्तल्पमुज्झां चकार । मदपटु निनदद्भिर्बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥ ५.७५ ॥ अथ विधिमवसाय्य शास्त्रदृष्टं दिवसमुखोचितमञ्चिताक्षिपक्ष्मा । कुशलविरचितानुकूलवेषः क्षितिपसमाजमगात्स्वयंवरस्थम् ॥ ५.७६ ॥ _______________________________________________________________________________ स तत्र मञ्चेषु मनोज्ञवेषान् सिंहासनस्थानुपचारवस्तु । वैमानिकानां मरुतामपश्यदाकृष्टलीलान्नरलोकपालान् ॥ ६.१ ॥ रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण । काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥ ६.२ ॥ वैदर्भनिर्दिष्टमसौ कुमारः कॢप्तेन सोपानपथेन मञ्चम् । शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह ॥ ६.३ ॥ परार्ध्यवर्णास्तरणोपपन्नमासेदिवान् रत्नवद्(?) आसनं सः । भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ॥ ६.४ ॥ तासु श्रिया राजपरंपरासु प्रभाविशेषोदयदुर्निरीक्ष्यः । सहस्रधात्मा व्यरुचद्विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव ॥ ६.५ ॥ तेषां महार्हासनसंस्थितानामुदारनेपथ्यभृतां स मध्ये । रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः ॥ ६.६ ॥ नेत्रव्रजाः पौरजनस्य तस्मिन् विहाय सर्वान्नृपतीन्निपेतुः । मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ॥ ६.७ ॥ अथ स्तुते बन्दिभिरन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके । संचारिते च्ऽ आगारुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः ॥ ६.८ ॥ पुरोपकण्ठोपवनाश्रयाणां कलापिनामुद्धतनृत्यहेतौ । प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूर्छति मङ्गलार्थे ॥ ६.९ ॥ मनुष्यवाह्यं चतुरश्रयानमध्यास्य कन्या परिवारशोभि । विवेश मञ्चान्तरराजमार्गं पतिंवरा कॢप्तविवाहवेषा ॥ ६.१० ॥ तस्मिन् विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये । निपेतुरन्तःकरणैर्नरेन्द्रा देहैः स्थिताः केवलमासनेषु ॥ ६.११ ॥ तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः । प्रवालोशोभा इव पादपानां शृङ्गारचेष्ट विविधा बभूवुः ॥ ६.१२ ॥ कश्चित्कराभ्यामुपगूढनालमालोलपत्त्राभिहतद्विरेफम् । रजोभिरन्तः परिवेषबन्धि लीलारविन्दं भ्रमयां चकार ॥ ६.१३ ॥ विस्रस्तमंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम् । प्रालम्बमुत्कृष्य यथावकशं निनाय साचीकृतचारुवक्त्रः ॥ ६.१४ ॥ आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशोभः । तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥ ६.१५ ॥ निवेश्य वामं भुजमासनार्धे ततसंनिवेशादधिकोन्नतांसः । कश्चिद्विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परोऽभूत् ॥ ६.१६ ॥ विलासिनीविभ्रमदन्तपत्त्रमापाण्डु रं केतकबर्हमन्यः । प्रियाइतम्बोचितसंनिवेशैर्विपाटयामास युवा नखाग्रैः ॥ ६.१७ ॥ कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन । रत्नाङ्गुलीयप्रभयानुविद्धानुदीरयामास सलीलमक्षान् ॥ ६.१८ ॥ कश्चिद्यथाभागमवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव । वज्रांशुगर्भाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ॥ ६.१९ ॥ ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी । प्राक्संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीमवदत्सुनन्दा ॥ ६.२० ॥ असौ शरण्यः शरणोन्मुखानामगाधसत्त्वो मगधप्रतिष्ठः । राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा ॥ ६.२१ ॥ कामं ण्र्पाः सन्तु सहरशोऽन्ये राजन्वतीमाहुरनेन भूमिम् । नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ ६.२२ ॥ क्रियाप्रबन्धादयमध्वराणामजस्रमाहूतसहस्रनेत्रः । शच्याश्चिरं पाण्दुकपोललम्बान्मन्दारशून्यानलकांश्चकार ॥ ६.२३ ॥ अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे । प्रासादवातायनसंश्रितानां नेत्रोत्सत्वं पुष्पपुराङ्गनानाम् ॥ ६.२४ ॥ एवं तयोक्ते तमवेक्ष्य किंचिद्(?) विस्रंसिदूर्वाङ्कमधूकमाला । ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनमभाषमाणा ॥ ६.२५ ॥ तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय । समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानसराजहंसीम् ॥ ६.२६ ॥ जगाद चैनामयमङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः । विनीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते ॥ ६.२७ ॥ अनेन पर्यासयतास्रबिन्दून्मुक्ताफल्स्थूलतमान् स्तनेषु । प्रत्यर्पिताः शत्रुविलासिनीनामुन्मुच्य सूत्रेण विनैव हाराः ॥ ६.२८ ॥ निसर्गभिन्नास्पदमेकसंस्थमस्मिन् द्वयं श्रीश्च सरस्वती च । कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि तयोस्तृतीया ॥ ६.२९ ॥ अथाङ्गराजादवतार्य चक्षुर्याह्जन्यामवदत्कुमारी । नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः ॥ ६.३० ॥ ततः परं दुष्प्रसहं द्विषद्भिर्नृपं नियुक्ता प्रतिहारभूमौ । निदर्शयामास विशेषदृश्यमिन्दुं नवोत्थानमिवेन्दुमत्यै ॥ ६.३१ ॥ अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः । आरोप्य चक्रभ्रह्ममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥ ६.३२ ॥ अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि । कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥ ६.३३ ॥ असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः । तमिस्रपक्षेऽपि सह प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषान् ॥ ६.३४ ॥ अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते । सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरंपरासु ॥ ६.३५ ॥ तस्मिन्नभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के । बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ॥ ६.३६ ॥ तामग्रतस्तामरसान्तराभामनूपराजस्य गुणैरनूनाम् । विधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा ॥ ६.३७ ॥ संग्रामनिर्विष्टसहस्रबाहुरष्टदासद्वीपनिखातयूपः । अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः ॥ ६.३८ ॥ अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् । अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ॥ ६.३९ ॥ ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसद्वक्त्रपरंपरेण । कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमा प्रसादात् ॥ ६.४० ॥ तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी । येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृश्टम् ॥ ६.४१ ॥ आयोधने कृष्णगतिं सहायमवाप्य यः क्षत्रियकालरात्रिम् । धारां शितां रामपरश्वधस्य संभावयत्युत्पलपत्त्रसाराम् ॥ ६.४२ ॥ अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीम् । प्रासादजालैर्जल्वेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः ॥ ६.४३ ॥ तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव । शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्याः ॥ ६.४४ ॥ सा शूरसेन्दाधिपतिं सुषेणमुद्दिश्य लोकान्तरगीतकीर्तिम् । आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥ ६.४५ ॥ नीपान्वयः पार्थिव एष वज्वा गुणैर्यमाश्रित्य परस्परेण । सिद्धाश्रमं शान्तमिवैत्य सत्त्वैर्नैसर्गिकोऽप्युत्ससृजे विरोधः ॥ ६.४६ ॥ यस्य्ऽ आत्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव संनिविष्ट । हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविशह्यं रिपुमन्दिरेषु ॥ ६.४७ ॥ यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले । कलिन्दकन्या मथुरां गताऽपि गङ्गोर्मिसंसक्त जलेव भाति ॥ ६.४८ ॥ त्रस्तेन ताक्र्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः । वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं ह्रेपयतीव कृष्नम् ॥ ६.४९ ॥ संभाव्य भर्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये । वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि युवनश्रीः ॥ ६.५० ॥ अध्यास्य चाम्भःपृषतोक्षितानि शैलेयगन्धीनि शिलातलानि । कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ॥ ६.५१ ॥ नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री । महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ॥ ६.५२ ॥ अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् । आसेदुषीं सादितशत्रुपक्षं बालामबालेन्दुमुखीं बभाषे ॥ ६.५३ ॥ असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च । यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ॥ ६.५४ ॥ ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः । रिपुश्रियां साञ्जनभाष्पसेके बन्दीकृटानामिव पद्धती द्वे ॥ ६.५५ ॥ रणेऽमितत्रीणतया प्रकाशः शरासनज्यानिकषौ भुजाभ्याम् । विशिष्टरेखौ रिपुविक्रमाग्नेर्निर्वाणमार्गाविव यो बिभर्ति ॥ ६.५५* ॥ यमात्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः । प्रासादवातायनदृष्यवीचिः प्रबोधयत्यर्णव एव सुप्तम् ॥ ६.५६ ॥ अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु । द्वीपानतरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ॥ ६.५७ ॥ प्रलोभिताप्याकृतिलोभनीया पतिं पुरस्योरुगपूर्वनाम्नः । तस्मादपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवात् ॥ ६.५८ ॥ अथाधिगम्याभुवराजकल्पं पतिं पुरस्योरुगपूर्वनाम्नः । आचारपूतोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥ ६.५८* ॥ अथोराख्यस्य पुरस्य नाथं दौवारिकी देवसरूपम् । इतश्चकोराक्षि विलोकयेति पूर्वानुशिष्टां निजगाद भोज्याम् ॥ ६.५९ ॥ पाण्ड्योऽयमंसार्पितलम्बहारः कॢप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥ ६.६० ॥ विन्ध्यस्य संस्तम्भयिता महाद्रेर्निःशेषपीतोज्झितसिन्धुराजः । प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः ॥ ६.६१ ॥ अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकाव जयाय दृप्तः । पुरा जनस्थानविमर्दशङ्की संधाय लःकाधिपतिः प्रतस्थे ॥ ६.६२ ॥ अनेन पाणौ विधिवद्(?) गृहीते महाकुलीनेन महीव गुर्वी । रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः ॥ ६.६३ ॥ ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु । तमालपत्त्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥ ६.६४ ॥ इन्दीवरश्यामतनौर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः । अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु ॥ ६.६५ ॥ स्वसुर्विदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः । दिवाकरादर्शनबद्धकोशे नक्शत्रनाथांशुरिवारविन्दे ॥ ६.६६ ॥ संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ ६.६७ ॥ तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूत् । वामेतरः संशयमस्य बाहुः केयूरबन्धोच्छवसितैर्नुनोद ॥ ६.६८ ॥ तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी । न हि प्रफुल्लं सहकारमेत्य वृक्सान्तरं काङ्क्षति षट्पदाली ॥ ६.६९ ॥ तस्मिन् समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेक्ष्य । प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तरं वाक्यमिदं सुनन्दा ॥ ६.७० ॥ इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत् । काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः ॥ ६.७१ ॥ महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकि लीलः । चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्त्रलेखाः ॥ ६.७२ ॥ ऐरावतास्फालनविश्लथं यः संघट्टयन्नङ्गदमङ्गदेन । उपेयुशः स्वामपि मूर्तिमग्र्यामर्धासनं गोत्रभिदोऽधितष्ठौ ॥ ६.७३ ॥ जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर्दिलीपः । अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः ॥ ६.७४ ॥ यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम् । वातोऽपि नासरंसयदंशुकानि को लम्बयेदाहरणाय हस्तम् ॥ ६.७५ ॥ पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता । चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषामकरोद्विभूतिम् ॥ ६.७६ ॥ आरूढमद्रीनुदधीन् वितीर्णं भुजंगमानां वसतिं प्रविष्टम् । ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुमियत्तयालम् ॥ ६.७७ ॥ असौ कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः । गुर्वीं धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति ॥ ६.७८ ॥ कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः । त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥ ६.७९ ॥ ततः सुनन्दावचनावसाने लज्जां तनू कृत्य नरेन्द्रकन्या । दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ॥ ६.८० ॥ सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् । रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः ॥ ६.८१ ॥ तथागतायां परिहासपूर्वं सख्यां सखी वेत्रधरा बभाषे । आर्ये व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ॥ ६.८२ ॥ सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः । आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम् ॥ ६.८३ ॥ तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः । अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः ॥ ६.८४ ॥ शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं । इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ॥ ६.८५ ॥ प्रमुदितवरपक्षमेकतस्तत्(?) क्षितिपतिमण्डलमन्यतो वितानम् । उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रमासीत् ॥ ६.८६ ॥ _______________________________________________________________________________ अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनाम् । स्वसारमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥ ७.१ ॥ सेनानिवेशान् पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः । भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेषेषु च साभ्यसूयाः ॥ ७.२ ॥ सांनिध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतामभावः । काकुत्स्थमुद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः ॥ ७.३ ॥ तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम् । वरः स वध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम् ॥ ७.४ ॥ ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु । बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि ॥ ७.५ ॥ आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि हि केशपाशः ॥ ७.६ ॥ प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव । उत्षृषृअलीलागतिरा गवाक्षाद्ययौ शलाकामपरा वहन्ती ॥ ७.७ ॥ विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा । तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ॥ ७.८ ॥ जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् । नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥ ७.९ ॥ अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती । कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमाउलार्पितसूत्रशेषा ॥ ७.१० ॥ स्तनंधयन्तं तनयं विहाय विलोकनाय त्वरया व्रजन्ती । संप्रस्नुताभ्यां पदवीं स्तनाभ्यां सिषेच काचित्पयस्"आ गवाक्षात् ॥ ७.१०* ॥ तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् । विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्त्राभरणा इवासन् ॥ ७.११ ॥ ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि । तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥ ७.१२ ॥ स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुममंस्त भोज्या । पद्मेव नारायणमन्यथासौ लभेत कान्तं कथमात्मतुल्यम् ॥ ७.१३ ॥ परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् । अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत् ॥ ७.१४ ॥ रतिस्मरौ नूनमिमावभूतां राज्ञां सहरेषु तथा हि बाला । गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसंगतिज्ञम् ॥ ७.१५ ॥ इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन् कथाः श्रोतसुखाः कुमारः । उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद ॥ ७.१६ ॥ ततोऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः । वैदर्भनिर्दिष्टमथो विवेश नारीमनांसीव चतुष्कमन्तः ॥ ७.१७ ॥ महार्हसिंहासनसंस्थितोऽसौ सरत्नमर्घ्यं मधुपर्कमिश्रम् । भोजोपनीतं च दुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षैः ॥ ७.१८ ॥ दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः । वेलासाक्शं स्फुटपेहराजिर्नवैरुदन्वानिव चन्द्रपादैः ॥ ७.१९ ॥ तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निमाज्यादिभिरग्निकल्पः । तमेव चाधाय विवाहसाक्ष्ये वधूवरौ संगमयां चकार ॥ ७.२० ॥ हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकाशे । अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ॥ ७.२१ ॥ आसीद्वरः कण्टकितप्रकोष्टः स्विन्नाङ्गुलिः संववृते कुमारी । वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मओभवस्य ॥ ७.२२ ॥ तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिवर्तितानि । ह्रीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ॥ ७.२३ ॥ प्रदक्षिणप्रक्रमणात्कृषानोरुदर्चिषस्तन् (?) मिथुनं चकाशे । मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥ ७.२४ ॥ नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन । चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ ॥ ७.२५ ॥ हविःशमीपल्लवलाजगन्धिः पुण्यः कृशानोरुदियाय धूमः । कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ ७.२६ ॥ तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानभीजाङ्कुरकर्णपूरम् । वधूमुखं पाटलगण्डलेखमाचारधूमग्रहणाद्बभूव ॥ ७.२७ ॥ तौ स्नातकैर्बन्धुमता च राज्ञा पुरंध्रिभिश्च क्रमशः प्रयुक्तम् । कन्याकुमारौ कनकासनस्थावार्द्राक्षतारोपणमन्वभूताम् ॥ ७.२८ ॥ इति स्वसुर्भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा । महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानधिश्रीः ॥ ७.२९ ॥ लिङ्गैर्मुदः संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनक्राः । वैदर्भमामन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजामौप्दाछलेन ॥ ७.३० ॥ स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ समयोपलभ्यम्) । आदास्यमानः प्रम्दामिषं तदावृत्य पन्थानमजस्य तस्थौ ॥ ७.३१ ॥ भर्तापि तावत्क्रथकैषिकानामनुष्ठितानन्तरजाविवाहः । सत्त्वानुरूपाहरणी कृतश्रीः प्रास्थापयद्राघवमन्वगाच्च ॥ ७.३२ ॥ तिस्रस्त्रिलोकी प्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा । तस्मादपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः ॥ ७.३३ ॥ प्रमन्यवः प्रागपि कोसलेन्द्रे प्रत्येकमात्तस्वतया बभूवुः । अतो नृपाश्चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य ॥ ७.३४ ॥ तमुद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः । बलिप्रदिष्टं श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रुः ॥ ७.३५ ॥ तस्यः स रक्षार्थमनल्पयोधमादिष्य पित्र्यं सचिवं कुमारः । प्रत्यग्रहीत्पार्थिववाहिनीं तां ज्योतीरथां शोण इवोत्तरङ्गः ॥ ७.३६ ॥ पत्तिः पदातिं रथिनं रथेशस्तुरंगसादी तुरगाधिरूढम् । यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥ ७.३७ ॥ नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान् । बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृतः शशंसुः ॥ ७.३८ ॥ उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः । चिस्तारितः कुञ्जरकर्णतालैर्नेत्रक्रमेणोपरुरोध सूर्यम् ॥ ७.३९ ॥ मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धद्वजिनीरजांसि । बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ॥ ७.४० ॥ रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः । स्वभर्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः ॥ ७.४१ ॥ आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य । शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ॥ ७.४२ ॥ स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः । अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥ ७.४३ ॥ प्रहारमूर्छापगमे रथस्थान् यन्त्ःनुपालभ्य निवर्तिताश्वाः । यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः ॥ ७.४४ ॥ अप्यर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः । संप्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम् ॥ ७.४५ ॥ आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः । हतान्यपि आयेननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ॥ ७.४६ ॥ पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी । तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष ॥ ७.४७ ॥ तनुत्यजां वर्मभृतां विकोशैर्बृहत्सु दन्तेष्वसिभिः पतद्भिः । रणक्षितिः शोणितमद्यकुल्या गजा विविग्नाः करशीकरेण ॥ ७.४८ ॥ शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरत्रैश्चषकोत्तरेव । रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः ॥ ७.४९ ॥ उपान्तयोर्निष्कुषितं विहंगैराक्षिप्य तेभ्यः पिशितप्रियापि । केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदमपाचकार ॥ ७.५० ॥ कश्चिद्द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य । वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श ॥ ७.५१ ॥ अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथिनौ च कौचित् । व्यश्वौ गदाव्यायतसंप्रहारौ बग्नायुधौ बाहुविमर्दनिष्ठौ ॥ ७.५२ ॥ परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालमेव । अमर्त्यभावेऽपि कयोश्चिदासीदेकासरःप्रार्थितयोर्विवादः ॥ ७.५३ ॥ व्यूहावुभौ तावितरेतरस्माद्भङ्गं जयं चापतुरव्यवस्थम् । पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी ॥ ७.५४ ॥ परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्यमेव । धूमो निवर्तेत समीरणेन यतो हि कक्षस्तत एव वह्निः ॥ ७.५५ ॥ रथी निषङ्गी कवची धनुष्मान् दृप्तः स राजन्यकमेकवीरः । निवारयामास महावराहः कल्पक्षयोद्धूतमिवार्णवाम्भः ॥ ७.५६ ॥ स दक्षिणं तूणमुखेन वामं व्यापारयन् हस्तमलक्ष्यताजौ । आकर्णकृष्टा सकृदस्य योद्धुर्मौर्वीव बाणान् सुषुवे रिगुफ्नान् ॥ ७.५७ ॥ स रोषदष्टाधिकलोहितोष्ठैर्व्यक्तोर्ध्वरेका भृकुटीर्वहद्भिः । तस्तार गां भल्लनिकृत्तकण्ठैर्हुंकारगर्भैर्द्विषतां शिरोभिः ॥ ७.५८ ॥ सर्वैर्बलाङ्गैर्द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च । सर्वप्रयत्नेने च भूमिपालास्तस्मिन् प्रजह्रुर्युधि सर्व एव ॥ ७.५९ ॥ सोऽस्त्रव्रजैश्छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः । नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव ॥ ७.६० ॥ प्रियंवदात्प्रापमसौ कुमारः प्रायुङ्क्त राजस्वधिराजसूनुः । गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वपनिवृत्तलौल्यः ॥ ७.६१ ॥ ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् । तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥ ७.६२ ॥ ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलं कुमारः । येन स्वहस्तार्जितमेकवीरः पिबन् यशो मूर्तमिवाभासे ॥ ७.६३ ॥ शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रुं ददृशुः स्वयोधाः । निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥ ७.६४ ॥ सशोणितैस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानाम् । यशो हृतं संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः ॥ ७.६५ ॥ स चापकोटीनिहितैकबाहुः शिरस्तनिष्कर्षणभिन्नमुलिः । ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियामेत्य वचो बभाषे ॥ ७.६६ ॥ इतः परानर्भकहार्यशस्त्रान् वैदर्भि पश्यानुमता मयासि । एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममभिः ॥ ७.६७ ॥ तस्याः प्रतिद्वन्द्विभवाद्विषादात्सद्यो विमुक्तं मुखमाबभासे । निश्वासबाष्पापगमात्प्रपन्नः प्रसादमात्मीयमिवात्मदर्षाः ॥ ७.६८ ॥ हृष्टापि सा ह्रीविजिता न साक्षाद्वाग्भिः सखीनां प्रियमभ्यनन्दत् । स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम् ॥ ७.६९ ॥ इति शिरसि स वामं पादमाधाय राज्ञामुदवहदनवद्यां तामवद्यादपेतह् । रथतुरगरजोभिस्तस्य रूक्षालकाग्रा समरविजयलष्मीः सैव मूर्ता बभूव ॥ ७.७० ॥ प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं विजयिनमभिनन्द्य श्लाघ्यजायासमेतम् । तदुपहितकुटुम्बः शान्तिमार्गोतुस्कोऽभून्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥ ७.७१ ॥ _______________________________________________________________________________ अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः । वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् ॥ ८.१ ॥ दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् । तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ॥ ८.२ ॥ अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनम् । विशदोच्छवसितेन मेदिनी कथयामास कृतार्थतामिव ॥ ८.३ ॥ स बभूव दुरासदः परैर्गुरुणाथर्वविदा कृतक्रियः । पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा ॥ ८.४ ॥ रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वरं प्रजाः । स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान् गुणानपि ॥ ८.५ ॥ अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम् । पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥ ८.६ ॥ सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति । अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥ ८.७ ॥ अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् । उदधेरिव निमगाशतेष्वभवन्नास्य विमानना क्वचित् ॥ ८.८ ॥ न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव । स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् ॥ ८.९ ॥ अथ वीक्स्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया । विषयेषु विनाशधर्मसु त्रिदिवस्तेष्वपि निःस्पृहोऽभवत् ॥ ८.१० ॥ गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः । पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे ॥ ८.११ ॥ तमरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः । पितरं प्रणिपत्य पादयोरपरित्यागमयाचतात्मनः ॥ ८.१२ ॥ रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः । न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥ ८.१३ ॥ स कीलश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः । समुपास्यत पुत्रभोग्यया स्नूषयेवाविकृतेन्द्रियः श्रिया ॥ ८.१४ ॥ प्रशमस्थितपूर्वपार्थिवं कुलमभ्युद्यत नूतनेश्वरम् । नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत् ॥ ८.१५ ॥ यतिपार्थिवलिङ्गधारिणौ ददृशते रघुराघवौ जनैः । अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ॥ ८.१६ ॥ अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशरदैरजः । अनपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः ॥ ८.१७ ॥ समयुजय्त भूपतिर्युवा सचिवैः प्रत्यहमर्थसिद्धये । अपुनर्जननोपत्तये प्रययाः संयमिभिर्मनीषिभिः ॥ ८.१७* ॥ नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनमाददे युवा । परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ॥ ८.१८ ॥ अनुरण्जयितुं प्रजाः प्रभुर्व्यहारासनमाददे नवः । अपरः शुचिविष्टरस्थितः परिचेतुं यतते स्म धारणाः ॥ ८.१८* ॥ अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् । अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥ ८.१९ ॥ नयचक्षुरजो दिदृक्षया पररन्ध्रस्य ततान मण्डले । हृदये समरोपयन्मनः परमं ज्योतिरवेक्षितुं रघुः ॥ ८.१९* ॥ अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् । अपरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ॥ ८.२० ॥ पणबन्धमुखान् गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलम् । रघुरप्यजयद्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ॥ ८.२१ ॥ न नवः प्रभुरा फलोदयात्स्थिरकर्मा विरराम कर्मणः । न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनात् ॥ ८.२२ ॥ इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ । प्रसितावुदयापवर्गयोरुभयीं सिद्धिमुभाववापतुः ॥ ८.२३ ॥ अथ काश्चिदजव्यपेक्षया गमयित्वा सम्दर्शनः समाः । तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ॥ ८.२४ ॥ शुतदेहविसर्जनः पितुश्चिरमश्रूणि विमुच्य राघवः । विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित् ॥ ८.२५ ॥ अकरोत्स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पवित् । न हि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः ॥ ८.२६ ॥ स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः । शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत् ॥ ८.२७ ॥ क्षितिरिन्दुमती च भामिनी पतिमासाद्य तमग्र्यपौरुषम् । प्रथमा बहुरत्नसूरभूदपरा वीरमजीजनत्सुतम् ॥ ८.२८ ॥ दशरास्मिशतोपमद्युतिं यशसा दिक्षु दशवपि श्रुतम् । दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥ ८.२९ ॥ ऋषिदेवगणस्वधाभुजां श्रुतयागप्रस्वैः स पार्थिवः । अनृणत्वमुपेयिवान् बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥ ८.३० ॥ बलमार्तभयोपशान्तये विदुषां संनतये बहु श्रुतम् । वसु तस्य न केवलं गुणवत्तापि परप्रयोजना ॥ ८.३१ ॥ स कदाचिदवेषितप्रजः सह देव्या विजहार सुप्रजाः । नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ॥ ८.३२ ॥ अथ रोधसि दक्षिणोदधेः श्रित गोकर्णनिकेतमीश्वरम् । उपवीणयितुं ययौ रवेरुदगावृत्तिपथेन नारदः ॥ ८.३३ ॥ कुसुमैर्ग्रथितामपार्थिवैः स्रजमातोद्यशिरोनिवेशिताम् । अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः ॥ ८.३४ ॥ भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः । ददृशे पवनावलेपजं सृजती बाष्पमिवाञ्जनाविलम् ॥ ८.३५ ॥ अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् । नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितिम् ॥ ८.३६ ॥ क्षणमात्रसखीं सुजातयोः स्तनयोस्तामवलोक्य विहला । निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥ ८.३७ ॥ वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत् । ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् ॥ ८.३८ ॥ सममेव नराधिपेन सा गुरुसंमोहविलुप्तचेतना । गुरुसंमोहविलुप्तचेतना नवदीपार्चिरिव क्षितेस्तलम् ॥ ८.३८* ॥ उभयोरपि पार्श्ववर्तिनां तुमु लेनार्तरवेण वेजिताः । विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः ॥ ८.३९ ॥ नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता । प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥ ८.४० ॥ प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात् । स निनाय नितान्तवत्सलः परिगृह्योचितमङ्कमङ्गनाम् ॥ ८.४१ ॥ स निनाय नितान्तवत्सलः परिवृत्तप्रथमच्छविं क्षणात् । सलिलोद्धृतपद्मिनीनिभां दयितामङ्कमुदशुलोचनः ॥ ८.४१* ॥ स निनाय नितान्तवत्सलः करणापायविभिन्नवर्णया । समलक्ष्यत बिभ्रदाविलां मृगलेखामुषसीव चन्द्रमाः ॥ ८.४२ ॥ विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् । अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ ८.४३ ॥ कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि । न भविष्यति हन्त साधनं किमिवानयत्प्रहरिष्यतो विधेः ॥ ८.४४ ॥ अथ वा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः । हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता ॥ ८.४५ ॥ स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् । विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ॥ ८.४६ ॥ अथ वा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा । यदनेन तरुर्न पातितस्क्षपिता तद्विटपाश्रितलता ॥ ८.४७ ॥ कृतवत्यसि नावधीरणामपराध्हेऽपि यदा चिरं मयि । कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे ॥ ८.४८ ॥ ध्रुवमस्मि शठः शुचिस्मिते विधितः कैतववत्सलस्तव । परलोकमसंनिवृत्तये यदनापृच्छ्य गतासि मामितः ॥ ८.४९ ॥ दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना । सहतां हतजीवितं मम प्रबलामात्मकृतेन वेदनाम् ॥ ८.५० ॥ सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते । अथ चास्तमिताऽस्यहो बत धिगिमां देहभृतामसारताम् ॥ ८.५१ ॥ सुरतश्रमवारिबिन्दवो न हि तावद्विरमन्ति ते मुखे । कथमस्तमिताऽस्यहो बत धिगिमां देहवतामसारताम् ॥ ८.५१* ॥ मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् । ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ॥ ८.५२ ॥ कुसुमोत्कचितान् वलीमतश्चलयन् भृङ्गरुचस्तवालकान् । करभोरु करोति मारुतस्त्वदुपावर्तन्शङ्कि मे मनः ॥ ८.५३ ॥ तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाषु मे । ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नतमोषधिः ॥ ८.५४ ॥ इदमुच्छ्वसितालकं मुखं विश्रान्तकथं दुनोति माम् । निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥ ८.५५ ॥ शशिनं पुनरेति शार्वरी दयिता द्वन्द्वचरं पतत्रिणम् । इति तौ विर्हान्तरक्षमौ कथमत्यन्तगता न मां दहेः ॥ ८.५६ ॥ नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् । तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम् ॥ ८.५७ ॥ इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी । गतिविभ्रमसाद नीरवा न शुचा नानुमृतेव लक्ष्य्ते ॥ ८.५८ ॥ कलमन्यभृतासु भाषितं कलहंसीषु गतं मदालसं । पृटतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमः ॥ ८.५९ ॥ त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया । विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमाः ॥ ८.६० ॥ मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ । अविधाय विवाहसत्क्रियामनयोर्गम्यत इव्यसांप्रतम् ॥ ८.६१ ॥ कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति । अलकाभरणं कथं नु तत्तव नेष्यामि निवापलाल्यताम् ॥ ८.६२ ॥ स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् । अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि शोच्यसे ॥ ८.६३ ॥ तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया । असमाप्य विलासमेखलां किमिदं किंनरकण्ठि सुप्यते ॥ ८.६४ ॥ समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः । अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ॥ ८.६५ ॥ धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः । गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥ ८.६६ ॥ गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥ ८.६७ ॥ मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे । अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् ॥ ८.६८ ॥ विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् । अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्तदाश्रयाः ॥ ८.६९ ॥ विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति । अकरोत्पृथिवीरुहानपि स्रुतशाखारसभाष्पदुर्दिनान् ॥ ८.७० ॥ अथ तस्य कथंचिदङ्कतः स्वजनस्तामपनीय सुन्दरीं । विससर्ज कृतान्त्यमण्डनामनलाय्ऽ आगुरुचन्दनदिहसे ॥ ८.७१ ॥ प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् । न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया ॥ ८.७२ ॥ अथ तेन दशाहतः परे गुणशेषामुपदिष्य गेहिनीम् । विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ॥ ८.७३ ॥ स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः । परिवाहमिवावलोकयन् स्वशुचः पौरवधूमुखाश्रुषु ॥ ८.७४ ॥ अथ तं सवनाय दिषितः प्रणिधानाद्गुरुराश्रमस्थितः । अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् ॥ ८.७५ ॥ असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् । न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितुं कृतस्थितिः ॥ ८.७६ ॥ मयि तस्य सुवृत्त वर्तते लघुसंदेशपदा सरस्वती । शृणु विश्रुतसत्त्वसार तां हृदि चैनामुपधातुमर्हसि ॥ ८.७७ ॥ पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च । स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति ॥ ८.७८ ॥ चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा । प्रजिघाय समाधिबेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् ॥ ८.७९ ॥ स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम् । अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा मुनिः ॥ ८.८० ॥ भगवन् परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे । इति चोपनतां क्षितिपृशं विवशा शापनिवृत्तिकारणम् ॥ ८.८१ ॥ क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा । उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणम् ॥ ८.८२ ॥ तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता । वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ॥ ८.८३ ॥ उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्तया । मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यतां ॥ ८.८४ ॥ रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते । परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥ ८.८५ ॥ रुदितेन न सा निवर्तते नृप तत्तावदन्र्थकं तव । न भवाननुसंस्थितोऽपि तां लभते कर्मवशा हि देहिनः ॥ ८.८५* ॥ अपशोकमनाः कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभिः । स्वजनाश्रु किलात्रिसंततं दहति प्रेतमिति प्रचक्षते ॥ ८.८६ ॥ मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ ॥ ८.८७ ॥ अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् । स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ ८.८८ ॥ अवगच्छति मूढचेतनः श्रुत धृतसंयोगविपर्ययौ यदा । विरहः किमिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् ॥ ८.८९ ॥ न पृथग्जनवच्छुचो वशं वशिनामुत्तम गन्तुमर्हसि । द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः ॥ ८.९० ॥ स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् । तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः ॥ ८.९१ ॥ तेनाष्टौ परिगमिताः समाः कथंचिद्बालत्वादवितथसूनृतेन सूनोः । सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागम्तोसवैश्च ॥ ८.९२ ॥ तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद । प्राणान्तहेतुमपि तं भिषजामसाध्यं लाभं प्रियानुगमने त्वरया स मेने ॥ ८.९३ ॥ सम्यग्विनीतमथ वर्महरं कुमारमादिश्य रक्षणविधौ विधिवत्प्रजानाम् । रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः प्रायोपवेशनमतिर्नृपतिर्बभूव ॥ ८.९४ ॥ तीर्थे तोयव्यतिकरभवे जह्नुकन्यासर्य्वोर्देहत्यागादमरगणनालेख्यमासाद्य सद्यः । पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥ ८.९५ ॥ _______________________________________________________________________________ पितुरनन्तरमुत्तर्कोसलान् समधिगम्य समाधिजितेन्द्रियः । दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः ॥ ९.१ ॥ अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलमात्मकुलोचितम् । अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः ॥ ९.२ ॥ उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् । वलनिषूदनमर्थ्पतिं च तं श्रमनुदं मनुदण्डहरान्वयम् ॥ ९.३ ॥ जनपदे न गदः पदमादधावभिभवः कुत एव सपत्नजः । क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे ॥ ९.४ ॥ दशदिगन्तजिता रघुणा यथा श्रियमपुष्यदजेन ततः परम् । तमधिगम्य तथैव पुनर्बभौ न न महीऽनमहीनपराक्रमम् ॥ ९.५ ॥ समतया वसुवृटिविसर्जनैर्नियमनादसतां च नराधिपः । अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ॥ ९.६ ॥ न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु । तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरा ॥ ९.७ ॥ न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि । न च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरमीरिता ॥ ९.८ ॥ उदयमस्तमयं च रघूद्वहादुभयमानशिरे वसुधाधिपाः । स हि निदेशमलङ्घयतामभूत्सुहृदयोहृदयः प्रतिगर्जताम् ॥ ९.९ ॥ अजयदेकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासनः । जयमघोषयदस्य तु केवलं गजवती जवतीरहया चमूः ॥ ९.१० ॥ जघननिर्विषयीकृतमेखलाननुचिताश्रुविलुप्तविशेषकान् । स रिपुदारगणानकरोद्बलादनलकानलकाधिपविक्रमः ॥ ९.१०* ॥ अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः । विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः ॥ ९.११ ॥ शमितपक्षबलः शितकोटिना शिखरिणां कुलिशेन पुरंदरः । स सारवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः ॥ ९.१२ ॥ स्फुरितकोटिसहस्रमरीचिना समचिनोत्कुलिशेन हरिर्यशः । स धनुषा युधि सायकवर्षिणा स्वनवता नवतामरसाननः ॥ ९.१२* ॥ चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिरस्पृशन् । स धनुषा युधि सायकवर्षिणा शतमखं तमखण्डितपौरुषम् ॥ ९.१३ ॥ निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन् । समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीम् ॥ ९.१४ ॥ उपगतोऽपि च मण्डलनाभितामनुदितान्यसितातपवारणः । अजितमस्ति नृपास्पदमित्यभूदनलसोऽनलसोमसमद्युतिः ॥ ९.१५ ॥ क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः । कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसारस्यूतटाः ॥ ९.१६ ॥ अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहाम् । अधिवसंस्तनुमध्वरदीक्षितामसम्भासमभासयदीश्वरः ॥ ९.१७ ॥ अवभृतप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः । नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ॥ ९.१८ ॥ तमपहाय ककुत्स्थकुलोद्भवं पुरुषमात्मभुवं च पतिव्रता । नृपतिमन्यमसेवत देवता सकमला कमलाघवमर्थिषु ॥ ९.१९ ॥ स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः । स्वभुजवीर्यमगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः ॥ ९.२० ॥ असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता । दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥ ९.२१ ॥ तमलभन्त पतिं पतिदेवताः शिखरिणामिव सागरमापगाः । मगधकोसलकेकयशसिनां दुहितरोऽहितरोपितमार्गणम् ॥ ९.२२ ॥ प्रियतमाभिरसौ तिऋभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः । उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः ॥ ९.२३ ॥ अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् । यमकुबेर्जलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम् ॥ ९.२४ ॥ जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः । दिनमुखानि रविर्हिमनिर्ग्रहैर्विमलयन्मलयं नगमत्यजत् ॥ ९.२५ ॥ हिमविवर्णितचन्दनपल्लवं विरहयन्मलयाद्रिमुदङ्मुखः । विहगयोः कृपयेव शनैर्ययौ रविरहर्विरहध्रुवभेदयोः ॥ ९.२५* ॥ कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् । इति यथाक्रममाविरभून्मधुर्द्रुमवतीमवतीर्य वनस्थलीम् ॥ ९.२६ ॥ सुरभिसंगमजं वनमालया नवपलाशमधार्यत भङ्गुरम् । रमणदत्तमिवार्द्रनखक्षतं प्रमदया मदयापितलज्जया ॥ ९.२६* ॥ उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके । प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥ ९.२७ ॥ परभृता मदनक्षतचेतसां प्रियसखी लघुवागिव योषिताम् । प्रियतमानकरोत्कलहान्तरे मृदुरवा दुरवापसमागमान् ॥ ९.२७* ॥ व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलम् । न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान् हिमम् ॥ ९.२८ ॥ विशदचन्द्रकरं सुखमारुतं कुसुमितद्रुममुन्मदकोकिलम् । तदुपभोगरसं हिमवर्षिणः परमृतोर्विरलं कृतवान् हिमम् ॥ ९.२८* ॥ अभिनयान् परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा । अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ॥ ९.२९ ॥ नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियमर्थिनः । अभिययुः सरसो मधुसंभृतां कमलिनीमलिनीरपत्रिणः ॥ ९.३० ॥ दशनचन्द्रिकया व्यभासितं हसितमासवगन्धि मधोरिव । बकुलपुष्पमसेव्यत षट्पदैः शुचिरसं चिरसंचितमीप्सुभिः ॥ ९.३०* ॥ कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम् । किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥ ९.३१ ॥ विरचिता मधुनोपवन्श्रियामभिनवा इव पत्त्रविशेषकाः । मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः ॥ ९.३२ ॥ सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः । मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः ॥ ९.३३ ॥ सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः । इति दयात इवाभवदायता न रजनी रजनीशवती मधौ ॥ ९.३३* ॥ प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः । सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥ ९.३४ ॥ श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः । उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः ॥ ९.३५ ॥ ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् । पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥ ९.३६ ॥ तिलकमस्तकहर्म्यकृतास्पदैः कुसुममध्वनुषङ्गसुगन्धिभिः । कलमगीयत भृङ्गविलासिनां स्मरयुतैरयुतैरबलासखैः ॥ ९.३६* ॥ शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः । विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः ॥ ९.३७ ॥ लघयति स्म न पत्यपराधजं न सहकारतरुस्तरुणीधृतम् । कुसुमितो नमितोऽलिभिरुन्मदैः स्मरसमाधिसमाधिकरोषितम् ॥ ९.३७* ॥ उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः । सदृशमिष्टसमागमनिर्वृतिं वनितयाऽनितया रजनीवधूः ॥ ९.३८ ॥ अपतुषारतया विशदप्रभैः सुरतराग परिश्रमनोदिभिः । कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोजितकेतनम् ॥ ९.३९ ॥ हुतहुताशनदीप्ति वन्श्रियः प्रतिनिधिः कनकाभरणस्य यत् । युवतयः कुसुमं दधुराहितं तद्(?) अलके दलकेसरपेशलम् ॥ ९.४० ॥ अलिभिरञ्जनबिन्दुमओहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः । न खलु शोबहयित्स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥ ९.४१ ॥ अमदयन्मद्घुगन्धसनाथया किसलयाधरसंगतया मनः । कुसुमसंभ्ट्तया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ ९.४२ ॥ अनलसान्यभृताऽनलसान्मनः कमलधूलिभृता मरुतेरिता । कुसुमभारनताध्वगयोषितामसमशोकमशोकलताऽकरोत् ॥ ९.४२* ॥ अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः । परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः ॥ ९.४३ ॥ उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी । सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजाऽलकजालकमौक्तिकैः ॥ ९.४४ ॥ ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः । कुसुमकेसररेणुमलिव्रजाः सपवनोपवनोत्थितमन्वयुः ॥ ९.४५ ॥ अनुभवन्नवदोलमृतूत्सवं पटुर्पै प्रियकण्ठजिगृक्षया । अनयदासनरज्जुपरिग्रहे भुजलतां जडतामबलाजनः ॥ ९.४६ ॥ त्यजत मानमलं बत बिग्रहैर्न पुनरेति गतं चतुरं वयः । परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ ९.४७ ॥ अथ यथासुखमार्तवमुत्सवं समनुभूय विलासवतीसखः । नरपतिश्चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः ॥ ९.४८ ॥ परिचयं चलक्ष्यनिपातने भयरुषोश्च तदिङ्गितबोधनम् । श्रमजयात्प्रगुणां च करोत्यसौ तनुमतोऽनुमतः सचिवैर्ययौ ॥ ९.४९ ॥ मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः । गगनमश्वखुरोद्धुत रेणुभिर्नृसविता सवितानमिवाकरोत् ॥ ९.५० ॥ ग्रथितमौलिरसौ वनमालया तरु पलाशसवर्णतनुच्छदः । तुरगवल्गनचण्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ॥ ९.५१ ॥ तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः । ददृषुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम् ॥ ९.५२ ॥ श्वगण्वागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः । स्थिरतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनम् ॥ ९.५३ ॥ अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् । धनुर्रधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी ॥ ९.५४ ॥ तस्य स्तनप्रणयिभिर्मुहुरेणशावैर्व्याहन्यमानहरिणीगमनं पुरस्तात् । आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्नसारम् ॥ ९.५५ ॥ तत्प्रार्थितं जवन्वाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति । श्यामीचकार वनमाकुलदृश्टिपातैर्वतेरितोत्पलदलप्रकरैरिवाम्भः ॥ ९.५६ ॥ लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् । आकर्णकृष्टमपि कामितया स धन्वी बाणं कृपामृधुमनाः प्रतिसंजहार ॥ ९.५७ ॥ तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः । त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि ॥ ९.५८ ॥ उत्तस्थुषः शिशिरपल्वलपङ्कमध्यान्मुस्ताप्ररोहकवलावयवानुकीर्णम् । जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ॥ ९.५९ ॥ तं वाहनादवनतोत्तरकायमीषद्विध्यन्तमुद्धतसटाः प्रतिहन्तुमीषुः । नात्मानमस्य विविदुः सहसा वराहा वृकेषु विद्धमिषुभिर्जघनाश्रयेषु ॥ ९.६० ॥ तेनाभिघातरभसस्य विकृष्य पत्त्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः । निर्भिद्य विग्रहमशोणितलिप्तपुङ्खस्तं पातयां प्रथममास पपात पश्चात् ॥ ९.६१ ॥ प्रायो विषाणपरिमोषलघूत्तमाङ्गान् खड्गांश्चकार नृपतिर्निशितैः क्षुरप्रैः । शृण्गं स दृप्तविनयाधिकृतः परेषामभ्युच्छ्रितं न ममृषे न तु दीर्घमायुः ॥ ९.६२ ॥ व्याघ्रानभीरभिमुखोपतितान् गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान् । शिक्षाविशेषलघुहस्ततया निमेषात्तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥ ९.६३ ॥ निर्घातोग्रैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान् । नूनं तेषामभ्यसूयापरोऽभूद्वीर्योदग्रे राजशब्दे मृगेषु ॥ ९.६४ ॥ तान् हत्वा गजकुलबद्धतीव्रवैरान् काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् । आत्मानं रणकृतकर्मणां गजानामानृण्यं गतमिव मार्गणैरमंस्त ॥ ९.६५ ॥ तान् हत्वा गजकुलबद्धतीव्रवैरान् काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् । आत्मानं रणकृतकर्मणां गजानामानृण्यं गतमिव मार्गणैरमंस्त ॥ ९.६५ ॥ चमरान् परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी । नृपतीनिव तान् वियोज्य सद्यः सितवालव्यजनैर्जगाम शान्तिम् ॥ ९.६६ ॥ अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यी चकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥ ९.६७ ॥ तस्य कर्कशविहार्संभवं स्वेदमाननविलग्नजालकम् । आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः ॥ ९.६८ ॥ इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं नराधिपम् । परिवृद्धरागमनुभन्धसेवया मृगया जहार चतुरेव कामिनी ॥ ९.६९ ॥ स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् । नरपतिरतिवाहयां बभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥ ९.७० ॥ उषसि स गजयूथकर्णतालैः पटुपटधवनिभिर्विनीतनिद्रः । अरमत मधुराणि तत्र शृण्वन् विहगविकूजितबन्दिमङ्गलानि ॥ ९.७१ ॥ अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः । श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरंगमेण ॥ ९.७२ ॥ कुम्भपूरणभवः पटुरुच्चैरुच्चचार नन्दोऽम्भसि तस्याः । तत्र स द्विरदबृंहितशङ्की शब्दपातिनमिषुं विससर्ज ॥ ९.७३ ॥ नृपतेः प्रतिषिद्धमेव तत्कृतवान् पङ्क्तिरथो विलङ्घ्य यत् । अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥ ९.७४ ॥ हा तातेति क्रन्दितमाकर्ण्य विषण्णस्तस्यान्विष्यन् वेतसगूढं प्रभवं सः । शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं तापादन्तःशल्य इवासीत्क्शितिपोऽपि ॥ ९.७५ ॥ तेनावतीर्य तुरगात्प्रथितान्ग्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः । तस्मै द्विजेतरतपस्विसुतं स्खलद्भिरात्मानमक्षरपदैः कथयां बभूव ॥ ९.७६ ॥ तच्चोदितः च तमनुद्ध्रृतशल्यमेव पित्रोः सकाशमवसन्नदृशोर्निनाय । ताभ्यां तथागतमुपेत्य तमेकपुत्रमज्ञानतः स्वचरितं नृपतिः शशंस ॥ ९.७७ ॥ तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा शल्यं निखातमुदहारयतामुरस्तः । सोऽभूत्परासुरथ भूमिपतिं शशाप हस्तार्पितैर्नयन्वारिभिरेव वृद्धः ॥ ९.७८ ॥ दिष्टान्तमाप्स्यति भवानपि पुत्रशोकादन्ते वयस्यहमिवेति तमुक्तवन्तम् । आक्रान्तपूर्वमिव मुक्तविषं भुजंगं प्रोवाच कोसलपतिः प्रथमापराद्धः ॥ ९.७९ ॥ शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयम् । कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति ॥ ९.८० ॥ इत्थं गते गतघृणः किमयं विधत्तां वध्यस्तवेत्यभितिते वसुधाधिपेन । एधान् हुताशनवतः स मुनिर्ययाचे पुत्रं परासुमनुगन्तुमनाः सदारः ॥ ९.८१ ॥ प्रातानुगः सपदि शासनमस्य राजा संपाद्य पातकविलुप्तधृतिर्निवृत्तः । अन्तर्निविष्टपदमात्मविनाशहेतुं शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः ॥ ९.८२ ॥ तदर्थमर्थज्ञगते गतत्रपः किमेष ते वध्यजनोऽनुसिष्ठतु । स वह्निसंस्कारमयाचतात्मनः सदारसूनोर्विदधे च तन्नृपः ॥ ९.८२ ॥ समेयिवान् रघुवृषभः स्वसैनिकैः स्वमन्दिरं शिथिलधृतिर्निवर्तितः । मनोगतं गुरुमृषिशापमुद्वहन् क्षयानलं जलधिरिवान्तकास्पदम् ॥ ९.८२ ॥ _______________________________________________________________________________ पृथिवीं शासतस्तस्य पाकशासनतेजसः । किंचिदूनमनूनर्द्धेः शरदामयुतं ययौ ॥ १०.१ ॥ न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् । सुताभिधानं स ज्योतिः शरदामयुतं ययौ ॥ १०.२ ॥ मनोर्वंशश्चिरं तस्मिन्ननभिव्यक्तसंततिः । निमज्ज्य पुनरुत्थास्यन्नदः शोण इवाभवत् ॥ १०.२* ॥ अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः । प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः ॥ १०.३ ॥ ऋष्यशृङ्गादयस्तस्य सन्तः संतानकाङ्क्षिणः । आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः ॥ १०.४ ॥ तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम् । अभिजग्मुर्निदाघार्ताश्छायावृक्षमिवाध्वगाः ॥ १०.५ ॥ ते च प्रापुरुदन्वतं बुबुधे चादिपूरुषः । अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥ १०.६ ॥ भोगिभोगादनासीनं ददृशुस्तं दिवौकसः । तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम् ॥ १०.७ ॥ श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले । अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे ॥ १०.८ ॥ प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् । दिवसं शारदमिव प्रारम्भसुखदर्शनम् ॥ १०.९ ॥ प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् । कौत्सुभाख्यमपां सारं बिभ्राणं बृहतोरसा ॥ १०.१० ॥ बाहुभिर्विटपाकारैर्दिव्याभरणभूषितैः । आविर्भूतमपां मध्ये पारिजातमिवापरम् ॥ १०.११ ॥ दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः । हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम् ॥ १०.१२ ॥ मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा । उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता ॥ १०.१३ ॥ योगनिद्रान्तविशदैः पावनैरवलोकनैः । भृग्वादीननुगृह्णन्तं सौख शायनिकानृषीन् ॥ १०.१४ ॥ प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् । अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम् ॥ १०.१५ ॥ नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते । अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥ १०.१६ ॥ रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते । देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः ॥ १०.१७ ॥ अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः । अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ॥ १०.१८ ॥ एकः कारणतस्तां तामवस्थां प्रतिपद्यसे । नानात्वं रागसंयोगात्स्फटिकस्य्ऽएव ते स्मृतम् ॥ १०.१९ ॥ हृदयस्थमनासन्नमकामं त्वां तपस्विनम् । दयालुमनघस्पृष्टं पुराणमजरं विदुः ॥ १०.२० ॥ सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः । सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥ १०.२१ ॥ सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् । सप्तार्चिर्मुखमाचख्युः सप्तलोकैकसंश्रयम् ॥ १०.२२ ॥ चतुर्वर्गफलं ज्ञानं कालावस्था चतुर्युगा । चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखात् ॥ १०.२३ ॥ अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् । ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये ॥ १०.२४ ॥ अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । स्वपतो जागरूकस्य याथात्म्यं वेद कस्तव ॥ १०.२५ ॥ शब्दादीन् विषयान् भोक्तुं चरितुं दुश्चरं तपः । पर्याप्तोऽसि प्रजाः पातुमौदासीन्येन वर्तितुम् ॥ १०.२६ ॥ बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः । त्वय्येव निपतन्त्योघा जाह्नवीया इवार्णवे ॥ १०.२७ ॥ त्वय्यावेशितचित्तानां त्वत्समर्पितकर्मणाम् । गतिस्त्वं वीतरागाणामभूयःसंनिवृत्तये ॥ १०.२८ ॥ प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव । आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥ १०.२९ ॥ केवलं स्मरणेनैव पुनासि पुरुषं यतः । अनेन वृत्तयः शेषा निवेदितफलास्त्वयि ॥ १०.३० ॥ उदधेरिव रत्नानि तेजांसीव विवस्वतः । स्तुतिभ्यो व्यतिरिच्यन्ते दूरेण चरितानि ते ॥ १०.३१ ॥ अनवाप्तमवाप्तव्यं न ते किंचन विद्यते । लोकानुग्रह एवैको हेतुस्ते जन्मकरमणोः ॥ १०.३२ ॥ महिमानं यदुत्कीर्त्य तव संह्रियते वचः । श्रमेण तदशक्त्या वा न गुणानामियत्तया ॥ १०.३३ ॥ इति प्रसादयामासुस्तव संह्रियते वचः । भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥ १०.३४ ॥ तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः । भयमप्रलयोद्वेलादाचख्युर्नैरृतोदधेः ॥ १०.३५ ॥ अथ वेलासमासन्नशैलरन्ध्रानुनादिना । स्वरेणोवाच भगवान् परिभूतार्णवध्वनिः ॥ १०.३६ ॥ पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता । बभूव कृतसंस्कारा चरितार्थैव भारती ॥ १०.३७ ॥ बभौ स दशनज्योत्स्ना सा विभोर्वदनोद्गता । निर्यातशेषा चरणाद्गङ्गेवोर्ध्वप्रवर्तिनी ॥ १०.३८ ॥ जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ । अङ्गिनां तमसेवोभौ गुणौ प्रथ्ममध्यमौ ॥ १०.३९ ॥ विदितं तप्यमानं च तेन मे भुवन्त्रयम् । अकामोपनतेनेव साधोर्हृदयमेनसा ॥ १०.४० ॥ कार्येषु चैककार्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा । स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते ॥ १०.४१ ॥ स्वासिधारापरिहृतः कामं चक्रस्य तेन मे । स्थापितो दशमो मूर्धा लव्यांश इव रक्षसा ॥ १०.४२ ॥ स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः । अत्यारूढं रिपोः सोढं चन्दनेव भोगिनः ॥ १०.४३ ॥ धातारं तपसा प्रीतं ययाचे स हि राक्षसः । दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः ॥ १०.४४ ॥ सोऽहं दाशरथिर्भूत्वा रणभूमेर्बलिक्षमम् । करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयम् ॥ १०.४५ ॥ अचिराद्वज्वभिर्भागं कल्पितं विधिवत्पुनः । मायाविभिरनालीढमादास्यध्वे मिशाचरैः ॥ १०.४६ ॥ वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि । पुष्पकालोकसंक्षोभं मेघावरणतत्पराः ॥ १०.४७ ॥ मोष्यध्वे स्वर्गबन्दीनां वेणीबन्धानदूषितान् । शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ॥ १०.४८ ॥ रावणावग्रहक्लान्तमिति वागमृतेन सः । अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे ॥ १०.४९ ॥ पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः । अंशैरनुययुर्विष्णुं पुष्पैर्वायुमिव द्रुमाः ॥ १०.५० ॥ अथ तस्य विशांपत्युरन्ते काम्यस्य कर्मणः । पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजाम् ॥ १०.५१ ॥ हेमपात्रगतं दोर्भ्यामादधानः पयश्चरुम् । अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम् ॥ १०.५२ ॥ प्राजापत्योपनीतं तद्(?) अन्नं प्रत्यग्रहीन्नृपः । वृषेव पयसां सारमाविष्कृतमुदन्वता ॥ १०.५३ ॥ अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः । प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यत् ॥ १०.५४ ॥ स तेजो वैश्नवं पत्न्योर्विभेजे चरुसंज्ञितम् । द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम् ॥ १०.५५ ॥ अर्चिता तस्य कौसल्या प्रिया केकयवंशजा । अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः ॥ १०.५६ ॥ ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीषितः । चरोरर्धार्धभागाभ्यां तामयोजयतामुभे ॥ १०.५७ ॥ सापि प्रणयवत्यासीत्सपत्न्योरुभयोरपि । भ्रमरी वारणस्येव मदनिस्यन्दलेखयोः ॥ १०.५८ ॥ ताभिर्गर्भः प्रजाभूत्यै दध्रे देवांशसम्भवः । सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः ॥ १०.५९ ॥ सममापन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः । अन्तर्गतफलारम्भाः सस्यानामिव संपदः ॥ १०.६० ॥ गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः । जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः ॥ १०.६१ ॥ हेमपक्षप्रभाजालं गगने च वितन्वता । उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा ॥ १०.६२ ॥ बिभ्रत्या कौस्तुभं न्यासं स्तनान्तरविलम्बिनम् । पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया ॥ १०.६३ ॥ कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः । ब्रह्म र्षिभिः परं ब्रह्म गृणध्बिरुपतस्थिरे ॥ १०.६४ ॥ ताभ्यस्तथाविधान् स्वप्नाञ्छ्रुत्वा प्रीतो हि पार्थिवः । मेने परार्ध्यमात्मानं गुरुत्वेन जग्द्गुरोः ॥ १०.६५ ॥ विभक्तात्मा विभुस्तासामेकः कुषिष्वनेकधा । उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव ॥ १०.६६ ॥ अथाग्रमहिषी राज्ञः प्रसूतिसमये सती । पुत्रं तमोऽपहं लेभे नक्तं ज्योतिरिवौषधिः ॥ १०.६७ ॥ राम इत्यभिरामेण तेनाप्रतिम तेजसा । नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥ १०.६८ ॥ रघुवंशप्रदीपेन तेनाप्रतिम तेजसा । रक्षागृहगता दीपाः प्रत्यादिष्ट इवाभवन् ॥ १०.६९ ॥ शय्यागतेन रामेण माता शातोदरी बभौ । सैकताम्भोजबलिना जाह्नवीव शरत्कृशा ॥ १०.७० ॥ कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् । जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम् ॥ १०.७१ ॥ सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ । सम्यगागमिता विद्या प्रबोधविनयाविव ॥ १०.७२ ॥ निर्दोषमभवत्सर्वमाविष्कृतगुणं जगत् । अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमम् ॥ १०.७३ ॥ तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः । विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव ॥ १०.७४ ॥ कृशानुरपधूमत्वात्प्रसन्नत्वात्प्रभाकरः । रक्षिविप्रकृतावास्तामपविद्धशुचाविव ॥ १०.७५ ॥ दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः । मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः ॥ १०.७६ ॥ पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः । आरम्भं प्रथमं चक्रुर्देवधुन्दुभयो दिवि ॥ १०.७७ ॥ संतानकमयी वृष्टिर्भवने चास्य पेतुषी । समङ्गलोपचाराणां सैवादिरचनाभवत् ॥ १०.७८ ॥ कुमाराः कृतसंस्कारास्ते धात्रिस्तन्य पायिनः । आनन्देनाग्रजेनेव समं ववृधिरे पितुः ॥ १०.७९ ॥ स्वाभाविकं विनीतत्वं तेषं विनयकर्मणा । मुमूर्छ सहजं तेजो हविषेव हविर्भुजाम् ॥ १०.८० ॥ परस्पराविरुद्धास्ते तद्रघोरनघं कुलम् । अलमुद्द्योतयामासुर्देवारण्यमिवर्तवः ॥ १०.८१ ॥ समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ । तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ॥ १०.८२ ॥ तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन । यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः ॥ १०.८३ ॥ ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च । मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव ॥ १०.८४ ॥ स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः । धर्मार्थकाममोक्षाणामवतार इवाङ्गभाक् ॥ १०.८५ ॥ गुणैराराधयामासुस्ते गुरुं गुरुवत्सलाः । तमेव चतुर्नतेशं रत्नैरिव महार्णवाः ॥ १०.८६ ॥ सुरगज इव दन्तैर्भग्नदैत्यासिधारैर्नय इव पणबन्धव्यक्तयोगैरुपायैः । हरिरिव युगदीर्घैर्दोर्भिरंषैस्तदीयैः पतिरवनिपतीनां तैश्चकाशे ॥ १०.८७ ॥ _______________________________________________________________________________ कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये । काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥ ११.१ ॥ कृच्छ्रलब्धमपि लब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणम् । अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥ ११.२ ॥ यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसत्क्रियाम् । तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः ॥ ११.३ ॥ तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः । भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः ॥ ११.४ ॥ तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ । धन्विनौ तमृषिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥ ११.५ ॥ लक्ष्मणानुचरमेव राघवं नेतुमैच्छदृषिरित्यसौ नृपः । आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥ ११.६ ॥ रेजतुश्च सुतरां महौजसः कौशिकस्य पदवीमनुद्रुतौ । उत्तरां प्रति दिशं विवस्वतः प्रस्थितस्य मधुमाधवाविव ॥ ११.६* ॥ मातृवर्गचरणस्पृषौ मुनेस्तौ प्रपद्य पदवीं महौजसः । रेजतुर्गतिवशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव ॥ ११.७ ॥ वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलमप्यशोभत । तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितम् ॥ ११.८ ॥ तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः । मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविव ॥ ११.९ ॥ पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः । उह्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ॥ ११.१० ॥ तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः । वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे ॥ ११.११ ॥ नाम्भसां कमलशोभिनां तथा शाखिनां न च परिश्रमच्छिदाम् । दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥ ११.१२ ॥ स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः । विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥ ११.१३ ॥ तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि । निन्यतुः स्थलनिवेशितातटनी लीलयैव धनुषी अधिज्यताम् ॥ ११.१४ ॥ ज्यानिनिआदमथ गृह्णती तयोः प्रादुरास बहूलक्षपा छविः । ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥ ११.१५ ॥ तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया । अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया ॥ ११.१६ ॥ उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् । तां विलोक्य वनितावधे घृणां पत्त्रिणा सह मुमोच राघवः ॥ ११.१७ ॥ यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः । अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥ ११.१८ ॥ बाणभिन्नहृदया निपेतुषी सा स्वकानभुवं न केवलाम् । विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥ ११.१९ ॥ राममन्मथशरेण ताडिता दुःसहेन दृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ ११.२० ॥ नैरृतघ्नमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात् । ज्योतिरिन्धनैपाति भास्करात्सूर्यकान्त इव ताडकान्तकः ॥ ११.२१ ॥ वामनाश्रमपदं ततः परं पावनं श्रुअमृषेरुपेयिवान् । उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः ॥ ११.२२ ॥ आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणम् । बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुख मृगं तपोवनम् ॥ ११.२३ ॥ तत्र दीक्षितमृषिं रकषतुर्विघ्नतो दशरथात्मजौ शरैः । लोकमन्धतमसात्क्रमोदितौ रशामिभिः शशिदिवाकराविव ॥ ११.२४ ॥ वीक्ष्य वेदिमथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम् । संभ्रमोऽभवदपोढकर्मणामृत्विजां च्युतविकङ्कतस्रुचाम् ॥ ११.२५ ॥ उन्मुखः सपदि लक्ष्मणाग्रजो बाणमाश्रयमुखात्समुद्धरन् । रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ॥ ११.२६ ॥ तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नेतरान् । किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ॥ ११.२७ ॥ सोऽस्त्रमुग्रजवमस्त्रकोविदः संदधे धनुषि वायुदैवतम् । तेन शैलगुरुमप्यपातयत्पाण्डुपत्त्रमिव ताडकासुतम् ॥ ११.२८ ॥ यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया । तं क्षुरप्रशकलीकृतां कृती पत्त्रिणां व्यभजदाश्रमाद्बहिः ॥ ११.२९ ॥ इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम् । ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन् क्रियाः ॥ ११.३० ॥ तौ प्रणामचलकाकपक्षकौ भ्रातरावभृथाप्लुतो मुनिः । आशिषामनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना ॥ ११.३१ ॥ तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिघिलां व्रजन् वशी । राघवावपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलम् ॥ ११.३२ ॥ तैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतरुष्वगृह्यत । येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥ ११.३३ ॥ प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शिलामयी । स्वं वपुः स किल किलिबिषच्छिदां रामपादरजसामनुग्रहः ॥ ११.३४ ॥ राघवान्वितमुपस्थितं मुनिं तं निशम्य जनको जनेश्वरः । अर्थकामसहितं सपर्यया देहबद्धमिव धर्ममभ्यगात् ॥ ११.३५ ॥ तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू । मन्यते स्म पिबतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः ॥ ११.३६ ॥ यूपवत्यवसिते किर्याविधौ कालवित्कुशिकवंशवर्धनः । राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयां ब्वभूव सः ॥ ११.३७ ॥ तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः । स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहिट्शुल्कसंस्थया ॥ ११.३८ ॥ अब्रवीच्च भगवन्मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करम् । तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥ ११.३९ ॥ ह्रेपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भृतः । ज्यानिघातकठिनत्वचो भुजान् स्वान् विधूय धिगिति प्रतस्थिरे ॥ ११.४० ॥ प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयमथ वा कृतं गिरा । चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ॥ ११.४१ ॥ एवमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे । श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ॥ ११.४२ ॥ व्यादिदेश गणः सपार्श्वगान् कर्मुकाभरणाय मैथिलः । तैजसय धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः ॥ ११.४३ ॥ तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः । विद्रुतक्रतुमृगानौसारिणं येन बाणमसृजद्वृषध्वजः ॥ ११.४४ ॥ आततज्यमकरोत्स संसदा विस्मयस्तिमितनेत्रमीक्षितः । शैलसारमपि नातियत्नतः पुष्पचापमिव पेशलं स्मरः ॥ ११.४५ ॥ भज्यमानमतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः । भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमिति न्यवेदयत् ॥ ११.४६ ॥ दृष्टसारमथ रुद्रकार्मुके वीर्यशुल्कमभिनन्द्य मैथिलः । राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत् ॥ ११.४७ ॥ मैथिलः सपदि सत्यसंगरो राघवाय तनयामयोनिजां । संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान् ॥ ११.४८ ॥ प्राहिणोच्च महितं महाद्युतिः कोसलाधिपतये पुरोधसम् । भृत्यभावि दुहितुः परिग्रहाद्दिश्यतां कुलमिदं निमेरिति ॥ ११.४९ ॥ उत्सुकश्च सुतदारकर्मणा सोऽभवद्गुरुरुपागतश्च तम् । गौतमस्य तनयोऽनुकूलवाक्प्रार्थितं हि सुकृतामकालहृत् ॥ ११.४९* ॥ अन्वियेष सदृशीं स च स्नुषां प्राप चैनमनुकूलवाग्द्विजः । सद्य एव सुकृतां हि पच्यते कल्पवृक्षफल धर्मि काङ्क्षितम् ॥ ११.५० ॥ तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान् वचनमग्रजन्मनः । उच्चचाल वलभितसखो वशी सैन्यरेणुमुषितार्कदीधितिः ॥ ११.५१ ॥ आससाद मिथिलां स वेष्टयन् पिडितोपवनपादपां बलैः । प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ॥ ११.५२ ॥ तौ समेत्य समयस्थितावुभौ भूपती वरुणवासवोपमौ । कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥ ११.५३ ॥ पार्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् । यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥ ११.५४ ॥ ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः । सामदानविधिभेदविग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥ ११.५५ ॥ ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन् कृतार्थताम् । सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोग्संनिभः ॥ ११.५६ ॥ एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः । अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥ ११.५७ ॥ तस्य जातु मरुतः प्रतीपगा वर्त्मसु धव्जतरुप्रमाथिनः । चिक्लिशुर्भृशतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् ॥ ११.५८ ॥ लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपैर्वेषमण्डलः । वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥ ११.५९ ॥ श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः । अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥ ११.६० ॥ भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववाशिरे । क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः ॥ ११.६१ ॥ तत्प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यवित् । अन्वयुङ्क्त गुरुमीश्वरः क्षितेः स्वन्तमित्यलघयत्स तद्व्यथाम् ॥ ११.६२ ॥ तेजसः सपदि राशिरुत्थितः प्रादुरास किल वाहिनीमुखे । यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिरात् ॥ ११.६३ ॥ पित्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् । यः ससोम इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः ॥ ११.६४ ॥ येन रोषपरुषात्मनः पितुः शासने स्थिभिदोऽपि तस्थुषा । वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो मही ॥ ११.६५ ॥ अक्षभीजवलयेन निबभौ दक्षिणश्रवणसंस्थितेन यः । क्षत्रियान्तकरणैकविंशतेर्व्याजपूर्वगणनामिवोद्वहन् ॥ ११.६६ ॥ तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् । बालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः ॥ ११.६७ ॥ रामनाम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे । हृद्यमस्य भयदायि चाभवद्रत्नजातमिव हारसर्पयोः ॥ ११.६८ ॥ अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः । क्षत्रकोपदहनार्चिषं ततः संदधे दृशमुदग्रतारकाम् ॥ ११.६९ ॥ तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः । अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥ ११.७० ॥ क्षत्रजातमपकारि वैरि मे तन्निहत्य बहुशः शमं गतः । सुप्तसर्प इव दण्डघट्टनाद्रोषितोऽस्मि तव विक्रमश्रवात् ॥ ११.७१ ॥ मैथिलस्य धनुरन्यपार्थिवैस्त्वं किलानमितपूर्वमक्षणोः । तन्निशम्य बहवता समर्थये वीर्यशृङ्गमिव भग्नमात्मनः ॥ ११.७२ ॥ अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मामगात् । व्रीडमावहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि ॥ ११.७३ ॥ बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ मतौ मम रिपू समागसौ । होमधेनुहरणाच्च हैहयस्त्वं च इर्तिमपहर्तुमुद्यतः ॥ ११.७४ ॥ क्षत्रियान्तकरणोऽपि विक्रमस्तेन मामवति नाजिते त्वयि । पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः ॥ ११.७५ ॥ विद्धि चात्तबलमोजसा हरेरैश्वरं धनुरभाजि यत्त्वया । खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम् ॥ ११.७६ ॥ तन्मदीयमिदमायुधं ज्यया संगमय्य सशरं विकृष्यताम् । तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥ ११.७७ ॥ कातरोऽसि यदि वोद्गतार्चिषा तर्जितः परशुधारया मम । ज्यानिघातकठिनाङ्गुलिर्वृथा बध्यतामभययाचनाञ्जलिः ॥ ११.७८ ॥ एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः । तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् ॥ ११.७९ ॥ पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवत् । केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः ॥ ११.८० ॥ तेन भूमिनिहितैककोटि तत्कार्मुकं च बलिनाधिरोपितम् । निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः ॥ ११.८१ ॥ तावुभावपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ । पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव ॥ ११.८२ ॥ तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि । स्वं च संहितममोघमाशुगं व्याजहार हरसूनसंनिभः ॥ ११.८३ ॥ न प्रहर्तुमलमस्मि निदयं विप्र इत्यभिभवत्यपि त्वयि । शंष किं गतिमनेन पत्त्रिणा हन्मि लोकमुत ते मखार्जितम् ॥ ११.८४ ॥ प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनम् । गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा ॥ ११.८५ ॥ भस्मसात्कृतवतः पितृद्विषः पात्रसाच्च वसुधां ससागराम् । आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥ ११.८६ ॥ तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे । पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपम् ॥ ११.८७ ॥ प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकम् । भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः ॥ ११.८८ ॥ राघवोऽपि चरणौ तपोनिधेः क्षम्यतामिति वदन् समस्पृषत् । निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥ ११.८९ ॥ राजसत्वमवधूय मातृकं पित्र्यमस्मि गमितः शमं यदा । नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययमनुग्रहीकृतः ॥ ११.९० ॥ साधु याम्यहमविघ्नमस्तु ते देवकार्यमुपपादयिष्यतः । ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजमृषिस्तिरोदधे ॥ ११.९१ ॥ स्वं निवेश्य किल धाम राघवे वैष्णवं विदितविष्णुतेजसि । स्वस्तिदानमधिकृत्य चाक्षयं भार्गवोऽथ निजमाश्रमं ययौ ॥ ११.९१* ॥ तस्मिन् गते विजयिनं परिरभ्य रामं स्नेहादमन्यत पिता पुनरेव जातम् । तस्याभवत्क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टिपातः ॥ ११.९२ ॥ अथ पथि गमयित्वा कॢपरम्योपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्पह् । पुरमविशदयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥ ११.९३ ॥ _______________________________________________________________________________ निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् । आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि ॥ १२.१ ॥ तं कर्णमूलमागत्य रामे श्रीर्नस्यतामिति । कैकेयीशङ्कयेवाह पलितच्छद्मना जरा ॥ १२.२ ॥ सा पौरान् पौरकान्तस्य रामस्याभ्युदयश्रुतिः । प्रत्येकं ह्लादयां चक्रे कुल्येवोद्यानपादपान् ॥ १२.३ ॥ तस्याभिषेकसंभारं कल्पितं क्रूरनिश्चया । दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः ॥ १२.४ ॥ सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ । उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ ॥ १२.५ ॥ तयोश्चतुर्दशैकेन रामं प्राव्राजयत्समाः । द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियम् ॥ १२.६ ॥ पित्रा दत्तां रुदन् रामः प्राङ्महीं प्रत्यपद्यत । पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत् ॥ १२.७ ॥ दधतो मङ्गलक्षौमे वसानस्य च वल्कले । ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः ॥ १२.८ ॥ स सीतालक्ष्मणसखः सत्याद्गुरुमलोपयन् । विवेश दण्डकारण्यं प्रत्येकं च सतां मनः ॥ १२.९ ॥ राजापि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजम् । शरीरत्यागमात्रेण शुद्धिलाभममन्यत ॥ १२.१० ॥ विप्रोषितकुमारं तद्(?) राज्यमस्तमितेश्वरम् । रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ ॥ १२.११ ॥ अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् । मौलैरानाययामासुर्भर्तं स्तम्भिताश्रुभिः ॥ १२.१२ ॥ श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः । मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः ॥ १२.१३ ॥ ससैन्यश्चान्वगाद्रामं दर्शितानाश्रमालयैः । तस्य पश्यन् ससौमित्रेरुदश्रुर्वसतिद्रुमान् ॥ १२.१४ ॥ चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः । लक्ष्म्या निमन्त्रयां चक्रे तमनुच्छिष्टसंपदा ॥ १२.१५ ॥ स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे । परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः ॥ १२.१६ ॥ तमशक्यमपाक्रष्टुं निर्देशात्स्वर्गिणः पितुः । ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते ॥ १२.१७ ॥ स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीम् । नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक् ॥ १२.१८ ॥ दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः । मातुः पापस्य शुद्ध्यर्थं प्रायश्चित्तमिवाकरोत् ॥ १२.१९ ॥ रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् । चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा ॥ १२.२० ॥ प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम् । कदाचिदङ्के सीतायाः शिश्ये किंचिदिव श्रमात् ॥ १२.२१ ॥ ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः । प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् ॥ १२.२२ ॥ मृगमांसं ततः सीतां रक्षन्तीमातपे धृतम् । पक्षतुण्डनखाघातैर्बबाधे वायसो बलात् ॥ १२.२२* ॥ तस्मिन्नास्थदिषीकास्त्रं रामो रामावभोधितः । आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः ॥ १२.२३ ॥ रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः । आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ ॥ १२.२४ ॥ प्रययावातिथेयेषु वसन्नृषिकुलेषु सः । दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः ॥ १२.२५ ॥ बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता । प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी ॥ १२.२६ ॥ अनुसूयातिसृष्टेन पुण्यगन्धेन काननम् । सा चकाराङ्गरागेण पुष्पोच्चलित षट्पदम् ॥ १२.२७ ॥ संध्याभ्रकपिषस्तत्र विराधो नाम राक्षसः । अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥ १२.२८ ॥ स जहरा तयोर्मध्ये मैथिलीं लोकशोषणः । नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥ १२.२९ ॥ तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्ह्तलीम् । गन्धेनाशुचिना चेति वसुधायां निचख्नतुः ॥ १२.३० ॥ पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः । अनपोष्हस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव ॥ १२.३१ ॥ रावणावरजा तत्र राघवं मदनातुरा । अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम् ॥ १२.३२ ॥ सा सीतासंनिधावेव तं वव्रे कथितान्वया । अत्यारूढो हि नारीणामकालज्ञो मओभवः ॥ १२.३३ ॥ कलत्रवानहं बाले कनीयांसं भजस्व मे । इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥ १२.३४ ॥ ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिता । साभूद्रामाश्रया भूयो नदीवोभयकूलभाक् ॥ १२.३५ ॥ संरम्भं मैथिलीहासः क्षणं सौम्यां निनाय ताम् । निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः ॥ १२.३६ ॥ फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् । मृग्यः परिभवो व्याघ्र्यामित्यवेहि त्वया कृतम् ॥ १२.३७ ॥ इत्युक्त्वा मैथिलीं भर्तुरङ्के निर्विशतीं भयात् । रूपं शूर्पणखानाम्नः सदृशं प्रत्यपद्यत ॥ १२.३८ ॥ लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुभाषिणीम् । शिवाघोरस्वनां पश्चाद्बुबुधे विकृतेति ताम् ॥ १२.३९ ॥ पर्णशालामथ क्षिप्रं विधृतासिः प्रविश्य सः । वैरूप्यपौनरुक्त्येन भीषणां तामयोजयत् ॥ १२.४० ॥ सा वक्रनखधारिण्या वेणुकर्कशपर्वया । अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे ॥ १२.४१ ॥ प्राप्य चाशु जन्स्थानं खरादिभ्यस्तथाविधम् । रामोपक्रममाचख्यौ रक्षःपरिभवं नवम् ॥ १२.४२ ॥ मुखावयवलूणां तां नैरृता यत्पुरोदधुः । रामाभियायिनां तेषां तदेवाभूदमङ्गलम् ॥ १२.४३ ॥ उदायुधानापततस्तान् दृप्तान् प्रेक्ष्य राघवः । निदधे विजयाशंसां चापे सीतां च लक्ष्मणे ॥ १२.४४ ॥ एको दाशरथी रामो यातुधानाः सहस्रशः । ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः ॥ १२.४५ ॥ असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम् । न चक्षमे शुभाचारः स दूषणमिवात्मनः ॥ १२.४६ ॥ तं शरैः प्रतिजग्राह खरतिशिरसौ च सः । ख्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययुः ॥ १२.४७ ॥ तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभिः । आयुर्देहातिगैः पीतं रुधिरं तु पतत्रिभिः ॥ १२.४८ ॥ तस्मिन् रामशरोत्कृत्ते बले महति रक्षसाम् । उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किंचन ॥ १२.४९ ॥ सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् । अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥ १२.५० ॥ राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम् । तेषां शूर्पणखैवैका दुष्प्रत्वृत्तिहराभवत् ॥ १२.५१ ॥ निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः । रामेण निहतं मेने पदं दशसु मूर्धसु ॥ १२.५२ ॥ रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ । जहरा सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥ १२.५३ ॥ तौ सीतान्वेषिणौ गृध्रं लूनपक्षमपश्यताम् । प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः ॥ १२.५४ ॥ स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम् । आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः ॥ १२.५५ ॥ तयोस्रावणहृतां ताभ्यां पितृव्यापत्तिशोकयोः । पितरीवाग्निसंस्कारात्परा ववृतिरे क्रियाः ॥ १२.५६ ॥ वधनिर्धूतशापस्य कबन्धस्योपदेशतः । मुमूर्छ सख्यं रामस्य समानव्यसने हरौ ॥ १२.५७ ॥ स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते । धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् ॥ १२.५८ ॥ इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिताः । कपयश्चेरुरार्तस्य रामस्येव मनोरथाः ॥ १२.५९ ॥ प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनात् । मारुतिः सागरं तीर्णः संसारमिव निर्ममः ॥ १२.६० ॥ दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता । जानकी विषवल्लीभिः परीतेव महौषधिः ॥ १२.६१ ॥ तस्यै भर्तुरभिज्ञाममङ्गुलीयं ददौ कपिः । प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुभिन्दुभिः ॥ १२.६२ ॥ निर्वाप्य प्रियसंदेशैः सीतामक्षवधोद्धतः । स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः ॥ १२.६३ ॥ प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती । हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत् ॥ १२.६४ ॥ स प्राप हृदयन्यस्तमणिपर्शनिमीलितः । अपयोधरसंसर्गं प्रियालिङ्गननिर्वृतिम् ॥ १२.६५ ॥ श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः । महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥ १२.