गोवर्धनाचार्यविरचिता आर्यासप्तशती ॥ श्रीः ॥ ग्रन्थारम्भव्रज्या पाणिग्रहे पुलकितं वपुरैशं भूतिभूषितं जयति । अङ्कुरित इव मनोभूर्यस्मिन् भस्मावशेषोऽपि ॥१॥ मा वम संवृणु विषमिदमिति सातङ्कं पितामहेनोक्तः । प्रातर्जयति सलज्जः कज्जलमलिनाधरः शम्भुः ॥२॥ जयति प्रियापदान्ते गरलग्रैवेयकः स्मरारातिः । विषमविशिखे विशन्निव शरणं गलबद्धकरवालः ॥३॥ जयति ललाटकटाक्षः शशिमौलेः पक्ष्मलः प्रियाग्रणतौ । धनुषि स्मरेण निहितः सकण्टकः केतकेषुरिव ॥४॥ जयति जटाकिञ्जल्कं गङ्गामधु मुण्डवलयबीजमयम् । गलगरलपङ्कसम्भवमभोरुहमाननं शम्भोः ॥५॥ सन्ध्यासलिलाञ्जलिमपि कङ्कणफणिपीयमानमविजानन् । गौरीमुखार्पितमना विजयाहसितः शिवो जयति ॥६॥ प्रतिबिम्बितगौरीमुखविलोकनोत्कम्पशिथिलकरगलितः । स्वेदभरपूर्यमाणः शम्भोः सलिलाज्जलिर्जयति ॥७॥ प्रणयकुपितप्रियापदलाक्षासन्ध्यानुबन्धमधुरेन्दुः । तद्वलयकनकनिकषग्रावग्रीवः शिवो जयति ॥८॥ पूर्णनखेन्दुर्द्विगुणितमञ्जीरा प्रेमशृङ्खला जयति । हरशशिलेखा गौरीचरणाङ्गुलिमध्यगुल्फेषु ॥९॥ श्रीकरपिहितं चक्षुः सुखयतु वः पुण्डरीकनयनस्य । जघनमिवेक्षितुमागतमब्जनिभं नाभिसुषिरेण ॥१०॥ श्यामं श्रीकुचकुङ्कुमपिञ्जरितमुरो मुरद्विषो जयति । दिनमुखनभ इव कौस्तुभविभाकरो यद्विभूषयति ॥११॥ प्रतिबिम्बितप्रियातनु सकौस्तुभं जयति मधुभिदो वक्षः । पुरुषायितमभ्यस्यति लक्ष्मीर्यद्वीक्ष्य मुकुरमिव ॥१२॥ केलिचलाङ्गुलिलम्भितलक्ष्मीनाभिर्मुरद्विषश्चरणः । स जयति येन कृता श्रीरनुरूपा पद्मनाभस्य ॥१३॥ रोमावली मुरारेः श्रीवत्सनिषेविताग्रभागा वः । उन्नालनाभिनलिनच्छायेवोत्तापमपहरतु ॥१४॥ आदाय सप्ततन्त्रोचितां विपञ्चीमिव त्रयीं गायन् । मधुरं तुरङ्गवदनोचितं हरिर्जयति हयमूर्धा ॥१५॥ स जयति महाबाहो जलनिधिजठरे चिरं निमग्नापि । येनान्त्रैरिव सह फणिगणैर्बलादुद्धृता धरणी ॥१६॥ ब्रह्माण्डकुम्भकारं भुजगाकारं जनार्दनं नौमि । स्फारे यत्फणचक्रे धरा शरावश्रियं वहति ॥१७॥ चण्डीजङ्घाकाण्डः शिरसा चरणस्पृशि प्रिये जयति । शङ्करपर्यन्तजितो विजयस्तम्भः स्मरस्येव ॥१८॥ उन्नालनाभिपङ्केरुह इव येनावभाति शम्भुरपि । जयति पुरुषायितायास्तदाननं शैलकन्यायाः ॥१९॥ अङ्कनिलीनगजाननशङ्काकुलबाहुलेयहृतवसनौ । सस्मितहरकरकलितौ हिमगिरितनयास्तनौ जयतः ॥२०॥ कण्ठोचितोऽपि हुङ्कृतिमात्रनिरस्तः पदान्तिके पतितः । यस्याश्चन्द्रशिखः स्मरभल्लनिभो जयति सा चण्डी ॥२१॥ देवेऽर्पितवरणस्रजि बहुमाये वहति कैटभीरूपम् । जयति सुरासुरहसिता लज्जाजिह्मेक्षणा लक्ष्मीः ॥२२॥ तानसुरानपि हरिमपि तं वन्दे कपटकैटभीरूपम् । यैर्यद्बिम्बाधरमधुलुब्धैः पीयुषमपि मुमुचे ॥२३॥ तल्पीकृताहिरगणितगरुडो हाराभिहतविधिर्जयति । फणशतपीतश्वासो रागान्धायाः श्रियः केलिः ॥२४॥ स्मेराननेन हरिणा यत्स्पृहमाकारवेदिनाकलितम् । जयति पुरुषायितायाः कमलायाः कैटभीध्यानम् ॥२५॥ कृतकान्तकेलिकुतुकश्रीशीतश्वाससेकनिद्राणः । घोरितविततालिरुतो नाभिसरोजे विधिर्जयति ॥२६॥ एकरद द्वैमातुर निस्त्रिगुण चतुर्भुजापि पञ्चकर । जय षण्मुखनुत सप्तच्छदगन्धिमदाष्टतनुतनय ॥२७॥ मङ्गलकलशद्वयमयकुम्भमदम्भेन भजत गजवदनम् । यद्दानतोयतरलैस्तिलतुलनालम्बि रोलम्बैः ॥२८॥ याभिरनङ्गः साङ्गीकृतः स्त्रियोऽस्त्रीकृताश्च ता येन । वामाचरणप्रवणौ प्रणम्ततौ कामिनीकामौ ॥२९॥ विहितघनालङ्कारं विचित्रवर्णावलीमयस्फुरणम् । शक्रायुधमिव वक्रं वल्मीकभुवं कविं नौमि ॥३०॥ व्यासगिरां निर्यासं सारं विश्वस्य भारतं वन्दे । भूषणयैव सञ्ज्ञां यदङ्कितां भारती वहति ॥३१॥ सति काकुत्स्थकुलोन्नतिकारिणि रामायणे किमन्येन । रोहति कुल्या गङ्गापूरे किं बहुरसे वहति ॥३२॥ अतिदीर्घजीविदोषाद्व्यासेन यशोऽपहारितं हन्त । कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥३३॥ श्रीरामायणभारतबृहत्कथानां कवीन्नमस्कुर्मः । त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर्भिन्ना ॥३४॥ साकूतमधुरकोमलविलासिनीकण्ठकूजितप्राये । शिक्षसमयेऽपि मुदे रतलीलाकालिदासोक्ती ॥३५॥ भवभूतेः सम्बन्धाद्भूधरभूरेव भारती भाति । एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा ॥३६॥ जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि । प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति ॥३७॥ यं गणयति गुरोरनु यस्यास्ते धर्मकर्म सङ्कुचितम् । कविमहमुशनसमिव तं तातं नीलाम्बरं वन्दे ॥३८॥ सकलकलाः कल्पयितुं प्रभुः प्रबन्धस्य कुमुदबन्धोश्च । सेनकुलतिलभूपतिरेको राकाप्रदोषश्च ॥३९॥ काव्यस्याक्षरमैत्रीभाजो न च कर्कशा न च ग्राम्याः । शब्दा अपि पुरुषा अपि साधव एवार्थबोधाय ॥४०॥ वंशे घुण इव न विशति दोषो रसभाविते सतां मनसि । रसमपि तु न प्रतीच्छति बहुदोषः सन्निपातीव ॥४१॥ विगुणोऽपि काव्यबन्धः साधूनामाननं गतः स्वदते । फूत्कारोऽपि सुवंशैरनूद्यमानः श्रुतिं हरति ॥४२॥ स्वयमपि भूरिच्छिद्रश्चापलमपि सर्वतोमुखं तन्वन् । तितौस्तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः ॥४३॥ अन्तर्गूढानर्थानव्यञ्जयतः प्रसादरहितस्य । सन्दर्भस्य नदस्य च न रसः प्रीत्यै रसज्ञानाम् ॥४४॥ यदसेवनीयमसताममृतप्रायं सुवर्णविन्यासम् । सुरसार्थमयं काव्यं त्रिविष्टपं वा समं विद्मः ॥४५॥ सत्कविरसनाशूर्पीनिस्तुषतरशब्दशालिपाकेन । तृप्तो दयिताधरमपि नाद्रियते का सुधा दासी ॥४६॥ अकलितशब्दालङ्कृतिरनुकूला स्खलिपदनिवेशापि । अभिसारिकेव रमयति सूक्तिः सोत्कर्षशृङ्गारा ॥४७॥ अध्वनि पदग्रहपरं मदयति हृदयं न वा न वा श्रवणम् । काव्यमभिज्ञसभायां मञ्जीरं केलिवेलायाम् ॥४८॥ आस्वादितदयिताधरसुधारसस्यैव सूक्तयो मधुराः । अकलितरसालमुकुलो न कोकिलः कलमुदञ्चयति ॥४९॥ बालाकटाक्षसूत्रितमसतीनेत्रत्रिभागकृतभाष्यम् । कविमाणवका दूतीव्याख्यातमधीयते भावम् ॥५०॥ मसृणपदगीतिगतयः सज्जनहृदयाभिसारिकाः सुरसाः । मदनाद्वयोपनिषदो विशदा गोवर्धनस्यार्याः ॥५१॥ वाणी प्राकृतसमुचितरसा बलेनैव संस्कृतं नीता । निम्नानुरूपनीरा कलिन्दकन्येव गगनतलम् ॥५२॥ आर्यासप्तशतीयं प्रगल्भमनसामनादृता येषाम् । दूतीरहिता इव ते न कामिनीमनसि निविशन्ते ॥५३॥ रतरीतिवीतवसना प्रियेव शुद्धापि वाङ्मुदे सरसा । अरसा सालङ्कृतिरपि न रोचते शालभञ्जीव ॥५४॥ इति ग्रन्थारम्भव्रज्या समाप्ता । ********************************************************** अकारव्रज्या अवधिदिनावधिजीवाः प्रसीद जीवन्तु पथिकजनजायाः । दुर्लङ्घ्यवर्त्मशैलौ स्तनौ पिधेहि प्रपापालि ॥गस्स्_१॥ अतिवत्सला सुशीला सेवाचतुरा मनोऽनुकूला च । अजनि विनीता गृहिणी सपदि सप्त्नीस्तनोद्भेदे ॥गस्स्_२॥ अयि कूलनिचुलमूलोच्छेदनदुःशीलवीचिवाचाले । बकविघसपङ्कसारा न चिरात्कावेरि भवितासि ॥गस्स्_३॥ अयि विविधवचनरचने ददासि चन्द्रं करे समानीय । व्यसनदिवसेषु दूति क्व पुनस्त्वं दर्शनीयासि ॥गस्स्_४॥ अस्तु म्लानिर्लोको लाञ्छनमपदिशतु हीयतामोजः । तदपि न मुञ्चति स त्वां वसुधाछायामिव सुधांशुः ॥गस्स्_५॥ अतिचापलं वितन्वन्नन्तर्निविशन्निकामकाठिन्यः । मुखरयसि स्वयमेतां सद्वृत्तां शङ्कुरिव घण्टाम् ॥गस्स्_६॥ अङ्गेषु जीर्यति परं खञ्जनयूनोर्मनोभवप्रसरः । न पुनरनन्तर्गर्भितनिधिनि धरामण्डले केलिः ॥गस्स्_७॥ अन्धत्वमन्धसमये बधिरत्वं बधिरकाल आलम्ब्य । श्रीकेशवयोः प्रणयी प्रजापतिर्नाभिवास्तव्यः ॥गस्स्_८॥ अयि कोषकार कुरुषे वनेचराणां पुरो गुणोद्गारम् । यन्न विदार्य विचारितजठरस्त्वं स खलु ते लाभः ॥गस्स्_९॥ अगणितमहिमा लङ्घितगुरुरधनेहः स्तनन्धयविरोधी । इष्टाकीर्तिस्तस्यास्त्वयि रागः प्राणनिरपेक्षः ॥गस्स्_१०॥ अपराधादधिकं मां व्यथयति तव कपटवचनरचनेयम् । शस्त्राघातो न तथा सूचीव्यधवेदना यादृक् ॥गस्स्_११॥ असतीलोचनमुकुरे किमपि प्रतिफलति यन्मनोवर्ति । सारस्वतमपि चक्षुः सतिमिरमिव तन्न लक्षयति ॥गस्स्_१२॥ अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः । इतरेन्धनजन्मा यो धूमः सोऽगुरुभवो धूपः ॥गस्स्_१३॥ अयि सुभग कुतुकतरला विचरन्ती सौरभानुसारेण । त्वयि मोहाय वराकी पतिता मधुपीव विषकुसुमे ॥गस्स्_१४॥ अयि मुग्धगन्धसिन्धुरशङ्कामात्रेण दन्तिनो दलिताः । उपभुञ्जते करेणूः केवलमिह मत्कुणाः करिणः ॥गस्स्_१५॥ अतिविनयवामनतनुर्विलङ्घते गेहदेहलीं न वधूः । अस्याः पुनरारभटीं कुसुम्भवाटी विजानाति ॥गस्स्_१६॥ अन्तर्गतैर्गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः । स गुणो गीतेर्यदसौ वनेचरं हरिणमपि हरति ॥गस्स्_१७॥ अलुलितसकलविभूषां प्रातर्बालां विलोक्य मुदितं प्राक् । प्रियशिरसि वीक्ष्य यावकमथ निःश्वसितं सपत्नीभिः ॥गस्स्_१८॥ अयि लज्जावति निभरनिशीथरतनिःसहाङ्गि सुखसुप्ते । लोचनकोकनदच्छदमुन्मीलय सुप्रभातं ते ॥गस्स्_१९॥ अमिलितवदनमपीडितवक्षोरुहमतिविदूरजघनोरु । शपथशतेन भुजाभ्यां केवलमालिङ्गितोऽस्मि तया ॥गस्स्_२०॥ अतिपूजिततारेयं दृष्टिः श्रुतिलङ्घनक्षमा सुतनु । जिनसिद्धान्तस्थितिरिव सवासना कं न मोहयति ॥गस्स्_२१॥ अलमविषयभयलज्जावञ्चितमात्मानमियमियत्समयम् । नवपरिचितदयितगुणा शोचति नालपति शयनसखीः ॥गस्स्_२२॥ अनुरागवर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी । त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टैव ॥गस्स्_२३॥ अन्यप्रवणे प्रेयसि विपरीते स्रोतसीव विहितास्थाः । तद्गतिमिच्छन्त्यः सखि भवन्ति विफलश्रमाः हास्याः ॥गस्स्_२४॥ अधिकः सर्वेभ्यो यः प्रियः प्रियेभ्यो हृदि स्थितः सततम् । स लुठति विरहे जीवः कण्ठेऽस्यास्त्वमिव सम्भोगे ॥गस्स्_२५॥ अनयनपथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे । म्लानैव केवलं निशि तपनशिला वासरे ज्वलति ॥गस्स्_२६॥ अविभाव्यो मित्रेऽपि स्थितिमात्रेणैव नन्दयन् दयितः । रहसि व्यपदेशादयमर्थः इवाराजके भोग्यः ॥गस्स्_२७॥ अश्रौषीरपराधान्मम तथ्यं कथय मन्मुखं वीक्ष्य । अभिधीयते न किं यदि न मानचौराननः कितवः ॥गस्स्_२८॥ अन्योन्यमनु स्रोतसमन्यदथान्यत्तटात्तटं भजतोः । उदितेऽर्केऽपि न माघस्नानं प्रसमाप्यते यूनोः ॥गस्स्_२९॥ अयि चूतवल्लि फलभरनताङ्गि विष्वग्विकासिसौरभ्ये । श्वपचघटकर्पराङ्का त्वं किल फलितापि विफलैव ॥गस्स्_३०॥ अञ्जलिरकारि लोकैर्म्लानिमनाप्तैव रञ्जिता जगती । सन्ध्याया इव वसतिः स्वल्पापि सखे सुखायैव ॥गस्स्_३१॥ अगृहीतानुनयां मामुपेक्ष्य सख्यो गता बतैकाहम् । प्रसभं करोषि मयि चेत्त्वदुपरि वपुरद्य मोक्ष्यामि ॥गस्स्_३२॥ अस्थिररागः कितवो मानी चपलो विदूषकस्त्वमसि । मम सख्याः पतसि करे पश्यामि यथा ऋजुर्भवसि ॥गस्स्_३३॥ अकरुण कातरमनसो दर्शितनीरा निरन्तरालेयम् । त्वामनु धावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥गस्स्_३४॥ अन्तःकलुषस्तम्भितरसया भृङ्गारनालयेव मम । अप्युन्मुखस्य विहिता वरवर्णिनि न त्वया तृप्तिः ॥गस्स्_३५॥ अयि सरले सरलतरोर्मदमुदितद्विपकपोलपालेश्च । अन्योन्यमुग्धगन्धव्यतिहारः कषणमाचष्टे ॥गस्स्_३६॥ अस्याः कररुहखण्डितकाण्डपटप्रकटनिर्गता दृष्टिः । पटविगलितनिष्कलुषा स्वदते पीयूषधारेव ॥गस्स्_३७॥ अस्याः पतिगृहगमने करोति माताश्रुपिच्छिलां पदवीम् । गुणगर्विता पुनरसौ हसति शनैः शुष्करुदितमुखी ॥गस्स्_३८॥ अङ्के निवेश्य कूणितदृशः शनैरकरुणेति शंसन्त्याः । मोक्ष्यामि वेणिबन्धं कदा नखैर्गन्धतैलाक्तैः ॥गस्स्_३९॥ अलमनलङ्कृतिसुभगे भूषणमुपहासविषयमितरासाम् । कुरुषे वनस्पतिलता प्रसूनमिव बन्ध्यवल्लीनाम् ॥गस्स्_४०॥ अबुधा अजङ्गमा अपि कयापि गत्या परं पदमवाप्ताः । मन्त्रिण इति कीर्त्यन्ते नयबलगुटिका इव जनेन ॥गस्स्_४१॥ अतिशीलशीतलतया लोकेषु सखी मृदुप्रतापा नः । क्षणवाम्यदह्यमानः प्रतापमस्याः प्रियो वेद ॥गस्स्_४२॥ अन्यास्वपि गृहिणीति ध्यायन्नभिलषितमाप्नोति । पश्यन् पाषाणमयीः प्रतिमा इव देवतात्वेन ॥गस्स्_४३॥ अनुपेत्य नीचभावं बालक परितो गभीरमधुरस्य । अस्याः प्रेम्णः पात्रं न भवसि सरितो रसस्येव ॥गस्स्_४४॥ अधिवासनमाधेयं गुणमार्गमपेक्षते न च ग्रथनाम् । कलयति युवजनमौलिं केतककलिका स्वरूपेण ॥गस्स्_४५॥ अपनीतनिखिलतापां सुभग स्वकरेण विनिहितां भवता । पतिशयनवारपालिज्वरौषधं वहति सा मालाम् ॥गस्स्_४६॥ अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम् । भवतानन्यगतिः सा विहितावर्तेन तरणिरिव ॥गस्स्_४७॥ अनुरक्तरामया पुनरागतये स्थापितोत्तरीयस्य । अप्येकवाससस्तव सर्वयुवभ्योऽधिका शोभा ॥गस्स्_४८॥ अर्धः प्राणित्येको मृत इतरो मे विधुन्तुदस्येव । सुधयेव प्रियया पथि सङ्गत्यालिङ्गितार्धस्य ॥गस्स्_४९॥ अवधीरितोऽपि निद्रामिषेण माहात्म्यमसृणया प्रियया । अवबोधितोऽस्मि चपलो बाष्पस्थितमितेन तल्पेन ॥गस्स्_५०॥ अयि शब्दमात्रसाम्यादास्वादितशर्करस्य तव पथिक । स्वल्पो रसनाच्छेदः पुरतो जनहास्यता महती ॥गस्स्_५१॥ अभिनवयौवनदुर्जयविपक्षजनहन्यमानमानापि । सूनोः पितृप्रियत्वाद्बिभर्ति सुभगामदं गृहिणी ॥गस्स्_५२॥ अपमानितमिव सम्प्रति गुरुणा ग्रीष्मेण दुर्बलं शैत्यम् । स्नानोत्सुकतरुणीस्तनकलशनिबद्धं पयो विशति ॥गस्स्_५३॥ अलसयति गात्रमखिलं क्लेशं मोचयति लोचनं हरति । स्वाप इव प्रेयान्मम मोक्तुं न ददाति शयनीयम् ॥गस्स्_५४॥ अंसावलम्बिकरधृतकचमभिषेकार्द्रधवलनखरेखम् । धौताधरनयनं वपुरस्त्रमनङ्गस्य तव निशितम् ॥गस्स्_५५॥ अविनिहितं विनिहितमिव युवसु स्वच्छेषु वारवामदृशः । उपदर्शयन्ति हृदयं दर्पणबिम्बेषु वदनमिव ॥गस्स्_५६॥ अतिलज्जया त्वयैव प्रकटः प्रेयानकारि निभृतोऽपि । प्रासादमौलिरुपरि प्रसरन्त्या वैजयन्त्येव ॥गस्स्_५७॥ अन्योन्यग्रथनागुणयोगाद्गावः पदार्पणैर्बहुभिः । खलमपि तुदन्ति मेढीभूतं मध्यस्थमालम्ब्य ॥गस्स्_५८॥ अननुग्रहेण न तथा व्यथयति कटुकूजितैर्यथा पिशुनः । रुधिरादानादधिकं दुनोति कर्णे क्वणन्मशकः ॥गस्स्_५९॥ अग्रे लघिमा पश्चान्महतापि पिधीयते न हि महिम्ना । वामन इति त्रिविक्रममभिदधति दशावतारविदः ॥गस्स्_६०॥ अङ्के स्तनन्धयस्तव चरणे परिचारिका प्रियः पृष्ठे । अस्ति किमु लभ्यमधिकं गृहिणि यदा शङ्कसे बालाम् ॥गस्स्_६१॥ अधर उदस्तः कूजितमामीलितमक्षि लोलितो मौलिः । आसादितमिव चुम्बनसुखमस्पर्शेऽपि तरुणाभ्याम् ॥गस्स्_६२॥ अतिरभसेन भुजोऽयं वृतिविवरेण प्रवेशितः सदनम् । दयितास्पर्शोल्लसितो नागच्छति वर्त्मना तेन ॥गस्स्_६३॥ अम्बरमध्यनिविष्टं तवेदमतिचपलमलघु जघनतटम् । चातक इव नवमभ्रं निरीक्षमाणो न तृप्यामि ॥गस्स्_६४॥ अयमन्धकारसिन्धुरभाराक्रान्तावनीभराक्रान्तः । उन्नतपूर्वाद्रिमुखः कूर्मः सन्ध्यास्रमुद्वमति ॥गस्स्_६५॥ अन्तर्भूतो निवसति जडे जडः शिशिरमहसि हरिण इव । अजडे शशीव तपने स तु प्रविष्टोऽपि निःसरति ॥गस्स्_६६॥ अगणितजनापवादा त्वत्पाणिस्पर्शहर्षतरलेयम् । आयास्यतो वराकी ज्वरस्य तल्पं प्रकल्पयति ॥गस्स्_६७॥ अप्येकवंशजनुषोः पश्यत पूर्णत्वतुच्छताभाजोः । ज्याकार्मुकयोः कश्चिद्गुणभूतः कश्चिदपि भर्ता ॥गस्स्_६८॥ अभिनवकेलिक्लान्ता कलयति बाला क्रमेण घर्माम्भः । ज्यामर्पयितुं नमिता कुसुमास्त्रधनुर्लतेव मधु ॥गस्स्_६९॥ असती कुलजा धीरा प्रौढा प्रतिवेशिनी यदासक्तिम् । कुरुते सरसा च तदा ब्रह्मानन्दं तृणं मन्ये ॥गस्स्_७०॥ अविरलपतिताश्रु वपुः पाण्डु स्निग्धं तवोपनीतमिदम् । शतधौतमाज्यमिव मे स्मरशरदाहव्यथां हरति ॥गस्स्_७१॥ अन्तर्निपतितगुञ्जागुणरमणीयश्चकास्ति केदारः । निजगोपीविनयव्ययखेदेन विदीर्णहृदय इव ॥गस्स्_७२॥ अमुना हतमिदमिदमिति रुदती प्रतिवेशिनेऽङ्गमङ्गमियम् । रोषमिषदलितलज्जा गृहिणी दर्शयति पतिपुरतः ॥गस्स्_७३॥ इति विभाव्याख्यासमेता अकारव्रज्या ॥ ********************************************************** आकारव्रज्या आन्तरमपि बहिरि व हि व्यञ्जयितुं रसमशेषतः सततम् । असती सत्कविसूक्तिः काचघटीति त्रयं वेद ॥गस्स्_७४॥ आलोक एव विमुखी क्वचिदपि दिवसे न दक्षिणा भवसि । छायेव तदपि तापं त्वमेव मे हरसि मानवति ॥गस्स्_७५॥ आज्ञा काकुर्याच्ञाक्षेपो हसितं च शुष्करुदितं च । इति निधुवनपाण्डित्यं ध्यायंस्तस्या न तृप्यामि ॥गस्स्_७६॥ आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे । असमयमानिनि मुग्धे मा कुरु भग्नाङ्कुरं प्रेम ॥गस्स्_७७॥ आसाद्य भङ्गमनया द्यूते विहिताभिरुचितकेलिपणे । निःसारयताक्षानिति कपटरुषोत्सारिताः सख्यः ॥गस्स्_७८॥ आदरणीयगुणा सखि महता निहितासि तेन शिरसि त्वम् । तव लाघवदोषोऽयं सौधपताकेव यच्चलसि ॥गस्स्_७९॥ आर्द्रमपि स्तनजघनान्निरस्य सुतनु त्वयैतदुन्मुक्तम् । खस्थमवाप्तुमिव त्वां तपनांशूनंशुकं पिबति ॥गस्स्_८०॥ आरोपिता शिलायामश्मेव त्वं भवेति मन्त्रेण । मग्नापि परिणयापदि जारमुखं वीक्ष्य हसितैव ॥गस्स्_८१॥ आयाति याति खेदं करोति मधु हरति मधुकरीवान्या । अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ॥गस्स्_८२॥ आसाद्य दक्षिणां दिशमविलम्बं त्यजति चोत्तरां तरणिः । पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ॥गस्स्_८३॥ आदानपानलेपैः काश्चिद्गरलोपतापहारिण्यः । सदसि स्थितैव सिद्धौषधिवल्ली कापि जीवयति ॥गस्स्_८४॥ आन्दोललोलकेशीं चलकाञ्चीकिङ्किणीगणक्वणिताम् । स्मरसि पुरुषायितां तां स्मरचामरचिह्नयष्टिमिव ॥गस्स्_८५॥ आक्षिपसि कर्णमक्ष्णा बलिरपि बद्धस्त्वया त्रिधा मध्ये । इति जितसकलवदान्ये तनुदाने लज्जसे सुतनु ॥गस्स्_८६॥ आक्षेपचरणलङ्घनकेशग्रहकेलिकुतुकतरलेन । स्त्रीणां पतिरपि गुरुरिति धर्मं न श्राविता सुतनुः ॥गस्स्_८७॥ आगच्छतानवेक्षितपृष्ठेनार्थी वराटकेनेव । मुषितास्मि तेन जघनांशुकमपि वोढुं नशक्तेन ॥गस्स्_८८॥ आकुञ्चितैकजङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु । सुतनोः श्वसितक्रमनमदुदरस्फुटनाभि शयनमिदम् ॥गस्स्_८९॥ आदाय धनमनल्पं ददानया सुभग तावकं वासः । मुग्धा रजकगृहिण्या कृता दिनैः कतिपयैर्निःस्वा ॥गस्स्_९०॥ आस्तां वरमवकेशी मा दोहदमस्य रचय पूगतरोः । एतस्मात्फलितादपि केवलमुद्वेगमधिगच्छ ॥गस्स्_९१॥ आरब्धमब्धिमथनं स्वहस्तयित्वा द्विजिह्वममरैर्यत् । उचितस्तत्परिणामो विषमं विषमेव यज्जातम् ॥गस्स्_९२॥ आवर्जितालकालि श्वासोत्कम्पस्तनार्पितैकभुजम् । शयनं रतिविवशतनोः स्मरामि शिथिलांशुकं तस्याः ॥गस्स्_९३॥ आम्राङ्कुरोऽयमरुणश्यामलरुचिरस्थिनिर्गतः सुतनु । नवकमठकर्परपुटान्मूर्धेवोर्ध्वं गतः स्फुरति ॥गस्स्_९४॥ आभङ्गुराग्रबहुगुणदीर्घास्वादप्रदा प्रियादृष्टिः । कर्षति मनो मदीयं ह्रदमीनं बडिशरज्जुरिव ॥गस्स्_९५॥ आलप यथा यथेच्छसि युक्तं तव कितव किमपवारयसि । स्त्रीजातिलाञ्छनमसौ जीवितरङ्का सखी सुभग ॥गस्स्_९६॥ आस्वादितोऽसि मोहाद्बत विदिता वदनमाधुरी भवतः । मधुलिप्तक्षुर रसनाच्छेदाय परं विजानासि ॥गस्स्_९७॥ आकृष्टिभग्नकटकं केन तव प्रकृतिकोमलं सुभगे । धन्येन भुजमृणालं ग्राह्यं मदनस्य राज्यमिव ॥गस्स्_९८॥ आरुह्य दूरमगणितरौद्रक्लेशा प्रकाशयन्ती स्वम् । वातप्रतीच्छनपटी वहित्रमिव हरसि मां सुतनु ॥गस्स्_९९॥ आयासः परहिंसा वैतंसिकसारमेय तव सारः । त्वामपसार्य विभाज्यः कुरङ्ग एषोऽधुनैवान्यैः ॥गस्स्_१००॥ आनयति पथिकतरुणं हरिण इह प्रापयन्निवात्मानम् । उपकलमगोऽपि कोमलकलमावलिकवलनोत्तरलः ॥गस्स्_१०१॥ आसीदेव यदार्द्रः किमपि तदा किमयमाहतोऽप्याह । निष्ठुरभावादधुना कटूनि सखि रटति पटह इव ॥गस्स्_१०२॥ आज्ञाकरश्च ताडनपरिभवसहनश्च सत्यमहमस्याः । न तु शीलशीतलेयं प्रियेतरद्वक्तुमपि वेद ॥गस्स्_१०३॥ आधाय दुग्धकलशे मन्थानं श्रान्तदोर्लता गोपी । अप्राप्तपारिजाता दैवे दोषं निवेशयति ॥गस्स्_१०४॥ आस्तां मानः कथनं सखीषु वा मयि निवेद्यदुर्विनये । शिथिलितरतिगुणगर्वा ममापि सा लज्जिता सुतनुः ॥गस्स्_१०५॥ आवर्तैरातर्पणशोभां डिण्डीरपाण्डुरैर्दधती । गायति मुखरितसलिला प्रियसङ्गममङ्गलं सुरसा ॥गस्स्_१०६॥ इति विभाव्याख्यासमेता आकारव्रज्या ॥ ********************************************************** इकारव्रज्या इयमुद्गतिं हरन्तीनेत्रनिकोचं च विदधती पुरतः । न विजानीमः किं तव वदति सपत्नीव दिननिद्रा ॥गस्स्_१०७॥ इदमुभयभित्तिसन्ततहारगुणान्तर्गतैककुचमुकुलम् । गुटिकाधनुरिव बालावपुः स्मरः श्रयति कुतुकेन ॥गस्स्_१०८॥ इह शिखरिशिखरावलम्बिनि विनोददरतरलवपुषि तरुहरिणे । पश्याभिलषति पतितुं विहगी निजनीडमोहेन ॥गस्स्_१०९॥ इक्षुर्नदीप्रवाहो द्यूतं मानग्रहश्च हे सुतनु । भ्रूलतिका च तवेयं भङ्गे रसमधिकमावहति ॥गस्स्_११०॥ इन्दोरिवास्य पुरतो यद्विमुखी सापवारणा भ्रमसि । तत्कथय किं नु दुरितं सखि त्वया छाययेव कृतम् ॥गस्स्_१११॥ इह कपटकुतुकतरलितदृशि विश्वासं कुरङ्ग किं कुरुषे । तव रभसतरलितेयं व्याधवधूर्वालधौ वलते ॥गस्स्_११२॥ इह वहति बहु महोदधिविभूषणा मानगर्वमियमुर्वी । देवस्य कमठमूर्तेः न पृष्ठमपि निखिलमाप्नोति ॥गस्स्_११३॥ इति विभाव्याख्यासमेता इकारव्रज्या ॥ ********************************************************** ईकारव्रज्या ईर्ष्यारोषज्वलितोनिजपतिसङ्गं विचिन्तयंस्तस्याः । च्युतवसनजघनभावनसान्द्रानन्देन निर्वामि ॥गस्स्_११४॥ ईश्वरपरिग्रहोचितमोहोऽस्यां मधुप किं मुधा पतसि । कनकाभिधानसारा वीतरसा कितवकलिकेयम् ॥गस्स्_११५॥ ईषदवशिष्टजडिमा शिशिरे गतमात्र एव चिरमङ्गैः । नवयौवनेव तन्वी निषेव्यते निर्भरं वापी ॥गस्स्_११६॥ इति विभाव्याख्यासमेता ईकारव्रज्या ॥ ********************************************************** उकारव्रज्या उल्लसितभ्रूधनुषा तव पृथुना लोचनेन रुचिराङ्गि । अचला अपि न महान्तः के चञ्चलभावमानीताः ॥गस्स्_११७॥ उपनीय यन्नितम्बे भुजङ्गमुच्चैरलम्बि विबुधैः श्रीः । एकः स मन्दरगिरिः सखि गरिमाणं समुद्वहतु ॥गस्स्_११८॥ उल्लसितलाञ्छनोऽयं ज्योत्स्नावर्षी सुधाकरः स्फुरति । आसक्तकृष्णचरणः शकट इव प्रकटितक्षीरः ॥गस्स्_११९॥ उपचारानुनयास्ते कितवस्योपेक्षिताः सखीवचसा । अधुना निष्ठुरमपि यदि स वदति कलिकैतवाद्यामि ॥गस्स्_१२०॥ उषसि परिवर्तयन्त्या मुक्तादामोपवीततां नीतम् । पुरुषायितवैदग्ध्यं व्रीडावति कैर्न कलितं ते ॥गस्स्_१२१॥ उड्डीनानामेषां प्रासादात्तरुणि पक्षिणां पङ्क्तिः । विस्फुरति वैजयन्तीपवनच्छिन्नापविद्धेव ॥गस्स्_१२२॥ उज्जागरितभ्रामितदन्तुरदलरुद्धमधुकरप्रकरे । काञ्चनकेतकि मा तव विकसतु सौरभ्यसम्भारः ॥गस्स्_१२३॥ उल्लसितभ्रूः किमतिक्रान्तं चिन्तयसि निस्तरङ्गाक्षि । क्षुद्रापचारविरसः पाकः प्रेम्णो गुडस्येव ॥गस्स्_१२४॥ उद्दिश्य निःसरन्तीं सखीमियं कपटकोपकुटिलभ्रूः । एवमवतंसमाक्षिपदाहतदीपो यथा पतति ॥गस्स्_१२५॥ उदितोऽपि तुहिनगहने गगनप्रान्ते न दीप्यते तपनः । कठिनघृतपूरपूर्णे शरावशिरसि प्रदीप इव ॥गस्स्_१२६॥ उद्गमनोपनिवेशनशयनपरावृत्तिवलनचलनेषु । अनिशं स मोहयति मां हृल्लग्नः श्वास इव दयितः ॥गस्स्_१२७॥ उज्झितसौभाग्यमदस्फुटयाच्ञानङ्गभीतयोर्यूनोः । अकलितमनसोरेका दृष्टिर्दूती निसृष्टार्थी ॥गस्स्_१२८॥ उत्तमभुजङ्गसङ्गमनिस्पन्दनितम्बचापलस्तस्याः । मन्दरगिरिरिव विबुधैरितस्ततः कृष्यते कायः ॥गस्स्_१२९॥ उपनीय कलमकुडवं कथयति सभयश्चिकित्सके हलिकः । शोणं सोमार्धनिभं वधूस्तने व्याधिमुपजातम् ॥गस्स्_१३०॥ उन्मुकुलिताधरपुटेभूतिकणत्रासमीलितार्धाक्षि । धूमोऽपि नेह विरमभ्रमरोऽयं श्वसितमनुसरति ॥गस्स्_१३१॥ उपरि परिप्लवते मम बालेयं गृहिणि हंसमालेव । सरस इव नलिननाला त्वमाशयं प्राप्य वससि पुनः ॥गस्स्_१३२॥ उत्कम्पघर्मपिच्छिलदोःसाधिकहस्तविच्युतश्चौरः । शिवमाशास्ते सुतनुस्तनयोस्तव पञ्चलाञ्चलयोः ॥गस्स्_१३३॥ उत्क्षिप्तबाहुदर्शितभुजमूलं चूतमुकुल मम सख्या । आकृष्यमाण राजति भवतः परमुच्चपदलाभः ॥गस्स्_१३४॥ उच्चकुचकुम्भनिहितो हृदयं चालयति जघनलग्नाग्रः । अतिनिम्नमध्यसङ्क्रमदारुनिभस्तरुणि तव हारः ॥गस्स्_१३५॥ उल्लसितशीतदीधितिकलोपकण्ठे स्फुरन्ति तारौघाः । कुसुमायुधविधृतधनुर्निर्गतमकरन्दबिन्दुनिभाः ॥गस्स्_१३६॥ उपनीय प्रियमसमयविदं च मे दग्धमानमपनीय । नर्मोपक्रम एव क्षणदे दूतीव चलितासि ॥गस्स्_१३७॥ उत्तमवनितैकगतिः करीव सरसीपयः सखीधैर्यम् । आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन् हरसि ॥गस्स्_१३८॥ इति विभाव्याख्यासमेता उकारव्रज्या ॥ ********************************************************** ऊकारव्रज्या ऊढामुनातिवाहय पृष्ठे लग्नापि कालमचलापि । सर्वंसहे कठोरत्वचः किमङ्केन कमठस्य ॥गस्स्_१३९॥ इति विभाव्याख्यासमेता ऊकारव्रज्या ॥ ********************************************************** ऋकारव्रज्या ऋजुना निधेहि चरणौ परिहर सखि निखिलनागराचारम् । इह डाकिनीति पल्लीपतिः कटाक्षेऽपि दण्डयति ॥गस्स्_१४०॥ ऋषभोऽत्र गीयत इति श्रुत्वा स्वरपारगा वयं प्राप्ताः । को वेद गोष्ठमेतद्गोशान्तौ विहितबहुमानम् ॥गस्स्_१४१॥ इति विभाव्याख्यासमेता ऋकारव्रज्या ॥ ********************************************************** एकारव्रज्या एको हरः प्रियाधरगुणवेदी दिविषदोऽपरे मूढाः । विषममृतं वा सममिति यः पश्यन् गरलमेव पपौ ॥गस्स्_१४२॥ एष्यति मा पुनरयमिति गमने यदमङ्गलं मयाकारि । अधुना तदेव कारणमवस्थितौ दग्धगेहपतेः ॥गस्स्_१४३॥ एकैकशो युवजनं विलङ्घमानाक्षनिकरमिव तरला । विश्राम्यति सुभग त्वामङ्गुलिरासाद्य मेरुमिव ॥गस्स्_१४४॥ एकः स एव जीवति स्वहृदयशून्योऽपि सहृदयो राहुः । यः सकललघिमकारणमुदरं न बिभर्ति दुष्पूरम् ॥गस्स्_१४५॥ एकेन चूर्णकुन्तलमपरेण करेण चिबुकमुन्नमयन् । पश्यामि बाष्पधौतश्रुति नगरद्वारि तद्वदनम् ॥गस्स्_१४६॥ एकं जीवनमूलं चञ्चलमपि तापयन्तमपि सततम् । अन्तर्वहति वराकी सा त्वां नासेव निःश्वासम् ॥गस्स्_१४७॥ एकं वदति मनो मम यामि न यामीति हृदयमपरं मे । हृदयद्वयमुचितं तव सुन्दरि हृतकान्तचित्तायाः ॥गस्स्_१४८॥ एरण्डपत्त्रशयना जनयन्ती स्वेदमलघुजघनतटा । धूलिपुटीव मिलन्ती स्मरज्वरं हरति हलिकवधूः ॥गस्स्_१४९॥ इति विभाव्याख्यासमेता एकारव्रज्या ॥ ********************************************************** ककारव्रज्या केलिनिलयं सखीमिव नयति नवोढां स्वयं न मां भजते । इत्थं गृहिणीमर्ये स्तुवति प्रतिवेशिना हसितम् ॥गस्स्_१५०॥ कालक्रमकमनीयक्रोडेयं केतकीति काशंसा । वृद्धिर्यथा यथा स्यास्तथा तथा कण्टकोत्कर्षः ॥गस्स्_१५१॥ कृतकस्वाप मदीयश्वासध्वनिदत्तकर्ण किं तीव्रैः । विध्यसि मां निःश्वासैः स्मरः शरैः शब्दवेधीव ॥गस्स्_१५२॥ क्व स निर्मोकदुकूलः क्वालङ्करणाय फणिमणिश्रेणी । कालियभुजङ्गगमनाद्यमुने विश्वस्य गम्यासि ॥गस्स्_१५३॥ किञ्चिन्न बालयोक्तं न सप्रसादा निवेशिता दृष्टिः । मयि पदपतिते केवलमकारि शुकपञ्जरो विमुखः ॥गस्स्_१५४॥ कृतहसितहस्ततालं मन्मथतरलैर्विलोकितां युवभिः । क्षिप्तः क्षिप्तो निपतन्नङ्गे नर्तयति भृङ्गस्ताम् ॥गस्स्_१५५॥ कमलमुखि सर्वतोमुखनिवारणं विदधदेव भूषयति । रोधोऽरुद्धस्वरसास्तरङ्गिणीस्तरलनयनाश्च ॥गस्स्_१५६॥ कितव प्रपञ्चिता सा भवता मन्दाक्षमन्दसञ्चारा । बहुदायैरपि सम्प्रति पाशकसारीव नायाति ॥गस्स्_१५७॥ कः श्लाघनीयजन्मा माघनिशीथेऽपि यस्य सौभाग्यम् । प्रालेयानिलदीर्घः कथयति काञ्चीनिनादोऽयम् ॥गस्स्_१५८॥ किमशकनीयं प्रेम्णः फणिनः कथयापि या बिभेति स्म । सा गिरिशभुजभुजङ्गमफेणोपधानाद्य निद्राति ॥गस्स्_१५९॥ कृत्रिमकनकेनेव प्रेम्णा मुषितस्य वारवनिताभिः । लघुरिव वित्तविनाशक्लेशो जनहास्यता महती ॥गस्स्_१६०॥ किं पर्वदिवसमार्जितदन्तोष्ठि निजं वपुर्न मण्डयसि । स त्वां त्यजति न पर्वस्वपि मधुरामिक्षुयष्टिमिव ॥गस्स्_१६१॥ कष्टं साहसकारिणि तव नयनार्धेन सोऽध्वनि स्पृष्टः । उपवीतादपि विदितो न द्विजदेहस्तपस्वी ते ॥गस्स्_१६२॥ क्लेशेऽपि तन्यमाने मिलितेयं मां प्रमोदयत्येव । रौद्रेऽनभ्रेऽपि नभःसुरापगावारिवृष्टिरेव ॥गस्स्_१६३॥ कूपप्रभवाणां परमुचितमपां पट्टबन्धनं मन्ये । याः शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन ॥गस्स्_१६४॥ कररुहशिखानिखात भ्रान्त्वा विश्रान्त रजनिदुरवाप । रविरिव यन्त्रोल्लिखितः कृशोऽपि लोकस्य हरसि दृशम् ॥गस्स्_१६५॥ किं करवाणि दिवानिशमपि लग्ना सहजशीतलप्रकृतिः । हन्त सुखयामि न प्रियमात्मानमिवात्मनश्छाया ॥गस्स्_१६६॥ केशैः शिरसो गरिमा मरणं पीयूषकुण्डपातेन । दयितवहनेन वक्षसि यदि भारस्तदिदमचिकित्स्यम् ॥गस्स्_१६७॥ किञ्चित्कर्कशतामनु रसं प्रदास्यन्निसर्गमधुरं मे । इक्षोरिव ते सुन्दरि मानस्य ग्रन्थिरपि काम्यः ॥गस्स्_१६८॥ केन गिरिशस्य दत्ता बुद्धिर्भुजगं जटावनेऽर्पयितुम् । येन रतिरभसकान्ताकरचिकुराकर्षणं मुषितम् ॥गस्स्_१६९॥ करचरणकाञ्चिहारप्रहारमवचिन्त्य बलगृहीतकचः । प्रणयी चुम्बति दयितावदनं स्फुरदधरमरुणाक्षम् ॥गस्स्_१७०॥ कुरुतां चापलमधुना कलयतु सुरसासि यादृशी तदपि । सुन्दरि हरीतकीमनु परिपीता वारिधारेव ॥गस्स्_१७१॥ कज्जलतिलककलङ्कितमुखचन्द्रे गलितसलिलकणकेशि । नवविरहदहनतूलो जीवयितव्यस्त्वया कतमः ॥गस्स्_१७२॥ कृच्छ्रानुवृत्तयोऽपि हि परोपकारं त्यजन्ति न महान्तः । तृणमात्रजीवना अपि करिणो दानद्रवार्द्रकराः ॥गस्स्_१७३॥ किं हसथ किं प्रधावथ किं जनमाह्वयथ बालका विफलम् । तदथ दर्शयति यथारिष्टः कण्ठेऽमुना जगृहे ॥गस्स्_१७४॥ कातरताकेकरितस्मरलज्जारोषमसृणमधुराक्षी । योक्तुं न मोक्तुमथवा वलतेऽसावर्थलब्धरतिः ॥गस्स्_१७५॥ केतकगर्भे गन्धादरेण दूरादमी द्रुतमुपेताः । मदनस्यन्दनवाजित इव मधुपा धूलिमाददते ॥गस्स्_१७६॥ को वक्रिमा गुणाः के का कान्तिः शिशिरकिरणलेखानाम् । अन्तः प्रविश्य यासामाक्रान्तं पशुविशेषेण ॥गस्स्_१७७॥ कृतविविधमथनयत्नः पराभावाय प्रभुः सुरासुरयोः । इच्छति सौभाग्यमदात्स्वयंवरेण श्रियं विष्णुः ॥गस्स्_१७८॥ किं पुत्रि गण्डशैलभ्रमेण नवनीरदेषु निद्रासि । अनुभव चपलाविलसितगर्जितदेशान्तरभ्रान्तीः ॥गस्स्_१७९॥ कान्तः पदेन हत इति सरलामपराध्य किं प्रसादयथ । सोऽप्येवमेव सुलभः पदप्रहारः प्रसादः किम् ॥गस्स्_१८०॥ कर्णगतेयममोघा दृष्टिस्तव शक्तिरिन्द्रदत्ता च । सा नासादितविजया क्वचिदपि नापार्थपतितेयम् ॥गस्स्_१८१॥ क्लेशयसि किमिति दूतीर्यदशक्यं सुमुखि तव कटाक्षेण । कामोऽपि तत्र सायकमकीर्तिशङ्की न सन्धत्ते ॥गस्स्_१८२॥ को वेद मूल्यमक्षद्यूते प्रभुणा पणीकृतस्य विधोः । प्रतिविजये यत्प्रतिपणमधरं घरनन्दिनी विदधे ॥गस्स्_१८३॥ कुपितां चरणप्रहरणभयेन मुञ्चामि न खलु चण्डि त्वाम् । अलिरनिलचपलकिसलयताडनसहनो लतां भजते ॥गस्स्_१८४॥ कोपाकृष्टभ्रूस्मरशरासने संवृणु प्रिये पततः । छिन्नज्यामधुपानिव कज्जलमलिनाश्रुजलबिन्दून् ॥गस्स्_१८५॥ कामेनापि न भेत्तुं किमु हृदयमपारि बालवनितानाम् । मूढविशिखप्रहारोच्छूनमिवाभाति यद्वक्षः ॥गस्स्_१८६॥ किं परजीवैर्दीव्यसि विस्मयमधुराक्षि गच्छ सखि दूरम् । अहिमधिचत्वरमुरगग्राही खेलयतु निर्विघ्नः ॥गस्स्_१८७॥ करचरणेन प्रहरति यथा यथाङ्गेषु कोपतरलाक्षी । रोषयति परुषवचनैस्तथा तथा प्रेयसीं रसिकः ॥गस्स्_१८८॥ कस्तां निन्दति लुम्पति कः स्मरफलकस्य वर्णकं मुग्धः । को भवति रत्नकण्टकममृते कस्यारुचिरुदेति ॥गस्स्_१८९॥ कोपवति पाणिलीलाचञ्चलचूताङ्कुरे त्वयि भ्रमति । करकम्पितकरवाले स्मर इव सा मूर्च्छिता सुतनुः ॥गस्स्_१९०॥ कौलीन्यादलमेनां भजामि नकुलं स्मरः प्रमाणयति । तद्भावनेन भजतो मम गोत्रस्खलनमनिवार्यम् ॥गस्स्_१९१॥ कुत इह कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि । तृणबाणस्तृणधन्वा तृणघटितः कपटपुरुषोऽयम् ॥गस्स्_१९२॥ इति विभाव्याख्यासमेता ककारव्रज्या ॥ ********************************************************** खकारव्रज्या खलसख्यं प्राङ्मधुरं वयोऽनतराले निदाघदिनमन्ते । एकआदिमध्यपरिणतिरमणीया साधुजनमैत्री ॥गस्स्_१९३॥ इति विभाव्याख्यासमेता खकारव्रज्या ॥ ********************************************************** गकारव्रज्या गुणमधिगतमपि धनवान्न चिरान्नाशयति रक्षति दरिद्रः । मज्जयति रज्जुमम्भसि पूर्णः कुम्भः सखि न तुच्छः ॥गस्स्_१९४॥ गुरुरपि लघूपनीतो न निमज्जति नियतमाशये महतः । वानकरोपनीतः शैलो मकरालयस्येव ॥गस्स्_१९५॥ गौरीपतेर्गरीयो गरलं गत्वा गले जीर्णम् । जीर्यति कर्णे महतां दुर्वादो नाल्पमपि विशति ॥गस्स्_१९६॥ गृहपतिपुरतो जारं कपटकथाकथितमन्मथावस्थम् । प्रीणयति पीडयति च बाला निःश्वस्य निःश्वस्य ॥गस्स्_१९७॥ गतिगञ्जितवरयुवतिः करी कपोलौ करोतु मदमलिनौ । मुखबन्धमात्रसिन्धुर लबोदर किं मदं वहसि ॥गस्स्_१९८॥ गेहिन्याः शृण्वन्ती गोत्रस्खलितापराधतो मानम् । स्निग्धां प्रिये सगर्वां सखीषु बाला दृशं दिशति ॥गस्स्_१९९॥ ग्रीष्ंमये समयेऽस्मिन् विनिर्मितं कलय केलिवनमूले । अलमालवालवलयच्छलेन कुण्डलितमिव शैत्यम् ॥गस्स्_२००॥ गुणबद्धचरण इति मा लीलाविहगं विमुञ्च सखि मुग्धे । अस्मिन् वलयितशाखे क्षणेन गुणयन्त्रणं त्रुटति ॥गस्स्_२०१॥ गुरुगर्जिसान्द्रविद्युद्भयमुद्रितकर्णचक्षुषां पुरतः । बाला चुम्बति जारं वज्रादधिको हि मदनेषुः ॥गस्स्_२०२॥ गृहिणीगुणेषु गणिता विनयः सेवा विधेयतेति गुणाः । मानः प्रभुता वाम्यं विभूषणं वामनयनानाम् ॥गस्स्_२०३॥ गुणमान्तरमगुणं वा लक्ष्मीर्गङ्गा च वेद हरिहरयोः । एका पदेऽपि रमते न वसति निहिता शिरस्यपरा ॥गस्स्_२०४॥ गत्वा जीवितसंशयमभ्यस्तः सोढुमतिचिराद्विरहः । अकरुणः पुनरपि दित्ससि सुरतदुरभ्यासमस्माकम् ॥गस्स्_२०५॥ गोत्रस्खलितप्रश्नेऽप्युत्तरमतिशीलशीतलं दत्त्वा । निःश्वस्य मोघरूपे स्ववपुषि निहितं तया चक्षुः ॥गस्स्_२०६॥ गन्धग्राहिणि शालोन्मीलितनिर्यासनिहितनिखिलाङ्गि । उपभुक्तमुक्तभूरुहशतेऽधुना भ्रमरि न भ्रमसि ॥गस्स्_२०७॥ गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा । उचितज्ञासि तुले किं तुलयसि गुञ्जाफलैः कनकम् ॥गस्स्_२०८॥ गेहिन्या ह्रियमाणं निरुध्यमानं नवोढया पुरतः । मम नौकाद्वितयार्पितगुण इव हृदयं द्विधा भवति ॥गस्स्_२०९॥ गुण आकर्षणयोग्यो धनुष इवैकोऽपि लक्षलाभाय । लूतातन्तुभिरिव किं गुणैर्विमर्दासहैर्बहुभिः ॥गस्स्_२१०॥ गायति गीते वंशे वादयति स विपञ्चीषु । पाठयति पञ्जरशुकं तव सन्देशाक्षरं रामा ॥गस्स्_२११॥ गणयति न मधुव्ययमयमविरतमापिबतु मधुकरः कुमुदम् । सौभाग्यमानवान् परमसूयति द्युमणये चन्द्रः ॥गस्स्_२१२॥ गुणविधृता सखि तिष्ठसि तथैव देहेन किं तु हृदयं ते । हृतममुना मालायाः समीरणेनेव सौरभ्यम् ॥गस्स्_२१३॥ गुरुसदने नेदीयसि चरणगते मयि च मूकयापि तया । नूपुरमपास्य पदयोः किं न प्रियमीरितं प्रियया ॥गस्स्_२१४॥ ग्रन्थिलतया किमिक्षोः किमपभ्रंशेन भवति गीतस्य । किमनार्जवेन शशिनः किं दारिद्र्येण दयितस्य ॥गस्स्_२१५॥ गेहिन्या चिकुरग्रहसमयससीत्कारमीलितदृशापि । बालाकपोलपुलकं विलोक्य निहितोऽस्मि शिरसि पदा ॥गस्स्_२१६॥ गुरुपक्ष्म जागरारुणघूर्णत्तारं कथञ्चिदपि वलते । नयनमिदं स्फुटनखपदनिवेश् अकृतकोपकुटिलभ्रु ॥गस्स्_२१७॥ इति विभाव्याख्यासमेता गकारव्रज्या ॥ ********************************************************** घकारव्रज्या घटितजघनं निपीडितपीनोरु न्यस्तनिखिलकुचभारम् । आलिङ्गन्त्यपि बाला वदत्यसौ मुञ्च मुञ्चेति ॥गस्स्_२१८॥ घटितपलाशकपाटं निशि निशि सुखिनो हि शेरते पद्माः । उज्जागरेण कैरव कति शक्या रक्षितुं लक्ष्मीः ॥गस्स्_२१९॥ घूर्णन्ति विप्रलब्धाः स्नेहापायात्प्रदीपकलिकाश्च । प्रातः प्रस्थितपान्थस्त्रीहृदयं स्फुटति कमलं च ॥गस्स्_२२०॥ इति विभाव्याख्यासमेता घकारव्रज्या ॥ ********************************************************** चकारव्रज्या चपलस्य पलितलाञ्छितचिकुरं दयितस्य मौलिमवलोक्य । खेदोचितेऽपि समये संमदमेवाददे गृहिणी ॥गस्स्_२२१॥ चण्डि प्रसारितेन स्पृशन् भुजेनापि कोपनां भवतीम् । तृप्यामि पङ्किलामिव पिबन्नदीं नलिननालेन ॥गस्स्_२२२॥ चपलभुजङ्गीभुक्तोज्झित शीतलगन्धवह निशि भ्रान्त । अपराशां पूरयितुं प्रत्यूषसदागते गच्छ ॥गस्स्_२२३॥ चिरपथिक द्राघिममिलदलकलताशैवलावलिग्रथिला । करतोयेव मृगाक्ष्या दृष्टिरिदानीं सदानीरा ॥गस्स्_२२४॥ चण्डि दरचपलचेलव्यक्तोरुविलोकनैकरसिकेन । धूलिभयादपि न मया चरणहृतौ कुञ्चितं चक्षुः ॥गस्स्_२२५॥ चलकुण्डलचलदलकस्खलदुरसिजवसनसज्जदूरुयुगम् । जघनभरक्लमकूणितनयनमिदं हरति गतमस्याः ॥गस्स्_२२६॥ चरणैः परागसैकतमफलमिदं लिखसि मधुप केतक्याः । इह वसति कान्तिसारे नान्तःसलिलापि मधुसिन्धुः ॥गस्स्_२२७॥ चिरकालपथिक शङ्कातरङ्गिताक्षः किमीक्षसे मुग्ध । त्वन्निस्त्रिंशाश्लेषव्रणकिणराजीयमेतस्याः ॥गस्स्_२२८॥ चपलां यथा मदान्धश्छायामयमात्मनः करो हन्ति । आस्फालयति करं प्रतिगजस्तथायं पुरो रुद्धः ॥गस्स्_२२९॥ चुम्बनलोलुपमदधरहृतकाश्मीरं स्मरन्न तृप्यामि । हृदयद्विरदालानस्तम्भं तस्यास्तदूरुयुगम् ॥गस्स्_२३०॥ चिकुरविसारणतिर्यङ्नतकण्ठी विमुखवृत्तिरपि बाला । त्वामियमङ्गुलिकल्पितकचावकाशा विलोकयति ॥गस्स्_२३१॥ चुम्बनहृताञ्जनार्घं स्फुटजागररागमीक्षणं क्षिपसि । किमुषसि वियोगकातरमसमेषुरिवार्धनाराचम् ॥गस्स्_२३२॥ इति विभाव्याख्यासमेता चकारव्रज्या ॥ ********************************************************** छकारव्रज्या छायाग्राही चन्द्रः कूटत्वं सततमम्बुजं व्रजति । हित्वोभयं सभायां स्तौति तवैवाननं लोकः ॥गस्स्_२३३॥ छायामात्रं पश्यन्नधोमुखोऽप्युद्गतेन धैर्येण । तुदति मम हृदयनिपुणा राधाचक्रं किरीतीव ॥गस्स्_२३४॥ इति विभाव्याख्यासमेता छकारव्रज्या ॥ ********************************************************** जकारव्रज्या जलबिन्दवः कतिपये नयनाद्गमनोद्यमे तव स्खलिताः । कान्ते मम गन्तव्या भूरेतैरेव पिच्छिलिता ॥गस्स्_२३५॥ जृम्भोत्तम्भितदोर्युगयन्त्रितताटङ्कपीडितकपोलम् । तस्याः स्मरामि जलकणलुलिताञ्जनमलसदृष्टि मुखम् ॥गस्स्_२३६॥ जागरित्वा पुरुषं परं वने सर्वतो मुखं हरसि । अति शरदनुरूपं तव शीलमिदं जातिशालिन्याः ॥गस्स्_२३७॥ इति विभाव्याख्यासमेता जकारव्रज्या ॥ ********************************************************** झकारव्रज्या झङ्कृतकङ्कणपाणिक्षेपैः स्तम्भावलम्बनैर्मौनैः । शोभयसि शुष्करुदितैरपि सुन्दरि मन्दिरद्वारम् ॥गस्स्_२४६॥ इति विभाव्याख्यासमेता झकारव्रज्या ॥ ********************************************************** ढकारव्रज्या ढक्कामाहत्य मदं वितन्वते करिण इव चिरं पुरुषाः । स्त्रीणां करिणीनामिव मदः पुनः स्वकुलनाशाय ॥गस्स्_२४७॥ इति विभाव्याख्यासमेता ढकारव्रज्या ॥ ********************************************************** तकारव्रज्या तां तापयन्ति मन्मथबाणास्त्वां प्रीणयन्ति बत सुभग । तपनकरास्तपनशिलां ज्वलयन्ति विधुं मधुरयन्ति ॥गस्स्_२४८॥ तव सुतनु सानुमत्या बहुधातुजनितनितम्बरागायाः । गिरिवरभुव इव लाभेनाप्नोमि द्व्यङ्गुलेन दिवम् ॥गस्स्_२४९॥ त्यक्तो मुञ्चति जीवनमुज्झति नानुग्रहेऽपि लोलुत्वम् । किं प्रावृषेव पद्माकरस्य करणीयमस्य मया ॥गस्स्_२५०॥ त्वद्विरहापदि पाण्डुस्तन्वङ्गी छाययैव केवलया । हंसीव ज्योत्स्नायां सा सुभग प्रत्यभिज्ञेया ॥गस्स्_२५१॥ त्वयि विनिवेशितचित्ता सुभग गता केवलेन कायेन । घनजालरुद्धमीना नदीव सा नीरमात्रेण ॥गस्स्_२५२॥ त्वयि संसक्तं तस्याः कठोरतर हृदयमसमशरतरलम् । मारुतचलमञ्चलमिव कण्टकसम्पर्कतः स्फुटितम् ॥गस्स्_२५३॥ त्वमसूर्यंपश्या सखि पदमपि न विनापवारणं भ्रमसि । छाये किमिह विधेयं मुञ्चन्ति न मूर्तिमन्तस्त्वाम् ॥गस्स्_२५४॥ तव विरहे विस्तारितरजनौ जनितेन्दुचन्दनद्वेषे । विसिनीव माघमासे विना हुताशने सा दग्धा ॥गस्स्_२५५॥ तरुणि त्वच्चरणाहतिकुसुमितकङ्केल्लिकोरकप्रकरम् । कुटिलचरिता सपत्नी न पिबति बत शोकविकलापि ॥गस्स्_२५६॥ तल्पे प्रभुरिव गुरुरिव मनसिजतन्त्रे श्रमे भुजिष्येव । गेहे श्रीरिव गुरुजनपुरतो मूर्तेव सा व्रीडा ॥गस्स्_२५७॥ त्वमलभ्या मम तावन्मोक्तुमशक्तस्य संमुखं व्रजतः । छायेवापसरन्ती भित्त्या न निवार्यसे यावत् ॥गस्स्_२५८॥ तपसा क्लेशित एष प्रौढबलो न खलु फाल्गुनेऽप्यासीत् । मधुना प्रमत्तमधुना को मदनं मिहिरमिव सहते ॥गस्स्_२५९॥ त्वद्गमनदिवसगणनावलक्षरेखाभिरङ्किता सुभग । गण्डस्थलीव तस्याः पाण्डुरिता भवनभित्तिरपि ॥गस्स्_२६०॥ तस्याग्राम्यस्याहं सखि वक्रस्निग्धमधुरया दृष्ट्या । विद्धा तदेकनेया पोत्रिण इव दंष्ट्रया धरणी ॥गस्स्_२६१॥ त्वयि कुग्रामवटद्रुम वैश्रवणो वसतु वा लक्ष्मीः । पामरकुठारपातात्कासरशिरसैव ते रक्षा ॥गस्स्_२६२॥ तव मुखर वदनदोषं सहमाना मोक्तुमक्षमा सुतनुः । सा वहति विट भवन्तं घुणमन्तः शालभञ्जीव ॥गस्स्_२६३॥ तृणमुखमिव न खलु त्वां त्यजन्त्यमी हरिण वैरिणः शवराः । यशसैव जीवितमिदं त्यज योजितशृङ्गसङ्ग्रामः ॥गस्स्_२६४॥ त्रिपुररिपोरिव गङ्गा मम मानिनि जनितमदनदाहस्य । जीवनमर्पितशिरसो ददासि चिकुरग्रहेणैव ॥गस्स्_२६५॥ त्वत्सङ्कथासु मुखरः सनिन्दसानन्दसावहित्थ इव । स खलु सखीनां निभृतं त्वया कृतार्थीकृतः सुभगः ॥गस्स्_२६६॥ त्वयि सर्पति पथि दृष्टिः सुन्दर वृतिविवरनिर्गता तस्याः । दरतरलभिन्नशैवलजाला शफरीव विस्फुरति ॥गस्स्_२६७॥ ते सुतनु शून्यहृदया ये शङ्खं शून्यहृदयमभिदधति । अङ्गीकृतकरपत्त्रो यस्तव हस्तग्रहं कुरुते ॥गस्स्_२६८॥ ते श्रेष्ठिनः क्व सम्प्रति शक्रध्वज यैः कृतस्तवोच्छ्रायः । ईषां वा मेढिं वाधुनातनास्त्वां विधित्सन्ति ॥गस्स्_२६९॥ तानवमेत्य छिन्नः परोपहितरागमदनसङ्घटितः । कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा ॥गस्स्_२७०॥ तस्मिन् गतार्द्रभावे वीतरसे शुण्ठिशकल इव पुरुषे । अपि भूतिभाजि मलिने नागरशब्दो विडम्बाय ॥गस्स्_२७१॥ तमसि घने विषमे पथि जम्बुकमुल्कामुखं प्रपन्नाः स्मः । किं कुर्मः सोऽपि सखे स्थितो मुखं मुद्रयित्वैव ॥गस्स्_२७२॥ त्वामभिलषतो मानिनि मम गरिमगुणोऽपि दोषतां यातः । पङ्किलकूलां तटिनीं यियासतः सिन्धुरस्येव ॥गस्स्_२७३॥ तिमिरेऽपि दूरदृश्या कठिनाश्लेषे च रहसि मुखरा च । शङ्खमयवलयराजी गृहपतिशिरसा सह स्फुटतु ॥गस्स्_२७४॥ तव वृत्तेन गुणेन च समुचितसम्पन्नकण्ठलुठनायाः । हारस्रज इव सुन्दरि कृतः पुनर्नायकस्तरलः ॥गस्स्_२७५॥ इति विभाव्याख्यासमेता तकारव्रज्या ॥ ********************************************************** दकारव्रज्या दर्शनविनीतमाना गृहिणी हर्षोल्लसत्कपोलतलम् । चुम्बननिषेधमिषतो वदनं पिदधाति पाणिभ्याम् ॥गस्स्_२७६॥ देहस्तम्भः स्खलनं शैथिल्यं वेपथुः प्रियध्यानम् । पथि पथि गगनाश्लेषः कामिनि कस्तेऽभिसारगुणः ॥गस्स्_२७७॥ द्राघयता दिवसानि त्वदीयविरहेण तीव्रतापेन । ग्रीष्मेणेव नलिन्या जीवनमल्पीकृतं तस्याः ॥गस्स्_२७८॥ दुर्जनसहवासादपि शीलोत्कर्षं न सज्जनस्त्यजति । प्रतिपर्वतपनवासी निःसृतमात्रः शशी शीतः ॥गस्स्_२७९॥ दयितप्रहितां दूतीमालम्ब्य करेण तमसि गच्छन्ती । स्वेदच्युतमृगनाभिर्दूराद्गौराङ्गि दृश्यासि ॥गस्स्_२८०॥ दयितागुणः प्रकाशं नीतः स्वस्यैव वदनदोषेण । प्रतिदिनविदलितवाटीवृतिगह्टनैः खिद्यसे किमिति ॥गस्स्_२८१॥ दाक्षिण्यान्म्रदिमानं दधतं मा भानुमेनमवमंस्थाः । रौद्रीमुपागतेऽस्मिन् कः क्षमते दृष्टिमपि दातुम् ॥गस्स्_२८२॥ दृष्ट्यैव विरहकातरतारकया प्रियमुखे समर्पितया । यान्ति मृगवल्लभायाः पुलिन्दबाणार्दिताः प्राणाः ॥गस्स्_२८३॥ दूरस्थापितहृदयो गूढरहस्यो निकाममाशङ्कः । आश्लेषो बालानां भवति खलानां च सम्भेदः ॥गस्स्_२८४॥ द्वारे गुरवः कोणे शुकः सकाशे शिशुर्गृहे सख्यः । कालासह क्षमस्व प्रिय प्रसीद प्रयातमहः ॥गस्स्_२८५॥ दधिकणमुक्ताभरणश्वासोत्तुङ्गस्तनार्पणमनोज्ञम् । प्रियमालिङ्गति गोपी मन्थनश्रममन्थरैरङ्गैः ॥गस्स्_२८६॥ दलितोद्वेगेन सखि प्रियेण लग्नेन रागमावहता । मोहयता शयनीयं ताम्बूलेनेव नीतास्मि ॥गस्स्_२८७॥ दृष्टमदृष्टप्रायं दयितं कृत्वा प्रकाशितस्तनया । हृदयं करेण ताडितमथ मिथ्या व्यञ्जितत्रपया ॥गस्स्_२८८॥ दर्शितयमुनोच्छ्राये भ्रूविभ्रमभाजि वलति तव नयने । क्षिप्तहले हलधर इव सर्वं पुरमर्जितं सुतनु ॥गस्स्_२८९॥ दयितप्रार्थितदुर्लभमुखमदिरासारसेकसुकुमारः । व्यथयति विरहे बकुलः क्व परिचयः प्रकृतिकठिनानाम् ॥गस्स्_२९०॥ द्वित्रैरेष्यामि दिनैरिति किं तद्वचसि सखि तवाश्वासः । कथयति चिरपथिकं तं दूरनिखातो नखाङ्कस्ते ॥गस्स्_२९१॥ दयितस्पर्शोन्मीलितधर्मजलस्खलितचरणखलाक्षे । गर्वभरमुखरिते सखि तच्चिकुरान् किमपराधयसि ॥गस्स्_२९२॥ दुष्टग्रहेण गेहिनि तेन कुपुत्रेण किं प्रजातेन । भौमेनेव निजं कुलमङ्गारकवत्कृतं येन ॥गस्स्_२९३॥ दर्शितचापोच्छ्रायैस्तेजोवद्भिः सुगोत्रसञ्जातैः । हीरैरप्स्वपि वीरैरापत्स्वपि गम्यते नाधः ॥गस्स्_२९४॥ दरनिद्राणस्यापि स्मरस्य शिल्पेन निर्गतासून्मे । मुग्धे तव दृष्टिरसावर्जुनयन्त्रेषुरिव हन्ति ॥गस्स्_२९५॥ दुर्गतगृहिणी तनये करुणार्द्रा प्रियतमे च रागमयी । मुग्धा रताभियोगं न मन्यते न प्रतिक्षिपति ॥गस्स्_२९६॥ दुर्गतगेहिनि जर्जरमन्दिरसुप्तैव वन्दसे चन्द्रम् । वयमिन्दुवञ्चितदृशो निचुलितदोलाविहारिण्यः ॥गस्स्_२९७॥ दीपदशा कुलयुवतिर्वैदग्ध्येनैव मलिनतामेति । दोषा अपि भूषायै गणिकायाः शशिकलायाश्च ॥गस्स्_२९८॥ दीर्घगवाक्षमुखान्तर्निपातिनस्तरणिरश्मयः शोणाः । नृहरिनखा इव दानववक्षः प्रविशन्ति सौधतलम् ॥गस्स्_२९९॥ दरतरलेऽक्षणि वक्षसि दरोन्नते तव मुखे च दरहसिते । आस्तां कुसुमं वीरः स्मरोऽधुना चित्रधनुषापि ॥गस्स्_३००॥ दुष्टसखीसहितेयं पूर्णेन्दुमुखी सुखाय नेदानीम् । राकेव विष्टियुक्ता भवतोऽभिमताय निशि भवतु ॥गस्स्_३०१॥ दलिते पलालपुञ्जे वृषभं परिभवति गृहपतौ कुपिते । निभृतनिभालितवदनौ हलिकवधूदेवरौ हसतः ॥गस्स्_३०२॥ दीप्यन्तां ये दीप्त्यै घटिता मणयश्च वीरपुरुषाश्च । तेजः स्वविनाशाय तु नृणां तृणानामिव लघूनाम् ॥गस्स्_३०३॥ इति विभाव्याख्यासमेता दकारव्रज्या ॥ ********************************************************** धकारव्रज्या धूमैरश्रु निपातय दह शिखया दहनमलिनयाङ्गारैः । जागरयिष्यति दुर्गतगृहिणी त्वां तदपि शिशिरनिशि ॥गस्स्_३०४॥ धैर्यं निधेहि गच्छतु रजनी सोऽप्यस्तु सुमुखि सोत्कण्ठः । प्रविश हृदि तस्य दूरं क्षणधृतमुक्ता स्मरेषुरिव ॥गस्स्_३०५॥ धवलनखलक्ष्म दुर्बलमकलैतनेपथ्यमलकपिहिताक्ष्याः । द्रक्ष्यामि मदवलोकद्विगुणाश्रु वपुः पुरद्वारि ॥गस्स्_३०६॥ धर्मारम्भेऽप्यसतां परहिंसैव प्रयोजिका भवति । काकानामभिषेकेऽकारणतां वृष्टिरनुभवति ॥गस्स्_३०७॥ इति विभाव्याख्यासमेता धकारव्रज्या ॥ ********************************************************** नकारव्रज्या नीरावतरणदन्तुरसैकतसम्भेदमेदुरैः शिशिरे । राजन्ति तूलराशिस्थूलपटैरिव तटैः सरितः ॥गस्स्_३०८॥ निजकायच्छायायां विश्रम्य निदाघविपदमपनेतुम् । बत विविधास्तनुभङ्गीर्मुग्धकरङ्गीयमाचरति ॥गस्स्_३०९॥ न हसन्ति जरठ इति यद्वल्लववनिता नमन्ति नन्दमपि । सखि स यशोदातनयो नित्यं कन्दलितकन्दर्पः ॥गस्स्_३१०॥ नीता स्वभावमर्पितवपुरपि वाम्यं न कामिनी त्यजति । हरदेहार्धग्रथिता निदर्शनं पार्वती तत्र ॥गस्स्_३११॥ नागरभोगानुमितस्ववधूसौन्दर्यगर्वतरलस्य । निपतति पदं न भूमौ ज्ञातिपुरस्तन्तुवायस्य ॥गस्स्_३१२॥ निपतति चरणे कोणे प्रविश्य निशि यन्निरीक्षते कस्तत् । सखि स खलु लोकपुरतः खलः स्वगरिमाणमुद्गिरति ॥गस्स्_३१३॥ न विमोचयितुं शक्यः क्षमां महान्मोचितो यदि कथंचित् । मन्दरगिरिरिव गरलं निवर्तते ननु समुत्थाप्य ॥गस्स्_३१४॥ नियतैः पदैर्निषेव्यं स्खलितेऽनर्थावहं समाश्रयति । सम्भवदन्यगतिः कः सङ्क्रमकाष्ठं दुरीशं च ॥गस्स्_३१५॥ निजपदगतिगुणरञ्जितजगतां करिणां च सत्कवीनां च । वहतामपि महिमानं शोभायै सज्जना एव ॥गस्स्_३१६॥ नोत्तपने न स्नेहं हरति न निर्वाति न मलिनो भवति । तस्योज्ज्वलो निशि निशि प्रेमा रत्नप्रदीप इव ॥गस्स्_३१७॥ निहितान्निहितानुज्झति नियतं मम पार्थिवानपि प्रेम । भ्रामं भ्रामं तिष्ठति तत्रैव कुलालचक्रमिव ॥गस्स्_३१८॥ निर्भरमपि सम्भुक्तं दृष्ट्या प्रातः पिबन्न तृप्यामि । जघनमनंशुकमस्याः कोक इवाशिशिरकरबिम्बम् ॥गस्स्_३१९॥ निविडघटितोरुयुगलां श्वासोत्तब्धस्तनार्पितव्यजनाम् । तां स्निग्धकुपितदृष्टिं स्मरामि रतनिःसहां सुतनुम् ॥गस्स्_३२०॥ निर्गुण इति मृत इति च द्वावेकार्थाभिधायिनौ विद्धि । पश्य धनुर्गुणशून्यं निर्जीवं तदिह शंसन्ति ॥गस्स्_३२१॥ निजसूक्ष्मसूत्रलम्बी विलोचनं तरुण ते क्षणं हरतु । अयमुद्गृहीतवडिशः कर्कट इव मर्कटः पुरतः ॥गस्स्_३२२॥ नागर गीतिरिवासौ ग्रामस्थित्यापि भूषिता सुतनुः । कस्तूरी न मृगोदरवासवशाद्विस्रतामेति ॥गस्स्_३२३॥ नखलिखितस्तनि कुरबकमयपृष्ठे भूमिलुलितविरसाङ्गि । हृदयविदारणनिःसृतकुसुमास्रशरेव हरसि मनः ॥गस्स्_३२४॥ नीता लघिमानमियं तस्यां गरिमाणमधिकमर्पयसि । भार इव विषमभार्यः सुदुर्वहो भवति गृहवासः ॥गस्स्_३२५॥ न च दूती न च याच्ञा न चाञ्जलिर्न च कटाक्षविक्षेपः । सौभाग्यमानिनां सखि कचग्रहः प्रथममभियोगः ॥गस्स्_३२६॥ निशि विषमकुसुमविशिखप्रेरितयोर्मौनलब्धरतिरसयोः । मानस्तथैव विलसति दम्पत्योरशिथिलग्रन्थिः ॥गस्स्_३२७॥ निजगात्रनिर्विशेषस्थापितमपि सारमखिलमादाय । निर्मोकं च भुजङ्गी मुञ्चति पुरुषं च वारवधूः ॥गस्स्_३२८॥ नृत्यश्रमघर्मार्द्रं मुञ्चसि कृच्छ्रेण कञ्चुकं सुतनु । मकरन्दोदकजुष्टं मदनधनुर्वल्लिरिव चोलम् ॥गस्स्_३२९॥ नाहं वदामि सुतनु त्वमशीला वा प्रचण्डचरिता वा । प्रेमस्वभावसुलभं भयमुदयति मम तु हृदयस्य ॥गस्स्_३३०॥ न निरूपितोऽसि सख्या नियतं नेत्रत्रिभागमात्रेण । हारयति येन कुसुमं विमुखे त्वयि कण्ठ इव देवे ॥गस्स्_३३१॥ नखदशनमुष्टिपातैरदयैरालिङ्गनैश्च सुभगस्य । अपराधं शंसन्त्यः शान्तिं रचयन्ति रागिण्यः ॥गस्स्_३३२॥ न गुणे न लक्षणेऽपि च वयसि च रूपे च नादरो विहितः । त्वयि सौरभेयि घण्टा कपिलापुत्रीति बद्धेयम् ॥गस्स्_३३३॥ निष्कारणापराधं निष्कारणकलहरोषपरितोषम् । सामान्यमरणजीवनसुखदुःखं जयति दाम्पत्यम् ॥गस्स्_३३४॥ न प्राप्यसे कराभ्यां हृदयान्नापैषि वितनुषे बाधाम् । त्वं मम भग्नावस्तितकुसुमायुधविशिखफलिकेव ॥गस्स्_३३५॥ नाथेति परुषमुचितं प्रियेति दासेत्यनुग्रहो यत्र । तद्दाम्पत्यमितोऽन्यन्नारी रज्जुः पशुः पुरुषः ॥गस्स्_३३६॥ निहितायामस्यामपि सैवैका मनसि मे स्फुरति । रेखान्तरोपधानात्पत्त्राक्षरराजिरिव दयिता ॥गस्स्_३३७॥ निधिनिक्षेपस्थानस्योपरि चिह्नार्थमिव लता निहिता । लोभयति तव तनूदरि जघनतटादुपरि रोमाली ॥गस्स्_३३८॥ निहितार्धलोचनायास्त्वं तस्या हरसि हृदयपर्यन्तम् । न सुभग समुचितमीदृशमङ्गुलिदाने भुजं गिलसि ॥गस्स्_३३९॥ नीत्वागारं रजनीजागरमेकं च सादरं दत्त्वा । अचिरेण कैर्न तरुणैर्दुर्गापत्त्रीव मुक्तासि ॥गस्स्_३४०॥ नक्षत्रेऽग्नाविन्दावुदरे कनके मणौ दृशि समुद्रे । यत्खलु तेजस्तदखिलमोजायितमब्जमित्रस्य ॥गस्स्_३४१॥ न सवर्णो न च रूपं न संस्क्रिया कापि नैव सा प्रकृतिः । बाला त्वद्विरहापदि जातापभ्रंशभाषेव ॥गस्स्_३४२॥ न विभूषणे तवास्था वपुर्गुणेनैव जयसि सखि यूनः । अवधीरितास्त्रशस्त्रा कुसुमेषोर्मल्लविद्येव ॥गस्स्_३४३॥ नेत्राकृष्टो भ्रामं भ्रामं प्रेयान् यथा यथास्ति तथा । सखि मन्थयति मनो मम दधिभाण्डं मन्थदण्ड इव ॥गस्स्_३४४॥ नानावर्णकरूपं प्रकल्पयन्ती मनोहरं तन्वी । चित्रकरतूलिकेव त्वां सा प्रतिभित्ति भावयति ॥गस्स्_३४५॥ इति विभाव्याख्यासमेता नकारव्रज्या ॥ ********************************************************** पकारव्रज्या पथिकासक्ता किंचिन्न वेद घनकलमगोपिता गोपी । केलिकलाहुङ्कारैः कीरावलि मोघमपसरसि ॥गस्स्_३४६॥ प्रणमति पश्यति चुम्बति संश्लिष्यति पुलकमुकुलितैरङ्गैः । प्रियसङ्गाय स्फुरितां वियोगिनी वामबाहुलताम् ॥गस्स्_३४७॥ प्रविशसि न च निर्गन्तुं जानासि व्याकुलत्वमातनुषे । बालक चेतसि तस्याश्चक्रव्यूहेऽभिमन्युरिव ॥गस्स्_३४८॥ पश्यानुरूपमिन्दिन्दिरेण माकन्दशेखरो मुखरः । अपि च पिचुमन्दमुकुले मौकुलिकुलमाकुलं मिलति ॥गस्स्_३४९॥ प्रतिबिम्बसम्भृताननमादर्शं सुमुख मम सखीहस्तात् । आदातुमिच्छसि मुधा किं लीलाकमलमोहेन ॥गस्स्_३५०॥ प्राचीनाचलमौलेर्यथा शशी गगनमध्यमधिवसति । त्वां सखि पश्यामि तथा छायामिव सङ्कुचन्मानाम् ॥गस्स्_३५१॥ प्राङ्गणकोणेऽपि निशापतिः स तापं सुधामयो हरति । यदि मां रजनिज्वर इव सखि स न निरुणद्धि गेहपतिः ॥गस्स्_३५२॥ पतिपुलकदूनगात्री स्वच्छायावीक्षणेऽपि या सभया । अभिसरति सुभग सा त्वां विदलन्ती कण्टकं तमसि ॥गस्स्_३५३॥ प्रतिभूः शुको विपक्षे दण्डः शृङ्गारसङ्कथा गुरुषु । पुरुषायितं पणस्तद्बाले परिभाव्यतां दायः ॥गस्स्_३५४॥ परमोहनाय मुक्तो निष्करुणे तरुणि तव कटाक्षोऽयम् । विशिख इव कलितकर्णः प्रविशति हृदयं न निःसरति ॥गस्स्_३५५॥ प्रपदालम्बितभूमिश्चुम्बन्ती प्रीतिभीतिमधुराक्षी । प्राचीराग्रनिवेशितचिबुकतया न पतिता सुतनुः ॥गस्स्_३५६॥ प्रातरुपागत्य म्र्षा वदतः सखि नास्य विद्यते व्रीडा । मुखलग्नयापि योऽयं न लज्जते दग्धकालिकया ॥गस्स्_३५७॥ पश्योत्तरस्तनूदरि फाल्गुनमासाद्य निर्जितविपक्षः । वैराटिरिव पतङ्गः प्रत्यानयनं करोति गवाम् ॥गस्स्_३५८॥ प्रमदवनं तव च स्तनशैलं मूलं गभीरसरसां च । जगति निदाघनिरस्तं शैत्यं दुर्गत्रयं श्रयति ॥गस्स्_३५९॥ प्रोञ्छति तवापराधं मानं मर्दयति निर्वृतिं हरति । स्वकृतान्निहन्ति शपथाञ्जागरदीर्घा निशा सुभग ॥गस्स्_३६०॥ प्रिय आयाते दूरादभूत इव सङ्गमोऽभवत्पूर्वः । मानरुदितप्रसादाः पुनरासन्नपरसुरतादौ ॥गस्स्_३६१॥ पूर्वमहीधरशिखरे तमः समासन्नमिहिरकरकलितम् । शूलप्रोतं सरुधिरमिदमन्धकवपुरिवाभाति ॥गस्स्_३६२॥ परिवृत्तनाभि लुप्तत्रिवलि श्यामस्तनाग्रमलसाक्षि । बहुधवलजघनरेखं वपुर्न पुरुषायितं सहते ॥गस्स्_३६३॥ प्रारब्धनिधुवनैव स्वेदजलं कोमलाङ्गि किं वहसि । ज्यामर्पयितुं नमिता कुसुमास्त्रधनुर्लतेव मधु ॥गस्स्_३६४॥ पुंसां दर्शय सुन्दरि मुखेन्दुमीषत्त्र्पामपाकृत्य । जायाजित इति रूढा जनश्रुतिर्मे यशो भवतु ॥गस्स्_३६५॥ प्रसरतु शरत्त्रियामा जगन्ति धवलयतु धाम तुहिनांशोः । पञ्जरचकोरिकाणां कणिकाकल्पोऽपि न विशेषः ॥गस्स्_३६६॥ प्रथमागत सोत्कण्ठा चिरचलितेयं विलम्बदोषे तु । वक्ष्यन्ति साङ्गरागाः पथि तरवस्तव समाधानम् ॥गस्स्_३६७॥ पतितेऽंशुके स्तनार्पितहस्तां तां निविडजघनपिहितोरुम् । रदपदविकलितफूत्कृतिशतधुतदीपां मनः स्मरति ॥गस्स्_३६८॥ परितः स्फुरितमहौषधिमणिनिकरे केलितल्प इव शैले । काञ्चीगुण इव पतितः स्थितैकरत्नः फणी स्फुरति ॥गस्स्_३६९॥ प्रावृषि शैलश्रेणीनितम्बमुह्हन् दिगन्तरे भ्रमसि । चपलान्तर घन किं तव वचनीयं पवनवश्योऽसि ॥गस्स्_३७०॥ प्रतिदिवसक्षीणदशस्तवैष वसनाञ्चलोऽतिकरकृष्टः । निजनायकमतिकृपणं कथयति कुग्राम इव विरलः ॥गस्स्_३७१॥ पथिक कथं चपलोज्ज्वलमम्बुदजलबिन्दुनिह्वहमविषह्यम् । मयपुरकनकद्रवमिव शिवशरशिखिभावितं सहसे ॥गस्स्_३७२॥ पथिकं श्रमेण सुप्तं दरतरला तरुणि सुमधुरच्छाया । व्यालम्बमानवेणिः सुखयसि शाखेव सारोहा ॥गस्स्_३७३॥ प्रददाति नापरासां प्रवेशमपि पीनतुङ्गजघनोरूः । या लुप्तकीलभावं याता हृदि बहिरदृश्यासि ॥गस्स्_३७४॥ प्रातर्निद्राति यथा यथात्मजा लुलितनिःसहैरङ्गैः । जामातरि मुदितमनास्तथा तथा सादरा श्वश्रूः ॥गस्स्_३७५॥ प्रणयचलितोऽपि सकपटकोपकटाक्षैर्मयाहितस्तम्भः । त्रासतरलो गृहीतः सहासरभसं प्रियः कण्ठे ॥गस्स्_३७६॥ प्रियदुर्नयेन हृदय स्फुटसि यदि स्फुटनमपि तव श्लाघ्यम् । तत्केलिसमरतल्पीकृतस्य वसनाञ्चलस्येव ॥गस्स्_३७७॥ पवनोपनीतसौरभदूरोदकपूरपद्मिनीलुब्धः । अपरीक्षितस्वपक्षो गन्ता हन्तापदं मधुपः ॥गस्स्_३७८॥ प्रेमलघूकृतकेशव वक्षोभरविपुलपुलककुचकलशा । गोवर्धनगिरिगुरुतां मुग्धवधूर्निभृतमुपहसति ॥गस्स्_३७९॥ प्रियविरहनिःसहायाः सहजविपक्षाभिरपि सपत्नीभिः । रक्ष्यन्ते हरिणाक्ष्याः प्राणा गृहभङ्गभीताभिः ॥गस्स्_३८०॥ प्रकटयसि रागमधिकं लपनमिदं वक्रिमाणमावहति । प्रीणयति च प्रतिपदं दूति शुकस्येव दयितस्य ॥गस्स्_३८१॥ प्रविशन्त्याः प्रियहृदयं बालायाः प्रबलयौवतव्याप्तम् । नवनिशितदरतरङ्गितनयनमयेनासिना पन्थाः ॥गस्स्_३८२॥ प्रणयापराधरोषप्रसादविश्वासकेलिपाण्डित्यैः । रूढप्रेमा ह्रियते किं बालाकुतुकमात्रेण ॥गस्स्_३८३॥ पूर्वैरेव चरितैर्जरतोऽपि पूज्यता भवतः । मुञ्च मदमस्य गन्धाद्युवभिर्गज गऊजनीयोऽसि ॥गस्स्_३८४॥ प्रथमं प्रवेशिता या वासागारं कथञ्चन सखीभिः । न शृणोतीव प्रातः सा निर्गमनस्य सङ्केतम् ॥गस्स्_३८५॥ पूजा विना प्रतिष्ठां नास्ति न मन्त्रं विना प्रतिष्ठा च । तदुभयविप्रतिपन्नः पश्यतु गीर्वाणपाषाणम् ॥गस्स्_३८६॥ पूर्वाधिको गृहिण्यां बहुमानः प्रेमनर्मविश्वासः । भीरधिकेयं कथयति रागं बालाविभक्तमिव ॥गस्स्_३८७॥ पुलिकतकठोरपीवरकुचकलशाश्लेषवेदनाभिज्ञः । शम्भोरुपवीतफणी वाञ्छति मानग्रहं देव्याः ॥गस्स्_३८८॥ प्रिय आयातो दूरादिति या प्रीतिर्बभूव गेहिन्याः । पथिकेभ्यः पूर्वागत इति गर्वात्सापि शतशिखरा ॥गस्स्_३८९॥ पृष्ठं प्रयच्छ मा स्पृश दूरादपसर्प विहितवैमुख्य । त्वामनुधावति तरणिस्तदपि गुणाकर्षतरलेयम् ॥गस्स्_३९०॥ प्रियया कुङ्कुमपिञ्जरपाणिद्वययोजनाङ्कितं वासः । प्रहितं मां याच्ञाञ्जलिसहस्रकरणाय शिक्षयति ॥गस्स्_३९१॥ प्राचीरान्तरितेयं प्रियस्य वदनेऽधरं समर्पयति । प्राग्गिरिपिहिता रात्रिः सन्ध्यारागं दिनस्येव ॥गस्स्_३९२॥ परपतिनिर्दयकुलटाशोषित शठ नेष्यता न कोपेन । दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य ॥गस्स्_३९३॥ प्राङ्गण एव कदा मां श्लिष्यन्ती मन्य्कम्पिकुचकलशा । अंसनिषण्णमुखी सा स्नपयति बाष्पेण मम पृष्ठम् ॥गस्स्_३९४॥ प्रेतैः प्रशस्तसत्त्वा साश्रु वृकैर्वीक्षिता स्खलद्ग्रासैः । चुम्बति मृतस्य वदनं भूतमुखोल्केक्षितं बाला ॥गस्स्_३९५॥ पिशुनः खलु सुजनानां खलमेव पुरो विधाय जेतव्यः । कृत्वा ज्वरमात्मीयं जिगाय बाणं रणे विष्णुः ॥गस्स्_३९६॥ पिब मधुप बकुलकलिकां दूरे रसनाग्रमात्रमाधाय । अधरविलेपसमाप्ये मधुनि मुधा वदनमर्पयसि ॥गस्स्_३९७॥ प्रायेणैव हि मलिना मलिनानामाश्रयत्वमुपयान्ति । कालिन्दीपुटभेदः कालियपुटभेदनं भवति ॥गस्स्_३९८॥ पश्य प्रियतनुविघटनभयेन शशिमौलिदेहसंलग्ना । सुभगैकदैवतमुमा शिरसा भागीरथीं वहति ॥गस्स्_३९९॥ पथिकवधूजनलोचननीरनदीमातृकप्रदेशेषु । धनमण्डलमाखण्डलधनुषा कुण्डलितमिव विधिना ॥गस्स्_४००॥ प्रतिवेशिमित्रबन्धुषु दूरात्कृच्छ्रागतोऽपि गेहिन्या । अतिकेलिलम्पटया दिनमेकमगोपि गेहपतिः ॥गस्स्_४०१॥ परपट इव रजकीभिर्मलिनो भुक्त्वापि निर्दयं ताभिः । अर्थग्रहणेन विना जघन्य मुक्तोऽसि कुलटाभिः ॥गस्स्_४०२॥ इति विभाव्याख्यासमेता पकारव्रज्या ॥ ********************************************************** बकारव्रज्या बहुयोषिति लाक्षारुणशिरसि वयस्येन दयित उपहसिते । तत्कालकलितलज्जा पिशुनयति सखीषु सौभाग्यम् ॥गस्स्_४०३॥ बन्धनभाजोऽमुष्याश्चिकुरकलापस्य मुक्तमानस्य । सिन्दूरितसीमन्तच्छलेन हृदयं विदीर्णमिव ॥गस्स्_४०४॥ बलमपि वसति मयीति श्रेष्ठिनि गुरुगर्वगद्गदं वदति । तज्जायया जनानां मुखमीक्षितमावृतस्मितया ॥गस्स्_४०५॥ बलवदनिलोपनीतस्फुटितनवाम्भोजसौरभो मधुपः । आकृष्यते नलिन्या नासानिक्षिप्तबडिशरज्जुरिव ॥गस्स्_४०६॥ बाणं हरिरिव कुरुते सुजनो बहुदोषमप्यदोषमिव । यावद्दोषं जाग्रति मलिम्लुचा इव पुनः पिशुनाः ॥गस्स्_४०७॥ बौद्धस्येव क्षणिको यद्यपि बहुवल्लभस्य तव भावः । भग्ना भग्ना भ्रूरिव न तु तस्या विघटते मैत्री ॥गस्स्_४०८॥ बाष्पाकुलं प्रलपतोर्गृहिणि निवर्तस्व कान्त गच्छेति । यातं दम्पत्योर्दिनमनुगमनावधि सरस्तीरे ॥गस्स्_४०९॥ बालाविलासबन्धानप्रभवन्मनसि चिन्तयन् पूर्वम् । संमानवर्जितां तां गृहिणीमेवानुशोचामि ॥गस्स्_४१०॥ इति विभाव्याख्यासमेता बकारव्रज्या ॥ ********************************************************** भकारव्रज्या भ्रमसि प्रकटयसि रदं करं प्रसारयसि तृणमपि श्रयसि । धिङ्मानं तव कुञ्जर जीवं न जुहोषि जठराग्नौ ॥गस्स्_४११॥ भूतिमयं कुरुतेऽग्निस्तृणमपि संलग्नमेनमपि भजतः । सैव सुवर्ण दशा ते शङ्के गरिमोपरोधेन ॥