प्रथमोऽङ्कः । श्लोक १.१ निषिद्धैरप्येभिर्लुलितमकरन्दो मधुकरैः करैरिन्दोरन्तश्छुरित इव संभिन्नमुकुलः । विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः œ प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम् ॥ १.१ ॥ अपि च श्लोक १.२ कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम् । तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गते œ रक्षुण्णोऽनुनयः प्रसन्नदयितादृष्टस्य पुष्णातु वः ॥ १.२ ॥ अपि च श्लोक १.३ दृष्टः सप्रेम देव्या किमिदमिति भयात्संभ्रमाच्चासुरीभिः शान्तान्तस्तत्त्वसारैः सकरुणमृषिभिर्विष्णुना सस्मितेन । आकृष्यास्त्रं सगर्वैरुपशमितवधूसंभ्रमैर्दैत्यवीरैः œ सानन्दं देवताभिर्मयपुरदहने धूर्जटिः पातु युष्मान् ॥ १.३ ॥ *नान्द्यन्ते** ।सूत्रधारः। अलमतिप्रसङ्गेन । श्लोक १.४ श्रवणाञ्जलिपुटपेयं विरचितवान्भारताख्यममृतं यः । तमहमरागमकृष्णं कृष्णद्वैपायनं वन्दे ॥ १.४ ॥ *समन्तादवलोक्य** तद्भवन्तः परिषदग्रेसराः विज्ञाप्यं नः किंचिदस्ति । श्लोक १.५ कुसुमाञ्जलिरपर इव प्रकीर्यते काव्यबन्ध एषोऽत्र । मधुलिह इव मधुबिन्दून्विरलानपि भजत गुणलेशान् ॥ १.५ ॥ तदिदं कवेर्मृगराजलक्ष्मणो भट्टनारायणस्य कृतिं वेणीसंहारं नाम नाटकं प्रयोक्तुमुद्यता वयम् । तदत्र कविपरिश्रमानुरोधाद्वोदात्तकथावस्तुगौरवाद्वा नवनाटकदर्शनकुतूहलाद्वा भवद्भिरवधानं दीयमानमभ्यर्थये । *नेपथ्ये** भाव त्वर्यतां त्वर्यताम् । एते खल्वार्यविदुराज्ञया पुरुषाः सकलमेव शैलूषजनं व्याहरन्ति । प्रवर्त्यन्तामपरिहीयमानमातोद्यविन्यासादिका विधयः । प्रवेशकालः किल तत्रभवतः पाराशर्यनारदतुम्बुरुजामदग्न्यप्रभृतिभिर्मुनिवृन्दारकैरनुगम्यमानस्य भरतकुलहितकाम्यया स्वयं प्रतिपन्नदौत्यस्य देवकीसूनोश्चक्रपाणेर्महाराजदुर्योधनशिबिरं प्रति प्रस्थातुकामस्येति । ।सूत्रधारः। *आकर्ण्य सानन्दम्** अहो नु खलु भो भगवता जगत्प्रभवस्थितिनिरोधप्रभविष्णुना विष्णुनाद्यानुगृहीतमिदं भरतकुलं सकलं च राजकमनयोः कुरुपाण्डवराजपुत्रयोराहवकल्पान्तानलप्रशमहेतुना स्वयं संधिकारिणा कंसारिणा दूतेन । तत्किमिति पारिपार्श्विक नारम्भयसि कुशीलवैः सह संगीतकम् । *प्रविश्य** ।पारिपार्श्विकः। भवतु । आरम्भयामि । कं समयमाश्रित्य गीयताम् । ।सूत्रधारः। नन्वमुमेव तावच्चन्द्रातपनक्षत्रक्रौञ्चहंसकुलसप्तच्छदकुमुदपुण्डरीककाशकुसुमपरागधवलितगगनदिङ्मण्डलं स्वादुजलजलाशयं शरत्समयमाश्रित्य प्रवर्त्यतां संगीतकम् । तथा ह्यस्यां शरदि श्लोक १.६ सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः । निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥ १.६ ॥ ।पारिपार्श्विकः। *ससंभ्रमम्** भाव शान्तं पापं प्रतिहतममङ्गलम् । ।सूत्रधारः। *सवैलक्ष्यस्मितम्** मारिष शरत्समयवर्णनाशंसया हंसा धार्तराष्ट्रा इति व्यपदिश्यन्ते । तत्किं शान्तं पापं प्रतिहतममङ्गलम् । ।पारिपार्श्विकः। न खलु न जाने । किं त्वमङ्गलाशंसयास्य वो वचनस्य यत्सत्यं कम्पितमिव मे हृदयम् । ।सूत्रधारः। मारिष ननु सर्वमेवेदानीं प्रतिहतममङ्गलं स्वयं प्रतिपन्नदौत्येन संधिकारिणा कंसारिणा । तथा हि श्लोक १.७ निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च œ स्वस्था भवन्तु कुरुराजतनयाः सभृत्याः ॥ १.७ ॥ *नेपथ्ये । साधिक्षेपम्** आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद । श्लोक १.८ लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृष्टपाण्डववधूपरिधानकेशाः œ स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥ १.८ ॥ [संध्यङ्ग । वलुए="उपक्षेप" रेस्प्="व्६.६९" fरोम्="प्ल्१"] *सूत्रधारपारिपार्श्विकावाकर्णयतः** ।पारिपार्श्विकः। भाव कुत एतत् । ।सूत्रधारः। *पृष्ठतो विलोक्य** अये एष खलु वासुदेवगमनात्कुरुसंधानममृष्यमाणः पृथुललाटतटघटितविकटकीनाशतोरणत्रिशूलायमानभीषणभ्रुकुटिरापिबन्निव नः सर्वान्दृष्टिपातेन सहदेवानुगम्यमानः क्रुद्धो भीमसेन इत एवाभिवर्तते । तन्न युक्तमस्य पुरतः स्थातुम् । तदित आवामन्यत्र गच्छावः । *इति निष्क्रान्तौ** प्रस्तावना । *ततः प्रविशति सहदेवानुगम्यमानः क्रुद्धो भीमसेनः** ।भीमसेनः। आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद ।*लाक्षागृहेत्यादि पुनः पठति** ।सहदेवः। *सानुनयम्** आर्य मर्षय मर्षय । अनुमतमेव नो भरतपुत्रस्यास्य वचनम् । निर्वाणवैरदहना इति यथार्थमेव । सभृत्याः कुरवः क्षतजालंकृतवसुंधराः क्षतशरीराश्च स्वर्गस्था भवन्त्विति ब्रवीति । ।भीमसेनः। *सोपालम्भम्** न खलु न खल्वमङ्गलानि चिन्तयितुमर्हन्ति भवन्तः कौरवाणाम् । संधेयास्ते भ्रातरो युष्माकम् । ।सहदेवः। *सरोषम्** आर्य श्लोक १.९ धृतराष्ट्रस्य तनयान्कृतवैरान्पदे पदे । राजा न चेन्निषेद्धा स्यात्कः क्षमेत तवानुजः ॥ १.९ ॥ ।भीमसेनः। एवमिदम् । अत एवाहमद्यप्रभृति भिन्नो भवद्भ्यः । पश्य । श्लोक १.१० प्रवृद्धं यद्वैरं मम खलु शिशोरेव कुरुभि र्न तत्रार्यो हेतुर्न भवति किरीटी न च युवाम् । जरासंधस्योरःस्थलमिव विरूढं पुनरपि œ क्रुधा संधिं भीमो विघटयति यूयं घटयत ॥ १.१० ॥ [संध्यङ्ग । वलुए="परिकर" रेस्प्="व्" fरोम्="प्ल्२"] ।सहदेवः। *सानुनयम्** आर्य एवमतिसंभृतक्रोधेषु युष्मासु कदाचित्खिद्यते गुरुः । ।भीमसेनः। किं नाम खिद्यते गुरुः । गुरुः खेदमपि जानाति । पश्य । श्लोक १.११ तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं œ गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥ १.११ ॥ तत्सहदेव निवर्तस्व । एवं चातिचिरप्रवृद्धामर्षोद्दीप्तस्य भीमस्य वचनाद्विज्ञापय राजानम् । ।सहदेवः। आर्य किमिति । ।भीमसेनः। एवं विज्ञापय । श्लोक १.१२ युष्मच्छासनलङ्घनांहसि मया मग्नेन नाम स्थितं प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि । क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा œ नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥ १.१२ ॥ *इत्युद्धतं परिक्रामति** ।सहदेवः। *तमेवानुगच्छन्नात्मगतम्** अये कथमार्यः पाञ्चाल्याश्चतुःशालं प्रविष्टः । भवतु तावदहमत्रैव तिष्ठामि ।*इति स्थितः** ।भीमसेनः। *प्रतिनिवृत्यावलोक्य च** सहदेव गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यायुधागारं प्रविश्यायुधसहायो भवामि । ।सहदेवः। आर्य नेदमायुधागारं पाञ्चाल्याश्चतुःशालमिदम् । ।भीमसेनः। *सवितर्कम्** किं नाम नेदमायुधागारं पाञ्चाल्याश्चतुःशालमिदम् ।*किंचिद्विहस्य सहर्षम्** आमन्त्रयितव्या मया पाञ्चाली ।*सप्रणयं सहदेवं हस्ते गृहीत्वा** वत्स आगम्यताम् । यदार्यः कुरुभिः संधानमिच्छन्नस्मान्पीडयति तद्भवानपि पश्यतु । *उभौ प्रवेशं नाटयतः** ।सहदेवः। आर्य इदमासनमास्तीर्णम् । अत्रोपविश्य प्रतिपालयत्वार्यः कृष्णागमनम् । ।भीमसेनः। *उपविश्य** वत्स कृष्णागमनमित्यनेनोपोद्घातेन स्मृतम् । अथ भगवान्कृष्णः केन पणेन संधिं कर्तुं सुयोधनं प्रति प्रहितः । ।सहदेवः। आर्य पञ्चभिर्ग्रामैः । ।भीमसेनः। *कर्णौ पिधाय** अहह हन्त देवस्याजातशत्रोरप्ययमीदृशस्तेजोपकर्ष इति यत्सत्यं कम्पितमिव मे हृदयम् ।*परिवृत्य स्थित्वा** तद्वत्स न त्वया कथितं न मया श्रुतम् । श्लोक १.१३ यत्तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः । दीव्यताक्षैस्तदानेन नूनं तदपि हारितम् ॥ १.१३ ॥ *नेपथ्ये** {प्क्त्_१}समस्ससदु समस्ससदु भट्टिणी । स्क्त्छ्_१ समाश्वसितु समाश्वसितु भट्टिनी । ।सहदेवः। *नेपथ्याभिमुखमवलोक्यात्मगतम्** अये कथं याज्ञसेनी मुहुरुपचीयमानबाष्पपटलस्थगितनयनार्यसमीपमुपसर्पति । तत्कष्टतरमापतितम् । श्लोक १.१४ यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धेऽद्य संभृतम् । तत्प्रावृडिव कृष्णेयं नूनं संवर्धयिष्यति ॥ १.१४ ॥ *ततः प्रविशति यथानिर्दिष्टा द्रौपदी चेटी च । द्रौपदी सास्रं निश्वसिति** ।चेटी। {प्क्त्_२}समस्ससदु समस्ससदु भट्टिणी । अबणैस्सदि दे मण्णुं णिच्चाणुबद्धकुरुवेलो कुमालो भीमसेणो । स्क्त्छ्_२ समाश्वसितु समाश्वसितु भट्टिनी । अपनेष्यति ते मन्युं नित्यानुबद्धकुरुवैरः कुमारो भीमसेनः । ।द्रौपदी। {प्क्त्_३}हञ्जे बुद्धिमदिए होदि एदं जै महाराअस्स पडिउलो हुविस्सदि । स्क्त्छ्_३ हञ्जे बुद्धिमतिके भवत्येतद्यदि महाराजस्य प्रतिकूलो भविष्यति । ।चेटी। {प्क्त्_४}*विलोक्य** एसो कुमालो चिट्ठदि । ता णमुबसप्पदु भट्टिणी । स्क्त्छ्_४ एष कुमारस्तिष्ठति । तदेनमुपसर्पतु भट्टिनी । ।द्रौपदी। {प्क्त्_५}हञ्जे एव्वं करेम्ह । स्क्त्छ्_५ हञ्जे एवं कुर्वः । *इति परिक्रामतः** ।चेटी। {प्क्त्_६}*उपसृत्य** जअदु जअदु कुमालो । स्क्त्छ्_६ जयतु जयतु कुमारः । ।भीमसेनः। *अशृण्वन्यत्तदूर्जितमिति पुनः पठति** ।चेटी। {प्क्त्_७}*परिवृत्य** भट्टिणि परिकुबिदो विअ कुमालो लक्खीअदि । स्क्त्छ्_७ भट्टिनि परिकुपित इव कुमारः लक्ष्यते । ।द्रौपदी। {प्क्त्_८}हञ्जे जै एव्वं ता अवहीरणा बि एसा ममस्सासअदि । ता एत्थ उबविट्ठा भविअ सुणोमि दाव णाहस्स ववसिदं । स्क्त्छ्_८ हञ्जे यद्येवं तदवधीरणाप्येषा मामाश्वासयति । तदत्रोपविष्टा भूत्वा शृणोमि तावन्नाथस्य व्यवसितम् । *उभे तथा कुरुतः** ।भीमसेनः। *सक्रोधं सहदेवमधिकृत्य** किं नाम पञ्चभिर्ग्रामैः संधिः । श्लोक १.१५ मथ्नामि कौरवशतं समरे न कोपा द्दुःशासनस्य रुधिरं न पिबाम्युरस्तः । संचूर्णयामि गदया न सुयोधनोरू œ संधिं करोतु भवतां नृपतिः पणेन ॥ १.१५ ॥ ।द्रौपदी। {प्क्त्_९}*सहर्षं जनान्तिकम्** णाह अस्सुदपुव्वं खु दे ईदिसं वअणं । ता पुणो बि दाव भणाहि । स्क्त्छ्_९ नाथ अश्रुतपूर्वं खलु त ईदृशं वचनम् । तत्पुनरपि तावद्भण । ।भीमसेनः। *अशृण्वन्नेव मथ्नामीत्यादि पुनः पठति** ।सहदेवः। आर्य किं महाराजस्य संदेशोऽव्युत्पन्न इव गृहीतः । ।भीमसेनः। का पुनरत्र व्युत्पत्तिः । ।सहदेवः। आर्य एवं गुरणा संदिष्टम् । ।भीमसेनः। कस्य । ।सहदेवः। सुयोधनस्य । ।भीमसेनः। किमिति । ।सहदेवः। श्लोक १.१६ इन्द्रप्रस्थं वृकप्रस्थं जयन्तं वारणावतम् । प्रयच्छ चतुरो ग्रामान्कंचिदेकं तु पञ्चमम् ॥ १.१६ ॥ ।भीमसेनः। ततः किम् । ।सहदेवः। तदेवमनया प्रतिनामग्रामप्रार्थनया पञ्चमस्य चाकीर्तनाद्विषभोजनजतुगृहदाहद्यूतसभाद्यपकारस्थानोद्घाटनमेवेदं मन्ये । ।भीमसेनः। *साटोपम्** वत्स एवं कृते किं कृतं भवति । ।सहदेवः। आर्य एवं कृते लोके तावत्स्वगोत्रक्षयाशङ्कि हृदयमाविष्कृतं भवति कुरुराजस्यासंधेयता च दर्शिता भवति । ।भीमसेनः। सर्वमप्येतदनर्थकम् । कुरुराजस्य तावदसंधेयता तदैव निवेदिता यदैवास्माभिरितो वनं गच्छद्भिः सर्वैरेव कुरुकुलस्य निधनं प्रतिज्ञातम् । लोकेऽपि च धार्तराष्ट्रकुलक्षयः किं लज्जाकरो भवताम् । अपि च रे मूर्ख श्लोक १.१७ युष्मान्ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः । न लज्जयति दाराणां सभायां केशकर्षणम् ॥ १.१७ ॥ ।द्रौपदी। {प्क्त्_१०}*जनान्तिकम्** णाह ण लज्जन्ति एदे । तुमं बि दाव मा विसुमरेहि । स्क्त्छ्_१० नाथ न लज्जन्त एते । त्वमपि तावन्मा विस्मार्षीः । ।भीमसेनः। *सस्मरणम्** वत्स कथं चिरयति पाञ्चाली । ।सहदेवः। आर्य का खलु वेला तत्रभवत्याः प्राप्तायाः । किं तु रोषावेशवशादागताप्यार्येण नोपलक्षिता । ।भीमसेनः। *दृष्ट्वा सादराम्** देवि समुद्धतामर्षैरस्माभिरागतापि भवती नोपलक्षिता । अतो न मन्युं कर्तुमर्हसि । ।द्रौपदी। {प्क्त्_११}णाह उदासीणेसु तुम्हेसु मण्णू ण उण कुबिदेसु । स्क्त्छ्_११ नाथ उदासीनेषु युष्मासु मन्युर्न पुनः कुपितेषु । ।भीमसेनः। यद्येवमपगतपरीभवमात्मानं समर्थयस्व ।*हस्तं गृहीत्वा पार्श्वे समुपवेश्य मुखमवलोक्य** किं पुनरत्रभवतीमुद्विग्नामिवोपलक्षयामि । ।द्रौपदी। {प्क्त्_१२}णाह किमुव्वेअकालणं तुम्हेसु सण्णिहिदेसु । स्क्त्छ्_१२ नाथ किमुद्वेगकारणं युष्मासु संनिहितेषु । ।भीमसेनः। किमिति नावेदयसि ।*केशानवलोक्य** अथ वा किमावेदितेन श्लोक १.१८ जीवत्सु पाण्डुपुत्रेषु दूरमप्रोषितेषु च । पाञ्चालराजतनया वहते यदिमां दशाम् ॥ १.१८ ॥ ।द्रौपदी। {प्क्त्_१३}हञ्जे बुद्धिमदिए णिवेदेहि दाव णाहस्स । को अण्णो मह परिहवेण खिज्जदि । स्क्त्छ्_१३ हञ्जे बुद्धिमतिके निवेदय तावन्नाथस्य । कोऽन्यो मम परीभवेन खिद्यते । ।चेटी। {प्क्त्_१४}जं देवी आणवेदि ।*भीममुपसृत्याञ्जलिं बद्ध्वा** कुमाल इदो बि अहिअमज्ज मण्णुकालणमासी देवीए । स्क्त्छ्_१४ यद्देव्याज्ञापयति । कुमार इतोऽप्यधिकमद्य मन्युकारणमासीद्देव्याः । ।भीमसेनः। किं नामास्मादप्यधिकतरम् । तत्कथय कथय । श्लोक १.१९ कौरव्यवंशदावेऽस्मिन्क एष शलभायते । मुक्तवेणीं स्पृशन्नेनां कृष्णां धूमशिखामिव ॥ १.१९ ॥ ।चेटी। {प्क्त्_१५}सुणादु कुमालो । अज्ज खु देवी अम्बासहिदा सुभद्दप्पमुहेण सबत्तिवग्गेण परिवुदा अज्जाए गन्धालीए पादवन्दणं कादुं गदा आसी । स्क्त्छ्_१५ शृणोतु कमारः । अद्य खलु देव्यम्बासहिता सुभद्राप्रमुखेण सपत्नीवर्गेण परिवृतार्याया गान्धार्याः पादवन्दनं कर्तुं गतासीत् । ।भीमसेनः। युक्तमेतत् । वन्द्याः खलु गुरवः । ततस्ततः । ।चेटी। {प्क्त्_१६}तदो पडिणिउत्तमाणा भाणुमदीए दिट्ठा । स्क्त्छ्_१६ ततः प्रतिनिवर्तमाना भानुमत्या दृष्टा । ।भीमसनः। *सक्रोधम्** आः शत्रोर्भार्यया दृष्टा । हन्त स्थानं क्रोधस्य देव्याः । ततस्ततः । ।चेटी। {प्क्त्_१७}तदो ताए देविं पेक्खिअ सहीवअणदिण्णदिट्ठीए सगव्वमीसि विहसिअ भणिदं । स्क्त्छ्_१७ ततस्तया देवीं प्रेक्ष्य सखीवदनदत्तदृष्ट्या सगर्वमीषद्विहस्य भणितम् । ।भीमसेनः। न केवलं दृष्टोक्ता च । अहो किं कुर्मः । ततस्ततः । ।चेटी। {प्क्त्_१८}ऐ जण्णसेणि पञ्च गामा पत्थीअन्ति त्ति सुणीअदि । कीस दाणिं बि दे केसा ण संजमीअन्ति । स्क्त्छ्_१८ अयि याज्ञसेनि पञ्चग्रामाः प्रार्थ्यन्त इति श्रूयते । कस्मादिदानीमपि ते केशा न संयम्यन्ते । ।भीमसेनः। सहदेव श्रुतम् । ।सहदेवः। किमिहोच्यते । दुर्योधनकलत्रं हि सा । पश्य । श्लोक १.२० स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि । मधुरापि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली ॥ १.२० ॥ ।भीमसेनः। बुद्धिमतिके ततो देव्या किमभिहितम् । ।चेटी। {प्क्त्_१९}कुमाल जै परिजणहीणा भवे तदो देवी भणादि । स्क्त्छ्_१९ कुमार यदि परिजनहीना भवेत्तदा देवी भणति । ।भीमसेनः। किं पुनरभिहितं भवत्या । ।चेटी। {प्क्त्_२०}मए एव्वं भणिदं । ऐ भाणुमदि तुम्हाणममुक्केसु केसेसु कहमम्हाणं देवीए केसा संजमीअन्ति त्ति । स्क्त्छ्_२० मया एवं भणितम् । अयि भानुमति युष्माकममुक्तेषु केशेषु कथमस्माकं देव्याः केशाः संयम्यन्त इति । ।भीमसेनः। *सपरितोषम्** साधु बुद्धिमतिके साधु । तदभिहितं यदस्मत्परिजनोचितम् ।*स्वाभरणानि बुद्धिमतिकायै प्रयच्छति** अत्रभवति पाञ्चालराजतनये श्रूयताम् । अचिरेणैव कालेन श्लोक १.२१ चञ्चद्भुजभ्रमितचण्डगदाभिघात संचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावनद्धघनशोणितशोणपाणि œ रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥ १.२१ ॥ [संध्यङ्ग । वलुए="परिन्यास" रेस्प्="व्६.७१" fरोम्="प्ल्३"] ।द्रौपदी। {प्क्त्_२१}किं णाह दुक्करं तुए परिकुबिदेण । अणुगेण्हन्तु एदं ववसिदं दे भादरो । स्क्त्छ्_२१ किं नाथ दुष्करं त्वया परिकुपितेन । अनुगृह्णन्त्वेतद्व्यवसितं ते भ्रातरः । [संध्यङ्ग । वलुए="विलोभन" रेस्प्="व्६.७२" fरोम्="छ्२१" तो="प्ल्४"] ।सहदेवः। अनुगृहीतमेतदस्माभिः । *नेपथ्ये महान्कलकलः । सर्वे सविस्मयमाकर्णयन्ति** ।भीमसेनः। श्लोक १.२२ मन्थायस्तार्णवाम्भःप्लुतकुहरवलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योऽन्यसंघट्टचण्डः । कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः œ केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताड्यतेऽयम् ॥ १.२२ ॥ *प्रविश्य संभ्रान्तः** ।कञ्चुकी। कुमार एष खलु भगवान्वासुदेवः । *सर्वे कृताञ्जलयः समुत्तिष्ठन्ति** ।भीमसेनः। *ससंभ्रमम्** क्वासौ भगवान् । ।कञ्चुकी। पाण्डवपक्षपातामर्षितेन सुयोधनेन संयन्तुमारब्धः । *सर्वे संभ्रमं नाटयन्ति** ।भीमसेनः। किं संयतः । ।कञ्चुकी। न हि न हि संयन्तुमारब्धः । ।भीमसेनः। किं कृतं देवेन । ।कञ्चुकी। ततः स महात्मा दर्शितविश्वरूपतेजःसंपातमूर्च्छितमवधूय कुरुकुलमस्मच्छिबिरसंनिवेशमनुप्राप्तः । कमारमविलम्बितं द्रष्टुमिच्छति । ।भीमसेनः। *सोपहासम्** किं नाम दुरात्मा सुयोधनो भगवन्तं संयन्तुमिच्छति ।*आकाशे दत्तदृष्टिः** आः दुरात्मन्कुरुकुलपांसन एवमतिक्रान्तमर्यादे त्वयि निमित्तमात्रेण पाण्डवक्रोधेन भवितव्यम् । ।सहदेवः। आर्य किमसौ दुरात्मा सुयोधनो वासुदेवमपि भगवन्तं स्वेन रूपेण न जानाति । ।भीमसेनः। वत्स मूढः खल्वयं दुरात्मा । कथं जानातु । पश्य । श्लोक १.२३ आत्मारामा विहितमतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः । यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्ता œ त्तं मोहान्धः कथमयममुं वेत्तु देवं पुराणम् ॥ १.२३ ॥ आर्य जयंधर किमिदानीमध्यवस्यति गुरुः । ।कञ्चुकी। स्वयमेव गत्वा महाराजस्याध्यवसितं ज्ञास्यति कुमारः । *इति निष्क्रान्तः** *नेपथ्ये कलकलानन्तरम्** भो भो द्रुपदविराटवृष्ण्यन्धकसहदेवप्रभृतयोऽस्मदक्षौहिणीपतयः कौरवचमूप्रधानयोधाश्च शृण्वन्तु भवन्तः । श्लोक १.२४ यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विस्मर्तुमपीहितं शमवता शान्तिं कुलस्येच्छता । तद्द्यूतारणिसंभृतं नृपवधूकेशाम्बराकर्षणैः œ क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते ॥ १.२४ ॥ ।भीमसेनः। *आकर्ण्य । सहर्षम्** जृम्भतां जृम्भतामप्रतिहतप्रसरमार्यस्य क्रोधज्योतिः । ।द्रौपदी। {प्क्त्_२२}णाह किं दाणिमेसो पलअजलहरत्थणिदमंसलो खणे खणे समरदुन्दुही ताडीअदि । स्क्त्छ्_२२ नाथ किमिदानीमेष प्रलयजलधरस्तनितमांसलः क्षणे क्षणे समरदुन्दुभिस्ताड्यते । ।भीमसेनः। देवि किमन्यत् । यज्ञः प्रवर्तते । ।द्रौपदी। {प्क्त्_२३}*सविस्मयम्** को एसो जण्णो । स्क्त्छ्_२३ क एष यज्ञः । ।भीमसेनः। रणयज्ञः । तथा हि श्लोक १.२५ चत्वारो वयमृत्विजः स भगवान्कर्मोपदेष्टा हरिः संग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता । कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं œ राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः ॥ १.२५ ॥ ।सहदेवः। आर्य गच्छामो वयमिदानीं गुरुजनानुज्ञाप्ता किक्रमानुरूपमाचरितुम् । ।भीमसेनः। वत्स एते वयमुद्यता एवार्यस्यानुज्ञानमनुष्ठातुम् ।* उत्थाय** देवि गच्छामो वयमिदानीं कुरुकुलक्षयाय । ।द्रौपदी। {प्क्त्_२४}*बाष्पं धारयन्ती** णाह असुरसमराहिमुहस्स हरिणो विअ मङ्गलं तुम्हाणं होदु । स्क्त्छ्_२४ नाथ असुरसमराभिमुखस्य हरेरिव मङ्गलं युष्माकं भवतु । ।उभौ। प्रतिगृहीतं मङ्गलवचनमस्माभिः । ।द्रौपदी। {प्क्त्_२५}अण्णं च णाह पुणो बि तुम्हेहिं समरादो आअच्छिअ अहं समासासैदव्वा । स्क्त्छ्_२५ अन्यच्च नाथ पुनरपि युष्माभिः समरादागत्याहं समाश्वासयितव्या । ।भीमसेनः। ननु पाञ्चालराजतनये किमद्याप्यलीकाश्वासनया । श्लोक १.२६ भूयः परिभवक्लान्तिलज्जाविधुरिताननम् । अनिःशेषितकौरव्यं न पश्यसि वृकोदरम् ॥ १.२६ ॥ ।द्रौपदी। {प्क्त्_२६}णाह मा खु मा खु जण्णसेणीपरिहवुद्दीबिदकोबाणला अणवेक्खिदसरीरा संचरिस्सह । जदो अप्पमत्तसंचरणिज्जाइं रिउबलाइं सुणीअन्ति । स्क्त्छ्_२६ नाथ मा खलु मा खलु याज्ञसेनीपरिभवोद्दीपितकोपानला अनपेक्षितशरीराः संचरिष्यथ । यतोऽप्रमत्तसंचरणीयानि रिपुबलानि श्रूयन्ते । ।भीमसेनः। अयि सुक्षत्रिये श्लोक १.२७ अन्योऽन्यास्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के मग्नानां स्यन्दनानामुपरिकृतपदन्यासविक्रान्तपत्तौ । स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कबन्धे œ संग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥ १.२७ ॥ *इति निष्क्रान्ताः सर्वे** इति प्रथमोऽङ्कः । अच्त्_२ द्वितीयोऽङ्कः । *ततः प्रविशति कञ्चुकी** ।कञ्चुकी। आदिष्टोऽस्मि महाराजदुर्योधनेन । विनयंधर सत्वरं गच्छ त्वम् । अन्विष्यतां देवी भानुमती । अपि निवृत्ताम्बायाः पादवन्दनसमयान्न वेति । यतस्तां विलोक्य निहताभिमन्यवो राधेयजयद्रथप्रभृतयोऽस्मत्सेनापतयः समरभूमिं गत्वा सभाजयितव्या इति । तन्मया द्रुततरं गन्तव्यम् । अहो प्रभविष्णुता महाराजस्य यन्मम जरसाभिभूतस्य मर्यादामात्रमेवावरोधव्यापारः । अथ वा किमिति जरामुपालभेय यतः सर्वान्तःपुरिकाणामेव व्यावहारिको वेषश्चेष्टा च । तथा हि श्लोक २.१ नोच्चैः सत्यपि चक्षुषीक्षितमलं श्रुत्वापि नाकर्णितं शक्तेनाप्यधिकार इत्यधिकृता यष्टिः समालम्बिता । सर्वत्र स्खलितेषु दत्तमनसा यातं मया नोद्धतं œ सेवास्वीकृतजीवितस्य जरसा किं नाम यन्मे कृतम् ॥ २.१ ॥ *परिक्रम्य दृष्ट्वाकाशे** विहंगिके अपि श्वश्रूजनपादवन्दनं कृत्वा प्रतिनिवृत्ता भानुमती ।*कर्णं दत्त्वा** किं कथयसि । एषा भानुमती देवी पत्युः समरविजयाशंसया निर्वर्तितगुरुदेवपादवन्दनाद्यप्रभृत्यारब्धनियमा बालोद्याने तिष्ठतीति । तद्भद्रे गच्छ त्वमात्मव्यापाराय यावदहमप्यत्रस्थां देवीं महाराजाय निवेदयामि ।*इति परिक्रम्य** साधु पतिव्रते साधु स्त्रीभावेऽपि वर्तमाना वरं भवती न पुनर्महाराजः योऽयमुद्यतेषु बलवत्स्वबलवत्सु वा वासुदेवसहायेषु पाण्डुपुत्रेष्वरिष्वद्याप्यन्तःपुरविहारमनुभवति ।*विचिन्त्य** इदमपरमयथातथं स्वामिनश्चेष्टितम् । कुतः श्लोक २.२ आ शस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः । प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो œ बालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात् ॥ २.२ ॥ सर्वथा दैवं नः स्वस्ति करिष्यति । तद्यावदत्रस्थां देवीं महाराजाय निवेदयामि ।*इति निष्क्रान्तः** विष्कम्भकः । *ततः प्रविशत्यासनस्था देवी भानुमती सखी चेटी च** ।