भल्लटशतक तां भवानीं भवानीत- क्लेशनाशविशारदाम् । शारदां शारदाम्भोद- सितसिंहासनां नमः ॥ १ ॥ युष्माकमम्बरमणेः प्रथमे मयूखास्ते मङ्गलं विदधतूदयरागभाजः । कुर्वन्ति ये दिवसजन्ममहोत्सवेषु सिन्दूरपाटलमुखीरिव दिक्पुरन्ध्रीः ॥ २ ॥ बद्धा यदर्पणरसेण विमर्दपूर्वमर्थान् कथं झटिति तान् प्रकृतान्न दद्युः । चौरा इवातिमृदवो महतां कवीनामर्थान्तराण्यपि हठाद्वितरन्ति शब्दाः ॥ ३ ॥ काचो मणिर्मणिः काचो येषां तेऽन्ये हि देहिनः । सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ॥ ४ ॥ नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥ ५ ॥ द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः । बहुविधाभ्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः ॥ ६ ॥ श्रीर्विशृङ्खलखलाभिसारिका वर्त्मभिर्घनतमोमलीमसैः । शब्दमात्रमपि सोढुमक्षमा भूषणस्य गुणिनः समुत्थितम् ॥ ७ ॥ माने नेच्छति वारयत्युपशमे क्ष्मामालिखन्त्यां ह्रियां स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्यं गते । तृष्णे त्वामनुबध्नता फलमियत्प्राप्तं जनेनामुना यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते ॥ ८ ॥ पततु वारिणि यातु दिगन्तरं विशतु वह्निमथ व्रजतु क्षितिम् । रविरसावियतास्य गुणेषु का सकललोकचमत्कृतिषु क्षतिः ॥ ९ ॥ सद्वृत्तयः सदसदर्थविवेकिनो ये ते पश्य कीदृशममुं समुदाहरन्ति । चौरासतीप्रभृतयो ब्रुवते यदस्य तद्गृह्यते यदि कृतं तदहस्करेण ॥ १० ॥ पातः पूष्णो भवति महते नोपतापाय यस्मात्काले प्राप्ते क इह न ययुर्यान्ति यास्यन्ति वास्तम् । एतावत्तु व्यथयतितरां लोकबाह्यैस्तमोभिस्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥ ११ ॥ पङ्क्तौ विशन्तु गणिताः प्रतिलोमवृत्त्या पूर्वे भवेयुरियताप्यथवा त्रपेरन् । सन्तोऽप्यसन्त इव चेत्प्रतिभान्ति भानोर्भासावृते नभसि शीतमयूखमुख्याः ॥ १२ ॥ गते तस्मिन् भनौ त्रिभुवनसमुन्मेषविरह- व्यथां चन्द्रो नेष्यत्यनुचितमतो नास्त्यसदृशम् । इदं चेतस्तापं जनयतितरामत्र यदमी प्रदीपाः संजातास्तिमिरहतिबद्धोधुरशिखाः ॥ १३ ॥ सूर्यादन्यत्र यच्चन्द्रेऽप्यर्थासंस्पर्शि तत्कृतम् । खद्योत इति कीतस्य नाम तुष्टेन केन चित् ॥ १४ ॥ कीटमणे दिनमधुना- तरणिकरान्तरितचारुसितकिरणम् । घनसन्तमसमलीमस- दशदिशि निशि यद्विराजसि तदन्यत् ॥ १५ ॥ सत्त्वान्तःस्फुरिताय वा कृतगुणाध्यारोपतुच्छाय वा तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूत् । यच्छायाच्छुरणारुणेन खचता खद्योतना खद्योतनाम्नामुना कीटेनाहितया हि जङ्गममणिभ्रान्त्या विडम्ब्यामहे ॥ १६ ॥ दन्तान्तकुन्तमुखसन्ततपातघात- सन्ताडितोन्नतगिरिर्गज एव वेत्ति । पञ्चास्यपाणिपविपञ्जरपातपीडां न क्रोष्टुकः श्वशिशुहुङ्कृतिनष्टचेष्टः ॥ १७ ॥ अत्युन्नतिव्यसनिनः शिरसोऽधुनैष स्वस्यैव चातकशिशुः प्रणयं विधत्ताम् । अस्यैतदिच्छति यदि प्रततासु दिक्षु ताः स्वच्छशीतमधुराः क्व नु नाम नापः ॥ १८ ॥ सोऽपूर्वः रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा । इत्थं निश्चितवानसि भ्रमर हे यद्वारणोऽद्याप्यसा* अन्तःशून्यकरो निषेयत इति भ्रातः क एष ग्रहः ॥ १९ ॥ तद्वैदग्ध्यं समुचितपयस्तोयतत्त्वं विवेक्तुं संलापास्ते स च मृदुपदन्यासहृद्यो विलासः । आस्तां तावद्बक यदि तथा वेत्थि किं चिच्छ्लथांसस्तूष्णीमेवासितुमपि सखे त्वं कथं मे न हंसः ॥ २० ॥ पथि निपतितां शून्ये दृष्ट्वा निरावरणानां नवदधिघटीं गर्वोन्नद्धः समुद्धुरकन्धरः* । निजसमुचितास्तास्ताश्चेष्टा विकारशताकुलो यदि न कुरुते काकः काणः कदा नु करिष्यति ॥ २१ ॥ नृत्यन्तः शिखिनो मनोहरममी श्राव्यं पठन्तः शुका वीक्ष्यन्ते न त एव खल्विह रुषा वार्यन्त एवाथवा । पान्थस्त्रीगृहमिष्टलाभकथनाल्लब्धान्वयेनामुना सम्प्रत्येतदनर्गलं बलिभुजा मायाविना भुज्यते ॥ २२ ॥ करभ रसभात्क्रोष्टुं वाञ्च्छस्यहो श्रवणज्वरः शरणमथवानृज्वी दीर्घा तवैव शिरोधरा । पृथुगलविलावृत्तिश्रान्तोच्चरिष्यति वाक्चिरा दियति, समये को जानीते भविष्यति कस्य किम् ॥ २३ ॥ अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः । कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः ॥ २४ ॥ किं दीर्घदीर्घेषु गुणेषु पद्म सितेष्ववच्छादनकारणं ते । अस्त्येव तान् पश्यति चेदनार्या त्रस्तेव लक्ष्मीर्न पदं विधत्ते ॥ २५ ॥ न पङ्कादुद्भूतिर्न जलसहवासव्यसनिता वपुर्दिग्धं कान्त्या स्थलनलिनरत्नद्युतिमुषा । व्यधास्यद्दुर्वेधा हृदयलघिमानं यदि न ते त्वमेवैको लक्ष्म्याः परममभविष्यः पदमिह ॥ २६ ॥ उच्चैरुच्चरतु चिरं चिरी वर्त्मनि तरुं समारुह्य । दिग्व्यापिनि शब्दगुणे शङ्खः सम्भावनाभूमिः ॥ २७ ॥ शङ्खोऽस्थिशेषः स्फुटितो मृतो वा प्रोच्छ्वास्यतेऽन्यश्वसितेन सत्यम् । किं तूच्चरत्येव हि सोऽस्य शब्दः श्राव्यो न यो यो न सदर्थशंसी ॥ २८ ॥ यथापल्लवपुष्पास्ते यथापुष्पफलर्द्धयः । यथाफलर्द्धिस्वारोहा हा मातः क्वागमन् द्रुमाः ॥ २९ ॥ साध्वेव तविधावस्य वेधा क्लिष्टो न यद्वृथा । स्वरूपाननुरूपेण चन्दनस्य फलेन किम् ॥ ३० ॥ ग्रथितः एष मिथः कृतशृङ्खलैर्विषधरैरधिरुह्य महाजडः । मलयजः सुमनोभिरनाश्रितो यदत एव फलेन वियुज्यते ॥ ३१ ॥ चन्दने विषधरान् सहामहे वस्तु सुन्दरमगुप्तिमत्कृतः । रक्षितुं वद किमात्मगौरवं सञ्चिताः खदिर कण्टकास्त्वया ॥ ३२ ॥ यत्किञ्चनानुचितमप्युचितानुवृत्ति किं चन्दनस्य न कृतं कुसुमं फलं वा । लज्जामहे वयमुपक्रम एव यान्तस्तस्यान्तिकं परिगृहीतबृहत्कुठाराः ॥ ३३ ॥ लब्धं चिरादमृतवत्किममृत्यवे स्याद्दीर्घं रसायनवदायुरपि प्रदद्यात् । एतत्फलं यदयमध्वगशापदग्धः स्तब्धः खलः फलति वर्षशतेन तालः ॥ ३४ ॥ छिन्नस्तृप्तसुहृत्स चन्दनतरुर्यूयं पलाय्यागता भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्मृतास्तत्र वः । दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तुर्न चेत्किं तेनैव सह स्वयं न लवशो याताः स्थ भो भोगिनः ॥ ३५ ॥ संतोषः किमशक्तता किमथवा तस्मिन्नसम्भावना लोभो वायमुतानवस्थितिरियं प्रद्वेष एवाथवा । आस्तां खल्वनुरूपया सफलया पुष्पश्रिया दुर्विधे सम्बन्धोऽननुरूपयापि न कृतः किं चन्दनस्य त्वया ॥ ३६ ॥ किं जातोऽसि चतुष्पथे घनतरछायोऽसि किं छायया संयुक्तफलितोऽसि किं फलभरैः पूर्णोऽसि किं सन्नतः । हे सद्वृक्ष सहस्व सम्प्रति सखे शाखाशिखाकर्षण- क्षोभामोटनभञ्जनानि जनतः स्वरैरेव दुश्चेष्टितैः ॥ ३७ ॥ सन्मूलः प्रथितोन्नतिर्घनलसच्छायः स्थितः सत्पथे सेव्यः सद्भिरितीदमाकलयता तालोऽध्वगेनाश्रितः । पुंसः शक्तिरियत्यसौ तु फलेदद्याथवा श्वोऽथवा काले क्वाप्यथवा कदाचिदथवा न त्वेव वेधाः प्रभुः ॥ ३८ ॥ त्वन्मूले पुरुषायुषं गतमिदं देहेन संशुष्यता क्षोदीयंसमपि क्षणं परमतह्शक्तिः कुतः प्राणितुम् । तत्स्वस्त्यस्तु विवृद्द्धिमेहि महतीमद्यापि का नस्त्वरा कल्याणिन्! फलितासि तालविटपिन्! पुत्रेषु पौत्रेषु वा ॥ ३९ ॥ पश्यामः किमयं प्रपत्स्यत इति स्वल्पाभ्रसिद्धक्रियैर्दर्पाद्दूरमुपेक्षितेन बलवत्कर्मेरितैर्मन्त्रिभिः । लब्धात्मप्रसरेण रक्षितुमथाशक्येन मुक्त्वाशानिं स्फीतस्तादृगहो घनेन रिपुणा दग्धो गिरिग्रामकः ॥ ४० ॥ साधूत्पातघनौग साधु सुधिया ध्येयं धरायामिदं कोऽन्यः कर्तुमलं तवैव घटते कर्मेदृशं दुष्करम् । सर्वस्यौपयिकानि यानि कतिचित्क्शेत्राणि तत्राशनिः सर्वानौपायिकेषु दग्धसिकतारण्येष्वपां वृष्टयः ॥ ४१ ॥ लब्धायां तृषि गोमृगस्य विहगस्यान्यसय्वा कस्य चिद्वृष्ट्या स्याद्भवदीययोपकृतिरित्यास्तां दवीयस्यदः । अस्यात्यन्तमभाजनस्य जलदारण्योषरस्यापि किं जाता पश्य पुनः पुनरेव परुषा सैवास्य दग्धा छविः ॥ ४२ ॥ संत्यज्य पानाचमनोचितानि तोयान्तराण्यस्य सिसेविषोस्त्वाम् । निर्जैन, जिह्रेषि जलैर्जनस्य जघन्यकार्यौपयिकैः पयोधे ॥ ४३ ॥ आस्त्रीशिशु प्रथित एष पिपासितेभ्यः संरक्ष्यतेऽम्बुधिरपेयतयैव दूरात् । दंष्ट्राकरालमकरालिकरालिताभिः किं भाययत्यपरमूर्मिपरम्पराभिः ॥ ४४ ॥ स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरभितः क्रुशित्वा क्लिश्नासि श्रुतिकुहरमब्धे किमिति नः । इहैकश्चूडालो ह्यजनि कलशाद्यस्य सकलैः पिपासोरम्भोभिश्चुलुकमपि नो भर्तुमशकः ॥ ४५ ॥ सर्वासां त्रिजगत्यपामियमसावाधारता तावकी प्रोल्लासोऽयमथाम्बुधेऽम्बुनिलये सेयं महासत्त्वता । सेवित्वा बहुभङ्गभीषणतनुं त्वामेव वेलाचल- ग्रावस्रोतसि पानतापकलहो यत्क्वापि निर्वाप्यते ॥ ४६ ॥ नोद्वेगं यदि यासि यद्यवहितः कर्णं ददासि क्षणं त्वां पृच्छामि यदम्बुधे किमपि तन्निश्चित्य देह्युत्तरम् । नैराश्यातिशयातिमात्रनिभृतैर्निःश्वस्य यद्दृश्यसे तृष्यद्भिः पथिकैः कियत्तदधिकं स्यादौर्वदाहादतः ॥ ४७ ॥ भिद्यतेऽनुप्रविश्यान्तर्यो यथारुच्युपाधिना । विशुद्धिः कीदृशी तस्य जडस्य स्फटिकाश्मनः ॥ ४८ ॥ चिन्तामणे भुवि न केन चिदीश्वरेण मूर्ध्ना धृतोऽहमिति मा स्म सखे विषीदः । नास्त्येव हि त्वदधिरोपणपुण्यबीज- सौभाग्ययोग्यमिह कस्य चिदुत्तमाङ्गम् ॥ ४९ ॥ संवित्तिरस्त्यथ गुणाः प्रतिभान्ति लोके तद्धि प्रशस्तमिह कस्य किमुच्यतां वा । नन्वेवमेव सुमणे लुट यावदायुस्त्वं मे जगत्प्रसहनेऽत्र कथाशरीरम् ॥ ५० ॥ चिन्तामणेस्तृणमणेश्च कृतं विधात्रा केनोभयोरपि मणित्वमदः समानम् । नैकोऽर्थितानि ददन्नर्थिजनाय खिन्नो गृह्णञ्जरत्तृणलवं तु न लज्जतेऽन्यः ॥ ५१ ॥ दूरे कस्य चिदेष कोऽप्यकृतधीर्नैवास्य वेत्त्यन्तरं मानी कोऽपि न याचते मृगयते कोऽप्यल्पमल्पाशयः । इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्ज्वला जातानैपुणदुस्तरेषु निकषस्थानेषु चिन्तामणेः ॥ ५२ ॥ परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । न सम्प्राप्तो वृद्धिं स यदि भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽयं न पुनरगुणाया मरुभुवः ॥ ५३ ॥ आम्राः किं फलभारनम्रशिरसो रम्या किमूष्मच्छिदः सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश्चम्पकाः । एतास्ता निरवग्रहोग्रकरभोल्लीढार्धरूढाः पुनः शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तुं मरौ ॥ ५४ ॥ आजन्मनः कुशलमण्वपि रे कुजन्मन् पांसो त्वया यदि कृतं वद तत्त्वमेव । उत्थापितोऽस्यनलसारथिना यदर्थं दुष्टेन तत्कुरु कलङ्कय विश्वमेतत् ॥ ५५ ॥ निस्साराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्व चिच्छुष्यन्तोऽद्य जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेण ये । अन्तःसार[अराङ्मुखेन धिगहो ते मारुतेनामुना पश्यात्यन्तचलेन सद्म महतामाकाशमारोपिता ॥ ५६ ॥ ये जात्या लघवः सदैव गणनां याता न ये कुत्र चित्पद्भ्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरम् । उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षेऽधुना तुङ्गानामुपरिस्थितिं क्षितिभृत्तां कुर्वन्त्यमी पांसवः ॥ ५७ ॥ रे दन्दशूक यदयोग्यमपीश्वरस्त्वां वात्सल्यतौ नयति नूपुरधाम सत्यम् । आवर्जितालिकुलझंकृतिर्मूर्च्छितानि किं शिञ्जितानि भवतः क्षयमेव कर्तुम् ॥ ५८ ॥ मौलौ सन्मणयो गृहं गिरिगुहा त्यागित्वमात्मत्वचो निर्यत्नोपनतश्चैव वृत्तिरनिलैरेकत्र चर्येदृशी । अन्यत्रानृजु वर्त्म वाग्द्विरसना दृष्टौ विषं दृश्यते या धिक्तामनु दीपको ज्वलति भो भोगिन् सखे किं न्विदम् ॥ ५९ ॥ कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकरालय मावमंस्थाः । किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥ ६० ॥ भूयांस्यस्य मुखानि नाम विदितैवास्ते महाप्राणता कद्रवाः सत्प्रसवोऽयमत्र कुपिते चिन्त्यं यथेदं जगत् । त्रैलोक्याद्भुतमीदृशं तु चरितं शेषस्य येनापि सा प्रोन्मृज्येव निवर्तिता विषधरज्ञातेयदुर्वृत्तिता ॥ ६१ ॥ वर्षे समस्त एकैकः श्लाघ्यः कोऽप्येष वासरः । जनैर्महत्तया नीतो यो न पूर्वैर्न चापरः ॥ ६२ ॥ आबद्धकृत्रिमसटाजटिलांसभित्तिरारोपितो मृगपतेः पदवीं यदि श्वा । मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य ॥ ६३ ॥ किमिदमुचितं शुद्धेः श्लिष्टं स्वपक्षसमुन्नतेः फलपरिणतेर्युक्तं प्राप्तं गुणप्रणयस्य वा । क्षणमुपगतः कर्णोपान्तं परस्य पुरः स्थितान् विशिख निपतन् क्रूरं दूरान्नृशंस निहंसि यत् ॥ ६४ ॥ अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता भवत्येषां यस्य क्षणमुपगतानां विषयताम् । निरालोके लोके कथमिदमहो चक्षुरधुना समं जातं सर्वैर्न सममथवान्यैरवयवैः ॥ ६५ ॥ आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते मधेवारिधि वा वसंस्तृणमणिर्धत्ते मणीनां रुचम् । खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥ ६६ ॥ हेमकार सुधिये नमोऽस्तु ते दुस्तरेषु बहुशः परीक्षितुम् । काञ्चनाभरणमश्मना समं यत्त्वयैवमधिरोप्यते तुलाम् ॥ ६७ ॥ वृत्त एव स घटोऽन्धकूप यस्त्वत्प्रसादमपि नेतुमक्षमह् । मुद्रितं त्वधमचेष्टितं त्वया तन्मुखाम्बुकणिकाः प्रतीच्छता ॥ ६८ ॥ तृणमणेर्मनुजस्य च तत्त्वतः किमुभयोर्विपुलाशयतोच्यते । तनुतृणाग्रलवावयवैर्ययोरवसिते ग्रहणप्रतिपादने ॥ ६९ ॥ शतपदी सति पादशते क्षमा यदि न गोष्पदमप्यतिवर्तितुम् । किमियता द्विपदस्य हनुमतो जलनिधिक्रमणे विवदामहे ॥ ७० ॥ न गुरुवंशपरिग्रहशौण्डता न च महागुणसंग्रहणादरः । फलविधानकथापि न मार्गणे किमिह लुब्धकबालगृहेऽधुना ॥ ७१ ॥ तनुतृणाग्रधृतेन हृतश्चिरं क इव तेन न मौक्तिकशङ्कया । स जलबिन्दुरहो विपरीतदृग्जगदिदं वयमत्र सचेतनाः ॥ ७२ ॥ बुध्यामहे न बहुधापि विकल्पयन्तः कैर्नामभिर्व्यपदिशेम महामतींस्तान् ।तेस्तिम्{।चित्सुभाषितावली ९८२}* । येषामशेषभुवनाभरणस्य हेम्नस्तत्त्वं विवेक्तुमुपलाः परमं प्रमाणम् ॥ ७३ ॥ संरक्षितुं कृषिमकारि कृषीवलेन पश्यात्मनः प्रतिकृतिस्तृणपूरुषोऽयम् । स्तब्धस्य निष्क्रियतयास्तभियोऽस्य नूनमश्नन्ति गोमृगगणाः पुर एव सस्यम् ॥ ७४ ॥ कस्यानिमेषनयने विदिते दिवौको- लोकादृते जगति ते अपि वै गृहीत्वा । पिण्डप्रसारितमुखेन तिमे किमेतद्दृष्टं न बालिश विशद्बडिशं त्वयान्तः ॥ ७५ ॥ पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयने न महानपि स्यात् । अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक्प्रकटिता पुरुषोत्तमेन ॥ ७६ ॥ स्वाल्पाशयः स्वकुलशिल्पविकल्पमेव यः कल्पयन् स्खलति काचवणिक्पिशाचः । ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न- निर्यत्नगुम्फनकवैकटिकेर्ष्ययान्तः ॥ ७७ ॥ तत्प्रत्यर्थितया वृतो न तु कृतः सम्यक्स्वतन्त्रो भयात्स्वस्थस्तान्न निपातयेदिति यथाकामं न सम्पोषितः* । संशुष्यन् पृषदंश एष कुरुतां मूकः स्थितोऽप्यत्र किं गेहे किं बहुनाऽधुना गृहपतेश्चौर्राश्चरन्त्याखवः ॥ ७८ ॥ एवं चेत्सरसस्वभावमहिमा जाड्यं किमेतादृशं यद्येषा च निसर्गतः सरसता किं ग्रन्थिमत्तेदृशी । मूलं चेच्छुचिपङ्कजश्रुतिरियं कस्माद्गुणा यद्यमी किं छिद्राणिमृणाल भवतस्तत्त्वं न मन्यामहे ॥ ७९ ॥ ये दिग्ध्वेव कृता विषेण कुसृतिर्येषां कियद्भण्यते लोकं हन्तुमनागसं द्विरसना रन्ध्रेषु ये जाग्रति । व्यालास्तेऽपि दधत्यमी सदसतोर्मूढा मणीन्मूर्धभिर्नौचित्याद्गुणशलिनां क्व चिदपि भ्रंशोऽस्त्यलं चिन्तया ॥ ८० ॥ अहो स्त्रीणां क्रौर्यं हतरजनि धिक्त्वामतिशठे वृथाप्रक्रान्तेयं तिमिरकबरीविश्लथधृतिः । अवक्तव्ये पाते जननयननाथस्य शशिनः कृतं स्नेहस्यान्तोचितमुदधिमुख्यैर्ननु जडैः ॥ ८१ ॥ अहो गेहेनर्दी दिवसविजिगीषाज्वररुजा प्रदीपोऽयं स्थाने ग्लपयति मृषामूनवयवान् । उदात्तस्वच्छन्दाक्रमणहृतविश्वस्य तमसः परिस्पन्दं द्रष्टुं मुखमपि च किं सोढममुना ॥ ८२ ॥ नामाप्यन्यतरोर्निमीलितमभूत्तत्तावदुन्मीलितं प्रस्थाने स्खलतः स्ववर्त्मनि विधेरप्युद्गृहीतः करः । लोकश्चायमनिष्टदर्शनकृताद्दृग्वैशसान्मोचितो युक्तं काष्ठिक लूनवान् यदसि तामाम्रालिमाकालिकीम् ॥ ८३ ॥ वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः । तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैर्दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणनीहते ॥ ८४ ॥ ऊढा येन महाधुरः सुविषमे मार्गे सदैकाकिना सोढो येन कदा चिदेव न निजे गोष्ठेऽन्यशौण्डध्वनिः । आसीद्यस्तु गवां गणस्य तिलकस्तस्यैव सम्प्रत्यहो धिक्कष्टं धवलस्य जातजरसो गोः पण्यमुद्घोष्यते ॥ ८५ ॥ अस्थानोद्योगदुःखं जहिहि न हि नभः पङ्गुसंचारयोग्यं स्वायासायैव साधो तव शलभ जवाभ्यासदुर्वासनेयम् । ते देवस्याप्यचिन्त्याश्चटुलितभुवनाभोगहेलावहेला- मूलोत्खातानुमार्गागतगिरिगुरवस्तार्क्ष्यपक्षाग्रवाताः ॥ ८६ ॥ चन्द्रेणैव तरङ्गभङ्गिमुखरं संवर्ध्यमानाम्भसो दद्युर्जीवितमेव किं गिरिसरित्स्रोतांसि यद्यम्बुधेः । तेष्वेव प्रतिसंविधानविकलं पश्यत्सु साक्षिष्विव द्राग्दर्पोद्धुरमागतेष्वपि न स क्षीयेत यद्यन्यथा ॥ ८७ ॥ किलैकचुलुकेन यो मुनिरपारमब्धिं पपौ सहस्रमपि घस्मरोऽविकृतमेष तेषां पिबेत् । न सम्भवति किं त्विदं बत विकासिधाम्ना विना सदप्यसदिव स्थितं स्फुरितमन्त ओजस्विनाम् ॥ ८८ ॥ ग्रावाणोऽत्र विभूषणं त्रिजगतो मर्यादया स्थीयते नन्वत्रैव विधुः स्थितो हि विबुधाः सम्भूय पूर्णाशिषः । शेते चोद्गतनाभिपद्मविलसद्ब्रह्मेह देवः स्वयं दैवादेति जडः स्वकुक्षिभ्र्तये सोऽप्यम्बुधिर्निम्नताम् ॥ ८९ ॥ अनीर्ष्या श्रोतारो मम वचसि चेद्वच्मि तदहं स्वपक्षाद्भेतव्यं न तु बहु विपक्षात्प्रभवतः । तमस्याक्रान्ताशे कियदपि हि तेजोऽवयविनः स्वशक्त्या भान्त्येते दिवसकृति सत्येव न पुनः ॥ ९० ॥ एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन् यदस्मादपि । अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः कुत्रोड्डीयगतो ममेत्यनुदिनं निद्राति नान्तःशुचा ॥ ९१ ॥ आस्तेऽत्रैव सरस्यहो बत कियान् संतोषपक्षग्रहो हंसस्यास्य मनाङ्न धावति मनः श्रीधाम्नि पद्मे क्व चित् । सुप्तोऽद्यापि न बुध्यते तदितरांस्तावत्प्रतीक्षामहे वेलामित्युदरंप्रिया मधुलिहः सोढुं क्षणं न क्षमाः ॥ ९२ ॥ भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पानने दातुं गण्डचपेतमुज्झितभिया हस्तः समुल्लासितः । यच्चाधोमुखमक्षिणी पिदधता नागेन तत्र स्थितं तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितम् ॥ ९३ ॥ मृत्योरास्यमिवाततं धनुरिदं चाशीविषाभाः शराः शिक्षा सापि जितार्जुनप्रभ्र्तिका सर्वत्र निम्ना गतिः । अन्तः क्रौर्यमहो शठस्य मधुरं हा हारि गेयं मुखे व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं न्रिमृगम् ॥ ९४ ॥ कोऽयं भ्रान्तिप्रकारस्तव पवन पदं लोकपादाहतीनां तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठाम् । यस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां केनोपायेन साध्यो वपुषि कलुषतादोष एष त्वयैव ॥ ९५ ॥ एते ते विजिगीषवो नृपगृहद्वारार्पितावेक्षणाः क्षिप्यन्ते वसुयाचनाहितधियः कोपोद्धतैर्वेत्रिभिः । अर्थेभ्यो विषयोपभोगविरसैर्नाकारि यैरादरस्ते तिष्ठन्ति मनस्विनः सुरसरित्तीरे मनोहारिणि ॥ ९६ ॥ वाता वान्तु कदम्बरेणुशबला नृत्यन्तु सर्पद्विषः सोत्साहा नवतोयभारगुरवो मुञ्चन्तु नादं घनाः । मग्नां कान्तवियोगदुःखदहने मां वीक्ष्य दीनाननां विद्युत्किं स्फुरसि त्वमप्यकरुणे स्त्रीत्वेऽपि तुल्ये सति ॥ ९७ ॥ प्राणा येन समर्पितास्तव बलाद्येनैवमुत्थापितः स्कन्धे येन चिरं धृतोऽसि विदधे यस्ते सपर्यामपि । तस्यान्तह्स्मितमात्रकेण जनयञ्जीवापहारं क्षणाद्भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसे ॥ ९८ ॥ रज्ज्वा दिशः प्रवितताः सलिलं विषेण खाता मही हुतभुजा ज्वलिता वनान्ताः । व्याधा पदान्यनुसरन्ति गृहीतचापाः कं देशमाश्रयतु यूथपतिर्मृगाणाम् ॥ ९९ ॥ अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिनिकरमापास्यति मुनिः ॥ १०० ॥ विशालं शाल्मल्या नयनसुभगं वीक्ष्य कुसुमं शुकस्यासीद्बुद्धिः फलमपि भवेदस्य सदृशम् । चिरासीनं तस्मिंश्च फलमपि दैवात्परिणतं विपाके तूलोऽन्तः सपदि मरुता सोऽप्यपहृतः ॥ १०१ ॥ सर्वप्रजाहितकृते पुरुषोत्तमस्य वासे समस्तविबुधप्रथितेष्टसिद्धौ । चन्द्रांशुवृन्दविततद्युतिमत्यमुष्मिन्- हे कालकूट तव जन्म कथं पयोधौ ॥ १०२ ॥ फलितघनविटपविघटितपटुदिनकरमहसि लसतिकल्पतरौ । छायार्थी कः पशुरपि भवति जरद्वीरुधां प्रणयी ॥ १०३ ॥