प्रथमः सर्गः सामोददामोदरः मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैर् नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय । इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ १.१ ॥ वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती । श्रीवासुदेवरतिकेलिकथासमेतं एतं करोति जयदेवकविः प्रबन्धं ॥ १.२ ॥ यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् । मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ १.३ ॥ वचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां जानीतेजयदेव एव शरणः श्लाघ्यो दुरूहद्रुतेः । शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन स्पर्धी कोऽपि न विश्रुतः स्रुतिधरो धोयी कविक्ष्मापतिः ॥ १.४ ॥ ***** प्रबन्धः १ ***** मालवगौडरागेण रूपकतलेन गियते । अष्टापदी । प्रलयपयोधिजले धृतवानसि वेदं विहितवहित्रचरित्रमखेदम् । केशव धृतमीनशरीर जय जगदीश हरे [ध्रुवपदम्] ॥ १.५ ॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे धरणीधरणकिनचक्रगरिष्ठे । केशव धृतकच्चपरूप जय जगदीश हरे ॥ १.६ ॥ वसति दशनशिखरे धरणी तव लग्ना शशिनि कलङ्ककलेव निमग्ना । केशव धृतसूकररूप जय जगदीश हरे ॥ १.७ ॥ तव करकमलवरे नखमद्भुतशृङ्गं दलितहिरण्यकशिपुतनुभृङ्गम् । केशव धृतनरहरिरूप जय जगदीश हरे ॥ १.८ ॥ छलयसि विक्रमणे बलिमद्भुतवामन पदनखनीरजनितजनपावन । केशव धृतवामनरुप जय जगदीश हरे ॥ १.९ ॥ क्षत्रीयरुधिरमये जगदपगतपापं स्नपयसि पयसि शमितभवतापम् । केशव धृतभृगुपतिरूप जय जगदीश हरे ॥ १.१० ॥ वितरसि दिक्षु रणे दिक्पतिकमनीयं दशमुखमौलिबलि रमणीयम् । केशव धृतरामशरीर जय जगदीश हरे ॥ १.११ ॥ वहसि वपुषि विषदे वसनं जलदाभं हलहतिभीतिमिलितयमुनाभम् । केशव धृतहलधररूप जय जगदीश हरे ॥ १.१२ ॥ निन्दसि यज्ञविधेरहह श्रुतिजातम् सदयहृदय दर्शितपशुघातम् । केशव धृतबुद्धशरीर जय जगदीश हरे ॥ १.१३ ॥ म्लेच्छनिवहनिधने कलयसि करवालं धूमकेतुमिव किमपि करालम् । केशव धृतकल्किशरीर जय जगदीश हरे ॥ १.१४ ॥ श्रिजयदेवकवेरिदमुदितमुदारं शृणु सुखदं शुभदं भवसारम् । केशव धृतदशविधरूप जय जगदीश हरे ॥ १.१५ ॥ * * * * * वेदानुद्धरते जगन्ति वहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते । पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ १.१६ ॥ ***** प्रबन्धः २ ***** गुर्जरीरागनिःसारता१आभ्यां गीयते । श्रितकमलाकुचमण्डल धृतकुण्डल ए कलितललितवनमाल जय जय देव हरे ॥ १.१७ ॥ [ध्रुवपदम्] दिनमणिमण्डलमण्डन भवखण्डन ए मुनिजनमानसहंस ज् अय जय देव हरे ॥ १.१८ ॥ कालियविषधरगञ्जन जनरञ्जन ए यदुकुलनलिनदिनेश जय जय देव हरे ॥ १.१९ ॥ मधुमुरनरकविनाशन गरुडासन ए । सुरकुलकेलिनिदान जय जय देव हरे ॥ १.२० ॥ अमलकमलदललोचन भवमोचन ए त्रिभुवनभुवननिधान जय जय देव हरे ॥ १.२१ ॥ जनकसुताकृतभूषण जितदूषण ए समरशमितदशकण्ठ जय जय देव हरे ॥ १.२२ ॥ अभिनवजलधरसुन्दर धृतमन्दर ए श्रीमुखचन्द्रचकोर जय जय देव हरे ॥ १.२३ ॥ तव चरणं प्रणता वयम् इति भावय ए कुरु कुशलं प्रणतेषु जय जय देव हरे ॥ १.२४ ॥ श्रीजयदेवकवेरिदं कुरुते मुदमे मङ्गलमुज्ज्वलगीतं जय जय देव हरे ॥ १.२५ ॥ * * * * * पद्मापयोधरतटीपरिरम्भलग्न कश्मीरमुद्रितमुरो मधुसूदनस्य । व्यक्तानुरागमिव खेलदनङ्गखेद स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ १.२६ ॥ वसन्ते वसन्तीकुसुमसुकुमारैरवयवैर् भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् । अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया वलद्बाढं राधां सरसमिदमूचे सहचरी ॥ १.२७ ॥ ***** प्रबन्धः ३ ***** वसन्तरागयतितालाभ्यां गीयते । ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे । मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ॥ १.२८ ॥ विहरति हरिरिह सरसवसन्ते नृत्यति युवतीजनेन समं सखि विरहिजनस्य दुरन्ते ** ध्रुवपदम् ** उन्मदमदनमनोरथपथिकवधूजनजनितविलापे । अलिकुलसङ्कुलकुसुमसमूहनिराकुलबकुलकलापे ॥ १.२९ ॥ मृगमदसौरभरभसवशंवदनवदलमालतमाले । युवजनहृदयविदारण मनसिजनखरुचिकिंशुकजाले ॥ १.३० ॥ मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकाशे । मिलितशिलिमुखपाटलपटलकृतस्मरतूणविलासे ॥ १.३१ ॥ विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे । विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे ॥ १.३२ ॥ माधविकपरिमलललिते नवमालतिजातिसुगन्धौ । मुनिमनसामपि मोहनकारीणि तरुणकरणबन्धौ ॥ १.३३ ॥ स्फुरदतिमुक्तलतापरिरम्भनमुकु१ तपुलकितचूते । वृन्दावनवीपिने परीसरपरिगतयमुनाजलपूते ॥ १.३४ ॥ श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् । सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् ॥ १.३५ ॥ * * * * * दरविदलितमल्लीवल्लिचञ्चत्पराग प्रकटितपटवासैर्वासयन् काननानि । इह हि दहति चेतः केतकीगन्धबन्धुः प्रसरदसमबाणप्राणवद्गन्धवाहः ॥ १.३६ ॥ उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वरः । नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण प्राप्तप्राणसमागमरसोल्लासैरमी वासराः ॥ १.३७ ॥ अनेकनारीपरिरम्भसम्भ्रम स्फुरण्मनोहारिविलासलालसम् । मुरारिमारादुपदर्शयन्त्यसौ सखी समक्षं पुनराह राधिकाम् ॥ १.३८ ॥ ***** प्रबन्धः ४ ***** रामकरीरागयतितालाभ्यां गीयते । चन्दनचर्चितनीलकलेवरपीतवसनवनमाली । केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली ॥ १.३९ ॥ हरिरिह मुग्धवधूनिकरे विलासिनि विलासति केलीपरे ** ध्रुवपदम् ** पीनपयोधरभारभरेण हरिं परिरभ्य सरागम् । गोपवधूरनुगायति काचिदुदञ्चितपरमरागम् ॥ १.४० ॥ कापि विलासविलोलविलोचनखेलनजनितमनोजम् । ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ १.४१ ॥ कपि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले । चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले ॥ १.४२ ॥ केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले । मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले ॥ १.४३ ॥ करतलतालतरलवलयावलिकलितकलस्वनवंशे । रासरसे सहनृत्यपरा हरिणयुवतीप्रशशंसे ॥ १.४४ ॥ श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् । पश्यति सस्मितचारुतरामपरामनुगच्छति वामाम् ॥ १.४५ ॥ श्रीजयदेवभणितमिदमद्भुतकेशवकेलिरहस्यम् । वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ १.४६ ॥ * * * * * विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् । स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥ १.४७ ॥ निजोत्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः । किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदयाद् उन्मीलन्ति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः ॥ १.४८ ॥ रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवाम् अभ्यर्णं परिरभ्य निर्भरमुरः प्रेमान्धया राधया । साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति व्याजादुद्भटचुम्बितः स्मृतमनोहारि हरिः पातु वः ॥ १.४९ ॥ द्वितीयः सर्गः अक्लेशकेशवः विहरति वने राधा साधारणप्रणये हरौ विगलितनिजोत्कर्षादीर्ष्यावशेन गताऽन्यतः । क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली मुखरशिखरे लीन दीनाप्युवाच रहः सखीम् ॥ २.१ ॥ ***** प्रबन्धः ५ ***** गुर्जरीरागेण यतितालेन गीयते । सञ्चरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् । चलितधृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् । रासे हरिमिह विहितविलास्ं स्मरति मनो मम कृतपरिहासम् [ध्रुवपदम्] ॥ २.२ ॥ चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् । प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥ २.३ ॥ गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् । बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ २.४ ॥ विपुलपुलकभुजपल्लववलयितबल्लवयुवतिसहस्रम् । करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ २.५ ॥ जलदपटलचलदिन्दुविनिन्दकचन्दनतिलकललाटम् । पीनपयोधरपरिसरमर्दननिर्दयहृदयकपाटम् ॥ २.६ ॥ मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् । पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ २.७ ॥ विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् । मामपि किमपि तरलतरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥ २.८ ॥ श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् । हरिचरणस्मरणं प्रति सम्प्रति पुण्यवतामनुरूपम् ॥ २.९ ॥ * * * * * गणयति गुणग्रामं भ्रामं भ्रामादपि नेहते वहति च परितोषं दोषं विमुञ्चति दूरतः । युवतिषु वलत्तृष्णे कृष्णे विहरति मां विना पुनरपि मनो वामं कामं करोति करोमि किम् ॥ २.१० ॥ ***** प्रबन्धः ६ ***** मालवगौडरागेन एकतालीतालेन च गीयते । निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् । चकीतविलोकितसकलदिशा रतिरभसभरेण हसन्तम् ॥ २.११ ॥ सखि हे केशीमथनमुदारम् रमय मया सह मदनमनोरथभावितया सविकारम् ** ध्रुवपदम् ** प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् । मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् ॥ २.१२ ॥ कीसलशयननिवेशितया चिरमुरसि ममैव शयानम् । कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् ॥ २.१३ ॥ अलसनिमीलितलोचनया पुलकावलिललितकपोलम् । श्रमजलसकलकलेवरया वरमदनमदादतिलोलम् ॥ २.१४ ॥ कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम् । श्लथकुसुमाकुलकुन्तलया नकहलिखितघनस्तनभारम् ॥ २.१५ ॥ चरणरणितमणिनूपुरया परिपूरितसुरतवितानम् । मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् ॥ २.१६ ॥ रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् । निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥ २.१७ ॥ श्रिजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् । सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलिलं ॥ २.१८ ॥ * * * * * हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् । मामुद्वीक्ष्य विलज्जितं स्मृतसुधामुग्धाननकानने गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥ २.१९ ॥ दुरालोकस्तोकस्तवकनवकशोकलतिका विकासः कासारोपवनपवनोऽपि व्यथयति । अपि भ्राम्यद्भृङ्गीरणितरमनीया न मुकुल प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥ २.२० ॥ सकूतस्मितमकुलाकुलगलद्धम्मिल्लमुल्लासित भ्रूवल्लीकमलीकदर्शितभुजामूलोर्ध्वहस्तस्तनम् । गोपीनां निभृतं निरीक्ष्य गमिताकाङ्क्षश्चिरं चिन्तयन्न् अन्तर्मुग्धमनोहरं हरतु वः क्लेशं नवः केशवः ॥ २.२१ ॥ तृतीयः सर्गः मुग्धमधुसूदनः कंसारिरपि संसारवासनाबद्धशृङ्खलाम् । राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ ३.१ ॥ इतस्ततस्तामनुसृत्य राधिकाम् अनङ्गबाणव्रणखिन्नमानसः । कृतानुतापः स कलिन्दनन्दिनी तटान्तकुञ्जे विषसाद माधवः ॥ ३.२ ॥ ***** प्रबन्धः ७ ***** गुर्जरीरागयतितालाभ्यां गीयते । मामियं चलिता विलोक्य वृतं वधूनिचयेन । सापराधतया मयापि न वारिताऽतिभयेन ॥ ३.३ ॥ हरि हरि हतादरतया गता सा कुपितेव ** ध्रुवपदम् ** किं करिष्यति किं वदिष्यति सा चिरं विरहेण । किं धनेन जनेन किं मम जीवितेन गृहेण ॥ ३.४ ॥ चिन्तयामि तदाननं कुटिलभ्रू कोपभरेण । शोनपद्ममिवोपरिभ्रमताकुलं भ्रमरेण ॥ ३.५ ॥ तामहं हृदि सङ्गतामनीशं भृशं रमयामि । किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ ३.६ ॥ तन्वि खिन्नमसूयया हृदयं तवाकलयामि । तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥ ३.७ ॥ दृश्यसे पुरतो गतागतमेव मे विदधासि । किं पुरेव ससम्भ्रमं परिरम्भणं न ददासि ॥ ३.८ ॥ क्षम्यतामपरं कदापि तवेदृशं न करोमि । देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥ ३.९ ॥ वर्णितं जयदेवकेन हरेरिदं प्रवणेन । किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥ ३.१० ॥ * * * * * हृदि बिसलताहरो नायं भुजङ्गमनायकह् कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः । मलयजरजो नेदं भस्म प्रियरहिते मयि प्रहर न हरभ्रान्त्याऽनङ्ग क्रुधा किमु धावसि ॥ ३.११ ॥ पाणौ मा कुरु चूतसायकममुं मा चापमारोपय कृईडानिर्जितवीश्व मूर्च्छितजनाघातेन किं पौरुषम् । तस्या एव मृगीदृशो मनसिज प्रेण्खत्कताक्षाशुग श्रेणीजर्जरितं मनागपि मनो नाद्यापि सन्धुक्षते ॥ ३.१२ ॥ भ्रूपल्लवं धनुरपाङ्गतरण्गितानि बाणा गुणः श्रवणपालिरिति स्मरेण । तस्यामनङ्गजयजङ्गमदेवतायाम् अस्त्राअणि निर्जितजगन्ति किमर्पितानि ॥ ३.१३ ॥ भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् । मोहं तावदयं च तन्वि तनुतां बिम्बधरो रागवान् सद्वृत्तः स्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति ॥ ३.१४ ॥ तानि स्पर्शसुखानि ते च तरलः स्निग्धा दृशोर्विभ्रमास् तद्वक्त्राम्बुजसौरभं स च सुधास्यन्दि गिरा वक्रिमा । स बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥ ३.१५ ॥ तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य वम्शोच्चरद् गीतस्थानकृतावधानललनालक्षैर्न सम्लक्षिताः । सम्मुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ सुधा सारे कन्दलिताश्चिरं ददतु वः क्षेमं कटाक्षोर्मयः ॥ ३.१६ ॥ चतुर्थः सर्गः स्निग्धमधुसूदनः यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् । प्राहप्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ ४.१ ॥ ***** प्रबन्धः ८ ***** कर्णाटरागैकतालीतालाभ्यां गीयते । निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् । व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥ ४.२ ॥ माधव मनसिजविशिखभयादिव भवदवनया त्वयि लीना । सा विरहे तव दीना ** ध्रुवपदम् ** अविरलनिपतितमदनशरादिव भवदवनाय वीशालम् । स्वहृदयमर्मणि वर्म करोति सजलनलिनीदलजालम् ॥ ४.३ ॥ कुसुमविशिखशरतल्पमनल्पविलासकलाकमणीयम् । व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ ४.४ ॥ वहति च चलितवि१ चनजलभरमाननकमतमुदारम् । विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ ४.५ ॥ विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् । प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ ४.६ ॥ ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् । विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ ४.७ ॥ प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहम् । त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ ४.८ ॥ श्रीजयदेवभणितमिदमधिकं यदि मनसा नटणीयम् । हरिविरहकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ ४.९ ॥ * * * * * आवासो विपिनायते प्रियसखीमलापि जालायते तापोऽपि श्वसितेन दावदहनज्वालकलापायते । सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयन् शार्दूलविक्रीडितम् ॥ ४.१० ॥ ***** प्रबन्धः ९ ***** देशाखरागैकतालीतालाभ्यां गीयते । स्तनविनिःितमपि हारमुदारम् । स मनुते कृशातनुरिव भारम् ॥ ४.११ ॥ राधिका तव विरहे केशव ** ध्रुवपदम् ** सरसमसृणमपि मलयजपङ्कम् । पश्याति विषमिव वपुषि सशङ्कम् ॥ ४.१२ ॥ श्वसितपवनमनुपमपरिणाहम् । मदनदहनमिव वहति सदाहम् ॥ ४.१३ ॥ दिशि दिशि किरति सजलकणजालम् । नयननलिनमिव विगलितनालम् ॥ ४.१४ ॥ त्यजति न पानितलेन कपोलम् । बालशशिनमिव सायमलोलम् ॥ ४.१५ ॥ नयनविषयमपि किसलयतल्पम् । कलयति विहितहुताशविकल्पम् ॥ ४.१६ ॥ हरिरिति हरिरिति जपति सकर्णम् । विरहविहितमरणेव निकामं ॥ ४.१७ ॥ स्रिजयदेवभणितमिति गीतम् । सुखयतु केशवपदमुपनीतम् ॥ ४.।१८ ॥ * * * * * स रोमाञ्चति सीत्करोति विलपत्युत्कम्पते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्यति मूर्च्छत्यपि । एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिमा प्रसीदसि यदि त्यक्तोऽन्यथा हस्तकः ॥ ४.१९ ॥ स्मरातुरं दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्यम् । निवृत्तबाधां कुरुषे न राधाम् उपेन्द्र वज्रादपि दारुणोऽसि ॥ ४.२० ॥ कन्दर्पज्वरसंज्वरातुरतनोरश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु सन्ताम्यति । किन्तु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ ४.२१ ॥ क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते । श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्रम् ॥ ४.२२ ॥ वृष्टिव्याकुलगोकुलवनरसादुद्धृत्य गोवर्धनं बिभ्रद्बल्लववल्लभाभिरधिकानन्दाच्चिरं चुम्बितः । दर्पेणेव तदर्पिताधरतटीसिन्दूरमुद्राङ्कितो बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसद्विषः ॥ ४.२३ ॥ पञ्चमः सर्गः साकाङ्क्षपुण्डरीकाक्षः अहमिह निवसामि याहि राधाम् अनुनय मद्वचनेन चानयेथाः । इति मधुरीपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ ५.