पीयूषाभिनिवेश एष रभसादस्माकमद्यानया बन्धूकद्युतिबान्धवाधररसस्यन्देन मन्दीकृतः । इत्थं दैत्यचयः समुद्रमथने येन क्षणाद्वञ्चितस्तस्मै सादरमोंनमोऽस्तु कपटस्त्रीरूपिणे विष्णवे ॥ १ ॥ हारिद्रद्रवसोदराय रसनामंडो(मात्रो)परिस्थायिने सत्यादन्यतमाय वित्तहरणप्रत्यक्षचौराय च । चित्रं दुर्भगरूपवर्णनमहापाण्डित्यविद्याय ते व्याजानां प्रथमाय गर्भगणिकारागाय तुभ्यं नमः ॥ २ ॥ ध्यानं यत्परमेश्वरं प्रति सदा यद्वीतरागं मनो यत्कर्मातिकठोरघोरगहनं भूत्यै यदत्यादरः । आश्चर्यं च शरीरदानमपि यत्कार्यं विकारं विना तद्वेश्यैव तपस्विनी कलियुगे लोकोऽपि तद्भावितः ॥ ३ ॥ श्रीमन्तं शिरसा बिभर्ति कुरुते विश्वभ्रमं हेलया धत्ते पाटकपक्षपातमनिशं नैवामिशैस्तृप्यति । रक्तं पातुमपीहते च सकलं तार्क्ष्यस्य मूर्तिर्यथा वेश्या किं तु भुजङ्गभक्षणविधौ नाद्यापि विश्राम्यति ॥ ४ ॥ ते गन्धर्वपुरे वसन्तु विभवं स्वप्नार्जितं भुञ्जतां कुर्वन्तु क्षणमन्तरिक्षकुसुमैः स्रग्दामशोभामपि । वेश्यानां शशशृङ्गभङ्गिसदृशं वाल्लभ्यमासाद्य ये सर्वस्वक्षपणाय केवलमहो मूर्खाः सुखेनासते ॥ ५ ॥ श्वैत्यं कल्पय कज्जले कपिकुलेष्वारोपयाचापलं कोदण्डे जनयार्जवं विरचय ग्राव्णां गणे मार्दवम् । निम्बे साधय माधुरीं सुरभितामादौ रसोने कुरु प्रेमाणं गणिकाजनेऽपि चतुरः पश्चात्सखे द्रक्ष्यसि ॥ ६ ॥ कालश्चेत्करुणापरः कलियुगं यद्यद्य धर्मप्रियं निस्त्रिंशो यदि पेशलो विषधरः संतोषदायी यदि । अग्निश्चेदतिशीतलः खलजनः सर्वोपकारी स चेदायुष्यं यदि वा भविष्यति विषं वेश्यापि तद्रागिणी ॥ ७ ॥ मूढो निर्व्यसनो वणिग्विकपटो राजाधिकारी शुचिः स्वाधीनो भृतको जडो गुणरतश्चौरो व्यपेतस्पृहः । भीतः शान्तमतिर्वितः सविनयः कर्णेजपो धार्मिकः किं कुत्रापि कदापि कोऽपि भविता वेश्याजनो रागवान् ॥ ८ ॥ {भीतः - नीतः} कामो नास्ति नपुंसकस्य कुलटावर्गस्य नास्ति त्रपा तोयं नास्ति मरीचिकासु सततं नास्ति स्थिरत्वं श्रियः । धर्मो नास्ति च नास्तिकस्य विभवो नास्ति प्रमत्तात्मनः स्नेहानां कणिकापि नास्ति गणिकालोकस्य च प्रायशः ॥ ९ ॥ अश्वीये यमवाहनस्य नकुलस्याशीविषाणां कुले मार्जारस्य च मूषकेषु घटते या प्रीतिरात्यन्तिकी । क्षीणेऽर्थे विधुरेषु बन्धुषु दृढे लोकापवादे शनैर्ज्ञेया कामिजनेषु सैव गणिकावर्गस्य नैसर्गिकी ॥ १० ॥ यद्यूतेन युधिष्ठिरस्य विहितं यद्विष्णुना वा बलेर्यच्छुक्रेण धनाधिपस्य कलिना राज्ञो नलस्यापि यत् । संभूयापि च यत्सुरासुरबलैरुन्मथ्य पाथोनिधेर्वेश्या पश्यत लीलयैव कुरुते तत्तद्गृहे कामिनाम् ॥ ११ ॥ वाक्शुरस्य रणोऽवधिः कुतनयोत्पत्तिः कुलस्यावधिर्बान्धव्यस्य विवादभूमिरवधिः सौख्यं श्रुतस्यवधिः । वाचाटस्य विदग्धपर्षदवधिर्लौल्यं व्रतस्यावधिर्बन्धो विद्धि धनावसानमवधिर्वेश्यानुरागस्य च ॥ १२ ॥ स्वामी क्रूरमिवाश्रितं परिणतो योगीव संसारिणं शुद्धो विप्र इवान्त्यजं जनपदः श्रीमानिव श्वित्रिणम् । दासीपुत्रमिवोद्धतः कुलधरो नीचो धनीवार्थिनं पर्यन्ते तृणतुल्यमेव गणिका निःस्वं जनं पश्यन्ति ॥ १३ ॥ विप्रो दक्षिणया महैः परिजनो मेघोदयैः कार्षिको दुर्मन्त्री व्यसनेन साहसशतैः शूरो मृगैर्लुब्धकः । बन्दी त्यागिभिरक्षरैर्जनयिता लाभातिरेकैर्वणिग्रोगार्तैर्भिषगर्भकैश्च गणिका गर्भेश्वरैस्तुष्यति ॥ १४ ॥ अज्ञानः कलहैः सुभाषितपदैः सभ्योऽधमऋणैर्धनी जीवैः शाकुनिको दुरोदरकरः शारैर्यमः प्राणिभिः । ग्रामीणैर्विटपेटकः परिजनैः स्वामी शिशुः कन्दुकैः श्रीपुत्रैस्तरुणैस्तथा नवनवैर्वाराङ्गना क्रीडति ॥ १५ ॥ भृत्यः कुप्रभुसेवया नरपतिः स्वच्छन्दतादुर्नयैर्हेवाकेन कविर्मदेन कुलजः क्रोधाग्निना तापसः । योगी भोगविशेषलम्पटतया रोगी कुपथ्याशनई रागी चत्वरकामिनीपरिचयैः क्षिप्रादधः क्षिप्यते ॥ १६ ॥ शालीनां शलभव्रजो धुणगणो वंशप्रतानोन्नतेर्मत्तेभः कमलाकरस्य कुसुमोद्यानस्य दुर्मारुतः । स्वस्भानुर्विधुमण्डलस्य वडवावक्रो निधेरम्भसा मासां कामुकसंपदां च गणिकाक्षुद्रः कीलोपद्रवः ॥ १७ ॥ शौर्यस्यातिविकत्थनं रिपुनतिर्मानस्य दुःशीलता सौन्दर्यस्य समुन्नतेस्तरलता ज्ञानस्य गर्वग्रहः । ऐश्वर्यस्य विकारता मुखरता विद्याप्रकर्षस्य च भ्रातर्विभ्रमनर्मणश्च गणिका सर्वात्मना दूषणम् ॥ १८ ॥ च्छायामभ्रदलैः खलैः सुजनतां मानोन्नतिं याच्ञया कार्पण्येन यशांसि धूर्तकलया मैत्रीं सुखं सेवया । धर्मं प्राणिवधेन वाञ्छति धनं द्यूतप्रसादेब यो वेश्याभिश्च विलासमात्मनि नराकारोऽस्ति गौरेव सः ॥ १९ ॥ नान्धो मूर्खसमो न सेवकसमो दुःखी न यक्ष्मोपमो व्याधिर्नाधिरसत्सुतप्रतिनिधिस्त्रासो न भृत्योः समः । कष्टं नाध्वसमानमिन्द्रियसमो नारिः परस्त्रीसमं नानायुष्यमवश्यनिन्द्यमथ नो वेश्यासमं दृश्यते ॥ २० ॥ किं काकोऽपि विहंगमो मरुरपि स्थानं करीरोऽपि किं शाखी राहुरपि ग्रहः स च भवेदुष्ट्रोऽपि किं वा[ह]तम् । किं काचोऽपि मणिर्मृगोऽपि करटिः प्रेष्योऽपि वा मानुषः किं वेश्यापि विलासिनी स च तदासक्तोऽपि किं कामुकः ॥ २१ ॥ किं तत्कर्म यदस्तशर्म रसना किं सा न (च) यारुंतुदा किं तत्प्रेम यदस्थिरं स च पुमान् किं नाम यो निर्गुणः । सा किं श्रीरुपभोगमर्हति न या सेव्यः स किं योऽन्तरं नो जानाति तदस्ति किं विलसितं वेश्यासु यत्कृत्रिमम् ॥ २२ ॥ दूरे तानि धनानि येषु मलनं मानस्य संजायते बन्धुः स अस्तु सुखी मुखे मधुमयो योऽन्तश्च मायामयः । भोगाः प्रलयं प्रयान्तु कथमप्यौचित्यभङ्गेन ये यायातुर्निधनं वरं निधुवनं वेश्यासु मूल्येन यत् ॥ २३ ॥ अस्थानाभिनिवेशिता रतिपतेरौचित्यभङ्गो रतेर्वैयर्थ्यं नवयौवनस्य किमपि प्रेम्णः कलङ्काङ्कुरः । सौभाग्यस्य विमानना विगुणता सौन्दर्यसारश्रियः शृङ्गारस्य विडम्बना किमपरं वेश्यारतडम्बरः ॥ २४ ॥ क्रुद्धो यस्य मनोभवस्तरुणिमा येनात्मनो वञ्चितस्तैस्तैर्यश्च कटाक्षितः परिभवैः साक्षादलक्ष्मीमुखैः । युक्तायुक्तविचारणापरिहृतः कामं स कामी क्रिमिः पण्यस्त्रीषु नितम्बनामनि महानिम्बे रतिं विन्दति ॥ २५ ॥ शापः कोऽपि महानयं परिणतिर्दुष्कर्मणामीदृशी दौर्जन्यं परमं विधेरिदमियं साक्षादलक्ष्मी स्थिरा । सौहार्दस्य च विभ्रमस्य च रतेर्भर्तुश्च यूनां तथा यत्संत्यज्य कुलाङ्गनां बहुमुखो दासीजनः सेव्यते ॥ २६ ॥ संपर्कोऽप्यतिकर्कशः परिचयाभासोऽप्यसंपत्करो दृक्पातोऽप्यवसादसूरपि सकृत्संभाषणं दूषणम् । छायापि च्छलनात्मिका परिमलोद्गारोऽपि हालाहलं वेश्यानां विषयेषु किं पुनोऽहो सक्तिर्महासाहसम् ॥ २७ ॥ द्रोहो यस्य पिता कलाः किल चतुःषष्टिस्तथा मातरः प्राणाः सर्वमलीकमर्थहरणं नाम प्रधानव्रतम् । विक्रेयं निजमङ्गमङ्गमपि चानङ्गः सहायः स्वयं तस्यानर्थशतात्मकस्य गणिकाव्याधेः किमस्त्यौषधम् ॥ २८ ॥ गृध्री निर्भरमामिषेषु सरघा घोरा मधूनां भरे तीक्ष्णनखक्षतेषु भुजगी दंशप्रकारेषु च । उत्तानेषु विवर्तनेषु शफरि वित्तच्छले मूषिका वेश्या कामुकवञ्चनाय भुवने रूपैरनेकैः स्थिता ॥ २९ ॥ साम्राज्यं मधुमांसमत्स्यगिलनं मन्त्री जरत्कुट्टनी दण्ड्यः सार्थकिराटसूनुरधनाः शृङ्गारिणः किङ्कराः । आचारो बहुगालिदानमधमो मित्रं धनं जीवितं वेश्यानां पुरचार ... थ भग्नः प्रियः ॥ ३० ॥ रागीति प्रतिपत्तिभूर्वित इति प्राप्तोऽतिवन्द्यं पदं श्लाघार्हो व्यसनीति हीनकुल इत्यग्र्यः कुटुम्बः स्वयम् । मान्यः प्राहत इत्यहो कितव इत्याप्तश्च किं वाधिकं सर्वावस्थ इति प्रमाणपुरुषो वेश्याभिरभ्यर्च्यते ॥ ३१ ॥ मांस्पाकोत्कटमद्यगन्धि विहरच्चेटीनटीसंकुलं यद्वेश्यायतनं भुजंग परया भक्त्या पुरः पश्यसि । अत्रास्ते गृहदेवता विदधती दिग्घट्टनं कुट्टनी यस्याः प्रत्यहमाढ्यकामुकपशुव्रातोपहारैर्बलिः ॥ ३२ ॥ { पाणिनि ६.१.१४४ अपरसपराः क्रियासातत्ये} प्रत्यङ्गार्पणचारुचाटुकरणप्रेमोचितप्रार्थना श्रीवातायनदर्शनादिगणिकालोकस्य धर्मः परः । कुट्टन्याः पुन उत्कटोत्कटमिदं तत्रास्त्यगस्त्यव्रतं यत्प्राणाहुतिरेककैव सकलई रत्नाकरैः कामिभिः ॥ ३३ ॥ कन्दर्पप्रतिभूनिवेशितवलीरेखावलीशोभिते लीलोदञ्चितबाहुपाशयुगलापातैश्च भोः कामुकाः । वेश्यानां विपुले नितम्बफलके शारैः कटाक्षैरितो यद्वः क्रीडितमत्र दास्यति पुरो दारिद्रमेवोत्तरम् ॥ ३४ ॥ शूलेनाद्य मृताहमद्य सरजाः कर्तव्यमद्य व्रतं त्यागी नास्ति ततोऽधिकोऽपर इति श्लाघा विपक्षस्य च । कं चिन्नोत्सहते स राजतनयो जानाति माता ममेत्येवं मुग्धभुजंग रूक्षगणिकावाचोऽचिराच्छ्रोष्यसि ॥ ३५ ॥ मालिन्यं प्रकटिकरोति निबिडं नैर्गुण्यमातन्वते(सी) जीर्णस्नेहपरम्परा विदधते पात्रेऽप्यहो दूषणम् । वेश्या दीपशिखेव भाति रजनौ रूपभ्रमान्धीकृतो यत्रायं कुरुते पतङ्गपतनं हा हा भुजंगव्रजः ॥ ३६ ॥ केशाकर्षणकर्मणि व्यवसिता वीर्यं हरन्ती परं म्लानिं कामपि तन्वती स्मितमुखी लग्ना च कर्णान्तिके । उत्कम्पं मतिविभ्रमं विदधती यूनां शनैर्निन्दिता तारुण्यस्य जनापवाद ... वेश्या च संदृश्यते ॥ ३७ ॥ योऽयं निर्दयदन्तखण्डनकरो बुद्धिप्रयोगैर्हठान्नीरन्ध्रो भुजयन्त्रपीडनविधिः सोल्लासमुत्पादितः । तेनेक्षोरिव कामुकस्य सरसस्यादाय सारं परं वेश्याभिः क्रियते बहिर्यदि परं निष्कासनं शल्कवत् ॥ ३८ ॥ {३८ शल्क=शकल} वाग्भिर्भर्त्सनमंशुकादिहरणं संताडनं मुष्टिभिः किं चान्यद्विपरीतदर्श्नमधस्कारोऽथ पादाहतिः । इत्यादि प्रथमं यदेव सुरतप्रौढोपचारक्रमे वेश्या पश्यत तत्तदेव कुरुते निर्वासने कामिनाम् ॥ ३९ ॥ यद्भूयः परिचुम्बनं यदसकृत्सर्वाङ्गमालिङ्गनं यत्पर्युत्सुकमीक्षितं सरभसं यच्चाटुकोत्कट्टनम्(उत्कीर्तनम्?) । यत्सद्भावकथानकं रहसि यत्किं चिदभ्यर्थनं वेश्यानां विषवत्तदेव निपुणं चिन्त्यं सदा कामुकैः ॥ ४० ॥ बिब्बोके बकचेष्टितं बहुविधभ्रूविभ्रमेषु भ्रमं कौटिल्यं नखरक्षतेषु सुरतोपायेषु मायां स्वयम् । सीत्कारान्तरसत्यमर्थहरणं सर्वत्र ये जानते वेश्यानां परमं रहस्यमवनौ ते केऽपि मेधाविनः ॥ ४१ ॥ किं चित्प्राहुणकागमेन किमपि प्रस्तारविस्तारवद्यात्राचैत्रतिथिक्रमैः किमपि च क्रोधप्रसादोदयैः । किं चित्काञ्चनरत्नवस्त्रविषयैर्नानाविधैर्दोहदैर्द्वाराण्यर्थविनिर्गमस्य गणिकाः कुर्वन्ति शृङ्गारिणाम् ॥ ४२ ॥ अर्थुष्मा पितृलालनं विटघटामेलः प्रियम्मन्यता तारुण्यं नगरे स्थितिस्तरलता धिः कामशास्त्रं प्रति । सङ्गीतं रजनी विधुर्मधुमदः स्पर्धा सपत्नैस्तथा वेश्यानामनुरक्तवित्तहरणे कुर्वन्ति साहायकम् ॥ ४३ ॥ वैदग्धीमवधीरय व्यवहितं कार्यं कलाकौशलं सौजन्येन गतं किमन्यदफलो राशिर्गुणानामपि । यस्मान्न प्रणयेन न प्रणतिभिः प्रेम्णा न न प्रीणनैर्न प्राणैरपि ते भुजंग गणिका वित्तं विना तुष्यति ॥ ४४ ॥ दासी नाथ तवाहमेव विभवः सर्वस्त्वदीयः स्थितो मा मां निर्दय मुञ्च शून्यमखिलं मन्ये जगत्त्वां विना । इत्युक्त्वा सहसा भुजङ्गपुरतो यद्वेश्यया रुद्यते भुक्तोच्छिष्टदरिद्रकामिविभवास्ते केवलं तद्विदुः ॥ ४५ ॥ स्वप्ने कामपि संस्मरन् प्रिय मया दृष्टोऽसि तत्ते बलादेवं मां प्रति सांप्रतं किमुचिता निष्कारणं वञ्चना । तज्जागर्मि वरं निशासु यदसौ निद्रापि मे द्रोहिणीत्यालापैर्गणिकागणेन न च को विश्वास्यते कामुकः ॥ ४६ ॥ भ्रूभङ्गैरतिभङ्गुरैः कुटिलितप्रान्तस्तथा कुन्तलैः सोपेक्षैरिव चक्षुषोः सरलितापाङ्गैश्च भङ्ग्यन्तरैः । आत्मीयां चलचित्तवृत्तिरचनां वेश्या वराकी सदा यूनां दर्शयतीव ते यदि परं मूढा न तज्जानते ॥ ४७ ॥ वक्रोक्त्या प्रथमं निरादरतया पश्चात्ततः केन चिद्दातव्यं बहु तत्र यामि भवताम्(ताद्) भूयोऽपि नौ संगमः । इत्युक्तोऽपि न बुध्यते खलु यदा रागी दरिद्रो जडश्चेटीभिर्बहुभाषितैरपि तदा हस्तार्गलैर्वार्यते ॥ ४८ ॥ भूयः कालवशात्तमर्जितधनं दृष्ट्वाथ मद्वल्लभः सः क्रुद्धो गमितस्त्वयेति कलहो मात्रा समं जायते । कृत्वा तं प्रति च व्रतादि विरहं स्वं नाटयित्वा ततस्तस्मिन्मित्रमुखेन संधिरपरो वेश्याभिरुत्पाद्यते ॥ ४९ ॥ प्रौढ प्राणद कान्त नाथ सुभगोदार प्रिय त्वां विना किं वित्तेन गृहेण किं किमसुभिर्ह्योऽपीति यो भाषितः । तस्यैवाद्य निराश दुर्भग पशो निर्लज्ज गच्छाधुना धिक्त्वां निर्धनचङ्गमित्यपवदन् ह्रीतो न वेश्याजनः ॥ ५० ॥ के चिद्द्यूतकरा भवन्ति कतिचिद्भिक्षाचराः किङ्कराः के चित्कर्मकराः परे धनवतां श्लाघाकराः के चन । स्कन्धासक्तपटच्चरा द्य(अ)नुचरा शोकादकिंचित्करास्तेऽमी कामिवराः पुरा समभवन् वेश्यासु ये गोचराः ॥ ५१ ॥ वेश्याभिर्विवशीकृतः कुपुरुषः संजायते दुर्गतो दौर्गत्येन दुरोदरे निपतितः स्वं हारयत्येव स । रुद्धो द्यूतकरैः करोति विधुरश्चौर्यं ततस्तस्करो वध्यः स्यान्नृपतेरहो नु विषयासक्तेर्दुरन्ता गतिः ॥ ५२ ॥ आजीवः कपटानुरागकलया दोषो न दुःशीलता वैधव्यं न च बाधते सदसतोः संब्ःावना व्यत्ययात् । यत्किम्चित्करणे परस्वहरणे व्रीडा न पीडाकरी नो वा राजभयं च ही बत सुखं जीवन्ति वारस्त्रियस्= ॥ ५३ ॥ स्त्रीति प्रीतिकरं पुरः परिणतौ हालाहलं केवलं सर्वस्य व्यसनं किलैतदधिकं तत्रापि वेश्येति च । प्राधान्येन ततस्तदेव कथितं यत्तत्प्रसङ्गेन च व्याख्यातं गुणदोषजातमुचितं चिन्त्यं तदप्यादरात् ॥ ५४ ॥ चेतःश्वापदवागुरा दशगुणस्फारस्मरोड्डामराः कर्तव्यावधयः(?) समुद्रलहरीपूरैरिवोत्पादिताः । नापि स्वाम्यसमर्पणेन न सखे सख्या (?) विरोधेन वा गूढान्तर्मुखसाहसव्यतिकरारक्ष्याः परं योषितः ॥ ५५ ॥ भस्मस्नानमहाव्रतं कतिपयश्रीभ्रष्टसंभावितं सर्वापह्नवहस्तलाघवकलाकूटाक्षशिक्षात्मकम् । प्रत्याशापुनरुक्तहारणजगद्द्रोहं विवादास्पदं दारिद्र्यस्य निमन्त्रणं किमपरं धिग्द्यूतलीलायितम् ॥ ५६ ॥ हिंसानिर्घृणकर्मभूः प्रतिपदानेकप्रमादप्रसूरव्यापारधुरन्धरा प्रतिकृता ग्राम्यैर्जघन्यैः श्वभिः । शून्यारण्यसदाप्रवासविरसव्यायाममिथ्यागुणाः कायक्लेशफलावधिर्मतिमतां सेव्या मृगव्यापि किम् ॥ ५७ ॥ शौचाचारविचारवाह्यमखिलाकार्याहिताचार्यकं तत्तद्गोप्यरहस्यमन्त्रभिदुरं निर्नैशमक्ष्णोस्तमः । यत्तद्वाद्दकलिप्रमादविविधोन्मादैः पिशाचायितं मद्यं मूर्तममेध्यमेतदितरादन्यस्य कस्य प्रियम् ॥ ५८ ॥ उल्कापातसहोदरं सहचरं नैदाघझञ्झामरुज्झम्पानां हरकण्ठलालितगरद्रोणीकुटुम्बीकृतम् । जिह्वाग्रे करपत्त्रमित्रमनिशं तत्कर्कशं दुर्वचो यस्यास्ते वद कद्वदः कथमहो स अपि स्वयं जीवति ॥ ५९ ॥ चण्डं दण्डमकाण्ड एव कलयन् राजा प्रजानां यमः कुर्वन् दुर्व्ययमर्थदूषणरुचिः स्वस्यैव स द्रोहकृत् । सौम्यः सौम्यकरोऽतिविश्वनयनानन्दोऽभिनन्द्यः सतां सश्रीकः कमलाकरश्च सुषमां कां कामहो नार्हति ॥ ६० ॥ संसारस्य महेश्वरो दिनपतिर्ध्वान्तस्य वैद्यो रुजां प्रायश्चित्तमघस्य शास्त्रमपरिज्ञानस्य तोयं तृषः । सिद्धाज्ञा गरलस्य तीर्थसरणं वृद्धत्ववैक्लव्ययोः सप्ताङ्गव्यसनावलेः प्रशमनोपायश्च शिक्षा सताम् ॥ ६१ ॥ ओंकारः साहसानां निजगुणनिपुणप्रत्यवेक्षा सुखानां कादाचित्कः प्रयोगः सकलपरिचयोपाधिवैदग्ध्यबन्धुः । कष्टानामन्त्यकाष्ठा धनरसिकवणिग्लोकयात्राप्रसङ्गो जीवज्जन्मान्तरं चेत्यलमतिबहुना स्वस्ति देशान्तराय ॥ ६२ ॥ यद्यप्यस्ति सविस्तराद्भुतकथाभूयिष्ठनानाविधव्याख्यायां निरवद्यहृद्यचरितोदारं च देशान्तरम् । तत्रापि स्वगृहेषु गुणवद्गोष्ठीगरिष्ठीकृतस्फारोऽनारतभारतीरसपरिष्यन्दः सखे सुन्दरः ॥ ६३ ॥ ते वन्द्या मकरन्दबिन्दुमधुरैरभ्युत्थितादक्षरैर्येषा वान्ति सरस्वतीपरिमलोद्गारा मुखाम्भोरुहात् । वन्द्यास्तेऽपि तदन्तरालपतिता ये भृङ्गभङ्गीजुषः सान्द्रानन्दकरम्बितं जगदिदं विन्दन्ति निन्दन्ति च ॥ ६४ ॥ दृष्ट्वा देशमशेषमा जलनिधेरालोक्य कौतूहलादास्थानीरवनीभृतां च पुनरप्यागत्य देशं निजम् । कारुण्यात्तरुणं जनं प्रति सतामभ्यर्थनाभिस्तथा सोऽयं संप्रति जल्हणेन कविना मुद्घोपदेशः कृतः ॥ ६५ ॥ विद्याभ्यासपरम्परापरिचयैर्बाल्यं कृतार्थीकृतं तारुण्यं तरुणीनिरन्तरपरीरम्भैश्च संभावितम् । अस्माकं सुरसिन्धुरोधसि पुनः शंभावदंभार्चनैर्वृद्धत्वस्य विशुद्धतां जनयितुं कर्तव्यशेषः स्थितः ॥ ६६ ॥  