अथाभिज्ञानशाकुन्तलम् । प्रथमोऽङ्कः _________________________ * या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री * ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । * यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः * प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ १.१ ॥प्.२ १.१>१ सूत्रधारः आर्य अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथितवस्तुना १.१>२ नवेनाभिज्ञानशाकुन्तलाख्येन नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः ।प्.६ १.१>३ नटी सुविहितप्रयोगतयार्यस्य न किमपि परिहास्यते । _________________________ १.२<१ सूत्रधारः १.२<२ आर्ये कथयामि ते भूतार्थम् । * आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् । * बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ १.२ ॥ १.२>१ नटी आर्य एवमेतत् । अनन्तरकरणीयमार्य आज्ञापयतु । _________________________ १.३<१ सूत्रधारः किमन्यदस्याः परिषदः श्रुतिप्रसादनतः । तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् । संप्रति हि (प्.८) * सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः । * प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ १.३ ॥ _________________________ १.४<१ नटी तथा (इति गायति) * ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि । * अवतंसयन्ति दममानाः प्रमदाः शिरीषकुसुमानि ॥ १.४ ॥ १.४>१ सूत्रधारः आर्य साधु गीतम् । अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः । तदिदानीं कतमत्प्रकरणमाश्रित्य एनमाराधयामः । १.४>२ नटी नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशकुन्तलं नाम अपूर्वं नाटकं प्रयोगे अधिक्रियतामिति ।प्.१० _________________________ १.५<१ सूत्रधारः आर्ये सम्यगनुभोधितोऽस्मि । अस्मिन् क्षणे विस्मृतं खलु मया तत् । कुतः । * तवास्मि गीतरागेण हारिणा प्रसभं हृतः । * एष राजेव दुष्यन्तः सारङ्गेणातिरंसहा ॥ १.५ ॥ (इति निष्क्रान्तौ ) १.५>३ (प्रस्थावना) १.५>४ (ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च) _________________________ १.६<१ सूतः (राजानं मृतं चावलोक्य) आयुष्मन् । * कृष्णसारे ददच्चक्षुस्त्वयि चाधिज्यकार्मुके । * मृगानुसारिणं साक्षात्पश्यामीव+पिनाकिनम् ॥ १.६ ॥ _________________________ १.७<१ राजा सूत दूरममुना सारङ्गेण वयमाकृष्टाः । अयं पुनरितानीमपि (प्.१२) * ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः * पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । * दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा * पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥ १.७ ॥ १.७>१ (सविस्मयम्) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः । १.७>२ सूतः आयुष्मन्नुद्घातिनी भूमिरिति मया रश्मिसंयमनाद्रथस्य मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः । संप्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति । १.७>३ राजा तेन हि मुच्यन्तामभीषवः । _________________________ १.८<१ सूतः यदाज्ञापयत्यायुष्मान् । (रथवेगं निरूप्य) आयुष्मन् पश्य पश्य । * मुक्तेषु रश्मिषु निरायतपूर्वकाया । * निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः * आत्मोद्धतैरपि रजोभिरलङ्घनीया । * धावन्त्यमी मृगजवाक्षमयेव+रथ्याः ॥ १.८ ॥प्.१४ _________________________ १.९<१ राजा सत्यम् । अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः । तथा हि । * यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलताम् * यदर्धे विच्छिन्नं भवति कृतसंधानमिव तत् । * प्रकृष्त्या यद्वक्रं तदपि समरेखं नयनयोर् * न मे दूरे किंचित्क्षणमपि न पार्श्वे रथजवात् ॥ १.९ ॥ १.९>१ सूत पश्य एनं व्यापद्यमानम् । (इति शरसंधानं नाटयति) १.९>२ (नेपथ्ये) १.९>३ भो भो राजन्नाश्रममृगोऽयं न हन्वव्यो न हन्तव्यः । १.९>४ सूत (आकर्ण्यावलोक्य च) आयुष्मन्नस्य खलु ते बाणपातवर्तिनः कृष्टसारस्यान्तरे तपस्विन उपस्थिताः ।प्.१६ १.९>५ राजा (ससंभ्रमम्) तेन हि प्रगृह्यन्तां वाजिनः । १.९>६ सूत तथा । (इति रथं स्थापयति) _________________________ १.१०<१ वैखानसः (हस्तमुद्यम्य) राजन्नाश्रममृगोऽयं न हन्तव्यो न हन्तव्यः । * न खलु न खलु बाणः संनिपात्योऽयमस्मिन्मृदुनि मृगशरीरे पुष्पराशाव्+इवाग्निः । * क्व बत हरिणकानां जीवितं चातिलोलं क्व च निशितनिपाता वज्रसाराः शरास्ते ॥ १.१० ॥ _________________________ * तत्साधुकृतसंधानं प्रतिसंहर सायकम् । * आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥ १.११ ॥ १.११>१ राजा एष प्रतिसंहृतः (इति यथोक्तं करोति) _________________________ १.१२<१ वैखानसः सदृशमेतत्पुरुवंशप्रदीपस्य भवतः । * जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव । * पुत्रमेवं गुणोपेतं चक्रवर्तिनमाप्नुहि ॥ १.१२ ॥ १.१२>१ इतरौ (बाहू उद्यम्य) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि । १.१२>२ (सप्रणामम्) प्रतिगृतीतं ब्राह्मणवचनम् । _________________________ १.१३<१ वैखान्स राजन् समिदाहरणाय प्रस्थिता वयम् ।ेष खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः । अपि च । * रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य । * ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥ १.१३ ॥प्.१८ १.१३>३ राजा अपि संनिहितोऽत्र कुलपतिः । १.१३>४ वैखानस इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य दैवमस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः । १.१३>५ राजा भवतु । तामेव पश्यामि । सा खलु विदितभक्तिं मां महर्षेः करिष्यति । १.१३>६ वैखानस साधयामस्तावत्(इति सशिष्यो निष्क्रान्तः) १.१३>७ राजा सूत चोदयाश्वान् पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे । १.१३>८ सूत यदाज्ञापयत्यायुष्मन् । (इति भूयो रथ एवं निरूपयति) १.१३>९ राजा (समन्तादवलोक्य) सूत अकथितोऽपि ज्ञायत एव यथायमाश्रमाभोगस्तपोवनस्येति । १.१३>१० सूत कथमिव । _________________________ १.१४<१ राजा किं न पश्यति भवान् । इह हि * नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः * प्रस्निग्धाः क्वचिदिङ्गुदीफालभिदः सूच्यन्त एवोपलाः । * विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगास् * तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ १.१४ ॥ * कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला * भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन । * एते चार्वागुपवनभुवि छिन्नदर्भाङ्कुरायाम् * नष्टांशका हरिणशिशवो मन्दमन्दं चरन्ति ॥ १.१४ ॥ प्.२० १.१४>१ सूत सर्वमुपपन्नम् । १.१४>२ राजा (स्तोकमन्तरं गत्वा) तपोवननिवासिनामुपरोधो मा भूत् । एतावत्येव रथं स्थापय यावदवतरामि । १.१४>३ सूत धृताः प्रग्रहाः । अवतरत्वायुष्मान् । १.१४>४ राजा (अवतीर्य) सूत विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं तावद्गृह्यताम् । (इति सूतस्याभरणानि धनुश्चोपनीयार्पयति) सूत यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः । १.१४>५ सूत तथा (इति निष्क्रान्तः) _________________________ १.१५<१ राजा (परिक्रम्यावलोक्य च) इदमाश्रमद्वारम् ।यावत्प्रविशामि (प्रविश्य । निमित्तं सूचयन्) * शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य । * अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १.१५ ॥ १.१५>१ (नेपथ्ये) १.१५>२ इत इतः सख्यौ । _________________________ १.।१६<१ राजा (कर्णं दत्त्वा) अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र गच्छामि । (परिक्रम्यावलोक्य च) अये एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमित एवाभिवर्तन्ते (निपुणं निरूप्य) अहो मधुरमासां दर्शनम् ।प्.२२ * शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । * दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥ १.।१६ ॥ १.१६>१ यावदिमां छायामाश्रित्य प्रतिपालयामि (इति विलोकयन् स्थितः) १.१६>२ शकुन्तला इत इतः सख्यौ । १.१६>३ अनसूया हला शकुन्तले त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरेति तर्कयामि । येन नवमालिकाकुसुमपेलवा अपि त्वमेतेषामालवालपूरणे नियुक्ता । १.१६>४ शकुन्तला न केवलं तातनियोग एव । अस्ति मे सोदरस्नेहोऽप्येतेषु । (इति वृक्षसेचनं रूपयति) _________________________ १.१७<१ राजा कथमियं सा कण्वदुहिता । असाधुदर्शी खलु तत्रभवान् काश्यपो य इमामाश्रमधर्मे नियुङ्क्ते । * इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति । * ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति ॥ १.१७ ॥प्.२४ १.१७>१ भवतु । पादपान्तर्हित एव तावदेनां पश्यामि । (इति तथा करोति) १.१७>२ शकुन्तला सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियं वदया नियन्त्रितास्मि । शिथिलय तावदेतत् । १.१७>३ अनसूया तथा । (इति शिखिलयति) १.१७>४ प्रियंवदा (सहासम्) अत्र पयोधरविस्तारयितृ आत्मनो यौवनमुपालभस्व । मां किमुपालभसे । _________________________ १.१८<१ राजा काममननुरूपमस्य वपुषो वल्कलं न पुनरलंकारश्रियं न पुष्यति । कुतः * सरसिजमनुविद्धं शैवलेनापि रम्यम् * मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । * इयमधिकमनोज्ञा वल्कलेनापि तन्वी । * किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ १.१८ ॥ १.१८>१ शकुन्तला (अग्रतोऽवलोक्य) एष वातेरितपल्लवाङ्गुलीभिस्त्वरयतीव+मां केसरवृक्षकः । यावदेनं संभावयामि (इति परिक्रामति) १.१८>२ प्रियंवदा हला शकुन्तले अत्रेव+तावन्मुहूर्तं तिष्ठ यावत्त्वयोपगतया लतासनाथ इव अयं केसरवृक्षकः प्रतिभाति ।प्.२६ १.१८>३ अतः खलु प्रियंवदासि त्वम् । _________________________ १.१९<१ राजा प्रियमपि तथ्यमाह शकुन्तलां प्रियंवदा । अस्याः खलु * अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू । * कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ १.१९ ॥ १.१९>१ अनसूया हला शकुन्तले इयं स्वयं वरवधूः सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमालिका । एनां विस्मृतासि । १.१९>२ शकुन्तला तदात्मानमपि विस्मरिष्यामि । (लतामुपेत्यावलोक्य च) हला रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः । नवकुसुमयौवना वनज्योत्स्ना स्निग्धपल्लवतयोपभोगक्षमः सहकारः । (इति पश्यन्ती तिष्ठति) १.१९>३ प्रियंवदा अनसूये जानासि किं शकुन्तला वनज्योत्स्नामतिमात्रं पश्यतीति । १.१९>४ अनसूया न खलु विभावयामि । कथय । १.१९>५ प्रि यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि नामैवमहमप्यात्मनोऽनुरूपं वरं लभेयेति । १.१९>६ शकु एष नूनं तवात्मगतो मनोरथः । (इति कलशमावर्जयति)प्.२८ १.१९>७ राजा अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् । अथवा कृतं संदेहेन _________________________ * असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । * सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरण प्रवृत्तयः ॥ १.२० ॥ १.२०>१ तथापि तत्त्वत एनामुपलभ्ये । १.२०>२ शकु (ससंभ्रमम्) अम्भो । सलिलसेकसंभ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोऽभिवर्तते (इति भ्रमरबाधां रूपयति) _________________________ १.२१<१ राजा (सस्पृहम्) * चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीम् * रहस्याख्यायीव+स्वनसि मृदु कर्णान्तिकचरः । * करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरम् * वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥ १.२१ ॥प्.३० १.२१>१ न एष ध्र्ष्टो विरमति । अन्यतो गमिष्यामि । कथमितोऽप्यागच्छति । हला परित्रायेथां मामनेन दुर्विनीतेन मधुकरेणाभिभूयमानाम् । १.२१>२ उभे (सस्मितम्) के आवां परित्रातुम् । दुष्यंतमाक्रन्द । राजरक्षितव्यानि तपोवनानि नाम । १.२१>३ राजा अवसरोऽयमात्मानं प्रकाशयितुम् । न भेतव्यं न भेतव्यम् (इत्यर्धोक्ते स्वगतम्) राजभावस्त्वभिज्ञातो भवेत् । भवत्वेवं तावदभिधास्ये । १.२१>४ शकु (पदान्तरे स्थित्वा ।सदृष्टिक्षेपम्) कथमितोऽपि मामनुसरति ।प्.३२ _________________________ १.२२<१ राजा (सत्वरमुपसृत्य) आः * कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् * अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥ १.२२ ॥ १.२२>१ (सर्वा राजानं दृष्टा किंचिदिव संभ्रान्ताः) १.२२>२ अनसूया आर्यण्न खलु किमप्यत्याहितम् । इयं नौ प्रियसखी मधुकरेणाभिभूयमाना कातरीभूता । (इति शकुन्तलां दर्शयति) १.२२>३ राजा (शकुन्तलाभिमुखो भूत्वा) अपि तपो वर्धते । १.२२>४ (शकुन्तला साध्वसादवचना तिष्ठति) १.२२>५ अनसूया इदानीमतिथिविशेषलाभेन । हला शकुन्तले गच्छोटजम् । फलमिश्रमर्घमुपहर । इदं पादोदकं भविष्यति । १.२२>६ राजा भवतीनां सूनृतया एव कृतमातिथ्यम् । १.२२>७ प्रियंवदा तेन ह्यस्यां प्रछायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः ।प्.३४ १.२२>८ राजा नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः । १.२२>९ अनसूया हला शकुन्तले उचितं नः पर्युपासनमतिथीनाम् । अत्रोपविशामः (इति सर्वा उपविशन्ति) १.२२>१० शकु (आत्मगतम्) किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता । १.२२>११ राजा (सर्वा विलोक्य) अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् । १.२२>१२ प्रि (जनान्तिकम्) अनसूये को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं प्रियमालपन् प्रभाववानिव लक्ष्यते । १.२२>१३ अन सखि मम अप्यस्ति कौतूहलम् । पृच्छामि तावदेनम् १.२२>१४ (प्रकाशम्) १.२२>१५ आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते कतम आर्येण राजर्षिवंशोऽलंक्रियते कतमो वा विरहपर्युत्सुकजनः कुतो देशः किं निमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदमुपनीतः ।प्.३६ १.२२>१६ शकु (आत्मगतम्) हृदय मोत्ताम्य । एषा त्वया चिन्तितान्यनसूया मन्त्रयते । १.२२>१७ राजा (आत्मगतम्) कथमिदानीमात्मानं निवेदयामि कथं वात्मापहारं करोमि । भवतु । एवं तावदेनां वक्ष्ये । (प्रकाशम्) भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽहमविघ्नक्रियोपलम्भाय धर्मारण्यमिदमायातः । १.२२>१८ (शकुन्तला शृङ्गारलज्जां रूपयति) १.२२>१९ अन (उभयोराकारं विदित्वा । जनान्तिकम्) हला शकुन्तले यद्यत्राद्य तातः संनिहितो भवेत् । १.२२>२० शकु ततः किं भवेत् । १.२२>२१ सख्यौ इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति । १.२२>२२ शकु युवामपेतम् । किमपि हृदये कृत्वा मत्रयेथे । न युवयोर्वचनं श्रोष्यामि ।प्.३८ १.२२>२३ राजा वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः । १.२२>२४ सक्क्यौ आर्य अनुग्रह इवेयमभ्यर्थना । १.२२>२५ राजा भगवान् काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः । इयं च वः सखी तदात्मजेति कथमेतत् । १.२२>२६ अनसूया शृणोत्वार्यः । अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः । १.२२>२७ राजा अस्ति । श्रूयते । १.२२>२८ अन तमावयोः प्रियसख्याः प्रभवमवगच्छ । उज्झितायाः शरीरसंवर्धनादिभिस्तातकाश्यपोऽस्याः पिता ।प्.४० १.२२>२९ राजा उज्झितशब्देन जनितं मे कौतूहलम् । आमूलात्+श्रोतुमिच्छामि । १.२२>३० अन शृणोत्वार्यः । गौतमीतीरे पुरा किल तस्य राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी । १.२२>३१ राजा अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् । १.२२>३२ अनसूया ततो वसन्तोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य (इत्यर्धोक्ते लज्जया विरमति) १.२२>३३ राजा परस्ताज्ज्ञायत एव । सर्वथाप्सरःसंभवैषा । १.२२>३४ अनसूया अथ किम् । _________________________ १.२३<१ राजा उपपद्ये । * मानुषीषु कथं वा स्यादस्य रूपस्य संभवः । * न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ १.२३ ॥ १.२३>१ (शकुन्तलाधोमुखी तिष्ठति) १.२३>२ राजा (आत्मगतम्) लब्धावकाशो मे मनोरथः । किं तु सख्या परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः । १.२३>३ प्रि (सस्मितं शकुन्तलां विलोक्य नायकाभिमुखी भूत्वा) १.२३>४ पुनरपि वक्तुकाम इवार्यः । १.२३>५ (शकुन्तलां सखीमङ्गुल्या तर्जयति)प्.४२ १.२३>६ राजा सम्यगुपलक्षितं भवत्या । अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् । १.२३>७ प्रि अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम । _________________________ १.२४<१ राजा इत्सखीं ते ज्ञातुमिच्छामि । * वैखानसं किमनया व्रतमाप्रदानाद् * व्यापाररोधि मदनस्य निषेवितव्यम् । * अत्यन्तमात्मसदृशेक्षणवल्लभाभिर् * आहो निवत्स्यति सम हरिणाङ्गनाभि ॥ १.२४ ॥ १.२४>१ प्रि आर्य धर्मचरणेऽपि परवशोऽयं जनः । गुरोः पुनरस्या अनुरूपवरप्रदाने संकल्पः । _________________________ १.२५<१ राजा (आत्मगतम्) अन् दुरवापेयं खलु प्रार्थना । * भव हृदय साभिलाषं संप्रति संदेह निर्णयो जातः । * आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥ १.२५ ॥ १.२५>१ शकु (सरोषमिव) अनसूये गमिष्याम्यहम् । १.२५>२ अन किं निमित्तम् । १.२५>३ शकु इमामसंबद्धप्रलापीं प्रियंवदामार्यायै गौतम्यै निवेदयिष्यामि ।प्.४४ १.