पद्यावली विरचिता रसिकैर्मुकुन्द सम्बन्धबन्धुरपदा प्रमोदोर्मिसिन्धुः । रम्या समस्ततमसां दमनी क्रमेण संगृह्यते कृतिकदम्बककौतुकाय ॥१॥ ग्रन्थप्रारम्भे मङ्गलाचरणम् । नमो नलिननेत्राय वेणुवाद्यविनोदिने । राधाधरसुधापान शालिने वनमालिने ॥ २ ॥ कस्यचित् ॥ भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समधिनिरतैर्नीते हितप्राप्तये । लावण्यैकमहानिधौ रसिकतां राधादृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥३॥ श्रीसारङ्गस्य ॥ ये गोवर्धनमूलकर्दमरसव्यादष्टबर्हच्छदा ये वृन्दावनकुक्षिषु व्रजवधूलीलोपधानानि च । ये चाभ्यङ्गसुगन्धयः कुवलयापीडस्य दानाम्भसा ते वो मङ्गलमादिशन्तु सततं कंसद्विषो बाहवः ॥४॥ शुभाङ्कस्य ॥ (स्क्म् १.५९.३) सायं व्यावर्तमानखिलसुरभिकुलाह्वानसंकेतनामान्य् अभीरीवृन्दचेतो हठहरणकलासिद्धमन्त्राक्षराणि । सौभाग्यं वः समन्ताद्दधतु मधुभिदः केलिगोपालमूर्तेः सानन्दकृष्टवृन्दावनरसिकमृगश्रेणयो वेणुनादाः ॥५॥ उमापतिधरस्य ॥ (स्क्म् १.५७.३) अथ श्रीकृष्णस्य महिमा । अम्भोभिः स्थलतां स्थलं जलधितां धूलीलवः शैलतां शैली मृत्कणतां तृणं कुलिशतां वज्रं तृणक्षीणताम् । वह्निः शीतलतां हिमं वहनतामायाति यस्येच्छया लीलादुर्ललिताद्भुतव्यसनिनं कृष्णाय तस्मै नमः ॥६॥ कस्यचित् ॥ वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणाद् औदार्यादघशोषणादगणितश्रेयःपदप्रापणात् । सेव्यः श्रीपतिरेव सर्वजगतामेते यतः साक्षिणः प्रह्लादश्च विभीषणश्च करिराट्पाञ्चल्यहल्या ध्रुवः ॥७॥ कस्यचित् ॥ अथ भजनमाहात्म्यम् । व्याधस्याचरणं ध्रुवस्य च वयो विद्या गजेन्द्रस्य का कुब्जायाः किमु नाम रूपमधिकं किं तत्सुदाम्नो धनम् । वंशः को विदुरस्य यादवपतेरुग्रस्य किं पौरुषं भक्त्या तुष्यति केवलं न च गुणैर्भक्तिप्रियो माधवः ॥ ८ ॥ श्रीदाक्षिणात्यस्य ॥ अनुचितमुचितं वा कर्म कोऽयं विभागो भगवति परमास्तां भक्तियोगो द्रढीयान् । किरति विषमहीन्द्रः सान्द्रपीयूषमिन्दुर् द्वयमपि स महेशो निर्विशेषं बिभर्ति ॥९॥ श्रीविष्णुपुरीपादानाम् ॥ यदि मधुमथन त्वदङ्घ्रिसेवां हृदि विदधाति जहाति वा विवेकी । तदखिलमपि दुष्कृतं त्रिलोके कृतमकृतं न कृतं कृतं च सर्वम् ॥१०॥ तेषमेव ॥ काषायान्न च भोजनादिनियमान्नो वा वने वासतो व्याख्यानादथ वा मुनिव्रतभराच्चित्तोद्भवः क्षीयते । किन्तु स्फीतकलिन्दशैलतनयातीरेषु विकीडतो गोविन्दस्य पदारविन्दभजनारम्भस्य लेशादपि ॥११॥ कस्यचित् ॥ अलमलमियमेव प्राणिनां पातकानां निरसनविषये या कृष्ण कृष्णेति वाणी । यदि भवति मुकुन्दे भक्तिरानन्दसान्द्रा विलुठति चरणाब्जे मोक्षसाम्राज्यलक्ष्मीः ॥ १२ ॥ श्रीसर्वज्ञस्य ॥ नानोपचारकृतपूजनमार्तबन्धोः प्रेम्णैव भक्तहृदयं सुखविद्रुतं स्यात् । यावत्क्षुदस्ति जठरे जरठा पिपासा तावत्सुखाय भवतो ननु भक्ष्यपेये ॥१३॥ श्रीरामानन्दरायस्य । (च्च्म्क्१३.४२॑ च्च्२.८.६९) कृष्णभक्तिरसभावितमतिः क्रियतां यदि कुतोऽपि लभ्यते तत्र लौल्यमपि मूल्यमेकलं जन्मकोटिसुकृतैर्न लभ्यते ॥१४॥ तस्यैव । (च्च्२.८.७०) ज्ञानमस्ति तुलितं च तुलायां प्रेम नैव तुलितं तु तुलायाम् । सिद्धिरेव तुलितात्र तुलायां कृष्णनाम तुलितं न तुलायाम् ॥१५॥ श्रीश्रीधरस्वामिपादानाम् ॥ अथ नाममाहात्म्यम् । अंहः संहरदखिलं सकृद् उदयादेव सकललोकस्य । तरणिरिव तिमिरजलधिं जयति जगन्मङ्गलं हरेर्नाम ॥१६॥ श्रीलक्ष्मीधराणाम् ॥ (नामकौमुदी १.२॑ च्च्३.३.१८०) चतुर्णां वेदानां हृदयमिदमाकृष्य हरिणा चतुर्भिर्यद्वर्णैः स्फुटमघटि नारायणपदम् । तदेतद्गायन्तो वयमनिशमात्मानमधुना पुनीमो जानीमो न हरिपरितोषाय किमपि ॥१७॥ कस्यचित् ॥ योगश्रुत्युपपत्तिनिर्जनवनध्यानाध्वसम्भावित स्वाराज्यं प्रतिपद्य निर्भयममी मुक्ता भवन्तु द्विजाः । अस्माकं तु कदम्बकुञ्जकुहरप्रोन्मीलदिन्दीवर श्रेणीश्यामलधामनाम जुषतां जन्मास्तु लक्षावधि ॥१८॥ श्री ईश्वरपुरीपादानाम् ॥ कल्याणानां निधानं कलिमलमथनं पावनं पावनानां पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रोच्यमानम् । विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये कृष्णनाम ॥१९॥ कस्यचित् ॥ वेपन्ते दुरितानि मोहमहिमा सम्मोहमालम्बते सातङ्कं नखरजनीं कलयति श्रीचित्रगुप्तः कृती । सानन्दं मधुपर्कसम्भृतिविधौ वेधाः करोत्युद्यमं वक्तुं नाम्नि तवेश्वराभिलषिते ब्रूमः किमन्यत्परम् ॥२०॥ कस्यचित् ॥ कः परेतनगरीपुरन्दरः को भवेदथ तदीयकिङ्करः । कृष्णनाम जगदेकमङ्गलं कण्ठपीठमुररीकरोति चेत् ॥२१॥ श्री आनन्दाचार्यस्य । चेतोदर्पणमार्जनं भवमहादावाग्निनिर्वापणं श्रेयःकैरवचन्द्रिकावितरणं विद्यावधूजीवनम् । आनन्दाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनं सर्वात्मस्नपनं परं विजयते श्रीकृष्णसङ्कीर्तनम् ॥२२॥ श्रीश्रीभगवतः ॥ (च्च्३.२०.१२) ब्रह्माण्डानां कोटिसङ्ख्याधिकानाम् ऐश्वर्यं यच्चेतना वा यदंशः । आविर्भूतं तन्महः कृष्णनाम तन्मे साध्यं साधनं जीवनं च ॥२३॥ केषांचित् ॥ विष्णोर्नामैव पुंसाः शमलमपहरत्पुण्यमुत्पादयच्च ब्रह्मादिस्थानभोगाद्विरतिमथ गुरोः श्रीपदद्वन्द्वभक्तिम् । तत्त्वज्ञानं च विष्णोरिह मृतिजननभ्रान्तिबीजं च दग्ध्वा संपूर्णानन्दबोधे महति च पुरुषं स्थापयित्वा निवृत्तम् ॥२४॥ श्रीभगवद्व्यासपादानाम् ॥ नाम चिन्तामणिः कृष्णश् चैतन्यरसविग्रहः । पूर्णः शुद्धो नित्यमुक्तो ऽभिन्नत्वान्नामनामिनोः ॥ २५ ॥ तेषामेव ॥ (पद्मपुराण, च्च्२.१७.१३३, ह्ब्व्११.५०३) मधुरमधुरमेतन्मङ्गलं मङ्गलानां सकलनिगमवल्लीसत्फलं चित्स्वरूपम् । सकृदपि परिगीतं श्रद्धया हेलया वा भृगुवर नरमात्रं तारयेत्कृष्णनाम ॥२६ ॥ तेषामेव ॥ (ह्ब्व्११.४५१॑ स्कान्दपुराण, प्रभासखण्डे) स्वर्गार्थीया व्यवसितिरसौ दीनयत्येव लोकान् मोक्षापेक्षा जनयति जनं केवलं क्लेशभाजम् । योगाभ्यासः परमविरसस्तादृशैः किं प्रयासैः सर्वं त्यक्त्वा मम तु रसना कृष्ण कृष्णेति रौतु ॥२७॥ कस्यचित् ॥ सदा सर्वत्रास्ते ननु विमलमाद्यं तव पदं तथाप्येकं स्तोकं न हि भवतरोः पत्रमभिनत् । क्षणं जिह्वाग्रस्थं तव तु भगवन्नाम निखिलं समूलं सम्भारं कषति कतरत्सेव्यमनयोः ॥२८॥ श्रीश्रीधरस्वामिपादानाम् ॥ आकृष्टिः कृतचेतसां सुमनसामुच्चांनं चांहसाम् आचण्डालममूकलोकसुलभो वश्यश्च मुक्तिश्रियः । नो दीक्षां न च सत्क्रियां न च पुरश्चर्यां मनागीक्षते मन्त्रोऽयं रसनास्पृगेव फलति श्रीकृष्णनामात्मकः ॥२९॥ श्रीलक्ष्मीधराणाम् ॥ (भगवन्नामकौमुदी १३३॑ च्च्मध्य १५.११०) विचेयानि विचार्याणि विचिन्त्यानि पुनः पुनः । कृपणस्य धनानीव त्वन्नामानि भवन्तु नः ॥३०॥ श्रीभवानन्दस्य ॥ नाम्नामकारि बहुधा निजसर्वशक्तिस् तत्रार्पिता नियमितः स्मरणे न कालः । एतादृशी तव कृपा भगवन्ममापि दुर्दैवमीदृशमिहाजनि नानुरागः ॥३१॥ श्रीभगवतः । (च्च्३.२०.१६) अथ नामकीर्तनम् । तृणादपि सुनीचेन तरोरिव सहिष्णुना । अमानिना मानदेन कीर्तनीयः सदा हरिः ॥३२॥ तस्यैव ॥ (च्च्३.२०.२१) श्रीरामेति जनार्दनेति जगतां नाथेति नारायणे त्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च । श्रीमन्नाममहामृताब्धिलहरीकल्लोलमग्नं मुहु र्मुह्यन्तं गलदश्रुनेत्रमवशं मां नाथ नित्यं कुरु ॥३३॥ श्रीलक्ष्मीधराणाम् ॥ (द्च्प्२) श्रीकान्त कृष्ण करुणामय कञ्जनाभ कैवल्यवल्लभ मुकुन्द मुरान्तकेति । नामावलीं विमलमौक्तिकहारलक्ष्मी लावण्यवञ्चनकरीं करवाणि कण्ठे ॥३४॥ तेषामेव ॥ (द्च्प्३) कृष्ण राम मुकुन्द वामन वासुदेव जगद्गुरो मत्स्य कच्छप नारसिंह वराह राघव पाहि माम् । देवदानवनारदादिमुनीन्द्रवन्द्य दयानिधे देवकीसुत देहि मे तव पादभक्तिमचञ्चलाम् ॥३५॥ कस्यचित् ॥ (द्च्प्४) हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव । हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥३६॥ श्रीवैष्णवस्य ॥ (क्क्२.१०८, द्च्प्५) श्रीनारायण पुण्डरीकनयन श्रीराम सीतापते गोविन्दाच्युत नन्दनन्दन मुकुन्दानन्द दामोदर । विष्णो राघव वासुदेव नृहरे देवेन्द्रचूडामणे संसारार्णवकर्णधारक हरे श्रीकृष्ण तुभ्यं नमः ॥३७॥ तस्यैव ॥ भाण्डीरेश शिखण्डमण्डन वर श्रीखण्डलिप्ताङ्ग हे वृन्दारर्ण्यपुरन्दर स्फुरदमन्देन्दीवरश्यामल । कालिन्दीप्रिय नन्दनन्दन परानन्दारविन्देक्षण श्रीगोविन्द मुकुन्द सुन्दरतनो मां दीनमानन्दय ॥३८॥ श्रीगोपालभट्टानाम् ॥ श्रीकृष्णकथामाहात्म्यम् । श्रुतमप्यौपनिषदं दूरे हरिकथामृतात् । यन्न सन्ति द्रवच्चित्त कम्पाश्रुपुलकादयः ॥३९॥ श्रीभगवद्व्यासपादानाम् ॥ [भक्तिसन्दर्भ ६९] नैव दिव्यसुखभोगमर्थये नापवर्गमपि नाथ कामये । यान्तु कर्णविवर दिने दिने कृष्णकेलिचरितामृतानि मे ॥४०॥ श्रीकविरत्नस्य ॥ अहो अहोभिर्न कलेर्विदूयते सुधासुधारामधुरं पदे पदे । दिने दिने चन्दनचन्द्रशीतलं यशो यशोदातनयस्य गीयते ॥४१॥ तस्यैव ॥ नन्दनन्दनकैशोर लीलामृतमहाम्बुधौ । निमग्नानां किमस्माकं निर्वाणलवणाम्भसा ॥४२॥ श्रीयादवेन्द्रपुरीपादानाम् ॥ त्वत्कथामृतपाथोधौ विहरन्तो महामुदः । कुर्वन्ति कृतिनः केचिच् चतुर्वर्गं तृणोपमम् ॥४३॥ श्रीश्रीधरस्वामिपादानाम् ॥ तत्रैव गङ्गा यमुना च तत्र तत्र गोदावरी तत्र सरस्वती च । सर्वाणि तीर्थानि वसन्ति तत्र यत्राच्युतोदारकथाप्रसङ्गः ॥४४॥ कस्यचित् ॥ या भुक्तिलक्ष्मीर्भुवि कामुकानां या मुक्तिलक्ष्मीर्हृदि योगभाजाम् । यानन्दलक्ष्मी रसिकेन्द्रमौलेः सा कापि लीलावतु माधवस्य ॥४५॥ श्रीशङ्करस्य ॥ अथ श्रीकृष्णध्यानम् । फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥४६ ॥ श्रीशारदाकारस्य ॥ [क्क्३.८२॑ कृष्णस्१०६ (प्४९ न्) अत्त्रिबुतेद्तो मृत्युसञ्जयतन्त्र॑ इबिद्. ह्ब्व्३.११४ (सारदातिलके च). इन् र्कद्तो स्वायम्भुवागम.] अंसालम्बितवामकुण्डलधरं मन्दोन्नतभ्रूलतं किञ्चित्कुञ्चितकोमलाधरपुटं साचिप्रसारेक्षणम् । आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा मुले कल्पतरोस्त्रिभङ्गललितं ध्यायेज्जगन्मोहनम् ॥४७॥ कस्यचित् ॥ (क्क्२.१०२) अधरे विनिहितवंशं चम्पककुसुमेन कल्पितोत्तंसम् । विनतं दधानमंसं वामं सततं नमामि जितकंसम् ॥४८॥ श्रीपुरुषोत्तमदेवस्य । व्यत्यस्तपादकमलं ललितत्रिभङ्गी सौभाग्यमंसविरलीकृतकेशपाशम् । पिञ्छावतंसमुररीकृतवंशनालम् अव्याजमोहनमुपैमि कृपाविशेषम् ॥४९॥ श्रीनारदस्य । अथ भक्तवात्सल्यम् । अतन्द्रितचमूपतिप्रहितहस्तमस्वीकृत प्रणीतमणिपादुकं किमिति विस्मृतान्तः पुरम् । अवाहनपरिष्क्रियं पतगराजमारोहतः करिप्रवरबृंहिते भगवतस्त्वरायै नमः ॥५०॥ श्रीदाक्षिणात्यस्य । श्रीद्रौपदीत्राणे तद्वाक्यम् । तमसि रविरिवोद्यन्मज्जतामप्लवानां प्लव इव तृषितानां स्वादुवऋसीव मेघः । निधिरिव निधनानां तीव्रदुःखामयानां भिषगिव कुशलं नो दातुमायाति शौरिः ॥५१॥ श्रीव्यासपादानाम् । अथ तद्भक्तानां माहात्म्यम् । प्रह्लादनारदपराशरपुण्डरीक व्यासाम्बरीषशुकशौनकभीष्मदाल्भ्यान् । रुक्माङ्गदोद्धवविभीषणफाल्गुनादीन् पुण्यानिमान् परमभागवतान्नमामि ॥