पाण्डितवरश्रीवामनविरचितसवृत्ति काव्यालङ्कारसूत्राणि अथ प्रथमेऽधिकरणे प्रथमोऽध्यायः । <प्रणम्य परमं ज्योतिर्वामनेन कविप्रिया । काव्यालङ्कारसूत्राणां तेषां वृत्तिर्विधीयते ॥> __________ काव्यं ग्राह्यमलङ्कारात् ॥ १,१.१ ॥ काव्यं खलु ग्राह्यमुपादेयं भवति, अलङ्कारात् । काव्यशब्दोऽयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोर्वर्तते । भक्त्या तु शब्दार्थमात्रवचनोऽत्र गृह्यते ॥१॥ कोऽसावलङ्कार इत्यत आह __________ सौन्दर्यमलङ्कारः ॥ १,१.२ ॥ अलङ्कृतिरङ्कारः । करणव्युत्पत्त्या पुनरलङ्कारशब्दोऽयमुपमादिषु वर्तते ॥२॥ __________ स दोषगुणालङ्कारहानादानाभ्याम् ॥ १,१.३ ॥ स खल्वलङ्कारो दोषहानाद्गुणालङ्कारादानाच्च्सम्पाद्यः कवेः ॥३॥ __________ शास्त्रतस्ते ॥ १,१.४ ॥ ते दोषगुणालङ्कारहानादाने । शास्त्रादस्मात् । शास्त्रतो हि ज्ञात्वा दोषाञ्जह्याद्, गुणालङ्कारांश्चाददीत ॥४॥ किं पुनः फलमलङ्करवता काव्येन, येनैतदर्थोऽयमित्याह __________ काव्यं सद्दृष्टादृष्टार्थम्, प्रीतिकीर्तिहेतुत्वात् ॥ १,१.५ ॥ {काव्यं सत्} चारु दृष्टप्रयोजनं , प्रीतिहेतुत्वात् । अदृष्टप्रयोजनं कीर्तिहेतुत्वात् । अत्र श्लोकाः <प्रतिष्ठां काव्यबन्धस्य यशसः सरणिं विदुः । अकीर्तिवर्त्तिनीं त्वेवं कुकवित्वविडम्बनम् ॥ कीर्तिस्वर्गफलामाहुराससारं विपश्चितः । अकीर्तिं तु निरालोकनरकोद्देशदूतिकाम् ॥ तस्मात्कीर्तिमुपादातुमकीर्तिं च निवर्हितुम् । काव्यालङ्कारसूत्रार्थः प्रसाद्यः कविपुङ्गवैः ॥> ॥५॥ इति श्रीपण्डितवरवामनविरचितकाव्यालङ्कारसूत्रवृत्तौ शरीरे प्रथमेऽधिकरणे प्रथमोऽध्यायः इति प्रयोजनस्थापना ॥११॥ अथ प्रतमेऽधिकरणे द्वितीयोऽध्यायः । [प्रयोजनस्थापना ।] अधिकारिनिरूपणार्थमाह __________ अरोचकिनः सतृणाभ्यवहारिणश्च कवयः ॥ १,२.१ ॥ इह खलु द्वये कवयः सम्भवन्ति । अरोचकिनः , सतृणाभ्यवहारिणश्चेति । अरोचकिसतृणाभ्यवहारिशब्दौ गौणार्थौ । कोऽसावर्थः । विवेकित्वमविवेकित्वं चेति ॥१॥ यदाह __________ पूर्वे शिष्याः, विवेकित्वात् ॥ १,२.२ ॥ पूर्वे खल्वरोचकिनः शिष्याः शासनीयाः । विवेकित्वात्विवेचनशीलत्वात् ॥२॥ __________ नेतरे तद्विपर्ययात् ॥ १,२.३ ॥ इतरे सतृणाभ्यवहारिणो न शिष्याः । तद्विपर्ययात् । अविवेचनशीलत्वात् । न च शीलमपाकर्तुं शक्यम् ॥३॥ नन्वेवं न शास्त्रं सर्वत्रानुग्राहि स्यात्, को वा मन्यते , तदाह __________ न शास्त्रमद्रव्येष्वर्थवत् ॥ १,२.४ ॥ न खलु शास्त्रमद्रव्येष्वविवेकिष्वर्थवत् ॥४॥ निदर्शनमाह __________ न कतकं पङ्कप्रसादनाय ॥ १,२.५ ॥ न हि कतकं पयस इव पञ्कप्रसादनाय भवति ॥५॥ अधिकारिणो निरूप्य रीतिनिश्चयार्थमाह __________ रीतिरात्मा काव्यस्य ॥ १,२.६ ॥ रीतिर्नामेयमात्मा काव्यस्य । शरीरस्येवेति वाक्यशेषः ॥६॥ किं[क्का] पुनरियं रीतिरित्याह __________ विशिष्टा पदरचना रीतिः ॥ १,२.७ ॥ विशेषवती पदानां रचना रीतिः ॥७॥ कोऽसौ विशेष इत्याह __________ विशेषो गुणात्मा ॥ १,२.८ ॥ वक्ष्यमाणगुणरूपो विशेषः ॥८॥ __________ सा त्रिधा वैदर्भी गौडीया पाञ्चाली चेति ॥ १,२.९ ॥ सा चेयं रीतिस्त्रिधा [भिद्यते] । वैदर्भी , गौडीया , पाञ्चाली चेति ॥९॥ किं पुनर्देशवशाद्द्रव्यगुणोत्पत्तिः काव्यानां , येनाऽयं देशविशेषव्यपदेशः । नैवं , यदाह __________ विदर्भादिषु दृष्टत्वात्तत्समाख्या ॥ १,२.१० ॥ विदर्भगौडपाञ्चालेषु तत्रत्यैः कविभिर्यथास्वरूपमुपलब्धत्वात्तत्समाख्या । न पुनर्देशैः किञ्चिदुपक्रियते काव्यानाम् ॥१०॥ तासां गुणभेदाद्भेदमाह __________ समग्रगुणोपेता वैदर्भी ॥ १,२.११ ॥ समग्रैरोजःप्रसादप्रमुकैर्गुणैरुपेता वैदर्भी नाम रीतिः । अत्र श्लोकः <अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता । विपञ्चीस्स्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥> तामेतामेवं कवयः स्तुवन्ति <सति वक्तरि सत्यर्थे सति शब्दानुशासने । अस्ति तन्न विना येन परिस्रवति वाङ्मुधे ॥> [कत्र] उदाहरणम् (शाकुं. २६) <गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायावद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ॥ विस्रब्धं कुरुतां वराहविततिर्मुस्ताक्षतिं पल्वले विश्रान्तिं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥> ॥११॥ __________ ओजःकान्तिमती गौडीया ॥ १,२.१२ ॥ ओजः कान्ति.श्च विद्येते यस्यां सा ओजःकान्तिमती गौडीया नाम रीतिः । माधुर्यसौकुमार्ययोरभावात्समासबहुला अत्युल्बणपदा च । अत्र श्लोकः <समस्तात्युद्भटपदामोजःकान्तिगुणान्विताम् । गौडीयामिति गायन्ति रीतिं रीतिविचक्षणाः ॥> उदाहरणम् (महावीरच्. १५४) <दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत ष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः । द्राक्पर्यस्तकपालसंपुटमितब्रह्माण्डभाण्डोदर भ्राम्यत्पिण्डितचण्डिमा कथमहो नाऽद्यापि विश्राम्यति> ॥१२॥ __________ माधुर्यसौकुमार्योपपन्ना पाञ्चाली ॥ १,२.१३ ॥ माध्रुयेण सौकुमार्येण च गुणोनोपपन्ना पाञ्चाली नाम रीतिः । ओजःकान्त्यभावादनुल्बणपदा विच्छाया च । तथा च श्लोकः <आश्लिष्टश्लथभावां तु पुराणच्छाययान्विताम् । मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः ॥> यथा[कत्रोदाहरणम्] <ग्रामेऽस्मिन्पथिकाय पान्थ ! वसतिर्नैवाधुना दीयते रात्रावत्र विहारमण्डपतले पान्थः प्रसुप्तो युवा । तेनोत्थाय खलेन गजति घने स्मृत्वा प्रियां तत्कृतं येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति ॥> एतासु तिसृषु रीतिषु रेखाखिव चित्रं काव्यं प्रतिष्ठतमिति ॥१३॥ __________ तासां पूर्वा ग्राह्या, गुणसाकल्यात् ॥ १,२.१४ ॥ तासां तिसृणां रीतीनां पूर्वा वैदर्भी ग्राह्या , गुणानां साकल्यात् ॥१४॥ __________ न पुनरितरे, स्तोकगुणत्वात् ॥ १,२.१५ ॥ इतरे गौडीयपाञ्चाल्यौ न ग्राह्ये , स्तोलगुणत्वात् ॥१५॥ __________ तदारोहणार्थमितराभ्यास इत्येके ॥ १,२.१६ ॥ तस्या वैदर्भ्या एवारोहणार्थमितरयोरपि रीत्योरभ्यास इत्येके मन्यन्ते ॥१६॥ __________ तत्तु न॑ अतत्त्वशीलस्य तत्त्वानिष्पत्तेः ॥ १,२.१७ ॥ न ह्यतत्त्वं शीलयतस्तत्त्वं निष्पद्यते ॥१७॥ निदर्शनार्थमाह __________ न शणसूत्रवानाभ्यासे त्रसरसूत्रवानवैचित्र्यलाभः ॥ १,२.१८ ॥ न हि शणसूत्रवानमभ्यस्यन् कुविन्दस्त्रसरसूत्रवानवैचित्र्यं लभते ॥१८॥ __________ सापि समासाभावे शुद्धवैदर्भी ॥ १,२.१९ ॥ सापि वैदर्भी रीतिः शुद्धवैदर्भी भण्यते , यदि समासवत्पदं न भवति । ।१९॥ __________ तस्यामर्थगुणसंपदास्वाद्या ॥ १,२.२० ॥ तस्यां वैदर्भ्यां अर्थगुणसंपदास्वाद्या भवति ॥२०॥ __________ तदुपारोहादर्थगुणलेशोऽपि ॥ १,२.२१ ॥ तदुपधानतः खल्वर्थगुणलेशोऽपि स्वदते । किमङ्ग ! पुनरर्थगुणसंपत् । तथा चाहुः <किं त्वस्ति काचिदपरैव पदानुपूर्वी यस्यां न किञ्चिदपि किञ्चिदिवावभाति ।> <आनन्दयत्य्थ च कर्णपथं प्रयाता चेतः सताममृतवृष्टिरिव प्रविष्टा ॥> <वचसि यमधिशय्य स्यन्दते वाचकश्री र्वितथमवितथत्वं यत्र वस्तु प्रयाति । उदयति हि स तादृक्क्वापि वैदर्भरीतौ सहृदयहृदयानां रञ्जकः कोऽपि पाकः ॥> ॥२१॥ __________ सापि वैदर्भी, तात्स्थ्यात् ॥ १,२.२२ ॥ सापीयमर्थगुणसंपत्वैदर्भीत्युक्ता । तात्स्थ्यादित्युपचारतो व्यवहारं दर्शयति ॥२२॥ इति श्रीपण्डितवरवामनविरचितकाव्यालङ्कारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे द्वितीयोऽध्यायः । अधिकारिचिन्ता , रीतिनिश्चयश्च । अथ प्रथमेऽधिकरणे तृतीयोऽध्यायः । अधिकारिचिन्तां रीतितत्त्वं च निरूप्य , काव्याङ्गान्युपदर्शयितुमाह __________ लोको विद्या प्रकीर्ण च काव्याङ्गानि ॥ १,३.१ ॥ उद्देशक्रमेणैतद्व्याचष्टे __________ लोकवृत्तं लोकः ॥ १,३.२ ॥ लोकः स्थावरजङ्गमात्मा तस्य वर्तनं वृत्तिमिति ॥२॥ __________ शब्दस्मृत्यभिधानकोशच्छन्दोविचितिकलाकामशास्त्रदण्डनीतिपूर्वा विद्याः ॥ १,३.३ ॥ शब्दस्मृत्यादीनां तत्पूर्वकत्वं पूर्वं काव्यबन्धेष्वपेक्षणीयत्वात् ॥३॥ तासां काव्याङ्गत्वं योजयितुमाह __________ शब्दस्मृतेः शब्दशुद्धिः ॥ १,३.४ ॥ शब्दस्मृतेर्व्याकरणाच्छब्दानां शुद्धिः साधुत्वनिश्चयः कर्तव्यः । शुद्धानि हि पदानि निःशङ्कैः कविभिः प्रयुज्यन्ते ॥४॥ __________ अभिधानकोशात्पदार्थनिश्चयः ॥ १,३.५ ॥ पदं हि रचनाप्रप्रवेशयोग्यं भावयन् संदिग्धार्थत्वेन न गृह्णीयान्न वा जह्यादिति काव्यबन्धविघ्नः । तस्मादभिधानकोशतः पदार्थनिश्चयः कर्तव्य इति । अपूर्वाभिधानलाभार्थत्वं त्वयुक्तमभिधानकोशस्य , अप्रयुक्तस्याप्रयोज्यत्वात् । यदि प्रयुक्तं प्रयुज्यते तर्हि किमिति संदिघाथत्वमाशङ्कितं पदस्य ? तन्न ॑ तत्र सामान्येनार्थावगतिः संभवति । यथा {नीवी}शब्देन जघनवस्रग्रन्थिरुच्यत इति कस्यचिन्नश्चयः । स्त्रिया वा पुरुषस्य वेति संशयः <नीवी संग्रथनं नार्या जघनस्थस्य वाससः> इति नाममालाप्रतीकमपश्यत इति । अथ कथं <विचित्रभोजनाभोगवर्धमानःदरास्थिभिः । केनचित्पूर्वमुक्तोऽपि नीवीबन्धः श्लथीकृतः ॥> इति प्रयोगः । भ्रान्तेरुपचाराद्वा ॥५॥ __________ छन्दोविचितेर्वृत्तसंशयच्छेदः ॥ १,३.६ ॥ काव्याभ्यासाद्वृत्तसंक्रान्तिर्भवत्येव । किं तु मात्रावृत्तादिषु क्वचित्संशयः स्यात् । अतो वृत्तसंशयच्छेदश्छन्दोविचितेर्विधेय इति ॥६॥ __________ कलाशास्त्रेभ्यः कलातत्त्वस्य संवित् ॥ १,३.७ ॥ कला गीतनृत्यचित्रादिकास्तासामभिधायकानि शास्त्राणि विशाखिलादिप्रणीतानि कलाशास्त्राणि , तेभ्यः कलातत्त्वस्य संवित्संवेदनम् । न हि कलातत्त्वानुपलब्धौ कलावस्तु सम्यङ्निबन्धुं शक्यमिति ॥७॥ __________ कामशास्त्रतः कामोपचारस्य ॥ १,३.८ ॥ <संवित्> इत्यनुवर्तते । कामोपचारस्य संवित्कामशास्त्रत इति । कामोपचारबहुलं हि वस्तु काव्यस्येति ॥८॥ __________ दण्डनीतेर्नयापनययोः ॥ १,३.९ ॥ दण्डनीतेरर्थशास्त्रान्नयस्यापनयस्य च संविदिति । तत्र षाड्गुण्यस्य यथावतोरयोगो नयः । तद्विपरीतोऽपनयः । न हि तावविज्ञाय नायकप्रतिनायकयोर्वृत्तं शक्यं काव्ये निबन्धुमिति ॥९॥ __________ इतिवृत्तकुटिलत्वं च ततः ॥ १,३.१० ॥ इतिहासादिरितिवृत्तं काव्यशरीरम् , तस्य कुटिलत्वं ततो दण्डनीतेर्बलीवस्त्वाबलीयस्त्वादिप्रयोगो व्युत्पत्तिमूलत्वात्तस्याः । एवमन्यासामपि विद्यानां यथास्वमुपयोगो वर्णनीय इति ॥१०॥ __________ लक्ष्यज्ञत्वमभियोगो वृद्धसेवावेक्षणं प्रतिभानमवधानं च प्रकीर्णम् ॥ १,३.११ ॥ __________ तत्र काव्यपरिचयो लक्ष्यज्ञत्वम् ॥ १,३.१२ ॥ अन्येषां काव्येषु परिचयो लक्ष्यज्ञत्वम् । ततो हि काव्यबन्धस्य व्युत्पत्तिर्भवति ॥१२॥ __________ काव्यबन्धोद्यमोऽभियोगः ॥ १,३.१३ ॥ बन्धनं बन्धः , काव्यस्य बन्धो रचना काव्यबन्धः । तत्रोद्यमोऽभियोगः । स हि कवित्वप्रकर्षमादधाति ॥१३॥ __________ काव्योपदेशगुरुशुश्रूषणं वृद्धसेवा ॥ १,३.१४ ॥ काव्योपदेशे गुरव उपदेष्टारः । तेषां शुश्रूषणं वृद्धसेवा । ततः काव्यविद्यायाः संक्रान्तिर्भवति ॥१४॥ __________ पदाधानोद्धरणमवेक्षणम् ॥ १,३.१५ ॥ पदस्याधानं न्यासः , उद्धरणमपसारणम् । तयोः खल्ववेक्षणम् । अत्र श्लोकौ <आधानोद्धरणे तावद्यावद्दोलायते मनः । पदस्य स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती ॥ यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् । तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते ॥> ॥१५॥ __________ कवित्वबीजं प्रतिभानम् ॥ १,३.१६ ॥ कवित्वस्य बीजं कवित्वबीजं जन्मान्तरागतसंस्कारविशेषः कश्चित्, यस्माद्विना काव्यं न निष्पद्यते , निष्पन्नं वावहासायतनं स्यात् ॥१६॥ ++ __________ चित्तैकाग्र्यमवधानम् ॥ १,३.१७ ॥ चित्तस्यैकाग्र्यं बाह्यार्थनिवृत्तिः तदवधानम् । अवहितं हि चित्तमर्थान् पश्यति ॥१७॥ __________ तद्देशकालाभ्याम् ॥ १,३.१८ ॥ ततवधानं देशात्कालाच्च समुत्पद्यते ॥१८॥ कौ पुनर्देशकालावित्यत्राह __________ विविक्तो देशः ॥ १,३.१९ ॥ विविक्तो निर्जनः ॥१९॥ __________ रात्रियामस्तुरीयः कालः ॥ १,३.२० ॥ रात्रेर्यामो रात्रियामः प्रहरः तुरीयश्चतुर्थः काल इति । तद्वशाद्विषयोपरतं चित्तं प्रसन्नमवधत्ते ॥२०॥ एवं काव्याङ्गान्युपदर्श्य , काव्यविशेषज्ञानार्थमाह __________ काव्यं गद्यं पद्यं च ॥ १,३.२१ ॥ गद्यस्य पूर्वं निर्देशो दुर्लक्ष्यविषयत्वेन दुर्बन्धत्वात् । यथाहुः <गद्यं कवीनां निकषं वदन्ति> इति ॥२१॥ तच्च त्रिधा भिन्नमिति दर्शयितुमाह __________ गद्यं वृत्तगन्धि चूर्णमुत्कलिकाप्रायं च ॥ १,३.२२ ॥ तल्लक्षणान्याह __________ पद्यभागवद्वृत्तगन्धि ॥ १,३.२३ ॥ पद्यस्य भागाः पद्यभागास्तद्वत्वृत्तगन्धि । यथा <पातालतालुतलवासिषु दानवेषु> इति । अत्र हि वसन्ततिलकाख्यस्य वृत्तस्य भागः प्रत्यभिज्ञायते ॥२३॥ __________ अनाविद्धललितपदं चूर्णम् ॥ १,३.२४ ॥ अनाविद्धान्यदीर्घसमासानि ललितान्यनुद्धतानि पदानि यस्मिंस्तदनाविद्धललितपदं चूर्णमिति । यथा <अभ्यासो हि कर्मणां कौशलमावहति । न हि सकृन्निपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधाति ।> ॥२४॥ __________ विपरीतमुत्कलिकाप्रायम् ॥ १,३.२५ ॥ विपरीतमाविद्धोतपदमुत्कलिलाप्रायम् । यथा <कुलिशशिखरखरनखरप्रचण्डपेटापाटितमत्तमातङ्गकुम्भस्थलगलन्मदच्छटाच्छरितचारुकेसरभारभासुरमुखे केसरिणि> इति ॥२५॥ __________ पद्यमनेकभेदम् ॥ १,३.२६ ॥ पद्यं खल्वनेकेन समार्धसमविषमादिना भेदेन भिन्नं भवति ॥२६॥ __________ तदनिबद्धं निबद्धं च ॥ १,३.२७ ॥ तदिदं गद्यपद्यरूपं काव्यमनिबद्धं निबद्धं च । अनयोः प्रसिद्धत्वाल्लक्षणं नोक्तम् ॥२७॥ __________ क्रमसिद्धिस्तयोः स्रगुत्तंसवत् ॥ १,३.२८ ॥ तयोरित्यनिबद्धं निबद्धं च परामृश्यते । क्रमेण सिद्धिः क्रमसिद्धिः । अनिबद्धसिद्धौ निबद्धसिद्धैः स्रगुत्तंसवत् । यथा स्रजि मालाया सिद्धायामुत्तंसः शेखरः सिध्यति ॥२८॥ केचिदनिबद्ध एव पर्यवसिताः , तद्दूषणार्थमाह __________ नानिबद्धं चकास्त्येकतेजःपरमाणुवत् ॥ १,३.२९ ॥ न खल्वनिबद्धं काव्यं चकास्ति दीप्यते । यथैकतेजःपरमाणुरिति । अत्र श्लोकः <असंकलितरूपाणां काव्यानां नास्ति चारुता । न प्रत्येकं प्रकाशन्ते तैजसाः परमाणवः ॥> [किति] ॥२९॥ __________ संदर्भेषु दशरूपकं श्रेयः ॥ १,३.३० ॥ संदर्भेषु प्रबन्धेषु दशरूपकं नाटकादि श्रेयः ॥३०॥ कस्मात्तदाह __________ तद्धि चित्रं चित्रपटवद्विशेषसाकल्यात् ॥ १,३.३१ ॥ तद्दशरूपकं हि यस्माञ्चित्रं चित्रपटचत् । विशेषाणां साकल्यात् ॥३१॥ __________ ततोऽन्यभेदकॢप्तिः ॥ १,३.३२ ॥ ततो दशरूपकादन्येषां भेदानां कॢप्तिः कल्पनमिति । दशरूपकस्यैव हीदं सर्वं विलसितम् , यच्च कथाख्यायिके महाकाव्यमिति । तल्लक्षणं च नातीव हृदयङ्गममित्युपेक्षितमस्माभिः । तदन्यतो ग्राह्यम् ॥३२॥ इति श्रीकाव्यालङ्कारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे तृतीयोऽध्यायः ॥१३॥ समाप्तं चेदं शारीरं प्रथममधिकरणम् । ======================================================= द्वितीयाधिकरणे प्रथमोऽध्यायः । काव्यशरीरे स्थापिते काव्यसौन्दर्याक्षेपहेतवस्त्यागाय दोषा विज्ञातव्या इति दोषदर्शनं नामाधिकरणमारभ्यते । दोषस्वरूपकथार्थमाह __________ गुणविपर्ययात्मानो दोषाः ॥ २,१.१ ॥ गुणानां वक्ष्यमाणानां ये विपर्ययास्तदात्मानो दोषाः ॥१॥ __________ अर्थतस्तदवगमः ॥ २,१.२ ॥ गुणस्वरूपनिरूपणात्तेषां दोषाणामर्थादवगमोऽर्थात्सिद्धिः ॥२॥ किमर्थं ते पृथक्प्रपञ्च्यन्त इत्यत्राह __________ सौकर्याय प्रपञ्चः ॥ २,१.३ ॥ सौकर्यार्थः प्रपञ्चो विस्तरो दोषानाम् । उद्दिष्टा लक्षणलक्षिता हि दोषाः सुज्ञाना भवन्ति ॥३॥ पददोषान्दर्शयितुमाह __________ दुष्टं पदमसाधु कष्टं ग्राम्यमप्रतीतमनर्थकं च ॥ २,१.४ ॥ क्रमेण व्याख्यातुमाह __________ शब्दस्मृतिविरुद्धमसाधु ॥ २,१.५ ॥ शब्दस्मृत्या व्याकरणेन विरुद्धं पदमसाधु । यथा <अन्यकारकवैयर्थ्यम्> इति । अत्र हि <अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु> इति दुका भवितव्यमिति ॥५॥ __________ श्रुतिविरसं कष्टम् ॥ २,१.६ ॥ श्रुतिविरसं श्रोत्रकटु पदं कष्टम् । तद्धि रचनागुम्फितमप्युद्वेजयति । यथा <अचूचुरच्चण्डि ! कपोलौप्स्ते कान्तिद्रवं द्राग्विशदः शशाङ्कः ।> ॥६॥ __________ लोकमात्रप्रयुक्तं ग्राम्यम् ॥ २,१.७ ॥ लोक एव यस्प्रयुक्तं पदं , न शास्त्रे ॑ तद्ग्राम्यम् । यथा <कष्टं कथं रोदिति फूत्कृतेयम्> । अन्यदपि तल्लगल्लादिकं द्रष्टव्यम् ॥७॥ __________ शास्त्रमात्रप्रयुक्तमप्रतीतम् ॥ २,१.८ ॥ शास्त्र एव प्रयुक्तं यत्, न लोके तदप्रतीतं पदम् । यथा <किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः । गुणानान्तरीयकं च प्रमेति न तेऽस्त्युपालम्भः ॥> अत्र रूपस्कन्धनान्तरीयकपदे न लोक इत्यप्रतीतम् ॥८॥ __________ पूरणार्थमनर्थकम् ॥ २,१.९ ॥ पूरणमात्रप्रयोजनमव्ययपदमनर्थकम् । दण्डापून्यायेन पदमन्यदप्यनर्थकमेव । यथा <उदितस्तु हास्तिकविनीलमयं तिमिरं निपीय किरणैः सविता ।> अत्र {तु}शब्दस्य पादपूरणार्थमेव प्रयोगः । न वाक्यालङ्कारार्थम् [क् ॥ *२,१.१०॥] वाक्यालङ्कारप्रयोजनं तु नानर्थकम् । अपवादार्थमिदम् । [कपवादार्थमिदम् । वाक्यालङ्कारप्रयोजनं तु नानर्थकम् ।] यथा <न खल्विह गतागता नयनगोचरं मे गता> इति तथा हि खलु हन्तेति ॥९॥ संप्रति पदार्थदोषानाह __________ अन्यार्थनेयगूढार्थाश्लीलक्लिष्टानि च ॥ २,१.१० [*२,१.११] ॥ <दुष्टं पदम्> इत्यनुवर्तते । अर्थतश्च वचनविपरिणामः । अन्यार्थादीनि पदानि दुष्टानीति सूत्रार्थः ॥१०॥ एषां क्रमेण लक्षणायाह __________ रूढिच्युतमन्यार्थम् ॥ २,१.११ [*२,१.१२] ॥ रूढिच्युतम्, रूढिमनपेक्ष्य यौगिकार्थमात्रोपादानात् । अन्यार्थं पदम् । स्थूलत्वात्सामान्येन घटशब्दः पटशब्दाथ इत्यादिकमन्यार्थं नोक्तम् । यथा <ते दुःखमुच्चावचमावहन्ति ये प्रस्मरन्ति प्रियसङ्गमानाम् ।> अत्रआवहतिः करोत्यर्थो धारणार्थे प्रयुक्तः , प्रस्मरतिर्विस्मरणार्थः प्रकृष्टस्मरणे इति ॥११॥ __________ कल्पितार्थं नेयार्थम् ॥ २,१.१२ [*२,१.१३] ॥ अश्रौतस्याप्युन्नेयपदार्थस्य कल्पनात्कल्पितार्थं नेयार्थम् । यथा <सपदि पङ्क्तिविहङ्गमनामभृत्तनयसंवलितं बलशलिना । विपुलपर्वतवर्षि शितैः शरैः प्लवगसैन्यमुलूकजिता जितम् ॥> अत्र विहङ्गमश्चक्रवाकोऽभिप्रेतः । तन्नामानि चक्राणि , तानि बिभ्रतीति विहङ्गमनामभृतो रथाः । पङ्क्तिरिति दशसंख्या लक्ष्यते । पङ्क्तिर्दश विहङ्गमनामभृतो रथा यस्य स पङ्क्तिविहङ्गमनामभृद्दशरथः । तस्य तनयाभ्यां रामलक्ष्मणाभ्यां संवलितं प्लवगसैन्यं जितम् । उलूकजिता इन्द्रजिता । {कौशिक}शब्देन्द्र्प्लूकयोरभिधानमिति {कौशिक}शब्दवाच्यत्वेनेन्द्र उलूक उक्तः । ननु चैवं रथाङ्गनामादीनामपि प्रयोगोऽनुपपन्नः , न ॑ तेषां निरूढलक्षणत्वात् ॥१२॥ __________ अप्रसिद्धार्थप्रयुक्तं गूढार्थम् ॥ २,१.१३ [*२,१.१४] ॥ यस्य पदस्य लोकेऽर्थः प्रसिद्धश्राप्रासेद्धश्च , तद्प्रसिद्धेऽर्थे प्रयुक्तं गूढार्थम् । यथा <सहस्रगोरिवानीकं दुःसहं बह्वतः परैः> इति । सहस्रं गावोऽक्षीणि यस्य स सहस्रगुरिन्द्रः । तस्येवेति गोशब्दस्याक्षिवाचित्वं कविष्वप्रसिद्धमिति ॥१३॥ __________ असम्यार्थान्तरमसम्यस्मृतिहेतुश्चाश्लीलम् ॥ २,१.१४ [*२,१.१५] ॥ यस्य पदस्यानेकार्थस्यैकोऽर्थोऽसभ्यः स्यात्, तदसभ्यार्थान्तरम् । यथा <वर्चः> इति पदं तेजसि विष्ठायां च । यत्तु पदं सभ्यार्थवाचकमप्येकदेशद्वारेणासभ्यार्थं स्मारयति , तदसभ्यस्मृतिहेतुः । यथा <कृकाटिका> इति ॥१४॥ __________ न गुप्तलक्षितसंवृतानि ॥ २,१.१५ [*२,१.१६] ॥ अपवादार्थमिदम् । गुप्तं लक्षितं संवृत्तं च नाश्लीलम् ॥१५॥ एषां लक्षणान्याह __________ अप्रसिद्धासभ्यं गुप्तम् ॥ २,१.१६ [*२,१.१७] ॥ अप्रसिद्धासभ्यार्थान्तरं पदमप्रसिद्धासभ्यं यत्तद्गुप्तम् । यथा <संबाधः> इति पदम् । तद्धि संकटार्थं प्रसिद्धम् , न गुह्यार्थमिति ॥१६॥ __________ लाक्षणिकासभ्यान्वितं लक्षितम् ॥ २,१.१७ [*२,१.१८] ॥ तदेवासभ्यार्थान्तरं लक्षणिकेनासभ्येनार्थेनान्वितं पदं लक्षितम् । यथा <जन्मभूः> इति । तद्धि लक्षणया गुणाथम् , न स्वशक्त्येति ॥१७॥ __________ लोकसंवीतं संवृतम् ॥ २,१.१८ [*२,१.१९] ॥ लोकेन संवीतं लोकसंवीतं यत्तत्संवृतम् । यथा <सुभगा> <भगोनीउपस्थानमभिप्रेतम्कुमारीदोहदः> इति । अत्र हि श्लोकः <संवीतस्य हि लोकेन न दोषान्वेषणं क्समम् । शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावना ॥> ॥१८॥ __________ तन्त्रैविध्यम्, व्रीडाजुगुप्सामङ्गलातङ्कदायिभेदात् ॥ २,१.१९ [*२,१.२०] ॥ तस्याश्लीलस्य त्रैविध्यं भवति , व्रीडाजुगुप्सामङ्गलातङ्कदायिनां भेदात् । किञ्चित्व्रीडादायि भवति । यथा <वाक्काटवम्हिरण्यरेताः> इति । किञ्चित्जुगुप्सादायि भवति । यथा <कपर्दकः> इति । किञ्चितमङ्गलातङ्गदायि भवति । यथा <संस्थितः> इति ॥१९॥ __________ व्यवहितार्थप्रत्ययं क्लिष्टम् ॥ २,१.२० [*२,१.२१] ॥ अर्थस्य प्रतीतिरर्थप्रत्ययः । स व्यवहितो यस्माद्भवति तद्व्यवहितार्थप्रत्ययं क्लिष्टम् । यथा <दक्षात्मजादयितवल्लभभवेदिकानां ज्योत्स्नाजुषां जललवास्तरलं पतन्ति ॥> दक्षात्मजास्ताराः । तासां दयितो दक्षात्मजादयितश्चन्द्रः । तस्य वल्लभाश्चन्द्रकान्ताः । तद्वेदिकानामिति । अत्र हि व्यवधानेनार्थप्रत्ययः ॥२०॥ __________ अन्यत्रारूढत्वात् ॥ २,१.२१ [क्नोतिन् सुत्र] ॥ अरूढावपि यतोऽर्थप्रत्ययो झटिति न तत्क्लिष्टम् । यथा <काञ्चिगुणस्थानमनिन्दितायाः> इति ॥२१॥ __________ अन्त्याभ्यां वाक्यं व्याख्यातम् ॥ २,१.२२ ॥ अश्लीलं क्लिष्टं चेत्यन्त्ये पदे । ताभ्यां वाक्यं व्याख्यातम् । तदप्यश्लीलं क्लिष्टं च भवति । अश्लीलं यथा <न सा धनोन्नतिर्या स्यात्कलसुखदायिनी । परार्थवद्धकक्ष्याणां यत्सत्यं पेलवं धनम् ॥ सोपानपथमुत्सृज्य वायुवेगसमुद्धतम् । महापथेन गतवान् कीर्त्यमानगुणो जनैः ॥> क्लिष्टं यथा <धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥> एतान्पदपदार्थदोषान् ज्ञात्वा कविस्त्यजेदिति तात्पर्यार्थः । ॥२२॥ इति श्रीकाव्यालङ्कारसूत्रवृत्तौ दोषदर्शने द्वितीयेऽधिकरणे प्रथमोऽध्यायः पदपदार्थदोषविभागः । द्वितीयाधिकरणे द्वितीयोऽध्यायः । पदपदार्थदोष्ञ्प्रतिपाद्येदानीं वाक्यदोषान्दर्शयितुमाह __________ भिन्नवृत्तयतिभ्रष्टविसंधीनि वाक्यानि ॥ २,२.१ ॥ दुष्टनीत्यभिसंबन्धः ॥१॥ क्रमेण व्याचष्टे __________ स्वलक्षणच्युतवृत्तं भिन्नवृत्तम् ॥ २,२.२ ॥ स्वस्माल्लक्षणाच्च्युतं वृत्तं यस्मिंस्तत्स्वलक्षणच्युतं वाक्यं भिन्नवृत्तम् । यथा <अयि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम् ॥> वैतालीययुग्मपादे लघ्वक्षराणां पण्णां नैरन्तर्यं निपिद्धम् । तच्च कृतमिति भिन्नवृत्तत्वम् ॥२॥ __________ विरसविरामं यतिभ्रष्टम् ॥ २,२.३ ॥ विरसः श्रुतिकटुर्विरामो यस्मिंस्तद्विरसविरामं यतिभ्रष्टम् ॥३॥ __________ तद्धातुनामभागभेदे स्वरसंध्यकृते प्रायेण ॥ २,२.४ ॥ तद्यतिभ्रष्टं धातुभागभेदे नामभागभेदे च सति भवति । स्वरसन्धिना कृते प्रायेण बाहुल्येन । धातुभागभेदे मन्दाक्रान्तायां यथा <एतासां राजति सुमनसां दामकण्ठावलम्बि ।> नामभागभेदे शिखरिण्यां यथा । <कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः ।> मन्दाक्रान्तायां यथा <दुर्दर्शश्चक्रशिखिकपिशः शार्ङ्गिणो बाहुदण्डः ।> धातुनामभागपदग्रहणात्तद्भागातिरिक्तभेदे न भवति यतिभ्रष्टत्वम् । यथा मन्दाक्रान्तायाम् <शोभां पुष्पत्यवमभिनवः सुन्दरीणां प्रबोधः ।> शिखरिण्यां यथा <विनिद्रः श्यामान्तेष्वधरर्पुटसीत्कारविरुतैः ।> स्वरसन्ध्यकृत इति वचनात्स्वरसन्धिकृते भेदे न दोषः । यथा <किञ्चिद्भावालसमसरलं प्रेक्षितं सुन्दरीणाम् ।> ॥४॥ __________ न वृत्तदोषात्पृथग्यतिद्प्षः, वृत्तस्य यत्यात्मकत्वात् ॥ २,२.५ ॥ वृत्तदोषात्पृथग्यतिदोषो न वक्तव्यः । वृत्तस्य यत्यात्मकत्वात् ॥५॥ यत्यात्मकं हि वृत्तमिति भिन्नवृत्त एव यतिभ्रष्टस्यान्तर्भावान्न पृथग्ग्रहणं कार्यमत आह __________ न, लक्षणः पृथक्त्वात् ॥ २,२.६ ॥ नायं दोषः लक्षणो लक्षणस्य पृथक्त्वात् । अन्यद्धि लक्षणं वृत्तस्यान्यच्च यतेः । गुरुलघुनियमात्मकं वृत्तम् । विरामात्मिका च यतिरिति ॥६॥ __________ विरूपपदसंधि विसंधिः ॥ २,२.७ ॥ पदानां सन्धिः पदसन्धिः । स च स्वरसमवायरूपः प्रत्यासत्तिमात्रारूपो वा । स विरूपो यस्मिन्निति विग्रहः ॥७॥ __________ पदसंधेर्वैरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वं च ॥ २,२.८ ॥ विश्लेषो विभागेन पारुष्यमिति । विश्लेषो यथा <मेघानिलेन अमुना एतस्मिन्नद्रिकानने ।> <कमले इव लोचने इमे अनुवध्नाति विलासपद्धतिः ।> <लोलालकानुबद्धानि आननानि चकासति ।> अश्लीलत्वं यथा <विरेचकमिदं नृत्तमाचार्याभासयोजितम् ।> <चकासे पनसप्रायैः पुरी पण्डमहाद्रुमैः ।> < विना शपथदानाभ्यां पदवादसमुत्सुकम् ।> कष्टत्वं यथा <मञ्जरुद्गमगर्भास्ते गुर्वाभोगा द्रुमा बभुः ।> ॥८॥ एवं वाक्यदोषानभिधाय वाक्यार्थदोषान् प्रतिपादयितुमाह __________ व्यर्थैकार्थसंदिग्धायुक्तापक्रमलोकविद्या विरुद्धानि च ॥ २,२.९ ॥ वाक्यानि दुष्टानीति सम्बन्धः ॥९॥ क्रमेण व्याख्यातुमाह __________ व्याहतपूर्वोत्तरार्थं व्यर्थम् ॥ २,२.१० ॥ व्याहतौ पूर्वोत्तरावर्थौ यस्मिंस्तद्व्याहतपूर्वोत्तरार्थं वाक्यं व्यर्थम् । यथा <अद्यापि स्मरति रसालसं मनो मे मुग्धायाः स्मरचतुराणि चेष्टितानि ।> मुग्धायाः कथं स्मरचतुराणि चेष्टितानि । तानि चेत्कथं मुग्धा ? अत्र पूर्वोत्तरयोरर्थयोर्विरोधाद्व्यर्थमिति ॥१०॥ __________ उक्तार्थपदमेकार्थम् ॥ २,२.११ ॥ उक्तार्थानि पदानि यस्मिंस्तदुक्तार्थपदमेकार्थम् । यथा <चिन्तामोहमनङ्गमङ्ग ! तनुते विप्रेक्षितं सुभ्रुवः ।> अनङ्गः शृङ्गारः । तस्य चिन्तामोहात्मकत्वाच्चिन्तामोहशब्दौ प्रयुक्तावुक्तार्थौ भवतः । एकार्थपदत्वाद्वाक्यमेकार्थमित्युक्तम् ॥११॥ __________ न, विशेषश्चेदेकार्थं दुष्टम् ॥ २,२.१२॥* न गतार्थ दुष्टं विशेषश्चेत्प्रतिपाद्यः स्यात् ॥१२॥ तं विशेषं प्रतिपादयितुमाह __________ धनुर्ज्याध्वनौ धनुःश्रुतिरारूढेः प्रतिपत्त्यै ॥ २,२.१३ ॥ धनुर्ज्याध्वनावित्यत्र ज्याशब्देनोक्तार्थत्वेऽपि धनुःश्रुतिः प्रयुज्यते । आरूढेः प्रतिपत्त्यै । आरोहणस्य प्रतिपत्त्यर्थम् । न हि धनुःश्रुतिमन्तरेण धनुष्यारूढा ज्या धनुर्ज्येति शक्यं प्रतिपत्तुम् । यथा <धनुर्ज्याकिणचिह्नेन दोष्णा विस्फुरितं तव ।> इति ॥१३॥ __________ कर्णावतंसश्रवणकुण्डलशिरःशेखरेषु कर्णादिनिर्देशः संनिधेः ॥ २,२.१४ ॥ कर्णावतंसादिशब्देषु कर्णादीनामवतंसादिपदैरुक्तार्थानामपि निर्देशः सन्निधेः प्रतिपत्त्यर्थमिति सम्बन्धः । न हि कर्णादिशब्दनिर्देशमन्तरेण कर्णादिसन्निहितानामवतंसादीनां शक्या प्रतिपत्तिः कर्तुमिति । यथा <दोलाविलासेषु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम् ।> <लीलाचलच्छ्रवणकुण्डमापतन्ति ।> <आययुर्भृङ्गमुखराः तूर्णं शेखरशालिनः ।> ॥१४॥ __________ मुक्ताहारशब्दे मुक्ताशब्दः शुद्धेः ॥ २,२.१५ ॥ मुक्ताहारशब्दे मुक्ताशब्दो हारशब्देनैव गतार्थः प्रयुज्यते , शुद्धेः प्रतिपत्त्यर्थमिति संबन्धः । शुद्धानामन्यरत्नैरमिश्रितानां हारो मुक्तहारः । यथा <प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः । मुक्ताहारेण लसता हसतीव स्तनद्वयम् ॥> __________ पुष्पमालाशब्दे पुष्पपदमुत्कर्षस्य ॥ २,२.१६ ॥ पुष्पमालाशब्दे मालाशब्देनैव गतार्थं पुष्पपदं प्रयुज्यते । उत्कर्षस्य प्रतिपत्त्यर्थमिति । उत्कृष्टानां पुष्पाणां माला पुष्पमालेति यथा <प्रायशः पुष्पमालेव कन्या सा कं न लोभयेत् ।> ननु मालाशब्दोऽन्यत्रापि दृश्यते । यथा , रत्नमाला , शब्दमालेति । सत्यम् । स तावदुपचरितस्य प्रयोगः । निरुपपदो हि मालाशब्दः पुष्परचनाविशेषमेवाभिधत्त इति ॥१६॥ __________ करिकलभशब्दे करिशब्दस्ताद्रूप्यस्य ॥ २,२.१७ ॥ करिकलभशब्दे करिशब्दः कलभेनैव गतार्थः प्रयुज्यते ताद्रूप्यस्य प्रतिपत्त्यर्थमिति । करी प्रौढकुञ्जरः । तद्रूपः कलभः करिकलभ इति । यथा <त्यज करिकलभ त्वं प्रीतिबन्धं करिण्याः ।> ॥१७॥ __________ विशेषणस्य च ॥ २,२.१८ ॥ विशेषणस्य विशेषप्रतिपत्त्यर्थमुक्तार्थस्य पदस्य प्रयोगः । यथा <जगाद मधुरां वाचं विशदाक्षरशालिनीम् ।> ॥१८॥ __________ तदिदं प्रयुक्तेषु ॥ २,२.१९ ॥ तदिदमुक्तं प्रयुक्तेषु , नाप्रयुक्तेषु । न हि , भवति यथा <श्रवणकुण्डलमि ।> इति । तथा <नितम्बकाञ्ची> इत्यपि । यथा वा <करिकलभः> इति । तथा <उष्ट्रकलभः> इत्यपि । अत्र श्लोकः <कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः । संनिधानादिब्प्धार्थं स्थितेष्वेतत्समर्थनम् ॥>+ ॥१९॥ __________ संशयकृत्संदिग्धम् ॥ २,२.२० ॥ यद्वाक्यं साधारणानां धर्माणां श्रुतेविंशिष्टानां वा श्रुतेः संशयं करोति तत्संशयकृत्सन्दिग्धमिति । यथा <स महात्मा भाग्यवशान्महापदमुपागतः ।> किं भाग्यवशान्महापदमुपागतः , आहोस्विदभाग्यवशान्महतीमापदमिति संशयकृद्वाक्यं , प्रकरणाद्यभावे सतीति ॥