२५>४ अन सखि न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वछन्दतो गमनम् । १.२५>५ (शकुन्तला न किंचिदुक्त्वा प्रस्थितैव) _________________________ १.२६<१ राजा (ग्रहीतुमिच्छन्निगृह्यात्मानम् । आत्मगतम्) अहो चेष्टा+प्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि * अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः । * स्थानादनुच्चलन्नपि गत्वेव+पुनः प्रतिनिवृत्तः ॥ १.२६ ॥ १.२६>१ प्रि (शकुन्तलां निरुध्य) हला न ते युक्तं गन्तुम् । १.२६>२ शकु (सभ्रूभङ्गम्) किं निमित्तम् । १.२६>३ प्रि वृक्षसेचने द्वे दारयसि मे । एहि तावत् । आत्मानं मोचयित्वा ततो गमिष्यसि (इति बलादेनां निवर्तयति) _________________________ १.२७<१ राजा भद्रे वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये । तथा ह्यस्याः (प्.४६) * स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणादद्य अपि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः । * बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥ १.२७ ॥ १.२७>१ तदहमेनामनृणां करोमि (इति अङ्गुलीयं दातुमिच्छति) १.२७>२ (उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः) १.२७>३ राजा अलमस्मानन्यथा संभाव्य । राज्ञः परिग्रहोऽयमिति राजपुरुषं मामवगच्छथ । १.२७>४ प्रि तेन हि नार्हत्यङ्गुलीयकमङ्गुलीवियोगम् । आर्यस्य वचनेनानृणेदानीमेषा । (किंचिद्विहस्य) हला शकुन्तले मोचितास्यनुकम्पिनार्येण । अथवा महाराजेन । गच्छेदानीम् । १.२७>५ शकु (आत्मगतम्) यद्यात्मनः प्रभविष्यामि । १.२७>६ (प्रकाशम्) का त्वं विस्रष्टव्यस्य रोद्धव्यस्य वा ।प्.४८ _________________________ १.२८<१ राजा (शकुन्तलां विलोक्य । आत्मगतम्) किं नु खलु यथा वयमस्यामेवमियमप्यस्मान् प्रति स्यात् । अथवा लब्धावकाशा मे प्रार्थना । कुतः । * वाचं न मिश्रयति यद्यपि मद्वचोभिः * कर्णं ददात्यभिमुखं मयि भाषमाणे । * कामं न तिष्ठति मदाननसंमुखीनाम् * भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥ १.२८ ॥ १.२८>१ (नेपथ्ये) _________________________ १.२९<१ भो भोस्तपस्विनः संनिहितास्तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः किल मृग या विहारी पार्थिवो दुष्यन्तः । * तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु । * पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥ १.२९ ॥ अपि च । _________________________ * तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः * पादाकृष्टव्रततिवलयासङ्गसंजातपाशः । * मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो * धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥ १.३० ॥ १.३०>१ (सर्वाः कर्णं दत्त्वा किंचिदिव संभ्रान्ताः) १.३०>२ राजा (आत्मगतम्) अहो धिक्पौरा अस्मदन्वेषिणस्तपोवनमुपरुन्धन्ति । भवतु । प्रतिगमिष्यामस्तावत् ।प्.५० १.३०>३ सख्यौ आर्य अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानीहि न उटजगमनाय । १.३०>४ राजा (ससंभ्रमम्) गच्छन्तु भवत्यः । वयमप्याश्रमपीडा यथा न भवति तथा प्रयतिष्यामहे । १.३०>५ (सर्वे उत्तिष्ठन्ति) १.३०>६ सख्यौ आर्य असंभावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे आर्यं विज्ञापयितुम् । १.३०>७ राजा मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि । १.३०>८ शकु अनसूये अभिनवकुशसूच्या परीक्षतं चरणं कुरबकशाखापरिलग्नं च वल्कलम् । तावत्परिपालयत मां यावदेतन्मोचयामि । १.३०>९ (शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता)प्.५२ _________________________ १.३१<१ राजा मन्दौत्सुक्योऽस्मि नगरगमनं प्रति । यावदनुयात्रिकान् समेत्य नातिदूरे तपोवनस्य निवेशयेयम् । न खलु शक्नोमि शकुन्तलाव्यापारादात्मानं निवर्तयितुम् । मम हि * गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः । * चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥ १.३१ ॥ १.३१>१ (इति निष्क्रान्ताः सर्वे) (प्रथमोऽङ्कः) ************************************************************************** द्वितीयोऽङ्कः २.१<१ (ततह प्रविशति विषण्णो विदूषकः) २.१<२ विदूषक (निःश्वस्य) भो दिस्टम् । एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णोऽस्मि । अयं मृगोऽयं वहारोऽयं शार्दूल इति मध्याह्नेऽपि ग्रीष्मविरलपादपछायासु वनराजिष्वाहिण्डयते अटतीतोऽटवी । पत्रसंकरकषायाणि कदुष्णानि गिरिनदीजलानि पीयन्ते । अनियतवेलं शूल्यमांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसंधे रात्रावपि निकामं शयितव्यं नास्ति । ततो महत्येव प्रत्यूषे दास्याः पुत्रैः शकुनिलुब्धकैर्वनग्रहणकोलाहलेन प्रतिबोधितोऽस्मि । इयतेदानीमपि पीडा न किष्क्रामति । ततो गण्डस्योपरि पिण्डकः संवृत्तः । ह्यः किलास्मास्ववहीनेषु तत्र भवतो मृगानुसारेणाश्रमपदं प्रविष्टस्य तापसकन्यका शकुन्तला ममाधन्यतया दर्शिता । सांप्रतं नगरगमनाय मनः कथमपि न करोति । अद्य अपि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् । का गतिः । यावत्तं कृताचारपरिक्रमं पश्यामि । (इति परिक्रम्यावलोक्य च)प्.५४ एष बाणासनहस्ताभिर्यवनीभिर्वनपुष्पमालाधारिणीभिः परिवृत इत एवागछति प्रियवयस्यः । भवतु । अङ्गभङ्गविकल इव भूत्वा स्थास्यामि । यद्येवमपि नाम विश्रमं लभेय । (इति दण्डकाष्ठमवलम्ब्य स्थितः) २.१<३ (ततः प्रविशति यथानिर्दिष्टपरिवारो राजा) _________________________ २.१<१ राजा * कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि । * अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ २.१ ॥ _________________________ २.२<१ (स्मितं कृत्वा) एवमात्माभिप्रायसंभावितेष्टजनचित्तवृत्तिः प्रार्थिता विडम्ब्यते ।प्.५६ * स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया * यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव । * मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी * सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति ॥ २.२ ॥ २.२>१ विदूषक (तथास्थित एव) भो वयस्य न मे हस्तपादं प्रसरति तद्वान्मात्रेण जापयिष्यामि । जयतु जयतु भवान् । २.२>२ राजा कुतोऽयं गात्रोपघातः । २.२>३ विदु कुतः किल स्वयमक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि । २.२>४ रा न खल्ववगच्छामि । २.२>५ विदु भो वयस्य यद्वेतसः कुब्जलीलां विडम्बयति तत्किमात्मनः प्रभावेण ननु नदीवेगस्य । २.२>६ रा नदीवेगस्तत्र कारणम् । २.२>७ विदु मम अपि भवान् । २.२>८ रा कथमिव । २.२>९ विदु एवं राजकार्याण्युज्झित्वैतादृश आकुलप्रदेशे वनचरवृत्तिना त्वया भवितव्यम् । यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः संक्षोभितसंधिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः । तत्प्रसीद मे । एकाहमपि तावद्विश्रम्यताम् ।प्.५८ _________________________ २.३<१ राजा (स्वगतम्) अयं चैवमाह । मम अपि काश्यपसुतामनुस्मृत्य मृगयाविक्लवं चेतः । कुतः * न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु । * सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्धविलोकोपदेशः ॥ २.३ ॥ २.३>१ विदु (राज्ञो मुखं विलोक्य) अत्रभवान् किमपि हृदये कृत्वा मन्त्रयते । अरण्ये मया रुदितमासीत् ।प्.६० २.३>२ रा (सस्मितम्) किमन्यत् । अनतिक्रमणीयं मे सुहृद्वाक्यमिति स्थितोऽस्मि । २.३>३ विदु चिरं जीव । (इति गन्तुमिछति) २.३>४ रा वयस्य तिष्ठ । सावशेषं मे वचः । २.३>५ विदु आज्ञापयतु भवान् । २.३>६ रा विश्रान्तेन भवता मम अप्येकस्मिन्ननायासे कर्मणि सहायेन भवितव्यम् । २.३>७ विदु किं मोदकखादिकायाम् । तेन ह्ययं सुगृहीतः क्षणः । २.३>८ रा यत्र वक्ष्यामि । कः कोऽत्र भोः । २.३>९ (प्रविश्य) २.३>१० दौवारिक (प्रणम्य) आज्ञापयतु भर्त्ता । २.३>११ रा रैवतक सेनापतिस्तावदाहूयताम् । २.३>१२ दौ तथा । (इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य) एष आज्ञावचनोत्कण्ठो भर्तेतोदत्तदृष्टिरेव तिष्ठति । उपसर्पत्वार्यः । _________________________ २.४<१ सेएना (राजानमवलोक्य) दृष्टदोषा अपि स्वामिनि मृगया केवलं गुण एव संवृत्ता । तथा हि देवः (प्.६२) * अनवरतधनुर्ज्यास्फालनक्रूरपूर्व रविकिरणसहिष्णु स्वेदलेशैरभिनम् । * अपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति ॥ २.४ ॥ २.४>१ (उपेत्य) जयतु जयतु स्वामी । गृहीतश्वापदमरण्यम् । किमन्यत्रावस्थीयते । २.४>२ राजा मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन । २.४>३ सेनापति (जनान्तिकम्) सखे स्थिरप्रतिबन्धो भव । अहं तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये । (प्रकाशम्) प्रलपत्वेष वैधेयः । ननु प्रभुरेव निदर्शनम् । _________________________ * मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः * सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः । * उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले * मिथ्या एव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥ २.५ ॥ २.५>१ विदु अपेहि रे उत्साहहेतुक । अत्रभवान् प्रकृतिमापन्नः । त्वं तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णऋक्षस्य कस्य अपि मुखे पतिष्यसि ।प्.६४ _________________________ २.६<१ रा भद्र सेनापते आश्रमसंनिकृष्टे स्थिताः स्मः । अतस्ते वचो नाभिनन्दामि । अद्य तावत् । * गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितम् * छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । * विश्रब्धं क्रियतां वहारततिभिर्मुस्ताक्षतिः पल्वले * विश्रामं लभतामिदं च शिथितलज्याबन्धमस्मद्धनुः ॥ २.६ ॥ २.६>१ सेनापति यत्प्रभविष्णवे रोचते । _________________________ २.७<१ रा तेन हि निवर्तय पूर्वगतान् वनग्राहिणः । यथा न मे सैनिकास्तपोवनमुपरुन्धन्ति तथा निषेद्धव्याः । पश्य । * शमप्रधानेषु तपोधनेषु गूढं हि दातात्मकमस्ति तेजः । * स्पर्शानुकूलेव सूर्यकान्तास्तदन्यतेजोऽभिभवाद्वमन्ति ॥ २.७ ॥ २.७>१ सेना यदाज्ञापयति स्वामी । २.७>२ विदु विध्वंसतां ते उत्साहवृत्तान्तः । २.७>३ (निष्क्रान्तः सेनापतिः)प्.६६ २.७>४ राजा (परिजनं विलोक्य) अपनयन्तु भवत्यो मृगयावेशम् । रैवतक त्वमपि स्वं नियोगमशून्यं कुरु । २.७>५ परिजन यद्देव आज्ञापयति । (इति निष्क्रान्तः) २.७>६ विदु कृतं भवता निर्मक्षिकम् । सांप्रतमेतस्मिन् पादपछायाविरचितवितानसनाथे शिलातले निषीदतु भवान् यावदहमपि सुखासीनो भवामि । २.७>७ राजा गच्छाग्रतः । २.७>८ विदु एतु भवान् । २.७>९ (इत्युभौ परिक्रम्योपविष्टौ ) २.७>१० रा माधव्य अनवाप्तचक्षुः फलोऽसि । येन त्वया दर्शनीयं न दृष्टम् । २.७>११ विदु ननु भवानग्रतो मे वर्तते । २.७>१२ रा सर्वः कान्तमात्मीयं पश्यति । अहं तु तामाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि ।प्.६८ २.७>१३ विदु (स्वगतम्) भवतु । अस्यावसरं न दास्ये । २.७>१४ (प्रकाशम्) भो वयस्य ते तापसकन्यकाभ्यर्थनीया दृश्यते । _________________________ २.८<१ रा सखे न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते । * सुरयुवतिसंभवं किल मुनेरपत्यं तदुज्झिताधिगतम् । * अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ॥ २.८ ॥ २.८>१ विदु )विहस्य) यथा कस्य अपि पिण्डखर्जूरैरुद्वेजितस्य तिण्ड्याम् (तिन्तिण्याम्) अभिलाषो भवेत्तथा स्त्रीरत्नपरिभोगिणः भवत इयमभ्यर्थना । २.८>२ रा न तावदेनां पश्यामि येनैवमवादीः ।प्.७० २.८>३ विदु तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति । _________________________ २.९<१ रा वयस्य किं बहुना । * चित्रे निवेश्ये परिकल्पितसत्त्वयोगा * रूपोच्चयेन मनसा विधिना कृता नु । * स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे * धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ २.९ ॥ २.९>१ विदु यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् । _________________________ २.१०<१ रा इदं च मे मनसि वर्तते । * अनाघ्रातं पुष्पं किसलयमलूनं कररुहैरनाविद्धं रत्नं मधु नवमनास्वादितरसम् । * अखण्डं पुष्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥ २.१० ॥ २.१०>१ विदु तेन हि लघु परित्रायतामेनां भवान् । मा कस्य अपि तपस्विन इङ्गुदीतैरचिक्कणशीर्षस्य हस्ते पतिष्यति ।प्.७२ २.१०>२ रा परवती खलु तत्रभवती । न च संनिहितोऽत्र गुरुजनः । २.१०>३ विदु अथ भवन्तमन्तरेण कीदृशस्तस्या दृष्टिरागः । _________________________ २.११<१ राजा निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः । तथापि तु * अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमितकृतोदयम् । * विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥ २.११ ॥ २.११>१ विदु न खलु दृष्टमात्रस्य तवाङ्कं समारोहति । _________________________ २.१२<१ राजा मिथः प्रस्थाने पुनः शालीनतया अपि काममाविष्कृतो भावस्तत्रभवत्या । तथा हि ।प्.७४ * दर्भाङ्कुरेण चरणः क्षत इत्यखाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा । * आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥ २.१२ ॥ २.१२>१ विदु तेन हि गृहीतपाथेयो भव । कृतं त्वयोपवनं तपोवनमिति पश्यामि । २.१२>२ रा सखे तपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय तावत्केनापदेशेन पुनराश्रमपदं गच्छामः । २.१२>३ विदु कोऽपरोऽपदेशो युष्माकं राज्ञाम् । नीवारषष्ठभागमस्माकमुपहरन्त्विति । _________________________ २.१३<१ रा मूर्ख अन्यमेव भागधेयमेते तपस्विनो निर्वपन्ति यो रत्नराशीनपि विहायाभिनन्द्यते । पश्य । * यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् । * तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः ॥ २.१३ ॥ २.१३>१ (नेपथ्ये) २.१३>२ हन्त सिद्धार्थौ स्वः । २.१३>३ रा (कर्णं दत्त्वा) अये धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् । २.१३>४ (प्रविश्य)प्.७६ २.१३>५ जयतु जयतु भर्ता । एतौ द्वौ ऋषिकुमारौ प्रतीहारभूमिमुपस्थितौ । २.१३>६ राजा तेन ह्यविलम्बितं प्रवेशय तौ । २.१३>७ दौवारिक एष प्रवेशयामि । (इति निष्क्रम्य र्षिकुमाराभ्यां सह प्रविश्य) २.१३>८ (उभौ राजानं विलोकयतः) _________________________ २.१४<१ प्रथमः अहो दीप्तिमतोऽपि विश्वसनीयतयास्य वपुषः । अथवा उपपन्नमेतदस्मिन्नृषिभ्यो नातिभिन्ने राजनि । कुतः * अध्याक्रान्ता वसतिरमुना अप्याश्रमे सर्वभोग्ये * रक्षायोगादयमपि तपः प्रत्यहं संचिनोति । * अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः * पुण्यःशब्दो मुनिरिति मुहुह्ः केवलं राजपूर्वः ॥ २.१४ ॥ २.१४>१ द्वितीयः गौतम अयं स बलभित्सखो दुष्यन्तः । २.१४>२ प्रथम अथ किम् । _________________________ २.१५<१ द्वितीयह्ः तेन हि * नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीमेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति ।प्.७८ * आशंसन्ते समितिषु सुरा बद्धवैरा हि दैत्यैरस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ २.१५ ॥ २.१५>१ उभौ (उपगम्य) विजयस्व राजन् । २.१५>२ रा (आसनादुत्थाय) अभिवादये भवन्तौ । २.१५>३ उभौ स्वस्ति भवते । (इति फलान्युपहरतः) २.१५>४ रा (सप्रणामं परिगृह्य) आज्ञापयितुमिच्छामि । २.१५>५ उभौ विदितो भवानाश्रमसदामिहस्थः । तेन भवन्तं प्रार्थयन्ते । २.१५>६ रा किमाज्ञापयन्ति । २.१५>७ उभौ तत्रभवतः कण्वस्य महर्षेरसांनिध्याद्रक्षांसि नेष्टिविघ्नमुत्पादयन्ति । तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथीक्रियतामाश्रम इति । २.१५>८ रा अनुगृहीतोऽस्मि । २.१५>९ विदु (अपवार्य) एषा इदानीमनुकूला तेऽभ्यर्थना । २.१५>१० रा (स्मितं कृत्वा) रैवतक मद्वचनादुच्यतां सारथिः । सबाणासनं रथमुपस्थापय इति । २.१५>११ दौ यद्देव आज्ञापयति । (इति निष्क्रान्तः) _________________________ २.१६<१ उभौ (सहर्षम्) * अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि । * आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥ २.१६ ॥प्.८० २.१६>१ रा (सप्रणामम्) गच्छतां पुरो भवन्तौ । अहमप्यनुपदमागत एव । २.१६>२ उभौ विजयस्व (इति निष्क्रान्तौ) २.१६>३ रा माधव्य अप्यस्ति शकुन्तलादर्शने कुतूहलम् । २.१६>४ विदु प्रथमं सपरिवाहमासीत् । इदानीं राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः । २.१६>५ रा मा भैषीः । ननु मत्समीपे वर्तिष्यसे । २.१६>६ विदु एष राक्षसाद्रक्षितोऽस्मि । २.१६>७ (प्रविश्य) २.१६>८ दौ सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते । एष पुनर्नगराद्देवीनां ज्ञप्तिहरः करभक आगतः २.१६>९ रा (सादरम्) इमम्बाभिः प्रेषितः । २.१६>१० दौ अथ किम् । २.१६>११ रा ननु प्रवेश्यताम् । २.१६>१२ दौ तथा । (इति निष्क्रम्य करभकेण सह प्रविश्य) एष भर्ता । उपसर्प । २.१६>१३ करभक जयतु जयतु भर्ता । देव्याज्ञापयति । आगामिनि चतुर्थदिवसे प्रवृत्तपारणो मे उपवासो भविष्यति । तत्र दीर्घायुषावश्यं संभावनीयेति । २.१६>१४ रा इतस्तपस्विकार्यम् । इतो गुरुजनाज्ञा । द्वयमप्यनतिक्रमणीयम् । किमत्र प्रतिविधेयम् ।प्.८२ २.१६>१५ विदु त्रिशङ्कुरिवान्तरा तिष्ठ । _________________________ २.१७<१ रा सत्यमाकुलीभूतोऽस्मि । * कृत्ययोर्भिन्नदेशत्वाद्द्वैधीभवति मे मनः । * पुरः पतिहतं शैले स्रोतः स्रोतोवहो यथा ॥ २.१७ ॥ २.१७>१ (विचिन्त्य) सखे त्वमम्बया पुत्र इति प्रतिगृहीतः । अतो भवानितः प्रतिनिवृत्य तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां पुत्रकृत्यमनुष्ठातुमर्हति । २.१७>२ विदु न खलु मां रक्षोभीरुकं गणयसि । २.१७>३ रा (सस्मितम्) कथमेतद्भवति संभाव्यते । २.१७>४ विदु यथा राजानुजेन गन्तव्यं तथा गच्छामि । २.१७>५ रा ननु तपोवनोपरोधः परिहरणीय इति सर्वानानुयात्रिकांस्त्वयैव सह प्रस्थापयामि । २.१७>६ विदु (सगर्वम्) तेन हि युवराजोऽस्मीदानीं संवृत्तः । २.१७>७ रा (स्वगतम्) चपलोऽयं बटुः । कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् । भवतु । एनमेवं वक्ष्ये । (विदूषकं हस्ते गृहीत्वा । प्रकाशम्) वयस्य ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां ममाभिलाषः । पश्य । _________________________ * क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः । * परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ॥ २.१८ ॥ २.१८>१ विदु अथ किम् । २.१८>२ (इति निष्क्रान्ताः सर्वे) इति द्वितीयोऽङ्कः । ************************************************************************** तृतीयोऽङ्कः ३.१<१ (ततः प्रविशति कुशानादाय यजमानशिष्यः) _________________________ ३.१<१ शिष्य अहो महानुभावः पार्थिवो दुष्यन्तः । यत्प्रविष्टमात्र एवाश्रमं तत्रभवति निरुपद्रवाणि नः कर्माणि संवृत्तानि । * का कथा बाणसंधाने ज्याशब्देनैव दूरतः । * हुंकारेणेव धनुषः स हि विघ्नानपोहति ॥ ३.१ ॥ ३.१>१ यावदिमान् वेदिसंस्तरणार्थं दर्भानृत्विग्भ्य उपहरामि । (परिक्रम्यावलोक्य च । आकाशे) प्रियंवदे कस्य इदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते । (श्रुतिमभिनीय) किं ब्रवीषि । आतपलङ्घनाद्बलवदस्वस्था शकुन्तला तस्याः शरीरनिर्वापणायेति । ३.१>२ तर्हि यत्नादुपचर्यताम् । सा खलु भगवतः कण्वस्य कुलपतेरुच्छ्वसितम् । अहमपि तावद्वैतानिकं शान्त्युदकमस्यै गौतमीहस्ते विसर्जयिष्यामि । ३.१>३ (इति निष्क्रान्तः) ३.१>४ विष्कम्भकः । ३.१>५ (ततः प्रविशति कामयमानावस्थो राजा) ३.१>६ राजा (सचिन्तं निःश्वस्य) प्.८४ _________________________ * जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् । * अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥ ३.२ ॥ ३.२>१ (मदनबाधां निरूप्य) भगवन् कुसुमायुध त्वया चन्द्रमसा च विश्वसनीयाभ्यामतिसंधीयते कामिजनसार्थः । कुतः । _________________________ * तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर् * द्वयमिदमयथार्थं दृश्यते मद्विधेषु । * विसृजति हिमगर्भैरग्निमिन्दुर्मयूखैस् * त्वमपि कुसुमबाणान् वज्रसारीकरोषि ॥ ३.३ ॥ ३.३>१ अथवा । * अद्य अपि नूनं हरकोपवह्निनस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ । * त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः कथमित्थमुष्णः ॥ ३.३ ॥ प्.८८ _________________________ * अनिशमपि मकरकेतुर्मनओर्रुजमावहन्नभिमतो मे । * यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥ ३.४ ॥ ३.४>१ (सखेदं परिक्रम्य) क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः खिन्नमात्मानं विनोदयामि । ३.४>२ (निःश्वस्य) किं नु खलु मे प्रियादर्शनादृते शरणमन्यत् । ३.४>३ यावदेनामन्विष्यामि । (सूर्यमवलोक्य) इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुन्तला गमयति । ३.४>४ तत्रैव तावद्गच्छामि । (परिक्रम्य संस्पर्शं रूपयित्वा) अहो प्रवातसुभगोऽयमुद्देशः । _________________________ * शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् । * अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥ ३.५ ॥ ३.५>५ (परिक्रम्यावलोक्य च) अस्मिन् वेतसपरिक्षिप्ते लतामण्डपे संनिहितया शकुन्तलया भवितव्यम् । तथा हि । _________________________ * अब्न्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् । * द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥ ३.६ ॥ ३.६>१ यावद्विटपान्तरेणावलोकयामि । (परिक्रम्य तथा कृत्वा । सहर्षम्) अये लब्धं नेत्रनिर्वाणम् । ३.६>२ एषा मे मनोरथप्रियतमा सकुसुमास्तरणं शिलापट्टमधिशयाना सखीभ्यामन्वास्यते । भवतु ।श्रोष्याम्यासां विश्रम्भकथितानि । (इति विलोकयन् स्थितः) ३.६>३ (ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला) प्.९० ३.६>४ सख्यौ (उपवीज्य । सस्नेहम्) हला शकुन्तरे अपि सुखयति नलिनीपत्रवातः । ३.६>५ शकु किं वीजयतो मां सख्यौ । ३.६>६ (सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः) _________________________ ३.७<१ राजा बलवदस्वस्थशरीरा शकुन्तला दृश्यते । ३.७<२ (सवितर्कम्) तत्किमयमातपदोषः स्यादुत यथा मे मनसि वर्तते । (साभिलाषं निर्वर्ण्य) अथ वा कृतं संदेहेन । * स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयम् * प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् । * समस्तापः कामं मनसिजनिदाघप्रसरयोर् * न तु ग्रीष्मस्यैवं सुभगमपराधं युवतिषु ॥ ३.७ ॥ प्.९२ ३.७>७ प्रियंवदा (जनान्तिकम्) अनसूये तस्य राजर्षेः प्रथमदर्शनारभ्य पर्युत्सुकेव शकुन्तला । किं नु खल्वस्यास्तन्निमित्तोऽयमातङ्को भवेत् । ३.७>८ अन सखि मम अपीदृश्याशङ्का हृदयस्य । भवतु । प्रवक्ष्यामि तावदेनाम् (प्रकाशम्) । सखि प्रष्टव्यासि किमपि । बलवान् खलु ते संतापः । ३.७>९ शकु (पूर्वार्धेन शयनादुत्थाय) हला किं वक्तुकामासि । ३.७>१० अन हला शकुन्तले अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य । किं तु यादृशीतिहासबन्धेषु कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि । ३.७>११ कथय किं निमित्तं संतापः । विकारं खलु परमार्थतोऽज्ञात्वानारम्भप्रतीकारस्य । ३.७>१२ राजा अनसूयामप्यनुगतो मदीयस्तर्कः । न हि स्वामिप्रायेण मे दर्शनम् । ३.७>१३ शकु (आत्मगतम्) बलवान् खलु मेऽभिनिवेशः । इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् ।प्.९४ ३.७>१४ प्रियंवदा सखि शकुन्तले सुष्ठु एषा भणति । किमात्मन आतङ्कमुपेक्षसे । अनुदिवसं खलु परिहीयसेऽङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति । _________________________ ३.८<१ राजा अवितथमाह प्रियंवदा । तथा हि * क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनम् * मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा । * शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते * पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥ ३.८ ॥ ३.८>१ शकु सखि कस्य वान्यस्य कथयिष्यामि । किंत्वायासयित्रीदानीं वां भविष्यामि । ३.८>२ उभे अत एव खलु निर्बन्ध । स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति । प्.९६ _________________________ ३.९<१ राजा * पृष्टा जनेन समदुःखसुखेन बाला * नेयं न वक्ष्यति मनोगतमाधिहेतुम् । * दृष्टो विवृत्य बहुशोऽप्यनया सतृष्णम् * अत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥ ३.९ ॥ ३.९>३ शकु सखि यतःप्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः (इत्यर्थोक्ते लजां नाटयति) ३.९>४ उभे कथयतु प्रियसखी । ३.९>५ शकु तत आरभ्य तद्गतेनाभिलाषेण एतदवस्थास्मि संवृत्ता । _________________________ ३.१०<१ राजा (सहर्षम्) श्रुतं श्रोतव्यम् । * स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः । * दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥ ३.१० ॥प्.९८ ३.१०>१ शकु तद्यदि वामनुमतं तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि । अन्यथावश्यं सिञ्चत मे तिलोदकम् । ३.१०>२ राजा संशयछेदि वचनम् । ३.१०>३ प्रियंवदा (जनान्तिकम्) अनसूये दूरगतमन्मथाक्षमेयं कालहरणस्य । ३.१०>४ यस्मिन् बद्धभावैषा स ललामभूतः पौरवाणाम् । तद्युक्तमस्या अभिलाषोऽभिनन्दितुम् । ३.१०>५ अन तथा यथा भणसि । ३.१०>६ प्रि (प्रकाशम्) सखि दिष्ट्यानुरूपस्तेऽभिनिवेशः । सागरमुज्झित्वा कुत्र वा महानद्यवतरति । क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लवितां सहते । ३.१०>७ राजा किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते । ३.१०>८ अन कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या मनोरथं संपादयावः । ३.१०>९ प्रि निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् । ३.१०>१० अन कथमिव ।प्.१००। ३.१०>११ प्रि ननु स राजर्षिरस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान् दिवसान् प्रजागरकृशो लक्ष्यते । _________________________ ३.११<१ राजा सत्यमित्थं भूत एवास्मि । तथा हि * इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतम् * निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः । * अलभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात् * कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ ३.११ ॥ ३.११>१२ प्रि (विचिन्त्य) हला मदनलेखोऽस्य क्रियतां तं सुमनोगोपितं कृत्वा देवप्रसादस्यापदेशेन तस्य हस्तं प्रापयिष्यामि । ३.११>१३ अन रोचते मे सुकुमारः प्रयोगः किं वा शकुन्तला भणति । ३.११>१४ शकु किं नियोगो वां विकल्प्यते । ३.११>१५ प्रि तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावत्किमपि ललितपदबन्धनम् । ३.११>१६ शकु हला चिन्तयाम्यहम् । अवधीरणाभीरुकं पुनर्वेपते मे हृदयम् । प्.१०२ _________________________ ३.१२<१ राजा (सहर्षम्) * अयं स ते तिष्ठति संगमोत्सुको * विशङ्कसे भीरु यतोऽवधीरणाम् । * लभेत वा प्रार्थयिता न वा श्रियम् * श्रिया दुरापः कथमीप्सितो भवेत् ॥ ३.१२ ॥ ३.१२>१ सख्यौ अयि आत्मगुणावमानिनि क इदानीं शरीरनिर्वापयित्री शारदीं ज्योत्स्नां पटान्तेन वारयति । ३.१२>२ शकु (सस्मितम्) नियोजितेदानीमस्मि । (इत्युपविष्टां चिन्तयति) _________________________ ३.१३<१ राजा स्थाने खलु विस्मृत+निमेषेण चक्षुषा प्रियामवलोकयामि । यतः * उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः । * कण्टकितेन प्रथयति मयनुरागं कपोलेन ॥ ३.१३ ॥ ३.१३>३ शकु हला चिन्तितं मया गीतवस्तु । असंनिहितानि पुनर्लेखनसाधनानि । ३.१३>४ प्रि एतस्मिञ्शुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं कुरु ।प्.१०४ ३.१३>५ शकु (यथोक्तं रूपयित्वा) हला शृणुतमिदानीं संगतार्थं न वेति । ३.१३>६ उभे अवहिते स्वः । _________________________ ३.१४<१ शकु (वाचयति) * तव न जाने हृदयं मम पुनः कामो दिवा अपि रात्रावपि । * निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथाया अङ्गानि ॥ ३.१४ ॥ _________________________ ३.१५<१ राजा (सहसोपसृत्य) * तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । * ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥ ३.१५ ॥ ३.१५>१ सख्यौ (विलोक्य सहर्षमुत्थाय) स्वागतमविलम्बिनो मनोरथस्य । ३.१५>२ (शकुन्तलाभ्युत्थातुमिच्छति) _________________________ ३.१६<१ राजा अलमलमायासेन । प्.१०६ * संदष्टसुकुमशयनान्याशुक्तान्तबिसभङ्गसुरभीणि । * गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥ ३.१६ ॥ ३.१६>१ अन इतः शिलातलैकदेशमलंकरोतु वयस्यः । ३.१६>२ (राजोपविशति । शकुन्तला सलज्जा तिष्ठति) ३.१६>३ प्रि द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहः पुनर्मां पुनरुक्तवादिनीं करोति । ३.१६>४ राजा भद्रे नैतत्पर्हार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति । ३.१६>५ प्रि आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यमित्येष वो धर्मः । ३.१६>६ राजा नास्मात्परम् । ३.१६>७ प्रि तेन हीयमावयोः प्रियसखी त्वामुद्दिश्य इदमवस्थान्तरं भगवता मदनेनारोपिता । तदर्हस्यभ्युपपत्त्या जीवितमस्या अवलम्बितुम् । ३.१६>८ राजा भद्रे साधारणोऽयं प्रणयः । सर्वथानुगृहीतोऽस्मि । ३.१६>९ शकुन्तला (प्रियंवदामवलोक्य) हला किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन । _________________________ ३.१७<१ राजा सुन्दरि (प्.१०८) * इदमनन्यपरायणमन्यथा हृदयसंनिहिते हृदयं मम । * यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥ ३.१७ ॥ ३.१७>१ अन वयस्य बहुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वाहय । _________________________ ३.१८<१ राजा भद्रे किं बहुना * परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे । * समुद्ररसना चोर्वी सखी च युवयोरियम् ॥ ३.१८ ॥ ३.१८>१ उभे निर्वृते स्वः । ३.१८>२ प्रि (सदृष्टिक्षेपम्) अनसूये एष इतोदत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति । एहि । संयोजयाव एनम् । (इत्युभे प्रस्थिते) ३.१८>३ शकु हला अशरणास्मि । अन्यतरा युवयोरागच्छतु । ३.१८>४ उभे पृथिव्याः यः शरणं स तव समीपे वर्तते । (इति निष्क्रान्ते) ३.१८>५ शकु कथं गते एव । _________________________ ३.१९<१ राजा अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते । * किं शीतलैः क्लमविनोदिभिरार्द्रवातान् * सञ्चारयामि नलिनीदलतालवृन्तैः । * अङ्के निधाय करभोरु यथासुखं ते * संवाहयामि चरणावुत पद्मतांरौ ॥ ३.१९ ॥ ३.१९>१ शकु न माननीयेष्वात्मानमपराधयिष्ये । (इत्युत्थाय गन्तुमिच्छति) _________________________ ३.२०<१ राजा सुन्दरि अनिर्वाणो दिवसः इयं च ते शरीरावस्था । * उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् । * कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः ॥ ३.२० ॥ ३.२०>१ (इति बलादेनां निवर्तयति) ३.२०>२ शकु पौरव रक्ष विनयम् । मदनसंतप्ता अपि न खल्वात्मनः प्रभवामि । _________________________ ३.२१<१ राजा भीरु अलं गुरुजनभयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान्नात्र दोषं ग्रहीष्यति कुलपतिः । पश्य ।प्.११२ * गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः । * श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥ ३.२१ ॥ ३.२१>१ शकु मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये । ३.२१>२ राजा भवतु । मोक्ष्यामि । ३.२१>३ शकु कदा । _________________________ ३.२२<१* राजा * अपरिक्षतकोमलस्य यावत्कुसुमस्येव नवस्य षट्पदेन । * अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य ॥ ३.२२ ॥ ३.२२>१ (इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति नाट्येन) ३.२२>२ (नेपथ्ये) ३.२२>३ चक्रवाकवधुके आमन्त्रयस्व सहचरम् । उपस्थिता रजनी । ३.२२>४ शकु (ससंभ्रमम्) पौरव असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमी इत एवागच्छति । तद्विटपान्तरितो भव । ३.२२>५ राजा तथा । (इत्यात्मानमावृत्य तिष्ठति) ३.२२>६ (ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च) ३.२२>७ सख्यौ इत इत आर्या गौतमी । ३.२२>८ गौतमी (शकुन्तलामुपेत्य) जाते अपि लघुसंतापानि तेऽङ्गानि ।प्.११४ ३.२२>९ शकु आर्ये अस्ति मे विशेषः । ३.२२>१० गौतमी अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति । (शिरसि शकुतलामभ्युक्ष्य) वत्से परिणतो दिवसः । एहि उटजमेव गच्छामः । (इति प्रस्थिताः) ३.२२>११ शकु (आत्मगतम्) हृदय प्र्थममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । सानुशयविघटितस्य कथं ते सांप्रतं संतापः । (पदान्तरे स्थित्वा । प्रकाशम्) लतावलय संतापहारक आमन्त्रये त्वां भूयोऽपि परिभोगाय । (इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः) _________________________ ३.२३<१ राजा (पूर्वस्थानमुपेत्य । सनिःश्वासम्) अहो विघ्नवत्यः प्राथितार्थसिद्धयः । महा हि * मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । * मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥ ३.२३ ॥ ३.२३>१ क्व नु खलु संप्रति गच्छामि । अथवा इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि । ३.२३>२ (सर्वतोऽवलोक्य)प्.११६ _________________________ * तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियम् * क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः । * हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो * निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥ ३.२४ ॥ _________________________ ३.२५<१ (आकाशे) राजन् * सायंतने सदनकर्मणि संप्रवृत्ते * वेदिं हुताशनवतीं परितः प्रयस्ताः । * छायाश्चरन्ति बहुधा भयमादधानाः * संध्यापयोदकपिशाः पिशिताशनानाम् ॥ ३.२५ ॥ ३.२५>१ राजा अयमहमागच्छामि । (इति निष्क्रान्तः) तृतीयोऽङ्कः ।प्.११८ ************************************************************************** चतुर्थोऽध्यायः । ४.१<१ (ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ । ४.१<२ अन हला प्रियंवदे यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा शकुन्तलानुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयं तथाप्येतावच्चिन्तनीयम् । ४.१<३ प्रि कथमिव ।प्.११८ ४.१<४ अन अद्य स राजर्षिरिष्टिं परिसमाप्य+ऋषिभिर्विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरसमागत इतो+गतं वृत्तान्तं स्मरति वा न वेति । ४.१<५ प्रि विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति । ४.१<६ अन यथाहं पश्यामि तथा तस्यानुमतं भवेत् । ४.१<७ प्रि कथमिव । ४.१<८ अन गुणवते कन्यका प्रतिपादनीया इत्ययं तावत्प्रथमः संकल्पः । तं यदि दैवमेव संपादयति नन्वप्रयासेन कृतार्थो गुरुजनः । ४.