कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १.१ ॥ तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ १.२ ॥ तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतोर् अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ १.३ ॥ प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् । स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ १.४ ॥ धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतएषु ॥ १.५ ॥ जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ १.६ ॥ संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः संदेशं मे हर धनपतिक्रोधविश्लेषितस्य । गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ १.७ ॥ त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः । कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ १.८ ॥ त्वां चावश्यं दिवसगणनातत्परामेकपत्नीम् अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् । आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १.९ ॥ मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वामश्चायं नदति मधुरं चातकस्ते सगन्धः । गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ १.१० ॥ कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्यां तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः । आ कैलासाद्बिसकिसलयच्छेदपाथेयवन्तः संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ १.११ ॥ आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु । काले काले भवति भवतो यस्य संयोगमेत्य स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १.१२ ॥ मर्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् । खिन्नः खिन्नः शिहरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ १.१३ ॥ अद्रेः शृङ्गं हरति पवनः किं स्विदित्युन्मुखीभिर् दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः । स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १.१४ ॥ रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद् वल्मीकाग्रात्प्रभवति धनुःखण्डमाखण्डलस्य । येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १.१५ ॥ त्वय्यायन्तं कृषिफलमिति भ्रूविकारानभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः । सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं किंचित्पश्चाद्व्रज लघुगतिर्भूय एवोत्तरेण ॥ १.१६ ॥ त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तत्थोच्चैः ॥ १.१७ ॥ छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस् त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे । नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १.१८ ॥ स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः । रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १.१९ ॥ {अध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूटस् तुङ्गेन त्वां जलद शिरसा वक्ष्यति श्लाघमानः । आसारेण त्वमपि शमयेस्तस्य नैदाघमग्निं सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ १.१९ } ॥ तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिर् जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः । अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ १.२० ॥ नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढैर् आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् । जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ १.२१ ॥ अम्भोबिन्दुग्रहणचतुरांश्चातकान् वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः । त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ १.२२ ॥ उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वेते ते । शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रतुद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥ १.२३ ॥ पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर् नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः । त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ १.२४ ॥ तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा । तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात् सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥ १.२५ ॥ नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतोस् त्वत्सम्पर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः । यः पुण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणाम् उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ १.२६ ॥ विश्रान्तः सन् व्रज वननदीतीरजानां निषिञ्चन्न् उद्यानानां नवजलकणैर्यूथिकाजाल्कानि । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ १.२७ ॥ वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः । विद्युद्दामस्फुरितचक्रितैस्तत्र पौराङ्गनानां लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ १.२८ ॥ वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभः । निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ १.२९ ॥ वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ १.३० ॥ प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान् पूर्वोद्दिष्टामुपसर पुरीं श्रीविशालां विशालाम् । स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ १.३१ ॥ दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ १.३२ ॥ हारांस्तारांस्तरलगुटिकान् कोटिशः शङ्कशुक्तीः शष्पश्यामान्मरकतमणीनुन्मयूखप्ररोहान् । दृष्ट्वा यस्यां विपणिरचितान् विद्रुमाणां च भङ्गान् संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ १.३३ ॥ प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः । अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पाद् इत्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः ॥ १.३४ ॥ जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपैर् बन्धुप्रीत्या भवनशिख्जिभिर्दत्तनृत्योपहारः । हर्म्येष्वस्याः कुसुमसुरभिष्वधवखेदं नयेथा लक्ष्मीं पश्यंल्ललितवनितापादरागाङ्कितेषु ॥ १.३५ ॥ भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य । धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्यास् तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ १.३६ ॥ अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदत्येति भानुः । कुर्वन् सन्ध्यावलिपटहतां शूलिनः श्लाघनीयाम् आमन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ १.३७ ॥ पादन्यासैः क्वणितरशनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटक्षान् ॥ १.३८ ॥ पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभ्लीनः सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः । नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ १.३९ ॥ गच्छन्तीनां रमाणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः । सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं तोयोत्सर्गस्तनितमुहरो मा च भूर्विक्लवास्ताः ॥ १.४० ॥ तां कस्यांचिद्भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः । दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपतार्थकृत्याः ॥ १.४१ ॥ तस्मिन् काले नयनसलिअं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु । प्रालेयास्त्रं कमलवदनात्सो.अपि हर्तुं नलिन्याः प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पभ्यसूयः ॥ १.४२ ॥ गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् । तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान् मोघीकर्तुं चटुलशफोरोद्वर्तनप्रेक्षितानि ॥ १.४३ ॥ तस्याः किंचित्करधृतमिव प्राप्त्वाईरशाखं हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादो विवृतजघनां को विहातुं समर्था ॥ १.४४ ॥ त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः । नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ १.४५ ॥ तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः । रक्षाहेतोर्नवशशिभृता वासवीनां चमूनाम् अत्यादित्यं हुतवहमुखे संभृतं तद्धि तेयः ॥ १.४६ ॥ ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ १.४७ ॥ आराद्यैनं शरवणभवं देवमुल्लङ्घिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः । व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ १.४८ ॥ त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् । प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टिर् एकं भुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ १.४९ ॥ तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥ १.५० ॥ ब्रह्मावर्तं जनपदमथ च्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः । राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ १.५१ ॥ हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे । कृत्वा तासामधिगममपां सौम्य सारस्वतीनाम् अन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ १.५२ ॥ तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णां जाह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ १.५३ ॥ तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः । संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ स्यादस्थानोपगतयमुनासंगमेवाभिरामा ॥ १.५४ ॥ आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः । वक्ष्यस्यध्वश्रमविनयेन तस्य शृङ्गे निषण्णः शोभां शुभ्रां त्रिनयनवृषोत्खातपङ्कोपमेयम् ॥ १.५५ ॥ तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः । अर्हस्येनं शमयितुमलं वारिधारासहस्रैर् आपन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ १.५६ ॥ ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन् मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् । तान् कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णन् के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ १.५७ ॥ तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः शश्वत्सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः । यस्मिन् दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ १.५८ ॥ शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः संरक्ताभिस्त्रिपुरविजयो गीयते किंनराभिः । निर्ह्रादस्ते मुरज इव चेत्कन्दरेषु ध्वनिः स्यात् संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥ १.५९ ॥ प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान् हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम् । तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ १.६० ॥ गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः । शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं राशीभूतः प्रतिदिनमिव त्र्यम्बकस्यट्टहासः ॥ १.६१ ॥ उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य । शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम् अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ १.६२ ॥ हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता क्रीडाशैले यदि च विचरेत्पादचारेण गौरी । भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ १.६३ ॥ तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् । ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्यात् क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः ॥ १.६४ ॥ हेमाम्भोजप्रसवि सलिलं मानसस्याददानः कुर्वन् कामं क्षणमुखपटप्रीतिमैरावतस्य । धुन्वन् कल्पद्रुमकिसलयान् यंशुकानीव वातैर् नानाचेष्टैर्जलदललितैर्निर्विशेस्तं नगेन्द्रम् ॥ १.६५ ॥ तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् । या वः काले वहति सलिलोद्गारमुच्चैर्विमाना मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ १.६६ ॥ {ऊत्तरमेघः} विधुन्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ २.१ ॥ हस्ते लीलाकमलमलके बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः । चूडापाशे नवकुरवकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ २.२ ॥ यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः । केकोत्कण्ठा भुवनशिखिनो नित्यभास्वत्कलापा नित्यज्योत्स्नाः प्रहिततमोवृत्तिरम्याः प्रदोषाः ॥ २.३ ॥ आनन्दोत्थं नयनसलिलम्यत्र नान्यैर्निमित्तैर् नान्यस्तापं कुसुमशरजादिष्टसंयोगसाध्यात् । नाप्यन्यस्मात्प्रणयकलहाद्विप्रयोगोपपत्तिर् वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ २.४ ॥ यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः । आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ २.५ ॥ मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिर् मन्दाराणामनुतटरुहां छायया वारितोष्णाः । अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः संक्रीडन्ते मणिभिरमरप्रार्थितया यत्र कन्याः ॥ २.६ ॥ नीवीबन्धोच्छ्वासितशिथिलं यत्र बिम्बाधराणां क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु । अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ २.७ ॥ नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीर् आलेख्यानां सलिलकणिकादोषमुत्पाद्य सद्यः । शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालमार्गैर् धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ २.८ ॥ यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गितानाम् अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः । त्वत्संरोधापगमविशदश्चन्द्रपादैर्निशीथे व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ २.९ ॥ अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैर् उद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् । वैभ्राजाख्यं विबुधवनितावारमुख्यसहाया बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ २.१० ॥ गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः पुत्रच्छेदैः कनककमलैः कर्णविस्रंशिभिश्च । मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारैर् नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ २.११ ॥ वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पम् । लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम् एकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ २.१२ ॥ पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात् । योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कैः ॥ २.१३ ॥ मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् । सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघैस् तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ २.१४ ॥ तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन । यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः ॥ २.१५ ॥ वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः । यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ २.१६ ॥ तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः । मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ २.१७ ॥ रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः प्रत्यासन्नौ कुरुवकवृतेर्माधवीमण्डपस्य । एकः सख्यास्तव सह मया वामपादाभिलाषी काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ २.१८ ॥ तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर् मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः । तालैः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ २.१९ ॥ एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा । क्षामच्छायां भवनमधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ २.२० ॥ गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः । अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ २.२१ ॥ तन्वी श्यामा शिखरीदशना पक्वबिम्बाधरौष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः । श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद्युवतीविषये सृष्टिराद्यैव धातुः ॥ २.२२ ॥ तां जानीथाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ २.२३ ॥ नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् । हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वाद् इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ २.२४ ॥ आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती । पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ २.२५ ॥ उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा । तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथंचिद् भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ २.२६ ॥ शेषान्मासान् विरहदिवासस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः । सम्भोगं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ २.२७ ॥ सव्यापारमहनि न तथा पीडयेद्विप्रयोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते । मत्सन्देशः सुखयितुमलं पश्य साध्वीं निशीथे तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥ २.२८ ॥ आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः । नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ २.२९ ॥ पादानिन्दोरमृतशिशिराञ्जलमार्गप्रविष्टान् पूर्वप्रीत्या गतमभुमुखं संनिवृत्तं तथैव । चक्षुः खेदात्सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं साभ्रे.अह्नीव स्थलकमलिनी न प्रभुद्धां न सुप्ताम् ॥ २.३० ॥ निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात्परुषमलकं नूनमागण्ण्दलम्बम् । मत्संभोगः कथमुपनमेत्स्वप्नजो.अपीति निद्राम् आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशम् ॥ २.३१ ॥ आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् । स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥ २.३२ ॥ सा संन्यस्ताभरणमबला पेशलं धारयन्ती शय्योत्सङ्गे निहितमसकृद्दुःखदुःखेन गात्रम् । त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ २.३३ ॥ जाने सख्यास्तव मयि मनः संभृतस्नेहमस्माद् इत्थंभूतां प्रथमविरहे तामहं तर्कयामि । वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥ २.३४ ॥ रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् । त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ २.३५ ॥ वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयैर् मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या । संभोगान्ते मम समुचितो हस्तसंवाहमानां यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ २.३६ ॥ तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व । मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित् सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ २.३७ ॥ तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् । विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरः स्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥ २.३८ ॥ भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं तत्संदेशैर्हृदयनिहितैरागतं त्वत्समीपम् । यो वृन्दानि त्वरयति पथि श्रम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ २.३९ ॥ इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैव । श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः संगमात्किंचिदूनः ॥ २.४० ॥ तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः । अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ २.४१ ॥ अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन । उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ २.४२ ॥ शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् । सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्टस् त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ २.४३ ॥ श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्मिन् क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥ २.४४ ॥ त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायाम् आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ २.४५ ॥ धारासिक्तस्थलसुरभिणस्त्वन्मुखस्यास्य बाले दूरीभूतं प्रतनुमपि मां पञ्चबाणः क्षिणोति । घर्मान्तेऽस्मिन् विगणय कथं वासराणि व्रजेयुर् दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि ॥ २.४५ ॥ मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर् लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ २.४६ ॥ भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः । आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ २.४७ ॥ संक्षिप्यन्ते क्षन इव कथं दीर्घयामा त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् । इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ २.४८ ॥ नन्वात्मानं बहु विगणयन्नात्मनैवावलम्बे तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम् । कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ २.४९ ॥ शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ शेषान्मासान् गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ २.५० ॥ भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदती सस्वरं विप्रबुद्धा । सान्तर्हासं कथितमसकृत्पृच्छतश्च त्वया मे दृष्टः स्वप्ने कितव रमयन् कामपि त्वं मयेति ॥ २.५१ ॥ एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कौलीनादसितनयने मय्यविश्वासिनी भूः । स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगाद् इष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ २.५२ ॥ आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः । साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ २.५३ ॥ कच्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि । निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ २.५४ ॥