क्षेमेन्द्र कलाविलास अस्ति विशालं कमलालुलितपरिष्वङ्गमङ्गलायतनम् । श्रीपतिवक्षःस्थलमिव रत्नोज्ज्वलमुज्ज्वलं नगरम् ॥ १.१ ॥ मणिभूबिम्बितमुक्ताप्रलम्बनिवहेन यत्र शेषाहिः । भवनानि बिभर्ति सदा बहुधात्मानं विभज्येव ॥ १.२ ॥ विघ्नोऽभिसारिकाणां भवनगणः स्फाटिकप्रभाविकटः । यत्र विराजति रजनीतिमिरपटप्रकटलुण्ठाकः ॥ १.३ ॥ यत्र त्रिनयननयनज्वलनज्वालावलीशलभवृत्तिः । जीवति मानसजन्मा शशिवदनावदनकान्तिपीयूषैः ॥ १.४ ॥ रतिलुलितललितललनाक्लमजललववाहिनो मुहुर्यत्र । श्लथकेशकुसुमपरिमलवासितदेहा वहन्त्यनिलाः ॥ १.५ ॥ नवबिसकिसलयकवलनकषायकलहंसकलरवो यत्र । कमलवनेषु प्रसरति लक्ष्म्या इव नूपुरारावः ॥ १.६ ॥ नृत्यन्मुग्धमयूरा मरकतधारागृहावली सततम् । सेन्द्रायुधधननिवहा प्रावृण्मूर्तेव यत्रास्ते ॥ १.७ ॥ शशिकिरणप्रावरणस्फाटिकहर्म्येषु हरिणशावाक्ष्यः । यत्र विभान्ति सुधाम्बुधिदुग्धतरङ्गित्थिता इवाप्सरसः ॥ १.८ ॥ तत्राभूदभिभूतप्रभूतमायानिकायशतधूर्तः । सकलकलानिलयानां धुर्यः श्रीमूलदेवाख्यः ॥ १.९ ॥ नानादिग्देशागतधूर्तैरुपजीव्यमानमतिविभवः । स प्राप विपुलसंपदमात्मगुणैश्चक्रवर्तीव ॥ १.१० ॥ भुक्तोत्तरं सहृदयैरास्थानीसंस्थितं कदाचित्तम् । अभ्येत्य सार्थवाहो दत्तमहार्होपहारमणिकनकः ॥ १.११ ॥ प्रणतो हिरण्यगुप्तः सहितः पुत्रेण चन्द्रगुप्तेन । प्राप्तासनसत्कारः प्रोवाच म्हूर्तविश्रान्तः ॥ १.१२ ॥ अतिपरिचयसप्रतिभा तव पुरतो मादृशामियं वाणी । ग्राम्याङ्गनेव नगरे न तथा प्रगल्भ्यमायाति ॥ १.१३ ॥ पिहितबृहस्पतिधिषणो रुचिरः प्रज्ञामरीचिनिचयस्ते । तीक्ष्णांशोरिव सहजः प्रोषिततिमिराः करोत्याशाः ॥ १.१४ ॥ आजन्मार्जितबहुविधमणिमौक्तिककनकपूर्णकोषस्य । एको ममैष सूनुः संजातः पश्चिमे वयसि ॥ १.१५ ॥ मोहस्थानं बाल्यं यौवनमपि मदनमानसोन्मादम् । अनिलावलोलनलिनीदलजलचपलाश्च वित्तचयाः ॥ १.१६ ॥ हारिण्यो हरिणदृशः सततं भोगाब्जमधुकरा धूर्ताः । पतिता परंपरैषा दोषाणां मम सुतस्यास्य ॥ १.१७ ॥ धूर्तकरकन्दुकानां वारवधूचरणनूपुरमणीनाम् । धनिकगृहोत्पन्नानां मुक्तिर्नास्त्येव मुग्धानाम् ॥ १.१८ ॥ अज्ञातदेशकालाश्चपलमुखाः पङ्गवोऽपि सप्लुतयः । नवविहगा इव मुग्धा भक्ष्यन्ते धूर्तमार्जारैः ॥ १.१९ ॥ आश्रितजनतनयोऽयं तव विद्वन्निजसुताधिकः सत्यम् । न यथा प्रयाति नाशं तथास्य बुद्धिं प्रयच्छ पराम् ॥ १.२० ॥ इति विनयनम्रशिरसा तेन वचो युक्तमुक्तमवधार्य । तमुवाच मूलदेवः प्रीतिप्रसरैः प्रसारितौष्ठाग्रः ॥ १.२१ ॥ आस्तामेष सुतस्ते मम भवने निज इव प्रयत्नपरः । ज्ञास्यति मयोपदिष्टं शनकैः सकलं कलाहृदयम् ॥ १.२२ ॥ इति तस्य शासनेन स्वसुतं निःक्षैप्य तद्गृहे मतिमान् । नत्वाथ सार्थवाहः प्रययौ निजमन्दिरं मुदितः ॥ १.२३ ॥ अथ शिथिलकिरणजालो धूमरकान्तिर्निरम्बरस्तरणिः । अभवददृक्ष्यः शनकैः धूर्तैरिव निर्जितः कितवः ॥ १.२४ ॥ अस्तमिते दिवसकरे तिमिरभरद्विरदसंसक्ता । सिन्दूरपटलपाटलकान्तिरिवाग्रे बभौ सन्ध्या ॥ १.२५ ॥ त्यक्तापि प्रतिदिवसं दिवसद्युतिरनुजगाम दिवसकरम् । न तु रक्तापि हि सन्ध्या हृदयं जानाति कः स्त्रीणाम् ॥ १.२६ ॥ गगनाङ्गणकमलवने सन्ध्यारागे गते शनैः क्वापि । अप्राप्तस्थितिविकलं बभ्राम भ्रमरविभ्रमं तिमिरम् ॥ १.२७ ॥ तीक्ष्णांशुविरहमोहैः तिमिरैरिव मीलिता बभूव मही । तीव्रोऽपि जनस्य सदायातः खलु वल्लभो भवति ॥ १.२८ ॥ रजनी रराज सिततरतारकमुक्ताकलापकृतशोभा । शबररमणीव परिचिततिमिरमयूरच्छदाभरणा ॥ १.२९ ॥ अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः । कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥ १.३० ॥ मन्मथसितातपत्रं दिग्वनितास्फटिकदर्पणो विमलः । विरराज रजनिरमणीसिततिलको यामिनीनाथः ॥ १.३१ ॥ निजकरमृणालवल्लीवलयविलासी ललास सितकान्तिः । गगनतटिनीतटान्ते रजनिकरो राजहंस इव ॥ १.३२ ॥ श्यामा शुशुभे शशिना तया मनोभूर्मधूत्सवस्तेन । मदमुदितमानसानां तेनापि मृगीदृशां लीला ॥ १.३३ ॥ धूर्ताः समृद्धिसचिवा विच्छायां पद्मिनीं परित्यज्य । फुल्लानि विविशुरलयः सानन्दाः कुमुदवृन्दानि ॥ १.३४ ॥ ज्योत्स्नाभस्मस्मेरा सुललितशशिशकलपेशलकपाला । तारास्थिपटलहारा शुशुभे कापालिकीव निशा ॥ १.३५ ॥ तस्मिन्प्रौढनिशाकरकिरणप्रकरप्रकाशिताशेषे । निजमणिभवनोद्याने निर्वर्तितभावनासमाधानः ॥ १.३६ ॥ स्फटिकासनोपविष्टः सह शशिना निर्विभागमित्रेण । कन्दलिमुख्यैः शिष्यैः परिवारितपादपीठान्तः ॥ १.३७ ॥ प्रोवाच मूलदेवो वीक्ष्य चिरं सार्थवाहसुतमग्रे । कुर्वन्दशनमयूखैः लज्जालीनामिव ज्योत्स्नाम् ॥ १.३८ ॥ शृणु पुत्र वञ्चकानां सकलकलाहृदयसारमतिकुटिलम् । ज्ञाते भवन्ति यस्मिन् क्षणरुचिचपलाः श्रियोऽप्यचलाः ॥ १.३९ ॥ एकोऽस्मिन्भवगहने तृणपल्लववलयजालसंच्छन्नः । कूपः पतन्ति यस्मिन्मुग्धकुरङ्गा निरालम्बे ॥ १.४० ॥ सोऽयं निधानकुम्भो दम्भो नां स्वभावगम्भीरः । कुटिलैः कुहकभुजंगैः संवृतवदनः स्थितो लोके ॥ १.४१ ॥ मायारहस्यमन्त्रश्चिन्तामणिरीप्सितार्थानाम् । दम्भः प्रभावकारी धूर्तानां श्रीवशीकरणम् ॥ १.४२ ॥ मत्स्यास्येवाप्सु सदा दम्भस्य ज्ञायते गतिः केन । नास्य करौ न च पादौ न शिरो दुर्लक्ष्य एवासौ ॥ १.४३ ॥ मन्त्रबलेन भुजंगा मुग्धकुरङ्गाश्च कूटयन्त्रेण । स्थलजालेन विहङ्गा गृह्यन्ते मानवाश्च दम्भेन ॥ १.४४ ॥ जनहृदयविप्रलम्भो मायास्थम्भो जगज्जयारम्भः । जयति सदानुपलम्भो मायारम्भोदयो दम्भः ॥ १.४५ ॥ सततावर्तभ्रान्ते दुःसहमायासहस्रकुटिलारे । मूलं दम्भो नाभिर्विपुलतरे चक्रिकाचक्रे ॥ १.४६ ॥ नयननिमीलनमूलः सुचिरं स्नानार्द्रचूलजलसिक्तः । दम्भतरुः शुचिकुसुमः सुखशतशाखाशतैः फलितः ॥ १.४७ ॥ व्रतनियमैर्बकदम्भः संवृतनियमैश्च कूर्मजो दम्भः । निभृतगतिनयननियमैर्घोरो मार्जारजो दम्भः ॥ १.४८ ॥ बकदम्भो दम्भपतिर्दम्भनरेन्द्रश्च कूर्मजो दम्भः । मार्जारदम्भ एव प्राप्तो दम्भेषु चक्रवर्तित्वम् ॥ १.४९ ॥ नीचनखश्मश्रुकचश्चूली जटिलः प्रलम्बकूर्चो वा । बहुमृत्तिकापिशाचः परिमितभाषी प्रयत्नपादत्रः ॥ १.५० ॥ स्थूलग्रन्थिपवित्रकपृष्ठार्पितहेमवल्लीकः । कक्षार्पितपतपल्लवरुद्धभुजो भाण्डहस्त इव ॥ १.५१ ॥ अङ्गुलिभङ्गविकल्पन विविधविवादप्रवृत्तपाण्डित्यः । जपचपलोष्ठः सजने ध्यानपरो नगररथ्यासु ॥ १.५२ ॥ साभिनयाञ्चितचुलकैराचमनैः सुचिरमज्जनैस्तीर्थे । संरुद्धसकललोकः पुनः पुनः कर्णकोणसंस्पर्शी ॥ १.५३ ॥ सीत्कृतदन्तनिनादावेदितहेमन्तदुःसहस्नानः । विस्तीर्णतिलकचर्चासूचितसर्वोपचारसुरपूजः ॥ १.५४ ॥ शिरसा बिबर्ति कुसुमं विनिपतितां काकदृष्टिमिव रचयन् । एवं रूपं पुरुषो यो यः स स दाम्भिको ज्ञेयः ॥ १.५५ ॥ निर्गुणलोकप्रणतःसगुणे स्तब्धः स्वबन्धुषु द्वेषी । पुरजनकरुणाबन्धुः कीर्त्यार्थी दांभिको धूर्तः ॥ १.५६ ॥ कार्योपयोगकाले प्रणतशिराश्चाटुशतकारी । सभ्रूभङ्गो मौनी कृतकार्यो दाम्भिकः क्रूरः ॥ १.५७ ॥ स्तम्भितविबुधसमृद्धिर्दैत्यो योऽभूत्पुरा जम्भः । दम्भः सोऽयं निवसति भूमितले भूतदेहेषु ॥ १.५८ ॥ शुचिदम्भः शमदम्भः स्नातकदम्भः समाधिदम्भश्च । निःस्पृहदम्भस्य तुलां यान्ति तु नैते शतांशेन ॥ १.५९ ॥ शौचाचारविवादी मृत्क्षयकारी स्वबान्धवस्पर्शी । शुचिदम्भेन जनोऽयं विश्वामित्रत्वमायाति ॥ १.६० ॥ संहृतबहुविधसत्त्वो निःक्षेपद्रविणवारिबहुतृष्णः । सततमहिंसादम्भो वडवाग्निः सर्वभक्षोऽयम् ॥ १.६१ ॥ मुण्डो जटिलो नग्नश्छत्री दण्डी कषायचारी वा । भस्मस्मेरशरीरो दिशि दिशि भोगी विजृम्भते दम्भः ॥ १.६२ ॥ खल्वाटः स्थूलवपुः शुष्कतनुर्मुनिसमानरूपो वा । शाटकवेष्टितशीर्षश्चैत्योन्नतशिखरवेष्टनो वापि ॥ १.६३ ॥ लोभः पितातिवृद्धो जननी माया सहोदरः कूटः । कुटिलाकृतिश्च गृहिणी पुत्रो दम्भस्य हुंकारः ॥ १.६४ ॥ भगवान्पुरा स्वयंभूः कृत्वा भुवनानि भूतसर्गं च । विरतव्यापारतया सुचिरं चिन्तान्वितस्तस्थौ ॥ १.६५ ॥ दृष्ट्वा स मर्त्यलोके दिव्यदृशा मानुषान्निरालम्बान् । आर्जवयोगविशेषादप्राप्तधनादिसंभोगान् ॥ १.६६ ॥ मीलितनयनः क्षैप्रं स्थित्वा मायामये समाधाने । असृजन्नृणां (नॄणां?) विभूत्यै दम्भं संभावनाधारम् ॥ १.६७ ॥ बिभ्राणः कुशपूलीं पुस्तकमाले कमण्डलुं शून्यम् । निजहृदयकुटिलशृङ्गं दण्डं कृष्णाजिनं खनित्रं च ॥ १.६८ ॥ स्थूलतरकुशपवित्रकलाञ्छितकर्णः पवित्रपाणिश्च । सुव्यक्तमुण्डमस्तककुशवेष्टितचूलमूलसितकुसुमः ॥ १.६९ ॥ काष्ठस्तब्धग्रीवो जपचपलोष्ठः समाधिलीनाक्षः । रुद्राक्षवलयहस्तो मृत्परिपूर्णं वहन्पात्रम् ॥ १.७० ॥ नयनाञ्चलैः सकोपैर्भ्रुकुटीहुंकारवदनसंज्ञाभिः । बहुविधकदर्थनाभिः कथिताखिलहृदयवाञ्छितो मौनी ॥ १.७१ ॥ रक्षन्परसंस्पर्शं शौचार्थी ब्रह्मलोकेऽपि । दम्भः पुरोऽस्य तस्थावुत्थित एवासनाकाङ्क्षी ॥ १.७२ ॥ आकल्पेन सुमहता सहसास्य वशीकृताः परं तेन । सप्तर्षयोऽपि तस्मै प्रणतास्तस्थुः कृताञ्जलयः ॥ १.७३ ॥ तं दृष्ट्वा परमेष्ठी लीलाकृतसकलसर्गवर्गोऽपि । गौरवविस्मयहर्षैर्निःस्पन्दान्दोलितस्तस्थौ ॥ १.७४ ॥ तस्यातितीव्रनियमाद्ग्रस्तेऽगस्त्येऽतिविस्मयेनेव । अल्पतपोव्रतलज्जाकुञ्चितपृष्ठे वसिष्ठे च ॥ १.७५ ॥ अतिसरलनिजमुनिव्रतपरिगतकुत्से च कूणिते कौत्से । डम्बररहितात्मतपोनिरादरे नारदे विहिते ॥ १.७६ ॥ निजजानुसंधिशिखरे जमदग्नौ मग्नवदने च । त्रस्ते विश्वामित्रे वलितगुले गालवेभृगौ मग्ने ॥ १.७७ ॥ सुचिरोत्थितमतिकोपादासनकमले निविष्टदृष्टिं च । शूलप्रोतमिवाग्रे निःस्पन्दममन्दगर्वगुरुगात्रम् ॥ १.७८ ॥ ज्ञात्वा तमासनार्थिनमवदद्देवश्चतुर्मुखः प्रीत्या । विकसन्निजदशानरुचा विहसन्निव वाहनं हंसं ॥ १.७९ ॥ उपविश पुत्र ममाङ्के नियमेन महीयसातिचित्रेण । अर्होऽसि गुणगणोद्गतगौरवसंवादिनानेन ॥ १.८० ॥ इत्युक्तो विश्वसृजा तस्याङ्कमशङ्कया ससंकोचः । अभ्युक्ष्य वारिमुष्ट्या कृच्छ्रेणोपाविशद्दम्भः ॥ १.८१ ॥ दम्भ उवाच ॥ नोच्चैर्वाच्यमवश्यं यदि वाच्यं हस्तपद्मेन । आच्छाद्य वक्त्ररन्ध्रं स्पृष्टो न स्यां यथास्यवातांशैः ॥ १.८२ ॥ तत्तस्य शौचमतुलं दृष्ट्वा स्मेराननो ब्रह्मा । दम्भोऽसीति जगाद प्रायो हस्ताग्रमाकम्प्य ॥ १.८३ ॥ उत्तिष्ठाळ्सकलजलनिधिपरिखावलिमेखलां महीमखिलाम् । अवतीर्य भुङ्क्ष्वा भोगान्विबुधैरपि तत्त्वतो न विज्ञातः ॥ १.८४ ॥ इत्यादराद्विसृष्टो विधिना संसारसागरगतानाम् । कण्ट्ःे शीलां निबध्नन्मर्त्यानामवततार महीम् ॥ १.८५ ॥ अथ मर्त्यलोकमेत्य भ्रान्त्वा दम्भो वनानि नगराणि । विनिवेश्य गौडविषये निजजयकेतुं जगाम दिशः ॥ १.८६ ॥ वचने बाह्लीकानां व्रतनियमे प्राच्यदाक्षैणात्यानां । अधिकारे वीराणां दम्भः सर्वत्र गौडानाम् ॥ १.८७ ॥ एते दम्भसहायाः प्रतिग्रहश्राद्धसिद्धचूर्णेन । कुर्वन्ति ये प्रभाते यतस्ततो भस्मना तिलकम् ॥ १.८८ ॥ तूर्णं सहस्रभागैर्भुवनतलए संविभज्य भूतानि । मूर्तः सततं निवसति दम्भो वदनेऽधिकरणभट्टानाम् ॥ १.८९ ॥ गुरुहृदयमविशादग्रे बालकहृदयं तपस्विहृदयं च । कुटिलं नियोगिहृदयं दीक्षैतहृदयं स्वयं दम्भः ॥ १.९० ॥ तदनु च गणकचिकित्सकसेवकवणिजां सहेमकाराणाम् । नटभटगायनवाचकचक्रचराणां च हृदयानि ॥ १.९१ ॥ अंशैः प्रविश्य हृदयं विविधविकारैः समस्तजन्तूनाम् । दम्भो विवेश पश्चादन्तरमिह पक्षैवृक्षाणाम् ॥ १.९२ ॥ मत्स्यार्थी चरति तपः सुचिरं निःस्पन्द एकपादेन । तीर्थेषु बकतपस्वी तेन विहङ्गान्गतो दम्भः ॥ १.९३ ॥ विपुलजटावल्कलिनः शीतातपवातकर्शिताः सततम् । वृक्षा जलार्थिनो यद्दम्भस्य विजृम्भितं तदपि ॥ १.९४ ॥ एवं विचारणीयः सर्वगतः सर्वहृत्सदा दम्भः । ज्ञाते तस्मिन्विविधे विफला मायाविनां माया ॥ १.९५ ॥ दम्भविकारः पुरतो वञ्चकचक्रस्य कल्पवृक्षोऽयम् । वामनदम्भेन पुरा हरिणा त्रैलोक्यमाक्रान्तम् ॥ १.९६ ॥ सर्गः २ लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम् । कार्याकार्यविचारो लोभाकृष्टस्य नास्त्येव ॥ २.१ ॥ मायाविनिमयविभ्रमनिह्नववैचित्यकूटकपटानाम् । सञ्चयदुर्गपिशाचः सर्वहरो मूलकारणां लोभः ॥ २.२ ॥ सत्त्वप्रशमतपोभिः सत्त्वधनैः शास्त्रवेदिभिर्विजितः । लोभोऽवटं प्रविष्टः कुटिलं हृदयं किराटानाम् ॥ २.३ ॥ क्रयविक्रयकूटतुलालाघवनिःक्षेपरक्षणव्याजैः । एते हि दिवसचौरा मुष्णन्ति मुदा जनं वणिजः ॥ २.४ ॥ हृत्वा धनं जनानां दिनमखिलं विविधकूटमायाभिः । वितरति गृहे किराटः कष्टेन वराटकत्रितयम् ॥ २.५ ॥ आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुम् । दष्ट इव कृष्णसर्पैः फलायते दानधर्मेभ्यः ॥ २.६ ॥ द्वादश्यां पितृदिवसे संक्रमणे सोमसूर्ययोर्ग्रहणे । सुचिरं स्नानं कुरुते न ददाति कपर्दिकामेकाम् ॥ २.७ ॥ दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽवगुण्ठनं कृत्वा । चौर इव कुटिलचारी पलायते विकटरथ्याभिः ॥ २.८ ॥ न ददाति प्रतिवचनं विक्रयकाले शठो वणिङ्मौनी । निःक्षेपपाणिपुरुषं दृष्ट्वा संभाषणां कुरुते ॥ २.९ ॥ उत्तिष्ठति नमति वणिक्पृच्छति कुशलं ददाति च स्थानं । निःक्षेपपाणिपुरुषं दृष्ट्वा धर्म्यां कथां कुरुतेक ॥ २.१० ॥ कश्चिद्वदति तमेत्य द्रविणं निःक्षिप्य हन्त गन्तास्मि । भ्रातः परं प्रभाते विष्टिदिनं किं करोम्यद्य ॥ २.११ ॥ तच्छ्रुत्वा विकसितदृग्वदति स मिथ्यैव नाटयन्खेदम् । कार्ये प्रसारिताक्षः पुनः पुनः पार्श्वमवलोक्य ॥ २.१२ ॥ त्वदधीनं स्थानमिदं किं तु चिरं न्यासपालनं कठिनम् । विषमौ च देशकालौ साधोस्तव तदपि दासोऽहम् ॥ २.१३ ॥ भद्राळ् न दूषितैषा निःक्षेपक्षेमकारिणी शस्ता । इत्यनुभूतं बहुशः कार्यज्ञैस्त्वं तु जानासि ॥ २.१४ ॥ विष्टिदिने किमपि पुराळ्न्यस्तं केनापि मित्रेण । तूर्णं पुनश्च शनकैर्नीतं क्षेमेण कुशलेन ॥ २.१५ ॥ इत्यादि मुग्धबुद्धेरसमन्न्जसवर्णनं रहः कृत्वा । गृह्णाति कनकनिकरं नृत्यंस्तत्तन्मनोरथैः पापः ॥ २.१६ ॥ तत्संचूर्णनजातैः क्रयविक्रयलाभराशिभिरनन्तैः । भाण्डप्रतिभाण्डचयैरुपहसति धनाधिनाथं सः ॥ २.१७ ॥ पूर्णाः कदर्यवणिजां निःसंभोगा निधानधनकुम्भाः । सीदन्ति कुचतटा इव दुःखफला बालविधवानाम् ॥ २.१८ ॥ दानोपभोगविरहितहिरण्यरक्षाकृतक्षणाः सततम् । संसारजीर्णमन्दिरविषयविषममहामूषका वणिजः ॥ २.१९ ॥ अटति समुत्कटवेष्टितविकटपटस्फुटफटाटोपः । कुटिलः कण्टकनिचितः पुरपतिनामा विधिव्यालः ॥ २.२० ॥ अथ पुरुषः स दिगन्तं भ्रान्त्वा केनापि दैवयोगेन । नष्टधनो जनरहितः प्राप्तः सुचिरान्निजं देशम् ॥ २.२१ ॥ पृच्छति कमपि सशङ्कः स किराटः क्व नु गतो महासत्त्वः । तमुपेत्य वदति कश्चित्तस्याद्य सखे विभूतिरन्यैव ॥ २.२२ ॥ विविधनवांशुकमृगमदचन्दनकर्पूरमरिचपूगफलैः । खटिकाहस्तः स सदा गणयति कोटीर्मुहूर्तेन ॥ २.२३ ॥ अस्मिन्मेरुविशाले वरभवने रुचिरभित्तिकृतचित्रे । पुरपतिनाप्यनुयातो वसति सुखं स हि महाजनो यत्र ॥ २.२४ ॥ श्रुत्वैतदतुलविस्मयलोलितमौलिः स तद्गृहं गत्वा । द्वारे स्थगितस्तिष्ठति निष्प्रतिभो जीर्णकर्पटः सुचिरम् ॥ २.२५ ॥ तं तुङ्गभवनवलभीजालान्तरतो वणिक्परिज्ञाय । नोच्छ्वसिति नष्टचेतस्ताडित इव मूर्ध्नि वज्रेण ॥ २.२६ ॥ उपसृत्य मन्दमन्दं कथमपि संप्राप्तनिर्जनावसरः । तं याचते स पुरुषो द्रविणं स्वं प्रकटिताभिक्यः ॥ २.२७ ॥ तं वदति सोऽन्यदृष्टिः सभ्रूभङ्गं विधूतहस्ताग्रः । वञ्चकवचनः पापो वृत्तिक्षीणः कुतोऽयमायातः ॥ २.२८ ॥ कस्त्वं कस्य कुतो वा दर्शनमपि न स्मरामि किं कथनैः । अहह कदा कुत्र त्वं वद कस्य किमर्पितं केन ॥ २.२९ ॥ पश्यत कष्ठमनिष्टः कलिकालः कीदृशोऽयमायातः । मत्तोऽर्थमेष वाञ्छति लोको जानाति वा सर्वम् ॥ २.३० ॥ हरगुप्तकुलेऽस्माकं निःक्षेपग्रहणमप्यसंभाव्यम् । किं पुनरपह्नवोद्गतघोरमहापातकस्पर्शः ॥ २.३१ ॥ तदपि सतताभिशंसी प्रत्याख्येयो जनः कथं महताम् । कथय दिनं तद्दिवसे लिखितं सर्वं स्वयं पश्य ॥ २.३२ ॥ वृद्धोऽहं न्यस्तभरः पुत्रे सर्वं ममास्ति लिखितं हि । इति तेन विनष्टधृतिः स विसृष्टस्तत्सुतान्तिकं प्राप्तः ॥ २.३३ ॥ तातो जानाति सुतो जानाति पितैव लिखति सकलं यत् । इति तस्य भवति सुचिरं गतागतं कन्दुकस्येव ॥ २.३४ ॥ राजकुलद्वारगते तस्मिन्प्राप्तप्रवासदत्तार्थे । सहते नरप्तिकोपं त्यजति किराटो न रूपकस्यांशम् ॥ २.३५ ॥ परिपीडितः स राज्ञा विविधैरपि यातनौशस्त्रः । मम हस्ते निःक्षिप्तं किंचिन्नास्तीति वक्त्येव ॥ २.३६ ॥ एवं स्वभावलुब्धास्व भवन्ति धनलवणवारिबहुतृष्णाः । तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥ २.३७ ॥ देवं धनाधिनाथं वैश्रवणं सकलसंपदां निलयम् । शुक्रः प्रोवाच पुरा वित्तार्थी बालमित्त्रमभ्येत्य ॥ २.३८ ॥ पूर्णः सखे तवायं विभवो विजितामरासुरैश्वर्यः । हर्षं विदधाति परं सुहृदां शोकं च शत्रूणाम् ॥ २.३९ ॥ त्वयि सुहृदि वित्तनाथे निःस्वोऽहं बहुकुटुम्बसंभारः । समदुःखसुखं मित्त्रं स्वाधीनतयोदितं प्रशंसन्ति ॥ २.४० ॥ यशसि विहितादराणामर्थिभिरुपजीव्यमानविभवानाम् । अभिजातवंशजानां सुहृदुपभोग्याः श्रियो महताम् ॥ २.४१ ॥ उपनतमतिपुण्यचयैः संपूर्णं रक्षितं च यत्नेन । संपदि विपदि त्राणं भवति निधानं च मित्त्रं च ॥ २.४२ ॥ इत्युक्तः सप्रँयं दैत्याचार्येण निर्जने धनदः । तमुवाच विचिन्त्य चिरं संरुद्धः स्नेहलोभाभ्याम् ॥ २.४३ ॥ जानानमि बालमित्त्रं त्वामहमत्यन्तसंभृतस्नेहम् । किं तु न जीवितजीवं द्रविणलवं त्यक्तुमीशोऽस्मि ॥ २.४४ ॥ स्नेहार्थी बन्धुजनः कार्यैर्बहुभिर्भवन्ति मित्त्राणि । दाराः सुताश्च सुलभा धनमेकं दुर्लभं लोके ॥ २.४५ ॥ अतिसाहसमतिदुष्करमत्याश्चर्यं च दानमर्थानाम् । योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥ २.४६ ॥ इत्याशापरिहारैः प्रत्याख्यातो धनाधिनाथेन । भग्नमुखो लुलितमतिर्लज्जावक्त्रो ययौ शुक्रः ॥ २.४७ ॥ स विचिन्त्य गृहे सुचिरं सचिवैः सह मायया महायोगी । हर्तुं द्रविणमशेषं विवेश हृदयं धनेशस्य ॥ २.४८ ॥ शुक्राविष्टशरीरो वैश्रवणः सकलमद्बुतत्यागः । तत्कृतसंकेतेभ्यः प्रददौ वित्तं द्विजातिभ्यः ॥ २.४९ ॥ कौबेरं धनमखिलं हृत्वा यातेऽथ दानवाचार्ये । सुचिरं धनाधिनाथः शुशोच विज्ञाय तां मायाम् ॥ २.५० ॥ हस्तन्यस्तललाटः सह शङ्खमुकुन्दपद्माद्यैः । संचिन्त्य शुक्रविकृतिं स जगादोष्णं विनिःश्वस्य ॥ २.५१ ॥ सुहृदा मर्मज्ञेन व्याजान्मायाविनातिलुब्धेन । धूर्तेन वञ्चितोऽहं दैत्याश्रयदुर्जयेन शुक्रेण ॥ २.५२ ॥ अधुना द्रव्यविहीनः क्षणेन तृणलाघवं प्राप्तः । कथयामि कस्य दुःखं करोमि किं वा क्व गच्छामि ॥ २.५३ ॥ धनरहितं त्यजति जनो जनरहितं परिभवाः समायान्ति । परिभूतस्य शरीरे व्यसनविकारो महाभारह् ॥ २.५४ ॥ दयितेषु शरीरवतां बत धर्मलतालवालेषु । द्रविणेषु जीवितेषु च सर्वं याति प्रयातेषु ॥ २.५५ ॥ विद्वान्सुभगो मानी विश्रुतकर्मा कुलोन्नतः शूरः । वित्तेन भवति सर्वो वित्तहीनस्तु सद्गुणोऽप्यगुणः ॥ २.५६ ॥ इति दुःसहधनविरहक्लेशानलशोषिताशयो धनपः । सुचिरं विमृष्य सचिवैर्देवं शर्वं ययौ शरणम् ॥ २.५७ ॥ प्राक्प्रतिपन्नसखोऽसौ विश्वशरण्यो महेश्वरस्तेन । विज्ञप्तो निजव्र्त्तं दूतं विससर्ज शुक्राय ॥ २.५८ ॥ दूताहूतं सहसा प्राप्तं शुक्रं धनप्रभाशुक्रम् । अञ्जलिविरचितमुकुटं प्रोवाच पुरःस्थितं पुरजित् ॥ २.५९ ॥ मित्त्रमयं द्रविणपतिर्भवता बत वञ्चितः कृतज्ञेन । मित्त्रद्रोहे प्रसरति न हि नाम जनः कृतघ्नोऽपि ॥ २.६० ॥ अगणितयशसा त्यक्तस्थितिना क्रियतेऽथ याकृतज्ञेन । स्निग्धे सुहृदि सरागे मित्रे तव वञ्चना न युक्ता सा ॥ २.६१ ॥ एतत्किं श्रुतसदृशं त्वद्व्रतयोग्यं कुलानुरूपं वा । कृतवानसि यत्सुमते परिभूतगुणोदयं कर्म ॥ २.६२ ॥ किमयं सुनयाभ्यासः प्रशमो वा गुरुजनोपदेशो वाळ् । मतिविभवः सहजो वा वञ्चकतां येन यातोऽसि ॥ २.६३ ॥ कस्य न दयितं वित्तं चित्तं ह्रियते न कस्य वित्तेन । किं तु यशोधनलुब्धा वाञ्छन्ति न दुष्कृतैरर्थान् ॥ २.६४ ॥ मा मा मलिनय विमलं भृगुकुलममलं मलेन लोभेन । लोभजलदो हि शत्रुर्विशदयशोराजहंसानाम् ॥ २.६५ ॥ त्यक्त्वा कीर्तिमनन्तामनिलाकुलतृणलवोपमानर्थान् । गृह्णाति यः स मध्ये धूर्तानां कीदृशो धूर्तः ॥ २.६६ ॥ उत्सृज्य साधुवृत्तं कुतिलाधिया वञ्चितः परो येन । आत्मैव मूढमतिना कृतसुकृतो वञ्चितस्तेन ॥ २.६७ ॥ नियता दूषितयशसां बत किसलयकोमला प्रकृत्यैव । अपवादविषतरूत्थैरामोदैर्मूर्छिता लक्ष्मीः ॥ २.६८ ॥ न हि नाम सज्जनानां शुद्धयशःस्फटिककदर्पणो विमलः । परिभवदुःखितजनतानिःश्वासैर्मलिनतामेति ॥ २.६९ ॥ असमञ्जसमतिमलिनं मोहद्व्यक्तिं समागतं कर्म । तस्य विशुद्धिः क्रियतां परवित्तसमर्पणेनैव ॥ २.७० ॥ अपवादधूलिधूसरममलयशो मृज्यतां स्वहस्तेन । अस्मद्वचनं क्रियतां परधनमुत्सृज्यतामेतत् ॥ २.७१ ॥ इत्युक्तः सानुनयं त्रिभुवनगुरूणापि देवदेवेन । परधननिबद्धतृष्णः प्रोवाच कृताञ्जलिः शुक्रः ॥ २.७२ ॥ भगवन्भवतः शासनममरेन्द्रकिरीटकोटिविश्रान्तम् । लङ्घयति को नु मोहाद्दौर्गत्यं सत्त्वहारि यदि न स्यात् ॥ २.७३ ॥ यस्य क्षीणस्य गृहे भृत्या दाराः सुताश्च सीदन्ति । कार्याकार्यविचाऋओ द्रविणादानेषु कस्तस्य ॥ २.७४ ॥ मित्रमयं धननाथो विपदि त्राणं विचिन्तितः सततम् । वृद्धिं यातः सुमहानाशाबन्धश्च मे हृदये ॥ २.७५ ॥ अभ्येत्य याचितोऽपि त्यक्त्वा लज्जां मयाळ्विहतलज्जः । चिच्छेदैष ममाशां सहसा प्रतिषेधशस्त्रेण ॥ २.७६ ॥ तेन प्रहतमशस्त्रं दाहोऽनग्निश्च निर्विषं मरणम् । विहितं शठेन मोहादाशाभङ्घः कृतो येन ॥ २.७७ ॥ तस्मान्ममैष शत्रुः सुकृतसम शात्रुवञ्चनापापम् । रिक्तस्य निरपवादो व्याजेनोपार्जितोऽप्यर्थः ॥ २.७८ ॥ अणु धनमपि न त्याज्यं मम भवता ज्ञापिते सत्यम् । वित्तं जीवितमग्र्यं जीवितहानिर्धनत्यागः ॥ २.७९ ॥ इति संभाषिणमसकृद्दैत्यगुरुं प्रार्थितं पुनर्बहुशाः । कवलीचकार सहसा प्रतिषेधरुषा विरूपाक्षः ॥ २.८० ॥ जठरान्तरे पुरारेः प्रलयानलविपुलभीषणाबोगे । प्रक्वाथ्यमानकायः शुक्रश्चुक्रोश साक्रोशः ॥ २.८१ ॥ त्यज धनमिति विषमदृशा पुनः पुनः प्रेरितोऽवदच्छुक्रः । निधनं ममास्तु भगवन्धनदधनं न त्यजामि किंचिदपि ॥ २.८२ ॥ अथ धारणाप्रवृद्धज्वलनज्वालासहस्रविकराले । शुक्रश्चुक्रोश भृशं घोरगभीरे हरोदरे पतितः ॥ २.८३ ॥ तमुवाच देवेदेवस्त्यज्य दुर्ग्रहदग्ध परवित्तम् । अस्मिन्नुदरमहोदधिवडवाग्नौ मा गमः प्रलयम् ॥ २.८४ ॥ सोऽवददतिशयतापस्फुटितास्थिवसाप्रवाहबहलाग्नौ । परमिह मरणं श्रेयो द्रविणकणं न त्यजामि सोच्छ्वासः ॥ २.८५ ॥ पुनरपि घोरतरोद्गतकालानलधारणानलज्वलितः । शुक्रश्चक्रे देव्याः स्तोत्रं क्षणलेशशेषायुः ॥ २.८६ ॥ स्तोत्रपदाराधितया गौर्या प्रणयप्रसादिते रुद्रे । तद्वचसा लब्धधृतिः शुक्रद्वारेण निर्ययौ शुक्रः ॥ २.८७ ॥ एवं स्वभावलुब्धास्तीव्रतरां यातनामपि सहन्ते । न तु संत्यजन्ति वित्तं कौटिल्यमिवाधमः सहजम् ॥ २.८८ ॥ तस्माल्लोभसमुत्था कपटकला कुटिलवर्तिनी माया । लुब्धहृदयेषु निवसति नालुब्धो वञ्चनं कुरुते ॥ २.८९ ॥ सर्गः ३ कामः कमनीयतया किमपि निकामं करोति संमोहम् । विषामिव विषमं सहसा मधुरतया जीवनं हरति ॥ ३.१ ॥ एते हि कामकलिताः परिमललीनालिवलयहुंकारैः । सूचितदानाः करिणो बध्यन्ते क्षिप्रमबलाभिः ॥ ३.२ ॥ पादाघाताः शिताङ्कुशघटना निगडादिसंरोधम् । विषयमुषितः करीन्द्रः किं न स्मरवञ्चितः सहते ॥ ३.३ ॥ दीर्घव्यसननिरुद्धो भ्रूभङ्गज्ञो विधेयतां यातः । विषयविवशो मनुष्यः केलिशिखण्डीव नर्त्यते स्त्रीभिः ॥ ३.४ ॥ रक्ताकर्षणसक्ता मायाभिर्मोहतिमिररजनीषु । नार्यः पिशाचिका इव हरन्ति हृदयानि मुग्धानाम् ॥ ३.५ ॥ रागिमृगवागुराणां हृदयद्विपबन्धशृङ्खलौघानाम् । व्यसननववल्लरीणां स्त्रीणां न मुच्यते वशगः ॥ ३.६ ॥ संसारचित्रमायां शम्बरमायां विचित्तिमायां च । यो जानाति जितात्मा सोऽपि न जानाति योषितां मायाम् ॥ ३.७ ॥ कुसुमसुकुमारदेहा वज्रशिलाकठिनह्र्दयसद्भावाः । जनयन्ति कस्य नान्तर्विचित्रचरिताः स्त्रियो मोहम् ॥ ३.८ ॥ अनुरक्तजनविरक्ता नम्रोत्सिक्ता विरक्तरागिण्यः । वञ्चनवचनासक्ता नार्यः सद्भावशङ्किन्यः ॥ ३.९ ॥ जातः स एव लोके बहुजनदृष्टा विलासकुटिलाङ्गी । धैर्यध्वंसपताका यस्य न पत्नी प्रभुर्गेहे ॥ ३.१० ॥ विजितस्य मदविकारैः स्त्रीभिर्मूकस्य नष्टसंज्ञस्य । गृहधूलिपटलमखिलं वदने निःक्षिप्यते भर्तुः ॥ ३.११ ॥ कृतकापरिस्फुटाक्षरकामकलाभिः स्वभावमुग्धेव । तिलकाय चन्द्रबिम्बं मुग्धपतिं याचते प्रौढ ॥ ३.१२ ॥ स्वैरविहारगतागतखिन्नायास्तीर्थदर्शनव्याजैः । भर्ता विलासविजितश्चरणौ मृद्नाति चपलायाः ॥ ३.१३ ॥ नयनविकारैरन्यं वचनैरन्यं विचेष्टितैरन्यम् । रमयति सुरतेनान्यं स्त्री बहुरूपा स्वभावेन ॥ ३.१४ ॥ निजपयिचपलकुराङ्गी परतरुभृङ्गी स्वभावमातङ्गी । मिथ्याविभ्रमभृङ्गी कुटिलभुजङ्गी निजा कस्य ॥ ३.१५ ॥ बहुविधतरुणनिरर्गलसंभोगसुखार्थभोगिनी वेश्या । धन्येति वदन्ति सदा सोच्छ्वासा निर्जने नार्यः ॥ ३.१६ ॥ चपला तिष्ठति हर्म्ये गायति रथ्यावलोकिनी स्वैरम् । धावत्यकारणं वाळ्हसति स्फटिकाश्ममालेव ॥ ३.१७ ॥ पशुरिव वक्तुं कर्तुं किंचिदयं मम पतिर्न जानाति । उक्त्वेति गृहे स्वजनं पुरुषव्यापारमङ्गना कुरुते ॥ ३.१८ ॥ प्रत्युत्थानं कुरुते व्यवहारगतागतैः स्वयं याति । उच्चैर्वदति च गृहे गृहिणी जीवन्मृतस्यैव ॥ ३.१९ ॥ ईर्ष्यालुवृद्धभार्या सेवकपत्नी नियोगिभार्या वा । कारुकुशीलवनारी लुब्धवधूः सार्थवाहवनिता वा ॥ ३.२० ॥ गोष्ठीविहरणशीला तरुणजने वत्सला प्रकृत्यैव । परगुणगणने सक्ता निजपतिदोषाभिधायिनी सततम् ॥ ३.२१ ॥ अल्पधना बहुभोगा रूपवती विकृतरूपभार्या वा । मुग्धवधूः सकलकलामानवती नीचसंगमोद्विग्ना ॥ ३.२२ ॥ द्यूतमधुपानसक्ता दीर्घकथागीतरागिणी कुशला । बहुपुंश्चलीवयस्या शूरजने प्रकृतिपक्षपातैव ॥ ३.२३ ॥ त्यक्तगृहव्यापारा बहुविधवेषा निरर्गलाभ्यासा । प्रत्युत्तरसप्रतिभा सत्यविहीना स्वभावनिर्लज्जा ॥ ३.२४ ॥ कुशलानामयवार्ताप्रश्नपरा प्रीतिपेशलालापा । विजने विविधकृईडाडम्बरशौण्डा प्रकाशसावित्री ॥ ३.२५ ॥ क्रतुतीर्थसुरनिकेतनगणकभिषग्बन्धुगेहगमनपरा । भोजनपानबहुव्यययात्रोत्सवकारिणी स्वतन्त्रेव ॥ ३.२६ ॥ भिक्षुतापसभक्ता स्वजनविरक्ता मनोरमासक्ता । दर्शनदीक्षारक्ता दयितविरक्ता समाधिसंयुक्ता ॥ ३.२७ ॥ गोष्ठीरञ्जनमित्रा विज्ञेया नष्टचारित्रा (कुलकम्) ॥ ३.२८ ॥ सततानुरक्तदोषा मोहितजनता बहुग्रहाश्चपलाः । संध्याः स्त्रियः पिशाच्यो रक्तच्छायाहराः क्रूराः ॥ ३.२९ ॥ कस्य न वहनयोग्यो मुग्धधियस्तुच्छसाधने लग्नाः । प्रीततया प्रशमरुचश्चपलासु स्त्रीषु येऽदान्ताः ॥ ३.३० ॥ शृङ्गारशौर्यकत्थनमसमञ्जसदानवर्णना विविधाः । एतावदेव तासाममन्त्रयन्त्रं वशीकरणम् ॥ ३.३१ ॥ कलिकालतिमिररजनीरजनिचरीणां सहस्रमायानाम् । स्त्रीणां नृशम्सचरितैः कस्य न संजायते कम्पः ॥ ३.३२ ॥ निर्जितधनपतिविभवो बभूव भुवि विश्रुतो वणिङ्नाथः । धनदत्तो नाम पुरा रत्नानामाश्रयः पयोधिरिव ॥ ३.३३ ॥ तस्याभवद्विभूतिर्मूर्तेव मनोभुवः सुललिताङ्गी । तनया नयनविलासैर्विजिताशा वसुमती नाम ॥ ३.३४ ॥ प्रददौ स तामपुत्रः पुत्रपदे विनिहितां प्रियां पुत्रीं । वणिजे विभवकुलोदयतुल्याय समुद्रदत्ताय ॥ ३.३५ ॥ रममाणः स तया सह हरिणाक्ष्या श्वसुरमन्दिरे सुचिरम् । प्रययौ कदाचिदग्रे द्वीपायातस्य सार्थस्य ॥ ३.३६ ॥ पत्यौ याते तरुणी जनकगृहे हर्म्यशिखरमारूढा । विललास विलासमही केलिविलोला सखीभिः सा ॥ ३.३७ ॥ सौधे मन्मथरूपं पृथुनयना पथि ददर्श पुरुषं सा । यं दृष्त्वैव गतास्याः क्वापि धृतिः कुमतिकुपितेव ॥ ३.३८ ॥ सा तेन चपलनयना सहसा मुषितेव हारितविचारा । अभवदशक्ता नितरां संवरणे स्मरविकारस्य ॥ ३.३९ ॥ शीलं पालस्य चपले मा पातय निम्नगेव कुलकूलम् । इति ताम्वददिवोच्चैः कम्पाकुलमुखरमेखला सुचिरम् ॥ ३.४० ॥ सा कृत्वाळ्विदितकथां रहसि सखीमानिनाय तं तरुणम् । चलितं हि कामिनीनां धर्तुं शक्नोति कश्चित्तम् ॥ ३.४१ ॥ कामं कामविकासैः सुरतविलासैः सुनर्मपरिहासैः । सहजप्रेमनिवासैर्मुमुदे सा स्वैरिणी तेन ॥ ३.४२ ॥ अथ कृतनिजधनकृत्यस्त्वरितं दयिताविलोकनोत्कण्ठः । अविशत्समुद्रदत्तः श्वशुरावासं महारम्भः ॥ ३.४३ ॥ विपुलमहोत्सवलीलाव्यग्रजनैर्भोगसंपदां निचयैः । अतिवाह्य दिनं दयितासहितः शय्यागृहं स ययौ ॥ ३.४४ ॥ विरचितवरतरशयने बद्धविताने मनोरमस्थाने । जृम्भितसौरभधूपे सुरगृहरूपे प्रदीप्तमणिदीपे ॥ ३.४५ ॥ तत्र स मधुमदविलुलितलोचनकमलां प्रियां समालिङ्ग्य । मदगज इव नवनलिनीं भेजे रतिलालसः शय्याम् ॥ ३.४६ ॥ सापि हृदयान्तरस्थितपरपुरुषध्यानबद्धलक्षैव । तस्थौ निमीलिताक्षी ध्यानपरा योगिनीव चिरम् ॥ ३.४७ ॥ आलिङ्गनपरिचुम्बननीविविमोक्षेषु बहुतरोच्छ्वासा । पत्यौ सङ्कुचिताङ्गी सस्मार तमेव शीलहरम् ॥ ३.४८ ॥ प्रणयकुपितेति मत्वा मुग्धपतिस्तां समुद्रदत्तोऽपि । प्रणिपत्य चाटुकारैः किमपि ययाचे प्रसादाय ॥ ३.४९ ॥ परपुरुषरागिणीनां विमुखीनां प्रणयकामवामानाम् । पुरुषपशवो विमूढा रज्यन्ते योषितामधिकम् ॥ ३.५० ॥ किं क्रियते कामोऽयं परगतकामः स्वतन्त्रकामश्च । धनशतरक्तायामपि संध्यायां भास्करो रागी ॥ ३.५१ ॥ गूढोपवननिकुञ्जे न्यस्तं सा वल्लभं ससंकेतम् । संचिन्त्य चिरं स्वपतिं विषमिव संमूर्छिता मेने ॥ ३.५२ ॥ निद्रामुद्रितनयने प्रणयश्रान्ते समुद्रदत्ते सा । उत्थाय रचितवेषा शनकैर्गमनोन्मुखी तस्थौ ॥ ३.५३ ॥ चौरः क्षणे च तस्मिन्मुग्धमत्तजनं प्रविश्य तद्भवनम् । गमनोत्सुकामपश्यन्मुखराभरणामलक्ष्यस्ताम् ॥ ३.५४ ॥ अत्रान्तरे शशाङ्कः शनकैः सुरराजवल्लभां ककुभम् । चकित इवाशु चकम्पे मीलिततरां समालिङ्ग्य ॥ ३.५५ ॥ संकोचितकमलायाः कुमुदविजृम्भाविराजमानायाः । प्रससार तुहिनकिरणो यामिन्याः कपटहास इव ॥ ३.५६ ॥ रविपरितापश्रान्तां वीक्ष्य दिवं प्रसरदिन्दुसानन्दाम् । जहसुरिव कुमुदवृन्दैरलिकुलकुंकारनिएभरा वाप्यः ॥ ३.५७ ॥ जग्राह रजनिरमणी शशिकरहृततिमिरकञ्चुकावरणा । लज्जान्वितेव पुरतः कुमुदामोदाकुलालिपटलपटम् ॥ ३.५८ ॥ सुप्तजनेऽथ निशार्धे चन्द्रालोके च विपुलतां याते । तमसीव निर्विशङ्का साळ्शनकैरुपवनं प्रययौ ॥ ३.५९ ॥ अथ सा विवेश विवशा विषमशरप्लोषिता निजोपवनम् । छन्नं भूषणलोभादनुयाता विस्मितेन चौरेण ॥ ३.६० ॥ तत्र ददर्श विभूषितमुज्ज्वलललितांशुकं लसत्कुसुमम् । शङ्काजनकं विपिने पक्षिभिरुपलक्षितं दयितम् ॥ ३.६१ ॥ हृदयदयितावियोगज्वलनज्वालावलीतप्तम् । दिङ्मुखविलसितरुचिना चन्द्रेण करानलैर्दग्धम् ॥ ३.६२ ॥ चिरसङ्केतस्थित्या मुक्ताशं प्रियतमापुनर्मिलने । वृक्षालम्बितवल्लीवलयालम्बेन विगलितप्राणम् ॥ ३.६३ ॥ तं दृष्ट्वैव विलीना विलपन्ती व्यसनशोकसंत्रासैः । निपपात वल्लरीव क्वणदलिवलयाकुला तन्वी ॥ ३.६४ ॥ संमोहमीलिताक्षी स्थित्वा सुचिरं महीं समालिङ्ग्य । शनकैरवाप्तजीवा विललाप लघुस्वरैः स्वैरम् ॥ ३.६५ ॥ हा हा नयनानन्द क्व नु ते विशदेन्दुसुन्दरं वदनम् । द्रक्ष्यामि मन्दपुण्या किमिदं क्वाहं क्व मे कान्तः ॥ ३.६६ ॥ इति तरुणकरुणमबला विलप्य पाशं विमुच्य यत्नेन । अङ्के धृत्वास्य मुखं चुचुम्ब जीवं क्षिपन्तीव ॥ ३.६७ ॥ सा तस्य वदनकमलं निजवदने मोहिता कृत्वा । ताम्बूलगर्भमकरोत्प्रकटितसाकाररागेव ॥ ३.६८ ॥ अथ तस्याः कुसुमोत्करमृगमदधूपादिसौरभाहूतः । आविश्य शवकशरीरं नासां चिच्छेद वेतालः ॥ ३.६९ ॥ सा प्राप्य चापलोचितमनयफलं छिन्ननासिका गत्वा । भवनं प्रविश्य भर्तुस्तारं हाहेति चुक्रोश ॥ ३.७० ॥ प्रतिबद्धे सकलजने नादत्रस्ते समुद्रदत्ते च । सा नासिका ममेयं भर्त्रा छिन्नेति चक्रन्द ॥ ३.७१ ॥ श्वशुरादिबन्धुवर्गैः पृष्टः कुपितैः समुद्रदत्तोऽपि । विक्रीतः परदेशे मूक इवोचे न किंचिदपि ॥ ३.७२ ॥ अथ चास्य सुप्रभाते बन्धुभिरावेदिते नृपसभायाम् । तत्राभून्नृपकोपो बहुधनदण्डः समुद्रदत्तस्य ॥ ३.७३ ॥ चौरोऽपि निखिलवृत्तं प्रत्यक्षमवेक्ष्य विस्मयाविष्टः । आवेद्य भूपपुरतः प्राप्य च कलयादिसत्कारम् ॥ ३.७४ ॥ उद्याने शववदने तस्यास्तां नासिकां च संदर्श्य । निष्कारणसुहृदुचितां शुद्धिं विदधे समुद्रदत्तस्य ॥ ३.७५ ॥ इत्येताः कुटिलतराः क्रूराचारा गतत्रपाश्चपलाः । यो नाम वेत्ति स स्त्रीभिर्नैव वञ्च्यते मतिमान् ॥ ३.७६ ॥ सर्गः ४ तत्रापि वेशयोषाः कुटिलतराः कूटरागहृतलोकाः । कपटचरितेन यासां वैश्रवणः श्रमणतामेति ॥ ४.१ ॥ हारिण्यश्चटुलतरा बहुलतरङ्गाश्च निम्नगामिन्यः । नद्य इव जलधिमध्ये वेश्याहृदये कलाश्चतुःषष्टिः ॥ ४.२ ॥ वेशकला नृत्यकला गीतकला वक्रवीक्षणकला च । कामपरिज्ञानकला ग्रहणकला मित्रवञ्चनकला च ॥ ४.३ ॥ पानकला केलिकला सुरतकलालिङ्गनान्तरकला च । चुम्बनकला परकला निर्लज्जावेगसंभ्रमकला च ॥ ४.४ ॥ ईर्ष्याकलिकेलिकला रुदितकला मानसंक्षयकला च । स्वेदभ्रमकम्पकला पुनरेकान्तप्रसाधनकला ॥ ४.५ ॥ नेत्रनिमीलननिःसहनिस्पन्दकला मृतोपमकला च । विरहासहरागकला कोपप्रतिषेधनिश्चयकला च ॥ ४.६ ॥ निजजननीकलहकला सद्गृहगमनोत्सवेक्षणकला च । हरणकला जातिकला केलिकला चौरपार्थिवकला च ॥ ४.७ ॥ गौरवशैथिल्यकला निष्कारणदोषभाषणकला च । शूलकलाभ्यङ्गकला निद्राक्षिरजस्वलाम्बरकला च ॥ ४.८ ॥ रूक्षकला तीक्ष्णकला गलहस्तगृहार्गलार्पणकला च । संत्यक्तकामुकाहृतिदर्शनयात्रास्तुतिकला च ॥ ४.९ ॥ तीर्थोपवनसुरालयविहरणहेलाकला गृहकला च । वश्यौषधमन्त्रकला वृक्षकला केशरञ्जनकला च ॥ ४.१० ॥ भिक्षुकतापसबहुविधपुण्यकला द्वीपदर्शनकला च । खिन्ना कलात्रिषष्ट्या पर्यन्ते कुट्टनीकला वेश्या ॥ ४.११ ॥ अज्ञातनामवर्णेषु आत्मापि ययार्प्यते धनांशेन । तस्या अपि सद्भावं मृगयन्ते मोघसंकल्पाः ॥ ४.१२ ॥ निखिलजनवञ्चनार्जित मलिनधनं रागदग्धह्र्दयानाम् । खादति गुणगणभग्नो नग्नो हीनोऽथवा कश्चित् ॥ ४.१३ ॥ नीचस्तुरगारोहो हस्तिपकः खलतरोऽथवा शिल्पी । वञ्चितसकलजनानां तासामपि वल्लभो भवति ॥ ४.१४ ॥ राजा विक्रमसिंहो बलवद्भिर्भूमिपैः पुरा विजितः । मानी ययौ विदर्भान्गुणयशसा मन्त्रिणा सहितः ॥ ४.१५ ॥ तत्र स वेश्याभवनं प्रविश्य भुवि विश्रुतां विलासवतीम् । भेजे गणिकां बहुधनभोग्यामप्यल्पविभवोऽपि ॥ ४.१६ ॥ तं राजलक्षणोचितभाजनानुभुजं विलोक्यपृथुसत्त्वम् । विविधमणिकनककोषं चक्रे सा तद्व्ययाधीनम् ॥ ४.१७ ॥ सहजमनुरागमद्रुतमौचित्यं वीक्ष्य भूपतिस्तस्याः । विस्मयविवशः प्रेम्णा जगाद विजने महामात्म्यम् ॥ ४.१८ ॥ चित्रमियं बहु वित्तं क्षपयति वेश्यापि मत्कृते तृणवत् । प्रीतिपदवीविसृष्टो वेश्यानां धननिबन्धनो रागः ॥ ४.१९ ॥ मिथ्या धनलवलोभादनुरागं दर्शयन्ति बन्धक्यः । तदपि धनं विसृजति या कस्तस्याः प्रेम्णि संदेहः ॥ ४.२० ॥ इति वचनं भूमिपतेः श्रुत्वा विहस्य सासूयः । तमुवाच कस्य राजन् वेश्याचरितेऽस्ति विश्वासः ॥ ४.२१ ॥ एताः सत्यविहीना धनलवलीनाः सुखक्षणाधीनाः । वेश्या विशन्ति हृदयं मुखमधुरा निर्विचाराणाम् ॥ ४.२२ ॥ प्रथमसमागमसुखदा मध्ये व्यसनप्रवासकारिण्यः । पर्यन्ते दुःखफलाः पुंसामाशाश्च वेश्याश्च ॥ ४.२३ ॥ अद्यापि हरिहरादिभिः अमरैरपि तत्त्वतो न विज्ञाताः । भ्रमविभ्रमबहुमोहा वेश्याः संसारमायाश्च ॥ ४.२४ ॥ इति सचिववचो नृपतिः श्रुत्वा कृत्वा च संविदं तेन । मिथ्यामृतमात्मानं चक्रे वेश्यापरीक्षायै ॥ ४.२५ ॥ तस्मिन्कुणपशरीरे विन्यस्ते मन्त्रिणा चित्तावह्नौ । सहसैव विलासवती वह्निभुवं भूषिता प्रययौ ॥ ४.२६ ॥ तां प्रबलज्वलितोज्ज्वलवह्निज्वालानिपातसावेगाम् । दोर्भ्यामालिङ्ग्य नृपो जीवामीत्यभिधान्मुदितः ॥ ४.२७ ॥ तत्तस्याः प्रेम दृढं सत्यं च विचार्य संभृतस्नेहः । राजा निनिन्द मन्त्रिणमसकृद्वेश्यगुणाभिमुखः ॥ ४.२८ ॥ अथ वेश्याधनसंचयमात्माधीनं महीपतिर्विपुलम् । आदाय गजतुरंगमभटविकटामाददे सेनाम् ॥ ४.२९ ॥ सम्भृतविपुलबलौघैः जित्वा वसुधाधिपान्स भूपालः । निजमाससाद मण्डलमिन्दुरिवानन्दकृत्पूर्णः ॥ ४.३० ॥ सा चान्तःपुरकान्तामूर्ध्नि कृत्वा भूभुजा विलासवती । शुशुभे श्रीरिव चामरपवनाकुलितालका तन्वी ॥ ४.३१ ॥ साथ कदाचिन्नरपतिमेकान्ते विरचिताञ्जलिः प्रणता । ऊचे नाथ मया त्वं कल्पतरुः सेवितश्चिरं दास्या ॥ ४.३२ ॥ यदि नाम कुत्रचिदहं याता ते हेतुतां विभो लक्ष्म्याः । तन्मम सफलामाशामर्हसि कर्तुं प्रसादेन ॥ ४.३३ ॥ पुण्यफलप्राप्यानां हृतपररजसां स्वभावविमलानाम् । तीर्थानामिव महतां न हि नाम समागमो विफलः ॥ ४.३४ ॥ अभवन्मम कोऽपि युवा दयितो धनजीविताधिकः प्रणयी । बद्धः स विदर्भपुरे दैववशाच्चोररूपेण ॥ ४.३५ ॥ तन्मुक्तये मया त्वं शक्ततरः सेवितो महीनाथः । अधुना क्रियतामुचितं सत्त्वस्य कुलस्य शौर्यस्य ॥ ४.३६ ॥ इति वञ्चनामवाप्तो विस्मित इव तद्वचो नृपः श्रुत्वा । सुचिरं विलोक्य वसुधां सस्मारामात्यवचनं सः ॥ ४.३७ ॥ अथ तां तथैव राजाश्वास्य विदर्भेषु भूभुजं जित्वा । बन्धनमुक्तेनास्याश्चोरेण समागमं चक्रे ॥ ४.३८ ॥ इत्येवं बहुहृदया बहुजिह्वा बहुकराश्च बहुमायाः । तत्त्वेन सत्यरहिताः को जानाति स्फुटं वेश्याः ॥ ४.३९ ॥ वर्णनदयितः कश्चिद्धनदयितो दासकर्मदयितोऽन्यः । रक्षादयितश्चान्यो वेश्यानां नर्मदयितोऽन्यः ॥ ४.४० ॥ सर्गः ५ मोहो नाम जनानां सर्वहरो हरति बुद्धिमेवादौ । गूढतरः स च निवसति कायस्थानां मुखे च लेखे च ॥ ५.१ ॥ रौद्रकला इव पूर्णा निष्पन्ना सस्यसंपत्तिः । ग्रस्ता क्षणेन दृष्टा निःशेषा दिविरराहुकलयेव ॥ ५.२ ॥ ज्ञाताः संसारकला योगिभिरपयातरागसंमोहैः । न ज्ञाता दिविरकला केनापि बहुप्रयत्नेन ॥ ५.३ ॥ कूटकलाशतशिबिरैः जनधनविवरैः क्षयक्षपातिमिरैः । दिविरैरेव समस्ता ग्रस्ता जनता न कालेन ॥ ५.४ ॥ एते हि कालपुरुषाः पृथुतरदण्डप्रपातहतलोकाः । गणनागणनपिशाचाः चरन्ति भूर्जध्वजा लोके ॥ ५.५ ॥ कस्तेषां विश्वासं यममहिषविषाणकोटिकुटिलानाम् । व्रजति न यस्य विषक्तः कण्ठे पाशः कृतान्तेन ॥ ५.६ ॥ कलमाग्रनिर्गतमषी बिन्दुव्याजेन साञ्जनाश्रुकणैः । कायस्थखन्यमाना रोदिति खिन्नेव राज्यश्रीः ॥ ५.७ ॥ अङ्कन्यासैर्विषमैः मायावनितालकावलीकुटिलैः । को नाम जगति रचितैः कायस्थैर्मोहितो न जनः ॥ ५.८ ॥ मायाप्रपञ्चसंचयवञ्चितविश्वैर्विनाशितः सततम् । विषयग्रामग्रासैः कायस्थैरिन्द्रियैर्लोकः ॥ ५.९ ॥ कुटिला लिपिविन्यासा दृश्यन्ते कालपाशसंकाशाः । कायस्थभूर्जशिखरे मण्डललीना इव व्यालाः ॥ ५.१० ॥ एते हि चित्रगुप्ताः चित्रधियो गुप्तहारिणो दिविराः । रेखामात्रविनाशात्सहितं कुर्वन्ति ये रहितम् ॥ ५.११ ॥ लोके कलाः प्रसिद्धाः स्वल्पतराः संचरन्ति दिविराणाम् । गूढकलाः किल तेषां जानाति कलिः कृतान्तो वा ॥ ५.१२ ॥ वक्रलिपिन्यासकला सकलाङ्कनिमीलनकला । सततप्रवेशसंग्रहलोपकला व्ययविवर्धनकला च ॥ ५.१३ ॥ ग्राह्यपरिच्छेदकला देयधनादानकारणकला च । उत्कोचैर्हरणकला पर्यन्तभुवं पलायनकला च ॥ ५.१४ ॥ शेषस्थविवेककला चलराशिसमग्रभक्षणकला च । उत्पन्नगोपनकला नष्टविशीर्णप्रदर्शनकला च ॥ ५.१५ ॥ क्रयमाणैर्भरणकला योजनचर्यादिभिः क्षयकला च । एकत्र पञ्चदश्यां लुण्ठिचिकित्सासमासनकला च ॥ ५.१६ ॥ निःशेषभूर्जदाहादागमनाशश्च पर्यन्ते । येन विना व्यवहारी भूर्याग्रहणे निरालोकः ॥ ५.१७ ॥ सकलङ्कस्य क्षयिणो नवनवरूपस्य वृद्धिभाजश्च । दिविरस्य कलाः कुटिलाः षोडश दोषाकरस्यैताः ॥ ५.१८ ॥ कूटस्थाः कायस्थाःसर्वनकारेण सिद्धमन्त्रेण । गुरव इव विदितमायावृत्तिच्छेदं क्षणेन कुर्वन्ति ॥ ५.१९ ॥ हारितधनपशुवसनः चौर्यभयाद्बन्धुभिः परित्यक्तः । बभ्राम महीमखिलां तीव्रव्यसनः पुरा कितवः ॥ ५.२० ॥ स कदाचिदेत्य पुण्यैः उज्जयिनीं तत्र मज्जनं कृत्वा । विचरन्विजने पुरहरमन्दिरमवलोकयामास ॥ ५.२१ ॥ शून्यायतने गत्वा वरदं देवं सदा महाकालम् । उपलेपनकुसुमफलैः निर्व्यापारः सिषेवे सः ॥ ५.२२ ॥ स्तोत्रजपगीतदीपैः विपुलध्यानैर्निशासु निर्निद्रः । तस्थौ तत्र स सुचिरं दुःसहदौर्गत्यनाशाय ॥ ५.२३ ॥ तस्य कदाचिद्भक्त्या शुभशतकृतया प्रसादितः सहसा । भवभयहारी भगवान् भूतपतिः संबभाषे तम् ॥ ५.२४ ॥ पुत्र गृहाणेत्युक्ते देवेन कपालमालिकाशिखरे । एकं कपालमसकृत्चक्रे संज्ञां पुरारातेः ॥ ५.२५ ॥ अर्धोक्ते स्थगितवरः संपीडनसंज्ञया कपालस्य । तूष्णीं चकार रुद्रो दारिद्र्यात्कितवपुण्यानाम् ॥ ५.२६ ॥ स्नातुं याते तस्मिन् विजने देवः कपालमवदत्तत् । दन्तांशुपटलपालीं गङ्गामिव दर्शयन्नग्रे ॥ ५.२७ ॥ अस्य कितवस्य साधोः भक्तस्य चिरस्थितस्य वरदाने । कस्मात्त्वया ममैषा विहिता संपीडनैः संज्ञा ॥ ५.२८ ॥ इति भगवता कपालं पृष्टं प्रोवाच सस्मितं शनकैः । विषमनयनोष्मविगलन्मौलीन्दुसुधारसैर्जीवत् ॥ ५.२९ ॥ शृणु भगवन्येन मया विज्ञप्तोऽसि स्वभावसरलात्मन् । सुलभोऽपि बोध्यते वा निष्कारणमीश्वरः केन ॥ ५.३० ॥ एष कितवोऽतिदुःखी दारिद्र्याद्विरतसकलनिजकृत्यः । प्रासादेऽस्मिन्रचयति लेपनबलिकुसुमधूपार्घम् ॥ ५.३१ ॥ दुःखी भवति तपस्वी धनरहितः सादरो भवति धर्मे । भ्रष्टाधिकारविभवः सर्वप्रणतः प्रियंवदो भवति ॥ ५.३२ ॥ अर्चयति देवविप्रान् जपति चिरं वेत्ति निर्धनो मित्रम् । कठिनोऽपि लोहपिण्डः तप्तः कर्मण्यतामेति ॥ ५.३३ ॥ व्यसनपरितप्तहृदयः तिष्ठति सर्वः सदाचारे । विभवमदमोहितानां कर्मस्मरणे कथा कैव ॥ ५.३४ ॥ ऐश्वर्यार्थी भगवन्न्र्थी आशापाशेन लम्बमानोऽसौ । कुरुते परां सपर्यां प्राप्तार्थो दृश्यते न पुनः ॥ ५.३५ ॥ स्वार्थार्थिनः प्रयत्ता प्राप्तार्थाः सेवकाः सदा विफलाः । न हि नाम जगति कश्चित्कृतकार्यः सेवको भवति ॥ ५.३६ ॥ देव प्रासादेऽस्मिन् फलजलकुसुमादिभोगसामग्रीम् । पूर्णे याते कितवे विजने नान्ये करिष्यन्ति ॥ ५.३७ ॥ तस्मात्पुण्योपनतं कितवं संरक्ष सेवकं सततम् । वरदानमस्य भगवन्निर्वासनमात्मपूजायाः ॥ ५.३८ ॥ श्रुत्वैतद्वक्रतरं वचनं पृथुविस्मयस्मेरः । तं पप्रच्छ पिनाकी कस्त्वं तत्त्वेन किं कर्म ॥ ५.३९ ॥ इति पृष्टं पुनरूचे सपदि कपालं विचिन्त्य सद्भावम् । मगधानामहमभवं कायस्थकुले स्वकर्मणो विमुखः ॥ ५.४० ॥ स्नानजपव्रतनिरतः तीर्थरतो विदितसर्वशास्त्रार्थः । त्यक्त्वा भागीरथ्यां शरीरकं त्वत्पदं प्राप्तः ॥ ५.४१ ॥ आकर्ण्यवं भगवानूचे कायस्थ एव सत्यं त्वम् । चित्रं कौटिल्यकलां न त्यजसि कपालशेषोऽपि ॥ ५.४२ ॥ इत्युक्त्वा स्मितकिरणैः कुर्वन्नाशालताः कुसुमशुभ्राः । स्नात्वागताय तस्मै कितवाय वरं ददौ वरदः ॥ ५.४३ ॥ कृत्वा तत्कितवहितं पश्यत एवाशु तस्य शशिमौलिः । निष्कासितवांस्तच्छिर उत्तमतममुण्डमालिकापङ्क्तेः ॥ ५.४४ ॥ इत्येवं कुटिलकलां सहजां मलिनां जनक्षये निरताम् । यमदंष्ट्रामिव मुञ्चति कायस्थो नास्थिशेषोऽपि ॥ ५.४५ ॥ सुस्थः को नाम जनः सतताशुचिभावदूषितकलानाम् । दोषकृतां शकृतामिव कायस्थानामवष्टम्भैः ॥ ५.४६ ॥ असुररचितप्रयत्नाद्विज्ञाता दिविरवञ्चना येन । संरक्षैता मतिमता रत्नवती वसुमती तेन ॥ ५.४७ ॥ सर्गः ६ मदवर्णनम् एकः सकलजनानां हृदयेषु कृतास्पदो मदः शत्रुः । येनाविष्टशरीरो न शृणोति न पश्यति स्तब्धः ॥ ६.१ ॥ विजितात्मनां जनानामभवद्यः कृतयुगे दमो नाम । सोऽयं विपरीततया मदः स्थितः कलियुगे पुंसाम् ॥ ६.२ ॥ मौनं वदननिकूणनमूर्ध्वेक्षणमन्यलक्ष्यता चाक्ष्णोः । गात्रविलेपनवेष्टनमग्र्यं रूपं मदस्यैतत् ॥ ६.३ ॥ शौर्यमदो रूपमदः शृङ्गारमदः कुलोन्नतिमदश्च । विभवमदमूलजाता मदवृक्षा देहिनामन्ते ॥ ६.४ ॥ शूलारूढसमानो वातस्तब्धोपमोऽथ भूतसमः । बहुभोगे विभवमदः प्रशमज्वरसंनिपातसमः ॥ ६.५ ॥ शौर्यमदो भुजदर्शी रूपमदो दर्पणादिदर्शी च । काममदः स्त्रीदर्शी विभवमदस्त्वेष जात्यन्धः ॥ ६.६ ॥ अन्तःसुखरसमूर्च्छामीलितनयनः समाहितध्यानः । धनमद एष नराणामात्मारामोपमः कोऽपि ॥ ६.७ ॥ उन्मादयत्यविषये विविधविकारः समस्तगुणहीनः । मूढमदस्त्वन्योऽयं जयति विचित्रो निरालम्बः ॥ ६.८ ॥ स्तम्भान्न पश्यति भुवं खेचरदर्शी सदा तपस्विमदः । भक्तिमदोऽद्भुतकारी विस्मृतदेहश्चलः प्रकृत्यैव ॥ ६.९ ॥ आकोपरक्तनयनः परवाङ्मात्रासहः प्रलापी च । विषमः श्रुतमदनामा धातुक्षोभो नृणां मूर्तः ॥ ६.१० ॥ सततभ्रुकुटिकरालः परुषाक्रोशी हठाभिघातपरः । अधिकारमदः पुंसां सर्वाशी राक्षसः क्रूरः ॥ ६.११ ॥ पूर्वपुरुषप्रतापप्रथितकथाविस्मृतान्यनिजकृत्यः । कुलमद एकः पुंसां सुदीर्घदर्शी महाज्ञानः ॥ ६.१२ ॥ वर्जितसकलस्पर्शः सर्वाशुचिभावनान्निरालम्बः । आकाशेऽपि सलेपः शौचमदो नित्यसंकोचः ॥ ६.१३ ॥ सावधयः सर्वमदा निजनिजमूलक्षये विनश्यन्ति । वरमद एकः कुटिलो विजृम्भते निरवधिर्भोगी ॥ ६.१४ ॥ पानमदस्तु जघन्यः सर्वजुगुप्सास्पदं महामोहः । क्षणिकोऽपि हरति सहसा वर्षसहस्रार्जितं शीलम् ॥ ६.१५ ॥ विद्यावति विप्रवरे गवि हस्तिनि भूपतौ श्वपाके च । मद्यमदः समदर्शी स्वपरविभागं न जानाति ॥ ६.१६ ॥ विगलितसदसद्भेदः समकाञ्चनलोष्टपाषाणः । प्राप्तो योगिदशामपि नरके क्षीबः स्वयं पतति ॥ ६.१७ ॥ रोदिति गायति विहसति गायति विलपत्युच्चैरुपैति संमोहम् । भजते विविधविकारान् संसारादर्शमण्डलः क्षीबः ॥ ६.१८ ॥ परपतिचुम्बनसक्तां पश्यति दयितां न याति संतापम् । क्षीबोऽतिगाढरागं पीत्वा मधु वीतरागः किम् ॥ ६.१९ ॥ विसृजति वसनं दूरे व्यसनं गृह्णाति दुःसहं क्षीबः । अञ्जलिपात्रे पिबति च निजमूत्रविजृम्भितं चन्द्रम् ॥ ६.२० ॥ च्यवनः पुरा महर्षिः यौवनमश्विप्रयोगतो लब्ध्वा । यज्ञे स्वयं कृतज्ञः तौ चक्रे सोमपानार्हौ ॥ ६.२१ ॥ क्रुद्धस्तमेत्य शक्रः प्रोवाच मुने न वेत्सि किमपि त्वम् । भिषजावपङ्क्तियोग्यो सोमार्हावश्विनौ यस्य ॥ ६.२२ ॥ इति बहुशः सुरपतिना प्रतिषिद्धोऽपि स्वतेजसा च्यवनः । न चचाल निश्चितात्मा निजकृत्यादश्विनोः प्रीत्या ॥ ६.२३ ॥ तत्कोपोद्यतवज्रं जम्भारेरायतं भुजस्तम्भम् । अस्तम्भयन्मुनीन्द्रः प्रभावसंभावनापात्रम् ॥ ६.२४ ॥ असृजच्च तद्वधाय प्रलम्बकायोपमं चतुर्दंष्ट्रम् । योजनसहस्रविपुलं कृत्यारूपं महासुरं घोरम् ॥ ६.२५ ॥ तेनाविष्टः सहसा भीतो वज्री तमाययौ शरणम् । सोमोऽस्तु देवभिषजोः इति चोवाच प्रणष्टधृतिः ॥ ६.२६ ॥ मुनिरपि करुणासिन्धुः भीतं प्रणतं महेन्द्रमाश्वास्य । मदमुत्ससर्ज घोरं द्यूतस्त्रीपानमृगयासु ॥ ६.२७ ॥ सोऽयमसुरः प्रमाथी मुनिना क्रुद्धेन निर्मितो हृदये । निवसति शरीरभाजां स्तम्भाकारो गुणैर्बद्धः ॥ ६.२८ ॥ मौने श्रीमत्तानां निःस्पन्ददृशि प्रवृद्धविभवानाम् । भ्रूभङ्गमुखविकारे धनिकानां भ्रूयुगे विटादीनाम् ॥ ६.२९ ॥ जिह्वासु दूतविदुषां रूपवतां दशनवसनकेशेषु । वैद्यानामोष्ठपुटे ग्रीवायां गुणिनियोगिगणकानाम् ॥ ६.३० ॥ स्कन्धतटे सुभटानां हृदये वणिजां करेषु शिल्पवताम् । गलपत्राङ्गुलिभङ्गे छात्राणां स्तनतटेषु तरुणीनाम् ॥ ६.३१ ॥ उदरे श्राद्धार्हाणां जङ्घासु च लेखहारपुरुषाणाम् । गण्डेषु कुञ्जराणां बर्हे शिखिनां गतेषु हंसानाम् ॥ ६.३२ ॥ इत्येवं मदनामा मदाग्रहो बहुविकारदृढमोहः । अङ्गे काष्ठीभूतो वसति सदा सर्वभूतानाम् ॥ ६.३३ ॥ इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे मदवर्णननाम षष्ठः सर्गः सर्गः ७ गायनवर्णनम् अर्थो नाम जनानां जीवितमखिलक्रियाकलापस्य । तमपि हरन्त्यतिधूर्ताः श्लक्ष्णगला गायना लोके ॥ ७.१ ॥ निःशेषं कमलाकरकोषं जग्ध्वापि कुमुदमास्वाद्य । क्षीणा गायनभृङ्गा मातङ्गप्रणयतां यान्ति ॥ ७.२ ॥ घटपटशकटस्कन्धा बहुडिम्भा मुक्तकेशककलापाः । एते योनिपिसाचा भूपभुजो गायना लोके ॥ ७.३ ॥ तमसि वराकश्चौरो हाहाकारेण याति संत्रस्तः । गायनचौरः प्रकटं हाहाकृत्वैव हरति सर्वस्वम् ॥ ७.४ ॥ पा पा ध ध नि नि ग म सा धा धा मा मा स मा स गा धा मा । कृत्वा स्वरपदपालीं गायनधूर्ताश्चरन्त्येते ॥ ७.५ ॥ कुटिलावर्तभ्रान्तैः वेषविकारैश्च मुखविकारैश्च । गायति गायनसंघो मर्दलहस्तश्चिरं मौनी ॥ ७.६ ॥ आमन्त्रणजयशब्दैः प्रतिपदहुंकारघर्घरारावैः । स्वयमुक्तसाधुवादैः अन्तरयति गायनो गीतम् ॥ ७.७ ॥ जलपतिते सक्तुकणे मत्स्यैर्भुक्तेऽस्ति कापि धर्माप्तिः । गायनदत्तासु परं कोटिष्वपि नास्ति फललेशः ॥ ७.८ ॥ मुग्धधनानां विधिना रुद्धानामन्धकूपकोषेषु । विहितो विवृतमहास्यो गायननामा प्रणालौघः ॥ ७.९ ॥ नैतत्प्रकटितदशना गायनधूर्ताः सदैव गायन्ति । एते गतानुगतिकान् हसन्ति धूर्ता गृहीतार्थान् ॥ ७.१० ॥ प्रातर्गायनधूर्ता भवन्ति धीराः सहारकेयूराः । मध्याह्ने द्यूतजिता नग्ना भग्ना निराधाराः ॥ ७.११ ॥ स्तुतिवागुरानिबद्धैः वचनशरैः कपटकूटरचनाभिः । गीतैर्गायनलुब्धा मुग्धमृगाणां हरन्ति सर्वस्वम् ॥ ७.१२ ॥ नष्टस्वरपदगीतैः क्षणेन लक्षानि गायनो लब्ध्वा । दास्याः सुतेन दत्तं किमिति वदर्दुःखितो याति ॥ ७.१३ ॥ वर्जितसाधुद्विजवरवृद्धायाः सकलशोककलितायाः । शापोऽयमेव लक्ष्म्या गायनभोज्यैव यत्सततम् ॥ ७.१४ ॥ देवः पुरा सुराणामधिनाथो नारदं चिरायातम् । पप्रच्छ लोकवृत्तं महीतले भूमिपालानाम् ॥ ७.१५ ॥ सोऽवदरवनिपतीनां जयिनां बहुदानधर्मयज्ञानाम् । चरता मया नृलोके सुरपतियोग्याः श्रियो दृष्टाः ॥ ७.१६ ॥ ते तु त्वां स्पर्धन्ते विभवैर्वरुणं धनाधिनाथं च । शतमखसंज्ञामसकृद्बहुतरयज्ञा हसन्त्येव ॥ ७.१७ ॥ श्रुत्वा तर्मुनिवचनं जातद्वेषः शतक्रतुः कोपात् । हर्तुं धनं पिशाचान् विससर्ज भुवं नरेन्द्राणाम् ॥ ७.१८ ॥ ते गीतनाममन्त्राः सुरपतिदिष्टाः पिशाचसंघाताः । हर्तुं सकलनृपाणां धनमखिलं भूतलं प्रययुः ॥ ७.१९ ॥ मायादासः प्रथमं डम्बरदासश्च वज्रदासश्च । झ्[क्ष्?]अयदासलुण्ठदासौ खरहरदासः प्रसिद्धदासश्च ॥ ७.२० ॥ वाडवदासश्चाष्टौ ते गत्वा मर्त्यलोकमतिभयदाः । विवृतास्यघोरकुहरा गायनसृष्टिं ससर्जुरतिविकटाम् ॥ ७.२१ ॥ यैरेतैर्हृतविभवा दिशि दिशि हृत[?]सकललोकसर्वस्वाः । यज्ञादिषु भूपतयो जाताः शिथिलोद्यमाः सर्वे ॥ ७.२२ ॥ एते हि कर्णविवरैः प्रविश्य गीतच्छलेन भूपानाम् । सहसा हरन्ति हृदयं कर्णपिशाचा महाघोराः ॥ ७.२३ ॥ तस्मारेषां राष्ट्रे न ददाति विकारिणां प्रवेशं यः । तस्य सकलार्थसंपद्यज्ञवती भूमिराधीना ॥ ७.२४ ॥ नटनर्तकचक्रचराः कुशीलवाश्चारणा विटाश्चैव । ऐश्वर्यशालिशलभाः चरन्ति तेभ्यः श्रियं रक्षेत् ॥ ७.२५ ॥ गायनसंघस्यैक्यादुत्तिष्ठति गीतनिःस्वनः सुमहान् । अस्थाने दत्ताया लक्ष्म्या इव संभ्रमाक्रन्दः ॥ ७.२६ ॥ सर्गः ८ तत्रापि हेमकारा हरणकलायोगिनः पृथुध्यानाः । ये धाम्नि बहुललक्ष्म्याः शून्यत्वं दर्शयन्त्येव ॥ ८.१ ॥ सारं सकलधनानां संपत्सु विभूषणं विपदि रक्षा । एते हरन्ति पापाःॢ सततं तेजः परं हेम ॥ ८.२ ॥ सहसैव दूषयन्ति स्पर्शेन सुवर्णमुपहतच्छायाम् । नित्याशुचयः पापाः चण्डाला हेमकाराश्च ॥ ८.३ ॥ मसृणकषाश्मनि निकषो मन्दरुचिक्रमगता कला तेषाम् । येषां परुषकषाश्मनि विक्रयकालेऽपि लाभकला ॥ ८.४ ॥ सोपस्नेहः स्वेद्यः सिक्थकमुद्रोऽपि बालुकाप्रायः । सोष्मा च युक्तिभेदात्तुलोपलानां कलाः पञ्च ॥ ८.५ ॥ द्विपुटा स्फोटविपाका सुवर्णरसपायिनी सुताम्रकला । सीसमलकाचचूर्णग्रहणपरा षट्कला मूषा ॥ ८.६ ॥ वक्रमुखी विषमपुटा सुषिरतला न्यस्तपारदा मृद्वी । पक्षकटा ग्रन्थिमती सिक्थकला बहुगुणा पुरोनम्रा ॥ ८.७ ॥ वातभ्रान्ता तन्वी गुर्वी वा परुषवातधृतचूर्णा । निर्जीवना सजीवा षोडश हेम्नस्तुलासु कलाः ॥ ८.८ ॥ मन्दः सावेगो वा मध्यच्छिन्नः सशब्द्ल्फूत्कारः । पाती शीकरकारी फूत्कारः षट्कलास्तेषाम् ॥ ८.९ ॥ ज्वालावलयी धूमो विस्फोटी मन्दकः स्फुलिङ्गी च । पूर्वधृतताम्रचूर्णस्तेषामपि षट्कलो वह्निः ॥ ८.१० ॥ प्रश्नः कथा विचित्रा कण्डूयनमंशुकान्तराकृष्टिः । दिनवेलार्कनिरीक्षणमतिहासो मक्षिकाक्षेपः ॥ ८.११ ॥ कौतुकदर्शनमसकृत्स्वजनकलिः सलिलपात्रभङ्गश्च । बहिरपि गमनं बहुशो द्वादश चेष्टाकलास्तेषाम् ॥ ८.१२ ॥ घटितस्योपरि पाकः कृत्रिमवर्णप्रकाशनोत्कर्षी । तनुगोमयाग्निमध्ये लवणक्षारानुलेपेन ॥ ८.१३ ॥ सामान्यलोहपात्राद्भूमिन्यस्तेऽपि कान्तलोहतले । धावति वदनेन तुला रिक्तापि मुहुः सुपूर्णेव ॥ ८.१४ ॥ प्रतिबद्धे जतुयोग्ये प्रक्षिप्तनिघूढकनककणम् । तुलितं पूरणकाले सुखेन हर्तुं समायाति ॥ ८.१५ ॥ उज्ज्वलनेऽपि च तेषां पातनमतिसुकरमश्मकाले च । सदृशविचित्राभरणे परिवर्तनलाघवप्रसारश्च ॥ ८.१६ ॥ पूर्णादाने घटने नेक्षा माषार्पणं प्रभायोगः । कालाहरणविनाशः प्रतिपूरणयाचनं बहुश्लेषः ॥ ८.१७ ॥ एकादश युक्तिकालस्तेषामेताः समासेन । एकैव कला महती निशि गमनं सर्वमादाय ॥ ८.१८ ॥ एता हेमकाराणां विचारलभ्याः कलाश्चतुःषष्टिः । अन्या गूढाश्च कलाः सहस्रनेत्रोऽपि नो वेत्ति ॥ ८.१९ ॥ मेरुः स्थितोऽतिदूरे मनुष्यभूमिं चिरात्परित्यज्य । भीतोऽवश्यं चौर्याद्घोराणां हेमकाराणाम् ॥ ८.२० ॥ कनकशिलाशतसंधिप्रसृतमहाविवरकोटिसंघातैः । उत्कीर्णनिखिलशिखरः पुरा कृतो मूषकैर्मेरुः ॥ ८.२१ ॥ तत्राखिलाखुसेनानिखातनखरावलेखनोत्खातैः । शिथिलितमूलः सहसा बभूव मेरुः पुरा नियतम् ॥ ८.२२ ॥ मूषकनखरोत्खातः सुमेरुरुच्चैस्तरां शुशुभे । उद्धतसुवर्णधूलीपटलैः कपिला बहुः ककुभः ॥ ८.२३ ॥ तस्मिञ्जर्जरशिखरे विवरोदरदलितकनककूटतटे । कल्पान्तागमशङ्काभयमाविरभूदमर्त्यानाम् ॥ ८.२४ ॥ आह च दिव्यदृशा तद्विलोक्य सर्वं सुरानाथागस्त्यः । एते ते ब्रह्मघ्ना निशाचारास्त्रिदशसंगरे निहताः ॥ ८.२५ ॥ जाता मूषकरूपा मेरुनिपाते कृतारम्भाः । वध्याः पुनरपि भवतामाश्रमभङ्गान्मुनीनां च ॥ ८.२६ ॥ श्रुत्वैतन्मुनिवचनं धूमेन बिलावलीं समापूर्य । शापेन पूर्वदग्धाञ्जग्धुस्त्रिदशा महामूषान् ॥ ८.२७ ॥ एते त एव मूषाः सुवर्ण्काराः क्षितौ पुनर्जाताः । जन्माभ्यासादनिशं काञ्चनचूर्णं निकर्षन्ति ॥ ८.२८ ॥ तस्मान्महीपतीनामसंभवे गरदचोरदस्यूनाम् । एकः सुवर्णकारो निग्राह्यः सर्वथा नित्यम् ॥ ८.२९ ॥ सर्गः ९ नानाधूर्तवर्णनम् वाञ्चकमाया महती महीतले जलधिमेखले निखिले । नष्टधियां मत्स्यानां जालाली धीवरैर्विहिता ॥ ९.१ ॥ सर्वस्वमेव परमं प्राणा येषां कृते प्रयत्नोऽयम् । वैद्या वेद्याः सततं येषां हस्ते स्थितास्तेऽपि ॥ ९.२ ॥ एते हि देहदाहाद्विरहा इव दुःसहा भिषजः । ग्रीष्मदिवसा इवोग्रा बहुतृष्णः शोषयन्त्येव ॥ ९.३ ॥ विविधौषधपरिवतैर्योगैः जिज्ञासया स्वविद्यायाः । हत्वा नृणां सहस्रं पश्चाद्वैद्यो भवेत्सिद्धः ॥ ९.४ ॥ विन्यस्य राशिचक्रं ग्रहचिन्तां नाटयर्मुखविकारैः । अनुवदति चिरार्गणको यत्किंचित्प्राश्निकेनोक्तम् ॥ ९.५ ॥ गणयति गगने गणकः चन्द्रेण समागमं विशाखायाः । विविधभुजंगक्रीडासक्तां गृहिणीं न जानाति ॥ ९.६ ॥ प्रथमं स्ववित्तमखिलं कनकार्थी भस्मसात्कृत्वा । पश्चात्सधनान्रसिकान् विनाशयत्येष वर्णिकानिपुनः ॥ ९.७ ॥ शतवेधी सिद्धो मे सहस्रवेधी रसोऽपि निर्यातः । इति वदति धातुवादी नग्नो मलिनः कृशो रूक्षः ॥ ९.८ ॥ ताम्रघटोपमशीर्षो धूर्तो हि रसायनी जराजीर्णः । केशोत्पादनकथया खल्वाटानेव मुष्णाति ॥ ९.९ ॥ प्रह्लादनशुचितारकशम्बररमणीजनेऽपि बद्धाशः । बिल्वादिभिरतिकामी हुत्वा धूमान्धतामेति ॥ ९.१० ॥ खेचर्यः सुखसाध्या यत्नाद्यदि लभ्यते नभःकुसुमम् । उक्ताः प्रयोगविद्भिः मशकास्थिषु सिद्धयो बहुधा ॥ ९.११ ॥ कृष्णाश्वशकृद्वृत्या पश्यति गगने सुरेन्द्रभवनानि । मण्डूकवसालिप्तो भवति पुमार्वल्लभोऽप्सरसाम् ॥ ९.१२ ॥ इत्युक्त्वा पुनराशां दिशि दिशि विलसन्ति धूर्तसंघाताः । यैर्विविधसिद्धिलुब्धाः क्षैप्ताः शतशो नराः श्वभ्रे ॥ ९.१३ ॥ वश्याकर्षणयोगी पथि पथि रक्षां ददाति नारीणाम् । रतिकामतन्त्रमूलं मूलं मन्त्रं न जानाति ॥ ९.१४ ॥ बहवो रथ्यागुरवो लघुदीक्षाः स्वल्पयोगमुत्पाद्य । व्याधा इव वर्धन्ते मुग्धानां द्रविणदारहराः ॥ ९.१५ ॥ हस्तस्था धनरेखा विपुलतरास्या पतिश्च चलचित्तः । मृद्नाति कुलवधूनामित्युक्त्वा कमलकोमलं पाणिम् ॥ ९.१६ ॥ बद्धेऽङ्गुष्ठे सलिले पश्यति विविधं जनभ्रमं कन्या । न प्राप्यते च चोरो मोहोऽसाविन्द्रजालस्य ॥ ९.१७ ॥ खादति पिबति च धूर्तः प्रलापकारी नृणां तलाघातैः । चेटावेशं कृत्वा निर्मन्त्रक्षुद्रधूपेन ॥ ९.१८ ॥ कक्षपुटे नागार्जुनलिखिता युक्तिर्विधीयतां धूपे । यो हर्तुं मोहादिति धूर्तोऽग्नौ क्षिपति परवित्तम् ॥ ९.१९ ॥ यक्षीपुत्राश्चोरा विज्ञेयाः कूटधूपकर्तारः । येषां प्रत्यक्षफलं दारिर्द्यं राजभङ्गश्च ॥ ९.२० ॥ बहुतरधनेन वणिजा पुत्री सा पुत्रवर्गृहीतैव । मदधीनेति कथाभिः कन्यार्थं भुज्यते धूर्तः ॥ ९.२१ ॥ चिन्त्यः स्वेङितवादी मर्मज्ञो हृदयचौर एवासौ । तिष्ठति परप्रयुक्तो मिथ्याबधिरोऽथवा मूकः ॥ ९.२२ ॥ भस्मस्मेरा वेश्या वृद्धाः श्रमणाः सदैवता गणिकाः । एताः कुलनारीणां चरन्ति धनशीलहारिण्यः ॥ ९.२३ ॥ विधवा तरुणी सधना वाञ्चति दिव्यं भवद्विधं रमणम् । धूर्तो जडमित्युक्त्वा सर्वस्वं तस्य भक्षयति ॥ ९.२४ ॥ प्रत्यहवेतनयुक्ताः कर्मसु ये कार्य्शिल्पिनो धूर्ताः । विलसन्तिकर्मविघ्नैः विज्ञेयाः कालचौरास्ते ॥ ९.२५ ॥ अक्षव्याजैर्विविधैः गणनहस्तादिलाघवैर्निपुणाः । धूर्ताश्चरन्ति गूढं प्रसिद्धकितवा विदेशेषु ॥ ९.२६ ॥ भोजनमात्रोत्पत्तिः बहुव्ययो द्यूतमद्यवेश्याभिः । विज्ञेयो गृहचौरो बन्धुजनो वेश्मदासो वा ॥ ९.२७ ॥ कृतकं शास्त्रमसत्यं साक्षार्दृष्टश्च केन परलोकः । इति वदति यः स शङ्क्यो निरङ्कुशो मत्तमातङ्गः ॥ ९.२८ ॥ बहुलाभलुब्धमनसां हरन्ति ये दुःसहेन लाभेन । ऋणधनमधिकविदग्धा विज्ञेया लाभचोरास्ते ॥ ९.२९ ॥ अधिकरणाम्बुधिमध्ये ज्वलन्ति वडवाग्नयः सततभक्षाः । जनधनघनमनसो ये भट्टाख्या न्यायचोरास्ते ॥ ९.३० ॥ विभवाम्भोरुहमधुपा दुःसहविपदनिलवेगविमुखा ये । सुहृदस्ते सुखचौराः चरन्ति लक्ष्मीलताहूताः ॥ ९.३१ ॥ यद्यत्किंचिरपूर्वं परिचरितं कल्पनादसंबद्धम् । वर्णयति हर्षकारी बहुवचनः कर्णचौरोऽसौ ॥ ९.३२ ॥ दोषेषु गुणस्तुतिभिः श्रद्धामुत्पाद्य चतुरवचना ये । कुर्वन्त्यभिनवसृष्टिं स्थितिचौरास्ते निराचाराः ॥ ९.३३ ॥ आत्मगुणख्यातिपराः परगुणमाच्छाद्य विपुलयत्नेन । प्रभवन्ति परमधूर्ता गुणचौरास्ते विमूढहृदयेषु ॥ ९.३४ ॥ वल्लभतामुपयाताः परवाल्लभ्यं विचित्रपैशुन्यैः । ये नाशयन्ति धूर्ता मात्सर्यार्वृत्तिचौरास्ते ॥ ९.३५ ॥ शमदमभक्तिविहीनस्तीव्रव्रतदुर्ग्रहग्रस्तः । अभिभवति प्रतिपत्त्या साधुजनं कीर्तिचौरोऽसौ ॥ ९.३६ ॥ देशान्तरसंभविभिः भोगवरैर्वर्णनारम्यैः । येऽपि नयन्ति विदेशं पशुसदृशार्देशचौरास्ते ॥ ९.३७ ॥ नानाहासविकारैः बहुवैदग्ध्यैः सनमवैचिर्त्यः । रमयति दिवसमशेषं प्रकृतिव्यापारचौरोऽ सौ ॥ ९.३८ ॥ भक्षैतनिजबहुविभवाः परविभवक्षपणदीक्षैताः पश्चात् । अनिशं वेश्यावेशस्तुतिमुखरमुखा विटाश्चिन्त्याः ॥ ९.३९ ॥ अतिशुचितया न वित्तं गृह्णाति करोति चाग्र्यमधिकारम् । यो नियमसलिलमत्स्यः परिहार्यो निःस्पृहनियोगी ॥ ९.४० ॥ रथ्यावणिजः पापाः स्वयमेत्य गृहेषु यत्प्रयच्छन्ति । तत्स्वकरार्पितमखिलं भवति परं काचशकलमपि ॥ ९.४१ ॥ छन्दानुवर्तिनो ये श्वभ्रापातेऽपि साधुवादपराः । सर्वस्वहारिणस्ते मधुरा विषव्द्विशन्त्यन्तः ॥ ९.४२ ॥ तव नरपतिः प्रसादी गुणगणनपरः परं विजने । उक्त्वेति राजदासैः सेवकलोकः सदा मुषितः ॥ ९.४३ ॥ स्वप्ने मयाब्जहस्ताळ्दृष्टा श्रीस्त्वद्गृहं प्रविष्टा सा । मासोपविष्टतुष्टा देवी श्रीः सादरा प्राह ॥ ९.४४ ॥ मद्भक्तस्ते दास्यति सर्वं तत्त्वं मया लब्धः । इत्युक्त्वा सरलाणां विलसन्ति गृहे गृहे धूर्ताः ॥ ९.४५ ॥ पुरविप्लवनगरोदययज्ञविवाहोत्सवादिजनसंघे । प्रविशन्ति बन्धुवेषाः परेऽपि सर्वापहाराय ॥ ९.४६ ॥ परिजनपानावसरे पिबति न मद्यं निशासु जागर्ति । ध्यानपरः सेवार्थी किमपि च कर्तुं कृतोद्योगः ॥ ९.४७ ॥ न ददाति प्रतिवचनं ददाति वा गद्गदाक्षरैर्विषमम् । नष्टमुखः सोच्छ्वासः प्रवेपते तत्क्षणं चोरः ॥ ९.४८ ॥ यश्चाधिकपरिशुद्धिं प्रार्थयते रटति यश्च साटोपह् । घोरापह्नवकारी शङ्कायतनं स पापः स्यात् ॥ ९.४९ ॥ प्रत्यक्षेऽपि परोक्षे कृतमकृतं कथितमप्यनुक्तं च । यः कुरुते निर्विकृतिः स परं पुंसां भयस्थानम् ॥ ९.५० ॥ कृतकृतकमुग्धभावः षण्ढ इव स्त्रीस्वभावसंलापः । विचरति यः स्त्रीमध्ये स कामदेवो गृहे धूर्तः ॥ ९.५१ ॥ सततमधोमुखदृष्टिः कोषगृहे मूषकश्चिन्त्यः । विलिखन्कोषनियुक्तः कोषगृहे मूषकश्चिन्त्यः ॥ ९.५२ ॥ तिष्ठति यः सकलदिनं गृहदासः प्रीतवेश्मभवनेषु । गृहदीर्घकथाः कथयन्स चरः सर्वात्मना त्याज्यः ॥ ९.५३ ॥ निन्द्ये बहुदण्डार्हे कर्मणि यः सर्वथा प्रतारयति । आजीवभीतिभोज्यस्तेन निबद्धः स्थिरो राशिह् ॥ ९.५४ ॥ दृष्ट्वा गुह्यमशेषं तस्य रहस्यं च लीलया लब्ध्वा । धूर्तेन मुग्ध्लोकस्तेन शिलापट्टके लिखितः ॥ ९.५५ ॥ राजविरुद्धं द्रव्यं रूपं वा कूटलेख्यमन्यद्वा । निःक्षिप्य यात्यलक्ष्यं धूर्तो धनिनां विनाशाय ॥ ९.५६ ॥ क्षुद्रः क्षीनोऽपि गृहे लब्धास्वादः कृतो धनैर्येन । शस्त्रविषपाशहस्तः स पाशहस्तो धृतस्तेन ॥ ९.५७ ॥ लज्जाधनः कुलीनः संभावितशुद्धशीलमर्यादह् । नारीक्रियते धूर्तैः प्रायेण सगर्भनारीभिः ॥ ९.५८ ॥ दृष्टाभिरदृष्टाभिः क्रूराभिः कृतकवचनमुद्राभिः । धूर्तो मुष्णाति वधूं मुग्धां विप्रोषिते पत्यौ ॥ ९.५९ ॥ सजनेऽपि साधुवेषा विधृताभरणाश्च हेलया धूर्ताः । धीरा हरन्ति सकलं दृष्टे हासोऽन्यथाळ्लाभः ॥ ९.६० ॥ देशे कृत्वा स्फीते कुम्भधनो डम्बरैर्गृहं पूर्णम् । निःक्षेपलक्षहारी वर्षेण पलायते धूर्तः ॥ ९.६१ ॥ शुचितरकनकविभूषणतनुवस्त्राः संभ्रमेण पूज्यन्ते । रिपुभग्नराजपुत्रव्याजेन गृहे गृहे धूर्ताः ॥ ९.६२ ॥ आदाय देववृषभं पुण्यं छागं धूर्तविक्रीतं । मुग्धस्य दुःखपाकः समर्घलाभोदितो हर्षः ॥ ९.६३ ॥ साधिक्षेपत्यागो महतां संपत्सु यः कृतासूयः । तस्मै भयेन वित्तं रिक्तोऽपि ददाति यत्नेन ॥ ९.६४ ॥ निःसारभूर्जसारैः कृत्वा युक्तं महासार्थम् । धूर्तो दिशि दिशि विंचरन्धनिकसहस्राणि मुष्णाति ॥ ९.६५ ॥ धूर्तो वसन्विदेशेषूद्दिश्य सुरापगागयायात्राम् । मृतबन्धूनामार्थे द्रविणं गृह्णाति मुग्धेभ्यः ॥ ९.६६ ॥ मुष्णाति सार्थरमणी शाटीमादाय निद्रया मुग्धान् । धूर्तेन कूटरूपं दत्त्वा निशि वञ्च्यते सापि ॥ ९.६७ ॥ बधिरं वाळ्मूकं वाळ्वणिजं निःक्षिप्य भाण्डशालायाम् । धूर्तो नयति त्वरया बहुमूल्यं वर्णकद्रव्यम् ॥ ९.६८ ॥ किंचित्परिचयमात्रैः किंचिद्धार्ष्ट्यैः सकल्पनैः किंचित् । किंचिद्विवादकलहैः सर्वज्ञो वञ्चकश्चरति ॥ ९.६९ ॥ मिथ्याडम्बरधनिकः पुस्तकविद्वान्कथाज्ञानी । वर्णनशूरश्चपलः चतुर्मुखो जृम्भते धूर्तः ॥ ९.७० ॥ सर्वावयवविधूननकृतसंकेतान् विसृज्य गेहेषु । भोक्तुं व्रजति दिगन्तान्स्वेच्छाचारी महाधूर्तः ॥ ९.७१ ॥ शतवार्षिकमामलकं भुक्त्वा श्रीपर्वतादहं प्राप्तः । धूर्तो वदति गुरूणां पुरतः शकुनं स्मरामीति ॥ ९.७२ ॥ एता लेशेन मया कथिता मायाश्चतुःषष्टिः । को वेद वञ्चकानां मायानां शतसहस्राणि ॥ ९.७३ ॥ इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे नानाधूर्तवर्णनं नाम नवमः सर्गः सर्गः १० एता वञ्चकमाया विज्ञेया न तु पुनः स्वयं सेव्याः । धर्म्यः कलाकलापो विदुषामयमीप्सितो भूत्यैः ॥ १०.१ ॥ धर्मस्य कला ज्येष्ठा भूतदयाख्या परोपकारश्च । दानं क्षमानसूया सत्यमलोभः प्रसादश्च ॥ १०.२ ॥ अर्थस्य सदोत्थानं नियमपरीपालनं क्रियाज्ञानम् । स्थानत्यागः पटुतानुद्वेगः स्त्रीष्वविश्वासः ॥ १०.३ ॥ कामस्य वेषशोभा पेशलता चारुता गुणोत्कर्षः । नानाविधाश्च लीलाश्चित्तज्ञानं च कान्तानाम् ॥ १०.४ ॥ मोक्षस्य विवेकरतिः प्रशमस्तृष्णाक्षयश्च संतोषः । सङ्गत्यागः स्वलयस्थानं प्रमप्रकाशश्च ॥ १०.५ ॥ एताश्चतुष्टयकला द्वात्रिंशत्क्रमधृताः समस्ता वा । संसारवञ्चकानां विद्या विद्यावतामेव ॥ १०.६ ॥ मात्सर्यस्य त्यागः प्रियवादित्वं सधैर्यमक्रोधः । वैराग्यं च परार्थे सुखस्य सिद्धाः कलाः पञ्च ॥ १०.७ ॥ सत्सङ्गः कामजयः शौचं गुरुसंवेन सदाचारः । श्रुतममलं यशसि रतिर्मूलकलाः सप्त शीलस्य ॥ १०.८ ॥ तेजः सत्त्वं बुद्धिर्व्यवसायो नीतिरिङ्गितज्ञानम् । प्रागल्भ्यं सुसहायः कृतज्ञता मन्त्ररक्षणं त्यागः ॥ १०.९ ॥ अनुरागः प्रतिपत्तिर्मित्रार्जनमानृशंस्यमस्तम्भः । आश्रितजनवात्सल्यं सप्तदशकलाः प्रभावस्य ॥ १०.१० ॥ मौनमलौल्यमयाच्ञा मानस्य च जीवितं कलात्रितयम् । एताः कला विदग्धैः स्वगताः कार्याश्चतुःषष्टिः ॥ १०.११ ॥ शक्तविरोधे गमनं तत्प्रणतिर्वा बलोदये वैरम् । आर्तस्य धर्मचर्याळ्दुःखे धैर्यं सुखेष्वनुत्सेकः ॥ १०.१२ ॥ विभवेषु संविभागः सत्सु रतिर्मन्त्रसंशये प्रज्ञा । निन्द्येषु पराङ्मुखता भेषजमेतत्कलादशकम् ॥ १०.१३ ॥ गुरुवचनं सत्यानां कार्याणां गोद्विजातिसुरपूजा । लोभः पापतमानां क्रोधः सर्वोपतापजनकानाम् ॥ १०.१४ ॥ प्राज्ञ सर्वगुणानां यशस्विता विपुलवित्तविभावानाम् । सेवा दुःखतमानामाशा पृथुकालभुजगपाशानाम् ॥ १०.१५ ॥ दानं रत्ननिधीनां निर्वैरत्वं सुखप्रदेशानाम् । याच्ञा मानहराणां दारिद्र्यं चोपतापसार्थानाम् ॥ १०.१६ ॥ धर्मः पथेयानां सत्यं मुखपद्मपावनकराणाम् । व्यसनं रोगगणानामालस्यं गृहसमृद्धिनाशानाम् ॥ १०.१७ ॥ निःस्पृहता श्लाघ्यानां प्रियवचनं सर्वमधुराणाम् । दर्पस्तिमिरकराणां दम्भः सर्वोपहासपात्राणाम् ॥ १०.१८ ॥ अद्रोहः शौचानामचापलं व्रतविशेषनियमानाम् । पैशुन्यमप्रियाणां वृत्तिच्छेदो नृशम्सचरितानाम् ॥ १०.१९ ॥ कारुण्यं पुण्यानां कृतज्ञता पुरुषचिह्नानाम् । माया मोहमतीनां कृतघ्नता नरकपातहेतूनाम् ॥ १०.२० ॥ मदनश्चलचौराणां स्त्रीवचनं ज्ञातिभेदानाम् । क्रूरश्चण्डालानां मायावी कलियुगावताराणाम् ॥ १०.२१ ॥ शास्त्रं मणिदीपानामुपदेशश्चाभिषेकाणाम् । वृद्धत्वं क्लेशानां रोगित्वं मरणतुल्यदुःखानाम् ॥ १०.२२ ॥ स्नेहो विषमविषाणां वेश्यारागो विसर्पकुष्ठानाम् । भार्या गृहसाराणां पुत्रः परलोकबन्धूनाम् ॥ १०.२३ ॥ शात्रुः शल्यशतानां दुष्पुत्रः कुलविनाशानाम् । तारुण्यं रमणीनां रूपं रुचिरोपचारवेषाणाम् ॥ १०.२४ ॥ संतोषो राज्यानां सत्सङ्गश्चक्रवर्तिविभावानाम् । चिन्ता शोषकराणां विद्वेषः कोटराग्निदाहानाम् ॥ १०.२५ ॥ मैत्री विस्रम्भानां निर्यन्त्रणता महार्हभोगानाम् । संकोचो व्याधीनां कौटिल्यं निर्जलान्धकूपानाम् ॥ १०.२६ ॥ आर्जवममलकराणां विनयो वररत्नमुकुटानाम् । द्यूतं दुर्व्यसनानां स्त्रीजितता मरुतटीपिशाचानाम् ॥ १०.२७ ॥ त्यागो मणिवलयानां श्रुतमुज्ज्वलकर्णरत्नानाम् । खलमैत्री चपलानां दुर्जनसेवा वृथाप्रयासानाम् ॥ १०.२८ ॥ निर्वृतिरुद्यानानां प्रियदर्शनममृतवर्षाणाम् । तत्त्वरतिर्लभ्यानां मूर्खसभा सद्विवेकनाशानाम् ॥ १०.२९ ॥ कुलजः सफलतरूणां सौभाग्यं कृतयुगावताराणाम् । राजकुलं शङ्क्यानां स्त्रीहृदयं प्रकृतिकुटिलानाम् ॥ १०.३० ॥ औचित्यं स्तुत्यानां गुणरागश्चन्दनादिलेपानाम् । कन्याळ्शोककराणां बुद्धिविहीनोऽनुकम्प्यानाम् ॥ १०.३१ ॥ विभवः सौभाग्यानां जनरागः कीर्तिकन्दानाम् । मद्यं वेतालानां मृगया गजगहनयक्षाणाम् ॥ १०.३२ ॥ प्रशमः स्वास्थ्यकराणामात्मरतिस्तीर्थसेवानाम् । लुब्धः फलरहितानामाचारविवर्जितः श्मशानानाम् ॥ १०.३३ ॥ नीतिः स्त्रीरक्षणानामिन्द्रियविजयः प्रभावाणाम् । ईर्ष्या यक्ष्मशतानामयशः कुस्थमरणानाम् ॥ १०.३४ ॥ माता मङ्गल्यानां जनकः सुकृतोत्सवोपदेशानाम् । घातस्तीक्ष्णतराणां छेदस्तीक्ष्णासिशस्त्राणाम् ॥ १०.३५ ॥ प्रणतिर्मन्युहराणां सौहार्दं कृच्छ्रयाच्ञानाम् । मानः पुष्टिकराणां कीर्तिः संसारसाराणाम् ॥ १०.३६ ॥ प्रभुभक्तिर्नीतानां युधि निधनं सौख्यवीथीनाम् । विनयः कल्याणानामुत्साहः सर्वसिद्धीनाम् ॥ १०.३७ ॥ पुण्यं प्राप्यतमानां ज्ञानं परमप्रकाशानाम् । कीर्तिः सम्सारेऽस्मिन् सारतरा सर्वलोकानाम् ॥ १०.३८ ॥ ज्ञेयः कलाकलापे कुशलः सर्वार्थतत्त्वविज्ञानी । प्रवरतरो लोकेऽस्मिन् ब्राह्मण इव सर्ववर्णानाम् ॥ १०.३९ ॥ इत्युक्तं शतमेतद्यो वेत्ति शुभाशुभोदयकलानाम् । तस्यैव व्यवहारे दृष्टा दृष्टप्रयोजना लक्ष्मीः ॥ १०.४० ॥ उक्त्वेति मूलदेवो विसृज्य शिष्यान्कृतोचिताचारः । किरणकलिकाविकासां निनाय निजमन्दिरे रजनीम् ॥ १०.४१ ॥ केलीमयः स्मितविलासकलाभिरामः सर्वाश्रयान्तरकलाप्रकटप्रदीपः । लोकोपदेशविषयः सुकथाविचित्रो भूयात्सतां दयित एष कलाविलासः ॥ १०.४२ ॥ कलाविलासः क्षेमेन्द्रप्रतिभाम्भोधिनिर्गतः । शशीव मानसानन्दं करोतु सततं सताम् ॥ १०.४३ ॥ इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे सकलकलानिरूपणं नाम दशमः सर्गः