दशरूपकम् । [परिच्छेद १] नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते । मदाभेगघनध्वानो नीलकण्ठस्य ताण्डवे ॥ १.१ ॥ दशरूपानुकारेण माद्यन्ति भावकः । नमः सर्वविदे तस्मै विष्णवे भरताय च ॥ १.२ ॥ कस्यचिदेव कदाचिद्दयया विषयं सरस्वती विदुषः । घटयति कमपि तमन्यो जजति जनो येन वैदग्धीम् ॥ १.३ ॥ उद्धृत्योद्धृत्य सारं यमखिलनिगमान्नाट्यवेदं विरिञ्चिश् चक्रे यस्य प्रयोगं मुनिरपि भरतस्ताण्डवं नीलकण्ठः । शर्वाणी लास्यमस्य प्रतिपदमपरं लक्ष्म कः कर्तुमीष्टे नाट्यानां किन्तु किञ्चित्प्रगुणरचनया लक्षणं सङ्क्षिपामि ॥ १.४ ॥ व्याकीर्णे मन्दबुद्धीनां जायते मतिविभ्रमः । तस्यार्थस्तत्पदैस्तेन सङ्क्षिप्य क्रियतेऽञ्जसा ॥ १.५ ॥ आनन्दनिस्यन्दिषु रूपकेषु व्युत्पत्तिमात्रं फलमल्पबुद्धिः । योऽपीतिहासादिवदाह साधुस् तस्मै नमः स्वादुपराङ्मुखाय ॥ १.६ ॥ अवस्थानुकृतिर्नाट्यं रूपं दृश्यतयोच्यते । रूपकं तत्समारोपाद्दशधैव रसाश्रयम् ॥ १.७ ॥ नाटकं सप्रकरणं भाणः प्रहसनं डिमः । व्यायोगसमवकारौ वीथ्यङ्केहामृगा इति ॥ १.८ ॥ अन्यद भावाश्रयं नृत्यं नृत्तं ताललयाश्रयम् । आद्यं पदार्थाभिनयो मार्गो देशो तथा परम् ॥ १.९ ॥ मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनः । लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥ १.१० ॥ वस्तु नेता रसस्तेषां भेदको वस्तु च द्विधा । तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विदुः ॥ १.११ ॥ अधिकारः फलस्वाम्यमधिकारो च तत्प्रभुः । तन्निरवर्त्यमभिव्यापि वृत्तं स्यादाधिकारिकम् ॥ १.१२ ॥ प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः । सानुबन्धं पताकाख्यं प्रकरी च प्रदेशभाक् ॥ १.१३ ॥ प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः । सानुबन्धं तुल्यसंविधानविशेषणम् ॥ १.१४ ॥ प्रख्यातोत्पाद्यमिश्रत्वभेदात्त्रेधापि तत्त्रिधा । प्रख्यातमितिहासादेरुत्पाद्यं कविकल्पितम् । मिश्रं च सङ्करात्ताभ्यां दिव्यनर्त्यादिभेदतः ॥ १.१५ ॥ कार्यं त्रिवर्गस्तत्शुद्धमेकानेकानुबन्धि च । स्वल्पोद्दिष्टस्तु तद्धेतुर्बीजं विस्तार्यनेकधा । अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥ १.१६ ॥ बीजबिन्दुपताकाख्यप्रकरोकार्यलक्षणाः । अर्थप्रकृतयः पञ्च ता एताः परिकीर्तिताः ॥ १.१७ ॥ अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः । आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥ १.१८ ॥ औत्सुक्यमात्रमारम्भः फललाभाय भूयसे । प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः ॥ १.१९ ॥ उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसम्भवः । अपायाभावतः प्राप्तिर्नियताप्तिः सुनिश्चिता । समग्रफलसम्पत्तिः फलयोगो यथोदितः ॥ १.२० ॥ अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः । यथासङ्ख्येन जायन्ते मुखाद्याः पञ्च सन्धयः ॥ १.२१ ॥ अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति । मुखप्रतिमुखे गर्भः सावमर्शोपसंहृतिः ॥ १.२२ ॥ मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा । अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ॥ १.२३ ॥ उपक्षेपः परिकरः परिन्यासो विलोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना । उद्भेदभेदकरणान्यन्वर्थान्यथ लक्षणम् ॥ १.२४ ॥ बीजन्याससुपक्षेपः तद्बाहुल्यं परिक्रिया । तन्न्निष्पत्तिः परिन्यासो गुणाख्यानाद्विलोभनम् ॥ १.२५ ॥ सम्प्रधारणमर्थानां युक्तिः प्राप्तिः सुखागमः । बीजागमः समाधानं विधानं सुखदुःखकृत् ॥ १.२६ ॥ परिभावोद्भुतावेश उद्भेदो गूढभेदनम् । करणं प्रकृतारम्भो भेदः प्रोत्साहना मता ॥ १.२७ ॥ लक्ष्यालक्ष्य इवोद्भेदस्तस्य प्रतिमुखं भवेत् । बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश ॥ १.२८ ॥ विलासः परिसर्पश्च विधूतं शमनर्मणो । नर्मद्युतिः प्रगयणं निरोधः पर्युपासनम् ॥ १.२९ ॥ वज्रं पुष्पमुपन्याप्तो वर्ण संहार इत्यपि । रत्यर्थेहा विलासः स्याद्दृष्टनष्टानुसर्पणम् । परिसर्पा विधूतं स्यादरतिस्तच्छमः शमः ॥ १.३० ॥ परिहासवत्तो नर्म धृतिस्तज्जा द्युतिर्मता । उत्तरा वाक्प्रगयणं हितरोधो निरोधनम् ॥ १.३१ ॥ पर्युपास्तिरनुनयः पुष्पं वाक्यं विशेषवत् । उपन्यासस्तु सोपायं वज्रं प्रत्यक्षनिष्ठुरम् । चातुर्वर्णोपगमनं वर्णसंहार इष्यते ॥ १.३२ ॥ गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः । द्वादशाङ्गः पताका स्यान्न वा स्यात्प्राप्तिसम्भवः ॥ १.३३ ॥ अभूताहरणं मार्गा रूपोदाहरणे क्रमः । सङ्गहश्चानुमानं च तोटकाधिवले तथा ॥ १.३४ ॥ उद्वेगसम्भ्रमाक्षेपा लक्षणं च प्रणीयते । अभूताहरणं छद्म मार्गस्तत्त्वार्थकीर्तनम् ॥ १.३५ ॥ रूपं वितर्कवद्वाक्यं सोत्कर्षं स्यादुदाहृतिः । क्रमः सञ्चिन्त्यमानाप्तिर्भावज्ञानमथापरे ॥ १.३६ ॥ सङ्ग्रहः सामदानोक्तिरभ्यूहो लिङ्गतोऽनुमा । अधिवलमभिसन्धिः संरब्धं तोटकं वचः ॥ १.३७ ॥ उद्वेगोऽरिछ(?)ता भीतिः शङ्कात्रासौ च सम्भ्रमः । गर्भबीजसमुद्भेदादाक्षेपः परिकीर्तितः ॥ १.३८ ॥ क्रोधेनावमृशेद्यत्र व्यसनाद्या विलोभनात् । गर्भनिर्भिन्नबीजार्थः सोऽवमर्शोऽङ्गसङ्गहः ॥ १.३९ ॥ तत्रापवादसम्फेटौ विद्रवद्रवशक्तयः । द्युतिः प्रसङ्गश्छलनं व्यवसायो विरोधनम् । प्रयोचना विचलनमादानं च तर्योदश ॥ १.४० ॥ दोषप्रख्यापवादः स्यात्सम्फेटो रोषभाषणम् । विद्रवो वधबन्धादिर्द्रवो गुरुतिरस्कृतिः ॥ १.४१ ॥ विरोधशमनं शक्तिस्तर्जनोद्वेजने द्युतिः । गुरुकीर्तनं प्रसङ्गश्छलनं चावमाननम् ॥ १.४२ ॥ व्यवसायः खशक्त्युक्तिः संरब्धानां विरोधनम् । सिद्धामन्त्रणतो भाविदर्शिका स्यात्प्रयोचना । विकत्थना विचलनमादानं कार्यसङ्ग्रहः ॥ १.४३ ॥ बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् । ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥ १.४४ ॥ सन्धिर्विबोधो ग्रथनं निर्णयः परिभाषणम् । प्रसादानन्दसमयाः कृतिभाषोपगूहनाः । पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ १.४५ ॥ सन्धिर्बीजोपगमनं विबोधः कार्यमार्गणम् । ग्रथनं तदुपक्षेपोऽनुभूताख्या तु निर्णयः ॥ १.४६ ॥ परिभाषा मिथो जल्पः प्रसादः पर्युपासनम् । आनन्दो वाञ्छितावाप्तिः समयो दुःखनिर्गमः ॥ १.४७ ॥ कृतिर्लब्धार्थशमनं मानाद्याप्तिश्च भाषणम् । कार्यदृष्ट्यद्भुतप्राप्तो पूर्वभावोपगूहने । वराप्तिः काव्यसंहारः प्रशस्तिः शुभशंसनम् ॥ १.४८ ॥ इष्टस्यार्थस्य रचना गोप्यगुप्तिः प्रकाशनम् । रागः प्रयोगस्याश्चर्यं वृत्तान्तस्यानुपक्षयः ॥ १.४९ ॥ द्वेधा विभागः कर्तव्यः सर्वस्यापोह वस्तुनः । सूच्यमेव भवेत्किञ्चिद्दृश्यश्रव्यमथापरम् ॥ १.५० ॥ नीरसोऽनुचितस्तत्र संसूच्यो वस्तुविस्तरः । दृश्यस्तु मधुरोदात्तरसभावनिरन्तरः ॥ १.५१ ॥ अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत् । विष्कम्भचूलिकाङ्गास्याङ्कावतारप्रवेशकैः ॥ १.५२ ॥ वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । सङ्क्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः । एकानेककृतः शुद्धः सङ्कीर्णो नीचमध्यमैः ॥ १.५३ ॥ तद्वदेवानुदात्तोक्त्या नीचपात्रप्रयोजितः । प्रवेशोऽङ्कद्वयस्यान्तः शेषार्थस्योपसूचकः ॥ १.५४ ॥ अन्तर्यवनिकासंस्थैश्चूलिकार्थस्य सूचना । अङ्कान्तपात्रैरङ्कास्यं छिन्नाङ्कस्यार्थसूचनात् ॥ १.५५ ॥ अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः । एभिः संसूचयेत्सूच्यं दृश्यमङ्कैः प्रदर्शयेत् ॥ १.५६ ॥ नाट्यधर्ममपेक्ष्यैतत्पुनर्वस्तु त्रिधेष्यते । सर्वेषां नियतस्यैव श्राव्यमश्राव्यमेव च ॥ १.५७ ॥ सर्वश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम् । द्विधान्यन्नाट्यधर्माख्यं जनान्तमपवारितम् ॥ १.५८ ॥ त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् । अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् । रहस्यं कथ्यतेऽन्यस्य परावृत्त्यापवारितम् ॥ १.५९ ॥ किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानक्तमप्येकस्तत्स्यादाकाशमापितम् ॥ १.६० ॥ इत्याद्यशेषमिह वस्तुविभेदजातं रामायणादि च विभाव्य बृहत्कथां च । आसूत्रयेत्तदनु नेतृरसानुगुण्याच् चित्रां कथामुचितचारुवचःप्रपञ्चैः ॥ १.६१ ॥ -------------------------------------------------------------------------------- [परिच्छेद २] नेता विनीतो मधुरस्त्यागी दक्षः प्रियग्वदः । रक्तलोकः शुचिर्वाङ्मी रूढवंशः स्थिरो युवा ॥ २.१ ॥ बुद्ध्युत्साहस्मृतिप्रज्ञाकलामानसमन्वितः । शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः । भेदैश्चतुर्धा ललितशान्तोदात्तोद्धतैरयम् ॥ २.२ ॥ निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः । सामान्यगु.अयुक्तस्तु धीरशान्तो द्विजादिकः ॥ २.३ ॥ महासत्त्वोऽतिगम्भीरः क्षमावानविकत्थनः । स्थिरो निगूढाहङ्कारो धीरोदात्तो दृढव्रतः ॥ २.४ ॥ दर्पमात्सर्यभूयिष्ठो मायाछद्मपरायणः । धीरोद्धतस्त्वहङ्कारो चलश्चण्डो विकत्त्थनः ॥ २.५ ॥ स दक्षिणः शठो धृष्टः पूर्वां प्रत्यन्यया हृतः । दक्षिणोऽस्यां सहृदयः गूढविप्रियकृत्शठः । व्यक्ताङ्गवैकृतो धृष्टोऽनुकूलस्त्वेकनायिकः ॥ २.६ ॥ पताकानायकस्त्वन्यः पीठमर्दो विचक्षणः । तस्यैवानुचरो भक्तः किञ्चिदूनश्च तद्गुणैः ॥ २.७ ॥ एकविद्यो विटश्चान्यो हास्यकृच्च विदूषकः । लुब्धो धीरोद्धतस्तब्धः(?) पापकृद्व्यसनी रिपुः ॥ २.८ ॥ शोभा विलासो माधुर्यं गाम्भीर्यं धैर्यतेजसी । ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥ २.९ ॥ नीचे धृणाधिके स्पर्धा शोभायां शौर्यदक्षते । गतिः सधैर्या दृष्टिश्च विलासे सम्मितं वचः ॥ २.१० ॥ श्लक्ष्णो विकारो माधुर्यं सङ्क्षोभे सुमहत्यपि । गाम्भीर्यं यत्प्रभावेन विकारो नोपलक्ष्यते ॥ २.११ ॥ व्यवसायादचलनं स्थैर्यं विघ्नकुलादपि । अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि ॥ २.१२ ॥ शृङ्गाराकारचेष्टात्वं सहजं ललितं मृदु । प्रियोक्त्याजीविताद्दानमौदार्यं सदुपग्रहः ॥ २.१३ ॥ स्वान्या साधारणस्त्रीति तद्गुणा नायिका त्रिधा । मुग्धा मध्या प्रगल्भेति स्वीया शीलार्जवादियुक् ॥ २.१४ ॥ मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि । मध्योद्यद्यावनानङ्गा मोहान्तसुरतक्षमा ॥ २.१५ ॥ धीरा सोत्प्रासवक्रोक्त्या मध्या साश्रु कृतागमम् । खेदयेद्दयितं कोपादधीरा परुषाक्षरम् ॥ २.१६ ॥ यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके । विलीयमानेवानन्दाद्रतारम्भेऽप्यचेतना ॥ २.१७ ॥ सावहित्थादरोदास्ते रतौ धीरेतरा क्रुधा । सन्तर्ज्य ताडयेन्मध्या मध्याधीरेव तं वदेत् । द्वेधा ज्येष्ठा कनिष्टा चेत्यमुग्धा द्वादशोदिताः ॥ २.१८ ॥ अन्यस्त्री कन्यकोढा च नान्योढाङ्गिरसे क्वचित् । कन्यानुरागमिच्छातः कुर्यादङ्गाङ्गिसंश्रयम् ॥ २.१९ ॥ साधारणस्त्री गणिका कलाप्रागल्भ्यधौर्त्ययुक् । छन्नकामसुखार्थाज्ञस्वतन्त्राहंयुपण्डकान् ॥ २.२० ॥ रक्तेव रञ्जयेदाढ्यान्निःस्वान्मात्रा विवासयेत् । रक्तैव त्वप्रहसने नैषा दिव्यनृपाश्रये ॥ २.२१ ॥ आसामष्टाववस्थाः स्युः स्वाधीनपतिकादिकाः । आसन्नायत्तरमणा हृष्टा स्वाधीनभर्तृका ॥ २.२२ ॥ मुदा वासकसज्जा स्वं मण्डयत्येष्यति प्रिये । चिरयत्यव्यलीके तु विरहोत्कण्ठितोन्मनाः ॥ २.२३ ॥ ज्ञातेऽन्यासङ्गविवृते खण्ड्तेर्ष्याकषायिता । कलहान्तरितामर्षाद्विधूतेऽनुशयार्तियुक् ॥ २.२४ ॥ विप्रलब्धोक्तसमयमप्राप्तेऽतिविमानिता । दूरदेशाब्तरस्थे तु कार्यतः प्रोषितप्रिया । कामार्ताभिसरेत्कान्तं सारयेद्वाभिसारिका ॥ २.२५ ॥ चिन्तानिःश्वासखेदाश्रुवैवर्ण्यग्लान्यभूषणैः । युक्ताः षडन्त्या द्वे चाद्ये क्रोडौज्ज्वल्यप्रहर्षितैः ॥ २.२६ ॥ दूत्यो दासी सखी कारूर्धात्रेयी प्रतिवेशिका । लिङ्गिनी शिल्पिनी स्वं च नेतृमित्रगुणान्विताः ॥ २.२७ ॥ यौवने सत्त्वजाः स्त्रीणामलङ्कारास्तु विंशतिः । भावो हावश्च हेला च त्रयस्तत्र शरीरजाः ॥ २.२८ ॥ शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता । औदार्यं धैर्यमित्येते सप्त भावा अयत्नजाः ॥ २.२९ ॥ लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् । मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा । विहृतं चेति विज्ञेया दश भावाः स्वभावजाः ॥ २.३० ॥ निर्विकारात्मकात्सत्त्वाद्भावस्तत्राद्यविक्रिया । हेवाकसस्तु शृङ्गारो हावोऽक्षिभ्रूविकारकृत् ॥ २.३१ ॥ स एव हेला सुव्यक्तशृङ्गाररससूचिका । रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम् ॥ २.३२ ॥ मन्मथावापितच्छाया सैव कान्तिरिति स्मृता । अनुलबणत्वं माधुर्यं दीप्तिः कान्तेस्तु विस्तरः ॥ २.३३ ॥ निःसाध्वसत्वं प्रागल्भ्यं औदार्यं प्रश्रयः सदा । चापलाविहता धैर्यं चिद्वृत्तिरविकत्थना ॥ २.३४ ॥ प्रियानुकरणं लीला मधुराङ्गविचेष्टितैः । तात्कालिको विशेषस्तु विलासोऽङ्गक्रियादिषु ॥ २.३५ ॥ आकल्परचनाल्पापि विच्छित्तिः कान्तिपोप(?)कृत् । विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ॥ २.३६ ॥ क्रोधाश्रुहर्षभीत्यादेः सङ्करः किलकिञ्चितम् । मोट्टायितं तु तद्भावभावनेष्टकथादिषु ॥ २.३७ ॥ सानन्दान्तः कुट्टमितं कुप्येत्केशाधरग्रहे । गर्वाभिमानादिष्टेऽपि बिब्बोकोऽनादरक्रिया ॥ २.३८ ॥ सुकुमाराङ्गविन्यासो मसृणो ललितं भवेत् । प्राप्तकालं न यद्ब्रूयाद्व्रीडया विहृतं हि तत् ॥ २.३९ ॥ मन्त्री स्वं वोभयं वापि सखा तस्यार्थचिन्तने । मन्त्रिणा ललितः शेषाः मन्त्रिस्वायत्तसिद्धयः ॥ २.४० ॥ ऋत्विक्पुरोहितौ धर्मे तपस्विब्रह्मवादिनः । सुहृत्कुमाराटविका दण्डे सामन्तसैनिकाः ॥ २.४१ ॥ अन्तःपुरे वर्षवराः किराता मूकवामनाः । म्लेच्छाभीरशकाराद्याः स्वस्वकार्योपयोगिनः ॥ २.४२ ॥ ज्येष्ठमध्याधमत्वेन सर्वेषां च त्रिरूपता । तारतम्याद्यथोक्तानां गुणानां चोत्तमादिता । एवं नाट्ये विधातव्यो नायकः सपरिच्छदः ॥ २.४३ ॥ तद्व्यापारात्मिका वृत्तिश्चतुर्धा तत्र कैशिकी । गतिनृत्यविलासाद्यैर्मृदुः शृङ्गारचेष्टितैः । नर्मतैस्फिञ्जतत्स्फोटतद्गैभैश्चतुरङ्गिका ॥ २.४४ ॥ वैदग्ध्यक्रीडितं नर्म प्रियोपच्छन्दनात्मकम् । हास्येनैव सशृङ्गारभयेन विहितं त्रिधा ॥ २.४५ ॥ आत्मोपक्षेपसम्भोगमानैः शृङ्गार्यपि त्रिधा । शुद्धमङ्गं भयं द्वेधा वाग्वेषचेष्टितैः । सर्वं सहास्यमित्येवं नर्मास्टादशधोदितम् ॥ २.४६ ॥ नर्मस्फिञ्जः सुखारम्भो भयान्तो नवसङ्गमे । नर्मस्फोटस्तु भावानां सूचितोऽल्परसो लवैः ॥ २.४७ ॥ छन्ननेत्रप्रतीचारो नर्मगर्भोऽर्थहेतवे । अङ्गैः सहास्यनिर्हास्यैरेभिरेषात्र कैशिकी ॥ २.४८ ॥ विशोका सात्त्वती सत्त्वशौर्यत्यागदयाजवैः । संलापोत्थापकावस्यां साङ्घात्यः परिवर्तकः ॥ २.४९ ॥ संलापको गभीरोक्तिर्नानाभावरसा मिथः । उत्थापकस्तु यत्रादौ युद्धायोत्थापयेत्परम् ॥ २.५० ॥ मन्त्रार्थदैवशक्त्यादेः साङ्घात्यः सङ्घभेदनम् । प्रारब्धोत्थानकार्यान्यकरणात्परिवर्तकः ॥ २.५१ ॥ एभिरङ्गैश्चतुर्धेयं सात्त्वत्यारभटी पुनः । मायेन्द्रजालसङ्ग्रामक्रोधोद्भ्रान्तादिचेष्टितैः । सङ्क्षिप्तिका स्यात्सम्फेटो वस्तूत्थानावपातने ॥ २.५२ ॥ सङ्क्षिप्तवस्तुरचना सङ्क्षिप्तिः शिल्पयोगतः । पूर्वनेतृनिवृत्त्यान्ये नेत्रन्तरपरिग्रहः ॥ २.५३ ॥ सम्फेटस्तु समाघातः क्रुद्धसंरब्धयोर्द्वयोः । मायाद्युत्थापितं वस्तु वस्तूत्थापनमिष्यते । अवपातस्तु निष्क्रामप्रवेशत्रासविद्रवैः ॥ २.५४ ॥ एभिरङ्गैश्चतुर्धेयं नार्थवृत्तिरतः परा । चतुर्थी भारती सापि वाच्या नाटकलक्षणे ॥ २.५५ ॥ कैशिकीं सात्त्वतीं चार्थवृत्तिमारभटीमिति । पठन्तः पञ्चमीं वृत्तिमौद्भटाः प्रतिजानते ॥ २.५६ ॥ शृङ्गारे कौशिकी वीरे सात्त्वत्यारभटी पुनः । रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥ २.५७ ॥ देशभाषाक्रियावेषलक्षणाः स्युः प्रवृत्तयः । लोकादेवावगम्यैता यथौचित्यं प्रयोजयेत् ॥ २.५८ ॥ पाद्यं तु संस्कृतं नॄणामनीचानां कृतात्मनाम् । लिङ्गिनीनां महादेव्या मन्त्रिजावेश्ययोः क्वचित् ॥ २.५९ ॥ स्त्रीणां तु प्राकृतं प्रायः शूरसेन्यधमेषु च । पिशाचात्यन्तनीचादौ पैशाचं मागधं तथा ॥ २.६० ॥ यद्देशं नीचपात्रं यत्तद्देशं तस्य भाषितम् । कार्यतश्चोत्तमादीनां कार्यो भाषाव्यतिक्रमः ॥ २.६१ ॥ भगवन्तो वरैर्वाच्या विद्वद्देवर्षिलिङ्गिनः । विप्रामात्याग्रजाश्चार्या नटीसूत्रमृतौ मिथः ॥ २.६२ ॥ रथी सूतेन चायुष्मान् पूज्यैः शिष्यात्मजानुजाः । वत्सेति तातः पूज्योऽपि सुगृहीताभिधस्तु तैः ॥ २.६३ ॥ भावोऽनुगेन सूत्री च मार्षेत्येतेन सोऽपि च । देवः स्वामीति नृपतिर्भृत्यैर्भट्टेति चाधमैः ॥ २.६४ ॥ आमन्त्रणीयाः पतिवज्ज्येष्ठमध्याधमैः स्त्रियः । समा हलेति प्रष्या च हञ्जे वेश्याज्जुका तथा ॥ २.६५ ॥ कुट्टिन्यम्वेत्यनुगतैः पूज्या वा जरती जनैः । विदूषकेण भवती राज्ञी चेटीति शब्द्यते ॥ २.६६ ॥ चेष्टागुणोदाहृतिसत्त्वभावान् अशेषतो नेतृदशाविभिन्नान् । को वक्तुमीशो भरतो न यो वा यो वा न देवः शशिखण्डमौलिः ॥ २.६७ ॥ ============================== [परिच्छेद ३] प्रकृतित्वादथान्येषां भूयोरसपरिग्रहात् । सम्पूर्णलक्षणत्वाच्च पूर्वं नाटकमुच्यते ॥ ३.१ ॥ पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमास्थापयेन्नटः ॥ ३.२ ॥ दिव्यमर्त्ये स तद्रूपो मिश्रमन्यतरस्तयोः । सूचयेद्वस्तु बीजं वा मुखं पात्रमथापि वा ॥ ३.३ ॥ रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थसूचकैः । ऋतुं कञ्चिदुपादाय भारतीं वृत्तिमाश्रयेत् ॥ ३.४ ॥ भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः । भेदैः प्ररोचनायुक्तैर्वीर्थीप्रहसनामुखैः ॥ ३.५ ॥ उन्मुखीकरणं तत्र प्रशंसातः प्ररोचना । वीथी प्रहसनं चापि स्वप्रसङ्गेऽभिधास्यते । वीथ्यङ्गाव्यामुखाङ्गत्वादुच्यन्तेऽत्रैव तत्पुनः ॥ ३.६ ॥ सूत्रधारो नटीं ब्रूते मार्षं वाथ विदूषकम् । स्वकार्यं प्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् ॥ ३.७ ॥ प्रस्तावना वा तत्र स्युः कथाद्घातः प्रवृत्तकम् । प्रयोगातिशयश्चाथ वीथ्यङ्गानि त्रयोदश ॥ ३.८ ॥ स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः । गृहीत्वा प्रविशेत्पात्रं कथोद्घातो द्विधैव सः ॥ ३.९ ॥ कालसाम्यसमाक्षिप्तप्रवेशः स्यात्प्रवृत्तकम् । एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः । पात्रप्रवेशो यत्रैष प्रयोगातिशयो मतः ॥ ३.१० ॥ उद्घात्यकावलगिते प्रपञ्चत्रिगते छलम् । वाक्केल्यधिवले गण्डमवस्यन्दितनालिके । असत्प्रलापव्याहारमृदवानि त्रयोदश ॥ ३.११ ॥ गूढार्थपदपर्यायमाला प्रश्नोत्तरस्य वा । यत्रान्योन्यं समालापो द्वेधोद्घात्यं तदुच्यते ॥ ३.१२ ॥ यत्रैकत्र समावेशात्कार्यमन्यत्प्रसाध्यते । प्रस्तुतेऽन्यत्र वान्यत्स्यात्त(?) चावलगितं द्विधा ॥ ३.१३ ॥ असद्भूतमिथःस्तोत्रं प्रपञ्चो हास्यकृन्मतः । श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं त्विह । नटादित्रितयालापः पूर्वरङ्गे तदिष्यते ॥ ३.१४ ॥ प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य छलना छलम् । विनिवृत्त्यास्य वाक्केली द्विस्त्रिः प्रत्युक्तितोऽपि वा ॥ ३.१५ ॥ अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिवलं भवेत् । गण्डः प्रस्तुतसम्बन्धिभिन्नार्थं सहसोदितम् ॥ ३.१६ ॥ रसोक्तस्यान्यथा व्याख्या यत्रावस्यन्दित हि तत् । सोपहासा निगूढार्था नालिकैव प्रहेलिका ॥ ३.१७ ॥ असम्बद्धकथाप्रायोऽसत्प्रलापो यथोत्तरः । अन्यार्थमेव व्याहारो हास्यलास्यकरं वचः । दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत् ॥ ३.१८ ॥ एषामन्यतमेनार्थं पात्रं चाक्षिप्य सूत्रभृत् । प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रपञ्चयेत् ॥ ३.१९ ॥ अभिगम्यगुणैर्युक्तो धीरोदात्तः प्रतापवान् । कीर्तिकामो महोत्साहस्त्रय्यास्त्राता महीपतिः ॥ ३.२० ॥ प्रख्यातवंशो राजर्षिर्दिव्यो वा यत्र नायकः । तत्प्रख्यातं विधातव्यं वृत्तमत्राधिकारिकम् ॥ ३.२१ ॥ यत्तत्रानुचितं किञ्चिन्नायकस्य रसस्य वा । विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ॥ ३.२२ ॥ आद्यन्तमेवं निश्चित्य पञ्चधा तद्विभज्य च । खण्डशः सन्धिसञ्ज्ञांश्च विभागानपि खण्डयेत् ॥ ३.२३ ॥ चतुःषष्टिस्तु तानि स्युरङ्गानीत्यपरं तथा । पताकावृत्तमप्यूनमेकाद्यैरनुसन्धिभिः । अङ्गान्यत्र यथालाभमसन्धिं प्रकरीं न्यसेत् ॥ ३.२४ ॥ आदौ विष्कम्भकं कुर्यादङ्कं वा कार्ययुक्तितः । अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् । यदा सन्दर्शयेत्शेषं कुर्याद्विष्कम्भकं तदा ॥ ३.२५ ॥ यदा तु सरसं वस्तु मूलादेव प्रवर्तते । आदावेव तदाङ्कः स्यादामुखाक्षेपसंश्रयः ॥ ३.२६ ॥ प्रत्यक्षनेतृचरितो बिन्दुव्याप्तिपुरस्कृतः । अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ ३.२७ ॥ अनुभावविभावाभ्यां स्थायिना व्यभिचारिभिः । गृहीतमुक्तैः कर्तव्यमङ्गिनः परिपोषणं ॥ ३.२८ ॥ न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् । रसं वा न तिरोदध्याद्वस्त्वलङ्कारलक्षणैः ॥ ३.२९ ॥ एको रसोऽङ्गीकर्तव्यो वीरः शृङ्गार एव वा । अङ्गमन्ये रसाः सर्वे कुर्यान्निर्वहणेऽद्भुतम् ॥ ३.३० ॥ दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् । संरोधं भोजनं स्नानं सुरतं चानुलेपनम् ॥ ३.३१ ॥ अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् । नाधिकारिवधं क्वापि त्याज्यमावश्यकं न च ॥ ३.३२ ॥ एकाहाचरितैकार्थमित्थमासन्ननायकम् । पात्रैस्त्रिचतुरैरङ्कं तेषामन्तेऽस्य निर्गमः ॥ ३.३३ ॥ पताकास्थानकान्यत्र बिन्दुरन्ते च बीजवत् । एवमङ्काः प्रकर्तव्याः प्रवेशादिपुरस्कृताः । पञ्चाङ्कमेतदवरं दशाङ्कं नाटकं परम् ॥ ३.३४ ॥ अथ प्रकरणे वृत्तमुत्पाद्यं लोकसंश्रयम् । अमात्यविप्रवणिजामेकं कुर्याच्च नायकम् ॥ ३.३५ ॥ धीरप्रशान्तं सापायं धर्मकामार्थतत्परम् । शेपं नाटकवत्सन्धिप्रवेशकरसादिकम् ॥ ३.३६ ॥ नायिका तु द्विधा नेतुः कुलस्त्री गणिका तथा । क्वचिदेकैव कुलजा क्वापि द्वयं क्वचित् ॥ ३.३७ ॥ कुलजाभ्यन्तरा बाह्या वेश्या नातिक्रमोऽनयोः । आभिः प्रकरणं त्रेधा सङ्कीर्णं धूर्तसङ्कुलम् ॥ ३.३८ ॥ लक्ष्यते नाटिकाप्यत्र सङ्कीर्णान्यनिवृत्तये । तत्र वस्तु प्रकरणान्नाटकान्नायको नृपः । प्रख्यातो धीरललितः शृङ्गारोऽङ्गी सलक्षणः ॥ ३.३९ ॥ स्त्रीप्रायचतुरङ्कादिभेदकं यदि चेष्यते । एकद्वित्र्यङ्कपात्रादिभेदेनानन्तरूपता ॥ ३.४० ॥ देवी तत्र भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा । गम्भीरा मानिनी कृच्छात्तद्वशान्नेतृसङ्गमः ॥ ३.४१ ॥ नायिका तादृशी मुग्धा दिव्या चातिमनोहरा । अन्तःपुरादिसम्बन्धादासन्ना श्रुतिदर्शनैः ॥ ३.४२ ॥ अनुरागो नवावस्थो नेतुस्तस्यां यथोत्तरम् । नेता तत्र प्रवर्तेत देवीत्रासेन शङ्कितः । कैशिक्यङ्गैश्चतुर्भिश्च यक्ताङ्कैरिव नाटिका ॥ ३.४३ ॥ भाणस्तु धूर्तचरितं स्वानुभूतं परेण वा । यत्रोपवर्णयेदेको निपुणः पण्डितो विटः ॥ ३.४४ ॥ सम्बोधनोक्तिप्रत्युक्ती कुर्यादाकाशभापितैः । सूचयेद्वीरशृङ्गारौ शौर्यसौभाग्यसंस्तवैः ॥ ३.४५ ॥ भूयसा भारती वृत्तिरेकाङ्कं वस्तु कल्पितम् । मुखनिर्वहणे साङ्गे लास्याङ्गानि दशापि च ॥ ३.४६ ॥ गेयं पदं स्थितं पाद्यमासीनं पुष्पगण्डिका । प्रच्छेदकस्त्रिगूढं च सैन्धवाख्यं द्विगूढकम् ॥ ३.४७ ॥ उत्तमोत्तमकं चैव उक्तप्रत्युक्तमेव च । लास्ये दशविधं ह्येतदङ्गनिर्देशकल्पनम् ॥ ३.४८ ॥ तद्वत्प्रहसनं त्रेधा शुद्धवैकृतसङ्करैः । पाखण्डिविप्रप्रभृतिचेटचेटीविटाकुलम् । चेष्टितं वेपभाषाभिः शुद्धं हास्यवचोन्वितम् ॥ ३.४९ ॥ कामुकादिवचिवेषैः षण्ढकञ्चुकितापसैः । विकृतं सङ्कराद्वीथ्या सङ्कीर्णं धूर्तसङ्कुलम् । रसस्तु भूयसा कार्यः षड्विधो हास्य एव तु ॥ ३.५० ॥ डिमे वस्तु प्रसिद्धं स्याद्वृत्तयः कैशिकीं विना । नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः । भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ॥ ३.५१ ॥ रसैरहास्यशृङ्गारैः षड्भिर्दीप्तैः समन्वितः । मायेन्द्रजालसङ्ग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ॥ ३.५२ ॥ चन्द्रसूर्योपरागैश्च न्याय्ये रौद्ररसेऽङ्गिनि । चतुरङ्कश्चतुःसन्धिर्निर्विमर्शो डिमः स्मृतः ॥ ३.५३ ॥ ख्यातेतिवृत्तो व्यायोगः ख्यातोद्धतनराश्रयः । हीनो गर्भविमर्शाभ्यां दीप्ताः स्युर्डिमवद्रसाः ॥ ३.५४ ॥ अस्त्रीनिमित्तसङ्ग्रामो जामदग्न्यजये यथा । एकाहाचरितैकाङ्को व्यायोगो बहुभिर्नरैः ॥ ३.५५ ॥ कार्यं समवकारेऽपि आमुखं नाटकादिवत् । ख्यातं देवासुरं वस्तु निर्विमर्शास्तु सन्धयः ॥ ३.५६ ॥ वृत्तयो मन्दकैशिक्यो नेतारो देवदानवाः । द्वादशोदात्तविख्याताः फलं तेषां पृथक्पृथक् ॥ ३.५७ ॥ बहुवीररसाः सर्वे यद्वदम्भोधिमन्थने । अङ्कैःस्त्रिभिस्त्रिकपटस्त्रिशृङ्गारस्त्रिविद्रवः ॥ ३.५८ ॥ द्विसन्धिरङ्कः प्रथमः कार्यो द्वादशनालिकः । चतुर्द्विनालिकावन्त्यौ नालिका घटिकाद्वयम् ॥ ३.५९ ॥ वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः । नगरोपरोधयुद्धे वाताग्न्यादिकविद्रवाः ॥ ३.६० ॥ धर्मार्थकामैः शृङ्गारो नात्र विन्दुप्रवेशकौ । वीथ्यङ्गानि यथालाभं कुर्यात्प्रहसने यथा ॥ ३.६१ ॥ वीथी तु कैशिकीवृत्तौ सन्ध्यङ्गाङ्कैस्तु भाणवत् । रसः सूच्यस्तु शृङ्गारः स्पृशेदपि रसान्तरम् ॥ ३.६२ ॥ युक्ता प्रस्तावनाख्यातैरङ्गैरुद्घात्यकादिभिः । एवं वीथी विधातव्या द्व्येकपात्रप्रयोजिता ॥ ३.६३ ॥ उत्सृष्टिकाङ्के प्रख्यातं वृत्तं बुद्ध्या प्रपञ्चयेत् । रसस्तु करुणः स्थायी नेतारः प्राकृता नराः ॥ ३.६४ ॥ भाणवत्सन्धिवृत्त्यङ्गैर्युक्तः स्त्रीपरिदेवितैः । वाचा युद्धं विधातव्यं तथा जयपराजयौ ॥ ३.६५ ॥ मिश्रमोहामृगे वृत्तं चतुरङ्कं त्रिसन्धिमत् । नरदिव्यावनियमान्नायकप्रतिनायकौ ॥ ३.६६ ॥ ख्यातौ धीरोद्धतावन्त्यो विपर्यासादयुक्तकृत् । दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः ॥ ३.६७ ॥ शृङ्गाराभासमप्यस्य किञ्चित्किञ्चित्प्रदर्शयेत् । संरम्भं परमानीय युद्धं व्याजान्निवारयेत् । वधप्राप्तस्य कुर्वीत वधं नैव महात्मनः ॥ ३.६८ ॥ इत्थं विचिन्त्य दशरूपकलक्ष्ममार्गम् आलोक्य वस्तु परिभाव्य कविप्रबन्धान् । कुर्यादयत्नवदलङ्कृतिभिः प्रबन्धं वाक्यैरुदारमधुरैः स्फुटमन्दवृत्तैः ॥ ३.६९ ॥ ================================ [परिच्छेद ४] विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वाद्यत्वं स्थायी भावो रसः स्मृतः ॥ ४.१ ॥ ज्ञायमानतया तत्र विभावो भावपोषकृत् । आलम्बनोद्दीपनत्वप्रभेदेन स च द्विधा ॥ ४.२ ॥ अनुभावो विकारस्तु भावसंसूचनात्मकः । हेतुकार्यात्मनोः सिद्धिस्तयोः संव्यवहारतः ॥ ४.३ ॥ सुखदुःखादिकैर्भावैर्भावस्तद्भावभावनम् । पृथग्भावा भवन्त्यन्येऽनुभावत्वेऽपि सात्त्विकाः । सत्त्वादेव समुत्पत्तेस्तच्च तद्भावभावनम् ॥ ४.४ ॥ स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू । अश्रुवैस्वर्यमित्यष्टौ स्तम्भोऽस्मिन्निष्क्रियाङ्गता । प्रलयो नष्टसञ्ज्ञत्वं शेषाः सुव्यक्तलक्षणाः ॥ ४.५ ॥ विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः । स्थायिन्युन्मग्ननिर्मग्नाः कल्लोला इव वारिधौ ॥ ४.६ ॥ निर्वेदग्लानिशङ्काश्रमधृतिजडताहर्षदैन्यौग्र्यचिन्तास् त्रासेर्ष्यामर्षगर्वाः स्मृतिमरणमदाः सुप्तनिद्राविबोधाः । व्रीडापस्मारमोहाः समतिरलसतावेगतर्कावहित्था व्याध्युन्मादौ विपादोत्सुकचपलयुतास्त्रिंशदेते त्रयश्च ॥ ४.७ ॥ तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमाननम् । तत्र चिन्ताश्रुनिःश्वासवैअवर्ण्योच्छ्वासदीनताः ॥ ४.८ ॥ रत्याद्यायासतृट्क्षुद्भिर्ग्लानिर्निष्प्राणतेह च । वैवर्ण्यकम्पानुत्साहक्षामाङ्गवचनक्रियाः ॥ ४.९ ॥ अनर्थप्रतिभा शङ्का परक्रौर्यात्स्वदुर्नयात् । कम्पशोषाभिवीक्षादिरत्र वर्णस्वरान्यता ॥ ४.१० ॥ श्रमः खेदोऽध्वरत्यादेः स्वेदोऽस्मिन्मर्दनादयः । सन्तोषो ज्ञानशक्त्यादेर्धृतिरव्यग्रभोगकृत् ॥ ४.११ ॥ अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णीम्भावादयस्तत्र ॥ ४.१२ ॥ प्रसत्तिरुत्सवादिभ्यो हर्षोऽश्रुस्वेदगद्गदाः । दौर्गत्याद्यैरनौजस्यं दैन्यं कार्ष्ण्याभृजादिमत् ॥ ४.१३ ॥ दुष्टेऽपराधदौर्मुख्यक्रौर्यैश्चण्डत्वमुग्रता । तत्र स्वेदशिरःकम्पतर्जनाताडनादयः ॥ ४.१४ ॥ ध्यानं चिन्तेहितानाप्तेः शून्यताश्वासतापकृत् । गर्जितादेर्मनःक्षोभस्त्रासोऽत्रोत्कम्पितादयः ॥ ४.१५ ॥ परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजा । दोषोक्त्यवज्ञे स्रुकुटिमन्युक्रोधेङ्गितानि च ॥ ४.१६ ॥ अधिक्षेपापमानादेरमर्षोऽभिनिविष्टता । तत्र खेदशिरःकम्पतर्जनाताडनादयः ॥ ४.१७ ॥ गर्वोऽभिजनलावण्यबलैश्वर्यादिभिर्मदः । कर्माण्याधर्पणावज्ञा सविलासाङ्गवीक्षणम् ॥ ४.१८ ॥ सदृशज्ञानचिन्ताद्यैः संस्कारात्स्मृतिरत्र च । ज्ञातत्वेनार्थभासिन्यां भ्रूसमुन्नयनादयः । मरणं सुप्रसिद्धत्वादनर्थत्वाच्च नोच्यते ॥ ४.१९ ॥ हर्षोत्कर्षो मदः पानात्स्खलदङ्गवचोगतिः । निद्रा हासोऽत्र रुदितं ज्येष्ठमध्याधमादिषु । सुप्तं निद्रोद्भवं तत्र श्वासोच्छासक्रिया परम् ॥ ४.२० ॥ मनःसम्मीलनं निद्रा चिन्तालस्यक्लमादिभिः । तत्र जृम्भाङ्गभङ्गाक्षिमीलनोत्स्वप्नतादयः । विवोधः परिणामादेस्तत्र जृम्भाक्षिमर्दने ॥ ४.२१ ॥ दुराचारादिभिर्व्रीडा धार्ष्ट्याभावस्तमुन्नयेत् । साचीकृताङ्गावरणवैवर्ण्याधोमुखादिभिः ॥ ४.२२ ॥ आवेशो ग्रहदुःखाद्यैरपस्मारो यथाविधिः । भूपातकम्पप्रखेदलालाफेनोद्गमादयः ॥ ४.२३ ॥ मोहो विचित्तता भीतिदुःखावेशानुचिन्तनैः । तत्राज्ञानभ्रमाघातघूर्णनादर्शनादयः ॥ ४.२४ ॥ भ्रान्तिच्छेदोपदेशाभ्यां शास्त्रादेस्तत्त्वधीर्मतिः । आलस्यं श्रमगर्भादेजह्यजृम्भासितादिमत् ॥ ४.२५ ॥ आवेगः सम्ग्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगो वातात्पांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः । उत्पातात्स्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा वह्नेर्धूमाकुलास्यः करिजमनुभयस्तम्मकम्पापसाराः ॥ ४.२६ ॥ तर्को विचारः सन्देहाद्भ्रूशिरोङ्गुलिनर्तकः । लज्जाद्यैर्विक्रियागुप्ताववहित्थाङ्गविक्रिया । व्याधयः सन्निपाताद्यास्तेषामन्यत्र विस्तरः ॥ ४.२७ ॥ अप्रेक्षाकारितोन्मादः सन्निपातग्रहादिभिः । अस्स्मिन्नवस्था रुदितगीतहासासितादयः ॥ ४.२८ ॥ प्रारब्धकार्यासिद्ध्यादेर्विषादः सत्त्वसङ्क्षयः । निःश्वासोच्छ्वासहृत्तापसहायान्वेषणादिकृत् ॥ ४.२९ ॥ कालाक्षमत्वमौत्मुक्यं रम्येच्छारतिसम्ग्रमैः । तत्रोच्छ्वासत्वनिःश्वासहृत्तापस्वेदविभ्रमाः ॥ ४.३० ॥ मात्सर्यद्वेषरागादेश्चापलं त्वनवस्थितिः । तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥ ४.३१ ॥ विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते । आत्मभावं नयत्यन्यान् स स्थायी लवणाकरः ॥ ४.३२ ॥ रत्युत्साहज्गुप्साः क्रोधो हासः स्मयो भयं शोकः । शममपि केचित्प्राहुः पुष्टिर्नाट्येषु नैतस्य ॥ ४.३३ ॥ निर्वेदादिरताद्रूप्यादस्थायी स्वदते कथम् । वैरस्यायैव तत्पोषस्तेनाष्टौ स्थायिनो मताः ॥ ४.३४ ॥ वाच्या प्रकरणादिभ्यो बुद्धिस्था वा यथा क्रिया । वाक्यार्थः कारकैर्युक्ता स्थायी भावस्तथेतरैः ॥ ४.३५ ॥ रसः स एव स्वाद्व्यत्वाद्रसिकस्यैव वर्तनात् । नानुकार्यस्य वृत्तत्वात्काव्यस्यातत्परत्वतः ॥ ४.३६ ॥ द्रष्टुः प्रतीतिर्व्रीडेर्ष्यारागद्वेषप्रसङ्गतः । लौकिकस्य स्वरमणीसंयुक्तस्येव दर्शनात् ॥ ४.३७ ॥ धीरोदात्ताद्यवस्थानां रामादिः प्रतिपादकः । विभावयति रत्यादीन् स्वदन्ते रसिकस्य ते ॥ ४.३८ ॥ क्रीडतां मृन्मयैर्यद्वद्बालानां द्विरदादिभिः । स्वोत्साहः स्वदते तद्वच्छ्रोतृणामर्जुनादिभिः ॥ ४.३९ ॥ काव्यार्थभावनास्वादो नर्तकस्य न वार्यते । स्वादः काव्यार्थसम्भेदानात्मानन्दसमुद्भवः ॥ ४.४० ॥ विकाशविस्तरक्षोभविक्षेपैः स चतुर्बिधः । शृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात् ॥ ४.४१ ॥ हास्याद्भुतभयोत्कर्षकरुणानां त एव हि । अतस्तज्जन्यता तेषामत एवावधारणम् ॥ ४.४२ ॥ शमप्रकर्षो निर्वाच्यो मुदितादेस्तदात्मता । पदार्थैरिन्दुनिर्वेदरोमाञ्चादिस्वरूपकैः । काव्याद्विभावसञ्चार्यनुभावप्रख्यतां गतैः ॥ ४.४३ ॥ भावितः स्वदते स्थायी रसः स परिकीर्तितः । लक्षणैक्यं विभावैक्यादभेदाद्रसभावयोः ॥ ४.४४ ॥ रम्यदेशकलाकालवेषभोगादिसेवनैः । प्रमोदात्मा रतिः सैव यूनोरन्योन्यरक्तयोः । प्रहृष्यमाणा शृङ्गारो मधुराङ्गविचेष्टितैः ॥ ४.४५ ॥ ये सत्त्वजाः स्थायिनेव चाष्टौ त्रिंशत्त्रयो ये व्यभिचारिणश्च । एकोनपञ्चाशदमी हि भावाः युक्त्या निबद्धाः परिपोषयन्ति । आलस्यमौग्र्यं मरणं जुगुप्सा तस्याश्रयाद्वैतविरुद्धमिष्टम् ॥ ४.४६ ॥ तत्रायोगोऽनुरागेऽपि नवयोरेकचित्तयोः । पारतन्त्र्येण दैवाद्वा विप्रकर्षादसङ्गमः ॥ ४.४७ ॥ दशावस्थः स तत्रादावभिलाषोऽथ चिन्तनम् । स्मृतिर्गुणकथोद्वेगप्रलापोन्मादसञ्ज्वराः । जडता मरणं चेति दुरवस्थं यथोत्तरम् ॥ ४.४८ ॥ अभिलापः स्पृहा तत्र कान्ते सर्वाङ्गसुन्दरे । दृष्टे श्रुते वा तत्रापि विस्मयानन्दसाध्वसाः ॥ ४.४९ ॥ साक्षात्प्रतिकृतिस्वप्नच्छायामायासु दर्शनम् । श्रुतिर्व्याजात्सखीगीतमागधादिगुणस्तुतेः ॥ ४.५० ॥ सानुभावविभावास्तु चिन्ताद्याः पूर्वदर्शिताः । दशावस्थत्वमाचार्यैः प्रायो वृत्या निदर्शितम् । महाकविप्रबन्धेषु दृश्यते तदनन्तता ॥ ४.५१ ॥ दृष्टे श्रुतेऽभिलाषाच्च किं नौत्सुक्यं प्रजायते । अप्राप्तौ किं न निर्वेदो ग्लानिः किं नातिचिन्तनात् ॥ ४.५२ ॥ विप्रयोगस्तु विश्लेषो रूढविभ्रम्भयोर्द्विधा । मानप्रवासभेदेन मानोऽपि प्रणयेर्ष्ययोः ॥ ४.५३ ॥ तत्र प्रणयमानः स्यात्कोपावसितयोर्द्वयोः । स्त्रीणामीर्ष्याकृतो मानः कोपोऽन्यासङ्गिनि प्रिये । श्रुते वानुमिते दृष्टे श्रुतिस्तत्र सखीमुखात् ॥ ४.५४ ॥ उत्स्वप्नायितभोगाङ्कगोत्रस्खलनकल्पितः । त्रिधानुमानिको दृष्टः साक्षादिन्द्रियगोचरः ॥ ४.५५ ॥ यथोत्तरं गुरुः षड्भिरुपायैस्तमुपाचरेत् । साम्ना भेदेन दानेन नत्युपेक्षारसान्तरैः ॥ ४.५६ ॥ तत्र ओरियवचः साम भेदस्तत्सख्युपार्जनम् । दानं व्याजेन भूषादेः पादयोः पतनं नतिः ॥ ४.५७ ॥ सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम् । रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् । कोपचेष्टाश्च नारीणां प्रागेव प्रतिपादिताः ॥ ४.५८ ॥ कार्यतः सम्भ्रमाच्छापात्प्रवासो भिन्नदेशता । द्वयोस्तत्राश्रुनिःश्वासकार्श्यलम्बालकादिता ॥ ४.५९ ॥ द्वितीयः सहसोत्पन्नो दिव्यमानुपविप्लवात् । स्वरूपान्यत्वकरणाच्छापजः सन्निधावपि ॥ ४.६० ॥ मृते त्वेकत्र यत्रान्यः प्रलपेच्छोक एव सः । व्याश्रयत्वान्न शृङ्गारः प्रत्यापन्ने तु नेतरः ॥ ४.६१ ॥ प्रणयायोगयोरुत्का प्रवासे प्रोषितप्रिया । कलहान्तरितेर्ष्यायां विप्रलव्धा च खण्डिता ॥ ४.६२ ॥ अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स सम्भोगो मुदान्वितः ॥ ४.६३ ॥ चेष्टास्तत्र प्रवर्तन्ते लीलाद्या दश योषिताम् । दाक्षिण्यमार्दवप्रेम्णामनुरूपाः प्रियं प्रति ॥ ४.६४ ॥ रमयेच्चाटुकृत्कान्तः कलाक्रीडादिभिश्च ताम् । न ग्राम्यमाचरेत्किञ्चिन्नर्मभ्रंशकरं न च ॥ ४.६५ ॥ वीरः प्रतापविनयाध्यवसायसत्त्व- मोहाविषादनयविस्मयविक्रमाद्यैः । उत्साहभूः स च दयारणदानयोगात् त्रेधा किलात्र मतिगर्वधृतिप्रहर्षाः ॥ ४.६६ ॥ बीभत्सः कृमिपूतिगन्धिवमथुप्रायैर्जुगुप्सैकभूर् उद्वेगो रुधिरान्त्रकीकसवसामांसादिभिः क्षोभणः । वैराग्याज्जघनस्तनादिषु घृणाशुद्धोऽनुभावैर्वृतो नासावक्त्रविकूणनादिभिरिहावेगार्तिशङ्कादयः ॥ ४.६७ ॥ क्रोधो मत्सरवैरिवैकृतमयैः पोषोऽस्य रौद्रोऽनुजः क्षोभः खाधरदंशकम्पभ्रुकुटिस्वेदास्यरागैर्युतः । शत्रोल्लासविकत्थमांसधरणीघातप्रतिज्ञाग्रहैर् अत्रामर्षमदौ स्मृतिश्चपलतासूयाग्र्यवेगादयः ॥ ४.६८ ॥ विकृताकृतिवाग्वेषैरात्मनोऽथ परस्य वा । हासः स्यात्परिपोषोऽस्य हास्यस्त्रिप्रकृतिः स्मृतः ॥ ४.६९ ॥ स्मितमिह विकासिनयनं किञ्चिल्लक्ष्यद्विजं तु हसितं स्यात् । मधुरस्वरं विहसितं सशिरःकम्पमिदमुपहसितम् ॥ ४.७० ॥ अपहसितं सास्राक्षं विक्षिप्ताङ्गं भवत्यतिहसितम् । द्वे द्वे हसिते चैषां ज्येष्ठे मध्येऽधमे क्रमशः ॥ ४.७१ ॥ निद्रालस्यश्रमग्लानिमूर्छाश्च सहचारिणः । अतिलोकैः पदार्थैः स्याद्विस्मयात्मा रसोऽद्भुतः ॥ ४.७२ ॥ कर्मास्य साधुवादाश्रुवेपथुस्वेदगद्गदाः । हर्षावेगधृतिप्राया भवन्ति व्यभिचारिणः ॥ ४.७३ ॥ विकृतस्वरसत्त्वादेर्भयभावो भयानकः । सर्वाङ्गवेपथुस्वेदशोषवैचित्त्यलक्षणः । दैन्यसम्भ्रमसम्मोहत्रासादिस्तत्सहोदरः ॥ ४.७४ ॥ इष्टनाशादनिष्टाप्तौ शोकात्मा करुणोऽनु तम् । निःश्वासोच्छ्वासरुदितस्तम्भप्रलपितादयः ॥ ४.७५ ॥ स्वापापस्मारदैन्याधिमरणालस्यसम्भ्रमाः । विषादजडयोन्मादचिन्ताद्या व्यभिचारिणः ॥ ४.७६ ॥ प्रीतिभक्त्यादयो भावा मृगयाक्षादयो रसाः । हर्षोत्साहादिषु स्पष्टमन्तर्भावान्न कीर्तिताः ॥ ४.७७ ॥ षट्त्रिंशद्भूषणादीनि सामादीन्येकविंशतिः । लक्ष्यसन्ध्यन्तराङ्गानि सालङ्कारेषु तेषु च ॥ ४.७८ ॥ रम्यं जुगुप्सितमुदारमथापि नीचम् उग्रं प्रसादि गहनं विकृतं च वस्तु । यद्वाप्यवस्तु कविभावकभाव्यमानं तन्नास्ति यन्न रसभावमुपैति लोके ॥ ४.७९ ॥ विष्णोः सुतेनापि धनञ्जयेन विद्वन्मनोरागनिबन्धहेतुः । आविष्कृटं मुञ्जमहीशगोष्ठी- वैदग्ध्यभाजा दशरूपमेतत् ॥ ४.८० ॥