दूतवाक्यम्। नान्द्यन्ते ततः प्रविशति सूत्रधारः। सूत्रधारः पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः। व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे॥ १॥ एवमार्यमिश्रान् विज्ञापयामि। अये किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते। अङ्ग पश्यामि। नेपथ्ये। भो भोः प्रतिहाराधिकृताः महाराजो दुर्योधनः समाज्ञापयति। सूत्रधारः भवतु विज्ञातम्। उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह। मन्त्रशालां रचयति भृत्यो दुर्योधनाज्ञया॥ २॥ निष्क्रान्तः। स्थापना। ततः प्रविशति काञ्चुकीयः। काञ्चुकीयः भो भोः प्रतिहाराधिकृताः महाराजो दुर्योधनः समाज्ञापयति। अद्य सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि। तदाहूयन्तां सर्वे राजान इति।परिक्रम्यावलोक्य।ये अयं महाराजो दुर्योधन इत एवाभिवर्तते। य एषः श्यामो युवा सितदुकूलकृतोत्तरीयः सच्छत्त्रचामरवरो रचिताङ्गरागः। श्रीमान्विभूषणमणिद्युतिरञ्जिताङ्गो नक्षत्रमध्य इव पर्वगतः शशाङ्कः॥ ३॥ ततः प्रविशति यथानिर्दिष्टो दुर्योधनः। दुर्योधनः उद्धूतरोषमिव मे हृदयं सहर्षं प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य। इच्छामि पाण्डवबले वरवारणाना मुत्कृत्तदन्तमुसलानि मुखानि कर्तुम्॥ ४॥ काञ्चुकीयः जयतु महाराजः। महाराजशासनात्समानीतं सर्वराजमण्डलम्। दुर्योधनः सम्यक्कृतम्। प्रविश त्वमवरोधनम्। काञ्चुकीयः यदाज्ञापयति महाराजः। निष्क्रान्तः। दुर्योधनः आर्यौ वैकर्णवर्षदेवौ उच्यताम्। अस्ति ममैकादशाक्षौहिणीबलसमुदयः। अस्य कः सेनापतिर्भवितुमर्हतीति। किमाहतुर्भवन्तौ। महान्खल्वयमर्थः। मन्त्रयित्वा वक्तव्यमिति। सदृशमेतत् । तदागम्यतां मन्त्रशालामेव प्रविशामः। आचार्य अभिवादये। प्रविशतु भवान्मन्त्रशालाम्। पितामह अभिवादये। प्रविशतु भवान्मन्त्रशालाम्। मातुल अभिवादये। प्रविशतु भवान्मन्त्रशालाम्। आर्यौ वैकर्णवर्षदेवौ प्रविशतां भवन्तौ। भो भोः सर्वक्षत्रियाः स्वैरं प्रविशन्तु भवन्तः। वयस्य कर्ण प्रविशावस्तावत् । प्रविश्य।ाचार्य एतत्कूर्मासनम्। आस्यताम्। पितामह एतत्सिंहासनम्। आस्यताम्। मातुल एतच्चर्मासनम्। आस्यताम्। आर्यौ वैकर्णवर्षदेवौ आसातां भवन्तौ। भो भोः सर्वक्षत्रियाः स्वैरमासतां भवन्तः। किमिति किमिति। महाराजो नास्त इति। अहो सेवाधर्मः। नन्वयमहमासे। वयस्य कर्ण त्वमप्यास्स्व। उपविश्य।