श्रीरस्तु भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ प्रथमोऽध्यायः प्रणम्य शिरसा देवौ पितामहमहेश्वरौ । नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ॥ १.१ ॥ समाप्तजप्यं व्रतिनं स्वसुतैः परिवारितम् । अनध्याये कदाचित्तु भरतं नाट्यकोविदम् ॥ १.२ ॥ मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा । पप्रच्छुस्ते महात्मानो नियतेन्द्रियबुद्धयः ॥ १.३ ॥ योऽयं भगवता सम्यग्ग्रथितो वेदसम्मितः । नाट्यवेदं कथं ब्रह्मन्नुत्पन्नः कस्य वा कृते ॥ १.४ ॥ कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्य कीदृशः । सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि ॥ १.५ ॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति ॥ १.६ ॥ भवद्भिः शुचिभिर्भूत्वा तथाऽवहितमानसैः । श्रूयतां नाट्यवेदस्य सम्भवो ब्रह्मनिर्मितः ॥ १.७ ॥ पूर्वं कृतयुगे विप्रा वृत्ते स्वायंभुवेऽन्तरे । त्रेतायुगेऽथ सम्प्राप्ते मनोर्वैवस्वतस्य तु ॥ १.८ ॥ ग्राम्यधर्मप्रवृत्ते तु कामलोभवशं गते । ईर्ष्याक्रोधादिसंमूढे लोके सुखितदुःखिते ॥ १.९ ॥ देवदानवगन्धर्वयक्षरक्षोमहोरगैः । जम्बुद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते ॥ १.१० ॥ महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः । क्रीडनीयकमिच्छामो दृष्यं श्रव्यं च यद्भवेत् ॥ १.११ ॥ न वेदव्यवहारोऽयं संश्राव्यः शूद्रजातिषु । तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् ॥ १.१२ ॥ एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च । सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित् ॥ १.१३ ॥ नेमे वेदा यतः श्राव्याः स्त्रीशूद्राद्यासु जातिषु । वेदमन्यत्ततः स्रक्ष्ये सर्वश्राव्यं तु पञ्चमम् ॥ १.१३* ॥ धर्म्यमर्थ्यं यशस्यं च सोपदेश्यं ससङ्ग्रहम् । भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् ॥ १.१४ ॥ सर्वशात्रार्थसम्पन्नं सर्वशिल्पप्रवर्तकम् । नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥ १.१५ ॥ एवं सङ्कल्प्य भगवान् सर्ववेदाननुस्मरन् । नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम् ॥ १.१६ ॥ जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ १.१७ ॥ वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना । एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना ॥ १.१८ ॥ उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् । इतिहासो मया सृष्टः स सुरेषु नियुज्यताम् ॥ १.१९ ॥ कुशला ये विदग्धाश्च प्रगल्भाश्च जितश्रमाः । तेष्वयं नाट्यसंज्ञो हि वेदः संक्राम्यतां त्वया ॥ १.२० ॥ तच्छृत्वा वचनं शक्रो ब्रह्मणा यदुदाहृतम् । प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ॥ १.२१ ॥ ग्रहणे धारणे ज्ञाने प्रयोगे चास्य सत्तम । अशक्ता भगवन् देवा अयोग्या नाट्यकर्मणि ॥ १.२२ ॥ य इमे वेदगुह्यज्ञा ऋषयः संशितव्रताः । एतेऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा ॥ १.२३ ॥ श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः । त्वं पुत्रशतसंयुक्तः प्रयोक्ताऽस्य भवानघ ॥ १.२४ ॥ आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् । पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः ॥ १.२५ ॥ शाण्डिल्यं चैव वात्स्यं च कोहलं दत्तिलं तथा । जटिलम्बष्टकौ चैव तण्डुमग्निशिखं तथा ॥ १.२६ ॥ सैन्धवं सपुलोमानं शाड्वलिं विपुलं तथा । कपिञ्जलिं वादिरं च यमधूम्रायणौ तथा ॥ १.२७ ॥ जम्बुध्वजं काकजङ्घं स्वर्णकं तापसं तथा । कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम् ॥ १.२८ ॥ कौत्सं ताण्डायनिं चैव पिङ्गलं चित्रकं तथा । बन्धुलं भल्लकं चैव मुष्ठिकं सैन्धवायनम् ॥ १.२९ ॥ तैतिलं भार्गवं चैव शुचिं बहुलमेव च । अबुधं बुधसेनं च पाण्डुकर्णं सुकेरलम् ॥ १.३० ॥ ऋजुकं मण्डकं चैव शम्बरं वञ्जुलं तथा । मागधं सरलं चैव कर्तारं चोग्रमेव च ॥ १.३१ ॥ तुषारं पार्षदं चैव गौतमं बादरायणम् । विशालं शबलं चैव सुनामं मेषमेव च ॥ १.३२ ॥ कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् । नखकुट्टाश्मकुट्टौ च षट्पदं सोत्तमं तथा ॥ १.३३ ॥ पादुकोपानहौ चैव श्रुतिं चाषस्वरं तथा । अग्निकुण्डाज्यकुण्डौ च वितण्ड्य ताण्ड्यमेव च ॥ १.३४ ॥ कर्तराक्षं हिरण्याक्षं कुशलं दुस्सहं तथा । लाजं भयानकं चैव बीभत्सं सविचक्षणम् ॥ १.३५ ॥ पुण्ड्राक्षं पुण्ड्रनासं चाप्यसितं सितमेव च । विद्युज्जिह्वं महाजिह्वं शालङ्कायनमेव च ॥ १.३६ ॥ श्यामायनं माठरं च लोहिताङ्गं तथैव च । संवर्तकं पञ्चशिखं त्रिशिखं शिखमेव च ॥ १.३७ ॥ शङ्खवर्णमुखं शण्डं शङ्कुकर्णमथापि च । शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा ॥ १.३८ ॥ विद्युतं शातजङ्घं च रौद्रं वीरमथापि च । पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया ॥ १.३९ ॥ प्रयोजितं पुत्रशतं यथाभूमिविभागशः । यो यस्मिन्कर्मणि यथा योग्यस्तस्मिन् स योजितः ॥ १.४० ॥ भारतीं सात्वतीं चैव वृईत्तिमारभटीं तथा । समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः ॥ १.४१ ॥ परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया । अथाह मां सुरगुरुः कैशिकिमपि योजय ॥ १.४२ ॥ यच्च तस्याः क्षमं द्रव्यं तद्ब्रूहि द्विजसत्तम । एवं तेनास्म्यभिहितः प्रत्युक्तश्च मया प्रभुः ॥ १.४३ ॥ दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् । नृत्ताङ्गहारसम्पन्ना रसभावक्रियात्मिका ॥ १.४४ ॥ दृष्टा मया भगवतो नीलकण्ठस्य नृत्यतः । कैशिकी ष्लक्ष्णनैपथ्या शृङ्गाररससम्भवा ॥ १.४५ ॥ अशक्या पुरुषैः सा तु प्रयोक्तुं स्त्रीजनादृते । ततोऽसृजन्महातेजा मनसाऽप्सरसो विभुः ॥ १.४६ ॥ नाट्यालङ्कारचतुराः प्रादान्मह्यं प्रयोगतः । मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम् ॥ १.४७ ॥ सौदामिनीं देवदत्तां देवसेनां मनोरमाम् । सुदतीं सुन्दरीं चैव विदग्धां विपुलां तथा ॥ १.४८ ॥ सुमालां सन्ततिं चैव सुनन्दां सुमुखीं तथा । मागधीमर्जुनीं चैव सरलां केरलां धृतिम् ॥ १.४९ ॥ नन्दां सपुष्कलां चैव कलमां चैव मे ददौ । स्वातिर्भाण्डनियुक्तस्तु सह शिष्यैः स्वयम्भुवा ॥ १.५० ॥ नारदाद्याश्च गन्धर्वा गानयोगे नियोजिताः । एवं नाट्यमिदं सम्यग्बुद्ध्वा सर्वैः सुतैः सह ॥ १.५१ ॥ स्वातिनारदसंयुक्तो वेदवेदाङ्गकारणम् । उपस्थितोऽहं ब्रह्माणं प्रयोगार्थं कृताञ्जलिः ॥ १.५२ ॥ नाट्यस्य ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् । एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः ॥ १.५३ ॥ महानयं प्रयोगस्य समयः प्रत्युपस्थितः । अयं ध्वजमहः श्रीमान्महेन्द्रस्य प्रवर्तते ॥ १.५४ ॥ अत्रेदानीमयं वेदो नाट्यसंज्ञः प्रयुज्यताम् । ततस्तस्मिन्ध्वजमहे निहतासुरदानवे ॥ १.५५ ॥ प्रहृष्टामरसंकीर्णे महेन्द्रविजयोत्सवे । पूर्वं कृता मया नान्दी ह्याशीर्वचसंयुता ॥ १.५६ ॥ अष्टाङ्गपदसंयुक्ता विचित्रा वेदनिर्मिता । तदन्तेऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः ॥ १.५७ ॥ सम्फेटविद्रवकृता च्छेद्यभेद्याहवाल्मिका । ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः ॥ १.५८ ॥ प्रददुर्मत्सुतेभ्यस्तु सर्वोपकरणानि वै । प्रीतस्तु प्रथमं शक्रो दत्तवान्स्वं ध्वजं शुभम् ॥ १.५९ ॥ ब्रह्मा कुटिलकं चैव भृङ्गारं वरुणः शुभम् । सूर्यश्छत्रं शिवस्सिद्धिं वायुर्व्यजनमेव च ॥ १.६० ॥ विष्णुः सिंहासनं चैव कुबेरो मुकुटं तथा । श्राव्यत्वं प्रेक्षणीयस्य ददौ देवी सरस्वती ॥ १.६१ ॥ शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः । तस्मिन्सदस्यभिप्रेतान्नानाजातिगुणाश्रयान् ॥ १.६२ ॥ अंशांशैर्भाषितं भावान् रसान् रूपं बलं तथा । दत्तवन्तः प्रहृष्टास्ते मत्सुतेभ्यो दिवौकसः ॥ १.६३ ॥ एवं प्रयोगे प्रारब्धे दैत्यदानवनाशने । अभवन्क्षुभिताः सर्वे दैत्या ये तत्र सङ्गताः ॥ १.६४ ॥ विरूपाक्ष पुरोगांश्च विघ्नान्प्रोत्साह्य तेऽब्रुवन् । न क्षमिष्यामहे नाट्यमेतदागम्यतामिति ॥ १.६५ ॥ ततस्तैरसुरैः सार्धं विघ्ना मायामुपाश्रिताः । वाचश्चेष्टां स्मृतिं चैव स्तम्भयन्ति स्म नृत्यताम् ॥ १.६६ ॥ तथा विध्वंसनं दृष्ट्वा सूत्रधारस्य देवराट् । कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत् ॥ १.६७ ॥ अथापश्यत्सदो विघ्नैः समन्ताद्परिवारितम् । सहेतरैः सूत्रधारं नष्टसंज्ञं जडीकृतम् ॥ १.६८ ॥ उत्थाय त्वरितं शक्रं गृहीत्वा ध्वजमुत्तमम् । सर्वरत्नोज्ज्वलतनुः किञ्चिदुद्वृत लोचनः ॥ १.६९ ॥ रङ्गपीठगतान्विघ्नानसुरांश्चैव देवराट् । जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः ॥ १.७० ॥ निहतेषु च सर्वेषुअ विघ्नेषु सह दानवैः । संप्रहृष्य ततो वाक्यमाहुः सर्वे दिवौकसः ॥ १.७१ ॥ अहो प्रहरणं दिव्यमिदमासादितं त्वया । जर्जरीकृतसर्वाङ्गा येनैते दानवाः कृताः ॥ १.७२ ॥ यस्मादनेन ते विघ्नाः सासुरा जर्जरीकृताः । तस्माज्जर्जर एवेति नामतोऽयं भविष्यति ॥ १.७३ ॥ शेषा ये चैव हिंसार्थमुपयास्यन्ति हिंसकाः । दृष्ट्वैव जर्जरं तेऽपि गमिष्यन्त्येवमेव तु ॥ १.७४ ॥ एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान् । रक्षाभूतश्च सर्वेषां भविष्यत्येष जर्जरः ॥ १.७५ ॥ प्रयोगे प्रस्तुते ह्येवं स्फीते शक्रमहे पुनः । त्रासं सञ्जनयन्ति स्म विघ्नाः शेषास्तु नृत्यताम् ॥ १.७६ ॥ दृष्ट्वा तेषां व्यवसितं दैत्यानां विप्रकारजम् । उपस्थितोऽहं ब्रह्माणं सुतैः सर्वैः समन्वितः ॥ १.७७ ॥ निश्चिता भगवन्विघ्ना नाट्यस्यास्य विनाशने । अस्य रक्षाविधिं सम्यगाज्ञापय सुरेश्वर ॥ १.७८ ॥ ततश्च विश्वकर्माणं ब्रह्मोवाच प्रयत्नतः । कुरु लक्षणसंपन्नं नाट्यवेश्म महामते ॥ १.७९ ॥ ततोऽचिरेण कालेन विश्वकर्मा महच्छुभम् । सर्वलक्षणसम्पन्नं कृत्वा नाट्यगृहं तु सः ॥ १.८० ॥ प्रोक्तवान्द्रुहिणं गत्वा सभायान्तु कृताञ्जलीः । सज्जं नाट्यगृहं देव तदेवेक्षितुमर्हसि ॥ १.८१ ॥ ततः सह महेन्द्रेण सुरैः सर्वैश्च सेतरैः । आगतस्त्वरितो दृष्टुं द्रुहिणो नाट्यमण्डपम् ॥ १.८२ ॥ दृष्ट्वा नाट्यगृहं ब्रह्मा प्राह सर्वान्सुरांस्ततः । अंशभागैर्भवद्भिस्तु रक्ष्योऽयं नाट्यमण्डपः ॥ १.८३ ॥ रक्षणे मण्डपस्याथ विनियुक्तस्तु चन्द्रमाः । लोकपालास्तथा दिक्षु विदिक्ष्वपि च मारुताः ॥ १.८४ ॥ नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणोऽम्बरे । वेदिकारक्षणे वह्निर्भाण्डे सर्वदिवौकसः ॥ १.८५ ॥ वर्णाश्चत्वार एवाथ स्तम्भेषु विनियोजिताः । आदित्याश्चैव रुद्राश्च स्थिताः स्तम्भान्तरेश्वथ ॥ १.८६ ॥ धारणीश्वथ भूतानि शालास्वप्सरस्तथा । सर्ववेश्मसु यक्षिण्यो महीपृष्ठे महोदधिः ॥ १.८७ ॥ द्वारशालानियुक्तौ तु क्रुतान्तः काल एव च । स्थापितौ द्वारपत्रेषु नागमुख्यौ महाबलौ ॥ १.८८ ॥ देहल्यां यमदण्डस्तु शूलं तस्योपरि स्थितम् । द्वारपालौ स्थितौ चौभौ नियतिर्मृत्युरेव च ॥ १.८९ ॥ पार्श्वे च रङ्गपीठस्य महेन्द्रः स्थितवान्स्वयम् । स्थापिता मत्तवारण्यां विद्युद्दैत्यनिषूदनी ॥ १.९० ॥ स्तम्भेषु मत्तवारण्याः स्थापिता परिपालने । भूतयक्षपिशाश्च गुह्यकाश्च महाबलाः ॥ १.९१ ॥ जर्जरे तु विनिक्षिप्तं वज्रं दैत्यनिबर्हणम् । तत्पर्वसु विनिक्षिप्ताः सुरेन्द्रा ह्यमितौजसः ॥ १.९२ ॥ शिरःपर्वस्थितो ब्रह्मा द्वितीये शङ्करस्तथा । तृतीये च स्थितो विष्णुश्चतुर्थे स्कन्द एव च ॥ १.९३ ॥ पञ्चमे च महानागाः शेषवासुकितक्षकाः । एवं विघ्नविनाशाय स्थापिता जर्जरे सुराः ॥ १.९४ ॥ रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः । इष्ट्यर्थं रङ्गमध्ये तु क्रियते पुष्पमोक्षणम् ॥ १.९५ ॥ पातालवासिनो ये च यक्षगुह्यकपन्नगाः । अधस्ताद्रङ्गपीठस्य रक्षणे ते नियोजिताः ॥ १.९६ ॥ नायकं रक्षतीन्द्रस्तु नायिकां च सरस्वती । विदूषकमथौङ्कारः शेशास्तु प्रकृतिर्हरः ॥ १.९७ ॥ यान्येतानि नियुक्तानि दैवतानीह रक्षणे । एतान्येवाधिदैवानि भविष्यन्तीत्युवाच सः ॥ १.९८ ॥ एतस्मिन्नन्तरे देवैः सर्वैरुक्तः पितामहः । साम्ना तावदिमे विघ्नाः स्थाप्यन्तां वचसा त्वया ॥ १.९९ ॥ पूर्वं सामं प्रयोक्तव्यं द्वितीयं दानमेव च । तयोरुपरि भेदस्तु ततो दण्डः प्रयुज्यते ॥ १.१०० ॥ देवानां वचनं श्रुत्वा ब्रह्मा विघ्नानुवाच ह । कस्माद्भवन्तो नाट्यस्य विनाशाय समुत्थिताः ॥ १.१०१ ॥ ब्रह्मणो वचनं श्रुत्वा विरूपाक्षोऽब्रवीद्वचः । दैत्यैर्विघ्नगणैः सार्धं सामपूर्वमिदं ततः ॥ १.१०२ ॥ योऽयं भगवता सृष्टो नाट्यवेदः सुरेच्छया । प्रत्यादेशोऽयमस्माकं सुरार्थं भवता कृतः ॥ १.१०३ ॥ तन्नैतदेवं कर्तव्यं त्वया लोकपितामह । यथा देवस्तथा दैत्यास्त्वत्तः सर्वे विनिर्गताः ॥ १.१०४ ॥ विघ्नानां वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् । अलं वो मन्युना दैत्या विषादं त्यजतानघाः ॥ १.१०५ ॥ भवतां देवतानां च शुभाशुभविकल्पकः । कर्मभावान्वयापेक्षी नाट्यवेदो मया कृतः ॥ १.१०६ ॥ नैकान्ततोऽत्र भवतां देवानां चानुभावनम् । त्रैलोक्यास्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् ॥ १.१०७ ॥ क्वचिद्धर्मः क्वचित्क्रीडा क्वचिदर्थः क्वचिच्छमः । क्वचिद्धास्यं क्वचिद्युद्धं क्वचित्कामः क्वचिद्वधः ॥ १.१०८ ॥ धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम् । निग्रहो दुर्विनीतानां विनीतानां दमक्रिया ॥ १.१०९ ॥ क्लीबानां धार्ष्ट्यजननमुत्साहः शूरमानिनाम् । अबुधानां विबोधश्च वैदुष्यं विदुषामपि ॥ १.११० ॥ ईश्वराणां विलासश्च स्थैर्यं दुःखार्दितस्य च । अर्थोपजीविनामर्थो धृतिरुद्वेगचेतसाम् ॥ १.१११ ॥ नानाभावोपसम्पन्नं नानावस्थान्तरात्मकम् । लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ॥ १.११२ ॥ उत्तमाधममध्यानां नराणां कर्मसंश्रयम् । हितोपदेशजननं धृतिक्रीडासुखादिकृत् ॥ १.११३ ॥ एतद्रसेषु भावेषु सर्वकर्मक्रियास्वथ । सर्वोपदेशजननं नाट्यं लोके भविष्यति ॥ १.११३* ॥ दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् । विश्रान्तिजननं काले नाट्यमेतद्भविष्यति ॥ १.११४ ॥ धर्म्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम् । लोकोपदेशजननं नाट्यमेतद्भविष्यति ॥ १.११५ ॥ न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला । नासौ योगो न तत्कर्म नाट्येऽस्मिन् यन्न दृश्यते ॥ १.११६ ॥ तन्नात्र मन्युः कर्तव्यो भवद्भिरमरान्प्रति । सप्तद्वीपानुकरणं नाट्यमेतद्भविष्यति ॥ १.११७ ॥ येनानुकरणं नाट्यमेतत्तद्यन्मया कृतम् ॥ १.११७* ॥ देवानामसुराणां च राज्ञामथ कुटुम्बिनाम् । ब्रह्मर्षीणां च विज्ञेयं नाट्यं वृत्तान्तदर्शकम् ॥ १.११८ ॥ योऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः । सोऽङ्गाद्यभिनयोपेतो नाट्यमित्यभिधीयते ॥ १.११९ ॥ वेदविद्येतिहासानामाख्यानपरिकल्पनम् । विनोदकरणं लोके नाट्यमेतद्भविष्यति ॥ १.११९* ॥ श्रुतिस्मृतिसदाचारपरिशेषार्थकल्पनम् । विनोदजननं लोके नाट्यमेतद्भविष्यति ॥ १.११९** ॥ एतस्मिन्नन्तरे देवान् सर्वानाह पितामहः । क्रियतामद्य विधिवद्यजनं नाट्यमण्डपे ॥ १.१२० ॥ बलिप्रदानैर्होमैश्च मन्त्रौषधिसमन्वितैः । भोज्यैर्भक्षैश्च पानैश्च बलिः समुपकल्पताम् ॥ १.१२१ ॥ मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ । अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रवर्तयेत् ॥ १.१२२ ॥ अपूजयित्वा रङ्गं तु यः प्रेक्षां कल्पयिष्यति । निष्फलं तस्य तत्ज्ञानं तिर्यग्योनिं च यास्यति ॥ १.१२३ ॥ यज्ञेन संमितं ह्येदद्रङ्गदैवतपूजनम् । तस्मात्सर्वप्रयत्नेन कर्तव्यं नाट्ययोक्तृभिः ॥ १.१२४ ॥ नर्तकोऽर्थपतिर्वापि यः पूजां न करिष्यति । न कारयिष्यन्त्यन्यैर्वा प्राप्नोत्यपचयं तु सः ॥ १.१२५ ॥ यथाविधिं यथादृष्टं यस्तु पूजां करिष्यति । स लप्स्यते शुभानर्थान् स्वर्गलोकं च यास्यति ॥ १.१२६ ॥ एवमुक्त्वा तु भगवान्द्रुहिणः सहदेवतैः । रङ्गपूजां कुरुश्वेति मामेवं समचोदयत् ॥ १.१२७ ॥ इति भारतीये नाट्यशास्त्रे नाट्योत्पत्तिर्नाम प्रथमोऽध्यायः _____________________________________________________________ अथ भारतीये नाट्यशास्त्रे द्वितीयोऽध्यायः भरतस्य वचः श्रुत्वा पप्रच्छुर्मुनयस्ततः । भगवन् श्रोतुमिच्छामो यजनं रङ्गसंश्रयम् ॥ २.१ ॥ अथ वा या क्रियास्तत्र लक्षणं यच्च पूजनम् । भविष्यद्भिर्नरैः कार्यं कथं तन्नाट्यवेश्मनि ॥ २.२ ॥ इहादिर्नाट्ययोगस्य नाट्यमण्डप एव हि । तस्मात्तस्यैव तावत्त्वं लक्षणं वक्तुमर्हसि ॥ २.३ ॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतोऽब्रवीत् । लक्षणं पूजनं चैव श्रूयतां नाट्यवेश्मनः ॥ २.४ ॥ दिव्यानां मानसी सृष्टिर्गृहेषूपवनेषु च । (यथा भावाभिनिर्वर्त्याः सर्वे भावास्तु मानुषाः) । नराणां यत्नतः कार्या लक्षणाभिहिता क्रिया ॥ २.५ ॥ श्रूयतां तद्यथा यत्र कर्तव्यो नाट्यमण्डपः । तस्य वास्तु च पूजा च यथा योज्या प्रयत्नतः ॥ २.६ ॥ इह प्रेक्ष्यागृहं दृष्ट्वा धीमता विश्वकर्मणा । त्रिविधः सन्निवेशश्च शास्त्रतः परिकल्पितः ॥ २.७ ॥ विकृष्टश्चतुरश्रश्च त्र्यश्रश्चैव तु मण्डपः । तेषां त्रीणि प्रमाणानि ज्येष्ठं मध्यं तथाऽवरम् ॥ २.८ ॥ प्रमाणमेषां निर्दिष्टं हस्तदण्डसमाश्रयम् । शतं चाष्टौ चतुःषष्टिर्हस्ता द्वात्रिंशदेव च ॥ २.९ ॥ अष्टाधिकं शतं ज्येष्ठं चतुःषष्टिस्तु मध्यमम् । कनीयस्तु तथा वेश्म हस्ता द्वात्रिंशदिष्यते ॥ २.१० ॥ देवानां तु भवेज्ज्येष्ठं नृपाणां मध्यमं भवेत् । शेषाणां प्रकृतीनां तु कनीयः संविधीयते ॥ २.११ ॥ प्रेक्षागृहाणां सर्वेषां प्रशस्तं मध्यमं स्मृतम् । तत्र पाठ्यं च गेयं च सुखश्राव्यतरं भवेत् ॥ २.११* ॥ प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः । विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥ २.११** ॥ कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् । ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ॥ २.११*** ॥ प्रमाणं यच्च निर्दिष्टं लक्षणं विश्वकर्मणा । प्रेक्षागृहाणां सर्वेषां तच्चैव हि निबोधत ॥ २.१२ ॥ अणू रजश्च वालश्च लिक्षा यूका यवस्तथा । अङ्गुलं च तथा हस्तो दण्डश्चैव प्रकीर्तितः ॥ २.१३ ॥ अणवोऽष्टौ रजः प्रोक्तं तान्यष्टौ वाल उच्यते । वालास्त्वष्टौ भवेल्लिक्षा यूका लिक्षाष्टकं भवेत् ॥ २.१४ ॥ यूकास्त्वष्टौ यवो ज्ञेयो यवास्त्वष्टौ तथाङ्गुलम् । अङ्गुलानि तथा हस्तश्चतुर्विंशतिरुच्यते ॥ २.१५ ॥ चतुर्हस्तो भवेद्दण्डो निर्दिष्टस्तु प्रमाणतः । अनेनैव प्रमाणेन वक्ष्याम्येषां विनिर्णयम् ॥ २.१६ ॥ चतुःषष्टिकरान्कुर्याद्दीर्घत्वेन तु मण्डपम् । द्वात्रिंशतं च विस्तारन्मर्त्यानां यो भवेदिह ॥ २.१७ ॥ अत ऊर्ध्वं न कर्तव्यः कर्तृभिर्नाट्यमण्डपः । यस्मादव्यक्तभावं हि तत्र नाट्यं व्रजेदिति ॥ २.१८ ॥ मण्डपे विप्रकृष्टे तु पाठ्यमुच्चारितस्वरम् । अनिस्सरणधर्मत्वाद्विस्वरत्वं भृशं व्रजेत् ॥ २.१९ ॥ यश्चाप्यास्यगतो भावो नानादृष्टिसमन्वितः स वेश्मनः प्रकृष्टत्वाद्व्रजेदव्यक्ततां पराम् ॥ २.२० ॥ प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते । यावत्पाठ्यं च गेयं च तत्र श्रव्यतरं भवेत् ॥ २.२१ ॥ प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः । विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥ २.२१* ॥ कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् । ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ॥ २.२१** ॥ देवानां मानसी सृष्टिर्गृहेषूपवनेषु च । यत्नभावाभिनिष्पन्नाः सर्वे भावा हि मानुषा ॥ २.२२ ॥ तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः । मानुषस्य तु गेहस्य सम्प्रवक्ष्यामि लक्षणम् ॥ २.२३ ॥ भूमेर्विभागं पूर्वं तु परीक्षेत प्रयोजक । ततो वास्तु प्रमाणेन प्रारभेत शुभेच्छया ॥ २.२४ ॥ समा स्थिरा तु कठिना कृष्णा गौरी च या भवेत् । भूमिस्तत्रैव कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥ २.२५ ॥ प्रथमं शोधनं कृत्वा लाङ्गलेन समुत्कृषेत् । अस्थिकीलकपालानि तृणगुल्मांश्च शोधयेत् ॥ २.२६ ॥ शोधयित्वा वसुमतीं प्रमाणं निर्दिशेत्ततः । (त्रीण्युत्तराणि सौम्यं च विशाखापि च रेवती । हस्तितिष्यानुराधाश्च प्रशस्ता नाट्यकर्मणि) । पुष्यनक्षत्रयोगेन शुक्लं सूत्रं प्रसारयेत् ॥ २.२७ ॥ कार्पासं बाल्बजं वापि मौञ्जं वाल्कलमेव च । सूत्रं बुधैस्तु कर्तव्यं यस्य च्छेदो न विद्यते ॥ २.२८ ॥ अर्धच्छिन्ने भवेत्सूत्रे स्वामिनो मरणं ध्रुवम् । त्रिभागच्छिन्नया रज्वा राष्ट्रकोपो विधीयते ॥ २.२९ ॥ छिन्नायां तु चतुर्भागे प्रयोक्तुर्नाश उच्यते । हस्तात्प्रभ्रष्टया वापि कश्चित्वपचयो भवेत् ॥ २.३० ॥ तस्मान्नित्यं प्रयत्नेन रज्जुग्रहणमिष्यते । कार्यं चैव प्रयत्नेन मानं नाट्यगृहस्य तु ॥ २.३१ ॥ मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च । ब्राह्मणांस्तर्पयित्वा तु पुण्याहं वाचयेत्ततः ॥ २.३२ ॥ शान्तितोयं ततो दत्त्वा ततः सूत्रं प्रसारयेत् । चतुष्षष्टिकरान्कृत्वा द्विधा कुर्यात्पुनश्च तान् ॥ २.३३ ॥ पृष्ठतो यो भवेद्भागो द्विधाभूतस्य तस्य तु । सममर्धविभागेन रङ्गशीर्षं प्रकल्पयेत् ॥ २.३४ ॥ पश्चिमे च विभागेऽथ नेपथ्यगृहमादिशेत् । विभज्य भागान्विधिवद्ययथावदनुपूर्वशः ॥ २.३५ ॥ शुभे नक्षत्रयोगे च मण्डपस्य निवेशनम् । शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवादिभिः ॥ २.३६ ॥ सर्वातोद्यैः प्रणुदितैः स्थापनं कार्यमेव तु । उत्सार्याणि त्वनिष्टानि पाषण्ड्याश्रमिणस्तथा ॥ २.३७ ॥ काषायवसनाश्चैव विकलाश्चैअव ये नराः । निशायां च बलिः कार्या नानाभोजनसंयुतः ॥ २.३८ ॥ गन्धपुष्पफलोपेता दिशो दश समाश्रितः । पूर्वेण शुक्लान्नयुतो नीलान्नो दक्षिणेन च ॥ २.३९ ॥ पश्चिमेन बलिः पीतो रक्तश्चैवोत्तरेण तु । यादृशं दिशि यस्यां तु दैवतं परिकल्पितम् ॥ २.४० ॥ तादृशस्तत्र दातव्यो बलिर्मन्त्रपुरस्कृतः । स्थापने ब्राह्मणेभ्यश्च दातव्यं घृतपायसम् ॥ २.४१ ॥ मधुपर्कस्तथा राज्ञे कर्तृभ्यश्च गुडौदनम् । नक्षत्रेण तु कर्तव्यं मूलेन स्थापनं बुधैः ॥ २.४२ ॥ मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च । एवं तु स्थापनं कृत्वा भित्तिकर्म प्रयोजयेत् ॥ २.४३ ॥ भित्तिकर्मणि निर्वृत्ते स्तम्भानां स्थापनं ततः । तिथिनक्षत्रयोगेन शुभेन करणेन च ॥ २.४४ ॥ स्तम्भानां स्थापनं कार्यं रोहिण्या श्रवणेन वा । आचार्येण सुयुक्तेन त्रिरात्रोपोषितेन च ॥ २.४५ ॥ स्तम्भानां स्थापनं कार्यं प्राप्ते सूर्योदये शुभे । प्रथमे ब्राह्मणस्तम्भे सर्पिस्सर्षपसंस्कृतः ॥ २.४६ ॥ सर्वशुक्लो विधिः कार्यो दद्यात्पायसमेव च । ततश्च क्षत्रियस्तम्भे वस्त्रमाल्यानुलेपनम् ॥ २.४७ ॥ सर्व रक्तं प्रदातव्यं द्विजेभ्यश्च गुडौदनम् । वैश्यस्तम्भे विधिः कार्यो दिग्भागे पश्चिमोत्तरे ॥ २.४८ ॥ सर्वं प्रीतं प्रदातव्यं द्विजेभ्यश्च घृतौदनम् । शूद्रस्तम्भे विधिः कार्यः सम्यक्पूर्वोत्तराश्रये ॥ २.४९ ॥ नीलप्रायं प्रयत्नेन कूसरं च द्विजाशनम् । पूर्वोक्तब्राह्मणस्तम्भे शुक्लमाल्यानुलेपने ॥ २.५० ॥ निक्षिपेत्कनकं मूले कर्णाभरणसंश्रयम् । ताम्रं चाधः प्रदातव्यं स्तम्भे क्षत्रियसंज्ञके ॥ २.५१ ॥ वैश्यस्तम्भस्य मूले तु रजतं सम्प्रदापयेत् । शूद्रस्तम्भस्य मूले तु दद्यादायसमेव च ॥ २.५२ ॥ सर्वेष्वेव तु निक्षेप्यं स्तम्भमूलेषु काञ्चनम् । स्वस्तिपुण्याहघोषेण जयशब्देन चैव हि ॥ २.५३ ॥ स्तम्भानां स्थापनं कार्यं पुष्पमालापुरस्कृतम् । रत्नदानैः सगोदानैर्वस्त्रदानैरनल्पकैः ॥ २.५४ ॥ ब्राह्मणांस्तर्पयित्वा तु स्तम्भानुत्थापयेत्ततः । अचलं चाप्यकम्पञ्च तथैवावलितं पुनः ॥ २.५५ ॥ स्तम्भस्योत्थापने सम्यग्दोषा ह्येते प्रकीर्तिताः । अवृष्टिरुक्ता चलने वलने मृत्युतो भयम् ॥ २.५६ ॥ कम्पने परचक्रात्तु भयं भवति दारुणम् । दोषैरेतैर्विहीनं तु स्तम्भमुत्थापयेच्छिवम् ॥ २.५७ ॥ पवित्रे ब्राह्मणस्तम्भे दातव्या दक्षिणा च गौः । शेषाणां भोजनं कार्यं स्थापने कर्तृसंश्रयम् ॥ २.५८ ॥ मन्त्रपूतं च तद्देयं नाट्याचार्येण धीमता । पुरोहितं नृपं चैव भोजयेन्मधुपायसैः ॥ २.५९ ॥ कर्तॄनापि तथा सर्वान्कृसरां लवणोत्तराम् । सर्वमेवं विधिं कृत्वा सर्वातोद्यैः प्रवादितैः ॥ २.६० ॥ अभिमन्त्र्य यथान्यायं स्तम्भानुत्थापयेच्छुचिः । ऽयथाऽचलो गिरिर्मेरुर्हिमवांश्च महाबलः ॥ २.६१ ॥ जयावहो नरेन्द्रस्य तथा त्वमचलो भवऽ । स्तम्भद्वारं च भित्तिं च नेपथ्यगृहमेव च ॥ २.६२ ॥ एवमुत्थापयेतज्ज्ञो विधिदृष्टेन कर्मणा । रङ्गपीठस्य पार्श्वे तु कर्तव्या मत्तवारणी ॥ २.६३ ॥ चतुस्तम्भसमायुक्ता रङ्गपीठप्रमाणतः । अध्यर्धहस्तोत्सेधेन कर्तव्या मत्तवारणी ॥ २.६४ ॥ उत्सेधेन तयोस्तुल्यं कर्तव्यं रङ्गमण्डपम् । तस्यां माल्यं च धूपं च गन्धं वस्त्रं तथैव च ॥ २.६५ ॥ नानावर्णानि देयानि तथा भूतप्रियो बलिः । आयसं तत्र दातव्यं स्तम्भानां कुशैलैरधः ॥ २.६६ ॥ भोजने कृसराश्चैव दातव्यं ब्राह्मणाशनम् । एवं विधिपुरस्कारैः कर्तव्या मत्तवारणी ॥ २.६७ ॥ रङ्गपीठं ततः कार्यं विधिदृष्टेण कर्मणा । रङ्गशीर्षस्तु कर्तव्यं षड्दारुकसमन्वितम् ॥ २.६८ ॥ कार्यं द्वारद्वयं चात्र नेपथ्यगृहकस्य तु । पूरणे मृत्तिका चात्र कृष्णा देया प्रयत्नतः ॥ २.६९ ॥ लाङ्गलेन समुत्कृष्य निर्लोष्टतृणशर्करम् । लाङ्गले शुद्धवर्णो तु धुर्यो योज्यौ प्रयत्नतः ॥ २.७० ॥ कर्तारः पुरुषश्चात्र येऽङ्गदोषविविर्जिताः । अहीनाङ्गैश्च वोढव्या मृत्तिका पिटकैर्नवैः ॥ २.७१ ॥ एवंविधैः प्रकर्तव्यं रङ्गशीर्षं प्रयत्नतः । कूर्मपृष्ठं न कर्तव्यं मत्स्यपृष्ठं तथैव च ॥ २.७२ ॥ शुद्धादर्शतलाकारं रङ्गशीर्षं प्रशस्यते । रत्नानि चात्र देयानि पूर्वे वज्रं विचक्षणैः ॥ २.७३ ॥ वैडूर्यं दक्षिणे पार्श्वे स्फटिकं पश्चिमे तथा । प्रवालमुत्तरे चैव मध्ये तु कनकं भवेत् ॥ २.७४ ॥ एवं रङ्गशिरः कृत्वा दारुकर्म प्रयोजयेत् । ऊहप्रत्यूहसंयुक्तः नानाशिल्पप्रयोजितम् ॥ २.७५ ॥ नानासञ्जवनोपेतं बहुव्यालोपशोभितम् । ससालभञ्जिकाभिश्च समन्तात्समलङ्कृतम् ॥ २.७६ ॥ निर्व्यूहकुहरोपेतं नानाग्रथितवेदिकम् । नानाविन्याससंयुक्तं चित्रजालगवाक्षकम् ॥ २.७७ ॥ सुपीठधारिणीयुक्तं कपोतालीसमाकुलम् । नानाकुट्टिमविन्यस्तैः स्तम्भैश्चाप्युपशोभितम् ॥ २.७८ ॥ एवं काष्ठविधिं कृत्वा भित्तिकर्म प्रयोजयेत् । स्तम्भं वा नागदन्तं वा वातायनमथापि वा ॥ २.७९ ॥ कोणं वा सप्रतिद्वारं द्वारविद्धं न कारयेत् । कार्यः शैलगुहाकारो द्विभूमिर्नाट्यमण्डपः ॥ २.८० ॥ मन्दवातायनोपेतो निर्वातो धीरशब्दवान् । तस्मान्निवातः कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥ २.८१ ॥ गम्भीरस्वरता येन कुतपस्य भविष्यति । भित्तिकर्मविधिं कृत्वा भित्तिलेपं प्रदापयेत् ॥ २.८२ ॥ सुधाकर्म बहिस्तस्य विधातव्यं प्रयत्नतः । भित्तिष्वथ विलिप्तासु परिमृष्टासु सर्वतः ॥ २.८३ ॥ समासु जातशोभासु चित्रकर्म प्रयोजयेत् । चित्रकर्मणि चालेख्याः पुरुषाः स्रीजनास्तथा ॥ २.८४ ॥ लताबन्धाश्च कर्तव्याश्चरितं चात्म्भोगजम् । एवं विकृष्टं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः ॥ २.८५ ॥ पुनरेव हि वक्ष्यामि चतुरश्रस्य लक्षणम् । समन्ततश्च कर्तव्या हस्ता द्वात्रिंशदेव तु ॥ २.८६ ॥ शुभभूमिविभागस्थो नाट्यज्ञैर्नाट्यमण्डपः । यो विधिः पूर्वमुक्तस्तु लक्षणं मङ्गलानि च ॥ २.८७ ॥ विकृष्टे तान्यशेषाणि चतुरश्रेऽपि कारयेत् । चतुरश्रं समं कृत्वा सूत्रेण प्रविभज्य च ॥ २.८८ ॥ बाह्यतः सर्वतः कार्या भित्तिः श्लिष्टेष्टका दृढा । तत्राभ्यन्तरतः कार्या रङ्गपीठोपरि स्थिताः ॥ २.८९ ॥ दश प्रयोक्तृभिः स्तम्भाः शक्ता मण्डपधारणे । स्तम्भानां बाह्यतश्चापि सोपानाकृति पीठकम् ॥ २.९० ॥ इष्टकादारुभिः कार्यं प्रेक्षकाणां निवेशनम् । हस्तप्रमाणैरुत्सेधैर्भूमिभागसमुत्थितैः ॥ २.९१ ॥ रङ्गपीठावलोक्यं तु कुर्यादासनजं विधिम् । षडन्यानन्तरे चैव पुनः स्तम्भान्यथादिशम् ॥ २.९२ ॥ विधिना स्थापयेतज्ञो दृढान्मण्डपधारणे । अष्टौ स्तम्भान्पुनश्चैव तेषामुपरि कल्पयेत् ॥ २.९३ ॥ स्थाप्यं चैव ततः पीठमष्टहस्तप्रमाणतः । विद्धास्यमष्टहस्तं च पीठं तेषु ततो न्यसेत् ॥ २.९४ ॥ तत्र स्तम्भाः प्रदातव्यास्तज्ञैर्मण्डपधारणे । धारणीधारणास्ते च शालस्त्रीभिरलङ्कृताः ॥ २.९५ ॥ नेपथ्यगृहकं चैव ततः कार्यं प्रयत्नतः । द्वारं चैकं भवेत्तत्र रङ्गपीठप्रवेशनम् ॥ २.९६ ॥ जनप्रवेशनं चान्यदाभिमुख्येन कारयेत् । रङ्गस्याभिमुखं कार्यं द्वितीयं द्वारमेव तु ॥ २.९७ ॥ अष्टहस्तं तु कर्तव्यं रङ्गपीठं प्रमाणतः । चतुरश्रं समतलं वेदिकासमलङ्कृतम् ॥ २.९८ ॥ पूर्वप्रमाणनिर्दिष्टा कर्तव्या मत्तवारणी । चतुःस्तम्भसमायुक्ता वेदिकायास्तु पार्श्वतः ॥ २.९९ ॥ समुन्नतं समं चैव रङ्गशीर्षं तु कारयेत् । विकृष्टे तून्नतं कार्यं चतुरश्रे समं तथा ॥ २.१०० ॥ एवमेतेन विधिना चतुरश्रं गृहं भवेत् । अतः परं प्रवक्ष्यामि त्र्यश्रगेहस्य लक्षणम् ॥ २.१०१ ॥ त्र्यश्रं त्रिकोणं कर्तव्यं नाट्यवेश्मप्रयोक्तृभिः । मध्ये त्रिकोणमेवास्य रङ्गपीठं तु कारयेत् ॥ २.१०२ ॥ द्वारं तैनैव कोणेन कर्तव्यं तस्य वेश्मनः । द्वितीयं चैव कर्तव्यं रङ्गपीठस्य पृष्ठतः ॥ २.१०३ ॥ विधिर्यश्चतुरश्रस्य भित्तिस्तम्भसमाश्रयः । स तु सर्वः प्रयोक्तव्यस्त्र्यश्रस्यापि प्रयोक्तृभिः ॥ २.१०४ ॥ एवमेतेन विधिना कार्या नाट्यगृहा बुधैः । पुनरेषां प्रवक्ष्यामि पूजामेवं यथाविधिः ॥ २.१०५ ॥ इति भारतीये नाट्यशास्त्रे मण्डपविधानो नाम द्वितीयोऽध्यायः _____________________________________________________________ अथ तृतीयोध्यायः सर्वलक्षणसंपन्ने कृते नाट्यगृहे शुभे । गावो वसेयुः सप्ताहं सह जप्यपरैर्द्विजैः ॥ ३.१ ॥ ततोऽधिवासयेद्वेश्म रङ्गपीठं तथैव च । मन्त्रपूतेन तोयेन प्रोक्षिताङ्गो निशागमे ॥ ३.२ ॥ यथास्थानान्तरगतो दीक्षितः प्रयतः शुचिः । त्रिरात्रोपोषितो भूत्वा नाट्याचार्योऽहताम्बरः ॥ ३.३ ॥ नमस्कृत्य महादेवं सर्वलोकोद्भवं भवम् । जगत्पितामहं चैव विष्णुमिन्द्रं गुहं तथा ॥ ३.४ ॥ सरस्वतीं च लक्ष्मीं च सिद्धिं मेधां धृतिं स्मृतिम् । सोमं सूर्यं च मरुतो लोकपालांस्तथाश्विनौ ॥ ३.५ ॥ मित्रमग्निं सुरान्वर्णान् रुद्रान्कालं कलिं तथा । मृत्युं च नियतिं चैव कालदण्डं तथैव च ॥ ३.६ ॥ विष्णुप्रहरणं चैव नागराजं च वासुकिम् । वज्रं विद्युत्समुद्रांश्च गन्धर्वाप्सरसो मुनीन् ॥ ३.७ ॥ भूतान् पिशाचान् यक्षांश्च गुह्यकांश्च महेश्वरान् । असुरान्नाट्यविघ्नांश्च तथाऽन्यान्दैत्यराक्षसान् ॥ ३.८ ॥ तथा नाट्यकुमारीश्च महाग्रामण्यमेव च । यक्षांश्च गुह्यकांश्चैव भूतसङ्घास्तथैव च ॥ ३.९ ॥ एतांश्चान्यांश्च देवर्षीन्प्रणम्य रचिताञ्जलिः । यथास्थानान्तरगतान्समावाह्य ततो वदेत् ॥ ३.१० ॥ भवद्भिर्नो निशायां तु कर्तव्यः सम्परिग्रहः । साहाय्यं चैव दातव्यमस्मिन्नाट्ये सहानुगैः ॥ ३.११ ॥ सम्पूज्य सर्वानेकत्र कुतपं सम्प्रयुज्य च । जर्जराय प्रयुञ्जीत पूजां नाट्यप्रसिद्धये ॥ ३.१२ ॥ त्वं महेन्द्रप्रहरणं सर्वदानवसूदनम् । निर्मितस्सर्वदेवैश्च सर्वविघ्ननिबर्हण ॥ ३.१३ ॥ नृपस्य विजयं शंस रिपूणां च पराजयम् । गोब्राह्मणशिवं चैव नाट्यस्य च विवर्धनम् ॥ ३.१४ ॥ एवं कृत्वा यथान्यायमुपास्यं नाट्यमण्डपे । निशायां तु प्रभातायां पूजनं प्रक्रमेदिह ॥ ३.१५ ॥ आर्द्रायां वा मघायां वा याम्ये पूर्वेषु वा त्रिषु । आश्लेषामूलयोर्वापि कर्तव्यं रङ्गपूजनम् ॥ ३.१६ ॥ आचार्येण तु युक्तेन शुचिना दीक्षितेन च । रङ्गस्योद्योतनं कार्यं देवतानां च पूजनम् ॥ ३.१७ ॥ दिनान्ते दारुणे घोरे मुहूर्ते यमदैवते । आचम्य तु यथान्यायं देवता वै निवेशयत् ॥ ३.१८ ॥ रक्ताः प्रतिसराः सूत्रं रक्तगन्धाश्च पूजिताः । रक्ताः सुमनसश्चैव यच्च रक्तं फलं भवेत् ॥ ३.१९ ॥ यवैस्सिद्धार्थकैर्लाजैरक्षतैः शालितण्डुलैः । नागपुष्पस्य चूर्णेन वितुषाभिः प्रियङ्गुभिः ॥ ३.२० ॥ एतैर्द्रव्यैर्युतं कुर्याद्देवतानां निवेशनम् । आलिखेन्मण्डलं पूर्वं यथास्थानं यथाविधिः ॥ ३.२१ ॥ समन्तस्तश्च कर्तव्यं हस्ता षोडश मण्डलम् । द्वाराणि चात्र कुर्वीत विधानेन चतुर्दिशम् ॥ ३.२२ ॥ मध्ये चैवात्र कर्तव्ये द्वे रेखे तिर्यगूर्ध्वगे । तयोः कक्ष्याविभागेन दैवतानि निवेशयत् ॥ ३.२३ ॥ पद्मोपविष्टं ब्रह्माणं तस्य मध्ये निवेशयेत् । आदौ निवेश्यो भगवान्सार्धं भूतगणैः शिवः ॥ ३.२४ ॥ नारायणो महेन्द्रश्च स्कन्दः सूर्योऽश्विनौ शशी । सरस्वती च लक्ष्मीश्च श्रद्धा मेधा च पूर्वतः ॥ ३.२५ ॥ पूर्वदक्षिणतो वह्निर्निवेश्यः स्वाहया सह । विश्वेदेवाः सगन्धर्वा रुद्राः सर्पगणास्तथा ॥ ३.२६ ॥ दक्षिणेन निवेश्यस्तु यमो मित्रश्च सानुगः । पितॄन्पिशाचानुरगान् गुह्यकांश्च निवेशयत् ॥ ३.२७ ॥ नैॠत्यां राक्षसांश्चैव भूतानि च निवेशयत् । पश्चिमायां समुद्रांश्च वरुणं यादसां पतिम् ॥ ३.२८ ॥ वायव्यायां दिशि तथा सप्त वायून्निवेशयेत् । तत्रैव विनिवेश्यस्तु गरुडः पक्षिभिः सह ॥ ३.२९ ॥ उत्तरस्यां दिशि तथा धनदं संनिविएशयेत् । नाट्यस्य मातॄश्च तथा यक्षानथ सगुह्यकान् ॥ ३.३० ॥ तथैवोत्तरपूर्वायां नन्द्याद्यांश्च गणेश्वरान् । ब्रह्मर्षिभूतसंघांश्च यथाभागं निवेशयत् ॥ ३.३१ ॥ स्तम्भे सनत्कुमारं तु दक्षिणे दक्षमेव च । ग्रामण्यमुत्तरे स्तम्भे पूजार्थं संनिविशयेत् ॥ ३.३२ ॥ अनेनैअव विधानेन यथास्थानं यथाविधि । सुप्रसादानि सर्वाणि दैवतानि निवेशयत् ॥ ३.३३ ॥ स्थाने स्थाने यथान्यायं विनिवेश्य तु देवताः । तासां प्रकुर्वीत ततः पूजनं तु यथार्हतः ॥ ३.३४ ॥ देवताभ्यस्तु दातव्यं सितमाल्यानुलेपनम् । गन्धर्ववह्निसूर्योभ्यो रक्तमाल्यानुलेपनम् ॥ ३.३५ ॥ गन्धं माल्यं च धूपं च यथावदनुपूर्वशः । दत्वा ततः प्रकुर्वीत बलिं पूजां यथाविधिः ॥ ३.३६ ॥ ब्रह्माणं मदुकर्पेण पायसेन सरस्वतीम् । शिवविष्णुमहेन्द्राद्याः सम्पूज्या मोदकैरथ ॥ ३.३७ ॥ घृतौदनेन हुतभुक्षोमर्कौ तु गुडौदनैः । विश्वेदेवाः सगन्धर्वा मुनयो मधुपायसैः ॥ ३.३८ ॥ यममित्रौ च सम्पूज्यावपूपैर्मोदकैस्तथा । पितॄन्पिशाचानुरगान् सर्पिःक्षीरेण तर्पयेत् ॥ ३.३९ ॥ पक्वानेन तु मांसेन सुरासीथुफलासवैः । अर्चयेद्भूतसंघांश्च चणकैः पललाप्लुतैः ॥ ३.४० ॥ अनेनैव विधानेन सम्पूज्या मत्तवारणी । पक्वामेन तु मांसेन सम्पूज्या रक्षसां गणाः ॥ ३.४१ ॥ सुरामांसप्रदानेअन दानवान्प्रतिपूजयेत् । शेषान्देवगणांस्तज्ज्ञः सापूपोत्कारिकौदनैः ॥ ३.४२ ॥ मत्स्यैश्च पिष्टभक्ष्यैश्च सागरान्सरितस्तथा । सम्पूज्य वरुणं चापि दातव्यं घृतपायसम् ॥ ३.४३ ॥ नानाफूलफलश्चापि मुनीन्सम्प्रतिपूजयेत् । वायूंश्च पक्षिणश्चैव विचित्रैर्भक्ष्यभोजनैः ॥ ३.४४ ॥ मातॄर्नाट्यस्य सर्वास्ता धनदं च सहानुगैः । अपूपैर्लाजिकामिश्रैर्भक्ष्यभोज्यैश्च पूजयेत् ॥ ३.४५ ॥ एवमेषां बलिः कार्यो नानाभोजनसंश्रयः । पुनर्मन्त्रविधानेन बलिकर्म च वक्ष्यते ॥ ३.४६ ॥ देवदेव महाभाग सर्वलोकपितामह । मन्त्रपूतमिमं सर्वं प्रतिगृह्णीष्व मे बलिम् ॥ ३.४७ ॥ देवदेव महाभाग गणेश त्रिपुरान्तक । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ ३.४८ ॥ नारायणामितगते पद्मनाभ सुरोत्तम । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयार्पितः ॥ ३.४९ ॥ पुरन्दरामरपते वज्रपाणे शतक्रतो । प्रगृह्यतां बलिर्देव विधिमन्त्रपुरस्कृतः ॥ ३.५० ॥ देवसेनापते स्कन्द भगवन् शङ्करप्रिय । बलिः प्रीतेन मनसा षण्मुख प्रतिगृह्यताम् ॥ ३.५१ ॥ महादेव महायोगिन्देवदेव सुरोत्तम । संप्रगृह्य बलिं देव रक्ष विघ्नात्सदोत्थितात् ॥ ३.५१* ॥ देवि देवमहाभागे सरस्वति हरिप्रिये । प्रगृह्यतां बलिर्मातर्मया भक्त्या समर्पितः ॥ ३.५२ ॥ नानानिमित्तसम्भूताः पौलस्त्याः सर्व एव तु राक्षसेन्द्रा महासत्वाः प्रतिगृह्णीत मे बलिम् ॥ ३.५३ ॥ लक्ष्मीः सिद्धिर्मतिर्मेधा सर्वलोकनमस्कृताः । मन्त्रपूतमिमं देव्यः प्रतिगृह्णन्तु मे बलिम् ॥ ३.५४ ॥ सर्वभूतानुभावज्ञ लोकजीवन मारुत । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ ३.५५ ॥ देववक्त्र सुरश्रेष्ठ धूमकेतो हुताशन । भक्त्या समुद्यतो देव बलिः सम्प्रति गृह्यताम् ॥ ३.५६ ॥ सर्वग्रहाणां प्रवर तेजोराशे दिवाकर । भक्त्या मयोद्यतो देव बलिः सम्प्रति गृह्यताम् ॥ ३.५७ ॥ सर्वग्रहपते सोम द्विजराज जगत्प्रिय । प्रगृह्यतामेष बलिर्मन्त्रपूतो मयोद्यतः ॥ ३.५८ ॥ महागणेश्वराः सर्वे नन्दीश्वरपुरोगमाः । प्रगृतां बलिर्भक्त्या मया सम्प्रति चोदितः ॥ ३.५९ ॥ नमः पितृभ्यः सर्वेभ्यः प्रतिगृह्णन्त्विमं बलिम् । (भूतेभ्यश्च नमो नित्यं येषामेष बलिः प्रियः) । कामपाल नमो नित्यं यस्यायं ते विधिः कृतः ॥ ३.६० ॥ नारदस्तुम्बरुश्चैव विश्वावसुपुरोगमाः । परिगृह्णन्तु मे सर्वे गन्धर्वा बलिमुद्यतम् ॥ ३.६१ ॥ यमो मित्रश्च भगवानीश्वरौ लोकपूजितौ । इमं मे प्रतिगृह्णीतां बलिः मन्त्रपुरस्कृतम् ॥ ३.६२ ॥ रसातलगतेभ्यश्च पन्नगेभ्यो नमो नमः । दिशन्तु सिद्धिं नाट्यस्य पूजिताः पापनाशनाः ॥ ३.६३ ॥ सर्वाम्भसां पतिर्देवो वरुणो हंसवाहनः । पूजितः प्रीतमानस्तु ससमुद्रनदीनदः ॥ ३.६४ ॥ वैनतेय महासत्व सर्वपक्षिपते विभो । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ ३.६५ ॥ धनाध्यक्षो यक्षपतिर्लोकपालो धनेश्वरः । सगुह्यकस्सयक्षश्च प्रतिगृह्णातु मे बलिम् ॥ ३.६६ ॥ नमोऽस्तु नाट्यमातृभ्यो ब्राह्म्याद्याभ्यो नमोनमः । सुमुखीभिः प्रसन्नाभिर्बलिरद्य प्रगृह्यताम् ॥ ३.६७ ॥ रुद्रप्रहरणं सर्वं प्रतिगृह्णातु मे बलिम् । विष्णुप्रहरणं चैव विष्णुभक्त्या मयोद्यतम् ॥ ३.६८ ॥ तथा कृतान्तः कालश्च सर्वप्राणिवधेश्वरौ । मृत्युश्च नियतिश्चैव प्रतिगृह्णातु मे बलिम् ॥ ३.६९ ॥ याश्चास्यां मत्तवारण्यां संश्रिता वस्तुदेवताः । मन्त्रपूतमिमं सम्यक्प्रतिगृह्णन्तु मे बलिम् ॥ ३.७० ॥ अन्ये ये देवगन्धर्वा दिशो दश समाश्रिताः । दिव्यान्तरिक्षाभौमाश्च तेभ्यश्चायं बलिः कृतः ॥ ३.७१ ॥ कुम्भं सलिलसम्पूर्णं पुष्पमालापुरस्कृतम् । स्थापयेद्रङ्गमध्ये तु सुवर्णं चात्र दापयेत् ॥ ३.७२ ॥ आतोद्यानि तु सर्वाणि कृत्वा वस्त्रोत्तराणि तु । गन्धैर्माल्यैश्च धूपैश्च भक्ष्यैर्भोज्यैश्च पूजयेत् ॥ ३.७२* ॥ पूजयित्वा तु सर्वाणि दैवतानि यथाक्रमम् । जर्जरस्त्वभिसम्पूज्यः स्यात्ततो विघ्नजर्जरः ॥ ३.७३ ॥ श्वेतं शिरसि वस्त्रं स्यान्नीलं रौद्रे च पर्वणि । विष्णुपर्वणि वै पीतं रक्तं स्कन्दस्य पर्वणि ॥ ३.७४ ॥ मृडपर्वणि चित्रं तु देयं वस्त्रं हितार्थिना । सदृशं च प्रदातव्यं धूपमाल्यानुलेपनम् ॥ ३.७५ ॥ आतोद्यानि तु सर्वाणि वासोभिरवगुण्ठयेत् । गन्धैर्माल्यैश्च धूपैश्च भक्ष्यभोजैश्च पूजयेत् ॥ ३.७६ ॥ सर्वमेवं विधिं कृत्वा गन्धमाल्यानुलेपनैः । विघ्नजर्जरणार्थं तु जर्जरं त्वभिमन्त्रयेत् ॥ ३.७७ ॥ अत्र विघ्नविनाशार्थं पितामहमुखैस्सुरैः । निर्मितस्त्वं महावीर्यो वज्रसारो महातनुः ॥ ३.७८ ॥ शिरस्ते रक्षतु ब्रम्हा सर्वैर्देवगुणैअः तह । द्वितीयं च हरः पर्व तृतीयं च जनार्दनः ॥ ३.७९ ॥ चतुर्थं च कुमारस्ते पञ्चमं पन्नगोत्तमः । नित्यं सर्वेऽपि पान्तु त्वां सुरार्थे च शिवो भव ॥ ३.८० ॥ नक्षत्रेऽभिजिति त्वं हि प्रसूतोऽहितसूदन । जयं चाभ्युदयं चैव पार्थिवस्य समावह ॥ ३.८१ ॥ जर्जरं पूजयित्वैअवं बलिं सर्वं निविद्य च । अग्नौ होमं ततः कुर्यान्मन्त्राहुइतिपुरस्कृतम् ॥ ३.८२ ॥ हुताश एव दीप्ताभिरुल्काभिः परिमार्जनम् । नृपतेर्नर्तकीनां च कुर्याद्दीप्त्यभिवर्धनम् ॥ ३.८३ ॥ अभिद्योत्य सहातोद्यैर्नृपतिं नर्तकीस्तथा । मन्त्रपूतेन तोयेन पुनरभ्युक्ष्य तान्वदेत् ॥ ३.८४ ॥ महाकुले प्रसूताः स्थ गुणौघैश्चाप्यलङ्कृताः । यद्वो जन्मगुणोपेतं तद्वो भवतु नित्यशः ॥ ३.८५ ॥ एवमुक्त्वा ततो वाक्यं नृपतैर्भूतये बुधः । नाट्ययोगप्रसिद्ध्यर्थमाशिषस्सम्प्रयोजयेत् ॥ ३.८६ ॥ सरस्वती धृतिर्मेधा ह्रीः श्रीर्लक्ष्मीस्स्मृतिर्मतिः । पान्तु वो मातरः सौम्यास्सिद्धिदाश्च भवन्तु वः ॥ ३.८७ ॥ होमं कृत्वा यथान्यायं हविर्मन्त्रपुरस्कृतम् । भिन्द्यात्कुम्भं ततश्चैव नाट्याचार्यः प्रयत्नतः ॥ ३.८८ ॥ अभिन्ने तु भवेत्कुम्भे स्वामिनः शत्रुतो भयम् । भिन्ने चैव तु विज्ञेयः स्वामिनः शत्रुसंक्षयः ॥ ३.८९ ॥ भिन्ने कुम्भे ततश्चैव नाट्यचार्यः प्रयत्नतः । प्रगृह्य दीपिकां दीप्तां सर्वं रङ्गं प्रदीपयेत् ॥ ३.९० ॥ क्ष्वेडितैः स्फोटितैश्चैव वल्गितैश्च प्रधावितैः । रङ्गमध्ये तु तां दीप्तां सशब्दां सम्प्रयोजयेत् ॥ ३.९१ ॥ शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवैस्तथा । सर्वातोद्यैः प्रणदितै रङ्गे युद्धानि कारयेत् ॥ ३.९२ ॥ तत्र च्छिन्नं व भिन्नं च दारितं च सशोणितम् । क्षतं प्रदीप्तमायस्तं निमित्तं सिद्धिलक्षणम् ॥ ३.९३ ॥ सम्यगिष्टस्तु रङ्गो वै स्वामिनः शुभमावहेत् । पुरस्याबालवृद्धस्य तथा जानपदस्य च ॥ ३.९४ ॥ दुरिष्टस्तु तथा रङ्गो दैवतैर्दुरधिष्ठितः । नाट्यविध्वसनं कुर्यान्नृपस्य च तथाऽशुभम् ॥ ३.९५ ॥ य एवं विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् । प्राप्नोत्यपचयं शीघ्रं तिर्यग्योनिं च गच्छति ॥ ३.९६ ॥ यज्ञेन सम्मितं ह्येतद्रङ्गदैवतपूजनम् । अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रयोजयेत् ॥ ३.९७ ॥ पूजिताः पूजयन्त्येते मानिता मानयन्ति च । तस्मात्सर्वप्रयत्नेन कर्तव्यं रङ्गपूजनम् ॥ ३.९८ ॥ न तथा प्रदहत्यग्निः प्रभञ्जनसमीरितः । यथा ह्यपप्रयोगस्तु प्रयुक्तो दहति क्षणात् ॥ ३.९९ ॥ शास्त्रज्ञेन विनीतेन शुचिना दीक्षितेन च । नाट्याचार्येण शान्तेन कर्तव्यं रङ्गपूजनम् ॥ ३.१०० ॥ स्थानभ्रष्टं तु यो दद्याद्बलिमुद्विग्नमानसः । मन्त्रहीनो यथा होता प्रायश्चित्ती भवेत्तु सः ॥ ३.१०१ ॥ इत्ययं यो विधिर्दृष्टो रङ्गदैवतपूजने । नवे नाट्यगृहे कार्यः प्रेक्षायां च प्रयोक्तृभिः ॥ ३.१०२ ॥ इति भारतीये नाट्यशास्त्रे रङ्गदैवतपूजनं नाम तृतीयोऽध्यायः समाप्तः _____________________________________________________________ अथ चतुर्थोऽध्यायः एवं तु पूजनं कृत्वा मया प्रोक्तः पितामहः । आज्ञापय प्रभो क्षिप्रं कः प्रयोगः प्रयुज्यताम् ॥ ४.१ ॥ ततोऽस्म्युक्तो भगवता योजयामृतमन्थनम् । एतदुत्साहजननं सुरप्रीतिकरं तथा ॥ ४.२ ॥ योऽयं समवकारस्तु धर्मकामार्थसाधकः । मया प्राग्ग्रथितो विद्वन्स प्रयोगः प्रयुज्यताम् ॥ ४.३ ॥ तस्मिन्समवकारे तु प्रयुक्ते देवदानवाः । हृष्टाः समभवन्सर्वे कर्मभावानुदर्शनात् ॥ ४.४ ॥ कस्यचित्वथ कालस्य मामाहाम्बुजसम्भवः नाट्यं सन्दर्शयामोऽद्य त्रिनेत्राय महात्मने ॥ ४.५ ॥ ततः सार्धं सुरैर्गत्वा वृषभाङ्कनिवेशनम् । समभ्यर्च्य शिवं पश्चादुवाचेदं पितामहः ॥ ४.६ ॥ मया समवाकरस्तु योऽयं सृष्टः सुरोत्तम । श्रवणे दर्शने चास्य प्रसादं कर्तुमर्हसि ॥ ४.७ ॥ पश्याम इति देवेशो द्रुहिणं वाक्यमब्रवीत् । ततो मामाह भगवान् सज्जो भव महामते ॥ ४.८ ॥ ततो हिमवतः पृष्ठे नानानागसमाकुले । बहुभूतगणाकीर्णे रम्यकन्दरनिर्श्हरे ॥ ४.९ ॥ पूर्वरङ्गः कृतः पूर्वं तत्रायं द्विजसत्तमाः । तथा त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः ॥ ४.१० ॥ ततो भूतगणा हृष्टाः कर्नभावानुकीर्तनात् । महादेवश्च सुप्रीतः पितामहमथाब्रवीत् ॥ ४.११ ॥ अहो नाट्यमिदं सम्यक्त्वया सृष्टं महामते । यशस्यं च शुभार्थं च पुण्यं बुद्धिविवर्धनम् ॥ ४.१२ ॥ मयापीदं स्मृतं नृत्यं सन्ध्याकालेषु नृत्यता । नानाकरणसंयुक्तैरङ्गहारैर्विभूषितम् ॥ ४.१३ ॥ पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयोज्यताम् । वर्धमानकयोगेषु गीतेष्वासारितेषु च ॥ ४.१४ ॥ महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि । यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः ॥ ४.१५ ॥ एभिर्विमिश्रितश्चायं चित्रो नाम भविष्यति । श्रुत्वा महेश्वरवचः प्रत्युक्तस्तु स्वयंभुवा ॥ ४.१६ ॥ प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम । ततस्तण्डुं समाहूय प्रोक्तवान् भुवनेश्वरः ॥ ४.१७ ॥ प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै । ततो ये तण्डुना प्रोक्तास्त्वङ्गहारा महात्मना ॥ ४.१८ ॥ तान्वः करणसंयुक्तान्व्याख्यास्यामि सरेचकान् । स्थिरहस्तोऽङ्गहारस्तु तथा पर्यस्तकः स्मृतः ॥ ४.१९ ॥ सूचिविद्धस्तथा चैव ह्यपविद्धस्तथैव च । आक्षिप्तकोऽथ विज्ञेयस्तथा चोद्धट्टितः स्मृतः ॥ ४.२० ॥ विष्कम्भश्चैव सम्प्रोक्तस्तथा चैवापराजितः । विष्कम्भापसृतश्चैअव मत्ताक्रीडस्तथैव च ॥ ४.२१ ॥ स्वस्तिको रेचितश्चैव पार्श्वस्वस्तिक एव च । वृश्चिकापसृतः प्रोक्तो भ्रमरश्च तथापरः ॥ ४.२२ ॥ मत्तस्खलितकश्चैव मदाद्विलसितस्तथा । गतिमण्डलको ज्ञेयः परिच्छिन्नस्तथैव च ॥ ४.२३ ॥ परिवृत्तचितोऽथ स्यात्तथा वैशाखरेचितः । परावृत्तोऽथ विज्ञेयस्तथा चैवाप्यलातकः ॥ ४.२४ ॥ पार्श्वच्छेदोऽथ सम्प्रोक्तो विद्युद्भ्रान्तस्तथैव च । ऊरूद्वृत्तस्तथा चैव स्यादालीढस्तथैव च ॥ ४.२५ ॥ रेचितश्चापि विज्ञेयस्तथैवाच्छुरितः स्मृतः । आक्षिप्तरेचितश्चैव सम्भ्रान्तश्च तथापरः ॥ ४.२६ ॥ अपसर्पस्तु विज्ञेयस्तथा चार्धनिकुट्टकः । द्वात्रिंशदेते सम्प्रोक्ता अङ्गहारास्तु नामतः ॥ ४.२७ ॥ एतेषां तु प्रवक्ष्यामि प्रयोगं करणाश्रयम् । हस्तपादप्रचारश्च यथा योज्यः प्रयोक्तृभिः ॥ ४.२८ ॥ अङ्गहारेषु वक्ष्यामि करणेषु च वै द्विजाः । सर्वेषामङ्गहाराणां निष्पत्तिः करणैर्यतः ॥ ४.२९ ॥ तान्यतः सम्प्रवक्ष्यामि नामतः कर्मतस्तथा । हस्तपादसमायोगो नृत्यस्य करणं भवेत् ॥ ४.३० ॥ द्वे नृत्तकरणे चैव भवतो नृत्तमातृका । द्वाभ्यां त्रिभिश्चतुर्भिर्वाप्यङ्गहारस्तु मातृभिः ॥ ४.३१ ॥ त्रिभिः कलापकं चैव चतुर्भिः षण्डकं भवेत् । पञ्चैव करणानि स्युः सङ्घातक इति स्मृतः ॥ ४.३२ ॥ षड्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा । करणैरिह संयुक्ता अङ्गहाराः प्रकीर्ताः ॥ ४.३३ ॥ एतेषामेव वक्ष्यामि हस्तपादविकल्पनम् । तलपुष्पपुटं पूर्वं वर्तितं वलितोरु च ॥ ४.३४ ॥ अपविद्धं समनखं लीनं स्वस्तिकरेचितम् । मण्डलस्वस्तिकं चैव निकुट्टकमथापि च ॥ ४.३५ ॥ तथैवार्धनिकुट्टं च कटिच्छिन्नं तथैव च । अर्धरेचितकं चैव वक्षःस्वस्तिकमेव च ॥ ४.३६ ॥ उन्मत्तं स्वस्तिकं चैव पृष्ठस्वस्तिकमेव च । दिक्ष्वस्तिकमलातं च तथैव च कटीसमम् ॥ ४.३७ ॥ आक्षिप्तरेचितं चैव विक्षिप्ताक्षिप्तकं तथा । अर्धस्वस्तिकमुद्दिष्टमञ्चितं च तथापरम् ॥ ४.३८ ॥ भुजङ्गत्रासितं प्रोक्तमूर्ध्वजानु तथैव च । निकुञ्चितं च मत्तल्लि त्वर्धमत्तल्लि चैव हि ॥ ४.३९ ॥ स्याद्रेचकनिक्कुट्टं च तथा पादापविद्धकम् । वलितं घूर्णितं चैव ललितं च तथापरम् ॥ ४.४० ॥ दण्डपक्षं तथा चैव भुजङ्गत्रस्तरेचितम् । नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम् ॥ ४.४१ ॥ भ्रमरं चतुरं चैव भुजङ्गाञ्चितमेव च । दण्डरेचितकं चैव तथा वृश्चिककुट्टितम् ॥ ४.४२ ॥ कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च । छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् ॥ ४.४३ ॥ वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम् । ललाटतिलकं क्रान्तं कुञ्चितं चक्रमण्डलम् ॥ ४.४४ ॥ उरोमण्डलमाक्षिप्तं तथा तलविलासितम् । अर्गलं चाथ विक्षिप्तमावृत्तं दोलपादकम् ॥ ४.४५ ॥ विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् । विद्युत्भ्रान्तमतिक्रान्तं विवर्तितकमेव च ॥ ४.४६ ॥ गजक्रीडितकं चैव तलसंस्फोटितं तथा । गरुडप्लुतकं चैव गण्डसूचि तथापरम् ॥ ४.४७ ॥ परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च । गृध्रावलीनकं चैव सन्नतं सूच्यथापि च ॥ ४.४८ ॥ अर्धसूचीति करणं सूचिविद्धं तथैव च । अपक्रान्तं च सम्प्रोक्तं मयूरललितं तथा ॥ ४.४९ ॥ सर्पितं दण्डपादं च हरिणप्लुतमेव च । प्रेङ्खोलितं नितम्बं च स्खलितं करिहस्तकम् ॥ ४.५० ॥ प्रसर्पितकमुद्दिष्टं सिंहविक्रीडतं तथा । सिंहाकर्षितमुद्वृत्तं तथोपसृतमेव च ॥ ४.५१ ॥ तलसंघट्टितं चैव जनितं चावहित्थकम् । निवेशमेलकाक्रीडमूरूद्वृत्तं तथैव च ॥ ४.५२ ॥ मदस्खलितकं चैव विष्णुक्रान्तमथापि च । सम्भ्रान्तमथ विष्कम्भमुद्घट्टितमथापि च ॥ ४.५३ ॥ वृषभक्रीडितं चैव लोलितं च तथापरम् । नागापसर्पितं चैव शकटास्यं तथैव च ॥ ४.५४ ॥ गङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् । अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ ४.५५ ॥ नृत्ये युद्धे नियुद्धे च तथ गतिपरिक्रमे । गतिप्रचारे वक्ष्यामि युद्धचारीविकल्पनम् ॥ ४.५६ ॥ यत्र तत्रापि संयोज्यमाचार्यैर्नाट्यशक्तिनः । प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ ४.५७ ॥ चरणस्यानुगश्चापि दक्षिणस्तु भवेत्करः । हस्तपादप्रचारन्तु कटिपार्श्वोरुसंयुतम् ॥ ४.५८ ॥ उरःपृष्ठोदरोपेतं वक्ष्यमाणं निबोधत । यानि स्थानानि याश्चार्यो नृत्यहस्तास्तथैव च ॥ ४.५९ ॥ सा मातृकेति विज्ञेया तद्योगात्करणं भवेत् । कटी कर्णसमा यत्र कोर्परांसशिरस्तथा ॥ ४.६० ॥ समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् । वामे पुष्पपुटः पार्श्वे पादोऽग्रतलसञ्चरः ॥ ४.६१ ॥ तथा च सन्नतं पार्श्वं तलपुष्पपुटं भवेत् । कुञ्चितौ मणिबन्धे तु व्यावृत्तपरिवर्तितौ ॥ ४.६२ ॥ हस्तौ निपतितौ चोर्वोर्वर्तितं करणं तु तत् । शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तितौ ॥ ४.६३ ॥ उरू च वलितौ यस्मिन्वलितोरुकमुच्यते । आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे निपातयेत् ॥ ४.६४ ॥ वामहतश्च वक्षःस्थोऽप्यपविद्धं तु तद्भवेत् । श्लिष्टौ समनखौ पदौ करौ चापि प्रलिम्बितौ ॥ ४.६५ ॥ देहः स्वाभाविको यत्र भवेत्समनखं तु तत् । पताकाञ्जलि वक्षःस्थं प्रसारितशिरोधरम् ॥ ४.६६ ॥ निहञ्चितांसकूटं च तल्लिनं करणं स्मृतम् । स्वस्तिकौ रेचिताविद्धौ विश्लिष्टौ कटिसंश्रितौ ॥ ४.६७ ॥ यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेचितम् । स्वस्तिकौ तु करौ कृत्वा प्राङ्गमुखोर्ध्वतलौ समौ ॥ ४.६८ ॥ तथा च मण्डलं स्थानं मण्डलस्वस्तिकं तु तत् । निकुट्टितौ यदा हस्तौ स्वबाहुशिरसोऽन्तरे ॥ ४.६९ ॥ पादौ निकुट्टितौ चैव ज्ञेयं तत्तु निकुट्टकम् । अञ्चितौ बाहुशिरसि हस्तस्त्वभिमुखाङ्गुलिः ॥ ४.७० ॥ निकुञ्चितार्धयोगेन भवेदर्थनिकुट्टकम् । पर्यायशः कटिश्छिन्ना बाह्वोः शिरसि पल्लवौ ॥ ४.७१ ॥ पुनःपुनश्च करणं कटिच्छिनं तु तद्भवेत् । अपविद्धकरः सूच्या पादश्चैव निकुट्टितः ॥ ४.७२ ॥ संन्नतं यत्र पार्श्वं च तद्भवेअर्धरेचितम् । स्वस्तिकौ चरणौ यत्र करौ वक्षसि रेचितौ ॥ ४.७३ ॥ निकुञ्चितं तथा वक्षो वक्षस्स्वस्तिकमेव तत् । आञ्चितेन तु पादेन रेचितौ तु करौ यदा ॥ ४.७४ ॥ उन्मतं करणं तत्तु विज्ञेयं नृत्यकोविदैः । हस्ताभ्यामथ पादाभ्यां भवतः स्वस्तिकौ यदा ॥ ४.७५ ॥ तत्स्वस्तिकमिति प्रोक्तं करणं करणार्थिभिः । विक्षिप्ताक्षिप्तबाहुभ्यां स्वस्तिकौ चरणौ यदा ॥ ४.७६ ॥ अपक्रान्तार्धसूचिभ्यां तत्पृष्ठस्वस्तिकं भवेत् । पार्श्वयोरग्रतश्चैव यत्र श्लिष्टः करो भवेत् ॥ ४.७७ ॥ स्वस्तिकौ हस्तपादाभ्यां तद्दिक्ष्वस्तिकमुच्यते । अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् ॥ ४.७८ ॥ ऊर्ध्वजानुक्रमं कुर्यादलातकमिति स्मृतम् । स्वस्तिकापसृतः पादः करौ नाभिकटिस्थितौ ॥ ४.७९ ॥ पार्श्वमुद्वाहितं चैव करणं तत्कटीसमम् । हस्तौ हृदि भवेद्वामः सव्यश्चाक्षिप्तरेचितः ॥ ४.८० ॥ रेचितश्चापविद्धश्च तत्स्यादाक्षिप्तरेचितम् । विक्षिप्तं हस्तपादं च तसैवाक्षेपणं पुनः ॥ ४.८१ ॥ यत्र तत्करणं ज्ञेयं विक्षिप्ताक्षिप्तप्तकं द्विजाः । स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिणम् ॥ ४.८२ ॥ वक्षस्थाने तथा वाममर्धस्वस्तिकमादिशेत् । व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा ॥ ४.८३ ॥ अञ्चितो नासिकाग्रे तु तदञ्चितमुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ॥ ४.८४ ॥ कटिजानुविवर्ताच्च भुजङ्गत्रासितं भवेत् । कुञ्चितं पादमुत्क्षिप्य जनुस्तनसमं न्यसेत् ॥ ४.८५ ॥ प्रयोगवशगौ हस्तावूर्ध्वजानु प्रकीर्तितम् । वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् ॥ ४.८६ ॥ नासाग्रे दक्षिणं चैव ज्ञेयं तत्तु निकुञ्चितम् । वामदक्षिणपादाभ्यां घूर्णमानोपसर्पणैः ॥ ४.८७ ॥ उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृतम् । स्स्खलितापसृतौ पादौ वामहस्तश्च रेचितः ॥ ४.८८ ॥ सव्यहस्तः कटिस्थः स्यादर्धमत्तल्लि तत्स्मृतम् । रेचितो दक्षिणो हस्तः पादः सव्यो निकुट्टितः ॥ ४.८९ ॥ दोला चैव भवेद्वामस्तद्रेचितनिकुट्टितम् । कार्यौ नाभितटे हस्तौ प्राङ्मुखौ खटकामुखौ ॥ ४.९० ॥ सूचीविद्धावपक्रान्तौ पादौ पादापविद्धके । अपविद्धो भवेद्धस्तः सूचीपादस्तथैअव च ॥ ४.९१ ॥ तथा त्रिकं विवृत्तं च वलितं नाम तद्भवेत् । वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः ॥ ४.९२ ॥ स्वस्तिकापसृतः पादः करणं घूर्णितं तु तत् । करिहस्तो भवेद्वामो दक्षिणश्च विवर्तितः ॥ ४.९३ ॥ बहुशः कुट्टितः पदो ज्ञेयं तल्ललितं बुधैः । ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत् ॥ ४.९४ ॥ दण्ड्पक्षं तत्प्रोक्तं कर्णं नृत्यवेदिभिः । भुजञ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ ॥ ४.९५ ॥ वामपार्श्वस्थ्तौ हस्तौ भुजङ्गत्रस्तरेचितम् । त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ ॥ ४.९६ ॥ नूपुर्श्च तथा पादः करणे नूपुरे न्यसेत् । रेचितौ हस्तपादौ च कटी ग्रीवा च रेचिता ॥ ४.९७ ॥ वैशाखस्थानकेनैतद्भवेवैशाखरेचितम् । आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा ॥ ४.९८ ॥ त्रिकस्य वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् । अञ्चितः स्यात्करो वामः सव्यश्चतुर एव तु ॥ ४.९९ ॥ दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् । भुजङ्गत्रासितः पादो दक्षिणो रेचितः करः ॥ ४.१०० ॥ लताख्यश्च करो वामो भुजङ्गाञ्चितकं भवेत् । विक्षिप्तं हस्तपादं तु समन्ताद्यत्र दण्डवत् ॥ ४.१०१ ॥ रेच्यते तद्धि करणं ज्ञेयं दण्डकरेचितम् । वृश्चिकं चरणं कृत्वा द्वावप्यथ निकुट्टितौ ॥ ४.१०२ ॥ विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् । सूचिं कृत्वापविद्धं च दक्षिणं चरणं न्यसेत् ॥ ४.१०३ ॥ रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते । अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः ॥ ४.१०४ ॥ लताख्यश्च करो वामस्तल्लतावृश्चिकं भवेत् । अलपद्मः कटीदेशे छिन्ना पर्यायशः कटी ॥ ४.१०५ ॥ वैशाखस्थानकेनेह तच्छिन्नं करणं भवेत् । वृश्चिकं चरणं कृत्वा स्वस्तिकौ च करवुभौ ॥ ४.१०६ ॥ रेचितौ विप्रकीर्णौ च करौ वृश्चिकरेचितम् । बाहुशीर्षाञ्चितौ हस्तौ पादः पृष्ठाञ्चितस्तथा ॥ ४.१०७ ॥ दूरसन्नतपृष्ठं च वृश्चिकं तत्प्रकीर्तितम् । आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ ॥ ४.१०८ ॥ ऊर्ध्वाधो विप्रकीर्णौ च व्यंसितं करणं तु तत् । हस्तौ तु स्वस्तिकौ पार्श्वे तथा पादो निकुट्टितः ॥ ४.१०९ ॥ यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टितम् । वृश्चिकं चरणं कृत्वा पादस्याङ्गुष्ठकेन तु ॥ ४.११० ॥ ललाटे तिलकं कुर्याल्ललाटतिलकं तु तत् । पृष्ठतः कुञ्चितं कृत्वा व्यतिक्रान्तक्रमं ततः ॥ ४.१११ ॥ आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः । आद्यः पादो नतः कार्यः सव्यहस्तश्च कुञ्चितः ॥ ४.११२ ॥ उत्तानो वामपार्श्वस्थस्तत्कुञ्चितमुदाहृतम् । प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेणानतेन च ॥ ४.११३ ॥ अभ्यन्तरापविद्धः स्यात्तज्ज्ञेयं चक्रमण्डलम् । स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा ॥ ४.११४ ॥ उरोमण्डलकौ हस्तावुरोमण्डलिकस्तु तत् । आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः ॥ ४.११५ ॥ आक्षिओतं नाम करणं विज्ञेयं तत्द्विजोत्तमाः । ऊर्ध्वाङ्गुलितलः पादः पार्श्वेनोर्ध्वं प्रसारितः ॥ ४.११६ ॥ प्रकुर्यादञ्चिततलौ हस्तौ तलविलासिते । पृष्ठतः प्रसृतः पादौ द्वौ तालावर्धमेव च ॥ ४.११७ ॥ तस्येव चानुगो हस्तः पुरतस्त्वर्गलं तु तत् । विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्वतोऽपि वा ॥ ४.११८ ॥ एकमार्गगतं यत्र तद्विक्षिप्तमुदाहृतम् । प्रसार्य कुञ्चितं पादं पुनरावर्तयेत्द्रुतम् ॥ ४.११९ ॥ प्रयोगवशगौ हस्तौ तदावर्तमुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु डोलयेत् ॥ ४.१२० ॥ प्रयोगवशगौ हस्तौ डोलापादं तदुच्यते । आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तयेत् ॥ ४.१२१ ॥ रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः । सूचीविद्धं विधायाथ त्रिकं तु विनिवर्तयेत् ॥ ४.१२२ ॥ करौ च रेचितौ कार्यौ विनिवृत्ते द्विजोत्तमः । पार्श्वक्रान्तक्रमं कृत्वा पुरस्तादथ पातयेत् ॥ ४.१२३ ॥ प्रयोगवशगौ हस्तौ पार्श्वक्रान्तं तदुच्यते । पृष्ठतः कुञ्चितः पादौ वक्षश्चैव समुन्नतम् ॥ ४.१२४ ॥ तिलके च करः स्थाप्यस्तन्निस्तम्भितमुच्यते । पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् ॥ ४.१२५ ॥ सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तं तदुच्यते । अतिक्रान्तक्रमं कृत्वा पुरस्तात्संप्रसारयेत् ॥ ४.१२६ ॥ प्रयोगवशगौ हस्तावतिक्रान्ते प्रकीर्तितौ । आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् ॥ ४.१२७ ॥ द्वितीयो रेचितो हस्तो विवर्तितकमेव तत् । कर्णेऽञ्चितः करो वामो लताहस्तश्च दक्षिणः ॥ ४.१२८ ॥ दोलापादस्तथा चैव गजक्रीडितकं भवेत् । द्रुतमुत्क्षिप्य चरणं पुरस्तादथ पातयेत् ॥ ४.१२९ ॥ तलसंस्फोटितौ हस्तौ तलसंस्फोटिते मतौ । पृष्ठप्रसारितः पादः लतारेचितकौ करौ ॥ ४.१३० ॥ समुन्नतं शिरश्चैव गरुडप्लुतकं भवेत् । सूचिपादो नतं पार्श्वमेको वक्षःस्थितः करः ॥ ४.१३१ ॥ द्वितीयश्चाञ्चितो गण्डे गण्डसूची तदुच्यते । ऊर्ध्वापवेष्टितौ हस्तौ सूचीपादो विवर्तितः ॥ ४.१३२ ॥ परिवृत्तत्रिकं चैव परिवृत्तं तदुच्यते । एकः समस्थितः पाद ऊरुपृष्ठे स्थितोऽपरः ॥ ४.१३३ ॥ मुष्टिहस्तश्च वक्षःस्थः पार्श्वजानु तदुच्यते । पृष्ठप्रसारितः पादः किञ्चितञ्चित जानुकः ॥ ४.१३४ ॥ यत्र प्रसारितो बाहू तत्स्यात्गृध्रावलीनकम् । उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकस्थितौ ॥ ४.१३५ ॥ सन्नतौ च तथा हस्तौ सन्नतं तदुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य कुर्यादग्रस्थितं भुवि ॥ ४.१३६ ॥ प्रयोगवशगौ हस्तौ सा सूची परिकीर्तिता । अलपद्मः शिरोहस्तः सूचीपादश्च दक्षिणः ॥ ४.१३७ ॥ यत्र तत्करणं ज्ञेअयमर्धसूचीति नामतः । पादसूच्या यदा पादो द्वितीयस्तु प्रविध्यते ॥ ४.१३८ ॥ कटिवक्षःस्थितौ हस्तौ सूचीविधं तदुच्यते । कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत् ॥ ४.१३९ ॥ प्रयोगवशगौ हस्तवपक्रान्तं तदुच्यते । वृश्चिकं चरणं कृत्वा रेचितौ च तथा करौ ॥ ४.१४० ॥ तथा त्रिकं विवृत्तं च मयूरललितं भवेत् । अञ्चितापसृतौ पादौ शिरश्च परिवाहितम् ॥ ४.१४१ ॥ रेचितौ च तथा हस्तौ तत्सर्पितमुदाहृतम् । नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् ॥ ४.१४२ ॥ क्षिप्राविद्धकरं चैव दण्डपादं तदुच्यते । अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥ ४.१४३ ॥ जङ्घाञ्चितोपरि क्षिप्ता तद्विद्याद्धरिणप्लुतम् । (सेए थे च्लुस्तेर्ङ्घा. आ नेव्लिगतुरे मय्बे अद्देद्तो रेप्रेसेन्त्थिस्च्लुस्तेर्) डोलापादक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥ ४.१४४ ॥ परिवृत्तत्रिकं चैव तत्प्रेङ्खोलितमुच्यते । भुजावूर्ध्वविनिष्क्रान्तौ हस्तौ चाभिमुखाङ्गुली ॥ ४.१४५ ॥ बद्धा चारी तथ चैव नितम्बे करणे भवेत् । दोलापादक्रमं कृत्वा हस्तौ तदनुगावुभौअ ॥ ४.१४६ ॥ रेचितौ घूर्णितौ वापि स्खलितं करणं भवेत् । एको वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोऽपरः ॥ ४.१४७ ॥ अञ्चितश्चरणश्चैव प्रयोज्यः करिहस्तके । एकस्तु रेचितो हस्तो लताख्यस्तु तथा परः ॥ ४.१४८ ॥ प्रसर्पिततलौ पादौ प्रसर्पितकमेव तत् । अलातं च पुरःकृत्वा द्वितीयं च द्रुतक्रमम् ॥ ४.१४९ ॥ हस्तौ पादानुगौ चापि सिंहविक्रीडिते स्मृतौ । पृष्ठप्रसर्पितः पादस्तथा हस्तौ निकुञ्चितौ ॥ ४.१५० ॥ पुनस्तथैव कर्तव्यौ सिंहाकर्ष्तके द्विजाः । आक्षिप्तहस्तमाक्षिप्तदेहमाक्षिप्तपादकम् ॥ ४.१५१ ॥ अद्वृत्तगात्रमित्येतदुद्वृतां करणं स्मृतम् । आक्षिप्तचरणश्चैको हस्तौ तस्यैव चानुगौ ॥ ४.१५२ ॥ आनतं च तथ गात्रं तयोपसृतकं भवेत् दोलापादक्रमं कृत्वा तलसङ्घट्टितौ करौ ॥ ४.१५३ ॥ रेचयेच्च करं वामं तलसङ्घट्टिते सदा । एको वक्षःस्थितो हस्तो द्व्तीयश्च प्रलम्बितः ॥ ४.१५४ ॥ तलाग्रसंस्थितः पादो जनिते करणे भवेत् । जनितं करणं कृत्वा हस्तौ चाभिमुखाङ्गुली ॥ ४.१५५ ॥ शनैर्निपतितो चैव ज्ञेयं तदवहित्थकम् । करौ वक्षःस्थितौ कार्यावुरौ निर्भुग्नमेव च ॥ ४.१५६ ॥ मण्डलस्थानकं चैव निवेशं करणं तु तत् । तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं भवेत् ॥ ४.१५७ ॥ संनतं वलितं गात्रमेलकाक्रीडितं तु तत् । करमावृत्तकरणमूरुपृष्ठेऽञ्चितं न्यसेत् ॥ ४.१५८ ॥ जङ्घाञ्चिता तथोद्वृत्ता ह्यूरूद्वृत्तं तु तद्भवेत् । करौ प्रलम्बितौ कार्यो शिरश्च परिवाहितम् ॥ ४.१५९ ॥ पादौ च वलिताविध्दौअ मदस्खलितके द्विजाः । पुरः प्रसारितः पादः कुञ्चितो गगनोन्मुखः ॥ ४.१६० ॥ करौ च रेचितौ यत्र विष्णुक्रान्तं तदुच्यते । करमावर्तितं कृत्वा ह्यूरुपृष्ठे निकुञ्चयेत् ॥ ४.१६१ ॥ ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् । अपविद्धः करः सूच्या पादश्चैव निकुट्टितः ॥ ४.१६२ ॥ वक्षःस्थश्च करो वामो विष्कम्भे करणे भवेत् । पादावुद्धट्टितौ कार्यौ तलसङ्घट्टितौ करौ ॥ ४.१६३ ॥ नतश्च पार्श्वं कर्तव्यं बुधैरुद्धट्टिते सदा । प्रयुज्यालातकं पूर्वं हस्तौ चापि हि रेचयेत् ॥ ४.१६४ ॥ कुञ्चितावञ्चितौ चैव वृषभक्रीडिते सदा । रेचितावञ्चितौ हस्तौ लोलितं वर्तितं शिरः ॥ ४.१६५ ॥ उभयोःपार्श्वयोर्यत्र तल्लोलितमुदाहृतम् । स्वस्तिकापसृतौ पादौ शिरश्च परिवाहितम् ॥ ४.१६६ ॥ रेचितौ च तथा हस्तौ स्यातां नागापसर्पिते । निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् ॥ ४.१६७ ॥ उद्वाहितमुरः कृत्वा शकटास्यं प्रयोजयेत् । ऊर्ध्वाङ्गुलितलौ पादौ त्रिपताकावधोमुखौ ॥ ४.१६८ ॥ हस्तौ शिरस्सन्नतं च गङ्गावतरणं त्विति । यानि स्थानानि याश्चार्यो व्यायामे कथितानि तु ॥ ४.१६९ ॥ पादप्रचारस्त्वेषां तु करणानामयं भवेत् । ये चापि नृत्तहस्तास्तु गदिता नृत्तकर्मणि ॥ ४.१७० ॥ तेषां समासतो योगः करणेषु विभाव्यते । प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ ४.१७१ ॥ चरणश्चानुगश्चापि दक्षिणस्तु भवेत्करः । चार्यश्चैव तु याः प्रोक्ता नृत्तहस्तास्तथैव च ॥ ४.१७२ ॥ सा मातृकेति विज्ञेया तद्भेदात्करणानि तु । अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ ४.१७३ ॥ अतः परं प्रवक्ष्यामि ह्यङ्गहारविकल्पनम् । प्रसार्योत्क्षिप्य च करौ समपादं प्रयोजयेत् ॥ ४.१७४ ॥ व्यंसितापसृतं सव्यं हस्तमूर्ध्वं प्रसारयेत् । प्रत्यालीढं ततः कुर्यात्तथैव च निकुट्टकम् ॥ ४.१७५ ॥ ऊरूद्वृत्तं ततः कुर्यादक्षिप्तं स्वस्तिकं ततः । नितम्बं करि हस्तं च कटिच्छिन्नं च योगतः ॥ ४.१७६ ॥ स्थिरहस्तो भवेदेष त्वङ्गहारो हरप्रियः । तलपुष्पापविद्धे द्वे वर्तितं संनिकुट्टिकम् ॥ ४.१७७ ॥ ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ ४.१७८ ॥ एष पर्यस्तको नाम ह्यङ्गहारो हरोद्भवः । अलपल्लवसूचीं च कृत्वा विक्षिप्तमेव च ॥ ४.१७९ ॥ आवर्तितं ततः कुर्यात्तथैअव च निकुट्टकम् । ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ ४.१८९ ॥ करिहस्तं कटिच्छिन्नं सूचीविद्धो भवेदयम् । अपविद्धं तु करणं सूचीविद्धं तथैव च ॥ ४.१८१ ॥ उद्वेष्टितेन हस्तेन त्रिकं तु परिवर्तयेत् । उरोमण्डलकौ हस्तौ कटिच्छिन्नं तथैव च ॥ ४.१८२ ॥ अपविद्धोऽङ्गहाराश्च विज्ञेयोऽयं प्रयोक्तृभिः । करणं नूपुरं कृत्वा विक्षिप्तालातके पुनः ॥ ४.१८३ ॥ पुनराक्षिप्तकं कुर्यादुरोमण्डलकं तथा । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ ४.१८४ ॥ आक्षिप्तकः स विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः । उद्वेष्टितापविद्धस्तु करः पादो निकुट्टितः ॥ ४.१८५ ॥ पुनस्तैनैव योगेन वामपार्श्वे भवेदथ । उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥ ४.१८६ ॥ कर्तव्यं सकटिच्छिन्नं नृत्ये तूद्धट्टिते सदा । पर्यायोद्वेष्टितौ हस्तौ पादौ चैव निकुट्टितौ ॥ ४.१८७ ॥ कुञ्चितावञ्चितौअ चैव ह्यूरूद्वृत्तं तथैव च । चतुरश्रं करं कृत्वा पादेन च निकुट्टकम् ॥ ४.१८८ ॥ भुजङ्गत्रासितं चैव करं चोद्विष्टितं पुनः । परिच्छिन्नं च कर्तव्यं त्रिकं भ्रमरकेण तु ॥ ४.१८९ ॥ करिहस्तं कटिच्छिन्नं विष्कम्भे परिकीर्तितम् । दण्डपादं करं चैव विक्षिप्याक्षिप्य चैव हि ॥ ४.१९० ॥ व्यंसितं वामहस्तं च सह पादेन सर्पयेत् । निकुट्टकद्वयं कार्यमाक्षिप्तं मण्डलोरसि ॥ ४.१९१ ॥ करिहस्तं कटिच्छिन्नं कर्तव्यमपराजिते । कुट्टितं करणं कृत्वा भुजङ्गत्रासितं तथा ॥ ४.१९२ ॥ रेचितेन तु हस्तेन पताकं हस्तमादिशेत् । आक्षिप्तकं प्रयुञ्जीत ह्युरोमण्डलकं तथा ॥ ४.१९३ ॥ लताख्यं सकटकच्छिन्नं विष्कम्भापसृते भवेत् । त्रिकं सुवलितं कृत्वा नूपुरं करणं तथा ॥ ४.१९४ ॥ भुजङ्गत्रासितं सव्यं तथा वैशाखरेचितम् । आक्षिप्तकं ततः कृत्वा परिच्छिन्नं तथैव च ॥ ४.१९५ ॥ बाह्यभ्रमरकं कुर्यादुरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ ४.१९६ ॥ मत्ताक्रीडो भवेदेष ह्यङ्गहारो हरप्रियः । रेचितं हस्तपादं च कृत्वा वृश्चिकमेव च ॥ ४.१९७ ॥ पुनस्तेनैव योगेन वृश्चिकं सम्प्रयोजयेत् । निकुट्टकं तथा चैव सव्यासव्यकृतं क्रमात् ॥ ४.१९८ ॥ लताख्यः सकटिच्छेदो भवेत्स्वस्तिकरेचिते । पार्श्वे तु स्वस्तिकं बद्ध्वा कार्यं त्वथ निकुट्टकम् ॥ ४.१९९ ॥ द्वितीयस्य च पार्श्वस्य विधिः स्याद्यमेव हि । ततश्च करमावर्त्य ह्यूरूपृष्ठे निपातयेत् ॥ ४.२०० ॥ ऊरूद्वृत्तं ततः कुर्यादाक्षिप्तं पुनरेव हि । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ ४.२०१ ॥ पार्श्वस्वस्तिक इत्येष ह्यङ्गहारः प्रकीर्तितः । वृश्चिकं करणं कृत्वा लताख्यं हस्तमेव च ॥ ४.२०२ ॥ तमेव च करं भूयो नासाग्रे सन्निकुञ्चयेत् । तमेवोद्वेष्टितं कृत्वा नितम्बं परिवर्तयेत् ॥ ४.२०३ ॥ करिहस्तं कटिच्छिन्नं वृश्चिकापसृते भवेत् । कृत्वा नूपुरपादं तु तथाक्षिप्तकमेव च ॥ ४.२०४ ॥ परिच्छिन्नं च कर्तव्यं सूचीपादं तथैव च । नितम्बं करिहस्तं चाप्युरोमण्डलकं तथा ॥ ४.२०५ ॥ कटीच्छिन्नं ततश्चैव भ्रमरः स तु संज्ञितः । मतल्लिकरणं कृत्वा करमावर्त्य दक्षिणम् ॥ ४.१०६ ॥ कपोलस्य प्रदेशे तु कार्यं सम्यङ्निकुञ्चितम् अपविद्धं द्रुतं चैव तलसंस्फोटसंयुतम् ॥ ४.२०७ ॥ करिहस्तं कटिच्छिन्नं मत्तस्खलितके भवेत् । दोलैः करैः प्रचलितैः स्वस्तिकापसृतैः पदैः ॥ ४.२०८ ॥ अञ्चितैर्वलितैर्हस्तैस्तलसङ्घट्टितैस्तथा । निकुट्टितं च कर्तव्यमूरूद्वृतं तथैव च ॥ ४.२०९ ॥ करिहस्तं कटिच्छिन्नं मदाद्विलसिते भवेत् । मण्डलं स्थानकं कृत्वा तथा हस्तौ च रेचितौ ॥ ४.२१० ॥ उद्घट्टितेन पादेन मत्तल्लिकरणं भवेत् । आक्षिप्तं करणं चैव ह्युरोमण्डलमेव च ॥ ४.२११ ॥ कटिच्छिन्नं तथा चैव भवेत्तु गतिमण्डले । समपादं प्रयुज्याथ परिच्छिन्नं त्वनन्तरम् ॥ ४.२१२ ॥ आविद्धेन तु पादेन बाह्यभ्रमरकं तथा । वामसूच्या त्वतिक्रान्तं भुजङ्गत्रासितं तथा ॥ ४.२१३ ॥ करिहस्तं कटिच्छिन्नं परिच्छिन्ने विधीयते । शिरसस्तूपरि स्थाप्यौ स्वस्तिअकौ विच्युतौ करौ ॥ ४.२१४ ॥ ततः सव्यं करं चापि गात्रमानम्य रेचयेत् । पुनरुत्थापयेत्तत्र गात्रमुन्नम्य रेचितम् ॥ ४.२१५ ॥ लताख्यौ च करौ कृत्वा वृश्चिकं सम्प्रयोजयेत् । रेचितं करिहस्तं च भुजङ्गत्रासितं तथा ॥ ४.२१६ ॥ आक्षिप्तकं प्रयुञ्जीत स्वस्तिकं पादमेव च । पराङ्ग्मुखविधिर्भूय एवमेव भवेदिह ॥ ४.२१७ ॥ करिहस्तं कटिच्छिन्नं परिवृत्तकरेचितेए । रेचितौ सह गात्रेण ह्यपविद्धौ करौ यदा ॥ ४.२१८ ॥ पुनस्तेनैव देशेन गात्रमुन्नम्य रेचयेत् । कुर्यान्नूपुरपादं च भुजङ्गत्रासितं तथा ॥ ४.२१९ ॥ रेचितं मण्डलं चैव बाहुशीर्षे निकुञ्चयेत् । ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ ४.२२० ॥ करिहस्तं कटिच्छिन्नं कुर्याद्वैशाखरेचिते । आद्यं तु जनितं कृत्वा पादमेकं प्रसारयेत् ॥ ४.२२१ ॥ तथैवालातकं कुर्यात्त्रिकं तु परिवर्तयेत् । अञ्चितं वामहस्तं च गण्डदेशे निकुट्टयेत् ॥ ४.२२२ ॥ कटिच्छिन्नं तथा चैव परावृत्ते प्रयोजयेत् । स्वस्तिकं करणं कृत्वा व्यंसितौ च करौ पुनः ॥ ४.२२३ ॥ अलातकं प्रयुञ्जीत ह्यूर्ध्वजानु निकुञ्चितम् । अर्धसूची च विक्षिप्तमुद्वृत्ताक्षिप्तके तथा ॥ ४.२२४ ॥ करिहस्तं कटिच्छिन्नमङ्गहारे ह्यलातके । निकुट्य वक्षसि करावूर्ध्वजानु प्रयोजयेत् ॥ ४.२२५ ॥ आक्षिप्तस्वस्तिकं कृत्वा त्रिकं तु परिवर्तयेत् । उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥ ४.२२६ ॥ कटिच्छिन्नं तथा चैव पार्श्वच्छेदे विधीयते । सूचीवामपदं दध्याद्विद्युद्भ्रान्तं च दक्षिणम् ॥ ४.२२७ ॥ दक्षिणेन पुनः सूची विद्युद्भ्रान्तं च वामतः । परिच्छिन्नं तथा चैव ह्यतिक्रान्तं च वामकम् ॥ ४.२२८ ॥ लताख्यं सकटिच्छिन्नं विद्युद्भ्रान्तश्च स स्मृतः । कृत्वा नूपुरपादं तु सव्यवामौ प्रलम्बितौ ॥ ४.२२९ ॥ करौ पार्श्वे ततस्ताभ्यां विक्षिप्तं सम्प्रयोजयेत् । ताभ्यां सूची तथा चैव त्रिकं तु परिवर्तयेत् ॥ ४.२३० ॥ लताख्यं सकटिच्छिन्नं कुर्तादुद्वृत्तके सदा । आलीढव्यंसितौ हस्तौ बाहुशीर्षे निकुट्टयेत् ॥ ४.२३१ ॥ नूपुरश्चरणो वामस्तथालातश्च दक्षिणः । तेनैवाक्षिप्तकं कुर्यादुरोमण्डलकौ करौ ॥ ४.२३२ ॥ करिहस्तं कटिच्छिन्नमालीढे सम्प्रयोजयेत् । हस्तं तु रेचितं कृत्वा पार्श्वमानस्य रेचयेत् ॥ ४.२३३ ॥ पुनस्तेनैव योगेन गात्रमानस्य रेचयेत् । रेचितं करणं कार्यमुरोमण्डलमेव च ॥ ४.२३४ ॥ कटिच्छिन्नं तु कर्तव्यमङ्गहारे तु रेचिते । नूपुरं चरणं कृत्वा त्रिकं तु परिवर्तयेत् ॥ ४.२३५ ॥ व्यंसितेन तु हस्तेन त्रिकमेव विवर्तयेत् । वामं चालातकं कृत्वा सूचीमत्रैव योजयेत् ॥ ४.२३६ ॥ करिहस्तं कटिच्छिन्नं कुर्यादाच्छुरिते सदा । रेचितौ स्वस्तिकौ पादौ रेचितौ स्वस्तिकौ करौ ॥ ४.२३७ ॥ कृत्वा विश्लेषमेवं तु तेनैव विधिना पुनः । पुनरुत्क्षेपणं चैव रेचितैरेव कारयेत् ॥ ४.२३८ ॥ उद्वृत्ताक्षिप्तके चैव ह्युरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ ४.२३९ ॥ आक्षिप्तरेचितो ह्येष करणानां विधिः स्मृतः । विक्षिप्त करणं कृत्वा हस्तपादं मुखागमम् ॥ ४.२४० ॥ वामसूचिसहकृतं विक्षिपेद्वामकं करम् । वक्षःस्थाने भवेत्सव्यो वलितं त्रिकमेव च ॥ ४.२४१ ॥ नूपुराक्षिप्तके चैव ह्यर्धस्वस्तिकमेव च । नितम्बं करिहस्तं च ह्युरोमण्डलकं तथा ॥ ४.२४२ ॥ कटिच्छिन्नं च कर्तव्यं सम्भ्रान्ते नृत्तयोक्तृभिः । अपक्रान्तक्रमं कृत्वा व्यंसितं हस्तमेव च ॥ ४.२४३ ॥ कुर्यादुद्वेष्टितं चैव ह्यर्धसूचीं तथैव च । विक्षिप्तं सकटिच्छिन्नमुद्वृत्ताक्षिप्तके तथा ॥ ४.२४४ ॥ करिहस्तं कटिच्छिन्नं कर्तव्यमपसर्पिते । कृत्वा नूपुरपादं च द्रुतमाक्षिप्य च क्रमम् ॥ ४.२४५ ॥ पादस्य चानुगौ हस्तौ त्रिकं च परिवर्तयेत् । निकुट्य करपादं चाप्युरोमण्डलकं पुनः ॥ ४.२४६ ॥ करिहस्तं कटिच्छिन्नं कार्यमर्धनिकुट्टके । द्वात्रिंशदेते सम्प्रोक्ता ह्यङ्गहारा द्विजोत्तमाः ॥ ४.२४७ ॥ चतुरो रेचकांश्चापि गदतो मे निबोधत । पादरेचक एकः स्यात्द्वितीयः कटिरेचकः ॥ ४.२४८ ॥ कररेचकस्तृतीयस्तु चतुर्थः कण्ठरेचकः । [रेचिताख्यः पृथग्भावे वलने चाभिधीयते । उद्वाहनात्पृथग्भावाच्चलनाच्चापि रेचकः ॥ ४.२४९ ब्*१ ॥ पार्श्वात्पार्श्वे तु गमनं स्खलितैश्चलितैः पदैः । विविधैश्चैव पादस्य पादरेचक उच्यते ॥ ४.२४९ ब्*२ ॥ त्रिकस्योद्वर्तनं चैव छटीवलनमेव च । तथाऽपसर्पणं चैव कटिरेचक उच्यते ॥ ४.२४९ ब्*३ ॥ उद्वर्तनं परिक्षेपो विक्षेपः परिवर्तनम् । विसर्पणं च हस्तस्य हस्तरेचक उच्यते ॥ ४.२४९ ब्*४ ॥ उद्वाहनं सन्नमनं तथा पार्श्वस्य सन्नतिः । भ्रमणं चापि विज्ञेयो ग्रीवाया रेचको बुधैः] ॥ ४.२४९ ब्*५ ॥ रेचकैरङ्गहारैश्च नृत्यन्तं वीक्ष्य शङ्करम् ॥ ४.२४९ ॥ सुकुमारप्रयोगेण नृत्यन्तीं चैव पार्वतीम् । मृदञ्गभेरीपटहैर्भाण्डडिण्डिमगोमुखैः ॥ ४.२५० ॥ पणवैर्ददुरैश्चैव सर्वातोद्यैः प्रवादितैः । दक्षयज्ञे विनिहते सन्ध्याकाले महेश्वरः ॥ ४.२५१ ॥ नानाङ्गहारैः प्रानृत्यल्लयतालवशानुगैअः । पिण्डिबन्धांस्ततो दृष्ट्वा नन्दिभद्रमुखा गणाः ॥ ४.२५२ ॥ चक्रुस्ते नाम पिण्डीनां बन्धमासां सलक्षणम् । ईश्वरस्येश्वरी पिन्डी नन्दिनश्चापि पट्टसी ॥ ४.२५३ ॥ चण्डिकाया भवेत्पिण्डी तथा वै सिंहवाहिनी । तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयंभुवः ॥ ४.२५४ ॥ शक्रस्यैरावती पिण्डी झषपिण्डी तु मान्मथी । शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः ॥ ४.२५५ ॥ धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च । वारुणी च नदीपिण्डी याक्षी स्याद्धनदस्य तु ॥ ४.२५६ ॥ हलपिण्डी बलस्यापि सर्पपिण्डी तु भोगिनाम् । गाणेश्वरी महापिण्डी दक्षयज्ञविमर्दिनी ॥ ४.२५७ ॥ त्रिशूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः । एवमन्यास्वपि तथा देवतासु यथाक्रमम् ॥ ४.२५८ ॥ ध्वजभूताः प्रयोक्तव्याः पिण्डीबन्धाः सुचिह्निताः । रेचका अङ्गहाराश्च पिण्डीबन्धातस्थैव च ॥ ४.२५९ ॥ सृष्ट्वा भगवता दत्तास्तण्डवे मुनये तदा । तेनापि हि ततः सम्यग्गानभाण्डसमन्वितः ॥ ४.२६० ॥ नृत्तप्रयोगः सृष्टो यः स ताण्डव इति स्मृतः । ऋषय ऊचुः - यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः कृतः ॥ ४.२६१ ॥ कस्मानृत्तं कृतं ह्येतत्कं स्वभावमपेक्षते । न गीतकार्थसम्बद्धं न चाप्यर्थस्य भावकम् ॥ ४.२६२ ॥ कस्मान्नृत्तं कृतं ह्येतद्गीतेष्वासारितेषु च । भरतः - अत्रोच्यते न खल्वर्थं कञ्चिन्नृत्तमपेक्षते ॥ ४.२६३ ॥ किं तु शोभां प्रजनयेदिति नृत्तं प्रवर्तितम् । प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः ॥ ४.२६४ ॥ मङ्गलमिति कृत्वा च नृत्तमेतत्प्रकीर्तितम् । विवाहप्रसवावाहप्रमोदाभ्युअदयादिषु ॥ ४.२६५ ॥ विनोदकारणं चेति नृत्तमेतत्प्रवर्तितम् । अतश्चैव प्रतिक्षेपाद्भूतसङ्घैः प्रवर्तिताः ॥ ४.२६६ ॥ ये गीतकादौ युज्यन्ते सम्यङ्नृत्तविभागकाः । देवेन चापि सम्प्रोक्तस्तण्डुस्ताण्डवपूर्वकम् ॥ ४.२६७ ॥ गीतप्रयोगमाश्रित्य नृत्तमेतत्प्रवर्त्यताम् । प्रायेण ताण्डवविधिर्देवस्तुत्याश्रयो भवेत् ॥ ४.२६८ ॥ सुकुमारप्रयोगश्च शृङ्गाररससम्भवः । तस्य तण्डुप्रयुक्तस्य ताण्डवस्य विधिक्रियाम् ॥ ४.२६९ ॥ वर्धमानकमासाद्य सम्प्रवक्ष्यमि लक्षणम् । कलानां वृद्धिमासाद्य ह्यक्षराणां च वर्धनात् ॥ ४.२७० ॥ लयस्य वर्धनाच्चापि वर्धमानकमुच्यते । कृत्त्वा कुतपविन्यासं यथावद्द्विजसत्तमाः ॥ ४.२७१ ॥ आसारितप्रयोगस्तु ततः कार्यः प्रयोक्तृभिः । तत्र तूपोहनं कृत्त्वा तन्त्रीगानसमन्वितम् ॥ ४.२७२ ॥ कार्यः प्रवेशो नर्तक्या भाण्डवाद्यसमन्वितः । विशुद्धकरणायां तु जात्यां वाद्यं प्रयोजयेत् ॥ ४.२७३ ॥ गत्या वाद्यानुसारिण्या तस्याश्चारीं प्रयोजयेत् । वैशाखस्थानकेनेह सर्वरेचकचारिणी ॥ ४.२७४ ॥ पुष्पाञ्जलिधरा भूत्वा प्रविशेद्रङ्गमण्डपम् । पुष्पाञ्जलिं विसृज्याथ रङ्गपीठं परीत्य च ॥ ४.२७५ ॥ प्रणम्य देवताभ्यश्च ततोऽभिनयमाचरेत् । यत्राभिनेयं गीतं स्यात्तत्र वाद्यं न योजयेत् ॥ ४.२७६ ॥ अङ्गहारप्रयोगे तु भाण्डवाद्यं विधीयते । समं रक्तं विभक्तं च स्फुटं शुद्धप्रहारजम् ॥ ४.२७७ ॥ नृत्ताङ्गग्राहि वाद्यज्ञैर्वाद्यं योज्यं तु ताण्डवे । प्रयुज्य गीतवाद्ये तु निष्क्रामेन्नर्तकी ततः ॥ ४.२७८ ॥ अनेनैव विधानेन प्रविशन्त्यपराः पृथक् । अन्याश्चानुक्रमेणाथ पिण्डीं बध्नन्ति याः स्त्रियः ॥ ४.२७९ ॥ तावत्पर्यस्तकः कार्यो यावत्पिण्डी न बध्यते । पिण्डीं बद्ध्वा ततः सर्वा निष्क्रामेयुः स्त्रियस्तु ताः ॥ ४.२८० ॥ पिण्डीबन्धेषु वाद्यं तु कर्तव्यमिह वादकैअः । पर्यस्तकप्रमाणेन चित्रौघकरणान्वितम् ॥ ४.२८१ ॥ तत्रोपवाहनं भूयः कार्यं पूर्ववदेव हि । ततश्चासारितं भूयो गायनं तु प्रयोजयेत् ॥ ४.२८२ ॥ पूर्वेणैव विधानेन प्रविशेच्चापि नर्तकी । गीतकार्थं त्वभिनयेद्द्वितीयासारितस्य तु ॥ ४.२८३ ॥ तदेव च पुनर्वस्तु नृत्तेनापि प्रदर्शयेत् । आसारिते समाप्ते तु निष्क्रामेन्नर्तकी ततः ॥ ४.२८४ ॥ पूर्ववत्प्रविशन्त्यन्याः प्रयोगः स्यात्स एव हि । एवं पदे पदे कार्यो विधिरासारितस्य तु ॥ ४.२८५ ॥ भाण्डवाद्यकृते चैव तथा गानकृतेऽपि च । एका तु प्रथमं योज्या द्वे द्वितीयं तथैव च ॥ ४.२८६ ॥ तिस्रो वस्तु तृतीयं तु चतस्रस्तु चतुर्थकम् । पिण्डीनां विधयश्चैव चत्वारः सम्प्रकीर्तिताः ॥ ४.२८७ ॥ पिण्डी शृङ्खलिका चैव लताबन्धोऽथ भेद्यकः । पिण्डीबन्धस्तु पिण्डत्वाद्गुल्मः शृङ्खलिका भवेत् ॥ ४.२८८ ॥ जालोपनद्धा च लता सनृत्तो भेद्यकः स्मृतः । पिण्डीबन्धः कनिष्ठे तु शृङ्खला तु लयान्तरे ॥ ४.२८९ ॥ मध्यमे च लताबन्धो ज्येष्ठे चैवाथ भेद्यकः । पिण्डीनां विविधा योनिर्यन्त्रं भद्रासनं तथा ॥ ४.२९० ॥ शिक्षायोगस्तथा चैव प्रयोक्तव्यः प्रयोक्तृभिः । एवं प्रयोगः कर्तव्यो वर्धमाने तपोधनाः ॥ ४.२९१ ॥ गीतानां छन्दकानां च भूयो वक्ष्याम्यहं विधिम् । यानि वस्तुनिबद्धानि यानि चाङ्गिकृतानि तु ॥ ४.२९२ ॥ गीतानि तेषां वक्ष्यामि प्रयोगं नृत्तवाद्ययोः । तत्रावतरणं कार्यं नर्तक्याः सार्वभाण्डिकम् ॥ ४.२९३ ॥ क्षेपप्रतिक्षेपकृतं भाण्डोपोहनसंस्कृतम् । प्रथमं त्वभिनेयं स्यद्गीतके सर्ववस्तुकम् ॥ ४.२९४ ॥ तदेव च पुनर्वस्तु नृत्तेएनापि प्रदर्शेयत् । यो विधिः पूर्वमुक्तस्तु नृत्ताभिनयवादिते ॥ ४.२९५ ॥ आसारितविधौ स स्याद्गीतानां वस्तुकेष्वपि । एवं वस्तुनिबन्धानां गीतकानां विधिः स्मृतः ॥ ४.२९६ ॥ शृणुताङ्गनिबद्धानां गीतानामपि लक्षणम् । य एव वस्तुकविधिर्नृत्ताभिनयवादिते ॥ ४.२९७ ॥ तमेवाङ्गनिबद्धेषु च्छन्दकेष्वपि योजयेत् । वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरमेव च ॥ ४.२९८ ॥ मुखे सोपोहने कुर्याद्वर्णानां विप्रकर्षतः । यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ ४.२९९ ॥ तत्राद्यमभिनेयं स्याच्छेषं नृत्तेन योजयेत् । यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ ४.३०० ॥ त्रिपाणिलयसंयुक्तं तत्र वाद्यं प्रयोजयेत् । यथा लयस्तथा वाद्यं कर्तव्यमिह वादकैः ॥ ४.३०१ ॥ [ततं चानुगतं चापि ओघं च करणान्वितम् । स्थिरे तत्त्वं प्रयोक्तव्यं मध्ये चानुगतं भवेत् ॥ ४.३०१*१ ॥ भूयश्चौघः प्रयोक्तव्यस्त्वेष वाद्यगतो विधिः । छन्दोगीतकमासाद्य त्वङ्गानि परिवर्तयेत् ॥ ४.३०१*२ ॥ एष कार्यो विधिर्नित्यं नृत्ताभिनयवादिते । यानि वस्तुनिबद्धानि तेषामन्ते ग्रहो भवेत् । अङ्गानां तु परावृत्तावादावेव ग्रहो मतः] ॥ ४.३०१*३ ॥ एवमेष विधिः कार्यो गीतेष्वासारितेष्वपि । देवस्तुत्याश्रयं ह्येतत्सुकुमारं निबोधत ॥ ४.३०२ ॥ स्त्रीपुंसयोस्तु संलापो यस्तु कामसमुद्भवः । तज्ज्ञेयं सुकुमारं हि शृङ्गाररससम्भवम् ॥ ४.३०३ ॥ यस्यां यस्यामवस्थायां नृत्तं योज्यं प्रयोक्तृभिः । तत्सर्वंं संप्रवक्ष्यामि तच्च मे शृणुत द्विजाः ॥ ४.३०४ ॥ अङ्गवस्तुनिवृत्तौ तु तथा वर्णनिवृत्तिषु । तथा चाभुदयस्थाने नृत्तं तज्ज्ञः प्रयोजयेत् ॥ ४.३०५ ॥ यत्तु संदृश्यते किञ्चिद्दम्पत्योर्मदनाश्रयम् । नृत्तं तत्र प्रयोक्तव्यं प्रहर्षार्थगुणोद्भवम् ॥ ४.३०६ ॥ यत्र सन्निहिते कान्ते ऋतुकालादिदर्शनम् । गीतकार्थाभिसंबद्धं नृत्तं तत्रापि चेष्यते ॥ ४.३०७ ॥ खण्डिअता विप्रलब्धा वा कलहान्तरितापि वा । यस्मिन्नङ्गे तु युवतिर्न नृत्तं तत्र न योजयेत् ॥ ४.३०८ ॥ सखीप्रवृत्ते संलापे तथाऽसन्निहिते प्रिये । न हि नृत्तं प्रयोक्तव्यं यस्या न प्रोषितः प्रियः ॥ ४.३०९ ॥ [दूत्याश्रयं यदा तु स्यादृतुकालादि दर्शनम् । औत्सुक्यचिन्तासंबद्धं न नृत्तं तत्र योजयेत्] ॥ ४.३०९* ॥ यस्मिन्नङ्गे प्रसादं तु गृह्नीयान्नायिका क्रमात् । ततःप्रभृति नृत्तं तु शेषेष्वङ्गेषु योजयेत् ॥ ४.३१० ॥ देवस्तुत्याश्रयकृतं यदङ्गं तु भवेदथ । माहेश्वरैरङ्गहारैरुद्धतैस्तत्प्रयोजयेत् ॥ ४.३११ ॥ यत्तु शृङ्गारसंबद्धं गानं स्त्रीपुरुषाश्रयम् । देवीकृतैरङ्गहारैर्ललितैस्तत्प्रयोजयेत् ॥ ४.३१२ ॥ चतुष्पदा नर्कुटके खञ्जके परिगीतके । विधानं सम्प्रवक्ष्यामि भाण्डवाद्यविधिं प्रति ॥ ४.३१३ ॥ खञ्जनर्कुटसंयुक्ता भस्वेद्या तु चतुष्पदा । पादान्ते सन्निपाते तु तस्या भाण्डग्रहो भवेत् ॥ ४.३१४ ॥ या ध्रुवा छन्दसा यक्ता समपादा समाक्षरा । तस्याः पादावसाने तु प्रदेशिन्या ग्रहो भवेत् ॥ ४.३१५ ॥ कृत्वैकं परिवर्तं तु गानस्याभिनयस्य च । पुनः पादनिवृत्तिं तु भाण्डवाद्येन योजयेत् ॥ ४.३१६ ॥ अँङ्गवस्तुनिवृतौ तु वर्णान्तरनिवृत्तिषु । तथोपस्थापने चैव भाण्डवाद्यं प्रयोजयेत् ॥ ४.३१७ ॥ येऽपि चान्तरमार्गास्स्युः तन्त्रिवाक्करणैः कृताः । तेषु सूची प्रयोक्तव्या भाण्डेन सह ताण्डवे ॥ ४.३१८ ॥ महेश्वरस्य चरितं य इदं सम्प्रयोजयेत् सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥ ४.३१९ ॥ एवमेष विधिः सृ(र्दृ)ष्टस्ताण्डवस्य प्रयोगतः । भूयः किं कथ्यतामन्यन्नाट्यवेदविधिं प्रति ॥ ४.३२० ॥ इति भारतीये नाट्यशास्त्रे ताण्डवलक्षणं नाम चतुर्थोऽध्यायः _____________________________________________________________ अथ पूर्वरङ्गविधानो नाम पञ्चमोऽध्यायः भरतस्य वचः श्रुत्वा नाट्यसन्तानकारणम् । पुनरेवाब्रुवन्वाक्यमृषयो हृष्टमानसाः ॥ ५.१ ॥ यथा नाट्यस्य जन्मेदं जर्जरस्य च सम्भवः । विघ्नानां शमनं चैव दैवतानां च पूजनम् ॥ ५.२ ॥ तदस्माभिः श्रुतं सर्वं गृहीत्वा चावधारितम् । निखिलेन यथातत्त्वमिच्छामो वेदितुं पुनः ॥ ५.३ ॥ पूर्वरङ्गं महातेजः सर्वलक्षणसंयुतम् । यथा बुद्ध्यामहे ब्रह्मंस्तथा व्याख्यातुमर्हसि ॥ ५.४ ॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं पूर्वरङ्गविधिं प्रति ॥ ५.५ ॥ पूर्वरङ्गं महाभागा गदतो मे निबोधत । पादभागाः कलाश्चैव परिवर्तास्तथैव च ॥ ५.६ ॥ यस्माद्रङ्गे प्रयोगोऽयं पूर्वमेव प्रयुज्यते । तस्मादयं पूर्वरङ्गो विज्ञेयो द्विजसत्तमाः ॥ ५.७ ॥ अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः । तन्त्रीभाण्डसमायोअगैः पाठ्ययोगकृतैस्तथा ॥ ५.८ ॥ प्रत्याहारोऽवतरणं तथा ह्यारम्भ एव च । आश्रावणा वक्त्रपाणिस्तथा च परिघट्टना ॥ ५.९ ॥ सङ्घोटना ततः कार्या मार्गासारितमेव च । ज्येष्ठमध्यकनिष्ठानि तथैवासारतानि च ॥ ५.१० ॥ एतानि तु बहिर्गीतान्यन्तर्यवनिकागतैः । प्रयोक्तृभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि च ॥ ५.११ ॥ ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् । विघट्य वै यवनिकां नृत्तपाठ्यकृतानि तु ॥ ५.१२ ॥ गीतानां मद्रकादीनां योज्यमेकं तु गीतकम् । वर्धमानमथापीह ताण्डवं यत्र युज्यते ॥ ५.१३ ॥ ततश्चोत्थापनं कार्यं परिवर्तनमेव च । नान्दी शुष्कावकृष्टा च रङ्गद्वारं तथैव च ॥ ५.१४ ॥ चारि चैव ततः कार्या महाचारी तथैव च । त्रिकं प्ररोचनां चापि पूर्वरङ्गे भवन्ति हि ॥ ५.१५ ॥ एतान्यङ्गानि कार्याणि पूर्वरङ्गविधौ द्विजाः । एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ ५.१६ ॥ कुतपस्य तु विन्यासः प्रत्याहार इति स्मृतः । तथावतरणं प्रोक्तं गायिकानां निवेशनम् ॥ ५.१७ ॥ परिगीतक्रियारम्भ आरम्भ इति कीर्तितः । आतोद्यरञ्जनार्थं तु भवेदाश्रावणाविधिः ॥ ५.१८ ॥ वाद्यवृत्तिविभागार्थं वक्त्रपाणिर्विधीयते । तन्त्र्योजःकरणार्थं तु भवेच्च परिघट्टना ॥ ५.१९ ॥ तथा पाणिविभागार्थं भवेत्संघोटनाविधिः । तन्त्रीभाण्डसमायोगान्मार्गासारितमिष्यते ॥ ५.२० ॥ कलापातविभागार्थं भवेदासारितक्रिया । कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा ॥ ५.२१ ॥ [अतः परं प्रवक्ष्यमि ह्युत्थापनविधिक्रियाम्] ॥ ५.२१* ॥ यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः । पूर्वमेव तु रङ्गेऽस्मिंस्तस्मादुत्थापनं स्मृतम् ॥ ५.२२ ॥ यस्माच्च लोकपालानां परिवृत्य चतुर्दिशम् । वन्दनानि प्रकुर्वन्ति तस्माच्च परिवर्तनम् ॥ ५.२३ ॥ आशीर्वचनसंयुक्ता नित्यं यस्मात्प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥ ५.२४ ॥ अत्र शुष्काक्षरैरेव ह्यवकृष्टा ध्रुवा यतः । तस्माच्छुष्कावकृष्टेयं जर्जरश्लोकदर्शिता ॥ ५.२५ ॥ यस्मादभिनयस्त्वत्र प्रथमं ह्यवतार्यते । रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् ॥ ५.२६ ॥ शृङ्गारस्य प्रचरणाच्चारी सम्परिकीर्तिता । रौद्रप्रचरणाच्चापि महाचारीति कीर्तिता ॥ ५.२७ ॥ विदूषकः सूत्रधारस्तथा वै पारिपार्श्वकः । यत्र कुर्वन्ति सञ्जल्पं तच्चापि त्रिगतं मतम् ॥ ५.२८ ॥ उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया । सिद्धेनामन्त्रणा या तु विज्ञेया स प्ररोचना ॥ ५.२९ ॥ अतः परं प्रवक्ष्यामि ह्याश्रावणविधिक्रियाम् । बहिर्गीतविधौ सम्यगुत्पत्तिं कारणं तथा ॥ ५.३० ॥ चित्रदक्षिणवृतौ तु सप्तरूपे प्रवर्तिते । सोपोहने सनिर्गीते देवस्तुत्यभिनन्दिते ॥ ५.३१ ॥ नारदाद्यैस्तु गन्धर्वैः सभायां देवदानवाः । निर्गीतं श्राविताः सम्यग्लयतालसमन्वितम् ॥ ५.३२ ॥ तच्छ्रुत्वा तु सुखं गानं देवस्तुत्यभिनन्दितम् अभवन्क्षुभिताः सर्वे मात्सर्याद्दैत्यराक्षसाः ॥ ५.३३ ॥ सम्प्रधार्य च तेऽन्योन्यमित्यवोचन्नवस्थिताः । निर्गीतं तु सवादित्रमिदं गृह्णीमहे वयम् ॥ ५.३४ ॥ सप्तरूपेण सन्तुष्टा देवाः कर्मानुकीर्तनात् । वयं गृह्णीम निर्गीतं तुष्यामोऽत्रैव सर्वदा ॥ ५.३५ ॥ ते तत्र तुष्टा दैत्यास्तु साधयन्ति पुनः पुनः । रुष्टाश्चापि ततो देवाः प्रत्यभाषन्त नारदम् ॥ ५.३६ ॥ एते तुष्यन्ति निर्गीते दानवा सह राक्षसैः । प्रणश्यतु प्रयोगोऽयं कथं वा मन्यते भवान् ॥ ५.३७ ॥ देवानां वचनं श्रुत्वा नारदो वाक्यमब्रवीत् । धातुवाद्याश्रयकृतं निर्गीतं मा प्रणश्यतु ॥ ५.३८ ॥ किन्तूपोहनसंयुक्तं धातुवाद्यविभूषितम् । भविष्यतीदं निर्गीतं सप्तरूपविधानतः ॥ ५.३९ ॥ निर्गीतेनावबद्धाश्च दैत्यदानवराक्षसाः । न क्षोभं न विघातं च करिष्यन्तीह तोषिताः ॥ ५.४० ॥ एवं निर्गीतमेतत्तु दैत्यानां स्पर्धया द्विजाः । देवानां बहुमानेन बहिर्गीतमिति स्मृतम् ॥ ५.४१ ॥ धातुभिश्चित्रवीणायां गुरुलघ्वक्षरान्वितम् । वर्णालङ्कारसंयुक्तं प्रयोक्तव्यं बुधैरथ ॥ ५.४२ ॥ निर्गीतं गेयते यस्मादपदं वर्णयोजनात् । असूयया च देवानां बहिर्गीतमिदं स्मृतम् ॥ ५.४३ ॥ निर्गीतं यन्मया प्रोक्तं सप्तरूपसमन्वितम् । उत्थापनादिकं यच्च तस्य कारणमुच्यते ॥ ५.४४ ॥ आश्रावणायां युक्तायां दैत्यास्तुष्यन्ति नित्यशः । वक्त्रपाणौ कृते चैव नित्यं तुष्यन्ति दानवाः ॥ ५.४५ ॥ परिघट्टनया तुष्टा युक्तायां राक्षसां गणाः । सङ्घोटनक्रियायां च तुष्यन्त्यपि च गुह्यकाः ॥ ५.४६ ॥ मार्गासारितमासाद्य तुष्टा यक्षा भवन्ति हि । गीतकेषु प्रयुक्तेषु देवास्तुष्यन्ति नित्यशः ॥ ५.४७ ॥ वर्धमाने प्रयुक्ते तु रुद्रस्तुष्यति सानुगः । तथा चोत्थापने युक्ते ब्रह्मा तुष्टो भवेदिह ॥ ५.४८ ॥ तुष्यन्ति लोकपालाश्च प्रयुक्ते परिवर्तने । नान्दीप्रयोगेऽथ कृते प्रीतो भवति चन्द्रमाः ॥ ५.४९ ॥ युक्तायामवकृष्टायां प्रीता नागा भवन्ति हि । तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् ॥ ५.५० ॥ रङ्गद्वारे प्रयुक्ते तु विष्णुः प्रीतो भवेदिह । जर्जरस्य प्रयोगे तु तुष्टा विघ्नविनायकाः ॥ ५.५१ ॥ तथा चार्या प्रयुक्तायामुमा तुष्टा भवेदिह । महाचार्या प्रयुक्तायां तुष्टो भूतगणो भवेत् ॥ ५.५२ ॥ आश्रावणादिचार्यन्तमेतद्दैवतपूजनम् । पूर्वरङ्गे मया ख्यातं तथा चाङ्गविकल्पनम् ॥ ५.५३ ॥ देवस्तुष्यन्ति यो येन यस्य यन्मनसः प्रियम् । तत्तथा पूर्वरङ्गे तु मया प्रोकं द्विजोत्तमाः ॥ ५.५४ ॥ सर्वदैवतपूजार्हं सर्वदैवतपूजनम् । धन्यं यशस्यमायुष्यं पूर्वरङ्गप्रवर्तनम् ॥ ५.५५ ॥ दैत्यदानवतुष्ट्यर्थं सर्वेषां च दिवौकसाम् । निर्गीतानि सगीतानि पूर्वरङ्गकृतानि तु ॥ ५.५६ ॥ [या विद्या यानि शिल्पानि या गतिर्यश्च चेष्टितम् । लोकालोकस्य जगतस्तदस्मिन्नाटकाश्रये] ॥ ५.५६* ॥ निर्गीतानां सगीतानां वर्धमानस्य चैव हि । ध्रुवाविधाने वक्ष्यामि लक्षणं कर्म चैव हि ॥ ५.५७ ॥ प्रयुज्य गीतकविधिं वर्धमानमथापि च । गीतकान्ते ततश्चापि कार्या ह्युत्थापनी ध्रुवा ॥ ५.५८ ॥ अदौ द्वे च चतुर्थं चाप्यष्टमैकादशे तथा । गुर्वक्षराणि जानीयत्पादे ह्येकादशे तथा ॥ ५.५९ ॥ चतुष्पदा भवेत्सा तु चतुरश्रा तथैव च । चतुर्भिस्सन्निपातैश्च त्रिलया त्रियतिस्तथा ॥ ५.६० ॥ परिवर्ताश्च चत्वारः पाणयस्त्रय एव च । जात्या चैव हि विश्लोका तां च तालेन योजयेत् ॥ ५.६१ ॥ शम्या तु द्विकला कार्या तलो द्विकल एव च । पुनश्चैककला शम्या सन्निपातः कलात्रयम् ॥ ५.६२ ॥ एवमष्टकलः कार्यः सन्निपातो विअचक्षणैः । चत्वारः सन्निपाताश्च परिवर्तः स उच्यते ॥ ५.६३ ॥ पूर्वं स्थितलयः कार्यः परिवर्तो विचक्षणैः । तृतीये सन्निपाते तु तस्या भाण्डग्रहो भवेत् ॥ ५.६४ ॥ एकस्मिन्परिवर्ते तु गते प्राप्ते द्वितीयके । कार्यं मध्यलये तज्ज्ञैः सूत्रधारप्रवेशनम् ॥ ५.६५ ॥ पुष्पाञ्जलिं समादाय रक्षामङ्गलसंस्कृताः । शुद्धवस्त्राः सुमनसस्तथा चाद्भुतदृष्टयः ॥ ५.६६ ॥ स्थानन्तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् । दीक्षिताः शुचयश्चैव प्रविशेयुः समं त्रयः ॥ ५.६७ ॥ भृङ्गारजर्जरधरौ भवेतां पारिपार्श्विकौ । मध्ये तु सूत्रभृत्ताभ्यां वृत्तः पञ्चपदीं व्रजेत् ॥ ५.६८ ॥ पदानि पञ्च गच्छेयुर्ब्रह्मणो यजनेच्छया । पदानाञ्चापि विक्षेपं व्याख्यास्याम्यनुपूर्वशः ॥ ५.६९ ॥ त्रितालान्तरविष्कम्भमुत्क्षिपेच्चरणं शनैः पार्श्वोत्थानोत्थितं चैव तन्मध्ये पातयेत्पुनः ॥ ५.७० ॥ एवं पञ्चपदीं गत्वा सूत्रधारः सहेतरः । सूचीं वामपदे दद्याद्विक्षेपं दक्षिणेन च ॥ ५.७१ ॥ पुष्पाञ्जल्यपवर्गश्च कार्यो ब्राह्मेऽथ मण्डले । रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः ॥ ५.७२ ॥ ततः सललितैर्हस्तैरभिवन्द्य पितामहम् । अभिवादानि कार्याणि त्रीणि हस्तेन भूतले ॥ ५.७३ ॥ कालप्रकर्षहेतोश्च पादानां प्रविभागतः । सूत्रधारप्रवेशाद्यो वन्दनाभिनयान्तकः ॥ ५.७४ ॥ द्वितीयः परिवर्तस्तु कार्यो मध्यलयाश्रितः । ततः परं तृतीये तु मण्डलस्य प्रदक्षिणम् ॥ ५.७५ ॥ भवेदाचमनं चैव जर्जरग्रहणं तथा । उत्थाय मण्डलात्तूर्णं दक्षिणं पादमुद्धरेत् ॥ ५.७६ ॥ वेधं तेनैव कुर्वीत विक्षेपं वामकेन च । पुनश्च दक्षिणं पादं पार्श्वसंस्थं समुद्धरेत् ॥ ५.७७ ॥ ततश्च वामवेधस्तु विक्षेपो दक्षिणस्य च । इत्यनेन विधानेन सम्यक्कृत्वा प्रदिक्षणम् ॥ ५.७८ ॥ भृङ्गारभृतमाहूय शौचं चापि समाचरेत् । यथान्यायं तु कर्तव्या तेन ह्याचमनक्रिया ॥ ५.७९ ॥ आत्मप्रोक्षणमेवाद्भिः कर्तव्यं तु यथाक्रमम् । प्रयत्नकृतशौचेन सूत्रधारेण यत्नतः ॥ ५.८० ॥ सन्निपातसमं ग्राह्यो जर्जरो विघ्नजर्जरः । प्रदक्षिणाद्यो विज्ञेयो जर्जरग्रहणान्तकः ॥ ५.८१ ॥ तृतीयः परिवर्तस्तु विज्ञेयो वै द्रुते लये । गृहीत्वा जर्जरं त्वष्टौ कला जप्यं प्रयोजयेत् ॥ ५.८२ ॥ वामवेधं ततः कुर्याद्विक्षेपं दक्षिणस्य च । ततः पञ्चपदीं चैव गच्छेत्तु कुतपोन्मुखः ॥ ५.८३ ॥ वामवेधस्तु तत्रापि विक्षेपो दक्षिणस्य तु । जर्जरग्रहणाद्योऽयं कुतपाभिमुखान्तकः ॥ ५.८४ ॥ चतुर्थः परिवर्तस्तु कार्यो द्रुतलये पुनः । करपादनिपातास्तु भव्न्त्यत्र तु षोडश ॥ ५.८५ ॥ त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः । वन्दनान्यथ कार्याणि त्रीणि हस्तेन भूतले ॥ ५.८६ ॥ आत्मप्रोक्षणमद्भिश्च त्र्यश्रे नैव विधीयते । एवमुत्थापनं कार्यं ततस्तु परिवर्तनम् ॥ ५.८७ ॥ चतुरश्रं लये मध्ये सन्निपातैरथाष्टभिः । यस्या लघूनि सर्वाणि केवलं नैधनं गुरु ॥ ५.८८ ॥ भवेदतिजगत्यान्तु सा ध्रुवा परिवर्तनी । वार्तिकेन तु मार्गेण वाद्येनानुगतेन च ॥ ५.८९ ॥ ललितैः पादविन्यासैर्वन्द्या देवा यथादिशम् । द्विकलं पादपतनं पादचार्या गतं भवेत् ॥ ५.९० ॥ वामपादेन वेधस्तु कर्तव्यो नृत्तयोक्तृभिः । द्वितालान्तरविष्कम्भो विक्षेपो दक्षिणस्य च ॥ ५.९१ ॥ ततः पञ्चपदीं गच्छेदतिक्रान्तैः पदरथ । ततोऽभिवादनं कुर्याद्देवतानां यथादिशम् ॥ ५.९२ ॥ वन्देत प्रथमं पूर्वां दिशं शक्राधिदैवताम् । द्वितीयां दक्षिणामाशां वन्देत यमदेवताम् ॥ ५.९३ ॥ वन्देत पश्चिमामाशां ततो वरुणदैवताम् । चतुर्थीमुत्तरामाशां वन्देत धनदाश्रयाम् ॥ ५.९४ ॥ दिशां तु वन्दनं कृत्वा वामवेधं प्रयोजयेत् । दक्षिणेन च कर्तव्यं विक्षेपपरिवर्तनम् ॥ ५.९५ ॥ प्राङ्ग्मुखस्तु ततः कुर्यात्पुरुषस्त्रीनपुंसकैः । त्रिपद्या सूत्रभृद्रुद्रब्रह्मोपेन्द्राभिवादनम् ॥ ५.९६ ॥ दक्षिणं तु पदं पुंसो वामं स्त्रीणां प्रकीर्तितम् । पुनर्दक्षिणमेव स्यान्नात्युत्क्षिप्तं नपुंसकम् ॥ ५.९७ ॥ वन्देत पौरुषेणेशं स्त्रीपदेन जनार्दनम् । नपुंसक्पदेनापि तथैवाम्बुजसम्भवम् ॥ ५.९८ ॥ परिवर्तनमेवं स्यात्तस्यान्ते प्रविशेत्ततः । चतुर्थकारः पुष्पाणि प्रगृह्य विधिपूर्वकम् ॥ ५.९९ ॥ यथावत्तेन कर्तव्यं पूजनं जर्जरस्य तु । कुतपस्य च सर्वस्य सूत्रधारस्य चैव हि ॥ ५.१०० ॥ तस्य भाण्डसमः कार्यस्तज्ज्ञैर्गतिपरिक्रमः । न तत्र गानं कर्तव्यं तत्र स्तोभक्रिया भवेत् ॥ ५.१०१ ॥ चतुर्थकारः पूजां तु स कृत्वान्तर्हितो भवेत् । ततो गेयावकृष्टा तु चतुरश्रा स्थिता ध्रुवा ॥ ५.१०२ ॥ गुरुप्राया तु सा कार्या तथा चैवावपाणिका । स्थायिवर्णाश्रयोपेता कलाष्टकविनिर्मिता ॥ ५.१०३ ॥ [चतुर्थं पञ्चमं चैव सप्तमं चाष्टमं तथा । लघूनि पादे पङ्क्त्यान्तु सावकृष्टा ध्रुवा स्मृता] ॥ ५.१०३* ॥ सूत्रधारः पठेत्तत्र मध्यमं स्वरमाश्रितः । नान्दीं पदैर्द्वादशभिरष्टभिर्वाऽप्यलङ्कृताम् ॥ ५.१०४ ॥ नमोऽस्तु सर्वदेवेभ्यो द्विजातिभ्यः शुभं तथा । जितं सोमेन वै राज्ञा शिवं गोब्राह्मणाय च ॥ ५.१०५ ॥ ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मद्विषस्तथा । प्रशास्त्विमां महाराजः पृथिवीं च ससागराम् ॥ ५.१०६ ॥ राष्ट्रं प्रवर्धतां चैव रङ्गस्याशा समृद्ध्यतु । प्रेक्षाकर्तुर्महान्धर्मो भवतु ब्रह्मभाषितः ॥ ५.१०७ ॥ काव्यकर्तुर्यशश्चास्तु धर्मश्चापि प्रवर्धताम् । इज्यया चानया नित्यं प्रीयन्तां देवता इति ॥ ५.१०८ ॥ नान्दीपदान्तरेष्वेषु ह्येवमार्येति नित्यशः । वदेतां सम्यगुक्ताभिर्वाग्भिस्तौ पारिपार्श्विकौ ॥ ५.१०९ ॥ एवं नान्दी विधातव्या यथावल्लक्षणान्विता । ततश्शुष्कावकृष्टा स्याज्जर्जरश्लोकदर्शिका ॥ ५.११० ॥ नवं गुर्वाक्षराण्यादौ षड्लघूनि गुरुत्रयम् । शुष्कावकृष्टा तु भवेत्कला ह्यष्टौ प्रमाणतः ॥ ५.१११ ॥ यथा दिग्ले दिग्ले दिग्ले दिग्ले जम्बुकपलितकते तेचाम् । कृत्वा शुष्कावकृष्टां तु यथावद्द्विजसत्तमाः ॥ ५.११२ ॥ ततः श्लोकं पठेदेकं गम्भीरस्वरसंयुतम् । देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते ॥ ५.११३ ॥ राज्ञो वा यत्र भक्तिः स्यादथ वा ब्रह्मणस्स्तवम् । गदित्वा जर्जरश्लोकं रङ्गद्वारे च यत्स्मृतम् ॥ ५.११४ ॥ पठेदन्यं पुनः श्लोकं जर्जरस्य विनाशनम् । जर्जरं नमयित्वा तु ततश्चारीं प्रयोजयेत् ॥ ५.११५ ॥ पारिपार्श्विकयोश्च स्यात्पश्चिमेनापसर्पणम् । अङ्किता चात्र कर्तव्या ध्रुवा मध्यलयान्विता ॥ ५.११६ ॥ चतुर्भिः सन्निपातैश्च चतुरश्रा प्रमाणतः । आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा गुरु ॥ ५.११७ ॥ यस्यां ह्रस्वानि शेषाणि सा ज्ञेया त्वङ्किता बुधैः । अस्याः प्रयोगं वक्ष्यामि यथा पूर्वं महेश्वरः ॥ ५.११८ ॥ सहोमया क्रीडितवान्नानाभावविचेष्टतैः । कृत्वाऽवहित्थं स्थानं तु वामं चाधोमुखं भुजम् ॥ ५.११९ ॥ चतुरश्रमुरः कार्यमञ्चितश्चापि मस्तकः । नाभिप्रदेशे विन्यस्य जर्जरं च तुलाधृतम् ॥ ५.१२० ॥ वामपल्लवहस्तेन पादैस्तालान्तरोत्थितैः । गच्छेत्पञ्चपदीं चैव सविलासाङ्गचेष्टितैः ॥ ५.१२१ ॥ वामवेधस्तु कर्तव्यो विक्षेपो दक्षिणस्य च । शृङ्गाररससंयुक्तां पठेदार्यां विचक्षणः ॥ ५.१२२ ॥ चारीश्लोकं गदित्वा तु कृत्वा च परिवर्तनम् । तैरेव च पदः कार्यं पश्चिमेनापसर्पणम् ॥ ५.१२३ ॥ पारिपार्श्विकहस्ते तु न्यस्य जर्जरमुत्तमम् । महाचारीं ततश्चैव प्रयुञ्जीत यथाविधि ॥ ५.१२४ ॥ चतुरश्रा ध्रुवा तत्र तथा द्रुतलयान्विता । चतुर्भिस्सन्निपातैश्च कला ह्यष्टौ प्रमाणतः ॥ ५.१२५ ॥ आद्यं चतुर्थमन्त्यं च सप्तमं दशमं गुरु । लघु शेषं ध्रुवापादे चतुर्विंशतिके भवेत् ॥ ५.१२६ ॥ (यथा-) पादतलाहतिपातितशैलं क्षोभितभूतसमग्रसमुद्रम् । ताण्डवनृत्यमिदं प्रलयान्ते पातु जगत्सुखदायि हरस्य ॥ ५.१२७ ॥ भाण्डोन्मुखेन कर्तव्यं पादविक्षेपणं ततः । सूचीं कृत्वा पुनः कुर्याद्विक्षेपपरिवर्तनम् ॥ ५.१२८ ॥ अतिक्रान्तैः सललितैः पादैर्द्रुतलयान्वितैः । त्रितालान्तरमुत्क्षेपैर्गच्छेत्पञ्चपदीं ततः ॥ ५.१२९ ॥ तत्रापि वामवेधस्तु विक्षेपो दक्षिणस्य च । तैरेव च पदैः कार्यं प्राङ्मुखेनापसर्पणम् ॥ ५.१३० ॥ पुनः पदानि त्रीण्येव गच्छेत्प्राङ्मुख एव तु । ततश्च वामवेधः स्याद्विक्षेपो दक्षिणस्य च ॥ ५.१३१ ॥ ततो रौद्ररसं श्लोकं पादसंहरणं पठेत् । तस्यान्ते तु त्रिपद्याथ व्याहरेत्पारिपार्श्विकौ ॥ ५.१३२ ॥ तयोरागमने कार्यं गानं नर्कुटकं बुधैः । तथा च भारतीभेदे त्रिगतं सम्प्रयोजयेत् ॥ ५.१३३ ॥ विदूषकस्त्वेकपदां सुत्रधारस्मितावहाम् । असम्बद्धकथाप्रायां कुर्यात्कथनिका ततः ॥ ५.१३४ ॥ (वितण्डां गण्डसंयुक्तां तालिकाञ्च प्रयोजयेत् । कस्तिष्ठति जितं केनेत्यादिकाव्यप्ररूपिणीम् ॥ ५.१३४*१ ॥ पारिपार्श्वकसञ्जल्पो विदूषकविरूपितः । स्थापितः सूत्रधारेण त्रिगतं सम्प्रयुज्यते) ॥ ५.१३४*२ ॥ प्ररोचना च कर्तव्या सिद्धेनोपनिमत्रणम् । रङ्गसिद्धौ पुनः कार्यं काव्यवस्तुनिरूपणम् ॥ ५.१३५ ॥ सर्वमेव विधिं कृत्वा सूचीवेधकृतैरथ । पादैरनाविद्धगतैर्निष्क्रामेयुः समं त्रयः ॥ ५.१३६ ॥ एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि । चतुरश्रो द्विजश्रेष्ठास्त्र्यश्रं चापि निबोधत ॥ ५.१३७ ॥ अयमेव प्रयोगः स्यादङ्गान्येतानि चैव हि । तालप्रमाणं संक्षिप्तं केवलं तु विशेषकृत् ॥ ५.१३८ ॥ शम्या तु द्विकला कार्या तालो ह्येककलस्तथा । पुनश्चैककला शम्या सन्निपातः कलाद्वयम् ॥ ५.१३९ ॥ अनेन हि प्रमाणेन कलाताललयान्वितः । कर्तव्यः पूर्वरङ्गस्तु त्र्यश्रोऽप्युत्थापनादिकः ॥ ५.१४० ॥ आद्यं चतुर्थं दशममष्टमं नैधनं गुरु । यस्यास्तु जागते पादे सा त्र्यश्रोत्थापिनी ध्रुवा ॥ ५.१४१ ॥ वाद्यं गतिप्रचारश्च ध्रुवा तालस्तथैव च । संक्षिप्तान्येव कार्याणि त्र्यश्रे नृत्तप्रवेदिभिः ॥ ५.१४२ ॥ वाद्यगीतप्रमाणेन कुर्यादङ्गविचेष्टितम् । विस्तीर्णमथ संक्षिप्तं द्विप्रमाणविनिर्मितम् ॥ ५.१४३ ॥ हस्तपादप्रचारस्तु द्विकलः परिकीर्तितः । चतुरश्रे परिक्रान्ते पाताः स्युः षोडशैव तु ॥ ५.१४४ ॥ त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः । एतत्प्रमाणं विज्ञेयमुभयोः पूर्वरङ्गयोः ॥ ५.१४५ ॥ केवलं परिवर्ते तु गमने त्रिपदी भवेत् । दिग्वन्दने पञ्चपदी चतुरश्रे विधीयते ॥ ५.१४६ ॥ आचार्यबुद्ध्या कर्तव्यस्त्र्यश्रस्तालप्रमाणतः । तस्मान्न लक्षणं प्रोक्तं पुनरुक्तं भवेद्यतः ॥ ५.१४७ ॥ एवमेष प्रयोक्तव्यः पूर्वरङ्गो द्विजोत्तमाः । त्र्यश्रश्च चतुरश्रश्च शुद्धो भारत्युपाश्रयः ॥ ५.१४८ ॥ एवं तावदयं शुद्धः पूर्वरङ्गो मयोदितः । चित्रत्वमस्य वक्ष्यामि यथाकार्यं प्रयोक्तृभिः ॥ ५.१४९ ॥ वृत्ते ह्युत्थापने विप्राः कृते च परिवर्तने । चतुर्थकारदत्ताभिः सुमनोभिरलङ्कृते ॥ ५.१५० ॥ उदात्तैर्गानैर्गन्धर्वैः परिगीते प्रमाणतः । देवदुन्दुभयश्चैव निनदैयुर्भृशं यतः ॥ ५.१५१ ॥ सिद्धाः कुसुममालाभिर्विकिरेयुः समन्ततः । अङ्गहारैश्च देव्यस्ता उपनृत्येयुरग्रतः ॥ ५.१५२ ॥ यस्ताण्डवविधिः प्रोक्तो नृते पिण्डीसमन्वितः । रेचकैरङ्गहारैश्च न्यासोपन्याससंयुतः ॥ ५.१५३ ॥ नान्दीपदानां मध्ये तु एकैकस्मिन्पृथक्पृथक् । प्रयोक्तव्यो बुधैः सम्यक्चित्रभावमभीप्सुभिः ॥ ५.१५४ ॥ एवं कृत्वा यथान्यायं शुद्धं चित्रं प्रयत्नतः । ततःपरं प्रयुञ्जीत नाटकं लक्षणान्वितम् ॥ ५.१५५ ॥ ततस्त्वन्तर्हिताः सर्वा भवेयुर्दिव्ययोषितः । निष्क्रान्तासु च सर्वासु नर्तकीषु ततः परम् ॥ ५.१५६ ॥ पूर्वरङ्गे प्रयोक्तव्यमङ्गजातमतःपरम् । एवं शुद्धो भवेच्चित्रः पूर्वरङ्गो विधानतः ॥ ५.१५७ ॥ कार्यो नातिप्रसङ्गोऽत्र नृतागीतविधिं प्रति । गीते वाद्ये च नृत्ते च प्रवृत्तेऽतिप्रसङ्गतः ॥ ५.१५८ ॥ खेदो भवेत्प्रयोक्तॄणां प्रेक्षकाणां तथैव च । खिन्नानां रसभावेषु स्पष्टता नोपजायते ॥ ५.१५९ ॥ ततः शेषप्रयोगस्तु न रागजनको भवेत् । (लक्षनेन विना बाह्यलक्षणाद्विस्तृतं भवेत् । लोकशास्त्रानुसारेण तस्मान्नाट्यं प्रवर्तते) ॥ ५.१६० ब्*१ ॥ त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा ॥ ५.१६० ॥ प्रयुज्य रङ्गान्निष्क्रामेत्सूत्रधार्ः सहानुगः । (देवपार्थिवरङ्गानामाशीर्वचनसंयुताम् ॥ ५.१६१*१ ॥ कवेर्नामगुणोपेतां वस्तूपक्षेपरूपिकाम् । लघुवर्णपदोपेतां वृत्तैश्चित्रैरलङ्कृताम् ॥ ५.१६१*२ ॥ अन्तर्यवनिकासंस्थः कुर्यादाश्रावणां ततः । आश्रावनावसाने च नान्दीं कृत्वा स सूत्रधृत् । पुनः प्रविश्य रङ्गं तु कुर्यात्प्रस्तावनां ततः) ॥ ५.१६१*३ ॥ प्रयुज्य विधिनैवं तु पूर्वरँगं प्रयोगतः ॥ ५.१६१ ॥ स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः । स्थानं तु वैष्णवं कृत्वा सौष्ठवाञ्गपुरस्कृतम् ॥ ५.१६२ ॥ प्रविश्य रङ्गं तैरेव सूत्रधारपदैर्व्रजेत् । श्थापक्ष्य प्रवेशे तु कर्तव्यऽर्थानुगा ध्रुवा ॥ ५.१६३ ॥ त्र्यश्रा वा चतुरश्रा वा तज्ज्ञैर्मध्यलयान्विता । कुर्यादनन्तरं चारीं देवरह्मणशंसिनीम् ॥ ५.१६४ ॥ सुवाक्यमधुरैः श्लोकेर्नानाभसवरसान्वितैः । प्रसाद्य रङ्गं विधिवत्कवेर्नाम च कीर्तयेत् ॥ ५.१६५ ॥ प्रस्तवा. ततः कुर्यात्काव्यप्रख्यापनाश्रयाम् । उद्धात्यकादि कर्तव्यं काव्योपक्षेपणाश्र्यम् ॥ ५.१६६ ॥ दिव्ये दिव्याश्रयो भूत्वा मानुषे मानुषाश्रयः । दिव्यमानुषसंयोगे दिव्यो वा मानुषोऽपि वा ॥ ५.१६७ ॥ मुखबीजानुसदॄशं नानामार्गसमाश्रयम् । आआविधैरुपक्षेपैः काव्योपक्षेपणं भवेत् ॥ ५.१६८ ॥ प्रस्ताव्यैवं तु निष्क्रामेत्काव्यप्रस्तावकस्ततः । एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि ॥ ५.१६९ ॥ य इमं पूर्वरङ्गं तु विधिनैव प्रयोजयेत् । नाशुभं प्राप्नुयात्किञ्चित्स्वर्गलोकं च गच्छति ॥ ५.१७० ॥ यश्चापि विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् । प्राप्नोत्यपचयं घोरं तिर्यग्ग्योनिं च गच्छति ॥ ५.१७१ ॥ न तथाऽग्निः प्रदहति प्रभञ्जनसमीरतः । यथा ह्यप्रयोगस्तु प्रयुक्तो दहति क्षणात् ॥ ५.१७२ ॥ इत्येवावन्तिपाञ्चालदाक्षिणात्यौढ्रमागधैः । कर्तव्य पूर्वरङ्गस्तु द्विप्रमाणविनिर्मितः ॥ ५.१७३ ॥ एष वः कथितो विप्राः पूर्वरङ्गाश्रितो विधिः । भूयः किं कथ्यतां सम्यङ्नाट्यवेदविधिं प्रति ॥ ५.१७४ ॥ इति भारतीये नाट्यशास्त्रे पूर्वरङ्गप्रयोगो नाम पञ्चमोऽध्यायः _____________________________________________________________ अथ षष्ठोऽध्यायः पूर्वरङ्गविधिं श्रुत्वापुनराहुर्महत्तमाः । भरतं मुनयः सर्वे प्रश्नान्पञ्चाभिधत्स्व नः ॥ ६.१ ॥ ये रसा इति पठ्यन्ते नाट्ये नाट्यविचक्षणैः । रसत्वं केन वै तेषामेतदाख्यातुमर्हसि ॥ ६.२ ॥ भावाश्चैव कथं प्रोक्ताः किं वा ते भावयन्त्यपि । संग्रहं कारिकां चैव निरुक्तं चैव तत्वतः ॥ ६.३ ॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं रसभावविकल्पनम् ॥ ६.४ ॥ अहं वः कथयिष्यामि निखिलेन तपोधनाः । संग्रहं कारिकां चैव निरुक्तं च यथाक्रमम् ॥ ६.५ ॥ न शक्यमस्य नाट्यस्य गन्तुमन्तं कथञ्चन । कस्माद्बहुत्वाज्ज्ञानानां शिल्पानां वाप्यनन्ततः ॥ ६.६ ॥ एकस्यापि न वै शक्यस्त्वन्तो ज्ञानार्णवस्य हि । गन्तुं किं पुनरन्येषां ज्ञानानामर्थतत्त्वतः ॥ ६.७ ॥ किन्त्वल्पसूत्रग्रन्थार्थमनुमानप्रसाधकम् । नाट्यस्यास्य प्रवक्ष्यामि रसभावादिसङ्ग्रहम् ॥ ६.८ ॥ विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः । निबन्धो यो समासेन सङ्ग्रहं तं विदुर्बुधाः ॥ ६.९ ॥ रसा भावा ह्यभिनयाः धर्मी वृत्तिप्रवृत्तयः । सिद्धिः स्वरास्तथातोद्यं गानं रङ्गश्च सङ्ग्रहः ॥ ६.१० ॥ अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः । सूत्रतः साऽनुमतव्या कारिकार्थप्रदर्शिनी ॥ ६.११ ॥ नानानामाश्रयोत्पन्नं निघण्टुनिगमान्वितम् । धात्वर्थहेतुसंयुक्तं नानासिद्धान्तसाधितम् ॥ ६.१२ ॥ स्थापितोऽर्थो भवेद्यत्र समासेनार्थासूचकः । धात्वर्थवचनेनेह निरुक्तं तत्प्रचक्षते ॥ ६.१३ ॥ सङ्ग्रहो यो मया प्रोक्तः समासेन द्विजोत्तमाः । विस्तरं तस्य वक्ष्यामि सनिरुक्तं सकारिकम् ॥ ६.१४ ॥ शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ ६.१५ ॥ एते ह्यष्टौ रसाः प्रोक्ता द्रुहिनेन महात्मना । पुनश्च भावान्वक्ष्यामि स्थायिसञ्चारिसत्त्वजान् ॥ ६.१६ ॥ रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ ६.१७ ॥ निर्वेदग्लानिशङ्काख्यास्तथासूया मदः श्रमः । आलस्यं चैव दैन्यं च चिन्तामोहः स्मृतिर्धृतिः ॥ ६.१८ ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ ६.१९ ॥ सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ ६.२० ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ ६.२१ ॥ स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः ॥ ६.२२ ॥ आङ्गिकौ वाचिकश्चैव ह्याहार्यः सात्विकस्तथा । चत्वारोऽभिनया ह्येते विज्ञेया नाट्यसंश्रयाः ॥ ६.२३ ॥ लोकधर्मी नाट्यधर्मी धर्मीति द्विविधः स्मृतः । भारती सात्वती चैव कैशिक्यारभटी तथा ॥ ६.२४ ॥ चतस्रो वृत्तयो ह्येता यासु नाट्यं प्रतिष्ठितम् । आवन्ती दाक्षिणात्या च तथा चैवोढ्रमागधी ॥ ६.२५ ॥ पाञ्चालमध्यमा चेति विज्ञेयास्तु प्रवृत्तयः । दैविकी मानुषी चैव सिद्धिः स्याद्द्विविधैव तु ॥ ६.२६ ॥ शारीराश्चैव वैणाश्च सप्त षड्जादयः स्वराः । [निषादर्षभगान्धारमध्यपञ्चमधैवताः] ॥ ६.२७ ब्* ॥ ततं चैवावनद्धं च घनं सुषिरमेव च ॥ ६.२७ ॥ चतुर्विधं च विज्ञेयमातोद्यं लक्षणान्वितम् । ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्करम् ॥ ६.२८ ॥ घनस्तु तालो विज्ञेयः सुषिरो वंश एव च । प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम् ॥ ६.२९ ॥ गानं पञ्चविधं ज्ञेयं ध्रुवायोगसमन्वितम् । चतुरस्रो विकृष्टश्च रङ्गस्त्र्यश्रश्च कीर्तितः ॥ ६.३० ॥ एवमेषोऽल्पसूत्रार्थो निर्दिष्टो नाट्यसंग्रहः । अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् ॥ ६.३१ ॥ तत्र रसानेव तावदादावभिव्याख्यास्यामः । न हि रसादृते कश्चिदर्थः प्रवर्तते । तत्र विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः । को दृष्टान्तः । अत्राह यथा हि नानाव्यञ्जनौषधिद्रव्यसंयोगाद्रसनिष्पत्तिः तथा नानाभावोपगमाद्रसनिष्पत्तिः । यथा हि गुडादिभिर्द्रव्यैर्व्यञ्जनैरौषधिभिश्च षाडवादयो रसा निर्वर्त्यन्ते तथा नानाभावोपगता अपि स्थायिनो भावा रसत्वमाप्नुवन्तीति । अत्राह रस इति कः पदार्थः । उच्यते आस्वाद्यत्वात् । कथमास्वाद्यते रसः । यथा हि नानाव्यञ्जनसंस्कृतमन्नं भुञ्जान रसानास्वादयन्ति सुमनसः पुरुष हर्षादींश्चाधिगच्छन्ति तथा नानाभावाभिनयव्यञ्जितान् वागङ्गसत्तोपेतान् स्थायिभावानास्वादयन्ति सुमनसः प्रेक्षकाः हर्षादींश्चाधिगच्छन्ति । तस्मान्नाट्यरसा इत्यभिव्याख्याताः । अत्रानुवंश्यौ श्लोकौ भवतः यथा बहुद्रव्ययुतैर्व्यञ्जनैर्बहुभिर्युतम् । आस्वादयन्ति भुञ्जाना भक्तं भक्तविदो जनाः ॥ ६.३२ ॥ भावाभिनयसंबद्धान्स्थायिभावांस्तथा बुधाः । आस्वादयन्ति मनसा तस्मान्नाट्यरसाः स्मृताः ॥ ६.३३ ॥ अत्राह किं रसेभ्यो भावानामभिनिर्वृत्तिरुताहो भावेभ्यो रसानामिति । केषाञ्चिन्मतं परस्परसम्बन्धादेषामभिनिर्वृत्तिरिति । तन्न । कस्मात् । दृश्यते हि भावेभ्यो रसानामभिनिर्वृत्तिर्न तु रसेभ्यो भावानामभिनिर्वृत्तिरिति । भवन्ति चात्र श्लोकाः नानाभिनयसम्बद्धान्भावयन्ति रसनिमान् । यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥ ६.३४ ॥ नानाद्रव्यैबहुविधैर्व्यञ्जनं भाव्यते यथा । एवं भावा भावयन्ति रसानभिनयैः सह ॥ ६.३५ ॥ न भावहीनोऽस्ति रसो न भावो रसवर्जितः । परस्परकृता सिद्धिस्तयोरभिनये भवेत् ॥ ६.३६ ॥ व्यञ्जनौषधिसंयोगो यथान्नं स्वादुतां नयेत् । एवं भावा रसाश्चैव भावयन्ति परस्परम् ॥ ६.३७ ॥ यथा बीजाद्भवेद्वृक्षो वृक्षात्पुष्पं फलं यथा । तथा मूलं रसाः सर्वे तेभ्यो भावा व्यवस्थिताः ॥ ६.३८ ॥ तदेषं रसानामुत्पत्तिवर्णदैवतनिदर्शनान्यभिव्याख्यास्यामः । तेषामुत्पत्तिहेतवश्चत्वारो रसाः । तद्यथा शृङ्गारो रौद्रौ वीरो बीभत्स इति । अत्र शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः । वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥ ६.३९ ॥ शृङ्गारानुकृतिर्या तु स हास्यस्तु प्रकीर्तितः । रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः ॥ ६.४० ॥ वीरस्यापि च यत्कर्म सोऽद्भुतः परिकीर्तितः । बीभत्सदर्शनं यच्च ज्ञेयः स तु भयानकः ॥ ६.४१ ॥ अथ वर्णाः श्यामो भवति शृङ्गारः सितो हास्यः प्रकीर्तितः । कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः ॥ ६.४२ ॥ गौरो वीरस्तु विज्ञेयः कृष्णश्चैव भयानकः । नीलवर्णस्तु बीभत्सः पीतश्चैवाद्भुतः स्मृतः ॥ ६.४३ ॥ अथ दैवतानि शृङ्गारो विष्णुदेवत्यो हास्यः प्रमथदैवतः । रौद्रो रुद्राधिदैवत्यः करुणो यमदैवतः ॥ ६.४४ ॥ बीभत्सस्य महाकालः कालदेवो भयानकः । वीरो महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः ॥ ६.४५ ॥ एतमेतेषां रसानामुत्पत्तिवर्णदैवतान्यभिव्याख्यातानि । इदानीमनुभावविभावव्यभिचारिसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः । स्थायिभावांश्च रसत्वमुपनेष्यामः । तत्र शृङ्गारो नाम रतिस्थायिभावप्रभवः । उज्ज्वलवेषात्मकः । यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तच्छृङ्गारेणोपमीयते । यस्तावदुज्ज्वलवेषः स शृङ्गारवानित्युच्यते । यथा च गोत्रकुलाचारोत्पन्नान्याप्तोपदेशसिद्धानि पुंसां नामानि भवन्ति तथैवेषां रसानां भावानां च नाट्याश्रितानां चार्थानामाचारोत्पन्नान्योप्तोपदेशसिद्धानि नामानि । एवमेष आचारसिद्धो हृद्योज्ज्वलवेषात्मकत्वाच्छृङ्गारो रसः । स च स्त्रीपुरुषहेतुक उत्तमयुवप्रकृतिः । तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश्च । तत्र सम्भोगस्तावत् ऋतुमाल्यानुलेपनालङ्कारेष्टजनविषयवरभवनोपभोगोपवनगमनानुभवनश्रवणदर्शनक्रीडालीलादिभिर्विभावैरुत्पद्यते । तस्य नयनचातुर्यभ्रूक्षेपकटाक्षसञ्चारललितमधुराङ्गहारवाक्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्यालस्यौग्र्यजुगुप्सावर्ज्याः । विप्रलम्भकृतस्तु निर्वेदग्लानिशङ्कासूयाश्रमचिन्तौत्सुक्यनिद्रास्वप्नविबोधव्याध्युन्मादमदापस्मारजाड्यमरणादिभिरनुभावैरभिनेतव्यः । अत्राह यद्ययं रतिप्रभवः शृङ्गारः कथमस्य करुणाश्रयिणो भावा भवन्ति । अत्रोच्यते पूर्वमेवाभिहितं सम्भोगविप्रलम्भकृतः शृङ्गार इति । वैशिकशास्त्रकारैश्च दशावस्थोऽभिहितः । ताश्च सामान्याभिनये वक्ष्यामः । करुणस्तु शापक्लेशविनिपतितेष्टजनविभवनाशवधबन्धसमुत्थो निरपेक्षभावः । औत्सुक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भकृतः । एवमन्यः करुणोऽन्यश्च विप्रलम्भ इति । एवमेष सर्वभावसंयुक्तः शृङ्गारो भवति । अपि च सुखप्रायेषु सम्पन्नः ऋतुमाल्यदिसेवकः । पुरुषः प्रमदायुक्तः शृङ्गार इति संज्ञितः ॥ ६.४६ ॥ अपि चात्र सूत्रार्थानुविद्धे आर्ये भवतः ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः । उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥ ६.४७ ॥ नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमोदैश्च । मधुरैश्चाङ्गविहारैस्तस्याभिनयः प्रयोक्तव्यः ॥ ६.४८ ॥ अथ हास्यो नाम हासस्थायिभावात्मकः । स च विकृतपरवेषालङ्कारधार्ष्ट्यलौल्यकुहकासत्प्रलापव्यङ्गदर्शनदोषोदाहरणादिभिर्विभावैरुत्पद्यते । तस्योष्ठनासाकपोलस्पन्दनदृष्टिव्याकोशाकुञ्चनस्वेदास्यरागपार्श्वग्रहणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्यावहित्थालस्यतन्द्रानिद्रास्वप्नप्रबोधादयः । द्विविधश्चायमात्मस्थः परस्थश्च । यदा स्वयं हसति तदाऽत्मस्थः । यदा तु परं हासयति तदा परस्थः । अत्रानुवंश्ये आर्ये भवतः । विपरितालङ्कारैर्विकृताचराभिधानवेषैश्च । विकृतैरर्थविशेषैर्हसतीति रसः स्मृतो हास्यः ॥ ६.४९ ॥ विकृताचारैर्वाक्यैरङ्गविकारैश्च विकृतवेषैश्च । हासयति जनं यस्मात्तस्मज्ज्ज्ञेयो रसो हास्यः ॥ ६.५० ॥ स्त्रीनीचप्रकृतावेष भूयिष्ठं दृश्यते रसः । षड्भेदाश्चास्य विज्ञेयास्तांश्च वक्ष्याम्यहं पुनः ॥ ६.५१ ॥ स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितम् । द्वौ द्वौ भेदौ स्यातामुत्तममध्याधमप्रकृतौ ॥ ६.५२ ॥ तत्र स्मितहसिते ज्येष्ठानां मध्यानां विहसितोपहसिते च । अधमानामपहसितं ह्यतिहसितं चापि विज्ञेयम् ॥ ६.५३ ॥ अत्र श्लोकाः ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ ६.५४ ॥ उत्फुल्लानननेत्रं तु गण्डैर्विकसितैरथ । किञ्चिल्लक्षितदन्तं च हसितं तद्विधीयते ॥ ६.५५ ॥ अथ मध्यमानाम् आकुञ्चिताक्षिगण्डं यत्सस्वनं मधुरं तथा । कालागतं सास्यरागं तद्वै विहसितं भवेत् ॥ ६.५६ ॥ उत्फुल्लनासिकं यत्तु जिह्मदृष्टिनिरीक्षितम् । निकुञ्चिताङ्गकशिरस्तच्चोपहसितं भवेत् ॥ ६.५७ ॥ अथाधमानाम् अस्थानहसितं यत्तु साश्रुनेत्रं तथैव च । उत्कम्पितांसकशिरस्तच्चापहसिअतं भवेत् ॥ ६.५८ ॥ संरब्धसाश्रुनेत्रं च विकृष्टस्वरमुद्धतम् । करोपगूढपार्श्वं च तच्चातिहसितं भवेत् ॥ ६.५९ ॥ हास्यस्थानानि यानि स्युः कार्योत्पन्नानि नाटके । उत्तमाधममध्यानामेवं तानि प्रयोजयेत् ॥ ६.६० ॥ इत्येष स्वसमुत्थस्तथा परसमुत्थश्च विज्ञेयः । द्विविधस्त्रिप्रकृतिगतस्त्र्यवस्थभावो रसो हास्यः ॥ ६.६१ ॥ अथ करुणो नाम शोकस्थायिभावप्रभवः । स च शापक्लेशविनिपतितेष्टजनविप्रयोगविभवनाशवधबन्धविद्रवोपघातव्यसनसंयोगादिभिर्विभावैः समुपजायते । तस्याश्रुपातपरिदेवनमुखशोषणवैवर्ण्यस्रस्तगात्रतानिश्श्वासस्मृतिलोपादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्य निर्वेदग्लानिचिन्तौत्सुक्यावेगभ्रममोहश्रमभयविषाददैन्यव्याधिजडतोन्मादापस्मारत्रासालस्यमरणस्तम्भवेपथुवैवर्ण्याश्रुस्वरभेदादयः । अत्रार्ये भवतः इष्टवधदर्शनाद्वा विप्रियवचनस्य संश्रवाद्वापि । एभिर्भावविशेषैः करुणो नाम संभवति ॥ ६.६२ ॥ सस्वनरुदितैर्मोहागमैश्च परिदैवतैर्विलपितैश्च । अभिनेयः करुणरसो देहायासाभिघातैश्च ॥ ६.६३ ॥ अथ रौद्रो नाम क्रोधस्थायिभावात्मको रक्षोदानवोद्धतमनुष्यप्रकृतिः संग्रामहेतुकः । स च क्रोधाधर्षणाधिक्षेपानृतवचनोपघातवाक्पारुष्याभिद्रोहमात्सर्यादिभिर्विभावैरुत्पद्यते । तस्य च ताडनपाटनपीडाच्छेदनप्रहरणाहरणशस्त्रसंपातसंप्रहाररुधिराकर्षणाद्यानि कर्माणि । पुनश्च रक्तनयनभ्रुकुटिकरणदन्तोष्ठपीडनगण्डस्फुरणहस्ताग्रनिष्पेषादिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्यासम्मोहोत्साहावेगामर्षचपलतौग्र्यगर्वस्वेदवेपथुरोमाञ्चगद्गदादयः । अत्राह यदभिहितं रक्षोदानवादीनां रौद्रो रसः । किमन्येषां नास्ति । उच्यते अस्त्यन्येषामपि रौद्रो रसः । किन्त्वधिकारोऽत्र गृह्यते । ते हि स्वभावत एव रौद्रः । कस्मात् । बहुबाहवो बहुमुखाः प्रोद्धूतविकीर्णपिङ्गलशिरोजाः । रक्तोद्वृत्तविलोचना भीमासितरूपिणश्चैव । यच्च किञ्चित्समारम्भते स्वभावचेष्टितं वागङ्गादिकं तत्सर्वं रौद्रमेवैषाम् । शृङ्गारश्च तैः प्रायशः प्रसभ्यं सेव्यते । तेषां चानुकारिणो ये पुरुषस्तेषामपि सङ्ग्रामसम्प्रहारकृतो रौद्रो रसोऽनुमन्तव्यः । अत्रानुवंश्ये आर्ये भवतः युद्धप्रहारघातनविकृतच्छेदनविदारणैश्चैव । संङ्ग्रामसम्भ्रमाद्यैरेभिः सञ्जायते रौद्रः ॥ ६.६४ ॥ नानाप्रहरणमोक्षैः शिरःकबन्धभुजकर्तनैश्चैव । एभिश्चार्थविशेषैरस्याभिनयः प्रयोक्तव्यः ॥ ६.६५ ॥ इति रौद्ररसो दृष्टो रौद्रवागङ्गचेष्टितः । शस्त्रप्रहारभूयिष्ठ उग्रकर्मक्रियात्मकः ॥ ६.६६ ॥ अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः । स चासंमोहाध्यवसायनविनयबलपराक्रमशक्तिप्रतापप्रभावादिभिर्विभावैरुत्पद्यते । तस्य स्थैर्यधैर्यशौर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य धृतिमतिगर्वावेगौग्र्यामर्षस्मृतिरोमाञ्चादयः । अत्रार्ये रसविचारमुखे उत्साहाध्यवसायादविषादित्वादविस्मयामोहात् । विविधादर्थविशेषाद्वीररसो नाम सम्भवति ॥ ६.६७ ॥ स्थितिधैर्यवीर्यगर्वैरुत्साहपराक्रमप्रभावैश्च । वाक्यैश्चाक्षेपकृतैर्वीररसः सम्यगभिनेयः ॥ ६.६८ ॥ अथ भयानको नाम भयस्थायिभावात्मकः । स च विकृतरवसत्त्वदर्शनशिवोलूकत्रासोद्वेगशून्यागारारण्यगमनस्वजनवधबन्धदर्शनश्रुतिकथादिभिर्विभावैरुत्पद्यते । तस्य प्रवेपितकरचरणनयनचपलपुलकमुखवैवर्ण्यस्वरभेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य स्तम्भस्वेदगद्गदरोमाञ्चवेपथुस्वरभेदवैवर्ण्यशङ्कामोहदैन्यावेगचापलजडतात्रासापस्मारमरणादयः । अत्रार्याः विकृतरवसत्त्वदर्शनसंग्रामारण्यशून्यगृहगमनात् । गुरुनृपयोरपराधात्कृतकश्च भयानको ज्ञेयः ॥ ६.६९ ॥ गात्रमुखदृष्टिभेदैरूरुस्तम्भाभिवीक्षणोद्वेगैः । सन्नमुखशोषहृदयस्पन्दनरोमोद्गमैश्च भयम् ॥ ६.७० ॥ एतत्स्वभावजं स्यात्सत्त्वसमुत्थं तथैव कर्तव्यम् । पुनरेभिरेव भावैः कृतकं मृदुचेष्टितैः कार्यम् ॥ ६.७१ ॥ करचरणवेपथुस्तम्भगात्रहृदयप्रकम्पेन । शुष्कोष्ठतालुकण्ठैर्भयानको नित्यमभिनेयः ॥ ६.७२ ॥ अथ बीभत्सो नाम जुगुप्सास्थायिभावात्मकः । स चाहृद्याप्रियाचोष्यानिष्टश्रवणदर्शनकीर्तनादिभिर्विभावैरुत्पद्यते । तस्य सर्वाङ्गसंहारमुखविकूणनोल्लेखननिष्ठीवनोद्वेजनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्यापस्मारोद्वेगावेगमोहव्याधिमरणादयः । अत्रानुवंश्ये आर्ये भवतः अनभिमतदर्शनेन च गन्धरसस्पर्शशब्ददोषैश्च । उद्वेजनैश्च बहुभिर्बीभत्सरसः समुद्भवति ॥ ६.७३ ॥ मुखनेत्रविकूणनया नासाप्रच्छादनावनमितास्यैः । अव्यक्तपादपतनैर्बीभत्सः सम्यगभिनेयः ॥ ६.७४ ॥ अथाद्भुतो नाम विस्मयस्थायिभावात्मकः । स च दिव्यजनदर्शनेप्सितमनोरथावाप्त्युपवनदेवकुलादिगमनसभाविमानमायेन्द्रजालसम्भावनादिभिर्विभावैरुत्पद्यते । तस्य नयनविस्तारानिमेषप्रेक्षणरोमाञ्चाश्रुस्वेदहर्षसाधुवाददानप्रबन्धहाहाकारबाहुवदनचेलाङ्गुलिभ्रमणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य स्तम्भाश्रुस्वेदगद्गदरोमाञ्चावेगसम्भ्रमजडताप्रलयादयः । अत्रानुवंश्ये आर्ये भवतः यत्त्वातिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं वा । तत्सर्वमद्भुतरसे विभावरूपं हि विज्ञेयम् ॥ ६.७५ ॥ स्पर्शग्रहोल्लुकसनैर्हाहाकारैश्च साधुवादैश्च । वेपथुगद्गदवचनैः स्वेदाद्यैरभिनयस्तस्य ॥ ६.७६ ॥ शृङ्गारं त्रिविधं विद्यात्द्वाङ्नैपथ्यक्रियात्मकम् । अङ्गनैपथ्यवाक्यैश्च हास्यरौद्रौ त्रिधा स्मृतौ ॥ ६.७७ ॥ धर्मोपघातजश्चैव तथार्थापचयोद्भवः । तथा शोककृतश्चैव करुणस्त्रिविधः स्मृतः ॥ ६.७८ ॥ दानवीरं धर्मवीरं युद्धवीरं तथैव च । रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि ॥ ६.७९ ॥ व्याजाच्चैवापराधाच्च वित्रासितकमेव च । पुनर्भयानकञ्चैव विद्यात्त्रिविधमेव हि ॥ ६.८० ॥ बीभत्सः क्षोभजः शुद्ध उद्वेगी स्यात्द्वितीयकः । विष्ठाकृमिभिरुद्वेगी क्षोभजो रुधिरादिअजः ॥ ६.८१ ॥ दिव्यश्चानन्दजश्चैव द्विधा ख्यातोऽद्भुतो रसः । दिव्यदर्शनजो दिव्यो हर्षादानदजः स्मृतः ॥ ६.८२ ॥ [अथ शान्तो नाम शमस्थायिभावात्मको मोक्षप्रवर्तकः । स तु तत्त्वज्ञानवैराग्याशयशुद्ध्यादिभिर्विभावैः समुत्पद्यते । तस्य यमनियमाध्यात्मध्यानधारणोपासनसर्वभूतदयालिङ्गग्रहणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचाणश्चास्य निर्वेदस्मृतिधृतिसर्वाश्रमशौचस्तम्भरोमाञ्चादयः । अत्रार्याः श्लोकाश्च भवन्ति मोक्षाध्यात्मसमुत्थस्तत्त्वज्ञानार्थहेतुसंयुक्तः । नैःश्रेयसोपदिष्टः शान्तरसो नाम सम्भवति ॥ ६.८२*१ ॥ बुद्धीन्द्रियकर्मेन्द्रियसंरोधाध्यात्मसंस्थितोपेतः । सर्वप्राणिसुखहितः शान्तरसो नाम विज्ञेयः ॥ ६.८२*२ ॥ न यत्र दुःखं न सुखं न द्वेषो नापि मत्सरः । समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥ ६.८२*३ ॥ भावा विकारा रत्याद्याः शान्तस्तु प्रकृतिर्मतः । विकारः प्रकृतैर्जातः पुनस्तत्रैव लीयते । स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते ॥ ६.८२*४ ॥ पुनर्निमित्तापाये च शान्त एवोपलीयते । एवं नवरसा दृष्टा नाट्यज्ञैर्लक्षणान्विअताः ॥ ६.८२*५ ॥ ] एवमेते रसा ज्ञेयास्त्वष्टौ लक्षणलक्षिताः । अत ऊर्ध्वं प्रवक्ष्यामि भावानामपि लक्षणम् ॥ ६.८३ ॥ इति भारतीये नाट्यशास्त्रे रसाध्यायः षष्ठः _____________________________________________________________ अथ सप्तमोऽध्यायः भावानिदानीं व्याख्यास्यामः । अत्राह भावा इति कस्मात् । किं भवन्तीति भावाः किं वा भावयन्तीति भावाः । उच्यते वागङ्गसत्त्वोपेतानान्काव्यार्थान्भावयन्तीति भावा इति । भू इति करणे धातुस्तथा च भावितं वासितं कृतमित्यनर्थान्तरम् । लोकेऽपि च प्रसिद्धम् । अहो ह्यनेन गन्धेन रसेन वा सर्वमेव भावितमिति । तच्च व्याप्त्यर्थम् । श्लोकाश्चात्र विभावेनाहृतो योऽर्थो ह्यनुभावैस्तु गम्यते । वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः ॥ ७.१ ॥ वागङ्गमुखरागेण सत्त्वेनाभिनयेन च । कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ ७.२ ॥ नानाभिनयसम्बद्धान्भावयन्ति रसानिमान् । यस्मातस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥ ७.३ ॥ अथ विभाव इति कस्मात् । उच्यते विभवो विज्ञानार्थः । विभावः कारणं निमित्तं हेतुरिति पर्यायाः । विभाव्यतेऽनेन वागङ्गसत्त्वाभिनया इत्यतो विभावः । यथा विभावितं विज्ञातमित्यनर्थान्तरम् । अत्र श्लोकः बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः । अनेन यस्मात्तेनायं विभाव इति संज्ञितः ॥ ७.४ ॥ अथानुभाव इति कस्मात् । उच्यते अनुभाव्यतेऽनेन वागङ्गसत्त्वकृतोऽभिनय इति । अत्र श्लोकः वागङ्गाभिनयेनेह यतस्त्वर्थोऽनुभाव्यते । शाखाङ्गोपाङ्गसंयुक्तस्त्वनुभावस्ततः स्मृतः ॥ ७.५ ॥ एवं ते विभावानुभावसंयुक्ता भावा इति व्याख्याताः । अतो ह्येषां भावानां सिद्धिर्भवति । तस्मादेषां भावानां विभावानुभावसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः । तत्र विभावानुभावौ लोकप्रसिद्धौ । लोकस्वभावानुगतत्वाच्च तयोर्लक्षणं नोच्यतेऽतिप्रसङ्गनिवृत्यर्थम् । भवति चात्र श्लोकः लोकस्वभावसंसिद्धा लोकयात्रानुगामिनः । अनुभावा विभावाश्च ज्ञेयास्त्वभिनये बुधैः ॥ ७.६ ॥ तत्राष्टौ भावाः स्थायिनः । त्रयस्त्रिंशद्व्यभिचारिणः । अष्टौ सात्विका इति भेदाः । एवमेते काव्यरसाभिव्यक्तिहेतव एकोनपञ्चाशद्भावाः प्रत्यवगन्तव्याः । एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते । अत्र श्लोकः योऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः । शरीरं व्याप्यते तेन शुष्कं काष्ठमिवाग्निना ॥ ७.७ ॥ अत्राह यदि काव्यार्थसंश्रितैर्विभावानुभावव्यञ्जितैरेकोनपञ्चाशद्भावैः सामान्यगुणयोगेनाभिनिष्पद्यन्ते रसास्तत्कथं स्थायिन एव भावा रसत्वमाप्नुअवन्ति । उच्यते यथा हि समानलक्षणास्तुल्यपाणिपादोदरशरीराः समानाङ्गप्रत्यङ्गा अपि पुरुषाः कुलशीलविद्याकर्मशिल्पविचक्षणत्वाद्राजत्वमाप्नुवन्ति तत्रैव चान्येऽल्पबुद्धयस्तेषामेवानुचरा भवन्ति तथा विभावानुभावव्यभिचारिणः स्थायिभावानुपाश्रिता भवन्ति । बह्वाश्रयत्वास्वामिभूताः स्थायिनो भावाः । तद्वत्स्थानीयपुरुषगुणभूता अन्ये भावास्तान्गुणतया श्रयन्ते । स्थायिभावा रसत्वमाप्नुवन्ति । परिजनभूता व्यभिचारिणो भावाः । अत्राह को दृष्टान्त इति । यथा नरेन्द्रो बहुजनपरिवारोऽपि स एव नाम लभते नान्यः सुमहानपि पुरुषः तथा विभावानुभावव्यभिचारिपरिवृतः स्थायी भावो रसनाम लभते । भवति चात्र श्लोकः यथा नराणां नृपतिः शिष्याणां च यथा गुरुः । एवं हि सर्वभावानां भावः स्थायि महानिह ॥ ७.८ ॥ लक्षणं खलु पूर्वमभिहितमेषां रससंज्ञकानाम् । इदानीं भावसामान्यलक्षणमभिधास्यामः । तत्र स्थायिभावान्वक्ष्यामः रतिर्नाम प्रमोदात्मिका ऋतुमाल्यानुलेपनाभरणभोजनवरभवनानुभवनाप्रातिकूल्यादिभिर्विभावैः समुत्पद्यते । तामभिनयेत्स्मितवदनमधुरकथनभ्रूक्षेपकटाक्षादिभिरनुभावैः । अत्र श्लोकः इष्टार्थविषयप्राप्त्या रतिरित्युपजायते । सौम्यत्वादभिनेया सा वाङ्माधुर्याङ्गचेष्टितैः ॥ ७.९ ॥ हासो नाम परचेष्टानुकरणकुहकासम्बद्धप्रलापपौरोभाग्यमौर्ख्यादिभिर्विभावैः समुत्पद्यते । तमभिनयेत्पूर्वोक्तैर्हसितादिभिरनुभावैः । भवति चात्र श्लोकः परचेष्टानुकरणाद्धासः समुपजायते । स्मितहासातिहसितैरभिनेयः स पण्डितैः ॥ ७.१० ॥ शोको नाम इष्टजनवियोगविभवनाशवधबन्धदुःखानुभनवनादिभिर्विभावैः समुत्पद्यते । तस्यास्रपातपरिदेवितविलपितवैवर्ण्यस्वरभेदस्रस्तगात्रताभूमिपतनसस्वनरुदिताक्रन्दितदीर्घनिःश्वसितजडतोन्मादमोहमरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । रुदितमत्र त्रिविधमानन्दजमार्तिजमीर्ष्यासमुद्भवं चेति । भवन्ति चात्रार्याः आनन्देऽप्यार्तिकृतं त्रिविधं रुदितं सदा बुधैर्ज्ञेयम् । तस्य त्वभिनययोगान्विभावगतितः प्रवक्ष्यामि ॥ ७.१०* ॥ हर्षोत्फुल्लकपोलं सानुस्मरणादपाङ्गविसृतास्रम् । रोमाञ्चगात्रमनिभृतमानन्दसमुद्भवं भवति ॥ ७.११ ॥ पर्याप्तविमुक्तास्रं सस्वनमस्वस्थगात्रगतिचेष्टम् । भूमिनिपातनिवर्तितविलपितमित्यार्तिजं भवति ॥ ७.१२ ॥ प्रस्फुरितौष्ठकपोलं सशिरःकम्पं तथा सनिःश्वासम् । भ्रुकुटीकटाक्षकुटिलं स्त्रीणामीर्ष्याकृतं भवति ॥ ७.१३ ॥ स्त्रीनीचप्रकृतिष्वेष शोको व्यसनसम्भवः । धैर्येणोत्तममध्यानां नीचानां रुदितेन च ॥ ७.१४ ॥ क्रोधो नाम आधर्षणाक्रुष्टकलहविवादप्रतिकूलादिभिर्विभावैः समुत्पद्यते । अस्य विकृष्टनासापुटोद्वृत्तनयनसंदष्ठोष्ठपुटगण्डस्फुरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । रिपुजो गुरुजश्चैव प्रणयिप्रभवस्तथा । भृत्यजः कृतकश्चेति क्रोधः पञ्चविधः स्मृतः ॥ ७.१५ ॥ अत्रार्या भवन्ति भृकुटीकुटिलोत्कटमुखः सन्दष्ठोष्ठः स्पृशन्करेण करम् । क्रुद्धः स्वभुजाप्रेक्षी शत्रौ निर्यन्त्रणं रुष्येत् ॥ ७.१६ ॥ किञ्चिदवाङ्ग्मुखदृष्टिः सास्रस्वेदापमार्जनपरश्च । अव्यक्तोल्बणचेष्टो गुरौ विनययन्त्रितो रुष्येत् ॥ ७.१७ ॥ अल्पप्रतरविचारो विकिरन्नश्रूण्यपाङ्गविक्षेपैः । सभ्रुकुटिस्फुरितोष्ठः प्रणयोपगतां प्रिया रुष्येत् ॥ ७.१८ ॥ अथ परिजने तु रोषस्तर्जननिर्भर्त्सनाक्षिविस्तारैः । विप्रेक्षणैश्च विविधैरभिनेयः क्रूरतारहितः ॥ ७.१९ ॥ कारणमवेक्षमाणः प्रायेणायासलिङ्गसंयुक्तः । वीररसान्तरचारी कार्यः कृतको भवति कोपः ॥ ७.२० ॥ उत्साहो नाम उत्तमप्रकृतिः । स चाविषादशक्तिधैर्यशौर्यादिभिर्विभावैरुत्पद्यते । तस्य धैर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्र श्लोकः असम्मोहादिभिर्व्यक्तो व्यवसायनयात्मकः । उत्साहस्त्वभिनेयः स्यादप्रमादोत्थितादिभिः ॥ ७.२१ ॥ भयं नाम स्त्रीनीचप्रकृतिकम् । गुरुराजापराधश्वापदशून्यागाराटवीपर्वतगहनगजाहिदर्शननिर्भर्त्सनकान्तारदुर्दिननिशान्धकरोलूकनक्तञ्चरारावश्रवणादिभिर्विभावैः समुत्पद्यते । तस्य प्रकम्पितकरचरणहृदयकम्पनस्तम्भमुखशोषजिह्वापरिलेहनस्वेदवेपथुत्राससपरित्राणान्वेषणधावनोत्कृष्टादिभिरनुभवैरभिनयः प्रयोक्तव्यः । अत्र श्लोकाः गुरुराजापराधेन रौद्राणां चापि दर्शनात् । श्रवणादपि घोराणां भयं मोहेन जायते ॥ ७.२२ ॥ गात्रकम्पनवित्रासैर्वक्त्रशोषणसम्भ्रमैः विस्फारितैक्षणैः कार्यमभिनेयक्रियागुणैः ॥ ७.२३ ॥ सत्त्ववित्रासनोद्भूतं भयमुत्पद्यते नृणाम् । स्रस्ताङ्गाक्षिनिमेषैस्तदभिनेयं तु नर्तकैः ॥ ७.२४ ॥ अत्रार्या भवति करचरणहृदयकम्पैर्मुखशोषणवदनलेहनस्तम्भैः । सम्भ्रान्तवदनवेपथुसंत्रासकृतैरभिनयोऽस्य ॥ ७.२५ ॥ जुगुप्सा नाम स्त्रीनीचप्रकृतिका । सा चाहृद्यदर्शनश्रवणादिभिर्विभावैः समुत्पद्यते । तस्याः सर्वाङ्गसङ्कोचनिष्ठीवनमुखविकूणनहृल्लेखादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भवति चात्र श्लोकः नासाप्रच्छादनेनेह गात्रसङ्कोचनेन च । उद्वेजनैः सहृल्लेखैर्जुगुप्सामभिनिर्दिशेत् ॥ ७.२६ ॥ विस्मयो नाम मायेन्द्रजालमानुषकर्मातिशयचित्रपुस्तशिल्पविद्यातिशयादिभिर्विभावैः समुत्पद्यते । तस्य नयनविस्तारानिमेषप्रेक्षितभ्रूक्षेपरोमहर्षणशिरःकम्पसाधुवादादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भवति चात्र श्लोकः कर्मातिशयनिर्वृत्तो विस्मयो हर्षसम्भवः । सिद्धिस्थाने त्वसौ साध्यः प्रहर्षपुलकादिभिः ॥ ७.२७ ॥ एवमेते स्थायिनो भावा रससंज्ञाः प्रत्यवगन्तव्याः । व्यभिचारिण इदानीं व्याख्यास्यामः । अत्राह व्यभिचारिण इति कस्मात् । उच्यते वि अभि इत्येतावुपसर्गौ । चर इति गत्यर्थो धातुः । विविधमाभिमुख्येन रसेषु चरन्तीति व्यभिचारिणः । वागङ्गसत्त्वोपेताः प्रयोगे रसान्नयन्तीति व्यभिचारिणः । अत्राह कथं नयन्तीति । उच्यते लोकसिद्धान्त एषः यथा सूर्य इदं दिनं नक्षत्रं वा नयतीति । न च तेन बाहुभ्यां स्कन्धेन वा नीयते । किं तु लोकप्रसिद्धमेतत् । यथेदं सूर्यो नक्षत्रं दिन वा नयतीति । एवमेते व्यभिचारिण इत्यवगन्तव्याः । तानिह सङ्ग्रहाभिहितांस्त्रयस्त्रिंशद्व्यभिचारिणो भावान् वर्णयिष्यामः । तत्र निर्वेदो नाम दारिद्र्यव्याध्यवमानाधिक्षेपाक्रुष्टक्रोधताडनेष्टजनवियोगतत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते स्त्रीनीचकुसत्त्वानाम् । रुदितनिःश्वसितोच्छ्वसितसम्प्रधारणादिभिरनुभावैस्तमभिनयेत् । अत्र श्लोकः दारिद्र्येष्टवियोगाद्यैः निर्वेदो नाम जायते । सम्प्रधारणनिःश्वासैस्तस्य त्वभिनयो भवेत् ॥ ७.२८ ॥ अत्रानुवंश्ये आर्ये भवतः इष्टजनविप्रयोगाद्दारिद्र्याद्व्याधितस्तथा दुःखात् । ऋद्धिं परस्य दृष्ट्वा निर्वेदो नाम सम्भवति ॥ ७.२९ ॥ बाष्पपरिप्लुतनयनः पुनश्च निःश्वासनदीनमुखनेत्रः । योगीव ध्यानपरो भवति हि निर्वेदवान्पुरुषः ॥ ७.३० ॥ ग्लानिर्नाम वान्तविरिक्तव्याधितपोनियमोपवासमनस्तापातिशयमदनसेवनातिव्यायामाध्वगमनक्षुत्पिपासानिद्राच्छेदादिभिर्विभावैः समुत्पद्यते । तस्याः क्षामवाक्यनयनकपोलोदरमन्दपदोत्क्षेपणवेपनानुत्साहतनुगात्रवैवर्ण्यस्वरभेदाभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्ये भवतः वान्तविरिक्तव्याधिषु तपसा जरसा च जायते ग्लानिः । कार्श्येन साभिनेया मन्दभ्रमणेन कम्पेन ॥ ७.३१ ॥ गदितैः क्षामक्षामैर्नेत्रविकारैश्च दीनसञ्चारैः । श्लथभावेनाङ्गानां मुहुर्मुहुर्निर्दिशेद्ग्लानिम् ॥ ७.३२ ॥ शङ्का नाम सन्देहात्मिका स्त्रीनीचप्रभवा । चौर्याभिग्रहणनृपापराधपापकर्मकरणादिभिर्विभावैः समुत्पद्यते । तस्या मुहुर्मुहुरवलोकनावकुण्ठनमुखशोषणजिह्वालेहनमुखवैवर्ण्यस्वरभेदवेपथुशुष्कोष्ठकण्ठायाससाधर्म्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । चौर्यादिजनिता शङ्का प्रायः कार्या भयानके । प्रियव्यलीकजनिता तथा शृङ्गारिणी मता ॥ ७.३३ ॥ अत्राकारसंवरणमपि केचिदिच्छन्ति । तच्च कुशलैरुपाधिभिरिङ्गितैश्चोपलक्ष्यम् । अत्रार्ये भवतः द्विविधा शङ्का कार्याह्यात्मसमुत्था च परसमुत्था च । या तत्रात्मसमुत्था सा ज्ञेया दृष्टिचेष्टाभिः ॥ ७.३४ ॥ किञ्चित्प्रवेपिताङ्गस्त्वधोमुखो वीक्षते च पार्श्वानि । गुरुसज्जमानजिह्वः श्यामास्यः शङ्कितः पुरुषः ॥ ७.३५ ॥ असूया नाम नानापराधद्वेषपरैश्वर्यसौभाग्यमेधाविद्यालीलादिभिर्विभावैः समुत्पद्यते । तस्याश्च परिषदि दोषप्रख्यापनगुणोपघातेर्ष्याचक्षुःप्रदानाधोमुखभ्रुकुटीक्रियावज्ञानकुत्सनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्ये भवतः परसौभाग्येश्वरतामेधालीलासमुच्छ्रयान्दृष्ट्वा । उत्पद्यते ह्यसूया कृतापराधो भवेद्यश्च ॥ ७.३६ ॥ भ्रुकुटिकुटिलोत्कटमुखैः सेर्ष्याक्रोधपरिवृत्तनेत्रैश्च । गुणनाशनविद्वेषैस्तत्राभिनयः प्रयोक्तव्यः ॥ ७.३७ ॥ मदो नाम मद्योपयोगादुत्पद्यते । स च त्रिविधः पञ्चविभावश्च । अत्रार्या भवन्ति ज्ञेयस्तु मदस्त्रिविधस्तरुणो मध्यस्तथावकृष्टश्च । करणं पञ्चविधं स्यात्तस्याभिनयः प्रयोक्तव्यः ॥ ७.३८ ॥ कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित् । परुषवचनाभिधायी कश्चित्कश्चित्तथा स्वपिति ॥ ७.३९ ॥ उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः । परुषवचनाभिधायी रोदत्यपि चाधमप्रकृतिः ॥ ७.४० ॥ स्मितवचनमधुररागो हृष्टतनुः किञ्चिदाकुलितवाक्यः । सुकुमाराविद्धगतिस्तरुणमदस्तूत्तमप्रकृतिः ॥ ७.४१ ॥ स्खलिताघूर्णितनयनः स्रस्तव्याकुलितबाहुविक्षेपः । कुटिलव्याविद्धगतिर्मध्यमदो मध्यमप्रकृतिः ॥ ७.४२ ॥ नष्टस्मृतिर्हतगतिश्छर्दितहिक्काकफैः सुबीभत्सः । गुरुसज्जमानजिह्वो निष्ठीवति चाधमप्रकृतिः ॥ ७.४३ ॥ रङ्गे पिबतः कार्या मदवृद्धिर्नाट्ययोगमासाद्य । कार्यो मदक्षयो वै यः खलु पीत्वा प्रविष्टः स्यात् ॥ ७.४४ ॥ सन्त्रासाच्छोकाद्वा भयात्प्रहर्षाच्च कारणोपगतात् । उत्क्रम्यापि हि कार्यो मदप्रणाशः क्रमात्तज्ज्ञैः ॥ ७.४५ ॥ एभिर्भावविशेषैर्मदो द्रुतं सम्प्रणाशमुपयाति । अभ्युदयसुखैर्वाक्यैर्यथैव शोकः क्षयं याति ॥ ७.४६ ॥ श्रमो नाम अध्वव्यायामसेवनादिभिर्विभावैः समुत्पद्यते । तस्य गात्रपरिमर्दनसंवाहननिःश्वसितविजृम्भितमन्दपदोत्क्षेपणनयनवदनविकूणनसीत्करादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्या नृत्ताध्वव्यायामान्नरस्य सञ्जायते श्रमो नाम । निःश्वासखेदगमनैस्तस्याभिनयः प्रयोक्तव्यः ॥ ७.४७ ॥ आलस्यं नाम खेदव्याधिगर्भस्वभावश्रमसौहित्यादिभिर्विभावैः समुत्पद्यते स्त्रीनीचानाम् । तदभिनयेत्सर्वकर्मानभिलाषशयनासननिद्रातन्द्रीसेवनादिभिरनुभावैः । अत्रार्या आलस्यं त्वभिनेयं खेदापगतं स्वभावजं चापि । आहारवर्जितानामारम्भाणामनारम्भात् ॥ ७.४८ ॥ दैन्यं नाम दौर्गत्यमनस्तापादिभिर्विभावैः समुत्पद्यते । तस्याधृतिशिरोरोगगात्रगौरवान्यमनस्कतामृजापरिवर्जनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्या चिन्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनतां पुंसाम् । सर्वमृजापरिहारैर्विविधोऽभिनयो भवेत्तस्य ॥ ७.४९ ॥ चिन्ता नाम ऐश्वर्यभ्रंशेष्टद्रव्यापहारदारिद्र्यादिभिर्विभावैरुत्पद्यते । तामभिनयेन्निःश्वसितोच्छ्वसितसन्तापध्यानाधोमुखचिन्तनतनुकार्श्यादिभिरनुभावैः । अत्रार्ये भवतः ऐश्वर्यभ्रंशेष्टद्रव्यक्षयजा बहुप्रकारा तु । हृदयवितर्कोपगता नॄणां चिन्ता समुद्भवति ॥ ७.५० ॥ सोच्छ्वासैर्निःश्वसितैः सन्तापैश्चैव हृदयशून्यतया । अभिनेतव्या चिन्ता मृजाविहीनैरधृत्या च ॥ ७.५१ ॥ मोहो नाम दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरानुस्मरणादिभिर्विभावैः समुत्पद्यते । तस्य निश्चैतन्यभ्रमणपतनाघूर्णनादर्शनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्र श्लोकस्तावदार्या च अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैरपि । तत्प्रतीकारशून्यस्य मोहः समुपजायते ॥ ७.५२ ॥ व्यसनाभिघातभयपूर्ववैरसंस्मरणरोगजो मोहः । सर्वेन्द्रियसम्मोहात्तस्याभिनयः प्रयोक्तव्यः ॥ ७.५३ ॥ स्मृतिर्नाम सुखदुःखकृतानां भावानामनुस्मरणम् । सा च स्वास्थ्यजघन्यरात्रिनिद्राच्छेदसमानदर्शनोदाहरणचिन्ताभ्यासादिभिर्विभावैः समुत्पद्यते । तामभिनयेच्छिरःकम्पनावलोकनभ्रूसमुन्नमनादिभिरनुभावैः । अत्रार्ये भवतः सुखदुःखमतिक्रान्तं तथा मतिविभावितं यथावृत्तम् । चिरविस्मृतं स्मरति यः स्मृतिमानिति वेदितव्योऽसौ ॥ ७.५४ ॥ स्वास्थ्याभ्याससमुत्था श्रुतिदर्शनसम्भवा स्मृतिर्निपुणैः । शिर उद्वाहनकम्पैर्भूक्षेपैश्चाभिनेतव्या ॥ ७.५५ ॥ धृतिर्नाम शौर्यविज्ञानश्रुतिविभवशौचाचारगुरुभक्त्यधिकमनोरथार्थलाभक्रीडादिभिर्विभावैः समुत्पद्यते । तामभिनयेत्प्राप्तानां विषयाणामुपभोगादप्राप्तातीतोपहृतविनष्टानामनुशोचनादिभिरनुभावैः । अत्रार्ये भवतः विज्ञानशौचविभवश्रुतिशक्तिसमुद्भवा धृतिः सद्भिः । भयशोकविषदाद्यै रहिता तु सदा प्रयोक्तव्या ॥ ७.५६ ॥ प्राप्तानामुपभोगः शब्दरसस्पर्शरूपगन्धानाम् । अप्राप्तैश्च न शोको यस्यां हि भवेद्धृतिः सा तु ॥ ७.५७ ॥ व्रीडा नाम अकार्यकरणात्मिका । सा च गुरुव्यतिक्रमणावज्ञानप्रतिज्ञातानिर्वहनपश्चात्तापादिभिर्विभावैः समुत्पद्यते । तां निगूढवदनाधोमुखविचिन्तनोर्वीलेखनवस्त्राङ्गुलीयकस्पर्शनखनिकृन्तनादिभिरनुभावैरभिनयेत् । अत्रार्ये भवतः किञ्चिदकार्यं कुर्वन्नेवं यो दृश्यते शुचिभिरन्यैः । पश्चात्तापेन युतो व्रीडित इति वेदितव्योऽसौ ॥ ७.५८ ॥ लज्जानिगूढवदनो भूमिं विलिखन्नखांश्च विनिकृन्तन् । वस्त्राङ्गुलीयकानां संस्पर्शं व्रीडितः कुर्यात् ॥ ७.५९ ॥ चपलता नाम रागद्वेषमात्सर्यामर्षाप्रतिकूल्यादिभिर्विभावैः समुत्पद्यते । तस्याश्च वाक्पारुष्यनिर्भर्त्सनवधबन्धसम्प्रहारताडनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्या भवति अविमृश्य तु यः कार्यं पुरुषो वधताडनं समारभते । अविनिश्चितकारित्वात्स तु खलु चपलो बुधैर्ज्ञेयः ॥ ७.६० ॥ हर्षो नाम मनोरथलाभेष्टजनसमागमनमनःपरितोषदेवगुरुराजभर्तृप्रसादभोजनाच्छादनलाभोपभोगादिभिर्विभावैः समुत्पद्यते । तमभिनयेन्नयनवदनप्रसादप्रियभाषणालिङ्गनकण्टकितपुलकितास्रस्वेदादिभिरनुभावैः । अत्रार्ये भवतः अप्राप्ये प्राप्ये वा लब्धेऽर्थे प्रियसमागमे वाऽपि । हृदयमनोरथलाभे हर्षः सञ्जायते पुंसाम् ॥ ७.६१ ॥ नयनवदनप्रियभाषालिङ्गनैश्च रोमाञ्चैः । ललितैश्चाङ्गविहारैः स्वेदाद्यैरभिनयस्तस्य ॥ ७.६२ ॥ आवेगो नाम उत्पातवातवर्षाकुञ्जरोद्भ्रमणप्रियाप्रियश्रवणव्यसनाभिघातादिर्विभावैः समुत्पद्यते । तत्रोत्पातकृतो नाम विद्युदुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शनकृतः । तमभिनयेत्सर्वाङ्गस्रस्ततावैमनस्यमुखवैवर्ण्यविषादविस्मयादिभिः । वातकृतं पुनरवकुण्ठनाक्षिपरिमार्जनवस्त्रसङ्गूहनत्वरितगमनादिभिः । वर्षकृतं पुनः सर्वाङ्गसम्पिण्डनप्रधावनच्छन्नाश्रयमार्गणादिभिः । अग्निकृतं तु धूमाकुलनेत्रताऽङ्गसङ्कोचनविधूननातिक्रान्तापक्रान्तादिभिः । कुञ्जरोद्भ्रमणकृतं नाम त्वरितापसर्पणचञ्चलगमनभयस्तम्भवेपथुपश्चादवलोकनविस्मयादिभिः । प्रियश्रवणकृतं नामाभ्युत्थानालिङ्गनवस्त्राभरणप्रदानाश्रुपुलकितादिभिः । अप्रियश्रवणकृतं नाम भूमिपतनविषमविवर्तनपरिधावनविलापनाक्रन्दनादिभिः । व्यसनाभिघातजं तु सहसापसर्पणशस्त्रचर्मवर्मधारणगजतुरगरथारोहणसम्प्रधारणादिभिः । एवमष्टविकल्पोऽयमावेगः सम्भ्रमात्मकः । स्थेर्येणोत्तममध्यानां नीचानां चापसर्पणैः ॥ ७.६३ ॥ अत्रार्ये भवतः अप्रियनिवेदनाद्वा सहसा ह्यवधारितारिवचनस्य । शस्त्रक्षेपात्त्रासादावेगो नाम सम्भवति ॥ ७.६४ ॥ अप्रियनिवेदनाद्यो विषादभावाश्रयोऽनुभावस्य । सहसारिदर्शनाच्चेत्पहरणपरिघट्टनैः कार्यः ॥ ७.६५ ॥ जडतानाम सर्वकार्याप्रतिपत्तिः । इष्टानिष्टश्रवणदर्शनव्याध्यादिभिर्विभावैः समुत्पद्यते । तामभिनयेदकथनाविभाषणतूष्णीम्भावाप्रतिभाऽनिमेषनिरीक्षणपरवशत्वादिभिरनुभावैः । अत्रार्या भवति इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् । तूष्णीकः परवशगो भवति स जडसंज्ञितः पुरुषः ॥ ७.६६ ॥ गर्वो नाम ऐश्वर्यकुलरूपयौवनविद्याबलधनलाभादिभिर्विभावैः समुत्पद्यते । तस्यासूयावज्ञाघर्षणानुत्तरदानासम्भाषणाङ्गावलोकन विभ्रमापहसनवाक्पारुष्यगुरुव्यतिक्रमणाधिक्षेपवचनविच्छेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः अत्रार्या भवति विद्यावाप्ते रूपादैश्वर्यादथ धनागमाद्वापि । गर्वः खलु नीचानां दृष्ट्यङ्गविचारणैः कार्यः ॥ ७.६७ ॥ विषादो नाम कार्यानिस्तरणदैवव्यापत्तिसमुत्थः । तमभिनयेत्सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्यनिःश्वसितादिभिरनुभावैरुत्तममध्यमानाम् । अधमानां तु विपरिधावनालोकनमुखशोषणसृक्वपरिलेहननिद्रानिःश्वसितध्यानादिभिरनुभावैः । अत्रार्या श्लोकौ कार्यानिस्तरणाद्वा चौर्याभिग्रहणराजदोषाद्वा । दैवादर्थविपत्तेर्भवति विषादः सदा पुंसाम् ॥ ७.६८ ॥ वैचित्र्योपायचिन्ताभ्यां कार्य उत्तममध्ययोः । निद्रानिःश्वसितध्यानैरधमानां तु योजयेत् ॥ ७.६९ ॥ औत्सुक्यं नाम इष्टजनवियोगानुस्मरणोद्यानदर्शनादिभिर्विभावैः समुत्पद्यते । तस्य दीर्घनिःश्वसिताधोमुखविचिन्तननिद्रातन्द्रीशयनाभिलाषादिभिरनुभवैरभिनयः प्रयोक्तव्यः । अत्रार्या भवति इष्टजनस्य वियोगादौत्सुक्यं जायते ह्यनुस्मृत्या । चिन्तानिद्रातन्द्रीगात्रगुरुत्वैरभिनयोऽस्य ॥ ७.७० ॥ निद्रा नाम दौर्बल्यश्रमक्लममदालस्यचिन्ताऽत्याहारस्वभावादिभिर्विभावैः समुत्पद्यते । तामभिनयेद्वदनगौरवशरीरावलोकननेत्रघूरणनगात्रविजृम्भनमान्द्योच्छ्वसितसन्नगात्रताऽक्षिनिमीलनादिभिरनुभावैः । अत्रार्ये भवतः आलस्याद्दौर्बल्यात्क्लमाच्छ्रमाच्चिन्तनात्स्वभावाच्च । रात्रौ जागरणादपि निद्रा पुरुषस्य सम्भवति ॥ ७.७१ ॥ तां मुखगौरवगात्रप्रतिलोलननयनमीलनजडत्वैः । जृम्भणगात्रविमर्दैरनुभावैरभिनयेत्प्राज्ञः ॥ ७.७२ ॥ अपस्मारो नाम देवयक्षनागब्रह्मराक्षसभूतप्रेतपिशाचग्रहणानुस्मरनोच्छिष्टशून्यागारसेवनाशुचिकालान्तरापरिपतनव्याद्यादिभिर्विभावैः समुत्पद्यते । तस्य स्फुरितनिःश्वसितोत्कम्पितधावनपतनस्वेदस्तम्भवदनफेनजिह्वापरिलेहनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्ये भवतः भूतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यगृहगमनात् । कालान्तरातिपातादशुचेश्चभवत्यपस्मारः ॥ ७.७३ ॥ सहसा भूमौ पतनं प्रवेपनं वदनफेनमोक्षश्च । निःसंज्ञस्योत्थानं रूपाण्येतान्यपस्मारे ॥ ७.७४ ॥ सुप्तं नाम निद्राभिभवविषयोपगमनक्षितितलशयनप्रसारणानुकर्षणादिभिर्विभावैः समुत्पद्यते निद्रासमुत्थम् । तदुच्छ्वसितंसन्नगात्राक्षिनिमीलनसर्वेन्द्रिय सम्मोहनोत्स्वप्नायितादिभिरनुभावैरभिनयेत् । अत्रार्ये भवतः निद्राभिभवेन्द्रियोपरमणमोहाइर्हवेत्सुप्तम् । अक्षिनिमीलनोच्छ्वसनैः स्वप्नायितजल्पितैः कार्यः ॥ ७.७५ ॥ सोच्छ्वासैर्निःश्वासैर्मन्दाक्षिनिमीलनेन निश्चेष्टः । सर्वेन्द्रियसम्मोहात्सुप्तं स्वप्नैश्च युञ्जीत ॥ ७.७६ ॥ विबोधो नाम आहारपरिणामनिद्राच्छेदस्वप्नान्ततीव्रशब्दश्रवणादिभिर्विभावैः समुत्पद्यते । तमभिनयेज्जृम्भणाक्षिपरिमर्दनशयनमोक्षणादिभिरनुभावैः । अत्रार्या भवति आहारविपरिणामाच्छब्दस्पर्शादिभिश्च सम्भूतः । प्रतिबोधस्त्वभिनेयो जृम्भणवदनाक्षिपरिमर्दैः ॥ ७.७७ ॥ अमर्षो नाम विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते । तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तनध्यानाध्यवसायोपायसहायान्वेषणादिभिरनुभावैः । अत्र श्लोकौ आक्षिप्तानां सभामध्ये विद्याशौर्यबलाधिकैः । नॄणामुत्साहसंयोगादमर्षो नाम जायते ॥ ७.७८ ॥ उत्साहाध्यवसायाभ्यामधोमुखविचिन्तनैः । शिरःप्रकम्पस्वेदाद्यैस्तं प्रयुञ्जीत पण्डितः ॥ ७.७९ ॥ अवहित्थं नाम आकारप्रच्छादनात्मकम् । तच्च लजाभयापजयगौरवजैह्मयादिभिर्विभाविः समुत्पद्यते । तस्यान्यथाकथनावलोकितकथाभङ्गकृतकधैर्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्र श्लोको भवति धार्ष्ट्यजैह्म्यादिसम्भीतमवहित्थं भयत्मकम् । तच्चागणनया कार्यं नातीवोत्तरभाषणात् ॥ ७.८० ॥ उग्रता आम चौर्याभिग्रहाणनृपापराधासत्प्रलापादिभिर्विभावैः समुत्पद्यते । तां च वधबन्धनताडननिर्भत्सनादिभिरनुभावैरभिनयेत् । अत्रार्या भवति चौर्याभिग्रहनवशान्नृपापराधादथोग्रता भव्ति । वधबन्धताडनादिभिरनुभावैरभिनयस्तस्याः ॥ ७.८१ ॥ भवति चात्र श्लोकः नानाशात्रार्थबोधेन मतिः संजायते नृणाम् । शिष्योपदेशार्थकृतस्तस्यास्त्वभिनयो भवेत् ॥ ७.८२ ॥ व्याधिर्नाम वातपित्तकफसन्निपातप्रभवः । तस्य ज्वरादयो विशेषाः । ज्वरस्तु द्विविधः सशीतः सदाहश्च । तत्र सशीतो नाम प्रवेपितसर्वाङ्गोप्कम्पननिकुञ्चनाग्न्यभिलाषरोमाञ्चहनुवलननासाविकूननमुखशोषणपरिदेवितादिभिरनुभावैरभिनेयः । सदाहो नाम विक्षिप्ताङ्गकरचरणभूम्यभिलाषानुलेपनशीताभिलाषपरिदेवनमुखशोषोत्क्रुष्टादिभिरनुभावैः । ये चान्ये व्याधयस्तेऽपि खलु मुखविकूणनगात्रस्तम्भस्रस्ताक्षिनिःश्वसनस्तनितोत्क्रुष्टवेपनादिभिरनुभावैरभिनेयाः । अत्र श्लोको भवति समासतस्तु व्याधीनां कर्तव्योऽभिनयो बुधैः । स्रस्ताङ्गगात्रविक्षेपैस्तथा मुखविकूणनैः ॥ ७.८३ ॥ उन्मादो नाम इष्टजनवियोगविभवनाशाभिघातवातपित्तश्लेष्मप्रकोपादिभिर्विभावैरुत्पद्यते । तमनिमित्तहसितरुदितोत्क्रुष्टासम्बद्धप्रलापशयितोपविष्टोत्थितप्रधावितनृत्तगीतपठितभस्मपांस्ववधूलनतृणनिर्माल्यकुचेलचीरघटककपालशरावाभरणधारणोपभोगैरनेकैश्चानवस्थितैश्चेष्टानुकरणादिभिरनुभावैरभिनयेत् । अत्रार्ये भवतः इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात् । विविधाच्चित्तविकारादुन्मादो नाम सम्भवति ॥ ७.८४ ॥ अनिमित्तरुदितहसितोपविष्टगीतप्रधावितोत्क्रुष्टैः । अन्यैश्च विकारैरकृतैरुन्मादं सम्प्रयुञ्जीत ॥ ७.८५ ॥ मरणं नाम व्याधिजमभिघातजञ्च । तत्र यदान्त्रयकृच्छूलदोषवैषम्यगण्डपिटकज्वरविषूचिकादिभिरुत्पद्यते तद्व्याधिप्रभवम् । अभिघातजं तु शस्त्राहिदंशविषपानश्वापदगजतुरगरथपशुयानपातविनाशप्रभवम् । एतयोरभिनयविशेषान्वक्ष्यामः तत्र व्याधिजं विषण्णगात्राव्यायताङ्गविचेष्टितनिमीलितनयनहिक्काश्वासोपेतानवेक्षितपरिजनाव्यक्ताक्षरकथनादिभिरनुभावैरभिनयेत् । अत्र श्लोको भवति व्याधीनामेकभावो हि मरणाभिनयः स्मृतः । विषण्णगात्रैर्निश्चेष्टैरिन्द्रिअयैश्च विवर्जितः ॥ ७.८६ ॥ अभिघातजे तु नानाप्रकाराभिनयविशेषाः । शस्त्रक्षताहिदष्टविषपीतगजादिपतितश्वापदहताः । यथा तत्र शस्त्रक्षते तावत्सहसा भूमिपतनवेपनस्फुरणादिभिरभिनयः प्रयोक्तव्यः । अहिदष्टविषपीतयोर्विषयोगो यथा कार्श्यवेपथुविदाहहिक्काफेनस्कन्धभङ्गजडतामरणानीत्यष्टौ विषवेगाः । अत्र श्लोकौ भवतः कार्श्यं तु प्रथमे वेगे द्वितीये वेपथुर्भवेत् । दाहं तृतीये हिक्कां च चतुर्थे सम्प्रयोजयेत् ॥ ७.८७ ॥ फेनञ्च पञ्चमे कुर्यात्षष्ठे स्कन्धस्य भञ्जनम् । जडतां सप्तमे कुर्यादष्टमे मरणं भवेत् ॥ ७.८८ ॥ अत्रार्या भवति श्वापदगजतुरगरथोद्भवं तु पशुयानपतनजं वाऽपि । शास्त्रक्षतवत्कुर्यादनवेक्षितगात्रसञ्चारम् ॥ ७.८९ ॥ इत्येव मरणं ज्ञेयं नानावस्थान्तरात्मकम् । प्रयोक्तव्यं बुधैः सम्यग्यथा भवाङ्गचेष्टितैः ॥ ७.९० ॥ त्रासो नाम विद्युदुल्काशनिपातनिर्घाताम्बुधरमहासत्त्वपशुरवादिभिर्विभावैरुत्पद्यते । तमभिनयेत्संक्षिप्ताङ्गोत्कम्पनवेपथुस्तम्भरोमाञ्चगद्गदप्रलापादिभिरनुभावैः । अत्र श्लोको भवति महाभैरवनादद्यैस्त्रासः समुपजायते । स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् ॥ ७.९१ ॥ वितर्को नाम सन्देहविमर्शविप्रतिपत्त्यादिभिर्विभावैरुत्पद्यते । तमभिनयेद्विविधविचारितप्रश्नसम्प्रधारणमन्त्रसङ्गूहनादिभिरनुभावैः । अत्र श्लोको भवति विचारणादिसम्भूतः सन्देहातिशयात्मकः । वितर्कः सोऽभिनेयस्तु शिरोभ्रूक्षेपकम्पनैः ॥ ७.९२ ॥ एवमेते त्रयस्त्रिंशद्व्यभिचारिणो भावा देशकालावस्थानुरूप्येणामगतपरगतमध्यस्था उत्तममध्यमाधमैः स्त्रीपुंसैः स्वप्रयोगवशादुपपाद्या इति । त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः । सात्त्विकांस्तु पुनर्भावान्प्रवक्ष्याम्यनुपूर्वशः ॥ ७.९३ ॥ अत्राह किमन्ये भावाः सत्त्वेन विनाऽभिनीयन्ते यस्मादुच्यते एते सात्त्विका इति । अत्रोच्यते इह हि सत्त्वं नाम मनःप्रभवम् । तच्च समाहितमनस्त्वादुच्यते । मनसः समाधौ सत्त्वनिष्पत्तिर्भवति । तस्य च योऽसौ स्वभावो रोमाञ्चाश्रुवैवर्ण्यादिलक्षणो यथाभावोपगतः स न शक्योऽन्यमनसा कर्तुमिति । लोकस्वभावानुकरणत्वाच्च नाट्यस्य सत्त्वमीप्सितम् । को दृष्टान्तः इह हि नाट्याधर्मिप्रवृत्ताः सुखदुःखकृता भावास्तथा सत्त्वविशुद्धाः कार्या यथा सरूपा भवन्ति । तत्र दुःखं नाम रोदनात्मकं तत्कथमदुःखितेन सुखं च प्रहर्षात्मकमसुखितेन वाभिनेयम् । एतदेवास्य सत्त्वं यत्दुःखितेन सुखितेन वाऽश्रुरोमाञ्चौ दर्शियितव्यौ इति कृत्वा सात्त्विका भावा इत्यभिव्याख्याताः । त इमे स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥ ७.९४ ॥ अत्रार्याः तत्र क्रोधभयहर्षलजादुःखश्रमरोगतापघातेभ्यः । व्यायामक्लमधर्मैः स्वेदः सम्पीडनाच्चैव ॥ ७.९५ ॥ हर्षभयशोकविस्मयविषादरोषादिसम्भवः स्तम्भः । शीतभयहर्षरोषस्पर्शजरारोगजः कम्पः ॥ ७.९६ ॥ आनन्दामर्षाभ्यां धूमाञ्जनजृम्भणाद्भयाच्छोकात् । अनिमेषप्रेक्षणतः शीताद्रोगाद्भवेदश्रु ॥ ७.९७ ॥ शीतक्रोधभयश्रमरोगक्लमतापजं च वैवर्ण्यम् । स्पर्शभयशीतहर्षात्क्रोधाद्रोगाच्च रोमाञ्चः ॥ ७.९८ ॥ स्वरभेदो भयहर्षक्रोधजरारौक्ष्यरोगमदजनितः । श्रममूर्छमदनिद्राभिघातमोहादिभिः प्रलयः ॥ ७.९९ ॥ एवमेते बुधैर्ज्ञेया भावा ह्यष्टौ तु सात्त्विकाः । कर्म चैषां प्रवक्ष्यामि रसभावानुभावकम् ॥ ७.१०० ॥ निःसंज्ञो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः । स्कन्नगात्रतया चैव स्तम्भं त्वभिनयेद्बुधः ॥ ७.१०१ ॥ व्यजनग्रहणाच्चापि स्वेदापनयनेन च । स्वेदस्याभिनयो योज्यस्तथा वाताभिलाषतः ॥ ७.१०२ ॥ मुहुः कण्टिकितत्वेन तथोल्लुकसनेन च । पुलकेन च रोमाञ्चं गात्रस्पर्शेन दर्शयेत् ॥ ७.१०३ ॥ स्वरभेदोऽभिनेतव्यो भिन्नगद्गदनिस्वनैः । वेपनात्स्फुरणात्कम्पाद्वेपथुं सम्प्रदर्शयेत् ॥ ७.१०४ ॥ मुखवर्णपरावृत्त्या नाडीपीडनयोगतः । वैवर्ण्यमभिनेतव्यं प्रयत्नात्तद्धि दुष्करम् ॥ ७.१०५ ॥ बाष्पाम्बुप्लुतनेत्रत्वान्नेत्रसंमार्जनेन च । मुहुरश्रुकणापातैरस्रं त्वभिनयेद्बुधः ॥ ७.१०६ ॥ निश्चेष्टो निष्प्रकम्पत्वादव्यक्तश्वसितादपि । महीनिपतनाच्चापि प्रलयाभिनयो भवेत् ॥ ७.१०७ ॥ एकोनपञ्चाशदिमे यथावद्भावास्त्र्यवस्था गदिता मयेह । भूयश्च ये यत्र रसे नियोज्यास्तान् श्रोतुमर्हन्ति च विप्रमुख्याः ॥ ७.१०८ ॥ [अत्र श्लोकाः शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा । विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ॥ ७.१०८*१ ॥ रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि । स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ॥ ७.१०८*२ ॥ विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः । मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ॥ ७.१०८*३ ॥ क्रोधामर्षौ च हासश्च शोकोऽपस्मार एव च । दैन्यं च मरणं चैव रतिरुत्साहसंयुता ॥ ७.१०८*४ ॥ त्रासवैवर्ण्यरुदितैः स्वरभेदः शमोऽपि च । जडता च तथा षट्च चत्वारिंशत्प्रकीर्तिताः] ॥ ७.१०८*५ ॥ आलस्यौग्र्यजुगुप्साख्यैरेवं भावैस्तु वर्जिताः । उद्भावयन्ति शृङ्गारं सर्वे भावाः स्वसंज्ञया ॥ ७.१०९ ॥ [यथाऽवसरमेते हि स्थायिसञ्चारिसत्त्वजाः । उद्दीपयन्ति शृङ्गारं रसमासाद्य संज्ञितम्] ॥ ७.१०९* ॥ ग्लानिः शङ्का ह्यसूया च श्रमश्चपलता तथा । सुप्तं निद्रावहित्थं च हास्ये भावाः प्रकीर्तिताः ॥ ७.११० ॥ निर्वेदश्चैव चिन्ता च दैन्यं ग्लान्यास्रमेव च जडता मरणं चैव व्याधिश्च करुणे स्मृताः ॥ ७.१११ ॥ गर्वोऽसूया मदोत्साहावावेगोऽमर्ष एव च । क्रोधश्चपलतौग्र्यं च विज्ञेया रौद्रसम्भवाः ॥ ७.११२ ॥ असम्मोहस्तथोत्साह आवेगो हर्ष एव च । मतिश्चैव तथोग्रत्वममर्षो मद एव च ॥ ७.११३ ॥ रोमाञ्चः स्वरभेदश्च क्रोधोऽसूया धृतिस्तथा । गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति हि ॥ ७.११४ ॥ स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा । त्रासश्च मरणश्चैअव वैवर्ण्यं च भयानके ॥ ७.११५ ॥ अपस्मारस्तथोन्मादो विषादो मद एव च । मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रयाः ॥ ७.११६ ॥ स्तम्भः स्वेदश्च मोहश्च रोमाञ्चो विस्मयस्तथा । आवेगो जडता हर्षो मूर्छा चैवाद्भुताश्रयाः ॥ ७.११७ ॥ ये त्वेते सात्त्विका भावा नानाभिनयसंश्रिताः । रसेष्वेतेषु सर्वे ते ज्ञेया नाट्यप्रयोक्तृभिः ॥ ७.११८ ॥ न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगतः । भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च ॥ ७.११९ ॥ [ बहूनां समवेतानां रूपं यस्य भवेद्बहु । स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥ ७.११९*१ ॥ दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं रसम् । ते तु सञ्चारिणो ज्ञेयास्ते हि स्थायित्वमागताः ॥ ७.११९*२ ॥ विभावानुभावयुतो ह्यङ्गवस्तुसमाश्रयः । संचारिभिस्तु संयुक्तः स्थाय्येव तु रसो भवेत् ॥ ७.११९*३ ॥ स्थायी सत्त्वातिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः । सञ्चार्याकारमात्रेण स्थायी यस्मादवस्थितः ॥ ७.११९*४ ॥ ये त्वेते सात्त्विका भावा नानाभिनययोजिताः । रसेष्वेतेषु सर्वेषु ते ज्ञेया नाट्यकोविदैः ॥ ७.११९*५ ॥ न ह्येकरसजं काव्यं नैकभावैकवृत्तिकम् । विमर्दे रागमायाति प्रयुक्तं हि प्रयत्नतः ॥ ७.११९*६ ॥ भावा वाऽपि रसा वाऽपि प्रवृत्तिर्वृत्तिरेव वा । बीभत्साद्भुतशान्तानां त्रैविध्यं नात्र कथ्यते ॥ ७.११९*७ ॥ षण्णां रसानां त्रैविध्यं नानाभावारसान्वितम् । सत्त्वप्रयोजितो ह्यर्थः प्रयोगोऽत्र विराजते । विदित्वा हि विराजन्ते लोके चित्रं हि दुर्लभम्] ॥ ७.११९*८ ॥ नानाभावार्थसंपन्नाः स्थायिसत्त्वाभिचारिणः । पुष्पावकीर्णाः कर्तव्याः काव्येषु हि रसा बुधैः ॥ ७.१२० ॥ एवं रसाश्च भावाश्च व्यवस्था नाटके स्मृताः । य एवमेताञ्जानाति स गच्छेत्सिद्धिमुत्तमाम् ॥ ७.१२१ ॥ इति श्रीभारतीये नाट्यशास्त्रे भावव्यञ्जको नाम सप्तमोऽध्यायः _____________________________________________________________ अष्टमोऽध्यायः ऋषयः ऊचुः भावानां च रसानां च समुत्थानं यथाक्रमम् । त्वत्प्रसादाच्छ्रुतं सर्वमिच्छामो वेदितुं पुनः ॥ ८.१ ॥ नाट्ये कतिविधः कार्यः तज्ज्ञैरभिनयक्रमः । कतं वाभिनयो ह्येष कतिभेदस्तु कीर्तितः ॥ ८.२ ॥ सर्वमेतद्यथातत्त्वं कथयस्व महामुने । यो यथाभिनयो यस्मिन् योक्तव्यः सिद्धिमिच्छता ॥ ८.३ ॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं चतुरोऽभिनयान् प्रति ॥ ८.४ ॥ अहं वः कथयिष्यामि निखिलेन तपोधनाः । यस्मादभिनयो ह्येष विधिवत्समुदाहृतम् ॥ ८.५ ॥ यदुक्तं चत्वारोऽभिनय इति तान् वर्णयिष्यामः । अत्राह अभिनय इति कस्मात् । अत्रोच्यते अभीत्युपसर्गः णीञिति प्रापणार्थको धातुः । अस्याभिनीत्येवं व्यवस्थितस्य एरजित्यच्प्रत्यत्ययान्तस्याभिनय इत्येवं रूपं सिद्धम् । एतच्च धात्वर्थानुवचनेनावधार्यं भवति । अत्र श्लोकौ अभिपूर्वस्तु णीञ्धातुराभिमुख्यार्थनिर्णये । यस्मात्पदार्थान्नयति तस्मादभिनयः स्मृतः ॥ ८.६ ॥ विभावयति यस्माच्च नानार्थान् हि प्रयोगतः । शाखाङ्गोपाङ्गसंयुक्तस्तस्मादभिनयः स्मृतः ॥ ८.७ ॥ चतुर्विधश्चैव भवेन्नाट्यस्याभिनयो द्विजाः । अनेकभेदवाहूयं नाट्यं ह्यस्मिन् प्रतिष्ठितम् ॥ ८.८ ॥ आङ्गिको वाचिकश्चैव ह्याहार्यः सात्त्विकस्तथा । ज्ञेयस्त्वभिनयो विप्राः चतुर्धा परिकल्पितः ॥ ८.९ ॥ सात्त्विकः पूर्वमुक्तस्तु भावैश्च सहितो मया । अङ्गाभिनयमेवादौ गदतो मे निबोधत ॥ ८.१० ॥ त्रिविधस्त्वाङ्गिको द्य्नेयः शारीरो मुखजस्तथा । तथा चेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः ॥ ८.११ ॥ शिरोहस्तकटीदक्षः पार्श्वपादसमन्वितः । अङ्गप्रत्यङ्गसंयुक्तः षडङ्गो नाट्यसंग्रहः ॥ ८.१२ ॥ तस्य शिरोहस्तोरःपार्श्वकटीपादतः षडङ्गानि । नेत्रभ्रूनासाधरकपोलचिबुकान्युपाङ्गानि ॥ ८.१३ ॥ अस्य शाखा च नृत्तं च तथैवाङ्कुर एव च । वस्तून्यभिनयस्येह विज्ञेयानि प्रयोक्तृभिः ॥ ८.१४ ॥ आङ्गिकस्तु भवेच्छाखा ह्यङ्कुरः सूचना भवेत् । अङ्गहारविनिष्पन्नं नृत्तं तु करणाश्रयम् ॥ ८.१५ ॥ मुखजेऽभिनये विप्रा नानाभावरसाश्रये । शिरसः प्रथमं कर्म गदतो मे निबोधत ॥ ८.१६ ॥ आकम्पितं कम्पितं च धूतं विधुतमेव च । परिवाहितमाधूतमवधूतं तथाञ्चितम् ॥ ८.१७ ॥ निहञ्चितं परावृत्तमुत्क्षिप्तं चाप्यधोगतम् । लोलितं चैव विज्ञेयं त्रयोदशविधं शिरः ॥ ८.१८ ॥ शनैराकम्पनादूर्ध्वमधश्चाकम्पितं भवेत् । द्रुतं तदेव बहुशः कम्पितं कम्पितं शिरः ॥ ८.१९ ॥ ऋजुस्थितस्य चोर्ध्वाधः क्षेपादाकम्पितं भवेत् । बहुशश्चलितं यच्च तत्कम्पितमिहोच्यते ॥ ८.२० ॥ संज्ञोपदेशपृच्छासु स्वभावाभाषणे तथा । निर्देशावाहने चैव भवेदाकम्पितं शिरः ॥ ८.२१ ॥ रोषे वितर्के विज्ञाने प्रतिज्ञानेऽथ तर्जने । प्रश्नातिशयवाक्येषु शिरः कम्पितमिष्यते ॥ ८.२२ ॥ शिरसो रेचनं यत्तु शनैस्तद्धुतमिष्यते । द्रुतमारेचनादेतद्विधुतं तु भवेच्छिरः ॥ ८.२३ ॥ अनीप्सिते विषादे च विस्मये प्रत्ययं तथा । पार्श्वावलोकने शून्ये प्रतिषेधे धुतं शिरः ॥ ८.२४ ॥ शीतग्रस्ते भयार्ते च त्रासिते ज्वरिते तथा । पीतमात्रे तथा मद्ये विधुतं तु भवेच्छिरः ॥ ८.२५ ॥ पर्यायशः पार्श्वगतं शिरः स्यात्परिवाहितम् । आधूतमुच्यते तिर्यक्सकृदुद्वाहितं तु यत् ॥ ८.२६ ॥ साधने विस्मये हर्षे स्मिते चामर्षिते तथा । विचारे विहृते चैव लीलायां परिवाहितम् ॥ ८.२७ ॥ गर्वेच्छादर्शने चैव पार्श्वस्थोर्ध्वनिरीक्षणे आधुतं तु शिरो ज्ञेयमात्मसम्भावनादिषु ॥ ८.२८ ॥ यदधः सकृदाक्षिप्तमवधूतं तु तच्छिरः । सन्देशावाहनालापसंज्ञादिषु नदिष्यते ॥ ८.२९ ॥ किञ्चित्पार्श्वनतग्रीवं शिरो विज्ञेयमञ्चितम् । व्याधिते मूर्छिते मत्ते चिन्तायां हनुधारणम् ॥ ८.३० ॥ उत्क्षिपांसावसक्तं यत्कुञ्चितभ्रूलतं शिरः । निहञ्चितं तु विज्ञेयं स्त्रीणामेतत्प्रयोजयेत् ॥ ८.३१ ॥ गर्वे माने विलासे च बिव्वोके किलकिञ्चिते । मोट्टायिते कुट्टमिते स्तम्भमाने निहञ्चितम् ॥ ८.३२ ॥ परावृत्तानुकरणात्परावृत्तमिहोच्यते । तत्स्यान्मुखापहरणे पृष्ठतः प्रेक्षणादिषु ॥ ८.३३ ॥ उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः । प्रांशुदिव्यास्त्रयोगेषु स्यादुत्क्षिप्तं प्रयोगतः ॥ ८.३४ ॥ अधोमुखं स्थितं चापि बुधाः प्राहुरधोगतम् । लज्जायां च प्रणामे च दुःखे चाधोगतं शिरः ॥ ८.३५ ॥ सर्वतो भ्रमणाच्चैव शिरः स्यात्परिलोलितम् । मूर्च्छाव्याधिमदावेशग्रहनिद्रादिषु स्मृतम् ॥ ८.३६ ॥ ऋजुस्वभावसंस्थानं प्राकृतं तु स्वभावजम् । मंगल्याध्ययनध्यानस्वभावजयकर्मसु ॥ ८.३७ ॥ एभ्योऽन्ये बहवो भेदा लोकाभिनयसंश्रिताः । ते च लोकस्वभावेन प्रयोक्तव्या प्रयोक्तृभिः ॥ ८.३८ ॥ त्रयोदशविधं ह्येतच्छिरःकर्म मयोदितम् । अतः परं प्रवक्ष्यामि दृष्टीनामिह लक्षणम् ॥ ८.३९ ॥ कान्ता भयानका हास्या करुणा चाद्भुता तथा । रौद्रो वीरा च बीभत्सा विज्ञेया रसदृष्टयः ॥ ८.४० ॥ स्निग्धा हृष्टा च दीना च क्रुद्धा दृप्ता भयान्विता । जुगुप्सिता विस्मिता च स्थायिभावेषु दृष्टयः ॥ ८.४१ ॥ शून्या च मलिना चैव श्रान्ता लज्जान्विता तथा । ग्लाना च शङ्किता चैव विषण्णा मुकुला तथा ॥ ८.४२ ॥ कुञ्चिता चाभितप्ता च जिह्मा सललिता तथा । वितर्कितार्धमुकुला विभ्रान्ता विलुप्ता तथा ॥ ८.४३ ॥ आकेकरा विकोशा च त्रस्ता च मदिरा तथा । षट्त्रिंशद्दृष्टयो ह्येता तासु नाट्यं प्रतिष्ठितम् ॥ ८.४४ ॥ अस्य दृष्टिविधानस्य नानाभावरसाश्रयम् । लक्षणं सम्प्रवक्ष्यमि यथाकर्म प्रयोगतः ॥ ८.४५ ॥ हर्षप्रसादजनिता कान्तात्यर्थं समन्यथा । सभ्रूक्षेपकटाक्षा च शृङ्गारे दृष्टिरिक्ष्यते ॥ ८.४६ ॥ प्रोद्वृत्तनिष्टब्धपुटा स्फुरदुद्वृत्ततारका । दृष्टिर्भयानाकात्यर्थं भीता ज्ञेया भयानके ॥ ८.४७ ॥ क्रमादाकुञ्चितपुटा विभ्रान्ताकुलतारका । हास्या दृष्टिस्तु कर्तव्या कुहकाभिनयं प्रति ॥ ८.४८ ॥ पतितोर्ध्वपुटा सास्रा मन्युमन्थरतारका । नासाग्रानुगता दृष्टिः करुणा करुणे रसे ॥ ८.४९ ॥ या त्वाकुञ्चितपक्ष्माग्रा साश्चर्योद्धत्ततारका । सौम्या विकसितान्ता च साद्भुता दृष्टिरद्भुते ॥ ८.५० क्र् ॥ ऊरा रूक्षारुणोद्वृतनिष्टब्धपुटतारका । भ्रुकुटीकुटिला दृष्टिः रौद्रे रौद्री रसा स्मृता ॥ ८.५१ ॥ दीप्ता विकसिता क्षुब्धा गम्भीरा समतारका । उत्फुल्लमध्या दृष्टिस्तु वीरा वीररसाश्रया ॥ ८.५२ ॥ निकुञ्चितपुटापाङ्गा घूर्णोपप्लुततारका । संश्लिष्टस्थिरपक्ष्मा च बीभत्सा दृष्टिरिष्यते ॥ ८.५३ ॥ नासाग्रसक्ता निमिषा तथाधोभागचारिणी । आकेकरपुटा शान्ते शान्ता दृष्टिर्भवेदसौ ॥ ८.५४ ॥ रसजा दृष्टयो ह्येता विज्ञेया लक्षणान्विता । अतः परं प्रवक्ष्यामि स्थायिभावसमाश्रयाः ॥ ८.५५ ॥ व्याकोशमध्या मधुरा स्थितताराभिलाषिणी । सानन्दाश्रुप्लुता दृष्टिः स्निग्धेयं रतिभावजा ॥ ८.५६ ॥ चला हसितगर्भा च विशत्तारानिमेषिणी । किञ्चिदाकुञ्चिता दृष्टिः हृष्टा हासे प्रकीर्तिता ॥ ८.५७ ॥ अवस्रस्तोत्तरपुटा किञ्चित्सरंब्धतारका । मन्दसञ्चारिणी दीना सा शोके दृष्टिरिष्यते ॥ ८.५८ ॥ रूक्षा स्थिरोद्धतपुटा निष्टब्धोद्धृत्ततारका । कुटिला भ्रुकुटिर्दृष्टिः क्रुद्धा क्रोधे विधीयते ॥ ८.५९ ॥ संस्थिते तार्के यस्याः स्थिता विकसिता तथा । सत्त्वमुद्गिरती दृप्ता दृष्टिरुत्साहसंभवा ॥ ८.६० ॥ विस्फारितोभयपुटा भयकम्पिततारका । निष्क्रान्तमध्या दृष्टिस्तु भयभावे भयान्विता ॥ ८.६१ ॥ संकोचितपुटाध्यामा दृष्टिर्मीलिततारका । पक्ष्मोद्देशात्समुद्विग्ना जुगुप्सायां जुगुप्सिता ॥ ८.६२ ॥ भृशमुद्वृत्ततारा च नष्टोभयपुटान्विता । समा विकसिता दृष्टिर्विस्मिता विस्मये स्मृता ॥ ८.६३ ॥ स्थायिभावाश्रया ह्येता विज्ञेयाः दृष्टयो बुधैः । संचारिणीनां दृष्टीनां सम्प्रवक्ष्यामि लक्षणम् ॥ ८.६४ ॥ समतारा समपुटा निष्कम्पा शून्यदर्शना । बाह्यार्थाग्राहिणी ध्यामा शून्या दृष्टिः प्रकीर्तिता ॥ ८.६५ ॥ प्रस्पन्दमानपक्ष्माग्रा नात्यर्थमुकुलैः पुटैः । मलिनान्ता च मलिना दृष्टिर्विस्मिततारका ॥ ८.६६ ॥ श्रमप्रम्लापितपुटा क्षामा कुञ्चितलोचना । सन्ना पतिततारा च श्रान्ता दृष्टिः प्रकीर्तिता ॥ ८.६७ ॥ किञ्चिदञ्चितपक्ष्माग्रा पतितोर्ध्वपुटा ह्रिया । त्रपाधोगततारा च दृष्टिर्लज्जान्विता तु सा ॥ ८.६८ ॥ म्लानभ्रुपुटपक्ष्मा या शिथिला मन्दचारिणी । क्रमप्रवृष्टतारा च ग्लाना दृष्टिस्तु सा स्मृता ॥ ८.६९ ॥ किञ्चिच्चला स्थिरा किञ्चिदुद्गता तिर्यगायता । गूढा चकिततारा च शङ्किता दृष्टिरिष्यते ॥ ८.७० ॥ विषादविस्तीर्णपुटा पर्यस्तान्ता निमेषिणी । किञ्चिन्निष्टब्धतारा च कार्या दृष्टीर्विषादिनी ॥ ८.७१ ॥ स्फुरदाश्लिष्टपक्ष्माग्रा मुकुलोर्ध्वपुटाञ्चिता । सुखोन्मीलिततारा च मुकुला दृष्टिरिष्यते ॥ ८.७२ ॥ आनिकुञ्चितपक्ष्माग्रा पुटैराकुञ्चितैस्तथा । संनिकुञ्चिततारा च कुञ्चिता दृष्टिरिष्यते ॥ ८.७३ ॥ मन्दायमानतारा या पुटैः प्रचलितैस्तथा । सन्तापोपप्लुता दृष्टिरभितप्ता तु सव्यथा ॥ ८.७४ ॥ लम्बिताकुञ्चितपुटा शनैस्तिर्यङ्निरीक्षिणी । निगूढा गूढतारा च जिह्मा दृष्टिरुदाहृता ॥ ८.७५ ॥ मधुराकुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता । सममन्यविकारा च दृष्टिः सा ललिता स्मृता ॥ ८.७६ ॥ वितर्कोद्वर्तितपुटा तथैवोत्फुल्लतारका । अधोगतविचारा च दृष्टिरेषा वितर्किता ॥ ८.७७ ॥ अर्धव्याकोशपक्ष्मा च ह्लादार्धमुकुलैः पुटैः । स्मितार्शमुकुला दृष्टिः किञ्चिल्लुलिततारका ॥ ८.७८ ॥ अनवस्थिततारा च विभ्रान्ताकुलदर्शना । विस्तीर्णोत्फुल्लमध्या च विभ्रान्ता दृष्टिरुच्यते ॥ ८.७९ ॥ पुटौ प्रस्फुरितौ यस्य निष्टब्धौ पतितौ पुनः । विलुप्तोद्वृत्ततारा च दृष्टिरेषा तु विप्लुता ॥ ८.८० ॥ आकुञ्चितपुटापाङ्गा सङ्गतार्धनिमेषिणी । मुहुर्व्यावृत्ततारा च दृष्टिराकेकरा स्मृता ॥ ८.८१ ॥ विकोशितोभयपुटा प्रोत्फुल्ला चानिमेषिणी । अनवस्थितसञ्चारा विकोशा दृष्टिरुच्यते ॥ ८.८२ ॥ त्रासोद्वृत्तपुटा या तु तथोत्कम्पिततारका । सन्त्रासोत्फुल्लमध्या च त्रस्ता दृष्टिरुदाहृता ॥ ८.८३ ॥ आघुर्णमानमध्या या क्षामान्ताञ्चितलोचना । दृष्टिर्विकसितापाङ्गा मदिरा तरुणे मदे ॥ ८.८४ ॥ किञ्चिदाकुँचितपुटा ह्यनवस्थिततारका । तथा चलितपक्ष्मा च दृष्टिर्मध्यमदे भवेत् ॥ ८.८५ ॥ सनिमेषानिमेषा च किञ्चिद्दर्शिततारका । अधोभागचरी दृष्टिरधमे तु मदे स्मृता ॥ ८.८६ ॥ इत्येवं लक्षिता ह्येता षटत्रिंशद्दृष्टयो मया । रसजा सहजाश्चासां विनियोगं निबोधत ॥ ८.८७ ॥ रसजास्स्तु रसेष्वेव स्थायिषु स्थायिदृष्टयः । शृणुत व्यभिचारिण्यः सञ्चारिषु यथास्थिताः ॥ ८.८८ ॥ शून्या दृष्टिस्तु चिन्तायां स्तम्भे चापि प्रकीर्तिता । निर्वेदे चापि मलिना वैवर्ण्ये च विधीयते ॥ ८.८९ ॥ श्रान्ता श्रमार्ते स्वेदे च लजायां ललिता तथा । अपस्मारे तथा व्याधौ ग्लान्यां ग्लाना विधीयते ॥ ८.९० ॥ शङ्कायां शङ्किता ज्ञेया विषादार्थे विषादिनी । निद्रास्वप्नसुखार्थेषु मुकुला दृष्टिरिष्यते ॥ ८.९१ ॥ कुञ्चितासूयितानिष्टदुष्प्रेक्षाक्षिव्यथाषु च । अभितप्ता च निर्वेदे ह्यभिघाताभितापयोः ॥ ८.९२ ॥ जिह्मा दृष्टिरसूयायां जडतालस्ययोस्तथा । धृतौ हर्षे सललिता स्मृतौ तर्के च तर्किता ॥ ८.९३ ॥ आल्हादिष्वर्धमुकुला गन्धस्पर्शसुखादिषु । विभ्रान्ता दृष्टिरावेगे सम्भ्रमे विभ्रमे तथा ॥ ८.९४ ॥ विलुप्ता चपलोन्माददुःखार्तिमरणादिषु । आकेकरा दुरालोके विच्छेदप्रेअक्षितेषु च ॥ ८.९५ ॥ विबोधगर्वामर्शौग्र्यमतिषु स्याद्विकोशिता । त्रस्ता त्रासे भवेद्दृष्टिर्मदिरा च मदेष्विति ॥ ८.९६ ॥ षटत्रिंशद्दृष्टयो ह्येता यथावत्समुदाहृताः । रसजानां तु दृष्टीनां भावजानां तथैअव च ॥ ८.९७ ॥ तारापुटभ्रुवां कर्म गदतो मे निबोधत । भ्रमणं वलनं पातश्चलनं सम्प्रवेशनम् ॥ ८.९८ ॥ विवर्तनं समुद्वृत्तं निष्क्रामः प्राकृतं तथा । पुटान्तर्मण्डलावृत्तिस्तारयोर्भ्रमणं स्मृतम् ॥ ८.९९ ॥ वलनं गमनं त्र्यस्रं पातनं स्रस्तता तथा । चलनं कम्पनं ज्ञेयं प्रवेशोऽन्तःप्रवेशनम् ॥ ८.१०० ॥ विवर्तनं कटाक्षस्तु समुद्वृत्तं समुन्नतिः । निष्क्रामो निर्गमः प्रोक्तः प्राकृतं तु स्वभावजम् ॥ ८.१०१ ॥ अथैषां रसभावेषु विनियोगं निबोधत । भ्रमणं चलनोद्वृत्ते निष्क्रामो वीररौद्रयोः ॥ ८.१०२ ॥ निष्क्रामणं संवलनं कर्तव्यं तु भयानके । हास्यबीभत्सयोश्चापि प्रवेशनमिहेष्यते ॥ ८.१०३ ॥ पातनं करुणे कार्यं निष्क्रामणमथाद्भुते । प्राकृतं शेषभावेषु शृङ्गारे च विवर्तितम् ॥ ८.१०४ ॥ स्वभावसिद्धमेवैतत्कर्मं लोकक्रियाश्रयम् । एवं रसेषु भावेषु ताराकर्माणि योजयेत् ॥ ८.१०५ ॥ अथाऽत्रैव प्रवक्ष्यामि प्रकारन् दर्शनस्य तु । समं साचय्नुवृत्ते च ह्यालोकितविलोकिते ॥ ८.१०६ ॥ प्रलोकितोल्लोकिते चाप्यवलोकितमेव च । समतारं च सौम्यं च यद्दृष्टं तत्समं स्मृतम् ॥ ८.१०७ ॥ पक्ष्मान्तरगततारं च त्र्यस्रं साचीकृतं तु तत् । रूपनिर्वर्णना युक्तमनुवृत्तमिति स्मृतम् ॥ ८.१०८ ॥ सहसा दर्शनं यत्स्यात्तदालोकितमुच्यते । विलोकितं पृष्टतस्तु पार्श्वाभ्यां तु प्रलोकितम् ॥ ८.१०९ ॥ ऊर्ध्वमुल्लोकितं ज्ञेयमवलोकितमप्यधः । इत्येषु दर्शनविधिः सर्वभावरसाश्रयः ॥ ८.११० ॥ ताराकृतोऽस्यानुगतं पुटकर्म निबोधत । उन्मेषश्च निमेषश्च प्रसृतं कुञ्चितं समम् ॥ ८.१११ ॥ विवर्तितं स स्फुरितं पिहितं सविताडितम् । विश्लेषः पुटयोर्यस्तु स तून्मेषः प्रकीर्तितः ॥ ८.११२ ॥ समागमो निमेषः स्यादायामः प्रसृतं भवेत् । आकुँचितं कुञ्चितं स्यात्समं स्वाभाविकं स्मृतम् ॥ ८.११३ ॥ विवर्तितं समुद्वृत्तं स्फुरितं स्पन्दितं तथा । स्थगितं पिहितं प्रोक्तमाहतं तु विताडितम् ॥ ८.११४ ॥ अथैषं रसभावेषु विनियोगं निबोधत । क्रोधे विवर्तितं कार्यो निमेषोन्मेषणैः सह ॥ ८.११५ ॥ विस्मयार्थेषु हर्षे च वीरे च प्रसृतं स्मृतम् । अनिष्टदर्शने गन्धे रसे स्पर्शे च कुञ्चितम् ॥ ८.११६ ॥ शृङ्गारे च समं कार्यमीर्ष्यासु स्फुरितं तथा । सुप्तमूर्च्छितवातोष्णधूमवर्षाञ्जनार्तिषु ॥ ८.११७ ॥ नेत्ररोगे च पिहितमभिघाते विताडितम् । इत्येवं रसभावेषु तारकापुटयोर्विधिः ॥ ८.११८ ॥ कार्यानुगतमस्यैव भ्रुवोः कर्म निबोधत । उत्क्षेपः पातनश्चैव भ्रुकुटी चतुरं भ्रुवोः ॥ ८.११९ ॥ कुञ्चितं रेचितं चैव सहजं चेति सप्तधा । भ्रुवोरुन्नतिरुत्क्षेपः सममेकैकशोऽपि वा ॥ ८.१२० ॥ अनेनैव क्रमेणैव पातनं स्यादधोमुखम् । भ्रुवोर्मूलसमुत्क्षेपात्भ्रुकुटी परिकीर्तिता ॥ ८.१२१ ॥ चतुरं किँचिदुच्छ्वासान्मधुरायतया भ्रुवोः । एकस्या उभयोर्वापि मृदुभङ्गस्तु कुञ्चितम् ॥ ८.१२२ ॥ एकस्या एव ललितादुत्क्षेपाद्रेचितं भ्रुवः । सहजातं तु सहजं कर्म स्वाभाविकं स्मृतम् ॥ ८.१२३ ॥ अथैषां सम्प्रवक्ष्यामि रसभावप्रयोजनम् । कोपे वितर्के हेलायां लीलादौ सहजे तथा ॥ ८.१२४ ॥ श्रवणे दर्शने चैव भ्रुवमेकां समुत्क्षिपेत् । उत्क्षेपो विस्मये हर्षे रोषे चैअव द्वयोरपि ॥ ८.१२५ ॥ आसूयितजुगुप्सायां हास्ये घ्राणे च पातनम् । क्रोधस्थानेषु दीप्तेषु योजयेत्भ्रुकुटिं बुधः ॥ ८.१२६ ॥ शृङ्गारे ललिते सौम्ये सुखे स्पर्शे प्रबोधने । एवं विधेषु भावेषु चतुरं तु प्रयोजयेत् ॥ ८.१२७ ॥ स्त्रीपुरुषयोश्च संलापे नानावस्थान्तरात्मके । मोट्टायिते कुट्टमिते विलासे किलकिञ्चिते ॥ ८.१२८ ॥ निकुञ्चितं तु कर्तव्यं नृत्ते योज्यं तु रेचितम् । अनाविद्धेषु भावेषु विद्यात्स्वाभाविकं बुधः ॥ ८.१२९ ॥ इत्येवं तु भ्रुवः प्रोक्तं नासाकर्म निबोधत । नता मन्दा विकृष्टा च सोच्छ्वासा च विकूणिता ॥ ८.१३० ॥ स्वाभाविका चेति बुधैः षड्विधा नासिका स्मृता । नता मुहुःश्लिष्टपुटा मन्दा तु निभृता स्मृता ॥ ८.१३१ ॥ विकृष्टोत्फुल्लितपुटा सोच्छ्वासा कृष्टमारुता । विकूणिता संकुचिता समा स्वाभाविका स्मृता ॥ ८.१३२ ॥ नासिकालक्षणं ह्येतत्विनियोगं निबोधत । मदोत्कम्पसमायुक्ते नारीणामनुरोधने ॥ ८.१३३ ॥ निःश्वासे च नता कार्या नासिका नाट्ययोक्तृभिः । विच्छिन्नमन्दरुदिते सोच्छ्वासे च नता स्मृता ॥ ८.१३४ ॥ निर्वेगौत्सुक्यचिन्तासु मन्दा शोके च योजयेत् । तीव्रगन्धे विकृष्टां तौ रौद्रे वीरे तथैव च ॥ ८.१३५ ॥ इष्टघ्राणे तथोच्छ्वासे दीर्घोच्छ्वासां प्रयोजयेत् । विकूणिता च कर्तव्या जुगुप्सायामसूयादिषु ॥ ८.१३६ ॥ कार्या शेषु भावेषु तज्ञैः स्वाभाविका तथा । क्षामं फुल्लं च घूर्णं च कम्पितं कुञ्चितं समम् ॥ ८.१३७ ॥ षड्विधं गण्डमुद्दिष्टं तस्य लक्षणमुच्यते । क्षामं चावनतं ज्ञेयं फुल्लं विकसितं भवेत् ॥ ८.१३८ ॥ विततं घूर्णमत्रोक्तं कम्पितं स्फुरितं भवेत् । स्यात्कुञ्चितं संकुञ्चितं समं प्राकृतमुच्यते ॥ ८.१३९ ॥ गण्डयोर्लक्षणं प्रोक्तं विनियोगं निबोधत । क्षामं दुःखेषु कर्तव्यं प्रहर्षे फुल्लमेव च ॥ ८.१४० ॥ पूर्णमुत्साहगर्वेषु रोमहर्षेषु कम्पितम् । कुञ्चितं च सरोमाञ्चं स्पर्शे शीते भये ज्वरे ॥ ८.१४१ ॥ प्राकृतं शेषभावेषु गण्डकर्म भवेदिति । विवर्तनं कम्पनं च विसर्गो विनिगूहनम् ॥ ८.१४२ ॥ सन्दष्टकं समुद्गं च षट्कर्माण्यधरस्य तु । विकूणितं विवर्तस्तु वेपनं कम्पनं स्मृतम् ॥ ८.१४३ ॥ विनिष्क्रामो विसर्गस्तु प्रवेशो विनिगूहनम् । सन्दष्टकं द्विजैअर्दष्टं समुद्गः सहजोन्नति ॥ ८.१४४ ॥ इत्योष्ठलक्षणं प्रोक्तं विनियोगं निबोधत । असूयावेदनावज्ञाभयादिषु विवर्तनम् ॥ ८.१४५ ॥ कम्पनं वेपनं शीतभयरोषजवादिषु । स्त्रीअणां विलासे विव्वोके विसर्गो रञ्जने तथा ॥ ८.१४६ ॥ विनिगूहनमायासे सन्दष्टं क्रोधकर्मसु । समुद्गस्त्वनुकम्पायां चुम्बने चाभिनन्दने ॥ ८.१४७ ॥ इत्योष्ठकर्माण्युक्तानि चिबुकस्य निबोधत । कुट्टनं खण्डनं छिन्नं चुक्कितं लेहनं समम् ॥ ८.१४८ ॥ दष्टं च दन्तक्रियया चिबुकं त्विह लक्ष्यते । कुट्टनं दन्तसंघर्षः संस्फोटः खण्डनं मुहुः ॥ ८.१४९ ॥ छिन्नं तु गाढसंश्लेषश्चुक्कितं दूरविच्युतिः । लेहनं जिह्वया लेहः किञ्चित्श्लेषः समं भवेत् ॥ ८.१५० ॥ दन्तैर्दष्टेऽधरे दष्टमित्येषां विनियोजनम् । भयशीतज्वरक्रोधग्रस्तानां कुट्टनं भवेत् ॥ ८.१५१ ॥ जपाध्ययनसंलापभक्ष्ययोगे च खण्डनम् । छिन्नं व्याधौ भये शीते व्यायामे रुदिते मृते ॥ ८.१५२ ॥ जृम्भणे चुक्कितं कार्यं तथा लेह्ये च लेहनम् । समं स्वभावभावेषु सन्दष्टं क्रोधकर्मसु ॥ ८.१५३ ॥ इति दन्तोष्ठजिह्वानां करणाच्चिबुकक्रिया । विधुतं विनिवृत्तं च निर्भुग्नं भुग्नमेव च ॥ ८.१५४ ॥ विवृतं च तथोद्वाहि कर्माण्यत्रास्यजानि तु । व्यावृत्तं विनिवृत्तं स्याद्विधुतं तिर्यगायतम् ॥ ८.१५५ ॥ अवाङ्मुखत्वं निर्भुग्नं व्याभुग्नं किञ्चिदायतम् । विश्लिष्टोष्ठं च विवृतमुद्वाह्युत्क्षिप्तमेव च ॥ ८.१५६ ॥ विनिवृत्तमसूयायामीर्ष्याक्रोधकृतेन च । अवज्ञाविवृतादौ च स्त्रीणा कार्या प्रयोक्तृभिः ॥ ८.१५७ ॥ विधुतं वारणे चैव नैवमित्येवमादिषु । निर्भुग्नं चापि विज्ञेयं गम्भीरालोकनादिषु ॥ ८.१५८ ॥ भुग्नं लजान्विते योज्यं यतीनां तु स्वभावजम् । निर्वेदौत्सुक्यचिन्तासु नये च विनिमन्त्रणे ॥ ८.१५९ ॥ विवृत्तं चापि विज्ञेयं हास्यशोकभयादिषु । स्त्रीणामुद्वाहि लीलायां गर्वे गच्छत्यनादरे ॥ ८.१६० ॥ एव नामेति कार्यं च कोपवाक्ये विचक्षणैः । समं साच्यनुवृत्तादि यच्च दृष्टिविकल्पितम् ॥ ८.१६१ ॥ तज्ज्ञैस्तेनानुसारेण कार्यं तदनुगं मुखम् । अथातो मुखरागस्तु चतुर्धा परिकीर्तितः ॥ ८.१६२ ॥ स्वाभाविकः प्रसन्नश्च रक्तः श्यामोऽर्थसंश्रयः । स्वाभाविकस्तु कर्तव्यः स्वभावाभिनयाश्रयः ॥ ८.१६३ ॥ मध्यस्थादिषु भावेषु मुखरागः प्रयोक्तृभिः । प्रसन्नस्त्वद्भुते कार्यो हास्यशृङ्गारयोस्तथा ॥ ८.१६४ ॥ वीररौद्रमदाद्येषु रक्तः स्यात्करुणे तथा । भयानके सबीभत्से श्यामं सञ्जायते मुखम् ॥ ८.१६५५ ॥ एवं भावरसार्थेषु मुखरागं प्रयोजयेत् । शाखाङ्गोपाङ्गसंयुक्तः कृतोऽप्यभिनयः शुभः ॥ ८.१६६ ॥ मुखरागविहीनस्तु नैव शोभान्वितो भवेत् । शरीराभिनयोऽल्पोऽपि मुखरागसन्न्वितः ॥ ८.१६७ ॥ द्विगुणां लभते शोभां रात्राविव निशाकरः । नयनाभिनयोऽपि स्यान्नानाभावरसास्फुटः ॥ ८.१६८ ॥ मुखरागान्वितो यस्मान्नाट्यमत्र प्रतिष्ठितम् । यथा नेत्रं प्रसर्पेत मुखभूदृष्टिसंयुतम् ॥ ८.१६९ ॥ तथा भावरसोपेतं मुखरागं प्रयोजयेत् । इत्येवं मुखरागस्तु प्रोक्तो भावरसाश्रयः ॥ ८.१७० ॥ अतः परं प्रवक्ष्यामि ग्रीवाकर्माणि वै द्विजाः । समा नतोन्नता त्र्यस्रा रेचिता कुञ्चिताञ्चिता ॥ ८.१७१ ॥ वलिता च निवृत्ता च ग्रीवा नवविधार्थतः । समा स्वाभाविकी ध्यानस्वभाजपकर्मसु ॥ ८.१७२ ॥ नता नतास्यालङ्कारबन्धे कण्ठावलम्बने , उन्नताभ्युन्नतमुखी ग्रीवा चोर्ध्वनिवेशने ॥ ८.१७३ ॥ त्र्यस्रा पार्श्वगता ज्ञेया स्कन्धभारेऽति दुःखिते । रेचिता विधुतभ्रान्ता हावे मथनृत्तयोः ॥ ८.१७४ ॥ कुञ्चिताकुञ्चिते मूर्ध्नि धारिते गलरक्षणे । अञ्चितापसृतोद्बन्धकेशकर्षोर्ध्वदर्शने ॥ ८.१७५ ॥ पार्श्वोन्मुखी स्याद्वलिता ग्रीवाभेदैश्च वीक्षणे । निवृताभिमुखीभूता स्वस्थानाभिमुखादिषु ॥ ८.१७६ ॥ इत्यादि लोकभावार्था ग्रीवाभङ्गैरनेकधा । ग्रीवाकर्माणि सर्वाणि शिरः कर्मानुगानि हि ॥ ८.१७७ ॥ शिरसः कर्मणः कर्म ग्रीवायाः सम्प्रवर्तते । इत्येतल्लक्षणं प्रोक्तं शीर्षोपाङ्गसमाश्रयम् । अङ्गकर्माणि शेषाणि गदतो मे निबोधत ॥ ८.१७९ ॥ इति भारतीये नाट्यशाश्त्रे उपाङ्गविधानं नाम अष्टमोऽध्यायः _____________________________________________________________ अथ नवमोऽध्यायः एवमेतच्छिरोनेत्रभ्रुनासोष्ठकपोलजम् । कर्म लक्षणसंयक्तमुपाङ्गानां मयोदितम् ॥ ९.१ ॥ हस्तोरपार्श्वजठरकटीजङ्घोरुपादतः । लक्षणं सम्प्रवक्ष्यामि विनियोगं च तत्त्वतः ॥ ९.२ ॥ हस्तादीनां प्रवक्ष्यामि कर्म नाट्यप्रयोजकम् यथा येनाभिनेयं च तन्मे निगदतः शृणु ॥ ९.३ ॥ पताकस्त्रिपताकश्च तथा वै कर्तरीमुखः । अर्धचन्द्रो ह्यरालश्च शुकतुण्डस्तथैव च ॥ ९.४ ॥ मुष्टिश्च शिखराख्यश्च कपित्थः खटकामुखः । सूच्यास्यः पद्मकोशश्च तथा वै सर्पशीर्षकः ॥ ९.५ ॥ मृगशीर्षः परो ज्ञेयो हस्ताभिनययोक्तृभिः । काङ्गुलकोऽलपद्मश्च चतुरो भ्रमरस्तथ ॥ ९.६ ॥ हंसास्यो हंसपक्षश्च सन्दंशो मुकुलस्तथा । ऊर्णनाभस्ताम्रचूडचतुर्विंशतिरीरिताः ॥ ९.७ ॥ असंयुताः संयुताश्च गदतो मे निबोधत । अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ ९.८ ॥ खटकावर्धमानश्च ह्युत्संगो निषधस्तथा । दोलः पुष्पपुटश्चैव तथा मकर एव च ॥ ९.९ ॥ गजदन्तोऽवहित्थश्च वर्धमानस्तथैव च । एते तु संयुता हस्ता मया प्रोक्तास्त्रयोदश ॥ ९.१० ॥ नृत्तहस्तानतश्चोर्ध्व गदतो मे निबोधत । चतुरस्रौ तथोद्वृत्तौ तथा तलमुखौ स्मृतौ ॥ ९.११ ॥ स्वस्तिकौ विप्रकीर्णौ चाप्यरालखटकामुखौ । आविद्धवक्रौ सूच्यास्यौ रेचितावर्धरेचितौ ॥ ९.१२ ॥ उत्तानावञ्चितौ वापि पल्लवौ च तथा करौ । नितम्बौ चापि विज्ञेयौ केशबन्धौ तथैव च ॥ ९.१३ ॥ सम्प्रोक्तौ करिहस्तौ च लताख्यौ च तथैव च । पक्षवञ्चितकौ चैव पक्षप्रद्योतकौ तथा ॥ ९.१४ ॥ ज्ञेयो गरुडपक्षौ च हंसपक्षौ तथैव च । ऊर्ध्वमण्डलिनौ चैव पार्श्वमण्डलिनौ तथा ॥ ९.१५ ॥ उरोमण्डलिनौ चैव उरःपार्श्वार्धमण्डलौ । मुष्टिकस्वस्तिकौ चापि नलिनीपद्मकोशकौ ॥ ९.१६ ॥ अलपद्मावुल्बनौ च ललितौ वलितौ तथा । सप्तषष्टिकरा ह्येते नामतोऽभिहिता मया ॥ ९.१७ ॥ यथा लक्षणमेतेषां कर्माणि च निबोधत । प्रसारिताः समाः सर्वा यस्याङ्गुल्यो भवन्ति हि । कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः ॥ ९.१८ ॥ एष प्रहारपाते प्रतापन नोदने प्रहर्षे च । गर्वेऽप्यहमिति तज्ज्ञैललाटदेशोत्थितः कार्यः ॥ ९.१९ ॥ एषोऽग्निवर्षधारानिरूपणे पुष्पवृष्टिपतने च । संयुतकरणः कार्यः प्रविरलचलिताङ्गुलिर्हस्तः ॥ ९.२० ॥ स्वस्तिकविच्युतिकरणात्पल्लवपुष्पोपहारशष्पाणि । विरचितमुर्वीसंस्थं यद्द्रव्य तच्च निर्द्देश्यम् ॥ ९.२१ ॥ स्वस्तिकविच्युतिकरणात्पुनरेवाधोमुखेन कर्तव्यम् । संवृतविवृतं पाल्यं छन्नं निबिडं च गोप्यं च ॥ ९.२२ ॥ अस्यैव चाङ्गुलीभिरधोमुखप्रस्थितोत्थितचलाभिः । वायूर्मिवेगवेलाक्षोभश्चौघश्च कर्तव्यः ॥ ९.२३ ॥ उत्साहनं बहु तथा महाजनप्रांशुपुष्करप्रहतम् । पक्षोत्क्षेपाभिनयं रेचककरणेन चाभिनयेत् ॥ ९.२४ ॥ परिघृष्टतलस्थेन तु धौतं मृदितं प्रमृष्टपिष्टे च । पुनरेव शैलधारणमुद्घाटनमेव चाभिनयेत् ॥ ९.२५ ॥ एवमेष प्रयोक्तव्यः स्त्रीपुंसाभिनये करः । पताकाभ्यां तु हस्ताभ्यामभिनेयः प्रयोक्तृभिः ॥ ९.२६ ॥ दशाख्यश्च शताख्यश्च सहस्राख्यस्तथैव च । अतः परं प्रवक्ष्यामि त्रिपताकस्य लक्षणम् ॥ ९.२७ ॥ पताके तु यदा वक्राऽनामिका त्वङ्गुलिर्भवेत् । त्रिपताकः स विज्ञेयः कर्म चास्य निबोधत ॥ ९.२८ ॥ आवाहनमवतरणं विसर्जनं वारणं प्रवेशश्च । उन्नामनं प्रणामो निदर्शनं विविधवचनं च ॥ ९.२९ ॥ मङ्गल्यद्रव्याणां स्पर्शः शिरसोऽथ सन्निवेशश्च । उष्णीषमुकुटधारणं नासास्यश्रोत्रसंवरणम् ॥ ९.३० ॥ अस्यैव चाङ्गुलीभ्यामधोमुखप्रस्थितोत्थितचलाभ्याम् । लघुपवनस्रोतोभुजगभ्रमरादिकान् कुर्यात् ॥ ९.३१ ॥ अश्रुप्रमार्जने तिलकविरचनं रोचनयालम्भकं च त्रिपताकानामिकया स्पर्शनमलकस्य कार्यञ्च ॥ ९.३२ ॥ स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने । विच्युतौ चलितावस्थौ कार्यावुद्वाहदर्शने ॥ ९.३३ ॥ परस्पराग्रसंश्लिष्टौ कर्तव्यौ नृपदर्शने । तिर्यक्स्वस्तिकस्म्बद्धौ स्यातां तौ ग्रहदर्शने ॥ ९.३४ ॥ तपस्विदर्शने कार्यावूर्ध्वौ चापि पराङ्मुखौ । परस्पराभिमुखौ च कर्तव्यौ वरदर्शने ॥ ९.३५ ॥ उत्तानाधोमुखौ कार्यावग्रे वक्त्रस्य संस्थितौ । वडवानलसङ्ग्राममकराणां च दर्शने ॥ ९.३६ ॥ अभिनयास्त्वनेनैअव वानरप्लवनोर्मयः । पवनश्च स्त्रियश्चैव नाट्ये नाट्यविचक्षणैः ॥ ९.३७ ॥ संमुखप्रसृताङ्गुष्ठः कार्यो बालेन्दुदर्शने । पराङ्ग्मुखस्तु कर्तव्यो याने नृणां प्रयोक्तृभिः ॥ ९.३८ ॥ त्रिपताके यदा हस्ते भवेत्पृष्ठावलोकनी तर्जनी मध्यमायाश्च तदासौ कर्तरीमुखः ॥ ९.३९ ॥ पथि चरणरचनरञ्जनरङ्गणकरणान्यधोमुखेनैव । ऊर्ध्वमुखेन तु कुर्यात्दष्टं शृङ्गं च लेख्यं च ॥ ९.४० ॥ पतनमरणव्यतिक्रमपरिवृत्तवितर्कित तथ न्यस्तम् । भिन्नवलितेन कुर्यात्कर्तर्यास्याङ्गुलिमुखेन ॥ ९.४१ ॥ संयुतकरणो व स्यादसंयुतो वा प्रयुज्यते तज्ज्ञैः । रुरुचमरमहिषसुरगजवृषगोपुरशैलशिखरेषु ॥ ९.४२ ॥ यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत् । सोऽर्धचन्द्रो हि विज्ञेयः करः कर्मास्य वक्ष्यते ॥ ९.४३ ॥ एतेन बालतरवः शशिलेखाम्बुकलशवलयानि । निर्घाटनमायस्तं मध्यौपम्यं च पीनं च ॥ ९.४४ ॥ रशनाजघनकटीनामाननतलपत्रकुण्डलादीनाम् । कर्तव्यो नारीणामभिनययोगोऽर्धचन्द्रेण ॥ ९.४५ ॥ आद्या धनुर्नता कार्या कुञ्चिताङ्गुष्ठकस्तथा । शेषा भिन्नोर्ध्ववलिता ह्यरालेऽङ्गुलयः करे ॥ ९.४६ ॥ एतेन सत्त्वशौण्डीर्यवीर्यधृतिकान्तिदिव्यगाम्भीय्रम् । आशीर्वादाश्च तथा भावा हितसंज्ञकाः कार्याः ॥ ९.४७ ॥ एतेन पुनः स्त्रीणां केशानां संग्रहोत्कर्षौ । सर्वाङ्गिकं तथैव च निर्वर्णनमात्मनः कार्यम् ॥ ९.४८ ॥ कौतुकविवाहयोगं प्रदक्षिणेनैव संप्रयोगं च । अङ्गुल्यग्रस्वस्तिकयोगान् परिमण्डलेनैव ॥ ९.४९ ॥ प्राद्क्षिण्य परिमण्डलं च कुर्यान्महाजनं चैव । यच्च महीतलरचितं द्रव्यं तच्चाभिनेयं स्यात् ॥ ९.५० ॥ आह्वाने च निवारणनिर्माणे चाप्यनेकवचने च । स्वेदस्या चापनयने गन्धाघ्राणे शुभः शुभे चैष ॥ ९.५१ ॥ त्रिपताकहस्तजानि तु पूर्वं यान्यभिहितानि कर्माणि । तानि त्वरालयोगात्स्त्रीभिः सम्यक्प्रयोज्यानि ॥ ९.५२ ॥ अरालस्य यदा वक्राऽनामिकात्वङ्गुलिर्भवेत् । शुकतुण्डस्तु स करः कर्म चास्य निबोधत ॥ ९.५३ ॥ एतेन त्वभिनेयं नाहं न त्वं न कृत्यमिति चार्ये । आवाहने विसर्गे धिगिति वचने च सावज्ञम् ॥ ९.५४ ॥ अङ्गुल्यो यस्य हस्तस्य तलमध्येग्रसंस्थिताः । तासामुपरि चाङ्गुष्ठः सः मुष्टिरिति संज्ञितः ॥ ९.५५ ॥ एष प्रहारे व्यायामे निर्गमे पीडने तथा । संवाहनेऽसियष्टीनां कुन्तदण्डग्रहे तथा ॥ ९.५६ ॥ अस्यैव तु यदा मुष्टेरूर्ध्वोङ्गुष्ठः प्रयुज्यते । हस्तः स शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ ९.५७ ॥ रश्मिकुशाङ्कुशधनुषां तोमरशक्तिप्रमोक्षणे चैव । अधरोष्ठपादरञ्जनमलकस्योत्क्षेपणं चैव ॥ ९.५८ ॥ अस्यैव शिखराख्यस्य ह्यङ्गुष्ठकनिपीडिता । यदा प्रदेशिनी वक्रा स कपित्थस्तदा स्मृतः ॥ ९.५९ ॥ असिचापचक्रतोमरकुन्तगदाशक्तिवज्रबाणानि । शस्त्राण्यभिनेयानि तु कार्यं सत्यं च पथ्यं च ॥ ९.६० ॥ उत्क्षिप्तवक्रा तु यदानामिका सकनीयसी । अस्यैव तु कपित्थस्य तदासो खटकामुखः ॥ ९.६१ ॥ होत्रं हव्यं छत्रं प्रग्रहपरिकर्षणं व्यजनकञ्च । आदर्शधारणं खण्डनं तथा पेषणं चैव ॥ ९.६२ ॥ आयतदण्डग्रहणं मुक्ताप्रालम्बसंग्रहं चैव । स्रग्दामपुष्पमाला वस्त्रान्तालम्बनं चैव ॥ ९.६३ ॥ मन्मथशरावकर्ष्णपुष्पवचयप्रतोदकार्याणि । अङ्कुशरज्वाकर्षणस्त्रीदर्शनमेव कार्यं च ॥ ९.६४ ॥ खटकाख्ये यदा हस्ते तर्जनी सम्प्रसारिता । हस्तः सूचीमुखो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ ९.६५ ॥ अस्य विविधान् योगान् वक्ष्यामि समासतः प्रदेशिन्याः । ऊर्ध्वनतलोलकम्पितविजृंभितोद्वाहितचलायाः ॥ ९.६६ ॥ चक्रं तडित्पताकामञ्जर्यः कर्णचूलिकाश्चैव । कुटिलगतयश्च सर्वे निर्देश्याः साधुवादाश्च ॥ ९.६७ ॥ बालोरगबल्यवधूपदीपवल्लीलताशिखण्डाश्च । परिपतनवक्रमण्डलमभिनेयान्यूर्ध्वलोलितया ॥ ९.६८ ॥ वदनाम्यासे कुञ्चितविजृम्भिता वाक्यरूपणे कार्या । भूयश्चोर्ध्वविरचिता ताराघोणैकदण्डयष्टिषु च । विनताः च पुनः कार्या दंष्ट्रिषु च तथास्ययोगेन ॥ ९.६९ ॥ पुनरपि मण्डलगतया सर्वग्रहणं तथैव लोकस्य । प्रणतोन्तेए च कार्ये ह्याद्ये दीर्घे च दिवसे च ॥ ९.७० ॥ [श्रवणाभ्यासे वक्रा विजृम्भणा वाक्यरूपणावसरे] । मेति वदेति च योज्या प्रसारितोत्कम्पितोत्ताना ॥ ९.७१ ॥ कार्या प्रकम्पित रोवदर्शन स्वेदरूपणे चैव । कुन्तलकुण्डलाङ्गदगण्डाश्रयेऽभिनय ॥ ९.७२ ॥ गर्वेऽहमिति ललाटे रिपुदर्शने तथैव च क्रोधे । कोऽसाविति निर्देशेऽथ कर्णकण्डुनयने चैव ॥ ९.७३ ॥ संयुक्ता संयोगे कार्या विश्लेषिता वियोगे च । कलहे स्वस्तिकयुपतां परस्परोत्पीडिता बन्धे ॥ ९.७४ ॥ द्वाभ्यां तु वात्मपार्श्वे दक्षिणतो निननिशावसानानि । अभिमुखपराङ्मुखाभ्यां विश्लिष्टाभ्यां प्रयुञ्जीत ॥ ९.७५ ॥ पुनरपि च भ्रमिताग्ररूपा शिलावर्तयन्त्रशैलेषु । परिवेषणे तथैव हि कार्या चाधोमुखी नित्यम् ॥ ९.७६ ॥ श्लिष्टा ललाटपट्टेष्वधोमुखी शम्भुरूपणे कर्या । शकस्याप्युत्ताना तज्ज्ञैस्तिर्यक्स्थिता कार्या ॥ ९.७७ ॥ द्वाभ्यां सन्दर्शयेन्नित्यं सम्पूर्ण चन्द्रमण्डलम् । श्लिष्टा ललाटे शक्रस्य कार्या ह्युत्तानसंश्रया ॥ ९.७८ ॥ परिमण्डलं भ्रमिततया मण्डलमादर्शयेच्च चन्द्रस्य । हरनयने च ललाटे शक्रस्यऽप्युगुत्ताना ॥ ९.७९ ॥ यस्याङ्गुल्यस्तु वितताः सहाङ्गुष्ठेन कुञ्चिताः । ऊर्ध्वा ह्यसंगताग्राश्च स भवेत्पद्मकोशकः ॥ ९.८० ॥ बिल्वकपित्थफलानां ग्रहणे कुचदर्शनश्च नारीणाम् । ग्रहणे ह्यामिषलाभे भवन्ति ताः कुञ्चिताग्रास्तु ॥ ९.८१ ॥ बहुजातिबीजपूरकमामिषखण्डं च निर्देश्यम् । देवार्चनबलिहरणे समुद्गके साग्रपिण्डदाने च । कार्यः पुष्पप्रकरश्च पद्मकोशेन हस्तेन ॥ ९.८२ ॥ मणिबन्धनविश्लिष्टाभ्यां प्रविरलचलिताङ्गुलिकराभ्याम् । कार्यो विवर्तिताभ्यां विकसितकमलोत्पलाविनयः ॥ ९.८३ ॥ अङ्गुल्यः संहताः सर्वाः सहाङ्गुष्ठेन यस्य च । तथा निम्नतलश्चैव स तु सर्पशिराः करः ॥ ९.८४ ॥ एषः सलिलप्रदाने भुजगतौ तोयसेचने चैव । आस्फोटने च योज्यः करिकुम्भास्फालनाद्येषु ॥ ९.८५ ॥ अधोमुखीनां सर्वासामङ्गुलीनां समागमः । कनिष्ठाङ्गुष्ठकावूर्ध्वो स भवेत्मृगशीर्षकः ॥ ९.८६ ॥ इह साम्प्रतमस्त्यद्य शक्तेश्चोल्लासनेऽक्षपाते च । स्वेदापमार्जनेषु च कुट्टमिते प्रचलितस्तु भवेत् ॥ ९.८७ ॥ त्रेताग्निसंस्थिता मध्या तर्जन्याङ्गुष्ठका यदा । काङ्गुलोऽनामिका वक्रा यदाश्चोर्ध्वा कनीयसी ॥ ९.८८ ॥ एतेन तरुणफलानि नानाविधानि च लघूनि । कार्यानि रोषजानि स्त्रीवचान्यङ्गुलिक्षेपैः ॥ ९.८९ ॥ मरकतवैदूर्यादेः प्रदर्शनं सुमनसां च कर्तव्यम् । ग्राह्यं मरालपदमिति तज्ज्ञैरेव प्रयोगेषु ॥ ९.९० ॥ आवर्तिताः करतले यस्याङ्गुल्यो भवन्ति हि । पार्श्वागतविकीर्णाश्च स भवेदलपल्लवः ॥ ९.९१ ॥ प्रतिषेधकृते योज्यः कस्य त्वन्नास्ति शून्यवचनेषु । पुनरात्मोपन्यासः स्त्रीणामेतेन कर्तव्यः ॥ ९.९२ ॥ तिस्रः प्रसारिता यत्र तथा चोर्ध्वा कनीयसी । तासां मध्ये स्थितोङ्गुष्ठः स करश्चतुरस्मृतः ॥ ९.९३ ॥ नयविनयनियमसुनितुणबालातुरसत्यकैतवार्थेषु । वाक्ये युक्ते पथ्ये सत्ये प्रशमे च विनियोज्यः ॥ ९.९४ ॥ एकेन द्वाभ्यां वा किञ्चिन्मण्डलकृतेन हस्तेन । विकृतविचारितचरितं वितर्कितं लज्जितं चैव ॥ ९.९५ ॥ नयनौपम्यं पद्मदलरूपणं हरिणकर्णनिर्देशः । संयुतकरणेनैव तु चरेणैतानि कुर्वीत ॥ ९.९६ ॥ लीला रती रुचि च स्मृतिबुद्धिविभावनाः क्षमां पुष्टिं च । सञ्ज्ञामात्रं प्रणयं विचारणं सङ्गतं शौचम् ॥ ९.९७ ॥ चातुर्यं माधुर्यं दाक्षिण्यं मार्दवं सुखं शीलम् । प्रश्नं वार्तायुक्तिं वेषं मृदुशाद्वलं स्तोकम् ॥ ९.९८ ॥ विभवाविभौ सुरतं गुणागुणौ यौवनं गृहान् दारान् । नानावर्णाश्च तथा चतुरेणैवं प्रयुञ्जीत ॥ ९.९९ ॥ सितमूर्ध्वेन तु कुर्यात्रक्तं पीतं च मण्डलकृतेन । परिमुदितेन तु नीलं वर्णाश्चतुरेण हस्तेन ॥ ९.१०० ॥ मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी । ऊर्ध्वमन्ये प्रकीर्णे च द्व्यङ्गुल्यौ भ्रमरे करे ॥ ९.१०१ ॥ पद्मोत्पलकुमुदानामन्येषां चैव दीर्घवृन्तानाम् । पुष्पाणां ग्रहणविधिः कर्तव्यः कर्णपुरश्च ॥ ९.१०२ ॥ विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु । बालालापे च शीघ्रे च ताले विश्वासने तथा ॥ ९.१०३ ॥ तर्जनीमध्यमाङ्गुष्ठास्त्रेताग्निस्था निरन्तराः । भवेयुर्हंसवक्त्रस्य शेषे द्वे सम्प्रसारिते ॥ ९.१०४ ॥ श्लक्ष्णाल्पशिथिललाघवनिस्सारार्थे मृदुत्वयोगेषु । कार्योऽभिनयविशेषः किञ्चित्प्रस्यन्दिताग्रेण ॥ ९.१०५ ॥ समाः प्रसारितास्तिस्रस्तथा चोर्ध्वा कनीयसी । अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः ॥ ९.१०६ ॥ एष च निवापसलिले दातव्ये गण्डसंश्रये चैव । कार्यः प्रतिग्रहाचमनभोजनार्थेषु विप्राणाम् ॥ ९.१०७ ॥ आलिङ्गने महास्तम्भदर्शने रोमहर्षणे चैव । स्पर्शेऽनुलेपनार्थे योज्यः संवाहने चैव ॥ ९.१०८ ॥ पुनरेव च नारीणां स्तनान्तरस्थेन विभ्रमविशेषाः । कार्या यथारसं स्युर्दुःखे हनुधारणे चैव ॥ ९.१०९ ॥ तर्जन्यङ्गुष्ठसन्दंशस्त्व ह्यरालस्य यथा भवेत् । आभुग्नतलमध्यस्थः स सन्दंश इति स्मृतः ॥ ९.११० ॥ सन्दंशस्त्रिविधो ज्ञेय ह्यग्रजो मुखजस्तथा । तथा पार्श्वगतश्चैव रसभावोपबृंहितः ॥ ९.१११ ॥ पुष्पापचयग्रथने ग्रहणे तृणपर्णकेशसूत्राणाम् । शल्यावयवग्रहणापकर्षणे चाग्रसन्दंशः ॥ ९.११२ ॥ वृन्तात्पुष्पोद्धरणं वर्तिशलाकादिपूरणं चैअव । धिगिति च वचनं रोषे मुखसन्दंशस्य कर्माणि ॥ ९.११३ ॥ यज्ञोपवीतधारणवेधनगुणसूक्ष्मबाणलक्ष्येषु । योगे ध्याने स्तोके संयुक्तकरणस्तु कर्तव्यः ॥ ९.११४ ॥ पेशलकुत्सासूयादोषवचने च वामहस्तेन । किञ्चिद्विवर्तितकराग्रः प्रयुज्यते पार्श्वसन्दंशः ॥ ९.११५ ॥ आलेख्यनेत्ररञ्जनवितर्कवन्तप्रवालरचने च । निष्पीडनं तथालक्तकस्य कार्य च नारीभिः ॥ ९.११६ ॥ समागताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि । ऊर्ध्वा हंसमुखस्येव स भवेन्मुकुलः करः ॥ ९.११७ ॥ देवार्च्चनबलिकरणे पद्मोत्पलकुमुदरूपणे चैव । विटचुम्बने च कार्यो विकुत्सिते विप्रकीर्णश्च ॥ ९.११८ ॥ भोजनहिरण्यगणनामुखसंकोचप्रदानशीघ्रेषु । मुकुलितकुसुमेषु च तथा तज्ज्ञैरेष प्रयोक्तव्यः ॥ ९.११९ ॥ पद्मकोशस्य हस्तस्य ह्यङ्गुल्यः कुञ्चिता यदा । ऊर्णनाभः स विज्ञेयः केशचौर्यग्रहादिषु ॥ ९.१२० ॥ शिरः कण्डूयने चैव कुष्ठव्याधिनिरूपणे । संहव्याघ्रेष्वभिनयः प्रस्तरग्रहणे तथा ॥ ९.१२१ ॥ मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी । शेषे तलस्थे कर्तव्ये ताम्रचूलकरेऽङ्गुली ॥ ९.१२२ ॥ विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु । ताले विश्वसने चैव शीघ्रार्थे संज्ञितेषु च ॥ ९.१२३ ॥ तथा कलासु काष्ठासु निमेषे तु क्षणे तथा । एश एव करः कार्यो बालालापनिमन्त्रणे ॥ ९.१२४ ॥ अथवा अङ्गुल्यः संहिता वक्रा उपर्युङ्गुष्ठपीडिताः । प्रसारिता कनीष्ठाच ताम्रचूडः करः स्मृतः ॥ ९.१२५ ॥ शतं सहस्रं लक्षं च करेणैकेन योजयेत् । क्षिप्रमुक्ताङ्गुलीभिस्तु स्फुलिङ्गान् विप्रुषस्तथा ॥ ९.१२६ ॥ असंयुताः करा ह्येते मया प्रोक्ता द्विजोत्तमाः । अतश्च संयुतान् हस्तान् गदतो मे निबोधत ॥ ९.१२७ ॥ पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः । देवतानां गुरूणां च मित्राणां चाभिवादने ॥ ९.१२८ ॥ स्थानान्यस्य पुनस्त्रीणि वक्षो वक्त्रं शिरस्तथा । देवतानां शिरःस्थस्तु गुरूणामास्यसंस्थितः । वक्षस्थश्चैव मित्राणां स्त्रीणां त्वनियतो भवेत् ॥ ९.१२९ ॥ उभाभ्यामपि हस्ताभ्यामन्योऽन्यं पार्श्वसंग्रहात् । हस्तः कपोतको नाम कर्म चास्य निबोधत ॥ ९.१३० ॥ एष विनयाभ्युपगमे प्रणामकरणे गुरोश्च सम्भाषे । शीते भये च कार्यो वक्षःस्थः कम्पितः स्त्रीभिः ॥ ९.१३१ ॥ अयमेवाङ्गुलिपरिघृष्यमाणमुक्तस्तु खिन्नवाक्येषु । एतावदिति च कार्यो नेदानीं कृत्यमिति चार्थे ॥ ९.१३२ ॥ अङ्गुल्यो यस्य हस्तस्य ह्यन्योन्यान्तरनिस्सृताः । स कर्कट इति ज्ञेयः करः कर्म च वक्ष्यते ॥ ९.१३३ ॥ एष मदनाङ्गमर्दे सुप्तोत्थितविजृम्भणे बृहद्देहे । हनुधारणे च योज्यः शङ्खग्रहणेऽर्थतत्त्वज्ञैः ॥ ९.१३४ ॥ मणिबन्धविन्यस्तावरालौ स्त्रीप्रयोजितौ । उत्तानौ वामपार्श्वस्थौ स्वस्तिकः परिकीर्तितः ॥ ९.१३५ ॥ स्वस्तिकविच्युइतिकरणाद्दिशो घनाः खं वनं समुद्राश्च । ऋतवो मही तथौघं विस्तीर्णं चाभिनेयं स्यात् ॥ ९.१३६ ॥ खटकः खटके न्यस्तः खटकावर्धमानकः । शृङ्गारार्थेषु योक्तव्यः प्रणामकरणे तथा ॥ ९.१३७ ॥ अन्ये कुमुदीतालवृन्तेषु कर्तव्यश्छत्रधरणे ॥ ९.१३८ ॥ इति अरालौ तु विपर्यस्तावुत्तानौ वर्धमानकौ । उत्सङ्ग इति विज्ञेयः स्पर्शस्य ग्रहणे करः ॥ ९.१३९ ॥ सनिष्पेषकृते चैव रोमामर्षकृतेऽपि च । निष्पीडितः पुनश्चैव स्त्रीणामीर्ष्याकृते भवेत् ॥ ९.१४० ॥ मुकुलं तु यदा हस्तं कपित्थः परिचेष्टयेत् । स मन्तव्यस्तदा हस्तो निषधौ नाम नामतः ॥ ९.१४१ ॥ संग्रहपरिग्रहौ धारणं च समयश्च सत्यवचनं च । सङ्क्षेपः संक्षिप्तं निपीडितेनाभिनेतव्यम् ॥ ९.१४२ ॥ शिखरस्तु यदा हस्तो मृगशीर्षेण पीडितः । निषधो नाम विज्ञेयः स भयार्ते विधीयते ॥ ९.१४३ ॥ गृहीत्वा वामहस्तेन कर्पुराभ्यन्तरे भुजम् । दक्षिणं चापि वामस्य कर्पुराभ्यन्तरे न्यसेत् ॥ ९.१४४ ॥ स चापि दक्षिणो हस्तः सम्यङ्मुष्टीकृतो भवेत् । इत्येष निषधो हस्तः कर्म चास्य निबोधत ॥ ९.१४५ ॥ एतेन धैर्यमदगर्वसौष्ठवौत्सुक्यविक्रमाटोपाः । अभिमानावष्टम्भः स्तम्भस्थैर्यादय कार्याः ॥ ९.१४६ ॥ ज्ञेयो वै निषधो नाम हंसपक्षौ पराङ्गमुखौ । जालवातायनादीनां प्रयोक्तव्योऽभिघट्टने ॥ ९.१४७ ॥ अंसौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ । यदा भवेतां करणे स दोल इति संज्ञितः ॥ ९.१४८ ॥ संभ्रमविषादमूर्च्छितमदाभिघाते तथैव चाऽवेगे । व्याधिप्लुते च शस्त्रक्षते च कार्योऽभिनयोगः ॥ ९.१४९ ॥ यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः । द्वितीयः पार्श्वसंश्लिष्टः स तु पुष्पपुटः स्मृतः ॥ ९.१५० ॥ धान्यफलपुष्पसदृशान्यनेन नानाविधानि युक्तानि । ग्राह्याण्युपनेयानि च तोयानयनापनयने च ॥ ९.१५१ ॥ पताकौ तु यदा हस्तावूर्र्धाङ्गुष्ठावधोमुखौ । उपर्युपरि विन्यस्तौ तदा स मकरः करः ॥ ९.१५२ ॥ सिंहव्यालद्विपिप्रदर्शनं नक्रमकरमत्स्यानाम् । ये चान्ये क्रव्यादा ह्यभिनेयास्तेऽर्थयोगेन ॥ ९.१५३ ॥ कूर्परांसोचितौ हस्तौ यदास्तां सर्पशीर्षकौ । गजदन्तः स विज्ञेयः कर्म चास्य निबोधत ॥ ९.१५४ ॥ एव च वधुवराणमुद्वाहे चातिभारयोगे च । स्तंभग्रहणे च तथा शैलशिलोत्पाटने चैव ॥ ९.१५५ ॥ शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ । शनैरधोमुखाविद्धौ सोऽवहित्थ इति स्मृतः ॥ ९.१५६ ॥ दौर्बल्ये निःश्वसिते गात्राणां दर्शने तनुत्वे च । उत्कण्ठिते च तज्ज्ञैरभिनययोगस्तु कर्तव्यः ॥ ९.१५७ ॥ मुकुलस्तु यदा हस्तः कपित्थपरिवेष्टितः । वर्धमानः स विज्ञेयः कर्म चास्य निबोधत ॥ ९.१५८ ॥ संग्रहपरिग्रहौ धारणं च समयश्च सत्यवचं च । संक्षेपतस्तु संक्षिप्तं निपीडितेनाभिनेतव्यम् ॥ ९.१५९ ॥ ज्ञेयो वै वर्धमानस्तु हंसपक्षो पराङ्गमुखौ । जालवातायनादीनां प्रयोक्तव्यो विघाटने ॥ ९.१६० ॥ उक्ता ह्येते द्विविधा ह्यसंयुताः संयुताश्च संक्षेपात् । अभिनयकरास्तु ये त्विह तेऽन्यत्राप्यर्थतः साध्याः ॥ ९.१६१ ॥ आकृत्या चेष्टया चिह्नैर्जात्या विज्ञाय तत्पुनः । स्वयं वितर्क्य कर्तव्यं हस्ताभिनयनं बुधैः ॥ ९.१६२ ॥ नास्ति कश्चिदहस्तस्तु नाट्येऽर्थोऽभिनयं प्रति । यस्य यद्दृश्यते रूपं बहुशस्तन्मयोषितम् ॥ ९.१६३ ॥ अन्ये चाप्यर्थसंयुक्ता लौकिका ये करास्त्विह । छन्दतस्ते नियोक्तव्या रसभावविचेष्टितैः ॥ ९.१६४ ॥ देशं कालं प्रयोगं चाप्यर्थयुक्तिमवेक्ष्य च । हस्ता ह्येते प्रयोक्तव्याः नृणां स्त्रीणां विशेषतः ॥ ९.१६५ ॥ सर्वेषामेव हस्तानां यानि कर्माणि सन्ति हि । तान्यहं संप्रवक्ष्यामि रसभावकृतानि तु ॥ ९.१६६ ॥ उत्कर्षणं विकर्षणं तथा चैवापकर्षणम् । परिग्रहो निग्रहश्चाह्वानं नोदनमेव च ॥ ९.१६७ ॥ संश्लेषश्च वियोगश्च रक्षणं मोक्षणं तथा । विक्षेपधूनने चैव विसर्गस्तर्जनं तथा ॥ ९.१६८ ॥ छेदनं भेदनं चैव स्फोटनं मोटनं तथा । ताडनं चेति विज्ञेयं तज्ज्ञैः कर्म करान् प्रति ॥ ९.१६९ ॥ उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च । हस्तप्रचारस्त्रिविधो नाट्यतत्त्वसमाश्रयः ॥ ९.१७० ॥ सर्वे हस्तप्रचाराश्च प्रयोगेषु यथाविधिः नेत्रभ्रूमुखरागैश्च कर्तव्या व्यञ्जिअता बुधैः ॥ ९.१७१ ॥ करणं कर्म स्थानं प्रचायुक्तिं क्रियां च संप्रेक्ष्य । हस्ताभिनयतज्ज्ञैः कार्यो लोकोपचारेण ॥ ९.१७२ ॥ उत्तामानां कराः कार्या ललाटक्षेत्रचारिणः । वक्षःस्थाश्चैव मध्यानामधमामधोगता ॥ ९.१७३ ॥ ज्येष्ठे स्वल्पप्रचाराः स्युर्मध्ये मध्यविचारिणः । अधमेषु प्रकीर्णाश्च हस्ताः कार्या प्रयोक्तृभिः ॥ ९.१७४ ॥ लक्षणव्यञ्जिता हस्ताः कार्यास्तूत्तममध्यमैः । लोकक्रियास्वभावेन नीचैरप्यर्थसंश्रयाः ॥ ९.१७५ ॥ अथवान्यादृशं प्राप्य प्रयोगं कालमेव च । विपरीताश्रया हस्ताः प्रयोक्तव्या बुधैर्न वा ॥ ९.१७६ ॥ विषण्णे मूर्च्छिते भीते जुगुप्साशोकपीडिते । ग्लाने स्वप्ने विहस्ते च निश्चेष्टे तन्द्रिते जडे ॥ ९.१७७ ॥ व्याधिग्रस्ते जरार्ते च भयार्ते शीतविप्लुते । मत्ते प्रमत्ते चोन्मत्ते चिन्तायां तपसि स्थिते ॥ ९.१७८ ॥ हिमवर्षहते बद्धे वरिणाप्लवसंश्रिते । स्वप्नायिते च संभ्रान्ते नतसंस्फोटने तथा ॥ ९.१७९ ॥ न हस्ताभिनयः कार्यः कार्यः सत्त्वस्य संग्रहः । तथा काकुविशेषश्च नानाभवरसान्वितः ॥ ९.१८० ॥ यत्र व्यग्रावुभौ हस्तौ तत्तद्दृष्टिविलोकनैः । वाचकाभिनयं कुर्याद्विरामैर्थदर्शकैः ॥ ९.१८१ ॥ उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च । प्रचारस्त्रिविधोऽङ्गानां नाट्यनृत्तसमाश्रयः ॥ ९.१८२ ॥ उत्तानो वर्तुलस्त्र्यश्रः स्थितोऽधोमुख एव च । पञ्च प्रकारा हस्तस्य नाट्यनृत्तसमाश्रयाः ॥ ९.१८३ ॥ एवं ज्ञेयाः करा ह्येते नाभिनयसंश्रिताः । अत ऊर्ध्वं प्रवक्ष्यामि हस्तान्नृत्तसमाश्रयान् ॥ ९.१८४ ॥ वक्षसोऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ खटकामुखौ । समानकूर्परांसौ तु चतुरस्रौ प्रकीर्तितौ ॥ ९.१८५ ॥ हंसपक्षकृतौ हस्तौ व्यावृतौ तालवृन्तवत् । उद्वृत्ताविति विज्ञेयावथवा तालवृन्तकौ ॥ ९.१८६ ॥ चतुरस्त्रस्थितौ हस्तौ हंसपक्षकृतौ तथा । तिर्यक्स्थितौ चाभिमुखौ ज्ञेयौ तालमुखाविति ॥ ९.१८७ ॥ तावेव मणिबन्धान्ते स्वस्तिकाकृतिसंस्थितौ । स्वस्तिकाविति विख्यातौ विच्युतौ विप्रकीर्णकौ ॥ ९.१८८ ॥ अलपल्लवसंस्थानावुर्ध्वास्यौ पद्मकोशकौ । अरालखटकाख्यौ चाप्यरालखटकामुखौ ॥ ९.१८९ ॥ तथै मणिबन्धान्ते ह्यरालौ विच्युतावुभौ । ज्ञेयौ प्रयोक्तृभिर्नित्यमराल खटकाविति ॥ ९.१९० ॥ भुजांसकूर्पराग्रैस्तु कुटिलावर्तितौ करौ । पराङ्गमुखतलाविद्धौ ज्ञेयावाविद्धवक्रकौ ॥ ९.१९१ ॥ हस्तौ तु सर्पशिरसौ मध्यमाङ्गुष्ठकौ यदा । तिर्यक्प्रसारितास्यौ च तदा सूचीमुखौ स्मृतौ ॥ ९.१९२ ॥ सर्पशीर्षौ यदा हस्तौ भवेतां स्वस्तिकस्थितौ । मध्यप्रसारिताङ्गुष्ठौ ज्ञेयौ सूचीमुखौ तदा ॥ ९.१९३ ॥ रेचितौ चापि विज्ञेयौ हंसपक्षौ द्रुतभ्रमौ । प्रसारितोत्तानतलौ रेचिताविति संज्ञितौ ॥ ९.१९४ ॥ चतुरस्रो भवेद्वामः सव्यहस्तश्च रेचितः । विज्ञेयौ नृत्ततत्त्वज्ञैर्धरेचितसंज्ञकौ ॥ ९.१९५ ॥ अञ्चितौ कूर्परांसौ तु त्रिपताकौ करौ कृतौ । किञ्चित्तिर्यग्गतावेतौ स्मृतावुत्तनवञ्चितौ ॥ ९.१९६ ॥ मणिबन्धमुक्तौ तु पताकौ पल्लवौ स्मृतौ । बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बाविति कीर्तितौ ॥ ९.१९७ ॥ केशदेशाद्विनिष्क्रान्तौ परिपार्श्वोत्थितौ यदा । विज्ञेयो केशबन्धौ तु करवाचार्यसम्मतौ ॥ ९.१९८ ॥ तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ तथैव च । लताख्यौ च करौ ज्ञेयौ नृत्ताभिनयनं प्रति ॥ ९.१९९ ॥ समुन्नतो लताहस्तः पार्श्वात्पार्श्व विलोलितः । त्रिपताकोऽपरः कर्णे करिहस्तः प्रकीर्तितः ॥ ९.२०० ॥ कटिशीर्षनिविष्टाग्रौ त्रिपताकौ यदा करौ । पक्षवञ्चितकौ हस्तौ तदा ज्ञेयौ प्रयोक्तृभिः ॥ ९.२०१ ॥ तावेव तु परावृत्तौ पक्षप्रद्योतकौ स्मृतौ । अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षकौ ॥ ९.२०२ ॥ हंसपक्षकृतौ हस्तौ व्यावृत्तपरिवर्तितौ । तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ॥ ९.२०३ ॥ ऊर्ध्वमण्डलिनौ हस्तावूर्ध्वदेशविवर्तनात् । तावेव पार्श्वविन्यस्तौ पार्श्वमण्डलिनौ स्मृतौ ॥ ९.२०४ ॥ उद्वेष्टितौ भवेदेकौ द्वितीयश्चापवेष्टितः । भ्रमितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ ॥ ९.२०५ ॥ अलपल्लवकारालावुरोद्वभ्रमणक्रमात् । पार्श्वावर्तश्च विज्ञेयावुरः पार्श्वार्धमण्डलौ ॥ ९.२०६ ॥ हस्तौ तु मणीबन्धान्ते कुञ्चितावञ्चितौ यदा । खटकाख्यौ तु तौ स्यातां मुष्टिकस्वस्तिकौ तदा ॥ ९.२०७ ॥ पद्मकोशौ यदा हस्तौ व्यावृत्तपरिवर्तितौ । नलिनीपद्मकोशौ तु तदा ज्ञेयौ प्रयोक्तृभिः ॥ ९.२०८ ॥ करावुद्वेष्टिताग्रौ तु प्रविधायालपल्लवौ । ऊर्ध्वप्रसरिताविद्धौ कर्तव्यावुल्बणाविति ॥ ९.२०९ ॥ पल्लवौ च शिरोदेशे संप्राप्तौ ललितौ स्मृतौ । कर्पूरस्वस्तिकगतौ लताख्यौ वलिताविति ॥ ९.२१० ॥ करणे तु प्रयोक्तव्यो नृत्तहस्तो विशेषतः । तथार्थाभिनये चैव पताकायाः प्रयोक्तृभिः ॥ ९.२११ ॥ संकरोऽपि भवेत्तेषां प्रयोगोऽर्थवशात्पुनः । प्राधान्येन पुनः संज्ञा नाट्ये नृत्ते करेष्विह ॥ ९.२१२ ॥ वियुताः संयुताश्चैव नृत्तहस्ताः प्रकीर्तिताः । अतः परं प्रवक्ष्यामि करान् करणसंश्रयान् ॥ ९.२१३ ॥ सर्वेषामेव हस्तानां नाट्यहस्तनिदेशिभिः । विधातव्या प्रयत्नेन करणं तु चतुर्विधम् ॥ ९.२१४ ॥ अपवेष्टितमेकं स्यातुद्वेष्टितमथापरम् । व्यावर्तितं तृतीयं तु चतुर्थं परिवर्तितम् ॥ ९.२१५ ॥ आवेष्ट्यन्ते यदङ्गुल्यस्तर्जनाद्या यथाक्रमम् । अभ्यन्तरेण करणं तदावेष्टितमुच्यते ॥ ९.२१६ ॥ उद्वेष्ट्यन्ते यदङ्गुल्यः तर्जन्याद्या बहिर्मुखम् । क्रमशः करणं विप्रास्तदुद्वेष्टितमुच्यते ॥ ९.२१७ ॥ आवर्त्यन्ते कनिष्ठाद्या ह्यङ्गुल्योऽभ्यन्तरेण तु । यथा क्रमेण करणं तद्व्यावर्तितमुच्यते ॥ ९.२१८ ॥ उद्वर्त्यन्ते कनिष्ठाद्या बाह्यतः क्रमशो यदा । अङ्गुल्यः करणं विप्रास्तदुक्तं परिवर्तितम् ॥ ९.२१९ ॥ नृत्तेऽभिनययोगे वा पाणिभिर्वर्तनाश्रये । मुखभ्रुनेत्रयुक्तानि करणानि प्रयोजयेत् ॥ ९.२२० ॥ तिर्यक्तथोर्ध्वसंस्थो ह्यधोमुखश्चाञ्चितोऽपविद्धस्तु । मण्डलगतिस्तथा स्वस्तिकश्च पृष्ठानुसारि च ॥ ९.२२१ ॥ उद्वेष्टितः प्रसारित इत्येते वै स्मृताः प्रकारास्तु । बाह्वोरिति करणगता विज्ञेया नित्यं नृत्तप्रयोक्तृभिः ॥ ९.२२२ ॥ हस्तानां करणविधिर्मया समासेन निगदितो विप्राः । अत ऊर्ध्वं व्याख्यास्ये हृदयोदरपार्श्वकर्माणि ॥ ९.२२३ ॥ आभुग्नमथ निर्भुग्नं तथा चैव प्रकम्पितम् । उद्वाहितं समं चैव उरः पञ्चविधं स्मृतम् ॥ ९.२२४ ॥ निम्नमुन्नतपृष्ठं च व्याभुग्नांसं श्लथं क्वचित् आभुग्नं तदुरो ज्ञेयं कर्म चास्य निबोधत ॥ ९.२२५ ॥ संभ्रमविषादमूर्च्छाशोकभयव्याधिहृदयशल्येषु । कार्यं शीतस्पर्शे वर्षे लाजान्वितेऽर्थवशात् ॥ ९.२२६ ॥ स्तब्धं च निम्नपृष्ठं च निर्भुग्नांसं समुन्नतम् । उरो निर्भुग्नमेतद्धि कर्म चास्य निबोधत ॥ ९.२२७ ॥ स्तम्भे मानग्रहणे विस्मयदृष्टे च सत्यवचने च । अहमिति च दर्पवचने गर्वोत्सेके तु कर्तव्यम् ॥ ९.२२८ ॥ [दीर्घनिश्वसिते चैव जृम्भणे मोटने तथा । बिब्बोके च पुनः स्त्रीणां तद्विज्ञेयं प्रयोक्तृभिः ] ॥ ९.२२९ ॥ ऊर्ध्वोत्क्षेपैरुरो यत्र निरन्तरकृतैः कृतम् । प्रकम्पितं तु विज्ञेयमुरो नाट्यप्रयोक्तृभिः ॥ ९.२३० ॥ हसितरुदितादिसंभ्रमभयश्रमव्याधिपीडितार्थेषु । नानाभावोपगतं कार्यमुरो नाट्ययोगेषु ॥ ९.२३१ ॥ हसितरुदितेषु कार्ये श्रमे भये श्वसकाशयोश्चैव । हिक्कादुःखे च तथा नाट्यज्ञैरर्थयोगेन ॥ ९.२३२ ॥ उद्वाहितमूर्ध्वगतमुरो ज्ञेयं प्रयोक्तृभिः । दीर्घोच्छ्वसनता लोके जृम्भनादिषु चेक्ष्यते ॥ ९.२३३ ॥ सर्वैः ससौष्ठवैरञ्गैश्चतुरस्रकृतैः कृतम् । उरः समन्. तु विज्ञेयं स्वस्थं सौष्ठवसंयुतम् ॥ ९.२३४ ॥ एतदुक्तं मय सम्यगरसस्तु विकल्पनम् । अत ऊर्ध्वं प्रवक्ष्यामि पार्श्वयोरिह लक्षणम् ॥ ९.२३५ ॥ नतं समुन्नतं चैव प्रसारितविवर्तितो । तथापसृतमेवं तु पार्श्वयोः कर्म पञ्चधा ॥ ९.२३६ ॥ कटिर्भवेत्तु व्याभुग्ना पार्श्वमाभुग्नमेव च । तथैवापसृतांसं च किञ्चित्पार्श्वनतं स्मृतम् ॥ ९.२३७ ॥ तस्यैव चापरं पार्श्वं विपरीतं तु युक्तितः । कटीपार्श्वभुजांसैश्चाभ्युन्नतैरुतं भवेत् ॥ ९.२३८ ॥ आयामनादुभयतः पाश्वयोः स्यात्प्रसारितम् । परिवर्तात्रिकस्यापि विवर्तितमिहेष्यते ॥ ९.२३९ ॥ विवर्तितापनयनाद्भवेदपसृतं पुनः । पार्श्वलक्षणमित्युक्तं विनियोगं निबोधत ॥ ९.२४० ॥ उपसर्पे नतं कार्यमुन्नतं चापसर्पणे । प्रसारितं प्रहर्षादौ परिवृत्ते विवर्तितम् ॥ ९.२४१ ॥ विनिवृत्ते त्वपसृतं पार्श्वमर्थवशाद्भवेत् । एतानि पार्श्वकर्माणि जठरस्य निबोधत ॥ ९.२४२ ॥ क्षामं खल्वं च पूर्णं च सम्प्रोक्तमुदरं त्रिधा । तनु क्षामं नतं खल्वं पूर्णमाध्मातमुच्यते ॥ ९.२४३ ॥ क्षामं हास्येऽथ रुदिते निःश्वासे जृम्भने भवेत् । व्याधिते तपसि श्रान्ते क्षुधार्ते खल्वमिष्यते ॥ ९.२४४ ॥ पूर्णमुच्छ्वसिते स्थूले व्याधितात्यशनादिषु । इत्येतदुदरं प्रोक्तं कट्याः कर्म निबोधत ॥ ९.२४५ ॥ अन्ये तु क्षामं खल्वं समं पूर्णमुदरं स्याच्चतुर्विधम् । छिना चैव निवृत्ता च रेचिता कम्पिता तथा । उद्वाहिता चैव कटी नाट्ये नृत्ते च पञ्चधा ॥ ९.२४६ ॥ कटी मध्यस्य वलनात्च्छिना संपरिकीर्तिता । पराङ्ग्मुखस्याभिमुखी निवृत्ता स्यान्निवर्तिता ॥ ९.२४७ ॥ सर्वतो भ्रमणाच्चापि विज्ञेया रेचिता कटी । तिर्यग्गतागता क्षिप्ता कटी ज्ञेया प्रकम्पिता ॥ ९.२४८ ॥ नितम्बपार्श्वोद्वहनात्शनेइरुद्वाहिता कटी । कटीकर्म मया प्रोक्तं विनियोगं निबोधत ॥ ९.२४९ ॥ छिन्ना व्यायामसम्भ्रान्तव्यावृत्तप्रेक्षणादिषु । निवृत्ता वर्तने चैव रेचिता भ्रमणादिषु ॥ ९.२५० ॥ कुब्जवामननीचानां गतौ कार्या प्रकम्पिता । स्थूलेषूद्वाहिओता योज्या स्त्रीणां लीलागतेषु च ॥ ९.२५१ ॥ कम्पनं वलनं चैव स्तम्भनोद्वर्तने तथा । निवर्तनं च पञ्चैतान्यूरुकर्माणि कारयेत् ॥ ९.२५२ ॥ नमनोन्नमनात्पार्ष्णेर्मुहुः स्यादूरुकम्पनम् । गच्छेदभ्यन्तरं जानु यत्र तद्वलनं स्मृतम् ॥ ९.२५३ ॥ स्तम्भनं चापि विज्ञेयमपविद्धक्रियात्मकम् । वलिताविद्धकरणादूर्वोरुद्वर्तनं स्मृतम् ॥ ९.२५४ ॥ पार्ष्णिरभ्यन्तरं गच्छेद्यत्र तत्तु निवर्तनम् । गतिष्वधमपात्रणां भये चापि हि कम्पनम् ॥ ९.२५५ ॥ वलनं चैव हि कर्तव्यं स्त्रीणां स्वैरपरिक्रमे । साध्वसे च विषादे च स्तम्भनं तु प्रयोजयेत् ॥ ९.२५६ ॥ व्यायामे ताण्डवे चैव कार्यमुद्वर्तनं बुधैः । निवर्तनं तु कर्तव्यं सम्भ्रादिपरिभ्रमे ॥ ९.२५७ ॥ यथादर्शनमन्यच्च लोकाद्ग्राह्यं प्रयोक्तृभिः । इत्यूर्व्रोर्लक्षणं प्रोक्तं जङ्घायास्तु निबोधत ॥ ९.२५८ ॥ आवर्तितं नतं क्षिप्तमुद्वाहितमथापि च । परिवृत्तं तथा चैव जङ्घाकर्माणि पञ्चधा ॥ ९.२५९ ॥ वामो दक्षिणपार्श्वेन दक्षिणश्चापि वामतः । पादो यत्र व्रजेद्विप्राः तदावर्तितमुच्यते ॥ ९.२६० ॥ जङ्घास्वस्तिकयोगेन क्रमादावर्तितं नयेत् । जानुनः कुञ्चनाच्चैव नतं ज्ञेयं प्रयोक्तृभिः । विक्षेपाच्चैव जङ्घायाः क्षिप्तमित्यभिधीयते ॥ ९.२६१ ॥ [नतं स्याज्जानुनमनात्क्षिप्तं विक्षेपणाद्बहि] । उद्वाहितं च विज्ञेयमूर्ध्वमूद्वाहनादपि । प्रतीपनयनं यत्तु परिवृत्तं तदुच्यते ॥ ९.२६२ ॥ आवर्तितं प्रयोक्तव्यं विदूषकपरिक्रमे । नतं चापि हि कर्तव्यं स्थानासनगतादिषु ॥ ९.२६३ ॥ क्षिप्तं व्यायामयोगेषु ताण्डवे च प्रयुज्यते । तथा चोद्वाहितं कुर्यादाविद्धगमनादिषु ॥ ९.२६४ ॥ ताण्डवेषु प्रयोक्तव्यं परिवृत्तं प्रयोक्तृभिः । इत्येतज्जङ्घयोः कर्म पादयोस्तु निबोधत ॥ ९.२६५ ॥ उद्घट्टितः समश्चैव तथाग्रतलसञ्चरः । अञ्चितः कुञ्चितश्चैव पादः पञ्चविध स्मृतः ॥ ९.२६६ ॥ स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ निपात्यते । यस्य पादस्य करणे भवेदुद्घट्टितस्तु सः ॥ ९.२६७ ॥ अयमुद्वेष्टितकरणे त्वनुकरणार्थं प्रयोगमासाद्य । द्रुतमध्यमप्रचारः सकृदसकृदा प्रयोक्तव्यः ॥ ९.२६८ ॥ स्वभावरचिते भूमौ समस्थाने च यो भवेत् । समः पादः स विज्ञेयः स्वभावाभिनयाश्रयः ॥ ९.२६९ ॥ स्थिरस्वभावाभिनये नानाकरणसंश्रये । चलितश्च पुनः कार्यो विधिज्ञैः पादरेचिते ॥ ९.२७० ॥ समस्यैव यदा पार्ष्णिः पादस्याभ्यन्तरे भवेत् । बहिः पार्श्वस्थितोऽङ्गुष्ठस्त्र्यश्रपादस्तु स स्मृतः ॥ ९.२७१ ॥ त्यक्त्वा (कृत्वा?) समपदं स्थानमश्वक्रान्ते तथैव च । स्याद्विक्लवादिष्वर्थेषु त्र्यश्रः पादो यथाविधिः ॥ ९.२७२ ॥ अस्यैव समपादस्य पार्ष्णिरभ्यन्तरे भवेत् । त्र्यश्रपादः स विज्ञेयः स्थानकादिषु संश्रयः ॥ ९.२७३ ॥ उत्क्षिप्ता तु भवेत्पार्ष्णिः प्रसृतोङ्गुष्ठकस्तथा । अङ्गुल्यश्चाञ्चिताः सर्वा पादेऽग्रतलसञ्चरः ॥ ९.२७४ ॥ तोदननिकुट्टने स्थितनिशुम्भने भूमिताडने भ्रमणे । विक्षेपविविधरेचकपार्ष्णिकृतागमनमेतेन ॥ ९.२७५ ॥ पार्ष्णिर्यस्याञ्चिता भूमौ पादमग्रतलं तथा । अङ्गुल्यश्चाञ्चिताः सर्वाः स पादस्त्वञ्चितः स्मृतः ॥ ९.२७६ ॥ पादाग्रतलसञ्चारे वर्तितोद्वर्तिते तथा । एव पादाहते कार्यो नानाभ्रमरकेषु च ॥ ९.२७७ ॥ उत्क्षिप्ता यस्य पार्ष्णी स्यादङ्गुल्यः कुङ्चितास्तथा । तथा कुञ्चितमध्यश्च स पादं कुञ्चितः स्मृतः ॥ ९.२७८ ॥ उदत्तगमने चैव वर्तितोद्वर्तिते तथा । उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः ॥ ९.२७९ ॥ वामश्चैव स्वभावस्थः सूचीपादः प्रकीर्तितः । नृत्ते नूपुरकरणे प्रयोगस्तस्य कीर्त्यते ॥ ९.२८० ॥ अतिक्रान्तक्रमे चैव पादमेतं प्रयोजयेत् । पादजङ्घोरुकरणं कर्म कार्य प्रयोक्तृभिः ॥ ९.२८१ ॥ पादस्य करणं सर्व जङ्घोरुकृतमिष्यते । यथा पादः प्रवर्तेत तथैवोरुः प्रवर्तते ॥ ९.२८२ ॥ अनयोः समानकरणात्पादचारी प्रयोजयेत् । इत्येतदङ्गजं प्रोक्तं लक्षणं कर्म चैव हि ॥ ९.२८३ ॥ अतः परं प्रवक्ष्यामि चारीव्यायामलक्षणम् ॥ ९.२८४ ॥ इति भारतीये नाट्यशास्त्रे अङ्गाभिनयो नाम नवमोऽध्यायः _____________________________________________________________ अथ दशमोऽध्यायः एवं पादस्य जङ्घाया ऊर्वोः कट्यास्तथैव च । समानकरणे चेष्टा सा चारीत्यभिधीयते ॥ १०.१ ॥ विधानोपगताश्चार्यो व्यायच्छन्ते परस्परम् । यस्मादङ्गसमायुक्तास्तस्माद्व्यायाम उच्यते ॥ १०.२ ॥ एकपादप्रचारो यः सा चारीत्यभिसंज्ञिता । द्विपादक्रमणं यत्तु करणं नाम तद्भवेत् ॥ १०.३ ॥ करणानां समायोगः खण्डमित्यभिधीयते । खण्डैस्त्रिभिश्चतुर्भिर्वा संयुक्तं मण्डलं भवेत् ॥ १०.४ ॥ चारीभिः प्रसृतं नृत्तं चारीभिश्चेष्टितं तथा । चारीभिः शस्त्रमोक्षश्च चार्यो युद्धे च कीर्तिताः ॥ १०.५ ॥ यदेतत्प्रस्तुतं नाट्यं तच्चारीष्वेव संज्ञितम् । नहि चार्या विना किञ्चिन्नाट्येऽङ्गं संप्रवर्तते ॥ १०.६ ॥ तस्माच्चारीविधानस्य सम्प्रवक्ष्यामि लक्षणम् । या यस्मिंस्तु यथा योज्या नृत्ते युद्धे गतौ तथा ॥ १०.७ ॥ समपादा स्थितावर्ता शकटास्या तथैव च । अध्यर्धिका चाषगतिर्विच्यवा च तथापरा ॥ १०.८ ॥ एडकाक्रीडिता बद्धा उरुद्वृत्ता तथाड्डिता । उत्स्पन्दिता च जनिता स्यन्दिता चापस्यन्दिता ॥ १०.९ ॥ समोत्सरितमत्तल्ली मत्तल्ली चेति षोडश । एता भौम्यः स्मृताश्चार्यः शृणुताकाशिकीः पुनः ॥ १०.१० ॥ अतिक्रान्ता ह्यपक्रान्ता पार्श्वक्रान्ता तथैव च । ऊर्ध्वजानुश्च सूची च तथा नूपुरपादिका ॥ १०.११ ॥ डोलपादा तथाक्षिप्ता आविद्धोद्वृत्तसंज्ञिते । विद्युद्भ्रान्ता ह्यलाता च भुजङ्गत्रासिता तथा ॥ १०.१२ ॥ मृगप्लुता च दण्डा च भ्रमरी चेति षोडश । आकाशिक्यः स्मृता ह्येता लक्षणं च निबोधत ॥ १०.१३ ॥ पादैर्निरन्तरकृतैस्तथा समनखैरपि । समपादा स्मृता चारी विज्ञेया स्थानसंश्रया ॥ १०.१४ ॥ भूमिघृष्टेन पादेन कृत्वाभ्यन्तरमण्डलम् । पुनरुत्सादयेदन्यं स्थितावर्त्ता तु सा स्मृता ॥ १०.१५ ॥ निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् । उद्वाहितमुरः कृत्वा शकटास्यां प्रयोजयेत् ॥ १०.१६ ॥ सव्यस्य पृष्ठतो वामश्चरणस्तु यदा भवेत् । तस्यापसर्पणं चैव ज्ञेया साध्यर्धिका बुधैः ॥ १०.१७ ॥ पादः प्रसारितः सव्यः पुनश्चैवोपसर्पितः । वामः सव्यापसर्पी च चाषगत्यां विधीयते ॥ १०.१८ ॥ विच्यवात्समपादाया विच्यवां सम्प्रयोजयेत् । निकुट्टयंस्तलाग्रेण पादस्य धरणीतलम् ॥ १०.१९ ॥ तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं तु यत् । पर्यायतश्च क्रियते एडकाक्रीडिता तु सा ॥ १०.२० ॥ अन्योन्यजङ्घासंवेगात्कृत्वा तु स्वस्तिकं ततः । ऊरुभ्यां वलनं यस्मात्सा बद्धा चार्युदाहृता ॥ १०.२१ ॥ तलसञ्चरपादस्य पार्ष्णिर्बाह्योन्मुखी यदा । जङ्घाञ्चिता तथोद्वृत्ता ऊरुद्वृत्तेति सा स्मृता ॥ १०.२२ ॥ अग्रतः पृष्ठतो वापि पादस्तु तलसञ्चरः । द्वितीयपादो निर्घृष्टः यस्यां स्यादड्डिता तु सा ॥ १०.२३ ॥ शनैः पादो निवर्तेत बाह्येनाभ्यन्तरेण च । यद्रेचकानुसारेण सा चार्युत्स्यन्दिता स्मृता ॥ १०.२४ ॥ मुष्टिहस्तश्च वक्षःस्थः करोऽन्यश्च प्रवर्तितः । तलसञ्चरपादश्च जनिता चार्युदाहृता ॥ १०.२५ ॥ पञ्चतालान्तरं पादं प्रसार्य स्यन्दितां न्यसेत् । द्वितीयेन तु पादेन तथापस्यन्दितामपि ॥ १०.२६ ॥ तलसञ्चरपादाभ्यां घूर्णमानोपसर्पणैः । समोत्सरितमत्तल्ली व्यायामे समुदाहृता ॥ १०.२७ ॥ उभाभ्यामपि पादाभ्यां घूर्णमानोपसर्पणैः । उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृता ॥ १०.२८ ॥ एता भौम्यः स्मृताश्चार्यो नियुद्धकरणाश्रयाः । आकाशकीनां चारीणां सम्प्रवक्ष्यामि लक्षणम् ॥ १०.२९ ॥ कुञ्चितं पादमुत्क्षिप्य पुरतः सम्प्रसारयेत् । उत्क्षिप्य पातयेच्चैनमतिक्रान्ता तु सा स्मृता ॥ १०.३० ॥ ऊरुभ्यां वलनं कृत्वा कुञ्चितं पादमुद्धरेत् । पार्श्वे विनिक्षिपेच्चैनमपक्रान्ता तु सा स्मृता ॥ १०.३१ ॥ कुञ्चितं पादमुत्क्षिप्य पार्श्वेनोत्पतनं न्यसेत् । उद्घट्टितेन पादेन पार्श्वक्रान्ता विधीयते ॥ १०.३२ ॥ कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् । द्वितीयं च क्रमात्स्तब्धमूर्ध्वजानुः प्रकीर्तिता ॥ १०.३३ ॥ कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् । पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता ॥ १०.३४ ॥ पृष्ठतो ह्यञ्चितं कृत्वा पादमग्रतलेन तु । द्रुतं निर्यातयेद्भूमौ चारी नूपुरपादिका ॥ १०.३५ ॥ कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु दोलयेत् । पातयेदञ्चितं चैवं दोलपादा तु सा स्मृता ॥ १०.३६ ॥ कुञ्चितं पादमुत्क्षिप्य आक्षिप्य त्वञ्चितं न्यसेत् । जङ्घास्वस्तिकसंयुक्ता चाक्षिप्ता नाम सा स्मृता ॥ १०.३७ ॥ स्वस्तिकस्याग्रतः पादः कुञ्चितस्तु प्रसारितः । निपतेदञ्चिताविद्ध आविद्धा नाम सा स्मृता ॥ १०.३८ ॥ पादमाविद्धमावेष्ट्य समुत्क्षिप्य निपातयेत् । परिवृत्त्य द्वितीयं च सोद्वृत्ता चार्युदाहृता ॥ १०.३९ ॥ पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् । सर्वतो मण्डलाविद्धं विद्युद्भ्रान्ता तु सा स्मृता ॥ १०.४० ॥ पृष्ठः प्रसारितः पादो वलितोऽभ्यन्तरीकृतः । पार्ष्णिप्रपतितश्चैव ह्यलाता सम्प्रकीर्तिता ॥ १०.४१ ॥ कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् । कटिजानुविवर्ताच्च भुजङ्गत्रासिता भवेत् ॥ १०.४२ ॥ अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् । जङ्घाञ्चितोपरिक्षिप्ता सा ज्ञेया हरिणप्लुता ॥ १०.४३ ॥ नूपुरं चरणं कृत्वा पुरतः सम्प्रसारयेत् । क्षिप्रमाविद्धकरणं दण्डपादा तु सा स्मृता ॥ १०.४४ ॥ अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् । द्वितीयपादभ्रमणात्तलेन भ्रमरी स्मृता ॥ १०.४५ ॥ आकाशिक्यः स्मृता ह्येता ललिताङ्गक्रियात्मकाः । धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या प्रयोक्तृभिः ॥ १०.४६ ॥ अग्रगौ पृष्ठगौ वापि ह्यनुगौ चापि योगतः । पादयोस्तु द्विजा हस्तौ कर्तव्यौ नाट्ययोक्तृभिः ॥ १०.४७ ॥ यतः पादस्ततो हस्तो यतो हस्तस्ततस्त्रिकम् । पादस्य निर्गमं ज्ञात्वा तथोपाङ्गानि योजयेत् ॥ १०.४८ ॥ पादचार्यां यथा पादो धरणीमेव गच्छति । एवं हस्तश्चरित्वा तु कटिदेशं समाश्रयेत् ॥ १०.४९ ॥ एताश्चार्यो मया प्रोक्ता ललिताङ्गक्रियात्मकाः । स्थानान्यासां प्रवक्ष्यामि सर्वशस्त्रविमोक्षणे ॥ १०.५० ॥ वैष्णवं समपादं च वैशाखं मण्डलं तथा । प्रत्यालीढं तथालीढं स्थानान्येतानि षण्नृणां ॥ १०.५१ ॥ द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् । तयोः समस्थितस्त्वेकः त्र्यश्रः पक्षस्थितोऽपरः ॥ १०.५२ ॥ किञ्चिदञ्चितजङ्घं च सौष्ठवाङ्गपुरस्कृतम् । वैष्णवं स्थानमेतद्धि विष्णुरत्राधिदैवतम् ॥ १०.५३ ॥ स्थानेनानेन कर्तव्यः संल्लापस्तु स्वभावजः । नानाकार्यान्तरापेतैर्नृभिरुत्तममध्यमैः ॥ १०.५४ ॥ चक्रस्य मोक्षणे चैव धारणे धनुषस्तथा । धैर्यदानाङ्गलीलासु तथा क्रोधे प्रयोजयेत् ॥ १०.५५ ॥ इदमेव विपर्यस्तं प्रणयक्रोध इष्यते । उपालम्भकृते चैव प्रणयोद्वेगयोस्तथा ॥ १०.५६ ॥ शङ्कासूयोग्रताचिन्तामतिस्मृतिषु चैव हि । दैन्ये चपलतायोगे गर्वाभीष्टेषु शक्तिषु ॥ १०.५७ ॥ शृङ्गाराद्भुतबीभत्सवीरप्राधान्ययोजितम् । समपादे समौ पादौ तालमात्रान्तरस्थितौ ॥ १०.५८ ॥ स्वभावसौष्ठवोपेतौ ब्रह्मा चात्राधिदैवतम् । अनेन कार्यं स्थानेन विप्रमङ्गलधारणम् ॥ १०.५९ ॥ रूपणे पक्षिणां चैव वरं कौतुकमेव च । स्वस्थानं स्यन्दनस्थानां विमानस्थायिनामपि ॥ १०.६० ॥ लिङ्गस्थानां व्रतस्थानां स्थानमेतत्तु कारयेत् । तालास्त्रयोऽर्धतालश्च पादयोरन्तरं भवेत् ॥ १०.६१ ॥ तालांस्त्रीनर्धतालांश्च निषण्णोरुं प्रकल्पयेत् । त्र्यश्रौ वक्षःस्थितौ चैव तत्र पादो प्रयोजयेत् ॥ १०.६२ ॥ वैशाखस्थानमेतद्धि स्कन्दश्चात्राधिदैवतम् । स्थानेनानेन कर्तव्यमश्वानां वाहनं बुधैः ॥ १०.६३ ॥ व्यायामनिर्गमश्चैव स्थूलपक्षिनिरूपणम् । शराणां च समुत्क्षेपो व्यायामकरणे तथा ॥ १०.६४ ॥ रेचकेषु च कर्तव्यमिदमेव प्रयोक्तृभिः । ऐन्द्रे तु मण्डले पादौ चतुस्तालान्तरस्थितौ ॥ १०.६५ ॥ त्र्यश्रौ पक्षःस्थितौ चैव कटिजानू समौ तथा । धनुर्वज्रासिशस्त्राणि मण्डलेन प्रयोजयेत् ॥ १०.६६ ॥ वाहनं कुञ्जराणां तु स्थूलपक्षिनिरूपणम् । अस्यैव दक्षिणं पादं पञ्च तालान् प्रसार्य तु ॥ १०.६७ ॥ आलीढं स्थानकं कुर्याद्रुद्रश्चात्राधिदैवतम् । अनेन कार्यं स्थानेन वीररौद्रकृतं तु यत् ॥ १०.६८ ॥ उत्तरोत्तरसञ्जल्पो रोषामर्षकृतस्तु यः । मल्लानाञ्चैव संफेटः शत्रूणां च निरूपणम् ॥ १०.६९ ॥ तथाभिद्रवणं चैव शस्त्राणां चैव मोक्षणम् । कुञ्चितं दक्षिणं कृत्वा वामं पादं प्रसार्य च ॥ १०.७० ॥ आलीढपरिवर्तस्तु प्रत्यालीढमिति स्मृतम् । आलीढसंहितं शस्त्रं प्रत्यालीढेन मोक्षयेत् ॥ १०.७१ ॥ नानाशस्त्रविमोक्षो हि कार्योऽनेन प्रयोक्तृभिः । न्यायाच्चैव हि विज्ञेयाश्चत्वारः शस्त्रमोक्षणे ॥ १०.७२ ॥ भारतः सात्वतश्चैव वार्षगण्योऽथ कैशिकः । भारते तु कटीच्छेद्यं पादच्छेद्यं तु सात्वते ॥ १०.७३ ॥ वक्षसो वार्षगण्ये तु शिरश्छेद्यन्तु कैशिके । एभिः प्रयोक्तृभिर्न्यायैर्नानाचारीसमुत्थितैः ॥ १०.७४ ॥ प्रविचार्य प्रयोक्तव्यं नानाशस्त्रविमोक्षणे । न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः ॥ १०.७५ ॥ यस्माद्युद्धानि वर्तन्ते तस्मान्न्यायाः प्रकीर्तिताः । वामहस्ते विनिक्षिप्य खेटकं शस्त्रफेटकम् ॥ १०.७६ ॥ शस्त्रमादाय हस्तेन प्रविचारमथाचरेत् । प्रसार्य च करौ सम्यक्पुनराक्षिप्य चैव हि ॥ १०.७७ ॥ खेटकं भ्रामयेत्पश्चात्पार्श्वात्पार्श्वमथापि च । शिरःपरिगमश्चापि कार्यः शस्त्रेण योक्तृभिः ॥ १०.७८ ॥ कपोलस्यान्तरे वापि शस्त्रस्योद्वेष्टनं तथा । पुनश्च खड्गहस्तेन ललितोद्वेष्टितेन च ॥ १०.७९ ॥ खेटकेन च कर्तव्यः शिरःपरिगमो बुधैः । एवं प्रचारः कर्तव्यो भारते शस्त्रमोक्षणे ॥ १०.८० ॥ सात्वते च प्रवक्ष्यामि प्रविचारं यथाविधिः । स एव प्रविचारस्तु खड्गखेटकयोः स्मृतः ॥ १०.८१ ॥ केवलं पृष्ठतः शस्त्रं कर्तव्यं खलु सात्वते । गतिश्च वार्षगण्येऽपि सात्वतेन क्रमेण तु ॥ १०.८२ ॥ शस्त्रखेटकयोश्चापि भ्रमणं संविधीयते । शिरः परिगमस्तद्वच्छस्त्रस्येह भवेत्तथा ॥ १०.८३ ॥ उरस्युद्वेष्टनं कार्यं शस्त्रस्यांशेऽथवा पुनः । भारते प्रविचारोऽयं कर्तव्यः स तु कैशिके ॥ १०.८४ ॥ विभ्रमय्य तथा शस्त्रं केवलं मूर्ध्नि पातयेत् । प्रविचारा प्रयोक्तव्या ह्येवमेतेऽङ्गलीलया ॥ १०.८५ ॥ धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या विमोक्षणे । न भेद्यं नापि तु च्छेद्यं न चापि रुधिरस्रुतिः ॥ १०.८६ ॥ रङ्गे प्रहरणे कार्यो न चापि व्यक्तघातनम् । संज्ञामात्रेण कर्तव्यं शस्त्राणां मोक्षणं बुधैः ॥ १०.८७ ॥ अथवाभिनयोपेतं कुर्याच्छेद्यं विधानतः । अङ्गसौष्ठवसंयुक्तैरङ्गहारैर्विभूषितम् ॥ १०.८८ ॥ व्यायामं कारयेत्सम्यक्लयतालसमन्वितम् । सौष्ठवे हि प्रयत्नस्तु कार्यो व्यायामसेविभिः ॥ १०.८९ ॥ सौष्ठवे लक्षणं प्रोक्तं वर्तनाक्रमयोजितम् । शोभा सर्वैव नित्यं हि सौष्ठवं समुपाश्रिता ॥ १०.९० ॥ अचञ्चलमकुब्जं चासन्नगात्रमथापि च । नात्युच्चं चलपादञ्च सौष्ठवाङ्गं प्रयोजयेत् ॥ १०.९१ ॥ कटी कर्णसमा यत्र कूर्परांसशिरस्तथा । समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् ॥ १०.९२ ॥ नहि सौष्ठवहीनाङ्गः शोभते नाट्यनृत्तयोः । अत्र नित्यं प्रयत्नो हि विधेयो मध्यमोत्तमैः ॥ १०.९३ ॥ नाट्यं नृत्तं च सर्वं हि सौष्ठवे संप्रतिष्ठितम् । कटीनामभिचरौ हस्तौ वक्षश्चैव समुन्नतम् ॥ १०.९४ ॥ वैष्णवं स्थानमित्यङ्गं चतुरश्रमुदाहृतम् । परिमार्जनमादानं सन्धानं मोक्षणं तथा ॥ १०.९५ ॥ धनुषस्तु प्रयोक्तव्यं करणं तु चतुर्विधम् । संमार्जनं परामर्षमादानं ग्रहणं क्रिया ॥ १०.९६ ॥ सन्धानं शरविन्यासो विक्षेपो मोक्षणं भवेत् । तैलाभ्यक्तेन गात्रेण यवागूमृदितेन च ॥ १०.९७ ॥ व्यायामं कारयेत्श्रीमान् भित्तावाकालिके तथा । योग्यायां मातृका भित्तिस्तस्माद्भित्तिं समाश्रयेत् ॥ १०.९८ ॥ भित्तौ प्रसारिताङ्गन्तु व्यायामं कारयेन्नरम् । बलार्थं च निषेवेत नस्यं बस्तिविधिं तथा ॥ १०.९९ ॥ स्निग्धान्यन्यानि च तथा रसकं पानकं तथा । आहारेऽधिष्ठिताः प्राणाः प्राणे योग्याः प्रतिष्ठिताः ॥ १०.१०० ॥ तस्माद्योग्याप्रसिध्यर्थमाहारे यत्नवान् भवेत् । अशुद्धकायं प्रक्लान्तमतीवक्षुत्पिपासितम् ॥ १०.१०१ ॥ अतिपीतं तथा भुक्तं व्यायामं नैव कारयेत् । अचलैर्मधुरैगात्रैश्चतुरश्रेण वक्षसा ॥ १०.१०२ ॥ व्यायामं कारयेद्धीमान्नरमङ्गक्रियात्मकम् । एवं व्यायामसंयोगे कार्यश्चारीकृतो विधिः ॥ १०.१०३ ॥ अत ऊर्ध्वं प्रवक्ष्यामि मण्डलानां विकल्पनम् । इति भरतीये नाट्यशास्त्रे चारीविधानो नाम दशमोऽध्यायः । _____________________________________________________________ अथ एकादशोऽध्यायः । एताश्चार्यो मया प्रोक्ता यथावच्छस्त्रमोक्षणे । चारीसंयोगजानीह मण्डलानि निबोधत ॥ ११.१ ॥ अतिक्रान्तं विचित्रं च तथा ललितसञ्चरम् । सूचीविद्धं दण्डपादं विहृतालातके तथा ॥ ११.२ ॥ वामबन्धं सललितं क्रान्तञ्चाकाशगामि च । मण्डलानि द्विजश्रेष्ठाः ! भूमिगानि निबोधत ॥ ११.३ ॥ भ्रमरास्कन्दिते स्यातामावर्तं च ततः परम् । समाक्रन्दितमप्याहुरेडकाक्रीडितं तथा ॥ ११.४ ॥ अड्डितं शकटास्यं च तथाऽध्यर्धकमेव च । पिष्टकुट्टं च विज्ञेयं तथा चाषगतं पुनः ॥ ११.५ ॥ एतान्यपि दशोक्तानि भूमिगानीह नामतः । आद्यं पादं च जनितं कृत्वोद्वाहितमाचरेत् ॥ ११.६ ॥ अलातं वामकं चैव पार्श्वक्रान्तं च दक्षिणम् । सूचीवामं पुनश्चैव पार्श्वक्रान्तं च दक्षिणम् ॥ ११.७ ॥ सूचीं वामक्रमं दद्यादपक्रान्तं च दक्षिणम् । सूचीवामं पुनश्चैव त्रिकं च परिवर्तयेत् ॥ ११.८ ॥ तथा दक्षिणमुद्वृत्तमलातञ्चैव वामकम् । परिच्छिन्नं तु कर्तव्यं बाह्यभ्रमरकेण हि ॥ ११.९ ॥ अतिक्रान्तं पुनर्वामं दण्डपादञ्च दक्षिणम् । विज्ञेयमेतद्व्यायामे त्वतिक्रान्तं तु मण्डलम् ॥ ११.१० ॥ आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् । आस्पन्दितं तु वामेन पार्श्वक्रान्तं च दक्षिणम् ॥ ११.११ ॥ वामं सूचीपदं दद्यादपक्रान्तञ्च दक्षिणम् । भुजङ्गत्रासितं वाममतिक्रान्तं च दक्षिणम् ॥ ११.१२ ॥ उद्वृत्तं दक्षिणं चैवाऽलातं चैवात्र वामकम् । पार्श्वक्रान्तं पुनः सव्यं सूचीवामक्रमं तथा ॥ ११.१३ ॥ विक्षेपो दक्षिणस्य स्यादपक्रान्तं च वामकम् । बाह्यभ्रमरकं चैव विक्षेपं चैव योजयेत् ॥ ११.१४ ॥ विज्ञेयमेतद्व्यायामे विचित्रं नाम मण्डलम् । कृत्वोर्ध्वजानुचरणमाद्यं सूचीं प्रयोजयेत् ॥ ११.१५ ॥ अपक्रान्तः पुनर्वाम आद्यः पार्श्वगतो भवेत् । वामसूचीं पुनर्दद्यात्त्रिकञ्च परिवर्तयेत् ॥ ११.१६ ॥ पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तञ्च वामकम् । सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् ॥ ११.१७ ॥ पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तं च वामकम् । परिच्छिन्नं च कर्तव्यं बाह्यभ्रमणकेन हि ॥ ११.१८ ॥ एष चारीप्रयोगस्तु कार्यो ललितसञ्चरैः । सूचीवामपदं दद्यात्त्रिकञ्च परिवर्तयेत् ॥ ११.१९ ॥ पार्श्वक्रान्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च । सूचीमाद्यं पुनर्दद्यादतिक्रान्तञ्च वामकम् ॥ ११.२० ॥ पार्श्वक्रान्तं पुनश्चाद्यं सूचीविद्धे तु मण्डले । आद्यस्तु जनितो भूत्वा स च दण्डक्रमो भवेत् ॥ ११.२१ ॥ वामसूचीं पुनर्दद्यात्त्रिकञ्च परिवर्तयेत् । उद्वृत्तो दक्षिणश्च स्यादलातश्चैव वामकः ॥ ११.२२ ॥ पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितस्तथा । अतिक्रान्तः पुनर्वामो दण्डपादश्च दक्षिणः ॥ ११.२३ ॥ वामसूचीत्रिकावर्तो दण्डपादे तु मण्डले । आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् ॥ ११.२४ ॥ आस्पन्दितं च वामेन ह्युद्वृत्तं दक्षिणेन च । अलातं वामकं पादं सूचीं दद्यात्तु दक्षिणम् ॥ ११.२५ ॥ पार्श्वक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा । समावर्त्य त्रिकं चैव दण्डपादं प्रसारयेत् ॥ ११.२६ ॥ सूचीवामपदं दद्यात्त्रिकं तु परिवर्तयेत् । भुजङ्गत्रासितश्चाद्यो वामोऽतिक्रान्त एव च ॥ ११.२७ ॥ एष चारीप्रयोगस्तु विहृते मण्डले भवेत् । सूचीमाद्यक्रमं कृत्वा चाऽपक्रान्तं च वामकम् ॥ ११.२८ ॥ पार्श्वक्रान्तस्ततश्चाद्योऽप्यलातश्चैव वामकः । भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् ॥ ११.२९ ॥ षट्संख्यं सप्तसंख्यं च ललितैः पादविक्रमैः । अधिकुर्यादपक्रान्तमतिक्रान्तं च वामकम् ॥ ११.३० ॥ अपक्रन्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च । पादभ्रमरकश्च स्यादलाते खलु मण्डले ॥ ११.३१ ॥ सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । आद्यो दण्डक्रमश्चैव सूचीपादस्तु वामकः ॥ ११.३२ ॥ कार्यस्त्रिकविवर्तश्च पार्श्वक्रान्तश्च दक्षिणः । आक्षिप्तं वामकं कुर्यात्दण्डपार्श्वं च दक्षिणम् ॥ ११.३३ ॥ उरुद्वृत्तं च तेनैव कर्तव्यं दक्षिणेन तु । सूचीवामक्रमं कृत्वा त्रिकं च परिवर्तयेत् ॥ ११.३४ ॥ अलातश्च भवेद्वामः पार्श्वक्रान्तश्च दक्षिणः । अतिक्रान्तः पुनर्वामो वामबन्धे तु मण्डले ॥ ११.३५ ॥ सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितः स च ॥ ११.३६ ॥ अतिक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा । अतिक्रान्तः पुनर्वाम उरुद्वृत्तस्तथैव च ॥ ११.३७ ॥ अलातश्च पुनर्वामः पार्श्वक्रान्तश्च दक्षिणः । सूचीवामं पुनर्दद्यादपक्रान्तस्तु दक्षिणः ॥ ११.३८ ॥ अतिक्रान्तः पुनर्वामः कार्यो ललितसंज्ञकः । एष पादप्रसारस्तु ललिते मण्डले भवेत् ॥ ११.३९ ॥ सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् । पार्श्वक्रान्तं पुनश्चाद्यं वामपार्श्वक्रमं तथा ॥ ११.४० ॥ भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् । वामसूचीं ततो दद्यादपक्रान्तं च दक्षिणम् ॥ ११.४१ ॥ स्वभावगमने ह्येतन्मण्डलं संविधीयते । क्रान्तमेतत्तु विज्ञेयं नामतो नाट्ययोक्तृभिः ॥ ११.४२ ॥ एतान्याकाशगामीनि ज्ञेयान्येवं दशैव तु । अतः परं प्रवक्ष्यामि भौमानामिह लक्षणम् ॥ ११.४३ ॥ आद्यस्तु जनितः कार्यो वामश्चास्पन्दितो भवेत् । शकटास्यः पुनश्चाद्यो वामश्चापि प्रसारितः ॥ ११.४४ ॥ आद्यो भ्रमरकः कार्यस्त्रिकं च परिवर्तयेत् । आस्कन्दितः पुनर्वामः शकटास्यश्च दक्षिणः ॥ ११.४५ ॥ वामः पृष्ठापसर्पी च दद्याद्भ्रमरकं तथा । स एवास्पन्दितः कार्यस्त्वेतद्भ्रमरमण्डलम् ॥ ११.४६ ॥ आद्यो भ्रमरकः कार्यो वामश्चैवाड्डितो भवेत् । कार्यस्त्रिकविवर्त्तश्च शकटास्यश्च दक्षिणः ॥ ११.४७ ॥ उरुद्वृत्तः स एव स्याद्वामश्चैवापसर्पितः । कार्यस्त्रिकविवर्त्तश्च दक्षिणः स्पन्दितो भवेत् ॥ ११.४८ ॥ शकटास्यो भवेद्वामस्तदेवास्फोटनं भवेत् । एतदास्पन्दितं नाम व्यायामे युद्धमण्डलम् ॥ ११.४९ ॥ आद्यस्तु जनितं कृत्वा वामश्चैव निकुट्टकम् । शकटास्यः पुनश्चाद्य उरुद्वृत्तः स एव तु ॥ ११.५० ॥ पृष्ठापसर्पी वामश्च स च चाषगतिर्भवेत् । आस्पन्दितः पुनर्दक्षः शकटास्यश्च वामकः ॥ ११.५१ ॥ आद्यो भ्रमरकश्चैव त्रिकं च परिवर्तयेत् । पृष्ठापसर्पी वामश्चेत्यावर्तं मण्डलं भवेत् ॥ ११.५२ ॥ समपादं बुधः कृत्वा स्थानं हस्तौ प्रसारयेत् । निरन्तरावूर्ध्वतलावावेष्ट्योद्वेष्ट्य चैव हि ॥ ११.५३ ॥ कटीतटे विनिक्षिप्य चाद्यमावर्त्तयेत्क्रमात् । यथाक्रमं पुनर्वाममावर्तेन प्रसारयेत् ॥ ११.५४ ॥ चारया चानया भ्रान्त्वा पर्यायेणाथ मण्डलम् । समोत्सरितमेतत्तु कार्यं व्यायाममण्डलम् ॥ ११.५५ ॥ पादैस्तु भूमिसंयुक्तैः सूचीविद्धैस्तथैव च । एडकाक्रीडितैश्चैव तूर्णैस्त्रिकविवर्तितैः ॥ ११.५६ ॥ सूचीविद्धापविद्धैश्च क्रमेणावृत्त्य मण्डलम् । एडकाक्रीडितं विद्यात्खण्डमण्डलसंज्ञितम् ॥ ११.५७ ॥ सव्यमुद्घट्टितं कृत्वा तेनैवावर्तमाचरेत् । तेनैवास्कन्दितः कार्यः शकटास्यश्च वामकः ॥ ११.५८ ॥ आद्यः पृष्ठापसर्पी च स च चाषगतिर्भवेत् । अड्डितश्च पुनर्वाम आद्यश्चैवापसर्पितः ॥ ११.५९ ॥ वामो भ्रमरकः कार्य आद्य आस्कन्दितो भवेत् । तेनैवास्फोटनं कुर्यादेतदड्डितमण्डलम् ॥ ११.६० ॥ आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् । स एव शकटास्यश्च वामश्चास्कन्दितो भवेत् ॥ ११.६१ ॥ विज्ञेयं शकटास्यं तु व्यायामे युद्धमण्डलम् । पादैश्च शकटास्यस्थैः पर्यायेणाथ मण्डलम् ॥ ११.६२ ॥ आद्यस्तु जनितो भूत्वा स एवास्कन्दितो भवेत् । अपसर्पी पुनर्वामः शकटास्यश्च दक्षिणः ॥ ११.६३ ॥ भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् । अध्यर्धमेतद्विज्ञेयं नियुद्धे चापि मण्डलम् ॥ ११.६४ ॥ सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । भुजङ्गत्रासितश्चाद्य एवमेव तु वामकः ॥ ११.६५ ॥ भुजङ्गत्रासितैर्भ्रान्त्वा पादैरपि च मण्डलम् । पिष्टकुट्टं च विज्ञेयं चारीभिर्मण्डलं बुधैः ॥ ११.६६ ॥ सर्वैश्चाषगतैः पादैः परिभ्राम्य तु मण्डलम् । एतच्चाषगतं विद्यान्नियुद्धे चापि मण्डलम् ॥ ११.६७ ॥ नानाचारीसमुत्थानि मण्डलानि समासतः । उक्तान्यतः परं चैव समचारीणि योजयेत् ॥ ११.६८ ॥ समचारीप्रयोगो यस्तत्समं नाम मण्डलम् । आचार्यबुद्ध्या तानीह कर्तव्यानि प्रयोक्तृभिः ॥ ११.६९ ॥ एतानि खण्डानि समण्डलानि युद्धे नियुद्धे च परिक्रमे च । लीलाङ्गमाधुर्यपुरस्कृतानि कार्याणि वाद्यानुगतानि तज्ज्ञैः ॥ ११.७० ॥ इति भरतीये नाट्यशास्त्रे मण्डलविधानं नाम एकादशोऽध्यायः समाप्तः _____________________________________________________________ अथ द्वादशोऽध्यायः गतिप्रचार एवं व्यायामसंयोगे कार्यं मण्डलकल्पनम् । अतः परं प्रवक्ष्यामि गतीस्तु प्रकृतिस्थिताः ॥ १२.१ ॥ तत्रोपवहनं कृत्वा भाण्डवाद्यपुरस्कृतम् । यथामार्गरसोपेतं प्रकृतीनां प्रवेशने ॥ १२.२ ॥ ध्रुवायां संप्रयुक्तायां पटे चैवापकर्षिते । कार्यः प्रवेशः पात्राणां नानार्थरससम्भवः ॥ १२.३ ॥ स्थानं तु वैष्णवं कृत्वा ह्युत्तमे मध्यमे तथा । समुन्नतं समं चैव चतुरस्रमुरस्तथा ॥ १२.४ ॥ बाहुशीर्षे प्रसन्ने च नात्युत्क्षिप्ते च कारयेत् । ग्रीवाप्रदेशः कर्तव्यो मयूराञ्चितमस्तकः ॥ १२.५ ॥ कर्णादष्टाङ्गुलस्थे च बाहुशीर्षे प्रयोजयेत् । उरसश्चापि चिबुकं चतुरङ्गुलसंस्थितम् ॥ १२.६ ॥ हस्तौ तथैव कर्तव्यौ कटीनाभितटस्थितौ । दक्षिणो नाभिसंस्थस्तु वामः कटितटस्थितः ॥ १२.७ ॥ पादयोरन्तरं कार्यं द्वौ तालावर्धमेव च । पादोत्क्षेपस्तु कर्तव्यः स्वप्रमाणविनिर्मितः ॥ १२.८ ॥ चतुस्तालो द्वितालश्चाप्येकतालस्तथैव च । चतुस्तालस्तु देवानां पार्थिवानां तथैव च ॥ १२.९ ॥ द्वितालश्चैव मध्यानां तालः स्त्रीनीचलिङ्गिनाम् । चतुष्कलोऽथ द्विकलस्तथा ह्येककलः स्मृतः ॥ १२.१० ॥ चतुष्कलो ह्युत्तमानां मध्यानां द्विकलो भवेत् । तथा चैककलः पादो नीचानां संप्रकीर्तितः ॥ १२.११ ॥ स्थितं मध्यं द्रुतं चैव समवेक्ष्य लयत्रयम् । यथाप्रकृतिनाट्यज्ञो गतिमेवं प्रयोजयेत् ॥ १२.१२ ॥ धैर्योपपन्ना गतिरुत्तमानां मध्या गतिर्मध्यमसम्मतानाम् । द्रुता गतिश्च प्रचुराधमानां लयत्रयं सत्त्ववशेन योज्यम् ॥ १२.१३ ॥ एष एव तु विज्ञेयः कलाताललये विधिः । पुनर्गतिप्रचारस्य प्रयोगं श्रुणुतानघाः ॥ १२.१४ ॥ स्वभावात्तूत्तमगतौ कार्यं जानुकटीसमम् । युद्धचारीप्रयोगेषु जानुस्तनसमं न्यसेत् ॥ १२.१५ ॥ पार्श्वक्रान्तैः सललितैः पादैर्वाद्यान्वितैरथ । रङ्गकोणोन्मुखं गच्छेत्सम्यक्पञ्चपदानि च ॥ १२.१६ ॥ वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन तु । परिवृत्य द्वितीयं तु गच्छेत्कोणं ततः परम् ॥ १२.१७ ॥ तत्रापि वामवेधस्तु विक्षेपो दक्षिणेन च । ततो भाण्डोन्मुखो गच्छेत्तान्येव तु पदानि च ॥ १२.१८ ॥ एवं गतागतैः कृत्वा पदानामिह विंशतिम् । वामवेधं ततः कुर्यात्विक्षेपं दक्षिणस्य च ॥ १२.१९ ॥ रङ्गे विकृष्टे भरतेन कार्यो गतागतैः पादगतिप्रचारः । त्र्यश्रस्त्रिकोणे चतुरस्ररङ्गे गतिप्रचारश्चतुरस्र एव ॥ १२.२० ॥ यः समैः संहितो गच्छेत्तत्र कार्यो लयाश्रयः । चतुष्कलोऽथ द्विकलस्तथैवैककलः पुनः ॥ १२.२१ ॥ अथ मध्यमनीचैस्तु गच्छेद्यः परिवारितः । चतुष्कलमथार्धं च तथा चैककलं पुनः ॥ १२.२२ ॥ दैत्यदानवयक्षाणां नृपपन्नगरक्षसाम् । चतुस्तालप्रमाणेन कर्तव्याथ गतिर्बुधैः ॥ १२.२३ ॥ दिवौकसां तु सर्वेषां मध्यमा गतिरिष्यते । तत्रापि चोद्धता ये तु तेषां देवैः समा गतिः ॥ १२.२४ ॥ ऋषय ऊचुः यदा मनुष्या राजानस्तेषां देवगतिः कथम् । अत्रोच्यते कथं नैषा गती राज्ञां भविष्यति ॥ १२.२५ ॥ इह प्रकृतयो दिव्या दिव्यमानुष्य एव च । मानुष्य इति विज्ञेया नाट्यनृत्तक्रियां प्रति ॥ १२.२६ ॥ देवानां प्रकृतिर्दिव्या राज्ञां वै दिव्यमानुषी । या त्वन्या लोकविदिता मानुषी सा प्रकीर्तिता ॥ १२.२७ ॥ देवांशजास्तु राजानो वेदाध्यात्मसु कीर्तिताः । एवं देवानुकरणे दोषो ह्यत्र न विद्यते ॥ १२.२८ ॥ अयं विधिस्तु कर्तव्यः स्वच्छन्दगमनं प्रति । संभ्रमोत्पातरोषेषु प्रमाणं न विधीयते ॥ १२.२९ ॥ सर्वासां प्रकृतीनां तु अवस्थान्तरसंश्रया । उत्तमाधममध्यानां गतिः कार्या प्रयोक्तृभिः ॥ १२.३० ॥ चतुरर्धकलं वा स्यात्तदर्धकलमेव च । अवस्थान्तरमासाद्य कुर्याद्गतिविचेष्टितम् ॥ १२.३१ ॥ ज्येष्ठे चतुष्कलं ह्यत्र मध्यमे द्विकलं भवेत् । द्विकला चोत्तमे यत्र मध्ये त्वेककला भवेत् ॥ १२.३२ ॥ कलिकं मध्यमे यत्र नीचेष्वर्धकलं भवेत् । एवमर्धार्धहीनं तु जडानां संप्रयोजयेत् ॥ १२.३३ ॥ ज्वरार्ते च क्षुधार्ते च तपःश्रान्ते भयान्विते । विस्मिते चावहित्थे च तथौत्सुक्यसमन्विते ॥ १२.३४ ॥ शृङ्गारे चैव शोके च स्वच्छन्दगमने तथा । गतिः स्थितलया कार्याधिकलान्तरपातिता ॥ १२.३५ ॥ पुनश्चिन्तान्विते चैव गतिः कार्या चतुष्कला । अस्वस्थकामिते चैव भये वित्रासिते तथा ॥ १२.३६ ॥ आवेगे चैव हर्षे च कार्ये यच्च त्वरान्वितम् । अनिष्टश्रवणे चैव क्षेपे चाद्भुतदर्शने ॥ १२.३७ ॥ अपि चात्यायिके कार्ये दुःखिते शत्रुमार्गणे । अपराद्धानुसरणे श्वापदानुगतौ तथा ॥ १२.३८ ॥ एतेष्वेवं गतिं प्राज्ञो विकलां संप्रयोजयेत् । उत्तमानां गतिर्या तु न तां मध्येषु योजयेत् ॥ १२.३९ ॥ या गतिर्मध्यमानां तु न तां नीचेषु योजयेत् । गतिः शृङ्गारिणी कार्या स्वस्थकामितसम्भवा ॥ १२.४० ॥ दूतीदर्शितमार्गस्तु प्रविशेद्रङ्गमण्डलम् । सूचया चाप्यभिनयं कुर्यादर्थसमाश्रयम् ॥ १२.४१ ॥ हृद्यैर्गन्धैस्तथा वस्त्रैरलङ्कारैश्च भूषितः । नानापुष्पसुगन्धाभिर्मालाभिः समलंकृतः ॥ १२.४२ ॥ गच्छेत्सललितैः पादैरतिक्रान्तस्थितैस्तथा । तथा सौष्ठवसंयुक्तैर्लयतालवशानुगैः ॥ १२.४३ ॥ पादयोरनुगौ हस्तौ नित्यं कार्यौ प्रयोक्तृभिः । उत्क्षिप्य हस्तं पातेन पादयोश्च विपर्ययात् ॥ १२.४४ ॥ प्रच्छन्नकामिते चैव गतिं भूयो निबोधत । विसर्जितजनः स्रस्तस्तथा दूतीसहायवान् ॥ १२.४५ ॥ निर्वाणदीपो नात्यर्थं भूषणैश्च विभूषितः । वेलासदृशवस्त्रश्च सह दूत्या शनैस्तथा ॥ १२.४६ ॥ व्रजेत्प्रच्छन्नकामस्तु पादैर्निश्शब्दमन्दगैः । शब्दशंक्युत्सुकश्च स्यादवलोकनतत्परः ॥ १२.४७ ॥ वेपमानशरीरश्च शंकितः प्रस्खलन्मुहुः । रसे रौद्रे तु वक्ष्यामि दैत्यरक्षोगणान् प्रति ॥ १२.४८ ॥ एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः । नेपथ्यरौद्रो विज्ञेयस्त्वङ्गरौद्रस्तथैव च ॥ १२.४९ ॥ तथा स्वभावजश्चैव त्रिधा रौद्रः प्रकल्पितः । रुधिरक्लिन्नदेहो यो रुधिरार्द्रमुखस्तथा ॥ १२.५०। ॥ । तथा पिशितहस्तश्च रौद्रो नेपथ्यजस्तु सः । बहुबाहुर्बहुमुखो नानाप्रहरणाकुलः ॥ १२.५१ ॥ स्थूलकायस्तथा प्रांशुरङ्गरौद्रः प्रकीर्तितः । रक्ताक्षः पिङ्गकेशश्च असितो विकृतस्वरः ॥ १२.५२ ॥ रूक्षो निर्भर्त्सनपरो रौद्रः सोऽयं स्वभावजः । चतुस्तालान्तरोत्क्षिप्तैः पादैस्त्वन्तरपातितैः ॥ १२.५३ ॥ गतिरेवं प्रकर्तव्या तेषां ये चापि तद्विधाः । अहृद्या तु मही यत्र श्मशानरणकश्मला ॥ १२.५४ ॥ गतिं तत्र प्रयुञ्जीत बीभत्साभिनयं प्रति । क्वचिदासन्नपतितैः विकृष्टपतितैः क्वचित् ॥ १२.५५ ॥ एलकाक्रीडितैः पादैरुपर्युपरि पातितैः । तेषामेवानुगैर्हस्तैर्बीभत्से गतिरिष्यते ॥ १२.५६ ॥ अथ वीरे च कर्त्तव्या पादविक्षेपसंयुता । द्रुतप्रचाराधिष्ठाना नानाचारीसमाकुला ॥ १२.५७ ॥ पार्श्वक्रान्तैद्रुताविद्धैः सूचीविद्धैस्तथैव च । कलाकालगतैः पादैरावेगे योजयेत्गतिम् ॥ १२.५८ ॥ उत्तमानामयं प्रायः प्रोक्तो गतिपरिक्रमः । मध्यानामधमानां च गतिं वक्ष्याम्यहं पुनः ॥ १२.५९ ॥ विस्मये चैव हर्षे च विक्षिप्तपदविक्रमान् । आसाद्य तु रसं हास्यमेतच्चान्यं च योजयेत् ॥ १२.६० ॥ पुनश्च करुणे कार्या गतिः स्थिरपदैरथ । बाष्पाम्बुरुद्धनयनः सन्नगात्रस्तथैव च ॥ १२.६१ ॥ उत्क्षिप्तपातितकरस्तथा सस्वनरोदनः । गच्छेत्तथाध्यधिकया प्रत्यग्राप्रियसंश्रये ॥ १२.६२ ॥ एषा स्त्रीणां प्रयोक्तव्या नीचसत्त्वे तथैव च । उत्तमानां तु कर्तव्या सधैर्या बाष्पसङ्गता ॥ १२.६३ ॥ निःश्वासैरायतोत्सृष्टैस्तथैवोर्ध्वनिरीक्षितैः । न तत्र सौष्ठवं कार्यं न प्रमाणं तथाविधम् ॥ १२.६४ ॥ मध्यानामपि सत्त्वज्ञा गतिर्योज्या विधानतः । उरःपातहतोत्साहः शोकव्याकुलचेतनः ॥ १२.६५ ॥ नात्युत्क्षिप्तैः पदैर्गच्छेतिष्टबन्धुनिपातने । गाढप्रहारे कार्या च शिथिलाङ्गभुजाश्रया ॥ १२.६६ ॥ विघूणितशरीरा च गतिश्चूर्णपदैरथ । शीतेन चाभिभूतस्य वर्षेणाभिद्रुतस्य च ॥ १२.६७ ॥ गतिः प्रयोक्तृभिः कार्या स्त्रीनीचप्रकृतावथ । पिण्डीकृत्य तु गात्राणि तेषां चैव प्रकम्पनम् ॥ १२.६८ ॥ करौ वक्षसि निक्षिप्य कुब्जीभूतस्तथैव च । दन्तोष्ठस्फुरणं चैव चिबुकस्य प्रकम्पनम् ॥ १२.६९ ॥ कार्यं शनैश्च कर्तव्यं शीताभिनयने गतौ । तथा भयानके चैव गतिः कार्या विचक्षणैः ॥ १२.७० ॥ स्त्रीणां कापुरुषाणां च ये चान्ये सत्त्ववर्जिताः । विस्फारिते चले नेत्रे विधुतं च शिरस्तथा ॥ १२.७१ ॥ भयसंयुक्तया दृष्ट्या पार्श्वयोश्च विलोकनैः । द्रुतैश्चूर्णपदैश्चैव बद्ध्वा हस्तं कपोतकम् ॥ १२.७२ ॥ प्रवेपितशरीरश्च शुष्कोष्ठस्स्खलितं व्रजेत् । एषानुकरणे कार्या तर्जने त्रासने तथा ॥ १२.७३ ॥ सत्त्वं च विकृतं दृष्ट्वा श्रुत्वा च विकृतं स्वरम् । एषा स्त्रीणां प्रकर्त्तव्या नृणां चाक्षिप्तविक्रमा ॥ १२.७४ ॥ क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् । एलकाक्रीडितैः पादैरुपर्युपरि पातितैः ॥ १२.७५ ॥ एषामेवानुगैर्हस्तैर्गतिं भीतेषु योजयेत् । वणिजां सचिवानां च गतिः कार्या स्वभावजा ॥ १२.७६ ॥ कृत्वा नाभितटे हस्तमुत्तानखटकामुखम् । आद्यं चारालमुत्तानं कुर्यात्पार्श्वं स्तनान्तरे ॥ १२.७७ ॥ न निषण्णं न च स्तब्धं न चापि परिवाहितम् । कृत्वा गात्रं तथा गच्छेत्तेन चैव क्रमेण तु ॥ १२.७८ ॥ अतिक्रान्तैर्पदैर्विप्रा द्वितालान्तरगामिभिः । यतीनां श्रमणानां च ये चान्ये तपसि स्थिताः ॥ १२.७९ ॥ तेषां कार्या गतिर्ये तु नैष्ठिकं व्रतमाश्रिताः । आलोलचक्षुश्च भवेद्युगमात्रनिरीक्षणः ॥ १२.८० ॥ उपस्थितस्मृतिश्चैव गात्रं सर्वं विधाय च । अचञ्चलमनाश्चैव यथावल्लिङ्गमाश्रितः ॥ १२.८१ ॥ विनीतवेषश्च भवेत्कषायवसनस्तथा । प्रथमं समपादेन स्थित्वा स्थानेन वै बुधः ॥ १२.८२ ॥ हस्तं च चतुरं कृत्वा तथा चैकं प्रसारयेत् । प्रसन्नं वदनं कृत्वा प्रयोगस्य वशानुगः ॥ १२.८३ ॥ अनिषण्णेन गात्रेण गतिं गच्छेद्व्यतिक्रमात् । उत्तमानां भवेदेषा लिङ्गिनां ये महाव्रताः ॥ १२.८४ ॥ एभिरेव विपर्यस्तैर्गुणैरन्येषु योजयेत् । तथा व्रतानुगावस्था ह्यन्येषां लिङ्गिनां गतिः ॥ १२.८५ ॥ विभ्रान्ता वाप्युदात्ता वा विभ्रान्तनिभृतापि वा । शकटास्यस्थितैः पादैरतिक्रान्तैस्तथैव च ॥ १२.८६ ॥ कार्या पाशुपतानां च गतिरुद्धतगामिनी । अन्धकारेऽथ याने च गतिः कार्या प्रयोक्तृभिः ॥ १२.८७ ॥ भूमौ विसर्पितैः पादैर्हस्तैर्मार्गप्रदर्शिभिः । रथस्थस्यापि कर्तव्या गतिश्चूर्णपदैरथ ॥ १२.८८ ॥ समपादं तथा स्थानं कृत्वा रथगतिं व्रजेत् । धनुर्गृहीत्वा चैकेन तथा चैकेन कूबरम् ॥ १२.८९ ॥ सूतश्चास्य भवेदेवं प्रतोदप्रग्रहाकुलः । वाहनानि विचित्राणि कर्तव्यानि विभागशः ॥ १२.९० ॥ द्रुतैश्चूर्णपदैश्चैव गन्तव्यं रङ्गमण्डले । विमानस्थस्य कर्तव्या ह्येषैव स्यन्दिनी गतिः ॥ १२.९१ ॥ आरोढुमुद्वहेद्गात्रं किञ्चित्स्यादुन्मुखस्थितम् । अस्यैव वैपरीत्येन कुर्याच्चाप्यवरोहणम् ॥ १२.९२ ॥ अधोऽवलोकनैश्चैव मण्डलावर्तनेन च । आकाशगमने चैव कर्तव्या नाट्ययोक्तृभिः ॥ १२.९३ ॥ स्थानेन समपादेन तथा चूर्णपदैरपि । व्योम्नश्चावतरेद्यस्तु तस्यैतां कारयेत्गतिम् ॥ १२.९४ ॥ ऋज्वायतोन्नतनतैः कुटिलावर्तितैरथ । भ्रश्यतश्च तथाकाशादपविद्धभुजा गतिः ॥ १२.९५ ॥ विकीर्णवसना चैव तथा भूगतलोचना । प्रासादद्रुमशैलेषु नदीनिम्नोन्नतेषु च ॥ १२.९६ ॥ आरोहणावतरणं च कार्यमर्थवशाद्बुधैः । प्रासादारोहणं कार्यं अतिक्रान्तैः पदैरथ ॥ १२.९७ ॥ उद्वाह्य गात्रं पादं च सोपाने निक्षिपेन्नरः । तथावतरणं चैव गात्रमानम्य रेचयेत् ॥ १२.९८ ॥ प्रासादे यन्मया प्रोक्तः प्रतारः केवलो भवेत् । किञ्चिन्नताग्रकाया तु प्रतारे गतिरिष्यते ॥ १२.९९ ॥ जलप्रमाणापेक्षा तु जलमध्ये गतिर्भवेत् । तोयेऽल्पे वसनोत्कर्षः प्राज्ये पाणिविकर्षणैः ॥ १२.१०० ॥ प्रसार्य बाहुमेकैकं मुहुर्बारिविकर्षणैः । तिर्यक्प्रसारिता चैव हियमाणा च वारिणा ॥ १२.१०१ ॥ अशेषाङ्गाकुलाधूतवदना गतिरिष्यते । नौस्थस्यापि प्रयोक्तव्या द्रुतैश्चूर्णपदैर्गतिः ॥ १२.१०२ ॥ अतिक्रान्तेन पादेन द्वितीयेनाञ्चितेन च । प्रासादारोहणे यत्तु तदेवाद्रिषु कारयेत् ॥ १२.१०३ ॥ केवलमूर्ध्वनिक्षेपमद्रिष्वङ्गं भवेदथ । द्रुमे चारोहणं कार्यमतिक्रान्तैः स्थितैः पदैः ॥ १२.१०४ ॥ सूचीविद्धैरपक्रान्तैः पार्श्वक्रान्तैस्तथैव च । एतदेवावतरणं सरित्स्वपि नियोजयेत् ॥ १२.१०५ ॥ अनेनैव विधानेन कर्तव्यं गतिचेष्टितम् । संज्ञामात्रेण कर्तव्यान्येतानि विधिपूर्वकम् ॥ १२.१०६ ॥ कस्मान्मृत इति प्रोक्ते किं कर्तव्यं प्रयोक्तृभिः । अङ्कुशग्रहणान्नागं खलीनग्रहणाद्धयम् ॥ १२.१०७ ॥ प्रग्रहग्रहणाद्यानमेवमेवापरेष्वपि । अश्वयाने गतिः कार्या वैशाखस्थानकेन तु ॥ १२.१०८ ॥ यथा चूर्णपदैश्चित्रैरुपर्युपरि पातितैः । पन्नगानां गतिः कार्या पादैः स्वस्तिकसंज्ञितैः ॥ १२.१०९ ॥ पार्श्वक्रान्तं पदं कुर्यात्स्वस्तिकं रेचयेदिह । विटस्यापि तु कर्तव्या गतिर्ललितविक्रमा ॥ १२.११० ॥ पादैराकुञ्चितैः किञ्चित्तालाभ्यन्तरपातितैः । स्वसौष्ठवसमायुक्तौ तथा हस्तौ पदानुगौ ॥ १२.१११ ॥ खटकावर्धमानौ तु कृत्वा विटगतिं व्रजेत् । कञ्चुकीयस्य कर्तव्या वयोवस्थाविशेषतः ॥ १२.११२ ॥ अवृद्धस्य प्रयोगज्ञो गतिमेवं प्रयोजयेत् । अर्धतालोत्थितैः पादैर्विष्कम्भैः ऋजुभिस्तथा ॥ १२.११३ ॥ समुद्वहन्निवाङ्गानि पङ्कलग्न इव व्रजेत् । अथ वृद्धस्य कर्तव्या गतिः कम्पितदेहिका ॥ १२.११४ ॥ विष्कम्भनकृतप्राणा मन्दोत्क्षिप्तपदक्रमा । कृशस्याप्यभिनेया वै गतिर्मन्दपरिक्रमा ॥ १२.११५ ॥ व्याधिग्रस्ते ज्वरार्ते च तपःश्रान्ते क्षुधान्विते । विष्कम्भनकृतप्राणः कृशः क्षामोदरस्तथा ॥ १२.११६ ॥ क्षामस्वरकपोलश्च दीननेत्रस्तथैव च । शनैरुत्क्षेपणं चैव कर्तव्यं हस्तपादयोः ॥ १२.११७ ॥ कम्पनं चैव गात्राणां क्लेशनं च तथैव च । दूराध्वानं गतस्यापि गतिर्मन्दपदक्रमा ॥ १२.११८ ॥ विकूणनं च गात्रस्य जानुनोश्च विमर्दनम् । स्थूलस्यापि तु कर्तव्या गतिर्देहानुकर्षिणी ॥ १२.११९ ॥ समुद्वहनभूयिष्ठा मन्दोत्क्षिप्तपदक्रमा । विष्कम्भगामी च भवेन्निःश्वासबहुलस्तथा ॥ १२.१२० ॥ श्रमस्वेदाभिभूतश्च व्रजेच्चूर्णपदैस्तथा । मत्तानां तु गतिः कार्या मदे तरुणमध्यमे ॥ १२.१२१ ॥ वामदक्षिणपादाभ्यां घूर्णमानापसर्पणैः । अवकृष्टे पदे चैव ह्यनवस्थितपादिका ॥ १२.१२२ ॥ विघूर्णितशरीरा च करैः प्रस्खलितैस्तथा । उन्मत्तस्यापि कर्तव्या गतिस्त्वनियतक्रमा ॥ १२.१२३ ॥ बहुचारीसमायुक्ता लोकानुकरणाश्रया । रूक्षस्फुटितकेशश्च रजोध्वस्ततनुस्तथा ॥ १२.१२४ ॥ अनिमित्तप्रकथनो बहुभाषी विकारवान् । गायत्यकस्माद्धसति सङ्गे चापि न सज्जते ॥ १२.१२५ ॥ नृत्यत्यपि च संहृष्टो वादयत्यपि वा पुनः । कदाचिद्धावति जवात्कदाचिदवतिष्ठते ॥ १२.१२६ ॥ कदाचिदुपविष्टस्तु शयानः स्यात्कदाचन । नानाचीरधरश्चैव रथ्यास्वनियतालयः ॥ १२.१२७ ॥ उन्मत्तो भवति ह्येवं तस्यैतां कारयेद्गतिम् । स्थित्वा नूपुरपादेन दण्डपादं प्रसारयेत् ॥ १२.१२८ ॥ बद्धां चारीं तथा चैव कृत्वा स्वस्तिकमेव च । अनेन चारीयोगेन परिभ्राम्य तु मण्डलम् ॥ १२.१२९ ॥ बाह्यभ्रमरकं चैव रङ्गकोणे प्रसारयेत् । त्रिकं सुललितं कृत्वा लताख्यं हस्तमेव च ॥ १२.१३० ॥ विपर्ययगतैर्हस्तैः पद्भ्यां सह गतिर्भवेत् । त्रिविधा तु गतिः कार्या खञ्जपङ्गुकवामनैः ॥ १२.१३१ ॥ विकलाङ्गप्रयोगेण कुहकाभिनयं प्रति । एकः खञ्जगतौ नित्यं स्तब्धो वै चरणो भवेत् ॥ १२.१३२ ॥ तथा द्वितीयः कार्यस्तु पादोऽग्रतलसञ्चरः । स्तब्धेनोत्थापनं कार्यमङ्गस्य चरणेन तु ॥ १२.१३३ ॥ गमनेन निषण्णः स्यादन्येन चरणेन तु । इतरेण निषीदेच्च क्रमेणानेन वै व्रजेत् ॥ १२.१३४ ॥ एषा खञ्जगतिः कार्या तलशल्यक्षतेषु च । पादेनाग्रतलस्थेन ह्यञ्चितेन व्रजेत्तथा ॥ १२.१३५ ॥ निषण्णदेहा पङ्गोस्तु नतजङ्घा तथैव च । सर्वसङ्कुचिताङ्गा च वामने गतिरिष्यते ॥ १२.१३६ ॥ न तस्य विक्रमः कार्यो विक्षेपश्चरणस्य च । सोद्वाहिता चूर्णपदा सा कार्या कुहनात्मिका ॥ १२.१३७ ॥ विदूषकस्यापि गतिर्हास्यत्रयसमन्विता । अङ्गवाक्यकृतं हास्यं हास्यं नेपथ्यजं स्मृतम् ॥ १२.१३८ ॥ दन्तुरः खलतिः कुब्जः खञ्जश्च विकृताननः । य ईदृशः प्रवेशः स्यादङ्गहास्यं तु तद्भवेत् ॥ १२.१३९ ॥ यदा तु बकवद्गच्छेदुल्लोकितविलोकितैः । अन्यायतपदत्वाच्च अङ्गहास्यो भवेत्स तु ॥ १२.१४० ॥ कार्यहास्यं तु विज्ञेयमसंबद्धप्रभाषणात् । अनर्थकैर्विकारैश्च तथा चाश्लीलभाषितैः ॥ १२.१४१ ॥ चीरचर्ममशीभस्मगैरिकाद्यैस्तु मण्डितः । यस्तादृशो भवेद्विप्रा हास्यो नेपथ्यजस्तु सः ॥ १२.१४२ ॥ तस्मात्तु प्रकृतिं ज्ञात्वा भावः कार्यस्तु तत्त्वतः । गतिप्रचारं विभजेत्नानावस्थान्तरात्मकम् ॥ १२.१४३ ॥ स्वभावजायां विन्यस्य कुटिलं वामके करे । तदा दक्षिणहस्ते च कुर्याच्चतुरकं पुनः ॥ १२.१४४ ॥ पार्श्वमेकं शिरश्चैव हस्तोऽथ चरणस्तथा । पर्यायशः सन्नमयेल्लयतालवशानुगः ॥ १२.१४५ ॥ स्वभावजा तु तस्यैषा गतिरन्या विकारजा । अलाभलाभात्मुक्तस्य स्तब्धा तस्य गतिर्भवेत् ॥ १२.१४६ ॥ कार्या चैव हि नीचानां चेटादीनां परिक्रमात् । अधमा इति ये ख्याता नानाशीलाश्च ते पुनः ॥ १२.१४७ ॥ पार्श्वसेकं शिरश्चैव करः सचरणस्तथा । शकारस्यापि कर्तव्या गतिश्चञ्चलदेहिका । गतौ नमेत चेटानां दृष्टिश्चार्धविचारिणी ॥ १२.१४८ ॥ वस्त्राभरणसंस्पर्शैर्मुहुर्मुहुरवेक्षितैः । गात्रैर्विकारविक्षिप्तैः लम्बवस्त्रस्रजा तथा ॥ १२.१४९ ॥ सगर्विता चूर्णपदा शकारस्य गतिर्भवेत् । जात्या नीचेषु योक्तव्या विलोकनपरा गतिः ॥ १२.१५० ॥ असंस्पर्शाच्च लोकस्य स्वाङ्गानि विनिगूह्य च । म्लेच्छानां जातयो यास्तु पुलिन्दशबरादयः ॥ १२.१५१ ॥ तेषां देशानुसारेण कार्यं गतिविचेष्टितम् । पक्षिणां श्वापदानां च पशूनां च द्विजोत्तमाः ॥ १२.१५२ ॥ स्वस्वजातिसमुत्थेन स्वभावेन गतिर्भवेत् । सिंहर्क्षवानराणां च गतिः कार्या प्रयोक्तृभिः ॥ १२.१५३ ॥ या कृता नरसिंहेन विष्णुना प्रभविष्णुना । आलीढस्थानकं कृत्वा गात्रं तस्यैव चानुगम् ॥ १२.१५४ ॥ जानूपरि करं ह्येकमपरं वक्षसि स्थितम् । अवलोक्य दिशः कृत्वा चिबुकं बाहुमस्तके ॥ १२.१५५ ॥ गन्तव्यं विक्रमैर्विप्राः पञ्चतालान्तरोत्थितैः । नियुद्धसमये चैव रङ्गावतरणे तथा ॥ १२.१५६ ॥ सिंहादीनां प्रयोक्तव्या गतिरेषा प्रयोक्तृभिः । शेषाणामर्थयोगेन गतिं स्थानं च योजयेत् ॥ १२.१५७ ॥ वाहनार्थप्रयोगेषु रङ्गावतरणेषु च । एवमेताः प्रयोक्तव्या नराणां गतयो बुधैः ॥ १२.१५८ ॥ नोक्ता या या मया ह्यत्र ग्राह्यास्तास्ताश्च लोकतः । अतः परं प्रवक्ष्यामि स्त्रीणां गतिविचेष्टितम् ॥ १२.१५९ ॥ स्त्रीणां स्थानानि कार्याणि गतिष्वाभरणेषु च । आयतं चावहित्थं च अश्वक्रान्तमथापि च ॥ १२.१६० ॥ स्थानान्येतानि नारीणामथ लक्षणमुच्यते । वामः स्वभावतो यत्र पादो विरचितः समः ॥ १२.१६१ ॥ तालमात्रान्तरे न्यस्तस्त्र्यश्रः पक्षस्थितोऽपरः । प्रसन्नमाननमुरः समं यत्र समुन्नतम् ॥ १२.१६२ ॥ लतानितम्बगौ हस्तौ स्थानं ज्ञेयं तदायतम् । दक्षिणस्तु समः पादः त्र्यश्रः पक्षस्थितोऽपरः ॥ १२.१६३ ॥ वामः समुन्नतकटिश्चायते स्थानके भवेत् । आवाहने विसर्गे च तथा निर्वर्णनेषु च ॥ १२.१६४ ॥ चिन्तायां चावहित्थे च स्थानमेतत्प्रयोजयेत् । रङ्गावतरणारम्भः पुष्पाञ्जलिविसर्जनम् ॥ १२.१६५ ॥ मन्मथेर्ष्योद्भवं कोपं तर्जन्यङ्गुलिमोटनम् । निषेधगर्वगाम्भीर्यमौनं मानावलम्बनम् ॥ १२.१६६ ॥ स्थानेऽस्मिन् संविधातव्यं दिगन्तरनिरूपणम् । समो यत्र स्थितो वामस्त्र्यश्रः पक्षस्थितोऽपरः ॥ १२.१६७ ॥ समुन्नतकटिर्वामस्त्ववहित्थं तु तद्भवेत् । पुरो विचलितस्त्र्यश्रस्तदन्योपसृतः समः ॥ १२.१६८ ॥ पादस्तालान्तरन्यस्तस्त्रिकमीषत्समुन्नतम् । पाणिर्लताख्यो यत्रैकस्तदन्यस्तु नितम्बगः ॥ १२.१६९ ॥ अवहित्थं समाख्यातं स्थानमागमभूषणैः । स्त्रीणामेतत्स्मृतं स्थानं संलापे तु स्वभावजे ॥ १२.१७० ॥ निश्चये परितोषे च वितर्के चिन्तने तथा । विलासलीलाविब्वोकशृंगारात्मनिरूपणे ॥ १२.१७१ ॥ स्थानमेतत्प्रयोक्तव्यं भर्तुर्मार्गविलोकने । पादः समस्थितश्चैक एकश्चाग्रतलाञ्चितः ॥ १२.१७२ ॥ सूचीविद्धमविद्धं वा तदश्वक्रान्तमुच्यते । स्खलितं घूर्णितं चैव गलिताम्बरधारणम् ॥ १२.१७३ ॥ कुसुमस्तबकादानं परिरक्षणमेव च । वित्रासनं सललितं तरुशाखावलम्बनम् ॥ १२.१७४ ॥ स्थानेऽस्मिन् संविधानीयं स्त्रीणामेतत्प्रयोक्तृभिः । शाखावलम्बने कार्यं स्तबकग्रहणे तथा ॥ १२.१७५ ॥ विश्रामेष्वथ देवानां नराणां चार्थयोगतः । स्थानकं तावदेव स्याद्यावच्चेष्टा प्रवर्तते ॥ १२.१७६ ॥ भग्नं च स्थानकं नृत्ते चारी चेत्समुपस्थिता । एवं स्थानविधिः कार्यः स्त्रीणां नृणामथापि च ॥ १२.१७७ ॥ पुनश्चासां प्रवक्ष्यामि गतिं प्रकृतिसंस्थिताम् । कृत्वावहित्थं स्थानं तु वामं चाधोमुखं करम् ॥ १२.१७८ ॥ नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् । ततः सललितं पादं तालमात्रसमुत्थितम् ॥ १२.१७९ ॥ दक्षिणं वामपादस्य बाह्यपार्श्वे विनिक्षिपेत् । तेनैव समकालं च लताख्यं वामकं भुजम् ॥ १२.१८० ॥ दक्षिणं विनमेत्पार्श्वं न्यसेन्नाभितटे ततः । नितम्बे दक्षिणं कृत्वा हस्तं चोद्वेष्ट्य वामकम् ॥ १२.१८१ ॥ ततो वामपदं दद्यात्लताहस्तं च दक्षिणम् । लीलयोद्वाहितेनाथ शिरसानुगतेन च ॥ १२.१८२ ॥ किञ्चिन्नतेन गात्रेण गच्छेत्पञ्चपदीं ततः । यो विधिः पुरुषाणां तु रङ्गपीठपरिक्रमे ॥ १२.१८३ ॥ स एव प्रमदानां वै कर्तव्यो नाट्ययोक्तृभिः । षट्कलं तु न कर्तव्यं तथाष्टकलमेव च ॥ १२.१८४ ॥ पादस्य पतनं तज्ज्ञैः खेदनं तद्भवेत्स्त्रियाः । सयौवनानां नारीणामेवं कार्या गतिर्बुधैः ॥ १२.१८५ ॥ स्थवीयसीनामेतासां सम्प्रवक्ष्याम्यहं गतिम् । कृत्वापविद्धं स्थानन्तु वामं न्यस्य कटीतटे ॥ १२.१८६ ॥ आद्यं चारालमुत्तानं कुर्यान्नाभिस्तनान्तरे । न निषण्णं न च स्तब्धं न चापि परिवाहितम् ॥ १२.१८७ ॥ कृत्वा गात्रं ततो गच्छेत्तेनैवेह क्रमेण तु । प्रेष्याणामपि कर्तव्या गतिरुद्भ्रान्तगामिनी ॥ १२.१८८ ॥ क्वचिदुन्नमितैर्गात्रैः आविद्धभुजविक्रमा । स्थानं कृत्वावहित्थं च वामं चाधोमुखं भुजम् ॥ १२.१८९ ॥ नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् । अर्धनारीगतिः कार्या स्त्रीपुंसाभ्यां विमिश्रिता ॥ १२.१९० ॥ उदात्तललितैर्गात्रैः पादैर्लीलासमन्वितैः । या पूर्वमेवाभिहिता ह्युत्तमानां गतिर्मया ॥ १२.१९१ ॥ स्त्रीणां कापुरुषाणां च ततोऽर्धार्धं तु योजयेत् । मध्यमोत्तमनीचानां नृणां यद्गतिचेष्टितम् ॥ १२.१९२ ॥ स्त्रीणां तदेव कर्तव्या ललितैः पदविक्रमैः । बालानामपि कर्तव्या स्वच्छन्दपदविक्रमा ॥ १२.१९३ ॥ न तस्याः सौष्ठवं कार्यं न प्रमाणं प्रयोक्तृभिः । तृतीया प्रकृतिः कार्या नाम्ना चैव नपुंसका ॥ १२.१९४ ॥ नरस्वभावमुत्सृज्य स्त्रीगतिं तत्र योजयेत् । विपर्ययः प्रयोक्तव्यः पुरुषस्त्रीनपुंसके ॥ १२.१९५ ॥ स्वभावमात्मनस्त्यक्त्वा तद्भावगमनादिह । व्याजेन क्रीडया वापि तथा भूयं च वञ्चनात् ॥ १२.१९६ ॥ स्त्री पुंसः प्रकृतिं कुर्यात्स्त्रीभावं पुरुषोऽपि च । धैर्योदार्येण सत्त्वेन बुद्ध्या तद्वच्च कर्मणा ॥ १२.१९७ ॥ स्त्री पुमांसं त्वभिनयेत्वेषवाक्यविचेष्टितैः । स्त्रीवेषभाषितैर्युक्तं प्रेषिताप्रेषितैस्तथा ॥ १२.१९८ ॥ मृदुसन्नगतिश्चैव पुमान् स्त्रीभावमाचरेत् । जातिहीनाश्च या नार्यः पुलिन्दशबराङ्गनाः ॥ १२.१९९ ॥ याश्चापि तासां कर्तव्या तज्जातिसदृशी गतिः । व्रतस्थानां तपःस्थानां लिङ्गस्थानां तथैव च ॥ १२.२०० ॥ खस्थानां चैव नारीणां समपादं प्रयोजयेत् । उद्धता येऽङ्गहाराः स्युः याश्चार्यो मण्डलानि च ॥ १२.२०१ ॥ तानि नाट्यप्रयोगज्ञैर्न कर्तव्यानि योषिताम् । तथासनविधिः कार्यो नृणां स्त्रीणां विशेषतः ॥ १२.२०२ ॥ नानाभावसमायुक्तस्तथा च शयनाश्रयः । विष्कम्भिताञ्चितौ पादौ त्रिकं किञ्चित्समुन्नतम् ॥ १२.२०३ ॥ हस्तौ कट्यूरुविन्यस्तौ स्वस्थे स्यादुपवेशने । पादः प्रसारितः किञ्चिदेकश्चैवासनाश्रयः ॥ १२.२०४ ॥ शिरः पार्श्वनतं चैव सचिन्त उपवेशने । चिबुकोपाश्रितौ हस्तौ बाहुशीर्षाश्रितं शिरः ॥ १२.२०५ ॥ सम्प्रणष्टेन्द्रियमनाः शोकौत्सुक्योपवेशने । प्रसार्य बाहू शिथिलौ तथा श्रोपाश्रयाश्रितः ॥ १२.२०६ ॥ मोहमूर्च्छामदग्लानिविषादेषूपवेशयेत् । सर्वपिण्डीकृताङ्गस्तु संयुक्तैः पादजानुभिः ॥ १२.२०७ ॥ व्याधिव्रीडितनिद्रासु ध्याने चोपविशेन्नरः । तथा चोत्कटिकं स्थानं स्फिक्पार्ष्णीनां समागमः ॥ १२.२०८ ॥ पित्र्ये निवापे जप्ये च सन्ध्यास्वाचमनेऽपि च । विष्कम्भितं पुनश्चैवं जानुं भूमौ निपातयेत् ॥ १२.२०९ ॥ प्रियाप्रसादने कार्यं होमादिकरणेषु च । महीगताभ्यां जानुभ्यामधोमुखमवस्थितम् ॥ १२.२१० ॥ देवाभिगमने चैव रुषितानां प्रसादने । शोके चाक्रन्दने तीव्रे मृतानां चैव दर्शने ॥ १२.२११ ॥ त्रासने च कुसत्त्वानां नीचानां चैव याचने । होमयज्ञक्रियायां च प्रेष्याणां चैव कारयेत् ॥ १२.२१२ ॥ मुनीनां नियमेष्वेष भवेदासनजो विधिः । तथासनविधिः कार्यो विविधो नाटकाश्रयः ॥ १२.२१३ ॥ स्त्रीणां च पुरुषाणां च बाह्यश्चाभ्यन्तरस्तथा । आभ्यन्तरस्तु नृपतेर्बाह्यो बाह्यगतस्य च ॥ १२.२१४ ॥ देवानां नृपतीनां च दद्यात्सिंहासनं द्विजः । पुरोधसाममात्यानां भवेद्वेत्रासनं तथा ॥ १२.२१५ ॥ मुण्डासनं च दातव्यं सेनानीयुवराजयोः । काष्ठासनं द्विजातीनां कुमाराणां कुथासनम् ॥ १२.२१६ ॥ एवं राजसभां प्राप्य कार्यस्त्वासनजो विधिः । स्त्रीणां चाप्यासनविधिं सम्प्रवक्ष्याम्यहं पुनः ॥ १२.२१७ ॥ सिंहासनं तु राज्ञीनां देवीनां मुण्डमासनम् । पुरोधोऽमात्यपत्नीनां दद्याद्वेत्रासनं तथा ॥ १२.२१८ ॥ भोगिनीनां तथा चैव वस्त्रं चर्म कुथोऽपि वा । ब्राह्मणीतापसीनां च पट्टासनमथापि च ॥ १२.२१९ ॥ वेश्यानां च प्रदातव्यमासनं च मयूरकम् । शेषाणां प्रमदानां तु भवेद्भूम्यासनं द्विजाः ॥ १२.२२० ॥ एवमाभ्यन्तरो ज्ञेयो बाह्यश्चासनजो विधिः । तथा स्वगृहवार्तासु च्छन्देनासनमिष्यते ॥ १२.२२१ ॥ नियमस्थमुनीनां च भवेदासनजो विधिः । लिङ्गिनामासनविधिः कार्यो व्रतसमाश्रयः ॥ १२.२२२ ॥ ब्रुषीमुण्डासनप्रायं वेत्रासनमथापि च । होमे यज्ञक्रियायां च पित्र्येऽर्थे च प्रयोजयेत् ॥ १२.२२३ ॥ स्थानीया ये च पुरुषाः कुलविद्यासमन्विताः । तेषामासनसत्कारः कर्त्तव्य इह पार्थिवैः ॥ १२.२२४ ॥ समे समासनं दद्यात्मध्ये मध्यममासनम् । अतिरिक्तेऽतिरिक्तं च हीने भूम्यासनं भवेत् ॥ १२.२२५ ॥ उपाध्यायस्य नृपतेर्गुरूणामग्रतो बुधैः । भूम्यासनं तथा कार्यमथवा काष्ठमासनम् ॥ १२.२२६ ॥ नौनागरथयानेषु भूमिकाष्ठासनेषु च । सहासनं न दुष्येत गुरूपाध्यायपार्थिवैः ॥ १२.२२७ ॥ आकुञ्चितं समं चैव प्रसारितविवर्तने । उद्वाहितं नतं चैव शयने कर्म कीर्त्यते ॥ १२.२२८ ॥ सर्वैराकुञ्चितैरङ्गैः शय्याविद्धे तु जानुनी । स्थानमाकुञ्चितं नाम शीतार्तानां प्रयोजयेत् ॥ १२.२२९ ॥ उत्तानितमुखं चैव स्रस्तमुक्तकरं तथा । समं नाम प्रसुप्तस्य स्थानकं संविधीयते ॥ १२.२३० ॥ एकं भुजमुपाधाय सम्प्रसारितजानुकम् । स्थानं प्रसारितं नाम सुखसुप्तस्य कारयेत् ॥ १२.२३१ ॥ अधोमुखस्थितं चैव विवर्तितमिति स्मृतम् । शस्त्रक्षतमृतोत्क्षिप्तमत्तोन्मत्तेषु कारयेत् ॥ १२.२३२ ॥ अंसोपरि शिरः कृत्वा कर्पूरक्षोभमेव च । उद्वाहितं तु विज्ञेयं लीलया वेशने प्रभोः ॥ १२.२३३ ॥ ईषत्प्रसारिते जङ्घे यत्र स्रस्तौ करावुभौ । आलस्यश्रमखेदेषु नतं स्थानं विधीयते ॥ १२.२३४ ॥ गतिप्राचारस्तु मयोदितोऽयं नोक्तश्च यः सोऽर्थवशेन साध्यः । अतः परं रङ्गपरिक्रमस्य वक्ष्यामि कक्ष्यां प्रविभागयुक्ताम् ॥ १२.२३५ ॥ इति भरतीये नाट्यशास्त्रे गतिप्रचारो नाम द्वादशोऽध्यायः _____________________________________________________________ अथ त्रयोदशोऽध्यायः ये तु पूर्वं मया प्रोक्तास्त्रयो वै नाट्यमण्डपाः । तेषां विभागं विज्ञाय ततः कक्ष्यां प्रयोजयेत् ॥ १३.१ ॥ ये नेपथ्यगृहद्वारे मया पूर्वं प्रकीर्तिते । तयोर्भाण्डस्य विन्यासो मध्ये कार्यः प्रयोक्तृभिः ॥ १३.२ ॥ कक्ष्याविभागो निर्देश्यो रङ्गपीठपरिक्रमात् । परिक्रमेण रङ्गस्य कक्ष्या ह्यन्या विधीयते ॥ १३.३ ॥ कक्ष्याविभागे ज्ञेयानि गृहाणि नगराणि च । उद्यानारामसरितस्त्वाश्रमा अटवी तथा ॥ १३.४ ॥ पृथिवी सागराश्चैव त्रैलोक्यं सचराचरम् । वर्षाणि सप्तद्वीपाश्च पर्वता विविधास्तथा ॥ १३.५ ॥ अलोकश्चैव लोकश्च रसातलमथापि च । दैत्यनागालयाश्चैव गृहाणि भवनानि च ॥ १३.६ ॥ नगरे वा वने वापि वर्षे वा पर्वतेऽपि वा । यत्र वार्ता प्रवर्तेत तत्र कक्ष्यां प्रवर्तयेत् ॥ १३.७ ॥ बाह्यं वा मध्यमं वापि तथैवाभ्यन्तरं पुनः । दूरं वा सन्निकृष्टं वा देशं तु परिकल्पयेत् ॥ १३.८ ॥ पूर्वप्रविष्टा ये रङ्गं ज्ञेयास्तेऽभ्यन्तरा बुधैः । पश्चात्प्रविष्टा विज्ञेयाः कक्ष्याभागे तु बाह्यतः ॥ १३.९ ॥ तेषां तु दर्शनेच्छुर्यः प्रविशेद्रङ्गमण्डपम् । दक्षिणाभिमुखः सोऽथ कुर्यादात्मनिवेदनम् ॥ १३.१० ॥ यतो मुखं भवेद्भाण्डं द्वारं नेपथ्यकस्य च । सा मन्तव्या तु दिक्पूर्वा नाट्ययोगे न नित्यशः ॥ १३.११ ॥ निष्क्रामेद्यश्च तस्माद्वै स तेनैव तथा व्रजेत् । यतस्तस्य कृतं तेन पुरुषेण निवेदनम् ॥ १३.१२ ॥ निष्क्रान्तोऽर्थवशाच्चापि प्रविशेद्यदि तद्गृहम् । यतः प्राप्तः स पुरुषस्तेन मार्गेण निष्क्रमेत् ॥ १३.१३ ॥ अथवार्थवशाच्चापि तेनैव सह गच्छति । तथैव प्रविशेत्गेहमेकाकी सहितोऽपि वा ॥ १३.१४ ॥ तयोश्चापि प्रविशतोः कक्ष्यामन्यां विनिर्दिशेत् । परिक्रमेण रङ्गस्य त्वन्या कक्ष्या विधीयते ॥ १३.१५ ॥ समैश्च सहितो गच्छेन्नीचैश्च परिवाहितः । अथ प्रेक्षणिकाश्चापि विज्ञेया ह्यग्रतो गतौ ॥ १३.१६ ॥ सैव भूमिस्तु बहुभिर्विकृष्टा स्यात्परिक्रमैः । मध्या वा सन्निकृष्टा वा तेषामेवं विकल्पयेत् ॥ १३.१७ ॥ नगरे वा वने वापि सागरे पर्वतेऽपि वा । दिव्यानां गमनं कार्यं द्वीपे वर्षेषु वा पुनः ॥ १३.१८ ॥ आकाशेन विमानेन माययाप्यथ वा पुनः । विविधाभिः क्रियाभिर्वा नानार्थाभिः प्रयोगतः ॥ १३.१९ ॥ नाटके च्छन्नवेषाणां दिव्यानां भूमिसञ्चरः । मानुषे कारणादेषां यथा भवति दर्शनम् ॥ १३.२० ॥ भारते त्वथ हैमे वा हरिवर्ष इलावृते । रम्ये किंपुरुषे वापि कुरुषूत्तरकेषु वा ॥ १३.२१ ॥ दिव्यानां छन्दगमनं सर्ववर्षेषु कीर्तितम् । भारते मानुषाणाञ्च गमनं संविधीयते ॥ १३.२२ ॥ गच्छेद्यदि विकृष्टस्तु देशकालवशान्नरः । अङ्कच्छेदे तमन्यस्मिन्निर्दिशेद्धि प्रवेशके ॥ १३.२३ ॥ अह्नः प्रमाणं गत्वा तु कार्यलाभं विनिर्दिशेद् । तथालाभे तु कार्यस्य अङ्कच्छेदो विधीयते ॥ १३.२४ ॥ क्षणो मुहूर्तो यानो वा दिवसो वापि नाटके । एकाङ्के स विधातव्यो बीजस्यार्थवशानुगः ॥ १३.२५ ॥ अङ्कच्छेदे तु निर्वृत्तं मासं वा वर्षमेव वा । नोर्ध्वं वर्षात्प्रकर्तव्यं कार्यमङ्कसमाश्रयम् ॥ १३.२६ ॥ एवं तु भारते वर्षे कक्ष्या कार्या प्रयोगतः । मानुषाणां गतिर्या तु दिव्यानान्तु निबोधत ॥ १३.२७ ॥ हिमवत्पृष्ठसंस्थे तु कैलासे पर्वतोत्तमे । यक्षाश्च गुह्यकाश्चैव धनदानुचराश्च ये ॥ १३.२८ ॥ रक्षःपिशाचभूताश्च सर्वे हैमवताः स्मृताः । हेमकूटे च गन्धर्वा विज्ञेयाः साप्सरोगणाः ॥ १३.२९ ॥ सर्वे नागाश्च निषधे शेषवासुकितक्षकाः । महामेरौ त्रयस्त्रिंशद्ज्ञेया देवगणा बुधैः ॥ १३.३० ॥ नीले तु वैडूर्यमये सिद्धा ब्रह्मर्षयस्तथा । दैत्यानां दानवानाञ्च श्वेतपर्वत इष्यते ॥ १३.३१ ॥ पितरश्चापि विज्ञेया शृङ्गवन्तं समाश्रिताः । इत्येते पर्वताः श्रेष्ठा दिव्यावासाः प्रकीर्तिताः ॥ १३.३२ ॥ तेषां कक्ष्याविभागश्च जम्बूद्वीपे भवेदयम् । तेषां न चेष्टितं कार्यं स्वैः स्वैः कर्मपराक्रमैः ॥ १३.३३ ॥ परिच्छ(च्छे)दविशेषस्तु तेषां मानुषलोकवत् । सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः ॥ १३.३४ ॥ तेषान्त्वनिमिषत्वं यत्तन्न कार्यं प्रयोक्तृभिः । इह भावा रसाश्चैव दृष्टावेव प्रतिष्ठिताः ॥ १३.३५ ॥ दृष्ट्या हि सूचितो भावः पुनरङ्गैर्विभाव्यते । एवं कक्ष्याविभागस्तु मया प्रोक्तो द्विजोत्तमाः ॥ १३.३६ ॥ पुनश्चैव प्रवक्ष्यामि प्रवृत्तीनान्तु लक्षणम् । चतुर्विधा प्रवृत्तिश्च प्रोक्ता नाट्यप्रयोगतः । आवन्ती दाक्षिणात्या च पाञ्चाली चोढ्रमागधी ॥ १३.३७ ॥ अत्राह प्रवृत्तिरिति कस्मात्? उच्यते पृथिव्यां नानादेशवेषभाषाचारवार्ताः प्रख्यापयतीति वृत्तिः । प्रवृत्तिश्च निवेदने । अत्राह - यथा पृथिव्यां बहवो देशाः सन्ति , कथमासां चतुर्विधत्वमुपपन्नं, समानलक्षणश्चासां प्रयोग उच्यते , सत्यमेतत् । समानलक्षण आसां प्रयोगः । किन्तु नानादेशवेषभाषाचारो लोक इति कृत्वा लोकानुमतेन वृत्तिसंश्रितस्य नाट्यस्य वृत्तीनां मया चतुर्विधत्वमभिहितं भारती सात्त्वती कैशिक्यारभटी चेति । वृत्तिसंश्रितैश्च प्रयोगैरभिहिता देशाः । यतः प्रवृत्तिचतुष्टयमभिनिर्वृत्तं प्रयोगश्चोत्पादितः । तत्र दाक्षिणात्यास्तावत्बहुनृत्तगीतवाद्या कैशिकीप्रायाः चतुरमधुरललिताङ्गाभिनयाश्च । तद्यथा - महेन्द्रो मलयः सह्यो मेकलः पालमञ्जरः । एतेषु ये श्रिता देशाः स ज्ञेयो दक्षिणापथः ॥ १३.३८ ॥ कोसलाग्ग्स्तोशलाश्चैव कलिङ्गा यवना खसाः । द्रविडान्ध्रमहाराष्ट्रा वैष्णा वै वानवासजाः ॥ १३.३९ ॥ दक्षिणस्य समुद्रस्य तथा विन्ध्यस्य चान्तरे । ये देशास्तेषु युञ्जीत दाक्षिणात्यां तु नित्यशः ॥ १३.४० ॥ आवन्तिका वैदिशिकाः सौराष्ट्रा मालवास्तथा । सैन्धवास्त्वथ सौवीरा आवर्ताः सार्बुदेयकाः ॥ १३.४१ ॥ दाशार्णास्त्रैपुराश्चैव तथा वै मार्तिकावताः । कुर्वन्त्यावन्तिकीमेते प्रवृत्तिं नित्यमेव तु ॥ १३.४२ ॥ सात्त्वतीं कैशिकीं चैव वृत्तिमेषां समाश्रिता । भवेत्प्र्योगो नाट्येऽत्र स तु कार्यः प्रयोक्तृभिः ॥ १३.४३ ॥ अङ्गा वङ्गाः कलिङ्गाश्च वत्साश्चैवोढ्रमागधाः । पौण्ड्रा नेपालकाश्चैव अन्तर्गिरिबहिर्गिराः ॥ १३.४४ ॥ तथा प्लवङ्गमा ज्ञेया मलदा मल्लवर्तकाः । ब्रह्मोत्तरप्रभृतयो भार्गवा मार्गवास्तथा ॥ १३.४५ ॥ प्राज्योतिषाः पुलिन्दाश्च वैदेहास्ताम्रलिप्तकाः । प्राङ्गाः प्रावृतयश्चैव युञ्जन्तीहोढ्रमागधीम् ॥ १३.४६ ॥ अन्येऽपि देशाः प्राच्यां ये पुराणे सम्प्रकीर्तिताः । तेषु प्रयुज्यते ह्येषा प्रवृत्तिश्चोढ्रमागधी ॥ १३.४७ ॥ पाञ्चाला सौरसेनाश्च काश्मीरा हस्तिनापुराः । बाह्लीका शल्यकाश्चैव मद्रकौशीनरास्तथा ॥ १३.४८ ॥ हिमवत्संश्रिता ये तु गङ्गायाश्चोत्तरां दिशम् । ये श्रिता वै जनपदास्तेषु पाञ्चालमध्यमाः ॥ १३.४९ ॥ पाञ्चालमध्यमायां तु सात्त्वत्यारभटी स्मृता । प्रयोगस्त्वल्पगीतार्थ आविद्धगतिविक्रमः ॥ १३.५० ॥ द्विधा क्रिया भवत्यासां रङ्गपीठपरिक्रमे । प्रदक्षिणप्रदेशा च तथा चाप्यप्रदक्षिणा ॥ १३.५१ ॥ आवन्ती दाक्षिणात्या च प्रदक्षिणपरिक्रमे । अपसव्यप्रदेशास्तु पाञ्चाली चोढ्रमागधी ॥ १३.५२ ॥ आवन्त्यां दाक्षिणात्यायां पार्श्वद्वारमथोत्तरम् । पाञ्चाल्यामोढ्रमागध्यां योज्यं द्वारं तु दक्षिणम् ॥ १३.५३ ॥ एकीभूताः पुनश्चैताः प्रयोक्तव्याः प्रयोक्तृभिः । पार्षदं देशकालौ वाप्यर्थयुक्तिमवेक्ष्य च ॥ १३.५४ ॥ येषु देशेषु या कार्या प्रवृत्तिः परिकीर्तिता । तद्वृत्तिकानि रूपाणि तेषु तज्ज्ञः प्रयोजयेत् ॥ १३.५५ ॥ एकीभूताः पुनस्त्वेता नाटकादौ भवन्ति हि । अवेक्ष्य वृत्तिबाहुल्यं तत्तत्कर्म समाचरेत् ॥ १३.५६ ॥ सार्थे बाहुल्यमेकस्य शेषाणामथ बुद्धिमान् । येषामन्यस्य बाहुल्यं प्रवृत्तिं पूरयेत्तदा ॥ १३.५७ ॥ प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः । सुकुमारस्तथाविद्धो नाट्ययुक्तिसमाश्रयः ॥ १३.५८ ॥ यत्त्वाविद्धाङ्गहारन्तु च्छेद्यभेद्याहवात्मकम् । मायेन्द्रजालबहुलं पुस्तनेपथ्यसंयुतम् ॥ १३.५९ ॥ पुरुषैर्बहुभिर्युक्तमल्पस्त्रीकं तथैव च । सात्त्वत्यारभटीयुक्तं नाट्यमाविद्धसंज्ञितम् ॥ १३.६० ॥ डिमः समवकारश्च व्यायोगेहामृगौ तथा । एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः ॥ १३.६१ ॥ एषां प्रयोगः कर्तव्यो दैत्यदानवराक्षसैः । उद्धता ये च पुरुषाः शौर्यवीर्यबलान्विताः ॥ १३.६२ ॥ नाटकं सप्रकरणं भाणो वीथ्यङ्कनाटिके । सुकुमारप्रयोगाणि मानुषेष्वाश्रितास्तु ये ॥ १३.६३ ॥ अथ बाह्यप्रयोगेषु प्रेक्षागृहविवर्जिते । विदिक्ष्वपि भवेद्रङ्गः कदाचिद्भर्तुराज्ञया ॥ १३.६४ ॥ पृष्ठ कुतपं नाट्ये युक्ता यतो मुखं भरताः । सा पूर्वा मन्तव्या प्रयोगकाले तु नाट्यज्ञैः ॥ १३.६५ ॥ द्वाराणि षट्चैव भवन्ति चास्य रङ्गस्य दिग्भागविनिश्चितानि । नाट्यप्रयोगेण खलु प्रवेशे प्राच्यां प्रतीच्यां च दिशि प्रवेशः ॥ १३.६६ ॥ विधानमुत्क्रम्य यथा च रङ्गे विना प्रमाणाद्विदिशः प्रयोगे । द्वारन्तु यस्मात्समृदङ्गभाण्डं प्राचीं दिशं तां मनसाऽध्यवस्येत् ॥ १३.६७ ॥ वयोऽनुरूपः प्रथमन्तु वेशो वेशोऽनुरूपश्च गतिप्रचारः । गतिप्रचारानुगतश्च पाठ्यं पाठ्यानुरूपाभिनयश्च कार्यः ॥ १३.६८ ॥ धर्मी या द्विविधा प्रोक्ता मया पूर्वं द्विजोत्तमाः । लौकिकी नाट्यधर्मी च तयोर्वक्ष्यामि लक्षणम् ॥ १३.६९ ॥ स्वभावभावोपगतं शुद्धं त्वविकृतं तथा । लोकवार्ताक्रियोपेतमङ्गलीलाविवर्जितम् ॥ १३.७० ॥ स्वभावाभिनयोपेतं नानास्त्रीपुरुषाश्रयम् । यदीदृशं भवेन्नाट्यं लोकधर्मी तु सा स्मृता ॥ १३.७१ ॥ अतिवाक्यक्रियोपेतमतिसत्त्वातिभावकम् । लीलाङ्गहाराभिनयं नाट्यलक्षणलक्षितम् ॥ १३.७२ ॥ स्वरालङ्कारसंयुक्तमस्वस्थपुरुषाश्रयम् । यदीदृशं भवेन्नाट्यं नाट्यधर्मी तु सा स्मृता ॥ १३.७३ ॥ लोकप्रसिद्धं द्रव्यन्तु यदा नाट्ये प्रयुज्यते । मूर्तिमत्साभिलाषञ्च नाट्यधर्मी तु सा स्मृता ॥ १३.७४ ॥ आसन्नोक्तन्तु यद्वाक्यं न शृण्वन्ति परस्परम् । अनुक्तं श्रूयते वाक्यं नाट्यधर्मी तु सा स्मृता ॥ १३.७५ ॥ शैलयानविमानानि चर्मवर्मायुधध्वजाः । मूर्तिमन्तः प्रयुज्यन्ते नाट्यधर्मी तु सा स्मृता ॥ १३.७६ ॥ य एकां भूमिकां कृत्वा कुर्वीतैकान्तरेऽपराम् । कौशल्यादेककत्वाद्वा नाट्यधर्मी तु सा स्मृता ॥ १३.७७ ॥ या गम्या प्रमदा भूत्वा गम्या भूमिषु युज्यते । गम्या भूमिष्वगम्या च नाट्यधर्मी तु सा स्मृता ॥ १३.७८ ॥ ललितैरङ्गविन्यासैस्तथोत्क्षिप्तपदक्रमैः । नृत्यते गम्यते यच्च नाट्यधर्मी तु सा स्मृता ॥ १३.७९ ॥ योऽयं स्वभावो लोकस्य सुखदुःखक्रियात्मकः । सोऽङ्गाभिनयसंयुक्तो नाट्यधर्मी तु सा स्मृता ॥ १३.८० ॥ यश्चेतिहासवेदार्थो ब्रह्मणा समुदाहृतः । दिव्यमानुषरत्यर्थं नाट्यधर्मी तु सा स्मृता ॥ १३.८१ ॥ यश्च कक्ष्याविभागोऽयं नानाविधिसमाश्रितः । रङ्गपीठगतः प्रोक्तो नाट्यधर्मी तु सा भवेत् ॥ १३.८२ ॥ नाट्यधर्मीप्रवृत्तं हि सदा नाट्यं प्रयोजयेत् । न ह्यङ्गाभिनयात्किञ्चिदृते राग प्रवर्तते ॥ १३.८३ ॥ सर्वस्य सहजो भावः सर्वो ह्यभिनयोऽर्थतः । अङ्गालङ्कारचेष्टाभिर्नाट्यधर्मी प्रकीर्तिता ॥ १३.८४ ॥ एवं कक्ष्याविभागस्तु धर्मी युक्तय एव च । विज्ञेया नाट्यतत्त्वज्ञैः प्रयोक्तव्याश्च तत्त्वतः ॥ १३.८५ ॥ उक्तो मयेहाभिनयो यथावत्शाखाकृतो यश्च कृतोऽङ्गहारैः । पुनश्च वाक्याभिनयं यथावद्वक्ष्ये स्वरव्यञ्जनवर्णयुक्तम् ॥ १३.८६ ॥ इति भरतीये नाट्यशास्त्रे करयुक्तिधर्मीव्यञ्जको नाम त्रयोदशोऽध्यायः _____________________________________________________________ अथ चतुर्दशोऽध्यायः यो वागभिनयः प्रोक्तो मया पूर्वं द्विजोत्तमाः । लक्षणं तस्य वक्ष्यामि स्वरव्यञ्जनसम्भवम् ॥ १४.१ ॥ वाचि यत्नस्तु कर्तव्यो नाट्यस्येयं तनुः स्मृता । अङ्गनेपथ्यसत्त्वानि वाक्यार्थं व्यञ्जयन्ति हि ॥ १४.२ ॥ वाङ्मयानीह शास्त्राणि वाङ्निष्ठानि तथैव च । तस्माद्वाचः परं नास्ति वाघि सर्वस्य कारणम् ॥ १४.३ ॥ आगमनामाख्यातनिपातोपसर्गसमासतद्धितैर्युक्तः । सन्धिवचनविभक्त्युपग्रहनियुक्तो वाचिकाभिनयः ॥ १४.४ ॥ द्विविधं हि स्मृतं पाठ्यं संस्कृतं प्राकृतं तथा । तयोर्विभागं वक्ष्यामि यथावदनुपूर्वशः ॥ १४.५ ॥ व्यञ्जनानि स्वराश्चैव सन्धयोऽथ विभक्तयः । नामाख्यातोपसर्गाश्च निपातास्तद्धितास्तथा ॥ १४.६ ॥ एतैरङ्गैः समासैश्च नानाधातुसमाश्रयम् । विज्ञेयं संस्कृतं पाठ्यं प्रयोगञ्च निबोधत ॥ १४.७ ॥ अकाराद्याः स्वरा ज्ञेया औकारान्ताश्चतुर्दश । हकारान्तानि कादीनि व्यञ्जनानि विदुर्बुधाः ॥ १४.८ ॥ तत्र स्वराश्चतुर्दश - अ आ इ ई उ ऊ ऋ ॠ ळ ॡ ए ऐ ओ औ इति स्वरा ज्ञेयाः ॥ कादीनि व्यञ्जनानि यथा - क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह इति व्यञ्जनवर्गः । वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ । अघोषा इति ये त्वन्ये सघोषाः संप्रकीर्तिताः ॥ १४.९ ॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलश्च दन्ताश्च नासिकोष्ठौ च तालु च ॥ १४.१० ॥ अ कु ह विसर्जनीयाः कण्ठ्याः । इ चु य शास्तालव्याः । ऋ टु र षा मूर्धन्याः । ळ तु ल सा दन्त्याः । उ पूपध्मानीया ओष्ठ्याः । -प -फ इति पफाभ्यां प्राक् अर्धविसर्गसदृशः उपध्मानीयः । -क -ख इति कखाभ्यां प्राकर्धविसर्गसदृशो जिह्वमूलीयः । ए ऐ कण्ठ्यतालव्यौ । ओ औ कण्ठ्योष्ठ्यौ । वकारो दन्त्योष्ठ्यः । ङ ञ ण न मा अनुनासिकाः । विसर्जनीयः औरस्यः इत्येके । सर्ववर्णानां मुखं स्थानमित्यपरे । द्वौ द्वौ वर्णौ तु वर्गाद्यौ शषसाश्च त्रयोऽपरे । अघोषा घोषवन्तस्तु ततोऽन्ये परिकीर्तिताः ॥ १४.११ ॥ एते घोषाघोषाः कण्ठ्योष्ठ्या दन्त्यजिह्वानुनासिक्याः । ऊष्माणस्तालव्याः विसर्जनीयाश्च बोद्धव्याः ॥ १४.१२ ॥ गघङ जझञ डढण दधन बभम तथैव यरलवा मता घोषाः । कख चछ टठ तथ पफ इति वर्गेष्वघोषाः स्युः ॥ १४.१३ ॥ कखगघङाः कण्ठस्थास्तालुस्थानास्तु चछजझञाः । टठडढणा मूर्धन्यास्तथदधनाश्चैव दन्तस्थाः ॥ १४.१४ ॥ पफबभमास्त्वोष्ठ्याः स्युः दन्त्या ळलसा अहौ च कण्ठस्थौ । तालव्या इचुयशा स्युरृटुरषा मूर्धस्थिता ज्ञेयाः ॥ १४.१५ ॥ ळॣ दन्त्यौ ओऔ कण्ठोष्ठ्यौ एऐकारौ च कण्ठतालव्यौ । कण्ठ्यो विसर्जनीयो जिह्वामूलमुद्भवः कखयोः ॥ १४.१६ ॥ पफयोरोष्ठस्थानं भवेदुकारः स्वरो विवृतः । स्पृष्टाः काद्या मान्ताः शषसहकारास्तथा विवृताः ॥ १४.१७ ॥ अन्तस्थाः संवृतजाः ङञणनमा नासिकोद्भवा ज्ञेयाः । ऊष्माणश्च शषसहाः यरलववर्णास्तथैव चान्तःस्थाः ॥ १४.१८ ॥ जिह्वामूलीयः -कः -प उपध्मानीयसंज्ञया ज्ञेयः । कचटतपा स्वरिताः स्युः खछठथफा स्युः सदा क्रम्याः ॥ १४.१९ ॥ कण्ठ्योरस्यान् विद्यात्घझढधभान् पाठ्यसंप्रयोगे तु । वेद्यो विसर्जनीयो जिह्वास्थाने स्थितो वर्णः ॥ १४.२० ॥ एते व्यञ्जनवर्णाः समासतः संज्ञया मया कथिताः । शब्दविषयप्रयोगे स्वरा.ण्स्तु भूयः प्रवक्ष्यामि ॥ १४.२१ ॥ यस्मिन् स्थाने स समो विज्ञेयो यः सवर्णसंज्ञोऽसौ । य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः । पूर्वो ह्रस्वः तेषां परश्च दीर्घोऽवगन्तव्यः ॥ १४.२२ ॥ इत्थं व्यञ्जनयोगैः स्वरैश्च साख्यातनामपदविहितैः । काव्यनिबन्धाश्च स्युर्धातुनिपातोपसर्गास्तु ॥ १४.२३ ॥ एभिर्व्यञ्जनवर्गैर्नामाख्यातोपसर्गनिपातैः । तद्धितसन्धिविभक्तिभिरधिष्ठितः शब्द इत्युक्तः ॥ १४.२४ ॥ पूर्वाचार्यैरुक्तं शब्दानां लक्षणं समासयोगेन । विस्तरशः पुनरेव प्रकरणवशात्संप्रवक्ष्यामि ॥ १४.२५ ॥ अर्थप्रधानं नाम स्यादाख्यातं तु क्रियाकृतम् । द्योतयन्त्युपसर्गास्तु विशेषं भावसंश्रयम् ॥ १४.२६ ॥ तत्प्राहुः सप्तविधं षट्कारकसंयुतं प्रथितसाध्यम् । निर्देशसंप्रदानापदानप्रभृतिसंज्ञाभिः ॥ १४.२७ ॥ नामाख्यातार्थविषयं विशेषं द्योतयन्ति ते । पृथक्तत्रोपसर्गेभ्यो निपाता नियमेऽच्युते ॥ १४.२८ ॥ संप्रत्यतीतकालक्रियादिसंयोजितं प्रथितसाध्यम् । वचनं नागतयुक्तं सुसदृशसंयोजनविभक्तम् ॥ १४.२९ ॥ पञ्चशतधातुयुक्तं पञ्चगुणं पञ्चविधमिदं वापि । स्वाद्यधिकारगुणैरर्थविशेषैर्विभूषितन्यासम् । प्रातिपदिकार्थलिङ्गैर्युक्तं पञ्चविधमिदं ज्ञेयम् ॥ १४.३० ॥ आख्यातं पाठ्यकृतं ज्ञेयं नानार्थाश्रयविशेषम् । वचनं नामसमेतं पुरुषविभक्तं तदाख्यातम् ॥ १४.३१ ॥ प्रातिपदिकार्थयुक्तान्धात्वर्थानुपसृजन्ति ये स्वार्थैः । उपसर्गा ह्युपदिष्टास्तस्मात्संस्कारशास्त्रेऽस्मिन् ॥ १४.३२ ॥ प्रातिपदिकार्थयोगाद्धातुच्छन्दोनिरुक्तयुक्त्या च । यस्मान्निपतन्ति पदे तस्मात्प्रोक्ता निपातास्तु ॥ १४.३३ ॥ प्रत्ययविभागजनिताः प्रकर्षसंयोगसत्ववचनैश्च । यस्मात्पूरयतेऽर्थान् प्रत्यय उक्तस्ततस्तस्मात् ॥ १४.३४ ॥ लोके प्रकृतिप्रत्ययविभागसंयोगसत्ववचनैश्च । तांस्तान् पूरयतेऽर्थांस्तेषु यस्तद्धितस्तस्मात् ॥ १४.३५ ॥ एकस्य बहूनां वा धातोर्लिङ्गस्य वा पदानां वा । विभजन्त्यर्थं यस्मात्विभक्तयस्तेन ताः प्रोक्ताः ॥ १४.३६ ॥ विशिष्टास्तु स्वरा यत्र व्यञ्जनं वापि योगतः । सन्धीयते पदे यस्मात्तस्मात्सन्धिः प्रकीर्तितः ॥ १४.३७ ॥ वर्णपदक्रमसिद्धः पदैकयोगाच्च वर्णयोगाच्च । सन्धीयते च यस्मात्तस्मात्सन्धिः समुद्दिष्टः ॥ १४.३८ ॥ लुप्तविभक्तिर्नाम्नामेकार्थं संहरत्समासोऽपि । तत्पुरुषादिकसंज्ञैर्निर्दिष्टः षड्विधो विप्राः ॥ १४.३९ ॥ एभिः शब्दविधानैर्विस्तारव्यञ्जनार्थसंयुक्तैः । पदबन्धाः कर्तव्या निबद्धबन्धास्तु चूर्णा वा ॥ १४.४० ॥ विभक्त्यन्तं पदं ज्ञेयं निबद्धं चूर्णमेव च । तत्र चूर्णपदस्येह सन्निबोधत लक्षणम् ॥ १४.४१ ॥ अनिबद्धपदं छन्दोविधानानियताक्षरम् । अर्थापेक्ष्यक्षरस्यूतं ज्ञेयं चूर्णपदं बुधैः ॥ १४.४२ ॥ निबद्धाक्षरसंयुक्तं यतिच्छेदसमन्वितम् । निबद्धं तु पदं ज्ञेयं प्रमाणनियतात्मकम् ॥ १४.४३ ॥ एवं नानार्थसंयुक्तैः पादैर्वर्णविभूषितैः । चतुर्भिस्तु भवेद्युक्तं छन्दो वृत्ताभिधानवत् ॥ १४.४४ ॥ षड्विंशतिः स्मृतान्येभिः पादैश्छन्दसि संख्यया । समञ्चार्धसमञ्चैव तथा विषममेव च ॥ १४.४५ ॥ छन्दोयुक्तं समासेन त्रिविधं वृत्तमिष्यते । नानावृत्तिविनिष्पन्ना शब्दस्यैषा तनूस्स्मृता ॥ १४.४६ ॥ छन्दोहीनो न शब्दोऽस्ति न च्छन्दश्शब्दवर्जितम् । तस्मात्तूभ्यसंयोगो नाट्यस्योद्योतकः स्मृतः ॥ १४.४७ ॥ एकाक्षरं भवेदुक्तमत्युक्तं द्व्यक्षरं भवेत् । मध्यं त्र्यक्षरमित्याहुः प्रतिष्ठा चतुरक्षरा ॥ १४.४८ ॥ सुप्रतिष्ठा भवेत्पञ्च गायत्री षड्भवेदिह । सप्ताक्षरा भवेदुष्णिगष्टाक्षरानुष्टुबुच्यते ॥ १४.४९ ॥ नवाक्षरा तु बृहती पङ्क्तिश्चैव दशाक्षरा । एकादशाक्षरा त्रिष्टुब्जगती द्वादशाक्षरा ॥ १४.५० ॥ त्रयोदशाऽतिजगती शक्वरी तु चतुर्दशा । अतिशक्वरी पञ्चदशा षोडशाष्टिः प्रकीर्तिता ॥ १४.५१ ॥ अत्यष्टिः स्यात्सप्तदशा धृतिरष्टादशाक्षरा । एकोनविंशतिर्धृतिः कृतिर्विंशतिरेव च ॥ १४.५२ ॥ प्रकृतिश्चैकविंशत्या द्वाविंशत्याकृतिस्तथा । विकृतिः स्यात्त्रयोविंशा चतुर्विंशा च संकृतिः ॥ १४.५३ ॥ पञ्चविंशत्यतिकृतिः षड्विंशत्युत्कृतिर्भवेत् । अतोऽधिकाक्षरं छन्दो मालावृत्तं तदिष्यते ॥ १४.५४ ॥ छन्दसां तु तथा ह्येते भेदाः प्रस्तारयोगतः । असंख्येयप्रमाणानि वृत्तान्याहुरतो बुधाः ॥ १४.५५ ॥ गायत्रीप्रभृतित्त्वेषां प्रमाणं संविधीयते । प्रयोगजानि सर्वाणि प्रायशो न भवन्ति हि ॥ १४.५६ ॥ वृत्तानि च चतुष्षष्टिर्गायत्र्यां कीर्तितानि तु । शतं विंशतिरष्टौ च वृत्तान्युष्णिह्यथोच्यते ॥ १४.५७ ॥ षट्पञ्चाशच्छते द्वे च वृत्तानामप्यनुष्टुभि । शतानि पञ्च वृतानां बृहत्यां द्वादशैव च ॥ १४.५८ ॥ पङ्क्त्यां सहस्रं वृत्तानां चतुर्विंशतिरेव च । त्रैष्टुभे द्वे सहस्रे च चत्वारिंशत्तथाष्ट च ॥ १४.५९ ॥ सहस्राण्यपि चत्वारि नवतिश्च षडुत्तरा । जगत्यां समवर्णानां वृत्तानामिह सर्वशः ॥ १४.६० ॥ अष्टौ सहस्राणि शतं द्व्यधिका नवतिः पुनः । जगत्यामतिपूर्वायां वृत्तानां परिमाणतः ॥ १४.६१ ॥ शतानि त्रीण्यशीतिश्च सहस्राण्यपि षोडश । वृत्तानि चैव चत्वारि शक्वर्याः परिसंख्यया ॥ १४.६२ ॥ द्वात्रिंशच्च सहस्राणि सप्त चैव शतानि च । अष्टौ षष्टिश्च वृत्तानि ह्याश्रयन्त्यतिशक्वरीम् ॥ १४.६३ ॥ पञ्चषष्टिसहस्राणि सहस्रार्धञ्च संख्यया । षट्त्रिंशच्चैव वृत्तानि ह्यष्ट्यां निगदितानि च ॥ १४.६४ ॥ एकत्रिंशत्सहस्राणि वृत्तानाञ्च द्विसप्ततिः । तथा शतसहस्रञ्च छन्दांस्यत्यष्टिसंज्ञिते ॥ १४.६५ ॥ धृत्यामपि हि पिण्डेन वृत्तान्याकल्पितानि तु । तज्ज्ञैः शतसहस्रे द्वे शतमेकं तथैव च ॥ १४.६६ ॥ द्विषष्टिश्च सहस्राणि चत्वारिंशच्च योगतः । चत्वारि चैव वृत्तानि समसंख्याश्रयाणि तु ॥ १४.६७ ॥ अतिधृत्यां सहस्राणि चतुर्विंशतिरेव च । तथा शतसहस्राणि पञ्च वृत्तशतद्वयम् ॥ १४.६८ ॥ अष्टाशीतिश्च वृत्तानि वृत्तज्ञैः कथितानि च । कृतौ शतसहस्राणि दश प्रोक्तानि संख्यया ॥ १४.६९ ॥ चत्वारिंशत्तथा चाष्टौ सहस्राणि शतानि च । पञ्चषट्सप्ततिश्चैव वृत्तानां परिमाणतः ॥ १४.७० ॥ तथा शतसहस्राणां प्रकृतौ विंशतिर्भवेत् । सप्त वै गदितास्त्वत्र नवतिश्चैव संख्यया ॥ १४.७१ ॥ सहस्राणि शतं चैकं द्विपञ्चाशत्तथैव च । वृत्तानि परिमाणेन वृत्तज्ञैर्गदितानि तु ॥ १४.७२ ॥ चत्वारिंशत्तथैकञ्च लक्षाणामथ संख्यया । तथा चेह सहस्राणि नवतिश्चतुरुत्तरा ॥ १४.७३ ॥ शतत्रयं समाख्यातं ह्याकृत्यां चतुरुत्तरम् । ज्ञेया शतसहस्राणामशीतिस्त्र्यधिका बुधैः ॥ १४.७४ ॥ अष्टाशीति सहस्राणि वृत्तानां षट्शतानि च । अष्टौ चैव तु वृत्तानि विकृत्यां गदितानि तु ॥ १४.७५ ॥ तथा शतसहस्राणि सप्तषष्टिश्च सप्ततिः । सप्त चैव सहस्राणि षोडशे द्वे शते तथा ॥ १४.७६ ॥ कोटिश्चैवेह वृत्तानि संकृतौ कथितानि वै । कोटित्रयञ्चाभिकृत्यां पञ्चत्रिंशद्भिरन्वितम् ॥ १४.७७ ॥ पञ्चाशद्भिः सहस्रैश्च चतुर्भिरधिकैस्तथा । चतुष्टयं शतानां च द्वात्रिंशद्भिः समन्वितम् ॥ १४.७८ ॥ षट्कोटयस्तथोत्कृत्यां लक्षाणामेकसप्ततिः । चतुष्षष्टिशतान्यष्टौ सहस्राण्यष्ट चैव हि ॥ १४.७९ ॥ उक्तादुत्कृतिपर्यन्तवृत्तसंख्यां विचक्षणः । एतेन च विकल्पेन वृत्तेष्वेतेषु निर्दिशेत् ॥ १४.८० ॥ सर्वेषां छन्दसामेवं वृत्तानि कथितानि वै । तिस्रः कोटयो दश तथा सहस्राणां शतानि तु ॥ १४.८१ ॥ चत्वारिंशत्तथा द्वे च सहस्राणि दशैव तु । सप्तभिः सहितान्येव सप्त चैव शतानि च ॥ १४.८२ ॥ षड्विंशतिरिहान्यानि व्याख्यातानि समासतः । समानि गणनायुक्तिमाश्रित्य कथितानि वै ॥ १४.८३ ॥ सर्वेषां छन्दसामेवं त्रिकैर्वृत्तं प्रयोजयेत् । ज्ञेयाश्चाष्टौ त्रिकास्तत्र संज्ञाभिः स्थानमच्छरम् ॥ १४.८४ ॥ त्रीण्यक्षराणि विज्ञेयस्त्रिकोऽंशः परिकल्पितः । गुरुलघ्वक्षरकृतः सर्ववृत्तेषु नित्यशः ॥ १४.८५ ॥ गुरुपूर्वो भकारः स्यान्मकारे तु गुरुत्रयम् । जकारो गुरुमध्यस्थः सकारोऽन्त्यगुरुस्तथा ॥ १४.८६ ॥ लघुमध्यस्थितो रेफस्तकारोऽन्त्यलघुः परः । लघुपूर्वो यकारस्तु नकारे तु लघुत्रयम् ॥ १४.८७ ॥ एते ह्यष्टौ त्रिकाः प्राज्ञैर्विज्ञेया ब्रह्मसम्भवाः । लाघवार्थं पुनरमी छन्दोज्ञानमवेक्ष्य च ॥ १४.८८ ॥ एभिर्विनिर्गताश्चान्या जातयोऽथ समादयः । अस्वराः सस्वराश्चैव प्रोच्यन्ते वृत्तलक्षणैः ॥ १४.८९ ॥ गुर्वेकं गिति विज्ञेयं तथा लघु लिति स्मृतम् । नियतः पदविच्छेदो यतिरित्यभिधीयते ॥ १४.९० ॥ गुरु दीर्घं प्लुतञ्चैव संयोगपरमेव च । सानुस्वारविसर्गं च तथान्त्यञ्च लघु क्वचित् ॥ १४.९१ ॥ गायत्र्यां द्वौ त्रिकौ ज्ञेयौ उष्णिक्चैकाधिकाक्षरा । अनुष्टुप्द्व्यधिका चैव बृहत्यां च त्रिकास्त्रयः ॥ १४.९२ ॥ एकाक्षराधिका पङ्क्तिस्त्रिष्टुप्च द्व्यधिकाक्षरा । चतुस्त्रिका तु जगती सैकातिजगती पुनः ॥ १४.९३ ॥ शक्वरी द्व्यधिका पञ्चत्रिका ज्ञेयातिशक्वरी । एकाधिकाक्षराष्टिश्च द्व्यधिकात्यष्टिरुच्यते ॥ १४.९४ ॥ षट्त्रिकास्तु धृतिः प्रोक्ता सैका चातिधृतिस्तथा । कृतिश्च द्व्यधिका प्रोक्ता प्रकृत्यां सप्त वै त्रिकाः ॥ १४.९५ ॥ आकृतिस्त्वधिकैकेन द्व्यधिका विकृतिस्तथा । अष्टत्रिकाः संकृतौ स्यात्सैका चाभिकृतिः पुनः ॥ १४.९६ ॥ उत्कृतिर्द्व्यधिका चैव विज्ञेया गणमानतः । गुर्वेकं ग इति प्रोक्तं गुरुणी गाविति स्मृतौ । लघ्वेकं ल इति ज्ञेयं लघुनी लाविति स्मृतौ ॥ १४.९७ ॥ संपद्विरामपादाश्च दैवतस्थानमक्षरम् । वर्णः स्वरो विधिर्वृत्तमिति छन्दोगतो विधिः ॥ १४.९८ ॥ नैवातिरिक्तं हीनं वा यत्र संपद्यते क्रमः । विधाने च्छन्दसामेष संपदित्यभिसंज्ञितः ॥ १४.९९ ॥ यत्रार्थस्य समाप्तिः स्यात्स विराम इति स्मृतः । पादश्च पद्यतेर्धातोश्चतुर्भाग इति स्मृतः ॥ १४.१०० ॥ अग्न्यादिदैवतं प्रोक्तं स्थानं द्विविधमुच्यते । शरीराश्रयसंभूतं दिगाश्रयमथापि च ॥ १४.१०१ ॥ शारीरं मन्त्रसंभूतं छन्दो गायत्रसंज्ञितम् । क्रुष्टे मध्यं दिनं प्रोक्तं त्रैष्टुभं परिकीर्त्यते ॥ १४.१०२ ॥ तृतीयसवनञ्चापि शीर्षण्यं जागतं हि यत् । ह्रस्वं दीर्घं प्लुतञ्चैव त्रिविधञ्चाक्षरं स्मृतम् ॥ १४.१०३ ॥ श्वेतादयस्तथा वर्णा विज्ञेयाश्छन्दसामिह । तारश्चैव हि मन्द्रश्च मध्यमस्त्रिविधः स्वरः ॥ १४.१०४ ॥ ध्रुवाविधाने चैवास्य संप्रवक्ष्यामि लक्षणम् । विधिर्गणकृतश्चैव तथैवार्थकृतो भवेत् ॥ १४.१०५ ॥ छन्दतो यस्य पादे स्याद्धीनं वाऽधिकमेव वा । अक्षरं निचृदिति प्रोक्तं भूरिक्चेति द्विजोत्तमाः ॥ १४.१०६ ॥ अक्षराभ्यां सदा द्वाभ्यामधिकं हीनमेव वा । तच्छन्दो नामतो ज्ञेयं स्वराडिति विराडपि ॥ १४.१०७ ॥ सर्वेषामेव वृत्तानां तज्ज्ञैर्ज्ञेया गणास्त्रयः । दिव्यो दिव्येतरश्चैव दिव्यमानुष एव च ॥ १४.१०८ ॥ गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च । त्रिष्टुप्च जगती चैव दिव्योऽयं प्रथमो गणः ॥ १४.१०९ ॥ तथातिजगती चैव शक्वरी चातिशक्वरी । अष्टिरत्यष्टिरपि च धृतिश्चातिधृतिर्गणः ॥ १४.११० ॥ कृतिश्च प्रकृतिश्चैव ह्याकृतिर्विकृतिस्तथा । संकृत्यभिकृती चैव उत्कृतिर्दिव्यमानुषा ॥ १४.१११ ॥ एतेषां छन्दसां भूयः प्रस्तारविधिसंश्रयम् । लक्षणं संप्रवक्ष्यामि नष्टमुद्दिष्टमेव च ॥ १४.११२ ॥ प्रस्तारोऽक्षरनिर्दिष्टो मात्रोक्तश्च तथैव हि । द्विकौ ग्लाविति वर्णोक्तौ मिश्रौ चेत्यपि मात्रिकौ ॥ १४.११३ ॥ गुरोरधस्तादाद्यस्य प्रस्तारे लघु विन्यसेत् । अग्रतस्तु समादेया गुरवः पृष्ठतस्तथा ॥ १४.११४ ॥ प्रथमं गुरुभिर्वर्णैर्लघुभिस्त्ववसानजम् । वृत्तन्तु सर्वछन्दस्सु प्रस्तारविधिरेव तु ॥ १४.११५ ॥ गुर्वधस्ताल्लघुं न्यस्य तथा द्विद्वि यथोदितम् । न्यस्येत्प्रस्तारमार्गोऽयमक्षरोक्तस्तु नित्यशः ॥ १४.११६ ॥ मात्रासंख्याविनिर्दिष्टो गणो मात्राविकल्पितः । मिश्रौ ग्लाविति विज्ञेयौ पृथक्लक्ष्यविभागतः ॥ १४.११७ ॥ मात्रागणो गुरुश्चैव लघुनी चैव लक्षिते । आर्याणां तु चतुर्मात्राप्रस्तारः परिकल्पितः ॥ १४.११८ ॥ गीतकप्रभृतीनान्तु पञ्चमात्रो गणः स्मृतः । वैतालीयं पुरस्कृत्य षण्मात्राद्यास्तथैव च ॥ १४.११९ ॥ त्र्यक्षरास्तु त्रिका ज्ञेया लघुगुर्वक्षरान्विताः । मात्रागणविभागस्तु गुरुलघ्वक्षराश्रयः ॥ १४.१२० ॥ अन्त्याद्द्विगुणिताद्रूपाद्द्विद्विरेकं गुरोर्भवेत् । द्विगुणाञ्च लघोः कृत्वा संख्यां पिण्डेन योजयेत् ॥ १४.१२१ ॥ आद्यं सर्वगुरु ज्ञेयं वृत्तन्तु समसंज्ञितम् । कोशं तु सर्वलघ्वन्त्यं मिश्ररूपाणि सर्वतः ॥ १४.१२२ ॥ वृत्तानां तु समानानां संख्यां संयोज्य तावतीम् । राश्यूनामर्धविषमां समासादभिनिर्दिशेत् ॥ १४.१२३ ॥ एकादिकां तथा संख्यां छन्दसो विनिवेश्य तु । यावत्पूर्णन्तु पूर्वेण पूरयेदुत्तरं गणम् ॥ १४.१२४ ॥ समानां विषमाणां च संगुणय्य तथा स्फुटम् । राश्यूनामभिजानीयाद्विषमाणां समासतः ॥ १४.१२५ ॥ एवं कृत्वा तु सर्वेषां परेषां पूर्वपूरणम् । क्रमान्नैधनमेकैकं प्रतिलोमं विसर्जयेत् ॥ १४.१२६ ॥ सर्वेषां छन्दसामेवं लघ्वक्षरविनिश्चयम् । जानीत समवृत्तानां संख्यां संक्षेपतस्तथा ॥ १४.१२७ ॥ वृत्तस्य परिमाणन्तु छित्वार्धेन यथाक्रमम् । न्यसेल्लघु यथा सैकमक्षरं गुरु चाप्यथ ॥ १४.१२८ ॥ एवं विन्यस्य वृत्तानां नष्टोद्दिष्टविभागतः । गुरुलघ्वक्षराणीह सर्वछन्दस्सु दर्शयेत् ॥ १४.१२९ ॥ इति छन्दांसि यानीह मयोक्तानि द्विजोत्तमाः । वृत्तान्येतेषु नाट्येऽस्मिन् प्रयोज्यानि निबोधत ॥ १४.१३० ॥ इति भरतीये नाट्यशास्त्रे वाचिकाभिनये छन्दोविधानं नाम चतुर्दशोऽध्यायः _____________________________________________________________ अथ पञ्चदशोऽध्यायः छन्दांस्येवं हि यानीह मयोक्तानि द्विजोत्तमाः । वृत्तानि तेषु नाट्येऽस्मिन् प्रयोज्यानि निबोधत ॥ १५.१ ॥ आद्ये पुनरन्त्ये द्वे द्वे गुरुणी चेत् । सा स्यात्तनुमध्या गायत्रसमुत्था ॥ १५.२ ॥ यथा संत्यक्तविभूषा भ्रष्टाञ्जननेत्रा । हस्तार्पितगण्डा किं त्वं तनुमध्या ॥ १५.३ ॥ लघुगण आदौ भवति चतुष्कः । गुरुयुगमन्त्ये मकरकशीर्षा ॥ १५.४ ॥ यथा स्वयमुपयान्तं भजसि न कान्तम् । भयकरि किं त्वं मकरकशीर्षा ॥ १५.५ ॥ एकमात्रं षट्के स्याद्द्वितीयं पादे । ख्यातरूपा वृत्ते सा मालिनी नाम्ना ॥ १५.६ ॥ षडक्षरकृते पादे लघु यत्र द्वितीयकम् । शेषाणि तु गुरूणि स्युर्मालिनी सा मता यथा ॥ १५.७ ॥ स्नानगन्धाधिक्यैर्वस्त्रभूषायोगैः । व्यक्तमेवासौ त्वं मालिनी प्रख्याता ॥ १५.८ ॥ द्वितीयं पञ्चमं चैव लघु यत्र प्रतिष्ठितम् । शेषाणि च गुरूणि स्युर्मालती नाम सा यथा ॥ १५.९ ॥ शोभते बद्धया षट्पदाविद्धया । मालतीमालया मानिनी लीलया ॥ १५.१० ॥ द्वितीयं च चतुर्थं च पञ्चमं च यदा लघु । यस्याः सप्ताक्षरे पादे ज्ञेया सा तूद्धता यथा ॥ १५.११ ॥ सौ त्रिकौ यदि पादे ह्यन्तिमश्च गकारः । उष्णिगुत्थितपादा उद्धता खलु नाम्ना ॥ १५.१२ ॥ दन्तकृन्तकृतास्त्रं व्याकुलालकशोभम् । शंसतीव तवास्यं निर्दयं रतयुद्धम् ॥ १५.१३ ॥ आदौ द्वे निधने चैव गुरुणी यत्र वै सदा । पादे सप्ताक्षरे ज्ञेया नाम्ना भ्रमरमालिका ॥ १५.१४ ॥ पादे पादे निविष्टौ सम्यग्विरचितौ त्सौ । अन्त्ये यदि गकारः सा तु भ्रमरमाला ॥ १५.१५ ॥ यथा नानाकुसुमचित्रे प्राप्ते सुरभिमासे । एषा भ्रमति मत्ता कान्ते भ्रमरमाला ॥ १५.१६ ॥ आद्यं तृतीयमन्त्यं च पञ्चमं सप्तमं तथा । गुरूण्यष्टाक्षरे पादे सिंहलेखेति सा यथा ॥ १५.१७ ॥ जातु यस्य गौ न , पादे संस्थितः समस्वरूपे । तामनुष्टुबाश्रयस्थां वावदन्ति सिंहलेखाम् ॥ १५.१८ ॥ यत्त्वया ह्यनेकभावैश्चेष्टितं रहः सुगात्रि । तन्मनो मम प्रविष्टं वृत्तमद्य सिंहलेखम् ॥ १५.१९ ॥ चतुर्थं च द्वितीयं च षष्ठमष्टममेव च । गुरूण्यष्टाक्षरे पादे यत्र तन्मत्तचेष्टितम् ॥ १५.२० ॥ यदा तु जात्परौ रलौ गकार एव च स्थितः । अनुष्टुबुद्भवं तदा वदन्ति मत्तचेष्टितम् ॥ १५.२१ ॥ यथा चरावघूर्णितेक्षणं विलम्बिताकुलालकम् । असंस्थितैः पदैः प्रिया करोति मत्तचेष्टितम् ॥ १५.२२ ॥ अष्टाक्षरकृते पादे सर्वाण्येव भवन्ति हि । गुरूणि यस्मिन्सा नाम्ना विद्युन्मालेति कीर्तिता ॥ १५.२३ ॥ मौ गौ चान्त्यौ यस्याः पादे पादस्यान्ते विच्छेदश्च । सा चानुष्टुप्छन्दस्युक्ता नित्यं सद्भिर्विद्युन्माला ॥ १५.२४ ॥ साम्भोभारैरानानद्भिः श्यामाम्भोदैर्व्याप्ते व्योम्नि । आदित्यांशुस्पर्धिन्येषा दिक्षु भ्रान्ता विद्युन्माला ॥ १५.२५ ॥ पञ्चमं सप्तमं चान्त्यं गुरु पादेऽष्टके तथा । छन्दोज्ञैर्ज्ञेयमेतत्तु वृत्तं चित्तविलासितम् ॥ १५.२६ ॥ स्मितवशविप्रकाशैर्दशनपदैरमीभिः । वरतनु पूर्णचन्द्रं तव मुखमावृणोति ॥ १५.२७ ॥ नवाक्षरकृते पादे त्रीणि स्युर्नैधनानि च । गुरूणि यस्याः सा नाम्ना ज्ञेया मधुकरी यथा ॥ १५.२८ ॥ षडिह यदि लघूनि स्युर्निधनगतमकारश्चेत् । बुधजनबृहतीसंस्था भवति मधुकरी नाम्ना ॥ १५.२९ ॥ कुसुमितमभिपश्यन्ती विविधतरुगणैश्छन्नम् । वनमतिशयगन्धाढ्यं भ्रमति मधुकरी हृष्टा ॥ १५.३० ॥ दशाक्षरकृते पादे त्रीण्यादौ त्रीणि नैधने । यस्या गुरूणि सा ज्ञेया पङ्क्तिरुत्पलमालिका ॥ १५.३१ ॥ त्रीण्यादौ यदि हि गुरूणि स्युश्चत्वारो यदि लघवो मध्ये । पङ्क्तावन्तगतमकारः स्याद्विज्ञेया कुवलयमालाख्या ॥ १५.३२ ॥ यथा अस्मिंस्ते शिरसि तदा कान्ते वैडूर्यस्फटिकसुवर्णाढ्ये । शोभां स्वां न वहति तां बद्धा सुश्लिष्टा कुवलयमालेयम् ॥ १५.३३ ॥ द्वितीयं च चतुर्थं च षष्टमष्टममेव च । ह्रस्वं दशाक्षरे पादे यत्र सा शिखिसारिणी ॥ १५.३४ ॥ जौ त्रिकौ हि पादगौ तु यस्य गौ च संश्रितौ तथा समौ स्तौ । पङ्क्तियोगसुप्रतिष्ठिताङ्गी सा मयूरसारिणीति नाम्ना ॥ १५.३५ ॥ यथा नैव तेऽस्ति संगमो मनुष्यैर्नापि कामभोगचिह्नमन्यत् । गर्भिणीव दृश्यसे ह्यनार्ये किं मयूरसारिणी त्वमेवम् ॥ १५.३६ ॥ आद्यं चतुर्थमन्त्यं च सप्तमं दशमं तथा । गुरूणि त्रैष्टुभे पादे यत्र स्युर्दोधकं तु तत् ॥ १५.३७ ॥ भौ तु भगाविति यस्य गणाः स्युः स्याच्च यतिस्त्रिचतुर्भिरथाऽस्मिन् । त्रैष्टुभमेव हि तत्खलु नाम्ना दोधकवृत्तमिति प्रवदन्ति ॥ १५.३८ ॥ यथा प्रस्खलिताप्रपदप्रविचायं मत्तविघूर्णितगात्रविलासम् । पश्य विलासिनि कुञ्जरमेतं दोधकवृत्तमयं प्रकरोति ॥ १५.३९ ॥ आदौ द्वौ पञ्चमं चैवाप्यष्टमं नैधनं तथा । गुरुण्येकादशे पादे यत्र तन्मोटकं यथा ॥ १५.४० ॥ एषोऽम्बुदतुल्यनिस्वनरवः क्षीवः स्खलमानविलम्बगतिः । श्रुत्वा घनगर्जितमद्रितटे वृक्षान् प्रतिमोटयति द्विरदः ॥ १५.४१ ॥ नवमं सप्तमं षष्ठं तृतीयं च भवेल्लघु । सर्वास्ववस्थासु च कामतन्त्रे योग्यासि किं वा बहुनेन्द्रवज्रा ॥ १५.४३ ॥ एभिरेव तु संयुक्ता लघुभिस्त्रैष्टुभी यदा । उपेन्द्रवज्रा विज्ञेया लघ्वादाविह केवलम् ॥ १५.४४ ॥ प्रिये श्रिया वर्णविशेषणेन स्मितेन कान्त्या सुकुमारभावैः । अमी गुणा रूपगुणानुरूपा भवन्ति ते किं त्वमुपेन्द्रवज्रा ॥ १५.४५ ॥ आद्यं तृतीयमन्त्यं च सप्तमं नवमं तथा । गुरूण्येकादशे पादे यत्र सा तु रथोद्धता ॥ १५.४६ ॥ किं त्वया सुभट दूरवर्जितं नात्मनो न सुहृदां प्रियं कृतम् । यत्पलायनपरायणस्य ते याति धूलिरधुना रथोद्धता ॥ १५.४७ ॥ यथा किं त्वया कुमतिसङ्गया सदा नाज्ञयेव सुहृदां प्रियं कृतम् । यद्गृहाद्वचनरोषकम्पिता याति तूर्णमबला रथोद्धता ॥ १५.४८ ॥ आद्यं तृतीयमन्त्यं च सप्तमं दशमं गुरु । यस्यास्तु त्रैष्टुभे पादे विज्ञेया स्वागता हि सा ॥ १५.४९ ॥ यथा अद्य मे सफलमायतनेत्रे जीवितं मदनसंश्रयभावम् । आगतासि भवनं मम यस्मात्स्वागतं तव वरोरु निषीद ॥ १५.५० ॥ षष्ठं च नवमं चैव लघुनी त्रैष्टुभे यदि । गुरूण्यन्यानि पादे तु सा ज्ञेया शालिनी यथा ॥ १५.५१ ॥ दुःशीलं वा निर्गुणं वापरं वा लोके धैर्यादप्रियं न ब्रवीषि । तस्माच्छीलं साधुहेतोः सुवृत्तं माधुर्यात्स्यात्सर्वथा शालिनी त्वम् ॥ १५.५२ ॥ तृतीयं चैव षष्ठं च नवमं द्वादशं तथा । गुरूणि जागते पादे यत्र तत्तोटकं भवेत् ॥ १५.५३ ॥ यदि सोऽत्र भवेत्तु समुद्रसमस्त्रिषु चापि तथा नियमेन यतिः । सततं जगतीविहितं हि ततं गदितं खलु तोटकवृत्तमिदम् ॥ १५.५४ ॥ यथा किमिदं कपटाश्रयदुर्विषहं बहुशाठ्यमथोल्बणरूक्षकथम् । स्वजनप्रियसज्जनभेदकरं ननु तोटकवृत्तमिदं कुरुषे ॥ १५.५५ ॥ आद्यं तृतीयमन्त्यं च पञ्चमं षष्ठमेव च । तथोपान्त्यं जगत्यां च गुरु चेत्कुमुदप्रभा ॥ १५.५६ ॥ यौ त्रिकौ तथा न्यौ यदि खलु पादे षड्भिरेव वर्णैर्यदि च यतिः स्यात् । नित्यसंनिविष्टा जगतिविधाने नामतः प्रसिद्धा कुमुदनिभा सा ॥ १५.५७ ॥ यथा मन्मथेन विद्धा सललितभावा नृत्तगीतयोगा प्रविकसिताक्षी । निन्द्यमद्य किं त्वं विगलितशोभा चन्द्रपादयुक्ता कुमुदवती च ॥ १५.५८ ॥ मतान्तरे यदि खलु पादे न्यौ त्रिकौ यथा यौ यतिरपि वर्णैः षड्भिरेव चेत्स्यात् । जगतिविधाने नित्यसंनिविष्टा कुमुदनिभा सा नामतः प्रसिद्धा ॥ १५.५९ ॥ यथा कुमुदनिभा त्वं कामबाणविद्धा किमसि नतभ्रूः शीतवातदग्धा । मृदुनलिनीवापाण्डुवक्त्रशोभा कथमपि जाता ह्यग्रतः सखीनाम् ॥ १५.६० ॥ द्वादशाक्षरके पादे सप्तमं दशमं लघु । आदौ पञ्चाक्षरच्छेदश्चन्द्रलेखा तु सा यथा ॥ १५.६१ ॥ वक्त्रं सौम्यं ते पद्मपत्रायताक्षं कामस्यावासं सुनासोच्चप्रहासम् । कामस्यापीदं काममाहर्तुकामं कान्ते कान्त्या त्वं चन्द्रलेखेव भासि ॥ १५.६२ ॥ तृतीयमन्त्यं नवमं पञ्चमं च यदा गुरु । द्वादशाक्षरके पादे यत्र सा प्रमिताक्षरा ॥ १५.६३ ॥ यथा स्मितभाषिणी ह्यचपलापरुषा निभृतापवादविमुखी सततम् । अपि कस्यचिद्युवतिरस्ति सुखा प्रमिताक्षरा स हि पुमाञ्जयति ॥ १५.६४ ॥ द्वितीयमन्त्यं दशमं चतुर्थं पञ्चमाष्टमे । गुरूणि द्वादशे पादे वंशस्था जगती तु सा ॥ १५.६५ ॥ यदि त्रिकौ ज्तौ भवतस्तु पादतस्तथैव च ज्राववसानसंस्थितौ । तदा हि वृत्तं जगतीप्रतिष्ठितं वदन्ति वंशस्थमितीह नामतः ॥ १५.६६ ॥ न मे प्रिया त्वं बहुमानवर्जितां प्रियं प्रिया ते परुषाभिभाषिणी । तथा च पश्याम्यहमद्य विग्रहं ध्रुवं हि वंशस्थगतिं करिष्यति ॥ १५.६७ ॥ चतुर्थमन्त्यं दशमं सप्तमं च यदा गुरु । भवेद्धि जागते पादे तदा स्याद्धरिणप्लुता ॥ १५.६८ ॥ परुषवाक्यकशाभिहिता त्वया भयविलोकनपार्श्वनिरीक्षणा । वरतनुः प्रततप्लुतसर्पणैरनुकरोति गतैर्हरिणप्लुतम् ॥ १५.६९ ॥ सप्तमं नवमं चान्त्यमुपान्त्यं च यदा गुरु । द्वादशाक्षरके पादे कामदत्तेति सा यथा ॥ १५.७० ॥ करजपदविभूषिता यथा त्वं सुदति दशनविक्षताधरा च । गतिरपि चरणावलग्नमन्दा त्वमसि मृगनिभाक्षि कामदत्ता ॥ १५.७१ ॥ आद्यं चतुर्थं दशमं सप्तमं च यदा लघु । पादे तु जागते यस्या अप्रमेया तु सा यथा ॥ १५.७२ ॥ न ते काचिदन्या समा दृश्यते स्त्री नृलोके विशिष्टा गुणैरद्वितीयैः । त्रिलोक्यां गुणज्ज्ञान् समाहृत्य सर्वान् जगत्यप्रमेयासि सृष्टा विधात्रा ॥ १५.७३ ॥ द्वितीयं पञ्चमं चैव ह्यष्टमेकादशे यथा । पादे यत्र लघूनि स्युः पद्मिनी नाम सा यथा ॥ १५.७४ ॥ रास्त्रिकाः सागराख्या निविष्टा यदा स्यात्त्रिके च त्रिके युक्तरूपा यतिः । सन्निविष्टा जगत्यास्ततस्सा बुधैर्नामतश्चापि संकीर्त्यते पद्मिनी ॥ १५.७५ ॥ देहतोयाशया वक्त्रपद्मोज्ज्वला नेत्रभृङ्गाकुला दन्तहंसस्मिता । केशपाशच्छदा चक्रवाकस्तनी पद्मिनीव प्रिये भासि मे सर्वदा ॥ १५.७६ ॥ फुल्लपद्मानना त्वं द्विरेफेक्षणा केशपत्रच्छदा चक्रवाकस्तनी । पीततोयावली बद्धकाञ्चीगुणा पद्मिनीव प्रिये भासि नीरे स्थिता ॥ १५.७७ ॥ आदौ षट्दशमं चैव पादे यत्र लघून्यथ । शेषाणि तु गुरूणि स्युर्जागते पुटसंज्ञिता ॥ १५.७८ ॥ यदि चरणनिविष्टौ नौ तथा म्यौ यतिविधिरपि युक्त्याष्टाभिरिष्टः । भवति च जगतीस्थः सर्वदासौ य इह हि पुटवृत्तं नामतस्तु ॥ १५.७९ ॥ उपवनसलिलानां बालपद्मैर्भ्रमरपरभृतानां कण्ठनादैः । मदनमदविलासैः कामिनीनां कथयति पुटवृत्तं पुष्पमासः ॥ १५.८० ॥ द्वितीयान्त्ये चतुर्थं च नवमैकादशे गुरु । विच्छेदोऽतिजगत्यां तु चतुर्भिः सा प्रभावती ॥ १५.८१ ॥ कथं न्विदं कमलविशाललोचने गृहं धनैः पिहितकरे दिवाकरे । अचिन्तयन्त्यभिनववर्षविद्युतस्त्वमागता सुतनु यथा प्रभावती ॥ १५.८२ ॥ त्रीण्यादावष्टमं चैव दशमं नैधनद्वयम् । गुरूण्यतिजगत्यां तु त्रिभिश्छेदैः प्रहर्षिणी ॥ १५.८३ ॥ भावस्थैर्मधुरकथैः सुभाषितैस्त्वं साटोपस्खलितविलम्बितैर्गतैश्च । शोभाढ्यैर्हरसि मनांसि कामुकानां सुव्यक्तं ह्यतिजगती प्रहर्षिणी च ॥ १५.८४ ॥ षष्ठं च सप्तमं चैव दशमैकादशे लघु । त्रयोदशाक्षरे पादे ज्ञेयं मत्तमयूरकम् ॥ १५.८५ ॥ विद्युन्नद्धाः सेन्द्रधनुरञ्जितदेहा वातोद्धूताः श्वेतवलाकाकृतशोभाः । एते मेघा गर्जितनादोज्ज्वलचिह्नाः प्रावृट्कालं मत्तमयूराः कथयन्ति ॥ १५.८६ ॥ आदौ द्वे चतुर्थं चैव चाष्टमैकादशे गुरु । अन्त्योपान्त्ये च शक्वर्या वसन्ततिलका यथा ॥ १५.८७ ॥ चित्रैर्वसन्तकुसुमैः कृतकेशहस्ता स्रग्दाममाल्यरचना सुविभूषिताङ्गी । नानावसन्तकविभूषितकर्णपाशा साक्षाद्वसन्ततिलकेव विभाति नारी ॥ १५.८८ ॥ पञ्चादौ शक्वरी पादे गुरूणि त्रीणि नैधने । पञ्चाक्षरादौ च यतिरसंबाधा तु सा यथा ॥ १५.८९ ॥ यथा मानालोकज्ञः सुतबलकुलशीलाढ्यो यस्मिन्सम्मानं न सदृशमनु पश्येद्धि । गच्छेत्तं त्यक्त्वा द्रुतगतिरपरं देशं कीर्णा नानार्थैरवनिरियमसंबाधा ॥ १५.९० ॥ चत्वार्यादौ गुरूणि स्युर्दशमैकादशे तथा । अन्त्योपान्त्ये च शक्वर्याः पादे तु शरभा यथा ॥ १५.९१ ॥ एषा कान्ता व्रजति ललिता वेपमाना गुल्मैश्च्छन्नं वनमभिनवैः संप्रविद्धम् । हा हा कष्टं किमिदमिति नो वेद्मि मूढो व्यक्तं कान्ते शरभललितान्त्वं करोषि ॥ १५.९२ ॥ अदौ षट्दशमं चैव लघु चैव त्रयोदशम् । यत्रातिशक्वरे पादे ज्ञेया नान्दीमुखी तु सा ॥ १५.९३ ॥ यथा न खलु तव कदाचित्क्रोधताम्रायताक्षं भ्रुकुटिवलितभङ्गं दृष्टपूर्वं मयास्यम् । किमिह बहुभिरुक्तैर्या ममेच्छा हृदिस्था त्वमसि मधुरवाक्या देवि नान्दीमुखीव ॥ १५.९४ ॥ आद्यं चतुर्थं षष्ठं च नैधनं च यदा गुरु । षोडशाक्षरके पादे यत्रेभललितं तु तत् ॥ १५.९५ ॥ भ्रौ यदि नाश्च नित्यमिह विरचितचरणः गश्च तथा वै भवति निधनमुपगतः । स्यादपि चाष्टिमेव यदि सततमनुगतं तत्खलु वृत्तमग्रवृषभगजविलसितम् ॥ १५.९६ ॥ कालतोयधरैः सुधीरधनपटुपटहरवैः सर्जकदम्बनीपकुटजकुसुमसुरभिः । कन्दलसेन्द्रगोपकरचितमवनितलं वीक्ष्य करोत्यसौ वृषभगजविलसितम् ॥ १५.९७ ॥ आद्यात्पराणि वै पञ्च द्वादशं सत्रयोदशः । अन्त्योपान्त्ये च दीर्घाणि ललितप्रवरं हि तत् ॥ १५.९८ ॥ यदा य्मौ पादस्थौ भवत इह चेत्स्तौ तथा गौ तथा षड्भिश्चान्यैर्यतिरपि च वर्णैर्यथा स्यात् । तदप्यष्टौ नित्यं समनुगतमेवोक्तमन्यैः प्रयोगज्ञैर्वृत्तं प्रवरललितं नामतस्तु ॥ १५.९९ ॥ यथा नखालीढं गात्रं दशनखचितं चोष्ठगण्डं शिरः पुष्पोन्मिश्रं प्रविलुलितकेशालकान्तम् । गतिः खिन्ना चेयं वदनमपि संभ्रान्तनेत्रमहो श्लाघ्यं वृत्तं प्रवरललितं कामचेष्टम् ॥ १५.१०० ॥ आद्यात्पराणि पञ्चाथ द्वादशं सत्रयोदशम् । अन्त्यं सप्तदशे पादे शिखरिण्यां गुरूणि च ॥ १५.१०१ ॥ चतुर्भिस्तस्यैव प्रवरललितस्य त्रिकगणैर्यदा लौ गश्चान्ते भवति चरणेऽत्यष्टिगदिते । यदा षड्भिश्च्छेदो भवति यदि मार्गेण विहितस्तदा वृत्तेष्वेषा खलु शिखरिणी नाम गदिता ॥ १५.१०२ ॥ यथा महानद्या भोगं पुलिनमिव भाति ते जघनं तथास्यं नेत्राढ्यं भ्रमरसहितं पङ्कजमिव । गतिर्मन्दा चेयं सुतनु तव चेष्टा सुललिता स्तनाभ्यां ताभ्यां त्वं शिखरिणि सुपीनासि वनिते ॥ १५.१०३ ॥ यत्र पञ्च लघून्यादौ त्रयोदशचतुर्दशे । षोडशैकादशे चैव तत्स्याद्वृषभचेष्टितम् ॥ १५.१०४ ॥ यदि हि चरणे न्सौ स्लौ गः क्रमाद्विनिवेशितार्यदि खलु यतिः षड्भिर्वर्णैर्स्तथा दशभिः पुनः । यदि विहितं स्यादत्यष्टिः प्रयोगसुखाश्रयं वृषभललितं वृत्तं ज्ञेयं तथा हरिणीति वा ॥ १५.१०५ ॥ यथा जलधररवं श्रुत्वा श्रुत्वा मदोच्छ्रयदर्पितो विलिखितमहीशृङ्गाक्षेपैर्वृषैः प्रतिनर्द्य च । स्वयुवतिवृतो गोष्ठाद्गोष्ठं प्रयाति च निर्भयो वृषभललितं चित्रं वृत्तं करोति च शाद्वले ॥ १५.१०६ ॥ चत्वार्यादौ च दशमं गुरु यत्र त्रयोदशं चतुर्दशं तथान्त्ये द्वे चैकादशमथापि च ॥ १५.१०७ ॥ यदा सप्तदशे पादे शेषाणि च लघून्यथ । भवन्ति यस्मिन्सा ज्ञेया श्रीधरी नामतो यथा ॥ १५.१०८ ॥ मो भ्नौ च स्युश्चरणरचितास्तौ गुरू च प्रविष्टाश्छेदः शिष्टो यदि च दशभिः स्यात्तथान्यैश्चतुर्भिः । अत्यष्टौ च प्रतिनियमिता वर्णतः स्पष्टरूपा सा विज्ञेया द्विजमुनिगणैः श्रीधरी नामतस्तु ॥ १५.१०९ ॥ स्नानैश्चूर्णैः सुखसुरभिभिर्गन्धवासैश्च धूपैः पुष्पैश्चान्यैः शिरसि रचितैर्वस्त्रयोगैश्च तैस्तैः । नानारत्नैः कनकखचितैरङ्गसंभोगसंस्थैर्व्यक्तं कान्ते कमलनिलया श्रीधरीवातिभासि ॥ १५.११० ॥ आद्यं चतुर्थं षष्ठं च दशमं नैधनं गुरु । तद्वंशपत्रपतितं दशभिः सप्तभिर्यतिः ॥ १५.१११ ॥ यथा एष गजोऽद्रिमस्तकतटे कलभपरिवृतः क्रीडति वृक्षगुल्मगहने कुसुमभिरनते । मेघरवं निशम्य मुदितः पवनजवसमः सुन्दरि वंशपत्रपतितं पुनरपि कुरुते ॥ १५.११२ ॥ द्वितीयमन्त्यं षष्ठं चाप्यष्टमं द्वादशं तथा । चतुर्दशं पञ्चदशं पादे सप्तदशाक्षरे ॥ १५.११३ ॥ भवन्ति यत्र दीर्घाणि शेषाणि च लघून्यथ । विलम्बितगतिः सा तु विज्ञेया नामतो यथा ॥ १५.११४ ॥ यदा द्विरुदितौ हि पादमभिसंश्रितौ ज्सौ त्रिकौ तथैव च पुनस्तयोर्निधनमाश्रितौ यौ लगौ । तदष्टिरतिपूर्विका यतिरपि स्वभावाद्यथा विलम्बितगतिस्तदा निगदिता द्विजैर्नामतः ॥ १५.११५ ॥ यथा विघूर्णितविलोचना पृथुविकीर्णहारा पुनः प्रलम्बरशना चलत्स्खलितपादमन्दक्लमा । न मे प्रियमिदं जनस्य बहुमानरागेण यन्मदेन विवशा विलम्बितगतिः कृता त्वं प्रिये ॥ १५.११६ ॥ पञ्चादौ पञ्चदशकं द्वादशैकादशे गुरु । चतुर्दशं तथान्त्ये द्वे चित्रलेखा धृतौ स्मृता ॥ १५.११७ ॥ यथा नानारत्नाढ्यैर्बहुभिरधिकं भूषणैरङ्गसंस्थैर्नाना गन्धाढ्यैर्मदनजनकैरङ्गरागैर्विचित्रैः । केशैः स्नानाढ्यैः कुसुमभरितैर्वस्त्ररागैश्च तैस्तैः कान्ते संक्षेपात्किमिह बहुना चित्रलेखेव भासि ॥ १५.११८ ॥ अन्त्यं सप्तदशं चैव षोडशं सचतुर्दशम् । त्रयोदशं द्वादशं च षष्ठमष्टममेव च ॥ १५.११९ ॥ त्रीण्यादौ च गुरूणि स्युर्यस्मिंस्त्वेकोनविंशके । पादे लघूनि शेषाणि शार्दूलक्रीडितं तु तत् ॥ १५.१२० ॥ म्सौ ज्सौ तौ गुरु च प्रयोगनियता यस्मिन्निविष्टास्त्रिका आद्या चान्त्ययतिश्चतुस्त्रिकयुता ज्ञेया परा सप्तभिः । नित्यं यत्पदमाश्रिता ह्यतिधृतिर्नित्यं कवीनां प्रियं तज्ज्ञेयं खलु वृत्तजातिनिपुणैः शार्दूलविक्रीडितम् ॥ १५.१२१ ॥ यथा नानाशस्त्रशतघ्नितोमरहताः प्रभ्रष्टसर्वायुधाः निर्भिन्नोदरपादबाहुवदना निर्णाशिताः शत्रवः । धैर्योत्साहपराक्रमप्रभृतिभिस्तैस्तैर्विचित्रैर्गुणैर्वृत्तं ते रिपुघाति भाति समरे शार्दूलविक्रीडितम् ॥ १५.१२२ ॥ तावत्त्वं विजितेन्द्रियः शुभमते सर्वात्मना प्रत्यहं दाने शीलविधौ च योजय मनः स्वर्गापवर्गापहम् । यावद्व्याधिजराप्रचण्डनखरो व्यायत्सटाभिर्भृशं मृत्युस्ते न करोति जीवितमृगैः शार्दूलविक्रीडितम् ॥ १५.१२३ ॥ चत्वार्यादौ च षष्ठं च सप्तमं सचतुर्दशम् । तथा पञ्चदशं चैव षिडशं नैधनं तथा ॥ १५.१२४ ॥ एतानि च गुरूणि स्युः शेषाणि तु लघून्यथ । पादे यत्र कृतौ ज्ञेया नाम्ना सुवदना तु सा ॥ १५.१२५ ॥ म्रौ म्नौ य्भौ ल्गौ च सम्यग्यदि च विरचिताः पादे क्रमवशाद्विच्छेदः सप्तभिः स्यात्पुनरपि च यतिः सप्ताक्षरकृता । यद्येषा संश्रिता स्यात्कृतिमपि च पुनः श्लिष्टाक्षरपदा विद्वद्भिर्वृत्तजातौ तत इह गदिता नाम्ना सुवदना ॥ १५.१२६ ॥ यथा नेत्रे लीलालसान्ते कमलदलनिभे भ्रूचापविनते रक्तोष्ठं पीनमध्यं समसहितघनाः स्निग्धाश्च दशनाः । कर्णावंसप्रलम्बौ चिबुकमपि नतं घोणा सुरुचिरा व्यक्तं त्वं मर्त्यलोके वरतनु विहितास्येका सुवदना ॥ १५.१२७ ॥ चत्वार्यादौ तथा षष्ठं सप्तमं च चतुर्दशम् । अष्टादशं सप्तदशं तथा पञ्चदशं पुनः ॥ १५.१२८ ॥ अन्त्योपान्त्ये गुरूण्यत्र लघून्यन्यानि सर्वदा । एकविंशतिके पादे स्रग्धरा नाम सा यथा ॥ १५.१२९ ॥ म्रौ म्नौ यौ यश्च सम्यग्यदि हि विरचिताः स्युस्त्रिकाः पादयोगे वर्णैः पूर्वोपदिष्टैर्यतिरपि च पुनः सप्तभिः सप्तभिः स्यात् । वृत्तं सम्यग्यदि स्यात्प्रकृतिमनुगतं तत्वविद्भिः प्रदिष्टं विज्ञेयं वृत्तजातौ कविजनदयिता स्रग्धरा नामतस्तु ॥ १५.१३० ॥ यथा चूताशोकारविन्दैः कुरवकतिलकैः कर्णिकारैः शिरीषैः पुन्नागैः पारिजातैर्वकुलकुवलयैः किंशुकैः सातिमुक्तैः । एतैर्नानाप्रकारैः बहुलसुरभिभिर्विप्रकीर्णैश्च तैस्तैर्वासन्तैः पुष्पवृन्दैर्नरवर वसुधा स्रग्धरेवाद्य भाति ॥ १५.१३१ ॥ चतुर्थमाद्यं षष्ठं च दशमं द्वादशं तथा । षोडशाष्टादशे चैव नैधनं च गुरूण्यथ ॥ १५.१३२ ॥ द्वाविंशत्यक्षरे पादे शेषाणि च लघून्यथ । भवन्ति यत्र तज्ज्ञेयं भद्रकं नामतो यथा ॥ १५.१३३ ॥ भ्रौ चरणे यदा विनियतौ त्रिकौ क्रमवशादथातिकृतिविधौ न्रौ च ततः परं च रुचिरावनन्तरकृतौ नगावपि पुनः । तच्च दशाष्टवर्णरचिता चतुर्ष्वपि तथा यतिश्च सततं भद्रकवृत्तमेव खलु नाट्ययोगकुशलैर्बुधैर्निगदितम् ॥ १५.१३४ ॥ उत्प्लुतमेकहस्तचरणं द्वितीयकररेचितं वंशमृदङ्गवाद्यमधुरं विचित्रकरणानुगं बहुविधम् । भद्रकमेतदद्य सुभगे विदग्धगतिचेष्टितैः सुललितैर्नृत्यसि विभ्रमाकुलपदं विविक्तरसभावितं शशिमुखि ॥ १५.१३५ ॥ अन्त्यमेकोनविंशं च सप्तमं सत्रयोदशम् । एकादशं सप्तदशं पञ्चमं च गुरूण्यथ ॥ १५.१३६ ॥ शेषाणि च लघूनि स्युर्विकृत्याश्चरणे बुधैः । वृत्तं तदश्वललितं विज्ञेयं नामतो यथा ॥ १५.१३७ ॥ यदि च नकार आदिरचितः पदे विरचितोऽन्त एव लगौ यदि च नभौ त्रिधा च निहितौ क्रमेण खलु मध्यावपि तथा । यदि च समाश्रितं हि विकृतिं यतिश्च दशभिस्तथैकसहितैस्तत इह कीर्तितं मुनिगणैर्विशुद्धचरितैस्तदश्वललितम् ॥ १५.१३८ ॥ विविधतुरङ्गनागरथयोधसङ्कुलमलं बलं समुदितं शरशतशक्तिकुन्तपरिधासियष्टिविततं बहुप्रहरणम् । रिपुशतमुक्तशस्त्ररवभीतशङ्कितभटं भयाकुलदिशं कृतमभिवीक्ष्य संयुगमुखे समर्पितगुणं त्वयाश्वललितम् ॥ १५.१३९ ॥ षडादावष्टमं चैव ह्येकादशचतुर्दशे । विंशं सप्तदशं चैव त्रयोविंशं तथैव च ॥ १५.१४० ॥ एतानि च लघूनि स्युः शेषाण्यथ गुरूणि च । चतुर्विंशतिके पादे मेघमालेति सा यथा ॥ १५.१४१ ॥ यदि खलु चरणस्थितौ नौ त्रिकौ कृतिकारव्यास्तथा राः स्युः क्रमात् । भवति यदि यतिस्तथा सप्तभिः सप्तभिस्त्रिष्वतोऽन्या यतिः पञ्च विद्यात्तथा ॥ १५.१४२ ॥ पवनबलसमाहृता तीव्रगम्भीरनादा बलाकावलीमेखला क्षितिधरसदृशोच्चरूपा महानीलधूमाञ्जनाभाम्बुगर्भोद्भवा । सुरपतिधनुरुज्ज्वलाबद्धकक्ष्या तडिद्द्योतसन्नाहपट्टीज्वला गगनतलविसारिणी प्रावृषण्या दृढं मेघमालाधिकं शोभते ॥ १५.१४३ ॥ आद्यं चैव चतुर्थं च पञ्चमं षष्ठमेव च । नवमं दशमं चैव नैधनं च भवेद्गुरु ॥ १५.१४४ ॥ लघून्यन्यानि शेषाणि पादे स्युः पञ्चविंशके । वृत्तज्ज्ञैः सा तु विज्ञेया क्रौञ्चपादीति नामतः ॥ १५.१४५ ॥ भ्मौ यदि पादे स्भावपि चेष्टावभिकृतिरपि च हि यदि खलु विहिता नाश्च समुद्राः स्युर्विनिविष्टा यदि च खलु गुरु भवति निधनगतम् । पञ्चभिरादौ छेदमुपेता पुनरपि यतिरिह यदि खलु दशभिः क्रौञ्चपदेयं वृत्तविधाने सुरगणपितृगणमुनिगणविहिता ॥ १५.१४६ ॥ यः किल दाक्षं विद्रुतसोमं क्रतुवरमचमसमपगतकलशं पातितयूपं क्षिप्तचषालं विचयनमसमिधमपशुकचरुकम् । कार्मुकमुक्तेनाशु चकार व्यपगतसुरगणपितृगणमिषुणा नित्यमसौ ते दैत्यगणारिः प्रदहतु मखमिव रिपुगणमखिलम् ॥ १५.१४७ ॥ या कपिलाक्षी पिङ्गलकेशी कलिरुचिरनुदिनमनुनयकठिना दीर्घतराभिः स्थूलसिराभिः परिवृतवपुरतिशयकुटिलगतिः । आयतजङ्घा निम्नकपोला लघुतरकुचयुगपरिगतहृदया सा परिहार्या क्रौञ्चपदा स्त्री ध्रुवमिह निरवधिसुखमभिलषता ॥ १५.१४८ ॥ अष्टावादौ गुरूणि स्युस्तथा चैकोनविंशकम् । एकविंशं च विज्ञेयं चतुर्विंशं सनैधनम् ॥ १५.१४९ ॥ एतानि गुरु संख्यानि शेषाणि च लघून्यथ । षड्विंशत्यक्षरे पादे तद्भुजङ्गविजृम्भितम् ॥ १५.१५० ॥ यस्यां मौ तो नाः स्त्रौ नित्यं प्रतिचरणमथ गदितकास्त्रिका ह्यनुपूर्वशः षड्विंशत्यामेकोनायां च यदि हि खलु यतिरभिधा चतुर्भिरथाष्टाभिः । पश्चादन्त्यौ ल्गौ संयोज्यौ यदि भवति मनुजदयितां समाश्रितमुत्कृतिं नाम्ना वृत्तं लोके ख्यातं कविवदन विकसनपरं भुजङ्गविजृम्भितम् ॥ १५.१५१ ॥ यथा रूपोपेतां देवैः सृष्टां समदगज विलसितगतिं निरीक्ष्य तिलोत्तमां प्रादक्षिण्यात्प्राप्तां द्रष्टुं बहुवदन मचलनयनं शिरः कृतवान् हरिः । दीर्घं निश्वस्यान्तर्गूढं स्तनवदन जघनरुचिरां निरीक्ष्य तथा पुनः पृष्ठे न्यस्तं देवेन्द्रेण प्रवरमणि कनकवलयं भुजङ्गविजृम्भितम् ॥ १५.१५२ ॥ दण्डकं नाम विज्ञेयमुत्कृतेरधिकतरम् । मेघमालादिकं तत्स्यान्नौ चादौ कागुहा त्रिकाः ॥ १५.१५३ ॥ यथा मुदितजनपदाकुला स्फीतसस्याकरा भूतधात्री भवन्तं समभ्यर्चति द्विरदकरविलुप्तहिन्तालतालीवनास्त्वां नमस्यन्ति विन्ध्यादयः पर्वताः । स्फुटितकलशाशुक्तिनिगीर्णमुक्ता फलैरूर्मिहस्तैर्नमस्यन्ति वः सागराः मुदितजलचराकुलाः संप्रकीर्णमलाः कीर्तयन्तीव कीर्तिं महानिम्नगाः ॥ १५.१५४ ॥ एतानि समवृत्तानि मयोक्तानि द्विजोत्तमाः । विषमार्धसमानां तु पुनर्वक्ष्यामि लक्षणम् ॥ १५.१५५ ॥ यत्र पादास्तु विषमा नानावृत्तसमुद्भवाः । ग्रथिताः पादयोगेन तद्वृत्तं विषमं स्मृतम् ॥ १५.१५६ ॥ द्वौ समं द्वौ च विषमौ वृत्तेऽर्धविषमे तथा । सर्वपादैश्च विषमैर्वृत्तं विषममुच्यते ॥ १५.१५७ ॥ ह्रस्वाद्यमथ दीर्घाद्यं दीर्घं ह्रस्वमथापि वा । युग्मोजविषमैः पादैः वृत्तमर्धसमं भवेत् ॥ १५.१५८ ॥ पादे सिद्धे समं सिद्धं विषमं सार्वपादिकम् । द्वयोरर्धसमं विद्यादेष छेदस्तु पादतः ॥ १५.१५९ ॥ छेदास्तु ये मया प्रोक्ता समवृत्तविकल्पितः । त्रिकैर्विषमवृत्तानां संप्रवक्ष्यामि लक्षणम् ॥ १५.१६० ॥ नैधनेऽन्यतरस्यां वै प्रथमे पाद इष्यते । द्वितीये चरणे च स्यादित्यनुष्टुप्समासतः ॥ १५.१६१ ॥ सौ गौ तु प्रथमे पादे स्रौ ल्गौ चापि द्वितीयके । युग्मेऽर्धविषमे पादे ज्ञेया पथ्या तु सा त्रिकैः ॥ १५.१६२ ॥ प्रियदैवतमित्रासि प्रियसंबन्धिबान्धवा । प्रियदानरता पथ्या दयिते त्वं प्रियासि मे ॥ १५.१६३ ॥ म्रौ गौ तु प्रथमे पादे य्सौ ल्गौ च द्वितीयके । पादे भौ ल्गौ तृतीये च चतुर्थे तु तसौ लगौ ॥ १५.१६४ ॥ नैवाचारो न ते मित्रं न संबन्धिगुणप्रिया । सर्वथा सर्वविषमा पथ्या न भवसि प्रिये ॥ १५.१६५ ॥ अयुजोर्लक्षणं ह्येतद्विपरीतं तु यत्र च । पथ्या हि विपरीता सा विज्ञेया नामतो यथा ॥ १५.१६६ ॥ कृतेन रमणस्य किं सखि रोषेण तेऽप्यर्थम् । विपरीता न पथ्यासि त्वं जडे केन मोहिता ॥ १५.१६७ ॥ चतुर्थादक्षराद्यत्र त्रिलघु स्यादयुक्ततः । अनुष्टुप्चपला सा तु विज्ञेया नामतो यथा ॥ १५.१६८ ॥ न खल्वस्याः प्रियतमः श्रोतव्यं व्याहृतं सख्या । नारदस्य प्रतिकृतिः कथ्यते चपला हीयम् ॥ १५.१६९ ॥ विपुला तु युजि ज्ञेया लघुत्वात्सप्तमस्य तु । सर्वत्र सप्तमस्यैव केषांचिद्विपुला यथा ॥ १५.१७० ॥ संक्षिप्ता वज्रमध्ये हि हेमकुम्भनिभस्तनी । विपुलासि प्रिये श्रोण्यां पूर्णचन्द्रनिभानने ॥ १५.१७१ ॥ गङ्गेव मेघोपगमे आप्लावितवसुन्धरा । कूलवृक्षानारुजन्ती स्रवन्ती विपुला बलात् ॥ १५.१७२ ॥ आगता मेघसमये भीरु भीरुकुलोद्गते । एकरात्रौ परगृहं चोरी बन्धनमर्हसि ॥ १५.१७३ ॥ एवं विविधयोगास्तु पथ्यापादा भवन्ति हि । युग्मोजविषमैः पादैः शेषैरन्यैस्त्रिकैर्यथा ॥ १५.१७४ ॥ गुर्वन्तकः सर्वलघुस्त्रिको नित्यं हि नेष्यते । प्रथमादक्षराद्यत्र चतुर्थात्प्राग्लघुः स्मृतः ॥ १५.१७५ ॥ पथ्यापादं समास्थाप्य त्रीण्यन्ते तु गुरूण्यथ । भवन्ति पादे सततं बुधैस्तद्वक्रमिष्यते ॥ १५.१७६ ॥ दन्तक्षताधरं सुभ्रु जागरग्लाननेत्रं च । रतिसंभोगखिन्नं ते दर्शनीयतरं वक्त्रम् ॥ १५.१७७ ॥ इत्येषा सर्वविषमा नामतोऽनुष्टुबुच्यते । तद्विदां मतवैषम्यं त्रिकादक्षरतस्तथा ॥ १५.१७८ ॥ पादे षोडशमात्रास्तु गाथांशकविकल्पिताः । चतुर्भिरंशकैर्ज्ञेया वृत्तज्ञैर्वानवासिका ॥ १५.१७९ ॥ असंस्थितपदा सुविह्वलाङ्गी मदस्खलितचेष्टितैर्मनोज्ञा । क्व यास्यसि वरोरु सुरतकाले विषमा किं वानवासिका त्वम् ॥ १५.१८० ॥ स्जौ स्गौ च प्रथमे पादे तथा चैव तृतीयके । केतुमत्यां गणाः प्रोक्ताः भ्रौ न्गौ गश्च सदा बुधैः ॥ १५.१८१ ॥ स्फुरिताधरं चकितनेत्रं रक्तकपोलमम्बुजदलाक्षम् । किमिदं रुषापहृतशोभं केतुमतीसमं वद मुखं ते ॥ १५.१८२ ॥ वक्त्रस्यापरपूर्वस्य चादौ नौ रो लगौ त्रिकाः । नजौ रजौ द्वितीये च शेषाग्रं पुनरेव तु ॥ १५.१८३ ॥ प्रथमे च तृतीये नौ रलौ गश्च प्रकीर्तितः । गणाश्चापरवक्त्रे तु नजौ ज्रौ द्विचतुर्थयोः ॥ १५.१८४ ॥ सुतनु जलपरीतलोचनं जलदनिरुद्धमिवेन्दुमण्डलम् । किमिदमपरवक्त्रमेव ते शशिवदनेऽद्य मुखं पराङ्मुखम् ॥ १५.१८५ ॥ नौ यौ तु प्रथमे पादे न्जौ ज्रौ गश्च तथापरे । यत्र तत्पुष्पिताग्रा स्याद्यदि शेषं तु पूर्ववत् ॥ १५.१८६ ॥ पवनबलविधूतचारुशाखं प्रमुदितकोकिलकण्ठनादरम्यम् । मधुकरपरिगीयमानशब्दं वरतनु पश्य वनं सुपुष्पिताग्रम् ॥ १५.१८७ ॥ स्जौ स्लौ चादौ यथा न्सौ ज्गौ भ्नौ ज्लौ गश्च तथा पुनः । स्जौ स्जौ गश्च त्रिका ह्येते उद्गतायाः प्रकीर्तिताः ॥ १५.१८८ ॥ तव रोमराजिरतिभाति सुतनु मदनस्य मञ्जरी । नाभिकमलविवरोत्पतिता भ्रमरावलीव कुसुमात्समुद्गता ॥ १५.१८९ ॥ स्जौ स्लौ च ततो न्सौ ज्गौ नौ सौ चेति तृतीयके । स्जौ स्जौ गश्च चतुर्थे तु ललिताया गणाः स्मृताः ॥ १५.१९० ॥ ललिताकुलभ्रमितचारु वसनकरचारुपल्लवा । प्रविकसितकमलकान्तिमुखी प्रविभासि देवी सुरतश्रमातुरा ॥ १५.१९१ ॥ एवमेतानि वृत्तानि समानि विषमाणि च । नाटकाद्येषु काव्येषु प्रयोक्तव्यानि सूरिभिः ॥ १५.१९२ ॥ सन्त्यन्यान्यपि वृत्तानि यान्युक्तानीह पिण्डशः । न च तानि प्रयोज्यानि न शोभां जनयन्ति हि ॥ १५.१९३ ॥ यान्यतः प्रतिषिद्धानि गीतके तानि योजयेत् । ध्रुवायोगे तु वक्ष्यामि तेषां चैव विकल्पनम् ॥ १५.१९४ ॥ वृत्तलक्षणमेवं तु समासेन मयोदितम् । अत ऊर्ध्वं प्रवक्ष्यामि ह्यार्याणामपि लक्षणम् ॥ १५.१९५ ॥ पथ्या च विपुला चैव चषला मुखतोऽपरा । जघने चपला चैव आर्याः पञ्च प्रकीर्तिताः ॥ १५.१९६ ॥ आसां तु संप्रवक्ष्यामि यतिमात्राविकल्पनम् । लक्षणं नियमं चैव विकल्पगुणसंश्रयम् ॥ १५.१९७ ॥ यतिश्छेदस्तु विज्ञेयश्चतुर्मात्रो गणः स्मृतः । द्वितीयान्त्यौ युजौ पादावयुजौ त्वपरौ स्मृतौ ॥ १५.१९८ ॥ गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः । अयुग्गणो विधातव्यो युग्गणस्तु यथेप्सितः ॥ १५.१९९ ॥ षष्ठो वै द्विविकल्पस्तु नैधनो ह्येकसंस्थितः । पश्चादर्धे तु षष्ठः स्यादेकमात्रस्तु केवलः ॥ १५.२०० ॥ द्विविकल्पस्तु षष्ठो यो गुरुमध्यो भवेत्तु सः । तथा सर्वलघुश्चैव यतिसंज्ञासमाश्रिता ॥ १५.२०१ ॥ द्वितीयादिलघुर्ज्ञेयः सप्तमे पञ्चमे यतिः । प्रथमादिरथान्त्ये च पञ्चमे वा विधीयते ॥ १५.२०२ ॥ गणेषु त्रिषु पादस्य यस्याः पथ्या तु सा भवेत् । अतश्च विपुलान्या तु विज्ञेया यतिलक्षणा ॥ १५.२०३ ॥ अयुजः सर्वगुरवो गुरुमध्या गणा युजः । यस्याः स्युः पादयोगे तु विज्ञेया चपला हि सा ॥ १५.२०४ ॥ त्रिंशदाद्ये तु विज्ञेयाः सप्तविंशतिश्चापरे । उभयोरर्धयोर्ज्ञेयो मात्रापिण्डो विभागशः ॥ १५.२०५ ॥ त्रिंशत्तस्याश्च यदि स्युरेतानि द्विगुणानि तु । त्रीण्यक्षराणि चान्यानि न्यस्य संख्याविभागशः ॥ १५.२०६ ॥ एतानि लघुसंज्ञानि निर्दिष्टानि समासतः । सर्वेषां चैवमार्याणामक्षराणां यथाक्रमम् ॥ १५.२०७ ॥ अर्धाष्टमगणार्धा च सववार्या प्रकीर्तिता । षष्ठश्च द्विविकल्पस्तु नैधने ह्येकसंस्थितः ॥ १५.२०८ ॥ पश्चाद्वा यो गणः षष्ठ एकमात्रः स उच्यते । द्विविकल्पस्तु यः षष्ठो गुरुमध्यो भवेत्तु सः ॥ १५.२०९ ॥ यथा सर्वलघुश्चैव यतिः संख्यासमाश्रिता । सा द्वितीया द्विलघुका सप्तमे प्रथमे यतिः ॥ १५.२१० ॥ गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः । अयुग्गणो विधातव्यः युग्गणस्तु स एव च ॥ १५.२११ ॥ प्रथमतृतीयौ पादौ द्वादशमात्रौ भवेत्तु सा पथ्या । विपुलान्या खलु गदिता पूर्वोदितलक्षणोपेता ॥ १५.२१२ ॥ पथ्या यथा रक्तमृदुपद्मनेत्रा सितदीर्घबहुलमृदुकेशी । कस्य तु पृथुमृदुजघना तनुबाह्वं सोदरी पथ्या ॥ १५.२१३ ॥ विपुला यथा विपुलजघनवदनस्तननयनैस्ताम्राधरोष्ठकरचरणैः । आयतनासागण्डैर्ललाटकर्णैः शुभा कन्या ॥ १५.२१४ ॥ द्वितीयश्च चतुर्थश्च गुरुमध्यगतो भवेत् । उभयोरर्धयोर्यत्र विज्ञेया चपला यथा ॥ १५.२१५ ॥ उद्भटगामिनी परुषभाषिणी कामचिह्नकृतवेषा । जानाति मांसयुक्ता सुराप्रिया सर्वतश्चपला ॥ १५.२१६ ॥ पूर्वार्धे लक्षणं ह्येतदस्याः स च मुखेन तु । पश्चिमार्धे तु चपला यस्याः सा जघनेन तु ॥ १५.२१७ ॥ मुखचपला यथा आर्यामुखे तु चपला तथापि चार्या न मे यतः सा किम् । दक्षा गृहकृत्येषु तथा दुःखे भवति दुःखार्ता ॥ १५.२१८ ॥ जघनचपला यथा वरमृगनयने चपलासि वरोरु शशाङ्कदर्पणनिभास्ये । कामस्य सारभूते न पूर्वमदचारुजघनेन ॥ १५.२१९ ॥ उभयोरर्धयोरेतल्लक्षणं दृश्यते यदि । वृत्तज्ञैः सा तु विज्ञेया सर्वतश्चपला सखि ॥ १५.२२० ॥ कार्यौ द्वादशमात्रौ च पादावाद्यौ तृतीयकौ । अष्टादश द्वितीयं च तथा पञ्चदशोत्तमा ॥ १५.२२१ ॥ चतुःपञ्चप्रकाराणां चतुष्काणां विशेषतः । प्रस्तारयोगमासाद्य बाहुल्यं संप्रदर्शयेत् ॥ १५.२२२ ॥ पञ्चपञ्चाशदाद्या तु त्रिंशदाद्या तथैव च । आर्या त्वक्षरपिण्डेन विज्ञेयात्र प्रयोक्तृभिः ॥ १५.२२३ ॥ त्रिंशतस्त्वथ वर्णेभ्यो लघुवर्णत्रयं भवेत् । शेषाणि गुरुसंख्यानि ह्येवं सर्वत्र निर्दिशेत् ॥ १५.२२४ ॥ सर्वेषामेव चार्याणामक्षराणां यथाक्रमम् । सर्वेषां जातिवृत्तानां पूर्वमुत्तरसंख्यया ॥ १५.२२५ ॥ विकल्पगणनां कृत्वा संख्यापिण्डेन निर्दिशेत् । आर्यागीतिरथार्यैव केवलं त्वष्टभिर्गणैः ॥ १५.२२६ ॥ इतरार्थे जः षष्ठस्तु नलघुगण इष्यते । वृत्तैरेवं तु विविधैर्नानाछन्दस्समुद्भवैः । काव्यबन्धास्तु कर्तव्याः षट्त्रिंशल्लक्षणान्विताः ॥ १५.२२७ ॥ इति भरतीये नाट्यशास्त्रे छन्दोविचितिर्नाम पञ्चदशोऽध्यायः _____________________________________________________________ अथ षोडशोऽध्यायः विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीर्तनं च । प्रोत्साहनोदाहरणे निरुक्तं गुणानुवादोऽतिशयश्च हेतुः ॥ १६.१ ॥ सारूप्यमिथ्याध्यवसायसिद्धि पदोच्चयाक्रन्दमनोरथाश्च । आख्यानयाञ्चाप्रतिषेधपृच्छा दृष्टान्तनिर्भासनसंशयाश्च ॥ १६.२ ॥ आशीः प्रियोक्तिः कपटः क्षमा च प्राप्तिश्च पश्चात्तपनं तथैव । अर्थानुवृत्तिर्ह्युपपत्तियुक्ती कार्योऽनुनीतिः परिदेवनं च ॥ १६.३ ॥ षट्त्रिंशदेतानि हि लक्षणानि प्रोक्तानि वै भूषणसंमितानि । काव्येषु भावार्थगतानि तज्ज्ञैः सम्यग्प्रयोज्यानि यथारसं तु ॥ १६.४ ॥ अलङ्कारैर्गुणैश्चैव बहुभिः समलङ्कृतम् । भूषणैरिव विन्यस्तैस्तद्भूषणमिति स्मृतम् ॥ १६.५ ॥ यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रमुपवर्ण्यते । तमप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् ॥ १६.६ ॥ सिद्धैरर्थैस्समं कृत्वा ह्यसिद्धोऽर्थः प्रसाध्यते । यत्र श्लक्ष्णविचित्रार्था सा शोभेत्यभिधीयते ॥ १६.७ ॥ धार्यमाणस्तु बहुभिर्वचनैः कार्ययुक्तिभिः । न यः पर्यवतिष्ठेत सोऽभिमानस्तु संज्ञितः ॥ १६.८ ॥ कीर्त्यमानैर्गुणैर्यत्र विविधार्थसमुद्भवैः । दोषा न परिकथ्यन्ते तज्ज्ञेयं गुणकीर्तनम् ॥ १६.९ ॥ लोके गुणातिरिक्तानां बहूनां यत्र नामभिः । एकोऽभिशब्द्यते यस्तु विज्ञेयं गुणकीर्तनम् ॥ १६.१० ॥ उत्साहजननैः स्पष्टैरर्थैरोपम्यसंश्रयैः । प्रसिद्धैरुपगूढं च ज्ञेयं प्रोत्साहनं बुधैः ॥ १६.११ ॥ यत्रैकस्यापि शब्दस्य दर्शनात्सुबहून्यपि । यान्ति सिद्धिमनुक्तानि तदुदाहरणं स्मृतम् ॥ १६.१२ ॥ निरुक्तं द्विविधं प्रोक्तं तथ्यं चातथ्यमेव वा । सिद्धिप्रसाधितं तथ्यमतथ्यं चाप्रसाधितम् ॥ १६.१३ ॥ गुणानुवादो हीनानामुत्तमैरुपमाकृतः । उत्तमार्थविशेषो यः स चाप्यतिशयः स्मृतः ॥ १६.१४ ॥ बहूनां भाषमाणानामेकस्यार्थविनिर्णयात् । सिद्धोपमानवचनं हेतुरित्यभिसंज्ञितः ॥ १६.१५ ॥ अपदेशस्तु परोक्षो यस्मादुत्पद्यतेऽनुकरणेन । लक्षणसमानकरणात्सारूप्यं तत्तु निर्देश्यम् ॥ १६.१६ ॥ अभूतपूर्वैर्यत्रार्थैस्तुल्यस्यार्थस्य निर्णयः । स मिथ्याध्यवसायस्तु प्रोच्यते काव्यलक्षणे ॥ १६.१७ ॥ बहूनां तु प्रधानानां मध्ये यन्नाम कीर्त्यते । एकार्थसाधनकृतं सा सिद्धिरिति कीर्त्यते ॥ १६.१८ ॥ गुणैर्बहुभिरेकार्थैः पदैर्यः संप्रशस्यते । पदोच्चयं तु तद्विद्यान्नानार्थग्रथनात्मकम् ॥ १६.१९ ॥ आत्मभावमुपन्यस्य परसादृश्ययुक्तिभिः । तीव्रार्थभाषणं यत्स्यादाक्रन्दः स तु कीर्तितः ॥ १६.२० ॥ हृदयस्थस्य भावस्य सुस्पष्टार्थप्रदर्शनम् । अन्यापदेशकथनैर्मनोरथ इति स्मृतः ॥ १६.२१ ॥ अपृष्टैरथवा पृष्टैर्निर्णयः क्रियते तु यः । आख्यानमिति तज्ज्ञेयं लक्षणं नाटकाश्रयम् ॥ १६.२२ ॥ आदौ यत्क्रोधजननमन्ते हर्षप्रवर्धनम् । यत्तु प्रियं पुनर्वाक्यं सा याञ्चा परिकीर्तिता ॥ १६.२३ ॥ कार्येषु विपरीतेषु यदि किञ्चित्प्रवर्तते । निवार्यते च कार्यज्ज्ञैः प्रतिषेधः प्रकीर्तितः ॥ १६.२४ ॥ यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् । पृच्छन्निवाभिधत्तेऽर्थं सा पृच्छेत्यभिसंज्ञिता ॥ १६.२५ ॥ विद्वान् पूर्वोपलब्धौ यत्समत्वमुपपादयेत् । निदर्शनकृतस्तज्ज्ञैः स दृष्टान्त इति स्मृतः ॥ १६.२६ ॥ अनेकयुक्तिमद्वाक्यमनेकार्थप्रसाधकम् । अनेकवाक्यसंयुक्तं तन्निर्भासनमुच्यते ॥ १६.२७ ॥ अपरिज्ञाततत्त्वार्थं यत्र वाक्यं समाप्यते । सोऽनेकत्वाद्विचाराणां संशयः परिकीर्तितः ॥ १६.२८ ॥ यत्र शास्त्रार्थसम्पन्नां मनोरथसमुद्भवाम् । अप्रार्थनीयामन्यां वा विदुस्तामाशिषं बुधाः ॥ १६.२९ ॥ आदौ यत्क्रोधजननमन्ते हर्षप्रवर्धनम् । तत्प्रियं वचनं ज्ञेयमाशीर्वादसमन्वितम् ॥ १६.३० ॥ छलयुक्त्या त्वन्येषामभिसन्धानाभिभावकंकपटम् । द्वित्रिप्रयोगयुक्तो विज्ञेयः कपटसङ्घातः ॥ १६.३१ ॥ दुर्जनोदाहृतै रूक्षैः सभामध्येऽतिताडितः । अक्रोधः क्रोधजननैर्वाक्यैर्यः सा क्षमा भवेत् ॥ १६.३२ ॥ दृष्ट्वैवावयवं कञ्चिद्भावो यत्रानुमीयते । प्राप्तिं तामभिजानीयाल्लक्षणं नाटकाश्रयम् ॥ १६.३३ ॥ अकार्यं सहसा कृत्वाऽकृत्वा कार्यमथापि वा । सन्तापो मनसो यस्तु पश्चात्तापः प्रकीर्तितः ॥ १६.३४ ॥ प्रश्रयेणार्थसंयुक्तं यत्परस्यानुवर्तनम् । स्नेहाद्दाक्षिण्ययोगाद्वा सानुवृत्तिस्तु संज्ञिता ॥ १६.३५ ॥ प्राप्तानां यत्र दोषाणां क्रियते शमनं पुनः । सा ज्ञेया ह्युपपत्तिस्तु लक्षणं नाटकाश्रयम् ॥ १६.३६ ॥ साध्यते योऽर्थसम्बन्धो महद्भिः समवायतः । परस्परानुकूल्येन सा युक्तिः परिकीर्तिता ॥ १६.३७ ॥ यत्रापसारयन् दोषं गुणमर्थेन योजयेत् । गुणाभिवादं दोषान् वा कार्यं तल्लक्षणं विदुः ॥ १६.३८ ॥ अपूर्वक्रोधजनितमपराधं प्रमृज्य यत् । सेवार्थं मधुरं वाक्यमनुनीतिः प्रकीर्तिता ॥ १६.३९ ॥ दोषैर्यदन्यनामोक्तैः प्रसिद्धार्थैः प्रयोजयेत् । अन्यत्रार्थेन सम्बद्धं ज्ञेयं तत्परिदेवनम् ॥ १६.४० ॥ उपमा रूपकं चैव दीपकं यमकं तथा । अलङ्कारास्तु विज्ञेया चत्वारो नाटकाश्रयाः ॥ १६.४१ ॥ यत्किञ्चित्काव्यबन्धेषु सादृश्येनोपमीयते । उपमा नाम सा ज्ञेया गुणाकृतिसमाश्रया ॥ १६.४२ ॥ एकस्यैकेन सा कार्या ह्यनेकेनाथवा पुनः । अनेकस्य तथैकेन बहूनां बहुभिस्तथा ॥ १६.४३ ॥ तुल्यं ते शशिना वक्त्रमित्येकेनैकसंश्रया । शशाङ्कवत्प्रकाशन्ते ज्योतींषीति भवेत्तु या ॥ १६.४४ ॥ एकस्यानेकविषया सोपमा परिकीर्तिता । श्येनबर्हिणभासानां तुल्यार्थमिति या भवेत् ॥ १६.४५ ॥ एकस्य बहुभिः साम्यादुपमा नाटकाश्रया । बहूनां बहुभिर्ज्ञेया घना इव गजा इति ॥ १६.४६ ॥ प्रशंसा चैव निन्दा च कल्पिता सदृशी तथा । या किञ्चित्सदृशी ज्ञेया सोपमा पञ्चधा बुधैः ॥ १६.४७ ॥ प्रशंसा यथा दृष्ट्वा तु तां विशालाक्षीं तुतोष मनुजाधिपः । मुनिभिः साधितां कृच्छ्रात्सिद्धिं मूर्तिमतीमिव ॥ १६.४८ ॥ निन्दा यथा सा तं सर्वगुणैर्हीनं सस्वजे कर्कशच्छविम् । वने कण्टकिनं वल्ली दावदग्धमिव द्रुमम् ॥ १६.४९ ॥ कल्पिता यथा क्षरन्तो दानसलिलं लालामन्थरगामिनः । मतङ्गजा विराजन्ते जङ्गमा इव पर्वताः ॥ १६.५० ॥ सदृशी यथा यत्त्वयाद्य कृतं कर्म परिचित्तानुरोधिना । सदृशं तत्तवैव स्यादतिमानुषकर्मणः ॥ १६.५१ ॥ किञ्चित्सदृशी यथा सम्पूर्णचन्द्रवदना नीलोत्पलदलेक्षणा । मत्तमातङ्गगमना सम्प्राप्तेयं सखी मम ॥ १६.५२ ॥ उपमाया बुधैरेते भेदा ज्ञेयाः समासतः । शेषा ये लक्षणैर्नोक्तास्ते ग्राह्याः काव्यलोकतः ॥ १६.५३ ॥ नानाधिकरणार्थानां शब्दानां संप्रदीपकम् । एकवाक्येन संयुक्तं तद्दीपकमुच्यते ॥ १६.५४ ॥ प्रसृतं मधुरं चापि गुणैः सर्वैरलङ्कृतम् । काव्ये यन्नाटके विप्रास्तद्दीपकमिति स्मृतम् ॥ १६.५५ ॥ यथा सरांसि हंसैः कुसुमैश्च वृक्षा मत्तैर्द्विरेफैश्च सरोरुहाणि । गोष्ठीभिरुद्यानवनानि चैव तस्मिन्नशून्यानि सदा क्रियन्ते ॥ १६.५६ ॥ स्वविकल्पेन रचितं तुल्यावयवलक्षणम् । किञ्चित्सादृश्यसम्पन्नं यद्रूपं रूपकं तु तत् ॥ १६.५७ ॥ नानाद्रव्यानुरागाद्यैर्यदौपम्यगुणाश्रयम् । रूपनिर्वर्णनायुक्तं तद्रूपकमिति स्मृतम् ॥ १६.५८ ॥ यथा पद्माननास्ताः कुमुदप्रहासा विकासिनीलोत्पलचारुनेत्राः । वापीस्त्रियो हंसकुलैर्नः स्वनद्भिर्विरेजुरन्योन्यमिवाह्वयन्त्यः ॥ १६.५९ ॥ शब्दाभ्यासस्तु यमकं पदादिषु विकल्पितम् । विशेषदर्शनञ्चास्य गदतो मे निबोधत ॥ १६.६० ॥ पादान्तयमकं चैव काञ्चीयमकमेव च । समुद्गयमकं चैव विक्रान्तयमकं तथा ॥ १६.६१ ॥ यमकं चक्रवालं च सन्दष्टयमकं तथा । पदादियमकञ्चैव ह्याम्रेडितमथापि च ॥ १६.६२ ॥ चतुर्व्यवसितञ्चैव मालायमकमेव च । एतादृशविधं ज्ञेयं यमकं नाटकाश्रयम् ॥ १६.६३ ॥ चतुर्णां यत्र पादानामन्ते स्यात्सममक्षरम् । तद्वै पादान्तयमकं विज्ञेयं नामतो यथा ॥ १६.६४ ॥ दिनक्षयात्संहृतरश्मिमण्डलं दिवीव लग्नं तपनीयमण्डलम् । विभाति ताम्रं दिवि सूर्यमण्डलं यथा तरुण्याः स्तनभारमण्डलम् ॥ १६.६५ ॥ लोकानां प्रभविष्णुर्दैत्येन्द्रगदानिपातनसहिष्णुः । जयति सुरदैत्यजिष्णुर्भगवानसुरवरमथनकारी विष्णुः ॥ १६.६६ ॥ पादस्यान्ते तथा चादौ स्यातां यत्र समे पदे । तत्काञ्चीयमकं चैव विज्ञेयं सूरिभिर्यथा ॥ १६.६७ ॥ यामं यामं चन्द्रवतीनां द्रवतीनां व्यक्ताव्यक्ता सारजनीनां रजनीनाम् । फुल्ले फुल्ले सम्भ्रमरे वाभ्रमरे वा रामा रामा विस्मयते च स्मयते च ॥ १६.६८ ॥ अर्धेनैकेन यद्वृत्तं सर्वमेव समाप्यते । समुद्गयमकं नाम तज्ज्ञेयं पण्डितैर्यथा ॥ १६.६९ ॥ केतकीकुसुमपाण्डुरदन्तः शोभते प्रवरकाननहस्ती । केतकीकुसुमपाण्डुरदन्तः शोभते प्रवरकाननहस्ती ॥ १६.७० ॥ एकैकं पादमुत्क्रम्य द्वौ पादौ सदृशौ यदि । विक्रान्तयमकं नाम तद्विज्ञेयमिदं यथा ॥ १६.७१ ॥ स पूर्वं वारणो भूत्वा द्विशृङ्ग इव पर्वतः । अभवद्दन्तवैकल्याद्विशृङ्ग इव पर्वतः ॥ १६.७२ ॥ पूर्वस्यान्तेन पादस्य परस्यादिर्यदा समः । चक्रवच्चक्रवालं तु विज्ञेयं नामतो यथा ॥ १६.७३ ॥ तुल्यात्पादद्वयादन्त्यादेकेनादिर्यदा समः । सर्वत्र चक्रवालन्तु तद्विज्ञेयं बुधैर्यथा ॥ १६.७४ ॥ शैला यथा शत्रुभिराहता हता हताश्च भूयस्त्वनुपुङ्खपुङ्खगैः । खगैश्च सर्वैर्युधि सञ्चिताश्चिताश्चिताधिरूढा निहितास्तलैस्तलैः ॥ १६.७५ ॥ आदौ द्वौ यत्र पादौ तु भवेतामक्षरे समौ । सन्दष्टयमकं नाम विज्ञेयं तद्बुधैर्यथा ॥ १६.७६ ॥ पश्य पश्य रमणस्य मे गुणान् येन येन वशगां करोति माम् । येन येन हि समेति दर्शनं तेन तेन वशगां करोति माम् ॥ १६.७७ ॥ आदौ पादस्य तु यत्र स्यात्समावेशः समाक्षरः । पादादियमकं नाम तद्विज्ञेयं बुधैर्यथा ॥ १६.७८ ॥ विष्णुः सृजति भूतानि विष्णुः संहरते प्रजाः । विष्णुः प्रसूते त्रैलोक्यं विष्णुर्लोकाधिदैवतम् ॥ १६.७९ ॥ पादस्यान्तं पदं यत्र द्विर्द्विरेकमिहोच्यते । ज्ञेयमाम्रेडितं नाम यमकं तत्र सूरिभिः ॥ १६.८० ॥ विजृम्भितं निःश्वसितं मुहुर्मुहुः कथं विधेयं स्मरणं पदे पदे । यथा च ते ध्यानमिदं पुनः पुनर्धुवंगता ते रजनी विना विना ॥ १६.८१ ॥ सर्वे पादाः समा यत्र भवन्ति नियताक्षराः । चतुर्व्यवसितं नाम तद्विज्ञेयं बुधैर्यथा ॥ १६.८२ ॥ वारणानामयमेव कालो वारणानामयमेव कालः । वारणानामयमेव कालो वारणानामयमेव कालः ॥ १६.८३ ॥ नानारूपैः स्वरैर्युक्तं यत्रैकं व्यञ्जनं भवेत् । तन्मालायमकं नाम विज्ञेयं पण्डितैर्यथा ॥ १६.८४ ॥ लली बली हली माली खेली माली सली जली । खलो बलोऽबलो माली मुसली त्वाभिरक्षतु ॥ १६.८५ ॥ असौ हि रामा रतिविग्रहप्रिया रहःप्रगल्भा रमणं मनोगतम् । रतेन रात्रिं रमयेत्परेण वा न चेदुदेष्यत्तरुणः परो रिपुः ॥ १६.८६ ॥ न पुष्कराक्षः क्षतजोक्षिताक्षः क्षरत्क्षतेव्यः क्षतजंदुरीक्षः । क्षतैर्गवाक्षैरिव संवृताज्ञः साक्षात्सहस्राक्ष इवावभाति ॥ १६.८७ ॥ एभिरर्थक्रियापेक्षैः कार्यं काव्यं तु लक्षणैः । अतः परं प्रवक्ष्यामि काव्ये दोषान् गुणांस्तथा ॥ १६.८८ ॥ गूढार्थमर्थान्तरमर्थहीनं भिन्नार्थमेकार्थमभिप्लुतार्थम् । न्यायावपेतं विषमं विसन्धि शब्दच्युतं वै दश काव्यदोषाः ॥ १६.८९ ॥ पर्यायशब्दाभिहतं गूढार्थमभिसंज्ञितम् । अवर्ण्यं वर्ण्यते यत्र तदर्थान्तरमिष्यते ॥ १६.९० ॥ अर्थहीनं त्वसम्बद्धं सावशेषार्थमेव च । भिन्नार्थमभिविज्ञेयमसभ्यं ग्राम्यमेव च ॥ १६.९१ ॥ विवक्षितोऽन्य एवार्थो यत्रान्यार्थेन भिद्यते । भिन्नार्थं तदपि प्राहुः काव्यं काव्यविचक्षणाः ॥ १६.९२ ॥ अविशेषाभिधानं यत्तदेकार्थमिति स्मृतम् । अभिप्लुतार्थं विज्ञेयं यत्पदेन समस्यते ॥ १६.९३ ॥ न्यायादपेतं विज्ञेयं प्रमाणपरिवर्जितम् । वृत्तभेदो भवेद्यत्र विषमं नाम तद्भवेत् ॥ १६.९४ ॥ अनुपशिष्टशब्दं यत्तद्विसन्धीति कीर्तितम् । शब्दच्युतञ्च विज्ञेयमशब्दस्वरयोजनात् ॥ १६.९५ ॥ एते दोषास्तु विज्ञेयाः सूरिभिर्नाटकाश्रयाः । गुणा विपर्ययादेषां माधुर्यौदार्यलक्षणाः ॥ १६.९६ ॥ श्लेषः प्रसादः समतासमाधिर्माधुर्यमोजः पदसौकुमार्यम् । अर्थस्य च व्यक्तिरुदारता च कान्तिश्च काव्यस्य गुणा दशैते ॥ १६.९७ ॥ ईप्सितेनार्थजातेन सम्बद्धानां परस्परम् । श्लिष्टता या पदानां हि श्लेष इत्यभिधीयते ॥ १६.९८ ॥ विचारगहनं यत्स्यात्स्फुटञ्चैव स्वभावतः । स्वतः सुप्रतिबद्धञ्च श्लिष्टं तत्परिकीर्त्यते ॥ १६.९९ ॥ अप्यनुक्तो बुधैर्यत्र शब्दोऽर्थो वा प्रतीयते । सुखशब्दार्थसंयोगात्प्रसादः परिकीर्त्यते ॥ १६.१०० ॥ नातिचूर्णपदैर्युक्ता न च व्यर्थाभिदायिभिः । दुर्बोधनैश्च न कृता समत्वात्समता मता ॥ १६.१०१ ॥ अन्योन्यसदृशा यत्र तथा ह्यन्योन्यभूषणाः । अलङ्कारा गुणाश्चैव समाः स्युः समतां मताः ॥ १६.१०२ ॥ अभियुक्तैर्विशेषस्तु योऽर्थस्येहोपलक्ष्यते । तेन चार्थेन सम्पन्नः समाधिः परिकीर्त्यते ॥ १६.१०३ ॥ उपमास्विह दृष्टानामर्थानां यत्नतस्तथा । प्राप्तानां चातिसंक्षेपात्समाधिर्निर्णयो यतः ॥ १६.१०४ ॥ बहुशो यच्छ्रुतं वाक्यमुक्तं वापि पुनः पुनः । नोद्वेजयति यस्माद्धि तन्माधुर्यमिति स्मृतम् ॥ १६.१०५ ॥ समासवद्भिर्विविधैर्विचित्रैश्च पदैर्युतम् । सानुस्वारैरुदारैश्च तदोजः परिकीर्त्यते ॥ १६.१०६ ॥ अवगीतोऽपि हीनोऽपि स्यादुदात्तावभासकः । यत्र शब्दार्थसम्पत्तिस्तदोजः परिकीर्तितम् ॥ १६.१०७ ॥ सुखप्रयोज्यैर्यच्छब्दैर्युक्तं सुश्लिष्टसन्धिभिः । सुकुमारार्थसंयुक्तं सौकुमार्यं तदुच्यते ॥ १६.१०८ ॥ सुप्रसिद्धाभिधाना तु लोककर्मव्यवस्थिता । या क्रिया क्रियते काव्ये सार्थव्यक्तिः प्रतीयते ॥ १६.१०९ ॥ यस्यार्थानुप्रवेशेन मनसा परिकल्प्यते । अनन्तरं प्रयोगस्तु साऽर्थव्यक्तिरुदाहृता ॥ १६.११० ॥ दिव्यभावपरीतं यच्छृङ्गाराद्भुतयोजितम् । अनेकभावसंयुक्तमुदारत्वं प्रकीर्तितम् ॥ १६.१११ ॥ अनेकार्थविशेषैर्यत्सूक्तैः सौष्ठवसंयुतैः । उपेतमतिचित्रार्थैः उदात्तं तच्च कीर्त्यते ॥ १६.११२ ॥ यन्मनश्श्रोत्रविषयमाह्लादयति हीन्दुवत् । लीलाद्यर्थोपपन्नां वा तां कान्तिं कवयो विदुः ॥ १६.११३ ॥ यो मनश्श्रोत्रविषयः प्रसादजनको भवेत् । शब्दबन्धः प्रयोगेण स कान्त इति भण्यते ॥ १६.११४ ॥ एवमेते ह्यलङ्कारा गुणा दोषाश्च कीर्तिताः । प्रयोगमेषां च पुनर्वक्ष्यामि रससंश्रयम् ॥ १६.११५ ॥ लघ्वक्षरप्रायकृतमुपमारूपकाश्रयम् । काव्यं कार्यं तु नाट्यज्ञैः वीररौद्राद्भुताश्रयम् ॥ १६.११६ ॥ गुर्वक्षरप्रायकृतं बीभत्से करुणे तथा । कदाचिद्रौद्रवीराभ्यां यदाघर्षणजं भवेत् ॥ १६.११७ ॥ रूपदीपकसंयुक्तमार्यावृत्तसमाश्रयम् । शृङ्गारे च रसे वीरे काव्यं स्यान्नाटकाश्रयम् ॥ १६.११८ ॥ उत्तरोत्तरसंयुक्तं वीरे काव्यं तु यद्भवेत् । जगत्यतिजगत्यां वा संकृत्यां वापि तद्भवेत् ॥ १६.११९ ॥ तथैव युद्धसम्फेटा उत्कृत्यां संप्रकीर्तितौ । करुणे शक्वरी ज्ञेया तथैवातिधृतिर्भवेत् ॥ १६.१२० ॥ यद्वीरे कीर्तितं च्छन्दः तद्रौद्रेऽपि प्रयोजयेत् । शेषाणामर्थयोगेन च्छन्दः कार्यः प्रयोक्तृभिः ॥ १६.१२१ ॥ यच्छन्दः पूर्वमुद्दिष्टं विषमार्धसमे समम् । उदारमधुरैः शब्दैस्तत्कार्यं तु रसानुगम् ॥ १६.१२२ ॥ शब्दानुदारमधुरान् प्रमदाभिधेयान्नाट्याश्रयेषु कृतिषु प्रययेत कर्तुम् । तैर्भूषिता बहु विभान्ति हि काव्यबन्धाः पद्माकरा विकसिता इव राजहंसैः ॥ १६.१२३ ॥ त्रिविधं ह्यक्षरं कार्यं कविभिर्नाटकाश्रयम् । ह्रस्वं दीर्घं प्लुतञ्चैव रसभावविभावकम् ॥ १६.१२४ ॥ एकमात्रं भवेध्रस्वं द्विमात्रं दीर्घमिष्यते । प्लुतं चैव त्रिमात्रं स्यादक्षरं स्वरयोजनात् ॥ १६.१२५ ॥ स्मृते चासूयिते चैव तथा च परिदेविते । पठतां ब्राह्मणानाञ्च प्लुतमक्षरमिष्यते ॥ १६.१२६ ॥ अकारस्तु स्मृते कार्यं ऊकारश्चाप्यसूयिते । परिदेविते तु हाकार ओंकारोऽध्ययने तथा ॥ १६.१२७ ॥ ह्रस्वदीर्घप्लुतानीह यथाभावं यथारसम् । काव्ययोगेषु सर्वेषु ह्यक्षराणि प्रयोजयेत् ॥ १६.१२८ ॥ चेक्रीडितप्रभृतिभिर्विकृतैस्तु शब्दैः युक्ता न भान्ति ललिता भरतप्रयोगाः । यज्ञक्रियेव रुरुचर्मधुरैः कृताक्तैः वेश्या द्विजैरिव कमण्डलुदण्डहस्तैः ॥ १६.१२९ ॥ मृदुललितपदार्थं गूढशब्दार्थहीनं बुधजनसुखभोग्यं युक्तिमन्नृत्तयोग्यम् । बहुरसकृतमार्गं सन्धिसन्धानयुक्तं भवति जगति योग्यं नाटकं प्रेक्षकाणाम् ॥ १६.१३० ॥ अनुबन्धः भूषणाक्षरसङ्घातौ शोभोदाहरणे तथा । हेतुसंशयदृष्टान्ताः प्राप्ताभिप्राय एव च ॥ १६.१३१ ॥ निदर्शनं निरुक्तं च सिद्धिश्चाथ विशेषणम् । गुणातिपातातिशयौ तुल्यतर्कः पदोच्चयः ॥ १६.१३२ ॥ दृष्टं चैवोपदिष्टं च विचारस्तद्विपर्ययः । भ्रंशश्चानुनयो माला दाक्षिण्यं गर्हणं तथा ॥ १६.१३३ ॥ अर्थापत्तिः प्रसिद्धिश्च पृच्छा सारूप्यमेव च । मनोरथश्च लेशश्च क्षोभोऽथ गुणकीर्तनम् ॥ १६.१३४ ॥ ज्ञेयान्यनुक्तसिद्धिश्च प्रियं वचनमेव च । षट्त्रिंशल्लक्षणान्येव काव्यबन्धेषु निर्दिशेत् ॥ १६.१३५ ॥ अलङ्कारैर्गुणैश्चैव बहुभिः समलंकृतम् । भूषणैरिव चित्रार्थैस्तद्भूषणमिति स्मृतम् ॥ १६.१३६ ॥ यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रमुपवर्ण्यते । तमप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् ॥ १६.१३७ ॥ सिद्धैरर्थैः समं कृत्वा ह्यसिद्धोऽर्थः प्रयुज्यते । यत्र श्लिष्टा विचित्रार्था सा शोभेत्यभिधीयते ॥ १६.१३८ ॥ यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् । साध्यन्ते निपुणैरर्थास्तदुदाहरणं स्मृतम् ॥ १६.१३९ ॥ यत्प्रयोजनसामर्थ्यात्वाक्यमिष्टार्थसाधकम् । समासोक्तं मनोग्राहि स हेतुरिति संज्ञितः ॥ १६.१४० ॥ अपरिज्ञाततत्त्वार्थं वाक्यं यत्र समाप्यते । अनेकत्वाद्विचाराणां स संशय इति स्मृतः ॥ १६.१४१ ॥ सर्वलोकमनोग्राहि यस्तु पक्षार्थसाधकः । हेतोर्निदर्शनकृतः स दृष्टान्त इति स्मृतः ॥ १६.१४२ ॥ दृष्ट्वैवावयवान् कांश्चिद्भावो यत्रानुमीयते । प्राप्तिं तामपि जानीयाल्लक्षणं नाटकाश्रयम् ॥ १६.१४३ ॥ अभूतपूर्वो योऽप्यर्थः सादृश्यात्परिकल्पितः । लोकस्य हृदयग्राही सोऽभिप्राय इति स्मृतः ॥ १६.१४४ ॥ यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् । परापेक्षाद्युदासार्थं तन्निदर्शनमुच्यते ॥ १६.१४५ ॥ निरवद्यस्य वाक्यस्य पूर्वोक्तार्थप्रसिद्धये । यदुच्यते तु वचनं निरुक्तं तदुदाहृतम् ॥ १६.१४६ ॥ बहूनां च प्रधानानां नाम यत्राभिकीर्त्यते । अभिप्रेतार्थसिद्ध्यर्थं सा सिद्धिरभिधीयते ॥ १६.१४७ ॥ सिद्धान् बहून् प्रधानार्थानुक्त्वा यत्र प्रयुज्यते । विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥ १६.१४८ ॥ गुणाभिधानैर्विविधैर्विपरीतार्थयोजितैः । गुणातिपातो मधुरैर्निष्ठुरार्थैर्भवेदथ ॥ १६.१४९ ॥ बहून् गुणान् कीर्तयित्वा सामान्यजनसम्भवान् । विशेषः कीर्त्यते यस्तु ज्ञेयः सोऽतिशयो बुधैः ॥ १६.१५० ॥ रूपकैरुपसाभिर्वा तुल्यार्थैः सुप्रयोजितैः । अप्रत्यक्षार्थसंस्पर्शस्तुल्यतर्कः प्रकीर्तितः ॥ १६.१५१ ॥ बहूनां च प्रयुक्तानां पदानां बहुभिः पदैः । उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥ १६.१५२ ॥ यथादेशं यथाकालं यथारूपं च वर्ण्यते । यत्प्रत्यक्षं परोक्षं वा दृष्टं तद्वर्णतोऽपि वा ॥ १६.१५३ ॥ परिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते । विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते ॥ १६.१५४ ॥ पूर्वाशयसमानार्थैरप्रत्यक्षार्थसाधनैः । अनेकोपाधिसंयुक्तो विचारः परिकीर्तितः ॥ १६.१५५ ॥ विचारस्यान्यथाभावस्तथा दृष्टोपदिष्टयोः । सन्देहात्कल्प्यते यस्तु स विज्ञेयो विपर्ययः ॥ १६.१५६ ॥ वाच्यमर्थं परित्यज्य दृष्टादिभिरनेकधा । अन्यस्मिन्नेव पतनादिह भ्रंशः स इष्यते ॥ १६.१५७ ॥ उभयोः प्रीतिजननो विरुद्धाभिनिविष्टयोः । अर्थस्य साधकश्चैव विज्ञेयोऽनुनयो बुधैः ॥ १६.१५८ ॥ ईप्सितार्थप्रसिद्ध्यर्थं कीर्त्यते यत्र सूरिभिः । प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता ॥ १६.१५९ ॥ हृष्टैः प्रसन्नवदनैर्यत्परस्यानुवर्तनम् । क्रियते वाक्यचेष्टाभिस्तद्दाक्षिण्यमिति स्मृतम् ॥ १६.१६० ॥ यत्र संकीर्तयन् दोषं गुणमर्थेन दर्शयेत् । गुणातिपाताद्दोषाद्वा गर्हणं नाम तद्भवेत् ॥ १६.१६१ ॥ अर्थान्तरस्य कथने यत्रान्योऽर्थः प्रतीयते । वाक्यमाधुर्यसम्पन्ना सार्थापत्तिरुदाहृता ॥ १६.१६२ ॥ वाक्यैः सातिशयैरुक्ता वाक्यार्थस्य प्रसाधकैः । लोकप्रसिद्धैर्बहुभिः प्रसिद्धिरिति कीर्तिता ॥ १६.१६३ ॥ यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् । पृच्छ्यते चाभिधत्तेऽर्थं सा पृच्छेत्यभिसंज्ञिता ॥ १६.१६४ ॥ दृष्टश्रुतानुभूतार्थकथनादिसमुद्भवम् । सादृश्यं क्षोभजननं सारूप्यमिति संज्ञितम् ॥ १६.१६५ ॥ हृदयस्थस्य वाक्यस्य गूढार्थस्य विभावकम् । अन्यापदेशैः कथनं मनोरथ इति स्मृतः ॥ १६.१६६ ॥ यद्वाक्यं वाक्यकुशलैरुपायेनाभिधीयते । सदृशार्थाभिनिष्पत्त्याः स लेश इति कीर्तितः ॥ १६.१६७ ॥ परदोषैर्विचित्रार्थैर्यत्रात्मा परिकीर्त्यते । अदृष्टोऽप्यन्योऽपि वा कश्चित्स तु क्षोभ इति स्मृतः ॥ १६.१६८ ॥ लोके गुणातिरिक्तानां गुणानां यत्र नामभिः । एकोऽपि शब्द्यते तत्तु विज्ञेयं गुणकीर्तनम् ॥ १६.१६९ ॥ प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यत्र प्रतीयते । वचनेन विनानुक्तसिद्धिः सा परिकीर्तिता ॥ १६.१७० ॥ यत्प्रसन्नेन मनसा पूज्यं पूजयितुं वचः । हृष्टप्रकाशनार्थं तु सा प्रियोक्तिरुदाहृता ॥ १६.१७१ ॥ एतानि काव्यस्य च लक्षणानि षट्त्रिंशदुद्देशनिदर्शनानि । प्रबन्धशोभाकरणानि तज्ज्ञैः सम्यक्प्रयोज्यानि रसायनानि ॥ १६.१७२ ॥ इति भरतीये नाट्यशास्त्रे वागभिनये काव्यलक्षणो नाम षोडशोऽध्यायः _____________________________________________________________ अथ अष्टादशोऽध्यायः वर्त्तयिष्याम्यहं विप्रा दशरूपविकल्पनम् । नामतः कर्मतश्चैव तथा चैव प्रयोगतः ॥ १८.१ ॥ नाटकं सप्रकरणमङ्को व्यायोग एव च । भाणः समवकारश्च वीथी प्रहसनं डिमः ॥ १८.२ ॥ ईहामृगश्च विज्ञेया दशेमे नाट्यलक्षणे । एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ १८.३ ॥ सर्वेषामेव काव्यानां मातृका वृत्तयः स्मृताः । आभ्यो विनिसृतं ह्येतद्दशरूपं प्रयोगतः ॥ १८.४ ॥ जातिभिः श्रुतिभिश्चैव स्वरा ग्रामत्वमागताः । यथा तथा वृत्तिभेदैः काव्यबन्धा भवन्ति हि ॥ १८.५ ॥ ग्रामौ पूर्णस्वरौ द्वौ तु यथा वै षड्जमध्यमौ । सर्ववृत्तिविनिष्पन्नौ काव्यबन्धौ तथा त्विमौ ॥ १८.६ ॥ ज्ञेयं प्रकरणं चैव तथा नाटकमेव च । सर्ववृत्तिविनिष्पन्नं नानाबन्धसमाश्रयम् ॥ १८.७ ॥ वीथी समवकारश्च तथेहामृग एव च । उत्सृष्टिकाङ्को व्यायोगो भाणः प्रहसनं डिमः ॥ १८.८ ॥ कैशिकीवृत्तिहीनानि रूपाण्येतानि कारयेत् । अत ऊर्ध्वं प्रवक्ष्यामि काव्यबन्धविकल्पनम् ॥ १८.९ ॥ प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव । राजर्षिवंश्यचरितं तथैव दिव्याश्रयोपेतम् ॥ १८.१० ॥ नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चैव । अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम ॥ १८.११ ॥ नृपतीनां यच्चरितं नानारसभावचेष्टितं बहुधा । सुखदुःखोत्पत्तिकृतं भवति हि तन्नाटकं नाम ॥ १८.१२ ॥ अस्यावस्थोपेतं कार्यं प्रसमीक्ष्य बिन्दुविस्तारात् । कर्तव्योऽङ्कः सोऽपि तु गुणान्वितं नाट्यतत्त्वज्ञैः ॥ १८.१३ ॥ अङ्क इति रूढिशब्दो भावैश्च रसैश्च रोहयत्यर्थान् । नानाविधानयुक्तो यस्मात्तस्माद्भवेदङ्कः ॥ १८.१४ ॥ अङ्कसमाप्तिः कार्या काव्यच्छेदेन बीजसंहारः । वस्तुव्यापी बिन्दुः काव्यसमुत्थोऽत्र नित्यं स्यात् ॥ १८.१५ ॥ यत्रार्थस्य समाप्तिर्यत्र च बीजस्य भवति संहारः । किञ्चिदवलग्नबिन्दुः सोऽङ्क इति सदावगन्तव्यः ॥ १८.१६ ॥ ये नायका निगदितास्तेषां प्रत्यक्षचरितसंयोगः । नानावस्थोपेतः कार्यस्त्वङ्कोऽविप्रकृष्टस्तु ॥ १८.१७ ॥ नायकदेवीगुरुजनपुरोहितामात्यसार्थवाहानाम् । नैकरसान्तरविहितो ह्यङ्क इति स वेदितव्यस्तु ॥ १८.१८ ॥ पञ्चाक्षरा दशपरा ह्यङ्काः स्युर्नाटके प्रकरणे च । निष्क्रामः सर्वेषां यस्मिन्नङ्कः स विज्ञेयः ॥ १८.१९ ॥ क्रोधप्रसादशोकाः शापोत्सर्गोऽथ विद्रवोद्वाहौ । अद्भुतसम्भवदर्शनमङ्के प्रत्यक्षजानि स्युः ॥ १८.२० ॥ एकदिवसप्रवृत्तः कार्यस्त्वङ्कोऽर्थबीजमधिकृत्य । आवश्यककार्याणामविरोधेन प्रयोगेषु ॥ १८.२१ ॥ एकाङ्केन कदाचिद्बहूनि कार्याणि योजयेद्धीमान् । आवश्यकाविरोधेन तत्र काव्यानि कार्याणि ॥ १८.२२ ॥ रङ्गं तु ये प्रविष्टाः सर्वेषां भवति तत्र निष्क्रामः । बीजार्थयुक्तियुक्तं कृत्वा काव्यं यथार्थरसम् ॥ १८.२३ ॥ न बहूनीह कार्याणि त्वेकाङ्के विनियोजयेत् । आवश्यकानां कार्याणां विरोधो हि तथा भवेत् ॥ १८.२४ ॥ ज्ञात्वा दिवसावस्थां क्षणयाममुहूर्तलक्षणोपेताम् । विभजेत्सर्वमशेषं पृथक्पृथक्काव्यमङ्केषु ॥ १८.२५ ॥ दिवसावसानकार्यं यद्यङ्के नोपपद्यते सर्वम् । अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधातव्यम् ॥ १८.२६ ॥ विप्रकृष्टं तु यो देशं गच्छेत्कार्यवशानुगः । अङ्कच्छेदेऽथ संक्षेपान्निर्दिशेत्तं प्रवेशकैः ॥ १८.२७ ॥ सन्निहितनायकोऽङ्कः कर्तव्यो नाटके प्रकरणे वा । परिजनकथानुबन्धः प्रवेशको नाम विज्ञेयः ॥ १८.२८ ॥ प्रकरणनाटकविषये पञ्चाद्या दशपरा भवन्त्यङ्काः । अङ्कान्तरसन्धिषु च प्रवेशकास्तेषु तावन्तः ॥ १८.२९ ॥ अनयोरन्तरविहितः प्रवेशकोऽर्थक्रियां समभिवीक्ष्य । संक्षेपार्थः सन्धिष्वर्थानां संविधातव्यः ॥ १८.३० ॥ अङ्कच्छेदं कृत्वा मासकृतं वर्षसञ्चितं वापि । तत्सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित् ॥ १८.३१ ॥ यः कश्चित्कार्यवशाद्गच्छति पुरुषः प्रकृष्टमध्वानम् । तत्राप्यङ्कच्छेदः कर्तव्यः पूर्ववत्तज्ञैः ॥ १८.३२ ॥ अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् । प्रकरणनाटकविषये प्रवेशकः संविधातव्यः ॥ १८.३३ ॥ नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः । प्राकृतभाषाचारः प्रयोगमाश्रित्य कर्तव्यः ॥ १८.३४ ॥ कालोत्थानगतिरसौ व्याख्यासंरम्भकार्यविषयाणाम् । अर्थाभिधानयुक्तः प्रवेशकः स्यादनेकार्थः ॥ १८.३५ ॥ बह्वाश्रयमपि कार्यं प्रवेशकैः संक्षिपेच्च सन्धिषु वा । बहुचूर्णपदैर्युक्तं जनयति खेदं प्रयोगस्य ॥ १८.३६ ॥ यत्रार्थस्य समाप्तिर्न भवत्यङ्के प्रयोगबाहुल्यात् । वृत्तान्तस्वल्पकथैः प्रवेशकैः सोऽभिधातव्यः ॥ १८.३७ ॥ युद्धं राज्यभ्रंशो मरणं नगरोपरोधनं चैव । प्रत्यक्षाणि तु नाङ्के प्रवेशकैः संविधेयानि ॥ १८.३८ ॥ अङ्के प्रवेशके च प्रकरणमाश्रित्य नाटके वापि । न वधः कर्तव्यः स्याद्योऽभ्युदयी नायकः ख्यातः ॥ १८.३९ ॥ अपसरणमेव कार्यं ग्रहणं वा सन्धिरेव वा योज्यः । काव्यश्लेषैर्बहुभिर्यथारसं नाट्यतत्त्वज्ञैः ॥ १८.४० ॥ न महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा । ये तत्र कार्यपुरुषाश्चत्वारः पञ्च वा ते स्युः ॥ १८.४१ ॥ कार्यं गोपुच्छाग्रं कर्तव्यं काव्यबन्धमासाद्य । ये चोदात्ता भावास्ते सर्वे पृष्ठतः कार्याः ॥ १८.४२ ॥ सर्वेषां काव्यानां नानारसभावयुक्तियुक्तानाम् । निर्वहणे कर्तव्यो नित्यं हि रसोऽद्भुतस्तज्ज्ञैः ॥ १८.४३ ॥ नाटकलक्षणमेतन्मया समासेन कीर्तितं विधिवत् । प्रकरणमतः परमहं लक्षणयुक्त्या प्रवक्ष्यामि ॥ १८.४४ ॥ यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव । औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैर्ज्ञेयम् ॥ १८.४५ ॥ यदनार्षमथाहार्यं काव्यं प्रकरोत्यभूतगुणयुक्तम् । उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥ १८.४६ ॥ यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च । तत्प्रकरणेऽपि योज्यं सलक्षणं सर्वसन्धिषु तु ॥ १८.४७ ॥ विप्रवणिक्षचिवानां पुरोहितामात्यसार्थवाहानाम् । चरितं यन्नैकविधं ज्ञेयं तत्प्रकरणं नाम ॥ १८.४८ ॥ नोदात्तनायककृतं न दिव्यचरितं न राजसम्भोगम् । बाह्यजनसंप्रयुक्तं तज्ज्ञेयं प्रकरणं तज्ज्ञैः ॥ १८.४९ ॥ दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम् । मन्दकुलस्त्रीचरितं काव्यं कार्यं प्रकरणे तु ॥ १८.५० ॥ सचिवश्रेष्ठिब्राह्मणपुरोहितामात्यसार्थवाहानाम् । गृहवार्ता यत्र भवेन्न तत्र वेश्याङ्गना कार्या ॥ १८.५१ ॥ यदि वेशयुवतियुक्तं न कुलस्त्री सङ्गमोऽपि स्यात् । अथ कुलजनप्रयुक्तं न वेशयुवतिर्भवेत्तत्र ॥ १८.५२ ॥ यदि वा कारणयुक्त्या वेशकुलस्त्रीकृतोपचारः स्यात् । अविकृतभाषाचारं तत्र तु पाठ्यं प्रयोक्तव्यम् ॥ १८.५३ ॥ मध्यमपुरुषैर्नित्यं योज्यो विष्कम्भकोऽत्र तत्त्वज्ज्ञैः । संस्कृतवचनानुगतः संक्षेपार्थः प्रवेशकवत् ॥ १८.५४ ॥ शुद्धः संकीर्णो वा द्विविधो विष्कम्भकोऽपि कर्तव्यः । मध्यमपात्रः शुद्धः संकीर्णो नीचमध्यकृतः ॥ १८.५५ ॥ अङ्कान्तरालविहितः प्रवेशकोऽर्थक्रियां समभिवीक्ष्य । संक्षेपात्सन्धीनामर्थानां चैव कर्तव्यः ॥ १८.५६ ॥ अनयोश्च बन्धयोगादन्यो भेदः प्रयोक्तृभिः कार्यः । प्रख्यातस्त्वितरो वा नाटकयोगे प्रकरणे वा ॥ १८.५७ ॥ प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम् । अन्तःपुरसङ्गीतककन्यामधिकृत्य कर्तव्या ॥ १८.५८ ॥ स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी । बहुनृत्तगीतपाठ्या रतिसम्भोगात्मिका चैव ॥ १८.५९ ॥ राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । नायकदेवीदूती सपरिजना नाटिका ज्ञेया ॥ १८.६० ॥ अन्तर्भावगता ह्येषा भावयोरुभयोर्यतः । अत एव दशैतानि रूपाणीत्युदितानि वै ॥ १८.६१ ॥ प्रकरणनाटकलक्षणमुक्तं विप्रा मया समासेन । वक्ष्याम्यतः परमहं लक्षणं युक्त्या समवकारम् ॥ १८.६२ ॥ देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव । त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्त्रिशृङ्गारः ॥ १८.६३ ॥ द्वादशनायकबहुलो ह्यष्टादशनाडिकाप्रमाणश्च । वक्ष्याम्यस्याङ्कविधिं यावत्यो नाडिका यत्र ॥ १८.६४ ॥ अङ्कस्तु सप्रहसनः सविद्रवः सकपटः सवीथीकः । द्वादशनाडीविहितः प्रथमः कार्यः क्रियोपेतः ॥ १८.६५ ॥ कार्यस्तथा द्वितीयः समाश्रितो नाडिकाश्चतस्रस्तु । वस्तुसमापनविहितो द्विनाडिकः स्यात्तृतीयस्तु ॥ १८.६६ ॥ नाडीसंज्ञा ज्ञेया मानं कालस्य यन्मुहूर्तार्धम् । तन्नाडिकाप्रमाणं यथोक्तमङ्केषु संयोज्यम् ॥ १८.६७ ॥ या नाडिकेति संज्ञा कालविभागे क्रियाभिसंपन्ना । कार्या च सा प्रयत्नाद्यथा क्रमेणैव शास्त्रोक्ता ॥ १८.६८ ॥ अङ्कोऽङ्कस्त्वन्यार्थः कर्तव्यः काव्यबन्धमासाद्य । अर्थं हि समवकारे ह्यप्रतिसम्बन्धमिच्छन्ति ॥ १८.६९ ॥ युद्धजलसम्भवो वा वाय्वग्निगजेन्द्रसंभ्रमकृतो वा । नगरोपरोधजो वा विज्ञेयो विद्रवस्त्रिविधः ॥ १८.७० ॥ वस्तुगतक्रमविहितो देववशाद्वा परप्रयुक्तो वा । सुखदुःखोत्पत्तिकृतस्त्रिविधः कपटोऽत्र विज्ञेयः ॥ १८.७१ ॥ त्रिविधश्चात्र विधिज्ञैः पृथक्पृथक्कार्यविहितार्थः । शृङ्गारः कर्तव्यो धर्मे चार्थे च कामे च ॥ १८.७२ ॥ यस्मिन् धर्मप्रापकमात्महितं भवति साधनं बहुधा । व्रतनियमतपोयुक्तो ज्ञेयोऽसौ धर्मशृङ्गारः ॥ १८.७३ ॥ अर्थस्येच्छायोगाद्बहुधा चैवार्थतोऽर्थशृङ्गारः । स्त्रीसंप्रयोगविषयेष्वर्थार्था वा रतिर्यत्र ॥ १८.७४ ॥ कन्याविलोभनकृतं प्राप्तौ स्त्रीपुंसयोस्तु रम्यं वा । निभृतं सावेगं वा यस्य भवेत्कामशृङ्गारः ॥ १८.७५ ॥ उष्णिग्गायत्र्यादीन्यन्यानि च यानि बन्धकुटिलानि । वृत्तानि समवकारे कविभिस्तानि प्रयोज्यानि ॥ १८.७६ ॥ एवं कार्यस्तज्ज्ञैर्नानारससंश्रयः समवकारः । वक्ष्याम्यतः परमहं लक्षणमीहामृगस्यापि ॥ १८.७७ ॥ दिव्यापुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः । सुविहितवस्तुनिबद्धो विप्रत्ययकारकश्चैव ॥ १८.७८ ॥ उद्धतपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च । संक्षोभविद्रवकृतः संफेटकृतस्तथा चैव ॥ १८.७९ ॥ स्त्रीभेदनापहरणावमर्दनप्राप्तवस्तुशृङ्गारः । ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च ॥ १८.८० ॥ यद्व्यायोगे कार्यं ये पुरुषा वृत्तयो रसाश्चैव । ईहामृगेऽपि ते स्युः केवलममरस्त्रिया योगः ॥ १८.८१ ॥ यत्र तु वधेप्सितानां वधो ह्युदग्रो भवेद्धि पुरुषाणाम् । किञ्चिद्व्याजं कृत्वा तेषां युद्धं शमयितव्यम् ॥ १८.८२ ॥ ईहामृगस्य लक्षणमुक्तं विप्राः समासयोगेन । डिमलक्षणं तु भूयो लक्षणयुक्त्या प्रवक्ष्यामि ॥ १८.८३ ॥ प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव । षड्रसलक्षणयुक्तश्चतुरङ्को वै डिमः कार्यः ॥ १८.८४ ॥ शृङ्गारहास्यवर्जं शेषैः सर्वै रसैः समायुक्तः । दीप्तरसकाव्ययोनिर्नानाभावोपसम्पन्नः ॥ १८.८५ ॥ निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः । युद्धनियुद्धाधर्षणसंफेटकृतश्च कर्तव्यः ॥ १८.८६ ॥ मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्च । देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥ १८.८७ ॥ षोडशनायकबहुलः सात्वत्त्यारभटीवृत्तिसम्पन्नः । कार्यो डिमः प्रयत्नान्नानाश्रयभावसम्पन्नः ॥ १८.८८ ॥ डिमलक्षणमित्युक्तं मया समासेन लक्षणानुगतम् । व्यायोगस्य तु लक्षणमतः परं संप्रवक्ष्यामि ॥ १८.८९ ॥ व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः । अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव ॥ १८.९० ॥ बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे । न च दिव्यनायकयुक्तः कार्यस्त्वेकाङ्क एवायम् ॥ १८.९१ ॥ न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः । युद्धनियुद्धाघर्षणसंघर्षकृतश्च कर्तव्यः ॥ १८.९२ ॥ एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः । वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टाङ्कस्य ॥ १८.९३ ॥ प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् । दिव्यपुरुषैर्वियुक्तः शेषैर्युक्तो भवेत्पुंभिः ॥ १८.९४ ॥ करुणरसप्रायकृतो निवृत्तयुद्धोद्यतप्रहारश्च । स्त्रीपरिदेवितबहुलो निर्वेदितभाषितश्चैव ॥ १८.९५ ॥ नानाव्याकुलचेष्टः सात्वत्त्यारभटिकैशिकीहीनः । कार्यः काव्यविधिज्ञैः सततं ह्युत्सृष्टिकाङ्कस्तु ॥ १८.९६ ॥ यद्दिव्यनायककृतं काव्यं संग्रामबन्धवधयुक्तम् । तद्भारते तु वर्षे कर्तव्यं काव्यबन्धेषु ॥ १८.९७ ॥ कस्माद्भारतमिष्टं वर्षेष्वन्येषु देवविहितेषु । हृद्या सर्वा भूमिः शुभगन्धा काञ्चनी यस्मात् ॥ १८.९८ ॥ उपवनगमनक्रीडा विहारनारीरतिप्रमोदाः स्युः । तेषु हि वर्षेषु सदा न तत्र दुःखं न वा शोकः ॥ १८.९९ ॥ ये तेषामधिवासाः पुराणवादेषु पर्वताः प्रोक्ताः । सम्भोगस्तेषु भवेत्कर्मारम्भो भवेदस्मिन् ॥ १८.१०० ॥ प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा सङ्कीर्णम् । अङ्कस्य लक्षणमिदं व्याख्यातमशेषयोगमात्रगतम् ॥ १८.१०१ ॥ प्रहसनमतः परं सलक्षणं संप्रवक्ष्यामि । वक्ष्यामि तयोर्युक्त्या पृथग्पृथग्लक्षणविशेषम् ॥ १८.१०२ ॥ भगवत्तापसविप्रैरन्यैरपि हास्यवादसम्बद्धम् । कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् ॥ १८.१०३ ॥ अविकृतभाषाचारं विशेषभावोपपन्नचरितपदम् । नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु ॥ १८.१०४ ॥ वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः । अनिभृतवेषपरिच्छदचेष्टितकरणैस्तु संकीर्णम् ॥ १८.१०५ ॥ लोकोपचारयुक्ता या वार्ता यश्च दम्भसंयोगः । स प्रहसने प्रयोज्यो धूर्तप्रविवादसम्पन्नः ॥ १८.१०६ ॥ वीथ्यङ्गैः संयुक्तं कर्तव्यं प्रहसनं यथायोग्यम् । भाणस्यापि तु लक्षणमतः परं संप्रवक्ष्यामि ॥ १८.१०७ ॥ आत्मानुभूतशंसी परसंश्रयवर्णनाविशेषस्तु । विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ॥ १८.१०८ ॥ परवचनमात्मसंस्थं प्रतिवचनैरुत्तमोत्तमग्रथितैः । आकाशपुरुषकथितैरङ्गविकारैरभिनयैश्चैव ॥ १८.१०९ ॥ धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव । एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः ॥ १८.११० ॥ भाणस्यापि हि निखिलं लक्षणमुक्तं तथागमानुगतम् । वीथ्याः संप्रति निखिलं कथयामि यथाक्रमं विप्राः ॥ १८.१११ ॥ सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्त्रयोदशभिः । वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा ॥ १८.११२ ॥ अधमोत्तममध्याभिर्युक्ता स्यात्प्रकृतिभिस्तिसृभिः । उद्धात्यकावलगितावस्पन्दितनाल्यसत्प्रलापाश्च ॥ १८.११३ ॥ वाक्केल्यथ प्रपञ्चो मृदवाधिबले छलं त्रिगतम् । व्याहारो गण्डश्च त्रयोदशाङ्गान्युदाहृतान्यस्याः ॥ १८.११४ ॥ अथ वीथी संप्रोक्ता लक्षणमेषां प्रवक्ष्यामि । पदानि त्वगतार्थानि ये नराः पुनरादरात् ॥ १८.११५ ॥ योजयन्ति पदैरन्यैस्तदुद्धात्यकमुच्यते । यत्रान्यस्मिन् समावेश्य कार्यमन्यत्प्रसाध्यते ॥ १८.११६ ॥ तच्चावलगितं नाम विज्ञेयं नाट्ययोक्तृभिः । आक्षिप्तेऽर्थे तु कस्मि.ण्श्चिच्छुभाशुभसमुत्थिते ॥ १८.११७ ॥ कौशलादुच्यतेऽन्योऽर्थस्तदवस्पन्दितं भवेत् । हास्येनोपगतार्थप्रहेलिका नालिकेति विज्ञेया ॥ १८.११८ ॥ मूर्खजनसन्निकर्षे हितमपि यत्र प्रभाषते विद्वान् । न च गृह्यतेऽस्य वचनं विज्ञेयोऽसत्प्रलापोऽसौ ॥ १८.११९ ॥ एकद्विप्रतिवचना वाक्केली स्यात्प्रयोगेऽस्मिन् । यदसद्भूतं वचनं संस्तवयुक्तं द्वयोः परस्परं यत्तु ॥ १८.१२० ॥ एकस्य चार्थहेतोः स हास्यजननः प्रपञ्चः स्यात् । यत्कारणाद्गुणानां दोषीकरणं भवेद्विवादकृतम् ॥ १८.१२१ ॥ दोषगुणीकरणं वा तन्मृदवं नाम विज्ञेयम् । परवचनमात्मनश्चोत्तरोत्तरसमुद्भवं द्वयोर्यत्र ॥ १८.१२२ ॥ अन्योन्यार्थविशेषकमधिबलमिति तद्बुधैर्ज्ञेयम् । अन्यार्थमेव वाक्यं छलमभिसन्धानहास्यरोषकरम् ॥ १८.१२३ ॥ श्रुतिसारूप्याद्यस्मिन् बहवोऽर्था युक्तिभिर्नियुज्यन्ते । यद्धास्यमहास्यं वा तत्त्रिगतं नाम विज्ञेयम् ॥ १८.१२४ ॥ प्रत्यक्षवृत्तिरुक्तो व्याहारो हास्यलेशार्थः । संरम्भसंभ्रमयुतं विवादयुक्तं तथापवादकृतम् ॥ १८.१२५ ॥ बहुवचनाक्षेपकृतं गण्डं प्रवदन्ति तत्त्वज्ञाः । इति दशरूपविधानं सर्वं प्रोक्तं मया हि लक्षणतः । पुनरस्य शरीरगतं सन्धिविधौ लक्षणं वक्ष्ये ॥ १८.१२६ ॥ इति भरतीये नाट्यशास्त्रे दशरूपनिरूपणं नामाष्टादशोऽध्यायः _____________________________________________________________ अथ एकोनविंशोऽध्यायः इतिवृत्तं तु नाट्यस्य शरीरं परिकीर्तितम् । पञ्चभिः सन्धिभिस्तस्य विभागः सम्प्रकल्पितः ॥ १९.१ ॥ इतिवृत्तं द्विधा चैव बुधस्तु परिकल्पयेत् । आधिकरिकमेकं स्यात्प्रासङ्गिकमथापरम् ॥ १९.२ ॥ यत्कार्यं हि फलप्राप्त्या सामर्थ्यात्परिकल्प्यते । तदाधिकारिकं ज्ञेयमन्यत्प्रासङ्गिकं विदुः ॥ १९.३ ॥ कारणात्फलयोग्यस्य वृत्तं स्यादाधिकारिकम् । तस्योपकरणार्थं तु कीर्त्यते ह्यानुषङ्गिकम् ॥ १९.४ ॥ कवेः प्रयत्नान्नेतॄणां युक्तानां विद्ध्युपाश्रयात् । कल्प्यते हि फलप्राप्तिः समुत्कर्षात्फलस्य च ॥ १९.५ ॥ (लौकिकी सुखदुःखाख्या यथावस्था रसोद्भवा । दशधा मन्मथावस्था व्यवस्थास्त्रिविधा मता) ॥ १९.६ ॥ संसारे फलयागे तु व्यापारः कारणस्य यः । तस्यानुपूर्व्या विज्ञेया पञ्चावस्था प्रयोक्तृभिः ॥ १९.७ ॥ प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च संभवः । नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ॥ १९.८ ॥ औत्सुक्यमात्रबन्धस्तु यद्बीजस्य निबध्यते । महतः फलयोगस्य स फलारम्भ इष्यते ॥ १९.९ ॥ अपश्यतः फलप्राप्तिं व्यापारो यः फलं प्रति । परं चौत्सुक्यगमनं स प्रयत्नः प्रकीर्तितः ॥ १९.१० ॥ ईषत्प्राप्तिर्यदा काचित्फलस्य परिकल्पते । भावमात्रेण तु प्राहुर्विधिज्ञाः प्राप्तिसम्भवम् ॥ १९.११ ॥ नियतां तु फलप्राप्तिं यदा भावेन पश्यति । नियतां तां फलप्राप्तिं सगुणां परिचक्षते ॥ १९.१२ ॥ अभिप्रेतं समग्रं च प्रतिरूपं क्रियाफलम् । इतिवृत्ते भवेद्यस्मिन् फलयोगः प्रकीर्तितः ॥ १९.१३ ॥ सर्वस्यैव हि कार्यस्य प्रारब्धस्य फलार्थिभिः । एतास्त्वनुक्रमेणैव पञ्चावस्था भवन्ति हि ॥ १९.१४ ॥ आसां स्वभावभिन्नानां परस्परसमागमात् । विन्यास एकभावेन फलहेतुः प्रकीर्तितः ॥ १९.१५ ॥ इतिवृत्तं समाख्यातं प्रत्यगेवाधिकारिकम् । तदारम्भादि कर्तव्यं फलान्तं च यथा भवेत् ॥ १९.१६ ॥ पूर्णसन्धि च कर्तव्यं हीनसन्ध्यपि वा पुनः । नियमात्पूर्णसन्धि स्याद्धीनसन्ध्यथ कारणात् ॥ १९.१७ ॥ एकलोपे चतुर्थस्य द्विलोपे त्रिचतुर्थयोः । द्वितीयत्रिचतुर्थानां त्रिलोपे लोप इष्यते ॥ १९.१८ ॥ प्रासङ्गिके परार्थत्वान्न ह्येष नियमो भवेत् । यद्वृत्तं सम्भवेत्तत्र तद्योज्यमविरोधतः ॥ १९.१९ ॥ इतिवृत्ते यथावस्थाः पञ्चारम्भादिकाः स्मृताः । अर्थप्रकृतयः पञ्च तथा बीजादिका अपि ॥ १९.२० ॥ बीजं बिन्दुः पताका च प्रकरी कार्यमेव च । अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि ॥ १९.२१ ॥ स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति । फलावसानं यच्चैव बीजं तत्परिकीर्तितम् ॥ १९.२२ ॥ प्रयोजनानां विच्छेदे यदविच्छेदकारणम् । यावत्समाप्तिर्बन्धस्य स बिन्दुः परिकीर्तितः ॥ १९.२३ ॥ यद्वृत्तं तु परार्थं स्यात्प्रधानस्योपकारकम् प्रधानवच्च कल्प्येत सा पताकेति कीर्तिता ॥ १९.२४ ॥ फलं प्रकल्प्यते यस्याः परार्थायैव केवलम् । अनुबन्धविहीनत्वात्प्रकरीति विनिर्दिशेत् ॥ १९.२५ ॥ यदाधिकारिकं वस्तु सम्यक्प्राज्ञैः प्रयुज्यते । तदर्थो यः समारम्भस्तत्कार्यं परिकीर्तितम् ॥ १९.२६ ॥ एतेषां यस्य येनार्थो यतश्च गुण इष्यते । तत्प्रधानं तु कर्तव्यं गुणभूतान्यतः परम् ॥ १९.२७ ॥ एकोऽनेकोऽपि वा सन्धिः पताकायां तु यो भवेत् । प्रधानार्थानुयायित्वादनुसन्धिः प्रकीर्त्यते ॥ १९.२८ ॥ आगर्भादाविमर्शाद्वा पताका विनिवर्तते । कस्माद्यस्मान्निबन्धोऽस्याः परार्थः परिकीर्त्यते ॥ १९.२९ ॥ यत्रार्थे चिन्तितेऽन्यस्मिन्स्तल्लिन्ङ्गोऽन्यः प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकं तु तत् ॥ १९.३० ॥ सहसैवार्थसम्पत्तिर्गुणवत्युपकारतः । पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥ १९.३१ ॥ वचः सातिशयं क्लिष्टं काव्यबन्धसमाश्रयम् । पताकास्थानकमिदं द्वितीअयं परिकीर्तितम् ॥ १९.३२ ॥ अर्थोपक्षेपणं यत्र लीनं सविनयं भवेत् । श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते ॥ १९.३३ ॥ द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः । उपन्याससुयुक्तश्च तच्चतुर्थमुदाहृतम् ॥ १९.३४ ॥ [यत्र सातिशयं वाक्यमर्थोपक्षेपणं भवेत् । विनाशिदृष्टमन्ते च पताकार्धं तु तद्भवेत्] ॥ १९.३५ ॥ चतुष्पताकापरमं नाटके कार्ययिष्यते । पञ्चभिः सन्धिभिर्युक्तं तांश्च वक्ष्याम्यतः परम् ॥ १९.३६ ॥ मुखं प्रतिमुखं चैव गर्भो विमर्श एव च । तथा निर्वहणं चेति नाटके पञ्च सन्धयः ॥ १९.३७ ॥ [पञ्चभिः सन्धिभिर्युक्तं प्रधानमनु कीर्त्यते । शेषाः प्रधानसन्धीनामनुग्राह्यनुसन्धयः] ॥ १९.३८ ॥ यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा । काव्ये शरीरानुगता तन्मुखं परिकीर्तितम् ॥ १९.३९ ॥ बीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित् । मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ॥ १९.४० ॥ उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा । पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥ १९.४१ ॥ गर्भनिर्भिन्नबीजार्थो विलोभनकृतोऽथवा । क्रोधव्यसनजो वापि स विमर्श इति स्मृतः ॥ १९.४२ ॥ समानयनमर्थानां मुखाद्यानां सबीजिनाम् । नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् ॥ १९.४३ ॥ एते तु सन्धयो ज्ञेया नाटकस्य प्रयोक्तृभिः । तथा प्रकरणास्यापि शेषाणां च निबोधत ॥ १९.४४ ॥ डिमः समवकारश्च चतुःसन्धी प्रकीर्तितौ । न तयोरवमर्शस्तु कर्तव्यः कविभिः सदा ॥ १९.४५ ॥ व्यायोगेहामृगौ चापि सदा कार्यौ त्रिसन्धिकौ । गर्भावमर्शौ न स्यातां तयोर्वृत्तिश्च कैशिकी ॥ १९.४६ ॥ द्विसन्धि तु प्रहसनं वीथ्यङ्को भाण एव च । मुखनिर्वहने तत्र कर्तव्ये कविभिः सदा ॥ १९.४७ ॥ [वीथी चैव हि भाणश्च तथा प्रहसनं पुनः । कैशिकीवृत्तिहीनानि कार्याणि कविभिः सदा ] ॥ १९.४८ ॥ एवं हि सन्धयः कार्या दशरूपे प्रयोक्तृभिः । पुनरेषां तु सन्धीनामङ्गकल्पं निबोधदत ॥ १९.४९ ॥ सन्धिनां यानि वृत्तानि प्रदेशेष्वनुपूर्वशः । स्वसम्पद्गुणयुक्तानि तान्यङ्गान्युपधारयेत् ॥ १९.५० ॥ इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः । रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् ॥ १९.५१ ॥ आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम् । अङ्गानां षड्विधं ह्येतद्दॄष्टं शास्त्रे प्रयोजनम् ॥ १९.५२ ॥ अङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत् । अङ्गहीनं तथा काव्यं न प्रयोगक्षमं भवेत् ॥ १९.५३ ॥ उदात्तमपि तत्काव्यं स्यादङ्गैः परिवर्जितम् । हीनत्वाद्धि प्रयोगस्य न सतां रञ्जयेन्मनः ॥ १९.५४ ॥ काव्यं यदपि हीनार्थं सम्यदङ्गैः समन्वितम् । दीप्तत्वात्तु प्रयोगस्य शोभामेति न संशयः ॥ १९.५५ ॥ [तस्मात्सन्धिप्रदेशेषु यथायोगं यथारसम् । कविनाङ्गानि कार्याणि सम्यक्तानि निबोधत] ॥ १९.५६ ॥ उपक्षेपः परिकरः परिन्यासो विलोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥ १९.५७ ॥ उद्भेदः करणं भेद एतान्यङ्गानि वै मुखे । तथा प्रतिमुखे चैव शृणुताङ्गानि नामतः ॥ १९.५८ ॥ विलासः परिसर्पश्च विधूतं तापनं तथा । नर्म नर्मद्युतिश्चैव तथा प्रगयणं पुनः ॥ १९.५९ ॥ निरोधश्चैव विज्ञेयः पर्युपासनमेव च । पुष्पं वज्रमुपन्यासो वर्णसंहार एव च ॥ १९.६० ॥ एतानि वै प्रतिमुखे गर्भेऽङ्गानि निबोधत । अभूताहरणं मार्गो रूपोदाहरणे क्रमः ॥ १९.६१ ॥ संग्रहश्चानुमानं च प्रार्थनाक्षिप्तमेव च । तोटकाधिबले चैव ह्युद्वेगो विद्रवस्तथा ॥ १९.६२ ॥ एतान्यङ्गानि वै गर्भे ह्यवमर्शे निबोधत । अपवादश्च संफेटो विद्रवः शक्तिरेव च ॥ १९.६३ ॥ व्यवसायः प्रसङ्गश्च द्युतिः खेदो निषेधनम् । विरोधनमथादानं छादनं च प्ररोचना ॥ १९.६४ ॥ व्यवहारश्च युक्तिश्च विमर्शाङ्गान्यमूनि च । सन्धिर्निरोधो ग्रथनं निर्णयः परिभाषणम् ॥ १९.६५ ॥ द्युतिः प्रसाद आनन्दः समयो ह्युपगूहनम् । भाषणं पूर्ववाक्यं च काव्यसंहार एव च ॥ १९.६६ ॥ प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः । चतुष्षष्ठि बुधैर्ज्ञेयान्येतान्यङ्गानि सन्धिषु ॥ १९.६७ ॥ [सम्पादनार्थं बीजस्य सम्यक्सिद्धिकराणि च । कार्याण्येतानि कविभिर्विभज्यार्थानि नाटके ] ॥ १९.६८ ॥ पुनरेषां प्रवक्ष्यामि लक्षणानि यथाक्रमम् । काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः ॥ १९.६९ ॥ यदुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरस्तु सः । तन्निष्पत्तिः परिन्यासो विज्ञेयः कविभिः सदा ॥ १९.७० ॥ गुणनिर्वर्णनं चैव विलोभनमिति स्मृतम् । सम्प्रधारणमर्थानां युक्तिरित्यभिधीयते ॥ १९.७१ ॥ सुखार्थस्याभिगमनं प्राप्तिरित्यभिसंज्ञिता । बीजार्थस्योपगमनं समाधानमिति स्मृतम् ॥ १९.७२ ॥ सुखदुःखकृतो योऽर्थस्तद्विधानमिति स्मृतम् । कुतूहलोत्तरावेगो विज्ञेया परिभावना ॥ १९.७३ ॥ बीजार्थस्य प्ररोहो यः स उद्भेद इति स्मृतः । प्रकृतार्थसमारम्भः करणं नाम तद्भवेत् ॥ १९.७४ ॥ संघातभेदनार्थो यः स भेद इति कीर्तितः । [एतानि तु मुखाङ्गानि वक्ष्ये प्रतिमुखे पुनः] ॥ १९.७५ ॥ समीहा रतिभोगार्था विलास इति संज्ञितः । दृष्टनष्टानुसरणं परिसर्प इति स्मृतः ॥ १९.७६ ॥ कृतस्यानुनयस्यादौ विधूतं ह्यपरिग्रहः । अपायदर्शनं यत्तु तापनं नाम तद्भवेएत् ॥ १९.७७ ॥ क्रीडार्थं विहितं यत्तु हास्यं नर्मेति तत्स्मृतम् दोषप्रच्छादनार्थं तु हास्यं नर्मद्युतिः स्मृता ॥ १९.७८ ॥ उत्तरोत्तरवाक्यं तु भवेत्प्रगयणं पुनः । या तु व्यसनसंप्राप्तिः स निरोधः प्रकीर्तितः ॥ १९.७९ ॥ क्रुद्धस्यनुनयो यस्तु भवेत्तत्पर्युपासनम् । विशेषवचनं यत्तु तत्पुष्पमिति संज्ञितम् ॥ १९.८० ॥ प्रत्यक्षरूक्षं यद्वाक्यं वज्रं तदभिधीयते । उपपत्तिकृतो योऽर्थ उपन्यासश्च स स्मृतः ॥ १९.८१ ॥ चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते । कपटापाश्रयं वाक्यमभूताहरणं विदुः ॥ १९.८२ ॥ तत्त्वार्थवचनं चैव मार्ग इत्यभिधीयते । चित्रार्थसमवाये तु वितर्को रूपमिष्यते । यत्सातिशयवद्वाक्यं तदुदाहरणं स्मृतम् ॥ १९.८३ ॥ भावतत्त्वोपलब्धिस्तु क्रम इत्यभिधीयते । सामदानादिसंपन्नः संग्रहः परिकीर्तितः ॥ १९.८४ ॥ रूपानुरूपगमनमनुमानमिति स्मृतम् रतिहर्षोत्सवानां तु प्रार्थना प्रार्थना भवेत् । गर्भस्योद्भेदनं यत्साक्षिप्तिरित्यभिधीयते ॥ १९.८६ ॥ संरम्भवचनं चैव तोटकं त्विति संज्ञितम् । कपटेनातिसंधानं ब्रुवतेऽधिबलं बुधाः ॥ १९.८७ ॥ भयं नृपारिदस्यूत्थमुद्वेगः परिकीर्तितः । शङ्का भयत्रासकृतो विद्रयः समुदाहृतः ॥ १९.८८ ॥ दोषप्रख्यापनं यत्तु सोऽपवाद इति स्मृतः । रोषग्रथितवाक्यं तु संफेटः परिकीर्तितः ॥ १९.८९ ॥ गुरुव्यतिक्रमो यस्तु स द्रवः परिकीर्तितः । विरोधिप्रशमो यश्च स शक्तिः परिकीर्तिता ॥ १९.९० ॥ व्यवसायश्च विज्ञेयः प्रतिज्ञाहेतुसंभवः । प्रसङ्गश्चैव विज्ञेयो गुरूणा परिकीर्तनम् ॥ १९.९१ ॥ वाक्यमाधर्षसंयुक्तं द्युतिस्तज्ज्ञैरुदाहृता । मनश्चेष्टाविनिष्पन्नः श्रमः खेद उदाहृतः ॥ १९.९२ ॥ ईप्सितार्थप्रतीघातः प्रतिषेधः प्रकीर्तितः । कार्यात्ययोपगमनं विरोधनमिति स्मृतम् ॥ १९.९३ ॥ बीजकार्योपगमनमातानमिति संज्ञितम् । अपमानकृतं वाक्यं कार्यार्थं च्छादनं भवेत् ॥ १९.९४ ॥ प्ररोचना स विज्ञेया संहारार्थप्रदर्शिनी । [प्रत्यक्षवचनं यत्तु स व्याहार इति स्मृतः ॥ १९.९५ ॥ सविच्छेदं वचो यत्र सा युक्तिरिति संज्ञिता । ज्ञेया विचलना तज्ज्ञैरवमानार्थसंयुत] ॥ १९.९६ ॥ [एतान्यवमृशेऽङ्गानि संहारे तु निबोधत] । मुखबीजोपगमनं सन्धिरित्यभिधीयते ॥ १९.९७ ॥ कार्यस्यान्वेषणं युक्त्या निरोध इति कीर्तितः । उपक्षेपस्तु कार्याणां ग्रथनं परिकीर्तितम् ॥ १९.९८ ॥ अनुभूतार्थकथनं निर्णयः समुदाहृतः । परिवादकृतं यस्यात्तदाहुः परिभाषणम् ॥ १९.९९ ॥ लब्धस्यार्थस्य शमनं द्युतिमाचक्षते पुनः । समागमस्तथार्थानामानन्दः परिकीर्तितः ॥ १९.१०० ॥ दुःखस्यापगमो यस्तु समयः स निगद्यते । शुश्रूषाद्युपसंपन्नः प्रसादः प्रीतिरुच्यते ॥ १९.१०१ ॥ अद्भुतस्य तु संप्राप्तिरूपगूहनमिष्यते । सामदानादि संपन्नं भाषणं समुदाहृतम् ॥ १९.१०२ ॥ पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थप्रदर्शनम् । वरप्रदानसंप्राप्तिः काव्यसंहार इष्यते ॥ १९.१०३ ॥ नृपदेशप्रशान्तिश्च प्रशस्तिरभिधीयते । यथासन्धि तु कर्तव्यान्येतान्यङ्गानि नाटके ॥ १९.१०४ ॥ कविभिः काव्यकुशलै रसभावमपेक्ष्य तु । संमिश्राणि कदाचित्तु द्वित्रियोगेन वा पुनः ॥ १९.१०५ ॥ ज्ञात्वा कार्यमवस्थां च कार्याण्यङ्गानि सन्धिषु । एतेषामेव चाङ्गानां संबद्धान्यर्थयुक्तितः ॥ १९.१०६ ॥ सन्ध्यन्तराणि सन्धीनां विशेषास्त्वेकविंशतिः । सामभेदस्तथा दण्डः प्रदानं वध एव च ॥ १९.१०७ ॥ प्रत्युत्पन्नमतित्वं च गोत्रस्खलितमेव च । साहसं च भयं चैव ह्रीर्माया क्रोध एव च ॥ १९.१०८ ॥ ओजः संवरणं भ्रान्तिस्तथा हेत्वपधारणम् । दूतो लेखस्तथा स्वप्नश्चित्रं मद इति स्मृतम् ॥ १९.१०९ ॥ [विष्कम्भचूलिका चैव तथ चैव प्रवेशकः । अङ्कावतारोऽङ्कमुखमर्थोपक्षेपपञ्चकम् ॥ १९.११० ॥ मध्यमपुरुषनियोज्यो नाटकमुखसन्धिमात्रसंचारः । विष्कम्भकस्तु कार्यः पुरोहितामात्यकञ्चुकिभिः ॥ १९.१११ ॥ शुद्धः संकीर्णो वा द्विविधो विष्कंभकस्तु विज्ञेयः । मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यकृतः ॥ १९.११२ ॥ अन्तर्यवनिकासंस्थैः सूतादिभिरनेकधा । अर्थोपक्षेपणं यत्तु क्रियते सा हि चूलिका ॥ १९.११३ ॥ अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् । प्रकरणनाटकविषये प्रवेशको नाम विज्ञेयः ॥ १९.११४ ॥ अङ्कान्त एव चाङ्को निपतति यस्मिन् प्रयोगमासाद्य । बीजार्थयुक्तियुक्तो ज्ञेयो ह्यङ्कावतारोऽसौ ॥ १९.११५ ॥ विष्लिष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा । यदुपक्षिप्यते पूर्वं तदङ्कमुखमुच्यते] ॥ १९.११६ ॥ अन्यान्यपि लास्यविधावङ्गानि तु नाटकोपयोगीनि । अस्माद्विनिःसृतानि तु भाण इवैअकप्रयोज्यानि ॥ १९.११७ ॥ [भाणाकृतिवल्लास्यं विज्ञेयं त्वेकपात्रहार्यं वा । प्रकरणवदूह्य कार्यासंस्तवयुक्तं विविधभावम्] ॥ १९.११८ ॥ गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका । प्रच्छेदकं त्रिमूढं च सैन्धवाख्यं द्विमूढकम् ॥ १९.११९ ॥ उत्तमोत्तमकं चैवमुक्तप्रत्युक्तमेव च । लास्ये दशविधं ह्येतदङ्गनिर्देशलक्षणम् ॥ १९.१२० ॥ आसनेषूपविष्टैर्यत्तन्त्रीभाण्डोपबृंहितम् । गायनेऐर्गीयते शुष्कं तद्गेयपदमुच्यते ॥ १९.१२१ ॥ [या नृत्यत्यासना नारी गेयं प्रियगुणान्वितम् । साङ्गोपाङ्गविधानेन तद्गेयपदमुच्यते] ॥ १९.१२२ ॥ प्राकृतं यद्वियुक्ता तु पठेदात्तरसं स्थिता । मदनानलतप्ताङ्गी स्थितपाठ्यं तदुच्यते ॥ १९.१२३ ॥ [बहुचारीसमायुक्तं पञ्चपाणिकलानुगम् । चञ्चत्पुटेन वा युक्तं स्थितपाठ्यं विधीयते] ॥ १९.१२४ ॥ आसीनमास्यते यत्र सर्वातोद्यविवर्जितम् । अप्रसारितगात्रं च चिन्ताशोकसमन्वितम् ॥ १९.१२५ ॥ नृत्तानि विविधानि स्युर्गेयं गाने च संश्रितन् । चेष्टाभिश्चाश्रयः पुंसा यत्र सा पुष्पगण्डिका ॥ १९.१२६ ॥ [यत्र स्त्री नरवेषेण ललितं संस्कृतं पठेत् । सखीनां तु विनोदाय सा ज्ञेया पुष्पगण्डिका ॥ १९.१२७ ॥ नृत्तं तु विविधं यत्र गीतं चातोद्यसंयुतम् । स्त्रियः पुंवच्च चेष्टन्ते सा ज्ञेया पुष्पगण्डिका] ॥ १९.१२८ ॥ प्रच्छेदकः स विज्ञेयो यत्र चन्द्रातपाहताः । स्त्रियः प्रियेषु सज्जन्ते ह्यपि विप्रियकारिषु ॥ १९.१२९ ॥ अनिष्ठुरश्लक्ष्णपदं समवृत्तैरलङ्कृतम् । नाट्यं पुरुषभावाढ्यं त्रिमूढकमिति स्मृतम् ॥ १९.१३० ॥ पात्रं विभ्रष्टसंकेतं सुव्यक्तकरणान्वितम् । प्राकृतैर्वचनैर्युक्तं विदुः सैन्धवकं बुधाः ॥ १९.१३१ ॥ [रूपवाद्यादिसंयुक्तं पाठ्येन च विवर्जितम् । नाट्यं हि तत्तु विज्ञेयं सैन्धवं नाट्यकोविदैः] ॥ १९.१३२ ॥ मुखप्रतिमुखोपेतं चतुरश्रपदक्रमम् । श्लिष्टभावरसोपेतं वैचित्र्यार्थं द्विमूढके ॥ १९.१३३ ॥ उत्तमोत्तमकं विद्यादनेकरससंश्रयम् । विचित्रैः लोकबन्धैश्च हेलाहावविचित्रितम् ॥ १९.१३४ ॥ कोपप्रसादजनितं साधिक्षेपपदाश्रयम् । उक्तप्रत्युक्तमेवं स्याच्चित्रगीतार्थयोजितम् ॥ १९.१३५ ॥ यत्र प्रियाकृतिं दृष्ट्वा विनोदयति मानसम् । मदनानलतप्ताङ्गी तच्चित्रपदमुच्यते ॥ १९.१३६ ॥ दृष्ट्वा स्वप्ने प्रियं यत्र मदनानलतापिता । करोतिविविधान् भावांस्तद्वै भाविकमुच्यते ॥ १९.१३७ ॥ एतेषां लास्यविधौ विज्ञेयं लक्षणं प्रयोगज्ञैः । तदिहैव तु यन्नौक्तं प्रसङ्गविनिवृत्तहेतोस्तु ॥ १९.१३८ ॥ पञ्चसन्धि चतुर्वृत्ति चतुःषष्ट्यङ्गसंयुतम् । षट्त्रिंशल्लक्षणोपेतं गुणालङ्कारभूषितम् ॥ १९.१३९ ॥ महारसं महाभोगमुदात्तवचनान्वितम् । महापुरुषसंचारं साध्वाचारजनप्रियम् ॥ १९.१४० ॥ सुश्लिष्टसन्धिसंयोगं सुप्रयोगं सुखाश्रयम् । मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ॥ १९.१४१ ॥ अवस्था या तु लोकस्य सुखदुःखसमुद्भवा । नानापुरुषसंचारा नाटकेऽसौ विधीयते ॥ १९.१४२ ॥ न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला । न तत्कर्म न वा योगो नाट्येऽसिम्न्यन्न दृश्यते ॥ १९.१४३ ॥ योऽयं स्वभावो लोकस्य नानावस्थान्तरात्मकः । सोऽङ्गाद्यभिनयैर्युक्तो नाट्यमित्यभिधीयते ॥ १९.१४४ ॥ देवतानामृषीनां च राज्ञां चोत्कृष्टमेधसाम् । पूर्ववृत्तानुचरितं नाटकं नाम तद्भवेत्. ॥ १९.१४५ ॥ यस्मात्स्वभावं संत्यज्य साङ्गोपाङ्गगतिक्रमैः । प्रयुज्यते ज्ञायते च तस्माद्वै नाटकं स्मृतम्. ॥ १९.१४६ ॥ सर्वभावैः सर्वरसैः सर्वकर्मप्रवृत्तिभिः । नानावस्थान्तरोपेतं नाटकं संविधीयते ॥ १९.१४७ ॥ [अनेकशिल्पजातानि नैककर्मक्रिअयाणि च । तान्यशेषाणि रूपाणि कर्तव्यानि प्रयोक्तृभिः ] ॥ १९.१४८ ॥ लोकस्वभावं संप्रेक्ष्य नराणां च बलाबलम् । संभोगं चैव युक्तिं च ततः कार्यं तु नाटकम् ॥ १९.१४९ ॥ भविष्यति युगे प्रायो भविष्यन्त्यबुधा नराः । ये चापि हि भविष्यन्ति ते यत्नश्रुतबुद्धयः ॥ १९.१५० ॥ कर्मशिल्पानि शास्त्राणि विचक्षणबलानि च । सर्वाण्येतानि नश्यन्ति यदा लोकः प्रणश्यति ॥ १९.१५१ ॥ तदेवं लोकभाषाणां प्रसमीक्ष्य बलाबलम् । मृदुशब्दं सुखार्थं च कविः कुर्यात्तु नाटकम् ॥ १९.१५२ ॥ चैक्रीडिताद्यैः शब्दैस्तु काव्यबन्धा भवन्ति ये । वेश्या इव न ते भान्ति कमण्डलुधरैर्द्विजैः ॥ १९.१५३ ॥ दशरूपविधानं च मया प्रोक्तं द्विजोत्तमाः । अतः परं प्रवक्ष्यामि वृत्तीनामिह लक्षणम् ॥ १९.१५४ ॥ इति भारतीये नाट्यशास्त्रे सन्धिनिरूपणं नामध्याय एकोनविंशः _____________________________________________________________ अथ विंशोऽध्यायः समुत्थानं तु वृत्तीनां व्याख्याम्यनुपूर्वशः । यथा वस्तूद्भवं चैव काव्यानां च विकल्पनम् ॥ २०.१ ॥ एकार्णवं जगत्कृत्वा भगवानच्युतो यदा । शेते स्म नागपर्यङ्के लोकान् संक्षिप्य मायया ॥ २०.२ ॥ अथ वीर्यबलोन्मतावसुरौ मधुकैअटभौ । तर्जयामासतुर्देवं तरसा युद्धकाङ्क्षया ॥ २०.३ ॥ निजबाहू विमृदनन्तौ भूतभावनमक्षयम् । जानुभिर्मुष्टिभिश्चैव योधयामासतुः प्रभुम् ॥ २०.४ ॥ बहुभिः परुषैर्वाक्यैरन्योन्यसमभिद्रवम् । नानाधिक्षेपवचनैः कम्पयन्ताविवोदधिम् ॥ २०.५ ॥ तयोर्नानाप्रकाराणि वचांसि वदतोस्तदा । श्रुत्वा त्वभिहतमना द्रुहिणो वाक्यमब्रवीत् ॥ २०.६ ॥ किमिदं भरतीवृत्तिर्वाग्भिरेव प्रवर्तते । उत्तरोत्तरसंबद्धा नन्विमौ निधनं नयः ॥ २०.७ ॥ पितामहवचः श्रुत्वा प्रोवाच मधुसूदनः । कार्यहेतोर्मया ब्रह्मन् भारतीयं विनिर्मिता ॥ २०.८ ॥ वदतां वाक्यभूयिष्ठा भारतीयं भविष्यति । तस्मादेतौ निहन्म्यद्येत्युवाच वचनं हरिः ॥ २०.९ ॥ शुद्धैरविकृतैरङ्गैः साङ्गहारैस्तथा भृशम् । योधयामासतुर्दैत्यौ युद्धमार्गविशारदौ ॥ २०.१० ॥ भूमिसंयोगसंस्थानैः पदन्यासैर्हरेस्तदा । अतिभारोऽभवद्भूमेर्भारती तत्र निर्मिता ॥ २०.११ ॥ वल्गितैः शार्ङ्गधनुषस्तीव्रैर्दीप्ततथैरथ । सत्वाधिकैरसंभ्रान्तैः सात्त्वती तत्र निर्मिता ॥ २०.१२ ॥ विचित्रैरङ्गहारैस्तु देवो लीलासमन्वितैः । बबन्ध यच्छिखापाशं कैशिकी तत्र निर्मिता ॥ २०.१३ ॥ संरम्भावेगबहुलैर्नानाचारी समुत्थितैः । नियुद्धकरणैश्चित्रैरुत्पन्नारभटी ततः ॥ २०.१४ ॥ यां यां देवः समाचष्टे क्रियां वृत्तिषु संस्थिताम् । तां तदर्थानुगैर्जप्येऐर्द्रुहिणः प्रत्यपूजयत् ॥ २०.१५ ॥ यदा हतौ तावसुरौ हरिणा मधुकैटभौ । ततोऽब्रवीत्पद्मयोनिर्नारायणमरिन्दमम् ॥ २०.१६ ॥ अहो विचित्रैर्विषमैः स्फुटैः सललितैरपि । अङ्गहारैः कृतं देव त्वया दानवनाशनम् ॥ २०.१७ ॥ तस्मादयं हि लोकस्य नियुद्धसमयक्रमः । सर्वशस्त्रविमोक्षेषु न्यायसंज्ञो भविष्यति ॥ २०.१८ ॥ न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः । यस्माद्युद्धानि वर्तन्ते तस्मान्यायाः प्रकीर्तिताः ॥ २०.१९ ॥ [चारीषु च समुत्पन्नो नानाचारीसमाश्रयः । न्यायसंज्ञः कृतो ह्येष द्रुहिणेन महात्मना ॥ २०.२० ॥ ततो वेदेषु निक्षिप्ता द्रुहिणेन महात्मना । पुनरिष्वस्त्रजाते च नानाचारीसमाकुले ॥ २०.२१ ॥ पुनर्नाट्यप्रयोगेषु नानाभावसन्न्विताः । वृत्तिसंज्ञाः कृता ह्येताः काव्यबन्धसमाश्रयाः] ॥ २०.२२ ॥ चरितैर्यस्य देवस्य जप्यं यद्यादृशं कृतम् । ऋषिभिस्तादृशी वृत्तिअः कृता पाठ्यादिसंयुता ॥ २०.२३ ॥ नाट्यवेदसमुत्पना वागङ्गाभिनयात्मिका । मया काव्यक्रिअयाहेतोः प्रक्षिप्ता द्रुहिणाज्ञया ॥ २०.२४ ॥ ऋग्वेदाद्भारती क्षिप्ता यजुर्वेदाच्च सात्त्वती । कैशिकी सामवेदाच्च शेषा चाथर्वणादपि ॥ २०.२५ ॥ या वाक्प्रधाना पुरुषप्रयोज्या स्त्रीवर्जिता संकृतपाठ्ययुक्ता । स्वनामधेयैर्भरतैः प्रयुक्ता सा भारती नाम भवेत्तु वृत्तिः ॥ २०.२६ ॥ भेदास्तस्यास्तु विज्ञेयाश्चत्वारोऽङ्गत्वमागताः । प्ररोचनामुखं चैव वीथी प्रहसनं तथा ॥ २०.२७ ॥ जयाभ्युदयिनी चैव मङ्गल्या विजयावहा । सर्वपापप्रशमनी पूर्वरङ्गे प्ररोचना ॥ २०.२८ ॥ [उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया । सिद्धेनामन्त्रणा या तु विज्ञेया सा प्ररोचना] ॥ २०.२९ ॥ नटी विदूषको वापि पारिपार्श्विक एव वा । सूत्रधारेण सहिताः संलापं यत्तु कुर्वते ॥ २०.३० ॥ चित्रैर्वाक्यैः स्वकार्यारोत्थैर्वीत्थ्यङ्गेरन्यथापि वा । आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि वा ॥ २०.३१ ॥ [लक्षणं पूर्वमुक्तं तु वीत्थ्याः प्रहसनस्य च । आमुखाङ्गान्यतो वक्ष्ये यथावदनुपूर्वशः] ॥ २०.३२ ॥ उद्धात्यकः कथोद्धातः प्रयोगातिशयस्तथा । प्रवृत्तकावलगिते पञ्चाङ्गान्यामुखस्य तु ॥ २०.३३ ॥ उद्धात्यकावलगितलक्षणं कथितं मया । शेषाणां लक्षणं विप्रा व्याख्यास्याम्यानुपूर्वशः ॥ २०.३४ ॥ सुत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा । गृहीतां प्रविशेत्पात्रं कथोद्धातः स कीर्तितः ॥ २०.३५ ॥ प्रयोगे तु प्रयोगं तु सूत्रधारः प्रयोजयेत् । ततश्च प्रविशेत्पात्रं प्रयोगातिशयो हि सः ॥ २०.३६ ॥ कालप्रवृत्तिमाश्रित्य वर्णना या प्रयुज्यते । तदाश्रयाच्च पात्रस्य प्रवेशस्तत्प्रवृत्तकम् ॥ २०.३७ ॥ एषामन्यतमं श्लिष्टं योजयित्वार्थयुक्तिभिः । [तस्मादङ्गद्वयस्यापि सम्भवो न निवार्यते ॥ २०.३८ ॥ पात्रग्रन्थैरसंबाध प्रकुर्यादामुखं ततः । एवमेतद्बुधैर्ज्ञेयमामुखं विविधाश्रयम् ॥ २०.३९ ॥ लक्षणं पूर्वमुक्तं तु वीथ्याः प्रहसनस्य च । [इत्यष्टार्धविकल्पा वृत्तिरियं भारती मयाभिहिता । सात्त्वत्यास्तु विधानं लक्षणयुक्त्या प्रवक्ष्यामि] ॥ २०.४० ॥ या सात्त्वतेनेह गुणेन युक्ता न्यायेन वृत्तेन समन्विता च । हर्षोत्कटा संहृतशोकभावा सा सात्त्वती नाम भवेत्तु वृत्तिः ॥ २०.४१ ॥ वागङ्गाभिनयवती सत्त्वोत्थानवचनप्रकरणेषु । सत्त्वाधिकारयुक्ता विज्ञेया सात्त्वती वृत्तिः ॥ २०.४२ ॥ वीराद्भुतरौद्ररसा निरस्तशृङ्गारकरुणनिर्वेदा । उद्धतपुरुषप्राया परस्पराधर्षणकृता च ॥ २०.४३ ॥ उत्थापकश्च परिवर्तकश्च सल्लापकश्च संघात्यः । चत्वारोऽस्या भेदा विज्ञेया नाट्यकोविदैअः ॥ २०.४४ ॥ अहमप्युत्थास्यामि त्वं तावद्दर्शयात्मनः शक्तिम् । इति संघर्षसमुत्थस्तज्ज्ञैरुत्थापको ज्ञेयः ॥ २०.४५ ॥ उत्थानसमारब्धानर्थानुत्सृज्य योऽर्थयोगवशात् । अन्यानर्थान् भजते स चापि परिवर्तको ज्ञेयः ॥ २०.४६ ॥ [निर्दिष्टवस्तुविषयः प्रपञ्चबद्धस्त्रिहास्यसंयुक्तः । संघर्षविशेषकृतस्त्रिविधः परिवर्तको ज्ञेयः] ॥ २०.४७ ॥ साधर्षजो निराधर्षजोऽपि वा रागवचसंयुक्तः । साधिक्षेपालापो ज्ञेयः सल्लापकः सोऽपि ॥ २०.४८ ॥ [धर्माधर्मसमुत्थं यत्र भवेद्रागदोषसंयुक्तम् । साधिक्षेपं च वचो ज्ञेयः संलापको नाम] ॥ २०.४९ ॥ मन्त्रर्थवाक्यशक्त्या दैववशादात्मदोषयोगाद्वा । संघातभेदजननस्तज्ज्ञैः संघात्यको ज्ञेयः ॥ २०.५० ॥ [बहुकपटसंश्रयाणां परोपघाताशयप्रयुक्तानाम् । कूटानां संघातो विज्ञेयः कूटसंघात्यः ] ॥ २०.५१ ॥ इत्यष्टार्धविकल्पा वृत्तिरियं सात्त्वती मयाभिहिता । कैशिक्यास्त्वथ लक्षणमतःपरं संप्रवक्ष्यामि ॥ २०.५२ ॥ या श्लक्ष्णनैपथ्यविशेषचित्रा स्त्रीसंयुता या बहुनृत्तगीता । कामोपभोगप्रभवोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति ॥ २०.५३ ॥ [बहुवद्यनृत्तगीता शृङ्गाराभिनयचित्रनैपथ्या । माल्यालङ्कारयुक्ता प्रशस्तवेषा च कान्ता च ॥ २०.५४ ॥ चित्रपदवाक्यबन्धैरलङ्कृता हसितरुदितरोषादैः । स्त्रीपुरुषकामयुक्ता विज्ञेया कैशिकीवृत्तिः] ॥ २०.५५ ॥ नर्म च नर्मस्फुञ्जो नर्मस्फोटोऽथ नर्मगर्भश्च । कैशिक्याश्चत्वारो भेदा ह्येते समाख्याताः ॥ २०.५६ ॥ आस्थापितशृङ्गारं विशुद्धकरणं निवृत्तवीररसम् । हास्यप्रवचनबहुलं नर्म त्रिविधं विजानीयात् ॥ २०.५७ ॥ ईर्ष्याक्रोधप्रायं सोपालम्भकरणानुविद्धं च । आत्मोपक्षेपकृतं सविप्रलम्भं स्मृतं नर्म ॥ २०.५८ ॥ नवसङ्गमसम्भोगो रतिसमुदयवेषवाक्यसंयुक्तः । ज्ञेयो नर्मस्फुञ्जो ह्यवसानभयात्मकश्चैव ॥ २०.५९ ॥ विविधानां भवानां लवैर्लवैर्भूषितो बहुविशेषैः । असमग्राक्षिप्तरसो नर्मस्फोटस्तु विज्ञेयः ॥ २०.६० ॥ विज्ञानरूपशोभा धनादिभिर्नायको गणैर्यत्र । प्रच्छनां व्यवहर्ते कर्यवषान्नर्मगर्भोऽसौ ॥ २०.६१ ॥ [पूर्वस्थितौ विपद्येत नायको यत्र चापरस्तिष्ठेत् । तमपीह नर्मगर्भं विद्यान्नाट्यप्रयोगेषु ] ॥ २०.६२ ॥ इत्यष्टार्शविकल्पा वृत्तिरियं कैशिकी मयाभिहिता । अत ऊर्ध्वमुद्धतरसामरभटिं सम्प्रवक्ष्य्यमि ॥ २०.६३ ॥ आरभटप्रायगुणा तथैव बहुकपटवञ्चनोपेता । दम्भानृतवचनवती त्वारभटी नाम विज्ञेया ॥ २०.६४ ॥ [आवपाताप्लुलङ्गितानि च्छेद्यानि मायाकृतमिन्द्रजालम् । चित्राणी युद्धानि च यत्र नित्यं तां तादृशीमारभटीं वदन्ति ॥ २०.६५ ॥ शाड्गुण्यसमार्ब्धा हठातिसन्धानविद्रवोपेता । लाभालाभार्थकृता विज्ञेया वृत्तिरारभटी ॥ २०.६६ ॥ संक्षिप्तकावपतौ वस्तूत्थापनमथापि संफेटः । एते ह्यस्या भेदा लक्षणमेषं प्रवक्ष्यामि ॥ २०.६७ ॥ अन्वर्थशिल्पयुक्तो बहुपुस्तोत्थानचित्रनेपथ्यः । संक्षिप्तवस्तु विषयो ज्ञेयः संक्षिप्तकओ नाम ॥ २०.६८ ॥ भयहर्षसमुत्थानं विद्रवविनिपातसम्भ्रमाचरणम् । क्षिप्रप्रवेशनिर्गममवपातमिमं विजानीयात् ॥ २०.६९ ॥ सर्वरससमासकृतं सविद्रव्व्विद्रवाश्रयं व्वपि । नाट्यं विभाव्यते यत्तद्वस्तूत्थापनं ज्ञेयम् ॥ २०.७० ॥ संरम्भसंप्रयुक्तो बहुयुद्धकपटनिर्भेदः । शस्त्रप्रहरबहुलः सम्फेटो नाम विज्ञेयः ॥ २०.७१ ॥ एवमेता बुधैर्ज्ञेया वृत्तयो नाट्यसंश्रया । रसप्रयोगमासां च कीर्त्यमानं निबोधत ॥ २०.७२ ॥ हास्यशृङ्गरबहुला कैशिकी परिचक्षिता । सत्त्वती चापि विज्ञेया वीराद्भुतशमाश्रयाः ॥ २०.७३ ॥ रौद्रे भयानके चैव विज्ञेयारभटी बुधैः । बीभत्से करुणे चैव भारती संप्रकीर्तिता ॥ २०.७४ ॥ [ न ह्येकरसजं कव्यं किञ्चिदस्ति प्रयोगतः । भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव वा ॥ २०.७५ ॥ सर्वेषां समवेतानां यस्य रूपं भवेद्बहु । स मन्तव्यो रस स्थायि शेषाः सञ्चारिणः स्मृताः] ॥ २०.७६ ॥ वृत्यन्त एशोऽभिनयो मयोक्तो वागङ्गसत्त्वप्रभवो यथावद् । आहार्यमेवाभिनयं प्रयोगे वक्ष्यामि नेपथ्यकृतं तु भूयः ॥ २०.७७ ॥ इति भारतीये नाट्यशास्त्रे वृत्तिविकल्पनं नाम विंशोऽध्यायः _____________________________________________________________ अथ एकविंशोऽध्यायः आहार्याभिनयं विप्रा व्याख्यास्याम्यनुपूर्वशः । य्स्मात्प्रयोगः सर्वोऽयमाहार्याभिनये स्थितः ॥ २१.१ ॥ नानावस्था प्रकृतय पूर्वं नैपथ्यसाधिताः । अङ्गादिभिरभिव्यक्तिमुपगच्छन्त्ययत्नतः ॥ २१.२ ॥ आहार्याभिनयो नाम ज्ञेयो नेपथ्यजो विधिः । तत्र कार्यः प्रयत्नस्तु नाट्यस्य शुभमिच्छता ॥ २१.३ ॥ [तस्मिन्यत्नस्तु कर्तव्यो नैपथ्ये सिद्धिमिच्छता । नाट्यस्येह त्वलङ्कारो नैपथ्यं यत्प्रकीर्तितम्] ॥ २१.४ ॥ चतुर्विधं तु नेपथ्यं पुस्तोऽलङ्कार एव च । तथाङ्करचना चैव ज्ञेयं सज्जीवमेव च ॥ २१.५ ॥ पुस्तस्तु त्रिविधो ज्ञेयो नानारूपप्रमाणतः । सन्धिमो व्याजिमश्चैव वेष्टिमश्च प्रकीर्तितः ॥ २१.६ ॥ किलिञ्जचर्मवस्त्राद्यैर्यद्रूपं क्रियते बुधैः । सन्धिमो नाम विज्ञेयः पुस्तो नाटकसंस्श्रयः ॥ २१.७ ॥ व्याजिमो नाम विज्ञेअयो यन्त्रेण क्रियते तु यः । वेष्ट्यते चैव यद्रुपं वेष्टिमः स तु संज्ञितः ॥ २१.८ ॥ शैलयानविमानानि चर्मवर्मध्वजा नगाः । ये क्रियन्ते हि नाट्ये तु स पुस्त इति संज्ञितः ॥ २१.९ ॥ अलङ्कारस्तु विज्ञेयो माल्याभरणवाससाम् । नानाविधः समायोगोऽप्यङ्गोपाङ्गविधिः स्मृतः ॥ २१.१० ॥ वेष्टिमं विततं चैव संघात्यं ग्रन्थिमं तथा । प्रालम्बितं तथा चैव माल्यं पञ्चविधं स्मृतम् ॥ २१.११ ॥ चतुर्विधं तु विज्ञेयं नाट्ये ह्याभरणं बुधैः । आवेध्यं बन्धनीयं च क्षेप्यमारोप्यमेव च ॥ २१.१२ ॥ आवेध्यं कुण्डलादीह यत्स्याच्छ्रवणभूषणम् । आरोप्यं हेमसूत्रादि हाराश्च विविधाश्रयाः ॥ २१.१३ ॥ श्रोणीसूत्राङ्गदे मुक्ताबन्धनीयानि सर्वदा । प्रक्षेप्य नूपुरं विद्याद्वस्त्राभरणमेव च ॥ २१.१४ ॥ भूषणानां विकल्पं हि पुरुषस्त्रीसमाश्रयम् । नाविधं प्रवक्ष्यामि देशजातिसमुद्भवम् ॥ २१.१५ ॥ चूडामणिः समुकुटः शिरसो भूषणं स्मृतम् । कुण्डलं मोचकं कीला कर्णाभरणमिष्यते ॥ २१.१६ ॥ मुक्तावली हर्षकं च सूत्रकं कण्ठभूषणम् । वेतिकाङ्गुलिमुद्रा च स्यादङ्गुलिविभूषणम् ॥ २१.१७ ॥ हस्तली वलयं चैव बाहुनालीविभूषणम् । रुचकश्चूलिका कार्या मणिबन्धविभूषणम् ॥ २१.१८ ॥ केयूरे अङ्गदे चैव कूर्परोपरिभूषणे । त्रिसरश्चैव हारश्च तथा वक्षोविभूषणम् ॥ २१.१९ ॥ व्यालम्बमौक्तिको हारो माला चैवाङ्गभूषणम् । तलकं सूत्रकं चैव भवेत्कटिविभूषणम् ॥ २१.२० ॥ अयं पुरुषनिर्योगः कार्यस्त्वाभरणाश्रयः । देवानां पार्थिवानां च पुनर्वक्ष्यामि योषिताम् ॥ २१.२१ ॥ शिखापाशं शिखाव्यालं पिण्डीपत्रं तथैव च । चूडामणिर्मकरिका मुक्ताजालगवाक्षिकम् ॥ २१.२२ ॥ शिरसो भूषणं चैव विचित्रं शीर्षजोलकम् । कण्डकं शिखिपत्रं च वेणीपुच्छः सदोरकः ॥ २१.२३ ॥ ललाटतिलकं चैव नानाशिल्पप्रयोजितम् । भ्रूगुच्छोपरिगुच्छश्च कुसुमानुकृतिस्तथा ॥ २१.२४ ॥ कर्णिका कर्णवलयं तथा स्यात्पत्रकर्णिका । कुण्डलं कर्णमुद्रा च कर्णोत्कीलकमेव च ॥ २१.२५ ॥ नानारत्नविचित्राणि दन्तपत्राणि चैव हि । कर्णयोर्भूषणं ह्येतत्कर्णपूरस्तथैव च ॥ २१.२६ ॥ तिलकाः पत्रलेखाश्च भवेद्गण्डविभूषणम् । त्रिवणी चैव विज्ञेयं भवेद्वक्षोविभूषणम् ॥ २१.२७ ॥ नेत्रयोरञ्जनं ज्ञेयमधरस्य च रञ्जनम् । दन्तानां विविधो रागश्चतुर्णां शुक्लतापि वा ॥ २१.२८ ॥ रागान्तरविकल्पोऽथ शोभनेनाधिकोज्वलः । मुग्धानां सुन्दरीणां च मुक्ताभासितशोभनाः ॥ २१.२९ ॥ सुरक्ता वापि दन्ता स्युःः पद्मपल्लवरञ्जनाः । अश्मरागोद्द्योतितः स्यादधरः पल्लवप्रभः ॥ २१.३० ॥ विलासश्च भवेत्तासां सविभ्रान्तनिरीक्षितम् । मुक्तावली व्यालपङ्क्तिर्मञ्जरी रत्नमालिका ॥ २१.३१ ॥ रत्नावली सूत्रकं च ज्ञेयं कण्ठविभूषणम् । द्विसरस्त्रिसरश्चैव चतुस्सरकमेव च ॥ २१.३२ ॥ तथा शृङ्खलिका चैव भवेत्कण्ठविभूषणम् । अङ्गदं वलयं चैव बाहुमूलविभूषणम् ॥ २१.३३ ॥ नानाशिल्पकृताश्चैव हारा वक्षोविभूषणम् । मणिजालावनद्धं च भवेत्स्तनविभूषणम् ॥ २१.३४ ॥ खर्जूरकं सोच्छितिकं बाहुनालीविभूषणम् । कलापी कटकं शङ्खो हस्तपत्रं सपूरकम् ॥ २१.३५ ॥ मुद्राङ्गुलीयकं चैव ह्यङ्गुलीनां विभूषणम् । मुक्ताजालाढ्यतलकं मेखला काञ्चिकापि वा ॥ २१.३६ ॥ रशना च कलापश्च भवेच्छ्रोणीविभूषणम् । एकयष्टिर्भवेत्काञ्ची मेखला त्वष्टयष्टिका ॥ २१.३७ ॥ द्विरष्टयष्टि रशना कलापः पञ्चविंशकः । द्वात्रिंशच्च चतुःषष्टिः शतमष्टोत्तरं तथा ॥ २१.३८ ॥ मुक्ताहारा भवन्त्येते देवपार्थिवयोषिताम् । नूपुरः किङ्किणीकाश्च घण्टिका रत्नजालकम् ॥ २१.३९ ॥ सघोषे कटके चैव गुल्फोपरिविभूषाणम् । जङ्घयोः पादपत्रं स्यादङ्गुलीष्वङ्गुलीयकम् ॥ २१.४० ॥ अङ्गुष्ठतिलकाश्चैव पादयोश्च विभूषणम् । तथालक्तकरागश्च नानाभक्तिनिवेशितः ॥ २१.४१ ॥ अशोकपलावच्छायः स्यात्स्वाभाविक एव च । एतद्विभूषणं नार्या आकेशादानखादपि ॥ २१.४२ ॥ यथाभवरसावस्थं विज्ञेयं द्विजसत्तमाः । आगमश्च प्रमाणं च रूपनिर्वर्णनं तथा ॥ २१.४३ ॥ विश्वकर्ममतात्कार्यं सुबुद्ध्यापि प्रयोक्तृभिः । न हि शक्यं सुवर्णेन मुक्ताभिर्मणिभिस्तथा ॥ २१.४४ ॥ स्वाधीनमिति रुच्यैव कर्तुमङ्गस्य भूषणम् । विभागतोऽभिप्रयुक्तमङ्गशोभाकरं भवेत् ॥ २१.४५ ॥ यथा स्थानान्तरगतं भूषणं रत्नसंयुतम् । न तु नाट्यप्रयोगेषु कर्तव्यं भूषणं गुरु ॥ २१.४६ ॥ खेदं जनयते तद्धि सव्यायतविचेष्टनात् । गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते ॥ २१.४७ ॥ गुर्वाभरणसन्नो हि चेष्टां न कुरुते पुनः । तस्मात्तनुत्वचकृतं सौवर्णं भूषणं भवेत् ॥ २१.४८ ॥ रत्नवज्जतुबद्धं वा न खेदजननं भवेत् । स्वेच्छया भूषणविधिर्दिव्यानामुपदिश्यते ॥ २१.४९ ॥ यत्नभावविनिष्पन्नं मानुषाणां विभूषणम् । [वेष्टितं विततं चैव संघात्यं ग्रथिमं तथ ॥ २१.५० ॥ लम्बशोभि तथा चैव माल्यं पञ्चविधं स्मृतम् । आच्छादनं बहुविधं नानापत्तनसंभवम् ॥ २१.५१ ॥ तज्ज्ञेयं त्रिप्रकारं तु शुद्धं रक्तं विचित्रितम्] । दिव्यानां भूषणविधिर्य एष परिकीर्तितः ॥ २१.५२ ॥ मानुषाणां तु कर्तव्यो नानादेशसमाश्रयः । भूषणैश्चापि वेषैश्च नानावस्थासमाश्रयैः ॥ २१.५३ ॥ दिव्याङ्गनानां कर्तव्या विभक्तिः स्वस्वभूमिजा । विद्याधरीणां यक्षीणामप्सरोनागयोषिताम् ॥ २१.५४ ॥ ऋषिदैवतकन्यानां वेषैर्नानात्वमिष्यते । तथा च सिद्धगन्धर्वराक्षसासुरयोषिताम् ॥ २१.५५ ॥ दिव्यानां नरनारीणां तथैव च शिखण्डकम् । शिखापुटशिखण्डं तु मुक्ताभूयिष्ठभूषणम् ॥ २१.५६ ॥ विद्याधरीणां कर्तव्यः शुद्धो वेषपरिच्छदः । यक्षिण्योऽप्सरश्चैव कर्या रत्नविभूषणाः ॥ २१.५७ ॥ समस्तानां भवेद्वेषो यक्षीणा केवलं शिखा । दिव्यनामिव कर्तव्यं नागस्त्रीणां विभूषणम् ॥ २१.५८ ॥ मुक्तामणिलताप्रायाः फणास्तासां तु केवलाः । कार्यं तु मुनिकन्यानामेकवेणीधरं शिरः ॥ २१.५९ ॥ न चापि विभूषणविधिस्तासां वेषो वनोचितः । मुक्तामरकतप्रायं मण्डनं सिद्धयोषिताम् ॥ २१.६० ॥ तासां तु चैव कर्तव्यं पीतवस्त्रपरिच्छदम् । पद्मरागमणिप्रायं गन्धर्वीणां विभूषणम् ॥ २१.६१ ॥ वीणाहस्तश्च कर्तव्यः कौसुम्भवसनस्तथा । इन्द्रनीलैस्तु कर्तव्यं राक्षसीणां विभूषणम् ॥ २१.६२ ॥ सितदंष्ट्रा च कर्तव्या कृष्णवस्त्रपरिच्छदम् । वैडूर्यमुक्ताभरणाः कर्तव्या सुरयोषिताम् ॥ २१.६३ ॥ शुकपिञ्छनिभैअर्वस्त्रैः कार्यस्तासां परिच्छदः । पुष्यरागैस्तु मणिभिः क्वचिद्वैडूर्यभूषितैः ॥ २१.६४ ॥ दिव्यवानरनारीणां कार्यो नीलपरिच्छदः । एवं शृङ्गारिणः कार्या वेषा दिव्याङ्गनाश्रयाः ॥ २१.६५ ॥ अवस्थान्तमासाद्य शुद्धाः कार्याः पुनस्तथा । मानुषीणां तु कर्तव्या नानादेशसमुद्भवाः ॥ २१.६६ ॥ वेषाभरणसंयोगान् गदतस्तान्निबोधत । आवन्त्ययुवतीनां तु शिरस्सालककुन्तलम् ॥ २१.६७ ॥ गौडीयानामलकप्रायं सशिखापाशवेणिकम् । आभीरयुवतीनां तु द्विवेणीधर एव तु ॥ २१.६८ ॥ शिरः परिगमः कार्यो नीलप्रायमथाम्बरम् । तथा पूर्वोतरस्त्रीणां समुन्नद्धशिखण्डकम् ॥ २१.६९ ॥ आकेशाच्छादनं तासां देशकर्मणि कीर्तितम् । तथैव दक्षिणस्त्रीणां कार्यमुल्लेख्यसंश्रयम् ॥ २१.७० ॥ कुम्भीबन्धकसंयुक्तं तथावर्तललाटिकम् । [गणिकानां तु कर्तव्यमिच्छाविच्छित्ति मण्डनम्] ॥ २१.७१ ॥ देशजातिविधानेन शेषाणामपि कारयेत् । वेषं तथा चाभरणं क्षुरकर्म परिच्छदम् ॥ २१.७२ ॥ [आगमं चापि नैपथ्ये नाट्यस्यैवं प्रयोजयेत्] । अदेशयुक्तो वेषो हि न शोभां जनयिष्यति ॥ २१.७३ ॥ मेखलोरसि बद्धा तु हास्यं समुपपादयेत् । तथा प्रोषितकान्तासु व्यसनाभिहतासु च ॥ २१.७४ ॥ वेषो वै मलिनः कार्य एकवेणीधरं शिरः । विप्रलम्भे तु नार्यास्तु शुद्धो वेषो भवेदिह ॥ २१.७५ ॥ नात्याभरणसंयुक्तो न चापि मृजयान्वितः । एवं स्त्रीणां भवेद्वेषो देशावस्थासमुद्भवः ॥ २१.७६ ॥ पुरुषाणां पुनश्चैव वेषान्वक्ष्यामि तत्त्वतः । तत्राङ्करचना पूर्वं कर्तव्या नाट्ययोक्तृभिः ॥ २१.७७ ॥ ततः परं प्रयोक्तव्या वेषा देशसमुद्भवाः । सितो नीलश्च पीतश्च चतुर्थो रक्त एव च ॥ २१.७८ ॥ एते स्वभावजा वर्णा यैः कार्यं त्वङ्गवर्तनम् । संयोगजाः पुनश्चान्ये उपवर्णा भवन्ति हि ॥ २१.७९ ॥ तानहं सम्प्रवक्ष्यामि यथाकार्यं प्रयोक्तृभिः । सितनीलसमायोगे कारण्डव इति स्मृतः ॥ २१.८० ॥ सितपीतसामायोगात्पाण्डुवर्णः प्रकीर्तितः । सितिअरक्तसमायोगे पद्मवर्णः प्रकीर्तितः ॥ २१.८१ ॥ पीतनीलसमायोगाद्धरितो नाम जायते । नीलरक्तसमायोगात्कषायो नाम जायते ॥ २१.८२ ॥ रक्तपीतसमायोगाद्गौरवर्ण इति स्मृतः । एते संयोगजा वर्णा ह्युपवर्णास्तथापरे ॥ २१.८३ ॥ त्रिचतुर्वर्णसंयुक्ता बहवः संप्रकीर्तिताः । बलस्थो यो भवेद्वर्णस्तस्य भागो भवेत्ततः ॥ २१.८४ ॥ दुर्बलस्य च भागौ द्वौ नीलं मुक्त्वा प्रदापयेत् । नीलस्यैको भवेद्भागश्चत्वारोऽन्ये तु वर्णके ॥ २१.८५ ॥ बलवान्सर्ववर्णानां नील एव प्रकीर्तितः । एवं वर्णविधिं ज्ञात्वा नानासंयोगसंश्रयम् ॥ २१.८६ ॥ ततः कुर्याद्यथायोगमङ्गानां वर्तनं बुधः । वर्तनच्छादनं रूपं स्ववेषपरिवर्जितम् ॥ २१.८७ ॥ नाट्यधर्मप्रवृत्तं तु ज्ञेयं तत्प्रकृतिस्थितम् । स्ववर्णमात्मनश्छाद्यं वर्णकैर्वेषसंश्रयैः ॥ २१.८८ ॥ आकृतिस्तस्य कर्तव्या यस्य प्रकृतिरास्थिता । यथा जन्तुः स्वभावं स्वं परित्यज्यान्यदैहिकम् ॥ २१.८९ ॥ तत्स्वभावं हि भजते देहान्तरमुपाश्रितः । वेषेण वर्णकैश्चैव च्छादितः पुरुषस्तथा ॥ २१.९० ॥ परभावं प्रकुरुते यस्य वेषं समाश्रितः । देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥ २१.९१ ॥ प्राणिसंज्ञाः स्मृता ह्येते जीवबन्धाश्च येऽपरे । [स्त्रीभावाः पर्वताः नद्यः समुद्रा वाहनानि च ॥ २१.९२ ॥ नानाशस्त्राण्यपि तथा विज्ञेयाः प्राणिसंज्ञया] । शैलप्रासादयन्त्राणि चर्मवर्मध्वजास्तथा ॥ २१.९३ ॥ नानाप्रहरणाद्याश्च तेऽप्राणिन इति स्मृताः । अथवा कारणोपेता भवन्त्येते शरीरिणः ॥ २१.९४ ॥ वेषभाषाश्रयोपेता नाट्यधर्ममवेक्ष्य तु । वर्णानां तु विधिं ज्ञात्वा वयः प्रकृतिमेव च ॥ २१.९५ ॥ कुर्यादङ्गस्य रचनां देशजातिवयःश्रितताम् । देवा गौरास्तु विज्ञेया यक्षाश्चाप्सरस्तथा ॥ २१.९६ ॥ रुद्रार्कद्रुहिणस्कन्दास्तपनीयप्रभाः स्मृताः । सोमो बृहस्पतिः शुक्रो वरुणस्तारकागणाः ॥ २१.९७ ॥ समुद्रहिमवद्गङ्गाः श्वेता हि स्युर्बलस्तथा । रक्तमङ्गारकं विद्यात्पीतौ बुधहुताशनौ ॥ २१.९८ ॥ नारायणो नरश्चैव श्यामो नागश्च वासुकिः । दैत्याश्च दानवाश्चैव राक्षसा गुह्यका नगाः ॥ २१.९९ ॥ पिशाचा जलमाकाशमसितानि तु वर्णतः । भवन्ति षट्सु द्वीपेषु पुरुषश्चैव वर्णतः ॥ २१.१०० ॥ कर्तव्या नाट्ययोगेन निष्टप्तकनकप्रभाः । जाम्बूद्वीपस्य वर्षे तु नानावर्णाश्रया नराः ॥ २१.१०१ ॥ उत्तरांस्तु कुरुस्त्यक्त्वा ते चापि कनकप्रभाः । भद्राश्वपुरुषाः श्वेताः कर्तव्या वर्णतस्तथा ॥ २१.१०२ ॥ केतुमाले नरा नीला गौराः शेषेषु कीर्तिताः । नानावर्णाः स्मृता भूता गन्धर्वा यक्षपन्नगाः ॥ २१.१०३ ॥ विद्याधरास्तथा चैव पितरस्तु समा नराः । पुनश्च भारते वर्षे तांस्तान्वर्णान्निबोधत ॥ २१.१०४ ॥ राजानः पद्मवर्णास्तु गौराः श्यामास्तथैव च । ये चापि सुखिनो मर्त्या गौरा कार्यास्तु वैः बुधैः ॥ २१.१०५ ॥ कुकर्मिणो ग्रहग्रस्ताः व्याधितास्तपसि स्थिताः । आयस्तकर्मिणश्चैव ह्यसिताश्च कुजातयः ॥ २१.१०६ ॥ ऋष्ययश्चैव कर्तव्या नित्यं तु बदरप्रभाः । तपःस्थिताश्च ऋषयो नित्यामेवासिता बुधैः ॥ २१.१०७ ॥ कारणव्यपदेशेन तथा चात्मेच्छया पुनः । वर्णस्तत्र प्रकर्तव्यो देशजतिवशानुगः ॥ २१.१०८ ॥ देशं कर्म च जातिं च पृथिव्युद्देशसंश्रयम् । विज्ञाय वर्तना कार्या पुरुषाणां प्रयोगतः ॥ २१.१०९ ॥ किरातबर्बरान्ध्राश्च द्रविडाः काशिकोसलाः । पुलिन्दा दाक्षिणात्याश्च प्रायेण त्वसिताः स्मृताः ॥ २१.११० ॥ शकाश्च यवनाश्चैव पह्लवा वाह्लिकाश्च ये । प्रायेण गौराः कर्तव्या उत्तरा ये श्रिता दिशम् ॥ २१.१११ ॥ पाञ्चालाः शौरसेनाश्च माहिषाश्चौड्रमागधाः । अङ्गा वङ्गाः कलिङ्गाश्च श्यामाः कार्यास्तु वर्णतः ॥ २१.११२ ॥ ब्राह्मणाः क्षत्रियाश्चैव गौराः कार्यास्तथैव हि । वैश्याः शूद्रास्तथा चैव श्यामाः कार्यास्तु वर्णतः ॥ २१.११३ ॥ एवं कृत्वा यथान्यायं मुखाङ्गोपाङ्गवर्तनाम् । श्मश्रुकर्म प्रयुञ्जीत देशकालवयोऽनुगम् ॥ २१.११४ ॥ शुद्धं विचित्रं श्यामं च तथा रोमशमेव च । भवेच्चतुर्विधं श्मश्रु नानावस्थान्तरात्मकम् ॥ २१.११५ ॥ शुद्धं तु लिङ्गिनां कार्यं तथामात्यपुरोधसाम् । मध्यस्था ये च पुरुषा ये च दीक्षां समाश्रिताः ॥ २१.११६ ॥ दिव्या ये पुरुषाः केचित्सिद्धविद्याधरादयः । पार्थिवाश्च कुमाराश्च ये च राजोपजीविनः ॥ २१.११७ ॥ शृङ्गारिणश्च ये मर्त्या यौवनोन्मादिनश्च ये । तेषां विचित्रं कर्तव्यं श्मश्रु नाट्यप्रयोक्तृभिः ॥ २१.११८ ॥ अनिस्तीर्णप्रतिज्ञानां दुःखितानां तपस्विनाम् । व्यसनाभिहतानां च श्यामं श्मश्रु प्रयोजयेत् ॥ २१.११९ ॥ ऋषीणां तापसानां च ये च दीर्घव्रता नराः । तथा च चीरबद्धानां रोमशं श्मश्रु कीर्तितम् ॥ २१.१२० ॥ एवं नानाप्रकारं तु श्मश्रु कार्यं प्रयोक्तृभिः । अत ऊर्ध्वं प्रवक्ष्यामि वेषान्नानाप्रयोगजान् ॥ २१.१२१ ॥ शुद्धो विचित्रो मलिनस्त्रिविधो वेष उच्यते । तेषां नियोगं वक्ष्यामि यथावदनुपूर्वशः ॥ २१.१२२ ॥ देवाभिगमने चैव मङ्गले नियमस्थिते । तिथिनक्षत्रयोगे च विवाहकरणे तथा ॥ २१.१२३ ॥ धर्मप्रवृत्तं यत्कर्म स्त्रियो वा पुरुषस्य वा । वेषस्तेषां भवेच्छुद्धो ये च प्रायत्निका नराः ॥ २१.१२४ ॥ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । नृपाणां कर्कशानां च चित्रो वेष उदाहृतः ॥ २१.१२५ ॥ वृद्धानां ब्राह्मणानां च श्रेष्ठ्यमात्यपुरोधसाम् । वणिजां काञ्चुकीयानां तथा चैव तपस्विनाम् ॥ २१.१२६ ॥ विप्रक्षेत्रियवैश्यानां स्थानीया ये च मानवाः । शुद्धो वस्त्रविधिस्तेषां कर्तव्यो नाटकाश्रयः ॥ २१.१२७ ॥ उन्मत्तानां प्रमत्तानामध्वगानां तथैव च । व्यसनोपहतानां च मलिनो वेष उच्यते ॥ २१.१२८ ॥ शुद्धरक्तविचित्राणि वासांस्यूर्ध्वाम्बराणि च । योजयेन्नाट्यतत्त्वज्ञो वेषयोः शुद्धचित्रयोः ॥ २१.१२९ ॥ कुर्याद्वेषे तु मलिने मलिनं तु विचक्षणः । मुनिनिर्ग्रन्थशाक्येषु यतिपाशुपतेषु च ॥ २१.१३० ॥ व्रतानुगस्तु कर्तव्यो वेषो लोकस्वभावतः । चीरवल्कलचर्माणि तापसानां तु योजयेत् ॥ २१.१३१ ॥ परिवाण्मुनिष्क्यानां वासः काषायमिष्यते । नानाचित्राणि वासांसि कुर्यात्पाशुपतेष्वथ ॥ २१.१३२ ॥ कुजातयश्च ये प्रोक्तास्तेषां चैव यथार्हतः । अन्तःपुरप्रवेशे च विनियुक्ता हि ये नराः ॥ २१.१३३ ॥ काषायकञ्चुकपटाः कार्यास्तेऽपि यथाविधि । अवस्थानतरतश्चैव नृणां वेषो भवेदथ ॥ २१.१३४ ॥ वेषः सांग्रामिकश्चैव शूराणां संप्रकीर्तितः । विचित्रशस्त्रकवचो बद्धतूणो धनुर्धरः ॥ २१.१३५ ॥ चित्रो वेषस्तु कर्तव्यो नृपाणां नित्यमेव च । केवलस्तु भवेच्छुद्धो नक्षत्रोत्पातमङ्गले ॥ २१.१३६ ॥ एवमेष भवेद्वेषो देशजातिवयोऽनुगः । उत्तमाधममध्यानां स्त्रीणां नृणामथापि च ॥ २१.१३७ ॥ एवं वस्त्रविधिः कार्यः प्रयोगे नाटकाश्रये । नानावस्थां समासाद्य शुभाशुभकृतस्तथा ॥ २१.१३८ ॥ तथा प्रतिशिरश्चापि कर्तव्यं नाटकाश्रयम् । दिव्यानां मानुषाणां च देशजातिवयःश्रितम् ॥ २१.१३९ ॥ पार्श्वागता मस्तकिनस्तथा चैव किरीटिनः । त्रिविधो मुकुटो ज्ञेयो दिव्यपार्थिवसंश्रितः ॥ २१.१४० ॥ देवगन्धर्वयक्षाणां पन्नगानां सरक्षसाम् । कर्तव्या नैकविहिअत मुकुटाः पार्श्वमौलयः ॥ २१.१४१ ॥ उत्तमा ये च दिव्यानां ते च कार्याः किरीटिनः । मध्यमा मौलिनश्चैव कनिष्ठाः षिर्षमौलिनः ॥ २१.१४२ ॥ नराधिपानां कर्तव्या मस्तके मुकुटा बुधैः । विद्याधराणां च सिद्धानां चारणानां तथैव च ॥ २१.१४३ ॥ ग्रन्थिमत्केशमुकुटाः कर्तव्यास्तु प्रयोक्तृभिः । राक्षोदानवदैत्यानां पिङ्गकेशेक्षणानि हि ॥ २१.१४४ ॥ हरिच्छ्श्मश्रूणि च तथा मुकुटास्यानि कारयेत् । उत्तमश्चापि ये तत्र ते कार्याः पार्श्वमौलिनः ॥ २१.१४५ ॥ कस्मात्तु मुकुटाः सृष्टाः प्रयोगे दिव्य्पार्थिवे । केशानां छेदनं दृष्टं वेदवादे यथाश्रुति ॥ २१.१४६ ॥ भद्रीकृतस्य वा यज्ञे शिरसश्छादनेच्छया । केशानामप्यदीर्घत्वात्स्मृतं मुकुटधारणम् ॥ २१.१४७ ॥ सेनापतेः पुनश्चापि युवराजस्य चैव हि । योजयेदर्धमुकुटं महामात्राश्च ये नराः ॥ २१.१४८ ॥ अमात्यानां कञ्चुकिनां तथा श्रेष्ठिपुरोधसाम् । वेष्टनाबद्धपट्टानि प्रतिशीर्षाणि कारयेत् ॥ २१.१४९ ॥ पिशाचोन्मत्तभूतानां साधकानां तपस्विनाम् । अनिस्तीर्णप्रतिज्ञानां लम्बकेशं भवेच्छिरः ॥ २१.१५० ॥ शाक्यश्रोत्रियनिर्ग्रन्थपरिव्राड्दीक्षितेषु च । शिरोमुण्डं तु कर्तव्यं यज्ञदीक्षान्वितेषु च ॥ २१.१५१ ॥ तथा व्रतानुगं चैव शेषानां लिङ्गिनां शिरः । मुण्डं वा कुञ्चितं वापि लम्बकेशमथापि वा ॥ २१.१५२ ॥ धूर्तानां चैव कर्तव्यं ये च रात्र्युपजीविनः । शृङ्गारचित्ताः पुरुषास्तेषां कुञ्चितमूर्धजाः ॥ २१.१५३ ॥ बालानामपि कर्तव्यं त्रिशिखण्डविभूषितम् । जटामकुटबद्धं च मुनीनां तु भवेच्छिरः ॥ २१.१५४ ॥ चेटानामपि कर्तव्यं त्रिशिखं मुण्डमेव वा । विदूषकस्य खलतिः स्यात्काकपदमेव वा ॥ २१.१५५ ॥ शेएषाणामर्थयोगेन देशजातिसमाश्रयम् । शिरः प्रयोक्तृभिः कार्यं नानावस्थान्तराश्रयम् ॥ २१.१५६ ॥ भूषणैर्वर्णकैर्वस्त्रैर्माल्यैश्चैव यथाविधि । एवं नानाप्रकारैस्तु बुद्ध्या वेषान्प्रकल्पयेत् ॥ २१.१५७ ॥ पूर्वं तु प्रकृतिं स्थाप्य प्रयोगगुणसंभवाम् । स्त्रीणां वा पुरुषाणां वाप्यवस्थां प्राप्य तादृशीम् ॥ २१.१५८ ॥ सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः । तेषां चानिमिषत्वादि नैव कार्यं प्रयोक्तृभिः ॥ २१.१५९ ॥ इह भावरसाश्चैव दृष्टिभिः संप्रतिष्ठिताः । दृष्ट्यैव स्थापितो ह्यर्थः पश्चादङ्गैर्विभाव्यते ॥ २१.१६० ॥ एवं ज्ञेएयाङ्गरचना नानाप्रकृतिसंभवा । सजीव इति यः प्रोक्तस्तस्य वक्ष्यामि लक्षणम् ॥ २१.१६१ ॥ यः प्राणिनां प्रवेशो वै सजीव इति संज्ञितः । चतुष्पदोऽथ द्विपदस्तथा चैवापदः स्मृतः ॥ २१.१६२ ॥ उरगानपदान् विद्याद्द्विपदान्खगमानुषान् । ग्राम्या आरण्याः पशवो विज्ञेयाः स्युश्चतुष्पदाः ॥ २१.१६३ ॥ ये ते तु यद्धसंफेटैरुपरोधैस्तथैव च । नानाप्रहरणोपेताः प्रयोज्या नाटके बुधैः ॥ २१.१६४ ॥ आयुधानि च कार्याणि पुरुषाणां प्रमाणतः । तान्यहं वर्तयिष्यामि यथापुस्तप्रमाणतः ॥ २१.१६५ ॥ भिण्डिर्द्वादशतालः स्याद्दश कुन्तो भवेदथ । अष्टौ शतघ्नी शूलं च तोमरः शक्तिरेव वा ॥ २१.१६६ ॥ अष्टौ ताला धनुर्ज्ञेयमायामोऽस्य द्विहस्तकः । शरो गदा च वज्रा च चतुस्तालं विधीयते ॥ २१.१६७ ॥ अङ्गुलानि त्वसिः कार्यश्चत्वारिंशत्प्रमाणतः । द्वादशाङ्गुलकं चक्रं ततोऽर्धं प्रास इष्यते ॥ २१.१६८ ॥ प्रासवत्पट्टसं विद्याद्दण्डश्चैव तु विंशतिः । विंशतिः कणयश्चैव ह्यङ्गुलानि प्रमाणतः ॥ २१.१६९ ॥ शोडषाङ्गुलविस्तीर्णं सबलं संप्रघण्टिकम् । त्रिंशदङ्गुलिमानेन कर्तव्यं खेटकं बुधैः ॥ २१.१७० ॥ जर्जरो दण्डकाष्ठं च तथैव प्रतिशीर्षकम् । छत्रं चामरं चैव ध्वजो शृङ्गार एव च ॥ २१.१७१ ॥ यत्किञ्चिन्मानुषे लोके द्रव्यं पुंसां प्रयोजकम् । यच्चोपकरणं सर्वे नाट्ये तत्संप्रकीर्तितम् ॥ २१.१७२ ॥ यद्यस्य विषयप्राप्तं तेनोह्यं तस्य लक्षणम् । जर्जरे दण्डकाष्ठे च संप्रवक्ष्यामि लक्षणम् ॥ २१.१७३ ॥ माहेन्द्रा वै ध्वजाज्प्रोक्ता लक्षणैर्विश्वकर्मणा । एषान्यतमं कुर्याज्जर्जरं दारुकर्मतः ॥ २१.१७४ ॥ अथवा वृक्षयोनिः स्यात्प्ररोहो वापि जर्जरः । वेणुरेव भवेच्छ्रेष्ठस्तस्य वक्ष्यामि लक्षणम् ॥ २१.१७५ ॥ श्वेतभूम्याआं तु यो जातः पुष्यनक्षत्रजस्तथा । संग्राह्यो वै भवेद्वेणुर्जर्जरार्थे प्रयत्नतः ॥ २१.१७६ ॥ प्रमाणमङ्गुलानां तु शतमष्टोत्तरं भवेत् । पञ्चपर्वा चतुर्ग्रन्थिस्तालमात्रस्तथैव च ॥ २१.१७७ ॥ स्थूलग्रन्थिर्न कर्तव्यो न शाखी न च कीटवान् । न कृमिक्षतपर्वा च न हीनश्चान्यवेणुभिः ॥ २१.१७८ ॥ मधुसर्पिस्सर्षपाक्तं माल्यधूपपुरस्कृतम् । उपास्य विधिवद्वेणुं गृह्णियाज्जर्जरं प्रति ॥ २१.१७९ ॥ यो विधिर्यः क्रमश्चैव माहेब्द्रे तु ध्वजे स्मृतः । स जर्जरस्य कर्तव्यः पुष्यवेणुसमाश्रयः ॥ २१.१८० ॥ भवेद्यो दीर्घपर्वा तु तनुपत्रस्तथैव च । पर्वाग्रतण्डुलश्चैव पुष्यवेणुः स कीर्तितः ॥ २१.१८१ ॥ विधिरेष मया प्रोक्तो जर्जरस्य प्रमाणतज्ः । अत ऊर्ध्वं प्रवक्ष्यामि दण्डकाष्ठस्य लक्षणम् ॥ २१.१८२ ॥ कपित्थबिल्ववंशेभ्यो दण्डकाष्ठं भवेदथ । वक्रं चैव हि कर्तव्यं त्रिभागे लक्षणान्वितम् ॥ २१.१८३ ॥ कीटैर्नोपहतं यच्च व्याधिना न च पीडितम् । मन्दशाखं भवेद्यच्च दण्डकाष्ठं तु तद्भवेत् ॥ २१.१८४ ॥ यस्त्वेभिर्लक्षणैर्हीनं दण्डकाष्ठं सजर्जरम् । कारयेत्स त्वपचयं महान्तं प्राप्नुयाद्ध्रुवम् ॥ २१.१८५ ॥ अथ शीर्षविभागार्थं घटी कार्या प्रयत्नतः । स्वप्रमाणविनिर्दिष्टा द्वात्रिंशत्यङ्गुलानि वै ॥ २१.१८६ ॥ बिल्वमध्येन कर्तव्या घटी सिरसमाश्रया । स्विन्नेन बिल्वकल्केन द्रवेण च समन्विता ॥ २१.१८७ ॥ भस्मना वा तुषैर्वापि कारयेत्प्रतिशीर्षकम् । संछाद्य तु ततो वस्त्रैर्बिल्वदुग्धैर्घटाश्रयैः ॥ २१.१८८ ॥ बिल्वकल्केन चीरं तु दिग्ध्वा संयोजयेद्घटीम् । न स्थूलां नानतां तन्वीं दीर्घां नैव च कारयेत्. ॥ २१.१८९ ॥ तस्यामातपशुष्कायां सुशुष्कायामथापि वा । छेद्यं बुधाः प्रकुर्वन्ति विधिदृष्टेन कर्मणा ॥ २१.१९० ॥ सुतीक्ष्णेन तु शस्त्रेण अर्धार्धं प्रविभज्य च । स्वप्रमाणविनिर्दिष्टं ललाटकृतकोणकम् ॥ २१.१९१ ॥ अर्धाङ्गुलं ललाटं तु कार्यं छेद्यं षडङ्गुलम् । अर्धार्धमङ्गुलं छेद्यं कटयोर्द्व्यङ्गुलं भवेत् ॥ २१.१९२ ॥ कटान्ते कर्णनालस्य छेद्यं द्व्यधिकमङ्गुलम् । त्र्यङ्गुलं कर्णविवरं तथा स्याच्छेद्यमेव हि ॥ २१.१९३ ॥ ततश्चैवावटुः कार्या सुसमा द्वादशाङ्गुला । घट्यां ह्येतत्सदा च्छेद्ये विधानं विहितं मया ॥ २१.१९४ ॥ तस्योपरिगता कार्या मुकुटा बहुशिल्पजाः । नानारत्नप्रतिच्छन्ना बहुरूपोपशोभिताः ॥ २१.१९४ ॥ तथोपकरणानीह नाट्ययोगकृतानि वै । बहुप्रकारयुक्तानि कुर्वीत प्रकृतिं प्रति ॥ २१.१९६ ॥ यत्किञ्चिदस्मिन् लोके तु चराचरसमन्विते । विहितं कर्म शिल्पं वा तत्तूपकरणं स्मृतम् ॥ २१.१९७ ॥ यद्यस्य विषयं प्राप्तं तत्तदेवाभिगच्छति । नास्तन्तः पुरुषाणां हि नाट्योपकरणाश्रये ॥ २१.१९८ ॥ यद्येनोत्पादितं कर्म शिल्पयोगक्रियापि वा । तस्य तेन कृता सृष्टिः प्रमाणं लक्षणं तथा ॥ २१.१९९ ॥ या काष्ठयन्त्रभूयिष्ठा कृता सृष्टिर्महात्मना । न सास्माकं नाट्ययोगे कस्मात्खेदावहा हि सा ॥ २१.२०० ॥ यद्द्रव्यं जीवलोके तु नानालक्षणलक्षितम् । तस्यानुकृतिसंस्थानं नाट्योओपकरणं भवेत् ॥ २१.२०१ ॥ प्रासादगृहयानानि नानाप्रहरणानि च । न शक्यं तानि वै कर्तुं यथोक्तानीह लक्षणैः ॥ २१.२०२ ॥ लोकधर्मी भवेत्त्वन्या नाट्यधर्मी तथापरा । स्वभावो लोकधर्मी तु विभावो नाट्यमेव हि ॥ २१.२०३ ॥ आयसं न तु कर्तव्यं न च सारमयं तथा । नाट्योपकरणं तज्ज्ञैर्गुरुखेदकर भवेत् ॥ २१.२०४ ॥ काष्ठचर्मसु वस्त्र्षु जतुवेणुदलेषु च । नाट्योपकरणानीह लघुकर्माणि कारयेत् ॥ २१.२०५ ॥ चर्मवर्मध्वजाः शैलाः प्रासादा देवतागृहाः । हयवारणयानानि विमानानि गृहाणि च ॥ २१.२०६ ॥ पूर्वं वेणुदलैः कृत्वा कृतीर्भावसमाश्रयाः । ततः सुरङ्गैरच्छाद्य वस्त्रैः सारूप्यमानयेत् ॥ २१.२०७ ॥ अथवा यदि वस्त्राणामसान्निध्यं भवेदिह । तालीयैर्वा किलिञ्जैर्वा श्लक्ष्णैर्वस्त्रक्रिया भवेत् ॥ २१.२०८ ॥ तथा प्रहरणानि स्युस्तृणवेणुदलादिभिः । जन्तुभाण्डक्रियाभिश्च नानारूपाणि नाटके ॥ २१.२०९ ॥ प्रतिपादं प्रतिशिरः प्रतिहस्तं प्रतित्वचम् । तृणैः किलिञ्जैर्भाण्डैर्वा सारूप्याणि तु कारयेत् ॥ २१.२१० ॥ यद्यस्य सदृशं रूपं सारूप्यगुणसंभवम् । मृण्मयं तत्तु कृत्स्नं तु नानारूपं तु कारयेत् ॥ २१.२११ ॥ भाण्डवस्त्रमधूच्छिष्टैर्लाक्षयाभ्रदलेन च । नागास्ते विविधाः कार्या ह्यतसीशणबिल्वजैः ॥ २१.२१२ ॥ नानाकुसुमजातीश्च फलानि विविधानि च । भाण्डवस्त्रमधूच्छिष्टैर्लाक्षया वापि कारयेत् ॥ २१.२१३ ॥ भाण्डवस्त्रमधूच्छिष्टैस्ताम्रपत्रैस्तथैव च । सम्यक्च नीलीरागेणाप्यभ्रपत्रेण चैव हि ॥ २१.२१४ ॥ रञ्जितेनाभ्रपत्रेण मणीश्चैव प्रकारयेत् । उपाश्रयमथाप्येषं शुल्बवङ्गेन कारयेत् ॥ २१.२१५ ॥ विविधा मुकुटा दिवा पूर्वं ये गदिता मया । तेऽभ्रपत्रोज्वलाः कार्या मणीव्यालोपशोभिताः ॥ २१.२१६ ॥ न शास्त्रप्रभवं कर्म तेषां हि समुदाहृतम् । आचार्यबुद्ध्या कर्तव्यमूहापोहप्रयोजितम् ॥ २१.२१७ ॥ एष मर्त्यक्रियायोगो भविष्यत्कल्पितो मया । कस्मादल्पबलत्वं हि मनुष्येषु भविष्यति ॥ २१.२१८ ॥ मर्त्यानामपि नो शक्या विभावाः सर्वकाञ्चनाः । नेष्टाः सुवर्णरत्नैस्तु मुकुटा भूषणानि वा ॥ २१.२१९ ॥ युद्धे नियुद्धे नृत्ते वा वृष्टिव्यापारकर्मणि । गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते ॥ २१.२२० ॥ स्वेदमूर्छाक्लमार्तस्य प्रयोगस्तु विनश्यति । प्राणात्ययः कदाचिच्च भवेद्व्यायतचेष्टया ॥ २१.२२१ ॥ तस्मात्ताम्रमयैः पत्रैरभ्रकै रञ्जितैरपि । भेण्डैरपि मधूच्छिष्टैः कार्याण्याभरणानि तु ॥ २१.२२२ ॥ एवं लोकोपचारेण स्वबुद्धिविभवेन च । नाट्योपकरणानीह बुधः सम्यक्प्रयोजयेत् ॥ २१.२२३ ॥ न भेद्यं नैव च च्छेद्यं न प्रहर्तव्यमेव च । रङ्गे प्रहरणैः कार्यं संज्ञामात्रं तु कारयेत् ॥ २१.२२४ ॥ अथवा योगशिक्षाभिर्विद्यामायाकृतेन वा । शस्त्रमोक्षः प्रकर्तव्यो रङ्गमध्ये प्रयोक्तृभिः ॥ २१.२२५ ॥ एवं नानाप्रकारैस्तु आयुधाभरणानि च । नोक्तानि यानि च मया लोकाद्ग्राह्याणि तान्यपि ॥ २१.२२६ ॥ आहार्याभिनयो ह्येष मया प्रोक्तः समासतः । अत ऊर्ध्वं प्रवक्ष्यामि सामान्याभिनयं प्रति ॥ २१.२२७ ॥ इति भारतीये नाट्यशास्त्रे आहार्याभिनयो नामैकविंशोऽध्यायः _____________________________________________________________ अथ द्वाविंशोऽध्यायः सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः । तत्र कार्यः प्रयत्नस्तु नाट्यं सत्त्वे प्रतिष्ठितम् ॥ २२.१ ॥ सत्त्वातिरिक्तोऽभिनयो ज्येष्ठ इत्यभिधीयते । समसत्त्वो भवेन्मध्यः सत्वहीनोऽधमः स्मृतः ॥ २२.२ ॥ अव्यक्तरूपं सत्त्वं हि विज्ञेयं भावसंश्रयम् । यथास्थानरसोपेतं रोमाञ्चास्रादिभिर्गुणैः ॥ २२.३ ॥ अलङ्कारास्तु नाट्यज्ञैर्ज्ञेया भावरसाश्रयाः । यौवनेऽभ्यधिकाः स्त्रीणा विकारा वक्त्रगात्रजाः ॥ २२.४ ॥ आदौ त्रयोऽङ्गजस्तेषां दश स्वाभाविकाः परे । अयत्नजाः पुनः सप्त रसभावोपबृंहिताः ॥ २२.५ ॥ देहात्मकं भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः । भावात्समुत्थितो हावो हावाद्धेला समुत्थिता ॥ २२.६ ॥ हेला हावश्च भावश्च परस्परसमुत्थिताः । सत्त्वभेदे भवन्त्येते शरीरे प्रकृतिस्थिताः ॥ २२.७ ॥ वागङ्गमुखरागैश्च सत्त्वेनाभिनयेन च । कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ २२.८ ॥ [भावस्यातिकृतं सत्त्वं व्यतिरिक्तं स्वयोनिषु । नैकावस्थान्तरकृतं भावं तमिह निर्दिशेत्] ॥ २२.९ ॥ तत्राक्षिभ्रूविकाराढ्यः शृङ्गाराकारसूचकः । सग्रीवारेचको ज्ञेयो हावः स्थितसमुत्थितः ॥ २२.१० ॥ यो वै हावः स एवैषा शृङ्गाररससंभवा । समाख्याता बुधैर्हेला ललिताभिनयात्मिका ॥ २२.११ ॥ लीला विलासो विच्छित्तिर्विभ्रमः किलिकिञ्चितम् । मोट्टायितं कुट्टिमितं बिब्बोको ललितं तथा ॥ २२.१२ ॥ विहृतं चेति विज्ञेया दश स्त्रीणां स्वभावजाः । पुनरेषां स्वरूपाणि प्रवक्ष्यामि पृथक्पृथक् ॥ २२.१३ ॥ वागङ्गालङ्कारैः शिष्टैः प्रीतिप्रयोजितैर्मधुरैः । इष्टजनस्यानुकृतिर्लीला ज्ञेया प्रयोगज्ञैः ॥ २२.१४ ॥ स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥ २२.१५ ॥ माल्याच्छादनभूषण विलेपनानामनादरन्यासः । स्वल्पोऽपि परां शोभां जनयति यस्मात्तु विच्छितिः ॥ २२.१६ ॥ विविधानामर्थानां वागङ्गाहार्यसत्त्वानाम् । मदरागहर्षजनितो व्यत्यासो विभ्रमो ज्ञेयः ॥ २२.१७ ॥ स्मितरुदितहसितभयहर्षगर्वदुःखश्रमाभिलाषाणाम् । सङ्करकरणं हर्षादसकृत्किलिकिञ्चितं ज्ञेयम् ॥ २२.१८ ॥ इष्टजनस्य कथायां लीलाहेलादिदर्शने वापि । तद्भावभावनाकृतमुक्तं मोट्टायितं नाम ॥ २२.१९ ॥ केशस्तनधरादिग्रहणादतिहर्षसंभ्रमोत्पन्नम् । कुट्टमितं विज्ञेअयं सुखमपि दुःखोपचारेण ॥ २२.२० ॥ इष्टानां भावानां प्राप्तावभिमानगर्वसंभूतः । स्त्रीणामनादरकृतो बिब्बोको नाम विज्ञेयः ॥ २२.२१ ॥ हस्तपादाङ्गविन्यासो भ्रूनेत्रोष्ठप्रयोजितः । सौकुमार्याद्भवेद्यस्तु ललितं तत्प्रकीर्तितम् ॥ २२.२२ ॥ [करचरणाङ्गन्यासः सभ्रूनेत्रोष्ठसंप्रयुक्तस्तु । सुकुमारविधानेन स्त्रीभिउरितीदं स्मृतं ललितम्] ॥ २२.२३ ॥ वाक्यानां प्रीतियुक्तानां प्राप्तानां यदभाषणम् । व्याजात्स्वभावतो वापि विहृतं नाम तद्भवेत् ॥ २२.२४ ॥ [प्राप्तानामपि वचसां क्रियते यदभाषणं ह्रिया स्त्रीभिः । व्याजात्स्वभावतो वाप्येतत्समुदाहृतं विहृतम्] ॥ २२.२५ ॥ शोभा कान्तिश्च दीप्तिश्च तथा माधुर्यमेव च । धैर्यं प्रागल्भ्यमौदार्यमित्येते स्युरयत्नजाः ॥ २२.२६ ॥ रूपयौवनलावण्यैरुपभोगोपबृंहितैः । अलङ्करणमङ्गानां शोभेति परिकीर्तिता ॥ २२.२७ ॥ विज्ञेया च तथा कान्तिः शोभैवापूर्णमन्मथा । कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ॥ २२.२८ ॥ सर्वावस्थाविशेषेषु दीप्तेषु ललितेषु च । अनुल्बणत्वं चेष्टाया माधुर्यमिति संज्ञितम् ॥ २२.२९ ॥ चापलेनानुपहता सर्वार्थेष्वविकत्थना । स्वाभाविकी चित्तवृत्तिर्धैर्यमित्यभिधीयते ॥ २२.३० ॥ प्रयोगनिस्साध्वसता प्रागल्भ्यं समुदाहृतम् । औदार्यं प्रश्रयः प्रोक्तः सर्वावस्थानुगो बुधैः ॥ २२.३१ ॥ सुकुमारे भवन्त्येते प्रयोगे ललितात्मिके । विलासललिते हित्वा दीप्तेऽप्येते भवन्ति हि ॥ २२.३२ ॥ शोभा विलासो माधुर्यं स्थैर्यं गाम्भीर्यमेव च । ललितौदार्यतेजांसि सत्त्वभेदास्तु पौरुषाः ॥ २२.३३ ॥ दाक्ष्यं शौर्यमथोत्साहो नीचार्थेषु जुगुप्सनम् । उत्तमैश्च गुणैः स्पर्धा यतः शोभेति सा स्मृता ॥ २२.३४ ॥ धीरसंचारिणी दृष्टिर्गतिर्गोवृषभाञ्चिता । स्मितपूर्वमथालापो विलास इति कीर्तितः ॥ २२.३५ ॥ अभ्यासत्करणानां तु श्लिष्टत्वं यत्र जायते । महत्स्वपि विकारेषु तन्माधुर्यमिति स्मृतम् ॥ २२.३६ ॥ धर्र्मार्थकामसंयुक्ताच्छुभाशुभसमुत्थितात् । व्यवसायादचलनं स्थैर्यमित्यभिसंज्ञितम् ॥ २२.३७ ॥ यस्य प्रभावादाकारा हर्षक्रोधभयादिषु । भावेषु नोपलक्ष्यन्ते तद्गाम्भीर्यमिति स्मृतम् ॥ २२.३८ ॥ अबुद्धिपूर्वकं यत्तु निर्विकारस्वभाजम् । शृङ्गाराकारचेष्टत्वं ललितं तदुदाहृतम् ॥ २२.३९ ॥ दानमभ्युपपत्तिश्च तथा च प्रियभाषणम् । स्वजने च परे वापि तदौदार्यं प्रकीर्तितम् ॥ २२.४० ॥ अधिक्षेपावमानादेः प्रयुक्तस्य परेण यत् । प्राणत्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ २२.४१ ॥ सत्त्वजोऽभिनयोः पूर्वं मया प्रोक्तओ द्विजोत्तमाः । शारीरं चाप्याभिनयं व्याख्यास्याम्यनुपूर्वशः ॥ २२.४२ ॥ षडात्मकस्तु शारीरो वाक्यं सूचाङ्कुरस्तथा । शाखा नाट्यायितं चैव निवृत्त्यङ्कुर एव च ॥ २२.४३ ॥ नानारसार्थयुक्तैर्वृत्तनिबन्धैः कृतः सचूर्णपदैः । प्राकृतसंस्कृतपाठो वाक्याभिनयो बुधैर्ज्ञेयः ॥ २२.४४ ॥ वाक्यर्थो वाक्यं वा सत्त्वाङ्गैः सूच्यते यदा पूर्वम् । पश्चाद्वाक्याभिनयः सूचेत्यभिसंज्ञिता सा तु ॥ २२.४५ ॥ हृदयस्थो निर्वचनैरङ्गाभिनयः कृतो निपुणसाध्यः । सूचैवोत्पत्तिकृतो विज्ञेयस्त्वङ्कुराभिनयः ॥ २२.४६ ॥ यत्तु शिरोमुखजङ्घोरुपाणिपादैर्यथाक्रमं क्रियते । शाखादर्शनमार्गः शाखाभिनयः स विज्ञेयः ॥ २२.४७ ॥ नाट्यायितमुपचारैर्यः क्रियतेऽभिनयसूचया नाट्ये । कालप्रकर्षहेतोः प्रवेशकैः संगमो यावत् ॥ २२.४८ ॥ स्थाने ध्रुवास्वभिनयो यः क्रियते हर्षशोकरोषाद्यैः । भावरससंप्रयुक्तैर्ज्ञेयं नाट्यायितं तदपि ॥ २२.४९ ॥ यत्रान्योक्तं वाक्यं सूचाभिनयेन योजयेदन्यः । तत्संबन्धार्थकथं भवेन्निवृत्त्यङ्कुरः सोऽथ ॥ २२.५० ॥ एतेषां तु भवेन्मार्गो यथाभावरसान्वितः । काव्यवस्तुषु निर्दिष्टो द्वादशाभिनयात्मकः ॥ २२.५१ ॥ आलापश्च प्रलापश्च विलापः स्यात्तथैव च । अनुलापोऽथ संलापस्त्वपलापस्तथैव च ॥ २२.५२ ॥ सन्देशाश्चातिदेशश्च निर्देशः स्यात्तथापरः । उपदेशोऽपदेशश्च व्यपदेशश्च कीर्तितः ॥ २२.५३ ॥ आभाषणं तु यद्वाक्यमालापो नाम स स्मृतः । अनर्थकं वचो यत्तु प्रलापः स तु कीर्तितः ॥ २२.५४ ॥ करुणप्रभवो यस्तु विलापः स तु कीर्तितः । बहुशोऽभिहितं वाक्यमनुलाप इति स्मृतः ॥ २२.५५ ॥ उक्तिप्रत्युक्तिसंयुक्तः संलाप इति कीर्तितः । पूर्वोक्तस्यान्यथावादो ह्यपलाप इति स्मृतः ॥ २२.५६ ॥ तदिदं वचनं ब्रूहीत्येष सन्देश उच्यते । यत्त्वयोक्तं मयोक्तं तत्सोऽतिदेश इति स्मृतः ॥ २२.५७ ॥ स एषोऽहं ब्रवीमीति निर्देश इति कीर्तितः । व्याजान्तरेण कथनं व्यपदेश इहोच्यते ॥ २२.५८ ॥ इदं कुरु गृहाणेति ह्युपदेशः प्रकीर्तितः । अन्यार्थकथनं यत्स्यात्सोऽपदेशः प्रकीर्तितः ॥ २२.५९ ॥ एते मार्गास्तु विज्ञेयाः सर्वाभिनययोजकाः । सप्तप्रकारमेतेषां पुनर्वक्ष्यामि लक्षणम् ॥ २२.६० ॥ प्रत्यक्षश्च परोक्षश्च तथा कालकृतास्त्रयः । आत्मस्थश्च परस्थश्च प्रकाराः सप्त एव तु ॥ २२.६१ ॥ एषा ब्रवीमि नाहं भो वदामीति च यद्वचः । प्रत्यक्षश्च परोक्षश्च वर्तमानश्च तद्भवेत् ॥ २२.६२ ॥ अहं करोमि गच्छामि वदामि वचनं तव । आत्मस्थो वर्तमानश्च प्रत्यक्षश्चैव स स्मृतः ॥ २२.६३ ॥ करिष्यामि गमिष्यामि वदिष्यामीति यद्वचः । आत्मस्थश्च परोक्षश्च भविष्यत्काल एव च ॥ २२.६४ ॥ हता जिता च भग्नाश्च मया सर्वे द्विषद्गणाः । आत्मस्थश्च परोक्षश्च वृत्तकालश्च स स्मृतः ॥ २२.६५ ॥ [त्वया हत जिताश्चेति यो वदेन्नाट्यकर्मणि । परोक्षश्च परस्थश्च वृत्तकालस्तथैव च ॥ २२.६६ ॥ एष ब्रवीमि कुरुते गच्छतीत्यादि यद्वचः । परस्थो वर्तमानश्च (प्रत्यक्षश्च) भवेत्तथा ॥ २२.६७ ॥ स गच्छति करोतीति वचनं यदुताहृतम् । परस्थं वर्तमानं च परोक्षं चैव तद्भवेत् ॥ २२.६८ ॥ करिष्यन्ति गमिष्यन्ति वदिष्यन्तीति यद्वचः । परस्थमेष्यत्कालं च परोक्षं चैव तद्भवेत्] ॥ २२.६९ ॥ हस्तमन्तरतः कृत्वा यद्वदेन्नाट्यकर्मणि । आत्मस्थं हृदयस्थं च परोक्षं चैव तन्मतम् ॥ २२.७० ॥ परेषामात्मनश्चैव कालस्य च विशेषणात् । सप्तप्रकारस्यास्यैव भेदा ज्ञेया अनेकधा ॥ २२.७१ ॥ एते प्रयोगा विज्ञेया मार्गाभिनययोजिताः । एतेष्विह विनिष्पन्नो विविधोऽभिनयो भवेत् ॥ २२.७२ ॥ शिरो हस्तकटीवक्षोजङ्घोरुकरणेषु तु । समः कर्मविभागो यः सामान्याभिनयस्तु सः ॥ २२.७३ ॥ ललितैर्हस्तसंचारस्तथा मृद्वङ्गचेष्टितैः । अभिनेयस्तु नाट्यज्ञै रसभावसमन्वितैः ॥ २२.७४ ॥ अनुद्धतमसंभ्रान्तमनाविद्धाङ्गचेष्टितम् । लयतालकलापातप्रमाणनियतात्मकम् ॥ २२.७५ ॥ सुविभक्तपदालापमनिष्ठुरमकाहलम् । यदीदृशं भवेन्नाट्यं ज्ञेयमाभ्यन्तरं तु तत् ॥ २२.७६ ॥ एतदेव विपर्यस्तं स्वच्छन्दगतिचेष्टितम् । अनिबद्धगीतवाद्यं नाट्यं बाह्यमिति स्मृतम् ॥ २२.७७ ॥ लक्षणाभ्यन्तरत्वाद्धि तदाभ्यन्तरमिष्यते । शास्त्रबाह्यं भवेद्यत्तु तद्बाह्यमिति भण्यते ॥ २२.७८ ॥ अनेन लक्ष्यते यस्मात्प्रयोगः कर्म चैव हि । तस्माल्लक्षणमेतद्धि नाट्येऽस्मिन् संप्रयोजितम् ॥ २२.७९ ॥ अनाचार्योषिता ये च ये च शास्त्रबहिष्कृताः । बाह्यं प्रयुञ्जते ते तु अज्ञात्वाचार्यकीं क्रियाम् ॥ २२.८० ॥ शब्दं स्पर्शं च रूपं च रसं गन्धं तथैव च । इन्द्रियानीन्द्रियार्थांश्च भावैरभिनयेद्बुधः ॥ २२.८१ ॥ कृत्वा साचीकृतां दृष्टिं शिरः पार्श्वनतं तथा । तर्जनी कर्णदेशे च बुधः शब्दं विनिर्दिशेत् ॥ २२.८२ ॥ किञ्चिदाकुञ्चिते नेत्रे कृत्वा भ्रूक्षेपमेव च । तथांऽसगण्डयोः स्पर्शात्स्पर्शमेवं विनिर्दिशेत् ॥ २२.८३ ॥ कृत्वा पताकौ मूर्धस्थौ किंचित्प्रचलिताननः । निर्वर्णयन्त्या दृष्ट्या च रूपं त्वभिनयेद्बुधः ॥ २२.८४ ॥ किञ्चिदाकुञ्चिते नेत्रे कृत्वोत्फुल्लां च नासिकाम् । एकोच्छ्वासेन चेष्टौ तु रसगन्धौ विनिर्दिशेत् ॥ २२.८५ ॥ पञ्चानामिन्द्रियार्थानां भावा ह्येतेऽनुभाविनः । श्रोत्रत्वङ्नेत्रजिह्वानां घ्राणस्य च तथैव हि ॥ २२.८६ ॥ इन्द्रियार्थाः समनसो भवन्ति ह्यनुभाविनः । न वेत्ति ह्यमनाः किंचिद्विषयं पञ्चधागतम् ॥ २२.८७ ॥ मनसस्त्रिविधो भावो विज्ञेयोऽभिनये बुधैः । इष्टस्तथा ह्यनिष्टश्च मध्यस्थश्च तथैव हि ॥ २२.८८ ॥ प्रह्लादनेन गात्रस्य तथा पुलकितेन च । वदनस्य विकासेन कुर्यादिष्टनिदर्शनम् ॥ २२.८९ ॥ इष्टे शब्दे तथा रूपे स्पर्शे गन्धे तथा रसे । इन्द्रियैर्मनसा प्राप्तैः सौमुख्यं संप्रदर्शयेत् ॥ २२.९० ॥ परावृत्तेन शिरसा नेत्रनासाविकर्षणैः । चक्षुषश्चाप्रदानेन ह्यनिष्टमभिनिर्दिशेत् ॥ २२.९१ ॥ नातिहृष्टेन मनसा न चात्यर्थजुगुप्सया । मध्यस्थनैव भावेन मध्यस्थमभिनिर्दिशेत् ॥ २२.९२ ॥ तेनेदं तस्य वापीदं स एवं प्रकरोति वा । परोक्षाभिनयो यस्तु मध्यस्थ इति स स्मृतः ॥ २२.९३ ॥ आत्मानुभावी योऽर्थः स्यादात्मस्थ इति स स्मृतः । परार्थवर्णना यत्र परस्थः स तु संज्ञितः ॥ २२.९४ ॥ प्रायेण सर्वभावानां कामान्निष्पत्तिरिष्यते । स चेच्छागुणसम्पन्नो बहुधा परिकल्पितः ॥ २२.९५ ॥ धर्मकामोऽर्थकामश्च मोक्षकामस्तथैव च । स्त्रीपुंसयोस्तु योगो यः स तु काम इति स्मृतः ॥ २२.९६ ॥ सर्वस्यैव हि लोकस्य सुखदुःखनिबर्हणः । भूयिष्ठं दृष्यते कामः स सुखं व्यसनेष्वपि ॥ २२.९७ ॥ यः स्त्रीपुरुषसंयोगो रतिसंभोगकारकः । स शृङ्गार इति ज्ञेय उपचारकृतः शुभः ॥ २२.९८ ॥ भूयिष्ठमेव लोकोऽयं सुखमिच्छति सर्वदा । सुखस्य हि स्त्रियो मूलं नाना शीलाश्चा ताः पुनः ॥ २२.९९ ॥ देवदानवगन्धर्वरक्षोनागपतत्रिणाम् । पिशाचयक्षव्यालानां नरवानरहस्तिनाम् ॥ २२.१०० ॥ मृगमीनोष्ट्रमकरखरसूकरवाजिनाम् । महीषाजगवादीनां तुल्यशीलाः स्त्रियः स्मृताः ॥ २२.१०१ ॥ स्निग्धैरङ्गैरुपाङ्गैश्च स्थिरा मन्दनिमेषिणि । अरोगा दीप्त्युपेता च दानसत्त्वार्जवान्विता ॥ २२.१०२ ॥ अल्पस्वेदा समरता स्वल्पभुक्सुरतप्रिया । गन्धपुष्परता हृद्या देवशीलाङ्गना स्मृता ॥ २२.१०३ ॥ अधर्मशाठ्याभिरता स्थिरक्रोधातिनिष्ठुरा । मद्यमांसप्रिअया नित्यं कोपना चातिमानिनी ॥ २२.१०४ ॥ चपला चातिलुब्धा च परुषा कलहप्रिया । ईर्ष्याशीला चलस्नेहा चासुरं शीलमाश्रिता ॥ २२.१०५ ॥ क्रीडापरा चारुनेत्रा नखदन्तैः सुपुष्पितैः । स्वङ्गी च स्थिरभाषी च मन्दापत्या रतिप्रिया ॥ २२.१०६ ॥ गीते वाद्ये च नृत्ते च रता हृष्टा मृजावती । गन्धर्वसत्त्वा विज्ञेया स्निग्धत्वक्केशलोचना ॥ २२.१०७ ॥ बृहद्व्यायतसर्वाङ्गी रक्तविस्तीर्णलोचना । खररोमा दिवास्वप्ननिरतात्युच्चभाषिणी ॥ २२.१०८ ॥ नखदन्तक्षतकरी क्रोधेर्ष्याकलहप्रिया । निशाविहारशीला च राक्षसं शीलमाश्रिता ॥ २२.१०९ ॥ तीक्ष्णनासाग्रदशना सुतनुस्ताम्रलोचना । नीलोत्पलसवर्णा च स्वप्नशीलाऽतिकोपना ॥ २२.११० ॥ तिर्यग्गतिश्चलारम्भा बहुश्वासातिमानिनी । गन्धमाल्यासवरतानागसत्त्वाऽङ्गना स्मृता ॥ २२.१११ ॥ अत्यन्तव्यावृतास्या च तीक्ष्णशीला सरित्प्रिया । सुरासवक्षीररता बह्वपत्या फलप्रिया ॥ २२.११२ ॥ नित्यं श्वसनशीलाच तथोद्यानवनप्रिया । चपला बहुवाक्छीघ्रा शाकुनं सत्त्वमाश्रिता ॥ २२.११३ ॥ ऊनाधिकाङ्गुलिकरा रात्रौ निष्कुटचारिणि । बालोद्वेजनशीला च पिशुना क्लिष्टभाषिणि ॥ २२.११४ ॥ सुरते कुत्सिताचारा रोमशाङ्गी महास्वना । पिशाचसत्त्वा विज्ञेया मद्यमांसबलिप्रिया ॥ २२.११५ ॥ स्वप्नप्रस्वेदनाङ्गी च स्थिरशय्यासनप्रिया । मेधाविनी बुद्धिमती मद्यगन्धामिषप्रिया ॥ २२.११६ ॥ चिरदृष्टेषु हर्षं च कृतज्ञत्वादुपैति सा । अदीर्घशायिनी चैव यक्षशीलाऽङ्गना स्मृता ॥ २२.११७ ॥ तुल्यमानावमाना या परुषत्वक्खरस्वरा । शठानृतोद्धतकथा व्यालसत्त्वा च पिङ्गदृक् ॥ २२.११८ ॥ विभक्ताङ्गी कृतज्ञा च गुरुदेवद्विजप्रिया । धर्मकामार्थनिरता ह्यहङ्काआरविवर्जिता । सुहृत्प्रिया सुशीला च मानुषं सत्त्वमाश्रिता ॥ २२.१२० ॥ संहताल्पतनुर्हृष्टा पिङ्गरोमा छलप्रिया । प्रगल्भा चपला तीक्ष्णा वृक्षारामवनप्रिया ॥ २२.१२१ ॥ स्वल्पमप्युपकारं तु नित्यं या बहुमन्यते । प्रसह्यरतिशीला च वानरं सत्त्वमाश्रिता ॥ २२.१२२ ॥ महाहनुललाटा च शरीरोपचयान्विता । पिङ्गाक्षी रोमशाङ्गी च गन्धमाल्यासवप्रिया ॥ २२.१२३ ॥ कोपना स्थिरचित्ता च जलोद्यानवनप्रिया । मधुराभिरता चैव हस्तिसत्त्वा प्रकीर्तिता ॥ २२.१२४ ॥ स्वल्पोदरी भग्ननासा तनुजङ्घा वनप्रिया । चलवीस्तीर्णनयना चपला शीघ्रगामिनी ॥ २२.१२५ ॥ दिवात्रासपरा नित्यं गीतवाद्यरतिप्रिया । निवासस्थिरचित्ता च मृगसत्त्वा प्रकीर्तिता ॥ २२.१२६ ॥ दीर्घपीनोन्नतोरस्का चला नातिनिमेषिणी । बहुभृत्या बहुसुता मत्स्यसत्त्वा जलप्रिया ॥ २२.१२७ ॥ लम्बोष्ठी स्वेदबहुला किञ्चिद्विकटगामिनी । कृशोदरी पुष्पफललवणाम्लकटुप्रिया ॥ २२.१२८ ॥ उद्बन्धकटिपार्श्वा च खरनिष्ठुरभाषिणी । अत्युन्नतकटीग्रीवा उष्ट्रसत्त्वाऽटवीप्रिया ॥ २२.१२९ ॥ स्थूलशीर्षाञ्चितग्रीवा दारितास्या महस्वना । ज्ञेया मकरसत्त्वा च क्रूरा मत्स्यगुणैर्युता ॥ २२.१३० ॥ स्थूलजिह्वोष्ठदशना रूक्षत्वक्कटुभाषिणी । रतियुद्धकरी धृष्टा नखदन्तक्षतप्रिया ॥ २२.१३१ ॥ सपत्नीद्वेषिणी दक्षा चपला शीघ्रगामिनी । सरोगा बह्वपत्या च खरसत्त्वा प्रकीर्तिता ॥ २२.१३२ ॥ दीर्घपृष्ठोदरमुखी रोमशाली बलान्विता । सुसंक्षिप्तललाटा च कन्दमूलफलप्रिया ॥ २२.१३३ ॥ कृष्णा दंष्टोत्कटमुखी ह्रस्वोदरशिरोरुहा । हीनाचारा बह्वपत्या सौकरं सत्त्वमाश्रिता ॥ २२.१३४ ॥ स्थिरा विभक्तपार्श्वोरुकटीपृष्ठशिरोधरा । सुभगा दानशीला च ऋजुस्थूलशिरोरुहा ॥ २२.१३५ ॥ कृशा चञ्चलचित्ता च स्निग्धवाक्छीघ्रगामिनी । कामक्रोधपरा चैव हयसत्त्वाङ्गना स्मृता ॥ २२.१३६ ॥ स्थूलपृष्ठाक्षिदशना तनुपार्श्वोदरा स्थिरा । हरिरोमाञ्चिता रौद्री लोकद्विष्टा रतिप्रिया ॥ २२.१३७. ॥ किञ्चिदुन्नतवक्त्रा च जलक्रीडावनप्रिया । बृहल्ललाटा सुश्रोणी माहिषं सत्त्वमाश्रिता ॥ २२.१३८ ॥ कृशा तनुभुजोरस्का निष्टब्धस्थिरलोचना । संक्षिप्तपाणिपादा च सूक्ष्मरोमसमाचिता ॥ २२.१३९ ॥ भयशीला जलोद्विग्ना बह्वपत्या वनप्रिया । चञ्चला शीघ्रगमना ह्यजसत्त्वाँङ्गना स्मृता ॥ २२.१४० ॥ उद्बन्धगात्रनयना विजृम्भणपरायणा । दीर्घाल्पवदना स्वल्पपाणिपादविभूषिता ॥ २२.१४१ ॥ उच्चःस्वना स्वल्पनिद्रा क्रोधना सुकृतप्रिया । हीनाचारा कृतज्ञा च श्वशीला परिकीर्तिता ॥ २२.१४२ ॥ पृथुपीनोओन्नतश्रोणी तनुजङ्घा सुहृत्प्रिया । संक्षिप्तपाणिपादा च दृढारम्भा प्रजाहिता ॥ २२.१४३ ॥ पितृदेवार्चनरता सत्यशौचगुरुप्रिया । स्थिरा परिक्लेशसहा गवां सत्त्वं समाश्रिता ॥ २२.१४४ ॥ नानाशीलाः स्त्रियो ज्ञेयाः स्वं स्वं सत्त्वं समाश्रिताः । विज्ञाय च यथासत्त्वमुपसेवेत ताः पुनः ॥ २२.१४५ ॥ उपचारो यथासत्त्वं स्त्रीणामल्पोऽपि हर्षदः । महानप्यन्यथायुक्तो नैव तुष्टिकरो भवेत् ॥ २२.१४६ ॥ यथा संप्रर्थितावाप्त्या रतिः समुपजायते । स्त्रीपुंसयोश्च रत्यर्थमुपचारो विधीयते ॥ २२.१४७ ॥ धर्मार्थं हि तपश्चर्या सुखार्थं धर्म इष्यते । सुखस्य मूलं प्रमदास्तासु सम्भोग इष्यते ॥ २२.१४८ ॥ कामोपभागो द्विविधो नाट्यधर्मेऽभिधीयते । बाह्याभ्यन्तरतश्चैव नारीपुरुषसंश्रयः ॥ २२.१४९ ॥ आभ्यन्तरः पार्थिवानां स च कार्यस्तु नाटके । बाह्यो वेश्यागतश्चैव स च प्रकरणे भवेत् ॥ २२.१५० ॥ तत्र राजोपभोगं तु व्याख्यास्याम्यनुपूर्वशः । उपचारविधिं सम्यक्कामतन्त्रसमुत्थितम् ॥ २२.१५१ ॥ त्रिविधा प्रकृतिः स्त्रीणां नानासत्त्वसमुद्भवा । बाह्या चाभ्यन्तरा चैव स्याद्बाह्याभ्यन्तरापरा ॥ २२.१५२ ॥ कुलीनाभ्यन्तरा ज्ञेया बाह्या वेश्याङ्गना स्मृता । कृतशौचा तु या नारी सा बाह्याभ्यन्तरा स्मृता ॥ २२.१५३ ॥ अन्तःपुरोपचारे तु कुलजा कन्यकापि वा । न हि राजोपचारे तु बाह्यस्त्रीभोग इष्यते ॥ २२.१५४ ॥ आभ्यन्तरो भवेद्राज्ञो बाह्यो बाह्यजनस्य च । दिव्यवेशाङ्गनानां हि राज्ञां भवति सङ्गमः ॥ २२.१५५ ॥ कुलजाकामितं यच्च तज्ज्ञेयं कन्यकास्वपि । या चापि वेश्या साप्यत्र यथैव कुलजा तथा ॥ २२.१५६ ॥ इह कामसमुत्पतीर्नानाभावसमुद्भवा । स्त्रीणां वा पुरुषाणां वा उत्तमाधममध्यमा ॥ २२.१५७ ॥ श्रवणाद्दर्शनाद्रूपादङ्गलीलाविचेष्टितैः । मधुरैश्च समालापैः कामः समुपजायते ॥ २२.१५८ ॥ रूपगुणादिसमेतं कलादिविज्ञानयौवनोपेतम् । दृष्ट्वा पुरुषविशेषं नारी मदनातुरा भवति ॥ २२.१५९ ॥ ततः कामयमानानां नृणां स्त्रीणामथापि च । कामाभावेङ्गितानीह तज्ज्ञः समुपलक्षयेत् ॥ २२.१६० ॥ ललिता चलपक्ष्मा च तथा च मुकुलेक्षणा । स्रस्तोत्तरपुटा चैव काम्या दृष्टिर्भवेदिह ॥ २२.१६१ ॥ [वलितान्ता सलालित्यसंमितैर्व्यञ्जितैरस्तथा । दृष्टिः सा ललिता नाम स्त्रीणामर्धावलोकने] ॥ २२.१६१ ॥ ईष्त्संरक्तगण्डस्तु सस्वेदलवचित्रितः । प्रस्पन्दमानरोमाञ्चो मुखरागो भवेदिह ॥ २२.१६३ ॥ काम्येनाङ्गविकारेण सकटाक्षनिरीक्षितैः । तथाभरणसंस्पर्शैः कर्णकण्डुयनैरपि ॥ २२.१६४ ॥ अङ्गुष्ठाग्रविलिखनैः स्तननाभिप्रदर्शनैः । नखनिस्तोदनाच्चैव केशसंयमनादपि ॥ २२.१६५ ॥ वेश्यामेवंविधैर्भावैर्लक्षयेन्मदनातुराम् । कुलजायास्तथा चैव प्रवक्ष्यामीङ्गितानि तु ॥ २२.१६६ ॥ प्रहसन्तीव नेत्राभ्यां प्रततं च निरीक्षते । स्मयते सा निगूढं च वाचं चाधोमुखी वदेत् ॥ २२.१६७ ॥ स्मितोत्तरा मन्दवाक्या स्वेदाकारनिगूहनी । प्रस्पन्दिताधरा चैव चकिता च कुलाङ्गना ॥ २२.१६८ ॥ एवंविधैः कामलिङ्गैरप्राप्तसुरतोत्सवा । दशस्थानगतं कामं नानाभावैः प्रदर्शयेत् ॥ २२.१६९ ॥ प्रथमे त्वभिलाषः स्याद्द्वितीये चिन्तनं भवेत् । अनुस्मृतिस्तृतीये तु चतुर्थे गुणकीर्तनम् ॥ २२.१७० ॥ उद्वेगः पञ्चमे प्रोक्तो विलापः षष्ठ उच्यते । उन्मादः सप्तमे ज्ञेयो भवेद्व्याधिस्तथाष्टमे ॥ २२.१७१ ॥ नवमे जडता चैव दशमे मरणं भवेत् । स्त्रीपुंसयोरेष विधिर्लक्षणं च निबोधत ॥ २२.१७२ ॥ व्यवसायात्समारब्धः संकल्पेच्छासमुद्भवः । समागमोपायकृतः सोऽभिलाषः प्रकीर्तितः ॥ २२.१७३ ॥ निर्याति विशति च मुहुः करोति चाकारमेव मदनस्य । तिष्ठति च दर्शनपथे प्रथमस्थाने स्थिता कामे ॥ २२.१७४ ॥ केनोपायेन संप्राप्तिः कथं वासौ भवेन्मम । दूतीनिवेदितैर्भावैरिति चिन्तां निदर्शयेत् ॥ २२.१७५ ॥ आकेकरार्धविप्रेक्षितानि वलयरशनापरामर्शः । नीवीनाभ्याः संस्पर्शनं च कार्यं द्वितीये तु ॥ २२.१७६ ॥ सुमुहुर्मुहुर्निःश्वसितैर्मनोरथविचिन्तनैः । प्रद्वेषाच्चान्यकार्याणामनुस्मृतिरुदाहृता ॥ २२.१७७ ॥ नैवासने न शयने धृतिमुपलभते स्वकर्मणि विहस्ता । तच्चिन्तोपगतत्वात्तृतीयमेव प्रयुञ्जीत ॥ २२.१७८ ॥ अङ्गप्रत्यङ्गलीलाभिर्वाक्चेष्टाहसितेक्षितैः । नास्त्यन्यः सदृशस्तेनेत्येतत्स्याद्गुणकीर्तनम् ॥ २२.१७९ ॥ गुणकीर्तनोल्लुकसनैरश्रुस्वेदापमार्जनैश्चापि । दूत्यविरहविस्रम्भैरभिनययोगश्चतुर्थे तु ॥ २२.१८० ॥ आसने शयने चापि न तुष्यति न तिष्ठति । नित्यमेवोत्सुका च स्यादुद्वेगस्थानमाश्रिता ॥ २२.१८१ ॥ चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च । कुर्यात्तदेवमत्यन्तमुद्वेगाभिनयेन च ॥ २२.१८२ ॥ इह स्थित इहासीन इह चोपगतो मया । इति तैस्तैर्विलपितैर्विलापं संप्रयोजयेत् ॥ २२.१८३ ॥ उद्विग्नात्यर्थमौत्सुक्यादधृत्या च विलापिनी । ततस्ततश्च भ्रमति विलापस्थानमाश्रिता ॥ २२.१८४ ॥ तत्संश्रितां कथां युङ्क्ते सर्वावस्थागतापि हि । पुंसः प्रद्वेष्टि चाप्यन्यानुन्मादः संप्रकीर्तितः ॥ २२.१८५ ॥ तिष्ठत्यनिमिषदृष्टिर्दीर्घं निःश्वसिति गच्छति ध्यानम् । रोदिति विहारकाले नाट्यमिदं स्यात्तथोन्मादे ॥ २२.१८६ ॥ सामदानार्थसंभोगैः काम्यैः संप्रेषणैरपि । सर्वैर्निराकृतैः पश्चाद्व्याधिः समुपजायते ॥ २२.१८७ ॥ मुह्यति हृदयं क्वापि प्रयाति शिरसश्च वेदना तीव्रा । न धृतिं चाप्युपलभते ह्यष्टममेवं प्रयुञ्जीत ॥ २२.१८८ ॥ पृष्टा न किञ्चित्प्रब्रते न शृणोति न पश्यति । हाकष्टवाक्या तूष्णीका जडतायां गतस्मृतिः ॥ २२.१८९ ॥ अकाण्डे दत्तहुंकारा तथा प्रशिथिलाङ्गिका । श्वासग्रस्तानना चैव जडताभिनये भवेत् ॥ २२.१९० ॥ सर्वैः कृतैः प्रतीकारैर्यदी नास्ति समागमः । कामाग्निना प्रदीप्ताया जायते मरणं ततः ॥ २२.१९१ ॥ एवं स्थानानि कार्याणि कामतन्त्रं समीक्ष्य तु । अप्राप्तौ यानि कामस्य वर्जयित्वा तु नैधनम् ॥ २२.१९२ ॥ विविधैः पुरुषोऽप्येवं विप्रलम्भसमुद्भवैः । भावैरेतानि कामस्य नानारूपाणि योजयेत्. ॥ २२.१९३ ॥ एवं कामयमानानां स्त्रीणा नृणामथापि वा । सामान्यगुणयोगेन युञ्जीताभिनयं बुधः ॥ २२.१९४ ॥ चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च । तथानुगमन्नाच्चापि तथैवाध्वनिरीक्षणात् ॥ २२.१९५ ॥ आकाशवीक्षणाच्चापि तथा दीनप्रभाषणात् । स्पर्शनान्मोटनाच्चापि तथा सापाश्रयाश्रयात् ॥ २२.१९६ ॥ एभिर्नानाश्रयोत्पन्नैर्विप्रलम्भसमुद्भवैः । कामस्थानानि सर्वाणि भूयिष्ठं सम्प्रयोजयेत् ॥ २२.१९७ ॥ स्रजो भूषणगन्धांश्च गृहाण्युपवनानि च । कामाग्निना दह्यमानः शीतलानि निषेवते ॥ २२.१९८ ॥ प्रदह्यमानः कामार्तो बहुस्थानसमर्दितः । प्रेषयेत्कामतो दूतीमात्मावस्थाप्रदर्शिनीम् ॥ २२.१९९ ॥ सन्देशं चैव दूत्यास्तु प्रदद्यान्मदनाश्रयम् । तस्येयं समवस्थेति कथयेद्विनयेन सा ॥ २२.२०० ॥ अथावेदितभावार्थो रत्युपायं विचिन्तयेत् । अयं विधिर्विधानज्ञैः कार्यः प्रच्छन्नकामिते ॥ २२.२०१ ॥ विधिं राजोपचारस्य पुनर्वक्ष्यामि तत्त्वतः । अभ्यन्तरगतं सम्यक्कामतन्त्रसमुत्थितम् ॥ २२.२०२ ॥ सुखदुःखकृतान् भावान्नानाशीलसमुत्थितान् । यान्यान् प्रकुरुते राजा तान्स्तान् लोकानुवर्तते ॥ २२.२०३ ॥ न दुर्लभाः पार्थिवानां स्त्र्यर्थमाज्ञाकृताः गुणाः । दाक्षिण्यात्तु समुद्भूतः कामो रतिकरो भवेत् ॥ २२.२०४ ॥ बहुमानेन देवीनां वल्लभानां भयेन च । प्रच्छन्नकामितं राज्ञा कार्यं परिजनं प्रति ॥ २२.२०५ ॥ यद्यप्यस्ति नरेन्द्राणां कामतन्त्रमनेकधा । प्रच्छन्नाकामितं यत्तु तद्वै रतिकरं भवेत् ॥ २२.२०६ ॥ यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते । दुर्लभत्वं च यन्नार्याः सा कामस्य परा रतिः ॥ २२.२०७ ॥ राज्ञामन्तःपुरजने दिवासम्भोग इष्यते । वासोअपचारो यश्चैअषां स रात्रौ परिकीर्तितः ॥ २२.२०८ ॥ परिपाट्यां फलार्थे वा नवे प्रसव एव वा । दुःखे चैव प्रमोदे च षडेते वासकाः स्मृताः ॥ २२.२०९ ॥ उचिते वासके स्त्रीनामृतुकालेऽपि वा नृपैः । प्रेष्याणामथवेष्टानां कार्यं चैवोपसर्पणम् ॥ २२.२१० ॥ तत्र वासकसज्जा च विरहोत्कण्ठितापि वा । स्वाधीनभर्तृका चापि कलहान्तरितापि वा ॥ २२.२११ ॥ खण्डिता विप्रलब्धा वा तथा प्रोषितभर्तृका । तथाभिसारिका चैव ज्ञेयास्त्वष्टौ तु नयिकाः ॥ २२.२१२ ॥ उचिते वासकए या तु रतिसंभोगलालसा । मण्डनं कुरुते हृष्टा सा वै वासकसज्जिका ॥ २२.२१३ ॥ अनेककार्यव्यासङ्गाद्यस्या नागच्छति प्रियः । तदनागतदुःखार्ता विरहोत्कण्ठिता तु सा ॥ २२.२१४ ॥ सुरतातिरसैर्बद्धो यस्याः पार्श्वे तु नायकः । सान्द्रामोदगुणप्राप्ता भवेत्स्वाधीनभर्तृका ॥ २२.२१५ ॥ ईर्ष्याकलहनिष्क्रान्तो यस्या नागच्छति प्रियः । सामर्षवशसंप्राप्ता कलहान्तरिता भवेत् ॥ २२.२१६ ॥ व्यासङ्गादुचिते यस्या वासके नागतः प्रियः । तदनागमदुःखार्ता खण्डिता सा प्रकीर्तिता ॥ २२.२१७ ॥ यस्या दूतीं प्रियः प्रेष्य दत्त्वा संकेतमेव वा । नागतः कारणेनेह विप्रलब्धा तु सा भवेत् ॥ २२.२१८ ॥ नानाकार्याणि सन्धाय यस्या वै प्रोषितः प्रियः । सारूढालककेशान्ता भवेत्प्रोषितभर्तृका ॥ २२.२१९ ॥ हित्वा लज्जां तु या श्लिष्टा मदेन मदनेन च । अभिसारयते कान्तं सा भवेदभिसारिका ॥ २२.२२० ॥ आस्ववस्थासु विज्ञेया नायिका नाटकाश्रया । एतासां चैव वक्ष्यामि कामतन्त्रमनेकधा ॥ २२.२२१ ॥ चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च । सखीभिः सह संलापैरात्मावस्थावलोकनैः ॥ २२.२२२ ॥ ग्लानिदैन्याश्रुपातैश्च रोषस्यागमनेन च । निर्भूषणमृजात्वेन दुःखेन रुदितेन च ॥ २२.२२३ ॥ खण्डिता विप्रलब्धा वा कलहान्तरितापि वा । तथा प्रोषितकान्ता च भावानेतान् प्रयोजयेत् ॥ २२.२२४ ॥ विचित्रोज्ज्वलवेषा तु प्रमोदोद्योतितानना । उदीर्णशोभा च तथा कार्या स्वाधीनभर्तृका ॥ २२.२२५ ॥ वेश्यायाः कुलजायायाश्च प्रेष्यायाश्च प्रयोक्तृभिः । एभिर्भावविशेषैस्तु कर्तव्यमभिसारणम् ॥ २२.२२६ ॥ समदा मृदुचेष्टा च तथा परिजनावृता । नानाभरणचित्राङ्गी गच्छेद्वेश्याङ्गना शनैः ॥ २२.२२७ ॥ संलीना स्वेषु गात्रेषु त्रस्ता विनमितानना । अवकुण्ठनसंविता हच्छेत्तु कुलजाङ्गना ॥ २२.२२८ ॥ मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना । आविद्धगतिसंचारा गच्छेत्प्रेष्या समुद्धतम् ॥ २२.२२९ ॥ गत्वा सा चेद्यदा तत्र पश्येत्सुप्तं प्रियं तदा । अनेन तूपचारेण तस्य कुर्यात्प्रबोधनम् ॥ २२.२३० ॥ अलङ्कारेण कुलजा वेश्या गन्धैस्तु शीतलैः । प्रेष्या तु वस्त्रव्यजनैः कुर्वीत प्रतिबोधनम् ॥ २२.२३१ ॥ कुलाङ्गनानामेवायं नोक्तः कामाश्रयो विधिः । सर्वावस्थानुभाव्यं हि यस्माद्भवति नाटकम् ॥ २२.२३२ ॥ नवकामप्रवृत्ताया क्रुद्धाया वा समागमे । सापदेशैरुपायैस्तु वासकं संप्रयोजयेत् ॥ २२.२३३ ॥ नानालङ्करवस्त्राणि गन्धमाल्यानि चैव हि । प्रिययोजितभुक्तानि निषेवेत मुदान्वितः ॥ २२.२३४ ॥ न तथा भवति मनुष्यो मदनवशः कामिनीमलभमानः । द्विगुणोपजातहर्षो भवति यथ सङ्गतः प्रियया ॥ २२.२३५ ॥ विलासभावेङ्गितवाक्यलीलामाधुर्यविस्तारगुणोपपन्नः । परस्परप्रेमनिरीक्षितेन समागमः कामकृतस्तु कार्यः ॥ २२.२३६ ॥ ततः प्रवृत्ते मदने उपचारसमुद्भवे । वासोपचारः कर्तव्यो नायकागमनं प्रति ॥ २२.२३७ ॥ गन्धमाल्ये गृहीत्वा तु चूर्णवासस्तथैव च । आदर्शो लीलया गृह्यश्छन्दतो वा पुनः पुनः ॥ २२.२३८ ॥ वासोपचारे नात्यर्थं भूषणग्रहणं भवेत् । रशनानूपुरप्रायं स्वनवच्च प्रशस्यते ॥ २२.२३९ ॥ नाम्बरग्रहणं रङ्गे न स्नानं न विलेपनम् । नाञ्जनं नाङ्गरागश्च केशसंयमनं तथा ॥ २२.१४० ॥ नाप्रावृत्ता नैकवस्त्रा न रागमधरस्य तु । उत्तमा मध्यमा वापि कुर्वीत प्रमदा क्वचित् ॥ २२.२४१ ॥ अधमानां भवेदेष सर्व एव विधिः सदा । कारणान्तरमासाद्य तस्मादपि न कारयेत् ॥ २२.२४२ ॥ प्रेष्यादीनां च नारीणां नराणां वापि नाटके । भूषणग्रहणं कार्यं पुष्पग्रहणमेव च ॥ २२.२४३ ॥ गृहीतमण्डना चापि प्रतीक्षेत प्रियागमम् । लीलया मण्डितं वेषं कुर्याद्यन्न विरुध्यते ॥ २२.२४४ ॥ विधिवद्वासकं कुर्यान्नायिका नायकागमे । प्रतीक्षमाणा च ततो नालिकाशब्दमादिशेत् ॥ २२.२४५ ॥ श्रुत्वा तु नालिकाशब्दं नायकागमविक्लवा । विषण्णा वेपमाना च गच्छेत्तोरणमेव च ॥ २२.२४६ ॥ तोरणं वामहस्तेन कवाटं दक्षिणेन च । गृहीत्वा तोरणाश्लिष्टा संप्रतीक्षेत नायकम् ॥ २२.२४७ ॥ शङ्कां चिन्तां भयं चैव प्रकुर्यात्तोरणाश्रिता । अदृष्ट्वा रमणं नारी विषण्णा च क्षणं भवेत् ॥ २२.२४८ ॥ दीर्घं चैव विनिःश्वस्य नयनाम्बु निपातयेत् । सन्नं च हृदयं कृत्वा विसृजेतदङ्गमासने ॥ २२.२४९ ॥ व्याक्षेपाद्विमृशेच्चापि नायकागमनं प्रति । तैस्तैर्विचारणोपायैः शुभाशुभसमुत्थितैः ॥ २२.२५० ॥ गुरुकार्येण मित्रैर्वा मन्त्रिणा राज्यचिन्तया । अनुबद्धः प्रियं किं नु वृतो वल्लभयापि वा ॥ २२.२५१ ॥ उत्पातान्निर्दिशेच्चापि शुभाशुभसमुत्थितान् । निमितैरात्मसंस्थैस्तु स्फुरितैः स्पन्दिअतैस्तथा ॥ २२.२५२ ॥ शोभनेषु तु कार्येषु निमित्तं वामतः स्त्रियाः । अनिष्टेष्वथ सर्वेषु निमित्तं दक्षिणं भवेत् ॥ २२.२५३ ॥ सव्यं नेत्रं ललाटं च भ्रूनासोष्ठं तथैव च । उरुबाहुस्तनं चैव स्फुरेद्यदि समागमः ॥ २२.२५४ ॥ एतेषमन्यथाभावे दुर्निमित्तं विनिर्दिशेत् । दर्शने दुर्निमित्तस्य मोहं गच्छेत्क्षणं ततः ॥ २२.२५५ ॥ अनागमे नायकस्य कार्यो गण्डाश्रयः करः । भूषणे चाप्यवज्ञानं रोदनं च समाचरेत् ॥ २२.२५६ ॥ अथ चेच्छोभनं तत्स्यान्निमित्तं नायकागमे । सूच्यो नायिकयासन्नो गन्धाघ्राणेन नायकः ॥ २२.२५७ ॥ दृष्ट्वा चोत्थाय संहृष्टा प्रत्युद्गच्छेद्यथाविधि । ततः कान्तं निरीक्षेत प्रहर्षोत्फुल्ललोचना ॥ २२.२५८ ॥ सखीस्कन्धार्पितकरा कृत्वा स्थानकमायतम् । दर्शयेत ततः कान्तं सचिह्नं सरसव्रणम् ॥ २२.१५९ ॥ यदि स्यादपराद्धस्तु कृतैस्तैस्तैरुपक्रमैः । उपालम्भकृअतैर्वाक्यैरुपालभ्यस्तु नायकः ॥ २२.२६० ॥ मानापमानसंमोहैरवहित्थभयक्रमैः । वचनस्य समुत्पत्तिः स्त्रीणामीर्ष्याकृता भवेत् ॥ २२.२६१ ॥ विस्रंभस्नेहरागेषु सन्देहे प्रणये तथा । परितोषे च घर्षे च दाक्षिण्याक्षेपविभ्रमे ॥ २२.२६२ ॥ धर्मार्थकामयोगेषु प्रच्छन्नवचनेषु च । हास्ये कुतूहले चैव संभ्रमे व्यसने तथा ॥ २२.२६३ ॥ स्त्रीपुंसयोः क्रोधकृते पृथङ्मिश्रे तथापि वा । अनाभाष्योऽपि संभाष्यः प्रिय एभिस्तु कारणैः ॥ २२.२६४ ॥ यत्र स्नेहो भवेत्तत्र हीर्ष्या मदनसंभवा । चतस्रो योनयस्तस्याः कीर्त्यमाना निबोधत ॥ २२.२६५ ॥ वैमनस्यं व्यलीकं च विप्रियं मन्युरेव च । एतेषां संप्रवक्ष्यामि लक्षणानि यथाक्रमम् ॥ २२.२६६ ॥ निद्राखेदालसगतिं सचिह्नं सरसव्रणम् । एवविधं प्रियं दृष्ट्वा वैमनस्यं भवेत्स्त्रियाः ॥ २२.२६७ ॥ निद्राभ्यसूयितावेक्षणेन रोषप्रकम्पमानाङ्ग्या । साध्विति सुष्ठ्विति वचनैः शोभत इत्येवमभिनेयम् ॥ २२.२६८ ॥ बहुधा वार्यमाणोऽपि यस्तस्मिन्नेव दृश्यते । संघर्षमत्सरात्तत्र व्यलीकं जायते स्त्रियाः ॥ २२.२६९ ॥ कृत्वोरसि वामकरं दक्षिणहस्तं तथा विधुन्वन्त्या । चरणविनिष्ठम्भेन च कार्योऽभिनयो व्यलीके तु ॥ २२.२७० ॥ जीवन्त्या त्वयि जीवामि दासोऽहं त्वं च मे प्रिया । उक्त्वैवं योऽन्यथा कुर्याद्विप्रियं तत्र जायते ॥ २२.२७१ ॥ दूतीलेखप्रतिवचनभेदनैः क्रोधहसितरुदितैश्च । विप्रियकरणेऽभिनयः सशिरःकम्पैश्च कर्तव्यः ॥ २२.२७२ ॥ प्रतिपक्षसकाशात्तु यः सौभाग्यविकत्थनः । उपसर्पेत्सचिन्ह्नस्तु मन्युस्तत्रोपजायते ॥ २२.२७३ ॥ वलयपरिवर्तनैरथ सुशिथलमुत्क्षेपेणेन रशनायाः । मन्युस्त्वभिनेतव्यः सशङ्कितं बाष्पपूर्णाक्ष्या ॥ २२.२७४ ॥ दृष्ट्वा स्थितं प्रियतमं सशङ्कितं सापराधमतिलज्जम् । ईर्ष्यावचनसमुत्थैः खेदयितव्यो ह्युपालम्भैः ॥ २२.२७५ ॥ न च निष्ठुरमभिभाष्यो न चाप्यतिक्रोधनस्तु परिहासः । बाष्पोन्मिश्रैर्वचनैरात्मोपन्याससंयुक्तैः ॥ २२.२७६ ॥ मध्याङ्गुल्यङ्गुष्ठाग्रविच्यवात्पाणिनोरसि कृतेन । उद्वर्तितनेत्रतया प्रततैरभिवीक्षणैश्चापि ॥ २२.२७७ ॥ कटिहस्तविवर्तनया विच्छिन्नतया तथाञ्जलेः करणात् । मूर्धभ्रमणनिहञ्चितनिपातसंश्लेअष्णाच्चापि ॥ २२.२७८ ॥ अवहित्थवीक्षणाद्वा अङ्गुलिभङ्गेन तर्जनैललितैः । एभिर्भावविशेषैरनुनयनेष्वभिनयः कार्यः ॥ २२.२७९ ॥ शोभसे साधु दृष्टोऽसि गच्छ त्वं किंं विलम्बसे । मा मां स्प्राक्षीः प्रिया यत्र तत्र या ते हृदि स्थिता ॥ २२.२८० ॥ गच्छेत्युक्त्वा परावृत्य विनिवृत्तान्तरेण तु । केनचिद्वचनार्थेन प्रहर्षं योजयेत्पुनः ॥ २२.२८१ ॥ रभसग्रहणाच्चापि हस्ते वस्त्रे च मूर्धनि । कार्यं प्रसादनं नार्या ह्यपराधं समीक्ष्य तु ॥ २२.२८२ ॥ हस्ते वस्त्रेऽथ केशान्ते नार्याप्यथ गृहीतया । कान्तमेवोपसर्पन्त्या कर्तव्यं मोक्षणं शनैः ॥ २२.२८३ ॥ गृहीतायाथ केशान्ते हस्ते वस्त्रेऽथवा पुनः । हुं मुञ्चेत्युपसर्पन्त्या वाच्यः स्पर्शालसं प्रियः ॥ २२.२८४ ॥ पादाग्रस्थितया नार्या किंचित्कुट्टमितोत्कटम् । अश्वक्रान्तेन कर्तव्यं केशानां मोक्षणं शनैः ॥ २२.२८५ ॥ अमुच्यमाने केशान्ते संजातस्वेदलेशया । हं हु मुञ्चापसर्पेति वाच्यः स्पर्शालसाङ्गया ॥ २२.२८६ ॥ गच्छेति रोषवाक्येन गत्वा प्रतिनिवृत्य च । केनचिद्वचनार्थेन वाच्यं यास्यसि नेति च ॥ २२.२८७ ॥ विधूननेन हस्तेन हुंकारं संप्रयोजयेत् । स चावधूनने कार्यः शपथैर्व्याज एव च ॥ २२.२८८ ॥ अक्ष्णोः संवरणे कार्यं पृष्ठतश्चोपगूहनम् । नार्यास्त्वपहृते वस्त्रे दीपच्छादनमेव च ॥ २२.२८९ ॥ तावत्खेदयितव्यस्तु यावत्पादगतो भवेत् । ततश्चरणयोर्याते कुर्याद्दूतीनिरीक्षणम् ॥ २२.२९० ॥ उत्थाप्यालिङ्गयेच्चैव नायिका नायकं ततः । रतिभोगगता हृष्टा शयनाभिमुखी व्रजेत् ॥ २२.२९१ ॥ एतद्गीतविधानेन सुकुमारेण योजयेत् । यदा शृङ्गारसंयुक्तं रतिसम्भोगकारणम् ॥ २२.२९२ ॥ यदा चाकाशपुरुषपरस्थवचनाश्रयम् । भवेत्काव्यं तदा ह्येष कर्तव्योऽभिनयः स्त्रिया ॥ २२.२९३ ॥ यदन्तपुरसम्बन्धं कार्यं भवति नाटके । शृङ्गाररससंयुक्तं तत्राप्येष विधिर्भवेत् ॥ २२.२९४ ॥ न कार्यं शयनं रङ्गे नाट्यधर्मं विजानता । केनचिद्वचनार्थेन अङ्कच्छेदो विधीयते ॥ २२.२९५ ॥ यद्वा शयीतार्थवशादेकाकी सहितोऽपि वा । चुम्बनालिङ्गनं चैव तथ गुह्यं च यद्भवेत् ॥ २२.२९६ ॥ दन्तच्छेद्यं नखच्छेद्यं नीवीस्रंसनमेव च । स्तनान्तरविमर्दं च रङ्गमध्ये न कारयेत् ॥ २२.२९७ ॥ भोजनं सलिलक्रीडा तथा लज्जाकरं च यत् । एवंविधं भवेद्यद्यत्तत्तद्रङ्गे न कारयेत् ॥ २२.२९८ ॥ पितापुत्रस्नुषाश्वश्रूदृश्यं यस्मात्तु नाटकम् । तस्मादेतानि सर्वाणि वर्जनीयानि यत्नतः ॥ २२.२९९ ॥ वाक्यैः सातिशयैः श्रव्यैर्मधुरैर्नातिनिष्ठुरैः । हितोपदेशसंयुक्तैस्तज्ज्ञः कुर्यात्तु नाटकम् ॥ २२.३०० ॥ एवमन्तःपुरकृतः कार्यस्त्वभिनयो बुधः । समागमेऽथ नारीणां वाच्यानि मदनाश्रये ॥ २२.३०१ ॥ प्रियेषु वचनानीह यानि तानि निबोधत । प्रिअयः कान्तो विनीतश्च नाथः स्वाम्यथ जीवितम् ॥ २२.३०२ ॥ नन्दनश्चेत्यभिप्रीते वचनानि भवन्ति हि । दुःशीलोऽथ दुराचारः शठो वामो विकत्थनः ॥ २२.३०३ ॥ निर्लज्जो निष्ठुरश्चैअव प्रियः क्रोधेऽभिधीयते । यो विप्रियं न कुरुते न चायुक्तं प्रभाषते ॥ २२.३०४ ॥ तथार्जवसमाचारः स प्रियस्त्वभिधीयते । अन्यनारीसमुद्भूतं चिह्नं यस्य न दृष्यते ॥ २२.३०५ ॥ अधरे वा शरीरे वा स कान्त इति भाष्यते । संक्रुद्धेऽपि हि यो नार्या नोत्तरं प्रतिपद्यते ॥ २२.३०६ ॥ परुषं वा न वदति विनीतः साऽभिधीयते । हितैषी रक्षणे शक्तो न मानी न च मत्सरी ॥ २२.३०७ ॥ सर्वकार्येष्वसंमूढः स नाथ इति संज्ञितः । सामदानार्थसंभोगैस्तथा लालनपालनैः ॥ २२.३०८ ॥ नारीं निषेवते यस्तु स स्वामीत्यभिधीयते । नारीप्सितैरभिप्रायैर्निपुणं शयनक्रियाम् ॥ २२.३०९ ॥ करोति यस्तु संभोगे स जीवितमिति स्मृतः । कुलीनो धृतिमान्दक्षो दक्षिणो वाग्विशारदः ॥ २२.३१० ॥ श्लाघनीयः सखीमध्ये नन्दनः सोऽभिधीयते । एते वचनविन्यासा रतिप्रीतिकराः स्मृताः ॥ २२.३११ ॥ तथा चाप्रीतिवाक्यानि गदतो मे निबोधत । निष्ठुरश्चाहिष्णुश्च मानि धृष्टो विकत्थनः ॥ २२.३१२ ॥ अनवस्थितचित्तश्च दुःशील इति स स्मृतः । ताडनं बन्धनं चापि यो विमृश्य समाचरेत् ॥ २२.३१३ ॥ तथा परुषवाक्यश्च दुराचारः स तन्यते । वाचैअव मधुरो यस्तु कर्मण नोपपादकः ॥ २२.३१४ ॥ योषितः किञ्चिदप्यर्थं स शठः परिभाष्यते । वार्यते यत्र यत्रार्थे तत्तदेव करोति यः ॥ २२.३१५ ॥ विपरीतनिवेशी च स वाम इति संज्ञितः । सरसव्रणचिह्नो यः स्त्रीसौभाग्यविकत्थनः ॥ २२.३१६ ॥ अतिमानी तथा स्तब्धो विकत्थन इति स्मृतः । वार्यमाणो दृढतरं यो नारीमुपसर्पति ॥ २२.३१७ ॥ सचिह्नाः सापराधश्च स निर्लज्ज इति स्मृतः । योऽपराद्धस्तु सहसा नारीं सेवितुमिच्छति ॥ २२.३१८ ॥ अप्रसादनबुद्धिश्च निष्ठुरः सोऽभिधीयते । एते वचनविन्यासाः प्रियाप्रियविभाषिताः ॥ २२.३१९ ॥ नर्तकीसंश्रिताः कार्या बहवोऽन्येऽपि नाटके । एष गीतविधाने तु सुकुमारे विधिर्भवेत् ॥ २२.३२० ॥ शृङ्गाररससंभूतो रतिसंभोगखेदनः । यच्चैवाकाशपुरुषं परस्थवचनाश्रयम् ॥ २२.३२१ ॥ शृङ्गार एवं वाच्यं स्यात्तत्राप्येष क्रमो भवेत् । यद्वा पुरुसंबन्धं कार्यं भवति नाटके ॥ २२.३२२ ॥ शृङ्गाररससंयुक्तं तत्राप्येष क्रमो भवेत् । एवमन्तःपुरगतः प्रयोज्योऽभिनयो भवेत् ॥ २२.३२३ ॥ दिव्याङ्गनानां तु विधिं व्याख्यास्यम्यनुपूर्वशः । नित्यमेवोज्वलो वेषो नित्यं प्रमुदितं मनः ॥ २२.३२४ ॥ नित्यमेव सुखः कालो देवानां ललिताश्रयः । न चैर्ष्या नैव च क्रोधो नासूया न प्रसादनम् ॥ २२.३२५ ॥ दिव्यानां दृष्यते पुंसां शृङ्गारे योषितां तथा । ये भावा मानुषाणां स्युर्यदङ्गं यच्च चेष्टितम् ॥ २२.३२६ ॥ सर्वं तदेव कर्तव्यं दिव्यैर्मानुषसङ्गमे । यदा मानुषसंभोगो दिव्यानां योषितां भवत् ॥ २२.३२७ ॥ तदा सर्वाः प्रकर्तव्या ये भावा मानुषाश्रयाः । शापभ्रंशात्तु दिव्यानां तथा चापत्यलिप्सया ॥ २२.३२८ ॥ कार्यो मानुषसंयोगः शृङ्गाररससंश्रयः । पुष्पैर्भूषणजैः शब्दैरदृश्यापि प्रलोभयेत् ॥ २२.३२९ ॥ पुनः संदर्शनं दत्त्वा क्षणादन्तरिता भवेत् । वस्त्राभरणमाल्याद्यैर्लेखसंप्रेषणैरपि ॥ २२.३३० ॥ ईदृशैरुपचारैस्तु समुन्माद्यस्तु नायकः । उन्मादनात्समुद्भूतः कामो रतिकरो भवेत् ॥ २२.३३१ ॥ स्वभावोपगतो यस्तु नासावत्यर्थभाविकः । एवं राजोपचारो हि कर्तव्योऽभ्यन्तराश्रयः ॥ २२.३३२ ॥ बाह्यमप्युपचारं तु प्रवक्ष्याम्यथ वैशिके । इति भारतीये नाट्यशास्त्रे सामान्याभिनयो नामाध्यायो द्वाविंशः _____________________________________________________________ अथ त्रयोविंशोऽध्यायः विशेषयेत्कलाः सर्वा यस्मात्तस्मात्तु वैशिकः । वेशोपचारे साधुर्वा वैशिकः परिकीर्तितः ॥ २३.१ ॥ यो हि सर्वकलोपेतः सर्वशिल्पविचक्षणः । स्त्रीचित्तग्रहणाभिज्ञो वैशिकः स भवेत्पुमान् ॥ २३.२ ॥ गुणस्तस्य तु विज्ञेयाः स्वशरीरसमुत्थिताः । आहार्याः सहजाश्चैव त्रयस्त्रिंशत्समासतः ॥ २३.३ ॥ शास्त्रविच्छिल्पसंपन्नो रूपवान् प्रियदर्शनः विक्रान्तो धृतिमांश्चैव वयोवेषकुलान्वितः ॥ २३.४ ॥ सुरभिर्मधुरस्त्यागि सहिष्णुरविकत्थनः अशङ्कितः प्रियाभाषी चतुरः शुभदः शुचिः ॥ २३.५ ॥ कामोपचारकुशलो दक्षिणो देशकालवित् । अदीनवाक्यः स्मितवान् वाग्मी दक्षः प्रियंवदः ॥ २३.६ ॥ स्त्रीलुब्धाः संविभागी च श्रद्धधानो दृढस्मृतिः । गम्यासु चाप्यविस्रम्भी मानी चेति हि वैशिकः ॥ २३.७ ॥ अनुयुक्तः शुचिर्दक्षो दक्षिणः प्रतिपत्तिमान् । भवेच्चित्राभिधायी च वयस्यस्तस्य तद्गुणः ॥ २३.८ ॥ विज्ञानगुणसंपना कथिनी लिङ्गिनी तथा । प्रातिवेश्या सखी दासी कुमारी कारुशिल्पिनी ॥ २३.९ ॥ धात्री पाषण्डिनी चैव तथा रङ्गोपजीविनी । प्रोत्साहनेऽथकुशला मधुरकथा दक्षिणाथकालज्ञा ॥ २३.१० ॥ लडहा संवृतमन्त्रा दूती त्वेभिर्गुणैः कार्या । तयाप्युत्साहनं कार्यं नानादर्शितकारणम् ॥ २३.११ ॥ यथोक्तकथनं चैव तथा भावप्रदर्शनम् । न जडं रूपसम्पन्नं नार्थवन्तं न चातुरम् ॥ २३.१२ ॥ दूतं वाऽप्यथवा दूतीं बुधः कुर्यात्कदाचन । कुलभोगधनाधिक्यैः कृत्वाधिकविकत्थनम् ॥ २३.१३ ॥ दूती निवेदयेत्काममर्थांश्चैवानुवर्णयेत् । न चाकामप्रवृत्तायाः कृद्धाया वापि सङ्गमः ॥ २३.१४ ॥ नानुपायः प्रकर्तव्यो दूत्या हि पुरुषाश्रयः । उत्सवे रत्रिसञ्चार उद्द्याने मित्रवेश्मनि ॥ २३.१५ ॥ धात्रिगृहेषु सख्या वा तथा चैव निमन्त्रणे । व्याधितव्यपदेशेन शुन्यागारनिवेशने ॥ २३.१६ ॥ कार्यः समागमो नॄणां स्त्रीभिः प्रथमसङ्गमे । एवं समागमं कृत्वा सोपायं विधिपूर्वकम् ॥ २३.१७ ॥ अनुरक्ता विरक्ता वा लिङ्गाकारैस्तु लक्षयेत् । स्वभावभावातिशयैर्नारी या मदनाश्रया ॥ २३.१८ ॥ करोति निभृतां लीलां नित्यं सा मदनातुरा । सखीमध्ये गुणान् ब्रूते स्वधनं च प्रयच्छति ॥ २३.१९ ॥ पूजयत्यस्य मित्राणि द्वेष्टि शत्रुजनं सदा । गमागमे सखीनां या हृष्टा भवति चाधिकम् ॥ २३.२० ॥ तुष्यत्यस्य कथाभिस्तु सस्नेहं च निरीक्षते । सुप्ते तु पश्चात्स्वपिति चुम्बिता प्रतिचुम्बति ॥ २३.२१ ॥ उत्तिष्ठत्यपि पूर्वं च तथा क्लेशसहापि च । उत्सवे मुदिता या च व्यसने या च दुःखिता ॥ २३.२२ ॥ एवंविधैर्गुणैर्युक्ता त्वनुरक्ता तु सा स्मृता । विरक्तायास्तु चिन्हानि चुम्बिता नाभिचुम्बति ॥ २३.२३ ॥ इति भारतीये नाट्यशास्त्रे त्रयोविंशः _____________________________________________________________ चतुर्विंशोऽध्यायः समासतस्तु प्रकृतिस्त्रिविधा परिकीर्तिता । पुरुषाणामथ स्त्रीणामुत्तमाधममध्यमा ॥ २४.१ ॥ जितेन्द्रिय ज्ञानवती नानाशिल्पविचक्षणा । दक्षिणाधमहालक्ष्या भीतानां परिसान्त्वनी ॥ २४.२ ॥ नानाशास्त्रार्थसंपन्ना गाम्भीर्यौदार्यशालिनी । स्थैर्यत्यागगुणोपेता ज्ञेया प्रकृतिरुत्तमा ॥ २४.३ ॥ लोकोपचारचतुरा शिल्पशास्त्रविशारदा । विज्ञानमाधुर्ययुता मध्यमा प्रकृतिः स्मृता ॥ २४.४ ॥ रूक्षवाचोऽथ दुःशीलाः कुसत्त्वाः स्थूलबुद्धयः । क्रोधनाघातकाश्चैव मित्रघ्नाश्छिद्रमानिनः ॥ २४.५ ॥ पिशुनास्तूद्धतैर्वाक्यैरकृतज्ञास्तथालसाः । मान्यामान्या विशेषज्ञा स्त्रीलोलाः कलहप्रियाः ॥ २४.६ ॥ सूचकाः पापकर्माणः परद्रव्यापहारिणः । एभिर्दोषैस्तुसंपन्ना भवन्तीहाधमा नराः ॥ २४.७ ॥ एवं तु शीलतो नॄणां प्रकृतिस्त्रिविधा स्मृता । स्त्रीणां पुनश्च प्रकृतिं व्याख्यास्याम्यनुपूर्वशः ॥ २४.८ ॥ मृदुभाबा चाचपला स्मितभाषिण्यनिष्ठुरा । गुरूणां वचने दक्षा सलज्जा विनयान्विता ॥ २४.९ ॥ रूपाभिजनमाधुर्यैर्गुणैः स्वाभाविकेर्युता । गाम्भीर्यधैर्यसम्पन्ना विज्ञेया प्रमदोत्तमा ॥ २४.१० ॥ नात्युत्कृष्टैरनिखिलैरेभिरेवान्विता गुणैः । अल्पदोषानुविद्धा च मध्यमा प्रकृतिः स्मृता ॥ २४.११ ॥ अधमा प्रकृतिर्या तु पुरुषाणां प्रकीर्तिता । विज्ञेया सैव नारीणामधमानां समासतः ॥ २४.१२ ॥ नपुंसकस्तु विज्ञेयः संकीर्णोऽधम एव च । प्रेष्यादिरपि विज्ञेया संकीर्णा प्रकृतिद्विजाः ॥ २४.१३ ॥ शकारश्च विटश्चैव ये चान्येप्येवमादयः । संकीर्णास्तेऽपि विज्ञेया ह्यधमा नाटके बुधैः ॥ २४.१४ ॥ एता ज्ञेयाः प्रकृतयः पुरुषस्त्रीनपुंसकैः । आसां तु संप्रवक्ष्यामि विधानं शीलसंश्रयम् ॥ २४.१५ ॥ अत्र चत्वार एव स्युर्नायकाः परिकीर्तिताः । मध्यमोत्तमप्रकृतौ नानालक्षणलक्षिताः ॥ २४.१६ ॥ धीरोद्धता धीरललिता धीरोदात्तास्तथैव च । धीरप्रशान्तकाश्चैव नायकाः परिकीर्तिताः ॥ २४.१७ ॥ देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः । सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥ २४.१८ ॥ धीरप्रशान्ता विज्ञेया ब्राह्मणा वाणिजस्तथा । एतेषां तु पुनर्ज्ञेयाश्चत्वारस्तु विदूषकः ॥ २४.१९ ॥ लिंगी द्विजो राजजीवी शिष्यश्चेति यथाक्रमम् । देवक्षितिभृतामात्यब्राह्मणानां प्रयोजयेत् ॥ २४.२० ॥ विप्रलंभसुहृदोमी संकथालापपेशलाः । व्यसनी प्राप्य दुःखं वा युज्यतेऽभ्युदयेन यः ॥ २४.२१ ॥ तथा पुरुषमाहुस्तं प्रधानं नायकं बुधाः । यत्रानेकस्य भवतो व्यसनाभ्युदयौ पुनः ॥ २४.२२ ॥ सपुष्टौ यत्र तौ स्यातां न भवेत्तत्र नायकः । दिव्या च नृपपत्नी च कुलस्त्री गणिका तथा ॥ २४.२३ ॥ एतास्तु नायिका ज्ञेय नानाप्रकृतिलक्षणाः । धीरा च ललिता च स्यादुदात्ता निभृता तथा ॥ २४.२४ ॥ दिव्या राजाङ्गनाश्चैव गुणैर्युक्ता भवन्ति हि । उदात्ता निभृता चैव भवेत्तु कुलजाङ्गना ॥ २४.२५ ॥ ललिते चाभ्युदात्ते च गणिकाशिल्पकारिके । प्रकृतीनां तु सर्वासामुपचाराद्द्विधा स्मृताः ॥ २४.२६ ॥ बाह्यश्चाभ्यन्तरश्चैव तयोर्वक्ष्यामि लक्षणम् । तत्र राजोपचारो यो भवेदाभ्यन्तरो हि सः ॥ २४.२७ ॥ ततो वाक्योपचारस्तु यस्य बाह्यः स उच्यते । अथ राजोपचारे च राज्ञामन्तःपुराश्रितम् ॥ २४.२८ ॥ स्त्रीविभागं प्रवक्ष्यामि विभक्तमुपचारतः । राजोपचारं वक्ष्यामि ह्यन्तःपुरसमाश्रयम् ॥ २४.२९ ॥ महादेवी तथा देव्यः स्वामिन्यः स्थापिता अपि । भोगिन्यः शिल्पकारिण्यो नाटकीयाः सनर्तकाः ॥ २४.३० ॥ अनुचारिकाश्च विज्ञेयास्तथा च परिचारिकाः । तथा संचारिकाश्चैव तथा प्रेषणकारिकाः ॥ २४.३१ ॥ महत्तर्यः प्रतीहार्यः कुमार्यः स्थविरा अपि । आयुक्तिकाश्च नृपतेरयमन्तःपुरो जनः ॥ २४.३२ ॥ अत्र मूर्धाभिषिक्ता या कुलशीलसमन्विता । गुणैर्युक्ता वयस्स्था च मध्यस्था क्रोधना तथा ॥ २४.३३ ॥ मुक्तेर्ष्या नृपशीलज्ञा सुखदुःखसहा समा । शान्तिस्वस्त्ययनैर्भर्तुस्सततं मङ्गलैषिणी ॥ २४.३४ ॥ शान्ता पतिव्रता धीरा अन्तःपुरहिते रता । एभिर्गुणैस्तु संयुक्ता महदेवीत्युदाहृता ॥ २४.३५ ॥ एभिरेव गुणैर्युक्तास्तत्संस्कारविवर्जिताः । गर्विताश्चातिसौभाग्याः पतिसंभोगतत्पराः ॥ २४.३६ ॥ शुचिनित्योज्वलाकाराः पतिपक्षाभ्यसूयकाः । वयोरूपगुणाढ्या यास्ता देव्य इति भाषिताः ॥ २४.३७ ॥ सेनापतेरमात्यानां भृत्यानामथवा पुनः । भवेयुस्तनया यास्तु प्रतिसम्मानवर्जिताः ॥ २४.३८ ॥ शीलरूपगुणैर्यास्तु संपन्ना नृपतेर्हिताः । स्वगुणैर्लब्धसम्माना स्वामिन्य इति ताः स्मृताः ॥ २४.३९ ॥ रूपयौवनशालिन्यः कर्कशा विभ्रमान्विताः । रतिसंभोगकुशलाः प्रतिपक्षाभ्यसूयकाः ॥ २४.४० ॥ दक्षा भर्तुश्च चित्तज्ञा गन्धमाल्योज्वलास्सदा । नृपतेश्छन्दवर्तिन्यो न हीर्ष्यामानगर्विताः ॥ २४.४१ ॥ उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या न निष्ठुराः । मान्यामान्यविशेषज्ञाः स्थापिता इति ताः स्मृताः ॥ २४.४२ ॥ कुलशीललब्धपूजामृदवो नातिचोद्भटाः । मध्यस्था निभृताः क्षान्ता भोगिन्य इति ताः स्मृताः ॥ २४.४३ ॥ नानाकलाविशेषज्ञा नानाशिल्पविचक्षणाः । गन्धपुष्पविभागज्ञा लेख्यालेख्यविकल्पिकाः ॥ २४.४४ ॥ शयनासनभागज्ञाश्चतुरा मधुरास्तथा । दक्षाः सौम्याः स्फुटाः श्लिष्ठा निभृताः शिल्पकारिकाः ॥ २४.४५ ॥ ग्रहमोक्षलयज्ञा या रसभावविकल्पिकाः । चतुरानाट्यकुशलाश्चोहापोहविचक्षणाः ॥ २४.४६ ॥ रूपयौवनसंपन्ना नाटकीयास्तु ताः स्मृताः । हेलाभावविशेषाढ्या सत्वेनाभिनयेन च ॥ २४.४७ ॥ माधुर्येन च संपन्ना ह्यातोद्यकुशला तथा । अङ्गप्रत्यङ्गसंपन्ना चतुष्षष्ठिकलान्विता ॥ २४.४८ ॥ चतुराः प्रश्नयोपेताः स्त्रीदोषैश्च विवर्जिताः । सदा प्रगल्भा च तथा त्यक्तालस्या जितश्रमा ॥ २४.४९ ॥ नानाशिल्पप्रयोगज्ञा नृत्तगीतविचक्षणा । अथ रूपगुणौदार्यधैर्यसौभाग्यशीलसंपन्ना ॥ २४.५० ॥ पेशलमधुरस्निग्धानुनादिकलचित्रकण्ठा च । समागतासु नारीषु रूपयौवनकन्तिभिः ॥ २४.५१ ॥ न दृश्यते गुणैर्स्तुल्या यस्याः सा नर्तकी स्मृता । सर्वावस्थोपचारेषु या न मुञ्चति पर्थिवम्. ॥ २४.५२ ॥ विज्ञेया दक्षिणा दक्षा नाट्यज्ञैरनुचारिका । शय्यापाली छत्रधारी तथा व्यजनधारिणी ॥ २४.५३ ॥ संवाहिका गन्धयोक्त्री तथा चैव प्रसाधिका । तथाभरणयोक्त्री च माल्यसंयोजिका तथा ॥ २४.५४ ॥ एवं विधा भवेयुर्याः ता ज्ञेयाः परिचारिकाः । नानाकक्ष्या विचारिण्यः तथोअपवनसंचराः ॥ २४.५५ ॥ देवतायतनक्रीडा प्रासादपरिचारिकाः । यामकिन्यस्तथा चैव याश्चैवं लक्षणाः स्त्रियः ॥ २४.५६ ॥ संचारिकास्तु विज्ञेया नाट्यज्ञैः समुदाहृताः । प्रेषणेऽकामसंयुक्ते गुह्यागुह्यसमुत्थिते ॥ २४.५७ ॥ नृपैर्यास्तु नियुज्यन्ते ताः ज्ञेयाः परिचारिकाः । सर्वान्तःपुररक्षासु स्तुतिस्वस्त्ययनेन च ॥ २४.५८ ॥ या वृद्धिमभिनन्दन्ति ता विज्ञेया महत्तराः । सन्धिविग्रहसंबद्धनानाचारसमुत्थितम् ॥ २४.५९ ॥ निवेदयन्ति याः कार्यं प्रतिहार्यस्तु ताः स्मृताः । अप्राप्तरससंभोगा न संभ्रान्ता न चोद्भटाः ॥ २४.६० ॥ निभृताश्च सलज्जाश्च कुमार्यो बालिकाः स्मृताः । पुर्वराजनयज्ञा याः पुर्वराजाभिपूजिताः ॥ २४.६१ ॥ पुर्वराजानुचरितास्ता वृद्धा इति सुज्ञिताः । भाण्डागारेष्वधिकृताश्चायुधाधिकृतास्तथा ॥ २४.६२ ॥ फलमूलौषधीनां च तथा चैवान्ववेक्षकी । गन्धाभरणवस्त्राणां माल्यानां चैव चिन्तिका ॥ २४.६३ ॥ बह्वाश्रये तथा युक्ता ज्ञेया ह्यायुक्तिकास्तु ताः । इत्यन्तःपुरचारिण्यः स्त्रियः प्रोक्ता समासतः ॥ २४.६४ ॥ विशेषणविशेषेण तासां वक्ष्यामि वै द्विजाः । अनुरक्ताश्च भक्ताश्च नानापार्श्वसमुत्थिताः ॥ २४.६५ ॥ या नियुक्ता नियोगेषु कार्येषु विविधेषु च । न चोद्भटा असंभ्रान्ता न लुब्धा नापि निष्ठुराः ॥ २४.६६ ॥ दान्ताः क्षान्ताः प्रसन्नाश्च जितक्रोधा जितेन्द्रियाः । अकामा लोभडीनाश्च स्त्रीदोषैश्च विवर्जिताः ॥ २४.६७ ॥ सा त्वन्तःपुरसंचारे योज्या पार्थिववेश्मनि । कारुकाः कञ्चुकीयाश्च तथा वर्षवराः पुनः ॥ २४.६८ ॥ औपस्थायिकनिर्मुण्डा स्त्रीणा प्रेषणकर्मणि । रक्षणं च कुमारीणां बालिकानां प्रयोजयेत् ॥ २४.६९ ॥ अन्तःपुराधिकारेषु राजचर्यानुवर्त्तिनाम् । सर्ववृत्तान्तसंवाहाः पत्यागारे नियोजयेत् ॥ २४.७० ॥ विनीताः स्वल्पसत्त्वा ये क्लीबा वै स्त्रीस्वभाविकाः । जात्या न दोषिणश्चैव ते वै वर्षवराः स्मृताः ॥ २४.७१ ॥ ब्रह्माणाः कुशला वृद्धाः कामदोषविवर्जिताः । प्रयोजनेषु देवीनां प्रयोक्तव्या नृपैः सदा ॥ २४.७२ ॥ एतदष्टादशविधं प्रोक्तमन्तःपुरं मया । अतः परं प्रवक्ष्यामि बाह्यं पुरुषसंभवम् ॥ २४.७३ ॥ राजा सेनापतिश्चैव पुरोधा मन्त्रिणस्तथा । सचिवाः प्राड्विवाकाश्च कुमाराधिकृतास्तथा ॥ २४.७४ ॥ एके चान्ये च बहवो मान्या ज्ञेया नृपस्य तु । वेशेषमेषां वक्ष्यामि लक्षणेन निबोधत ॥ २४.७५ ॥ बलवान् बुद्धिसंपन्नः सत्यवादी जितेन्द्रियः । दक्षः प्रगल्भो धृतिमान् विक्रान्तो मतिमाञ्छुचिः ॥ २४.७६ ॥ दीर्घदर्शी महोत्साहः कृतज्ञः प्रियवाङ्मृदुः । लोकपालव्रतधरः कर्ममार्गविशारदः ॥ २४.७७ ॥ उत्थितश्चाप्रमत्तश्च वृद्धसेव्यर्थशास्त्रवित् । परभावेङ्गिताभिज्ञः शूरो रक्षासमन्वितः ॥ २४.७८ ॥ ऊहापोहविचारी च नानाशिल्पप्रयोजकः । नीतिशास्त्रार्थकुशलस्तथा चैवानुरागवान् ॥ २४.७९ ॥ धर्मज्ञोऽव्यसनी चैव गुणैरेतेर्भवेन्नृपः । कुलीना बुद्धिसंपन्ना नानाशास्त्रविपश्चिताः ॥ २४.८० ॥ स्निग्धा परेरहार्यश्च न प्रमत्ताश्च देशजाः । अलुब्धाश्च विनीताश्च शुचयो धार्मिकास्तथा ॥ २४.८१ ॥ पुरोधो मन्त्रिणस्त्वेभिर्गुणैर्युक्ता भवन्ति हि । बुद्धिमान्नीतिसंपन्नस्त्यक्तालस्यः प्रियंवदः ॥ २४.८२ ॥ पररन्ध्रविधिज्ञश्च यात्राकालविशेषवित् । अर्थशास्त्रार्थकुशलो ह्यनुरक्तः कुलोद्भवः ॥ २४.८३ ॥ देशवित्कालविच्चैव कर्तव्यः क्षितिपैः सदा । व्यवहारार्थतत्त्वज्ञा बुद्धिमन्तो बहुश्रुताः ॥ २४.८४ ॥ मध्यस्था धार्मिका धीराः कार्याकार्यविवेकिनः । क्षान्ता दान्ता जितक्रोधा सर्वत्र समदर्शिनः ॥ २४.८५ ॥ ईदृशः प्राड्विवाकास्तु स्थाप्या धर्मासने द्विजाः । उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या जितश्रमाः ॥ २४.८६ ॥ स्निग्धा शान्ता विनीताश्च मध्यस्था निपुणास्तथा । नयज्ञा विनयज्ञाश्च ऊहापोहविचक्षणाः ॥ २४.८७ ॥ सर्वशात्रार्थसंपन्नाः कुमाराधिकृतास्तथा । बृहस्पतिमतादेषां गुणांश्चाभिकांक्षयेत् ॥ २४.८८ ॥ विज्ञेयं चोपहार्यं च सभ्यानां च विकल्पनम् । इत्येष वो मया प्रोक्तः प्राड्विवाकनिर्णयः ॥ २४.८९ ॥ अत ऊर्ध्वं प्रवक्ष्यामि चित्राभिनयनं पुनः । इति भारतीये नाट्यशास्रे पुंस्त्र्युपचारो नामाध्यायश्चतुर्विंशः _____________________________________________________________ पञ्चविंशोऽध्यायः अङ्गाभिनयस्यैव यो विशेषः क्वचित्क्वचित् । अनुक्त उच्यते चित्रः चित्राभिनयस्स्मृतः ॥ २५.१ ॥ उत्तानौ तु करौ कृत्वा स्वस्तिकौ पार्श्वसंस्थितौ । उद्वाहितेन शिरसा तथा चोर्ध्वनिरीक्षणात् ॥ २५.२ ॥ प्रभातं गगनं रात्रिः प्रदोषं दिवसं तथा । ऋतून् घनान् वनान्तांश्च विस्तीर्णांश्च जलाशयान् ॥ २५.३ ॥ दिशो ग्रहान् सनक्षत्रान् किञ्चित्स्वस्थं च यद्भवेत् । तस्य त्वभिनयः कार्यो नानादृष्टिसमन्वितः ॥ २५.४ ॥ एभिरेव करैर्भूयस्तेनैव शिरसा पुनः । अधो निरीक्षणेनाथ भूमिस्थान् संप्रदर्शयेत् ॥ २५.५ ॥ स्पर्शस्य ग्रहणेनैव तथोल्लुकसनेन च । चन्द्रज्योस्त्नां सुखं वायुं रसं गन्धं च निर्दिशेत् ॥ २५.६ ॥ वस्त्रावकुण्ठनात्सूर्यं रजोधूमानिलांस्तथा । भूमितापमथोष्णं च कुर्याच्छायाभिलाषतः ॥ २५.७ ॥ ऊर्ध्वाकेकरदृष्टिस्तु मध्याह्ने सूर्यमादिशेत् । उदयास्तगतं चैव विस्मयार्थैः प्रदर्शयेत् ॥ २५.८ ॥ यानि सौम्यार्थयुक्तानि सुस्वभावकृतानि च । गात्रस्पर्शैस्सरोमाञ्चैस्तेषामभिनयो भवेत् ॥ २५.९ ॥ यानि स्युस्तीक्ष्णरूपाणि तानि चाभिनयेत्सुधीः । असंस्पर्शैस्तथोद्वेगैस्तथा मुखविकुण्ठनैः ॥ २५.१० ॥ गम्भीरोदातसंयुक्तानर्थानभिनयेद्बुधः । साटोपैश्च सगर्वैश्च गात्रैः सौष्ठवसंयुतैः ॥ २५.११ ॥ यज्ञोपवीतदेशस्थमरालं हासमादिशेत् । स्वस्तिकौ विच्युतौ हारस्रग्दामार्थान्निदर्शयेत् ॥ २५.१२ ॥ भ्रमणेन प्रदर्शिन्या दृष्टेः परिगमेन च । अलपद्मकपीडायाः सर्वार्थग्रहणं भवेत् ॥ २५.१३ ॥ श्रव्यं श्रवणयोगेन दृश्यं दृष्टिविलोकनैः । आत्मस्थं परसंस्थं वा मध्यस्थं वा विनिर्दिशेत् ॥ २५.१४ ॥ विद्युदुल्काघनरवाविष्फुलिंगार्चिषस्तथा । त्रस्तांगाक्षिनिमेषैश्च तेऽभिनेयाः प्रयोक्तृभिः ॥ २५.१५ ॥ उद्वेष्टितकरावृत्तौ करौ कृत्वा नतं शिरः । असंस्पर्शे तथानिष्टे जिह्मदृष्टेन कारयेत् ॥ २५.१६ ॥ वायुमुष्णं तमस्तेजो मुखप्रच्छादनेन च । रेणुतोयपतंगांश्च भ्रमरांश्च निवारयेत् ॥ २५.१७ ॥ कृत्वा स्वस्तिकसंस्थानौ पद्मकोशावधोमुखौ । सिअंहर्क्षवानरव्याघ्रश्वापदांश्च निरूपयेत् ॥ २५.१८ ॥ स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने । खटकस्वस्थिकौ चापि प्रतोदग्रहणे स्मृतौ ॥ २५.१९ ॥ एकं द्वि त्रीणि चत्वारि पञ्च षट्सप्त चाष्टधा । नव वा दश वापि स्युर्गणनांगुलिभिर्भवेत् ॥ २५.२० ॥ दशाख्याश्च शताख्याश्च सहस्राख्यास्तथैव च । पताकाभ्यां तु हस्ताभ्यां प्रयोज्यास्ताः प्रयोक्तृभिः ॥ २५.२१ ॥ दशाख्यगणनायास्तु परतो या भवेदिह । वाक्यार्थेनैव साध्यासौ परोक्षाभिनयेन च ॥ २५.२२ ॥ छत्रध्वजपताकाश्च निर्देश्या दण्डधारणात् । नानाप्रहरणं चाथ निर्देश्यं धारणाश्रयम् ॥ २५.२३ ॥ एकचित्तो ह्यधोदृष्टिः किञ्चिन्नतशिरास्तथा । सव्यहस्तश्च संदंशः स्मृते ध्याने वितर्किते ॥ २५.२४ ॥ उद्वाहितं शिरः कृत्वा हंसपक्षौ प्रदक्षिणौ । अपत्यरूपणे कार्यावुछ्रयौ च प्रयोक्तृभिः ॥ २५.२५ ॥ उद्वाहितं शिरः कृत्वा हंसवक्त्रं तथोर्ध्वगम् । प्रसादयच्च यं मानं दीर्घसत्वं च निर्दिशेत् ॥ २५.२६ ॥ अरालं च शिरस्थाने समुद्वाह्य तु वामकम् । गते निर्वृत्ते ध्वस्ते च श्रान्तवाक्ये च योजयेत् ॥ २५.२७ ॥ सर्वेन्द्रियस्वस्थतया प्रसन्नवदनस्तथा । विचित्रभूतलालोकैः शरदन्तु विनिर्दिशेत् ॥ २५.२८ ॥ गात्रसंकोचनाच्चापि सूर्याग्निपटुसेवनात् । हेमन्तस्त्वभिनेतव्यः पुरुषैर्मध्यमाधमैः ॥ २५.२९ ॥ शिरोदन्तोष्ठकम्पेन गात्रसंकोचनेन च । कूजितैश्च सशीत्कारैरधमश्शीतमादिशेत् ॥ २५.३० ॥ अवस्थान्तरमासाद्य कदाचित्तूत्तमरैरपि । शीताभिनयनं कूर्याद्देवाद्व्यसनसंभवम् ॥ २५.३१ ॥ ऋतुजानां तु पुष्पाणां गन्धघ्राणैस्तथैव च । रूक्षस्य वायोः स्पर्शाच्च शिशिरं रूपयेद्बुधः ॥ २५.३२ ॥ प्रमोदजननारंभैरुपभोगैः पृथग्विधिः । वसन्तस्त्वभिनेतव्यो नानापुष्पप्रदर्शनात् ॥ २५.३३ ॥ स्वेद प्रमार्जनैश्चैव भूमितापैः सवीजनैः । उष्णस्य वायोः स्पर्शेन ग्रीष्मं त्वभिनयेद्बुधः ॥ २५.३४ ॥ कदम्बनीपकुटपैः शाद्वलैः सेन्द्रगोपकैः । मेघवातैः सुखस्पर्शैः प्रावृट्कालं प्रदर्शयेत् ॥ २५.३५ ॥ मेघौघनादैर्गम्भीरैर्धाराप्रपतनैस्तदा । विद्युन्निर्घातघोषैश्च वर्षारात्रं समादिशेत् ॥ २५.३६ ॥ यद्यस्य चिह्नं वेषो वा कर्म वा रूपमेव वा । निर्देश्यः स ऋतुस्तेन इष्टानिष्टार्थदर्शनात् ॥ २५.३७ ॥ एतानृतूनर्थवशाद्दर्शयेद्धि रसानुगान् । सुखिनस्तु सुखोपेतान् सुःखार्थान् दुःखसंयुतान् ॥ २५.३८ ॥ यो येन भावेनाविष्टः सुखदेनेतरेअन वा । स तदाहितसंकारः सर्वं पश्यति तन्मयम् ॥ २५.३९ ॥ भावाभिनयनं कुर्याद्विभावानां निदर्शनैः । तथैव चानुभावानां भावसिद्धिः प्रवर्तिता ॥ २५.४० ॥ विभावेनाहृतं कार्यमनुभावेन नीयते । आत्मानुभवनं भावो विभावः परदर्शनम् ॥ २५.४१ ॥ गुरुर्मित्रं सखा स्निग्धः संबन्धी बन्धुरेव वा । आवेद्यते हि यः प्राप्तः स विभाव इति स्मृतः ॥ २५.४२ ॥ यत्त्वस्य संभ्रमोत्थानैरर्घ्यपाद्यासनादिभिः । पूजनं क्रियते भक्त्या सोऽनुभावः प्रकीर्तितः ॥ २५.४३ ॥ एवमन्येष्वपि ज्ञेयो नानाकार्यप्रदर्शनात् । विभावो वापि भावो वा विज्ञेयोऽर्थवशाद्बुधैः ॥ २५.४४ ॥ यस्त्वपि प्रतिसंदेशो दूतस्येह प्रदीयते । सोऽनुभाव इति ज्ञेयः प्रतिसन्देशदर्शितः ॥ २५.४५ ॥ एवं भावो विभावो वाप्यनुभावश्च कीर्तितः । पुरुषैरभिनेयः स्यात्प्रमदाभिरथापि वा ॥ २५.४६ ॥ स्वभावाभिनये स्थानं पुंसां कार्यं तु वैष्णवम् । आयतं वावहित्थं वा स्त्रीणां कार्यं स्वभावतः ॥ २५.४७ ॥ प्रयोजनवशाच्चैव शेषाण्यपि भवन्ति हि । नानाभवाभिनयनैः प्रयोगैश्च पृथग्विधैः ॥ २५.४८ ॥ धैर्यलीलाङ्गसंपन्नं पुरुषाणां विचेष्टितम् । मृदुलीलाङ्गहारैश्च स्त्रीणां कार्यं तु चेष्टितम् ॥ २५.४९ ॥ करपादाङ्गसञ्चारास्स्त्रीणां तु ललिताः स्मृताः । सुधीरश्चोद्धतश्चैव पुरुषाणां प्रयोक्तृभिः ॥ २५.५० ॥ यथा रसं यथा भावं स्त्रीणां भावप्रदर्शनम् । नराणां प्रमदानां च भावाभिनयनं पृथक् ॥ २५.५१ ॥ भावानुभावनं युक्तं व्याख्यास्याम्यनुपूर्वशः । आलिङ्गनेन गात्राणां सस्मितेन च चक्षुषा ॥ २५.५२ ॥ तथोल्लुकसानच्चापि हर्षं संदर्शयेन्नरः । क्षिप्रस!न्जातरोमाञ्चात्बाष्पेणावृतलोचना ॥ २५.५३ ॥ कुर्वीत नर्तकी हर्षं प्रीत्या वाक्यैश्च सस्मितैः । उद्वृत्तरक्तनेत्रश्च सन्दष्टाधर एव च ॥ २५.५४ ॥ निश्वासकंपितांगश्च क्रोधं चाभिनयेन्नरः । नेत्राभ्यां बाष्पपूर्णाभ्यां चिबुकौष्ठप्रकंपनात् ॥ २५.५५ ॥ शिरसः कंपनाच्चैव भ्रुकुटीकरणेन च । मौनेनाङ्गुलिभङ्गेन माल्याभरणवर्जनात् ॥ २५.५६ ॥ आयतकस्थानकक्षाया ईर्ष्या क्रोधे भवेत्स्त्रियाः । निश्वासोच्छ्वासबहुलैरधोमुखविचिन्तनैः ॥ २५.५७ ॥ आकाशवचनाच्चापि दुःखं पुंसां तु योजयेत् । रुदितैः श्वसितैश्चैव शिरोभिहननेन च ॥ २५.५८ ॥ भूमिपाताभिघातैश्च दुःखं स्त्रीषु प्रयोजयेत् । आनन्दजं चार्तिजं वा ईर्ष्यासंभूतमेव वा ॥ २५.५९ ॥ यत्पूर्वमुक्तं रुदितं तत्स्त्रीनीचेषु योजयेत् । संभ्रमावेगचेष्टाभिश्शस्त्रसंपातनेन च ॥ २५.६० ॥ पुरुषाणां भयं कार्यं धैर्यावेगबलादिभिः । चलतारकनेत्रत्वाद्गात्रैः स्फुरितकम्पितैः ॥ २५.६१ ॥ सन्त्रस्तहृदयत्वाच्च पार्श्वाभ्यामवलोकनैः । भर्तृरन्वेषणाच्चैवमुच्चैराक्रन्दनादपि ॥ २५.६२ ॥ प्रियस्यालिंगनाच्चैव भयं कार्यं भवेत्स्त्रियाः । मदा येऽभिहिताः पूर्वं ते स्त्रीनीचेषु योजयेत् ॥ २५.६३ ॥ मृदुभिः स्खलितैर्नित्यमाकाशस्यावलंबनात् । नेत्रावघूर्णनैश्चैव सालस्यैः कथितैस्तथा ॥ २५.६४ ॥ गात्राणां कंपनैश्चैव मदः कार्यो भवेत्स्त्रियाः । अनेन विधिना कार्यः प्रयोगाः कारणोत्थिताः ॥ २५.६५ ॥ पौरुषः स्त्रीकृतो वापि भावा ह्यभिनयं प्रति । सर्वे सललिता भावास्स्त्रीभिः कार्याः प्रयत्नतः ॥ २५.६६ ॥ धैर्यमाधुर्यसंपन्ना भावाः कार्यास्तु पौरुषाः । त्रिपताकाङ्गुलीभ्यां तु वलिताभ्यां प्रयोजयेत् ॥ २५.६७ ॥ शुकाश्च सारिकाश्चैव सूक्ष्मा ये चापि पक्षिणः । शिखिसारसहंसाद्याः स्थूला येऽपि स्वभावतः ॥ २५.६८ ॥ रेचकैरङ्गहारैश्च तेषामभिनयो भवेत् । खरोष्ट्राश्वतरासिंहव्याघ्रगोमहिषादय ॥ २५.६९ ॥ गतिप्रचरैरङ्गैश्च तेऽभिनेयाः प्रयोक्तृभिः । भूताः पिशाचा यक्षाश्च दानवाः सहराक्षसैः ॥ २५.७० ॥ अङ्गहारैरविनिर्देश्या नामसंकीर्तनादपि । अङ्गहारैर्विनिर्देश्या अप्रत्यक्षा भवन्ति ये ॥ २५.७१ ॥ प्रत्यक्षास्त्वभिनेतव्या भयोद्वेगैः सविस्मयैः । देवाश्च चिह्नैश्च प्रणामकरणैर्भावैश्च विचेष्टितैः ॥ २५.७२ ॥ अभिनेयो ह्यर्थवशादप्रत्यक्षाः प्रयोगज्ञैः । सव्योत्थितेन हस्तेन ह्यरालेन शिरः स्पृशेत् ॥ २५.७३ ॥ नरेऽह्यभिवादनं ह्येतदप्रत्यक्षे विधीयते । खटकावर्धमानेन कपोताख्येन वा पुनः ॥ २५.७४ ॥ दैवतानि गुरूंश्चैव प्रमदाश्चाभिवादयेत् । दिवौकसश्च ये पूज्याः प्रत्यक्षाश्च भवन्ति ये ॥ २५.७५ ॥ तान् प्रमाणैः प्रभावैश्च गंभीरार्थैश्च योजयेत् । महाजनं सखीवर्गं विटधूर्तजनं तथा ॥ २५.७६ ॥ परिमण्डलसंस्थेन हस्तेनाभिनयेनन्नरः । पर्वतान् प्रांशुयोगेन वृक्षांश्चैव समुच्छ्रितान् ॥ २५.७७ ॥ प्रसारिताभ्यां बाहुभ्यामुत्क्षिप्ताभ्यां प्रयोजयेत् । समूहसागरं सेना बहुविस्तीर्णमेव च ॥ २५.७८ ॥ पताकाभ्यां तु हस्ताभ्यामुत्क्षिप्ताभ्यां प्रदर्शयेत् । शौर्यं धैर्यं च गर्वं च दर्पमौदार्यमुच्छ्रयम् ॥ २५.७९ ॥ ललाटदेशस्थानेन त्वरालेनाभिदर्शयेत् । वक्षोदेशादपाविद्धौ करौ तु मृगशीर्षकौ ॥ २५.८० ॥ विस्तीर्णप्रद्रुतोत्क्षेपौ योज्यौ यस्यादपावृतम् । अधोमुखोत्तानतलौ हस्तौ किञ्चित्प्रसारितौ ॥ २५.८१ ॥ कृत्वा त्वभिनयेद्वेलां बिलद्वारं गृहं गुहान् । कामं शापग्रहग्रस्तान् ज्वरोपहतचेतसः ॥ २५.८२ ॥ एतेषां चेष्टितं कुर्यादङ्गाद्यैः सदृशैर्बुधैः । दोलाभिनयनं कुर्याद्दोलायास्तु विलोकनैः ॥ २५.८३ ॥ संभोक्षेण च गात्राणां रज्वश्वाग्रहणेन च । यदा चाङ्गवती डोला प्रत्यक्षा पुस्तजा भवेत् ॥ २५.८४ ॥ आसनेषु प्रविष्टानां कर्तव्यं तत्र डोलनम् । आकाशवचनानीह वक्ष्याम्यात्मगतानि च ॥ २५.८५ ॥ अपवारितकं चैव जनान्तिकमथापि च । दूरस्थाभाषणं यत्स्यादशरीरनिवेदनम् ॥ २५.८६ ॥ परोक्षान्तरितं वाक्यमाकाशवचनं तु तत् । तत्रोत्तरकृतैर्वाक्यैः संलापं संप्रयोजयेत् ॥ २५.८७ ॥ नानाकारणसंयुक्तैः काव्यभावसमुत्थितैः । हृदयस्य वचो यत्तू तदात्मगतमीष्यते ॥ २५.८८ ॥ सवितर्कं च तद्योज्यं प्रायशो नाटकादिषु । निगूढभावसंयुक्तमपवारितकं स्मृतम् ॥ २५.८९ ॥ कार्यवशादश्रवणं पार्श्वगतैर्यज्जनान्तिकं तत्स्यात् । हृदयस्थं सविकल्पं भावस्थं चात्मगतमेव ॥ २५.९० ॥ इति गूढार्थयुक्तानि वचनानीह नाटके । जनान्तिकानि कर्णे तु तानि योज्यानि योक्तृभिः ॥ २५.९१ ॥ पूर्ववृत्तं तु यत्कार्यं भूयः कथ्यं तु कारणात् । कर्णप्रदेशे तद्वाच्यं मागात्तत्पुनरुक्तताम् ॥ २५.८२ ॥ अव्यभिचारेण पठेदाकाशजनान्तिकात्मगतपाठ्यम् । प्रत्यक्षपरोक्षकृतानामात्मसमुत्थान् परकृतांश्च ॥ २५.९३ ॥ हस्तमन्तरितं कृत्वा त्रिपताकं प्रयोक्तृभिः । जनान्तिकं प्रयोक्तव्यमपवारितकं तथा ॥ २५.९४ ॥ स्वप्नायितवाक्यार्थैस्त्वभिनेयो न खलु हस्तसंचारैः । सुप्ताभिहितैरेव तु वाक्यार्थैः सोऽभिनेयः स्यात् ॥ २५.९५ ॥ मन्दस्वरसञ्चारैर्व्यक्ताव्यक्तं पुनरुक्तवचनार्थम् । पूर्वानुस्मरणकृतं कार्यं स्वप्नाञ्चिते पाठ्यम् ॥ २५.९६ ॥ प्रशिथिलगुरुकरुणाक्षरघण्टानुस्वरितवाक्यगद्गदजैः । हिक्काश्वसोपेतां काकुं कुर्यान्मरणकाले ॥ २५.९७ ॥ हिक्काश्वासोपेतां मूर्च्छोपगमे मरणवत्कथयेत् । अतिमत्तेष्वपि कार्यं तद्वत्स्वप्नायिते यथा पाठ्यम् ॥ २५.९८ ॥ वृद्धानां योजयेत्पाठ्यं गद्गदस्खलिताक्षरम् । असमाप्ताक्षरं चैव बालानां तु कलस्वनम् ॥ २५.९९ ॥ नानाभावोपगतं मरणाभिनये बहुकीर्तितं तु । विक्षिप्तहस्तपादैर्निभृतैः सन्नैस्तथा कार्यम् ॥ २५.१०० ॥ व्याधिप्लुते च मरणं निषण्णगात्रैस्तु संप्रयोक्तव्यम् । हिक्काश्वासोपेतं तथा पराधीनगात्रसंचारम् ॥ २५.१०१ ॥ विषपीतेऽपि च मरणं कार्यं विक्षिप्तगात्रकरचरणम् । विषवेगसंप्रयुक्तं विस्फुरितांगक्रियोपेतम् ॥ २५.१०२ ॥ प्रथेमे वेगे कार्श्यं त्वभिनेये वेपथुर्द्वितीये तु । दाहस्तथा तृतीये विलल्लिका स्याच्चतुर्थे तु ॥ २५.१०३ ॥ फेनस्तु पञ्चमस्थे तु ग्रीवा षष्ठे तु भज्यते । जडता सप्तमे तु स्यान्मरणं त्वष्टमे भवेत् ॥ २५.१०४ ॥ तत्र प्रथमवेगे तु क्षामवक्रकपोलता । कृशत्वेऽभिनयः कार्यो वाक्यानामल्पभाषणम् ॥ २५.१०५ ॥ सर्वाङ्गवेपथुं च कण्डूयनं तथाङ्गानाम् । विक्षिप्तहस्तगात्रं दाहं चैवाप्यभिनयेत्तु ॥ २५.१०६ ॥ उद्वृत्तनिमेषत्वादुद्गारच्छर्दनैस्तथाक्षेपैः । अव्यक्ताक्षरकथनैः विलल्लिकामभिनयेदेवम् ॥ २५.१०७ ॥ उद्गारवमनयोगैः शिरसश्च विलोलनैरनेकविधैः । फेनस्त्वभिनेतव्यो निःसंज्ञतया निमेषैश्च ॥ २५.१०८ ॥ अंसकपोलस्पर्शः शिरसोऽथ विनामनं शिरोऽपाङ्गः । सर्वेन्द्रिअयसंमोहाज्जडतामेवं त्वभिनयेत्तु ॥ २५.१०९ ॥ संमीलितनेत्रत्वात्व्याधिविवृद्धौ भुजङ्गदशनाद्वा । एवं हि नाट्यधर्मे मरणानि बुधैः प्रयोज्यानि ॥ २५.११० ॥ संभ्रमेष्वथ रोषेषु शोकावेशकृतेषु च । यानि वाक्यानि युज्यन्ते पुनरुक्तं न तेष्विह ॥ २५.१११ ॥ साध्वहो मां च हेहेति किं त्वं मामावदेति च । एवंविधानि कार्याणि द्वित्रिसंख्यानि कारयेत् ॥ २५.११२ ॥ प्रत्यङ्गहीनं यत्काव्यं विकृतं च प्रयुज्यते । न लक्षणकृतस्तत्र कार्यस्त्वभिनयो बुधैः ॥ २५.११३ ॥ भावो यत्रोत्तमानां तु न तं मध्येषु योजयेत् । यो भावश्चैव मध्यानां न ते नीचेषु योजयेत् ॥ २५.११४ ॥ पृथक्पृथग्भावरसैरात्मचेष्टासमुत्थितैः । ज्येष्ठमध्यमनीचेषु नाट्यं रागं हि गच्छति ॥ २५.११५ ॥ एतेऽभिनयविशेषाः कर्तव्याः सत्त्वभावसंयुक्ताः । अन्ये तु लौकिका ये तु ते सर्वे लोकवत्कार्याः ॥ २५.११६ ॥ नानाविधैर्यथा पुष्पैर्मालां ग्रथ्नाति माल्यकृत् । अंगोपांगै रसैर्भावैस्तथा नाट्यं प्रयोजयेत् ॥ २५.११७ ॥ या यस्य लीला नियता गतिश्च रङ्गप्रविष्टस्य निधानयुक्तः । तामेव कुर्यादविमुक्तसत्त्वो यावन्नरङ्गात्प्रतिनिर्वृतः स्यात् ॥ २५.११८ ॥ एवमेते मया प्रोक्ता नाट्ये चाभिनयाः क्रमात् । अन्ये तु लौकिका ये ते लोकाद्ग्राह्याः सदा बुधैः ॥ २५.११९ ॥ लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् । वेदाध्यात्मपदार्थेषु प्रायो नाट्यं प्रतिष्ठितम् ॥ २५.१२० ॥ वेदाध्यात्मोपपन्नं तु शब्दच्छन्दस्समन्वितम् । लोकसिद्धं भवेत्सिद्धं नाट्यं लोकात्मकं तथा ॥ २५.१२१ ॥ न च शक्यं हि लोकस्य स्थावरस्य चरस्य च । शास्त्रेण निर्णयं कर्तुं भावचेष्टाविधिं प्रति ॥ २५.१२२ ॥ नानाशीलाः प्रकृतयः शीले नाट्यं प्रतिष्ठिअतम् । तस्माल्लोकप्रमाणं हि विज्ञेयं नाट्ययोक्तृभिः ॥ २५.१२३ ॥ एतान् विधींश्चाभिनयस्य सम्यग्विज्ञाय रङ्गे मनुजः प्रयुङ्क्ते । स नाट्यतत्त्वाभिनयप्रयोक्ता संमानमग्र्यं लभते हि लोके ॥ २५.१२४ ॥ एवमेते ह्यभिनया वाङ्नेपथ्याङ्गसंभवाः । प्रयोगज्ञेन कर्तव्या नाटके सिद्धिमिच्छता ॥ २५.१२५ ॥ _____________________________________________________________ षड्विंशोऽध्यायः अनुरूपा विरूपा च तथा रूपानुरूपिणी । त्रिप्रकारेह पात्राणां प्रकृतिश्च विभाविता ॥ २६.१ ॥ नानावस्थाक्रियोपेता भूमिका प्रकृतिस्तथा । भृशमुद्योतयेन्नाट्यं स्वभावकरणाश्रयम् ॥ २६.२ ॥ बहुबाहूबहुमुखास्तथा च विकृताननाः । पशुश्वापदवक्त्राश्च खरोष्ट्राश्च गजाननाः ॥ २६.३ ॥ एते चान्ये च बहवो नानारूपा भवन्ति ये । आचार्येण तु ते कार्या मृत्काष्ठजतुचर्मभिः ॥ २६.४ ॥ स्वाभाविकेन रूपेन प्रविशेद्रङ्गमण्डलम् । आत्मरूपमवच्छाद्य वर्णकैर्भूषणैरपि ॥ २६.५ ॥ यादृशं यस्य यद्रूपं प्रकृत्या तत्र तादृशम् । वयोवेषानुरूपेण प्रयोज्यं नाट्यकर्मणि ॥ २६.६ ॥ यथा जीवत्स्वभावं हि परित्यज्यान्यदेहिकम् । परभावं प्रकुरुते परभावं समाश्रितः ॥ २६.७ ॥ एवं बुधः परंभावं सोऽस्मीति मनसा स्मरन् । येषां वागङ्गलीलाभिश्चेष्टाभिस्तु समाचरेत् ॥ २६.८ ॥ सुकुमारप्रयोगो यो राज्ञामामोदसंभवः । शृङ्गाररसमासाद्य तन्नारीषु प्रयोजयेत् ॥ २६.९ ॥ युद्धोद्धताविद्धकृता संरंभारभटाश्च ये । न ते स्त्रीभिः प्रयोक्तव्याः योक्तव्याः पुरुषेषु ते ॥ २६.१० ॥ अनुद्भटमसंभ्रान्तमनाविद्धाङ्गचेष्टितम् । लयतालकलापातप्रमाणनियताक्षरम् ॥ २६.११ ॥ सुविभक्तपदालापमनिष्ठुरमकाहलम् । ईदृशं यद्भवेन्नाट्यं नारीभिश्च प्रयोजयेत् ॥ २६.१२ ॥ एवं कार्यं प्रयोगज्ञैर्भूमिकाविनिवेशनम् । स्त्रियो हि स्त्रीगतो भावः पौरुषः पुरुषस्यच ॥ २६.१३ ॥ यथा वयो यथावस्थमनुरूपेति सा स्मृता । पुरुषः स्त्रीकृतं भावं रूपात्प्रकुरुते तु यः ॥ २६.१४ ॥ रूपानुरूपा सा ज्ञेया प्रयोगे प्रकृतिर्बुधः । छन्दतः पौरुषीं भूमिं स्त्री कुर्यादनुरूपतः ॥ २६.१५ ॥ न परस्परचेष्टासु कार्यौ स्थविरबालिशौ । पाठ्यप्रयोगे पुरुषाः प्रयोक्तव्या हि संस्कृते ॥ २६.१६ ॥ स्त्रीणां स्वभावमधुराः कण्ठाः पुंसां तु बलवन्तः । यद्यपि पुरुषो विद्यात्गीतविधानं च लक्षणोपेतम् ॥ २६.१७ ॥ माधुर्यगुणविहीनं शोभां जनयेन्न तद्गीतम् । यत्र स्त्रीणां पाठ्याद्गुणैर्नराणां च कण्ठमाधुर्यम् ॥ २६.१८ ॥ प्रकृतिविपर्ययजनितौ विज्ञेयौ तावलङ्कारौ । प्रायेण देवपार्थिवसेनापतिमुख्यपुरुषभवनेषु ॥ २६.१९ ॥ स्त्रीजनकृताः प्रयोगा भवन्ति पुरुषस्वभावेन । रम्भोर्वशीप्रभृतिषु स्वर्गे नाट्यं प्रतिष्ठितम् ॥ २६.२० ॥ तथैव मानुषे लोके राज्ञामन्तःपुरेष्विह । उपदेष्टव्यमाचार्यैः प्रयत्नेनाङ्गनाजने ॥ २६.२१ ॥ न स्वयं भूमिकाभ्यासो बुधैः कार्यस्तु नाटके । स्त्रीषु योज्यः प्रयत्नेन प्रयोगः पुरुषाश्रयः ॥ २६.२२ ॥ यस्मात्स्वभावोपगतो विलासः स्त्रीषु विद्यते । तस्मात्स्वभावमधुरमङ्गं सुलभसौष्ठवम् ॥ २६.२३ ॥ ललितं सौष्ठवं यच्च सोऽलङ्कारः परो मतः । प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः ॥ २६.२४ ॥ सुकुमारस्तथाविद्धो नानाभावरसाश्रयः । नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च ॥ २६.२५ ॥ ज्ञेयानि सुकुमाराणि मानुषैराश्रितानि तु । सुकुमारप्रयोगोऽयं राज्ञामामोदकारकः ॥ २६.२६ ॥ शृङ्गारसमासाद्य स्त्रीणां तत्तु प्रयोजयेत् । युद्धोद्धताविद्धकृतासंरंभारभटाश्च ये ॥ २६.२७ ॥ न ते स्त्रीणां प्रकर्तव्याः कर्तव्याः पुरुषैर्हि ते । यथाविद्धाङ्गहारं तु भेद्यभेद्याहवात्मकम् ॥ २६.२८ ॥ मायेन्द्रजालबहुलं पुस्तनैपथ्यदीपितम् । पुरुषप्रायसंचारमल्पस्त्रीकमथोद्धतम् ॥ २६.२९ ॥ सात्वत्यारभटीयुक्तं नाट्यमाविद्धसंज्ञितम् । डिमः समवकारश्च व्यायोगेहामृगौ तथा ॥ २६.३० ॥ एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः । एषां प्रयोगः कर्तव्यो देवदानवराक्षसैः ॥ २६.३१ ॥ उद्धता ये च पुरुषाः शौर्यवीर्यसमन्विताः । योग्यः स च प्रयत्नः कर्तव्यः सततप्रमादेन ॥ २६.३२ ॥ न हि योग्यया विना भवति च भावरससौष्ठवं किंचित् । संगीतपरिक्लेशो नित्यं प्रमदाजनस्य गुण एव ॥ २६.३३ ॥ यन्मधुरकर्कशत्वं लभते नाट्यप्रयोगेण । प्रमदाः नाट्यविलासैर्लभते यत्कुसुमैर्विचित्रलावण्यम् । कामोपचारकुशला भवन्ति च काम्या विशेषेण ॥ २६.३४ ॥ गीतं वृत्तं तथा वाद्यं प्रस्तारगमनक्रिया । शिष्यनिष्पादनं चैव षडाचार्यगुणाः स्मृताः ॥ २६.३५ ॥ एतानि पञ्च यो वेत्ति स आचार्यः प्रकीर्तितः । ऊहापोहौ मतिश्चैव स्मृतिर्मेधा तथैव च ॥ २६.३६ ॥ मेधास्मृतिर्गुणश्लाघारागः संघर्ष एव च । उत्साहश्च षडेवैतान् शिष्यस्यापि गुणान् विदुः ॥ २६.३७ ॥ एवं कार्यं प्रयोगज्ञैर्नानाभूमिविकल्पनम् । अत ऊर्ध्वं प्रवक्ष्यामि सिद्धीनामपि लक्षणम् ॥ २६.३८ ॥ इति भारतीये नाट्यशास्त्रे विकृतिविकल्पो नाम षड्विंशोऽध्यायः _____________________________________________________________ अथ सप्तविंशोऽध्यायः सिद्धीनां तु प्रवक्ष्यामि लक्षणं नाटकाश्रयम् । यस्मात्प्रयोगः सर्वोऽयं सिद्ध्यर्थंं संप्रदर्शितः ॥ २७.१ ॥ सिद्धिस्तु द्विविधा ज्ञेया वाङ्मनोङ्गसमुद्भवा । दैवी च मानुषी चैव नानाभावसमुत्थिता ॥ २७.२ ॥ दशाङ्गा मानुषी सिद्धीर्दैवी तु द्विविधा स्मृता । नानासत्त्वाश्रयकृता वाङ्नैपथ्यशरीरजा ॥ २७.३ ॥ स्मितापहासिनी हासा साध्वहो कष्टमेव च । प्रबद्धनादा च तथा सिद्धिर्ज्ञेयाथ वाङ्मयी ॥ २७.४ ॥ पुलकैश्च सरोमाञ्चैरभ्युत्थानैस्तथैव च । चेलदानाङ्गुलिक्षेपैः शारीरी सिद्धिरिष्यते ॥ २७.५ ॥ किञ्चिच्छिष्टो रसो हास्यो नृत्यद्भिर्यत्र युज्यते । स्मितेन स प्रतिग्राह्यः प्रेक्षकैर्नित्यमेव च ॥ २७.६ ॥ किञ्चिदस्पष्टहास्यं यत्तथा वचनमेव च । अर्थहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव हि ॥ २७.७ ॥ विदूषकोच्छेदकृतं भवेच्छिल्पकृतं च यत् । अतिहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव तु ॥ २७.८ ॥ अहोकारस्तथा कार्यो नृणां प्रकृतिसंभवः । यद्धर्मपदसंयुक्तं यथातिशयसंभवम् ॥ २७.९ ॥ तत्र साध्विति यद्वाक्यं प्रयोक्तव्यं हि साधकैः । विस्मयाविष्टभावेषु प्रहर्षार्थेषु चैव हि ॥ २७.१० ॥ करुणेऽपि प्रयोक्तव्यं कष्टं शास्त्रकृतेन तु । प्रबद्धनादा च तथा विस्मयार्थेषु नित्यशः ॥ २७.११ ॥ साधिक्षेपेषु वाक्येषु प्रस्पन्दिततनूरुहैः । कुतूहलोत्तरावेधैर्बहुमानेन साधयेत् ॥ २७.१२ ॥ दीप्तप्रदेशं यत्कार्यं छेद्यभेद्याहवात्मकम् । सविद्रवमथोत्फुल्लं तथा युद्धनियुद्धजम् ॥ २७.१३ ॥ प्रकम्पितांसशीर्षञ्च साश्रं सोत्थानमेव च । तत्प्रेक्षकैस्तु कुशलैस्साध्यमेवं विधानतः ॥ २७.१४ ॥ एवं साधयितव्यैषा तज्ज्ञैः सिद्धिस्तु मानुषी । दैविकीञ्च पुनः सिद्धिं संप्रवक्ष्यामि तत्त्वतः ॥ २७.१५ ॥ या भावातिशयोपेता सत्त्वयुक्ता तथैव च । सा प्रेक्षकैस्तु कर्तव्या दैवी सिद्धिः प्रयोगतः ॥ २७.१६ ॥ न शब्दो न यत्र न क्षोभो न चोत्पातनिदर्शनम् । संपूर्णता च रंगस्य दैवी सिद्धिस्तु सा स्मृता ॥ २७.१७ ॥ दैवी च मानुषी चैव सिद्धिरेषा मयोदिता । अत ऊर्ध्वं प्रवक्ष्यामि घातान्दैवसमुत्थितन् ॥ २७.१८ ॥ दैवात्मपरसमुत्था त्रिविधा घाता बुधैस्तु विज्ञेया । औत्पातिकश्चतुर्थः कदाचिदथ संभवत्येषु ॥ २७.१९ ॥ वाताग्निवर्षकुञ्जरभुजङ्गमण्डपनिपाताः । कीटव्यालपिपीलिकपशुप्रवेशनाश्च दैवककृता ॥ २७.२० ॥ घातनतः परमहं परयुक्तान् संप्रवक्ष्यामि । [वैवर्ण्यं चाचेष्टं विभ्रमितत्वं स्मृतिप्रमोहश्च ॥ २७.२१ ॥ अन्यवचनं च काव्यं तथांगदोषो विहस्तत्वम् । एते त्वात्मसमुत्था घाता ज्ञेया प्रयोगज्ञैः] ॥ २७.२२ ॥ मात्सर्याद्द्वेषाद्वा तत्पक्षत्वात्तथार्थभेदत्वात् । एते तु परसमुत्था ज्ञेया घाता बुधैर्नित्यम् ॥ २७.२३ ॥ अतिहसितरुदितविस्फोटितान्यथोत्कृष्टनालिकापाताः । गोमयलोष्टपिपीलिकाविक्षेपाश्चारिसंभूताः ॥ २७.२४ ॥ औत्पतिकाश्च घाता मत्तोन्मत्तप्रवेशलिङ्गकृतः । पुनरात्मसमुत्था ये घातांस्तांस्तान् प्रवक्ष्यामि ॥ २७.२५ ॥ वैलक्षण्यमचेष्टितविभूमिकत्वं स्मृतिप्रमोषश्च । अन्यवचनं च काव्यं तथार्तनादो विहस्तत्वम् ॥ २७.२६ ॥ अतिहसितरुदितविस्वरपिपीलिकाकीटपशुविरावाश्च । मुकुटाभरणनिपाता पुष्करजाः काव्यदोषाश्च ॥ २७.२७ ॥ अतिहसितरुदितहसितानि सिद्धैर्भावस्य दूषकाणि स्युः । कीटपिपीलिकपाता सिद्धिं सर्वात्मना घ्नान्त ॥ २७.२८ ॥ विवस्वरमजाततालं वर्णस्वरसंपदा च परिहीणम् । अज्ञातस्थानलयं स्वरगतमेवंविधं हन्यात् ॥ २७.२९ ॥ मुकुटाभरणनिपातः प्रबद्धनादश्च नाशनो भवति । पशुविशसनं तथ अ स्याद्बहुवचनघ्नं प्रयोगेषु ॥ २७.३० ॥ विषमं मानविहीनं विमार्जनं चाकुलप्रहारं च । अविभक्तग्रहमोक्षं पुष्करगतमीदृशं हन्ति ॥ २७.३१ ॥ पुनरुक्तो ह्यसमासो विभक्तिभेदो विसन्धयोऽपार्थः । त्रैलिङ्गजश्च दोषः प्रत्यक्षपरोक्षसंमोहाः ॥ २७.३२ ॥ छन्दोवृत्तत्यागो गुरुलाघवसङ्करो यतेर्भेदः । एतानि यथा स्थूलं घातस्थानानि काव्यस्य ॥ २७.३३ ॥ ज्ञेयौ तु काव्यजातौ द्वौ घातावप्रतिक्रियौ नित्यम् । प्रकृतिव्यसनसमुत्थः शेषोदकनालिकत्वम् ॥ २७.३४ ॥ अप्रतिभागं स्खलनं विस्वरमुच्चारणं च काव्यस्य । अस्थानभूषणत्वं पतनं मुकुटस्य विभ्रंशः ॥ २७.३५ ॥ वाजिस्यन्दनकुञ्जरखरोष्ट्रशिबिकाविमानयानानाम् । आरोहणावतरणेष्वनभिज्ञत्वं विहस्त्वम् ॥ २७.३६ ॥ प्रहरणकवचानामप्ययथाग्रहणं विधारणं चापि । अमुकुटभूषणयोगश्चिरप्रवेशोऽथवा रङ्गे ॥ २७.३७ ॥ एभिः स्थानविशेषैर्घाता लक्ष्यास्तु सूरिभिः कुशलैः । यूपाग्निचयनदर्भस्त्रग्भाण्डपरिग्रहान्मुक्त्वा ॥ २७.३८ ॥ सिद्ध्या मिश्रो घातस्सर्वगतश्चैकदेशजो वापि । नाट्यकुशलैः सलेख्या सिद्धिर्वा स्याद्विघातो वा ॥ २७.३९ ॥ नालेख्यो बहुदिनजः सर्वगतोऽव्यक्तलक्षणविशेषः । यस्त्वैकदिवसजातस्स प्रत्यवरोऽपि लेख्यस्स्यात् ॥ २७.४० ॥ जर्जरमोक्ष्यस्यान्ते सिद्धेर्मोक्षस्तु नालिकायास्तु । कर्तव्यस्त्विह सततं नाट्यज्ञैः प्राश्निकैर्विधिना ॥ २७.४१ ॥ दैन्ये दीनत्वमायान्ति ते नाट्ये प्रेक्षकाः स्मृताः । ये तुष्टौ तुष्टिमायान्ति शोके शोकं व्रजन्ति च ॥ २७.४२ ॥ योऽन्यस्य महे मूर्धो नांदीश्लोकं पठेद्धि देवस्य । स्ववशेन पूर्वरङ्गे सिद्धेर्घातः प्रयोगस्य ॥ २७.४३ ॥ यो देशभावरहितं भाषाकाव्यं प्रयोजयेद्बुद्ध्या । तस्याप्यभिलेख्यः स्याद्घातो देशः प्रयोगज्ञैः ॥ २७.४४ ॥ कः शक्तो नाट्यविधौ यथावदुपपादनं प्रयोगस्य । कर्तुं व्यग्रमना वा यथावदुक्तं परिज्ञातम् ॥ २७.४५ ॥ तस्माद्गम्भीरार्थाः शब्दा ये लोकवेदसंसिद्धाः । सर्वजनेन ग्राह्या योज्या नाटके विधिवत् ॥ २७.४६ ॥ न च किञ्चिद्गुणहीनं दोषैः परिवर्जितं न चाकिञ्चित् । तस्मान्नाट्यप्रकृतौ दोषा नाट्यार्थतो ग्राह्या ॥ २७.४७ ॥ न च नादरस्तु कार्यो नटेन वागङ्गसत्त्वनेपथ्ये । रसभावयोश्च गीतेष्वातोद्ये लोकयुक्त्यां च ॥ २७.४८ ॥ एवमेतत्तु विज्ञेयं सिद्धीनां लक्षणं बुधैः । अत ऊर्ध्वं प्रवक्ष्यामि प्राश्निकानां तु लक्षणम् ॥ २७.४९ ॥ चारित्राभिजनोपेताः शान्तवृत्ताः कृतश्रमाः । यशोधर्मपराश्चैव मध्यस्थवयसान्विताः ॥ २७.५० ॥ षडङ्गनाट्यकुशलाः प्रबुद्धाः शुचयः समाः । चतुरातोद्यकुशलाः वृत्तज्ञास्तत्त्वदर्शिनः ॥ २७.५१ ॥ देशभाषाविधानज्ञाः कलाशिल्पप्रयोजकाः । चतुर्थाभिनयोपेता रसभावविकल्पकाः ॥ २७.५२ ॥ शब्दच्छन्दोविधानज्ञा नानाशास्त्रविचक्षणाः । एवं विधास्तु कर्तव्याः प्राश्निका दशरूपके ॥ २७.५३ ॥ अव्यग्रैरिन्द्रियैः शुद्ध ऊहापोहविशारदः । त्यक्तदोषोनुअरागी च स नाट्ये प्रेक्षकः स्मृतः ॥ २७.५४ ॥ न चैवेते गुणाः सम्यक्सर्वस्मिन् प्रेक्षके स्मृताः । विज्ञेयस्याप्रमेयत्वात्संकीर्णानां च पार्षदि ॥ २७.५५ ॥ यद्यस्य शिल्पं नेपथ्यं कर्मचेष्टितमेव वा । तत्तथा तेन कार्यं तु स्वकर्मविषयं प्रति ॥ २७.५६ ॥ नानाशीलाः प्रकृतयः शीले नाट्यं विनिर्मितम् । उत्तमाधममध्यानां वृद्धबालिशयोषिताम् ॥ २७.५७ ॥ तुष्यन्ति तरुणाः कामे विदग्धाः समयात्विते । अर्थेष्वर्थपराश्चैव मोक्षे चाथ विरागिणः ॥ २७.५८ ॥ शूरास्तु वीररौद्रेषु नियुद्धेष्वाहवेषु च । धर्माख्याने पुराणेषु वृद्धास्तुष्यन्ति नित्यशः ॥ २७.५९ ॥ न शक्यमधमैर्ज्ञातुमुत्तमानां विचेष्टितम् । तत्त्वभावेषु सर्वेषु तुष्यन्ति सततं बुधाः ॥ २७.६० ॥ बाला मूर्खाः स्त्रियश्चैव हास्यनैपथ्ययोः सदा । यस्तुष्टो तुष्टिमायाति शोके शोकमुपैति च ॥ २७.६१ ॥ क्रुद्धः क्रोधे भये भीतः स श्रेष्ठः प्रेक्षकः स्मृतः । एवं भावानुकरणे यो यस्मिन् प्रविशेन्नरः ॥ २७.६२ ॥ स तत्र प्रेक्षको ज्ञेयो गुणैरेभिरलङ्कृतः । एवं हि प्रेक्षका ज्ञेयाः प्रयोगे दशरूपतः ॥ २७.६३ ॥ संघर्षे तु समुत्पन्ने प्राश्निकान् संनिबोधत । यज्ञविन्नर्तकश्चैव छन्दोविच्छब्दवित्तथा ॥ २७.६४ ॥ अस्त्रविच्चित्रकृद्वेश्या गन्धर्वो रजसेवकः । यज्ञविद्यज्ञयोगे तु नर्तकोऽभिनये स्मृतः ॥ २७.६५ ॥ छन्दोविद्वृत्तबन्धेषु शब्दवित्पाठ्यविस्तरे । इष्वस्त्रवित्सौष्ठवे तु नेपथ्ये चैव चित्रकृत् ॥ २७.६६ ॥ कामोपचारे वेश्या च गान्धर्वः स्वरकर्मणि । सेवकस्तूपचारे स्यादेते वै प्राश्निकाः स्मृताः ॥ २७.६७ ॥ एभिर्दृष्टान्तसंयुक्तैर्दोषा वाच्यास्तथा गुणाः । अशास्त्रज्ञा विवादेषु यथा प्रकृतिकर्मतः ॥ २७.६८ ॥ अथैते प्रश्निका ज्ञेयाः कथिता ये मयानघाः । शास्त्रज्ञानाद्यदा तु स्यात्संघर्षः शास्त्रसंश्रयः ॥ २७.६९ ॥ शास्त्रप्रामाणनिर्माणैर्व्यवहारो भवेत्तदा । भर्तृनियोगादन्योऽन्यविग्रात्स्पर्धयापि भरतानाम् ॥ २७.७० ॥ अर्थपताका हेतोस्संघर्षो नाम संभवति । तेषां कार्यं व्यवहारदर्शनं पक्षपातविरहेण ॥ २७.७१ ॥ कृत्वा पणं पताकां व्यवहारः स भवितव्यस्तु । सर्वैरनन्यमतिभिः सुखोपविष्टैश्च शुद्धभावैश्च ॥ २७.७२ ॥ यैर्लेखकगमकसहायास्सह सिद्धिभिर्घाताः । नात्यासनैर्नदूरसंस्थितैः प्रेक्षकैस्तु भवितव्यम् ॥ २७.७३ ॥ तेषामासनयोगो द्वादशहस्तस्थितः कार्यः । यानि विहितानि पूर्वं सिद्धिस्थानानि तानि लक्ष्याणि ॥ २७.७४ ॥ घाताश्च लक्षणीयाः प्रयोगतो नाट्ययोगे तु । दैवाद्घातसमुत्थाः परोत्थिता वा बुधैर्नवैर्लेख्याः ॥ २७.७५ ॥ घाता नाट्यसमुत्था ह्यात्मसमुत्थास्तु लेख्याः स्युः । घाता यस्य त्वल्पाः संख्याताः सिद्धयश्च बहुलाः स्युः ॥ २७.७६ ॥ विदितं कृत्वा राज्ञस्तस्मै देया पताका हि । सिध्यतिशयात्पताका समसिद्धौ पार्थिवाज्ञया देया ॥ २७.७७ ॥ अथ नरपतिः समः स्यादुभयोरपि सा तदा देया । एवं विधिज्ञैर्यष्टव्यो व्यवहारः समञ्जसाम् ॥ २७.७८ ॥ स्वस्थचित्तसुखासिनैः सुविशिष्टैर्गुणार्थिभिः । विमृश्य प्रेक्षकैर्ग्राह्यं सर्वरागपराङ्गमुखैः ॥ २७.७९ ॥ साधन दूषणाभासः प्रयोगसमयाश्रितैः । समत्वमङ्गमाधुर्यं पाठ्यं प्रकृतयो रसाः ॥ २७.८० ॥ वाद्यं गानं सनेपथ्यमेतज्ज्ञेयं प्रयत्नतः । गीतवादित्रतालेन कलान्तरकलासु च ॥ २७.८१ ॥ उअदङ्गं क्रियते नाट्यं समन्तात्सममुच्यते । अङ्गोपाङ्गसमायुक्तं गीतताललयान्वितम् ॥ २७.८२ ॥ गानवाद्यसमत्वं च तद्बुधैः सममुच्यते । सनिर्भुग्नमुरः कृत्वा चतुरश्रक्रुतौ करौ ॥ २७.८३ ॥ ग्रीवाञ्चिता तथा कर्या त्वङ्गमाधुर्यमेव च । पूर्व्रोक्तानीह शेषाणि यानि द्रव्याणि साधकैः ॥ २७.८४ ॥ वद्यादीनां पुनर्वुप्रा लक्षणं सन्निबोधत । वाद्यप्रभृतयो गानं वाद्यमाणानि निर्दिशेत् ॥ २७.८५ ॥ यानि स्थानानि सिद्धीनां तैः सिद्धिं तु प्रकाशयेत् । हर्षादङ्गसमुद्भूतां नानारससमुत्थिताम् ॥ २७.८६ ॥ वारकालास्तु विज्ञेया नाट्यज्ञैर्विविधाश्रयाः । दिवसैश्चैव रात्रिश्च तयोर्वारान्निबोधत ॥ २७.८७ ॥ पूर्वाह्णस्त्वथ मध्याह्नस्त्वपराह्णस्तथैव च । दिवा समुत्था विज्ञेया नाट्यवाराः प्रयोगतः ॥ २७.८८ ॥ प्रादोषिकार्धरात्रिश्च तथा प्राभातिकोऽपरः । नाट्यवारा भवन्त्येते रात्रावित्यनुपूर्वशः ॥ २७.८९ ॥ एतेषां अत्र यद्योज्यं नाट्यकार्यं रसाश्रयम् । तदहं संप्रवक्ष्यामि वारकालसमाश्रयम् ॥ २७.९० ॥ यच्छ्रोत्ररमणीयं स्याद्धर्मोत्थनकृतं च यत् । पूर्वाह्णे तत्प्रयोक्तव्यं शुद्धं वा विकृतं तथा ॥ २७.९१ ॥ सत्त्वोत्थानगुणैर्युक्तं वाद्यभूयिष्ठमेव च । पुष्कलं सत्त्वयुक्तं च अपराह्णे प्रयोजयेत् ॥ २७.९२ ॥ कैशिकीवृत्तिसंयुक्तं शृङ्गारससंश्रयम् । नृत्यवादित्रगीताढ्यं प्रदोषे नाट्यमिष्यते ॥ २७.९३ ॥ यन्नर्महास्यबहुलं करुणप्रायमेव च । प्रभातकाले तत्कार्यं नाट्यं निद्राविनाशनम् ॥ २७.९४ ॥ अर्धरात्रे नियुञ्जीत समध्याह्ने तथैव च । सन्ध्याभोजनकाले च नाट्यं नैव प्रयोजयेत् ॥ २७.९५ ॥ एवं कालं च देशं च समीक्ष्य च बलाबलम् । नित्यं नाट्यं प्रयुञ्जीत यथाभावं यथारसम् ॥ २७.९६ ॥ अथव देशकालौ च न परीक्ष्यौ प्रयोक्तृभिः यथैवाज्ञापयेद्भर्ता तदा योज्यमसंशयम्. ॥ २७.९७ ॥ तथा समुदिआताश्चैव विज्ञेया नाटकाश्रिताः । पात्रं प्रयोगमृद्धिश्च विज्ञेयास्तु त्रयो गुणाः ॥ २७.९८ ॥ बुद्धिमत्वं सुरूपत्वं लयतालज्ञता तथा । रसभावज्ञता चैव वयस्स्थत्वं कुतूहलम् ॥ २७.९९ ॥ ग्रहणं धारणं चैव गात्रावैकल्यमेव च । निजसाध्वसतोत्साह इति पात्रगतो विधिः ॥ २७.१०० ॥ सुवाद्यता सुगानत्वं सुपाठ्यत्वं तथैव च । शास्त्रकर्मसमायोगः प्रयोग इति संज्ञितः ॥ २७.१०१ ॥ शुचिभूषणतायां तु माल्याभरणवाससाम् । विचित्ररचना चैव समृद्धिरिति संज्ञिता ॥ २७.१०२ ॥ यदा समुदिताः सर्वे एकीभूता भवन्ति हि । अलङ्काराः सकुतपा मन्तव्यो नाटकाश्रयाः ॥ २७.१०३ ॥ एतदुक्तं द्विजश्रेष्ठाः सिद्धीनां लक्षणं मया । अत ऊर्ध्वं प्रवक्ष्याम्यातोद्यानां विकल्पनम् ॥ २७.१०४ ॥ इति भारतीये नाट्यशास्त्रे सिद्धिव्यञ्जको नाम सप्तविंशोऽध्यायः _____________________________________________________________ अथ अष्टाविंशोऽध्यायः आतोद्यविधिमिदानीं वक्ष्यामः ततं चैवावनद्धं च घनं सुषिरमेव च । चतुर्विधं तु विज्ञेयमातोद्यं लक्षणान्वितम् ॥ २८.१ ॥ ततं तन्त्रीकृतं ज्ञेयमवनद्धं तु पौष्करम् । घनं तालस्तु विज्ञेयः सुषिरो वंश उच्यते ॥ २८.२ ॥ प्रयोगस्त्रिविधो ह्येषां विज्ञेयो नाटकाश्रयः । ततं चैवावनद्धं च तथा नाट्यकृतोऽपरः ॥ २८.३ ॥ ततः कुतपविन्यासो गायनः सपरिग्रहः । वैपञ्चिको वैणिकश्च वंशवादस्तथैव च ॥ २८.४ ॥ मार्दङ्गिकः पाणविकस्तथा दार्दुरिको बुधैः । अवनद्धविधावेष कुतपः समुदाहृतः ॥ २८.५ ॥ उत्तमाधममध्याभिस्तथा प्रकृतिभिर्युतः । कुतपो नाट्ययोगे तु नानादेशसमाश्रयः ॥ २८.६ ॥ एवं गानं च वाद्यं च नाट्यं च विविधाश्रयम् । अलातचक्रप्रतिमं कर्तव्यं नाट्ययोक्तृभिः ॥ २८.७ ॥ यत्तु तन्त्रीकृतं प्रोक्तं नानातोद्यसमाश्रयम् । गान्धर्वमिति तज्ज्ञेयं स्वरतालपदात्मकम् ॥ २८.८ ॥ अत्यर्थमिष्टं देवानां तथा प्रीतिकरं पुनः । गन्धर्वाणां च यस्माद्धि तस्माद्गन्धर्वमुच्यते ॥ २८.९ ॥ अस्य योनिर्भवेद्गानं वीणा वंशस्तथैव च । एतेषां चैव वक्ष्यामि विधिं स्वरसमुत्थितम् ॥ २८.१० ॥ गान्धर्वं त्रिविधं विद्यात्स्वरतालपदात्मकम् । त्रिविधस्यापि वक्ष्यामि लक्षणं कर्म चैव हि ॥ २८.११ ॥ द्व्यधिष्ठानाः स्वरा वैणाः शारीराश्च प्रकीर्तिताः । एतेषां संप्रवक्ष्यामि विधानं लक्षणान्वितम् ॥ २८.१२ ॥ स्वरा ग्रामौ मूर्च्छनाश्च तानाः स्थानानि वृत्तयः । शुष्कं साधारणे वर्णा ह्यलङ्काराश्च धातवः ॥ २८.१३ ॥ श्रुतयो यतयश्चैव नित्यं स्वरगतात्मकाः । दारव्यां समवायस्तु वीणायां समुदाहृतः ॥ २८.१४ ॥ स्वरा ग्रामावलङ्कारा वर्णाः स्थानानि जातयः । साधारणे च शरीर्यां वीणायामेष संग्रहः ॥ २८.१५ ॥ व्यञ्जनानि स्वरा वर्णाः सन्धयोऽथ विभक्तयः । नामाख्यातोपसर्गाश्च निपातास्तद्धिताः कृतः ॥ २८.१६ ॥ छन्दोविधिरलङ्कारा ज्ञेयः पदगतो विधिः । निबद्धं चानिबद्धं च द्विविधं तत्पदं स्मृतम् ॥ २८.१७ ॥ ध्रुवस्त्वावापनिष्कामौ विक्षेपोऽथ प्रवेशनम् । शम्या तालः सन्निपातः परिवर्तः सवस्तुकः ॥ २८.१८ ॥ मात्रा प्रकरणाङ्गानि विवारी यतयो लयाः । गीतयोऽवयवा मार्गाः पादमार्गाः सपाणयः ॥ २८.१९ ॥ इत्येकविंशतिविधं ज्ञेयं तालगतं बुधैः । गान्धर्वसंग्रहो ह्येष विस्तरं तु निबोधत ॥ २८.२० ॥ तत्र स्वराः षड्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा । पञ्चमो धैवतश्चैव सप्तमोऽथ निषादवान् ॥ २८.२१ ॥ चतुर्विधत्वमेतेषां विज्ञेयं गानयोक्तृभिः । वादी चैवाथ संवादी विवादी चानुवाद्यपि ॥ २८.२२ ॥ संवादो मध्यमग्रामे पञ्चमस्यर्षभस्य च । षड्जग्रामे तु षड्जस्य संवादः पञ्चमस्य च ॥ २८.२३ ॥ तिस्रो द्वे च चतस्रश्च चतस्रस्तिस्र एव च । द्वे चैवाद्य चतस्रश्च षड्जग्रामे भवेद्विधिः ॥ २८.२४ ॥ चतुःश्रुतिर्भवेत्षड्ज ऋषभस्त्रिश्रुतिः स्मृतः । द्विश्रुतिश्चैव गान्धारो मध्यमश्च चतुःश्रुतिः ॥ २८.२५ ॥ पञ्चमस्तद्वदेव स्यात्त्रिश्रुतिर्धैवतो मतः । द्विश्रुतिश्च निषादः स्यात्षड्जग्रामे विधिर्भवेत् ॥ २८.२६ ॥ अथ मूर्च्छनाः द्वैग्रामिक्यश्चतुर्दश आदावुत्तरमन्द्रा स्याद्रजनी चोत्तरायता । चतुर्थी शुद्धषड्जा तु पञ्चमी मत्सरीकृता ॥ २८.२७ ॥ अश्वक्रान्ता तथा षष्ठी सप्तमी चाभिरुद्गता । षड्जग्रामाश्रिता ह्येता विज्ञेयाः सप्तमूर्च्छनाः ॥ २८.२८ ॥ षड्जे चोत्तरमन्द्रा स्यादृषभे चाभिरुद्गता । अश्वक्रान्ता तु गान्धारे मध्यमे मत्सरीकृता ॥ २८.२९ ॥ पञ्चमे शुद्धषड्जा स्याद्धैवते चोत्तरायता । निषादे रजनी च स्यादित्येताः षड्जमूर्च्छनाः ॥ २८.३० ॥ अथ मध्यमग्रामे सौवीरी हरिणाश्वा च स्यात्कलोपनता तथा । शुद्धमध्या तथा मार्गी पौरवी हृष्यका तथा । मध्यमग्रामजा ह्येता विज्ञेयाः सप्तमूर्च्छनाः ॥ २८.३१ ॥ अपि च क्रमयुक्ताः स्वराः सप्त मूर्च्छनेत्यभिसंज्ञिताः । षट्पञ्चस्वरकास्तानाः षाडवौडुविताश्रयाः ॥ २८.३२ ॥ साधारणकृताश्चैव काकलीसमलङ्कृताः । अन्तरस्वरसंयुक्ता मूर्च्छना ग्रामयोर्द्वयोः ॥ २८.३३ ॥ यथा छायासु भवति शीतं प्रस्वेदो भवति चातपस्थस्य । न च नागतो वसन्तो न च निःशेषः शिशिरकालः ॥ २८.३४ ॥ भवतश्चात्र अन्तरस्वरसंयोगो नित्यमारोहिसंश्रयः । कार्यो ह्यल्पो विशेषेण नावरोही कदाचन ॥ २८.३५ ॥ क्रियमाणोऽवरोही स्यादल्पो वा यदि वा बहुः । जातिरागं श्रुतिं चैव नयन्ते त्वन्तरस्वराः ॥ २८.३६ ॥ इति जातीरिदानीं वक्ष्यामः स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः । मध्यमा पञ्चमी चैव षड्जमध्या तथैव च ॥ २८.३७ ॥ आसामंशास्तु विज्ञेयाः षड्जमध्यमपञ्चमाः । यथा स्वं दुर्बलतरा व्यक्ता सा पञ्चमी तथा ॥ २८.३८ ॥ जातयोऽष्टादशेत्येवं ब्रह्मणाभिहितं पुरा । तास्त्वहं वर्तयिष्यामि ग्रहांशादिविभागतः ॥ २८.३९ ॥ षाड्जी चैवार्षभी चैव धैवत्यथ निषादिनी । षड्जोदीच्यवती चैव तथा वै षड्जकैशिकी ॥ २८.४० ॥ षड्जमध्या तथा चैव षड्जग्रामसमाश्रयाः । अत ऊर्ध्वं प्रवक्ष्यामि मध्यमग्रामसंश्रिताः ॥ २८.४१ ॥ गान्धारी मध्यमा चैव गान्धारोदीच्यवा तथा । पञ्चमी रक्तगान्धारी तथा गान्धारपञ्चमी ॥ २८.४२ ॥ मध्यमोदीच्यवा चैव नन्दयन्ति तथैव च । कर्मारवी च विज्ञेया तथान्ध्री कैशिकी मता ॥ २८.४३ ॥ स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः । मध्यमा षड्जमध्या च पञ्चमी चैव सूरिभिः ॥ २८.४४ ॥ आसामंशास्तु विज्ञेयाः षड्जमध्यमपञ्चमाः । यथास्वं दुर्बलतरं व्यत्यासात्त्वत्र पञ्चमी ॥ २८.४५ ॥ शुद्धा विकृताश्चैव हि समवायाज्जातयस्तु जायन्ते । पुनरेवाशुद्धकृता भवन्त्यथैकादशान्यास्तु ॥ २८.४६ ॥ तासां यन्निर्वृत्ताः स्वरेष्वथांशेषु जातिषु च जातिः । तद्वक्ष्यामि यथावत्संक्षेपेण क्रमेणेह ॥ २८.४७ ॥ परस्परविनिष्पन्ना ज्ञेया ह्येवं तु जातयः । पृथग्लक्षणसंयुक्ता द्वैग्रामिकाः स्वराश्रयाः ॥ २८.४८ ॥ चतस्रो जातयो नित्यं ज्ञेयाः सप्तस्वरा बुधैः । चतस्रः षट्स्वरा ज्ञेयाः स्मृताः पञ्चस्वरा दश ॥ २८.४९ ॥ मध्यमोदीच्यवा चैव तथा वै षड्जकैशिकी । कार्मारवी च संपूर्णा तथा गान्धारपञ्चमी ॥ २८.५० ॥ षाड्ज्यान्ध्री नन्दयन्ती च गान्धारोदीच्यवा तथा । चतस्रः षट्स्वरा ह्येताः ज्ञेयाः पञ्च स्वरा दश ॥ २८.५१ ॥ नैषादी चार्षभी चैव धैवती षड्जमध्यमा । षड्जोदीच्यवती चैव पञ्च षड्जाश्रिताः स्मृताः ॥ २८.५२ ॥ गान्धारी रक्तगान्धारी मध्यमा पञ्चमी तथा । कैशिकी चैव पञ्चैता मध्यमग्रामसंश्रयाः ॥ २८.५३ ॥ यास्ताः सप्तस्वरा ज्ञेया याश्चैताः षट्स्वराः स्मृताः । कदाचित्षाडवीभूताः कदाचिच्चौडुवे मताः ॥ २८.५४ ॥ षड्जग्रामे तु सम्पूर्णा विज्ञेया षड्जकैशिकी । षट्स्वरा चैव विज्ञेया षाड्जी गान्धारयोगतः ॥ २८.५५ ॥ गान्धारपञ्चमी चैव मध्यमोदीच्यवा तथा । पुनश्च षट्स्वरा ज्ञेया गान्धारोदीच्यवा बुधैः ॥ २८.५६ ॥ आन्ध्री च नन्दयन्ती च मध्यमग्रामसंश्रयाः । एवमेता बुधैर्ज्ञेया द्वैग्रामिक्योऽपि जातयः ॥ २८.५७ ॥ अत ऊर्ध्वं प्रवक्ष्यामि तासामंशविकल्पनम् । षट्स्वराः सप्तमे ह्यंशे नेष्यन्ते षड्जमध्यमाः ॥ २८.५८ ॥ संवाद्यलोपाद्गान्धारे तद्वदेव हि नेष्यते । गान्धारीरक्तगान्धारीकैशिकीनां तु पञ्चमः ॥ २८.५९ ॥ षड्जायां चैव गान्धारमंशकं विद्धि षाडवम् । षाडवं धैवते नास्ति षड्जोदीच्यामथांशके ॥ २८.६० ॥ संवाद्यलोपात्सप्तैताः षाट्स्वर्येण विवर्जिताः । गान्धारीरक्तगान्धार्योः षड्जमध्यमपञ्चमाः ॥ २८.६१ ॥ सप्तमश्चैव विज्ञेयो येषु नौडुवितं भवेत् । द्वौ षड्जमध्यमांशो तु गान्धारोऽथ निषादवान् ॥ २८.६२ ॥ ऋषभश्चैव पञ्चम्यां कैशिक्यां चैव धैवतः । एवं तु द्वादशैवेह वर्ज्याः पञ्च स्वराः सदा ॥ २८.६३ ॥ तास्त्वनौडुविता नित्यं कर्तव्या हि स्वराश्रयाः । सर्वस्वराणां नाशस्तु विहितस्त्वथ जातिषु ॥ २८.६४ ॥ न मध्यमस्य नाशस्तु कर्तव्यो हि कदाचन । सर्वस्वराणां प्रवरो ह्यनाशी मध्यमः स्मृतः । गान्धर्वकल्पे विहितः सामस्वपि च मध्यमः ॥ २८.६५ ॥ दशकं जातिलक्षणम् ग्रहांशौ तारमन्द्रौ च न्यासोऽपन्यास एव च । अल्पत्वं च बहुत्वं च षाडवौडुविते तथा ॥ २८.६६ ॥ अथ ग्रहाः ग्रहास्तु सर्वजातीनामंशवत्परिकीर्तिताः । यत्प्रवृत्तं भवेद्गेयमंशो ग्रहविकल्पितः ॥ २८.६७ ॥ तत्रांशो नाम यस्मिन् भवति रागश्च यस्माच्चैव प्रवर्तते । मन्द्रश्च तारमन्द्रश्च योऽत्यर्थं चोपलभ्यते ॥ २८.६८ ॥ ग्रहापन्यासविन्याससंन्यासन्यासगोचरः । अनुवृत्तश्च यस्येह सोंऽशः स्याद्दशलक्षणः ॥ २८.६९ ॥ पञ्चस्वरपरा तारगतिर्यथा अंशात्तारगतिं विद्यादाचतुर्थस्वरादिह । आ पञ्चमात्पञ्चमाद्वा नातःपरमिहेष्यते ॥ २८.७० ॥ त्रिधा मन्द्रगतिः । अंशपरा न्यासपरा अपरन्यासपरा चेति । मन्द्रस्त्वंशपरो नास्ति न्यासौ तु द्वौ व्यवस्थितौ । गान्धारन्यासलिङ्गे तु दृष्टमार्षभसेवनम् ॥ २८.७१ ॥ अथ न्यास एकविंशतिसङ्ख्यः । अङ्गसमाप्तौ न्यासः । तद्वदपन्यासो ह्यङ्गमध्ये षट्पञ्चाशत्सङ्ख्यः । यथा न्यासोऽङ्गसमाप्तौ स चैकविंशतिसङ्ख्यस्तथा । अक्षराणि षट्पञ्चाशत्संख्योऽपन्यासोऽङ्गमध्ये भवेत् ॥ २८.७२ ॥ तत्र प्रथमं विदारीमध्ये न्यासस्वरप्रयुक्तस्तु । विवदनशीलं मुक्त्वा संन्यासः सोऽभिधातव्यः । कृत्वा पदावसाने विन्यासात्क्वापि विन्यासः ॥ २८.७३ ॥ तथा अल्पत्वेऽथ बहुत्वे बलवदबलता विनिश्चयादेव । जातिस्वरैस्तु नित्यं जात्यल्पत्वं द्विविधमेतत् ॥ २८.७४ ॥ सञ्चारांशे बलस्थानामल्पत्वे दुर्बलासु च । न्यासश्चान्तरमार्गस्तु जातीनां व्यक्तिकारकः ॥ २८.७५ ॥ पञ्चस्वरमौडुवितं विज्ञेयं दशविधं प्रयोगज्ञैः । त्रिंशत्प्रकारविहितं पूर्वोक्तं लक्षणं चास्य ॥ २८.७६ ॥ षट्स्वरस्य प्रयोगोऽस्ति तथा पञ्चस्वरस्य च । चतुःस्वरप्रयोगोऽपि ह्यवकृष्टध्रुवास्विह ॥ २८.७७ ॥ द्वैग्रामिकीणां जातीनां सर्वासामपि नित्यशः । अंशास्त्रिषष्टिर्विज्ञेयास्तेषां चैवांशवद्ग्रहाः ॥ २८.७८ ॥ अंशग्रहमिदानीं वक्ष्यामः । तत्र मध्यमोदीच्यवायास्तु नन्दयन्त्यास्तथैव च । तथा गान्धारपञ्चम्याः पञ्चमोंऽशो ग्रहस्तथा ॥ २८.७९ ॥ धैवत्याश्च तथा ह्यंशौ विज्ञेयौ धैवतर्षभौ । पञ्चम्याश्च तथा ज्ञेयौ ग्रहांशौ पञ्चमर्षभौ ॥ २८.८० ॥ गान्धारोदीच्यवायास्तु ग्रहांशौ षड्जमध्यमौ । आर्षभ्याश्च ग्रहा अंशा धैवतर्षभसप्तमाः ॥ २८.८१ ॥ गान्धारश्च निषादश्च ह्यार्षभश्च तथापरः । निषादिन्यास्त्रयो ह्येते ग्रहा अंशाश्च कीर्तिताः ॥ २८.८२ ॥ षड्जपञ्चमगान्धारैस्त्रिभिरेव प्रकीर्तिताः । अंशैर्ग्रहैस्तथा चैव विज्ञेया षड्जकैशिकी ॥ २८.८३ ॥ षड्जश्च मध्यमश्चैव निषादो धैवतस्तथा । षड्जोदीच्यवतीजातेर्ग्रहा अंशाश्च कीर्तिताः ॥ २८.८४ ॥ पञ्चमश्चार्षभश्चैव निषादो धैवतस्तथा । कार्मारव्या बुधैरंशा ग्रहाश्च परिकीर्तिताः ॥ २८.८५ ॥ गान्धारश्चार्षभश्चैव पञ्चमोऽथ निषादवान् । चत्वरोंशा भवन्त्यान्ध्र्या ग्रहाश्चैव तथैव हि ॥ २८.८६ ॥ षड्जश्चाथर्षभश्चैव मध्यमः पञ्चमस्तथा । मध्यमाया ग्रहा ज्ञेया अंशाश्चैव सधैवताः ॥ २८.८७ ॥ निषादषड्जगान्धारमध्यमाः पञ्चमस्तथा । गान्धारीरक्तगान्धार्योर्ग्रहा अंशाः प्रकीर्तिताः ॥ २८.८८ ॥ षड्जी धैवतगान्धारषड्जमध्यमपञ्चमैः । ग्रहैरंशैश्च विज्ञेया विकृता स्वरयोगतः ॥ २८.८९ ॥ कैशिक्याश्चार्षभं हित्वा ग्रहांशाः षट्स्वराः स्मृताः । सप्तस्वरग्रहांशा तु विज्ञेया षड्जमध्यमा ॥ २८.९० ॥ एते त्रिषष्टिर्विज्ञेयाः सर्वास्वंशास्तु जातिषु । अंशवच्च ग्रहास्तासां सर्वासामेव नित्यशः ॥ २८.९१ ॥ सर्वासामेव जातीनां त्रिजातिस्तु गणः स्मृतः । ते च सप्त गणा ज्ञेया वर्धमानस्वरा बुधैः ॥ २८.९२ ॥ एकस्वरो द्विस्वरश्च त्रिस्वरोऽथ चतुःस्वरः । पञ्चस्वरश्चतुर्था स्यादेकधा सप्तषट्स्वरौ ॥ २८.९३ ॥ एतदुक्तं मया त्वासां ग्रहांशपरिकल्पनम् । पुनश्चैव प्रवक्ष्यामि न्यासापन्यासयोगतः ॥ २८.९४ ॥ पञ्चांशा तु भवेत्षाड्जी निषादर्षभवर्जिता । अपन्यासो भवेदत्र गान्धारः पञ्चमस्तथा ॥ २८.९५ ॥ न्यासश्चात्र भवेत्षड्जो लोप्यः सप्तम एव च । षड्जगान्धारसञ्चारः षड्जधैवतयोस्तथा ॥ २८.९६ ॥ षाडवं सप्तमोपेतमल्पौ वै सप्तमर्षभौ । गान्धारस्य च बाहुल्यं त्वत्र कार्यं प्रयोक्तुभिः ॥ २८.९७ ॥ आर्षभ्यामृषभस्त्वंशो निषादो धैवतस्तथा । एत एव ह्यपन्यासा न्यासश्चाप्यृषभः स्मृतः । षट्पञ्चस्वरता चात्र षड्जपञ्चमयोर्विना ॥ २८.९८ ॥ धैवत्यां धैवतो न्यासस्त्वंशावृषभधैवतो । अपन्यासा भवन्त्यत्र धैवतार्षभमध्यमाः ॥ २८.९९ ॥ षड्जपञ्चमहीनं तु पाञ्च्स्वर्यं विधीयते । पञ्चमेन विना चैव षाडवं परिकीर्तितम् ॥ २८.१०० ॥ आरोहिणौ च तौ कार्यौ लङ्घनीयौ तथैव च । निषादश्चर्षभश्चैव गान्धारो बलवांस्तथा ॥ २८.१०१ ॥ निषादिन्यां निषादोंऽशो सगान्धारर्षभस्तथा । एत एव ह्यपन्यासा न्यासश्चैवात्र सप्तमः ॥ २८.१०२ ॥ धैवत्या इव कर्तव्ये षाडवौडुविते तथा । तद्वच्च लङ्घनीयौ तु बलवन्तौ तथैव च ॥ २८.१०३ ॥ अंशास्तु षड्जकैशिक्याः षड्जगान्धारपञ्चमाः । अपन्यासा भवन्त्यत्र षड्जपञ्चमसप्तमाः ॥ २८.१०४ ॥ गान्धारश्च भवेन्न्यासो हैनस्वर्यं न चात्र तु । दौर्बल्यं चात्र कर्तव्यं धैवतस्यार्षभस्य च ॥ २८.१०५ ॥ (मध्यम) षड्जश्च मध्यमश्चैव निषादो धैवतस्तथा । स्युः षड्जोदीच्यवांशास्तु न्यासश्चैव तु मध्यमः ॥ २८.१०६ ॥ अपन्यासो भवत्यस्य धैवतः षड्ज एव च । परस्परांशगमनमिष्टतश्च विधीयते ॥ २८.१०७ ॥ षाट्स्वर्यमृषभापेतं कार्यं गान्धर्ववेदिभिः । पञ्चमार्षभहीनं तु पाञ्चस्वर्यं तु तत्र वै ॥ २८.१०८ ॥ षड्जश्चाप्यृषभश्चैव गान्धारश्च बली भवेत् । गान्धारस्य च बाहुल्यं मन्द्रस्थाने विधीयते ॥ २८.१०९ ॥ सर्वेंशाः षड्जमध्यायामपन्यासास्तथैव च । षड्जश्च मध्यमश्चापि न्यासौ नार्यौ प्रयोक्तृभिः ॥ २८.११० ॥ गान्धारसप्तमापेतं पाञ्चस्वर्यं विधीयते । षाडवं सप्तमापेतं कार्यं चात्र प्रयोगतः ॥ २८.१११ ॥ सर्वस्वराणां सञ्चार इष्टतस्तु विधीयते । षड्जग्रामाश्रिता ह्येता विज्ञेयाः सप्त जातयः ॥ २८.११२ ॥ अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः । गान्धार्याः पञ्च एवांशा धैवतर्षभवर्जिताः ॥ २८.११३ ॥ षड्जश्च पञ्चमश्चैव ह्यपन्यासौ प्रकीर्तितौ । गान्धारश्च भवेन्न्यासः षाडवं चर्षभं विना ॥ २८.११४ ॥ धैवतर्षभयोर्हीनं तथा चौडुवितं भवेत् । लङ्घनीयौ च तौ नित्यमार्षभाद्धैवतं व्रजेत् । विहितस्त्विति गान्धार्याः स्वरन्यासांशगोचरः ॥ २८.११५ ॥ लक्षणं रक्तगान्धार्या गान्धार्या एव यत्स्मृतम् । धैवतो बलवानत्र दौर्बल्यं तस्य लोपतः ॥ २८.११६ ॥ गान्धारषड्जयोश्चात्र सञ्चारश्चार्षभाद्विना । अपन्यासस्तथा चैव मध्यमस्तु विधीयते ॥ २८.११७ ॥ गान्धारोदीच्यवांशौ तु विज्ञेयौ षड्जमध्यमौ । पाञ्चस्वर्यं न चैवात्र षाट्स्वर्यमृषभं विना ॥ २८.११८ ॥ कार्यश्चान्तरमार्गश्च न्यासोपन्यास एव च । षड्जोदीच्यवतीवत्तु पाञ्चस्वर्येण जातुचित् ॥ २८.११९ ॥ मध्यमाया भवन्त्यंशा विना गान्धारसप्तमौ । एत एव ह्यपन्यासा न्यासश्चैव तु मध्यमः ॥ २८.१२० ॥ गान्धारसप्तमापेतं पाञ्चस्वर्यं विधीयते । षाडवं चाप्यगान्धारं कर्तव्यं तु प्रयोगतः ॥ २८.१२१ ॥ षड्जमध्यमयोश्चात्र कार्यं बाहुल्यमेव हि । गान्धारलङ्घनं चात्र कार्यं नित्यं प्रयोक्तृभिः ॥ २८.१२२ ॥ मध्यमोदीच्यवा पूर्णा ह्यंश एकस्तु पञ्चमः । शेषो विधिस्तु कर्तव्यो गान्धारोदीच्यवां गतः ॥ २८.१२३ ॥ द्वावंशावथ पञ्चम्यामृषभः पञ्चमस्तथा । स(ऋ)निषादावपन्यासौ न्यासश्चैव तु पञ्चमः ॥ २८.१२४ ॥ मध्यमावत्तु कर्तव्ये षाडवौडुविते तथा । दौर्बल्यं चात्र कर्तव्यं षड्जगान्धारमध्यमैः ॥ २८.१२५ ॥ कुर्यादप्यत्र सञ्चारं पञ्चमस्यार्षभस्य च । गान्धारगमनं चैव कार्यं त्वल्पश्च सप्तमः ॥ २८.१२६ ॥ (ल्पं च सप्तमात्) अथ गान्धारपञ्चम्याः पञ्चमोंऽशः प्रकीर्तितः । तारगत्या तु षड्जोऽपि कदाचिन्नातिवर्तते ॥ २८.१२७ ॥ ऋषभः पञ्चमश्चैव ह्यपन्यासौ प्रकीर्तितौ । न्यासश्चैव तु गान्धारो सा च पूर्णस्वरा सदा । पञ्चम्या यश्च गान्धार्याः सञ्चारः स विधीयते ॥ २८.१२८ ॥ पञ्चमश्चार्षभश्चैव गान्धारोऽथ निषादवान् । चत्वारोंऽशा भवन्त्यान्ध्र्यामपन्यासास्त एव हि ॥ २८.१२९ ॥ गान्धारश्च भवेन्न्यासः षड्जापेतं तु षाडवम् । गान्धारार्षभयोश्चापि सञ्चारस्तु परस्परम् ॥ २८.१३० ॥ सप्तमस्य च षष्ठस्य न्यासो गत्यनुपूर्वशः । षड्जस्य लङ्घनं चात्र नास्ति चौडुवितं सदा ॥ २८.१३१ ॥ नन्दयन्त्याः क्रमान्न्यासापन्यासांशाः प्रकीर्तिताः । गान्धारो मध्यमश्चैव पञ्चमश्चैव नित्यशः ॥ २८.१३२ ॥ षड्जो लोप्यश्च लङ्घ्यश्च नान्ध्रीसञ्चरणं भवेत् । लङ्घनं ह्यृषभस्यापि तच्च मन्द्रगतं स्मृतम् ॥ २८.१३३ ॥ तारगत्या तु षड्जस्तु कदाचिन्नातिवर्तते । गान्धारो वा ग्रहः कार्यस्तथा न्यासश्च नित्यशः ॥ २८.१३४ ॥ कार्मारव्याः स्मृता ह्यंशा आर्षभः पञ्चमस्तथा । धैवतश्च निषादश्चाप्यपन्यासास्त एव तु । पञ्चमश्च भवेन्न्यासो हैनस्वर्यं न चात्र तु ॥ २८.१३५ ॥ गान्धारस्य विशेषेण सर्वतो गमनं भवेत् ॥ २८.१३६ ॥ कैशिक्यास्तु तथा ह्यंशाः सर्वे चैवार्षभं विना । एत एव ह्यपन्यासा न्यासौ गान्धारसप्तमौ ॥ २८.१३७ ॥ धैवतेंशे निषादे च न्यासः पञ्चम इष्यते । अपन्यासः कदाचित्तु ऋषभोऽपि विधीयते ॥ २८.१३८ ॥ आर्षभे षाडवं चात्र धैवतर्षभवर्जितम् । तथा चौडुवितं कुर्याद्बलिनौ चान्त्यपञ्चमौ ॥ २८.१३९ ॥ दौर्बल्यमृषभस्यात्र लङ्घनं च विशेषतः । अंशवत्कल्पितश्चान्यैः षाडवे तु विधीयते । षड्जमध्यावदत्रापि सञ्चारस्तु भवेदिह ॥ २८.१४० ॥ एवमेता बुधैर्ज्ञेया जातयो दशलक्षणाः । यथा यस्मिन् रसे याश्च गदतो मे निबोधत ॥ २८.१४१ ॥ इति जातिविकल्पाध्यायोऽष्टाविंशः समाप्तः _____________________________________________________________ अथ एकोनत्रिंशत्तमोऽध्यायः षड्जोदीच्यवती चैव षड्जमध्या तथैव च । मध्यपञ्चमबाहुल्यात्कार्या शृङ्गारहास्ययोः ॥ २९.१ ॥ षाड्जी त्वथार्षभी चैव स्वस्वरांशपरिग्रहात् । वीररौद्राद्भुतेष्वेते प्रयोज्ये गानयोक्तृभिः ॥ २९.२ ॥ निषादेऽंशे तु नैषादी गान्धारे षड्जकैशिकी । करुणे तु रसे कार्या जातिगानविशारदैः ॥ २९.३ ॥ धैवती धैवतांशे तु बीभत्से सभयानके । ध्रुवाविधाने कर्तव्या जातिर्गाने प्रयत्नतः । रसं कार्यमवस्थां च ज्ञात्वा योज्या प्रयोक्तृभिः । षड्जग्रामाश्रिता ह्येताः प्रयोज्या जातयो बुधैः ॥ २९.४ ॥ अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः । गान्धारीरक्तगान्धार्यौ गान्धारांशोपपत्तितः । करुणे तु रसे कार्ये निषादेऽंशे तथैव च ॥ २९.५ ॥ मध्यमा पञ्चमी चैव नन्दयन्ती तथैव च । गान्धारपञ्चमी चैव मध्यमोदीच्यवा तथा । मध्यमपञ्चमबाहुल्यात्कार्याः शृङ्गारहास्ययोः ॥ २९.६ ॥ कार्मारवी तथा चान्ध्री गान्धारोदीच्यवा तथा । वीरे रौद्रेऽद्भुते कार्याः षड्जर्षभांशयोजिताः । कैशिकी धैवतांशे तु बीभत्से सभयानके ॥ २९.७ ॥ एकैव षड्जमध्या ज्ञेया सर्वरससंश्रया जातिः । तस्यास्त्वंशाः सर्वे स्वरास्तु विहिताः प्रयोगविधौ ॥ २९.८ ॥ यो यदा बलवान् यस्मिन् स्वरो जातिसमाश्रयात् । तत्प्रवृत्तं रसे कार्यं गानं गेये प्रयोक्तृभिः ॥ २९.९ ॥ मध्यपञ्चमभूयिष्ठं गानं शृङ्गारहास्ययोः । षड्जर्षभप्रायकृतं वीररौद्राद्भुतेषु च ॥ २९.१० ॥ गान्धारः सप्तमश्चायं करुणे गानमिष्यते । तथा धैवतभूयिष्ठं बीभत्से सभयानके ॥ २९.११ ॥ एकैव षड्जमध्या विज्ञेयाखिलरसाश्रया जातिः । तस्यास्त्वंशाः सर्वे स्वराश्च विहिताः प्रयोगविधौ ॥ २९.१२ ॥ सर्वेष्वंशेषु रसा नियमविधानेन संप्रयोक्तव्याः । काकल्यन्तरविहिता विशेषयुक्तास्तु बलवन्तः । एवमेता बुधैर्ज्ञेया जातयो नाट्यसंश्रयाः ॥ २९.१३ ॥ पाठ्यप्रयोगविहितान् स्वरांश्चापि निबोधत । हास्यशृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ ॥ २९.१३*१ ॥ षड्जर्षभौ च कर्तव्यौ वीररौद्राद्भुतेष्वथ । गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे ॥ २९.१३*२ ॥ धैवतश्च प्रयोगज्ञैर्बीभत्से सभयानके । अत ऊर्ध्वं प्रवक्ष्यामि वर्णालङ्कारलक्षणम् ॥ २९.१३*३ ॥ आरोही चावरोही च स्थायिसञ्चारिणौ तथा । वर्णाश्चत्वार एवैते ह्यलङ्कारास्तदाश्रयाः ॥ २९.१४ ॥ आरोहन्ति स्वरा यत्रारोहीति स तु संज्ञितः । यत्र चैवावरोहन्ति सोऽवरोही प्रकीर्तितः ॥ २९.१५ ॥ स्थिराः स्वराः समा यत्र स्थायी वर्णः स उच्यते । सञ्चरन्ति स्वरा यत्र स सञ्चारीति कीर्तितः ॥ २९.१६ ॥ शारीरस्वरसम्भूतास्त्रिस्थानगुणगोचराः । चत्वारो लक्षणोपेता वर्णास्तत्र प्रकीर्तिताः ॥ २९.१७ ॥ एवं लक्षणसंयुक्तं यदा वर्णोऽनुकर्षति । तदा वर्णस्य निष्पत्तिर्ज्ञेया स्वरसमुद्भवा ॥ २९.१८ ॥ एते वर्णास्तु विज्ञेयाश्चत्वारो गीतयोजकाः । एतान् समाश्रितान् सम्यगलङ्कारान्निबोधत ॥ २९.१९ ॥ प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च । प्रसन्नमध्यश्च तथा क्रमरेचित एव च । प्रस्तारश्च प्रसादश्च सप्तैते स्थायिवर्णगाः ॥ २९.२० ॥ अथ सञ्चारिजान् भूयः कीर्त्यमानान्निबोधत । मन्द्रस्तथा प्रसन्नादिः प्रेङ्खितो बिन्दुरेव च । सन्निवृत्तः प्रवृत्तश्च रेचितः कम्पितः समः ॥ २९.२१ ॥ कुहरश्चैव वेणुश्च रञ्चितो ह्यवलोकितः । आवर्तकः परावृत्तः सञ्चारिण्यश्चतुर्दश ॥ २९.२२ ॥ निष्कर्षोभ्युचयश्चैव हसितो बिन्दुरेव च । प्रेङ्खोलितस्तथाक्षिप्तो विस्तीर्णोद्धटितस्तथा ॥ २९.२३ ॥ ह्रादमानः सम्प्रदानः सन्धिः प्रच्छादनस्तथा । प्रसन्नादिः प्रसन्नान्त इत्यारोहे त्रयोदश ॥ २९.२४ ॥ विधूतश्च त्रिवर्णश्च तथोद्वाहित एव च । उद्गीतश्च तथा वेणिर्विज्ञेया ह्यवरोहिणः ॥ २९.२५ ॥ सप्तरूपगता ज्ञेया अलङ्कारा बुधैस्त्विमे । नैते सर्वे ध्रुवास्विष्टाः श्रुतिवर्णप्रकर्षणात् ॥ २९.२६ ॥ न हि वर्णप्रकर्षस्तु ध्रुवाणां सिद्धिरिष्यते । श्येनो वाप्यथवा बिन्दुर्ये चान्येति प्रकर्षिणः ॥ २९.२७ ॥ ते ध्रुवाणां प्रयोगेषु न कार्याः स्वप्रमाणतः । तद्ध्रुवाणां प्रयोगे तु कार्या ह्यारोहिणः स्वराः ॥ २९.२८ ॥ यस्मादर्थानुरूपा हि ध्रुवा कार्यार्थदर्शिका । वर्णानां तु पुनः कार्यं कृशत्वं पदसंश्रयम् ॥ २९.२९ ॥ येऽत्र प्रयोगे गच्छन्ति तांश्च वर्णान्निबोधत । प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ॥ २९.३० ॥ प्रसन्नमध्यमश्चैव बिन्दुः कम्पितरेचितौ । तारश्चैव हि मन्द्रश्च तथा तारतरः पुनः । प्रेङ्खोलितस्तारमन्द्रो मन्द्रतारः समस्तथा ॥ २९.३१ ॥ सन्निवृत्तः प्रवृत्तश्च प्रसादोऽपाङ्ग एव च । ऊर्मिः प्रेङ्खोऽवलोकश्च इत्येते सर्ववर्णगाः ॥ २९.३२ ॥ स्थायिवर्णादृते चैषां संप्रवक्ष्यामि लक्षणम् । क्रमशो दीपितो यः स्यात्प्रसन्नादिः स कथ्यते ॥ २९.३३ ॥ व्यस्तोच्चारित एवैष प्रसन्नान्तो विधीयते । आद्यन्तयोः प्रसन्नत्वात्प्रसन्नाद्यन्त इष्यते ॥ २९.३४ ॥ प्रसन्नमध्यो मध्ये तु प्रसन्नत्वादुदाहृतः । सर्वसाम्यात्समो ज्ञेयः स्थितस्त्वेकस्वरोऽपि यः ॥ २९.३५ ॥ आदिमध्यलयो यत्र स चोर्मिरिति संज्ञितः । श्रुतयोऽन्त्याद्द्वितीयस्य मृदुमध्यायताः स्वराः ॥ २९.३६ ॥ आयतत्वं भवेन्नीचे मृदुत्वं तु विपर्यये । स्वे स्वरे मध्यमत्वं च मृदुमध्यमयोस्तथा । दीप्तायते करुणानां श्रुतीनामेष निश्चयः ॥ २९.३७ ॥ बिन्दुरेककलो ज्ञेयः कम्पितश्च कलाद्वयम् । गतागतप्रवृत्तो यः स प्रेङ्खोलित इष्यते ॥ २९.३८ ॥ यस्तु कण्ठे स्वरोऽधः स्यात्स तु तारः प्रकीर्तितः । उरोगतस्तथा मन्द्रो मूर्ध्नि तारतरस्तथा ॥ २९.३९ ॥ क्रमागतस्तु यस्तारः षष्ठः पञ्चम एव वा । तारमन्द्रप्रसन्नस्तु ज्ञेयो मन्द्रगतः स च ॥ २९.४० ॥ लङ्घयित्वा परान्मन्द्रात्परां तारगतिं गतः । मन्द्रतारप्रसन्नस्तु विज्ञेयो ह्यवरोहणात् ॥ २९.४१ ॥ प्रसन्नान्तः स्वरो यत्र प्रसादः स तु संज्ञितः । अपाङ्गकिस्तु विज्ञेयः स्वराणामथ सञ्चरात् ॥ २९.४२ ॥ रेचितः शिरसि ज्ञेयः कम्पितं तु कलात्रयम् । कण्ठे निरुद्धपवनः कुहरो नाम जायते ॥ २९.४३ ॥ एवमेते त्वलङ्कारा विज्ञेया वर्णसंश्रयाः । अथ गीतीः प्रवक्ष्यामि छन्दोऽक्षरसमन्विताः ॥ २९.४४ ॥ शशिना रहितेव निशा विजलेव नदी लता विपुष्पेव । अविभूषितेव च स्त्री गीतिरलङ्कारहीना स्यात् ॥ २९.४५ ॥ प्रथमा मागधी ज्ञेया द्वितीया चार्धमागधी । सम्भाविता तृतीया तु चतुर्थी पृथुला स्मृता ॥ २९.४६ ॥ त्रिनिवृत्तप्रगीता या गीतिः सा मागधी स्मृता । अर्धतः सन्निवृत्ता च विज्ञेया ह्यर्धमागधी ॥ २९.४७ ॥ सम्भाविता च विज्ञेया गुर्वक्षरसमन्विता । पृथुलाख्या च विज्ञेया नित्यं लघ्वक्षरान्विता ॥ २९.४८ ॥ एतास्तु गीतयो ज्ञेया ध्रुवायोगं विनैव हि । गान्धर्व एव योज्यास्तु नित्यं गानप्रयोक्तृभिः ॥ २९.४९ ॥ गीतयो गदिताः सम्यग्धातूंश्चैव निबोधत । विस्तारः करणश्च स्यादाविद्धो व्यञ्जनस्तथा । चत्वारो धातवो ज्ञेया वादित्रकरणाश्रयाः ॥ २९.५० ॥ सङ्घातजोऽथ समवायजश्च विस्तारजोऽनुबन्धकृतः । ज्ञेतश्चतुष्प्रकारो धातुर्विस्तारसंज्ञश्च ॥ २९.५१ ॥ विधयस्तु स्मृतास्तस्य पूर्वं विस्तार एव च । सङ्घातसमवायौ तु विज्ञेयौ तौ द्विअत्रिकौ ॥ २९.५२ ॥ पूर्वश्चतुर्विधस्तत्र पश्चिमोऽष्टविधः स्मृतः । करणानां विशेषेण विज्ञेयौ तौ पृथक्पृथक् ॥ २९.५३ ॥ अधश्चोर्ध्वं च विज्ञेयावधरोत्तरजौ स्वरौ । सङ्घातजो विधिस्त्वेष विज्ञेयो वादनं प्रति ॥ २९.५४ ॥ द्विरुत्तरो द्विरधरस्त्वधरादिश्चोत्तरावसानश्च । ज्ञेयस्तथोत्तरादिः पुनरप्यधरावसानश्च ॥ २९.५५ ॥ समवायजस्तथा स्यात्त्रिरुत्तरस्त्रिरधरश्च विज्ञेयः । द्विरधरोत्तराधरान्तो द्विरधरश्चोत्तरविरामश्च ॥ २९.५६ ॥ उत्तरमुखो द्विरधरो द्विरुत्तरावसानश्च । मध्योत्तरो द्विरधरो द्विरुत्तरोऽप्यधरमध्यश्च ॥ २९.५७ ॥ अनुबन्धस्तु ज्ञेयो व्याससमासाच्च नियतमेषां हि । एवं चतुर्दशविधो विस्तारो धातुराख्यातः ॥ २९.५८ ॥ रिभितोच्चयनीरिभितो ह्रादस्तु तथानुबन्धः स्यात् । पञ्चविधो विज्ञेयो वीणावाद्ये करणधातुः ॥ २९.५९ ॥ त्रिकपञ्चसप्तनवकैर्यथाक्रमं संयुतो भवेद्वाद्ये । सर्वैरनुबन्धकृतैर्गुर्वन्तः स्यात्करणधातुः ॥ २९.६० ॥ क्षेपः प्लुतोऽतिपातोऽतिकीर्णमनुबन्धसंज्ञितश्चैव । आविद्धो विष्टो यो धातुर्वै पञ्चविध एव ॥ २९.६१ ॥ द्वित्रिचतुष्कनवकैः प्रहारैः क्रमशः कृतैः । आविद्धधातुर्विज्ञेयः सानुबन्धविभूषितः ॥ २९.६२ ॥ व्यञ्जनधातोः पुष्पं कलतलनिष्कोटितं तथोद्धृष्टम् । रेफोऽनुबन्धसंज्ञोऽनुस्वनितं बिन्दुरवमृष्टम् ॥ २९.६३ ॥ कनिष्ठाङ्गुष्ठसंयुक्तं पुष्पमित्यभिसंज्ञितम् । अङ्गुष्ठाभ्यां समं तन्त्र्योः स्पर्शनं यत्कलं तु तत् ॥ २९.६४ ॥ वामेन पीडनं कृत्वा दक्षिणेनाहतिस्तले । सव्याङ्गुष्ठप्रहारस्तु निष्कोटितमिहोच्यते ॥ २९.६५ ॥ प्रहारो वामतर्जन्या उद्धृष्टमिति संज्ञितम् । सर्वाङ्गुलिसमाक्षेपो रेफ इत्यभिसंज्ञितः ॥ २९.६६ ॥ तलस्थानेऽधस्तन्त्रीणामनुस्वनितमुच्यते । गुर्वक्षरकृता तन्त्री बिन्दुरित्यभिसंज्ञितः ॥ २९.६७ ॥ कनिष्ठाङ्गुष्ठकाभ्यां तु दक्षिणाभ्यामधोमुखम् । तन्त्रीषु त्रिप्रहारं चाप्यवमृष्टं प्रकीर्तितम् ॥ २९.६८ ॥ व्याससमासादेषामनुबन्धः सार्वधातुको ज्ञेयः । इति दशविधः प्रयोज्यो वीणायां व्यञ्जनो धातुः ॥ २९.६९ ॥ इत्येते धातवः प्रोक्ताश्चत्वारो लक्षणान्विताः । तिसृणामपि वृत्तीनां येषु वाद्यं प्रतिष्ठितम् ॥ २९.७० ॥ तिस्रस्तु वृत्तयश्चित्रादक्षिणावृत्तिसंज्ञिताः । वाद्यगीतोभयगुणा निर्दिष्टान्ता यथाक्रमम् ॥ २९.७१ ॥ तिस्रो गीतिवृत्तयः प्राधान्येन ग्राह्याः । चित्रा वृत्तिर्दक्षिणा चेति । तासां तालगीतिलययतिमार्गप्राधान्यानि यथास्वं व्यञ्जकानि भवन्ति । तत्र चित्रायां सङ्क्षिप्तवाद्यतालद्रुतलयसमायत्य्नागतग्रहाणां प्राधान्यम् । तथा वृत्तौ गीतवादित्रद्विकलातालमध्यलयस्रोतोगतायतिसमग्रहमार्गाणां प्राधान्यम् । दक्षिणायां गीतिचतुष्कलतालविलम्बितलयगोपुच्छायत्यतीतग्रहमार्गाणां प्राधान्यम् । सर्वासामेव वृत्तीनां ललिताद्यास्तु जातयः । धातुभिः सह संयुक्ता भवन्ति गुणवत्तराः ॥ २९.७२ ॥ एतेषां धातूनां समवायाज्जातयस्तु जायन्ते । स्यादुदात्तललितरिभितघनसंज्ञाश्चतस्रस्तु ॥ २९.७३ ॥ तत्रोदाता विस्तारधातुविषया ह्युदात्तत्वात् । ललिता व्यञ्जनधातोर्ललितत्वादेव संप्रयोक्तव्या ॥ २९.७४ ॥ आविद्धधातुविषया रिभिता लघुसञ्चयाद्विनिर्दिष्टा । करणविषया च घनसंज्ञा गुरुलघुसञ्चयात्तु स्यात् ॥ २९.७५ ॥ त्रिविधं गीते कार्यं वाद्यं वीणासमुद्भवं तज्ज्ञैः । तत्त्वं ह्यनुगतमोघः स्थानैककरणसमायुक्ताः ॥ २९.७६ ॥ लयतालवर्णपदयतिगीत्यक्षरभावकं भवेत्तत्त्वम् । गीतं तु यदनुगच्छत्यनुगतमिति तद्भवेद्वाद्यम् ॥ २९.७७ ॥ आविद्धकरणबहुलं ह्युपर्युपरिपाणिकं द्रुतलयं च । अनपेक्षितगीतार्थं वाद्यं त्वोघे विधातव्यम् ॥ २९.७८ ॥ एवं ज्ञेया वैणे वाद्यविधाने तु धातवस्तज्ज्ञैः । लक्ष्याम्यतः परमहं निर्गीतविधानसमवायम् ॥ २९.७९ ॥ आश्रावणा तथाऽरम्भो वक्त्रपाणिस्तथैव च । सङ्खोटना तथा कार्यं पुनश्च परिघट्टना ॥ २९.८० ॥ मार्गासारितमेतत्स्याल्लीलाकृतमथापि च । आसारितानि च तथा त्रिप्रकारकृतानि तु ॥ २९.८१ ॥ एतानि तु बहिर्गीतान्याहुर्वाद्यविदो जनाः । सतालानि ह्यतालानि चित्तवृत्तौ कृतानि तु ॥ २९.८२ ॥ प्रयोजनं च विज्ञेयं पूर्वरङ्गविधिं प्रति । एतेषां संप्रवक्ष्यामि लक्षणं सनिदर्शनम् ॥ २९.८३ ॥ आस्रावणा नाम विस्तारधातुविहितैः करणैः प्रविभागशो द्विरभ्यस्तैः । द्विश्चापि सन्निवृत्तैः करणोपचयैः क्रमेण स्यात् ॥ २९.८४ ॥ गुरुणी त्वादावेकादशकं चतुर्दशं सपञ्चदशम् । सचतुर्विंशकमेवं द्विगुणीकृतमेतदेव स्यात् ॥ २९.८५ ॥ लघुनी गुरु चैव स्यादथाष्टमं गुरु भवेत्तथा च पुनः । षट्च लघूनि ततोऽन्त्ये गुर्वाद्याश्रावणायां तु ॥ २९.८६ ॥ त्रिःशम्योपरिपाणौ तालावप्येवमेव चैकिकवान् । समपाणौ द्वे शम्ये तालावप्येवमेवाथ ॥ २९.८७ ॥ भूयः शम्यातालाववपाणावुत्तरस्था चैव । चञ्चत्पुटस्तथा स्यादेवं ह्याश्रावणातालः ॥ २९.८८ ॥ अत्रोदाहरणम् । झण्टुं जगति यवलितक जम्बुक झण्टुं तिति च लघु च झण्टुम् । दिङ्गले गणपतिपशुपतिजम्बुक दिङ्गले वरभुज दिगिनगि चा । तिति चादिनि निगिचा पशुपति नीतिचा ॥ अथारम्भः । दीर्घाण्यादावष्टौ द्वादश च लघूनि नैधनं चैव । चत्वारि गुरूणि तथा ह्रस्वान्यष्टौ च दीर्घं च ॥ २९.८९ ॥ लघुसंज्ञानि चतुर्धा निधनं द्विगुणीकृतानि दीर्घे द्वे । अष्टौ लघूनि नैधनमित्यारम्भेऽक्षरविधानम् ॥ २९.९० ॥ अत्रोदाहरणम् । झण्टुं झण्टुं झण्टुं झण्टुं जगति यवलितक दिगिनिगिचा । दिङ्ग्ले दिङ्ग्ले तिति झझलकुचझलजम्बुक तितिचा । गणपति सुरपति पशुपति चा ॥ अस्य तु वाद्यम् । कार्यं त्रिपर्वरहितैरुद्वहनैरप्यथ समवरोहैः । तलरिभितह्रादयुतैः करणैर्विस्तारभूयिष्ठैः ॥ २९.९०*१ ॥ अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैर्द्विरभ्यस्तैः । आरम्भोऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ॥ २९.९०*२ ॥ तालस्त्रिकलस्त्वादौ शम्यैककला कलाद्वये तालः । द्विकला च पुनः शम्या तालो द्विकलश्च कर्तव्यः ॥ २९.९१ ॥ त्रिकलश्च सन्निपातः पुनः पितापुत्रकश्च षट्पूर्वः । चञ्चत्पुटस्तथा स्यादारम्भे तालयोगस्तु ॥ २९.९२ ॥ अस्य तु वाद्यम् कार्यं त्रिपर्वरहितैरुद्वहनैरप्यथ समवरोहैः । तलरिभितह्रादयुतैः करणैर्विस्ताभूयिष्ठैः ॥ २९.९३ ॥ अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैर्द्विरभ्यस्तैः । आरम्भोऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ॥ २९.९४ ॥ अथ वक्त्रपाणिः गुरूणि पञ्च ह्रस्वानि षड्गुरुश्च चतुर्गुणः । गुरुणी द्वे लघु त्वेकं चत्वार्यथ गुरूणि हि ॥ २९.९५ ॥ चत्वार्यथ लघूनि स्युस्त्रीणि दीर्घाणि चैव हि । लघून्यष्टौ च दीर्घं च वक्त्रपाणौ भवेद्विधिः ॥ २९.९६ ॥ अत्रोदाहरणम् । दिङ्गले झण्टुं जम्बुक जगति य झण्टुं दिङ्गले । घेन्दृं घेटो घाटो भट्टुनकिटि इनं दुङ् ॥ घदुगदुकिटमटनम् । अस्य वाद्यम् । आविद्धकरणयुक्तो द्व्यङ्गः स्यादेकप्रवृत्तौ वा । अल्पव्यञ्जनधातुर्वाद्यविधिर्वक्त्रपाणौ तु ॥ २९.९७ ॥ द्विकले मद्रके यत्तु शम्यातालादिपातम् । तत्सर्वं वक्त्रपाणौ तु कार्यमष्टकलान्वितम् ॥ २९.९८ ॥ तस्याधस्तात्पुनः कार्यं पञ्चपाणिचतुष्टयम् । वक्त्रपाणेरयं तालो मुखप्रतिमुखाश्रयः ॥ २९.९९ ॥ अथ सङ्खोटना गुरुणी लघून्यथाष्टौ दीर्घं द्विगुणं तथा च कर्तव्यम् । लघुदीर्घे लघु च पुनश्चतुर्गुणं संप्रकर्तव्यम् ॥ २९.१०० ॥ पुनरष्टौ ह्रस्वानि स्युरिह तथा नैधनं च कर्तव्यम् । सङ्खोटनवस्तुविधौ ह्रस्वगुरुविधिः समुद्दिष्टः ॥ २९.१०१ ॥ सङ्खोटनाया उदाहरणं प्रकल्प्य कृतम् । दिङ्गले जगति य वलति कतेचातिचातिझ लघु चझल पशुपतिचा । अस्या वाद्यविधिः । अधिदण्डं हस्ताभ्यां वीणां विनिगृह्य दक्षिणाङ्गुल्या । अङ्गुष्ठाभ्यां च तथा कार्यं सङ्खोटनावाद्यम् ॥ २९.१०२ ॥ सङ्खोटयेत्स्वरं वादिना तु संवादिना तथाधिबलम् । समवायिभिश्च शेषैरनुवादिभिरल्पकैश्चांशैः ॥ २९.१०३ ॥ विस्तारचित्रकरणैर्द्विस्त्रिर्विनिवर्तितैर्द्विरभ्यस्तैः । उपचययुक्तैः क्रमशो वदन्ति सङ्खोटनावाद्यम् । तालोऽस्या गदितस्तज्ज्ञैः शीर्षवत्पञ्चपाणिना ॥ २९.१०४ ॥ अथ परिघट्टना दीर्घाण्यादावष्टौ लघूनि कुर्यात्पुनर्द्विगुणितानि । ह्रस्वान्यपि चत्वारि द्विगुणानि स्युः सदीर्घाणि ॥ २९.१०५ ॥ षोडश लघूनि च स्युः सह निधने चैव कार्याणि । एष परिघट्टनायां गुरुलघुवस्तुक्रमः प्रोक्तः ॥ २९.१०६ ॥ एतस्यामप्युदाहरणं प्रकल्प्य कृतम् । दिङ्गले दिङ्गले दिङ्गले दिङ्गले जगति य वलति क । तितिझलकुचझलदिगिनिगि गणपति चा । चलति क गणपति पशुपतिसुरपति चा । वाद्यं चास्यास्तज्ज्ञैः सोद्वहनं हस्तलाघवात्कार्यम् । व्यञ्जनधातुसमुत्थं नानाकरणाश्रयोपेतम् ॥ २९.१०७ ॥ सम्पिष्टकवच्चास्यास्तालः करणैस्तु धातुसंयुक्तैः । गुरुलघुयोगादेवं विहितः कार्यो बुधैर्नित्यम् ॥ २९.१०८ ॥ मार्गासारितवाद्यं विस्ताराविद्धकरणसंयुक्तम् । सकलैः सतलैः करणैरथ गुरुलघुसञ्चयश्चायम् ॥ २९.१०९ ॥ चत्वारि गुरूणि स्युर्लघूनि चत्वारि च द्विगुणितानि । गुरुणी लघून्यथाष्टौ गुरुणी चेत्येतत्त्रिधा योज्यम् ॥ २९.११० ॥ अथवा चत्वारि तु गुरूणि स्युर्ह्रस्वान्यष्टौ भवन्ति हि । गुरुणी नव ह्रस्वानि दीर्घमन्त्यमथापि च ॥ २९.११०*१ ॥ अत्रोदाहरणम् । दिङ्गले झण्टुं जगति य । थलितक झण्टुं तिति । झलकुच झलतितिचा । बालासारितवच्चैव तालोऽस्य परिकीर्तितः ॥ २९.११०*२ ॥ श्रवणमधुराणि लीलाकृतान्यभिसृतपरिसृतान्तरकृतानि । तान्यप्यर्थवशादिह कर्तव्यानि प्रयोगविधौ ॥ २९.१११ ॥ यथासारितानि ज्येष्ठमध्यकनिष्ठानि तालप्रमाणनिर्दिष्टानि तानि तालविधाने वक्ष्यामः । एवमेतत्स्वरगतं ज्ञेयं वीणाशरीरजम् । विपञ्चीवाद्ययुक्तानि करणानि निबोधत ॥ २९.११२ ॥ रूपं कृतं प्रतिकृतं प्रतिभेदो रूपशेषमोघश्च । षष्ठी वै प्रतिशुष्का त्वेवं ज्ञेयं करणजातम् ॥ २९.११३ ॥ वीणावाद्यद्विगुणं गुरुलाघववादनं भवेद्रूपम् । रूपं प्रतिभेदकृतं प्रतिकृतमित्युच्यते वाद्यम् ॥ २९.११४ ॥ युगपत्कृतेऽन्यकरणं प्रतिभेदो दीर्घलाघवकृतः स्यात् । कृतमेकस्यां तन्त्र्यां प्रतिशुष्का नाम विज्ञेया ॥ २९.११५ ॥ वीणावाद्यविरामेऽप्यविरतकरणं तु रूपशेषः स्यात् । आविद्धकरणयुक्तो ह्युपर्युपरिपाणिकस्त्वोघः ॥ २९.११६ ॥ कार्यं ध्रुवाविधाने प्रायेण हि कोणवादनं तज्ज्ञैः । स्थानप्राप्त्यर्थं चेद्यत्तत्र भवेदयं नियमः ॥ २९.११७ ॥ तच्चौघतुल्यकरणं वाच्यं कार्यं विपञ्च्यास्तु । सप्ततन्त्री भवेच्चित्रा विपञ्ची तु भवेन्नव । कोणवादना विपञ्ची स्याच्चित्रा चाङ्गुलिवादना ॥ २९.११८ ॥ ततवाद्यविधानमिदं सर्वं प्रोक्तं समासयोगेन । वक्ष्याम्यतश्च भूयः सुषिरातोद्यप्रयोगं तु ॥ २९.११९ ॥ इति भरतीये नाट्यशास्त्रे ततातोद्यविधानं नाम एकोनत्रिंशत्तमोऽध्यायः _____________________________________________________________ त्रिंशोऽध्यायः अतोद्यं सुषिरं नाम ज्ञेयं वंशगतं बुधैः । वैण एव विधिस्तत्र स्वरग्रामसमाश्रयः ॥ ३०.१ ॥ द्विकत्रिकचतुष्कास्तु ज्ञेया वंशगताः स्वराः । कम्प्यमानार्थमुक्ताश्च व्यक्तमुक्तास्तथैव च ॥ ३०.२ ॥ तत्रोपरि यथा ह्येकः स्वरो वैणस्वरान्तरे । प्राप्नोत्यन्यत्वमेवेह तथा वंशगतोऽपि हि ॥ ३०.३ ॥ द्विकस्त्रिकश्चतुष्को वा श्रुतिसङ्ख्यो भवेत्स्वरः । अनीरणात्तु शेषाणां स्वराणामपि सम्भवः । अङ्गुलीवादनकृतं तच्च मे सन्निबोधत ॥ ३०.४ ॥ व्यक्तमुक्{ताङ्गुलिस्तत्र स्वरो ज्ञेयश्चतुःश्रुतिः । कम्प्यमानाङ्गुलिश्चैव त्रिश्रुतिः परिकीर्तितः । द्विकोऽर्धाङ्गुलिमुक्तः स्यादिति श्रुत्याश्रिताः स्वराः ॥ ३०.५ ॥ एते स्युर्मध्यमग्रामे भूयः षड्जाश्रिताः पुनः । व्यक्तमुक्{ताङ्गुलिकृताः षड्जमध्यमपञ्चमाः ॥ ३०.६ ॥ ऋषभो धैवतश्चापि कम्प्यमानाङ्गुलीकृतौ । अर्धमुक्ताङ्गुलिश्चैव गान्धारोऽथ निषादवान् ॥ ३०.७ ॥ स्वरसाधारणश्चापि काकल्यन्तरसंज्ञया । निषादगान्धारकृतौ षड्जमध्यमयोरपि ॥ ३०.८ ॥ विपर्यया सन्निकर्षे श्रुतिलक्षणसिद्धितः । वैणकण्ठप्रवेशेन सिद्धा एकाश्रिताः स्वराः ॥ ३०.९ ॥ यं यं गाता स्वरं गच्छेत्तं तं वंशेन वादयेत् । शारीरवैणवंश्यानामेकीभावः प्रशस्यते ॥ ३०.१० ॥ अविचलितमविच्छिन्नं वर्णालङ्कारसंयुतं विधिवत् । ललितं मधुरं स्निग्धं वेणोरेवं स्मृतं वाद्यम् ॥ ३०.११ ॥ एवमेतत्स्वरगतं विज्ञेयंगानयोक्तृभिः । अतः परं प्रवक्ष्यामि धनातोद्यविकल्पनम् ॥ ३०.१२ ॥ इति भरतीये नाट्यशास्त्रे सुषिरातोद्यलक्षणं नामाध्यायस्त्रिंशः _____________________________________________________________ अथ त्रयस्त्रिंशोऽध्यायः गुणात्प्रवर्तते गानं दोषं चैव निरस्यते । तस्माद्यत्नेन विज्ञेयौ गुणदोषौ समासतः ॥ ३३.१ ॥ गाता प्रत्यग्रवयाः स्निग्धो मधुरस्वरोपचितकण्ठः । लयतालकलापातप्रमाणयोगेषु तत्त्वज्ञः ॥ ३३.२ ॥ रूपगुणकान्तियुक्ता माधुर्योपेतसत्वसम्पन्नाः । पेशलमधुरस्निग्धानुनादिसमरक्त गुरुकण्ठाः ॥ ३३.३ ॥ (शुभ) सुविहितगमकविधायिन्योऽक्षोभ्यास्ताललयकुशलाः । आतोद्यार्पितकरणा विज्ञेया गायिकाः श्यामाः ॥ ३३.४ ॥ प्रायेण तु स्वभावात्स्त्रीणां गानं नृणां च पाठ्यविधिः । स्त्रीणां स्वभावमधुरः कण्ठो नृणां बलित्वं च ॥ ३३.५ ॥ यत्र स्त्रीणां पाठ्यं गुणैर्नराणां च गानमधुरत्वम् । ज्ञेयोऽलङ्कारोऽसौ न हि स्वभावो ह्ययं तेषाम् ॥ ३३.६ ॥ सुनिविष्टपाणिलययतियोगज्ञौसुमधुरलघुहस्तौ । गातृगुणैश्चोपेताववहितमनसौ सुसङ्गीतौ ॥ ३३.७ ॥ स्फुटरचितचित्रकरणौ गीतश्रवणाचलौप्रवीणौ च । चित्रादिवाद्यकुशलौवीणाभ्यां वादकौ भवतः ॥ ३३.८ ॥ बलवानवहितबुद्धिर्गीतलयज्ञस्तथासुसङ्गीतः । श्रावकमधुरस्निग्धो दृढपाणिर्वंशवादको ज्ञेयः ॥ ३३.९ ॥ अविचलितमविच्छन्नं वर्णालङ्कारबोधकंमधुरम् । स्निग्धं दोषविहीनं वेणोरेवं स्मृतं वाद्यम् ॥ ३३.१० ॥ ज्ञानविज्ञानकरणवचनप्रयोगसिद्धिनिष्पादनानि षडाचार्यगुणा इति । तत्र ज्ञानं शास्त्रावबोधः । यथा च क्रियासम्पादनं विज्ञानम् । कण्ठहस्तगौण्यं करणम् । जितग्रन्थता वचनम् । देशादिसम्पदाराधनं प्रयोगसिद्धिः । शिष्यस्वभावमविशेष्योपात्तय उपदेशाच्छिष्यनिष्पादनमिति ॥ ३३.११ ॥ श्रावणोऽथ घनः स्निग्धो मधुरोह्यवधानवान् । त्रिस्थानशोभीत्येवं तु षट्कण्ठस्य गुणा मताः ॥ ३३.१२ ॥ उदात्तं श्रूयते यस्मात्तस्माच्छ्रावण उच्यते । श्रावणः सुस्वरो यस्मादच्छिन्नः स घनो मतः ॥ ३३.१३ ॥ अरूक्षध्वनिसंयुक्तः स्निग्धस्तज्ज्ञैः प्रकीर्तितः । मनःप्रह्लादनकरः स वै मधुर उच्यते ॥ ३३.१४ ॥ स्वरेऽधिके च हीने च ह्यविरक्तो विधानवान् । शिरःकण्ठेष्वभिहितंत्रिस्थानमधुरस्वरः । त्रिस्थानशोभीत्येवं तु स हि तज्ज्ञैरुदाहृतः ॥ ३३.१५ ॥ कपिलो ह्यवस्थितश्चैव तथा सन्दष्ट एव च । काकी च तुम्बकी चैव पञ्च दोषा भवन्ति हि ॥ ३३.१६ ॥ वैस्वर्यं च भवेद्यत्र तथा स्याद्घर्घरायितम् । कपिलः स तु विज्ञेयः श्लेष्मकण्ठस्तथैव च ॥ ३३.१७ ॥ ऊनताऽधिकता चापि स्वराणां यत्र दृश्यते । रूक्षदोषहतश्चैव ज्ञेयः स त्वव्यवस्थितः ॥ ३३.१८ ॥ दण्डप्रयोगात्सन्दष्टस्त्वाचार्यैः परिकीर्तितः । यो न विस्तरति स्थाने स्वरमुच्चारणागतम् ॥ ३३.१९ ॥ नासाग्रग्रस्तशब्दस्तुतुम्बकी सोऽभिधीयते ॥ ३३.२० ॥ अन्ये तु समप्रहरणे चैव जविनौ विशदौ तथा । जितश्रमौ विकृष्टौ च मधुरौ स्वेदवर्जितौ । तथा बृयन्नखौ चैव ज्ञेयौ हस्तस्य वै गुणाः ॥ ३३.२१ ॥ इति एते गुणाश्च दोषाश्च तत्त्वतः कथितो मया । अत ऊर्ध्वं प्रवक्ष्यामि ह्यवनद्धविधिं पुनः ॥ ३३.२२ ॥ पूर्वं यदुक्तं प्रपितामहेन कुर्यात्य एवं तु नरः प्रयोगे सम्मानमग्रयं लभते स लोके ॥ ३३.२३ ॥ इति भरतीये नाट्यशास्त्रे गुणदोषविचारो नामाध्यायस्त्रयस्त्रिंशः _____________________________________________________________ अथ पञ्चत्रिंशोऽध्यायः विन्यासं भूमिकानां च सम्प्रवक्ष्यामि नाटके । यादृशो यस्य कर्तव्यो विन्यासो भूमिकास्वथ ॥ ३५.१ ॥ गतिवागङ्गचेष्टाभिः सत्त्वशीलस्वभावतः । परीक्ष्य पात्रं तज्ज्ञस्तु युञ्ज्याद्भूमिनिवेशने ॥ ३५.२ ॥ तस्मिन्नन्विष्य हि गुणवान् कार्या पात्रसमाश्रया । न खेदजननं बुद्धेराचार्यस्य भविष्यति ॥ ३५.३ ॥ आचार्यः पात्रजांश्चैव गुणाञ्ज्ञात्वा स्वभावजान् । ततः कुर्याद्यथायोगं नृणां भूमिनिवेशनम् ॥ ३५.४ ॥ अङ्गप्रत्यङ्गसंयुक्तमहीनाङ्गं वयोन्वितम् । न स्थूलं न कृशं चैव न दीर्घं न च मन्थरम् ॥ ३५.५ ॥ श्लिष्टाङ्गं द्युतिमन्तं च सुस्वरं प्रियदर्शनम् । एतैर्गुणैश्च संयुक्तं देवभूमिषु योजयेत् ॥ ३५.६ ॥ स्थूलं प्रांशुं बृहद्देहं मेघगम्भीरनिस्वनम् । रौद्रस्वभावनेत्रं च स्वभावभ्रुकुटीमुखम् ॥ ३५.७ ॥ रक्षोदानवदैत्यानां भूमिकासु प्रयोजयेत् । पुरुषाणां प्रयोगस्तु तथाङ्गक्रिययान्वितः ॥ ३५.८ ॥ सुनेत्रसुभ्रुवः स्वङ्गाः सुललाटाः सुनासिकाः । स्वोष्ठाः सुगण्डाः सुमुखाः सुकण्ठाः सुशिरोधराः ॥ ३५.९ ॥ स्वङ्गप्रत्यङ्गसंयुक्ता न दीर्घा न च मन्थराः । न स्थूला न कृशाश्चैव स्वभावेन व्यवस्थिताः ॥ ३५.१० ॥ सुशीला ज्ञानवन्तश्च तथा च प्रियदर्शनाः । कुमारराजभूमौ तु संयोज्याश्च नरोत्तमाः ॥ ३५.११ ॥ अङ्गैरविकलैर्धीरं स्फुटं वसनकर्मणि । न दीर्घं नैव च स्थूलमूहापोहविचक्षणम् ॥ ३५.१२ ॥ अदीनं च प्रगल्भं च प्रत्युत्पन्नविनिश्चयम् । सेनापतेरमात्यानां भूमिकासु प्रयोजयेत् ॥ ३५.१३ ॥ पिङ्गाक्षं घोणनासं च नेत्रमुच्चमथापि वा । कञ्चुकिश्रोत्रियादीनां भूमिकासु नियोजयेत् ॥ ३५.१४ ॥ एवमन्येष्वपि तथा नाट्यधर्मविभागतः । देशवेषानुरूपेण पात्रं योज्यं स्वभूमिषु ॥ ३५.१५ ॥ मन्थरं वामनं कुब्जं विकृतं विकृताननम् । विष्टब्धनेत्रं काणाक्षं स्थूलं चिपिटनासिकम् ॥ ३५.१६ ॥ दुर्जनं दुस्वभावं च विकृताचारमेव च । दासभूमौ प्रयुञ्जीत बुधो दासाङ्गसम्भवम् ॥ ३५.१७ ॥ प्रकृत्याऽतिकृशं क्षामं तपःश्रान्तेषु योजयेत् । तथा च पुरुषं स्थूलमुपरोधेषु योजयेत् ॥ ३५.१८ ॥ यदि वा नेदृशाः सन्ति प्रकृत्या पुरुषा द्विजाः । आचार्यबुद्ध्या योज्यास्तु भावचेष्टास्वभावतः ॥ ३५.१९ ॥ या यस्य सदृशी चेष्टा ह्युत्तमाधममध्यमा । स तथाऽऽचार्ययोगेन नियम्या भावभाविनी ॥ ३५.२० ॥ अतः परं प्रवक्ष्यामि भरतानां विकल्पनम् । भरताश्रयाश्च भरतो विदूषकः सौरिकस्तथा नान्दी । नन्दी ससूत्रधारो नाट्यरसो नायकश्चैव ॥ ३५.२१ ॥ मुकुटाभरणविकल्पौ विज्ञेयो माल्यवस्तुविविधैश्च । कारककुशीलवाद्या विज्ञेया नामतश्चैव ॥ ३५.२२ ॥ धुर्यवदेको यस्मादुद्धारोऽनेकभूमिकायुक्तः । भाण्डग्रहोपकरणैनाट्यं भरतो भवेत्तस्मात् ॥ ३५.२३ ॥ लोकाहृदाश्रयकृता सर्वप्रकृतिप्रचारसंयुक्ता । नानाश्रयां प्रकुरुते तथा च नारी तु सर्वत्र ॥ ३५.२४ ॥ प्रत्युत्पन्नप्रतिभो नर्मकृतो नर्मगर्भनिर्भेदः । छेदविदूषितवचनो विदूषको नाम विज्ञेयः ॥ ३५.२५ ॥ तूर्यतिस्तु नरः सर्वातोद्यप्रवादने कुशलः । तूरपरिग्रहयुक्तो विज्ञेयस्तौरिको नाम ॥ ३५.२६ ॥ नटनृति धात्वर्थोऽयं भूतं नाटयति लोकवृत्तान्तम् । रसभावसत्वयुक्तं यस्मात्तस्मान्नटो भवति ॥ ३५.२७ ॥ स्तुत्यभिवादनकृतैर्मधुरैर्वाक्यैः सुमङ्गलाचारैः । सर्व स्तौति हि लोकं यस्मात्तस्माद्भवेद्वादी ॥ ३५.२८ ॥ भावेभ्यो बहुधाऽस्मिन् रसा वदति नाट्ययोगेषु । प्राकृतसंस्कृतपाठ्यो नन्दी नामेति स ज्ञेयः ॥ ३५.२९ ॥ गीतस्य च वाद्यस्य च पाठ्यस्य च नैकभावविहितस्य । शिष्टोपदेशयोगात्सूत्रज्ञः सूत्रधारस्तु ॥ ३५.३० ॥ यस्मात्यथोपदिष्टान् रसांश्च भावांश्च सत्वसंयुक्तान् । भूमिविकल्पैर्नयति च नाट्यकरः कीर्तितस्तस्मात् ॥ ३५.३१ ॥ चतुरातोद्यविधानं सर्वस्य तु शास्त्रखे दविहितस्य । नाट्यस्यान्तं गच्छति तस्माद्वै नायकोऽभिहितः ॥ ३५.३२ ॥ नानाप्रकृतिसमुत्थं करोति यः शीर्षकं मुकुटयोगे । विविधैर्वेषविशेषैः स च कुटकारस्तु विज्ञेयः ॥ ३५.३३ ॥ भाण्डकवाद्यज्ञा या लयतालज्ञा रसानुविद्धा च । सर्वाङ्गसुन्दरी वै कर्तव्या नाटकीया तु ॥ ३५.३४ ॥ यस्त्वाभरणं कुर्याद्बहुविधविहितं स चाभरणः । यश्चोपकरणयोगात्स तेन नाम्नाऽभिधातव्यः ॥ ३५.३५ ॥ यो वै माल्यं कुरुते पङ्चविधं माल्याकृत्स विज्ञेयः । यश्चापि वेषयोगं कुरुते स च वेषकारी तु ॥ ३५.३६ ॥ चित्रज्ञश्चित्रकरो वस्त्रस्य रञ्जानात्तथा रजकः । जत्वश्मलोहकाष्ठैर्द्रव्यकरैः कारुकश्चैव ॥ ३५.३७ ॥ नानातोद्यविधाने प्रयोगयुक्तः प्रवादने कुशलः । अतोद्येऽप्यतिकुशलो यस्मात्स कुशलवो ज्ञेयः ॥ ३५.३८ ॥ यद्यत्समाश्रयन्ते शिल्पं वा कर्म वा प्रयोगं वा । तनैवोपगतगुणा विज्ञेया नामतः पुरुषाः ॥ ३५.३९ ॥ एवं तु नाटकविधौ जातिर्नटसंश्रया बुधैर्ज्ञेया । नाट्योपकरणयुक्ता नानाशिल्पप्रसक्ता च ॥ ३५.४० ॥ उक्तोऽत्र भूमिकान्यासः प्रयोक्तारश्च योगतः । आदिष्टं नाट्यशास्त्रं च मुनयः किमिहोच्यताम् ॥ ३५.४१ ॥ इति भरतीये नाट्यशास्त्रे भूमिकाविकल्पाध्यायः पञ्चत्रिंशः _____________________________________________________________ अथ षट्त्रिंशोऽध्यायः अथात्रेयो वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः । अङ्गिरा गौतमोऽगस्त्यो मनुरायुस्तथात्मवान् ॥ ३६.१ ॥ विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दनुः । उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः ॥ ३६.२ ॥ दुर्वासा जामदग्न्यश्च मार्कण्डेयोऽथ गालवः । भरद्वाजश्च रैभ्यश्च यवक्रीतस्तथैव च ॥ ३६.३ ॥ स्थूलाक्षः शकलाक्षश्च काण्वो मेघातिथिः क्रतुः । नारदः पर्वतश्चैव सुवर्माथैकजो द्विजः ॥ ३६.४ ॥ नितम्बुर्भुवनः सौम्यः शतानन्दः कृतव्रणः । जामदग्न्यस्तथा रामः कचश्चेत्येवमादयः ॥ ३६.५ ॥ एवं ते मुनयः श्रुत्वा सर्वज्ञं भरतं ततः । पुनरूचुरिदं वाक्यं कुतूहलपुरोगमम् ॥ ३६.६ ॥ यस्त्वया गदितो ह्येष नाट्यवेदः पुरातनः । एकचित्तैः स चास्माभिः सम्यक्समुपधारितः ॥ ३६.७ ॥ एकश्च संशयोऽस्माकं तं नो व्याख्यातुमर्हसि । को वान्यो नाट्यवेदस्य निश्चयं वक्तुमर्हति ॥ ३६.८ ॥ न वयं परिहासेन न विरोधेन न चेर्ष्यया । पृच्छामो भगवन्नाट्यमुपदेशार्थमेव तु ॥ ३६.९ ॥ अस्माभिश्च तदा नोक्तं कथाच्छेदो भवेदिति । इदानीं तूपशिक्षार्थं नाट्यगुह्यं निदर्शय ॥ ३६.१० ॥ लोकस्य चरितं नाट्यमित्यवोचस्त्वमीदृशम् । तेषां तु लोकं गुह्यानां निश्चयं वक्तुमर्हसि ॥ ३६.११ ॥ देवस्य कस्य चरितं पूर्वरङ्गे द्विजर्षभ । किमर्थं भुज्यते ह्येष प्रयुक्तः किं करोति वा ॥ ३६.१२ ॥ कस्माच्चैव पुनः शौचं सम्यक्चरति सूत्रदृक् । कथमुर्वीतले नाट्यं स्वर्गान्निपतितं विभो ॥ ३६.१३ ॥ कथं तवायं वंशश्च नटसंज्ञः प्रतिष्ठितः । सर्वमेव यथातत्त्वं कथयस्व महामुने ॥ ३६.१४ ॥ तेषं तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं गुह्यार्थाभिनयं प्रति ॥ ३६.१५ ॥ ब्रवीमि वः कथां गुह्यां यन्मां पृच्छन् सुव्रताः । पूर्वरङ्गविधानस्य तां च मे सन्निबोधत ॥ ३६.१६ ॥ प्रोक्तवानस्मि यत्पूर्वं शुभं विघ्ननिबर्हणम् । तस्यानुबन्धेन मया पूर्वरङ्गः प्रकीर्तितः ॥ ३६.१७ ॥ शस्त्राणां प्रतिकारार्थं शरीरावरणं यथा । क्रियते हि तथा पापं हुतेनैव प्रशाम्यति ॥ ३६.१८ ॥ एवं जप्यैश्च होमैश्च देवताभ्यर्चनेन च । सर्वातोद्यविधानैश्च तथा गीतस्वनेन च ॥ ३६.१९ ॥ स्तुत्याशीर्वचनैः शान्तैः कर्मभावानुकीर्तनैः । मया पापापहरणैः कृते विघ्ननिबर्हणे ॥ ३६.२० ॥ स्तुतिगीतादिसंसृष्टैर्देवैरभिहितोऽस्म्यहम् । नितरां परितुष्टाः स्मः प्रयोगेणामुना च ते ॥ ३६.२१ ॥ देवतासुरमानन्द्य यस्मांल्लोकश्च नन्दति । तस्मादयं प्रयोगस्तु नान्दीनामा भविष्यति ॥ ३६.२२ ॥ गीतवाद्यानुनादो हि यत्र काकुस्वनः शुभः । तस्मिन् देशे विपाप्मानो माङ्गल्यं च भविष्यति ॥ ३६.२३ ॥ यावत्तं पूरयेद्देशं ध्वनिर्नाट्यसमाश्रयः । न स्थास्यन्ति हि रक्षांसि तं देशं न विनायकाः ॥ ३६.२४ ॥ आवाहे च विवाहे च यज्ञे नृपतिमङ्गले । नान्दीशब्दमुपश्रुत्य हिंस्रा नश्यन्ति चैव हि ॥ ३६.२५ ॥ पाठ्यं नाट्यं तथा गेयं चित्रवादित्रमेव च । वेदमन्त्रार्थवचनैः समं ह्येतद्भविष्यति ॥ ३६.२६ ॥ श्रुतं मया देवदेवात्तत्त्वतः शङ्कराद्धितम् । स्नानजप्यसहस्रेभ्यः पवित्रं गीतवादितम् ॥ ३६.२७ ॥ यस्मिन्नातोद्यनाट्यस्य गीतपाठ्यध्वनिः शुभः । भविष्यत्यशुभं देशे नैव तस्मिन् कदाचन ॥ ३६.२८ ॥ एवं पूजाधिकारार्थं पूर्वरङ्गः कृतो मया । नानास्तुतिकृतैर्वाक्यैर्देवताभ्यर्चनेन च ॥ ३६.२९ ॥ यतोऽभिवादनं क्लिष्टं शिष्टं तद्रङ्गमण्डले । ततस्तस्य हि तच्छौचं विहितं तु द्विजोत्तमाः ॥ ३६.३० ॥ शौचं कृत्वा यतो मन्त्रं पूजनं जर्जरस्य तु । उच्यते पूर्वरङ्गेऽस्मिन् तस्माच्छौचं प्रकीर्तितम् ॥ ३६.३१ ॥ यथावतारितं चैव नाट्यमेतन्महीतले । वक्तव्यं सर्वमेतद्धि न शक्यं हि निगूहितुम् ॥ ३६.३२ ॥ ममैते तनयाः सर्वे नाट्यवेदसमन्विताः । सर्वलोकं प्रहसनैः बाधन्ते नाट्यसंश्रयैः ॥ ३६.३३ ॥ कस्यचित्त्वथ कालस्य शिल्पकं ग्राम्यधर्मकम् । ऋषीणां व्यङ्ग्यकरणं कुर्वद्भिर्गुणसंश्रयम् ॥ ३६.३४ ॥ अश्राव्यं तद्दुराचारं ग्राम्यधर्मप्रवर्तितम् । निष्ठुरं चाप्रस्तुतं च काव्यं संसदि योजितम् ॥ ३६.३५ ॥ तच्छ्रुत्वा मुनयः सर्वे भीमरोषप्रकम्पिताः । ऊचुस्तान् भरतान् क्रुद्धा निर्दहन्त इवाग्नयः ॥ ३६.३६ ॥ मा तावद्भो द्विजा युक्तमिदमस्मद्विडम्बनम् । को नामायं परिभवः किञ्च नास्मासु सम्मतम् ॥ ३६.३७ ॥ यस्माज्ज्ञानमदोन्मत्ता न वेत्थाविनयाश्रिताः । तस्मादेतद्धि भवतां कुज्ञानं नाशमेष्यति ॥ ३६.३८ ॥ ऋषीणां ब्राह्मणानां च समवायसमागताः । निराहुता विना होमैः शूद्राचारा भविष्यथ ॥ ३६.३९ ॥ अपाङ्क्तेयाः कुत्सिताश्चावमा एव भविष्यथ । यश्च वो भविता वंशः सर्वाशौचो भविष्यति ॥ ३६.४० ॥ ये च वो वंशजास्तेऽपि भविष्यन्त्यथ नर्तकाः । परोपस्थानवन्तश्च शस्त्रपण्योपजीविनः ॥ ३६.४१ ॥ शापं दत्तं तथा ज्ञात्वा सुतेभ्यो मे तदा सुराः । सर्वे विमनसो भूत्वा तानृषीन् समुपस्थिताः ॥ ३६.४२ ॥ याचमानैस्ततः प्रोक्तं देवैः शक्रपुरोगमैः । इदानीं दुःखमुत्पन्नं नाट्यमेतद्विनङ्क्षति ॥ ३६.४३ ॥ ऋषिभिश्च ततः प्रोक्तं न चैतद्धि विनक्ष्यति । शेषमन्यत्र यद्प्रोक्तं सर्वमेतद्भविष्यति ॥ ३६.४४ ॥ एतच्छ्रुत्वा तु वचनं मुनीनामुग्रतेजसाम् । विष्ण्णास्ते ततः सर्वे श्रुत्वा मां समुपस्थिताः ॥ ३६.४५ ॥ प्रोक्तवन्तश्च मां पुत्रास्त्वयाहो नाशिता वयम् । अनेन नाट्यदोषेण शूद्राचारा हि यत्कृताः ॥ ३६.४६ ॥ मयापि सान्त्वयित्वोक्ता मा क्रोधं व्रजतानघाः । कृतान्तविहितोऽस्माकं नूनमेष विधिः सुताः ॥ ३६.४७ ॥ मुनीनां हि मृषा वाक्यं भविष्यति कदाचन । निधने च मनो मा भूद्युष्माकमिति सान्त्विताः ॥ ३६.४८ ॥ जानीध्वं तत्तथा नाट्यं ब्रह्मणा संप्रवर्तितम् । शिष्येभ्यश्च तदन्येभ्यः प्रयच्छामः प्रयोगतः ॥ ३६.४९ ॥ मा वै प्रणश्यतामेतन्नाट्यं दुःखप्रवर्तितम् । महाश्रयं महापुण्यं वेदाङ्गोपाङ्गसम्भवम् ॥ ३६.५० ॥ अप्सरोभ्य इदं चैव यथातत्त्वं यथाश्रुतम् । नाट्यं दत्त्वा ततः सर्वे प्रायश्चित्तं चरिष्यथ ॥ ३६.५१ ॥ इति भरतीये नाट्यशास्त्रे नाट्यशापो नाम षट्त्रिंशोऽध्यायः _____________________________________________________________ अथ सप्तत्रिंशोऽध्यायः कस्यचित्त्वथ कालस्य नहुषो नाम पार्थिवः । प्राप्तवान् देवराज्यं हि नयबुद्धिपराक्रमः ॥ ३७.१ ॥ प्रशशास तदा राज्यं देवैर्व्युष्टिमवाप्नुवन् । गान्धर्वं चैअ नाट्यं च दृष्ट्वा चिन्तामुपागमत् ॥ ३७.२ ॥ स चिन्तयित्वा मनसा कथमेष गृहे मम । नाट्यप्रयोगो हि भवेदिति सादर एव सन् ॥ ३७.३ ॥ कृताञ्जलिः प्रयोगार्थं प्रोक्तवांस्तु सुरान्नृपः । अप्सरोभिरिदं सार्धं नाट्यं भवतु मे गृहे ॥ ३७.४ ॥ प्रत्युक्तश्च ततो देवैर्बृहस्पतिपुरोगमैः । दिव्याङ्गनानां नैवेह मानुषैः सह सङ्गतिः ॥ ३७.५ ॥ हितं पथ्यं च वक्तव्यो भवान् स्वर्गाधिपो हि यत् । आचार्यास्तत्र गच्छन्तु गत्वा कुर्वन्तु ते प्रियम् ॥ ३७.६ ॥ प्रोक्तवांस्तु ततो मां तु नृपतिः स कृताञ्जलिः । इदमिच्छामि भगवन्नाट्यमुर्व्यां प्रतिष्ठितम् ॥ ३७.७ ॥ पूर्वमाचार्यकं चैव भवताऽभिहितं श्रुतम् । व्यक्तभावात्विदं लब्धं त्वत्सकाशाद्द्विजोत्तम ॥ ३७.८ ॥ पितामहगृहेऽस्माकं तदन्तःपुरे जने । पितामहक्रियायुक्त मुर्वश्यां सम्प्रवर्तितम् ॥ ३७.९ ॥ तस्याः प्रणाशशोकेन उन्मादोपरते नृपे । विपन्नेऽन्तःपुरजने पुनर्नाशमुपागतम् ॥ ३७.१० ॥ प्रकाशमेतदिच्छामो भूयस्तत्संप्रयोजितम् । तिथियज्ञक्रियास्वेतद्यथा स्यान्मङ्गलैः शुभैः ॥ ३७.११ ॥ तस्मिन्मम गृहे बद्धं नानाप्रकृतिसंश्रयम् । स्त्रीणां ललितविन्यासैर्यतो नः प्रथयिष्यति ॥ ३७.१२ ॥ तथाऽस्त्विति मया प्रोक्तो नहुषः पार्थिवस्तदा । सुताश्चाहूय सम्प्रोक्ता सामपूर्वं सुरैः सह ॥ ३७.१३ ॥ अयं हि नहुषो राजा याचते नः कृताञ्जलिः । गम्यतां सहितैर्भूमिं प्रयोक्तुं नाट्यमेव च ॥ ३७.१४ ॥ करिष्यमश्च शापान्तमस्मिन् सम्यक्प्रयोजिते । ब्राह्मणानां नृपाणां च भविष्यथ न कुत्सिताः ॥ ३७.१५ ॥ तत्र गत्वा प्रयुज्यन्तां प्रयोगान् वसुधातले । न शक्यं चान्यथा कर्तुं वचनं पार्थिवस्य हि ॥ ३७.१६ ॥ अस्माकं चैव सर्वेषां नहुषस्य महात्मनः । आत्मोपदेशसिद्धं हि नाट्यं प्रोक्तं स्वयंभुवा ॥ ३७.१७ ॥ शेषमुत्तरतन्त्रेण कोहलस्तु करिष्यति । प्रयोगः कारिकाश्चैव निरुक्तानि तथैव च ॥ ३७.१८ ॥ अप्सरोभिरिदं सार्धं क्रीडनीयकहेतुकम् । अधिष्ठितं मया स्वर्गे स्वातिना नारदेन च ॥ ३७.१९ ॥ ततश्च वसुधां गत्वा नहुषस्य गृहे द्विजाः । स्त्रीणां प्रयोगं बहुधा बद्धवन्तो यथाक्रमम् ॥ ३७.२० ॥ अत्रोपभोगतस्ते तु मानुषीषु मामात्मजाः । बद्धवन्तोऽधिकस्नेहं तासु तद्द्विजसत्तमाः ॥ ३७.२१ ॥ पुत्रानुत्पाद्य वध्वा च प्रयोगं च यथाक्रमम् । ब्रह्मणा समनुज्ञाताः प्राप्ताः स्वर्गं पुनः सुताः ॥ ३७.२२ ॥ एवमुर्वीतले नाट्यं शिष्यैः समवतारितम् । भरतानां च वंशोऽयं भविष्यं च प्रवर्तितः ॥ ३७.२३ ॥ कोहलादिभिरेवं तु वत्सशाण्डिल्यधूर्तितैः । मत्यधर्मक्रियायुक्तैः कश्चित्कालमवस्थितैः ॥ ३७.२४ ॥ एतच्छात्रं प्रणीतं हि नाराणां बुद्धिवर्धनम् । त्रैलोक्यस्य क्रियोपेतं सर्वशास्त्रनिदर्शनम् । मङ्गल्यं ललितं चैव ब्रह्मणो वदनोद्भवम् ॥ ३७.२५ ॥ य इदं श्रुणुयान्नित्यं प्रोक्तं चेदं स्वयम्भुवा । कुर्यात्प्रयोगं यश्चैवमथवाऽधीतवान्नरः ॥ ३७.२६ ॥ या गतिर्वेदविदुषां या गतिर्यज्ञकारिणाम् । या गतिर्दानशीलानां तां गतिं प्राप्नुयाद्धि सः ॥ ३७.२७ ॥ दानधर्मेषु सर्वेषु कीर्त्यते तु महत्फलम् । प्रेक्षणीयप्रदानं हि सर्वदानेषु शस्यते ॥ ३७.२८ ॥ न तथा गन्धमाल्येन देवास्तुष्यन्ति पूजिताः । यथा नाट्यप्रयोगस्थैर्नित्यं तुष्यन्ति मङ्गलैः ॥ ३७.२९ ॥ गान्धर्वं चेह नाट्यं च यः सम्यक्परिपालयेत् । स ईश्वरगणेशानां लभते सद्गतिं पराम् ॥ ३७.३० ॥ एवं नाट्यप्रयोगे बहुविधिविहितं कर्मशास्त्रं प्रणीतम् । नोक्तं यच्चात्र लोकादनुकृतिकरणात् । संविभाव्यं तु तज्ज्ञैः ॥ किं चान्यत्सम्प्रपूर्णा भवतु वसुमती नष्टदुर्भिक्षरोगा । शान्तिर्गोब्राह्मणानां भवतु नरपतिः पातु पृथ्वीं समग्राम् ॥ ३७.३१ ॥ इति भरतीये नाट्यशास्त्रे गुह्यतत्त्वकथनाध्यायः सप्तत्रिंशः नाट्यशास्त्रं संपूर्णम्