१<९ प्रि (पुष्पभाजनं विलोक्य) सखि अवचितानि बलिकर्मपर्याप्तानि कुसुमानि ।प्.१२२ ४.१<१० अन ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया । ४.१<११ प्रि युज्यते । (इति तदेव कर्माभिनयतः) ४.१<१२ (नेपथ्ये) ४.१<१३ अयमहं भोः । ४.१<१४ अन (कर्णं दत्त्वा) सखि अतिथीनामिव निवेदितम् । ४.१<१५ प्रि ननूटजसंनिहिता शकुन्तला । _________________________ ४.१<१ अन अद्य पुनर्हृदयेनासंनिहिता । अलमेतावद्भिः कुसुमैः । (इति प्रस्थिते) (नेपथ्ये) ४.१<२ आः अतिथिपरिभाविनि * विचिन्तयन्ती यमनन्यमानसा * तपोधनं वेत्सि न मामुपस्थितम् । * स्मरिष्यति त्वां न स बोधितोऽपि सन् * कथां प्रमत्तः प्रथमं कृतामिव ॥ ४.१ ॥प्.१२२ ४.१>२ प्रि हा धिग्घा धिक् । अप्रियमेव संवृत्तम् । कस्मिन्नपि पूजार्हेऽपराद्धा शून्यहृदया शकुन्तला । (पुरोऽवलोक्य) ४.१>३ न खलु यस्मिन् कस्मिन्नपि । एष दुर्वासाः सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः । ४.१>४ अन कोऽन्यो हुतवहाद्दग्धुं प्रभवति । गच्छ । पादयोः प्रणम्य निवर्तय एनं यावदहमर्घोदकमुपकल्पयामि । ४.१>५ प्रि तथा (इति निष्क्रान्ता) ४.१>६ अन (पदान्तरे स्खलितं निरूप्य) अहो आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात्पुष्पभाजनम् । (इति पुष्पोच्चयं रूपयति) ४.१>७ (प्रविश्य) ४.१>८ प्रि सखि प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति । किमपि पुनः सानुक्रोशः कृतः । ४.१>९ अन (सस्मितम्+तस्मिन् बह्वेतदपि । कथय । ४.१>१० प्रि यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया । ४.१>११ भगवन् प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षयितव्य इति ।प्.१२४ ४.१>१२ अन ततस्ततः । ४.१>१३ प्रि ततो न मे वचनमन्यथा+भवितुमर्हति किं त्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयमाण एवान्तर्हितः । ४.१>१४ अन शक्यमिदानीमाश्वसितुम् । अस्ति तेन राजर्षिणा संप्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम् । तस्मिन् स्वाधीनोपाया शकुन्तला भविष्यति । ४.१>१५ प्रि सखि एहि । देवकार्यं तावदस्या निर्वर्तयावः । ४.१>१६ (इति परिक्रामतः) ४.१>१७ प्रि (विलोक्यानसूये पश्य तावत् । वामहस्तोपहितवदना आलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति । किं पुनरागन्तुकम् । ४.१>१८ अन प्रियंवदे द्वयोरेव नौ मुखे एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी । ४.१>१९ प्रि को नाम उष्णोदकेन नवमालिकां सिञ्चति । ४.१>२० (इति निष्क्रान्ते) ४.१>२१ विष्कम्भकः । ४.१>२२ (ततः प्रविशति सुप्तोत्थितः शिष्यः) _________________________ ४.२<१ शिष्य वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति । (परिक्रम्यावलोक्य च) हन्त प्रभातम् । तथा हि ।प्.१२६ * यात्येकतोऽस्तशिखरं पतिरोषधीनाम् * आविष्कृतारुणपुरःसर एकतोऽर्कः । * तेजोद्वयस्य युगपद्व्यसनोदयाभ्याम् * लोको नियम्यत इवात्मदशान्तरेषु ॥ ४.२ ॥ अपि च् _________________________ * अन्तर्हिते शशिनि सैव कुमुद्वती मे * वृष्टिं न नन्दयति संस्मरणीयशोभा । * इष्टप्रवासजनितान्यबलाजनस्य * दुःखानि नूनमतिमात्रसुदुःसहानि ॥ ४.३ ॥ ४.३>१ (प्रविश्यापटीक्षेपेण) ४.३>२ अन यद्यपि नाम विषयपराङ्मुखस्य जनस्यैतन्न विदितं तथापि तेन राज्ञा शकुन्तलायामनार्यमाचरितम् । ४.३>३ शिष्य यावदुपस्थिता होमवेलां गुरवे निवेदयामि । ४.३>४ (इति निष्क्रान्तः) प्.१२८ ४.३>५ अन प्रतिबुद्धा अपि किं करिष्यामि । न म उचितेष्वपि निजकरणीयेषु हस्तपादं प्रसरति । काम इदानीं सकामो भवतु येनासत्यसंधे जने शुद्धहृदया सखी पदं कारिता । अथवा दुर्वासः शाप एष विकारयति । ४.३>६ अन्यथा कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावतः कालस्य लेखमात्रमपि न विसृजति । ४.३>७ तदितोऽभिज्ञानमङ्गुलीयकं तस्य विसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम् । ननु सखीगामी दोष इति व्यवसिता अपि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्त्वां शकुन्तलां निवेदयितुम् । इत्थं गतेऽस्माभिः किं करणीयम् । ४.३>८ (प्रविश्य) ४.३>९ प्रि (सहर्षम्) सखि त्वरस्व त्वरस्व शकुन्तलायाः प्रस्थानकौतुकं निवर्तयितुम् । ४.३>१० अन सखि कथमेतत् ।प्.२३० ४.३>११ प्रि शृणु । इदानीं सुखशयितपृच्छिका शकुन्तलासकाशं गतास्मि । ४.३>१२ अन ततस्ततः । ४.३>१३ प्रि तावदेनां लज्जावनतमुखीं परिष्वज्य तातपाश्यपेनैवमभिनन्दितम् । दिष्ट्या दूमाकुलितदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । वत्से सुशिष्यपरिदत्ता विद्येव अशोचनीयासि संवृत्ता । अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयामीति । ४.३>१४ अन अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः । ४.३>१५ प्रि अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या । ४.३>१६ अन (सविस्मयम्) कथमिव । _________________________ ४.४<१ प्रि (संस्कृतमाश्रित्य) * दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः । * अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥ ४.४ ॥ ४.४>१ अन (प्रियंवदामाश्लिष्य) सखि प्रियं मे । किं त्वद्यैव शकुन्तला नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि । ४.४>२ प्रि सखि आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृता भवतु ।प्.१३२ ४.४>३ तेन ह्येतस्मिंश्चूतशाखावलम्बिते नालिकेरसमुद्गक एतन्निमित्तमेव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका । ४.४>४ तदिमां हस्तसंनिहितां कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां दुर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि । ४.४>५ प्रि तथा क्रियताम् । (अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्णाति) ४.४>६ (नेपथ्ये) गौतमि आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय । ४.४>७ प्रि (कर्णं दत्त्वा) अनसूये त्वरस्व त्वरस्व । एते खलु हस्तिनापुरगामिन ऋषयः शब्दाय्यन्ते । ४.४>८ (प्रविश्य समालम्भनहस्ता) ४.४>९ अन सखि एहि । गच्छावः । (इति परिक्रामतः) ४.४>१० प्रि (विलोक्य) एषा सूर्योदय एव शिखामज्जिता प्रतीष्टनीवारहस्ताभिः स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुन्तला तिष्ठति । उपसर्पाव एनाम् । ४.४>११ (इत्युपसर्पतः) ४.४>१२ (ततः प्रविशति यथोद्दिष्टव्यापारा आसनस्था शकुन्तला) ४.४>१३ तापसीनामन्यतमा (शकुन्तलां प्रति) जाते भर्तुर्बहुमानसूचकं महादेवीशब्दं लभस्व ।प्.१३४ ४.४>१४ द्वितीया वत्से वीरप्रसविनी भव । ४.४>१५ तृतीया वत्से भर्तुर्बहुमता भव । ४.४>१६ (इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः) ४.४>१७ सख्यौ (उपसृत्य) सखि सुखमज्जनं ते भवतु । ४.४>१८ शकु स्वागतं मे सख्योः । इतो निषीदतम् । ४.४>१९ उभे (मङ्गलपात्राण्यादाय । उपविश्य) हला सज्जा भव । यावत्ते मङ्गलसमालम्भनं विरचयावः । ४.४>२० शकु इदमपि बहु मन्तव्यम् ।दुर्लभमिदानीं मे सखीमण्डनं भविष्यति । (इति बाष्पं विसृजति) ४.४>२१ उभे सखि उचितं न ते मङ्गलकाले रोदितुम् । ४.४>२२ प्रि आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते । ४.४>२३ (प्रविश्योपायनहस्तावृषिकुमारकौ) ४.४>२४ उभौ इदमलंकरणम् । अलंक्रियतामत्रभवती । ४.४>२५ (सर्वा विलोक्य विस्मिताः) ४.४>२६ गौतमी वत्स नारद कुत एतत् । प्.१३६ ४.४>२७ प्रथमः तातकाश्यपप्रभावात् । ४.४>२८ गौतमी किं मानसी सिद्धिः । _________________________ ४.५<१ द्वितीयः न खलु । श्रूयताम् । तत्रभवता वयमाज्ञप्ताः शकुन्तलाहेतोर्वनस्पतिभ्यः कुसुमान्याहर इति । तत इदानीम् * क्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतम् * निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् । * अन्येभ्यो वनदेवताकरतलैरापर्वभोगोत्थितैर् * दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः ॥ ४.५ ॥ ४.५>२९ प्रियंवदा (शकुन्तलां विलोक्य) हला अनयाभ्युपपत्त्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीः । ४.५>३० (शकुन्तला व्रीडां रूपयति) ४.५>३१ प्रथम गौतम एह्येहि । अभिषेकोत्तीर्णाय काश्यपाय वनस्पतिसेवां निवेदयावः । ४.५>३२ द्वितीयः तथा । ४.५>३३ (इति निष्क्रान्तौ) ४.५>३४ सख्यौ अये अनुपयुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेनाङ्गेषु त आभरणविनियोगं कुर्वः । ४.५>३५ शकु जाने वां नैपुनम् । ४.५>३६ (उभे नाट्येनालंक्रुतः) ४.५>३७ (ततः प्रविशति स्नानोत्तीर्णः काश्यपः)।प्.१३८ _________________________ ४.६<१ काश्यह * यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया * कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । * वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः * पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः ॥ ४.६ ॥ ४.६>१ (इति परिक्रामनि) ४.६>२ सख्यौ हला शकुन्तले अवसितमण्डनासि । परिधत्स्व सांप्रतं क्षौमयुगलम् । ४.६>३ (शकुन्तलोत्थाय परिधत्ते) ४.६>४ गौतमी जाते एष ते आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व । _________________________ ४.७<१ शकु (सव्रीडम्) तात वन्दे । * काश्यप वत्से । ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव । * सुतं त्वमपि संराजं सेव पूरुमवाप्नुहि ॥ ४.७ ॥ ४.७>५ गौतमी भगवान् वरः खल्वेषः । नाशीः । ४.७>६ काश्यप वत्से इतः सद्यो हुतानग्नीन् प्रदक्षिणीकुरुष्व । ४.७>७ (सर्वे परिक्रामन्ति) _________________________ ४.८<१ काश्यप (ऋक्छन्दसाशास्ते)प्.१४० * अमी वेदिं परितः कॢप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः । * अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां बह्नयः पावयन्तु ॥ ४.८ ॥ ४.८>१ प्रतिष्ठस्वेदानीम् । (सदृष्टिक्षेपम्) क्व ते शार्ङ्गरवमिश्राः । (प्रविश्य) ४.८>२ शिष्य भगवन्निमे स्मः । ४.८>३ काश्यप भगिन्यास्ते मार्गमादेशय । ४.८>४ शार्ङ्गरव इत इतो भवती । (सर्वे परिक्रामन्ति) _________________________ ४.९<१ काश्यप भो भोः संनिहितास्तपोवनतरवः । * पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या * नादत्ते प्रियमण्डना अपि भवतां स्नेहेन या पल्लवम् । * आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः * सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ ४.९ ॥ ४.९>५ (कोकिलरवं सूचयित्वा)प्.१४२ _________________________ * अनुमतगमना शकुन्तला तरुभिरयं वनवासबन्धुभिः । * परिभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम् ॥ ४.१० ॥ ४.१०>१ (आकाशे) _________________________ * रम्यान्तरः कमलिनीहरितैः सरोभिश् * छायाद्रुमैर्नियमितार्कमयूखतापः । * भूयात्कुशेशयरजोमृदुरेणुरस्याः * शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥ ४.११ ॥ ४.११>२ (सर्वे सविस्मयमाकर्णयन्ति) ४.११>३ गौतमी जाते ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनदेवताभिः । प्रणम भगवतीः । ४.११>४ शकु (सप्रणामं परिक्रम्य । जनान्तिकम्) हला प्रियंवदे आर्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तते । _________________________ ४.१२<१ प्रि न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थितवियोगस्य तपोवनस्य अपि तावत्समवस्था दृश्यते ।प्.१४४ * उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः । * अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ॥ ४.१२ ॥ ४.१२>१ शकु (स्मृत्वा) तात लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये । ४.१२>२ काश्यप अवैमि ते तस्यां सोदर्यास्नेहम् । इयं तावद्दकिषिणेन । ४.१२>३ शकु (उपेत्य लतामालिङ्ग्य) वनज्योत्स्ने चूतसंगता अपि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहाभिः । ४.१२>४ अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि । _________________________ ४.१३<१ काश्यप * संकल्पितं प्रथममेव मया तवार्थे * भर्तारमात्मसदृशं सुकृतैर्गता त्वम् । * चूतेन संश्रितवती नवमालिकेयम् * अस्यामहं त्वयि च संप्रति वीतचिन्तः ॥ ४.१३ ॥ ४.१३>५ इतः पन्थानं प्रतिपद्यस्व । ४.१३>६ शकु (सख्यौ प्रति) हला एषा द्वयोर्युवयोर्हस्ते निक्षेपः । ४.१३>७ सख्यौ अयं जनः कस्य हस्ते समर्पितः । (इति बाष्पं विहरतः) ४.१३>८ काश्यप अनसूये अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या शकुन्तला ।प्.१४६ ४.१३>९ शकु तात एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदानघप्रसवा भवति तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ । ४.१३>१० काश्यप नेदं विस्मरिष्यामः । ४.१३>११ शकु (गतिभङ्गं रूपयित्वा) को नु खल्वेष निवसने मे सज्जते । (इति परावर्तते ) _________________________ ४.१४<१ काश्यप * यस्य त्वया व्रणविरोपणमिङ्गुदीनाम् * तैलं न्यषिच्यत मुखे कुशसूचिविद्धे । * श्यामाकमुष्टिपरिवर्धितको जहाति * सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥ ४.१४ ॥ ४.१४>१ शकु वत्स किं सहवासपरित्यागिनीं मामनुसरसि । अचिरप्रसूतया जनन्या विना वर्धित एव । इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति । निवर्तस्व तावत् । (इति रुदती प्रस्थिता) _________________________ ४.१५<१ काश्यप * उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिम् * बाष्पं कुरु स्थिरतया विरतानुबन्धम् । * अस्मिन्नलक्षितनतोन्नतभूमिभागे * मार्गे पदानि खलु ते विषमीभवन्ति ॥ ४.१५ ॥प्.१४८ ४.१५>२ शार्ङ्गरवः भवगान् । ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । ४.१५>३ तदिदं सरस्तीरम् । अत्र संदिश्य प्रतिगन्तुमर्हति । ४.१५>४ काश्यप तेन हीमां क्षीरवृक्षछायामाश्रयामः । ४.१५>५ (सर्वे परिक्रम्य स्थिताः ) ४.१५>६ काश्यप (आत्मगतम्) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः संदेष्टव्यम् । (इति चिन्तयति) ४.१५>७ शकु (जनान्तिकम्) हला पश्य । नलिनीपत्रान्तरितमपि सहचरमपश्यन्त्यातुरा चक्रवाक्य्यटति दुष्करमहं करोमीति । ________________________ ४.१६<१ अन सखि मैवं मन्त्रयस्व । * एषा अपि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् । * गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥ ४.१६ ॥ ४.१६>१ काश्यप शार्ङ्गरव इति त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः ।प्.१५० ४.१६>२ शार्ङ्गरव आज्ञापयतु भगवान् । _________________________ ४.१७<१ काश्यप * अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनस् * त्वय्यस्याः कथमप्य्बान्धवकृतां स्नेहप्रवृत्तिं च ताम् । * सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया * भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ ४.१७ ॥ ४.१७>३ शार्ङ्गरव गृहीतः संदेशः । ४.१७>४ काश्यप वत्से त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा वयम् । ४.१७>५ शार्ङ्गरा न खलु धिमतां कश्चिदविषयो नाम । _________________________ ४.१८<१ काश्यप सा त्वमितः पतिकुलं प्राप्य * शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने * भर्तृविप्रकृता अपि रोषणतया मा स्म प्रतीपं गमः । * भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी * यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ ४.१८ ॥ ४.१८>१ कथं वा गौतमी मन्यते । ४.१८>२ गौ एतावान् वध्हूजनस्योपदेशः । जाते एतत्खलु सर्वमवधारय । प्.१५२ ४.१८>३ काश्यप वत्से परिष्वजस्व मां सखीजनं च । ४.१८>४ शकु तात इत एव किं प्रियंवदानसूये सख्यौ निवर्तिष्येते । ४.१८>५ काश्यप वत्से इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया सह गौतमी यास्यति । ४.१८>६ शकु (पितरमाश्लिष्य) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि । _________________________ ४.१९<१ काश्यप वत्से किमेवं कातरासि । * अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे * विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला । * तनयमचिरात्प्राचीवार्कं प्रसूय च पावनम् * मम विरहजां न त्वं वत्से शुचं गणयिष्यामि ॥ ४.१९ ॥ ४.१९>७ (शकुन्तला पित्ः पादयोः पतति) ४.१९>८ काश्यप यदिच्छामि ते तदस्तु । ४.१९>९ शकु (सख्यावुपेत्य) हला द्वे अपि मां सममेव परिष्वजेथाम् । ४.१९>१० सख्यौ (तथा कृत्वा) सखि यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तस्मायिदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय ।प्.१५४ ४.१९>११ शकु अनेन संदेहेन वामाकम्पितास्मि । ४.१९>१२ सख्यौ मा भैषीः । अतिस्नेहः पापशङ्की । ४.१९>१३ शार्ङ्गरव युगान्तरमारूढः सविता । त्व्वरतामत्रभवती । ४.१९>१४ शकु (आश्रमाभिमुखी स्थितवा) तात कदा नु भूयस्तपोवनं प्रेक्षिष्ये । _________________________ ४.।२०<१ काश्यप श्रूयताम् । * भूत्वा चिराय चतुरन्तमहीसपत्नी * दौष्यन्तिमप्रतिरथं तनयं निवेश्य । * भर्त्रा तदर्पितकुटुम्बभरेण सार्धम् * शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥ ४.।२० ॥ ४.२०>१ गौतमी जाते परिहीयते गमनवेला । निवर्तय पितरम् । अथवा चिरेण अपि पुनः पुनरेषैवं मन्त्रयिष्यते । निवर्ततां भवान् । ४.२०>२ काश्यप वत्से उपरुध्यते तपोऽनुष्ठानम् । ४.२०>३ शकु (भूयः पितरमाश्लिष्य+तपश्चरणपीडितं तातशरीरम् । तन्मातिमात्रं मम कृत उत्कण्ठस्व । _________________________ ४.