५२॥ श्रीदाक्षिणात्यस्य ॥ श्रीविष्णोः श्रवणे परीक्षिदभवद्वैयासकिः कीर्तने प्रह्लादः स्मरणे तदङ्घ्रिभजने लक्ष्मीः पृथुः पूजने । अक्रूरस्त्वभिवन्दने कपिपतिर्दास्येऽथ सख्येऽर्जुनः सर्वस्वात्मनिवेदने बलिरभूत्कृष्णाप्तिरेषां परा ॥५३॥ कस्यचित् ॥ (च्च्२.२२.१३६॑ ब्र्स्१.२.३६५) तेभ्यो नमोऽस्तु भववारिधिजीर्णपङ्क संलग्नमोक्षणविचक्षणपादुकेभ्यः । कृष्णेति वर्णयुगलश्रवणेन येषाम् आनन्दथुर् भवति नर्तितरोमवृन्दः ॥५४॥ औत्कलस्य ॥ हरिस्मृत्याह्लादस्तिमितमनसो यस्य कृतिनः सरोमाञ्चः कायो नयनमपि सानन्दसलिलम् । तमेवाचन्द्रार्कं वह पुरुषधौरेयमवने किमन्यैस्तैर्भारैर्यमसदनगत्यागतिपरैः ॥५५॥ श्रीसर्वानन्दस्य । त्वद्भक्तः सरितां पतिं चुलुकवत्खद्योतवद्भास्करं मेरुं पश्यति लोष्ट्रवत्किमपरं भूमेः पतिं भृत्यवत् । चिन्तारत्नचयं शिलाशकलवत्कल्पद्रुमं काष्ठवत् संसारं तृणराशिवत्किमपरं देहं निजं भारवत् ॥५६॥ श्रीसर्वज्ञस्य । मीमांसारजसा मलीमसदृशां तावन्न धीरीश्वरे गर्वोदर्ककुतर्ककर्कशधियां दूरेऽपि वार्ता हरेः । जानन्तोऽपि न जानते श्रुतिसुखं श्रीरङ्गिसङ्गादृते सुस्वादुं परिवेषयन्त्यपि रसं गुर्वी न दर्वी स्पृशेत् ॥५७॥ श्रीमाधवसरस्वतीपादानाम् । ज्ञानावलम्बकाः केचित् केचित्कर्मावलम्बकाः । वयं तु हरिदासानां पादत्राणावलम्बकाः ॥५८॥ कस्यचित् । अथ भक्तानां दैन्योक्तिः नामानि प्रणयेन ते सुकृतिनां तन्वन्ति तुण्डोत्सवं धामानि प्रथयन्ति हन्त जलदश्यामानि नेत्राञ्जनम् । सामानि श्रुतिशुष्कलीं मुरलिकाजातान्यलंकुर्वते कामानिर्वृतचेतसामपि विभो नाशापि नः शोभते ॥५९॥ समाहर्तुः ॥ संसाराम्भसि सम्भृतभ्रमभरे गम्भीरतापत्रय ग्राहेणाभिगृहीतमुग्रगतिना क्रोशन्तमन्तर्भयात् । दीप्रेणाद्य सुदर्शनेन विबुधक्लान्तिच्छिदाकारिणा चिन्तासन्ततिरुद्धमुद्धर हरे मच्चित्तदन्तीश्वरम् ॥६०॥ समाहर्तुः ॥ विवृतविविधबाधे भ्रान्तिवेगादगाधे बलवति भवपूरे मज्जतो मे विदूरे । अशरणगणबन्धो हा कृपाकौमुदीन्दो सकृदकृतविलम्बं देहि हस्तावलम्बम् ॥६१॥ समाहर्तुः । नृत्यन् वायुविघूर्णितैः स्वविटपैर्गायन्नलीनां रुतैर् मुञ्चन्नश्रु मरन्दबिन्दुभिरलं रोमाञ्चवानङ्कुरैः । माकन्दोऽपि मुकुन्द मूर्च्छति तव स्मृत्या तु वृन्दावने ब्रूहि प्राणसमान चेतसि कथं नामापि नायाति ते ॥६२॥ श्री ईश्वरपुरीपादानाम् । या द्रौपदीपरित्राणे या गजेन्द्रस्य मोक्षणे । मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥६३॥ श्री औत्कलस्य दीनबन्धुरिति नाम ते स्मरन् यादवेन्द्र पतितोऽहमुत्सहे । भक्तवत्सलतया त्वयि श्रुते मामकं हृदयमाशु कम्पते ॥६४॥ श्रीजगन्नाथसेनस्य । स्तावकास्तव चतुर्मुखादयो भावकास्तु भगवन् भवादयः । सेवकाः शतमुखादयः सुरा वासुदेव यदि के तदा वयम् ॥६५॥ श्रीधनञ्जयस्य । परमकारुणिको न भवत्परः परमशोच्यतमो न च मत्परः । इति विचिन्त्य हरेः मयि पामरे यदुचितं यदुनाथ तदाचर ॥६६॥ कस्यचित् । भवोद्भवक्लेशकशाशताहतः परिभ्रमन्निन्द्रियकापथान्तरे । नियम्यतां माधव मे मनोहयस् त्वदङ्घ्रिशङ्कौ दृढभक्तिबन्धने ॥६७॥ कस्यचित् । न ध्यातोऽसि न कीर्तितोऽसि न मनागाराधितोऽसि प्रभो नो जन्मान्तरगोचरे तव पदाम्भोजे च भक्तिः कृता । तेनाहं बहुदुःखभाजनतया प्राप्तो दशामीदृशीं त्वं कारुण्यनिधे विधेहि करुणां श्रीकृष्ण दीने मयि ॥६८॥ श्रीशङ्करस्य । शरणमसि हरे प्रभो मुरारे जय मधुसूदन वासुदेव विष्णो निरवधिकलुषौघकारिणं मां गतिरहितं जगदीश रक्ष रक्ष ॥६९॥ कस्यचित् ॥ दिनादौ मुरारे निशादौ मुरारे दिनार्धे मुरारे निशार्धे मुरारे । दिनान्ते मुरारे निशान्ते मुरारे त्वमेको गतिर्नस्त्वमेको गतिर्नः ॥७०॥ श्रीदाक्षिणात्यस्य ॥ अयि नन्दतनुज किङ्करं पतितं मां विषमे भवाम्बुधौ कृपया तव पादपङ्कज स्थितधूलीसदृशं विचिन्तय ॥७१॥ श्रीभगवतः । (च्च्३.२०.३२) अथ भक्तानां निष्ठा न वयं कवयो न तार्किका न च वेदान्तनितान्तपारगाः । न च वादिनिवारकाः परं कपटाभीरकिशोरकिङ्कराः ॥७२॥ श्रीसार्वभौमभट्टाचार्याणाम् ॥ परिवदतु जनो यथा तथा वा ननु मुखरो न वयं विचारयामः हरिरसमदिरा मदातिमत्ता भुवि विलुठाम नटाम निर्विशाम ॥७३॥ तेषामेव ॥ (ब्र्स्२.२.१५) नाहं विप्रो न च नरपतिर्नापि वैश्यो न शूद्रो नाहं वर्णी न च गृहपतिर्नो वनस्थो यतिर्वा । किन्तु प्रोद्यन्निखिलपरमानन्दपूर्णामृताब्धेर् गोपीभर्तुः पदकमलयोर्दासदासानुदासः ॥७४॥ श्रीभगवतः । (च्च्२.१३.८०) धन्यानां हृदि भासतां गिरिवरप्रत्यग्रकुञ्जौकसां सत्यानन्दरसं विकारविभवव्यावृत्तमन्तर्महः । अस्माकं किल वल्लवीरतिरसो वृन्दाटवीलालसो गोपः कोऽपि महेन्द्रनीलरुचिरश्चित्ते मुहुः क्रीडतु ॥७५॥ श्री ईश्वरपुरीपादानाम् । रसं प्रशंसन्तु कवितानिष्ठा ब्रह्मामृतं वेदशिरोनिविष्ठाः । वयं तु गुञ्जाकलितावतंसं गृहीतवंशं कमपि श्रयामः ॥७६॥ श्रीयादवेन्द्रपुरीपादानाम् ॥ ध्यानातीतं किमपि परमं ये तु जानन्ति तत्त्वं तेषामास्तां हृदयकुहरे शुद्धचिन्मात्र आत्मा । अस्माकं तु प्रकृतिमधुरः स्मेरवक्त्रारविन्दो मेघश्यामः कनकपरिधिः पङ्कजाक्षोऽयमात्मा ॥७७॥ श्रीकविरत्नस्य ॥ (ब्र्स्३.२.२८) जातु प्रार्थयते न पार्थिवपदं नेन्द्रे पदे मोदते सन्धत्ते न च योगसिद्धिषु धियं मोक्षं च नाकाङ्क्षति । कालिन्दीवनसीमनि स्थिरतडिन्मेघदूतौ केवलं शुद्धे ब्रह्मणि वल्लवीभुजलताबद्धे मनो धावति ॥७८॥ तस्यैव ॥ सन्ध्यावन्दन भद्रमस्तु भवतो भोः स्नान तुभ्यं नमो भो देवाः पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम् । यत्र क्वापि निषद्य यादवकुलोत्तमस्य कंसद्विषः स्मारं स्मारमघं हरामि तदलं मन्ये किमन्येन मे ॥७९॥ श्रीमाधवेन्द्रपुरीपादानाम् ॥ देवकीतनयसेवकीभवन् यो भवानि स भवानि किं ततः । उत्पथे क्वचन सत्पथेऽपि वा मानसं व्रजतु दैवदेशितम् ॥८०॥ कस्यचित् ॥ मुग्धं मां निगदन्तु नीतिनिपुणा भ्रान्तं मुहुर्वैदिकाः मन्दं बान्धवसञ्चया जडधियं मुक्तादराः सोदराः । उन्मत्तं धनिनो विवेकचतुराः कामं महादाम्भिकं मोक्तुं न क्षमते मनागपि मनो गोविन्दपादस्पृहाम् ॥८१॥ श्रीमाधवस्य ॥ श्याममेव परं रूपं पुरी मधुपुरी वरा । वयः कैशोरकं ध्येयम् आद्य एव परो रसः ॥८२॥ रघुपत्युपाध्यायस्य । (च्च्२.१९.१०६) पुरतः स्फुरतु विमुक्तिश् चिरमिह राज्यं करोतु वैराज्यम् । पशुपालबालकपतेः सेवामेवाभिवाञ्छामि ॥८३॥ श्रीसुरोत्तमाचार्यस्य ॥ क्षौणीपतित्वमथवैकमकिञ्चनत्वं नित्यं ददासि बहुमानमथापमानम् । वैकुण्ठवासमथवा नरके निवासं हा वासुदेव मम नास्ति गतिस्त्वदन्या ॥८४॥ श्रीगर्भकवीन्द्रस्य ॥ दिशतु स्वाराज्यं वा वितरतु तापत्रयं वापि । सुखितं दुःखितमपि मां न विमुञ्चतु केशवः ॥ ८५ ॥ श्रीकविराजमिश्रस्य ॥ अथ भक्तानां सोत्कण्ठाप्रार्थना । नन्दनन्दनपदारविन्दयोः स्यन्दमानमकरन्दबिन्दवः । सिन्धवः परमसौख्यसम्पदां नन्दयन्तु हृदयं ममानिशम् ॥८६॥ श्रीकराचार्याणाम् । इह वत्सान् समचारयद् इह नः स्वामी जगौ वंशीम् । इति सास्रं गदतो मे यमुनातीरे दिनं यायात् ॥८७॥ श्रीरघुपत्युपाध्यायस्य । अनुशीलनकुञ्जवाटिकायां जघनालम्बितपीतशाटिकायाम् । मुरलीकलकूजिते रतायां मम चेतोऽस्तु कदम्बदेवतायाम् ॥८८॥ श्रीगोविन्दस्य । आरक्तदीर्घनयनो नयनाभिरामः कन्दर्पकोटिललितं वपुरादधानः । भूयात्स मेऽद्य हृदयाम्बुरुहाधिवर्ती वृन्दाटवीनगरनागरचक्रवर्ती ॥८९॥ श्रीभवानन्दस्य । लावण्यामृतवन्या मधुरिमलहरीपरीपाकः । कारुण्यानां हृदयं कपटकिशोरः परिस्फुरतु ॥९०॥ श्रीसार्वभौमभट्टाचार्याणाम् । भवन्तु तत्र जन्मानि यत्र ते मुरलीकलः । कर्णपेयस्त्वमायाति किं मे निर्वाणवार्तया ॥९१॥ तेषमेव । आस्वाद्यं प्रमदारदच्छदमिव श्रव्यं नवं जल्पितं बालाया इव दृश्यमुत्तमवधूलावण्यलक्ष्मीरिव । प्रोद्घोष्यं चिरविप्रयुक्तवनितासन्देशवाणीव मे नैवेद्यं चरितं च रूपमनिशं श्रीकृष्ण नामास्तु मे ॥९२॥ केषांचित् । नयनं गलदश्रुधारया वदनं गद्गदरुद्धया गिरा । पुलकैर्निचितं वपुः कदा तव नामग्रहणे भविष्यति ॥९३॥ श्रीभगवतः । (च्च्३.२०.३६) न धनं न जनं न सुन्दरीं कवितां वा जगदीश कामये मम जन्मनि जन्मनीश्वरे भवताद्भक्तिरहैतुकी त्वयि ॥९४॥ तस्यैव । (च्च्३.२०.२९) गोवर्धनप्रस्थनवाम्बुवाहः कलिन्दकन्यानवनीलपद्मम् । वृन्दावनोदारतमालशाखी तापत्रयस्याभिनवं करोतु ॥९५॥ श्रीगौडीयस्य । अनङ्गरसचातुरीचपलचारुनेत्राञ्चलश् चलन्मकरकुण्डलस्फुरितकान्तिगण्डस्थलः । व्रजोल्लसितनागरीनिकररासलास्योत्सुकः स मे सपदि मानसे स्फुरतु कोऽपि गोपालकः ॥९६॥ श्रीमाधवेन्द्रपुरीपादानाम् । अथ भक्तानामुत्कण्ठा । श्रुतयः पलालकल्पाः किमिह वयं साम्प्रतं चिनुमः । आह्रियत पुरैव नयनैर् आभीरीभिः परं ब्रह्म ॥९७॥ श्रीरघुपत्युपाध्ययस्य ॥ कं प्रति कथयितुमीशे सम्प्रति को वा प्रतीतिमायातु गोपतितनयाकुञ्जे गोपवधृंीविंं ब्रह्म ॥९८॥ तस्यैव ॥(च्च्२.१९.९८) ज्ञातं काणभुजं मतं परिचितैवान्वीक्षिकी शिक्षिता मीमांसा विदितैव साङ्ख्यसरणिर्योगे वितीर्णा मतिः । वेदान्तां परिशीलिताः सरभसं किं तु स्फुरन्माधुरी धारा काचन नन्दसूनुमुरली मच्चित्तमाकर्षति ॥९९॥ श्रीसार्वभौमभट्टाचार्याणाम् । अमरीमुखसीधुमाधुरीणां लहरी काचन चातुरी कलानाम् । तरलीकुरुते मनो मदीयं मुरलीनादपरम्परा मुरारेः ॥१००॥ तेषामेव । अपहरति मनो मे कोऽप्ययं कृष्णचौरः प्रणतदुरितचोरः पूतनाप्राणचौरः । वलयवसनचौरो बालगोपीजनानां नयनहृदयचौरः पश्यतां सज्जनानाम् ॥१०१॥ कस्यचित् । अलं त्रिदिववार्तया किमिति सार्वभौमश्रिया विदूरतरवर्तिनी भवतु मोक्षलक्ष्मीरपि । कलिन्दगिरिनन्दिनीतटनिकुञ्जपुञ्जोदरे मनो हरति केवलं नवतमालनीलं महः ॥१०२॥ श्रीहरिदासस्य । अवलोकितमनुमोदितम् आलिङ्गितमङ्गनाभिरनुरागैः । अधिवृन्दावनकुञ्जं मरकतपुञ्जं नमस्यामः ॥१०३॥ श्रीसर्वविद्याविनोदानाम् । कदा द्रक्ष्यामि नन्दस्य बालकं नीपमालकम् । पालकं सर्वसत्त्वानां लसत्तिलकभालकम् ॥१०४॥ श्रीमाधवेन्द्रपुरीपादानाम् । कदा वृन्दारण्ये मिहिरदुहितुः सङ्गमाहिते मुहुर्भ्रामं भ्रामं चरितलहरीं गोकुलपतेः । लपन्नुच्चैरुच्चैर्नयनपयसां वेणिभिरहं करिष्ये सोत्कण्ठं निविडमुपसेकं विटपिनाम् ॥१०५॥ समाहर्तुः । दुरारोहे लक्ष्मीवति भगवतीनामपि पदं दधाना धम्मिल्ले नटति कठिने योपनिषदाम् । रुतिर्वंशीजन्मा धृतमधुरिमा सा मधुरिपोर् अकस्मादस्माकं श्रुतिशिखरमारोक्ष्यति ॥१०६॥ समाहर्तुः । अत्रासीत्किल नन्दसद्म शकटस्यात्राभवद्भञ्जनं बन्धच्छेदकरोऽपि दामभिरभूद्बद्धोऽत्र दामोदरः । इत्थं मथुरावृद्धवक्त्रविगलत्पीयूषधारां पिबन् आनन्दाश्रुधरः कदा मधुपुरीं धन्यश्चरिष्याम्यहम् ॥ (ॠउओतेदिन् ब्र्स्१.३.४० यथा पद्यावल्याम्, बुत्नोत्fओउन्दिन् थिसेदितिओन्) उत्फुल्लतापिञ्छमनोरमश्रीर् मातुः स्तनन्यस्तमुखारविन्दः । सञ्चालयन् पादसरोरुहाग्रं कृष्णः कदा यास्यति दृक्पथं मे ॥१०७॥ कस्यचित् । अथ मोक्षानादरः । भक्तिः सेवा भगवतो मुक्तिस्तत्पदलङ्घनम् । को मूढो दासतां प्राप्य प्राभवं पदमिच्छति ॥११०॥ श्रीशिवमौनिनाम् । भवबन्धच्छिदे तस्यै स्पृहयामि न मुक्तये । भवान् प्रभुरहं दास इति यत्र विलुप्यते ॥१११॥ श्रीहनुमतः । हन्त चित्रीयते मित्र स्मृत्वा तान्मम मानसम् । विवेकित्नोऽपि ये कुर्युस् तृष्णामात्यन्तिके लये ॥११२॥ केषांचित् । का त्वं मुक्तिरुपागतास्मि भवती कस्मादकस्मादिह श्रीकृष्णस्मरणेन देव भवती दासीपदं प्रापिता । दूरे तिष्ठ मनागनागसि कथ कुर्यादनार्यं मयि त्वद्गन्धान्निजनामचन्दनरसालेपस्य लोपो भवेत् ॥११३॥ कस्यचित् । अथ श्रीभगवद्धर्मतत्त्वम् । अर्च्ये विष्णौ शिलाधीर्गुरुषु नरमतिर्वैष्णवे जातिबुद्धिर् विष्णोर्वा वैष्णवानां कलिमलमथने पादतीर्थेऽम्बुबुद्धिः । श्रीविष्णोर्नाम्नि मन्त्रे सकलकलुषहे शब्दसामान्यबुद्धिर् विष्णौ सर्वेश्वरेशे तदितरसमधीर्यस्य वा नारकी सः ॥११४॥ श्रीदाक्षिणात्यस्य ॥ हत्यां हन्ति यदङ्घ्रिसङ्गतुलसी स्तेयं च तोयं पदोर् नैवेद्यं बहुमद्यपानदुरितं गुर्वङ्गनासङ्गजम् । श्रीशाधिनमतिः स्थितिर्हरिजनैस्तत्सङ्गजं किल्बिषं शालाग्रामशिलानृसिंहमहिमा कोऽप्येष लोकोत्तरः ॥११५॥ श्रीआगमस्य । (ह्ब्व्५.४४६) अथ नैवेद्यार्पणे विज्ञप्तिः । द्विजस्त्रीणां भक्ते मृदुनि विदुरान्ने व्रजगवां दधिक्षेरे सख्युः स्फुटचिपिटमृष्टौ मुररिपो । यशोदायाः स्तन्ये व्रजयुवतिदत्ते मधुनि ते यथासीदामोदस्तमिममुपहारेऽपि कुरुताम् ॥११६॥ श्रीरामानुजस्य । या प्रीतिर्विदुरार्पिते मुररिपो कुन्त्यर्पिते यादृशी या गोवर्धनमूर्ध्नि या च पृथुके स्तने यशोदार्पिते । भारद्वाजसमर्पिते शबरिकादत्तेऽधरे योषितां या वा ते मुनिभामिनीविनिहितेऽन्नेऽत्रापि तामर्पये ॥११७॥ कस्यचित् । क्षीरे श्यामलयार्पिते कमलया विश्राणिते फाणिते दत्ते लड्डूनि भद्रया मधुरसे सोभाभया लम्भिते । तुष्टिर्या भवतस्ततः शतगुणां राधानिदेशान्मया नस्तेऽस्मिन् पुरतस्त्वमर्पय हरे रम्योपहारे रतिम् ॥११८॥ समाहर्तुः ॥ अथ श्रीमथुरामहिमा । हे मातुर्मथुरे त्वमेव नियतं धन्यासि भूमीतले निर्व्याजं नतयः शतं सविधयस्तुभ्यं सदा सन्तु नः । हित्वा हन्त नितान्तमद्भुतगुणं वैकुण्ठमुत्कण्ठया त्वय्यम्भोजविलोचनः स भगवान् येनावतीर्णो हरिः ॥११९॥ कस्यचित् । अत्रासीत्किल नन्दसद्म शकटस्यात्राभवद्भञ्जनं बन्धच्छेदकरोऽपि दामभिरभूद्बद्धोऽत्र दामोदरः । इत्थं मथुरावृद्धवक्त्रविगलत्पीयूषधारां पिबन् नान्दाश्रुधरः कदा मधुपुरीं धन्यश्चरिष्याम्यहम् ॥१२०॥ श्रीकविशेखरस्य । (ब्र्स्१.३.४०) यत्राखिलादिगुरुरम्बुजसम्भवोऽपि स्तम्बात्मना जनुरनुस्पृहयाम्बभूव । चक्रध्वजाङ्कुशलसत्पदराजिरम्या सा राजतेऽद्य मथुरा हरिराजधानी ॥१२१॥ कस्यचित् ॥ बीजं मुक्तितरोरनर्थपटलीनिस्तारकं तारकं धाम प्रेमरसस्य वाञ्छितधुरासम्पारकं पारकम् । एतद्यत्र निवासिनामुदयते चिच्छक्तिवृत्तिद्वयं मथ्नातु व्यसनानि माथुरपुरी सा वः श्रियं च क्रियात् ॥१२२॥ समाहर्तुः ॥ वितरति मुरमर्दनः प्रभुस्ते न हि भजमानजनाय यं कदापि । वितरसि बत भक्तियोगमेतं तव मथुरे महिमा गिरामभूमिः ॥१२३॥ तस्यैव ॥ श्रवणे मथुरा नयने मथुरा वदने मथुरा हृदये मथुरा । पुरतो मथुरा परतो मथुरा मधुरा मधुरा मथुरा मथुरा ॥१२४॥ श्रीगोविन्दमिश्राणाम् । अथ श्रीवृन्दाटवीवन्दनम् । त्वं भज हिरण्यगर्भं त्वमपि हरं त्वं च तत्परं ब्रह्म । विनिहितकृष्णानन्दाम् अहं तु वृन्दाटवीं वन्दे ॥१२५॥ कस्यचित् । अथ श्रीनन्दप्रणामः । श्रुतिमपरे स्मृतिमितरे भारतमन्ये भजन्तु भवभीताः अहमिह नन्दं वन्दे यस्यालिन्दे परं ब्रह्म ॥१२६॥ रघुपत्युपाध्यायस्य । (च्च्२.१९.९६) बन्धूकारुणवसनं सुन्दरकूर्चं मुकुन्दहृतनयनम् । नन्दं तुन्दिलवपुषं चन्दनगौरत्विषं वन्दे ॥१२७॥ समाहर्तुः । अथ श्रीयशोदावन्दनम् । अङ्कगपङ्कजनाभां नवघनाभां विचित्ररुचिसिचयाम् । विरचितजगत्प्रमोदां मुहुर्यशोदां नमस्यामि ॥१२८॥ समाहर्तुः । अथ श्रीकृष्णशैशवम् । अतिलोहितकरचरणं मञ्जुलगोरोचनातिलकम् । हठपरिवर्तितशकटं मुररिपुमुत्तानशायिनं वन्दे ॥१२९॥ कस्यचित् । अर्धोन्मीलितलोचनस्य पिबतः पर्याप्तमेकं स्तनं सद्यः प्रस्तुतदुग्धदिग्धमपरं हस्तेन सम्मार्जतः । मात्रा चाङ्गुलिलासितस्य वदने स्मेरायमाने मुहुर् विष्णोः क्षीरकणोरुधामधवला दन्तद्युतिः पातु वः ॥१३०॥ श्रीमङ्गलस्य । (ब्र्क्५.१७३६) गोपेश्वरीवदनफूत्कृतिलोलनेत्रं जानुद्वयेन धरणीमनु सञ्चरन्तम् । कञ्चिन्नवस्मितसुधामधुराधराभं बालं तमालदलनीलमहं भजामि ॥१३१॥ श्रीरघुनाथदासस्य । (ब्र्क्५.१७३८) क्वाननं क्व नयनं क्व नासिका क्व श्रुतिः क्व शिखेति देशितः । तत्र तत्र निहिताङ्गुलीदलो वल्लवीकुलमनन्दयत्प्रभुः ॥१३२॥ कविसार्वभौमस्य ॥ (ब्र्क्५.१७४०) इदानीमङ्गमक्षालि रचितं चानुलेपनम् । इदानीमेव ते कृष्ण धूलिधूसरितं वपुः ॥१३३॥ सार्वभौमभट्टाचार्याणाम् । (ब्र्क्५.१७४२) पञ्चवर्षमतिलोलमङ्गने धावमानमलकाकुलेक्षणम् । किञ्किणीवलयहारनूपुरं रञ्जितं नमत नन्दनन्दनम् ॥१३४॥ आगमस्य । (ब्र्क् ५.१७४९) अथ शैशवे तारुण्यम् अधरमधुरे कण्ठं कण्ठे सचाटु दृशौ दृशोर् अलिकमलिके कृत्वा गोपीजनेन ससम्भ्रमम् । शिशुरिति रुदन् कृष्णो वक्षःस्थले निहितश्चिरान् निभृतपुलकः स्मेरः पायात्स्मरालसविग्रहः ॥१३५॥ दिवाकरस्य । (स्क्म् १.५१.४॑ ब्र्क्५.१७५१) ब्रूमस्त्वच्चरितं तवाधिजननि च्छद्मातिबाल्याकृते त्वं यादृग्गिरिकन्दरेषु नयनानन्दः कुरङ्गीदृशाम् । इत्युक्तः परिलेहनच्छलतया न्यस्ताङ्गुलिः स्वानने गोपीभिः पुरतः पुनातु जगतीमुत्तानसुप्तो हरिः ॥१३६॥ वनमालिनः ॥ (स्क्म् १.५१.५) वनमालिनि पितुरङ्के रचयति बाल्योचितं चरितम् । नवनवगोपवधूटी स्मितपरिपाटी परिस्फुरति ॥१३७॥ श्रीमुकुन्दभट्टाचार्यस्य । (ब्र्क्५.१७५२) नीतं नवनवनीतं कियद् इति कृष्णओ यशोदया पृष्टः । इयदिति गुरुजनसविधे विधृतधनिष्ठापयोधरः ॥१३८॥ कस्यचित् ॥ (राङ्गस्य) (ब्र्क्५.१७५३) क्व यासि ननु चौरिके प्रमुषितं स्फुटं दृश्यते द्वितीयमिह मामकं वहसि कञ्चुके कन्दुकम् । त्यजेति नवगोपिकाकुचयुगं निमथ्नन् बलाल् लसत्पुलकमण्डलो जयति गोकुले केशवः ॥१३९॥ दीपकस्य ॥ (स्प्द्७४, स्म्व्॑ ब्र्क्५.१७५४) अथ गव्यहरणम् दूरदृष्टनवनीतभाजनं जानुचङ्क्रमणजातसम्भ्रमम् । मातृभीतिपरिवर्तिताननं केशवं किमपि शैशवं भजे ॥१४०॥ कस्यचित् ॥ (ब्र्क्५.१७५६) सम्मुष्णन्नवनीतमन्तिकमणिस्तम्भे स्वबिम्बोद्गमं दृष्ट्वा मुग्धतया कुमारमपरं सञ्चिन्तयन् शङ्कया । मन्मित्रं हि भवान्मयात्र भवतो भागः समः कल्पितो मा मां सूचय सूचयेत्यनुनयन् बालो हरिः पातु वः ॥१४१॥ केषांचित् ॥ दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते निभृतपदमगारं वल्लवीनां प्रविष्टः । मुखकमलसमीरैराशु निर्वाप्य दीपान् कवलितनवनीतः पातु मां बालकृष्णः ॥ १४२ ॥ कस्यचित् ॥ सव्ये पाणौ नियमितरवं किञ्किणीदाम धृत्वा कुब्जीभूय प्रपदगतिभिर्मन्दमन्दं विहस्य । अक्ष्णोर्भङ्ग्या विहसितमुखीर्वारयन् सम्मुखीना मातुः पश्चादहरत हरिर्जातु हैयङ्गवीनम् ॥ १४३ ॥ श्रीश्रीमतः ॥ पदन्यासान् द्वाराञ्चलभुवि विधाय त्रिचतुरान् समन्तादालोलं नयनयुगलं दिक्षु विकिरन् । स्मितं बिभ्रद्व्यक्तं दधिहरणलीलाचटुलधीः सशङ्कं गोपीनां मधुरिपुरगारं प्रविशति ॥ १४४ ॥ समाहर्तुः ॥ मृद्नन् क्षीरादिचौर्यान्मसृणसुरभिणी सृक्वणी पाणिधर्षैर् आघ्रायाघ्राय हस्तं सपदि परुषयन् किङ्किणीमेखलायाम् । वारं वारं विशाले दिशि दिशि विकिरन् लोचने लोलतारे मन्दं मन्दं जनन्याः परिसरमयते कूटगोपालबालः ॥ १४५ ॥ कस्यचित् ॥ अथ हरेः स्वप्नायितम् शम्भो स्वागतमास्यतामित इतो वामेन पद्मोद्भव क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यते । इत्थं स्वप्नगतस्य कैटभरिपोः श्रुत्वा जनन्या गिरः किं किं बालक जल्पसीत्यनुचितं थूथूत्कृतं पातु वः ॥१४६॥ मयूरस्य ॥ (स्क्म् १.५३.१॑ ब्र्क्५.१७५८) धीरा धरित्रि भाव भारमवेहि शान्तं नन्वेष कंसहतकं विनिपातयामि । इत्यद्भुतस्तिमितगोपवधूश्रुतानि स्वप्नायितानि वसुदेवशिशोर्जयन्ति ॥१४७॥ सुदेवस्य ॥ (स्क्म् १.५३.२) अथ पित्रोर्विस्मापनशिक्षणादि कालिन्दीपुलिने मया न न मया शीलोपशल्ये न न न्यग्रोधस्य तले मया न न मया राधापितुः प्राङ्गने । दृष्टः कृष्ण इतीरिते सनियमं गोपैर्यशोदापतेर् विस्मेरस्य पुरो हसन्निजगृहान्निर्यन् हरिः पातु वः ॥१४८॥ उमापतिधरस्य ॥ (स्क्म् १.५२.४) वत्स स्थवरकन्दरेषु विचरन् दूरप्रचारे गवां हिंस्रान् वीक्ष्य पुरः पुराणपुरुषं नारायणं ध्यास्यसि । इत्युक्तस्य यशोदया मुरारिपोरव्याज्जगन्ति स्फुरद् बिम्बोष्ठद्वयगाढपीडनवशादव्यक्तभावं स्मितम् ॥१४९॥ अभिनन्दस्य ॥ (स्क्म् १.५२.१) रामो नाम बभूव हुं तदबला सीतेति हुं तां पितुर् वाचा पञ्चवटीवने निवसतस्तस्याहरद्रावणः । कृष्णस्येति पुरातनीं निजकथामाकर्ण्य मात्रेरितां सौमित्रे क्व धनुर्धनुर्धनुरिति व्यग्रा गिरः पान्तु वः ॥१५०॥ कस्यचित् । (र्सक्॑ क्क्२.७२॑ ब्र्क्५.१७६०) श्यामोच्चन्द्रा स्वपिति न शिशो नैति मामम्ब निद्रा निद्राहेतोः शृणु कथां कामपूर्वां कुरुष्व । व्यक्तः स्तम्भान्नरहरिरभूद्दानवं दारयिष्यन्न् इत्युक्तस्य स्मितमुदयते देवकीनन्दनस्य ॥१५१॥ सर्वानन्दस्य । (स्र्क्१२३॑ स्क्म् १.५२.२॑ शतानन्दस्य॑ ब्र्क्५.१७६१) अथ गोरक्षादिलीला देवस्त्वामेकजङ्घावलयितगुडीमूर्ध्नि विन्यस्तबाहु र्गायन् गोयुद्धगीतिरुपरचितशिरःशेखरः प्रग्रहेण । दर्पस्फूर्जन्महोक्षद्वयसमरकलाबद्धदीर्घानुबन्धः क्रीडागोपालमूर्तिर्मुररिपुरवतादात्तगोरक्षलीलः ॥१५२॥ योगेश्वरस्य । (स्क्म् १.५८.३) यावद्गोपा मधुरमुरलीनादमत्ता मुकुन्दं मन्दस्पन्दैरहह सकलैर्लोचनैरापिबन्ति । गावस्तावन्मसृणयवसग्रासलुब्धा विदूरं याता गोवर्धनगिरिदरीद्रोणिकाभ्यन्तरेषु ॥१५३॥ श्रीकेशवच्छत्रिणः । अथ गोपीनां प्रेमोत्कर्षः । धैर्यं नामपरिग्रहेऽपि जघने यद्यंशुकालम्बनं गोपीनां च विवेचनं निधुवनारम्भे रहोमार्गणम् । साध्वीसच्चरितं विलासविरतौ पत्युर्गृहान्वेषणं तत्तद्रौरवरक्षणं मुररिपोर्वंशीरवापेक्षणम् ॥१५४॥ सर्वविद्याविनोदानाम् । विलोक्य कृष्णं व्रजवामनेत्राः सर्वेन्द्रियाणां नयनत्वमेव । आकर्ण्य तद्वेणुनिनादभङ्गीम् ऐच्छन् पुनस्ताः श्रवणत्वमेव ॥१५५॥ कस्यचित् । अथ गोपीभिः सह लीला कालिन्दीजलकेलिलोलतरुणीरावीतचीनांशुका निर्गत्याङ्गजलानि सारितवतीरालोक्य सर्वा दिशः । तीरोपान्तमिलन्निकुञ्जभवने गूढं चिरात्पश्यतः शौरेः सम्भ्रमयन्निमा विजयते साकूतवेणुर्ध्वनिः ॥१५६॥ पुरुषोत्तमदेवस्य । तासु कृष्णस्य भावः । स्वेदाप्लावितपाणिपद्ममुकुलप्रक्रान्तकम्पोदयाद् विस्रस्तामविजानतो मुरलिकां पादारविन्दोपरि । लीलावेल्लितवल्लवीकवलितस्वान्तस्य वृन्दावने जीयात्कंसरिपोस्त्रिभङ्गवपुषः शून्योदयः फूत्कृतिः ॥१५७॥ चिरञ्जीवस्य । श्रीकृष्णस्य प्रथमदर्शने राधाप्रश्नः भ्रूवल्लिताण्डवकलामधुराननश्रीः कङ्केल्लिकोरककरम्बितकर्णपूरः । कोऽयं नवीननिकषोपलतुल्यवेषो वंशीरवेण सखि मामवशीकरोति ॥१५८॥ कस्यचित् । (ब्र्स्३.५.२०) इन्दीवरोदरसहोदरमेदुरश्रीर् वासो द्रवत्कनकवृन्दनिभं दधानः । आमुक्तमौक्तिकमनोहरहारवक्षाः कोऽयं युवा जगदनङ्गमयं करोति ॥१५९॥ सर्वविद्याविनोदानाम् ॥ (उन् १५.७) सख्या उत्तरम् अस्ति कोऽपि तिमिरस्तनन्धयः किञ्चिदञ्चितपदं स गायति । यन्मनागपि निशम्य का वधूर् नावधूतहृदयोपजायते ॥ १६० ॥ कस्यचित् । श्रीराधायाः पूर्वरागः मनोगतां मन्मथबाणबाधाम् आवेदयन्तीव तनोर्विकारैः । दीनानना वाचमुवाच राधा तदा तदालीजनसम्मुखे सा ॥१६१॥ श्रीपुरुषोत्तमदेवस्य । यदवधि यामुनकुञ्जे घनरुचिरवलोकितः कोऽपि । नलिनीदल इव सलिलं तदवधि तरलायते ॥१६२॥ कविचन्द्रस्य ॥ अकस्मादेकस्मिन् पथि सखि मया यामुनतटं व्रजन्त्या दृष्टो यो नवजलधरश्यामलतनुः । स दृग्भङ्ग्या किं वाकुरुत न हि जाने तत इदं मनो मे व्यालोलं क्वचन गृहकृत्यो न लगते ॥१६३॥ जयन्तस्य । (भक्तिरसायन॑ ब्र्स्३.५.२७) पुरो नीलज्योत्स्ना तदनु मृगनाभीपरिमलस् ततो लीलावेणुक्वणितमनु काण्चीकलरवः । ततो विद्युद्वल्लीवलयितचमत्कारलहरी तरङ्गाल्लावण्यं तदनु सहजानन्द उदगात् ॥१६४॥ कस्यचित् । अद्य सुन्दरि कलिन्दनन्दिनी तीरकुञ्जभुवि केलिलम्पटः । वादयन्मुरलिकां मुहुर्मुहुर् माधवो हरति मामकं मनः ॥१६५॥ कस्यचित् । (सिमिलर्प्रेमामृत ४.१३) यदवधि यमुनायास्तीरवानीरकुञ्जे मुररिपुपदलीला लोचनाभ्यामलोकि । तदवधि मम चित्तं कुत्रचित्कार्यमात्रे न हि लगति मुहूर्तं किं विधेयं न जाने ॥१६६॥ कविचन्द्रस्य । यदवधि यदुनन्दनाननेन्दुः सहचरि लोचनगोचरीबभूव । तदवधि मलयानिलेऽनले वा सहजविचारपराङ्मुखं मनो मे ॥१६७॥ सञ्जयकविशेखरस्य । असमञ्जसमसमञ्जसम् असमञ्जसमेतदापतितम् । वल्लवकुमारबुद्ध्या हरि हरि हरिरीक्षितः कुतुकात् ॥१६८॥ शरणस्य ॥ शुष्यति मुखमूरुयुगं पुष्यति जडतां प्रवेपते हृदयम् । स्विद्यति कपोलपाली सखि वनमाली किमालोकि ॥१६९॥ मुकुन्दभट्टाचार्यस्य । उपरि तमालतरोः सखि परिणतशरदिन्दुमण्डलः कोऽपि । तत्र च मुरलीखुरली कुलमर्यादामधो नयति ॥१७०॥ सञ्जयकविशेखरस्य । हन्त कान्तमपि तं दिदृक्षते मानसं मम न साधु यत्कृते । इन्दुरिन्दुमुखि मन्दमारुतश् चन्दनं च वितनोति वेदनाम् ॥१७१॥ कस्यचित् । गुरुजनगञ्जनमयशो गृहपतिचरितं च दारुणं किमपि । विस्मारयति समस्तं शिव शिव मुरली मुरारातेः ॥ १७२ ॥ सर्वविद्याविनोदानाम् । (ब्र्स्३.५.१२) द्रविणं भवनमपत्यं तावन् मित्रं तथाभिजात्यं च । उपयमुनं वनमाली यावन्नेत्रे न नर्तयति ॥१७३॥ तेषामेव तृप्यन्तु मे छिद्रमवाप्य शत्रवः करोतु मे शास्तिभरं गृहेश्वरः । मणिस्तु वक्षोरुहमध्यभूषणं ममास्तु वृन्दावनकृष्णचन्द्रमा ॥ १७४ ॥ कस्यचित् । स्वामी निहन्तु विहसन्तु पुरः सपत्न्यो भर्तुर्भजन्तु गुरवः पितरश्च लज्जाम् । एतावता यदि कलङ्कि कुलं तथास्तु रामानुजे मम तनोतु मनोऽनुरागम् ॥१७५॥ कस्यचित् । स्वामी कुप्यति कुप्यतां परिजना निन्दन्ति निन्दन्तु माम्, अन्यत्किं प्रथतामयं च जगति प्रौढो ममोपद्रवः । आशास्यं पुनरेतदेव यदिदं चक्षुश्चिरं वर्धतां येनेदं परिपीयते मुररिपोः सौन्दर्यसारं वपुः ॥१७६ ॥ पुष्कराक्षस्य । किं दुर्मिलेन मम दूति मनोरथेन तावन्ति हन्त सुकृतानि कया कृतानि । एतावदेव मम जन्मफलं मुरारिर् यन्नेत्रयोः पथि बिभर्ति गतागतानि ॥१७७॥ कस्यचित् ॥ सखि मम नियतिहतायास् तद्दर्शनभाग्यमस्तु वा मा वा । पुनरपि स वेणुनादो यदि कर्णपथे पतेत्तदेवालम् ॥१७८॥ कस्यचित् । ताराभिसारक चतुर्थनिशाशशाङ्क कामाम्बुराशिपरिवर्धन देव तुभ्यम् । अर्घो नमो भवतु मे सह तेन यूना मिथ्यापवादवचसाप्यभिमानसिद्धिः ॥१७९॥ कस्यचित् । (उन् १४.१२८) अथान्यचतुरसखीवितर्कः सिद्धान्तयति न किञ्चिद् भ्रमयति दृशामेव केवलं राधा । तदवगतं सखि लग्नं कदम्बतरुदेवतामरुता ॥१८०॥ राङ्गस्य । अथ राधां प्रति प्रश्नः । कामं वपुः पुलकितं नयने धृतास्रे वाचः सगद्गदपदाः सखि कम्पि वक्षः । ज्ञातं मुकुन्दमुरलीरवमाधुरी ते चेतः सुधांशुवदने तरलीकरोति ॥१८१॥ तस्यैव । (ब्र्स्३.५.१५) गतं कुलवधूव्रतं विदितमेव तत्तद्वचस् तथापि तरलाशये न विमतासि को दुर्ग्रहः । करोमि सखि किं श्रुते दनुजवैरिवंशीरवे मनागपि मनो न मे सुमुखि धैर्यमालम्बते ॥१८२॥ कस्यचित् । आस्तां तावदकीर्तिर्मे त्वया तथ्यं तु कथ्यताम् । चित्तं कथमिवासीत्ते हरिर्वंशीरवश्रुतौ ॥१८३॥ कस्यचित् । सत्यं जल्पसि दुःसहाः खलगिरः सत्यं कुलं निर्मलं सत्यं निष्करुणोऽप्ययं सहचरः सत्यं सुदूरे सरित् । तत्सर्वं सखि विस्मरामि झटिति श्रोत्रातिथिर्जायते चेदुन्मादमुकुन्दमञ्जुमुरलीनिस्वानरागोद्गतिः ॥ १८४ ॥ गोविन्दभट्टस्य । अथ राधां प्रति सखीनर्माश्वासः । निशा जलदसङ्कुला तिमिरगर्भलीनं जगद् द्वयस्तव नवं नवं वपुरपूर्वलीलामयम् । अलं सुमुखि निद्रया व्रज गृहेऽपि नक्तं चरी कदम्बवनदेवता नवतमालनीलद्युतिः ॥१८५॥ सर्वविद्याविनोदानाम् । कृष्णं प्रति राधानुरागकथनम् । त्वामञ्जनीयति फलासु विलोकयन्ती त्वां शृण्वती कुवलयीयति कर्णपूरम् । त्वां पूर्णिमाविधुमुखी हृदि भावयन्ती वक्षोनिलीननवनीलमणिं करोति ॥१८६॥ कस्यचित् । (म्स्न् ५.१२) गृहीतं ताम्बूलं परिजनवचोभिर्न सुमुखी स्मरत्यन्तःशून्या मुरहर गतायामपि निशि । ततेवास्ते हस्तः कलितफणिवल्लीकिसलयस् तथवास्यं तस्याः क्रमुकफलफालीपरिचितम् ॥१८७॥ हरिहरस्य । (उन् १३.५९) प्रेमपावकलीढाङ्गी राधा तव जगत्पते । शय्यायाः स्खलिता भूमौ पुनस्तां गन्तुमक्षमा ॥१८८॥ मुरहर साहसगरिमा कथमिव वाच्यः कुरङ्गशावाक्ष्याः । खेदार्णवपतितापि प्रेममधुरां ते न सा त्यजति ॥१८९॥ कविचन्द्रस्येमौ । (उन् ८.१००) गायति गीते शंसति वंशे वादयति सा विपञ्चीषु पाठयति पञ्जरशुकं तव सन्देशाक्षरं राधा ॥१९०॥ गोवर्धनाचार्यस्य । (आर्यशतक २११।२६५) राधां प्रति कृष्णानुरागकथनम् केलिकलासु कुशला नगरे मुरारेर् आभीरनीरजदृशः कति वा न सन्ति । राधे त्वया महदकारि तपो यदेष दामोदरस्त्वयि परं परमानुरागः ॥१९१॥ कस्यचित् ॥ (उन् ८.१०१) वत्सान्न चारयति वादयते न वेणुम् आमोदते न यमुनावनमारुतेन । कुञ्जे निलीय शिथिलं वलितोत्तमाङ्गम् अन्तस्त्वया श्वसिति सुन्दरि नन्दसूनुः ॥१९२॥ दैत्यारिपण्डितस्य ॥ सर्वाधिकः सकलकेलिकलाविदग्धः स्निग्धः स एष मुरशत्रुरनर्घरूपः । त्वां याचते यदि भज व्रजनागरि त्वं साध्यं किमन्यदधिकं भुवने भवत्याः ॥१९३॥ राङ्गस्य ॥ अथ राधाभिसारः । मन्दं निधेहि चरणौ परिधेहि नीलं वासः पिधेहि वलयावलिमञ्चलेन । मा जल्प साहसिनि शारदचन्द्रकान्ति दन्तांशवस्तव तमांसि समापयन्ति ॥ १९४ ॥ षाण्मासिकस्य ॥ (स्क्म् २.६१.२ नालस्य, स्प्द्३६२०, स्म्व्७१.८ हरिहरस्य) किमुत्तीर्णः पन्थाः कुपितभुजगीभोगविषमो विषोढा भूयस्यः किमिति कुलपालीकटुगिरः । इति स्मारं स्मारं दरदलितशीतद्युतिरुचौ सरोजाक्षी शोणं दिशि नयनकोणं विकिरति ॥१९५॥ सर्वविद्याविनोदानाम् ॥ चित्रोत्कीर्णादपि विषधराद्भीतिभाजो रजन्यां किं वा ब्रूमस्त्वदभिसरणे साहसं माधवास्याः । ध्वान्ते यान्त्या यदतिनिभृतं राधयात्मप्रकाश त्रासात्पाणिः पथि फणिफणारत्नरोधी व्यधायी ॥१९६॥ कस्यचित् ॥ (स्प्द्३४९४ हरिहरस्य) राधां प्रति सखीवाक्यम् मन्मथोन्मथितमच्युतं प्रति ब्रूहि किञ्चन समुल्लसत्स्मितम् । किं च सिञ्च मृगशावलोचने लोचनेङ्गितसुधौघनिर्झरैः ॥१९७॥ कस्यचित् ॥ गोविन्दे स्वयमकरोः सरोजनेत्रे प्रेमान्धा वरवपुरर्पणं सखि । कार्पण्यं न कुरु दरावलोकदाने विक्रीते करिणि किमञ्कुशे विवादः ॥१९८॥ कस्यचित् । (ब्र्स्२.४.११४, भक्तिरसायन॑ द्क्क्॑ म्स्न् ५.१५) अथ क्रीडा । परमानुरागपरयाथ राधया परिरम्भकौशलविकाशिभावया । स तया सह स्मरसभाजनोत्सवं निरवाहयच्छिखिशिखण्डशेखरः ॥१९९॥ कविराजमिश्रस्य । (ब्र्स्३.५.३५) अस्मिन् कुञ्जे विनापि प्रचलति पवनं वर्तते कोऽपि नूनं पश्यामः किं न गत्वेत्यनुसरति गणे भीतभीतेऽर्भकाणाम् । तस्मिन् राधासखो वः सुखयतु विलसन् क्रीडया कैटभारिर् व्यातन्वानो मृगारिप्रवलघुरघुरारावरौद्रोच्चनादान् ॥ २०० ॥ कस्यचित् ॥ (स्प्द्११६) अथ क्रीडानन्तरं तत्र जानतीनां सखीनां नर्मोक्तिः इह निचुलनिकुञ्जे मध्यमध्यास्य रन्तुर् विजनमजनि शय्या कस्य बालप्रवालैः । इति निगदति वृन्दे योषितां पान्तु युष्मान् स्मितशवलितराधामाधवालोकितानि ॥ २०१ ॥ रूपदेवस्य ॥ (स्क्म् १.५५.१) अथ मुग्धबालवाक्यम् कृष्ण त्वद्वनमालया सह कृतं केनापि कुञ्जान्तरे गोपीकुन्तलबर्हदाम तदिदं प्राप्तं मया गृह्यताम् । इत्थं दुग्धमुखेन गोपशिशुनाख्याने त्रपानम्रयो राधामाधवयोर्जयन्ति बलितस्मेरालसा दृष्टयः ॥२०२॥ लक्ष्मणसेनदेवस्य ॥ (स्क्म् १.५५.२) अथ राधया सह दिनान्तरे केलिः तत्र सखीवाक्यम् अधुना दधिमन्थनानुबन्धं कुरुषे किं गुरुविभ्रमालसाङ्गि । कलसस्तनि लालसीति कुञ्जे मुरलीकोमलकाकली मुरारेः ॥२०३॥ समाहर्तुः ॥ अथ तस्याः साकूतवाक्यम् । श्वश्रूरिङ्गितदैवतं नयनयोरीहालिहो यातरः स्वामी निःश्वसितेऽप्यसूयति मनोजिघ्रः सपत्नीजनः । तद्दूरादयमञ्जलिः किमधुना दृग्भङ्गिभावेन ते वैदग्धीविविधप्रबन्धरसिक व्यर्थोऽयमत्र श्रमः ॥२०४॥ कस्यचित् ॥ सङ्केतीकृतकोकिलादिनिनदं कंसद्विषः कुर्वतो द्वारोन्मोचनलोलशङ्खवलयक्वाणं मुहुः शृण्वतः । केयं केयमिति प्रगल्भजरतीवाक्येन दूनात्मनो राधाप्राङ्गणकोणकोलिविटपिक्रोडे गता शर्वरी ॥२०५॥ हरस्य । (स्क्म् १.५५.५ आचार्य गोपीकस्य॑ ब्र्क्५.११५९) आहूताद्य मयोत्सवे निशि गृहं शून्यं विमुच्यागता क्षीवः प्रेष्यजनः कथं कुलवधूरेकाकिनी यास्यति । वत्स त्वं तदिमां नयालयमिति श्रुत्वा यशोदागिरो राधामाधवयोर्जयन्ति मधुरस्मेरालसा दृष्टयः ॥२०६॥ श्रीमत्केशवसेनदेवस्य ॥ (स्क्म् १.५४.५) गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं त्वेवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदासलाम् आश्लिष्यन् पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः ॥२०७॥ कस्यचित्दाक्षिणात्यस्य । (नाटकचन्द्रिका ६२४ (२६०)॑ रस्क्) अथ सखीनर्म । सखि पुलकिनी सकम्पा बहिःस्थलीतस्त्वमालयं प्राप्ता । विक्षोभितासि नूनं कृष्णभुजङ्गेन कल्याणि ॥२०८॥ समाहर्तुः ॥ अथ पुनरन्येद्युरभिसारिका तत्र सखीवाक्यम् । अक्लान्तद्युतिभिर्वसन्तकुसुमैरुत्तंसयन् कुन्तला नन्तः खेलति खञ्जरीटनयने कुञ्जेषु कुञ्जेक्षणः । अस्मान्मन्दिरकर्मतस्तव करौ नाद्यापि विश्राम्यतः किं ब्रूमो रसैकाग्रणीरसि घटी नेयं विलम्बक्षमा ॥२०९ ॥ तस्यैव । (म्स्न् ५.१६) परीक्षणकारिणीं सखीं प्रति राधावाक्यम् । लज्जैवोद्घटिता किमत्र कुल्शोद्बद्धा कपाटस्थितिर् मर्यादैव विलङ्घिता पथि पुनः केयं कलिन्दात्मजा । आक्षिप्ता खलदृष्टिरेव सहसा व्यालावली कीदृशी प्राणा एव समर्पिताः सखि चिरं तस्मै किमेषा तनुः ॥२१०॥ कस्यचित् । द्वित्रैः केलिसरोरुहं त्रिचतुरैर्धम्मिल्लमल्लीस्रजं कण्ठान्मौक्तिकमालिकां तदनु च त्यक्त्वा पदैः पञ्चमैः । कृष्णप्रेमविघूर्णितान्तरतया दूराभिसारातुरा तन्वङ्गी निरुपायमध्वनि परं श्रेणीभरं निन्दति ॥ २११ ॥ कस्यचित् । (उन् १३.१९) अथ वासकसज्जा । तल्पं कल्पय दूति पल्लवकुलेरन्तर्लतामण्डपे निर्बन्धं मम पुष्पमण्डनविधौ नाद्यापि किं मुञ्चति । पश्य क्रीडदमन्दमन्धतमसं वृन्दाटवीं तस्तरे तद्गोपेन्द्रकुमारमत्र मिलितप्रायं मनः शङ्कते ॥२१२॥ श्रीरघुनाथस्य ॥ अथोत्कण्ठिता । सखि स विजितो वीणावाद्यैः कयाप्यपरस्त्रिया पणितमभवत्ताभ्यां तव क्षपाललितं ध्रुवम् । कथमितरथा शेफालीषु स्खलत्कुसुमास्वपि प्रसरति नभोमध्येऽपीन्दौ प्रियेण विलम्ब्यए ॥२१३॥ कस्यचित् । (स्क्म् २.३९.३ रुद्रटस्य॑ दशरूपक २.२३॑ स्त्१.७८ द्) अरतिरियमुपैति मां न निद्रा गणयति तस्य गुणान्मनो न दोषान् । विरमति रजनी न सङ्गमाशा व्रजति तनुस्तनुतां न चानुरागः ॥२१४॥ कङ्कस्य ॥ (स्क्म् २.३७.५ प्रवरसेनस्य, स्प्द्३४२७ बिल्हणस्य, स्र्क्७२३) अथ विप्रलब्धा । उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः । याऽतः परमपि जीवेज् जीवितनाथो भवेत्तस्याः ॥२१५ ॥ तस्यैव । (स्द्३.८३, दश्२.२६ ) अथ खण्डिता । लाक्षालक्ष्मललाटपट्टमभितः केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोर्स्ताम्बूलरागो घनः । दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥२१६॥ औत्कलस्य ॥ (अमरु ७१।६०॑ स्क्म् २.२४.४॑ स्प्द्३७४०, स्भ्व्२२१५॑ स्म्व्८२.१७॑ दशरूपक २.६) तस्या वाक्यम् कृतं मिथ्याजल्पैर्विरम विदितं कामुक चिरात् प्रियां तामेवोच्चैरभिसर यदीयैर्नखपदैः । विलासैश्च प्राप्तं तव हृदि पदं रगबहुलैर् मया किं ते कृत्यं ध्रुवमकुटिलाचारपरया ॥२१७॥ रुद्रटस्य ॥ (स्त्१.८०॑ स्म्व्५८.८) सार्धं मनोरथशतैस्तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिमभावरम्या । अस्माकमस्ति न हि कश्चिदिहावकाशस् तस्मात्कृतं चरणपातविडम्बनाभिः ॥२१८॥ तस्यैव ॥ (स्त्१.४१ ॑ स्क्म् २.२३.२॑ स्प्द्३५६३॑ स्म्व्५७.१६) अनलङ्कृतोऽपि माधव हरसि मनो मे सदा प्रसभम् । किं नालङ्कृतस्त्वं सम्प्रति नखक्षतैस्तस्याः ॥२१९॥ विश्वनाथस्य । (स्द्३.६३) खण्डनाप्तनिर्वेदायास्तस्या वाक्यम् । वय्तीताः प्रारम्भाः प्रणयबहुमानो विगलितो दुराशा याता मे परिणतिरियं प्राणितुमपि । यथेष्ठं चेष्टन्तां विरहिवधविह्यातयशसो विभावा मय्येते पिकमधुसुधांशुप्रभृतयः ॥२२०॥ पुरुषोत्तमदेवस्य ॥ मा मुञ्च पञ्चशर पञ्चशरीं शरीरे मा सिञ्च सान्द्रमकरन्दरसेन वायो । अङ्गानि तत्प्रणयभङ्गविगर्हितानि नालम्बितुं कथमपि क्षमतेऽद्य जीवः ॥२२१ ॥ तस्यैव । (ब्र्स्३.५.१७) पुनः सायमायाति माधवे कञ्चन वञ्चनचतुरे प्रपञ्चय त्वं मुरान्तके मानम् । बहुवल्लभे हि पुरुषे दाक्षिण्यं दुःखमुद्वहति ॥२२२॥ समाहर्तुः ॥ (उन् ८.३३) अथ मानिनी भवतु विदितं छद्मालापैरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः । तव यथा तथाभूतं प्रेम प्रपन्नमिमां दशां प्रकृतिचपले का नः पीडा गते हतजीविते ॥ २२३ ॥ अमरोः ॥ (अमरु २८।३०॑ स्क्म् २.४७.३) कस्त्वं तासु यदृच्छया कितव यास्तिष्ठन्ति गोपाङ्गनाः प्रेमाणं न विदन्ति यास्तव हरे किं तासु ते कैतवम् । एषा हन्त हताशया यदभवं त्वय्येकताना परं तेनास्याः प्रणयोऽधुना खलु मम प्राणैः समं यास्यति ॥ २२४ ॥ पुरुषोत्तमदेवस्य । निष्क्रामति कृष्णे सखीवाक्यम् साचिकन्धरममुं किमीक्षसे यातु यातु सखि पूतनार्दनः । वामरीतिचतुरां हि पाम्रीं सेवतां परमदेवतामिव ॥ २२५ ॥ समाहर्तुः । कृष्णदूतीवाक्यम् प्रेमावगाहनकृते मानं मा कुरु चिराय करभोरु । नाकर्णि किं नु मुग्धे जातं पीयूषमन्थने गरलम् ॥२२६॥ विधुमुखि विमुखीभावं भाविनि मद्भाषणे मा गाः । मूढे निगमनिगूढः कतिपयकल्याणतो मिलति ॥२२७॥ राङ्गस्यैतौ ॥ दूतीं प्रति राधावाक्यम् अलमलमघृणस्य तस्य नाम्ना पुनरपि सैव कथ गतः स कालः । कथय कथय वा तथापि दूति प्रतिवचनं द्विषतोऽपि माननीयम् ॥२२८॥ अङ्गदस्य ॥ (स्भ्व्१४१८॑ स्प्द्३५१३॑ स्म्व्४७.३) अथ कलहान्तरिता । तां प्रति दक्षिणसखीवाक्यम् अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस् त्वयाकाण्डे मानः किमिति सरले प्रेयसि कृतः । समाकृष्टा ह्येते विरहदहनोद्भासुरशिखाः स्वहस्तेनाञ्गारास्तदलमधुनारण्यरुदितैः ॥२२९॥ अमरोः ॥ (अमरु ११२।८०॑ स्भ्व्११७०॑ स्क्म् २.४२.१, स्म्व्५६.९, स्र्क्६५९ विकटनितम्बा) अथ कर्कशसखीवाक्यम् मानबन्धमभितः श्लथयन्ती गौरवं न खलु हारय गौरि । आर्जवं न भजते दनुजारिर् वञ्चके सरलता न हि साध्वी ॥ २३० ॥ समाहर्तुः ॥ तां प्रति राधावाक्यम् भ्रूभङ्गो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः । धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन्मया बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥ २३१ ॥ अमरोः ॥(अमरु ११८।९७) जानामि मौनमलसाञ्गि वचोविभङ्गीर् भञ्गीशतं नयनयोरपि चातुरीं च । आभीरनन्दनमुखाम्बुजसङ्गशंसी वंशीरवो यदि न मामवशीकरोति ॥२३२॥ कस्यचित् ॥ सत्यं शृणोमि सखि नित्यनवप्रियोऽसौ गोपस्तथापि हृदयं मदनो दुनोति । युक्त्या कथञ्चन समं गमितेऽपि तस्मिन् मां तस्य कालमुरली कवलीकरोति ॥२३३॥ श्रीमत्प्रभूनाम् । न जाने सम्मुखायाते प्रियाणि वदति प्रिये । प्रयान्ति मम गात्राणि श्रोत्रतां किमु नेत्रताम् ॥२३४॥ कस्यचित् ॥ (अमरु ६३।६४) मुरारिं पश्यन्त्याः सखि सकलमङ्गं न नयनं कृतं यच्छृण्वन्त्याः हरिगुणगणं श्रोत्रनिचितम् । समं तेनालापं सपदि रचयन्त्या मुखमयं विधातुर्नैवायं घटन्परिपाटीमधुरिमा ॥२३५॥ शरणस्य । अथ सख्याः साभ्युसूयावाक्यम् । त्वमसि विशुद्धा सरले मुरलीवक्त्रस्त्रिधा वक्रः । भङ्गुरया खलु सुलभअ तदुरः सखि वेजयन्त्येव ॥ २३६ ॥ समाहर्तुः । अथ क्षुभितराधिकोक्तिः । निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नेति न दृश्यते प्रियमुखं रात्रिन्दिवं रुद्यते । अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥२३७॥ अमरोः । (अमरु ९८।९२॑ स्क्म् २.४१.२) मानजविरहेण ध्यायन्तीं तां प्रति कस्याश्चिद्वाक्यम् । आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः । मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते तद्ब्रूयाः सखि योगिनी किमसि भोः किं वियोगिन्यपि ॥२३८॥ (स्क्म् २.२५.२, स्र्क्७०३ रजसेखर, उन् १३.७५) तं प्रति राधावाक्यम् । सङ्गमविरहविकल्पे वरमिह विरहो न तु सङ्गमस्तस्य । एकः स एव सङ्गे त्रिभुवनमपि तन्मयं विरहे ॥२३९॥ कस्यचित् । (स्क्म् २.९९.४) अथ कृष्णविरहः । सञ्जाते विरहे कयापि हृदये सन्दानिते चिन्तया कालिन्दीतटवेतसीवनघनच्छायानिषण्णात्मनः । पायासुः कलकण्ठकूजितकला गोपस्य कंसद्विषो जिह्वावर्जिततालुमूर्च्छितमरुद्विस्फारिता गीतयः ॥२४०॥ कस्यचित् ॥ (स्क्म् १.५८.१) अथ राधाप्रसादनम् । शिरश्छायां कृष्णः स्वयमकृत राधाचरणयोर् भुजावल्लीच्छायामियमपि तदीयप्रतिकृतौ । इति क्रीडाकोपे निभृतमुभयोरप्यनुनय प्रसादौ जीयास्तामपि गुरुसमक्षं स्थितवतोः ॥२४१॥ हरस्य । कृष्णं प्रति राधासखीवाक्यम् । सा सर्वथैव रक्ता रागं गुञ्जेव न तु मुखे वहति । वचनपटोस्तव रागः केवलमास्ये शुकस्येव ॥२४२॥ गोवर्धनाचार्यस्य । (अर्यस्६४९।७०३) सुभग भवता हृद्ये तस्या ज्वलत्स्मरपावकेऽप्य् अभिनिवेशता प्रेमाधिक्यं चिरात्प्रकटीकृतम् । तव तु हृदये शीतेऽप्येवं सदैव सुखाप्तये मम सहचरी सा निःस्नेहा मनागपि न स्थिता ॥२४३॥ रुद्रस्य । (शृङ्गारतिलक २.१०८) अथ दिनान्तरवार्ता । आगत्य प्रणिपातसान्त्वितसखीदत्तान्तरं सागसि स्वैरं कुर्वति तल्पपार्श्वनिभृते धूर्तेऽङ्गसंवाहनम् । ज्ञात्वा स्पर्शवशात्तया किल सखीभ्रान्त्येव वक्षः शनैः खिन्नासीत्यभिधाय मीलितदृशा सानन्दमारोपितः ॥२४४॥ कस्यचित् । (स्प्द्३५७६॑ स्भ्व्२०८३॑ स्म्व्५८.५) वस्तुतस्तु गुरुभीतया तया व्यञ्जिते कपटमानकुट्मले । पेशलप्रियसखीदृशा हरिर् बोधितस्तटलतागृहं ययौ ॥२४५॥ माधवो मधुरमाधवीलता मण्डपे पटुरटन्मधुव्रते । संजगौ श्रवणचारु गोपिका मानमीनवडिशेन वेणुना ॥२४६॥ कयोश्चिदिमौ । (उन् १०.६४, र्सक्१.१०० ) पुष्पच्छलेन कृष्णमन्वेषयन्तीं राधां प्रति कस्याश्चिदुक्तिः । पन्थाः क्षेममयोऽस्तु ते परिहर प्रत्यूहसम्भावनाम् एतन्मात्रमधारि सुन्दरि मया नेत्रप्रणालीपथे । नीरे नीलसरोजमुज्ज्वलगुणं तीरे तमालालङ्कारः कुञ्जे कोऽपि कलिन्दशैलदुहितुः पुंस्कोकिलः खेलति ॥२४७॥ सर्वविद्याविनोदानाम् । तत्र यमुनातीरे गतया राधया सह संकथा । का त्वं माधवदूतिका वदसि किं मानं जहीति प्रिये धूर्तः सोऽन्यमना मनागपि सखि त्वय्यादरं नोज्झति । इत्यन्योन्यकथारसैः प्रमुदितां राधां सखीवेशवान् नीत्वा कुञ्जगृहं प्रकाशिततनुः स्मेरो हरिः पातु वः ॥२४८॥ वासवस्य ॥ वसन्तः सन्नद्धो विपिनमजनं त्वं च तरुणी स्फुरत्कामावेशे वयसि वयमप्याहितपदाः । व्रज त्वं वा राधे क्षणमथ विलम्बस्व यदि वा स्फुटं जातस्तावच्चतुरवचनानामवसरः ॥२४९॥ कस्यचित् ॥ तत्र राधावाक्यम् स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनी क्षौणीमावृणुते तमालमलिनच्छायातमःसन्ततिः । तन्मे सुन्दर कृष्ण मुञ्च सहसा वर्त्मेति राधागिरः श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः ॥ २५० ॥ कस्यचित् ॥ अथ स्वाधीनभर्तृका । मकरीविरचनभङ्ग्या राधाकुचकलसमर्दनव्यसनी । ऋजुमपि रेखां लुम्पन् वल्लववेशो हरिर्जयति ॥२५१। कस्यचित् ॥ (स्प्द्७७ हरिहरस्य) क्रीडानन्तरं कृष्णस्य स्वप्नायितम् । एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्यम्बुदा मर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः । इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥२५२॥ शुभाङ्कस्य । (क्क्२.६९(७०)॑ स्र्क्१३१) अथ वंशीचौर्यम् । नीचैर्न्यासादथ चरणयोर्नूपुर मूकयन्ती धृत्वा धृत्वा कतकवलयान्युत्क्षिपन्ती भुजान्ते । मुद्रामक्ष्णोश्चकितं शश्वदालोकयन्ती स्मित्वा स्मित्वा हरति मुरलीमङ्कतो माधवस्य ॥२५३॥ दैत्यारिपण्डितस्य । (उन् १५.२३८) तां प्रति राधावाक्यम् । अच्छिद्रमस्तु हृदयं परिपूर्णमस्तु मौखर्यमस्तमितमस्तु गुरुत्वमस्तु । कृष्णप्रिये सखि दिशामि सदाशिषस्ते यद्वासरे मुरलि मे करुणां करोषि ॥२५४॥ श्रीगोविन्दमिश्राणाम् ॥ शून्यत्वं हृदये सलाघवमिदं शुष्कत्वमङ्गेषु मे मौखर्यं व्रजनाथनामकथने दत्तं भवत्या निजम् । तत्किं नो मुरलि प्रयच्चसि प्नर्गोविन्दवक्त्रासवं यं पीत्वा भुवनं वशे विदधती निर्लज्जमुद्गायसि ॥२५५॥ तेषामेव ॥ अथ सायं हरेर्व्रजागमनम् । मन्द्रक्वाणितवेणुरह्नि शिथिले व्यावर्तयन् गोकुलं बर्हापीडकमुत्तमाङ्गरचितं गोधूलिधुम्रं दधत् । म्लायन्त्या वनमालया परिगतः श्रान्तोऽपि रम्याकृतिर् गोपस्त्रीनयनोत्सवो वितरतु श्रेयांसि वः केशवः ॥२५६॥ कस्यचित् ॥ (क्व्स्२२, स्क्म् १.५७.