सखी। {प्क्त्_२७}सहि भाणुमदि कीस दाणिं तुमं सिबिणअदंसणमेत्तस्स किदे अहिमाणिणो महाराअदुज्जोहणस्स महिसी भविअ एव्वं विअलिअधीरभावा अदिमेत्तं संतप्पसि । स्क्त्छ्_२७ सखि भानुमति कस्मादिदानीं त्वं स्वप्नदर्शनमात्रस्य कृतेऽभिमानिनो महाराजदुर्योधनस्य महिषी भूत्वैवं विगलितधीरभावातिमात्रं संतप्यसे । ।चेटी। {प्क्त्_२८}भट्टिणि सोहणं भणादि सुवअणा । सिबिणअन्तो जणो किं ण खु पलबदि । स्क्त्छ्_२८ भट्टिनि शोभनं वदति सुवदना । स्वपञ्जनः किं न खलु प्रलपति । ।भानुमती। {प्क्त्_२९}हञ्जे एव्वमेदं । किं दु एदं सिबिणअमदिमेत्तमकुसलदंसणं मे पडिभादि । स्क्त्छ्_२९ हञ्जे एवमेतत् । किं त्वयं स्वप्नोऽतिमात्रमकुशलदर्शनो मे प्रतिभाति । ।सखी। {प्क्त्_३०}पिअसहि जै एव्वं ता कहेहि सिबिणअं जेण अम्हे बि पडिट्ठाबअन्तीओ धम्मप्पसंसाए देवदासंकित्तणेण दुव्वादिपडिग्गहेण अ पडिहडिस्सामो । स्क्त्छ्_३० प्रियसखि यद्येवं तत्कथय स्वप्नं येनावामपि प्रतिष्ठापयन्त्यौ धर्मप्रशंसया देवतासंकीर्तनेन दूर्वादिपरिग्रहेण च परिहरिष्यावः । ।चेटी। {प्क्त्_३१}सोहणं क्खु भणादि सुवअणा । अकुसलदंसणा सिबिणआ देवदाणं पसंसाए कुसलपरिणामा होन्ति त्ति सुणीअदि । स्क्त्छ्_३१ शोभनं खलु भणति सुवदना । अकुशलदर्शनाः स्वप्ना देवतानां प्रशंसया कुशलपरिणामा भवन्तीति श्रूयते । ।भानुमती। {प्क्त्_३२}जै एव्वं ता कहैस्सं । अवहिदा दाव होहि । स्क्त्छ्_३२ यद्येवं तत्कथयिष्ये । अवहिता तावद्भव । ।सखी। {प्क्त्_३३}अवहिदम्हि । कहेदु पिअसही । स्क्त्छ्_३३ अवहितास्मि । कथयतु प्रियसखी । ।भानुमती। {प्क्त्_३४}हला भएण विसुमरिदम्हि । ता चिट्ठ जाव सव्वं सुमरिअ कहैस्सं ।*इति चिन्तां नाटयति** स्क्त्छ्_३४ हला भयेन विस्मृतास्मि । तत्तिष्ठ यावत्सर्वं स्मृत्वा कथयिष्यामि । *ततः प्रविशति दुर्योधनः कञ्चुकी च** ।दुर्योधनः। सूक्तमिदं कस्यचित् । श्लोक २.३ गुप्त्या साक्षान्महानल्पः स्वयमन्येन वा कृतः । करोति महतीं प्रीतिमपकारोऽपकारिणाम् ॥ २.३ ॥ येनाद्य द्रोणकर्णजयद्रथादिभिर्हतमभिमन्युमुपश्रुत्य समुच्छ्वासितमिव नश्चेतसा । ।कञ्चुकी। देव नेदमतिदुष्करमाचार्यशस्त्रप्रभावाणां कर्णजयद्रथयोर्वा । का नामात्र श्लाघा । ।राजा। विनयंधर किमाह भवान् । एको बहुभिर्बालो लूनशरासनश्च निहत इत्यत्र का श्लाघा कुरुपुंगवानामिति । मूढ पश्य । श्लोक २.४ हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् । या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥ २.४ ॥ ।कञ्चुकी। *सवैलक्ष्यम्** देव न ममायं संकल्पः । किं तु भवत्पौरुषप्रतीघातोऽस्माभिर्नावलोकितपूर्व इत्यत एवं विज्ञापयामि । ।राजा। एवमिदम् । श्लोक २.५ सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् । स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतः सुयोधनम् ॥ २.५ ॥ ।कञ्चुकी। *कर्णौ पिधाय सभयम्** शान्तं पापम् । प्रतिहतममङ्गलम् । ।राजा। विनयंधर किं मयोक्तम् । ।कञ्चुकी। *सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् । स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतं सुयोधनः ॥ इति पठति** एतद्विपरीतमभिहितं देवेन । ।राजा। विनयंधर अद्य खलु भानुमती यथापूर्वं मामनामन्त्र्य वासभवनात्प्रातरेव निष्क्रान्तेति व्याक्षिप्तं मे मनः । तदादेशय तमुद्देशं यत्रस्था भानुमती । ।कञ्चुकी। इत इतो देवः । *उभौ परिक्रामतः** ।कञ्चुकी। *पुरोऽवलोक्य समन्ततो गन्धमाघ्राय** देव पश्य पश्य । एतत्तुहिनकणशिशिरसमीरणोद्वेल्लितबन्धनच्युतशेफालिकाविरचितकुसुमप्रकरमीषदालोहितमुग्धवधूकपोलपाटललोध्रप्रसूनविजितश्यामलतासौभाग्यमुन्मीलितबकुलकुन्दकुसुमसुरभिशीतलं प्रभातकालरमणीयमग्रतस्ते बालोद्यानम् । तदवलोकयतु देवः । तथा हि श्लोक २.६ प्रालेयमिश्रमकरन्दकरालकोशैः पुष्पैः समं निपतिता रजनीप्रबुद्धैः । अर्कांशुभिन्नमुकुलोदरसान्द्रगन्ध œ संसूचितानि कमलान्यलयः पतन्ति ॥ २.६ ॥ ।राजा। *समन्तादवलोक्य** विनयंधर इदमपरममुष्मिन्नुषसि रमणीयम् । पश्य । श्लोक २.७ जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टै र्हस्तैर्भानोर्नृपतय इव स्पृश्यमाना विबुद्धाः । स्त्रीभिः सार्धं घनपरिमलस्तोकलक्ष्याङ्गरागा œ मुञ्चन्त्येते विकचनलिनीगर्भशय्यां द्विरेफाः ॥ २.७ ॥ ।कञ्चुकी। देव नन्वेषा देवी भानुमती सुवदनया तरलिकया च पर्युपास्यमाना तिष्ठति । तदुपसर्पतु देवः । ।राजा। *दृष्ट्वा** आर्य विनयंधर गच्छ त्वं सांग्रामिकं मे रथमुपकल्पयितुम् । अहमप्येष देवीं दृष्ट्वानुपदमागत एव । ।कञ्चुकी। एष कृतो देवादेशः ।*इति निष्क्रान्तः** ।सखी। {प्क्त्_३५}पिअसहि अबि सुमरिदं तुए । स्क्त्छ्_३५ प्रियसखि अपि स्मृतं त्वया । ।भानुमती। {प्क्त्_३६}सहि सुमरिदं । अज्ज किल पमदवणे आसीणाए मम अग्गदो केण बि अदिसैददिव्वरूबिणा णौलेण अहिसदं वाबादिदं । स्क्त्छ्_३६ सखि स्मृतम् । अद्य किल प्रमदवन आसीनाया ममाग्रतः केनाप्यतिशयितदिव्यरूपिणा नकुलेनाहिशतं व्यापादितम् । ।उभे। {प्क्त्_३७}*अपवार्यात्मगतम्** सन्तं पाबं पडिहदममङ्गलं ।*प्रकाशम्** तदो तदो । स्क्त्छ्_३७ शान्तं पापं प्रतिहतममङ्गलम् । ततस्ततः । ।भानुमती। {प्क्त्_३८}अदिसंदाबोबगहीअहिअआए विसुमरिदं मए । ता पुणो बि सुमरिअ कहैस्सं । स्क्त्छ्_३८ अतिसंतापोपगृहीतहृदयया विस्मृतं मया । तत्पुनरपि स्मृत्वा कथयिष्ये । ।राजा। अहो देवी भानुमती सुवदनातरलिकाभ्यां सह किमपि मन्त्रयमाणा तिष्ठति । भवतु । अनेन लताजालेनान्तरितः शृणोमि तावदासां विश्रब्धालापम् ।*इति तथा स्थितः** ।सखी। {प्क्त्_३९}सहि अलं संदाबेण । कहेदु पिअसही । स्क्त्छ्_३९ सखि अलं संतापेन । कथयतु प्रियसखी । ।राजा। किं नु खल्वस्याः संतापकारणम् । अथ वानामन्त्र्य मामियमद्य वासभवनान्निष्क्रान्तेति समर्थित एवास्या मया कोपः । अयि भानुमति अविषयः खलु दुर्योधनो भवत्याः कोपस्य । श्लोक २.८ किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तनेष्वभिमुखं नाद्यासि संभाविता । अन्यस्त्रीजनसंकथालघुरहं स्वप्ने त्वया लक्षितो œ दोषं पश्यसि कं प्रिये परिजनोपालम्भयोग्ये मयि ॥ २.८ ॥ *विचिन्त्य** अथ वा श्लोक २.९ इयमस्मदुपाश्रयैकचित्ता मनसा प्रेमनिबद्धमत्सरेण । नियतं कुपितातिवल्लभत्वात्स्वयमुत्प्रेक्ष्य ममापराधलेशम् ॥ २.९ ॥ तथापि शृणुमस्तावत्किं वक्ष्यतीति । ।भानुमती। {प्क्त्_४०}हला हं तदो तस्स अदिसैददिव्वरूबिणो णौलस्स दंसणेण उस्सुआ जादा । स्क्त्छ्_४० हला अहं ततस्तस्यातिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता । ।राजा। *सवैलक्ष्यम्** किं नामातिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता । तत्किमनया पापया माद्रीसुतानुरक्तया वयमेवं विप्रलब्धाः ।*सोत्प्रेक्षमियमस्मदिति पठित्वा** मूढ दुर्योधन कुलटाविप्रलभ्यमानमात्मानं बहुमन्यमानोऽधुना किं वक्ष्यसि ।*किं कण्ठ इत्यादि पठित्वा दिशोऽवलोक्य** अहो एतदर्थमेवास्याः प्रातरेव विविक्तस्थानाभिलाषः सखीजनसंकथासु च पक्षपातः । दुर्योधनस्तु मोहादविज्ञातबन्धकीहृदयसारः क्वापि परिभ्रान्तः । आः पापे मत्परिग्रहपांसुले श्लोक २.१० तद्भीरुत्वं तव मम पुरः साहसानीदृशानि श्लाघा सास्मद्वपुषि विनयव्युत्क्रमेऽप्येष रागः । तच्चौदार्यं मयि जडमतौ चापले कोऽपि पन्थाः œ ख्याते तस्मिन्वितमसि कुले जन्म कौलीनमेतत् ॥ २.१० ॥ ।सखी। {प्क्त्_४१}तदो तदो । स्क्त्छ्_४१ ततस्ततः । ।भानुमती। {प्क्त्_४२}तदो उज्झिअ तमासणट्ठाणं लदामण्डबं पविट्ठा । तदो सो बि ममणुसरन्तो एव्व लदामण्डबं पविट्ठो । स्क्त्छ्_४२ तत उज्झित्वा तदासनस्थानं लतामण्डपं प्रविष्टा । ततः सोऽपि मामनुसरन्नेव लतामण्डपं प्रविष्टः । ।राजा। अहो कुटलोचितमस्याः पापाया अशालीनत्वम् । श्लोक २.११ यस्मिंश्चिरप्रणयनिर्भरबद्धभाव मावेदितो रहसि मत्सुरतोपभोगः । तत्रैव दुश्चरितमद्य निवेदयन्ती œ ह्रीणासि पापहृदये न सखीजनेऽस्मिन् ॥ २.११ ॥ ।उभे। {प्क्त्_४३}तदो तदो । स्क्त्छ्_४३ ततस्ततः । ।भानुमती। {प्क्त्_४४}तदो तेण सगव्वं पसारिअकरेण अपहरिअं मे थणंसुअं । स्क्त्छ्_४४ ततस्तेन सगर्वं प्रसारितकरेणापहृतं मे स्तनांशुकम् । ।राजा। *विचिन्त्य** सगर्वं प्रसारितकरेणापहृतं मे स्तनांशुकम् ।*सक्रोधम्** अलमतः परं श्रुत्वा । भवतु तावत्तस्य परवनितास्कन्दनप्रगल्भस्य माद्रीसुतहतकस्य जीवितमपहरामि ।*किंचिद्गत्वा विचिन्त्य** अथ वेयमेव तावत्पापशीला प्रथममनुशासनीया ।*इति निवर्तते** ।उभे। {न्_४५}तदो तदो । स्क्त्छ्_४५ ततस्ततः । ।भानुमती। {प्क्त्_४६}तदो हमज्जौत्तस्स पभादमङ्गलतूररवमिस्सेण वारविलासिणीसंगीदसद्देण पडिबोधिदम्हि । स्क्त्छ्_४६ ततोऽहमार्यपुत्रस्य प्रभातमङ्गलतूर्यरवमिश्रेण वारविलासिनीसंगीतशब्देन प्रतिबोधितास्मि । ।राजा। *सवितर्कम्** किं नु प्रतिबोधितास्मीति स्वप्नदर्शनमनया वर्णितं भवेत् ।*विचिन्त्य** भवतु सखीवचनाद्व्यक्तिर्भविष्यति । *उभे सविषादमन्योऽन्यं पश्यतः** ।सुवदना। {प्क्त्_४७}जं किं बि एत्थ अच्चाहिदं तं भाईरहीप्पमुहाणं णईणं सलिलेण अवहरीअदु । भअवदाणं बम्हणाणं बि आसीसाए आहुदिहुदेण पज्जलिदेण भअवदा हुदासणेण अ णस्सदु । स्क्त्छ्_४७ यत्किमप्यत्रात्याहितं तद्भागीरथीप्रमुखाणां नदीनां सलिलेनापह्रियताम् । भगवतां ब्राह्मणानामप्याशिषाहुतिहुतेन प्रज्वलितेन भगवता हुताशनेन च नश्यतु । ।राजा। अलं विकल्पेन । स्वप्नदर्शनमेवैतदनया वर्णितम् । मया पुनर्मन्दधियान्यथैव संभावितम् । श्लोक २.१२ दिष्ट्यार्धश्रुतिविप्रलम्भजनितक्रोधादहं नो गतो दिष्ट्या नो परुषं रुषार्धकथने किंचिन्मया व्याहृतम् । मां प्रत्याययितुं विमूढहृदयं दिष्ट्या कथान्तं गता œ मिथ्यादूषितयानया विरहितं दिष्ट्या न जातं जगत् ॥ २.१२ ॥ ।भानुमती। {प्क्त्_४८}हला कहेहि किमेत्थ सुहसूअअं । स्क्त्छ्_४८ हला कथय किमत्र शुभसूचकम् । ।सखी चेटी च। {प्क्त्_४९}*अन्योऽन्यमवलोक्यापवार्य** एत्थ णत्थि थोअं बि सुहसूअअं । जै एत्थ अलीअं कहैस्सं ता पिअसहीए अबराहिणी भविस्सं । सो एव्व सिणिद्धो जणो जो पुच्छिदो परुसं बि हिदं भणादि ।*प्रकाशम्** सहि सव्वमेव्व एदमसुहणिवेदणं । ता देवदाणं पणामेण दुजादिजणपडिग्गहेण अ अन्तरीअदु । ण हु दाठिणो णौलस्स वा दंसणमहिसदवहम सिबिणए पसंसन्ति विअक्खणा । स्क्त्छ्_४९ अत्र नास्ति स्तोकमपि शुभसूचकम् । यद्यत्रालीकं कथयिष्ये तत्प्रियसख्या अपराधिनी भविष्यामि । स एव स्निग्धो जनो यः पृष्टः परुषमपि हितं भणति । सखि सर्वमेवैतदशुभनिवेदनम् । तद्देवतानां प्रणामेन द्विजातिजनप्रतिग्रहेण चान्तर्यताम् । न खलु दंष्ट्रिणो नकुलस्य वा दर्शनमहिशतवधं च स्वप्ने प्रशंसन्ति विचक्षणाः । ।राजा। अवितथमाह सुवदना । नकुलेन पन्नगशतवधः स्तनांशुकापहरणं च नियतमरिष्टोदर्कं तर्कयामि । श्लोक २.१३ पर्यायेण हि दृश्यन्ते स्वप्नाः कामं शुभाशुभाः । शतसंख्या पुनरियं सानुजं स्पृशतीव माम् ॥ २.१३ ॥ *वामाक्षिस्पन्दनं सूचयित्वा** आः ममापि नाम दुर्योधनस्यानिमित्तानि हृदयक्षोभमावेदयन्ति ।*सावष्टम्भम्** अथ वा भीरुजनहृदयप्रकम्पनेषु का गणना दुर्योधनस्यैवंविधेषु । गीतश्चायमर्थोऽङ्गिरसा । श्लोक २.१४ ग्रहाणां चरितं स्वप्नोऽनिमित्तान्युपयाचितम् । फलन्ति काकतालीयं तेभ्यः प्राज्ञा न बिभ्यति ॥ २.१४ ॥ तद्भानुमत्याः स्त्रीस्वभावसुलभामलीकाशङ्कामपनयामि । ।भानुमती। {प्क्त्_५०}हला सुवअणे पेक्ख दाव उदअगिरिसिहरन्तरिदविमुक्करहवरो विअलिदसंझाराअप्पसण्णदुरालोअमण्डलो जादो भअवं दिअहणाहो । स्क्त्छ्_५० हला सुवदने पश्य तावदुदयगिरिशिखरान्तरितविमुक्तरथवरो विगलितसंध्यारागप्रसन्नदुरालोकमण्डलो जातो भगवान्दिवसनाथः । ।सखी। {प्क्त्_५१}सहि रोसाणिदकणअपत्तसरिसेण लदाजालन्तरोबहिदकिरणणिवहेण पिञ्जरिदुज्जाणभूमिभाओ दुप्पेक्खणिज्जो भअवं सहस्सरस्सी संवुत्तो । ता समओ दे लोहिदचन्दणकुसुमगब्भेण अग्घेण पज्जुबट्ठादुं । स्क्त्छ्_५१ सखि रोषाणितकनकपत्रसदृशेन लताजालान्तरोपहितकिरणनिवहेन पिञ्जरितोद्यानभूमिभागो दुःप्रेक्षणीयो भगवान्सहस्ररश्मिः संवृत्तः । तत्समयस्ते लोहितचन्दनकुसुमगर्भेणार्घेण पर्युपस्थातुम् । ।भानुमती। {प्क्त्_५२}हञ्जे तरलिए उबणेहि मे अग्घभाअणं जाव भअवदो सहस्सरस्सिणो सबरिअं णिव्वत्तेमि । स्क्त्छ्_५२ हञ्जे तरलिके उपनय मेऽर्घ्यभाजनं यावद्भगवतः सहस्ररश्मेः सपर्यां निर्वर्तयामि । ।चेटी। {प्क्त्_५३}जं देवी आणबेदि ।*इति निष्क्रान्ता** स्क्त्छ्_५३ यद्देव्याज्ञापयति । ।राजा। अयमेव साधुतरोवसरः प्रियासमीपमुपगन्तुम् ।*इत्युपसर्पति** *प्रविश्य** ।चेटी। {प्क्त्_५४}भट्टिणि एदमग्घभाअणं । ता णिव्वत्तीअदु भअवदो सहस्सरस्सिणो सबरिआ । स्क्त्छ्_५४ भट्टिनि इदमर्घ्यभाजनम् । तन्निवर्त्यतां भगवतः सहस्ररश्मेः सपर्या । ।सखी। {प्क्त्_५५}*विलोक्यात्मगतम्** कहं महाराओ आअदो । हन्त जादो से णिअमभङ्गो । स्क्त्छ्_५५ कथं महाराज आगतः । हन्त जातोऽस्या नियमभङ्गः । *राजोपसृत्य संज्ञया परिजनमुत्सार्य स्वयमेवार्घ्यपात्रं गृहीत्वा ददाति** ।भानुमती। {प्क्त्_५६}*दिनकराभिमुखी भूत्वा** भअवमम्बरमहासरेक्कसहस्सपत्त पुव्वदिहावहूमुहमण्डलकुङ्कुमविसेसअ सअलभुअणेक्करअणप्पदीब जमेत्थ सिबिणअदंसणे किं बि अच्चाहिदं तं भअवदो पणामेण सभादुअस्स अज्जौत्तस्स कुसलपरिणामि होदु ।*अर्घ्यं दत्त्वा** हञ्जे तरलिए उबणेहि मे कुसुमाइं । अबराणं बि देवदाणं सबरिअं णिव्वत्तेमि ।*हस्तौ प्रसारयति** स्क्त्छ्_५६ भगवन्नम्बरमहासरएकसहस्रपत्र पूर्वदिशावधूमुखमण्डलकुङ्कुमविशेषक सकलभुवनैकरत्नप्रदीप यदत्र स्वप्नदर्शने किमप्यत्याहितं तद्भगवतः प्रणामेन सभ्रातृकस्यार्यपुत्रस्य कुशलपरिणामि भवतु । हञ्जे तरलिके उपनय मे कुसुमानि । अपरासामपि देवतानां सपर्यां निर्वर्तयामि । *राजा पुष्पाण्युपनयति स्पर्शसुखमभिनीय च कुसुमानि भूमौ पातयति** ।भानुमती। {प्क्त्_५७}*सरोषम्** अहो पमादो परिअणस्स ।*परिवृत्य दृष्ट्वा ससंभ्रमम्** कहमज्जौत्तो । स्क्त्छ्_५७ अहो प्रमादः परिजनस्य । कथमार्यपुत्रः । ।राजा। देवि अनिपुणः परिजनोऽयमेवंविधे सेवावकाशे । तत्प्रभवत्यत्रानुशासने देवी । *भानुमती लज्जां नाटयति** ।राजा। अयि प्रिये श्लोक २.१५ विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः परिजनपथवर्तिन्यत्र किं संभ्रमेण । स्मितमधुरमुदारं देवि मामालपोच्चैः œ प्रभवति मम पाण्योरञ्जलिः सेवितुं त्वाम् ॥ २.१५ ॥ ।भानुमती। {प्क्त्_५८}अज्जौत्त अब्भणुण्णादाए तुए अत्थि मे कस्सिं बि णिअमे अहिलासो । स्क्त्छ्_५८ आर्यपुत्र अभ्यनुज्ञातायास्त्वयास्ति मे कस्मिन्नपि नियमेऽभिलाषः । ।राजा। श्रुतविस्तार एवास्मि भवत्याः स्वप्नवृत्तान्तं प्रति । तदलमेवं प्रकृतिसुकुमारमात्मानं खेदयितुम् । ।भानुमती। {प्क्त्_५९}अज्जौत्त अदिमेत्तं मे सङ्का बाहेइ । ता अणुमण्णदु ममज्जौत्त । स्क्त्छ्_५९ आर्यपुत्र अतिमात्रं मां शङ्का बाधते । तदनुमन्यतां मामार्यपुत्रः । ।राजा। *सगर्वम्** देवि अलमनया शङ्कया । पश्य । श्लोक २.१६ किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं किं द्रोणेन किमङ्गराजविशिखैरेवं यदि क्लाम्यसि । भीरु भ्रातृशतस्य मे भुजवनच्छायां सुखोपस्थिता œ त्वं दुर्योधनकेसरीन्द्रगृहिणी शङ्कास्पदं किं तव ॥ २.१६ ॥ ।भानुमती। {प्क्त्_६०}अज्जौत्त ण हु किं बि मे सङ्काकालणं तुम्हेसु सण्णिहिदेसु । किं तु अज्जौत्तस्स एव्व मणोरहसंपत्तिमभिणन्दामि । स्क्त्छ्_६० आर्यपुत्र न खलु किमपि मे शङ्काकारणं युष्मासु संनिहितेषु । किं त्वार्यपुत्रस्यैव मनोरथसंपत्तिमभिनन्दामि । ।राजा। अयि सुन्दरि एतावन्त एव मनोरथा यदहं दयितया संगतः स्वेच्छया विहरामीति । पश्य । श्लोक २.१७ प्रेमाबद्धस्तिमितनयनापीयमानाब्जशोभं लज्जायोगादविशदकथं मन्दमन्दस्मितं वा । वक्त्रेन्दुं ते नियममुषितालक्तकाग्राधरं वा । œ पातुं वाञ्छा परमसुलभं किं नु दुर्योधनस्य ॥ २.१७ ॥ *नेपथ्ये महान्कलकलः । सर्व आकर्णयन्ति** ।भानुमती। {प्क्त्_६१}*सभयं राजानं परिष्वज्य** परित्ताअदु परित्ताअदु अज्जौत्तो । स्क्त्छ्_६१ परित्रायतां परित्रायतामार्यपुत्रः । ।राजा। *समन्तादवलोक्य** प्रिये अलं संभ्रमेण । पश्य । श्लोक २.१८ दिक्षु व्यूढाङ्घ्रिपाङ्गस्तृणजटिलचलत्पांशुदण्डोऽन्तरिक्षे झांकारी शर्करालः पथिषु विटपिनां स्कन्धकाषैः सधूमः । प्रासादानां निकुञ्जेष्वभिनवजलदोद्गारगम्भीरधीर œ श्चण्डारम्भः समीरो वहति परिदिशं भीरु किं संभ्रमेण ॥ २.१८ ॥ ।सखी। {प्क्त्_६२}महाराओ पविसदु एदं दारुपव्वअपासादं । उव्वेअकारी खु अअमुत्थिदपरुसरअकलुसीकिदणअणो उम्मूलिदतरुवरसद्दवित्तत्थमन्दुरापरिब्भट्ठवल्लहतुलंगमपज्जाउलीकिदजणपद्धई भीसणो समीरणासारो । स्क्त्छ्_६२ महाराजः प्रविशत्विमं दारुपर्वतप्रासादम् । उद्वेगकारी खल्वयमुत्थितपरुषरजःकलुषीकृतनयन उन्मूलिततरुवरशब्दवित्रस्तमन्दुरापरिभ्रष्टवल्लभतुरंगमपर्याकुलीकृतजनपद्धतिर्भीषणः समीरणासारः । ।राजा। *सहर्षम्** उपकारि खल्विदं वात्याचक्रं सुयोधनस्य । यस्य प्रसादादयत्नपरित्यक्तनियमया देव्या संपादितोऽस्मन्मनोरथः । कथमिति । श्लोक २.१९ न्यस्ता न भ्रुकुटिर्न बाष्पसलिलैराच्छादिते लोचने नीतं नाननमन्यतः सशपथं नाहं स्पृशन्वारितः । तन्व्या मग्नपयोधरं भयवशादाबद्धमालिङ्गितं œ भङ्क्तास्या नियमस्य भीषणमरुन्नायं वयस्यो मम ॥ २.१९ ॥ तत्संपूर्णमनोरथस्य मे कामचारः संप्रति विहारेषु । तदितो दारुपर्वतप्रासादमेव गच्छामः । *सर्वे वात्याबाधां रूपयन्तो यत्नतः परिक्रामन्ति** ।राजा। श्लोक २.२० कुरु घनोरु पदानि शनैः शनैरयि विमुञ्च गतिं परिवेपिनीम् । पतसि बाहुलतोपरिबन्धनं मम निपीडय गाढमुरःस्थलम् ॥ २.२० ॥ *प्रवेशं रूपयित्वा** प्रिये अलब्धावकाशः समीरणः संवृतत्वाद्गर्भगृहस्य । विस्रब्धमुन्मीलय चक्षुरुन्मृष्टरेणुनिकरम् । ।भानुमती। {प्क्त्_६३}*सहर्षम्** दिट्ठिआ इह दाव उप्पादसमीरणो ण बाधेदि । स्क्त्छ्_६३ दिष्ट्येह तावदुत्पातसमीरणो न बाधते । ।सखी। {प्क्त्_६४}महाराअ आरोहणसंभमणिस्सहं पिअसहीए ऊरुजुअलं । ता कीस दाणिं महाराओ आसणवेदिं ण भूसेदि । स्क्त्छ्_६४ महाराज आरोहणसंभ्रमनिःसहं प्रियसख्या ऊरुयुगलम् । तत्कस्मादिदानीं महाराज आसनवेदीं न भूषयति । ।राजा। *देवीमवलोक्य** भवति अनल्पमेवापकृतं वात्यासंभ्रमेण । तथा हि श्लोक २.२१ रेणुर्बाधां विधत्ते तनुरपि महतीं नेत्रयोरायतत्वा दुत्कम्पोऽल्पोऽपि पीनस्तनभरितमुरः क्षिप्तहारं दुनोति । ऊर्वोर्मन्देऽपि याते पृथुजघनभराद्वेपथुर्वर्धतेऽस्या œ वात्या खेदं कृशाङ्गयाः सुचिरमवयवैर्दत्तहस्ता करोति ॥ २.२१ ॥ *सर्व उपविशन्ति** ।राजा। तत्किमित्यनास्तीर्णं कठिनं शिलातलमध्यास्ते देवी । श्लोक २.२२ लोलांशुकस्य पवनाकुलितांशुकान्तं त्वद्दृष्टिहारि मम लोचनबान्धवस्य । अध्यासितुं तव चिरं जघनस्थलस्य œ पर्याप्तमेव करभोरु ममोरुयुग्मम् ॥ २.२२ ॥ *प्रविश्य पटाक्षेपेण संभ्रान्तः** ।कञ्चुकी। देव भग्नं भग्नम् । *सर्वे सातङ्कं पश्यन्ति** ।राजा। किं नाम । ।कञ्चुकी। भग्नं भीमेन । ।राजा। आः किं प्रलपसि । ।भानुमती। {प्क्त्_६५}अज्ज किमणत्थं मन्तेसि । स्क्त्छ्_६५ आर्य किमनर्थं मन्त्रयसे । ।कञ्चुकी। *सभयम्** ननु भग्नं भीमेन भवतः । ।राजा। धिक्प्रलापिन्वृद्धापसद कोऽयमद्य ते व्यामोहः । ।कञ्चुकी। देव न खलु कश्चिद्व्यामोहः । सत्यमेव ब्रवीमि । श्लोक २.२३ भग्नं भीमेन भवतो मरुता रथकेतनम् । पतितं किङ्किणीक्वाणबद्धाक्रन्दमिव क्षितौ ॥ २.२३ ॥ ।राजा। बलवत्समीरणवेगात्कम्पिते भुवने भग्नः स्यन्दनकेतुः । तत्किमित्युद्धतं प्रलपसि भग्नं भग्नमिति । ।कञ्चुकी। देव न किंचित् । किं तु शमनार्थमस्यानिमित्तस्य विज्ञापयितव्यो देव इति स्वामिभक्तिर्मां मुखरयति । ।भानुमती। {प्क्त्_६६}अज्जौत्त परिहरीअदु एदमणिमित्तं पसण्णबम्हणवेआणुघोसेण होमेण अ । स्क्त्छ्_६६ आर्यपुत्र परिहार्यतामेतदनिमित्तं प्रसन्नब्राह्मणवेदानुघोषेण होमेन च । ।राजा। *सावज्ञम्** ननु गच्छ । पुरोहितसुमित्राय निवेदय । ।कञ्चुकी। यदाज्ञापयति देवः ।*इति निष्क्रान्तः** *प्रविश्य** ।प्रतीहारी। {प्क्त्_६७}*सोद्वेगमुपसृत्य** जअदु जअदु महाराओ । महाराअ एसा खु जामादुणो सिन्धुराअस्स मादा दुस्सला अ पडिहारभूमीए चिट्ठदि । स्क्त्छ्_६७ जयतु जयतु महाराजः । महाराज एषा खलु जामातुः सिन्धुराजस्य माता दुःशला च प्रतीहारभूमौ तिष्ठति । ।राजा। *किंचिद्विचिन्त्यात्मगतम्** किं जयद्रथमाता दुःशला चेति । कच्चिदभिमन्युवधामर्षितैः पाण्डुपुत्रैर्न किंचिदत्याहितमाचेष्टितं भवेत् ।*प्रकाशम्** गच्छ । प्रवेशय शीघ्रम् । ।प्रतीहारी। {प्क्त्_६८}जं महाराओ आणबेदि ।*इति निष्क्रान्तः** स्क्त्छ्_६८ यन्महाराज आज्ञापयति । *ततः प्रविशति संभ्रान्ता जयद्रथमाता दुःशला च । उभे सास्रं दुर्योधनस्य पादयोः पततः** ।माता। {प्क्त्_६९}परित्ताअदु परित्ताअदु कुलुणाहो । स्क्त्छ्_६९ परित्रायतां परित्रायतां कुरुनाथः । *दुःशला रोदिति** ।राजा। *ससंभ्रममुत्थाप्य** अम्ब समाश्वसिहि समाश्वसिहि । किमत्याहितम् । अपि कुशलं समराङ्गणेष्वप्रतिरथस्य जयद्रथस्य । ।माता। {प्क्त्_७०}जाद कुदो कुसलं । स्क्त्छ्_७० जात कुतः कुशलम् । ।राजा। कथमिव । ।माता। {प्क्त्_७१}*साशङ्कम्** अज्ज खु पुत्तवहामरिसुद्दीबिदेण गण्डीविणा अणत्थमिदे दिअसणाहे तस्स वहो पडिण्णादो । स्क्त्छ्_७१ अद्य खलु पुत्रवधामर्षोद्दीपितेन गाण्डीविनानस्तमिते दिवसनाथे तस्य वधः प्रतिज्ञातः । ।राजा। *सस्मितम्** इदं तदश्रुकारणमम्बाया दुःशलायाश्च । पुत्रशोकादुन्मत्तस्य किरीटिनः प्रलापैरेवमवस्था । अहो मुग्धत्वमबलानाम् । अम्ब कृतं विषादेन । वत्से दुःशले अलमश्रुपातेन । कुतश्चायं तस्य धनंजयस्य प्रभावो दुर्योधनबाहुपरिघरक्षितस्य महारथजयद्रथस्य विपत्तिमुत्पादयितुम् । ।माता। {प्क्त्_७२}जाद पुत्तबन्धुवहामरिसुद्दीबिदकोबाणला अणवेक्खिदसरीरा वीरा परिक्कमन्ति । स्क्त्छ्_७२ जात पुत्रबन्धुवधामर्षोद्दीपितकोपानला अनपेक्षितशरीरा वीराः परिक्रामन्ति । ।