२०॥ __________ मायादिविकल्पितार्थम्प्रयुक्तम् ॥ २,२.२१ ॥ मायादिना कल्पितोऽर्थो यस्मिंस्तन्मायादिकल्पितार्थमप्रयुक्तम् । अत्र स्तोकमुदाहरणम् ॥२१॥ __________ क्रमहीनार्थमपक्रमम् ॥ २,२.२२ ॥ उद्देशोतानामनुद्देशितानां च क्रमः सम्बन्धः । तेन विहीनोऽर्थो यस्मिंस्तत्क्रमहीनार्थमपक्रमम् । यथा <कीर्तिओरतापौ भवतः सूर्याचन्द्रमसोः समौ ।> अत्र कीर्तिश्चन्द्रमसस्तुल्या । प्रतापः सूर्यस्य तुल्यः । सूर्यस्य पूर्वनिपातादक्रमः । अथवा प्रधानस्यार्थस्य निर्देशः क्रमः । तेन विहीनोऽर्थो यस्मिंस्तदपक्रमम् । यथा <तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम् ।> ॥२२॥ __________ देशकालस्वभावविरुद्धार्थानि लोकविरुद्धानि ॥ २,२.२३ ॥ देशकालस्वभावैर्विरुद्धोऽर्थो येषु तानि देशकालस्वभावविरुद्धार्थानि वाक्यानि लोकविरुद्धानि । अर्थद्वारेण लोकविरुद्धत्वं वाक्यानाम् । देशविरुद्धं यथा <सौवीरेष्वस्ति नगरी मधुरा नाम विश्रुता । आक्षोटनालिकेराढ्या यस्याः पर्यन्तभूमयः ॥> कालविरुद्धं यथा <कदम्बकुमुमस्मेरं मधौ वनमशोभत ।> स्वभावविरुद्धं यथा <मत्तालिमङ्खमुखरासु च मञ्जरीषु सप्तच्छदस्य तरतीव शरन्सुखश्रीः ।> सप्तच्छदस्य स्तवका भवन्ति , न मञ्जर्य इति स्वभावविरुद्धम् । तथा <भृङ्गेण कलिकाकोशस्तथा भृशमपीड्यत । यथा गोष्पदपूरं हि ववर्ष बहुलं मधु ॥> कलिकायाः सर्वस्या मकरन्दस्यैतावद्वाहुल्यं स्वभावविरुद्धम् ॥२३॥ __________ कलाचतुर्वर्गशास्त्रविरुद्धार्थानि विद्याविरुद्धानि ॥ २,२.२४ ॥ कलाशास्त्रैश्चतुर्वर्गशास्त्रैश्च विरुद्धोऽर्थो येषु तानि कलाचतुर्वर्गशास्त्रविरुद्धार्थानि वाक्यानि विद्याविरुद्धानि । वाक्यानां विरोधोऽर्थद्वारकः । कलाशास्त्रविरुद्धं यथा <कालिङ्ग लिखितमिदं वयस्य पत्रं पत्रज्ञैरपरितकोटिकण्टकाग्रम् ।> कालिन्ङ्गं पतितकोटिकण्टकाग्रमिति पत्रविदामाम्नायः । तद्विरुद्धत्वात्कलाशास्त्रविरुद्धम् । एवं कलान्तरेष्वपि विरोधोऽभ्यूह्यः । चतुर्वर्गशास्त्रविरुद्धानि तूदाह्नियन्ते <कामोपभोगसाकल्यफलो राज्ञां महीजयः ।> <धर्मफलोऽश्वमेधादियज्ञफलो वा राज्ञां महीजयः> इत्यागमः । तद्विरोधाद्धर्मशास्त्रविरुद्धार्थमेतद्वाक्यमिति । <अहङ्कारेण जीयन्ते द्विषन्तः किं नयश्रिया ।> द्विपज्जयस्य नयमूलत्वं स्थितं दण्डनीतौ । तद्विरोधादर्थशास्त्रविरुद्ध वाक्यमिति । <दशनाङ्कपवित्रितोत्तरोष्टं रतिखेदालसमाननं स्मरामि ।> <उत्तरोष्ठमन्तर्मुखं नयनान्तमिति मुक्त्वा चुम्बननखरदशनस्थानानि ।> इति कामशास्त्रे स्थितम् । तद्विरोधात्कामशास्त्रविरुद्धार्थं वाक्यमिति <देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदा ।> एतस्यार्थस्य मोक्षशास्त्रे स्थितत्वात्तद्विरुद्धार्थम् । एते वाक्यवाक्यार्थदोषास्त्यागाय ज्ञातव्याः । ये त्वन्ये शब्दार्थदोषाः सूक्ष्मास्ते गुणविवेचने लक्ष्यन्ते । उपमादोषाश्चोपमाविचार इति ॥२४॥ इति श्रीकाव्यालङ्कारसूत्रवृत्तौ दोषदर्शने द्वितीयेऽधिकरणे द्वितीयोऽध्यायः । वाक्यवाक्यार्थदोषविभागः ॥२२॥ समाप्तं चेदं दोषदर्शनं द्वितीयमधिकरणम् ॥२॥ ================================================================ तृतीयाधिकरणे प्रथमोऽध्यायः । यद्विपर्ययात्मानो दोषास्तान् गुणान् विचारयितुं गुणविवेचनमधिकरणमारभ्यते । तत्रौजःप्रसादादयो गुणा यमकोपमादयस्त्वलङ्कारा इति स्थितिः काव्यविदाम् । तेषां किं भेदनिबन्धनमित्याह __________ काव्यशोभायाः कर्तारो धर्मा गुणाः ॥ ३,१.१ ॥ ये खलु शब्दार्थयोर्धर्माः काव्यशोभां कुर्वन्ति ते गुणाः । ते चौजःप्रसादयः । न यमकोपमादयः । कौवल्येन तेषामकाव्यशोभाकरत्वात् । ओजःप्रसादादीनां तु केवलानामस्ति काव्यशोभाकरत्वमिति ॥१॥ __________ तदतिशयहेतवस्त्वलङ्काराः ॥ ३,१.२ ॥ तस्याः काव्यशोभाया अतिशयस्तदतिशयस्तस्य हेतवः । {तु}शब्दो व्यतिरेके । अलङ्काराश्च यमकोपमादयः । अत्र श्लोकौ <युवतेरिव रूपमङ्गकाव्यं स्वदते शुद्धगुणं तदप्यतीव । विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः ॥> <यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः । अपि जनदयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते ॥> ॥२॥ __________ पूर्वे नित्याः ॥ ३,१.३ ॥ पूर्वे गुणा नित्याः । तैर्विना काव्यशोभानुपपत्तेः ॥३॥ एवं गुणालङ्काराणां भेदं दर्शयित्वा शब्दगुणनिरूपणार्थमाह __________ ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धगुणाः ॥ ३,१.४ ॥ बन्धः पदरचना , तस्य गुणः बन्धगुणाः ओजःप्रभृतयः ॥४॥ तान् क्रमेण दर्शयितुमाह __________ गाढबन्धत्वमोजः ॥ ३,१.५ ॥ यथा <विलुलितमकरन्दा मञ्जरीर्नर्तयन्ति ।> न पुनः <विलुलितमधुधारा मञ्जरीर्लोलयन्ति ।> ॥५॥ __________ शैथिल्यं प्रसादः ॥ ३,१.६ ॥ बन्धस्य शैथिल्यं शिथिकत्वं प्रसादः ॥६॥ नन्वयमोजोविपर्ययात्मा दोष , तत्कथं गुण इत्याह __________ गुणः संप्लवात् ॥ ३,१.७ ॥ गुणः प्रसादः । ओजसा सह संप्लवाद् ॥७॥ __________ न शुद्धः ॥ ३,१.८ [क्नोतिन् सुत्र] ॥ शुद्धस्तु दोष एवेति ॥८॥ ननु विरुद्धयोरोजःप्रसादयोः कथं संप्लव इत्यत आह __________ स त्वनुभवसिद्धः ॥ ३,१.९ [*३,१.८] ॥ स तु संप्लवस्त्वनुभवसिद्धः । तद्विदां रत्नादिविशेषवत् । अत्र श्लोकः <करुणप्रेक्षणीयेषु संप्लवः सुखदुःखयोः । यथानुभवतः सिद्धस्तथैवौजःप्रसादयोः ॥> ॥९॥ __________ साम्योत्कर्षौ च ॥ ३,१.१० [*३,१.९] ॥ साम्यमुत्कर्षश्चौजःप्रसादयोरेव । साम्यं यथा <अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्वा यूने सितातपवारणम् ॥>(रघुवंश ३.७०) क्वचिदोजः प्रसादादुत्कृष्टम् । यथा <व्रजति गगनं भल्लातक्याः फलेन सहोपमाम् ।> क्वचिदोजसः प्रसादस्योत्कर्षः । यथा <कुसुमशयनं न प्रत्ययं न चन्द्रमरीचयो न च मलयजं सर्वाङ्गीणं न वा मणियष्टयः ॥> ॥१०॥ __________ मसृणत्वं श्लेषः ॥ ३,१.११ [*३,१.१०] ॥ मसृणत्वं नाम यस्मिन् सन्ति बहून्यपि पदान्येकवद्भासन्ते । यथा <अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । >(कुमारसंभव_१.१) न पुनः <सूत्रं ब्राह्ममुरःस्थले >, <भ्रमरीवल्गुगीतयः> <तडित्कलिलमाकाशम्> इति एवं तु श्लेषो भवति <ब्राह्मं सूत्रमुरःस्थले> <भ्रमरीमुञ्जुगीतयः> <तडिज्जटिलमाकाशम्> इति ॥११॥ __________ मार्गाव्हेदः समता ॥ ३,१.१२ [*३,१.११] ॥ मार्गस्याभेदो मार्गाभेदः समता । येन मार्गेणोपक्रमस्तस्यात्याग इत्यर्थः । श्लोके प्रबन्धे चेति पूर्वोक्तमुदाहरणम् । विपर्ययस्तु यथा <प्रसीद चण्डि ! त्यज मन्युमञ्जसा जनस्तवायं पुरतः कृताञ्जलिः । किमर्थमुत्कम्पितपीवरस्तनद्वयं त्वया लुप्तविलासमास्यते ॥> ॥१२॥ __________ आरोहावरोहक्रमः समाधिः ॥ ३,१.१३ [*३,१.१२] ॥ आरोहावरोहयोः क्रम आरोहावरोहक्रमः समाधिः परिहारः । आरोहस्यावरोहे सति परिहारः , अवरोहस्य वारोहे सतीति । तत्रार्फपूर्वकोऽवरोहो यथा <नराः शीलभ्रष्टा व्यसन इव मज्जन्ति तरवः ।> आरोहस्य क्रमोऽवरोहस्य च क्रम आरोहावरोहक्रमः । क्रमेणारोहणमवरोहणं चेति केचित् । यथा <निवेशः स्वःसिन्धोस्तुहिनगिरिवीथीषु जयति ।> ॥१३॥ __________ न पृथक्, आरोहावरोहयोरोजःप्रसादरूपत्वात् ॥ ३,१.१४ [*३,१.१३] ॥ न पृथक्समाधिर्गुणः आरोहावरोहयोरोजःप्रसादरूपत्वात् । प्जोरूपश्चारोहः प्रसादरूपश्चावरोह इति ॥१४॥ __________ न, असंपृक्तत्वात् ॥ ३,१.१५ [*३,१.१४] ॥ यदुक्तम् <ओजःप्रसादरूपत्वमारोहावरोहयोः> [किति] तन्न । सम्पृक्तत्वात्[कसम्पृक्तत्वात्] । सम्पृक्तौ खल्वोजःप्रसादौ नदीवेणिकावद्वहतः ॥१५॥ __________ अनैकान्त्याच्च ॥ ३,१.१६ [*३,१.१५] ॥ न चायमेकान्तः । [क्टिप्पणीइयमः] यदोजस्यारोहः प्रसादे चावरोहः ॥१६॥ __________ ओजःप्रसादयोः तीव्रावस्था, ताविति चेदभ्युपगमः ॥ ३,१.१७ [*३,१.१६] ॥ ओजःप्रसादयोः क्वचिद्भागे तीव्रावस्थायामारोहोऽवरोहश्चेत्येवं[क्तीव्रावस्था । सा चारोहोऽवरोहाख्येत्येवं] चेन्मन्यसे , अभ्युपगमः न विप्रतिपत्तिः ॥१७॥ __________ विशेषापेक्षित्वात्तयोः ॥ ३,१.१८ [*३,१.१७] ॥ स विशेषो गुणान्तरात्मा ॥१८॥ __________ आरोहावरोहनिमित्तं समाधिराख्यायते ॥ ३,१.१९ [*३,१.१८] ॥ आरोहावरोहग्रमः समाधिरिति गौण्या वृत्त्या व्याख्येयम् ॥१९॥ __________ क्रमविधानार्थं वा ॥ ३,१.२० [*३,१.१९] ॥ पृथक्करणमिति । पाठधर्मत्वं च न सम्भवतीति <न पाठधर्माः सर्वत्रादृष्टेः>(३१२८) इत्यत्र[कित्येवं] वक्ष्यामः ॥२०॥ __________ पृथक्पदत्वं माधुर्यम् ॥ ३,१.२१ [*३,१.२०] ॥ बन्धस्य पृथक्पदत्वं यत्तन्माधुर्यं पृथक्पदानि यस्य स पृथक्पदः । तस्य भावः पृथक्पदत्वम् । समासदैर्ध्यनिवृत्तिपरं चैतत् । __________ अजरठत्वं सौकुमार्यम् ॥ ३,१.२२ [*३,१.२१] ॥ बन्धस्याजरठत्वमपारुष्यं यत्यत्सौकुमार्यम् । पूर्वोक्तमुदाहरणम् । विपर्ययस्तु यथा <निदानं निर्द्वैतं प्रियजनसदृक्त्वव्यवसितिः सुधासेकप्लोषौ फलमपि विरुद्धं मम हृदि ।> ॥२२॥ __________ विकटत्वमुदारता ॥ ३,१.२३ [*३,१.२२] ॥ बन्धस्य विकटत्वं यदसावुदारता । यस्मिन् सति नृत्यन्तीव पदानीति जनस्य वर्णभावना भवति तद्विकटत्वम् । लीलायमानत्वमित्यर्थः । यथा <स्वचरणविनिविष्टैर्नूपुरैर्नर्तकीनां झणिति रणितमासीत्तत्र चित्रं कलं च ।> न पुनः <चरणकमललग्नैर्नूपुरैर्नर्तकीनां रणितमासीन्मञ्जु चित्रं च तत्र ।> ॥२३॥ __________ अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः ॥ ३,१.२४ [*३,१.२३] ॥ यत्र झटित्यर्थप्रतिपत्तिहेतुत्वं स गुणोऽर्हव्यक्तिरिति पूर्वोक्तमुदाहरणम् । प्रत्युदाहरणं तु भूयः सुलभं च ॥२४॥ __________ औज्ज्वल्यं कान्तिः ॥ ३,१.२५ [*३,१.२४] ॥ बन्धस्योज्ज्वलत्वं नाम यदसौ कान्तिरिति । यदभावे पुराणच्छायेत्युच्यते । यथा <कुरङ्गीनेत्रालीस्तवकितवनालीपरिसरः> विपर्ययस्तु भूयान्सुकभश्च । श्लोकाश्चात्र भवन्ति <पदन्यासस्य गाढत्वं वदन्त्योजः कवीश्वराः । अनेनाधिष्ठिताः प्रायः शाब्दाः श्रोत्ररसायनम् ॥ श्लथत्वमोजसा मिश्रं प्रसादं च प्रचक्षते । अनेन न विना सत्यं स्वदते काव्यपद्धतिः ॥ यत्रैकपदवद्भावं पदानां भूयसामपि । अनालक्षितसन्धीनां स श्लेषः परमो गुणः ॥ प्रतिपादं प्रतिश्लोकमेकमार्गपरिग्रहः । दुर्बन्धो दुर्विभावश्च समतेति मतो गुणाः ॥ आरोहन्त्यवरोहन्ति क्रमेण यतयो हि यत् । समाधिर्नाम स गुणस्तेन पूता सरस्वती ॥ बन्धे पृथक्पदत्वं च माधुर्यमुदितं बुधैः । अनेन हि पदन्त्यासाः कामं धारामधुच्युताः । तथैव वागपि प्राज्ञैः समस्तगुणगुम्फिता ॥ बन्धस्य्=अजरठत्वं च सौकुमार्यमुदाहृतम् । एतेन वर्जिना वाचो रूक्षत्वान्न श्रुतिक्षमाः ॥ विकटत्वं च बन्धस्य कथयन्ति ह्युदारताम् । वैचित्र्यं न प्रपद्यन्ते यया शून्याः पदक्रमाः ॥ पश्चादिव गतिर्वाचः पुरस्तादिव वस्तुनः । यत्रार्थव्यक्तिहेतुत्वात्साऽर्थव्यक्तिः स्मृतो गुणः ॥ औज्ज्वल्यं कान्तिरित्याहुर्गुणं गुणविशारदाः । पुराणव्चित्रस्थानीयं तेन बन्ध्यं कवेर्वचः ॥> ॥२५॥ __________ नासन्तः, सद्वेद्यत्वात् ॥ ३,१.२६ [*३,१.२५] ॥ न खल्वेते गुणा असन्तः संवेद्यत्वात् ॥२६॥ तद्विदां संवेद्यत्वेऽपि भ्रान्ताः स्युरित्याह __________ न भ्रान्ताः, निष्कम्पत्वात् ॥ ३,१.२७ [*३,१.२६] ॥ न गुणा भ्रान्ताः । एतद्विषयायाः प्रवृत्तेर्निष्कम्पत्वात् ॥२७॥ __________ न पाठधर्माः, सर्वत्रादृष्टेः ॥ ३,१.२८ [*३,१.२७] ॥ नैते गुणाः पाठधर्माः । सर्वत्रादृष्टेः । यदि पाठधर्माः स्युस्तर्हि विशेषानपेक्षाः सन्तः सर्वत्र दृश्येरन् । न च सर्वत्र दृश्यन्ते । विशेषापेक्षया विशेषाणां गुणत्वाद्गुणाभ्युपगम एवेति ॥२८॥ इति वामनविरचितकाव्यालण्कारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे प्रथमोऽध्यायः ॥३१॥ [इति श्रीकाव्यालङ्कारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे प्रथमोऽध्यायः गुणालङ्कारविवेकः , शब्दगुणविवेकश्च ॥३१॥] अथ तृतीयाधिकरणे द्वितीयोऽध्यायः सम्प्रत्यर्थगुणविवेचनार्थमाह __________ त एवार्थगुणाः ॥ ३,२.१ ॥ त एवौजःप्रभृतयोऽर्थगुणाः ॥१॥ __________ अर्थस्य प्रौढिरोजः ॥ ३,२.२ ॥ अर्थस्याभिधेयस्य प्रौढिः प्रौढत्वमोजः । <पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा । प्रौढित्व्याससमासौ च साभिप्रायत्वमेव च ॥> पदार्थे वाक्यवचनं यथा (रघुवंश २.७५) <अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः ।> अत्र चन्द्रपदवाच्येऽर्थे <नयनसमुत्थं ज्योतिरत्रेः> इति वाक्यं प्रयुक्तम् । पदसमूहश्च वाक्यमभिप्रेतम् । अनया दिशान्यदपि द्रष्टव्यम् । तद्यथा <पुरः पाण्डुच्छायं तदनु कपिलिम्ना कृतपदं ततः पाकोत्सेकादरुणगुणसंसर्गितवपुः । शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं वने वीतामो बदरमरसत्वं कलयति ॥> नचैवमतिप्रसङ्गः । काव्यशोभाकरत्वस्य । गुणसामान्यलक्षणस्यावस्थितत्वात् । वाक्यार्थे पदाभिधानन्ं यथा <दिव्येयं न भवति किं तु मानुषी> इति वक्तव्ये <निमिषति> इत्याहेति । अस्य वाक्यार्थस्य व्याससमासौ । व्यासो यथा <अयं नानाकारो भवति सुखदुःखव्यतिकरः सुखं वा दुःखं वा न भवति भवत्येव च ततः । पुनस्तस्मादूर्ध्वं भवति सुखदुःखं किमपि तत् पुनस्तस्मादूर्ध्वं भवति न च दुःखं , न च सुखम् ॥> समासो यथा (कुमारसंभव_६.९४) <सोऽयं सम्प्रति चन्द्रगुप्तनयश्चन्द्रप्रकाशो युवा । जातो भूपतिराश्रयः कृतधियां दिष्ट्या कृतार्थश्रमः ॥> <आश्रयः कृतधियाम्> इत्यस्य च सुबन्धुं साचिव्योपक्षेपपरत्वात्साभिप्रायत्वम् । एतेन <रतिविगलितबन्धे केशपाशे सुकेश्या> इत्यत्र <सुकेश्याः> इत्यस्य च साभिप्रायत्वं व्याख्यातम् ॥२॥ __________ अर्थवैमल्यं प्रसादः ॥ ३,२.३ ॥ अर्थस्य वैमल्यं प्रयौजकमात्रपरिग्रहः प्रसादः । यथा <सर्वणा कन्यका रूपयौवनारम्भशालिनी> विअप्र्ययस्तु <उपास्तां हस्तो मे विमलमणिकाञ्चीपदमिदम्> <काञ्चीपदम्> इत्यनैव नितम्बस्य लक्षितत्वाद्विशेषणस्याप्रयोजकत्वमिति ॥३॥ __________ घटना श्लेषः ॥ ३,२.४ ॥ क्रमकौटिक्यानुल्वणत्वोपपत्तियोगो घटणा । स श्लेषः । यथा (अमरुशतक_१६) <दृष्ट्वैकासनसङ्गते प्रियतमे पश्चादुपेत्यादरा देकस्या नयने निमील्य विहितक्रीडासुबन्धच्छलः । ईपद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥> शूद्रकादिरचितेषु प्रबन्धेष्वस्य भूयान् प्रपञ्चो दृश्यते ॥४॥ __________ अवैषम्यं समता ॥ ३,२.५ ॥ अवैपम्यं प्रक्रमाभेदः समता । क्वचित्क्रमोऽपि भिद्यते । यथा <च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः । अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ॥