४, स्र्क्११०) तत्र कस्याश्चिदुक्तिः । दृष्ट्या केशव गोपरागहतया किञ्चिन्न दृष्टं मया तेनाद्य स्खलितास्मि नाथ पतितां किं नाम नालम्बसे । एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिर् गोप्यैवं गदितः सलेशमवताद्गोष्ठे हरिर्वश्चिरम् ॥ २५७ ॥ कस्यचित् ॥ (ध्वन्, वक्रो, स्द्४.१४॑ स्म्व्२.९३॑ दिffएरेन्त्किन्द्सोf व्यङ्ग्य) नाभिदेशविनिवेशितवेणुर् धेनुपुच्छनिहितैककराब्जः । अन्यपाणिपरिमण्डितदण्डः पुण्डरीकनयनो व्रजमाप ॥२५८॥ कस्यचित् ॥ तत्रैव राधायाः सौभाग्यम् । भ्रूवल्लीचलनैः कयापि नयनोन्मेषैः कयापि स्मित ज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि । गर्वाद्भेदकृतावहेलविनयश्रीभाजि राधानने सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः ॥२५९॥ उमापतिधरस्य ॥ (स्क्म् १.५५.३, र्कद्१२९) तिर्यक्कन्धरमंसदेशमिलितश्रोत्रावतंसं स्फुरद् बर्होत्तम्भितकेशपाशमनृजुभ्रूवल्लरीविभ्रमम् । गुञ्जद्वेणुनिवेशिताधरपुटं साकूतराधानन न्यस्तामीलितदृष्टि गोपवपुषो विष्णोर्मुखं पातु वः ॥२६०॥ लक्ष्मणसेनदेवस्य ॥ (स्क्म् १.५५.२) अंसासक्तकपोलवंशवदनव्यासक्तबिम्बाधर द्वन्द्वोदीरितमन्दमन्दपवनप्रारब्धमुग्धध्वनिः । ईषद्वक्रिमलोलहारनिकरः प्रत्येकरोकानन न्यञ्चच्चञ्चदुदञ्चदङ्गुलिचयस्त्वां पातु राधाधवः ॥२६१॥ नाथोकस्य ॥ (स्क्म् १.५७.५ केशरकीलीयनाथोकस्य) अङ्गुष्ठाग्रिमयन्त्रिताङ्गुलिरसौ पादार्थनीरुद्धभूर् आर्द्रीकृत्य पयोधराञ्चलमलं सद्यः पयोबिन्दुभिः । न्यग्जानुद्वयमध्ययन्त्रितगह्टीवक्त्रान्तरालस्खलद् धाराध्वानमनोहरं सखि पयो गां दोग्धि दामोदरः ॥ २६२ ॥ शरणस्य ॥ (स्क्म् ५.१.१॑ स्र्क्११५७, उपाध्याय दामरस्य॑ उन् १०.५०) शाठान् यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । तदेतत्क्वाचक्षे घृतमधुमय त्वद्बहुवचो विषेणाघूर्णन्ती किमपि न सखी मे गणयति ॥२६३॥ कस्यचित् ॥ (अमरु ७३।१०९, स्द्३.३७) शठनायक अथ गोवर्धनोद्धरणम् । सत्रासर्ति यशोदया प्रियगुणप्रीतेक्षणं राधया लग्नैर्वल्लवसूनुभिः सरभसं सम्भावितात्मोर्जितैः । भीतानन्दितविस्मितेन विषमं नन्देन चालोकितः पायाद्वः करपद्मसुस्थितमहाशैलः सलीलो हरिः ॥२६४॥ सोह्नोकस्य । (स्क्म् १.६०.१ सोल्लोकस्य॑ स्र्क्१४० सोन्नोकस्य) एकेनैव चिराय कृष्ण भवता गोवर्धनोऽयं धृतः श्रान्तोऽसि क्षणमास्स्व साम्प्रतममी सर्वे वयं दध्महे । इत्युल्लासितदोष्णि गोपनिवहे किञ्चिद्भुजाकुञ्चन न्यञ्चच्छैलभरार्दिते विरुवति स्मेरो हरिः पातु वः ॥२६५॥ शरणस्य ॥ (स्म् १.६०.२) खिन्नोऽसि मुञ्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः । भरभुग्नवितत बाहुषु गोपेषु हसन् हरिर्जयति ॥ २६६ ॥ सुबन्धोः ॥ (वासवदत्त, २॑ स्प्द्७८॑ स्म्व्१.४१ हरिहरस्य) दूरं दृष्टिपथात्तिरोभव हरेर्गोवर्धनं विभ्रतस् त्वय्यासक्तदृशः कृशोदरि करस्रस्तोऽस्य मा भूदयम् । गोपीनामिति जल्पितं कलयतो राधानिरोधाश्रयं श्वासाः शैलभरश्रमभ्रमकराः कंसद्विषः पान्तु वः ॥ २६७ ॥ शुभाङ्कस्य । (स्क्म् १.६०.४) अथ नौक्रीडा । कुरु पारं यमुनाया मुहुरिति गोपीभिरुत्कराहूतः । तरितटकपटशयालुर् द्विगुणालस्यो हरिर्जयति ॥२६८॥ सञ्जयकविशेखरस्य । (ब्र्क्५.१७०६) उत्तिष्ठारात्तरौ मे तरुणि मम तरोः शक्तिरारोहणे का साक्षादाख्यामि मुग्धे तरणिमिह रवेराख्यया का रतिर्मे । वार्तेयं नौप्रसङ्गे कथमपि भविता नावयोः सङ्गमार्था वार्तापीति स्मितास्यं जितगिरिमजितं राधयाराधयामि ॥२६९॥ (उन् ११.८६) मुक्ता तरङ्गनिवहेन पतङ्गपुत्री नव्या च नौरिति वचस्तव तथ्यमेव । शङ्कानिदानमिदमेव ममातिमात्रं त्वं चञ्चलो यदिह माधव नाविकोऽसि ॥२७०॥ समाहर्तुरिमौ । (उन् १५.२३६) जीर्णा तरिः सरिदतीवगभीरनीरा बाला वयं सकलमित्थमनर्थहेतुः । निस्तारबीजमिदमेव कृशोदराणां यन्माधव त्वमसि सम्प्रति कर्णधारः ॥२७१॥ जगदाननदरायस्य । (ब्र्क्५.१७०९) अम्भसि तरणिसुतायाः स्तम्भिततरणिः स देवकीसुतः । आतरविरहितगोप्याः कातरमुखमीक्षते स्मेरः ॥ २७२ ॥ सूर्यदासस्य । वाचा तवैव यदुनन्दन गव्यभारो हारोऽपि वारिणि मया सहसा विकीर्णः । दूरीकृतं च कुचयोरनयोर्दुकूलं कूलं कलिन्ददुहितुर्न तथाप्यदूरम् ॥२७३॥ कस्यचित् । (प्रेमामृत ३.१८॑ ब्र्क्५.१७१०) पयःपूरैः पूर्णा सपदि गतघूर्णा च पवनैर् गभीरे कालिन्दीपयसि तरिरेषा प्रविशति । अहो मे दुर्दैवं परमकुतुकाक्रान्तहृदयो हरिर्वारं वारं तदपि करतालिं रचयति ॥२७४॥ मनोहरस्य । (प्रेमामृत ३.१९॑ ब्र्क्५.१७११) पानीयसेचनविधौ मम नैव पाणी विश्राम्यतस्तदपि ते परिहासवाणी । जीवामि चेत्पुनरहं न तदा कदापि कृष्ण त्वदीयतरणौ चरणौ ददामि ॥२७५॥ तस्यैव । (प्रेमामृत ३.१२॑ ब्र्क्५.१७१२) इदमुद्दिश्य वयस्याः स्वसमीहितदैवतं नमत । यमुनैव जानुदध्नी भवतु न वा नाविकोऽस्त्वपरः ॥२७६॥ मुकुन्दभट्टाचार्यस्य । तरिरुत्तरला सरिद्गभीरा तरलो नन्दसुतश्च कर्णधारः । अबलाहमुपैति भानुरस्तं सखि दूरे नगरीह किं करोमि ॥२७७॥ कस्च्यचित् ॥ नापेक्षते स्तुतिकथां न शृणोति काकुं शश्वत्कृतं न मनुते प्रणिपातजातम् । हा किं विधेयमधुना सखि नन्दसूनुर् मध्येतरङ्गिणि तरिं तरलो धुनोति ॥२७८॥ तस्यैव । एxत्र वेर्से fओउन्दिनोन्ल्योने एदितिओन्. आतरलाघवहेतोर् मुरहर तरिं तवावलम्बे । अपणं पणमिह कुरुषे नाविकपुरुषे न विश्वासः ॥ कस्यचित् । एषोत्तुङ्गतरङ्गलङ्घिततटोत्सङ्गा पतङ्गात्मजा पूर्णेयं तरिरम्बुभिर्न हि हरेः शङ्का कलङ्कादपि । काठिण्यं भज नाद्य सुन्दरि वयं राधे प्रसादेन ते जीवामः स्फुटमातरीकुरु गिरिद्रोणीविनोदोत्सवम् ॥२७९॥ काकुं करोषि गृहकोणकरीषपुञ्ज गूढाङ्ग किं ननु वृथा कितव प्रयाहि । कुत्राद्य जीर्णतरणिभ्रमणातिभीत गोपाङ्गनागणविडम्बनचातुरी ॥२८०॥ त्रयः समाहर्तुः । (उन् ५.४९) अथ राधया सह हरेर्वाकोवाक्यम् । अङ्गुल्या कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो नो चक्री किं कुलालो न हि धरणीधरः किं द्विजिह्वः फणीन्द्रः । नाहं घोराहिमर्दी किमसि खगपतिर्नो हरिः किं कपीशो राधावाणीभिरित्थं प्रहसितवदनः पातु वश्चक्रपाणिः ॥२८१॥ कस्यचित् ॥ (स्भ्व्१३०॑ क्क्३.१०५॑ स्र्क्७.१९) कस्त्वं भो निशि केशवः शिरसिजै य्किं नाम गर्वायसे भद्रे शौरिरहं गुणैः पितृगतैः पुत्रस्य किं स्यादिह । चक्री चन्द्रमुखि प्रयच्छसि न मे कुण्डीं घटीं दोहनीम् इत्थं गोपवधूजितोत्तरतया ह्रीणो हरिः पातु वः ॥२८२॥ चक्रपाणेः ॥ (स्क्म् १.५६.३) वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्विदं वासं ब्रूहि शठ प्रकामसुभगे त्वद्गात्रसंसर्गतः । यामिन्यामुषितः क्व धूर्त वितनुर्मुष्णाति किं यामिनी शौरिर्गोपवधूं छलैः परिहसन्नेवंविधैः पातु वः ॥२८३॥ कस्यचित् ॥ (स्क्म् १.५६.४॑ ब्र्स्२.१.८३) राधे त्वं कुपिता त्वमेव कुपिता रुष्टासि भूमेर्यतो माता त्वं जगतां त्वमेव जगतां माता न विज्ञोऽपरः । देवि त्वं परिहासकेलिकलहेऽनन्ता त्वमेवेत्यसौ स्मेरो वल्लवसुन्दरीमवनमच्छौरिः श्रियः वः क्रियात् ॥२८४॥ हरिहरस्य ॥ (स्क्म् १.५६.१ वाक्पतेः॑ स्र्क्१०८) अथ रासः । वृन्दारण्ये प्रमदसदने मल्लिकापुष्पमोदे श्रीशुभ्रांशोः किरणरुचिरे कोकिलाद्यैर्मनोज्ञे । रात्रौ चित्रे पशुपवनिताचित्तदेहापहारी कंसारातेर्मधुरमुरलीवाद्यराजो रराज ॥२८५॥ कस्यचित् । अधरामृतमाधुरीधुरीणो हरिलीलामुरलीनिनाद एषः । प्रततान मनःप्रमोदमुच्चैर् हरिणीनां हरिणीदृशां मुनीनाम् ॥२८६॥ श्रीमाधवेन्द्रपुरीपादानाम् । लीलामुखरितमुरली कृतगोपभाविनीनिवहः । तदधरमधुनि सतृष्णः कृष्णः पायादपायतो भवतः ॥ २८७॥ माधवचक्रवर्तिनः ॥ कारय नाम्ब विलम्बं मुञ्च करं मे हरिं यामि । न सहे स्थातुं यदसौ गर्जति मुरली प्रगल्भदूतीव ॥२८८॥ समाहर्तुः ॥ चूडाचुम्बितचारुचन्द्रकचयं चामीकराभाम्बरं कर्णोत्तंसितकर्णिकारकुसुमं कन्दर्पकल्लोलितम् । वंशीवादनवावदूकवदनं वक्रीभवद्वीक्षणं भाग्यं भङ्गुरमध्यमाः परिणतं कुञ्जान्तरं ब्जेजिरे ॥ २८९ ॥ जीवदासवाहिनीपतेः । श्रीकृष्णवाक्यम् । दुष्टः कोऽपि करोति वः परिभवं शङ्के मुहुर्गोकुले धावन्त्यः स्खलदम्बरं निशि वने यूयं यदभ्यागताः । आः का भीतिरमन्ददानववधूसिन्दूरमुद्राहरे दोर्दण्डे मम भाति दीव्यत पतिक्रोडे कुरङ्गीदृशः ॥२९०॥ धूतोत्तापे वहति गहने धर्मपूरे व्रजान्तः का वस्तृष्णा वलति हृदये दुर्मदेयं सतीनाम् । सीमन्तिन्यः स्पृहयत गृहान्मा विरुद्धं कुरुध्वं नायं दृष्टौ मम विघटते हन्त पुण्यस्य पन्थाः ॥ २९१ ॥ अथ व्रजदेवीनामुत्तरम् । कथं वीथीमस्मानुपदिशसि धर्मप्रणयिनीं प्रसीद स्वां शिष्यामतिखिलमुखीं शाधि मुरलीम् । हरन्ती मर्यादां शिव शिव परे पुंसि हृदयं नयन्ती धृष्टेयं यदुवर यथा नाह्वयति नः ॥२९२ ॥ त्रयः समाहर्तुः ॥ गोपीजनालिङ्गितमध्यभागं वेणुं धमन्तं भृशलोलनेत्रम् । कलेवरे प्रस्फुटरोमवृन्दं नमामि कृष्णं जगदेककन्दम् ॥२९३॥ श्रीपुरुषोत्तमदेवस्य ॥ कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम् । तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गतेर् अक्षुण्णोऽनुनयः प्रसन्नदयितादृष्टस्य पुष्णातु वः ॥ २९४ ॥ भट्टनारायणस्य ॥ (वेणिसंहार १.२) कृष्णान्तर्धाने तासां प्रश्नः । तुलसि विलससि त्वं मल्लि जातासि फुल्ला स्थलकमलिनि भृङ्गे सङ्गताङ्गी विभासि । कथयत बत सख्यः क्षिप्रमस्मासु कस्मिन् वसति कपटकन्दः कन्दरे नन्दसूनुः ॥२९५॥ समाहर्तुः । (उन् १०.९४) दृष्टः क्वापि स माधवो व्रजवधूमादाय काञ्चिद्गतः सर्वा एव हि वञ्चिताः सखि वयं सोऽन्वेषणीयो यदि । द्वे द्वे गच्छतमित्युदीर्य सहसा राधां गृहीत्वा करे गोपीवेशधरो निकुञ्जकुहरं प्राप्तो हरिः पातु वः ॥२९६॥ कस्यचित् ॥ (स्भ्व्१००) राधासखीवाक्यम् । अदोषाद्दोषाद्वा त्यजति विपिने तां यदि भवान् अभद्रं भद्रं वा त्रिभुवनपते त्वां वदतु कः । इदं तु क्रूरं मे स्मरति हृदयं यत्किल तया त्वदर्थं कान्तारे कुलतिलक नात्मापि गणितः ॥२९७॥ रामचन्द्रदासस्य । (उन् ८.४०) लक्ष्मीं मध्यगतेन रासवलये विस्तारयन्नात्मना कस्तूरीसुरभिर्विलासमुरलीविन्यस्तवक्त्रेन्दुना । क्रीडाताण्डवमण्डलेन परितो दृष्टेन तुष्यद्दृशा त्वां हल्लीशकशङ्कुसङ्कुलपदा पायाद्विहारी हरिः ॥२९८॥ कस्यचित् । तत्र खेचराणामुक्तिः । मुक्तमुनीनां मृग्यं किमपि फलं देवकी फलति । तत्पालयति यशोदा निकाममुपभुञ्जते गोप्यः ॥२९९॥ दाक्षिणात्यस्य ॥ तप्तं तपोभिरन्यैः फलितं तद्गोपबालानाम् । आसां यत्कुचकुम्भे नीलनिचोलयति ब्रह्म ॥३००॥ श्रीरघुपत्युपाध्यायस्य ॥ अथ जलक्रीडा । जलकेलितरलकरतल मुक्तपुनःपिहितराधिकावदनः । जगदवतु कोकयूनोर् विघटनसङ्घटनकौतुकी कृष्णः ॥३०१॥ कस्यचित् । (उन् १५.२३५) राधासखीं प्रति चन्द्रावलीसख्याः सासूयवाक्यम् मा गर्वमुद्वह कपोलतले चकास्ति कृष्णस्वहस्तलिखिता नवमञ्जरीति । अन्यापि किं न सखि भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः ॥३०२॥ दामोदरस्य । (अमरु ५५॑ स्क्म् २.१४०.५ केशटस्य॑ स्म्व्८६.१४॑ स्द्३.