ार्यौ वैकर्णवर्षदेवौ उच्यताम्। अस्ति ममैकादशाक्षौहिणीबलसमुदयः। अस्य कः सेनापतिर्भवितुमर्हतीति। किमाहतुर्भवन्तौ। अत्रभवान्गान्धारराजो वक्ष्यतीति। भवतु मातुलेनाभिधीयताम्। किमाह मातुलः। अत्रभवति गाङ्गेये स्थिते कोऽन्यः सेनापतिर्भवितुमर्हतीति। सम्यगाह मातुलः। भवतु भवतु पितामह एव भवतु। वयमप्येतदभिलषामः। सेनानिनादपटहस्वनशङ्खनादै श्चण्डानिलाहतमहोदधिनादकल्पैः। गाङ्गेयमूर्ध्नि पतितैरभिषेकतोयैः सार्धं पतन्तु हृदयानि नराधिपानाम्॥ ५॥ प्रविश्य। काञ्चुकीयः जयतु महाराजः। एष खलु पाण्डवस्कन्धावाराद्दौत्येनागतः पुरुषोत्तमो नारायणः। दुर्योधनः मा तावत् । भो बादरायण किं किं कंसभृत्यो दामोदरस्तव पुरुषोत्तमः। स गोपालकस्तव पुरुषोत्तमः। बार्हद्रथापहृतविषयकीर्तिभोगस्तव पुरुषोत्तमः। अहो पार्थिवासन्नमाश्रित्य भृत्यजनस्य समुदाचारः। सगर्वं खल्वस्य वचनम्। आ अपध्वंस। काञ्चुकीयः प्रसीदतु महाराजः। संभ्रमेण समुदाचारो विस्मृतः।पादयोः पतति। दुर्योधनः संभ्रम इति। आ मनुष्याणामस्त्येव संभ्रमः। उत्तिष्ठोतिष्ठ। काञ्चुकीयः अनुगृहीतोऽस्मि। दुर्योधनः इदानीं प्रसन्नोऽस्मि। क एष दूतः प्राप्तः। काञ्चुकीयः दूतः प्राप्तः केशवः। दुर्योधनः केशव इति। एवमेष्टव्यम्। अयमेव समुदाचारः। भो भो राजानः दौत्येनागतस्य केशवस्य किं युक्तम्। किमाहुर्भवन्तः। अर्घ्यप्रदानेन पूजयितव्यः केशव इति। न मे रोचते। ग्रहणमस्यात्र हितं पश्यामि। ग्रहणमुपगते तु वासुभद्रे हृतनयना इव पाण्डवा भवेयुः। गतिमतिरहितेषु पाण्डवेषु क्षितिरखिलापि भवेन्ममासपत्ना॥ ६॥ अपि च योऽत्र केशवस्य प्रत्युत्थास्यति स मया द्वादशसुवर्णभारेण दण्ड्यः। तदप्रमत्ता भवन्तु भवन्तः।ात्मगतम्।को नु खल्विदानीं ममाप्रत्युत्थानस्योपायः। हन्त दृष्ट उपायः।प्रकाशम्।बादरायण आनीयतां स चित्रपटो ननु यत्र द्रौपदीकेशाम्बरावकर्षणमालिखितम्।ात्मगतम्।तस्मिन्दृष्टिविन्यासं कुर्वन्नोत्थास्यामि केशवस्य। काञ्चुकीयः यदाज्ञापयति महाराजः।निष्क्रम्य प्रविश्य।जयतु महाराजः। अयं स चित्रपटः। दुर्योधनः ममाग्रतः प्रसारय। काञ्चुकीयः यदाज्ञापयति महाराजः।प्रसारयति। दुर्योधनः अहो दर्शनीयोऽयं चित्रपटः। एष दुःशासनो द्रौपदीं केशहस्ते गृहीतवान्। एषा खलु द्रौपदी। दुःशासनपरामृष्टा संभ्रमोत्फुल्ललोचना। राहुवक्त्रान्तरगता चन्द्रलेखेव शोभते॥ ७॥ एष दुरात्मा भीमः सर्वराजसमक्षमवमानितां द्रौपदीं दृष्ट्वा प्रवृद्धामर्षः सभास्तम्भं तुलयति। एष युधिष्ठिरः सत्यधर्मघृणायुक्तो द्यूतविभ्रष्टचेतनः। करोत्यपाङ्गविक्षेपैः शान्तामर्षं वृकोदरम्॥ ८॥ एष इदानीमर्जुनः। रोषाकुलाक्षः स्फुरिताधरोष्ठस्तृणाय मत्वा रिपुमण्डलं तत् । उत्सादयिष्यन्निव सर्वराज्ञः शनैः समाकर्षति गाण्डिवज्याम्॥ ९॥ एष युधिष्ठिरोऽर्जुनं निवारयति। एतौ नकुलसहदेवौ कृतपरिकरबन्धौ चर्मनिस्त्रिंशहस्तौ परुषितमुखरागौ स्पष्टदष्टाधरोष्ठौ। विगतमरणशङ्कौ सत्वरं भ्रातरं मे हरिमिव मृगपोतौ तेजसाभिप्रयातौ॥ १०॥ एष युधिष्ठिरः कुमारावुपेत्य निवारयति। नीचोऽहमेव विपरीतमतिः कथं वा रोषं परित्यजतमद्य नयानयज्ञौ। द्यूताधिकारमवमानममृष्यमाणाः सत्त्वाधिकेषु वचनीयपराक्रमाः स्युः॥ ११॥ इति। एष गान्धारराजः अक्षान्क्षिपन्स कितवः प्रहसन्सगर्वं संकोचयन्निव मुदं द्विषतां स्वकीर्त्या। स्वैरासनो द्रुपदराजसुतां रुदन्तीं काक्षेण पश्यति लिखत्यपि गां नयज्ञः॥ १२॥ एतावाचार्यपितामहौ तां दृष्ट्वा लज्जायमानौ पटान्तान्तर्हितमुखौ स्थितौ। अहो अस्य वर्णाढ्यता। अहो भावोपपन्नता। अहो युक्तलेखता। सुव्यक्तमालिखितोऽयं चित्रपटः। प्रीतोऽस्मि। कोऽत्र। काञ्चुकीयः जयतु महाराजः। दुर्योधनः बादरायण आनीयतां स विहगवाहनमात्रविस्मितो दूतः। काञ्चुकीयः यदाज्ञापयति महाराजः। निष्क्रान्तः। दुर्योधनः वयस्य कर्ण प्राप्तः किलाद्य वचनादिह पाण्डवानां दौत्येन भृत्य इव कृष्णमतिः स कृष्णः। श्रोतुं सखे त्वमपि सज्जय कर्ण कर्णौ नारीमृदूनि वचनानि युधिष्ठिरस्य॥ १३॥ ततः प्रविशति वासुदेवः काञ्चुकीयश्च। वासुदेवः अद्य खलु धर्मराजवचनाद्धनंजयाकृत्रिममित्रतया चाहवदर्पमनुक्तग्राहिणं सुयोधनं प्रति मयाप्यनुचितदौत्यसमयोऽनुष्ठितः। अथ च कृष्णापराभवभुवा रिपुवाहिनीभ कुम्भस्थलीदलनतीक्ष्णगदाधरस्य। भीमस्य कोपशिखिना युधि पार्थपत्त्रि चण्डानिलैश्च कुरुवंशवनं विनष्टम्॥ १४॥ इदं सुयोधनशिबिरम्। इह हि आवासाः पार्थिवानां सुरपुरसदृशाः स्वच्छन्दविहिता विस्तीर्णाः शस्त्रशाला बहुविधकरणैः शस्त्रैरुपचिताः। हेषन्ते मन्दुरास्थास्तुरगवरघटा बृंहन्ति करिण ऐश्वर्यं स्फीतमेतत्स्वजनपरिभवादासन्नविलयम्॥ १५॥ भोः दुष्टवादी गुणद्वेषी शठः स्वजननिर्दयः। सुयोधनो हि मां दृष्ट्वा नैव कार्यं करिष्यति॥ १६॥ भो बादरायण किं प्रवेष्टव्यम्। काञ्चुकीयः अथ किमथ किम्। प्रवेष्टुमर्हति पद्मनाभः। वासुदेवः प्रविश्य। कथं कथं मां दृष्ट्वा संभ्रान्ताः सर्वक्षत्रियाः। अलमलं संभ्रमेण। स्वैरमासतां भवन्तः। दुर्योधनः कथं कथं केशवं दृष्ट्वा संभ्रान्ताः सर्वक्षत्रियाः। अलमलं संभ्रमेण। स्मरणीयः पूर्वमाश्रावितो दण्डः। नन्वहमाज्ञप्ता। वासुदेवः उपगम्य।भोः सुयोधन किमास्से। दुर्योधनः आसनात्पतित्वात्मगतम्।सुव्यक्तं प्राप्त एव केशवः। उत्साहेन मतिं कृत्वाप्यासीनोऽस्मि समाहितः। केशवस्य प्रभावेन चलितोऽस्म्यासनादहम्॥ १७॥ अहो बहुमायोऽयं दूतः।प्रकाशम्।भो दूत एतदासनमास्यताम्। वासुदेवः आचार्य आस्यतां। गाङ्गेयप्रमुखा राजानः स्वैरमासतां भवन्तः। वयमप्युपविशामः।ुपविश्य।हो दर्शनीयोऽयं चित्रपटः। मा तावत् । द्रौपदीकेशाम्बराकर्षणमत्रालिखितम्। अहो नु खलु सुयोधनोऽयं स्वजनावमानं पराक्रमं पश्यति बालिशत्वात् । को नाम लोके स्वयमात्मदोषमुद्घाटयेन्नष्टघृणः सभासु॥ १८॥ आः अपनीयतामेष चित्रपटः। दुर्योधनः बादरायण अपनीयतां किल चित्रपटः। काञ्चुकीयः यदाज्ञापयति महराजः।पनयति। दुर्योधनः भो दूत धर्मात्मजो वायुसुतश्च भीमो भ्रातार्जुनो मे त्रिदशेन्द्रसूनुः। यमौ च तावश्विसुतौ विनीतौ सर्वे सभृत्याः कुशलोपपन्नाः॥ १९॥ वासुदेवः सदृशमेतद्गान्धारीपुत्रस्य। अथ किमथ किम्। कुशलिनः सर्वे। भवतो राज्ये शरीरे बाह्याभ्यन्तरे च कुशलमनामयं च पृष्ट्वा विज्ञापयन्ति युधिष्ठिरादयः पाण्डवाः। अनुभूतं महद्दुःखं संपूर्णः समयः स च। अस्माकमपि धर्म्यं यद्दायाद्यं तद्विभज्यताम्॥ २०॥ इति। दुर्योधनः कथं कथं दायाद्यमिति। भोः वने पितृव्यो मृगयाप्रसंगतः कृतापराधो मुनिशापमाप्तवान्। तदाप्रभृत्येव स दारनिःस्पृहः परात्मजानां पितृतां कथं व्रजेत् ॥ २१॥ वासुदेवः पुराविदं भवन्तं पृच्छामि। विचित्रवीर्यो विषयी विपत्तिं क्षयेण यातः पुनरम्बिकायाम्। व्यासेन जातो धृतराष्ट्र एव लभेत राज्यं जनकः कथं ते॥ २२॥ मा मा भवान्। एवं परस्परविरोधविवर्धनेन शीघ्रं भवेत्कुरुकुलं नृप नामशेषम्। तत्कर्तुमर्हति भवानपकृत्य रोषं यत्त्वां युधिष्ठिरमुखाः प्रणयाद्ब्रुवन्ति॥ २३॥ दुर्योधनः भो दूत न जानाति भवान्राज्यव्यवहारम्। राज्यं नाम नृपात्मजैः सहृदैर्जित्वा रिपून्भुज्यते तल्लोके न तु याच्यते न तु पुनर्दीनाय वा दीयते। काङ्क्षा चेन्नृपतित्वमाप्तुमचिरात्कुर्वन्तु ते साहसं स्वैरं वा प्रविशन्तु शान्तमतिभिर्जुष्टं शमायाश्रमम्॥ २४॥ वासुदेवः भोः सुयोधन अलं बन्धुजने परुषमभिधातुम्। पुण्यसंचयप्राप्तामधिगम्य नृपश्रियम्। वञ्चयेद्यः सुहृद्बन्धून्स भवेद्विफलश्रमः॥ २५॥ दुर्योधनः भो दूत स्यालं तव गुरोर्भूपं कंसं न ते दया। कथमस्माकमेवं स्यात्तेषु नित्यापकारिषु॥ २६॥ वासुदेवः अलं तन्मद्दोषतो ज्ञातुम्। कृत्वा पुत्रवियोगार्तां बहुशो जननीं मम। वृद्धं स्वपितरं बद्ध्वा हतोऽयं मृत्युना स्वयम्॥ २७॥ दुर्योधनः सर्वथा वञ्चितस्त्वया कंसः। अलमात्मस्तवेन। न शौर्यमेतत् । पश्य। जामातृनाशव्यसनाभितप्ते रोषाभिभूते मगधेश्वरेऽथ। पलायमानस्य भयातुरस्य शौर्यं तदेतत्क्व गतं तवासीत् ॥ २८॥ वासुदेवः भोः सुयोधन देशकालावस्थापेक्षितं खलु शौर्यं नयानुगामिनाम्। इह तिष्ठतु तावदस्मद्गतः परिहासः। स्वकार्यमनुष्ठीयताम्। कर्तव्यो भ्रातृषु स्नेहो विस्मर्तव्या गुणेतराः। संबन्धो बन्धुभिः श्रेयान्लोकयोरुभयोरपि॥ २९॥ दुर्योधनः देवात्मजैर्मनुष्याणां कथं वा बन्धुता भवेत् । पिष्टपेषणमेतावत्पर्याप्तं छिद्यतां कथा॥ ३०॥ वासुदेवः आत्मगतम्। प्रसाद्यमानः साम्नायं न स्वभावं विमुञ्चति। हन्त संक्षोभयाम्येनं वचोभिः परुषाक्षरैः॥ ३१॥ प्रकाशम्।भोः सुयोधन किं न जानीषेऽर्जुनस्य बलपराक्रमम्। दुर्योधनः न जाने। वासुदेवः भोः श्रूयताम्। कैरातं वपुरास्थितः पशुपतिर्युद्धेन संतोषितो वह्नेः खाण्डवमश्नतः सुमहती वृष्टिः शरैश्छादिता। देवेन्द्रार्तिकरा निवातकवचा नीताः क्षयं लीलया नन्वेकेन तदा विराटनगरे भीष्मादयो निर्जिताः॥ ३२॥ अपि च तवापि प्रत्यक्षमपरं कथयामि। ननु त्वं चित्रसेनेन नीयमानो नभस्तलम्। विक्रोशन्घोषयात्रायां फल्गुनेनैव मोक्षितः॥ ३३॥ किं बहुना। दातुमर्हसि मद्वाक्याद्राज्यार्धं धृतराष्ट्रज। अन्यथा सागरान्तां गां हरिष्यन्ति हि पाण्डवाः॥ ३४॥ दुर्योधनः कथं कथं। हरिष्यन्ति हि पाण्डवाः। प्रहरति यदि युद्धे मारुतो भीमरूपी प्रहरति यदि साक्षात्पार्थरूपेण शक्रः। परुषवचनदक्ष त्वद्वचोभिर्न दास्ये तृणमपि पितृभुक्ते वीर्यगुप्ते स्वराज्ये॥ ३५॥ वासुदेवः भोः कुरुकुलकलङ्कभूत अयशोलुब्ध वयं किल तृणान्तराभिभाषकाः। दुर्योधनः भो गोपालक तृणान्यभिभाष्यो भवान्। अवध्यां प्रमदां हत्वा हयं गोवृषमेव च। मल्लानपि सुनिर्लज्जो वक्तुमिच्छसि साधुभिः॥ ३६॥ वासुदेवः भोः सुयोधन ननु क्षिपसि माम्। दुर्योधनः ननु सत्यमेवैतत् । वासुदेवः गच्छामि तावत् । दुर्योधनः गच्छ गच्छ पशुखुरोद्धतरेणुरूपिताङ्गो व्रजमेव। विफलीकृतः कालः। वासुदेवः एवमस्तु। न वयमनुक्तसंदेशा गन्तुमिच्छामः। तदाकर्ण्यतां युधिष्ठिरस्य संदेशः। दुर्योधनः आः अभाष्यस्त्वम्। अहमवधृतपाण्डरातपत्रो द्विजवरहस्तधृताम्बुसिक्तमूर्धा। अवनतनृपमण्डलानुयात्रैः सह कथयामि भवद्विधैर्न भाषे॥ ३७॥ वासुदेवः न व्याहरति किल मां सुयोधनः। भोः शठ बान्धवनिःस्नेह काक केकर पिङ्गल। त्वदर्थात्कुरुवंशोऽयमचिरान्नाशमेष्यति॥ ३८॥ भो भो राजानः गच्छामस्तावत् । दुर्योधनः कथं यास्यति किल केशवः। दुःशासन दुर्मर्षण दुर्मुख दुर्बुद्धे दुष्टेश्वर दूतसमुदाचारमतिक्रान्तः केशवो बध्यताम्। कथमशक्ताः। दुःशासन न समर्थः खल्वसि। करितुरगनिहन्ता कंसहन्ता स कृष्णः पशुपकुलनिवासादानुजीव्यानभिज्ञः। हृतभुजबलवीर्यः पार्थिवानां समक्षं स्ववचनकृतदोषो बध्यतामेष शीघ्रम्॥ ३९॥ अयमशक्तः। मातुल बध्यतामयं केशवः। कथं पराङ्मुखः पतति। भवतु। अहमेव पाशैर्बध्नामि।पाशमुद्यम्योपसर्पति। वासुदेवः कथं बद्धुकामो मां किल सुयोधनः। भवतु। सुयोधनस्य सामर्थ्यं पश्यामि।विश्वरूपमास्थितः। दुर्योधनः भो दूत सृजसि यदि समन्ताद्देवमायाः स्वमायाः प्रहरसि यदि वा त्वं दुर्निवारैः सुरास्त्रैः। हयगजवृषभाणां पातनाज्जातदर्पो नरपतिगणमध्ये बध्यसे त्वं मयाद्य॥ ४०॥ आः तिष्ठेदानीम्। कथं न दृष्टः केशवः। अयं केशवः। अहो ह्रस्वत्वं केशवस्य। आः तिष्ठेदानीम्। कथं न दृष्टः केशवः। अयं केशवः। अहो दीर्घत्वं केशवस्य। कथं न दृष्टः केशवः। अयं केशवः। सर्वत्र मन्त्रशालायां केशवा भवन्ति। किमिदानीं करिष्ये। भवतु दृष्टम्। भो भो राजानः एकेनैकः केशवो बध्यताम्। कथं स्वयमेव पाशैर्बद्धाः पतन्ति राजानः। साधु भो जम्भक साधु। मत्कार्मुकोदरविनिःसृतबाणजालै र्विद्धं क्षरत्क्षतजरञ्जितसर्वगात्रम्। पश्यन्तु पाण्डुतनयाः शिबिरोपनीतं त्वां बाष्परुद्धनयनाः परिनिश्वसन्तः॥ ४१॥ निष्क्रान्तः। वासुदेवः भवतु पाण्डवानां कार्यमहमेव साधयामि। भोः सुदर्शन इतस्तावत् । ततः प्रविशति सुदर्शनः। सुदर्शनः एष भोः। श्रुत्वा गिरं भगवतो विपुलप्रसादा न्निर्धावितोऽस्मि परिवारिततोयदौघः। कस्मिन्खलु प्रकुपितः कमलायताक्षः कस्याद्य मूर्धनि मया प्रविजृम्भितव्यम्॥ ४२॥ क्व नु खलु भगवान्नारायणः। अव्यक्तादिरचिन्त्यात्मा लोकसंरक्षणोद्यतः। एकोऽनेकवपुः श्रीमान्द्विषद्बलनिषूदनः॥ ४३॥ विलोक्य।ये अयं भगवान्हस्तिनपुरद्वारे दूतसमुदाचारेणोपस्थितः। कुतः खल्वापः कुतः खल्वापः। भगवति आकाशगङ्गे आपस्तावत् । हन्त स्रवति।ाचम्योपसृत्य।जयतु भगवान्नारायणः।प्रणमति। वासुदेवः सुदर्शन अप्रतिहतपराक्रमो भव। सुदर्शनः अनुगृहीतोऽस्मि। वासुदेवः दिष्ट्या भवान्कर्मकाले प्राप्तः। सुदर्शनः कथं कथं कर्मकाल इति। आज्ञापयतु भगवानाज्ञापयतु। किं मेरुमन्दरकुलं परिवर्तयामि संक्षोभयामि सकलं मकरालयं वा। नक्षत्रवंशमखिलं भुवि पातयामि नाशक्यमस्ति मम देव तव प्रसादात् ॥ ४४॥ वासुदेवः भोः सुदर्शन इतस्तावत् । भोः सुयोधन यदि लवणजलं वा कन्दरं वा गिरीणां ग्रहगणचरितं वा वायुमार्गं प्रयासि। मम भुजबलयोगप्राप्तसंजातवेगं भवतु चपल चक्रं कालचक्रं तवाद्य॥ ४५॥ सुदर्शनः भोः सुयोधनहतक तिष्ठ तिष्ठ।पुनर्विचार्य।प्रसीदतु भगवान्नाराय्णः। महीभारापनयनं कर्तुं जातस्य भूतले। अस्मिन्नेवं गते देव ननु स्याद्विफलश्रमः॥ ४६॥ वासुदेवः सुदर्शन रोषात्समुदाचारो नावेक्षितः। गम्यतां स्वनिलयमेव। सुदर्शनः यदाज्ञापयति भगवान्नारायणः। कथं कथं गोपालक इति। त्रिचरणातिक्रान्तत्रिलोको नारायणः खल्वत्र भगवान्। शरणं व्रजन्तु भवन्तः। यावद्गच्छामि। अये एतद्भगवदायुधवरं शार्ङ्गं प्राप्तम्। तनुमृदुललिताङ्गं स्त्रीस्वभावोपपन्नं हरिकरधृतमध्यं शत्रुसंघैककालः। कनकखचितपृष्ठं भाति कृष्णस्य पार्श्वे नवसलिलदपार्श्वे चारुविद्युल्लेखेव॥ ४७॥ भो भोः शार्ङ्ग प्रशान्तरोषो भगवान्नारायणः। गम्यतां स्वनिलयमेव। हन्त निवृत्तः। यावद्गच्छामि। अये इयं कौमोदकी प्राप्ता। मणिकनकविचित्रा चित्रमालोत्तरीया सुररिपुगणगात्रध्वंसने जाततृष्णा। गिरिवरतटरूपा दुर्निवारातिवीर्या व्रजति नभसि शीघ्रं मेघवृन्दानुयात्रा॥ ४८॥ हे कौमोदकि प्रशान्तरोषो भगवान्नारायणः। हन्त निवृत्ता। यावद्गच्छामि। अये अयं पाञ्चजन्यः प्राप्तः। पूर्णेन्दुकुन्दकुमुदोदरहारगौरो नारायणाननसरोजकृतप्रसादः। यस्य स्वनं प्रलयसागरघोषतुल्यं गर्भा निशम्य निपतन्त्यसुराङ्गनानाम्॥ ४९॥ हे पाञ्चजन्य प्रशान्तरोषो भगवान्। गम्यतां स्वनिलयमेव। हन्त निवृत्तः। अये नन्दकासिः प्राप्तः। वनिताविग्रहो युद्धे महासुरभयंकरः। प्रयाति गगने शीघ्रं महोल्केव विभात्ययम्॥ ५०॥ हे नन्दक प्रशान्तरोषो भगवान्। गम्यतां स्वनिलयमेव। हन्त निवृत्तः। यावद्गच्छामि। अये एतानि भगवदायुधवराणि। सोऽयं खड्गः खरांशोरपहसिततनुः स्वैः करैर्नन्दकाख्यः सेयं कौमोदकी या सुररिपुकठिनोरःस्थलक्षोददक्षा। सैषा शार्ङ्गाभिधाना प्रलयघनरवज्यारवा चापयष्टिः सोऽयं गम्भीरघोषः शशिकरविशदः शङ्खराट्पाञ्चजन्यः॥ ५१॥ हे शार्ङ्ग कौमोदकि पाञ्चजन्य दैत्यान्तकृन्नन्दक शत्रुवह्ने। प्रशान्तरोषो भगवान्मुरारिः स्वस्थानमेवात्र हि गच्छ तावत् ॥ ५२॥ हन्त निवृत्ताः। यावद्गच्छामि। अये अत्युद्धूतो वायुः। अतितपत्यादित्यः। चलिताः पर्वताः। क्षुब्धाः सागराः। पतिता वृक्षाः। भ्रान्ता मेघाः। प्रलीना वासुकिप्रभृतयो भुजंगेश्वराः। किं नु खल्विदम्। अये अयं भगवतो वाहनः गरुडः प्राप्तः। सुरासुराणां परिखेदलब्धं येनामृतं मातृविमोक्षणार्थं। आच्छिन्नमासीद्द्विषतो मुरारेस्त्वामुद्वहामीति वरोऽपि दत्तः॥ ५३॥ हे काश्यपप्रियसुत गरुड प्रशान्तरोषो भगवान्देवदेवेशः। गम्यतां स्वनिलयमेव। हन्त निवृत्तः। यावद्गच्छामि। एते स्थिता वियति किंनरयक्षसिद्धाः देवाश्च संभ्रमचलन्मुकुटोत्तमाङ्गाः। रुष्टेऽच्युते विगतकान्तिगुणाः प्रशान्तं श्रुत्वा श्रयन्ति सदनानि निवृत्ततापाः॥ ५४॥ यावदहमपि कान्तां मेरुगुहामेव यास्यामि। निष्क्रान्तः। वासुदेवः यावदहमपि पाण्डवशिबिरमेव यास्यामि। नेपथ्ये। न खलु न खलु गन्तव्यम्। वासुदेवः अये वृद्धराजस्वर इव। भो राजनेष स्थितोऽस्मि। ततः प्रविशति धृतराष्ट्रः। धृतराष्ट्रः क्व नु खलु भगवान्नारायणः। क्व नु खलु भगवान्पाण्डवश्रेयस्करः। क्व नु खलु भगवान्विप्रप्रियः। क्व नु खलु भगवान्देवकीनन्दनः। मम पुत्रापराधात्तु शार्ङ्गपाणे तवाधुना। एतन्मे त्रिदशाध्याक्ष पादयोः पतितं शिरः॥ ५५॥ पतति। वासुदेवः हा धिक् । पतितोऽत्रभवान्। उत्तिष्ठोत्तिष्ठ। धृतराष्ट्रः अनुगृहीतोऽस्मि। भगवनिदमर्घ्यं पाद्यं च प्रतिगृह्यताम्। वासुदेवः सर्वं गृह्णामि। किं ते भूयः प्रियमुपहरामि। धृतराष्ट्रः यदि मे भगवान्प्रसन्नः किमतः परमिच्छामि। वासुदेवः गच्छतु भवान्पुनर्दर्शनाय। धृतराष्ट्रः यदाज्ञापयति भगवन्नारायणः। निष्क्रान्तः। भरतवाक्यम्। इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम्। महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः॥ ५६॥ निष्क्रान्ताः सर्वे। दूतवाक्यं समाप्तम्। क इति। त्रिचरणातिक्रान्तत्रिलोको नारायणः खल्वत्र भगवान्। शरणं व्रजन्तु भवन्तः। यावद्ग