१ ॥ ***** प्रबन्धः १० ***** देशीवराडिरागेण रूपकतालेन गीयते । वहति मलयसमीरे मदनमुपनिधाय । स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥ ५.२ ॥ तव विरहे वनमाली सखि सीदति ** ध्रुवपदम् ** दहति शिशिरमयूखे मरणमनुकरोति । पतति मदनविशिखे विलपति विकलतरोऽति ॥ ५.३ ॥ ध्वनति मधुपसमूहे श्रवणमपिदधाति । मनसि कलितविरहे निशि निसि रुजमुपयाति ॥ ५.४ ॥ वसति विपिनविताने त्यजति ललितधाम । लुठति धरणिशयने बहु विलपति तव नाम ॥ ५.५ ॥ भणति कविजयदेवे विरहविलसितेन । मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ ५.६ ॥ * * * * * पूर्वं यत्र समं त्वया रतिपतेरासादिताः सिद्धयस् तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः । ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलिं भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ ५.७ ॥ ***** प्रबन्धः ११ ***** गुर्जरीरागेण एकतालितालेन गीयते । रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् । न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥ धीरसमीरे यमुनातीरे वसति वने वनमलि [ध्रुवपदम्] ॥ ५.८ ॥ नामसमेतं कृतसङ्केतं वादयते मृदुवेणुम् । बहु मनुतेऽतनु ते तनुसङ्गतपवनचलितमपि रेणुम् ॥ ५.९ ॥ पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् । रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ ५.१० ॥ मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम् । चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ ५.११ ॥ उरसि मुरारेरुपहितहारे घन इव तरलबलाके । तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ ५.१२ ॥ विगलितवसनं परिहृतरशनं घटय जघनमपिदानम् । किसलयशयने पङ्कजनयने निधिमिव हर्षनिधानम् ॥ ५.१३ ॥ हरिरभिमाणी रजनिरिदानीमियमपि याति विरामम् । कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ ५.१४ ॥ श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् । प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयं ॥ ५.१५ ॥ * * * * * विकिरति मुहुः श्वासानाशाः पुरो मुहुरीक्षते प्रविशति मुहुः कुञ्जं गूञ्जन्मुहुर्बहु ताम्यति । रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ ५.१६ ॥ त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् । कोकानां करुणस्वनेन सदृशी दीर्घमदभ्यर्थना तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ ५.१७ ॥ आश्लेषादनु चुम्बनादनु नखोलेखादनु स्वान्तज प्रोद्बोधादनु सम्भ्रमादनु रतारम्भादनु प्रीतयोः । अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतोर् दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ ५.१८ ॥ सभयचकितं विन्यस्यन्तीं दृशं तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् । कथमपि रहः प्राप्तामङ्गैरनङ्गतरण्गिभिः सुमुखि सुभगः पश्यन् स त्वामुपैतु कृतार्थताम् ॥ ५.१९ ॥ राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः । स्वच्छन्दं व्रजसुन्दरीजनमनस्तोषप्रदोषोदयः कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः ॥ ५.२० ॥ षष्ठः सर्गः सोत्कण्ठवैकुण्ठः अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा । तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ ६.१ ॥ ***** प्रबन्धः १२ ***** गुणकरीरागेन रूपकतालेन गीयते । पश्यति दिशि दिशि रहसि भवन्तम् । तदधरमधुरमधूनि पिबन्तम् ॥ ६.२ ॥ नाथ हरे सीदति राधाऽवासगृहे ** ध्रुवपदम् ** त्वदभिसरणरभसेन वलन्ती । पतति पदानि कियन्ती चलन्ती ॥ ६.३ ॥ विहितविशदबिसकिसलयवलया । जीवति परमिह तव रतिकलया ॥ ६.४ ॥ मुहुरवलोकितमण्डनलीला । मधुरिपुरहमिति भावनशीला ॥ ६.५ ॥ त्वरितमुपैति न कथमभिसारम् । हरिरिति वदति सखीमनुवारम् ॥ ६.६ ॥ श्लिष्यति चुम्बति जलधरकल्पम् । हरिरुपगत इति तिमिरमनल्पम् ॥ ६.७ ॥ भवति विलम्बिनि विगलितलज्जा । विलपति रोदिति वासकसज्जा ॥ ६.८ ॥ श्रीजयदेवकवेरिदमुदितम् । रसिकजनं तनुतामतिमुदितम् ॥ ६.९ ॥ * * * * * विपुलपुलकपालिः स्फीतसीत्कारमन्तर् जनितजडिमम्काकुव्याकुलं व्याहरन्ती । तव कितव विधायामन्दकन्दर्पचिन्तां रसजलनिधिमग्ना ध्यानलग्ना मृगक्षी ॥ ६.१० ॥ अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि सञ्चारिणी प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति । इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ ६.११ ॥ किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि भ्रातर्यासि न दृष्टिगोचरमितः सानन्दनन्दास्पदम् । राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा गिरः ॥ ६.१२ ॥ सप्तमः सर्गः नागरनारायणः अत्रान्तरे च कुलटाकुलवर्त्मघाट सञ्जातपातक इव स्फुटलाञ्छनश्रीः । वृन्दावनान्तरमदीपयदंशुजालैर् दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ ७.१ ॥ प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा । विरचितविविधविलापं सपरितापं चकारोच्चैः ॥ ७.२ ॥ ***** प्रबन्धः १३ ***** मालवरागयतितालाभ्यां गीयते । कथितसमयेऽपि हरिरहह न ययौ वनम् । मम विफलमिदममलरूपमपि यौवनम् ॥ ७.३ ॥ यामि हे कमिह शरणं सखीजनवचनवञ्चिता ** ध्रुवपदम् ** यदनुगमनाय निशि गहनमपि शिलितम् । तेन मम हृदयमिदमसमशरकीलितम् ॥ ७.४ ॥ मम मरणमेव वरमिति वितथकेतना । किमिह विषहामि विरहानलमचेतना ॥ ७.५ ॥ मामहह विधुरयति मधुरमधुयामिनी । कापि हरिमनुभवति कृतसुकृतकामिनी ॥ ७.६ ॥ अहह कलयामि वलयादिमणिभूषणम् । हरिविरहदहनवहनेन बहुदूषणम् ॥ ७.७ ॥ कुसुमसुकुमारतनुमतनुशरलीलया । स्रगपि हृदि हन्ति मामतिविषमशिलया ॥ ७.८ ॥ अहमिह निवसामि नगणितवनवेतसा । स्मरति मधुसूदनो मामपि न चेतसा ॥ ७.९ ॥ हरिचरणशरणजयदेवकविभारती । वसतु हृदि युवतिरिव कोमलकलावती ॥ ७.१० ॥ * * * * * तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभिर् बद्धो बन्धुभिरन्धकारिणि वनाभ्यर्णे किमुद्भ्राम्यति । कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः सङ्केतीकृतमञ्जुवाञ्जुललताकुञ्जेऽपि यन्नागतः ॥ ७.११ ॥ अथागता माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् । विशङ्कमाना रमितं कयापि जनार्दनं दृष्टवदेतदाह ॥ ७.१२ ॥ ***** प्रबन्धः १४ ***** वसन्तरागयतितालाभ्यां गीयते । स्मरसमरोचितविरचितवेशा । गलितकुसुमदरविलुलितकेशा ॥ ७.१३ ॥ कापि मधुरिपुणा विलसति युवतिरधिकगुणा ** ध्रुवपदम् ** हरिपरिरम्भनचलितविकारा । कुचकलशोपरि तरलितहारा ॥ ७.१४ ॥ विचलदलकललिताननचन्द्रा । तदधरपानरभसकृततन्द्रा ॥ ७.१५ ॥ चञ्चलकुण्डलदलितकपोला । मुखरितरशनजघनगतिलोला ॥ ७.१६ ॥ दयितविलोकितलज्जितहसिता । बहुविधकूजितरतिरसरसिता ॥ ७.१७ ॥ विपुलपुलकपृथुवेपथुभङ्गा । श्वसितनिमीलितवकसदनङ्गा ॥ ७.१८ ॥ श्रमजलकणभरसुभगशरीरा । परिपतितोरसि रतिरणधीरा ॥ ७.१९ ॥ श्रीजयदेवभणितहरिरमितम् । कलिकलुषं जनयतु परिशमितम् ॥ ७.२० ॥ * * * * * विरहपाण्डुमुरारिमुखाम्बुज द्युतिरयं तिरयन्नपि वेदनाम् । विधुरतीव तनोति मनोभुवः सुहृदये हृदये मदनव्यथाम् ॥ ७.२१ ॥ ***** प्रबन्धः १५ ***** गुर्जरीरागैकतालितालेन गीयते । समुदितमदने रमणीवदने चुम्बनवलिताधरे । मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥ ७.२२ ॥ रमते यमुनापुलिनवने विजयी मुरारिरधुना ** ध्रुवपदम् ** घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने । कुरुबककुसुर्नं चपला सुषमं रतिपतिमृगकानने ॥ ७.२३ ॥ घटयति सुघने कुचयुगगगणे मृगमदरुचिरूषिते । मणिसरमर्नलं तारकपटलं नखपदशशिभूषिते ॥ ७.२४ ॥ जितबिसशकले मृदुभुजयुगले करतलनलिनीदले । मरकतवलयं मधुकरनिचयं वितरति हिमशितले ॥ ७.२५ ॥ रतिगृहजघने विपुलापघने मनस्त्जकनकासने । मणिमयतशनं तोरणहसनं विकिरति क्त्तवसने ॥ ७.२६ ॥ चरणकिसलये कमलनिलये नखमणिगणपूजिते । बहिरपवरणं यवकभरणं जनयति हृदियोजिते ॥ ७.२७ ॥ रमयति सुभृशं कमपि सुदृशं खलहलधरसोदरे । किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ ७.२८ ॥ इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके । कलियुगरचितं न वसतु दुरितं कविनृपजयदेवके ॥ ७.२९ ॥ * * * * * नयतः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् । पश्याद्य्प्रियसङ्गमाय दयितस्याकृष्यमाणं गुणैर् उत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ७.३० ॥ ***** प्रबन्धः १६ ***** देशवराडिरागेण रूपकतालेन गीयते । अनिलतरलकुवलयनयनेन । तपति न सा किसलयशयनेन ॥ ७.३१ ॥ सखि या रमिता वनमालिना ** ध्रुवपदम् ** विकसितसरसिजललितमुखेन । स्फुटति न स मनसिजविशिखेन ॥ ७.३२ ॥ अमृतमधुरमृदुतरवचनेन । ज्वलति न स मलयजपवनेन ॥ ७.३३ ॥ स्थलजलरुहरुचिकरचरणेन । लुठति न सा हिमकरकिरणेन ॥ ७.३४ ॥ सजलजलदसमुदयरुचिरेण । दलति न सा हृदि चिरविरहेण ॥ ७.३५ ॥ कनकनिकषरुचिशुचिवसनेन । श्वसिति न सा परिजनहसनेन ॥ ७.३६ ॥ सकलभुवनजनवरतरुणेन । वहति न सा रुजमतिकरुणेन ॥ ७.३७ ॥ श्रीजयदेवभणितवचनेन । प्रविशतु हरिरपि हृदयमनेन ॥ ७.३८ ॥ * * * * * मनोभवानन्दनचन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् । क्षणं जगत्प्राण निदाय माधवं पुरो मम प्राणहरो भविष्यसि ॥ ७.३९ ॥ रिपुरिव सखिसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिन् दुनोति मनोगते । हृदयमदये तस्मिन्नैवं पुनर्वलते बलात् कुवलयदृशां वामः कामो निकामनिरण्कुशः ॥ ७.४० ॥ बाधां विधेहि मलयानिल पञ्चबाण प्राणान् गृहाण न गृहं पुनराश्रयिष्ये । किं ते कृतान्तभगिनि क्षमया तरङ्गैर् अङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥ ७.४१ ॥ प्रातर्नीलनिचोलमच्युतमुरः संवीतपीतांशुकं राधायाश्चकितं विलोक्य हसति स्वैरं सखिमण्डले । व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः ॥ ७.४२ ॥ अष्टमः सर्गः विलक्ष्यलक्ष्मीपतिः अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते । अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् ॥ ८.१ ॥ ***** प्रबन्धः १७ ***** भैरविरागयतितालाभ्यां गीयते । रजनिजनितगुरुजागररागकषायितमलसनिवेशम् । वहति नयनमनुरागमिव स्फूमुदितरसभिनिवेशम् ॥ ८.२ ॥ हन् हरि याहि माधव याहि केशव मा वद कैतववादम् । तमनुसर सरसीरुहलोचन या तव हरति विषादम् ** ध्रुवपदम् ** कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् । दशनवसनमरुणं तव क्र्स्ण तनोति तनोरनुरूपं ॥ ८.३ ॥ वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम् । मरकतशकलकलितकलधौतलिपेरिव रतिजयलेखम् ॥ ८.४ ॥ चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् । दर्सयतीव बहिर्मदनद्रुर्ननवकिसलयपरिवारम् ॥ ८.५ ॥ दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् । कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् ॥ ८.६ ॥ बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् । कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् ॥ ८.७ ॥ भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् । प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥ ८.८ ॥ श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम् । शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥ ८.