१०५ मद॑ दश २.२२, एत्च्.॑ ब्र्स्२.४.१६५) राधासख्याः साकूतवाक्यम् । यदवधि गोकुलमभितः समजनि कुसुमाचितासनश्रेणी । पीतांशुकप्रियेयं तदवधि चन्द्रावली जाता ॥३०३॥ गोवर्धनाचार्यस्य । (अर्यस्४३६।५३१) चन्द्रावलीं प्रति सखीवाक्यम् सौजन्येन वशीकृता वयमतस्त्वां किञ्चिदाचक्ष्महे कालिन्दीं यदि यासि सुन्दरि पुनर्मा गाः कदम्बाट्वईम् । कश्चित्तत्र नितान्तनिर्मलतमःस्तोमोऽस्ति यस्मिन्मनाग् लग्ने लोचनसीम्नि नोत्पलदृशः पश्यन्ती पत्युर्गृहम् ॥३०४॥ गोविन्दभट्टस्य ॥ श्यामोऽयं दिवसः पयोदपटलैः सायं तथाप्युत्सुका पुष्पार्थं सखि यासि यामुनतटं याहि व्यथा का मम । किन्त्वेकं खरकण्टककक्षतमुरस्यालोक्य सद्योऽन्यथा शङ्कां यत्कुटिलः करिष्यति जनो जातास्मि तेनाकुला ॥ ३०५ ॥ कर्णपूरस्य ॥ गन्तव्या ते मनसि यमुना वर्तते चेत्तदानीं कुञ्जं मा गाः सहजसरले वाञ्जुलं मद्वचोभिः । गच्छेस्तत्राप्यहह यदि वा मा मुरारेरुदारे कुत्राप्येका रहसि मुरलीनादमाकर्णयेथाः ॥३०६॥ तैरभुक्तकवेः । तरले न कुरु विलम्बं कुम्भं संस्मृत्य मन्दिरं याहि । यावन्न मोहनमन्त्रं शंसति कंसद्विषो वंशी ॥३०७॥ समाहर्तुः ॥ पृष्ठेन नीपमवलम्ब्य कलिन्दजायाः कूले विलासमुरलीं क्वणयन्मुकुन्दः । प्राक्पूरणात्कलसमम्भसि लोलयन्त्या वक्त्रं विवर्तयति गोपकुलाङ्गनायाः ॥३०८॥ कस्यचित् ॥ सख्यो यय्र्गृहमहं कलसीं वहन्ती पूर्णामतीवमहतीमनुलम्बितास्मि । एकाकिनीं स्पृशसि मां यदि नन्दसूनो मोक्ष्यामि जीवनमिदं सहसा पुरस्ते ॥३०९॥ समाहर्तुः ॥ तां प्रति कस्याश्चिदुक्तिः । वल्गन्त्या वनमालया तव हृतं वक्षोजयोश्चन्दनं गण्डस्था मकरीघटा च मकरान्दोलेन विध्वंसिता । क्लान्ता स्वैरतरङ्गकेलिभिरियं तन्वी च धूर्ते तनुः सत्यं जल्पसि भानुजामभि रसे मग्नाद्य हर्षादभूः ॥३१०॥ समाहर्तुः ॥ तद्भर्तारं प्रति सखीवाख्यम् । सुभग मम प्रियसख्याः किमिव सशङ्कं मुहुर्विलोकयसि । यामुनपवनविकीर्ण प्रियकरजःपिञ्जरं पृष्ठम् ॥३११॥ समाहर्तुः ॥ चन्द्रावलीं प्रति तस्या वाक्यम् कात्यायनीकुसुमकामनया किमर्थं कान्तारकुक्षिकुहरं कुतुकाद्गतासि । पश्य स्तनस्तवकयोस्तव कण्टकाङ्कं गोपः सुकण्ठि बत पश्यसि जातकोपः ॥३१२॥ समाहर्तुरिमे । (उन् ३.३८) अथ नित्यलीला वृन्दावने मुकुन्दस्य नित्यलीला विराजते । स्पष्टमेषा रहस्यत्वाज्जानद्भिरपि नोच्यते ॥ ताभिर्नित्यविहारमेव तनुते वृन्दावने माधवो गोष्ठाम्भोजमुखीभिरित्य भि मनाक्प्रोचे प्रियायै हरः । लीलारत्नरहस्यता व्रजपतेर्भूयस्यहो पश्य यत् तत्त्वज्ञोऽपि पुरान्तरे च गमनं व्याचष्ट वैयासकिः ॥ तथा हि पाद्मे पार्वत्यै व्याजहार हरो रहः । गोगोपगोपिकासङ्गे यत्र क्रीडति कंसहा ॥ अथ भाविनि हरेर्मथुराप्रस्थाने राधासखीवाक्यम् अद्यैव यत्प्रतिपदुद्गतचन्द्रलेखा सख्यं त्वया वपुरिदं गमितं वराक्याः । कृष्णे गते कुसुमसायक तत्प्रभाते बाणावलिं कथय कुत्र विमोक्ष्यसि त्वम् ॥३१३॥ रुद्रस्य ॥ (स्त्२.८७) प्रस्थानं वलयैः कृतं प्रियसखैरजस्रं गतं धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः । गन्तुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते ॥ ३१४ ॥ अमरोः । (अमरु ३१।३६॑ स्भ्व्११५१॑ स्प्द्३४२४॑ स्क्म् २.५४.१॑ स्म्व्३७.१९) हरेर्मथुराप्रवेशे छायापि लोचनपथं न जगाम यस्याः सेयं वधूर्नगरमध्यमलङ्करोति । किं चापकलय्य मथुरानगरे मुकुन्दम् अन्धोऽपि बन्धुकरदत्तकरः प्रयाति ॥३१५॥ वाणीविलासस्य । तत्र पुरस्त्रीवाक्यम् । अस्रमजस्रं मोक्तुं धिङ्नः कर्णायते नयने । द्रष्टव्यं परिदृष्टं तत्कैशोरं व्रजस्त्रीभिः ॥३१६॥ तैरभुक्तस्य ॥ सान्द्रानन्दमनन्तमव्ययमजं यद्योगिनोऽपि क्षणं साक्षात्कर्तुमुपासते प्रतिदिनं ध्यानैकतानाः परम् । धन्यास्ता व्रजवासिनां युवतयस्तद्ब्रह्म याः कौतुकाद् आलिङ्गन्ति समालपन्ति शतधाकर्षन्ति चुम्बन्ति च ॥३१७॥ वाहिनीपतेः ॥ (स्द्६.३१४ ) एxत्र वेर्से आनन्दकन्दमखिलश्रुतिसारमेकम् अध्यात्मदीपमतिदुस्तरमञ्जनाभम् । आकृष्य सान्द्रकुचयोः परिरभ्य कामं सम्प्राप्य गोपवनिता बत पुण्यपुञ्जाः ॥ प्रियसखि न जगाम वामशीलः स्फुटममुना नागरेण नन्दसूनुः । अदलितनलिनीदलैव वापी यदहतपल्लव एव काननान्तः ॥३१८॥ कुमारस्य ॥ यास्यामीति समुद्यतस्य वचनं विस्रब्धमाकर्णितं गच्छन् दूरमपेक्षितो मुहुरसौ व्यावृत्य पश्यन्नपि । तच्छून्ये पुनरागतास्मि भवने प्राणास्त एव स्थिताः सख्यः पश्यत जीवितप्रणयिनी दम्भादहं रोदिमि ॥३१९॥ रुद्रटस्य । गतो यामो गतौ यामौ गता यामा गतं दिनम् । हा हन्त किं करिष्यामि न पश्यामि हरेर्मुखम् ॥३२०॥ शङ्करस्य ॥ यमुनापुलिने समुत्क्षिपन् नटवेशः कुसुमस्य कन्दुकम् । न पुनः सखि लोकयिष्यते कपटाभीरकिशोरचन्द्रमाः ॥३२१ ॥ षष्ठीदासस्य ॥ याः पश्यन्ति प्रियं स्वप्ने धन्यास्ताः सखि योषितः अस्माकं तु गते कृष्णे गता निद्रापि वैरिणी ॥३२२॥ धन्यस्य । (उन् १५.१६९) सोऽयं वसन्तसमयो विपिनं तदेतत् सोऽयं निकुञ्जविटपी निखिलं तदास्ते हा हन्त किं तु नवनीरदकोमलाङ्गो नलोकि पुष्पधनुषः प्रथमावतारः ॥३२३॥ सञ्जयकविशेखरस्य ॥ युगायितं निमेषेण चक्षुषा प्रावृषायितम् । शून्यायितं जगत्सर्वं गोविन्दविरहेण मे ॥३२४॥ श्रीभगवतः ॥ (शिक्षाष्टक, ७) दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते वहति विकलः कायो मूर्च्छां न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥३२५॥ (मालतीमाधव ९.११, उत्तररामचरित ३.३१, ब्र्क्॑ स्म्व्४३.३९) भ्रमय जलदानम्भोगर्भान् प्रमोदय चातकान् कलय शिखिनः केकोत्कण्ठान् कठोरय केतकान् । विरहिणि जने मूर्च्छां लब्ध्वा विनोदयति व्यथा मकरुण पुनः संज्ञाव्याधिं विधाय किमीहसे ॥ ३२६ ॥ एतौ भवभूतेः । (मालतीमाधव ९.४२, स्प्द्३४५३॑ स्म्व्४३.३४) दृष्टं केतकधूलिधूसरमिदं व्योम क्रमाद्वीक्षिताः कच्चान्ताश्च शिलीन्ध्रकन्दलभृतः सोढाः कदम्बानिलाः । सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान्मुदेवाकुला एतानप्यधुनास्मि वज्रघटिता नूनं सहिष्ये धनान् ॥३२७॥ रुद्रस्य ॥ (स्क्म् २.५५.३, स्त्२.६० ) सेयं नदी कुमुदबद्न्हुकरास्त एव तद्यामुनं तटमिदं विपिनं तदेतत् । ते मल्लिकासुरभयो मरुतस्त्वमेव हा प्राणवल्लभ सुदुर्लभतां गतोऽसि ॥३२८॥ हरिभट्टस्य ॥ यदुनाथ भवन्तमागतं कथयिष्यन्ति कदा मदालयः । युगपत्परितः प्रधावितः विकसद्भिर्वदनेन्दुमण्डलैः ॥३२९ ॥ तैरभुक्तकवेः ॥ अयि दीनदयार्द्र नाथ हे, मथुरानाथ कदावलोक्यसे । हृदयं त्वदलोककातरं दयित भ्राम्यति किं करोम्यहम् ॥३३०॥ श्रीमाधवेन्द्रपुरीपादानाम् । (च्च्२.४.१९७, ३.८.३२) प्रथयति न तथा ममार्तिमुच्चैः सहचरि वल्लवचन्द्रविप्रयोगः । कटुभिरसुरमण्डलैः परीते दनुजपतेर्नगरे यथास्य वासः ॥३३१॥ श्रीरघुनाथदासस्य । (ब्र्स्२.४.५२) चूताङ्कुरे स्फुरति हन्त नवे नवेऽस्मिन् जीवोऽपि यास्यतितरां तरलस्वभावः । किं त्वेकमेव मम दुःखमभूदनल्पं प्राणेश्वरेण सहितो यदयं न यातः ॥३३२॥। राङ्गस्य । आशैकतन्तुमवलम्ब्य विलममाना रक्षामि जीवमवधिर्नियतो यदि स्यात् । नो चेद्विधिः सकललोकहितैककारी यत्कालकूटमसृजत्तदिदं किमर्थम् ॥३३३॥ हरेः । प्रसर शिशिरामोदं कौन्दं समीर समीरय प्रकटय शशिन्नाशाः कामं मनोज समुल्लस । अवधिदिवसः पूर्णः सख्यो विमुञ्चत तत्कथां हृदयमधुना किञ्चित्कर्तुं ममान्यदिहेच्छति ॥३३४ ॥ रुद्रस्य ॥ (स्क्म् २.५५.५॑ स्त्२.५८ , स्म्व्४०.१८) नायाति चेद्यदुपतिः सखि नैतु कामं प्राणास्तदीयविरहाद्यदि यान्ति यान्तु । एकः परं हृदि महान्मम वज्रपातो भूयो यदिन्दुवदनं न विलोकितं तत् ॥ ३३५ ॥ हरिभट्टस्य ॥ पञ्चत्वं तनुरेतु भूतनिवहाउ स्वांशे विशन्तु स्फुटं धातारं प्रणिपत्य हन्त शिरसा तत्रापि याचे वरम् । तद्वापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयाङ्गन व्योम्नि व्योम तदीयवर्त्मनि धरा तत्तालवृन्तेऽनिलः ॥ ३३६ ॥ षण्मासिकस्य । (स्प्द्३४२८॑ स्म्व्४३.३२॑ स्भ्व्१३५५॑ उन् १४.१८९) आश्लिष्य वा पादरतां पिनष्टु माम् अदर्शनान्मर्महतां करोतु वा । यथा तथा वा विदधातु लम्पटो मत्प्राणनाथस्तु स एव नापरः ॥३३७॥ श्रीभगवतः ॥ (च्च्३.२०.४७, उन् १३.७९) मथुरायां यशोदास्मृत्या कृष्णवाक्यम् । ताम्बूलं स्वमुखार्धं चर्वितमितः को मे मुखे निक्षिपेद् उन्मार्गप्रसृतं च चाटुवचनैः को मां वशे स्थापयेत् । एह्येहीति विदूरसारितभुजः स्वाङ्के निद्यायाधुना केलिस्रस्तशिखण्डकं मम पुनर्व्याधूय बध्नातु कः ॥३३८॥ तैरभुक्तस्य ॥ अथ श्रीराधास्मृत्या हरेर्वाक्यम् । यदि निभृतमरण्यं प्रान्तरं वाप्यपान्थं कथमपि चिरकालं पुण्यपाकेन लप्स्ये । अविरलगलदस्रैर्घघरध्वानमिश्रैः शशिमुखि तव शोकैः प्लावयिष्ये जगन्ति ॥३३९॥ तैरभुक्तकवेः ॥ उद्धवं प्रति हरेर्वाक्यम् । विषयेषु तावदबलास् तास्वपि गोप्यः स्वभावमृदुवाचः । मध्ये तासामपि सा तस्यामपि साचिवीक्षितं किमपि ॥ ३४० ॥ कस्यचित् ॥ उद्धवेन राधायां हरेः सन्देशः । आविर्भावदिने न येन गणितो हेतुस्तनीयानपि क्षीयेतापि न चापराधविधिना नत्या नयो वर्धते । पीयूषप्रतिवेदिनस्त्रिजगतीदुःखद्रुहं साम्प्रतं प्रेम्णस्तस्य गुरोः कथं नु करवै वाङ्निष्ठतालाघवम् ॥३४१॥ केषांचित् ॥ आस्तां तावद्वचनरचनाभाजनत्वं विदूरे दूरे चास्तां तव तनुपरीरम्भसम्भावनापि । भूयो भूयः प्रणतिभिरिदं किं तु याचे विधेया स्मारं स्मारं स्वजनगणने क्वापि रेखा ममापि ॥३४२॥ केशवभट्टाचार्याणाम् ॥ वृन्दावनं गच्छत उद्धवस्य वाक्यम् । इयं सा कालिन्दी कुवलयदलस्निग्धमधुरा मदान्धव्याकूजतरलजलरङ्कुप्रणयिनी । पुरा यस्यास्तीरे सरभससतृष्णं मुरभिदो गताः प्रायो गोपीनिधुवनविनोदेन दिवसाः ॥३४३ ॥ दशरथस्य । (स्क्म् ५.११.४ शरणस्य) पुरेयं काल्लिन्दी व्रजजनवधूनां स्तनतटी तनूरागैर्भिन्ना चबलसलिलाभूदनुदिनम् । अहो तासां नित्यं रुदितगलितैः कज्जलजलैर् इदानीं यातेऽस्मिन् द्विगुणमल्लिनाभून्मुररिपौ ॥ ३४४ ॥ सर्वानन्दस्य ॥ इदं तत्कालिन्दीपुलिनमिह कंसासुरभिदो यशः शृण्वद्वक्त्रस्खलितकवलं गोकुलमभूत् । भ्रमद्वेणुक्वाणश्रवणमसृणोत्तारमधुर स्वराभिर्गोपीभिर्दिशि दिशि समुद्घूर्णमनिशम् ॥३४५ ॥ मोटकस्य ॥ (स्क्म् ५.११.५ केशटस्य) ताभ्यो नमो वल्लववल्लभाभ्यो यासां गुणैस्तैरभिचिन्त्यमानैः । वक्षःस्थले निःश्वसितैः कदुष्णैर् लक्ष्मीपतेर्म्लायति वैजयन्ती ॥ ३४६ ॥ कस्यचित् ॥ व्रजदेवीकुलं प्रत्युद्धववाक्यम् । वियोगिनीनामपि पद्धतिं वो न योगिनो गन्तुमपि क्षमन्ते । यद्ध्येयरूपस्य परस्य पुंसो यूयं गता ध्येयपदं दुरापम् ॥३४७॥ कस्यचित् ॥ उद्धवे दृष्टे सखीं प्रति राधावाक्यम् । कल्याणं कथयामि किं सहचरि स्वैरेषु शश्वत्पुरा यस्या नाम समीरितं मुररिपोः प्राणेश्वईति त्वया । साहं प्रेमभिदाभयात्प्रियतमं दृष्ट्वापि दूतं प्रभोः सन्दिष्टास्मि न वेति संशयवती पृच्छामि नो किञ्चन ॥३४८॥ रामचन्द्रदासस्य ॥ श्रीराधां प्रति उद्धववाक्यम् । मलिनं नयनाञ्जनाम्बुभिर् मुखचन्द्रं करभोरु मा कुरु । करुणावरुणालयो हरिस् त्वयि भूयः करुणां विधास्यति ॥