२१<१ काश्यप (सनिःश्वासम्) * शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् । * उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥ ४.२१ ॥ ४.२१>४ गच्छ । शिवास्ते पन्थानः सन्तु । ४.२१>५ (निष्क्रान्ता शकुन्तला सहयायिनश्च) ४.२१>६ सख्यौ (शकुन्तलां विलोक्य) हा धिग्घा धिक् । अन्तर्हिता शकुन्तला वनराज्या ।प्.१५६ ४.२१>७ काश्यप (सनिःश्वासम्) अनसूये गतवती वां सहचारिणी । निगृह्य शोकमनुगच्छतं मां प्रस्थितम् । ४.२१>८ उभे तात शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः । _________________________ ४.२२<१ काश्यप स्नेहवृत्तिरेवं दर्शिनी । (सविमर्शं परिक्रम्य) हन्त भोः शकुन्तलां पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः । * अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः । * जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥ ४.२२ ॥ ४.२२>१ (इति निष्क्रान्ताः सर्वे) इति चतुर्थोऽङ्कः । प्.१५८ ************************************************************************** पञ्चमोऽङ्कः । ५.१<१ (ततः प्रविशत्यासनस्हो राजा विदूषकश्च) ५.१<२ विदु (कर्णं दत्त्वा) भो वयस्य संगीतशालान्तरेऽवधानं देहि । ५.१<३ कलविशुद्धाया गीतेः स्वरसंयोगः श्रूयते । जाने तत्रभवती हंसपदिका वर्णपरिचयं करोतीति । _________________________ ५.१<१ राजा तूष्णीं भव । यावदाकर्णयामि । (आकाशे गीयते) * अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम् । * कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतोऽस्येनां कथम् ॥ ५.१ ॥ ५.१>२ राजा अहो रागपरिवाहिणी गीतिः । ५.१>३ विदु किं तावद्गीत्या अवगतोऽक्षरार्थः । ५.१>४ रा (स्मितं कृत्वा) सकृत्कृतप्रणयोऽयं जनः । तदस्या देवीं वसुमतीमन्तरेण महदुपालम्भनं गतोऽस्मि । सखे माधव्य मद्वचनादुच्यतां हंसपदिका । निपुणमुपालब्धाः स्म इति । ५.१>५ विदु यद्भवानाज्ञापयति । (उत्थाय+भो वयस्य गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः । ५.१>६ रा गच्छ । नागरिकवृत्त्या संज्ञापयैनाम् । ५.१>७ विदु का गतिः । (इति निष्क्रान्ताः) _________________________ ५.२<१ रा (आत्मगतम्) किं नु खलु गीतमेवं विधार्थमाकर्ण्येष्टजनविरहादृतेऽपि बलवदुत्कण्ठितोऽस्मि । अथवा । * रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुको भवति यत्सुखितोऽपि जन्तुः । * तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥ ५.२ ॥ ५.२>१ (इति पर्याकुलस्तिष्ठति)प्.१६० ५.२>२ (ततः प्रविशति कञ्चुकी) _________________________ ५.३<१ कञ्चुकी अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि । * आचार इत्यवहितेन मया गृहीता * या वेत्रयष्टिरवरोधगृहेषु राज्ञः । * काले गते बहुतिथे मम सैव जाता * प्रस्थानविक्लवगतेरवलम्बनार्था ॥ ५.३ ॥ ५.३>३ भो कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव धर्मासनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदयितुम् । अथवाविश्रमोऽयं लोकतन्त्राधिकारः । कुतः । _________________________ * भानुः सकृद्युक्ततुरङ्ग एव रात्रिं दिवं गन्धवहः प्रयाति । * शेषः सदा एवाहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः ॥ ५.४ ॥ ५.४>१ यावन्नियोगमनुतिष्ठामि । (परिक्रम्यावलोक्य च) एष देवः _________________________ * प्रजाः प्रजाः स्वा इव तन्त्रयित्वा * निषेवते श्रान्तमना विविक्तम् । * यूथानि संचार्य रविप्रतप्तः * शीतं दिवा स्थानमिव द्विपेन्द्रः ॥ ५.५ ॥ ५.५>२ (उपगम्य) जयतु जयतु देवः । एते खलु हिमगिरेरुपत्यकारण्यवासिनः काश्यपसंदेशमादाय सस्त्रीकास्तपस्विनः संप्राप्ताः । श्रुत्वा देवः प्रमाणम् ।प्.१६२ ५.५>३ रा (सादरम्) किं काश्यपसंदेशहारिणः । ५.५>४ कञ्चुकी अथ किम् । ५.५>५ रा तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्याह सोमरातः । अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुमर्हसीति । अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि । ५.५>६ कञ्चुकी यदाज्ञापयति देवः (इति निष्क्रान्तः) ५.५>७ रा (उत्थाय) वेत्रवति अग्निशरणमार्गमादेशय । ५.५>८ प्रतिहारी इत इतो देवः । _________________________ ५.६<१ रा (परिक्रामति । अधिकारखेदं निरूप्य) सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः । राज्ञां तु चरितार्थता दुःखोत्तरैव । * औत्सुक्यमात्रमवसाययति प्रतिष्ठा * क्लिश्नाति लब्धपरिपालनवृत्तिरेव । * नातिश्रमापनयनाय यथा श्रमाय * राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ ५.६ ॥ (नेपथ्ये) _________________________ ५.७<१ वैतालिकौ विजयतां देवः । * प्रथमः स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः * प्रतिदिनमथवा ते वृत्तिरेवं विधैव । * अनुभवति हि मूर्ध्ना पदप तीव्रमुष्णम् * शमयति परितापं छायया संश्रितानाम् ॥ ५.७ ॥ _________________________ ५.८<१ द्वितीयः * नियमयसि विमार्गप्रस्थितानात्तदण्डः * प्रशमयसि विवादं कल्पसे रक्षणाय । * अतनुषु विभवेषु ज्ञातयः सन्तु नाम * त्वयि तु परिसमाप्तं बन्धुकृत्य प्रजानाम् ॥ ५.८ ॥प्.१६६ ५.८>१ राजा एते क्लान्तमनसः पुनर्नवीकृताः स्मः । (इति परिक्रामति) ५.८>२ प्रतिहारी एष अभिनवसंमार्जनसश्रीकः संनिहितहोमधेनुरग्निशरणालिन्दः । आरोहतु देवः । _________________________ ५.९<१ रा (आरुह्य परिजनांसावलम्बी तिष्ठति) वेत्रवति किमुद्दिश्य भगवता काश्यपेन मत्सकाशमृषयः प्रेषिताः स्युः । * किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितम् * धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् । * आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधाम् * इत्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥ ५.९ ॥ ५.९>३ प्रतिहारी सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति तर्कयामि । ५.९>४ (ततः प्रविशन्ति गौतमी सहिताः शकुन्तलां पुरस्कृत्य मुनयः । पुरश्चैषां कञ्चुकी पुरोहितश्च) ५.९>५ कञ्चुकी इत इतो भवन्तः । _________________________ ५.१०<१ शार्ङ्गरव शारद्वत ।प्.१६८ * महाभागः कामं नरपतिरभिन्नस्थितिरसौ * न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते । * तथापीदं शश्वत्परिचितविविक्तेन मनसा । * जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥ ५.१० ॥ _________________________ ५.११<१ शारद्वत स्थाने भवान् पुरप्रवेशादित्थं भूतः संवृत्तः । अहमपि * अभ्यक्तमपि स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् । * बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥ ५.११ ॥ ५.११>१ शकु (निमित्तं सूचयित्वा) अहो किं मे वामेतरन्नयनं विस्फुरति । ५.११>२ गौतमी जाते प्रतिहतममङ्गलम् ।सुखानि ते भर्तृकुलदेवता वितरन्तु (इति परिक्रामति) ५.११>३ पुरोहित (राजानं निर्दिश्य+भो भोस्तपस्विनः असावत्रभवान् वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति । पश्यत एनम् । _________________________ ५.१२<१ शार्ङ्गरव भो महाब्राह्मण काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः । कुतः (प्.१७०) * भवन्ति नंरास्तरवः फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः । * अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥ ५.१२ ॥ ५.१२>१ प्रतीहारी देव प्रसन्नमुखवर्णा दृश्यन्ते । जानामि विश्रब्धकार्या ऋषयः । _________________________ ५.१३<१ राजा (शकुन्तलां दृष्ट्वा) अथात्र भवती * का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या । * मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥ ५.१३ ॥ ५.१३>२ प्रतीहारी देव कुतूहलगर्भः प्रहितो न मे तर्कः प्रसरति । ननु दर्शनीया पुनरस्या आकृतिर्लक्ष्यते । ५.१३>३ राजा भवतु । अनिर्वर्णनीयं परकलत्रम् । ५.१३>४ शकु (हस्तमुरसि कृत्वा । आत्मगतम्) हृदय किमेवं वेपसे । आर्यपुत्रस्य भावमवधार्य धीरं तावद्भव ।प्.१७२ ५.१३>५ पुरोहित (पुरो गत्वा) एते विधिवदर्चितास्तपस्विनः । कश्चिदेषामुपाध्यायसंदेशः । तं देवः श्रोतुमर्हति । ५.१३>६ राजा अवहितोऽस्मि । ५.१३>७ ऋषयः (हस्तानुद्यम्य) विजयस्व राजन् । ५.१३>८ रा सर्वानभिवादये । ५.१३>९ ऋषयः इष्टेन युज्यस्व । ५.१३>१० रा अपि निर्विघ्नतपसो मुनयः । _________________________ ५.१४<१ ऋषयः * कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि । * तमस्तपति धर्मांशौ कथमाविर्भविष्यति ॥ ५.१४ ॥ ५.१४>१ रा अर्थवान् खलु मे राजशब्दः । अथ भगवांल्लोकानुग्रहाय कुशली काश्यपः । ५.१४>२ शार्ङ्गरवः स्वाधीनकुशलाः सिद्धिमन्तः । स भवन्तमनामयप्रश्नपूर्वकमिदमाह । ५.१४>३ रा किमाज्ञापयति भगवान् । _________________________ ५.१५<१ शा यन्मिथःसमयादिमां मदीयां दुहितरं भवानुपायंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम् । कुतः * त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः * शकुन्तला मूर्तिमती च सत्क्रिया । * समानयंस्तुल्यगुणं वधूवरम् * चिरस्य वाच्यं न गतः प्रजापतिः ॥ ५.१५ ॥ ५.१५>४ तदिदानीमापन्नसत्त्वेयं प्रतिगृह्यतां सहधर्मचरणायेति । _________________________ ५.१६<१ गौतमी आर्य किमपि वक्तुकामास्मि । न मे वचनावसरोऽस्ति । कथमिति ।प्.१७४ * नापेक्षितो गुरुजनोऽनया त्वया पृष्टो न बन्धुजनः । * एकैकस्मिन्नेव चरिते भणामि किमेकैकम् ॥ ५.१६ ॥ ५.१६>१ शकु (आत्मगतम्) किं नु खल्वार्यपुत्रो भणति । ५.१६>२ रा किमिदमुपन्यस्तम् । ५.१६>३ शकु (आत्मगतम्) पावकः खलु वचनोपन्यासः । _________________________ ५.१७<१ शा कथमिदं नाम । भवन्त एव सुतरां लोकवृत्तान्तनिष्णाताः । * सतीमपि ज्ञातिकुलैकसंश्रयाम् * जनोऽन्यथा भर्तृमतीं विशङ्कते । * अतः समीपे परिणेतुरिष्यते । * प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥ ५.१७ ॥ ५.१७>४ रा किमत्रभवती मया परिणीतपूर्वा । ५.१७>५ शकु (सविषादम्) हृदय सांप्रतं ते आशङ्का । _________________________ ५.१८<१ शा किं कृतकार्यद्वेषो धर्मं प्रति विमुखता कृतावज्ञा । ५.१८<२ रा कुतोऽयमसत्कल्पनाप्रश्नः । _________________________ ५.१८<१ शा * मूर्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥ ५.१८ ॥ ५.१८>१ रा विशेषेणाधिक्षिप्तोऽस्मि ।प्.१७६ ५.१८>२ गौतमी जाते मुह्हूर्तं मा लज्जस्व । अपनेष्यामि तावत्तेऽवगुण्ठनम् । ततस्त्वां भर्ताभिज्ञास्यति । _________________________ ५.१९<१ रा (शकुन्तलां निर्वर्ण्य । आत्मगतम्) * इदमुपनतमेवं रूपमक्लिष्टकान्ति * प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् । * भ्रमर इव विभाते कुन्दमन्तस्तुषारम् * न च खलु परोभोक्तुं नापि शक्नोमि हातुम् ॥ ५.१९ ॥ ५.१९>३ (इति विचारयन् स्थितः) ५.१९>४ प्रतीहारी (स्वगतम्) अहो धर्मापेक्षिता भर्तुः । ईदृशं नाम सुखोपनतं रूपं दृष्टा कोऽन्यो विचारयति । ५.१९>५ शा भो राजन् किमिति जोषमास्यते । ५.१९>६ रा भोस्तपोधनाः चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि । तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणमशङ्कमानः प्रतिपत्स्ये । ५.१९>७ शकुन्तला (अपवार्य) आर्यस्य परिणय एव संदेहः । कुत इदानीं मे दूराधिरोहिण्याशा ।प्.१७८ _________________________ ५.।२०<१ शार् मा तावत् । * कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः । * मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन ॥ ५.।२० ॥ ५.२०>१ शारद्वत शार्ङ्गरव विमर त्वमिदानीम् । शकुन्तले वक्तव्यमुक्तमस्माभिः । सोऽयमत्रभवानेवमाह । दीयतामस्मै प्रत्ययप्रतिवचनम् । ५.२०>२ शकु (अपवार्य) इदमवस्थ्हान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन । आत्मेदानीं मे शोचनीय इति व्यवसितमेतत् । (प्रकाशम्) ५.२०>३ पौरव युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं जनं समयपूर्वं प्रतार्य सांप्रतमीदृशैरक्षरैः प्रत्याख्यातुम् ।प्.१८० _________________________ ५.२१<१ राजा (कर्णौ विधाय) शान्तं पापम् । * व्यपदेशमाविलयितुं किमीहसे जनमिमम पातयितुम् । * कूलं कषा इव सिन्धुः प्रसन्नमम्भस्तटतरुं च ॥ ५.२१ ॥ ५.२१>४ शकु भवतु । यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं प्रवृत्तं तद्+अभिज्ञानेनानेन तवाशङ्कामपनेष्यामि । ५.२१>५ राजा उदारः कल्पः । ५.२१>६ शकु (मुद्रास्थानं परामृश्य) हा धिग्घा धिक् । अङ्गुलीयकशून्या मेऽङ्गुलिः । (इति सविषादं गौतमीमवेक्षते) ५.२१>७ गौतमी नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम् ।प्.१८२ ५.२१>८ राजा (सस्मितम्) इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते । ५.२१>९ शकु अत्र तावद्विधिना दर्शितं प्रभुत्वम् । ५.२१>१० राजा श्रोतव्यमिदानीं संवृत्तम् । ५.२१>११ शकु नन्वेकस्मिन् दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते संनिहितमासीत् । ५.२१>१२ राजा शृणुमस्तावत् । ५.२१>१३ शकु तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः । ५.२१>१४ त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन । न पुनस्तेऽपरिचयाधस्ताभ्यासमुपगतः । पश्चात्तस्मिन्नेव मया गृहीते सलिलेऽनेन कृतः प्रणयः । तदा त्वमित्थं प्रहसितोऽसि । सर्वः सगन्धेषु विश्वसिति । द्वावप्यत्रारण्यकाविति ।प्.१८४ ५.२१>१५ राजा एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतमयवान्मधुभिराकृष्यते विषयिणः । ५.२१>१६ गौतमी महाभाग नार्हस्येवं मन्त्रयितुम् । तपोवनसंवर्धितोऽनभिज्ञोऽयं जनः कैतवस्य । _________________________ ५.२२<१ राजा तापसवृद्धे । * स्त्रीणामशिक्षितपटुत्वममानुषीषु * संदृश्यते किमुत याः प्रतिबोधवत्यः । * प्रागन्तरिक्षगमनास्त्वमपत्यजातम् * अन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥ ५.२२ ॥ ५.२२>१ शकु (सरोषम्+अनार्य आत्मनो हृदयानुमानेन प्रेक्षसे । क इदानीमन्यो धर्मकञ्चुकप्रवेशिनस्तृणछन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते । _________________________ ५.२३<१ राजा (आत्मगतम्) संदिग्धबुद्धिमां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते । तथा ह्यनया * मय्येव विस्मरणदारुणचित्तवृत्तौ * वृत्तं रहः प्रणयमप्रतिपद्यमाने । * भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या * भग्नं शरासनमिवातिरुषा स्मरस्य ॥ ५.२३ ॥ ५.२३>२ (प्रकाशम्) भद्रे प्रथितं दुष्यन्तस्य चरितम् । तथापीदं न दृश्यते ।प्.१८६ ५.२३>३ शकु सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदयविषस्य हस्ताभ्यासमुपगता । _________________________ ५.२४<१ शार्ङ्गरव इत्थमात्मकृतं चापलं दहति । * अतः परीक्ष्य कर्तव्यं विशेषात्संगतं रहः । * अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥ ५.२४ ॥ ५.२४>१ राजा अयि भोः किमत्रभवतीप्रत्ययादेवास्मान् संयुतदोषाक्षरैः क्षिणुथ । _________________________ ५.२५<१ शार्ङ्ग्(सासूयम्) श्रुतं भवद्भिरधरोत्तरम् । * आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य । * परातिसंधानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ॥ ५.२५ ॥प्.१८८ ५.२५>२ राजा भोः सत्यवादिन्नभ्युपगतं तावदस्माभिरेवम् । किं पुनरिमामतिसंधाय लभ्यते । ५.२५>३ शार्ङ्ग् विनिपातः । ५.२५>४ राजा विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयमेतत् । _________________________ ५.२६<१ शारद् शार्ङ्गरव किमुत्तरेण । अनुष्ठितो गुरोः संदेशः । प्रतिनिवर्तामहे वयम् । (राजानं प्रति) * तदेषा भवतः कान्ता त्यज वैनां गृहाण वा । * उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥ ५.२६ ॥ ५.२६>१ गौतमि गच्छाग्रतः । (इति प्रस्थिताः) ५.२६>२ शकु कथमनेन कितवेन विप्रलब्धास्मि । यूयमपि मां परित्यजथ । (इत्यनुप्रतिष्ठते) ५.२६>३ गौतमी (स्थित्वा) वत्स शार्ङ्गरव अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुन्तला । प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु ।प्.१९० ५.२६>४ शार्ङ्ग् (सरोषं निवृत्य) किं पुरोभागे स्वातन्त्र्यमवलम्बसे । (शकुन्तला भीता वेपते) _________________________ ५.२७<१ शार्ङ्ग् शकुतले । * यदि यथा वदति क्षितिपस्तथा * त्वमसि किं पितुरुत्कुलया त्वया । * अथ तु वेत्सि शुचि व्रतमात्मनः * पतिकुले तव दास्यमपि क्षमम् ॥ ५.२७ ॥ ५.२७>५ तिष्ठ । साधयामो वयम् । _________________________ ५.२८<१ राजा भोस्तपस्विन् किमत्रभवतीं विप्रलभसे । * कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव । * वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥ ५.२८ ॥ ५.२८>१ शार्ङ्ग् यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा कथमधर्मभीरुः । _________________________ ५.२९<१ राजा भवन्तमेवात्र गुरुलाघवं पृच्छामि । * मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये । * दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः ॥ ५.२९ ॥ ५.२९>२ पुरोहित (विचार्य) यदि तावदेवं क्रियताम् । ५.२९>३ राजा अनुशास्तु मां भवान् । ५.२९>४ पुरोहित अत्रभवती तवदाप्रसवादस्मद्गृहे तिष्ठतु । कुत इदमुच्यत इति चेत् । त्वं साधुभिरादिष्टपूर्वः प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति अभिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यति । विपर्यये तु पितुरस्याः समीपनयनमवस्थितमेव । ५.