प्रथमः सर्गः अव्यात्स वो यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम् । जटापिनद्धोरगराजरत्न मरीचिलीढोभयकोटिरिन्दुः ॥ १.१ ॥ जटाहिरत्नद्युतिपाटलोऽव्यात्स वः शशी शङ्करमौलिरत्नम् । श्रुतावशोकाङ्कुरकौतुकेन यं कर्तुमिच्छत्यचलेन्द्रकन्या ॥ १.२ ॥ कुम्भस्थली रक्षतु वो विकीर्ण सिन्दूररेणुर्द्विरदाननस्य । प्रशान्तये विघ्नतमश्छटानां निष्ठ्यूतबालातपपल्लवेव ॥ १.३ ॥ चक्षुस्तदुन्मेषि सदा मुखे वः सारस्वतं शाश्वतमाविरस्तु । पश्यन्ति येनावहिताः कवीन्द्रास्त्रिविष्टपाभ्यन्तरवर्ति वस्तु ॥ १.४ ॥ __________________________________________ प्राचीनकविवर्णनम् तत्त्वस्पृशस्ते कवयः पुराणाः श्रीभर्तृमेण्ठप्रमुखा जयन्ति । निस्तृंशधारासदृशेन येषां वैदर्भमार्गेण गिरः प्रवृत्ताः ॥ १.५ ॥ पूर्णेन्दुबिम्बादपि सुन्दराणि तेषामदूरे पुरतो यशांसि । ये भर्तृमेण्ठादिकवीन्द्रसूक्ति व्यक्तोपदिष्टेन पथा प्रयान्ति ॥ १.६ ॥ सरस्वतीकल्पलतैककन्दं वन्दामहे वाक्पतिराजदेवम् । यस्य प्रसादाद्वयमप्यनन्य कवीन्द्रचीर्णे पथि सञ्चरामः ॥ १.७ ॥ दिवं यियासुर्मम वाचि मुद्रामदत्त यां वाक्पतिराजदेवः । तस्यानुजन्मा कविबान्धवस्य भिनत्ति तां संप्रति सिन्धुराजः ॥ १.८ ॥ __________________________________________ कवेः शालीनतादि नैते कवीन्द्राः कति काव्यबन्धे तदेष राज्ञा किमहं नियुक्तः । किं वालुकापवर्तके धरेयमारोप्यते सत्सु कुलाचलेषु ॥ १.९ ॥ अहो महत्साहसमेतदेव यद्वर्णणीयो नवसाहसाङ्कः । दूरे परिच्छेदकथा हि सत्यमेतद्गुणानामुदधेरपां च ॥ १.१० ॥ भक्त्याथवास्यैव मम प्रबन्धे सूक्ष्मोऽयमुन्मीलति शक्तिलेशः । उल्लङ्घितो यत्कपिना पयोधिः सेवानुभवः स रघूद्वहस्य ॥ १.११ ॥ समत्सरे चेतसि दुर्जनानां न जातुचित्सूक्तिगुणो गुणाय । निसर्गकृष्णेन्द्रवधूकपोले निरर्थकः कुङ्कुमपत्त्रभङ्गः ॥ १.१२ ॥ किमन्यदस्याश्चरितैर्नृपस्य मुक्तावदातैः कृतमण्डनायाः । मदीयसूक्तेर्मुकुलीभवन्तु स्वभावशुद्धानि सतां मनांसि ॥ १.१३ ॥ नमोऽस्तु साहित्यरसाय तस्मै निषिक्तमन्तः पृषतापि यस्य । सुवर्णतां वक्त्रमुपैति सधोर्दुर्वर्णतां याति च दुर्जनस्य ॥ १.१४ ॥ श्रीसाहसाङ्कोज्ज्वलकीर्तिगर्भा ममाथवा कं न हरन्ति वाचः । कस्यात्र लोभाय न शुक्तयस्ता मुक्ता हि यासामुदरे स्फुरन्ति ॥ १.१५ ॥ __________________________________________ प्रतिज्ञा एतान्यवन्तीश्वरपारिजात जातानि तारापतिपाण्डुराणि । सम्प्रत्यहं पश्यत! दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥ १.१६ ॥ __________________________________________ अथ उज्जयिनीवर्णनम् अस्ति क्षितऊज्जयिनीति नाम्ना पुरी विहायस्यमरावतीव । बबन्ध यस्यां पदमिन्द्रकल्पः श्रीविक्रमादित्य इति क्षितीशः ॥ १.१७ ॥ आमञ्जुगुञ्जत्कलहंसपङ्क्ति विकस्वराम्भोजरजःपिशङ्गा । आभाति यस्याः परिखा नितम्बे सशब्दजम्बूनदमेखलेव ॥ १.१८ ॥ प्राकारवप्रच्छलतः शरीरमावर्त्य लीलाशयनं मुरारेः । यत्रान्तरस्थायिनिधानरक्षां विधातुमुन्मग्न इवोरगेन्द्रः ॥ १.१९ ॥ पदे पदे सान्द्रसुधोज्ज्वलानि गृहाणि या नाकसदां बिभर्ति । अभ्युद्गतानीव फणीन्द्रलोकमापूर्य तद्भूमिभृतां यशांसि ॥ १.२० ॥ हिमच्छटाहारिभिरंशुजालैः प्रालम्बिमुक्ताफलजालकानि । विलासिनीविभ्रममन्दिराणि यस्यां हसन्तीव परस्परस्य ॥ १.२१ ॥ गृहाणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्ग्यः । रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य ॥ १.२२ ॥ दृष्टव्यम्‌ . काव्यप्रकाश १०.१३१ यत्राननैरेणादृशामभिख्यां सिताश्मवातायनपङ्क्तिरेति । अम्भोरुहैरुज्ज्वलहेमकॢप्तैराकाशगङ्गाजलवेणिकेव ॥ १.२३ ॥ विधूयमानाः पवनेन यस्यां नीलाश्मवेश्मारुणवैजयन्त्यः । भिन्नाञ्जनश्यामघनोद्गतानां तडिल्लतानां द्युतिमावहन्ति ॥ १.२४ ॥ उदेति कान्तामणिमेखलानां गृहे गृहे यत्र मुहुर्निनादः । आयाति योऽनङ्गजयद्विपस्य मदावतारोत्सवडिण्डिमत्वम् ॥ १.२५ ॥ मुखेन्दुभिः पौरविलासिनीनां कपोलकान्त्या कृतसंविभागः । न याति कार्श्यं बहुलेऽपि यत्र वातायनासन्नतरः शशाङ्कः ॥ १.२६ ॥ न पक्षपातेन वदामि सत्यमुषस्सु यस्यां भवनाङ्गनेभ्यः । सम्मर्जनीभिः परतः क्रियन्ते विसूत्रितैकावलिमौक्तिकानि ॥ १.२७ ॥ यस्यामसङ्क्षिप्तदृशां स्तनाङ्के कस्तूरिकापत्त्रलता चकास्ति । शरासनाभ्यासविधौ समाप्ते मुक्तेव गोधा मकरध्वजेन ॥ १.२८ ॥ विलासिनीसद्मलसत्पताका पटाञ्चले काञ्चनकिङ्किणीनाम् । निरन्तरैर्या रणितैरजस्रमाज्ञामिवोद्घोषयति स्मरस्य ॥ १.२९ ॥ प्रतिक्षणं या गलितांशुकानामनङ्गलीलाकलहोत्सवेषु । अनल्पकृष्णागुरुधूमभङ्ग्या वामभ्रुवामर्पयतीव वासः ॥ १.३० ॥ यत्राष्टमीचन्द्रमुपेयिवांसमालम्ब्य सौधेष्वसमग्रकान्तिम् । केशाहृतैः केतकगर्भबर्हैरापूरयन्त्यर्धमरालकेश्यः ॥ १.३१ ॥ लीलाकटाक्षे मदिरेक्षणानां सम्मोहनास्त्रस्फुरितं निवेश्य । रत्या सह कृईडति पुष्पधन्वा यस्यामशोकद्रुमवीथिकासु ॥ १.३२ ॥ जाने जगन्मोहनकौतुकेन विधाय कूजामिषमन्यपुष्टैः । अहर्निशं चूतवनेषु यस्यामधीयते मान्मथमस्त्रवेदम् ॥ १.३३ ॥ दिक्चक्रसंचारिमरीचिदण्ड= च्छलेन चामीकरतोरणानाम् । अवैमि दिक्पालपुरीर्विजित्य या हेमवेत्रग्रहणे नियुङ्क्ते ॥ १.३४ ॥ उल्लासिषु स्वर्णगवाक्षपङ्क्तेर्या रश्मिदण्डेषु विघूर्णमानैः । भात्यग्रवेदिस्फटिकांशुजालैर्दोधूयमानोज्ज्वलचामरेव ॥ १.३५ ॥ यस्यां गृहप्राङ्गनपद्मराग रश्मिच्छटापाटलमन्तरिक्षम् । आलिङ्गितं किंशुकशोणभासा सन्ध्यातपेनेव सदा विभाति ॥ १.३६ ॥ अवाप्य यस्यां गृहदीर्घिकाच्छ वैडूर्यसोपानमयूखसख्यम् । हारीतशङ्कां कलहंसशावा वामभ्रुवां प्रत्यहमर्पयन्ति ॥ १.३७ ॥ निकाममच्छैः प्रमदाकपोलैर्यत्रेन्दुबिम्बाकृतिभिः क्रियन्ते । स्ववक्त्रसौन्दर्यविलोकनेषु विलासिनो दर्पणनिर्व्यपेक्षाः ॥ १.३८ ॥ पराङ्मुखीनामपि रत्नभित्तौ प्रसादवत्तद्वदनं विलोक्य । यस्यां युवानो हरिणेक्षणानामलीककोपं सहसा विदन्ति ॥ १.३९ ॥ कुर्वन्ति यस्यां कुसुमेषुकेलि श्रमोन्मिषत्स्वेदलवास्तरुण्यः । कपोलकालागुरुपत्त्रवल्ली कल्माषमम्भो गृहदीर्घिकासु ॥ १.४० ॥ यस्यां समुन्मीलति सुन्दरीणां सा कापि सौभाग्यविशेषलक्ष्मीः । विलासमुक्तागुणवद्यदासां सदा प्रियस्तिष्ठति कण्ठलग्नः ॥ १.४१ ॥ अवैमि गीतेन हृते कुरङ्गे पुरन्ध्रिभिः सौधतलस्थिताभिः । श्यामासु यस्यां लभते तदच्छ= कपोलबिम्बानुकृतिं मृगाङ्कः ॥ १.४२ ॥ दुर्गेति सर्वत्र गता प्रसिद्धिं नगेन्द्रकन्येव सनीलकण्ठा । या लग्नकाञ्चीविषयेण कान्तिं सिंहासनेनातितरां बिभर्ति ॥ १.४३ ॥ वृन्तादपास्तैर्मरुता विकीर्णैः सुगन्धिभिस्तीरतरुप्रसूनैः । शिप्रासरित्कूलतमालनीला विभाति यस्याः कबरीलतेव ॥ १.४४ ॥ धूमेन या नैकमुखोगतेन संवेष्ट्यमाणा परितश्चकास्ति । मदात्तरत्नेति समत्सरेण कृतोपरोधेव महार्णवेण ॥ १.४५ ॥ विलङ्घयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि । बिभर्ति यस्यामपि वक्रिमाणमेको महाकालजटार्धचन्द्रः ॥ १.४६ ॥ ध्वजाग्रलग्नेन विलम्बता खमनेकरत्नांशुकदम्बकेन । यस्यां स चण्डीपतिमण्डपोऽपि बिभर्ति मायूरमिवातपत्त्रम् ॥ १.४७ ॥ पुरा किल ब्रह्मकमण्डलोर्यतापूरितं पुण्यतमाभिरद्भिः । धत्तेऽत्र या तत्त्रिपुरान्तकस्य तडागमादर्शमिवाङ्कदेशे ॥ १.४८ ॥ यस्यामनेकामरवेश्मराजिर्मणिध्वजाग्रोच्छलितैर्मयूखैः । लिखत्यमर्त्यप्रमदाकुचेषु विचित्रवर्णा इव पत्रलेखाः ॥ १.४९ ॥ यस्यां विसूत्रोज्झितमेखलानि तथा शुकावर्तितसीत्कृतानि । शंसन्ति संकेतमुषस्सु यूनां शिप्रातटोद्यानलतागृहाणि ॥ १.५० ॥ मनोहरैः कामिजनस्य यस्यां नीरन्ध्रनिर्यन्मृगनाभिगन्धैः । सचन्दनैः काञ्चनकेलिशैलैः कुचैरिवोद्यानभुवो विभान्ति ॥ १.५१ ॥ गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु । यत्रोल्लसत्फेनततिच्छलेन मुक्तार्द्रहासेव विभाति शिप्रा ॥ १.५२ ॥ संसर्गमासाद्य विलासिनीनां विलासवेश्मागुरुधूपधूमैः । बद्धास्पदाः सौधशिखासु यस्यां सुगन्धि तोयं जलदा वमन्ति ॥ १.५३ ॥ सत्पुष्करोद्द्योतितरङ्गशोभि न्यमन्दमारब्धमृदङ्गवाद्ये । उद्यानवापीपयसीव यस्यामेणीदृशो लास्यगृहे रमन्ते ॥ १.५४ ॥ माणिक्यवातायनकान्तिजाल विलुप्तरथ्यातिमिरोत्करासु । श्यामासु यस्यां प्रमदाः कथं चित्सङ्केतमुत्कम्पिकुचाः प्रयान्ति ॥ १.५५ ॥ नवाम्बुवाहप्रतिबिम्बवत्यां यत्रोच्चहर्म्यारुणरत्नभूमौ । व्यक्तिं लभन्ते सुरसुन्दरीणां सालक्तकाः प्रावृषि पादमुद्राः ॥ १.५६ ॥ कृतावधानातिशयेन मन्ये या वेधसा मध्यमलोकरत्नम् । स्वशिल्पविज्ञानपरप्रकर्ष प्रकाशनायात्र विनिर्मितेव ॥ १.५७ ॥ __________________________________________ अथ नायकवर्णनम् राजास्ति तस्यां स कुलाचलेन्द्र निकुञ्जविश्रान्तयशस्तरङ्गः । भास्वान् ग्रहाणामिव भूपतीनामवाप्तसंख्यो धुरि सिन्धुराजः ॥ १.५८ ॥ निर्व्यूढनानाद्भुतसाहसं च रणे वृतं च स्वयमेव लक्ष्म्या । नाम्ना यमेके नवसाहसाङ्कं कुमारनारायणमाहुरन्ये ॥ १.५९ ॥ सहेलमभ्युद्धरता धरित्रीं मग्नां द्विषद्वारिनिधावगाधे । येनात्र नीता पृथुविक्रमेण व्यक्तिं जगत्यादिवराहलीला ॥ १.६० ॥ उद्दामदुग्धाब्धितरङ्गहासे यस्यारिकान्ताकुचमण्डलानि । हाराः पतत्साञ्जनबाष्पपङ्क कलङ्कभीत्येव परित्यजन्ति ॥ १.६१ ॥ सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा । तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते ॥ १.६२ ॥ पराङ्मुखेनापि सदा परस्वे पत्या भुवः सागरमेखलायाः । अहो यशः पूर्वमहीपतीनामनाविलं येन बलाद्विलुप्तम् ॥ १.६३ ॥ चित्तं प्रसादश्च मनस्विता च भुजं प्रतापश्च वसुन्धरा च । अध्यासते यस्य मुखारविन्दं द्वे एव सत्यं च सरस्वती च ॥ १.६४ ॥ यस्याप्सरोभिः परिगीयमानमाकर्ण्य बाह्वोर्विजयप्रपञ्चम् । शचीकुचस्पर्शमिवाप्य धत्ते रोमोद्गमाध्यासितमङ्गमिन्द्रः ॥ १.६५ ॥ प्रसाधिता येन च बाल्य एव चतुर्भिरुत्साहवता चतस्रः । श्रुतेन बुद्धिः प्रभुता नयेन त्यागेन लक्ष्मीर्वसुधा बलेन ॥ १.६६ ॥ रणे रणे मुक्तकृपः कृपाणं यः शातधारं कृतवान् कृतास्त्रः । अनेकराजन्यघटाकिरीट माणिक्यशाणोपलपट्टिकासु ॥ १.६७ ॥ भरेण भूमेः स्फुटमा नमन्त्याः पांसुच्छटाः शेषफणामणीनाम् । न्यमीलयन् यद्विजयप्रयाणे नागाङ्गनानां नयनोत्पलानि ॥ १.६८ ॥ अन्योन्यसंश्लेषविशीर्णहार च्युतेन सेवावसरे नृपाणाम् । कीर्णासु मुक्तानिकरेण यस्य कक्ष्यासु वारप्रमदाः स्खलन्ति ॥ १.६९ ॥ आक्षिप्य हारान्निजविक्रमाग्नि स्फुलिङ्गशङ्कामनुसन्दधन्ति । येनारिकान्ताकुचमण्डलेषु गुञ्जाफलान्याभरणीकृतानि ॥ १.७० ॥ कृपाणपातैर्दलतामराति करीन्द्रकुम्भस्थलमौक्तिकानाम् । धूलिच्छटा मांसलयन्ति यस्य समुद्गतान्याजिमुखे यशांसि ॥ १.७१ ॥ इन्दुद्युतिः कुन्दसितान् दधाना गुणाननङ्गोत्सववैजयन्ती । येन द्विषां दूरमनायि कण्ठादेकावली वामविलोचना च ॥ १.७२ ॥ यस्मिन् वहत्यम्बुधिनेमिमुर्वीं मौर्वीकिणश्यामलदीर्घदोष्णि । विभाव्यते पौरवराङ्गनानां मध्यं परं धाम दरिद्रतायाः ॥ १.७३ ॥ आक्रान्तदिङ्मण्डलकुन्तलेन्द्र सान्द्रान्धकारान्तरितं रणे यः । स्वराज्यमस्त्रारुणमण्डलाग्रो गृहीतवान् दीधितिमानिवाहः ॥ १.७४ ॥ आकम्पितानां मरुतेव यस्य दोष्णाजिभूमावतिदक्षिणेन । अजायतारिप्रमदालतानां बाष्पोदबिन्दूत्करपुष्पमोक्षः ॥ १.७५ ॥ विपक्षहृद्भङ्गकृता नितान्तं भ्रूलेखयाकुञ्चितयोल्लसन्त्या । नाकारमात्रेण परन्तपस्य यस्यान्वकारि क्रिययापि चापम् ॥ १.७६ ॥ दोश्चन्दनानोकहमाप्य यस्य समुल्लसत्सान्द्रयशःप्रसूना । गतातिवृद्धिं लवलीलतेव निबद्धमूला परमारलक्ष्मीः ॥ १.७७ ॥ कृतानतिभ्यः सहसा ददाति यः साम्परायेष्वभयं रिपुभ्यः । यशश्च गृह्णाति तुषारहार मृणालकर्पूरपरागपाण्डु ॥ १.७८ ॥ प्रकाशिताशं परितः प्रजानां यस्योदयं धामनिधेर्वदन्ति । मुक्ताञ्जनध्वान्तपरिग्रहाणि नेत्राणि शत्रुप्रमदाजनस्य ॥ १.७९ ॥ यस्य प्रयाणे पृतनाभरेण परिस्खलत्सप्तसमुद्रमुद्रा । परस्परक्षोदसमाकुलासु दोलायते भूः फणभृत्फणासु ॥ १.८० ॥ विभिन्नमानं कमलेक्षणानां व्यक्तानुभावं भुवनत्रयेऽपि । आहुर्जना दीर्घगुणाभिरामं यमेकचापं कुसुमायुधस्य ॥ १.८१ ॥ असंशयं प्रागसृजद्विधाता यमेकमेव त्रिजगद्वदान्यम् । कल्पद्रुमादीनथ तैस्तदीय निर्माणशेषैः परमाणुलेशैः ॥ १.८२ ॥ अकृत्रिमत्यागसमुद्गतानि विपक्वतालीदलपाण्डुराणि । आशालतानां वलयेषु भर्तुर्यशांसि यस्य स्तबकीभवन्ति ॥ १.८३ ॥ यत्र प्रतापोर्जितराजचक्र किरीटरत्नद्युतिचुम्बिताङ्घ्रौ । यथार्थतां याति ययातिपाण्डु दिलीपतुल्यौजसि राजशब्दः ॥ १.८४ ॥ उच्छिन्दतः क्ष्मासरसीं विगाह्य धर्मक्रियापङ्कजिनीवनानि । स्वैरप्रचारः कलिकुञ्जरस्य येनाङ्कुशेनेव बलान्निरुद्धः ॥ १.८५ ॥ चिरं विभिन्नाः कुमुदेन्दुकुन्द भासः समग्रा अपि यत्र ते ते । अन्योन्यमेकत्र निवाससौख्य कुतूहलेनेव गुणा घटन्ते ॥ १.८६ ॥ कान्त्यानुलिप्तानि विलोचनानामा पाटलानामतिरोदनेन । सकुङ्कुमानीव पुनो भवन्ति यस्यारिनारीकुचमण्डलानि ॥ १.८७ ॥ श्रियि प्रतापे यशसि क्षमायां त्यागे विलासे विनये महिम्नि । किमन्यदारोहति यस्य साम्यं न रन्तिदेवो न पृथुर्न पार्थः ॥ १.८८ ॥ __________________________________________ सचिववर्णनम् साम्राज्यभारोद्वहनप्रगल्भो यशोभटाख्यः सचिवोऽस्ति यस्य । स्वसूक्तिचर्यास्वपरेण नाम्ना रमाङ्गदं यं कवयो वदन्ति ॥ १.८९ ॥ __________________________________________ कुलराजधानीवर्णनम् विजित्य लङ्कामपि वर्तते या यस्याश्च नायात्यलकापि साम्यम् । जेतुः पुरी साप्यपरास्ति तस्य धारेति नाम्ना कुलराजधानी ॥ १.९० ॥ तस्यां स साहसजितावनिपालमौलि रत्नांशुपल्लवितकाञ्चनपादपीठः । देवः क्षमावलयमेतदुदञ्चितैक लीलातपत्रसुलभाभरणं भुनक्ति ॥ १.९१ ॥ इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये नगरीनरेन्द्रवर्णनो नाम प्रथमः सर्गः ************************************************ द्वितीयः सर्गः कदा चिल्लोचनातिथ्यमाप्तेनालेख्यवेश्मनि । स मृगव्याविनोदेन पस्पृशे पार्थिवो भृशम् ॥ २.१ ॥ उदग्रतुरगारूढः स समं राजसूनुभिः । गिरेरगच्छद्विपिनं विन्ध्यस्यावन्ध्यशसनः ॥ २.२ ॥ हारेणामलकस्थूल मुक्तेनामुक्तकुन्तलः । फणीन्द्रबद्धजूटस्य श्रियमाप स धूर्जटेः ॥ २.३ ॥ देवः स वारबाणेन नलिनीपत्रबन्धुना । श्यामजीमूतसन्नद्धः काञ्चनाद्रिरिवाबभौ ॥ २.४ ॥ तस्योपरि विभो नीलमातपत्रं व्यराजत । वारिधेरिव पीताम्भश्श्यामलं मेघमण्डलम् ॥ २.५ ॥ व्याधूतिमुक्तमरुता व्यरुचच्चामरेण सः । बन्दिगृहान्निःश्वसता यशसेवादिभूभुजाम् ॥ २.६ ॥ व्यधादिवोद्गतैर्दूरं चूडारत्नरश्मिभिः । निशाकरकुरङ्गस्य पाशमाकाशवर्त्मनि ॥ २.७ ॥ तस्यांसयोर्नृसिंहस्य हारकान्तिसटाभरः । उवाह कण्ठलग्नश्री विलासहसितश्रियम् ॥ २.८ ॥ पुरः पदे पदे तस्य नानारत्नाङ्गदत्विषः । रचयन्ति स्म सञ्चारि चापं प्राचीनबर्हिषः ॥ २.९ ॥ भाति स्म कण्ठाभरण पद्मरागप्रभावृतः । राजन्यास्रसरःस्नातः स भार्गव इवापरः ॥ २.१० ॥ रुरुचे स पुरस्त्वङ्गत्सितच्छत्रपरम्परः । वेलानिलसमुद्धूत फेणः पतिरिवार्णसाम् ॥ २.११ ॥ उपायनीकृतोन्निद्र पद्मकिञ्जल्कसौरभः । तमसेवत सम्राजं विन्ध्यदूत इवानिलः ॥ २.१२ ॥ तदश्वीयखुरोत्खातैः पांसुकूटैरजायत । पुनः प्रसभवर्धिष्णु विन्ध्यशङ्काकुलं जगत् ॥ २.१३ ॥ सहेमशृङ्खलाः श्वानः श्वेतास्तस्याग्रतो ययुः । वहन्तः सतडिद्दाम शारदाम्बुधरश्रियम् ॥ २.१४ ॥ ततस्तुरगहेषाभिः पत्तिकोलाहलेन च । अजायन्त भयोद्भ्रान्त श्वापदा विन्ध्यभूमयः ॥ २.१५ ॥ रभसाकृष्टकोदण्डं कर्णपूरीकृतेक्षणाः । तमनङ्गमिवापश्यन् वनान्ते वनदेवताः ॥ २.१६ ॥ मयि गोप्तरि चोरोऽयमबलालोचनश्रियः । इतीव मुमुचे तेन कृष्णसारे शिलीमुखः ॥ २.१७ ॥ स चित्रवर्णविच्छित्ति हारिणोरवनीपतिः । श्रीहर्ष इव संघट्टं चक्रे बाणमयूरयोः ॥ २.१८ ॥ चमरीणां शरोत्कृत्तैः स वालधिभिरुज्ज्वलम् । परितो व्यधितारण्यं स्वयशःस्तबकैरिव ॥ २.१९ ॥ आहुत इव साटोपं लाङ्गूलस्फोटनिःस्वनैः । अभ्यधावदभिव्याघ्रानाग्रतः कौतुकेन स ॥ २.२० ॥ विधित्सुरात्मनः शौर्यमसामान्यमिवादधे । स शरान् पुण्डरीकेषु पुण्डरीकायतेक्षणः ॥ २.२१ ॥ तैस्तस्य बाहुवीर्येण दृष्टेन व्रीडितैरिव । तत्यजे विक्रमस्पर्धा पुरः पश्चात्तु जीवितम् ॥ २.२२ ॥ क्षितेरेकातपत्रायाः स पतिर्मत्सरादिव । उदग्रपुण्डरीकत्वं न सेहे विन्ध्यभूभृतः ॥ २.२३ ॥ अरण्यमहिषैर्दूरं तस्मात्सायकवर्षिणः । अपसस्रे विकीर्णांशोस्तमोभिरिव भास्वतः ॥ २.२४ ॥ महामहिषनिष्पेषकेलिः पारमगाद्द्वयोः । राज्ञस्तस्यातिचण्डस्य चण्डिकाचरणस्य च ॥ २.२५ ॥ शरदीव प्रसर्पन्त्यां तस्य कोदण्डटाङ्कृतौ । विनिद्रजृम्भितहरिर्विन्ध्योदधिरजायत ॥ २.२६ ॥ अशेषभुवनख्यात विक्रमेऽव्यक्तविक्रमैः । दर्पान्मुमुचिरे तस्मिन् तिर्यक्केसरिभिर्दृशः ॥ २.२७ ॥ स तेषां सहजोदग्र शौर्यसञ्चारवीथिषु । मत्तेभमौक्तिकोत्तंसान्न सेहे नखशुक्तिषु ॥ २.२८ ॥ यूथे महावराहाणां गते तद्बाणगोचरम् । चिरात्पल्वलमुस्तानां सन्तानः स्वस्तिमानभूत् ॥ २.२९ ॥ समदक्रोडदंष्ट्राभिः कृत्ताभिः कौतुकेन स । स्थलीर्व्यधित विन्ध्यस्य विकीर्णेन्दुकला इव ॥ २.३० ॥ असैरिभमसारङ्गमवाराहमकेसरि । क्षणाद्वनमशार्दूलमात्तचापश्चकार स ॥ २.३१ ॥ अलं प्रहृत्य भूपाल सत्त्वेष्वनपराधिषु । इतीव सः खगारावैर्न्यषेधि वनराजिभिः ॥ २.३२ ॥ असेवन्त समीरास्तमनस्तमृगयाश्रमम् । सुरतश्रान्तशबरी कबरीमाल्यचुम्बिनः ॥ २.३३ ॥ __________________________________________ सचिववर्णनम् अथेन्द्रचापललितं सञ्चरन्तमितस्ततः । अमन्दमृगयासङ्गः सः कुरङ्गमलोकत ॥ २.३४ ॥ सोऽपि तं वलितग्रीवः क्षणं स्थित्वा ददर्श च । निरन्तरलतापुञ्जं विन्ध्यकुञ्जं विवेश च ॥ २.३५ ॥ ततस्तुरगमुत्सृज्य विसृज्यानुप्लवानपि । तमन्वियाय सारङ्गं सारङ्गायतलोचनः ॥ २.३६ ॥ देवो रमाङ्गदेनाथ सः श्रियेवान्वगम्यत । छाया निवर्तते जातु न तु तस्यैष भूपतेः ॥ २.३७ ॥ मृगानुसारी विचरन्नात्तचापो वने वने । लीलां किरातवेषस्य सः प्रपेदे पिनाकिनः ॥ २.३८ ॥ दूरादेव स तेनाथ शरव्यत्वमनीयत । स्वनामधेयस्य चिह्नस्य हेमपुङ्खस्य पत्रिणः ॥ २.३९ ॥ शिलाभेदक्षमेनापि किमपि श्लथमुष्टिना । अभूद्विद्धः सः सारङ्गस्तेन त्वचि च मर्मणि ॥ २.४० ॥ [वर्२.४० {शिलाभेद॰।लेम् ।ेद्॑ सिराभेद ।ेम्?}] सः शरापातभीतेन मनसोऽप्यतिरंहसा । अतिदूरं कुरङ्गेण निन्ये राम इवापरः ॥ २.४१ ॥ तेन विन्ध्याटवीमध्ये धावन्नीरन्ध्रवीरुधि । उत्पतन्नुत्पतन्नेव स केवलमलक्ष्यत ॥ २.४२ ॥ दृशा वनस्थलीः कुर्वन् विकीर्णेन्दीवरा इव । जवाद्दूरमतिक्रान्तं तं क्षितीशस्तदैक्षत ॥ २.४३ ॥ ततस्तिरोहिते तस्मिन्नसमाप्तकुतूहलः । स्वबाण इव स प्राप पृथिवीं दुर्विलक्षताम् ॥ २.४४ ॥ दशनज्योत्स्नया कुर्वन् लताः स्तबकिता इव । इति पार्श्वगतं स्मित्वा स जगाद रमाङ्गदम् ॥ २.४५ ॥ [वर्२.४५ {॰ज्योत्स्नया।लेम् ।ेम्॑ ॰जोत्स्नया ।ेद्}] __________________________________________ रमाङ्गदाय मृगवर्णनम् अयं तुलितपौलोमी कान्तकामुकविग्रहः । मृगो दृग्गोचरं कच्चित्गतस्तव रमाङ्गद! ॥ २.४६ ॥ तद्वधूस्वकरन्यस्त चित्रपत्रलताङ्कितः । असौ विहारहरिणः किं स्यादनलसारथेः ॥ २.४७ ॥ अपि दृष्टा त्वयैतस्य कण्ठे कनकशृङ्खला? । छुरितस्येन्द्रचापेन मेघस्येव तडिल्लता ॥ २.४८ ॥ मृगजातिरपूर्वेयं सर्वथा वसुधातले । सम्भवत्यमराद्रौ वा भुवने वा फणाभृताम् ॥ २.४९ ॥ अस्याखण्डलकोदण्ड कान्ति चर्मातिपावनम् । गजपृष्ठे निधास्यामि महासमरपर्वसु ॥ २.५० ॥ यन्निमज्जति मच्चेतः कुतूहलरसोर्मिषु । मार्गमन्वेष्टुमेतस्य तदेहि प्रयतावहे ॥ २.५१ ॥ इत्युक्त्वा विरते तस्मिन् परमारमहीभृति । ऊचे रमाङ्गदेनैवमवाप्यावसरं वचः ॥ २.५२ ॥ __________________________________________ रमाङ्गदकृतो मृगानुसरणनिषेधः क्रुधेवाधिज्यचापेन वर्णसङ्करदर्शिना । त्वयैष चित्रसारङ्गो देव दूरमनुद्रुत ॥ २.५३ स्॥ अशून्याः सुरगन्धर्व सिद्धविद्याधरोरगैः । इमा नवनवाश्चर्य निधयो विन्ध्यभूमयः ॥ २.५४ ॥ विरमात्यादरः कोऽयं कुरङ्गान्वेषणे तव । न धावन्त्यर्थरिक्तासु क्रियासु त्वादृशां धियः ॥ २.५५ ॥ मृगयासक्तचित्तस्य तवात्र विचरिष्यतः । पथि लोचनयोरेष पुनोऽप्यापतिष्यति ॥ २.५६ ॥ शरः संह्रियतामेष धनुरप्यवतार्यताम् । शेषा च स्वस्तिमत्यस्तु देव श्वापदसन्ततिः ॥ २.५७ ॥ दशा दिनस्य तीव्रेयं यदयं भगवान् रविः । कृष्णस्योरसि पुष्णाति नभसः कौस्तुभश्रियम् ॥ २.५८ ॥ निहतेषु त्वया देव सत्त्वेषु व्यथिता इव । एता वहन्ति सन्तापमतीवारण्यभूमयः ॥ २.५९ ॥ अमीभिर्बालवानीर विटपेष्वगतक्लमैः । कपिञ्जलैरितः पश्य सहसैव निलीयते ॥ २.६० ॥ अर्कांशुग्लपितैरेभिरितोऽप्यालिखितैरिव । राजजम्बूनिकुञ्जेषु पश्य पुंस्कोकिलैः स्थितम् ॥ २.६१ ॥ आह्लादहेतुः स्निग्धेयमितो वन्येन दन्तिना । पश्य नीपतरोश्छाया सवशेन निषेव्यते ॥ २.६२ ॥ नवाम्बुधरनीलोऽयं दावधूमलतोद्गमः । नीलकण्ठैरितस्तर्षात्सोत्कण्ठैरवलोक्यते ॥ २.६३ ॥ अनया विद्रुमस्तम्ब भङ्गपिङ्गलया दृशा । इतः पल्वलपङ्कान्तो व्यक्तिमभ्येति सैरिभः ॥ २.६४ ॥ [वर्२.६४ {॰पङ्क॰।लेम् ।ेम्॑पङ्क्त॰ ।ेद्}] कठोरातपतप्तस्य राजहंसस्य सम्प्रति । नरेन्द्र नलिनीपत्रमातपत्रीभवत्यदः ॥ २.६५ ॥ मुखमश्वरजछन्न कपोलफलकद्युति । देव दन्तुरयन्त्येते तवापि स्वेदबिन्दवः ॥ २.६६ ॥ तदत्र कुसुमस्मेरे निःस्वनत्समदालिनि । विनीयतां लताकुञ्जे त्वयैष मृगयाश्रमः ॥ २.६७ ॥ अपि स्वच्छजला देव कलहंसाङ्कसैकता । वराहोत्खातमृत्स्नेयं पुरः पुष्करिणी तव ॥ २.६८ ॥ त्वामिवार्ककरक्लान्तमाकारयितुमेतया । अयमाधूतकह्लार कलिकः प्रेषितोऽनिलः ॥ २.६९ ॥ लतापुष्पोत्करैः कीर्णो मार्गोऽयमवगाह्यताम् । इतो वन्येभमुक्ताभिरिमाः शर्करिला भुवः ॥ २.७० ॥ इत्युक्ते मसृणं तेन नृपस्य पदमादधे । स्मितं सरस्वतीरत्न पर्यङ्के दन्तवाससि ॥ २.७१ ॥ यशोभटोपदिष्टेन गत्वा किञ्चिदिवाध्वना । प्राप पुष्करिणीतीरमवन्तितिलकोऽथ सः ॥ २.७२ ॥ करादनुचरस्तस्य सान्द्रस्वेदजलाङ्गुलेः । मधुर्मनोभवस्येव सशरं चापमाददे ॥ २.७३ ॥ __________________________________________ अथ स्नानादिवर्णनम् ततः स्नानेच्छया स्पृष्टो विसृष्टश्यामकञ्चुकः । स रेजे मेघनिर्मुक्तः पर्याप्त इव चन्द्रमः ॥ २.७४ ॥ प्रमृष्तमृगयारेणु तन्मुखं पार्श्ववर्तिना । रुरुचे मारुताक्षिप्त परागमिव पङ्कजम् ॥ २.७५ ॥ निसर्गललिता तस्य विमुक्तालङ्कृतिस्तनुः । लतेव पारिजातस्य पर्यस्तस्तबकाभवत् ॥ २.७६ ॥ स्वेदनुन्नाङ्गवर्णस्य सरसीमवगाहतः । वन्यस्येवाभवत्तस्य श्रीः पर्यन्तविसर्पिणी ॥ २.७७ ॥ [ओन्ल्यिन् क्॑ एद्. रेअद्स्स्वेदभिन्नाङ्गरागः स सरसीं तामगाहत । मदसिक्ततटाघातधूलिर्वन्य इव द्विपः}] स तस्यां दूरविक्षिप्त विहगश्रेणिमेखलः । विजहार यथाकामं विलासकुसुमायुधः ॥ २.७८ ॥ उवाह विस्फुरन्नाल कण्टकच्छद्मनापि सा । तदङ्गयष्टिस्पर्शेन रोमञ्चमिव पद्मिनी ॥ २.७९ ॥ ततस्तरङ्गनिर्धौतमध्यास्य स शिलातलम् । यशःस्नपितदिक्सीमा देवः सस्नौ यथाविधि ॥ २.८० ॥ तस्याविरलमत्तालि निःस्वनच्छद्मना वने । अगीयतेव देवस्य लताभिः स्नानकौतुकम् ॥ २.८१ ॥ [वर्२.८१ {॰कौतुकम्।लेम् ।क्॑ ॰मङ्गलम् ।ेद्}] सो दूरोदस्तपर्यस्त सपुष्पसलिलाञ्जलिः । जगत्तमोऽपहं ज्योतिस्त्रयीमयमुपस्थितः ॥ २.८२ ॥ तमानर्च स राजेन्दुर्मौलौ यस्येन्दुलेखया । क्रियते स्वर्धुनीबाल मृणालशकलभ्रमः ॥ २.८३ ॥ धन्या हि ता वनलता यत्फलान्यजहार स । कार्यतः सदृशी तासां समुद्ररशना मही ॥ २.८४ ॥ निपीय निखिलव्यक्त राजचिह्नेन पाणिना । उपास्पृशत्स चाम्भोज किञ्जल्ककपिशं पयः ॥ २.८५ ॥ नीलातपत्रमित्रेण पत्रेणाम्बुजिनीभुवा । निवारितोष्णः सश्रीकं लताकुञ्जं जगाम स ॥ २.८६ ॥ सपरागे विशश्राम कुसुमप्रस्तरे च स । लक्ष्मीकुचाङ्गरागेण भिन्ने शेष इवाच्युतः ॥ २.८७ ॥ रमाङ्गदोऽपि निर्वर्त्य त्वरया किं चिदाह्निकम् । अवाप्तसेवावसरः पर्युपास्त विशाम्पतिम् ॥ २.८८ ॥ सो भृङ्गध्वनिना सुप्तो विपञ्चीनादबन्धुना । तमालपल्लवैस्तेन किं चित्किं चिदवीज्यत ॥ २.८९ ॥ निद्रागृहीतनिर्मुक्त लोचनोऽथ जहार स । घनछायावृतव्यक्त भास्वतो नभसः श्रियम् ॥ २.९० ॥ पीनांसतटसंश्लिष्ट पुष्पकेसरशोभिना । उषःसाकल्पकेनेव शयनीयममुच्यते ॥ २.९१ ॥ __________________________________________ पुनर्मृगयाविहारः चकार च पदं चित्रः स मृगस्तस्य चेतसि । लग्नं हि किमपि क्वापि कृच्छ्रादाकृष्यते मनः ॥ २.९२ ॥ प्रसादहृद्यालङ्कारैस्तेन मूर्तिरभूष्यत । अत्युज्ज्वलैः कवीन्द्रेण कालिदासेन वागिव ॥ २.९३ ॥ जगाहे स महारण्यमंसासक्तधनुर्लतः । उपोढशशभृल्लेखः सायमब्धिमिवार्यमा ॥ २.९४ ॥ तस्मिन् कुसुमकिर्मीर तले च विचचार स । स्फुरन्नक्षत्रशबले नभसीव निशाकरः ॥ २.९५ ॥ मृगानुगमनिर्बन्धो न जगामास्य मन्दताम् । मैथिलीरमणस्येव विपिने पृथिवीपतेः ॥ २.९६ ॥ __________________________________________ निशातिक्रमणम् ततः पपात जलधौ विरोचनफणामणिः । दिनाहेर्नीयमानस्य बलात्कारगरुत्मता ॥ २.९७ ॥ शनैः शनैरथ व्योम्नि मृगाङ्कः पदमादधे । सशङ्क इव भूपालान्मृगयासक्तचेतसः ॥ २.९८ ॥ रमाङ्गदास्तृतस्निग्ध पल्लवप्रस्तरे ततः । वने राजेन्दुना निन्ये तेनेन्दुतिलका निशा ॥ २.९९ ॥ अथ मुखरखगापनीतनिद्रः क्वचिदपि पद्मसरस्युपास्य सन्ध्याम् । पुनोऽपि तमवेक्षितुं निशान्ते नृपतिरियेष्ट मृगं मृगेन्द्रकल्पः ॥ २.१०० ॥ [वर्२.१०० {निशान्त्लेम् ।क्॑ वनान्ते ।ेद्}] पञ्चैकेन स्मर इव शरान् पाणिना हेमपुङ्खानन्येनोर्वीविजयि च धनुः साहसाङ्कं दधानः । देवः स अथ व्यवहरदरिषु न्यस्तपादः पिकाली नीडन्यञ्चन्निचुलनिचयश्यामलासु स्थलीषु ॥ २.१०१ ॥ इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये चित्रमृगावलोकनो नाम द्वितीयः सर्गः ************************************************ त्रितीयः सर्गः अथ बहु चरतोऽस्य चापपाणेश्चकितवलन्मृगयूथवीक्षितस्य । वनभुवि सुलभः परिश्रमोऽभून्न तु हरिणः स हृतेन्द्रचापशोभः ॥ ३.१ ॥ धनुषि तनुभरं निधाय किंचित्तरुणतमालवने विनीतखेदः । मृगरुधिरकलङ्कितेन देवः समविषमेण पथा पुरः प्रतस्थे ॥ ३.२ ॥ [वर्३.२ {॰कलङ्कितेन् लेम् ।क् ।ब्॑ ॰लवाङ्कितेन ।ेद्}] __________________________________________ विन्ध्यकन्दरप्रवेशः अथ स चटुलषट्पदोपगीतं वनगजदानसुगन्धिगन्धवाहम् । परिसरमभिनृत्तनीलकण्ठं न्यविशत विन्ध्यनगेन्द्रकन्दरस्य ॥ ३.३ ॥ चटुलकृतकचग्रहः स गच्छन् वनलतया परिहासलोलयेव । नरपतिरवशः कृतः स कामं वियति मुखेन्दुमुदञ्चयां चकार ॥ ३.४ ॥ [वर्३.४ {चटुल॰।लेम् ।ेद्॑ चतुर॰ ।ेद्}] नमदवनिपतिः पतिः प्रजानामयि! चपले नु विकृष्यते कचेषु । विरम मुहुरितीव मन्युगुञ्जद्ध्वनिभिरसावलिभिर्लताभ्यधायि ॥ ३.५ ॥ [वर्३.५ {मन्यु॰।लेम् ।चोन्ज्॑ मञ्जु॰ ।ेद्}।वर्{गुञ्ज लेम् ।क्॑ मुक्त ।ेद्}] कतिचिदलिनिपीतधूपगन्धाननतिविलम्बिपरार्ध्यमौलिरत्नान् । त्वरितमथ रमाङ्गदोऽस्य केशान् विपिनलताविटपान्तराच्चकर्ष ॥ ३.६ ॥ __________________________________________ हंसदर्शनम् नृपतिरथ तदोन्मुखश्चरन्तं झटिति सितच्छदमम्बरे ददर्श । दधतमधिगतां कुतोऽपि चञ्च्वा बिसलतिकामिव तारहारलेखाम् ॥ ३.७ ॥ विकसितकुमुदच्छदावदाते ततनिभृते पततां तती दधानम् । विरचयितुमुपायनं नृपेन्दोर्नवघटिते इव दन्तपत्रलेखे ॥ ३.८ ॥ चितमतनु विसर्पता समन्तात्किरणलतानिकरेण हारयष्टेः । सितमणिमयसूचिनिर्मितस्य स्थितमिव जङ्गमपञ्जरस्य मध्ये ॥ ३.९ ॥ तरलमणिरुचावृतं प्रकृत्या विदलितविद्रुमकन्दकाञ्चितुण्डम् । प्रणयनिहितपादयावकाङ्कं कमलवनस्थितिलोलयेव लक्ष्म्या ॥ ३.१० ॥ चरणयुगतले विभातकाल स्फुटितजपाकुसुमाभिताम्रभासि । स्वयमिव नलिनीवनप्रसूतेः परिचयतः कृतकान्तिसंविभागम् ॥ ३.११ ॥ प्रतिपदमतिदीर्घहारभारातवनमदुन्नमयन्तमुत्तमाङ्गम् । शिरसि निपततो निकाममुष्णानहिमरुचः किरणानिवोत्क्षिपन्तम् ॥ ३.१२ ॥ विवृतमुखधृतस्य निष्पतद्भिस्तरलमणेररुणस्य कान्तिलेशैः । अविरतमरविन्दवृन्दपीतान्मधुपृषतानिव भूयसोद्वमन्तम् ॥ ३.१३ ॥ परिखचितमयत्नपूरिताशैरविरलमौक्तिकदामरश्मिजालैः । यश इव परभूतभृतां निरुद्ध्य प्रसभमुपाहृतमात्मनो यशोभिः ॥ ३.१४ ॥ अभिनवबिसशङ्कयापहृत्य स्फटिकमयीमसमक्षमक्षमालाम् । विहगमिव विमानहंसपङ्क्तेर्विघटितमेकतरं चतुर्मुखस्य ॥ ३.१५ ॥ च्युतमिव सितचामरं मघोनेः श्रमजडवारविलासिनीकराग्रात् । अपहृतमिव लोलपत्रजालं सुरसरितः पवनेन पुण्डरीकम् ॥ ३.१६ ॥ हरहसितसितं दिवापि कान्ति स्तबकमिवापतितं सुधाकरस्य । अपि पतितमिवान्तरिक्षपीलोर्मघवदिभस्य विलासकर्णशङ्खम् ॥ ३.१७ ॥ [स्य्न्तx कुलकम्] स च परिणतलोध्रधूलिशुक्लस्तरलमवन्तिपतेश्चकार चेतः । किसलयमिव बालचन्दनस्य स्तिमितगतिर्मलयाचलेन्द्रवातः ॥ ३.१८ ॥ __________________________________________ नायकवर्णनम् अवददथ विबुद्धपुण्डरीक प्रतिममुपान्तचरे निधाय चक्षुः । दशनमणिमयूखभिन्नवर्णां गिरिमिति मालवराजपूर्णचन्द्रः ॥ ३.१९ ॥ सुरभिकुसुमचुम्बिनावनम्रामलिपटलेन लतामिमां विना मे । खगममुमुपदर्शयेत्क एवं गगनरमापतिपाञ्चजन्यमन्यः ॥ ३.२० ॥ स्मरवरकरिहस्तशीकराणां विदधति रुचयो नवहारमौक्तिकानाम् । विदधति रुचयोऽस्य चन्न्चुकोटौ कवलितबालमृणालसूत्रलीलाम् ॥ ३.२१ ॥ अयि! कथय सितच्छदः क्व चायं वननलिनीपुलिनान्तबद्धवासः । अवनिपतिकलत्रकण्ठयोग्यः क्व च शशिबन्धुरनर्घ एष हारः ॥ ३.२२ ॥ वनभुविपतितः कुतोऽयमस्यां कथमयमस्य मुखातिथित्वमाप्तः? । गुरुविभवपदस्य कस्य वा स्यादयमिति मे न परिच्छिनत्ति चेतः ॥ ३.२३ ॥ अयमुचिततरः फणिस्त्रियो वा कुचकलशान्तरमर्त्ययोषितो वा ? । नियतमुदधिमुद्रमीदृशानि क्षितितलमाभरणानि न स्पृशन्ति ॥ ३.२४ ॥ किमपरमनुगम्य एष हंसः श्रमजडपक्षतिरावयोर्वनान्ते । अयि! यदयमवामनस्य भूमिर्मुखधृतहारलतः कुतूहलस्य् ॥ ३.२५ अ ॥ __________________________________________ रमाङ्गदवाक्यम् इति विरतवचस्युदीर्य तस्मिन् कृतिनि नृपे परमारवंशकेतौ । स्फुरदधरविकीर्णदन्तकान्ति प्रसरमिदं जगदे रमाङ्गदेन ॥ ३.२६ ॥ जडरुचिरपि रोचते न कस्मै कथमपि दीर्घगुणेन लब्धसङ्गः । नरवर यदनेन हारदाम्ना तव पतगः स्पृहणीय एष जातः ॥ ३.२७ ॥ उपवन इव सम्भवः कदाचिन्नृप घटते विपिनेऽपि हारयष्टेः । यदसुरसुरनागराजकन्या इह विहरन्ति नगेन्द्रकन्दरेषु ॥ ३.२८ ॥ शकुनिरयमितो दिगन्तलग्नैरनुपममौक्तिकनिर्गतैर्मयूखैः । तव विरचयतीव सूत्रपातं सुकृतनिधान! भविष्यतः शुभस्य ॥ ३.२९ ॥ द्रुतमयमनुगम्यतामिदानीमनुगमनेन यतोऽस्य हारलाभः । फलमधिकमतोऽपि नः कदाचित्किमपि भवेदयमस्य हेतुः ॥ ३.३० ॥ तरुविटपलतान्तरेण गच्छन् भुवमभजन् बहुमुक्तमेघवर्त्मा । अयमतिगुरुहारभारजातां श्रमजडतामलमात्मनो व्यनक्ति ॥ ३.३१ ॥ नयनपथमयं यथा तवारात्त्वमपि तथास्य सितच्छदस्य यातः । अवनितलमृगाङ्क! यद्वनान्तश्चकितमिवायमितस्ततः प्रयाति ॥ ३.३२ ॥ निचुलवनमतीत्य वर्ततेऽयं पुरत इमामयमब्जिनीमुपेतः । नवजलधरशङ्कयेव शङ्के तरुणतमालवनादितो निवृत्तः ॥ ३.३३ ॥ किसलयकलिताञ्जलिं त्वरावानयमुपसर्पति नीलसिन्दुवारम् । क्षणमयमिह बालचूतमौलौ विचकिलमाल्यविलासमादधाति ॥ ३.३४ ॥ अयमभिनवकर्णिकारयष्टिं झटिति घनस्तबकस्तनीमुपैति । अयमतिचपलो निसर्गरक्तां स्थलनलिनीमवधीर्य देव! यातः ॥ ३.३५ ॥ अयमिह हि लतामुपैति कौन्दीं कुसुमवतीं नवमाधवीं विलङ्घ्य । क्वणदलिवलयासु नासु तेन स्खलितमितः सहकारमञ्जरीषु ॥ ३.३६ ॥ अभिसरति वनस्थलीमिवैतां मदनवतीमयमूढकामिलीलः । स्फुरदतनुशिलीमुखस्य चाग्रे विचरति कर्णे इवायमर्जुनस्य ॥ ३.३७ ॥ श्रममपहरतस्तनूर्मिवातैरयमतिथिर्वनपल्वलस्य जातः । तरुततिषु तिरोहितोऽयमेतास्वयमरविन्दवनादिवोज्जिहीते ॥ ३.३८ ॥ कुरबकवनतः कदम्बराजिं व्रजति ततो मुचकुन्दकाननानि । इति नगमवगाहते सहारस्त्वमिव ध्र्तक्लम एष राजहंसः ॥ ३.३९ ॥ कुरु विजयमितो ममार्प्य एतद्धनुरधुना ससुवर्णपुङ्खबाणम् । यदयमितगतिर्गतोऽतिदूरं जलपतगः सह नः कुतूहलेन ॥ ३.४० ॥ __________________________________________ हंसानुगमनम् इति कथयति चापमर्पयित्वा सममिषुभिः स रमाङ्गदे नरेन्द्रस् । पतगमनु तमात्तहारं हरति न कं नववस्तुसंप्रयोगः ॥ ३.४१ ॥ ऋजु तमथ विहायसा व्रजन्तं रभसवशादनुगच्छतो नृपस्य । समजनि भृशमायतोऽस्य पन्थास्तरुविटपावटवर्जनेन वक्रः ॥ ३.४२ ॥ नृपतिरनुययौ वने विहङ्गं नृपतिमभि प्रणयी रमाङ्गदोऽपि । श्रुतमिव विशदं शुचिर्विवेकः कृतिनि विवेकमिवान्तरः प्रसादः ॥ ३.४३ ॥ अथ कमलसरस्तरङ्गदोला चलयविलोलरथाङ्गनामयुग्मम् । मदकलकलहंसनादकृष्टः श्रमविवेशः सः सितच्छदः प्रपेदे ॥ ३.४४ ॥ विलुलितकबरीकलापमाल्या मृदुनवशैवलमेखला वहन्त्यः । रतिरणमवसाय यत्र नित्यं सह रमणैरमराङ्गना रमन्ते ॥ ३.४५ ॥ सलिलगतधियाथ तेन दूरात्स गुरुरमुच्यत निःसहेन हारः । जडहृतहृदयाः कियच्चिरं वा गुणमहतामिह भारमुद्वहन्ति ॥ ३.४६ ॥ स च विततमरीचिचञ्चुलेखो विगलितहारलतामिषेण हंसः । परिणतबिसकाण्डभङ्गपीतं पय इव विस्तृतधारमुज्जगार ॥ ३.४७ ॥ अथ कनकमृणालिकायुगस्य द्युतिनिचयेन चितं विसर्पताधः । अशिशिरमहसो विसारिणा खे वलयितमंशुलताकदम्बकेन ॥ ३.४८ ॥ तटभुवि तमपश्यदापतन्तं पतिरवने रवतंसितायताक्षः । सितमभिनवहेमदण्डशोभि स्फटिकशलाकमिवातपत्रमैन्द्रम् ॥ ३.४९ ॥ [स्य्न्तx सन्दानितकम्] सरसि धवलिते ततः समन्तादमृतमरीचिरुचेव तस्य कान्त्या । व्यधित बलवती वियोगपीडा पदमपदे हृदयेषु चक्रनाम्नाम् ॥ ३.५० ॥ अतिविततगुणैकधाम्नि तस्मिन् विधुरमधःपतिते विशुद्धिभाजि । कथमपि वसुधाधिपः प्रमोदं झटिति जगाम गुणिष्वमत्सरो हि ॥ ३.५१ ॥ अथ नभसि पिशङ्गसान्ध्यराग च्छुरित इवाम्बरनिम्नगातरङ्गम् । कियदपि सरसस्तटे स गत्वा कमलरजःकपिशे ददर्श हारम् ॥ ३.५२ ॥ स च सपदि रमाङ्गदोपनीतं कनकसरोरुहकान्तिना करेण । निजयश इव मूर्तमाददे तं भुवनतलाभयदानदीक्षितेन ॥ ३.५३ ॥ सुजनमिव गुणैरुपोढशोभं शुचितरबालमृणालसूत्रदीर्घैः । अहमहमिकया कृतप्रवेशं तरणिकरग्लपितैरिवेन्दुपादैः ॥ ३.५४ ॥ दधतमरुणमङ्गरागशेषं क्वचिदपि यष्टिषु तारमौक्तिकासु । घटितमिव नवातपेन किंचिद्बहुनवया शशलक्ष्मणस्त्विषा च ॥ ३.५५ ॥ अतिविततरुचिं वहन्तमन्तस्तरलमणिं तरुणेन्द्रगोपश्¿भम् । अविरलमसकृन्निवासलग्नं ललितवधूहृदयादिवानुरागम् ॥ ३.५६ ॥ कतिचिदपि लतान्तरे दधानं मृगमदलिप्ततलानि मौक्तिकानि । शबलजललवैरिवात्तजन्मान्ययमरनदीयमुनातिथेर्घनस्य ॥ ३.५७ ॥ अनुगुणपदवीविनिर्गतासु प्रतिलतमायतमौक्तिकप्रभासु । रजनिकरमरीचिसूचिदीर्घैर्बहुभिरिव ग्रथितं मृणालसूत्रैः ॥ ३.५८ ॥ अतिदृढमनुरक्तया वितीर्णं मुखरमहोदधिमेखलां वहन्त्या । उरसि निहितबन्धुजीवमुर्व्या विचकिलमाल्यमिव स्वयंवराय ॥ ३.५९ ॥ [स्य्न्तx कुलकम्] अरुचदथ करे स तस्य बिभ्रद्युवतिरदच्छदकान्तिमध्यरत्नम् । किमपि मनसिजेन शासनाङ्कः प्रहितनिजायुधचित्रपुष्पमुद्रः ॥ ३.६० ॥ शशिकररुचा स तेन रेजे मृदुकरपुष्करवर्तिना नरेन्द्रः । अमरपुरधुनीसमुद्धृतेन त्रिदशकरीव मृणालकन्दलेन ॥ ३.६१ ॥ उरसि नरपतेः पतंश्चकाशे कनकशिलाविपुले तदंशुपूरः । अखिलभुवनकोशराजलक्ष्म्या निहित इवाधिकमुत्क्या कटाक्षः ॥ ३.६२ ॥ [वर्३.६२ {कटाक्षः।लेम् ।ेम्॑ कदाक्षः ।ेद्}] विकृतिरुदधिशुक्तिएषु च्युतानां ध्रुवमियमिन्दुकलासुधालवानाम् । जलदजलकणोद्भवेषु कामं निवसति कान्तिरियं न मौक्तिकेषु ॥ ३.६३ ॥ न किमयमुडुमण्डलापवादः कुमुदवनानि पुरोऽस्य न त्रपन्ते । कथमयमवधिर्न मुक्तिभाजामिति तमवेक्ष्य स चिन्तयां चकार ॥ ३.६४ ॥ [स्य्न्तx सन्दानितकम्] स्फुरदुदरनिवेशितेन्द्रनीलां मदजलराजिमिव स्मरद्विपस्य । अवनिपतिरपश्यदक्षराणां ततिमथ हारमृणालिकान्तराले ॥ ३.६५ ॥ अभिनवलिखितामिव प्रशतिं मदनमहानृपतेः स पार्थिवेन्द्रः । इति निबिडकुतूहलाकुलस्तां ललितपदाभरणामवाचयच्च ॥ ३.६६ ॥ ’’मनसिजवरवीरवैजन्त्यास्त्रिभुवनदुर्लभविभ्रमैकभूमेः । कुचमुकुलविचित्रपत्रवल्ली परिचित एष सदा शशिप्रभायाः" ॥ ३.६७ ॥ किमु विपुलमिमं मनुष्यलोकं पुरमुत पर्वतपक्षशातनस्य । किमु युवतिरियं भुजङ्गभर्तुर्भुवनमलङ्कुरुते शशिप्रभेति ॥ ३.६८ ॥ वदति शशिमुखीमितस्न दूरे तरुणविलेपनभिन्न एष हारः । सरितमिव वनान्तरे समीरः स्फुतितसरोरुहरेणुना पिशङ्गः ॥ ३.६९ ॥ कुसुमशरसखस्य कस्य चित्किं समजनि नाकतलाधिदेवतेयम् । उत मुकुलितमन्मथावतारे पथि विचरेऽधिनाककन्यकानाम् ॥ ३.७० ॥ अपि कृतनयनोत्सवेन तन्वी तरुणसुधामधुरेण दर्शनेन । मुदमुपजनेद्वने किमेषा ? मम शरदिन्दुकलेव कैरवस्य ॥ ३.७१ ॥ इति कियदपि यावदेव चिन्ता वशमगमत्स मनुष्यलोकपालः । धनुरपि निचुलं विधाय तावत्कुसुमशरोऽस्य बभूव पार्श्ववर्ती ॥ ३.७२ ॥ अथ सम्भ्रमादनुचरेण निहिततमालपल्लवे । आस्त तरुकुसुमसंवलिते सरसः सः सैकतशिलातले नृपः ॥ ३.७३ ॥ आलक्ष्य स्तनसख्यलक्ष्मणि ततस्तस्मिन् कुरङ्गीदृशो मुक्तादाम्नि करोदरप्रणयितामाप्ते तुषारत्विषि । विस्मृत्या सहसा हृतं चतुरया क्रोडीकृतं चिन्तया चेतः श्रीनवसाहसाङ्कनृपतेरुत्कण्ठयाकृष्यत ॥ ३.७४ ॥ इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभाहारलाभो नाम तृतीयः सर्गः ************************************************ चतुर्थः सर्गः ततः सश्चेतस्यवनीपतिर्दधे शशिप्रभालोकमहोत्सवस्पृहाम् । उपोढरागामुदधिस्तटोदरे नवोद्गतां विद्रुमकन्दलीमिव ॥ ४.१ ॥ शशिप्रभाशानलिनीमृणालतामुपागते मौक्तिकदाम्नि सादरः । तदागते दूत इव न्यवेशयत्स दर्शितप्रेमलवे विलोचने ॥ ४.२ ॥ पुनः पुनः षट्पदराजिमेचकां तदिन्द्रनीलाक्षरपङ्क्तिमैक्षत । स तत्क्षनान्मन्मथजातवेदसं तनीयसीं धूमलतामिवोद्गताम् ॥ ४.३ ॥ सुगन्धिहारादनुलेपनं करे समुन्मिषत्स्वेदलवे विलुम्पति । असङ्गताया अपि दीर्घचक्षुषः पयोधरस्पृशमिवाससाद स ॥ ४.४ ॥ तदीयनामाङ्कलिपिं शनैः शनैः सलीलमावर्तयितुं प्रचक्रमे । परिस्फुरत्पल्लवपाटलाधरो रहस्यविद्यामिव मन्मथस्य स ॥ ४.५ ॥ अनेकरूपालिखनप्रगल्भया सुतीक्ष्णया वर्तिकयेव चिन्तया । सस्तामनाप्तेक्षणसंस्तवां पुरा लिलेख चित्ते मुहुरन्यथान्यथा ॥ ४.६ ॥ अनङ्गचण्डातपतप्तयोस्तदा शशिप्रभाविभ्रमदर्शनं प्रति । द्वयोरभूदुत्सुकता वनान्तरे विलासिनस्तस्य च कैरवस्य च ॥ ४.७ ॥ उदग्रदिग्वारणहस्तहारिणा स दक्षिणेन स्फुरता च बहुना । स्थिरीकृताशो मनासापि दुर्लभामदुर्लभामिन्दुमुखीममन्यत ॥ ४.८ ॥ पुरो विमुञ्चन्नयने यदृच्छया नृपस्तमालद्रुमकाननोदरे । अपश्यदत्रवासरे विलासिनीं पयोधमध्ये शशिनः कलामिव ॥ ४.९ ॥ __________________________________________ नायकवाक्यम् अथैष दीर्घा दर्शनार्चिषः किरन्मुखामृतांशोः किरणच्छटा इव । निरीक्ष्य तामुन्मदहंसगामिनीं रमाङ्गदं सस्मितमित्यवोचत् ॥ ४.१० ॥ [वर्४.१० {सस्मितम्।लें क् ।त्र् ।ि॑ सस्पृहम् ।ेद्}] शनैश्चरन्ती विपिने तव स्थिता नितम्बिनी कच्चिदियं दृशः पथि? । अधीरतां दक्षिणमातरिश्वना लतेव नीता मसृणेन माधवी ॥ ४.११ ॥ युता सिताभैः सुमनोभिरेतया परिश्लथेयं कबरी नियम्यते । उदस्तभास्वत्करकान्तया श्रिया दिनस्य ताराशबलेव शर्वरी ॥ ४.१२ ॥ असत्कवेर्वागिव वीतसौष्ठवं निवेशयन्ती पदमव्यवस्थया । असावनेकस्खलितैः समाकुला विमुच्य मार्गं किमितः प्रतिष्ठते ॥ ४.१३ ॥ हठेन नेतुं वशतामिवात्मनो मनोऽभिरामासु विलासभङ्गिषु । धृतांशुका ताभिरियं पदे पदे लताभिरम्भोजमुखी निरुद्ध्यते ॥ ४.१४ ॥ विचिन्वती किं चिदिवेयमादरादपक्षमपातस्तिमिते विलोचने । गतेऽवतंसोत्पलपत्रबन्धुतामितस्ततः पद्मवने विमुञ्चति ॥ ४.१५ ॥ मृदु प्रयान्तीयमनिम्ननिम्नयोः सितांशुका कामपि कान्तिमश्नुते । जले कला इव प्रतिबिम्बितैन्दवी वनानिलोदञ्चदवाञ्चदूर्मिणि ॥ ४.१६ ॥ प्रसादमस्माकमरण्यदुर्लभैर्विधेहि सालक्तकपादताडनैः । असावशोकैः क्षणमाश्रितैः श्रमातितीव मत्तालिरुतेन याच्यते ॥ ४.१७ ॥ अभेदमूढस्तबकाभिरावृता लताभिरीषल्लुलितालिपङ्क्तिभिः । इयं पुरो मारुतनर्तितालका न लक्ष्यते व्यक्तमवामनस्तनी ॥ ४.१८ ॥ ऋजु क्वचित्क्वापि अनृजु प्रवर्तते क्वचित्स्खलत्युच्चशिलातले पथि । इयं शनैः शैलनदीव च क्वचित्विनम्रवानीरतलेन गच्छति ॥ ४.१९ ॥ स्थिते परिष्वज्य सरोजिनीमिमां वने घनेऽस्मिन् कुसुमोन्मदालिनि । प्रयाति सासूयमियं कथंचन स्वहस्तसीमन्तितमार्गवीरुधि ॥ ४.२० ॥ क्वचित्क्वचित्स्वेदलवोद्गमो मुखे समाहृतेयं कबरी यथा तथा । सयं च कम्पः कुचयोर्वधूरियं रतिश्रमव्याकुलितेव लक्ष्यते ॥ ४.२१ ॥ अनेन रूपातिशयेन लीलया विविक्तनेपथ्यपरिग्रहेण च । अरण्यसञ्चारपरा इयमेकिका कुतूहलं मे हृदये निषिञ्चति ॥ ४.२२ ॥ असौ पराधीनतयास्पदीकृता न बालिका न प्रतिभासते न मम । अयं स्फुरत्काञ्चनपद्मसोदरः सचामरोऽस्याः कथमन्यथा करः ॥ ४.२३ ॥ इयं किमु स्याद्वनदेवतागता ? गता धरां व्योमवधूरियं किमु ? । अवेक्षितुं हारमिहेयमागता शशिप्रभावारविलासिनी किमु ? ॥ ४.२४ ॥ इतः सश्चित्राकृतिरीक्षतो मृगः सितच्छदादाप्तमितो विभूषणम् । इतश्च दृष्टेयमिति स्प्रसूयते प्रसक्तमाश्चर्यमियं वनस्थली ॥ ४.२५ ॥ __________________________________________ पाटलाया नायकदर्शनम् इति प्रकृत्या मधुरोक्तिरुक्तवान् तयायताक्ष्या ददृशे विशाम्पतिः । तमालपत्रापिहिते शिलातले कुमुद्वतीकान्त इवाम्बरे स्थितः ॥ ४.२६ ॥ ततस्तदालोकनकौतुकेन सा स्थिता निमेषोज्झितपक्ष्मलेक्षणम् । विनिद्रसत्केसरपङ्कजा बभौ वने निवातस्तिमितेव पद्मिनी ॥ ४.२७ ॥ __________________________________________ पाटलायाः स्वगतम् अचिन्तयत्सेति च पाटलाधरः सितारविन्दच्छददीर्घलोचनः । मुखं सुधादीधितिसुन्दरं दधन् वने गतः कोऽयमनङ्गविभ्रमः ॥ ४.२८ ॥ व्यनक्ति कल्याणमयीयमाकृतिर्महीयसीमस्य महानुभवताम् । असत्यमेतासु रुचा वितन्वती लतासु कार्तस्वरपल्लवोद्गमम् ॥ ४.२९ ॥ भुजेन चित्राङ्गदरत्नशोभिना सतारहारेण भुजान्तरेण च । वदत्ययं मध्यमलोकपालतां परार्ध्यचूडामणिना च मौलिना ॥ ४.३० ॥ अनातपत्रोऽयमत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः । अचामरोऽप्येष सतेव वीज्यते विलासवालव्यजनेन कोऽपि अयम् ॥ ४.३१ ॥ प्रिया इयमारूढगुणा सुवंशभूर्न चान्तिकं चापलतास्य मुञ्चति । इमे पृषत्का अपि पार्थिवश्रियो विलासकर्णोत्पलपल्लवा इव ॥ ४.३२ ॥ इतः शिलोत्सङ्गतले निषेदुषा दिवश्च्युतेनेव कुरङ्गलक्ष्मणा । अधस्तरुणाममुना विनीयते क्षणं मृगव्योपनतः परिश्रमः ॥ ४.३३ ॥ अयं स न स्यान्नवसाहसाङ्क इत्यनङ्गलीलासु कृती भुवःपतिः । स येन मुक्तो निजनामलाञ्छितः शशिप्रभाकेलिकुरङ्गके शरः ॥ ४.३४ ॥ अयं स नो हार इवास्य दृश्यते करोदरे पल्लवपाटलत्विषि । इतः किमेतस्य न सैकते सः किं सितच्छदो लोचनगोचरं गतः ॥ ४.३५ ॥ सुवर्णपुङ्खे लिखितं शिलीमुखे तदस्य नामास्ति समानमाकृतेः । यदद्भुतामेकपदे पृषत्कतामगादनङ्गस्य शशिप्राभां प्रति ॥ ४.३६ ॥ अनेन चेद्योगमुपैति दैवतः फनीन्द्रकन्या शशिनेव रोहिणी । अनल्पलावण्यतिरस्कृतोपमं वपुस्तदस्याः सफलत्वमेष्यति ॥ ४.३७ ॥ विधातुमेनामहमेव वा क्षमा मितोदरीमङ्कतलेऽस्य को विधिः । ममेदृशे यद्विषये विमत्सराः स्तुवन्ति सख्यो मसृणोक्तिसौष्ठवम् ॥ ४.३८ ॥ सहामुना किंचिदुपान्तवर्तिना वदत्यसऊद्गतदन्तदीधितिः । कुतूहलाक्षिप्तनिमेषलास्यया विलोकयन्मामिव दीर्घया दृशा ॥ ४.३९ ॥ __________________________________________ पाटलायाःसमीपगमनम् अथाधिगन्तुं किल तस्य पत्रिणो गतिं वनान्ते कथमप्यलक्षिताम् । तमभ्यगात्सा नृपतिं सचामरा सरित्सफेना निधिमम्भसामिव ॥ ४.४० ॥ समुच्चरन्नूपुरसिन्न्चितैः पदैर्यथा यथा संमुखमाजगाम सा । तयायताक्ष्येव तथातथेरिता दृगस्य पश्चादपसारमाददे ॥ ४.४१ ॥ शनैस्ततस्तां सविधोपसर्पणीं निरीक्ष्य हारं पिदधे नराधिपः । निजोत्तरीयेण सितेन मारुतः शरद्धनेनेव शशाङ्कमण्डलम् ॥ ४.४२ ॥ पयोधरोत्सङ्गनिवासलालितं व्यधादिमं पन्नगराजकन्यका । इति प्ररोहद्बहुमानमन्थरो बभूव तस्मिन्नवनीपुरन्दरः ॥ ४.४३ ॥ अनल्पलावण्यविलासजन्मभूर्विचित्ररत्नद्युतिभास्वरोर्मिका । तमिद्धमुक्ताभरणं भुवःपतिं पयोधिवेलेव सुवेलमाप सा ॥ ४.४४ ॥ अवाप देवः श्रियमन्तिकस्थया तया स वालव्यजनाङ्कहस्तया । निषेव्यमाणः स्फुटलक्ष्यदेहया नरेन्द्रलक्ष्म्येव यशःसमेतया ॥ ४.४५ ॥ __________________________________________ पाटलाकृतः सत्कारः विभिन्नचूर्णालकभक्ति कुर्वती विकीर्णचूडामणिचन्द्रिकं शिरः । अथानुभवेन निदेशितेव सा ननाम मानिन्यवशा विशांपतिम् ॥ ४.४६ ॥ दृशा नरेन्द्रेण निदेशिते स्वयं शिलातले नातिविदूरवर्तिनि । उपाविशत्सा रशनामणित्विषा निषिच्यमानेऽमरचापशोभिनि ॥ ४.४७ ॥ __________________________________________ रमाङ्गदवाक्यम् तयातिदीर्घैर्दशनानुपातिभिर्विकृष्यमाणामिव भूषणांशुभिः । इति क्षितीशेङ्गितवर्त्मदीपिकामुदीरयामास गिरं रमाङ्गदः ॥ ४.४८ ॥ अनेन विन्ध्याद्रिविहारजन्मना श्रमेण कामं भवती कदर्थिता । प्रसुप्तजूटाहिमुखानिलोष्मणा जटाविटङ्केन्दुकलेव शूलिनः ॥ ४.४९ ॥ अमी सरोजप्रतिमे मुखे मुहुस्तवातपाताम्रकपोलभित्तिनि । समुन्मिषन्ति श्रमवारिबिन्दवो नताङ्गि लावण्यसुधालवासिव ॥ ४.५० ॥ इतोऽवतंसोत्पललास्यदेशिके निरन्तरं गन्धवहे वहत्यपि । न घूर्णते खिन्नललाटसङ्गिनी तवालकश्रेणिरियं मनागपि ॥ ४.५१ ॥ अनेन पीनस्तनकम्पदायिना निरायतेनोद्वहता कदुष्णताम् । अथ प्रवालादपि पाटलच्छविर्न दूयते निःश्वसितेन तेऽधरः ॥ ४.५२ ॥ उदित्य पङ्क्त्या श्रमवारिविप्रुषां निरन्तराध्यासितरेखयानया । तवैष कण्ठः कुटजावदातया विलासमुक्तालततयेव भूष्यते ॥ ४.५३ ॥ इदं महच्चित्रममानुषं त्वया विगाह्यते यद्वनमद्वितीयया । इमाः क्व विन्ध्यस्य भुवोऽतिदुर्गमाः क्व राजवेश्माभरणं भवादृशी ॥ ४.५४ ॥ नवोद्गताशोकपलाशकान्तिना निकामनिर्यन्नखचन्द्रिकेण च । बिभर्षि कस्येदमनेन पाणिना वदावधूतेन्दुमरीचि चामरम् ॥ ४.५५ ॥ नृपस्य कस्यापि परिच्छदाङ्गना यदि त्वमुच्चैर्विभवो हि कोऽपि स । मरुत्पतिर्मेनकयेव तन्वि यस्त्वयापि वालव्यजनेन वीज्यते ॥ ४.५६ ॥ अथ र्धिमत्या परवत्यसि स्त्रिया कयापि कासौ जगदेकसुन्दरी । नतभ्रु यस्याः स्मरचापयष्टयो विधेयतां यान्ति भवद्विधा अपि ॥ ४.५७ ॥ परस्परस्पर्धि विलाससम्पदां त्रयं भवत्स्वामितया विकल्प्यते । मरुत्वतो वा रमणी रमाथ वा कलत्रमर्धेन्दुविभूषणस्य वा ? ॥ ४.५८ ॥ इयं परिभ्रान्तिरगेन्द्रकन्दरे सखीव ते शंसति कार्यगौरवम् । भवादृशः श्वापददूषितेऽन्यथा चरन्त्यरण्ये किमधीननीतयः ॥ ४.५९ ॥ अनेन खेलन्मददन्तिना वद त्वमागता चण्डि कुतो दुरध्वना । विधाय विश्लेषविषादमावयोः स्वकार्यनिष्ठे कथय क्व यास्यसि ? ॥ ४.६० ॥ __________________________________________ नायकवाक्यम् इति साभिहिता मृगायताक्षी समुपोढप्रणयं यशोभटेन । सहसा न जगाद लज्जया नु श्रमतः किं तु नृपस्तु तामवोचत् ॥ ४.६१ ॥ श्रान्तासि कौतुकहृतेन कदर्थितासि प्रश्नैरनेन विहितो न तवोपचारः । आतिथ्यमेष कुरुते परमङ्गलेखा संवाहनैकचतुरो निचुलानिलस्ते ॥ ४.६२ ॥ एवं निसर्गमधुरेण सुधारसैक निष्यन्दिना फणिवधूरथ सा हसन्ती । चन्द्रांशुना कुमुदिनीव दिनोष्मतप्ता वीतक्लमा नरपतेर्वचसा बभूव ॥ ४.६३ ॥ इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये पाटलादर्शनं नाम चतुर्थः सर्गः ************************************************ पञ्चमः सर्गः अथ सा वदने नवेन्दुकान्ति स्मितमङ्के विनिवेश्य चामरं च । जगतीपतिमेवमा बभाषे मसृणं मूर्तिमती विदग्धतेव ॥ ५.१ ॥ [वर्५.१ {॰कान्ति॰।लेम् ।ेम्॑ ॰कान्ति॰ ।ेद्}] त्वयि पुण्यवशेन दृष्तिमाप्ते लभते शर्म गतश्रमो ममात्मा । उदिते हि विरोचने नलिन्या वितमस्तामरसं विकासमेति ॥ ५.२ ॥ अतिमात्रमुपोढसौकुमार्ये वचसि श्रोत्रमुपेयुषि त्वदीये । झटिति प्रतिभासते ममायं कठिनश्चन्दनपल्लवावतंसः ॥ ५.३ ॥ किमयं मयि संभ्रमोऽयमास्तां किमयं न एव जनः परिच्छदस्ते । उपचारविशेषसंविधाने प्रतिपच्चन्द्र इव उदितस्त्वमेव ॥ ५.४ ॥ भवदिङ्गितवेदिनैव पृष्टा यदनेनाहमुपान्तवर्तिना ते । किमु तत्कथयामि सम्मतं चेत्क्रियतां मे स्वयमाज्ञया प्रसादः ॥ ५.५ ॥ __________________________________________ नायकनिदेशः अभिधेहि लवः कुतूहलस्य त्वदुदन्तश्रवणे ममापि जातः । इति सा वसुधापतेर्निदेशादथ पातालविलासिनी जगाद ॥ ५.६ ॥ __________________________________________ भुजङ्गलोकवर्णनम् स तव श्रुतिमाप्त एव तावत्स्मरलीलाभवनं भुजङ्गलोकः । उपयाति यदेकदेशसाम्यं न मही नापि पुरी पुरन्दरस्य ॥ ५.७ ॥ अतिदुर्लभसूर्यभासि यस्मिंस्तमसामुल्लसतां तिरस्क्रियायै । फणिनोऽरुणकान्तिभिः शिरस्थैर्मणिभिर्बालमिवातपं वहन्ति ॥ ५.८ ॥ अनुलिम्पति रोदसी यथेन्दुः प्रभया मां न तथेत्यसूययेव । पटु यः प्रमादाविलासहास स्तबकैरिन्दुपरम्पराः प्रसूते ॥ ५.९ ॥ सविलासमुदस्तहस्तमुक्तैर्निकरैर्दिग्द्विरदेन्द्रशीकराणाम् । परितो निचिताः सदैव यस्मिन् ककुभस्तारिका इवावभान्ति ॥ ५.१० ॥ प्रतिभाति दधन् फणाकलापे पृथिवीं यत्र सः शेषनागराजः । नभसो निपतञ्जवेन भित्त्वा जगतीं गाङ्ग इव च्युतः प्रवाहः ॥ ५.११ ॥ __________________________________________ भोगवतीवर्णनम् विदिता खलु वासुकेस्त्रिलोक्यां हरकण्ठाभरणस्य भोगिभर्तुः । ललिताद्भुतभूमिरस्ति तस्मिन्नगरी भोगवतीति राजधानी ॥ ५.१२ ॥ मणिहर्म्यतलानि रत्नदीपाः फणिकान्तार्धविलोकितानि वीणाः । ऋतवोऽप्यखिलाः समेत्य यत्र स्मरसाम्राज्यमहाधुरं वहन्ति ॥ ५.१३ ॥ अनुपाधिरुपाहृतो विकासः कमलैर्यत्र विलासदीर्घिकासु । अपि यत्र कुमुद्वतीभिरस्तः सहजश्चन्द्रमरीचिपक्षपातः ॥ ५.१४ ॥ अभिकानभिसर्तुमुद्यतः सन् सपदि व्यालविलासिनीसमूहः । भवति स्वफणामणिप्रदीपे तिमिरोत्सारिणि यत्र साभ्यसूयः ॥ ५.१५ ॥ अधिरोहति यत्र वंशमुक्ता पटलस्मेरतटा सुरस्रवन्ती । सरितः श्रियमीर्ष्ययेव तस्याः सुवते मौक्तिकमेव यत्पयांसि ॥ ५.१६ ॥ अतिकान्तगुणाभिराममूर्तिर्मधुरेण ध्वनिना मनोहरन्ती । विदधाति सदैव यत्र यूनां पदमङ्के वनिता च वल्लकी च ॥ ५.१७ ॥ शतशो विलसन्त्युदंशुरत्न स्तबकाः कल्पलता यदङ्गणेषु । प्रतिमन्द्रिरमेवमेव यस्यामपि चिन्तामणयः पदे लुठन्ति ॥ ५.१८ ॥ अपि दत्तकुतूहलाः सुराणामपि वाञ्च्छापदमेकपिङ्गलस्य । अपि निर्विषया मनोरथानामुरगान् यत्र विभूतयः श्रयन्ते ॥ ५.१९ ॥ वसति स्वयमेव यत्र देवः सदा कल्पितहाटकेश्वराख्यः । स्मरमूर्ध्वविलोचनार्चिषीव त्रिपुरं यः शरपावके जुहाव ॥ ५.२० ॥ [वर्५.२० {स्मरमूर्ध्व॰।लेम् ।क्॑ स्मरमूर्ध॰ ।ेद्}] __________________________________________ शङ्खपालवर्णनम् निजवंशविशेषकोऽस्ति तस्यामुरगाणामधिपः सः शङ्खपालः । स्रगसाविति यत्फणासु धत्ते वसुधां वासुकिना समानसारः ॥ ५.२१ ॥ __________________________________________ शशिप्रभावर्णनम् जगदेकललाम तस्य कन्या गुणवत्यस्ति शशिप्रभा नाम्ना । सहसैव फणभृतां प्रविष्टा भुवने राहुभयादिवेन्दुलेखा ॥ ५.२२ ॥ न कयाप्यतिशय्यतेऽतिशीघ्रं यदियं कन्दुककेलिषु भ्रमन्ती । अपरं कृतमर्थवत्तदस्याः सुतरां नाम सखीभिराशुगेति ॥ ५.२३ ॥ स्फुरदद्भुतरूपसम्पदां तामनुकर्तुं कलयापि धार्ष्ट्यमेति । न रतिर्न शची न चित्रलेखा न घृताची न तिलोत्तमा न रम्भा ॥ ५.२४ ॥ सुरकिन्नरसिद्धकन्यकाभिः स्वकलाभ्यासवतीभिराप्तसख्या । निखिलासु गता परं प्रकर्षं शितधीः शैशवसेव या कलासु ॥ ५.२५ ॥ अनिवारितकेलिकौतुका सा सुतनुः स्नेहवंशवदेन पित्रा । विहरत्यपचीयमानबाल्या हरशैले मलये हिमालये च ॥ ५.२६ ॥ अधुना पुनोऽत्र विन्ध्यपदे विहरन्त्याः कुसुमावचूडनाम्नि । क्वचिदप्यगमत्पलाय्य तस्याश्चपलः केलिमृगो मृगायताक्ष्याः ॥ ५.२७ ॥ अतिवत्सलया समं सखीभिर्विपिने तं परितस्तया विचित्य । पुलिने सरितः शशाङ्कसूतेः श्रमवत्येयमनीयत त्रियामा ॥ ५.२८ ॥ कलहंसकलस्वनैर्विबुद्धा परिवारप्रमदानिदेशितं सा । निकषा निचुलप्रवालशय्यां तमथ प्रेक्षितवत्याप्तनिद्रम् ॥ ५.२९ ॥ तपनीयशिलीमुखस्तदङ्गे चकितं चित्ररुचौ तया च दृष्टः । जलदे ललितेन्द्रचापभक्तौ अहिमांशोरिव भासुरो मयूखः ॥ ५.३० ॥ अरविन्ददलत्विषा करेण स्वयमुत्पाट्य सकौतुकं गृहीते । अवलोकितमेतयाथ तस्मिन् विजयाङ्के नवसाहसाङ्कनाम ॥ ५.३१ ॥ अविशन्नरनाथ नाम पूर्वं हृदयेऽस्याः सहसाथ पुष्पकेतुः । अमृतांशुमरीचिलुप्तनिद्रे लभते यत्कुमुदेऽन्तरं द्विरेफः ॥ ५.३२ ॥ नवमेघमलीमसाद्युगान्ते वसुधामुद्धरतो रथाङ्गपाणेः । परितः श्रमवारिबिन्दवो ये निरपीयन्त पयोधशुक्तियूथैः ॥ ५.३३ ॥ प्रकृतिः किल यस्य ते परीता परिणामेन तदन्तरेऽत्र हंसः । शयनान्तगतं मृणालशङ्कि स्हृतवान् हारमधीरलोचनायाः ॥ ५.३४ ॥ [स्य्न्तx सन्दानितकम्] उदडीयत खे मुखेन बिभ्रद्भुजगेन्द्रप्रतिमं तमञ्जसा स । अपदार्पितवैतनेयशङ्कः फणिकन्यासु मुहूर्तविक्लवासु ॥ ५.३५ ॥ स च विन्ध्यवनान्तराजिमेतामविशन्मारुतपीतपद्मगन्धाम् । अतिदूरविकृष्टनागकन्या चकितोदञ्चितदीर्घनेत्रमालः ॥ ५.३६ ॥ अहिराजसुतानिदेशतोऽस्मिनसमाप्तेषुविलोकनोत्सवोऽपि । अथ हंसमितस्ततो विचेतुं विजने नागवधूजनः प्रवृत्तः ॥ ५.३७ ॥ शबलास्विह कृष्णसारयूथैः समदक्रोडसनाथपल्वलासु । गहनास्वपि तद्गवेषणायै वनलेखासु मम त्वयं प्रयत्नः ॥ ५.३८ ॥ स मया न तटेषु निर्झराणां सरसां नाप्सु न पुण्डरीकषण्डे । सरसीष्वपि नायतोर्मिलेखा न्तरपारिप्लवसारसासु दृष्टः ॥ ५.३९ ॥ सितचामरधारणे नियुक्तां दुहितस्तेन भुजङ्गमाधिपेन । अवधारय पाटलेति नाम्ना तनयां मामुरगस्य हेमनाम्नः ॥ ५.४० ॥ अचले विचयः पतत्रिणोऽयं फलितः साधु ममाहितश्रमोऽपि । यदितः पुरुषोत्तमोऽसि दृष्टो वनमध्ये निबिडश्रियोपगूढः ॥ ५.४१ ॥ उपरोधमिमं न मन्यसे चेद्यदि वास्मासु तवास्ति पक्षपातः । वद तच्चरता क्वचिद्वनेऽस्मिन् सः सहारो विहगस्त्वया नु दृष्टः ॥ ५.४२ ॥ न स दृष्टिमितस्तवापि मन्ये तदहं तद्विचयादितो निवर्ते । ननु ताम्यति काममात्तचिन्ता चिरयन्त्यां मयि साहिराजकन्या ॥ ५.४३ ॥ अथ वा मृगभङ्गिनोपनीते विधिना सा नवसाहसाङ्कबाणे । प्रणयार्पितलोचना सनामन्यधुनाप्यालिखितेव नूनमास्ते ॥ ५.४४ ॥ __________________________________________ पुनोऽपि पाटलोक्तिः इति सा समुदीर्य तत्पृषत्कानवलोक्यैव पुनश्चमत्कृता इव । स्फुटकेलिमृगोपनीतबाण स्मरणस्मेरमुखी पुनो जगाद ॥ ५.४५ ॥ सो नृलोकशशी त्वमेव मन्ये मृगयाबद्धरुचिः स यत्पृषत्कः । भुवनाभयदायिनाममीषां भवतः संवदतीव सायकानाम् ॥ ५.४६ ॥ स्थितमेतदयोमुखेष्वमीषु स्फुतवर्णं तव नामधेयलक्ष्म । अवनीतिलक त्वयि प्ररूढं मम सन्देहलवं बलात्प्रमार्ष्टि ॥ ५.४७ ॥ समुपैति सनाथतां किमन्यत्त्रितयेन त्रितयं नरेन्द्रचन्द्र । त्रिदिवं नमुचिद्विषा त्वयेयं वसुधा वासुकिना रसातलं च ॥ ५.४८ ॥ सनये नृपतावखण्डिताज्ञे त्वयि शासत्यवनीं दिलीपकल्पे । विदधीत पदं सुदुर्नये कस्तमृते हारमलिम्लुचं विहङ्गम् ॥ ५.४९ ॥ असतामसुहृन्न लज्जतेऽयं किमिति ज्याकिणलाञ्छितो भुजस्ते । अवनौ यदनेन रक्षितायां वयमस्यां मूषिताः पतत्रिणापि ॥ ५.५० ॥ अपयातु खगः सस्तेन कृत्यं न हि मे हारमिह त्वमेव याच्यः । न दिशन्ति किमत्र चोरलुप्तं बत षष्टांशभुजो वसुन्धरायाः ॥ ५.५१ ॥ पथि चेदवतिष्ठसे प्रणीते मनुना नाथ तदर्प्यतां स हारः । न नरेन्द्र भवादृशाः कदाचित्पदवीं न्यायविदां विलङ्घयन्ति ॥ ५.५२ ॥ निजमर्थयसे शिलीमुखं चेद्भवता यत्नवतापि किं न लभ्यः? । त्वमनागसि यच्छशिप्रभायाः प्रहरन् केलिमृगे कृतव्यालीकः ॥ ५.५३ ॥ अथ वा मृगयिष्यते न हारं विशिखं दास्यति चोरगेन्द्रकन्या । त्वयि नेत्रपथातिथित्वमाप्ते सुलभोऽस्या हि महाजनोपरोधः ॥ ५.५४ ॥ अतिदूरतो दृश्यतेऽयं त्वमिवाभ्युन्नतिमानिनो नगेन्द्रः । वहति प्रणयोपरुद्धकूला कलहंसैरमुमन्तरेण रेवा ॥ ५.५५ ॥ अमृतेन्दुकलासहोदरास्याः सुतनुस्तीरतलेऽवतिष्ठते सा । उरसीव पयोधिराजकन्या वनमालाभरणे रथाङ्गपाणेः ॥ ५.५६ ॥ तदितः स्वयमेव देव गत्वा पुलिनं सोमभुवस्तरङ्गवत्याः । खगलुप्तविभूषणं क्षितौ ते फणिराजेन्द्रसुतां विबोधयेहि ॥ ५.५७ ॥ च् इति तद्वचसा स्मरैकदूत प्रसवोल्लासवसन्तवासरेण । सो नृपः कमपि प्रमोदमापत्घनराजिध्वनिनेव नीलकण्ठः ॥ ५.५८ ॥ अवदच्च विहस्य पार्थिवेन्द्रः फणिराजेन्द्रसुताविलासिनीं ताम् । वचसोत्कयता मयूरशावान्नवजीमूतनिनादसोदरेण ॥ ५.५९ ॥ अपि नाम मृदूनि वेत्सि वक्तुं निपुनं न्यायमनुज्झती वचांसि । प्रसभं विहितास्त्वया यदेते वयमात्मस्खलितेऽपि सापराधाः ॥ ५.६० ॥ इदमोमिति गृह्यते वचस्ते सह मेधाविनि कस्त्वया विवादः । यदिमा विशदोद्गमा गिरस्ते पथि सिद्धान्तसमीक्षिते चरन्ति ॥ ५.६१ ॥ तदनेन विनोदयाशु तावन्मम हारेण मनः शशिप्रभायाः । इह पल्वलसैकतेषु यावत्तदलङ्कारमवेक्षितुं यतिष्यते ॥ ५.६२ ॥ __________________________________________ हारप्रदानम् अथ हारमनादरेण कण्ठात्स्वयमाकृष्य सः कृष्टचन्द्रशोभम् । विहसन्नरविन्दकोशताम्रे निददे पाणितले विलासवत्याः ॥ ५.६३ ॥ अपि कोशगृहोदरे दुरापं फणिनां भर्तुरुपोढविस्मया सा । तमुदञ्चितपक्ष्मणा मृगाक्षी लिखितेनैव ददर्श लोचनेन ॥ ५.६४ ॥ __________________________________________ शशिप्रभाहारप्रदानम् अवकृष्य सलीलमुत्तरीयात्सितमेघादिव तारकावितानम् । उरसा स बभार हारमीशः स्तनपर्यङ्कशयं शशिप्रभायाः ॥ ५.६५ ॥ वदति स्म हसन् रमाङ्गदस्तामुरगस्त्रीमतह्भर्तुरिङ्गितज्ञः । यदि कौतुकवत्यमत्सरस्ते तदितः किं चिदितोऽवलोकयेति ॥ ५.६६ ॥ अथ हारलताविकृष्टदृष्टिः सहसा वारिविहङ्गमावलुप्तम् । उरगेन्द्रसुताविभूषणं तन्नृपतेर्वक्षसि पाटला ददर्शः ॥ ५.६७ ॥ __________________________________________ पुनः पाटलावाक्यम् दशनच्छदमात्तबिम्बशोभं स्नपयन्ती सुधयेव हासकान्त्या । अवदच्च वाचांसि पार्थिवं सा चतुरैवं परिहासपेशलानि ॥ ५.६८ ॥ अपहर्तुमगास्त्वमेव हारं किमितः कल्पितराजहंसरूपः । विदितोऽसि घना तवोरगाणां नगरेऽस्त्येव हि कामरूपवार्ता ॥ ५.६९ ॥ परवञ्चनपण्डिता मतिस्ते यदि नैवं कथमन्यथा नरेन्द्र । इदमाभरणं हरस्यरण्ये हरहासैकसितं शशिप्रभायाः ॥ ५.७० ॥ अवनीवलये त्वमात्तदण्डः सहसे नाविनयांशमित्यवैमि । अथ च स्थितिमात्मना विधत्से विषये दस्युनिषेविते किमेतत् ॥ ५.७१ ॥ ७२ क्षितिप स्मयसे किमेष केलिर्न भवत्यर्पय हारमस्मदीयम् । नयवर्त्मजुषो भवादृशाः किं न परस्वग्रहणादिह त्रपन्ते ॥ ५. ॥ अथवा परतोऽस्तु नर्म नास्यां भुवि देवेन समोऽस्ति पार्थिवोऽन्यः । अपविद्धनया न यस्य दृष्टेरपसर्पन्त्यथ खेचराः किमन्ये ॥ ५.७३ ॥ अनयोः किमपि त्वया विलासिन् परिवर्तोऽयमकारि हारयोर्यः । वचसामवकाशमीश दत्ते स न कस्यानृजुचेतसो जनः? ॥ ५.७४ ॥ विहितो न हि वक्षसि त्वयायं नृप हारः फणिराजकन्यकायाः । किमपीप्सितमात्मनो विधातुर्विहितं सूत्रमिदं मनोभवेन ॥ ५.७५ ॥ ननु याम्यमुना शशिप्रभायास्तव हारेण मनो विनोदयामि । त्वयि साप्यलमेव सान्द्रचेतः सुतनुः स्नेहरसार्द्रतामुपैतु ॥ ५.७६ ॥ उचितं निजसायकानुरोधादहिराजेन्द्रसुतोपसर्पणं ते । परतोऽस्तु शरस्त्वदर्थिता सा किमु न त्यागवशंवदा ददाति ॥ ५.७७ ॥ सरसोऽस्य विमुञ्च तीरलेखामनुरेवा पुलिनं गृहाण यात्राम् । उरगाधिपरूपपक्षपातं शमय व्यालवधूविलोचनानाम् ॥ ५.७८ ॥ __________________________________________ शशिप्रभादर्शनार्थं गमनम् इति वल्गु वचो निशम्य तस्याः स नृपः पन्नगवामलोचनायाः । स्थितमत्र वचस्यलङ्घनीये तव कल्याणि मयेति तामुवाच ॥ ५.७९ ॥ अथ सानृजुवादिनी विधाय क्षितिपालं पुरतश्चचाल बाला । हृदयेन पराममर्श चैवं विलसन्मांसलविस्मयो नरेन्द्रः ॥ ५.८० ॥ अरण्यानी क्वेयं धृतकनसूत्रः क्व स मृगः क्व मुक्ताहारोऽयं क्व च सः पतगः क्वेयमबला । क्व तत्कन्यारत्नं ललितमहिभर्तुः क्व च वयं स्वमाकूतं धाता किमपि निभृतं पल्लवयति ॥ ५.८१ ॥ अथ मदगजलीलाखेलगामी सः कृत्वा कनकविशिखयाच्ञाव्याजमव्याजकान्तः । अवनिहरिणलक्ष्मा साहसोपार्जितश्रीरहिपरिवृढकन्यालोकनाय प्रतस्थे ॥ ५.८२ ॥ इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभावलोकनार्थप्रस्थानं नाम पञ्चमः सर्गः ************************************************ षष्ठः सर्गः नायिकावस्थावर्णनम् तदा फणीन्द्रकन्यापि बाणनामाङ्कसूचिते । नरेन्द्रतिलके तस्मिन्नभिलाषं बबन्ध सा ॥ ६.१ ॥ सहसा हृदये तस्या निदधे मन्मथः पदम् । अशोकयष्टिस्तबके सराग इव षट्पदः ॥ ६.२ ॥ अवशा साभवच्चित्रं नाम्नापि पृथिवीपतेः । न तदस्त्यत्र यन्नास्त्रं सन्नद्धस्य मनोभुवः ॥ ६.३ ॥ स्मराग्निकणमेणाक्ष्यास्तस्याः समुददीपयत् । मकरध्वजसाम्राज्य सचिवो मलयानिलः ॥ ६.४ ॥ सोल्लसत्स्मरलीलेन नवेन वयसा बभौ । उन्मिषन्मधुलेखेन मुकुलेनेव मालती ॥ ६.५ ॥ सातनुश्वसनस्पृष्ट पाटलाधरपल्लवम् । उवाह मुखमुज्जृम्भमम्भोजमिव पद्मिनी ॥ ६.६ ॥ निकामसरले तस्मिन् सा मुहुस्तरलेदृशौ । शरे नरेन्द्रचन्द्रस्य चिक्षेप न सखीजने ॥ ६.७ ॥ नरेन्द्रनामाङ्कलिपिस्तामानन्दयति स्म सा । कुमुद्वतीमिवोदञ्चत्बालेन्दुकिरणच्छटा ॥ ६.८ ॥ हेमपुङ्खाङ्किते तस्मिन् शरे करमुपेयुषि । बलाद्विवेश सा बाला दीक्षां वैवाहिकीमिव ॥ ६.९ ॥ तेनावाप्ततदाताम्र पाणिस्पर्शेण पत्रिणा । स्फुरत्कान्तिचयव्याजादमुच्यन्तेव पल्लवाः ॥ ६.१० ॥ नवीनसाहसाङ्कस्य कामदेवाकृतेरयम् । मालवैकमृगाङ्कस्य सिन्धुराजस्य सायकः ॥ ६.११ ॥ पुनःपुन इति स्वादु नृपतेर्नामलक्ष्म सा । अपठच्चारुबिम्बौष्ठ लुठद्दशनचन्द्रिका ॥ ६.१२ ॥ [स्य्न्तx सन्दानितकम्] अधीत्य कौतुकेनाथ कृतपञ्चममूर्च्छनाः । तदग्रे नृपनामाङ्कं जगुः पातालकन्यकाः ॥ ६.१३ ॥ अदृष्टेऽप्युत्सुका राज्ञि तद्गीतेन बभूव सा । प्रबोधे यदनङ्गाग्नेः पञ्चमः प्रथामा समित् ॥ ६.१४ ॥ अवेपत समुन्मीलत्विलासकुसुमान्न्चिता । मनोभवानिलस्पर्श वशाद्वनलतेव सा ॥ ६.१५ ॥ नवानुरागमङ्गेन व्यक्ततच्चिह्नचुम्बिना । विनावचनमाचख्यौ सखीषु चतुरासु सा ॥ ६.१६ ॥ __________________________________________ शशिप्रभायाः प्रश्नः सावहित्थमथेत्थं सा सखीजनमभाषत । सुधानिष्यन्दजडया शरदिन्दुमुखी गिरा ॥ ६.१७ ॥ अभेदमिन्दुना नीतः साचिव्यं मेनकेतुना । सख्यः कः सिन्धुराजोऽयं साहसाङ्कनिरूप्यते ॥ ६.१८ ॥ किमेवमवतिष्ठध्वै मौनं मुञ्चत शंसत । उन्मीलति यदन्तर्मे बलात्कौतुककन्दली ॥ ६.१९ ॥ __________________________________________ मल्यवत्या उत्तरम् अथ माल्यवती नाम तत्सखी सिद्धकन्यका । इति स्मितसुधार्द्रेण वचसा तामवोचत ॥ ६.२० ॥ सखि साहासिकः स अयमवन्तितिलको नृपः । गीयते केतकापाण्डु यस्योरगपुरे यशः ॥ ६.२१ ॥ तं काश्यपीसहस्राक्षमद्रक्षमहमेकदा । गता श्रीमन्महाकाल पर्वण्युज्जयिनीं पुरीं ॥ ६.२२ ॥ तन्वि तिग्मांशुनेव द्यौर्निशेव शशलक्ष्मणा । सा सनाथा पुरी तेन वज्रिणेवामरावती ॥ ६.२३ ॥ रम्भा त्वयेव यत्सत्यं तेनालि नलकूबरः । त्याजितो रूपजं गर्वमुर्वीमकरकेतुना ॥ ६.२४ ॥ अकलङ्काकृतेस्तस्य चतुःषष्ठिकलावतः । तुलाधिरोहहेवाके कः षोडशकलः शशी ॥ ६.२५ ॥ तस्यावनिप्रदीपस्य ते ते नैसर्गिका गुणाः । क्व नाम न प्रकाशन्ते रवेरिव मरीचयः ॥ ६.२६ ॥ न नागेषु न सिद्धेषु न नरेष्वमरेष्वथ । अवापि क्वापि संवादस्तद्रूपोल्लेखलेखया ॥ ६.२७ ॥ [वर्६.२७ {अमरेष्वथ्लेम् ।क्॑ अमरेषु च ।ेद्}] सो हि केनापि कृत्येन गां गतः श्रूयते पुनः । निह्नुतैकभुजद्वन्द्वो देवः श्रीवत्सलाञ्छनः ॥ ६.२८ ॥ किमन्यत्तव संतुष्ट्यै पश्य चित्रे लिखाम्यहम् । चिरस्य दीर्घनयने तवास्तु नयनोत्सवः ॥ ६.२९ ॥ __________________________________________ आकृतिलेखनम् अथ सा सिद्धतनया तं लिलेख शिलातले । हृदि तूरगराजेन्द्र दुहितुर्मीनकेतनः ॥ ६.३० ॥ तदालिखितभूपालं तया चिन्तितकामदम् । चिन्तामणेरप्यधिकं शिलातलममांस्त सा ॥ ६.३१ ॥ ततश्चित्रगते तस्मिन्महीपालो मदालसाः । सममेवाहिकन्यानां पेतुर्नेत्रपरम्पराः ॥ ६.३२ ॥ पपौ शशिप्रभाप्येनं चिरमुत्पक्ष्मलेखया । पुनरुक्तीकृतोन्निद्र कर्णेन्दीवरया दृशा ॥ ६.३३ ॥ रूपमास्वादयामास तस्यालेख्यगतस्य सा । भ्रमरीवारविन्दस्य सुधासहचरं मधु ॥ ६.३४ ॥ आनीयताकुलत्वं सा त्रितीयेन तनूदरी । विस्मयेनातिसान्द्रेण मदेन मदनेन च ॥ ६.३५ ॥ विवेश हृदये तस्याः स चित्रलिखितो नृपः । शरत्प्रसन्ने सरितः प्रतिमेन्दुरिव अम्भसि ॥ ६.३६ ॥ स्तनपत्रलतां तस्या बिभेद पुलकोद्गमः । सत्यं यदन्तरङ्गेण बहिरङ्गो निरस्यते ॥ ६.३७ ॥ तस्याः कुचयुगे किंचिन्निश्वासः कम्पमादधे । रथाङ्गनाममिथुने सायन्तन इवानिलः ॥ ६.३८ ॥ तस्याः स्वेदलवश्रेणि च्छद्मना वदनश्रिया । विशतोऽन्तरनङ्गस्य लाजाञ्जलिरिवोज्झितः ॥ ६.३९ ॥ शङ्के शरमृजूकुर्वन् ददृशे मन्मथस्तया । यत्सा मृदुक्वणत्काञ्चि किङ्किणीकमकम्पत ॥ ६.४० ॥ एष दृष्टस्त्वयेत्युक्ता सख्या सा साध्वसाकुला । गद्गदाक्षरमव्यक्तं कृच्छ्रात्प्रतिवचो ददौ ॥ ६.४१ ॥ चित्रवर्तिन्यपि नृपे तत्त्वावेशेन चेतसि । व्रीडार्धवलितं चक्रे मुखेन्दुमवशैव सा ॥ ६.४२ ॥ दृष्टा सखीभिः साकूतं सा बालाधरपल्लवे । दधौ वैलक्ष्यहसितं प्रसूनमिव माधवी ॥ ६.४३ ॥ नवं प्रेम नवोत्कण्ठा नवास्ते ते मनोरथाः । इति तस्यास्तथैवाभूदन्तरङ्गः परिच्छदः ॥ ६.४४ ॥ किंचित्त्रपानुविद्धेन पुण्डरीकदलत्विषा । तमानर्चेव राजेन्दुमनिमित्तस्मितेन सा ॥ ६.४५ ॥ सा च दोःशयितभुवा नृपेणाद्ध्यासिता हृदि । कृताङ्गभङ्गवलना झटित्यालस्यमाययौ ॥ ६.४६ ॥ तत्क्षणेनैव सा चित्रं तन्वी तन्मयतां ययौ । कं न प्रतारयत्येष कितवः कुसुमायुधः ॥ ६.४७ ॥ स्तिमितेवावतस्थे सा सारङ्गायतलोचना । अचेतनेव शून्येव सुप्तेवालिखितेव च ॥ ६.४८ ॥ स्मरेण मर्मणि क्वापि साविध्यत सुमध्यमा । अनिद्रितापि यत्साभूत्क्षणं मुकुलितेक्षणा ॥ ६.४९ ॥ व्यञ्चितानङ्गलीलेन शृङ्गाररसबन्धुना । तन्वी नवानुरागेण सान्यैव घटिताभवत् ॥ ६.५० ॥ ऋजुना ऐक्षत यच्चित्रं यदभूच्च त्रपावती । तेनातिगूढभावापि सा सखीभिरलक्ष्यत ॥ ६.५१ ॥ अथानङ्गवती नाम सखी तामित्यवोचत । दशनज्योत्स्नयारण्यं सुधयेव निषिञ्चती ॥ ६.५२ ॥ कच्चिदस्य प्रमोदाय कुमुदस्येव चक्षुषः । अयं मध्यमलोकेन्दुः पातालेन्दुकले तव ॥ ६.५३ ॥ वनानिलाहृतोन्निद्र पद्मकेसरशालिना । रोमोद्गम इवानेन धृतस्त्वदवलोकनात् ॥ ६.५४ ॥ अद्य नः सफलं चक्षुश्चित्रे यदवलोकितः । कन्दर्पाधिककान्तोऽयमवन्तिमृगलाञ्छनः ॥ ६.५५ ॥ त्वामप्यवाञ्चितां मन्ये यत्त्वयैतस्य वक्षसि । एते सविभ्रमं न्यस्ते दृशौ मुक्तालते इव ॥ ६.५६ ॥ जितमेतेन कोऽप्येष सत्यं कामोऽस्य किङ्करः । आरोहति परां कोटिमत्र यत्तव सम्भ्रमः ॥ ६.५७ ॥ त्वमत्र बद्धभावेव किमिन्दुमुखि लज्जसे । विलङ्घयत्यलङ्घ्यानि स्मरदुर्ललितानि कः ॥ ६.५८ ॥ कोऽन्यः सखि नृशंसोऽस्ति कामं विषमबाणतः । सुकुमारे तवाप्यङ्गे येन व्यापारितः शरः ॥ ६.५९ ॥ बिम्बौष्ठे एव रागस्ते तन्वि पूर्वमदृश्यत । अधुना हृदयेऽप्येष मृगशावाक्षि लक्ष्यते ॥ ६.६० ॥ एकेन राजहंसेन हृतो हारस्तनूदरि । अनेन तु द्वितीयेन लिखितेनापि ते मनः ॥ ६.६१ ॥ कुतस्त्रपा तवालीषु किंचिदुन्नमयाननम् । अहो बत त्वमेतस्मिन्नत्यायतकुतूहला ॥ ६.६२ ॥ एतत्कर्णोत्पलं लोलमपाङ्गप्रतिवेशितम् । त्वदुदन्तमिवैतस्य कथयत्यलिकूजितैः ॥ ६.६३ ॥ अहो दूरस्थितेनापि हृदि स्पृष्टा नृपेन्दुना । इन्दुकान्तशिलेव त्वमार्द्रतामवगाहसे ॥ ६.६४ ॥ निपुणे निःश्वसिष्येवमतिगूढं यथा यथा । तथा तथा तव व्यक्तमयमुच्छ्वसति स्मरः ॥ ६.६५ ॥ स्मितमेतदलोलाक्षि लज्जासंवलितं तव । इदं निर्जितबाल्यस्य यौवनस्योदितं यशः ॥ ६.६६ ॥ यथा तवेयमरतिर्यथा सुतनु वेपसे । तथा कवचितः शङ्के निःशङ्कं मदनस्त्वयि ॥ ६.६७ ॥ किमत्र करवै गाढमाकल्पकमिदं तव । इयं च मन्मथस्यास्त्रं निर्गता चूतमञ्जरी ॥ ६.६८ ॥ सुरतक्लान्तशबरी कबरीमाल्यचुम्बिनः । कथमेते त्वया तन्वि सह्या मलयवायवः ॥ ६.६९ ॥ किं ताम्यसि तवोपान्तमानयाम्यधुनैव तम् । इत्याश्वासयतीव त्वां कोकिलोऽयं कलस्वनः ॥ ६.७० ॥ कूजन्ती कोकिलवधूरियमाधिं धुनोति ते । अनङ्गनृपसाम्राज्य लीलामङ्गलगायिनी ॥ ६.७१ ॥ वनान्तदेवतावाप्त पादन्यासोत्सवः स्फुटम् । एष स्तबकितोऽशोकः सुहृत्कामस्य का गतिः ॥ ६.७२ ॥ अत्रोर्वीतिलके दृष्टिमस्यन्तीं तिलकः क्रुधा । अयं तर्जयतीव त्वां वाताधूतलताङ्गुलिः ॥ ६.७३ ॥ पथि स्मरस्य विषमे स्खलितायामितस्त्वयि । स्मितच्छटेव निर्याति सिन्दुवारस्य मञ्जरी ॥ ६.७४ ॥ द्राघयत्यस्तबिम्बौष्ठ रुचिनिःश्वसितानि ते । अयं मुकुलितः किंचिद्बकुलो मुकुलस्तनि ॥ ६.७५ ॥ लतया कर्णिकारस्य पुरः पुष्पितयानया । अनङ्गस्यैकराज्येऽस्मिन् हेमवेत्रलतायितम् ॥ ६.७६ ॥ अहो न कस्य भिन्दन्ति हृदयं वीक्षिता अपि । निसर्गमृदवोऽप्येते सहकारनवाङ्कुराः ॥ ६.७७ ॥ चतुरां कोकिलामेष कृत्वा कुरबको मुखे । दुर्लभं याचतीव त्वां लीलालिङ्गनदोहदम् ॥ ६.७८ ॥ अशोकस्कन्धलग्नेयं कुसुमैर्नवमाधवी । प्रार्थनीयप्रियस्पर्शां हसति त्वामिवोत्सुकाम् ॥ ६.७९ ॥ भूपतावनुरक्तायास्तव सन्तापदीपनम् । स्थलारविन्दं सेर्ष्येव सूते सखि वसुन्धरा ॥ ६.८० ॥ अमीष्वङ्कस्थकन्दर्प जगद्विजगयसिद्धिषु । दृष्टिरुद्विजते तन्वि पाटलाकुड्मलेषु ते ॥ ६.८१ ॥ सुन्दरि द्वितयस्यात्र क्रशिमा भूषणायते । राजन्याबद्धभावायास्तव रात्रेश्च सम्प्रति ॥ ६.८२ ॥ एष चैत्रोत्सवश्चित्रे नृपोऽयं नूतनं वयः । प्राप्तावकाशः कामोऽपि पतितास्यतिसङ्कटे ॥ ६.८३ ॥ किमालिखितवत्येषा चित्रे माल्यवती नृपम् । द्वारीकृतेयमथवा वामेन विधिना तव ॥ ६.८४ ॥ बहुना किं चकोराक्षि छलितासि मनोभुवा । सर्वथा ते करिष्यन्ति कुशलं कुलदेवताः ॥ ६.८५ ॥ इत्यादि व्याहरन्ती सा कृतभ्रूभङ्गया तया । नरेन्द्रबाणपुङ्खेन कुचे किं चिदतुद्यत ॥ ६.८६ ॥ __________________________________________ कलावतीवचनम् अथ किन्नरराजेन्द्र कन्या नाम्ना कलावती । एवं वचः स्मितसुधा निषिक्ताक्षरमाददे ॥ ६.८७ ॥ कामं दुर्लभमेवैतच्चैत्रश्चन्द्राङ्किता निशाः । प्रेयान् विपञ्चीरणितं पञ्चबाणाङ्कितं वयः ॥ ६.८८ ॥ अयि त्वां म्लापयत्येष कालः कमललोचने । जगदाह्लादजनकः सुधासूतिरिवाब्जिनीम् ॥ ६.८९ ॥ स्थाने तवानुरागोऽयमनङ्गस्यायमुत्सवः । सखि स्निह्यति निर्व्याजमिन्दावेव कुमुद्वती ॥ ६.९० ॥ नृपस्यारण्यसञ्चारः शरेणानेन सूच्यते । मरुता द्विरदस्येव मदनिष्यन्दगन्धिना ॥ ६.९१ ॥ अवश्यं तन्वि चिन्वाना वने हंसमितस्ततः । क्वचिद्विलोकयिष्यन्ति तं त्वत्परिजनस्त्रियः ॥ ६.९२ ॥ ज्ञातत्वदिङ्गितैवात्र तं चेद्द्रक्ष्यति पाटला । ततोऽस्य षट्पदस्येव बलाच्चेतो हरिष्यति ॥ ६.९३ ॥ स्थिरा भव नृपेन त्वमिह संयोगमाप्स्यसि । यथा कण्वाश्रमे पूर्वं दुष्यन्तेन शकुन्तला ॥ ६.९४ ॥ इति तद्वचसः सीम्नि मसृणोत्कम्पितस्तनी । व्याजसाचीकृतमुखं निशश्वास शशिप्रभा ॥ ६.९५ ॥ वनश्रीरत्नमञ्जीरो लताकुञ्जोदरे ततः । चुकूज मञ्जुकण्ठस्तां दक्षिणेन कपिञ्जलः ॥ ६.९६ ॥ हर्षाश्रुलवकीर्णेन सत्पत्रावलिचारुणा । वामेन पस्फुरे तस्याश्चक्षुषा च स्तनेन च ॥ ६.९७ ॥ अत्रान्तरे समायान्ती ददृशे दूरतस्तया । नरेन्द्रसवितुस्तस्य पुरः सन्ध्येव पाटला ॥ ६.९८ ॥ तस्यास्त्रये च त्रितयमपश्यत्फणिकन्यका । मुखे स्मितं करे हारं सितमंसे च चामरम् ॥ ६.९९ ॥ सा हारहस्ता रुरुचे धृतस्तिमितचामरा । सरसी सुप्तहंसेव फेनाध्यासितपङ्कजा ॥ ६.१०० ॥ दृष्टिः फनीन्द्रदुहितुरतिक्रम्यैव पाटलाम् । भृङ्गश्रेणिरिवाशोके पपातावन्तिभर्तरि ॥ ६.१०१ ॥ प्रियं नः स अयमायाति पश्य पश्य शशिप्रभे । परमारान्वयोदार हारमध्यमणिर्नृपस् ॥ ६.१०२ ॥ इति प्रियसखीसूक्ति सुधानिष्यन्दलेखया । सिक्ते तदाभवत्तस्याः स्मरः पल्लवितो हृदि ॥ ६.१०३ ॥ [स्य्न्तx सन्दानितकम्] सुधारस इवोर्वीभृत्तया संमुखमापतन् । दृशा स्फटिकशुक्त्येव वारंवारमपीयत ॥ ६.१०४ ॥ वितेनेऽप्यहिकन्याभिः कौतुकेनातनीयसा । तस्याग्रे राजहंसस्य नेत्रेन्दीवरवागुरा ॥ ६.१०५ ॥ अवन्तितिलकोदन्तमुपसृत्याथ पाटला । अनङ्गदीपनं तस्यै जगादेङ्गितवेदिनी ॥ ६.१०६ ॥ देव पश्चात्स्थितोऽप्यग्रे प्राप्तः पर्युत्सुको भवान् । इत्यभाष्यत भूपालः चित्रे चतुरया तया ॥ ६.१०७ ॥ अभूत्पर्याकुला सा च मुहूर्तमसितेक्षणा । पश्चादलज्जतालीभिस्तथा सस्मितमीक्षिता ॥ ६.१०८ ॥ तस्यै हारं महीभर्तुरर्पयामास पाटला । आकृष्य भर्तुमानीतमतिशुद्धमिव आशयम् ॥ ६.१०९ ॥ सखीनामनुरोधेन सा किलानङ्गमोहिता । हृदि दीर्घगुणं दध्रे हारं प्रियमिवापरम् ॥ ६.११० ॥ तुषारपाण्डुना तेन ववृधेऽस्या मनोभवः । दिगन्तवान्तज्योत्स्नेन महोदधिरिवेन्दुना ॥ ६.१११ ॥ पुष्पोद्गमेनेव लता प्रसादेनेव भारती । सा तेन रेजे हारेण यशसेव नरेन्द्रता ॥ ६.११२ ॥ ततः शिथिलपर्यस्त विलोलकबरीलता । केतुयष्टिरिव श्याम पताकाङ्गा हिरण्मयी ॥ ६.११३ ॥ वसंतकमलोल्लासि मत्तभ्रमरनिःस्वना । दीपमानोपदेशेव स्वरहस्ये मनोभुवः ॥ ६.११४ ॥ उल्लसत्कुटजाच्छाच्छ विलासहसितच्छविः । झटित्युअदधिवेलेव निर्गच्छदमृतच्छटा ॥ ६.११५ ॥ सरोजिनीव हंसीभिर्भृङ्गीभिरिव मालती । शशिलेखेव ताराभिः सखीभिरभितो वृता ॥ ६.११६ ॥ दृष्ट्वा नरन्द्रमायान्तमुदस्थादुत्सुकाथ सा । दधती नूतनप्रेम परिणीतामधीरताम् ॥ ६.११७ ॥ [स्य्न्तx कुलकम्] अथ सुतनुरलोलतारके सा सुचिरमुदञ्चितदीर्घपक्ष्ममाले । शशिन इव नवोद्गतस्य दूरातवनिपतेः पथि लोचने मुमोच ॥ ६.११८ ॥ आसन्नानुचरधृतेन पङ्कजिन्याः पत्रेण स्फुटघटितातपत्रलीलः । सश्च्छायामथ महसा हसन् हिमांशोः क्ष्मापालः पुलिनमवाप नर्मदायास् ॥ ६.११९ ॥ इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभादर्शनो नाम षष्ठः सर्गः ************************************************ सप्तमः सर्गः __________________________________________ शशिप्रभादर्शनम् ततः स दूरादहिराजकन्यकां जवैकमित्रेणा युतां पतत्रिणा । विशाम्पतिदीर्घगुणानुषङ्गिणीमनङ्गकोदण्डलतामिवैक्षत ॥ ७.१ ॥ उपोढलावण्यतरङ्गभङ्गया सरागबिम्बौष्ठगलत्प्रवालया । अहारि लोलं नृपतेस्तया बलातनङ्गरत्नाकरवेलया मनः ॥ ७.२ ॥ __________________________________________ रमाङ्गदकृतं शशिप्रभावर्णनम् सविस्मयो लोचनमार्गमाप्तया तया सः पातालतलेन्दुलेखया । अथेत्थमम्लानमनोरथोद्गमो रमाङ्गदेनाभिदधे नराधिपः ॥ ७.३ ॥ अवैमि सैवेयममोघमायुधं मनोभुवः पन्नगराजकन्यका । उदंशुलेखेन मुखेन कुर्वती जगद्विलीनेन्दुविलोकनस्पृहम् ॥ ७.४ ॥ नरेन्द्र सत्यं सः कुतूहली भवेदलौकिकं रूपमवेक्षितुं रतेः । इयं न यस्यातिथितां गता दृशोरगाधलावण्यसरित्सुमध्यमा ॥ ७.५ ॥ इयं सुधा मुग्धविलासजन्मभूरियं भुजङ्गालयरत्नदीपिका । इयं जगन्नेत्रचकोरचन्द्रिका पुरः पताकेयमयुग्मपत्रिणः ॥ ७.६ ॥ इयत्तया मुक्तमवैमि नैपुणं प्रजापतेरद्भुतशिल्पकर्मणि । नृपोपमानामुपमानतां गतं विनिर्मितं येन हि रत्नमीदृशम् ॥ ७.७ ॥ इयं तवानेन विराजतेतरां करस्थितेनावनिपालपत्रिणा । उपेयुषा काञ्चनपद्ममंशुना हिमेतरांशोरिव जह्नुकन्यका ॥ ७.८ ॥ अरालकेशीयमनेन भाति ते शरेण कार्तस्वरपुङ्खशोभिना । निसर्गगौरेण नरेन्द्ररश्मिना सकज्जला दीपशिखेव शार्वरी ॥ ७.९ ॥ इयं विलासोर्मिनिमग्नशैशवं स्विभाव्यमानस्तनकुड्मलोद्गमम् । मदैकविस्रम्भगृहं विगाहते वयो विभक्ताङ्गमनङ्गदोहदम् ॥ ७.१० ॥ इयं नताङ्गी जगदेकसुन्दरे निदेशिते पाटलया नृप त्वयि । दृशौ नवेन्दीवरपत्रपेशले विमुञ्चति श्रीरिव शार्ङ्गधन्वनि ॥ ७.११ ॥ अनङ्गसाम्राज्यविलासचामरे वनानिलव्याकुलितेऽंसुचुम्बिनि । परिश्लथे संयमनार्थमेतया सलीलमस्तः कबरीभरे करः ॥ ७.१२ ॥ विलोकयन्ती कुसुमं कचाग्रतश्च्युतं कुचस्पर्शधियेव वक्षसि । इयं कृशाङ्गी कुसुमास्त्रशङ्कया कृतप्रणामेव तवावलोक्यते ॥ ७.१३ ॥ विलोकयास्याः क्षितिपाल बिभ्रतीं प्रदीपशोभां कबरीं निशामुखे । अमी मुहुः कुङ्कुमकेसरारुणा लसन्ति सीमन्तमणेर्मरीचयः ॥ ७.१४ ॥ विराजतेऽस्यास्तिलकोऽयमञ्चितो विकुञ्चितभ्रूलतिकान्तरे नृप । विजित्य लोकद्वितयं दिवं प्रति स्मरेण बाणो धनुषीव संहितः ॥ ७.१५ ॥ अपाङ्गसंवर्धितशोणकान्तिना सुकृष्णतारेण तुषारपाण्डुना । इयं प्रवालासितरत्नमौक्तिकैर्विनिर्मितेनेव चकास्ति चक्षुषा ॥ ७.१६ ॥ इयं पुरो निर्यतिदूरमायते कपोलतः काञ्चनकुण्डलार्चिषि । इषुं रुषेव प्रतिभोक्तुमुद्यता मनोभुवे मुक्तशिलीमुखे हृदि ॥ ७.१७ ॥ इयं त्रियामापतिकान्तिपेशलं विबुद्धबन्धूकदलाधिकत्विषा । बिभर्ति बिम्बाधरमुद्रया मुखं मनोभिरामं रजनीव सन्ध्यया ॥ ७.१८ ॥ उपोढतारापतितारहारयोरियं युगेन स्तनयोर्विराजते । द्वयेन देव उषसि चक्रवाकयोः सरिद्गृहीतैकमृणालयोरिव ॥ ७.१९ ॥ सुरापगावीचिविपाण्डुरेष ते चिरेण हारश्चरितार्थतां गतः । धृतः क्षितीश प्रणयार्द्रयानया सलीलमुत्कम्पिनि यत्कुचद्वये ॥ ७.२० ॥ इयं महीपाल विलोकितेन ते विगाहते कान्तमिदं दशान्तरम् । भवत्यनारूढविकासविभ्रमा किमुद्गमे चन्द्रमसः कुमुद्वती ॥ ७.२१ ॥ किमन्यदुक्तं सुधयेव सान्द्रया तदन्यथा नाथ न पाटलवचः । स्फुटेयमस्याः कुरुते यदङ्गके बलात्परिष्वङ्गमनङ्गविक्रिया ॥ ७.२२ ॥ __________________________________________ शशिप्रभासमीपगमनम् इतीङ्गितज्ञे वदति प्रियंवदे रमाङ्गदेन स्मितमुद्गतस्मितः । अवाप पर्याप्तशशाङ्कदर्शनः फनीन्द्रकन्यासविधं नराधिपः ॥ ७.२३ ॥ __________________________________________ नायिकाचेष्टाः उवाह लज्जानतमञ्चितालकं ततो भुजङ्गाधिपतेः सुतामुखं । अवाञ्चितं किं चन मातरिश्वना सषट्पदं पद्ममिवारविन्दिनी ॥ ७.२४ ॥ पतत्यधः कुङ्कुमपङ्कपाटले मयूखलेखापटले शिखामणेः । ह्रियेव रक्तांशुकपल्लवस्तया पिधातुमालेख्यनृपे न्यधीयत ॥ ७.२५ ॥ नृपस्य चित्रे मधुरेयमाकृतिर्न भिद्यते चन्द्रमसो यथाम्भसि । सखीजनस्तामिति नर्मपेशलः शनैस्त्रपानम्रमुखीमभाषत ॥ ७.२६ ॥ यथास्मि वक्तासि तथास्य भूपतेर्यदा पुनः कर्णसमीपमाप्स्यसि । इतीव निर्व्याजमुदीर्य तत्यजे तयायताक्ष्या स नरेन्द्रसायकः ॥ ७.२७ ॥ अलं ह्रियैवं समुपेक्ष्य गृह्यतामयं हि पाणिग्रहणोचितस्तव । इतीरयन्त्याः कुटिलं वचः करादनङ्गवत्याः कमलं जहार सा ॥ ७.२८ ॥ अथ स्वबिम्बाधरपाटलच्छदं करेण तत्तत्सदृशेन बिभ्रती । निषेवितुं भूपतिमभ्युपागता रमेव राजीवमुखी रराज सा ॥ ७.२९ ॥ दृशस्ततस्तत्परिवारयोषितां नेत्राञ्जनश्यामलपक्ष्मराजयः । शशिप्रभे भूमिपतौ सकौतुकाः समापतन् कुन्द इवालिपङ्क्तयः ॥ ७.३० ॥ __________________________________________ नृपार्हणम् निपीयमानस्य तया शनैःशनैरपाङ्गसञ्चारितदीर्घनेत्रया । उपात्तपुष्पः क्षितिभर्तुरर्हणां चकार तस्याश्चतुरः सखीजनः ॥ ७.३१ ॥ पुरः शिरस्याहितमन्मथाज्ञया तया कटाक्षैः कुटजैरिवार्चितः । नृपः सपर्यां पुनरुक्तसंविदां सस्तद्वयस्यानिहितावमन्यत ॥ ७.३२ ॥ सरागवत्युत्कलिकाभिराकुले मृदुन्यलं पाटलया समर्पिते । अथ न्यषीदन्नवपल्लवासने फनीन्द्रकन्यामनसीव पार्थिवः ॥ ७.३३ ॥ अनु क्षितीशं नलिनीदलासने कया चिदास्ते परिवारयोषिता । रमाङ्गदोऽप्यासनबन्धमाददे वसुन्धरायां विनयैकबन्धुः ॥ ७.३४ ॥ श्रमानुरोधादुपविश्यतामितः क्षणं कृशाङ्गीति सखीभिरर्थिता । उपाविशद्वेपितवामनस्तनी ततः समं ताभिरहीन्द्रकन्यका ॥ ७.३५ ॥ __________________________________________ नायिकाविलसितानि विवर्तयन्ती वदनेन्दुमण्डलं विशालनेत्रान्तनिषक्ततारकम् । द्वयेन सा कृष्यत सुन्दरी समं ह्रिया नृपालोकनकौतुकेन च ॥ ७.३६ ॥ अथावतंसीकृतलोचनोत्पलं कपोलदोलायितरत्नकुण्डलम् । चिरं पपौ सः स्तिमितेन चक्षुषा तदाननं मालवमीनकेतनः ॥ ७.३७ ॥ कृती दृशास्याः सुदृशः पिबत्ययं कपोललावण्यसुधां नराधिपः । मिथः सखीनामिति सस्मितं वचो निशम्य साभूदधिकाधिकत्रपा ॥ ७.३८ ॥ मनागिवांसादपवर्तितानना निरीक्ष्य तं भूपतिमर्पितेक्षणम् । विहस्य लज्जामुकुले चकर्ष सा बलादपाङ्गप्रसृते विलोचने ॥ ७.३९ ॥ यशोभटे रूपमवन्तिशसितुः कृतस्मिते चित्रगतं प्रशंसति । करस्थितं सा झटिति न्यधात्ततः शिलातले तामरसं त्रपावती ॥ ७.४० ॥ निकाममुक्तं सुकुमारमङ्गना विलासिनस्तस्य जहार सा मनः । स्मरैकदूतीसहकारशाखिनो लसन्मधावन्यभृतेव पल्लवम् ॥ ७.४१ ॥ तदीयमुद्दामरसोर्मिनिर्भरं स राजहंसोऽपि विवेश मानसम् । कृतप्रवेशश्च सलीलमच्छिनन्मनाङ्मृणालीमिव धीरतामतः ॥ ७.४२ ॥ क्षणादपाङ्गस्तिमितायताक्षयोः सकम्पयोः कण्टकिताङ्गलेखयोः । अवापदन्योन्यनिबद्धभावयोस्तयोः प्ररोहं हृदि बालमन्मथः ॥ ७.४३ ॥ __________________________________________ नायकस्य नायिकां प्रत्युक्तिः असूययेवाथ विमुञ्चती दृशं सखीषु सा सूत्रितनर्मसूक्तिषु । इति स्मितक्षालितदन्तवाससा नृपेण नागेन्द्रसुताभ्यधीयत ॥ ७.४४ ॥ वदानवद्याङ्गि सखीजनादृतः किमेष नाम व्यतिरिच्यते जनः । विहाय विस्रम्भविशेषमेतया यदङ्गमन्तो विशतीव लज्जया ॥ ७.४५ ॥ सदा सदाचारपरेति वार्तया वयं हृताः पन्नगराजपुत्रि ते । अतः किमेवं प्रतिपत्तिमूढतां विगाहसेऽस्मासु विमुच्यतामियम् ॥ ७.४६ ॥ अनेन ते सुन्दरि दर्शनेन वा कृतोपचारोऽस्मि कियत्कदर्थ्यसे । न वीक्षते वल्गु न मञ्जु भाषते गता क्वचिल्लोचनवर्त्ममालती ॥ ७.४७ ॥ अधःकृताः सत्यमधीरलोचने रसातलेन त्रिदिवस्य भूमयः । अनङ्गदुर्वारशराधिदैवतं भवद्विधं रत्नमवाप्यतेऽत्र यत् ॥ ७.४८ ॥ कुतूहलाध्यासितमध्यलोकया त्वया मुहूर्तं फणिलोककौमुदि । अवैमि पातालमवाप्तसन्धिना विलङ्घ्यते सन्तमसेन सम्प्रति ॥ ७.४९ ॥ इदं मृणालदपि कोमलं वपुस्तवैष दूरादरविन्दिनीपतिः । पुनः पुनः संस्पृशतीव कौतुकात्तमालगुल्मान्तरपातिभिः करैः ॥ ७.५० ॥ अनेन ते सश्रमवारिबिन्दुना नवीनपीयूषतुषारदन्तुरः । शिरीषमृद्वङ्गि तुषारपाण्डुना कपोलबिम्बेन विडम्ब्यते शाशी ॥ ७.५१ ॥ इदं वदाशिक्षत कैतवं कुतस्तवैष मुग्धे सरलाङ्गुलिः करः । इहैतदालिख्य शिलातले शनैरनेन लीलाकमलं यदुज्झितम् ॥ ७.५२ ॥ न चित्रमेवं क्व चिदस्ति भूतले ममात्र तेनास्ति कुतूहलं महत् । अतः किमेतत्पिहितं प्रकाश्यतामहेतुकस्तन्वि क एष मत्सरः ॥ ७.५३ ॥ अदृश्यमेतद्यदि मन्यसे ततः किमर्थ्यसे किं त्वियदेव शंसो नः । कृती त्वयायं भुजगाम्बरौकसामलेखि चित्रे कतमः कृशोदरि ॥ ७.५४ ॥ लतेव सम्मीलितषट्पदस्वना कियच्चिरं निर्वचनैव तिष्ठसि । इतश्चकोराक्षि विचिन्त्य सूनृतं ममोत्तरं किं चन दातुमर्हसि ॥ ७.५५ ॥ यथातिजिह्रेषि यथातिवेपसे यथा कपोले पुलकं बिभर्षि च । तथात्र मन्ये तव पक्षपातवन्नितान्तमन्तःकरणं कृशोदरि ॥ ७.५६ ॥ ह्रिये तवेयं यदि कल्पते कथा किमेतया नः प्रकृते यतामहे । यदर्थमेते वयमागताः स्वयं स नार्प्यते किं करभोरु सायकः ॥ ७.५७ ॥ सलीलमेवं वदति स्मितानने नृपे नवप्रेमसार्द्रचेतसि । विवर्तयन्ती मणिकङ्कणं करे मुमोच मौनं न फणीन्द्रकन्यका ॥ ७.५८ ॥ __________________________________________ माल्यवतीवचनम् तया तथा दृष्टमथान्तरान्तरा कटाक्षकान्तिः स्नपितावतंसया । इति स्मिताप्यायितदन्तदीधितिर्जगाद तं माल्यवाती विशाम्पतिम् ॥ ७.५९ ॥ तवैतया सत्कृतिपात्र सत्कृतं स्वयं न यत्कल्पितमल्पमध्यया । न स अवलेपो न च सा प्रमादिता न च त्रपा तत्र नृपोऽपराद्ध्यति ॥ ७.६० ॥ कृतीति वार्ता तव वेत्सि वाञ्छितं त्वमन्तरात्मेव न कस्य वा भुवि । अतः सखीभावगतस्य गोपनं न युज्यते नस्त्वयि तन्निशाम्यताम् ॥ ७.६१ ॥ शिलीमुखेऽस्मिंस्तव नामलाञ्छिते मृगोपनीते मृगशावलोचना । प्रमोदमाप्तेयमितो विलोकिते करे चकोरीव तुषारदीधितेः ॥ ७.६२ ॥ क एष राजेति मुहुः कुतूहलादियं यदा पृष्टवती सखीजनम् । अतस्तदास्यै कथितः सविस्तरं मया त्वमुर्वीतलमीनलाञ्छानः ॥ ७.६३ ॥ करेण सासूयमपास्य कर्णतः क्वणद्द्विरेफावलि नीलमुत्पलम् । तदैतयाभ्युद्गतपक्षपातया श्रुता गुणाढ्यस्य बृहत्कथा तव ॥ ७.६४ ॥ इमां त्वदाकारनिरूपिणे सखीमवेत्य पर्युत्सुकलोचनामिव । ततो मया विश्वविलोचनोत्सवस्त्वमेव चित्रे लिखितोऽसि पार्थिव ! ॥ ७.६५ ॥ उदञ्चितव्यायतपक्ष्मणा ततः सखीसमक्षं निभृतेन चक्षुषा । चिरं निपीतसतृषेव मुग्धया त्वयैतया मध्यमलोकवाससः ॥ ७.६६ ॥ [वर्७.६६ {त्वयैतया।लेम् ।ेम्॑ त्वयेतया ।ेद्}] अतो वरोऽयं युवयोः समागमः कुमुद्वतीचन्द्रमसोरिवोचितः । इयं हि बालोच्छ्वसितो मनोभुवस्त्वमत्र लोकत्रितयैकसुन्दरः ॥ ७.६७ ॥ नृप गृहीतुं नयमत्र कोऽप्यलं सुरेषु वा पन्नगपुङ्गवेषु वा । स एष पङ्केरुहकर्णिकामृदुस्त्वया शयोऽस्याः क्रियते सकौतुकः ॥ ७.६८ ॥ अयाचितोऽप्यर्पित एव ते शरः क्षितेरयं न्यायविदां वरैतया । तदेनमभ्यर्थयसे कथं पुनः कलत्रमेषा हि वसुन्धरा तव ॥ ७.६९ ॥ [७.६९ एम्. क्षितिर्?] इतीतिवृत्तं तदुपाश्रयं तथा प्रकाशयन्ती पृथिवीपतिं प्रति । छलादलीकभृकुटिं विधाय सा तयालुलोके फणिराजकन्यया ॥ ७.७० ॥ अथ द्विरेफस्य मुखाब्जपातिनो निवारणयोरगराजकन्यका । शिलातलात्संभ्रममीलितस्मृतिस्तदाशु लीलाशतपत्रमाददे ॥ ७.७१ ॥ ततः स रोमञ्चनिपीडिताङ्गदो रमाङ्गदं व्यक्तशशिप्रभेङ्गितः । अपश्यदिन्दीवरदामदीर्घया प्रमोदविस्तरितया दृशा नृपः ॥ ७.७२ ॥ __________________________________________ रमाङ्गदवचनम् समर्पिता पार्थिव पुष्पकेतुना तवेयमार्द्रप्रणया मनस्विनी । असीमसौन्दर्यसुधाविलासभूरुदन्वतेवेन्दुकला पिनाकिनः ॥ ७.७३ ॥ किमन्यदत्रोल्लसितं जगत्त्रये तवैव सौभाग्यपताकया नृप । यदागता मन्मथपत्रिणामियं शरव्यतामेवमपि श्रुते त्वयि ॥ ७.७४ ॥ वधूर्दिलीपस्य सुदक्षिणा यथा यथा सुनन्दा भरतस्य भूपतेः । रघूद्वहस्यावनिकन्यका यथा तथा तवेयं विधिना उपपादिता ॥ ७.७५ ॥ किमन्यदस्याः कृतपाणिपीडनः पदं निधत्से गृहमेधिनां धुरि । इति प्रसर्पत्स्मितचन्द्रिकः शनैरभाषतोर्वीतिलकं रमाङ्गदः ॥ ७.७६ ॥ [स्य्न्तx कुलकम्] विलोकितं चित्रमलीकभाषिणी भवत्सखीयं प्रतिभासते मम । उदीरितैवं किल पार्थिवेन सा भृशं ललज्जे निभृतं जहास च ॥ ७.७७ ॥ विलोकयन्ती तमपाङ्गलोचना समुल्लसत्स्वेदलवाङ्कितस्तनी । ततः सुजातस्तबकास्तमौक्तिका लतेव सा हेममयी व्यकम्पत ॥ ७.७८ ॥ मुखे तवासक्तमिदं शशिप्रभे दृशावतंसागतयैतदीयया । सखीजनः सस्मितमित्युवाच तामवन्तिनाथं च मिथो रमाङ्गदः ॥ ७.७९ ॥ अत्रान्तरे झटिति चित्तमिवाच्छमम्भः क्षोभं जगाम सरितस्तुहिनांशुसूतेः । वाति स्म च प्रसभभग्नतमालताल हिन्तालसालसरलः सहसा समीरः ॥ ७.८० ॥ __________________________________________ पयोदोदयः उदनमदथ तत्क्षणादुदञ्चत्कनकपिशङ्गतडिल्लतः पयोदः । अधरितमुरजध्वनीनि मुञ्चन् विधुरितकर्णतलानि गर्जितानि ॥ ७.८१ ॥ अथ समुदितत्रासा मेघस्वनान्ननु भूपतेर्भुजपरिघयोरन्तो बाला प्रवेष्टुमियेष सा । किमसि चकिता मा त्वं भैषीरितो भव लज्जया कृतमिति च तामूचे देवः स साहसलाञ्चनः ॥ ७.८२ ॥ इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभासंल्लापो नाम सप्तमः सर्गः समाप्तः ************************************************ अष्टमः सर्गः नायिकातिरोधानम् सापदेऽथ भुजगेन्द्रकन्यका खे पयोदपतलैस्तिरोहिते । नर्मदापुलिनपल्लवस्थिता हंसपङ्क्तिरिव कम्पमाददे ॥ ८.१ ॥ स्पर्धयेव निचयः पयोमुचां तारमन्द्रमनदद्यथा यथा । सा नरेन्द्रतिलकं तमैक्षत मुग्धलोलनयना तथा तथा ॥ ८.२ ॥ उल्लसन्नवपयोधरालसां द्यां च तां च सुमुखीं विलोकयन् । भूपतिः स नितरामभूद्वशो विस्मयस्य च मनोभवस्य च ॥ ८.३ ॥ वामनत्वमलिनत्वमत्यजन् व्यञ्जितक्रम इव त्रिविक्रमः । क्रामति स्म सहसैव मेघभूरन्धकारनिकरोऽथ रोदसी ॥ ८.४ ॥ [८.४ अन्धक पुन्?] नेत्ररोधिनि तयोर्न केवलं मूर्च्छिते तमसि वैशसं हृदि । यावदास्यविगलद्बिसाङ्कुरे चक्रवाकमिथुनेऽप्यजृम्भत ॥ ८.५ ॥ कर्णभूषणमणिप्रभालवैस्तोकलक्षितकपोलपत्रया । कृष्यमाणनयनोऽथ पिप्रिये पन्नगेन्द्रसुतया तया नृपः ॥ ८.६ ॥ तेजसि स्फुरति ताडिते मुहुर्बिभ्यती कनकभङ्गपिङ्गले । तं हृदिस्थितमिवेशमीक्षितुं सापि मीलितविलोचनाभवत् ॥ ८.७ ॥ __________________________________________ आकाशवाणी एष ते न घटते मनोरथः पार्थिवाहिपतिकन्यकां प्रति । गच्छ विन्ध्यविपिनान्तदृष्टया वञ्चितोऽसि मृगतृष्णयैतया ॥ ८.८ ॥ साहसोदधिविलोडने स्वयं योऽंसमंसलतयार्पयिष्यति । श्रीरिवोरसि मुरद्विषः पदं तस्य निश्चितमियं विधास्यति ॥ ८.९ ॥ पश्य पश्य चपलेयमन्तिकात्नीयते तव यथोचितं कुरु । एवमेव यदियं न लभ्यते जानकीव जनकप्रतिज्ञया ॥ ८.१० ॥ कन्यकासि किमिदं शशिप्रभे युक्तमेहि पितुरन्तिकं व्रज । इत्यविग्रहवती नभस्तलातुल्ललास सहसा सरस्वती ॥ ८.११ ॥ तां निशम्य स निकामविस्मितः साचिकार्मुकलतामलोकत । इन्दुमौलिगलकन्दलासितं तत्क्षणाच्च तिमिरं न्यवर्तत ॥ ८.१२ ॥ साचिरांशुतपनीयमेखला शक्रचापमणिकुण्डला ततः । क्वापि मुद्रितमयूरताण्डवा संहतिर्जलमुचां तिरोदधे ॥ ८.१३ ॥ सा पुरातनपथेन पावनी सोमसूतिरपि निम्नगा वहत् । स्वादुनिर्मलरसोर्मिनिर्भरा भारतीव मसृणं महाकवेः ॥ ८.१४ ॥ अप्यपाकृतरयः स नर्मदा वीचिलास्यरचनाकुतूहली । आववौ शबरराजयोषितां नर्तितालकलतः समीरणः ॥ ८.१५ ॥ इत्यकालजलदादिवैकृते केन चिद्विरचिते गते शमम् । भूपतेः शशिमुखी सखीयुता नेत्रनिर्विषयतामवाप सा ॥ ८.१६ ॥ क्वापि नूनमपहृत्य तन्मनो नागराजदुहिता जगाम सा । उत्पलस्य सरसं लसत्स्पृहा चक्रवाकवनितेव केसरम् ॥ ८.१७ ॥ अग्रतः कृतपयोधरश्रिया धौततप्ततपनीयकान्तया । विद्युतेव सदृशा तयाकुलः स अभवज्झटिति दृष्टनष्टया ॥ ८.१८ ॥ सा पुरो मम हृतेति लज्जया चिन्तया किमिव सा चरेदिति । सा पुनो न सुलभेत्यसौ शुचा तप्यते स्म तिसृभिः क्षितीश्वरः ॥ ८.१९ ॥ तस्य तापजननेन मानसं तेन बालविरहेण विव्यथे । केतकच्छदकदर्थने परं यत्कणोऽपि शिशिरः प्रगल्भते ॥ ८.२० ॥ जित्वरं जगति पुष्पकेतुना तद्विकृष्य तरसा शरासनम् । ताड्यते स्म हृदये पततृइणा सोऽथ मालवकुरङ्गलाञ्छनः ॥ ८.२१ ॥ लज्जया वलितकण्ठकन्दलं लोचनाञ्चलमिलद्वतंसकम् । तस्य वर्तितमिवाभवत्तदा तत्प्रियावदनमुन्नसं हृदि ॥ ८.२२ ॥ म्लानिमाप सस्तया विना नृपस्तत्र पन्नगपतेस्तनूजया । स्वां रुचिं न हि कदा चिदश्नुते शर्वरीविरहधूसरः शशी ॥ ८.२३ ॥ पाण्डुपक्ष्मलदृशः परिच्युतं सोऽथ माल्यशकलं व्यलोकत । तादृशि व्यतिकरे विनिर्गतं हासलेशमिव पुष्पधन्वनः ॥ ८.२४ ॥ शंसदुज्ज्वलकपोलसंगतं कुङ्कुमेन दलकोटिचुम्बिना । सम्भ्रमेण गलितं नतभ्रुवः कर्णतामरसमाददेऽथ स ॥ ८.२५ ॥ कार्मुके सति शरेषु सत्स्वपि प्रेयसी तव हृतान्तिकादिति । तेन सौरभहृतालिनिःस्वनैर्वाच्यतेव नृपतेर्व्यधीयत ॥ ८.२६ ॥ कोष्णनिःश्वसितवेपितच्छदं तन्निवेश्य वदने सः सादरः । अर्धनिमीलितलोचनोत्पलः पुस्तकल्पित इवाभवत्क्षणम् ॥ ८.२७ ॥ नर्मदोर्मिलुलिते तदंशुके पल्लवालिखितहंसहारिणि । आहृतस्तनविलेपने दृशा सोऽकृतप्रणयमिन्दुपाण्डुनि ॥ ८.२८ ॥ मा विषीद नवसाहसाङ्क, ते कान्तया गतमनेन वर्त्मना । पश्य तत्पदमितीव रेवया तस्य सारसरुतैरसूच्यत ॥ ८.२९ ॥ किं निमग्नमिह बालया तया भीतया भुजगराजकन्यया । नैवमत्र नियतं रसातले विद्यते विवरमित्यतर्कयत् ॥ ८.३० ॥ सोऽतिमात्रगहनेऽपि रंहसा पार्थिवः पतितुमैच्छदम्भसि । जीवितं तृणमिवावजानते साहसव्यसनिनोऽपि तादृशाः ॥ ८.३१ ॥ तत्समीहितमवन्तिवासवस्तस्य नावददुपान्तवर्तिनः । एष विघ्नमिह साहसोत्सवे कल्पयिष्यति ममेति शङ्कितः ॥ ८.३२ ॥ उज्झति स्म सः शनैः समुच्छ्वसन् पल्लवासनमुपास्य शासनः । अग्रहीच्च सशरं करेण तद्व्यक्तराजककुदेन कार्मुकम् ॥ ८.३३ ॥ पन्नगेन्द्रदुहितुः करेण यः सख्यमापदरविन्दबन्धुना । अर्पितं प्रणयिना तमप्यसौ सायकं कनकपुङ्खमाददे ॥ ८.३४ ॥ सुभ्रुवः स्मरविलासदेशिकं तं शशंस सः शरं पतत्रिषु । पीतशीतकरमूर्तितानवं भानुमानिव मयूखमंशुषु ॥ ८.३५ ॥ व्यक्ततच्चरणलक्ष्मणा ततः स्रस्तकेशकुसुमाकुलालिना । मेघसिक्तसिकतेनवर्त्मना नर्मदाजलसमीपमाप स ॥ ८.३६ ॥ एष जातु न विकत्थते क्व चिल्लक्ष्यतेऽस्य फलतः सदा क्रिया । तत्करिष्यति किमत्र साहसं चेतसीति विदधे रमाङ्गदः ॥ ८.३७ ॥ __________________________________________ नर्मदाप्रवेशः अक्षिपत्तटशिलाविटङ्कतः पार्थिवः स्वमथ नर्मदाम्भसि । वारिधेः पयसि विश्वदीपकः सायमद्रिशिखरादिवार्यमा ॥ ८.३८ ॥ तत्र मीनमकराकुले पतनाससाद स विलासमिश्वरः । यामुनाम्भसि निपातिनः पुरा गोपतामुपागतस्य शार्ङ्गिणः ॥ ८.३९ ॥ अम्भसस्तदवपातताडितादूर्ध्वमेत्य निपतत्सु बिन्दुषु । साहसेन परितोषितैः सुरैर्मौक्तिकार्घ इव तस्य चिक्षिपे ॥ ८.४० ॥ किं चिदन्तरितमूर्तिभिः क्षणादन्वगच्छदथ तं रमाङ्गदः । येन यात्यरुणसारथिः पथा वासरस्तमवलम्बते न किम् ? ॥ ८.४१ ॥ कस्तुलाग्रमधिरोप्य जीवितं स्वामिनं त्वमिव सेवतामिति । तस्य हंसनिनादेन वल्गुना साधुवादमिव नर्मदा ददौ ॥ ८.४२ ॥ __________________________________________ बिलप्रवेशः तौ मुहुर्जलचरैरदृश्यतामग्रतश्चकितमुक्तवर्त्मभिः । ध्वान्तसन्ततिभिदे रसातलं प्रस्तितौ रविनिशाकराविव ॥ ८.४३ ॥ आश्रयत्यवनिमेघवाहने वारिगर्भमभितो गरीयसि । प्राप मेकलसुता समानतामन्तराहितनिधानया भुवा ॥ ८.४४ ॥ उज्झिता झटिति कार्यगौरवादीश्वरेण रुरुचे न मेदिनी । सोद्यमेन पुनोऽप्यवैष्यता भानुनेव पदवी पयोमुचाम् ॥ ८.४५ ॥ आपपात सरमाङ्गदः क्षणात्सर्वतः सस्तमसाविले बिले । गूढमत्सरविषे विशेषवान् दुर्जनस्य मनसीव सद्गुणः ॥ ८.४६ ॥ यद्बभूव पुरतोऽस्य भूपतेरेककुण्डलपटासितं तमः । तस्य तद्दिनकरांशुभासुरैर्मौलिरत्नकिरणैरभज्यत ॥ ८.४७ ॥ सन्द्रहेमरजसा महौजसामग्रणीरगरुधूपगन्धिना । सोऽथ तेन बिलवर्त्मना शनैः क्रोशमात्रमगमन्नरेश्वरः ॥ ८.४८ ॥ __________________________________________ सिंहदर्शनम् लग्नसान्द्रगजशोणितच्छटैः शौर्यपावकशिखाङ्कुरैरिव । केसरैरतिकरालकन्धरो मार्गमस्य रुरुधेऽथ केसरी ॥ ८.४९ ॥ मुक्तघर्घररवः स रंहसा तं विशामधिपमभ्यधावत । व्यात्तदीर्घदशनास्यकन्दरः पूर्णमिन्दुमिव सिंहिकासुतः ॥ ८.५० ॥ अर्धचन्द्रमथ तज्जिघांसया संदधे धनुषि यावदीश्वरः । तावदस्फुटितकोरकं पुरो बालकुन्दविटपं तमैक्षत ॥ ८.५१ ॥ बिभ्रतो विकटदंष्ट्रमाननं कालमेघशकलासितत्विषः । आयतोऽभिमुखमीर्ष्यया जवात्तेन वर्त्म मुमुचे न पोत्रिणः ॥ ८.५२ ॥ __________________________________________ गजदर्शनम् किं चिदस्य पुरतोऽथ गच्छतः कर्णतालविधुतालिपङ्क्तिना । रुद्ध्यते स्म समदेन पद्धतिर्दीर्घदन्तमुसलेन दन्तिना ॥ ८.५३ ॥ मन्द्रकण्ठनिनदोऽतिवेगवानूर्ध्ववालधिरुदग्रलोचनः । कुण्डलीकृतकरस्तमभ्यगात्सः क्रुधा निभृतकर्णपल्लवः ॥ ८.५४ ॥ यावदङ्कुरितमत्सरोऽभवत्तस्य संमुखमधिज्यकार्मुकः । तावदैक्षत न सः क्व चिद्द्विपं राजगन्धमदगन्धकेसरी (।ेदेमेन्द्स्? गन्धमद तो गन्धवह) ॥ ८.५५ ॥ उत्पतन्निपतदग्रतो मुहुर्मुञ्चदट्टहसितं सहार्चिषा । केवलं कपिलकुन्तलं शिरः पश्यतोऽस्य न चमत्कृतं मनः ॥ ८.५६ ॥ एवमादि यदभून्महीपतेरद्भुतं पथि बिभीषिकावहम् । तद्बिभेद निजसत्त्वसम्पदा तिग्मदीधितिरिव त्विषा तमः ॥ ८.५७ ॥ __________________________________________ सरिदुत्तरणम् तां ददर्श सरितं सुदुस्तरामग्रतोऽथ बिलकल्पविन्नृपः । स्पर्शतः किल यदम्भसां झटित्यश्मभावमुपयान्त्यसूरयः ॥ ८.५८ ॥ मारुतैरपरपारनुन्नया प्रांशु वंशलतया सः सानुगः । तामलङ्घयदथोपगूढया जन्मभीतिमिव योगविद्यया ॥ ८.५९ ॥ __________________________________________ नगरदर्शनम् प्रस्थितस्तदनु सोद्यमं पुरः स अथ साहसवतां पुरःसरः । निर्मितं मणिमयूखपल्लवैर्बालमातपमिव व्यलोकत ॥ ८.६० ॥ इन्द्रनीलकपिशीर्षकं ततः स अभितः स्फटिकसालमैक्षत । सावशेषजलनीलकोटिभिः शारदैर्घटितमम्बुदैरिव ॥ ८.६१ ॥ उत्पताकमणितोरणाङ्कितं मण्दितं कनकपल्लवस्रजा । किं च काञ्चनकपाटसंपुटं तत्र गोपुरमपश्यदीश्वरः ॥ ८.६२ ॥ विस्मयेन विषयीकृतः पुरं तेन स अविशदवन्तिवासवः । निर्वृतैः पदमिवोज्झितावनिः सूर्यमण्डलपथेन योगवान् ॥ ८.६३ ॥ तत्र वैद्रुमगवाक्षमुच्छ्रितं हेमहर्म्यमवलोकते स्म स । मेरुशृङ्गमिव धातुताम्रया सन्ध्यया कृतपदं क्व चित्क्व चित् ॥ ८.६४ ॥ अग्रतः सश्च यशोभटोऽविशत्सोऽथ कौतुकहृतस्तदङ्गणम् । इन्द्रनीलमणिकान्तिमेचकं व्योम सारुण इवोष्णदीधितिः ॥ ८.६५ ॥ पद्मरागरचितालवालका वेदिकामणिविटङ्कविस्तृता । तेन तत्र ददृशे कुतूहलादन्तिके कनकमाधवीलता ॥ ८.६६ ॥ __________________________________________ स्त्रीदर्शनम् तत्तले स्थितिमुपेयुषा शमात्तेन का चिदबला व्यलोकत । निर्गता झटिति हेमवेश्मतः श्रीः सुवर्णकमलोदरादिव ॥ ८.६७ ॥ अंशुकेन शरदिन्दुबन्धुना त्यागितेव यशसावभासिता । कान्तिमत्यधरनीलवाससा यामुनेन पयसेव जाह्नवी ॥ ८.६८ ॥ बन्धुजीवकुमुदछवी मुखे बिभ्रतीव कुरुविन्दकुण्डले । शर्वरीव सितपक्षपर्वणः शीतदीधितिपतङ्गमण्डले ॥ ८.६९ ॥ शोभिता किमपि हारलेखया भिन्नखेललोलयोरसि । तत्क्षणस्फुटितकुन्दशुद्धया गन्धवाहपदवीव गङ्गया ॥ ८.७० ॥ आननेन ललिताक्षिपक्ष्मणा निर्यदुज्ज्वलकपोलकान्तिना । कुर्वतीव फणिलोकमङ्कितं यामिनीतिलकबिन्दुनेन्दुना ॥ ८.७१ ॥ पुष्पदाम दधती सषट्पदं दक्षिणेन शशिपाण्डुपाणिना । साक्षतं सदधिदूर्वयाञ्चितं हेमपात्रमितरेण बिभ्रती ॥ ८.७२ ॥ [स्य्न्तx कुलकम्] तन्निरीक्षणसविस्मयं ततः पार्थिवं जनितकौतुकः शुकः । इत्युवाच मणिपञ्जरे स्थितो बालचूतविटपावलम्बिनि ॥ ८.७३ ॥ __________________________________________ शुकवाक्यम् सत्क्रियां रचयितुं तवातिथेर्नर्मदा भगव्तीयमुद्यता । श्लाघनीयचरितो जगत्त्रये कस्य नासि बहुमानभाजनम् ॥ ८.७४ ॥ देव पन्नगवधूभिरुज्ज्वलं वल्लकीकलरवं प्रियैः सह । मल्लिकाधवलमत्र गीयते केलिरत्नभवनेषु ते यशः ॥ ८.७५ ॥ दुर्मना नृप, पथामुना गता सा विलासवसतिः शशिप्रभा । तत्सखीजनकथान्वयश्रुतेर्युष्मदागमनमूहितं मया ॥ ८.७६ ॥ दुर्लभोऽयमतिथिर्ममापि तद्गुह्यतामुचितया सपर्यया । पार्थिवो हि नवसाहसाङ्क इत्येष सीयकनरेन्द्रनन्दनः ॥ ८.७७ ॥ पेशलोक्तिनिपुणस्य पक्षिणस्तस्य गामिति निशम्य सस्मितः । तामथ प्रणमति स्म निम्नगामिन्दुसूतिमवनीन्दुरादृतः ॥ ८.७८ ॥ [स्य्न्तx कुलकम्] __________________________________________ नर्मदाकृतः सत्कारः कारितासनपरिग्रहे पुरो भूपतावपचितिं विधाय सा । आस्त मौक्तिकशिलातले ततश्चेतसीव सुकवेः सरस्वती ॥ ८.७९ ॥ स्थित्वाथ किं चित्तमवन्तिनाथमपृच्छदच्छन्नकुतूहला सा । निवेद्यतां मानवदेव कस्मादलङ्कृता भूमिरियं त्वयेति ॥ ८.८० ॥ तस्यै शशंस निजमा मृगयाविहाराद्वृत्तान्तमन्तविरसं स विशुद्धवृत्तिः । कान्तास्मृतिप्रसभकण्टकिताङ्गजात लज्जावनम्रवदनो नवसाहसाङ्कः ॥ ८.८१ ॥ इति परिमलापरनाम्नो मृगाङ्कदत्तसूनोः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते नागलोकावतारो नामाष्टमः सर्गः समाप्तः ************************************************ नवमः सर्गः __________________________________________ नर्मदावाक्यम् अथ स्वरेणाङ्गणदीर्घिकाणां संवाहयन्ती कलहंसनादम् । तमित्यवन्तीश्वरमा बभाषे सा मेकलक्ष्माधरराजकन्या ॥ ९.१ ॥ नास्य क्षितीशोपकृतं जनस्य कियत्तया पन्नगराजपुत्र्या । यस्याः कृते सम्प्रति भूषितेयं भूमिस्त्वया भूशशलाञ्छनेन ॥ ९.२ ॥ इदं नृप त्वामवलोक्य जातं मनः प्रमोदेन ममास्वतन्त्रम् । नो कस्य लोकत्रयसंमतानां भवेत्सतां सङ्गतमुत्सवाय ॥ ९.३ ॥ अद्यैष कस्यापि मया शुभस्य त्वद्दर्शनेनानुमितो विपाकः । आतिथ्यमक्ष्णोः कथमन्यथैवमायान्ति रत्नानि भवद्विधानि ॥ ९.४ ॥ सो वत्स, जाते जनकः कृतात्मा सा पुण्यमूर्तिजननी जगत्सु । महीकलापोद्वहनादिपात्रः पुत्रो ययोस्त्वं नरलोकपालः ॥ ९.५ ॥ रूपेण तेजस्वितयार्जवेन प्रियंवदत्वेन तवामुना च । दिलीपदुष्यन्तभगीरथादीन् तानादिराजान् झटिति स्मरामि ॥ ९.६ ॥ समानभावैस्त्रिभिरेव मन्ये समुद्रनेमिवसुधा धृतेयम् । भुजङ्गमेन्द्रेण च मेरुणा च दोष्णा च मौर्वीकिणशोभिना ते ॥ ९.७ ॥ त्वयि स्थिते सम्प्रति जागरूके जगद्विधेयेषु विधूतचिन्तः । करोति नेत्रे भगवानवैमि स योगनिद्रामुकुले मुकुन्दः ॥ ९.८ ॥ न किं चिदिक्ष्वाकुकुलावतीर्णाद्रथाङ्गपाणेः परिहीयते ते । अजायताम्भोजदृशा वियोगो वने यथा तस्य तथा तवापि ॥ ९.९ ॥ अकृत्रिमोऽयं गुणवत्सु जाने जात्यैव ते पार्थिव पक्षपातः । यत्प्रौढलावण्यसुधास्रवन्त्या तया विना चेतसि ताम्यसीव ॥ ९.१० ॥ अलं विषादेन घनाधिरूढा ललामभूता जगतोऽखिलस्य । तवाङ्कमभ्येष्यति साचिरेण शशिप्रभा पार्थिवकैरवस्य ॥ ९.११ ॥ इतोऽद्य यान्ती पुरतो मया सा दृष्टा भुजङ्गाधिपतेस्तनूजा । उदग्रभोगैरहिभिः परीता लतेव तन्वी हरिचन्दनस्य ॥ ९.१२ ॥ उद्दण्डहेमाम्बुरुहासु खेलदेतासु लीलागृहदीर्घिकासु । समुत्कयन्ती कलहंसयूथमामञ्जुना नूपुरसिञ्जितेन ॥ ९.१३ ॥ व्यापारयन्ती वलिताननेन्दुः पश्चाद्दृशौ केतकपत्रदीर्घे । इतस्ततः शून्यतया स्खलन्ती समेऽपि मार्गे ददती पदानि ॥ ९.१४ ॥ विस्रस्तमाल्यः श्लथबन्धनत्वादंसावकीर्णां कबरीं वहन्ती । कलिन्दकन्यामसृणोर्मिनीलां निस्तृंशलेखामिव मन्मथस्य ॥ ९.१५ ॥ मुखं निशाघ्रातमिवारविन्दं विषदवीतप्रभमुद्वहन्ती । विलुम्पती निःश्वसितेन कान्तिमापाटलस्याधरपल्लवस्य ॥ ९.१६ ॥ उन्मोचयन्तीमलकाग्रमेत्य लग्नं चलत्कुण्डलरत्नकोटौ । किमप्युदञ्चद्दशनांशुलेखा सखीं शनैः सस्मितमालपन्ती ॥ ९.१७ ॥ सुधासितं क्षौममिवास्तृतं तं नखांशुरेखावलयच्छलेन । कृतं दधानोपरि पाणिपद्ममुदग्रकम्पस्य कुचद्वयस्य ॥ ९.१८ ॥ गतानि सद्यः श्लथतां सखीभिर्विहस्य साकूतविलोकितानि । क्रमेण किं चित्प्रतिसारयन्ती विलज्जमाना मणिकङ्कणानि ॥ ९.१९ ॥ अशोकपुष्पग्रथितां दधाना प्रालम्बमालामवलग्नमध्या । आरोपितज्येव जगज्जयाय स्वचापलेखा मकरध्वजेन ॥ ९.२० ॥ आर्द्रव्रणाङ्कस्य कृपार्द्रचित्ता केलीमृगस्य स्वयमेव तस्य । आचुम्बती पाण्डुकपोललेखं वतंसदूर्ध्वाङ्कुरमर्पयन्ती ॥ ९.२१ ॥ मार्गेषु रूढासु निरूढभावात्द्विरेफसम्पातसमाकुलापि । लतासु पुष्पावच्छयच्छलेन पदे पदे वत्स विलम्बमाना ॥ ९.२२ ॥ [स्य्न्तx कुलकम्] त्वदीयविश्लेषमवाप्य बाला सा लक्ष्यते किं चिदनिर्वृतेव । भवादृशामेकपदे वियोगो न कस्य, राजेन्द्र, मनो दुनोति ॥ ९.२३ ॥ पृथुप्रतापः सविता यथैव यथा कलानां निधिरोषधीशः । यथा वसन्तः सुमनोऽनुकूलस्तथासि भूमिः स्पृहणीयतायाः ॥ ९.२४ ॥ __________________________________________ नायकवाक्यम् इति क्षितीशश्रुतिशुक्तिपेयामुदीर्य वाचं विरराम रेवा । स च स्मितद्योतितदन्तमेवमुवाच तां मध्यमलोकपालः ॥ ९.२५ ॥ स्थाने यदाह्लादयसि प्रपन्नं पीयूषधारामधुरैर्वचोभिस् । सुधैकसूतिः स यदाकरस्ते चण्डीशचूडाभरणं शशाङ्कः ॥ ९.२६ ॥ ऋजुः प्रकृत्यासि परं तदम्ब वीचीशु पर्याप्तमनार्जवं ते । न केवलं सा पयसि प्रसक्तिरालक्ष्यते ते बत मानसेऽपि ॥ ९.२७ ॥ या जूटमध्ये च शशाङ्कमौलेरुन्निद्रकुन्दस्रगिवावभाति । तामप्यतीव त्रिजगत्प्रतीक्ष्यां त्रिःस्रोतसं पुण्यतयातिशेषे ॥ ९.२८ ॥ या सास्य शक्तिः प्रसराम्बुपङ्के त्वया वृता धर्मविहारवीथिः । सलीलमुद्धूलकुलाचलेयं मही महासूकरदंष्ट्र एव ॥ ९.२९ ॥ भवादृशीनां महतां नदीनामद्भिर्जगत्यस्तमितोपसर्गे । सुखं सदैवासुरजित्समुद्रे निद्राति पर्यङ्कितपन्नगेन्द्रः ॥ ९.३० ॥ असन्तमप्यम्ब मयि प्रसन्ना सम्भावनाभारमहो निधत्से । अस्त्येव भक्तेष्वतिवत्सलत्वात्बलाद्गुणारोपणकौतुकं ते ॥ ९.३१ ॥ अनेन मे कोऽपि हृदि प्रहर्षस्तव प्रसादातिशयेन जातः । अनार्द्रतामिन्दुमरीचिसख्ये कियच्चिरं चन्द्रमणिर्बिभर्ति ॥ ९.३२ ॥ विधाय तत्तादृशमिन्द्रजालं सा केन नीता फणिराजकन्या । अपश्यतो हेतुमिहोपपन्नं किमप्यहो विस्मयते मनो मे ॥ ९.३३ ॥ अज्ञानमस्मिन् विषये किमन्यत्ममैतदर्हस्यपनेतुमम्ब । दिनान्तसम्मूर्च्छितमन्धकारं निशामुखस्येव शशाङ्कलेखा ॥ ९.३४ ॥ __________________________________________ पुनो नर्मदावाक्यम् उक्त्वेति तूष्णीमभवन्नृसोमः सा सोमसूतिः सरिदित्युवाच । अत्रेतिवृत्तं कथयाम्यशेषं निशम्यतां मालवलोकपालः ॥ ९.३५ ॥ __________________________________________ गृहदेवतावाचः यदैव सा तर्जितचन्द्रकान्तिरजायतेन्दीवरपत्रनेत्रा । चित्रस्थितानां गृहदेवतानामिति स्फुरन्ति स्म तदैव वाचः ॥ ९.३६ ॥ रत्नाकरत्वं, भुजगेन्द्र जातं कन्या तव श्रीः शुभलक्षणेयम् । वक्षःस्थलं मध्यमलोकभर्तुर्विभूषयित्री पुरुषोत्तमस्य ॥ ९.३७ ॥ [९.३७ रेअद्रत्नाकरस्त्वं भुजगेन्द्र जाता? ओर्fओल्लोw ।क्?] भुजङ्गवंशार्णवकौमुदीयमियं पताकास्य रसातलस्य । उपागतेयं निधनाग्रदूती वज्राङ्कुशस्यासुरपुङ्गवस्य ॥ ९.३८ ॥ [स्य्न्तx कुलकम्] [नोते वज्राङ्कुश इस्थे एअस्तेर्न् गुअर्दिअनोf थे वज्रधातुमण्डल!] स्ववीर्यपर्यस्तपुरन्दरेण तेनासुरेन्द्रेण कदर्थितस्य । तेजश्चिरादुच्छ्वसितं तदाभूदिति श्रुते भोगभृतां कुलस्य ॥ ९.३९ ॥ तद्देहकान्तिस्तिमिरं व्यनैषीत्यदत्र मोघीकृतरत्नदीपा । पित्रा तदस्याः कृतमर्थयुक्तमाह्लादनं नाम शशिप्रभेति ॥ ९.४० ॥ ततः सुधासूतिकराभिरामैर्गुणैः परीता सहजन्मभिः सा । शनैः शनैर्वृद्धिमवापदत्र रसातले बालमृणालोकेव ॥ ९.४१ ॥ __________________________________________ शशिप्राभापितुः प्रतिज्ञा यदर्थिताभूदनुबद्धमानसैः सुरैश्च सिद्धैश्च महोरगैश्च । तेषां पुरस्तादकृतव्यवस्थामित्येकदा संसदि पन्नगेन्द्रः ॥ ९.४२ ॥ गुप्ताभिहितो यत्त्रिदशारिवीरैर्वज्राङ्कुशाख्यस्य महासुरस्य । असूत लीलागृहदीर्घिकेह हैमं हरेर्नाभिरिवारविन्दम् ॥ ९.४३ ॥ आनीय तद्यो दुहितुर्ममास्याः कर्णावतंसप्रणयीकरोति । तस्येयमिष्वासभृतः कलत्रं पार्थस्य पाञ्चालनृपात्मजेव ॥ ९.४४ ॥ [स्य्न्तx कुलकम्] तेनैवमुक्ते च तदा परेषु तमर्थमङ्गीकृतवान्न कोऽपि । वन्यद्विपादुद्गतदानराजेः कः कुम्भमुक्ताफलमाददीत ॥ ९.४५ ॥ ततः प्रभृत्यद्भुतरूपरेखा सा बालिकाभूदवरा वरापि । चित्ते वचस्तत्कुलदेवतानां कृत्वापि तस्याः सश्च नान्वशेत ॥ ९.४६ ॥ सम्प्रत्यवैमि प्रथिता यदातः स्वर्गे च भूमौ च भुवस्तले च । नीतोऽसि नेत्रातिथितां त्वमस्याः पुण्येन जन्मान्तरसम्भृतेन ॥ ९.४७ ॥ आनेतुकामेन भवन्तमत्र निजं वचस्तन्नयता प्रतिष्ठाम् । आप्तप्रयत्नेन तथा स मन्ये फणीश्वरेणोपकृतः प्रपञ्चः ॥ ९.४८ ॥ एकः क्षितौ साहसिकस्त्वमेव नान्योऽस्ति राजन्नवसाहसाङ्कः । निसर्गदुर्गामपि भूमिमेतां स्वोद्यानवीथीमिव यः प्रविष्टः ॥ ९.४९ ॥ तदस्य कार्यस्य पुरस्कृतस्य यतस्व सीमान्तविलोकनाय । विगाहमानोऽम्बरमर्धमार्गं निवर्तते जातु किमुष्णराश्मिः ॥ ९.५० ॥ इतोऽस्ति गव्यूतिशतार्धमात्रं गत्वा पुरी रत्नवतीति नाम्ना । विनिर्मिता शिल्पिकलामयेन मयेन या नाकजिगीषयेन ॥ ९.५१ ॥ [नोते अल्लुसिओन् तो अणहिलपुर, चपितलोf थे सोलङ्किस्?] तस्यासुरेन्द्रस्य नराधिपेन्द्र जगद्द्रुहः सा किल राजधानी । समेधितस्याब्जभुवा वरेण रणेष्ववध्यो मरुतां भवेति ॥ ९.५२ ॥ सो मौलिरत्नानि महोरगाणामुत्ख्याय चोत्खाय च कौतुकेन । करोति निर्वासितनायकेषु निजाङ्गनाहारलतान्तरेषु ॥ ९.५३ ॥ सो बाष्पपर्याकुललोचनानि निःश्वासभिन्नाधरपल्लवानि । करोति वक्त्राण्यमराङ्गनानामुत्सन्नलीलास्मितचन्द्रिकानि ॥ ९.५४ ॥ कृताङ्गदः कम्बलकालियाभ्यां यज्ञोपवीतीकृतशङ्खचूडः । सस्तक्षकापादितकण्ठभूषो बिभर्ति लीलामशिवः शिवस्य ॥ ९.५५ ॥ आस्तां किमन्यैः फणिभिः सश्चिन्त्यस्तस्यापि शेषस्य च वासुकेश्च । राहुर्यथा विश्वभयैकहेतुस्ताराधिपस्याहिमदीधितेश्च ॥ ९.५६ ॥ खगेन्द्रभङ्गेन तथा तथा च न सर्पयज्ञे जनमेजयस्य । निधानमातङ्कपरम्पराणां जातो यथा सम्प्रति नागलोकः ॥ ९.५७ ॥ हरेस्त्वमंशोऽत्र कृतावतारस्तस्यासुरेन्द्रस्य निबर्हणाय । अवैमि लोकत्रयकण्टकस्य लङ्काधिपस्येव स मैथिलीशः ॥ ९.५८ ॥ श्रीकण्ठवैकुण्ठपुरन्दराद्यैरुपेक्षितं यत्त्रिदशैरशक्त्या । कृतस्य तस्यास्य भरं विसोढुं सम्भाव्यसे मे नृपते त्वमेव ॥ ९.५९ ॥ किमन्यदुत्तिष्ठ गृहाण यात्रां वज्राङ्कुशं प्रत्यमितप्रताप । तच्चावतंसीकुरु हेमपद्ममानीय, भूशक्र, शशिप्रभायाः ॥ ९.६० ॥ सा ते समाप्ताद्भुतसाहसस्य वत्साङ्कमभ्येतु फणीन्द्रकन्या [[वत्साङ्क पुन्?]] । सीता यथा दशरथेः सलीलमारोपितत्र्यम्बककार्मुकस्य ॥ ९.६१ ॥ [९.६१ रेअदसमाप्त॰ ?] अगाधपातालतलोद्गतानि विनिद्रकुन्दच्छदसुन्दरानि । लोकद्वये सम्प्रति ते यशांसि आकल्पपल्लवीफलवच्चरन्तु ॥ ९.६२ ॥ प्रसादमाप्तेन चिराद्विलीने तस्मिन् सुरारातिघनोपरोधे । मुखेन्दुना पन्नगसुन्दरीणां पुनः समागच्छतु पत्रलेखा ॥ ९.६३ ॥ आसीत्पुरस्तात्त्रिपुरावभङ्गे यन्मण्डलं बालमृगाङ्कमौलेः । महासुरैर्भाविनि साम्पराये तवास्तु तत्संयुगजामदग्न्य ॥ ९.६४ ॥ पन्थाः शिवोऽयं पुरतोऽत्र गन्ता वङ्कुर्मुनिर्लोचनगोचरं ते । उपाचरेस्तं च तथाविधानां भक्तिं हि गां कामदुहामुशन्ति ॥ ९.६५ ॥ इत्युदीर्य मणिकान्तिकन्दलीः कल्पितं त्रिदशचापमस्य सा । आ मुमोच निजकण्कणं भुजे ज्याकिणाङ्ककठिणीकृतत्वचि ॥ ९.६६ ॥ __________________________________________ नर्मदोक्तिस्वीकारः अवददथ सः साहसोन्मुखस्तामिह हि वयं वचसि स्थितास्तवेति । तडिदिव न चिरादुदीरिताशीः सरिदपि सास्य पुरस्तिरोबभूव ॥ ९.६७ ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये नर्मदासंवादो नाम नवमः सर्गः ************************************************ दशमः सर्गः नायकस्य रमाङ्गदं प्रति प्रश्नः अथ मेकलाचलसुतातिरोहितौ अतिमात्रविस्मयरसार्द्रमानसः । दशनच्छविच्छुरितपाटलाधरः स रमाङ्गदं नृपतिरित्यवोचत् ॥ १०.१ ॥ अधिरोहति स्वयमचिन्तिताप्यहो शुभसम्पदङ्कमपराङ्मुखे विधौ । सवपुर्विलोचनपथं यदावयोरमृतांशुसूतिरियमापदापगा ॥ १०.२ ॥ इदमिन्द्रजालमिति मे समुत्थितां मतिमेतदर्पितमुदारया तया । विकसन्मरीचिरचितेन्द्रकार्मुकं करवर्ति रत्नवलयं विलुम्पति ॥ १०.३ ॥ अयि मेकलाद्रितनयापुरःकृते क्रियते किमत्र वद कृत्यवस्तुनि । तव यत्सदा नयरहस्यवेदिनो न धियश्चरन्त्यनयपांसुले पथि ॥ १०.४ ॥ __________________________________________ रमाङ्गदवाक्यम् इति पार्थिवेन कथिते दधन्मनाक्पुलकेन चुम्बितकपोलमाननम् । इदमात्तनीतिपथमाददे वचः स्मितपुष्पिताधरदलो रमाङ्गदः ॥ १०.५ ॥ इह किं प्रतिस्फुरति मे तवाग्रतो नयशास्त्रनीरनिधिपारदृश्वनः । अवलीढविश्वतमसः पुरो रवेर्न हि जातु दिपकशिखा प्रकाशते ॥ १०.६ ॥ विषयेऽत्र मौनमुचितं हि मादृशामवशस्तथापि कथयामि किं चन । क्षितिपालमौलिमणिवेणिकातिथेस्तव केन शासनमिदं विलङ्घ्यते ॥ १०.७ ॥ प्रथमं हि मण्डलमखण्डशाक्तिभिर्विजिगीषुभिः स्वमभितः प्रसाध्यते । परमण्डले तदनु नीतिपारगैरवनीपुरन्दर, करः प्रसार्यते ॥ १०.८ ॥ तदपास्यमेवमवितर्कितोत्थिते परिपन्थिनामिह विधेयवस्तुनि । यदि नाभविष्यदभिमानशालिनस्तव राज्यमुद्धृतसमस्तकण्टकम् ॥ १०.९ ॥ श्रुतशक्तिसङ्कलितमन्त्रनिश्चयैरुपलब्धषड्गुणविवेकवर्त्मभिः । तदुपायतत्त्वमधिगम्य धूः क्षितेस्तव मन्त्रिभिर्नृप दुरुद्वहोह्यते ॥ १०.१० ॥ अतिसान्द्रकाञ्चनमरीचिपिङ्गलं दिगुपाहितप्रचुरपत्रशोभिनः । तव कोशमुत्सृजति न क्षणं रमा परमारवंशसरसीसरोरुह ॥ १०.११ ॥ प्रियकीर्तयो जयपवित्रिताशयास्तरसा तृणीकृतजगत्त्रया युधि । जगतीविशेषक तवानुजीविनो निवसन्त्यवन्तिविषये सहस्रशः ॥ १०.१२ ॥ पृथिवीभृतः प्रथितविक्रमेण ये गमितास्त्वया वशमुपायसम्पदा । नयवर्त्मगाः क्षितिपते तवान्यथा न भवन्ति भाविसमराभिशङ्कया ॥ १०.१३ ॥ अपकर्तुमत्र समये तवात्तभीर्मनसापि हूणनृपतिर्न वाञ्छति । इभकुम्भभित्तिदलनोद्यमे हरेर्न कपिः कदा चन सटां विकऋषति ॥ १०.१४ ॥ असिकान्तिजालजटिलाग्रबाहुना रणसीम्नि नाथ निहतेषु भर्तृषु । भवतात्र वागडवधूजनः कृतो रतिसन्धिविग्रहकथापराङ्मुखः ॥ १०.१५ ॥ अधुनापि देव मुरलाङ्गनाजनैस्विजयप्रशस्तिरिव लिख्यते तव । गलदञ्जनाश्रुपृषतावलिच्छलाल्लसदिन्दुपाण्डुषु कपोलभित्तिषु ॥ १०.१६ ॥ रभसादपास्य मणिकङ्कणावलीः कनकारविन्दकतकेषु तेऽसिना । न किमर्पितानि नृप लाटयोषिता स्फटिकाक्षसूत्रवलयानि पाणिषु ॥ १०.१७ ॥ नयनाम्बुभिः स्नपितधूसराधराः प्रतिबद्धरूक्षमलिनैकवेणयः । निहिता न किं महति शोकसागरे जगतीन्द्र कोसलपतेः पुरन्ध्रयः ॥ १०.१८ ॥ उदितेन वैरितिमिरद्रुहाभितस्तव नाथ विक्रममयूखमालिना । गमिताः प्रभावलयशून्यतां झटित्यपरान्तपार्थिववधूमुखेन्दवः ॥ १०.१९ ॥ अतिवेलमुत्तरदिगन्तवर्तिना समरश्रमाभ्युदितघर्मबिन्दुना । शरदिन्दुनिर्मलमपायि भूभृतामसिपत्रपात्रपतितं त्वया यशः ॥ १०.२० ॥ निजरन्ध्रगोपनपटीयसाभितः पररन्ध्रदृष्टिपटुचारचक्षुषा । नयभिन्नसाहसभुवा भुवस्तले भवता समं कथय को विरुद्ध्यते ॥ १०.२१ ॥ नरदेव दैवमधिकृत्य या विपत्निपतत्यवन्तिविषये कथं चन । शिखिमुक्तमन्त्रहविषा विहन्यते तव सा वसिष्ठमहसा पुरोधसा ॥ १०.२२ ॥ नृप वासराणि निरुपप्लवाः प्रजाः सुखमात्मकर्मणि रता नयन्ति यत् । विजयं जयैकसुहृदोऽस्य सर्वदा ननु कार्मुकस्य तव तद्विजृम्भितम् ॥ १०.२३ ॥ इति किं चिदेव न तव स्वमण्डले नृप चिन्त्यमस्त्युदितशक्तिसम्पदः । अधुना तु नीतिनिहितेन चेतसा फणिलोककृत्यमिदमेव चिन्त्यताम् ॥ १०.२४ ॥ प्रभुशाक्तिरुद्यमपरत्वमर्पित त्रिजगच्चमत्कृतिरहङ्कृतिश्च सा । असुरस्य तस्य कथिता नरेन्द्र ते नगरी च मेकलनगेन्द्रकन्यया ॥ १०.२५ ॥ अभिगम्य एव सस्तवाधुना रिपुर्मरुतामुदारनिजकार्यसिद्धये । श्रुतिलग्नगन्धगजबृंहितः क्षणं नृप केसरी कथय किं विलम्बते ॥ १०.२६ ॥ नवसाहसाङ्क, न तवासुरादहं कलयामि सम्प्रति किमप्यतादृशम् । विधुतिः कदा चन विभो न भूभृतः कलविङ्कपक्षपवनेन शाङ्क्यते ॥ १०.२७ ॥ भवता यदोच्चलित एष दक्षिणश्चरणस्तदैव सुरवैरियोषिताम् । विगलन्ति देव नयनोदबिन्दवः शरदिन्दुपाण्डुनि कपोलमण्डले ॥ १०.२८ ॥ विजयैकसद्मनि गुणः शरासने तव यावदत्र न नृपाधिरोहति । तुहिनच्छटाधवलचामरस्मिता विलसन्ति तावदसुरालये श्रियः ॥ १०.२९ ॥ कनकारविन्दमरविन्दलोचन प्रणयेन नैव सः समर्पयिष्यति । सुरनिर्जयार्जितमदावृतेऽन्तरं लभते न साम किल तादृशं हृदि ॥ १०.३० ॥ भवतः कुतोऽपि नृप यावदागमं न स वेत्ति तावदभियोक्तुमर्हसि । सहसान्यथा रहसि मन्त्रिबोधितः परितः स्वदुर्घटने यतिष्यते ॥ १०.३१ ॥ कृतनूतनार्गलकपाटसंपुटां सुभटैरुदायुधकरैरधिष्ठिताम् । परितः सुखातपरिखां पुनः पुरीं रचितैकदुर्गमपथां विधास्यति ॥ १०.३२ ॥ वलितेऽपि किं चन धनुःपरिग्रहे भुवनत्रयप्रथितसाहसे त्वयि । अपि जायते धृतिविपर्ययो हरेरसुरेषु कैव गणना तपस्विषु ॥ १०.३३ ॥ नियतं, नरेन्द्र, विदत्फणामणि स्फुरदंशुसूत्रितनवातपं नभः । सुरवैरिवीर्यदृढमत्सरं पुरः फणिसैन्यमाजिभुवि ते भविष्यति ॥ १०.३४ ॥ अधुनैव तेऽत्र निजतां व्रजन्ति वा सुभटाः स्वयं विधिवशेन के चन । कपयः पुरा रघुपतेर्यथा वने हनुमत्पतङ्गतनयाङ्गदादयः ॥ १०.३५ ॥ यदुदीरितश्च पुरुकुत्सकान्तया सरितासि वङ्कुमुनिदर्शनं प्रति । प्रतिभाति किं चन ममैव तत्र ते किमु निर्मुखेङ्गितविदस्तदिङ्गितम् ॥ १०.३६ ॥ अथवैक एव विभुरस्यरेर्वधे ननु धाम तत्स्फुरति शार्ङ्गिणस्त्वयि । उदितक्रुधस्त्रिपुरदाहडम्बरे शरतामवाप किल यत्पिनाकिनः ॥ १०.३७ ॥ अवलोकयामि शकुनं यथा तथा तदवैमि पक्ष्मलदृशः सभान्तरे । न चिरादुपोड्ःपुलकेन पाणिना कनकारविन्दमवतंसयिष्यसि ॥ १०.३८ ॥ त्वमिहैव नाथ मणिधाम्नि तिष्ठ वा न हि नाम तादृशमिदं प्रयोजनम् । असुरं निहत्य सहसैव तत्क्षणादहमानयामि तपनीयपङ्कजम् ॥ १०.३९ ॥ विजयी यदस्मि स्मरेषु जित्वराः प्रभवन्ति तत्र तव पादपांसवः । अरुणो यदन्धतमसं निषेधति स्फुरितं नराधिप तदर्कतेजसाम् ॥ १०.४० ॥ __________________________________________ नायकवाक्यम् मसृणोक्तिपल्लवितनीतिविक्रम क्रममित्युदीर्य विरते रमाङ्गदे । सः सरस्वतीमुखररत्ननूपुर ध्वनिपेशलं नृपतिराददे वचः ॥ १०.४१ ॥ त्वदृते मुखात्सुखनिरस्तसंशय प्रसरेयं भारती उल्लसति कस्य भारती । शशलक्ष्मणः परमखर्वशर्वरी तिमिरछिदुच्छलति कान्तिकन्दलि ॥ १०.४२ ॥ तव वेद्मि पौरुषमहं त्वया विना न वपुःस्थितिं क्व चन कर्तुमुत्सहे । धनुषीव दीर्घगुणसङ्गते यतस्त्वयि मे दृढप्रणयवासितं मनः ॥ १०.४३ ॥ गमने तदेहि सहितौ यतावहे झटिति त्रिविष्टपरिपोः पुरीं प्रति । अपदे यदुद्यमकथाविरोधिनी न हि सिद्धये भवति दीर्घसूत्रता ॥ १०.४४ ॥ __________________________________________ शुकवाक्यम् इति पार्श्ववर्तिनमुदीर्य मौनवानभवत्स मालवकुरङ्गलाञ्छनः । त्वरयावतीर्य सश्च रत्नपञ्जरात्पुरतः शुकोऽस्य पुन इत्यभाषत ॥ १०.४५ ॥ शृणु शङ्खचूडशुचिवंशभूरहं नृप, रत्नचूड इति नागरकः । उदपादि कण्वमुनिशिष्यशापतः शुकता ममेयमनिमीलितस्मृतिः ॥ १०.४६ ॥ प्रणयोक्तिभिर्मुनिरथ प्रसेदिवानिति मे सः शापतिमिरावधिं व्यधात् । वशिनां रुषो मतिषु नासते चिरं जलविपुषश्च, नृप, सस्यसूचिषु ॥ १०.४७ ॥ त्वमफल्गु नेष्यसि शशिप्रभान्तिकं नवसाहसाङ्कनृपतेर्यदा वचः । नियतं भविष्यति तदा कुमार ते शुकरूपरूपपरिवर्तनोत्सवः ॥ १०.४८ ॥ तदनङ्गषष्ठशरं संदिश स्वयं शनकैः किमप्युरगबालिकां प्रति । हृदि यन्निधाय सहसैव याम्यहं फणिनामनम्रमणितोरणां पुरीम् ॥ १०.४९ ॥ [वर्१०.४९ {॰शरं।लेम् ।ेम्॑ ॰शर ।ेद्}] अयि मौनमेतदवनीन्द्र, मुच्यतां द्रुतमुच्यतां च किमियं मयि त्रपा । पृथगस्मि देव न हि ते परिच्छदातुचितं न तन्मयि रहस्यगोपनम् ॥ १०.५० ॥ __________________________________________ नायकवाक्यम् इति वल्गु जल्पति शुकेऽथ विस्मयादपि विस्मयं परमवाप पार्थिवः । अवदच्च पञ्जरमिवास्य कल्पयन् दशनांशुभिः स्फटिकसूचिकोमलैः ॥ १०.५१ ॥ विपदं विलोक्य तव दुःसहामिमामयि रत्नचूड मम दूयते मनः । पतितं कुकूलदहने न कस्य वा मृदुमालतीमुकुलमाल्यमाधये ॥ १०.५२ ॥ __________________________________________ नायिकां प्रति संदेशः घटितं विधेरिदमजर्यमावयोर्न रमाङ्गदान्मम सखेऽतिरिच्यसे । इदमार्य तत्त्वयि विमुक्तयन्त्रणो ननु संदिशामि हरिणीदृशां प्रति ॥ १०.५३ ॥ विरतेऽपि मेघतिमिरे नताङ्गि मे न गतासि लोचनपथं यदा तदा । फणिलोकभूमिमतिदुर्गमामिमामविशं तव अनुपदमेव सुद्नरि ॥ १०.५४ ॥ नगरीं त्वदात्तहृदयोऽपि भोगिनामहमागतो न मृगदीर्घलोचने । श्रुतयेन्दुसूतिसरितान्यतो हृतः सहसैव हेमशतपत्रवार्तया ॥ १०.५५ ॥ अतिपाटलाधरमवाञ्चितं ह्रिया स्मितकान्तिमत्स्तिमितरत्नकुण्डलम् । तदपाङ्गसङ्कलितलोचनोत्पलं फणिलोककौमुदि मुखं स्मरामि ते ॥ १०.५६ ॥ द्वितये द्वयेन सहसोज्झितस्तदा शशिसूतिसिन्धुपुलिनोदरे शरः । जगदेकविभ्रमभ्वा भुवस्तले सुतनु त्वया मयि च पुष्पधन्वना ॥ १०.५७ ॥ धृतमूर्मिहस्तनिवहेन रेवया ननु फेनकान्ति करभोरु मे पतत् । विषये दृशोरुपदशं मनःशिला लिखितैकहंसमिथुनं तवांशुकम् ॥ १०.५८ ॥ मणिकान्तिलुप्ततिमिरे रसातले भवतीमिहानुसरता तनूदरि । अवलोकितान्यथ मया पदानि ते सहसा सुवर्णसिकताङ्किते पथि ॥ १०.५९ ॥ सरले जठित्युदितकार्श्यदोर्लता गैल्तानि रत्नवलयानि ते मया । कथमप्युदश्रुपृषतं पदे पदे चकितेन चन्द्रमुखि वीक्षितानि च ॥ १०.६० ॥ मनसा किमालिखति किं समाचरत्यधुना किमिन्दुवदना च वक्ति सा । इति मेऽपदिश्य भवतीं प्रवृत्तया हृदयं सशल्यमिव हन्त चिन्तया ॥ १०.६१ ॥ परितापवत्यविरलोच्छलत्प्रभा तुहिनच्छटाभिरसिताब्जलोचने । शरदिन्दुदीधितिकलापसुन्दरस्तव हार एष हृदि सिञ्चतीव माम् ॥ १०.६२ ॥ कथय प्रिये निहितसान्द्रचन्दन द्रवशीतलोज्ज्वलकरा कुचद्वये । मम हारयष्टिरपि सा सखीव किं मदनाभितापमपटूकरोति ते ॥ १०.६३ ॥ क्षणमप्यहो पतसि मे शुचिस्मिते न समुत्सुकस्य तव विस्मृतेः पथि । झटिति प्रविश्य हृदये ममात्र किं लिखितासि पद्ममुखि पुष्पकेतुना ॥ १०.६४ ॥ समुद्वहन्ती स्रवदञ्जनाश्रु घोरोत्करश्यामितकङ्कणेन । करारविन्देन मुखेन्दुबिम्बमापाण्डुरक्षामकपोलभित्ति ॥ १०.६५ ॥ नवे नवे पङ्कजिनीपलाश मृणालहारादिसनाथपार्श्वे । प्रवाललीलास्तरणे निषण्णा सिंहासने मन्मथपार्थिवस्य ॥ १०.६६ ॥ बालप्रवालाङ्कुरपाटलस्य लावण्यरत्नाकरकौस्तुभस्य । उदूष्मणा निःश्वसितेन कान्तिं कदर्थयन्ती दशनच्छदस्य ॥ १०.६७ ॥ अनल्पसङ्कल्पविकल्पजाल विलोडनैर्न स्वमपि स्मरन्ती । ससाध्वसेनाविरतं मया त्वमुत्प्रेक्ष्यसे पन्नगराजपुत्रि ॥ १०.६८ ॥ [स्य्न्तx कलापकस्] ब्रूमः कियन्नय कथं चन कालमल्पमत्राब्जपत्रनयने नयने निमील्य । हेमाम्बुजं तरुणि तत्तरसापहृत्य देवद्विषोऽयमहमागत इत्यवेहि ॥ १०.६९ ॥ भद्रैतद्व्रज रत्नचूडनिबिडप्रेमार्द्रमस्मद्वचस्तस्यास्तत्र कुरङ्गशावकदृशः कर्णावतंसीकुरु । शापान्ते बत विस्मरिष्यसि भ्रातस्तदेकं किमप्यादाय स्वयमेव तत्प्रतिवचः पार्श्वं ममाभ्येष्यसि ॥ १०.७० ॥ इति नृपतेः स्वान्ते कृत्वा मनोमृगवागुरां गिरमुदकमन्निस्त्रिंशाभे नभस्यशनैः शुकः । चिरविनिहितां दृष्टिं तस्मान्निवर्त्य तथोत्सुको झटिति गमने देवोऽप्यसीत्सः साहसलाञ्छनः ॥ १०.७१ ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये रत्नचूडसंप्रेषणो नाम दशमः सर्गः ************************************************ एकादशः सर्गः शत्रुजयार्थं प्रस्थानम् अथ बिभ्रत्सरागेण हृदयेन कृशोदरीम् । सः प्रतस्थे महीनाथः करेण च धनुर्लताम् ॥ ११.१ ॥ इन्द्रनीलप्रतोलीतः स निर्गच्छन् पतिः श्रियः । तत्कान्तिश्यामतां गत्वा क्षणं कृष्ण इवाबभौ ॥ ११.२ ॥ आसन्नपद्मसरसा कुसुमानम्रशाखिना । सो नर्मदोपदिष्टेन गन्तुं प्रववृते पथा ॥ ११.३ ॥ यान्तमेकान्तशिशिराः समीरास्तं सिषेविरे । एलालवङ्गकङ्कोल जातीफलसुगन्धयः ॥ ११.४ ॥ चक्रस्तस्यानिलस्पर्श क्वणत्काञ्चनपल्लवाः । मौक्तिकस्तबकस्मेरा विस्मयं रत्नवीरुधः ॥ ११.५ ॥ अमन्दमारुताक्षेप मुक्तमुक्ताफलच्छलात् । चलद्वंशलता मूर्ध्नि तस्य लाजानिवाकिरन् ॥ ११.६ ॥ अगलन् कुसुमव्याजात्तस्मिन्नभ्यर्णगामिनि । पातालकल्पवृक्षाणामानन्दाश्रुलवा इव ॥ ११.७ ॥ अरविन्दमुखक्रोड क्रीडन्मुखरषट्पदा । अनामयमिवापृच्छत्तमभ्यागतमब्जिनी ॥ ११.८ ॥ शशिप्रभाक्षिविस्तार संवादिन्यः पदे पदे । तं किमप्यार्द्रतां निन्युररण्यहरिणीदृशः ॥ ११.९ ॥ उपयुक्तामृतस्पर्धि नारिकेलफलोदकान् । आस्वादितलवाङ्गैला पूगनागलतादलान् ॥ ११.१० ॥ शय्यीकृतातनुस्वर्ण कदलीबालपल्लवान् । विष्टरीकृतविस्तीर्ण चन्द्रकान्तशिलातलान् ॥ ११.११ ॥ तत्कालोचितकर्तव्य व्यावृत्तैकरमाङ्गदान् । आवृत्तिविहितप्रेयः फणिराजसुताकथान् ॥ ११.१२ ॥ हृदयन्यस्तकर्पूर मृणालनलिनीदलान् । पुंःकोकिलकुलोल्लाप जनितस्मरसञ्ज्वरा ॥ ११.१३ न् ॥ जाम्बूनदलतागुल्म विहिताश्रयसौहृदान् । गच्छन् सस्तत्र कति चिन्निवासान् व्यधिताध्वनि ॥ ११.१४ ॥ [स्य्न्तx कुलकम्] __________________________________________ वङ्कुमुन्याश्रमप्राप्तिः संप्राप पृथिवीपालः कालेन कियताप्यथ । सः कूलोपान्तविचरन् यङ्कु वङ्कुतपोवनम् ॥ ११.१५ ॥ __________________________________________ आश्रमवर्णनम् हृतं कुतूहलेनालं तदालोकनजन्मना । पतिं मध्यमलोकस्य तं जगाद रमाङ्गदः ॥ ११.१६ ॥ सीमा सतीतिशब्दस्य सकुशाङ्काल्पपल्लवा । मैथिलीव श्रियं धत्ते कामप्याश्रमभूरियम् ॥ ११.१७ ॥ इतो वान्ति हविर्धूम लतालस्यप्रदा इमे । मरुतः पावनाः पक्व पुरोडाशसुगन्धयः ॥ ११.१८ ॥ इतो हिरण्मयी भूमिस्तरवो हेमवल्कलाः । उन्निद्रहेमपद्मानि पयांसीव पदे पदे ॥ ११.१९ ॥ काकपक्षाङ्कमूर्धानः पश्यैते गुरुशिक्षया । बटवः खण्डयन्त्यत्र समिधश्च पदानि च ॥ ११.२० ॥ अनया साम गायन्त्या स्वरसंशयवानयम् । इतः करोति कलहं शुकः सारिकया समम् ॥ ११.२१ ॥ इदमत्राद्भुतं पश्य मदक्लिन्नं गजस्य यत् । गण्डलेखां नखाग्रेण शनैः कण्डूयते हरिः ॥ ११.२२ ॥ प्रभामण्डलपर्यस्त तमसः शतशः पथि । तवापतन्ति पाताल रवयोऽमी महर्षयः ॥ ११.२३ ॥ एषां द्वितयमेताभिः कपिलाभिरलङ्कृतम् । उटजप्राङ्गणं गोभिर्जटाभिरभितः शिरः ॥ ११.२४ ॥ इतो गात्रपरावृत्ति भग्नास्थि पुरुषेतरान् । मुनेः शय्याकुशानत्ति बालः कस्तूरिकामृगः ॥ ११.२५ ॥ इतोऽप्ययमृषिः पश्य जपापाटलयानया । गवानुगम्यते सायं संध्येव दिवाकरः ॥ ११.२६ ॥ सहसैवातिथिः प्राप्तः कोऽप्ययं भवतामिति । एष प्रत्युटजं वक्ति ससंभ्रममयं शुकः ॥ ११.२७ ॥ अतः संप्रति वीक्षन्ते कौतुकोत्तानितेक्षणाः । त्वामिन्दुमिव पर्याप्त मण्डलं मुनिकन्यकाः ॥ ११.२८ ॥ भूदत्तस्मरसाम्राज्यं मुखश्रीतर्जितेन्दु च । आसामिन्दीवराक्षीणामलङ्कारो नवं वयः ॥ ११.२९ ॥ मुक्तास्त्रः स्त्रीषु कन्दर्पो देवात्रानुशयादिव । शङ्के संत्यज्य कोदण्डमात्तदण्डस्तपस्यति ॥ ११.३० ॥ __________________________________________ वङ्कुमुनिदर्शनम् तस्मिन्नित्युक्तवत्येव तथा सविधवर्त्मनि । ततः पृथ्वीशशाङ्केन वङ्कुमुनिरदृश्यत ॥ ११.३१ ॥ अंसावलम्बिनीर्बिभ्रत्सन्ध्याभ्रकपिशा जटाः । प्रसृता इव निर्गत्य परमज्योतिषः शिखाः ॥ ११.३२ ॥ दधद्यज्ञोपवीतेन सीमन्तितमुरःस्थलम् । जाह्नवीनिर्झरेणेव नभः प्रालेयपाण्डुना ॥ ११.३३ ॥ शुद्धैकगुणसंपृक्तामक्षमालां दधत्करे । मूर्तां तीव्रतपःसिद्धिमात्मनः फलितामिव ॥ ११.३४ ॥ योगक्षेमोपपत्त्यर्थमुपविष्टः कुशासने । नप्तेव मैथिलीभर्तुरतिथिर्नाम पार्थिवः ॥ ११.३५ ॥ प्रियसोमः सदायुक्तः प्रियया चानसूयया । पात्रमत्रिरिवोग्राणां तपसां तेजसामिव ॥ ११.३६ ॥ सो दृष्टिपथमायाति ययातिप्रतिमे नृपे । तुतोष कस्य वा न स्यादाकृतिस्तस्य सा मुदे ॥ ११.३७ ॥ ततः कृतप्रणामस्य तस्य प्रणतभूभृतः । विदधे स विशाम्पत्युरातिथ्यमत्तिथिप्रियः ॥ ११.३८ ॥ अथादूरे सुखासीनः सुखासीने महीभृति । इति सूनृतया वाचा स वक्तुमुपचक्रमे ॥ ११.३९ ॥ अद्य नः पुण्यबीजेन मुक्तो यत्सत्यमङ्कुरः । ललाम लोकत्रितये येन त्वमवलोकितः ॥ ११.४० ॥ तव शंसति सौभाग्यमभिजातेयमाकृतिः । इन्दोः सुधानिधानत्वं ज्योत्स्नया यत्प्रतीयते ॥ ११.४१ ॥ यथा प्रदेशमायातैर्व्यक्तिं वज्राङ्कुशादिभिः । चक्रवर्तीत्यनुक्तोऽपि चिह्नैस्त्वमनुमीयसे ॥ ११.४२ ॥ त्वदर्शनोत्सवेनैव कृतार्थं चक्षुरद्य नः । विमुञ्चति शरच्चन्द्रे चिररूढमपि स्पृहाम् ॥ ११.४३ ॥ हेतुद्वितयमेवात्र परमानन्दसम्पदः । परब्रह्मोपलब्धिर्वा सङ्गतं वा भवादृशाम् ॥ ११.४४ ॥ अकृत्वा भवतः प्रश्नं न स्थातुमहमुत्सहे । धीरतां मम भिन्दन्ति यत्कौतुकरसोर्मयः ॥ ११.४५ ॥ त्वया महीभृतामत्र वंशः केषामलङ्कृतः? । श्रोत्रपीयूषगण्डूषः कानि नामाक्षराणि ते ? ॥ ११.४६ ॥ अनेन गुणिना सार्धं धनुषानुचरेण च । केन कार्यातिभारेण त्वमेतामागतो भुवम् ? ॥ ११.४७ ॥ __________________________________________ रमाङ्गदवाक्यम् इत्युक्त्वा विरते तस्मिन् राज्ञा सस्मितमीक्षितः । स्थित्वा क्षणमुवाचेदमिङ्गितज्ञो रमाङ्गदः ॥ ११.४८ ॥ __________________________________________ अर्बुदाचलवर्णनम् ब्रह्माण्डमण्डपस्तम्भः श्रीमानस्त्यबुदो गिरिः । उपोढहंसिका यस्य सरितः सालभञ्जिका ॥ ११.४९ ॥ यः सूर्यांशुशलाकस्य विश्वस्योपरि तिष्ठतः । व्योमनीलातपत्रस्य दण्डत्वमधिरोहत् ॥ ११.५० ॥ आदातुमवतंसाय स्वर्णदीहेमपुष्करम् । यः सेन्द्रनीलकटको भुवो भुज इवोद्धृतः ॥ ११.५१ ॥ शिखरासन्ननक्षत्रो लक्ष्यते यः प्रतिक्षपम् । सशीकर इवोदस्तो हस्तः पातालदन्तिना ॥ ११.५२ ॥ यस्य शृङ्गेन्द्रनीलांशु श्याममादित्यमण्डलम् । क्षणं पुटकिनीपत्र छत्राकृति विलोक्यते ॥ ११.५३ ॥ नीलकण्ठप्रिया कामं कृतपञ्चाननस्थितिः । यस्याग्रभूमिर्गौरीव गुहापीतपयोधरा ॥ ११.५४ ॥ अधःसंनद्धमेधेषु स्थिता यस्याग्रसानुषु । प्रावृड्विलासालास्यानामनभिज्ञाः कलापिनः ॥ ११.५५ ॥ इन्दुः कटकमाणिक्यं यस्य तुङ्गस्य भूभृतः । भुवो यस्य च कान्ताया मेखलामणिरंशुमान् ॥ ११.५६ ॥ क्व चित्क्व चित्पतन्त्या यः कृष्णसारः शशित्विषा । कण्डूयत इवासन्नं शृङ्गेण हि मृगीं निशि ॥ ११.५७ ॥ पाण्डुः शरद्धनैरूर्ध्वमधस्तालीवनासितः । यः कैलास इवाश्लिष्टः पौलस्त्यभुजसम्प्रदा ॥ ११.५८ ॥ हरयः शेरते यस्य मत्तेभवधनिःसहाः । गुहासु नखनिर्मुक्त मुक्तादन्तुरभूमिषु ॥ ११.५९ ॥ अलकच्युतमन्दार मकरन्दसुगन्धिभिः । अमर्त्यमिथुनक्रीडा निकुञ्जैर्यस्य सूच्यते ॥ ११.६० ॥ उदञ्चदिन्द्रचापानि नानारत्नांशुपल्लवैः । सानूनि यस्य सेवन्ते द्वये चित्रशीनः ॥ ११.६१ ॥ पत्या सह वनान्तेषु विहरन्त्याद्रिकन्यया । नीयन्ते शोणतां यस्य शिलाः सालक्तकैः पदैः ॥ ११.६२ ॥ प्रतिभान्ति पुरस्तेऽपि यस्य वल्मीकवामनाः । शैलाः सुवेलकैलास महेन्द्रमलयादयः ॥ ११.६३ ॥ __________________________________________ वसिष्ठाश्रमवर्णनम् अतिस्वाधीननीवार फलमूलसमित्कुशम् । मुनिस्तपोवनं चक्रे तत्रेक्ष्वाकुपुरोहितः ॥ ११.६४ ॥ हृता तस्यैकदा धेनुः कामसर्गाधिसूनुना । कार्तवीर्यार्जुनेनेव जमदग्नेरनीयत ॥ ११.६५ ॥ [वर्११.६५ {हृता।लेम् ।ेद्॑ हृत्वा ।बुह्}॑ ११.६५ {सर्ग+।बुह्॰।लें सूर्ग+।ेद्॑ }] स्थूलाश्रुधारासंतान स्नपितस्तनवल्कला । अमर्षपावकस्याभूद्भर्तुः समिदरुन्धती ॥ ११.६६ ॥ अथाथर्वविदामाद्यः समन्त्रामाहुतिं ददौ । विकसद्विकटज्वाला जटिले जातवेदसि ॥ ११.६७ ॥ [वर्११.६७ {विकट्लेम् ।ेद्॑ विकल+।बुह्}] ततः क्षणत्सकोदण्डः किरीटी काञ्चनाङ्गदः । उज्जगामाग्नितः कोऽपि सहेमकवचः पुमान् ॥ ११.६८ ॥ दूरं संतमसेनेव विश्वामित्रेण सा हृता । तेनानिन्ये मुनेर्धेनुर्दिनश्रीरिव भानुना ॥ ११.६९ ॥ ततस्तापसकन्याभिरानन्दाश्रुलवाङ्कितः । कपोलः पाणिपर्यङ्कात्साश्रुलेखादपास्यत ॥ ११.७० ॥ [वर्११.७० {साश्रुलेखात् ।लेम् ।ेद्॑ साधुपूज्यात् ।बुह्}] __________________________________________ परमारवंशवर्णनम् परमार इति प्रपात्स मुनेर्नाम चार्थवत् । मीलितान्यनृपच्छत्रमातपत्रं च भूतले ॥ ११.७१ ॥ [वर्११.७१ {आतपत्रं।लेम् ।ेद्॑ अधिपत्यम् ।बुह्}] प्रवर्तितातिविस्तीर्ण सप्ततन्तुपरम्परः । पुराणकूर्मशेषं यश्चकाराम्भोनिधेः पयः ॥ ११.७२ ॥ स्थापितैर्मणिपीठेषु मुक्ताप्रालम्बमालिभिः । भूरियं यज्वना येन हेमयूपैरपूर्यत ॥ ११.७३ ॥ प्रशान्तचिन्तासन्ताने चिरेण नमुचिद्विषि । अमोच्यतास्तदैत्येन येनेर्ष्याकलहं शची ॥ ११.७४ ॥ वंशः प्रवऋते तस्मादादिराजान्मनोरिव । नीतः सुवृत्तैर्गुरुतां नृपैर्मुक्ताफलैरिव ॥ ११.७५ ॥ तस्मिन् पृथुप्रतापोऽपि निर्वापितमहीतलः । उपेन्द्र इति सञ्जज्ञे राजा सूर्येन्दुसंनिभः ॥ ११.७६ ॥ सदागतिप्रवृत्तेन सीतोच्छ्वसितहेतुना । हनुमतेव यशसा यस्यालङ्घ्यत सागरः ॥ ११.७७ ॥ शङ्कितेन्द्रेण दधता पूतामवभृतैस्तनुम् । अकारि यज्वना येन हेमयूपाङ्किता मही ॥ ११.७८ ॥ अत्यच्छदशनोद्गच्छतंशुलेखातरङ्गिभिः । दीर्घैर्यस्यारिनारीणां निःश्वासैश्चामारयितम् ॥ ११.७९ ॥ तस्मिन् गते नरेन्द्रेषु तदन्येषु गतेषु च । तत्र वाक्पतिराजाख्यः पार्थिवेन्दुरजायत ॥ ११.८० ॥ दीर्घेण चक्षुषा लक्ष्मीं भेजे कुवलयस्य यः । नारीणां दिशतानन्दं दोष्णा सत्तारकेण च ॥ ११.८१ ॥ शिथिलीकृतजीवाशा यस्मिन् कोपोन्नतभ्रुवि । निन्युः शिरांसि स्तब्धानि न धनूंषि नतिं नृपाः ॥ ११.८२ ॥ वैरिसिंह इति प्रापज्जन्म तस्माज्जनाधिपः । कीर्तिभिर्यस्य कुन्देन्दु विशदाभिः सटायितम् ॥ ११.८३ ॥ पौलोमीरमणस्येव यस्य चापे विलोकिते । चकितैः सरसीव क्ष्मा राजहंसैरमुच्यत ॥ ११.८४ ॥ श्रीसीयक इति क्षेत्रं यशसामुदभूत्ततः । दिलीपप्रतिमः पृथ्वी शुक्तिमुक्ताफलं नृपः ॥ ११.८५ ॥ लक्ष्मीरधोक्षजस्येव शशिमौलेरिवाम्बिका । वडजेत्यभवद्देवी कलत्रं यस्य भूरिव ॥ ११.८६ ॥ अखण्डमण्डलेनाप्य प्रजापुण्यैर्महोदयम् । कलिसंतमसं येन व्यनीयत नृपेन्दुना ॥ ११.८७ ॥ वशीकृताक्षमालो यः क्ष्मामत्यायतां दधन् । राज्याश्रममलंचक्रे राजार्षिः कुशचीवरः ॥ ११.८८ ] ॥ स्मितज्योत्स्नादरिद्रेण बाष्पस्राविमुखेन्दुना । शशंसुर्विजयं यस्य रुद्रपाटीपतिस्त्रियः ॥ ११.८९ ॥ अकङ्कणमकेयूरमनूपुरममेखलम् । हूणावरोधवैधव्य दीक्षादानं व्यधत्त यः ॥ ११.९० ॥ __________________________________________ नायकवर्णनम् अयं नेत्रोत्सवस्तस्माज्जज्ञे देवः पितृप्रियः । जगत्तमोऽपहो नेत्रादत्रेरिव निशाकरः ॥ ११.९१ ॥ श्रीमद्वाकपतिराजोऽभूतग्रजोऽस्याग्रणीः सताम् । सगरापत्यदत्ताब्धि परिखायाः पतिर्भुवः ॥ ११.९२ ॥ अतीते विक्रमादित्ये गतेऽस्तं सातवाहने । कविमित्रे विशश्राम यस्मिन् देवी सरस्वती ॥ ११.९३ ॥ चक्रिरे वेधसा नूनं निर्व्याजौदार्यशालिनः । ते चिन्तामणयो यस्य निर्माणे परमाणवः ॥ ११.९४ ॥ यशोभिसिन्दुशुचिभिर्यस्याच्छतरवारिजैः । अपूर्यता इयं ब्रह्माण्ड शुक्तिर्मुक्ताफलैरिव ॥ ११.९५ ॥ श्रियं नीलाब्जकान्त्या यः प्रणयिभ्यो ददौ दृशा । अरातिभ्यश्च सहसा जह्रे निस्त्रिंशलेखया ॥ ११.९६ ॥ अंसः सवल्कलग्रन्थिः सजटापल्लवं शिरः । चक्रे येनाहितस्त्रीणामक्षसूत्राङ्कितः करः ॥ ११.९७ ॥ पुरं कालक्रमात्तेन प्रस्थितेनाम्बिकापतेः । मौर्वीकिणाङ्कवत्यस्य पृथ्वी दोष्णि निवेशिता ॥ ११.९८ ॥ प्रशस्ति परितो विश्वमुज्जयिन्यां पुरि स्थितः । अयं ययातिमन्धातृ दुष्यन्तभरतोपमः ॥ ११.९९ ॥ अनेनास्तः कपोलेषु पाण्डिमा रिपुयोषिताम् । समाहृत्येव तद्भर्तृ यशसो बाहुशलिना ॥ ११.१०० ॥ सदा समकरस्यास्य लक्ष्मीकुलगृहस्य च । सिन्धुराज इति व्यक्तं नाम दुग्धोदधेरिव ॥ ११.१०१ ॥ अनेन विहितान्यत्र यत्साहसशतान्यतः । नवीनसाहसाङ्कोऽयं वीरगोष्ठीषु गीयते ॥ ११.१०२ ॥ विन्ध्यान्तश्चरतानेन मृगयासक्तचेतसा । कन्या शशिप्रभा नाम नागसूतिरदृश्यत ॥ ११.१०३ ॥ अदृश्यैरथ सा नागैरस्य पार्श्वादनीयत । तामन्वेष्टुं प्रविष्टेन कुतूहलबलादिह ॥ ११.१०४ ॥ समणिस्तम्भमग्रेऽथ धाम हिरण्मयम् । तत्र मूर्ता ततः सिन्धुरिन्दुसूतिर्विलोकिता ॥ ११.१०५ ॥ अकृतातिथ्यमेतस्य भक्तिनम्रस्य सा ततः । नीता पृष्टेन चैतेन स्ववार्तायामभिज्ञताम् ॥ ११.१०६ ॥ ततो वज्राङ्कुशोद्यान हेमाब्जाहृतिसाहसम् । हेतुः शशिप्रभावाप्तेर्विवृत्यावेदितस्तया ॥ ११.१०७ ॥ असूचयत्प्रसङ्गेन त्रिविष्टपरिपोरथ । उदग्रमसुरेन्द्रस्य वीर्यं वज्राङ्कुशस्य सा ॥ ११.१०८ ॥ ततस्तं प्रत्यमर्षोऽस्य झटित्यङ्कुरितो हृदि । अन्यत्र वीरवृत्तेर्यदयमेकान्तमत्सरी ॥ ११.१०९ ॥ पन्थाः पुरोऽसुरस्यास्य प्राञ्जलेः शंसितस्तया । असूच्यताग्रतश्चैततमोघं दर्शनं तव ॥ ११.११० ॥ अथेदं रत्नवलयं दत्त्वास्मै सममाशिषा । कान्ता तिरोहिता सा च पुरुकुत्सस्य भूपतेः ॥ ११.१११ ॥ अथैतेन गृहीतेयं यात्रा वज्राङ्कुशं प्रति । एषा च सुकृतैर्दृष्टा पादपद्मद्वयी तव ॥ ११.११२ ॥ __________________________________________ वङ्कुमुनिवाक्यम् इत्युक्त्वा सूक्तिचतुरो विरराम रमाङ्गदः । आददे मुनिरप्युद्यत्दन्तांशुशबलं वचः ॥ ११.११३ ॥ अहो पुराणराजार्षि सन्तानकथयैतया । पुण्यया हृतमात्मानमधुना मन्महे वयम् ॥ ११.११४ ॥ अवश्यम्भाविनी तत्र सिद्धिः साहसिकस्य ते । शल्यं त्रिविष्टपस्यास्य हृदयादुद्धरिष्यसि ॥ ११.११५ ॥ एष वज्राङ्कुशस्याजौ नाकृत्वान्तं निवर्तिता । भुजो भुवनभर्तुस्ते दिङ्नागकरपीवरः ॥ ११.११६ ॥ वधूस्तवाचिरेणात्र भविष्यति शशिप्रभा । यथा कुवलयाश्वस्य दिवःकन्या मदालसा ॥ ११.११७ ॥ स्थिरो भव मितं कालं स्थित्वास्मिन्नस्तपोवने । त्वया विनीयतामेष दीर्घध्वजनितः श्रमः ॥ ११.११८ ॥ __________________________________________ सिन्धुराजवाक्यम् इत्युक्ते मुनिना स अथ राजेन्दुरिदमब्रवीत् । आज्ञा विलङ्घ्यते तात तव केन जगद्गुरोः ॥ ११.११९ ॥ अथ क्रमोन्मीलितसौहृदासु कथास्वनेकासु मिथःकृतासु । विश्रम्यतामित्यवदन्महर्षिः पतिं पृथिव्याः प्रथितप्रभावः ॥ ११.१२० ॥ देवस्ततः स मुनिकल्पितमिन्द्रनील पर्यङ्कवत्कनकवेदिसनाथमध्यम् । अध्यास्त रत्नसदनं परितो वितान व्यालम्बितमौक्तिकलतं नवसाहसाङ्कः ॥ ११.१२१ ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते वङ्कुमहर्षिदर्शनं नाम दशमः सर्गः ************************************************ द्वादशः सर्गः अथ मानवमीनलक्ष्मणो मणिपर्यङ्कगतस्य तस्य सा । अपतत्फणिराजकन्यका जगदेकाभरणं स्मृतेः पथि ॥ १२.१ ॥ व्यधित प्रणयं दृशां पुरः कमनीयेषु स येषु वस्तुषु । जनितोत्कलिकाशतैः सस्तैररतेरायतनं व्यधीयत ॥ १२.२ ॥ मुहुरङ्गलताविवर्तनैः श्वसितैः शून्यविलोकनेन च । क्षितिभर्तुरुपान्तवर्तिना मदनाकल्पकमन्वमीयत ॥ १२.३ ॥ कदलीदलदत्तमारुतो हृदयन्यस्तमृणालकन्दलः । अथ तस्य बभूव यत्नवानुपचारे शिशिरे रमाङ्गदः ॥ १२.४ ॥ अभवद्द्वयमेव भूपतेः स्मरतप्तस्य मनोविनोदनम् । सुदृशः सः करातिथिः शरः सश्च हारः स्तनचन्दनाङ्कितः ॥ १२.५ ॥ मदनान्तरितोऽपि लङ्घितः पथि जातेन परिश्रमेण स । स्तिमितः क्षणमास्त कौमुदी विशदक्षौमतिरोहिताननः ॥ १२.६ ॥ अथ पार्श्वचरेण सादरं मृदुसंवाहितपादपल्लवः । सः कुरङ्गदृशेव निद्रया चतुरं लोचनयोरचुम्ब्यत ॥ १२.७ ॥ स्वपुरोपवने समुत्सुकः सुमुखीं स्वप्नप्रथेन पार्थिवः । अवतंसितहेमपङ्कजामथ तामङ्कगतां व्यलोकयत् ॥ १२.८ ॥ अभिकान्तमपाङ्गपातिना जितनीलाब्जदलेन चक्षुषा । दधतीमपवर्तितं ह्रिया मुखमापाण्डुकपोलमण्डलम् ॥ १२.९ ॥ शरदिन्दुमरीचिनिर्मलं विगलद्वेपथुना स्तनांशुकम् । मुहुराक्षिपतीमलक्षितं श्लथमुक्तावलयेन पाणिना ॥ १२.१० ॥ नवपल्लवकान्तिना किमप्यचिरावासितपुष्पकेतुना । ललितामधरेण बिभ्रतीं मुखचन्द्रांशुसटां स्मितच्छटाम् ॥ १२.११ ॥ जगदेकविलोकनोत्सवे वपुषि स्वेदकणैरलङ्कृताम् । उदितामिव मन्दराहतातुदधेर्लग्नसुधालवां श्रियम् ॥ १२.१२ ॥ वलिताहितनिःसहाङ्गुलि स्वकरश्लेषविशेषकम्पिनि । पुलकिन्यधिकं विमुञ्चतीं चकितं वामकुचे विलोचने ॥ १२.१३ ॥ अतिभासुररत्नकुण्डलामतिकान्तायतहारमण्डलाम् । जघनश्लथहेममेखलामसमेषोरधिदेवतामिव ॥ १२.१४ ॥ [स्य्न्तx कुलकम्] __________________________________________ नायकोक्तिः अथ सस्मितमात्तवेपथुः पतितो मन्मथपत्रिणां पथि । इति तां प्रणयार्द्रगिरा सः किलाम्भोजमुखीमवोचत् ॥ १२.१५ ॥ वलितं न विभाति पृष्ठतः कबरीकान्तमिदं तवाननम् । अयि नीलपयोधलेखया सः परिष्वङ्गमिवेन्दुमण्डलम् ॥ १२.१६ ॥ इदमङ्गदवर्तिना करैर्मणिना रुद्धमिवेरितं ह्रिया । न समर्थमितोपवर्तितुं वदनं ते ललिताङ्गि का गतिः ॥ १२.१७ ॥ इदमर्धविलोकिताधरं मधुरापाङ्गतरङ्गितेक्षणम् । श्रियमातनुते सितासितं सुतनु त्र्यश्रुविलोकितं तव ॥ १२.१८ ॥ मिलितस्तव गण्डलेखया सुदति स्वेदलवार्द्रपत्रया । किमपि स्पृहणीय एष मे मरुदासन्नदिवान्तशीतलः ॥ १२.१९ ॥ अयमुत्पलःपत्रलोचने तव बिम्बाधरपाटलच्छविः । अवलोकय कर्तुमीहते पदमस्ताचलचूलके रविः ॥ १२.२० ॥ दुरितघ्नमिदं सुदर्शनं दधता बिम्बमनूरुसारथेः । स्मरलक्ष्मि विहायसामुना तव कृष्णेन हृते विलोचने ॥ १२.२१ ॥ अरविन्दकरेण लोहितं कमलिन्या धृतमातपाशुकम् । इदमुष्णकरेण कृष्यते वलितेनापरदिग्वधूं प्रति ॥ १२.२२ ॥ करुणार्पितलोचनं मिथः क्रमविश्लेषगलद्बिसाङ्कुरम् । इदमार्द्रयतीव मे मनो मिथुनं मानिनि चक्रवाकयोः ॥ १२.२३ ॥ अवलोकय भीरु सम्प्रति त्रितयेन त्रितयं वियुज्यते । द्युमणिः प्रभया, श्रियाम्बुजं प्रियया साश्रुरयं विहङ्गमः ॥ १२.२४ ॥ इदमम्बरपल्वलोदरादतिताम्रद्युति कालदन्तिना । रविवारिरुहं निरस्यते कनकस्निग्धमयूखकेसरम् ॥ १२.२५ ॥ परिचुम्बति वारुणीं दिशं पुरतो रागहृते विवस्वति । दिगियं शतमन्युलाञ्छिता भवति श्याममुखी मितोदरि ॥ १२.२६ ॥ इह भान्त्यतिलोहितातप स्तबकाः पश्य वनान्तभूमयः । तपनानुगमोत्सवाङ्किता दिनलक्ष्म्येव पदैः सयावकैः ॥ १२.२७ ॥ मदिराक्षि पुरोऽवलोक्यतामपरस्यामयमानतो दिशि । स्तिमितामवगाहते गतिं गुरुगोत्रस्खलिताकुलो रविः ॥ १२.२८ ॥ अमुना शतपत्रबन्धुना सहसा सुन्दरि यद्यदुज्झितम् । सममद्रिगुहामुखस्थितैस्तिमिरैस्तत्तदितःकटाक्षितम् ॥ १२.२९ ॥ विरमन्नयि पल्लवाधरे सुरवीथीपथिको विरोचनः । अयमस्तगिरेर्निषीदति स्वकरामृष्टशिलातले तले ॥ १२.३० ॥ इयमश्रुतरङ्गितां दृशं द्वितये चक्रवधूर्विमुञ्चति । नवकुङ्कुमलोहिते रवौ दयिते चान्द्रवियोगविक्लवे ॥ १२.३१ ॥ चलितोऽसि वद क्व मां विना विरहं सोढुमहं न ते क्षमा । कृतपङ्कजकुड्मलाञ्जलिर्नलिनी कान्तमितीव याचते ॥ १२.३२ ॥ अनुपुञ्जितपिङ्गदीधिति द्रुतलाक्षारुणदर्पणोपमम् । परतोऽस्तगिरेरिदं गलत्यनवद्याङ्गि पतङ्गमण्डलम् ॥ १२.३३ ॥ सरले सह वारिजश्रिया निभृतं क्वापि गतः स भास्करः । वद तेन विनाब्जिनी कथं क्षणदामद्य नताङ्गि नेष्यति ॥ १२.३४ ॥ स्फुटविद्रुमराजिनैकतः सदृशं जातमुदञ्चता नभः । सुदति त्वदपाङ्गपटले पटु सान्ध्ये महसि प्रसर्पति ॥ १२.३५ ॥ परिपिञ्जरितासिताम्बरैर्निबिडैः कं न हरन्ति हारिभिः । अयि सायमिमाः पयोधरैर्धृतसन्ध्यातपकुङ्कुमैर्दिशः ॥ १२.३६ ॥ क्षणदाभिमुखेन खण्डिता ननु सन्ध्या तमसा मनस्विनी । कुपितेव निवर्तते जवाततिवाचालविहङ्गनूपुरम् ॥ १२.३७ ॥ तव चण्डि विडमयत्यदस्तनुसन्ध्यातपलिप्तमम्बुजम् । मणिकुण्डलकान्तिसङ्करातिदमाताम्रकपोलमाननम् ॥ १२.३८ ॥ उदितानि तमांसि सा च ते दयिता दैन्यमुपैति पद्मिनी । दिनभर्तुरितीव शंसितुं सहसा सुन्दरि सन्ध्यया गतम् ॥ १२.३९ ॥ निहितं बलिदीपकेषु तत्तपनेनाशु महः कृशोदरि । स्वशरस्फुरितं मनोभुवा तव सवृईडविलोकितेष्विव ॥ १२.४० ॥ अतसीकुसुमोपमं मुखे तदनु त्वत्कुचचूचुकद्युति । अथ बालतमालमांसलं प्रसृतं संप्रति सर्वतस्तमः ॥ १२.४१ ॥ तरुकोटरमूकशारिकं निजनीडाङ्कनिलीनकोकिलम् । करभोरु सनिद्रबर्हिणं प्रमोदोद्यानमिदं निमीलति ॥ १२.४२ ॥ प्रसृतैर्गिरिकन्दरोदरातिदमिन्दीवरदामकान्तिभिः । अधुना तिमिरैर्विगाह्यते भुवनं पद्मसरश्च दन्तिभिः ॥ १२.४३ ॥ तिमिराञ्जनभक्तिशोभिना धवलेनायतपक्ष्मपङ्क्तिना । अमुना भवतीव चक्षुषा कुमुदेनैति रुचं कुमुद्वती ॥ १२.४४ ॥ उदरस्थितयोः कुतूहलातलिनोः श्रोतुमिवास्फुटं वचः । कमलस्य निलीय निश्चलं दलसन्धिष्ववतिष्ठते तमः ॥ १२.४५ ॥ तरलेऽतिसितासितद्युताविह दोलायितमीक्षणद्वये । लिखितागरुपत्रलेखयोस्तिमिरं मूर्च्छति ते कपोलयोः ॥ १२.४६ ॥ उडुभिः खमितस्ततः क्षणादुदितैर्भङ्गुरकेशि भात्यदः । अतिगाढदिनोष्णजन्मभिः परितः स्वेदलवैरिवाङ्कितम् ॥ १२.४७ ॥ शबलं शशलाञ्छनत्विषा सतमः पश्य महेन्द्रदिङ्मुखम् । अचलेन्द्रसुतास्मितच्छवि छुरितं कण्ठमुमापतेरिव ॥ १२.४८ ॥ अहिराजसुते विलोक्यतामियमिन्दोः प्रथमोद्गता कला । अयि भाति यया इन्द्रदिङ्मुखे प्रमदेवार्द्रनखाङ्करेखया ॥ १२.४९ ॥ यदि कौतुकमायतेक्षने न चिरादेव सुधार्द्रयानया । अरविन्ददलद्युतौ करे मृदु लीलावलयं करोमि ते ॥ १२.५० ॥ अनवद्यमितः पुरः स्थितं विदितं किं शशिना तवाननम् । नभसः सहसाङ्कमेष यन्न कलङ्कत्रपयाधिरोहति ॥ १२.५१ ॥ इदमुद्गतमिन्दुमण्डलं दिगियं पश्य बिभर्ति लक्ष्मवत् । त्वमिवाच्छकपोलमण्डल स्फुटकालागरुपत्रमाननम् ॥ १२.५२ ॥ विगलत्तिमिरांशुके शनैः स्पृशति व्यक्तिमाधीरतारके । इह पश्य निशावधूमुखे स्फुरति श्वेतमरीचिकुण्डलम् ॥ १२.५३ ॥ अयमुल्लिखति ध्रुवं करैर्विधुरिन्दीवरलोचने तमः । कुमुदेषु तथा हि दृश्यतां निपतन्त्यस्य लवा इवालयः ॥ १२.५४ ॥ इदमञ्जननीलमाहतं पिहिताशं तुहिनांशुना करैः । अचलेन्द्रगुहासु लीयते शनकैः संकुचितं पुनस्तनः(?) ॥ १२.५५ ॥ मसृणोल्लसदंशुमण्डल छलतः पश्य दिवःकृतेऽनया । इयमिन्दुसमुद्गकादितो निशया हारलतेव कृष्यते ॥ १२.५६ ॥ यदभूत्तमसा जगत्तथा पिहिते पुष्करपत्रलोचने । तदिदं परतः प्रकाशितं शशिना कुङ्कुमकन्दपाण्डुना ॥ १२.५७ ॥ प्रसृतेव विलोचनोदरे तिलके सङ्कुचितेव चान्देन । कलितेव नताङ्गि लक्ष्यते तव मुक्तावलयेषु चन्द्रिका ॥ १२.५८ ॥ कुचयोः प्रतिबिम्बितः समं विधुरेकोऽपि भवत्ययं द्विधा । विधिनेव विभिन्नसंपुटस्तव लावण्यसुधासमुद्गकः ॥ १२.५९ ॥ हृतमुग्धमधूकशोभयोरनयोः पन्नगलोककौमुदि । तव चन्द्रकलाः कपोलयोः पतिताः स्पर्शकुतूहलादिव ॥ १२.६० ॥ अयमिन्दुमुखि त्वया यथा समुपैति स्पृहणीयतां जनः । अनयैष समागतस्तथा निशया पश्य कुरङ्गलाञ्छनस् ॥ १२.६१ ॥ धनुषि क्रियतेऽधिरोहणं स्मरमौर्वीलतया तनूदरि । शशिनेरितया समुच्छ्रिते पुलिनाद्रौ च पयोधवेलया ॥ १२.६२ ॥ कृतचाटुशतैः परस्परं मकरन्दार्द्ररजःसुगन्धिषु । स्थितमन्तरमीषु सांप्रतं भ्रमरैः पुष्करवासवेश्मसु ॥ १२.६३ ॥ मरुता सुहृदेव वीजितं कुमुदामोदमुचा शनैरितः । स्वपिति प्रणयार्द्रयोरिदं मिथुनं मानिनि राजहंसयोः ॥ १२.६४ ॥ अयि चक्रवधूरियं पुरः करुणं कूजति हा तपस्विनि । इह साक्षितयालमावयोरुचितं गन्तुमतः कृपावति ॥ १२.६५ ॥ इति भूतलवासवः सस्तामभिधाय प्रमदां प्रियंवदः । प्रविवेश तयासमं किल प्रमनाः केलिनगेन्द्रकन्दरम् ॥ १२.६६ ॥ झटिति स्फुटभावसङ्करां मधुरामङ्गलतां दधानया । शशिकान्तशिलातलं ततः सः किलाध्यास्त तया युवान्वितः ॥ १२.६७ ॥ तदनु त्रपया पराङ्मुखीं पुलकालङ्कृतपीवरस्तनीम् । सः किलाञ्चितचाटुरानयत्सुमुखीं तामनुकूलवृत्तिताम् ॥ १२.६८ ॥ अथ मन्थरलोचनं ह्रिया विनमत्स्मेरमुखः स्मितान्न्चितम् । सो ददर्श किल प्रजेश्वरः सुदृशः स्विन्नकपोलमाननम् ॥ १२.६९ ॥ यदलं किल मानवत्यभूदृजुवन्नेन्दुमुखी किलैक्षत् । लिखितेव किलास्त यत्परं नृपतेस्तेन मनः किलाहरत् ॥ १२.७० ॥ परिमृज्य मुखं विलासिना श्रवणेन्दीवररेणुरूषितम् । सुदृशः शमवारिपङ्किलातलकान्तस्तिलकादपास्यत ॥ १२.७१ ॥ अथ तां शिथिलीकृतत्रपामसमप्रेमहृतः किलेश्वरः । स्मरकेलिकलारसज्ञतामनयद्यूथपतिर्वशामिव ॥ १२.७२ ॥ शिथिलाकुलकेशपाशया परिमृष्टार्द्रकपोलपत्रया । विरलाधररत्नरागया सुलभस्वेदमुखेन्दुबिम्बया ॥ १२.७३ ॥ त्रुटितोज्झितहारलेखया निबिडाश्लेषकृशाङ्गरागया । असमग्रनखाङ्गमण्डित स्तनविन्यस्तसकम्पहस्तया ॥ १२.७४ ॥ अधिकाधिकजातलज्जया मृदुमीलन्नयनत्रिभागया । अथ कामपि निर्वृतिं तया सः किलापत्फणिराजकन्यया ॥ १२.७५ ॥ [स्य्न्तx कुलकम्] ददता नलिनीदलानिलं विकसत्स्वेदकणे कुचद्वये । चतुरं किल दीर्घचक्षुषस्तदनु क्लान्तिरनेन चिच्छिदे ॥ १२.७६ ॥ अथ सत्रपया धृतांशुकां जघनस्रस्तविसूत्रमेखलाम् । अवतंसितलोचनोत्पलां निजमङ्कं ललनां निनाय च ॥ १२.७७ ॥ सुदृशः सः किलान्यतश्चुतं(?) स्वपदे मौलिमणिं न्यवेशयत् । अकरोच्च किलारुणाङ्गुलिर्ललितावर्तनकुञ्चितान् कचान् ॥ १२.७८ ॥ पश्यात्र दर्पणतले लिखिता मयेयं पत्रावली तरुणि ते वलिताननेति । स्वप्नान्तरप्रणयजल्पितमात्मभर्तुरश्रूयत स्मितमुखेन रमाङ्गदेन ॥ १२.७९ ॥ अथ शुचि पठता शुकेन साम स्फुटमुटजाङ्गणपादपस्थितेन । विरचितदयितासमागमस्य प्रसभमभज्यत पार्थिवस्य निद्रा ॥ १२.८० ॥ झटिति विगते स्वप्नायातप्रियानवसङ्गमे पुनोऽपि तथा तत्प्रत्याशानिमीलितलोचनः । लिखित इव सः क्ष्मापालोऽभूत्क्षणं ननु तादृशामपि मनसिजो धैर्यं लुम्पत्यहो बत साहसम् ॥ १२.८१ ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये फणिराजसुतास्वप्नसमागमो नाम द्वादशः सर्गः ************************************************ त्रयोदशः सर्गः ततस्तथा पञ्चशरप्रतारितः सजृम्भमुन्मीलयति स्म लोचने । कृताङ्गुलिश्लेषविवर्तितोल्लसत्भुजांससम्पीडितकुण्डलो नृपः ॥ १३.१ ॥ सः सङ्गतं यन्मृगशावचक्षुषः श्रमाप्तनिद्रः स्फुटमन्वभूदिव । झटित्यभूज्जाग्रदवस्थयास्य तत्पुरातनालेख्यमिवास्फुटं हृदि ॥ १३.२ ॥ कुचाङ्गरागः कृशमध्यया तया मयि ध्रुवं सङ्क्रमितो भवेदिति । शनैः स निद्राकलुषेण चक्षुषा पराममर्शाङ्गमनङ्गमोहितः ॥ १३.३ ॥ अपास्य वामेतरकर्णभूषणं तथा शरैरेनमवाकिरत्स्मरः । यथास्य धैर्यं गलति स्म मानसात्सविक्रियं शुक्तिपुटादिव उदकम् ॥ १३.४ ॥ दृशं विषादस्तिमितामुपान्तगे निवेश्य तेनाथ निशश्वसे । यथा मुहुः श्यामलतां जगाहिरे वितानमुक्ताफलजालकस्रजः ॥ १३.५ ॥ __________________________________________ रमाङ्गदवाक्यम् कया नु सारङ्गदृशासि कारितः कपोलपत्रावलिकल्पनश्रमम् । तमित्यवोचत्परिहासवानथो(?) रमाङ्गदः किंचिदिव श्लथाङ्गदम् ॥ १३.६ ॥ ततः स मुक्तासितमादधत्स्मितं जितप्रवालत्विषि दन्तवाससि । शशंस तस्मै भुजगेन्द्रकन्यका समागमं स्वप्नजमब्जलोचनः ॥ १३.७ ॥ तदाश्रयैवानुचरेण वर्धिता कथासुधेवास्य ततो विलासिनः । अभूत्परं मन्मथतापशान्तये न पद्मिनीपत्रमरुन्न चन्दनम् ॥ १३.८ ॥ अजायतान्तःकरणेन ताम्यता न हेमपद्माहरणाय सत्वरम् । भुजः सदा रक्षणदीक्षितः क्षितेरमन्दमस्पन्दत चास्य दक्षिणः ॥ १३.९ ॥ __________________________________________ वङ्कुमुनेरागमनम् ततः पिनद्धोज्ज्वलहेमवल्कलं वहन्तमंसार्धविलम्बिनीर्जटाः । सनाथवामेतरपाणिपङ्कजं परिस्फुरन्त्या स्फटिकाक्षमालया ॥ १३.१० ॥ विशालनेत्राभरणैरनुद्रुतं सदैव दर्भाङ्कुरलालितैर्मृगैः । सशिष्यमभ्यागतमङ्गनान्तिके विशाम्पतिर्वङ्कुमहर्षिमैक्षत ॥ १३.११ ॥ विमुक्तपर्यङ्कतलः ससंभ्रमं निरीक्ष्य सद्यो मणिमन्दिराद्बहिः । किरीटरत्नद्युतिदीप्तभूतलं प्रणाममस्मै सश्चकार सादरम् ॥ १३.१२ ॥ ततः कृताशीर्मणिवेदिकास्तृते मुनिर्न्यषीदत्सकुरङ्गचर्मणि । सश्चासनत्वं तदनुज्ञयानयन्नृपचन्द्राश्चन्द्रमणेः शिलातलम् ॥ १३.१३ ॥ __________________________________________ मुनिप्रश्नः अपि श्रमेणायतमार्गजन्मना तनुर्महाराज तवेयमुज्झिता । मुनिः प्रहर्षेण कृतार्हणस्तदा स राजचूडामणिमित्यपृच्छत ॥ १३.१४ ॥ __________________________________________ भूपतिवाक्यम् अथादधद्वक्त्र इवाम्शुकाञ्चलं तुषारपाण्डुप्रसृतैर्द्विजांशुभिः । अकृत्रिमप्रश्रयपेशलं वचः स भूपतिर्वक्तुमिति प्रचक्रमे ॥ १३.१५ ॥ अमी सहन्ते मम तात न श्रमं प्रणामलग्नास्तव पादपांसवः । कियच्चिरं चन्द्रमरीचिचुम्बिते पदं निधत्ते कुमुदे दिनक्लमः ॥ १३.१६ ॥ __________________________________________ कपिदर्शनम् नृलोकपातालतलाश्रये मिथः कथानुबन्धे शिथिलीभवत्यथ । पर्याणपर्युत्सुकमानसो मुनिः स यावदाप्रष्टुमियेष पार्थिवः ॥ १३.१७ ॥ अनेन तावद्ददृशे पुरःस्थितो विशाललाङ्गूललतो वलीमुखः । अधःस्थलीनिर्गतजह्नुकन्यको हिमोज्ज्वलः पाद इवाम्बिकागुरोः ॥ १३.१८ ॥ करेण बिभ्रन्मधुमत्तकेरली कपोलवत्पाटलकान्ति दाडिमम् । अहर्मुखाकृष्टपतङ्गमण्डलः फलाशया बाल इवाञ्जनीसुतः ॥ १३.१९ ॥ [स्य्न्तx सन्दानितकम्] __________________________________________ फलार्पणम् द्वयोरिवार्थः खलु धर्मकामयोस्तयोस्त्रिलोकस्पृहणीययोः कपिः । मुनीन्द्रभूचन्द्रमसोः स्थितोऽन्तरे तपस्विभिः स्मेरमुखैरदृश्यत ॥ १३.२० ॥ अथार्पितं तेन फलं तदाददे स विस्मितो मध्यमलोकवासवः । जपारुणं मारुतिनेव मैथिली शिखण्डरत्नं दशकण्ठशासनः ॥ १३.२१ ॥ अकृत्रिमश्रीनिलयेन रागिणा नरेन्द्रचिह्नाङ्कितहस्तशोभिना । सुवृत्ततामुद्वहता स्वभावतः सस्तेन रेजे भृशमात्मना यथा ॥ १३.२२ ॥ अजातपाकस्य नवातपाधिकां पुनः पुनस्तस्य विलोक्य शोणताम् । नवप्रवालोपममेणचक्षुषः स्मरन् स बिम्बोष्ट्ःमवाप शून्यताम् ॥ १३.२३ ॥ अथास्य सीदन्मणिबन्धनात्करादवाञ्चतः कम्पविसूत्रिताङ्गुलेः । पपात पश्चादिव हेमकुट्टिमे तदस्फुतद्द्रागिव दाडिमीफलम् ॥ १३.२४ ॥ तदन्तरात्किंशुककान्तितस्करः स्फुरन्मणीनां निकरोऽथ निर्ययौ । उदर्चिषः पुष्पशरासनक्रुधा कणोत्करस्त्र्यम्बकलोचनादिव ॥ १३.२५ ॥ अथ द्वयेनावनिपाकशासनः स विस्मयस्याग्रमहीमनीयत । वनौकसा तेन विनीतवृत्तिना विकीर्णभासा मणिदाडिमेन च ॥ १३.२६ ॥ सश्चाद्भुतप्राभृततोषितः करे चकार रेवामणिकङ्कणं कपेः । घनात्ययऋतोर्निजमिन्दुपाण्डुरे पयोदखण्डे हरिवाडिवायुधम् ॥ १३.२७ ॥ ततः सुधासूतिमिवोज्झिताकृतिर्नवाञ्जनश्यामलयाङ्गलेखया । नृपः क्षणादेव विचित्रभूषणं पुमांसमग्रे न हरिं तमैक्षत ॥ १३.२८ ॥ कृतानतिर्विस्मितमानसे मुनौ रमाङ्गदे सादरमुक्तलोचनः । व्यधात्प्रणामं सः कृताञ्जलिर्नृपे कपोलवेल्लत्कलधौतकुण्डलः ॥ १३.२९ ॥ __________________________________________ मुनिकृतः प्रश्नः अलङ्कृतः कस्य वदान्वयस्त्वया पदं क्व ते किं च कपिर्भवानभूत् । तमेवमाह स्म सविस्मयोर्मिणा नृपेण साकूतविलोकितो मुनिः ॥ १३.३० ॥ [चोम् {आह पस्त्तेन्से}] __________________________________________ शशिखण्डवाक्यम् ततः स मुग्धेन्दुमयूखबन्धुभिः प्रसादयन् दन्तमरीचिभिर्दिशः । नवाम्बुभारालसनीरदावली निनादधीरामिति वाचमादे ॥ १३.३१ ॥ शिखण्डकेतोः शशिखण्ड इत्यहं मुनिन्द्र विद्याधरशासितुः सुतः । सुराङ्गनाध्यासितरत्नकन्धरे ममाधिवासः शशिकान्तपर्वते ॥ १३.३२ ॥ रथाङ्गपाणेः प्रतिमा समुद्रतः स्वयं महानीलमयी विनिर्गता । इति प्रवादः परमीक्षितुं च तां गता मणिद्वीपमितः पुरस्त्रियः ॥ १३.३३ ॥ ममापि तस्यामधिकं कुतूहलं तदेहि यावः कृत एष तेऽञ्जलिः । कदा चिदेवं सहसोपसृत्य मां प्रिया ययाचे प्रणिपत्य मालती ॥ १३.३४ ॥ [स्य्न्तx सन्दानितक] ततः खमिन्दीवरनीलमेकतस्तया सहोत्पत्य जवेन गच्छतः । सस्तात शैलेन्द्रभरक्षमः क्षणात्पपात मे लोचनगोचरेऽर्णवः ॥ १३.३५ ॥ उपोढनानामणिमौक्तिकोत्करैः करैरिवोर्ध्वं प्रसरद्भिरूर्मिभिः । अनर्घ्यमर्घ्यं जगदेकचक्षुषे समुद्यतो दातुमिवांशुमालिने ॥ १३.३६ ॥ नवप्रवालद्युतिपाटलोदरः करो मुरारेरिव शार्ङ्गलाञ्छितः । अलङ्कृतो जह्नुमहर्षिकन्यया पृथुर्जटाजूट इवान्धकद्विषः ॥ १३.३७ ॥ उदग्रकल्लोलकदर्थितग्रहैरगाधपातालतलावगाहिभिः । दिशो निरुन्धन्नवमेघनादिभिर्निमग्नदिङ्नागमदाविलैर्जलैः ॥ १३.३८ ॥ समेधितश्रीरभितस्तलोत्थितैः स्फुरन्मणिस्तोममयूखदामभिः । युगान्तजीमूतशतोदयार्पितैः पुलोमकन्यापतिकार्मुकैरिव ॥ १३.३९ ॥ उपान्तविश्रान्तपयोदमण्डलैर्जलद्विपप्रस्तुतवप्रकेलिभिः । चिरोल्लसद्द्वीपधिया समीक्षितैर्विशालनेत्रैस्तिमिभिः कृताद्भुतः ॥ १३.४० ॥ सुजातकाठिण्यपयोधराः स्पृहामुपाहरन्तीः पथि तादृशोः पथि । क्व चिद्दधानः शरदिन्दुपेशलाः शिलासु शुक्तीर्जलमानुषीरिव ॥ १३.४१ ॥ निजौघसीमन्तितसानुकर्दमैर्बृहद्दरीपुञ्जितरत्नराशिभिः । अधः प्रविष्टोद्धृतकच्छपोद्धृतैर्महाचलैरुल्लिखिताम्बरः क्व चित् ॥ १३.४२ ॥ सवेगवेलानिलवेल्लिताः क्व चिन्नवोद्गता विद्रुमकन्दलीर्दधन् । शिखा इवोर्ध्वं तरुणार्कलोहिता विनिर्गता वाडवजातवेदसः ॥ १३.४३ ॥ क्व चित्सुधापाण्डुनि फेनमण्डले निलीनदूर्वादलनीलनीरदः । सनाथतां नीत इवोपरि स्फुटं फणीन्द्रपर्यङ्कशयेन शार्ङ्गिणा ॥ १३.४४ ॥ क्व चिन्मणीनां कुमुदोदरत्विषः सितेतरेन्दीवरमेचकाः क्व चित् । क्व चिद्दधानः शुकचञ्चुपाटलास्तटेषु मुक्ताशबलोदराः शिलाः ॥ १३.४५ ॥ [स्य्न्तx कुलकम्] तथैव तस्योपरि गत्वरस्य मे तमालनीलेन पथा पयोमुचाम् । त्वराविशीर्णश्लथबन्धनाञ्चितः पपात सीमन्तमणिर्मृगीदृशः ॥ १३.४६ ॥ १३.४६ दृष्टव्यम्‌ . पाणिनि ३.२.१६४] प्रधावमानेन मयान्तरान्तरा नखाग्रनिर्लूनमयूखपल्लवः । सश्चान्तरं दीधितिमानिवोदधेर्विवेश कोशाम्रतरुच्छटारुणः ॥ १३.४७ ॥ निवर्तमानं तु हठाद्विकृष्यता तुरङ्गहस्तेन निरुन्धता नभः । क्षणादिव क्वापि रसातलोदरे करीव चिक्षेप कृतारवोऽर्णवः ॥ १३.४८ ॥ __________________________________________ स्त्रीदर्शनम् मयाथ तत्र भ्रमता सविस्मयं तमुद्वहन्ती मणिमुत्प्रभं करे । अदृश्यतैका विशती तपोवनं स्मरस्य मूर्ता ममतेव कन्यका ॥ १३.४९ ॥ ततः प्रियामौलिमणिर्न मेऽर्पितः पुनः पुनः प्रार्थितयापि यत्त्वया । अहं तदस्या मकराङ्किते बलादपाहरं मन्मथरत्नपादुके ॥ १३.५० ॥ किमाश्रमं शून्यमिदं तपोधनैरनेन हा धिङ्मुषितास्मि दस्युना । अथेति बाष्पोद्गमगद्गदैः पदैर्नुहुर्वदन्ती करुणं रुरोद सा ॥ १३.५१ ॥ __________________________________________ मुनिदर्शनम् ततस्तदीये रुदितध्वनौ श्रुते ससंभ्रमं कोऽपि महातपा मुनिः । विनिर्ययौ रत्नशिलागृहाद्बहिस्तमालभासस्तरणिर्घनादिव ॥ १३.५२ ॥ अनेन केनापि तवाश्रमे बलादिदं हि ताताभरणं हृतं मम । इति क्रुधं तद्वचसा स आददे हविर्निषेकेण शिखामिवानलः ॥ १३.५३ ॥ __________________________________________ शापवर्णनम् निबद्धभीमभ्रुकुटिर्विलोकयन् दृशा तदोल्काकपिशोग्रतारया । सस्तीव्रकोपस्फुरिताधरोऽवदद्वचो ममाक्षिप्य कृतानतेरिति ॥ १३.५४ ॥ प्रसूनमप्यत्र न जातु वीरुधां हरत्ययं नः पवनस्तपोवने । त्वया तु संप्रत्यबलाविभूषणे शठात्मनाशाय करः प्रसारितः ॥ १३.५५ ॥ अकारि कापेयमिदं त्वयेदृशं यदद्य सद्यः कपिरेव तद्भव । ततः स मामित्यशपत्कमण्डलोरपः समादाय दवानलोपमः ॥ १३.५६ ॥ __________________________________________ कोपशान्तिः अथास्य कोपः प्रशशाम मानसे शनैः कृपा सानुशये प्रसीदति । अपां कणस्तिष्ठति वीचिकम्पिते न पद्मिनीपत्रपुटोदरे चिरम् ॥ १३.५७ ॥ इहानुतापो भगवन् विमुच्यतामियं मदीया भवितव्यतेदृशी । तदुच्यतां शापनिशामुखोद्गतं कदा ममेदं तिमिरं व्यरंस्यति ॥ १३.५८ ॥ मयैवमुक्तः सस्तदैवमूचिवान् यदा पुरो वङ्कुमुनेरिहागतः । करे तवाधास्यति वत्स कङ्कणं स नार्मदं सीयकराजनन्दनः ॥ १३.५९ ॥ ततः प्रभृत्येव वलीमुखाकृतेः समाः सहस्रं वसतो रसातले । अनेन मे संप्रति पार्थिवेन्दुना तवाश्रमे शापतमस्तिरस्कृतम् ॥ १३.६० ॥ __________________________________________ प्रतिक्रियाकरणेच्छा कृतं यदेतेन मुनीन्द्र लीलया प्रतिक्रियां तत्र न कर्तुमस्म्यलम् । हिमत्विषः प्रत्युपकारगोचरो मरीचिलीढक्रशिमा किमंशुमान् ॥ १३.६१ ॥ तथाप्ययं देव निजप्रयोजने लघीयसि क्वापि नियोज्यतं जनः । अनूरुमुर्वीतलरत्नदीपकः किमार्यमा नाधित सूतकर्मणि ॥ १३.६२ ॥ तेनैवमुक्तः प्रणयोन्मुखेन न्र्पस्त्रपानम्रमुखो बभूव । अतादृशानां स्तुतयः प्रकृत्या मदं यदुद्दीपयितुं यतन्ते ॥ १३.६३ ॥ __________________________________________ निजवृत्तकथनम् एवं सुधारससमृद्धिमनोहरेण श्लाघ्येन तेन शशिखण्डसमागमेन । कामप्यवापदुमया घटितस्य लक्ष्मीं सः क्ष्मापतिर्झटिति जूट इवाष्टमूर्तेः ॥ १३.६४ ॥ तेनाथ सूनृतवचःश्रुतये सः पृष्टः पृथ्वीतलागमनहेतुमजानतेव । आख्यातवान् स्मितसुधास्नपितौष्ठबिम्बस्तस्मै निजव्यतिकरं नरलोकपालः ॥ १३.६५ ॥ विद्याधरस्तदनु सः प्रहितोऽपि राज्ञा नैव स्वधामगमनाभिमुखो बभूव । पूर्वोपकारिणि जनेऽनुपकृत्य किं चिद्यान्तो यदुन्नतधियः किमपि त्रपन्ते ॥ १३.६६ ॥ देव प्रसीद समितिः क्रियतामिदानीं भृत्यः स्वपादरजसामयमग्रयायी । तस्येति वल्गु वचनं वचसा महर्षेः सम्राट्ततः सः कथमप्युररीचकार ॥ १३.६७ ॥ __________________________________________ विद्याधरसैन्यागमनम् आमन्द्रशङ्खपटहस्वनसूचितं प्राक्सैन्यं क्षणान्निजमथ स्मृतमात्रमेव । धौतासिपत्रबहुलांशुलतोपगूढं पातालसंतमसमस्य पुरो बभूव ॥ १३.६८ ॥ __________________________________________ प्रस्थानम् तेनोपपादितमथो रथमुत्पातकमध्यास्य कार्मुकसनाथकरो नरेन्द्रः । वज्राङ्कुशं प्रति स वङ्कुमुनिप्रयुक्तः प्रस्थानमङ्गलविधिर्मसृणं प्रतस्थे ॥ १३.६९ ॥ लग्नेनाङ्गे युगपदुटजद्वारदेशाददूरे पश्यन्तीनां मुनिमृगदृशां लोचनांशूत्करेण । उद्दामाजिक्रतुमखविधेर्दीक्षया सः क्षितीशो मेध्यामेणत्वचमिव दधन् सः क्षणं लक्ष्यते स्म ॥ १३.७० ॥ [वर्१३.७० {॰विधेर् ।लेम् ।क्॑ ॰महा॰ ।ेद्}] चलितयतिसमाधि त्रस्तसारङ्गशावं निभृतशुकभृतोच्चैर्नडिमुड्डीनबर्हि । हरिणमिथुनमुक्तान्योन्यकण्डूयनं तन्मुनिवनमभितोऽभूत्सैन्यकोलाहलेन ॥ १३.७१ ॥ [१३.७१ नलिम्?] अथ पथि नवसाहसाङ्कः स विद्याधरैर्वन्दितः प्रमुदितमुनिकन्यकामुक्तनीवारलाजाञ्जलिः । श्रियमधित रमाङ्गदेनान्वितस्तूर्यघोषोर्मिभिः कुलगिरिकुहरप्रतिध्वानं दीर्घैर्निरुन्धन् दिशः ॥ १३.७२ ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये विद्याधराधिपसमागमो नाम त्रयोदशः सर्गः ************************************************ चतुर्दशः सर्गः __________________________________________ आकाशारोहणम् अथाश्रमोपान्तमहीं विहाय नेमिस्वनोत्कण्ठितनीलकण्ठाम् । रथोऽस्य विद्याधरमन्त्रशक्त्या रथाङ्गपणेः पदमारुरोह ॥ १४.१ ॥ ससंभ्रमोत्तंभितकर्णतालमाकर्णितो दिक्करिभिः सकंपैः । आध्मातशङ्खस्वनमांसलोऽग्रे तस्योदगान्मङ्गलतूर्यघोषः ॥ १४.२ ॥ उदस्य वक्त्राणि नभस्थलेन यान्तं तमैक्षन्त तपस्विकन्याः । आकर्णविस्तारितमुग्धनेत्राः पत्रान्तरैराश्रमपादपानाम् ॥ १४.३ ॥ व्रजन् स विद्याधरवाहिनीनां मध्ये बभौ मध्यमलोकपालः । अनल्पसौन्दर्यसुधैकसूतिः शशीव नक्षत्रपरम्पराणाम् ॥ १४.४ ॥ कुतूहलोल्लोलासितपक्षलेखान्याकृष्टकर्णोत्पलविभ्रमाणि । तस्मिन्नमुञ्च्यन्त नितम्बिनीभिरपाङ्गवल्गीनि विलोचनानि ॥ १४.५ ॥ __________________________________________ रमाङ्गदकृतं वर्णनम् अथान्तिकस्थेन सश्चाभ्यधायि रमाङ्गदेनेत्थमवन्तिनाथः । सहस्रशः खे चलितानि पश्यन् विद्याधराणां पुरतो बलानि ॥ १४.६ ॥ हैमं नृप स्यन्दनमुत्पताकमाकम्पि रत्नाङ्कितकेतुमेते । सहस्ररश्मेरिव वालखिल्या विध्याधरास्ते परिवारयन्ति ॥ १४.७ ॥ व्रजन्नमर्त्यप्रमदाविमुक्त मन्दारमालाजटिलांसकुटः । कुन्दच्छटापाण्डुसटाकलापः कात्यायनीसिंह इवावभासि ॥ १४.८ ॥ प्रयाणतूर्यध्वनिरेष किं ते पातालकुक्षिप्रतिनादसान्द्रः । रवः प्रसर्पत्युत भैरवोऽयमकालकल्पान्तपयोधराणाम् ॥ १४.९ ॥ मूले भुवः कज्जलधूलिकल्पमालक्ष्यते पश्य निलीनमेतत् । नीरन्ध्रविद्याधरमौलिरत्न प्रभाङ्कुरप्राशितमन्धकारम् ॥ १४.१० ॥ आयामिमालामणिकान्तिदण्डैरुत्सारयन्तः परितस्तमांसि । अमी मरुन्नर्तितचामरास्ते खमुल्लिखन्तीव खुरैस्तुरङ्गाः ॥ १४.११ ॥ विहस्य विद्याधरबालिकाभिः समं विमुक्ता नयनत्रिभागैः । प्रस्थानलाजाञ्जलयस्तवैते रथे पताकास्खलिताः पतन्ति ॥ १४.१२ ॥ नरेन्द्र विद्याधरपुङ्गवानामेते पुरः पश्य कृपाणपट्टाः । कालाञ्जनश्यामतयाश्रयन्ते तरङ्गतां व्योममहार्णवस्य ॥ १४.१३ ॥ वाचालयन्त्यः ककुभां मुखानि नादेन जाम्बूनदकिङ्किणीनाम् । इमा विमानावलयः कथं चिदन्योन्यरुद्धप्रसराः प्रयान्ति ॥ १४.१४ ॥ __________________________________________ वातवर्णनम् आधूतकार्तस्वरकेतुयष्तिरेनान्यशोकस्तबकारुणानि । आनर्तयत्येष पताकिनीनां वातः पताकांशुकपल्लवानि ॥ १४.१५ ॥ नभश्चराणां व्रजताममीषामन्योन्यपीनांसविघर्षणेन । उल्लासितः कुङ्कुमपांसुपूरः पिशङ्गयत्येष दिशां मुखानि ॥ १४.१६ ॥ __________________________________________ प्रेक्षकस्त्रीवर्णनम् सरत्नकाञ्चीवलयैर्विलास सिंहासनैर्मन्मथपार्थिवस्य । इतो नितम्बैरसितेक्षणानां व्याप्तान्तरं व्योम समाप्तिमेति ॥ १४.१७ ॥ अन्योन्यसङ्घट्टविसूत्रितानि कुमुद्वतीकान्तकरोपमानि । एतानि पश्याम्बरतः पतन्ति विमानमुक्ताफलजालकानि ॥ १४.१८ ॥ एताः प्रयान्त्यः पुरतो विमानैर्विवर्त्य बाला मुखपङ्कजानि । अपाङ्गविश्रान्तविलोलतारैस्त्वां नाथ नेत्राञ्जलिभिः पिबन्ति ॥ १४.१९ ॥ आसामितः सत्वरगामिनीनां गतागताभ्यां मणिकुण्डलानि । भिन्दन्ति विद्याधरकामिनीनां कपोलकालागुरुपत्त्रकानि ॥ १४.२० ॥ इतो मिथः पार्श्वविघट्टितेषु जवाद्विमानेषु समापतत्सु । आसामितः प्रेङ्खितमध्यरत्न विसूत्रिता हारलताः स्फुटन्ति ॥ १४.२१ ॥ एते गतिक्षोभवशाद्वधूनां पश्योन्मयूखा मणिकर्णपूराः । इतस्तले सञ्चरतामहीनां निपत्य चूडामणिषु स्वनन्ति ॥ १४.२२ ॥ पातालमेतन्नयनोत्सवेन विचिन्त्य शून्यं शशलाञ्छनेन । इहाङ्गनाभिः स्वमुखछलेन कृतोऽम्बरे चन्द्रमयीव सृष्टिः ॥ १४.२३ ॥ इतो रसं पल्लवयन्ति वीरं विद्याधराणां करवालवल्ल्यः । एताश्च शृङ्गारमितोऽङ्गनानां दृशो नवेन्दीवरदामदीर्घास् ॥ १४.२४ ॥ [वर्१४.२४ {॰वल्ल्यः।ेम्॑ ॰वल्लयः ।ेद् ।ुन्मेत्रिचल्}] झटित्यवाप्तप्रतिबिम्बमेतत्सैन्यं विलोक्य स्फटिकाङ्गणेषु । सविस्मयं नागपुराङ्गनाभिरितः क्रियन्ते नयनोत्पलानि ॥ १४.२५ ॥ नरेन्द्र तस्माद्गगनावहगाहि त्वद्दर्शनव्यग्रतपस्विपङ्क्तेः । दूरं हविर्धूमसुगन्धिसीम्नः स्थानाद्वयं वङ्कुमुनेः प्रवृत्ताः ॥ १४.२६ ॥ __________________________________________ वनवर्णनम् यथायमभ्येति पुरो नभस्वानाकृष्टनानाविधपुष्पगन्धः । अग्रे तथाभ्रंलिहभूरुहं नः शङ्के वनं दृक्पथमेष्यतीति ॥ १४.२७ ॥ एभिर्महीपाल विमानरत्नैरग्रेसरैः सम्भ्रममुक्तमार्गः । निष्कम्पकेतुर्महतास्पदेन रथस्तवायं वियति प्रयाति ॥ १४.२८ ॥ सितप्रसूनस्तबकैस्तरूणामेषा पुरस्तारिकान्तरिक्षा । झटित्यशेषैव निमेषमात्रादुन्मीलिता पश्य वनान्तलेखा ॥ १४.२९ ॥ यदीश विद्याधरवाहिनीयमाकाशतः किञ्चिदधः प्रवृत्ता । अवैमि चित्ते निहितं तदस्याः पदं वनालोकनकौतुकेन ॥ १४.३० ॥ एषा तमालावलिनीलकान्तेरुपोढरामामुखहेमपद्मा । सेना वनस्याभिमुखं प्रयाति पश्याम्बुरासेरिव जह्नुकन्या ॥ १४.३१ ॥ अस्याः क्षमापाल वनान्तराजेर्विमानपङ्क्तिः पुरतःस्थितेयम् । आलम्बते रत्नकिरीटलक्ष्मीं मणिप्रभोद्गीर्णमहेन्द्रचापा ॥ १४.३२ ॥ एते खलीनक्षतशोणिताक्ताः पश्येन्द्रगोपश्रियमुद्वहन्तः । तुरङ्गलालाजलबिन्दवस्ते लुठन्ति हेमद्रुमपल्लवेषु ॥ १४.३३ ॥ मन्दानिलान्दोलितपल्लवाग्राः समग्रपुष्पाहरणोद्यताभ्यः । इतो लताः पार्थिव संरभन्ते लावण्यमादातुमिवाङ्गनाभ्यः ॥ १४.३४ ॥ अमूनि पुष्पाणि महीरुहाणामाभान्ति लीनभ्रमरोदराणि । विद्याधरीविभ्रमदर्शनार्थमुत्तानितानीव विलोचनानि ॥ १४.३५ ॥ पश्याग्रवातायनमेतदेत्य लताग्रपुष्पाण्यचिन्वतीनाम् । नृपातिभारेण नितम्बिनीनां विमानरत्नानि पुरो नमन्ति ॥ १४.३६ ॥ शाखाग्रलग्नासु महातरूणां विटङ्करत्नद्युतिश्र्ङ्खलासु । विलम्बमानैरिव चिम्बितेयमितो विमानैर्मणिपञ्जरश्रीः ॥ १४.३७ ॥ इमाः समं प्राणसमैर्वनेऽस्मिन् सर्वऋतुर्लक्ष्मीनिबिडोपगूढे । नभःस्थिता एव नरेन्द्र पश्य पुष्पोच्चये लोलदृशः प्रवृत्ताः ॥ १४.३८ ॥ एताः करैः काञ्चनपद्मगौरैर्विलासवत्यः सनिबन्धनानि । हरन्ति पुष्पाणि महीरुहाणां मृदूनि यूनामिव मानसानि ॥ १४.३९ ॥ आसां लताग्रस्तबकोत्थितानि शिखण्डरत्नद्युतिचुम्बितानि । पश्योपरिष्टादलिमण्डलानि नीलातपत्रभ्रममारभन्ते ॥ १४.४० ॥ मुञ्चत्यलिः पुष्पलतामितोऽयमाघ्रातरामामुखपद्मगन्धः । गुणप्रकर्षे हि सदा मनांसि गुणान्तरज्ञावतां रमन्ते ॥ १४.४१ ॥ लतैतया चूततरोः सलीलमानीयमाना नतिमानताङ्ग्या । पश्योत्पतत्पुष्पशिलीमुखेयमाभाति कन्दर्पधनुर्लतेव ॥ १४.४२ ॥ भ्रमद्द्विरेफावलिलोलदृष्टिर्लीलावतंसक्रिययोन्मुखानि । विचेतुमेषा कुसुमानि नालं तरोस्तनालिङ्गनदोहदस्य ॥ १४.४३ ॥ प्रियार्पितः कान्तनिपीतमुक्त पुरन्ध्रिबिम्बाधरकान्तिचोरः । अस्याः सरत्नत्विषि कर्णपाशे किमप्यशोकस्तबकश्चकास्ति ॥ १४.४४ ॥ अस्या लताक्षेपविसूत्रितस्य हारस्य लग्नस्तनकुङ्कुमस्य । भ्रष्टाः क्षितौ दाडिमबीजमोहादाक्षिप्य मुक्ताः कपयः क्षिपन्ति ॥ १४.४५ ॥ निदाघलक्ष्मीहसितछटेयं पर्याप्तकृष्णागुरुधूमगन्धे । बन्धे कचाना नवमल्लिकास्याः पश्यालिनीले परिभागमेति ॥ १४.४६ ॥ असावितः पार्थिव दन्तपत्रमापास्य हंसछदपाण्डु बाला । करोति कर्णे नवकर्णिकारमुत्तापिताष्टापदरत्नशोभि ॥ १४.४७ ॥ स्थितोऽयमन्तो नवपल्लवानां प्रवालताम्राङ्गुलिरायताक्ष्याः । व्यक्तिं शरच्चन्द्रकरोज्ज्वलाभिर्नखांशुरेखाभिरितः प्रयाति ॥ १४.४८ ॥ धावत्करा कर्णशिरीषलोभादितस्ततः सम्पतति द्विरेफे । क्रीडामिव व्याकुलदृष्टिपाता बालेयमभ्यस्यति कन्दुकस्य ॥ १४.४९ ॥ प्रावृड्विलासस्मितमुद्वहन्ती कर्णे नवं केतकबर्हमेषा । प्रियावतंसीकृतचन्द्रलेखा चकास्ति कन्येव हिमाचलस्य ॥ १४.५० ॥ विलोकितालेख्यकपोलभागात्प्लवङ्गशावेऽधिगते विमानम् । इतः कदम्बादनिवृत्तहस्तमास्ते भयादालिखितेव तन्वी ॥ १४.५१ ॥ पुष्पाणि चिन्वत्यतिमुक्तकस्य पश्य श्लथं केशकलापमेषा । अंसे बिभर्तीव तमालनीलं विलासवालव्यजनं स्मरस्य ॥ १४.५२ ॥ विमुञ्चती चक्षुषि पुष्पधूलिमेषा गते तं प्रति वल्लभस्य । चित्रं झटित्यश्रुलवावकीर्णे दृशौ सपत्न्याः कलुषीकरोति ॥ १४.५३ ॥ मध्यच्युते बिभ्रति किंशुकेऽस्मिन्नस्रारुणस्याकृतिमङ्कुशस्य । अस्याः स्तनाभ्यामधुना धृतेयमनङ्गमत्तद्विपकुम्भलक्ष्मीः ॥ १४.५४ ॥ [वर्१४.५४ {अस्याः।लेम् ।ेम्॑ अस्या॰ ।ेद्}] अभ्यागतायाः सहसामुनास्याः कन्दर्पसाम्राज्यधुरोद्वहेन । सुगन्धिभिः पाटलिपादपेन पुष्पैरितः कल्पितमातिथेयम् ॥ १४.५५ ॥ आर्द्रागसेयं गमिता प्रसादं कृतप्रणामाञ्जलिना प्रियेण । प्रमृष्टबाष्पा सुमुखी नखाभ्यां चूताङ्कुरं मानमिवोच्छिनत्ति ॥ १४.५६ ॥ अध्यासते कामपि कान्तिमासामेते सकुन्दाः कबरीकलापाः । कुमुद्वतीकान्तकरानुविद्धास्तमःप्रताना इव यामिनीनाम् ॥ १४.५७ ॥ पुष्पाणि नानाविधवर्णभाञ्जि विमानवातायनतो विचित्य । युवायमिन्द्रायुधवर्णकान्तमुत्तंसमस्याः सदृशः करोति ॥ १४.५८ ॥ पश्येयमुद्बाहुलताहितश्रीर्मध्येन नश्यत्त्रिवली लतेव । विमानतः कोमलमुच्चिनोति वधूर्मधूकं स्वकपोलकान्ति ॥ १४.५९ ॥ अदः सुगन्धीकुरु मत्प्रसूनं मुखाब्जसौगन्ध्यकणार्पणेन । इत्यञ्चलासक्तलतो न याञ्चामस्याः करोतीव सः कर्णिकारः ॥ १४.६० ॥ तथा न चूते नवमञ्जरीयमवाप्तवत्यात्मगुणप्रकर्षम् । अस्याः सकालागरुपत्रलेखे यथा कपोले कमलेक्षणायाः ॥ १४.६१ ॥ वहत्यशोकोऽयममर्त्यकान्ता पदाहतः कान्तमलक्तकाङ्गम् । कृत्वा जगत्यस्खलितां निजाज्ञां स्कन्धेऽर्पितं तूणामिव स्मरेण ॥ १४.६२ ॥ चिरेण मन्ये बकुलद्रुमोऽयमवाप्तपारःस्पृहणीयतायाः । अर्थी करोऽस्याः सुमनःसु यस्य जातो जितामर्त्यतरुप्रवालः ॥ १४.६३ ॥ फलं शिरीषेण चिरादवाप्तमस्याः समग्रं सुकुमारतायाः । निरस्य गीर्वाणतरुप्रसूनां यदेतदुत्तंसितमायाताक्ष्या ॥ १४.६४ ॥ अस्याः श्रुतौ चम्पकमादधत्याः करेण मुक्तावलयाङ्कितेन । एष द्विजः स्वस्त्ययनं विरावैर्नास्याः करोतीति न मञ्जुकण्ठः ॥ १४.६५ ॥ विन्यस्तबन्धूकदली मुखेऽस्याः स्वेदार्द्रकालागरुपत्रवल्ली । चकास्ति संध्यातपलेशशङ्कि कलङ्कलेखा शशलक्ष्मनीव ॥ १४.६६ ॥ एता मिथो रुद्धविमानमार्गा लताग्रजं पुष्पमनाप्नुवन्त्यः । भवन्ति भारानमिताङ्गकेषु बद्धाभ्यसूयाः स्तनमण्डलेषु ॥ १४.६७ ॥ एतानि कान्तैः प्रमदाजनस्य नवप्रवालान्यवतंसितानि । पश्यन्ति पश्य स्वमिवाप्तकान्तिं कपोलपालीमणिदर्पणेषु ॥ १४.६८ ॥ यद्यद्वनेऽभूत्कुसुमं सुगन्धि वधूजनैस्तत्तदितो गृहीतम् । कृत्स्नत्रिलोकीविजयावतंसं निर्मातुमिष्वासमिव स्मरस्य ॥ १४.६९ ॥ कर्णावतंसीकृतपल्लवानां विचित्रपुष्पाभरणोज्ज्वलेषु । पश्याभितः पल्लवितेयमासामङ्गेषु सारङ्गदृशामृतुश्रीः ॥ १४.७० ॥ स्वेदोदबिन्दुछलतः कपोले वितीर्णमुक्तार्घ इव स्मरस्य । एणीदृशां कान्त इव प्रवृत्तः श्रमोऽयमालिङ्गितुमङ्गलेखाम् ॥ १४.७१ ॥ आसां पृथुस्वेदकणाङ्कितानि वक्त्राणि नेत्रोत्सवमर्पयन्ति । प्रत्युप्तमुक्ताफलदन्तुराणि हिरण्यमयानीव सरोरुहाणि ॥ १४.७२ ॥ एतानि पश्य च्युतपुष्पधूलि व्यालुप्तपक्ष्मावलिसौष्ठवानि । श्रमेण किं चिन्मुकुलीभवन्ति सीमन्तिनीनां नयनोत्पलानि ॥ १४.७३ ॥ [वर्१४.७३ {सौष्ठवानि।लेम् ।ेम्॑ सौष्टवानि ।ेद्}] एतासु सीदन्मणिबन्धमूल निलीनलीलामणिकङ्कणासु । विलोक्यतां व्यक्तिमुपैति खेदो विद्याधरस्त्रीजनदोर्लतासु ॥ १४.७४ ॥ अनङ्गकल्पद्रुममञ्जरीणाममोघमन्त्रं कुसुमायुधस्य । भृशं यथा पुष्पमयी विभूषा नासां तथा रत्नमयी विभाति ॥ १४.७५ ॥ वनान्तमेता वनिता न मुक्तुमनेकपुष्पं नृप शक्नुवन्ति । विमुच्यते केन नाम स देशो यत्रास्ति सान्द्रः सुमनःप्रचारः ॥ १४.७६ ॥ इत्युज्ज्वले तस्य वचःप्रसूने नीतेऽपि कर्णातिथितां विहस्य । नृपो बभूवास्तमनाः सचित्रं स्मृताहिराजेन्द्रसुताविलासः ॥ १४.७७ ॥ पुष्पप्रवालाङ्कुरमण्डलं तत्क्वणद्विमानावलिहेमघण्टम् । वनं विहायाथ समग्रमग्रे चचाल विद्याधरराजसैन्यम् ॥ १४.७८ ॥ __________________________________________ गङ्गावर्णनम् अथ प्रवालाधरबिम्बचुम्बि परिस्फुरत्फेनविलासहासा । वाचालहंसावलिकाञ्चिदाम सनाथतीरोरुनितम्बबिम्बा ॥ १४.७९ ॥ समीरवेल्लत्तटहेमवल्लि लोलप्रभापिञ्जरितोर्मिलेखा । विलासमज्जत्फणिराजकन्या सङ्क्रान्तकान्तस्तनकुङ्कुमेव ॥ १४.८० ॥ निमग्नदिङ्नागकपोलभित्ति सन्ताननिर्यन्मदवेणिकृष्णा । तृतीयनेत्रानलधूमवल्लि कलङ्कितेव त्रिपुरान्तकस्य ॥ १४.८१ ॥ भारानमद्भोगिफणास्थितायाः स्थलोच्छलद्वीचिचयच्छलेन । उत्तम्भयन्तीव तले सतर्कमर्कोपलस्तम्भशतानि भूमेः ॥ १४.८२ ॥ तटोद्गतप्रांशु तमालराजि छायाघनश्यामलितार्धभागा । मूर्तिस्तुषाराचलतुल्यकान्तिरुमापतिश्रीधरयोरिवैका ॥ १४.८३ ॥ कादम्बचञ्चूद्धृतचक्रवाकी पारिप्लवव्यक्तमृणालकाण्डा । चण्डीधवोन्नद्धजटाविटङ्क कृष्टेन्दुलेखाङ्कुरदन्तुरेव ॥ १४.८४ ॥ तरङ्गभङ्गोज्ज्वलचामरश्रीरुद्दण्डहेमाम्बुरुहातपत्रा । पुण्या पुरो दूरत एव तेन त्रिमार्गगादृश्यत पार्थिवेन ॥ १४.८५ ॥ [स्य्न्तx कुलक] तस्यास्तटेऽथ कुसुमावचयश्रमार्त सीमन्तिनीनिवहसस्मितवीक्षितायाः । विद्याधरेण विदधे धवलोर्मिधौत पर्यन्तहेमसिकते पृतनानिवेशः ॥ १४.८६ ॥ तदनु पुलिने सद्यो विद्याधरैः परिकल्पितं न्र्पतिरविशल्लीलागारं सः साहसलाञ्छनः । भ्रममजनयन्नेत्रोत्कीर्णा इति प्रतिबिम्बिताः सितमणिमये यस्मिन्नन्तो बहिश्च मृगीदृशः ॥ १४.८७ ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये पातालावलोकनो नाम चतुर्दशः सर्गः ************************************************ पञ्चदशः सर्गः अथ सान्द्रघर्मजलबिन्दु लुलिततिलकः प्रचक्रमे । हेमकमलसुभगे सरितः सलिले निमङ्क्तुमसितेक्षणाजनः ॥ १५.१ ॥ श्रममेत्य मुञ्चत मदम्बु रभसपरिरम्भलीलया । एवमवददिव दीर्घदृशः कलहंसयूथनिनदेन जाह्नवी ॥ १५.२ ॥ मरुतावधूतकलधौत कमलमकरन्दगन्धिना । ऊर्मिदलनशिशिरेण बलादबलाजनस्य नुनुदे परिश्रमः ॥ १५.३ ॥ परिविद्धरेखमधितीर विरचितपदे वधूजने । कान्तिमुदवहदमर्त्यसरित्तटरूढकाञ्चनलतेव कां चन ॥ १५.४ ॥ सितचक्षुषामसितरत्न रुचिमुषि मृणालिनीदले । स्थूलजललवनिभेन दधे नवमौक्तिकार्ध इव जाह्नुकन्यया ॥ १५.५ ॥ उदितत्रपा इव विलास मसृणगमनेन सुब्र्हुवाम् । जग्मुरमरसरितः पुलिनं सहसा विहाय कलहंसपङ्क्तयः ॥ १५.६ ॥ धवलाभ्रकछुरितभित्ति लिखितललिताङ्गनालिपिम् । अप्सु कुवलयदृशां प्रतिमाः सितरत्नदर्पणनिभासु लेभिरे ॥ १५.७ ॥ अथ वल्लभार्पितकराग्र निहितनिजपाणिपल्लवाः । वारिविकचकनकाब्जरजः कपिशोर्मिमालमबला जगाहिरे ॥ १५.८ ॥ सुदृशां निमज्ज्य सुरसिन्धु पयसि नियमस्थितैरिव । ऊर्मितरलितमयूखशिखैर्मणिनूपुरैः सपदि मौनमाददे ॥ १५.९ ॥ कुचलुप्तपत्रलतयाथ विगलितविसूत्रहारया । प्रापि रतिरमणविलासतुला ललितभ्रुवां जलविहारलीलया ॥ १५.१० ॥ नवकुङ्कुमारुणपुरन्ध्रि कुचकलशताडितं पयः । रागमभजत न कस्य भवेत्सुलभाङ्गखेलदबलस्य विक्रिया ॥ १५.११ ॥ विकिरन् विहस्य मणिशृङ्ग धृतमुदकमेत्य पृष्ठतः । साचिमुकुलितदृशा ददृशे दयितो मुहुर्वलितकण्ठमेकया ॥ १५.१२ ॥ [वर्१५.१२ {पृष्ठतः।लेम् ।ेम्॑ पृष्टतः ।ेद्}] परिणाहवत्कुचनिषिद्ध करणवलनोत्कदोर्लतम् । लोलमुखरमणिकङ्कणया विदधे जले मुरजवाद्यमन्यया ॥ १५.१३ ॥ हरिणीदृशो हृतपुरन्ध्रि कुचकलशकुङ्कुमाङ्किता । क्षिप्रमधिजघनमूर्मिलता शिथिलेव हेमरशना विदिद्युते ॥ १५.१४ ॥ सलिलं किरन्तमवलोक्य रमणमपराङ्गनामुखे । चित्रमविरलधृताश्रुलवे निमिमील का चिदबला विलोचने ॥ १५.१५ ॥ द्रुतमत्रुटद्विबुधसिन्धु निबिडलहरीकराहतम् । हारवलयमरविन्ददृशां कुशलं कुतोऽस्ति गुणिनां जडान्तरे ॥ १५.१६ ॥ शुशुभे कयापि करयन्त्र निहितशुचिवारिधारया । मुक्तसितकुसुमसायकया मकराङ्कचापलतयेव बालया ॥ १५.१७ ॥ परिवेषविभ्रमनिवेशि मनसिजतुषारदीधितेः । कोऽपि करकिसलये कमिता विदधे मृणालवलयं मृगीदृशः ॥ १५.१८ ॥ हृदयेशमुक्तजलधौत मलयजविलेपनैर्ह्रिया । लक्ष्यनवनखपदावपरा नलिनीदलेन पिदधे पयोधरौ ॥ १५.१९ ॥ अभितोऽङ्गनामुखमृगाङ्कमुडुनिकरकान्तिमाददे । केलितरलतरुणीनिबिड स्तनताडिते पयसि बुद्बुदोतकरः ॥ १५.२० ॥ विदधे वधूर्निजकराग्र गलितमणिकङ्कणाङ्किते । मेघशकल इव सेन्द्रधनुर्वलयोदरे नयनमब्जिनीदले ॥ १५.२१ ॥ असिताञ्जनाङ्कमभिजात कुवलयदृशां दृशोऽन्तरात् । नीरमहृत न हि शुद्धिमतां तटवृत्तिराश्रितकलङ्कमार्जने ॥ १५.२२ ॥ तरलोर्मिलङ्घितनितम्ब फलकलुलिताच्छवासः । फेनपटलमसिताब्जदृशः क्षणमेकमंशुकविलासमाददे ॥ १५.२३ ॥ सुदृशः स्फुटं नवनखाङ्कमुरसि जलधतकुङ्कुमे । कान्तनिहितनयनं पिदधे पृथुहारतारतरलांशुपल्लवः ॥ १५.२४ ॥ लुलिताञ्जनस्य नयनस्य सहभुवमिवेक्षितुं श्रियम् । लग्नजलसरलितैरलकैर्लुलुठे ललाटतटसीम्नि सुभ्रुवः ॥ १५.२५ ॥ दधतीव कापि रुचिमाप मनसिजविलासवल्लकीम् । अंसविनिहितमृणाललता तलवर्त्यलाबुपरिवर्तुलस्तनी ॥ १५.२६ ॥ सलिलाहतित्रुटितहार परिगलितमौक्तिकभ्रमात् । मुग्धयुवतिरपरा निदधे दृशमब्जिनीदलपुटोदबिन्दुषु ॥ १५.२७ ॥ धवलोदरैर्भयवशेन तरलवलितैर्विलोचनैः । नीलनलिनदलदामदृशां शफरैः समं सुचिरमप्सु बभ्रमे ॥ १५.२८ ॥ गलिताङ्गदा गुरुतरङ्ग दलितमणिकर्णपूरकाः । स्रस्तकनकवलयाः सुदृशः श्लथबन्धरत्नरशनाश्चकाशिरे ॥ १५.२९ ॥ अतिकम्पमूर्मिकुटिलभ्रु बहलनवकुङ्कुमारुणम् । स्त्रैणकरतलनिरस्तमभूदुपजातकोपमिव जाह्नवीजलम् ॥ १५.३० ॥ अकरोत्पदं पृथुनितम्ब विलुलितजलार्द्रवेणिषु । नीरलवशबलगण्डतलास्वबलासु कुण्डलितकार्मुकः स्मरः ॥ १५.३१ ॥ च्युतरत्नभूषणमरीचि रचितसुरचापमण्डलम् । केशकुसुमशबलं शुशुभे सुदृशामनङ्गमददीपनं पयः ॥ १५.३२ ॥ अथ ताभिरेकतपनीय सरसिजसनाथपाणिभिः । श्रीभिरिव समुदतारि ततः पुनरुक्तचाटुपटुभिः प्रियैः सह ॥ १५.३३ ॥ सजलांशुकान्तिविशदाङ्ग जनितनिबिडत्रपाकुलाः । व्यक्तनवनखपदाभरणाः प्रियलोचनान्यरमयन्मृगीदृशः ॥ १५.३४ ॥ अथ ता गृहीतशरदिन्दु धवलसिचयाः प्रसाधनाम् । चक्रुरधिवपुरमर्त्यसरित्पुलिनस्थलीकनकवल्लिधामसु ॥ १५.३५ ॥ तिलकाङ्किताः प्रचुरपुष्प परिमलमुचो मृगीदृशः । ऊढनवललितपत्रलता दधुरङ्गजोपवनराजिविभ्रमम् ॥ १५.३६ ॥ न चिरादलङ्कृतिविशेष विहितरुचयोऽतिपेशलाः । लक्ष्यनवनवरसाः शुचयः कविपुङ्गवोक्तय इवाङ्गना बभुः ॥ १५.३७ ॥ वहति स्म निर्मलकपोल लिखितमृगनाभिपत्रकम् । कापि निभृतमधुपावलिमत्कलधौतकोकनदकान्तमाननम् ॥ १५.३८ ॥ अधिकर्णमुद्गतमयूख मरकतमनोहरोदरम् । बालमिव मदनकल्पतरोर्दलमेकया कनकपत्रमाददे ॥ १५.३९ ॥ धृतयावकाङ्कमपि कान्त वदनपरिचुम्बनोचिते । रागमधुररुचके निदधे दयिते च का चन चकोरलोचना ॥ १५.४० ॥ हरिणाङ्कसुन्दरमनेक विशदगुणगुम्फिताकृतिम् । हारमवहदपरा न परं हृदि कान्तमप्यसमबाणदीपनम् ॥ १५.४१ ॥ इतरा पदाङ्कमिव मत्त मदनकरिणोऽलिकोदरे । सान्द्रमृगमदनमषीरचितं तिलकं कुरङ्गतिलकानना दधे ॥ १५.४२ ॥ हृतसुप्तहेमशतपत्र रुचिमुकुलिताङ्गुलीदले । का चिदितरकरसङ्घटितं निदधे विलासमणिकङ्कणं करे ॥ १५.४३ ॥ उदितासु काञ्चिगुणमध्य मरकतमरीचिसूचिषु । व्यक्तिमलभत न रोमलता स्मरदीपकज्जलशिखा मृगीदृशाम् ॥ १५.४४ ॥ सरसागसेव रमणेन चरणनलिनानुषङ्गिणा । पुष्पशरतरलिता दधिरे मणिनूपुरेण मृगलोचना रुचिम् ॥ १५.४५ ॥ दधतीभिरिन्दुकरजाल शबलतिमिरोर्मिविभ्रमम् । ऊढधवलकुसुमाभिरलं कबरीलताभिरबलाश्चकाशिरे ॥ १५.४६ ॥ प्रियपाणिपङ्कजधृतेषु सकलशशिबिम्बबन्धुषु । वक्त्रकमलमविलोलदृशो मणिदर्पणेषु ददृशुः पुरन्ध्रयः ॥ १५.४७ ॥ प्रकटं दधज्झटिति रागमलघुमथ वारुणीं प्रति । कान्तिनिकर इव तिग्मरुचेर्वनिताजनोऽभिमुखतां समाददे ॥ १५.४८ ॥ उदियाय मानतिमिरौघ विघटनपटुर्मनोऽम्बरे । बालकुवलयदृशां विशदे शनकैर्मनोभुवकुरङ्गलाञ्छनः ॥ १५.४९ ॥ अरुणाङ्गुलीदलनिरुद्ध नवकनककोशकर्णिकैः । सान्द्रमधुपरिमलई रुरुचे करपङ्कजैरथ चकोरचक्षुषाम् ॥ १५.५० ॥ मणिशुक्तिषु क्षणमुपोढ कुवलयसुगन्धिसीधुषु । न्यस्यदसमशरयन्त्रमिव भ्रमति स्म भृङ्गकुलमुत्सुकोत्सुकम् ॥ १५.५१ ॥ [१५.५१ श्लेष] रुरुचेऽलिमण्डलमुदंशु कमलचषकोपरि स्थितम् । एकमिव रतिपतेरुदितं तपनीयदण्डमसितोष्णवारणम् ॥ १५.५२ ॥ [वर्१५.५२ {कमल॰।लेम् ।ेम्॑ कमक॰ ।ेद्}] विधृता करे प्रियतमेन कतिपयशिलीमुखान्विता । चित्तमकृत विवशं सुदृशां कुसुमेषुकार्मुकलतेव वारुणी ॥ १५.५३ ॥ [१५.५३ श्लेष] अतिरागिणि प्रणयिणीव मधुनि परिचुम्बितानने । व्यक्तिमलभत मदो हृदये पुलकः कपोलफलके च सुभ्रुवाम् ॥ १५.५४ ॥ प्रतिमागतेन्दुकरजाल धवलितमिव श्रियं दधे । पाननमितमुखमुग्धवधू विगलद्विलासहसितछटं मधु ॥ १५.५५ ॥ मधु कापि पाटलकपोल तरलकलधौतकुण्डला । लोलनिजमुखतुषारकर प्रतिबिम्बगर्भमभिकार्पितं पपौ ॥ १५.५६ ॥ अतिरक्तमायततरेण विलसदसितोत्पलश्रिया । काममपिबदपरेन्दुमुखी चषकेण सीधु, नयनेन वल्लभम् ॥ १५.५७ ॥ अगमत्त्रयस्य सममेव परिमलरसज्ञतामलिः । कल्पविटपिमधुनः प्रमदा मुखमारुतस्य विकचोत्पलस्य ॥ १५.५८ ॥ अधराग्रचुम्बनमवाप्य कमलदलदीर्घचक्षुषाम् । श्वासतरलमजनिष्ट मुदा मुहुरात्तलास्यमिव कापिशायनम् ॥ १५.५९ ॥ मदमासवेन रमेण नखपदमिवार्पितं हृदि । नातिविशदपदबन्धमथो नवसाहसाङ्कचरितं जगुः स्त्रियः ॥ १५.६० ॥ मदिरार्पिताधरदलेन युवतिरमृतछटोपमा । प्रेमरसमृदुषु दीर्घदृशां हृदयेषु पल्लवयति स्म मन्मथम् ॥ १५.६१ ॥ दयिताहिते युवजनेन विलसदतिपाटलद्युतौ । कामसुहृदि विहितः प्रणयः प्रथमं मधुन्यधरपल्लवे ततः ॥ १५.६२ ॥ अवधूतमानमधुपान रसरभसतः प्रसन्नताम् । प्रापुरतिपृथुदृशां सहसा हृदयानि चाच्छमणिभाजनानि च ॥ १५.६३ ॥ दयितामनङ्गमदसूतिमसितनलिनावतंसकाम् । सान्द्ररुचियुवजनो मदिरां परिचुम्बति स्म न परं वधूमपि ॥ १५.६४ ॥ अनयन् सहैव शिथिलत्वमुभयमुभयेन योषिताम् । व्रीडमरुणरुचिना मधुना मणिकाञ्चिदाम च करेण कामिनः ॥ १५.६५ ॥ सुदृशां मदादथ परिस्रुदरुणितसितोदराः करात् । पेतुरमरसरितः पुलिने मणिशुक्तयः प्रियतमे च दृष्टयः ॥ १५.६६ ॥ नवपल्लवारुणमुवाह धृततरुणवारुणीमदः । रागमथ शुचिनि गण्डतले नयनोदरे च मदिरेक्षनाजनः ॥ १५.६७ ॥ अपरिस्फुटोक्तिललितासु मदमुकुलदीर्घदृष्टिषु । तासु शबलकुसुमांसलसत्कबरीलतासु पदमादधे स्मरः ॥ १५.६८ ॥ आपानभूरवसितासवरागदीर्घ सेन्दीवरस्फटिकशुक्तिशता चकासे । कौतूहलान्मदविलोलवधूविलास व्यालोकनोन्मिषितवक्त्रपरम्परेव ॥ १५.६९ ॥ अविरलमणिदीपोद्द्योतदूरापसर्पत्तिमिरममरसिन्धोः कूलकच्छं प्रविश्य । अथ सममसुनाथैस्ताः सलीलं निषेदुः सरसकनकजम्बूपल्लवप्रस्तरेषु ॥ १५.७० ॥ सान्द्रोन्मीलत्सौरभाण्युद्वहन्त्यो विद्युल्लेखपिङ्गलान्यङ्कानि । लक्ष्मीं हेमाम्भोजमाला इवापुः सारङ्गाक्ष्यः प्रेयसां कण्ठलग्नाः ॥ १५.७१ ॥ ततो विसूत्रच्युतहारयष्टिः शीर्णाङ्गदो भङ्गुरकर्णपूरः । मदेन सद्यो मदिरेक्षणानां रतोत्सवः पल्लवितो बभूव ॥ १५.७२ ॥ नानाङ्गरागशबले श्लथबन्धलोल धम्मिल्लमाल्यकुसुमप्रकरावकीर्णे । पुष्पेषुतल्पे इव वक्षसि वल्लभानां निद्रामवापुरथ ताः सुरतश्रमेण ॥ १५.७३ ॥ कन्दर्पस्य त्रिलोकीहठविजयमहासाहसोत्साहहेतुर्धुन्वंस्तत्पक्ष्मधूलिव्यतिकरकपिशः काञ्चनाम्भोरुहाणि । तन्वानस्तीररूढत्रिदशतरुलतालास्यमालस्यभाजां तासां संभोगकेलिक्लमभरमहरज्जाह्नवीवीचिवातः ॥ १५.७४ ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये पातालगङ्गावगाहनो नाम पञ्चदशः सर्गः ************************************************ षोडशः सर्गः अत्रान्तरे नभःसिन्धु पुलिनं प्राप पाटला । दधत्यनङ्गलेखेन लाञ्छितं पाणिपल्लवम् ॥ १६.१ ॥ मणिप्रग्रीवकोद्गीर्ण शुनासीरशरासनम् । अपश्यद्गगनोल्लेखि तत्र स्फटिकवेश्म सा ॥ १६.२ ॥ तदिन्द्रनीलद्वारे सा हेमवेत्राकुले बभौ । श्लिष्यन्ती सतडिल्लेखे लेखेवेन्दोः पयोमुचि ॥ १६.३ ॥ रत्नवातायनस्थस्य तिष्ठन् पार्श्वे महीपतेः । द्वाःस्थं किमपि पृच्छन्तीं तामैक्षत रमाङ्गदः ॥ १६.४ ॥ अन्तः प्रवेशयामास सश्च तामात्तसंभ्रमः । ययौ सा च विशांपत्युर्लोचनामृतवर्तिताम् ॥ १६.५ ॥ सिताश्महर्म्यमुत्तुङ्गं झटित्यधिरुरोह सा । आनन्दकन्दलीचित्तमत्यच्छं पार्थिवस्य च ॥ १६.६ ॥ क्षितिचुम्बितहारं सा प्रणनाम महीभुजे । रमाङ्गदं करग्राह सौहार्द्ये पात्रतां नयत् ॥ १६.७ ॥ नृपेण स्वयमुक्तापि इत एह्येहि पाटले । तल्लीलामणिपर्यङ्क सविधे निषसाद सा ॥ १६.८ ॥ __________________________________________ पाटलावाक्यम् कृतसम्भाषणा साथ तेनावनिमनोभुवा । इत्यवोचत दन्तांशु शबलाधरपल्लवा ॥ १६.९ ॥ मुद्रितस्मरसौन्दर्य वान्ता नेत्रामृतछटा । इयं मूर्तिर्महाराज कच्चित्कुशलिनी तव ? ॥ १६.१० ॥ कथमेतां प्रविष्टास्त्वं भूमिमत्यन्तदुर्गमाम् । न कस्य विस्मयायेयं शक्तिरत्यद्भुता तव ॥ १६.११ ॥ देव विद्याधरः कोऽपि शापान्निर्मोचितस्त्वया । इत्यमन्दः प्रवादोऽत्र तत्कोऽप्यसि नमोऽस्तु ते ॥ १६.१२ ॥ अहो गुणेन राजेन्द्र येन केनापि गृह्यसे । यदेवं क्लिश्यसे तस्याः फणीन्द्रदुहितुः कृते ॥ १६.१३ ॥ __________________________________________ नायकवाक्यम् अथ विद्रुमताम्रौष्ठ लुठद्दशनदीधितिः । स्मित्वा वसुमतीनाथस्तामिति प्रत्यभाषत ॥ १६.१४ ॥ कदाचित्पाटले कच्चिद्भुजङ्गपतिकन्यका । स्मरत्यस्मान् सखीस्वैर सङ्कथास्वन्तरान्तरा ॥ १६.१५ ॥ किमनङ्गवती वक्ति ब्रूते माल्यवती च किम् । अप्यस्त्यहिपुरेऽस्माकं किंवदन्ती कियत्यपि ॥ १६.१६ ॥ फणिराजसुताकर्णं कच्चित्प्रापय्य मद्वचः । विहितो रत्नचूडेन शुकरूपविपर्ययः ॥ १६.१७ ॥ किमागतासि किं चैवं परिम्लानेव लक्ष्यसे । निवेदय द्रुतं यन्मे किमप्याशङ्कते मनः ॥ १६.१८ ॥ __________________________________________ लेखार्पणम् इति पृष्टवते तस्मै सान्द्रप्रेमार्द्रचेतसे । कन्दर्पदीपनं लेखमर्पयामास पाटला ॥ १६.१९ ॥ तमात्तं वाचयेत्युक्त्वा परमारकुलोद्वहः । रमाङ्गदस्य चिक्षेप सम्भ्रमोत्तानिते करे ॥ १६.२० ॥ तं हेमकदलीपत्र कस्तूरिलिखिताक्षरम् । सोऽवधार्याथ तस्याग्रे व्यक्तवागित्यवाअचयत् ॥ १६.२१ ॥ __________________________________________ शशिप्रभालेखः स्वस्ति स्थितस्य स्वःसिन्धु तीरे फणिपुरस्थया । इदं मध्यमलोकेन्दोर्माल्यवत्या निवेद्यते ॥ १६.२२ ॥ यदैवास्मत्सखी विन्ध्ये त्वया राजन् व्ययुज्यत । तदैवेयं कुरङ्गीव विद्धा हृदि मनोभुवा ॥ १६.२३ ॥ दृष्टिः सर्वत्र राजेन्दोः सुधानिष्यन्दिनी तव । जाता शशिप्रभायां तु सैव हालाहलछटा ॥ १६.२४ ॥ न विनोदयितुं शक्यमेषा केनापि वस्तुना । विनेश तव कर्पूर शीतया सङ्गमाशया ॥ १६.२५ ॥ त्वद्दर्शनोपकारिण्याः करोत्येकावलीमिव । इयं पक्ष्माग्रवर्त्यश्रु पृषतछद्मना दृशः ॥ १६.२६ ॥ वक्ति व्यक्ताश्रुलेखेन निहितेन करोदरे । इयमापाण्डुगण्डेन स्मरतापमुखेन्दुना ॥ १६.२७ ॥ शिरीषादपि मृद्वङ्गी क्वेयमायातलोचना । एष क्व च कुकूलाग्नि कर्कशो मदनज्वरः ॥ १६.२८ ॥ नेयं प्रवालशय्यायां नापि प्रालेयवेश्मनि । न चेन्दुमणिपर्यङ्के सखी निर्वृतिमेति नः ॥ १६.२९ ॥ निसर्गरक्तमेतस्याः सखीजनमिवाधरम् । नयन्ति किमपि म्लानिमुष्णा निःश्वसितोर्मयः ॥ १६.३० ॥ अरतित्वमवाप्याम्भः कणिकेव विघूर्णते । एषा कमलिनीपत्र शय्यायामायतेक्षणा ॥ १६.३१ ॥ अस्याः स्मराग्निसन्तप्तं वपुः शशिकलामृदु । नीरन्ध्रघर्मसलिल छलेनेव विलीयते ॥ १६.३२ ॥ कृशतामङ्गके गाढमस्याः कुसुमकोमले । आरोपयति पुष्पेषु मौर्वीमिव शरासने ॥ १६.३३ ॥ धृतया हृदि बालेयं वितीर्णहरिचन्दने । निर्वाणमेति भवतः कथया न जलार्द्रया ॥ १६.३४ ॥ आकर्णकृष्टकोदण्डस्त्वां विना निशितैः शरैः । भिनत्त्यङ्गमनङ्गोऽस्याः क्षितिश्चेतसि कापि मे ॥ १६.३५ ॥ इयमत्यच्छहृदये दधत्यतिसुवृत्तताम् । बाला माणिक्यमुकुरे विमुखी संमुखी त्वयि ॥ १६.३६ ॥ एषा शिखेव दीपस्य मुग्धा दग्धदशाश्रया । स्मरानिलपरामर्शादितश्चेतश्च वेपते ॥ १६.३७ ॥ इयमिन्दुद्युतिहरं युक्तमत्यायतैर्गुणैः । मृणालवलयं हस्ते वहति त्वां च चेतसि ॥ १६.३८ ॥ अनङ्गतापवत्यस्या निकामसरसं हृदि । सङ्कुचत्यब्जिनीपत्रं न तु त्वत्प्रेमपल्लवः ॥ १६.३९ ॥ क्रियते वलयेनास्या मणिबन्धे गतागतम् । कार्श्याग्रभूमिमाप्तायास्त्वय्यन्तःकरणेन च ॥ १६.४० ॥ जायते पेशलमपि प्रायो वस्त्वन्यथापदि । प्राप्तो मृणालहारोऽपि यदस्या दाहहेतुताम् ॥ १६.४१ ॥ निहिताः सास्रमालीभिर्लवलीपाकपाण्डुनी । अस्याः स्तनतटे भारः परं वानीरपल्लवाः ॥ १६.४२ ॥ न चन्दनेन नोशीर वारिणा न जलार्द्रया । नास्याः पुटकिनीपत्रैः शममेति स्मरज्वरः ॥ १६.४३ ॥ किं चापरं त्वमेतस्या हृदयस्याधिदेवता । यतस्त्वन्मयमेवैषा विश्वं विश्वेश पश्यति ॥ १६.४४ ॥ रत्नचूडोपनीतेन सन्देशेन तवाधुना । इयमुच्छ्वसिता किं चित्सुधागण्डूषबन्धुना ॥ १६.४५ ॥ तावदागच्छ वेगेन गृहीत्वा हेमपङ्कजम् । अनङ्गविधुना यावदियं श्वसिति नः सखी ॥ १६.४६ ॥ __________________________________________ नायकस्य प्रतिसन्देशः एवमाकर्ण्य ललितं लेखार्थमथ पार्थिवः । उद्भिन्नसान्द्रपुलकः पाटलामित्यवोचत ॥ १६.४७ ॥ यथा सखी वः किमपि प्रपन्ना विधुरां दशाम् । तथा त्वमपि मामेवं पाटले किं न पश्यसि ? ॥ १६.४८ ॥ तद्गच्छ तां शशिमुखीमाश्वासयितुमर्हसि । वयमेते च हेमाब्जमानेतुं प्रयतामहे ॥ १६.४९ ॥ तथा कार्यं न वन्ध्यः स्याद्यथा मम मनोरथः । वक्तव्या माल्यवत्यैवं मद्गिरा वल्गुवादिनि ॥ १६.५० ॥ __________________________________________ पाटलाप्रयाणम् आवृत्तिदत्तसन्देशा सा ततः पृथिवीभुजा । फणिराजेन्द्रनगरीं त्वरितं पाटला ययौ ॥ १६.५१ ॥ प्रस्थानशंसी सहसा तस्याथ पृथिवीपतेः । प्रलयाम्बुधरध्वान धीरं दध्वान दुन्दुभिः ॥ १६.५२ ॥ __________________________________________ विद्याधरस्त्रीपुरुषवर्णनम् नदन्नुत्कम्पिमनसां स विद्याधरयोषिताम् । निन्ये प्रियपरिष्वङ्ग श्लथतामथ दोर्लताः ॥ १६.५३ ॥ कथं चित्प्राणनाथस्य मुखाधरपल्लवम् । बाला व्यघटयत्का चित्काचिदुरसश्च पयोधरौ ॥ १६.५४ ॥ शनैर्बबन्ध जघने नखाङ्कवति मेखलाम् । कापि स्मितमुखी कान्ते तिर्यगर्पितलोचना ॥ १६.५५ ॥ दृष्टिं दास्यन्ति मे सख्यः खण्डिते दन्तवाससि । किमत्र कृत्यमित्यन्या किमपि व्याकुलाभवत् ॥ १६.५६ ॥ का चित्पर्यङ्कमालोक्य सालक्तकपदाङ्कितम् । अन्योन्यार्पितनेत्राभिर्वयस्याभिरहस्यत ॥ १६.५७ ॥ एका माणिक्यकटकं कराग्रच्युतमाददे । हृदयं पुष्पचापेन मध्ये विद्धमिवात्मनः ॥ १६.५८ ॥ चुम्बनक्लिष्टबिम्बौष्ठं जागरारुणलोचनम् । मुखाम्भोजं दृशान्योनं विलासिभिरपीयत ॥ १६.५९ ॥ __________________________________________ रत्नवतीं प्रति गमनम् सोऽथ प्रववृते गन्तुं विद्याधरबलान्वितः । रथेन रथिनामग्र्यः पुरीं रत्नवतीं प्रति ॥ १६.६० ॥ __________________________________________ रत्नचूडसमागमः ततः फणिकुमारेन रत्नचूडेन स अध्वनि । समगंस्त जगत्पूज्यः पूषा दर्श इवेन्दुना ॥ १६.६१ ॥ [१६.१६ आदर्शे?] सस्तस्योपयानीचक्रे दिक्चक्रस्खलितध्वनिम् । अच्छिन्नदाननिष्यन्दमात्मानमिव वारणम् ॥ १६.६२ ॥ नृपस्य दीपिकाकृत्यं चक्रिरे तिमिरच्छिदः । पुरः प्रसर्पत्तत्सैन्य फणारत्नांशुसूचयः ॥ १६.६३ ॥ कियताप्यथ कालेन सन्ततैः सः प्रयाणकैः । प्रपेदे कुसुमाश्लेष सुगन्धिपवनं वनम् ॥ १६.६४ ॥ __________________________________________ दूतप्रस्थापनम् असुराधिपतिं साम्ना याचितुं हेमपङ्कजम् । स्थित्वा सस्तत्र पुरतो विससर्ज रमाङ्गदम् ॥ १६.६५ ॥ सश्च त्रिजगतः सारमादायैव विनिर्मिताम् । उत्तुङ्गरत्नप्रासादां प्राप रत्नवतीं पुरीम् ॥ १६.६६ ॥ रामार्थबद्धकक्षेण प्रेषितः प्रभुणाविशत् । परिखार्णवमुल्लङ्घ्य सस्तां लङ्कामिवाङ्गदः ॥ १६.६७ ॥ कोऽयं कोऽप्ययमन्योन्यमेवं पल्लवितोक्तिभिः । कौतुकस्तिमिताक्षैः सः पौरैश्चिरमदृश्यत ॥ १६.६८ ॥ स चन्द्रनीलहर्म्येषु ददर्शासुरकन्यकाः । लोलास्तमालश्यामेषु मेघेष्विव शतह्रदाः ॥ १६.६९ ॥ निपीयमानः पौरस्त्री नेत्रस्फटिकशुक्तिभिः । वैरिद्विपघटासिंहः सिंहद्वारमवाप स ॥ १६.७० ॥ असुरेन्द्रस्य दोःकण्डु दुःस्थानैकभटाकुलम् । वीरः स अविशदास्थानमथ द्वाःस्थनिवेदितः ॥ १६.७१ ॥ __________________________________________ असुरेन्द्रवर्णनम् आसीनमञ्जनश्याममुच्चैः स्फटिकविष्टरे । हिमाचलेन्द्रशिखरे नवीनमिव नीरदम् ॥ १६.७२ ॥ केयूरपद्मरागांशु मञ्जरीजटिलऊभौ । भुजौ बिभ्राणमुज्ज्वाल प्रतापज्वलनाविव ॥ १६.७३ ॥ उरसा रुद्धगीर्वाण द्विपेन्द्ररदकोटिना । हारवल्लीं दधल्लोलां दोलामिव जयश्रियः ॥ १६.७४ ॥ दधानं दीप्तिपर्यस्त तिमिरौ मणिकुण्डलौ । बन्दीकृतौ सहैवोभौ सूर्याचन्द्रमसाविव ॥ १६.७५ ॥ वीरव्रतस्यालङ्कारमहङ्कारस्य जीवितम् । जगतामङ्कुशं तत्र स वज्राङ्कुशमैक्षत ॥ १६.७६ ॥ तन्निदेशितमध्यास्त स हिरण्यमयमासनम् । नानारत्नांशुशबलं शृङ्गं मेरोरिवार्यमा ॥ १६.७७ ॥ __________________________________________ दूतं प्रति प्रश्नः कुर्वन्मुखानि स्मेराणि दशनज्योत्स्नया दिशाम् । विधाय सत्क्रियामेवमसुरेन्द्रस्तमब्रवीत् ॥ १६.७८ ॥ अहो किमपि कल्याणमासन्नफलमद्य नः । अन्यथा हि गृहं सन्तः किमायान्ति भवद्विधाः ॥ १६.७९ ॥ यदाश्रमे वङ्कुमुनेर्युवयोर्वृत्तमद्भुतम् । तत्कर्णातिथितां नीतमेत्य प्रणिधिभिर्मम ॥ १६.८० ॥ एतया सांप्रतं ब्रूहि युतो विद्याधरैरयम् । किमाकङ्क्षति वः स्वामी फलं पाटालयात्रया ॥ १६.८१ ॥ नियुज्यन्ते नृपेणार्थे नाल्पीयसि भवद्दृशाः । शेषो धृतेर्भुवोऽन्यत्र व्यापारयति किं फणान् ॥ १६.८२ ॥ तदत्र प्रहितो राज्ञा किमर्थमसि कथ्यताम् । अर्थिनां व्यर्थतामेति न जातु प्रार्थना मम ॥ १६.८३ ॥ __________________________________________ रमाङ्गदोक्तिः मार्गैरिवायतैर्वाचां शुचिभिर्दशनांशुभिः । सीमन्तिताधरः स्मित्वा तमित्यूचे रमाङ्गदः ॥ १६.८४ ॥ आसां सुधारसार्द्राणां शुद्धानामसुराधिप । गिरां त्वमेको यत्सत्यमिन्दुर्भासामिवाकरः ॥ १६.८५ ॥ कच्चित्त्वयायमज्ञायि देवः साहसलाञ्छनः । जगत्प्रदीपमथवा को न वेत्ति विरोचनम् ॥ १६.८६ ॥ फणिराजसुतामेष परिणेतुं शशिप्रभाम् । पथानेन रथक्षुण्ण रत्नशैलेन गच्छति ॥ १६.८७ ॥ त्वद्वापिहेमपद्मेन शुल्कसंस्था कृता किल । अस्याः पित्रेति देवेन तदर्थं प्रहिता वयम् ॥ १६.८८ ॥ अनेनेच्छसि चेत्कर्तुं सख्यं साहसलक्ष्मणा । तत्कार्तस्वरराजीवमानीय स्वयमर्प्यताम् ॥ १६.८९ ॥ लुम्पन्ति त्वन्मुखच्छायां यावन्नास्य चमूरजः । कुरुष्व तावदातिथ्यं हेमाब्जेन महीभुजे ॥ १६.९० ॥ किमन्यन् ’’नार्थिनां मत्तो विघटन्ते मनोरथाः" । इति त्वया स्वमेवाशु प्रमाणीक्रियतां वचः ॥ १६.९१ ॥ __________________________________________ वज्राङ्कुशवाक्यम् इत्युक्तवति सामर्ष भटदृष्टे यशोभटे । प्रत्यभाषत सावज्ञं विहस्यासुरकुञ्जरः ॥ १६.९२ ॥ अहो बत विदग्धोऽपि धिङ्मुग्ध इव लक्ष्यसे । विदुषापि त्वया किंचिद्यदुक्तमसमञ्जसम् ॥ १६.९३ ॥ यूयं क्व माणुषाः पृथ्वी सङ्कटस्वाम्यदुःस्थिताः । सा च त्रिजगतां भर्तुरुचिता क्व शशिप्रभा ॥ १६.९४ ॥ तादृङ्मदङ्कमेवात्र स्त्रीरत्नमधिरोहति । रमते हि हरस्यैव मौलाविन्दुकलाङ्कुरः ॥ १६.९५ ॥ यद्यदस्तीह पाताले रत्नं क्व चन किं चन । भाजनं तस्य तस्याहमेकः के यूयमुच्यताम् ? ॥ १६.९६ ॥ सहते नृपतौ नैव हेमतामरसार्पणम् । ममैष शक्रविजय क्रीडादुर्ललितो भुजः ॥ १६.९७ ॥ प्रभुस्तव नयज्ञोऽपि किमनर्थाय केवलम् । दीर्घेन्दीवरमालेति विकर्षत्यसितोरगम् ॥ १६.९८ ॥ इत एव निवर्तध्वं वर्तध्वं वचने मम । अवटे किमिति क्षेप्तुमात्मानं यूयमुद्यताः ॥ १६.९९ ॥ यावदेते न मुञ्चन्ति मर्यादामसुराब्धयः । तावत्दूरापसारेण स्वामिनं त्रातुमर्हथ ॥ १६.१०० ॥ नरेन्द्रं दुर्जिगीषातस्तद्गच्छ विनिवारय । त्वादृशाः किमुपेक्षन्ते पतिमुत्पथगामिनम् ॥ १६.१०१ ॥ अथवास्यास्ति शक्तिश्चेत्किमद्यापि विलम्बते । आयातु स्वयमादातुमितः काञ्चनपङ्कजम् ॥ १६.१०२ ॥ किमन्यज्जायतामेष खड्गधारातिथिर्मम । इत्युक्त्वा कोपतरलं विररामासुरेश्वरः ॥ १६.१०३ ॥ __________________________________________ रमाङ्गदस्य प्रतिवचनम् धैर्यं संवृतकोपोऽथ स्मयमानो रमाङ्गदः । तमित्यमुक्तपर्यङ्कः प्रतिवक्तुं प्रचक्रमे ॥ १६.१०४ ॥ निर्वाणवीर्यवातेऽस्मिन् रसातलबिलोदरे । अभुग्नभुजकण्डूतिरहो किमपि दृप्यसे ॥ १६.१०५ ॥ मन्ये तवैतन्नीरन्ध्रमज्ञातस्वपरान्तरे । पातालचिरसंवासाच्चित्ते परिणतं तमः ॥ १६.१०६ ॥ यां हरस्याष्टमीमाहुर्मूर्तिमाहुतिलेहिनीम् । तत्सूतिः प्रागभूद्भर्ता परमार इति क्षितेः ॥ १६.१०७ ॥ कृतावतारं तद्वंशे वधाय विबुधद्विषाम् । किमादिदेवं कंसारिं धिङ्मर्त्य इति मन्यसे ॥ १६.१०८ ॥ [१६.१०८ सन्दानितकम्] कमलेव मुकुन्दस्य पार्वतीव पिनाकिनः । फणिकन्योचिता पत्नी सा महीमीनलक्ष्मणः ॥ १६.१०९ ॥ तां हठेनात्मसात्कर्तुमसुरेन्द्र न शक्यसे । न रत्नसूचिमाक्रष्टुमयस्कान्तस्य योग्यता ॥ १६.११० ॥ पदं पथि निधत्सेऽत्र किमन्यायमलीयसे । अपथे चरतां यान्ति दूराद्दूरं विभूतयः ॥ १६.१११ ॥ अनर्पणं महीपाले हेमपङ्केरुहस्य यत् । तवापरिघमुत्प्रेक्षे तदेव द्वारमापदाम् ॥ १६.११२ ॥ राजेन्द्रदीपके तस्मिन् समराङ्गणवर्तिनि । एते भटास्ते न चिरातायास्यन्ति पतङ्गताम् ॥ १६.११३ ॥ तथा विधेहि न यथा त्वन्दतःपुरयोषिताम् । करपल्लवशय्यासु शेरते वदनेन्दवः ॥ १६.११४ ॥ प्रवृत्तपतिशोकार्त पौरस्त्रीपरिदेवना । इयमुत्सन्नसङ्गीता मा भूद्रत्नवती पुरी ॥ १६.११५ ॥ देवस्यार्पितहेमाब्जस्तदेहि पत पादयोः । शिरः पुनन्तु ते कामं पुण्यास्तत्पादपांसवः ॥ १६.११६ ॥ अथवा सुभटैः सार्धमुत्तिष्ठ पुरतो भव । समं विद्याधरानीकैरयमायाति भूपतिः ॥ १६.११७ ॥ किमन्यत्सममेतेन शिरस्तामरसेन ते । हेमकोकनदं देवः स्वयमेव ग्रहीष्यति ॥ १६.११८ ॥ __________________________________________ रमाङ्गदागमनम् तमित्युक्त्वा सभामध्यान्निर्जगाम रमाङ्गदः । निकटं च रणोत्कस्य जगाम जगतीपतेः ॥ १६.११९ ॥ अथ वदति शनैः समेत्य तस्मिन्नमररिपोर्वचनानि तानितानि । असुरपतिविनाशकालरात्रिं भृकुटीमुवाह मुखेन मालवेन्द्रः ॥ १६.१२० ॥ गत्वा विद्याधरभटचमूचक्रवालैः सभं सः क्ष्मापालोऽथ व्यधित परितस्तत्पुरो रत्नवत्याः । येन व्यक्तामरजयमहासाहसस्यासुराणां नाथस्यासीन्नवपरिभवश्यामलावक्त्रलक्ष्मीः ॥ १६.१२१ ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये कनकारविन्दप्रार्थनो नाम षोडशः सर्गः ************************************************ सप्तदशः सर्गः युद्धवर्णनं अथाहिविद्याधरराजसैन्यैर्निपीडितायां पुरि रत्नवत्याम् । भटाः सकोपं भुजदर्पभाजो निर्जग्मुराकृष्टकृपाणपट्टाः ॥ १७.१ ॥ अन्योन्यसङ्घट्टवशेन तेषामुदञ्चिताः काञ्चनकङ्कटेभ्यः । युगान्तकालानलबीजशङ्कां न कस्य चक्रुः शिखिनः स्फुल्लिङ्गाः ॥ १७.२ ॥ भालेषु भीमा भृकुटीर्वहन्तो भृङ्गत्विषश्चासिलताः करेषु । खुराग्ररुग्णावनिभिः सरोषं निरीयुरन्ये चतुरैस्तुरङ्गैः ॥ १७.३ ॥ न्यभादनीकं करिणां च सान्द्र सिन्दूरपूरारुणगण्डभित्ति । प्रत्यग्रदावानललीढकोटि कुलाचलेन्द्रप्रचयोपमेयम् ॥ १७.४ ॥ पुरो रणोत्सेकभृतां निरुद्धमोघेन विद्याधरवाहिनीनाम् । तत्पुञ्जितं सैन्यममर्त्यशत्रोर्बभूव मूले मणितोरणस्य ॥ १७.५ ॥ साटोपमारोपितचापयाष्टिर्निबद्धतूणीरयुगो गजस्थः । सो निर्जगामाथ महासुरेन्द्रो वेगादहंकार इवात्तदेहः ॥ १७.६ ॥ युगात्ययाम्भोधरनादधीरस्तस्योद्गतः सङ्गरतूर्यघोषः । बद्धप्रतिश्रुन्ति नितान्तभीमश्चकार पातालबिलोदराणि ॥ १७.७ ॥ सत्पुष्करानञ्जनपुञ्जभासस्पथो जयस्याथ गजानसींश्च । व्यापारयन्ति स्म रयेण वीरास्तत्प्रेरिता वैरिवरूथिनीषु ॥ १७.८ ॥ परस्परापातिकृपाणनिर्यत्ज्वालावलीपल्लवितान्तरिक्षः । अभूत्प्रवृत्तः समरो महाहि विद्याधरेन्द्रासुरपुङ्गवानाम् ॥ १७.९ ॥ वीरेषु धावत्सु चरत्स्वमन्दं गजेषु वल्गत्सु तुरङ्गमेषु । अकालकल्पात्यययशाङ्कितानि चकम्पिरे सप्त रसातलान् ॥ १७.१० ॥ प्रकाशयन्तः करणप्रपन्न्चं सुराङ्गनाभिः स्पृहयेक्ष्यमाणाः । अत्यद्भुतं नृत्तमिवारभन्त भटा रणप्राङ्गणरङ्गमध्ये ॥ १७.११ ॥ उत्प्लुत्य वेगात्पवमानमार्गं विद्याधरैर्दानजलाविलानि । पटु व्यपाट्यन्त मतङ्गजानां तीक्ष्णासिपत्रक्रकचैः शिरांसि ॥ १७.१२ ॥ निपत्य कुम्भेषु महागजानां नीरन्ध्रमुक्तेषु पटु क्वणन्तः । भान्ति स्म विद्याधरपुङ्गवानां मुक्ताट्टहासा इव खड्गपट्टाः ॥ १७.१३ ॥ आवर्ततामूर्मिलतायमान निस्त्रिंशवल्लीवलयाकुलासु । प्रपेदिरे पूर्वसुरोज्झितानि चक्राणि विद्याधरवाहिनीषु ॥ १७.१४ ॥ फणावलीष्वापतितोरगाणामफल्गुरत्नोपलकर्कशासु । कृपाणधरा मसृणीबभूव महासुराणां न तु सङ्गरेच्छा ॥ १७.१५ ॥ अमान्ति पातालतले प्रसस्रुः क्षितौ बिलद्वारविनिर्गतानि । ज्याशब्दहृष्टासुरसिंहनाद तुरङ्गहेषागजबृंहितानि ॥ १७.१६ ॥ प्रधावदश्वीयखुराहतानामभ्युद्गतो रत्नभुवां परागः । गीर्वाणचापच्छविलाञ्छितानि कृत्स्नानि चक्रे ककुभां मुखानि ॥ १७.१७ ॥ भटास्त्रपूर्णैः परितो गजानां स्वदानपङ्कोपचितैः पदाङ्कैः । भयङ्कराभूत्तरुणार्कबिम्ब सहस्रकीर्णेव रणाङ्गणोर्वी ॥ १७.१८ ॥ लूनाः समूलं सुभटासिपत्रैः सहस्रशः शोणितशीकरार्द्राः । उत्तालवैवस्वततालवृन्त विच्छित्तिमूहुः करिकर्णतालाः ॥ १७.१९ ॥ अन्योन्यकृत्तास्तरसा भटानां नवातपाताम्रनखत्विषोऽग्रे । भुजा निपेतुः सममीक्षणेन समौलिरत्ना इव पन्नगेन्द्राः ॥ १७.२० ॥ अङ्गादसिप्रासपृषत्कभिन्नातसृक्प्रवाहेषु भृशं वहत्सु । लीलागलद्गैरिकनिर्झराणां गजैर्जगाहे कुलपर्वतानाम् ॥ १७.२१ ॥ क्ष्मायां बभुःखड्गपृथक्कृतानि सहस्रशः शस्त्रभृतां शिरांसि । कालेन सङ्ग्रामसरोन्तरालादुत्खण्डितानीव सरोरुहाणि ॥ १७.२२ ॥ कबन्धकण्ठोच्छलदस्रवन्तः समीपमेत्योपरि कङ्कयूथम् । मुहूर्तमिद्धारुणरत्नदण्डमदृश्यत च्छत्रमिवान्तकस्य ॥ १७.२३ ॥ मुक्तैः समूहेन नभश्चराणां कुम्भेषु चक्रैः करिणां पतद्भिः । अस्ताचलव्यायतवप्रपाति पतङ्गबिम्बानुकृतिर्वितेने ॥ १७.२४ ॥ पतद्भटं निर्दलिताश्ववारं निकृत्तमत्तेभकरं क्षणेन । व्यधायि विद्याधरसैनिकैस्तत्सनागवीरैरसुरेन्द्रसैन्यम् ॥ १७.२५ ॥ हंसैरिव स्मेरतटाःसमन्तात्परिच्युतैः कुञ्जरकर्णशङ्खैः । वोढुं प्रवृत्ता भवदुत्तरङ्गा झटित्यगाधा रुधिरस्रवन्ती ॥ १७.२६ ॥ विद्याधरव्यालभटावलुप्त धैर्येषु नश्यत्सु महासुरेषु । विश्वाङ्कुशो नाम सुरारिसूनुरथो रथेनाजिमहीं विवेश ॥ १७.२७ ॥ आकर्णकृष्ताद्धनुषः पतद्भिर्बालेन्दुलेखाकृतिभिः पृषत्कैः । अरातिसैन्ये रणधीरवीरान् भीरूनिवैको विमुखीचकार ॥ १७.२८ ॥ तद्वीर्यनिर्वासितसौष्ठवानां विद्याधराणामपतन् करेभ्यः । धाराग्रलग्नद्विपकुम्भमुक्ताः सबाष्पलेशा इव खड्गलेखाः ॥ १७.२९ ॥ क्षणाद्वलन्ति स्म तदा हतानि बलानि विद्याधरपन्नगानाम् । सरित्पयांसीव निशकरांशु पूरप्रवृद्धार्णवपीडितानि ॥ १७.३० ॥ न शेकतुस्तस्य गतिं निरोद्धुं विद्याधरेन्द्रोरगराजपुत्रौ । रत्नाकरस्येव महेन्द्रसह्या वसह्यवेगं प्रलयोत्थितस्य ॥ १७.३१ ॥ दोर्दण्डकण्डूतिमथास्य हर्तुमुद्भ्रूलतं भूपतिना नियुक्तः । जवाज्जगामाजिपथं रथेन रमाङ्गदःकुण्डलितोऽग्रचापः ॥ १७.३२ ॥ तथोपलेभे समरोन्मुखस्य नादेन वृद्धिः शरजन्मनास्य । चक्रे पदं बाष्पकणोत्करेण यथा कपोलेष्वसुराङ्गनानाम् ॥ १७.३३ ॥ दूरात्सुपर्वारिसुतं रथेन स रंहसा संमुखमापतन्तम् । रुरोध तं बाणपरंपराभिर्यशोभटः कर्णमिवेन्द्रसूनुस् ॥ १७.३४ ॥ विश्वाङ्कुशः सत्कवचे मुमोच वक्षःस्थले हैममथास्य बाणम् । तटेऽञ्जनश्यामतनौ महाद्रेः शातह्रदं ज्योतिरिवाम्बुवाहः ॥ १७.३५ ॥ अलक्ष्यसंधानविमोक्षपातान् यशोभटस्यात्तरुषोऽपि रोपान् । मूर्च्छालुठत्सारथिराहताश्वो रथः शशंसासुरनन्दनस्य ॥ १७.३६ ॥ विलासकाञ्चीमथ कालरात्रेरुद्यत्क्रुधः पद्धतिमन्तकस्य । मौर्वीं पृषत्केण रमाङ्गदस्य चिच्छेद गीर्वाणरिपोस्तनूजः ॥ १७.३७ ॥ सन्नाभिबिम्बेन महाजिलक्ष्म्या वीरश्रियो विभ्रमनूपुरेण । संरभ्य राहोरिव चक्रपाणिः स अप्यस्य चक्रेण शिरश्चकर्त ॥ १७.३८ ॥ ननर्त विद्याधरसुन्दरीणां गणो नदन्नूपुरमम्बरेऽथ । मौलौ शरक्षुण्णशिरस्त्ररत्ने चिक्षेप चास्यामरपुष्पवृष्टिम् ॥ १७.३९ ॥ दृष्टे शिरस्युत्फलिते स्वसूनोर्दिङ्मुललीनासु पताकिनीषु । वज्राङ्कुशाः संमुखमापपात पत्युर्विशामस्तगिरेरिवार्कः ॥ १७.४० ॥ मदाम्बुवर्षी समरेऽभिधावन् रेजे गजस्तस्य सहेमकक्ष्यः । भिन्नेऽन्तराले पवमाननुन्नस्तमालनीलस्तडितेव मेघः ॥ १७.४१ ॥ पत्युः प्रसादस्मितरज्जुकृष्टा भटा विवृत्यास्य पुरो बभूवुः । स्वजीवितान्याजिमुखे विहातुमत्युत्सुका भङ्गमलीमसानि ॥ १७.४२ ॥ आरुह्य चन्द्रः खमिवाभिरामं नक्षत्रमालाभरणं गजेन्द्रम् । देवोऽपि तद्वैरितमो नियन्तुमथ प्रतस्थे नवसाहसाङ्कः ॥ १७.४३ ॥ एकत्र पार्श्वे शशिखण्डनामा विद्याधरेन्द्रो नृपतेर्बभूव । अरातिसेनानलिनीवनैक शीतांशुरन्यत्र यशोभटश्च ॥ १७.४४ ॥ स्फुरत्फणछत्रमणिप्रतान तेजश्छटाजर्जरितान्धकारः । अफल्गुर्वीर्यः फणभृत्कुमारोऽप्यग्रेऽभवत्तस्य स रत्नचूडः ॥ १७.४५ ॥ विधूतनिस्त्रिंशतरङ्गितानि सबाणचक्रीकृतकार्मुकानि । हतावशेषाणि पुरोऽस्य चेलुर्बलानि विद्याधरपन्नगानाम् ॥ १७.४६ ॥ रक्तासवक्षीबसहस्तताल वेतालतालोच्छलिताट्टहासः । महाभटानामसुनिर्व्यपेक्षमन्योन्यमावर्तत संपरायः ॥ १७.४७ ॥ चकाशिरे शस्त्रभृतां शिरःसु मिथः पतन्त्यः करवालवल्ल्यः । मुक्ताः सलीलां त्रिदशाङ्गनाभिर्माला इवेन्दीवरपत्रमय्यः ॥ १७.४८ ॥ केषां चिदूहुः कवचानि शोभां क्व चित्क्व चिल्लोहितपाटलानि । खेलज्जयश्रीचरणारविन्द लाक्षारसेनेव नवाङ्कितानि ॥ १७.४९ ॥ हृदिप्रविष्टैरविशुद्धिमद्भिरभूद्व्यथा कापि शरैः परेषाम् । दुरात्मनां साधुगुणैरिवाग्रे फलेन संयोगमुपेयिवद्भिः ॥ १७.५० ॥ परस्परापातजुषामसीनां धाराच्युतः संयतिचूर्णरेणुः । अवाप तापिच्छरुचिर्जयश्री विलासकालाञ्जनधूलिलीलाम् ॥ १७.५१ ॥ पर्यायजातोभयसैन्यभङ्ग करालकोलाहलकातराणाम् । सुरारिविद्याधरसुन्दरीणां दोलेव शोकप्रमादावभूताम् ॥ १७.५२ ॥ अथासुरेन्द्रद्विरदेन वेगादभ्युत्थितेनोद्गतदानधारम् । मध्येरणं मध्यमलोकभर्तुर्जवान्मदान्धो जघटे गजेन्द्रः ॥ १७.५३ ॥ महेभयोस्तत्र शिखाछलेन प्रतिप्रहारं रदजः कृषानुः । कोशेषु विदुत्कपिशा मुहूर्तं व्यधादिवाष्टापदपत्रवल्लीः ॥ १७.५४ ॥ मुहुः प्रजानामधिपेन गाढमाकृष्यमाणस्य शरासनस्य । द्विषद्वधारम्भविधौ गभीरः क्रेङ्कारहुङ्कार इवोच्चचार ॥ १७.५५ ॥ परिस्फुरत्कुण्डलघृष्टपुङ्खास्तेन प्रयुक्तास्पृथुविक्रमेण । प्रमृष्टकान्ताकुचपत्रलेखे लेखारिवक्षस्यपतन् पृषत्काः ॥ १७.५६ ॥ अरातिमुक्तेषु ततस्तनुत्राद्वह्निस्फुलिङ्गेषु समुल्लसत्सु । मूर्तिर्बभासे वसुधाधिपस्य निर्यत्प्रतापाग्निकणछटेव ॥ १७.५७ ॥ हिरण्मयी पार्थिवबाणपङ्क्तिरत्युन्नते मूर्ध्नि महासुरस्य । रेजे तरामञ्जनपर्वतस्य लग्नेव तिग्मांशुमयूखमाला ॥ १७.५८ ॥ अभ्युद्गता भर्तुररातिबाण क्षुण्णेन्द्रनीलाङ्गदरेणुराजिः । अदृश्यतोद्दामभुजास्पदस्य पराक्रमाग्नेरिव धूमलेखा ॥ १७.५९ ॥ रमाङ्गदोऽप्युद्भ्रुकुटिः कृतास्त्रं वीरं द्विषः पार्श्वगतं निहत्य । शरैरलावीज्जयवैजयन्तीं ज्योत्स्नासितं कीर्तिमिवासुरस्य ॥ १७.६० ॥ अधःस्थितोड्डामरवैरिपत्ति मुक्तेषु निर्लूनशरासनज्यः । चिक्षेप चक्राण्यतिदीर्घबाहुः सः कालरात्रेरिव कङ्कणानि ॥ १७.६१ ॥ उत्प्लुत्य हेलाहतसंमुखारिर्विद्याधरेन्द्रोऽप्यसिना चकर्त । जगज्जयस्तम्भमिवोद्धुरस्य सुरद्विषः काञ्चनकेतुदण्डम् ॥ १७.६२ ॥ सो रत्नचूडोऽपि तथा भुशुण्ड्या पिपेष वैरिद्विषकुम्भपीठम् । सितातपत्रत्वमुदञ्चदाप यथास्य मुक्ताफलधूलिजालम् ॥ १७.६३ ॥ तुङ्गं दधत्कर्कशतामभीकः श्रीसिन्धुराजद्विपकुम्भयुग्मम् । पयोधरद्वन्द्वमिवाजिलक्ष्म्याश्चक्रेऽर्धचन्द्राङ्कितमिन्द्रशत्रुः ॥ १७.६४ ॥ परस्पराघट्टितदन्तकोटि भ्रष्टाग्निवेशभ्रममादधन्ति । रणाजिरे लोहितरञ्जितानि विरेजिरे कुञ्जरमौक्तिकानि ॥ १७.६५ ॥ चिक्षेप पृथीतिलके सुरारिर्यां यामिषुं कोपकषायिताक्षः । तां तां जयाशामिव बाहुशाली शरैः सस्तस्यार्धपथे लुलोव ॥ १७.६६ ॥ तयोस्तथेष्वासप्रकर्ष प्रत्युक्तकर्णार्जुनयोर्जयश्रीः । सुवेलरत्नाकरयोरुदग्रा चकार वेलेव गतागतानि ॥ १७.६७ ॥ पत्युः प्रजानामसुरेश्वरोऽथ किरीटमाणिक्यचयं जहार । मणिप्रसूनस्तबकप्रतानं कल्पद्रुमस्येव युगान्तवातः ॥ १७.६८ ॥ क्रोधादथार्धशशलाञ्छनसोदरेण बाणेन वासवरिपोर्नवसाहसाङ्कः । चिच्छेद राम इव विश्रवसः सुतस्य पीनांसलोलमणिकुण्डलमुत्तमाङ्गम् ॥ १७.६९ ॥ आसन्मुखानि ककुभामभितोऽथ चित्र वादित्रनादलहरीमुखरोदराणि । देवस्य च त्रिदिवपुष्पमयं पपात माल्यं शिरस्यसुरवैरिपुरन्ध्रिमुक्तम् ॥ १७.७० ॥ लक्ष्मीपतेः पृथुभुजद्वयमार्द्रसान्द्र ज्याघातलाञ्छितमलाञ्छितविक्रमस्य । अत्यादरागतजितोर्जितवैरिलक्ष्मी पादाब्जयावकनिषक्तमिवाचकाशे ॥ १७.७१ ॥ तस्याग्रतः कनककुण्डलताड्यमान गण्डस्थलीलुलितकुङ्कुमपत्रलेखाः । विद्याधरोरगकुरङ्गदृशः प्रमोद सान्द्रोच्छलध्वनि जगुर्जयमङ्गलानि ॥ १७.७२ ॥ स्मित्वा यशोभटकरार्पितचापयष्टिरुन्मुक्तरत्नकवचः खचरेश्वरेण । उद्भिन्नमौक्तिकनिभश्रमवारिबिन्दुर्देवो ममार्ज मुखमंशुकपल्लवेन ॥ १७.७३ ॥ दत्ताभयोपनतपौरशतार्प्यमाण रत्नोपधामथ स रत्नवतीं प्रविश्य । तं संयुगस्फुटपरीक्षितशौर्यसारं राज्ये रिपोः फणिकुमारकमभ्यषिञ्चत् ॥ १७.७४ ॥ मूर्तं मनोरथमिवोपवनात्सकन्दमादाय तत्कनककोकनदं नरेन्द्रः । आदातुमीप्सितमहीन्द्रसुतेति रत्नमभ्युत्सुकस्तदनु भोगवतीं प्रतस्थे ॥ १७.७५ ॥ देवः साहसिकोऽप्यमन्दमुरजध्वानानुमेयोत्सवामुन्नम्रैः परितो महीं मणिगृहैरुत्तम्भयन्तीमिव । तामत्युन्नतरत्नतोरणशिखाप्रेङ्खोलमुक्ताफल प्रालम्बोच्छलदच्छकान्तिनिकरस्मेरामवापत्पुरीम् ॥ १७.७६ ॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये हेमकमलहरणो नाम सप्तदशः सर्गः ************************************************ अष्टादशः सर्गः फणिराजदर्शनम् तं विष्टपत्रितयकण्टकदृष्टसारमभ्यागतं नृपतिमुद्गतगाढहर्षः । प्रत्युद्ययावधिपतिः फणिनामनर्घ रत्नार्घपाणिरशनैरथ शङ्खपालः ॥ १८.१ ॥ __________________________________________ पुरप्रवेशः आदाय सादरफणीश्वरदत्तमर्घ्यमर्घ्यः सतां स बहिरेव निवेश्य सैन्यम् । देवोऽविशद्विनयवान् पुरमग्रयायि विद्याधराधिपरमाङ्गदरत्नचूडः ॥ १८.२ ॥ उत्सृज्य गीतमसमाप्य विलासलास्यमङ्कादपास्य सहसा मणिवल्लकीं च । अत्युन्मनास्तदवलोकनकौतुकेन वातायनान्यधिरुरोह पुरन्ध्रिलोकः ॥ १८.३ ॥ उत्क्षिप्य वेपथुमता करपल्लवेन वातायनाग्रमणिमौक्तिकलाजकानि । स्मित्वैकया स विलसन्मकरावचूल लीलालवाञ्चितविलोचनमालुलोके ॥ १८.४ ॥ उद्यद्विवृत्तकरवेणिकया नृपेन्दौ तस्मिन् स्मरोल्लसितजृम्भिकया कया चित् । मुक्ता मुहुर्विबुधसिन्धुकलिन्दकन्या किर्मीरवारिलहरीसुहृदः कटाक्षाः ॥ १८.५ ॥ वाचालरत्नवलया सविलासमस्मिन्निक्षिप्य कापि नवमौक्तिकलाजमुष्टिम् । तत्ताडितांसतटपार्थिवदत्तदृष्टिर्दीर्घेक्षणा किमिव न त्रपया चकार ॥ १८.६ ॥ वक्षो दधानममराद्रिशिलाविशालमाजानुबाहुमवलोक्य नरेन्द्रचन्द्रम् । चित्तोपनीतपरिरम्भसुखातिसान्द्रमन्या पयोधरभरे पुलकं बभार ॥ १८.७ ॥ आलोक्य दर्पणतले प्रतिमागतं तम् ’ात्तो मयैषऽ इति कापि कृतोत्सवाभूत् । मुग्धा गतेऽथ पुरतोऽत्र तदीयबिम्बे शून्यात्मदर्शविधुरेन्दुमुखी बभूव ॥ १८.८ ॥ इत्यापतन्मदनबाणपरम्पराणामुन्मीलिताङ्गवलनश्लथमेखलानाम् । एणीदृशां विचरति स्म स राजहंसः पारोल्लसन्नवरसोर्मिषु मानसेषु ॥ १८.९ ॥ __________________________________________ नायकवर्णनम् सङ्गीतवेश्मनि फणीश्वरचारणानां गीतेष्वजस्रमिह शुश्रुम यद्यशांसि । यातः स एव नयनातिथितामयं नः पुण्यैरहो बत नृपो नवसाहसाङ्कः ॥ १८.१० ॥ कान्तिछटाछुरितदिक्तट एष देवो जीयाज्जगन्ति परमारकुलप्रदीपः । उन्मूल्य संप्रति सुरारितमः समूलं येनाहिविष्टपतले विहितः प्रकाशः ॥ १८.११ ॥ हन्तैष पन्नगपतेरतुलप्रतिज्ञा प्राग्भारसागरसमुत्तरणैकपोतः । उत्पाकमेष च फलं फणिराजकन्या चित्ते चिरं कृतपदस्य मनोरथस्य ॥ १८.१२ ॥ एतद्यशोभटकरे कनकाम्बुजं तल्लीलावतंसमचिराद्विरचय्य येन । प्रत्युप्तकल्पतरुपल्लवमेष पाणिमादास्यते नृपतिरद्य शशिप्रभायाः ॥ १८.१३ ॥ __________________________________________ हाटकेश्वरदर्शनम् सान्द्रानुरागपिशुनाः परशुः परेषामाकर्णयन्निति सः पौरजनस्य वाचः । श्रीहाटकेश्वर इति प्रथितस्य तुङ्गमग्रे ददर्श मणिमन्दिरमिन्दुमौलेः ॥ १८.१४ ॥ [स्य्न्तx कुलकम्] तत्र प्रविश्य सकृतानतिरादिदेवमानर्च कल्पविटपिप्रभवैः प्रसूनैः । स्तोतुं कृताञ्जलिपुटः कुटजावदात दन्तांशुपल्लवितवागुपचक्रमे च ॥ १८.१५ ॥ __________________________________________ हाटकेश्वरस्तुतिः अन्तर्जतापिहितसोमसुरापगाय प्रच्छन्नशरशासनलोचनाय । तीव्रव्रतग्लपितशैलसुतास्वरूप विज्ञाननर्मपटवे बटवे नमस्ते ॥ १८.१६ ॥ अत्यादरानतसुरासुरमौलिरत्न नानामरीचिखचिताङ्घ्रिसरोरुहाय । देहार्धवर्तिगिरिजाविहिताभ्यसूय सन्ध्याप्रणामविषमाञ्जलये नमस्ते ॥ १८.१७ ॥ नीरन्ध्रसिन्धुजलसिक्तकपालमुक्त रत्नाङ्कुरस्य करणीं विधुरातनोति । मौलौ सदैव भवतो भवभेदकर्तुर्निर्दग्धभास्करमहाय नमोऽस्तु तस्मै ॥ १८.१८ ॥ कन्दर्पदर्पशमनाय कृतान्तहर्त्रे कर्त्रे शुभस्य भुजगाधिपवेष्टनाय । उर्वीमरुद्रविनिशाकरवह्नितोय याज्याम्बरोच्चवपुषे सुपुषे नमस्ते ॥ १८.१९ ॥ नीरन्ध्रभूतिधवलाय गजेन्द्रकृत्ति संवीतदेहकवलीकृतपन्नगाय । निर्दग्धदानवकुलाय विपत्क्षयैक कार्याय कारणनुताय नमोऽस्तु तुभ्यम् ॥ १८.२० ॥ ते ते यमेव किल वाङ्मयसागरस्य पारं गताः प्रणवमात्मविदो वदन्ति । तस्मै समाहितमहर्षिविनिद्रहृद्य हृत्पुण्डरीकविहितस्थितये नमस्ते ॥ १८.२१ ॥ उत्तंसितेन्दुशकलाय कपालजूट सङ्घट्टितोर्मिमुखराम्बरनिर्झराय । भस्माङ्गरागशुचये विकचोपवीत व्यालेन्दुमौलिमणिदीधितये नमस्ते ॥ १८.२२ ॥ नास्त्रं न भस्म न जटा न कपालदाम नेन्दुः सिद्धतटिनी न फणीन्द्रहारः । नोक्षा विषं न दयितापि न यत्र रूपमव्यक्तमीश किल तद्दधते नमस्ते ॥ १८.२३ ॥ __________________________________________ नागराजगमनम् स्तुत्वेत्यवन्तिपतिरिन्दुकुलावतंसं तन्मन्दिरात्सहचरैः सह निर्जगाम । अन्तर्निवेशितहरिन्मणिवेदि वल्गन्नागाङ्गनं सः फणिराजगृहं जगाम ॥ १८.२४ ॥ तत्रावतीर्य रथतः स रमाङ्गदात्त पाणिः समुच्छलितमङ्गलतूर्यघोषे । उन्निद्रसान्द्रकुसुमप्रकरावकीर्ण माणिक्यकुट्टिमतले मसृणं विवेश ॥ १८.२५ ॥ अन्योन्यपल्लविततद्विजयप्रशंसः प्राप्तस्थितिर्विकटकाञ्चनविष्टरेषु । पद्मछदायतदृशा ददृशेऽथ तस्मिन्नेकत्र तेन मिलितः फणिराजलोकः ॥ १८.२६ ॥ __________________________________________ तत्कृतः सत्कारः तस्मिन् गते नयनगोचरमुद्धृतारौ बद्धाञ्जलिर्झटिति पन्नगराजसंसत् । मन्दाकिनीव परितो हरिणावचूड व्यालोककुड्मलितकाञ्चनपङ्कजाभूत् ॥ १८.२७ ॥ न्यञ्चच्छिखाभरणभासुरपद्मराग रोचिछटाघटिततत्फणरत्नकान्तिः । राजन्यमौलिमणिचुम्बितपादपीठस्तस्मै चकार स महाभिजनः प्रणामम् ॥ १८.२८ ॥ प्रत्युप्तरत्नमभितः प्रमदावकीर्णं मुक्त्वा चतुष्कमुरगेन्द्रनिदेशितं स । अध्यास्त सादरजरत्फणिकल्पिताशीस्तन्मध्यवर्तिकनकासनमुन्नतांसः ॥ १८.२९ ॥ वत्सां व्रजनाय ममेति शनैर्विसृज्य नेपथ्यनीलमणिवेश्मनि रत्नचूडम् । तत्रासनद्वयमदापयदस्य पार्श्वे विद्याधराधिपयशोभटयोः फणीन्द्रः ॥ १८.३० ॥ स्वर्णासने स्वयमथाच्छफणातपत्र रत्नप्रदीपशतजर्जरितान्धकारः । लोकत्रयैकतिलकस्य स नातिदूरे देवस्य दारितमहेन्द्ररिपोर्न्यषीदत् ॥ १८.३१ ॥ स्थित्वैकतो युवतिमङ्गलगीतिमत्र शृण्वन् स विन्ध्यतटदृष्टचरः कुरङ्गः । चित्रे निवेशित इवाथ यशोभटेन स्मित्वा सविस्मयमसूच्यत पार्थिवाय ॥ १८.३२ ॥ __________________________________________ शशिप्रभादर्शनम् अत्रान्तरे प्रमदलोलदृशा नृपेण दूराददर्शि फणिराजसुताभियान्ती । तन्वी शिरीशसुमनःसुकुमारमूर्तिर्देवस्य कार्मुकलतेव मनोभवस्य ॥ १८.३३ ॥ ज्योत्स्नासिताम्बररुचिस्नपिताननेन्दुर्मात्राचिरोद्गतयवाङ्कुरकर्णपूरम् । मुक्त्वोज्ज्वलं ललितकौतुककङ्कणं च वेषं विवाहसमयोचितमुद्वहन्ती ॥ १८.३४ ॥ सख्या कयापि लिखितं मदनानलैक धूमावलीवलयसंशयमर्पयन्तम् । एकान्तकान्तमसितागरुपत्रभङ्गमाबिभ्रती लवलिपाण्डुतले कपोले ॥ १८.३५ ॥ आत्तप्रसाधनमनङ्गविलासवेश्म लीलाविधानमवधिर्नयनोत्सवस्य । लावण्यसंवलितमङ्गकमुद्वहन्ती शृङ्गारदुग्धजलधेरधिदेवतेव ॥ १८.३६ ॥ सा पाटलाविधुतचामरमारुतेषत्व्यानर्तितालकलता सहिता सखीभिः । नातिस्फुटक्वणितनूपुरमाकुलानि किंचिद्विलम्ब्य दधती त्रपया पदानि ॥ १८.३७ ॥ __________________________________________ नायिकया नायकदर्शनम् उत्पक्ष्मणा निरुपमोल्लसितप्रमोद विस्तारलङ्घितविलाससरोरुहेण । सान्द्रस्मरज्वरपिपासितया तयापि दूरादपायि नयनाञ्जलिना नरेन्द्रः ॥ १८.३८ ॥ __________________________________________ माल्यवतीवाक्यम् व्रीडावनम्रमुखपद्ममुपागतायां तस्यां पितुः कनकविष्टरभागभाजि । माल्यादिकल्पितयथोचितसत्क्रियान्ते तं मालवेन्द्रमिति माल्यवती जगाद ॥ १८.३९ ॥ राजन्! महीतलमृगाङ्ग! विलम्बसे किम्? अद्यापि तूर्णममुना स्वभुजार्जितेन । हेमाम्बुजेन विरचय्य वतंसमस्याः पूर्णप्रतिज्ञमुरगाधिपतिं विधेहि ॥ १८.४० ॥ __________________________________________ कमलावतंसः उक्ते तयेत्यकृत काञ्चनपुष्करं तद्यावत्सः कर्णशिखरे फणिराजपुत्र्याः । तावद्विहाय मृगरूपमुदारमूर्तिरग्रे बभूव पुरुषोऽस्य सहेमवेत्रः ॥ १८.४१ ॥ __________________________________________ पुरुषं प्रति प्रश्नः कस्त्वं मृगः कथमभूरिति पार्थिवेन पृष्टः स विस्मयसमुत्सुकमानसेन । इत्यब्रवीदुरगनेत्रपरम्पराभिरापीयमानवपुरुक्तिमवन्तिनाथम् ॥ १८.४२ ॥ __________________________________________ प्रतीहारस्य वृत्तान्तः कैलासशैलवसतेर्गिरिशोपरोधाद्द्वारप्रवेशविनिषेधकषायितेन । शप्तोऽस्मि कण्वमुनिनायमहं पितुस्ते श्रीहर्षदेवनृपतेः प्रतिहारपालस् ॥ १८.४३ ॥ राजा फणीन्द्रदुहितुः कनकारविन्दं कर्णे करिष्यति यदा नवसाहसाङ्कः । स्वं रूपमाप्स्यसि तदेति समादिदेश शापान्तमेष विहितानुनयो महर्षिः ॥ १८.४४ ॥ तद्वासवारिविजयोत्थमिदं यशस्ते गत्वैकपिङ्गलगिरेरवतंसयामि । उक्त्वेति दिव्यकुसुमैरवकीर्य मौलौ पातालमल्लमनिलस्य पथा जगाम ॥ १८.४५ ॥ __________________________________________ विवाहविधिः तूर्यस्वनेषु विलसत्सु पठत्स्वमन्दं बन्दिष्वनीयत फणीन्द्रपुरोधसा च । कोणावसक्तजलपूरितरत्नकुम्भां वेदिं तया सह स मध्यमलोकपालः ॥ १८.४६ ॥ अभ्युद्गतार्चिरनलोज्झितधूमराजि श्यामीभवत्कनकतामरसावतंसाम् । तस्यां यथाविधि स मालवपुष्पकेतुः कन्यामहेः कुवलयाश्व इव उपयेमे ॥ १८.४७ ॥ आनीतया झटिति रूपमदृष्टपूर्वमङ्गेन पुष्पशरभङ्गितरङ्गितेन । भाति स्म शन्तनुरिव त्रिदिवस्रवन्त्या पातालचन्द्रकलया सस्तया समेत्य ॥ १८.४८ ॥ __________________________________________ फणिपतिवाक्यम् निर्गच्छदच्छरुचिनिर्भरमंशुकेन संछादितं किमपि पाणितले दधानः । ऊचे तमित्यधिपतिः फणिनामुदञ्चत्दन्तांशुशारितरदछदरत्नकान्तिः ॥ १८.४९ ॥ यद्दीयते तव न तादृशमस्ति किंचिद्गेहे ममात्र नृपते नवसाहसाङ्क ! । कोशप्रतिष्ठितनिधानशतं यतस्त्वामैश्वर्यनिर्जितपुरन्दरमामनन्ति ॥ १८.५० ॥ तत्स्फाटिकं स्वमिव शुद्धमिदं गृहाण त्वष्टृप्रयत्नघटितं शिवलिङ्गमेकम् । आकारमर्धवनितावपुषः पुरारेर्यस्यान्तरे सुकृतिनो हि विलोकयन्ति ॥ १८.५१ ॥ व्यासः पुरा किल पुराणमुनेः प्रपेदे तस्मात्किलादिकविपाणितलं जगाम । लेभे ततोऽपि भगवान् कपिलो महर्षिः सानुग्रहेण मम चेदमदायि तेन ॥ १८.५२ ॥ __________________________________________ शिवलिङ्गार्पणम् उक्त्वेत्यनर्घमतिपावनमर्पितं तदन्तःस्फुटैकशिवरूपमहीश्वरेण । पूर्णेन्दुकान्ति सहसा निगृहीतशत्रुर्जग्राह पिण्डितमिव स्वयशो नरेन्द्रः ॥ १८.५३ ॥ तत्राथ दिक्तटपरिस्खलितप्रवृत्त सीमन्तिनीचटुलनूपुरकाञ्चिनादः । कोऽप्युच्छलत्पटहवंशहुड्डुक्कशङ्ख वीणामृदङ्गमुरजध्वनिरुत्सवोऽभूत् ॥ १८.५४ ॥ __________________________________________ स्वनगरीं प्रति प्रस्थापनम् वृत्ते वधूमथ विवाहमहोत्सवे तामादाय निष्प्रतिमपौरुषवैजयन्तीम् । अन्वागतादरनिवर्तितपन्नगेन्द्रः पर्युत्सुकः स्वनगरीं स नृपः प्रतस्थे ॥ १८.५५ ॥ गत्वाथ दूरमहिविष्टपतः सहेलमंशः पुराणपुरुषस्य स निर्जगाम । शिप्रार्पितेन सहसा पुरतः प्रभाव सीमन्तिताम्बुपटलेन पथा ससैन्यः ॥ १८.५६ ॥ तस्याः स्वहस्तमुनिसंहतिकल्पितार्घः सिन्धोस्तटे सः पदमेकपदे चकार । शृङ्गे तदा च भगवानरविन्दबन्धुर्बन्धूकपाटलरुचिः कनकाचलस्य ॥ १८.५७ ॥ __________________________________________ उज्जयिनीप्रवेशः बालातपछुरितहर्म्यविटङ्कवर्ति पारावतातिमधुरध्वनितछलेन । सम्भाषणं विदधतीमिव पौरमुक्त पुष्पाञ्जलिः सः पुरमुज्जयिनीं विवेश ॥ १८.५८ ॥ कान्तायशोभटयुतं कृशतामवाप्तास्तच्चिन्तयैव सचिवास्तमथ प्रणेमुः । काकुत्स्थमाहतसुरारिमिवानुयान्तं सौमित्रिणा जनकराजतनूजया च ॥ १८.५९ ॥ __________________________________________ महाकालेश्वरदर्शनम् आनन्दबाष्पसलिलार्द्रदृशोऽर्धमार्गे सम्भाष्य तान् स्मितमुखः सह तैर्जगाम । विद्याधरोरगकराहतहेमघण्टा टाङ्कारहारि भवनं त्रिपुरान्तकस्य ॥ १८.६० ॥ तस्मिंश्चराचरगुरोर्हरिणावचूल चूडामणेरपचितिं विधिवद्विधाय । साकं फणीन्द्रसुतयाम्बररोधिकम्बु तूर्यस्वनोर्मि सश्च राजकुलं विवेश ॥ १८.६१ ॥ __________________________________________ धारागमनम् तत्रार्णवध्वनिघनोत्सवतूर्यघोषे स्थित्वा दिनानि कतिचित्स नरेन्द्रचन्द्रः । याति स्म भूषितकुलः कुलराजधानीं धाराममात्यकथितामृगयेतिवृत्तः ॥ १८.६२ ॥ उद्घाटितेष्वथ विलोकनकौतुकेन वातायनेषु परितः पुरसुन्दरीभिः । तस्मिंश्चिराद्विशति जीव इवेश्वरे सा प्रोन्मीलितोरुनयनेव पुरी बभूव ॥ १८.६३ ॥ __________________________________________ शिवलिङ्गप्रतिष्ठा तत्साध्वकारयदथाधिगतप्रतिष्ठं तत्राच्छरत्नशिवलिङ्गमनर्घशीलः । तस्य प्रभावघटितैर्व्यधुरर्हणां च विद्याधरा विकचकल्पतरुप्रसूनैः ॥ १८.६४ ॥ __________________________________________ अनुयायिप्रस्थानम् कृत्वा यथोचितमकृत्रिममुत्सवान्ते सत्कारमायतननिश्लथमौलिरत्नौ । दत्ताङ्कपाणिरुभयोः प्रजिघाय स अथ विद्याधराधिपफणीन्द्रसूतौ स्वदेशम् ॥ १८.६५ ॥ एकस्तयोरगमदम्बरगामिसैन्य सीमन्तिताभ्रपटलः शशिकान्तशैलम् । अन्योऽप्यगाधजलमालवजह्नुकन्या विश्राणितोरुसरणिर्निजराजधानीम् ॥ १८.६६ ॥ __________________________________________ शशिप्रभासखीगमनम् माभूः कदापि विमुखी रमेण यदस्य छन्दानुवृत्तिरतिसंवननं मदस्य । उक्त्वेति तामहिसुतामगमन् गृहाणि गन्धर्वकिन्नरमहोरगसिद्धकन्याः ॥ १८.६७ ॥ __________________________________________ साम्राज्यलक्ष्मीस्वीकारः नीलछत्रावतंसा भुजगपतिसुतापाण्डुगण्डस्थलान्तः कस्तूरीपङ्कपत्रव्यतिकरशबलव्यायतांसे सलीलम् । देवेनाथ स्वमन्त्रिप्रवरचिरधृता साहसाङ्केन दीर्घे रोहज्ज्याघातरेखे पुनोऽपि निदधे दोष्णि साम्राज्यलक्ष्मीः ॥ १८.६८ ॥ __________________________________________ अथ ग्रन्थप्रशस्तिः श्रीमत्कविप्रियसुहृच्छलदङ्कराम राजेन्दुभक्त्यधिगतप्रतिभाविशेषः । एतद्विनिद्रकुसुमदद्युति पद्मगुप्तः श्रीसिन्धुराजनृपतेश्चरितं बबन्ध ॥ ग्प्.१ ॥ लक्ष्मीलतानववसन्त महीतलेन्द्र विद्याविलासमणिदर्पण सिन्धुराज । एतन्मया घटितमुज्ज्वलकान्ति काव्य माणिक्यकुण्डलमिह श्रवणे विदेहि ॥ ग्प्.२ ॥ न्यस्तानि यानि मयि सूक्तिसुधापृषन्ति देवेन तेन कति चित्कविबान्धवेन । चन्द्रातपस्नपितमौक्तिकसोदराणां तेषामिदं विलसितं नवसाहसाङ्क ॥ ग्प्.३ ॥ यच्चापलं किमपि मन्धधिया मयैवमासूत्रितं नरपते नवसाहसाङ्क । आज्ञैव हेतुरिह ते शयनीकृतोग्र राजन्यमौलिकुसुमा न कवित्वदर्पः ॥ ग्प्.४ ॥ इति नवसाहसाङ्कचरितं संपूर्णम्