> ऋतुसन्धिप्रतिपादनपरेऽत्र द्वितीये पादे क्रमभेदो , मलयमरुतामसाधारणत्वात् । एवं द्वितीयः पादः पठितव्यः <मनसि च गिरं वध्वन्तीमे किरन्ति न कोकिलाः ।> इति ॥५॥ __________ सुगमत्वं वाऽवैषम्यमिति ॥ ३,२.६ [क्नोतिन् सुत्र] ॥ सुखेन गम्यते ज्ञायत इत्यर्थः । यथा (कुमारसंभव_१.१) <अस्त्युत्तरस्यां दिशि देवतात्मा ................ > इत्यादि । यथा वा <का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या । मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥> प्रत्युदाहरणं सुलभम् ॥६॥ __________ अर्थदृष्टिः समाधिः ॥ ३,२.७ [*३,२.६] ॥ अर्थस्य दर्शनं दृष्टिः । समाधिकारणत्वात्समाधिः । <अवहितं हि चित्तमर्थान् पश्यति>(१३१७ ) इत्युक्तं पुरस्तात् ॥७॥ __________ अर्थो द्विविधः, अयोनिरन्यच्छायायोनिर्वा ॥ ३,२.८ [*३,२.७] ॥ यस्यार्थस्य दर्शनं समाधिः सोऽर्थो द्विविधः अयोनिरन्यच्छायायोनिर्वेति । अयोनिरकारणः । अवधानमात्रकारण इत्यर्थः । अन्यस्य काव्यस्य छायान्यच्छाया तद्योनिर्वा । तद्यथा <मा भैः शशाङ्क मम शीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं विमेषि । प्रायो विदग्धवनितानवसङ्गमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥> पूर्वस्य श्लोकस्यार्थोऽयोनिः । द्वितीयस्य च छायायोनिरिति ॥८॥ __________ अर्थो व्यक्तः सूक्ष्मश्च ॥ ३,२.९ [*३,२.८] ॥ यस्यार्थस्य दर्शनं समाधिरिति , स द्वेधा व्यक्तः सूक्ष्मश्च । व्यक्तः स्फुट उदाहृत एव ॥९॥ सूक्ष्मं व्याख्यातुमाह __________ सूक्ष्मो भाव्यो वासनीयश्च ॥ ३,२.१० [*३,२.९] ॥ सूक्ष्मो द्वेधा भवतो भाव्यो, वासनीयश्च । शीघ्रनिरूपणागम्यो भाव्यः । एकाग्रताप्रकर्षगम्यो वासनीय इति । भाव्यो यथा <अन्योन्यसंवलितमांसलदन्तकान्ति सोल्लासमाविरलसंवलितार्धतारम् । लीलागृहे प्रतिकलं किलिकिञ्चितेषु व्यावर्तमाननयनं मिथुनं चक्रास्ति ॥> वासनीयो यथा <अविहित्थवलितजधनं विवर्तिताभिमुखकुचतटं स्थित्वा । अवलोकितोऽहमनया दक्षिणकरकलितहारलतम् ॥> ॥१०॥ __________ उक्तिवैचित्र्यं माधुर्यम् ॥ ३,२.११ [*३,२.१०] ॥ उक्तेर्वैचित्र्यं यत्तन्माधुर्यमिति । यथा <रसवदमृतं , कः सन्देहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥> ॥११॥ __________ अपारुष्यं सौकुमार्यम् ॥ ३,२.१२ [*३,२.११] ॥ पुरुषेऽर्थे अपारुष्यं सौकुमार्यमिति । यथा मृतं , यशःशेषमित्याहुः । एकाकिनं देवताद्वितीयमिति । गच्छति साधयेति च ॥१२॥ __________ अग्राम्यत्वमुदारता ॥ ३,२.१३ [*३,२.१२] ॥ ग्राम्यत्वप्रसङ्गे अग्ताम्यत्वमुदारता । यथा <त्वमेवं सौन्दर्या स च रुचिरतायां परिचितः कलानां सीमानं परिमिह युवामेव भजथः । अयि द्वन्द्वं दिष्ट्या तदिति सुभगे संवदति वा मतः शेषं चेत्स्याज्जित्तमिह तदानीं गुणितया ॥> विपर्ययस्तु <स्वपिति यावदयं निकटे जनः स्वपिमि तावदहं किमपैति ते । इति निगद्य शनैरनुमेखलं मम करं स्वकरेण रुरोध सा ॥> ॥१३॥ __________ वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः ॥ ३,२.१४ [*३,२.१३] ॥ वस्तूनां भावानां स्वभावस्य स्फुटत्वं यदसावर्थव्यक्तिः । यथा <पृष्टेषु शङ्खशकलच्छविषु च्छदानां राजीभिरङ्कितमलक्तकलोहिनीभिः । गोरोचनाहरितबभ्रुवहिःपलाशमामोदते कुमुदमम्भसि पल्वलस्य ॥> यथा वा <प्रथममलसैः पर्यस्ताग्रं स्थितं पृथुकेसरै र्विरलविरलैरन्तःपत्रैर्मनाङ्मिलितं ततः । तदनु वलनामात्रं किञ्चिद्व्यधायि वहिर्दलै र्मुकुलनविधौ वृद्धाब्जानां बभूव कदर्थना ॥> ॥१४॥ __________ दीप्तरसत्वं कान्तिः ॥ ३,२.१५ [*३,२.१४] ॥ दीप्ता रसाः शृङ्गारादयो यस्य स दीप्तरसः । तस्य भावो दीप्त रसत्वं कान्तिः । यथा <प्रेयान् सायमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनात्यावन्न यात्यून्मनाः । तावत्प्रत्युत पाणिसम्पुटलसग्नीवीनितम्बं धृतो धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥> एवं रसान्तरेष्वप्युदाहार्यम् । अत्र श्लोकाः <गुणस्फुटत्वसाकल्य काव्यपाकं प्रचक्षते । चूतस्य परिणामेन स चायमुपमीयते ॥ सुप्तिङ्संस्कारसारं यत्क्लिष्टवस्तुगुणं भवेत् । काव्यं वृन्ताकपाकं स्याज्जुप्सन्ते जनास्ततः ॥ गुणानां दशतामुक्तो यस्यार्थस्तदपार्थकम् । दाडिमानि दशेत्यादि न विचारक्षमं वचः ॥> ॥१५॥ इति॥ इति श्रीपण्डितवरवामनविरचितकाव्यालङ्कारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे द्वितीयोऽध्यायः । समाप्तं चेदं गुणविवेचनं तृतीयमधिकरणम् । ================================================================ अथ चतुर्थाधिकरणे प्रथमोऽध्यायः गुणनिर्वर्त्या काव्यशोभा । तस्याश्चातिशयहेतवोऽलङ्काराः । तन्निरूपणार्थमालङ्कारिकमधिकरणमारभ्यते । तत्र शब्दालङ्काराः । तत्र शब्दालङ्कारौ द्वौ यमकानुप्रासौ क्रमेण दर्शयितुमाह __________ पदमनैकार्थमक्षरं चावृत्तं स्थाननियमे यमकम् ॥ ४,१.१ ॥ पदमेनेकार्थं भिन्नार्थमेकमनेकं वा तद्वदक्षरनावृत्तं स्थाननियमे सति यमकम् । स्ववृत्त्या सजातीयेन वा कार्त्स्न्यैकदेशाभ्यामनेकपादव्याप्तिः स्थाननियम इति । यानि त्वेकपादभागवृत्तीनि यमकानि दृश्यन्ते तेषु श्लोकान्तरस्थसंस्थानयमकापेक्षयैव स्थाननियम इति ॥१॥ स्थानकथनार्थमाह __________ पादाः पादस्यैकस्यानेकस्य चादिमध्यान्तभागाः स्थानानि ॥ ४,१.२ ॥ पादः , एकस्य च पादस्यादिमध्यान्तभागाः , अनेकस्य च पादस्य त एव स्थानानि । पादयमकं यथा <असज्जनवचो यस्य कलिकामधुगर्हितम् । तस्य स्याद्विषतरोः कलिकामधुगर्हितम् ॥> एकपादस्थादिमध्यान्तयमकानि यथा <हन्त हन्तररातीनां धीर धीरर्चिता तव । कामं कामन्दकीनीतिरस्या रस्या दिवानिशम् ॥> <वसुपरासु परासुमिवोज्झतीष्वविकलं विकलङ्कशशिप्रभम् । प्रियतमं यतमन्तुमनीश्वरं रसिकता सिकतास्विव तासु का ॥ सुदृशो रसरेचकितं चकितं भवतीक्षितमस्ति मितं स्तिमितम् । अपि हासलवस्तवकस्तव कस्तुलयेन्ननु कामधुरां मधुराम् ॥> पादयोरादिमध्यान्तयमकानि यथा <भ्रमर ! द्रुतपुष्पाणि भ्रम रत्यौ पिवन्मधु । का कुन्दकुसुमे प्रीतिः काकुं दत्त्वा विरौषि यत् ॥ अष्यशक्यं तया दत्तं दुःखं शक्यन्तरात्मनि । वाष्यो वाहीकनारीणां वेगवाही कपोलयोः ॥> <सपदि कृतपदस्त्वदीक्षितेन स्मितशुचिना स्मरतत्त्वदीक्षितेन । भवति वत जनः सचित्तद्=अहो न खलु मृषा कुत एव चित्तदाहो ॥> एकान्तरपादान्तयमक यथा <उद्वेजयति भूतानि तस्य राज्ञः कुशासनम् । सिंहासनवियुक्तस्य तस्य क्षिप्रं कुशासनम् ॥> एवमेतान्तरपादादिमध्ययमकान्यूह्यानि । समस्तपादान्तयमकं यथा <नतोन्नतभ्रूगतिवद्धलास्यां विलोक्य तन्वीं शशिपेशलास्याम् । मनः किमुत्ताम्यसि चञ्चलास्यां कृती स्मराज्ञआ यदि पुष्कलास्याम् ॥> एवं समस्तपादादिमध्ययमकानि व्याख्यातव्यानि । अन्ये च सङ्करजातिभेदाः सुधियोत्प्रेक्ष्याः । अक्षरयमकं त्वेकाक्षरमनेकाक्षरं च । एकाक्षरं यथा <नानाकारेण कान्ताभ्रूराराधितमनोयुवा । विविक्तेन विलासेन ततक्ष हृदयं नृणाम् ॥> एवं स्थानान्तरयोगेऽपि द्रष्टव्यः । सजान्तीयनैरन्तर्यादस्य प्रकर्षो भवति । स चायं हरिप्रबोधे दृश्यते । यथा <विविधधववना नागगर्द्धर्द्धनाना विविततगगनानाममज्जज्जनाना । रुरुशशललना नाववन्धुन्धुनाना मम हि हिततनानाननस्वस्वनाना ॥> अनया च वर्णयमकमालया पदयमकमाला व्याख्याता ॥२॥ __________ भङ्गादुत्कर्षः ॥ ४,१.३ ॥ उत्कृष्टं खलु यमकं भङ्गाद्भवति ॥३॥ __________ शृङ्खला परिवर्तकश्चूर्णमिति भङ्गमार्गः ॥ ४,१.४ ॥ एते खलु शृङ्खलादयो यमकभङ्गानां प्रकारा भवन्ति ॥४॥ तान् क्रमेण व्याचष्टे __________ वर्णविच्छेदचलनं शृङ्खला ॥ ४,१.५ ॥ वर्णानां विच्छेदो वर्णविच्छेदः । तस्य चलनं यत्सा शृङ्खला । यथा कालिकामधुशब्दे कामशब्दविच्छेदे मधुशब्दविच्छेदे च तस्य चलनम् । लिमवर्णयोर्विच्छेदात् ॥५॥ __________ सङ्गविनिवृत्तौ स्वरूपापत्तिः परिवर्तकः ॥ ४,१.६ ॥ अन्यवर्णसंसर्गः सङ्गः । तद्विनिवृत्तौ स्वरूपस्यान्यवर्णतिरस्कृतस्यापत्तिः प्राप्तिः परिवर्तकः । यथा <कलिकामधु गर्हितम् ।> इत्यत्रार्हितमिति पदं गकारस्य व्यञ्जनस्य सङ्गाद्गर्हितमित्यन्यस्य रूपमापन्नम् । तत्र व्यञ्जनसङ्गे विनिवृत्ते स्वरूपमापद्यते अर्हितमिति । अन्यवर्णसंक्रमेण भिन्नरूपस्य पदस्य ताद्रूप्यविधिरयमिति तात्पर्यार्थः । एतेनेतरावपि व्याख्यातौ ॥६॥ __________ पिण्डाक्षरभेदे स्वरूपलोपश्चूर्णम् ॥ ४,१.७ ॥ पिण्डाक्षरस्य भेदे सति पदस्य स्वरूपलोपश्चूर्णम् । यथा <अखण्डवर्णविन्यासचलनं शृङ्खलामला । अनेन खलु भङ्गेन यमकानां विचित्रता ॥ यदन्यसङ्गमुत्सृज्य नेपथ्यमिव नर्तकः । शब्दस्वरूपमारोहेत्स ज्ञेयः , परिवर्तकः ॥ पिण्डाक्षरस्य भेदेन पूर्वापरपदाश्रयात् । वर्णयोः पदलोपो यः स भङ्गश्चूर्णसज्ञकः ॥ अप्राप्तचूर्णभङ्गानि यथास्थानस्थितान्यपि । अलकानीव नात्यर्थं यमकानि चकासति ॥ विभक्तिपरिणामेन यत्र भङ्गः क्वचिद्भवेत् । न तदिच्छन्ति यमकं यमक्कोत्कर्षकोविदाः ॥ आरूढं भूयसा यत्तु पदं यमकभूमिकाम् । दुप्येच्चेन्न[क्दूप्येच्चेन्न] पुनस्तस्य युक्तानुप्रासकल्पना ॥ विभक्तीनां विभक्तत्वं संख्यायाः कारकस्य च । आवृत्तिः सुप्तिङन्तानां मिथश्च यमकादभुतम् ॥> ॥७॥ __________ शेषः सरूपोऽनुप्रासः ॥ ४,१.८ ॥ पदमेकार्थमनेकार्थ च स्थानानियतं तद्विधमक्षरं च शेषः । सरूपोऽन्येन प्रयुक्तेन तुल्यरूपोऽनुप्रासः । ननु शेषोऽनुप्रास इत्येतावदेव सूत्रं कस्मान्न कृतम् । आवृत्तिशेषोऽनुप्रास इत्येव हि व्याख्यास्यते । सत्यम् । सिद्ध्यत्येवावृत्तिशेषे , किन्त्वव्याप्तिप्रसङ्गः । विशेषार्थ च सरूपग्रहणम् । कार्त्स्न्येनैवावृत्तिः । कार्त्स्न्यैकदेशाभ्यां तु सारूप्यमिति ॥८॥ __________ अनुल्बणो वर्णानुप्रासः श्रेयान् ॥ ४,१.९ ॥ वर्णानामनुप्रासः स खल्वनुल्वणो लीनः श्रेयान् । यथा <क्वचिन्मसृणमांसलं क्वचिदतीव तारास्पदं प्रसन्नसुभगं मुहुः स्वरतरङ्गलीलाङ्कितम् । इदं हि तव वल्लकीरणितनिर्गमैर्गुम्फितं मनो मदयतीव मे किमपि साधु संगीतकम् ॥> उल्वणस्तु न श्रेयान् । यथा <वल्लीबद्धोर्ध्वजूटोद्भटमटति रटत्कोटिकोदण्डदण्डः> इति ॥९॥ __________ पादानुप्रासः पादयमकवत् ॥ ४,१.१० ॥ ये पादयमकस्य भेदास्ते पादानुप्रासस्येत्यर्थः । तेषामुदाहरणानि यथा <कविराजमविज्ञाय कुतः काव्यक्रियादरः । कविराजं च विज्ञाय कुतः काव्यक्रियादरः ॥ आखण्डयन्ति मुहरामलकीफलानि । बालानि बालकपिलोचनपिङ्गलानि ॥> <वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसङ्काश ! काशाः काशाभा भान्ति तासां नवतुलिनगताः श्रीनदीहंस हंसाः । साभाम्भोदमुक्तः स्फुरदमलरुचिर्मेदिनी चन्द्रचन्द्र श्चन्द्राङ्कः शारदस्ते जयकृदुपगतो विद्विषां कालकालः ॥> <कुवलयदलश्यामा मेघा विहाय दिवं गताः कुवलयदलश्यामो निद्रां विमुञ्चति केशवः । कुवलयदलश्यामा श्यामा लताद्य विजृम्भते कुवलयदलश्यामं चन्द्रो नभः प्रतिगाहते ॥> एवमन्येऽपि द्रष्टव्याः ॥१०॥ इति श्रीपण्डितवरवामनविरचितायां काव्यालङ्कारसूत्रवृत्तावालङ्कारिके चतुर्थेऽधिकरणे प्रथमोऽध्यायः । इति शब्दाऽलङ्कारविचारः । अथ चतुर्थाधिकरणे द्वितीयोऽध्यायः सम्प्रत्यर्थालङ्काराणां प्रस्तावः । तन्मूलं चोपमेति सैव विचार्यते __________ उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा ॥ ४,२.१ ॥ उपमीयते सादृश्यमानीयते येनोत्कृष्टगुणेनान्यत्तदुपमानम् । यदुपमीयते न्यूनगुणं तदुपमेयम् । उपमानेनोपमेयस्य गुणलेशतः साम्यं यदसावुपमेति । ननूपमानमित्युपमेयमिति च सम्बन्धिशब्दावेतौ , तयोरेकतरोपादानेनैवान्यतरसिद्धिरिति । यथा <उओअमितं व्याघ्रादिभिः सामान्याप्रयोगे> इत्यत्रोपमितग्रहणमेव कृतं , नोपमानग्रहणमिति । तद्वदत्रोभयग्रहणं न कर्तव्यम् । सत्यम् । तत्कृतं लोकप्रसिद्धिपरिग्रहार्थम् । यदेवोपमेयमुपमानञ्च लोकप्रसिद्धं तदेव परिगृह्यते , नेतरत् । न हि यथा <मुखं कमलमिव> इति , तथा <कुमुदमिव> इत्यपि भवति ॥१॥ __________ गुणबाहुल्यतश्च कल्पिता ॥ ४,२.२ ॥ गुणानां बाहुल्यं गुणबाहुल्यं , तत उपमानोपमेययोः साम्यात्कल्पितोपमा । कविभिः कल्पितत्वात्कल्पिता । पूर्वा तु लौकिकी । ननु कल्पिताया लोकप्रसिद्ध्यभावात्कथमुपमानोपमेयनियमः । गुणबाहुक्यस्योत्कर्षापजर्पकल्पनाभ्याम् । तद्यथा <उद्गर्भहूणतरुणीरमणोपमर्दभुग्नोन्नतिस्तननिवेशनिभं हिमांशोः । बिम्बं कठोरविसकाण्डकडारगौरैर्विष्णोः पदं प्रथममग्रकरैरव्यबक्ति ॥> <सद्यो मुण्डितमत्तहूणचिबुकप्रस्पद्धिं नारङ्गकम् । अभिनवकुशसूचिस्पर्धि कर्णे शिरीषम् ॥> <इदानीं प्लक्षाणां जरठदलविश्लेषचतुर स्तिभीनामाबद्धस्फुरितशुकचञ्चूपुटनिभम् । ततः स्त्रीणां हन्त क्षममधरकान्तिं तुलयितुं समन्तान्निर्याति स्फुटसुभगरागं किसलयम् ॥> ॥२॥ __________ तद्द्वैविध्यम्, पदवाक्यार्थवृत्तिभेदात् ॥ ४,२.३॥* तस्या उपमाया द्वैविध्यम् । पदवाक्यार्थवृत्तिभेदात् । एका पदार्थवृत्तिः , अन्या वाक्यार्थवृत्तिरिति । पदार्थवृत्तिर्यथा <हरिततनुषु बभ्रुत्वग्विमुक्तासु यासां कनककणसधर्मा मान्मथो रोमभेदः ।> वाक्यार्थवृत्तिर्यथा <पाण्ड्योऽयमंसार्पितलम्बहारः कॢप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥> ॥३॥ __________ सा पूणा लुप्ता च ॥ ४,२.४ ॥ सा उपमा पूर्णा लुप्ता च भवति ॥४॥ __________ गुणद्योतकोपमानोपमेयशब्दानां सामग्र्ये पूर्णा ॥ ४,२.५ ॥ गुणादिशब्दानां सामग्र्ये साकल्ये पूर्णा । यथा <कमलमिव मुखं मनोज्ञमेतत्> इति ॥५॥ __________ लोपे लुप्ता ॥ ४,२.६ ॥ गुणादिशब्दानां वैकल्ये लोपे लुप्ता । गुणशब्दलोपे यथा <शशीव राजा> इति । द्योतकशब्दलोपे यथा <दूर्वाश्यामेयम्> । उभयलोपे यथा <शशीमुखी> इति । उपमानोपमेयलोपस्तूपमाप्रपञ्चे द्रष्टव्यः ॥६॥ __________ स्तुतिनिन्दातत्त्वाख्यानेषु ॥ ४,२.७ ॥ स्तुतौ निन्दायां तत्त्वाख्याने चास्याः प्रयोगः । स्तुतिनिन्दयोर्यथा <स्निग्धं बह्वत्यमृतकल्पमहो कलत्रं हालाहलं विषमिवापगुणं तदेव ।> तत्त्वाख्याने यथा <तां रोहिणीं विजानीहि ज्योतिपामत्र मण्डले । यस्तन्वि ! तारकान्यासः शकटाकारमाश्रितः ॥> ॥७॥ __________ हीनत्वाधिकत्वलिङ्गवचनभेदासादृश्यासंभवास्तद्दोषाः ॥ ४,२.८ ॥ तस्या उपमाया दोषा भवन्ति । हीनत्वमधिकत्वं लिङ्गभेदो वचनभेदोऽसादृश्यमसम्भव इति ॥८॥ तान् क्रमेण व्याख्यातुमाह __________ जातिप्रमाणधर्मन्यूनतोपमानस्य हीनत्वम् ॥ ४,२.९ ॥ जात्या प्रमाणेन धर्मेण चोपमानस्य न्यूनता या तद्धीनत्वमिति । जातिन्यूनत्वरूपं हीनत्वं यथा <चाण्डालैरिव युष्माभिः साहसं परमं कृतम् ।