गस्स्_४१२॥ भवति निदाघे दीर्घे यथेह यमुनेव यामिनी तन्वी । द्वीपा इव दिवसा अपि तथा क्रमेण प्रथीयांसः ॥गस्स्_४१३॥ भवता महति स्नेहानलेऽर्पिता पथिक हेमगुटिकेव । तन्वी हस्तेनापि स्प्रष्टुमशुद्धैर्न सा शक्या ॥गस्स्_४१४॥ भूमिलुलितैककुण्डलमुत्तंसितकाण्डपटमियं मुग्धा । पश्यन्ती निःश्वासैः क्षिपति मनोरेणुपूरमपि ॥गस्स्_४१५॥ भवतालिङ्गि भुजङ्गी जातः किल भोगिचक्रवर्ती त्वम् । कञ्चुक वनेचरीस्तनमभिलषतः स्फुरति लघिमा ते ॥गस्स्_४१६॥ भैक्षभुजा पल्लीपतिरिति स्तुतस्तद्वधूसुदृष्टेन । रक्षक जयसि यदेकः शून्ये सुरसदसि सुखमस्मि ॥गस्स्_४१७॥ भोगाक्षमस्य रक्षां दृङ्मात्रेणैव कुर्वतोऽनभिमुखस्य । वृद्धस्य प्रमदापि श्रीरपि भृत्यस्य भोगाय ॥गस्स्_४१८॥ भवितासि रजनि यस्यामध्वश्रमशान्तये पदं दधतीम् । स बलाद्वलयितजङ्घाबद्धां मामुरसि पातयति ॥गस्स्_४१९॥ भूषणतां भजतः सखि कषणविशुद्धस्य जातरूपस्य । पुरुषस्य च कनकस्य च युक्तो गरिमा सरागस्य ॥गस्स्_४२०॥ भस्मपुरुषेऽपि गिरिशे स्नेहमयी त्वमुचितेन सुभगासि । मोघस्त्वयि जनवादो यदोषधिप्रस्थदुहितेति ॥गस्स्_४२१॥ भयपिहितं बालायाः पीवरमूरुद्वयं स्मरोन्निद्रः । निद्रायां प्रेमार्द्रः पश्यति निःश्वस्य निःश्वस्य ॥गस्स्_४२२॥ भ्रमरीव कोषगर्भे गन्धहृता कुसुममनुसरन्ती त्वाम् । अव्यक्तं कूजन्ती सङ्केतं तमसि सा भ्रमति ॥गस्स्_४२३॥ भ्रामं भ्रामं स्थितया स्नेहे तव पयसि तत्र तत्रैव । आवर्तपतितनौकायितमनया विनयमपनीय ॥गस्स्_४२४॥ भ्रमयसि गुणमयि कण्ठग्रहयोग्यानात्ममन्दिरोपान्ते । हालिकनन्दिनि तरुणान् ककुद्मिनो मेढिरज्जुरिव ॥गस्स्_४२५॥ भालनयनेऽग्निरिन्दुर्मौलौ गात्रे भुजङ्गमणिदीपाः । तदपि तमोमय एव त्वमीश कः प्रकृतिमतिशेते ॥गस्स्_४२६॥ इति विभाव्याख्यासमेता भकारव्रज्या ॥ ********************************************************** मकारव्रज्या मधुमदवीतव्रीडा यथा यथा लपति संमुखं बाला । तन्मुखमजाततृप्तिस्तथा तथा वल्लभः पिबति ॥गस्स्_४२७॥ मित्रैरालोच्य समं गुरु कृत्वा कदनमपि समारब्धः । अर्थः सतामिव हतो मुखवैलक्ष्येण मानोऽयम् ॥गस्स्_४२८॥ मम रागिणो मनस्विनि करमर्पयतो ददासि पृष्ठमपि । यदि तदपि कमलबन्धोरिव मन्ये स्वस्य सौभाग्यम् ॥गस्स्_४२९॥ मा स्पृश मामिति सकुपितमिव भणितं व्यञ्जिता न च व्रीडा । आलिङ्गितया सस्मितमुक्तमनाचार किं कुरुषे ॥गस्स्_४३०॥ मूलानि च निचुलानां हृदयानि च कूलवसतिकुलटानाम् । मुदिरमदिराप्रमत्ता गोदावरि किं विदारयसि ॥गस्स्_४३१॥ मलयद्रुमसाराणामिव धीराणां गुणप्रकर्षोऽपि । जडसमयनिपतितानामनादरायैव न गुणाय ॥गस्स्_४३२॥ मधुमथनमौलिमाले सखि तुलयसि तुलसि किं मुधा राधाम् । यत्तव पदमदसीयं सुरभयितुं सौरभोद्भेदः ॥गस्स्_४३३॥ मयि यास्यति कृत्वावधिदिनसङ्ख्यं चुम्बनं तथाश्लेषम् । प्रिययानुशोचिता सा तावत्सुरताक्षमा रजनी ॥गस्स्_४३४॥ मृगमदनिदानमटवी कुङ्कुममपि कृषकवाटिका वहति । हट्टविलासिनि भवती परमेका पौरसर्वस्वम् ॥गस्स्_४३५॥ मधुदिवसेषु भ्राम्यन् यथा विशति मानसं भ्रमरः । सखि लोहकण्टकनिभस्तथा मदनविशिखोऽपि ॥गस्स्_४३६॥ मयि चलिते तव मुक्ता दृशः स्वभावात्प्रिये सपानीयाः । सत्यममूल्याः सद्यः प्रयान्ति मम हृदयहारत्वम् ॥गस्स्_४३७॥ मुग्धे मम मनसि शराः स्मरस्य पञ्चापि सन्ततं लग्नाः । शङ्के स्तनगुटिकाद्वयमर्पितमेतेन तव हृदये ॥गस्स्_४३८॥ मधुमथनवदनविनिहितवंशीसुषिरानुसारिणो रागाः । हन्त हरन्ति मनो मम नलिकाविशिखाः स्मरस्येव ॥गस्स्_४३९॥ महतोः सुवृत्तयोः सखि हृदयग्रहयोग्ययोः समुच्छ्रितयोः । सज्जनयोः स्तनयोरिव निरन्तरं सङ्गतं भवति ॥गस्स्_४४०॥ मम वारितस्य बहुभिर्भूयो भूयः स्वयं च भावयतः । जातो दिशीव तस्यां सखे न विनिवर्तते मोहः ॥गस्स्_४४१॥ मग्नोऽसि नर्मदाया रसे हृतो वीचिलोचनक्षेपैः । यद्युच्यसे तरुवर भ्रष्टो भ्रंशोऽपि ते श्लाघ्यः ॥गस्स्_४४२॥ मेनामुल्लासयति स्मेरयति हरिं गिरिं च विमुखयति । कृतकरबन्धविलम्बः परिणयने गिरिशकरकम्पः ॥गस्स्_४४३॥ मधुगन्धि घर्मतिम्यत्तिलकं स्खलदुक्तिं घूर्णदरुणाक्षम् । तस्याः कदाधरामृतमाननमवधूय पास्यामि ॥गस्स्_४४४॥ मेदिन्यां तव निपतति न पदं बहुवल्लभेति गर्वेण । आश्लिष्य कैर्न तरुणैस्तुरीव वसनैर्विमुक्तासि ॥गस्स्_४४५॥ मूले निसर्गमधुरं समर्पयन्तो रसं पुरो विरसाः । इक्षव इव परपुरुषा विविधेषु रसेषु विनिधेयाः ॥गस्स्_४४६॥ महति स्नेहे निहितः कुसुमं बहु दत्तमर्चितो बहुशः । वक्रस्तदपि शनैश्चर इव सखि दुष्टग्रहो दयितः ॥गस्स्_४४७॥ मा शबरतरुणि पीवरवक्षोरुहयोर्भरेण भज गर्वम् । निर्मोकैरपि शोभा ययोर्भुजङ्गीभिरुन्मुक्तैः ॥गस्स्_४४८॥ मम कुपितायाश्छायां भूमावालिङ्ग्य सखि मिलत्पुलकः । स्नेहमयत्वमनुज्झन् करोति किं नैष मामरुषम् ॥गस्स्_४४९॥ मुषित इव क्षणविरहे रिपुरिव कुसुमेषुकेलिसङ्ग्रामे । दास इव श्रमसमये भजन्नताङ्गीं न तृप्यामि ॥गस्स्_४५०॥ मुञ्चसि किं मानवतीं व्यवसायाद्द्विगुणमन्युवेगेति । स्नेहभवः पयसाग्निः सान्त्वेन च रोष उन्मिषति ॥गस्स्_४५१॥ मलयजमपसार्य घनं वीजनविघ्नं विधाय बाहुभ्याम् । स्मरसन्तापादगणितनिदाघमालिङ्गते मिथुनम् ॥गस्स्_४५२॥ महतोऽपि हि विश्वासान्महाशया दधति नाल्पमपि लघवः । संवृणुतेऽद्रीनुदधिर्निदाघनद्यो न भेकमपि ॥गस्स्_४५३॥ मधुधारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् । कृतमुखभङ्गापि रसं ददासि मम सरिदिवाम्भोधेः ॥गस्स्_४५४॥ मदनाकृष्टनुर्ज्याघातैरिव गृहिणि पथिकतरुणानाम् । वीणातन्त्रीक्वाणैः केषां न विकम्पते चेतः ॥गस्स्_४५५॥ मम भयमस्याः कोपो निर्वेदोऽस्या ममापि मन्दाक्षम् । जातं क्व चान्तरिक्षे स्मितसंवृतिनमितकन्धरयोः ॥गस्स्_४५६॥ मुक्ताम्बरैव धावतु निपततु सहसा त्रिमार्गगा वास्तु । इयमेव नर्मदा मम वंशप्रभवानुरूपरसा ॥गस्स्_४५७॥ मृगमदलेपनमेनं नीलनिचोलैव निशि निषेव त्वम् । कालिन्द्यामिन्दीवरमिन्दिन्दिरसुन्दरीव सखि ॥गस्स्_४५८॥ मम सख्या नयनपथे मिलितः शक्तो न कश्चिदपि चलितुम् । पतितोऽसि पथिक विषमे घट्टकुटीयं कुसुमकेतोः ॥गस्स्_४५९॥ महता प्रियेण निर्मितमप्रियमपि सुभग सह्यतां याति । सुतसम्भवेन यौवनविनाशनं न खलु खेदाय ॥गस्स्_४६०॥ मानग्रहगुरुकोपादनु दयितात्येव रोचते मह्यम् । काञ्चनमयी विभूषा दाहाञ्चितशुद्धभावेव ॥गस्स्_४६१॥ इति विभाव्याख्यासमेता मकारव्रज्या ॥ ********************************************************** यकारव्रज्या यूनः कण्टकविटपानि विआञ्चलग्राहिणस्त्यजन्ती सा । वन इव पुरेऽपि विचरति पुरुषं त्वामेव जानन्ती ॥गस्स्_४६२॥ युष्मासूपगताः स्मो विबुधा वाङ्मात्रपाटवेन वयम् । अन्तर्भवति भवत्स्वपि नाभक्तस्तन्न विज्ञातम् ॥गस्स्_४६३॥ यत्र न दूती यत्र स्निग्धा न दृशोऽपि निपुणया निहिताः । न गिरोऽद्यापि व्यक्तीकृतः स भावोऽनुरागेण ॥गस्स्_४६४॥ या नीयते सपत्न्य्प्रविश्य यावर्जिता भुजङ्गेन । यमुनाया इव तस्याः सखि मलिनं जीवनं मन्ये ॥गस्स्_४६५॥ यस्मिन्न् अयशोऽपि यशो ह्रीर्विघ्नो मान एव दौःशील्यम् । लघुता गुणज्ञता किं नवो युवा सखि न ते दृष्टः ॥गस्स्_४६६॥ यद्वीक्ष्यते खलानां माहात्म्यं क्वापि दैवयोगेन । काकानामिव शौक्ल्यं तदपि हि न चिरादनर्थाय ॥गस्स्_४६७॥ यत्खलु खलमुखहुतवहविनिहितमपि शुद्धिमेव परमेति । तदनलशौचमिवांशुकमिह लोके दुर्लभं प्रेम ॥गस्स्_४६८॥ यन्नावधिमर्थयते पाथेयार्थं ददाति सर्वस्वम् । तेनानयातिदारुणशङ्कामारोपितं चेतः ॥गस्स्_४६९॥ यूनामीर्ष्यावैरं वितन्वता तरुणि चक्ररुचिरेण । तव जगह्नेनाकुलिता निखिला पल्ली खलेनेव ॥गस्स्_४७०॥ यावज्जीवनभावी तुल्याशयोयोर्नितान्तनिर्भेदः । नदयोरिवैष युवयोः सङ्गो रसमधिकमावहतु ॥गस्स्_४७१॥ यन्निहितां शेखरयसि मालां सा यातु शठ भवन्तमिति । प्रहरन्तीं शिरसि पदा स्मरामि तां गर्वगुरुकोपाम् ॥गस्स्_४७२॥ यौवनगुप्तिं पत्यौ बन्धुषु मुग्धत्वमार्जवं गुरुषु । कुर्वाणा हलिकवधूः प्रशस्यते व्याजतो युवभिः ॥गस्स्_४७३॥ यो न गुरुभिर्न मित्रैर्न विवेकेनापि नैव रिपुहसितैः । नियमितपूर्वः सुन्दरि स विनीतत्वं त्वया नीतः ॥गस्स्_४७४॥ यन्मूलमार्द्रमुदकैः कुसुमं प्रतिपर्व फलभरः परितः । द्रुम तन्माद्यसि वीचीपरिचयपरिणाममविचिन्त्य ॥गस्स्_४७५॥ यस्याङ्के स्मरसङ्गरविश्रान्तिप्राञ्जला सखी स्वपिति । स वहतु गुणाभिमानं मदनधनुर्वल्लिचोल इव ॥गस्स्_४७६॥ यदि दानगन्धमात्राद्वसन्ति सप्तच्छदेऽपि दन्तिन्यः । किमिति मदपङ्कमलिनां करी कपोलस्थलीं वहति ॥गस्स्_४७७॥ यदवधि विवृद्धमात्रा विकसितकुसुमोत्करा शणश्रेणी । पीतांशुकप्रियेयं तदवधि पल्लीपतेः पुत्री ॥गस्स्_४७८॥ यमुनातरङ्गतरलं न कुवलयं कुसुमलावि तव सुलभम् । यदि सौरभानुसारी झङ्कारी भ्रमति न भ्रमरः ॥गस्स्_४७९॥ इति विभाव्याख्यासमेता यकारव्रज्या ॥ ********************************************************** रकारव्रज्या राज्याभिषेकसलिलक्षालितमौलेः कथासु कृष्णस्य । गर्वभरमन्थराक्षी पश्यति पदपङ्कजं राधा ॥गस्स्_४९०॥ रतिकलहकुपितकान्ताकरचिकुराकर्षमुदितगृहनाथम् । भवति भवनं तदन्यत्प्राग्वंशः पर्णशाला वा ॥गस्स्_४९१॥ रोगो राजायत इति जनवादं सत्यमद्य कलयामि । आरोग्यपूर्वकं त्वयि तल्पप्रान्तागते सुभग ॥गस्स्_४९२॥ रुद्धस्वरसप्रसरस्यालिभिरग्रे नतं प्रियं प्रति मे । स्रोतस इव निम्नं प्रति रागस्य द्विगुण आवेगः ॥गस्स्_४९३॥ रूपमिदं कान्तिरसावयमुत्कर्षः सुवर्णरचनेयम् । दुर्गतमिलिता ललिते भ्रमसि प्रतिमन्दिरद्वारम् ॥गस्स्_४९४॥ रचिते निकुञ्जपत्रैर्भिक्षुकपात्रे ददाति सावज्ञम् । पर्युषितमपि सुतीक्ष्णश्वासकदुष्णं वधूरन्नम् ॥गस्स्_४९५॥ रक्षति न खलु निजस्थितिमलघुः स्थापयति नायकः स यथा । तिष्ठति तथैव तद्गुणविद्धेयं हारयष्ठिरिव ॥गस्स्_४९६॥ राजसि कृशाङ्गि मङ्गलकलशी सहकारपल्लवेनेव । तेनैव चुम्बितमुखी प्रथमाविर्भूतरागेण ॥गस्स्_४९७॥ रूपगुणहीनहार्या भवति लघुर्धूलिरनिलचपलेव । प्रथयति पृघुगुणनेया तरुणी तरणिरिव गरिमाणम् ॥गस्स्_४९८॥ रागे नवे विजृम्भति विरहक्रममन्दमन्दमन्दाक्षे । सस्मितसलज्जमीक्षितमिदमिष्टं सिद्धमाचष्टे ॥गस्स्_४९९॥ रोषोऽपि रसवतीनां न कर्कशो वा चिरानुबन्धी वा । वर्षाणामुपलोऽपि हि सुस्निग्धः क्षणिककल्पश्च ॥गस्स्_५००॥ रोदनमेतद्धन्यं सखि किं बहु मृत्युरपि ममानर्घः । स्वप्नेनेव हि विहितो नयनमनोहारिणा तेन ॥गस्स्_५०१॥ रोषेणैव मया सखि वक्रोऽपि ग्रन्थिलोऽपि कठिनोऽपि । ऋजुतामनीयतायं सद्यः स्वेदेन वंश इव ॥गस्स्_५०२॥ रजनीमियमुपनेतुं पितृप्रसूः प्रथममुपतस्थे । रञ्जयति स्वयमिन्दुं कुनायकं दुष्टदूतीव ॥गस्स्_५०३॥ इति विभाव्याख्यासमेता रकारव्रज्या ॥ ********************************************************** लकारव्रज्या लग्नासि कृष्णवर्त्मनि सुस्निग्धे वर्ति हन्त दग्धासि । अयमखिलनयनसुभगो नु भुक्तमुक्तां पुनः स्पृशति ॥गस्स्_५०४॥ लक्ष्मीः शिक्षयति गुणानमून् पुनर्दुर्गतिर्विधूनयति । पूर्णो भवति सुवृत्तस्तुषाररुचिरपचये वक्रः ॥गस्स्_५०५॥ लूनातन्तुनिरुद्धद्वारः शून्यालयः पतत्पतगः । पथिके तस्मिन्नञ्चलपिहितमुखो रोदितीव सखि ॥गस्स्_५०६॥ लग्नं जघने तस्याः सुविशाले कलितकरिकरक्रीडे । वप्रे सक्तं द्विपमिव शृङ्गारस्त्वां विभूषयति ॥गस्स्_५०७॥ लिप्तं न मुखं नाङ्गं न पक्षती न चरणाः परागेण । अस्पृशतेव नलिन्या विदग्धमधुपेन मधु पीतम् ॥गस्स्_५०८॥ लग्नं जघने तस्याः शुष्यति नखलक्ष्म मानसं च मम । भुक्तमविशदमवेदनमिदमधिकसरागसाबाधम् ॥गस्स्_५०९॥ लज्जयितुमखिलगोपीनिपीतमनसं मधुद्विषं राधा । अज्ञेव पृच्छति कथां शम्भोर्दयितार्धतुष्टस्य ॥गस्स्_५१०॥ लक्ष्मीनिःश्वासानलपिण्डीकृतदुग्धजलधिसारभुजः । क्षीरनिधितीरसुदृशो यशांसि गायन्ति राधायाः ॥गस्स्_५११॥ लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया । प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥गस्स्_५१२॥ इति विभाव्याख्यासमेता लकारव्रज्या ॥ ********************************************************** वकारव्रज्या वर्णहृतिर्न ललाटे न लुलितमङ्गं न चाधरे दंशः । उत्पलमहारि वारि च न स्पृष्टमुपायचतुरेण ॥गस्स्_५१३॥ विविधायुधव्रणार्बुदविषमे वक्षःस्थले प्रियतमस्य । श्रीरपि वीरवधूरपि गर्वोत्पुलका सुखं स्वपिति ॥गस्स्_५१८॥ वैमुख्येऽपि विमुक्ताः शरा इवान्याययोधिनो वितनोः । भिन्दन्ति पृष्ठपतिताः प्रिय हृदयं मम तव श्वासाः ॥गस्स्_५१९॥ व्यक्तमधुना समेतः खण्डो मदिराक्षि दशनवसने ते । यन्नवसुधैकसारे लोभिनि तत्किमपि नाद्राक्षम् ॥गस्स्_५२०॥ वीजयतोरन्योन्यं यूनोर्वियुतानि सकलगात्राणि । सन्मैत्रीव श्रोणी परं निदाघेऽपि न विघटिता ॥गस्स्_५२१॥ व्यारोषं मानिन्यास्तमो दिवः कासरं कलमभूमेः । बद्धमलिं च नलिन्याः प्रभातसन्ध्यापसारयति ॥गस्स्_५२२॥ वक्षसि विजृम्भमाणे स्तनभिन्नं त्रुटति कञ्चुकं तस्याः । पूर्वदयितानुरागस्तव हृदि न मनागपि त्रुटति ॥गस्स्_५२३॥ व्यक्तिमवेक्ष्य तदन्यां तस्यामेवेति विदितमधुना तु । हर्म्यहरिमुखमिव त्वामुभयोः साधारणं वेद्मि ॥गस्स्_५२४॥ व्यजनस्येव समीपे गतागतैस्तापहारिणो भवतः । अञ्चलमिव चञ्चलतां मम सख्याः प्रापितं चेतः ॥गस्स्_५२५॥ वितरन्ती रसमन्तर्ममार्द्रभावं तनोषि तनुगात्रि । अन्तःसलिला सरिदिव यन्निवससि बहिरदृश्यापि ॥गस्स्_५२६॥ विहितविविधानुबन्धो मानोन्नतयावधीरितो मानी । लभते कुतः प्रबोधं स जागरित्वैव निद्राणः ॥गस्स्_५२७॥ व्रीडाविमुखीं वीतस्नेहामाशङ्क्य काकुवाङ्मधुरः । प्रेमार्द्रसापराधां दिशति दृशं वल्लभे बाला ॥गस्स्_५२८॥ वक्षःप्रणयिनि सान्द्रश्वासे वाङ्मात्रसुभटि घनघर्मे । सुतनु ललाटनिवेशितललाटिके तिष्ठ विजितासि ॥गस्स्_५२९॥ विचरति परितः कृष्णे राधायां रागचपलनयनायाम् । दशदिग्वेधविशुद्धं विशिखं विदधाति विषमेषुः ॥गस्स्_५३०॥ विमुखे चतुर्मुखे श्रितवति चानीशभावमीशेऽपि । मग्नमहीनिस्तारे हरिः परं स्तब्धरोमाभूत् ॥गस्स्_५३२॥ वापीकच्छे वासः कण्टकवृतयः सजागरा भ्रमराः । केतकविटप किमेतैर्ननु वारय मञ्जरीगन्धम् ॥गस्स्_५३३॥ विचलसि मुग्धे विधृता यथा तथा विशसि हृदयमदये मे । शक्तिः प्रसूनधनुषः प्रकम्पलक्ष्यं स्पृशन्तीव ॥गस्स्_५३४॥ विहितआसमशरसमरो जितगाङ्गेयच्छविः कृताटोपः । पुरुषायिते विराजति देहस्तव सखि शिखण्डीव ॥गस्स्_५३५॥ वृतिविवरनिर्गतस्य प्रमदाबिम्बाधरस्य मधु पिबते । अवधीरितपीयूषः स्पृहयति देवाधिराजोऽपि ॥गस्स्_५३६॥ वासितमधुनि वधूनामवतंसे मौलिमण्डने यूनाम् । विलसति सा पुरुकुसुमे मधुपीव वनप्रसूनेषु ॥गस्स्_५३७॥ व्रीडाप्रसरः प्रथमं तदनु च रसभावपुष्टचेष्टेयम् । जवनीविनिर्गमादनु नटीव दयिता मनो हरति ॥गस्स्_५३८॥ वाससि हरिद्रयेव त्वयि गौराङ्ग्या निवेशितो रागः । पिशुनेन सोऽपनीतः सहसा पतता जलेनेव ॥गस्स्_५३९॥ विष्वग्विकासिसौरभरागान्धव्याघबाधनीयस्य । क्वचिदपि कुरङ्ग भवतो नाभीमादाय न स्थानम् ॥गस्स्_५४०॥ वटकुटजशालशाल्मलिरसालबहुसारसिन्धुवाराणाम् । अस्ति भिदा मलयाचलसम्भवसौरभ्यसाम्येऽपि ॥गस्स्_५४१॥ विनिहितकपर्दकोटिं चापलदोषेण शङ्करं त्यक्त्वा । वटमेकमनुसरन्ती जाह्नवि लुठसि प्रयागतटे ॥गस्स्_५४२॥ वेद चतुर्णां क्षणदा प्रहराणां सङ्गमं वियोगं च । चरणानामिव कूर्मी सङ्कोचमपि प्रसारमपि ॥गस्स्_५४३॥ वृतिविवरेण विशन्ती सुभग त्वामीक्षितुं सखी दृष्टिः । हरति युवहृदयपञ्जरमध्यस्था मन्मथेषुरिव ॥गस्स्_५४४॥ विपणितुलासामान्ये मा गणयैनं निरूपणे निपुण । धर्मघटोऽसावधरीकरोति लघुमुपरि नयति गुरुम् ॥गस्स्_५४५॥ वासरगम्यमनूरोरम्बरमवनी च वामनैकपदम् । जलधिरपि पोतलङ्घ्यः सतां मनः केन तुलयामः ॥गस्स्_५४६॥ वितततमोमषिलेखालक्ष्मोत्सङ्गस्फुटाः कुरङ्गाक्षि । पत्राक्षरनिकरा इव तारा नभसि प्रकाशन्ते ॥गस्स्_५४७॥ विविधाङ्गभङ्गिषु गुरुर्नूतनशिष्यां मनोभवाचार्यः । वेत्रलतयेव बालां तल्पे नर्तयति रतरीत्या ॥गस्स्_५४८॥ विपरीतमपि रतं ते स्रोतो नद्या इवानुकूलमिदम् । तटतरुमिव मम हृदयं समूलमपि वेगतो हरति ॥गस्स्_५४९॥ वैभवभाजां दूषणमपि भूषणपक्ष एव निक्षिप्तम् । उग्णमात्मनामधर्मं द्वेषं च गृणन्ति काणादाः ॥गस्स्_५५०॥ वक्राः कपटस्निग्धाः मलिनाः कर्णान्तिके प्रसज्जन्तः । कं वञ्चयन्ति न सखे खलाश्च गणिकाकटाक्षाश्च ॥गस्स्_५५१॥ विद्युज्ज्वालावलयितजलधरपिठरोदराद्विनिर्यान्ति । विशदौदनद्युतिमुषः प्रेयसि पयसा समं करकाः ॥गस्स्_५५२॥ व्यजनादिभिरुपचारैः किं मरुपथिकस्य गृहिणि विहितैर्मे । तापस्त्वदूरुकदलीद्वयमध्ये शान्तिमयमेति ॥गस्स्_५५३॥ वैगुण्येऽपि हि महता विनिर्मितं भवति कर्म शोभायै । दुर्वहनितम्बमन्थरमपि हरति नितम्बिनीनृत्यम् ॥गस्स्_५५४॥ वीक्ष्य सतीनां गणने रेखामेकां तया स्वनामाङ्काम् । सन्तु युवानो हसितुं स्वयमेवापारि नावरितुम् ॥गस्स्_५५५॥ विन्ध्याचल इव देहस्तव विविधावर्तनर्मदनितम्बः । स्थगयति गतिं मुनेरपि सम्भावितरविरथस्तम्भः ॥गस्स्_५५६॥ वृतिभञ्जन गञ्जनसह निकाममुद्दाम दुर्नयाराम । परवाटीशतलम्पट दुष्टवृष स्मरसि गेहमपि ॥गस्स्_५५७॥ वंशावलम्बनं यद्यो विस्तारो गुणस्य यावनतिः । तज्जालस्य खलस्य च निजाङ्कसुप्तप्रणाशाय ॥गस्स्_५५८॥ विन्ध्यमहीधरशिखरे मुदिरश्रेणीकृपाणमयमनिलः । उद्यद्विद्युज्ज्योतिः पथिकवधायैव शातयति ॥गस्स्_५५९॥ व्यालम्बमानवेणीधुतधूलि प्रथममश्रुभिर्धौतम् । आयातस्य पदं मम गेहिन्या तदनु सलिलेन ॥गस्स्_५६०॥ वक्षःस्थलसुप्ते मम मुखमुपधातुं न मौलिमालभसे । पीनोत्तुङ्गस्तनभरदूरीभूतं रतश्रान्तौ ॥गस्स्_५६१॥ वदनव्यापारान्तर्भावादनुरक्तमानयन्ती त्वम् । दूति सतीनाशार्थं तस्य भुजङ्गस्य दंष्ट्रासि ॥गस्स्_५६२॥ इति विभाव्याख्यासमेता वकारव्रज्या ॥ ********************************************************** शकारव्रज्या श्रीरपि भुजङ्गभोगे मोहनविज्ञेन शीलिता येन । सोऽपि हरिः पुरुषो यदि पुरुषा इतरेऽपि किं कुर्मः ॥गस्स्_५६३॥ शङ्के या स्थैर्यमयी श्लथयति बाहू मनोभवस्यापि । दर्पशिलामिव भवतीं कतरस्तरुणो विचालयति ॥गस्स्_५६४॥ शार्दूलनखरभङ्गुर कठोरतरजातरूपरचनोऽपि । बालानामपि बालासा यस्यास्त्वमपि हृदि वससि ॥गस्स्_५६५॥ श्रुत एव श्रुतिहारिणि रागोत्कर्षेण कण्ठमधिवसति । गीत इव त्वयि मधुरे करोति नार्थग्रहं सुतनुः ॥गस्स्_५६६॥ श्रीः श्रीफलेन राज्यं तृणराजेनाल्पसाम्यतो लब्धम् । कुचयोः सम्यक्साम्याद्गतो घटश्चक्रवर्तित्वम् ॥गस्स्_५६७॥ श्रोणी भूमावङ्के प्रियो भयं मनसि पतिभुजे मौलिः । गूढश्वासो वदने सुरतमिदं चेत्तृणं त्रिदिवम् ॥गस्स्_५६८॥ श्लिष्यन्निव चुम्बन्निव पश्यन्निव चोल्लिखन्निवातृप्तः । दधदिव हृदयस्यान्तः स्मरामि तस्या मुहुर्जघनम् ॥गस्स्_५६९॥ शिरसि चरणप्रहारं प्रदाय निःसार्यतां स ते तदपि । चक्राङ्कितो भुजङ्गः कालिय इव सुमुखि कालिन्द्याः ॥गस्स्_५७०॥ शोच्यैव सा कृशाङ्गी भूतिमयी भवतु गुणमयी वापि । स्नेहैकवश्य भवता त्यक्ता दीपेन वर्तिरिव ॥गस्स्_५७१॥ शुक इव दारुशलाकापिञ्जरमनुदिवसवर्धमानो मे । कृन्तति दयिताहृदयं शोकः स्मरविशिखतीक्ष्णमुखः ॥गस्स्_५७२॥ श्रुत्वाकस्मिकमरणं शुकसूनोः सकलकौतुकैकनिधेः । ज्ञातो गृहिणीविनयव्यय आगत्यैव पथिकेन ॥गस्स्_५७३॥ शीलितभुजङ्गभोगा क्रोडेनाभुद्धृतापि कृष्णेन । अचलैव कीर्त्यते भूः किमशक्यं नाम वसुमत्याः ॥गस्स्_५७४॥ श्यामा विल्चनहरी बालेयं मनसि हन्त सज्जन्ती । लुम्पति पूर्वकलत्रं धूमलता भित्तिचित्रमिव ॥गस्स्_५७५॥ शतशो गतिरावृत्तिः शतशः कण्ठावलम्बनं शतशः । शतशो यामीति वचः स्मरामि तस्याः प्रवासदिने ॥गस्स्_५७६॥ श्रुतपरपुष्टरवाभिः पृष्टो गोपीभिरभिमतं कृष्णः । शंसति वंशस्तनितैः स्तनविनिहितलोचनोऽनुमतम् ॥गस्स्_५७७॥ शङ्करशिरसि निवेशितपदेति मा गर्वमुद्वहेन्दुकले । फलमेतस्य भविष्यति तव चण्डीचरणरेणुमृजा ॥गस्स्_५७८॥ शाखिशिखरे समीरणदोलायितनीडनिर्वृतं वसति । कर्मैकशराणमगणितभयमशिथिलकेलि खगमिथुनम् ॥गस्स्_५७९॥ शुक सुरतसमरनारद हृदयरहस्यैकसार सर्वज्ञ । गुरुजनसमक्षमूक प्रसीद जम्बूफलं दलय ॥गस्स्_५८०॥ शिरसा वहसि कपर्दं रुद्र रुदित्वापि रजतमर्जयसि । अस्याप्युदरस्यार्धं भजतस्तव वेत्ति कस्तत्त्वम् ॥गस्स्_५८१॥ श्रोतव्यैव सुधेव श्वेतांशुकलेव दूरदृश्यैव । दुष्टभुजङ्गपरीते त्वं केतकि न खलु नः स्पृश्या ॥गस्स्_५८२॥ श्रवणोपनीतगुणया समर्पयन्त्या प्रणम्य कुसुमानि । मदनधनुर्लतयेव त्वया वशं दूति नीतोऽस्मि ॥गस्स्_५८३॥ शाखोटकशाखोटजवैखानसकरटपूज्य रट सुचिरम् । नादरपदमिह गणकाः प्रमाणपुरुषो भवानेकः ॥गस्स्_५८४॥ शशिरेखोपमकान्तेस्तवान्यपाणिग्रहं प्रयातायाः । मदनासिपुत्रिकाया इवाङ्गशोभां कदर्थयति ॥गस्स्_५८५॥ शैथिल्येन भृता अपि भर्तुः कार्यं त्यजन्ति न सुवृत्ताः । बलिनाकृष्टे बाहौ वलयाः कूजन्ति धावन्ति ॥गस्स्_५८६॥ इति विभाव्याख्यासमेता शकारव्रज्या । ********************************************************** षकारव्रज्या षट्चरणकीटजुष्टं परागघुणपूर्णमायुधं त्यक्त्वा । त्वां मुष्टिमेयमध्यामधुना शक्तिं स्मरो वहति ॥गस्स्_५८७॥ इति विभाव्याख्यासमेता षकारव्रज्या । ********************************************************** सकारव्रज्या सा दिवसयोग्यकृत्यव्यपदेशा केवलं गृहिणी । द्वितिथेर्दिवसस्य परा तिथिरिव सेव्या निशि त्वमसि ॥गस्स्_५८८॥ स्तननूतननखलेखालम्बी तव घर्मबिन्दुसन्दोहः । आभाति पट्टसूत्रे प्रविशन्निव मौक्तिकप्रसरः ॥गस्स्_५८९॥ सौभाग्यगर्वमेका करोतु यूथस्य भूषणं करिणी । अत्यायामवतोर्या मदान्धयोर्मध्यमधिवसति ॥गस्स्_५९०॥ स्वचरणपीडानुमितत्वन्मौलिरुजाविनीतमात्सर्या । अपराद्धा सुभग त्वां स्वयमहमनुनेतुमायाता ॥गस्स्_५९१॥ स्नेहमयान् पीडयतः किं चक्रेणापि तैलकारस्य । चालयति पार्थिवानपि यः स कुलालः परं चक्री ॥गस्स्_५९२॥ सरले न वेद भवती बहुभङ्गा बहुरसा बहुविवर्ता । गतिरसतीनेत्राणां प्रेम्णां स्रोतस्वतीनां च ॥गस्स्_५९३॥ सखि मध्याह्नद्विगु॑नद्युमणिकरश्रेणिपीडिता छाया । मज्जितुमिवालवाले परितस्तरुमूलमाश्रयति ॥गस्स्_५९४॥ सखि शृणु मम प्रियोऽयं गेहं येनैव वर्त्मनायातः । तन्नगरग्रामनदीः पृच्छति सममागतानन्यान् ॥गस्स्_५९५॥ सायं रविरनलमसौ मदनशरं स च वियोगिनीचेतः । इदमपि तमःसमूहं सोऽपि नभो निर्भरं विशति ॥गस्स्_५९६॥ स्मरसमरसमयपूरितकम्भुनिभो द्विगुणपीनगलनालः । शीर्णप्रासादोपरि जिगीषुरिव कलरवः क्वणति ॥गस्स्_५९७॥ स्फुरदधरमविरताश्रु ध्वनिरोधोत्कम्पकुचमिदं रुदितम् । जानूपनिहितहस्तन्यस्तमुखं दक्षिणप्रकृतेः ॥गस्स्_५९८॥ स्वयमुपनीतैरशनैः पुष्णन्ती नीडनिर्वृतं दयितम् । सहजप्रेमरसज्ञा सुभगागर्वं बकी वहतु ॥गस्स्_५९९॥ स्वरसेन बध्नतां करमादाने कण्टकोत्करैस्तुदताम् । पिशुनानां पनसानां कोषाभोगोऽप्यविश्वास्यः ॥गस्स्_६००॥ सौभाग्यं दाक्षिण्यान्नेत्युपदिष्टं हरेण तरुणीनाम् । वामार्धमेव देव्याः स्ववपुःशिल्पे निवेशयता ॥गस्स्_६०१॥ सुभग स्वभवनभित्तौ भवता संमर्द्य पीडिता सुतनुः । सा पीडयैव जीवति दधती वैद्येषु विद्वेषम् ॥गस्स्_६०२॥ सा गुणमयी स्वभावस्वच्छा सुतनुः करग्रहायत्ता । भ्रमिता बहुमन्त्रविदा भवता काश्मीरमालेव ॥गस्स्_६०३॥ सव्रीडस्मितसुभगे स्पृष्टास्पृष्टेव किंचिदपयान्ती । अपसरसि सुन्दरि यथा यथा तथा स्पृशसि मम हृदयम् ॥गस्स्_६०४॥ सखि सुखयत्यवकाशप्राप्तः प्रेयान् यथा तथा न गृही । वातादवारितादपि भवति गवाक्षानिलः शीतः ॥गस्स्_६०५॥ सततमरुणितमुखे सखि निगिरन्ती गरलमिव गिरां गुम्फम् । अवगणितौषधिमन्त्रा भुजङ्गि रक्तं विरञ्जयसि ॥गस्स्_६०६॥ स्थलकमलमुग्धवपुषा सातङ्काङ्कस्थितैकचरणेन । आश्वासयति विसिन्याः कूले विसकण्ठिका शफरम् ॥गस्स्_६०७॥ सनखपदमधिकगौरं नाभीमूलं निरंशुकं कृत्वा । अनया सेवित पवन त्वं किं कृतमलयभृगुपातः ॥गस्स्_६०८॥ सर्वाङ्गमर्पयन्ती लोला सुप्तं श्रमेण शय्यायाम् । अलसमपि भाग्यवन्तं भजते पुरुषयितेव श्रीः ॥गस्स्_६०९॥ सुदितं तदेव यत्र स्मारं स्मारं वियोगदुःखानि । आलिङ्गति सा गाढं पुनः पुनर्यामिनीप्रथमे ॥