२९>५ राजा यथा गुरुभ्यो रोचते । ५.२९>६ पुरोहित वत्से अनुगच्छ माम् । ५.२९>७ शकु भगाति वसुधे देहि मे विवरम् । (इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश्च) ५.२९>८ (राजा शापव्यवहितस्मृतिः शकुन्तलागतमेव चिन्तयति) ५.२९>९ (नेपथ्ये) आश्चर्यमाश्चर्यम् । ५.२९>१० राजा (आकर्ण्य) किं नु खलु स्यात् । ५.२९>११ (प्रविश्य) पुरोहित (सविस्मयम्) देव अद्भुतं खलु संवृत्तम् । ५.२९>१२ राजा किमिव । ५.२९>१३ पुरोहित देव परावृत्तेषु कण्वशिष्येषु ५.२९>१४ सा निन्दनी स्वानि भाग्यानि बाला बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता । ५.२९>१५ राजा किं च । _________________________ ५.३०<१ पुरोहित * स्त्रीसंस्थानं चाप्सरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं जगाम ॥ ५.३० ॥ ५.३०>१ (सर्वे विस्मयं रूपयन्ति) ५.३०>२ राजा भगवन् प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं वृथा तर्केणान्विष्यते । विश्राम्यतु भवान् । ५.३०>३ पुरोहित (विलोक्य) विजयस्व (इति निष्क्रान्तः)प्.१९४ ५.३०>४ राजा वेत्रवति पर्याकुलोऽस्मि । शयनभूमिमार्गमादेशय । ५.३०>५ प्रतीहारी इत इतो देवः (इति प्रस्थितः) _________________________ ५.३१<१ राजा * कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् । * बलवत्तु दूयमानं प्रत्याययतीव मां हृदयम् ॥ ५.३१ ॥ ५.३१>६ (इति निष्क्रान्ताः सर्वे) पञ्चमोऽङ्कः । ************************************************************************** षष्ठोऽङ्कः । ६.१<१ (ततः प्रविशति नागरिकः श्यालः पश्चाद्बद्धं पुरुषमादाय रक्षिणौ च) ६.१<२ रक्षिणौ (पुरुषं ताडैत्वा) अरे कुम्भीरक कथय कुत्र त्वयैतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् । ६.१<३ पुरुषः (भीतिनाटितकेन) प्रसीदन्तु भावमिश्राः । नाहमीदृशकर्मकारी । ६.१<४ प्रथमः किं शोभनो ब्राह्मण इति कृत्वा (कलयित्वा) राज्ञा प्रतिग्रहो दत्तः । ६.१<५ पुरुषः शृणुतेदानीम् । अहं शक्रावताराभ्यन्तरवासी धीवरः । ६.१<६ पाटच्चर किमस्माभिर्जातिः पृष्टा ।प्.२६९ ६.१<७ श्यालः सूचक कथयतु सर्वमनुक्रमेण । मैनमन्तरा प्रतिबध्नीतम् । ६.१<८ उभौ यदावुत्त आज्ञापयति । कथय । ६.१<९ पुरुषः अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि । ६.१<१० श्यालः (विरहस्य) विशुद्ध इदानीमाजीवः । _________________________ ६.१<१ पुरुषः भर्तः मैवं भण । * सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् । * पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥ ६.१ ॥ ६.१>१ श्यालः ततस्ततः । ६.१>२ पुरुषः एकस्मिन् दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः । ६.१>३ यावत्तस्योदराभ्यन्तरे प्रेक्षे तावदिदं रत्नभासुरमङ्गुलीयकं दृष्टम् । ६.१>४ पश्चादहमस्य विक्रयाय दर्शयन् गृहीतो भावमिश्रैः । ६.१>५ मारयत वा मुञ्चत वा । अयमस्यागमवृत्तान्तः । ६.१>६ श्यालः जानुक विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् । ६.१>७ अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः ।प्.१९८ ६.१>८ रक्षिणौ तथा । गच्छ अरे ग्रन्थिभेदक । (सर्वे परिक्रामन्ति) ६.१>९ श्यालः सूचक इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदमङ्गुलीयकं यथागमनं भर्त्रे निवेद्य ततः शासनं प्रतीष्य निष्क्रामामि । ६.१>१० उभौ प्रविशत्वावुत्तः स्वामिप्रसादाय । (इति निष्क्रान्तः श्यालः) ६.१>११ प्रथमः जानुक चिरायते खल्वावुत्तः । ६.१>१२ द्वितीयः नन्ववसरोपसर्पणीया राजानः । ६.१>१३ प्रथमः जानुक स्फुरतो मम हस्तावस्य वधस्य सुमनसः पिनद्धुम् । (इति पुरुषं निर्दिशति) ६.१>१४ पुरुषः नार्हति भावोऽकारणमारणो भवितुम् । ६.१>१५ द्वितीयः (विलोक्य) एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीष्येतो+मुखो दृश्यते । गृध्रबलिर्भविष्यसि शुनो मुखं वा द्रक्ष्यसि । (प्रविश्य) ६.१>१६ श्यालः सूचक मुच्यतामेष जालोपजीवी । उपपन्न खल्वस्याङ्गुलीयकस्यागमः ।प्.२०० ६.१>१७ सूचकः यथावुत्तो भणति । एष यमसदनं प्रविश्य प्रतिनिवृत्तः । (इति पुरुषं परिमुक्तबन्धनं करोति) ६.१>१८ पुरुषः (श्यालं प्रणम्य) भर्तः अथ कीदृशो म आजीवः । ६.१>१९ एष भर्त्राङ्गुलीयकमूल्यसंमितः प्रसादोऽपि दापितः । (इति पुरुषाय स्वं प्रयच्छति) ६.१>२० पुरुषः (सप्रणामं प्रतिगृह्य) भर्तः अनुगृहीतोऽस्मि । ६.१>२१ सूचकः एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः । ६.१>२२ जानुक आवुत्त्पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः संमतेन भवितव्यमिति । ६.१>२३ श्यालः न तस्मिन्महाअर्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । ६.१>२४ तस्य दर्शनेन भर्त्राभिमतो जनः स्मृतः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्यश्रुनयन आसीत् । ६.१>२५ सूचकः सेवितं नामावुत्तेन । ६.१>२६ जानुक ननु भण । अस्य कृते मात्स्यिकभर्तुरिति । (इति पुरुषमसूयया पश्यति) ६.१>२७ पुरुषः भट्टारक इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु । ६.१>२८ जानुक एतावद्युज्यते ।प्.२०२ ६.१>२९ श्यालः धीवर महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरीसाक्षिकमस्माकं प्रथमसौहृदमिष्यते । तत्शौण्डिकापणमेव गच्छामः । ६.१>३० प्रवेशकः । (ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः) ६.१>३१ सानुमती निर्वर्तितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं यावत्साहुजनस्याभिषेककाल इति सांप्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि । ६.१>३२ मेनकासंबन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्तमादिष्टपूर्वास्मि । ६.१>३३ (समन्तादवलोक्य) किं नु खलु ऋतूत्सवेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते । ६.१>३४ अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् । ६.१>३५ किं तु सख्या आदरो मया मानैयितव्यः । ६.१>३६ भवतु । अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये । (इति नाट्येनावतीर्य स्थिता) (ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी । अपराच पृष्ठतस्तस्याः) _________________________ ६.२<१ प्रथमा * आतांरहरितपाण्डुर जीवितसर्वं वसन्तमासस्य (योः) । * दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥ ६.२ ॥प्.२०६ ६.२>३७ द्वितीया परभृतिके किमेकाकिनी मन्त्रयसे । ६.२>३८ प्रथमा मधुकरिके चूतकलिकां दृष्ट्वोन्मत्ता परभृतिका भवति । ६.२>३९ द्वितीया (सहर्षं त्वरयोपगम्य) कथमुपस्थितो मधुमासः । ६.२>४० प्रथमा मधुकरिके तवेदानीं काल एष मदविभ्रमगीतानाम् । ६.२>४१ द्वितीया सखि अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि । ६.२>४२ प्रथमा यदि मम अपि खल्वर्धमर्चनफलस्य । _________________________ ६.३<१ द्वितीया अकथितेऽप्येतत्संपद्यते यत एकमेव नौ जीवीतं द्विधास्थितं शरीरम् । (सखीमवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति) ६.३<२ अये अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति (इति कपोतहस्तकं कृत्वा) * त्वमसि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे । * पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव ॥ ६.३ ॥ ६.३>१ (इति चूताङ्कुरं क्षिपति) (प्रविश्य पटीक्षेपेण कुपितः) । प्.२०६ ६.३>२ कञ्चुकी मा तावदनात्मज्ञे । देवेन प्रतिषिद्धे वसन्तोत्सवे त्वमांरकलिकाभङ्गं किमारभसे । ६.३>३ उभे (भीते) प्रसीदत्वार्यः । अगृहीतार्थे आवाम् । _________________________ ६.४<१ कञ्चुकी न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च । तथा हि * चूतानां चिरनिर्गता अपि कलिका बध्नाति न स्वं रजः * संनद्धं यदपि स्थितं कुरबकं तत्कोरकावस्थया । * कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतम् * शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम् ॥ ६.४ ॥ ६.४>४ सनुमती नास्ति संदेहः । महाप्रभावो राजर्षिः । ६.४>५ प्रथमा आर्य कति दिवसान्यावयोर्मित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः । अत्र च नौ प्रमदवनस्य पालनकर्म समर्पितम् । तदागन्तुकतयाश्रुतपूर्व आवाभ्यामेष वृत्तान्तः । ६.४>६ कञ्चुकी भवतु । न पुनरेवं प्रवर्तितव्यम् । ६.४>७ उभे आर्य कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यं कथयत्वार्यः किं निमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः । प्.२०८ ६.४>८ सानुमती उत्सवप्रियाः खलु मनुष्याः । गुरुणा कारणेन भवितव्यम् । ६.४>९ कञ्चुकी बहुलीभूतमेतत्किं न कथ्यते । किमत्रभवत्यो कर्णपथं नायातं शकुन्तलाप्रत्यादेशकौलीनम् । ६.४>१० उभे श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् । _________________________ ६.५<१ कञ्चुकी तेन ह्यल्पं कथयितव्यम् । ६.५<२ यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती रहसि शकुन्तला मोहात्प्रत्यादिष्टेति तदाप्रभृत्येव पश्चात्तापमुपगतो देवः । तथा हि * रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते * शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः । * दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु * स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥ ६.५ ॥ ६.५>१ सानुमती प्रियं मे । ६.५>२ कञ्चुकी अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः । ६.५>३ उभे युज्यते । (नेपथ्ये) ६.५>४ एतु एतु भवान् । ६.५>५ कञ्चुकी (कर्णं दत्त्वा) अये । इत एवाभिवर्तते देवः । स्वकर्मानुष्ठीयताम् । ६.५>६ उभे तथा ।प्.२१० ६.५>७ (ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतीहारी च । ६.५>८ कञ्चुकी (राजानमवलोक्य) अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । एवमुत्सुकोऽपि प्रियदर्शने देवः । तथा हि _________________________ * प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितम् * बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः । * चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः * संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥ ६.६ ॥ ६.६>९ सानुमती (राजानं दृष्ट्वा) स्थाने खलु प्रत्यादेशविमानिता अप्यस्य कृते शकुन्तला क्लाम्यति । _________________________ ६.७<१ राजा (ध्यानमन्दं परिक्रम्य) * प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् । * अनुशयदुःखाय इदं हतहृदयं संप्रति विबुद्धम् ॥ ६.७ ॥ ६.७>१ सानुमती नन्वीदेशानि तपस्विन्या भागधेयानि । ६.७>२ विदूषक (अपवार्य) लङ्घित एष भूयोऽपि शकुन्तलाव्याधिना । न जाने कथं चिकित्सितव्यो भविष्यतीति ।प्.२१२ ६.७>३ कञ्चुकी (उपगम्य) जयतु जयतु देवः । महाराज प्रत्यवेक्षिताः प्रमदवनभूमयः यथाकाममध्यास्तां विनोदस्थानानि महाराजः । ६.७>४ राजा वेत्रवति मद्वचनादमात्यमार्यपिशुनं ब्रूहि । चिरप्रबोधान्न संभावितमस्माभिरद्य धर्मासनमध्यासितुम् । यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति । ६.७>५ प्रतीहारी यद्देव आज्ञापयति । (इति निष्क्रान्ता) ६.७>६ राजा वातायन त्वमपि स्वं नियोगमशून्यं कुरु । ६.७>७ कञ्चुकी यदाज्ञापयति देवः । (इति निष्क्रान्तः) ६.७>८ विदूषकः कृतं भवता निर्मक्षिकम् । सांप्रतं शिशिरातपछेदरमणीयेऽस्मिन् प्रमदवनोद्देश आत्मानं रमयिष्यसि । _________________________ ६.८<१ राजा वयस्य यदुच्यते रन्ध्रोपनिपातिनोऽनर्था इति तद्व्यभिचारि वचः । कुतः प्.२१४ * मुनिसुताप्रणयस्मृतिरोधिना * मम च मुक्तमिदं तमसा मनः । * मनसिजेन सखे प्रहरिष्यता * धनुषि चूतशरश्च निवेशितः ॥ ६.८ ॥ ६.८>९ विदूषक तिष्ठ तावत् । अनेन दण्डककाष्ठेन कन्दर्पबाणं नाशयिष्यामि । (इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति) ६.८>१० राजा (सस्मितम्) भवतु । दृष्टं ब्रह्मवर्चसम् । सखे क्वोपविष्टः प्रियायाः किंचिद्+अनुकारिणीषु लतासु दृष्टिं विलोभयामि । ६.८>११ विषूषक नन्वासन्नपरिचारिका चतुरिका भवता संदिष्टा । माधवीमण्डप इमां वेलामतिवाहयिष्ये । ६.८>१२ तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानय इति । ६.८>१३ राजा ईदृशं हृदयविनोदनस्थानम् । तत्तमेव मार्गमादेशय । ६.८>१४ विदूषक इत इतो भवान् । (उभौ परिक्रमतः । सानुमत्यनुगच्छति) ६.८>१५ विदूषक एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् । (उभौ प्रवेशं कृत्वोपविष्टौ) ६.८>१६ सानुमती लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतम् । ततस्तस्यै भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि । (इति तथा कृत्वा स्थिता)प्.२१६ ६.८>१७ राजा सखे सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम् । कथितवानस्मि भवते च । ६.८>१८ स भवान् प्रत्यादेशवेलायां मत्समीपगतो नासीत् । ६.८>१९ पूर्वमपि न त्वया कदाचित्संकीर्तितं तत्रभवत्या नाम । कच्चिदहमिव विस्मृतवानसि त्वम् । ६.८>२० विदूषक न विस्मरामि । किं तु सर्वं कथयित्वावसाने पुनस्त्वया परिहासविजल्प एष न भूतार्थ इत्याख्यातम् । ६.८>२१ मया अपि मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु बलवती । ६.८>२२ सानुमती एवं न्विदम् । ६.८>२३ राजा (ध्यात्वा) सखे त्रायस्व माम् । ६.८>२४ विदूषक भोः किमेतत् । अनुपपन्नं खल्वीदृशं त्वयि । कदा अपि सत्पुरुषाः शोकवास्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः । _________________________ ६.९<१ राजा वयस्य निराकरणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य बलवदशरणोऽस्मि । सा हि * इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता * स्थिता तिष्ठ इत्युच्चैर्वदति गुरुशिष्ये गुरुसमे । * पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती * मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥ ६.९ ॥प्.२१८ ६.९>१ सानुमती अहो । ईदृशी स्वकार्यपरता । अस्य संतापेनाहं रमे । ६.९>२ विदूषक भोः अस्ति मे तर्कः केनापि तत्रभवत्याकाशचारिणी नीतेति । ६.९>३ राजा कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत । मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिणीभिः सखी ते हृतेति मे हृदयमाशङ्कते । ६.९>४ सानुमती संमोहः खलु विस्मयनीयो न प्रतिबोधः । ६.९>५ विदूषक यद्येवमस्ति खलु समागमः कालेन तत्रभवत्या । ६.९>६ राजा कथमिव । ६.९>७ विदूषक न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं चिरं द्रष्टुं पारयतः । _________________________ ६.१०<१ राजा वयस्य । * स्वप्नो नु माया नु मतिभ्रमो नु * क्लिष्टं नु तावत्फलमेव पुण्यम् । * असंनिवृत्त्यै तदतीतमेते * मनोरथा नाम तटप्रपाताः ॥ ६.१० ॥प्.२२० ६.१०>८ विदूषक मैवम् । नन्व्+अङ्गुलीयकमेव निदर्शनमवश्यं भाव्यचिन्तनीयः समागमो भवतीति । _________________________ ६.११<१ राजा (अङ्गुलीयकं विलोक्य) अये इदं तावदसुलभस्थानभ्रंशि शोचनीयम् । * तव सुचरितमङ्गुलीय नूनं * प्रतनु ममेव विभाव्यते फलेन । * अरुणनखमनोहरासु तस्याश् * च्युतमसि लब्धपदं यदङ्गुलीषु ॥ ६.११ ॥ ६.११>१ सानुमती यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् । ६.११>२ विदूषक भोः इयं नाममुद्रा केनोद्घातेन तत्रभवत्या हस्ताभ्यासं प्रापिता । ६.११>३ सानुमती मम अपि कौतूहलेनाकारित एषः । ६.११>४ राजा श्रूयताम् । स्वनगराय प्रस्थितं मां प्रिया सबाष्पमाह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति । ६.११>५ विदूषक ततस्ततः । _________________________ ६.१२<१ राजा पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता । * एकैकमत्र दिवसे दिवसे मदीयं * नामाक्षरं गणय गच्छसि यावदन्तम् । * तावत्प्रिये मदवरोधगृहप्रवेशं * नेता जनस्तव समीपमुपैष्यतीति ॥ ६.१२ ॥ ६.१२>६ तच्च दारुणात्मना मया मोहान्नानुष्ठितम् । ६.१२>७ सानुमती रमणीयः खल्ववधिर्विधिना विसंवादितः । ६.१२>८ विदूषक अथ कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर आसीत् । ६.१२>९ राजा शचीतीर्थं वन्दमानायाः सख्यास्ते हस्ताद्गङ्गास्रोतसि परिभ्रष्टम् । ६.१२>१० विदूषक युज्यते । ६.१२>११ सानुमती अत एव तपस्विन्याः शकुन्तलाया अधर्मभीरोरस्य राजर्षेः परिणये संदेह आसीत् । ६.१२>१२ अथवेदृशोऽनुरागोऽभिज्ञानमपेक्षते । कथमिवैतत् । ६.१२>१३ राजा उपालप्स्ये तावदिदमङ्गुलीयकम् । ६.१२>१४ विदूषक (आत्मगतम्) गृहीतोऽनेन पन्था उन्मत्तानाम् । _________________________ ६.१३<१ राजा * कथं नु तं बन्धुरकोमलाङ्गुलिं * करं विहायासि निमग्नमम्भसि । अथवा । * अचेतनं नाम गुणं न लक्षयेन् * मयैव कस्मादवधीरिता प्रिया ॥ ६.१३ ॥ ६.१३>१ विदूषक (आत्मगतम्) कथं बुभुक्षया खादितव्योऽस्मि । ६.१३>२ राजा प्रिये अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्यतामयं जनः पुनर्दर्शनेन । ६.१३>३ (प्रविश्यापटीक्षेपेण चित्रफलकहस्ता) ६.१३>४ चतुरिका इयं चित्रगता भट्टिनी । (इति चित्रफलकं दर्शयति) ६.१३>५ विदूषक (विलोक्य) साधु वयस्य । मधुरावस्थानदर्शनीयो भावानुप्रवेशः । स्खलतीव मे दृष्टिर्निम्नोन्नतप्रदेशेषु । ६.१३>६ सानुमती अहो एषा राजर्षेर्निपुणता । जाने सख्यग्रतो मे वर्तत इति ।प्.२२६ _________________________ ६.१४<१ राजा * यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा । * तथापि तस्या लावण्यं रेखया किंचिदन्वितम् ॥ ६.१४ ॥ ६.१४>७ सानुमती सदृशमेतत्पश्चात्+तापगुरोः स्नेहस्यानवलेपस्य च । ६.