राजा। *सोपहासम्** एवमेतत् । सर्वजनप्रसिद्धैवामर्षिता पाण्डवानाम् । पश्य । श्लोक २.२४ हस्ताकृष्टविलोलकेशवसना दुःशासनेनाज्ञया पाञ्चाली मम राजचक्रपुरतो गौर्गौरिति व्याहृता । तस्मिन्नेव स किं नु गाण्डिवधरो नासीत्पृथानन्दनो œ यूनः क्षत्रियवंशजस्य कृतिनः क्रोधास्पदं किं न तत् ॥ २.२४ ॥ ।माता। {प्क्त्_७३}असमत्तपडिण्णाभरस्स अत्तवहो से पडिण्णादो । स्क्त्छ्_७३ असमाप्तप्रतिज्ञाभरस्यात्मवधोऽस्य प्रतिज्ञातः । ।राजा। यद्येवमलमानन्दस्थानेऽपि ते विषादेन । ननु वक्तव्यमुत्सन्नः सानुजो युधिष्ठिर इति । अन्यच्च मातः का शक्तिरस्ति धनंजयस्यान्यस्य वा कुरुशतपरिवारवर्धितमहिम्नः कृपकर्णद्रोणाश्वत्थामादिमहारथद्विगुणीकृतनिरावरणविक्रमस्य नामापि ग्रहीतुं ते तनयस्य । अयि सुतपराक्रमानभिज्ञे श्लोक २.२५ धर्मात्मजं प्रति यमौ च कथैव नास्ति मध्ये वृकोदरकिरीटभृतोर्बलेन । एकोऽपि विस्फुरितमण्डलचापचक्रं œ कः सिन्धुराजमभिषेणयितुं समर्थः ॥ २.२५ ॥ ।भानुमती। {प्क्त्_७४}अज्जौत्त जै बि एव्वं तह बि गुरुकिदपडिण्णाभरो धणंजओ णिदाणं क्खु संकाए । स्क्त्छ्_७४ आर्यपुत्र यद्यप्येवं तथापि गुरुकृतप्रतिज्ञाभरो धनंजयः निदानं खलु शङ्कायाः । ।माता। {प्क्त्_७५}जादे साहु कालोइदं तुए मन्तिदं । स्क्त्छ्_७५ जाते साधु कालोचितं त्वया मन्त्रितम् । ।राजा। आः ममापि नाम दुर्योधनस्य शङ्कास्थानं पाण्डवाः । पश्य । श्लोक २.२६ कोदण्डज्याकिणाङ्कैरगणितरिपुभिः कङ्कटोन्मुक्तदेहैः श्लिष्टान्योऽन्यातपत्रैः सितकमलवनभ्रान्तिमुत्पादयद्भिः । रेणुग्रस्तार्कभासां प्रचलदसिलतादन्तुराणां बलाना œ माक्रान्ता भ्रातृभिर्मे दिशि दिशि समरे कोटयः संपतन्ति ॥ २.२६ ॥ अपि च भानुमति विज्ञातपाण्डवप्रभावे किं त्वमप्येवमाशङ्कसे । पश्य । श्लोक २.२७ दुःशासनस्य हृदयक्षतजाम्बुपाने दुर्योधनस्य च यथा गदयोरुभङ्गे । तेजस्विनां समरमूर्धनि पाण्डवानां œ ज्ञेया जयद्रथवधेऽपि तथा प्रतिज्ञा ॥ २.२७ ॥ कः कोऽत्र भोः । जैत्रं मे रथमुपकल्पय तावत् । यावदहमपि तस्य प्रगल्भपाण्डवस्य जयद्रथपरिरक्षणेनैव मिथ्याप्रतिज्ञावैलक्ष्यसंपादितमशस्त्रपूतं मरणमुपदिशामि । *प्रविश्य** ।कञ्चुकी। देव श्लोक २.२८ उद्घातक्वणितविलोलहेमघण्टः प्रालम्बद्विगुणितचामरप्रहासः । सज्जोऽयं नियमितवल्गिताकुलाश्वः œ शत्रूणां क्षपितमनोरथो रथस्ते ॥ २.२८ ॥ ।राजा। देवि प्रविश त्वमभ्यन्तरमेव ।*यावदहमपि तस्य प्रगल्भपाण्डवस्य इत्यादि पठन्परिक्रामति** *इति निस्क्रान्ताः सर्वे** इति द्वितीयोऽङ्कः । अच्त्_३ तृतीयोऽङ्कः । *ततः प्रविशति विकृतवेषा राक्षसी** ।राक्षसी। *विकृतं विहस्य सपरितोषम्** श्लोक ३.१ हदमाणुशमंशभालए कुम्भशहश्शवशाहिं शंचिदे । अणिशम पिबामि शोणिअं वलिशशदं शमले हुवीअदु ॥ ३.१ ॥ {प्क्त्_७७}*नृत्यन्ती सपरितोषम्** जै शिन्धुलाअवहदिअहे विअ दिअहे दिअहे शमलकम्म पडिबज्जै अज्जुणे तदो पज्जत्तभलिदकोट्ठागाले मंशशोणिएहिं मे गेहे हुवीअदि ।*परिक्रम्य दिशोऽवलोक्य** अह कहिं णु खु लुहिलप्पिए हुवीअदि । ता जाव इमश्शिं शमले पिअभत्तालं लुहिलप्पिअमण्णेशामि ।*परिक्रम्य** होदु शद्दाबैश्शं दाव । अले लुहिलप्पिआ लुहिलप्पिआ इदो एहि इदो एहि । स्क्त्छ्_७६ हतमानुषमांसभारके कुम्भसहस्रवसाभिः संचिते । अनिशं च पिबामि शोणितं वर्षशतं समरो भवतु ॥ १ ॥ स्क्त्छ्_७७ यदि सिन्धुराजवधदिवस इव दिवसे दिवसे समरकर्म प्रतिपद्यतेऽर्जुनस्तदा पर्याप्तभृतकोष्ठागारं मांसशोणितैर्मे गृहं भविष्यति । अथ क्व नु खलु रुधिरप्रियो भविष्यति । तद्यावदेतस्मिन्समरे प्रियभर्तारं रुधिरप्रियमन्वेष्यामि । भवतु शब्दायिष्ये तावत् । अरे रुधिरप्रिय रुधिरप्रिय इत एहीत एहि । *ततः प्रविशति तथाविधो राक्षसः** ।राक्षसः। *श्रमं नाटयन्** श्लोक ३.२ पच्चग्गहदाणं मंशए जै उण्हे लुहिले अ लम्भै । ता एशे मह पलिश्शमे खणमेत्तमेव्व लहु णश्शै ॥ ३.२ ॥ स्क्त्छ्_७८ प्रत्यग्रहतानां मांसं यद्युष्णं रुधिरं च लभ्येत । तदेष मम परिश्रमः क्षणमात्रमेव लघु नश्येत् ॥ २ ॥ *राक्षसी पुनर्व्याहरति** ।राक्षसः। {प्क्त्_७९}*आकर्ण्य** अले के एशे मं सद्दाबेदि ।*विलोक्य** कहं पिआ मे वशागन्धा ।*उपसृत्य** वशागन्धे कीश मं शद्दाबेशि । श्लोक ३.३ लुहिलाशवपाणमत्तिए लणहिण्डणखलन्तगत्तिए । शद्दाअशि कीश मं पिए पुलिशशहश्शं हदं शुणीअदि ॥ ३.३ ॥ स्क्त्छ्_७९ अरे कैषा मां शब्दायते । कथं प्रिया मे वसागन्धा । वसागन्धे कस्मान्मां शब्दायसे । स्क्त्छ्_८० रुधिरासवपानमत्तिके रणहिण्डनस्खलद्गात्रिके । शब्दायसे कस्मान्मां प्रिये पुरुषसहस्रं हतं श्रूयते ॥ ३ ॥ ।राक्षसी। {प्क्त्_८१}अले लुहिलप्पिआ एदं क्खु मए तुह कालणादो पच्चग्गहदश्श कश्श बि लाएशिणो पहूदवशाशिणेहचिक्कणं कोण्हं णवलुहिलमग्गमंशम आणीदं । ता पिबाहि णं । स्क्त्छ्_८१ अरे रुधिरप्रिय इदं खलु मया तव कारणात्प्रत्यग्रहतस्य कस्यापि राजर्षेः प्रभूतवसास्नेहचिक्कणं कोष्णं नवरुधिरमग्रमांसं चानीतम् । तत्पिबैतत् । ।राक्षसः। {प्क्त्_८२}*सपरितोषम्** शाहु वशागन्धे शाहु । शोहणं तुए किदं । बलिअम्हि पिबाशिदे । ता उबणेहि । स्क्त्छ्_८२ साधु वसागन्धे साधु । शोभनं त्वया कृतम् । बलवदस्मि पिपासितः । तदुपनय । ।राक्षसी। {प्क्त्_८३}अले लुहिलप्पिआ एदिशे हदणलगअतुलंगमशोणिअवशाशमुद्ददुश्शंचले शमलाङ्गणे पडिब्भमन्ते तुमं पिबाशिए शि त्ति अच्चलिअमच्चलिअं । स्क्त्छ्_८३ अरे रुधिरप्रिय ईदृशे हतनरगजतुरंगमशोणितवसासमुद्रदुःसंचरे समराङ्गणे परिभ्रमंस्त्वं पिपासितोऽसीत्याश्चर्यमाश्चर्यम् । ।राक्षसः। {प्क्त्_८४}ऐ शुत्थिदे णं पुत्तशोअशंतत्तहिअअं शामिणिं हिडिम्बादेइं पेक्खिदुं गदम्हि । स्क्त्छ्_८४ अयि सुस्थिते ननु पुत्रशोकसंतप्तहृदयां स्वामिनीं हिडिम्बादेवीं प्रेक्षितुं गतोऽस्मि । ।राक्षसी। {प्क्त्_८५}लुहिलप्पिआ अज्ज बि शामिणीए हिडिम्बादेईए घडुक्कअशोए ण उबशम्मदि । स्क्त्छ्_८५ रधिरप्रिय अद्यापि स्वामिन्या हिडिम्बादेव्या घटोत्कचशोको नोपशाम्यति । ।राक्षसः। {प्क्त्_८६}वशागन्धे कुदो शे उबशमे । केवलमहिमण्णुवहशोअशमाणदुक्खाए शुभद्दादेवीए जण्णशेणीए अ कधं कधं वि शमाशाशीअदि । स्क्त्छ्_८६ वसागन्धे कुतोऽस्या उपशमः । केवलमभिमन्युवधशोकसमानदुःखया सुभद्रादेव्या याज्ञसेन्या च कथं कथमपि समाश्वास्यते । ।राक्षसी। {प्क्त्_८७}लुहिलप्पिआ गेण्ह एदं हत्थिशिलकबालशंचिअमग्गमंशोबदंशं । पिबाहि णवशोणिआसवं । स्क्त्छ्_८७ रुधिरप्रिय गृहाणैतद्धस्तिशिरःकपालसंचितमग्रमांसोपदंशम् । पिब नवशोणितासवम् । ।राक्षसः। {प्क्त्_८८}*तथा कृत्वा** वशागन्धे अह किअप्पहूदं तुए शंचिअं लुहिलमग्गमंशम । स्क्त्छ्_८८ वसागन्धे अथ कियत्प्रभूतं त्वया संचितं रुधिरमग्रमांसं च । ।राक्षसी। {प्क्त्_८९}अले लुहिलप्पिआ पुव्वशंचिअं जाणाशि जेव्व तुमं । णवशंचिअं शिणु दाव । भअदत्तशोणिअकुम्भे शिन्धुलाअवशाकुम्भे दुवे दुबदमच्छाहिबभूलिश्शवशोमदत्तबल्हीअप्पमुहाणं णलिन्दाणमण्णाणं बि पाकिदपुलिशाणं लुहिलवशामंशश्श घडा अबिणद्धमुहा शहश्शशंक्खा शन्ति मे गेहे । स्क्त्छ्_८९ अरे रुधिरप्रिय पूर्वसंचितं जानास्येव त्वम् । नवसंचितं शृणु तावत् । भगदत्तशोणितकुम्भः सिन्धुराजवसाकुम्भौ द्वौ द्रुपदमत्स्याधिपभूरिश्रवःसोमदत्तबाल्हीकप्रमुखाणां नरेन्द्राणामन्येषामपि प्राकृतपुरुषाणां रुधिरवसामांसस्य घटा अपिनद्धमुखाः सहस्रसंख्याः सन्ति मे गेहे । ।राक्षसः। {प्क्त्_९०}*सपरितोषमालिङ्ग्य** शाहु शुग्घलिणीए शाहु । इमिणा दे शुग्घलिणित्तेण अज्ज उण शामिणीए हिडिम्बादेवीए शंविहाणेण अ पणट्ठं मे जम्मदालिद्दं । स्क्त्छ्_९० साधु सुगृहिणि साधु । अनेन ते सुगृहिणीत्वेनाद्य पुनः स्वामिन्या हिडिम्बादेव्याः संविधानेन च प्रनष्टं मे जन्मदारिद्र्यम् । ।राक्षसी। {प्क्त्_९१}लुहिलप्पिआ केदिशे शामिणीए शंविहाणे किदे । स्क्त्छ्_९१ रुधिरप्रिय कीदृशं स्वामिन्या संविधानं कृतम् । ।राक्षसः। {प्क्त्_९२}वशागन्धे अज्ज क्खु अहं शामिणीए हिडिम्बादेवीए शवहुमाणं शद्दाबिअ आणत्ते जह लुहिलप्पिआ अज्ज पहुदि तुए अज्जौत्तश्श भीमशेणश्श पिट्ठदोणुपिट्ठं शमले आहिण्डिदव्वं त्ति । ता तश्श अणुमग्गगामिणो हदमाणुशशोणिअणईदंशणप्पणट्ठबुभुक्खापिबाशश्श इह एव्व मे शग्गलोओ हुवीअदि । तुमं बि विश्शद्धा भविअ लुहिलवशाहिं कुम्भशहश्शं शंचेहि । स्क्त्छ्_९२ वसागन्धे अद्य खल्वहं स्वामिन्या हिडिम्बादेव्या सबहुमानं शब्दाय्याज्ञप्तो यथा रुधिरप्रिय अद्य प्रभृति त्वयार्यपुत्रस्य भीमसेनस्य पृष्ठतोऽनुपृष्ठं समर आहिण्डितव्यमिति । तत्तस्यानुमार्गगामिनो हतमानुषशोणितनदीदर्शनप्रनष्टबुभुक्षापिपासस्येहैव मे स्वर्गलोको भविष्यति । त्वमपि विस्रब्धा भूत्वा रुधिरवसाभिः कुम्भसहस्रं संचिनु । ।राक्षसी। {प्क्त्_९३}लुहिलप्पिआ किंणिमित्तं कुमालभीमशेणश्श पिट्ठदोणुपिट्ठमाहिण्डीअदि । स्क्त्छ्_९३ रुधिरप्रिय किंनिमित्तं कुमारभीमसेनस्य पृष्ठतोऽनुपृष्ठमाहिण्ड्यते । ।राक्षसः। {प्क्त्_९४}वशागन्धे तेण हि शामिणा विओदलेण दुश्शाशणश्श लुहिलं पादुं पडिण्णादं । तं च अम्हेहिं लक्खशेहिमणुप्पविशिअ पादव्वं त्ति । स्क्त्छ्_९४ वसागन्धे तेन हि स्वामिना वृकोदरेण दुःशासनस्य रुधिरं पातुं प्रतिज्ञातम् । तच्चास्माभी राक्षसैरनुप्रविश्य पातव्यमिति । ।राक्षसी। {प्क्त्_९५}*सहर्षम्** शाहु शामिणि शाहु । शुशंविहाणे मे भत्ता तुए कदे । स्क्त्छ्_९५ साधु स्वामिनि साधु । सुसंविधानो मे भर्ता त्वया कृतः । *नेपथ्ये महान्कलकलः । उभावाकर्णयतः** ।राक्षसी। {प्क्त्_९६}*आकर्ण्य ससंभ्रमम्** अले लुहिलप्पिआ किं णु क्खु एशे महन्ते कलअले शुणीअदि । स्क्त्छ्_९६ अरे रुधिरप्रिय किं नु खल्वेष महान्कलकलः श्रूयते । ।राक्षसः। {प्क्त्_९७}*दृष्ट्वा** वशागन्धे एशे क्खु धिट्ठज्जुण्णेण दोणे केशेशु आकिट्ठिअ अशिबत्तेण वाबादीअदि । स्क्त्छ्_९७ वसागन्धे एष खलु धृष्टद्युम्नेन द्रोणः केशेष्वाकृष्यासिपत्रेण व्यापाद्यते । ।राक्षसी। {प्क्त्_९८}*सहर्षम्** लुहिलप्पिआ एहि । गच्छिअ दोणश्श लुहिलं पिवम्ह । स्क्त्छ्_९८ रुधिरप्रिय एहि । गत्वा द्रोणस्य रुधिरं पिबावः । ।राक्षसः। {प्क्त्_९९}*सभयम्** वशागन्धे बम्हणशोणिअं क्खु एदं गलअं दहन्ते दहन्ते पविशदि । ता किमेदिणा । स्क्त्छ्_९९ वसागन्धे ब्राह्मणशोणितं खल्वेतद्गलं दहद्दहत्प्रविशति । तत्किमेतेन । *नेपथ्ये पुनः कलकलः** ।राक्षसी। {प्क्त्_१००}लुहिलप्पिआ पुणो बि एशे महन्ते कलअले शुणीअदि । स्क्त्छ्_१०० रुधिरप्रिय पुनरप्येष महान्कलकलः श्रूयते । ।राक्षसः। {प्क्त्_१०१}वशागन्धे एशे क्खु अश्शत्थामे आकिट्ठिदाशिबत्ते इदो एव्व आअच्छदि । कदा बि दुबदसुदलोशेण अम्हे बि वाबादैश्शदि । ता एहि । अतिक्कमम्ह । स्क्त्छ्_१०१ वसागन्धे एष खल्वश्वत्थामाकृष्टासिपत्र इत एवागच्छति । कदाचिद्द्रुपदसुतरोषेणावामपि व्यापादयिष्यति । तदेहि । अतिक्रमावः । *इति निष्क्रान्तौ** प्रवेशकः । *ततः प्रविशत्युत्खातखड्गः कलकलमाकर्णयन्नश्वत्थामा** ।अश्वत्थामा। श्लोक ३.४ महाप्रलयमारुतक्षुभितपुष्करावर्तक प्रचण्डघनगर्जितप्रतिरवानुकारी मुहुः । रवः श्रवणभैरवः स्थगितरोदसीकन्दरः œ कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥ ३.४ ॥ *विचिन्त्य** ध्रुवं गाण्डीविना सात्यकिना वृकोदरेण वा यौवनदर्पादतिक्रान्तमर्यादेन परिकोपितस्तातः समुल्लङ्घ्य शिष्यप्रियतामात्मप्रभावसदृशमाचेष्टते । तथा हि श्लोक ३.५ यद्दुर्योधनपक्षपातसदृशं युक्तं यदस्त्रग्रहे रामाल्लब्धसमस्तहेतिगुरुणो वीर्यस्य यत्सांप्रतम् । लोके सर्वधनुष्मतामधिपतेर्यच्चानुरूपं रुषः œ प्रारब्धं रिपुघस्मरेण नियतं तत्कर्म तातेन मे ॥ ३.५ ॥ *पृष्ठतो विलोक्य** तदलमिदानीं मम रथप्रतीक्षयानया । सशस्त्र एवास्मि सजलजलधरप्रभाभासुरेण सुप्रग्रहविमलकलधौतत्सरुणामुना खड्गेन । यावत्समरभुवमवतरामि ।*परिक्रम्य । वामाक्षिस्पन्दनं सूचयित्वा** आः कथं ममापि नामाश्वत्थाम्नः समरमहोत्सवप्रमोदनिर्भरस्य तातविक्रमदर्शनलालसस्यानिमित्तानि समरगमनविघ्नमुत्पादयन्ति । भवतु गच्छामि ।*सावष्टम्भं परिक्रम्याग्रतो विलोक्य** कथमवधीरितक्षात्रधर्माणामुज्झितसत्पुरुषोचितलज्जावगुण्ठनानां विस्मृतस्वामिसत्कारलघुचेतसां द्विरदतुरंगमचरणचारिणामगणितकुलयशःसदृशपराक्रमव्रतानां रणभूमेः समन्तादपक्रामतामयं महान्नादो बलानाम् ।*निरूप्य** हा धिक्कष्टम् । कथमेते महारथाः कर्णादयोऽपि समरात्पराङ्मुखा भवन्ति । कथं नु ताताधिष्ठितानामपि बलानामियमवस्था भवेत् । भवतु संस्तम्भयामि । भो भोः कौरवसेनासमुद्रवेलापरिपालनमहामहीधरा नरपतयः कृतं कृतममुना समरपरित्यागसाहसेन । श्लोक ३.६ यदि समरमपास्य नास्ति मृत्यो र्भयमिति युक्तमितोऽन्यतः प्रयातुम् । अथ मरणमवश्यमेव जन्तोः œ किमिति मुधा मलिनं यशः कुरुध्वे ॥ ३.६ ॥ अपि च श्लोक ३.७ अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् । कर्णालं संभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य शङ्कां œ ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः ॥ ३.७ ॥ *नेपथ्ये** कुतोऽद्यापि ते तातः । ।अश्वत्थामा। *श्रुत्वा** किं ब्रूथ । कुतोऽद्यापि ते तात इति ।*सरोषम्** आः क्षुद्राः समरभीरवः कथमेवं प्रलपतां वः सहस्रधा न दीर्णमनया जिह्वया । श्लोक ३.८ दग्धुं विश्वं दहनकिरणैर्नोदिता द्वादशार्का वाता वाता दिशि दिशि न वा सप्तधा सप्त भिन्नाः । छन्नं मेघैर्न गगनतलं पुष्करावर्तकाद्यैः œ पापं पापाः कथयत कथं शौर्यराशेः पितुर्मे ॥ ३.८ ॥ *प्रविश्य संभ्रान्तः सप्रहारः** ।सूतः। परित्रायतां परित्रायतां कुमारः ।*इति पादयोः पतति** ।अश्वत्थामा। *विलोक्य** अये कथं तातस्य सारथिरश्वसेनः । आर्य ननु त्रैलोक्यत्राणक्षमस्य सारथिरसि । किं मत्तः परित्राणमिच्छसि । ।सूतः। *उत्थाय सकरुणम्** कुतोऽद्यापि ते तातः । ।अश्वत्थामा। *सावेगम्** किं तात एव नास्ति । ।सूतः। अथ किम् । ।अश्वत्थामा। हा तात ।*इति मोहमुपगतः** ।सूतः। कमार समाश्वसिहि समाश्वसिहि । ।अश्वत्थामा। *लब्धसंज्ञः सास्रम्** हा तात हा सुतवत्सल हा लोकत्रयैकधनुर्धर हा जामदगा€Šन्यास्त्रसर्वस्वप्रतिग्रहप्रणयिन् क्वासि । प्रयच्छ मे प्रतिवचनम् । ।सूतः। कमार अलमत्यन्तशोकावेगेन । वीरपुरुषोचितां विपत्तिमुपगते पितरि त्वमपि तदनुरूपेणैव वीर्येण शोकसागरमुत्तीर्य सुखी भव । ।अश्वत्थामा। *अश्रूणि विमुच्य** आर्य कथय कथय कथं तादृग्भुजवीर्यसागरस्तातोऽपि नामास्तमुपगतः । श्लोक ३.९ किं भीमाद्गुरुदक्षिणां गुरुगदाद्भीमप्रियः प्राप्तवान् ।सूतः। शान्तं पापम् । शान्तं पापम् । ।अश्वत्थामा। श्लोक ३.९ अन्तेवासिदयालुरुज्झितनयेनासादितो जिष्णुना । ।सूतः। कथमेवं भविष्यति । ।अश्वत्थामा। श्लोक ३.९ गोविन्देन सुदर्शनस्य नियतं धारापथं प्रापितः ।सूतः। एतदपि नास्ति । ।अश्वत्थामा। श्लोक ३.९ शङ्के नापदमन्यतः खलु गुरोरेभ्यश्चतुर्थादहम् ॥ ३.९ ॥ ।सूतः। कुमार श्लोक ३.१० एतेऽपि तस्य कुपितस्य महास्त्रपाणेः किं धूर्जटेरिव तुलामुपयान्ति संख्ये । शोकोपरुद्धहृदयेन यदा तु शस्त्रं œ त्यक्तं तदास्य विहितं रिपुणातिघोरम् ॥ ३.१० ॥ ।अश्वत्थामा। किं पुनः कारणं शोकस्यास्त्रपरित्यागस्य वा । ।सूतः। ननु कुमार एव कारणम् । ।अश्वत्थामा। कथमहमेव नाम । ।सूतः। श्रूयताम् ।*अश्रूणि विमुच्य** श्लोक ३.११ अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा । तच्छ्रुत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञः œ शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच ॥ ३.११ ॥ ।अश्वत्थामा। हा तात हा सुतवत्सल हा वृथामदर्थपरित्यक्तजीवित हा शौर्यराशे हा शिष्यप्रिय हा युधिष्ठिरपक्षपातिन् ।*इति रोदिति** ।सूतः। कुमार अलमत्यन्तपरिदेवनकार्पण्येन । ।अश्वत्थामा। श्लोक ३.१२ श्रुत्वा वधं मम मृषा सुतवत्सलेन तात त्वया सह शरैरसवो विमुक्ताः । जीवाम्यहं पुनरयं भवता वियुक्तः œ क्रूरेऽपि तन्मयि मुधा तव पक्षपातः ॥ ३.१२ ॥ *इति मोहमुपगतः** ।सूतः। समाश्वसितु समाश्वसितु कमारः । *ततः प्रविशति कृपः** ।कृपः। *सोद्वेगं निःश्वस्य** श्लोक ३.१३ धिक्सानुजं कुरुपतिं धिगजातशत्रुं दिग्भूपतीन्विफलशस्त्रभृतो धिगस्मान् । केशग्रहः खलु तदा द्रुपदात्मजाया œ द्रोणस्य चाद्य लिखितैरिव वीक्षितो यैः ॥ ३.१३ ॥ तत्कथं नु खलु वत्सं द्रक्ष्याम्यश्वत्थामानम् । अथ वा हिमवत्सारगुरुचेतसि ज्ञातलोकस्थितौ तस्मिन्न खलु शोकावेगमहमाशङ्के । किं तु पितुः परिभवसदृशमुपश्रुत्य न जाने किं व्यवस्यतीति । अथ वा श्लोक ३.१४ एकस्य तावत्पाकोऽयं दारुणो भुवि वर्तते । केशग्रहे द्वितीयेऽस्मिन्नूनं निःशेषिताः प्रजाः ॥ ३.१४ ॥ *विलोक्य** तदयं वत्सस्तिष्ठति । यावदुपसर्पामि ।*उपसृत्य ससंभ्रमम्** वत्स समाश्वसिहि समाश्वसिहि । ।अश्वत्थामा। *संज्ञां लब्ध्वा सास्रम्** हा तात हा सकलभुवनैकगुरो ।*आकाशे** युधिष्ठिर युधिष्ठिर श्लोक ३.१५ आ जन्मनो न वितथं भवता किलोक्तं न द्वेक्षि यज्जनमतस्त्वमजातशत्रुः । ताते गुरौ द्विजवरे मम भाग्यदोषा œ त्सर्वं तदेकपद एव कथं निरस्तम् ॥ ३.१५ ॥ ।सूतः। कुमार एष ते मातुलः शारद्वतः पार्श्वे तिष्ठति । ।अश्वत्थामा। *पार्श्वे विलोक्य सबाष्पम्** मातुल मातुल श्लोक ३.१६ गतो येनाद्य त्वं सह रणभुवं सैन्यपतिना य एकः शूराणां गुरुकण्डूनिकषणः । परीहासाश्चित्राः सततमभवन्येन भवतः œ स्वसुः श्लाघ्यो भर्ता क्व नु खलु स ते मातुल गतः ॥ ३.१६ ॥ ।कृपः। परिगतपरिगन्तव्य एव भवान् । तदलमत्यन्तशोकावेगेन । ।अश्वत्थामा। मातुल परित्यक्तमेव मया परिदेवनम् । एषोऽहं सुतवत्सलं तातमेवानुगच्छामि । ।कृपः। वत्स अनुपपन्नं भवद्विधानामिदम् । ।सूतः। कुमार अलमतिसाहसेन । ।अश्वत्थामा। आर्य शारद्वत श्लोक ३.१७ मद्वियोगभयात्तातः परलोकमितो गतः । करोमि विरहं तस्य वत्सलस्य कथं पितुः ॥ ३.१७ ॥ ।कृपः। वत्स यावदयं संसारस्तावत्प्रसिद्धैवेयं लोकयात्रा यत्पुत्रैः पितरो लोकद्वयेऽप्यनुवर्तनीया इति । पश्य । श्लोक ३.१८ निवापाञ्जलिदानेन केतनैः श्राद्धकर्मभिः । तस्योपकारे शक्तस्त्वं किं जीवन्किमुतान्यथा ॥ ३.१८ ॥ ।सूतः। आयुष्मन् यथैव मातुलस्ते शारद्वतः कथयति तत्तथा । ।अश्वत्थामा। आर्य सत्यमेवेआञ्¦म् । किं त्वतिदुर्वहत्वाच्छोकभारस्य न शक्नोमि तातविरहितः क्षणमपि प्राणान्धारयितुम् । तद्गच्छामि तमेवोद्देशं यत्र तथाविधमपि पितरं द्रक्ष्यामि ।*उत्तिष्ठन्खड्गमालोक्य विचिन्त्य** कृतमद्यापि शस्त्रग्रहणविडम्बनया । भगवञ्शस्त्र श्लोक ३.१९ गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया œ द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥ ३.१९ ॥ *इत्युत्सृजति** *नेपथ्ये** भो भो राजानः कथमिह भवन्तः सर्वे गुरोर्भारद्वाजस्य परिभवममुना नृशंसेन प्रयुक्तमुपेक्षन्ते । ।अश्वत्थामा। *आकर्ण्य शनैः शस्त्रं स्पृशन्** किं गुरोर्भारद्वाजस्य परिभवः । *पुनर्नेपथ्ये** श्लोक ३.२० आचार्यस्य त्रिभुवनगुरोर्न्यस्तशस्त्रस्य शोका द्द्रोणस्याजौ नयनसलिलक्षालितार्द्राननस्य । मौलौ पाणिं पलितधवले न्यस्य कृत्वा नृशंसं œ धृष्टद्युम्नः स्वशिबिरमयं याति सर्वे सहध्वम् ॥ ३.२० ॥ ।अश्वत्थामा। *सक्रोधं सकम्पं च कृपसूतौ दृष्ट्वा** किं नामेदम् । श्लोक ३.२१ प्रत्यक्षमात्तधनुषां मनुजेश्वराणां प्रायोपवेशसदृशं व्रतमास्थितस्य । तातस्य मे पलितमौलिनिरस्तकाशे œ व्यापारितं शिरसि शस्त्रमशस्त्रपाणेः ॥ ३.२१ ॥ ।कृपः। वत्स एवं किल जनः कथयति । ।अश्वत्थामा। किं तातस्य दुरात्मना परिमृष्टमभूच्छिरः । ।सूतः। *सभयम्** कुमार आसीदयं तस्य तेजोराशेर्देवस्य नवः परिभवावतारः । ।अश्वत्थामा। हा तात हा पुत्रप्रिय मम मन्दभागधेयस्य कृते शस्त्रपरित्यागात्तथाविधेन क्षुद्रेणात्मा परिभावितः । अथ वा श्लोक ३.२२ परित्यक्ते देहे रणशिरसि शोकान्धमनसा शिरः श्वा काको वा द्रुपदतनयो वा परिमृशेत् । स्फुरद्दिव्यास्त्रौघद्रविणमदमत्तस्य च रिपो œ र्ममैवायं पादः शिरसि निहितस्तस्य न करः ॥ ३.२२ ॥ आः दुरात्मन्पाञ्चालापसद श्लोक ३.२३ तातं शस्त्रग्रहणविमुखं निश्चयेनोपलभ्य त्यक्त्वा शङ्कां खलु विदधतः पाणिमस्योत्तमाङ्गे । अश्वत्थामा करधृतधनुः पाण्डुपाञ्चालसेना œ तूलोत्क्षेपप्रलयपवनः किं न यातः स्मृतिं ते ॥ ३.२३ ॥ युधिष्ठिर युधिष्ठिर अजातशत्रो अमिथ्यावादिन्धर्मपुत्र सानुजस्य ते किमनेनापकृतम् । अथ वा किमनेनालीकप्रकृतिजिह्मचेतसा । अर्जुन सात्यके बाहुशालिन्वृकोदर माधव युक्तं नाम भवतां सुरासुरमनुजलोकैकधनुर्धरस्य द्विजन्मनः परिणतवयसः सर्वाचार्यस्य विशेषतो मम पितुरमुना द्रुपदकुलकलङ्केन मनुजपशुना स्पृश्यमानमुत्तमाङ्गमुपेक्षितम् । अथ वा सर्व एवैते पातकिनः । किमेतैः श्लोक ३.२४ कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः । नरकरिपुणा सार्धं तेषां सभीमकिरीटिना œ मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम् ॥ ३.२४ ॥ ।कृपः। वत्स किं न संभाव्यते भारद्वाजतुल्ये बाहुशालिनि दिव्यास्त्रग्रामकोविदे भवति । ।अश्वत्थामा। भो भोः पाण्डवमत्स्यसोमकमागधाद्याः क्षत्रियापसादाः श्लोक ३.२५ पितुर्मूर्ध्नि स्पृष्टे ज्वलदनलभास्वत्परशुना कृतं यद्रामेण श्रुतिमुपगतं तन्न भवताम् । किमद्याश्वत्थामा तदरिरुधिरासारविघसं œ न कर्म क्रोधान्धः प्रभवति विधातुं रणमुखे ॥ ३.२५ ॥ सूत गच्छ त्वं सर्वोपकरणैः सांग्रामिकैः सर्वायुधैरुपेतं महाहवलक्षणं नामास्मत्स्यन्दनमुपनय । ।सूतः। यदाज्ञापयति कुमारः ।*इति निष्क्रान्तः** ।कृपः। वत्स अवश्यप्रतिकर्तव्येऽस्मिन्दारुणे परिभवाग्नौ सर्वेषामस्माकं कोऽन्यस्त्वामन्तरेण शक्तः प्रतिकर्तुम् । किं तु ।अश्वत्थामा। किमतः परम् । ।कृपः। सैनापत्येऽभिषिक्तं भवन्तमिच्छामि समरभुवनमवतारयितुम् । ।अश्वत्थामा। मातुल परतन्त्रमिदमकिंचित्करं च । ।कृपः। वत्स न खलु परतन्त्रं नाकिंचित्करं च । पश्य । श्लोक ३.२६ भवेदभीष्ममद्रोणं धार्तराष्ट्रबलं कथम् । यदि तत्तुल्यकर्मात्र भवान्धुरि न युज्यते ॥ ३.२६ ॥ कृतपरिकरस्य भवादृशस्य त्रैलोक्यमपि न क्षमं परिपन्थीभवितुं किं पुनर्युधिष्ठिरबलम् । तदेवं मन्ये परिकल्पिताभिषेकोपकरणः कौरवराजो न चिरात्त्वामेवाभ्यपेक्षमाणस्तिष्ठतीति । ।अश्वत्थामा। यद्येवं त्वरते मे परिभवानलदह्यमानमिदं चेतस्तत्प्रतीकारजलावगाहनाय । तदहं गत्वा तातवधविषण्णमानसं कुरुपतिं सैनापत्यस्वयंग्रहणप्रणयसमाश्वासनया मन्दसंतापं करोमि । ।कृपः। वत्स एवमिदम् । अतस्तमेवोद्देशं गच्छावः । *इति परिक्रामतः** *ततः प्रविशतः कर्णदुर्योधनौ** ।दुर्योधनः। अङ्गराज श्लोक ३.२७ तेजस्वी रिपुहतबन्धुदुःखपारं बाहुभ्यां व्रजति धृतायुधप्लवाभ्याम् । आचार्यः सुतनिधनं निशम्य संख्ये œ किं शस्त्रग्रहसमये विशस्त्र आसीत् ॥ ३.२७ ॥ अथ वा सूक्तमिदमभियुक्तैः प्रकृतिर्दुस्त्यजेति । यतः शोकान्धमनसा तेन विमुच्य क्षात्रधर्मकार्कश्यं द्विजातिधर्मसुलभो मार्दवपरिग्रहः कृतः । ।कर्णः। राजन्कौरवेश्वर न खल्विदमेवम् । ।दुर्योधनः। कथं तर्हि । ।कर्णः। एवं किलास्याभिप्रायो यथाश्वत्थामा मया पृथिवीराज्येऽभिषेक्तव्य इति । तस्याभावाद्वृद्धस्य मे ब्राह्मणस्य वृथा शस्त्रग्रहणमिति तथा कृतवान् । ।दुर्योधनः। *सशिरःकम्पम्** एवमिदम् । ।कर्णः। एतदर्थं च कौरवपाण्डवपक्षपातप्रवृत्तमहासंग्रामस्य राजकस्य परस्परक्षयमपेक्षमाणेन तेन प्रधानपुरुषवधोपेक्षा कृता । ।दुर्योधनः। उपपन्नमिदम् । ।कर्णः। अन्यच्च राजन् द्रुपदेनाप्यस्य बाल्यात्प्रभृत्यभिप्रायवेदिना न स्वराष्ट्रे वासो दत्तः । ।दुर्योधनः। साधु अङ्गराज साधु । निपुणमभिहितम् । ।कर्णः। न चायं ममैकस्याभिप्रायः । अन्येऽभियुक्ता अपि नैवेदमन्यथा मन्यन्ते । ।दुर्योधनः। एवमेतत् । कः संदेहः । श्लोक ३.२८ दत्त्वाभयं सोऽतिरथो बध्यमानं किरीटिना । सिन्धुराजमुपेक्षेत नैवं चेत्कथमन्यथा ॥ ३.२८ ॥ ।कृपः। *विलोक्य** वत्स एष दुर्योधनः सूतपुत्रेण सहास्यां न्यग्रोधच्छायायामुपविष्टस्तिष्ठति । तदुपसर्पावः । *तथा कृत्वा** ।उभौ। विजयतां कौरवेश्वरः । ।दुर्योधनः। *दृष्ट्वा** अये कथं कृपोऽश्वत्थामा च ।*आसनादवतीर्य कृपं प्रति** गुरो अभिवादये ।*अश्वत्थामानमुद्दिश्य** आचार्यपुत्र श्लोक ३.२९ एह्यस्मदर्थहततात परिष्वजस्व क्लान्तैरिदं मम निरन्तरमङ्गमङ्गैः । स्पर्शस्तवैष भुजयोः सदृशः पितुस्ते œ शोकेऽपि यो विकृतिमेति तनूरुहेषु ॥ ३.२९ ॥ *आलिङ्ग्य पार्श्व उपवेशयति । अश्वत्थामा बाष्पमुत्सृजति** ।कर्णः। द्रौणायन अलमत्यर्थमात्मानं शोकानले प्रक्षिप्य । ।दुर्योधनः। आचार्यपुत्र को विशेष आवयोरस्मिन्व्यसनमहार्णवे । पश्य । श्लोक ३.३० तातस्तव प्रणयवान्स पितुः सखा मे शस्त्रे यथा तव गुरुः स तथा ममापि । किं तस्य देहनिधने कथयामि दुःखं œ जानीहि तद्गुरुशुचा मनसा त्वमेव ॥ ३.३० ॥ ।कृपः। वत्स यथाह कुरुपतिस्तथैवैतत् । ।अश्वत्थामा। राजन्नेवं पक्षपातिनि त्वयि युक्तमेव शोकभारं लघूकर्तुम् । किं तु श्लोक ३.३१ मयि जीवति मत्तातः केशग्रहणमवाप्तवान् । कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम् ॥ ३.३१ ॥ ।कर्णः। द्रौणायन किमत्र क्रियते यदा तेनैव सर्वपरिभवत्राणहेतुना शस्त्रमुत्सृजता तादृशीमवस्थामात्मा नीतः । ।अश्वत्थामा। अङ्गराज किमाह भवान्किमत्र क्रियत इति । श्रूयतां यत्क्रियते । श्लोक ३.३२ यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः œ क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम् ॥ ३.३२ ॥ अपि च भो जामदग्न्यशिष्य कर्ण श्लोक ३.३३ देशः सोऽयमरातिशोणितजलैर्यस्मिन्ह्रदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशस्त्रघस्मरगुरूण्यस्त्राणि भास्वन्ति मे œ यद्रामेण कृतं तदेव कुरुते द्रौणायनः क्रोधनः ॥ ३.३३ ॥ ।दुर्योधनः। आचार्यपुत्र तस्य तथाविधस्यानन्यसाधारणस्य ते वीरभावस्य किमन्यत्सदृशम् । ।कृपः। राजन्सुमहान्खलु द्रोणपुत्रेण वोढुमध्यवसितः समरभारः । तदहमेवं मन्ये । भवता कृतपरिकरोऽयमुच्छेत्तुं लोकत्रयमपि समर्थः किं पुनर्युधिष्ठिरबलम् । अतोऽभिषिच्यतां सैनापत्ये । ।दुर्योधनः। सुष्ठु युज्यमानमभिहितं युष्माभिः । किं तु प्राक्प्रतिपन्नोऽयमर्थोऽङ्गराजस्य । ।कृपः। राजन्नसदृशपरिभवशोकसागरे निमज्जन्तमेनमङ्गराजस्यार्थे नैवोपेक्षितुं युक्तम् । अस्यापि तदेवारिकुलमनुशासनीयम् । अतः किमस्य पीडा न भविष्यति । ।अश्वत्थामा। राजन्कौरवेश्वर किमद्यापि युक्तायुक्तविचारणया । श्लोक ३.३४ प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा मकेशवमपाण्डवं भुवनमद्य निःसोमकम् । इयं परिसमाप्यते रणकथाद्य दोःशालिना œ व्यपैतु नृपकाननातिगुरुरद्य भारो भुवः ॥ ३.३४ ॥ ।कर्णः। *विहस्य** वक्तुं सुकरमिदं दुष्करमध्यवसातुम् । बहवः कौरवबलेऽस्य कर्मणः शक्ताः । ।अश्वत्थामा। अङ्गराज एवमिदम् । बहवः कौरवबलेऽत्र शक्ताः । किं तु दुःखोपहतः शोकावेशवशाद्ब्रवीमि न पुनर्वीरजनाधिक्षेपेण । ।कर्णः। मूढ दुःखितस्याश्रुपातः कुपितस्य चायुधद्वितीयस्य संग्रामावतरणमुचितं नैवंविधाः प्रलापाः । ।अश्वत्थामा। *सक्रोधम्** अरे रे राधागर्भभारभूत सूतापसद ममापि नामाश्वत्थाम्नो दुःखितस्याश्रुभिः प्रतिक्रियामुपदिशि न शस्त्रेण । पश्य । श्लोक ३.३५ निर्वीर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं संप्रत्येव भयाद्विहाय समरं प्राप्तोऽस्मि किं त्वं यथा । जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले œ क्षुद्रारातिकृताप्रियं प्रतिकरोम्यस्रेण नास्त्रेण यत् ॥ ३.३५ ॥ ।कर्णः। *सक्रोधम्** अरे रे वाचाट वृथाशस्त्रग्रहणदुर्विदग्ध बटो श्लोक ३.३६ निर्वीर्यं वा सवीर्यं वा मया नोत्सृष्टमायुधम् । यथा पाञ्चालभीतेन पित्रा ते बाहुशालिना ॥ ३.३६ ॥ अपि च श्लोक ३.३७ सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् । दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥ ३.३७ ॥ ।अश्वत्थामा। *सक्रोधम्** अरे रे रथकारकुलकलङ्क राधागर्भभारभूत अरे आयुधानभिज्ञ तातमप्यधिक्षिपसि । अथ वा श्लोक ३.३८ स भीरुः शूरो वा प्रथितभुजसारस्त्रिभुवने कृतं यत्तेनाजौ प्रतिदिनमियं वेत्ति वसुधा । परित्यक्तं शस्त्रं कथमिति स सत्यव्रतधरः œ पृथासूनुः साक्षी त्वमसि रणभीरो क्व नु तदा ॥ ३.३८ ॥ ।कर्णः। *विहस्य** एवं भीरुरहम् । पुनर्विक्रमैकरसं तव पितरमनुस्मृत्य महान्मे संशयो जातः । अपि च रे मूढ श्लोक ३.३९ यदि शस्त्रमुज्झितमशस्त्रपाणयो न निवारयन्ति किमरीनुदायुधान् । यदनेन मौलिदलनेऽप्युदासितं œ सुचिरं स्त्रियेव नृपचक्रसंनिधौ ॥ ३.३९ ॥ ।अश्वत्थामा। *सक्रोधं सकम्पं च** दुरात्मन्राजवल्लभ प्रगल्भ सूतापसद असंबद्धप्रलापिन् श्लोक ३.४० कथमपि न निषिद्धो दुःखिना भीरुणा वा द्रुपदतनयपाणिस्तेन पित्रा ममाद्य । तव भुजबलदर्पाध्मायमानस्य वामः œ शिरसि चरण एष न्यस्यते वारयैनम् ॥ ३.४० ॥ *इति तथा कर्तुमुत्तिष्ठति** ।कृपदुर्योधनौ। गुरुपुत्र मर्षय ।*इति निवारयतः** *अश्वत्थामा चरणप्रहारं नाटयति** ।कर्णः। *सक्रोधमुत्थाय खड्गमाकृष्य** अरे दुरात्मन्वाचाल ब्रह्मबन्धो आत्मश्लाघ श्लोक ३.४१ जात्या काममवध्योऽसि चरणं त्विममुद्धृतम् । अनेन लूनं खड्गेन पतितं वेत्स्यसि क्षितौ ॥ ३.४१ ॥ ।अश्वत्थामा। अरे मूढ किं नाम जात्या काममवध्योऽहम् । इयं सा जातिस्त्यक्ता ।*इति यज्ञोपवीतं छिनत्ति । पुनश्च सक्रोधम्** श्लोक ३.४२ अद्य मिथ्याप्रतिज्ञोऽसौ किरीटी क्रियते मया । शस्त्रं गृहाण वा त्यक्त्वा मौलौ वा रचयाञ्जलिम् ॥ ३.४२ ॥ *उभावपि खड्गमाकृष्यान्योऽन्यं प्रहर्तुमुद्यतौ । कृपदुर्योधनौ वारयतः** ।दुर्योधनः। सखे आचार्यपुत्र शस्त्रग्रहणेनालम् । ।कृपः। वत्स सूतपुत्र शस्त्रग्रहणेनालम् । ।अश्वत्थामा। मातुल मातुल किं निवारयसि । अयमपि तातनिन्दाप्रगल्भः सूतापसदो धृष्टद्युम्नपक्षपात्येव । ।कर्णः। राजन्न खल्वहं निवारयितव्यः । श्लोक ३.४३ उपेक्षितानां मन्दानां धीरसत्त्वैरवज्ञया । अत्रासितानां क्रोधान्धैर्भवत्येषा विकत्थना ॥ ३.४३ ॥ ।अश्वत्थामा। राजन्मुञ्च मुञ्चैनम् । आसादयतु मद्भुजान्तरनिष्पेषसुलभमसूनामवसादनम् । अन्यच्च राजन् । स्नेहेन कार्येण वा यत्त्वमेनं ताताधिक्षेपकारिणं दुरात्मानं मत्तः परिरक्षितुमिच्छसि तदुभयमपि वृथैव । पश्य । श्लोक ३.४४ पापप्रियस्तव कथं गुणिनः सहायः सूतान्वयः शशधरान्वयसंभवस्य । हन्ता किरीटिनमहं नृप मुञ्च कुर्यां œ क्रोधादकर्णमपृथात्मजमद्य लोकम् ॥ ३.४४ ॥ *इति प्रहर्तुमिच्छति** ।कर्णः। *खड्गमुद्यम्य** अरे वाचाट ब्राह्मणाधम अयं न भवसि । राजन्मुञ्च मुञ्च । न खल्वहं वारयितव्यः ।*हन्तुमिच्छति** *दुर्योधनकृपौ निवारयतः** ।दुर्योधनः। कर्ण गुरुपुत्र कोऽयमद्य युवयोर्व्यामोहः । ।कृपः। वत्स अन्यदेव प्रस्तुतमन्यत्रावेग इति कोऽयं व्यामोहः । स्वबलव्यसनं चेदमस्मिन्काले राजकुलस्यास्य युष्मत्त एव भवतीति वामः पन्थाः । ।अश्वत्थामा। मातुल न लभ्यतेऽस्य कटुप्रलापिनो रथकारकुलकलङ्कस्य दर्पः शातयितुम् । ।कृपः। वत्स अकालः खलु स्वबलप्रधानविरोधस्य । ।अश्वत्थामा। मातुल यद्येवम् श्लोक ३.४५ अयं पापो यावन्न निधनमुपेयादरिशरैः परित्यक्तं तावत्प्रियमपि मयास्त्रं रणमुखे । बलानां नाथेऽस्मिन्परिकुपितभीमार्जुनभये œ समुत्पन्ने राजा प्रियसखबलं वेत्तु समरे ॥ ३.४५ ॥ *इति खड्गमुत्सृजति** ।कर्णः। *विहस्य** कुलक्रमागतमेवैतद्भवादृशां यदस्त्रपरित्यागो नाम । ।अश्वत्थामा। ननु रे अपरित्यक्तमपि भवादृशैरायुधं चिरपरित्यक्तमेव निष्फलत्वात् । ।कर्णः। अरे मुढ श्लोक ३.४६ धृतायुधो यावदहं तावदन्यैः किमायुधैः । यद्वा न सिद्धमस्त्रेण मम तत्केन सेत्स्यति ॥ ३.४६ ॥ *नेपथ्ये** आः दुरात्मन्द्रौपदीकेशाम्बराकर्षणमहापातकिन्धार्तराष्ट्रापसद चिरस्य खलु कालस्य मत्संमुखमागतोऽसि । क्षुद्रपशो क्वेदानीं गम्यते । अपि च भो भो राधेयदुर्योधनसौबलप्रभृतयः पाण्डवविद्वेषणश्चापपाणयो मानधनाः शृण्वन्तु भवन्तः । श्लोक ३.४७ स्पृष्टा येन शिरोरुहे नृपशुना पाञ्चालराजात्मजा येनास्याः परिधानमप्यपहृतं राज्ञां गुरूणां पुरः । यस्योरःस्थलशोणितासवमहं पातुं प्रतिज्ञातवा œ न्सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवः ॥ ३.४७ ॥ *सर्व आकर्णयन्ति** ।अश्वत्थामा। *सोत्प्रासम्** अङ्गराज सेनापते जामदग्न्यशिष्य द्रोणोपहासिन्भुजबलपरिरक्षितसकललोक ।*धृतायुध इति पठित्वा** इदं तदासन्नतरमेव संवृत्तम् । रक्षैनं सांप्रतं भीमाद्दुःशासनम् । ।कर्णः। आः का शक्तिर्वृकोदरस्य मयि जीवति दुःशासनस्य छायामप्याक्रमितुम् । युवराज न भेतव्यं न भेतव्यम् । अयमहमागतोऽस्मि ।*इति निष्क्रान्तः** ।अश्वत्थामा। राजन्कौरवनाथ अभीष्मद्रोणं संप्रति कौरवबलमालोडयन्तौ भीमार्जुनौ राधेयेनैवंविधेनान्येन वा न शक्येते निवारयितुम् । अतः स्वयमेव भ्रातुः प्रतीकारपरो भव । ।दुर्योधनः। आः शक्तिरस्ति दुरात्मनः पवनतनयस्यान्यस्य वा मयि जीवति शस्त्रपाणौ वत्सस्य छायामप्याक्रमितुम् । वत्स न भेतव्यं न भेतव्यम् । कः कोऽत्र भोः । रथमुपनय ।*इति निष्क्रान्तः** *नेपथ्ये कलकलः** ।अश्वत्थामा। *अग्रतो विलोक्य** मातुल हा धिक्कष्टम् । एष खलु भ्रातुः प्रतिज्ञाभङ्गभीरुः किरीटी समं दुर्योधनराधेयौ शरवर्षैर्दुर्वारैरभिद्रवति । सर्वथा पीतं दुःशासनशोणितं भीमेन । न खलु विषहे दुर्योधनानुजस्यैनां विपत्तिमवलोकयितुम् । अनृतमनुमतं नाम । मातुल शस्त्रं शस्त्रम् । श्लोक ३.४८ सत्यादप्यनृतं श्रेयो धिक्स्वर्गं नरकोऽस्तु मे । भीमाद्दुःशासनं त्रातुं त्यक्तमत्यक्तमायुधम् ॥ ३.४८ ॥ *इति खड्गं ग्रहीतुमिच्छति** *नेपथ्ये** महात्मन्भारद्वाजसूनो न खलु सत्यवचनमनुल्लङ्घितपूर्वमुल्लङ्घयितुमर्हसि । ।कृपः। वत्स अशरीरिणी भारती भवन्तमनृतादभिरक्षति । ।अश्वत्थामा। कथमियममानुषी वाग्नानुमनुते संग्रामावतरणं मम । भोः कष्टम् । आः पक्षपातिनो देवा अपि पाण्डवानाम् । सर्वथा पीतं दुःशासनशोणितं भीमेन । भोः कष्टं कष्टम् । श्लोक ३.४९ दुःशासनस्य रुधिरे पीयमानेऽप्युदासितम् । दुर्योधनस्य कर्तास्मि किमन्यत्प्रियमाहवे ॥ ३.४९ ॥ मातुल राधेयक्रोधवशादनार्यमस्माभिराचरितम् । अतस्त्वमपि तावदस्य राज्ञः पार्श्ववर्ती भव । ।कृपः। गच्छाम्यहमत्र प्रतिविधातुम् । भवानपि शिबिरसंनिवेशमेव प्रतिष्ठताम् । *परिक्रम्य निष्क्रान्तौ** इति तृतीयोऽङ्कः । अच्त्_४ चतुर्थोऽङ्कः । *ततः प्रविशति प्रहारमूर्च्छितं रथस्थं दुर्योधनमपहरन्सूतः । सूतः ससंभ्रमं परिक्रामति** *नेपथ्ये** भो भो बाहुबलावलेपप्रवर्तितमहासमरदोहदाः कौरवपक्षपातपणीकृतप्राणद्रविणसंचया नरपतयः संस्तभ्यन्तां संस्तभ्यन्तां निहतदुःशासनपीतावशेषशोणितस्नपितबीभत्सवेषवृकोदरदर्शनभयपरिस्खलत्प्रहरणानि रणात्द्रवन्ति बलानि । ।सूतः। *विलोक्य** कथमेष धवलचपलचामरचुम्बितकनककमण्डलुना शिखरावबद्धवैजयन्तीसूचितेन हतगजवाजिनरकलेवरसहस्रसंमर्दविषमोद्घातकृतकलकलकिङ्किणीजालमालिना रथेन शरवर्षस्तम्भितपरबलपराक्रमप्रसरः प्रद्रुतमात्मबलमाश्वासयन्कृपः किरीटिनाभियुक्तमङ्गराजमनुसरति । हन्त जातमस्मद्बलानामवलम्बनम् । *नेपथ्ये कलकलानन्तरम्** भो भोः अस्मद्दर्शनभयस्खलितकार्मुककृपाणतोमरशक्तयः कौरवचमूभटाः पाण्डवपक्षपातिनश्च योधाः न भेतव्यं न भेतव्यम् । अयमहं निहतदुःशासनपीवरोरःस्थलक्षतजासवपानमदोद्धतो रभसगामी स्तोकावशिष्टप्रतिज्ञामहोत्सवः कौरवराजस्य द्यूतनिर्जितो दासः पार्थमध्यमो भीमसेनः सर्वान्भवतः साक्षीकरोमि । श्रूयताम् । श्लोक ४.१ राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च । पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः œ कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥ ४.१ ॥ ।सूतः। *श्रुत्वा सभयम्** अये आसन्न एव दुरात्मा कौरवराजपुत्रमहावनोत्पातमारुतो मारुतिः । अनुपलब्धसंज्ञश्च तावदत्र महाराजः । भवतु । सुदूरमपहरामि स्यन्दनम् । कदाचिद्दुःशासन इवास्मिन्नप्ययमनार्योऽनार्यमाचरिष्यति ।*त्वरिततरं परिक्रम्यावलोक्य च** अये अयमसौ सरसीसरोजविलोलनसुरभिशीतलमातरिश्वसंवाहितसान्द्रकिसलयो न्यग्रोधपादपः । उचिता विश्रामभूरियं समरव्यापारखिन्नस्य वीरजनस्य । अत्र स्थितश्चायाचिततालवृन्तेन हरिचन्दनच्छटाशीतलेनाप्रयत्नसुरभिणा दशापरिणामयोग्येन सरसीसमीरणेनामुना गतक्लमो भविष्यति महाराजः । लूनकेतुश्चायं रथोऽनिवारित एव प्रवेक्ष्यति च्छायाम् ।*इति प्रवेशं रूपयित्वा** कः कोऽत्र भोः ।*समन्तादवलोक्य** कथं न कश्चिदत्र परिजनः । नूनं तथाविधस्य वृकोदरस्य दर्शनादेवंविधस्य च स्वामिनस्त्रासेन शिबिरसंनिवेशमेव प्रविष्टः । कष्टं भोः कष्टम् । श्लोक ४.२ दत्त्वा द्रोणेन पार्थादभयमपि न संरक्षितः सिन्धुराजः क्रूरं दुःशासनेऽस्मिन्हरिण इव कृतं भीमसेनेन कर्म । दुःसाध्यामप्यरीणां लघुमिव समरे पूरयित्वा प्रतिज्ञां œ नाहं मन्ये सकामं कुरुकुलविमुखं दैवमेतावतापि ॥ ४.२ ॥ *राजानमवलोक्य** कथमद्यापि न चेतनां लभते महाराजः । भोः कष्टम् ।*निःश्वस्य** श्लोक ४.३ मदकलितकरेणुभज्यमाने विपिन इव प्रकटैकशालशेषे । हतसकलकुमारके कुलेऽस्मिं œ स्त्वमपि विधेरवलोकितः कटाक्षैः ॥ ४.३ ॥ ननु भो हतविधे भरतकुलविमुख श्लोक ४.४ अक्षतस्य गदापाणेरनारूढस्य संशयम् । एषापि भीमसेनस्य प्रतिज्ञा पूर्यते त्वया ॥ ४.४ ॥ ।दुर्योधनः। *शनैरुपलब्धसंज्ञः** आः शक्तिरस्ति दुरात्मनो वृकोदरहतकस्य मयि जीवति दुर्योधने प्रतिज्ञां पूरयितुम् । वत्स दुःशासन न भेतव्यं न भेतव्यम् । अयमहमागतोऽस्मि । ननु सूत प्रापय रथं तमेवोद्देशं यत्र वत्सो मे दुःशासनः । ।सूतः। आयुष्मन्नक्षमाः संप्रति वाहास्ते रथमुद्वोढुम् ।*अपवार्य** मनोरथं च । ।दुर्योधनः। *रथादवतीर्य सगर्वं साकूतं च** कृतं स्यन्दनगमनकालातिपातेन । ।सूतः। *सवैलक्ष्यं सकरुणं च** मर्षयतु मर्षयत्वायुष्मान् । ।दुर्योधनः। धिक्सूत किं रथेन । केवलमरातिविमर्दसंघट्टसंचारी दुर्योधनः खल्वहम् । तद्गदामात्रसहायः समरभुवमवतरामि । ।सूतः। आयुष्मन्नेवमेतत् । कः संदेहः । ।दुर्योधनः। यद्येवं किमेवं भाषसे । पश्य । श्लोक ४.५ बालस्य मे प्रकृतिदुर्ललितस्य पापः पापं व्यवस्यति समक्षमुदायुधोऽसौ । अस्मिन्निवारयसि किं व्यवसायिनं मां œ क्रोधो न नाम करुणा न च तेऽस्ति लज्जा ॥ ४.५ ॥ ।सूतः। *सकरुणं पादयोर्निपत्य** एतद्विज्ञापयामि । आयुष्मन्संपूर्णप्रतिज्ञेन निवृत्तेन भवितव्यमिदानीं दुरात्मना वृकोदरहतकेन । अत एवं ब्रवीमि । ।दुर्योधनः। *सहसा भूमौ पतन्** हा वत्स दुःशासन हा मदाज्ञाविरोधितपाण्डव हा विक्रमैकरस हा मदङ्कदुर्ललित हा अरातिकुलगजघटामृगेन्द्र हा युवराज क्वासि । प्रयच्छ मे प्रतिवचनम् ।*इति निःश्वस्य मोहमुपगतः** ।सूतः। राजन्समाश्वसिहि समाश्वसिहि । ।दुर्योधनः। *संज्ञां लब्ध्वा । निःश्वस्य** श्लोक ४.६ मुक्तो यथेष्टमुपभोगसुखेषु नैव त्वं लालितोऽपि हि मया न वृथाग्रजेन । अस्यास्तु वत्स तव हेतुरहं विपत्ते œ र्यत्कारितोऽस्यविनयं न च रक्षितोऽसि ॥ ४.६ ॥ *इति पतति** ।सूतः। आयुष्मन्समाश्वसिहि समाश्वसिहि । ।दुर्योधनः। धिक्सूत किमनुष्ठितं भवता । श्लोक ४.७ रक्षणीयेन सततं बालेनाज्ञानुवर्तिना । दुःशासनेन भ्रात्राहमुपहारेण रक्षितः ॥ ४.७ ॥ ।सूतः। महाराज मर्मभेदिभिरिषुतोमरशक्तिप्रासवर्षैर्महारथानामपहृतचेतनत्वान्निश्चेष्टः कृतो महाराज इत्यपहृतो मया रथः । ।दुर्योधनः। सूत विरूपं कृतवानसि । श्लोक ४.८ तस्यैव पाण्डवपशोरनुजद्विषो मे क्षोदैर्गदाशनिकृतैर्न विबोधितोऽस्मि । तामेव नाधिशयितो रुधिरार्द्रशय्यां œ दौःशासनीं यदहमाशु वृकोदरो वा ॥ ४.८ ॥ *निश्वस्य नभो विलोक्य** ननु भो हतविधे कृपाविरहित भरतकुलविमुख श्लोक ४.९ अपि नाम भवेन्मृत्युर्न च हन्ता वृकोदरः । ।सूतः। शान्तं पापं शान्तं पापम् । महाराज किमिदम् । ।दुर्योधनः। श्लोक ४.९ घातिताशेषबन्धोर्मे किं राज्येन जयेन वा ॥ ४.९ ॥ *ततः प्रविशति शरप्रहारव्रणबद्धपट्टिकालंकृतकायः सुन्दरकः** ।सुन्दरकः। {प्क्त्_१०२}अज्जा अबि णाम इमस्सिमुद्देसे सारहिदुदीओ दिट्ठो तुम्हेहिं महाराअदुज्जोहणो ण वेत्ति *निरूप्य** कहं ण को बि मन्तेदि । होदु । एदाणं बद्धपरिअराणं पुरिसाणं समूहो दीसै । एत्थ गदुअ पुच्छिस्सं ।*परिक्रम्य विलोक्य च** कहमेदे क्खु सस्सामिणो गाढप्पहारहदस्स घणसंणाहजालदुब्भेज्जमुहेहिं कङ्कवदणेहिं हिअआदो सल्लाइमुद्धरन्ति । ता ण क्खु एदे जाणन्ति । होदु । अण्णदो विचिणैस्सं ।*अग्रतोऽवलोक्य किंचित्परिक्रम्य** इमे क्खु अबरे पहूददरा संगदा वीरमणुस्सा दीसन्ति । ता एत्थ गदुअ पुच्छिस्सं ।*उपगम्य** हंहो जाणह तुम्हे कस्सिमुद्देसे कुरुणाहो वट्टै त्ति ।*दृष्ट्वा** कहमेदे बि मं पेक्खिअ अहिअदरं रोअन्ति । ता ण हु एदे बि जाणन्ति । हा अदिकरुणं क्खु एत्थ वट्टै । एसा वीरमादा समलविणिहदं पुत्तअं सुणिअ रत्तंसुअणिवसणाए समग्गभूसणाए वहूए सह अणुमरदि ।*सश्लाघम्** साहु वीरमादे साहु । अण्णस्सिं बि जम्मन्तरे अणिहदपुत्तआ हुविस्ससि । होदु । अण्णदो विचिणैस्सं ।*अन्यतो विलोक्य** अअमबरो बहुप्पहारणिहदकाओ अकिदव्वणप्पडीआरो एव्व जोहसमूहो इमं सुण्णासणं तुलंगममुबालहिअ रोइदि । णूणमेदाणमेत्थ एव्व सामी वाबादिदो । ता ण हु एदे बि जाणन्ति । होदु । अण्णदो गदुअ पुच्छिस्सं ।*सर्वतो विलोक्य** कहं सव्वो एव्व अवत्थाणुरूबं विसणमणुहवन्तो भाअधेअविमुहदाए पज्जाउलो जणो । ता कमेत्थ पुच्छिस्सं । कं वा उबालहिस्सं । होदु । सअमेव्व एत्थ विचिणैस्सं ।*परिक्रम्य** होदु । देव्वं दाणीमुबालहिस्सं । हंहो देव्व एआदसाणमक्खोहिणीणं णाहो जेट्ठो भादुसदस्स भत्ता गङ्गेअद्दोणङ्गराअसल्लकिबकिदवम्मस्सत्थामप्पमुहस्स राअचक्कस्स सअलपहुवीमण्डलेक्कणाहो महाराअदुज्जोहणो बि अण्णेसीअदि । अण्णेसीअन्तो बि ण जाणीअदि कस्सिमुद्देसे वट्टै त्ति ।*विचिन्त्य निःश्वस्य च** अह वा किमेत्थ देव्वमुबालहामि । तस्स क्खु एदं णिब्भच्छिअविउरवअणवीअस्स अवहीरिदपिदामहहिदोबदेसङ्कुरस्स सौणिप्पोच्छाहणादिविरूढमूलस्स जदुगेहजूदविससाहिणो संभूदचिरआलसंबद्धवेरालवालस्स पञ्चालीकेसग्गहणकुसुमस्स फलं परिणमदि ।*अन्यतो विलोक्य** जहा एत्थ एसो विविहरअणप्पहासंवलिदसूरकिरणप्पसूदसक्कचाबसहस्ससंपूरिददसदिसामुहो लूणकेदुवंसो रहो दीसै ता अहं तक्केमि अवस्समेदिणा महाराअदुज्जोहणस्स विस्सामुद्देसेण होदव्वं । जाव णिरूबेमि ।*उपगम्य दृष्ट्वा निश्वस्य च** कधमेआदसाणमक्खोहिणीणं णाअको भविअ महाराओ दुज्जोहणो पाइदपुरिसो विअ असलाहणीए भूमिए उपविट्ठो चिट्ठदि । अथ वा तस्स क्खु एदं पञ्चालीकेसग्गहकुसुमस्स फलं परिणमदि । स्क्त्छ्_१०२ आर्याः अपि नामास्मिन्देशे सारथिद्वितीयो दृष्टो युष्माभिर्महाराजदुर्योधनो न वेति । कथं न कोऽपि मन्त्रयते । भवतु । एतेषां बद्धपरिकराणां पुरुषाणां समूहो दृश्यते । अत्र गत्वा प्रक्ष्यामि । कथमेते खलु स्वस्वामिनो गाढप्रहारहतस्य घनसंनाहजालदुर्भेद्यमुखैः कङ्कवदनैर्हृदयाच्छल्यान्युद्धरन्ति । तन्न खल्वेते जानन्ति । भवतु । अन्यतो विचेष्यामि । इमे खल्वपरे प्रभूततराः संगता वीरमनुष्या दृश्यन्ते । तदत्र गत्वा प्रक्ष्यामि । हंहो जानीथ यूयं कस्मिन्नुद्देशे कुरुनाथो वर्तत इति । कथमेतेऽपि मां प्रेक्ष्याधिकतरं रुदन्ति । तन्न खल्वेतेऽपि जानन्ति । हा अतिकरुणं खल्वत्र वर्तते । एषा वीरमाता समरविनिहतं पुत्रकं श्रुत्वा रक्तांशुकनिवसनया समग्रभुषणया वध्वा सहानुम्रियते । साधु वीरमातः साधु । अन्यस्मिन्नपि जन्मान्तरेऽनिहतपुत्रका भविष्यसि । भवतु । अन्यतो विचेष्यामि । अयमपरो बहुप्रहारनिहतकायोऽकृतव्रणबन्ध एव योधसमूह इमं शून्यासनं तुरंगममुपालभ्य रोदिति । नूनमेतेषामत्रैव स्वामी व्यापादितः । तन्न खल्वेतेऽपि जानन्ति । भवतु । अन्यतो गत्वा प्रक्ष्यामि । कथं सर्व एवावस्थानुरूपं व्यसनमनुभवन्भागधेयविमुखतया पर्याकुलो जनः । तत्कमत्र प्रक्ष्यामि । कं वोपालप्स्ये । भवतु । स्वयमेवात्र विचेष्यामि । भवतु । दैवमिदानीमुपालप्स्ये । हंहो दैव एकादशानामक्षौहिणीनां नाथो ज्येष्ठो भ्रातृशतस्य भर्ता गाङ्गेयद्रोणाङ्गराजशल्यकृपकृतवर्माश्वत्थामप्रमुखस्य राजचक्रस्य सकलपृथ्वीमण्डलैकनाथो महाराजदुर्योधनोऽप्यन्विष्यते । अन्विष्यमाणोऽपि न ज्ञायते कस्मिन्नुद्देशे वर्तत इति । अथ वा किमत्र दैवमुपालभे । तस्य खल्विदं निर्भर्त्सितविदुरवचनबीजस्यावधीरितपितामहहितोपदेशाङ्कुरस्य शकुनिप्रोत्साहनादिविरूढमूलस्य जतुगृहद्यूतविषशाखिनः संभूतचिरकालसंबद्धवैरालवालस्य पाञ्चालीकेशग्रहणकुसुमस्य फलं परिणमति । यथात्रैव विविधरत्नप्रभासंवलितसूर्यकिरणप्रसूतशक्रचापसहस्रसंपूरितदशदिशामुखो लूनकेतवंशो रथो दृश्यते तथाहं तर्कयाम्यवश्यमेतेन महाराजदुर्योधनस्य विश्रामोद्देशेन भवितव्यमिति । यावन्निरूपयामि । कथमेकादशानामक्षौहिणीनां नायको भूत्वा महाराजो दुर्योधनः प्राकृतपुरुष इवाश्लाघनीयायां भूमावुपवष्टस्तिष्ठति । अथ वा तस्य खल्विदं पाञ्चालीकेशग्रहकुसुमस्य फलं परिणमति । *उपसृत्य सूतं संज्ञया पृच्छति** ।