९ ॥ * * * * * तवेदं पश्यन्त्याः प्रसरदनुरागं बहिरिव प्रियपादालक्तच्छुरितमरुणद्योति हृदयम् । ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ ८.१० ॥ अन्तर्मोहनमौलिघूर्णनचलन्मन्दारविभ्रंशन स्तम्भाकर्षणदृप्तिहर्षणमहामन्त्रः कुरङ्गीदृशाम् । दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखपदां भ्रंशः कंसरिपोर्व्यपोहयतु वः श्रेयांसि वंशीरवः ॥ ८.११ ॥ नवमः सर्गः मुग्धमुकुन्दः तमथ मन्मथखिन्नां रतिरभसभिन्नां विषादसम्पन्नामनुचिन्तितहरिचरितां कलहान्तरितमुवाच रहसि सखी ॥ ९.१ ॥ ***** प्रबन्धः १८ ***** गुर्जरीरागयतितालाभ्यां गीयते । हरिरभिसरति वहति मधुपवने । किमपरमधिकसुखं सखि भवने ॥ ९.२ ॥ माधवे मा कुरु मानिनि मानमये ** ध्रुवपदम् ** तालफलादपि गुरुमतिसरसम् । किं विफलीकुरुषे कुचकलशम् ॥ ९.३ ॥ कति न कथितमिदमनुपदमचिरम् । मा परिहर हरिमतीशयरुचिरम् ॥ ९.४ ॥ किमिति विषीदसि रोदिषि विकला । विहसति युवतीसभा तव सकला ॥ ९.५ ॥ सजलनलिनीदलशीतलशयने । हरिमवलोकय सफलय नयने ॥ ९.६ ॥ जनयसि मनसि किमिति गुरुखेदम् । शृणु मम वचनमनीहितभेदम् ॥ ९.७ ॥ हरिरुपयातु वदतु बहुमधुरम् । किमिति करोषि हृदयमतिविधुरम् ॥ ९.८ ॥ श्रीजयदेवभणितमतिललितम् । सुखयतु रसिकजनं हरिचरितं ॥ ९.९ ॥ * * * * * स्निग्धे यत्परुषासि प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन् प्रिये । तद्युक्तं विपरीतकारिणि तव श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ ९.१० ॥ सान्द्रानन्दपुरंदरादिदिविषद्वृन्दैरमन्दादराद् आनम्रैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दिवरम् । स्वच्छन्दं मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरं श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे ॥ ९.११ ॥ दशमः सर्गः चतुरचतुर्भुजः अत्रान्तरेऽमसृणरोषवशामपार निःश्वासनिःसहमुखीं सुमुखीमुपेत्य । सव्रीडमीक्षितसखीवदनां दिनान्ते सानन्दगद्गदपदं हरिरित्युवच ॥ १०.१ ॥ ***** प्रबन्धः १९ ***** देशवराडिरागाष्टातालीतालाभ्यां गीयते । वदसि यदि किञ्चिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् । स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयतु लोचनचकोरं ॥ १०.२ ॥ प्रिये चारुशीले मुञ्च मयि मानमनिदानम् । सपदि मदनानलो दहति मम मानसम् देहि मुखकमलमधुपानं ** ध्रुवपदम् ** सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनखरशरघातम् । घटय भुजबन्धनं जनय रदखण्डनं येन वा भवति सुखजातं ॥ १०.३ ॥ त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि मम भवजलधिरत्नम् । भवतु भवतीह मयि सततमनुरोधिनी तत्र मम हृदयमतियत्नं ॥ १०.४ ॥ नीलनलिनाभमपि तन्वि तव लोचनं धारयति कोकनदरूपम् । कुसुमशरबाणभावेन यदि रञ्जयसि कृष्णमिदमेतदनुरूपम् ॥ १०.५ ॥ स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी रञ्जयतु तव हृदयदेशम् । रसतु रशनापि तव घनजघनमण्डले घोषयतु मन्मथनिदेशम् ॥ १०.६ ॥ स्थलकमलगञ्जनं मम हृदयरञ्जनं जनितरतिरङ्गपरभागम् । भण मसृणवाणि करवाणि चरणद्वयं सरसलसदलक्तकरागम् ॥ १०.७ ॥ स्मरगरलखण्डनं मम शिरसि मण्डनं देहि पदपल्लवमुदारम् । ज्वलति मयि दारुणो मदनकदनारुणो हरतु तदुपाहितविकारम् ॥ १०.८ ॥ इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् । जयतु जयदेवकविभारतीभूषितं मानिनीजनजनितशातम् ॥ १०.९ ॥ * * * * * परिहर कृतातङ्के शङ्कां त्वया सततं घन स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनी । विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं प्रणयिनि परीरम्भारम्भे विधेहि विधेयताम् ॥ १०.१० ॥ मुग्धे विधेहि मयि निर्दयदन्तदंश दोर्वल्लिबन्धनिविडस्तनपीडनानि । चण्डि त्वमेव मुदमुद्वह पञ्चबाण चाण्डालकाण्डदलनादसवः प्रयान्ति ॥ १०.११ ॥ शशिमुखि तव भाति भङ्गुरभ्रूर् युवजनमोहकरालकालसर्पी । तदुदितभयभञ्जनाय यूनां त्वदधरसीधुसुधैव सिद्धमन्त्रः ॥ १०.१२ ॥ व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं तरुणि मधुरालापैस्तापं विनोदय दृष्टिभिः । सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्च मां स्वयमतिशयस्निग्धो मुग्धे प्रियोऽयमुपस्थितः ॥ १०.१३ ॥ बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्छविर् गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् । नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ १०.१४ ॥ दृशौ तव मदालसे वदनमिन्दुसन्दीपनं गतिर्जनमनोरमा विजितारम्भमूरुद्वयम् । रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवाव् अहो विबुधयौवतं वहसि तन्वि पृथ्वीगता ॥ १०.१५ ॥ स प्रीतिं तनुतां हरिः कुवलयापीडेन सार्धं रणे राधापीनपयोधरस्मरणकृत्कुम्भेन सम्भेदवान् । यत्र स्विद्यति मीलति क्षणमपि क्षिप्रं तदालोकन व्यामोहेन जितं जितं जितमभूत्कंसस्य कोलाहलः ॥ १०.१६ ॥ एकादशः सर्गः सानन्ददामोदरः सुचिरमनुनयेन प्रीणयित्वा मृगाक्षीं गतवति कृतवेशे केशवे कुञ्जशय्याम् । रचितरुचिरभूषां दृष्टिमोषे प्रदोषे स्फुरति निरवसादं कापि राधां जगाद ॥ ११.१ ॥ ***** प्रबन्धः २० ***** वसन्तरागयतितालाभ्यां गीयते । विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् । सम्प्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातं ॥ ११.२ ॥ मुग्धे मधुमथनमनुगतमनुसर राधिके ** ध्रुवपदम् ** घनजघनस्तनभारभरे दरमन्थरचरणविहारम् । मुखरितमणिमञ्जीरमुपैहि विधेहि मरालविकारम् ॥ ११.३ ॥ शृणु रमणीयतरं तरुणीजनमोहनमधुपविरावम् । कुसुमशरासनशासनबन्दिनि पिकनिकरे भज भावम् ॥ ११.४ ॥ अनिलतरलकिसलयनिकरेण करेण लतानिकुरम्बम् । प्रेरणमिव करभोरु करोति गतिं प्रति मुन्च विलम्बम् ॥ ११.५ ॥ स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् । पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् ॥ ११.६ ॥ अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् । चण्डि रसितरशनारवडिण्डिममभिसर सरसमलज्जम् ॥ ११.७ ॥ स्मरशरसुभगनखेन सखीमवलम्ब्य करेण सलीलम् । चल वलयक्वणितैरवबोधय हरिमपि निजगतिशीलं ॥ ११.८ ॥ श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् । हरिविनिःितमनसामधितिष्ठतु कण्ठतटीमविरामम् ॥ ११.९ ॥ * * * * * सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः । स त्वां पश्याति वेपते पुलकयत्यानन्दति स्विद्यति प्रत्युद्गच्छति मूर्च्छति स्थिरतमह्पुञ्जे निकुञ्जे प्रीयः ॥ ११.१० ॥ अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलिं मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम् । धूर्तानामभिसरसम्भ्रमजूषां विष्वङ्निकुञ्जे सखि ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमलिङ्गति ॥ ११.११ ॥ काश्मीरगौरवपुषमभिसारिकानां आबद्धरेखमभितो रुचि मञ्जरीभिः । एतत्तमालदलनीलतमं तमिस्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥ ११.१२ ॥ हारावलीतरलकाञ्चनकाञ्चिदाम केयूरकङ्कणमणिद्युतिदीपितस्य । द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य ब्रीडावतिमथ सखीमीयमित्युवच ॥ ११.१३ ॥ ***** प्रबन्धः २१ ***** वराडिरागरूपकतालाभ्यां गीयते । मञ्जुतरकुञ्जतलकेलिसदने । विलस रतिरभसहसितवदने ॥ ११.१४ ॥ प्रविश राधे माधवसमीपमिह ** ध्रुवपदम् ** नवलसदशोकदलशयनसारे । विलस कुचकलशतरलहारे ॥ ११.१५ ॥ कुसुमचयरचितशुचिवासगेहे । विलस कुसुमसुकुमारदेहे ॥ ११.१६ ॥ मृदुचलमलयपवनसुरभिशीते । विलस मदनशरनिकरभीते ॥ ११.१७ ॥ विततबहुवल्लिनवपल्लवघने । विलस चिरमलसपीनजघने ॥ ११.१८ ॥ मधुमुदितमधुपकुलकलितरावे । विलस मदनरससरसभावे ॥ ११.१९ ॥ मधुरतरपीकनिकरनिनदमुखरे । विलस दशनरुचिरुचिरशिखरे ॥ ११.२० ॥ विहितपद्मावतिसुखसमाजे । कुरु मुरारे मङ्गलशतानि । भणति जयदेवकविराजराजे ॥ ११.२१ ॥ * * * * * त्वं चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः कन्दर्पेण च पातुमिच्छति सुधासम्बाधबिम्बाधरम् । अस्याङ्कं तदलङ्कुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव क्रीते दास इवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ ११.२२ ॥ स ससाध्वससानन्दं गोविन्दे लोललोचना । सिञ्जानमञ्जुमञ्जीरं प्रविवेशाभिवेशनम् ॥ ११.२३ ॥ ***** प्रबन्धः २२ ***** वराडिरागयतितालाभ्यां गीयते । राधावदनविलोकनविकसितविविधविकारविभङ्गम् । जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् ॥ ११.२४ ॥ हरिमेकरसं चिरमभिलषितविलासम् । सा ददर्श गुरुहर्षवशंवदवदनमनङ्गनिवासं ** ध्रुवपदम् ** हारममलतरतारमुरसि दधतं परिलम्ब्य विदूरम् । स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम् ॥ ११.२५ ॥ श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम् । नीलनलिनमिव पितपरागपटलभरवलयितमूलम् ॥ ११.२६ ॥ तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम् । स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् ॥ ११.२७ ॥ वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् । स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥ ११.२८ ॥ शशिकिरणच्छुरितोदरजलधरसुन्दरसकुसुमकेशम् । तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशम् ॥ ११.२९ ॥ वीपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् । मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥ ११.३० ॥ श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् । प्रणमत हृदि विनिधाय हरिं सुचिरं सुकृतोदयसारम् ॥ ११.३१ ॥ * * * * * अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन प्रयासेनेवाक्ष्णोस्तरलतरतारं गमितयोः । इदानीं राधायाः प्रियतमसमालोकसमये पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः ॥ ११.३२ ॥ भजन्त्यास्तल्पान्तं कृतकपटकण्टूतिपिहित स्मितं याते गेहाद्बहिरवहितालीपरिजने । प्रियास्यं पश्यन्त्याः स्मरपरवशाकूतसुभगं सलज्जालज्जापि व्यगमदिव दूरं मृगदृशः ॥ ११.३३ ॥ सानन्दं नन्दसूनुर्दिशतु मितपरं संमदं मन्दमन्दं राधामाधाय बाह्वोर्विवरमनु द्र्ढं पीडयन् प्रीतियोगात् । तुङ्गौ तस्या उरोजावतनुवरतनोर्निर्गतौ मा स्म भूतां पृष्ठं निर्भिद्य तस्माद्बहिरिति वलितग्रीवमालोकयन् वः ॥ ११.३४ ॥ जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव । भुजापीडक्रीडाहतकुवलयापीडकरिणः प्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजितः ॥ ११.३५ ॥ सौन्दर्यैकनिधेरनङ्गललनालावण्यलीलाजुषो राधाया हृदि पल्वले मनसिजक्रीडैकरङ्गस्थले । रम्योरोजसरोजखेलनरसित्वादात्मनः ख्यापयन् ध्यातुर्मानसराजहंसनिभतां देयान्मुकुन्दो मुदम् ॥ ११.३६ ॥ द्वादशः सर्गः सुप्रीतपीताम्बरः गतवति सखीवृन्देऽमन्दत्रपाभरनिर्भर स्मरपरवशाकूतस्फीतस्मितस्नपिताधरम् । सरसमानसं दृष्ट्वा राधां मुहुर्नवपल्लव प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियाम् ॥ १२.१ ॥ ***** प्रबन्धः २३ ***** विभासरागैकतालिता१आभ्यां गीयते । किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् । तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशं ॥ १२.२ ॥ क्षणमधुना नारायणमनुगतमनुसर राधिके ** ध्रुवपदम् ** करकमलेन करोमि चरणमहमागमितासि विदूरम् । क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ १२.३ ॥ वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् । विरहमिवापनयामि पयोधररोधकमुरसि दुकूलं ॥ १२.४ ॥ प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् । मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ १२.५ ॥ अधरसुधारसमुपनय भामिनि जीवय मृतमिव दासम् । त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ १२.६ ॥ शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिनादम् । श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ १२.७ ॥ मामतिविफलरुषा विकलीकृतमवलोकितुमधुनेदम् । लज्जितमिव नयनं तव विरमति विसृज वृथा रतिखेदम् ॥ १२.८ ॥ श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् । जनयतु रसिकजनेषु मनोरमरतिरसभावविनोदम् ॥ १२.९ ॥ * * * * * प्रत्यूहपुलकाङ्कुरेण निविडलेशनिमेषेण च क्रीडाकूतविलोकितेऽधरसुधापाने कथाकेलिभिः । आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभुद् उद्भूतः स तयोर्बभूव सुरतारम्भः प्रियम्भावुकः ॥ १२.१० ॥ दोर्भ्यां संयमितः पयोधरभरेणापीडितः पाणिजैर् आविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाहतः । हस्तेनानमितः कचेऽधरमधुस्यन्देन संमोहितः कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः ॥ १२.११ ॥ माराङ्के रतिकेलिसङ्कुलरणारम्भे तया साहस प्रायं कान्तजयाय किंचिदुपरि प्रारम्भि यत्सम्भ्रमात् । निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिरुत्कम्पितं वक्षो मिलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ १२.१२ ॥ तस्याः पाटलपाणिजाङ्कितमुरो निद्राकाषाये दृशौ निर्धौताधरशोनिमा विलुलितस्रस्तस्रजो मूर्धजः । काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निखातैर्दृशोर् एभिः कामशरैस्तदद्भुतमभूत्पत्युर्मनः कीलितं ॥ १२.१३ ॥ व्यालोलः केशपाशस्तरलितमलकैः स्वेदमोक्षौ कपोलौ क्लिष्टा बिम्बाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः । काञ्चीकान्तिर्हताशा स्तनजघनपदं पाणिनाच्छद्य सद्यः पश्यन्ती सत्रपा सा तदपि विलुलिता मुग्धकन्तिर्धिनोति ॥ १२.१४ ॥ ईषन्मीलितदृष्टि मुग्धविलसत्शीत्कारधारावशाद् अव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरम् । शान्तस्तब्धपयोधरं भृशपरिष्वङ्गात्कुरङ्गीदृशो हर्षोत्कर्षविमुक्तनिःसहतनोर्धन्यो धयत्याननं ॥ १२.१५ ॥ अथ सहसा सुप्रीतं सुरतान्ते सा नितान्तखिन्नाङ्गि । राधा जगाद सादरमिदमानन्देन गोविन्दम् ॥ १२.१६ ॥ ***** प्रबन्धः २४ ***** रामकरिरागयतितालाभ्यां गीयते । कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे । मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे ॥ १२.१७ ॥ निजगाद सा यदुनन्दने क्रीडति हृदयनन्दने ** ध्रुवपदम् ** अलिकुलगञ्जनमञ्जनकं रतिनायकसायकमोचने । त्वदधरचुम्बनलम्बितकज्जल उज्ज्वलय प्न्य लोचने ॥ १२.१८ ॥ नयनकुरङ्गतरङ्गविकसनिरासकरे श्रुतिमण्डले । मनसिजपाशविलासधरे शुभवेश निवेशय कुण्डले ॥ १२.१९ ॥ भ्रमरचयं रचयन्तमुपरि रुचिरं सुचिरं मम सम्मुखे । जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥ १२.२० ॥ मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनिकरे । विहितकलङ्ककलं कमलानन विश्रमितश्रमसीकरे ॥ १२.२१ ॥ मम रुचिरे चिकुरे कुरु मानद मनसिजध्वजचामरे । रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे ॥ १२.२२ ॥ सरसघने जघने मम शम्बरदारणवारणकन्दरे । मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे ॥ १२.२३ ॥ श्रीजयदेववचसि रुचिरे सदयं हृदयं कुरु मण्डने । हरिचरणस्मरणामृतनिर्मितकलिकलुषज्वरखण्डने ॥ १२.२४ ॥ * * * * * रचय कुचयोश्चित्रं पत्रं कुरुष्व कपोलयोर् घटय जघने काञ्चीं मुग्धस्रजा कबरिभरम् । कलय वलयश्रेणीं पाणौ पदे मणिनूपुराव् इति निगदितः प्रीतः पिताम्बरोऽपि तथाकरोत् ॥ १२.२५ ॥ पर्यङ्कीकृतनागनायकफणाश्रेणीमणीनां गणे सङ्क्रान्तप्रतिबिम्बसम्वलनया बिभ्रद्विभुप्रक्रियाम् । पादाम्भोरुहधारिवारिधिसुतामक्ष्णां दिदृक्षुः शतैः कायव्यूहमिवचरन्नपचितौ भूयो हरिः पातु वः ॥ १२.२६ ॥ त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे शङ्के सुन्दरि कालकूटमपिबन्मूढो मृदानीपतिः । इत्थं पूर्वकथाभिरन्यमनसा विक्षिप्य वक्षोऽञ्चलं राधायाः स्तनकोरकोपरिमिलन्नेत्रो हरिः पातु वः ॥ १२.२७ ॥ यद्गान्धर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृङ्गारविवेकतत्त्वरचनाकाव्येषु लीलायितम् । तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रिगीतगोविन्दतः ॥ १२.२८ ॥ साधूनां स्वत एव संमतिरिह स्यादेव भक्त्यार्थिनाम् आलोच्य ग्रथनश्रमं च विदुसामस्मिन् भवेदादरः । ये केचित्परकृत्युपश्रुतिपरास्तानर्थये मत्कृतिं भूयो वीक्ष्य वदन्तो अवद्यमिह चेत्सा वासना स्थास्यति ॥ १२.२९ ॥ श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य । पराशरादिप्न्यवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥ १२.३० ॥ साध्वी माध्वीक चिन्ता न भवति भवतः शर्करे कर्कशासि द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीर नीरं रसस्ते । माकन्द क्रन्द कान्ताधर धर न तुलां गच्छ यच्छन्ति भावं यावच्छृङ्गारसारं शुभमिव जयदेवस्य वैदग्ध्यवाचः ॥ १२.३१ ॥ इत्थं केलिततिर्विहृत्य यमुनाकूले समं राधया तद्रोमावलिमौक्तिकावलियुगे वेणीभ्रमं बिभ्रति । तत्राह्लादिकुचप्रयागफलयोर्लिप्सावतोर्हस्तयोर् व्यापाराअ पुरुषोत्तमस्य ददतु स्फीतां मुदं सम्पदं ॥ १२.३२ ॥