नागानन्दम् प्रथमोऽङ्कः नान्दी ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पध्यानङ्गशरातुरं जनमिमं त्राताऽपि नो रक्षसि । मिथ्याकारुणिकोऽसि निर्घृणातरस्त्वत्तः कुतोऽन्यः पुमान् सेर्ष्यं मारवधूभिरित्यभिहितो बोधौ जिनः पातु वः ॥ १.१ ॥ अपि च कामेनाकृष्य चापं हतपटुहावल्गिभिर्मारवीरैर् भ्रभङ्गोत्कल्पजृम्भास्मितचलितद्दृशा दिव्यनारीजनेन । सिद्धैः प्रह्वोत्तमाङ्गैः पुलकितवपुषा विस्मयाद्वासवेन ध्यायन् बोधेरवाप्तावचलित इति वः पातु दृष्टो मुनीन्द्रः ॥ १.२ ॥ श्रीहर्षो निपुणः कविः परिषदप्येषा गुणाग्राहिणी लोके हारि च बोधिसत्त्वचरितं नाट्ये च दक्षा वयम् । वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुन र्मदूभाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥ १.३ ॥ द्विजपरिजनबन्धुहिते मद्भवनतटाकहंसि मृदुशीले । परपुरुषचन्द्रकमलिन्यार्ये कार्यादितस्तावत् ॥ १.४ ॥ पित्रोर्विधातुं शुश्रूषां त्यक्त्वैश्वर्य क्रमागतम् । वनं याम्यहमद्यैव यथा जीमूतवाहनः ॥ १.५ ॥ रागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययः कृत्याकृत्यविचारणासु विमुखं को वा न वेत्ति क्षितौ । एवं निन्द्यमपीदमिन्द्रियवशं प्रीत्यै भवेद्यौवनं भक्त्या याति यदीत्थमेव पितरौ शुश्रूषमाणस्य मे ॥ १.६ ॥ तिष्ठन् भाति पितुः पुरो भुवि यथा सिंहासने किं तथा? यत्संवाहयतः सुखं तु चरणौ तातस्य किं राजके? किं भुक्ते भुवनत्रये धृतिरसौ भुक्तोज्झिते या गुरोः? आयासः खलु राज्यमुज्झितगुरुस्तत्रास्ति कश्चिद्गुणः? ॥ १.७ ॥ न्याय्ये वर्त्मनि योजिताः प्रकृतयः सन्तः सुखं स्थापिता नीतो बन्धुजनस्तथात्मसमतां राज्ये च रक्षा कृता । दत्तो दत्तमनोरथाधिकफलः कल्पद्रुमोऽप्यर्थिने किं कर्त्तव्यमतः परं कथय वा यत्ते स्थितं चेतसि ॥ १.८ ॥ माद्यद्दिग्गजगण्डभित्तिकषणैर्भनस्रवच्चन्दनः क्रन्दत्कन्दरगह्वरो जलनिधेरास्फालितो वीचिभिः । पादालक्तकरक्तमौक्तिकशिलः सिद्धाङ्गनानां गतैः सेव्योऽयं मलयाचलः किमपि मे चेतः करोत्युत्सुकम् ॥ १.९ ॥ दक्षिणं स्पन्दते चक्षुः फलाकाङ्क्षा न मे क्वचित् । न च मिथ्या मुनिवचः कथयिष्यति किं न्विदम् ॥ १.१० ॥ वासोऽर्थं दययैव नातिपृथवः कृत्तास्तरूणां त्वचो भग्नालक्ष्यजरत्कमण्डलु नभःस्वच्छं पयो नैर्झरम् । दृश्यन्ते त्रुटितोज्झिताश्च बटुभिओर्मौञ्ज्यः क्वचिन्मेखला नित्याकर्णनया शुकेन च पदं साम्नामिदं पठयते ॥ १.११ ॥ मधुरमिव वदन्ति स्वागतं भृङ्गशब्दै र्नतिमिव फलनम्रैः कुर्वतेऽमी शिरोभिः । मम ददत इवार्घ्यं पुष्पवृष्टीः किरन्तः कथमतिथिसपर्य्यां शिक्षिताः शाखिनोऽपि ॥ १.१२ ॥ स्थानप्राप्त्या दधानं प्रकटितगमकां मन्द्रतारव्यवस्थां निर्ह्रादिन्या विपञ्च्या मिलितमलिरुतेनेव तन्त्रीस्वरेण । एते दन्तान्तरालस्थिततृणकवलच्छेदशब्दं नियम्य व्याजिह्याङ्गाः कुरङ्गाः स्फुटललितपदं गीतमाकर्णयन्ति ॥ १.१३ ॥ उल्फुल्लकलमलकेसरपरागगौरद्युते ! मम हि गौरि ! अभिवाञ्छितं प्रसिध्यतु भगवति ! युष्मत्प्रसादेन ॥ १.१४ ॥ व्यक्तिर्व्यञ्चनधातुना दशविधेनाप्यत्र लब्धामुना विस्पष्टो द्रुतमध्यलम्बितपरिच्छिन्नस्त्रिधायं लयः । गोपुच्छप्रमुखाः क्रमेण यतयस्तिस्त्रोऽपि सम्पादिता स्तत्त्वौघानुगताश्च वाद्यविधयः सम्यक्त्रयो दर्शिताः ॥ १.१५ ॥ स्वर्गस्त्री यदि तत्कृतार्थमभवच्चक्षुःसहस्त्र हरे र्नागी चेन्न रसातलं शशभृता शून्यं मुखेऽस्याः स्थिते । जातिर्नः सकलान्यजातिजयिनी विद्याधरी चेदियं स्यात्सिद्धान्वयजा यदि त्रिभुवने सिद्धा प्रसिद्धास्ततः ॥ १.१६ ॥ तनुरियं तरलायतलोचने ! श्वसितकम्पितपीनघनस्तनि ! श्रममलं तपसैव गता पुनः किमिति सम्भ्रमकारिणि ! खिद्यते ॥ १.१७ ॥ उष्णीषः स्फुट एष मूर्द्धनि विभात्यूर्णेयमन्तर्भ्रुवो श्चक्षुस्तामरसानुकारि हरिणा वक्षःस्थलं स्पर्द्धते । चक्राङ्कञ्च यथा पदद्वयमिदं मन्ये तथा कोऽप्ययं नो विद्याधरचक्रवर्त्तिपदवीमप्राप्य विश्राम्यति ॥ १.१८ ॥ एक्कतो गुरुवअणमण्णतो दैअदंसणसुहाइम् । गमणागमणाधिरूढमज्ज बि दोलएदि मे हिअअम् ॥ १.१९ ॥ एकतो गुरुवचनमन्यतो दयितदर्शनसुखानि । गमनागमनाधिरूढमद्यापि दोलायते मे हृदयम् ॥ १.१९ ॥ अनया जघनाभोगमन्थरयानया । अन्यतोऽपि व्रजन्त्या मे हृदये निहितं पदम् ॥ १.२० ॥ तापात्तत्क्षणघृष्टचन्दनरसापाण्डू कपालौ वहन् संसवक्तैर्निजकर्णतालपवनैः संविज्यमानाननः । सम्प्रत्येष विशेषसिक्तहृदया हस्तोज्झितैः शीकरै र्गाढायल्लकदुःसहामिव दशां धत्ते गजानां पतिः ॥ १.२१ ॥ इति प्रथमोऽङ्कः । द्वितीयोऽङ्कः कुणसि घणचन्दणलदापल्लवसंसग्गसीअलं पि इमम् । णीसासेहिं तुममेव्व कअलीदलमारुअमुण्हम् ॥ २.१ ॥ व्यावृत्यैव सितासितेक्षणरुचा तानाअश्रमे शाखिनः कुर्वत्या विटपावसक्तविलसत्कृष्णाजिनौधानिव । यद्दृष्टोस्मि तया मुनेरपि पुरस्तेनैव मय्याहते पुष्पेषो ! भवता मुधैव किमिति क्षिप्यन्त एते शराः? ॥ २.२ ॥ नीताः किं न निशाः शशाङ्कधवला नाघ्रातमिन्दीवरं? किं नोन्मीलितमालतीसुरभयः सोढाः प्रदोषानिलाः? झङ्कारः कमलाकरे मधुलिहां किं वा मया न श्रुतो? निर्व्याजं विधुरेष्वधीर इति मां येनाभिधत्ते भवान्? ॥ २.३ ॥ स्त्रीहृदयेन न सोढाः क्षिप्ताः कुसुमेषवोऽप्यनङ्गेन । येनाद्यैव पुरस्तव वदामि धीर इति स कथमहम्? ॥ २.४ ॥ चन्दनलतागृहमिदं सचन्द्रमणिशिलमपि प्रियं न मम । चन्द्राननया रहितं चन्द्रिकया मुखमिव निशायाः ॥ २.५ ॥ शशिमणिशिला सेयं यस्यां विपाण्डुरमाननं करकिसलये कृत्वा वामे घनश्वसितोद्गमा । चिरयति मयि व्यक्ताकूता मनाक्स्फुरितैर्भ्रुवो र्विरमितमनोमन्युर्दृष्टा मया रुदती प्रिया ॥ २.६ ॥ निष्यन्दत इवानेन मुखचन्द्रोदयेन ते । एतद्वाष्पाम्बुना सिक्तं चन्द्रकान्तशिलातलम् ॥ २.७ ॥ अक्लिष्टबिम्बशोभाधरस्य नयनोत्सवस्य शशिन इव । दयितामुखस्य सुखयति रेखापि प्रथमदृष्टयेम् ॥ २.८ ॥ प्रिया सन्निहितैवेयं सङ्कल्पस्थापिता पुरः । दृष्ट्वा दृष्ट्वा लिखाम्येनां यदि तत्कोऽत्र विस्मयः ! ॥ २.९ ॥ यद्धिद्याधरराजवंशतिलकः प्राज्ञः सतां सम्भतो रूपेणाप्रतिमः पराक्रमधनो विद्धान् विनीतो युव । यच्चसूनपि सन्त्यजेत्करुणया सत्त्वार्थमभ्युद्यत स्तेनास्मै ददतः स्वसारमतुलां तुष्टिर्विषादश्च मे ॥ २.१० ॥ न खलु न खलु मुग्धे ! साहसं कार्यमीदृक् व्यपनय करमेतं पल्लवाभं लतायाः । कुसुममपि विचेतुं यो न मन्ये समर्थः कलयति स कथं ते पाशमुद्बन्धनाय? ॥ २.११ ॥ कण्ठे हारलतायोग्ये येन पाशस्त्वयार्पितः । गृहीतः सापराधोऽयं कथं ते मुच्यते करः? ॥ २.१२ ॥ वृष्टया पिष्टातकस्य द्युतिमिह मलये मेयुतुल्यां दधानः सद्यः सिन्दूरदूरीकृतदिवससमारम्भसन्ध्यातपश्रीः । उदूगितैरङ्गनानां चलचरणरणन्नूपुरह्रादहृद्यै रूद्वाहस्नानवेलां कथयति भवतः सिद्धये सिद्धलोकः ॥ २.१३ ॥ अन्योन्यदर्शनकृतः समानरूपानुरागकुलवयसाम् । केषाञ्चिदेव मन्ये समागमो भवति पुण्यवताम् ॥ २.१४ ॥ इति द्वितियोऽङ्कः । तृतीयोऽङ्कः णिच्चं जो पिबै सुरं जणस्स पिअसगमं च जो कुणै । मह दे दो अबि देवा बलदेओ कामदेओ अ ॥ ३.१ ॥ वच्छत्थलम्हि दैआ दिण्णुप्पलवासिआ मुहे मैरा । सीसम्मि अ सेहरओ णिच्चं विअ संठिआ जस्स ॥ ३.२ ॥ हरिहरपिदामहाणं पि गव्विदो जो ण जाणै णमिदुम् । सो सेहरओ चलणेसु तुज्ज णोमालिए पदै ॥ ३.३ ॥ दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता शय्यायां परिवृत्य तिष्ठति बलादालिङ्गिता वेपते । निर्यन्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते जाता वामतयैव मेऽद्य सुतरां प्रित्यै नवोढा प्रिया ॥ ३.४ ॥ हुङ्कारं ददता मया प्रतिवचो यन्मौनमासेवितं यद्दावानलदीप्तिभिस्तनुरियं चन्द्रातपैस्तापिता । ध्यातं यत्सुबहून्यनमनसा नक्तन्दिनानि प्रिये ! तस्यैतत्तपसः फलं मुखमिदं पश्यामि यत्तेऽधुना ॥ ३.५ ॥ खेदाय स्तनभार एव किमु ते मध्यस्य हारोऽपरः? श्राम्यत्यूरुयुगं नितम्बभरतः काञ्च्यानया किं पुनः? शक्तिः पादयुगत्य नोरुपुगलं वोढु कुतो नूपुरौ? स्वाङ्गैरेव विमूषितासि वहसि क्लेशाय किं मण्डनम्? ॥ ३.६ ॥ निष्यन्दश्चन्दनानां शिशिरयति लतामण्डपे कुट्टिमान्ता नाराद्धारागृहाणां ध्वनिमनु ततुते ताण्डवं नोलकण्ठः । यन्त्रोन्मुक्तश्च वेगाद्चलति विटपिनां पूरयन्नालवाला नापातोत्पीडहेलाहृत कुसुमरजःपिञ्जरोऽयं जलौघः ॥ ३.७ ॥ अपि च अमी गीतारम्भैमुखरितलतामण्डपभुवः परागैः पुष्पाणां प्रकटपटवासव्यतिकराः । पिबन्तः पर्य्याप्तं सह सहचरीभिर्मघुरसं समन्तादापानोत्सवमनभवन्तीव मधुपाः ॥ ३.८ ॥ दिग्धाङ्गा हरिचन्दनेन दधतः सन्तानकानां स्रजो माणिक्याभरणप्रभाव्यतिकरैश्चित्रीकृताच्छांशुकाः । सार्द्ध सिद्धजनैर्मधूनि दयितापीतावशिष्टान्यमी मिश्रीभूय पिबन्ति चन्दनतरुच्छायासु विद्याधराः ॥ ३.९ ॥ एतन्मुखं प्रियायाः शशिनं जित्वा कपोलयाः कान्त्या । तापानुर्क्तमधुना कमलं ध्रुवमीहते जेतुम् ॥ ३.१० ॥ एतत्ते भ्रुलतोल्लासि पाटलाधरपल्लवम् । मुखं नन्दनमुद्यानमतोऽन्यत्केवलं वनम् ॥ ३.११ ॥ स्मितपुष्पोद्गमोऽयं ते दृश्यतेऽधरपल्लवे । फलं त्वन्यत्र मुग्धाक्षि ! चक्षुषोर्मम पश्यतः ॥ ३.१२ ॥ दिनकरकरामृष्टं बिभ्रत्द्युतिं परिपाटलां दशनकिरणौः संसर्पद्भिः स्फुटीकृतकेसरम् । अयि मखमिदं मुग्धे ! सत्यं समं कमलेन ते मधु मधुकरः किन्त्वेतस्मिन् पिब्बन्न विभाव्यते? ॥ ३.१३ ॥ अनिहत्य तं सपत्नं कथमिव जीमूतवाहनस्याहम् । कथयिष्यामि हृतं तव राज्यं रीपुणेति निर्लज्जः? ॥ ३.१४ ॥ संसर्पद्भिः समन्तात्कृतसकलवियन्मार्गयानैर्विमानैः कुर्वाणाः प्रावृषीव स्थगितरविरुचः श्यामतां वासरस्य । एते याताश्च सद्यस्तव वचनमितः प्राप्य युद्धाय सिद्धाः सिद्धञ्चोद्वृत्तशत्रुक्षयभयविनमुद्राजकं ते स्वराज्यम् ॥ ३.१५ ॥ एकाकिनापि हि मया रभसावकृष्टनिस्त्रिंशदीधितिसटाभरभासुरेण । आरान्निपत्य हरिणेव मतङ्गजेन्द्रमाजौ मतङ्गहतकं विद्धि ॥ ३.१६ ॥ स्वशरीरमपि परार्थे यः खलु दद्यादयाचितः कृपया । राज्यस्य कृते स कथं प्राणिवधक्रौर्यमनुमनुते ॥ ३.१७ ॥ निद्रामुद्रावबन्धान्मधुकरमनिशं पद्मकाशादपास्य न्नाशापूरैककर्मप्रवणनिजकरप्रीणिताशेषविश्वः । दृष्टः सिद्धैः प्रसक्तस्तुतिमुखरमुखैरस्तमप्येष गच्छन् एकः श्लाघ्यो विवस्वान् परहितकरणायैव यस्य प्रयासःः ॥ ३.१८ ॥ इति तृतीयोऽङ्क । चतुर्थोऽङ्कः कञ्चुकी अन्तःपुराणां विहितव्यवस्थः पदे पदेऽहं स्खलनानि रक्षन् । जरातुरः सम्प्रति दण्डनीत्या सर्वां नृपस्यानुकरोमि वृत्तिम् ॥ ४.१ ॥ शय्या शाद्वलमासनं शुचिशिला सद्म द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः । इत्यप्रार्थितलभ्यसर्वविभवे दोषोऽयमेको वने दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ॥ ४.२ ॥ उन्मज्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिताः । उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायः प्रेङ्खदसंख्यशङ्खधवला वेलेयमागछति ॥ ४.३ ॥ कवलितलवङ्गपल्लकरिमकरोदूगारिसुरभिणा पयसा । एषा समुद्रवेला रत्नद्युतिरञ्जिता भाति ॥ ४.४ ॥ जिह्वासहस्रद्वितयस्य मध्ये नैकापि सा तस्य किमस्ति जिह्वा । एकाहिरक्षार्थमहिद्विषेऽद्य दत्तो मयात्मेति यया ब्रवीति ॥ ४.५ ॥ इत्येष भोगिपतिना विहितव्यवस्थो यान् भक्षयत्यहिपतीन् पतगाधिराजः । यास्यन्ति यान्ति च गताश्च दिनैर्बिवृद्धिं तेषाममी तुहिनशैलरुचोऽस्थिकूटाः ॥ ४.६ ॥ सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते ! ॥ ४.७ ॥ क्रोडीकरोति प्रथमं यदा जातमनित्यता । धात्रीव जननी पश्चात्तदा शोकस्य कः क्रमः? ॥ ४.८ ॥ मूढाया मुहुरश्रुसन्ततिमुचः कृत्वा प्रलापान् बहून् कस्त्राता तव पुत्रकेति कृपणं दिक्षु क्षिपन्त्या दृशम् । अङ्के मातुरवस्थितं शिशुमिमं त्यक्त्वा घृणामश्नतः चञ्चुर्नैव खगाधिपस्य हृदयं वज्रेण मन्ये कृतम्।९ ॥ यैरत्यन्तदयापरैर्न विहिता वन्ध्यार्थिनां प्रार्थना यैः कारुण्यपरिग्रहान्न गणितः स्वार्थः परार्थ प्रति । ये नित्यं परदुःखदुःखितधियस्ते साधवोऽस्तं गता मातः ! संहर बाष्पवेगमधुना कस्याग्रतो रुद्यते? ॥ ४.१० ॥ आर्त्त कण्ठगतप्राणं परित्यक्तं स्वबन्धुभिः । त्राये नैनं यदि ततः कः शरीरेण मे गुणः ॥ ४.११ ॥ अस्या विलोक्य मन्ये पुत्रस्नेहेन विक्लवत्वमिदम् । अकरुणहृदयः करुणां कुर्वीत भुजङ्गशत्रुरपि ॥ ४.१२ ॥ महाहिमस्तिष्कविभेदमुक्तरक्तच्छटाचर्च्चितचण्डचञ्चुः । क्वासौ गरुत्मान् क्व च नाम सौम्यस्वभावरूपाकृतिरेष साधुः? ॥ ४.१३ ॥ ममैतदम्बार्पय वध्यचिह्नं प्रावृत्य यावद्विनतात्मजाय । पुत्रस्य ते जीवितरक्षणाय स्वदेहमाहारयितुं ददामि ॥ ४.१४ ॥ विश्वामित्रः श्वमांसं श्वपच इव पुराभक्षयद्यन्निमित्तं नादिजङ्घो निजध्ने कृततदुपकृतिर्यत्कृते गौतमेन । पुत्रोऽयं कश्यपस्य प्रतिदिनमुरगानत्ति तार्क्ष्यो यदर्थं प्राणांस्तानेष साधुस्तृणमिव कृपया यः परार्थ ददाति ॥ ४.१५ ॥ जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः । परार्थेबद्धकक्षाणां त्वादृशामुद्भवः कुतः? ॥ ४.१६ ॥ म्रियते म्रियमाणे या त्वयि जीवति जीवति । तां यदीच्छसि जीवन्तीं रक्षात्मानं ममासुभिः ॥ ४.१७ ॥ चञ्चच्चञ्चूद्धृतार्द्ध च्युतपिशितलवग्राससंवृद्धगर्द्धै र्गृद्धैरारब्धपक्षद्वितयविधुतिभिर्बद्धसान्द्रान्धकारे । वक्त्रोद्धान्ताः पतन्त्यश्छमिति शिखिशिखाश्रेणयोस्मिन् शिवाना मस्रस्रोतस्मजस्रस्रु तबहलवसावासविस्रे स्वनन्ति ॥ ४.१८ ॥ प्रतिदिनमशून्यमहिकाहारेण विनायकाहितप्रीति । शशिधवलास्थिकपालं वपुरिव रौद्रं श्मशानमिदम् ॥ ४.१९ ॥ समुत्पस्यामहे मातर्यस्यां यस्यां गतौ वयम् । तस्यां तस्यां प्रियसुते ! माता भूयास्त्वमेव नः ॥ ४.२० ॥ वासोयुगमिदं रक्तं प्राप्ते आले समागतम् । महतीं प्रीतिमाधत्ते परार्थे देहमुज्झतः ॥ ४.२१ ॥ तुल्याः संवर्त्तकाभ्रईः पिदधति गगनं पङ्क्तयः पक्षतीनां तीरे वेगानिलोऽम्भः क्षिपति भुव इव लावनायाम्बुराशेः । कुर्वन् कल्पान्तशङ्कां सपदि च सभयं वीक्षितो दिग्द्विपेन्द्रै र्देहोद्योतो दशाशाः कपिशयति मुहुर्द्वादशादित्यदीप्तिः ॥ ४.२२ ॥ न तथा सुखयति मन्ये मलयवती मलयचन्दनरसार्द्रा । अभिवाञ्छितार्थसिद्धत्यै वध्यशिलेयं यथाश्लिष्टा ॥ ४.२३ ॥ शयितेन मातुरङ्के विस्रब्धं शैशवे न तत्प्राप्तम् । लब्धं सुखं मयास्या वध्यशिलाया यदुत्सङ्गे ॥ ४.२४ ॥ क्षिप्त्वा बिम्बं हिमंशोर्भयकृतवलयां संमरञ्छेषमूर्त्ति सानन्दं स्यन्दनाश्वत्रसनविचलिते पूष्णि दृष्टोऽग्रजेन । एष प्रान्तावसज्जज्जलधरपटलैअरायतीभूतपक्षः प्राप्तो वेलामहीध्रं मलयमहिग्रासगृध्नुः क्षणेन ॥ ४.२५ ॥ संरक्षता पन्नगमद्य पुण्यं मयार्जितं यत्स्वशरीरदानात् । भवे भवे तेन ममैवमेवं भूयात्परार्थः खलु देहलाभः ॥ ४.२६ ॥ अस्मिन्वध्यशिलातले निपतितं शेषानहीन् रक्षितुं निर्भिद्याशनिदण्डचण्डतरया चञ्च्वाधुना वक्षसि । भोक्तुं भोगिनमुद्धरामि तरसा रक्ताम्बरप्रावृतं दिग्धं मद्भयदीर्य्यमाणहृदयप्रस्यन्दिनेवासृजा ॥ ४.२७ ॥ आमोदानन्दितालिर्निपतति किमियं पुस्पवृष्टिर्नभस्तः? स्वर्गे किं वैष चक्रं मुखरयति दिशां दुन्दुभीनां निनादः? आं ज्ञातं ! सोऽपि मन्ये मम जवमरुता कम्पितः पारिजातः सर्वैः संवर्त्तकाभ्रैरिदमपि रसितं जातसंहारशङ्कैः ॥ ४.२८ ॥ नागानां रक्षिता भाति गुरुरेष यथा मम । तथा सर्पाशिनाकाङ्क्षां व्यक्तमद्यापनेष्यति ॥ ४.२९ ॥ इति चतुर्थोऽङ्कः । पञ्चमोऽङ्कः प्रतीहारः स्वगृहोद्यानगतेऽपि स्निग्धे पापं विशङ्क्यते स्नेहात् । किमु दृष्तवह्वपायप्रतिभयकान्तारमध्यस्थे? ॥ ५.१ ॥ क्षौमे भङ्गवतीइ तरङ्गितदशे फेनाम्बुतुल्ये वहन् जाह्नव्येव विराजितः सवयसा देव्या महापुण्यया । धत्ते तोयनिधेरयं सुसदृशीं जीमूतकेतुः श्रियं यस्यैषान्तिकवर्त्तिनी मलयवत्याभाति वेला यथा ॥ ५.२ ॥ भुक्तानि यौवनसुखानि यशोऽवकीर्णं राज्ये स्थितं स्थिरधिया चरितं तपोऽपि । श्लाध्यः सुतः सुसदृशान्वयजा स्नुषेयं चिन्त्यो माय ननु कृतार्थतयाद्य मृत्युः ॥ ५.३ ॥ स्फुरसि किमु दक्षिणेतर ! मुहुर्मुहुः सूचयन्ममानिष्टम् । हतचक्षुरपहतं ते स्फुरितं मम पुत्रकः कुशली ॥ ५.४ ॥ आलोक्यक्यमानमतिलोचनदुःखदायिरक्तच्छटानिजमरीचिरुचो विमुञ्चत् । उत्पातवाततलीकृततारकाभमेतत्पुरः पतति किं सहसा नभस्तः? ॥ ५.५ ॥ तार्क्ष्येण भक्ष्यमाणानां पन्नगानामनेकशः । उल्कारूपाः पतन्त्येते शिरोमणय ईदृशाः ॥ ५.६ ॥ गोकर्णमर्णवतटे त्वरितं प्रणम्य प्राप्तोऽस्मि तां खलु भुजङ्गमवध्यभूमिम् । आढाय तं नखमुखक्षतसञ्च विद्याधरं गगनमुत्पतितो गरुत्मान् ! ॥ ५.७ ॥ नाहित्राणत्कीर्तिरेका मयाप्ता नापि श्लाघ्या स्वामिनोऽनुष्ठिताज्ञा । दत्त्वात्मानं रक्षितोऽन्येन शोच्यो हा धिक्! कष्टं ! वञ्चितो वञ्चितोऽस्मि ॥ ५.८ ॥ आदावुत्पीडपृथ्वीं प्रविरलपतितां स्थूलबिन्दुं ततोऽग्रे ग्रावस्वापातशीर्णप्रसृततनुकणां कीटकीर्णा स्थलीषु । दुर्लक्ष्यां धातुभित्तौ घतनरुशिखरे स्त्याननीलस्वरूपा मेनां ताक्ष्य दिदृक्षुर्निपुणमनुसरन् रक्तधारां व्रजामि ॥ ५.९ ॥ आवेदय ममात्मीयं पुत्र ! दुखं सुदुःसहम् मयि सङ्क्रान्तमेतत्ते येन सह्यं भविष्यति ॥ ५.१० ॥ विद्याधरेण केनापि करुणाविष्टचेतसा । मम संरक्षिताः प्राणा दत्त्वात्मानं गरुत्मत्ते ॥ ५.११ ॥ चूडामणिं चरणयोर्मम पातयता त्वया । लोकान्तरगतेनापि नोज्झितो विनयक्रमः ! ॥ ५.१२ ॥ भक्त्या सुदूरमवनामितनम्रमौलेः शश्वत्तव प्रणमतश्चरणौ मदीयौ । चूडामणिर्निकषणौर्मसृणोऽप्यहिंस्त्रः गाढं विदारयति मे हृदयं कथं नु? ॥ ५.१३ ॥ कुर्वाणो रुधिरार्द्रचञ्चुकषणैर्द्रोणीरिवाद्रेस्तटीः प्लुष्टोपान्तवतान्तरः स्वनयनज्योतिःशिखाश्रेणिभिः । सज्जद्वज्रकठोघोरनखरप्रान्तावगाढावनिः श्रृङ्गाग्रे मलयस्य पन्नगरिपुर्दूरादयं दृश्यते ॥ ५.१४ ॥ ग्लानिर्नाधिकपीयमानरुधिरस्याप्यस्ति धैर्य्योदधे र्मासोत्कर्त्तनजा रूजोऽपि वहतः प्रसन्नं मुखम् । गात्रं यन्न विलुप्तमेष पुलकस्तत्र स्फुटो लक्ष्यते दृष्टिर्मय्युपकारिणीव निपतत्यस्यापकारिण्यपि ॥ ५.१५ ॥ शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसभस्ति । तृप्तिं न पश्यामि तवापि तावत्किं भक्षणात्त्वं विरतो गरुत्मन्! ॥ ५.१६ ॥ आवर्जितं मया चञ्च्वा हृदयात्तव शोणितम् । अनेन धैर्य्येण पुनस्त्वया हृदयमेव नः ॥ ५.१७ ॥ आस्तां स्वस्तिकलक्ष्म वक्षसि तनौ नालोक्यते कञ्चुकः जिह्वे जल्पत एव मे न गणिते नाम त्वया द्वे अपि ! तिस्त्रस्तीव्रविषाग्निधूमपटलव्याजिह्यरत्नत्विषो नैता दुःसहशोकशूत्कृतमरुत्स्फीताः फणाः पश्यसि ! ॥ ५.१८ ॥ मेरौ मन्दरकन्दरासु हिमवत्सानौ महेन्द्राचले । कैलासस्य शिलातलेषु मलयप्राग्भारदेशेष्वपि । उद्देशेष्वपि तेषु तेषु बहुशो यस्य श्रुतं तन्मया । लोकालोकविचारणगणैरुदुगीयमानं यशः ॥ ५.१९ ॥ स्वशरीरेण शरीरं तार्क्ष्यात्परिरक्षता मदीयमिदम् । युक्तं नेतुं भवता पातालतलादपि तलं माम्? ॥ ५.२० ॥ आत्मीयः पर इत्ययं खलु कुतः सत्यं कृपायाः क्रमः? किं रक्षामि बहून् किमेकमिति ते जाता न चिन्ता कथम्? तार्क्ष्यात्त्रातुमहिं स्वजीवितपरित्यागं त्वया कुर्वता येनात्मा पितरौ वधूरिति हतं निःशेषमेतत्कुलम् ॥ ५.२१ ॥ ज्वालाभङ्गैस्त्रिकग्रसनरसचलत्कालजिह्वाग्रकल्पैः सर्पद्भिः सप्त सर्पिष्कणमिव कवलीकर्त्तुमीशे समुद्रान् । स्वैरेवोत्पातवातप्रसरपटुतरैर्धुक्षिते पक्षवातै रस्मिन् कल्पावसानज्वलनभयकरे वाडवाग्नौ पतामि ॥ ५.२२ ॥ विलुप्तशेषाङ्गतया प्रयातान्निराश्रयत्वादिव कण्ठदेशम् । प्राणांस्त्यजन्तं तनयं निरीक्ष्य कथं न पापः शतधा व्रजामि ॥ ५.२३ ॥ मेदोस्थिमांसमज्जासृक्सङ्घातेऽस्मिंस्त्वचावृते । शरीरनाम्नि का शोभा सदा बीभत्सदर्शने? ॥ ५.२४ ॥ नित्यं प्राणाभिघातात्प्रतिविरम कुरु प्राक्कृतस्यानुतापं यत्नात्पुण्यप्रवाहं समुपचिनु दिशन्न् सर्वसत्त्वेष्वभीतिम् । मग्नं येनात्र नैनः फलति परिणतं प्राणिहिंसासमुत्थं दुर्गाधे वारिपूरे लवणपलमिव क्षिप्तमन्तर्ह्रदस्य ॥ ५.२५ ॥ अज्ञाननिद्राशयितो भवता प्रतिबोधितः । सर्वप्राणिवधादेष विरतोऽद्य प्रभृत्यहम् ॥ ५.२६ ॥ क्वचिदूद्वीपाकारः पुलिनविपुलैर्भोगनिवहैः कृतावर्त्तभ्रान्तिर्वलयितशरीरः क्वचिदपि । व्रजन् कूलात्कूलं क्वचिदपि च सेतुप्रतिसमः समाजो नागानां विहरतु महोदन्वति सुखम् ॥ ५.२७ ॥ स्रस्तानापादलम्बान् घनतिमिरनिभान् केशपाशान् वहन्त्यः सिन्दूरेणेव दिग्धैः प्रथमरविकरस्पर्शताम्रैः कपोलैः । आयासेनालसाङ्गयोऽप्यवगणितरुजः कानने चन्दनाना मस्मिन् गायन्तु रागादुरगयुवतयः कीर्तिमेतां तवैव ॥ ५.२८ ॥ उत्प्रेक्षमाणा त्वां तार्क्ष्यचञ्चुकोटिविपाटितम् । त्वदूदुःखदुःखिता नूनमास्ते सा जननी तव ॥ ५.२९ ॥ गात्राण्यमूनि न वहन्ति सचेतनत्वं श्रात्रं स्फुटाक्षरपदां न दिरं श्रृणोति । कष्टं निमीतिलमिदं सहसैव चक्षुर्हा तात ! यान्ति विवशस्य ममासवोऽमी ॥ ५.३० ॥ निराधारं धैर्य्य कमिव शरणं यातु विनयः? क्षमः क्षान्तिं वोढुं क इह विरता दानपरता । हतं सत्यं सत्यं व्रजतु कृपणा क्वाद्य करुणा? जगज्जातं शून्यं त्वयि तनय लोकान्तरगते ॥ ५.३१ ॥ पक्षोत्क्षिप्ताम्बुनाथः पटुतरजवनैः प्रेर्य्यमाणैः समीरैः नेत्राग्निप्लोषमूर्च्छाविधुरविनिपतत्सानलद्वादशार्कः । चञ्च्वा सञ्चूर्ण्य शक्राशनिधनदगदाप्रेतलोकेशदण्डान् आजौ निर्जत्य देवान् क्षणममृतमयीं वृस्टिमभ्युत्सृजामि ॥ ५.३२ ॥ उष्णीषः स्फुट एष मूर्धनि विभात्यूर्णोयमन्तर्भ्रुवो श्चक्षुस्तामरसानुकारि हरिणा वक्षःस्थलं स्पर्धते । चक्राङ्कौ चरणौ तथापि हि कथं हा वत्स मदूदुष्कृतै स्त्वं विद्याधरचक्रवर्तिपदवीमप्राप्य विश्राम्यसि ॥ ५.३३ ॥ निजेन जीवितेनापि जगतामुपकारिणः । परितुष्टास्मि ते वत्स ! जीव जीमूतवाहन ॥ ५.३४ ॥ अभिलषिताधिकवरदे ! प्रणिपतितजनार्त्तिहारिणि ! शरण्ये ! चरणौ नमाम्यहं ते विद्यावरपूजिते ! गौरि ! ॥ ५.३५ ॥ सम्प्राप्ताखण्डदेहाः स्फुटफणमणिभिर्भासुरैरुत्तनाङ्गै र्जिह्वाकोटिद्वयेन क्षितिममृतरसास्वादलोभाल्लिहन्तः । सम्प्रत्याबद्धवेगा मलयगिरिसरिद्वारिपूरा इवामी वक्रैः प्रस्थानमार्गेर्विषधरपतयस्तोयराशिं विशन्ति ॥ ५.३६ ॥ हंसासेवितेमपङ्कजरजःसम्पर्कपङ्कोज्झितै रुत्पन्नैर्मम मानसादुपनतैस्तोयैर्महापावनैः । स्वेच्छानिर्मितरत्नकुम्भनिहितैरेषाभिषिच्य स्वयं त्वां विद्याधरचक्रवर्त्तिनमहं प्रीत्या करोमि क्षणात् ॥ ५.३७ ॥ अग्रेसरीभवतु काञ्चनक्रमेतदेष द्विपश्च धवलो दशनैश्चतुर्भिः । श्यामो हरिर्मलयवत्यपि चेत्यमूनि रत्नानि ते समवलोक्य चक्रवर्त्तिन् ! ॥ ५.३८ ॥ त्रातोऽयं शङ्खचूडः पतगपतिमुखाद्वैनतेयो विनीत स्तेन प्राग्भक्षिता ये विषधरपतयो जीवितास्तेऽपि सर्वे । मत्प्राणाप्त्या विमुक्ता न गुरुभिरसवश्चक्रवर्त्तित्वमाप्तं साक्षात्त्वं देवि ! दृष्टा प्रियमपरमतः किं पुनः प्रार्थ्यते यत् ॥ ५.३९ ॥ वृष्टिं हृष्टशिखण्डताण्डवभृतो मुञ्चन्तु काले धनाः कुर्वन्तु प्रतिरूढसन्ततहरिच्छस्योत्तरीयां क्षितिम् । चिन्वानाः सुकृतानि वीतविपदो निर्मन्सरैर्मानिसै र्मोदन्तां सततं च बान्धवसुहृद्गोष्ठिप्रमोदाः प्रजाः ॥ ५.४० ॥ शिवमस्तु सर्वजगतां परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ ५.४१ ॥ इति पञ्चमोऽङ्कः