अद्यापि तां कनकचम्पकदामगौरीं फुल्लारविन्दवदनां तनुरोमराजीम् । सुप्तोत्थितां मदनविह्वललालसाङ्गीं विद्यां प्रमादगुणितामिव चिन्तयामि ॥ १ ॥ अद्यापि तां शशिमुखीं नवयौवनाढ्यां पीनस्तनीं पुनरहं यदि गौरकान्तिम् । पश्यामि मन्मथशरानलपीडिताङ्गीं गात्राणि संप्रति करोमि सुशीतलानि ॥ २ ॥ अद्यापि तां यदि पुनः कमलायताक्षीं पश्यामि पीवरपयोधरभारखिन्नाम् । संपीड्य बाःुयुगलेन पिबामि वक्त्रमुन्मत्तवन्मधुकरः कमलं यथेष्टम् ॥ ३ ॥ अद्यापि तां निधुवनक्लमनिःसहाङ्गीमापाण्डुगण्डपतितालककुन्तलालिम् । प्रच्छन्नपापकृतमन्थरमावहन्तीं कण्ठावसक्तबाहुलतां स्मरामि ॥ ४ ॥ अद्यापि तां सुरतजागरघूर्णमान तिर्यग्वलत्तरलतारकमायताक्षीम् । शृङ्गारसारकमलाकरराजहंसीं व्रीडाविनम्रवदनामुषसि स्मरामि ॥ ५ ॥ अद्यापि तां यदि पुनः श्रवणायताक्षीं पश्यामि दीर्घविरहज्वरिताङ्गयष्टिम् । अङ्गैरहं समुपगुह्य ततोऽतिगाढं नोन्मीलयामि नयने न च तां त्यजामि ॥ ६ ॥ अद्यापि तां सुरतताण्डवसूत्रधारीं पूर्णेन्दुसुन्दरमुखीं मदविह्वलाङ्गीम् । तन्वीं विशालजघनस्तनभारनम्रां व्यालोलकुन्तलकलापवतीं स्मरामि ॥ ७ ॥ अद्यापि तां मसृणचन्दनपङ्कमिश्र- कस्तूरिकापरिमलोत्थविसर्पिगन्धाम् । अन्योन्यचञ्चुपुटचुम्बनलग्नपक्ष्म युग्माभिरामनयनां शयने स्मरामि ॥ ८ ॥ अद्यापि तां निधुवने मधुपानरक्तां लीलाधरां कृशतनुं चपलायताक्षीम् । काश्मीरपङ्कमृगनाभिकृताङ्गरागां कर्पूरपूगपरिपूर्णमुखीं स्मरामि ॥ ९ ॥ अद्यापि तत्कनकगौरकृताङ्गरागं प्रस्वेदबिन्दुविततं वदनं प्रियायाः । अन्ते स्मरामि रतिखेदविलोलनेत्रं राहूपरागपरिमुक्तमिवेन्दुबिम्बम् ॥ १० ॥ अद्यापि तन्मनसि संपरिवर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या । जीवेति मङ्गलवचः परिहृत्य कोपात्कर्णे कृतं कनकपत्रमनालपन्त्या ॥ ११ ॥ अद्यापि तत्कनककुण्डलघृष्टगण्डमास्यं स्मरामि विपरीतरताभियोगे । आन्दोलनश्रमजलस्फुटसान्द्रबिन्दु मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ १२ ॥ अद्यापि तत्प्रणयभङ्गगुरुदृष्टिपातं तस्याः स्मरामि रतिविभ्रमगात्रभङ्गम् । वस्त्राञ्चलस्खलतचारुपयोधरान्तं दन्तच्छदं दशनखण्डनमण्डनं च ॥ १३ ॥ अद्याप्यशोकनवपल्लवरक्तहस्तां मुक्ताफलप्रचयचुम्बितचूचुकाग्राम् । अन्तः स्मितोच्छ्वसितपाण्डुरगण्डभित्तिं तां वल्लभामलसहंसगतिं स्मरामि ॥ १४ ॥ अद्यापि तत्कनकरेणुघनोरुदेशे न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः । आकृष्टहेमरुचिराम्बरमुत्थिताया लज्जावशात्करघृतं च ततो व्रजन्त्याः ॥ १५ ॥ अद्यापि तां विधृतकज्जललोलनेत्रां पृथ्वीं प्रभूतकुसुमाकुलकेशपाशाम् । सिन्दूरसंलुलितमौक्तिकदन्तकान्तिमाबद्धहेमकटकां रहसि स्मरामि ॥ १६ ॥ अद्यापि तां गलितबन्धनकेशपाशां स्रस्तस्रजं स्मितसुधामधुराधरौष्ठीम् । पीनोन्नतस्तनयुगोपरिचारुचुम्बन्मुक्तावलीं रहसि लोलदृशं स्मरामि ॥ १७ ॥ अद्यापि तां धवलवेश्मनि रत्नदीप मालामयूखपटलैर्दलितान्धकारे । प्राप्तोद्यमे रहसि संमुखदर्शनार्थं लज्जाभयार्थनयनामनुचिन्तयामि ॥ १८ ॥ अद्यापि तां विरहवह्निनिपीडिताङ्गीं तन्वीं कुरङ्गनयनां सुरतैकपात्रीम् । नानाविचित्रकृतमण्डनमावहन्तीं तां राजहंसगमनां सुदतीं स्मरामि ॥ १९ ॥ अद्यापि तां विहसितां कुचभारनम्रां मुक्ताकलापधवलीकृतकण्ठदेशाम् । तत्केलिमन्दरगिरौ कुसुमायुधस्य कान्तां स्मरामि रुचिरोज्ज्वलपुष्पकेतुम् ॥ २० ॥ अद्यापि तां चाटुशतदुर्ललितोचितार्थं तस्याः स्मरामि सुरतक्लमविह्वलायाः । अव्यक्तनिःस्वनितकातरकथ्यमान संकीर्णवर्णरुचिरं वचनं प्रियायाः ॥ २१ ॥ अद्यापि तां सुरतघूर्णनिमीलिताक्षीं स्रस्ताङ्गयष्टिगलितांशुककेशपाशाम् । शृङ्गारवारिरुहकाननराजहंसीं जन्मान्तरेऽपि निधनेऽप्यनुचिन्तयामि ॥ २२ ॥ अद्यापि तां प्रणयिनीं मृगशावकाक्षीं पीयूषपुर्णकुचकुम्भयुगं वहन्तीम् । पश्याम्यहं यदि पुनर्दिवसावसाने स्वर्गापवर्गनरराजसुखं त्यजामि ॥ २३ ॥ अद्यापि तां क्षितितले वरकामिनीनां सर्वाङ्गसुन्दरतया प्रथमैकरेखाम् । शृङ्गारनाटकरसोत्तमपानपात्रीं कान्तां स्मरामि कुसुमायुधबाणखिन्नाम् ॥ २४ ॥ अद्यापि तां स्तिमितवस्त्रमिवाङ्गलग्नां प्रौढप्रतापमदनानलतप्तदेहम् । बालामनाथशरणामनुकम्पनीयां प्राणाधिकां क्षणमहं न हि विस्मरामि ॥ २५ ॥ अद्यापि तां प्रथमतो वरसुन्दरीणां स्नेहैकपात्रघटितामवनीशपुत्रीम् । हंहोजना मम वियोगहुताशनोऽयं सोढुं न शक्यतेति प्रतिचिन्तयामि ॥ २६ ॥ अद्यापि विस्मयकरीं त्रिदशान् विहाय बुद्धिर्बलाच्चलति मे किमहं करोमि । जानन्नपि प्रतिमुहूर्तमिहान्तकाले कान्तेति वल्लभतरेति ममेति धीरा ॥ २७ ॥ अद्यापि तां गमनमित्युदितं मदीयं श्रुत्वैव भीरुहरिणीमिव चञ्चलाक्षीम् । वाचः स्खलद्विगलदाश्रुजलाकुलाक्षीं संचिन्तयामि गुरुशोकविनम्रवक्त्राम् ॥ २८ ॥ अद्यापि तां सुनिपुणं यतता मयापि दृष्टं न यत्सदृशतोवदनं कदाचित् । सौन्दर्यनिर्जितरति द्विजराजकान्ति कान्तामिहातिविमलत्वमहागुणेन ॥ २९ ॥ अद्यापि तां क्षणवियोगविषोपमेयां सङ्गे पुनर्बहुतराममृताभिषेकाम् । तां जीवधारणकरीं मदनातपत्रामुद्वत्तकेशनिवहां सुदतीं स्मरामि ॥ ३० ॥ अद्यापि वासगृहतो मयि नीयमने दुर्वारभीषणकरैर्यमदूतकल्पैर् । किं किं तया बहुविधं न कृतं मदर्थे वक्तुं न पार्यतेति व्यथते मनो मे ॥ ३१ ॥ अद्यापि मे निशि दिवाट् हृदयं दुनोति पूर्णेन्दुसुन्दरमुखं मम वल्लभायाः । लावण्यनिर्जितरतिक्षतिकामदर्पं भूयः पुरः प्रतिपदं न विलोक्यते यत् ॥ ३२ ॥ अद्यापि तामवहितां मनसाचलेन संचिन्तयामि युवतीं मम जीविताशाम् । नान्योपभुक्तनवयौवनभारसारां जन्मान्तरेऽपि मम सैव गतिर्यथा स्यात् ॥ ३३ ॥ अद्यापि तद्वदनपङ्कजगन्धलुब्ध भ्राम्यद्द्विरेफचयचुम्बितगण्डदेशाम् । लीलावधूतकरपल्लवकङ्कणानां क्वाणो विमूर्च्छति मनः सुतरां मदीयम् ॥ ३४ ॥ अद्यापि तां नखपदं स्तनमण्डले यद्दत्तं मयास्यमधुपानविमोहितेन । उद्भिन्नरोमपुलकैर्बहुभिः समन्ताज्जागर्ति रक्षति विलोकयति स्मरामि ॥ ३५ ॥ अद्यापि कोपविमुखीकृतगन्तुकामा नोक्तं वचः प्रतिददाति यदैव वक्त्रम् । चुम्बामि रोदिति भृशं पतितोऽस्मि पादे दासस्तव प्रियतमे भज मं स्मरामि ॥ ३६ ॥ अद्यापि धवति मनः किमहं करोमि सार्धं सखीभिरपि वासगृहं सुकान्ते । कान्ताङ्गसंगपरिहासविचित्रनृत्ये क्रीडाभिरामेति यातु मदीयकालः ॥ ३७ ॥ अद्यापि तां जगति वर्णयितुं न कश्चिच्छक्नोत्यदृष्टसदृशीं च परिग्रहं मे । दृष्टं तयोर्सदृशयोर्खलु येन रूपं शक्तो भवेद्यदि सैव नरो न चान्यः ॥ ३८ ॥ अद्यापि तां न खलु वेद्मि किमीशपत्नी शापं गता सुरपतेरथ कृष्णलक्ष्मी । धात्रैव किं नु जगतः परिमोहनाय सा निर्मिता युवतिरत्नदिदृक्षयाट् वा ॥ ३९ ॥ अद्यापि तन्नयनकज्जलमुज्ज्वलास्यं विश्रान्तकर्णयुगलं परिहासहेतोर् । पश्ये तवात्मनि नवीनपयोधराभ्यां क्षीणां वपुर्यदि विनश्यति नो न दोषः ॥ ४० ॥ अद्यापि निर्मलशरच्छशिगौरकान्ति चेतो मुनेरपि हरेत्किमुतास्मदीयम् । वक्त्रं सुधामयमहं यदि तत्प्रपद्ये चुम्बन् पिबाम्यविरतं व्यधते मनो मे ॥ ४१ ॥ अद्यापि तत्कमलरेणुसुगन्धगन्धि तत्प्रेमवारि मकरध्वजपातकारि । प्राप्नोम्यहं यदि पुनः सुरतैकतीर्थं प्राणांस्त्यजामी नियतं तदवाप्तिहेतोर् ॥ ४२ ॥ अद्याप्यहो जगति सुन्दरलक्षपूर्णेऽन्यान्यमुत्तमगुणाधिकसंप्रपन्ने । अन्याभिरप्युपमितुं न मया च शक्यं रूपं तदीयमिति मे हृदये वितर्कः ॥ ४३ ॥ अद्यापि सा मम मनस्तटिनी सदास्ते रोमाञ्चवीचिविलसद्विपुलस्वभावा । कादम्बकेशररुचिः क्षतवीक्षणं मां गात्रक्लमं कथयती प्रियराजहंसी ॥ ४४ ॥ अद्यापि सा हि नवयौवनसुन्दराङ्गी रोमाञ्चवीचिविलसच्चपलाङ्गयष्टिः । मत्स्वान्तसारसचलद्विरहोच्चपंकात्किंचिद्गमं प्रथयति प्रियराजहंसी ॥ ४४* ॥ अद्यापि तां नृपती शेखरराजपुत्रीं संपूर्णयौवनमदालसघूर्णनेत्रीम् । गन्धर्वयक्षसुरकिंनरनागकन्यां स्वर्गादहो निपतितामिव चिन्तयामि ॥ ४५ ॥ अद्यापि तां निजवपुः कृशवेदिमध्यामुत्तुंगसंभृतसुधास्तनकुम्भयुग्माम् । नानाविचित्रकृतमण्डमण्डिताङ्गी सुप्तोत्थितां निशि दिवा न हि विस्मरामि ॥ ४६ ॥ अद्यापि तां कनककान्तिमदालसाङ्गीं व्रीडोत्सुकां निपतितामिव चेष्टमानाम् । अगांगसंगपरिचुम्बनजातमोहां तां जीवनौषधिमिव प्रमदां स्मरामि ॥ ४७ ॥ अद्यापि तत्सुरतकेलिनिरस्त्रयुद्धं बन्धोपबन्धपतनोत्थितशून्यहस्तम् । दन्तौष्ठपीडननखक्षतरक्तसिक्तं तस्या स्मरामि रतिबन्धुरनिष्ठुरत्वम् ॥ ४८ ॥ अद्याप्यहं वरवधूसुरतोपभोगं जीवामि नान्यविधिनाट् क्षणमन्तरेण । तद्भ्रातरो मरणमेव हि दुःख शान्त्यै विज्ञापयामि भवतस्त्वरितं लुनीध्वम् ॥ ४९ ॥ अद्यापि नोज्झति हरः किल कालकूटं कूर्मो बिभर्ति धरणीं खलु पृष्टभागे । अम्भोनिधिर्वहति दुःसहवडवाग्निमङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ ५० ॥