सूतः। *दृष्ट्वा** अये कथं संग्रामात्सुन्दरकः प्राप्तः । ।सुन्दरकः। {प्क्त्_१०३}*उपगम्य** जेदु जेदु महाराओ । स्क्त्छ्_१०३ जयतु जयतु महाराजः । ।दुर्योधनः। *विलोक्य** अये सुन्दरकः । सुन्दरक कच्चित्कुशलमङ्गराजस्य । ।सुन्दरकः। {प्क्त्_१०४}देव कुसलं सरीरमेत्तेण । स्क्त्छ्_१०४ देव कुशलं शरीरमात्रेण । ।दुर्योधनः। *ससंभ्रमम्** सुन्दरक किं किरीटिनास्य निहता धौरेया हतः सारथिर्भग्नो वा रथः । ।सुन्दरकः। {प्क्त्_१०५}देव ण भग्गो रहो । से मणोरहो बि । स्क्त्छ्_१०५ देव न भग्नो रथः । अस्य मनोरथोऽपि । ।दुर्योधनः। *सरोषम्** किमविस्पष्टकथितैराकुलमपि पर्याकुलयसि मे हृदयम् । तदशेषतो विस्पष्टं कथ्यताम् । ।सुन्दरकः। {प्क्त्_१०६}जं देवो आणबेदि । अए देवस्स मुउडमणिप्पहावेण अबणीदा मे रणप्पहारवेअणा ।*इति साटोपं परिक्रम्य** सुणादु देवो । अत्थि दाणिं कुमालदुस्सासणवह ।*इत्यर्धोक्ते मुखमाच्छाद्य शङ्कां नाटयति** स्क्त्छ्_१०६ यद्देव आज्ञापयति । अये देवस्य मुकुटमणिप्रभावेणापनीता मे रणप्रहारवेदना । शृणोतु देवः । अस्तीदानीं कुमारदुःशासनवध । ।सूतः। सुन्दरक कथय । कथितमेव दैवेन । ।दुर्योधनः। कथ्यताम् । श्रुतमस्माभिः । ।सुन्दरकः। {प्क्त्_१०७}सणादु देवो । अज्ज दाव कुमालदुस्सासणवहामरिसिदेण सामिणा अङ्गराएण कुडिलभिउडीभङ्गभीसणणिडलबट्टेण अविण्णादसंधाणमोक्खसिलीमुहसंघादवरिसिणा अभिजुत्तो सो दुराआरो मज्झमपण्डवो भीमसेणहदओ । स्क्त्छ्_१०७ शृणोतु देवः । अद्य तावत्कुमारदुःशासनवधामर्षितेन स्वामिनाङ्गराजेन कुटिलभ्रुकुटीभङ्गभीषणनिटलपट्टेनाविज्ञातसंधानमोक्षशिलीमुखसंघातवर्षिणाभियुक्तः स दुराचारो मध्यमपाण्डवो भीमसेनहतकः । ।उभौ। ततस्ततः । ।सुन्दरकः। {प्क्त्_१०८}तदो देव उहअबलमिलन्तदिप्पन्तकरितुरअपदादिसमुब्भूदधूलिणिअरेण पल्लत्थगअघडासंघादेण अ वित्थरन्तेण अन्धआरेण अन्धीकिदमुहअबलं । ण हु गगणतलं लक्खीअदि । स्क्त्छ्_१०८ ततो देव उभयबलमिलद्दीप्यमानकरितुरगपदातिसमुद्भूतधूलिनिकरेण पर्यस्तगजघटासंघातेन च विस्तीर्णमानेनान्धकारेणान्धीकृतमुभयबलम् । न खलु गगनतलं लक्ष्यते । ।उभौ। ततस्ततः । ।सुन्दरकः। {प्क्त्_१०९}तदो देव दूराकट्ठिअधणुग्गुणाच्छोडणटंकारेण गम्भीरभीसणेण जाणीअदि गज्जिदं पलअजलहरेण त्ति । स्क्त्छ्_१०९ ततो देव दूराकृष्टधनुर्गुणाच्छोटनटंकारेण गम्भीरभीषणेन ज्ञायते गर्जितं प्रलयजलधरेणेति । ।दुर्योधनः। ततस्ततः । ।सुन्दरकः। {प्क्त्_११०}तदो देव दोण्णं बि ताणमण्णोण्णसिंहणादगज्जिदपिसुणं विविहपरिमुक्कप्पहरणाहदकवअसंगलिदज्जलणविज्जुच्छडाभासुरं गम्भीरत्थणिअचापजलहरं प्पसरन्तसरधारासहस्सवरिसं जादं समरदुद्दिणं । स्क्त्छ्_११० ततो देव द्वयोरपि तयोरन्योऽन्यसिंहनादगर्जितपिशुनं विविधपरिमुक्तप्रहरणाहतकवचसंगलितज्वलनविद्युच्छटाभासुरं गम्भीरस्तनितचापजलधरं प्रसरच्छरधारासहस्रवर्षि जातं समरदुर्दिनम् । ।दुर्योधनः। ततस्ततः । ।सुन्दरकः। {प्क्त्_१११}तदो अ देव एदस्सिमन्तरे जेट्ठस्स भादुणो पराभवसङ्किणा धणंजएण वज्जणिग्घादणिग्घोसविसमरसिदधअअग्गट्ठिदमहावाणरो तुरंगमसंवाहणवापिदवासुदेवसङ्खचक्कासिगदालञ्छिदचौब्बाहुदण्डदुद्दंसणो आपूरिअपञ्चजण्णदेअदत्तताररसिदप्पडिरवभरिददसदिसामुहकुहरो धाविदो तमुद्देसं रहवरो । स्क्त्छ्_१११ ततश्च देव एतस्मिन्नन्तरे ज्येष्ठस्य भ्रातुः पराभवशङ्किना धनंजयेन वज्रनिर्घातनिर्घोषविषमरसितध्वजाग्रस्थितमहावानरस्तुरंगमसंवाहनव्यापृतवासुदेवशङ्खचक्रासिगदालाञ्छितचतुर्बाहुदण्डदुर्दर्शन आपूरितपाञ्चजन्यदेवदत्तताररसितप्रतिरवभरितदशदिशामुखकुहरो धावितस्तमुद्देशं रथवरः । ।दुर्योधनः। ततस्ततः । ।सुन्दरकः। {प्क्त्_११२}तदो भीमसेणधनंजएहिमभिजुत्तं पिदरं पेक्खिअ ससंभमं विअलिअमवधूणिअ रअणसीसअमाकण्णाकट्ठिदकठिणकोदण्डजीओ दाहिणहत्थुक्खित्तसरपुङ्खविघट्टणतुवराइदसारहिओ तं देसमुबगदो कुमालविससेणो । स्क्त्छ्_११२ ततो भीमसेनधनंजयाभ्यामभियुक्तं पितरं प्रेक्ष्य ससंभ्रमं विगलितमवधूय रत्नशीर्षकमाकर्णाकृष्टकठिनकोदण्डजीवः दक्षिणहस्तोत्क्षिप्तशरपुङ्खविघट्टनत्वरितसारथिस्तं देशमुपगतः कुमारवृषसेनः । ।दुर्योधनः। *सावष्ठम्भम्** ततस्ततः । ।सुन्दरकः। {प्क्त्_११३}तदो अ देव तेण आअच्छन्तेण एव्व कुमालविससेणेण विदलिदासिलदासामलसिणिद्धपुङ्खेहिं कठिणकङ्कबत्तेहिं किसणवण्णेहिं साणसिलाणिसिदसामलसल्लबन्धेहिं कुसुमिदो विअ तरू मुहुत्तएण सिलीमुहेहिं पच्छादिदो धणंजअस्स रहवरो । स्क्त्छ्_११३ ततश्च देव तेनागच्छतैव कुमारवृषसेनेन विदलितासिलताश्यामलस्निग्धपुङ्खैः कठिनकङ्कपत्रैः कृष्णवर्णैः शाणशिलानिशितश्यामलशल्यबन्धैः कुसुमित इव तरुर्मुहूर्तेन शिलीमुखैः प्रच्छादितो धनंजयस्य रथवरः । ।उभौ। *सहर्षम्** ततस्ततः । ।सुन्दरकः। {प्क्त्_११४}तदो देव तिक्खविक्खित्तणिसिदभल्लबाणवरिसिणा धणंजएण ईसि विहसिअ भणिदं । अरे रे विससेण पिदुणो बि दाव दे ण जुत्तं मह कुबिदस्स अभिमुहं ठादुं । किमुण भवदो बालस्स । ता गच्छ । अबरेहिं कुमारेहिं सह आओधेहि त्ति । एव्वं वाअं णिसमिअ गुरअणाहिक्खेबेण उद्दीबिअकोबोबरत्तमुहमण्डलविअम्भिअभिउडीभङ्गभीसणेण चाबधारिणा कुमालविससेणेण बि मम्मभेदएहिं परुसविसमेहिं सुदिवहकिदप्पणएहिं णिब्भच्छिदो गण्डीवी बाणेहिं ण उण दुट्ठवअणेहिं । स्क्त्छ्_११४ ततो देव तीक्ष्णविक्षिप्तनिशितभल्लबाणवर्षिणा धनंजयेनेषद्विहस्य भणितम् । अरे रे वृषसेन पितुरपि तावत्ते न युक्तं मम कुपितस्याभिमुखं स्थातुम् । किं पुनर्भवतो बालस्य । तद्गच्छ । अपरैः कुमारैः सहायुध्यस्वेति । एवं वाचं निशम्य गुरुजनाधिक्षेपेणोद्दीपितकोपोपरक्तमुखमण्डलविजृम्भितभ्रुकुटीभङ्गभीषणेन चापधारिणा कुमारवृषसेनेनापि मर्मभेदकैः परुषविषमैः श्रुतिपथकृतप्रणयैर्निर्भर्त्सितो गाण्डीवी बाणैर्न पुनर्दुष्टवचनैः । ।दुर्योधनः। साधु वृषसेन साधु । सुन्दरक ततस्ततः । ।सुन्दरकः। {प्क्त्_११५}तदो देव णिसिदसराभिघादवेअणोपजादमण्णुणा किरीटिणा चण्डगण्डीवजीआसद्दणिज्जिदवज्जणिग्घादघोसेण बाणणिपदणपडिसिद्धदंसणप्पसरेण पत्थुदं सिक्खाबलाणुरूबं किं बि अच्चलिअं । स्क्त्छ्_११५ ततो देव निशितशराभिघातवेदनोपजातमन्युना किरीटिना चण्डगाण्डीवजीवाशब्दनिर्जितवज्रनिर्घातघोषेण बाणनिपतनप्रतिषिद्धदर्शनप्रसरेण प्रस्तुतं शिक्षाबलानुरूपं किमप्याश्चर्यम् । ।दुर्योधनः। *साकूतम्** ततस्ततः । ।सुन्दरकः। {प्क्त्_११६}तदो अ देव तं तारिसं पेक्खिअ सत्तुणो समरव्वाबारचौरत्तणमविभाविअतूणीरमुहधणुग्गुणगमणागमणसरसंधाणमोक्खचडुलकरअलेण कुमालविससेणेण बि सविसेसं पत्थुदं समलकम्म । स्क्त्छ्_११६ ततश्च देव तत्तादृशं प्रेक्ष्य शत्रोः समरव्यापारचतुरत्वमविभाविततूणीरमुखधनुर्गुणगमनागमनशरसंधानमोक्षचटुलकरतलेन कुमारवृषसेनेनापि सविशेषं प्रस्तुतं समरकर्म । ।दुर्योधनः। ततस्ततः । ।सुन्दरकः। {प्क्त्_११७}तदो देव एत्थन्तरे विमुक्कसमरव्वाबारो मुहुत्तविस्समिदवेराणुबन्धो दोणं बि कुरुराअपण्डवबलाणं साहु कुमालविससेण साहु त्ति किदकलअलो वीरलोओ अवलोइदुं पौत्तो । स्क्त्छ्_११७ ततो देव अत्रान्तरे विमुक्तसमरव्यापारो मुहूर्तविश्रमितवैरानुबन्धो द्वयोरपि कुरुराजपाण्डवबलयोः साधु कुमारवृषसेन साध्विति कृतकलकलो वीरलोकोऽवलोकयितुं प्रवृत्तः । ।दुर्योधनः। *सविस्मयम्** ततस्ततः । ।सुन्दरकः। {प्क्त्_११८}तदो अ देव अवहीरिदसअलधाणुक्कचक्कपरक्कमसालिणो सुदस्स तहाविहेण समलकम्मालम्भेण हरिसरोसकरुणासंकडे वट्टमाणस्स सामिणो अङ्गराअस्स णिपडिआ सरपद्धई भीमसेणे बप्फपज्जाउला दिट्ठी कुमालविससेणे । स्क्त्छ्_११८ ततश्च देव अवधीरितसकलधानुष्कचक्रपराक्रमशालिनः सुतस्य तथाविधेन समरकर्मारम्भेण हर्षरोषकरुणासंकटे वर्तमानस्य स्वामिनोऽङ्गराजस्य निपतिता शरपद्धतिर्भीमसेने बाष्पपर्याकुला दृष्टिः कुमारवृषसेने । ।दुर्योधनः। *सभयम्** ततस्ततः । ।सुन्दरकः। {प्क्त्_११९}तदो अ देव उहअबलप्पौत्तसाहुकारामरिसिदेण सरवरिसप्पज्जलिदेण गण्डीविणा तुरएसु सारहिं पि रहवरे धणुं पि जीआइं पि णलिन्दलञ्छणे सिदादबत्ते बि अ वाबारिदो समं सिलीमुहासारो । स्क्त्छ्_११९ ततश्च देव उभयबलप्रवृत्तसाधुकारामर्षितेन शरवर्षप्रज्वलितेन गाण्डीविना तुरगेषु सारथावपि रथवरे धनुष्यपि जीवायामपि नरेन्द्रलाञ्छने सितातपत्रेऽपि च व्यापारितः समं शिलीमुखासारः । ।दुर्योधनः। *सभयम्** ततस्ततः । ।सुन्दरकः। {प्क्त्_१२०}तदो देव विरहो लूणगुणकोदण्डो परिब्भमणव्वाबारमेत्तप्पडिसिद्धसरसंपादो मण्डलेहिं विअरिदुं पौत्तो कुमालो । स्क्त्छ्_१२० ततो देव विरथो लूनगुणकोदण्डः परिभ्रमणव्यापारमात्रप्रतिषिद्धशरसंपातो मण्डलैर्विचरितुं प्रवृत्तः कमारः । ।दुर्योधनः। *साशङ्कम्** ततस्ततः । ।सुन्दरकः। {प्क्त्_१२१}तदो देव सुदरहविद्धंसणामरिसुद्दीबिदेण सामिणा अङ्गराएण अगणिअभीमसेणाभिजोएण परिमुक्को धणंजअस्स उबरि सिलीमुहासारो । कुमालो बि परिजणोबणीदमण्णं रहमारुहिअ पुणो बि पौत्तो धणंजएण सह आओधेदुं । स्क्त्छ्_१२१ ततो देव सुतरथविध्वंसनामर्षोद्दीपितेन स्वामिनाङ्गराजेनागणितभीमसेनाभियोगेन परिमुक्तो धनंजयस्योपरि शिलीमुखासारः । कुमारोऽपि परिजनोपनीतमन्यं रथमारुह्य पुनरपि प्रवृत्तो धनंजयेन सहायोद्धुम् । ।उभौ। साधु वृषसेन साधु । ततस्ततः । ।सुन्दरकः। {प्क्त्_१२२}तदो देव भणिदम कुमालेण रे रे तादाहिक्खेबमुहल मज्झमपण्डव मह सरा तुह सरीरमुज्झिअ अण्णस्सिं ण णिबडन्ति । त्ति भणिअ सरसहस्सेहिं पण्डवसरीरं पच्छादिअ सिंहणादेण गज्जिदुं पौत्तो । स्क्त्छ्_१२२ ततो देव भणितं च कुमारेण रे रे ताताधिक्षेपमुखर मध्यमपाण्डव मम शरास्तव शरीरमुज्झित्वान्यस्मिन्न निपतन्ति । इति भणित्वा शरसहस्रैः पाण्डवशरीरं प्रच्छाद्य सिंहनादेन गर्जितुं प्रवृत्तः । ।दुर्योधनः। *सविस्मयम्** अहो बालस्य पराक्रमो मुग्धस्वभावोऽपि । ततस्ततः । ।सुन्दरकः। {प्क्त्_१२३}तदो अ देव तं सरसंपादं समवधूणिअ णिसिदसराभिघादजादमण्णुणा किरीटिणा गहिदा रहुच्छङ्गादो कणन्तकणअकिङ्किणीजालझंकारविराइणी मेहोबरोहविमुक्कणहत्थलणिम्मला णिसिदसामलसिणिद्धमुही विविहरअणप्पहाभासुरभीसणरमणीअदंसणा सत्ती सोबहासं विमुक्का अ कुमालाहिमुही । स्क्त्छ्_१२३ ततश्च देव तं शरसंपातं समवधूय निशितशराभिघातजातमन्युना किरीटिना गृहीता रथोत्सङ्गात्क्वणत्कनककिङ्किणीजालझंकारविराविणी मेघोपरोधविमुक्तनभस्तलनिर्मला निशितश्यामलस्निग्धमुखी विविधरत्नप्रभाभासुरभीषणरमणीयदर्शना शक्तिः सोपहासं विमुक्ता च कुमाराभिमुखी । ।दुर्योधनः। *सविषादम्** अहह । ततस्ततः । ।सुन्दरकः। {प्क्त्_१२४}तदो अ देव पज्जलन्तिं सत्तिं पेक्खिअ विअलिअमङ्गराअस्स हत्थादो ससरं धणुं हिअआदो वीरसुलहो उच्छाहो णअणादो बाप्फसलिलं वअणादो रसिदं । हसिदम धणंजएण सिंहणादं विणादिदं विओदलेण दुक्कलं दुक्कलं त्ति आक्कन्दिदं कुरुबलेण । स्क्त्छ्_१२४ ततश्च देव प्रज्वलन्तीं शक्तिं प्रेक्ष्य विगलितमङ्गराजस्य हस्तात्सशरं धनुर्हृदयाद्वीरसुलभ उत्साहो नयनाद्बाष्पसलिलं वदनाद्रसितम् । हसितं च धनंजयेन सिंहनादं विनादितं वृकोदरेण दुष्करं दुष्करमित्याक्रन्दितं कुरुबलेन । ।दुर्योधनः। *सविषादम्** ततस्ततः । ।सुन्दरकः। {प्क्त्_१२५}तदो देव कुमालविससेणेण आकण्णाकिट्ठणिसिदखुरप्पेहिं चिरं णिज्झाइअ अद्धपहे एव्व भाईरही विअ भअवदा विसमलोअणेण तिधा किदा सत्ती । स्क्त्छ्_१२५ ततो देव कुमारवृषसेनेनाकर्णाकृष्टनिशितक्षुरप्रैश्चिरं निध्यायार्धपथ एव भागीरथीव भगवता विषमलोचनेन त्रिधा कृता शक्तिः । ।दुर्योधनः। साधु वृषसेन साधु । ततस्ततः । ।सुन्दरकः। {प्क्त्_१२६}तदो अ देव एदस्सिमन्तरे किदकलकलमुहरेण वीरलोअसाहुवादेण अन्तरिदो समरतूररवो । सिद्धचालणगणविमुक्ककुसुमप्पकरेण पच्छादिदं समलङ्गणं । स्क्त्छ्_१२६ ततश्च देव एतस्मिन्नन्तरे कृतकलकलमुखरेण वीरलोकसाधुवादेनान्तरितः समरतूर्यरवः । सिद्धचारणगणविमुक्तकुसुमप्रकरेण प्रच्छादितं समराङ्गणम् । ।दुर्योधनः। अहो बालस्य पराक्रमः । ततस्ततः । ।सुन्दरकः। {प्क्त्_१२७}तदो अ देव भणिअं सामिणा अङ्गराएण । भो विओदल असमत्तो तुह मह बि समलव्वाबारो । ता अणुमण्ण मं मुहुत्तअं । पेक्खाम दाव वच्छस्स तुह भादुणो अ धणुव्वेदसिक्खाणिउणत्तणं । तुह बि एदं पेक्खणीअं त्ति । स्क्त्छ्_१२७ ततश्च देव भणितं स्वामिनाङ्गराजेन । भो वृकोदर असमाप्तस्तव ममापि समरव्यापारः । तदनुमन्यस्व मां मुहूर्तम् । प्रेक्षावहे तावद्वत्सस्य तव भ्रातुश्च धनुर्वेदशिक्षानिपुणत्वम् । तवाप्येतत्प्रेक्षणीयमिति । ।दुर्योधनः। ततस्ततः । ।सुन्दरकः। {प्क्त्_१२८}तदो देव विरदा रणव्वाबारणिब्बन्धादो मुहुत्तअं पसमिदवेरा दुवे बि पेक्खआ जादा भीमसेणङ्गराआ । स्क्त्छ्_१२८ ततो देव विरतौ रणव्यापारनिर्बन्धान्मुहूर्तं प्रशमितवैरौ द्वावपि प्रेक्षकौ जातौ भीमसेनाङ्गराजौ । ।दुर्योधनः। *साभिप्रायम्** ततस्ततः । ।सुन्दरकः। {प्क्त्_१२९}तदो अ देव एदस्सिमन्तरे सत्तिखण्डणामरिसिदेण गण्डीविणा भणिअं । अरे रे दुज्जोहणप्पमुहा ।*इत्यर्धोक्ते लज्जां नाटयति** स्क्त्छ्_१२९ ततश्च देव एतस्मिन्नन्तरे शक्तिखण्डनामर्षितेन गाण्डीविना भणितम् । अरे रे दुर्योधनप्रमुखाः । ।दुर्योधनः। सुन्दरक कथ्यताम् । परवचनमेतत् । ।सुन्दरकः। {प्क्त्_१३०}सुणादु देवो । अरे दुज्जोहणप्पमुहा कुरुबलसेणापहुणआ अरे अविणअणोकण्णधार कण्ण तुम्हेहिं मह परोक्खं बहुहिं महोरहेहिं परिवारिअ एआई मह पुत्तओ अहिमण्णू वाबादिदो । अहमुण तुम्हाणं पेक्खन्ताणमेव्व एदं कुमालविससेणं सुमरिदव्वसेसं करोमि । त्ति भणिअ सगव्वमाप्फालिदं णेण वज्जणिग्घादणिग्घोसभीसणजीआरवं गण्डीवं । सामिणा बि सज्जीकिदं कालपुट्ठं । स्क्त्छ्_१३० शृणोतु देवः । अरे दुर्योधनप्रमुखाः कुरुबलसेनाप्रभवः अरे अविनयनौकर्णधार कर्ण युष्माभिर्मम परोक्षं बहुभिर्महारथैः परिवृत्यैकाकी मम पुत्रकोऽभिमन्युर्व्यापादितः । अहं पुनर्युष्माकं प्रेक्षमाणानामेवैतं कुमारवृषसेनं स्मर्तव्यशेषं करोमि । इति भणित्वा सगर्वमास्फालितमनेन वज्रनिर्घातनिर्घोषभीषणजीवारवं गाण्डीवम् । स्वामिनापि सज्जीकृतं कालपृष्ठम् । ।दुर्योधनः। *सावहित्थम्** ततस्ततः । ।सुन्दरकः। {प्क्त्_१३१}तदो अ देव पडिसिद्धभीमसेणसमलकम्मालम्भेण गण्डीविणा विरैदा अङ्गराअविससेणरहकूलंकसाओ दुवे बाणणईओ । तेहिं बि दुवेहिमण्णोण्णसिणेहदंसिदसिक्खाविसेसेहिमहिजुत्तो सो दुराआरो मज्झमपण्डओ । स्क्त्छ्_१३१ ततश्च देव प्रतिषिद्धभीमसेनसमरकर्मारम्भेण गाण्डीविना विरचिते अङ्गराजवृषसेनरथकूलंकषे द्वे बाणनद्यौ । ताभ्यामपि द्वाभ्यामन्योऽन्यस्नेहदर्शितशिक्षाविशेषाभ्यामभियुक्तः स दुराचारो मध्यमपाण्डवः । ।दुर्योधनः। ततस्ततः । ।सुन्दरकः। {प्क्त्_१३२}तदो अ देव गण्डीविणा ताररसिदजीआणिग्घोसमेत्तविण्णादबाणवरिसेण तह आअरिदं पत्तिहिं जह ण णहत्थलं ण सामी ण रहो ण धरणी ण कुमालो ण केदुवंसो ण बलाइं ण सारही ण तुलंगमा ण दिसाओ ण वीरलोओ अ लक्खीअदि । स्क्त्छ्_१३२ ततश्च देव गाण्डीविना ताररसितजीवानिर्घोषमात्रविज्ञातबाणवर्षेण तथाचरितं पत्रिभिर्यथा न नभस्तलं न स्वामी न रथो न धरणी न कुमारो न केतुवंशो न बलानि न सारथिर्न तुरंगमा न दिशो न वीरलोकश्च लक्ष्यते । ।दुर्योधनः। *सविस्मयम्** ततस्ततः । ।सुन्दरकः। {प्क्त्_१३३}तदो अ देव अदिक्कन्ते सरवरिसे खणमेत्तमेव्व सहरिससिंहणादे पण्डवसेण्णे सविसादमुक्कक्कन्दे कोरवबले समुत्थिदो महन्तो कलअलो हा हदो कुमालविससेणो त्ति । स्क्त्छ्_१३३ ततश्च देव अतिक्रान्ते शरवर्षे क्षणमात्रमेव सहर्षसिंहनादे पाण्डवसैन्ये सविषादमुक्ताक्रन्दे कौरवबले समुत्थितो महान्कलकलो हा हतः कुमारवृषसेन इति । ।दुर्योधनः। *सबाष्परोधम्** ततस्ततः । ।सुन्दरकः। {प्क्त्_१३४}तदो देव पेक्खामि कुमालं हदसारहितुलंगं लूणादबत्तचाबचामरकेदुवंसं सग्गब्भट्ठं विअ सुलकुमालमेक्केण एव्व हिअअमम्मभेदिणा सिलीमुहेण भिण्णदेहं रहमज्झे पल्लत्थं । स्क्त्छ्_१३४ ततो देव प्रेक्षे कुमारं हतसारथितुरंगं लूनातपत्रचापचामरकेतुवंशं स्वर्गभ्रष्टमिव सुरकुमारमेकेनैव हृदयमर्मभेदिना शिलीमुखेन भिन्नदेहं रथमध्ये पर्यस्तम् । ।दुर्योधनः। *सास्रम्** अहह कुमार वृषसेन । अलमतः परं श्रुत्वा । हा वत्स हा मदङ्कदुर्ललित हा मदाज्ञाकर हा गदायुधप्रियशिष्य हा शौर्यसागर हा राधेयकुलप्ररोह हा प्रियदर्शन हा दुःशासननिर्विशेष हा सर्वगुरुवत्सल प्रयच्छ मे प्रतिवचनम् । श्लोक ४.१० पर्याप्तनेत्रमचिरोदितचन्द्रकान्त मुद्भिद्यमाननवयौवनरम्यशोभम् । प्राणापहारपरिवर्तितदृष्टि दृष्टं œ कर्णेन तत्कथमिवाननपङ्कजं ते ॥ ४.१० ॥ ।सूतः। आयुष्मन्नलमत्यन्तदुःखावेगेन । ।दुर्योधनः। सूत पुण्यवन्तो हि दुःखभाजो भवन्ति । अस्माकं पुनः श्लोक ४.११ प्रत्यक्षं हतबन्धूनामेतत्परिभवाग्निना । हृदयं दह्यतेऽत्यर्थं कुतो दुःखं कुतो व्यथा ॥ ४.११ ॥ *इति मोहमुपगतः** ।सूतः। समाश्वसितु समाश्वसितु महाराजः ।*इति पटान्तेन वीजयति** ।दुर्योधनः। *लब्धसंज्ञः** भद्र सुन्दरक ततो वयस्येन किं प्रतिपन्नमङ्गराजेन । ।सुन्दरकः। {प्क्त्_१३५}तदो अ देव तहाविधस्स पुत्तस्स दंसणेण संगलिदमस्सुजलमुज्झिअ अणबेक्खिदपरप्पहरणाभिओएण सामिणा अङ्गराएण अभिजुत्तो धणंजओ । तम सुदवहामरिसुद्दीबिदपरक्कमं विमुक्कजीविदासं तह परक्कमन्तं पेक्खिअ भीमणौलसहदेवपञ्चालप्पमुहेहिमन्तरिदो धणंजअस्स रहवरो । स्क्त्छ्_१३५ ततश्च देव तथाविधस्य पुत्रस्य दर्शनेन संगलितमश्रुजलमुज्झित्वानवेक्षितपरप्रहरणाभियोगेन स्वामिनाङ्गराजेनाभियुक्तो धनंजयः । तं च सुतवधामर्षोद्दीपितपराक्रमं विमुक्तजीविताशं तथा पराक्रमन्तं प्रेक्ष्य भीमनकुलसहदेवपाञ्चालप्रमुखैरन्तरितो धनंजयस्य रथवरः । ।दुर्योधनः। ततस्ततः । ।सुन्दरकः। {प्क्त्_१३६}तदो देव सल्लेन भणिदं । अङ्गराअ क्खलिदतुलंगमो मथिदचक्कणेमिकूबरो दे रहो । ता ण जुत्तं भीमज्जुणेहिं सह आजुज्जिदुं । त्ति भणिअ णिवत्तिदो रहो ओदारिदो सामी सन्दणादो बहुप्पआरम समस्सासिदो । स्क्त्छ्_१३६ ततो देव शल्येन भणितम् । अङ्गराज स्खलिततुरंगमो मथितचक्रनेमिकूबरस्ते रथः । तन्न युक्तं भीमार्जुनाभ्यां सहायोद्धुम् । इति भणित्वा निर्वर्तितो रथोऽवतारितः स्वामी स्यन्दनाद्बहुप्रकारं च समाश्वासितः । ।दुर्योधनः। ततस्ततः । ।सुन्दरकः। {प्क्त्_१३७}तदो अ सामिणा सुइरं विलबिअ परिअणोबणीदमण्णं रहं पेक्खिअ दीहं णिस्ससिअ मै दिट्ठी विणिक्खित्ता । सुन्दरअ एहि त्ति भणिदम । तदो अहमुबगदो सामिसमीबं । तदो अबणीअ सीसट्ठाणादो पट्टिअं सरीरसंगलिदेहिं सोणिअबिन्दूहिं लित्तमुहं बाणं कदुअ अवलिहिअ पेसिदो देवस्स संदेसो ।*इति पट्टकामर्पयति** स्क्त्छ्_१३७ ततश्च स्वामिना सुचिरं विलप्य परिजनोपनीतमन्यं रथं प्रेक्ष्य दीर्घं निःश्वस्य मयि दृष्टिर्विनिक्षिप्ता । सुन्दरक एहीति भणितं च । ततोऽहमुपगतः स्वामिसमीपम् । ततोऽपनीय शीर्षस्थानात्पट्टिकां शरीरसंगलितैः शोणितबिन्दुभिर्लिप्तमुखं बाणं कृत्वाभिलिख्य प्रेषितो देवस्य संदेशः । ।दुर्योधनः। *गृहीत्वा वाचयति** स्वस्ति । महाराजदुर्योधनं समराङ्गणात्कर्ण एतदन्तं कण्ठे गाढमालिङ्ग्य विज्ञापयति । श्लोक ४.१२ अस्त्रग्रामविधौ कृती न समरेष्वस्यास्ति तुल्यः पुमा न्भ्रातृभ्योऽपि ममाधिकोऽयममुना जेयाः पृथासूनवः । त्वत्संभावित इत्यहं न च हतो दुःशासनारिर्मया œ त्वं दुःखप्रतिकारमेहि भुजयोर्वीर्येण बाष्पेण वा ॥ ४.१२ ॥ वयस्य कर्ण किमिदं भ्रातृशतवधदुःखितं मामपरेण वाक्शल्येन घट्टयसि । भद्र सुन्दरक अथेदानीं किमारम्भोऽङ्गराजः । ।सुन्दरकः। {प्क्त्_१३८}देव अबणीदसरीरावरणो अत्तवहकिदणिच्चओ पुणो बि पत्थेण सह समलं मग्गेदि । स्क्त्छ्_१३८ देव अपनीतशरीरावरण आत्मवधकृतनिश्चयः पुनरपि पार्थेन सह समरं मार्गयते । ।दुर्योधनः। *आवेगादासनादुत्तिष्ठन्** सूत रथमुपनय । सुन्दरक त्वमपि मद्वचनात्त्वरिततरं गत्वा वयस्यमङ्गराजं प्रतिबोधय । अलमतिसाहसेन । अभिन्न एवायमावयोः संकल्पः । न खलु भवानेको जीवितपरित्यागाकाङ्क्षी । किं तु श्लोक ४.१३ हत्वा पार्थान्सलिलमशिवं बन्धुवर्गाय दत्त्वा मुक्त्वा बाष्पं सह कतिपयैर्मन्त्रिभिश्चारिभिश्च । कृत्वान्योऽन्यं सुचिरमपुनर्भावि गाढोपगूढं œ संत्यक्ष्यावो हततनुमिमां दुःखितौ निर्वृतौ च ॥ ४.१३ ॥ अथ च शोकं प्रति मया न किंचित्संदेष्टव्यम् । श्लोक ४.१४ वृषसेनो न ते पुत्रो न मे दुःशासनोऽनुजः । त्वां बोधयामि किमहं त्वं मां संस्थापयिष्यसि ॥ ४.१४ ॥ ।सुन्दरकः। {प्क्त्_१३९}जं देवो आणबेदि ।*इति निष्क्रान्तः** स्क्त्छ्_१३९ यद्देव आज्ञापयति । ।दुर्योधनः। तूर्णमेव रथमुपस्थापय । ।सूतः। *कर्णं दत्त्वा** देव ह्रेषासंवलितो नेमिध्वनिः श्रूयते । तथा तर्कयामि नूनं परिजनोपनीतो रथः । ।दुर्योधनः। सूत गच्छ त्वं सज्जीकुरु । ।सूतः। यदाज्ञापयति देवः ।*इति निष्क्रम्य पुनः प्रविशति** ।दुर्योधनः। *विलोक्य** किमिति नारूढोऽसि । ।सूतः। एष खलु तातोऽम्बा च संजयाधिष्ठितं रथमारुह्य देवस्य समीपमुपगतौ । ।दुर्योधनः। किं नाम तातोऽम्बा च संप्राप्तौ । कष्टमतिबीभत्समाचरितं दैवेन । सूत गच्छ त्वं स्यन्दनं तूर्णमुपहर । अहमपि तातदर्शनं परिहरन्नेकान्ते तिष्ठामि । ।सूतः। देव त्वदेकशेषबान्धवावेतौ कथमिव न समाश्वासयसि । ।दुर्योधनः। सूत कथमिव समाश्वासयामि विमुखभागधेयः । पश्य । श्लोक ४.