१४>८ विदूषक भोः इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः । ६.१४>९ कतमात्र तत्रभवती शकुन्तला । ६.१४>१० सानुमती अनभिज्ञः खल्वीदृशस्य रूपस्य मोघदृष्टिरयं जनः । ६.१४>११ राजा त्वं तावत्कतमां तर्कयसि । ६.१४>१२ विदूषक तर्कयामि यैषा शिथिलबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां बाहुभ्यामवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्तेवालक्षिता सा शकुन्तला । इतरे सख्याविति । _________________________ ६.१५<१ राजा निपुणो भवान् । अस्त्यत्र मे भावचिह्नम् । * स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः । * अश्रु च कपोलपतितं दृश्यमिदं वर्णिकोच्छ्वासात् ॥ ६.१५ ॥प्.२२८ ६.१५>१ चतुरिके अर्धलिखितमेतद्विनोदस्थानम् । गच्छ । वर्तिकां तावदानय । ६.१५>२ चतुरिका आर्य माधव्य अवलम्बस्व चित्रफलकं यावदागच्छामि । _________________________ ६.१६<१ राजा (निःश्वस्य) * साक्षात्प्रियामुपगतामपहाय पूर्वं चित्रार्पितां पुनरिमां बहु मन्यमानः । * स्रोतोवहां पथि निकामजलामतीत्य जातः सखे प्रणयवान्मृगतृष्णिकायाम् ॥ ६.१६ ॥ ६.१६>३ विदूषक (आत्मगतम्) एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः । (प्रकाशम्) भोः अपरं किमत्र लेखितव्यम् । _________________________ ६.१७<१ राजा श्रूयताम् * कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी * पातास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः । * शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः * शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥ ६.१७ ॥प्.२३० ६.१७>१ विदूषक (आत्मगतम्) यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः । ६.१७>२ राजा वयस्य अन्यच्च । शकुन्तलायाः प्रसाधनमभिप्रेतमत्र विस्मृतमस्माभिः । ६.१७>३ विदूषक किमिव । ६.१७>४ सानुमती वनवासस्य सौक्मार्यस्य विनयस्य च यत्सदृशं भविष्यति । _________________________ ६.१८<१ राजा * कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम् । * न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे ॥ ६.१८ ॥ ६.१८>५ विदूषक भोः किं नु तत्रभवती रक्तकुवलयपल्लवशोभिनाग्रहस्तेन मुखमवार्य चकितचकितेव स्थिता । (सावधानं निरूप्य दृष्ट्वा) ६.१८>६ आः एष दास्याः पुत्रः कुसुमरसपाटच्चरस्तत्रभवत्या वदनकमलमभिलङ्घते मधुकरः । ६.१८>७ राजा ननु वार्यतामेष धृष्टः ।प्.२३२ ६.१८>८ विदूषक भवानेवाविनीतानां शासितास्य वारणे प्रभविष्यति । _________________________ ६.१९<१ राजा युज्यते । अयि भोः कुसुमलताप्रियातिथे किमत्र परिपतनखेदमनुभवसि । * एषा कुसुमनिषण्णा तृषिता अपि सती भवन्तमनुरक्ता * प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥ ६.१९ ॥ ६.१९>१ सानुमती अद्याभिजातं खल्वेष वारितः । ६.१९>२ विदूषक प्रतिषिद्धा अपि वामैषा जातिः । _________________________ ६.२०<१ राजा एवं भो न मे शासने तिष्ठसि । श्रूयतां तर्हि संप्रति । * अक्लिष्टबालतरुपल्लवलोभनीयम् * पीतं मया सदयमेव रतोत्सवेषु । * बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियायास् * त्वां कारयामि कमलोदरबन्धनस्थम् ॥ ६.२० ॥प्.२३४ ६.२०>३ विदूषक एवं तीक्ष्णदण्डस्य किं न भेष्यति । (प्रहस्य । आत्मगतम्) ६.२०>४ एष तावदुन्मत्तः । अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः । (प्रकाशम्) ६.२०>५ भोः चित्रं खल्वेतत् । ६.२०>६ राजा कथं चित्रम् । ६.२०>७ सानुमती अहमपीदानीमवगतार्था । किं पुनर्यथालिखितानुभाव्येषः । _________________________ ६.२१<१ राजा वयस्य किमिदमनुष्ठितं पौरोभाग्यम् । * दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन । * स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥ ६.२१ ॥ ६.२१>१ (इति बाष्पं विहरति) ६.२१>२ सानुमती पूर्वापरविरोध्यपूर्व एष विरहमार्गः । _________________________ ६.२२<१ राजा वयस्य कथमेवमविश्रान्तदुःखमनुभवामि । * प्रजागरात्खिलीभूतस्तस्याः स्वप्ने समागमः । * बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥ ६.२२ ॥प्.२३६ ६.२२>३ सानुमती सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुन्तलायाः । (प्रविश्य) ६.२२>४ चतुरिका जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं प्रस्थितास्मि । ६.२२>५ राजा किं च । ६.२२>६ चतुरिका स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या वसुमत्याहमेवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः । ६.२२>७ विदूषक दिष्ट्या त्वं मुक्ता । ६.२२>८ चतुरिका यावद्देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति तावन्मया निर्वाहित आत्मा । ६.२२>९ राजा वयस्य उपस्थिता देवी बहुमानगर्विता च । भवानिमां प्रतिकृतिं रक्षतु । ६.२२>१० विदूषक आत्मानमिति भण । (चित्रफलकमादायोत्थाय च) यदि भवानन्तःपुरकूटवागुरातो मोक्ष्यते तदा मां मेघप्रतिछन्दे प्रासादे शब्दायय । (इति द्रुतपदं निष्क्रान्तः) ६.२२>११ सानुमती अन्यसंक्रान्तहृदयोऽपि प्रथमसंभावनामपेक्षते । अतिशिथिलसौहार्द इदानीमेषः । ६.२२>१२ (प्रविश्य पत्रहस्ता) ६.२२>१३ प्रतीहारी जयतु जयतु देवः ।प्.२३८ ६.२२>१४ राजा वेत्रवति न खल्वन्तरा दृष्टा त्वया देवी । ६.२२>१५ प्रतीहारी अथकिम् । पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता । ६.२२>१६ राजा कार्यज्ञा कार्योपरोधं मे परिहरति । ६.२२>१७ प्रतीहारी देव अमात्यो विज्ञापयति । अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षीकरोत्विति । ६.२२>१८ राजा इतः पत्रं दर्शय । (प्रतिहार्युपनयति) ६.२२>१९ राजा (अनुवाच्य) कथम् । समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः । अनपत्यश्च किल तपस्वी । ६.२२>२० राजगामी तस्यार्थसंचय इत्येतदमात्येन लिखितम् । कष्टं खल्वनपत्यता । ६.२२>२१ वेत्रवति बहुधनत्वाद्बहुपत्नीकेन तत्रभवता भवितव्यम् । ६.२२>२२ विचार्यतां यदि काचिदापन्नसत्त्वा तस्य भार्यासु स्यात् । ६.२२>२३ प्रतीहारी देव इदानीमेव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायास्य श्रूयते । ६.२२>२४ राजा ननु गर्भः पित्र्यं रिक्थमर्हति । गच्छ । एवममात्यं ब्रूहि । ६.२२>२५ प्रतीहारी यद्देव आज्ञापयति । (इति प्रस्थिता) ६.२२>२६ राजा एहि तावत् । ६.२२>२७ प्रतीहारी इयमस्मि । _________________________ ६.२३<१ राजा किमनेन संततिरस्ति नास्तीति । * येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना । * स स पापादृते तासां दुष्यन्त इति घुष्यताम् ॥ ६.२३ ॥प्.२४० ६.२३>१ प्रतीहारी एवं नाम घोषयितव्यम् । ६.२३>२ (निष्क्रम्य । पुनः प्रविष्य) काले प्रविष्टमिवाभिनन्दितं देवस्य शासनम् । ६.२३>३ राजा (दीर्घमुष्णं च निःश्वस्य) एवं भोः संततिछेदनिरवलम्बानां कुलानां मूलपुरुषावसाने संपदः परमुपतिष्ठन्ते । मम अप्यन्ते पुरुवंशश्रिय एष एव वृत्तान्तः । ६.२३>४ प्रतीहारी प्रतिहतममङ्गलम् । ६.२३>५ राजा धिन्मामुपस्थितश्रेयोऽवमानिनम् । ६.२३>६ सानुमती असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा । _________________________ ६.२४<१ राजा * संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा । * कल्पिष्यमाणा महते फलाय वसुंधरा काल इवोप्तबीजा ॥ ६.२४ ॥ ६.२४>७ सानुमती अपरिछिन्नेदानीं ते संततिर्भविष्यति । ६.२४>८ चतुरिका (जनान्तिकम्) अये अनेन सार्ववाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनमाश्वासयितुं मेघप्रतिछन्दादार्यं माधव्यं गृहीत्वागच्छ । ६.२४>९ प्रतीहारी सुष्ठु भणसि । (इति निष्क्रान्ता) _________________________ ६.२५<१ राजा अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः । कुतः । * अस्मात्परं बत यथाश्रुति संभृतानि * को नः कुले निवपनानि नियच्छतीति । * नूनं प्रसूतिविकलेन मया प्रसिक्तम् * दौताश्रुशेषमुदकं पितरः पिबन्ति ॥ ६.२५ ॥ ६.२५>१ (इति मोहमुपगतः) ६.२५>२ चतुरिका (ससंभ्रममवलोक्य) समाश्वसितु समाश्वसितु भर्ता । ६.२५>३ सानुमती हा धिग्घा धिक् । सति खलु दीपे व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति । ६.२५>४ अहमिदानीमेव निर्वृतं करोमि । ६.२५>५ अथवा श्रुतं मया शकुन्तलां समाश्वासयन्त्या महाइन्द्रजनन्या मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाचिरेण धर्मपत्नीं भर्ताभिनन्दिष्यतीति । ६.२५>६ तद्युक्तमेतं कालं प्रतिपालयितुम् । यावदनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि । ६.२५>७ (नेपथ्ये) अब्रह्मण्यम् । ६.२५>८ राजा (प्रत्यागतः । कर्णं दत्त्वा) अये माधव्यस्य इवार्तस्वरः । कः को त्र भोः । (प्रविश्य) ६.२५>९ प्रतीहारी (ससंभ्रमम्) परित्रायतां देवः संशयगतं वयस्यम् । ६.२५>१० राजा केनात्तगन्धो माणवकः । ६.२५>११ प्रतीहारी अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिमारोफितः । _________________________ ६.२६<१ राजा (उत्थाय) मा तावत् । मम अपि सत्त्वैरभिभूयन्ते गृहाः । अथ वा । * अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् । * प्रजासु कः के पथा प्रयाति इत्यशेषतो वेदितुमस्ति शक्तिः ॥ ६.२६ ॥ (नेपथ्ये) भो वयस्य अविहा अविहा । ६.२६>१२ राजा (गतिभेदेन परिक्रामन्) सखे न भेतव्यम् । (नेपथ्ये) ६.२६>१३ (पुनस्तदेव पठित्वा) कथं न भेष्यामि । एष मां कोऽपि प्रत्यवनतशिरोधरमिक्षुमिव त्रिभङ्गं करोमि । ६.२६>१४ राजा (सदृष्टिक्षेपम्) धनुस्तावत् । (प्रविश्य शार्ङ्गहस्ता) _________________________ ६.२७<१ यवनी भर्तः एतधस्तावापसहितं शरासनम् । ६.२७<२ (राजा सशरं धनुरादत्ते) ६.२७<३ (नेपथ्ये) * एष त्वामभिनवकण्ठशोणितार्थी * शार्दूलः पशुमिव हन्मि चेष्टमानम् । * आर्तानां भयमपनेतुमात्तधन्वा * दुष्यन्तस्तव शरणं भवत्विदानीम् ॥ ६.२७ ॥प्.२४६ ६.२७>१ राजा (सरोषम्) कथं मामेवोद्दिशति । तिष्ठ कुणपाशन । त्वमिदानीं न भविष्यसि । (शार्ङ्गमारोप्य) वेत्रवति सोपानमार्गमादेशय । (सर्वे सत्वरमुपसर्पन्ति) ६.२७>२ राजा (समन्ताद्विलोक्य) शून्यं खल्विदम् । (नेपथ्ये) ६.२७>३ अविहा । अविहा ।हमत्रभवन्तं पश्यामि । त्वं मां न पश्यसि । बिडालगृहीतो मूषक इव निराशोऽस्मि जीविते संवृत्तः । _________________________ ६.२८<१ राजा भोस्तिरस्करिणीगर्वित मदीयमस्त्रं त्वां द्रक्ष्यति । एष तमिषुं संदधे । * यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् । * हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥ ६.२८ ॥ ६.२८>४ (इत्यस्त्रं संधत्ते) ६.२८>५ (ततः प्रविशति विदूषकमुत्सृज्य मातलिः) _________________________ ६.२९<१ मातलिः * कृता शरव्यं हरिणा तवासुराः * शरासनं तेषु विकृष्यतामिदम् । * प्रसादसौम्यानि सतां सुहृज्जने * पतन्ति चक्षूंषि न दारुणाः शराः ॥ ६.२९ ॥ ६.२९>१ राजा (ससंभ्रममस्रमुपसंहरन्) अये मातलिः । स्वागतं महाइन्द्रसारथे । (प्रविश्य) ६.२९>२ विदूषक अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेनाभिनद्यते । ६.२९>३ मातलिः (सस्मितम्) आयुष्मञ्श्रूयतां यदर्थमस्मि हरिणा भवत्सकाशं प्रेषितः । ६.२९>४ राजा अवहितोऽस्मि ।प्.२४८ ६.२९>५ मातलिः अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः । ६.२९>६ राजा अस्ति । श्रुतपूर्वं मया नारदात् । _________________________ ६.३०<१ मातलिः * सख्युस्ते स किल शतक्रतोरजय्यस् * तस्य त्वं रणशिरसि स्मृतो निहन्ता । * उच्छेत्तुं प्रभवति यन्न सप्तसप्तिस् * तन्नैशं तिमिरमपाकरोति चन्द्रः ॥ ६.३० ॥ ६.३०>७ स भवानात्तशस्त्र एवेदानीमैन्द्ररथमारुह्य विजयाय प्रतिष्ठताम् । ६.३०>८ राजा अनुगृहीतोऽहमनया मघवतः संभावनया । अथ माधव्यं प्रति भवता किमेवं प्रयुक्तम् । _________________________ ६.३१<१ मातलि तदपि कथ्यते । किं निमित्तादपि मनःसंतापादायुष्मान्मया विक्लवो दृष्टः । पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि । कुतः । * ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते । * प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जनः ॥ ६.३१ ॥ _________________________ ६.३२<१ राजा (जनान्तिकम्) वयस्य अनतिक्रमणीया दिवस्पतेराज्ञा । ६.३२<२ तदत्र परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि । * त्वन्मतिः केवला तावत्परिपालयतु प्रजाः । * अधिज्यमिदमन्यस्मिन् कर्मणि व्यापृतं द्धनुः ॥ ६.३२ ॥ इति । ६.३२>१ विदूषक यद्भवानाज्ञापयति (इति निष्क्रान्तः) ६.३२>२ मातलिः आयुष्मान् रथमारोहतु । ६.३२>३ (राजा रथारोहणं नाटयति) ६.३२>४ (निष्क्रान्ताः सर्वे) षष्ठोऽङ्कः ।प्.२५० ************************************************************************** सप्तमोऽङ्कः ७.१<१ (ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च) ७.१<२ राजा मातले अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये । _________________________ ७.१<१ मातलिः (सस्मितम्) आयुष्मन्नुभयमप्यपरितोषं समर्थये । * प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् । * गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥ ७.१ ॥ _________________________ ७.२<१ राजा मातले मा मैवम् । स खलु मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः । मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य । * अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य हृतस्मितेन । * आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा ॥ ७.२ ॥ _________________________ ७.३<१ मातलिः किमिव नामायुष्मानमरेश्वरान्नार्हति । पश्य ।प्.२५२ * सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् । * तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः ॥ ७.३ ॥ _________________________ ७.४<१ राजा अत्र खलु शतक्रतोरेव महिमा स्तुत्यः । * सिध्यन्ति कर्मसु महत्वपि यन्नियोज्याः * संभावनागुणमवेहि तमीश्वराणाम् । * किं वाभविष्यदरुणस्तमसां विभेत्ता * तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥ ७.४ ॥ _________________________ ७.५<१ मातलि सदृशं तव एतत् । (स्तोकमन्तरमतीत्य) आयुष्मन्नितः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः । * विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु । * विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखन्ति ॥ ७.५ ॥प्.२५४ ७.५>१ मातले असुरसंप्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता मया न लक्षितः स्वर्गमार्गः । कतमस्मिन्मरुतां पथि वर्तामहे । _________________________ ७.६<१ मातलि * त्रिस्रोतसं वहति यो गगनप्रतिष्ठाम् * ज्योतींषि वर्तयति च प्रविभक्तरश्मिः । * तस्य द्वितीयहरिविक्रमनिस्तमस्कम् * वायोरिमं परिवहस्य वदन्ति मार्गम् ॥ ७.६ ॥ ७.६>२ राजा मातले अतः खलु सबाह्यान्तःकरणो ममान्तरात्मा प्रसीदति । (रथाङ्गमवलोक्य) मेघपदवीमवतीर्णौ स्वः । ७.६>३ मातलि कथमवगम्यते ।प्.२५६ _________________________ ७.७<१ राजा अयमरविवरेभ्यश्चातकैर्निष्पतद्भिर्हरिभिरचिरभासां तेजसा चानुलिप्तैः । * गतमुपरि घनानां वारिगर्भोदराणाम् * पिशुनयति रथस्ते शीकरक्लिन्ननेमिः ॥ ७.७ ॥ ७.७>१ मातलि क्षणादायुष्मान् स्वाधिकारभूमौ वर्तिष्यते । _________________________ ७.८<१ राजा (अधोऽवलोक्य) मातले वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः । तथा हि । * शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी * पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः । * संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः * केनाप्युत्क्षिपतेव पष्य भुवनं मत्पार्श्वमानीयते ॥ ७.८ ॥ ७.८>२ मातलि साधु दृष्टम् । (सबहुमानमवलोक्य) अहो उदाररमणीया पृथिवी । ७.८>३ राजा मातले कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दी सांध्य मेघपरिघः सानुमानालोक्यते । _________________________ ७.९<१ मातलि आयुष्मन्नेष खलु हेमकूटो नाम किं पुरुषपर्वतस्तपःसंसिद्धिक्षेत्रम् । पश्य ।प्.२५८ * स्वायंभुवान्मरीचेर्यः प्रबभूव प्रजापतिः । * सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥ ७.९ ॥ ७.९>१ राजा तेन ह्यनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य भगवन्तं गन्तुमिच्छामि । ७.९>२ मातलि प्रथमः कल्पः । (नाट्येनावतीर्णौ) _________________________ ७.१०<१ राजा (सविस्मयम्) * उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः । * अभूतलस्पर्शनतयानिरुद्धतस्तवावतीर्णोऽपि रथो न लक्ष्यते ॥ ७.१० ॥ ७.१०>३ मातलि एतावानेव शतक्रतोरायुष्मतश्च विशेषः । ७.१०>४ राजा मातले कतमस्मिन् प्रदेशे मारीचाश्रमः । _________________________ ७.११<१ मातलिः (हस्तेन दर्शयन्)प्.२६० * वल्मीकार्धनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा * कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः । * अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलम् * यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥ ७.११ ॥ ७.११>१ राजा नमस्ते कष्टतपसे । ७.११>२ मातलिः (संयतप्रग्रहं रथं कृत्वा) एतावदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः । ७.११>३ राजा स्वर्गादधिकतरं निर्वृतिस्थानममृतह्रदमिवावगाढोऽस्मि । ७.११>४ मातलिः (रथं स्थापयित्वा) अवतरत्वायुष्मान् । ७.११>५ राजा (अवतीर्य) मातले भवान् कथमिदानीम् । ७.