६६ ॥ स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः । न केवलं धरापृष्ठे व्योम्नि संबाधवर्तिभिः ॥ १२.६७ ॥ निर्विष्टमुदधेः कूले तं प्रपेदे विभीषणः । स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमादिश्य चोदितः ॥ १२.६८ ॥ तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः । काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥ १२.६९ ॥ स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि । रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः ॥ १२.७० ॥ तेनोत्तीर्य पथा लङ्कां रोधयामास पिङ्गलैः । द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः ॥ १२.७१ ॥ रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् । दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः ॥ १२.७२ ॥ पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः । अतिशस्त्रनखन्यासः शैलरुग्ण मतङ्गजः ॥ १२.७३ ॥ अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् । सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥ १२.७४ ॥ कामं जीवति मे नाथ इति सा विजहौ शुचम् । प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता ॥ १२.७५ ॥ गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः । दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत् ॥ १२.७६ ॥ ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् । रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः शुचा ॥ १२.७७ ॥ स मारुतिसमानीतमहौषधिहतव्यथः । लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः ॥ १२.७८ ॥ स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् । मेघस्येव शरत्कालो न किंचित्पर्यशेषयत् ॥ १२.७९ ॥ क्लेशेन महता निद्रां त्याजितं रणदुर्जयम् । रावणः प्रेषयामास युद्धायानुजमात्मनः ॥ १२.७९ ॥ जघान स तदादेशात्कपीनुग्राननेकशः । विवेश च पुरीं लङ्कां समादाय हरीश्वरम् ॥ १२.७९ ॥ कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः । रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥ १२.८० ॥ अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् । रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः ॥ १२.८१ ॥ इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु । रजांसि समरोत्थानि रच्छोणितनन्दीष्विव ॥ १२.८२ ॥ निर्ययावथ पौलस्थ्यः पुनर्युद्धाय मन्दिरात् । अरावणमरामं वा जगदद्येति निश्चितः ॥ १२.८३ ॥ रामं पदातिमालोक्य लङ्केषं च वरूथिनम् । हरियुग्यं रथं तस्मै पर्जिघाय पुरंदरः ॥ १२.८४ ॥ तमाधूतद्वजपटं व्योमगङ्गोर्मिवायुभिः । देवसूतभुजालम्बी जैत्रमध्यास्त राघवः ॥ १२.८५ ॥ मातलिस्तस्य माहेन्द्रमामुमोच तनुच्छदम् । यत्रोत्पलददलक्लैब्यमस्त्राण्यापुः सुरद्विषाम् ॥ १२.८६ ॥ अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् । रामरावणयोर्युद्धं चरितार्थमिवाभवत् ॥ १२.८७ ॥ भुजमूर्धोरुबाहुल्यादेकोऽपि धन्दानुजः । ददृशे सोऽयथापूर्वो मातृवंश इव स्थितः ॥ १२.८८ ॥ जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम् । रामस्तुलितकैलासमरातिं बह्वमन्यत ॥ १२.८९ ॥ तस्य स्फुरति पौलस्त्यह्सीतासंगमशंसिनि । निचखानाधिकक्रोधः शरं सव्येतरे भुजे ॥ १२.९० ॥ रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः । विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ॥ १२.९१ ॥ वचसैव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः । अन्योन्यजयसंरम्भो ववृधे वादिनोरिव ॥ १२.९२ ॥ विक्रमव्यतिहारेण अस्त्रमस्त्रेण निघ्नतोः । जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव ॥ १२.९३ ॥ कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः । परस्परं शरव्राताः पुष्पवृष्टिं न सेहिरे ॥ १२.९४ ॥ अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे । हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत् ॥ १२.९५ ॥ राघवो रथमप्राप्तां तामाशां च सुरद्विषाम् । अर्धचन्द्रमुखैर्बाणैश्चिच्छेद कदलीसुखम् ॥ १२.९६ ॥ अमोघं संदधे चास्मै धनुष्यकेअध्नुर्धरः । ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥ १२.९७ ॥ तद्व्योम्नि दशधा भिन्नं ददृशे दीप्तिमन्मुखम् । वपुर्महोरगस्येव करालफणमण्डलम् ॥ १२.९८ ॥ तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयत् । स रावणशिरःपङ्क्तिमज्ञातव्रणवेदनाम् ॥ १२.९९ ॥ बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः । रराज रक्षःकायस्य कण्ठच्छेदप्रंपरा ॥ १२.१०० ॥ मरुतां पश्यतां तस्य शिरांसि पतितान्यपि । मनो नातिविशश्वास पुनः संधानशङ्किनाम् ॥ १२.१०१ ॥ अथ मदगुरुपक्षैर्लोकपालद्विपानामनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय । उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः सुरभि सुरविमुक्तं पुष्पवर्षं पपात ॥ १२.१०२ ॥ यन्ता हरेः सपदि संहृतकार्मुकज्यमापृच्छ्य राघवमनुष्ठितदेवकार्यम् । नामाङ्करावणशराङ्कितकेतुयष्टिमूर्ध्वं रथं हरिसहस्रयुजं निनाय ॥ १२.१०३ ॥ रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः । रविसुतसहितेन तेनानुयातः ससौमित्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ॥ १२.१०४ ॥ _______________________________________________________________________________ अथामनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः । रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच ॥ १३.१ ॥ वैदेहि पश्य्ऽ आ मलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् । छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥ १३.२ ॥ गुरोर्यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे । तदर्थमुर्वीमवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः ॥ १३.३ ॥ गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्राश्नुवते वसूनि । अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥ १३.४ ॥ तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना । विष्णोरिवास्यानवधारणीयमीदृक्तया रूपमियत्तया वा ॥ १३.५ ॥ नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा । अमुं युगान्तोचितयोगन्दिरः संहृत्य लोकान् पुरुषोऽधिशेते ॥ १३.६ ॥ पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यमेनं शतशो महीध्राः । नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥ १३.७ ॥ रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः । अस्याच्छमम्भः प्रलयप्रवृद्धं मुहूर्तवक्त्रावरणं बभूव ॥ १३.८ ॥ मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरङ्गाधरदानदक्षः । अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः ॥ १३.९ ॥ ससत्त्वमादाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात् । अमी शिरोभिस्तिमयः सरन्ध्रैरूर्ध्वं वितन्वन्ति जलप्रवाहान् ॥ १३.१० ॥ मातङ्गनक्रैः सहसोत्पतद्भिर्भिन्नान् द्विधा पश्य समुद्रफेनान् । कपोलसंसर्पितया य एषां व्रजन्ति कर्ण क्षणचामरत्वम् ॥ १३.११ ॥ वेलानिलाय प्रसृता भुजंगा महोर्मिविस्फूर्जथुनिर्विशेषाः । सूर्यांशुसंपर्कसमृद्धरागैर्व्यज्यन्त एते मणिभिः फणस्थैः ॥ १३.१२ ॥ तवाधरस्परधिषु विद्रुमेषु पर्यस्तमेतत्सहसोर्मिवेगात् । ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित्क्लेशदपक्रामति शङ्खयूथम् ॥ १३.१३ ॥ प्रवृत्तमात्रेण पयांसि पातुमावर्तवेगाद्भ्रमता घनेन । आभाति भूयिष्ठमयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः ॥ १३.१४ ॥ दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला । आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्कलेखा ॥ १३.१५ ॥ वेलानिलः केतकरेणुभिस्ते संभावयत्याननमायताक्षि । मामक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥ १३.१६ ॥ एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः । प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालम् ॥ १३.१७ ॥ कुरुष्व तावत्करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्तिपातम् । एषा विदूरीभवतः समुद्रात्सकानना निष्पततीव भूमिः ॥ १३.१८ ॥ क्वचित्पथा संचरते सुराणां क्वचिद्घनानां पततां क्वचिच्च । यथाविधो मे मन्सोऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥ १३.१९ ॥ असौ महेन्द्रद्विपदानगन्धी त्रिमार्गगावीचिविमर्दशीतः । आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते ॥ १३.२० ॥ करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या । आमुञ्चतीवाभरणं द्वितीयमुद्भिन्नविद्युद्वलयो घनस्ते ॥ १३.२१ ॥ अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि । अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ॥ १३.२२ ॥ सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ १३.२३ ॥ त्वं रक्षसा भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे । अदर्शयन् वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥ १३.२४ ॥ मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥ १३.२५ ॥ एतद्गिरेर्मालयवतः पुरस्तादाविर्भवत्यम्बर्लेखि शृङ्गम् । नवं यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥ १३.२६ ॥ गन्धश्च धाराहतपल्वलानां कादम्बमर्धोद्गतकेसरं च । स्निग्धाश्च केकाः शिखिनां बभूवुर्यस्मिनसह्यानि विना त्वया मे ॥ १३.२७ ॥ पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु तवोपगूढम् । गुहाविसारीण्यतिवाहितानि मया कथंचिद्घनगर्जितानि ॥ १३.२८ ॥ आसारसिक्तक्षितिबाष्पयोगान्मामक्षिणोद्यत्र विभिन्नकोशैः । विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः ॥ १३.२९ ॥ उपान्तवानीरवनोपगूधान्यालक्ष्यपारिप्लवसारसानि । दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टिः ॥ १३.३० ॥ अत्रावियुक्तानि रथाङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि । द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये सस्पृहमीक्षितानि ॥ १३.३१ ॥ इमां तताशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिनम्राम् । त्वत्प्राप्तिबुद्ध्या परिरिप्समानः सौमित्रिणा सास्रमहं निषिद्धः ॥ १३.३२ ॥ अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम् । प्रत्युद्व्रजन्तीव खमुत्पतन्त्यो गोदावरीसारसपङ्क्तयस्त्वाम् ॥ १३.३३ ॥ एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता । आह्लादयत्युन्मुखकृष्णसारा दृष्ट चिरात्पञ्चवटी मनो मे ॥ १३.३४ ॥ अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेम विनीतखेदः । रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥ १३.३५ ॥ भ्रूभेद मात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार । तस्याविलाम्भःपरिशुद्धिहेतोर्भौमो मुनेः स्थानपरिग्रहोऽयम् ॥ १३.३६ ॥ त्रेताग्निधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्तविमानमार्गम् । घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानमात्मा ॥ १३.३७ ॥ एतन्मुनेर्मानिनि शातकर्णेः पञ्चाप्सरो नाम विहारवारि । आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ॥ १३.३८ ॥ पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोना । समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटभन्धम् ॥ १३.३९ ॥ तस्यायमन्तर्हितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः । वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिष्रुन्मुखराः करोति ॥ १३.४० ॥ हविर्भुजामेधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः । असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥ १३.४१ ॥ अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि । नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥ १३.४२ ॥ एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् । सभाजने मे भुजमूर्ध्वबाहुः सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥ १३.४३ ॥ वाचंयमत्वात्प्रणतिं ममैष कम्पेन किंचित्प्रतिगृह्य मूर्ध्नः । दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्राचिषि संनिधत्ते ॥ १३.४४ ॥ अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः । चिराय संतर्प्य समिधिरग्निं यो मन्त्रपूतां तनुमप्यहौषीत् ॥ १३.४५ ॥ छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु । तस्यातिथीनामधुना सपर्या स्थिता सुपुत्रेष्विव पादपेषु ॥ १३.४६ ॥ धारास्वनोद्गारिदरीमुखोऽसौ शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः । बध्नाति मे बन्धुरगात्रि चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः ॥ १३.४७ ॥ एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी । मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥ १३.४८ ॥ अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य । कर्णार्पितेन्ऽ ताकरवं कपोलमपार्थ्यकालागुरुपत्त्रलेखं व्त् ॥ १३.४९ ॥ अनिग्रहत्रासविनीतसत्त्वमपुष्पलिङ्गात्फलबन्धिवृक्षम् । वनं तपःसाधनमेतदत्रेराविष्कृतोदग्रतरप्रभावम् ॥ १३.५० ॥ अत्राभिषेकाय तपोधनानां सप्तर्शिहस्तोद्धृतहेमपद्माम् । प्रवर्तयामास किल्ऽ आनुसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥ १३.५१ ॥ वीरासनैर्ध्यानजुषामृषीनाममी समाध्यासितवेदिमध्याः । निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥ १३.५२ ॥ त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः । राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति ॥ १३.५३ ॥ क्वचित्प्रभा चान्द्रमसी तमोभिश्मुक्तामयी यष्टिरिवानुविद्धा । अन्यत्र माला सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव ॥ १३.५४ ॥ क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव । अन्यत्र शुभ्रा शरदभ्रलेखा भक्तिर्भुवश्चन्दनकल्पितेव ॥ १३.५५ ॥ क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव । अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभःप्रदेशा ॥ १३.५६ ॥ क्वचिच्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य । पश्यानवद्याङ्गि विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः ॥ १३.५७ ॥ तमिस्रया शुभ्रनिशेव भिन्ना कुन्दस्रगिन्दीवरमालयेव । कृत्तिर्हरेः कृष्णमृगत्वचेव भूतिः स्मरारेरिव कण्ठभासा ॥ १३.५७ ॥ दृश्यार्धया शारदमेघलेखा निर्धूतनिस्त्रिंशरुचा विशेव । गवाक्षकालागुरुधूमराज्या हर्म्यस्थलीलेपसुधा नवेव ॥ १३.५७ ॥ तुषारसंघातशिला हिमाद्रेर्जात्याञ्जनप्रस्तरशोभयेव । पतत्रिणां मनसगोचराणां त्श्रेणीव कादम्बविहंगपङ्क्त्या ॥ १३.५७ ॥ नितान्तशुद्धस्फुटिकाशयोगाद्वैडूर्यकान्त्या रशनावलीव । गङ्गा रवेरात्मजया समेता पुष्प्यत्युदारं परभागलेखा ॥ १३.५७ ॥ समुद्रपत्न्योर्जलसंनिपाते पूतात्मनामत्र किलाभिषेकात् । तत्त्वावबोधेन विनापि भूयस्तनुत्यजां नास्ति शरीरबन्धः ॥ १३.५८ ॥ पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय । जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि कामाः फलितास्तवेति ॥ १३.५९ ॥ पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः । ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥ १३.६० ॥ जलानि या तीरनिखातयूपा वहत्ययोध्यामनु राजधानीम् । तुरंगमेधावभृतवतीर्णैरिक्ष्वाकुभिः पुण्यतरीकृतानि ॥ १३.६१ ॥ यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम् । सामान्यधात्रीमिव मानसं मे संभावयत्युत्तरकोसलानाम् ॥ १३.६२ ॥ सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूर्वियुक्ता । दूरे वसन्तं शिशिरानिलैर्मां तरङ्गहस्तैरुपगूहतीव ॥ १३.६३ ॥ विरक्तसंध्याकपिशं पुरस्ताद्यतो रजः पार्थिवमुज्जिहीते । शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥ १३.६४ ॥ अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः । हत्वा निवृत्ताय मृधे खरादीन् संरक्षितां त्वामिव लक्ष्मणो मे ॥ १३.६५ ॥ असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः । वृद्धैरमात्यैः सह चीरवासा मामर्घ्यपाणिर्भरतोऽभ्युपैति ॥ १३.६६ ॥ पित्रा निसृष्टां मदपेक्षया यः श्रियं युवाप्यङ्कगतामभोक्ता । इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् ॥ १३.६७ ॥ एतावदुक्तवति दाशरथौ तदीयामिच्छां विमानमधिदेवतया विदित्वा । द्योतिष्पथादवततार सविस्मयाभिरुद्वीक्षितं प्रकृतिभिर्भरतानुगाभिः ॥ १३.६८ ॥ तस्मात्पुरःसरविभीषणदर्शितेन सेवाविचक्षणहरीश्वरदत्तहस्तः । यानादवातरददूरमहीतलेन मार्गेण भङ्गिरचितस्फटिकेन रामः ॥ १३.६९ ॥ इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य स भ्रातरं भरतमर्घ्यपरिग्रहान्ते । पर्यश्रुरस्वजत मूर्धनि चोपजघ्रौ तद्भक्त्यपोढपितृराह्यमहाभिषेके ॥ १३.७० ॥ श्मश्रुप्रवृद्धिजनिताननविक्रियांश्च प्लक्षान् प्ररोहजटिलानिव मन्त्रिवृद्धान् । अन्वग्रहीत्प्रणमतः शुभदृष्टिपातैर्वार्त्तानुयोगमधुराक्षरया च वाचा ॥ १३.७१ ॥ दुर्जातबन्धुरयमृक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरः प्रहर्ता । इत्यादृतेन कथितौ रघुनन्दनेन व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे ॥ १३.७२ ॥ सौमित्रिणा तदनु संससृजे स चैनमुत्थाप्य नम्रशिरसं भृशमालिनिङ्ग । रूढेन्द्रजित्प्रहरणव्रणकर्कशेन क्लिश्यन्निवास्य भुजमध्यमुरःस्थलेन ॥ १३.७३ ॥ रामाज्ञया हरिचमूपतयस्तदानीं कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान् । तेषु क्षरत्सु बहुधा मदवारिधाराः शैलाधिरोहणसुखान्युपलेभिरे ते ॥ १३.७४ ॥ सानुप्लवः प्रभुरपि क्षणदाचराणां भेजे रथान् दशरथप्रभवानुशिष्टः । मायाविकल्परचितैरपि ये तदीयैर्न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः ॥ १३.७५ ॥ भूयस्ततो रघुपतिर्विलसत्पताकमध्यास्त कामगति सावरजो विमानम् । दोषातनं बुधबृहस्पतियोगदृश्यस्तारापतिस्तरलविद्युदिव्ऽआभ्रवृन्दम् ॥ १३.७६ ॥ तत्रेश्वरेण जगतां प्रलयादिवोर्वीं वर्षात्ययेन रुचमभ्रघनादिवेन्दोः । रामेण मैथिलसुतां दशकण्ठकृच्छ्रात्प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे ॥ १३.७७ ॥ लङ्केश्वरप्रणतिभङ्गदृढव्रतं तद्(?) वन्द्यं युगं चरणयोर्जनकात्मजायाः । ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधोरन्योन्यपावनमभूदुभयं समेत्य ॥ १३.७८ ॥ क्रोशार्धं प्रकृतिपुरःसरेण गत्वा काकुत्स्थः स्तिमितजवेन पुष्पकेण । शत्रुघ्नप्रतिविहितोपकार्यमार्यः साकेतोपवनमुदारमध्युवास ॥ १३.७९ ॥ _______________________________________________________________________________ उत्तिष्ठ वत्से ननु सानुजोऽसौ दशान्तरं तत्र समं प्रपन्ने । अपश्यतां दाशरथी जनन्यौ छेदादिवोपघ्नतरोर्व्रतत्यौ ॥ १४.१ ॥ उभावुभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ । विस्पष्टमस्रान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भात् ॥ १४.२ ॥ आनन्दजः शोकजमश्रु बाष्पस्तयोरशीतं शिशिरो बिभेद । गङ्गासरय्वोर्जलमुष्णत्पतं हिमाद्रिनिस्यन्द इवावतीर्णः ॥ १४.३ ॥ ते पुत्रयोर्नैरृतशस्त्रमार्गानार्द्रानिवाङ्गे सदयं स्पृशन्त्यौ । अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दमकामयेताम् ॥ १४.४ ॥ क्लेशावहा भर्तुरलक्षणाहं सीतेति नाम स्वमुदीरयन्ती । स्वर्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूर्ववन्दे ॥ १४.५ ॥ उत्तिष्ठ वत्से ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव । कृच्छ्रं महत्तीर्ण इति प्रियार्हां तामूचतुस्ते प्रियमप्यमिथ्या ॥ १४.६ ॥ अथाभिषेकं रघुवंशकेतोः प्रारब्धमानन्दजलैर्जनन्योः । निर्वर्तयामासुरमात्यवृद्धास्तीर्थाहृतैः काञ्चनकुम्भतोयैः ॥ १४.७ ॥ सरित्समुद्रान् सरसीश्च गत्वा रक्षःकपीन्द्रैरुपपादितानि । तस्यापतन्मूर्ध्नि जलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवापः ॥ १४.८ ॥ तपस्विवेषक्रिययापि तावद्यः प्रेक्षणीयः सुतरां बभूव । राजेन्द्रनेपथ्यविधानशोभा रस्योदितासीत्पुनरुक्तदोषा ॥ १४.९ ॥ स मौलरक्षोहरिमिश्रसैन्यस्तूर्यस्वनानन्दितपौरवर्गः । विवेष सौधोद्गतलाजवर्षामुत्तोरणामन्वयराजधानीम् ॥ १४.१० ॥ सौमित्रिणा सावरजेन मन्दमाधूतवालव्यजनो रथस्थः । धृतातपत्रो भरतेन साक्षादुपायसंघात इव प्रवृद्धः ॥ १४.११ ॥ प्रासादकालागुरुधूमराजिस्तस्याः पुरो वायुवशेन भिन्ना । वनान्निवृत्तेन रघूद्वहेन मुक्ता स्वयं वेणिरिवाभासे ॥ १४.१२ ॥ श्वश्रूजनानुष्ठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीम् । प्रासादवातायनदृश्यबन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः ॥ १४.१३ ॥ स्फुरत्प्रभामण्डलमानुसूयं सा बिभ्रती शाश्वतमङ्गरागम् । रराज शुद्धेति पुनः स्वपुर्यै संदर्शित वह्निगतेव भर्त्रा ॥ १४.१४ ॥ वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्धनिधिः सुहृद्ब्यः । बाष्पायमाणो बलिमन्निकेतमालेख्यशेषस्य पितुर्विवेश ॥ १४.१५ ॥ कृताञ्जलिस्तत्र यदम्ब सत्यान्नाभ्रश्यत स्वर्गफलाद्गुरुर्नः । तच्चिन्त्यमानं सुकृतं तवेति जहार लज्जां भरतस्य मातुः ॥ १४.१६ ॥ तथा च सुग्रीवविभीशणादीनुपाचरत्कृत्रिमसंविधाभिः । संकल्पमात्रोदितसिद्धयस्ते क्रान्ता यथा चेतसि विस्मयेन ॥ १४.१७ ॥ सभाजनायोपगतान् स दिव्यान्मुनीन् पुरस्कृत्य हतस्य शत्रोः । शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवमादधानम् ॥ १४.१८ ॥ प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान् । सीतास्वहस्तोपहृताग्र्यपूजान् रक्षःकपीन्द्रान् विससर्ज रामः ॥ १४.१९ ॥ तच्चात्मचिन्तासुलभं विमानं हृतं सुरारेः सह जीवितेन । कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकमन्वमंस्त ॥ १४.२० ॥ पितुर्नियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः । धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ॥ १४.२१ ॥ सर्वासु मातृष्वपि वत्सलत्वात्स निर्विशेषप्रतिपत्तिरासीत् । षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु ॥ १४.२२ ॥ तेनार्थवांल्लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान् । तेनास लोकः पितृमान् विनेत्रा तेनैव शोकापनुदेन पुत्री ॥ १४.२३ ॥ स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर्दुहित्रा । उपस्थितश्चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या ॥ १४.२४ ॥ तयोर्यथाप्रार्थितमिन्द्रियार्थानासेदुषोः सद्मसु चित्रवत्सु । प्राप्तानि दुःखान्यपि दण्डकेषु संचिन्त्यमानानि सुखान्यभूवन् ॥ १४.२५ ॥ अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण । आनन्दयित्री परिणेतुरासीदनक्षरव्यञ्जितदोहदेन ॥ १४.२६ ॥ तामङ्कमारोप्य कृशाङ्गयष्टिं वर्णान्तराक्रान्तपयोधराग्राम् । विलज्जमानां रहसि प्रतीतः प्रप्रच्छ रामां रमणोऽभिलाषम् ॥ १४.२७ ॥ सा दष्टनीवारबलीनिहिंस्रैः संबद्ध वैखानसकन्यकानि । इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि ॥ १४.२८ ॥ तस्यै प्रतिश्रुत्य रघुप्रवीरस्तद्(?) ईप्सितं पार्श्वचरानुयातः । आलोकयिष्यन्मुदितामयोध्यां प्रासादमभ्रंलिहमारुरोह ॥ १४.२९ ॥ ऋद्धापणं राजपथं स पश्यन् विगाह्यमानां सरयूं च नौभिः । विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे ॥ १४.३० ॥ स किंवदन्तीं वदतां पुरोगः स्वऋत्तमुद्दिश्य विशुद्धवृत्तः । सर्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः ॥ १४.३१ ॥ निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश्चरितं त्वदीयम् । अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव देव्याः ॥ १४.३२ ॥ कलत्रनिन्दागुरुणा किलैवमभ्याहतं कीर्तिविपर्ययेण । अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे ॥ १४.३३ ॥ किमात्मनिर्वादकथामुपेक्षे जायामदोषामुत संत्यजामि । इत्येकपक्षाश्रयविक्लवत्वादासीत्स दोलाचलचित्तवृत्तिः ॥ १४.३४ ॥ निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्ष्टुमैच्छत् । अपि स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः ॥ १४.३५ ॥ स संनिपात्यावरजान् हतौजास्तद्विक्रियादर्शनलुप्तहर्षान् । कौलीनमात्माश्रयमाचचक्षे तेभ्यः पुनश्चेदमुवाच वाक्यम् ॥ १४.३६ ॥ राजर्षिवंशस्य रविप्रसूतेरुपस्थितः पश्यत कीदृशोऽयम् । मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य ॥ १४.३७ ॥ पौरेषु सोऽहं वहुलीभवन्तमपां तरङ्गेष्विव तैलबिन्दुम् । सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुमिव द्विएपेन्द्रः ॥ १४.३८ ॥ तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः । त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव ॥ १४.३९ ॥ अवैमि चैनामनघेति किं तु लोकापवादो बलवान्मतो मे । छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः ॥ १४.४० ॥ रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय । अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः ॥ १४.४१ ॥ तदेष सर्गः करुणार्द्रचित्तैर्न मे भवद्भिः प्रतिषेधनीयः । यद्यर्थिता निर्हृतवाच्यशल्यान् प्राणान्मया धारयितुं चिरं वः ॥ १४.४२ ॥ इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् । न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुमासीदनुवर्तितुं वा ॥ १४.४३ ॥ स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः । सौम्येति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश ॥ १४.४४ ॥ प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव । सौम्येति चाभाष्य यथार्थभाषी प्रापय्य वाल्मीकिपदं त्यजैनाम् ॥ १४.४५ ॥ स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विषद्वत् । प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरूणां ह्यविचारणीया ॥ १४.४६ ॥ अथानुकूलश्रवणप्रतीतामत्रस्नुभिर्युक्तधुरं तुरंगैः । रथं सुमन्त्र प्रतिपन्नरश्मिमारोप्य वैदेहसुतां प्रतस्थे ॥ १४.४७ ॥ सा नीयमाना रुचिरान् प्रदेशान् प्रियंकरो मे प्रिय इत्यनन्दत् । नाबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्त्रवृक्षम् ॥ १४.४८ ॥ जुगूह तस्याः पथि लक्ष्मणो यत्सव्येतरेण स्फुरता तदक्ष्णा । आख्यातमस्यै गुरु भावि दुःखमत्यन्तलुप्तप्रियदर्शनेन ॥ १४.४९ ॥ सा दुर्निमित्तोपगताद्विषादात्सद्यः परिम्लानमुखारविन्दा । राज्ञः शिवं सावरजस्य भूयादित्याशशंसे करणैरबाह्यैः ॥ १४.५० ॥ गुरोर्नियोगाद्वनितां वनान्ते साध्वीं सुमित्रातनयो विहास्यन् । अवार्यतेवोत्थितवीचिहस्तैर्जह्नोर्दुहित्रा स्हितया पुरस्तात् ॥ १४.५१ ॥ रथात्स यन्त्रा निगृहीतवाहात्तां भ्रातृह्यायां पुलिनेऽवतार्य । गङ्गां निषादाहृतनौविशेषस्ततार संधामिव सत्यसंधः ॥ १४.५२ ॥ अथ व्यवस्थापितवाक्कथंचित्सौमित्रिरन्तर्गतबाष्पकण्ठः । औत्पातिको मेघ इवाश्मवर्षं महीपतेः शासनमुज्जगार ॥ १४.५३ ॥ ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणस्प्रसूना । स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम ॥ १४.५४ ॥ इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात्पतिरार्यवृत्तः । इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावत् ॥ १४.५५ ॥ सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यतान्तः । तस्याः सुमित्रात्मजयत्नलब्धो मोहादभूत्कष्टतरः प्रबोधः ॥ १४.५६ ॥ न चावदद्भर्तुरवर्णमार्या निराकरिष्णोर्वृजिनादृतेऽपि । आत्मानमेव स्थिरदुःखबाजं पुनः पुनर्दुष्कृतिनं निनिन्द ॥ १४.५७ ॥ आश्वास्य रामावरजः सतीं तामाख्यातवाल्मीकिनिकेतमार्गः । निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि क्षमस्वेति बभूव नम्रः ॥ १४.५८ ॥ सीता समुत्थाप्य जगाद वाक्यं प्रीतास्मि ते सौम्यचिराय जीव । विडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वम् ॥ १४.५९ ॥ श्वश्रूजनं सर्वमनुक्रमेण विज्ञापय प्रापितमत्प्रणामः । प्रजानिशेकं मयि वर्तमानं सूनोरनुध्यायत चेतसेति ॥ १४.६० ॥ वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् । मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य ॥ १४.६१ ॥ कल्याणबुद्धेरथ वा तवायं न कामचारो मयि शङ्कनीयः । ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः ॥ १४.६२ ॥ उपस्थितां पूर्वमपास्य लक्ष्मीं वनं मया सार्धमसि प्रपन्नः । तदास्पदं प्राप्य तयातिरोषात्सोढास्मि न त्वद्भवने वसन्ती ॥ १४.६३ ॥ निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादात् । भूत्वा शरण्या शरणार्थमन्यां कथं प्रपत्स्ये त्वयि दीप्यमाने ॥ १४.६४ ॥ किं वा तवात्यन्तवियोगमोघे कुर्यामुपेक्षां हतजीवितेऽस्मिन् । स्याद्रक्षणीयं यदि मे न तेजस्त्वदीयमन्तर्गतमन्तरायः ॥ १४.६५ ॥ साहं तपः सूर्यनिविष्टदृष्टिरूर्ध्वं प्रसूतेस्चरितुं यतिष्ये । तथा यथा मे जननान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः ॥ १४.६६ ॥ नृपस्य वर्णाश्रमरक्षणं यत्स एव धर्मो मनुना प्रणीतः । निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया ॥ १४.६७ ॥ तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृश्टिपथं व्यतीते । सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः ॥ १४.६८ ॥ नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान् विजहुर्हरिण्यः । तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥ १४.६९ ॥ तामभ्यगच्छद्रुदितानुसारी कविः कुशेध्माहरणाय यातः । निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः ॥ १४.७० ॥ तमश्रु नेत्रावरणं प्रमृज्य सीता विलापाद्विरता ववन्दे । तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान् सुपुर्त्राशिषमित्युवाच ॥ १४.७१ ॥ जाने विषृश्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा । तन्मा व्यथिष्ठा विषयान्तरस्थं प्राप्तासि वैदेहि पितुर्निकेतम् ॥ १४.७२ ॥ उथ्कातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि । त्वां प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे ॥ १४.७३ ॥ तवेन्दुकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते । धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्प्या ॥ १४.७४ ॥ तपस्विसंसर्गविनितत्सत्त्वे तपोवने वीतभया वसास्मिन् । इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयो विधिस्ते ॥ १४.७५ ॥ अशून्यतीरां मुनिसंनिवेशैस्तमोऽपहन्त्रीं तमसां विगाह्य । तत्सैकतोत्सङ्गबलिक्रियाभिः संपत्स्यते ते मनसः प्रसादः ॥ १४.७६ ॥ पुष्पं फलं चार्तवमाहरन्त्यो बीजं च बालेयमकृष्टरोहि । विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम् ॥ १४.७७ ॥ पयोघटैराश्रमबालवृक्षान् संवर्धयन्ती स्वबलानुरूपैः । असंशयं प्राक्तनयोपपत्तेः स्तनंधयप्रीतिमवाप्स्यसि त्वम् ॥ १४.७८ ॥ अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः । सायं मृगाध्यासितवेदिपार्श्वं स्वमाश्रमं शान्तमृगं निनाय ॥ १४.७९ ॥ तामर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीषु । निर्विष्टसारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु ॥ १४.८० ॥ ता इङ्गुदीस्नेहकृतप्रदीपमास्तीर्णमेध्याजिनतल्पमन्तः । तस्यै सपर्यानुपदं दिनान्ते निवासहेतोरुटजं वितेरुः ॥ १४.८१ ॥ तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्यः । वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार ॥ १४.८२ ॥ अपि प्रभुः सानुशयोऽधुना स्यात्किमुत्सुकः शक्रजितोऽपि हन्ता । शशंस सीतापरिदेवनान्तमनुष्ठितं शासनमग्रजाय ॥ १४.८३ ॥ बभूव रामः सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्रः । कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः ॥ १४.८४ ॥ निगृह्य शोकं स्वयमेव धीमान् वर्णाश्रमावेक्षणजागरूकः । स भ्रातृसाधारणभोगमृद्धं राज्यं रजोरिक्तमनाः शशास ॥ १४.८५ ॥ तामेकभार्यां परिवादभीरोः साध्वीमपि त्यक्तवतो नृपस्य । वक्षस्यसंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः ॥ १४.८६ ॥ सीतां हित्वा दशमुखरिपुर्नोपयेम यदन्यां तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार । वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारं कथमपि परित्यागदुःखं विषेहे ॥ १४.८७ ॥ _______________________________________________________________________________ कृतसीतापरित्यागः स रत्नाकरमेखलाम् । बुभूजे पृथिवीपालः पृथिवीमेव केवलाम् ॥ १५.१ ॥ लवणेन विलुप्तेज्यास्तामिस्रेण तमभ्ययुः । मुनयो यमुनाभाजः शरण्यं शरणार्थिनः ॥ १५.२ ॥ अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुः स्वतेजसा । त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् ॥ १५.३ ॥ प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियाम् । धर्मसंरक्षणायैव प्रवृत्तिर्भुवि शार्ङ्गिणः ॥ १५.४ ॥ ते रामाय वधोपायमाचख्युर्विबुधविषः । दुर्जयो लवणः शूली विशूलः प्रार्थ्यतामिति ॥ १५.५ ॥ आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः । करिष्यन्निव नामास्य यथार्थमरिनिग्रहात् ॥ १५.६ ॥ यः कश्चन रघूणां हि परमेकः परंतपः । अपवाद इवोत्सर्गं व्यावर्तयितुमीश्वरः ॥ १५.७ ॥ अग्रजेन प्रयुक्ताशीस्तदा दाशरथी रथी । ययौ वन्स्तह्लिः पश्यन् पुष्पिताः सुरभीरभीः ॥ १५.८ ॥ रामादेशादनुपदं सेनाङ्गं तस्य सिद्धये । पश्चादध्ययनार्थस्य धातोरधिरिवाभवत् ॥ १५.९ ॥ आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपतां वरः । विरराज रथपृष्ठैर्वालखिल्यैरिवांशुमान् ॥ १५.१० ॥ तस्य मार्गवशादेका बभूव वसतिर्यतः । रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने ॥ १५.११ ॥ तमृषिः पूजयामास कुमारं क्लान्तवाहनम् । तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः ॥ १५.१२ ॥ तस्यामेवास्य यामिन्यामन्तर्वत्नी प्रजावती । सुतावसूत संपन्नौ कोशदण्डाविव क्षितिः ॥ १५.१३ ॥ संतानश्रवणाद्भ्रातुः सौमित्रिः सौमनस्यवान् । प्राञ्जलिर्मुनिमामन्त्र्य प्रातर्युक्तरथो ययौ ॥ १५.१४ ॥ स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः । वनात्करमिवादाय सत्त्वराशिमुपस्थितः ॥ १५.१५ ॥ धूमधूम्रो वसाघन्धी ज्वालाबभ्रुशिरोरुहः । क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः ॥ १५.१६ ॥ अपशुलं तमासाद्य लवणं लक्ष्मणानुजः । रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम् ॥ १५.१७ ॥ नातिपर्याप्तमालक्ष्य मत्कुक्षेरद्य भोजनम् । दिष्ट्या त्वमसि मे धात्रा भीग्तेनेवोपपादितः ॥ १५.१८ ॥ इति संतर्ज्य शत्रुघ्नं राक्षसस्तज्जिघांसया । प्रांशुमुत्पाटयामास मुस्तास्तम्बमिव द्रुमम् ॥ १५.१९ ॥ सौमित्रेर्निशितैर्बाणैरन्तरा शकलीकृतः । गात्रं पुष्परजः प्राप न शाखी नैरृतेरितः ॥ १५.२० ॥ विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलम् । प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितम् ॥ १५.२१ ॥ ऐन्द्रमस्त्रमुपादाय शत्रुघ्नेन स ताडितः । सिकताभ्योऽपि हि परां प्रपेदे परमाणुताम् ॥ १५.२२ ॥ दक्षिणं दोषमुद्यम्य राक्षसस्तमुपाद्रवत् । एकताल इवोपातपवनप्रेरितो गिरिः ॥ १५.२३ ॥ कार्ष्नेन पत्त्रिना शत्रुः स भिन्नर्हृदयः पतन् । आनिनाय भुवः कम्पं जहाराश्रमवासिनाम् ॥ १५.२४ ॥ वयसां पङ्क्तयः पेतुर्हतस्योपरि रक्षसः । तत्प्रतिद्वन्दिनो मूर्ध्नि दिव्याः कुसुमवृष्टयः ॥ १५.२५ ॥ स हत्वा लवणं वीरस्तदा मेने महौजसः । भ्रातुः सोदर्यमात्मानमिन्द्रजिद्वधशोभिनः ॥ १५.२६ ॥ तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः । शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः ॥ १५.२७ ॥ उपकूलं स कालिन्द्याः पुरीं पौरुषभूषणः । निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः ॥ १५.२८ ॥ या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः । स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता ॥ १५.२९ ॥ तत्र सौधगतः पश्यन् यमुनां चक्रवाकिनीम् । हेम भक्तिमतीं भूमेः प्रवेणीमिव प्रिपिये ॥ १५.३० ॥ सखा दशरथस्याथ जनकस्य च मन्त्रकृत् । संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि ॥ १५.३१ ॥ स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया । कविः कुशलवावेव चकार किल नामतः ॥ १५.३२ ॥ साङ्गं च वेदमध्याप्य किंचिदुत्क्रान्तशैशवौ । स्वकृतिं गापयामास कविप्रथमपद्धतिम् ॥ १५.३३ ॥ रामस्य मधुरं वृत्तं गायन्तौ मातुरग्रतः । तद्वियोगव्यथां किंचिच्छिथिलीचक्रतुः सुतौ ॥ १५.३४ ॥ इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः । तद्योगात्पतिवत्नीषु पत्नीष्वासन् द्विसूनवः ॥ १५.३५ ॥ शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते । मथुराविदिशे सून्वोर्निदधे पूर्वजोत्सुकः ॥ १५.३६ ॥ भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगात् । मैथिलीतनयोद्गीतनिष्पन्दमृगमाश्रमम् ॥ १५.३७ ॥ वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीम् । लवणस्य वधात्पौरैरतिगौरवमीक्षितः ॥ १५.३८ ॥ स ददर्श सभामध्ये सभासद्भिरुपस्थितम् । रामं सीतापरित्यागादसामण्यपतिं भुवः ॥ १५.३९ ॥ तमभ्यनन्दत्प्रणतं लवणान्तकमग्रजः । कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणम् ॥ १५.४० ॥ स पृष्टः सर्वतो वार्त्तामाख्याद्राज्ञे न संततिम् । प्रत्यर्पयिष्यतः काले कवेराद्यस्य शासनात् ॥ १५.४१ ॥ अथ जानपदो विप्रः शिशुमप्राप्तयौवनम् । अवतार्य्ऽ आङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः ॥ १५.४२ ॥ शोचनीयासि वसुधे या त्वं दशरथाच्च्युता । रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता ॥ १५.४३ ॥ श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्राय राघवः । न ह्यकालभवो मृत्युरिक्ष्वाकुपदमस्पृशत् ॥ १५.४४ ॥ स मुहूर्तं सहस्वेति द्विजमाश्वास्य दुःखितम् । यानं सस्मार कौबेरं वैवस्वतजिगीषया ॥ १५.४५ ॥ आत्तशस्त्रस्तदध्यास्य प्रतिस्थः स रघूद्वहः । उच्चचार पुरस्तस्य गूढरूपा सरस्वती ॥ १५.४६ ॥ राजन् प्रजासु ते कश्चिदपचारः प्रवर्तते । तमन्विष्य प्रशमयेर्भवितासि ततः कृती ॥ १५.४७ ॥ इत्याप्तवचनाद्रामो विनेष्यन् वर्णविक्रियाम् । दिशः पपात पत्त्रेण वेगनिष्कम्पकेतुना ॥ १५.४८ ॥ अथ धूमाभिताम्राक्षं वृक्षाखावलम्बिनम् । ददर्श कंचिदैक्श्वाकस्तपस्यन्तमधोमुखम् ॥ १५.४९ ॥ पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः । आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनम् ॥ १५.५० ॥ तपस्यनधिकारित्वात्प्रजानां तमघावहम् । शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे ॥ १५.५१ ॥ स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् । ज्योतिष्कणाहतश्मश्रु कण्ठनालादपाहरत् ॥ १५.५२ ॥ कृतण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम् । तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना ॥ १५.५३ ॥ रघुनाथोऽप्यगस्त्येन मार्गसंदर्शितात्मना । महौजसा संयुयुजे शरत्काल इवेन्दुना ॥ १५.५४ ॥ कुम्भयोनिरलंकारं तस्मै दिव्यपरिग्रहम् । ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम् ॥ १५.५५ ॥ तं दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना । पश्चान्निववृते रामः प्राक्परासुर्द्विजात्मजः ॥ १५.५६ ॥ तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः । स्तुत्या निवर्तयामास त्रातुर्वैवस्वतादपि ॥ १५.५७ ॥ तमध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः । मेघाः सस्यमिवाम्भोभिरभ्यवर्षन्नुपायनैः ॥ १५.५८ ॥ दिग्भ्यो निमन्त्रिताश्चैनमभिजग्मुर्महर्षयः । न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि ॥ १५.५९ ॥ उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी बभौ । अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः ॥ १५.६० ॥ श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः । अनन्यहानेः तस्यासीत्सैव जाया हिरण्मयी ॥ १५.६१ ॥ विधेरधिकसंभारस्ततः प्रववृते मखः । आसन् यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः ॥ १५.६२ ॥ अथ प्राचेतसोपज्ञं रामायणमितस्ततः । मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ ॥ १५.६३ ॥ वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ । किं तद्येन मनो हर्तुमलं स्यातां न शृण्वताम् ॥ १५.६४ ॥ रूपे गीते च माधुर्यं तयोस्तज्ज्ञैर्निवेदितम् । ददर्श सानुजो रामः शुश्राव च कुतूहली ॥ १५.६५ ॥ तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ । हिमनिस्यन्दिनी प्रातर्निवाग्तेव वनस्थली ॥ १५.६६ ॥ वयोवेषविसंवादि रामस्य च तयोश्च सा । जनता प्रेक्ष्य सादृश्यं नाक्शिकम्पं व्यतिष्ठत ॥ १५.६७ ॥ उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये । नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा ॥ १५.६८ ॥ गेये केन विनीतौ वां कस्य चेयं कवेः कृतिः । इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम् ॥ १५.६९ ॥ अथ सावरजो रामः प्राचेतसमुपेयिवान् । उरिक्र्त्यात्मनो देहं राज्यमस्मै न्यवेदयत् ॥ १५.७० ॥ स तावाख्याय रामाय मैथिलेयौ तदात्मजौ । कविः कारुणिको वव्रे सीतायाः संपरिग्रहम् ॥ १५.७१ ॥ तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि । दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः ॥ १५.७२ ॥ ताः स्वचारित्रमुद्दिश्य प्रत्याययतु मैथिली । ततः पुत्रवतीमेनां प्रतिपत्स्ये तदाज्ञया ॥ १५.७३ ॥ इति प्रतिश्रुते राज्ञा जानकीमास्रमान्मुनिः । शिष्यैरानाययामास स्वसिद्धिं नियमैरिव ॥ १५.७४ ॥ अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः । कविमाह्वाययामास प्रस्तुतप्रतिपत्तये ॥ १५.७५ ॥ स्वरसंस्कारवत्येव पुत्राभ्यां सह सीतया । ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः ॥ १५.७६ ॥ काषायपरिवीतेन स्वपदार्पितचक्षुषा । कविमाह्वाययामास शान्तेन वपुषैव सा ॥ १५.७७ ॥ जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः । तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव सालयः ॥ १५.७८ ॥ तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः । कुरु निःसंशयं वत्से स्ववृत्ते लोकमित्यशात् ॥ १५.७९ ॥ अथ वाल्मीक्शिष्येण पुण्यमावर्जितं पयः । आचम्योदीरयामास सीता सत्यां सरस्वतीम् ॥ १५.८० ॥ वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे । तथा विश्वंभरे देवि मामन्तर्धातुमर्हसि ॥ १५.८१ ॥ एवमुक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भुवः । शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ ॥ १५.८२ ॥ तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी । समुद्ररशना साक्षात्प्रादुरासीद्वसुंधरा ॥ १५.८३ ॥ सा सीतामङ्कमारोप्य भर्तरि प्रहितेक्षणाम् । मा मेति व्याहरत्येव तस्मिन् पातालमभ्यगात् ॥ १५.८४ ॥ धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणैः । गुरुर्विधिबलापेक्षी शमयामास धन्विनः ॥ १५.८५ ॥ ऋषीन् विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् । रामः सीतागतं स्नेहं निदधे तदपत्ययोः ॥ १५.८६ ॥ युधाजितस्तु संदेशात्स देश सिन्धुनामकम् । ददौ दत्तप्रभावाय भरताय धृतप्रजः ॥ १५.८७ ॥ भरतस्तत्र गन्धर्वान् युधि निजित्य केवलम् । आतोद्यं ग्राहयामास समत्याजयदायुधम् ॥ १५.८८ ॥ स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः । अभिषिच्याभिषेकार्हौ रामान्तिकमगात्पुनः ॥ १५.८९ ॥ अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ । शासनाद्रघुनाथस्य चक्रे कारापथेशावरौ ॥ १५.९० ॥ इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः । भर्तृलोकप्रपन्नानां निवापान् विदधुः क्रमात् ॥ १५.९१ ॥ उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवम् । रहःसंवादिनौ पास्येदावां यस्तं त्यजेरिति ॥ १५.९२ ॥ तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः । आचख्यौ दिवमध्यास्व शासनात्परमेष्ठिनः ॥ १५.९३ ॥ विद्वानपि तयोर्द्वाःस्तहः समयं लक्ष्मणोऽभिनत् । भीतो दुर्वाससः शापाद्रामसंदर्शनार्थिनः ॥ १५.९४ ॥ स गत्वा सरयूतीरं देहत्यागेन योगवित् । चकार वितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः ॥ १५.९५ ॥ तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि । राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव ॥ १५.९६ ॥ स निवेश्य कुशावत्यां रिपुनागाङ्कुषं कुशम् । शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम् ॥ १५.९७ ॥ उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः । अन्वितः पतिवात्सल्याद्गृहवर्जमयोध्यया ॥ १५.९८ ॥ जगृहुस्तस्य चित्तज्ञाः पदवीं हरिराक्षसाः । कदम्बमुकुलस्थूलैरभिवृष्टं प्रजाश्रुभिः ॥ १५.९९ ॥ उपस्थितविमानेन तेन भक्तानुकम्पिना । चक्रे त्रिदिवनिःष्रेणिः सरयूरनुयायिनाम् ॥ १५.१०० ॥ यद्गोप्रतरकल्पोऽभुत्संमर्दस्तत्र मज्जताम् । अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे ॥ १५.१०१ ॥ स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु । त्रिदशीभूतपौराणां स्वर्गान्तरमकल्पयत् ॥ १५.१०२ ॥ निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां विष्वक्सेनः स्वतनुमविशत्सर्वलोकप्रतिष्ठाम् । लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा कीर्तिस्तम्भद्वयमिव गिरौ दक्षिणे चोत्तरे च ॥ १५.१०३ ॥ _______________________________________________________________________________ अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया जुणैश्च । चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुसारि ॥ १६.१ ॥ ते सेतुवार्त्तागजबन्धमुख्यैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः । अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः ॥ १६.२ ॥ चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानाम् । सुरद्विपानामिव सामयोनिर्भिन्नोऽष्ठदा विप्रससार वंशः ॥ १६.३ ॥ अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः । कुशः प्रवासस्थकलत्रवेषामदृष्टपूर्वां वनितामपश्यत् ॥ १६.४ ॥ सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरुहूतभासः । जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध ॥ १६.५ ॥ अथानुपोढार्गलमप्यगारं छायामिवादर्शतलं प्रविष्टाम् । सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविषृटतल्पः ॥ १६.६ ॥ लभ्दान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते । बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ॥ १६.७ ॥ का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते । आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥ १६.८ ॥ तमब्रवीत्सा गुरुणा नवद्या या नीतपौरा स्वपदोन्मुखेन । तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्नधिदेवतां माम् ॥ १६.९ ॥ वसौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या । समग्रशक्तौ त्वयि सूर्यवंष्ये सति प्रपन्ना करुणामवस्थाम् ॥ १६.१० ॥ विशीर्णतल्पाट्टशतो निवेशः पर्यस्तशालः प्रभुणा विना मे । विडम्बयत्यस्तनिमग्नसूर्यं दिनान्तमुग्रानिलभिन्नमेघम् ॥ १६.११ ॥ निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणाम् । नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥ १६.१२ ॥ आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिमन्वगच्छत् । वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥ १६.१३ ॥ चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः । नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति ॥ १६.१६ ॥ स्तम्भेषु योषित्प्रतियातनानामुत्क्रान्तवर्णक्रमधूसराणाम् । स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः ॥ १६.१७ ॥ कालान्तरश्यामसुधेषु नक्तमितस्ततो रूढतृणाङ्कुरेषु । त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्छन्ति न चन्द्रपादाः ॥ १६.१८ ॥ आवर्ज्य शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः । वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः ॥ १६.१९ ॥ रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि । तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छिन्नधूमप्रसरा गवाक्षाः ॥ १६.२० ॥ बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गमनापनुवन्ति । उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि ॥ १६.२१ ॥ तदर्हसीमां वसतिं विसृज्य मामभ्युपैतुं कुलराजधानीम् । हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिम् ॥ १६.२२ ॥ तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्राग्रहरो रघूणाम् । पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥ १६.२३ ॥ तदद्भुतं संसदि रार्त्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस । श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतमभयनन्दन् ॥ १६.२४ ॥ कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोधः । अनुद्रुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे ॥ १६.२५ ॥ सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागैः । सेना रथोदारगृहा प्रयाणे तस्याभवज्जङ्गमराजधानी ॥ १६.२६ ॥ तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम् । बभौ बलौघः शशिनोदितेन वेलामुदन्वानिव नीयमानः ॥ १६.२७ ॥ तस्य प्रयातस्य वरूथिनीनां पीडामपर्याप्तवतीव सोढुम् । वसुंधरा विष्णुपदं द्वितीयमध्यारुरोहेव रजश्छलेन ॥ १६.२८ ॥ उद्यच्छमाना गमनाय पश्चात्पुरो निवेशे पथि च व्रजन्ती । सा यत्र सेना ददृषे नृपस्य तत्रैव सामग्र्यमतिं चकार ॥ १६.२९ ॥ तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरंगमाणाम् । रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय नेतुः ॥ १६.३० ॥ मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना । चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥ १६.३१ ॥ स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः । व्यलङ्घयद्विन्ध्यमुपायनानि पश्यन् पुलिन्दैरुपपादितानि ॥ १६.३२ ॥ तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम् । अयत्नवालग्व्यजनीबभूवुर्हंसा नभोलङ्घनलोलक्पक्षाः ॥ १६.३३ ॥ स पूर्वजानां कपिलेन रोषाद्भस्मावशेषीकृतविग्रहाणाम् । सुरालयप्राप्तिनिमित्तमम्भस्त्रैस्रोतसं नौलुलितं ववन्दे ॥ १६.३४ ॥ इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः । वेदिप्रतिष्ठान् वितताध्वराणां यूपानपश्यच्छतशो रघूणाम् ॥ १६.३५ ॥ आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान् सरयूतरङ्गान् । तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ॥ १६.३६ ॥ अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौर्सखः स राजा । कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि ॥ १६.३७ ॥ तां शिल्पिसंघाः प्रभुणा नियुक्तास्तथागतां संभृतसाधनत्वात् । पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितामिवोर्वीम् ॥ १६.३८ ॥ ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः । उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयामास रघुपवीरः ॥ १६.३९ ॥ तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य । यथार्हमन्यैरनुजीविलोकं संभावयामास गृहैस्तदीयैः ॥ १६.४० ॥ सा मन्दुरासंश्रयिभिस्तुरंगैः शालाविधिस्तम्भगतैश्च नागैः । पूराबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥ १६.४१ ॥ वसन् स तस्यां वसतौ रघूणां पुराणशोभामधिरोपितायाम् । न मैथिलेयः स्पृहयां बभूव भर्त्रे दिवो नाप्यलकेश्वराय ॥ १६.४२ ॥ अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम् । निःश्वासहार्यांशुकमाजगाम घर्मः प्रिया वेषमिवोपदेष्टुम् ॥ १६.४३ ॥ अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते । आनन्दशीतमिव भाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज ॥ १६.४४ ॥ प्रवृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी । उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्ताम् ॥ १६.४५ ॥ दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः । उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ॥ १६.४६ ॥ वनेषु सायनतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु । प्रत्येकनिक्षिप्तपदः सशब्दं संख्यामिवैषां भ्रमरश्चकार ॥ १६.४७ ॥ स्वेदानुविद्धार्द्रनखक्षताङ्के संदष्टभूयिष्ठशिखं कपोले । च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥ १६.४८ ॥ यन्त्रप्रवाहैः शिशिरैः परीतान् रसेन धौतान्मलयोद्भवस्य । शिलाविशेषानधिशय्य निन्युर्धारागृहेष्वातपमृद्धिमन्तः ॥ १६.४९ ॥ स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु । कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥ १६.५० ॥ आपिञ्जरा बद्धरजःकणत्वान्मञ्जर्युदाराशुशुभेऽर्जुनस्य । दग्ध्वापि देहं गिरिशेन रोषात्खण्डीकृता ज्येव मनोभ्वस्य ॥ १६.५१ ॥ मनोज्ञगन्धं सहकारभङ्गं पुराणसीधुं नवपाटलं च । संबध्नता काइजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः ॥ १६.५२ ॥ जनस्य तस्मिन् समये विगाढे बभूवतुर्द्वौ सविशेषकान्तौ । तापापनोदक्षमपाद स चोदयस्थो नृपतिः शशी च ॥ १६.५३ ॥ अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः । विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥ १६.५४ ॥ स तीरभूमौ विहितोपकार्यामानायिभिस्तामपकृष्टनक्राम् । विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥ १६.५५ ॥ सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभिः । सनूपुरक्षोभपदाभिरासीदुद्विग्नहंसा सरिदङ्गनाभिः ॥ १६.५६ ॥ परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी । नौसंश्रयः पार्श्वगतां किरातीमुपात्तवालव्यजनां बभाषे ॥ १६.५७ ॥ पश्यावरोधैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः । संध्योदयः साभ्र इवैष वर्णं पुष्यत्यनेकं सरयूप्रवाहः ॥ १६.५८ ॥ विलुप्तमन्तःपुरसुन्दरीणां यदञ्जनं नौलुलिताभिरद्भिः । तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम् ॥ १६.५९ ॥ एता गुरुश्रोणिपयोधरत्वादात्मानमुद्वोहुढुमशक्नुवन्त्यः । गाढाङ्गदैर्बाहुभिरस्पु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते ॥ १६.६० ॥ अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् । पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान् ॥ १६.६१ ॥ आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु । पयोधरोत्सर्पिषु शीर्यमाणाः संलक्ष्यते न च्छिदुरोऽपि हारः ॥ १६.६२ ॥ आवर्तशोभा नतनाभिकान्तेर्भङ्ग्यो भ्रुवां द्वन्द्वचराःस्तनानाम् । जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनाम् ॥ १६.६३ ॥ तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम् । श्रोत्रेषु संमूर्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ॥ १६.६४ ॥ संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुकल्पाः । अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥ १६.६५ ॥ एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः । वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान् वारिलवान् वमन्ति ॥ १६.६६ ॥ उद्बद्धकेशश्च्युतपत्त्ररेखो विश्लेषिमुक्ताफलपत्त्रवेष्टः । मनोज्ञ एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः ॥ १६.६७ ॥ स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु । स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः ॥ १६.६८ ॥ ततो नृपेनानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजुः । प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किमुतोन्मयूखम् ॥ १६.६९ ॥ वर्णोदकैः काञ्चनशृङ्गमुक्तैस्तमायताक्ष्यः प्रणयादसिञ्चन् । तथागतः सोऽतिररां बभासे सधातुनिस्यन्द इवाद्रिराजः ॥ १६.७० ॥ तेनावरोधप्रमदासखेन विगाहनानेन सरिद्वरां ताम् । आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः ॥ १६.७१ ॥ यत्कुम्भयोनेरदिगम्य रामः कुशाय राज्येन समं दिदेश । तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज ॥ १६.७२ ॥ स्नात्वा यथाकाममसौ सदारस्तीरोपकार्यां गतमात्र एव । दिव्येन शून्यं वलयेन बाहुमुपोढनेपथ्यविधिर्ददर्श ॥ १६.७३ ॥ जयश्रियः संवननं यतस्तदामुक्तपूर्वं गुरुणा च यस्मात् । सेहेऽस्य न भ्रंशमतो न लोभात्स तुल्यपुष्पाभरणो हि धीरः ॥ १६.७४ ॥ ततः समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान् । वन्ध्यश्रमास्ते सरयूं विगाह्य तमूचुराम्लानमुखप्रसादाः ॥ १६.७५ ॥ कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते । नागेन लौल्यात्कुमुदेन नूनमुपात्तमन्तर्ह्रदवासिना तत् ॥ १६.७६ ॥ ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः । गारुत्मतं तीरगतस्तरस्वी भुजंगनाशाय समाददेऽस्त्रम् ॥ १६.७७ ॥ तस्मिन् ह्रदः संहितमात्र एव क्षोभात्समाविद्धतरङ्गहस्तः । रोधांस्यभिघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास ॥ १६.७८ ॥ तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज । लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः ॥ १६.७९ ॥ विभूषणप्रत्युपहारहस्तमुपस्थितं वीक्ष्य विशांपतिस्तम् । सौपर्णमस्त्रं प्रतिसंजहार प्रहेष्वनिर्बन्धरुषो हि सन्तः ॥ १६.८० ॥ त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषामङ्कुशमस्त्रविद्वान् । मानोनन्तेनाप्यभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे ॥ १६.८१ ॥ अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् । सोऽहं कथं नाम तवाचरेयमाराधनीयस्य धृतेर्विभातम् ॥ १६.८२ ॥ कराभिघातोत्थितकन्दुकेयमालोक्य बालातिकुतूहलेन । जवात्पतज्ज्योतिरिवान्तरिक्षादादत्त जत्राभरणं त्वदीयम् ॥ १६.८३ ॥ तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिण लाञ्छनेन । भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन ॥ १६.८४ ॥ इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् । आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते ॥ १६.८५ ॥ इत्यूचिवानुपहृताभरणः क्षितीशं श्लाघ्यो भवान् स्वजन इत्यनुभाषितारम् । संयोजयां विधिवदास समेतबन्धुः कन्यामयेन कुमुदः कुलभूषणेन ॥ १६.८६ ॥ तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य । दिव्यस्तूर्यध्वनिरुदचरद्व्यश्नुवानो दिगन्तान् गन्धोदग्रं तदनौ ववृषुः पुष्पमाश्चर्यमेघाः ॥ १६.८७ ॥ इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं लब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य । एकः शङ्कां पितृवधरिपोरत्यजद्वैनतेयाच्छान्तव्यालामवनिमपरः पौरकान्तः शशास ॥ १६.८८ ॥ _______________________________________________________________________________ ऐथिं नाम काकुत्स्थात्पुत्रमापकुमुद्वती । पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ॥ १७.१ ॥ स पितुः पितृमान् वंशं पुत्रमापकुमुद्वती । अपुनात्सवितेवोभौ मार्गावुत्तरदक्षिणौ ॥ १७.२ ॥ तमादौ कुलविद्यानामर्थमर्थविदां वरः । पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता ॥ १७.३ ॥ जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः । अमन्यतैकमात्मानमनेकं वशिना वशी ॥ १७.४ ॥ स कुलोचितमिन्द्रस्य साहायकमुपेयिवान् । जघान समरे दैत्यं दुर्जयं तेन सोऽवधि ॥ १७.५ ॥ तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती । अन्वगात्कुमुदानन्दं शशाङ्कमिव कौमुदी ॥ १७.६ ॥ तयोर्दिवस्पतेरासीदेकः सिंहासनार्धबाक् । द्वितीयापि सखी शच्याः पारिजातांशभागिनी ॥ १७.७ ॥ तदात्मसंभवं राज्ये मन्त्रिवृद्दाः समादधुः । स्मरन्तः पश्चिमामाज्ञां भर्तुः संग्रामयायिनः ॥ १७.८ ॥ ते तस्य कल्पयामासुरभिषेकाय शिल्पिभिः । विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्टम् ॥ १७.९ ॥ तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः । उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम् ॥ १७.१० ॥ नदध्बिः स्निग्धगम्भीरं तूर्यैराहतपुष्करैः । अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति ॥ १७.११ ॥ दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् । ज्ञातिवृद्धैः प्रयुक्तान् स भेजे नीराजनाविधीन् ॥ १७.१२ ॥ पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः । उपचक्रमिरे पूर्वमभिषेक्तुं द्विजातयः ॥ १७.१३ ॥ तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत । सशब्दमभिषेकश्रीर्गङ्गेव त्रिपुरद्विषः ॥ १७.१४ ॥ स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स बन्दिभिः । प्रवृद्ध इव प्रजन्यः चातकैरभिनन्दितः ॥ १७.१५ ॥ तस्य सन्मन्त्रपूताभिः स्नानमद्भिः प्रतीच्छतः । ववृधे वैद्युतस्याग्नेर्वृष्टिसेकादिव द्युतिः ॥ १७.१६ ॥ स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु । यावत्तेषां समाप्येरन् यज्ञाः पर्याप्तदक्षिणाः ॥ १७.१७ ॥ ते प्रीतमनसस्तस्मै यामाशिषमुदीरयन् । सा तस्य कर्मनिर्वृत्तैर्दूरं पश्चात्कृता फलैः ॥ १७.१८ ॥ बन्धच्छेदं स बद्धानां वधार्हाणामवध्यताम् । धुर्याणां च धुरो मोक्षमदोहं चादिषद्गवाम् ॥ १७.१९ ॥ क्रीडापतत्रिणोऽप्यस्य पञ्जरस्थाः शुकादयः । लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन् ॥ १७.२० ॥ ततः कक्षान्तरन्यस्तं गजदन्तासनं शुचि । सोत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः ॥ १७.२१ ॥ तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः । आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः ॥ १७.२२ ॥ तेऽ स्य मुक्तागुणोन्नद्धं मौलिमन्तर्गतस्रजम् । प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना ॥ १७.२३ ॥ चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना । समापय्य ततश्चक्रुः पत्त्रं विन्यस्तरोचनम् ॥ १७.२४ ॥ आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् । आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ॥ १७.२५ ॥ नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये । विरराजोदिते सूर्ये मेरौ कल्पतरोरिव ॥ १७.२६ ॥ स राजककुदव्यग्रपाणिभिः पार्श्ववरिभिः । ययावुदीरितालोकः सुधर्मानवमां सभाम् ॥ १७.२७ ॥ वितानसहितं तत्र भेजे पैतृकमासनम् । चूडामणिभिरुद्घृष्टपादपीठं महीक्षिताम् ॥ १७.२८ ॥ शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत् । श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवम् ॥ १७.२९ ॥ बभौ भूयः कुमारत्वादाधिराज्यमवाप्य सः । रेखा भावादुपारूढः सामग्र्यमिव चन्द्रमाः ॥ १७.३० ॥ प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम् । मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः ॥ १७.३१ ॥ स पुरं पुरुहूतश्रीः कल्पद्रुमनिभध्वजाम् । क्रममाणश्चकार द्यां नागेनैरावतौजसा ॥ १७.३२ ॥ तस्यैकस्योच्छ्रितं छत्त्रं मूर्ध्नि तेनामलत्विषा । पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतम् ॥ १७.३३ ॥ धूमादग्नेः शिखाः पश्चादुदयादंशवो रवेः । सोऽतीत्य तेजसां वृत्तिं सममेवोत्थितो गुणैः ॥ १७.३४ ॥ तं प्रीतिविशदैर्नेत्रैरन्वयुः पौरयोषितः । शरत्प्रसन्नैर्ज्योतिर्भिर्विभावर्य इव ध्रुवम् ॥ १७.३५ ॥ अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः । अनुदध्युरनुध्येयं सांनिध्यैः प्रतिमागतैः ॥ १७.३६ ॥ यावन्नाश्यायते वेदिरभिषेकजलाप्लुता । तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः ॥ १७.३७ ॥ वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः । किं तत्साध्यं यदुभये साधयेयुर्न संगताः ॥ १७.३८ ॥ स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम् । ददर्श संशयच्छेद्यान् व्यवहारानतन्द्रितः ॥ १७.३९ ॥ ततः परमभिव्यक्तासौमनस्यनिवेदितैः । युयोज पाकाभिमुखैर्भृत्यान् विज्ञापनाफलैः ॥ १७.४० ॥ प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः । तस्मिंस्तु भूयसीं वृद्धिं नभस्ये ता इवाययुः ॥ १७.४१ ॥ यदुवाच न तन्मिथ्या यद्ददौ न जहार तत् । सोऽभूद्भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन् ॥ १७.४२ ॥ वयोरूपविभूतीनामेकैकं मदकारणम् । तानि तस्मिन् समस्तानि न तस्योत्सिषिचे मनः ॥ १७.४३ ॥ इत्थं जनितरागासु प्रकृतिष्वनुवासरम् । अक्षोभ्यः स नवोऽप्यासीद्दृढमूल इव द्रुमः ॥ १७.४४ ॥ अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः । अतः सोऽभ्यन्तरान्नित्यान् षट्पूर्वमजयद्रिपून् ॥ १७.४५ ॥ प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः । निकषे हेमरेखेव श्रीरासीदनपायिनी ॥ १७.४६ ॥ कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् । अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥ १७.४७ ॥ न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः । अदृष्टमभवत्किंचिद्व्यभ्रस्येव विवस्वतः ॥ १७.४८ ॥ रात्रिंदिवविभागेषु यदादिष्टं महीक्षिताम् । तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥ १७.४९ ॥ मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः । स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते ॥ १७.५० ॥ परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः । सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि ॥ १७.५१ ॥ दुर्गाणि दुर्ग्र्हाण्यासंस्तस्य रोद्धुरपि द्विषाम् । न हि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः ॥ १७.५२ ॥ बह्व्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः । गर्भशालिसधर्माणस्तस्य गूढं विपेचिरे ॥ १७.५३ ॥ अपथेन प्रववृते न जातूपचितोऽपि सः । वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ॥ १७.५४ ॥ कामं प्रत्कृतिवैराग्यं सद्यः शमयितुं क्षमः । यस्य कार्यः प्रतीकारः स तन्नैवोदपादयत् ॥ १७.५५ ॥ शकेष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः । समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः ॥ १७.५६ ॥ न धर्ममर्थकामाभ्यां बबाधे न च तेन तौ । नार्थं कामेन कामं वा सोऽर्थेन सदृशस्त्रिषु ॥ १७.५७ ॥ हीनान्यनुपकर्त्ःणि प्रवृद्धानि विकुर्वते । तेन मध्यमशक्तीनि मित्राणि स्ह्तापितान्यतः ॥ १७.५८ ॥ परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् । ययावेभिर्बलिष्ठश्चेत्परस्मादास्त सोऽन्यथा ॥ १७.५९ ॥ कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः । अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते ॥ १७.६० ॥ परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु । आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन् रिपून् ॥ १७.६१ ॥ पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः । तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत ॥ १७.६२ ॥ सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः । स चकर्ष परस्मात्तदयस्कान्त इवायसम् ॥ १७.६३ ॥ वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव । सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु ॥ १७.६४ ॥ तपो रक्षन् स विघ्नेभ्यस्तस्करेभ्यश्च संपदः । यथास्वमाश्रमैश्चक्रे वर्णैरपि षड्संशभाक् ॥ १७.६५ ॥ खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान् । दिदेश वेतनं तस्मै रक्षासदृशमेव भूः ॥ १७.६६ ॥ स गुणानां बलानां च षण्णां षण्मुखविक्रमः । बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ॥ १७.६७ ॥ इति क्रमात्प्रयुञ्जानो राज नीतिं चतुर्विधाम् । आ तीर्थादप्रतीघातं स तस्याः फलमानशे ॥ १७.६८ ॥ कूटयुद्धविधिज्ञेऽपि तस्मिन् सन्मार्गयोधिनि । भेजेऽभिसारिकावृत्तिं जयश्रीर्वीरगामिनी ॥ १७.६९ ॥ प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः । रणो गन्धविपस्येव गन्धभिन्नान्यदन्तिनः ॥ १७.७० ॥ प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः । स तु तसमवृद्धिश्च न चाभूत्ताविव क्षयी ॥ १७.७१ ॥ सन्तस्तस्याभिगमनादत्यर्थं महतः कृषाः । उदधेरिव जीमूताः प्रापुर्दातृत्वमर्थिनः ॥ १७.७२ ॥ स्तूयमानः स जिह्राय स्तुत्यमेव समाचरन् । तथापि ववृधे तस्य तत्कारिद्वेषिनो यशः ॥ १७.७३ ॥ दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः । प्रजाः स्वतन्त्रयां चक्रे शश्वत्सूर्य इवोदितः ॥ १७.७४ ॥ इन्दोरगतयः पद्मे सूर्यस्य कुमुदेऽंशवः । गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम् ॥ १७.७५ ॥ पराभिसंधानपरं यद्यप्यस्य विचेष्टितम् । जिगीषोरश्वमेधाय धर्म्यमेव बभूव तत् ॥ १७.७६ ॥ एवमुद्यन् प्रभावेण शास्त्ग्रनिर्दिष्टवर्त्मना । वृषेव देवो देवानां राज्ञां राजा बभूव सः ॥ १७.७७ ॥ पञ्चमं लोकपालानां तमूचुः साम्ययोगतः । भूतानां महतां षष्ठमष्टमं कुलभूभृताम् ॥ १७.७८ ॥ दूरापवर्जितच्छत्त्रैस्तस्याज्ञां शासनार्पिताम् । दधुः शिरोभिर्भूपाला देवः पौरंदरीमिव ॥ १७.७९ ॥ ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ । यथा साधारणीभूतं नामास्य धनदस्य च ॥ १७.८० ॥ इन्द्राद्वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभूद्यादोनाथः शिवजलपथः कर्मणे नौचराणाम् । पूर्वापेक्षी तदनु विदधे कोशवृद्धिं कुबेरस्तस्मिन् दण्डोपनतचरितं भेजिरे लोकपालाः ॥ १७.८१ ॥ _______________________________________________________________________________ स नैषधस्यार्थपतेः सुतायामुत्पादयामास निषिद्धशत्रुः । अनूनसारं निषधान्नगेन्द्रात्पुत्रं यमाहुर्निषधाख्यमेव ॥ १८.१ ॥ तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना । सुवृष्तियोगादिव जीवलोकः सस्येन संपत्तिफलात्मकेन ॥ १८.२ ॥ शब्दादि निर्विश्य सुखं चिराय तस्मिन् प्रतिष्ठापितराजशब्दः । कौमुद्वतेयः कुमुदावदातैर्द्यामर्जितां कर्मभिरारुरोह ॥ १८.३ ॥ पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः । एकातपोअत्रां भुवमेकवीरः पुरार्गलादीर्घभुजो बुभोज ॥ १८.४ ॥ तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः । यो नड्वलानीव गजः परेषां बलान्यमृद्नान्नलिनाभवक्त्रः ॥ १८.५ ॥ नभश्चरैर्गीतयश्यामतनुं तनूजं नभस्तलश्यामतनुं तनूजम् । ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभोमासमिव प्रजानाम् ॥ १८.६ ॥ तस्मै विष्र्ज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वम् । मृगैरजर्यं जरस्पोदैष्टमदेहबन्धाय पुनर्बबन्ध ॥ १८.७ ॥ तेन द्विपानामिव पुण्डरीको राज्ञामजय्योऽजनि पुण्डरीकः । शान्ते पितर्याहृतपुण्डरीका यं पुण्डरीकाक्षमिवाश्रिता श्रीः ॥ १८.८ ॥ स क्षेमधन्वानममोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षम् । क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश्चचार ॥ १८.९ ॥ अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूत् । व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य ॥ १८.१० ॥ पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन । पुत्रस्तथैवाधिकवत्सलेन स तेन पित्रा पितृमान् बभूव ॥ १८.११ ॥ पूर्वस्तयोरात्मसमे चिरोढामात्मोद्भवे वर्णचतुष्टयस्य । धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकम् ॥ १८.१२ ॥ वशी सुतस्तस्य वशंवदत्वात्स्वेषामिवासीद्द्विषतामपीष्टः । सकृद्(?) विविग्नानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान् ग्रहीतुम् ॥ १८.१३ ॥ अहीनगुर्नाम स गां समग्रामहीनबाहुद्रविणः शशास । यो हीन संसर्गपराङ्मुखत्वाद्माधुर्यमीष्टे हरिणान् ग्रहीतुम् ॥ १८.१४ ॥ गुरोः स चानन्तरमन्तर्ज्ञः पुंसां पुमानाद्य इवावतीर्णः । उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव ॥ १८.१५ ॥ तस्मिन् प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयम् । उच्चैःशिरस्त्वाज्जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ॥ १८.१६ ॥ तस्याभवत्सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः । जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतामव्रजदीड्यमानः ॥ १८.१७ ॥ तमात्मसंपन्नमनिन्दितात्मा कृत्वा युवानं युवराजमेव । सुखानि सोऽभुङ्क्त सुखोपरोधि वृत्तं हि राज्ञामुपरुद्धवृत्तम् ॥ १८.१८ ॥ तं रागबन्धिष्ववितृप्तमेव भोगेषु सौभाग्यविशेषभोग्यम् । विलासिनीनामरतिक्षमापि जरा वृथा मत्सरिणी जहार ॥ १८.१९ ॥ उन्नाभ इत्युदग्तस्नामधेयस्तस्यायथार्थोन्नतनाभ्हिरन्ध्रः । सुतोऽभवत्पङ्कजनाभकल्पः कृत्स्नस्य नाभिर्नृपमण्डलस्य ॥ १८.२० ॥ ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः । बभूव वज्राकरभुषणायाः पतिः पृथिव्याः किल वज्रनाभः ॥ १८.२१ ॥ तस्मिन् गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणमर्णवान्ता । उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः ॥ १८.२२ ॥ तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदमश्विरूपः । वेलातटेषूषितसैनिकाश्वं पुराविदो यं ध्युषिताश्वमाहुः ॥ १८.२३ ॥ आराध्य विश्वेश्वरमीश्वरेण तेन क्षितेर्विश्वसहोऽधिजज्ञे । पातुं सहो विश्वसखः समग्रां विश्वंभरामात्मजमूर्तिरात्मा ॥ १८.२४ ॥ अंशे हिरण्याक्शरिपोः स जाते हिरण्यनाभे तनये नयज्ञः । द्विषामसह्यः सुतरां तरूणां हिरण्यरेता सानिलोऽभूत् ॥ १८.२५ ॥ पिता पित्ःणामनृणस्तमन्ते वयस्यनन्तानि सुखानि लिप्सुः । राजानमाजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान् बभूव ॥ १८.२६ ॥ कौसल्य इत्युत्तरकोसलानां पत्युः पतंगान्वयभूषणस्य । तस्यौरसः सोमसुतः सुतोऽभून्नेत्रोत्सवः सोम इव द्वितीयः ॥ १८.२७ ॥ कौसल्य इत्युत्तरकोसलानां स ब्रह्मभूयं गतिमाजगाम । ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम् ॥ १८.२८ ॥ यशोभिराब्रह्मसभं प्रकाशः सम्यग्महीं शासति शासनाङ्काम् । प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः ॥ १८.२९ ॥ पात्रीकृतात्मा गुरुसेवनेन स्पृष्टाकृतिः पत्त्ररथेन्द्रकेतोः । तं पुत्रिणां पुष्करपत्त्रनेत्रः पुत्रः समारोपयदग्रसंख्याम् ॥ १८.३० ॥ वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः । उपस्पृषन् स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रिदशत्वमाप ॥ १८.३१ ॥ तस्य प्रभानिर्जितपुष्परागं पौष्यं तिथौ पुष्यमसूत पत्नी । यस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥ १८.३२ ॥ महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा । तस्मात्सयोगादधिगम्य योगमजन्मनेऽकल्पत जन्मभीरुः ॥ १८.३३ ॥ ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीम् । यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिर्ध्रुवः संनमतामरीणाम् ॥ १८.३४ ॥ सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः । मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृसिंहः ॥ १८.३५ ॥ स्वर्गामिनस्तस्य तमैकमत्यादमात्यवर्गः कुलतन्तुमेकम् । अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिवच्चकार ॥ १८.३६ ॥ ववेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन । रघोः कुलं कुड्मलपङ्कजेन तोयेन चाप्रौष्हनरेन्द्रमासीत् ॥ १८.३७ ॥ लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः । दृष्टो हि वृण्वन् कलभप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः ॥ १८.३८ ॥ तं राजवीथ्यामधिहस्ति यान्तमाधोरणालम्बितमग्र्यवेषम् । षड्वर्षदेशियमपि प्रभुत्वात्प्रैक्षन्त पौराः पितृगौरवेण ॥ १८.३९ ॥ कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय । तेजोमहिम्ना पुनरावृतात्मा तद्व्याप चामीकरपिञ्जरेण ॥ १८.४० ॥ तस्मादधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठम् । सालक्तकौ भूपतयः प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ ॥ १८.४१ ॥ मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या । शब्दो महाराज इति प्रतीतस्तथैव तस्मिन् युयुजेऽर्भकेऽपि ॥ १८.४२ ॥ पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षत् । तस्याननादुच्चरितो विवादश्चक्स्हाल वेलास्वपि नार्णवानाम् ॥ १८.४३ ॥ निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः । तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार ॥ १८.४४ ॥ शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायादपि श्रुतवृद्धयोगात् । नितान्तगुर्वीमपि चानुभावाद्धुरं धरित्र्या बिभरां बभूव ॥ १८.४५ ॥ न्यस्ताक्षरामक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावत् । सर्वाणि तावच्छ्रुतवृद्धयोगात्फलान्युपायुङ्क्त स दण्डनीतेः ॥ १८.४६ ॥ उरस्यपर्याप्तभागा प्रौढीभविष्यन्तमुदीक्षमाणा । संजातलज्जेव तमातपत्रछ्हायाछलेनोपजुगूह लक्ष्मीः ॥ १८.४७ ॥ अनश्नुवानेन युगोपमानमबद्धमौर्वीकिणलाञ्छनेन । अस्पृष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः ॥ १८.४८ ॥ न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् । वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः ॥ १८.४९ ॥ स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणाम् । तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः ॥ १८.५० ॥ व्यूह्य स्थितः किंचिदिवोत्तरार्धमुन्नद्धचूडोऽञ्चितस्व्यजानुः । आकर्णमाकृष्टसबानधन्वा व्यरोचत्ऽ आस्ते स विनीयमानः ॥ १८.५१ ॥ अथ मधु वनितां नेत्रनिर्वेशनीयं मनसिजतरुपुष्पं रागबन्धप्रवालम् । अकृतकविधि सर्वाङ्गीणमाकल्पजातं विलसितपदमाद्यं यौवनं स प्रपेदे ॥ १८.५२ ॥ प्रतिकृतिरचनाभयो दूतिसंदर्शिताभ्यः समधिकतररूपाः शुद्धसंतानकामैः । अधिविविदुरमात्यैराहृतास्तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥ १८.५३ ॥ _______________________________________________________________________________ अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयमग्नितेजसम् । शिश्रिये श्रुतवतामपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥ १९.१ ॥ तत्र तीर्थसलिलेन दीर्घिकास्तल्पमन्तरितभूमिभिः कुशैः । सौधवासमुटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः ॥ १९.२ ॥ लब्धपालनविधौ न तत्सुतः खेदमाप गुरुणा हि मेदिनी । भोक्तुमेव भुजनिर्जितद्विषा न प्रसाधयितुमस्य कल्पिता ॥ १९.३ ॥ सोऽधिकारमभिकः कुलोचितं काश्चन स्वयमवर्तयत्समाः । तं निवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवत् ॥ १९.४ ॥ कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु । ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः ॥ १९.५ ॥ इन्द्रियार्थपरिशून्यमक्षर्मः सोढुमेकमपि स क्षणातरम् । अन्तरे च विहरन् दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः ॥ १९.६ ॥ गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ । तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥ १९.७ ॥ तं कृतप्रणतयोऽनुजीविनः कोमलात्मनखरागरूषितम् । भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् ॥ १९.८ ॥ युवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः । गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः ॥ १९.९ ॥ तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः । अङ्गनास्तमधिकं व्यलोभयन्नर्पितप्रकृतिकान्तिभिर्मुखैः ॥ १९.१० ॥ घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः । अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीरिव द्विपः ॥ १९.११ ॥ सातिरेकमदकारणं रहस्तेन दत्तमभिलेषुरङ्गनाः । ताभिरप्युपहृतं मुखासवं सोऽपिबद्बकुलतुल्यदोहदः ॥ १९.१२ ॥ अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे । वल्लकी च हृदयंगमस्वना वल्गुवागपि च वामलोचना ॥ १९.१३ ॥ स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः । नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जवत् ॥ १९.१४ ॥ चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् । प्रेमदत्तवदनानिअः मनः सोऽन्वजीवदमरालकेश्वरौ ॥ १९.१५ ॥ तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः । वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः ॥ १९.१६ ॥ अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् । मेखलाभिरसकृच्च बन्धनं वञ्चयन् प्रणयिनीरवाप सः ॥ १९.१७ ॥ तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु । शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः ॥ १९.१८ ॥ लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः । वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः ॥ १९.१९ ॥ प्रेमगर्वितविपक्षमत्सरादायताच्च मदनान्महीक्षितम् । निन्युरुत्सवविधिच्छलेन तं देव्य उज्जितरुषः कृतार्थताम् ॥ १९.२० ॥ प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः । प्राञ्जलिः प्रणयिनीः प्रसादयन् सोऽदुनोत्प्रणयमन्थरः पुनः ॥ १९.२१ ॥ स्वप्नकीर्तितविपक्षमङ्गनाः दर्शनेन कृतखण्डनव्यथाः । प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः ॥ १९.२२ ॥ कॢप्तपुष्पशयनांल्लतागृहानेत्य दूतिकृतमार्गदर्शनः । अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरम् ॥ १९.२३ ॥ नाम वल्लभजनस्य ते मया प्राप्य भाग्यमपि तस्य काङ्क्ष्यते । लोलुपं बत मनो ममेति तं गोत्रविस्खलितमूचुरङ्गनाः ॥ १९.२४ ॥ चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलमलक्तकाङ्कितम् । उत्थितस्य शयनं विलासिनस्तस्य विभ्रमर्ततान्यपावृणोत् ॥ १९.२५ ॥ स स्वयं चरणरागमादधे योषितं न च तथा समाहितः । लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः ॥ १९.२६ ॥ चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने । विघ्नितेच्छमपि तस्य सर्वतो मन्मथेन्धनमभूद्वधूरतम् ॥ १९.२७ ॥ दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वमनुपृष्ठसंस्थितः । छायया स्मितमनोज्ञया वधूर्ह्रीनिमीलितमुखीश्चकार सः ॥ १९.२८ ॥ कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्रपादयोः । प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनम् ॥ १९.२९ ॥ प्रेक्ष्य दर्पणतल्स्थमात्मनो राजवेषमतिशक्रशोभिनम् । पिप्रिये स न तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनम् ॥ १९.३० ॥ मित्रकृत्यमपदिश्य पार्श्वतः प्रस्थितं तमनवस्थितं प्रियाः । विद्म हे शठ पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः ॥ १९.३१ ॥ तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रमपदिश्ययोषितः । अध्यशेरत बृहद्(?) भुजान्तरं पीवरस्तनविलुप्तचन्दनम् ॥ १९.३२ ॥ संगमाय निशि गूढचारिणं चारदूतिकथितं पुरो गताः । वञ्चयिष्यसि कुतस्तमोवृतः कामुकेति चकृषुस्तमङ्गनाः ॥ १९.३३ ॥ योषितामुडुपतेरिवाचिषां स्पर्शनिर्वृतिमसावनाप्नुवन् । आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः ॥ १९.३४ ॥ वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः । शिलपकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोभयन् ॥ १९.३५ ॥ अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यमुपधाय दर्शयन् । स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ ॥ १९.३६ ॥ अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः । प्रावृषि प्रमदबर्हिणेष्वभूत्कृतिमाद्रिषु विहारविभ्रमः ॥ १९.३७ ॥ विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुमबलाः स तत्वरे । आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरम् ॥ १९.३८ ॥ कार्त्तिकीषु सवितानहर्म्यभाग्यामिनीषु ललिताङ्गनासखः । अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकाम् ॥ १९.३९ ॥ सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बमिव हंसमेखलम् । स्वप्रियाविलसितानुकारिणीं सौधजाल्विवरैर्व्यलोकयत् ॥ १९.४० ॥ मर्मरैरगुरुधूपगन्धिभिर्व्यक्तहेमर्शनैस्तमेकतः । जह्रुराग्रथनमोक्षलोलुपं हैमनैर्निव्सनैः सुमध्यमाः ॥ १९.४१ ॥ अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु । तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः ॥ १९.४२ ॥ दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम् । अन्वनैषुरवधूतविग्रहास्तं दुरुत्सहवियोगमङ्गनाः ॥ १९.४३ ॥ ताः स्वमङ्कमधिरोप्य दोलया प्रेङ्खयन् परिजनापविद्धया । मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनमवाप बाहुभिः ॥ १९.४४ ॥ तं पयोधरनिषक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणैः । ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलाः प्रियाः ॥ १९.४५ ॥ यत्स भग्नसहकारमासवं रक्तपाटलसमागमं पपौ । तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः ॥ १९.४६ ॥ एवमिन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः । आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः ॥ १९.४७ ॥ तं प्रमत्तमपि न प्रभावतः शेकुराक्रमितुमन्यपार्थिवाः । आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रमक्षिणोत् ॥ १९.४८ ॥ दृष्टदोषमपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजामनाश्रवः । स्वादुभिस्तु विषयैर्हृतस्ततो दुःखमिन्द्रियगणो निवार्यते ॥ १९.४९ ॥ तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना । यक्ष्मणापि परिहानिराययौ कामयानसमवस्थया तुलाम् ॥ १९.५० ॥ व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषमिव घर्मपल्वलम् । राज्ञि तत्कुलमभूत्क्षयातुरे वामनार्चिरिव दीपभाजनम् ॥ १९.५१ ॥ बाढमेषु दिवसेषु कर्म साधयति पुत्रजन्मने । इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः ॥ १९.५२ ॥ स त्वनेकवनितासखोऽपि सन् पावनीमनवलोक्य संततिम् । वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात् ॥ १९.५३ ॥ तं गृहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा । रोगशान्तिमपदिश्य मन्त्रिणः संभृते शिखिनि गूढमादधुः ॥ १९.५४ ॥ तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी । साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियम् ॥ १९.५५ ॥ तस्यास्तथाविधनरेन्द्रविपत्तिशोकादुष्णैर्विलोचनजलैः प्रथमाभितप्तः । निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः ॥ १९.५६ ॥ तं भावाय प्रसवसमयाकाङ्क्षिणीनां प्रजानामन्तर्गूढं क्षितिरिव बभौ बीजमुष्टिं दधाना । मौलैः सार्धं स्थविरसचिवैर्हेमसिंहासनस्था राज्ञी राज्यं विधिवदशिषद्भर्तुरव्याहताज्ञा ॥ १९.५७ ॥ अद्दितिओनल्वेर्सेस्(क्षेपक) आकीर्यमाणमासन्नविधिभिः समिदाहरैः । वैखानसैरदृश्याग्निप्रत्युद्गमनवृत्तिभिः ॥ १.४९* ॥ इमां देवीमृतुस्नातां स्मृत्वा सपदि सत्वरः । प्रदक्षिणक्रियातीतस्तस्याः कोपमजीजनः ॥ १.७५* ॥ ताम्रललाटजां रेखां बिभ्रती सासितेतराम् । संध्या प्रातिपदेनेव प्रतिभिन्ना हिमांशुना ॥ १.८२* ॥ गान्धर्वमस्त्रं तदितः प्रतीच्छ प्रयोगसंहारविभक्तमन्त्रम् । संध्या प्रातिपदेनेव न चारिहिंसा विजयः स्वहस्ते ॥ ५.५७* ॥ निद्रावशं त्वयि गते शशिना कथंचिदात्मानमाननरुचा भवतो वियुज्य । लक्ष्मीर्विभातसमयेऽपि हि दर्शनेन पर्युत्सुका प्रणयिनी निशि खण्डितेव ॥ ५.६७* ॥ मन्दं विवाति हिमसंभृतशीतभावः संसृज्यते सरसिजैररुणांशुभिन्नैः । सौरभ्यमीप्सुरिव ते मुखमारुतस्य यन्नो गुणान् प्रति निशापरिणामवायुः ॥ ५.६९* ॥ इति स विहतनिद्रस्तल्पमल्पेतरांशः सुरगज इव गङ्गासैकतं सुप्रतीकः । परिजनवनितानां पादयोर्व्यापृतानां वलयमणिविदिष्टं प्रच्छदान्तं मुमोच ॥ ५.७५* ॥ स तत्र मञेष्चु विमानकल्पेष्वाकल्पसंमूर्छितरूपशोभान् । सिंहासनस्थान्नृपतीनपश्यत्यूपान् प्रशस्तानिव हैमवेदीन् ॥ ६.१* ॥ यदा यदा राजकुमारिकासौ न पूर्वपूर्वं गनयां चकार । तदा तदा नामितरेफरेखामाशालता पल्लविनी बभूव ॥ ६.६७* ॥ ललाटबद्धभृकुटीतरङ्गैस्तनुत्यजां दन्तनिपीडितोष्ठैः । आतस्तरे भल्लनिकृत्तकण्ठैर्हुंकारगर्भैर्द्विषतां शिरोभिः ॥ ७.३८* ॥ अथ वीक्ष्य गुणैः प्रतिष्ठितं प्रकृतिष्वात्मजमाभिगमिकैः । पदवीं परिणामदेशिनीं रघुरादत्त वनान्तगामिनीम् ॥ ८.९* ॥ नमस्त्रिमूर्तये तुभ्यं गुणत्रयविभागाय । प्राक्सृष्टे[ः] केवलात्मने पश्चाद्भद्[र्]अमुपेयुषे ॥ १०.१९* ॥ तेऽपि तूर्णमवगम्य शाम्भवमासमाहरणकर्मतत्पराः । स्वां सक्षिप्ततिकर्कशं हि तच्चिक्षिपुर्दशाअरथात्मजाग्रतः ॥ ११.४३* ॥ निस्त्रिंशकल्पस्य निधेर्जलानामेषा तमालद्रुमराज नीला । दूरादरालभ्रु विभाति वेला कलङ्करेखा मलिनेव धारा ॥ १३.१५* ॥ प्रत्यागतौ तत्र चिरप्रवासादपश्यतां दाशरथी जनन्यौ । कुमुद्वती शीतमरीचिलेखे दिवेव रूपान्तरदुर्विभाव्ये ॥ १४.१* ॥ केयं वने लक्ष्मण लक्ष्मणेति दीनाक्षरं रोदिति योषिदुच्चैः । आं ज्ञातमेषा जनकात्मजेति कविर्विचिन्त्यान्तिकमाजगाम ॥ १४.६९* ॥ तदाकर्ण्य मुनेर्वाक्यं रामो राजीवलोचनः । समं हर्षविषादाभ्यां युयुजे नीतिकोविदः ॥ १५.७१* ॥ गच्छ लक्ष्मण शीघ्रं त्वं मा भूद्धर्मविपर्ययः । त्यागो वापि वधो वापि साधूनामुभयं समम् ॥ १५.९४* ॥ तस्माद्बभूवाथ दलाभिधानो दलान्वितः पद्मदलाभदृष्टिः । कुन्दाग्र दन्तो रिपुदन्तिसिंहः पतिः पृथिव्याः कुलकैरिवेन्दुः ॥ १८.१६* ॥ हित्वाथ भोगांस्तपसोत्तमेन त्रिविष्टपं प्राप्तवति क्षितीशे । तदात्मजः सागरधीरचेताः शशास पृथ्वीं सकलां नृसोमः ॥ १८.१९* ॥