१५ अद्यैवावां रणमुपगतौ तातमम्बां च दृष्ट्वा घ्रातस्ताभ्यां शिरसि विनतोऽहं च दुःशासनश्च । तस्मिन्बाले प्रसभमरिणा प्रापिते तामवस्थां œ पार्श्वं पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा ॥ ४.१५ ॥ तथाप्यवश्यं वन्दनीयौ गुरू । *इति निष्क्रान्तौ** इति चतुर्थोऽङ्कः । अच्त्_५ पञ्चमोऽङ्कः । *ततः प्रविशति रथयानेन गान्धारी संजयो धृतराष्ट्रश्च** ।धृतराष्ट्रः। वत्स संजय कथय कथय कस्मिन्नुद्देशे कुरुकुलकाननैकप्रवालो वत्सो मे दुर्योधनस्तिष्ठति । कच्चिज्जीवति वा न वा । ।गान्धारी। {प्क्त्_१४०}जाद जै सच्चं जीवदि मे वच्छो ता कधेहि कस्सिं देसे वट्टदि । स्क्त्छ्_१४० जात यदि सत्यं जीवति मे वत्सस्तत्कथय कस्मिन्देशे वर्तते । ।संजयः। नन्वेष महाराज एक एव न्यग्रोधच्छायायामुपविष्टस्तिष्ठति । ।गान्धारी। {प्क्त्_१४१}*सकरुणम्** जाद एआई त्ति भणासि । किं णु क्खु संपदं भादुसदं से पासे भविस्सदि । स्क्त्छ्_१४१ जात एकाकीति भणसि । किं नु खलु सांप्रतं भ्रातृशतमस्य पार्श्वे भविष्यति । ।संजयः। तात अम्ब अवतरतं स्वैरं रथात् । *उभाववतरणं नाटयतः** *ततः प्रविशति सव्रीडमुपविष्टो दुर्योधनः** ।संजयः। *उपसृत्य** विजयतां महाराजः । नन्वेष तातोऽम्बया सह प्राप्तः । किं न पश्यति महाराजः । *दुर्योधनो वैलक्ष्यं नाटयति** ।धृतराष्ट्रः। श्लोक ५.१ शल्यानि व्यपनीय कङ्कवदनैरुन्मोचिते कङ्कटे बद्धेषु व्रणपट्टकेषु शनकैः कर्णे कृतापाश्रयः । दूरान्निर्जितसान्त्वितान्नरपतीनालोकय§ल्लीलया œ सह्या पुत्रक वेदनेति न मया पापेन पृष्टो भवान् ॥ ५.१ ॥ *धृतराष्ट्रो गान्धारी च स्पर्शेनोपेत्यालिङ्गतः** ।गान्धारी। {प्क्त्_१४२}वच्छ अदिगाढप्पहारवेअणापज्जाउलस्स अम्हेसु संणिहिदेसु बि ण पसरदि दे वाणी । स्क्त्छ्_१४२ वत्स अतिगाढप्रहारवेदनापर्याकुलस्यास्मासु संनिहितेष्वपि न प्रसरति ते वाणी । ।धृतराष्ट्रः। वत्स दुर्योधन किमकृतपूर्वः संप्रति मय्यप्ययमव्याहारः । ।गान्धारी। {प्क्त्_१४३}वच्छ जै तुमं बि अम्हे णालबसि ता किं संपदं वच्छो दुस्सासणो आलबदु दुम्मरिसणो वा अध अण्णो वा ।*इति रोदिति** स्क्त्छ्_१४३ वत्स यदि त्वमप्यस्मान्नालपसि तत्किं सांप्रतं वत्सो दुःशासन आलपतु दुर्मर्षणो वाथान्यो वा । ।दुर्योधनः। श्लोक ५.२ पापोऽहमप्रतिकृतानुजनाशदर्शी तातस्य बाष्पपयसां तव चाम्ब हेतुः । दुर्जातमत्र विमले भरतान्ववाये œ किं मां सुतक्षयकरं सुत इत्यवैषि ॥ ५.२ ॥ ।गान्धारी। {प्क्त्_१४४}जाद अलं परिदेविदेण । तुमं बि दाव एक्को इमस्स अन्धजुअलस्स मग्गोबदेसओ । ता चिरं जीव । किं मे रज्जेण जएण वा । स्क्त्छ्_१४४ जात अलं परिदेवितेन । त्वमपि तावदेकोऽस्यान्धयुगलस्य मार्गोपदेशकः । तच्चिरं जीव । किं मे राज्येन जयेन वा । ।दुर्योधनः। श्लोक ५.३ मातः किमप्यसदृशं कृपणं वचस्ते सुक्षत्रिया क्व भवती क्व च दीनतैषा । निर्वत्सले सुतशतस्य विपत्तिमेतां œ त्वं नानुचिन्तयसि रक्षसि मामयोग्यम् ॥ ५.३ ॥ नूनं विचेष्टितमिदं सुतशोकस्य । ।संजयः। महाराज किं वायं लोकवादो वितथो न घटस्य कूपपाते रज्जुरपि तत्र प्रक्षेप्तव्येति । ।दुर्योधनः। अपुष्कलमिदम् । उपक्रियमाणाभावे किमुपकरणेन ।*इति रोदिति** ।धृतराष्ट्रः। *दुर्योधनं परिष्वज्य** वत्स समाश्वसिहि समाश्वासय चास्मानिमामतिदीनां मातरं च । ।दुर्योधनः। तात दुर्लभः समाश्वास इदानीं युष्माकम् । किं तु श्लोक ५.४ कुन्त्या सह युवामद्य मया निहतपुत्रया । विराजमानौ शोकेऽपि तनयाननुशोचतम् ॥ ५.४ ॥ ।गान्धारी। {प्क्त्_१४५}जाद एदमेव्व संपदं पभूदं जं तुमं बि दाव एक्को जीवसि । ता जाद अकालो दे समरस्स । पसीद । एसो दे सीसञ्जली । णिवत्तीअदु समरव्वाबारादो । अपच्छिमं करेहि मे वअणं । स्क्त्छ्_१४५ जात एतदेव सांप्रतं प्रभूतं यत्त्वमपि तावदेको जीवसि । तज्जात अकालस्ते समरस्य । प्रसीद । एष ते शीर्षाञ्जलिः । निवर्त्यतां समरव्यापारात् । अपश्चिमं कुरु मे वचनम् । ।धृतराष्ट्रः। वत्स शृणु वचनं तवाम्बाया मम च निहताशेषबन्धुवर्गस्य । पश्य । श्लोक ५.५ दायादा न ययोर्बलेन गणितास्तौ द्रोणभीष्मौ हतौ कर्णस्यात्मजमग्रतः शमयतो भीतं जगत्फाल्गुनात् । वत्सानां निधनेन मे त्वयि रिपुः शेषप्रतिज्ञोऽधुना œ मानं वैरिषु मुञ्च तात पितरावन्धाविमौ पालय ॥ ५.५ ॥ ।दुर्योधनः। समरात्प्रतिनिवृत्य किं मया कर्तव्यम् । ।गान्धारी। {प्क्त्_१४६}जाद जं पिदा दे विउरो वा भणादि । स्क्त्छ्_१४६ जात यत्पिता ते विदुरो वा भणति । ।संजयः। देव एवमिदम् । ।दुर्योधनः। संजय अद्याप्युपदेष्टव्यमस्ति । ।संजयः। देव यावत्प्राणिति तावदुपदेष्टव्यभूमिर्विजिगीषुः प्रज्ञावताम् । ।दुर्योधनः। *सक्रोधम्** शृणुमस्तावद्भवत एव प्रज्ञावतः संप्रत्यस्मदनुरूपमुपदेशम् । ।धृतराष्ट्रः। वत्स युक्तवादिनि संजये किमत्र क्रोधेन । यदि प्रकृतिमापद्यसे तदहमेव भवन्तं ब्रवीमि । श्रूयताम् । ।दुर्योधनः। कथयतु तातः । ।धृतराष्ट्रः। वत्स किं विस्तरेण । संधत्तां भवानिदानीमपि युधिष्ठिरमीप्सितपणबन्धेन । ।दुर्योधनः। तात तनयस्नेहवैक्लव्यादम्बा बालिशत्वात्संजयश्च काममेवं ब्रवीतु । युष्माकमप्येवं व्यामोहः । अथ वा प्रभवति पुत्रनाशजन्मा हृदयज्वरः । अन्यच्च तात अस्खलितभ्रातृशतोऽहं यदा तदावधीरितवासुदेवसामोपन्यासः । संप्रति हि दृष्टपितामहाचार्यानुजराजचक्रविपत्तिः स्वशरीरमात्रस्नेहादुदात्तपुरुषव्रीडावहमसुखावसानं च कथमिव करिष्यति दुर्योधनः सह पाण्डवैः संधिम् । अन्यच्च नयवेदिन्संजय श्लोक ५.६ हीयमानाः किल रिपोर्नृपाः संदधते परान् । दुःशासने हतेऽहीनाः सानुजाः पाण्डवाः कथम् ॥ ५.६ ॥ ।धृतराष्ट्रः। वत्स एवं गतेऽपि मत्प्रार्थनया न किंचिन्न करोति युधिष्ठिरः । अन्यच्च सर्वदैवाप्रकृष्टमात्मानं मन्यते युधिष्ठिरः । ।दुर्योधनः। कथमिव । ।धृतराष्ट्रः। वत्स श्रूयतां प्रतिज्ञा युधिष्ठिरस्य । नाहमेकस्यापि भ्रातुर्विपत्तौ प्राणान्धारयामीति । बहुच्छलत्वात्संग्रामस्यानुजनाशमाशङ्कमानो यदैव भवते रोचते तदैवासौ सज्जः संधातुम् । ।संजयः। एवमिदम् । ।गान्धारी। {प्क्त्_१४७}जाद उपपत्तिजुत्तं पडिबज्जस्स पिदुणो वअणं । स्क्त्छ्_१४७ जात उपपत्तियुक्तं प्रतिपद्यस्व पितुर्वचनम् । ।दुर्योधनः। तात अम्ब संजय श्लोक ५.७ एकेनापि विनानुजेन मरणं पार्थः प्रतिज्ञातवा न्भ्रात्ःणां निहते शतेऽभिलषते दुर्योधनो जीवितुम् । तं दुःशासनशोणिताशनमरिं भिन्नं गदाकोटिभि œ र्भीमं दिक्षु न विक्षिपामि कृपणः संधिं विदध्यामहम् ॥ ५.७ ॥ ।गान्धारी। {प्क्त्_१४८}हा जाद दुस्सासण हा मदङ्कदुल्ललित हा जुअराअ अस्सुदपुव्वा क्खु कस्स बि लोए ईदिसी विपत्ती । हा वीरसदप्पसविणि हदगन्धारि दुक्खसदं पसूदासि ण उण सुदसदं । स्क्त्छ्_१४८ हा जात दुःशासन हा मदङ्कदुर्ललित हा युवराज अश्रुतपूर्वा खलु कस्यापि लोक ईदृशी विपत्तिः । हा वीरशतप्रसविनि हतगान्धारि दुःखशतं प्रसूतासि न पुनः सुतशतम् । *सर्वे रुदन्ति** ।संजयः। *बाष्पमुत्सृज्य** तात अम्ब प्रतिबोधयितुं महाराजमिमां भूमिं युवामागतौ । तदात्मापि तावत्संस्तभ्यताम् । ।धृतराष्ट्रः। वत्स दुर्योधन एवं विमुखेषु भागधेयेषु त्वयि चामुञ्चति सहजं मानमरिषु त्वदेकशेषजीवितालम्बनेयं तपस्विनी गान्धारी कमवलम्बतां शरणमहं च । ।दुर्योधनः। श्रूयतां यत्प्रतिपत्तुमिदानीं प्राप्तकालम् । श्लोक ५.८ कलितभुवना भुक्तैश्वर्यास्तिरस्कृतविद्विषः प्रणतशिरसां राज्ञां चूडासहस्रकृतार्चनाः । अभिमुखमरीन्घ्नन्तः संख्ये हताः शतात्मजा œ वहतु सगरेणोढां तातो धुरं सहितोऽम्बया ॥ ५.८ ॥ विपर्यये त्वस्याधिपतेरुल्लङ्घितः क्षात्रधर्मः स्यात् । *नेपथ्ये महान्कलकलः** ।गान्धारी। {प्क्त्_१४९}*आकर्ण्य सभयम्** जाद कहिमेदं हाहाकारमिस्सं तूररसिदं सुणीअदि । स्क्त्छ्_१४९ जात कुत्रैतद्धाहाकारमिश्रं तूर्यरसितं श्रूयते । ।संजयः। अम्ब भूमिरियमेवंविधानां भीरुजनत्रासनानां महानिनादानाम् । ।धृतराष्ट्रः। वत्स संजय ज्ञायतामतिभैरवः खलु विस्तारी हाहारवः । कारणेनास्य महता भवितव्यम् । ।दुर्योधनः। तात प्रसीद । पराङ्मुखं खलु दैवमस्माकम् । यावदपरमपि किंचिदत्याहितं न श्रावयति तावदेवाज्ञापय मां संग्रामावतरणाय । ।गान्धारी। {प्क्त्_१५०}जाद मुहुत्तअं दाव मं मन्दभाइणिं समस्सासेहि । स्क्त्छ्_१५० जात मुहूर्तं तावन्मां मन्दभाग्यां समाश्वासय । ।धृतराष्ट्रः। वत्स यद्यपि भवान्समराय कृतनिश्चयस्तथापि रहः परप्रतीघातोपायश्चिन्त्यताम् । ।दुर्योधनः। श्लोक ५.९ प्रत्यक्षं हतबान्धवा मम परे हन्तुं न योग्या रहः किं वा तेन कृतेन तैरिव कृतं यन्न प्रकाशं रणे । ।गान्धारी। {प्क्त्_१५१}जाद एआई तुमं । को दे सहाअत्तणं करिस्सदि । स्क्त्छ्_१५१ जात एकाकी त्वम् । कस्ते साहाय्यं करिष्यति । ।दुर्योधनः। श्लोक ५.९ एकोऽहं भवतीसुतक्षयकरो मातः कियन्तोऽरयः œ साम्यं केवलमेतु दैवमधुना निष्पाण्डवा मेदिनी ॥ ५.९ ॥ *नेपथ्ये । कलकलानन्तरम्** भो भो योधाः निवेदयन्तु भवन्तः कौरवेश्वराय । इदं महत्कदनं प्रवृत्तम् । अलमप्रियश्रवणपराङ्मुखतया । यतः कालानुरूपं प्रतिविधातव्यमिदानीम् । तथा हि श्लोक ५.१० त्यक्तप्राजनरश्मिरङ्किततनुः पार्थाङ्कितैर्मार्गणै र्वाहैः स्यन्दनवर्त्मनां परिचयादाकृष्यमाणः शनैः । वार्तामङ्गपतेर्विलोचनजलैरावेदयन्पृच्छतां œ शून्येनैव रथेन याति शिबिरं शल्यः कुरूञ्शल्ययन् ॥ ५.१० ॥ ।दुर्योधनः। *श्रुत्वा साशङ्कम्** आः केनेदमविस्पष्टमशनिपातदारुणमुद्घोषितम् । कः कोऽत्र भोः । *प्रविश्य संभ्रान्तः** ।सूतः। हा हताः स्मः ।*इत्यात्मानं पातयति** ।दुर्योधनः। अयि कथय कथय । ।सूतः। आयुष्मन्किमन्यत् । श्लोक ५.११ शल्येन यथा शल्येन मूर्च्छितः प्रविशता जनौघोऽयम् । शून्यं कर्णस्य रथं मनोरथमिवाधिरूढेन ॥ ५.११ ॥ ।दुर्योधनः। हा वयस्य कर्ण ।*इति मोहमुपगतः** ।गान्धारी। {प्क्त्_१५२}जाद समस्सस समस्सस । स्क्त्छ्_१५२ जात समाश्वसिहि समाश्वसिहि । ।संजयः। समाश्वसितु समाश्वसितु देवः । ।धृतराष्ट्रः। भोः कष्टं कष्टम् । श्लोक ५.१२ भीष्मे द्रोणे च निहते य आसीदवलम्बनम् । वत्स्सय मे सुहृच्छूरो राधेयः सोऽप्ययं हतः ॥ ५.१२ ॥ वत्स समाश्वसिहि समाश्वसिहि । ननु भो हतविधे श्लोक ५.१३ अन्धोऽनुभूतशतपुत्रविपत्तिदुःखः शोच्यां दशामुपगतः सह भार्ययाहम् । अस्मिन्नशेषितसुहृद्गुरुबन्धुवर्गे œ दुर्योधनेऽपि हि कृतो भवता निराशः ॥ ५.१३ ॥ वत्स दुर्योधन समाश्वसिहि समाश्वसिहि । समाश्वासय तपस्विनीं मातरं च । ।दुर्योधनः। *लब्धसंज्ञः** श्लोक ५.१४ अयि कर्ण कर्णसुखदां प्रयच्छ मे गिरमुद्गिरन्निव मुदं मयि स्थिराम् । सततावियुक्तमकृताप्रियं प्रियं œ वृषसेनवत्सल विहाय यासि माम् ॥ ५.१४ ॥ *पुनर्मोहमुपगतः** *सर्वे समाश्वासयन्ति** ।दुर्योधनः। श्लोक ५.१५ मम प्राणाधिके तस्मिन्नङ्गानामधिपे हते । उच्छ्वसन्नपि लज्जेऽहमाश्वासे तात का कथा ॥ ५.१५ ॥ अपि च श्लोक ५.१६ शोचामि शोच्यमपि शत्रुहतं न वत्सं दुःशासनं तमधुना न च बन्धुवर्गम् । येनातिदुःश्रवमसाधु कृतं तु कर्णे œ कर्तास्मि तस्य निधनं समरे कुलस्य ॥ ५.१६ ॥ ।गान्धारी। {प्क्त्_१५३}जाद सिढिलेहि दाव खणमेत्तं बप्फमोक्खं । स्क्त्छ्_१५३ जात शिथिलय तावत्क्षणमात्रं बाष्पमोक्षम् । ।धृतराष्ट्रः। वत्स क्षणमात्रं परिमार्जयाश्रूणि । ।दुर्योधनः। श्लोक ५.१७ मामुद्दिश्य त्यजन्प्राणान्केनचिन्न निवारितः । तत्कृते त्यजतो बाष्पं किं मे दीनस्य वार्यते ॥ ५.१७ ॥ सूत केनैतदसंभावनीयमस्मत्कुलान्तकरं कर्म कृतं स्यात् । ।सूतः। आयुष्मन्नेवं किल जनः कथयति । श्लोक ५.१८ भूमौ निमग्नचक्रश्चक्रायुधसारथेः शरैस्तस्य । निहतः किलेन्द्रसूनोरस्मत्सेनाकृतान्तस्य ॥ ५.१८ ॥ ।दुर्योधनः। श्लोक ५.१९ कर्णाननेन्दुस्मरणात्क्षुभितः शोकसागरः । वाडवेनेव शिखिना पीयते क्रोधजेन मे ॥ ५.१९ ॥ तात अम्ब प्रसीदतम् । श्लोक ५.२० ज्वलनः शोकजन्मा मामयं दहति दुःसहः । समानायां विपत्तौ मे वरं संशयितो रणः ॥ ५.२० ॥ ।धृतराष्ट्रः। *दुर्योधनं परिष्वज्य रुदन्** श्लोक ५.२१ भवति तनय सत्यं संशयः साहसेषु द्रवति हृदयमेतद्भीममुत्प्रेक्ष्य भीमम् । अनिकृतिनिपुणं ते चेष्टितं मानशौण्ड œ च्छलबहुलमरीणां संगरं हा हतोऽस्मि ॥ ५.२१ ॥ ।गान्धारी। {प्क्त्_१५४}जाद तेण एव्व सुदसदकदन्तेण विओदलेण समं समलं मग्गेसि । स्क्त्छ्_१५४ जात तेनैव सुतशतकृतान्तेन वृकोदरेण समं समरं मार्गयसे । ।दुर्योधनः। तिष्ठतु तावद्वृकोदरः । श्लोक ५.२२ पापेन येन हृदयस्थमनोरथो मे सर्वाङ्गचन्दनरसो नयनामलेन्दुः । पुत्रस्तवाम्ब तव तात नयैकशिष्यो œ कर्णो हतः सपदि तत्र शराः पतन्तु ॥ ५.२२ ॥ सूत अलमिदानीं कालातिपातेन । सज्जं मे रथमुपाहर । भयं चेत्पाण्डवेभ्यस्तिष्ठ । गदामात्रसहाय एव समरभुवमवतरामि । ।सूतः। अलमन्यथा संभावितेन । अयमहमागत एव ।*इति निष्क्रान्तः** ।धृतराष्ट्रः। वत्स दुर्योधन यदि स्थिर एवास्मान्दग्धुमयं ते व्यवसायस्तत्संनिहितेषु वीरेषु सेनापतिः कश्चिदभिषिच्यताम् । ।दुर्योधनः। नन्वभिषिक्त एव । ।गान्धारी। {प्क्त्_१५५}जाद कदरो उण सो जहिमेदं हदासमोलम्बिस्सं । स्क्त्छ्_१५५ जात कतरः पुनः स यत्रेमां हताशामवलम्बिष्ये । ।धृतराष्ट्रः। किं वा शल्य उत वाश्वत्थामा । ।संजयः। हा कष्टम् । श्लोक ५.२३ गते भीष्मे हते द्रोणे कर्णे च विनिपातिते । आशा बलवती राजञ्शल्यो जेष्यति पाण्डवान् ॥ ५.२३ ॥ ।दुर्योधनः। किं वा शल्येनोत वाश्वत्थाम्ना । श्लोक ५.२४ कर्णालिङ्गनदायी वा पार्थप्राणहरोऽपि वा । अनिवारितसंपातैरयमात्माश्रुवारिभिः ॥ ५.२४ ॥ *नेपथ्ये कलकलं कृत्वा** भो भोः कौरवबलप्रधानयोधा अलमस्मानवलोक्य भयादितस्ततो गमनेन । कथयन्तु भवन्तः कस्मिन्नुद्देशे सुयोधनस्तिष्ठति । *सर्वे ससंभ्रममाकर्णयन्ति** *प्रविश्य संभ्रान्तः** ।सूतः। आयुष्मन् श्लोक ५.२५ प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः । ।सर्वे। कश्च कश्च । ।सूतः। श्लोक ५.२५ स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥ ५.२५ ॥ ।गान्धारी। {प्क्त्_१५६}*सभयम्** जाद किमेत्थ पडिपज्जिदव्वं । स्क्त्छ्_१५६ जात किमत्र प्रतिपत्तव्यम् । ।दुर्योधनः। ननु संनिहितैवेयं गदा । ।गान्धारी। {प्क्त्_१५७}हा हदम्हि मन्दभाइणी । स्क्त्छ्_१५७ हा हतास्मि मन्दभागिनी । ।दुर्योधनः। अम्ब अलमिदानीं कार्पण्येन । संजय रथमारोप्य पितरौ शिबिरं प्रतिष्ठस्व । प्राप्तोऽस्मच्छोकापनोदप्रणयी जनः । ।धृतराष्ट्रः। वत्स क्षणमेकं प्रतीक्षस्व यावदनयोर्भावमुपलभे । ।दुर्योधनः। तात किमनेनोपलब्धेन । *तथा प्रविशतो रथारूढौ भीमार्जुनौ** ।भीमः। भो भोः सुयोधनानुजीविनः किमिति संभ्रमादयथायथं चरन्ति भवन्तः । अलमावयोः शङ्कया । श्लोक ५.२६ कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽतिमानी कृष्णाकेशोत्तरीयव्यपनयनमरुत्पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं œ क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमागतौ स्वः ॥ ५.२६ ॥ ।धृतराष्ट्रः। संजय दारुणः खलूपक्षेपः पापस्य । ।संजयः। तात कर्मणा कृतनिःशेषविप्रियाः संप्रति वाचा व्यवस्यन्ति । ।दुर्योधनः। सूत कथय गत्वोभयोरयं तिष्ठतीति । ।सूतः। यदाज्ञापयति देवः ।*तावुपसृत्य** भो वृकोदरार्जुनौ एष महाराजस्तातेनाम्बया च सह न्यग्रोधच्छायायामुपविष्टस्तिष्ठति । ।अर्जुनः। आर्य प्रसीद । न युक्तं पुत्रशोकपीडितौ पितरौ पुनरस्मद्दर्शनेनोद्वेजयितुम् । तद्गच्छावः । ।भीमः। मूढ अनुल्लङ्घनीयः सदाचारः । न युक्तमनभिवाद्य गुरून्गन्तुम् ।*उपसृत्य** संजय पित्रोर्नमस्कृतिं श्रावय । अथ वा तिष्ठ । स्वयं विश्राव्य नामकर्मणी वन्दनीया गुरवः ।*इति रथादवतरतः** ।अर्जुनः। *उपगम्य** तात अम्ब श्लोक ५.२७ सकलरिपुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः । रणशिरसि निहन्ता तस्य राधासुतस्य œ प्रणमति पितरौ वां मध्यमः पाण्डवोऽयम् ॥ ५.२७ ॥ ।भीमः। श्लोक ५.२८ चूर्णिताशेषकौरव्यः क्षीबो दुःशासनासृजा । भङ्क्ता सुयोधनस्योर्वोर्भीमोऽयं शिरसाञ्चति ॥ ५.२८ ॥ ।धृतराष्ट्रः। दुरात्मन्वृकोदर न खल्विदं भवतैव केवलं सपत्नानामपकृतम् । यावत्क्षत्रं तावत्समरविजयिनो जिता हताश्च वीराः । तत्किमेवं विकत्थनाभिरस्मानुद्वेजयसि । ।भीमः। तात अलं मन्युना । श्लोक ५.२९ कृष्टा केशेषु कृष्णा तव सदसि पुरः पाण्डवानां नृपैर्यैः सर्वे ते क्रोधवह्नौ कृतशलभकुलावज्ञया येन दग्धाः । एतस्माच्छ्रावयेऽहं न खलु भुजबलश्लाघया नापि दर्पा œ त्पुत्रैः पौत्रैश्च कर्मण्यतिगुरुणि कृते तात साक्षी त्वमेव ॥ ५.२९ ॥ ।दुर्योधनः। अरे रे मरुत्तनय किमेवं वृद्धस्य राज्ञः पुरतो निन्दितव्यमात्मकर्म श्लाघसे । अपि च श्लोक ५.३० कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञः तयोर्वा प्रत्यक्षं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी । अस्मिन्वैरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा œ बाह्वोर्वीर्यातिरेकद्रविणगुरुमदं मामजित्वैव दर्पः ॥ ५.३० ॥ आः दुरात्मन् । एष न भवसि ।*इति सक्रोधमुत्थाय हन्तुमिच्छति** *धृतराष्ट्रो धृत्वोपवेशयति । भीमः क्रोधं नाटयति** ।अर्जुनः। आर्य प्रसीद । किमत्र क्रोधेन । श्लोक ५.३१ अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा । हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥ ५.३१ ॥ ।भीमः। अरे रे भरतकुलकलङ्क श्लोक ५.३२ अत्रैव किं न विशसेयमहं भवन्तं दुःशासनानुगमनाय कटुप्रलापिन् । विघ्नं गुरू न कुरुतो यदि मद्गदाग्र œ निर्भिद्यमानरणितास्थनि ते शरीरे ॥ ५.३२ ॥ अन्यच्च मूढ श्लोक ५.३३ शोकैः स्त्रीवन्नयनसलिलं यत्परित्याजितोऽसि भ्रातुर्वक्षःस्थलविघटने यच्च साक्षीकृतोऽसि । आसीदेतत्तव कुनृपतेः कारणं जीवितस्य œ क्रुद्धे युष्मत्कुलकमलिनीकुञ्जरे भीमसेने ॥ ५.३३ ॥ ।दुर्योधनः। दुरात्मन्भरतकुलापसद द्यूतदास पाण्डवपशो नाहं भवानिव विकत्थनाप्रगल्भः । किं तु श्लोक ५.३४ द्रक्ष्यन्ति न चिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे । मद्गदाभिन्नवक्षोऽस्थिवेणिकाभीमभूषणम् ॥ ५.३४ ॥ ।भीमः। *विहस्य** यद्येवं नाश्रद्धेयो भवान् । तथापि प्रत्यासन्नमेव कथयामि । श्लोक ५.३५ पीनाभ्यां मद्भुजाभ्यां भ्रमितगुरुगदाघातसंचूर्णितोरोः क्रूरस्याधाय पादं तव शिरसि नृणां पश्यतां श्वः प्रभाते । त्वन्मुख्यभ्रातृचक्रोद्दलनगलदसृक्चन्दनेनानखाग्रं œ स्त्यानेनार्द्रेण चाक्तः स्वयमनुभविता भूषणं भीममस्मि ॥ ५.३५ ॥ *नेपथ्ये** भो भो भीमसेनार्जुनौ एष खलु निहताशेषारातिचक्र आक्रान्तपरशुरामाभिरामयशाः प्रतापतापितदिङ्मण्डलस्थापितस्वजनः श्रीमानजातशत्रुर्देवो युधिष्ठिरः समाज्ञापयति । ।उभौ। किमाज्ञापयत्यार्यः । *पुनर्नेपथ्ये** श्लोक ५.३६ कुर्वन्त्वाप्ता हतानां रणशिरसि जना वह्निसाद्देहभारा नश्रून्मिश्रं कथंचिद्ददतु जलममी बान्धवा बान्धवेभ्यः । मार्गन्तां ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रकङ्कै œ रस्तं भास्वान्प्रयातः सह रिपुभिरयं संह्रियन्तां बलानि ॥ ५.३६ ॥ ।उभौ। यदाज्ञापयत्यार्यः ।*इति निष्क्रान्तौ** *नेपथ्ये** अरे रे गाण्डीवाकर्षणबाहुशालिन्नर्जुनार्जुन क्वेदानीं गम्यते । श्लोक ५.३७ कर्णक्रोधेन युष्मद्विजयि धनुरिदं त्यक्तमेतान्यहानि प्रौढं विक्रान्तमासीद्वन इव भवतां शूरशून्ये रणेऽस्मिन् । स्पर्शं स्मृत्वोत्तमाङ्गे पितुरनवजितन्यस्तहेतेरुपेतः œ कल्पाग्निः पाण्डवानां द्रुपदसुतचमूघस्मरो द्रौणिरस्मि ॥ ५.३७ ॥ ।धृतराष्ट्रः। *आकर्ण्य सहर्षम्** वत्स दुर्योधन द्रोणवधपरिभवोद्दीपितक्रोधपावकः पितुरपि समधिकबलः शिक्षावानमरोपमश्चायमश्वत्थामा प्राप्तः । तत्प्रत्युपगमनेन तावदयं संभाव्यतां वीरः । ।गान्धारी। {प्क्त्_१५८}जाद पच्चुग्गच्छ एदं महाभाअं । स्क्त्छ्_१५८ जात प्रत्युद्गच्छैनं महाभागम् । ।दुर्योधनः। तात अम्ब किमनेनाङ्गराजवधाशंसिना वृथायौवनशस्त्रबलभरेण । ।धृतराष्ट्रः। वत्स न खल्वस्मिन्काले पराक्रमवतामेवंविधानां वाङ्मात्रेणापि विरागमुत्पादयितुमर्हसि । *प्रविश्य** ।अश्वत्थामा। विजयतां कौरवाधिपतिः । ।दुर्योधनः। *उत्थाय** गुरुपुत्र इत आस्यताम् ।*इत्युपवेशयति** ।अश्वत्थामा। राजन्दुर्योधन श्लोक ५.३८ कर्णेन कर्णसुभगं बहु यत्तदुक्त्वा यत्संगरेषु विहितं विदितं त्वया तत् । द्रौणिस्त्वधिज्यधनुरापतितोऽभ्यमित्र œ मेषोऽधुना त्यज नृप प्रतिकारचिन्ताम् ॥ ५.३८ ॥ ।दुर्योधनः। *साभ्यसूयम्** आचार्यपुत्र श्लोक ५.३९ अवसानेऽङ्गराजस्य योद्धव्यं भवता किल । ममाप्यन्तं प्रतीक्षस्व कः कर्णः कः सुयोधनः ॥ ५.३९ ॥ ।अश्वत्थामा। *स्वगतम्** कथमद्यापि स एव कर्णपक्षपातोऽस्मासु च परिभवः ।*प्रकाशम्** राजन्कौरवेश्वर एवं भवतु ।*इति निष्क्रान्तः** ।धृतराष्ट्रः। वत्स क एष ते व्यामोहो यदस्मिन्नपि काले एवंविधस्य महाभागस्याश्वत्थाम्नो वाक्पारुष्येणापरागमुत्पादयसि । ।दुर्योधनः। किमस्याप्रियमनृतं च मयोक्तम् । किं वा नेदं क्रोधस्थानम् । पश्य । श्लोक ५.४० अकलितमहिमानं क्षत्रियैरात्तचापैः समरशिरसि युष्मद्भाग्यदोषाद्विपन्नम् । परिवदति समक्षं मित्रमङ्गाधिराजं œ मम खलु कथयास्मिन्को विशेषोऽर्जुने वा ॥ ५.४० ॥ ।धृतराष्ट्रः। वत्स तवापि कोऽत्र दोषः । अवसानमिदानीं भरतकुलस्य । संजय किमिदानीं करोमि मन्दभाग्यः ।*विचिन्त्य** भवत्वेवं तावत् । संजय मद्वचनाद्ब्रूहि भारद्वाजमश्वत्थामानम् । श्लोक ५.४१ स्मरति न भवान्पीतं स्तन्यं विभज्य सहामुना मम च मृदितं क्षौमं बाल्ये त्वदङ्गविवर्तनैः । अनुजनिधनस्फीताच्छोकादतिप्रणयाच्च य œ द्वचनविकृतिष्वस्य क्रोधो मुधा क्रियते त्वया ॥ ५.४१ ॥ ।संजयः। यदाज्ञापयति तातः ।*इत्युत्तिष्ठति** ।धृतराष्ट्रः। अपि चेदमन्यत्त्वया वक्तव्यम् । श्लोक ५.४२ यन्मोचितस्तव पिता वितथेन शस्त्रं यत्तादृशः परिभवः स तथाविधोऽभूत् । एतद्विचिन्त्य बलमात्मनि पौरुषं च œ दुर्योधनोक्तमपहाय विधास्यसीति ॥ ५.४२ ॥ ।संजयः। यदाज्ञापयति तातः ।*इति निष्क्रान्तः** ।दुर्योधनः। सूत सांग्रामिकं मे रथमुपकल्पय । ।सूतः। यदाज्ञापयत्यायुष्मान् ।