> प्रमाणन्यूनत्वरूपं हीनत्वं यथा <वह्निस्फुलिङ्ग इव भानुरयं चकास्ति ।> उपमेयादुपमानस्य न्यूनत्वं यत्तद्धर्मन्यूनत्वम् । तद्रूपं हीनत्वं यथा <स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन् । व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ॥> अत्र मौञ्जीप्रतिवस्तु तडिन्नास्त्युपमान इति हीनत्वम् । न च कृष्णाजिनपटमात्रस्योपमेयत्वं युक्तम् । मौञ्ज्या व्यर्थत्वप्रसङ्गात् । ननु नीलजीमूतग्रहणेनैव तडित्प्रतिपाद्यते । तन्न । व्यभिचारात् ॥९॥ अव्यभिचारे तु भवन्ती प्रतिपत्तिः केन वार्यते तदाह __________ धर्मयोरेकनिर्देशेऽन्यस्य संवित्, साहचर्यात् ॥ ४,२.१० ॥ धर्मयोरेकस्यापि धर्मस्य निर्देशेऽन्यस्य संवित्प्रतिपत्तिर्भवति । कुतः । साहचर्यात् । सहचरितत्वेन प्रसिद्धयोरवश्यमेकस्य निर्देशेऽन्यस्य प्रतिपत्तिर्भवति । तद्यथा <निर्वृष्टेऽपि बहिर्धने न विरमन्त्यन्तर्जरद्चेश्मनो लूतातन्तुततिच्छिदो मधुपृषत्पिङ्गाः पयोविन्दवः । चूडाबर्बरके निपत्य कणिकाभावेन जाताः शिशो रङ्गास्फालनभग्ननिद्रगृहिणीचित्तव्यथादायिनः ॥> अत्र मधुपृषतां वृत्तत्वपिङ्गत्वे सहचरिते । तत्र पिङ्गशब्देन पिङ्गत्वे प्रतिपन्ने वृत्तत्वप्रतीतिर्भवति । एतेन <कनकफलकचतुरस्रं श्रेणिविम्बम्> इति व्याख्यातम् । कनकफलकस्य गौरत्वचतुरस्रत्वयोः साहचर्याच्चतुरस्रत्वश्रुत्यैच गौरत्वप्रतिपत्तिरिति । ननु च यदि धर्मन्यूनत्वमुपमानस्य दोषः , कथमयं प्रयोगः <सूर्याशुसम्भीलितलोचनेषु दीनेषु पद्मानिलनिसदेषु । साध्व्यः स्वगेहेष्विव भर्तृहीनाः केका विनेशुः शिखिनां मुखेषु ॥> अत्र बहुत्वमुपमेयधर्माणामुपमानात् । न , विशिष्टानामेव मुखानामुपमेयत्वात् । तादृशेष्वेव केकाविनाशस्य सम्भवात् ॥१०॥ __________ तेनाधिकर्वं व्याख्यातम् ॥ ४,२.११ ॥ तेन हीनत्वेनाधिकत्वं व्याख्यातम् । जातिप्रमाणधर्माधिक्यमधिकत्वमिति । जात्याधिक्यरूपमधिकत्वं यथा <विशन्तु विष्टयः शीघ्रं रुद्रा इव महौजसः> । प्रमाणाधिक्यरूपं यथा <पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ । वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ॥> धर्माधिक्यरूपं यथा <सरश्मि चञ्चलं चक्रं दधद्देवो व्यराजत । सवाडवाग्निः सावर्तः स्रोतसामिव नायकः ॥> सवाडवाग्निरित्यस्य [क्पृष्ठरतिवस्तुनः] उपमेयेऽभावाद्धर्माधिक्यमिति । अनयोर्दोषयोर्विपर्ययाख्यस्य दोषस्यान्तर्भावान्न पृथगुपादानम् । अत एवास्माकं मते षड्दोषा इति ॥११॥ __________ उपमानोपमेययोर्लिङ्गव्यत्यासो लिङ्गभेदः ॥ ४,२.१२ ॥ उपमानस्योपमेयस्य च लिङ्गयोर्व्यत्यासो विपर्ययो लिङ्गभेदः । यथा <सैन्यानि नद्य इव जग्मुरनर्गलानि ।> ॥१२॥ __________ इष्टः पुंपुंसकयोः प्रायेण ॥ ४,२.१३ ॥ पुन्नपुंसकयोरुपमानोपमेययोर्लिङ्गभेदः प्रायेण बाहुल्येनेष्टः । यथा <चन्द्रमिव मुखं पश्यति> इति , <इन्दुरिव मुखं भाति> एवम्प्रायं तु नेच्छन्ति ॥१३॥ __________ लौकिक्यां समासाभिहितायामुपमाप्रपञ्चे च ॥ ४,२.१४ ॥ लौकिक्यामुपमायां समासाभिहितायामुपमायामुपमाप्रपञ्चे चेष्टो लिङ्गभेदः प्रायेणेति । लौकिक्यां यथा <छायेव स तस्याः , पुरुष इव स्त्री> इति । समासाभिहितायां यथा <भुजलता नीलोत्पलसदृशी> इति । उपमाप्रपञ्चे यथा <शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥> एवमन्यदपि प्रयोगजातं द्रष्टव्यम् ॥१४॥ __________ तेन वचनभेदो व्याख्यातः ॥ ४,२.१५ ॥ तेन लिङ्गभेदेन वचनभेदो व्याख्यातः । यथा <पास्याभिलोचनं तस्याः पुष्पं मधुलिहो यथा ।> ॥१५॥ __________ अप्रतीतगुणसादृश्यमसादृश्यम् ॥ ४,२.१६ ॥ अप्रतीतैरेव गुणैर्यत्सादृश्यं तदप्रतीतगुणासादृश्यमसादृश्यम् । यथा <ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम् ।> काव्यस्य शशिना सह यत्सादृश्यं तदप्रतीतैरेव गुणैरिति । ननु च अर्थानां रश्मितुल्यत्वे सति काव्यस्य शशितुल्यत्वं भविष्यति । नैवम् । काव्यस्य शशितुल्यत्वे सिद्धेऽर्थानां रश्मितुल्यत्वं सिद्ध्यति । न ह्यर्थानां च कश्चित्सादृश्यहेतुः प्रतीतो गुणोऽस्ति । तदेवमितरेतराश्रयदोषो दुरुत्तर इति ॥१६॥ __________ असादृश्यहता ह्युपमा, तन्निष्ठाश्च कवयः ॥ ४,२.१७ ॥ असादृश्येन हता असादृश्यहता उपमा । तन्निष्ठा उपमाननिष्ठाश्च कवय इति ॥१७॥ __________ उपमानाधिक्यात्तदपोह इत्येके ॥ ४,२.१८ ॥ उपमानाधिक्यात्तस्यासादृश्यस्यापोह इत्येके मन्यन्ते । यथा <कर्पूरहारहरहाससितं यशस्ते ।> कर्पूरादिभिरुपमानैर्वहुभिः सादृश्यं सुस्थापितं बह्वति । तेषां शुक्गुणातिरेकात् ॥१८॥ __________ न, अपुष्टार्थत्वात् ॥ ४,२.१९ ॥ उपमानाधिक्यात्तदपोह इति युक्तं , तन्न । अपुष्टार्थत्वात् । एकस्मिन्नुपमाने प्रयुक्ते उपमानान्तरप्रयोगो न कञ्चिदर्थविशेषं पुष्णाति । तेन <बलसिन्धुः सिन्धुरिव क्षुभितः> इति प्रयुक्तम् । ननु सिन्धुशब्दस्य द्विःप्रयोगात्पौनरुक्त्यम् । न । अर्थविशेषात्बलं सिन्धुरिव वैपुल्याद्बलसिन्धुः सिन्धुरिव क्षुभित इति क्षोभसारूप्यात् । तस्मादर्थभेदान्न पौनरुक्त्यम् । अर्थपुष्टिस्तु नास्ति । सिन्धुरिव क्षुभित इत्यनेनैव वैपुल्यं प्रतिपत्स्यते । उक्तं हि (४२१०) <धर्मयोरेकनिर्देशेऽन्यस्य संवित्साहचर्यात्> ॥१९॥ __________ अनुपपत्तिरसंभवः ॥ ४,२.२० ॥ अनुपपत्तिरनुपपन्नत्वमुपमानस्यासम्भवः । यथा <चकास्ति वदनस्यान्तः स्मितच्छायाविकासिनः । उन्निद्रस्यारविन्दस्य मध्ये मुग्धेव चन्द्रिका ॥> चन्द्रिकायामुन्निद्रत्वमरविन्दस्येत्यनुपपत्तिः । नन्वर्थविरोधोऽयमस्तु । किमुपमादोषकल्पनया । न । उपमायामतिशयस्येष्टत्वात् ॥२०॥ कथं तर्हि दोष इत्यत आह __________ न विरुद्धोऽतिशयः ॥ ४,२.२१ ॥ विरुद्धस्यातिशयस्य संग्रहो न कर्तव्य इति अस्य सूत्रस्य तात्पर्यार्थः । तानेतान् षडुपमादोषान् ज्ञात्वा कविः परित्यजेत् ॥२१॥ इति श्रीकाव्यालङ्कारसूत्रवृत्तावालङ्कारिके चतुर्थेऽधिकरणे द्वितीयोऽध्यायः ॥ उपमाविचार.ः ॥ अथ चतुर्थाधिकरणे तृतीयोऽध्यायः सम्प्रत्युपमाप्रपञ्चो विचार्यते । कः पुनरसावित्याह __________ प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः ॥ ४,३.१ ॥ प्रतिवस्तु प्रभृतिर्यस्य स प्रतिवस्तुप्रभृतिः । उपमायाः प्रपञ्च उपमाप्रपञ्च इति ॥१॥ वाक्यार्थोपमायाः प्रतिवस्तुनो भेदं दर्शयितुमाह __________ उपमेयस्योक्तौ समानवस्तुन्यासः प्रतिवस्तु ॥ ४,३.२ ॥ उपमेयस्यार्थआद्वाक्यार्थस्योक्तौ सत्यामिति । अत्र द्वौ वाक्यार्थौ । एको वाक्यार्थोपमायामिति भेदः । तद्यथा <देवीभावं गमिता परिवारपदं कथं भजत्येषा । न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ॥> ॥२॥ प्रतिवस्तुनः समासोक्तेर्भेदं दर्शयितुमाह __________ अनुक्तौ समासोक्तिः ॥ ४,३.३ ॥ उपमेयस्यानुक्तौ समानवस्तुन्यासः समासोक्तिः । संक्षेपवचनात्समासोक्तिरित्याख्या । यथा <श्लाध्या ध्वस्ताध्वगग्लानेः करीरस्य मरौ स्थितिः । धिङ्मेरौ कल्पवृक्षाणामव्युत्पन्नार्थिनां श्रियः ॥> ॥३॥ समासोक्तेरप्रस्तुतप्रशंसाया भेदं दर्शयितुमाह __________ किञ्चिदुक्तावप्रस्तुतप्रशंसा ॥ ४,३.४ ॥ उपमेयस्य किञ्चिल्लिङ्गमात्रेणोक्तौ समानवस्तुन्यासे अप्रस्तुतप्रशंसा । यथा <लावण्यसिन्दुरपरैव हि काचनेयं यत्रोत्पलानि शशिना सह संप्लवन्ते । उन्मञ्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ॥> अओरस्तुतस्यार्थस्य प्रशंसनमप्रस्तुतप्रशंसा ॥४॥ अपह्नुतिरपि ततो भिन्नेति दर्शयितुमाह __________ समेन वस्तुनान्यापलापोऽपह्नुतिः ॥ ४,३.५ ॥ सनेन तुल्येन वस्तुना वाक्यार्थेनान्यस्य वाक्यार्थस्यापलापो निह्नवो यस्तत्त्वाध्यारोपणायासावपह्नुतिः । यथा <न केतकीनां विलसन्ति सूचयः प्रवासिनो हन्त हसत्ययं विधिः । तडिल्लतेयं न चकास्ति चञ्चला पुरः स्मरज्योतिरिदं विवर्तते ॥> वाक्यार्थयोस्तात्पर्यात्ताद्रूप्यमिति न रूपकम् ॥५॥ रूपकं तु कीदृशमित्याह __________ उपमानेनोपमेयस्य गुणसाम्यात्तत्त्वारोपो रूपकम् ॥ ४,३.६ ॥ उपमानेनोपमेयस्य गुणसाम्यात्तत्त्वस्याभेदस्यारोपणमारोपो रूपकम् । उपमानोपमेययोरुभयोरपि ग्रहणं लौकिक्याः कल्पितायाश्चोपमायाः प्रकृक्षित्वमत्र यथा विज्ञायेतेति । यथा (उत्तररामचरित_१.३९) <इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो रसावस्याः स्पर्शो वपुषि वहुलश्चन्दनरसः । अयं कष्ठे वाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो परमसह्यस्तु विरहः ॥> मुखचन्द्रादीनां तूपमा । समासान्न चन्द्रादीनां रूपकत्वं युक्तमिति ॥६॥ रूपकाच्छ्लेषस्य भेदं दर्शयितुमाह __________ स धर्मेषु तन्त्रप्रयोगे श्लेषः ॥ ४,३.७ ॥ उपमानेनोपमेयस्य धर्मेषु गुणक्रियाशब्दरूपेषु स तत्त्वारोपः । तन्त्रप्रयोगे तन्त्रेणोच्चारणे सति श्लेषः । यथा <आकृष्टामलमण्डलाग्ररुचयः संनद्धक्षःस्थलाः सोष्माणो व्रणिता विपक्षहृदयप्रोन्माथिनः कर्कशः । उद्वृत्ता गुरवश्च यस्य शमिनः श्यामायमानानना योधा वारवधूस्तनाश्च न ददुः क्षोभं स वोऽव्याज्जिनः ॥> ॥७॥ यथा च गौणस्यार्थस्यालङ्कारत्वं तथा लाक्षणिकस्यापीति दर्शयितुमाह __________ सादृश्याल्लक्षणा वक्रोक्तिः ॥ ४,३.८ ॥ बहुनि हि निबन्धनानि लक्षणायाम् । तत्र सादृश्याल्लक्षणावक्रोक्तिरसाविति । यथा <उन्मिमील कमलं सरसीनां कैरवं च न मिमील मुहूर्तात् ।> अत्र नेत्रधर्मावुन्मीलनिमीलने सादृश्याद्विकाससंकोचौ लक्षयतः । <इह च निरन्तरनवमुकुलपुलकिता हरति माधवी हृदयम् । मदयति च केसराणां परिणतमधुगन्धि निःश्वसितम् ॥> अत्र च निःश्वसितमिति परिमलनिर्गमं लक्षति । <संस्थानेन स्फुरतु सुभगः स्वर्चिषा चुम्बतु द्याम् । आलस्यमालिङ्गति गात्रमस्याः । परिम्लानच्छायामनुवदति दृष्टिः कमलिनीम् । प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकपायः । ऊरुद्वन्द्वं तरुणकदलीकाण्डसब्रह्मचारि ।> इत्येवमादिषु लक्षणार्थो निरूप्यत इति लक्षणाया झटित्यर्थप्रतिपत्तिक्षमत्वं रहस्यमाचक्षत इति । असादृश्यनिबन्धना तु लक्षणा न वक्रोक्तिः । यथा <जरठकमलकन्दच्छेदगौरैर्मधूखैः ।> अत्र च्छेदः सामीप्याद्द्रव्यं लक्षयति । तस्यैव गौरत्वोपपत्तेः ॥८॥ रूपकवक्रोक्तिभ्यामुत्प्रेक्षाया भेदं दर्शयितुमाह __________ अतद्रूपस्यान्यथाध्यवसानमतिशयार्थमुत्प्रेक्षा ॥ ४,३.९ ॥ अतद्रूपस्यातत्स्वभावस्य । अन्यथा अतत्स्वभावतया । अध्यवसानमध्यवसायः । न पुनरध्यारोपो लक्षणा वा । अतिशयार्थमिति भ्रान्तिज्ञाननिवृत्त्यर्थम् । सादृश्यादियमुत्प्रेक्षेति । एनां चेवादिशब्दा द्योतयन्ति । यथा <स वः पायादिन्दुर्नवविसलताकोटिकुटिलः स्मरारेर्यो मूर्ध्नि ज्वलनकपिषे भाति निहितः । स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ॥> ॥९॥ उत्प्रेक्षेवैवातिशयोक्तिरिति केचित् । तन्निरासार्थमाह __________ संभाव्यधर्मतदुत्कर्षकल्पनातिशयोक्तिः ॥ ४,३.१० ॥ संभाव्यस्य धर्मस्य तदुत्कर्षस्य च कल्पनातिशयोक्तिः । यथा <उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः प्रवाहौ । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥> यथा वा <मलयजरसविलिप्ततनुनवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः । शशभृति विततधाम्नि ध्वलयति धरामविभाव्यतां गताः प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥> ॥१०॥ यथा भ्रान्तिज्ञानस्यरूपोत्प्रेक्षा तथा संशयज्ञानस्वरूपः संदेहोऽपीति दर्शयितुमाह __________ उपमानोपमेयसंशयः संदेहः ॥ ४,३.११ ॥ उपमानोपमेययोरतिशयार्थं यः क्रियते संशयः स संदेहः । यथा <इदं कर्णोत्पलं चक्षुरिदं वेति विलासिनि । न निश्चिनोति हृदयं किन्तु दोलायते मनः ॥> ॥११॥ संदेहवद्विरोधोऽपि प्राप्तावसर इत्याह __________ विरुद्धाभासत्वं विरोधः ॥ ४,३.१२ ॥ अर्थस्य विरुद्धस्येवाभासत्वं विरुद्धाभासत्वं विरोधः । यथा <पीतं पानमिदं त्वयाद्य दयिते मत्तं ममेदं मनः पत्राली तव कुङ्कुमेन रचिता रक्ता वयं मानिनि ! । त्वं तुङ्गस्तनभारमन्थरगतिर्गात्रेषु मे वेपथु स्त्वन्मध्ये तनुता ममाधृतिरहो प्रेम्णो विचित्रा गतिः ॥> यथा वा (अमरु. ३४) <सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥> ॥१२॥ विरोधाद्विभावनाया भेदं दर्शयितुमाह __________ क्रियाप्रतिषेधे प्रसिद्धतत्फलव्यक्तिर्विभावना ॥ ४,३.१३ ॥ क्रियायाः प्रतिषेधे तस्या एव क्रियायाः फलस्य प्रसिद्धस्य व्यक्तिविभावना । यथा <अप्यसज्जनसाङ्गत्ये न वसत्येव वैकृतम् । अक्षालिताविशुद्धेषु हृदयेषु मनीपिणाम् ॥> ॥१३॥ विरुद्धप्रसङ्गेनानन्वयं दर्शयितुमाह __________ एकस्योपमेयत्वोपमानत्वेऽनन्वयः ॥ ४,३.१४ ॥ एकस्यैवार्थस्योपमेयत्वमुपमानत्वं चानन्वयः । यथा (हनुमान्नाटक_१४१८) <गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव ॥> अन्यासादृश्यमेतेन प्रतिपादितम् ॥१४॥ __________ क्रमेणोपमेयोपमा ॥ ४,३.१५ ॥ एककस्यैवार्थस्योपमेयत्वमुपमानत्वं च क्रमेणोपमेयोपमा । यथा <खमिव जलं जलमिव खं हंस इव शशी शशीव हंसोऽयम् । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥> ॥१५॥ इयमेव परिवृत्तिरित्येके तन्निरासार्थमाह __________ समविसदृशाभ्यां परिवर्तनं परिवृत्तिः ॥ ४,३.१६ ॥ समेन विसदृशेन वार्थेन अर्थस्य परिवर्तनं परिवृत्तिः । यथा <आदाय कर्णकिसलयमियमस्मै चरणमरुणमर्पयति । उभयोस्सदृशविनिमयादन्योन्यमवञ्चितं मन्ये ॥> यथा वा <विहाय साहारमहार्यनिश्चया विलोलदृष्टिः प्रविलुप्तचन्दना । बबन्ध बालारुणवभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥> ॥१६॥ उपमेयोपमायाः क्रमो भिन्न इति दर्शयितुमाह __________ उपमेयोपमानानां क्रमसंबन्धः क्रमः ॥ ४,३.१७ ॥ उपमेयानामुपमानानां चोद्देशिनामनुद्देशिनां च क्रमसम्बन्धः क्रमः । यथा <तस्याः प्रबन्धलीलाभिरालापस्मितदृष्टिभिः । जीयन्ते वल्लकीकुन्दकुसुमेन्दीवरस्रजः ॥> ॥१७॥ क्रमसम्बन्धप्रसङ्गेन दीपकं दर्शयितुमाह __________ उपमानोपमेयवाक्येष्वेका क्रिया दीपकम् ॥ ४,३.१८ ॥ उपमानवाक्येपूपमेयवाच्येषु चैका क्रिया अनुपङ्गतः सम्बन्ध्यमाना दीपकम् ॥१८॥ __________ तन्त्रिविधम् । आदिमध्यान्तवाक्यवृत्तिभेदात् ॥ ४,३.१९॥* तत्त्रिविधं भवति । आदिमध्यान्तेषु वाक्येषु वृत्तेर्भेदात् । यथा <भूष्यन्ते प्रमदवनानि बालपुष्पैः , कामिन्यो मधुमदमांसलैर्विलासैः । ब्रह्माणः श्रुतिगदितैः क्रियाकलापै , राजानो विरलितवैरिभिः प्रतापैः ॥> <बाष्पः पथिककान्तानां जलं जलमुचां मुहुः । विगलत्यधुना दण्डयात्रोद्योगो महीभुजाम् ॥ गुरुशुश्रूषया विद्या मधुगोष्ठ्या मनोभवः । उदयेन शशाङ्कस्य पयोधिरभिवर्धते ॥> ॥१९॥ दीपकवन्निदर्शनमपि संक्षिप्तमित्याह __________ क्रिययैव स्वतदर्थान्वयख्यापनं निदर्शनम् ॥ ४,३.२० ॥ क्रिययैव शुद्धया स्वस्यात्मनस्तदर्थः चान्वयस्य संबन्धस्य ख्यापनं संलुलितहेतुदृष्टान्तविभागदर्शनान्निदर्शनम् । यथा <अत्युच्चयदाध्यासः पतनायेत्यर्थशालिनां शंसत् । आपाण्डु पतति पत्रं तयोरिदं बन्धमग्रन्थेः ॥> पततीति क्रिया । तस्याः स्वं पतनम् । तदर्थेऽत्युच्चयदाध्यासः पतनायेति शंसनम् । तस्य ख्यायनमर्थशालिनां शंसदिति ॥२०॥ इदं च नार्थान्तरन्यासः । स ह्यन्यथाभूतस्तमाह __________ उक्तिसिद्ध्यै वस्तुनोऽर्थान्तरस्यैव न्यसनमर्थान्तरन्यासः ॥ ४,३.२१ ॥ उक्तसिद्ध्यै उक्तस्यार्थस्य सिद्ध्यर्थ वस्तुनो वाक्यार्थान्तरस्यैव न्यसनमर्थान्तरन्यासः । वस्तुग्रहणादर्थस्य हेतोर्न्यसनन्नार्थान्तरन्यासः । यथा <इह नातिदूरगोचरमस्ति सरः कमलसौगन्ध्यात्> इति । अर्थान्तरस्यैवेति वचनम् , यत्र हेतुर्व्याप्तिगूढत्वात्कथञ्चित्प्रतीयते तत्र यथा स्यात् । यद्यत्कृतकं तत्तदनित्यमित्येवम्प्रायेषु मां भूदिति । उदाहरणम् । <प्रियेण संग्रथ्य विपक्षसन्निधावुपाहितां वक्षसि पीवरस्तनी । स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥> ॥२१॥ अर्थान्तरन्यासस्य हेतुरूपत्वाद्, हेतोश्चान्वयव्यतिरेकात्मकत्वान्न पृथग्व्यतिरेक इति केचित् । तन्निरासाथमाह __________ उपमेयस्य गुणातिरेकत्वं व्यतिरेकः ॥ ४,३.२२ ॥ उपमेयस्य गुणातिरेकत्वं गुणाधिक्यं यदर्थादुपमानात्स व्यतिरेकः । यथा <सत्यं हरिणशावाक्ष्याः प्रसन्नसुभगं मुखम् । समानं शशिनः किन्तु स कलङ्कविडम्बितः ॥> कश्चित्तु गम्यनानगुणो व्यतिरेकः । यथा <कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं हसितममृतं भग्नं स्वादोः पदं रससंवदः । विषमुपहितं चिन्ताव्याजान्मनस्यपि कामिनां चतुरललितैर्लीलातन्त्रैस्तवार्धविलोकितैः ॥> ॥२२॥ व्यतिरेकाद्विशेषोक्तेर्भेदं दर्शयितुमाह __________ एकगुणहानिकल्पनायां साम्यदार्ढ्यं विशेषोक्तिः ॥ ४,३.२३ ॥ एकस्य गुणस्य हानेः कल्पनायां शेषैर्गुणैस्साम्यं यत्तस्य दार्ढ्यं विशेषोक्तिः । रूपकं चेदं प्रायेणेति । यथा (कुमार. ११०) <भवन्ति यत्रौपधयो रजन्यामतैलपूराः सुरतप्रदीपाः ।> <द्यूतं हि नाम पुरुषस्याऽसिंहासनं राज्यम् ।>(मृच्छकटिका अं. २) <निद्रेयकमला[कियं ह्यकमला] लक्ष्मीः ।> <हस्ती हि जङ्गमं दुर्गम् ।> इति । अत्रापि जङ्गमशब्दस्य स्थावरत्वनिवृत्तिपादनत्वादेकगुणहानिकल्पनैव । एतेन <वेश्या हि नाम मूर्तिमत्येव निकृतिः ।> <व्यसनं हि नाम सोच्छ्वासं मरणम् ।> <द्विजो भूमिवृहस्पतिः ।> इत्येवमादिष्व्गुणहानिकल्पना व्याख्याता ॥२३॥ व्यतिरेकविशेषोक्तिभ्यां व्याजस्तुतिं भिन्नां दर्शयितुमाह __________ संभाव्यविशिष्टकर्माकरणान्निन्दास्तोत्रार्था व्याजस्तुतिः ॥ ४,३.२४ ॥ अत्यन्तगुणाधिको विशिष्टस्तस्य च कर्म विशिष्टकर्म , तस्य सम्भाव्यस्य कर्तुं शक्यस्याकरणान्निन्दाविशिष्टसाम्यसम्पादनेन स्तोत्रार्था व्याजस्तुतिः । यथा <बबन्ध सेतुं गिरिचक्रवालओर्विभेद सप्तैकशरेण तालान् । एवंविधं कर्म ततान रामस्त्वया कृतं तन्न मुधैव गर्वः ॥> ॥२४॥ व्याजस्तुतेर्व्याजोक्तिं भिन्नां दर्शयितुमाह __________ व्याजस्य सत्यसारूप्यं व्याजोक्तिः ॥ ४,३.२५ ॥ व्याजस्य च्छद्मनः सत्येन सारूप्यं व्याजोक्तिः । यां मायोक्तिरित्याहुः । यथा <शरच्चन्द्रांऽसुगौरेण वाताविद्धेन भामिनि । काशपुष्पलवेनेदं साश्रुपातं मुखं कृतम् ॥> ॥२५॥ व्याजस्तुतेः पृथक्तुल्ययोगितेत्याह __________ विशिष्टेन साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता ॥ ४,३.२६ ॥ विशिष्टेन न्यूनस्य साम्यर्थमेककालायां क्रियायां योगस्तुल्ययोगिता । यथा <जलनिधिरशनामिमां धरित्रीं वहति भुजङ्गविभ्र्भवद्भुजश्च ।> ॥२६॥ __________ उपमानाक्षेपश्चाक्षेपः ॥ ४,३.२७ ॥ उपमानस्य क्षेपः प्रतिषेध उपमानाक्षेपः । तुल्यकार्यार्थस्य नैरर्थक्यविवक्षायाम् । यथा <तस्याश्चेन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ च यदि चेत्किं नाम नीलोत्पलैः । किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे हा धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥> उपमानस्याक्षेपतः प्रतिपत्तिरित्यपि सूत्रार्थः । यथा <ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानआर्द्रनखक्षताभम् । प्रस्।दयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥> अत्र शरद्वेश्येव , इन्दुं नायकमिव , रवेः प्रतिनायकस्येवेत्युपमानानि गन्यन्त इति ॥२७॥ तुल्ययोगितायाः सहोक्तेर्भेदनाह __________ वस्तुद्वयक्रिययोस्तुल्यकालयोरेकपदाभिधानं सहोक्तिः ॥ ४,३.२८ ॥ वस्तुद्वस्य क्रिययोस्तुल्यकालयोरेकेन पदेनाभिधानं सहार्थशब्दसामर्थ्यात्सहोक्तिः । यथा <अस्तं भास्वान् प्रयातः सह रिपुभिरयं संह्रियन्तां बलानि । अत्रार्थयोर्न्यूनत्वविशिष्टत्वे न स्त इति नेयं तुल्ययोगितेति ॥> ॥२८॥ समाहितमेकमवशिष्यते । तल्लक्षणार्थमाह __________ यत्सादृश्यं तत्संपत्तिः समाहितम् ॥ ४,३.२९ ॥ यस्य वस्तुनः सादृश्यं गृह्यते तस्य वस्तुनः सम्पत्तिः समाहितम् । यथा <तन्वी मेघजलार्द्रवल्कलतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा । चिन्तामोहमिवास्थिता मधुलिहां शब्दैर्विना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥> अत्र पुरूरवसो लतायामुर्वश्याः सादृश्यं गृह्णतः सैव लतोर्वशी संपन्नेति ॥२९॥ एते चालङ्काराः शुद्धा मिश्राश्च प्रयोक्तव्या इति विशिष्टानामलङ्काराणां मिश्रत्वं संसृष्टिरित्याह __________ अलङ्कारस्यालङ्कारयोनित्वं संसृष्टिः ॥ ४,३.३० ॥ अलङ्कारस्यालङ्कारयोनित्वं यदसौ संसृष्टिरिति । संसर्गः सम्बन्ध इति ॥३०॥ __________ तद्भेदावुपमारूपकोत्प्रेक्षावयवौ ॥ ४,३.३१ ॥ तस्याः संसृष्टेर्भेदावुपमारूपकं चोत्प्रेक्षावयवश्चेति ॥३१॥ __________ उपमाजन्यं रूपकमुपमारूपकम् ॥ ४,३.३२ ॥ स्पष्टम् । यथा <निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम् । प्रथम इव भवान् स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥> एवं <रजनिपुरम्ध्रिलोध्रतिलकः [क्शशी]> इत्येवमादयस्तद्भेदा द्रष्टव्याः ॥३२॥ __________ उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः ॥ ४,३.३३ ॥ उत्प्रेक्षाया हेतुरुत्प्रेक्षावयवः । अवयवशब्दो ह्यारम्भकं लक्षयति । यथा <अङ्गुलीभिरिव केशसश्चयं सन्निगृह्य तिमिरं मरीचिभिः । कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥> <एभिर्निदर्शनैः स्वीयैः परकीयैश्च पुष्कलैः । शब्दवैचित्र्यगर्भेयमुपमैव प्रपञ्चिता ॥ अलङ्कारैकदेशा ये मताः सौभाग्यभागिनः । तेऽप्यलङ्कारदेशीया योजनीयाः कवीश्वरैः ॥> ॥३३॥ इति श्रीकाव्यालङ्कारसूत्रवृत्तावालङ्कारिके चतुर्थेऽधिकरणे तृतीयोध्यायः । समाप्तं चेदमालञ्कारिकं चतुर्थमधिकरणम् । ================================================================ अथ पञ्चमोऽधिकरणे प्रथमोऽध्यायः सम्प्रति काव्यसमयं शब्दशुद्धिं च दर्शयितुं प्रायोगिकाख्यमधिकरणमारभ्यते । तत्र काव्यसमयस्तावदुच्यते । __________ नैकं पदं द्विः प्रयोज्यं प्रायेण ॥ ५,१.१ ॥ एकं पदं न द्विः प्रयोज्यं प्रायेण बाहुल्येन । यथा <पयोदपयोद>इति । किञ्चिदिवादिपदं द्विरपि प्रयोक्तव्यमिति । यथा <सन्तः सन्तः खलाः खलाः > ॥१॥ __________ नित्या संहितैकपदवत्पादेष्वर्धान्तवर्जम् ॥ ५,१.२ ॥ नित्यं संहितापादेष्वेकपदवदेकस्मिन्निव पदे । तत्र हि नित्यासंहितेत्यान्नायः । यथा <स,न्हितैकपदे नित्या धातूपसर्गयोः>इति । अर्धान्तवर्जमर्धान्तं वर्जयित्वा ॥२॥ __________ न पादान्तलघोर्गुरुत्वं च सर्वत्र ॥ ५,१.३ ॥ पादान्तलघोर्गुरुत्वं प्रयोक्तव्यम् । न सर्वत्र , न सर्वस्मिन् वृत्त इति । यथा <यासां बलिर्भवति मद्गृहदेहलीनां हंसैश्च सारसगणैश्च विलुप्तपूर्वः । तास्वेव पूर्वबलिरूढयवाङ्कुरासु बीजाञ्जलिः पतति कीटमुखावलीढः ॥> एवंप्रायेष्वेव वृत्तेष्विति । न पुनः <वरूथिनीनां रजसि प्रसर्पति समस्तमासीद्विनिमीलितं जगत् ।> इत्यादिषु । चकारोऽर्धान्तवर्जमित्यस्यानुकर्पणार्थः ॥३॥ __________ न गाद्ये समाप्तप्रायं वृत्तम्, अन्यत्रोद्गतादिभ्यः संवादात् ॥ ५,१.४ ॥ गद्ये समाप्तप्रायं वृत्तं न विधेयम् । शोभाभ्रांशत् । अन्यत्रोद्गतादिभ्यो विषमवृत्तेभ्यः संवादाद्गद्येनेति ॥४॥ __________ न पादादौ खल्वादयः ॥ ५,१.५ ॥ पादादौ खल्वादयः शब्दा न प्रयोज्याः । आदिशब्दः प्रकारार्थः । येषामादौ प्रयोगो न श्लोष्यति ते गृह्यन्ते । न पुनर्वतहेतप्रभृतयः ॥५॥ __________ नार्धे किञ्चित्समाप्तं वाक्यम् ॥ ५,१.६ ॥ वृत्तस्यार्थे किञ्चिदसमाप्तप्रायं न प्रयोक्तव्यम् । यथा <जयन्ति ताण्डवे शम्भोर्भङ्गुराङ्गुलिकोटयः । कराः कृष्णस्य च भुजाश्चक्रांशुकपिशत्विषः ॥> ॥६॥ __________ न कर्मधारयो बहुव्रीहिप्रतिपत्तिकरः ॥ ५,१.७ ॥ बहुब्रीहिप्रतिपत्तिं करोति यः कर्मधारयः स न प्रयोक्तव्यः । यथा <अध्यासितश्चासौ तरुश्चाध्यासिततरुः> इति ॥७॥ __________ तेन विपर्ययो व्याख्यातः ॥ ५,१.८ ॥ बहुव्रीहिरपि अक्र्मधारयप्रतिपत्तिकरो न प्रयोक्तव्यः । यथा <वीराः पुरुषा यस्य स वीरपुरुषः ।> <कलो रवो यस्य स कलरवः ।> इति ॥८॥ __________ संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ ॥ ५,१.९ ॥ सम्भाव्यस्य निषेधस्य निवर्तने स्वौ प्रतिषेधौ प्रयोक्तव्यौ यथा <समरमूर्धनि येन तरस्विना न न जितो विजयी त्रिदशेश्वरः । स खलु तापसबाणपरम्पराकवलितक्षतजः क्षितिमाश्रितः ॥> ॥९॥ __________ विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ ॥ ५,१.१० ॥ विशेष्यस्य प्रतिपत्तौ जातायां विशेषणमात्रस्यैव प्रयोगः । यथा (रघुवंश ३.९) <निधानगर्भामिव सागराम्बराम्> अत्र हि पृथिव्या विशेषणमात्रमेव प्रयुक्तम् । एतेन <क्रुद्धस्य तस्याथ पुरामरातेर्ललाटपट्टादुदगादुदैचिः ।> <गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः ।> इत्यादयो [क्प्रयोगा] व्याख्याताः ॥१०॥ __________ सर्वनाम्नानुसंधिर्वृत्तिच्छन्नस्य ॥ ५,१.११ ॥ सर्वनाम्नानुसन्धिरनुसन्धानं प्रत्यवमर्शः । वृत्तिच्छन्नस्य वृत्तौ समासे छन्नस्य गुणीभूतस्य । यथा <तवापि नीलोत्पलपत्रचक्षुषो मुखस्य तद्रेणुसमानगन्धिनः ।> इति ॥११॥ __________ संबन्धसंबन्धेऽपि षष्ठी क्वचित् ॥ ५,१.१२ ॥ सम्बन्धेन सन्बन्धः सम्बन्धसम्बन्धस्तस्मिन् षष्ठी प्रयोज्या क्वचित्, न सर्वत्रेति । यथा <कमलस्य कन्दः> इति । कमलेन संबद्धा कमलिनी तस्या कन्दः इति सम्बन्धः । तेन कदलीकाण्डादयो व्याख्याताः ॥१२॥ __________ अतिप्रयुक्तं देशभाषापदम् ॥ ५,१.१३ ॥ अतीव कविभिः प्रयुक्तं देशभाषापदं प्रयोज्यम् । यथा <योषिदित्यभिललाष न हालाम्> इत्यत्र <हाला> इति देशभाषापदम् । अनतिप्रयुक्तं तु न प्रयोज्यम् । यथा <कङ्केलीकाननालीरविरलविलसत्पल्लवा नर्तयन्तः> इत्यत्र <कङ्केली>पदम् ॥१३॥ __________ लिङ्गाध्याहारौ ॥ ५,१.१४ ॥ लिङ्गं चाध्याहारश्च लिङ्गाध्याहारावतिप्रयुक्तौ प्रयोज्याविति । यथा <वत्से ! मा बहु निःश्वसीः कुरु सुरागण्डूपमेकं शनैः> इत्यादिषु गण्डूषशब्दः पुंसि भूयसा प्रयुक्तो , न स्त्रियामाम्नातोऽपि स्त्रीत्वम् । अध्याहारो यथा <मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ! ॥> अत्र हि <अधाक्षीत्[क्धाक्षीत्]> इत्यादीनामध्याहारोऽन्वयप्रयुक्तः ॥१४॥ __________ लक्षणाशब्दाश्च ॥ ५,१.१५ ॥ लक्षणाशब्दाश्चातिप्रयुक्ताः प्रयोज्याः । यथा द्विरेफरोदरशब्दौ भ्रमरचक्रवाकार्थौ लक्षणापरौ । अनतिप्रयुक्ताश्च न प्रयोज्याः । यथा द्विकः काक इति ॥१५॥ __________ न तद्बाहुल्यमेकत्र ॥ ५,१.१६ ॥ तेषां लक्षणाशब्दानां बाहुल्यमेकस्मिन् वाक्ये न प्रयोज्यम् । शक्यते ह्येकस्यावाचकस्य वाचकवद्भावः कर्तुं , न बहूनामिति ॥१६॥ __________ स्तनादीनां द्वित्वाविष्टा जातिः प्रायेण ॥ ५,१.१७ ॥ स्तनादीनां द्वित्वाविष्टा द्वित्वाध्यासिता जातिः प्रायेण बाहुल्येने ति । यथा <स्त्रीणां चक्षुः> इति । अथ कथं द्वित्वाविष्टत्वं जातेः ? । तद्धि द्रव्ये , न जातौ । अतद्रूपत्वाज्जातेः । न दोषः ॑ तदतद्रूपत्वाज्जातेः[क्तद्रूपत्वाज्जातेः] । कथं तदतद्रूपत्वं[क्तद्रूपत्वं] जातेः ? । तद्धि जैमिनीया जानन्ति[क्जैना जानान्ति] । वयं तु लक्ष्यसिद्धौ सिद्धपरमतामुवादिनः । न चैवमतिप्रसङ्गः । लक्ष्यानुसारित्वान्न्यायस्येति । एवमन्यापि व्यवस्थोह्या ॥१७॥ इति श्रीकाव्यालङ्कारसूत्रवृत्तौ प्रायोगिके पञ्चमेऽधिकरणे प्रथमोऽध्यायः । काव्यसमयः ॥५१॥ पञ्चमाधिकरणे द्वितीयोऽध्यायः साम्प्रतं शब्दशुद्धिरुच्यते __________ रुद्रावित्येकशेषोऽन्वेष्यः ॥ ५,२.१ ॥ <रुदौ> इत्यत्र प्रयोगे एकशेषो७ वेष्योऽन्वेषणीयः । रुद्रश्च रुद्राणी चेति <पुमान्स्त्रिया>(पा_१,२.६७) इत्येकशेषः । स च न प्राप्नोति । तत्र हि , <तल्लक्षणश्चेदेव विशेषः> इत्यनुवर्तत इति तत्रैवकारकरणात्स्त्रीपुंसकृत एव विशेषो भवतीति व्यवस्थितम् । अत्र तु <पुंयोगादाख्यायाम्>(पा_४,१.४८) इति विशेषान्तरमप्यस्तीति । एतेन <इन्द्रौ भवौ शर्वौ> इत्यादयः प्रयोगाः प्रत्युक्ताः ॥१॥ __________ मिलिक्लबिक्षपिप्रभृतीनां धातुत्वम्, धातुगुणस्यासमाप्तेः ॥ ५,२.२ ॥ मिलति विक्लवति क्षपयतीत्यादयः प्रयोगाः । तत्र , मिलिक्लबिक्षपिप्रभृतीनां कथं धातुत्वम् ? । गणपाठाद्गुणपठितानामेव धातुसंज्ञाविधानात् । त्रत्राह धातुगणस्यापरिसमाप्तेः । <वर्धते धातुगणः> इति हि शब्दविद आचक्षते । तेनैषां गणपाठोऽनुमतः । शिष्टप्रयोगादिति ॥२॥ __________ वलेरात्मनेपदमनित्यम्, ज्ञापकात् ॥ ५,२.३ ॥ वलेरनुदात्तेत्त्वादात्मनेपदे यत्तदनित्यं दृश्यते <लज्जालोलं वलन्ती> इत्यादिओरयोगेषु । तत्लथमित्याह ज्ञायकात् ॥३॥ किं पुनस्तज्ज्ञापकमत आह [क्किं पुनस्तज्ज्ञापकम् ?] __________ चक्षिङो द्वयनुबन्धकरणम् ॥ ५,२.४ [क्नोतिन् सुत्र] ॥ चक्षिङिकारेणैवानुदात्तेन सिद्धमात्मनेपदस्यानित्यत्वज्ञापनार्थम् । [क्सिद्धात्मनेपदम् ॑ किमर्थं ङित्करणम् ? तत्क्रियते अनुदात्तनिमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनार्थम् ।] एतेन , वेदिभर्त्सितर्जिप्रभृतयो व्याख्याताः । आवेदयतिभर्त्सयति तर्जयतीत्यादीनां प्रयोगाणां दर्शनात् । अन्यत्राप्यनुदात्तनिबन्धनस्यात्मनेपदस्यानित्यत्यं ज्ञापकेन द्रष्टव्यमिति ॥४॥ __________ क्षीयत इति कर्मकर्तरि ॥ ५,२.५ [*५,२.४] ॥ क्षीयती इति प्रयोगो दृश्यते , स कर्मकर्तरि द्रष्टव्यः । क्षीयतेरनात्मनेपदित्वात् ॥