३४९॥ षष्ठीदासस्य ॥ (उन् १२.३०) उद्धवं प्रति राधासखीवाक्यम् । हस्तोदरे विनिहितैककपोलपालेर् अश्रान्तलोचनजलस्नपिताननायाः । प्रस्थानमङ्गलदिनावधि माधवस्य निद्रालवोऽपि कुत एव सरोरुहाक्ष्याः ॥३५०॥ हरिहरस्य ॥ (ब्र्स्३.५.३२) राधासख्या एव कृष्णे सन्देशः । निश्चन्दनानि वणिजामपि मन्दिराणि निष्पल्लवानि च दिगन्तरकाननानि । निष्पङ्कजान्यपि सरित्सरसीकुलानि जातानि तद्विरहवेदनया न शान्तम् ॥३५१ ॥ तस्यैव ॥ प्राणस्त्वं जगतां हरेरपि पुरा सङ्केतवेणुस्वनान् आदाय व्रजसुभ्रुवामिह भवान्मार्गोपदेशे गुरु । हंहो मथुरानिष्कुटानिल सखे सम्प्रत्यपि श्रीपतेर् अङ्गस्पर्शपवित्रशीतिलतनुस्त्राता त्वमेकोऽसि नः ॥३५२॥ रामचन्द्रदासस्य ॥ राधासख्या एव कृष्णे सन्देशः । त्वद्देशागतमारुतेन मृदुना सञ्जातरोमाञ्चया त्वद्रूपाङ्कितचारुचित्रफलके सन्तर्पयन्त्या दृशम् । त्वन्नामामृतसिक्तकर्णपुटया त्वन्मार्गवातायने तन्व्या पञ्चमगीतगर्भितगिरा रात्रिन्दिवं स्थीयते ॥३५३॥ त्रिविक्रमस्य ॥ (नलचम्पू ६.२३॑ स्म्व्४४.५) अङ्गेऽनङ्गज्वरहुतवहश्चक्षुषि ध्यानमुद्रा कण्ढे जीवः करकिशलये दीर्घशायी कपोलः । अंसे वेणी कुचपरिसरे चन्दनं वाचि मौनं तस्याः सर्वं स्थितमिति न च त्वां विना क्वापि चेतः ॥३५४॥ क्षेमेन्द्रस्य ॥ (स्प्द्३४७४॑ स्म्व्४४.६॑ कविकण्ठाभरण ३.२) दृष्टे चन्द्रमसि प्रलुप्ततमसि व्योमाङ्गनस्थेयसि स्फूर्जन्निर्मलतेजसि त्वयि गते दूरं निजप्रेयसि । श्वासः कैरवकोरकीयति मुखं तस्याः सरोजीयति क्षीरोदीयति मन्मथो दृगपि च द्राक्चन्द्रकान्तीयति ॥३५५॥ भीमभट्टस्य ॥ (स्प्द्३४८०, स्म्व्४४.१०॑ स्क्म् २.३६.१ fइर्स्त्त्wओ लिनेस्सोमेwहत्दिffएरेन्त्) अस्यास्तापमहं मुकुन्द कथयाम्येणीदृशस्ते कथं पद्मिन्याः सरसं दलं विनिहितं यस्याः सतापे हृदि । आदौ शुष्यति सङ्कुचत्यनु ततश्चूर्णत्वमापद्यते पश्चान्मुर्मुरतां दधद्दहति च श्वासावधूतः शिखी ॥३५६॥ शान्तिकरस्य । (स्म्व्४४.२५॑ स्क्म् २.३१.१॑ स्र्क्५५३ कस्यचित्॑ उत्पलराज) उद्धूयेत तनूलतेति नलिनीपत्रेण नो बीज्यते स्फोटः स्यादिति नाङ्गकं मलयजक्षोदाम्भसा सिच्यते । स्यादस्यातिभरात्पराभव इति प्रायो न वा पल्लवा रोपो वक्षसि तत्कथ कृशतनोरधिः समाधीयताम् ॥ ३५८ ॥ आनन्दस्य ॥ निवससि यदि तव हृदये सा राधा वज्रघटितेऽस्मिन् तत्खलु कुशलं तस्याः स्मरविशिखैस्ताड्यमानयोः ॥३५९ ॥ कस्यचित् ॥ (स्म्व्४४.११) उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु क्रीडाकाननमाविशन्ति वलयक्वाणैः समुत्रासय । इत्थं पल्लवदक्षिणानिलकुहूकण्ठीषु साङ्केतिक व्याहाराः सुभग त्वदीयविरहे राधासखीनां मिथः ॥३६०॥ शम्भोः ॥ (स्क्म् २.३०.४ अमरोः॑ स्प्द्३४८९ सत्कविचन्द्रस्य॑ स्म्व्४४.१३॑ स्द्१०.७९) गलत्येका मूर्च्छा भवति पुनरन्या यदनयोः किमप्यासीन्मध्यं सुभग निखिलायामपि निशि । लिखन्त्यास्तत्रास्याः कुसुमशरलेखं तव कृते समाप्तिं स्वस्तीति प्रथमपदभागोऽपि न गतः ॥ ३६१ ॥ शचीपतेः ॥ (स्प्द्३४७७॑ स्म्व्४४.२०) चित्राय त्वयि चिन्तिते तनुभुवा चक्रे ततज्यं धनुर् वर्तिं धर्तुमुपागतेऽङ्गुलियुगे बाणो गुणे योजितः । प्रारब्धे तव चित्रकर्मणि धनुर्मुक्तास्त्रभिन्ना भृशं भित्तिं द्रगवलम्ब्य केशव चिरं सा तत्र चित्रायते ॥३६२॥ बाणस्य ॥ (स्म्व्४४.२१ सिंहलपतेः) त्वामन्तःस्थिरभावनापरिणतं मत्वा पुरोऽवस्थितं यावद्दोर्वलयं करोति रभसादग्रे समालिङ्गितुम् । तावत्तं निजमेव देहमचिरादलिङ्ग्य रोमाञ्चितां दृष्ट्वा वृष्टिजलच्छलेन रुदितं मन्ये पयोदैरपि ॥३६३॥ कस्यचित् ॥ (स्म्व्४४.२२) अच्छिन्नं नयनाम्बु बन्धुषु कृतं तापः सखीष्वाहितो दैन्यं न्यस्तमशेषतः परिजने चिन्ता गुरुभ्योऽर्पिता । अद्य श्वः किल निर्वृतिं व्रजति सा श्वासैः परैः खिद्यते विस्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥३६४॥ (अमरु ७८।११०॑ स्भ्व्१४०७॑ स्म्व्४४.२०॑ स्प्द्३४८६॑ स्क्म् २.३२.२॑ दश ४.२७) अथास्या एव स्प्रणयेर्ष्यं जल्पितम् । मुखमाधुर्यसमृद्ध्या परहृदयस्य ग्रहीतरि प्रसभम् । कृष्णात्मनि परपुरुषे सौहृदकामस्य का शरीराशा ॥३६५॥ जगन्नाथसेनस्य । अथ व्रजदेवीनां सोत्प्रासः सन्देशः । वाचा तृतीयजनसङ्कटदुःस्थया किं किं वा निमेषविरसेन विलोकितेन । हे नाथ नन्दसुत गोकुलसुन्दरीणाम् अन्तश्चरी सहचरी त्वयि भक्तिरेव ॥ ३६६ ॥ कस्यचित् । अथ यथार्थसन्देशः । मुरलीकलनिक्वणैर्या गुरुलज्जाभरमप्यजीगणत् । विरहे तव गोपिकाः कथं समयं ता गमयन्तु माधव ॥ ३६७ ॥ षष्ठीदासस्य ॥ मथुरापथिक मुरारेर् उपगेयं द्वारि वल्लवीवचनम् । पुनरपि यमुनासलिले कालियगरलानलो ज्वलति ॥ ३६८ ॥ वीरसरस्वत्याः ॥ (स्क्म् १.६२,५॑ उन् १०.९८) अथ द्वारवतीस्थस्य हरेर्विरहः । कलिन्दीमनुकूलकोमलरयामिन्दीवरश्यामलाः शैलोपान्तभुवः कदम्बकुसुमैरामोदिनः कन्दरात् । राधां च प्रथमाभिसारमधुरां जातानुताआः स्मरन्न् अस्तु द्वारवतीपतिस्त्रिभुवनामोदाय दामोदरः ॥३६९ ॥ शरणस्य ॥ (स्क्म् १.६१.२) कामं कामयते न केलिनलिनीं नामोदते कौमुदी निस्यन्दैर्न समीहते मृगदृशामालापलीलामपि । सीदन्नेष निशासु निःसहतनुर्भोगाभिलाषालसैर् अङ्गैस्ताम्यति चेतसि व्रजवधूमाधाय मुग्धो हरिः ॥ ३७० ॥ तस्यैव ॥ (स्क्म् १.६१.३) रत्नच्छायाच्छुरितजलधौ मन्दिरे द्वारकाया रुक्मिण्यापि प्रबलपुलकोद्भेदमालिङ्गितस्य । विश्वं पायान्मसृणयमुनातीरवानीरकुञ्जे राधाकेलीपरिमलभरध्यानमूर्च्छा मुरारेः ॥३७१॥ उमापतिधरस्य ॥ (स्क्म् १.६१.१॑ उन् १४.१८४॑ जीव अन्द्व्च्त्तो ब्र्स्२.४.१७८) निर्मग्नेन मयाम्भसि प्रणयतः पाली समालिङ्गिता केनालीकमिदं तवाद्य कथितं राधे मुधा ताम्यसि । इत्युत्सवप्नपरम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणो रुक्मिण्या शिथिलीकृतः सकपतं कण्ठग्रहः पातु वः ॥३७२॥ उमापतिधरस्य ॥ (स्क्म् १.५३.५,कस्यचित्) स्क्ं वेर्सिओन् निर्मग्नेन मयाम्भसि स्मरभयादाली समालिङ्गिता केनालीकमिदं तवाद्य कथितं राधे मुधा ताम्यसि । इत्थं स्वप्नपरम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणः सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः ॥ कस्यचित् ॥ अथ वृन्दावनाधीश्वरीविरहगीतम् । याते द्वारवतीपुरं मुररिपौ तद्वस्त्रसंव्यानया कालिन्दीतटकुञ्जवञ्जुललतामालाम्ब्य सोत्कण्ठया । उद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥३७३॥ अपराजितस्य ॥ (स्क्म् १.५८.४ कस्यचित्॑ ध्व्, वक्२.५९॑ एत्च्.॑ उन् १४.१८८) अथ व्रजदेवीनां सन्देशः । पान्थ द्वारवतीं प्रयासि यदि हे तद्देवकीनन्दनो वक्तव्यः स्मरमोहमन्त्रविवशो गोप्योऽपि नामोज्झिताः । एताः केलिकदम्बधूलिपटलैरालोकशून्या दिशः कालिन्दीतटभूमयो भवतो नायान्ति चित्तास्पदम् ॥३७४॥ गोवर्धनाचार्यस्य ॥ (स्क्म् १.६२.२॑ शृङ्गारप्रकाश, छेच्क्स्र्क्) ते गोवर्धनकन्दराः स यमुनाकच्छः स चेष्टारसो भाण्डीरः स वमस्पतिः सहचरास्ते तच्च गोष्ठाङ्गनम् । किं द्वारवतीभुजङ्ग हृदयं नायाति दोषैरपीत्य् अव्याद्वो हृदि दुःसहं व्रजवधूसन्देशशल्यं हरेः ॥३७५ ॥ नीलस्य ॥ (स्क्म् १.६२.१) कालिन्द्याः पुलिनं प्रदोषमरुतो रम्याः शशङ्कांशवः सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात्पुनः । सन्दिष्टं व्रजयोषितामिति हरेः संशृण्वतोऽन्तःपुरे निःश्वासाः प्रसृता जयन्ति रमणीसौभाग्यगर्वच्छिदः ॥३७६॥ पञ्चतन्त्रकृतः ॥ (स्क्म् १.६२.४, उन् १५.१६४) मुदामानं प्रति श्रीद्वारकेश्वरवचनम् मा गा इत्यपमङ्गलं व्रज सखे स्नेहेन शून्यं वचः तिष्ठेति प्रभुता यथाभिलपितं कुर्वित्युदासीनता । ब्रूमो हन्त मुदाम मित्र वचनं नैवोपचारादिदं स्मर्तव्या वयमादरेण भवता यावद्भवद्दर्शनम् ॥३७७॥ हरेः ॥ स्वगृहादिकं दृष्ट्वा तस्य वचनम् । तद्गेहं नतभित्ति मन्दिरमिदं लब्धावकाशं दिवः सा धेनुर्जरती चरन्ति करिणामेता घनाभा घटाः । स क्षुद्रो मुषलध्वनिः कलमिदं सङ्गीतकं योषितां चित्रं हन्त कथं द्विजोऽयमियतीं भूमिं समारोपितः ॥३७८॥ कस्यचित् ॥ अथ कुरुक्षेत्रे श्रीवृन्दावनाधीश्वरचेष्टितम् येनैव सूचितनवाभ्युदयप्रसङ्गा मीनाहतिस्फुरिततामरसोपमेन । अन्यन्निमील्य नयनं मुदितैव राधा वामेन तेन नयनेन ददर्श कृष्णम् ॥ ३७९ ॥ हरस्य ॥ (स्म्व्५४.८ उत्प्रेक्षावल्लभस्य) आनन्दोद्गतबाष्पपूरपिहितं चक्षुः क्षमं नेक्षितुं बाहू सीदत एव कम्पविधुरौ शक्तौ न कण्ठग्रहे । वाणी सम्भ्रम्गद्गदाक्षरपदा संक्षोभलोलं मनः सत्यं वल्लभसङ्गमोऽपि सुचिराज्जातो वियोगायते ॥३८०॥ शुभ्रस्य ॥ (स्क्म् २.१३२.१ कस्यचित्॑ स्भ्व्२०६५ श्रीडामरस्य॑ स्म्व्५४.१० कस्यापि) अथ रहस्यनुनयन्तं कृष्णं प्रति । किं पादान्ते लुठसि विमनाः स्वामिनो हि स्वतन्त्राः कञ्चित्कालं क्वचिदभिरतस्तत्र कस्तेऽपराधः । आगस्कारिण्यहमिह यया जीवितं तद्वियोगे भर्तृप्राणाः स्त्रिय इति ननु त्वं ममैवानुनेयः ॥३८१॥ कस्यचित् ॥ (स्क्म् २.४७.१ भावदेव्याः॑ स्र्क्६४३ वाक्कूटस्य॑ स्म्व्५७.१४) यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास् ते चोन्मीलितमालतीसुरभयः प्रौ‚हाः कदम्बानिलाः सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ंहते ॥३८२॥ कस्यचित्(स्क्म् २.१२.३॑ स्प्द्३७६८॑ स्म्व्८७.९॑ स्द्१.२, च्च्२.१.५८, २.१३.१२१, ३.१.७८.) प्रियः सोऽयं कृष्णः सहचरि कुरुक्षेत्रमिलितस् तथाहं सा राधा तदिदमुभयोः सङ्गमसुखम् । तथाप्यन्तःखेलन्मधुरमुरलीपञ्चमजुषे मनो मे कालिन्दीपुलिनविपिनाय स्पृहयति ॥३८३॥ समाहर्तुः ॥ (चैतन्यचरितामृत, २.१.७६) समाप्तौ मङ्गलाचरणम् । मुग्धे मुञ्च विषादमत्र बलभित्कम्पो गुरुस्त्यज्यतां सद्भावं भज पुण्डरीकनयने मान्यानिमान्मानय । लक्ष्मीं शिक्षयतः स्वयंवरविधौ धन्वन्तरेर्वाक्छलाद् इत्यन्यप्रतिषेधमात्मनि विधिं शृण्वन् हरिः पातु वः ॥३८४॥ कस्यचित् ॥ (स्भ्व्८४ दाक्षिणात्यस्य कस्यापि, स्क्म् १.६७.५ पुण्डरीकस्य) यदुवंशावतंसाय वृन्दावनविहारिणे । संसारसागरोत्तार तारये हरये नमः ॥ ३८५ ॥ अविलम्बसरस्वत्याः ॥ भ्राम्यद्भास्वरमन्दराद्रिशिखरव्याघट्टनाद्विस्फुरत् केयूराः पुरुहूतकुञ्जरकरप्राग्भारसंवर्धिनः । दैत्येन्द्रप्रमदाकपोलविलसत्पत्राङ्कुरच्छेदिनो दोर्दण्डाः कलिल्कालकल्मषमुषः कंसद्विषो पातु वः ॥३८६॥ योगेश्वरस्य॥ (स्क्म् १.५९.१ कस्यचित्) जयदेवबिल्वमङ्गलमुखैः कृता येऽत्र सन्ति सन्दर्भाः । तेषां पद्यानि विना समाहृतानीतराण्यत्र ॥३८७॥ लसदुज्ज्वलरसस्तमना गोकुलकुलपालिकालिनीवलितः । यदभीप्सितमभिदद्यात् तरुणतमालकल्पपादपः कोऽपि ॥३८८॥ इति श्रीमद्रूपगोस्वामिसमाहृता पद्यावली समाप्ता । एxत्र वेर्सेस् कृतं न सुकृतं मया कृतमहो महादुष्कृतं कृतान्तनगरे गतिर्भवतु मे तत्र कीदृशी । न भो न दिनभोगदिग्भ्रमणमस्मात्परं पुनस् तथा कुरु यथा तटे तव घटेत वासो मम ॥ राधाधरसुधाधार धरायाद्यरसश्रिये गोपालपुरराज्ञाय नमः पीताम्बराय ते ॥