बुद्धचरित सर्ग १ ऐक्ष्वाक इक्ष्वाकुसमप्रभावःशाक्येष्वशक्येषु विशुद्धवृत्तः । प्रियः शरच्चन्द्र इव प्रजानां शुद्धोदनो नाम बभूव राजा ॥ १.१ ॥ तस्येन्द्रकल्पस्य बभूव पत्नी दीप्त्या नरेन्द्रस्य समप्रभावा । पद्मेव लक्ष्मीः पृथिवीव धीरा मायेति नाम्नानुपमेव माया ॥ १.२ ॥ सार्ध तयासौ विजहार राजा नाचिन्तयद्वैश्रवणस्य लक्ष्मीम् । ततश्च विधेव समाधियुक्ता गर्भ दधे पापविवर्जिता सा ॥ १.३ ॥ प्राग्गर्भधान्नान्मनुजेन्द्रपत्नी सितं ददर्श द्विपराजमेकम् । स्वप्ने विशन्तं वपुरात्मनः सा न तन्निमित्तं समवाप तापम् ॥ १.४ ॥ सा तस्य देवप्रतिमस्य देवी गर्भेण वंशश्रियमुद्वहन्ती । श्रमं न लेभे न शुचं न मायां गन्तुं वनं सा निभृतं चकाङ्क्ष ॥ १.५ ॥ सा लुम्बिनी नाम वनान्तभूमिं चित्रद्रूमां चैत्ररथाभिरामाम् । ध्यानानुकूलां विजनामियेष तस्यां निवासाय नृपं बभाषे ॥ १.६ ॥ आर्याशयां तां प्रवणां च धर्मे विज्ञाय कौतूहलहर्षपूर्णः । शिवात्पुराद्भूमिपतिर्जगाम तत्प्रीतये नापि विहारहेतोः ॥ १.७ ॥ तस्मिन्वने श्रीमति राजपत्नी प्रसूतिकालं समवेक्षमाणा । शय्यां वितानोपहितां प्रपेदे नारीसहस्रैरभिनन्द्यमाना ॥ १.८ ॥ ततः प्रसन्नश्च बभूव पुष्यस्तस्याश्च देव्या व्रतसंस्कृतायाः । पार्श्वात्सुतो लोकहिताय जज्ञे निर्वेदनं चैव निरामयं च ॥ १.९ ॥ ऊरोर्यथौर्वस्य पृथोश्च हस्तान्मान्धातुरिन्द्रप्रतिमस्य मूर्ध्नः । कक्षीवतश्चैव भुजांसदेशात्तथाविधं तस्य बभूव जन्म ॥ १.१० ॥ क्रमेण गर्भादभिनिःसृतः सन् बभौ च्युतः खादिव योन्यजातः । कल्पेष्वनेकेषु च भावितात्मा यः संप्रजानन्सुषुवे न मूढः ॥ १.११ ॥ दीप्त्या च धैर्येण च यो रराज बालो रविभूमिमिवावतीर्णः । तथातिदीप्तोऽपि निरीक्ष्यमाणो जहार चक्षूंषि यथा शशाङ्कः ॥ १.१२ ॥ स हि स्वगात्रप्रभयोज्ज्वलन्त्या दीपप्रभां भास्करवन्मुमोष । महार्हजाम्बूनदचारुवर्णो विद्योतयामास दिशश्च सर्वाः ॥ १.१३ ॥ अनाकुलान्युब्जसमुद्गतानि निष्पेषवद्व्यायतविक्रमाणि । तथैव धीराणि पदानि सप्त सप्तर्षितारासदृशो जगाम ॥ १.१४ ॥ बोधाय जातोऽस्मि जगद्धितार्थमन्त्या भवोत्पत्तिरियं ममेति । चतुर्दिशं सिंहगतिर्विलोक्य वाणी च भव्यार्थकरीमुवाच ॥ १.१५ ॥ खात्प्रस्रूते चन्द्रमरीचिशुभ्रे द्वे वारिधारे शिशिरोष्णवीर्ये । शरीरसंस्पर्शसुखान्तराय निपेततुर्मूर्धनि तस्य सौम्ये ॥ १.१६ ॥ श्रीमद्विताने कनकोज्ज्वलाङ्गे वैडूर्यपादे शयने शयानम् । यद्गौरवात्काञ्चनपद्महस्ता यक्षाधिपाः संपरिवार्य तस्थुः ॥ १.१७ ॥ अदृश्यभावाश्च दिवौकसः खे यस्य प्रभावात्प्रणतैः शीरोभिः । आधारयन् पाण्डरमातपत्रं बोधाय जेपुः परमाशिषश्च ॥ १.१८ ॥ महोरगा धर्मविशेषतर्षाद्बुद्धेष्वतीतेषु कृताधिकाराः । यमव्यजन् भक्तिविशिष्टनेत्रा मन्दारपुष्पैः समवाकिरंश्च ॥ १.१९ ॥ तथागतोत्पादगुणेन तुष्टाः शुद्धाधिवासाश्च विशुद्धसत्त्वाः । देवा ननन्दुर्विगतेऽपि रागे मग्नस्य दुःखे जगतो हिताय ॥ १.२० ॥ यस्य प्रसूतौ गिरिराजकीला वाताहता नौरिव भूश्चचाल । सचन्दना चोत्पलपद्मगर्भा पपात वृष्टिर्गगनादनभ्रात् ॥ १.२१ ॥ वाता ववुः स्पर्शसुखा मनोज्ञा दिव्यानि वासांस्यवपातयन्तः । सूर्यः स एवाभ्यधिकं चकाशे जज्वाल सौम्यार्चिरनीरितोऽग्निः ॥ १.२२ ॥ प्रागुत्तरे चावसथप्रदेशे कूपः स्वयं प्रादुरभूत्सिताम्बुः अन्तःपुराण्यागतविस्मयानि यस्मिन् क्रियास्तीर्थ इव प्रचक्रुः ॥ १.२३ ॥ धर्मार्थिभिर्भूतगणैश्च दिव्यैस्तद्दर्शनार्थ वनमापुपूरे । कौतूहलेनैव च पादपेभ्यः पुष्पाण्यकालेऽप्यवपातयद्भिः ॥ १.२४ ॥ भूतैरसौम्यैः परित्यक्तहिंसैर्नाकारि पीडा स्वगणे परे वा । लोके हि सर्वाश्च विना प्रयासं रुजो नराणां शमयांबभूवुः ॥ १.२५ ॥ कलं प्रणेदुः मृगपक्षिणश्च शान्ताम्बुवाहाः सरितो बभूवुः । दिशः प्रसेदुर्विमले निरभ्रे विहायसे दुन्दुभयो निनेदुः ॥ १.२६ ॥ लोकस्य मोक्षाय गुरौ प्रसूते शमं प्रपेदे जगदव्यवस्थम् । प्राप्येव नाथं खलु नीतिमन्तमेको न मारो मुदमाप लोके ॥ १.२७ ॥ दिव्याद्भुतं जन्म निरीक्ष्य तस्य धीरोऽपि राजा बहुक्षोभमेतः । स्नेहादसौ भीतिप्रमोदजन्ये द्वे वारिधारे मुमुचे नरेन्द्रः ॥ १.२८ ॥ अमानुषी तस्य निशम्य शक्तिं माता प्रकृत्या करुणार्द्रचित्ता । प्रीता च भीता च बभूव देवी शीतोष्णमिश्रेव जलस्य धारा ॥ १.२९ ॥ निरीक्षमाणा भयहेतुमेव ध्यातुं न शेकुः वनिताः प्रवृद्धाः । पूताश्च ता मङ्गलकर्म चक्रुः शिवं ययाचुः शिशवे सुरौघान् ॥ १.३० ॥ विप्राश्च ख्याताः श्रुतशीलवाग्भिः श्रुत्वा निमित्तानि विचार्य सम्यक् । मुखैः प्रफुल्लैश्चकितैश्च दीप्तैः । भीतप्रसन्नं नृपमेत्य प्रोचुः ॥ १.३१ ॥ शमेप्सवो ये भुवि सन्ति सत्त्वाः । पुत्रं विनेच्छन्ति गुणं न कञ्चित् । त्वत्पुत्र एषोऽस्ति कुलप्रदीपः । नृत्योत्सवं त्वद्य विधेहि राजन् ॥ १.३२ ॥ विहाय चिन्तां भव शान्तचित्तो मोदस्व वंशस्तव वृद्धिभागी । लोकस्य नेता तव पुत्रभूतः दुःखार्दितानां भुवि एष त्राता ॥ १.३३ ॥ दीपप्रभोऽयं कनकोज्ज्वलाङ्गः सुलक्षणैर्यैस्तु समन्वितोऽस्ति । निधिर्गुणानां समये स गतां बुद्धर्षिभावं परमां श्रियं वा ॥ १.३४ ॥ इच्छेदसौ वै पृथिवीश्रियं चेत्न्यायेन जित्वा पृथिवी समग्राम् । भूपेषु राजेत यथा प्रकाशः ग्रहेषु सर्वेषु रवेर्विभाति ॥ १.३५ ॥ मोक्षाय चेद्वा वनमेव गच्छेत् । तत्त्वेन सम्यक्स विजित्य सर्वान् । मतान् पृथिव्यां बहुमानमेतः राजेत शैलेषु यथा सुमेरुः ॥ १.३६ ॥ यथा हिरण्यं शुचि धातुमध्ये मेरुर्गिरीणां सरसां समुद्रः । तारासु चन्द्रस्तपतां च सूर्यः पुत्रस्तथा ते द्विपदेषु वर्यः ॥ १.३७ ॥ तस्याक्षिणी निर्निमिषे विशाले स्निग्धे च दीप्ते विमले तथैव । निष्कम्पकृष्णायतशुद्धपक्ष्मे द्रष्टुं समर्थे खलु सर्वभावान् ॥ १.३८ ॥ कस्मान्नु हेतोः कथितान्भवद्भिः वरान्गुणान् धारयते कुमारः । प्रापुर्न पूर्वे मुनयो नृपाश्च राज्ञेति पृष्टा जगदुस्द्विजास्तम् ॥ १.३९ ॥ ख्यातानि कर्माणि यशो मतिश्च पूर्व न भूतानि भवन्ति पश्चात् । गुणा हि सर्वाः प्रभवन्ति हेतोः निदर्शनान्यत्र च नो निबोध ॥ १.४० ॥ यद्राजशास्त्रं भृगुरङ्गिरा वा न चक्रतुर्वशकरावृषी तौ । तयोः सुतौ सौम्य ससर्जतुस्तत्कालेन शुक्रश्च बृहस्पतिश्च ॥ १.४१ ॥ सारस्वतश्चापि जगाद नष्टं वेदं पुनर्यं ददृशुर्न पूर्वे । व्यासस्तथैनं बहुधा चकार न यं वसिष्ठः कृतवानशक्तिः ॥ १.४२ ॥ वाल्मीकिरादौ च ससर्ज पद्यं जग्रन्थ यन्न च्यवनो महर्षिः । चिकित्सितं यच्च चकार नात्रिः पश्चात्तदात्रेय ऋषिर्जगाद ॥ १.४३ ॥ यच्च द्विजत्वं कुशिको न लेभे तद्गाधिनः सुनूरवाप राजन् । वेलां समुद्रे सगरश्च दध्रे नेक्ष्वाकवो यां प्रथमं बबन्धुः ॥ १.४४ ॥ आचार्यकं योगविधौ द्विजानामप्राप्तमन्यैर्जनको जगाम । ख्यातानि कर्माणि च यानि शौरेः शूरादयस्तेष्वबला बभूवुः ॥ १.४५ ॥ तस्मात्प्रमाणं न वयो न वंशः कश्चित्क्वचिच्छ्रैष्ठ्यमुपैति लोके । राज्ञामृषीणां च हि तानि तानि कृतानि पुत्रैरकृतानि पूर्वैः ॥ १.४६ ॥ एवं नृपः प्रत्ययितैर्द्विजैस्तैराश्वासितश्चाप्यभिनन्दितश्च । शङ्कामनिष्टां विजहौ मनस्तः प्रहर्षमेवाधिकमारुरोह ॥ १.४७ ॥ प्रीतश्च तेभ्यो द्विजसत्तमेभ्यः सत्कारपूर्व प्रददौ धनानि । भूयादयं भूमिपतिर्यथोक्तो यायाज्जरामेत्य वनानि चेति ॥ १.४८ ॥ अथो निमित्तैश्च तपोबलाच्च तज्जन्म जन्मान्तकरस्य बुद्ध्वा । शाक्येश्वरस्यालयमाजगाम सद्धर्मतर्षादसितो महर्षिः ॥ १.४९ ॥ तं ब्रह्मविद्ब्रह्मविदं ज्वलन्तं ब्राह्म्या श्रिया चैव तपःश्रिया च । राज्ञो गुरुर्गौरवसत्क्रियाभ्यां प्रवेशायामास नरेन्द्रसद्म ॥ १.५० ॥ स पार्थिवान्तःपुरसंनिकर्ष कुमारजन्मागतहर्षवेगः । विवेश धीरो वनसंज्ञयेव तपःप्रकर्षाच्च जराश्रयाच्च ॥ १.५१ ॥ ततो नृपस्तं मुनिमासनस्थं पाद्यार्ध्यपूर्वं प्रतिपूज्य सम्यक् । निमन्त्रयामास यथोपचारं पुरा वसिष्ठं स इवान्तिदेवः ॥ १.५२ ॥ धन्योऽस्म्यनुग्राह्यमिदं कुलं मे । यन्मां दिदृक्षुर्भगवानुपेतः । आज्ञाप्यतां किं करवाणि सौम्य शिष्योऽस्मि विश्रम्भितुमर्हसीति ॥ १.५३ ॥ एवं नृपेणोपनिमन्त्रितः सन्सर्वेण भावेन मुनिर्यथावत् । स विस्मयोत्फुल्लविशालदृष्टिर्गम्भीरधीराणि वचांस्युवाच ॥ १.५४ ॥ महात्मनि त्वय्युपपन्नमेतत्प्रियातिथौ त्यागिनि धर्मकामे । सत्त्वान्वयज्ञानवयोऽनुरूपा स्निग्धा यदेवं मयि मे मतिः स्यात् ॥ १.५५ ॥ एतच्च तद्येन नृपर्षयस्ते । धर्मेण सूक्ष्मेण धनान्यवाप्य । नित्यं त्यजन्तो विधिवद्बभूवुस्तपोभिराढ्या विभवैर्दरिद्राः ॥ १.५६ ॥ प्रयोजनं यत्तु ममोपयाने तन्मे शृणु प्रीतिमुपेहि च त्वम् । दिव्या मयादित्यपथे श्रुता वाग्बोधाय जातस्तनयस्तवेति ॥ १.५७ ॥ श्रुत्वा वचस्तच्च मनश्च युक्त्वा ज्ञात्वा निमित्तैश्च ततोऽस्म्युपेतः । दिदृक्षया शाक्यकुलध्वजस्य शक्रध्वजस्येव समुच्छ्रितस्य ॥ १.५८ ॥ इत्येतदेवं वचनं निशम्य प्रहर्षसंभ्रान्तगतिनरेन्द्रः । आदाय धात्र्यङ्कगतं कुमारं संदर्शयामास तपोधनाय ॥ १.५९ ॥ चक्राङ्कपादं स ततो महर्षिर्जालावनद्धाङ्गुलिपाणिपादम् । सोर्णभ्रुवं वारणवस्तिकोशं सविस्मयं राजसुतं ददर्श ॥ १.६० ॥ धात्र्यङ्कसंविष्टमवेक्ष्य चैनं देव्यङ्कसंविष्टमिवाग्निसूनुम् । बभूव पक्ष्मान्तविचञ्चिताश्रुर्निश्वस्य चैव त्रिदिवोन्मुखोऽभूत् ॥ १.६१ ॥ दृष्ट्वासितं त्वश्रुपरिप्लुताक्षम् । स्नेहात्तनूजस्य नृपश्चकम्पे । सगद्गदं बाष्पकषायकण्ठः पप्रच्छ स प्राञ्जलिरानताङ्गः ॥ १.६२ ॥ अल्पान्तरं यस्य वपुः सुरेभ्यो बव्हद्भुतं यस्य च जन्म दीप्तम् । यस्योत्तमं भाविनमात्थ चार्थ तं प्रेक्ष्य कस्मात्तव धीर बाष्पः ॥ १.६३ ॥ अपि स्थिरायुर्भगवन् कुमारः कच्चिन्न शोकाय मम प्रसूतः । लब्धः कथंचित्सलिलाञ्जलिर्मे न खल्विमं पातुमुपैति कालः ॥ १.६४ ॥ अप्यक्षयं मे यशसो निधानं कच्चिद्ध्रुवो मे कुलहस्तसारः । अपि प्रयास्यामि सुखं परत्र सुप्तोऽपि पुत्रेऽनिमिषैकचक्षुः ॥ १.६५ ॥ कच्चिन्न मे जातमफुल्लमेव कुलप्रवालं परिशोषभागि । क्षिप्रं विभो ब्रूहि न मेऽस्ति शान्तिः स्नेहं सुते वेत्सि हि बान्धवानाम् ॥ १.६६ ॥ इत्यागतावेगमनिष्टबुद्ध्या बुद्ध्वा नरेन्द्रं स मुनिर्बभाषे । मा भून्मतिस्ते नृप काचिदन्या निःसंशयं तद्यदवोचमस्मि ॥ १.६७ ॥ नास्यान्यथात्वं प्रति विक्रिया मे स्वां वञ्चनां तु प्रति विक्लवोऽस्मि । कालो हि मे यातुमयं च जातो जातिक्षयस्यासुलभस्य बोद्धा ॥ १.६८ ॥ विहाय राज्यं विषयेष्वनास्थस्तीव्रैः प्रयत्नैरधिगम्य तत्त्वम् । जगत्ययं मोहतमो निहन्तुं ज्वलिष्यति ज्ञानमयो हि सूर्यः ॥ १.६९ ॥ दुःखार्णवाद्व्याधिविकीर्णफेनाज्जरातरङ्गान्मरणोग्रवेगात् । उत्तारयिष्यत्ययमुह्यमानमार्त जगज्ज्ञानमहाप्लवेन ॥ १.७० ॥ प्रज्ञाम्बुवेगां स्थिरशीलवप्रां समाधिशीतां व्रतचक्रवाकाम् । अस्योत्तमां धर्मनदी प्रवृताम् । तृष्णार्दितः पास्यति जीवलोकः ॥ १.७१ ॥ दुःखार्दितेभ्यो विषयावृतेभ्यः संसारकान्तारपथस्थितेभ्यः । आख्यास्यति ह्येष विमोक्षमार्ग मार्गप्रनष्टेभ्य इवाध्वगेभ्यः ॥ १.७२ ॥ विदह्यमानाय जनाय लोके रागाग्निनायं विषयेन्धनेन । प्रल्हादमाधास्यति धर्मवृष्ट्या वृष्ट्या महामेघ इवातपान्ते ॥ १.७३ ॥ तृष्णार्गलं मोहतमःकपाटं द्वारं प्रजानामपयानहेतोः । विपाटयिष्यत्ययमुत्तमेन सद्धर्मताडेन दुरासदेन ॥ १.७४ ॥ स्वैर्मोहपाशैः परिवेष्टितस्य दुःखाभिभूतस्य निराश्रयस्य । लोकस्य संबुध्य च धर्मराजः करिष्यते बन्धनमोक्षमेषः ॥ १.७५ ॥ तन्मा कृथाः शोकमिमं प्रति त्वमस्मिन्स शोच्योऽस्ति मनुष्यलोके । मोहेन वा कामसुखैर्मदाद्वा यो नैष्ठिकं श्रोष्यति नास्य धर्मम् ॥ १.७६ ॥ भ्रष्टस्य तस्माच्च गुणादतो मे ध्यानानि लब्ध्वाप्यकृतार्थतैव । धर्मस्य तस्याश्रवणादहं हि मन्ये विपत्तिं त्रिदिवेऽपि वासम् ॥ १.७७ ॥ इति श्रुतार्थः ससुहृत्सदारस्त्यक्त्वा विषादं मुमुदे नरेन्द्रः । एवंविधोऽयं तनयो ममेति मेने स हि स्वामपि सारवत्ताम् ॥ १.७८ ॥ आर्षेण मार्गेण तु यास्यतीति चिन्ताविधेयं हृदयं चकार । न खल्वसौ न प्रियधर्मपक्षः । संताननाशात्तु भयं ददर्श ॥ १.७९ ॥ अथ मुनिरसितो निवेद्य तत्त्वं सुतनियतं सुतविक्लवाय राज्ञे । सबहुमतुमुदीक्ष्यमाणरूपः पवनपथेन यथागतं जगाम ॥ १.८० ॥ कृतमितिरनुजासुतं च दृष्ट्वा मुनिवचनश्रवणे च तन्मतौ च । बहुविधमनुकम्पया स साधुः प्रियसुतवद्विनियोजयांचकार ॥ १.८१ ॥ नरपतिरपि पुत्रजन्मतुष्टो विषयगतानि विमुच्य बन्धनानि । कुलसदृशमचीरकरद्यथावत्प्रियतनयस्तनयस्य जातकर्म ॥ १.८२ ॥ दशसु परिणतेष्वहःसु चैव प्रयतमनाः परया मुदा परीतः । अकुरुत जपहोममङ्गलाद्याः परमभवाय सुतस्य देवतेज्याः ॥ १.८३ ॥ अपि च शतसहस्रपूर्णसंख्याः स्थिरबलवत्तनयाः सहेमशृङ्गीः । अनुपगतजराः पयस्विनीर्गाः स्वयमददात्सुतवृद्धये द्विजेभ्यः ॥ १.८४ ॥ बहुविधविषयास्ततो यतात्मा स्वहृदयतोषकरीः क्रिया विधाय । गुणवति नियते शिवे मुहूर्ते मतिमकरोन्मुदितः पुरप्रवेशे ॥ १.८५ ॥ द्विरदरदमयीमथो महार्हा सितसितपुष्पभृतां मणिप्रदीपाम् । अभजत शिविकां शिवाय देवी तनयवती प्रणिपत्य देवताभ्यः ॥ १.८६ ॥ पुरमथ पुरतः प्रवेश्य पत्नीं स्थविरजनानुगतामपत्यनाथाम् । नृपतिरपि जगाम पौरसंघैर्दिवममरैर्मघवानिवार्च्यमानः ॥ १.८७ ॥ भवनमथ विगाह्य शाक्यराजो भव इव षण्मुखजन्मना प्रतीतः । इदमिदमिति हर्षपूर्णवक्त्रो बहुविधपुष्टियशस्करं व्यधत्त ॥ १.८८ ॥ इति नरपतिपुत्रजन्मवृद्ध्या सजनपदं कपिलाव्हयं पुरं तत् । धनदपुरमिवाप्सरोऽवकीर्ण मुदितमभून्नलकूबरप्रसूतौ ॥ १.८९ ॥ इति बुद्धचरिते महाकाव्ये भगवत्प्रसूतिर्नाम प्रथमः सर्गः ॥ १ ॥ सर्ग २ आ जन्मनो जन्मजरान्तकस्य तस्यात्मजस्यात्मजितः स राजा । अहन्यहन्यर्थगजाश्वमित्रैर्वृद्धिं ययौ सिन्धुरिवाम्बुवेगैः ॥ २.१ ॥ धनस्य रत्नस्य च तस्य तस्य कृताकृतस्यैव च काञ्चनस्य । तदा हि नैकान्स निधीनवाप मनोरथस्याप्यतिभारभूतान् ॥ २.२ ॥ ये पद्मकल्पैरपि च द्विपेन्द्रैर्न मण्डलं शक्यमिहाभिनेतुम् । मदोत्कटा हैमवता गजास्ते विनापि यत्नादुपतस्थुरेनम् ॥ २.३ ॥ नानाङ्कचिन्हैर्नवहेमभाण्डैर्विभूषितैर्लम्बसटैस्तथान्यैः । संचुक्षुभे चास्य पुरं तुरङ्गैर्बलेन मैत्र्या च धनेन चाप्तैः ॥ २.४ ॥ पुष्टाश्च तुष्टाश्च तथास्य राज्ये साध्व्योऽरजस्का गुणवत्पयस्काः । उदग्रवत्सैः सहिता बभूवुर्बव्ह्यो बहुक्षीरदुहश्च गावः ॥ २.५ ॥ मध्यस्थतां तस्य रिपुर्जगाम मध्यस्थभावः प्रययौ सुहृत्त्वम् । विशेषतो दार्ढ्यमियाय मित्रं द्वावस्य पक्षावपरस्तु नास ॥ २.६ ॥ तथास्य मन्दानिलमेघशब्दः सौदामिनीकुण्डलमण्डिताभ्रः । विनाश्मवर्षाशनिपातदोषैः काले च देशे प्रववर्ष देवः ॥ २.७ ॥ रुरोह सस्यं फलवद्यथर्तु तदाकृतेनापि कृषिश्रमेण । ता एव चास्यौषधयो रसेन सारेण चैवाभ्यधिका बभूवुः ॥ २.८ ॥ शरीरसंदेहकरेऽपि काले संग्रामसंमर्द इव प्रवृते । स्वस्थाः सुखं चैव निरामयं च प्रजज्ञिरे कालवशेन नार्यः ॥ २.९ ॥ पृथग्व्रतिभ्यो विभवेऽपि गर्ह्ये न प्रार्थयन्ति स्म नराः परेभ्यः । अभ्यर्थितः सूक्ष्मधनोऽपि चार्यस्तदा न कश्चिद्विमुखो बभूव ॥ २.१० ॥ नागौरवो बन्धुषु नाप्यदाता नैवाव्रतो नानृतिको न हिंस्रः । आसीत्तदा कश्चन तस्य राज्ये राज्ञो ययातेरिव नाहुषस्य ॥ २.११ ॥ उद्यानदेवायतनाश्रमाणां कूपप्रपापुष्करिणीवनानाम् । चक्रुः क्रियास्तत्र च धर्मकामाः प्रत्यक्षतः स्वर्गीमवोपलभ्य ॥ २.१२ ॥ मुक्तश्च दुर्भिक्षभयामयेभ्यो हृष्टो जनः स्वर्ग इवाभिरेमे । पत्नीं पतिर्वा महिषी पतिं वा परस्परं न व्यभिचेरतुश्च ॥ २.१३ ॥ कश्चित्सिषेवे रतये न कामं कामार्थमर्थं न जुगोप कश्चित् । कश्चिद्धनार्थं न चचार धर्म धर्माय कश्चिन्न चकार हिंसाम् ॥ २.१४ ॥ स्तेयादिभिश्चाप्यरिभिश्च नष्टं स्वस्थं स्वचक्रं परचक्रमुक्तम् । क्षेमं सुभिक्षं च बभूव तस्य पुरानरण्यस्य यथैव राष्ट्रे ॥ २.१५ ॥ तदा हि तज्जन्मनि तस्य राज्ञो मनोरिवादित्यसुतस्य राज्ये । चचार हर्षः प्रणनाश पाप्मा जज्वाल धर्मः कलुषः शशाम ॥ २.१६ ॥ एवंविधा राजकुलस्य संपत्सर्वार्थसिद्धिश्च यतो बभूव । ततो नृपस्तस्य सुतस्य नाम सर्वार्थसिद्धिऽयमिति प्रचक्रे ॥ २.१७ ॥ देवी तु माया विबुधर्षिकल्पं दृष्ट्वा विशालं तनयप्रभावम् । जातं प्रहर्ष न शशाक सोढुं ततो निवासाय दिवं जगाम ॥ २.१८ ॥ ततः कुमारं सुरगर्भकल्पं स्नेहेन भावेन च निर्विशेषम् । मातृष्वसा मातृसमप्रभावा संवर्धयामात्मजवद्बभूव ॥ २.१९ ॥ ततः स बालार्क इवोदयस्थः समीरितो वन्हिरिवानिलेन । क्रमेण सम्यग्ववृधे कुमारस्ताराधिपः पक्ष इवातमस्के ॥ २.२० ॥ ततो महार्हाणि च चन्दनानि रत्नावलीश्चौषधिभिः सगर्भाः । मृगप्रयुक्तान् रथकांश्च हैमानाचक्रिरेऽस्मै सुहृदालयेभ्यः ॥ २.२१ ॥ वयोऽनुरूपाणि च भूषणानि हिरण्मयान् हस्तिमृगाश्वकांश्च । रथांश्च गोपुत्रकसंप्रयुक्तान् पुत्रीश्च चामीकररूप्यचित्राः ॥ २.२२ ॥ एवं स तैस्तैर्विषयोपचारैर्वयोऽनुरूपैरुपचर्यमाणः । बालोऽप्यबालप्रतिमो बभूव धृत्या च शौचेन धिया श्रिया च ॥ २.२३ ॥ वयश्च कौमारमतीत्य सम्यक्संप्राप्य काले प्रतिपत्तिकर्म । अल्पैरहोभिर्बहुवर्षगाम्या जग्राह विद्याः स्वकुलानुरूपाः ॥ २.२४ ॥ नैःश्रेयसं तस्य तु भव्यमर्थं श्रुत्वा पुरस्तादसितान्महर्षेः । कामेषु सङ्गं जनयांबभूव वनानि यायादिति शाक्यराजः ॥ २.२५ ॥ कुलात्ततोऽस्मै स्थिरशीलयुक्तात्साध्वीं वपुर्ह्रीविनयोपपन्नाम् । यशोधरां नाम यशोविशालां वामाभिधानां श्रियमाजुहाव ॥ २.२६ ॥ विद्योतमानो वपुषा परेण सनत्कुमारप्रतिमः कुमारः । सार्ध तया शाक्यनरेन्द्रवध्वा शच्या सहस्राक्ष इवाभिरेमे ॥ २.२७ ॥ किंचिन्मनःक्षोभकरं प्रतीपं कथं न पश्येदिति सोऽनुचिन्त्य । वासं नृपो व्यादिशति स्म तस्मै हर्म्योदरेष्वेव न भूप्रचारम् ॥ २.२८ ॥ ततः शरत्तोयदपाण्डरेषु भूमौ विमानेष्विव रञ्जितेषु । हर्म्येषु सर्वर्तुसुखाश्रयेषु स्त्रीणामुदारैर्विजहार तूर्यैः ॥ २.२९ ॥ कलैर्हि चामीकरबद्धकक्षैर्नारीकराग्राभिहतैर्मृदङ्गैः । वराप्सरोनृत्यसमैश्च नृत्यैः कैलासवत्तद्भवनं रराज ॥ २.३० ॥ वाग्भिः कलाभिर्लीलतैश्च हावैर्मदैः सखेलैर्मधुरैश्च हासैः । तं तत्र नार्यो रमयांबभूवुर्भूवञ्चितैरर्धीनरीक्षितैश्च ॥ २.३१ ॥ ततः स कामाश्रयपण्डिताभिः स्त्रीभिर्गृहीतो रतिकर्कशाभिः । विमानपृष्ठान्न महीं जगाम विमानपृष्ठादिव पुण्यकर्मा ॥ २.३२ ॥ नृपस्तु तस्यैव विवृद्धिहेतोस्तद्भाविनार्थेन च चोद्यमानः । शमेऽभिरेमे विरराम पापाद्भेजे दमं संविबभाज साधून् ॥ २.३३ ॥ नाधीरवत्कामसुखे ससञ्जे न संररञ्जे विषमं जनन्याम् । धृत्येन्द्रियाश्वांश्चपलान्विजिग्ये बन्धूंश्च पौरांश्च गुणैर्जिगाय ॥ २.३४ ॥ नाध्यैष्ट दुःखाय परस्य विद्यां ज्ञानं शिवं यत्तु तदध्यगीष्ट । स्वाभ्यः प्रजाभ्यो हि यथा तथैव सर्वप्रजाभ्यः शिवमाशशंसे ॥ २.३५ ॥ भं भासुरं चाङ्गिरसाधिदेवं यथावदानर्च तदायुषे सः । जुहाव हव्यान्यकृशे कृशानौ ददौ द्विजेभ्यः कृशनं च गाश्च ॥ २.३६ ॥ सस्नौ शरीरं पवितुं मनश्च तीर्थाम्बुभिश्चैव गुणाम्बुभिश्च । वेदोपदिष्टं सममात्मजं च सोमं पपौ शान्तिसुखं च हार्दम् ॥ २.३७ ॥ सान्त्वं बभाषे न च नार्थवद्यज्जजल्प तत्त्वं न च विप्रियं यत् । सान्त्वं ह्यतत्त्वं परुषं च तत्त्वं ह्रियाशकन्नात्मन एव वक्तुम् ॥ २.३८ ॥ इष्टेष्वनिष्टेषु च कार्यवत्सु न रागदोषाश्रयतां प्रपेदे । शिवं सिषेवे व्यवहारशुद्धं यज्ञं हि मेने न तथा यथा तत् ॥ २.३९ ॥ आशावते चाहिगताय सद्यो देयाम्बुभिस्तर्षमचेच्छिदिष्ट । युद्धादृते वृत्तपरश्वधेन द्विड्दर्पमुद्वृत्तमबेभिदिष्ट ॥ २.४० ॥ एकं विनिन्ये स जुगोप सप्त सप्तैव तत्याज ररक्ष पञ्च । प्राप त्रिवर्ग बुबुधे त्रिवर्ग जज्ञे द्विवर्ग प्रजहौ द्विवर्गम् ॥ २.४१ ॥ कृतागसोऽपि प्रतिपाद्य वध्यान्नाजीघनन्नापि रुषा ददर्श । बबन्ध सान्त्वेन फलेन चैतांस्त्यागोऽपि तेषां ह्यनयाय दृष्टः ॥ २.४२ ॥ आर्षाण्यचारीत्परमव्रतानि वैराण्यहासीच्चिरसंभृतानि । यशांसि चापद्गुणगन्धवन्ति रजांस्यहार्षीन्मलिनीकराणि ॥ २.४३ ॥ न चाजिहीर्षिद्वलिमप्रवृत्तं न चाचिकीर्षित्परवस्त्वभिध्याम् । न चाविवक्षीद्द्विषतामधर्म न चाविवाक्षीद्धृदयेन मन्युम् ॥ २.४४ ॥ तस्मिंस्तथा भूमिपतौ प्रवृत्ते भृत्याश्च पौराश्च तथैव चेरुः । शमात्मके चेतसि विप्रसन्ने प्रयुक्तयोगस्य यथेन्द्रियाणि ॥ २.४५ ॥ काले ततश्चारुपयोधरायां यशोधरायां स्वयशोधरायाम् । शौद्धोदने राहुसपत्नवक्त्रो जज्ञे सुतो राहुल एव नाम्ना ॥ २.४६ ॥ अथेष्टपुत्रः परमप्रतीतः कुलस्य वृद्धिं प्रति भूमिपालः । यथैव पुत्रप्रसवे ननन्द तथैव पौत्रप्रसवे ननन्द ॥ २.४७ ॥ पुत्रस्य मे पुत्रगतो ममेव स्नेहः कथं स्यादिति जातहर्षः । काले स तं तं विधिमाललम्बे पुत्रप्रियः स्वर्गमिवारुरुक्षन् ॥ २.४८ ॥ स्थित्वा पथि प्राथमकल्पिकानां राजवर्षभाणां यशसान्वितानाम् । शुक्लान्यमुक्त्वापि तपांस्यतप्त यज्ञैश्च हिंसारहितैरयष्ट ॥ २.४९ ॥ अजाज्वलिष्टाथ स पुण्यकर्मा नृपश्रिया चैव तपःश्रिया च । कुलेन वृत्तेन धिया च दीप्तस्तेजः सहस्रांशुरिवोत्सिसृक्षुः ॥ २.५० ॥ स्वायंभुवं चार्चिकमर्चयित्वा जजाप पुत्रस्थितये स्थितश्रीः । चकार कर्माणि च दुष्कराणि प्रजाः सिसृक्षुः क इवादिकाले ॥ २.५१ ॥ तत्याज शस्त्रं विममर्श शास्त्रं शमं सिषेवे नियमं विषेहे । वशीव कंचिद्विषयं न भेजे पितेव सर्वान्विषयान्ददर्श ॥ २.५२ ॥ बभार राज्यं स हि पुत्रहेतोः पुत्रं कुलार्थं यशसे कुलं तु । स्वर्गाय शब्दं दिवमात्महेतोर्धर्मार्थमात्मस्थितिमाचकाङ्क्ष ॥ २.५३ ॥ एवं स धर्म विविधं चकार सिद्भिर्निपातं श्रुतितश्च सिद्धम् । दृष्ट्वा कथं पुत्रमुखं सुतो मे वनं न यायादिति नाथमानः ॥ २.५४ ॥ रिरक्षिषन्तः श्रियमात्मसंस्थां रक्षन्ति पुत्रान् भुवि भूमिपालाः । पुत्रं नरेन्द्रः स तु धर्मकामो ररक्ष धर्माद्विषयेषु मुञ्चन् ॥ २.५५ ॥ वनमनुपमसत्त्वा बोधिसत्त्वास्तु सर्वे विषयसुखरसज्ञा जग्मुरुत्पन्नपुत्राः । अत उपचितकर्मा रूढमूलेऽपि हेतौ स रतिमुपसिषेवे बोधिमापन्न यावत् ॥ २.५६ ॥ इति बुद्धचरिते महाकाव्ये अन्तःपुरविहारो नाम द्वितीयः सर्गः ॥ २ ॥ सर्ग ३ ततः कदाचिन्मृदुशाद्वलानि पुंस्कोकिलोन्नादितपादपानि । शुश्राव पद्माकरमण्डितानि गीतैर्निबद्धानि स काननानि ॥ ३.१ ॥ श्रुत्वा ततः स्त्रीजनवल्लभानां मनोज्ञभावं पुरकाननानाम् । बहिःप्रयाणाय चकार बुद्धिमन्तर्गृहे नाग इवावरूद्धः ॥ ३.२ ॥ ततो नृपस्तस्य निशम्य भावं पुत्राभिधानस्य मनोरथस्य । स्नेहस्य लक्ष्म्या वयसश्च योग्यामाज्ञापयामास विहारयात्राम् ॥ ३.३ ॥ निवर्तयामास च राजमार्गे संपातमार्तस्य पृथग्जनस्य । मा भूत्कुमारः सुकुमारचित्तः संविग्नचेता इति मन्यमानः ॥ ३.४ ॥ प्रत्यङ्गहीनान्विकलेन्द्रियांश्च जीर्णातुरादीन् कृपणांश्च दिक्षु । ततः समुत्सार्य परेण साम्ना शोभां परां राजपथस्य चकुः ॥ ३.५ ॥ ततः कृते श्रीमति राजमार्गे श्रीमान्विनीतानुचरः कुमारः । प्रासादपृष्ठादवतीर्य काले कृताभ्यनुज्ञो नृपमभ्यगच्छत् ॥ ३.६ ॥ अथो नरेन्द्रः सुतमागताश्रुः शिरस्युपाघ्राय चिरं निरीक्ष्य । गच्छेति चाज्ञापयति स्म वाचा स्नेहान्न चैनं मनसा मुमोच ॥ ३.७ ॥ ततः स जाम्बूनदभाण्डभृद्भिर्युक्तं चतुर्भिर्निभृतैस्तुरङ्गैः । अक्लीबविद्वच्छुचिरश्मिधारं हिरण्मयं स्यन्दनमारुरोह ॥ ३.८ ॥ ततः प्रकीर्णोज्ज्वलपुष्पजालं विषक्तमाल्यं प्रचलत्पताकम् । मार्गं प्रपेदे सदृशानुयात्रश्चन्द्रः सनक्षत्र इवान्तरीक्षम् ॥ ३.९ ॥ कौतूहलात्स्फीततरैश्च नेत्रैर्नीलोत्पलार्धैरिव कीर्यमाणम् । शनैः शनै राजपथं जगाहे पौरैः समन्तादभिवीक्ष्यमाणः ॥ ३.१० ॥ तं तुष्टुवुः सौम्यगुणेन केचिद्ववन्दिरे दीप्ततया तथान्ये । सौमुख्यतस्तु श्रियमस्य केचिद्वैपुल्यमाशंसिषुरायुषश्च ॥ ३.११ ॥ निःसृत्य कुब्जाश्च महाकुलेभ्यो व्यूहाश्च कैरातकवामनानाम् । नार्यः कृशेभ्यश्च निवेशनेभ्यो देवानुयानध्वजवत्प्रणेमुः ॥ ३.१२ ॥ ततः कुमारः खलु गच्छतीति श्रुत्वा स्त्रियः प्रेष्यजनात्प्रवृत्तिम् । दिदृक्षया हर्म्यतलानि जग्मुर्जनेन मान्येन कृताभ्यनुज्ञाः ॥ ३.१३ ॥ ताः स्रस्तकाञ्चीगुणविघ्निताश्च सुप्तप्रबुद्धाकुललोचनाश्च । वृत्तान्तविन्यस्तविभूषणाश्च कौतूहलेनानिभृताः परीयुः ॥ ३.१४ ॥ प्रासादसोपानतलप्रणादैः काञ्चीरवैर्नूपुरनिस्वनैश्च । वित्रासयन्त्यो गृहपक्षिसङ्घानन्योन्यवेगांश्च समाक्षिपन्त्यः ॥ ३.१५ ॥ कासांचिदासां तु वराङ्गनानां जातत्वराणामपि सोत्सुकानाम् । गतिं गुरुत्वाज्जगृहुर्विशालाः श्रोणीरथाः पीनपयोधराश्च ॥ ३.१६ ॥ शीघ्रं समर्थापि तु गन्तुमन्या गतिं निजग्राह ययौ न तूर्णम् । ह्रियाप्रगल्भा विनिगूहमाना रहःप्रयुक्तानि विभूषणानि ॥ ३.१७ ॥ परस्परोत्पीडनपिण्डितानां संमर्दसंक्षोभिकुण्डलानाम् । तासां तदा सस्वनभूषणानां वातयनेष्वप्रशमो बभूव ॥ ३.१८ ॥ वातायनेभ्यस्तु विनिःसृतानि परस्परायासितकुण्डलानि । स्त्रीणां विरेजुर्मुखपङ्कजानि सक्तानि हर्म्येष्विव पङ्कजानि ॥ ३.१९ ॥ ततो विमानैर्युवतीकरालैः कौतूहलोद्घाटितवातयानैः । श्रीमत्समन्तान्नगरं बभासे वियद्विमानैरिव साप्सरोभिः ॥ ३.२० ॥ वातायनानामविशालभावादन्योन्यगण्डार्पितकुण्डलानाम् । मुखानि रेजुः प्रमोदोत्तमानां बद्धाः कलापा इव पङ्कजानाम् ॥ ३.२१ ॥ तं ताः कुमारं पथि वीक्षमाणाः स्त्रियो बभुर्गामिव गन्तुकामाः । ऊर्ध्वोन्मुखाश्चैनमुदीक्षमाणा नरा बभुर्द्यामिव गन्तुकामाः ॥ ३.२२ ॥ दृष्ट्वा च तं राजसुतं स्त्रियस्ता जाज्वल्यमानं वपुषा श्रिया च । धन्यास्य भार्येति शनैरवोचञ्शुद्धैर्मनोभिः खलु नान्यभावात् ॥ ३.२३ ॥ अयं किल व्यायतपीनबाहू रूपेण साक्षादिव पुष्पकेतुः । त्यक्त्वा श्रियं धर्ममुपैष्यतीति तस्मिन् हि ता गौरवमेव चक्रुः ॥ ३.२४ ॥ कीर्ण तथा राजपथं कुमारः पौरैर्विनीतैः शुचिधीरवेषैः । तत्पूर्वमालोक्य जहर्ष किंचिन्मेने पुनर्भावमिवात्मनश्च ॥ ३.२५ ॥ पुरं तु तत्स्वर्गमिव प्रहृष्टं शुद्धाधिवासाः समवेक्ष्य देवाः । जीर्णं नरं निर्ममिरे प्रयातुं संचोदनार्थं क्षितिपात्मजस्य ॥ ३.२६ ॥ ततः कुमारो जरयाभिभूतं दृष्ट्वा नरेभ्यः पृथगाकृतिं तम् । उवाच संग्राहकमागतास्थस्तत्रैव निष्कम्पनिविष्टदृष्टिः ॥ ३.२७ ॥ क एष भोः सूत नरोऽभ्युपेतः केशैः सितैर्यष्टिविषक्तहष्टः । भ्रूसंवृताक्षः शिथिलानताङ्गः किं विक्रियैषा प्रकृतिर्यदृच्छा ॥ ३.२८ ॥ इत्येवमुक्तः स रथप्रणेता निवेदयामास नृपात्मजाय । संरक्ष्यमप्यर्थमदोषदर्शी तैरेव देवैः कृतबुद्धिमोहः ॥ ३.२९ ॥ रूपस्य हन्त्री व्यसनं बलस्य शोकस्य योनिर्निधन रतीनाम् । नाशः स्मृतीनां रिपुरिन्द्रियाणामेषा जरा नाम ययैष भग्नः ॥ ३.३० ॥ पीतं ह्यनेनापि पयः शिशुत्वे कालेन भूयः परिसृप्तमुर्व्याम् । क्रमेण भूत्वा च युवा वपुष्मान् क्रमेण तेनैव जरामुपेतः ॥ ३.३१ ॥ इत्येवमुक्ते चलितः स किंचिद्राजात्मजः सूतमिदं बभाषे । किमेष दोषो भविता ममापीत्यस्मै ततः सारथिरभ्युवाच ॥ ३.३२ ॥ आयुष्मतोऽप्येष वयःप्रकर्षो निःसंशयं कालवशेन भावी । एवं जरां रूपविनाशयित्रीं जानाति चैवेच्छति चैव लोकः ॥ ३.३३ ॥ ततः स पूर्वाशयशुद्धबुद्धिर्विस्तीर्णकल्पाचितपुण्यकर्मा । श्रुत्वा जरां सविविजे महात्मा महाशनेर्घोषमिवान्तिके गौः ॥ ३.३४ ॥ निःश्वस्य दीर्घं स्वशिरः प्रकम्प्य तस्मिंश्च जीर्णे विनिवेश्य चक्षुः । तां चैव दृष्ट्वा जनतां सहर्षां वाक्यं स संविग्न इदं जगाद ॥ ३.३५ ॥ एवं जरा हन्ति च निर्विशेषं स्मृतिं च रूपं च पराक्रमं च । न चैव संवेगमुपैति लोकः प्रत्यक्षतोऽपीदृशमीक्षमाणः ॥ ३.३६ ॥ एवं गते सूत निवर्तयाश्वान् शीघ्रं गृहाण्येव भवान्प्रयातु । उद्यानभूमौ हि कुतो रतिर्मे जराभये चेतसि वर्तमाने ॥ ३.३७ ॥ अथाज्ञया भर्तुसुतस्य तस्य निवर्तयामास रथं नियन्ता । ततः कुमारो भवनं तदेव चिन्तावशः शून्यमिव प्रपेदे ॥ ३.३८ ॥ यदा तु तत्रैव न शर्म लेभे जरा जरेति प्रपरीक्षमाणः । ततो नरेन्द्रानुमतः स भूयः क्रमेण तेनैव बहिर्जगाम ॥ ३.३९ ॥ अथापरं व्याधिपरीतदेहं त एव देवाः ससृजुर्मनुष्यम् । दृष्ट्वा च तं सारथिमाबभाषे शौद्धोदनिस्तद्गतदृष्टिरेव ॥ ३.४० ॥ स्थूलोदरः श्वासचलच्छरीरः स्रस्तांसबाहुः कृशपाण्डुगात्रः । अम्बेति वाचं करुणं ब्रुवाणः परं समाश्रित्य नरः क एषः ॥ ३.४१ ॥ ततोऽब्रवीत्सारथिरस्य सौम्य धातुप्रकोपप्रभवः प्रवृद्धः । रोगाभिधानः सुमहाननर्थः शक्तोऽपि येनैष कृतोऽस्वतन्त्रः ॥ ३.४२ ॥ इत्यूचिवान् राजसुतः स भूयस्तं सानुकम्पो नरमीक्षमाणः । अस्यैव जातो पृथगेष दोषः सामान्यतो रोगभयं प्रजानाम् ॥ ३.४३ ॥ ततो बभाषे स रथप्रणेता कुमार साधारण एष दोषः । एवं हि रोगैः परिपीड्यमानो रुजातुरो हर्षमुपैति लोकः ॥ ३.४४ ॥ इति श्रुतार्थः स विषण्णचेताः प्रावेपताम्बूर्मिगतः शशीव । इदं च वाक्यं करुणायमानः प्रोवाच किंचिन्मृदुना स्वरेण ॥ ३.४५ ॥ इदं च रोगव्यसनं प्रजानां पश्यंश्च विश्रम्भमुपैति लोकः । विस्तीर्णमज्ञानमहो नराणां हसन्ति ये रोगभयैरमुक्ताः ॥ ३.४६ ॥ निवर्त्यतां सूत बहिःप्रयाणान्नरेन्द्रसद्मैव रथः प्रयातु । श्रुत्वा च मे रोगभयं रतिभ्यः प्रत्याहतं संकुचतीव चेतः ॥ ३.४७ ॥ ततो निवृत्तः स निवृत्तहर्षः प्रध्यानयुक्तः प्रविवेश वेश्म । तं द्विस्तथा प्रेक्ष्य च संनिवृत्तं पर्येषणं भूमिपतिश्चकार ॥ ३.४८ ॥ श्रुत्वा निमित्तं तु निवर्तनस्य संत्यक्तमात्मानमनेन मेने । मार्गस्य शौचाधिकृताय चैव चुक्रोश रुष्टोऽपि च नोग्रदण्डः ॥ ३.४९ ॥ भूयश्च तस्मै विदधे सुताय विशेषयुक्तं विषयप्रचारम् । चलेन्द्रियत्वादपि नाम सक्तो नास्मान्विजह्यादिति नाथमानः ॥ ३.५० ॥ यदा च शब्दादिभिरिन्द्रियार्थैरन्तःपुरे नैव सुतोऽस्य रेमे । ततो बहिर्व्यादिशति स्म यात्रां रसान्तरं स्यादिति मन्यमानः ॥ ३.५१ ॥ स्नेहाच्च भावं तनयस्य बुद्ध्वा स रागदोषानविचिन्त्य कांश्चित् । योग्याः समाज्ञापयति स्म तत्र कलास्वभिज्ञा इति वारमुख्याः ॥ ३.५२ ॥ ततो विशेषेण नरेन्द्रमार्गे स्वलंकृते चैव परीक्षिते च । व्यत्यस्य सूतं च रथं च राजा प्रस्थापयामास बहिः कुमारम् ॥ ३.५३ ॥ ततस्तथा गच्छति राजपुत्रे तैरेव देवैर्विहितो गतासुः । तं चैव मार्गे मृतमुह्यमानं सूतः कुमारश्च ददर्श नान्यः ॥ ३.५४ ॥ अथब्रवीद्राजसुतः स सूतं नरैश्चतुर्भिह्रियते क एषः । दीनैर्मनुष्यैरनुगम्यमानो यो भूषितश्चाप्यवरुद्यते च ॥ ३.५५ ॥ ततः स शुद्धात्मभिरेव देवैः शुद्धाधिवासैरभिभूतचेताः । अवाच्यमप्यथीमिमं नियन्ता प्रव्याजहारार्थवदीश्वराय ॥ ३.५६ ॥ बुद्धीन्द्रियप्राणगुणैर्वियुक्तः सुप्तो विसंज्ञस्तृणकाष्ठभूतः । संवर्ध्य संरक्ष्य च यत्नवद्भिः प्रियप्रियैस्त्यज्यत एष कोऽपि ॥ ३.५७ ॥ इति प्रणेतुः स निशम्य वाक्यं संचुक्षुभे किंचिदुवाच चैनम् । किं केवलोऽस्यैव जनस्य धर्मः सर्वप्रजानामयमीदृशोऽन्तः ॥ ३.५८ ॥ ततः प्रणेता वदति स्म तस्मै सर्वप्रजानामिदमन्तकर्म । हीनस्य मध्यस्य महात्मनो वा सर्वस्य लोके नियतो विनाशः ॥ ३.५९ ॥ ततः स धीरोऽपि नरेन्द्रसूनुः श्रुत्वैव मृत्युं विषसाद सद्यः । अंसेन संश्लिष्य च कूबराग्रं प्रोवाच निह्रादवता स्वरेण ॥ ३.६० ॥ इयं च निष्ठा नियता प्रजानां प्रमाद्यति त्यक्तभयश्च लोकः । मनांसि शङ्के कठिनानि नॄणां स्वस्थास्तथा ह्यध्वनि वर्तमानाः ॥ ३.६१ ॥ तस्माद्रथः सूत निवर्त्यता नो विहारभूमेर्न हि देशकालः । जानन्विनाशं कथमर्तिकाले सचेतनः स्यादिह हि प्रमत्तः ॥ ३.६२ ॥ इति ब्रुवाणेऽपि नराधिपात्मजे निवर्तयामास स नैव तं रथम् । विशेषयुक्तं तु नरेन्द्रशासनात्स पद्मषण्डं वनमेव निर्ययौ ॥ ३.६३ ॥ ततः शिवं कुसुमितबालपादपं परिभ्रमत्प्रमुदितमत्तकोकिलम् । विमानवत्स कमलचारुदीर्घिकं ददर्श तद्वनमिव नन्दनं वनम् ॥ ३.६४ ॥ वराङ्गनागणकलिलं नृपात्मजस्ततो बलाद्वनमतिनीयते स्म तत् । वराप्सरोवृतमलकाधिपालयं नवव्रतो मुनिरिव विघ्नकातरः ॥ ३.६५ ॥ इति बुद्धचरिते महाकाव्ये संवेगोत्पत्तिर्नाम तृतीयः सर्गः ॥ ३ ॥ सर्ग ४ ततस्तस्मात्पुरोद्यानात्कौतूहलचलेक्षणाः । प्रत्युज्जग्मुर्नृपसुतं प्राप्तं वरमिव स्त्रियः ॥ ४.१ ॥ अभिगम्य च तास्तस्मै विस्मयोत्फुल्ललोचनाः । चक्रिरे समुदाचारं पद्मकोशनिभैः करैः ॥ ४.२ ॥ तस्थुश्च परिवार्यैनं मन्मथाक्षिप्तचेतसः । निश्चलैः प्रीतिविकचैः पिबन्त्य इव लोचनैः ॥ ४.३ ॥ तं हि ता मेनिरे नार्यः कामो विग्रहवानिति । शोभितं लक्षणैर्दीप्तैः सहजैर्भूषाणैरिव ॥ ४.४ ॥ सौम्यत्वाच्चैव धैर्याच्च काश्चिदेनं प्रजज्ञिरे । अवतीर्णो मही साक्षाद्गुढांशुश्चन्द्रमा इति ॥ ४.५ ॥ तस्य ता वपुषाक्षिप्ता निगृहीतं जजृम्भिरे । अन्योन्यं दृष्टिभिर्हत्वा शनैश्च विनिशश्वसुः ॥ ४.६ ॥ एवं ता दृष्टिमात्रेण नार्यो ददृशुरेव तम् । न व्याजहुर्न जहसुः प्रभावेणास्य यन्त्रिताः ॥ ४.७ ॥ तास्तथा नु निरारम्भा दृष्ट्वा प्रणयविक्लवाः । पुरोहितसुतो धीमानुदायी वाक्यमब्रवीत् ॥ ४.८ ॥ सर्वाः सर्वकलाज्ञाः स्थ भावग्रहणपण्डिताः । रुपचातुर्यसंपन्नाः स्वगुणैर्मुख्यतां गताः ॥ ४.९ ॥ शोभयेत गुणैरेभिरपि तानुत्तरान् कुरून् । कुबेरस्यापि चाक्रीडं प्रागेव वसुधामिमाम् ॥ ४.१० ॥ शक्ताश्चलियितुं यूयं वितरागानुषीनपि । अप्सरोभिश्च कलितान् ग्रहीतुं विबुधानपि ॥ ४.११ ॥ भावज्ञानेन हावेन रूपचातुर्यसंपदा । स्त्रीणामेव च शक्ताः स्थ संरागे किं पुनर्नृणाम् ॥ ४.१२ ॥ तासामेवंविधानां वो वियुक्तानां स्वगोचरे । इयमेवंविधा चेष्टा न तुष्टोऽस्म्यार्जवेन वः ॥ ४.१३ ॥ इदं नववधूनां वो ह्रीनीकुञ्चितचक्षुषाम् । सदृशं चेष्टितं हि स्यादपि वा गोपायोषिताम् ॥ ४.१४ ॥ यदपि स्यादयं धीरः श्रिप्रभावान्महानिति । स्त्रीणामपि महत्तेज इतः कार्योऽत्र निश्चयः ॥ ४.१५ ॥ पुरा हि काशिसुन्दर्या वेशवध्वा महानृषिः । ताडितोऽभूत्पदा व्यासो दुर्धर्षो देवतैरपि ॥ ४.१६ ॥ मन्थालगौतमो भिक्षुर्जङ्घया वारमुख्यया । पिप्रीषुश्च तदर्थार्थं व्यसून्निरहरत्पुरा ॥ ४.१७ ॥ गौतमं दीर्घतपसं महर्षि दीर्घजीविनम् । योषित्संतोषयामास वर्णस्थानावरा सती ॥ ४.१८ ॥ ऋष्यशृङ्गं मुनिसुतं तथैव स्त्रीष्वपण्डितम् । उपायैर्विविधैः शान्ता जग्राह च जहार च ॥ ४.१९ ॥ विश्वामित्रो महर्षिश्च विगाढोऽपि महत्तपः । दश वर्षाण्यहर्मेने घृताच्याप्सरसा हृतः ॥ ४.२० ॥ एवमादीनृषीस्तांस्ताननयन्विक्रियां स्त्रियः । ललितं पूर्ववयसं किं पुनर्नृपतेः सुतम् ॥ ४.२१ ॥ तदेवं सति विश्रब्धं प्रयतध्वं तथा यथा । इयं नृपस्य वंशश्रीरितो न स्यात्पराङ्मुखी ॥ ४.२२ ॥ या हि काश्चिद्युवतयो हरन्ति सदृशं जनम् । निकृष्टोत्कृष्टयोर्भावं या गृह्णन्ति तु ताः स्त्रियः ॥ ४.२३ ॥ इत्युदायिवचः श्रुत्वा ता विद्धा इव योषितः । समारुरुहुरात्मानं कुमारग्रहणं प्रति ॥ ४.२४ ॥ ता भ्रूमिः प्रेक्षितैर्हावैर्हसितैलीडितैर्गतैः । चक्रुराक्षेपिकाश्चेष्टा भीतभीता इवाङ्गनाः ॥ ४.२५ ॥ राज्ञस्तु विनियोगेन कुमारस्य च मार्दवात् । जहुः क्षिप्रमविश्रम्भं मदेन मदनेन च ॥ ४.२६ ॥ अथ नारीजनवृतः कुमारो व्यचरद्वनम् । वासितायूथसहितः करीव हिमवद्वनम् ॥ ४.२७ ॥ स तस्मिन् कानने रम्ये जज्वाल स्त्रीपुरःसरः । आक्रीड इव विभ्राजे विवस्वानप्सरोवृतः ॥ ४.२८ ॥ मदेनावर्जिता नाम तं काश्चित्तत्र यिषितः । कठिनैः पस्पृशुः पीनैः संहतैर्वल्गुभिः स्तनैः ॥ ४.२९ ॥ स्रस्तांसकोमलालम्बमृदुबाहुलताबला । अनृतं स्खलितं काचित्कृत्वैनं सस्वजे बलात् ॥ ४.३० ॥ काचित्ताम्राधरोष्ठेन मुखेनासवगन्धिना । विनिशश्वास कर्णेऽस्य रहस्यं श्रूयतामिति ॥ ४.३१ ॥ काचिदाज्ञापयन्तीव प्रोवाचार्द्रानुलेपना । इह भक्तिं कुरुष्वेति हस्तसंश्लेषलिप्सया ॥ ४.३२ ॥ मुहुर्मुहुर्मदव्याजस्रस्तनीलांशुकापरा । आलक्ष्यरशना रेजे स्फुरद्विद्युदिव क्षपा ॥ ४.३३ ॥ काश्चित्कनककाञ्चीभिर्मुखराभिरितस्ततः । बभ्रमुर्दर्शयन्त्योऽस्य श्रोणीस्तन्वंशुकावृताः ॥ ४.३४ ॥ चूतशाखां कुसुमितां प्रगृह्यान्या ललम्बिरे । सुवर्णकलशप्रख्यान्दर्शयन्त्यः पयोधरान् ॥ ४.३५ ॥ काचित्पद्मवनादेत्य सपद्मा पद्मलोचना । पद्मवक्त्रस्य पार्श्वेऽस्य पद्मश्रीरिव तस्थुषी ॥ ४.३६ ॥ मधुरं गीतमन्वर्थं काचित्साभिनयं जगौ । तं स्वस्थं चोदयन्तीव वञ्चितोऽसीत्यवेक्षितैः ॥ ४.३७ ॥ शुभेन वदनेनान्या भ्रूकार्मुकविकर्षिणा । प्रावृत्यानुचकारास्य चेष्टितं धीरलीलया ॥ ४.३८ ॥ पीनवल्गुस्तनी काचिद्धासाघूर्णितकुण्डला । उच्चैरवजहासैनं समाप्नोतु भवानिति ॥ ४.३९ ॥ अपयान्तं तथैवान्या बबन्धुर्माल्यदामभिः । काश्चित्साक्षेपमधुरैर्जगृहर्वचनाङ्कुशैः ॥ ४.४० ॥ प्रतियोगार्थिनी काचिद्गृहीत्वा चूतवल्लरीम् । इदं पुष्पं तु कस्येति पप्रच्छ मदविक्लवा ॥ ४.४१ ॥ काचित्पुरुषवत्कृत्वा गतिं संस्थानमेव च । उवाचैनं जितः स्त्रीभीर्जय भो पृथिवीमिमाम् ॥ ४.४२ ॥ अथ लोलेक्षणा काचिज्जिघ्रन्ती नीलमुत्पलम् । किंचिन्मदकलैर्वाक्यै र्नृपात्मजमभाषत ॥ ४.४३ ॥ पश्य भर्तीश्चितं चूतं कुसुमैर्मधुगन्धिभिः । हेमपञ्जररुद्धो वा कोकिलो यत्र कूजति ॥ ४.४४ ॥ अशोको दृश्यतामेष कामिशोकविवर्धनः । रुवन्ति भ्रमरा यत्र दह्यमाना इवाग्निना ॥ ४.४५ ॥ चूतयष्ट्या समाश्लिष्टो दृश्यतां तिलकद्रुमः । शुक्लवासा इव नरः स्त्रिया पीताङ्गरागया ॥ ४.४६ ॥ फुल्लं कुरुबकं पश्य निर्भुक्तालक्तकप्रभम् । यो नखप्रभया स्त्रीणां निर्भीर्त्सत इवानतः ॥ ४.४७ ॥ बालाशोकश्च निचितो दृश्यतामेष पल्लवैः । योऽस्माकं हस्तशोभाभिर्लज्जमान इव स्थितः ॥ ४.४८ ॥ दीर्घिका प्रावृतां पश्य तीरजैः सिन्दुवारकैः । पाण्डुरांशुकसंवीतां शयानां प्रमदामिव ॥ ४.४९ ॥ दृश्यतां स्त्रीषु माहात्म्यं चक्रवाको ह्यसौ जले । पृष्ठतः प्रेष्यवद्भार्यामनुवर्त्यनुगच्छति ॥ ४.५० ॥ मत्तस्य परपुष्टस्य रुवतः श्रूयतां ध्वनिः । अपरः कोकिलोऽन्वक्षं प्रतिश्रुत्केव कूजति ॥ ४.५१ ॥ अपि नाम विहङ्गानां वसन्तेनाहृतो मदः । न तु चिन्तयतोऽचिन्त्यं जनस्य प्राज्ञमानिनः ॥ ४.५२ ॥ इत्येवं ता युवतयो मन्मथोद्दामचेतसः । कुमारं विविधैस्तैस्तैरुपचक्रमिरे नयैः ॥ ४.५३ ॥ एवमाक्षिप्यमाणोऽपि सतु धैर्यावृतेन्द्रियः । मर्तव्यमिति सोद्वेगो न जहर्ष न विव्यथे ॥ ४.५४ ॥ तासां तत्त्वेऽनवस्थानं दृष्ट्वा स पुरुषोत्तमः । समं विग्नेन धीरेण चिन्तयामास चेतसा ॥ ४.५५ ॥ किं त्विमा नावगच्छन्ति चपलं यौवनं स्त्रियः । यतो रूपेण संमत्तं जरा यन्नाशयिष्यति ॥ ४.५६ ॥ नूनमेता न पश्यन्ति कस्यचिद्रोगसंप्लवम् । तथा हृष्टा भयं त्यक्त्वा जगति व्यधिधर्मिणि ॥ ४.५७ ॥ अनभिज्ञाश्च सुव्यक्तं मृत्योः सर्वापहारिणः । ततः स्वस्था निरुद्विग्नाः क्रीडन्ति च हसन्ति च ॥ ४.५८ ॥ जरां व्याधिं च मृत्युं च को हि जानन्सचेतनः । स्वस्थस्तिष्ठेन्निषीदेद्वा शयेद्वा किं पुनर्हसेत् ॥ ४.५९ ॥ यस्तु दृष्ट्वा परं जीर्ण व्याधितं मृतमेव च । स्वस्थो भवति नोद्विग्नो यथाचेतास्तथैव सः ॥ ४.६० ॥ वियुज्यमाने हि तरौ पुष्पैरपि फलैरपि । पतति च्छिद्यमाने वा तरुरन्यो न शोचते ॥ ४.६१ ॥ इति ध्यानपरं दृष्ट्वा विषयेभ्यो गतस्पृहम् । उदायी नीतिशास्त्रज्ञस्तमुवाच सुहृत्तया ॥ ४.६२ ॥ अहं नृपतिना दत्तः सखा तुभ्यं क्षमः किल । यास्मात्त्वयि विवक्षा मे तया प्रणयवत्तया ॥ ४.६३ ॥ अहितात्प्रतिषेधश्च हिते चानुप्रवर्तनम् । व्यसने चापरित्यागस्त्रिविधं मित्रलक्षणम् ॥ ४.६४ ॥ सोऽहं मैत्रीं प्रतिज्ञाय पुरुषार्थात्पराङ्मुखः । यदि त्वा समुपेक्षेय न भवेन्मित्रता मयि ॥ ४.६५ ॥ तद्ब्रवीमि सुहृद्भूत्वा तरुणस्य वपुष्मतः । इदं न प्रतिरूपं ते स्त्रीष्वदाक्षिण्यमीदृशम् ॥ ४.६६ ॥ अनृतेनापि नारीणां युक्तं समनुवर्तनम् । तद्व्रीडापरिहारार्थमात्मरत्यर्थमेव च ॥ ४.६७ ॥ संनतिश्चानुवृत्तिश्च स्त्रीणां हृदयबन्धनम् । स्नेहस्य हि गुणा योनिर्मानकामाश्च योषितः ॥ ४.६८ ॥ तदर्हसि विशालाक्ष हृदयेऽपि पराङ्मुखे । रूपस्यास्यानुरूपेण दाक्षिण्येनानुवर्तितुम् ॥ ४.६९ ॥ दाक्षिण्यमौषधं स्त्रीणां दाक्षिण्यं भूषणं परम् । दाक्षिण्यरहितं रूपं निष्पुष्पमिव काननम् ॥ ४.७० ॥ किं वा दाक्षिण्यमात्रेण भावेनास्तु परिग्रहः । विषयान्दुर्लभांल्लब्ध्वा न ह्यवज्ञातुमर्हसि ॥ ४.७१ ॥ कामं परमिति ज्ञात्वा देवोऽपि हि पुरंदरः । गौतमस्य मुनेः पत्नीमहल्यां चकमे पुरा ॥ ४.७२ ॥ अगस्त्यः प्रार्थयामास सोमभार्या च रोहिणीम् । तस्मात्तत्सदृशी लेभे लोपामुद्रामिति श्रुतिः ॥ ४.७३ ॥ उतथ्यस्य च भार्यायां ममातायं महातपः । मारुत्यां जनयामास भरद्वाजं बृहस्पतिः ॥ ४.७४ ॥ बृहस्पतेर्महिष्यां च जुव्हत्यां जुव्हतां वरः । बुधं विबुधकर्माणं जनयामास चन्द्रमाः ॥ ४.७५ ॥ कालीं चैव पुरा कन्यां जलप्रभवसंभवाम् । जगाम यमुनातीरे जातरागः पराशरः ॥ ४.७६ ॥ मातङ्गयामक्षमालायां गर्हितायां रिरंसया । कपिञ्जलादं तनयं वसिष्ठोऽजनयन्मुनिः ॥ ४.७७ ॥ ययातिश्चैव राजर्षिर्वयस्यपि विनिर्गते । विश्वाच्याप्सरसा सार्धं रेमे चैत्ररथे वने ॥ ४.७८ ॥ स्त्रीसंसर्ग विनाशान्तं पाण्डुर्ज्ञात्वापि कौरवः । माद्रीरूपगुणाक्षिप्तः सिषेवे कामजं सुखम् ॥ ४.७९ ॥ करालजनकश्चैव हृत्वा ब्राह्मणकन्यकाम् । अवाप भ्रंशमप्येवं न तु सेजे न मन्मथम् ॥ ४.८० ॥ एवमाद्या महात्मानो विषयान् गर्हितानपि । रतिहेतोर्बुभुजिरे प्रागेव गुणसंहितान् ॥ ४.८१ ॥ त्वं पुनर्न्यायतः प्राप्तान् बलवान् रूपवान्युवा । विषयानवजानासि यत्र सक्तमिदं जगत् ॥ ४.८२ ॥ इति श्रुत्वा वचस्तस्य श्लक्ष्णमागमसंहितम् । मेघस्तनितनिर्घोषः कुमारः प्रत्यभाषत ॥ ४.८३ ॥ उपपन्नमिदं वाक्यं सौहार्दव्यञ्जकं त्वयि । अत्र च त्वानुनेष्यामि यत्र मा दुष्ठु मन्यसे ॥ ४.८४ ॥ नावजानामि विषयान् जाने लोकं तदात्मकम् । अनित्यं तु जगमत्वा नात्र मे रमते मनः ॥ ४.८५ ॥ जरा व्याधिश्च मृत्युश्च यदि न स्यादिदं त्रयम् । ममापि हि मनोज्ञेषु विषयेषु रतिर्भवेत् ॥ ४.८६ ॥ नित्यं यदपि हि स्त्रीणामेतदेव वपुर्भवेत् । दोषवत्स्वपि कामेषु कामं रज्येत मे मनः ॥ ४.८७ ॥ यदा तु जरयापीतं रूपमासां भविष्यति । आत्मनोऽप्यनभिप्रेतं मोहात्तत्र रतिर्भवेत् ॥ ४.८८ ॥ मृत्युव्याधिजराधर्मा मृत्युव्याधिजरात्मभिः । रममाणो ह्यसंविग्नः समानो मृगपक्षिभिः ॥ ४.८९ ॥ यदप्यात्थ महात्मानस्तेऽपि कामात्मका इति । संवेगोऽत्रैव कर्तव्यो यदा तेषामपि क्षयः ॥ ४.९० ॥ माहात्म्यं न च तन्मन्ये यत्र सामान्यतः क्षयः । विषयेषु प्रसक्तिर्वा युक्तिर्वा नात्मवत्तया ॥ ४.९१ ॥ यदप्यात्थानृतेनापि स्त्रीजने वर्त्यतामिति । अनृतं नावगच्छामि दाक्षिण्येनापि किंचन ॥ ४.९२ ॥ न चानुवर्तनं तन्मे रुचितं यत्र नार्जवम् । सर्वभावेन संपर्को यदि नास्ति धिगस्तु तत् ॥ ४.९३ ॥ अधृतेः श्रद्दधानस्य सक्तस्यादोषदर्शिनः । किं हि वञ्चयितव्यं स्याज्जातरागस्य चेतसः ॥ ४.९४ ॥ वञ्चयन्ति च यद्येवं जातरागाः परस्परम् । ननु नैव क्षमं द्रष्टुं नराः स्त्रीणां नृणां स्त्रियः ॥ ४.९५ ॥ तदेवं सति दुःखार्त जरामरणभागिनम् । न मां कामेष्वनार्येषु प्रतारयितुमर्हसि ॥ ४.९६ ॥ अहोऽतिधीरं बलवच्च ते मनश्चलेषु कामेषु च सारदर्शिनः । भयेऽतितीव्रे विषयेषु सज्जसे निरीक्षमाणो मरणाध्वनि प्रजाः ॥ ४.९७ ॥ अहं पुनर्भीरुरतीवविक्लवो जराविपद्व्याधिभयं विचिन्तयन् । लभे न शान्तिं न धृतिं कुतो रतिं निशामयन्दीप्तमिवाग्निना जगत् ॥ ४.९८ ॥ असंशयं मृत्युरिति प्रजानतो नरस्य रागो हृदि यस्य जायते । अयोमयीं तस्य परैमि चेतनां महाभये रज्यति यो न रोदिति ॥ ४.९९ ॥ अथो कुमारश्च विनिश्चयात्मिकां चकार कामाश्रयघातिनीं कथाम् । जनस्य चक्षुर्गमनीयमण्डलो महीधरं चास्तमियाय भास्करः ॥ ४.१०० ॥ ततो वृथाधारितभूषणस्रजः कलागुणैश्च प्रणयैश्च निष्फलैः । स्व एव भावे विनिगृह्य मन्मथं पुरं ययुर्भग्नमनोरथाः स्त्रियः ॥ ४.१०१ ॥ ततः पुरोद्यानगतां जनश्रियं निरीक्ष्य सायं प्रतिसंहृतां पुनः । अनित्यतां सर्वगतां विचिन्तयन्विवेश धिष्णयं क्षितिपालकात्मजः ॥ ४.१०२ ॥ ततः श्रुत्वा राजा विषयविमुखं तस्य तु मनो न शिश्ये तां रात्रिं हृदयगतशल्यो गज इव । अथ श्रान्तो मन्त्रे बहुविविधमार्गे ससचिवो न सोऽन्यत्कामेभ्यो नियमनमपश्यत्सुतमतेः ॥ ४.१०३ ॥ इति बुद्धचरिते महाकाव्ये स्त्रीविघातनो नाम चतुर्थः सर्गः ॥ ४ ॥ सर्ग ५ स तथा विषयैर्विलोभ्यमानः परमार्हैरपि शाक्यराजसूनुः । न जगाम धृतिं न शर्म लेभे हृदये सिंह इवातिदिग्धविद्धः ॥ ५.१ ॥ अथ मन्तिसुतैः क्षमैः कदाचित्सखिभिश्चित्रकथैः कृतानुयात्रः । वनभूमिदिदृक्षया शमेप्सुर्नरदेवानुमतो बहिः प्रतस्थे ॥ ५.२ ॥ नवरुक्मखलीनकिङ्किणीकं प्रचलच्चारमरचारुहेमभाण्डम् । अभिरुह्य स कन्थकं सदश्वं प्रययौ केतुमिव द्रुमाब्जकेतुः ॥ ५.३ ॥ स विकृष्टतरां वनान्तभूमिं वनलोभाच्च ययौ महीगुणाच्च । सलिलोर्मिविकारसीरमार्गां वसुधां चैव ददर्श कृष्यमाणाम् ॥ ५.४ ॥ हलभिन्नविकीर्णशष्पदर्भा हतसूक्ष्मक्रिमिकीटजन्तुकीर्णाम् । समवेक्ष्य रसां तथाविधां तां स्वजनस्येव वधे भृशं शुशोच ॥ ५.५ ॥ कृषतः पुरुषांश्च वीक्षमाणः पवनार्काशुरजोविभिन्नवर्णान् । वहनक्लमविक्लवांश्च धुर्यान् परमार्यः परमां कृपां चकार ॥ ५.६ ॥ अवतीर्य ततस्तुरङ्गपृष्ठाच्छनकैर्गा व्यचरच्छुचा परीतः । जगतो जननव्ययं विचिन्वन् कृपणं खल्विदमित्युवाच चार्तः ॥ ५.७ ॥ मनसा च विविक्ततामभीप्सुः सुहृदस्ताननुयायिनो निवार्य । अभितश्चलचारुपर्णवत्या विजने मूलमुपेयिवान् स जम्ब्वाः ॥ ५.८ ॥ निषसाद स यत्र शौचवत्यां भुवि वैदूर्यनिकाशशाद्वलायाम् । जगतः प्रभवव्ययौ विचिन्वन्मनसश्च स्थितिमार्गमाललम्बे ॥ ५.९ ॥ समवाप्तमनःस्थितिश्च सद्यो विषयेच्छादिभिराधिभिश्च मुक्तः । सवितर्कविचारमाप शान्तं प्रथमं ध्यानमनास्रवप्रकारम् ॥ ५.१० ॥ अधिगम्य ततो विवेकजं तु परमप्रीतिसुखं मनःसमाधिम् । इदमेव ततः परं प्रदध्यौ मनसा लोकगतिं निशाम्य सम्यक् ॥ ५.११ ॥ कृपणं बत यज्जनः स्वयं सन्नवशो व्याधिजराविनाशधर्मा । जरयार्दितमातुरं मृतं वा परमज्ञो विजुगुप्सते मदान्धः ॥ ५.१२ ॥ इह चेदहमीदृशः स्वयं सन्विजुगुप्सेय परं तथास्वभावम् । न भवेत्सदृशं हि तत्क्षमं वा परमं धर्ममिमं विजानतो मे ॥ ५.१३ ॥ इति तस्य विपश्यतो यथावज्जगतो व्याधिजराविपत्तिदोषान् । बलयौवनजीवितप्रवृत्तो विजगामात्मगतो मदः क्षणेन ॥ ५.१४ ॥ न जहर्ष न चापि चानुतेपे विचिकित्सां न ययौ न तन्द्रिनिद्रे । न च कामगुणेषु संररञ्जे न विदिद्वेष परं न चावमेने ॥ ५.१५ ॥ इति बुद्धिरियं च नीरजस्का ववृधे तस्य महात्मनो विशुद्धा । पुरुषैरपरैरदृश्यमानः पुरुषश्चोपससर्प भिक्षुवेषः ॥ ५.१६ ॥ नरदेवसुतस्तमभ्यपृच्छद्वद कोऽसीति शशंस सोऽथ तस्मै । नरपुंगव जन्ममृत्युभीतः श्रमणः प्रव्रजितोऽस्मि मोक्षहेतोः ॥ ५.१७ ॥ जगति क्षयधर्मके मुमुक्षर्मृगयेऽहं शिवमक्षयं पदं तत् । स्वजनेऽन्यजने च तुल्यबुद्धिर्विषयेभ्यो विनिवृत्तरागदोषः ॥ ५.१८ ॥ निवसन् क्वचिदेव वृक्षमूले विजने वायतने गिरौ वने वा । विचराम्यपरिग्रहो निराशः परमार्थाय यथोपपन्नभैक्षः ॥ ५.१९ ॥ इति पश्यत एव राजसूनोरिदमुक्त्वा स नभः समुत्पपात । स हि तद्वपुरन्यबुद्धदर्शी स्मृतये तस्य समेयिवान्दिवौकाः ॥ ५.२० ॥ गगनं खगवद्गते च तस्मिनृवरः संजहृषे विसिस्मिये च । उपलभ्य ततश्च धर्मसंज्ञामभिनिर्याणविधौ मतिं चकार ॥ ५.२१ ॥ तत इन्द्रसमो जितेन्द्रियाश्वः प्रविविक्षुः पुरमश्वमारुरोह । परिवारजनं त्ववेक्षमाणस्तत एवाभिमतं वनं न भेजे ॥ ५.२२ ॥ स जरामरणक्षयं चिकीर्षुर्वनवासाय मतिं स्मृतौ निधाय । प्रविवेश पुनः पुरं न कामाद्वनभूमेरिव मण्डलं द्विपेन्द्रः ॥ ५.२३ ॥ सुखिता बत निर्वृता च सा स्त्री पतिरीदृक्ष इहायताक्ष यस्याः । इति तं समुदीक्ष्य राजकन्या प्रविशन्तं पथि साञ्जलिर्जगाद ॥ ५.२४ ॥ अथ घोषमिमं महाभ्रघोषः परिशुश्राव शमं परं च लेभे । श्रुतवान्स हि निर्वृतेति शब्दं परिनिर्वाणविधौ मतिं चकार ॥ ५.२५ ॥ अथ काञ्चनशैलशृङ्गवर्ष्मा गजमेघर्षभबाहुनिस्वनाक्षः । क्षयमक्षयधर्मजातरागः शशिसिंहाननविक्रमः प्रपेदे ॥ ५.२६ ॥ मृगराजगतिस्ततोऽभ्यगच्छन्नृपतिं मन्त्रिगणैरुपास्यमानम् । समितौ मरुतामिव ज्वलन्तं मघवन्तं त्रिदिवे सनत्कुमारः ॥ ५.२७ ॥ प्रणिपत्य च साञ्जलिर्बभाषे दिश मह्यं नरदेव साध्वनुज्ञाम् । परिविव्रजिषामि मोक्षहेतोर्नियतो ह्यस्य जनस्य विप्रयोगः ॥ ५.२८ ॥ इति तस्य वचो निशम्य राजा करिणेवाभिहतो द्रुमश्चचाल । कमलप्रतिमेऽञ्जलौ गृहीत्वा वचनं चेदमुवाच बाष्पकण्ठः ॥ ५.२९ ॥ प्रतिसंहर तात्बुद्धिमेतां न हि कालस्तव धर्मसंश्रयस्य । वयसि प्रथमे मतौ चलायां बहुदोषां हि वदन्ति धर्मचर्याम् ॥ ५.३० ॥ विषयेषु कुतूहलेन्द्रियस्य व्रतखेदेष्वसमर्थीनिश्चयस्य । तरुणस्य मनश्चलत्यरण्यादनभिज्ञश्च विशेषतो विवेके ॥ ५.३१ ॥ मम तु प्रियधर्म धर्मकालस्त्वयि लक्ष्मीमवसृज्य लक्ष्मभूते । स्थिरविक्रम विक्रमेण धर्मस्तव हित्वा तु गुरुं भवेदधर्मः ॥ ५.३२ ॥ तदिमं व्यवसायमुत्सृज त्वं भव तावन्निरतो गृहस्थधर्मे । पुरुषस्य वयःसुखानि भुक्त्वा रमणीयो हि तपोवनप्रवेशः ॥ ५.३३ ॥ इति वाक्यमिदं निशम्य राज्ञः कलविङ्कस्वर उत्तरं बभाषे । यदि मे प्रतिभूतश्चतुर्षु राजन् भवसि त्वं न तपोवनं श्रयिष्ये ॥ ५.३४ ॥ न भवेन्मरणाय जीवितं मे विहरेत्स्वास्थ्यमिदं च मे न रोगः । न च यौवनमाक्षिपेज्जरा मे न च संपत्तिमिमां हरेद्विपत्तिः ॥ ५.३५ ॥ इति दुर्लभमर्थमूचिवांसं तनयं वाक्यमुवाच शाक्यराजः । त्यज बुद्धिमिमामतिप्रवृत्तामवहास्योऽतिमनोरथोऽक्रमश्च ॥ ५.३६ ॥ अथ मेरुगुरुर्गुरुं बभाषे यदि नास्ति क्रम एष नास्मि वार्यः । शरणाज्ज्वलनेन दह्यमानान्न हि निश्चिक्रमिषुः क्षमं ग्रहीतुम् ॥ ५.३७ ॥ जगतश्च यदा ध्रुवो वियोगो ननु धर्माय वरं स्वयवियोगः । अवशं ननु विप्रयोजयेन्मामकृतस्वार्थमतृप्तमेव मृत्युः ॥ ५.३८ ॥ इति भूमिपतिर्निशम्य तस्य व्यवसायं तनयस्य निर्मुमुक्षोः । अभिधाय न यास्यतीति भूयो विदधे रक्षणमुत्तमांश्च कामान् ॥ ५.३९ ॥ सचिवैस्तु निदर्शितो यथावद्बहुमानात्प्रणयाच्च शास्त्रपूर्वम् । गुरुणा च निवारितोऽश्रुपातैः प्रविवेशावसथं ततः स शोचन् ॥ ५.४० ॥ चलकुण्डलचुम्बिताननाभिर्घननिश्वासविकम्पितस्तनीभिः । वनिताभिरधीरलोचनाभिमृर्गशावाभिरिवाभ्युदीक्ष्यमाणः ॥ ५.४१ ॥ स हि काञ्चनपर्वतावदातो हृदयेन्मादकरो वराङ्गनानाम् । श्रवणाङ्गविलोचनात्मभावान्वचनस्पर्शवपुर्गुणैर्जहार ॥ ५.४२ ॥ विगते दिवसे ततो विमानं वपुषा सूर्य इव प्रदीप्यमानः । तिमिरं विजिघांसुरात्मभासा रविरुद्यन्निव मेरुमारुरोह ॥ ५.४३ ॥ कनकोज्ज्वलदीप्तदीपवृक्षं वरकालागुरुधूपपूर्णगर्भम् । अधिरुह्य स वज्रभक्तिचित्रं प्रवरं काञ्चनमासनं सिषेवे ॥ ५.४४ ॥ तत उत्तममुत्तमाङ्गनास्तं निशि तूर्यैरुपतस्थुरिन्द्रकल्पम् । हिमवच्छिरसीव चन्द्रगौरे द्रविणेन्द्रात्मजमप्सरोगणौघाः ॥ ५.४५ ॥ परमैरपि दिव्यतूर्यकल्पैः स तु तैर्नैव रतिं ययौ न हर्षम् । परमार्थसुखाय तस्य साधोरभिनिश्चिक्रमिषा यतो न रेमे ॥ ५.४६ ॥ अथ तत्र सुरैस्तपोवरिष्ठैरकनिष्ठैर्व्यवसायमस्य बुद्ध्वा । युगपत्प्रमदाजनस्य निद्रा विहितासीद्विकृताश्च गात्रचेष्टाः ॥ ५.४७ ॥ अभवच्छयिता हि तत्र काचिद्विनिवेश्य प्रचले करे कपोलम् । दयितामपि रुक्मपत्त्रचित्रां कुपितेवाङ्कगतां विहाय वीणाम् ॥ ५.४८ ॥ विबभौ करलग्नवेणुरन्या स्तनविस्रस्तसितांशुका शयाना । ऋजुषट्पदपङ्क्तिजुष्टपद्मा जलफेनप्रहसत्तटा नदीव ॥ ५.४९ ॥ नवपुष्करगर्भकोमलाभ्यां तपनीयोज्ज्वलसंगताङ्गदाभ्याम् । स्वपिति स्म तथापरा भुजाभ्यां परिरभ्य प्रियवन्मृदङ्गमेव ॥ ५.५० ॥ नवहाटकभूषणास्तथान्या वसनं पीतमनुत्तमं वसानाः । अवशा घननिद्रया निपेतुर्गजभग्ना इव कर्णिकारशाखाः ॥ ५.५१ ॥ अवलम्ब्य गवाक्षपार्श्वमन्या शयिता चापविभुग्नगात्रयष्टिः । विरराज विलम्बिचारुहारा रचिता तोरणाशालभञ्जिकेव ॥ ५.५२ ॥ मणिकुण्डलदष्टपत्त्रलेखं मुखपद्मं विनतं तथापरस्याः । शतपत्त्रमिवार्धवक्रनाडं स्थितकारण्डवघट्टितं चकाशे ॥ ५.५३ ॥ अपराः शयिता यथोपविष्टाः स्तनभारैरवनम्यमानगात्राः । उपगुह्य परस्परं विरेजुर्भुजपाशैस्तपनीयपरिहार्यैः ॥ ५.५४ ॥ महती परिवादिनी च काचिद्वनितालिङ्ग्य सखीमिव प्रसुप्ता । विजुघूर्ण चलत्सुवर्णसूत्रा वदनेनाकुलकर्णिकोज्ज्वलेन ॥ ५.५५ ॥ पणवं युवतिर्भुजांसदेशादवविस्रंसितचारूपाशमन्या । सविलासरतान्ततान्तमूर्वोर्विवरे कान्तमिवाभिनीय शिश्ये ॥ ५.५६ ॥ अपरा बभूवुर्निमीलिताक्ष्यो विपुलाक्ष्योऽपि शुभभ्रुवोऽपि सत्यः । प्रतिसंकुचितारविन्दकोशाः सवितर्यस्तमिते यथा नलिन्यः ॥ ५.५७ ॥ शिथिलाकुलमूर्धजा तथान्या जघनस्रस्तविभूषणांशुकान्ता । अशयिष्ट विकीर्णकण्ठसूत्रा गजभग्ना प्रतियातनाङ्गनेव ॥ ५.५८ ॥ अपरास्त्ववशा ह्रिया वियुक्ता धृतिमत्योऽपि वपुर्गुणैरुपेताः । विनिशश्वसुरुल्बणं शयाना विकृताः क्षिप्तभूजा जजृम्भिरे च ॥ ५.५९ ॥ व्यपविद्धविभूषणस्रजोऽन्या विसृताग्रन्थनवाससो विसंज्ञाः । अनिमीलितशुक्लनिश्चलाक्ष्यो न विरेजुः शयिता गतासुकल्पाः ॥ ५.६० ॥ विवृतास्यपुटा विवृद्धगात्री प्रपतद्वक्त्रजला प्रकाशगुह्या । अपरा मदघूर्णितेव शिश्ये न बभासे विकृतं वपुः पुपोष ॥ ५.६१ ॥ इति सत्त्वकुलान्वयानुरूपं विविधं स प्रमदाजनः शयानः । सरसः सदृशं बभार रूपं पवनावर्जितरुग्नपुष्करस्य ॥ ५.६२ ॥ समवेक्ष्य तथा तथा शयाना विकृतास्ता युवतीरधीरचेष्टाः । गुणवद्वपुषोऽपि वल्गुभाषा नृपसूनुः स विगर्हयांबभूव ॥ ५.६३ ॥ अशुचिर्विकृतश्च जीवलोके वनितानामयमीदृशः स्वभावः । वसनाभरणैस्तु वञ्च्यमानः पुरुषः स्त्रीविषयेषु रागमेति ॥ ५.६४ ॥ विमृशेद्यदि योषितां मनुष्यः प्रकृतिं स्वप्नविकारमीदृशं च । ध्रुवमत्र न वर्धयेत्प्रमादं गुणसंकल्पहतस्तु रागमेति ॥ ५.६५ ॥ इति तस्य तदन्तरं विदित्वा निशि निश्चिक्रमिषा समुद्बभूव । अवगम्य मनस्ततोऽस्य देवैर्भवनद्वारमपावृतं बभूव ॥ ५.६६ ॥ अथ सोऽवततार हर्म्यपृष्ठाद्युवतीस्ताः शयिता विगर्हमाणः । अवतीर्य ततश्च निर्विशङ्को गृहकक्ष्यां प्रथमां विनिर्जगाम ॥ ५.६७ ॥ तुरगावचरं स बोधयित्वा जविनं छन्दकमित्थमित्युवाच । हयमानय कन्थकं त्वरावानमृतं प्राप्तुमितोऽद्य मे यियासा ॥ ५.६८ ॥ हृदि या मम तुष्टिरद्य जाता व्यवसायश्च यथा मतौ निविष्टः । विजनेऽपि च नाथवानिवास्मि ध्रुवमर्थोऽभिमुखः समेत इष्टः ॥ ५.६९ ॥ ह्रियमेव च संनतिं च हित्वा शयिता मत्प्रमुखे यथा युवत्यः । विवृते च यथा स्वयं कपाटे नियतं यातुमतो ममाद्य कालः ॥ ५.७० ॥ प्रतिगृह्य ततः स भर्तुराज्ञां विदितार्थोऽपि नरेन्द्रशासनस्य । मनसीव परेण चोद्यमानस्तुरगस्यानयने मतिं चकार ॥ ५.७१ ॥ अथ हेमखलीनपूर्णवक्त्रं लघुशय्यास्तरणोपगूढपृष्ठम् । बलसत्त्वजवान्वयोपपन्नं स वराश्वं तमुपानिनाय भर्त्रे ॥ ५.७२ ॥ प्रतत्रिकपुच्छमूलपार्ष्णि निभृतहृस्वतनूजपुच्छकर्णम् । विनतोन्नतपृष्ठकुक्षिपार्श्व विपुलप्रोथललाटकट्युरस्कम् ॥ ५.७३ ॥ उपगुह्य स तं विशालवक्षाः कमलाभेन च सान्त्वयन् करेण । मधुराक्षरया गिरा शशास ध्वजिनीमध्यमिव प्रवेष्टुकामः ॥ ५.७४ ॥ बहुशः किल शत्रवो निरस्ताः समरे त्वामधिरुह्य पार्थिवेन । अहमप्यमृतं पदं यथावत्तुरगश्रेष्ठ लभेय तत्कुरुष्व ॥ ५.७५ ॥ सुलभाः खलु संयुगे सहाया विषयावाप्तसुखे धनार्जने वा । पुरुषस्य तु दुर्लभाः सहायाः पतितस्यापदि धर्मसंश्रये वा ॥ ५.७६ ॥ इह चैव भवन्ति ये सहायः कलुषे कर्मणि धर्मसंश्रये वा । अवगच्छैत्मे यथान्तरात्मा नियतं तेऽपि जनास्तदंशभाजः ॥ ५.७७ ॥ तदिदं परिगम्य धर्मयुक्तं मम निर्याणमितो जगद्धिताय । तुरगोत्तम वेगविक्रमाभ्यां प्रयतस्वात्महिते जगद्धिते च ॥ ५.७८ ॥ इति सुहृदमिवानुशिष्य कृत्ये तुरगवरं नृवरो वनं यियासुः । सितमसितगतिद्युतिर्वपुष्मान् रविरिव शारदमभ्रमारुरोह ॥ ५.७९ ॥ अथ स परिहरन्निशीथचण्डं परिजनबोधकरं ध्वनीं सदश्वः । विगतहनुरवः प्रशान्तहेषश्चकितविमुक्तपदक्रमो जगाम ॥ ५.८० ॥ कनकवलयभूषितप्रकोष्ठैः कमलनिभैः कमलानिव प्रविध्य । अवनततनवस्ततोऽस्य यक्षाश्चकितगतैर्दीधरे खुरान् कराग्रैः ॥ ५.८१ ॥ गुरुपरिघकपाटसंवृता या न सुखमपि द्विरदैरपाव्रियन्ते । व्रजति नृपसुते गतस्वनास्ताः स्वयमभवन्विवृताः पुरः प्रतोल्यः ॥ ५.८२ ॥ पितरमभिमुखं सुतं च बालं जनमनुरक्तमनुत्तमां च लक्ष्मीम् । कृतमतिरपहाय निर्व्यपेक्षः पितृनगरात्स ततो विनिर्जगाम ॥ ५.८३ ॥ अथ स विमलपङ्कजायताक्षः पुरमवलोक्य ननाद सिंहनादम् । जननमरणयोरदृष्टपारो न पुरमहं कपिलाव्हयं प्रवेष्टा ॥ ५.८४ ॥ इति वचनमिदं निशम्य तस्य द्रविणपतेः परिषद्गणा ननन्दुः । प्रमुदितमनसश्च देवसङ्घा व्यवसितपारणमाशशंसिरेऽस्मै ॥ ५.८५ ॥ हुतवहवपुषोः दिवौकसोऽन्ये व्यवसितमस्य सुदुष्करं विदित्वा । अकृषत तुहिने पथि प्रकाशं घनविवरप्रसृता इवेन्दुपादाः ॥ ५.८६ ॥ हरितुरगतुरङ्गवत्तुरङ्गः स तु विचरन्मनसीव चोद्यमानः । अरुणपरुषतारमन्तरिक्षं स च सुबहूनि जगाम योजनानि ॥ ५.८७ ॥ इति बुद्धचरिते महाकाव्येऽभिनिष्क्रमणो नाम पञ्चमः सर्गः ॥ ५ ॥ सर्ग ६ ततो मुहूर्ताभ्युदिते जगच्चक्षुषि भास्करे । भार्गवस्याश्रमपदं स ददर्श नृणां वरः ॥ ६.१ ॥ सुप्तविश्वस्तहरिणं स्वस्थस्थितविहङ्गमम् । विश्रान्त इव यद्दृष्ट्वा कृतार्थ इव चाभवत् ॥ ६.२ ॥ स विस्मयनिवृत्त्यर्थ तपःपूजार्थमेव च । स्वां चानुवर्तिता रक्षन्नश्वपृष्ठादवतारत् ॥ ६.३ ॥ अवतीर्य च पस्पर्श निस्तीर्णमिति वाजिनम् । छन्दकं चाव्रवीत्प्रीतः स्नापयन्निव चक्षुषा ॥ ६.४ ॥ इमं तार्क्ष्योपमजवं तुरङ्गमनुगच्छता । दर्शिता सौम्य मद्भक्तिर्विक्रमश्चायमात्मनः ॥ ६.५ ॥ सर्वथास्म्यन्यकार्योऽपि गृहीतो भवता हृदि । भर्तुस्नेहश्च यस्यायमीदृशः शक्तिरेव च ॥ ६.६ ॥ अस्निग्धोऽपि समर्थोऽस्ति निःसामर्थ्योऽपि भक्तिमान् । भक्तिमांश्चैव शक्तश्च दुर्लभस्त्वद्विधो भुवि ॥ ६.७ ॥ तत्प्रीतोऽस्मि तवानेन महाभागेन कर्मणा । यस्य ते मयि भावोऽयं फलेभ्योऽपि पराङ्मुखः ॥ ६.८ ॥ को जनस्य फलस्थस्य न स्यादभिमुखो जनः । जनीभवति भूयिष्ठं स्वजनोऽपि विपर्यये ॥ ६.९ ॥ कुलार्थ धार्यते पुत्रः पोषार्थ सेव्यते पिता । आशयाच्छिलष्यति जगन्नास्ति निष्कारणा स्वता ॥ ६.१० ॥ किमुक्त्वा बहु संक्षेपात्कृतं मे सुमहत्प्रियम् । निवर्तस्वाश्वमादाय संप्राप्तोऽस्मीप्सितं पदम् ॥ ६.११ ॥ इत्युक्त्वा स महाबाहुरनुशंसचिकीर्षया । भूषणान्यवमुच्यास्मै संतप्तमनसे ददौ ॥ ६.१२ ॥ मुकुटाद्दीपकर्माणं मणीमादाय भास्वरम् । ब्रुवन्वाक्यमिदं तस्थौ सांदित्य इव मन्दरः ॥ ६.१३ ॥ अनेन मणिना छन्द प्रणम्य बहुशो नृपः । विज्ञाप्योऽमुक्तविश्रम्भं संतापविनिवृत्तये ॥ ६.१४ ॥ जन्ममरणनाशार्थ प्रविष्टोऽस्मि तपोवनम् । न खलु स्वर्गतर्षेण नास्नेहेन न मन्युना ॥ ६.१५ ॥ तदेवमभिनिष्क्रान्तं न मां शोचितुमर्हसि । भूत्वापि हि चिरं श्लेषः कालेन न भविष्यति ॥ ६.१६ ॥ ध्रुवो यस्माच्च विश्लेषस्तस्मान्मोक्षाय मे मतिः । विप्रयोगः कथं न स्याद्भूयोऽपि स्वजनादिति ॥ ६.१७ ॥ शोकत्यागाय निष्क्रान्तं न मां शोचितुमर्हसि । शोकहेतुषु कामेषु सक्ताः शोच्यास्तु रागिणः ॥ ६.१८ ॥ अयं च किल पूर्वेषामस्माकं निश्चयः स्थिरः । इति दायाद्यभूतेन न शोच्योऽस्मि पथा व्रजन् ॥ ६.१९ ॥ भवन्ति ह्यर्थदायादाः पुरुषस्य विपर्यये । पृथिव्यां धर्मदायादाः दुर्लभास्तु न सन्ति वा ॥ ६.२० ॥ यदपि स्यादसमये यातो वनमसाविति । अकालो नास्ति धर्मस्य जीविते चञ्चले सति ॥ ६.२१ ॥ तस्मादद्यैव मे श्रेयश्चेतव्यमिति निश्चयः । जीविते को हि विश्रम्भो मृत्यौ प्रत्यर्थिनि स्थिते ॥ ६.२२ ॥ एवमादि त्वया सौम्य विज्ञाप्यो वसुधाधिपः । प्रयतेथास्तथा चैव यथा मां न स्मरेदापि ॥ ६.२३ ॥ अपि नैर्गुण्यमस्माकं वाच्यं नरपतौ त्वया । नैर्गुण्यात्त्यज्यते स्नेहः स्नेहत्यागान्न शोच्यते ॥ ६.२४ ॥ इति वाक्यमिदं श्रुत्वा छन्दः संतापविक्लवः । बाष्पग्रथितया वाचा प्रत्युवाच कृताञ्जलिः ॥ ६.२५ ॥ अनेन त व भावेन बान्धवायासदायिना । भर्तः सीदति मे चेतो नदीपङ्क इव द्विपः ॥ ६.२६ ॥ कस्य नोत्पादयेद्बाष्पं निश्चयस्तेऽयमीदृशः । अयोमयेऽपि हृदये किं पुनः स्नेहविक्लवे ॥ ६.२७ ॥ विमानशयनार्हं हि सौकुमार्यमिदं क्व च । खरदर्भाङ्कुरवती तपोवनमही क्व च ॥ ६.२८ ॥ श्रुत्वा तु व्यवसायं ते यदश्वोऽयं मयाहृतः । बलात्कारेण तन्नाथ दैवेनैवास्मि कारितः ॥ ६.२९ ॥ कथं ह्यात्मवशो जानन् व्यवसायमिमं तव । उपानयेयं तुरगं शोकं कपिलवास्तुनः ॥ ६.३० ॥ तन्नार्हसि महाबाहो विहातुं पुत्रलालसम् । स्निग्धं वृद्धं च राजानं सद्धर्ममिव नास्तिकः ॥ ६.३१ ॥ संवर्धनपरिश्रान्तां द्वितीयां तां च मातरम् । देवीं नार्हसि विस्मर्तु कृतघ्न इव सत्क्रियाम् ॥ ६.३२ ॥ बालपुत्रां गुणवर्ती कुलश्लाध्यां पतिव्रताम् । देवीमर्हसि न त्यक्तुं क्लीबः प्राप्तामिव श्रियम् ॥ ६.३३ ॥ पुत्रं याशोधरं श्लाध्यं यशोधर्मभृतां वरम् । बालमर्हसि न त्यक्तुं व्यसनीवोत्तमं यशः ॥ ६.३४ ॥ अथ बन्धुं च राज्यं च त्यक्तुमेव कृता मतिः । मां नार्हसि विभो त्यक्तुं त्वत्पादौ हि गतिर्मम ॥ ६.३५ ॥ नास्मि यातुं पुरं शक्तो दह्यमानेन चेतसा । त्वामरण्ये परित्यज्य सुमन्त्र इव राघवम् ॥ ६.३६ ॥ किं हि वक्ष्यति मां राजा त्वदृते नगरं गतम् । वक्ष्याम्युचितदर्शित्वात्किं तवान्तःपुराणि वा ॥ ६.३७ ॥ यदप्यात्थापि नैर्गुण्यं वाच्यं नरपताविति । किं तद्वक्ष्याम्यभूतं ते निर्दोषस्य मुनेरिव ॥ ६.३८ ॥ हृदयेन सलज्जेन जिव्हया सज्जमानया । अहं यदपि वा ब्रूयां कस्तच्छ्रद्धातुमर्हति ॥ ६.३९ ॥ यो हि चन्द्रमसस्तैक्ष्ण्यं कथयेच्छ्रद्दधीत वा । स दोषांस्तव दोषज्ञ कथयेच्छ्रद्दधीत वा ॥ ६.४० ॥ सानुक्रोशस्य सततं नित्यं करुणवेदिनः । स्निग्धत्यागो न सदृशो निवर्तस्व प्रसीद मे ॥ ६.४१ ॥ इति शोकाभिभूतस्य श्रुत्वा छन्दस्य भाषितम् । स्वस्थः परमया धृत्या जगाद वदतां वरः ॥ ६.४२ ॥ मद्वियोगं प्रति च्छन्द संतापस्त्यज्यतामयम् । नानाभावो हि नियतं पृथग्जातिषु देहिषु ॥ ६.४३ ॥ स्वजनं यद्यपि स्नेहान्न त्यजेयमहं स्वयम् । मृत्युरन्योन्यमवशानस्मान् संत्याजयिष्यति ॥ ६.४४ ॥ महत्या तृष्णया दुःखैर्गर्भेणास्मि यया धृतः । तस्या निष्फलयत्नायाः क्वाहं मातुः क्व सा मम ॥ ६.४५ ॥ वासवृक्षे समागम्य विगच्छन्ति यथाण्डजाः । नियतं विप्रयोगान्तस्तथा भूतसमागमः ॥ ६.४६ ॥ समेत्य च यथा भूयो व्यपयान्ति बलाहकाः । संयोगो विप्रयोगश्च तथा मे प्राणिनां मतः ॥ ६.४७ ॥ यस्माद्याति च लोकोऽयं विप्रलभ्य परंपरम् । ममत्त्वं न क्षमं तस्मात्स्वप्नभूते समागमे ॥ ६.४८ ॥ सहजेन वियुज्यन्ते पर्णरागेण पादपाः । अन्येनान्यस्य विश्लेषः किं पुनर्न भविष्यति ॥ ६.४९ ॥ तदेवं सति संतापं मा कार्षी सौम्य गम्यताम् । लम्बते यदि तु स्नेहो गत्वापि पुनराव्रज ॥ ६.५० ॥ ब्रूयाश्चास्मत्कृतापेक्षं जनं कपिलवास्तुनि । त्यज्यतां तग्दतः स्नेहः श्रूयतां चास्य निश्चयः ॥ ६.५१ ॥ क्षिप्रमेष्यति वा कृत्वा जन्ममृत्युक्षयं किल । अकृतार्थो निरारम्भो निधनं यास्यतीति वा ॥ ६.५२ ॥ इति तस्य वचः श्रुत्वा कन्थकस्तुरगोत्तमः । जिव्हया लिलिहे पादौ बाष्पमुष्णं मुमोच च ॥ ६.५३ ॥ जालिना स्वस्तिकाङ्केन चक्रमध्येन पाणिना । आममर्श कुमारस्तं बभाषे च वयस्यवत् ॥ ६.५४ ॥ मुञ्च कन्थक मा बाष्पं दर्शितेयं सदश्वता । मृष्यतां सफलः शीघ्रं श्रमस्तेऽयं भविष्यति ॥ ६.५५ ॥ मणित्सरुं छन्दकहस्तसंस्थं ततः स धीरो निशितं गृहीत्वा कोशादसिं कञ्चनभक्तिचित्रं बिलादिवशीविषमुद्बबर्ह ॥ ६.५६ ॥ निष्कास्य तं चोत्पलपत्त्रनीलं चिच्छेद चित्रं मुकुटं सकेशम् । विकीर्यमाणांशुकमन्तरीक्षे चिक्षेप चैनं सरसीव हंसम् ॥ ६.५७ ॥ पूजाभिलाषेण च बाहुमान्याद्दिवौकसस्तं जगृहुः प्रविद्धम् । यथावदेनं दिवि देवसङ्घा दिव्यैर्विशेषैर्महयां च चक्रुः ॥ ६.५८ ॥ मुक्त्वा त्वलंकारकलत्रवत्तां श्रीविप्रवासं शिरसश्च कृत्वा । दृष्ट्वांशुकं काञ्चनहंसचिन्हं वन्यं स धीरोऽभिचकाङ्क्ष वासः ॥ ६.५९ ॥ ततो मृगव्याधनपुर्दिवौका भावं विदित्वास्य विशुद्धभावः । काषायवस्त्रोऽभिययौ समीपं तं शाक्यराजप्रभवोऽभ्युवाच ॥ ६.६० ॥ शिवं च काषायमृषिध्वजस्ते न युज्यते हिंस्रमिदं धनुश्च । तत्सौम्य यद्यस्ति न सक्तिरत्र मह्यं प्रयच्छेदमिदं गृहाण ॥ ६.६१ ॥ व्याधोऽब्रवीत्कामद काममारादनेन विश्वास्य मृगाग्निहन्मि । अर्थस्तु शक्रोपम यद्यनेन हन्त प्रतीच्छानय शुक्लमेतत् ॥ ६.६२ ॥ परेण हर्षेण ततः स वन्यं जग्राह वासोऽशुकमुत्ससर्ज । व्याधस्तु दिव्यं वपुरेव बिभ्रत्तच्छुक्लमादाय दिवं जगाम ॥ ६.६३ ॥ ततः कुमारश्च स चाश्वगोपस्तस्मिंस्तथा याति विसिस्मियाते । आरण्यके वाससि चैव भूयस्तस्मिन्नकार्ष्टा बहुमानमाशु ॥ ६.६४ ॥ छन्दं ततः साश्रुमुखं विसृज्य काषायसंभृद्धृतिकीर्तिभृत्सः । येनाश्रमस्तेन ययौ महात्मा संध्याभ्रसंवीत इवोडुराजः ॥ ६.६५ ॥ ततस्तथा भर्तरि राज्यनिःस्पृहे तपोवनं याति विवर्णवाससि । भुजौ समुत्क्षिप्य ततः स वाजिभृद्भृशं विचुक्रोश पपात च क्षितौ ॥ ६.६६ ॥ विलोक्य भूयश्च रुरोद सस्वरं हयं भुजाभ्यामुपगुह्य कन्थकम् । ततो निराशो विलपनन्मुहुर्मुहुर्ययौ शरीरेण पुरं न चेतसा ॥ ६.६७ ॥ क्वचित्प्रदध्यौ विललाप च क्वचित्क्वचित्प्रचस्खाल पपात च क्वचित् । अतो व्रजन् भक्तिवशेन दुःखितश्चचार बव्हीरवशः पथि क्रियाः ॥ ६.६८ ॥ इति बुद्धचरिते महाकाव्ये छन्दकनिवर्तनो नाम षष्ठः सर्गः ॥ ६ ॥ सर्ग ७ ततो विसृज्याश्रुमुखं रुदन्तं छन्दं वनच्छन्दतया निरास्थः । सर्वार्थसिद्धो वपुषाभिभूय तमाश्रमं सिद्ध इव प्रपेदे ॥ ७.१ ॥ स राजसूनुर्मृगराजगामी मृगाजिरं तन्मृगवत्प्रविष्टः । लक्ष्मीवियुक्तोऽपि शरीरलक्ष्म्या चक्षूंषि सर्वाश्रमिणां जहार ॥ ७.२ ॥ स्थिता हि हस्तस्थयुगास्तथैव कौतूहलाच्चक्रधराः सदाराः । तमिन्द्रकल्पं ददृशुर्न जग्मुर्धुर्या इवार्धावनतैः शिरोभिः ॥ ७.३ ॥ विप्राश्च गत्वा बहिरिध्महेतोः प्राप्ताः समित्पुष्पवित्रहस्ताः । तपःप्रधानाः कृतबुद्धयोऽपि तं द्रष्टुमीयुर्न मठानभीयुः ॥ ७.४ ॥ हृष्टाश्च केका मुमुचुर्मयूरा दृष्ट्वाम्बुदं नीलमिवोन्नमन्तः । शष्पाणि हित्वाभिमुखाश्च तस्थुर्मृगाश्चलाक्षा मृगचारिणश्च ॥ ७.५ ॥ दृष्ट्वा तमिक्ष्वाकुकुलप्रदीपं ज्वलन्तमुद्यन्तमिवांशुमन्तम् । कृतेऽपि दोहे जनितप्रमोदाः प्रसुस्रुवुर्होमदुहश्च गावः ॥ ७.६ ॥ कश्चिद्वसूनामयमष्टमः स्यात्स्यादाविश्वनोरन्यतरश्च्युतो वा । उच्चेरुरुच्चैरिति तत्र वाचस्तद्दर्शनाद्विस्मयजा मुनीनाम् ॥ ७.७ ॥ लेखर्षभस्येव वपुर्द्वितीयं धामेव लोकस्य चराचरस्य । स द्योतयामास वनं हि कृत्स्नं यदृच्छया सूर्य इवावतीर्णः ॥ ७.८ ॥ ततः स तैराश्रमिभिर्यथावदभ्यर्चितश्चोपनिमन्त्रितश्च । प्रत्यर्चयां धर्मभृतो बभूव स्वरेण साम्भोऽम्बुधरोपमेन ॥ ७.९ ॥ कीर्णं तथा पुण्यकृता जनेन स्वर्गाभिकामेन विमोक्षकामः । तमाश्रमं सोऽनुचचार धिरस्तपांसि चित्राणि निरीक्षमाणः ॥ ७.१० ॥ तपोविकारांश्च निरीक्ष्य सौम्यस्तपोवने तत्र तपोधनानाम् । तपस्विनं कंचिदनुव्रजन्तं तत्त्वं विजिज्ञासुरिदं बभाषे ॥ ७.११ ॥ तत्पूर्वमद्याश्रमदर्शनं मे यास्मादिमं धर्मविधिं न जाने । तस्माद्भवानर्हति भाषितुं मे यो निश्चयो यत्प्रति वः प्रवृत्तः ॥ ७.१२ ॥ ततो द्विजातिः स तपोविहारः शाक्यर्षभायर्षभविक्रमाय । क्रमेण तस्मै कथयांचकार तपोविशेषांस्तपसः फलं च ॥ ७.१३ ॥ अग्राम्यमन्नं सलिले प्ररूढं पर्णीन तोयं फलमूलमेव । यथागमं वृत्तिरियं मुनीनां भिन्नास्तु ते ते तपसां विकल्पाः ॥ ७.१४ ॥ उञ्छेन जीवन्ति खगा इवान्ये तृणानि केचिन्मृगवच्चरन्ति । केचिद्भुजङ्गैः सह वर्तयन्ति वल्मीकभूता वनमारुतेन ॥ ७.१५ ॥ आश्मप्रयत्नार्जितवृत्तयोऽन्ये केचित्स्वदन्तापहतान्नभक्षाः । कृत्वा परार्थ श्रपणं तथान्ये कुर्वन्ति कार्यं यदि शेषमस्ति ॥ ७.१६ ॥ केचिज्जलक्लिन्नजटाकलापा द्विः पावकं जुव्हति मन्त्रपूर्वम् । मीनैः समं केचिदपो विगाह्य वसन्ति कूर्मोल्लिखितैः शरीरैः ॥ ७.१७ ॥ एवंविधैः कालचितैस्तपोभिः परैर्दिवं यान्त्यपरैर्नृलोकम् । दुःखेन मार्गेण सुखं ह्युपैति सुखं हि धर्मस्य वदन्ति मूलम् ॥ ७.१८ ॥ इत्येवमादि द्विपदेन्द्रवत्सः श्रुत्वा वचस्तस्य तपोधनस्य । अदृष्टतत्त्वोऽपि न संतुतोष । शनैरिदं चात्मगतं बभाषे ॥ ७.१९ ॥ दुःखात्मकं नैकविधं तपश्च स्वर्गप्रधानं तपसः फलं च । लोकाश्च सर्वे परिणामवन्तः स्वल्पे श्रमः खल्वयमाश्रमाणाम् ॥ ७.२० ॥ प्रियांश्च बन्धून्विषयांश्च हित्वा ये स्वर्गहेतोर्नियमं चरन्ति । ते विप्रयुक्ताः खलु गन्तुकामा महत्तरं बन्धनमेव भूयः ॥ ७.२१ ॥ कायक्लमैर्यश्च तपोऽभिधानैः प्रवृत्तिमकाङ्क्षति कामहेतोः । संसारदोषानपरीक्षमाणो दुःखेन सोऽन्विच्छति दुःखमेव ॥ ७.२२ ॥ त्रासश्च नित्यं मरणात्प्रजानां यत्नेन चेच्छन्ति पुनःप्रसूतिम् । सत्यां प्रवृत्तौ नियतश्च मृत्युस्तत्रैव मग्ना यत एव भीताः ॥ ७.२३ ॥ इहार्थमेके प्रविशन्ति खेदं स्वर्गार्थमन्ये श्रममाप्नुवन्ति । सुखार्थमाशाकृपणोऽकृतार्थः पतत्यनर्थे खलु जीवलोकः ॥ ७.२४ ॥ न खल्वयं गर्हित एव यत्नो यो हीनमृत्सृज्य विशेषगामि । प्राज्ञैः समानेन परिश्रमेण कार्यं तु तद्यत्र पुनर्न कार्यम् ॥ ७.२५ ॥ शरीरपीडा तु यदीह धर्मः सुखं शरीरस्य भवत्यधर्मः । धर्मेण चाप्नोति सुखं परत्र तस्मादधर्म फलतीह धर्मः ॥ ७.२६ ॥ यतः शरीरं मनसो वशेन प्रवर्तते चापि निवर्तते च । युक्तो दमश्चेतस एव तस्माच्चित्तादृते काष्ठसमं शरीरम् ॥ ७.२७ ॥ आहारशुद्ध्या यदि पुण्यमिष्टं तस्मान्मृगानामपि पुण्यमस्ति । ये चापि बाह्याः पुरुषाः फलेभ्यो भाग्यापराधेन पराङ्मुखार्थाः ॥ ७.२८ ॥ दुःखेऽभिसंधिस्त्वथ पुण्यहेतुः सुखेऽपि कार्यो ननु सोऽभिसंधिः । अथ प्रमाणं न सुखेऽभिसंधिर्दुःखे प्रमाणं ननु नाभिसंधिः ॥ ७.२९ ॥ तथैव ये कर्मविशुद्धिहेतोः स्पृशन्त्यपस्तीर्थमिति प्रवृत्ताः । तत्रापि तोषो हृदि केवलोऽयं न पावयिष्यन्ति हि पापमापः ॥ ७.३० ॥ स्पृष्टं हि यद्यद्गुणवद्भिरम्भस्तत्तत्पृथिव्यां यदि तीर्थमिष्टम् । तस्माद्गुणानेव परैमि तीर्थमापस्तु निःसंशयमाप एव ॥ ७.३१ ॥ इति स्म तत्तद्बहुयुक्तियुक्तं जगाद चास्तं च ययौ विवस्वान् । ततो हविर्धूमविवर्णवृक्षं तपःप्रशान्तं स वनं विवेश ॥ ७.३२ ॥ अभ्युद्धृतप्रज्वलिताग्निहोत्रं कृताभिषेकर्षिजनावकिर्णम् । जाप्यस्वनाकूजितदेवकोष्ठं धर्मस्य कर्मान्तमिव प्रवृत्तम् ॥ ७.३३ ॥ काश्चिन्निशास्तत्र निशाकराभः परीक्षमाणश्च तपांस्युवास । सर्व परिक्षेप्य तपश्च मत्वा तस्मात्तपःक्षेत्रतलाज्जगाम ॥ ७.३४ ॥ अन्वव्रजन्नाश्रमिणस्ततस्तं तद्रूपमाहात्म्यगतैर्मनोभिः । देशादनार्यैरभिभूयमानान्महर्षयो धर्ममिवापयान्तम् ॥ ७.३५ ॥ ततो जटावल्कलचीरखेलांस्तपोधनांश्चैव स तान्ददर्श । तपांसि चैषामनुरुध्यमानस्तस्थौ शिवे श्रीमति वृक्षमूले ॥ ७.३६ ॥ अथोपसृत्याश्रमवासिनस्तं मनुष्यवर्य परिवार्य तस्थुः । वृद्धश्च तेषां बहुमानपूर्वं कलेन साम्ना गिरमित्युवाच ॥ ७.३७ ॥ त्वय्यागते पूर्ण इवाश्रमोऽभूत्संपद्यते शून्य एव प्रयाते । तस्मादिमं नार्हसि तात हातुं जिजीविषोर्देहमिवेष्टमायुः ॥ ७.३८ ॥ ब्रह्मर्षिराजर्षिसुरर्षिजुष्टः पुण्यः समीपे हिमवान् हि शैलः । तपांसि तान्येव तपोधनानां यत्संनिकर्षाद्बहुलीभवन्ति ॥ ७.३९ ॥ तीर्थानि पुण्यायान्यभितस्तथैव सोपानभूतानि नभस्तलस्य जुष्टानि धर्मात्मभिरात्मवद्भिर्देवर्षिभिश्चैव महर्षिभिश्च ॥ ७.४० ॥ इतश्च भूयः क्षममुत्तरैव दिक्सेवितुं धर्मीवशेषहेतोः । न तु क्षमं दक्षिणतो बुधेन पदं भवेदेकमपि प्रयातुम् ॥ ७.४१ ॥ तपोवनेऽस्मिन्नथ निष्क्रियो वा संकीर्णधर्मापतितोऽशुचिर्वा । दृष्टस्त्वया येन न ते विवत्सा तद्ब्रूहि यावद्रुचितोऽस्तु वासः ॥ ७.४२ ॥ इमे हि वाञ्छन्ति तपःसहायं तपोनिधानप्रतीमं भवन्तम् । वासस्त्वया हीन्द्रसमेन सार्ध बृहस्पतेरभ्युदयावहः स्यात् ॥ ७.४३ ॥ इत्येवमुक्ते स तपस्विमध्ये तपस्विमुख्येन मनीषिमुख्यः । भवप्रणाशाय कृतप्रतिज्ञः स्वं भावामन्तर्गतमाचचक्षे ॥ ७.४४ ॥ ऋज्वात्मनां धर्मभृतां मुनीनामिष्टातिथित्वात्स्वजनोपमानाम् । एवंविधैर्मा प्रति भावजातैः प्रीतिः परा मे जनितश्च मानः ॥ ७.४५ ॥ स्निग्धाभिराभिर्हृदयंगमाभिः समासतः स्नात इवास्मि वाग्भिः । रतिश्च मे धर्मनवग्रहस्य विस्पन्दिता संप्रति भूय एव ॥ ७.४६ ॥ एवं प्रवृत्तान् भवतः शरण्यानतीव संदर्शितपक्षपातान् । यास्यामि हित्वेति ममापि दुःखं यथैव बन्धूंस्त्यजतस्तथैव ॥ ७.४७ ॥ स्वर्गाय युष्माकमयं तु धर्मो ममाभिलाषस्त्वपुनर्भवाय । अस्मिन्वने येन न मे विवत्सा भिन्नः प्रवृत्त्या हि निवृत्तिधर्मः ॥ ७.४८ ॥ तन्नारतिर्मे न परापचारो वनादितो येन परिव्रजामि । धर्मे स्थिताः पूर्वयुगानुरूपे सर्वे भवन्तो हि महर्षिकल्पाः ॥ ७.४९ ॥ ततो वचः सूनृतमर्थवच्च सुश्लक्ष्णमोजस्वि च गर्वित च । श्रुत्वा कुमारस्य तपस्विनस्ते विशेषयुक्तं बहुमानमीयुः ॥ ७.५० ॥ कश्चिद्द्विजस्तत्र तु भस्मशायी प्रांशुः शिखी दारवचीरवासाः । आपिङ्गलाक्षस्तनुदीर्घघोणः कुण्डैकहस्तो गिरमित्युवाच ॥ ७.५१ ॥ धीमन्नुदारः खलु निश्चयस्ते यस्त्वं युवा जन्मनि दृष्टदोषः । स्वर्गापवर्गौ हि विचार्य सम्यग्यस्यापवर्गे मतिरस्ति सोऽस्ति ॥ ७.५२ ॥ यज्ञैस्तपोभिर्नियमैश्च तैस्तैः स्वर्ग यियासन्ति हि रागवन्तः । रागेण सार्ध रिपुणेव युद्ध्वा मोक्षं परीप्सन्ति तु सत्त्ववन्तः ॥ ७.५३ ॥ तद्बुद्धिरेषा यदि निश्चिता ते तूर्णं भवान् गच्छतु विन्ध्यकोष्ठम् । असौ मुनिस्तत्र वसत्यराडो यो नैष्ठिके श्रेयसि लब्धचक्षुः ॥ ७.५४ ॥ तस्माद्भवाञ्च्छ्रोष्यति तत्त्वमार्ग सत्यां रुचौ संप्रतिपत्स्यते च । यथा तु पश्यामि मतिस्तथैषा तस्यापि यास्यत्यवधूय बुद्धिम् ॥ ७.५५ ॥ स्पष्टोच्चघोणं विपुलायताक्षम् । ताम्राधरौष्ठं सिततीक्षणदंष्ट्रम् । इदं हि वक्तुं तनुरक्तजिव्हं ज्ञेयार्णवं पास्यति कृत्स्नमेव ॥ ७.५६ ॥ गम्भीरता या भवतस्त्वगाधा या दीप्तता यानि च लक्षणानि । आचार्यकं प्राप्स्यसि तत्पृथिव्यां यन्नर्षिभिः पूर्वयुगेऽप्यवाप्तम् ॥ ७.५७ ॥ परममिति ततो नृपात्मजस्तमृषिजनं प्रतिनन्द्य निर्ययौ । विधिवदनुविधाय तेऽपि तं प्रविविशुराश्रमिणस्तपोवनम् ॥ ७.५८ ॥ इति बुद्धचरिते महाकाव्ये तपोवनप्रवेशो नाम सप्तमः सर्गः ॥ ७ ॥ सर्ग ८ ततस्तुरङ्गावचरः स दुर्मनास्तथा वनं भर्तरि निर्ममे गते । चकार यत्नं पथि शोकनिग्रहे तथापि चैवाश्रु न तस्य चिक्षिये ॥ ८.१ ॥ यमेकरात्रेण तु भर्तुराज्ञया जगाम मार्ग सह तेन वाजिना । इयाय भर्तुर्विरहं विचिन्तयंस्तमेव पन्थानमहोभिरष्टभिः ॥ ८.२ ॥ हयश्च सौजा विचचार कन्थकस्तताम भावेन बभूव निर्मदः । अलंकृतश्चापि तथैव भूषणैरभूद्गतश्रीरिव तेन वर्जितः ॥ ८.३ ॥ निवृत्य चैवाभिमुखस्तपोवनं भृशं जिहेषे करुणं मुहुर्मुहुः । क्षुधान्वितोऽप्यध्वनि शष्पमम्बु वा यथा पुरा नाभिनन्द नाददे ॥ ८.४ ॥ ततो विहीनं कपिलाव्हयं पुरं महात्मना तेन जगद्धितात्मना । क्रमेण तौ शून्यमिवोपजग्मतुर्दिवाकरेणेव विनाकृतं नभः ॥ ८.५ ॥ सपुण्डरीकैरपि शोभितं जलैरलंकृतं पुष्पधरैर्नगैरपि । तदेव तस्योपवनं वनोपमं गतप्रहर्षैर्न रराज नागरैः ॥ ८.६ ॥ ततो भ्रमद्भिर्दिशि दीनमानसैरनुज्ज्वलैर्बाष्पहतेक्षणैर्नरैः । निर्वायमाणाविव तावुभौ पुरं शनैरपस्नातमिवाभिजग्मतुः ॥ ८.७ ॥ निशाम्य च स्रस्तशरीरगामिनौ विनागतौ शाक्यकुलर्षभेण तौ । मुमोच बाष्पं पथि नागरो जनः पुर रथे दाशरथेरिवागते ॥ ८.८ ॥ अथ ब्रुवन्तः समुपेतमन्यवो जनाः पथि च्छन्दकमागताश्रवः । क्व राजपुत्रः पुरराष्ट्रनन्दनो हृतस्त्वयासाविति पृष्ठतोऽन्वयुः ॥ ८.९ ॥ ततः स तान् भक्तिमतोऽब्रवीज्जनान्नरेन्द्रपुत्रं न परित्यजाम्यहम् । रुदन्नहं तेन तु निर्जने वने गृहस्थवेशश्च विसर्जिताविति ॥ ८.१० ॥ इदं वचस्तस्य निशम्य ते जनाः सुदुष्करं खल्विति निश्चयं ययुः । पतद्धि जह्रुः सलिलं न नेत्रजं मनो निनिन्दुश्च फलोत्थमात्मनः ॥ ८.११ ॥ अथोचुरद्यैव विशाम तद्वनं गतः स यत्र द्विपराजविक्रमः । जिजीविषा नास्ति हि तेन नो विना यथेन्द्रियाणां विगमे शरीरिणाम् ॥ ८.१२ ॥ इदं पुरं तेन विवर्जितं वनं वनं च तत्तेन समन्वितं पुरम् । न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यथा दिवम् ॥ ८.१३ ॥ पुनः कुमारो विनिवृत्त इत्यथो गवाक्षमालाः प्रतिपेदिरेऽङ्गनाः । विविक्तपृष्ठं च निशाम्य वाजिनं पुनर्गवाक्षाणि पिधाय चुक्रुशुः ॥ ८.१४ ॥ प्रविष्टदीक्षस्तु सुतोपलब्धये व्रतेन शोकेन च खिन्नमानसः । जजाप देवायतने नराधिपश्चकार तास्ताश्च यथाशयाः क्रियाः ॥ ८.१५ ॥ ततः स बाष्पप्रतिपूर्णलोचनस्तुरङ्गमादाय तुरङ्गमानुगः । विवेश शोकाभिहतो नृपक्षयं युधापिनीते रिपुणेव भर्तरि ॥ ८.१६ ॥ विगाहमानश्च नरेन्द्रमन्दिरं विलोकयन्नश्रुवहेन चक्षुषा । स्वरेण पुष्टेन रुराव कन्थको जनाय दुःखं प्रतिवेदयन्निव ॥ ८.१७ ॥ ततः खगाश्च क्षयमध्यगोचराः समीपबद्धास्तुरगाश्च सत्कृताः । हयस्य तस्य प्रतिसस्वनुः स्वनं नरेन्द्रसूनोरुपयानशङ्किनः ॥ ८.१८ ॥ जनाश्च हर्षतिशयेन वञ्चिता जनाधिपान्तःपुरसंनिकर्षगाः । यथा हयः कन्थक एष हेषते ध्रुवं कुमारो विशतीति मेनिरे ॥ ८.१९ ॥ अतिप्रहर्षादथ शोकमूर्छिताः कुमारसंदर्शनलोललोचनाः । गृहाद्विनिश्चक्रमुराशया स्त्रियः शरत्पयोदादिव विद्युतश्चलाः ॥ ८.२० ॥ विलम्बकेश्यो मलिनांशुकाम्बरा निरञ्जनैर्बाष्पहतेक्षणैर्मुखैः । स्त्रियो न रेजुर्मृजया विनाकृता दिवीव तारा रजनीक्षयारुणाः ॥ ८.२१ ॥ अरक्तताम्रैश्चरणैरनूपुरैरकुण्डलैरार्जवकन्धरैर्मुखैः । स्वभावपीनैर्जघनैरमेखलैरहारयोक्त्रैर्मुषितैरिव स्तनैः ॥ ८.२२ ॥ निरीक्ष्य ता बाष्पपरीतलोचना निराश्रयं छन्दकमश्वमेव च । विषण्णवक्त्रा रुरुदुर्वराङ्गना वनान्तरे गाव इवर्षभोज्झिताः ॥ ८.२३ ॥ ततः सबाष्पा महीषी महीपतेः प्रनष्टवत्सा महिषीव वत्सला । प्रगृह्य बाहू निपपात गौतमी विलोलपर्णा कदलीव काञ्चनी ॥ ८.२४ ॥ हतत्विषोऽन्याः शिथिलांसबाहवः स्त्रियो विषादेन विचेतना इव । न चुक्रुशुर्नाश्रु जहुर्न शश्वसुर्न चेलुरासुर्लिखिता इव स्थिताः ॥ ८.२५ ॥ अधीरमन्याः पतिशोकमूर्च्छिता विलोचनप्रस्रवणैर्मुखैः स्त्रियः । सिषिञ्चिरे प्रोषितचन्दनान् स्तनान्धराधरः प्रस्रवणैरिवोपलान् ॥ ८.२६ ॥ मुखैश्च तासां नायनाम्बुताडितैं रराज तद्राजनिवेशनं तदा । नवाम्बुकालेऽम्बुदवृष्टिताडितैः स्रवज्जलैस्तामरसैर्यथा सरः ॥ ८.२७ ॥ सुवृत्तपिणाडगुलिभिर्निरन्तरैरभूषणैर्गूढसिरैर्वराङ्गनाः । उरांसि जघ्नुः कमलोपमैः करैः स्वपल्लवैर्वातचला लता इव ॥ ८.२८ ॥ करप्रहारप्रचलैश्च ता बभुस्तथापि नार्यः सहितोन्नतैः स्तनैः । वनानिलाघूर्णितपद्मकम्पितै रथाङ्गनाम्नां मिथुनैरिवापगाः ॥ ८.२९ ॥ यथा च वक्षांसि करैरपीडयंस्तथैव वक्षोभिरपीडयन् करान् । अकारयंस्तत्र परस्परं व्यथाः कराग्रवक्षांस्यबला दयालसाः ॥ ८.३० ॥ ततस्तु रोषप्रविरक्तलोचना विषादसंबन्धिकषायगद्गदम् । उवाच निश्वासचलत्पयोधरा विगाढशोकाश्रुधरा यशोधरा ॥ ८.३१ ॥ निशि प्रसुप्तामवशां विहाय मां गतः क्व स छन्दक मन्मनोरथः । उपागते च त्वयि कन्थके च मे समं गतेषु त्रिषु कम्पते मनः ॥ ८.३२ ॥ अनार्यमस्निग्धममित्रकर्म मे नृशंस कृत्वा किमिहाद्य रोदिषि । नियच्छ बाष्पं भव तुष्टमानसो न संवदत्यश्रु च तच्च कर्म ते ॥ ८.३३ ॥ प्रियेण वश्येन हितेन साधुना त्वया सहायेन यथार्थकारिणा । गतोऽर्यपुत्रो ह्यपुनर्निवृत्तये रमस्व दिष्ट्या सफलः श्रमस्तव ॥ ८.३४ ॥ वरं मनुष्यस्य विचक्षणो रिपुर्न मित्रमप्राज्ञमयोगपेशलम् । सुहृद्ब्रुवेण ह्यविपश्चिता त्वया कृतः कुलस्यास्य महानुपप्लवः ॥ ८.३५ ॥ इमा हि शोच्या व्यवमुक्तभूषणाः प्रसक्तबाष्पाविलरक्तलोचनाः । स्थितेऽपि पत्यौ हिमवन्महीसमे प्रनष्टशोभा विधवा इव स्त्रियः ॥ ८.३६ ॥ इमाश्च विक्षिप्तविटङ्कबाहवः प्रसक्तपारावतदीर्घनिस्वनाः । विनाकृतास्तेन सहावरोधनैर्भृशं रुदन्तीव विमानपङ्क्तयः ॥ ८.३७ ॥ अनर्थकामोऽस्य जनस्य सर्वथा तुरङ्गमोऽपि ध्रुवमेष कन्थकः । जहार सर्वस्वमितस्तथा हि मे जने प्रसुप्ते निशि रत्नचौरवत् ॥ ८.३८ ॥ यदा समर्थः खलु सोढुमागतानिषुप्रहारानपि किं पुनः कशाः । गतः कशापातभयात्कथं न्वयं श्रियं गृहीत्वा हृदयं च मे समम् ॥ ८.३९ ॥ अनार्यकर्मा भृशमद्य हेषते नरेन्द्रधिष्ण्यं प्रतिपूरयन्निव । यदा तु निर्वाहयति स्म मे प्रियं तदा हि मूकस्तुरगाधमोऽभवत् ॥ ८.४० ॥ यदि ह्यहेषिष्यत बोधयन् जनं खुरैः क्षितौ वाप्यकरिष्यत ध्वनिम् । हनुस्वनं वाजनयिष्यदुत्तमं न चाभविष्यन्मम दुःखमीदृशम् ॥ ८.४१ ॥ इतीह देव्याः परिदेविताश्रयं निशम्य बाष्पग्रथिताक्षरं वचः । अधोमुखः साश्रुकलः कृताञ्जलिः शनैरिदं छन्दक उत्तरं जगौ ॥ ८.४२ ॥ विगर्हितुं नार्हसि देवि कन्थकं न चापि रोषं मयि कर्तुमर्हसि । अनागसौ स्वः समवेहि सर्वशो गतो नृदेवः स हि देवि देववत् ॥ ८.४३ ॥ अहं हि जानन्नपि राजशासनं बलात्कृतः कैरपि दैवतैरिव । उपानयं तूर्णमिमं तुरङ्गमं तथान्वगच्छं विगतश्रमोऽध्वनि ॥ ८.४४ ॥ व्रजन्नयं वजिवरोऽपि नास्पृशन्मही खुराग्रैर्विधृतैरिवान्तरा । तथैव दैवादिव संयताननो हनुस्वनं नाकृत नाप्यहेषत ॥ ८.४५ ॥ यतो बहिर्गच्छति पार्थिवात्मजे तदाभवद्द्वारमपावृतं स्वयम् । तमश्च नैशं रविणेव पाटितं तपोऽपि दैवो विधिरेष गृह्यताम् ॥ ८.४६ ॥ यदप्रमत्तोऽपि नरेन्द्रशासनाद्गृहे पुरे चिव सहस्रशो जनः । तदा स नाबुध्यत निद्रया हृतस्ततोऽपि दैवो विधिरेष गृह्यताम् ॥ ८.४७ ॥ यतश्च वासो वनवाससंमतं निसृष्टमस्मै समये दिवौकसा । दिवि प्रविद्धं मुकुटं च तद्धृतं ततोऽपि दैवो विधिरेष गृह्यताम् ॥ ८.४८ ॥ तदेवमावां नरदेवि दोषतो न तत्प्रयातं प्रति गन्तुमर्हसि । न कामकारो मम नास्य वाजिनः कृतानुयात्रः स हि दैवतैर्गतः ॥ ८.४९ ॥ इति प्रयाणं बहुदेवमद्भूतं निशम्य तास्तस्य महात्मनः स्त्रियः । प्रनष्टशोका इव विस्मयं ययुर्मनोज्वरं प्रव्रजनात्तु लेभिरे ॥ ८.५० ॥ विषादपारिप्लवलोचना ततः प्रनष्टपोता कुररीव दुःखिता । विहाय धैर्य विरुराव गौतमी तताम चैवाश्रुमुखी जगाद च ॥ ८.५१ ॥ महोर्मिमन्तो मृदवोऽसिताः शुभाः पृथक्पृथङ्मूलरुहाः समुद्गताः । प्रवेरितास्ते भुवि तस्य मुर्धजा नरेन्द्रमौलीपरिवेष्टनक्षमाः ॥ ८.५२ ॥ प्रलम्बबाहुर्मृगराजविक्रमो महर्षभाक्षः कनकोज्ज्वलद्युतिः । विशालवक्षा घनदुन्दुभिस्वनस्तथाविधोऽप्याश्रमवासमर्हति ॥ ८.५३ ॥ अभागिनी नूनमियं वसुंधरा तमार्यकर्माणमनुत्तमं पतिम् । गतस्ततोऽसौ गुणवान् हि तादृशो नृपः प्रजाभाग्यगुणैः प्रसूयते ॥ ८.५४ ॥ सुजातजालावतताङ्गुली मृदू निगूढगुल्फौ बिसपुष्पकोमलौ । वनान्तभूमिं कठिनां कथं नु तौ सचक्रमध्यौ चरणौ गमिष्यतः ॥ ८.५५ ॥ विमानपृष्ठे शयनासनोचितं महार्हवस्त्रागुरुचन्दनार्चितम् । कथं नु शीतोष्णजलागमेषु तच्छरीरमोजस्वि वने भविष्यति ॥ ८.५६ ॥ कुलेन सत्त्वेन बलेन वर्चसा श्रुतेन लक्ष्म्या वयसा च गर्वितः । प्रदातुमेवाभ्युचितो न याचितुं कथं स भिक्षां परतश्चरिष्यति ॥ ८.५७ ॥ शुचौ शयित्वा शयने हिरण्मये प्रबोध्यमानो निशि तूर्यनिस्वनैः । कथं बत स्वप्स्यति सोऽद्य मे व्रती पटैकदेशान्तरिते महीतले ॥ ८.५८ ॥ इमं प्रलापं करुणं निशम्य ता भुजैः परिष्वज्य परस्परं स्त्रियः । विलोचनेभ्यः सलिलानि तत्यजुर्मधूनि पुष्पेभ्य इवेरिता लताः ॥ ८.५९ ॥ ततो धरायामपतद्यशोधरा विचक्रवाकेव रथाङ्गसाव्हया । शनैश्च तत्तद्विललाप विक्लवा मुहुर्मुहुर्गद्गदरुद्धया गिरा ॥ ८.६० ॥ स मामनाथां सहधर्मचारिणीमपास्य धर्म यदि कर्तुमिच्छति । कुतोऽस्य धर्मः सहधर्मचारिणी विना तपो यः परिभोक्तुमिच्छति ॥ ८.६१ ॥ शृणोति नूनं स न पूर्वपार्थिवान्महासुदर्शप्रभृतीन् पितामहान् । वनानि पत्नीसहितानुपेयुषस्तथा हि धर्म मदृते चिकीर्षीते ॥ ८.६२ ॥ मखेषु वा वेदविधानसंस्कृतौ न दंपती पश्यति दीक्षिताबुभौ । समं बुभुक्षू परतोऽपि तत्फलं ततोऽस्य जातो मयि धर्ममत्सरः ॥ ८.६३ ॥ ध्रुवं स जानन्मम धर्मवल्लभो मनः प्रियेर्ष्याकलहं मुहुर्मिथः । सुखं विभीर्मामपहाय रोषणां महेन्द्रलोकेऽप्सरसो जिघृक्षति ॥ ८.६४ ॥ इयं तु चिन्ता मम कीदृशं नु ता वपुर्गुणं बिभ्रति तत्र योषितः । वने यदर्थ स तपांसि तप्यते श्रियं च हित्वा मम भक्तिमेव च ॥ ८.६५ ॥ न खल्वियं स्वर्गसुखाय मे स्पृहा न तज्जनस्यात्मवतोऽपि दुर्लभम् । स तु प्रियो मामिह वा परत्र वा कथं न जह्यादिति मे मनोरथः ॥ ८.६६ ॥ अभागिनी यद्यहमायतेक्षणं शुचिस्मितं भर्तुरुदीक्षितुं मुखम् । न मन्दभाग्योऽर्हति राहुलोऽप्ययं कदाचिदङ्के परिवर्तितुं पितुः ॥ ८.६७ ॥ अहो नृशंसं सुकुमारवर्चसः सुदारुणं तस्य मनस्विनो मनः । कलप्रलापं द्विषतोऽपि हर्षणं शिशुं सुतं यस्त्यजतीदृशं बत ॥ ८.६८ ॥ ममापि कामं हृदयं सुदारुणं शिलामयं वाप्ययसोऽपि वा कृतम् । अनाथवच्छ्रीरहिते सुखोचिते वनं गते भर्तरि यन्न दीर्यते ॥ ८.६९ ॥ इतीह देवी पतिशोकमूर्छिता रुरोद दध्यौ विललाप चासकृत् । स्वभावधीरापि हि सा सती शुचा धृतिं न सस्मार चकार नो ह्रियम् ॥ ८.७० ॥ ततस्तथा शोकविलापविक्लवां यशोधरां प्रेक्ष्य वसुंधरागताम् । महारविन्दैरिव वृष्टिताडितैर्मुखैः सबाष्पैर्वनिता विचुक्रुशुः ॥ ८.७१ ॥ समाप्तजाप्यः कृतहोममङ्गलो नृपस्तु देवायतनाद्विनिर्ययौ । जनस्य तेजार्तरवेण चाहतश्चचाल वज्रध्वनिनेव वारणः ॥ ८.७२ ॥ निशाम्य च च्छन्दककन्थकावुभौ सुतस्य संश्रुत्य च निश्चयं स्थिरम् । पपात शोकाभिहतो महीपतिः शचीपतेर्वृत्त इवोत्सवे ध्वजः ॥ ८.७३ ॥ ततो मुहूर्त सुतशोकमोहितो जनेन तुल्याभिजनेन धारितः । निरीक्ष्य दृष्ट्या जलपूर्णया हयं महीतलस्थो विललाप पार्थिवः ॥ ८.७४ ॥ बहूनि कृत्वा समरे प्रियाणि मे महत्त्वया कन्थक विप्रियं कृतम् । गुणप्रियो येन वने स मे प्रियः प्रियोऽपि सन्नप्रियवत्प्रवेरितः ॥ ८.७५ ॥ तदद्य मां वा नय तत्र यत्र स व्रज द्रुतं वा पुनरेनमानय । ऋते हि तस्मान्मम नास्ति जीवितं विगाढरोगस्य सदौषधादिव ॥ ८.७६ ॥ सुवर्णनिष्ठीविनि मृत्युना हृते सुदुष्करं यन्न ममार संजयः । अहं पुनर्धर्मरतौ सुते गते मुमुक्षुरात्मानमनात्मवानिव ॥ ८.७७ ॥ विभोर्दशक्षत्रकृतः प्रजापतेः परापरज्ञस्य विवस्वदात्मनः । प्रियेण पुत्रेण सता विनाकृतं कथं न मुह्येद्धि मनो मनोरपि ॥ ८.७८ ॥ अजस्य राज्ञस्तनयाय धीमते नराधिपायेन्द्रसखाय मे स्पृहा । गते वनं यस्तनये दिवं गतो न मोघबाष्पः कृपणं जिजीव ह ॥ ८.७९ ॥ प्रचक्ष्व मे भद्र तदाश्रमाजिरं हृतस्त्वया यत्र स मे जलाञ्जलिः । इमे परीप्सन्ति हि तं पिपासवो ममासवः प्रेतगतिं यियासवः ॥ ८.८० ॥ इति तनयवियोगजातदुःख क्षितिसदृशं सहजं विहाय धैर्यम् । दशरथ इव रामशोकवश्यो बहु विललाप नृपो विसंज्ञकल्पः ॥ ८.८१ ॥ श्रुतविनयगुणान्वितस्ततस्तं मतिसचिवः प्रवया पुरोहितश्च । समधृतमिदमूचतुर्यथावन्न च परिप्तमुखौ न चाप्यशोकौ ॥ ८.८२ ॥ त्यज नरवर शोकमेहि धैर्य कुधृतिरिवार्हसि धीर नाश्रु मोक्तुम् । स्रजमिव मृदितामपास्य लक्ष्मीं भुवि बहवो हि नृपा वनान्यभीयुः ॥ ८.८३ ॥ अपि च नियत एष तस्य भावः स्मर वचनं तदृषेः पुरासितस्य । न हि स दिवि न चक्रवर्तिराज्ये क्षणमपि वासयितुं सुखेन शक्यः ॥ ८.८४ ॥ यदि तु नृवर कार्य एव यत्नस्त्वरितमुदाहर यावदत्र यावः । बहुविधिमिह युद्धमस्तु तावत्तव तनयस्य विधेश्च तस्य तस्य ॥ ८.८५ ॥ नरपतिरथ तौ शशास तस्माद्द्रुतमित एव युवामभिप्रयातम् । न हि मम हृदयं प्रयाति शान्तिं वनशकुनेरिव पुत्रलालसस्य ॥ ८.८६ ॥ परममिति नरेन्द्रशासनात्तौ ययतुरमात्यपुरोहितौ वनं तत् । कृतमिति सवधूजनः सदारो नृपतिरपि प्रचकार शेषकार्यम् ॥ ८.८७ ॥ इति बुद्धचरिते महाकाव्येऽन्तःपुरविलापो नामाष्टमः सर्गः ॥ ८ ॥ सर्ग ९ ततस्तदा मन्त्रिपुरोहितौ तौ बाष्पप्रतोदाभिहतौ नृपेण । विद्धौ सदश्वाविव सर्वयत्नात्सौहार्दशीघ्रं ययतुर्वनं तत् ॥ ९.१ ॥ तमाश्रमं जातपरिश्रमौ तावुपेत्य काले सदृशानुयात्रौ । राजर्द्धिमुत्सृज्य विनीतचेष्टावुपेयतुर्भार्गवधिष्ण्यमेव ॥ ९.२ ॥ तौ न्यायतस्तं प्रतिपूज्य विप्रं तेनार्चितौ तावपि चानुरूपम् । कृतासनौ भार्गवमासनस्थं छित्त्वा कथामूचतुरात्मकृत्यम् ॥ ९.३ ॥ शुद्धौजसः शुद्धविशालकीर्तेरिक्ष्वाकुवंशप्रभवस्य राज्ञः । इमं जनं वेत्तु भवानधीतं श्रुतग्रहे मन्त्रपरिग्रहे च ॥ ९.४ ॥ तस्येन्द्रकल्पस्य जयन्तकल्पः पुत्रो जरामृत्युभयं तितीर्षुः । इहाभ्युतेपः किल तस्य हेतोरावामुपेतौ भगवानवैतु ॥ ९.५ ॥ तौ सोऽब्रवीदस्ति स दीर्घबाहुः प्राप्तः कुमारो न तु नावबुद्धः । धर्मोऽयमावर्तक इत्यवेत्य यातस्त्वराडाभिमुखो मुमुक्षुः ॥ ९.६ ॥ तस्मात्ततस्तावुपलभ्य तत्त्वं तं विप्रमामन्त्र्य तदैव सद्यः । खिन्नावखिन्नाविव राजभक्त्या प्रसस्रतुस्तेन यतः स यातः ॥ ९.७ ॥ यान्तौ ततस्तौ मृजया विहीनमपश्यतां तं वपुषोज्ज्वलन्तम् । उपोपविष्टं पथि वृक्षमूले सूर्य घनाभोगमिव प्रविष्टम् ॥ ९.८ ॥ यानं विहायोपययौ ततस्तं पुरोहितो मन्त्रधरेण सार्धम् । यथा वनस्थं सहवामदेवो रामं दिदृक्षुर्मुनिरावैर्वशेयः ॥ ९.९ ॥ तावर्चयामासतुरर्हतस्तं दिवीव शुक्राङ्गिरसौ महेन्द्रम् । प्रत्यर्चयामास स चार्हतस्तौ दिवीव शुक्राङ्गिरसौ महेन्द्रः ॥ ९.१० ॥ कृताभ्यनुज्ञावभितस्ततस्तौ निषेदतुः शाक्यकुलध्वजस्य । विरेजतुस्तस्य च संनिकर्षे पुनर्वसू योगगताविवेन्दोः ॥ ९.११ ॥ तं वृक्षमूलस्थमभिज्वलन्तं पुरोहितो राजसुतं बभाषे । यथोपविष्टं दिवि पारिजाते बृहस्पतिः शक्रसुतं जयन्तम् ॥ ९.१२ ॥ त्वच्छोकशल्ये हृदयावगाढे मोहं गतो भूमितले मुहूर्तम् । कुमार राजा नयनाम्बुवर्षो यत्त्वामवोचत्तदिदं निबोध ॥ ९.१३ ॥ जानामि धर्म प्रति निश्चयं ते परैमि ते भाविनमेतमर्थम् । अहं त्वकाले वनसंश्रयात्ते शोकाग्निनाग्निप्रतिमेन दह्ये ॥ ९.१४ ॥ तदेहि धर्मप्रिय मत्प्रियार्थ धर्मार्थमेव त्यज बुद्धिमेताम् । अयं हि मा शोकरयः प्रवृद्धौ नदीरयः कूलमिवाभिहन्ति ॥ ९.१५ ॥ मेघाम्बुकक्षाद्रिषु या हि वृत्तिः समीरणार्काग्निमहाशनीनाम् । तां वृत्तिमस्मासु करोति शोको विकर्षणोच्छोषणदाहभेदैः ॥ ९.१६ ॥ तद्भुङ्क्ष्व तावद्वसुधाधिपत्यं काले वनं यास्यासि शास्त्रदृष्टे । अनिष्टबन्धौ कुरु मय्यपेक्षां सर्वेषु भूतेषु दया हि धर्मः ॥ ९.१७ ॥ न चैष धर्मो वन एव सिद्धः पुरेऽपि सिद्धिर्नियता यतीनाम् । बुद्धिश्च यत्नश्च निमित्तमत्र वन च लिङ्गं च हि भीरुचिन्हम् ॥ ९.१८ ॥ मौलीधरैरसविषक्तहारैः केयूरविष्टब्धभुजैर्नरेन्द्रैः । लक्ष्भ्यङ्कमध्ये परिवर्तमानैः प्राप्तो गृहस्थैरपि मोक्षधर्मः ॥ ९.१९ ॥ ध्रुवानुजौ यौ बलिवज्रबाहू वैभ्राजमाषाढमथान्तिदेवम् । विदेहराजं जनकं तथैव शाल्वद्रुमं सेनजितश्च राज्ञः ॥ ९.२० ॥ एतान् गृहस्थान्नृपतीनवेहि नैःश्रेयसे धर्मविधौ विनीतान् । उभेऽपि तस्माद्युगपद्भजस्व चित्ताधिपत्यं च नृपश्रियं च ॥ ९.२१ ॥ इच्छामि हि त्वामुपगुह्य गाढं कृताभिषेकं सलिलार्द्रमेव । धृतातपत्त्रं समुदीक्षमाणस्तेनैव हर्षेण वनं प्रवेष्टुम् ॥ ९.२२ ॥ इत्यब्रवीद्भूमिपतिर्भवन्तं वाक्येन बाष्पग्रथिताक्षरेण । श्रुत्वा भवानर्हति तत्प्रियार्थ स्नेहेन तस्नेहमनुप्रयातुम् ॥ ९.२३ ॥ शोकाम्भसि त्वत्प्रभवे ह्यगाधे दुःखार्णवे मज्जति शाक्यराजः । तस्मात्तमुत्तारय नाथहीनं निराश्रयं मग्नमिवार्णवे नौः ॥ ९.२४ ॥ भीष्मेण गङ्गोदरसंभवेन रामेण रामेण च भार्गवेण । श्रुत्वा कृतं कर्म पितुः प्रियार्थ पितुस्त्वमओप्यर्हसि कर्तुमिष्टम् ॥ ९.२५ ॥ संवर्धयित्री समवेहि देवीमगस्त्यजुष्टां दिशमप्रयाताम् । प्रनष्टवत्सामिव वत्सलां गामजस्रमार्ता करुणं रुदन्तीम् ॥ ९.२६ ॥ हंसेन हंसीमिव विप्रयुक्तां त्यक्तां गजेनेव वने करेणुम् । अर्ता सनाथामपि नाथहीनां त्रातुं वधूमर्हसि दर्शनेन ॥ ९.२७ ॥ एकं सुतं बालमनर्हदुःखं संतापमन्तर्गतमुद्वहन्तम् । तं राहुलं मोक्षय बन्धुशोकाद्राहूपसर्गादेव पूर्णचन्द्रम् ॥ ९.२८ ॥ शोकाग्निना त्वद्विरहेन्धनेन । निःस्वासधूमेन तमःशिखेन । त्वद्दर्शनाम्ब्विच्छति दह्यमानमन्तःपुरं चैव पुरं च कृत्स्नम् ॥ ९.२९ ॥ स बोधिसत्त्वः परिपूर्णसत्त्वः श्रुत्वा वचस्तस्य पुरोहितस्य । ध्यात्वा मुहूर्तं गुणवद्गुणज्ञः प्रत्युत्तरं प्रश्रितमित्युवाच ॥ ९.३० ॥ अवैमि भावं तनये पितॄणां विशेषतो यो मयि भूमिपस्य । जानन्नपि व्याधिजराविपद्भ्यो भीतस्त्वगत्या स्वजनं त्यजामि ॥ ९.३१ ॥ द्रष्टुं प्रियं कः स्वजनं हि नेच्छेन्नान्ते यदि स्यात्प्रियविप्रयोगः । यदा तु भूत्वापि चिरं वियोगस्ततो गुरुअं स्निन्धमपि त्यजामि ॥ ९.३२ ॥ मद्धेतुकं यत्तु नराधिपस्य शोकं भवानाह न तत्प्रियं मे । यत्स्वप्नभूतेषु समागमेषु संतप्यते भाविनि विप्रयोगे ॥ ९.३३ ॥ एवं च ते निश्चयमेतु बुद्धिर्दृष्ट्वा विचित्रं जगतः प्रचारम् । संतापहेतुर्न सुतो न बन्धुरज्ञाननैमित्तिक एष तापः ॥ ९.३४ ॥ यथाध्वगानमिह संगतानां काले वियोगो नियतः प्रजानाम् । प्राज्ञो जनः को तु भजेत शोकं बन्धुप्रतिज्ञातजनैर्विहीनः ॥ ९.३५ ॥ इहैति हित्वा स्वजनं परत्र प्रलभ्य चेहापि पुनः प्रयाति । गत्वापि तत्राप्यपरत्र गच्छत्येवं जने त्यागिनि कोऽनुरोधः ॥ ९.३६ ॥ यदा च गर्भात्प्रभृति प्रवृत्तः सर्वास्ववस्थासु वधाय मृत्युः । कस्मादकाले वनसंश्रयं मे पुत्रप्रियस्तत्रभवानवोचत् ॥ ९.३७ ॥ भवत्यकालो विषयाभिपत्तौ कालस्तथैवार्थविधौ प्रदिष्टः । कालो जगत्कर्षति सर्वकालान्निर्वाहके श्रेयसि नास्ति कालः ॥ ९.३८ ॥ राज्यं मुमुक्षुर्मयि यच्च राजा तदप्युदारं सदृशं पितुश्च । प्रतिग्रहीतुं मम न क्षमं तु लोभादपथ्यान्नमिवातुरस्य ॥ ९.३९ ॥ कथं नु मोहायतनं नृपत्वं क्षमं प्रपत्तुं विदुषा नरेण । सोद्वेगता यत्र मदः श्रमश्च परापचारेण च धर्मपीडा ॥ ९.४० ॥ जाम्बूनदं हर्म्यमिव प्रदीप्तं विषेण संयुक्तमिवोत्तमान्नम् । ग्राहाकुलं चाम्ब्विव सारविन्दं राज्यं हि रम्यं व्यसनाश्रयं च ॥ ९.४१ ॥ इत्थं च राज्यं न सुखं न धर्मः पूर्वे यथा जातघृणा नरेन्द्राः । वयःप्रकर्षेऽपरिहार्यदुःखे राज्यानि मुक्त्वा वनमेव जग्मुः ॥ ९.४२ ॥ वरं हि भुक्तानि तृणान्यरण्ये तोषं परं रत्नमिवोपगृह्य । सहोषितं श्रीसुलभैर्न चैव दोषैरदृश्यैरिव कृष्णसर्पैः ॥ ९.४३ ॥ श्लाध्यं हि राज्यानि विहाय राज्ञां धर्माभिलाषेण वनं प्रवेष्टुम् । भग्नप्रतिज्ञस्य न तूपपन्नं वनं परित्यज्य गृहं प्रवेष्टुम् ॥ ९.४४ ॥ जातः कुले को हि नरः ससत्त्वो धर्माभिलाषेण वनं प्रविष्टः । काषायमुत्सृज्य विमुक्तलज्जः पुरंदरस्यापि पुरं श्रयेत ॥ ९.४५ ॥ लोभाद्धि मोहादथवा भयेन यो वान्तमन्नं पुनराददीत । लोभात्स मोहादथवा भयेन संत्यज्य कामान् पुनराददीत ॥ ९.४६ ॥ यश्च प्रदीप्ताच्छरणात्कथंचिन्निष्क्रम्य भूयः प्रविशेत्तदेव । गार्हस्थ्यमुत्सृज्य स दृष्टदोषो मोहेन भूयोऽभिलषेद्ग्रहीतुम् ॥ ९.४७ ॥ या च श्रुतिर्मोक्षमवाप्तवन्तो नृपा गृहस्था इति नैतदस्ति । शमप्रधानः क्व च मोक्षधर्मो दण्डप्रधानः क्व च राजधर्मः ॥ ९.४८ ॥ शमे रतिश्चेच्छिथिलं च राज्यं राज्ये मतिश्चेच्छमविप्लवश्च । शमश्च तैक्ष्ण्यं च हि नोपपन्नं शीतोष्णयोरैक्यमिवोदकाग्न्योः ॥ ९.४९ ॥ तन्निश्चयाद्वा वसुधाधिपास्ते राज्यानि मुक्त्वा शममाप्तवन्तः । राज्याङ्गिता वा निभृतेन्द्रियत्वादनैष्ठिके मोक्षकृताभिमानाः ॥ ९.५० ॥ तेषां च राज्येऽस्तु शमो यथावत्प्राप्तो वनं नाहमनिश्चयेन । छित्त्वा हि पाशं गृहबन्धुसंज्ञं मुक्तः पुनर्न प्रविविक्षुरस्मि ॥ ९.५१ ॥ इत्यात्मविज्ञानगुणानुरूपं मुक्तस्पृहं हेतुमदूर्जितं च । श्रुत्वा नरेन्द्रात्मजमुक्तवन्तं प्रत्युत्तरं मन्त्रधरोऽप्युवाच ॥ ९.५२ ॥ यो निश्चयो धर्मविधौ तवायं नायं न युक्तो न तु कालयुक्तः । शोकाय दत्त्वा पितरं वयःस्थं स्याद्धर्मकामस्य हि ते न धर्मः ॥ ९.५३ ॥ नूनं च बुद्धिस्तव नातिसूक्ष्मा धर्मार्थकामेष्वविचक्षणा वा । हेतोरदृष्टस्य फलस्य यस्त्वं प्रत्यक्षमर्थ परिभूय यासि ॥ ९.५४ ॥ पुनर्भवोऽस्तीति च केचिदाहुर्नास्तीति केचिन्नियतप्रतिज्ञाः । एवं यदा संशयितोऽयमर्थस्तस्मात्क्षमं भोक्तुमुपस्थिता श्रीः ॥ ९.५५ ॥ भूयः प्रवृत्तिर्यदि काचिदस्ति रंस्यामहे तत्र यथोपपत्तौ । अथ प्रवृत्तिः परतो न काचित्सिद्धौऽप्रयत्नाज्जगतोऽस्य मोक्षः ॥ ९.५६ ॥ अस्तीति केचित्परलोकमाहुर्मोक्षस्य योगं न तु वर्णयन्ति । अग्नेर्यथा ह्यौष्ण्यमपां द्रवत्वं तद्वत्प्रवृत्तौ प्रकृतिं वदन्ति ॥ ९.५७ ॥ केचित्स्वभावादिति वर्णयन्ति शुभाशुभं चैव भवाभवौ च । स्वाभाविकं सर्वमिदं च यस्मादतोऽपि मोघो भवति प्रयत्नः ॥ ९.५८ ॥ यदिन्द्रियाणां नियतः प्रचारः प्रियाप्रियत्वं विषयेषु चैव । संयुज्यते यज्जरयार्तिभिश्च कस्तत्र यत्नो ननु स स्वभावः ॥ ९.५९ ॥ अद्भिर्हुताशः शममभ्युपैति तेजांसि चापो गमयन्ति शोषम् । भिन्नानि भूतानि शरीरसंस्थान्यैक्यं च गत्वा जगदुद्वहन्ति ॥ ९.६० ॥ यत्पाणिपादोदरपृष्ठमूर्ध्ना निर्वर्तते गर्भगतस्य भावः । यदात्मनस्तस्य च तेन योगः स्वाभाविकं तत्कथयन्ति तज्ज्ञाः ॥ ९.६१ ॥ कः कण्टकस्य प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां वा । स्वभावतः सर्वमिदं प्रवृत्तं न कामकारोऽस्ति कुतः प्रयत्नः ॥ ९.६२ ॥ सर्ग वदन्तीश्वरतस्तथान्ये तत्र पर्यत्ने पुरुषस्य कोऽर्थः । य एव हेतुर्जगतः प्रवृत्तौ हेतुर्निवृत्तौ नियतः स एव ॥ ९.६३ ॥ केचिद्वदन्त्यात्मनिमित्तमेव प्रादुर्भवं चैव भवक्षयं च । प्रादुर्भवं तु प्रवदन्त्ययत्नाद्यत्नेन मोक्षाधिगमं ब्रुवन्ति ॥ ९.६४ ॥ नरः पितृणामनृणः प्रजाभिर्वेदैऋषीणां क्रतुभिः सुराणाम् । उत्पद्यते सार्धमृणैस्त्रिभिस्तैर्यस्यास्ति मोक्षः किल तस्य मोक्षः ॥ ९.६५ ॥ इत्येवमेतेन विधिक्रमेण मोक्षं सयत्नस्य वदन्ति तज्ज्ञाः । प्रयत्नवन्तोऽपि हि विक्रमेण मुमुक्षवः खेदमवाप्नुवन्ति ॥ ९.६६ ॥ तत्सौम्य मोक्षे यदि भक्तिरस्ति न्यायेन सेवस्व विधिं यथोक्तम् । एवं भविष्यत्युपपत्तिरस्य संतापनाशश्च नराधिपस्य ॥ ९.६७ ॥ या च प्रवृत्ता तव दोषबुद्धिस्तपोवनेभ्यो भवनं प्रवेष्टुम् । तत्रापि चिन्ता तव तात मा भूत पूर्वेऽपि जग्मुः स्वगृहान्वनेभ्यः ॥ ९.६८ ॥ तपोवनस्थोऽपि वृतः प्रजाभिर्जगाम राजा पुरमम्बरीषः । तथा महीं विप्रकृतामनार्यैस्तपोवनादेत्य ररक्ष रामः ॥ ९.६९ ॥ तथैव शाल्वाधिपतिर्द्रुमाख्यो वनात्ससूरनुर्नगरं विवेश । ब्रह्मार्षिभूतश्च मुनेर्वसिष्ठाद्दध्रे श्रियं सांकृतिरन्तिदेवः ॥ ९.७० ॥ एवंविधा धर्मयशःप्रदीप्ता वनानि हित्वा भवनान्यतीयुः । तस्मान्न दोषोऽस्ति गृहं प्रयातुं तपोवनाद्धर्मनिमित्तमेव ॥ ९.७१ ॥ ततो वचस्तस्य निशम्य मन्त्रिणः प्रियं हितं चैव नृपस्य चक्षुषः । अनूनमव्यस्तमसक्तमद्रुतं धृतौ स्थितो राजसुतोऽब्रवीद्वचः ॥ ९.७२ ॥ इहास्ति नास्तीति य एष संशयः परस्य वाक्यैर्न ममात्र निश्चयः । अवेत्य तत्त्वं तपसा शमेन च स्वयं ग्रहीष्यामि यदत्र निश्चितम् ॥ ९.७३ ॥ न मे क्षमं संशयजं हि दर्शनं ग्रहीतुमव्यक्तपरस्पराहतम् । बुधः परप्रत्ययतो हि को व्रजेज्जनोऽन्धकारेऽन्ध इवान्धदेशिकः ॥ ९.७४ ॥ अदृष्टतत्त्वस्य सतोऽपि किं तु मे शुभाशुभे संशयितु शुभे मतिः । वृथापि खेदो हि वरं शुभात्मनः सुखं न तत्त्वेऽपि विगर्हितात्मनः ॥ ९.७५ ॥ इमं तु दृष्ट्वागममव्यवस्थितं यदुक्तमाप्त्तैस्तदवेहि साध्विति । प्रहीणदोषत्वमवेहि चाप्ततां प्रहीणदोषो ह्यनृतं न वक्ष्यति ॥ ९.७६ ॥ गृहप्रवेशं प्रति यच्च मे भवानुवाच रामप्रभृतीन्निदर्शनम् । न ते प्रमाणं न हि धर्मनिश्चयैष्वलं प्रमाणाय परिक्षतव्रताः ॥ ९.७७ ॥ तदेवमप्येव रविर्मही पतेदपि स्थिरत्वं हिमवान् गिरिस्त्यजेत् । अदृष्टतत्त्वो विषयोन्मुखेन्द्रियः श्रयेय न त्वेव गृहान् पृथग्जनः ॥ ९.७८ ॥ अहं विशेयं ज्वलितं हुताशनं न चाकृतार्थः प्रविशेयमालयम् । इति प्रतिज्ञां स चकार गर्वितो यथेष्टमुत्थाय च निर्ममो ययौ ॥ ९.७९ ॥ ततः सबाष्पौ सचिवद्विजाबुभौ निशम्य तस्य स्थिरमेव निश्चयम् । विषण्णवक्त्रावनुगम्य दुःखितौ शनैरगत्या पुरमेव जग्मतुः ॥ ९.८० ॥ तत्स्नेहादथ नृपतेश्च भक्तितस्तौ सापेक्षं प्रतिययतुश्च तस्थतुश्च । दुर्धर्ष रविमिव दीप्तमात्मभासा तं द्रष्टुं न हि पथि शेकतुर्न मोक्तुम् ॥ ९.८१ ॥ तौ ज्ञातुं परमगतेर्गतिं तु तस्य प्रच्छन्नांश्चरपुरुषाञ्छुचीन्विधाय । राजानं प्रियसुतलालसं नु गत्वा द्रक्ष्यावः कथमिति जग्मतुः कथंचितु ॥ ९.८२ ॥ इति बुद्धचरिते महाकाव्ये कुमारान्वेषणों नाम नवमः सर्गः ॥ ९ ॥ सर्ग १० स राजवत्सः पृथुपीनवक्षास्तौ हव्यमन्त्राधिकृतौ विहाय । उत्तीर्य गङ्गां प्रचलत्तरङ्गां श्रीमद्गृहं राजगृहं जगाम ॥ १०.१ ॥ शैलैः सुगुप्तं च विभूषितं च धृतं च पूतं च शिवैस्तपोदैः । पञ्चाचलाङ्कं नगरं प्रपेदे शान्तः स्वयंभूरिव नाकपृष्ठम् ॥ १०.२ ॥ गाम्भीर्यमोजश्च निशाम्य तस्य वपुश्च दीप्तं पुरुषानतीत्य । विसिस्मिये तत्र जनस्तदानीं स्थाणूव्रतस्येव वृषाध्वजास्य ॥ १०.३ ॥ तं प्रेक्ष्य योऽन्येन ययौ स तस्थौ यस्तत्र तस्थौ पथि सोऽन्वगच्छत् । द्रुतं ययौ यः स जगाम धीरं यः कश्चिदास्ते स्म स चोत्पपात ॥ १०.४ ॥ कश्चित्तमानर्च जनः कराभ्यां सत्कृत्य कश्चिच्छिरसा ववन्दे । स्निग्धेन कश्चिद्वचसाभ्यनन्दनैनं जगामाप्रतिपूज्य कश्चित् ॥ १०.५ ॥ तं जिह्रियुः प्रेक्ष्य विचित्रवेषाः प्रकीर्णवाचः पथि मौनमीयुः । धर्मस्य साक्षादिव संनिकर्षे न कश्चिदन्यायमतिर्बभूव ॥ १०.६ ॥ अन्यक्रियाणामपि राजमार्गे स्त्रीणां नृणां वा बहुमानपूर्वम् । तं देवकल्पं नरदेवसूनुं निरीक्षमाणा न ततर्प दृष्टिः ॥ १०.७ ॥ भ्रुवौ ललाटं मुखमीक्षणे वा वपुः करौ वा चरणौ गतिं वा । यदेव यस्तस्य ददर्श तत्र तदेव तस्याथ बबन्ध चक्षुः ॥ १०.८ ॥ दृष्ट्वा च सोर्णभ्रुवमायताक्षं ज्वलच्छरीरं शुभजालहस्तम् । त भिक्षुवेषं क्षितिपालनार्ह संचुक्षुभे राजगृहस्य लक्ष्मीः ॥ १०.९ ॥ श्रेण्योऽथ भर्ता मगधाजिरस्य बाह्याद्विमानाद्विपुलं जनौघम् । ददर्श पप्रच्छ च तस्य हेतुं ततस्तमस्मै पुरुषः शशंस ॥ १०.१० ॥ ज्ञानं परं वा पृथिवीश्रियं वा विप्रैर्य उक्तोऽधिगमिष्यतीति । स एष शाक्याधिपतेस्तनूजो निरीक्ष्यते प्रव्रजितो जनेन ॥ १०.११ ॥ ततः श्रुतार्थो मनसागतास्थो राजा बभाषे पुरुषं तमेव । विज्ञायतां क्व प्रतिगच्छतीति तथेत्यथैनं पुरुषोऽन्वगच्छत् ॥ १०.१२ ॥ अलोलचक्षुर्युगमात्रदर्शी निवृत्तवाग्यन्त्रितमन्दगामी । चचार भिक्षां स तु भिक्षुवर्यो निधाय गात्राणि चलं च चेतः ॥ १०.१३ ॥ आदाय भैक्षं च यथोपपन्नं ययौ गिरेः प्रस्रवणं विविक्तम् । न्यायेन तत्राभ्यवहृत्य चैनन्महीधरं पाण्डवमारुरोह ॥ १०.१४ ॥ तस्मिन्नवौ लोध्रवनोपगूढे मयूरनादप्रतिपुर्णकुञ्जे । काषायवासाः स बभौ नृसूर्यो यथोदयस्योपरि बालसूर्यः ॥ १०.१५ ॥ तत्रैनमालोक्य स राजभृत्यः श्रेण्याय राज्ञे कथयांचकार । संश्रुत्य राजा स च बाहुमान्यात्तत्र प्रतस्थे निभृतानुयात्रः ॥ १०.१६ ॥ स पाण्डवं पाण्डवतुल्यवीर्यः शैलोत्तमं शैलसमानवर्ष्मा । मौलीधरः सिंहगतिर्नृसिंहश्चलत्सटः सिंह इवारुरोह ॥ १०.१७ ॥ ततः स्म तस्योपरि शृङ्गभूतं शान्तेन्द्रियं पश्यति बोधिसत्त्वम् । पर्यङ्कमास्थाय विरोचमानं शशाङ्कमुद्यन्तमिवाभ्रकुञ्जात् ॥ १०.१८ ॥ तं रुपलक्ष्म्या च शमेन चैव धर्मस्य निर्माणमिवोपविष्टम् । सविस्मयः प्रश्रयवान्नरेन्द्रः स्वयंभूवं शक्र इवोपतस्थे ॥ १०.१९ ॥ तं न्यायतो न्यायविदां वरिष्ठं समेत्य पप्रच्छ च धातुसाम्यम् । स चाप्यवोचत्सदृशेन साम्ना नृपं मनःस्वास्थ्यमनामयं च ॥ १०.२० ॥ ततः शुचौ वारणकर्णनीले शिलातले संनिषसाद राजा । उपोपविश्यानुमतश्च तस्य भावं विजिज्ञासुरिदं बभाषे ॥ १०.२१ ॥ प्रीतिः परा मे भवतः कुलेन क्रमागता चैव परीक्षिता च । जाता विवक्षा स्ववयो यतो मे तस्मादिदं स्नेहवचो निबोध ॥ १०.२२ ॥ आदित्यपूर्व विपुलं कुलं ते नवं वयो दीप्तमिदं वपुश्च । कस्मादियं ते मतिरक्रमेण भैक्षाक एवाभिरता न राज्ये ॥ १०.२३ ॥ गात्रं हि ते लोहितचन्दनार्हं काषायसंश्लेषमनर्हमेतत् । हस्तः प्रजापालनयोग्य एष भोक्तुं न चार्हः परदत्तमन्नम् ॥ १०.२४ ॥ तत्सौम्य राज्यं यदि पैतृकं त्वं स्नेहात्पितुर्नेच्छसि विक्रमेण । न च क्रमं मर्षयितुं मतिस्ते भुङ्क्ष्वार्धमस्माद्विषयस्य शीघ्रम् ॥ १०.२५ ॥ एवं हि न स्यात्स्वजनावमर्दः कालक्रमेणापि शमश्रया श्रीः । तस्मात्कुरुष्व प्रणयं मयि त्वं सद्भिः सहीया हि सतां समृद्धिः ॥ १०.२६ ॥ अथ त्विदानी कुलगर्वितत्वादस्मासु विश्रम्भगुणो न तेऽस्ति । व्यूढान्यनीकानि विगाह्य बाणैर्मया सहायेन परान् जिगीष ॥ १०.२७ ॥ तद्बुद्धिमत्रान्यतरां वृणीष्व धर्मार्थकामान्विधिवद्भजस्व । व्यत्यस्य रागादिह हि त्रिवर्ग प्रेत्येह च भ्रंशमवाप्नुवन्ति ॥ १०.२८ ॥ यो ह्यर्थधर्मौ परिपीड्य कामः स्याद्धर्मकामौ परिभूय चार्थः । कामार्थयोश्चोपरमेण धर्मस्त्याज्यः स कृत्स्नो यदि काङ्क्षितोऽर्थः ॥ १०.२९ ॥ तस्मात्त्रिवर्गस्य निषेवणेन त्वं रूपमेतत्सफलं कुरुष्व । धर्मार्थकामाधिगमं ह्यनूनं नृणामनूनं पुरुषार्थमाहुः ॥ १०.३० ॥ तन्निष्फलौ नार्हसि कर्तुमेतौ पीनौ भुजौ चापविकर्षणार्हौ । मान्धातृवज्जेतुमिमौ हि योग्यौ लोकानपि त्रीनिह किं पुनर्गाम् ॥ १०.३१ ॥ स्नेहेन खल्वेतदहं ब्रवीमि नैश्वर्यरागेण न विस्मयेन । इमं हि दृष्ट्वा तव भिक्षुवेषं जातानुकम्पोऽस्म्यपि चागताश्रुः ॥ १०.३२ ॥ यावत्स्ववंशप्रतिरूप रूपं न ते जराभ्येत्यभिभूय भूयः । तद्भुङ्क्ष्व भिक्षाश्रमकाम कामान् कालेऽसि कर्ता प्रियधर्म धर्मम् ॥ १०.३३ ॥ शक्नोति जीर्णः खलु धर्ममाप्तुं कामोपभोगेष्वगतिर्जरायाः । अतश्च यूनः कथयन्ति कामान्मध्यस्य वित्तं स्थविरस्य धर्मम् ॥ १०.३४ ॥ धर्मस्य चार्थस्य च जीवलोके प्रत्यर्थिभुतानि हि यौवनानि । संरक्ष्यमाणान्यपि दुर्ग्रहाणि कामा यतस्तेन पथा हरन्ति ॥ १०.३५ ॥ वयांसि जीर्णानि विमर्शवन्ति धीराण्यवस्थानपरायणानि । अल्पेन यत्नेन शमात्मकानि भवन्त्यगत्यैव च लज्जया च ॥ १०.३६ ॥ अतश्च लोलं विषयप्रधानं प्रमत्तमक्षान्तमदीर्घदर्शि । बहुच्छलं यौवनमभ्यतीत्य निस्तीर्य कान्तारमिवाश्वसन्ति ॥ १०.३७ ॥ तस्मादधीरं चपलप्रमादि नवं वयस्तावदिदं व्यपैतु । कामस्य पूर्व हि वयः शरव्यं न शक्यते रक्षितुमिन्द्रियेभ्यः ॥ १०.३८ ॥ अथो चिकीर्षा तव धर्म एव यजस्व यज्ञं कुलधर्म एषः । यज्ञैरधिष्ठाय हि नागपृष्ठं ययौ मरुत्वानपि नाकपृष्ठम् ॥ १०.३९ ॥ सुवर्णकेयूरविदष्टबाहवो मणिप्रदीपोज्ज्वलचित्रमौलयः । नृपर्षयस्तां हि गतिं गता मखैः श्रमेण यामेव महर्षयो ययुः ॥ १०.४० ॥ इत्येवं मगधपतिर्वचो बभाषे यः सम्यग्वलाभिदिव ब्रुवन् बभासे । तच्छ्रुत्वा न स विचचाल राजसूनुः कैलासो गिरिरिव नैकचित्रसानुः ॥ १०.४१ ॥ इति बुद्धचरिते महाकाव्येऽश्वघोषकृते श्रेण्याभिगमनो नाम दशमः सर्गः ॥ १० ॥ सर्ग ११ अथैवमुक्तो मगधाधिपेन सुहृन्मुखेन प्रतिकूलमर्थम् । स्वस्थोऽविकारः कुलशौचशुद्धः शौद्धोदनिर्वाक्यमिदं जगाद ॥ ११.१ ॥ नाश्चर्यमेतद्भवतो विधानं जातस्य हर्यङ्ककुले विशाले । यन्मित्रपक्षे तव मित्रकाम स्याद्वृत्तिरेषा परिशुद्धवृत्तेः ॥ ११.२ ॥ असत्सु मैत्री स्वकुलानुवृत्ता न तिष्ठति श्रीरिव विक्लवेषु । पूर्वैः कृतां प्रीतिपरंपराभिस्तामेव सन्तस्तु विवर्धयन्ति ॥ ११.३ ॥ ये चार्थकृच्छेषु भवन्ति लोके समानकार्याः सुहृदां मनुष्याः । मित्राणिः तानीति परैमि बुद्ध्या स्वस्थस्य वृद्धिष्विह को हि न स्यात् ॥ ११.४ ॥ एवं च ये द्रव्यमवाप्य लोके मित्रेषु धर्मे च नियोजयन्ति । अवाप्तसाराणि धनानि तेषां भ्रष्टानि नान्ते जनयन्ति तापम् ॥ ११.५ ॥ सुहृत्तया चार्यतया च राजन् खल्वेष यो मां प्रति निश्चयस्ते । अत्रानुनेष्यामि सुहृत्तयैव ब्रूयामहं नोत्तरमन्यदत्र ॥ ११.६ ॥ अहं जरामृत्युभयं विदित्वा मुमुक्षया धर्ममिमं प्रपन्नः । बन्धून् प्रियानश्रुमुखान्विहाय प्रागेव कामानुशुभस्य हेतून् ॥ ११.७ ॥ नाशीविषेभ्यो हि तथा बिभेमि नैवाशनिभ्यो गगनाच्च्युतेभ्यः । न पावकेभ्योऽनिलसंहितेभ्यो यथा भयं मे विषयेभ्य एव ॥ ११.८ ॥ कामा ह्यनित्याः कुशलार्थचौरा रिक्ताश्च मायासदृशाश्च लोके । आशास्यमाना अपि मोहयन्ति चित्तं नृणां किं पुनरात्मसंस्थाः ॥ ११.९ ॥ कामाभिभूता हि न यान्ति शर्म त्रिपिष्टपे किं बत मर्त्यलोके । कामैः सतृष्णस्य हि नास्ति तृप्तिर्यथेन्धनैर्वातसखस्य वन्हेः ॥ ११.१० ॥ जगत्यनर्थो न समोऽस्ति कामैर्मोहाच्च तेष्वेव जनः प्रसक्तः । तत्त्वं विदित्वैवमनर्थभीरुः प्राज्ञः स्वयं कोऽभिलषेदनर्थम् ॥ ११.११ ॥ समुद्रवक्त्रामपि गामवाप्य पारं जिगीषन्ति महार्णवस्य । लोकस्य कामैर्न वितृप्तिरस्ति पतिद्भिरम्भोभिरिवार्णवस्य ॥ ११.१२ ॥ देवेन वृष्टेऽपि हिरण्यवर्षे द्वीपान्समग्रांश्चतुरोऽपि जित्वा । शक्रस्य चार्धासनमप्यवाप्य मान्धातुरासीद्विषयेष्वतृप्तिः ॥ ११.१३ ॥ भुक्त्वापि राज्यं दिवि देवतानां शतक्रतौ वृत्रभयात्प्रनष्टे । दर्पान्महर्षीनपि वाहयित्वा कामेष्वतृप्तो नहुषः पपात ॥ ११.१४ ॥ ऐडश्च राजा त्रिदिवं विगाह्य नीत्वापि देवी वशमुर्वशी ताम् । लोभादृषिभ्यः कनकं जिहीर्षुर्जगाम नाशं विषयेष्वतृप्तः ॥ ११.१५ ॥ बलेर्महेन्द्रं नहुषं महेन्द्रादिन्द्रं पुनर्ये नहुषादुपेयुः । स्वर्गे क्षितौ वा विषयेषु तेषु को विश्वसेद्भाग्यकुलाकुलेषु ॥ ११.१६ ॥ चीराम्बरा मूलफलाम्बुभक्षा जटा वहन्तोऽपि भुजङ्गदीर्घाः । यैर्नान्यकार्या मुनयोऽपि भग्नाः कः कामसंज्ञान्मृगयेत शत्रून् ॥ ११.१७ ॥ उग्रायुधश्चोग्रधृतायुधोऽपि येषां कृते मृत्युमवाप भीष्मात् । चिन्तापि तेषामशिवा वधाय सद्वृत्तिनां किं पुनरव्रतानाम् ॥ ११.१८ ॥ आस्वादमल्पं विषयेषु मत्वा संयोजनोत्कर्षमतृप्तिमेव । सद्भ्यश्च गर्हा नियतं च पापं कः कामसंज्ञं विषमाददीत ॥ ११.१९ ॥ कृष्यादिभिः कर्मभिरर्दितानां कामात्मकानां च निशम्य दुःखम् । स्वास्थ्यं च कामेष्वकुतूहलानां कामान्विहातुं क्षममात्मवद्भिः ॥ ११.२० ॥ ज्ञेया विपत्कामिनि कामसंपत्सिद्धेषु कामेषु मदं ह्युपैति । मदादकार्य कुरुते न कार्य येन क्षतो दुर्गतिमभ्युपैति ॥ ११.२१ ॥ यत्नेन लब्ध्वाः परिरक्षिताश्च ये विप्रलभ्य प्रतियान्ति भूयः । तेष्वात्मवान्याचितकोपमेषु कामेषु विद्वानिह को रमेत ॥ ११.२२ ॥ अन्विष्य चादाय च जाततर्षा यानत्यजन्तः परियान्ति दुःखम् । लोके तृणोल्कासदृशेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११.२३ ॥ अनात्मवन्तो हृदि यैर्विदष्टा विनाशमर्छन्ति न यान्ति शर्म । कुद्धोग्रसर्पप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११.२४ ॥ अस्थि क्षुधार्ता इव सारमेया भुक्त्वापि यान्नैव भवन्ति तृप्ताः । जीर्णस्थिकङ्कालसमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११.२५ ॥ ये राजचौरोदकपावकेभ्यः साधारणत्वाज्जनयन्ति दुःखम् । तेषु प्रविद्धामिषसनिभेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११.२६ ॥ यत्र स्थितानामभितो विपत्तिः शत्रोः सकाशादपि बान्धवेभ्यः । हिंस्रेषु तेष्वायतनोपमेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११.२७ ॥ गिरौ वने चाप्सु च सागरे च यान् भ्रंशमर्छन्ति विलङ्घमानाः । तेषु द्रुमप्राग्रफलोपमेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११.२८ ॥ तीव्रैः प्रयत्नैर्विविधैरवाप्ताः क्षणेन ये नाशमिह प्रयान्ति । स्वप्नोपभोगप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११.२९ ॥ यानर्जयित्वापि न यान्ति शर्म विवर्धयित्वा परिपालयित्वा । अङ्गारकर्षूप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११.३० ॥ विनाशमीयुः कुरवो यदर्थ वृष्ण्यन्धका मेखलदण्डकाश्च । सूनासिकाष्ठप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११.३१ ॥ सुन्दोपसुन्दावसुरौ यदर्थमन्योन्यवैरप्रसृतौ विनष्टौ । सौहार्दीवश्लेषकरेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११.३२ ॥ येषां कृते वारिणि पावके च । क्रव्यात्सु चात्मानमिहोत्सृजन्ति । सपत्नभूतेष्वशिवेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११.३३ ॥ कामार्थमज्ञः कृपणं करोति प्राप्नोति दुःखं वधबन्धनादि । कामार्थमाशाकृपणस्तपस्वी मृत्युं श्रमं चार्छति जीवलोकः ॥ ११.३४ ॥ गीतैर्हियन्ते हि मृगा वधाय रूपार्थमग्नौ शलभाः पतन्ति । मत्स्यो गिरत्यायसमामिषार्थी तस्मादनर्थ विषयाः फलन्ति ॥ ११.३५ ॥ कामास्तु भोगा इति यन्मतिः स्याद्भोगा न केचित्परिगण्यमानाः वस्त्रादयो द्रव्यगुणा हि लोके दुःखप्रतीकार इति प्रधार्याः ॥ ११.३६ ॥ इष्टं हि तर्षप्रशमाय तोयं क्षुन्नाशहेतोरशनं तथैव । वातातपाम्ब्वावरणाय वेश्म कौपीनशीतावरणाय वासः ॥ ११.३७ ॥ निद्राविघाताय तथैव शय्या यानं तथाध्वश्रमनाशनाय । तथासनं स्थानविनोदनाय स्नानं मृजरोग्यबलाश्रयाय ॥ ११.३८ ॥ दुःखप्रतीकारनिमित्तभूतास्तस्मात्प्रजानां विषया न भोगाः । अश्नामि भोगानिति कोऽभ्युपेयात्प्राज्ञः प्रतीकारविधौ प्रवृत्तः ॥ ११.३९ ॥ यः पित्तदाहेन विदह्यमानः शीतक्रियां भोग इति व्यवस्येत् । दुःखप्रतीकारविधौ प्रवृत्तः कामेषु कुर्यात्स हि भोगसंज्ञाम् ॥ ११.४० ॥ कामेष्वनैकान्तिकता च यस्मादतोऽपि मे तेषु न भोगसंज्ञा । य एव भावा हि सुखं दिशन्ति त एव दुःखं पुनरावहन्ति ॥ ११.४१ ॥ गुरूणि वासांस्यगुरूणि चैव सुखाय शीते ह्युसुखाय धर्मे । चन्द्रांशवश्चन्दनमेव चोष्णे सुखाय दुःखाय भवन्ति शीते ॥ ११.४२ ॥ द्वन्द्वानि सर्वस्य यतः प्रसक्तान्यलाभलाभप्रभृतीनि लोके । अतोऽपि नैकान्तसुखोऽस्ति कश्चिन्नैकान्तदुःख पुरुषः पृथिव्याम् ॥ ११.४३ ॥ दृष्ट्वा विमिश्रां सुखदुःखतां मे राज्यं च दास्यं च मतं समानम् । नित्यं हसत्येव हि नैव राजा न चापि संतप्यत एव दासः ॥ ११.४४ ॥ आज्ञा नृपत्वेऽभ्यधिकेति यत्स्यान्महान्ति दुःखान्यत एव राज्ञः । आसङ्गकाष्ठप्रतिमो हि राजा लोकस्य हेतोः परिखेदमेति ॥ ११.४५ ॥ राज्ये नृपस्त्यागिनि बव्हमित्रे विश्वासमागच्छति चेद्विपन्नः । अथापि विश्रम्भमुपैति नेह किं नाम सौख्यं चकितस्य राज्ञः ॥ ११.४६ ॥ यदा च जित्वापि महीं समग्रां वासाय दृष्टं पुरमेकमेव । तत्रापि चैकं भवनं निषेव्यं श्रमः परार्थे ननु राजभावः ॥ ११.४७ ॥ राज्ञोऽपि वासोयुगमेकमेव क्षुत्संनिरोधाय तथान्नमात्रा । शय्या तथैकासनमेकमेव शेषा विशेषा नृपतेर्मदाय ॥ ११.४८ ॥ तुष्ट्यर्थमेतच्च फलं यदीष्टमृतेऽपि राज्यान्मम तुष्टिरस्ति । तुष्टौ च सत्यां पुरुषस्य लोके सर्वे विशेषा ननु निर्विशेषाः ॥ ११.४९ ॥ तन्नास्मि कामान् प्रति संप्रतार्यः क्षेमं शिवं मार्गमनुप्रपन्नः । स्मृत्वा सुहृत्त्वं तु पुनः पुनर्मा ब्रूहि प्रतिज्ञां खलु पालयेति ॥ ११.५० ॥ न ह्यस्म्यमर्षेण वनं प्रविष्टो न शत्रुबाणैरवधूतमौलिः । कृतस्पृहो नापि फलाधिकेभ्यो गृह्णामि नैतद्वचनं यतस्ते ॥ ११.५१ ॥ यो दन्दशूकं कुपितं भुजङ्गं मुक्त्वा व्यवस्येद्धि पुनर्ग्रहीतुम् । दाहात्मिकां वा ज्वलितां तृणोल्कां संत्यज्य कामान्स पुनर्भजेत ॥ ११.५२ ॥ अन्धाय यश्च स्पृहयेदनन्धो बद्धाय मुक्तो विधनाय चाढ्यः । उन्मत्तचित्ताय च कल्यचित्तः स्पृहां स कुर्याद्विषयात्मकाय ॥ ११.५३ ॥ भैक्षोपभोगीति च नानुकम्प्यः कृती जरामृत्युभयं तितीर्षुः । इहोत्तमं शान्तिसुखं च यस्य परत्र दुःखानि च संवृतानि ॥ ११.५४ ॥ लक्ष्म्यां महत्यामपि वर्तमानस्तृष्णाभिभूतस्त्वनुकम्पितव्यः । प्राप्नोति यः शान्तिसुखं न चेह परत्र दुःखै प्रतिगृह्यते च ॥ ११.५५ ॥ एवं तु वक्तुं भवतोऽनुरूपं सत्त्वस्य वृत्तस्य कुलस्य चैव । ममापि वोढुं सदृशं प्रतिज्ञां सत्त्वस्य वृत्तस्य कुलस्य चैव ॥ ११.५६ ॥ अहं हि संसारशरेण विद्धो विनिःसृतः शान्तिमवाप्तुकामः । नेच्छेयमाप्तुं त्रिदिवेऽपि राज्यं निरामयं किं बत मानुषेषु ॥ ११.५७ ॥ त्रिवर्गसेवां नृप यत्तु कृत्स्नतः परो मनुष्यार्थ इति त्वमात्थ माम् । अनर्थ इत्येव ममात्र दर्शनं क्षयी त्रिवर्गो हि न चापि तर्पकः ॥ ११.५८ ॥ पदे तु यस्मिन्न जरा न भीर्न रूङ्न जन्म नैवोपरमो न चाधयः । तमेव मन्ये पुरुषार्थमुत्तमं न विद्यते यत्र पुनः पुनः क्रिया ॥ ११.५९ ॥ यदप्यवोच परिपाल्यतां जरा नव वयो गच्छति विक्रियामिति । अनिश्चयोऽय चपलं हि दृश्यते जराप्यधीरा धृतिमच्च यौवनम् ॥ ११.६० ॥ स्वकर्मदक्षश्च यदान्तको जगद्वयसु सर्वेष्ववश विकर्षति । विनाशकाले कथमव्यवस्थिते जरा प्रतीक्ष्या विदुषा शमेप्सुना ॥ ११.६१ ॥ जरायुधो व्याधिविकीर्णसायको यदान्तको व्याध इवाशिवः स्थितः । प्रजामृगान् भाग्यवनाश्रितांस्तुदन् वयःप्रकर्ष प्रति को मनोरथः ॥ ११.६२ ॥ अतो युवा वा स्थविरोऽथवा शिशुस्तथा त्वरावानिह कर्तुमर्हति । यथा भवेद्धर्मवतः कृतात्मनः प्रवृत्तिरिष्टा विनिवृत्तिरेव वा ॥ ११.६३ ॥ यदात्थ चापीष्टफलां कुलोचितां कुरुष्व धर्माय मखक्रियामिति । नमो मखेभ्यो न हि कामये सुखं परस्य दुःखक्रियया यदिष्यते ॥ ११.६४ ॥ परं हि हन्तुं विवशं फलेप्सया न युक्तरूप करुणात्मनः सतः । क्रतोः फलं यद्यपि शाश्वतं भवेत्तथापि कृत्त्वा किमु यत्क्षयात्मकम् ॥ ११.६५ ॥ भवेच्च धर्मो यदि नापरो विधिर्व्रतेन शीलेन मनःशमेन वा । तथापि नैवार्हति सेवितुं क्रतुं विशस्य यस्मिन् परमुच्यते फलम् ॥ ११.६६ ॥ इहापि तावत्पुरुषस्य तिष्ठतः प्रवर्तते यत्परहिंसया सुखम् । तदप्यनिष्टं सघृणस्य धीमतो भवान्तरे किं बत यन्न दृश्यते ॥ ११.६७ ॥ न च प्रतार्योऽस्मि फलप्रवृत्तये भवेषु राजन् रमते न मे मनः । लता इवाम्भोधरवृष्टिताडिताः प्रवृत्तयः सर्वगता हि चञ्चलाः ॥ ११.६८ ॥ इहागतश्चहमितो दिदृक्षया मुनेरराडस्य विमोक्षवादिनः । प्रयामि चाद्यैव नृपास्तु ते शिवं वचः क्षमेथा मम तत्त्वनिष्ठुरम् ॥ ११.६९ ॥ अवेन्द्रवद्दिव्यव शश्वदर्कवद्गुणैरव श्रेय इहाव गामव । अवायुरार्यैरव सत्सुतानव श्रियश्च राजन्नव धर्ममात्मनः ॥ ११.७० ॥ हिमारिकेतूद्भवसंभवान्तरे यथा द्विजो याति विमोक्षयंस्तनुम् । हिमारिशत्रुक्षयशत्रुघातने तथान्तरे याहि विमोक्षयन्मनः ॥ ११.७१ ॥ नृपोऽब्रवीत्साञ्जलिरागतस्पृहो यथेष्टमाप्नोतु भवानविघ्नतः । अवाप्य काले कृतकृत्यतामिमां ममापि कार्यो भवता त्वनुग्रहः ॥ ११.७२ ॥ स्थिरं प्रतिज्ञाय तथेति पार्थिवे ततः स वैश्वंतरमाश्रमं ययौ । परिव्रजन्तं तमुदीक्ष्य विस्मितो नृपोऽपि वव्राज पुरि गिरिव्रजम् ॥ ११.७३ ॥ इति बुद्धचरिते महाकाव्ये कामविगर्हणो नामैकादश सर्गः ॥ ११ ॥ सर्ग १२ ततः शमविहारस्य मुनेरिक्ष्वाकुचन्द्रमाः । अराडस्याश्रमं भेजे वपुषा पूरयन्निव ॥ १२.१ ॥ स कालामसगोत्रेण तेनालोक्यैव दूरतः । उच्चैः स्वागतमित्युक्तः समीपमुपजग्मिवान् ॥ १२.२ ॥ तावुभौ न्यायतः पृष्ट्वा धातुसाम्यं परस्परम् । दारव्योर्मेध्ययोर्वृष्योः शुचौ देशे निषेदतुः ॥ १२.३ ॥ तमासीनं नृपसुतं सोऽब्रवीन्मुनिसत्तमः । बहुमानविशालाभ्यां दर्शनाभ्यां पिबन्निव ॥ १२.४ ॥ विदितं मे यथा सौम्य निष्क्रान्तो भवनादसि । छित्त्वा स्नेहमयं पाशं पाशं दृप्त इव द्विपः ॥ १२.५ ॥ सर्वथा धृतिमच्चैव प्राज्ञं चैव मनस्तव । यस्त्वं प्राप्तः श्रियं त्यक्त्वा लतां विषफलामिव ॥ १२.६ ॥ नाश्चर्य जीर्णवयसो यज्जग्मुः पार्थिवा वनम् । अपत्येभ्यः श्रियं दत्त्वा भुक्तोच्छिष्टामिव स्रजम् ॥ १२.७ ॥ इदं मे मतमाश्चर्यं नवे वयसि यद्भवान् । अभुक्त्वैव श्रियं प्राप्तः स्थितो विषयगोचरे ॥ १२.८ ॥ तद्विज्ञातुमिमं धर्म परमं भाजनं भवान् । ज्ञानप्लमवधिष्ठाय शीघ्रं दुःखार्णवं तर ॥ १२.९ ॥ शिष्ये यद्यपि विज्ञाते शास्त्रं कालेन वर्ण्यते । गाम्भीर्याद्व्यवसायाच्च न परीक्ष्यो भवान्मम ॥ १२.१० ॥ इति वाक्यमराडस्य विज्ञाय स नरर्षभः । बभूव परमप्रीतः प्रोवाचोत्तरमेव च ॥ १२.११ ॥ विरक्तस्यापि यदिदं सौमुख्यं भवतः परम् । अकृतार्थोऽप्यनेनास्मि कृतार्थ इव संप्रति ॥ १२.१२ ॥ दिदृक्षुरिव हि ज्योतिर्यियासुरिव दैशिकम् । त्वद्दर्शनमहं मन्ये तितीर्षुरिव च प्लवम् ॥ १२.१३ ॥ तस्मादर्हसि तद्वक्तुं वक्तव्यं यदि मन्यसे । जरामरणरोगेभ्यो यथायं परिमुच्यते ॥ १२.१४ ॥ इत्यराडः कुमारस्य माहात्म्यादेव चोदितः । संक्षिप्तं कथयांचक्रे स्वस्य शास्त्रस्य निश्चयम् ॥ १२.१५ ॥ श्रूयतामयमस्माकं सिद्धान्तः शृण्वतां वर । यथा भवति संसारो यथा चैव निवर्तते ॥ १२.१६ ॥ प्रकृतिश्च विकारश्च जन्म मृत्युर्जरेव च । तत्तावत्सत्त्वमितुक्तं स्थिरसत्त्व परेहि तत् ॥ १२.१७ ॥ तत्र तु प्रकृतिं नाम विद्धिं प्रकृतिकोविद । पञ्च भूतान्यहंकारं बुद्धिमव्यक्तमेव च ॥ १२.१८ ॥ विकार इति बुध्यस्व विषयानिन्द्रियाणि च । पाणिपादं च वादं च पायूपस्थं तथा मनः ॥ १२.१९ ॥ अस्य क्षेत्रस्य विज्ञानात्क्षेत्रज्ञ इति संज्ञि च । क्षेत्रज्ञ इति चात्मानं कथयन्त्यात्मचिन्तकाः ॥ १२.२० ॥ सशिष्यः कपिलश्चेह प्रतिबुद्ध इति स्मृतिः । सपुत्रोऽप्रतिबुद्धस्तु प्रजापतिरिहोच्यते ॥ १२.२१ ॥ जायते जीर्यते चैव बाध्यते म्रियते च यत् । तद्व्यक्तमिति विज्ञेयमव्यक्तं तु विपर्ययात् ॥ १२.२२ ॥ अज्ञानं कर्म तृष्णा च ज्ञेयाः संसारहेतवः । स्थितोऽस्मिंस्त्रितये जन्तुस्तत्सत्त्वं नातिवर्तते ॥ १२.२३ ॥ विप्रत्ययादहंकारात्संदेहादभिसंप्लवात् । अविशेषानुपायाभ्यां सङ्गादभ्यवपाततः ॥ १२.२४ ॥ तत्र विप्रत्ययो नाम विपरीतं प्रवर्तते । अन्यथा कुरुते कार्यं मन्तव्यं मन्यतेऽन्यथा ॥ १२.२५ ॥ ब्रवीम्यहमहं वेद्मि गच्छाम्यहमहं स्थितः । इतीहैवमहंकारस्त्वनहंकार वर्तते ॥ १२.२६ ॥ यस्तु भावानसंदिग्धानेकीभावेन पश्यति । मृत्पिण्डवदसंदेह संदेहः स इहोच्यते ॥ १२.२७ ॥ य एवाहं स एवेदं मनो बुद्धिश्च कर्म च । यश्चैवैष गणः सोऽहमिति यः सोऽभिसंप्लवः ॥ १२.२८ ॥ अविशेषं विशेषज्ञ प्रतिबुद्धाप्रबुद्धयोः । प्रकृतीनां च यो वेद सोऽविशेष इति स्मृतः ॥ १२.२९ ॥ नमस्कारवषट्कारौ प्रोक्षणाभ्युक्षणादयः । अनुपाय इति प्राज्ञैरुपायज्ञ प्रवेदितः ॥ १२.३० ॥ सज्जते येन दुर्मेधा मनोवाग्बुद्धिकर्मभिः । विषयेष्वनभिष्वङ्ग सोऽभिष्वङ्ग इति स्मृतः ॥ १२.३१ ॥ ममेदमहमस्येति यद्दुःखमभिमन्यते । विज्ञेयोऽभ्यवपातः स संसारे येन पात्यते ॥ १२.३२ ॥ इत्यविद्यां हि विद्वान्स पञ्चपर्वा समीहते । तमो मोहं महामोहं तामिस्रद्वयमेव च ॥ १२.३३ ॥ तत्रालस्यं तमो विद्धि मोहं मृत्युं च जन्म च । महामोहस्त्वसंमोह काम इत्येव गम्यताम् ॥ १२.३४ ॥ यस्मादत्र च भूतानि प्रमुह्यन्ति महान्त्यपि । तस्मादेष महाबाहो महामोह इति स्मृतः ॥ १२.३५ ॥ तामिस्रमिति चाक्रोध क्रोधमेवाधिकुर्वते । विषादं चान्धतामिस्रमविषाद प्रचक्षते ॥ १२.३६ ॥ अनयाविद्यया बालः संयुक्तः पञ्चपर्वया । संसारे दुःखभूयिष्ठे जन्मस्वभिनिषिच्यते ॥ १२.३७ ॥ द्रष्टा श्रोता च मन्ता च कार्यकरणमेव च । अहमित्येवमागम्य संसारे परिवर्तते ॥ १२.३८ ॥ इहैभिर्हेतुभिर्धीमन् जन्मस्त्रोतः प्रवर्तते । हेत्वभावात्फलाभाव इति विज्ञातुमर्हसि ॥ १२.३९ ॥ तत्र सम्यङ्मतिर्विद्यान्मोक्षकाम चतुष्टयम् । प्रतिबुद्धाप्रबुद्धौ च व्यक्तमव्यक्तमेव च ॥ १२.४० ॥ यथावदेतद्विज्ञाय क्षेत्रज्ञो हि चतुष्टयम् । आजवंजवतां हित्वा प्राप्नोति पदमक्षरम् ॥ १२.४१ ॥ इत्यर्थ ब्राह्मणा लोके परमब्रह्मवादिनः । ब्रह्मचर्य चरन्तीह ब्राह्मणान्वासयन्ति च ॥ १२.४२ ॥ इति वाक्यमिदं श्रुत्वा मुनेस्तस्य नृपात्मजः । अभ्युपायं च पप्रच्छ पदमेव च नैष्ठिकम् ॥ १२.४३ ॥ ब्रह्मचर्यमिदं चर्यं यथा यावच्च यत्र च । धर्मस्यास्य च पर्यन्तं भवान्व्याख्यातुमर्हति ॥ १२.४४ ॥ इत्यराडो यथाशास्त्रं विस्पष्टार्थ समासतः । तमेवान्येन कल्पेन धर्ममस्मै व्यभाषत ॥ १२.४५ ॥ अयमादौ गृहान्मुक्त्वा भैक्षाकं लिङ्गमाश्रितः । समुदाचारविस्तीर्ण शीलमादाय वर्तते ॥ १२.४६ ॥ संतोषं परमास्थाय येन तेन यतस्ततः । विविक्तं सेवते वासं निर्द्वन्द्वः शास्त्रवित्कृती ॥ १२.४७ ॥ ततो रागाद्भयं दृष्ट्वा वैराग्याच्च परं शिवम् । निगृह्णन्निन्द्रियग्रामं यतते मनसः शमे ॥ १२.४८ ॥ अथो विविक्तं कामेभ्यो व्यापादादिभ्य एव च । विवेकजमवाप्नोति पूर्वध्यानं वितर्कवत् ॥ १२.४९ ॥ तच्च ध्यानसुखं प्राप्य तत्तदेव वितर्कयान् । अपूर्वसुखलाभेन ह्रियते बालिशो जनः ॥ १२.५० ॥ शमेनैवंविधेनायं कामद्वेषविगर्हिणा । ब्रह्मलोकमवाप्नोति परितोषेण वञ्चितः ॥ १२.५१ ॥ ज्ञात्वा विद्वान्वितर्कास्तु मनःसंक्षोभकारकान् । तद्वियुक्तमवाप्नोति ध्यानं प्रीतिसुखान्वितम् ॥ १२.५२ ॥ ह्रियमाणस्तया प्रीत्या यो विशेषं न पश्यति । स्थानं भास्वरमाप्नोति देवेष्वाभास्वरेषु सः ॥ १२.५३ ॥ यस्तु प्रीतिसुखात्तस्माद्विवेचयति मानसम् । तृतीयं लभते ध्यानं सुखं प्रीतिविवर्जितम् ॥ १२.५४ ॥ यस्तु तस्मिन्सुखे मग्नो न विशेषाय यत्नवान् । शुभकृत्स्नैः स सामान्यं सुखं प्राप्नोति दैवतैः ॥ १२.५५ ॥ तादृशं सुखामासाद्य यो न रज्यत्युपेक्षकः चतुर्थ ध्यानमाप्नोति सुखदुःखविवर्जितम् ॥ १२.५६ ॥ तत्र केचिद्व्यवस्यन्ति मोक्ष इत्यभिमानिनः । सुखदुःखपरित्यागादव्यापाराच्च चेतसः ॥ १२.५७ ॥ अस्य ध्यानस्य तु फलं समं देवैर्बृहत्फलैः । कथयन्ति बृहत्कालं बृहत्प्रज्ञापरीक्षकाः ॥ १२.५८ ॥ समाधेर्व्युत्थितस्तस्माद्दृष्त्वा दोषांश्छरीरिणाम् । ज्ञानमारोहति प्राज्ञः शरीरविनिवृत्तये ॥ १२.५९ ॥ ततस्तद्ध्यानमुत्सृज्य विशेषे कृतनिश्चयः । कामेभ्य इव स प्राज्ञो रूपादपि विरज्यते ॥ १२.६० ॥ शरीरे खानि यान्यस्मिन्तान्यादौ परिकल्पयन् । घनेष्वपि ततो द्रव्येष्वाकाशमधिमुच्यते ॥ १२.६१ ॥ आकाशगतमात्मानं संक्षिप्य त्वपरो बुधः । तदेवानन्ततः पश्यन्विशेषमधिगच्छति ॥ १२.६२ ॥ अध्यात्मकुशलस्त्वन्यो निवर्त्यात्मानमात्मना । किंचिन्नास्तीति संपश्यन्नाकिंचन्य इति स्मृतः ॥ १२.६३ ॥ ततो मुञ्जादिषीकेव शकुनिः पञ्जरादिव । क्षेत्रज्ञो निःसृतो देहान्मुक्त इत्यभिधीयते ॥ १२.६४ ॥ एतत्तत्परमं ब्रह्म निर्लिङ्ग ध्रुवमक्षरम् । यन्मोक्ष इति तत्त्वज्ञाः कथयन्ति मनीषिणः ॥ १२.६५ ॥ इत्युपायंश्च मोक्षश्च मया संदर्शितस्तव । यदि ज्ञातं यदि रुचिर्यथावत्प्रतिपद्यताम् ॥ १२.६६ ॥ जैगीषव्योऽथ जनको वृद्धश्चैव पराशरः । इमं पन्थानमासाद्य मुक्ता ह्यन्ये च मोक्षिणः ॥ १२.६७ ॥ इति तस्य स तद्वाक्यं गृहीत्वा तु विचार्य च । पूर्वहेतुबलप्राप्तः प्रत्युत्तरमुवाच ह ॥ १२.६८ ॥ श्रुतं ज्ञानमिदं सूक्ष्मं परतः परतः शिवम् । क्षेत्रज्ञस्यापरित्यागादवैम्येतदनैष्ठिकम् ॥ १२.६९ ॥ विकारप्रकृतिभ्यो हि क्षेत्रज्ञं मुक्तमप्यहम् । मन्ये प्रसवधर्माणं बीजधर्माणमेव च ॥ १२.७० ॥ विशुद्धो यद्यपि ह्यात्मा निर्मुक्त इति कल्प्यते । भूयः प्रत्ययसद्भावादमुक्तः स भविष्यति ॥ १२.७१ ॥ ऋतुभूम्यम्बुविरहाद्यथा बीजं न रोहति । रोहति प्रत्ययैस्तैस्तैस्तद्वत्सोऽपि मतो मम ॥ १२.७२ ॥ यत्कर्माज्ञानतृष्णानां त्यागान्मोक्षश्च कल्प्यते । अत्यन्तस्तत्परित्यागः सत्यात्मनि न विद्यते ॥ १२.७३ ॥ हित्वा हित्वा त्रयमिदं विशेषस्तूपलभ्यते । आत्मनस्तु स्थितिर्यत्र तत्र सूक्ष्ममिदं त्रयम् ॥ १२.७४ ॥ सूक्ष्मत्वाच्चैव दोषाणामव्यापाराच्च चेतसः । दीर्घत्वादायुषश्चैव मोक्षस्तु परिकल्प्यते ॥ १२.७५ ॥ अहंकारपरित्यागो यश्चैष परिकल्प्यते । सत्यात्मनि परित्यागो नाहंकारस्य विद्यते ॥ १२.७६ ॥ संख्यादिभिरमुक्तश्च निर्गुणो न भवत्ययम् । तस्मादसति नैर्गुण्ये नास्य मोक्षोऽभिधीयते ॥ १२.७७ ॥ गुणिनो हि गुणानां च व्यतिरेको न विद्यते । रूपोष्णाभ्यां विरहितो न ह्यग्निरुपलभ्यते ॥ १२.७८ ॥ प्राग्देहान्न भवेद्देही प्राग्गुणेभ्यस्तथा गुणी । तस्मादादौ विमुक्तः सन् शरीरी बध्यते पुनः ॥ १२.७९ ॥ क्षेत्रज्ञो विशरीरश्च ज्ञो वा स्यादज्ञ एव वा । यदि ज्ञो ज्ञेयमस्यास्ति ज्ञेये सति न मुच्यते ॥ १२.८० ॥ अथाज्ञ इति सिद्धो वः कल्पितेन किमात्मना । विनापि ह्यात्मनाज्ञानं प्रसिद्धं काष्ठकुड्यवत् ॥ १२.८१ ॥ परतः परतस्त्यागो यस्मात्तु गुणवान् स्मृतः । तस्मात्सर्वपरित्यागान्मन्ये कृत्स्नां कृतार्थताम् ॥ १२.८२ ॥ इति धर्ममराडस्य विदित्वा न तुतोष सः । अकृत्स्नमिति विज्ञाय ततः प्रतिजगाम ह ॥ १२.८३ ॥ विशेषमथ शुश्रूषुरुद्रकस्याश्रमं ययौ । आत्मग्राहाच्च तस्यापि जगृहे न स दर्शनम् ॥ १२.८४ ॥ संज्ञासंज्ञित्वयोर्दोषं ज्ञात्वा हि मुनिरुद्रकः । आकिंचन्यात्परं लेभेऽसंज्ञासंज्ञात्मिकां गतिम् ॥ १२.८५ ॥ यस्माच्चालम्बने सूक्ष्मे संज्ञासंज्ञे ततः परम् । नासंज्ञी नैव संज्ञीति तस्मात्तत्रगतस्पृहः ॥ १२.८६ ॥ यतश्च बुद्धिस्तत्रैव स्थितान्यत्राप्रचारिणी । सूक्ष्मापट्वी ततस्तत्र नासंज्ञित्वं न संज्ञिता ॥ १२.८७ ॥ यस्माच्च तदपि प्राप्य पुनरावर्तते जगत् । बोधिसत्त्वः परं प्रेप्सुस्तस्मादुद्रकमत्यजत् ॥ १२.८८ ॥ ततो हित्वाश्रमं तस्य श्रेयोऽर्थी कृतनिश्चयः । भेजे गयस्य राजर्षेर्नगरीसंज्ञमाश्रमम् ॥ १२.८९ ॥ अथ नैरञ्जनातीरे शुचौ शुचिपराक्रमः । चकार वासमेकान्तविहाराभिरतिर्मुनिः ॥ १२.९० ॥ आगतान् तत्र तत्पूर्वपञ्चेन्द्रियवशोद्धतान् । तपःप्रवृत्तान् व्रतिनो भिक्षून् पञ्च निरैक्षत ॥ १२.९१ ॥ ते चोपतस्त्थुर्दृष्ट्वात्र भिक्षवस्तं मुमुक्षवः । पुण्यार्जितधनारोग्यमिन्द्रियार्था इवेश्वरम् ॥ १२.९२ ॥ संपूज्यमानस्तैः प्रव्हैर्विनयादनुवर्तिभिः । तद्वशस्थायिभिः शिष्यैर्लोलैर्मन इवेन्द्रियैः ॥ १२.९३ ॥ मृत्युजन्मान्तकरणे स्यादुपायोऽयमित्यथ । दुष्कराणि समारेभे तपांस्यनशनेन सः ॥ १२.९४ ॥ उपवासविधीन्नैकान् कुर्वन्नरदुराचरान् । वर्षाणि षट्शमप्रेप्सुरकरोत्कार्श्यमात्मनः ॥ १२.९५ ॥ अन्नकालेषु चैकैकैः स कोलतिलतण्डुलैः । अपारपारसंसारपारं प्रेप्सुरपारयत् ॥ १२.९६ ॥ देहादपचयस्तेन तपसा तस्य यः कृतः । स एवोपचयो भूयस्तेजसास्य कृतोऽभवत् ॥ १२.९७ ॥ कृशोऽप्यकृशकीर्तिश्रीर्ल्हादं चक्रेऽन्यचक्षुषाम् । कुमुदानामिव शरच्छुक्लपक्षादिचन्द्रमाः ॥ १२.९८ ॥ त्वगस्थिशेषो निःशेषैर्मेदःपिशितशोणितैः । क्षीणोऽप्यक्षीणगाम्भीर्यः समुद्र इव स व्यभात् ॥ १२.९९ ॥ अथ कष्टतपःस्पष्टव्यर्थक्लिष्टतनुर्मुनिः । भवभीरुरिमां चक्रे बुद्धिं बुद्धत्वकाङ्क्षया ॥ १२.१०० ॥ नायं धर्मो विरागाय न बोधाय न मुक्तये । जम्बुमूले मया प्राप्तो यस्तदा स विधिर्ध्रुवः ॥ १२.१०१ ॥ न चासौ दुर्बलेनाप्तुं शक्यमित्यागतादरः । शरीरबलवृद्ध्यर्थमिदं भूयोऽन्वचिन्तयत् ॥ १२.१०२ ॥ क्षुत्पिपासाश्रमक्लान्तः श्रमादस्वस्थमानसः । प्राप्नुयान्मनसावाप्यं फलं कथमनिर्वृतः ॥ १२.१०३ ॥ निर्वृतिः प्राप्यते सम्यक्सततेन्द्रियतर्पणात् । संतर्पितेन्द्रियतया मनःस्वास्थ्यमवाप्यते ॥ १२.१०४ ॥ स्वस्थप्रसन्नमनसः समाधिरुपपद्यते । समाधियुक्तचित्तस्य ध्यानयोगः प्रवर्तते ॥ १२.१०५ ॥ ध्यानप्रवर्तनाद्धर्माः प्राप्यन्ते यैरवाप्यते । दुर्लभं शान्तमजरं परं तदमृतं पदम् ॥ १२.१०६ ॥ तस्मादाहारमूलोऽयमुपाय इतिनिश्चयः । आहारकरणे धीरः कृत्वामितमतिर्मतिम् ॥ १२.१०७ ॥ स्नातो नैरञ्जनातीरादुत्ततार शनैः कृशः । भक्त्यावनतशाखाग्रैर्दत्तहस्तस्तटद्रुमैः ॥ १२.१०८ ॥ अथ गोपाधिपसुता दैवतैरभिचोदिता । उद्भुतहृदयानन्दा तत्र नन्दबलागमत् ॥ १२.१०९ ॥ सितशङ्खोज्ज्वलभुजा नीलकम्बलवासिनी । सफेनमालानीलाम्बुर्यमुनेव सरिद्वरा ॥ १२.११० ॥ सा श्रद्धावर्धितप्रीतिर्विकसल्लोचनोत्पला । शिरसा प्रणिपत्यैनं ग्राहयामास पायसम् ॥ १२.१११ ॥ कृत्वा तदुपभोगेन प्राप्तजन्मफलां स ताम् । बोधिप्राप्तौ समर्थोऽभूत्संतर्पितषडिन्द्रियः ॥ १२.११२ ॥ पर्याप्ताप्यानमूर्तिश्च सार्ध स्वयशसा मुनिः । कान्तिधैर्ये बभारैकः शशाङ्कार्णवयोर्द्वयोः ॥ १२.११३ ॥ आवृत्त इति विज्ञाय तं जहुः पञ्च भिक्षवः । मनीषिणमिवात्मानं निर्मुक्तं पञ्च धातवः ॥ १२.११४ ॥ व्यवसायद्वितीयोऽथ शाद्वलास्तीर्णभूतलम् । सोऽश्वत्थमूलं प्रययौ बोधाय कृतनिश्चयः ॥ १२.११५ ॥ ततस्तदानीं गजराजविक्रमः पदस्वनेनानुपमेन बोधितः । महामुनेरागतबोधिनिश्चयो जगाद कालो भुजगोत्तमः स्तुतिम् ॥ १२.११६ ॥ यथा मुने त्वच्चरणावपीडिता मुहुर्मुहुर्निष्टनतीव मेदिनी । यथा च ते राजति सूर्यवत्प्रभा ध्रूवं त्वमिष्टं फलमद्य भोक्ष्यसे ॥ १२.११७ ॥ यथा भ्रमन्त्यो दिवि चाषपङ्क्तयः प्रदक्षिणं त्वां कमलाक्ष कुर्वते । यथा च सौम्या दिवि वान्ति वायवस्त्वमद्य बुद्धो नियतं भविष्यसि ॥ १२.११८ ॥ ततो भुजङ्गप्रवरेण संस्तुतस्तृणान्युपादाय शुचीनि लावकात् । कृतप्रतिज्ञो निषसाद बोधये महातरोर्मूलमुपाश्रितः शुचेः ॥ १२.११९ ॥ ततः स पर्यङ्कमकम्प्यमुत्तमं बबन्ध सुप्तोरगभोगपिण्डितम् । भिनद्मि तावद्भुवि नैतदासनं न यामि यावत्कुतकृत्यतामिति ॥ १२.१२० ॥ ततो ययुर्मदमतुलां दिवौकसो ववाशिरे न मृगगणा न पक्षिणः । न सस्वनुर्वनतरवोऽनिलाहताः कृतासने भगवति निश्चितात्मनि ॥ १२.१२१ ॥ इति बुद्धचरिते महाकाव्येऽराडदर्शनो नाम द्वादशः सर्गः ॥ १२ ॥ सर्ग १३ तस्मिन्विमोक्षाय कृतप्रतिज्ञे राजर्षिवंशप्रभवे महर्षौ । तत्रोपविष्टे प्रजहर्ष लोकस्तत्रास सद्धर्मरिपुस्तु मारः ॥ १३.१ ॥ यं कामदेवं प्रवदन्ति लोके चित्रायुधं पुष्पशरं तथैव । कामप्रचाराधिपतिं तमेव मोक्षद्विषं मारमुदाहरन्ति ॥ १३.२ ॥ तस्यात्मजा विभ्रमहर्षदर्पास्तिस्रोऽरतिप्रीतितृषश्च कन्याः । पप्रच्छुरेनं मनसो विकारं स तांश्च ताश्चैव वचोऽभ्युवाच ॥ १३.३ ॥ असौ मुनिर्निश्चयवर्म बिभ्रत्सत्त्वायुधं बुद्धिशरं विकृष्य । जिगीषुरास्ते विषयान्मदीयान्तस्मादयं मे मनसो विषादः ॥ १३.४ ॥ यदि ह्यसौ मामभिभूय याति लोकाय चाख्यात्यपवर्गमार्गम् । शून्यस्ततोऽयं विषयो ममाद्य वृत्ताच्च्युतस्येव विदेहभर्तुः ॥ १३.५ ॥ तद्यावदेवैष न लब्धचक्षुर्मद्रोचरे तिष्ठति यावदेव । यास्यामि तावद्व्रतमस्य भेत्तुं सेतुं नदीवेग इवातिवृद्धः ॥ १३.६ ॥ ततो धनुः पुष्पमयं गृहीत्वा शरान् जगन्मोहकरांश्च पञ्च । सोऽश्वत्थमूलं ससुतोऽभ्यगच्छदस्वास्थ्यकारी मनसः प्रजानाम् ॥ १३.७ ॥ अथ प्रशान्तं मुनिमासनस्थं पारं तितीर्षु भवसागरस्य । विषज्य सव्यं करमायुधाग्रे क्रीडन् शरेणेदमुवाच मारः ॥ १३.८ ॥ उत्तिष्ठ भोः क्षत्रिय मृत्युभीत चर स्वधर्म त्यज मोक्षधर्मम् । बाणैश्च यज्ञैश्च विनीय लोकं लोकात्पदं प्राप्नुहि वासवस्य ॥ १३.९ ॥ पन्था हि निर्यातुमयं यशस्यो यो वाहितः पूर्वतमैर्नरेन्द्रैः । जातस्य राजर्षिकुले विशाले भैक्षाकमश्लाध्यमिदं प्रपत्तुम् ॥ १३.१० ॥ अथाद्य नोत्तिष्ठसि निश्चितात्मन् भव स्थिरो मा विमुचः प्रतिज्ञाम् । मयोद्यतो ह्येष शरः स एंव यः शूर्पके मीनरिपौ विमुक्तः ॥ १३.११ ॥ स्पृष्टः स चानेन कथंचिदैडः सोमस्य नप्ताप्यभवद्विचित्तः । स चाभवच्छन्तनुरस्वतन्त्रः क्षीणे युगे किं बत दुर्बलोऽन्यः ॥ १३.१२ ॥ तत्क्षिप्रमुत्तिष्ठ लभस्व संज्ञां बाणो ह्ययं तिष्ठति लेलिहानः । प्रियाविधेयेषु रतिप्रियेषु यं चक्रवाकेष्विव नोत्सृजामि ॥ १३.१३ ॥ इत्येवमुक्तोऽपि यदा निरास्थो नैवासनं शाक्यमुनिर्बिभेद । शरं ततोऽस्मै विससर्ज मारः कन्याश्च कृत्वा पुरतः सुतांश्च ॥ १३.१४ ॥ तस्मिंस्तु बाणेऽपि स विप्रमुक्ते चकार नास्थां न धृतेश्चचाल । दृष्ट्वा तथैनं विषसाद मारश्चिन्तापरीतश्च शनैर्जगाद ॥ १३.१५ ॥ शैलेन्द्रपुत्रीं प्रति येन विद्धो देवोऽपि शम्भुश्चलितो बभूव । न चिन्तयत्येष तमेव बाणं किं स्यादचित्तो न शरः स एषः ॥ १३.१६ ॥ तस्मादयं नार्हति पुष्पबाणं न हर्षणं नापि रतेर्नियोगम् । अर्हत्ययं भूतगणैरसौम्यैः संत्रासनातर्जनताडनानि ॥ १३.१७ ॥ सस्मार मारश्च ततः स्वसैन्यं विघ्नं शमे शाक्यमुनेश्चिकीर्षन् । ननाश्रयाश्चानुचराः परीयुः शलद्रुमप्रासगदासिहस्ताः ॥ १३.१८ ॥ वराहमीनाश्वखरोष्ट्रवक्त्रा व्याघ्रर्क्षसिंहद्विरदाननाश्च । एकेक्षणा नैकमुखास्त्रिशीर्षा लम्बोदराश्चैव पृषोदराश्च ॥ १३.१९ ॥ अजानुसक्था घटजानवश्च दंष्ट्रायुधाश्चैव नखायुधाश्च । करङ्कवक्त्रा बहुमूर्तयश्च भग्नार्धवक्त्राश्च महामुखाश्च ॥ १३.२० ॥ भस्मारुणा लोहितबिन्दुचित्राः खट्वाङ्गहस्ता हरिधूम्रकेशाः । लम्बस्रजो वारणलम्बकर्णाश्चर्माम्बराश्चैव निरम्बराश्च ॥ १३.२१ ॥ श्वेतार्धवक्त्रा हरितार्धकायास्ताम्राश्च ध्रूम्रा हरयोऽसिताश्च । व्यालोत्तरासङ्गभुजास्तथैव प्रघुष्टाघण्टाकुलमेखलाश्च ॥ १३.२२ ॥ तालप्रमाणाश्च गृहीतशूला दंष्ट्राकरालाश्च शिशुप्रमाणाः । उरभ्रवक्त्राश्च विहंगमाक्षा मार्जारवक्त्राश्च मनुष्यकायाः ॥ १३.२३ ॥ प्रकीर्णकेशाः शिखिनोऽर्धमुण्डा रक्ताम्बरा व्याकुलवेष्टनाश्च । प्रहृष्टवक्त्रा भृकुटीमुखाश्च तेजोहराश्चैव मनोहराश्च ॥ १३.२४ ॥ केचिद्व्रजन्तो भृशमाववल्गुरन्योऽन्यमापुप्लुविरे तथान्ये । चिक्रीडुराकाशगताश्च केचित्केचिच्च चेरुस्तरुमस्तकेषु ॥ १३.२५ ॥ ननर्त कश्चिद्भ्रमयंस्त्रिशूलं कश्चिद्विपुष्फूर्ज गदां विकर्षन् । हर्षेण कश्चिद्वृषवन्ननर्द कश्चिचत्प्रजज्वाल तनूनरुहेभ्यः ॥ १३.२६ ॥ एवंविधा भूतगणाः समन्तात्तद्बोधिमूलं परिवार्य तस्थुः । जिघृक्षवश्चैव जिघांसवश्च भर्तुर्नियोगं परिपालयन्तः ॥ १३.२७ ॥ तं प्रेक्ष्य मारस्य च पूर्वरात्रे शाक्यर्षभस्यैव च युद्धकालम् । न द्यौश्चकाशे पृथिवी चकम्पे प्रजज्वलुश्चैव दिशः सशब्दाः ॥ १३.२८ ॥ विष्वग्ववौ वायुरुदीर्णवेगस्तारा न रेजुर्न बभौ शशाङ्कः । तमश्च भूयो विततान रात्रिः सर्वे च संचुक्षुभिरे समुद्राः ॥ १३.२९ ॥ महीभृतो धर्मपराश्च नागा महामुनेर्विघ्नममृष्यमाणाः । मारं प्रति क्रोधविवृत्तनेत्रा निःशश्वसुश्चैव जजृम्भिरे च ॥ १३.३० ॥ शुद्धाधिवासा विबुधर्षयस्तु सद्धर्मसिद्ध्यर्थमभिप्रवृत्ताः । मारेऽनुकम्पां मनसा प्रचक्रुर्विरागभावात्तु न रोषमीयुः ॥ १३.३१ ॥ तद्बोधिमूलं समवेक्ष्य कीर्ण हिंसात्मना मारबलेन तेन । धर्मात्मभिर्लोकविमोक्षकामैर्बभूव हाहाकृतमन्तरीक्षे ॥ १३.३२ ॥ उपप्लवं धर्मविधेस्तु तस्य दृष्ट्वा स्थितं मारबलं महर्षिः । न चुक्षुभे नापि ययौ विकारं मध्ये गवां सिंह इवोपविष्टः ॥ १३.३३ ॥ मारस्ततो भूतचमूमुदीर्णामाज्ञापयामास भयाय तस्य । स्वैः स्वैः प्रभावैरथ सास्य सेना तद्धैर्यभेदाय मतिं चकार ॥ १३.३४ ॥ केचिच्चलन्नैकविलम्बिजिव्हास्तीक्ष्णाग्रदंष्ट्रा हरिमण्डलाक्षाः । विदारितास्याः स्थिरशङ्कुकर्णाः संत्रासयन्तः किल नाम तस्थुः ॥ १३.३५ ॥ तेभ्यः स्थितेभ्यः स तथाविधेभ्यः रूपेण भावेन च दारुणेभ्यः । न विव्यथे नोद्विविजे महर्षिः क्रीडत्सुबालेभ्य इवोद्धतेभ्यः ॥ १३.३६ ॥ कश्चित्ततो रोषविवृत्तदृष्टिस्तस्मै गदामुद्यमयांचकार । तस्तम्भ बाहुः सगदस्ततोऽस्य पुरंदरस्येव पुर सवज्रः ॥ १३.३७ ॥ केचित्समुद्यम्य शिलास्तरूंश्च विषेहिरे नैव मुनौ विमोक्तुम् । पेतुः सवृक्षाः सशिलास्तथैव वज्रावभग्ना इव विन्ध्यपादाः ॥ १३.३८ ॥ कैश्चित्समुत्पत्य नभो विमुक्ताः शिलाश्च वृक्षाश्च परश्वधाश्च । तस्थुर्नभयस्येव न चावपेतुः संध्याभ्रपादा इव नैकवर्णाः ॥ १३.३९ ॥ चिक्षेप तस्योपरि दीप्तमन्यः कडङ्गरं पर्वतशृङ्गमात्रम् । यन्मुक्तपात्रं गगनस्थमेव तस्यानुभावाच्छतधा पफाल ॥ १३.४० ॥ कश्चिज्ज्वलन्नर्क इवोदितः खादङ्गारवर्ष महदुत्ससर्ज । चूर्णानि चामीकरकन्दराणां कल्पात्यये मेरुरिव प्रदीप्तः ॥ १३.४१ ॥ तद्बोधिमूले प्रविकीर्यमाणमङ्गारवर्ष तु सविस्फुलिङ्गम् । मैत्रीविहारादृषिसत्तमस्य बभूव रक्तोत्पलपत्त्रवर्षः ॥ १३.४२ ॥ शरीरचित्तव्यसनातपैस्तैरेवंविधैस्तैश्च निपात्यमानैः । नैवासनाच्छाक्यमुनिश्चचाल स्वनिश्चयं बन्धुमिवोपगुह्य ॥ १३.४३ ॥ अथापरे निर्जिगिलुर्मुखेभ्यः सर्पान्विजीर्णेभ्य इव द्रुमेभ्यः । ते मन्त्रबद्धा इव तत्समीपे न शश्वसुर्नोत्ससृपुर्न चेलुः ॥ १३.४४ ॥ भूत्वापरे वारिधरा बृहन्तः सविद्युतः साशनिचण्डघोषाः । तस्मिन्द्रुमे तत्यजुरश्मवर्षं तत्पुष्पवर्षं रुचिरं बभूव ॥ १३.४५ ॥ चापेऽथ बाणो निहितोऽपरेण जज्वाल तत्रैव न निष्पपात । अनीश्वरस्यात्मनि धूयमानो दुर्मर्षणस्येव नरस्य मन्युः ॥ १३.४६ ॥ पञ्चेषवोऽन्येन तु विप्रमुक्तास्तस्थुर्नभस्येव मुनौ न पेतुः । संसारभीरोर्विषयप्रवृत्तौ पञ्चेन्द्रियाणीव परिक्षकस्य ॥ १३.४७ ॥ जिघासयान्यः प्रससार रुष्टो गदां गृहीत्वाभिमुखो महर्षेः । सोऽप्राप्तकामो विवशः पपात दोषेष्विवानर्थकरेषु लोकः ॥ १३.४८ ॥ स्त्री मेघकाली तु कपालहस्ता कर्तु महर्षेः किल चित्तमोहम् । बभ्राम तत्रानियतं न तस्थौ चलात्मनो बुद्धिरिवागमेषु ॥ १३.४९ ॥ कश्चित्प्रदीप्तं प्रणिधाय चक्षुर्नेत्राग्निनाशीविषवद्दिधक्षुः । तत्रैव नासीनमृषिं ददर्श कामात्मकः श्रेय इवोपदिष्टम् ॥ १३.५० ॥ गुर्वी शिलामुद्यमयंस्तथान्यः शश्राम मोघं विहतप्रयत्नः । निःश्रेयसं ज्ञानसमाधिगम्यं कायक्लमैर्धर्ममिवाप्तुकामः ॥ १३.५१ ॥ तरक्षुसिंहाकृतयस्तथान्ये प्रणेदुरुच्चैर्महतः प्रणादान् । सत्त्वानि यैः संचुकुचुः समन्ताद्वज्राहता द्यौः फलतीति मत्त्वा ॥ १३.५२ ॥ मृगा गजाश्चार्तरवान् सृजन्तो विदुद्रुवुश्चैव निलिल्यिरे च । रात्रौ च तस्यामहनीव दिग्भ्यः खगा रुवन्तः परिपेतुरार्ताः ॥ १३.५३ ॥ तेषां प्रणादैस्तु तथाविधैस्तै सर्वेषु भूतेष्वपि कम्पितेषु । मुनिर्न तत्रास न संचुकोच रवैर्गरुत्मानिव वायसानाम् ॥ १३.५४ ॥ भयावहेभ्यः परिषद्गणेभ्यो यथा यथा नैव मुनिर्बिभाय । तथा तथा धर्मभृतां सपत्नः शोकाच्च रोषाच्च ससाद मारः ॥ १३.५५ ॥ भूतं ततः किंचिद्दृश्यरूपं विशिष्टभूतं गगनस्थमेव । दृष्टवर्षये दुग्धमवैररुष्टं मारं बभाषे महता स्वरेण ॥ १३.५६ ॥ मोघं श्रमं नार्हसि मार कर्तुं हिंस्रात्मतामुत्सृज गच्छ शर्म । नैष त्वया कम्पयितुं हि शक्यो महागिरिर्मेरुरिवानिलेन ॥ १३.५७ ॥ अप्युष्णभावं ज्वलनः प्रजह्यादापो द्रवत्वं प्रथिवी स्थिरत्वम् । अनेककल्पाचितपुण्यकर्मा न त्वेव जह्याद्व्यवसायमेषः ॥ १३.५८ ॥ यो निश्चयो ह्यस्य पराक्रमश्च तेजश्च यद्या च दया प्रजासु । अप्राप्य नोत्थास्यति तत्त्वमेष तमांस्यहत्वेव सहस्ररश्मिः ॥ १३.५९ ॥ काष्ठं हि मथ्नन् लभते हुताशं भूमिं खनन्विन्दति चापि तोयम् । निर्बन्धिनः किंचन नास्त्यसाध्यं न्यायेन युक्तं च कृतं च सर्वम् ॥ १३.६० ॥ तल्लोकमार्त करुणायमानो रोगेषु रागादिषु वर्तमानम् । महाभिषङ्ग नार्हति विघ्नमेष ज्ञानौषधार्थ परिखिद्यमानः ॥ १३.६१ ॥ हृते च लोके बहुभिः कुमार्गैः सन्मार्गमन्विच्छति यः श्रमेण । स दैशिकः क्षोभयितुं न युक्तं सुदेशिकः सार्थ इव प्रनष्टे ॥ १३.६२ ॥ सत्त्वेषु नष्टेषु महान्धकारे ज्ञानप्रदीपः क्रियमाण एषः । आर्यस्य निर्वापयितुं न साधु प्रज्वाल्यमानस्तमसीव दीपः ॥ १३.६३ ॥ दृष्ट्वा च संसारमये महौघे मग्नं जगत्पारमविन्दमानम् । यश्चेदमुत्तारयितुं प्रवृत्तः कश्चिन्तयेत्तस्य तु पापमार्यः ॥ १३.६४ ॥ क्षमाशिफो धैर्यविगाढमूलश्चारित्रपुष्पः स्मृतिबुद्धिशाखः । ज्ञानद्रुमो धर्मफलप्रदाता नोत्पाटनं ह्यर्हति वर्धमानः ॥ १३.६५ ॥ बद्धां दृढैश्चेतसि मोहपाशैर्यस्य प्रजां मोक्षयितुं मनीषा । तस्मिन् जिघांसा तव नोपपन्ना श्रान्ते जगद्बन्धनमोक्षहेतोः ॥ १३.६६ ॥ बोधाय कर्माणि हि यान्यनेन कृतानि तेषां नियतोऽद्य कालः । स्थाने तथास्मिन्नुपविष्ट एष यथैव पूर्वे मुनयस्तथैव ॥ १३.६७ ॥ एषा हि नाभिर्वसुधातलस्य कृत्स्नेन युक्ता परमेण धाम्ना । भूमेरतोऽन्योऽस्ति हि न प्रदेशो वेगं समाधेर्विषहेत योऽस्य ॥ १३.६८ ॥ तन्मा कृथा शोकमुपेहि शान्तिं मा भून्महिम्ना तव मार मानः । विश्रम्भितुं न क्षममधुवा श्रीश्चले पदे विस्मयमभ्युपैषि ॥ १३.६९ ॥ ततः स संश्रुत्य च तस्य तद्वचो महामुनेः प्रेक्ष्य च निष्प्रकम्पताम् । जगाम मारो विमनो हतोद्यमः शरैर्जगच्चेतसि यैर्विहन्यते ॥ १३.७० ॥ गतप्रहर्षा विफलीकृतश्रमा प्रविद्धपाषाणकडङ्गरद्रुमा । दिशः प्रदुद्राव ततोऽस्य सा चमूर्हताश्रयेव द्विषता द्विषच्चमूः ॥ १३.७१ ॥ द्रवति सपरिपक्षे निर्जितै पुष्पकेतौ जयतिजितमस्के नीरजस्के महर्षौ । युवतिरिव सहासा द्यौश्चकाशे सचन्द्रा सुरभि च जलगर्भ पुष्पवर्ष पपात ॥ १३.७२ ॥ इति बुद्धचरिते महाकाव्येऽश्वघोषकृते मारविजयो नाम त्रयोदशः सर्गः ॥ १३ ॥ सर्ग १४ ततो मारबलं जित्वा धैर्येण च शमेन च । परमार्थ विजिज्ञासुः स दध्यौ ध्यानकोविदः ॥ १४.१ ॥ सर्वेषु ध्यानविधिषु प्राप्य चैश्वर्यमुत्तमम् । सस्मार प्रथमे यामे पूर्वजन्मपरंपराम् ॥ १४.२ ॥ अमुत्राहमयं नाम च्युतस्तस्मादिहागतः । उइति जन्मसहस्त्राणि सस्मारानुभवन्निव ॥ १४.३ ॥ स्मृत्वा जन्म च मृत्युं च तासु तासूपपत्तिषु । ततः सत्त्वेषु कारुंण्यं चकार करुणात्मकः ॥ १४.४ ॥ कृत्वेह स्वजनोत्सर्ग पुनरन्यत्र च क्रियाः । अत्राणः खलु लोकोऽयं परिभ्रमति चक्रवत् ॥ १४.५ ॥ इत्येवं स्मरतस्तस्य बभूव नियतात्मनः । कदलीगर्भनिःसारः संसार इति निश्चयः ॥ १४.६ ॥ द्वितीये त्वागते यामे सोऽद्वितीयपराक्रमः । दिव्यं लेभे परं चक्षुः सर्वचक्षुष्मतां वरः ॥ १४.७ ॥ ततस्तेन स दिव्येन परिशुद्धेन चक्षुषा । ददर्श निखिलं लोकमादर्श इव निर्मले ॥ १४.८ ॥ सत्त्वानां पश्यतस्तस्य निकृष्टोत्कृष्टकर्मणाम् । प्रच्युतिं चोपपत्तिं च ववृधे करुणात्मता ॥ १४.९ ॥ इमे दुष्कृतकर्माणः प्राणिनो यानि दुर्गतिम् । इमेऽन्ये शुभकर्माणः प्रतिष्ठन्ते त्रिपिष्टपे ॥ १४.१० ॥ उपपन्नाः प्रतिभये नरके भृशदारुणे । अमी दुःखैर्बहुविधैः पीड्यन्ते कृपणं बत ॥ १४.११ ॥ पाय्यन्ते क्वथितं केचिदग्निवर्णमयोरसम् । आरोप्यन्ते रुवान्तोऽन्ये निष्टप्तस्तम्भमायसम् ॥ १४.१२ ॥ पच्यन्ते पिष्टवत्केचिदयस्कुम्भीष्ववाङ्मुखाः । दह्यन्ते करुणं केचिद्दीप्तेष्वङ्गारराशिषु ॥ १४.१३ ॥ केचित्तीक्ष्णैरयोदंष्ट्रैर्भक्ष्यन्ते दारुणैः श्वभिः । केचिद्धृष्टैरयस्तुण्डैर्वायसैरायसैरिव ॥ १४.१४ ॥ केचिद्दाहपरिश्रान्ताः शीतच्छायाभिकाङिक्षणः । असिपत्त्रवनं नीलं बद्धा इव विशन्त्यमी ॥ १४.१५ ॥ पाट्यन्ते दारुवत्केचित्कुठारैर्बद्धबाहवः । दुःखेऽपि न विपच्यन्ते कर्मभिर्धारितासवः ॥ १४.१६ ॥ सुखं स्यादिति यत्कर्म कृतं दुःखनिवृत्तये । फलं तस्येदमवशैर्दुःखमेवोपभुज्यते ॥ १४.१७ ॥ सुखार्थमशुभं कृत्वा य एते भृशदुःखिताः । आस्वादः स किमेतेषां करोति सुखमण्वपि ॥ १४.१८ ॥ हसद्भिर्यत्कृतं कर्म कलुषं कलुषात्मभिः । एतत्परिणते काले क्रोशद्भिरनुभूयते ॥ १४.१९ ॥ यद्येवं पापकर्माणः पश्येयुः कर्मणां फलम् । वमेयुरुष्णं रुधिरं मर्मस्वभिहता इव ॥ १४.२० ॥ इमेऽन्ये कर्मभिश्चित्रैश्चित्तविस्पन्दसंभवैः । तिर्यग्योनौ विचित्रायाःमुपपन्नास्तपस्विनः ॥ १४.२१ ॥ मांसत्वग्बालदन्तार्थ वैरादपि मदादपि । हन्यन्ते कृपणं यत्र बन्धूनां पश्यतामपि ॥ १४.२२ ॥ अशक्नुवन्तोऽप्यवशाः क्षुत्तर्षश्रमपीडिताः । गोऽश्वभूताश्च वाह्यन्ते प्रतोदक्षतमूर्तयः ॥ १४.२३ ॥ वाह्यन्ते गजभूताश्च वलीयांसोऽपि दुर्बलैः । अङ्कशक्लिष्टमूर्धानस्ताडिताः पादपाष्णिभिः ॥ १४.२४ ॥ सत्स्वप्यन्येषु दुःखेषु दुःखं यत्र विशेषतः । परस्परविरोधाच्च पराधीनतयैव च ॥ १४.२५ ॥ खस्थाः खस्थैर्हि बाध्यन्ते जलस्था जलचारिभिः । स्थलस्थाः स्थलसंस्थैश्च प्राप्य चैवेतरेतरैः ॥ १४.२६ ॥ उपपन्नास्तथा चेमे मात्सर्याक्रान्तचेतसः । पितृलोके निरालोके कृपणं भुञ्जते फलम् ॥ १४.२७ ॥ सूचीछिद्रोपममुखाः पर्वतोपमकुक्षयः । क्षुत्तर्षजनितैर्दुःखै पीड्यन्ते दुःखभागिनः ॥ १४.२८ ॥ आशया समतिक्रान्ता धार्यमाणाः स्वकर्मभिः । लभन्ते न ह्यमी भोक्तुं प्रविद्धान्यशुचीन्यपि ॥ १४.२९ ॥ पुरुषो यदि जानीत मात्सर्यस्येदृशं फलम् । सर्वथा शिबिवद्दद्याच्छरीरावयवानपि ॥ १४.३० ॥ इमेऽन्ये नरकप्रख्ये गर्भसंज्ञेऽशुचिह्रदे । उपपन्ना मनुष्येषु दुःखमर्छन्ति जन्तवः ॥ १४.३१ ॥