५॥ __________ खिद्यत इति च ॥ ५,२.६ [*५,२.५] ॥ खिद्यत इति च प्रयोगो दृश्यते , सोऽकर्मकर्तर्येव द्रष्टव्या , न कर्तरि । अदैवादिकत्वात्खिदेः ॥६॥ __________ मार्गेरात्मएपदमलक्ष्म ॥ ५,२.७ [*५,२.६] ॥ चुरादौ <मार्ग अन्वेपणे> इति पठ्यते । <आ धृषाद्वा> इति विकल्पितणिच्कस्तस्याद्यदात्मनेपदं दृश्यते मार्गन्तां देहभारमिति , तदलक्ष्म अलक्षणम् । परस्मैपदित्वान्मार्गेः । तथा च शिष्टप्रयोगः <करकिसलयं धूत्वा धूत्वा विमार्गति वाससी> ॥७॥ __________ लोलमानादयश्चानशि ॥ ५,२.८ [*५,२.७] ॥ लोलमानो वेल्लमान इत्यादयश्चानशि द्रष्टव्याः । शानचस्त्वभावः , परस्मैपदित्वाद्धातूनामिति ॥८॥ __________ लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे ॥ ५,२.९ [*५,२.८] ॥ अस्त्ययं लभिर्यः प्राप्त्युपसर्जनां गतिमाह अस्ति च [क्यो] गत्युपसर्जनां प्राप्तिमाहेति । अत्र पूर्वस्मिन्पक्षे गत्यर्थत्वाल्लभेर्णिच्यणौ यः कर्ता तस्य गत्यादिसूत्रेण कर्मसंज्ञा । यथा <दीर्घिकासु कुमुदानि विकासं लम्भयन्ति शिशिराः शशिभासः । > द्वितीयपक्षे तु गत्यर्थात्वाभावाल्लभेर्णिच्यणौ कर्तुर्न कर्मसंज्ञा । यथा <सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन् । द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥> ॥९॥ __________ तेमेशब्दौ निपातेषु ॥ ५,२.१० [*५,२.९] ॥ त्वया मयेत्यस्मिन्नर्थे ते मे शब्दौ निपातेषु द्रष्टव्यौ । यथा <श्रुतं ते वचनं तस्य >, <वेदानधीत इति नाधिगतं पुरा मे ।> ॥१०॥ __________ तिरस्कृत इति परिभूते, अन्तर्ध्युपचारात् ॥ ५,२.११ [*५,२.१०] ॥ तिरस्कृत इति शब्दः परिभूते दृश्यते । <राज्ञा तिरस्कृतः> इति । स च न प्राप्नोति । तिरःशब्दस्य हि , <तिरोऽन्तर्धौ> इत्यन्तर्धौ गतिसंज्ञा । तस्यां च सत्यां , <तिरसोऽन्यतरस्याम्>(पा_८,३.४२) इति सकारः । तत्कथं तिरस्कृत इति परिभूते ? , आह अन्तर्ध्युपचारादिति । परिभूतो ह्यन्तर्हितवद्भवति । मुख्यस्तु प्रयोगो यथा <लावण्यप्रसरतिरस्कृताङ्गलेखाम्> इति । ॥११॥ __________ नैकशब्दः, सुप्सुपेति समासात् ॥ ५,२.१२ [*५,२.११] ॥ <अरण्यानीस्थानं फलनमितनैकद्रुममिदम्> इत्यादिषु नैकशब्दो दृश्यते , स च न सिद्ध्यति । नञ्समासे हि <नलोपो नञ्>(पा_६,३.६३) इति नलोपे , <तस्मान्नुडचि>(पा_६,३.७४) इति नुडागमे सत्यनेकमिति रूपं स्यात् । निरनुबन्धस्य नशब्दस्य समासे लक्षणं नास्ति । तत्कथं नैकशब्द इत्याह सुप्सुपेति समातात् ॥१२॥ __________ मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पाठात् ॥ ५,२.१३ [*५,२.१२] ॥ <मधुपिपासुमधुव्रतसेवितं मुकुलजालमजृम्भत वीरुधाम्> इत्यादिषु मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पिपासुप्रभृतीनां पाठात् । <श्रितादिषु गमिगाम्यादीनाम्> इति द्वितीयासमासलक्षणं दर्शयति ॥१३॥ __________ त्रिवलीशब्दः सिद्धः संज्ञा चेत् ॥ ५,२.१४ [*५,२.१३] ॥ त्रिवलीशब्दः सिद्धो यदि संज्ञा । <दिक्सख्ये स.ञ्ज्ञायाम्>(पा_२,१.५०) इति संज्ञायामेव समासविधानात् ॥१४॥ __________ बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम् ॥ ५,२.१५ [*५,२.१४] ॥ <बिम्बाधरः पीयते> इति प्रयोगो दृश्यते , स च न युक्तः । <अधरबिम्ब> इति भवितव्यम् । <उपमितं व्याघ्रादिभिः ...... >(पा_२,१.५६) इति समासे सति । तत्कथं बिम्बाधर इत्यत्राह वृत्तौ मध्यमपदलोपिन्यां शाकपार्थिवादित्वात्समासे मध्यमपदलोपिनि समासे सति बिम्बाकारोऽधरो बिम्बाधर इति । तेन <बिम्बोष्ठ>शब्दोऽपि व्याख्यातः । अत्रापि पूर्ववद्वृत्तिः । शिष्टप्रयोगेषु चैष विधिः । तेन नातिप्रसङ्गः ॥१५॥ __________ आमूललोलादिषु वृत्तिर्विस्पष्टपटुवत् ॥ ५,२.१६ [*५,२.१५] ॥ <आमूललोलम्>, <आमूलसरलम्> इत्यादिषु वृत्तिर्विस्पष्टपटुवत् । मयूरव्यंसकादित्वात् ॥१६॥ __________ न धान्यषष्ठादिषु षष्ठीसमासप्रतिषेधः, पूरणेन तद्धितान्तत्वात् ॥ ५,२.१७ [*५,२.१६] ॥ धान्यपष्टम् , <तान्युच्छषष्टाङ्कितसैकतानि> इत्यादिषु न षष्टीसमासप्रतिषेधः । पूरणेन पूरणप्रत्ययान्तेनान्यतद्धितान्तत्वात् । षष्टो भागः षष्ट इति । <पूरणाद्भागे तीयादन्>(पा_५,३.४८) , <षष्टाषष्टमाभ्यां>(पा_५,३.५०) इत्यन्विधानात् ॥१७॥ __________ पत्रपीतिमादिषु गुणवचनेन ॥ ५,२.१८ [*५,२.१७] ॥ <पत्रपीतिमा> , <पक्ष्मालीपिङ्गलिमा> इत्यादिषु षष्टीसमासप्रति.षेधो गुणवचनेन प्राप्तो , वालिश्यात्तु न कृतः ॥१८॥ __________ अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः ॥ ५,२.१९ [*५,२.१८] ॥ अवर्ज्यो न वर्जनीयो व्यधिकरणे बहुव्रीहिः । जन्माद्युत्तरपदं यस्य स जन्माद्युत्तरपदः । यथा <सच्छास्त्रजन्मा हि विवेकलाभः , कान्तवृत्तयः प्राणाः> इति । ॥१९॥ __________ हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात् ॥ ५,२.२० [*५,२.१९] ॥ हस्ताग्रमग्रहस्तः , पुष्पाग्रम् , अग्रपुष्पमित्यादयः प्रयोगाः कथम् ? आहिताग्न्यादिष्वपाठात् । पाठे वा तदनियमः स्यात् । आह गुणगुणिनोर्भेदाभेदात् । तत्र भेदाद्, हस्ताग्रादयः । अभेदादग्रहस्तादयः ॥२०॥ __________ पूर्वनिपातेऽपभ्रंशो रक्ष्यः ॥ ५,२.२१ [*५,२.२०] ॥ काष्ठतृणं तृणकाष्ठमिति यदृच्छया पूर्वनिपातं कुर्वन्ति । तत्रापभ्रंशो लक्ष्यः परिहरणीयः । अनित्यत्वज्ञापनन्तु न सर्वविषयमिति ॥२१॥ __________ निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः, परिगणनस्य प्रायिकत्वात् ॥ ५,२.२२ [*५,२.२१] ॥ <अनभिहिते> इत्यत्र सूत्रे <तिङ्कृत्तद्धितसमासैः> इति परिगणनं कृतम् । तस्य प्रायिकत्वान्निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिर्भवति । यथा (कुमार. २५५) <विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्> <पण्डितं मूर्ज्ख इति मन्यते> इति ॥२२॥ __________ शक्यमिति रूपं कर्माभिधायां लिङ्गवचनस्यापि सामान्योपक्रमात् ॥ ५,२.२३ [*५,२.२२] ॥ शकेः <शकिसहोश्च>(पा_३,१.९९) इति कर्मणि यति सति शक्यमिति रूपं भवति [क्कर्माभिधायां कर्मवचने] । विलिङ्गवचनस्यापि विरुद्धलिङ्गवचनस्यापि , कर्माभिधायां कर्मवचने सामान्योपक्रमाद्विशेषानपेक्षायामिति । यथा <शक्यमोषधियतेर्नवोदयाः कर्णपूररचनाकृते तव । अप्रगल्भयवसूचिकोनलाश्छेत्तुमग्रनखसंपुटैः कराः ॥> अत्र भाष्यकृद्वचनं लिङ्गम् । यथा <शक्यं च श्वमांसादिभिरपि क्षुत्प्रतिअन्तुम्> इति । न चैकान्तिकः सामान्योपक्रमः । तेन <शक्या भङ्क्तुं झटिति विसिनीकन्दवच्चन्द्रपादाः > इत्यपि भवति ॥२३॥++ __________ हानिवदाधिक्यमप्यङ्गानां विकारः ॥ ५,२.२४ [*५,२.२३] ॥ <येनाङ्गविकारः>(पा_२,३.२०) इत्यत्र सूत्रे यथाङ्गानां हानिस्तथाधिक्यमपि विकारः । यथा <अक्ष्णाः काणः> इति भवति , तथा <मुखेन विलोचनः> इत्यपि भवति ॥२४॥ __________ न कृमिकीटानामिति, एकवद्भावप्रसङ्गात् ॥ ५,२.२५ [*५,२.२४] ॥ <आयुषः कृमिकीटानामलङ्करणमल्पता> इत्यत्र कृमिकीटानामिति प्रयोगो न युक्तः । <क्षुद्रजन्तवः> इत्येकवद्भावप्रसङ्गात् । न च मध्यमपदलोपी समासो युक्तः । तस्यासर्वविषयत्वात् ॥२५॥ __________ न खरोष्ट्रौ, उष्ट्रखरमिति पाठात् ॥ ५,२.२६ [*५,२.२५] ॥ <खरोष्ट्रौ वाहनं येषां> इत्यत्र खरोष्ट्राविति प्रयोगो न युक्तः । गवाश्वप्रभृतिषु <उष्ट्रखरम्> इति पाठात् ॥२६॥ __________ आसेत्यसतेः ॥ ५,२.२७ [*५,२.२६] ॥ <लावण्यमुत्याद्य इवास यत्नः> इत्यत्रासेत्यसतेर्धातोः , <अस गतिदीप्त्यादानेषु> इत्यस्य प्रयोगः , नास्तेः ॑ भूभावविधानात् ॥२७॥ __________ युध्येदिति युधः क्यचि ॥ ५,२.२८ [*५,२.२७] ॥ <यो भर्तृपिण्डस्य कृते न युद्ध्येद्> इति प्रयोगः । स चायुक्तः । युधेरात्मनेपदित्वात् । तत्कथं युद्ध्येदित्याह युधः क्यचि युधमात्मन इच्छेद्युद्ध्येदिति ॥२८॥ __________ विरलायमानादिषु क्यङ्निरूप्यः ॥ ५,२.२९ [*५,२.२८] ॥ <विरलायमाने मलयमारुते> इत्यादिषु क्यङ्निरूप्यः । भृशादिषु पाठात् । नापि क्यष् । लोहितादिष्वपाठात् ॥२९॥ __________ अहेतौ हन्तेर्णिच्, चुरादिपाठात् ॥ ५,२.३० [*५,२.२९] ॥ <धातयित्वा दशास्यम्> इत्यत्राहेतौ णिच्दृश्यते । स कथमित्याह । चुरादिपाटात् । चुरादिषु <स्फुट भेदे> , <घट संघाते>, <हन्त्यर्थाश्च> इति पाठात् ॥३०॥ __________ अनुचरीति चरेष्टित्त्वात् ॥ ५,२.३१ [*५,२.३०] ॥ <अनुचरी प्रियतमा मदालसा> इत्यत्रानुचरीति न युक्तः । इकारलक्षणाभावात् । तत्कथम् ? । आह चरेष्टित्वात् । पचादिषु चरडिति पठ्यते ॥३१॥ __________ केसरालमित्यलतेरणि ॥ ५,२.३२ [*५,२.३१] ॥ <केसरालं शिलीन्ध्रं> इत्यत्र केसरालमिति कथम् ? । आह अलतेरणि । <अलभूषणपर्याप्तिवारणेषु> इत्यस्माद्धातोः केसरशब्दे कर्मण्युपपदे , कर्मण्यणित्यनेनाणि सति केसरालमिति सिद्ध्यति ॥३२॥ __________ पत्रलमिति लातेः के ॥ ५,२.३३ [*५,२.३२] ॥ <पत्रलं वनमिदं विराजते> इत्यत्र पत्रलमिति कथम् ? । आह लातेः के । <ला आदाने> इत्येतस्माद्धातोरादानार्थात्पत्रशब्दे कर्मण्युपपदे , <आतोऽनुपसर्गे कः>(पा_३,२.३) इति कप्रत्यये सतीति ॥३३॥ __________ महीध्रादयो मूलविभुजादिदर्शनात् ॥ ५,२.३४ [*५,२.३३] ॥ महीध्रधरणीध्रादयः शब्दाः मूलविभुजादिदर्शनात्कप्रत्यये सतीति । गर्हीं धरतीति महीध्र इति । एवमादयोऽन्येऽपि द्रष्टव्याः ॥३४॥ __________ ब्रह्मादिषु हन्तेर्नियमादरिहाद्यसिद्धिः ॥ ५,२.३५ [*५,२.३४] ॥ ब्रह्मादिषूपपदेषु हन्तेः क्विब्विधौ <ब्रह्मभ्रूणवृत्रेषु ......>(पा_३,२.८७) इत्यत्रारिहारिपुहा इत्येवमादीनामसिद्धिः । नियमात् । <ब्रह्मादिष्वेव , हन्तेरेव , क्विबेव , भूतकाल एवेति चतुर्विधश्चात्र नियमः> इति नियमान्यतरविषयो निरूप्यः ॥३५॥ [क्चोम्म्.] ब्रह्मादिषूपपदेषु हन्तेः क्विब्विधौ <ब्रह्मभ्रूणवृत्रेषु ......>(पा_३,२.८७) इति नियमात्<ब्रह्मादिष्वेव , हन्तेरेव , क्विबेव , भूतकाल एवेति चतुर्विधश्चात्र नियमः> इति नियमातरिहा , रिपुहा , इत्येवमादीनामसिद्धिः ॥३४॥ __________ ब्रह्मविदादयः कृदन्तवृत्त्या ॥ ५,२.३६ [*५,२.३५] ॥ ब्रह्मवित्, बृत्रभिदित्यादयः प्रयोगा न युक्ताः । <ब्रह्मभ्रूण ......>(पा_३,२.८७) इत्यादिषु <[क्ब्रह्मादिषु] हन्तेरेव> इति नियमात् । आह कृदन्तवृत्त्या । वेत्तीति वित् । भिनत्तीति भित् । <क्विप्च>(पा_३,२.७६) इति क्विप् । ततः कृदन्तैर्विदादिभिः सह ब्रह्मादीनां षष्ठीसमास इति । __________ तैर्महीधरादयो व्याख्याताः ॥ ५,२.३७ [*५,२.३६] ॥ तैर्विदादिभिर्हीधरादयो व्याख्याताः । धरतीति धरः । मह्या धरो महीधरः । एवं गङ्गाधरादयो व्याख्याताः ॥३७॥ __________ भिदुरादयः कर्मकर्तरि कर्तरि च ॥ ५,२.३८ [*५,२.३७] ॥ <भिदुरं काष्ठम्> <भिदुरं तमःतिमिरभिदुरं व्योम्नः शृङ्गम् ......> इति , <छिदुरातपो दिवसःमत्सरच्छिदुरं प्रेमभङ्गुरा प्रीतिःमातङ्गं मानभङ्गुरम्> इत्यादयोऽपि प्रयोगा दृश्यन्ते । ते कथमित्य्[कत्र] आह ते कर्मकर्तरि कर्तरि च भवन्ति । कर्मकर्तरि चायमिष्यते इत्यत्र , चकारः कर्तरि चेत्यस्य समुच्चयार्थः ॥३८॥ __________ गुणविस्तरादयश्चिन्त्याः ॥ ५,२.३९ [*५,२.३८] ॥ <गुणविस्तरः> , <व्याक्षेपविस्तरः> इत्यादयः प्रयोगाश्चिन्त्याः । <प्रथने वावशब्दे>(पा_३,३.३३) इति घञ्प्रसङ्गात् ॥३९॥ __________ अवतरापचायशब्दयोर्दीर्घह्रस्वत्वव्यत्यासो बालानाम् ॥ ५,२.४० [*५,२.३९] ॥ अवतरशब्दस्यापचायशब्दस्य च दीर्घत्वह्रस्वत्वव्यत्यासो बालानां बालिशानां प्रयोगेष्विति । ते ह्यवतरणमवतार इति प्रयुञ्जते । मारुतावतार इति । स ह्ययुक्तः । भावे तरतेरव्विधानात् । अपचायमपचय इति प्रयुञ्जते पुष्पापचय इति । अत्र <हस्तादाने चेरस्तेये>(पा_३,३.४०) इति घञ्प्राप्त इति ॥४०॥ __________ शोभेति निपातनात् ॥ ५,२.४१ [*५,२.४०] ॥ शोभेत्ययं शब्दः साधुः । निपातनात् । <शुभ शुम्भ शोभार्थौ> इति शुभेर्भिदादेराकृतिगणत्वादङ्सिद्ध एव । गुणप्रतिषेधाभावस्तु निपात्यत इति । शोभार्थावित्यत्रैकदेशे , किं शोभा , आहोस्विच्छोभ इति विशेषावगतिराचर्यपरम्परोपदेशादिति ॥४१॥ __________ अविधौ गुरोः स्त्रियां बहुलं विवक्षा ॥ ५,२.४२ [*५,२.४१] ॥ अविधाववविधाने <गुरोश्च हलः>(पा_३,३.१०३) इति स्त्रियां बहुलं विवक्षा । क्विचिद्विवक्षा , क्वचिदविवक्षा , क्वचिदुभयमिति । विवक्षा यथा ईहा लज्जेति । अविवक्षा यथा आतङ्क इति । विवक्षाविवक्षे यथा बाधा बाधः , ऊहा ऊहः , व्रीडा व्रीडः , इति ॥४२॥ __________ व्यवसितादिषु क्तः कर्तरि, चकारात् ॥ ५,२.४३ [*५,२.४२] ॥ व्यवसितः , प्रतिपन्न इत्यादिषु भावकर्मविहितोऽपि क्तः कर्तरि । गत्यादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् । भावकर्मानुकर्षणार्थत्वं चकारस्येति चेद्, आवृत्तिः कर्तव्या ॥४३॥ __________ आहेति भूतेऽन्यणलन्तभ्रमाद्ब्रुवो लटि ॥ ५,२.४४ [*५,२.४३] ॥ <ब्रुवः पञ्चानां ......>(पा_३,४.८४) इत्यादिना आहेति लट्व्युत्पादितः । स भूते प्रयुक्तः <इत्याह भगवान् प्रभुः> इति । अन्यस्य भूतकालाभिधायिनो णलन्तस्य लिटि भ्रमात् । निपुणाश्चैवं प्रयुज्यते । <आह स्म स्मितमधुमधुराक्षरां गिरम्> इति । <अनुकरोति भगवतो नारायणस्य> इत्यत्रापि <मन्येस्म>शब्दः कविना प्रयुक्तो लेखकैस्तु प्रमादान्न लिखित इति ॥४४॥ __________ शबलादिभ्यः स्त्रियां टापोऽप्राप्तिः ॥ ५,२.४५ [*५,२.४४] ॥ <उपस्रोतः स्वस्थस्थितमहिषशृङ्गाग्रशबलाः स्नवन्तीनां जाताः प्रमुद्तविहङ्गास्तटभुवः । भ्रमरोत्करकल्माषाः कुसुमानां समृद्धयः ।> इत्यादिषु स्त्रियां टापोऽप्राप्तिः । <अन्यतो णीष्>(पा_४,१.४०) इति णीष्विधानात् । तेन शबली , कल्माषीति भवति ॥४५॥ __________ प्राणिनि नीलेति चिन्त्यम् ॥ ५,२.४६ [*५,२.४५] ॥ <कुवलयदलनीला कोकिला वालचूते> इत्यादिषु नीतेति चिन्त्यम् । कोकिला नीलीति भवितव्यम् । नीलशब्दात्<जानपद ......>(पा_४,१.४२) इत्यादिसूत्रेण <प्राणिनि च>(वार्त्तिक_२४५७) इति डीष्विधानात् ॥४६॥ __________ मनुष्यजातेर्विवक्षाविवक्षे ॥ ५,२.४७ [*५,२.४६] ॥ <इतो मनुष्यजातेः>(पा_४,१.६५) , <ऊणुतः>(पा_४,१.६६) इत्यत्र मनुष्यजातेर्विवक्षा , अविवक्षा च लक्ष्यानुसारतः । <मन्दरस्य मदिराक्षि ! पार्श्वतो निम्ननाभि न भवन्ति निम्नगाः । वासुकिविकर्षणोद्भवा भामिनीह पदवी विभाव्यते ॥> अत्र मनुष्यजातेर्विवक्षायां <इतो मनुष्य जातेः>(पा_४,१.६५) इति ङीषि सति , <अम्बार्थनद्योर्ह्रस्वः>(पा_७,३.१०७) इति संबुद्धौ ह्रस्वत्वं सिद्ध्यति । नाभिशब्दात्पुनः , इतश्च <प्राण्यङ्गात्......