गस्स्_६१०॥ सान्तर्भयं भुजिष्या यथा यथाचरति समधिकां सेवाम् । साशङ्कसेर्ष्यसभया तथा तथा गेहिनी तस्य ॥गस्स्_६११॥ सुन्दरि दर्शयति यथा भवद्विपक्षस्य तत्सखी कान्तिम् । पतति तथा मम दृष्टिस्त्वदेकदासस्य सासूया ॥गस्स्_६१२॥ स्वाधीनैरधरव्रणनखाङ्कपत्रावलोपदिनशयनैः । सुभगा सुभगेत्यनया सखि निखिला मुखरिता पल्ली ॥गस्स्_६१३॥ सरित इव यस्य गेहे शुष्यन्ति विशालगोत्रजा नार्यः । क्षारास्वेव स तृप्यति जलनिधिलहरीषु जलद इव ॥गस्स्_६१४॥ सकलकटकैकमण्डनि कठिनीभूताशये शिखरदन्ति । गिरिभुव इव तव मन्ये मनः शिला समभवच्चण्डि ॥गस्स्_६१५॥ सखि दुरवगाहगहनो विदधानो विप्रियं प्रियजनेऽपि । खल इव दुर्लक्ष्यस्तव विनतमुखस्योपरि स्थितः कोपः ॥गस्स्_६१६॥ स्वेदसचेलस्नाता सप्तपदी सप्त मण्डलीर्यान्ती । समदनदहनविकारा मनोहरा व्रीडिता नमति ॥गस्स्_६१७॥ सुरसप्रवर्तमानः सङ्घाटोऽयं समानवृत्तानाम् । एत्यैव भिन्नवृत्तैर्भङ्गुरितः काव्यसर्ग इव ॥गस्स्_६१८॥ सर्वासामेव सखे पय इव सुरतं मनोहारि । तस्या एव पुनः पुनरावृत्तौ दुग्धमिव मधुरम् ॥गस्स्_६१९॥ स्वप्नेऽपि यां न मुञ्चसि या तेऽनुग्राहिणी हृदिस्थापि । दुष्टां न बुद्धिमिव तां गूढव्यभिचारिणीं वेत्सि ॥गस्स्_६२०॥ सपरावृति चरन्ती वात्येव तृणं मनोऽनवद्याङ्गि । हरसि क्षिपसि तरलयसि भ्रमयसि तोलयसि पातयसि ॥गस्स्_६२१॥ सा बहुलक्षणभावा स्त्रीमात्रं वेति कितव तव तुल्यम् । कोटिर्वराटिका वा द्यूतविधेः सर्व एव पणः ॥गस्स्_६२२॥ सा विरहदहनदूना मृत्वा मृत्वापि जीवति वराकी । शारीव कितव भवतानुकूलिता पातिताक्षेण ॥गस्स्_६२३॥ स्पर्शादेव स्वेदं जनयति न च मे ददाति निद्रातुम् । पिर्य इव जघनांशुकमपि न निदाघः क्षणमपि क्षमते ॥गस्स्_६२४॥ सा भवतो भावनया समयविरुद्धं मनोभवं बाला । नूतनलतेव सुन्दर दोहदशक्त्या फलं वहति ॥गस्स्_६२५॥ स्पृशति नखैर्न च विलिखति सिचयं गृह्णाति न च विमोचयति । न च मुञ्चति न च मदयति नयति निशां सा न निद्राति ॥गस्स्_६२६॥ स्तनजघनद्वयमस्या लङ्घितमध्यः सखे मम कटाक्षः । नोज्झति रोधस्वत्यास्तटद्वयं तीर्थकाक इव ॥गस्स्_६२७॥ सव्रीडस्मितमन्दश्वसितं मां मा स्पृशेति शंसन्त्या । आकोपमेत्य वातायनं पिधाय स्थितं प्रियया ॥गस्स्_६२८॥ सकरग्रहं सरुदितं साक्षेपं सनखमुष्टि सजिगीषम् । तस्याः सुरतं सुरतं प्राजापत्यक्रतुरतोऽन्यः ॥गस्स्_६२९॥ सखि न खलु निमलानां विदधत्यभिधानमपि मुखे मलिनाः । केनाश्रावि पिकानां कुहूं विहायेतरः शब्दः ॥गस्स्_६३०॥ स्वल्पा इति रामबलैर्ये न्यस्ता नाशये पयोराशेः । ते शैलाः स्थितिमन्तो हन्त लघिम्नैव बहुमानः ॥गस्स्_६३१॥ सा श्यामा तन्वङ्गी दहता शीतोपचारतीव्रेण । विरहेण पाण्डिमानं नीता तुहिनेन दूर्वैव ॥गस्स्_६३२॥ सुनिरीक्षितनिश्चलकरवल्लभधाराजलोक्षिता न तथा । सोत्कम्पेन मया सखि दृष्टा सा माद्यति स्म यथा ॥गस्स्_६३३॥ सखि मोघीकृतमदने पतिव्रते कस्तवादरं कुरुते । नाश्रौषीर्भगवानपि स कामविद्धो हरः पूज्यः ॥गस्स्_६३४॥ सा मयि न दासबुद्धिर्न रतिर्नापि त्रपा न विश्वासः । हन्त निरीक्ष्य नवोढां मन्ये वयमपिर्या जाताः ॥गस्स्_६३५॥ सुचिरायाते गृहिणी निशि भुक्ता दिनमुखे विदग्धेयम् । धवलनखाङ्कं निजवपुरकुङ्कुमार्द्रं न दर्शयति ॥गस्स्_६३६॥ स्तनजघनोरुप्रणयी गाढं लग्नो निवेशितस्नेहः । प्रिय कालपरिणतिरियं विरज्यसे यन्नखाङ्क इव ॥गस्स्_६३७॥ सा विच्छाया निशि निशि सुतनुर्बहुतुहिनशीतले तल्पे । ज्वलति त्वदीयविरहादोषधिरिव हिमवतः पृष्ठे ॥गस्स्_६३८॥ सा नीरसे तव हृदि प्रविशति निर्याति न लभते स्थैर्यम् । सुन्दर सखी दिवसकरबिम्बे तुहिनांशुरेखेव ॥गस्स्_६३९॥ सुकुमारत्वं कान्तिर्नितान्तसरअत्वमान्तराश्च गुणाः । किं नाम नेन्दुलेखे शशग्रहेणैव तव कथितम् ॥गस्स्_६४०॥ सौरभ्यमात्रमनसामास्तां मलयद्रुमस्य न विशेषः । धर्मार्थिनां तथापि स मृग्यः पूजार्थमश्वत्थः ॥गस्स्_६४१॥ संवाहयति शयानं यथोपवीजयति गृहपतिं गृहिणी । गृहवृतिविवरनिवेशितदृशस्तथाश्वासनं यूनः ॥गस्स्_६४२॥ सत्यं स्वल्पगुणेषु स्तब्धा सदृशे पुनर्भुजङ्गे सा । अर्पितकोटिः प्रणमति सुन्दर हरचापयष्टिरिव ॥गस्स्_६४३॥ सर्वंसहां महीमिव विधाय तां बाष्पवारिभिः पूर्णाम् । भवनान्तरमयमधुना सङ्क्रान्तस्ते गुरुः प्रेमा ॥गस्स्_६४४॥ सम्भवति न खलु रक्षा सरसानां प्रकृतिचपलचरितानाम् । अनुभवति हरशिरस्यपि भुजङ्गपरिशीलनं गङ्गा ॥गस्स्_६४५॥ सुलभेषु कमलकेसरकेतकमाकन्दकुन्दकुसुमेषु । वाञ्छति मनोरथान्धा मधुपी स्मरधनुषि गुणीभावम् ॥गस्स्_६४६॥ सा लज्जिता सपत्नी कुपिता भीतः प्रियः सखी सुखिता । बालायाः पीडायां निदानिते जागरे वैद्यैः ॥गस्स्_६४७॥ सुचिरागतस्य संवाहनच्छलेनाङ्गमङ्गमालिङ्ग्य । पुष्यति च मानचर्चां गृहिणी सफलयैत्चोत्कलिकाम् ॥गस्स्_६४८॥ सा सर्वथैव रक्ता रागं गुञ्जेव न तु मुखे वहति । वचनपटोस्तव रागः केवलमास्ये शुकस्येव ॥गस्स्_६४९॥ सायं कान्तभुजान्तरपतिता रतिनीतसकलरजनीका । उषसि ददती प्रदीपं सखीभिरुपहस्यते बाला ॥गस्स्_६५०॥ सा तीक्ष्णमानदहना महतः स्नेहस्य दुर्लभः पाकः । त्वां दर्वीमिव दूति प्रयासयन्नस्मि विश्वस्तः ॥गस्स्_६५१॥ स्नेहक्षतिर्जिगीषा समरः प्राणव्ययावधिः करिणाम् । न वितनुते कमनर्थं दन्तिनि तव यौवनोद्भटः ॥गस्स्_६५२॥ सदनादपैति दयितो हसति सखी विशति घरणिमिव बाला । ज्वलति सपत्नी कीरे जल्पति मुग्धे प्रसीदति ॥गस्स्_६५३॥ सङ्कुचिताङ्गीं द्विगुणांशुकां मनोमात्रविस्फुरन्मदनाम् । दयितां भजामि मुग्धामिव तुहिन तव प्रसादेन ॥गस्स्_६५४॥ सखि लग्नैव वसन्ती सदाशये महति रसमये तस्य । बाडवशिखेव सिन्धोर्न मनागप्यार्द्रतां भजसि ॥गस्स्_६५५॥ सखि मिहिरोद्गमनादिप्रमोदमपिधाय सोऽयमवसाने । बन्ध्योऽवधिवासर इव तुषारदिवसः कदर्थयति ॥गस्स्_६५६॥ सुरभवने तरुणाभ्यां परस्पराकृष्टदृष्टिहृदयाभ्याम् । देवार्चनार्थमुद्यतमन्योन्यस्यार्पितं कुसुमम् ॥गस्स्_६५७॥ सायं कुशेशयान्तर्मधुपानां निर्यतां नादः । मित्रव्यसनविषण्णैः कमलैराक्रन्द इव मुक्तः ॥गस्स्_६५८॥ सुमहति मन्युनिमित्ते मयैव विहितेऽपि वेपमानोरुः । न सखीनामपि रुदती ममैव वक्षःस्थले पतिता ॥गस्स्_६५९॥ सुभग व्यजनविचालनशिथिलभुजाभूदियं वयस्यापि । उद्वर्तनं न सख्याः समाप्यते किञ्चिदपगच्छ ॥गस्स्_६६०॥ सव्रीडा नखरदनार्पणेषु कुपिता प्रगाढमचिरोढा । बहुयाच्ञाचरणग्रहसाध्या रोषेण जातेयम् ॥गस्स्_६६१॥ सुगृहीतमलिनपक्षा लघवः परभेदिनः परं तीक्ष्णाः । पुरुषा अपि विशिखा अपि गुणच्युताः कस्य न भयाय ॥गस्स्_६६२॥ स्वकपोलेन प्रकटीकृतं प्रमत्तत्वकारणं किमपि । द्विरदस्य दुर्जनस्य च मदं चकारैव दानमपि ॥गस्स्_६६३॥ सत्यं पतिरविदग्धः सा तु स्वधियैव निधुवने निपुणा । मार्त्तिकमाधाय गुरुं धनुरधिगतमेकलव्येन ॥गस्स्_६६४॥ सौभाग्यमानवान् स त्वयावधीर्यापमानमानीतः । स्वं विरहपाण्डिमानं भस्मस्नानोपमं तनुते ॥गस्स्_६६५॥ सखि मम करञ्जतैलं बहुसन्देशं प्रहेष्यसीत्युदिता । श्वशुरगृहगमनमिलितं बाष्पजलं संवृणोत्यसती ॥गस्स्_६६६॥ सन्दर्शयन्ति सुन्दरि कुलटानां तमसि विततमविकल्पे । मौलिमणिदीपकलिका वर्तिनिभा भोगिनोऽध्वानम् ॥गस्स्_६६७॥ सर्वं वनं तृणाल्या पिहितं पीताः सितांशुरविताराः । प्रध्वंसाः पन्थानो मलिनेनोद्गम्य मेघेन ॥गस्स्_६६८॥ सम्यगनिष्पन्नः सन् योऽर्थस्त्वरया स्वयं स्फुटीक्रियते । स व्यङ्ग एव भवति प्रथमो विनतातनूज इव ॥गस्स्_६६९॥ सज्जन एव हि विद्या शोभनायै भवति दुर्जने मोघा । न विदूरदर्शनतया कैश्चिदुपादीयते गृध्रः ॥गस्स्_६७०॥ सुभगं वदति जनस्तं निजपतिरिति नैष रोचते मह्यम् । पीयूषेऽपि हि भेषजभावोपनते भवत्यरुचिः ॥गस्स्_६७१॥ सौधगवाक्षगतापि हि दृष्टिस्तं स्थितिकृतप्रयत्नमपि । हिमगिरिशिखरस्खलिता गङ्गेवैरावतं हरति ॥गस्स्_६७२॥ सहघर्मचारिणी मम परिच्छदः सुतनु नेह सन्देहः । न तु सुखयति तुहिनदिनच्छत्रच्छायेव सज्जन्ती ॥गस्स्_६७३॥ सकलगुणैकनिकेतन दानववासेन घरणिरुहराजः । जातोऽसि भूतले त्वं सतामनादेयफलकुसुमः ॥गस्स्_६७४॥ सुन्दरि ताटङ्कमयं चक्रमिवोद्वहति तावके कर्णे । निपतति निकामतीक्ष्णं कटाक्षबाणोऽर्जुनप्रणयी ॥गस्स्_६७५॥ स्वाधीनैव फलर्द्धिर्जनोपजीव्यत्वमुच्छ्रयच्छाया । सत्पुंसो मरुभूरुह इव जीवनमात्रमाशास्यम् ॥गस्स्_६७६॥ सन्तापमोहकम्पान् सम्पादयितुं निहन्तुमपि जन्तून् । सखि दुर्जनस्य भूतिः प्रसरति दूरं ज्वरस्येव ॥गस्स्_६७७॥ सुखयिततरां न रक्षति परिचयलेशं गणाङ्गनेव श्रीः । कुककामिनीव नोज्झति वाग्देवी जन्मजन्मापि ॥गस्स्_६७८॥ स्वसदननिकटे नलिनीमभिनवजातच्छदां निरीक्ष्यैव । हा गृहिणीति प्रलपंश्चिरागतः सखि पतिः पतितः ॥गस्स्_६७९॥ सचि चतुराननभावाद्वैमुख्यं क्वापि नैव दर्शयति । अयमेकहृदय एव द्रुहिण इव प्रियतमस्तदपि ॥गस्स्_६८०॥ सत्यं मधुरो नियतं वक्रो नूनं कलाधरो दयितः । स तु वेद न द्वितीयामकलङ्कः प्रतिपदिन्दुरिव ॥गस्स्_६८१॥ स्वस्थानादपि विचलति मज्जति जलधौ च नीचमपि भजते । निजपक्षरक्षणमनाः सुजनो मैनाकशैल इव ॥गस्स्_६८२॥ संवृणु बाष्पजलं सखि दृशमुपरज्याञ्जनेन वलयैनाम् । दयितः पश्यतु पल्लवपङ्कजयोर्युगपदेव रुचम् ॥गस्स्_६८३॥ सा पाण्डुदुर्बलाङ्गी नयसि त्वं यत्र याति तत्रैव । कठिनीव कैतवविदो हस्तग्रहमात्रसाध्या ते ॥गस्स्_६८४॥ सखि विश्वगञ्जनीया लक्ष्मीरिव कमलमुखि कदर्यस्य । त्वं प्रवयसोऽस्य रक्षावीक्षणमात्रोपयोग्यासि ॥गस्स्_६८५॥ इति विभाव्याख्यासमेता सकारव्रज्या । ********************************************************** हकारव्रज्या हृदयज्ञया गवाक्षे विसदृक्षं किमपि कूजितं सख्या । यत्कलहभिन्नतल्पा भयकपटादेति मां सुतनु ॥गस्स्_६८६॥ हरति हृदयं शलाकानिहितोऽञ्जनतन्तुरेष सखि मुग्धे । लोचनबाणमुचान्तर्भ्रूधनुषा किण इवोल्लिखितः ॥गस्स्_६८७॥ हससि चरणप्रहारे तल्पादपसारितो भुवि स्वपिषि । नासदृशेऽपि कृते प्रिय मम हृदयात्त्वं विनिःसरसि ॥गस्स्_६८८॥ हसति सपत्नी श्वश्रू रोदिति वदनं च पिदधते सख्यः । स्वप्नायितेन तस्यां सुभग त्वन्नाम जल्पन्त्याम् ॥गस्स्_६८९॥ हृदयं मम प्रतिक्षणविहितावृत्तिः सखे प्रियाशोकः । प्रबलो विदारयिष्यति जलकलशं नीरलेखेव ॥गस्स्_६९०॥ हन्त विरहः समन्ताज्ज्वलयति दुर्वारतीव्रसंवेगः । अरुणस्तपनशिलामिव पुनर्न मां भस्मतां नयति ॥गस्स्_६९१॥ हृत्वा तटिनि तरङ्गैर्भ्रमितश्चक्रेषु नाशये निहितः । फलदलवल्कलरहितस्त्वयान्तरिक्षे तरुस्त्यक्तः ॥गस्स्_६९२॥ हृतकाञ्चिवल्लिबन्धोत्तरजघनादपरभोगभुक्तायाः । उल्लसति रोमराजिः स्तनशम्भोर्गरललेखेव ॥गस्स्_६९३॥ इति विभाव्याख्यासमेता हकारव्रज्या । ********************************************************** क्षकारव्रज्या क्षीरस्य तु दयितत्वं यतोऽपि शान्तोपचारमासाद्य । शैलोऽङ्गान्यानमयति प्रेम्णः शेषो ज्वरस्येव ॥गस्स्_६९४॥ क्षान्तमपसारितो यच्चरणावुपधाय सुप्त एवासि । उद्घाटयसि किमूरु निःश्वासैः पुलकयन्नुष्णैः ॥गस्स्_६९५॥ क्षुद्रोद्भवस्य कटुतां प्रकटयतो यच्छतश्च मदमुच्चैः । मधुनो लघुपुरुषस्य च गरिमा लघिमा च भेदाय ॥गस्स्_६९६॥ ********************************************************** पूर्वैर्विभिन्नवृत्तां गुणाढ्यभवभूतिबाणरघुकारैः । वाग्देवीं भजतो मम सन्तः पश्यन्तु को दोषः ॥गस्स्_६९७॥ सत्पात्रोपनयोचितसत्प्रतिबिम्बाभिनववस्तु । कस्य न जनयति हर्षं सत्काव्यं मधुरवचनं च ॥गस्स्_६९८॥ एका ध्वैन्द्वितीया तिर्भुवनसारा स्फुटोक्तिचातुर्या । पञ्चेषुषट्पदहिता भूषा श्रवणस्य सप्तशती ॥गस्स्_६९९॥ कविसमरसिंहनादः स्वरानुवादः सुधैकसंवादः । विद्वद्विनोदकन्दः सन्दर्भोऽयं मया सृष्टः ॥गस्स्_७००॥। उदयनबलभद्राभ्यां सप्तशती शिष्यसोदराभ्यां मे । द्यौरिव रविचन्द्राभ्यां प्रकाशिता निर्मलीकृत्य ॥गस्स्_७०१॥ हरिचरणाञ्जलिमलं कविवरहर्षाय बुद्धिमान् सततम् । कृतार्यासप्तशतीमेतां गोवर्धनाचार्यः ॥गस्स्_७०२॥ इति गोवर्धनाचार्यविरचिता आर्यासप्तशती समाप्ता