*इति निष्क्रान्तः** ।धृतराष्ट्रः। गान्धारि इतो वयं मद्राधिपतेः शल्यस्य शिबिरमेव गच्छावः । वत्स त्वमप्येवं कुरु । *इति परिक्रम्य निष्क्रान्ताः सर्वे** इति पञ्चमोऽङ्कः । अच्त्_६ षष्ठोऽङ्कः । *ततः प्रविशत्यासनस्थो युधिष्ठिरो द्रौपदी चेटी पुरुषश्च** ।युधिष्ठिरः। *विचिन्त्य निःश्वस्य च** श्लोक ६.१ तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निर्वृते कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवम् । भीमेन प्रियसाहसेन रभसात्स्वल्पावशेषे जये œ सर्वे जीवितसंशयं वयममी वाचा समारोपिताः ॥ ६.१ ॥ ।द्रौपदी। {प्क्त्_१५९}*सबाष्पम्** महाराअ पञ्चालिए त्ति किं ण भणिदं । स्क्त्छ्_१५९ महाराज पाञ्चाल्येति किं न भणितम् । ।यधिष्ठिरः। कृष्णे ननु मया ।*पुरुषमवलोक्य** बुधक । ।पुरुषः। देव आज्ञापय । ।यधिष्ठिरः। उच्यतां सहदेवः । क्रुद्धस्य वृकोदरस्यापर्युषितदारुणां प्रतिज्ञामुपलभ्य प्रनष्टस्य मानिनः कौरवराजस्य पदवीमन्वेष्टुमतिनिपुणमतयस्तेषु तेषु स्थानेषु परमार्थाभिज्ञाश्चराः सुसचिवाश्च भक्तिमन्तः पटुपटहरवव्यक्तघोषणाः सुयोधनसंचारवेदिनः प्रतिश्रुतधनपूजाप्रत्युपक्रियाश्चरन्तु समन्तात्समन्तपञ्चकम् । अपि च श्लोक ६.२ पङ्के वा सैकते वा सुनिभृतपदवीवेदिनो यान्तु दाशाः कुञ्जेषु क्षुण्णवीरुन्निचयपरिचया बल्लवाः संचरन्तु । व्याधा व्याघ्राटवीषु स्वपरपदविदो ये च रन्ध्रेष्वभिज्ञा œ ये सिद्धव्यञ्जना वा प्रतिमुनिनिलयं ते च चाराश्चरन्तु ॥ ६.२ ॥ ।पुरुषः। यदाज्ञापयति देवः । ।युधिष्ठिरः। तिष्ठ । एवं च वक्तव्यः सहदेवः । श्लोक ६.३ ज्ञेया रहः शङ्कितमालपन्तः सुप्ता रुगार्ता मदिराविधेयाः । त्रासो मृगाणां वयसां विरावो œ नृपाङ्कपादप्रतिमाश्च यत्र ॥ ६.३ ॥ ।पुरुषः। यदाज्ञापयति देवः ।*इति निष्क्रम्य पुनः प्रविश्य सहर्षम्** देव पाञ्चालकः प्राप्तः । ।यधिष्ठिरः। त्वरितं प्रवेशय । ।पुरुषः। *निष्क्रम्य पाञ्चालकेन सह प्रविश्य** एष देवः । उपसर्पतु पाञ्चालकः । ।पाञ्चालकः। जयतु जयतु देवः । प्रियमावेदयामि महाराजाय देव्यै च । ।युधिष्ठिरः। भद्र पाञ्चालक कच्चिदासादिता तस्य दुरात्मनः कौरवाधमस्य पदवी । ।पाञ्चालकः। देव न केवलं पदवी । स एव दुरात्मा देवीकेशाम्बराकर्षणमहापातकप्रधानहेतुरुपलब्धः । ।युधिष्ठिरः। साधु । भद्र प्रियमावेदितम् । अथ दर्शनगोचरं गतः । ।पाञ्चालकः। देव समरगोचरं पृच्छ । ।द्रौपदी। {प्क्त्_१६०}*सभयम्** कहं समरगोअरो वट्टै मे णाहो । स्क्त्छ्_१६० कथं समरगोचरो वर्तते मे नाथः । ।युधिष्ठिरः। *साशङ्कम्** सत्यं समरगोचरो मे वत्सः । ।पाञ्चालकः। सत्यम् । किमन्यथा वक्ष्यते महाराजाय । ।युधिष्ठिरः। श्लोक ६.४ त्रस्तं विनापि वषयादुरुविक्रमस्य चेतो विवेकपरिमन्थरतां प्रयाति । जानामि चोद्यतगदस्य वृकोदरस्य œ सारं रणेषु भुजयोः परिशङ्कितश्च ॥ ६.४ ॥ *द्रौपदीमवलोक्य** अयि सुक्षत्रिये श्लोक ६.५ गुरूणां बन्धूनां क्षितिपतिसहस्रस्य च पुरः पुराभूदस्माकं नृपसदसि योऽयं परिभवः । प्रिये प्रायस्तस्य द्वितयमपि पारं गमयति œ क्षयः प्राणानां नः कुरुपतिपशोर्वाद्य निधनम् ॥ ६.५ ॥ अथ वा कृतं संदेहेन । श्लोक ६.६ नूनं तेनाद्य वीरेण प्रतिज्ञाभङ्गभीरुणा । बध्यते केशपाशस्ते स चास्याकर्षणक्षमः ॥ ६.६ ॥ पाञ्चालक कथय कथय कथमुपलब्धः स दुरात्मा कस्मिन्नुद्देशे किं वाधुना प्रवृत्तमिति । ।द्रौपदी। {प्क्त्_१६१}भद्द कहेहि कहेहि । स्क्त्छ्_१६१ भद्र कथय कथय । ।पाञ्चालकः। शृणोतु देवो देवी च । अस्तीह देवेन हते मद्राधिपतौ शल्ये गान्धारराजकुलशलभे सहदेवशस्त्रानलं प्रविष्टे सेनापतिनिधननिराक्रन्दविरलयोधोज्झितासु समरभूमिषु रिपुबलपराजयोद्धतवल्गितविचित्रपराक्रमासादितविमुखारातिचक्रासु धृष्टद्युम्नाधिष्ठितासु च युष्मत्सेनासु प्रनष्टेषु कृपकृतवर्माश्वत्थामसु तथा दारुणामपर्युषितां प्रतिज्ञामुपलभ्य कुमारवृकोदरस्य न ज्ञायते क्वापि प्रलीनः स दुरात्मा कौरवाधमः । ।युधिष्ठिरः। ततस्ततः । ।द्रौपदी। {प्क्त्_१६२}अयि परदो कहेहि । स्क्त्छ्_१६२ अयि परतः कथय । ।पाञ्चालकः। अवधत्तां देवो देवी च । ततश्च भगवता वासुदेवेनाधिष्ठितमेकरथमारूढौ कुमारभीमार्जुनौ समन्तात्समन्तपञ्चकं पर्यटितुमारब्धौ तमनासादितवन्तौ च । अनन्तरं दैवमनुशोचति मादृशे भृत्यवर्गे दीर्घमुष्णं च निश्वसति कुमारे बीभत्सौ जलधरसमयनिशासंचारिततडित्प्रकरपिङ्गलैः कटाक्षैरादीपयति गदां वृकोदरे यत्किंचनकारितामधिक्षिपति विधेर्भगवति नारायणे कश्चित्संविदितः कुमारस्य मारुतेरुज्झितमांसभारः प्रत्यग्रविशसितमृगलोहितचरणनिवसनस्त्वरमाणोऽन्तिकमुपेत्य पुरुषः परुषश्वासग्रस्तार्धश्रुतवर्णानुमेयपदया वाचा कथितवान् । कुमार अस्मिन्महतोऽस्य सरसस्तीरे द्वे पदपद्धती समवतीर्णप्रतिबिम्बे । तयोरेका स्थलमुत्तीर्णा न द्वितीया । परत्र कुमारः प्रमाणमिति । ततः ससंभ्रमं प्रस्थिताः सर्वे वयं तमेव पुरस्कृत्य । गत्वा च सरस्तीरं परिज्ञायमानसुयोधनपदलाञ्छनां पदवीमासाद्य भगवता वासुदेवेनोक्तम् । भो वीर वृकोदर जानाति किल सुयोधनः सलिलस्तम्भनीं विद्याम् । तन्नूनं तेन त्वद्भयात्सरसीमेनामधिशयितेन भवितव्यम् । एतच्च वचनमुपश्रुत्य रामानुजस्य सकलदिङ्निकुञ्जपूरितातिरिक्तमुद्भ्रान्तसलिलचरशकुन्तकुलं त्रासोद्धतनक्रग्राहमालोड्य सरःसलिलं भैरवं च गर्जित्वा कुमारवृकोदरेणाभिहितम् । अरे रे वृथाप्रख्यापितालीकपौरुषाभिमानिन्पाञ्चालराजतनयाकेशाम्बराकर्षणमहापातकिन्धार्तराष्ट्रापसद श्लोक ६.७ जन्मेन्दोरमले कुले व्यपदिशस्यद्यापि धत्से गदां मां दुःशासनकोष्णशोणितमधुक्षीबं रिपुं मन्यसे । दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे œ त्रासान्मे नृपशो विहाय समरं पङ्केऽधुना लीयसे ॥ ६.७ ॥ अपि च भो मानन्ध श्लोक ६.८ पाञ्चाल्या मन्युवह्निः स्फुटमुपशमितप्राय एव प्रसह्य व्यासक्तैः केशपाशैर्हतपतिषु मया कौरवान्तःपुरेषु । भ्रातुर्दुःशासनस्य स्रवदसृगुरसः पीयमानं निरीक्ष्य œ क्रोधात्किं भीमसेने विहितमसमये यत्त्वयास्तोऽभिमानः ॥ ६.८ ॥ ।द्रौपदी। {प्क्त्_१६३}णाह अबणीदो मे मण्णू जै पुणो बि सुलहं दंसणं भविस्सदि । स्क्त्छ्_१६३ नाथ अपनीतो मे मन्युर्यदि पुनरपि सुलभं दर्शनं भविष्यति । ।युधिष्ठिरः। कृष्णे नामङ्गलानि व्याहर्तुमर्हस्यस्मिन्काले । भद्र ततस्ततः । ।पाञ्चालकः। ततश्चैवं भाषमाणेन वृकोदरेणावतीर्य क्रोधोद्धतभ्रमितभीषणगदापाणिना सहसैवोल्लङ्घिततीरमुत्सन्ननलिनीवनमपविद्धमूर्च्छितग्राहमुद्भ्रान्तमत्स्यशकुन्तमतिभैरवारवभ्रमितवारिसंचयमायतमपि तत्सरः समन्तादालोडितम् । ।युधिष्ठिरः। भद्र तथापि किं नोत्थितः । ।पाञ्चालकः। देव कथं नोत्थितः । श्लोक ६.९ त्यक्त्वोत्थितः सरभसं सरसः स मूल मुद्भूतकोपदहनोग्रविषस्फुलिङ्गः । आयस्तभीमभुजमन्दरवेल्लनाभिः œ क्षीरोदधेः सुमथितादिव कालकूटः ॥ ६.९ ॥ ।युधिष्ठिरः। साधु सुक्षत्रिय साधु । ।द्रौपदी। {प्क्त्_१६४}पडिबण्णो समरो ण वा । स्क्त्छ्_१६४ प्रतिपन्नः समरो न वा । ।पाञ्चालकः। उत्थाय च तस्मात्सलिलाशयात्करयुगलोत्तम्भिततोरणीकृतभीमगदः कथयति स्म । अरे रे मारुते किं भयेन प्रलीनं दुर्योधनं मन्यते भवान् । मूढ अनिहतपाण्डुपुत्रः प्रकाशं लज्जमानो विश्रमितुमध्यवसितवानस्मि पातालम् । एवं चोक्ते वासुदेवकिरीटिभ्यां द्वावप्यन्तःसलिलं निषिद्धसमरसमारम्भौ स्थलमुत्तारितौ भीमसुयोधनौ । आसीनश्च कौरवराजः क्षितितले गदां निक्षिप्य विशीर्णरथसहस्रं निहतकुरुशतगजवाजिनरसहस्रकलेवरसंमर्दसंपतद्गृध्रकङ्कजम्बूकमुत्सन्नसुयोधमस्मद्वीरमुक्तसिंहनादमपमित्रबान्धवमकौरवं रणस्थानमवलोक्यायतमुष्णं च निःश्वसितवान् । ततश्च वृकोदरेणाभिहितम् । अयि भोः कौरवराज कृतं बन्धुनाशदर्शनमन्युना । मैवं विषादं कृथाः पर्याप्ताः पाण्डवाः समरायाहमसहाय इति । श्लोक ६.१० पञ्चानां मन्यसेऽस्माकं यं सुयोधं सुयोधन । दंशितस्यात्तशस्त्रस्य तेन तेऽस्तु रणोत्सवः ॥ ६.१० ॥ इत्थं च श्रुत्वानसूयान्वितां दृष्टिं कुमारयोर्निक्षिप्योक्तवान्धार्तराष्ट्रः । श्लोक ६.११ कर्णदुःशासनवधात्तुल्यावेव युवां मम । अप्रियोऽपि प्रियो योद्धुं त्वमेव प्रियसाहसः ॥ ६.११ ॥ इत्युत्थाय परस्परक्रोधाधिक्षेपपरुषवाक्कलहप्रस्तावितघोरसंग्रामौ विचित्रविभ्रमभ्रमितगदापरिभासुरभुजदण्डौ मण्डलैर्विचरितुमारब्धौ भीमदुर्योधनौ । अहं च देवेन चक्रपाणिना देवसकाशमनुप्रेषितः । आह च देवो देवकीनन्दनः । अपर्युषितप्रतिज्ञे च मारुतौ प्रनष्टे कौरवराजे महानासीन्नो विषादः । संप्रति पुनर्भीमसेनेनासादिते सुयोधने निष्कण्टकीभूतं भुवनतलं परिकलयतु भवान् । अभ्युदयोचिताश्चानवरतं प्रवर्त्यन्तां मङ्गलसमारम्भाः । कृतं संदेहेन । श्लोक ६.१२ पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते कृष्णात्यन्तचिरोज्झिते च कबरीबन्धे करोतु क्षणम् । रामे शातकुठारभासुरकरे क्षत्रद्रुमोच्छेदिनि œ क्रोधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः ॥ ६.१२ ॥ ।द्रौपदी। {प्क्त्_१६५}*सबाष्पम्** जं देवो तिहुअणणाहो भणादि तं कहमण्णहा भविस्सदि । स्क्त्छ्_१६५ यद्देवस्त्रिभुवननाथो भणति तत्कथमन्यथा भविष्यति । ।पाञ्चालकः। न केवलमियमाशीः । असुरनिषूदनस्यादेशोऽपि । ।युधिष्ठिरः। को हि नाम भगवता संदिष्टं विकल्पयति । कः कोऽत्र भोः । *प्रविश्य** ।कञ्चुकी। आज्ञापयतु देवः । ।युधिष्ठिरः। देवस्य देवकीनन्दनस्य बहुमानाद्वत्सस्य मे विजयमङ्गलाय प्रवर्त्यन्तां तदुचिताः समारम्भाः । ।कञ्चुकी। यदाज्ञापयति देवः ।*सोत्साहं परिक्रम्य** भो भोः संविधात्ःणां पुरःसरा यथाप्रधानमन्तर्वेश्मिका दौवारिकाश्च एष खलु भुजबलपरिक्षेपोत्तीर्णकौरवपरिभवसागरस्य निर्व्यूढदुर्वहप्रतिज्ञाभारस्य सुयोधनानुजशतोन्मूलनप्रभञ्जनस्य दुःशासनोरःस्थलविदलननारसिंहस्य दुर्योधनोरुस्तम्भभङ्गविनिश्चितविजयस्य बलिनः प्राभञ्जनेर्वृकोदरस्य स्नेहपक्षपातिना मनसा मङ्गलानि कर्तुमाज्ञापयति देवो युधिष्ठिरः ।*आकाशे** किं ब्रूथ । सर्वतोऽधिकतरमपि प्रवृत्तं किं नालोकयसीति । साधु पुत्रकाः साधु । अनुक्तहितकारिता हि प्रकाशयति मनोगतां स्वामिभक्तिम् । ।युधिष्ठिरः। आर्य जयंधर । ।कञ्चुकी। आज्ञापयतु देवः । ।युधिष्ठिरः। गच्छ प्रियख्यापकं पाञ्चालकं पारितोषिकेण परितोषय । ।कञ्चुकी। यदाज्ञापयति देवः ।*इति पाञ्चालकेन सह निष्क्रान्तः** ।द्रौपदी। {प्क्त्_१६६}महाराअ किंणिमित्तमुण णाहभीमसेणेण सो दुराआरो भणिदो । पञ्चाणं बि अम्हाणं मज्झे जेण दे रोअदि तेण सह दे संगामो होदु त्ति । जै मद्दीसुदाणमेकदरेण सह संगामो तेण पत्थिदो भवे तदो अच्चाहिदं भवे । स्क्त्छ्_१६६ महाराज किंनिमित्तं पुनर्नाथभीमसेनेन स दुराचारो भणितः । पञ्चानामप्यस्माकं मध्ये येन ते रोचते तेन सह ते संग्रामो भवत्विति । यदि माद्रीसुतयोरेकतरेण सह संग्रामस्तेन प्रार्थितो भवेत्ततोऽत्याहितं भवेत् । ।युधिष्ठिरः। कृष्णे एवं मन्यते जरासंधघाती । हतसकलसुहृद्बन्धुवीरानुजराजन्यासु कृपकृतवर्माश्वत्थामशेषास्वेकादशस्वक्षौहिणीष्वबान्धवः शरीरमात्रविभवः कदाचिदुत्सृष्टनिजाभिमानो धार्तराष्ट्रः परित्यजेदायुधं तपोवनं वा व्रजेत्संधिं वा पितृमुखेन याचेत । एवं सति सुदूरमतिक्रान्तः प्रतिज्ञाभारो भवेत्सकलरिपुजयस्येति । समरं प्रतिपत्तुं पञ्चानामपि पाण्डवानामेकस्यापि नैव क्षमः सुयोधनः । शङ्के चाहं गदायुद्धं वृकोदरस्यैवानेन । अयि सुक्षत्रिये पश्य । श्लोक ६.१३ क्रोधोद्गूर्णगदस्य नास्ति सदृशः सत्यं रणे मारुतेः कौरव्ये कृतहस्तता पुनरियं देवे यथा सीरिणि । स्वस्त्यस्तूद्धतधार्तराष्ट्रनलिनीनागाय वत्साय मे œ शङ्के तस्य सुयोधनेन समरं नैवेतरेषामहम् ॥ ६.१३ ॥ *नेपथ्ये** तृषितोऽस्मि भोस्तृषितोऽस्मि । संभावयतु कश्चित्सलिलच्छायासंप्रदानेन माम् । ।युधिष्ठिरः। *आकर्ण्य** कः कोऽत्र भोः । *प्रविश्य** ।कञ्चुकी। आज्ञापयतु देवः । ।युधिष्ठिरः। ज्ञायतां किमेतत् । ।कञ्चुकी। यदाज्ञापयति देवः ।*इति निष्क्रम्य पुनः प्रविश्य** देव क्षुन्मानतिथिरुपस्थितः । ।युधिष्ठिरः। शीघ्रं प्रवेशय । ।कञ्चुकी। यदाज्ञापयति देवः ।*इति निष्क्रान्तः** *ततः प्रविशति मुनिवेषधारी चार्वाको नाम राक्षसः** ।राक्षसः। *आत्मगतम्** एषोऽस्मि चार्वाको नाम राक्षसः । सुयोधनस्य मित्रं पाण्डवान्वञ्चयितुं भ्रमामि ।*प्रकाशम्** तृषितोऽस्मि । संभावयतु मां कश्चिज्जलच्छायाप्रदानेन ।*इति राज्ञः समीपमुपसर्पति** *सर्व उत्तिष्ठन्ति** ।युधिष्ठिरः। मुने अभिवादये । ।राक्षसः। अकालोऽयं समुदाचारस्य । जलप्रदानेन संभावयतु माम् । ।युधिष्ठिरः। मुने इदमासनम् । उपविश्यताम् । ।राक्षसः। *उपविश्य** ननु भवतापि क्रियतामासनपरिग्रहः । ।युधिष्ठिरः। *उपविश्य** कः कोऽत्र भोः । सलिलमुपनय । *प्रविश्य गृहीतभृङ्गारः** ।कञ्चुकी। *उपसृत्य** महाराज शिशिरसुरभिसलिलसंपूर्णोऽयं भृङ्गारः पानभाजनं चेदम् । ।युधिष्ठिरः। मुने निर्वर्त्यतामुदन्याप्रतिकारः । ।राक्षसः। *पादौ प्रक्षल्योपस्पृशन्विचिन्त्य** भोः क्षत्रियस्त्वमिति मन्ये । ।युधिष्ठिरः। सम्यग्वेदी भवान् । क्षत्रिय एवास्मि । ।राक्षसः। सुलभश्च स्वजनविनाशः संग्रामेषु प्रतिदिनमतो नादेयं भवद्भ्यो जलादिकम् । भवतु । छाययैवानया सरस्वतीशिशिरतरंगस्पृशा मरुता चानेन विगतक्लमो भविष्यामि । ।द्रौपदी। {प्क्त्_१६७}बुद्धिमदिए वीएहि महेस्सिमिमिणा तालविन्तेण । स्क्त्छ्_१६७ बुद्धिमतिके वीजय महर्षिमनेन तालवृन्तेन । *चेटी तथा करोति** ।राक्षसः। भवति अनुचितोऽयमस्मासु समुदाचारः । ।युधिष्ठिरः। मुने कथय कथमेवं भवान्परिश्रान्तः । ।राक्षसः। मुनिजनसुलभेन कौतूहलेन तत्रभवतां महाक्षत्रियाणां द्वन्द्वयुद्धमवलोकयितुं पर्यटामि समन्तपञ्चकम् । अद्य तु बलवत्तया शरदातपस्यापर्याप्तमेवावलोक्य गदायुद्धमर्जुनसुयोधनयोरागतोऽस्मि । *सर्वे विषादं नाटयन्ति** ।कञ्चुकी। मुने न खल्वेवम् । भीमसुयोधनयोरिति कथय । ।राक्षसः। आः अविदितवृत्तान्त एव कथं मामाक्षिपसि । ।युधिष्ठिरः। महर्षे कथय कथय । ।राक्षसः। क्षणमात्रं विश्रम्य सर्वं कथयामि भवतो न पुनरस्य वृद्धस्य । ।युधिष्ठिरः। कथय किमर्जुनसुयोधनयोरिति । ।राक्षसः। ननु पूर्वमेव कथितं मया प्रवृत्तं गदायुद्धमिति । ।युधिष्ठिरः। न भीमसुयोधनयोरिति । ।राक्षसः। वृत्तं तत् । *युधिष्ठिरो द्रौपदी च मोहमुपगतौ** ।कञ्चुकी। *सलिलेनासिच्य** समाश्वसितु देवो देवी च । ।चेटी। {प्क्त्_१६८}समस्ससिदु समस्ससिदु देवी । स्क्त्छ्_१६८ समाश्वसितु समाश्वसितु देवी । *उभौ संज्ञां लभेते** ।युधिष्ठिरः। किं कथयसि मुने वृत्तं भीमसुयोधनयोर्गदायुद्धमिति । ।द्रौपदी। {प्क्त्_१६९}भअवं कहेहि कहेहि किं वुत्तं त्ति । स्क्त्छ्_१६९ भगवन्कथय कथय किं वृत्तमिति । ।राक्षसः। कञ्चुकिन्कौ पुनरेतौ । ।कञ्चुकी। ब्रह्मन्नेष देवो युधिष्ठिर इयमपि पाञ्चालराजतनया । ।राक्षसः। आः दारुणमुपक्रान्तं मया नृशंसेन । ।द्रौपदी। {प्क्त्_१७०}हा णाह भीमसेण ।*इति मोहमुपगता** स्क्त्छ्_१७० हा नाथ भीमसेन । ।कञ्चुकी। किं नाम कथितम् । ।चेटी। {प्क्त्_१७१}समस्ससिदु समस्ससिदु देवी । स्क्त्छ्_१७१ समाश्वसितु समाश्वसितु देवी । ।युधिष्ठिरः। *सास्रम्** ब्रह्मन् श्लोक ६.१४ पदे संदिग्ध एवास्मिन्दुःखमास्ते युधिष्ठिरः । वत्सस्य निश्चिते तत्त्वे प्राणत्यागादयं सुखी ॥ ६.१४ ॥ ।राक्षसः। *सानन्दमात्मगतम्** अत्रैव मे यत्नः ।*प्रकाशम्** यदि त्ववश्यं कथनीयं तदा संक्षेपतः कथयामि । न युक्तं बन्धुव्यसनं विस्तरेणावेदयितुम् । ।युधिष्ठिरः। *अश्रूणि मुञ्चन्** श्लोक ६.१५ सर्वथा कथय ब्रह्मन्संक्षेपाद्विस्तरेण वा । वत्सस्य किमपि श्रोतुमेष दत्तः क्षणो मया ॥ ६.१५ ॥ ।राक्षसः। श्रूयताम् । श्लोक ६.१६ तस्मिन्कौरवभीमयोर्गुरुगदाघोरध्वनौ संयुगे ।द्रौपदी। {प्क्त्_१७२}*सहसोत्थाय** तदो तदो । स्क्त्छ्_१७२ ततस्ततः । ।राक्षसः। *स्वगतम्** कथं पुनरनयोर्लब्धसंज्ञतामपनयामि । श्लोक ६.१६ सीरी सत्वरमागतश्चिरमभूत्तस्याग्रतः संगरः । आलम्ब्य प्रियशिष्यतां तु हलिना संज्ञा रहस्याहिता यामासाद्य कुरूत्तमः प्रतिकृतिं दुःशासनारौ गतः ॥ ६.१६ ॥ ।युधिष्ठिरः। हा वत्स वृकोदर ।*इति मोहमुपगतः** ।द्रौपदी। {प्क्त्_१७३}हा णाह भीमसेण हा मह परिभवपडिआरपरिच्चत्तजीविअ जडासुरबअहिडिम्बकिम्मीरकीचअजरासंधणिसूदण सोअन्धिआहरणचाडुआर देहि मे पडिवअणं ।*इति मोहमुपगता** स्क्त्छ्_१७३ हा नाथ भीमसेन हा मम परिभवप्रतीकारपरित्यक्तजीवित जटासुरबकहिडिम्बकिर्मीरकीचकजरासंधनिषूदन सौगन्धिकाहरणचाटुकार देहि मे प्रतिवचनम् । ।कञ्चुकी। *सास्रम्** हा कुमार भीमसेन धार्तराष्ट्रकुलकमलिनीप्रालेयवर्ष ।*ससंभ्रमम्** समाश्वसितु महाराजः । भद्रे समाश्वासय स्वामिनीम् । महर्षे त्वमपि तावदाश्वासय महाराजम् । ।राक्षसः। *स्वगतम्** आश्वासयामि प्राणान्परित्याजयितुम् ।*प्रकाशम्** भो भीमाग्रज क्षणमेकमाधीयतां समाश्वासः । कथाशेषोऽस्ति । ।युधिष्ठिरः। *समाश्वस्य** महर्षे किमस्ति कथाशेषः । ।द्रौपदी। {प्क्त्_१७४}*प्रतिबुध्य सभयम्** भअवं कधेहि कीदिसो कधासेसो त्ति । स्क्त्छ्_१७४ भगवन्कथय कीदृशः कथाशेष इति । ।कञ्चुकी। कथय कथय । ।राक्षसः। ततश्च हते तस्मिन्सुक्षत्रिये वीरसुलभां गतिमुपगते समग्रसंगलितं भ्रातृवधशोकजं बाष्पं प्रमृज्य भ्रातृवधशोकादपहाय गाण्डीवं प्रत्यग्रक्षतजच्छटाचर्चितां तामेव गदां भ्रातृहस्तादाकृष्य निवार्यमाणोऽपि संधित्सुना वासुदेवेनागच्छागच्छेति सोपहासं भ्रमितगदाझंकारमूर्च्छितगम्भीरवचनध्वनिनाहूयमानः कौरवराजेन तृतीयोऽनुजस्ते किरीटी योद्धुमारब्धः । अकृतिनस्तस्य गदाघातान्निधनमुत्प्रेक्षमाणेन कामपालेनार्जुनपक्षपाती देवकीसूनुरतिप्रयत्नात्स्वरथमारोप्य द्वारकां नीतः । ।युधिष्ठिरः। साधु भो अर्जुन तदैव प्रतिपन्ना वृकोदरपदवी गाण्डीवं परित्यजता । अहं पुनः केनोपायेन प्राणापगममहोत्सवमुत्सहिष्ये । ।द्रौपदी। {प्क्त्_१७५}हा णाह भीमसण ण जुत्तं दाणिं दे कणीअसं भादरमसिक्खिदं गदाए दारुणस्स सत्तुणो अहिमुहं गच्छन्तमुबेक्खिदुं ।*मोहमुपगता** स्क्त्छ्_१७५ हा नाथ भीमसेन न युक्तमिदानीं ते कनीयांसं भ्रातरमशिक्षितं गदायां दारुणस्य शत्रोरभिमुखं गच्छन्तमुपेक्षितुम् । ।राक्षसः। ततश्चाहम् ।युधिष्ठिरः। भवतु मुने किमतः परं श्रुतेन । हा तात भीमसेन कान्तारव्यसनबान्धव हा मच्छरीरस्थितिविच्छेदकातर जतुगृहविपत्समुद्रतरणयानपात्र हा किर्मीरहिडिम्बासुरजरासंधविजयैकमल्ल हा कीचकसुयोधनानुजकमलिनीकुञ्जर हा द्यूतपणप्रणयिन्हा मदाज्ञासंपादक हा कौरववनदावानल श्लोक ६.१७ निर्लज्जस्य दुरोदरव्यसनिनो वत्स त्वया सा तदा भक्त्या मे समदद्विपायुतबलेनाङ्गीकृता दासता । किं नामापकृतं मयाधिकमतस्त्वय्यद्य यद्गम्यते œ त्यक्त्वा नाथ सबान्धवं सपदि मां प्रीतिः क्व ते साधुना ॥ ६.१७ ॥ ।द्रौपदी। {प्क्त्_१७६}*संज्ञामुपलभ्योत्थाय च** महाराअ किमेदं वट्टै । स्क्त्छ्_१७६ महाराज किमेतद्वर्तते । ।युधिष्ठिरः। कृष्णे किमन्यत् । श्लोक ६.१८ स कीचकनिषूदनो बकहिडिम्बकिर्मीरहा मदान्धमगधाधिपद्विरदसंधिभेदाशनिः । गदापरिघशोभिना भुजयुगेन तेनान्वितः œ प्रियस्तव ममानुजोऽर्जुनगुरुर्गतोऽस्तं किल ॥ ६.१८ ॥ ।द्रौपदी। {प्क्त्_१७७}णाह भीमसेण तुए किल मे केसा संमिदव्वा । ण जुत्तं वीरस्स खत्तिअस्स पडिण्णादं सिढिलेदुं । ता पडिबालेहि मं जाव उबसप्पामि ।*पुनर्मोहमुपगता** स्क्त्छ्_१७७ नाथ भीमसेन त्वया किल मे केशाः संयमितव्याः । न युक्तं वीरस्य क्षत्रियस्य प्रतिज्ञातं शिथिलयितुम् । तत्प्रतिपालय मां यावदुपसर्पामि । ।युधिष्ठिरः। *आकाशे** अम्ब पृथे श्रुतोऽयं तव पुत्रस्य समुदाचारः । मामेकमनाथं विलपन्तमुत्सृज्य क्वापि गतः । तात जरासंधशत्रो किं नाम वैपरीत्यमेतावता कालेनाल्पायुषि त्वयि समालोकितं जनेन । अथ वा मयैव बहूपलब्धम् । श्लोक ६.१९ दत्त्वा मे करदीकृताखिलनृपां यन्मेदिनीं लज्जसे द्यूते यच्च पणीकृतोऽपि हि मया न क्रुध्यसि प्रीयसे । स्थित्यर्थं मम मत्स्यराजभवने प्राप्तोऽसि यत्सूदतां œ वत्सैतानि विनश्वरस्य सहसा दृष्टानि चिह्नानि ॥ ६.१९ ॥ मुने किं कथयसि ।*तस्मिन्कौरवभीमयोरित्यादि पठति** ।राक्षसः। एवमेतत् । ।युधिष्ठिरः। धिगस्मद्भागधेयानि । भगवन्कामपाल कृष्णाग्रज सुभद्राभ्रातः श्लोक ६.२० ज्ञातिप्रीतिर्मनसि न कृता क्षत्रियाणां न धर्मो रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन । तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः œ कोऽयं पन्था यदसि विमुखो मन्दभाग्ये मयीत्थम् ॥ ६.२० ॥ *द्रौपदीमुपगम्य** अयि पाञ्चालि उत्तिष्ठ । समानदुःखावेवावां भवावः । मूर्च्छया किं मामेवमतिसंधत्से । ।द्रौपदी। {प्क्त्_१७८}*लब्धसंज्ञा** बन्धेदु णाहो दुज्जोहणरुधिलाद्देण हत्थेण दुस्सासणमुक्कं मे केसहत्थं । हञ्जे बुद्धिमदिए तव पच्चक्खमेव्व णाहेण पडिण्णादं ।*कञ्चुकिनमुपेत्य** अज्ज किं संदिट्ठं दाव मे देवेण देवईणन्दणेण पुणो बि केसरअणा आरम्भीअदु त्ति । ता उबणेहि मे पुप्फदामाइं । विरएहि दाव कवरिं । करेहि भअवदो णाराअणस्स वअणं । ण हु सो अलीअं संदिसदि । अह वा किं मए संतत्ताए भणिदं । अचिरगदमज्जौत्तमणुगमिस्सं ।*युधिष्ठिरमुपगम्य** महाराअ आदीबअ मे चिदं । तुमं बि खत्तधम्ममणुवट्टन्तो एव्व णाहस्स जीविअहरस्स अहिमुहो होहि । स्क्त्छ्_१७८ बध्नातु नाथो दुर्योधनरुधिरार्द्रेण हस्तेन दुःशासनमुक्तं मे केशहस्तम् । हञ्जे बुद्धिमतिके तव प्रत्यक्षमेव नाथेन प्रतिज्ञातम् । आर्य किं संदिष्टं तावन्मे देवेन देवकीनन्दनेन पुनरपि केशरचनारभ्यतामिति । तदुपनय मे पुष्पदामानि । विरचय तावत्कबरीम् । कुरु भगवतो नारायणस्य वचनम् । न खलु सोऽलीकं संदिशति । अथ वा किं मया संतप्तया भणितम् । अचिरगतमार्यपुत्रमनुगमिष्यामि । महाराज आदीपय मे चिताम् । त्वमपि क्षत्रधर्ममनुवर्तमान एव नाथस्य जीवितहरस्याभिमुखो भव । ।युधिष्ठिरः। युक्तमाह पाञ्चाली । कञ्चुकिन्क्रियतामियं तपस्विनी चितासंविभागेन सह्यवेदना । ममापि सज्जं धनुरुपनय । अलमथ वा धनुषा । श्लोक ६.