>(वार्त्तिक_३१८९) इतीकारे कृते , निम्बनामीके इति स्यात् । <हृतोष्ठरागैर्नयनोदबिन्दुभिर्निमग्ननाभैर्निपतद्भिरङ्कितम् । च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम् ॥> अत्र <निमग्ननाभेः> इति मनुष्यजातेर्विवक्षेति ङीष्न कृतः । <सुतनु जहिहि मौनं पश्य पादानतं माम्>(क्<सुतनु जहिहि कोपं .......>) इत्यत्र मनुष्यजातेरविवक्षेति <सुतनु>शब्दात्<ऊङुतः>(पा_४,१.६६) इत्यूङि सति ह्रस्वत्वे <सुतनु> इति सिद्ध्यति । <वरतनुरथवासौ नैव दृष्टा त्वया मे ।> अत्र मनुष्यजातेरविवक्षेत्यूङ्न कृतः ॥४७॥ __________ ऊकारान्तादप्यूङ्, प्रवृत्तेः ॥ ५,२.४८ [*५,२.४७] ॥ उत ऊङ्विहित ऊकारान्तादपि क्वचिद्भवति । आचार्यप्रवृत्तेः । क्वासौ प्रवृत्तिः ? । <अप्राणिजातेश्चारज्ज्वादीनाम्>(वार्त्तिक_२५०२) इति अलाबूः , कर्कन्धूरित्युदाहरणम् । तेन , <सुभ्रु ! किं संभ्रमेण> । अतर्सुभ्रुशब्द ऊङि सिद्धो भवति । ऊङि त्वसति सुभ्रूरिति स्यात् ॥४८॥ __________ कार्तिकीय इति ठञ्दुर्धरः ॥ ५,२.४९ [*५,२.४८] ॥ <कार्तिकीयो नभस्वान्> इत्यत्र <कालाट्ठञ्>(पा_४,३.११) इति ठञ्दुर्धरः । ठञ्भवन् दुःखेन ध्रियत इति ॥४९॥ __________ शार्वरमिति च ॥ ५,२.५० [*५,२.४९] ॥ <शार्वरं तमः> इत्यत्र च <कालाट्ठञ्>(पा_४,३.११) इति ठञ्दुर्धरः ॥५०॥ __________ शाश्वतमिति प्रयुक्तेः ॥ ५,२.५१ [*५,२.५०] ॥ <शाश्वतं ज्योतिः> इत्यत्र शाश्वतमिति न सिद्ध्यति <कालट्ठञ्>(पा_४,३.११) इति ठञ्प्रसङ्गात् । <येषां च विरोधः शाश्वतिकः>(पा_२,४.९) इति सूत्रकारस्यापि प्रयोगः । आह प्रयुक्तेः । <शाश्वते प्रतिषेधः> इति प्रयोगात्शाश्वतमिति भवति ॥५१॥ __________ राजवंश्यादयः साध्वर्थे ये भवन्ति ॥ ५,२.५२ [*५,२.५१] ॥ राजवंश्याः , सूर्यवंश्या इत्यादयः शब्दाः , <तत्र साधुः>(पा_४,४.९८) इत्यनेन साध्यर्ये यति प्रत्यये सति साधयो भवन्ति । भावार्थे पुनर्दिगादिपाठेऽपि <वंश>शब्दस्य वंशशब्दान्तान्न यत्प्रत्ययः । तदन्तविधेः प्रतिषेधात् ॥५२॥ __________ दारवशब्दो दुष्प्रयुक्तः ॥ ५,२.५३ [*५,२.५२] ॥ <दारवं पात्रम्> इति <दारव>शब्दो दुष्प्रयुक्तः । <नित्यं वृद्धशरादिभ्यः>(पा_४,३.१४४) इति मयटा भवितव्यम् । ननु विकारावयवयोरर्थयोर्मयङ्विधीयते । अत्र तु <दारुण इदम्> इति विवक्षायां दारवमिति भविष्यति ? नैतदेवमपि स्यात् । <वृद्धाच्छः>(पा_४,२.११४) इति छविधानात् ॥५३॥ __________ मुग्धिमादिष्विवमनिज्मृग्यः ॥ ५,२.५४ [*५,२.५३] ॥ मुग्धमा , मौडिमा[क्प्रौढिमा] इत्यादिषु इमनिज्मृग्यः अन्वेषणीय इति ॥५४॥ __________ औपम्यादयश्चातुर्वर्ण्यवत् ॥ ५,२.५५ [*५,२.५४] ॥ औपम्यं , सान्निध्यमित्यादयश्चातुर्वर्ण्यवत्<गुणवचन ......>(पा_५,१.१२४) इत्यत्र <चातुर्वर्ण्यादीनांुपसंख्यानम्>(वार्त्तिक_३०९१) इति वार्तिकात्स्वार्थिकष्यञन्ताः ॥५५॥ __________ ष्यञः षित्करणादीकारो बहुलम् ॥ ५,२.५६ [*५,२.५५] ॥ <गुणवचनब्राह्मणादिभ्यः>(पा_५,१.१२४) इति यः ष्यञ्तस्य षित्करणादीकारो भवति । स बहुलम् । <ब्राह्मण्यम्> इत्यादिषु न भवति । <सामग्र्यम्> इत्यादिषु विकल्पितः । सामग्र्यं सामग्री , वैदग्ध्यं वैदग्धीति ॥५६॥ __________ धन्वीति व्रीह्यादिषु पाठात् ॥ ५,२.५७ [*५,२.५६] ॥ व्रीह्यादिषु <धन्वन्>शब्दस्य पाठात्धन्वीति इनौ सति सिद्धो भवति ॥५७॥ __________ चतुरस्रशोभीति णिनौ ॥ ५,२.५८ [*५,२.५७] ॥ <बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन ।> इत्यत्र <चतुरस्रशोभि> इति न युक्तम् । व्रीह्यादिषु <शोभा>शब्दस्य पाठेऽपि । इनिरत्र न सिद्ध्यति । <ग्रहणवता प्रातिपदिकेन> तदन्तविधिप्रतिषेधात् । भवतु वा तदन्तविधिः । कर्मधारयान्मत्वर्थीयानुपपत्तिः । लघुत्वात्प्रक्रमस्येति बहुव्रीहिणैव भवितव्यम् । तत्कथमिति मत्वर्थीयस्याप्राप्तौ चतुरस्रशोभीति प्रयोगः ? । आह णिनौ । चतुरस्रं शोभत इति ताच्छीलिके णिनावयं प्रयोगः । अथ , <अनुमेयशोभि> इति कथम् ? । न ह्यत्र पूर्ववद्वृत्तिः शक्या कर्तुमिति । शुभेः साधुकारिण्यावश्यके वा णिनिं कृत्वा तदन्ताच्च भावप्रत्यये पश्चाद्बहुव्रीहिः कर्तव्यः । अनुमेयं शोभित्वं यस्येति । भावप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः । यथा <निराकुलं तिष्ठति> , <सधीरमुवाच> इति ॥५८॥ __________ कञ्चुकीया इति क्यचि ॥ ५,२.५९ [*५,२.५८] ॥ <जीवन्ति राजमहिषीमनु कञ्चुकीयाः> इति कथम् ? । मत्वर्थीयस्य च्छप्रत्ययस्याभावात् । अत आह क्यचि । क्यचि प्रत्यये सति कञ्चुकीया इति भवति । कञ्चुकमात्मन इच्छन्ति कञ्चुकीयाः ॥५९॥ __________ बौद्धप्रतियोग्यपेक्षायामप्यातिशायनिकाः ॥ ५,२.६० [*५,२.५९] ॥ बौद्धस्य प्रतियोगिनोऽपेक्षायामप्यातिशायनिकास्तरबादयो भवन्ति <घनतरं तमःबहुलतरं प्रेम> इति ॥६०॥ __________ कौशिलादय इलचि वर्णलोपात् ॥ ५,२.६१ [*५,२.६०] ॥ <कौशिलः , वासिल> इत्यादयः कथम् ? । आह [किलचि वर्णलोपात्] कौशिकवासिष्ठादिभ्यः शब्देभ्यो नीतावनुकम्पायां वा , <धनिलचौ च>(पा_५,३.७९) इतिइलचि कृते , <ठाजादावूर्ध्वं द्वितीयादचः>(पा_५,३.८३) इति वर्णलोपात्सिध्यति ॥६१॥ __________ मौक्तिकमिति विनयादिपाठात् ॥ ५,२.६२ [*५,२.६१] ॥ मुक्तैव मौक्तिकमिति विनयादिपाठात्द्रष्टव्यम् । <स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते> इति नपुंसकत्वम् ॥६२॥ __________ प्रातिभादयः प्रज्ञादिषु ॥ ५,२.६३ [*५,२.६२] ॥ प्रातिभादयः शब्दाः प्रज्ञादिषु द्रष्टव्याः । प्रतिभाविकृतिद्वितादिभ्यः शब्देभ्यः प्रज्ञादिपाठादणि स्वार्थिके कृते , प्रातिभं , वैकृतं , द्वैतमित्यादयः प्रयोगाः सिद्ध्यन्तीति ॥६३॥ __________ न सरजसमित्यनव्ययीभावे ॥ ५,२.६४ [*५,२.६३] ॥ <मधु सरजसं मध्येपद्मं पिबन्ति शिलीमुखाः> इत्यादिषु सरजसमिति न युक्तः प्रयोगः अनव्ययीभावे । भाव एव <सरजस>शब्दस्येष्टत्वात् ॥६४॥ __________ धृतधनुषीत्यसंज्ञायाम् ॥ ५,२.६५ [*५,२.६४] ॥ <धृतधनुषि शौर्यशालिनि> इत्यत्र <धृतधनुषि> इत्यसंज्ञायां न युक्तः प्रयोगः । <धनुषश्च>(पा_५,४.१३२) इत्यङ्विधानात् । संज्ञायां ह्यनङ्विकल्पितः । <वा संज्ञायाम्>(पा_५,४.१३३) इति ॥६५॥ __________ दुर्गन्धिपद इद्दुर्लभः ॥ ५,२.६६ [*५,२.६५] ॥ <दुर्गन्धिः कायः> इत्यादिषु <दुर्गन्धि>पदे इत्समानान्तो दुर्लभः । उत्पूत्यादिषु दुःशब्दस्यापाठात् ॥६६॥ __________ सुदत्यादयः प्रतिविधेयाः ॥ ५,२.६७ [*५,२.६६] ॥ <सा दक्षरोषात्सुदती ससर्ज> इति , <शिखरदति पतति रशना> इत्यादिषु सुदत्यादयः शब्दाः प्रतिविधेयाः । दत्रादेशलक्षणाभावात् । तत्र प्रतिविधानम् । <अग्रान्त>(पा_५,४..१४५)आदिसूत्रे <चकारस्यानुक्तसमुच्चयार्थत्वात्सुदत्यादिषु दत्रादेशः> इत्येके । अन्ये तु वर्णयन्ति । सुदत्यादयः स्त्र्यभिधायिनो योगरूढशब्दाः । तेषु <स्त्रियां संज्ञायाम्>(पा_५,४.१४३) इति दत्रादेशो विकल्पेन सिद्ध एव इति ॥६७॥ __________ क्षतदृढोर्स इति न कप्, तदन्तविधिप्रतिषेधात् ॥ ५,२.६८ [*५,२.६७] ॥ <प्लवङ्गनखकोटिभिः क्षतदृढोरसो राक्षसाः> इत्यत्र <दृढोरः>शब्दाद्, <उरःप्रभृतिभ्यः कप्>(पा_५,४.१५१) इति कप्न कृतः । <ग्रहणवता प्रातिपदिकेन> इति तदन्तविधेः प्रतिषेधात् । समासवाक्यं त्वेवं कर्तव्यम् क्षतं दृढोरो येषामिति ॥६८॥ __________ अवैहीति वृद्धिरवद्या ॥ ५,२.६९ [*५,२.६८] ॥ अवैहीत्यत्र वृद्धिरवद्या । गुण एव युक्त इति ॥६९॥ __________ अपाङ्गनेत्रेति लुगलभ्यः ॥ ५,२.७० [*५,२.६९] ॥ अपाङ्गे नेत्रं यस्याः सेयम्पाङ्गनेत्रेत्यत्र लुगलभ्यः । <अमूर्धमस्तकात्स्वाङ्गादकामे>(पा_६,३.१२) इति सप्तम्या अलुग्विधानात् ॥७०॥ __________ नेष्ठाः श्लिष्टप्रियादयः, पुंवद्भावप्रतिषेधात् ॥ ५,२.७१ [*५,२.७०] ॥ श्लिष्टप्रियः , विश्लिष्टकान्त इत्यादयो नेष्टाः । <स्त्रियाः पुंवत्......>(पा_६,३.३४) इति पुंवद्भावस्य प्रियादिषु निषेधात् ॥७१॥ __________ दृढभक्तिरिति सर्वत्रेति ॥ ५,२.७२ [*५,२.७१] ॥ <दृढभक्तिरसौ ज्येष्ठे> अत्र पूर्वपदस्य <स्त्रियाम्[कस्त्रियाम्]> इत्यविवक्षितत्वात्[क्विवक्षितत्वात्] ॥७२॥ __________ जम्बुलतादयो ह्रस्वविधेः ॥ ५,२.७३ [*५,२.७२] ॥ जम्बुलतादयः प्रयोगाः कथम् ? । आह ह्रस्वविधेः । <इको ह्रस्वोऽङ्जो गालवस्य>(पा_६,३.६१) इति ह्रस्वविधानात् ॥७३॥ __________ तिलकादयोऽजिरादिषु ॥ ५,२.७४ [*५,२.७३] ॥ तिलकादयः शब्दा अजिरादिषु द्रष्टव्याः । अन्यथा , <तिलकवती कनकवती> इत्यादिषु मतुपि , <मतौ बह्वचोऽनजिरादीनाम्>(पा_६,३.११९) इति दीर्घत्वं स्यात् । केचित्तु वर्णयन्ति <नद्यां मतुप्>(पा_४,२.८५) इति यो मतुप्तत्रायं विधिः । तेषां मतेनामरावतीत्यादीनामसिद्धिः ॥७४॥ __________ निशम्यनिशमय्यशब्दौ प्रकृतिभेदात् ॥ ५,२.७५ [*५,२.७४] ॥ निशम्य निशमय्येत्येतौ शब्दौ श्रुत्वेत्येतस्मिन्नर्थे । शमेः ल्यपि <ल्यपि लघुपूर्वात्>(पा_६,४.५६) इत्ययादेशे सति निशमय्येति भवितव्यम् , न निशम्येति । आह प्रकृतिभेदात् । शमेर्दैवादिकस्य निशम्येति रूपम् । <शमो दर्शने> इति चुरादौ णिचि मित्संज्ञकस्य निशमय्येति रूपम् ॥७५॥ __________ संयम्यनियम्यशब्दौ, अणिजन्तत्वात् ॥ ५,२.७६ [*५,२.७५] ॥ कथं संयम्यनियम्यशब्दौ ? । <ल्यपि लघुपूर्वात्>(पा_६,४.५६) इति णेरयादेशेन भवितव्यम् । आह अणिजन्तत्वात् । धातोर्णिच्तु न । गतार्थत्वात् । यथा <वाचं नियच्छति> इति । णिजर्थानयगतौ [क्तु] णिच्प्रयुज्यत एव । यथा <संयमयितुमारब्धः> इति ॥७६॥ __________ प्रपीयेति पीङः ॥ ५,२.७७ [*५,२.७६] ॥ प्रपीयेत्ययं शब्दः , <पीङ्पाने> इत्येतस्य । पिवतेर्हि , <न ल्यपि>(पा_६,४.६९) इतीत्वप्रतिषेधात्प्रपायेति भवति ॥७७॥ __________ दूरयतीति बहुलग्रहणात् ॥ ५,२.७८ [*५,२.७७] ॥ <दूरयत्यवनते विवस्वति> इत्यत्र दूरयतीति कथम् ? । णाविष्ठवद्भावे <स्थूलदूर ......>(पा_६,४.१५६) इत्यादिना गुणलोपयोः कृतयोर्दवयतीति भवितव्यम् । आह बहुलग्रहणात् । <प्रतिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च>(गणपाठ_२०३) इत्यत्र बहुलग्रहणात्<स्थूलदूर ......>(पा_६,४.१५६) आदिसूत्रेण यद्विहितं तन्न भविष्यतीति ॥७८॥ __________ गच्छतीप्रभृतिष्वनिषेध्यो नुम् ॥ ५,२.७९ [*५,२.७८] ॥ हरति हि वनराजिर्गच्छती श्यामभावमित्यादिषु गच्छतीप्रभृतिषु शब्देषु , <शप्श्यनोर्नित्यम्> इति नुमनिषेध्यो निषेद्धुमशक्यः ॥७९॥ __________ मित्रेण गोप्त्रेति पुंवद्भावात् ॥ ५,२.८० [*५,२.७९] ॥ <मित्रेण गोप्त्रा> इति कथम् ? । गोप्तृणा भवितव्यम् । <इकोऽचि विभक्तौ>(पा_७,३.७३) इति नुम्विधानात् । आह पुंवद्भावात् । <तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य>(पा_७,१.७४) इति पुंवद्भावेन गोप्त्रेति भवति ॥८०॥ __________ वेत्स्यसीति पदभङ्गात् ॥ ५,२.८१ [*५,२.८०] ॥ <पतितं वेत्स्यसि क्षितौ> इत्यत्र वेत्स्यसीति न सिद्ध्यति । इट्प्रसङ्गात् । आह पदभङ्गात्सिद्ध्यति । वेत्स्यसीति पदं भज्यते वेत्सि , असि । <असि>इत्ययं निपातस्त्वमित्यस्मिन्नर्थे । क्वचिद्वाक्यालङ्कारे प्रयुज्यते । यथा <पार्थिवस्त्वमसि सत्यमभ्यधाः> इति । ॥८१॥ __________ कामयानशब्दः सिद्धोऽनादिश्चेत् ॥ ५,२.८२ [*५,२.८१] ॥ <कामयान>शब्दः सिद्धः । <आगमानुशासनमनित्यम्> इति मुक्यकृते , यद्यनादिः स्यात् ॥८२॥ __________ सौहृद्दौर्हृदशब्दावणि हृद्भावात् ॥ ५,२.८३ [*५,२.८२] ॥ सुहृदयदुर्हृदयशब्दाभ्यां युवादिपाठादणि कृते , हृदयस्य हृद्भावः । आदिवृद्धौ सौहृददौर्हृदशब्दौ भवतः । सुहृद्दुर्हृच्छब्दाभ्यां युवादिपाठादेवाणि कृते , <हृद्भगसिन्ध्वन्ते ......>(पा_७,३.१९) इति हृदन्तस्य तद्धितेऽणि कृते सत्युभयपदवृद्धौ सत्यां सौहार्दं दौहार्दमिति भवति ॥८३॥ __________ विरम इति निपातनात् ॥ ५,२.८४ [*५,२.८३] ॥ रमेरनुदात्तोपदेशत्वात्, <नोदात्तोपदेशस्य ......>(पा_७,३.३४) इत्यादिना वृद्धप्रतिषेधस्याभावात्कथं विरम इति । आह निपातनात् । एतत्तु <यम उमरमे> इत्यत्रोपरम इति । [केतत्तु चोपलक्षणम् ] अतन्त्रं चोपसर्ग इति ॥८४॥ __________ उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया ॥ ५,२.८५ [*५,२.८४] ॥ उपर्यादिषु शब्देषु सामीप्ये द्विरुक्तेषु <उपर्यध्यधसः सामीप्ये>(पा_८,१.७) इत्यनेन <उपर्यादिषु त्रिषु द्वितीयाम्रेडितान्तेषु> इति द्वितीया । वीप्सायां तु द्विरुक्तेषु षष्ठ्येव भवति <उपर्युपरि बुद्धिनां चरन्तीश्वरबुद्धयः > ॥८५॥ __________ मन्दं मन्दमित्यप्रकारार्थत्वे ॥ ५,२.८६ [*५,२.८५] ॥ <मन्दं मन्दं नुदति पवनः>(मेघदूत १.९) इत्यत्र <मन्दं मन्दम्> इत्यप्रकारार्थे भवति । प्रकारार्थत्वे तु <प्रकारे गुणवचनस्य>(पा_८,१.१२) इति द्विर्वचने कृते कर्मधारयवद्भावे च मन्दमन्दमिति प्रयोगः । मन्दं मन्दमित्यत्र तु <नित्यवीप्सयोः>(पा_८,१.४) इति द्विर्वचनम् । अनेकभागात्मकस्य नुदेर्यदा सर्वे भावा मन्दत्वेन व्याप्तुय्मिष्टा भवन्ति तदा वीप्सेति ॥८६॥ __________ न निद्राद्रुगिति, भष्भावप्राप्तेः ॥ ५,२.८७ [*५,२.८६] ॥ <निद्राद्रुक्काद्रवेयच्छविरुपरिलसद्धर्घरो वारिवाहः> इत्यत्र <निद्राद्रुक्> इति न युक्तः । <एकाचो बशो भष्......>(पा_८,२.३७) इति भषभावप्राप्तेः । अनुप्रासप्रियैस्तत्वपभ्रंशः कृतः ॥८७॥ __________ निष्पन्द इति पत्वं चिन्त्यम् ॥ ५,२.८८ [*५,२.८७] ॥ न ह्यत्र पत्वलक्षणमस्ति । कस्कादिपाठोऽप्यस्य न निश्चितः ॥८८॥ __________ नाङ्गुलिसङ्ग इति मूर्धन्यविधेः ॥ ५,२.८९ [*५,२.८८] ॥ <म्लायन्त्यङ्गुलिसङ्गेऽपि कोमलाः कुसुमस्रजः> इत्यत्र <अङ्गुलिसङ्गः> इति न युक्तः । <समासेऽङ्गुलेः सङ्गः> इति मूर्धन्यविधानात् ॥८९॥ __________ तेनावन्तिसेनादयः प्रत्युक्ताः ॥ ५,२.९० [*५,२.८९] ॥ तेन <अङ्गुलिसङ्गे> इत्यनेन <अवन्तिसेनःिन्दुसेनः> एवमादयः शब्दः प्रत्युक्ताः प्रत्याख्याताः । <सुषामादिषु च>(पा_८,३.९८) <एति संज्ञायामगात्>(पा_८,३.९९ ग.) इति मूर्धन्यविधानात् ॥९०॥ __________ नेन्द्रवाहने णत्वम्॑ आहितत्वस्याविवक्षितत्वात् ॥ ५,२.९१ [*५,२.९०] ॥ <कुथेन नागेन्द्रमिवेन्द्रवाहनम्> इत्यत्र <इन्द्रवाहन>शब्दे <वाहनमाहितात्>(पा_८,४.८) इति णत्वं न भवति । आहितत्वस्याविवक्षितत्वात् । स्वस्वामिभावमात्रं ह्यत्र विवक्षितम् । तेन सिद्धम् <इन्द्रवाहनम्> इति ॥९१॥ <सदन्सन्तो मया विविच्यैवं निदर्शिताः । अनयैव दिशा कार्यं शेषाणामप्यवेक्षणम् ॥> इति काव्यालङ्कारसूत्रवृत्तौ प्रायोयिके पञ्चमेऽधिकरणे द्वितीयोऽध्यायः समाप्तः । शब्दशुद्धिः । समाप्तं चेदं प्रायोगिकं पञ्चमाधिकरणम् । =============================================================