पीयूषाभिनिवेश एष रभसादस्माकमद्यानया बन्धूकद्युतिबान्धवाधररसस्यन्देन मन्दीकृतः । इत्थं दैत्यचयः समुद्रमथने येन क्षणाद्वञ्चितस्तस्मै सादरमोंनमोऽस्तु कपटस्त्रीरूपिणे विष्णवे ॥ १ ॥ हारिद्रद्रवसोदराय रसनामंडो(मात्रो)परिस्थायिने सत्यादन्यतमाय वित्तहरणप्रत्यक्षचौराय च । चित्रं दुर्भगरूपवर्णनमहापाण्डित्यविद्याय ते व्याजानां प्रथमाय गर्भगणिकारागाय तुभ्यं नमः ॥ २ ॥ ध्यानं यत्परमेश्वरं प्रति सदा यद्वीतरागं मनो यत्कर्मातिकठोरघोरगहनं भूत्यै यदत्यादरः । आश्चर्यं च शरीरदानमपि यत्कार्यं विकारं विना तद्वेश्यैव तपस्विनी कलियुगे लोकोऽपि तद्भावितः ॥ ३ ॥ श्रीमन्तं शिरसा बिभर्ति कुरुते विश्वभ्रमं हेलया धत्ते पाटकपक्षपातमनिशं नैवामिशैस्तृप्यति । रक्तं पातुमपीहते च सकलं तार्क्ष्यस्य मूर्तिर्यथा वेश्या किं तु भुजङ्गभक्षणविधौ नाद्यापि विश्राम्यति ॥ ४ ॥ ते गन्धर्वपुरे वसन्तु विभवं स्वप्नार्जितं भुञ्जतां कुर्वन्तु क्षणमन्तरिक्षकुसुमैः स्रग्दामशोभामपि । वेश्यानां शशशृङ्गभङ्गिसदृशं वाल्लभ्यमासाद्य ये सर्वस्वक्षपणाय केवलमहो मूर्खाः सुखेनासते ॥ ५ ॥ श्वैत्यं कल्पय कज्जले कपिकुलेष्वारोपयाचापलं कोदण्डे जनयार्जवं विरचय ग्राव्णां गणे मार्दवम् । निम्बे साधय माधुरीं सुरभितामादौ रसोने कुरु प्रेमाणं गणिकाजनेऽपि चतुरः पश्चात्सखे द्रक्ष्यसि ॥ ६ ॥ कालश्चेत्करुणापरः कलियुगं यद्यद्य धर्मप्रियं निस्त्रिंशो यदि पेशलो विषधरः संतोषदायी यदि । अग्निश्चेदतिशीतलः खलजनः सर्वोपकारी स चेदायुष्यं यदि वा भविष्यति विषं वेश्यापि तद्रागिणी ॥ ७ ॥ मूढो निर्व्यसनो वणिग्विकपटो राजाधिकारी शुचिः स्वाधीनो भृतको जडो गुणरतश्चौरो व्यपेतस्पृहः । भीतः शान्तमतिर्वितः सविनयः कर्णेजपो धार्मिकः किं कुत्रापि कदापि कोऽपि भविता वेश्याजनो रागवान् ॥ ८ ॥ {८ fओर्भीतः वर्. नीतः} कामो नास्ति नपुंसकस्य कुलटावर्गस्य नास्ति त्रपा तोयं नास्ति मरीचिकासु सततं नास्ति स्थिरत्वं श्रियः । धर्मो नास्ति च नास्तिकस्य विभवो नास्ति प्रमत्तात्मनः स्नेहानां कणिकापि नास्ति गणिकालोकस्य च प्रायशः ॥ ९ ॥ अश्वीये यमवाहनस्य नकुलस्याशीविषाणां कुले मार्जारस्य च मूषकेषु घटते या प्रीतिरात्यन्तिकी । क्षीणेऽर्थे विधुरेषु बन्धुषु दृढे लोकापवादे शनैर्ज्ञेया कामिजनेषु सैव गणिकावर्गस्य नैसर्गिकी ॥ १० ॥ यद्यूतेन युधिष्ठिरस्य विहितं यद्विष्णुना वा बलेर्यच्छुक्रेण धनाधिपस्य कलिना राज्ञो नलस्यापि यत् । संभूयापि च यत्सुरासुरबलैरुन्मथ्य पाथोनिधेर्वेश्या पश्यत लीलयैव कुरुते तत्तद्गृहे कामिनाम् ॥ ११ ॥ वाक्शुरस्य रणोऽवधिः कुतनयोत्पत्तिः कुलस्यावधिर्बान्धव्यस्य विवादभूमिरवधिः सौख्यं श्रुतस्यवधिः । वाचाटस्य विदग्धपर्षदवधिर्लौल्यं व्रतस्यावधिर्बन्धो विद्धि धनावसानमवधिर्वेश्यानुरागस्य च ॥ १२ ॥ स्वामी क्रूरमिवाश्रितं परिणतो योगीव संसारिणं शुद्धो विप्र इवान्त्यजं जनपदः श्रीमानिव श्वित्रिणम् । दासीपुत्रमिवोद्धतः कुलधरो नीचो धनीवार्थिनं पर्यन्ते तृणतुल्यमेव गणिका निःस्वं जनं पश्यन्ति ॥ १३ ॥ विप्रो दक्षिणया महैः परिजनो मेघोदयैः कार्षिको दुर्मन्त्री व्यसनेन साहसशतैः शूरो मृगैर्लुब्धकः । बन्दी त्यागिभिरक्षरैर्जनयिता लाभातिरेकैर्वणिग्रोगार्तैर्भिषगर्भकैश्च गणिका गर्भेश्वरैस्तुष्यति ॥ १४ ॥ अज्ञानः कलहैः सुभाषितपदैः सभ्योऽधमऋणैर्धनी जीवैः शाकुनिको दुरोदरकरः शारैर्यमः प्राणिभिः । ग्रामीणैर्विटपेटकः परिजनैः स्वामी शिशुः कन्दुकैः श्रीपुत्रैस्तरुणैस्तथा नवनवैर्वाराङ्गना क्रीडति ॥ १५ ॥ भृत्यः कुप्रभुसेवया नरपतिः स्वच्छन्दतादुर्नयैर्हेवाकेन कविर्मदेन कुलजः क्रोधाग्निना तापसः । योगी भोगविशेषलम्पटतया रोगी कुपथ्याशनई रागी चत्वरकामिनीपरिचयैः क्षिप्रादधः क्षिप्यते ॥ १६ ॥ शालीनां शलभव्रजो धुणगणो वंशप्रतानोन्नतेर्मत्तेभः कमलाकरस्य कुसुमोद्यानस्य दुर्मारुतः । स्वस्भानुर्विधुमण्डलस्य वडवावक्रो निधेरम्भसा मासां कामुकसंपदां च गणिकाक्षुद्रः कीलोपद्रवः ॥ १७ ॥ शौर्यस्यातिविकत्थनं रिपुनतिर्मानस्य दुःशीलता सौन्दर्यस्य समुन्नतेस्तरलता ज्ञानस्य गर्वग्रहः । ऐश्वर्यस्य विकारता मुखरता विद्याप्रकर्षस्य च भ्रातर्विभ्रमनर्मणश्च गणिका सर्वात्मना दूषणम् ॥ १८ ॥ च्छायामभ्रदलैः खलैः सुजनतां मानोन्नतिं याच्ञया कार्पण्येन यशांसि धूर्तकलया मैत्रीं सुखं सेवया । धर्मं प्राणिवधेन वाञ्छति धनं द्यूतप्रसादेब यो वेश्याभिश्च विलासमात्मनि नराकारोऽस्ति गौरेव सः ॥ १९ ॥ नान्धो मूर्खसमो न सेवकसमो दुःखी न यक्ष्मोपमो व्याधिर्नाधिरसत्सुतप्रतिनिधिस्त्रासो न भृत्योः समः । कष्टं नाध्वसमानमिन्द्रियसमो नारिः परस्त्रीसमं नानायुष्यमवश्यनिन्द्यमथ नो वेश्यासमं दृश्यते ॥ २० ॥ किं काकोऽपि विहंगमो मरुरपि स्थानं करीरोऽपि किं शाखी राहुरपि ग्रहः स च भवेदुष्ट्रोऽपि किं वा[ह]तम् । किं काचोऽपि मणिर्मृगोऽपि करटिः प्रेष्योऽपि वा मानुषः किं वेश्यापि विलासिनी स च तदासक्तोऽपि किं कामुकः ॥ २१ ॥ किं तत्कर्म यदस्तशर्म रसना किं सा न (च) यारुंतुदा किं तत्प्रेम यदस्थिरं स च पुमान् किं नाम यो निर्गुणः । सा किं श्रीरुपभोगमर्हति न या सेव्यः स किं योऽन्तरं नो जानाति तदस्ति किं विलसितं वेश्यासु यत्कृत्रिमम् ॥ २२ ॥ दूरे तानि धनानि येषु मलनं मानस्य संजायते बन्धुः स अस्तु सुखी मुखे मधुमयो योऽन्तश्च मायामयः । भोगाः प्रलयं प्रयान्तु कथमप्यौचित्यभङ्गेन ये यायातुर्निधनं वरं निधुवनं वेश्यासु मूल्येन यत् ॥ २३ ॥ अस्थानाभिनिवेशिता रतिपतेरौचित्यभङ्गो रतेर्वैयर्थ्यं नवयौवनस्य किमपि प्रेम्णः कलङ्काङ्कुरः । सौभाग्यस्य विमानना विगुणता सौन्दर्यसारश्रियः शृङ्गारस्य विडम्बना किमपरं वेश्यारतडम्बरः ॥ २४ ॥ क्रुद्धो यस्य मनोभवस्तरुणिमा येनात्मनो वञ्चितस्तैस्तैर्यश्च कटाक्षितः परिभवैः साक्षादलक्ष्मीमुखैः । युक्तायुक्तविचारणापरिहृतः कामं स कामी क्रिमिः पण्यस्त्रीषु नितम्बनामनि महानिम्बे रतिं विन्दति ॥ २५ ॥ शापः कोऽपि महानयं परिणतिर्दुष्कर्मणामीदृशी दौर्जन्यं परमं विधेरिदमियं साक्षादलक्ष्मी स्थिरा । सौहार्दस्य च विभ्रमस्य च रतेर्भर्तुश्च यूनां तथा यत्संत्यज्य कुलाङ्गनां बहुमुखो दासीजनः सेव्यते ॥ २६ ॥ संपर्कोऽप्यतिकर्कशः परिचयाभासोऽप्यसंपत्करो दृक्पातोऽप्यवसादसूरपि सकृत्संभाषणं दूषणम् । छायापि च्छलनात्मिका परिमलोद्गारोऽपि हालाहलं वेश्यानां विषयेषु किं पुनोऽहो सक्तिर्महासाहसम् ॥ २७ ॥ द्रोहो यस्य पिता कलाः किल चतुःषष्टिस्तथा मातरः प्राणाः सर्वमलीकमर्थहरणं नाम प्रधानव्रतम् । विक्रेयं निजमङ्गमङ्गमपि चानङ्गः सहायः स्वयं तस्यानर्थशतात्मकस्य गणिकाव्याधेः किमस्त्यौषधम् ॥ २८ ॥ गृध्री निर्भरमामिषेषु सरघा घोरा मधूनां भरे तीक्ष्णनखक्षतेषु भुजगी दंशप्रकारेषु च । उत्तानेषु विवर्तनेषु शफरि वित्तच्छले मूषिका वेश्या कामुकवञ्चनाय भुवने रूपैरनेकैः स्थिता ॥ २९ ॥ साम्राज्यं मधुमांसमत्स्यगिलनं मन्त्री जरत्कुट्टनी दण्ड्यः सार्थकिराटसूनुरधनाः शृङ्गारिणः किङ्कराः । आचारो बहुगालिदानमधमो मित्रं धनं जीवितं वेश्यानां पुरचार ... थ भग्नः प्रियः ॥ ३० ॥ रागीति प्रतिपत्तिभूर्वित इति प्राप्तोऽतिवन्द्यं पदं श्लाघार्हो व्यसनीति हीनकुल इत्यग्र्यः कुटुम्बः स्वयम् । मान्यः प्राहत इत्यहो कितव इत्याप्तश्च किं वाधिकं सर्वावस्थ इति प्रमाणपुरुषो वेश्याभिरभ्यर्च्यते ॥ ३१ ॥ मांस्पाकोत्कटमद्यगन्धि विहरच्चेटीनटीसंकुलं यद्वेश्यायतनं भुजंग परया भक्त्या पुरः पश्यसि । अत्रास्ते गृहदेवता विदधती दिग्घट्टनं कुट्टनी यस्याः प्रत्यहमाढ्यकामुकपशुव्रातोपहारैर्बलिः ॥ ३२ ॥ {३२ ओन्मांस्पाका सेए पाणिनि ६.१.१४४ अपरसपराः क्रियासातत्ये} प्रत्यङ्गार्पणचारुचाटुकरणप्रेमोचितप्रार्थना श्रीवातायनदर्शनादिगणिकालोकस्य धर्मः परः । कुट्टन्याः पुन उत्कटोत्कटमिदं तत्रास्त्यगस्त्यव्रतं यत्प्राणाहुतिरेककैव सकलई रत्नाकरैः कामिभिः ॥ ३३ ॥ कन्दर्पप्रतिभूनिवेशितवलीरेखावलीशोभिते लीलोदञ्चितबाहुपाशयुगलापातैश्च भोः कामुकाः । वेश्यानां विपुले नितम्बफलके शारैः कटाक्षैरितो यद्वः क्रीडितमत्र दास्यति पुरो दारिद्रमेवोत्तरम् ॥ ३४ ॥ शूलेनाद्य मृताहमद्य सरजाः कर्तव्यमद्य व्रतं त्यागी नास्ति ततोऽधिकोऽपर इति श्लाघा विपक्षस्य च । कं चिन्नोत्सहते स राजतनयो जानाति माता ममेत्येवं मुग्धभुजंग रूक्षगणिकावाचोऽचिराच्छ्रोष्यसि ॥ ३५ ॥ मालिन्यं प्रकटिकरोति निबिडं नैर्गुण्यमातन्वते(सी) जीर्णस्नेहपरम्परा विदधते पात्रेऽप्यहो दूषणम् । वेश्या दीपशिखेव भाति रजनौ रूपभ्रमान्धीकृतो यत्रायं कुरुते पतङ्गपतनं हा हा भुजंगव्रजः ॥ ३६ ॥ केशाकर्षणकर्मणि व्यवसिता वीर्यं हरन्ती परं म्लानिं कामपि तन्वती स्मितमुखी लग्ना च कर्णान्तिके । उत्कम्पं मतिविभ्रमं विदधती यूनां शनैर्निन्दिता तारुण्यस्य जनापवाद ... वेश्या च संदृश्यते ॥ ३७ ॥ योऽयं निर्दयदन्तखण्डनकरो बुद्धिप्रयोगैर्हठान्नीरन्ध्रो भुजयन्त्रपीडनविधिः सोल्लासमुत्पादितः । तेनेक्षोरिव कामुकस्य सरसस्यादाय सारं परं वेश्याभिः क्रियते बहिर्यदि परं निष्कासनं शल्कवत् ॥ ३८ ॥ {३८ शल्क=शकल} वाग्भिर्भर्त्सनमंशुकादिहरणं संताडनं मुष्टिभिः किं चान्यद्विपरीतदर्श्नमधस्कारोऽथ पादाहतिः । इत्यादि प्रथमं यदेव सुरतप्रौढोपचारक्रमे वेश्या पश्यत तत्तदेव कुरुते निर्वासने कामिनाम् ॥ ३९ ॥ यद्भूयः परिचुम्बनं यदसकृत्सर्वाङ्गमालिङ्गनं यत्पर्युत्सुकमीक्षितं सरभसं यच्चाटुकोत्कट्टनम्(उत्कीर्तनम्?) । यत्सद्भावकथानकं रहसि यत्किं चिदभ्यर्थनं वेश्यानां विषवत्तदेव निपुणं चिन्त्यं सदा कामुकैः ॥ ४० ॥ बिब्बोके बकचेष्टितं बहुविधभ्रूविभ्रमेषु भ्रमं कौटिल्यं नखरक्षतेषु सुरतोपायेषु मायां स्वयम् । सीत्कारान्तरसत्यमर्थहरणं सर्वत्र ये जानते वेश्यानां परमं रहस्यमवनौ ते केऽपि मेधाविनः ॥ ४१ ॥ किं चित्प्राहुणकागमेन किमपि प्रस्तारविस्तारवद्यात्राचैत्रतिथिक्रमैः किमपि च क्रोधप्रसादोदयैः । किं चित्काञ्चनरत्नवस्त्रविषयैर्नानाविधैर्दोहदैर्द्वाराण्यर्थविनिर्गमस्य गणिकाः कुर्वन्ति शृङ्गारिणाम् ॥ ४२ ॥ {४२ प्राहुणक= अ गुएस्त्} अर्थुष्मा पितृलालनं विटघटामेलः प्रियम्मन्यता तारुण्यं नगरे स्थितिस्तरलता धिः कामशास्त्रं प्रति । सङ्गीतं रजनी विधुर्मधुमदः स्पर्धा सपत्नैस्तथा वेश्यानामनुरक्तवित्तहरणे कुर्वन्ति साहायकम् ॥ ४३ ॥ वैदग्धीमवधीरय व्यवहितं कार्यं कलाकौशलं सौजन्येन गतं किमन्यदफलो राशिर्गुणानामपि । यस्मान्न प्रणयेन न प्रणतिभिः प्रेम्णा न न प्रीणनैर्न प्राणैरपि ते भुजंग गणिका वित्तं विना तुष्यति ॥ ४४ ॥ दासी नाथ तवाहमेव विभवः सर्वस्त्वदीयः स्थितो मा मां निर्दय मुञ्च शून्यमखिलं मन्ये जगत्त्वां विना । इत्युक्त्वा सहसा भुजङ्गपुरतो यद्वेश्यया रुद्यते भुक्तोच्छिष्टदरिद्रकामिविभवास्ते केवलं तद्विदुः ॥ ४५ ॥ स्वप्ने कामपि संस्मरन् प्रिय मया दृष्टोऽसि तत्ते बलादेवं मां प्रति सांप्रतं किमुचिता निष्कारणं वञ्चना । तज्जागर्मि वरं निशासु यदसौ निद्रापि मे द्रोहिणीत्यालापैर्गणिकागणेन न च को विश्वास्यते कामुकः ॥ ४६ ॥ भ्रूभङ्गैरतिभङ्गुरैः कुटिलितप्रान्तस्तथा कुन्तलैः सोपेक्षैरिव चक्षुषोः सरलितापाङ्गैश्च भङ्ग्यन्तरैः । आत्मीयां चलचित्तवृत्तिरचनां वेश्या वराकी सदा यूनां दर्शयतीव ते यदि परं मूढा न तज्जानते ॥ ४७ ॥ वक्रोक्त्या प्रथमं निरादरतया पश्चात्ततः केन चिद्दातव्यं बहु तत्र यामि भवताम्(ताद्) भूयोऽपि नौ संगमः । इत्युक्तोऽपि न बुध्यते खलु यदा रागी दरिद्रो जडश्चेटीभिर्बहुभाषितैरपि तदा हस्तार्गलैर्वार्यते ॥ ४८ ॥ भूयः कालवशात्तमर्जितधनं दृष्ट्वाथ मद्वल्लभः सः क्रुद्धो गमितस्त्वयेति कलहो मात्रा समं जायते । कृत्वा तं प्रति च व्रतादि विरहं स्वं नाटयित्वा ततस्तस्मिन्मित्रमुखेन संधिरपरो वेश्याभिरुत्पाद्यते ॥ ४९ ॥ प्रौढ प्राणद कान्त नाथ सुभगोदार प्रिय त्वां विना किं वित्तेन गृहेण किं किमसुभिर्ह्योऽपीति यो भाषितः । तस्यैवाद्य निराश दुर्भग पशो निर्लज्ज गच्छाधुना धिक्त्वां निर्धनचङ्गमित्यपवदन् ह्रीतो न वेश्याजनः ॥ ५० ॥ के चिद्द्यूतकरा भवन्ति कतिचिद्भिक्षाचराः किङ्कराः के चित्कर्मकराः परे धनवतां श्लाघाकराः के चन । स्कन्धासक्तपटच्चरा द्य(अ)नुचरा शोकादकिंचित्करास्तेऽमी कामिवराः पुरा समभवन् वेश्यासु ये गोचराः ॥ ५१ ॥ वेश्याभिर्विवशीकृतः कुपुरुषः संजायते दुर्गतो दौर्गत्येन दुरोदरे निपतितः स्वं हारयत्येव स । रुद्धो द्यूतकरैः करोति विधुरश्चौर्यं ततस्तस्करो वध्यः स्यान्नृपतेरहो नु विषयासक्तेर्दुरन्ता गतिः ॥ ५२ ॥ आजीवः कपटानुरागकलया दोषो न दुःशीलता वैधव्यं न च बाधते सदसतोः संब्ःावना व्यत्ययात् । यत्किम्चित्करणे परस्वहरणे व्रीडा न पीडाकरी नो वा राजभयं च ही बत सुखं जीवन्ति वारस्त्रियस्= ॥ ५३ ॥ स्त्रीति प्रीतिकरं पुरः परिणतौ हालाहलं केवलं सर्वस्य व्यसनं किलैतदधिकं तत्रापि वेश्येति च । प्राधान्येन ततस्तदेव कथितं यत्तत्प्रसङ्गेन च व्याख्यातं गुणदोषजातमुचितं चिन्त्यं तदप्यादरात् ॥ ५४ ॥ चेतःश्वापदवागुरा दशगुणस्फारस्मरोड्डामराः कर्तव्यावधयः(?) समुद्रलहरीपूरैरिवोत्पादिताः । नापि स्वाम्यसमर्पणेन न सखे सख्या (?) विरोधेन वा गूढान्तर्मुखसाहसव्यतिकरारक्ष्याः परं योषितः ॥ ५५ ॥ भस्मस्नानमहाव्रतं कतिपयश्रीभ्रष्टसंभावितं सर्वापह्नवहस्तलाघवकलाकूटाक्षशिक्षात्मकम् । प्रत्याशापुनरुक्तहारणजगद्द्रोहं विवादास्पदं दारिद्र्यस्य निमन्त्रणं किमपरं धिग्द्यूतलीलायितम् ॥ ५६ ॥ हिंसानिर्घृणकर्मभूः प्रतिपदानेकप्रमादप्रसूरव्यापारधुरन्धरा प्रतिकृता ग्राम्यैर्जघन्यैः श्वभिः । शून्यारण्यसदाप्रवासविरसव्यायाममिथ्यागुणाः कायक्लेशफलावधिर्मतिमतां सेव्या मृगव्यापि किम् ॥ ५७ ॥ शौचाचारविचारवाह्यमखिलाकार्याहिताचार्यकं तत्तद्गोप्यरहस्यमन्त्रभिदुरं निर्नैशमक्ष्णोस्तमः । यत्तद्वाद्दकलिप्रमादविविधोन्मादैः पिशाचायितं मद्यं मूर्तममेध्यमेतदितरादन्यस्य कस्य प्रियम् ॥ ५८ ॥ उल्कापातसहोदरं सहचरं नैदाघझञ्झामरुज्झम्पानां हरकण्ठलालितगरद्रोणीकुटुम्बीकृतम् । जिह्वाग्रे करपत्त्रमित्रमनिशं तत्कर्कशं दुर्वचो यस्यास्ते वद कद्वदः कथमहो स अपि स्वयं जीवति ॥ ५९ ॥ चण्डं दण्डमकाण्ड एव कलयन् राजा प्रजानां यमः कुर्वन् दुर्व्ययमर्थदूषणरुचिः स्वस्यैव स द्रोहकृत् । सौम्यः सौम्यकरोऽतिविश्वनयनानन्दोऽभिनन्द्यः सतां सश्रीकः कमलाकरश्च सुषमां कां कामहो नार्हति ॥ ६० ॥ संसारस्य महेश्वरो दिनपतिर्ध्वान्तस्य वैद्यो रुजां प्रायश्चित्तमघस्य शास्त्रमपरिज्ञानस्य तोयं तृषः । सिद्धाज्ञा गरलस्य तीर्थसरणं वृद्धत्ववैक्लव्ययोः सप्ताङ्गव्यसनावलेः प्रशमनोपायश्च शिक्षा सताम् ॥ ६१ ॥ ओंकारः साहसानां निजगुणनिपुणप्रत्यवेक्षा सुखानां कादाचित्कः प्रयोगः सकलपरिचयोपाधिवैदग्ध्यबन्धुः । कष्टानामन्त्यकाष्ठा धनरसिकवणिग्लोकयात्राप्रसङ्गो जीवज्जन्मान्तरं चेत्यलमतिबहुना स्वस्ति देशान्तराय ॥ ६२ ॥ यद्यप्यस्ति सविस्तराद्भुतकथाभूयिष्ठनानाविधव्याख्यायां निरवद्यहृद्यचरितोदारं च देशान्तरम् । तत्रापि स्वगृहेषु गुणवद्गोष्ठीगरिष्ठीकृतस्फारोऽनारतभारतीरसपरिष्यन्दः सखे सुन्दरः ॥ ६३ ॥ ते वन्द्या मकरन्दबिन्दुमधुरैरभ्युत्थितादक्षरैर्येषा वान्ति सरस्वतीपरिमलोद्गारा मुखाम्भोरुहात् । वन्द्यास्तेऽपि तदन्तरालपतिता ये भृङ्गभङ्गीजुषः सान्द्रानन्दकरम्बितं जगदिदं विन्दन्ति निन्दन्ति च ॥ ६४ ॥ दृष्ट्वा देशमशेषमा जलनिधेरालोक्य कौतूहलादास्थानीरवनीभृतां च पुनरप्यागत्य देशं निजम् । कारुण्यात्तरुणं जनं प्रति सतामभ्यर्थनाभिस्तथा सोऽयं संप्रति जल्हणेन कविना मुद्घोपदेशः कृतः ॥ ६५ ॥ विद्याभ्यासपरम्परापरिचयैर्बाल्यं कृतार्थीकृतं तारुण्यं तरुणीनिरन्तरपरीरम्भैश्च संभावितम् । अस्माकं सुरसिन्धुरोधसि पुनः शंभावदंभार्चनैर्वृद्धत्वस्य विशुद्धतां जनयितुं कर्तव्यशेषः स्थितः ॥ ६६ ॥