२१ तस्यैव देहरुधिरोक्षितपाटलाङ्गी मादाय संयति गदामपविध्य चापम् । भ्रातृप्रियेण कृतमद्य यदर्जुनेन œ श्रेयो ममापि हि तदेव कृतं जयेन ॥ ६.२१ ॥ ।राक्षसः। राजन्रिपुजयविमुखं ते यदि चेतस्तदा यत्र तत्र वा प्राणत्यागं कुरु । वृथा तत्र गमनम् । ।कञ्चुकी। धिङ्मुने राक्षससदृशं हृदयं भवतः । ।राक्षसः। *सभयं स्वगतम्** किं ज्ञातोऽहमनेन ।*प्रकाशम्** भोः कञ्चुकिन्तयोर्गदया खलु युद्धं प्रवृत्तमर्जुनदुर्योधनयोः । जानामि च तयोर्गदायां भुजसारम् । दुःखितस्य पुनरस्य राजर्षेरपरमनिष्टश्रवणं परिहरन्नेवं ब्रवीमि । ।युधिष्ठिरः। *बाष्पं विसृजन्** साधु महर्षे साधु । सुस्निग्धमभिहितम् । ।कञ्चुकी। महाराज किं नाम शोकान्धतया देवेन देवकल्पेनापि प्राकृतेनेव त्यजते क्षात्रधर्मः । ।युधिष्ठिरः। आर्य जयंधर श्लोक ६.२२ शक्ष्यामि नो परिघपीवरबाहुदण्डौ वित्तेशशक्रपुरदर्शितवीर्यसारौ । भीमार्जुनौ क्षितितले प्रविचेष्टमानौ œ द्रष्टुं तयोश्च निधनेन रिपुं कृतार्थम् ॥ ६.२२ ॥ अयि पाञ्चालराजतनये मद्दुर्नयप्राप्तशोच्यदशे यथा संदीप्यते पावकस्तथा सहितावेव बन्धुजनं संभावयावः । ।द्रौपदी। {प्क्त्_१७९}अज्ज करेहि दारुसंचअं । पज्जलीअदु अग्गी । तुवरदि मे हिअअं णाहं पेक्खिदुं ।*सर्वतो दृष्ट्वा** कहं ण को बि महाराअस्स वअणं करेदि । हा णाह भीमसेण तमेव्व एदं राऔलं तुए विरहिदं परिअणो वि संपदं परिहरदि । स्क्त्छ्_१७९ आर्य कुरु दारुसंचयम् । प्रज्वाल्यतामग्निः । त्वरते मे हृदयं नाथं प्रेक्षितुम् । कथं न कोऽपि महाराजस्य वचनं करोति । हा नाथ भीमसेन तदेवेदं राजकुलं त्वया विरहितं परिजनोऽपि सांप्रतं परिहरति । ।राक्षसः। सदृशमिदं भरतकुलवधूनां पत्युरनुसरणम् । ।युधिष्ठिरः। महर्षे न कश्चिच्छृणोति तावदावयोर्वचनम् । तदिन्धनप्रदानेन प्रसादः क्रियताम् । ।राक्षसः। मुनिजनविरुद्धमिदम् ।*स्वगतम्** पूर्णो मे मनोरथः । यावदनुपलक्षितः समिन्धयामि वह्निम् ।*प्रकाशम्** राजन्न शक्नुमो वयमिह स्थातुम् ।*इति निष्क्रान्तः** ।युधिष्ठिरः। कृष्णे न कश्चिदस्मद्वचनं करोति । भवतु । स्वयमेवाहं दारुसंचयं कृत्वा चितामादीपयामि । ।द्रौपदी। {प्क्त्_१८०}तुवरदु तुवरदु महाराओ । स्क्त्छ्_१८० त्वरतां त्वरतां महाराजः । *नेपथ्ये कलकलः** ।द्रौपदी। {प्क्त्_१८१}*सभयमाकर्ण्य** महाराअ कस्स बि एसो बलदप्पिदस्स विसमो सङ्खणिग्घोसो सुणीअदि । अबरं बि अप्पिअं सुणिदुमत्थि णिब्बन्धो तदो विलम्बीअदि । स्क्त्छ्_१८१ महाराज कस्याप्येष बलदर्पितस्य विषमः शङ्खनिर्घोषः श्रूयते । अपरमप्यप्रियं श्रोतुमस्ति निर्बन्धस्ततो विलम्ब्यते । ।युधिष्ठिरः। न खलु विलम्ब्यते । उत्तिष्ठ ।*इति सर्वे परिक्रामन्ति** अयि पाञ्चालि अम्बायाः सपत्नीजनस्य च किंचित्संदिश्य निवर्तय परिजनम् । ।द्रौपदी। {प्क्त्_१८२}महाराअ अम्बाए एव्वं संदिसिस्सं । जो सो बअहिडिम्बकिम्मीरजडासुरजरासंधविजअमल्लो दे मज्झमपुत्तो सो मम हदासाए पक्खबादेण परलोअं गदो त्ति । स्क्त्छ्_१८२ महाराज अम्बाया एवं संदेक्ष्यामि । यः स बकहिडिम्बकिर्मीरजटासुरजरासंधविजयमल्लस्ते मध्यमपुत्रः स मम हताशायाः पक्षपातेन परलोकं गत इति । ।युधिष्ठिरः। भद्रे बुद्धिमतिके उच्यतामस्मद्वचनादम्बा । श्लोक ६.२३ येनासि तत्र जतुवेश्मनि दीप्यमाने निर्वाहिता सह सुतैर्भुजयोर्बलेन । तस्य प्रियस्य बलिनस्तनयस्य पाप œ माख्यामि तेऽम्ब कथयेत्कथमीदृगन्यः ॥ ६.२३ ॥ आर्य जयंधर त्वयापि सहदेवसकाशं गन्तव्यम् । वक्तव्यश्च तत्रभवान्पाण्डुकुलबृहस्पतिर्माद्रेयः कनीयानस्माकम् । सकलकुरुकुलकमलाकरदावानलो युधिष्ठिरः परलोकमभिप्रस्थितः प्रियानुजमप्रतिकूलं सततमाशंसनीयमसंमूढं व्यसनेऽभ्युदये च धृतिमन्तं भवन्तमविरलमालिङ्ग्य शिरसि चाघ्रायेदं प्रार्थयते । श्लोक ६.२४ मम हि वयसा दूरेणाल्पः श्रुतेन समो भवा न्सहजकृतया बुद्ध्या ज्येष्ठो मनीषितया गुरुः । शिरसि मुकुलौ पाणी कृत्वा भवन्तमतोऽर्थये œ मयि विरलतां नेयः स्नेहः पितुर्भव वारिदः ॥ ६.२४ ॥ अपि च बाल्ये संवर्धितस्य नित्याभिमानिनोऽस्मत्सदृशहृदयसारस्यापि नकुलस्य ममाज्ञया वचने स्थातव्यम् । तदुच्यतां नकुलः । नानुगन्तव्यास्मत्पदवी । त्वया हि वत्स श्लोक ६.२५ विस्मृत्यास्मान्श्रुतिविशदया प्रज्ञया सानुजेन पिण्डान्पाण्डोरुदकपृषतानश्रुगर्भान्प्रदातुम् । दायादानामपि तु भवने यादवानां कुले वा œ कान्तारे वा कृतवसतिना रक्षणीयं शरीरम् ॥ ६.२५ ॥ गच्छ जयंधर अस्मच्छरीरस्पृष्टिकया शापितेन भवताकालहीनमिदमवश्यमावेदनीयम् । ।द्रौपदी। {प्क्त्_१८३}हला बुद्धिमदिए भणाहि मम वअणेण पिअसहिं सुभद्दं । अज्ज वच्छाए उत्तराए चौत्थो मासो पडिबण्णस्स गब्भस्स । तुममेव्व एदं कुलपडिट्ठाबअं सावहाणं रक्ख । कदा बि इदो परलोअगदस्स ससुरौलस्स अम्हाणं बि सलिलबिन्दुदो भविस्सदि त्ति । स्क्त्छ्_१८३ हला बुद्धिमतिके भण मम वचनेन प्रियसखीं सुभद्राम् । अद्य वत्साया उत्तरायाश्चतुर्थो मासः प्रतिपन्नस्य गर्भस्य । त्वमेवैतं कुलप्रतिष्ठापकं सावधानं रक्ष । कदापीतः परलोकगतस्य श्वशुरकुलस्यास्माकमपि सलिलबिन्दुदो भविष्यतीति । ।युधिष्ठिरः। *सास्रम्** भोः कष्टम् । श्लोक ६.२६ शाखारोधस्थगितवसुधामण्डले मण्डिताशे पीनस्कन्धे सुसदृशमहामूलपर्यन्तबन्धे । दग्धे दैवात्सुमहति तरौ तस्य सूक्ष्माङ्कुरेऽस्मि œ न्नाशाबन्धं कमपि कुरुते छाययार्थी जनोऽयम् ॥ ६.२६ ॥ साधु । इदानीमध्यवसितं करणीयम् ।*कञ्चुकिनमवलोक्य** आर्य जयंधर स्वशरीरेण शापितोऽसि तथापि न गम्यते । ।कञ्चुकी। *साक्रन्दम्** हा देव पाण्डो तव सुतानामजातशत्रुभीमार्जुननकुलसहदेवानामयं दारुणः परिणामः । हा देवि कुन्ति भोजराजभवनपताके श्लोक ६.२७ भ्रातुस्ते तनयेन शौरिगुरुणा श्यालेन गाण्डीविन स्तस्यैवाखिलधार्तराष्ट्रनलिनीव्यालोलने दन्तिनः । आचार्येण वृकोदरस्य हलिनोन्मत्तेन मत्तेन वा œ दग्धं त्वत्सुतकाननं ननु मही यस्याश्रयाच्छीतला ॥ ६.२७ ॥ *इति रुदन्निष्क्रान्तः** ।युधिष्ठिरः। जयंधर जयंधर । *प्रविश्य** ।कञ्चकी। आज्ञापयतु देवः । ।युधिष्ठिरः। वक्तव्यमिति ब्रवीमि । न पुनरेतावन्ति भागधेयानि नः । यदि कदाचिद्विजयी स्याद्वत्सोऽर्जुनस्तद्वक्तव्योऽस्मद्वचनाद्भवता । श्लोक ६.२८ हली हेतुः सत्यं भवति मम वत्सस्य निधने तथाप्येष भ्राता सहजसुहृदस्ते मधुरिपोः । अतः क्रोधः कार्यो न खलु यदि च प्राणिषि ततो œ वनं गच्छेर्मा गाः पुनरकरुणां क्षात्रपदवीम् ॥ ६.२८ ॥ ।कञ्चुकी। यदाज्ञापयति देवः ।*इति निष्क्रान्तः** ।युधिष्ठिरः। *अग्निं दृष्ट्वा सहर्षम्** कृष्णे ननूद्धतशिखाहस्ताहूतास्मद्विधव्यसनिजनः समिद्धो भगवान्हुताशनस्तत्रेन्धनीकरोम्यात्मानम् । ।द्रौपदी। {प्क्त्_१८४}पसीददु पसीददु महाराओ मम इमिणा अपच्छिमेण पणएण । अहं दाव अग्गदो पविसामि । स्क्त्छ्_१८४ प्रसीदतु प्रसीदतु महाराजो ममानेनापश्चिमेन प्रणयेन । अहं तावदग्रतः प्रविशामि । ।युधिष्ठिरः। यद्येवं सहितावेवाभ्युदयमुपभोक्ष्यावहे । ।चेटी। {प्क्त्_१८५}हा भअवन्तो लोअबाला परित्ताअह परित्ताअह । एसो क्खु सोमवंसराएसी राअसूअसंतप्पिदहव्ववाहो खण्डवसंतप्पिदहुदवहस्स किरीडिणो जेट्ठो भादा सुगिहीदणामहेओ महाराअजुहिट्ठिरो । एसा बि पञ्चालराअतणआ देवी जण्णवेदिमज्झसंभवा जण्णसेणी । दुवे बि णिक्करुणजलणस्स प्पवेसेण इन्धणीहोन्ति । ता परित्ताअह अज्जा परित्ताअह । कधं ण को बि परित्ताअदि ।*तयोरग्रतः पतित्वा** किं ववसिदं देवीए देवेण अ । स्क्त्छ्_१८५ हा भगवन्तो लोकपालाः परित्रायध्वं परित्रायध्वम् । एष खलु सोमवंशराजर्षी राजसूयसंतर्पितहव्यवाहः खाण्डवसंतर्पितहुतवहस्य किरीटिनो ज्येष्ठो भ्राता सुगृहीतनामधेयो महाराजयुधिष्ठिरः । एषापि पाञ्चालराजतनया देवी यज्ञवेदिमध्यसंभवा याज्ञसेनी । द्वावपि निष्करुणज्वलनस्य प्रवेशेनेन्धनीभवतः । तत्परित्रायध्वमार्याः परित्रायध्वम् । कथं न कोऽपि परित्रायते । किं व्यवसितं देव्या देवेन च । ।युधिष्ठिरः। अयि बुद्धिमतिके यद्वत्सलेन प्रियानुजेन विना सदृशं तत् । उत्तिष्ठोत्तिष्ठ भद्रे उदकमुपनय । ।चेटी। {प्क्त्_१८६}जं देवो आणबेदि ।*इति निष्क्रम्य पुनः प्रविश्य च** जेदु जेदु महाराओ । स्क्त्छ्_१८६ यद्देव आज्ञापयति । जयतु जयतु महाराजः । ।युधिष्ठिरः। पाञ्चालि त्वमपि तावत्स्वपक्षपातिनो वृकोदरस्य प्रियस्यार्जुनस्योदकक्रियां कुरु । ।द्रौपदी। {प्क्त्_१८७}महाराओ एव्व करेदु । अहं पुणो जलणं पविसिस्सं । स्क्त्छ्_१८७ महाराज एव करोतु । अहं पुनर्ज्वलनं प्रवेक्ष्यामि । ।युधिष्ठिरः। अनतिक्रमणीयं लोकवृत्तम् । भद्रे उदकमुपनय । *चेटी तथा करोति** ।युधिष्ठिरः। *पादौ प्रक्षाल्योपस्पृश्य च** एष तावत्सलिलाञ्जलिर्गाङ्गेयाय भीष्माय गुरवे । अयं प्रपितामहाय शान्तनवे । अयमपि पितामहाय विचित्रवीर्याय ।*सास्रम्** तातस्याधुनावसरः । अयमपि तत्रभवते सुगृहीतनाम्ने पित्रे पाण्डवे । श्लोक ६.२९ अद्य प्रभृति वारीदमस्मत्तो दुर्लभं पुनः । तात माद्र्यम्बया सार्धं मया दत्तं निपीयताम् ॥ ६.२९ ॥ श्लोक ६.३० एतज्जलं जलजनीलविलोचनाय भीमाय तस्य मम चाप्यविभक्तमस्तु । एकं क्षणं विरम वत्स पिपासितोऽपि œ पातुं त्वया सह जवादयमागतोऽस्मि ॥ ६.३० ॥ अथ वा सुक्षत्रियाणां गतिमुपगतं वत्समहमुपगतोऽप्यकृती द्रष्टुम् । वत्स भीमसेन श्लोक ६.३१ मया पीतं पीतं तदनु भवताम्बास्तनयुगं मदुच्छिष्टैर्वृत्तिं जनयसि रसैर्वत्सलतया । वितानेष्वप्येवं तव मम च सोमे विधिरभू œ न्निवापाम्भः पूर्वं पिबसि कथमेवं त्वमधुना ॥ ६.३१ ॥ कृष्णे त्वमपि देहि सलिलाञ्जलिम् । ।द्रौपदी। {प्क्त्_१८८}हञ्जे बुद्धिमदिए उबणेहि मे सलिलं । स्क्त्छ्_१८८ हञ्जे बुद्धिमतिके उपनय मे सलिलम् । *चेटी तथा करोति** ।द्रौपदी। {प्क्त्_१८९}*उपसृत्य जलाञ्जलिं पूरयित्वा** महाराअ कस्स सलिलं देम्हि । स्क्त्छ्_१८९ महाराज कस्मै सलिलं ददामि । ।युधिष्ठिरः। श्लोक ६.३२ तस्मै देहि जलं कृष्णे सहसा गच्छते दिवम् । अम्बापि येन गान्धार्या रुदितेन सखी कृता ॥ ६.३२ ॥ ।द्रौपदी। {प्क्त्_१९०}णाह भीमसेण परिअणोबणीदमुदअं सग्गगदस्स दे पादोदअं भोदु । स्क्त्छ्_१९० नाथ भीमसेन परिजनोपनीतमुदकं स्वर्गगतस्य ते पादोदकं भवतु । ।युधिष्ठिरः। फाल्गुनाग्रज श्लोक ६.३३ असमाप्तप्रतिज्ञेऽस्तं याते त्वयि महाभुजे । मुक्तकेश्यैव दत्तस्ते प्रियया सलिलाञ्जलिः ॥ ६.३३ ॥ ।द्रौपदी। {प्क्त्_१९१}उट्ठेहि महाराअ दूरं गच्छदि दे भादा । स्क्त्छ्_१९१ उत्तिष्ठ महाराज दूरं गच्छति ते भ्राता । ।युधिष्ठिरः। *दक्षिणाक्षिस्पन्दनं सूचयित्वा** पाञ्चालि निमित्तानि मे कथयन्ति संभावयिष्यसि वृकोदरमिति । ।द्रौपदी। {प्क्त्_१९२}महाराअ सुणिमित्तं भोदु । स्क्त्छ्_१९२ महाराज सुनिमित्तं भवतु । *नेपथ्ये कलकलः** *प्रविश्य संभ्रान्तः** ।कञ्चुकी। परित्रायतां परित्रायतां महाराजः । एष खलु दुरात्मा कौरवापसदः क्षतजाभिषेकपाटलिताम्बरशरीरः समुच्छ्रितदिग्धभीषणगदापाणिरुद्यतकालदण्ड इव कृतान्तोऽत्रभवतीं पाञ्चालराजतनयामितस्ततः परिमार्गमाण इत एवाभिवर्तते । ।युधिष्ठिरः। हा दैव ते निर्णयो जातः । हा गाण्डीवधन्वन् ।*इति मुह्यति** ।द्रौपदी। {प्क्त्_१९३}हा अज्जौत्त हा मम सअंवरसअंगाहदुल्ललिद पिअं भादुअमणुगदोसि ण उण महाराअमिमं दासजणम ।*इति मोहमुपगता** स्क्त्छ्_१९३ हा आर्यपुत्र हा मम स्वयंवरस्वयंग्राहदुर्ललित प्रियं भ्रातरमनुगतोऽसि न पुनर्महाराजमिमं दासजनं च । ।युधिष्ठिरः। हा वत्स सव्यसाचिन्हा त्रिलोचनाङ्गनिष्पेषमल्ल हा निवातकवचोद्धरणनिष्कण्टकीकृतामरलोक हा बदर्याश्रममुनिद्वितीयतापस हा द्रोणाचार्यप्रियशिष्य हा अस्त्रशिक्षाबलपरितोषितगाङ्गेय हा राधेयकुलकमलिनीप्रालेयवर्ष हा गन्धर्वनिर्वासितदुर्योधन हा पाण्डवकुलकमलिनीराजहंस श्लोक ६.३४ तां वत्सलामनभिवाद्य विनीतमम्बां गाढं च मामनुपगुह्य मयाप्यनुक्तः । एतां स्वयंवरवधूं दयितामदृष्ट्वा œ दीर्घप्रवासमयि तात कथं गतोऽसि ॥ ६.३४ ॥ *मोहमुपगतः** ।कञ्चुकी। भोः कष्टम् । एष दुरात्मा कौरवाधमो यथेष्टमित एवाभिवर्तते । सर्वथा संप्रत्ययमेव कालोचितः प्रतीकारः । चितासमीपमुपनयाम्यत्रभवतीं पाञ्चालराजतनयाम् । अहमप्येवमेवानुगच्छामि ।*चेटीं प्रति** भद्रे त्वमपि देव्या भ्रातरं धृष्टद्युम्नं नकुलसहदेवौ वावाप्नुहि । अथ वैवमवस्थिते महाराजेऽस्तमितयोर्भीमार्जुनयोः कुतोऽत्र परित्राणाशा । ।चेटी। {प्क्त्_१९४}परित्ताअह परित्ताअह अज्जा । स्क्त्छ्_१९४ परित्रायध्वं परित्रायध्वमार्याः । *नेपथ्ये कलकलानन्तरम्** भो भोः समन्तपञ्चकसंचारिणः क्षतजासवमत्तयक्षराक्षसपिशाचभूतवेतालकङ्कगृध्रजम्बुकोलूकवायसभूयिष्ठा विरलयोधपुरुषाः कृतमस्मद्दर्शनत्रासेन । कथयत कस्मिन्नुद्देशे याज्ञसेनी संनिहितेति । कथयाम्युपलक्षणं तस्याः । श्लोक ६.३५ ऊरू करेण परिघट्टयतः सलीलं दुर्योधनस्य पुरतोऽपहृताम्बरा या । दुःशासनेन कचकर्षणभिन्नमौलिः œ सा द्रौपदी कथयत क्व पुनः प्रदेशे ॥ ६.३५ ॥ ।कञ्चुकी। हा देवि यज्ञवेदिसंभवे परिभूयसे संप्रत्यनाथा कुरुकुलकलङ्केन । ।युधिष्ठिरः। *सहसोत्थाय सावष्टम्भम्** पाञ्चालि न भेतव्यं न भेतव्यम् ।*ससंभ्रमम्** कः कोऽत्र भोः । सनिषङ्गं मे धनुरुपनय । दुरात्मन्दुर्योधनहतक आगच्छागच्छ । अपनयामि ते गदाकौशलसंभृतं भुजदर्पं शिलीमुखासारेण । अन्यच्च रे कुरुकुलाङ्गार श्लोक ६.३६ प्रियमनुजमपश्यंस्तं जरासंधमल्लं कुपितहरकिरातायोधिनं तं च वत्सम् । त्वमिव कठिनचेताः प्राणितुं नास्मि शक्तो œ ननु पुनरपहर्तुं बाणवर्षैस्तवासून् ॥ ६.३६ ॥ *ततः प्रविशति गदापाणिः क्षतजसिक्तसर्वाङ्गो भीमसेनः** ।भीमसेनः। *उद्धतं परिक्रामन्** भो भोः समन्तपञ्चकसंचारिणः सैनिकाः कोऽयमावेगः । श्लोक ६.३७ नाहं रक्षो न भूतो रिपुरुधिरजलप्लाविताङ्गः प्रकामं निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि । भो भो राजन्यवीराः समरशिखिशिखादग्धशेषाः कृतं व œ स्त्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत् ॥ ६.३७ ॥ कथयन्तु भवन्तः कस्मिन्नुद्देशे पाञ्चाली तिष्ठति । ।द्रौपदी। {प्क्त्_१९५}*लब्धसंज्ञा** परित्ताअदु परित्ताअदु महाराओ । स्क्त्छ्_१९५ परित्रायतां परित्रायतां महाराजः । ।कञ्चुकी। देवि पाण्डुस्नुषे उत्तिष्ठोत्तिष्ठ । संप्रति झटिति चिताप्रवेश एव श्रेयान् । ।द्रौपदी। {प्क्त्_१९६}*सहसोत्थाय** कहं ण संभावेमि अज्ज बि चिदासमीबं । स्क्त्छ्_१९६ कथं न संभावयाम्यद्यापि चितासमीपम् । ।युधिष्ठिरः। कः कोऽत्र भोः । सनिषङ्गं धनुरुपनय । कथं न कश्चित्परिजनः । भवतु । बाहुयुद्धेनैव दुरात्मानं गाढमालिङ्ग्य ज्वलनमभिपातयामि ।*परिकरं बध्नाति** ।कञ्चुकी। देवि पाण्डुस्नुषे संयम्यन्तामिदानीं नयनोपरोधिनो दुःशासनावकृष्टा मूर्धजाः । अस्तमिता संप्रति प्रतीकाराशा । चितासमीपमेव द्रुततरं संभावय । ।युधिष्ठिरः। कृष्णे न खल्वनिहते तस्मिन्दुरात्मनि दुर्योधने संहर्तव्याः केशाः । ।भीमसेनः। पाञ्चालि न खलु मयि जीवति संहर्तव्या दुःशासनविलुलिता वेणिरात्मपाणिभ्याम् । तिष्ठतु तिष्ठतु । स्वयमेवाहं संहरामि । *द्रौपदी भयादपसर्पति** ।भीमसेनः। तिष्ठ तिष्ठ भीरु क्वाधुना गम्यते ।*इति केशेषु ग्रहीतुमिच्छति** ।युधिष्ठिरः। *वेगाद्भीममालिङ्ग्य** दुरात्मन्भीमार्जुनशत्रो सुयोधनहतक श्लोक ६.३८ आशैशवादनुदिनं जनितापराधो मत्तो बलेन भुजयोर्हतराजपुत्रः । आसाद्य मेऽन्तरमिदं भुजपञ्जरस्य œ जीवन्प्रयासि न पदात्पदमद्य पाप ॥ ६.३८ ॥ ।भीमसेनः। अये कथमार्यः सुयोधनशङ्कया क्रोधान्निर्दयं मामालिङ्गति । ।कञ्चुकी। *निरूप्य सहर्षम्** महाराज वञ्च्यसे । अयं खल्वायुष्मान्भीमसेनः सुयोधनक्षतजारुणीकृतसकलशरीराम्बरो दुर्लक्षव्यक्तिः । अलमधुना संदेहेन । ।चेटी। {प्क्त्_१९७}*द्रौपदीमालिङ्ग्य** देवि णिवत्तीअदु णिवत्तीअदु । एसो क्खु पूरिदपडिण्णाभारो णाहो दे वेणीसंहारं कादुं तुममेव्व अण्णेसदि । स्क्त्छ्_१९७ देवि निवृत्यतां निवृत्यताम् । एष खलु पूरितप्रतिज्ञाभारो नाथस्ते वेणीसंहारं कर्तुं त्वामेवान्विष्यति । ।द्रौपदी। {प्क्त्_१९८}हञ्जे किं ममलीअवअणेहिमासासेसि । स्क्त्छ्_१९८ हञ्जे किं मामलीकवचनैराश्वासयसि । ।युधिष्ठिरः। जयंधर किं कथयसि । नायमनुजद्वेषी दुर्योधनहतकः । ।भीमसेनः। देव अजातशत्रो भीमार्जुनगुरो कुतोऽद्यापि दुर्योधनहतकः । मया हि तस्य दुरात्मनः पाण्डुकुलपरिभाविनः श्लोक ६.३९ भूमौ क्षिप्तं शरीरं निहितमिदमसृक्चन्दनाभं निजाङ्गे लक्ष्मीरार्ये निषण्णा चतुरुदधिपयःसीमया सार्धमुर्व्या । भृत्या मित्राणि योधाः कुरुकुलमखिलं दग्धमेतद्रणाग्नौ œ नामैकं यद्ब्रवीषि क्षितिप तदधुना धार्तराष्ट्रस्य शेषम् ॥ ६.३९ ॥ *युधिष्ठिरः स्वैरं मुक्त्वा भीममवलोकयन्नश्रूणि प्रमार्जयति** ।भीमसेनः। *पादयोः पतित्वा** जयत्वार्यः । ।युधिष्ठिरः। वत्स बाष्पजलान्तरितनयनत्वान्न पश्यामि ते मुखचन्द्रम् । तत्कथय कच्चिज्जीवति भवान्समं किरीटिना । ।भीमसेनः। निहतसकलरिपुपक्षे त्वयि नराधिपे जीवति भीमोऽर्जुनश्च । ।युधिष्ठिरः। *पुनर्गाढमालिङ्ग्य** श्लोक ६.४० रिपोरास्तां तावन्निधनमिदमाख्याहि शतशः प्रियो भ्राता सत्यं त्वमसि मम योऽसौ बकरिपुः । ।भीमसेनः। आर्य सोऽहम् । ।युधिष्ठिरः। श्लोक ६.४० जरासंधस्योरःसरसि रुधिरासारसलिले œ तटाघातक्रीडाललितमकरः संयति भवान् ॥ ६.४० ॥ ।भीमसेनः। आर्य स एवाहम् । तन्मुञ्चतु मामार्यः क्षणमेकम् । ।युधिष्ठिरः। किमपरमवशिष्टम् । ।भीमसेनः। आर्य सुमहदवशिष्टम् । संयच्छामि तावदनेन सुयोधनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम् । ।युधिष्ठिरः। सत्वरं गच्छतु भवान् । अनुभवतु तपस्विनी वेणीसंहारमहोत्सवम् । ।भीमसेनः। *द्रौपदीमुपसृत्य** देवि पाञ्चालराजतनये दिष्ट्या वर्धसे रिपुकुलक्षयेण । अलमलमेवंविधं मामालोक्य त्रासेन । श्लोक ६.४० कृष्टा येनासि राज्ञां सदसि नृपशुना तेन दुःशासनेन स्त्यानान्येतानि तस्य स्पृश मम करयोः पीतशेषाण्यसृञ्जि । कान्ते राज्ञः कुरूणामपि सरसमिदं मद्गदाचूर्णितोरो œ रङ्गेऽङ्गेऽसृङ्निषक्तं तव परिभवजस्यानलस्योपशान्त्यै ॥ ६.४० ॥ बुद्धिमतिके क्व सा संप्रति भानुमती योपहसति पाण्डवदारान् । भवति यज्ञवेदिसंभवे याज्ञसेनि । ।द्रौपदी। {प्क्त्_१९९}आणबेदु णाहो । स्क्त्छ्_१९९ आज्ञापयतु नाथः । ।भीमसेनः। स्मरति भवती यन्मयोक्तम् ।*चञ्चद्भुजेत्यादिसेए स्तन्श १.२१. पूर्वोक्तं पठति** ।द्रौपदी। {प्क्त्_२००}णाह ण केवलं सुमरामि । अणुहवामि अ णाहस्स पसादेण । स्क्त्छ्_२०० नाथ न केवलं स्मरामि । अनुभवामि च नाथस्य प्रसादेन । ।भीमसेनः। *वेणीमवधूय** भवति संयम्यतामिदानीं धार्तराष्ट्रकुलकालरात्रिर्दुःशासनविलुलितेयं वेणी । ।द्रौपदी। {प्क्त्_२०१}णाह विसुमरिदम्हि एदं वाबारं । णाहस्स पसाएण पुणो बि सिक्खिस्सं । स्क्त्छ्_२०१ नाथ विस्मृतास्म्येतं व्यापारम् । नाथस्य प्रसादेन पुनरपि शिक्षिष्ये । *भीमसेनः वेणीं बध्नाति** *नेपथ्ये** महासमरानलदग्धशेषाय स्वस्ति भवतु राजन्यकुलाय । श्लोक ६.४२ क्रोधान्धैर्यस्य मोक्षात्क्षतनरपतिभिः पाण्डुपुत्रैः कृतानि प्रत्याशं मुक्तकेशान्यतुलभुजबलैः पार्थिवान्तःपुराणि । कृष्णायाः केशपाशः कुपितयमसखो धूमकेतुः कुरूणां œ सोऽयं बद्धः प्रजानां विरमतु निधनं स्वस्ति राज्ञां कुलेभ्यः ॥ ६.४२ ॥ ।युधिष्ठिरः। देवि एष ते वेणीसंहारोऽभिनन्द्यते नभस्तलसंचारिणा सिद्धजनेन । *ततः प्रविशतः कृष्णार्जुनौ** ।कृष्णः। *युधिष्ठिरमुपगम्य** विजयतां निहतसकलारातिमण्डलः सानुजः पाण्डवकुलचन्द्रमा महाराजो युधिष्ठिरः । ।अर्जुनः। जयत्वार्यः । ।युधिष्ठिरः। *विलोक्य** अये भगवान्पुण्डरीकाक्षो वत्सश्च किरीटी । भगवन्नभिवादये ।*किरीटिनं प्रति** एह्येहि वत्स । *अर्जुनः प्रणमति** ।युधिष्ठिरः। *वासुदेवं प्रति** देव कुतस्तस्य विजयादन्यद्यस्य भगवान्पुराणपुरुषो नारायणः स्वयं मङ्गलान्याशास्ते । श्लोक ६.४३ कृतगुरुमहदादिक्षोभसंभूतमूर्तिं गुणिनमुदयनाशस्थानहेतुं प्रजानाम् । अजममरमचिन्त्यं चिन्तयित्वापि न त्वां œ भवति जगति दुःखी किं पुनर्देव दृष्ट्वा ॥ ६.४३ ॥ *अर्जुनमालिङ्ग्य** वत्स परिष्वजस्व माम् । ।कृष्णः। महाराज युधिष्ठिर श्लोक ६.४४ व्यासोऽयं भगवानमी च मुनयो वाल्मीकिरामादयो धृष्टद्युम्नमुखाश्च सैन्यपतयो माद्रीसुताधिष्ठिताः । प्राप्ता मागधमत्स्ययादवकुलैराज्ञाविधेयैः समं œ स्कन्धोत्तम्भिततीर्थवारिकलशा राज्याभिषेकाय ते ॥ ६.४४ ॥ अहं पुनर्दुरात्मना चार्वाकेण विप्रकृतं भवन्तमुपलभ्यार्जुनेन सह त्वरिततरमायातः । ।युधिष्ठिरः। कथं चार्वाकेण रक्षसा वयमेवं विप्रलब्धाः । ।भीमसेनः। *सरोषम्** क्वासौ धार्तराष्ट्रसखा पुण्यजनापसदो येनार्यस्य महांश्चित्तविभ्रमः कृतः । ।कृष्णः। निगृहीतः स दुरात्मा नकुलेन । तत्कथय महाराज किमस्मात्परं समीहितं संपादयामि । ।युधिष्ठिरः। एवं पुण्डरीकाक्ष न किंचिन्न ददाति भगवान्प्रसन्नः । अहं तु पुरुषसाधारणया बुद्ध्या संतुष्यामि । न खल्वतः परमभ्यर्थयितुं क्षमः । पश्यतु देवः । श्लोक ६.४५ क्रोधान्धैः सकलं हतं रिपुकुलं पञ्चाक्षतास्ते वयं पाञ्चाल्या मम दुर्नयोपजनितस्तीर्णो निकारार्णवः । त्वं देवः पुरुषोत्तमः सुकृतिनं मामादृतो भाषसे œ किं नामान्यदतः परं भगवतो याचे प्रसन्नादहम् ॥ ६.४५ ॥ तथापि प्रीततरश्चेद्भगवांस्तदिदमस्तु । श्लोक ६.४६ अकृपणमरुक्श्रान्तं जीव्याज्जनः पुरुषायुषं भवतु भगवन्भक्तिर्द्वैतं विना पुरुषोत्तमे । दयितभुवनो विद्वद्बन्धुर्गुणेषु विशेषवि œ त्सततसुकृती भूयाद्भूपः प्रसाधितमण्डलः ॥ ६.४६ ॥ अपि च श्लोक ६.४७ अवनिमवनिपालाः पान्तु वृष्टिं विधत्तां जगति जलधराली शस्यपूर्णास्तु भूमिः । त्वयि मुरनरकारौ भक्तिरद्वैतयोगा œ द्भवतु मम सुदीर्घं हव्यमश्नन्तु देवाः ॥ ६.४७ ॥ ।कृष्णः। एवमस्तु । *इति निष्क्रान्ताः सर्वे** इति षष्ठोऽङ्कः । समाप्तमिदं वेणीसंहारं नाम नाटकम् । इदं च विदग्धस्निग्धवियोगदुर्मनसा विप्रलपितं तेन कविना । काव्यालापसुभाषितव्यसनिनस्ते राजहंसा गता स्ता गोष्ठ्यः क्षयमागता गुणलवश्लाघ्यास्तु वाचः सताम् । सालंकाररसप्रसन्नमधुराकाराः कवीनां गिरः प्राप्ता नाशमयं तु भूमिवलये जीयात्प्रबन्धो महान् ॥