११>६ मातलिः संयन्त्रितो मया रथः । वयमप्यवतरामः । ७.११>७ (तथा कृत्वा) इत आयुष्मन् । (परिक्रम्य) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः । _________________________ ७.१२<१ राजा ननु विस्मयादवलोकयामि । * प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने * तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया । * ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो * यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥ ७.१२ ॥प्.२६२ ७.१२>८ मातलि उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य । आकाशे) अये वृद्धशाकल्य किमनुतिष्ठति भगवान्मारीचः । किं ब्रवीषि । दाक्षायण्या प्रतिव्रतार्धमधिकृत्य पृष्टस्तस्यै महर्षिपत्नीसहितायै कथयतीति । ७.१२>९ राजा (कर्णं दत्त्वा) अये प्रतिपाल्यावसरः खलु प्रस्तावः । ७.१२>१० मातलिः (राजानमवलोक्य) अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान् यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि । ७.१२>११ राजा यथा भवान्मन्यते (इति स्थितः) ७.१२>१२ मातलिः आयुष्मन् साधयाम्यहम् । (इति निष्क्रान्तः) _________________________ ७.१३<१ राजा (निमित्तं सूचयित्वा) * मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा । * पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥ ७.१३ ॥ ७.१३>१ (नेपथ्ये) ७.१३>२ मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् । _________________________ ७.१४<१ राजा (कर्णं दत्त्वा) अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते । (शब्दानुसारेणावलोक्य । सविस्मयम्) अये को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः ।प्.२६४ * अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् । * प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥ ७.१४ ॥ ७.१४>३ (ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः) ७.१४>४ बाल जृम्भस्व सिंह दन्तांस्ते गणयिष्ये । ७.१४>५ प्रथमा अविनीत किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विकरोषि । हन्त वर्धते ते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि । ७.१४>६ राजा किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः । नूनमनपत्यता मां वत्सलयति । ७.१४>७ द्वितीया एषा खलु केसरिणी त्वां लङ्घयति यद्यस्याः पुत्रकं न मुञ्चसि । _________________________ ७.१५<१ बाल (सस्मितम्) अहो बलीयः खलु भीतोऽस्मि । (इत्यधरं दर्शयति ) * राजा हमतस्तेजसो बीजं बालोऽयं प्रतिभाति मे । * स्फुलिङ्गावस्थया वह्निरेधापक्ष इव स्थितः ॥ ७.१५ ॥प्.२६६ ७.१५>१ प्रथमा वत्स एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि । ७.१५>२ बाल कुत्र । देह्येतत् । (इति हस्तं प्रसारयति) _________________________ ७.१६<१ राजा कथं चक्रवर्तिलक्षणमप्यनेन धार्यते । तथा ह्यस्य । * प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः । * अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम् ॥ ७.१६ ॥ ७.१६>३ द्वितीया सुव्रते न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् । मदीय उटजे मार्कण्डेयस्य+ऋषिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति । तमस्योपहर । ७.१६>४ प्रथमा तथा । (इति निष्क्रान्ता) ७.१६>५ बाल अनेनैव तावत्क्रीडिष्यामि । _________________________ ७.१७<१ राजा स्पृहयामि खलु दुर्ललितायास्मै । * आलक्ष्यदन्तमुकुलाननिमित्तहासैर् * अव्यक्तवर्णरमणीयवचःप्रवृत्तीन् । * अङ्काश्रयप्रणयिनस्तनयान् वहन्तो * धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ ७.१७ ॥प्.२६८ ७.१७>१ तापसी भवतु । न मामयं गणयति । (पार्श्वमवलोक्य) कोऽत्र ऋषिपुमाराणाम् । (राजानमवलोक्य) भद्रमुख एहि तावत् । मोचयानेन दुर्मोचहस्तग्रहेण* डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् । (*दुर्मोक) _________________________ ७.१८<१ राजा (उपगम्य । सस्मितम्) अयि भो महर्षिपुत्र । * एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्त्वया । * सत्त्वसंश्रय सुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ॥ ७.१८ ॥ ७.१८>२ तापसी भद्रमुख न खल्वयमृषिकुमारः । _________________________ ७.१९<१ राजा आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्ययात्तु वयमेवं तर्किणः । (यथाभ्यर्थितमनुतिष्ठन् बालस्पर्शमुपलभ्य । आत्मगतम्) * अनेन कस्य अपि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् । * कां निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्कात्कृतिनः प्ररूढः ॥ ७.१९ ॥ ७.१९>१ तापसी (उभौ निर्वर्ण्य) आश्चर्यमाश्चर्यम् । ७.१९>२ राजा आर्ये किमिव । ७.१९>३ तापसी अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मितास्मि । अपरिचितस्य अपि तेऽप्रतिलोमः संवृत्त इति ।प्.२७० ७.१९>४ राजा (बालकमुपलालयन्) न चेन्मुनिकुमारोऽयमथ कोऽस्य व्यपदेशः । ७.१९>५ तापसी पुरुवंशः । _________________________ ७.२०<१ राजा (आत्मगतम्) कथमेकान्वयो मम । अतः खलु मदनुकारिणमेनमत्रभवती मन्यते । अस्त्येतत्पौरवाणामन्त्यं कुलव्रतम् । * भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम् । * नियतैकव्रतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम् ॥ ७.२० ॥ ७.२०>६ (प्रकाशम्) न पुनरात्मगत्या मानुषाणामेष विषयः । ७.२०>७ तापसी यथा भद्रमुखो भणति । अप्सरःसंबन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता । ७.२०>८ राजा (अपवार्य) हन्त द्वितीयमिदमाशाजननम् । ७.२०>९ (प्रकाशम्) अथ सा तत्रभवती किमाख्यस्य राजऋषेः पत्नी । ७.२०>१० तापसी कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति । ७.२०>११ राजा (स्वगतम्) इयं खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि । अथ वानार्यः परदारव्यवहारः । (प्रविष्य मृन्मयूरहस्ता) ७.२०>१२ तापसी सर्वदमन शकुन्तलावण्यं प्रेक्षस्व ।प्.२७२ ७.२०>१३ बाल (सदृष्टिक्षेपम्) कुत्र वा मम माता । ७.२०>१४ उभे नामसादृश्येन वञ्चितो मातृचत्सलः । ७.२०>१५ द्वितीया वत्स अस्य वृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि । ७.२०>१६ राजा (आत्मगतम्) किं वा शकुन्तला इत्यस्या मातुराख्या । सन्ति पुनर्नामधेयसादृश्यानि । अपि नाम मृगतृष्टिकेव नाममात्रप्रस्तावो मे विषादाय कल्पते । ७.२०>१७ बाल मातः रोचते म एष भद्रमयूरः । (इति क्रीडनकमादत्ते) ७.२०>१८ प्रथमा (विलोक्य । स उद्वेगम्) अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते । ७.२०>१९ राजा अलमावेगेन । नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् । (इत्यादातुमिच्छति) ७.२०>२० उभे मा खल्वेतदवलम्ब्य कथम् । गृहीतमनेन । ७.२०>२१ (इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः) ७.२०>२२ राजा किमर्थं प्रतिषिद्धाः स्मः । ७.२०>२३ प्रथमा शृणोतु महाराजः । एषापराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता । ७.२०>२४ एतां किल मातापितरावात्मानं च वर्जयित्वापरो भूमिपतितां न गृह्णाति ।प्.२७४ ७.२०>२५ राजा अथ गृह्णाति । ७.२०>२६ प्रथमा ततस्तं सर्पो भूत्वा दशति । ७.२०>२७ राजा भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया । ७.२०>२८ उभे अनेकशः । ७.२०>२९ राजा (सहर्षम् । आत्मगतम्) कथमिव संपूर्णमपि मे मनोरथं नाभिनन्दामि । ७.२०>३० द्वितीया सुव्रते एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयावः । (इति निष्क्रान्ते) ७.२०>३१ बाल मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि । ७.२०>३२ राजा पुत्रक मया सह एव मातरमभिनन्दिष्यसि । ७.२०>३३ बाल मम खलु तातो दुष्यन्तः । न त्वम् । ७.२०>३४ राजा (सस्मितम्+एष विवाद एव प्रत्याययति (ततः प्रविशत्येकवेणीधरा शकुन्तला) ७.२०>३५ शकुन्तला विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न मे आशासीदात्मनो भागधेयेषु । ७.२०>३६ अथ वा यथा सानुमत्याख्यातं तथा संभाव्यत एतत् । _________________________ ७.२१<१ राजा (शकुन्तलां विलोक्य) अये सेयमत्रभवती शकुन्तला यैषा (प्.२७६) * वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः । * अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥ ७.२१ ॥ ७.२१>१ शकुन्तला (पश्चात्+तापविवर्णं राजानं दृष्ट्वा) न खल्वार्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति । ७.२१>२ बाल (मातरमुपेत्य) मातः एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति । ७.२१>३ राजा प्रिये क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तं यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि । ७.२१>४ शकुन्तला (आत्मगतम्) हृदय समाश्वसिहि समाश्वसिहि । परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्वेषः । _________________________ ७.२२<१ राजा प्रिये । * स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि । * उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥ ७.२२ ॥ ७.२२>५ शकुन्तला जयतु जयत्वार्यपुत्रः । _________________________ ७.२३<१ राजा सुन्दरि । * बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया । * यत्ते दृष्टमसंस्कारपाटलौष्ठपुटं मुखम् ॥ ७.२३ ॥ ७.२३>१ बाल मातः क एषः । _________________________ ७.२४<१ शकुन्तला वत्स ते भागधेयानि पृच्छ । * सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते * किमपि मनसः संमोहो मे तदा बलवानभूत् । * प्रबलतमसामेवं प्रायाः शुभेषु हि वृत्तयः * स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥ ७.२४ ॥ ७.२४>२ शकुन्तला उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणामाभिमुखमासीद्येन सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः । ७.२४>३ (राजोत्तिष्ठति) ७.२४>४ शकुन्तला अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्ययं जनः । _________________________ ७.२५<१ राजा उद्धृतविषादशल्यः कथयिष्यामि । * मोहान्मया सुतनु पूर्वमुपेक्षितस्ते * यो बद्धबिन्दुरधरं परिबाधमानः । * तं तावदाकुटिलपक्ष्मविलग्नमद्य * बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥ ७.२५ ॥ ७.२५>१ (इति यथोक्तमनुतिष्ठति) ७.२५>२ शकुन्तला (नाममुद्रां दृष्ट्वा) आर्यपुत्र इदं तदङ्गुलीयकम् । ७.२५>३ राजा अस्मादङ्गुलीयोपलम्भात्खलु स्मृतिरुपलब्धा । ७.२५>४ शकुन्तला विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् । ७.२५>५ राजा तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लता कुसुमम् । ७.२५>६ शकुन्तला नास्य विश्वसिमि । आर्यपुत्र एवैतद्धारयतु । (ततः प्रविशति मातलिः) ७.२५>७ मातलि दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान् वर्धते ।प्.२८२ ७.२५>८ राजा अभूत्संपादितस्वादुफलो मे मनोरथः । मातले न खलु विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् । ७.२५>९ मातलि (सस्मितम्) किमीश्वराणां परोक्षम् । एत्वायुष्मान् । भगवान्मारीचस्ते दर्शनं वितरति । ७.२५>१० राजा शकुन्तले अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं द्रष्टुमिच्छामि । ७.२५>११ शकुन्तला जिह्रेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् । ७.२५>१२ राजा अप्याचरितव्यमभ्युदयकालेषु । एह्येहि । ७.२५>१३ (सर्वे परिक्रामन्ति) (ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः) (आनसस्थो) _________________________ ७.२६<१ मारीच (राजानमवलोक्य) दाक्षायणि । * पुत्रस्य ते रणशिरस्ययमग्रयायी * दुष्यन्त इत्यभिहितो भुवनस्य भर्ता । * चापेन यस्य विनिवर्तितकर्मजातम् * तत्कोटिमत्कुलिशमाभरणं मघोनः ॥ ७.२६ ॥ ७.२६>१४ अदितिः संभावनीयानुभावास्य आकृतिः । ७.२६>१५ मातलिः आयुष्मन्नेतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवैकसां पितरावायुष्मन्तमवलोकयतः । तावुपसर्प । _________________________ ७.२७<१ राजा मातले ।प्.२८४ * प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणम् * भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् । * यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदम् * द्वन्द्वं दक्षमरीचिसंभवमिदं तत्स्रष्टुरेकान्तरम् ॥ ७.२७ ॥ ७.२७>१ मातलि अथ किम् । ७.२७>२ राजा (उपगम्योभाभ्यामपि वासवनियोज्यो दुष्यन्तः प्रणमति । ७.२७>३ मारीच वत्स चिरं जीव । पृथिवीं पालय । ७.२७>४ अदितिः वत्स अप्रतिरथो भव । ७.२७>५ शकुन्तला दारकसहिता वां पादवदनं करोमि । _________________________ ७.२८<१ मारीच वत्से । * आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः । * आशीरन्या न ते योग्या पौलोमीसदृशी भव ॥ ७.२८ ॥प्.२८६ ७.२८>६ अदिति जाते भर्तुर्बहुमता भव । अयं च दीर्घायुर्वत्सक उभयकुलनन्दनो भवतु । उपविशत । (सर्वे प्रजापतिमभित उपविशन्ति) _________________________ ७.२९<१ मारीच (एकैकं निर्दिशन्) * दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् । * श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥ ७.२९ ॥ _________________________ ७.३०<१ राजा भगवन् । प्रागभिप्रेतसिद्धिः । पश्चाद्दर्शनम् । अतोऽपूर्वः खलु वोऽनुग्रहः । कुतः । * उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्+तदनन्तरं पयः * निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु संपदः ॥ ७.३० ॥ ७.३०>१ मातलिः एवं विधातारः प्रसीदन्ति । _________________________ ७.३१<१ राजा भगवन्निमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित्कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य । पश्चादङ्गुलीयकदर्शनादूढपूर्वा तद्दुहितरमवगतोऽहम् । तच्चित्रमिव मे प्रतिभाति । * यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् । * पदानि दृष्ट्वा तु भवेत्प्रतीतिस्तथाविधो मे मनसो विकारः ॥ ७.३१ ॥प्.२८८ ७.३१>१ मारीच वत्स अलमात्मापराधशङ्का । संमोहोऽपि त्वय्यनुपपन्नः । श्रूयताम् । ७.३१>२ राजा अवहितोऽस्मि । ७.३१>३ मारीच यदा एवाप्सरस्तीर्थावतरणात्प्रत्यक्षवैक्लव्यां शकुन्तलामादाय मेनका दाक्षायणीमुपगता तदा एव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणीत्वया प्रत्यादिष्टा नान्यथेति । स चायमङ्गुलीयकदर्शनावसानः । ७.३१>४ राजा (सोच्छ्वासम्) एष वचनीयान्मुक्तोऽस्मि । ७.३१>५ शकुन्तला (स्वगतम्) दिष्ट्याकारणप्रत्यादेशी नार्यपुत्रः । न पुनः शप्तमात्मानं स्मरामि । अथवा प्राप्तो मया स हि शापो विरहशून्यहृदयया न विदितः । अतः सखीभ्यां संदिष्टास्मि भर्तुरङ्गुलीयकं दर्शयितव्यमिति । _________________________ ७.३२<१ मारीच वत्से चरितार्थासि । तदिदानीं सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः । पश्य । * शापादसि प्रतिहता स्मृतिरोधरूक्षे भर्तर्यपेततमसि प्रभुता तव एव । * छाया न मूर्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥ ७.३२ ॥प्.२९० ७.३२>१ राजा यथा आह भगवान् । ७.३२>२ मारीच वत्स कच्चिदभिनन्दितस्त्वया विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः । ७.३२>३ राजा भगवन्नत्र खलु मे वंशप्रतिष्ठा । (इति बालं हस्तेन गृह्णाति) _________________________ ७.३३<१ मारीच तथाभाविनमेनं चक्रवर्तिनमवगच्छतु भवान् । पश्य । * रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः * पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः । * इहायं सत्त्वानां प्रसभदमनात्सर्वदमनः * पुनर्यास्यत्याख्यां भरत इल्लोकस्य भरणात् ॥ ७.३३ ॥ ७.३३>१ राजा भगवता कृतसंस्कारे सर्वमस्मिन् वयमाशास्महे । ७.३३>२ अदिति भगवन्नस्या दुहितृमनोरथसंपत्तेः कण्वोऽपि तावत्श्रुतविस्तारः क्रियताम् । दुहितृवत्सला मेनका इहैव उपचरन्ती तिष्ठति । ७.३३>३ शकुन्तला (आत्मगतम्) मनोरथः खलु मे भणितो भगवत्या ।प्.२९२ ७.३३>४ मारीच तपःप्रभवात्प्रत्यक्षं सर्वमेव तत्रभवतः । ७.३३>५ राजा अतः खलु मम नातिक्रुद्धो मुनिः । ७.३३>६ मारीच तथाप्यसौ प्रियमस्माभिः प्रष्टव्यः । कः कोऽत्र भोः । (प्रविश्य) ७.३३>७ शिष्य भगवन्नयमस्मि । ७.३३>८ मारीच गालव इदानीमेव विहायसा गत्वा मम वचनात्तत्रभवते कण्वाय प्रियमावेदय यथा पुत्रवती शकुन्तला तत्शापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतेति । ७.३३>९ शिष्यः यदाज्ञापयति भगवान् (इति निष्क्रान्तः) ७.३३>१० मारीच वत्स त्वमपि स्वापत्यदारसहितः सक्युराखण्डलस्य रथमारुह्य ते राजधानीं प्रतिष्ठस्व । ७.३३>११ राजा यदाज्ञापयति भगवान् । _________________________ ७.३४<१ मारीच अपि च । * तव भवतु विडौजाः प्राज्यवृष्टिः प्रजासु * त्वमपि विततयज्ञो वज्रिणं प्रीणयस्व । * युगशतपरिवर्तानेवमन्योन्यकृत्यैर् * नयतमुभयलोकानुग्रहश्लाघनीयैः ॥ ७.३४ ॥ ७.३४>१ राजा भगवन् यथाशक्ति श्रेयसे यतिष्ये । _________________________ ७.३५<१ मारीच वत्स किं ते भूयः प्रियमुपकरोमि । ७.३५<२ राज अतः परमपि प्रियमस्ति । यदीह भगवान् प्रियं कर्तुमिच्छति तर्हि इदमस्तु । (भरतवाक्यम्)प्.२९४ * प्रवर्ततां प्रकृतिहिताय पार्थिवः * सरस्वती श्रुतमहतां महीयताम् । * मम अपि च क्षपयतु नीललोहितः * पुनर्भवं परिगतशक्तिरात्मभूः ॥ ७.३५ ॥ (निष्क्रान्ताः सर्वे) इति सप्तमोऽङ्कः । समाप्तमिदमभिज्ञानशाकुन्तलं नाम नाटकम् ।