श्रीमद्राजानककुन्तकविरचितं वक्रोक्तिजीवितम् १ प्रथमोन्मेषः जगत्त्रितयवैचित्र्यचित्रकर्मविधायिनम् । शिवं शक्तिपरिस्पन्दमात्रोपकरणं नुमः ॥ टीका १.१ ॥ यथातत्त्वं विवेच्यन्ते भावास्त्रैलोक्यवर्तिनः । यदि तन्नाद्भुतं नाम दैवरक्ता हि किंशुकाः ॥ टीका १.२ ॥ स्वमनीषिकयैवाथ तत्त्वं तेषां यथारुचि । स्थाप्यते प्रौढिमात्रं तत्परमार्थो न तादृशः ॥ टीका १.३ ॥ इत्यसत्तर्कसन्दर्भे स्वतन्त्रेऽप्यकृतादरः । साहित्यार्थसुधासिन्धोः सारमुन्मीलयाम्यहम् ॥ टीका १.४ ॥ येन द्वितयमप्येतत्तत्त्वनिर्मितिलक्षणम् । तद्विदामद्भुतामोदचमत्कारं विधास्यति ॥ टीका १.५ ॥ ग्रन्थारम्भे । अभिमतदेवतानमस्कारकरणं समाचारः, तस्मात्तदेव तावदुपक्रमते _________________________________________________________________ वन्दे कवीन्द्रवक्त्रेन्दुलास्यमन्दिरनर्तकीम् । देवीं सूक्तिपरिस्पन्दसुन्दराभिनयोज्ज्वलाम् ॥ १.१ ॥ इति । देवीं वन्दे देवतां स्तौमि । कामित्याहकवीन्द्रवक्त्रेन्दुलास्यमन्दिरनर्तकीम् । कवीन्द्राः कविप्रवरास्तेषां वक्त्रेन्दुर्मुखचन्द्रः स एव लास्यमन्दिरं नाट्यवेश्म तत्र नर्तकी लासिकाम् । किंविशिष्टाम्सूक्तिपरिस्पन्दसुन्दराभिनयोज्ज्वलाम् । सूक्तिपरिस्पन्दाः सुभाषितविलसितानि तान्येव सुन्दरा अभिनयाः सुकुमाराः सात्त्विकादयस्तैरुज्ज्वलं भ्राजमानाम् । या किल सत्कविवक्त्रे लास्यसद्मनीव२ नर्तकी स्वविलासा३ भिनयविशिष्टा नृत्यन्ती विराजते तां वन्दे नौमीति वाक्यार्थः । तदिदमत्र तात्पर्यम्यत्किल प्रस्तुतं वस्तु किमपि काव्यालङ्कारकरणं तदधिदैवतभूतामेवंविधराणीयकहृदयहारिणीं वाग्रूपां सरस्वतीं स्तौमीति । एवं नमस्कृत्येदानीं वक्तव्यवस्तुविषयभूतान्यभिधानाभिधेयप्रयोजनान्यासूत्रयति । वाचो विषयनैयत्यमुत्पादयितुमुच्यते । आदिवाक्येऽभिधानादि निर्मितेर्मानसूत्रवत् ॥ टीका १.६ ॥ इत्यन्तरश्लोकः ।(?) _________________________________________________________________ लोकोत्तरचमत्कारकारिवैचित्र्यसिद्धये । काव्यस्यायमलङ्कारः कोऽप्यपूर्वो विधीयते ॥ १.२ ॥ अलङ्कारो विधीयते अलङ्कारणं क्रियते । कस्यकाव्यस्य । कवेः कर्म काव्यं तस्य । ननु च सन्ति चिरन्तनास्तदलङ्कारास्तत्किमर्थमित्याहअपूर्वः, तद्व्यतिरिक्तार्थाभिधायी । तदपूर्वत्वं तदुत्कृष्टस्य तन्निकृष्टस्य च द्वयोरपि संभवतीत्याहकोऽपि, अलौकिकः सातिशयः । सोऽपि किमर्थमित्याहलोकोत्तरमत्कारकारिवैचित्र्यसिद्धये असामान्याह्लादविधायिविचित्रभावसम्पत्तये । यद्यपि सन्ति शतशः काव्यालङ्कारास्तथापि न कुतश्चिदप्येवंविधवैचित्र्यसिद्धैः । अलङ्कारशब्दः शरीरस्य शोभातिशयकारित्वान्मुख्यतया कटकादिषु वर्तते, तत्कारित्वसामान्यादुपचारादुपमादिषु, तद्वदेव च तत्सदृशेषु गुणेषु,४ तथैव च तदभिधायिनि ग्रन्थे । शब्दार्थयोरेकयोगक्षेमत्वादैक्येन व्यवहारः,यथा गौरिति शब्दः गौरित्यर्थ इति । तदयमर्थःग्रन्थस्या५ लङ्कार इत्यभिधानम्, उपमादिप्रमेयजातमभिधेयम्, उक्तरूपवैचित्र्यसिद्धिः प्रयोजनमिति । एवमलङ्कारस्यास्य प्रयोजनमस्तीति स्थापितेऽपि तदलङ्कार्यस्य काव्यस्य प्रयोजनं विना सदपि तदपार्थकमित्याह _________________________________________________________________ धर्मादिसाधनोपायः सुकुमारक्रमोदितः । काव्यबन्धोऽभिजातानां हृदयाह्लादकारकः ॥ १.३ ॥ हृदयाह्लादकारकश्चित्तानन्दजनकः काव्यबन्धः सर्गबन्धादिर्भवतीति संबन्धः । कस्येत्याकाङ्क्षायामाहअभिजातानाम् । अभिजाताः खलु राजपुत्रादयो धर्माद्युपेयार्थिनो विजिगीषवः क्लेशभीरवश्च, सुकुमाराशयत्वात्तेषाम् । तथा सत्यपि तदाह्लादकत्वे काव्यबन्धस्य क्रीडनकादिप्रख्यता प्राप्नोतीत्यभिधत्ते६ हर्मादिसाघनोपायः । धर्मादेरुपेयस्य७ चतुर्वर्गस्य साधने संपादने तदुपदेखरूपत्वादुपायस्तत्प्राप्तिनिमित्तम् । तथाविध८ पुरुषार्थोपदेशपरैरपरैरपि शास्त्रैः किमपराद्धमित्यभिधीयतेसुकुमारक्रमोदितः । सुकुमारः सुन्दरः हृदयहारी९ क्रमः परिपाटीविन्यासस्तेनोदितः कथितः सन् । अभिजातानामाह्लादकत्वे सति प्रवर्तकत्वात्काव्यबन्धो धर्मादिप्राप्त्युपायातां प्रतिपद्यते । शास्त्रेषु पुनः कठोरक्रमाभिहीतत्वाद्धर्माद्युपदेशो दुरवगाहः । तथाविधे विषये विद्यमानोऽप्यकिञ्चित्कर एव । राजपुत्राः खलु समासादितस्वविभवाः समस्तजगतीव्यवस्थाकारितां प्रतिपद्यमानाः श्लाघ्योपदेश१०शून्यतया स्वतन्त्राः सन्तः समुचितसकलव्यवहारोच्छेदं प्रवर्तयितुं प्रभवन्तीत्येतदर्थमेव११ तद्व्युत्पत्तये व्यतीतसच्चरितराजचरितं तन्निदर्शनाय निबघ्नन्ति कवयः । तदेवं शास्त्रातिरिक्तमस्त्येव१२ प्रगुणं प्रयोजनं काव्यबन्धस्य । मुख्यं पुरुषार्थसिद्धिलक्षणं प्रयोजनमास्तां तावतन्यदपि लोकयात्राप्रवर्तननिमित्तं भृत्यसुहृत्स्वाम्यादिसमावर्जनमनेन विना सम्यङ्न संभवतीत्याह _________________________________________________________________ व्यवहारपरिस्पन्दसौन्दर्यं व्यवहारिभिः । सत्काव्याधिगमादेव नूतनौचित्यमाप्यते ॥ १.४ ॥ व्यवहारो लोकवृत्तं तस्य परिस्पन्दो व्यापारः क्रियाक्रमलक्षणस्तस्य सौन्दर्यं रामणीयकं तद्व्यवहारिभिर्व्यवहर्तृभिः सत्काव्याधिगमादेव कमनीयकाव्यपरिज्ञानादेव नान्यस्मादाप्यते लभ्यत इत्यर्थः । कीदृशं तत्सौन्दर्यम्नूतनौचित्यम् । नूतनमभिनवमलौकिकमौचित्यमुचितभावो यस्य । तदिदमुक्तं भवतिमहतां हि राजादीनां व्यवहारे वर्ण्यमाने तदङ्गभूताः सर्वे मुख्यमात्यप्रभृतयः समुचितप्रातिस्विककर्तव्यव्यवहारनिपुणतया निबध्यमानाः सकलव्यवहारिवृत्तोपदेशतामापद्यन्ते । ततः सर्वः क्वचित्कमनीयकाव्ये कृतश्रमः समासादितव्यवहारपरिस्पन्दसौन्दर्यातिशयः श्लाघनीयफलभाग्भवतीति । योऽसौ चतुर्वर्गलक्षणः पुरुषार्थस्तदुपार्जनविषयव्युत्पत्तिकारणतया काव्यस्य पारंपर्येण प्रयोजनमित्याम्नातः, सोऽपि समयान्तरभावितया तदुपभोगस्य तत्फलभूताह्लादकारित्वेन तत्कालमेव पर्यवस्यति । ततस्तदतिरिक्तं किमपि सहृदयहृदयसंवादसुभगं तदात्वरमणीयं प्रयोजनान्तरमभिधातुमाह _________________________________________________________________ चतुर्वर्गफलास्वादमप्यतिक्रम्य तद्विदाम् । काव्यामृतरसेनान्तश्चमत्कारो वितन्यते ॥ १.५ ॥ चमत्कारो वितन्यते चमत्कृतिर्विस्तार्यते, ह्लादः पुनः पुनः क्रियत इत्यर्थः । केनकाव्यामृतरसेन । काव्यमेवामृतं तस्य रसस्तदास्वादस्तदनुभवस्तेन । क्वेत्यभिदधातिअन्तश्चेतसि । कस्यतद्विदाम् । तं विदन्ति जानन्तीति तद्विदस्तज्ज्ञास्तेषाम् । कथम्चतुर्वर्गफलास्वादमप्यतिक्रम्य । चतुर्वर्गस्य धर्मादेः फलं तदुपभोगस्तस्यास्वादस्तदनुभवस्तमपि प्रसिद्धातिशयमतिक्रम्य विजित्य पस्पशप्रायं संपाद्य । तदयमत्राभिप्रायः१३ ओऽसौ चतुर्वर्गफलास्वादः प्रकृष्टपुरुषार्थतया सर्वशास्त्रप्रयोजनत्वेन प्रसिद्धः सोऽप्यस्यकाव्यामृतचर्वणचमत्कारकलामात्रस्या१४ पि न कामपि साम्यकलनां कर्तुमर्हतीति । दुःश्रवदुर्भणदुरधिगमत्वादिदोषदुष्ट१५ त्वादध्ययनावसरे दुःसहदुःख१६ दायी शास्त्रसन्दर्भस्तत्कालकल्पितकमनीयचमत्कृतेः काव्यस्य न कथञ्चिदपि स्पर्धामधिरोहतीत्येतदप्यर्थतोऽभिहितं भवति । कटुकौषधवच्छास्त्रमविद्याव्याधिनाशनम् । आह्लाद्यमृतवत्काव्यमविवेकगदापहम् ॥ टीका १.७ ॥ १७ ॥ आयत्यां च तदात्वे च रसनिस्यन्दसुन्दरम् । येन संपद्यते काव्यं तदितानी विचार्यते ॥ टीका १.८ ॥ इत्यन्तरश्लोकौ । _________________________________________________________________ अलङ्कृतिरलङ्कार्यमपोद्धृत्य विवेच्यते । तदुपायतया तत्त्वं सालङ्कारस्य काव्यता ॥ १.६ ॥ अलङ्कृतिरलङ्करणमलङ्क्रियते ययेति विगृह्य । सा विवेच्यते विचार्यते । यच्चालङ्कार्यमलङ्करणीयं वाचकरूपं वाच्यरूपं च तदपि विवेच्यते । तयोः सामान्यविशेषलक्षणद्वारेण स्वरूपनिरूपणं क्रियते । कथमपोद्धृत्य । निष्कृष्य पृथक्पृथगवस्थाप्य, यत्र समुदायरूपे तयोरन्तर्भावस्तस्माद्विभज्य । केन हेतुनातदुपायतया । तदिति काव्यं परामृश्यते । तस्योपायस्तदुपायस्तस्य भावस्तदुपायता तया हेतुभूतया । यस्मादेवंविधो१८ विवेकः काव्यव्युत्पत्त्युपायतां प्रतिपद्यते । दृश्यते च समुदायन्तः पातिनामस्त्यभूतानामपि व्युत्पत्तिनिमित्तमपोद्धृत्य विवेचनम् । यथापदान्तर्भूतयोः प्रकृतिप्रत्यययोर्वाक्यान्तर्भूतानां पदानां चेति । यद्येवमसत्यभूतोऽप्यपोद्धारस्तदुपायता क्रियते तत्किं पुनः सत्यमित्याहतत्त्वं सालङ्कारस्य काव्यता । तदयमत्र१९ परमार्थःसालङ्कारस्यालङ्करणसहितस्य सकलस्य निरस्तावयवस्य सतः समुदायस्य काव्यता कविकर्मत्वम् । तेनालङ्कृतस्य काव्यत्वमिति स्थितम्,२० न पुनः काव्यस्यालङ्कारयोग इति । सालङ्कारस्य काव्यतेति संमुग्धतया किञ्चित्काव्यस्वरूपं सूत्रितम्२१ निपुणं पुनर्न निश्चितम् । किंलक्षणं वस्तु काव्यव्यपदेशभाग्भवतीत्याह _________________________________________________________________ शब्दार्थौ सहितौ वक्रकविव्यापारशालिनि । बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणि ॥ १.७ ॥ २२ शब्दार्थौ काव्यं वाचको वाच्यं चेति द्वौ संमिलितौ काव्यम् । द्वावेकमिति विचित्रैवोक्तिः । तेन यत्केषाञ्चिन्मतं कविकौशलकल्पितकमनीयतातिशयः शब्द एव केवलं काव्यमिति केषाञ्चिद्वाच्यमेव रचनावैचित्र्यचमत्कारकारि काव्यमिति, पक्षद्वयमपि निरस्तं भवति । यस्माद्२३ वयोरपि प्रत्येकं२४ प्रतितिलमिव तैलं तद्विदाह्लादकारित्वं वर्तते, न पुनरेकस्मिन् । यथा भण तरुणि रमण्मन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि । यदि सल्लीलोल्लापिनि गच्छसि तत्किं त्वदीयं मे ॥ टीका १.९ ॥ अणणुरणन्मणिमेखलमविरतशिञ्जाणमञ्जुमञ्जीरम् । परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥ टीका १.१० ॥२५ ॥ प्रतिभादारिद्रयदैन्यादतिस्वल्पसुभाषितेन कविना वर्णसावर्ण्यरम्यतामात्रमत्रोदितम्, न पुनर्वाच्यवैचित्र्यकणिका काचिदप्यस्ति२६ । यत्किल नूतनतारुण्यतरङ्गितलावण्यलटभकान्तेः२७ कान्तायाः कामयमानेन केनचिदेवमु२८ यतेयदि तरुणि त्वं२९ रमणमन्दिरं व्रजसि तत्किं त्वदीयं परिसरणं रणरणकमकारणं मम करोतीत्यतिग्राम्येयमुक्तिः । किञ्च, न अकारणम्, यतस्तस्यास्तदनादरेण गमने३० तदनुरक्तान्तः करणस्य विरहविधुरताशङ्काकातरता कारणं रणरणकस्य । यदि वा परिसरणस्य मया किमराद्धमित्याकरणतासमर्पकम्, एतदप्यतिग्राम्यतरम् । संबोधनानि च बहूनि मुनिप्रणीतस्तोत्रामन्त्रणकल्पानि न काञ्चिदपि तद्विदाह्लाद३१ कारितां पुष्णन्तीति यत्किञ्चिदेतत् । वस्तुमात्रं च शब्दशोभा३२ तिशयशून्यं न काव्यव्यपदेशमर्हति । यथा प्रकाशस्वाभाव्यं विदधति न भावास्तमसि यत्तथा नैते ते स्युर्यदि किल तथा यत्र न कथम् । गुणाध्यासाभायासव्यसनदृढदीक्षागुरुगुणो रविव्यापारोऽयं किमथ सदृशं तस्य महसः ॥ टीका १.११ ॥ अत्र हि शुष्कतर्कवाक्यवासनाधिवासितचेतसा प्रतिभाप्रतिभातमात्रमेव वस्तु व्यसनितया कविना केवलमुपनिबद्धम् । न पुवर्वाचकवक्रताविच्छित्तिलवोऽपि लक्ष्यते । यस्मात्तर्कवाक्यशय्यैव शरीरमस्य श्लोकस्य । तथा चतमोव्यतिरिक्ताः पदार्था धर्मिणः, प्रकाशस्वभावा न भवन्तीति साध्यम्, तमस्यतथाभूतत्वादिति हेतुः । दृष्टान्तस्तर्हि कथं न दर्शितः, तर्कन्यायस्यैव चेतसि प्रतिभासमानत्वात् । तथोच्यते तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । ख्याप्येते३३ विदुषां वाच्यो हेतुरेव हि केवलः ॥ टीका १.१२ ॥ ३४ ॥ इति । विदधतीति विपूर्वो दधातिः करोत्यर्थे वर्तते । स च करोत्यर्थोऽत्र न सुस्पष्टसमन्वयः, प्रकाशस्वाभाव्यं न कुर्वन्तीति । प्रकाशस्वाभाव्यशब्दोऽपि चिन्त्य एव । प्रकाशः स्वभावो यस्यासौ प्रकाशस्वभावः, तस्य भाव इति भावप्रत्यये विहिते पूर्वपदस्य वृद्धिः प्राप्नोति । अथ स्वभावस्य भावः स्वाभाव्यमित्यत्रापि भावप्रत्ययान्ताद्भावप्रत्ययो न प्रचुरप्रयोगार्हः । तथा च प्रकाशश्चासौ स्वाभाव्यं चेति विशेषणसमासोऽपि न समीचीनः । तृतीये च पादेऽत्यन्तासमर्पकसमासभूयस्त्ववैशसं न तद्विदाह्लादकारितामावहति । रविव्यापार इतिरविशब्दस्य प्राधान्येनाभिमतस्य समासे गुणीभावो न विकल्पितः, पाठान्तरस्य"रवेःऽ इति संभवात् । ननु वस्तुमात्रस्याप्यलङ्कारशुन्यतया कथं तद्विदाह्लादकारित्वमिति चेत्तन्न॑यस्मादलङ्कारेणाप्रस्तुतप्रशंसालक्षणेनान्यापदेशतयास्फुरितमेव कविचेतसि प्रथमं च प्रतिभाप्रतिभासमानमघटितपाषाणशकलकल्पमणिप्रख्यमेव वस्तु विदग्धकविविरचितवक्रवाक्योपारूढं शणोल्लीढमणिमनोहरतया तद्विदाह्लादकारिकाव्यत्वमधिरोहति । तथा चैकस्मिन्नेव वस्तुन्यवहितानवहितकविद्वितयविरचितं वाक्यद्वयमिदं महदन्तरमावेदयति मानिनीजनविलोचनपाता नुष्णबाष्पकलुषाननुगृह्णन्३५ । मन्दमन्दमुदितः प्रिययौ खं भीतभीत इव शीतमयूखः ॥ टीका १.१३ ॥ क्रमादेकद्वित्रिप्रभृतिपरिपाटीः प्रकटयन् कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः । पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां कटाक्षेभ्यो बिभ्यन्निभृत इव चन्द्रोऽभ्युदयते ॥ टीका १.१४ ॥ एतयोरन्तरं सहृदयसंवेद्य३६ मिति तैरेव विचारणीयम् । तस्मात्स्थितमेतत्न शब्दस्यैव रमणीयताविशिष्टस्य केवलस्य काव्यत्वम्, नाप्यर्थस्येति । तदिदमुक्तम् रूपकादिरलङ्कारस्तस्यान्तैर्३७ बहुधोदितः । न कान्तमपि निर्भूषं विभाति वनितामुखम्३८ ॥ टीका १.१५ ॥ रूपकादिमलङ्कारं बाह्यमाचक्षते परे । सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलङ्कृतिम् ॥ टीका १.१६ ॥ तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी । शब्दाभिधेयालङ्कारभेदादिष्टं द्वयं तु नः३९ ॥ टीका १.१७ ॥ तेन शब्दार्थौ द्वौ संमिलितौ काव्यमिति स्थितम् । एवमवस्थापिते द्वयोः काव्यत्वे कदाचिदेकस्य मनाङ्मात्रन्यूनतायां सत्यां काव्यव्यवहारः प्रवर्तेतेत्याहसहिताविति । सहितौ सहितभावेन साहित्येनावस्थितौ । ननु च वाच्यवाचकसंबन्धस्य विद्यमानत्वादेतयोर्न कथञ्चिदपिसाहित्यविरहः, सत्यमेतत् । किन्तु विशिष्टमेवेह साहित्यमभिप्रेतम् । कीदृशम् ?वक्रताविचित्रगुणालङ्कारसंपदां परस्परस्पर्धाधिरोहः । तेन समसर्वगुणौ सन्तौ सुहृदाविव सङ्गतौ । परस्परस्य शोभायै शब्दार्थौ भवतो यथा ॥ टीका १.१८ ॥ ततोऽरुणपरिस्पन्दमन्दीकृतवपु) शशी । दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥ टीका १.१९ ॥ अत्रारुणपरिस्पन्दमन्दीकृतवपुषः शशिनः कामपरिक्षामवृत्तेः कामिनीकपोलफलकस्य च पाण्डुत्वसाम्यसमर्थनादर्थालङ्कारपरिपोषः शोभातिशयमावहति । वक्ष्यमाणवर्णविन्यासवक्रतालक्षणः शब्दालङ्कारोऽप्यतितरां रमणीयः । वर्णविन्यासविच्छित्तिविहिता लावण्यलक्षणगुण४० अंपदस्त्येव । यथा च लीलाए कुवलअं कुवलअं व सीसे समुव्वहन्तेण । सेसेण सेसपुरिसाणं पुरिसआरो समुव्यसिओ ॥ टीका १.२० ॥४१ ॥ लीलया कुवलयं कुवलयमिव शीर्षे समुद्वहता । शेषेण शेषपुरुषाणां पुरुषकारः समुद्धसितः ॥ अत्राप्यप्रस्तुतप्रशंसोपमालक्षणवाच्यालङ्कारवैचित्र्यविहिता हेलामात्रविरचितयमकानुप्रासहारिणी समर्पकत्वसुभगा कापि काव्यच्छाया सहृदयहृदयमाह्लादयति । द्विवचनेनात्र वाच्यवाचकजातिद्वित्वमभिधीयते । व्यक्तिद्वित्वाभिधाने पुनरेकपदव्यवस्थितयोरपि काव्यत्वं स्यादित्याहबन्धे व्यवस्थितौ । बन्धो वाक्यविन्यासः तत्र व्यवस्थितौ विशेषेण लावण्यादिगुणालङ्कारशोभिनां संनिवेशेन कृतावस्थानौ । सहितावित्यत्रापि यथायुक्ति सजातीया४२ पक्षया शब्दस्य शब्दान्तरेण वाच्यस्य वाच्यान्तरेण च साहित्यं परस्परस्पर्धित्वलक्षणमेव विवक्षितम् । अन्यथा तद्विदाह्लादकारित्वहानिः प्रसज्यते । यथा असारं संसारं परिमुषितरत्नं त्रैभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् । अदर्पं कन्दर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः४३ ॥ टीका १.२१ ॥ अत्र किल कुत्रचित्प्रबन्धे कश्चित्कापालिकः कामपि कामिनी४४ व्यापादयितुमध्यवसितो सन्नेव४५ मभिधीयतेयदपगतसारः संसारः, हृतरत्नसर्वस्वं त्रैलोक्यम्, आलोकनीयकमनीयवस्तुवर्जितो जीवलोकः, सकललोकलोचननिर्माणं निष्फलप्रयम्, त्रिभुवनविजयित्वदर्पविहीनः४६ कन्दर्पः, जगज्जीर्णारण्यकल्पमनया भवतीति किं त्वमेवंविधमकरणीयं कर्तुं व्यवसित इति । एतस्मिन् श्लोके महावाक्यकल्पे वाक्यान्तरण्यवान्तरवाक्यसदृशानि तस्याः सकललोकलोभनीयलावण्यसंपत्प्रतिपादनपराणि परस्परस्पर्धोन्यतिरमणीयान्युपनिबद्धानि कमपि काव्यच्छायातिशयं पुष्णन्ति । मरणशरणं बान्धवजनमिति पुनरेतेषां न कलामात्रमपि स्पर्धितुमर्हतीति न तद्विदाह्लादकारि । बहुषु च रमणीयेष्वेकवाक्योपयोगिषु युगपत्प्रतिभासपदवीमवतरत्सु वाक्यार्थपरिपूरणार्थं तत्प्रतिमं प्राप्तुमपरं प्रयत्नेन प्रतिभा प्रसाद्यते । तथा चास्मिन्नेव प्रस्तुतवस्तुसब्रह्मचारिवस्त्वन्तरमपि सुप्रापमेव"विधिमपि विपन्नाद्भुतविधिम्" इति । प्रथमप्रतिभातपदार्थप्रतिनिधिपदार्थान्तरासंभवे सुकुमारतरापूर्वसमर्पणेन कामपि काव्यच्छायामुन्मीलयन्ति कवयः । यथा रुद्राद्रेस्तुलनं स्वकण्ठविपिनच्छेदो४७ हरेर्वासनं कारावेश्मनि पुष्पकापहरणम् ॥ टीका १.२२ ॥ इत्युपनिबद्ध्य पूर्वोपनिबद्धपदार्थानुरूपवस्त्वन्तरासंभवादपूर्वमेव "यस्येदृशाः कलयः" इति विन्यस्तम्,४८ येनानेयेऽपि कामपि कमनीयतामनीयन्त । यथा च तद्वक्त्रेन्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा तद्गोष्ठ्यैव निशापि मन्मथकृतोत्साहैस्तदङ्गार्पणैः । तां संप्रत्यपि मार्गदत्तनयनां द्रष्टुं प्रवृत्तस्य मे बद्धोत्कण्ठमिदं मनः किम् ॥ टीका १.२३ ॥ इति संप्रत्यपि तामेवंविधां वीक्षितुं प्रवृत्तस्य मम मनः किमिति बद्धोत्कण्ठमिति परसमाप्तेऽपि तथाविधो वस्तु४९ विन्यासो विहितः"अथवा प्रेमासमाप्तोत्सवम्" इति,येन पूर्वेषां जीवितमिवार्पितम् । यद्यपि द्वयोरप्येतयोस्तत्प्राधान्येनैव वाक्यार्थोपनिबन्धः,५० तथापि कविप्रतिभाप्रौढिरेव प्राधान्येनावितष्ठते । शब्दस्यापि शब्दान्तरेण साहित्यविरहोदाहरणं यथा चारुता वपुरभूषयदासां तामनूननवयौवनयोगः । तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसङ्गमभूषः५१ ॥ टीका १.२४ ॥ दयितसङ्गमस्तामभूषयदिति वक्तव्ये कीदृशो मदः, दयतसड्गमो भूषा यस्येति दयितसङ्गमशब्दस्य प्राधान्येनाभिमतस्य समासवृत्तावन्तर्भूतत्वाद्गुणीभावो न तद्विदाह्लादकारी । दीपकालङ्कारस्य च काव्यशोभाकारित्वेनोपनिबद्धस्य निर्वहणावसरे त्रुटितप्रायत्वात्प्रक्रमभङ्गविहितं सहसहृदयवैरस्यमनिवार्यम् । "दयितसङ्गतिरेनम्ऽ इति पाठान्तरं सुलभमेव । द्वयोरप्येतयोरुदाहरणयोः प्राधान्येन प्रत्येकमेकतरस्य साहित्यविरहो व्याख्यातः । परमार्थतः पुनरुभयोरप्येकतरस्य साहित्यविरहोऽन्यतरस्यापि पर्यवस्यति । तथा चार्थः समर्थवाचकासद्भावे स्वात्मना स्फुरन्नपि मृतकल्प एवावतिष्ठते । शब्दोऽपि वाक्योपयोगिवाच्यासंभवेवाच्यान्तरवाचकः सन् वाक्यस्य व्याधिभूतः प्रतिभातीत्यलमतिप्रसङ्गेन । प्रकृतं तु । कीदृशै बन्धेवक्रकविव्यापारशालिनि । वक्रो योऽसौ शास्त्रादिप्रसिद्धशब्दार्थोपनिबन्धव्यतिरेकी षट्प्रकारवक्रताविशिष्टः कविव्यापारस्तत्क्रियाक्रमस्तेन शालते श्लाघते यस्तस्मिन् । एवमपि कष्टकल्पनोपहतेऽपि प्रसिद्धव्यतिरेकित्वमस्तीत्याहतद्वदाह्लादिकारिणि । तदिति काव्यपरामर्शः तद्विदन्तीति तद्विदस्तज्ज्ञास्तेषामाह्लादमानन्दं करोति यस्यस्मिन् तद्विदाह्लादकारिणि बन्धे व्यवस्थितौ । वक्रता५२ प्रकारांस्तद्विदाह्लादकारित्वं च प्रत्येकं यथावसरमेवोदाहरिष्यति५३ । एवं काव्यस्य सामान्यलक्षणे विहिते विशेषलक्षणमुपक्रमते । तत्र शब्दार्थयोस्तावत्स्वरूपं निरूपयति _________________________________________________________________ वाच्योर्ऽथो वाचकः शब्दः प्रसिद्धमिति यद्यपि । तथापि काव्यमार्गेऽस्मिन् परमार्थोऽयमेतयोः ॥ १.८ ॥ इति एवंविधं वस्तु प्रसिद्धं प्रतीतम्यो वाचकः प्रत्यायकः५४ स शब्दः, यो वाच्यश्चाभिधेयः सोर्ऽथ इति । ननु च द्योतकव्यञ्जकावपि शब्दौ संभवतः, तदसंग्रहान्नाव्याप्तिः, यस्मादर्थप्रतीतिकारित्वसामान्यादुपचारात्तावपि वाचकावेव । एवं द्योत्यव्यङ्ग्ययोरप्यर्थयोः५५ प्रत्येयत्वसामान्यादुपचाराद्वाच्यत्वमेव । तस्माद्वाचकत्वं वाच्यत्वं च शब्दार्थयोर्लोके सुप्रसिद्धं यद्यपि लक्षणम्, तथाप्यस्मिनलौकिके काव्यमार्गे कविकर्मवर्त्मनि अयमेतयोर्वक्ष्यमाणः५६ परमार्थः किमप्यपूर्वं तत्त्वमित्यर्थः । कीदृशमित्याह _________________________________________________________________ शब्दो विवक्षतार्थैकवाचकोऽन्येषु सत्स्वपि । अर्थः सहृदयाह्लादकारिस्वस्पन्दसुन्दरः ॥ १.९ ॥ स शब्दः काव्ये यस्तत्समुचितसमस्तसामग्रीकः । कीदृक्विवक्षितार्थैकवाचकः । विवक्षितो योऽसौ वक्तुमिष्टोर्ऽथस्तदेकवाचकः तस्यैकः केवल एव वाचकः । कथमन्येषु सत्स्वपि । अपरेषु तद्वाचकेषु बहुष्वपि विद्यमानेषु । तथा चसामान्यात्मना वक्तुमभिप्रेतो योर् । आथस्तस्य विशेषाभिधायी शब्दः सम्यग्वाचकतां न प्रतिपद्यते । यथा कल्लोलवेल्लितदृषरुषप्रहारै रत्नान्ममूनि मकराकर मावमंस्थाः । किं कौस्तुभेन भवतो विहितो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि५७ ॥ टीका १.२५ ॥ अत्र रत्नसामान्योत्कर्षाभिधानमुपक्रान्तम् । कौस्तुभेनेति रत्नविशेषाभिधायी शब्दस्तद्विशेषोत्कर्षाभिधानमुपसंहरतीति प्रक्रमोपसंहारवैषम्यं न शोभातिशयमावहति । न चैतद्वक्तुं शक्यतेयः कश्चिद्विशेषे गुणग्रामगरिमा विद्यते स सर्वसामान्येऽपि संभवत्येवेति । यस्मात् वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम्५८ ॥ टीका १.२६ ॥ तस्मादेवंविधे विषये सामान्याभिधाय्येव शब्दः सहृदयहृदयहारितां प्रतिपद्यते । तथा चास्मिन् प्रकृते पाठान्तरं सुलभमेव"एकेन किं न विहितो भवतः स नाम" इति । यत्र च५९ विशेषात्मना वस्तु प्रतिपादयितुमभिमतं तत्र विशेषाभिधायकमेवाभिधानं निबध्नन्ति कवयः । यथा द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावत सत्वमस्य लोकस्य च नेत्रकौमुदी६० ॥ टीका १.२७ ॥ अत्र परमेश्वरवाचकशब्दसहस्त्रसंभवेऽपि कपालिन इति बीभत्सरसालम्बनविभाववाचकः शब्दो जुगुप्सास्पदत्वेन प्रयुज्यमानः कामपि वाचकवक्रतां विदधाति । "संप्रतिऽ "द्वयंऽ चेत्यतीव रमणीयम्यत्किल पूर्वमेका सैव दुर्व्यसनदूषितत्वेन शोचनीया जाता,६१ संप्रति पुनस्त्वया तस्यास्तथाविधदुरध्यवसायसाहायकमिवारब्धमित्युपहस्यते । "प्रार्थनाऽशब्दोऽप्यतितरां रमणीयः, यस्मात्काकतालीययोगेन तत्समागमः कदाचिन्न वाच्यतावहः । प्रार्थना पुनरत्रात्यन्तं कौलीनकलङ्ककारिणी । "सा चऽ "त्वं चऽ इति द्वयोरप्यनुभूयमानपरस्परस्पर्धिलावण्यातिशयप्रतिपादनपरत्वेनोपात्तम् । "कलावतःऽ कान्तिमतीऽ इति च मतुप्६२ प्रत्ययेन द्वयोरपि प्रशंसा प्रतीयत इत्येषां प्रत्येकं कश्चिदप्यर्थः शब्दान्तराभिधेयतां नोत्सहते । कविविवक्षितविशेषाभिधानक्षमत्वमेव वाचरकत्वलक्षणम् । यस्मात्प्रतिभायां तत्कालोल्लिखितेन केनचित्परिस्पन्देन परिस्फुरन्तः पदार्थाः प्रकृतप्रस्तावसमुचितेन केनचिदुत्कर्षेण वा समाच्छादितस्वभावाः सन्तो विवक्षाविधेयत्वेनाभिधेयतापदवीमवतरन्तस्तथाविधविशेषप्रतिपादनसमर्थेनाभिधानेनाभिधीयमानाश्चेतश्चमत्कारि६३ तामापद्यन्ते । यथा संरम्भः करिकीटमेघशकलोद्देशेन सिंहस्य यः सर्वस्यैव स जातिमात्रविहितो हेवाकलेशः किल । इत्याशाद्विरदक्षयाम्भुदघटाबन्धेऽप्यसंरब्धवान् योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्विकाकेसरी ॥ टीका १.२८ ॥ अत्र करिणां "कीटऽ व्यवपदेशेन तिरस्कारः, तोयदानां च "शकलऽ शब्दाभिधानेनानादरः, "सर्वस्यऽ इति यस्य कस्यचित्तुच्छतरप्रायस्तेत्यवहेला, जातेश्च "मात्रऽ शब्दविशिष्टत्वेनावलेपः, हेवाकस्य "लेशऽ शब्दाभिधानेनाल्पताप्रतिपत्तिरित्येते विवक्षितार्थैकवाचकत्वं द्योतयन्ति । "घटाबन्धऽ शब्दश्च प्रस्तुतमहत्त्वप्रतिपादनपरत्वेनोपात्तस्तन्निबन्धनतां प्रतिपद्यते । विंशेषाभिधानाकाङ्क्षिणः पुनः पदार्थस्वरूपस्य तत्प्रतिपादनपरविशेषाणशून्यतया शोभापरिहाणिरुत्प६४ यते । तथा यत्रा६५ उल्लिखिताख्यमेव निखिलं निर्माणमेतद्विधेरुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा । जाता६६ प्राणभृतां मनोरथगतीरुल्लङ्घ्ययत्संपदस्तस्याभासमणीकृताश्मसु मणेरश्मत्वमेवोचितम् ॥ टीका १.२९ ॥ अत्र "आभासऽ शब्दः स्वयमेव मात्रादिविशिष्टत्वमभिलषंल्लक्ष्यते । पाठान्तरम्"छायामात्रमणीकृताश्मसु मणेस्तस्याश्मतैवोचिताऽ इति । एतच्च वाचकवक्रताप्रकारस्वरूपनिरूपणावसरे प्रतिपदं प्रकटीभविष्यतीत्यलमतिप्रसङ्गेन । अर्थश्च वाच्यलक्षणः कीदृशःकाव्ये यः सहृदयाह्लादकारिस्वस्पन्दसुन्दरः । सहृदयाः काव्यार्थविदस्तेषामाह्लादमानन्दं करोति यस्तेन स्वस्पन्देनात्मीयेन स्वभावेन सुन्दरः सुकुमारः । तदेतदुक्तं भवतियद्यपि पदार्थस्य नानाविधधर्मखचितत्वं संभवति तथापि तथाविधेन धर्मेण संबन्धः समाख्यायते य), सहृदयहृदयाह्लादमाधातुं क्षमते । तस्य च तदाह्लादसामर्थ्यं संभाव्यते येन काचिदेव स्वभावमहत्ता रसपरिपोषाङ्गत्वं वा व्यक्तिमासादयति । यथा दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्धकण्डूविनोदः सिन्धुष्वङ्गावगाहः खुरकुहरगलत्तुच्छतोयेषु नाप्तः । लब्धाः पातालपङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते येनोद्धारे धरित्र्याः स जयति विभुताविघ्नितेच्छोवराहः ॥ टीका १.३० ॥ अत्र च तथाविधः पदार्थपरिस्पन्दमहिमा निबद्धो यः६७ स्वभावसंभविनस्तत्परिस्पन्दान्तरस्य संरोधसंपादनेन स्वभावमहत्तां समुल्लासयन् सहृदयहृदयाह्लाद६८ कारितामापन्नः६९ । यथा च तामभ्यगच्छद्रुदितानुसारी मुनिः कुशेध्माहरणाय यातः । निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः७० ॥ टीका १.३१ ॥ अत्र कोऽसौ मुनिर्वाल्मीकिरिति पर्यायपदमात्रे वक्तव्ये परमकारुणिकस्य निषादनिर्भिन्नशकुनिसंदर्शनमात्रलसमुत्थितः शोकः श्लोकत्वमभजत यस्येति तस्य तदवस्थजनकराजपुत्रीदशादर्शन७१ विवशवृत्तेरन्तः करणपरिस्पन्दः करुणरसपरिपोषाङ्गतया सहृदयहृदयाह्लादकारी कवेरभिप्रेतः । यथा च भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं तत्संदेशाद्धृदयनिहितादागतं त्वत्समीपम् । यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ टीका १. ३२ ॥ अत्र प्रथममान्त्रणपदार्थस्तदाश्वासकारिपरिस्पन्दनिबन्धनः भर्तुर्मित्रं मां विद्धीत्युपादेयतामा७२ त्मनः प्रथयति । तच्च न सामान्यम्, प्रियमिति विश्रम्भपात्रताम्७३ । इति तामाश्वास्योन्मुखीकृत्य च तत्संदेशात्त्वत्समीपमागमनमिति प्रकृतं प्रस्तौति । हृदयनिहितादिति सुहृत्त्वविहितं७४ सावधानत्वं द्योत्यते । ननु चान्यः कश्चिदेवंविधव्यवहारविदग्धबुद्धिः कथं न नियुक्त इत्याहममैवात्र कौशलं किमपि७५ विजृम्भते । अम्बुवाहमित्यात्मनस्तत्कारिताभिधानं द्योतयति । यः प्रोषितानां वृन्दानि त्वरयति, संजातत्वराणि करोति । कीदृशानाम्श्राम्यतां त्वरायामसमर्थानामपि । वृन्दानीति बाहुल्यात्तत्कारिताभ्यासं कथयति । केनमन्द्रस्निग्धैर्ध्वनिभिः, माधुर्यरमणीयैः शब्दैर्विदग्धदूतप्ररोचनावचनप्रयैरित्यर्थः । क्वपथि मार्गे । यदृच्छया यथाकथञ्चिदहमेतदाचरामीति किं पुनः प्रयत्नेन सुहृत्प्रेमनिमित्तिं संरम्भबुद्धिं७६ न करोमीति । कीदृशानि वृन्दानिअबलावेणिमोक्षोत्सुकानि । अबलाशब्देनात्रतत्प्रेयसीविरहवैधुर्यासहत्वं भण्यते, तद्वेणिमोक्षोत्सुकानीति तेषां तदनुरक्तचित्तवृत्तत्वम् । तदयमत्र वाक्यार्थःविधिविहितविरहवैधुर्यस्य परस्परानुरक्तचित्तवृत्तेर्यस्य कस्यचित्कामिजनस्य समागमसौख्यसंपादनसौहार्दे सदैव गृहीतव्रतोऽस्मीति । अत्र यः पदार्थपरिस्पन्दः कविनोपनिबद्धः प्रबन्धस्य मेघदूतत्वे परमार्थतः स एव जीवितमिति सुतरां सहृदयाह्लादकारी७७ । न पुनरेवं विधो यथा सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी गत्वा७८ जवात्त्रिचतुराणि पदानि सीता७९ । गन्तव्यमद्य कियदित्यसकृद्ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम्८० ॥ टीका १.३३ ॥ अत्रासकृत्प्रतिक्षणं कियदद्य गन्तव्यमित्यभिधानलक्षणः परिस्पन्दो न स्वभावमहत्तामुन्मीलयति, न च रसपरिपोषाङ्गतां प्रतिपद्यते । यस्मात्सीतायाः सहजेन केनाप्यौचित्येन गन्तुमध्यवसितायाः सौकुमार्यादेवंविधं वस्तु हृदये परिस्फुरदपि वचनमारोहतीति सहृदयैः संभावयितुंन पार्यते । न च प्रतिक्षणमभिधीयमानमपि राघवाश्रुप्रथमावतारस्य सम्यक्सङ्गतिं भजते, सकृदाकर्णनादेव तस्योपपत्तेः । एतच्चात्यन्तरमणीयमपि मनाङ्मात्रचलितावधानत्वेन कवेः कदर्थितम् । तस्माद्"अवशम्ऽ इत्यत्र पाठः कर्तव्यः । तदेवंविधं विशिष्टमेव शब्दार्थयोर्लक्षणमुपादेयम् । तेन नेयार्थापार्थादयो दूरोत्सारितत्वात्पृथङ्न वक्तव्याः । एवं शब्दार्थयोः प्रसिद्धस्वरूपातिरिक्तमन्यदेव रूपान्तरमभिधाय न तावन्मात्रमेव काव्योपयोगि, किन्तु वैचित्र्यान्तरविशिष्टमित्याह _________________________________________________________________ अभावेतावलङ्कार्यौ तयोः पुनरलङ्कृतिः । वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते ॥ १.१० ॥ उभौ द्वावप्येतौ शब्दार्थावलङ्कार्यावलङ्करणीयौ केनापि शोभातिशयकारिणालङ्करणेन योजनीयौ । किं तत्तयोरलङ्करणमित्यभिधीयतेतयोः पुनरलङ्कृतिः । तयोर्द्वित्वसंख्याविशिष्टयोरप्यलङ्कृतिः पुनरेकैव, यया द्वावप्यलङ्क्रियते । कासौवक्रोक्तिरेव । वक्रोक्तिः प्रसिद्धाभिधानव्यतिरेकिणी विचित्रैवाभिधा । कीदृशीवैदग्ध्यभङ्गीभणितिः । वैदग्ध्यं विदग्धभावः कविकर्मकौशलं तस्य भङ्गी विच्छित्तिः, तया भणितिः विचित्रैवाभिधा वक्रोक्तिरित्युच्यते । तदिदमत्र तात्पर्यम्यत्शब्दार्थौ पृथगवस्थितौ न८१ केनापि व्यतिरिक्तेनालङ्करणेन योज्येते, किन्तु वक्रतावैचित्र्ययोगितयाभिधानमात्र८२ मवानयोरलङ्कारः, तस्यैव शोभातिशयकारित्वात् । एतच्च वक्रताव्याख्यानावसर एवोदाहरिष्यते । ननु च किमिदं प्रसिद्धार्थविरुद्धं प्रतिज्ञायते यद्वक्रोक्तिरेवालङ्कारो नान्यः कश्चिदिति, यतश्चिरन्तनैरपरं स्वभावोक्तिलक्षणमलङ्करणमाम्नातं तच्चातीवरमणीयमित्यसहमानस्तदेव निराकर्तुमाह _________________________________________________________________ अलङ्कारकृतां येषां स्वभावोक्तिरलङ्कृतिः । अलङ्कार्यतया तेषां किमन्यदवतिष्ठते ॥ १.११ ॥ येषामलङ्कारकृतामलङ्कारकाराणां स्वभावोक्तिरलङ्कृतिः, या स्वभावस्य पदार्थधर्मलक्षणस्य परिस्पन्दस्य उक्तिरभिधा सैवालङ्कृतिरलङ्करणमिति प्रतिभाति, ते सुकुमारमानसत्वाद्विवेकक्लेशद्वेषिणः । यस्मात्स्वभावोक्तिरिति कोर्ऽथः ? स्वभाव एवोच्यमानः स एव यद्यलङ्कारस्तत्किमन्यत्तद्व्यतिरिक्तं काव्यशरीरकल्पं वस्तु विद्यते यत्तोषामलङ्कार्यतया विभूष्यत्वेनावतिष्ठते पृथगवस्थितिमासादयति, न किञ्चिदित्यर्थः । ननु च पूर्वमवस्थापितम्यद्वाक्यस्यैवाविभागस्य सालङ्कारस्य काव्यत्वमिति (१ । ६) तत्किमर्थमेतदभिधीयते ? सत्यम्, किन्तु तत्रासत्यभूतोऽप्यपोद्धारबुद्धिविहितो विभागः कर्तुं शक्यते वर्णपदन्यायेन वाक्यपदन्यायेन चेत्युक्तमेव । एतदेव प्रकारान्तरेण विकल्पयितुमाह _________________________________________________________________ स्वभावव्यतिरेकेण वक्तुमेव न युज्यते । वस्तु तद्रहितं यस्मान्निरुपाख्यं प्रसज्यते ॥ १.१२ ॥ स्वभावव्यतिरेकेण स्वपरिस्पन्दं विना निःस्वभावं वक्तुमभिधातुमेव न युज्यते न शक्यते । वस्तु वाच्यलक्षणम् । कुतःतद्रहितं तेन स्वभावेन रहितं वर्जितं यस्मान्निरुपाख्यं प्रसज्यते । उपाख्याया निष्क्रान्तं निरुपाख्यम् । उपाख्या शब्दः, तस्यागोचरभूतमभिधानायोग्यमेव संपद्यते । यस्मात्स्वभावशब्दस्येदृशी व्युत्पत्तिःभवतोऽस्मादभिधानप्रत्ययाविति भावः, स्वस्यात्मनो भावः स्वभावः । तेन स एव यस्य कस्यचित्पदार्थस्य प्रख्योपाख्यावतारनिबन्धनम्, तेन वर्जितमसत्कल्पं वस्तु शशविषाणप्रायं शब्दज्ञानागोचरतां प्रतिपद्यते । स्वभावयुक्तमेव सर्वथाभिधेयपदवीमवतरतीति शाकटिकवाक्यानामपि सालङ्कारता प्राप्नोति, स्वभावोक्तियुक्तत्वेन । एतदेव युक्त्यन्तरेण विकल्पयति _________________________________________________________________ शरीरं चेदलङ्कारः किमलङ्कुरुतेऽपरम् । आत्मैव नात्मनः स्कन्धं क्वचिदप्यधिरोहति ॥ १.१३ ॥ यस्य कस्यचिद्वर्ण्यमानस्य वस्तुनो वर्णनीयत्वेन स्वभाव एव वर्ण्यशरीरम् । स एव चेदलङ्कारो यदि विभूषणं तत्किमपरं तद्व्यतिरिक्तं विद्यते यदलङ्कुरुते विभूषयति । स्वात्मानमेवालङ्करोतीति चेत्तदयुक्तमनुपपत्तेः । यस्मादात्मैव नात्मनः स्कन्धं क्वचिदप्यधिरोहति, शरीरमेव शरीरस्य न कुत्रचिदप्यसमधिरोहतीत्यर्थः, स्वत्मनि क्रियाविरोधात् । अन्यच्चाभ्युपगम्यापि ब्रूमः _________________________________________________________________ भूषणत्वे स्वभावस्य विहिते भूषणान्तरे । भेदावबोधः प्रकटस्तयोरप्रकटोऽथवा ॥ १.१४ ॥ स्पष्टे सर्वत्र संसृष्टिरस्पष्टे संकरस्ततः । अलङ्कारान्तराणां च विषयो नावशिष्यते ॥ १.१५ ॥ भूषणत्वे स्वभावस्य अलङ्कारत्वे परिस्पन्दस्य८३ यदा भूषणान्तरमलङ्कारान्तरं विधीयते तदा विहिते कृते, तस्मिन् सति, द्वयी गतिः संभवति । कासौतयोः स्वभावोक्त्यलङ्कारान्तरयोः भेदावबोधो भिन्नत्वप्रतिभासः प्रकटः सुस्पष्टः कदाचिदप्रकटश्चापरिस्फुटो वेति । तदा स्पष्टे प्रकटे तस्मिन् सर्वत्र सर्वस्मिन् कविवाक्ये संसृष्टिरेवैकालङ्कृतिः प्राप्नोति । अस्पष्टे तस्मिन्नप्रकटे सर्वत्रैवैकः संकरोऽलङ्कारः प्राप्नोति । ततः को दोषः स्यादित्याहअलङ्कारान्तराणां च विषयो नावशिष्यते । अन्येषामलङ्काराणामुपमादीनां विषयो गोचरो न कश्चिदप्यवशिष्यते, निर्विषयत्वमेवायातीत्यर्थः । ततस्तेषां लक्षणकरणवैयर्थ्यप्रसङ्गः । यदि च८४ तावेव संसृष्टिसंकरौ तेषां विषयत्वेन कल्प्येते तदपि न किञ्चित्, तैरेवालङ्कारकारै८५ स्तस्यार्थस्यानङ्गीकृतत्वात् । इत्यनेनाकाशचर्वणप्रतिमेनालमलीकनिबन्धनेन । प्रकृतमनुसरामः । सर्वथा यस्य कस्यचित्पदार्थजातस्य कविव्यापारिविषयत्वेन वर्णनापदवीमवतरतः स्वभाव एव सहृदयाह्लादकारी काव्यशरीरत्वेन वर्णनीयतां प्रतिपद्यते । स एव च यथायोगं शोभातिशयकारिणा येन केनचिदलङ्कारेण योजयितव्यः । तदिदमुक्तम्"अर्थः सहृदयाह्लादकारिस्वस्पन्दसुन्दरःऽ (१ ।९) इति । "उभावेतावलङ्कार्यौऽ (१ ।१०) इति च । एवं शब्दार्थयोः परमार्थमभिधाय "शब्दार्थौऽ इति (१ ।७) काव्यलक्षणवाक्ये पदमेकं व्याख्यातम् । इदानी "सहितौऽ इति (१ ।७) व्याख्यातुं साहित्यमेतयोः पर्यालोच्यते _________________________________________________________________ शब्दार्थौ सहितावेव प्रतीतौ स्फुरतः सदा । सहिताविति तावेव सिमपूर्वं विधीयते ॥ १.१६ ॥ शब्दार्थावभिधानाभिधेयौ सहिताववियुक्तावेव सदा सर्वकालं प्रतीतौ स्फुरतः ज्ञाने प्रतिभासेते । ततस्तावेव सहिताववियुक्ताविति पुनः किमपूर्वं विधीयते न किञ्चिदपूर्वं निष्पाद्यते, सिद्धं साध्यत इत्यर्थः । तदेवं शब्दार्थयोः स्वभावसिद्धं साहित्यं कः सचेताः पुनस्तदभिधानेन निष्प्रयोजनमात्मानमायासयति ? सत्यमेतत्, किन्तु न वाच्यवाचकलक्षणशाश्वतसंबन्धनिबन्धनं वस्तुतः साहितामित्युच्यते । यस्मादेतस्मिन् साहितयशब्देनाभिधीयमाने कष्टकल्पनोपरचितानि गाङ्कुटादिवाक्यान्यसंबद्धानि शाकटिकादिवाक्यानि च सर्वाणि साहित्यशब्देनाभिधीयेरन् । तेन पदवाक्यप्रमाणव्यतिरिक्तं किमपि तत्त्वान्तरं साहित्यमिति विभागोऽपि न स्यात् । ननु च पदादिव्यतिरिक्तं यत्किमपि साहित्यं नाम तदपि सुप्रसिद्धमेव, पुनस्तदभिधानेऽपि कथं न पौनरुक्त्यप्रसङ्गः ? अत एवैतदुच्यतेयदिदं साहित्यं नाम तदेतावति निःसीमनि समयाध्वनि साहित्यशब्दमात्रेणैव प्रसिद्धम् । न पुनरेतस्य कविकर्मकौशलकाष्ठाधिरूढरमणी यस्याद्यापि कश्चिदपि विपश्चिदयमस्य परमार्थ इति मनाङ्मात्रमपि विचारपदवीमवतीर्णः । तदद्य सरस्वतीहृदयारविन्दमकरन्दबिन्दुसन्दोहसुन्दराणां सत्कविवचसामन्तरामोदमनोहरत्वेन परिस्फुरदेतत्सहृदयषट्चरणगोचरतां नीयते । _________________________________________________________________ साहित्यमनयोः शोभाशालितां प्रति काप्यसौ । अन्यूनानतिरिक्तत्वमनोहारिण्यवस्थितिः ॥ १.१७ ॥ सहीतयोर्भावः साहित्यम् । अनयोः शब्दार्थयोर्या काप्यलौकिकी चेतनचमत्कारकारितायाः कारणमवस्थितिर्विचित्रैव विन्यासभङ्गी । कीदृशीअन्यूनानतिरिक्तत्वमनोहारिणी, परस्परस्पर्धित्वरमणीया । यस्यां द्वयोरेकतरस्यापि न्यूनत्वं निकर्षो न विद्यते नाप्यतिरिक्तत्वमुत्कर्षो वास्तीत्यर्थः । ननु च तथाविधं साम्यं द्वयोरुपहतयोरपि संभवतीत्याहशोभाशालितां प्रति । शोभा सौन्दर्यमुच्यते । तया शालते श्लाघते यः स शोभाशाली, तस्य भावः शोभाशालिता, तां प्रति सौन्दर्यश्लाघितां प्रतीत्यर्यः । सैव च सहृदयाह्लादकारिता । तस्यां स्पर्धित्वेन यासाववस्थितिः परस्परसाम्यसुभगमवस्थानं सा साहित्यमुच्यते । अत्र च वाचकस्य वाचकान्तरेण वाच्यस्य वाच्यान्तरेण साहित्यमभिप्रेतम्, वाक्ये काव्यलक्षणस्य परिसमाप्तत्वादिति प्रतिपादितमेव ( १ । ७) । ननु च वाचकस्य वाच्यान्तरेण वाच्यस्य वाचकान्तरेण कथं न साहित्यमिति चेत्तन्न, क्रमव्युत्क्रमे प्रयोजनाभावादसमन्वयाच्च । तस्मादेतयोः शब्दार्थयोर्यथास्वं यस्यां स्वसम्पत्सामग्रीसमुदयः सहृदयाह्लादकारी परस्परस्पर्धया परिस्फुरति, सा काचिदेव वाक्यविन्याससम्पत्साहित्यव्यपदेशभाग्भवति । मार्गानुगुण्यसुभगो माधुर्यादिगुणोदयः । अलङ्करणविन्यासो वक्रतातिशयान्वितः ॥ टीका १.३४ ॥ वृत्त्यौचित्यमनोहारि रसानां परिपोषणम् । स्पर्धया विद्यते यत्र यथास्वमुभयोरपि ॥ टीका १.३५ ॥ सा काप्यवस्थितिस्तद्विदाह्लादैकनिबन्धनम् । पदादिवाक्यपरिस्पन्दसारः साहित्यमुच्यते ॥ टीका १.३६ ॥ एतेषां च पदवाक्यप्रमाणसाहित्यानां चतुर्णामपि प्रतिवाक्यमुपयोगः । तथा चैतत्पदमेवंस्वरूपं गकारौकारविसर्जनीयात्मकमेतस्य चार्थस्य प्रतिपदिकार्थपञ्चकलक्षणस्याख्यातपदार्थषट्कलक्षणस्य वा वाचकमिति पदसंस्कारलक्षणस्य व्यापारः । पदानां च परस्परान्वयलक्षणसंबन्धनिबन्धनमेतद्वाक्यार्थतात्पर्यमिति वाक्यविचारलक्षणस्योपयोगः । प्रमाणेन प्रत्यक्षादिनैतदुपपन्नमिति युक्तियुक्तत्वं नाम प्रमाणलक्षणस्य प्रयोजनम् । इदमेव परिस्पन्दमाहात्म्यात्सहृदयहारितां प्रतिपन्नमिति साहित्यस्योपयुज्यमानता । एतेषां यद्यपि प्रत्येकं स्वविषये प्राधान्यमन्येषां गुणीभावस्तथापि सकलवाक्य परिस्पन्दजीवितायमानस्यास्य साहित्यलक्षणस्यैव कविव्यापारस्य वस्तुतः सर्वा तिशायित्वम् । यस्मादेतदमुख्यतयापि यत्र वाक्यसन्दर्भान्तरे स्वपरिमलमात्रेणैव संस्कारमारभवे तस्यैतदधिवासनाशून्य तामात्रेणैव रामणीयकविरहः पर्यवस्यति । तस्मादुपादेयतायाः परिहाणिरुत्पद्यते । तथा च स्वप्रवृत्तिवैयर्थ्यप्रसङ्गः । शास्त्रातिरिक्तप्रयोजनत्वं शास्त्राभिधेयचतुर्वर्गाधिकफलत्वं चास्य पूर्वमेव प्रतिपादितम् (१ ।३,५) । अपर्यालेचितेऽप्यर्थे बन्धसौन्दर्यसम्पदा । गीतवद्धृदयाह्लादं तद्विदां विदधाति यत् ॥ टीका १.३७ ॥ वाच्यावबोधनिष्पत्तौ पदवाक्यार्थजीवितम् । यत्किमप्यर्पयत्यन्तः पानकास्वादवत्सताम् ॥ टीका १.३८ ॥ शरीरं जीवितेनेव स्फुरितेनेव जीवितम् । विना निर्जोवतां येन याति काव्यं विपश्चिताम् ॥ टीका १.३९ ॥ यस्मात्किमपि सौभाग्यं तद्विदामेव सोचरम् । सरस्वतीसमभ्येति तदितानी विचार्यते ॥ टीका १.४० ॥ इत्यन्तरश्लोकाः । एवं सहिताविति व्याख्याय कविव्यापारवक्रत्वं व्याचष्टे _________________________________________________________________ कविव्यापारवक्रत्वप्रकाराः संभवन्ति षट् । प्रत्येकं बहवो भेदास्तेषां विच्छित्तिशोभिनः ॥ १.१८ ॥ कवीनां व्यापारः कविव्यापारः काव्यक्रियालक्षणस्तस्य वक्रत्वं वक्रभावः प्रसिद्धप्रस्थानव्यतिरेकि वैचित्र्यं तस्य प्रकाराः प्रभेदाः षट्संभवन्ति । मुख्यतया तावन्त एव सन्तीत्यर्थः । तेषां प्रत्येकं प्रकाराः बहवो भेदविशेषाः । कीदृशाःविच्छित्तिशोभिनः वैचित्र्यभङ्गीभ्राजिष्णवः । संभवन्तीति संबन्धः । तदेव दर्शयति _________________________________________________________________ वर्णविन्यासक्रत्वं पदपूर्वार्धवक्रता । वक्रतायाः परोऽप्यस्ति प्रकारः प्रत्ययाश्रयः ॥ १.१९ ॥ वर्णानां विन्यासो वर्णविन्यसाः लक्षराणां विशिष्टन्यसनं तस्य वक्रत्वं वक्रभावः प्रसिद्धप्रस्थानव्यतिरेकिणा वैचित्र्येणोपनिबन्धः संनिवेशविशेषविहितस्तद्विदाह्लादकारी शब्दशोभातिशयः । यथा प्रथममरुणच्छायस्तावत्ततः कनकप्रभ स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः । प्रसरति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छविर्मृगलाञ्छनः ॥ टीका १.४१ ॥ अत्र वर्णविन्यासवक्रतामात्रविहितः शब्दशोभातिशयः सुतरां समुन्मीलितः । एतदेव वर्णविन्यासवक्रत्वं चिरन्तनेष्वनुप्रास इति प्रसिद्धम् । अस्य च प्रभेदस्वरूपनिरूपणं स्वलक्षणा वसरे करिष्यते (२ ।१) । पदपूर्वार्धवक्रतापदस्य सुबन्तस्य तिङन्तस्य वा यत्पूर्वार्धं प्रातिपदिकलक्षणं धातुलक्षणं वा तस्य वक्रता वक्रभावो विन्यासवैचित्र्यम् । तत्र च बहवः प्रकाराः संभवन्ति । यत्र रूढिशब्दस्यैव प्रस्तावसमुचितत्वेन वाच्यप्रसिद्धधर्मान्तराध्यारोपगर्भत्वेन निबन्धः स पदपूर्वार्धवक्रतायाः प्रथमः प्रकारः । यथा रामोऽस्मि सर्वं सहे ॥ टीका १.४२ ॥ द्वितीयःयत्र संज्ञाशब्दस्य वाच्यप्रसिद्धस्य धर्मस्य लोकोत्तरातिशयाध्यारोपं गर्भोकृत्योपनिबन्धः । यथा रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम् । वन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहति श्रेणीभूतविशालतालविवरोद्गीर्णैः स्वरैः सप्तभिः ॥ टीका १.४३ ॥ अत्र रामशब्दो लोकोत्तरशौर्यादिधर्मातिशयाध्यारोपपरत्वेनोपात्तो वक्रतां प्रथयति । पर्यायवक्रत्वं नाम प्रकारान्तरं पदपूर्वार्धवक्रतायाःयत्रानेकशब्दाभिधेयत्वे वस्तुनः किमपि पर्यायपदं प्रस्तुतानुगुणत्वेन प्रयुज्यते । तथा वामं कज्जलवद्विलोचनमुरो रोहद्विसारिस्तनं मध्यं क्षाममकाण्ड एव विपुलाभोगा नितम्बस्थली । सद्यः प्रोद्गतविस्मयैरिति गणैरालोक्यमानं मुहुः पायाद्वः प्रथमं वपुः स्मररिपोर्मिश्रीभवत्कान्तया ॥ टीका १.४४ ॥ अत्र "स्मररिपोःऽ इति पर्यायः कामपि वक्रतामुन्मीलयति । यस्मात्कामशत्रोः कान्तया सह मिश्रीभावः शरीरस्य न कथञ्चिदपि संभाव्यत इति गणानां सद्यः प्रोद्गतविस्मयत्वमुपपन्नम् । सोऽपि पुनः पुनः परिशीलनेनाश्चर्यकारीति "प्रथमऽशब्दस्य जीवितम् । एतच्च पर्यायवक्रत्वं वाच्यांसभविधर्मान्तरगर्भोकरेणापि परिदृश्यते । यथा अङ्गराज सेनापते राजवल्लभ रक्षैनं भीमाद्दुःशासनमिति ॥ टीका १.४५ ॥ अत्र त्रयाणामपि पर्यायाणामसंभाव्यमानतत्परित्राणपात्रत्वलक्षणमकिञ्चित्करत्वं गर्भोकृत्योपहस्यतेरक्षैनमिति । पदपूर्वार्धवक्रताया उपचारवक्रत्वं नाम प्रकारान्तरं विद्यतेयत्रामूर्तस्य वस्तुनो मूर्तद्रव्याभिधायिना शब्देनाभिधानमुपचारात् । यथानिष्कारणं निकारकणिकापि मनस्विनां मानसमायासयति । यथाहस्तावचेयं यशः इति । "कणिकाऽशब्दो मूर्तवस्तुस्तोकार्थाभिधायी स्तोकत्वसामान्योपचारादमूर्तस्यापि निकारस्य स्तोकाभिधानपरत्वेन प्रयुक्तस्तद्विदाह्लादकारित्वाद्वक्रतां पुष्णाति । "हस्तावचेयम्ऽ इति मूर्तपुष्पादिवस्तुसभविसंहतत्वसामान्योपचारादमूर्तस्यापि यशसो हस्तावचेयमित्यभिधानं वक्रत्वमावहति । द्रवरूपस्य वस्तुनो वाचकशब्दस्तरङ्गितत्वादिधर्मनिबन्धनः किमपि सादृश्यमात्रमवलम्ब्य संहतस्यापि वाचकत्वेन प्रयुज्यमानः कविप्रवाहे प्रसिद्धः । यथा श्वासोत्कम्पतरङ्गिणि स्तनतटे इति ॥ टीका १. ४६ ॥ क्वचिदमूर्तस्यापि द्रवरूपार्थाभिधायी वाचकत्वेन प्रयुज्यते । यथा एकां कामपि कालविप्रुषममी शौर्योष्मकण्डूव्यय व्यग्राः स्युश्चिरविस्मृतामरचमूडिम्बाहवा बाहवः ॥ टीका १.४७ ॥ एतयोस्तरङ्गिणीति विप्रुषमिति च कामपि वक्रतामावहतः । विशेषणवक्रत्वं नाम पदपूर्वार्धवक्रतायाः प्रकारो संभवतियत्र विशेषणमाहात्म्यादेव तद्विदाह्लादकारित्वलक्षणं वक्रत्वमभिव्यज्यते । यथा दाहोऽम्भः प्रसृतिंपचः प्रचयवान् बाष्पः प्रणालोचितः श्वासाः प्रेङ्खितदीप्रदीपलतिकाः पाण्डिम्नि मग्नं वपुः । किञ्चान्यत्कथयामि रात्रिमखिलां त्वद्वर्त्म वातायने हस्तच्छत्त्रविरुद्वचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥ टीका १.४८ ॥ अत्र दाहो बाष्पः श्वासा वपुरिति न किञ्चिद्वैचित्र्यमुन्मीलितम् । प्रत्येकं च विशेषणमाहात्म्यात्काचिदेव वक्रताप्रतीतिः । यथा च व्रीडायोगान्नतवदनया संनिधाने गुरूणां बद्धोत्कम्पस्तनकलशया मन्युमनतर्नियम्य । तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः ॥ टीका १. ४९ ॥ अत्र चकितहरिणीहारीति क्रियाविशेषणं नेत्रत्रिभागासङ्गस्य गुरुसंनिधानविहिताप्रगल्भत्वरमणीयस्य कामपि काम नीयतामावहति चकितहरिणीहारिविलोकन साम्येन । अयमपरः पदपूर्वार्धवक्रतायाः प्रकारो यदिदं संवृतिवक्रत्वं नामयत्र पदार्थस्वरूपं प्रस्तावानुगुण्येन केनापि निकर्षेणोत्कर्षेण वा युक्तं व्यक्ततया साक्षादभिधातुमशक्यं संवृतिसामर्थ्योपयोगिना शब्देनाभिधीयते । यथा सोऽयं दम्भधृतव्रतः प्रियतमे कर्तुं किमप्युद्यतः ॥ टीका १.५० ॥ अत्र वत्सराजे वासवदत्ताविपत्तिविधुरहृदयस्तत्प्राप्निप्रलोभनवशेन पद्मावतीं परिणेतुमीहमानस्तदेवाकरणीयमित्यवगच्छन् तस्य वस्तुनो महापताकस्येवाकीर्तनीयतां ख्यापयति किमपीत्यनेन संवरणसमर्थेन सर्वनामपदेन । यथा च निद्रानिमीलतदृशो मदमन्थराया नाप्यर्थवन्ति न च यानि निर्थकानि । अद्यापि मे वरतनोर्मधुराणि तस्या स्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ टीका १.५१ ॥ अत्र किमपीति तदाकर्णनविहितायाश्चित्तचमत्कृतेरनुभवैकगोचरत्वलक्षणमव्यपदेश्यत्वं प्रतिपाद्यते । तानीति तथाविधानुभवविशिष्टतया स्मर्यमाणानि । नाप्यर्थवन्तीति स्वसंवेद्यत्वेन व्यपदेशाविषयत्वं प्रकाश्यते । तेषां च न च यानि निरर्थकानीत्यलौकिकचमत्कारकारित्वादपार्थकत्वं निवार्यते । त्रिष्वप्येतेषु विशेषणवक्रत्वं प्रतीयते । इदमपरं पदपूर्वार्धवक्रतायाः प्रकारान्तरं संभवति वृत्तिवैचित्र्यवक्रत्वं नामयत्र समासादिवृत्तीनां कासांचिद्विचित्राणामेव कविभिः परिग्रहः क्रियते । यथा मध्येऽङ्कुरं पल्लवाः ॥ टीका १.५२ ॥ यथा च पाण्डिम्नि मग्नं वपुः ॥ टीका १.५३ ॥ यथा वा सुधाविसरनिष्यन्दसमुल्लासविधायिनि । हिमधामनि खण्डेऽपि न जनो नोन्मनायते ॥ टीका १.५४ ॥ अपरं लिङ्गवैचित्र्यवक्रत्वं नाम पदपूर्वार्धवक्रतायाः प्रकारान्तरं दृश्यतेयत्र भिन्नलिङ्गानामपि शब्दानां वैचित्र्याय सामानाधिकरण्योपनिबन्धः । यथा इत्थं जडे जगति को नु बृहत्प्रमाणकर्णः करी ननु भवेद्ध्वनितस्य पात्रम् ॥ टीका १.५५ ॥ यथा च मैथिली तस्य दाराः ॥ टीका १.५६ ॥ इति अन्यदपि लिङ्गवैचित्र्यवक्रत्वम्यत्रानेकलिङ्गसंभवेऽपि सौकुमार्यात्कविभिः स्त्रीलिङ्गमेव प्रयुज्यते, "नामैव स्त्रीति पेशलम्ऽ (२ । २२) इति कृत्वा । यथा एतां पश्य पुरस्तटीमिति ॥ टीका १.५७ ॥ पदपूर्वार्धस्य धातौः क्रियावैचित्र्यवक्रत्वं नाम वक्रता प्रकारान्तरं विद्यतेयत्र क्रियावैचित्र्यप्रतिपादनपरत्वेन वैदग्ध्यभङ्गीभणितिरमणीयान् प्रयोगान्निबध्नन्ति कवयः । तत्र क्रियावैचित्र्यं बहुविधं विच्छत्तिविततव्यवहारं दृश्यते । यथा रैकेलिहिअणिअंसणकरकिसलअरुद्धणअणजुअलस्य । रुद्दस्स तैअणअणं पव्वैपरिचुम्बिअं जऐ ॥ टीका १.५८ ॥ रतिकेलिहृतनिवसनकरिकिसलयरुद्धनयनयुगलस्य । रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ॥ इति छाया ॥ अत्र समानेऽपि हि स्थगनप्रयोजने साध्ये सामान्ये च लोचनत्वे, देव्याः परिचुम्बनेन यस्य निरोधः संपाद्यते तद्भगवतस्तृतीयनयनं जयति सर्वोत्कर्षेण वर्तत इति वाक्यार्थः । अत्र जयतीति क्रियापदस्य किमपि सहृदयहृदयसंवेद्यं वैचित्र्यं परिस्फुरदेव लक्ष्यते । यथा च स्वेच्छाकेसरिणः स्वच्छस्वच्छायायासितेन्दवः । त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः ॥ टीका १.५९ ॥ अत्र नखानां सकललोकप्रसिद्धच्छेदनव्यापारव्यतिरेकि किमप्यपूर्वमेव प्रपन्नार्तिच्छेदनलक्षणं क्रियावैचित्र्यमुपनिबद्धम् । यथा च स दहतु दुरितं शाम्भवो वः शराग्निः ॥ टीका १.६० ॥ अत्र च पूर्ववदेव क्रियावैचित्र्यप्रतीतिः । यथा च कण्णुप्पलदलमिलिअलोअणेहिं हेलालोलणमाणिअणअणेहिं । लीलै लीलावरिहि णिरुद्धाओ सिढिलिअचाओ जऐ मअरद्धओ ॥ टीका १.६१ ॥ कर्णोत्पलदलमिलितलोचनैर्हेलालोलनमानितनयनाभिः । लीलया लीलावतीभिर्निरुद्धः शिथिलीकृतचापो जयति मकरध्वजः ॥ अत्र लोचनैर्लोलया लीलावतीभिर्निरुद्धः स्वव्यापारपराङ्मुखीकृतः सन् शिथिलीकृतचापः कन्दर्पो जयति सर्वोत्कर्षेण वर्तत इति किमुच्यते, यतस्तास्तथाविधविजयावाप्तौ सत्यां जयन्तीति वक्तव्यम् । तदयमत्राभिप्रायःयदेलल्लो चनविलासानामेवंविधं जैत्रताप्रौढिभावं पर्यालोच्य चेतनत्वेन स स्वचापाधिरोप णायासमुपसंहृतवान् । यतस्तेनैव त्रिभुवनविजयावाप्तिः परिसमाप्यते । ममेति मन्यमानस्य तस्य सहायत्वोत्कर्षातिशयो जयतीति क्रियापदेन कर्तृतायाः कारणत्वेन कवेश्चेतसि परिस्फुरितः । तेन किमपि क्रियावैचित्र्यमत्र तद्विदाह्लादकारि प्रतीयते । यथा च तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ टीका १.६२ ॥ अत्र जल्पन्ति वदन्तीत्यादि न प्रयुक्तम्, यस्मात्तानि कयापि विच्छित्त्या किमप्यनाख्येयं समर्पयन्तीति कवेरभिप्रेतम् । वक्रतायाः परोऽप्यस्ति प्रकारः प्रत्ययाश्रयः इति । वक्रभावस्यान्योऽपि प्रभेदो विद्यते । कीदृशःप्रत्ययाश्रयः । प्रत्ययः सुप्तिङ्च यस्याश्रयः स्थानं स तथोक्तः । तस्यापि बहवः प्रकाराः संभवन्तिसंख्यावैचित्र्यविहितः, कारकवैचित्र्यविहितः, पुरुषवैचिर्त्यविहितश्च । तत्र संख्यावैचित्र्यविहितःयस्मिन् वचनवैचित्र्यं काव्यशोभोपनिबन्धनाय निबध्नन्ति । यथा वा मैथिली तस्य दाराः ॥ टीका १.६३ ॥ इति यथा वा फुल्लेन्दीवरकाननानि नयने पाणी सरोजाकराः ॥ टीका १.६४ ॥ अत्र द्विवचनबहुवचनयोः सामानाधिकरण्यमतीव चमत्कारकारि । कारकवैचित्र्यविहितःयत्राचेतनस्यापि पदार्थस्य चेतनत्वाध्यारोपेण चेतनस्यैव क्रियासमावेशलक्षणं रसादिपरिपोषणार्थं कर्तृत्वादिकारकत्वं निबध्यते । यथा स्तनद्वन्द्वं मन्दं स्नपयति बलाद्वाष्पनिवहो हठादन्तः कण्ठं लुठति सरसः पञ्चमरवः । शरज्ज्योत्स्नापाण्डुः पतति च कपोलः करतले न जानीमस्तस्या क इव हि विकारव्यतिकरः ॥ टीका १.६५ ॥ त्र५ ॥ अत्र बाष्पनिवहादीनामचेतवानामपि चेतनत्वाध्यारोपेण कविना कर्तृत्वमुपनिबद्धम्यत्तस्या विवशायाः सत्यास्तेषामेवंविधो व्यवहारः, सा पुनः स्वयं न किञ्चिदप्याचरितुं समर्थेत्यभिप्रायः । अन्यच्च कपोलादीनां तदवयवानामेतदवस्थत्वं प्रत्यक्षतयास्मदादिगोचरतामापद्यते, तस्याः पुनर्योऽसावन्तर्विकारव्यतिकरस्तं तदनुभवैकविषयत्वाद्वयं न जनीमः । यथा च चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः बाणव्यस्तः सदनमुदधिर्भूरियं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥ टीका १.६६ ॥ अत्र चन्द्रहासो लज्जत इति पूर्ववत्कारकवैचित्र्यप्रतीतिः । पुरुषवैचित्र्यविहितं वक्रत्वं विद्यतेयत्र प्रत्यक्तापरभावविपर्यासं प्रयुञ्जते कवयः, काव्यवैचित्र्यार्थं युष्मद्यस्मदि वा प्रयोक्तव्ये प्रातिपदिकमात्रं निबध्नन्ति । यथा अस्मद्भागयविपर्ययाद्यदि परं देवो न जानाति तम् ॥ टीका १.६७ ॥ अत्र त्वं न जानासीति वक्तव्ये वैचित्र्याय देवो न जानातीत्युक्तम् । एवं युष्मदादिवपर्यासः क्रियापदं विना प्रातिपदिकमात्रेऽपि दृश्यते । यथा अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिवक्तुमर्हसि ॥ टीका १.६८ ॥ अत्राहं प्रष्टुकाम इति वक्तव्ये ताटस्थ्यप्रतीत्यर्थमयं जन इत्युक्तम् । यथा वा । सोऽय दम्भधृव्रतः इति ॥ टीका १.६९ ॥ अत्र सोऽहमिति वक्तव्ये पूर्ववद्"अयम्ऽ इति वैचित्र्यप्रतीतिः । एते च मुख्यतया वक्रताप्रकाराः कतिचिन्नदर्शनार्थं प्रदर्शिताः । शिष्टाश्च सहस्त्रशः संभवन्तीति महाकविप्रवाहे सहृदयैः स्वयमेवोत्प्रेक्षणीयाः । एवं वाक्यावयवानां पदानां प्रत्येकं वर्णाद्यवयवद्वारेण यथासंभव वक्रभावं व्याख्यायेदानीं पदसमूहभूतस्य वाक्यस्य वक्रता व्याख्यायते _________________________________________________________________ वाक्यस्य वक्रभावोऽन्यो भिद्यते यः सहस्त्रधा । यत्रालङ्कारवर्गोऽसौ सर्वोऽप्यन्तर्भविष्यति ॥ १.२० ॥ वाक्यस्य वक्रभावोऽन्यः । वाक्यस्य पदसमूहभूतस्य । आख्यातं साव्ययकारकविशेषणं वाक्यमिति यस्य प्रतीतिस्तस्य श्लोकादेर्वक्रभावो भङ्गीभणितिवैचित्र्यमन्यः पूर्वोक्तवक्रताव्यतिरेकी समुदायवैचित्र्यनिबन्धनः कोऽपि संभवति । यथा उपस्थितां पूर्वमपास्य लक्ष्मीं वनं मया सार्धमसि प्रपन्नः । त्वमाश्रयं प्राप्य तया नु कोपा त्सोढास्मि न त्वद्भवने वसन्ती ॥ टीका १.७० ॥ एतत्सीतया तथाविधकरुणाक्रान्तान्तः करणया वल्लभं प्रति संदिश्यते यदुपस्थितां सेवासमापन्नां लक्ष्मीमपास्य श्रियं परित्यज्य पूर्वं यस्त्वं मया सार्धं प्रपन्नो विपिनं प्राप्तस्तस्य तव स्वप्नेऽप्येतन्न सभाव्यते । तया पुनस्तस्मादेव कोपात्स्त्रीस्वभावसमुचितसपत्नीविद्वेषात्त्वद्गृहे वसन्ती न सोढास्मि । तदिदमुक्तं भवति यत्तस्मिन् विधुरदशाविसंष्ठुलेऽपि समये तथाविधप्रसादास्पदता । मध्यारोप्य यदिदानीं साम्राज्ये निष्कारणपरित्यागतिरस्कारपात्रता । नीतास्मीत्येतदुचितमनुचितं वा विदितव्यवहारपरंपरेण भवतस्वयमेव विचार्यतामिति । स च वक्रभावस्तथाविधो यः सहस्त्रधा भिद्यते बहुप्रकारं भेदमासादयति । सहस्त्रशब्दोऽत्र संख्याभूयस्त्वमात्रवाची, न नियतार्थवृत्तिः, यथासहस्त्रमवध्यमिति । यस्मात्कविप्रतिभानामानन्त्यान्नियतत्वं न संभवति । योऽसौ वाक्यस्य वक्रभावो बहुप्रकारः, न जानीमः कीदृश इत्याहयत्रालङ्कारवर्गोऽसौ सर्वोऽप्यन्तर्भविष्यति । यत्र यस्मिन्नसावलङ्कारवर्गः कविप्रवाहप्रसिद्धप्रतीतिरुपमादिरलङ्करणकलापः सर्वः सकलोऽप्यन्तर्भविष्यति अन्तर्भावं गमिष्यति पृथकत्वेन नावस्थाप्यते । तत्प्रकारभेदत्वेनैव व्यपदेशमासादयिष्यतीत्यर्थः । स चालङ्कारवर्गः स्वलक्षणावसरे प्रतिपदमुदाहरिष्यते ॥ एवं वाक्यवक्रतां व्याख्याय वाक्यसमूहरूपस्य प्रकरणस्य तत्समुदायात्मकस्य च प्रबन्धस्य वक्रता व्याख्यायते _________________________________________________________________ वक्रभावः प्रकरणे प्रबन्धेऽप्यस्ति यादृशः । उच्यते सहजाहार्यसौकुमार्यमनोहर) ॥ १.२१ ॥ वक्रभावो विन्यासवैचित्र्यं प्रबन्धैकदेशभूते प्रकरणे यादृशोऽस्ति यादृग्विद्यते प्रबन्धे वा नाटकादौ सोऽप्युच्यते कथ्यते । कीदृशःसहजाहार्यसौकुमार्यमनोहरः । सहजंस्वाभाविकमाहार्यं व्युत्पत्त्युपार्जितं यत्सौकुमार्यं रामणीयकं तेन मनोहरो हृदयहारी यः स तथोक्तः । तत्र प्रकरणे वक्रभावो यथारामायणे मारीचमायामयमाणिक्यमृगानुसारिणो रामस्य करुणाक्रन्दाकर्णनकातरन्तः करणया जनकराजपुत्र्या व्तत्प्राणपरित्राणाय स्वजीवितपरिरक्षानिरपेक्षया लक्ष्मणो निर्भर्त्स्य प्रेषितः । तदेतदत्यन्तमनौचित्ययुक्तम्, यस्मादनुचरसंनिधाने प्रधानस्य तथाविधव्यापारकरणमसंभावनीयम् । तस्य च सर्वातिशायिचरित युक्तत्वेन वर्ण्यमानस्य तेन कनीयसा प्राणकरित्राणसंभावनेत्येदत्यन्तमसमीचीनमिति पर्यालोच्य उदात्तराघवे कविना वैदग्ध्यवशेन मारीचमृगमारणाय प्रयातस्य परित्राणार्थं लक्ष्मणस्य सीतया कातरत्वेनरामः प्रेरितः इत्युपनिबद्धम् । अत्र च तद्विदाह्लादकारित्वमेव वक्रत्वम् । यथा वा किरातार्जुनीये किरातपुरुषोक्तिषु वाच्यत्वेन स्वमार्गणमार्गणमात्रमेवोपक्रान्तम् । वस्तुतः पुनरर्जुनेन सह तात्पर्यार्थपर्यालोचनया विग्रहो वाक्यार्थतामुपनीतः । तथा च तत्रैवोच्यते प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम् । तथाभियुक्तं च शिलीमुखार्थिना यथेतरन्न्याय्यमिवावभासते ॥ टीका १.७१ ॥ प्रबन्धे वक्रभावो यथाकुत्रचिन्महाकविविरचिते रामकथोपनिबन्धे नाटकादौ पञ्चविधवक्रतासामग्रीसमुदयसुन्दरं सहृदयहृदयहारि महापुरुषवर्णनमुपक्रमे प्रतिभासते । परमार्थतस्तु विधिनिषेधात्मकधर्मोपदेशः पर्यवस्यति, रामवद्वर्तिव्यं न रावणवदिति । यथा च तापसवत्सराजे कुसुमसुकुमारचेतसः सरसविनोदैकरसिकस्य नायकस्य चरितवर्णनमुपक्रान्तम् । वस्तुतस्तु व्यसनार्णवे निमज्जन्निजो राजा तथाविधनयव्यवहारनिपुणैरमात्यैस्तैस्तैरुपायैरुत्तारणीय इत्युपदिष्टम् । एतच्च स्वलक्षणव्याख्यानावसरे व्यक्तिमाया स्यति । एवं कविव्यापारवक्रताषट्कमुद्देशमात्रेण व्याख्यातम् । विस्तुरेण तु स्वलक्षणावसरे व्याख्यास्यते । क्रमप्राप्तत्वेन बन्धोऽधुना व्याख्यास्यते _________________________________________________________________ वाच्यवाचकसौभाग्यलावण्यपरिपोषकः । व्यापारशाली वाक्यस्य विन्यासो बन्ध उच्यते ॥ १.२२ ॥ विन्यासो विशिष्टं न्यसनं यः सन्निवेशः स एव व्यापारशाली बन्ध उच्यते । व्यापारोऽत्र प्रस्तुतत्वात्काव्य क्रियालक्षणः । तेन शालते श्लाघते यः स तथोक्तः । कस्यवाक्यस्य श्लोकादेः । कीदृशःवाच्यवाचकसौभाग्यलावण्यपरिपोषकः । वाच्यवाचकयोर्द्वयोरपि वाच्यस्याभिधेयस्य वाचकस्य च शब्दस्य वक्ष्यमाणं सौभाग्यलावण्यलक्षणं यद्गुणद्वयं तस्य परिपोषकः पुष्टतातिशयकारी । सौभाग्यं प्रतिभासंरम्भफलभूतं चेतनचमत्कारित्वलक्षणम्, लावण्यं संनिवेशसौन्दर्यम्, तयोः परिपोषकः । यथा दत्त्वा वामकरं नितम्बफलके लीलावलन्मध्यया प्रोत्तुङ्गस्तनमंसचुम्बिचिबुकं कृत्वा तया मां प्रति । प्रान्तप्रोतनवेन्द्रनीलमणिमन्मुक्तावलीविभ्रमाः सासूयं प्रहिताः स्मरज्वरमुचो द्वित्राः कटाक्षच्छटाः ॥ टीका १.७२ ॥ अत्र समग्रकविकौशलसंपाद्यस्य चेतनचमत्कारित्वलक्षणस्य सौभाग्यस्य कियन्मात्रवर्णविन्यासविच्छित्तिविहितस्य पदसंधानसम्पदुपार्जितस्य च लावण्यस्य परः परिपोषो विद्यते । एवं च स्वरूपमभिधाय तद्विदाह्लादकारित्वमभिधत्ते _________________________________________________________________ वाच्यवाचकवक्रोक्तित्रितयातिशयोत्तरम् । तद्विदाह्लादकारित्वं किमप्यामोदसुन्दरम् ॥ १.२३ ॥ तद्विदाह्लादकारित्वं काव्यविदानन्दविधायित्वम् । कीदृशं वाच्यवाचकवक्रोक्तित्रितयातिशयोत्तरम् । वाच्यमभिधेयं वाचकः शब्दो वक्रोक्तिरलङ्करणम्, एतस्य त्रितयस्य योऽतिशयः कोऽप्युत्कर्षस्तस्मादुत्तरमतिरिक्तम् । स्वरूपेणातिशयेन च स्वरूपेणान्यत्किमपि तत्त्वान्तरमेतदतिशयेनैतस्मात्त्रितयादपि लोकोत्तरमित्यर्थः । अन्यच्च कीदृशम्किमप्यामोदसुन्दरम् । किमप्यव्यपदेश्यं सहृदयहृदयसंवेद्यमामोदः सुकुमारवस्तुधर्मो रञ्जकत्वं नाम, तेन सुन्दरं रञ्जकत्वरमणीयम् । यथा हंसानां निनदेषु यैः कवलितैरासज्यते कूजता मन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो विभ्रमः । ते संप्रत्यकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ॥ टीका १.७३ ॥ अत्र त्रितयेऽपि वाच्यवाचकवक्रोक्तिलक्षणे प्राधान्येन न कश्चिदपि कवेः संरम्भो विभाव्यते । किन्तु प्रतिभावैचित्र्यवशेन किमपि तद्विदाह्लादकारित्वमुन्मीलितम् । यद्यपि सर्वेषामुदाहरणानामविकलकाव्यलक्षणपरिसमाप्तिः संभवति तथापि यत्प्राधान्येनाभिधीयते स एवांशः प्रत्येकमुद्रिक्ततया तेषां परिस्फुरतीति सहृदयैः स्वयमेवोत्प्रेक्षणीयम् । एवं काव्यसामान्यलक्षणमभिधाय तद्विशेषलक्षणविषयप्रदर्शनार्थं मार्गभेदनिबन्धनं त्रैविध्यमभिधत्ते _________________________________________________________________ सन्ति तत्र त्रयो मार्गाः कविप्रस्थानहेतवः । सुकुमारो विचित्रश्च मध्यमश्चोभयात्मकः ॥ १.२४ ॥ तत्र तस्मिन् काव्ये मार्गाः पन्थनस्त्रयः सन्ति संभवन्ति । न द्वौ न चत्वारः स्वरादिसंख्यावत्तावतामेव वस्तुतस्तज्ज्ञैरुपलम्भात् । ते च कीदृशाःकविप्रस्थानहेतवः । कवीनां प्रस्थानं वर्तनं तस्य हेतवः, काव्यकरणस्य कारणभूताः । किमभिधानाः सुकुमारो विचित्रश्च मध्यमश्चेति । कीदृशो मध्यमःुभयात्मकः । उभयमनन्तरोक्तं मार्गद्वयमात्मा यस्येति विगृह्य छायाद्वयोपजीवीत्युक्तं भवति । तेषां च स्वलक्षणावसरे स्वरूपमाख्यास्यते । अत्र बहुविधा विप्रतिपत्तयः संभवन्ति । यस्माच्चिरन्तनैर्विदर्भादिदेशविशेषसमाश्रयणेन वैदर्भोप्रभृतयो रीतयस्तिस्त्रः समाम्नाताः । तासां चोत्तमाधममध्यमत्वेन त्रैविध्यम् । अन्यैश्च वैदर्भगौडीयलक्षणं मार्गद्वितयमाख्यातम् । एतच्चोभयमप्ययुक्तियुक्तम् । यस्माद्देशभेदनिबन्धनत्वे रीतिभेदानां देशानामानन्त्यादसंख्यात्वं प्रसज्यते । न च विशिष्टरीतियुक्तत्वेन काव्यकरणं मातुलेयभगिनीविवाहवद्देशधर्मतया व्यवस्थापयितुं शक्यम् । देशधर्मो हि वृद्धव्यवहारपरंपरामात्रशरणः शक्यानुष्ठानतां नातिवर्तते । तथाविधकाव्यकरणं पुनः शक्त्यादिकरणकलापसाकल्यमपेक्ष्यमाणं न शक्यते यथाकथञ्चिदनुष्ठातुम् । न च दाक्षिणात्यगीतविषयसुस्वरत्वादि ध्वनिरामणीयकवत्तस्य स्वाभाविकं किञ्चिद्वक्तुं पार्यते । तस्मिन् सति तथाविधकाव्यकरणं सर्वस्य स्यात् । किञ्च शक्तौ विद्यमानायामपि व्युत्पत्त्यादिराहार्यकारणसम्पत्प्रतिनियतदेशविषयतया न व्यतिष्ठते, नियमनिबन्धनाभावात्तत्रादर्शनादन्यत्र च दर्शनात् । न च रीतीनामुत्तममध्यमाधमत्वभेदेन त्रैविध्यं व्यवस्थापयितुं न्याय्यम् । यस्मात्सहृदयहृदया ह्लादकारिकाव्यलक्षणप्रस्तावे वैदर्भोसदृशसौन्दर्यासंभवान्मध्यमाधमयोरुपदेशवैयर्थ्यमायाति । परिहार्यत्वेनाप्युपदेशो न युक्ततामालम्बते, तैरेवानभ्युपगतत्वात् । न चागतिकगतिन्यायेन यथाशक्ति दरिद्रदानवत्काव्यं करणीयता मर्हति । तदेवं निर्वचनसमाख्यामात्रकरणकारणत्वे देशविशेषाश्रयणस्य वयं न विवदामहे । मार्गद्वितयवादिनामप्येतान्येव दूषणान् । तिदलमनेन निःसारवस्तुपरिमलनव्यसनेन । कविस्वभावभेदनिबन्धनत्वेन काव्यप्रस्थानभेदः समञ्जसतां गाहते । सुकुमारस्वभावस्य हि कवेस्तथाविधैव सहजा शक्तिः समुद्भवति, शक्तिशक्तिमतोरभेदात् । तया च तथाविधसौकुमार्यरमणीयां व्युत्पत्तिमाबध्नाति । ताभ्यां च सुकुमारवर्त्मनाभ्यासतत्परः क्रियते । तथैवै तस्माद्विचित्रः स्वभावो यस्य कवेस्तद्विदाह्लादकारिकाव्यलक्षणप्रस्ता वात्सौकुमार्यव्यतिरेकिणा वैचित्र्येण रमणीय एव, तस्य काचिद्विचित्रैव तदनुरूपा शक्तिः समुल्लसति । तया च तथाविधवैदग्ध्यबन्धुरां व्युत्पत्तिमाबध्नाति । ताभ्यां च वैचित्र्यवासनाधिवासितमानसो विचित्रवर्त्मनाभ्यासभाग्भवति । एवमेतदुभयकविनिबन्धनसंवलितस्वभावस्य कवेस्तदुचितैव शबलशोभातिशयशालिनी शक्तिः समुदेति । तया च तदुभयपरिस्पन्दसुन्दरं व्युत्पत्त्युपार्जनमाचरति । ततस्तच्छायाद्वितयपरिपोषपेशलाभ्यासपरवशः संपद्यते । तदेवमेते कवयः काव्य करणकलापकाष्ठाधिरूढिरमणीयं किमपि काव्यमारभन्ते, सुकुमारं विचित्रमुभयात्मकं च । त एव तत्प्रवर्तननिमित्तभूता मार्गा इत्युच्यन्ते । यद्यपि कविस्वभावभेदनिबन्धनत्वादनन्तभेदभिन्नत्वमनिवार्यं, तथापि परिसंख्यातुमशक्यत्वात्सामान्येन त्रैविध्यमेवोपपद्यते । तथा च रमणीयकाव्यपरिग्रहप्रस्तावे स्वभावसुकुमारस्तावदेको राशिः, तद्व्यतिरिक्तस्यारमणीयस्यानुपादेयत्वात् । तद्व्यतिरेकी रामणीयकविशिष्टो विचित्र इत्युच्यते । तदेतयोर्द्वयोरपि रमणीयत्वादेतदीयच्छायाद्वितयोपजीविनोऽस्य रमणीयत्वमेव न्यायोपपन्नं पर्यवस्यति । तस्मादेतेषां प्रत्येकमस्खलितस्वपरिस्पन्दमहिम्ना तद्विदाह्लादकारित्वपरिसमाप्तेर्न कस्यचिन्न्यूनता । ननु च शक्त्योरान्तरतम्यात्स्वाभाविकत्वं वक्तुं युज्यते, व्युत्पत्त्यभ्यासयोः पुनराहार्ययोः कथमेतद्घटते ? नैष दोषः, यस्मादास्तां तावत्काव्यकरणम्, विषयान्तरेऽपि सर्वस्य कस्यचिदनादिवासनाभ्यासाधिवासितचेतसः स्वभावानुसारिणावेव व्युत्पत्त्यभ्यासौ प्रवर्तते । तौ च स्वभावाभिव्यञ्जनेनैव साफल्यं भजतः । स्वभावस्य तयोश्च परस्परमुपकार्योपकारकभावेनावस्थानात्स्वभावस्तावदारभते, तौ च तत्परिपोषमातनुतः । तथा चाचेतनानामपि पदार्थानां स्वभावः स्वभावसंवादिभावान्तरसंनिधानमाहात्म्यादभिव्यक्तिमासादयति, यथा चन्द्रकान्तमणयश्चन्द्रमसः किरणपरा मर्शवशेन स्पन्दमानसहजरसप्रसराः संपद्यन्ते । तदेवं मार्गानुद्दिश्य तानेव क्रमेण लक्षयति _________________________________________________________________ अम्लानप्रतिभोद्भिन्ननवशब्दार्थसुन्दरः । अयत्नविहितस्वल्पमनोहारिविभूषणः ॥ १.२५ ॥ भावस्वभावप्राधान्यन्यक्कृताहार्यकौशलः । रसादिपरमार्थज्ञमनः संवादसुन्दरः ॥ १.२६ ॥ अविभावितसंस्थानरामणीयकरञ्जकः । विधिवैदग्ध्यनिष्पन्ननिर्माणातिशयोपमः ॥ १.२७ ॥ यद्किञ्चनापि वैचित्र्यं तत्सर्वं प्रतिभोद्भवम् । सौकुमार्यपरिस्पन्दस्यन्दि यत्र विराजते ॥ १.२८ ॥ सुकुमाराभिधः सोऽयं येन सत्कवयो गताः । मार्गेणोत्फुल्लकुसुमकाननेनेव षट्पदाः ॥ १.२९ ॥ सुकुमाराभिधः सोऽयम्, सोऽयं पूर्वोफलक्षणः सुकुमारशब्दाभिधानः । येन मार्गेण सत्कवयः कालिदासप्रभृतयो गताः प्रियाताः, तदाश्रयेण काव्यानि कृतवन्तः । कथमुत्फुल्लकुसुमकाननैव षट्पदाः । उत्फुल्लानि विकसितानि कुसुमानि पुष्पाणि यस्मिन् कानने वने तेन षट्पदा इव भ्रमरा यथा । विकसितकुसुमकाननसाम्येन तस्य कुसुमसौकुमार्य सदृशमाभैजात्यं द्योत्यते । तेषां च भ्रमरसादृश्येन कुसुममकरन्दकल्पसारसंग्रहव्यसनिता । स च कीदृशःयत्र यस्मिन् किञ्चनापि कियन्मात्रमपि वैचित्र्यं विचित्रभावो वक्रोक्तियुक्तत्वम् । तत्सर्वमलङ्कारादि प्रतिभोद्भवं कविशक्तिसमुल्लसितमेव, न पुनराहार्यं यथाकथञ्चित्प्रयत्नेन निष्पाद्यम् । कीदृशम्सौकुमार्यपरिस्पन्दस्यन्दि । सौकुमार्यमाभिजात्यं तस्य परिस्पन्दस्तद्विदाह्लादकारित्वलक्षणं रामणीयकं तेन स्यन्दते रसमयं संपद्यते यत्तथोक्तम् । यत्र विराजते शोभातिशयं पुष्णातीति संबन्धः । यथा प्रवृद्धतापो दिवसोऽतिमात्र मत्यर्थमेव क्षणदा च तन्वी । उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्ताम् ॥ टीका १.७४ ॥ अत्र श्लेषच्छायाच्छुरितं कविशक्तिमात्रसमुल्लसितमलङ्करणमनाहार्यं कामपि कमनीयतां पुष्णाति । तथा च "प्रवृद्धतापःऽ तन्वीऽ इति वाचकौ सुन्दरस्वभावमात्रसमर्पणपरत्वेन वर्तमानावर्थान्तरप्रतीत्यनुरोधपरत्वेन प्रवृत्तिं न संमन्येते, कविव्यक्तकौशलसमुल्लसितस्य पुनः प्रकारान्तिरस्य प्रतीतावानुगुण्यमात्रेण तद्विदाह्लादकारितां प्रतिपद्येते । किं तत्प्रकारान्तरं नाम ?विरोधविभिन्नयोः शब्दयोरर्थान्तरप्रतीतिकारिणोरुपनिबन्धः । तथा चोपमेययोः सहानवस्थानलक्षणो विरोधः, स्वभावभेदलक्षणं च विभिन्नत्वम् । उपमानयोः पुनरीर्ष्याकलहलक्षणो विरोधः, कोपात्पृथगवस्थानलक्षणं विभिन्नत्वम् । "अतिमात्रम्ऽ "अत्यर्थंऽ चेति विशेषणद्वितयं पक्षद्वयेऽपि सातिशयताप्रतीतिकारित्वेनातितरां रमणीयम् । श्लेषच्छाया क्लेश संपाद्याप्ययत्नघटितत्वेनात्र मनोहारिणी । पुनश्च कीदृशःम्लानप्रतिभोद्भिन्ननवशब्दार्थबन्धुरः । अम्लाना यासावदोषोपहता प्राक्तनाद्यतनसंस्कारपरिपाकप्रौढा प्रतिभा काचिदेव कविशक्तिः, तत उद्भिन्नौ नतनाङ्कुरन्यायेन स्वयमेव समुल्लसितौ, न पुनः कदर्थनाकृष्टौ नवौ प्रत्यग्रौ तद्विदाह्लादकारित्वसामर्थ्ययुक्तौ शब्दार्थावभिधानाभिधेयौ ताभ्यां बन्धुरो हृदयहारी । अन्यच्च कीदृशःयत्नविहितस्वल्पमनोहारिविभूषणः । अयत्नेनाक्लेशेन विहितं कृतं यत्स्वल्पं मनाङ्मात्रं मनोहारि हृदयाह्लादकं विभूषणमलङ्करणं यत्र स तथोक्तः । "स्वल्पऽ शब्दोऽत्र प्रकरणाद्यपेक्षः, न वाक्यमात्रपरः । उदाहरणं यथा बालेन्दुवक्राण्यविकासभावाद्बभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ टीका १.७५ ॥ अत्र "बालेन्दुवक्राणिऽ "अतिलोहितानिऽ "सद्यो वसन्तेन समागतानाम्ऽ इति पदानि सौकुमार्यात्स्वभाववर्णनामात्रपरत्वेनोपात्तान्यपि "नखक्षतानीवऽ इत्यलकरणस्य मनोहारिणः क्लेशं विना स्वभावोद्भन्नत्वेन योजनां भजमानानि चमत्कारकारिता मापद्यन्ते । यश्चान्यच्च कीदृशः भावस्वभावप्रधान्यन्यक्कृताहार्यकौशलः । भावाः पदार्थस्तेषां स्वभावस्तत्त्वं तस्य प्राधान्यं मुख्यभावस्तेन न्यक्कृतं तिरस्कृतमाहार्थं व्युत्पत्तिविहितं कौशलं नैपुण्यं यत्र स तथोक्तः । तदयमत्राभिप्रायःपदार्थपरमार्थमहिमैव कविशक्तिसमुन्मीलितः, तथाविधो तत्र विजृम्भते । येन विविधमपि व्युत्पत्तिविलसितं काव्यान्तरगतं तिरस्कारास्पदं संपद्यते । अत्रोदाहरणं रघुवंशे मृगयावर्णनपरं प्रकरणम्, यथा तस्य स्तनप्रणयिभिर्मुहुरेणशावैर्व्याहन्यमानहरिणीगमनं पुरस्तात् । आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्णसारम् ॥ टीका १.७६ ॥ इत्यादि । यथा च कुमारसम्भवे द्वन्द्वानि भावं क्रियया विवव्रुः ॥ टीका १.७७ ॥ इति । अत) परं प्राणिधर्मवर्णनम् शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥ टीका १.७८ ॥ अन्यच्च कीदृशःरसादिपरमार्थज्ञमनः संवादसुन्दरः । रसाः शृङ्गारादयः । तदादिग्रहणेन रत्यादयोऽपि गृह्यन्ते । तेषां परमार्थः पर रहस्यं तज्जानन्तीति तज्ज्ञास्तद्विदस्तेषां मनः संवादो हृदयसंवेदनं स्वानुभवगोचरतया प्रतिभासः, तेन सुन्दरः सुकुमारः सहृदयहृदयाह्लादकारी वाक्यस्योपनिबन्ध इत्यर्थः । अत्रोदाहरणानि रघौ रावणं निहत्य पुष्पकेणागच्छतो रामस्य सीतायास्तद्विरहविधुरहृदयेन मयास्मिन्नस्मिन् समुद्देशे किमप्येवंविधं वैशसमनुभूतमिति वर्णयतः सर्वाण्येव वाक्यानि । तथा पूर्वानुभूतं स्मरता च रात्रौ कम्पोत्तरं भीरु तवोपगूढम् । गुहाविसारीण्यतिवाहितानि मया कथञ्चिद्घनगर्जितानि ॥ टीका १.७९ ॥ अत्र राशिद्वयकरणस्यायमभिप्रायो यद्विभावादिरूपेण रसाङ्गभूताः शकुनिरुततरुसलिलकुसुमसमयप्रभृतयः पदार्थाः सातिशयस्वभाववर्णनप्राधान्येनैव रसाङ्गतां प्रतिपद्यन्ते । तद्व्यतिरिक्ताः सुरगन्धर्वप्रभृतयः सोत्कर्षचेतनायोगिनः शृङ्गारादिरसनिर्भरतया वर्ण्यमानाः सरसहृदयाह्लादकारितामायान्तीति कविभिरभ्युपगतम् । तथाविधमेव लक्ष्ये दृश्यते । अन्यच्च कीदृशःविभावितसंस्थानरामणीयकरञ्जकः । अविभावितमनालोचितं संस्थानं संस्थितिर्यत्र तेन रामणीयकेन रमणीयत्वेन रञ्जकः सहृदयाह्लादकः । तेनायमर्थःयदि तथा विधं कविकौशलमत्र संभवति तद्व्यपदेष्टुमियत्तया न कथञ्चिदपि पार्यते, केवलं सर्वातिशायितया चेतसि परिस्फुरति । अन्यच्च कीदृशःविधिवैदग्धयनिष्पन्ननिर्माणातिशयोपमः । विधिर्विधाता तस्य वैदग्ध्यं कौशलं तेन निष्पन्नः परिसमाप्तो योऽसौ निर्मणातिशयः सुन्दरः सर्गोल्लेखो रमणीयलावण्यादिः स उपमा निदर्शनं तस्य स तथोक्तः । तेन विधातुरिव कवेः कौशलं यत्र विवेक्तुमशक्यम् । यथा ज्याबन्धनिष्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरंपरेण । कारागृहे निर्जितवासवेन दशाननेनोषितमा प्रसादात् ॥ टीका १.८० ॥ अत्र व्यपदेशप्रकारान्तरनिरपेक्षः कविशक्तिपरिणामः परं परिपाकमधिरूढः । एतस्मिन् कुलकेप्रथमश्लोके प्राधान्येन शब्दालङ्कारयोः सौन्दर्यं प्रतिपादितम् । द्वितीये वर्णनीयस्य वस्तुनः सौकुमार्यम् । तृतीये प्रकारान्तरनिरपेक्षस्य संनिवेशस्य सौकुमार्यम् । चतुर्थे वैचित्र्यमपि सौकुमार्याविसंवादि विधेयमित्युक्तम् । पञ्चमो विषयविषयिसौकुमार्यप्रतिपादनरपरः । एवं सुकुमाराभिधानस्य मार्गस्य लक्षणं विधाय तस्यैव गुणान् लक्षयति _________________________________________________________________ असमस्तमनोहारिपदविन्यासजीवितम् । माधुर्यं सुकुमारस्य मार्गस्य प्रथमो गुणः ॥ १.३० ॥ असमस्तानि समासवर्जितानि मनोहारीणि हृदयाह्लादकानि श्रुतिरम्यत्वेनार्थरमणीयत्वेन च यानि पदानि सुप्तिङन्तानि तेषां विन्यासः संनिवेशवैचित्र्यं जीवितं सर्वस्वं यस्य तत्तथोक्तं माधृर्यं नाम सुकुमारलक्षणस्य मार्गस्य प्रथमः प्रधानभूतो गुणः । असमस्तशब्दोऽत्र प्राचुर्यार्थः, न समासाभावनियमार्थः । उदाहरणं यथा क्रीडारसेन रहसि स्मतपूर्वमिन्दोर्लेखां विकृष्य विनिबद्च मूर्ध्नि गौर्या । किं शोभिताहमनयोत शशाङ्कमौलेः पृष्टस्य पातु परिचुम्भनमुत्तरवः ॥ टीका १.८१ ॥ अत्र पदानामसमस्तत्वं शब्दार्थरमणीयता विन्यासवैचित्र्यं च त्रितयमपि चकास्ति । तदेवं माधुर्यमभिधाय प्रसादमभिधत्ते _________________________________________________________________ अक्लेशव्यञ्जिताकूतं झगित्यर्थसमर्पणम् । रसवक्रोक्तिविषयं यत्प्रसादः स कथ्यते ॥ १.३१ ॥ झगिति प्रथमतरमेवार्थसमर्पणं वस्तुप्रतिपादनम् । कीदृशमक्लेशव्यञ्जिताकूतमकदर्थनाप्रकटिताभिप्रायम् । किंविषयम्रसवक्रोक्तिविषयम् । रसाः शृङ्गारादयः, वक्रोक्तिः सकलालङ्कारसामान्यं विषयो यस्य तत्तथोक्तम् । स एव प्रसादाख्यो गुणः कथ्यते भण्यते । अत्र पदानामसमस्तत्वं प्रसिद्धाभिधानत्वमव्यवहितसंबन्धत्वं समाससद्भावेऽपि गमकसमासयुक्तता च परमार्थः । "आकूतऽ शब्दस्तात्पर्ये विच्छित्तौ च वर्तते । उदाहरणं यथा हिमव्यपायाद्विशदाधराणा मापाण्डुरीभूतमुखच्छवीनाम् । स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥ टीका १.८२ ॥ अत्रासमस्तत्वादिसामग्री विद्यते । यदपि विविधपत्रविशेषकवैचित्र्यविहितं किमपि वदनसौन्दर्यं मुक्ताकणाकारस्वेदलवोपबृंहितं तदपि सुव्यक्तमेव । यथा वा अनेन सार्धं विहराम्बुराशेस्तीरेषु ताडीवनमर्मरेषु । द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ॥ टीका १.८३ ॥ अलङ्काख्यक्तिर्यथा बालेन्दुवक्राणि इति ॥ टीका १.८४ ॥ एवं प्रसादमभिधाय लावण्यं लक्षयति _________________________________________________________________ वर्णविन्यासविच्छित्तिपदसंधानसंपदा । स्वल्पया बन्धसौन्दर्यं लावण्यमभिधीयते ॥ १.३२ ॥ बन्धो वाक्यविन्यासस्तस्य सौन्दर्यं रामणीयकं लावण्यमभिधीयते लावण्यमित्युच्यते । कीदृशम्वर्णानामक्षराणां विन्यासो विचित्रं न्यसनं तस्य विच्छित्तिः शोभा वैदग्ध्यभङ्गी तया लक्षितं पदानां सुप्तिङन्तानां संधानं संयोजनं तस्य सम्पत्, सापि शोभैव, तया लक्षितम् । कीदृश्याउभयरूपयापि स्वल्पया मनाङ्मात्रया नातिनिर्बन्धनिर्मितया । तदयमत्रार्थःशब्दार्थसौकुमार्यसुभगः संनिवेशमहिमा लावण्यरूपो गुणः कथ्यते । यथा स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु । कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥ टीका १.८५ ॥ अत्र संनिवेशसौन्दर्यमहिमा सहृदयसंवेद्यो न व्यपदेष्टुं पार्यते । यथा वा चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः ॥ टीका १.८६ ॥ अत्रापि वर्णविन्यासविच्छित्तिः पदसंधानसम्पच्च संनिवेशसौन्दर्यनिबन्धना स्फुटावभासैव । एवं लावण्यमभिधाय आभिजात्यमभिधत्ते _________________________________________________________________ श्रुतिपेशलताशालि सुस्पर्शमिव चेतसा । स्वभावमसृणच्छायमाभिजात्यं प्रचक्षते ॥ १.३३ ॥ एवं विधं वस्तु आभिजात्यं प्रचक्षते आभिजात्याभिधानं गुणं वर्णयन्ति । श्रुतिः श्रवणेन्द्रियं तत्र पेशलता रामणीयकं तेन शालते श्लाघते यत्तथोक्तम् । सुरपर्शमिव चेतसा मनसा सुस्पर्शमिव । सुखेन स्पृश्यत इवेत्यतिशयोक्तिरियम् । यस्मादुभयमपि स्पर्शयोग्यत्वे सति सौकुमार्यात्किमपि चेतसि स्पर्शसुखमर्पयतीव । यतः स्वभावमसृणच्छायमहार्यश्लक्ष्णकान्ति यत्तदाभिजात्यं कथयन्तीत्यर्थः । यथा ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रीत्या कुवलयदलप्रापि कर्णे करोति ॥ टीका १.८७ ॥ अत्र श्रुतिपेशलतादि स्वभावमसृणच्छायत्वं किमपि सहृदयसंवेद्यं परिस्फुरति । ननु च लावण्यमाभिजात्यं च लोकोत्तरतरुणीरूपलक्षणवस्तुधर्मतया यत्प्रसिद्धं तत्कथं काव्यस्य भवितुमर्हतीति चेत्तन्न । यस्मादनेन न्यायेन पूर्वप्रसिद्धयोरपि माधुर्यप्रसादयोः काव्यधर्मत्वं विघटते । माधुर्यं हि गुडादिमधुरद्रव्यधर्मतया प्रसिद्धं तथाविधाह्लादकारित्वसामान्योपचारात्काव्ये व्यपदिश्यते । तथैव च प्रसादः स्वच्छसलिलस्फटिकादिधर्मतया प्रसिद्धः स्फुटावभासित्वसामान्योपचाराज्झगितिप्रतीतिकारिणि काव्ये प्रवर्तितव्यहारस्तदेवंविधवैदग्ध्यविहितविचित्रविन्यासरमणीरामणीयकं यथा लावण्यशब्दाभिधेयतया प्रतीतिपेशलतांप्रतिपद्यते । तद्वदेव च काव्ये कविशक्तिकौशलोल्लिखितकान्तिकमनीयं बन्धसौन्दर्यं चेतनचमत्कारकारित्वसामान्योपचाराल्लवण्यशब्दव्यतिरेकेण शब्दान्तराभिधेयतां नोत्सहते । तथैव च काव्ये स्वभावमसृणच्छायत्वमाभिजात्यशब्देनाभिधीयते । ननु च कैश्चित्प्रतीयमानं वस्तु ललनालावण्यसाम्याल्लावण्यमित्युत्पादितप्रतीति प्रतीयमानं पुरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गनासु ॥ टीका १.८८ ॥ तत्कथं बन्धसौन्दर्यमात्रं लावण्यमित्यभिधीयते ? नैष दोषः, यस्मादनेन दृष्टान्तेन वाच्यवाचकलक्षणप्रसिद्धावयवव्यतिरिक्तत्वेनास्तित्वमात्रं साध्यते प्रतीयमानस्य, न पुनः सकललोकलोचनसवेद्यस्य ललनालावण्यस्य । सहृदयहृदयानामेव संवेद्यं सत्प्रतीयमानं समीकर्तुं पार्यते । तस्य बन्धसौन्दर्यमेवाव्युत्पन्नपदपदार्थानामपि श्रवणमात्रेणैव हृदयहारित्वस्पर्धया व्यपदिश्यते । प्रतीयमानं पुनः काव्यपरमार्थज्ञानामेवानुभवगोचरतां प्रतिपद्यते । यथा कामिनीनां किमपि सौभाग्यं तदुपभोगोचितानां नायकानामेव संवेद्यतामर्हति, लावण्यं पुनस्तासामेव सत्कविगिरामिव सौन्दर्यं सकललोकगोचरतामायातीत्युक्तमेवेत्यलमतिप्रसङ्गेन । एवं सुकुमारस्य लक्षणमभिधाय विचित्रं प्रतिपादयति _________________________________________________________________ प्रतिभाप्रथमोद्भेदसमये यत्र वक्रता । सभ्दाभिधेययोरन्तः स्फुरतीव विभाव्यते ॥ १.३४ ॥ अलङ्कारस्य कवयो यत्रालङ्कारणान्तरम् । असंतुष्टा निबध्नन्ति हारादेर्मणिबन्धवत् ॥ १.३५ ॥ रत्नरश्मिच्छटोत्सेकभासुरैर्भूषणैर्यथा । कान्ताशरीरमाच्छाद्य भूषायै परिकल्प्यते ॥ १.३६ ॥ यत्र तद्वदलङ्कारैर्भ्राजमानैर्निजात्मना । स्वशोभातिशयान्तः स्थमलङ्कार्यं प्रकाशते ॥ १.३७ ॥ यदप्यनूतनोल्लेखं वस्तु यत्र तदप्यलम् । उक्तिवैचित्र्यमात्रेण काष्ठां कामपि नीयते ॥ १.३८ ॥ यत्रान्यथाभवत्सर्वमन्यथैव यथारुचि । भाव्यते प्रतिभोल्लेखमहत्त्वेन महाकवेः ॥ १.३९ ॥ प्रतियमानता यत्र वाक्यार्थस्य निबध्यते । वाच्यवाचकवृत्तिभ्यां व्यतिरिक्तस्य कस्यचित् ॥ १.४० ॥ स्वभावः सरसाकूतो भावानां यत्र बध्यते । केनापि कमनीयेन वैचित्र्येणोपबृंहितः ॥ १.४१ ॥ विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायते । परिस्फुरति यस्यान्तः सा काप्यतिशयाभिधा ॥ १.४२ ॥ सोऽतिदुःसंचरो येन विदग्धकवयो गताः । खड्गधारापथेनेव सुभटानां मनोरथाः ॥ १.४३ ॥ स विचित्राभिधानः पन्थाः कीदृशःतिदुःसंचरः, यत्रातिदुःखेन संचरन्ते । किं बहुना, येन विदग्धकवयः केचिदेव व्युत्पन्नाः केवलं गताः प्रयाताः, तदाश्रयेण काव्यानि चक्रुरित्यर्थः । कथम्कङ्गधारापथेनेव सुभटानां मनोरथाः । निस्त्रैंशधारामार्गेण यथा सुभटानांमहावीराणां मनोरथाः । निस्त्रिंशधारामार्गेण यथा सुभटानां महावीराणां मनोरथाः संकल्पविशेषाः । तदयमत्राभिप्रायःयदसिधारामार्गगमने मनोरथानामौचित्यानुसारेण यथारुचि प्रवर्तमानानां मनाङ्मात्रमपि म्लानता न संभाव्यते । साक्षात्समरसंमर्दन समाचरणे पुनः कदाचित्किमपि म्लानत्वमपि संभाव्येत । तदनेन मार्गस्य दुर्गमत्वं तत्प्रस्थितानां च विहरणप्रौढिः प्रतिपाद्यते । कीदृशः सा मार्गःयत्र यस्मिन् शब्दाभिधेययोरभिधानाभिधीयमानयोरन्तः स्वरूपानुप्रवेशिनी वक्रता भणितिविच्छित्तिः स्फुरतीव प्रस्पन्दमानेव विभाव्यते लक्ष्यते । कदाप्रतिभाप्रथमोद्भेदसमये । प्रतिभायाः कविशक्तेरचरमोल्लेखावसरे । तदयमत्र परमार्थःयत्कविप्रयत्ननिरपेक्षयोरेव शब्दार्थयोः स्वाभाविकः कोऽपि वक्रताप्रकारः परिस्फुरन् परिदृश्यते । यथा कोऽयं भाति प्रकारस्तव पवन पदं लोकपादाहतीनां तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठाम् । यस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां केनापायेन सह्यो वपुषि कलुषतादोष एव त्वयैव ॥ टीका १.८९ ॥ अत्राप्रस्तुतप्रशंसालक्षणोऽलङ्कारः प्राधान्येन वाक्यार्थः, प्रतीयमानपदार्थान्तरत्वेन प्रयुक्तत्वात्तत्र च विचित्रकविशक्तिसमुल्लिखितवक्रशब्दार्थोपनिबन्धमाहात्म्यात्प्रतीयमानमप्यभिधेयतामिव प्रापितम् । प्रक्रम एव प्रतिभासमानत्वान्न चार्थान्तरप्रतीतिकारित्वेन पदानां श्लेषव्यपदेशः शक्यते कर्तुम्, वाच्यस्य समप्रधानभावेनानवस्थानात् । अर्थान्तरप्रतीतिकारित्वं च पदानां प्रतीयमानार्थस्फुटताव भासनार्थमुपनिबध्यमानमतीव चमत्कारकारितां प्रतिपद्यते । तमेव विचित्रं प्रकारान्तरेण लक्षयतिअलङ्कारस्येत्यादि । यत्र यस्मिन्मार्गे कवयो निबध्नन्ति विरचयन्ति, अलङ्कारस्य विभूषणस्यालङ्कारणान्तरं भूषणान्तरमसंतुष्टाः सन्तः । कथम्हारादेर्मणिबन्धवत् । मुक्ताकलापप्रभृतेर्यथा पदकादिमणिबन्धं रत्नविशेषविन्यासं वैकटिकाः । यथा हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो भारप्रोद्वहने करोषि कृपया साहाय्यकं यन्मरोः ॥ टीका १.९० ॥ अत्रात्यन्तगर्हणीयचरितं पदार्थान्तरं प्रतीयमानतया चेतसि निधाय तथाविधविलसितः सलिलनिधिर्वाच्यतयोपक्रान्तः । तदेतावदेवालङ्कृतेरप्रस्तुतप्रशंसायाः स्वरूपम्गर्हणीयप्रतीयमानपदार्थान्तरपर्यवसानमपि वाक्यं श्रुत्युपक्रमरमणीयतयोपनिबध्यमानं तद्विदाह्लादकारितामायाति । तदेतद्व्याजस्तुतिप्रतिरूपकप्रायमलङ्करणान्तरमप्रस्तुतप्रशंसाया भूषणत्वेनोपात्तम् । न चात्र संकरालङ्कारव्यवहारो भवितुमर्हति, पृथगतिपरिस्फुटत्वेनावभासनात् । न चापि संसृष्टिसंभवः समप्रधानभावेनानवस्थितेः । न च द्वयोरपि वाच्यालङ्कारत्वम्, विभिन्नविषयत्वात् । यथा वा नामाप्यन्यतरोर्निमीलितमभूत्तत्तावदुन्मीलितं प्रस्थाने स्खलतः स्वर्त्मनि विधेरन्यद्गृहीतः करः । लोकश्चायमदृष्टदर्शनकृता दृग्वैशसादुद्धृतो युक्तं काष्ठिक लूनवान् यदसि तामाम्रालिमाकालिकीम् ॥ टीका १.९१ ॥ अत्रायमेव न्यायोऽनुसंधेयः । यथा च किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा मञ्जरी लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः । उद्गाढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ॥ टीका १.९२ ॥ अत्र रूपकलक्षणो योऽयं काव्यालङ्कारः तस्य सन्देहोक्तिरियं छायान्तरातिशयोत्पदानायोपनिबद्धा चेतनचमत्कारकारिता मावहित । शिष्टं पूर्वोदाहरणद्वयोक्तमनुसर्तव्यम् । अन्यच्च कीदृक्रत्नेत्यादि । युगलकम् । यत्र यस्मिन्नलङ्कारैर्भ्राजमानैर्निजात्मना स्वजीवितेन भासमानैर्भूषायै परिकल्प्यते शोभायै भूष्यते । कथम्यथा भूषणैः, कङ्कणादिभिः । कीदृशैःरत्नरश्मिच्छटोत्सेकभासुरैः मणिमयूखोल्लासभ्राजिष्णुभिः । किं कृत्वाकान्ताशरीरमाच्छाद्य कामिनीवपुः स्वप्रभाप्रसरतिरोहितं विधाय । भूषायै कल्पनम्यदेतैः स्वशोभातिशयान्तः स्थं निजकान्तिकमनीयान्तर्गतमलङ्कार्यमलङ्कारणीयं प्रकाश्यते द्योत्यते । तदिदमत्र तात्पर्यम्तदलङ्कारमहिमैव तथाविधोऽत्र भ्राजते तस्यात्यन्तोद्रिक्तवृत्तेः स्वशोभातिशयान्तर्गतमलङ्कार्यं प्रकाश्यते । यथा आर्यस्याजिमहोत्सवव्यतिकरे नासंविभक्तोऽत्र वः कश्चित्काप्यवशिष्यते त्यजत रे नक्तञ्चराः संभ्रमम् । भूयिष्ठेष्वपि का भवत्सु गणनात्यर्थं किमुत्ताम्यते तस्योदारभुजोष्मणोऽनवसिता नाराच संपत्तयः ॥ टीका १.९३ ॥ अत्राजेर्महोत्सवव्यतिकरत्वेन तथाविधं रूपणं विहितं यत्रालङ्कार्यम् "आर्यः स्वशौर्येण युष्मान् सर्वानेव मारयति" इत्यलङ्कारशोभातिशयान्तर्गतत्वेन भ्राजते । तथा च कश्चित्सामान्योऽपि क्वापि दवीयस्यपि देशे नासंविभक्तो युष्माकमवशिष्यते । तस्मात्समरमहोत्सवसविभागलम्पटतया प्रत्येकं यूयं संभ्रमं त्यजत । गणनया वयं भूयिष्ठा इत्यशक्यानुष्ठानतां यदि मन्यध्वे तदप्ययुक्तम् । यस्मादसंख्यसंविभागाशक्यता कदाचिदसंपत्त्या कार्पण्येन वा संभाव्यते । तदेतदुभयमपि नास्तीत्युक्तम्तस्योदारभुजोष्मणोऽनवसिता नाराच संपत्तयः (इति) । यथा च कतमः प्रविजृम्भितविरहव्यथः शन्यतां नीतो देशः ॥ टीका १.९४ ॥ इति । यथा च कानि च पुण्यभाञ्जि भजन्त्यभिख्यामक्षराणि ॥ टीका १.९५ ॥ इति । अत्र कस्मादागताः स्थ, किं चास्य नाम इत्यलङ्कार्यमप्रसुतप्रशंसालक्षणालङ्कारच्छायाच्छुरितत्वेनैतदीयशोभान्तर्गतत्वेन सहृदयहृदयाह्लादकारितां प्रापितम् । एतच्चव्याजस्तुतिपर्यायोक्तप्रभृतीनां भूयसा विभाव्यते । ननु च रूपकादीनां स्वलक्षणावसर एव स्वरूपं निर्णेष्यते तत्किं प्रयोजनमेतेषामिहोदाहरणस्य ? सत्यमेतत्, किन्त्वेतदेव विचित्रस्य वैचित्र्यं नाम यदलौकिकच्छायातिशययोगित्वेन भूषणोपनिबन्धः कामपि वाक्यवक्रतामुन्मीलयति । विचित्रमेव रूपान्तरेण लक्षणयतियदपीत्यादि । यदपि वस्तु वाच्यमनूतनोल्लेखमनभिनवत्वेनोल्लिखितं तदपि यत्र यस्मिन्नलं कामपि काष्ठां नीयते लोकोत्तरातिशयकोटिमधिरोष्यते । कथमुक्तिवैचित्र्यमात्रेण, भणितिवैदग्ध्येनैवेत्यर्थः । यथा अण्णं लडहत्तणअं अण्ण च्चिअ कावि वत्तणच्छाआ । सामा सामण्णापआवैणो रेह च्चिअ ण होइ ॥ टीका १.९६ ॥ अन्यद्लटभत्वमन्यैव च कापि वर्तनच्छाया । श्यामा सामान्यप्रजापते रेखैव च न भवति ॥ इति छाया । यथा वा उद्देशोऽयं संरसविटपि श्रेणिशोभातिशायी कुञ्जोत्कर्षाङ्कुरितहरिणीविभ्रमो नर्मदायाः । किं चैतस्मिन् सुरतसुहृदस्तन्वि ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥ टीका १.९७ ॥ भणितिवैचित्र्यमात्रमेवात्र काव्यार्थः, न तु नूतनोल्लेखशालि वाच्यविजृम्भितम् । एतच्च भणितिवैचित्र्यं सहस्त्रप्रकारं संभवतीति स्वयमेवोत्प्रेक्षणीयम् । पुनर्विचित्रमेव प्रकारान्तरेण लक्षयतियत्रान्यथेत्यादि । यत्र यस्मिन्नन्यथाभवदन्येन प्रकारेण सत्सर्वमेव पदार्थजातमन्यथैव प्रकारान्तरेणैव भाव्यते । कथम्यथारुचि । स्वप्रतिभासानुरूपेणोत्पाद्यते । केनप्रतिभोल्लेखमहत्त्वेन महाकवेः, प्रतिभासोन्मेषा तिशयत्वेन सत्कवेः । यत्किल वर्ण्यमानस्य वस्तुनः प्रस्तावमुचितं किमपि सहृदयहृदयहारि रूपान्तरं निर्मिमीते कविः । यथा तापः स्वात्मनि संश्रितद्रुमलताशोषोऽध्यवगैर्वर्जनं सख्यं दुःशमया तृषा तव मरो कोऽसावनर्थो न यः । एकोर्ऽथस्तु महानयं जललवस्वाम्यस्मयोद्गर्जिनः संनह्यन्ति न यत्तवोपकृतये धाराधराः प्राकृताः ॥ टीका १.९८ ॥ यथा वा विशति यदि नो कञ्चित्कालं किलाम्बुनिधं विधेः कृतिषु सकलास्वेको लोके प्रकाशकतां गतः । कथमितरथा धाम्नां धाता तमांसि निशाकरं स्फुरदिदमियत्ताराचक्रं प्रकाशयति स्फुटम् ॥ टीका १.९९ ॥ अत्र जगद्गर्हितस्यापि मरोः कविप्रतिभोल्लिखितेन लोकोत्तरौदार्यधुराधिरोपणेन तादृक्स्वरूपान्तरमुन्मीलितं यत्प्रतीयमानत्वेनोदारचरितस्य कस्यापि सत्स्वप्युचितपरिस्पन्दसुन्दरेषु पदार्थसहस्त्रेषु तदेव व्यपदेशपात्रतामर्हतीति तात्पर्यम् । अवयवार्थस्तुदुःशमयेत्"तृड्ऽविशेषणेन प्रतीयमानस्य त्रैलोक्यराज्येनाप्यपरितोषः पर्यवस्यति । अध्वगैर्वर्जनमित्यौदार्येऽपि तस्य समुचितसंविभागासंभवादर्थिभिर्लज्जमानैरपि स्वयमेवानभिसरणं प्रतीयते । संश्रितद्रुमलताशोष इति तदाश्रितानां तथाविधेऽपि सङ्कटे तदेकनिष्ठताप्रतिपत्तिः । तस्य च पूर्वोक्तस्वपरिकरपरिपो षाक्षमतया तापः स्वात्मनि न भोगलवलौल्येनेति प्रतिपाद्यते । उत्तरार्धेनतादृशे दुर्विलसितेऽपि परोपकाराविषयत्वेन श्लाघास्पदत्वमुन्मीलितम् । अपरत्रापि विधिविहितसमुचितसमयसंभवं सलिलनिधिनिमज्जनं निजोदयन्यक्कृतनिखिलस्वपरपक्षः प्रजापतिप्रणीतसकलपदार्थप्रकाशनव्रताभ्युपगमनिर्वहणाय विवस्वान स्वयमेव समाचरतीत्यन्यथा कदाचिदपि शशाङ्कतमस्ताराप्रभृती नामभिव्यक्तिर्मनागपि न संभवतीति कविना नूतनत्वेन यदुल्लिखितं तदतीव प्रतीयमानमहत्त्वव्यक्तिपरत्वेन चमत्कारितामापद्यते । विचित्रमेव प्रकारान्तरेणोन्मीलयातप्रतीयमानतेत्यादि । यत्र यस्मिन् प्रतीयमानता गम्यमानता वाक्यार्थस्य मुख्यतया विवक्षितस्य वस्तुनः कस्यचिदनाख्येयस्य निबध्यते । कया युक्त्यावाच्यवाचकवृत्तिभ्यां शब्दार्थशक्तिभ्याम् । व्यतिरिक्तस्य तदतिरिक्तवृत्तेरन्यस्य व्यङ्ग्यभूतस्याभिव्यक्तिः क्रियते । "वृत्तिऽशब्दोऽत्र शब्दार्थयोस्तत्प्रकाशनसामर्थ्यमभिधत्ते । एष च "प्रतीयमानऽव्यवहारो वाक्यवक्रताव्याख्यावसरे सुतरां समुन्मील्यते । अनन्तरोक्तमुदाहरणद्वयमत्र योजनीयम् । यथा वा वक्त्रेन्दोर्न हरन्ति बाष्पपयसां धारा मनोज्ञां श्रियं निश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्यतिम् । तस्यास्त्वद्विरहे विपक्वलवलीलावण्यसंवादिनी छाया कापि कपोलयोरनुदिनं तन्व्याः परं पुष्यति ॥ टीका १.१०० ॥ अत्रत्वद्विरहवैधुर्यसंवरणकदर्थनामनुभवन्त्यास्तस्यास्तथावि धे महति गुरुसङ्कटे वर्तमानायाःकिं बहुनाबाष्पनिश्वासमोक्षावसरोऽपि न संभवतीति । केवलं परिणतलवलीलावण्यसंवादसुभगा कापि कपोलयोः कान्तिरशक्यसंवरणा प्रतिदिनं परं परिपोषमासादयतीति वाच्यव्यतिरिक्तवृत्ति दूत्युक्तितात्पर्यं प्रतीयते । उक्तप्रकारकान्तिमत्त्वकथनं च कान्तकौतुकोत्कलिकाकारणतां प्रतिपद्यते । विचित्रमेव रूपान्तरेण प्रतिपादयतिस्वभाव इत्यादि । यत्र यस्मिन् भावानां स्वभावः परिस्पन्दः सरसाकूतो रसनिर्भराभिप्रायः पदार्थानां निबध्यते निवेश्यते । कीदृशःकेनापि कमनीयेन वैचित्र्येणोपबृंहितः, लोकोत्तरेण हृदयहारिणा वैदग्ध्येनोत्तेजितः । "भावऽ शब्देनात्र सर्वपदार्थोऽभिधीयते, न रत्यादिरेव । उदाहरणम् क्रीडासु बालकुसुमायुधसंगताया यत्तत्स्मितं न खलु तत्स्मितमात्रमेव । आलोक्यते स्मितपटान्तरितं मृगाक्ष्यास्तस्याः परिस्फुरदिवापरमेव किञ्चित् ॥ टीका १.१०१ ॥ अत्र न खलु तत्स्मितमात्रमेवेति प्रथमार्धेऽभिलाषसुभगं सरसाभिप्रायत्वमुक्तम् । अपरार्धे तुहसितांशुकतिरोहितमन्यदेव किमपि परिस्फुरदालोक्यत इति कमनीयवैचित्र्यविच्छित्तिः । इदानीं विचित्रमेवोपसंहरतिविचित्रो यत्रेत्यादि । एवंविधो विचित्रो मार्गो यत्र यस्मिन् वक्रोक्तिवैचित्र्यमलङ्कारविचित्रभावो जीवितायते जीवतवदाचरति । वैचित्र्यादेव विचित्रे "विचित्रऽ शब्दः प्रवर्तते । तस्मात्तदेव तस्य जीवितम् । किं तद्वैचित्र्यं नामेत्याहपरिस्फुरति यस्यान्तः सा काप्यतिशयाभिधा । यस्यान्तः स्वरूपानुप्रवेशेन सा काप्यलौकिकातिशयोक्तिः परिस्फुरति भ्राजते । यथा यत्सेनारजसामुदञ्चति यदे द्वाभ्यां दवीयोऽन्तरान् पाणिभ्यां युगपद्विलोचनपुटानष्टाक्षमो रक्षितुम् । एकैकं दलमुन्नमय्य गमयन् वासाम्बुजं कोशतां धाता संवरणाकुलश्चिरमभूत्स्वाध्यायवन्ध्याननः ॥ टीका १.१०२ ॥ एवं वैचित्र्यं संभावनानुमानप्रवृत्तायाः प्रतीयमानत्वमुत्प्रेक्षायाः । तच्च धाराधिरोहरणरमणीयतयातिशयोक्तिपरिस्पन्दस्यन्दि संदृश्यते । तदेवं वैचित्र्यं व्याख्याय तस्यैव गुणान् व्याचष्टे _________________________________________________________________ वैदग्ध्यस्यन्दि माधुर्यं पदानामत्र बध्यते । याति यत्तयक्तशैथिल्यं बन्धबन्धुरताङ्गताम् ॥ १.४४ ॥ अत्रास्मिन्माधुर्यं वैदग्ध्यस्यान्दि वैचित्र्यसमर्पकं पदानां बध्यते वाक्यैकदेशानां निवेश्यते । यत्त्यक्तशैथिल्यमुज्झितकोमलभावं भवद्वन्धबन्धुरताङ्गतां याति संनिवेशसौन्दर्योपकरणतां गच्छति । यथा किं तारुण्यतरोः इत्यत्र पूर्वार्धे ॥ टीका १.१०३ ॥ एवं माधुर्यमभिधाय प्रसादमभिधत्ते _________________________________________________________________ असमस्तपदन्यासः प्रसिद्धः कविवर्त्मनि । किञ्चिदोजः स्पृशन् प्रायः प्रसादोऽप्यत्र दृश्यते ॥ १.४५ ॥ असमस्तानां समासरहितानां पदानां न्यासो निबन्धः कविवर्त्मनि विपश्चिन्मार्गेयः प्रसिद्धः प्रख्यातः सोऽप्यस्मिन् विचित्राख्ये प्रसादाभिधानो गुणः किञ्चित्कियन्मात्रमोजः स्पृशन्नुत्तानतया व्यवस्थितः प्रायो दृश्यते प्राचुर्येण लक्ष्यते । बन्धसौन्दर्यनिबन्धनत्वात् । तथाविधस्यौजसः समासवती वृत्तिः"ओजःऽशब्देन चिरन्तनैरुच्यते । तदयमत्र परमार्थःपूर्वस्मिन् प्रसादलक्षणे सत्योजः संस्पर्शमात्रमिह विधीयते । यथा अपाङ्गगततारकाः स्तिमितपक्ष्मपालीभृतः स्फुरत्सुभगकान्तयः स्मितसमुद्गतिद्योतिताः । विलासभरमन्थरास्तरलकल्पितैकभ्रुवो जयन्ति रमणार्पिताः समदसुन्दरीदृष्टयः ॥ टीका १.१०४ ॥ प्रसादमेव प्रकारान्तरेण प्रकटयति _________________________________________________________________ गमकानि निबध्यन्ते वाक्ये वाक्यान्तराण्यपि । पदानीवात्र कोऽप्येष प्रसादस्यापरः क्रमः ॥ १.४६ ॥ अत्रास्मिन् विचित्रे यद्वाक्यं पदसमुदायस्तस्मिन् गमकानि समर्पकाण्यन्यानि वाक्यान्तरापि निबध्यन्ते निवेश्यन्ते । कथम्पदानीव पदवत्, परस्परान्वितानीत्यर्थः । एष कोऽप्यपूर्वः प्रसादस्यापरः क्रमः बन्धच्छायाप्रकारः । यथा नामाप्यन्तरोः इति ॥ टीका १.१०५ ॥ अथ प्रसादमभिधाय लावण्यं लक्षयति _________________________________________________________________ अत्रालुप्तविसर्गान्तैः पदैः प्रोतैः परस्परम् । ह्रस्वैः संयोगपूर्वैश्च लावण्यमतिरिच्यते ॥ १.४७ ॥ अत्रास्मिन्नेवंविधैः पदैर्लावण्यमतिरिच्यते परिपोषं प्राप्नोति । कीदृशैःपरस्परमन्योन्यं प्रोतैः संश्लेषं नीतैः । अन्यच्च कीदृशैःलुप्तविसर्गान्तैः, अलुप्तविसर्गाः श्रूयमाणविसर्जनीया अन्ता येषां तानि तथोक्तानि तैः । ह्रस्वैश्च लघुभिः । संयोगेभ्यः पूर्वैः । अतिरिच्यते इति संबन्धः । तदिदमत्र तात्पर्यम्पूर्वोक्तलक्षणं लावण्यं विद्यमानमनेनातिरिक्ततां नीयते । यथा श्वासोत्कम्पतरङ्गिणि स्तनतटे धौताञ्जनश्यामलाः कीर्यन्ते कणशः कृशाङ्गि किममी बाष्पाम्भसां बिन्दवः । किञ्चाकुञ्चितकण्ठरोधकुटिलाः कर्णामृतस्यन्दिनो हूङ्काराः कलपञ्चमप्रणयिनस्त्रुच्यन्तिनिर्यान्ति च ॥ टीका १.१०६ ॥ यथा वा एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुरप्रान्तं हन्त पुलन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते । तत्पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना दीनं त्वामनुनाथते कुचयुगं पत्रांशुकैर्मा पिधाः ॥ टीका १.१०७ ॥ यथा वा हंसानां निनदेषु इति ॥ टीका १.१०८ ॥ एवं लावण्यमभिधायाभिजात्यमभिधीयते _________________________________________________________________ यन्नातिकोमलच्छायं नातिकाठिन्यमुद्वहत् । आभिजात्यं मनोहारि तदत्र प्रौढिनिर्मितम् ॥ १.४८ ॥ अत्रास्मिन् तदाभिजात्यं यन्नातिकोमलच्छायं नात्यन्तमसृणकान्ति नातिकाठिन्यमुद्वहन्नातिकठोरतां धारयत्तत्प्रौढिनिर्मितं सकलकविकौशलसंपादितं सन्मनोहारि हृदयरञ्जकं भवतीत्यर्थः । यथा अधिकरतलतल्पं कल्पितस्वापलीलापरिमलननिमीलत्पाण्डिमा गण्डपाली । सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिकेलीयौवराज्याभिषेकम् ॥ टीका १.१०९ ॥ एवं सुकुमारविहितानामेव गुणानां विचित्रे कश्चिदतिशयः संपाद्यत इति बोद्धव्यम् । आभिजात्यप्रभृतयः पूर्वमार्गोदिता गुणाः । अत्रातिशयमायान्ति जनिताहार्यसंपदः ॥ टीका १.११० ॥ इत्यन्तरश्लोकः । एवं विचित्रमभिधाय मध्यममुपक्रमते _________________________________________________________________ वैचित्र्यं सौकुमार्यं च यत्र संकीर्णतां गते । भ्राजेते सहजाहार्यशोभातिशयशालिनी ॥ १.४९ ॥ माधुर्यादिगुणग्रामो वृत्तिमाश्रित्य मध्यमाम् । यत्र कामपि पुष्णाति बन्धच्छायातिरिक्तताम् ॥ १.५० ॥ मार्गोऽसौ मध्यमो नाम नानारुचिमनोहरः । स्पर्धया यत्र वर्तन्ते मार्गद्वितयसंपदः ॥ १.५१ ॥ मार्गोऽसौ मध्यमो नाम मध्यमाभिधानोऽसौ पन्थाः । कीदृशःनानारुचिमनोहरः । नानाविधा रुचयः प्रतिभासा येषां ते तथोक्तास्तेषां सुकुमारविचित्रमध्यमव्यसनिनां सर्वेषामेव मनोहरो हृदयहारी । यस्मिन् स्पर्धया मार्गद्वितयसंपदः सुकुमारविचित्रशोभाः साम्येन वर्तन्ते व्यवतिष्ठन्ते, न न्यूनातिरिक्तत्वेन । यत्र वैचित्र्यं विचित्रत्वं सौकुमार्यं सुकुमारत्वं संकीर्णतां गते तस्मिन्मिश्रतां प्राप्ते सती भ्राजेते शोभेते । कीदृशेसहजाहार्यशोभातिशयशालिनी, शक्तिव्युत्पत्तिसंभवो यः शोभातिशयः कान्त्युत्कर्षस्तेन शालेते श्लाघेत्ये ते तथोक्ते । माधुर्येत्यादि । यत्र च माधुर्यादिगुणग्रामो माधुर्यप्रभृतिगुणसमूहो मध्यमामुभयच्छायाच्छुरितां वृत्तिं स्वस्पन्दगतिमाश्रित्य कामप्यपूर्वां बन्धच्छायातिरिक्ततां संनिवेशकान्त्यधिकतां पुष्णाति पुष्यतीत्यर्थः । गुणा नामुदाहरणानि । तत्र माधुर्यस्य यथा वेलानिलैर्मृदुभिराकुलितालकान्ता गायन्ति यस्य चरितान्यपरान्तकान्ताः । लीलानताः समवलम्ब्य लतास्तरूणां हिन्तालमालिषु तटेषु महार्णवस्य ॥ टीका १.१११ ॥ प्रसादस्य यथा तद्वक्त्रेन्दुविलोकनेन इत्यादि ॥ टीका १.११२ ॥ लावण्यस्य यथा संक्रान्ताङ्गुलिपर्वसूचितकरस्वापा कपोलस्थली नेत्रे निर्भरमुक्तबाष्पकलुषे निश्वासतान्तोऽधरः । बद्धोद्भेदविसंष्ठुलालकलता निर्वेदशून्यं मनः कष्टं दुर्नयवेदिभिः कुसचिवैर्वत्सा दृढं खेद्यते ॥ टीका १.११३ ॥ आभिजात्यस्य यथा आलम्ब्य लम्बाः सरसाग्रवल्लीः पिबन्ति यत्र स्तनभारनम्राः । स्त्रोतश्च्युतं शीकरकूणिताक्ष्यो मन्दाकिनीनिर्झरमश्वमुख्यः ॥ टीका १.११४ ॥ _________________________________________________________________ अत्रारोचकिनः केचिच्छायावैचित्र्यरञ्जके । विदग्धनेपथ्यविधौ भुजङ्गा इव सादराः ॥ १.५२ ॥ एवं मध्यमं व्याख्याय तमेवोपसंहरतिअत्रेति । अत्रैतस्मिन् केचित्कतिपये सादरास्तदाश्रयेण काव्यानि कुर्वन्ति । यस्मातरोचकिनः कमनीयवस्तुव्यसनिनः । कीदृशे चास्मिन्छायावैचित्र्यरञ्जके कान्तिविचित्रभावाह्लादके । कथम्विदग्धनेपथ्यविधौ भुजङ्गा इव, अग्राम्याकल्पकल्पने नागरा यथा । सोऽपि छायावैचित्र्यरञ्जक एव । अत्र गुणोदाहरणानि परिमितत्वात्प्रदर्शितानि, प्रतिपदं पुनश्छायावैचित्र्यं सहृदयैः स्वयमेवानुसर्तव्यम् । अनुसरणदिक्प्रदर्शनं पुनः क्रियते । यथामातृगुप्तमायुराजमञ्जीरप्रभृतीनां सौकुमार्यवैचित्र्यसंवलितपरिस्पन्दस्यन्दीनि काव्यानि संभवन्ति । तत्र मध्यममार्गसंवलितं स्वरूपं विचारणीयम् । एवं सहजसौकुमार्यसुभगानि कालिदाससर्वसेनादीनां काव्यानि दृश्यन्ते । तत्र सुकुमारमार्गस्वरूपं चर्चनीयम् । तथैव च विचित्रवक्रत्वविजृम्भितं हर्षचरिते प्राचुर्येण भट्टबाणस्य विभाव्यते, भवभूतिराजशेखरविरचितेषु बन्धसौन्दर्यसुभगेषुमुक्तकेषु परिदृश्यते । तस्मात्सहृदयैः सर्वत्र सर्वमनुसर्तव्यम् । एवं मार्गत्रितयलक्षणं दिङ्मात्रमेव प्रदर्शितम्, न पुनः साकल्येन सत्कविकौशलप्राकाराणां केनचिदपि स्वरूपमभिधातुं पार्यते । मार्गेषु गुणानां समुदायधर्मता । यथा न केवलं शब्दादिधर्मत्वं तथा तल्लक्षणव्याख्यावसर एव प्रतिपादितम् । एवं प्रत्येकं प्रतिनियतगुणग्रामरमणीयं मार्गत्रितयं व्याख्याय साधारणगुणस्वरूपव्याख्यानार्थमाह _________________________________________________________________ आञ्जसेन स्वभावस्य महत्त्वं येन पोष्यते । प्रकारेण तदौचित्यमुचिताख्यानजीवितम् ॥ १.५३ ॥ तदौचित्यं नाम गुणः । कीदृकाञ्जसेन सुस्पष्टेन स्वभावस्य पदार्थस्य महत्त्वमुत्कर्षो येन पोष्यते परिपोषं प्राप्यते । प्रकारेणेति प्रस्तुतत्वादभिधावैचित्र्यमत्र "प्रकारऽशब्देनोच्यते । कीदृशमुचिताख्यानमुदाराभिधानं जीवितं परमार्थो यस्य तत्तथोक्तम् । एतदानुगुण्येनैव विभूषणविन्यासो विच्छत्तिमावहति । यथा करतलकलिताक्षमालयोः समुदितसाध्वससन्नहस्तयोः । कृतरुचिरजटानिवेशयो रपर इवेश्वरयोः समागमः ॥ टीका १.११५ ॥ यथा वा उपगिरि पुरुहूतस्यैष सेनानिवेशस्तटमपरमितोऽद्रेस्त्वद्वलान्यावसन्तु । ध्रुवमिह करिणस्ते दुर्धराः संनिकर्षे सुरगजमदलेखासौरभं न क्षमन्ते ॥ टीका १.११६ ॥ यथा च हे नागराज बहुधास्य नितम्बभागं भोगेन गाढमभिवेष्टय मन्दराद्रेः । सोढाविषह्यवृषवाहनयोगलीला पर्यङ्कबन्धनविधेस्तव कोऽतिभारः ॥ टीका १.११७ ॥ अत्र पूर्वत्रोदाहरणयोर्भूषणगुणेनैव तद्गुणपरिपोषः, इतरत्र च स्वभावौदार्याभिधानेन । औचित्यस्यैव छायान्तरेण स्वरूपमुन्मीलयति _________________________________________________________________ यत्र वक्तुः प्रमातुर्वा वाच्यं शोभातिशायिना । आच्छाद्यते स्वभावेन तदप्यौचित्यमुच्यते ॥ १.५४ ॥ यत्र यस्मिन् वक्तुरभिधातुः प्रमातुरनुभवितुर्वा स्वबावेन स्वपरिस्पन्देन व्च्यमभिधेयं वस्तु शोभातिशायिना रामणीयकमनोहरेण आच्छाद्यते संव्रियते तदप्यौचित्यमेवोच्यते । यथा शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः । आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥ टीका १.११८ ॥ अत्र श्लाघ्यतया तथाविधमहाराजपरिस्पन्दे वर्ण्यमाने मुनिना स्वानुभवसिद्धव्यवहारानुसारेणालङ्करणयोजनमौचित्यपरिपोषमावहति । अत्र वक्तुः स्वभावेन च वाच्यपरिस्पन्दः संवृतप्रायो लक्ष्यते । प्रमातुर्यथा । निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्चलबालपल्लवा । विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्ठकरावधूननम् ॥ टीका १.११९ ॥ अत्र वधूजनैर्निजानुभववासनानुसारेण तथाविधशोभाभिरामतानुभूतिरौचित्य मावहति । यथा वा वापीतडे कुडुङ्गा पिअसहि ह्नाउं गएहिं दीसंति । ण धरन्ति करेण भणन्ति ण त्ति वलिउं पुण णर्देति ॥ टीका १.१२० ॥ वापीतटे निकुञ्जाः स्नातुं गतैर्दश्यन्ते । न धरन्ति करेण भजन्ति न किमपि वलितुं पुनर्न ददति ॥ इति छाया । अत्र कस्याश्चित्प्रमातृभूतायाः सातिशयमौग्ध्यपरिस्पन्दसुन्दरेण स्वभावेन वाच्यमाच्छादितमौचित्यपरिपोषमावहति । एवमौचित्यमभिधाय सौभाग्यमभिधत्ते _________________________________________________________________ इत्युपादेयवर्गेऽस्मिन् यदर्थं प्रतिभा कवेः । सम्यक्संरभते तस्य गुणः सौभाग्यमुच्यते ॥ १.५५ ॥ इत्येवंविधेऽस्मिन्नुपादेयवर्गे शब्दाद्युपेयसमूहे यदर्थं यन्निमित्तं कवेः संबन्धिनी प्रतिभा शक्तिः सम्यक्सावधानतया संरभते व्यवस्यति तस्य वस्तुनः प्रस्तुतत्वात्काव्याभिधानस्य यो गुणः स सौभाग्यमित्युच्यते भण्यते ॥ तच्च न प्रतिभासंरम्भमात्रसाध्यम्, किन्तु तद्विहितसमस्तसामग्रीसंपाद्यमित्याह _________________________________________________________________ सर्वसंपत्परिस्पन्दसंपाद्यं सरसात्मनाम् । अलौकिकचमत्कारकारि काव्यैकजीवितम् ॥ १.५६ ॥ सर्वसंपत्परिस्पन्दसंपाद्यं सर्वस्योपादेयराशेर्या संपत्तिरनवद्यताकाष्ठा तस्याः परिस्पन्दः स्फुरितत्वं तेन संपाद्यं निष्पादनीयम् । अन्यच्च कीदृशम्सरसात्मनामार्द्रचेतसामलौकिकचमत्कारकारि लोकोत्तराह्लादविधायि । किं बहुना, तच्च काव्यैकजीवितं काव्यस्य परः परमार्थ इत्यर्थः । यथा दोर्मूलावधिसूत्रितस्तनमुरः स्निह्यत्कटाक्षे दशौ किञ्चित्ताण्डवपण्डिते स्मितसुधासिक्तोक्तिष भ्रूलते । चेतः कन्दलितं स्मरव्यतिकरैर्लाव्यमङ्गैर्वृतं तन्वङ्ग्यास्तरुणिम्निसर्पतिशनैरन्यैव काचिद्द्युतिः ॥ टीका १.१२१ ॥ तन्व्याः प्रथमतरतारुण्येऽवतीर्णे, आकारस्य चेतसश्चेष्टायाश्चवैचित्र्यमत्र वर्णितम् । तत्र सूत्रितस्तनमुरो लावण्यमङ्गैर्वृतमित्याकारस्य, स्मरव्यतिकरैः कन्दलितमिति चेतसः, स्निह्यत्कटाक्षे दृशाविति किञ्चित्ताण्डवपण्डिते स्मितसुधासिक्तोक्तिषु भ्रूलते इति चेष्टायाश्च । सूत्रितसिक्तताण्डवपण्डितकन्दलितानामुपचारवक्रत्वं लक्ष्यते, स्निह्यदित्येतस्य कालविशेषावेदकः प्रत्ययवक्रभावः, अन्यैव काचिदवर्णनीयेति संवृतिवक्रताविच्छित्तिः, अङ्गैर्वृतमिति कारकवक्रत्वम् । विचित्रमार्गविषयो लावण्यगुणातिरेकः । तदेवमेतस्मिन् प्रतिभासंरम्भजनितसकलसामग्रीसमुन्मीलितं सरसहृदयाह्लादकारि किमपि सौभाग्यं समुद्भासते । अनन्तरोक्तस्य गुणद्वयस्य विषयं प्रदर्शयति _________________________________________________________________ एतत्त्रिष्वपि मार्गेषु गुणद्वितयमुज्ज्वलम् । पदवाक्यप्रबन्धानां व्यापकत्वेन वर्तते ॥ १.५७ ॥ एतद्गुणद्वय मौचित्यसौभाग्याभिधानमुज्ज्वलमतीव भ्राजिष्णु पदवाक्यप्रबन्धानां त्रयाणामपि व्यापकत्वेन वर्तते सकलावयवव्याप्त्यावतिष्ठते । क्वेत्याहत्रिष्वपि मार्गेषु सुकुमारविचित्रमध्यमाख्येषु । तत्र पदस्य तावदौचित्यं बहुविधभेदभिन्नोवक्रभावः । स्वभावस्याञ्जसेन प्रकारेण परिपोषणमेव वक्रतायाः परं रहस्यम् । उचिताभिधानजीवितात्वाद्वाक्यस्याप्येकदेशेऽप्यौचित्यविरहात्तद्विदाह्लादकारित्वहानिः । यथा रघुवंशे पुरं निषादाधिपतेस्तदेत द्यस्मिन्मया मौलिमणिं विहाय । जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि कामाः फलीतास्तवेति ॥ टीका १.१२२ ॥ अत्र रघुपतेरनर्घमहापुरुषसंपदुपेतत्वेन वर्ण्यमानस्य "कैकेयि कामाः फलितास्तवऽ इत्येवंविधतुच्छतरपदार्थसंस्मरणं तदभिधानं चात्यन्तमनौचित्यमावहति । प्रबन्धस्यापि क्वचित्प्रकरणैकदेशेऽप्यौचित्यविरहादेकदेशदाहदूषितदग्धपटप्रायता प्रसज्यते । यथारघुवंशे एव दिलीपसिंहसंवादावसरे अथैकधेनोरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्विभेषि । शक्योऽस्य मन्युर्भवतापि नेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥ टीका १.१२३ ॥ इति सिंहस्याभिधातुमुचितमेव, राजोपहासपरत्वेनाभैधीयमानत्वात् । राज्ञः पुनरस्य निजयशः परिरक्षणपरत्वेन तृणवल्लघुवृत्तयः प्राणाः प्रतिभासन्ते । तस्यैतत्पूर्वपक्षोत्तरत्वेन कथं नु शक्यानुनयो महर्षिर्विश्राणनादन्यपयस्विनीनाम् । इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयास्याम् ॥ टीका १.१२४ ॥ इत्यन्यासां गवां तत्प्रतिवस्तुप्रदानयोग्यता यदि कदाचित्संभवति ततस्तस्य मुनेर्मम चोभयोरप्येतज्जीवितपरिरक्षणनैरपेक्ष्यमुपपन्नमिति तात्पर्यपर्यवसानादत्यन्तमनौचित्ययुक्तेयमुक्तिः । यथा च कुमारसंभवे त्रैलोक्याक्रान्तिप्रवणपराक्रमस्य तारकाख्यस्य रिपोर्जिगीषावसरे सुरपतिर्मन्मथेनाभिधीयते कामेकपत्नीं व्रतदुःखशीलां लोलं मनश्चारुतया प्रविष्टाम् । नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयङ्ग्राहनिषक्तबाहुम् ॥ टीका १.१२५ ॥ इत्यविनयानुष्ठाननिष्ठं त्रिविष्टपाधिपत्यप्रतिष्ठितस्यापि तथाविधाभिप्रायानुवर्तनपरत्वेनाभिधीयमानमनौचित्यमावहति । एतच्चैतस्यैव कवेः सहजसौकुमार्यमुद्रितसूक्तिपरस्पन्दसौन्दर्यस्य पर्यालोच्यते, न पुनरन्येषामाहार्यमात्रकाव्यकरणकौशलश्लाघिनाम् । सौभाग्यमपि पदवाक्यप्रकरणप्रबन्धानां प्रत्येकमनेकाकारकमनीयकारणकलापकलितरामणीयकानां किमपि सहृदयहृदयसंवेद्यं काव्यैकजीवितमलौकिकचमत्कारकारि संवलितानेकरसास्वादसुन्दरं सकलावयवव्यापकत्वेन काव्यस्य गुणान्तरं परिस्फुरतीत्यलमतिप्रसङ्गेन । इदानीमेतदुपसंहृत्यान्यदवतारयति _________________________________________________________________ मार्गाणां त्रितयं तदेतदसकृत्प्राप्तव्यपर्युत्सुकैः क्षुण्णं कैरपि यत्र कामपि भुवं प्राप्य प्रसिद्धिं गताः । सर्वे स्वैरविहारहारि कवयो यास्यन्ति येनाधुना तस्मिन् कोऽपि स साधुसुन्दरपदान्यासक्रमः कथ्यते ॥ १.५८ ॥ मार्गाणां सुकुमारादीनामेतत्त्रितयं कैरपि महाकविभिरेव, न सामान्यैः, प्राप्तव्यपर्युत्सुकैः प्राप्योत्कण्ठितैरसकृत्बहुवारमभ्यासेन क्षुण्णं परिगमितम् । यत्र यस्मिन्मार्गत्रये कामपि भुवं प्राप्य प्रसिद्धिं गताः लोकोत्तरां भूमिमासाद्य प्रतीतिं प्राप्ताः । इदानीं सर्वे कवयस्तस्मिन्मार्गत्रितये येन यास्यन्ति गमिष्यन्ति स्वैरविहारहारि स्वेच्छाविहरणरमणीयं स कोऽपि अलौकिकः साधुशोभनं कृत्वा सुन्दरपदन्यासक्रमः कथ्यते सुभगसुप्तिङन्तसमर्पणपरिपाटीविन्यासो वर्ण्यते । मार्गस्वैरविहारपदप्रभृतयः शब्दाः श्लेषच्छायाविशिष्टत्वेन व्याख्येयाः । इति श्रीराजानककुन्तकविरचिते वक्रोक्तिजीविते काव्यालङ्कारे प्रथम उन्मेषः । ==================================================================== वक्रोक्तिजीवितं द्वितीयोन्मेषः सर्वत्रैव सामान्यलक्षणे विहिते विशेषलक्षणं विधातव्यमिति काव्यस्य "शब्दार्थौ सहितौ" इत्यादि (१ ।७) सामान्यलक्षणं विधाय तदवयवभूतयोः शब्दार्थयोः साहित्यस्य प्रथमोन्मेष एव विशेषलक्षणं विहितम् । इदानीं प्रथमोद्दिष्टस्य वर्णविन्यासवक्रत्वस्य विशेषलक्षणमुपक्रमते _________________________________________________________________ एको द्वौ बहवो वर्णा बध्यमानाः पुनः पुनः । स्वल्पान्तरास्त्रिधा सोक्ता वर्णविन्यासवक्रता ॥ २.१ ॥ वर्णशब्दोऽत्र व्यञ्जनविन्यसनविच्छित्तिः त्रिधा त्रिभिः प्रकारैरुक्तावर्णिता । के पुनस्ते त्रयः प्रकारा इत्युच्यतेएकः केवल एव, कदाचिद्द्वौ बहवो वा वर्णाः पुनः पुनर्बध्यमाना योज्यमानाः । कीदृशाःस्वल्पान्तराः । स्वल्पं सुतरामल्पं स्तोकमन्तरं व्यवधानं येषां ते तथोक्ताः । त एव त्रयः प्रकारा इत्युच्यन्ते । अत्र वीप्सया पुनः पुनरित्ययोगव्यवच्छेदपरत्वेन नियमः, नान्ययोगव्यवच्छेदपरत्वेन । तस्मात्पुनः पुनर्बध्यमाना एव, न तु पुनः पुनरेव बध्यमाना इति । तत्रैकव्यञ्जननिबन्धोदाहरणं यथा धम्मिल्लो विनिवेशिताल्पकुसुमः सौन्दर्यधुर्यं स्मितं विन्यासो वचसां विदग्धमधुरः कण्ठे कलः पञ्चमः । लीलामन्थरतारके च नयने यातं विलासालसं कोऽप्येवं हरिणीदृशः स्मरशरापातावदातः क्रमः ॥ टीका २.१ ॥ एकस्य द्वयोर्बहूनां चोदाहरणं यथा भग्नैलावल्लरीकास्तरलितकदलीस्तम्बताम्बूलजम्बूजम्बीरास्तालतालीसरलतरलतालासिका यस्य जह्रुः । वेल्लत्कल्लोलहेला विशकल नजडाः कूलकच्छेषु सिन्धोः सेनासीमन्तिनीनामनवरतरताभ्यासतान्तिं समीराः ॥ टीका २.२ ॥ एतामेव वक्रतां विच्छित्त्यन्तरेण विविनक्ति _________________________________________________________________ वर्गान्तयोगिनः स्पर्शा द्विरुक्तास्तलनादयः । शिष्टाश्च रादिसंयुक्ताः प्रस्तुतौचित्यशोभिनः ॥ २.२ ॥ इयमपरा वर्णविन्यासवक्रता त्रिधा त्रिभिः प्रकारैरुक्तेति "चऽशब्देनाभिसम्बन्धः । के पुनरस्यास्त्रयः प्रकारा इत्याहवर्गान्तयोगिनः स्पर्शाः । स्पर्शाः कादयो मकारपर्यन्ता वर्गास्तदन्तैः ङकारादिभिर्योगः संयोगो येषां ते तथोक्ताः, पुनः पुनर्बध्यमानाःप्रथमः प्रकारः । तलनादयः तकारलकारनकारप्रभृतयो द्विरुक्ता द्विरुच्चारिता द्विगुणाः सन्तः, पुनः पुनर्बध्यमानाःद्वितीयः । तद्व्यतिरिक्ताः शिष्टाश्च व्यञ्जनसंज्ञा ये वर्णास्ते रेफप्रभृतिभिः संयुक्ताः पुनः पुनर्बध्यमानाःतृतीयः । स्वल्पान्तराः परिमितव्यवहिता इति सर्वेषामभिसबन्धः । ते च कीदृशाःप्रस्तुतौचित्यशोभिनः । प्रस्तुतं वर्ण्यमानं वस्तु तस्य यदौचित्यमुचितभावस्तेन शोभन्ते ये ते यथोक्ताः । न पुनर्वर्णसावर्ण्यव्यसनितामात्रेणोपनिबद्धाः प्रस्तुतौचित्यम्लानत्वकारिणः । प्रस्तुतौचित्यशोभित्वात्कुत्रचित्परुषरसप्रस्तावे तादृशानेवाभ्यनुजानाति । अथ प्रथमप्राकारोदाहरणं यथा उन्निद्रकोकनदरेणुपिशङ्गिताङ्गा गुञ्जन्ति मञ्जु मधुपाः कमलाकरेषु । एतच्चकास्ति च रवेर्नवबन्धुजीव पुष्पच्छदाभमुदयाचलचुम्बिबिम्बम् ॥ टीका २.३ ॥ यथा च कदलीस्तम्बताम्बूलजम्बूजम्बीराः इति ॥ टीका २.४ ॥ यथा वा सरस्वतीहृदयारविन्दमकरन्दबिन्दुसन्दोहसुन्दराणाम् ॥ टीका २.५ ॥ इति द्वितीयप्रकारोदाहरणं प्रथममरुणच्छायः ॥ टीका २.६ ॥ इत्यस्य द्वितीयचतुर्थो पादौ । तृतीयप्रकारोदाहरणमस्यैव तृतीयः पादः । यथा वा सौन्दर्यधुर्यं स्मितम् ॥ टीका २.७ ॥ यथा च "कह्लारऽशब्दसाहचर्येन "ह्लादऽशब्दाप्रयोगः । परुषरसप्रस्तावे तथाविधसंयोगोदाहरणं यथा उत्ताम्यत्तालवश्च प्रतपति तरणावांशवी तापतन्द्रीमद्रिद्रोणीकुटीरे कुहरिणि हरिणारातयो यापयन्ति ॥ टीका २.८ ॥ एतमेव वैचित्र्यान्तरेण व्याचष्टे _________________________________________________________________ क्वचिदव्यवधानेऽपि मनोहारिनिबन्धना । सा स्वराणामसारूप्यात्परां पुष्णाति वक्रताम् ॥ २.३ ॥ क्वचिदनियतप्रायवाक्यैकदेशे कस्मिंश्चिदव्यवधानेऽपि व्यवधानाभावेऽप्येकस्य द्वयोः समुदितयोश्च बहूनां वा पुनः पुनर्बध्यमानानामेषां मनोहरिनिबन्धना हृदयावर्जकविन्यासा भवति । काचिदेवं संपद्यत इत्यर्थः । यमकव्यवहारोऽत्र न प्रवर्तते, तस्य नियतस्थानतया व्यवस्थानात् । स्वरैरव्यवधानमत्र न विवक्षितम्, तस्यानुपपत्तेः । तत्रैकस्याव्यवधानोदाहरणं यथा वामं कज्जलवद्विलोचनमुरो रोहद्विसारिस्तनम् ॥ टीका २.९ ॥ द्वयोर्यथा । ताम्बूलीनद्धमुग्धक्रमुकतरुलताप्रस्तरे सानुगाभिः पायं पायं कलाचीकृतकदलदलं नारिकेलीफलाम्भः । सेव्यन्तां व्योमयात्राश्रमजलजयिनः सैन्यसीमन्तिनीभि र्दात्युबव्यूहकेलीकलितकुहकुहारावकान्ता वनान्ताः ॥ टीका २.१० ॥ यथा वा अयि पिबत चकोराः कृत्सनमुन्नम्य कण्ठान् क्रमुकवलनचञ्चच्चञ्चवश्चन्द्रिकाम्भः । विरहविधुरितानां जीवितत्राणहेतोर्भवति हरिणलक्ष्मा येन तेजोदरिद्रः ॥ टीका २.११ ॥ बहूनां यथा सरलतरलतालासिका इति ॥ टीका २.१२ ॥ "अपिऽशब्दात्क्वचिद्व्यवधानेऽपि । द्वयोर्यथा स्वस्थाः सन्तु वसन्त ते रतिपतेरग्रेसरा वासराः ॥ टीका २.१३ ॥ बहूनां व्यवधानेऽपि यथा चकितचातकमेचकितवियति वर्षात्यये ॥ टीका २.१४ ॥ सा स्वराणामसारूप्यात्सेयमनन्तरोक्ता स्वरानामकारादीनामसारूप्यादसादृश्यात्क्वचित्कस्मिंश्चिदावर्तमानसमुदायैकदेशे परामन्यां वक्रतां कामपि पुष्णाति पुष्यतीत्यर्थः । यथा राजीवजीवितश्वरे ॥ टीका २.१५ ॥ यथा वा धूसरसरिति इति ॥ टीका २.१६ ॥ यथा वा स्वस्थाः सन्तु वसन्त इति ॥ टीका २.१७ ॥ यथा वा तालताली इति ॥ टीका २.१८ ॥ सोऽयमुभयप्रकारोऽपि वर्णविन्यासवक्रताविशिष्टावयवविन्यासो यमकाभासः संनिवेशविशेषो मुक्ताकलापमध्यप्रोतमणियमयपदकबन्धबन्धुरः सुतरां सहृदयहृदयहारितां प्रतिपद्यते । तदिदमुक्तम् अलङ्कारस्य कवयो यत्रालङ्कारणान्तरम् । असन्तुष्टा निबध्नन्ति हारादेर्मणिबन्धवत् ॥ टीका २.१९ ॥ इति । एतामेव विविधप्रकारां वक्रतां विशिनष्टि, यदेवंविधवक्ष्यमाणविशेषणविशिष्टा विधातव्येति _________________________________________________________________ नातिनिर्बन्धविहिता नाप्यपेशलभूषिता । पूर्वावृत्तपरित्यागनूतनावर्तनोज्ज्वला ॥ २.४ ॥ नातिनिर्बन्धविहिता"निर्बन्धऽशब्दोऽत्र व्यसनितायां वर्तते । तेनातिनिर्बन्धेन पुनः पुनरावर्तनव्यसनितया न विहिता, अप्रयत्नविरचितेत्यर्थः । व्यसनितया प्रयत्नविरचने हि प्रस्तुतौचित्यपरिहाणेर्वाच्यवाचकयोः परस्परस्पर्धित्वलक्षणसाहित्यविरहः पर्यवस्यति । यथा भण तरुणि इति ॥ टीका २.२० ॥ नाप्यपेशलभूषिता न चापेशलैरसुकुमारैरक्षरैरलङ्कृता । यथा शीर्णघ्राणाङ्घ्रि इति ॥ टीका २.२१ ॥ तदेवं कीदृशी तर्हि कर्तव्येत्याहपूर्वावृत्तपरित्यागनूतनावर्तनोज्ज्वला पूर्वमावृत्तानां पुनः पुनर्विरचितानां परित्यागेन प्रहाणेन नूतनानामभिनवानां वर्णानामावर्तनेन पुनः पुनः परिग्रहेण च तदेवमुभाभ्यां प्रकाराभ्यामुज्ज्वला भ्राजिष्णुः । यथा एतां पश्य पुरस्तटीमहि किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः । इत्याकर्ण्य कथाद्भुतं हिमनीधावद्रौ सुभद्रापतेर्मन्दं मन्दमकारि येन निजयोर्देर्दण्डयोर्मण्डनम् ॥ टीका २.२२ ॥ यथा वा हंसानां निनदेषु इति ॥ टीका २.२३ ॥ यथा च एतन्मन्दविपक्त इत्यादौ ॥ टीका २.२४ ॥ यथा वा णमह दसाणणसरहसकरतुलिअवलन्तसेलभअविहलं । वेवतथोरथणहरहरकअकण्ठग्गहं गोरिं ॥ टीका २.२५ ॥ नमत दशाननसरभसकरतुलितवलच्छैलभयविह्वलाम् । वेपमानस्थूलस्तनभरहरकृतकण्ठग्रहां गौरीम् ॥ इति छाया । एवमेतां वर्णविन्यासवक्रतां व्याख्याय तामेवोपसंहरति _________________________________________________________________ वर्णच्छायानुसारेण गुणमार्गानुवर्तिनी । वृत्तिवैचित्र्ययुक्तेति सैव प्रोक्ता चिरन्तनैः ॥ २.५ ॥ वर्णानामक्षराणां या छाया कान्तिः श्रव्यतादिगुणसंपत्तया हेतुभूतया यदनुसरणमनुसारः प्राप्यस्वरूपानुप्रवेशस्तेन । गुणमार्गांश्च सुकुमारप्रभृतीननुवर्तते या सा तथोक्ता । तत्र गुणानामान्तरम्यात्प्रथममुपन्यसनम्, गुणद्वारेणैव मार्गानुसरणोपपत्तेः । तदयमत्रार्थःयद्यषा वर्णविन्यासवक्रता व्यञ्जनच्छायानुसारेणैव, तथापि प्रतिनियतगुणविशिष्टानां मार्गाणां गुणानुवर्तनद्वारेण यथा स्वरूपानुप्रवेशं विदधाति तथा विधातव्येति । तत एव च तस्यास्तन्निबन्धनाः प्रवितताः प्रकाराः समुल्लसन्ति । चिरन्तनैः पुनः सैव स्वातन्त्र्येण वृत्तिवैचित्र्ययुक्तेति प्रोक्ता । वृत्तीनामुपनागरिकादीनां यद्वैचित्र्यं विचित्रभावः स्वनिष्ठसंख्याभेदभिन्नत्वं तेन युक्ता समन्वितेति चिरन्तनैः पूर्वसूरिभिरभिहिता । तदिदमत्र तात्पर्यम्यदस्याः सकलागुण स्वरूपानुसरणसमन्वयेन सुकुमारादिमार्गानुवर्तनायत्तवृत्तेः पारतन्त्र्यमपरिगणितप्रकारत्वं चैतदुभयमप्यवश्यंभावि तस्मादपारतन्त्र्यं परिमितप्रकारत्वं चेति नातिचतुरस्त्रम् । ननु च प्रथममेको द्वावित्यादिना प्रकारेण परिमितान् प्रकारान् स्वतन्त्रत्वं च स्वयमेव व्याख्याय किमेतदुक्तमिति चेन्नैष दोषः, यस्माल्लक्षणकारैर्यस्य कस्याचित्पदार्थस्य समुदायपरायत्तवृत्तेः परव्युत्पत्तये प्रथममपोद्धारबुद्ध्या स्वतन्त्रतया स्वरूपमुल्लिख्यते, ततः समुदायान्तर्भावो भविष्यतीत्यलमतिप्रसङ्गेन । येयं वर्णविन्यासवक्रता नाम वाचकालङ्कृतिः स्थाननियमाभावात्सकलवाक्यविषयत्वेन समाम्नात्, सैव प्रकारान्तरविशिष्टा नियतस्थानतयोपनिबध्यमाना किमपि वैचित्र्यान्तरमाबध्नातीत्याह _________________________________________________________________ समानवर्णमन्यार्थं प्रसादि श्रुतिपेशलम् । औचित्ययुक्तमाद्यादिनियतस्थानशोभि यत् ॥ २.६ ॥ यमकं नाम कोऽप्यस्याः प्रकारः परिदृश्यते । स तु शोभान्तराभावादिह नातिप्रतन्यते ॥ २.७ ॥ कोऽप्यस्याः प्रकारः परिदृश्यते, अस्याः पूर्वोक्तायाः, कोऽप्यपूर्वः प्रभेदो विभाव्यते । कोऽसावित्याहयमकं नाम । यमकमिति यस्य प्रसिद्धिः । तच्च कीदृशम्समानवर्णम् । समानाः सरूपाः सदृशश्रुतयो वर्णा यस्मिन् तत्तथोक्तम् । एवमेकस्य द्वयोर्बहूनां सदृशश्रुतीनां व्यवहितमव्यवहितं वा यदुपनिबन्धनं तदेव यमकमित्युच्यते । तदेवमेकरूपे संस्थानद्वये सत्यपिअन्यार्थं भिन्नाभिधेयम् । अन्यच्च कीदृशम्प्रसादि प्रसादगुणयुक्तं झगिति वाक्यार्थसमर्पकम्, अकदर्थनाबोध्यमिति यावत् । श्रुतिपेशलमित्यतदेव विशिष्यतेश्रुतिः श्रवणेन्द्रियं तत्र पेशलं रञ्जकम्, अकठोरशब्दविरचितम् । कीदृशमौचित्ययुक्तम् । औचित्यं वर्ण्यमानस्य वस्तुनः स्वभावोत्कर्षस्तेन संयुक्तं समन्वितम् । यत्र यमकोपनिबन्धनव्यसनित्वेनाप्यौचित्यमपरिम्लानमित्यर्थः । तदेव विशेषणान्तरेण विशिनष्टिआद्यादिनियतस्थानशोभि यत् । आदिरादिर्येषां ते तथोक्ताः प्रथममध्यान्तास्तान्येव नियतानि स्थानानि विशिष्टाः संनिवेशास्तैः शोभते भ्राजते यत्तथोक्तम् । अत्राद्यादयः संबन्धिशब्दाः पादादि भिर्विशेषणीयाः । स तु प्रकारः प्रोक्तलक्षणसंपदुपेतोऽपि भवनिह नातिप्रतन्यते ग्रन्थेऽस्मिन्नातिविस्तार्यते । कुतःशोभान्तराभावात् । स्थाननियमव्यतिरिक्तस्यान्यस्य शोभान्तरस्य छायान्तरस्यासंभवादित्यर्थः । अस्य च वर्णविन्यासवैचित्र्यव्यतिरेकेणान्यत्किञ्चिदपि जीवितान्तरं न परिदृश्यते । तेनानन्तरोक्तालङ्कृतिप्रकारतैव युक्ता । उदाहरणान्यत्रशिशुपालवधे चतुर्थे सर्गे समर्पकाणि कानिचिदेव यमकानि, रघुवंशे वा वसन्तवर्णने । एवं पदावयवानां वर्णानां विन्यासवक्रभावे विचारिते वर्णसमुदायात्मकस्य पदस्य च वक्रभावविचारः प्राप्तावसरः । तत्र पदपूर्वार्धस्य तावद्वक्रताप्राकाराः कियन्तः संभवन्तीति प्रक्रमते _________________________________________________________________ यत्र रूढेरसंभाव्यधर्माध्यारोपगर्भता । सद्धर्मातिशयारोपगर्भत्वं वा प्रतीयते ॥ २.८ ॥ लोकोत्तरतिरस्कारश्लाध्योत्कर्षाभिधित्सया । वाच्यस्य सोच्यते कापि रूढिवैचित्र्यवक्रता ॥ २.९ ॥ यत्र रूढेरसंभाव्यधर्माध्यारोपगर्भता प्रतीयते । शब्दस्य नियतवृत्तिता नाम धर्मो रूढिरुच्यते, रोहणं रूढिरिति कृत्वा । सा च द्विप्रकारा संभवतिनियतसामान्यवृत्तिता नियतविशेषवृत्तिता च । तेन रूढिशब्देनात्र रूढिप्रधानः शब्दोऽभिधीयते, धर्मधर्मिणोरभेदोपचारदर्शनात् । यत्र यस्मिन् विषये रूढिशब्दस्य असंभाव्यः संभावयितुमशक्यो यो धर्मः कश्चित्परिस्पन्दस्तस्याध्यारोपः समर्पणं गर्भोऽभिप्रायो यस्य स तथोक्तस्तस्य भावस्तत्ता सा प्रतीयते प्रतिपाद्यते । यत्रेति संबन्धः । सद्धर्मातिशयारोपगर्भत्वं वा । संश्चासौ धर्मश्च सद्धर्मः विद्यमानः पदार्थस्य परिस्पन्दस्तस्मिन् यस्य कस्यचिदपूर्वस्यातिशयस्याद्भुतरूपस्य महिम्न आरोपः समर्पणं गर्भोऽप्रायो यस्य स तथोक्तस्य भावस्तत्त्वम् । तच्च वा यस्मिन् प्रतीयते । केन हेतुनालोकोक्तरतिरस्कारश्लाध्योत्कर्षाभिधित्सया । लोकोत्तरः सर्वातिशायी यस्तिरस्कारः खलीकरणं श्लाध्यश्च स्पृहणीयो य उत्कर्षः सातिशयत्वं तयोरभिधित्सा अभिधातुमिच्छा वक्तुकामता तया । कस्य वाच्यस्य । रूढिशब्दस्य वाच्यो योऽभिधेयोर्ऽथस्तस्य । सोच्यते कथ्यते काप्यलौकिकी रूढिवैचित्र्यवक्रता । रूढिशब्दस्यैवंविधेन वैचित्र्येणविचित्रभावेन वक्रता वक्रभावः । तदिदमत्र तात्पर्यम्यत्सामान्यविचित्रसंस्पर्शिनां शब्दानामनुमानवन्नियतविशेषालिङ्गनं यद्यपि स्वभावादेव न किञ्चिदपि संभवति, तथाप्यनया युक्त्या कविविवक्षितनियतविशेषनिष्ठतां नीयमानाः कामपि चमत्कारकारितां प्रतिपद्यन्ते । यथा ताला जाअन्ति गुणा जालाते सहिअएहि घेप्पन्ति । रैकिरणाणुग्गहिआइं हाएन्ति कमलाइं कमलाइं ॥ टीका २.२६ ॥ तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥ इति छाया । प्रतीयते इति क्रियापदवैचित्र्यस्यायमभिप्रायो यदेवंविधे विषये शब्दानां वाचकत्वेन न व्यापारः, अपि तु वस्त्वन्तरवत्प्रतीतिकारित्वमात्रेणेति युक्तियुक्तमप्येतदिह नातिप्रतन्यते । यस्याद्ध्वनिकारेण व्यङ्ग्यव्यञ्जकभावोऽत्र सुतरां समर्थितस्तत्किं पौनरुक्त्येन । सा च रूढिवैचित्र्यवक्रता मुक्यतया द्विप्रकारा संभवतियत्र रूढिवाच्योर्ऽथः स्वयमेव आत्मन्युत्कर्षं निकर्षं वा समारोपयितुकामः कविनोपनिबध्यते, तस्यान्यो वा कश्चिद्वक्तेति । यथा स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥ टीका २.२७ ॥ अत्र "रामऽशब्देन "दृढं कठोरहृदयःऽ "सर्वं सहेऽ इति यदुभाभ्यां प्रतिपादयितुं न पार्यते, तदेवंविधविविधोद्दीपनविभावविभवसहनसामर्थ्यकारणं दुःसहजनकराजपुत्रीविरह व्यथाविसंष्ठुलेऽपि समये निरपत्रपप्राणपरिरक्षावैचक्षण्यलक्षणं संज्ञापदनिबन्धनं किमप्यसंभाव्यमसाधारणं क्रौर्यं प्रतीयते । वैदेहीत्यनेन जलधरसमयसुन्दरपदार्थसंदर्शनासहत्वसमर्पकं सहजसौकुमार्यसुलभं किमपि कातरत्वं तस्याः समर्थ्यते । एतदेव । च पूर्वस्माद्विशेषाभिधायिनः "तुऽशब्दस्य जीवितम् । विद्यमानधर्मातिशयाध्यारोपगर्भत्वं यथा ततः प्रहस्याह पुनः पुरन्दरं व्यपेतभीर्भूमिपुरन्दरात्मजः । गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥ टीका २.२८ ॥ "रघुऽशब्देनात्र सर्वत्राप्रतिहतप्रभावस्यापि सुरपतेस्तथाविधाध्यवसायव्यघातसामर्थ्यनिबन्धनः कोऽपि स्वपौरुषातिशयः प्रतीयते । प्रहस्येत्यनेनैतदेवोपबृंहितम् । अन्यो वक्ता यत्र तत्रोदाहरणं यथा आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी । संभूतिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ॥ टीका २.२९ ॥ "रावणऽशब्देनात्र सकललोकप्रसिद्धदशाननदुर्विलासव्यतिरिक्तमभिजनविवेकसदाचारप्रभावसंभोगसुखसमृद्धिलक्षणायाः समस्तवरगुणसामग्रीसंपदस्तिरस्कारकारणं किमप्यनुपादेयतानिमित्तभूतमौपहत्यं प्रतीयते । अत्रैव विध्यमानगुणातिशयाव्यारोपगर्भत्वं यथा रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम् ॥ टीका २.३० ॥ अत्र "रामऽशब्देन सकलत्रिभुवनातिशायी रावणानुचरविस्मयास्पदं शौर्यातिशयः प्रतीयते । एषा च रूढिवैचित्र्यवक्रता प्रतीयमानधर्मबाहुल्याद्बहुप्रकारा भिद्यते । तच्च स्वयमेवोत्प्रेक्षणीयम् । यथा गुर्वर्थमर्थो श्रुतपारदृश्वा रघोः सकाशादनवाप्तकामः । गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः ॥ टीका २.३१ ॥ "रघुऽशब्देनात्र त्रिभुवनातिशाय्यौदा र्यातिरेकः प्रतीयते । एतस्यां वक्रतायामयमेव परमार्थो यत्सामान्यमात्रनिष्ठतामपाकृत्य कविविवक्षितविशेषप्रतिपादनसामर्थ्यलक्षणः शोभातिशयः समुल्लास्यते । संज्ञाशब्दानां नियतार्थनिष्ठत्वात्सामान्यविशेषभावो न कश्चित्संभवतीति न वक्तव्यम् । यस्मात्तेषामप्यवस्थासहस्त्रसाधारणवृत्तेर्वाच्यस्य नियतदशाविशेषवृत्तिनिष्ठता सत्कविविवक्षिता संभवत्येव, स्वरश्रुतिन्यायेन लग्नांशुकन्यायेन चेति । एवं रूढिवक्रतां विवेच्य क्रमप्राप्तसमन्वयां पर्यायवक्रतां विविनक्ति _________________________________________________________________ अभिधेयान्तरतमस्तस्यातिशयपोषकः । रम्यच्छायान्तरस्पर्शात्तदलङ्कर्तुमीश्वरः ॥ २.१० ॥ स्वयं विशेषणेनापि स्वच्छायोत्कर्षपेशलः । असंभाव्यार्थपात्रत्वगर्भं यश्चाभिधीयते ॥ २.११ ॥ अलङ्कारोपसंस्कारमनोहारिनिबन्धनः । पर्यायस्तेन वैचित्र्यं परा पर्यायवक्रता ॥ २.१२ ॥ पूर्वोक्तविशेषणविशिष्टः काव्यविषये पर्यायस्तेन हेतुना यद्वैचित्र्यं यो विचित्रभावो विच्छित्तिविशेषः सा परा प्रकृष्टा काचिदेव पर्यायवक्रतेत्युच्यते । पर्यायप्रधानः शब्दः पर्यायोऽभिधीयते । तस्य चैतदेव पर्यायप्राधान्यं यत्स कदाचिद्विवक्षिते वस्तुनि वाचकतया प्रवर्तते, कदाचिद्वाचकान्तरमिति । तेन पूर्वोक्तया नीत्या बहुप्रकारः पर्यायोऽभिहितः, तत्कियन्तस्तस्य प्रकाराः सन्तीत्याहअबिधेयान्तरतमः । अबिधेयं वाच्यं वस्तु तस्यान्तरतमः प्रत्यासन्नतमः । यस्मात्पर्यायशब्दत्वे सत्यप्यन्तरङ्गत्वात्स यथा विवक्षितं वस्तु व्यनक्ति तथा नान्यः कश्चिदिति । यथा नाभियोक्तुमनृतं त्वमिष्यसे कस्तपस्विविशिखेषु चादरः । सन्ति भूभृति हि नः शराः परे ये पाक्रमवसूनि वज्रिणः ॥ टीका २.३२ ॥ अत्र महेन्द्रवाचकेष्वसंख्येषु संभवत्सु पर्यायशब्देषु "वज्रिणःऽ इति प्रयुक्तः पर्यायवक्रतां पुष्णाति । यस्मात्सतसंनिहितवज्रस्यापि सुरपतेर्ये पराक्रमवसूनि विक्रमधनानीति सायकानां लोकोत्तरत्वप्रतीतिः । "तपस्विऽशब्दोऽप्यतितरां रमणीयः । यस्मात्सुभटसायकानामादरो बहुमानः कदाचिदुपपद्यते, तापसमार्गणेषु पुनरकिञ्चित्करेषु कः संरम्भ इति । यथा वा कस्तवं ज्ञास्यसि मां स्मर स्मरसि मां दिष्ट्या किमभ्यागतस्त्वामुन्मादयितुं कथं ननु बलात्किं ते बलं पश्य तत् । पस्यामीत्यभिधाय पावकमुचा ये लोचनेनैव तं कान्ताकण्ठनिषक्तबाहुमदहत्तस्मै नमः शूलिने ॥ टीका २.३३ ॥ अत्र परमेश्वरे पर्यायसहस्त्रेष्वपि संभवत्सु "शूलिनेऽ इति यत्प्रयुक्तं तत्रायमभिप्रायो यत्तस्मै भगवते नमस्कारव्यतिरेकेण किमन्यदभिधीयते । यत्तथाविधोत्सेकपरित्यक्तविनयवृत्तेः स्मरस्य कुपितेनापि तदभिमतावलोकव्यतिरेकेण तेन सततसंनिहितशूलेनापि कोपसमुचितमायुधग्रहणं नाचरितम् । लोचनपातमात्रेणैव कोपकार्यकरणाद्भगवतः प्रभावातिशयः परिपोषितः । अतएव तस्मै नमोऽस्त्विति युक्तियुक्ततां प्रतिपद्यते । अयमपरः पदपूर्वार्धवक्रताहेतुः पर्यायःयस्तस्यातिशयपोषकः । तस्याभिधेयस्यार्थस्यातिशयमुत्कर्ष पुष्णाति यः स तथोक्तः । यस्मात्सहजसौकुमार्यसुभगोऽपि पदार्थस्तेन परिपोषितातिशयः सुतरां सहृदयहृदयहारितां प्रतिपद्यते । यथा संबन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरुर्गौराङ्गीवदनोपमापरिचितस्तारावधूवल्लभः । सद्योमार्जितदाक्षिणात्यतरुणीदन्तावदातद्युति श्चन्द्रः सुन्दरि दृश्यतामयमसौ चण्डी शचूडामणिः ॥ टीका २.३४ ॥ अत्र पर्यायाः सहजसौन्दर्यसंपदुपेतस्यापि चन्द्रमसः सहृदयहृदयाह्लादकारणं कमप्यतिशयमूल्लासयन्तः पदपूर्वार्धवक्रतां पूष्णन्ति । तथा च रामेण रावणं निहत्य पुष्पकेन गच्छता सीतायाः सविस्त्रम्भं स्वैरकथास्वेतदभिधीयते यच्चन्द्रः सुन्दरि दृश्यतामिति, रामणीयकमनोहारिणि सकललोकलोचनोत्सवश्चन्द्रमा विचार्यतामिति । यस्मात्तथाविधानामेव तादृशः समुचितो विचारगोचरः । संबन्धी रघुभूभुजामित्यनेन चास्माकं नापूर्वो बन्धुरयमित्यवलोकनेन संमान्यतामिति प्रकारान्तरेणापि तद्विषयो बहुमानः प्रतीयते । शिष्टाश्च तदतिशयाधानप्रवणत्वमेवात्मनःप्रथयन्ति । तत एव च प्रस्तुतमर्थं प्रति प्रत्येकं पृथक्त्वेनोत्कर्षप्रकटनात्पर्यायाणां बहूनामप्यपौनरुक्त्यम् । तृतीये पादे विशेषणवक्रता विद्यते, न पर्यायवक्रत्वम् । अयमपरः पर्यायप्रकारः पदपूर्वार्धवक्रतानिबन्धनःयस्तदलङ्कर्त्तुमीश्वरः । तदभिधेयलक्षणं वस्तु विभूषयितुं यः प्रभवतीत्यर्थः । कस्मात्रम्यच्छायान्तरस्पर्शात् । रम्यं रमणीयं यच्छायान्तरं विच्छित्त्यन्तरं श्लिष्टत्वादि तस्य स्पर्शात्,शोभान्तरप्रतीतेरित्यर्थः । कथम्स्वयं विशेषणेनापि । स्वयमात्मनैव, स्वविशेषणभूतेन पदान्तरेण वा । तत्र स्वयं यथा इत्थं जडे जगति को नु बृहत्प्रमाण कर्णः करी ननु भवेद्ध्वनितस्य पात्रम् । इत्यागतं झटिति योऽलिनमुन्ममाथ मातङ्ग एव किमतः परमुच्यतेऽसौ ॥ टीका २.३५ ॥ अत्र "मातङ्गऽशब्दः प्रस्तुते वारणमात्रे प्रवर्तते । श्लिष्टया वृत्त्या चण्डाललक्षणस्याप्रस्तुतस्य वस्तुनः प्रतीतिमुत्पादयन् रूपकालङ्कारच्छायासंस्पर्शाद्गौर्वाहीक इत्यनेन न्यायेन सादृश्यनिबन्धनस्योपचारस्य संभवात्प्रस्तुतस्य वस्तुनस्तत्त्वमध्यारोपयन् पर्यायवक्रतां पुष्णाति । यस्मादेवंविधे विषये प्रस्तुतस्याप्रस्तुतेन संबन्धोपनिबन्धो रूपकालङ्कारद्वारेण कदाचिदुपमामुखेन वा । यथा स एवायं स इवायमिति वा । एष एव च शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यस्य पदध्वनेर्विषयः, बहुषु चैवंविधेषु सत्सु वाक्यध्वनेर्वा । यथा कुसुमसमययुगमुपसंहरन्नुत्फुल्लमल्लिकाधवलाट्टहासो व्यजृम्भत ग्रीष्माभिधानो महाकालः ॥ टीका २.३६ ॥ यथा वृत्तेऽस्मिन्महाप्रलयेधरणीधारणायाधुनात्वं शेषः ॥ टीका २.३७ ॥ इति अत्र युगादयः शब्दाः प्रस्तुताभिधानपरत्वेन प्रयुज्यमानाः सन्तोऽप्यप्रस्तुतवस्तुप्रतीतिकारितया कामपि काव्यच्छायां समुन्मीलयन्तः प्रतीयमानालङ्कारव्यपदेशभाजनं भवन्ति ॥ विशेषणेन यथा सुस्निग्धदुग्धधवलोरुदृशं विदग्ध मालोक्य यन्मधुरमुघ्ध विलासदिग्धम् । भस्मीचकार मदनं ननु काष्ठमेव तन्नुनमीश इति वेत्ति पुरन्ध्रिलोकः ॥ टीका २.३८ ॥ अत्र काष्ठमिति विशेषणपदं वर्ण्यमानपदार्थापेक्षया मन्मथस्य नीरसतां प्रतिपादयद्रम्यच्छायान्तरस्पर्शिश्लेषच्छायामनोज्ञविन्यासमपरमस्मिन् वस्तुन्यप्रस्तुते मदनाभिधानपादपलक्षणे प्रतीतिमुत्पापयद्रूपकालङ्कारच्छायासंस्पर्शात्कामपि पर्यायवक्रतामुन्मीलयति । अयमपरः पर्यायप्रकारः पदपूर्वार्धवक्रतायाः कारणम्यः स्वच्छायोत्कर्षपेशलः । स्वस्यात्मनश्छाया कान्तिर्या सुकुमारता तदुत्कर्षेण तदतिशयेन यः पेशलो हृदयहारी । तदिदमत्र तात्पर्यम्यद्यपि वर्ण्यमानस्य वस्तुनः प्रकारान्तरोल्लासकत्वेन व्यवस्थितिस्तथापि परिस्पन्दसौन्दर्यसंपदेव सहृदयहृदयहारितां प्रतिपद्यते । यथा इत्थमुत्कयति ताण्डवलीला पण्डिताब्धिलहरीगुरुपादैः । उत्थितं विषमकाण्डकुटुम्ब स्यांशुभिः स्मरवतीविरहो माम् ॥ टीका २.३९ ॥ अत्रेन्दुपर्यायो "विषमकाण्डकुटुम्बऽशब्दः कविनोपनिबद्धः । यस्मान्मृगाङ्कोदयद्वेषिणा विरहविधुरहृदयेन केनचिदेतदुच्यते । यदयमप्रसिद्धोऽप्यपरिम्लानसमन्वयतया प्रसिद्धतमतामुपनीतस्तेन प्रथमतरोल्लिखितत्वेन च चेतनचमत्कारकारितामवगाहते । एष च स्वच्छायोत्कर्षपेशलःसहजसौन्दर्यसु भगत्वेन नूतनोल्लेखविलक्षणत्वेन च कविभिः पर्यायान्तरपरिहारपूर्वकमुपवर्ण्यते । यथा कृष्णकुटिलकेशीति वक्तव्ये यमुनाकल्लोलवक्रालकेति । यथा वा "गौराङ्गीवदनोपमापरिचितऽ इत्यत्रवनितादिवाचकसहस्त्रसद्भावेऽपि गौराङ्गीत्यभिधानमतीवरमणीयम् । अयमपरः पर्यायप्रकारः पदपूर्वार्धवक्रताभिधायीअलंभाव्यार्थपात्रत्वगर्भं यश्चाबिधीयते । वर्ण्यमानस्य संभाव्यः संभावयितुमशक्यो योर्ऽथः कश्चित्परिस्पन्दस्तत्र पात्रत्वं भाजनत्वं गर्भोऽभिप्रायो यत्राभिधाने तत्तथाविधं कृत्वा यश्चाभिधीयते भण्यते । यथा अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् । न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्छति मारुतस्य ॥ टीका २.४० ॥ अत्र महीपालेति राज्ञः सकलपृथ्वीपरिरक्षणक्षमपौरुषस्यापि तथाविधप्रयत्नपरिपालनीयगुरुगोरूपजीवमात्रपरित्राणासामर्थ्यं स्वप्नेऽप्यसंभावनीयं यत्तत्पात्रत्वगर्भमामन्त्रणमुपनिबद्धम् । यथा वा भूतानुकम्पा तव चेदियं गौ रेका भवेत्स्वस्तिमती त्वदन्ते । जीवन् पुनः शस्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥ टीका २.४१ ॥ अत्र यदि प्राणिकरुणाकारणं निजप्राणपरित्यागमाचरसि तदप्ययुक्तम् । यस्मात्त्वदन्ते स्वस्तिमती भवेदियमेकैव गौरिति त्रितयमप्यनादरास्पदम् । जिवन् पुनः शश्वत्सदैवोपप्लवेभ्योऽनर्थेभ्यः प्रजाः सकलभूतधात्रीवलयवर्तिनीः प्रजानाथ पासि रक्षसि । पितेवेत्यनादरातिशयः प्रथते । तदेवं यद्यपि सुस्पष्टसमन्वयोऽयं वाक्यार्थस्तथापि तात्पर्यान्तरमत्र प्रतीयते । यस्मात्सर्वस्य कस्याचित्प्रजानाथत्वे सति सदैव तत्परिरक्षणस्याकरणमसंभाव्यम् । तत्पात्रत्वगर्भमेव तदभिहितम् । यस्मात्प्रत्यक्षप्राणिमात्रभक्ष्ममाणगुरुहोमधेनुप्राणपरिरक्षणापेक्षानिरपेक्षस्य सतो जीवतस्तवानेन न्यायेन कदाचिदपि प्रिजापरिरक्षणं मनागपि न संभाव्यत इति प्रमाणोपपन्नम् । तदिदमुक्तम् प्रमाणवत्त्वादायातः प्रवाहः केन वार्यते ॥ टीका २.४२ ॥ इति । अत्राभिधानप्रतीतिगोचरीकृतानां पदार्थानां परस्परप्रतियोगित्वमुदाहरणप्रत्युदाहरणन्यायेनानुसंधेयम् । अयमपरः पर्यायप्रकारः पदपूर्वार्धवक्रतां विदधातिअलङ्कारोपसंस्कारमनोहारिनिबन्धनः । अत्र "अलङ्कारोपसंस्कारऽ शब्दे तृतीयासमासः षष्ठीसमासश्च करणीयः । तेनार्थद्वयमभिहितं भवति । अलङ्कारेण रूपकादिनोपसंस्कारः शोभान्तराधानं यत्तेन मनोहारि हृदयरञ्जकं निबन्धनमुपनिबन्धो यस्य स तथोक्तः । अलङ्कारस्योत्प्रेक्षादेरुपसंस्कारः शोभान्तराधानं चेति विगृह्य । तत्र तृतीयासमासपक्षोदाहरणं यथा यो लीलातालवृन्तो रहसि निरुपधिर्यश्च किलीप्रदीपः कोपक्रीडासु योऽस्त्रं दशनकृतरुजो योऽधरस्यैकसेकः । आकल्पे दर्पण यः श्रमशयनविधो यश्च गण्डोपधानं देव्याः स व्यापदं वो हरतु हरजटाकन्दलीपुष्पमिन्दुः ॥ टीका २.४३ ॥ अत्र तालवृन्तादिकार्यसामान्यादभेदोपचारनिबन्धनो रूपकालङ्कारविन्यासः सर्वेषामेव पर्यायाणां शोभातिशयकारित्वेनोपनिबद्धः । षष्ठीसमासपक्षोदाहरणं यथा देवि त्वन्मुखपङ्कजेन शशिनः शोभातिरस्कारिणा । पश्याब्जानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम् ॥ टीका २.४४ ॥ अत्र स्वरससंप्रवृत्तसायंसमयसमुचिता सरोरुहाणां विच्छायताप्रतिपत्तिर्नायकेन नागरकतया वल्लभोपलालनाप्रवृत्तेन तन्निदर्शनोपक्रमरमणीयत्वमुखेन निर्जितानीवेति प्रतीयमानोत्प्रेक्षालङ्कारकारित्वेन प्रतिपाद्यते । एतदेव च युक्तियुक्तम् । यस्मात्सर्वस्य कस्यचित्पङ्कजस्य शशाङ्कशोभातिरस्कारकारिता प्रतिपद्यते । त्वन्मुखपङ्कजेन पुनः शशिनः शोभातिरस्कारिणा न्यायतो निर्जितानि सन्ति विच्छायतां गच्छन्तीवेति प्रतीयमानस्योत्प्रेक्षालक्षणस्यालङ्कारस्य शोभातिशयः समुल्लास्यते । एवं पर्यायवक्रतां विचार्य क्रमसमुचितावसरामुपचारवक्रतां विचारयति _________________________________________________________________ यत्र दूरान्तरेऽन्यस्मात्सामान्यमुपचर्यते । लेशेनापि भवत्काञ्चिद्वक्तुमुद्रिक्तवृत्तिताम् ॥ २.१३ ॥ यन्मूला सरसोल्लेखा रूपकादिरलङ्कृतिः । उपचारप्रधानासौ वक्रता काचिदुच्यते ॥ २.१४ ॥ असौ काचिदपूर्वा वक्रतोच्यते वक्रभावोऽभिधीयते । कीदृशीउपचारप्रधाना । उपचरणमुपचारः स एव प्रधानं यस्याः सा तथोक्ता । किंस्वरूपायत्र यस्यामन्यस्मात्पदार्थान्तरात्प्रस्तुतत्वाद्वर्ण्यमाने वस्तुनि सामान्यमुपचर्यते साधारणो धर्मः कश्चिद्वक्तुमभिप्रेतः समारोप्यते । कस्मिन् वर्ण्यमाने वस्तुनिदूरान्तरे । दूरमनल्पमन्तरं व्यवधानं यस्य तत्तथोक्तं तस्मिन् । ननु च व्यवधानममूर्तत्वाद्वर्ण्यमानस्य वस्तुनो देशविहितं तावन्न संभवति । कालविहितमपि नास्त्येव, तस्य क्रियाविषयत्वात् । क्रियास्वरूपं कारकस्वरूपं चेत्युभयात्मकं यद्यपि वर्ण्यमानं वस्तु, तथापि देशकालव्यवधानेनात्र न भवितव्यम् । यस्मात्पदार्थानामनुमानवत्सामान्यमात्रमेव शब्दैर्विषयीकर्तुं पार्यते, न विशेषः । तत्कथं दूरान्तरत्वमुपपद्यते ? सत्यमेतत्, किन्तु "दूरान्तरऽशब्दो मुख्यतया देशकालविषये विप्रकर्षे प्रत्यासत्तिविरहे वर्तमानोऽप्युपचारात्स्वभावविप्रकर्षे वर्तते । सोऽयं स्वभावविप्रकर्षो विरुद्धधर्माध्यासलक्षणः पदार्थानाम् । यथा मूर्तिमत्त्वममूर्तत्वापेक्षया, द्रवत्वं च घनत्वापेक्षया, चेतनत्वमचेतनत्वापेक्षयेति । कीदृक्तत्सामान्यम्लेशेनापि भवत् । मनाङ्मात्रेणापि सत् । किमर्थं काञ्चिदपूर्वामुद्रिक्तवृत्तितां वक्तुं सातिशयपरिस्पन्दतामभिधातुम् । यथा स्निग्धश्यामलकान्तिलिप्तवियतः ॥ टीका २.४५ ॥ अत्र यथा बुद्धिपूर्वकारिणः केचिच्चेतनवर्णच्छायातिशयोत्पादनेच्छया केनचिद्विद्यमानलेपनशक्तिना मूर्तेन नीलादिना रञ्जनद्रव्यविशेषेण किञ्चिदेव लेपनीयं मूर्तिमद्वस्तु वस्त्रप्रायं लिम्पन्ति, तद्वदेव तत्कारित्वसामान्यं मनाङ्मात्रेणापि विद्यमानं कामप्युद्रिक्तवृत्तितामभिधातुमुपचारात्स्निग्धश्यामलया कान्त्या लिप्तं वियद्द्यौरित्युपनिबद्धम् । "स्निग्धऽशब्दोऽप्युपचारवक्र एव । यथा मूर्तं वस्तु स्पर्शसंवेद्यं स्नेह नगुणयोगात्स्निग्धमित्युच्यते, तथैव कान्तिरमूर्ताप्युपचारात्स्निग्धेत्युक्ता । यथा वा गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः । सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वों तोयोत्सर्गस्तनितमुखरो मास्म भूर्विक्लवासताः ॥ टीका २.४६ ॥ अत्रामूर्तानामपि तमसामतिबाहुल्याद्घनत्वान्मूर्तसमुचितं सूचिभेद्यत्वमुपचरितम् । यथा वा गअणं च मत्तमेहं धारालुलिअज्जुणाइं अ वणाइं । णिरहङ्कारमिअङ्का हरन्ति णीलाओ अ णिसाओ ॥ टीका २.४७ ॥ गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि । निरहङ्कारमृगाङ्का हरन्ति नीलाश्च निशाः ॥ इति छाया । अत्र मत्तत्वं निरहङ्कारत्वं च चेतनधर्मसामान्यमुपचरितम् । सोऽयमुपचारवक्रताप्रकारः सत्कविप्रवाहे सहस्त्रशः संभवतीति सहृदयैः स्वयमेवोत्प्रेक्षणीयः अतएव च प्रत्यासन्नान्तरेऽस्मिन्नुपचारे न वक्रताव्यवहारः, यथा गौर्वाहीक इति । इदमपरमुपचारवक्रतायाः स्वरूपम्यन्मूला सरसोल्लेखा रूपकादिरलङ्कृतिः । या मूलं यस्याः सा तथोक्ता । रूपकमादिर्यस्याः सा तथोक्ता । का साअलङ्कृतिरलङ्करणं रूपकप्रभृतिरलङ्कारविच्छित्तिरित्यर्थः । कीदृशीसरसोल्लेखा । सरसः सास्वादः सचमत्कृतिरुल्लेखः समुन्मेषोयस्याः सा तथोक्ता । समानाधिकरणयोरत्र हेतुहेतुमद्भावः, यथा अतिगुरवो राजमाषा न भक्ष्या इति ॥ टीका २.४८ ॥ यन्मूला सती रूपकादिरलङ्कृतिः सरसोल्लेखा । तेन रूपकादेरलङ्करणकलापस्य सकलस्यैवोपचारवक्रता जीवितमित्यर्थः । ननु च पूर्वस्मादुपचारवक्रताप्रकारादेतस्य को भेदः ? पूर्वस्मिन् स्वभावविप्रकर्षात्सामान्येन मनाङ्मात्रमेव साम्यं समाश्रित्य सातिशयत्वं प्रतिपादयितुं तद्धर्ममात्राध्यारोपः प्रवर्तते, एतस्मिन् पुनरदूरविप्रकृष्टसादृश्यसमुद्भवप्रत्यासत्तिसमुचितत्वादभेदोपचारनिबन्धनं तत्त्वमेवाध्यारोप्यते । यथा सत्स्वे कालश्रवणोत्पलेषु सेनावनालीविषपल्लवेषु । गाम्भीर्यपातालफणीश्वरेषु सङ्गेषु को वा भवतां मुरारिः ॥ टीका २.४९ ॥ अत्र कालश्रवणोत्पलादिसादृश्यजनितप्रत्यासत्तिविहतमभेदोपचारनिबन्धनं तत्त्वमारोपितम् । "आदिऽग्रहणादप्रस्तुतप्रशसाप्रकारस्य कस्यचिदन्यापदेशलक्षणस्योपचारवक्रतैव जीवितत्वेन लक्ष्यते । तथा च किमपि पदार्थान्तरं प्राधान्येन प्रतीयमानतया चेतसि निधाय तथाविधलक्षणसाम्यसमन्वयं समाश्रित्य पदार्थान्तरमभिधीयमानतां प्रापयन्तः प्रायशः कवयो दृश्यन्ते । यथा अनर्धः कोऽप्यन्तस्वव हरिण हेवाकमहिमा स्फुरत्येकस्यैव त्रिभुवनचमत्कारजनकः । यदिन्दोर्मूर्तिस्ते दिवि विहरणारण्यवसुधा सुधासारस्यन्दी किरणनिकरः शष्पकवलः ॥ टीका २.५० ॥ अत्र लोकोत्तरत्वलक्षणमुभयानुयायि सामान्यं समाश्रित्य प्राधान्येन विवक्षितस्य वस्तुनः प्रतीयमानवृत्तेरभेदोपचारनिबन्धनं तत्त्वमध्यारोपितम् । तथा चैतयोर्दूयोरप्यलङ्कारयोस्तुल्येऽप्युपचारवक्रताजीवितत्त्वे वाच्यत्वमेकत्र प्रतीयमानत्वमपरस्मिन् स्वरूपभेदस्य निबन्धनम् । एतच्चोभयोरपि स्वलक्षणव्याख्यानावसरे सुतरां समुन्मील्यते । एवमुपचारवक्रतां विवेच्य समानन्तरप्राप्तावकाशां विशेषणवक्रतां विविनक्ति । _________________________________________________________________ विशेषणस्य माहात्म्यात्क्रियायाः कारकस्य वा । यत्रोल्लसति लावण्यं सा विशेषणवक्रता ॥ २.१५ ॥ सा विशेषणवक्रता विशेषणवक्रत्वविच्छित्तिरभिधीयते । कीदृशीयत्र यस्यां लावण्यमुल्लसति रामणीयकमुद्भिद्यते । कस्यक्रियायाः कारकस्य वा । क्रियालक्षणस्य वस्तुनः कारकलक्षणस्य वा । कस्मात्विशेषणस्य माहात्म्यात् । एतयोः प्रत्येकं यद्विशेषणं भेदकं पदार्थान्तरं तस्य सातिशयत्वात् । भावस्वभाव सौकुमार्यसमुल्लासकत्वमलङ्कारच्छायातिशयपरिपोषकत्वं च । यथा श्रमजलसेकजनितनवलिखितनखपददाहमूर्छिता वल्लभरभसलुलितललितालकवलयचयार्धनिह्नुता । स्मररसविविधविहितसुरतक्रमपरिमलनत्रपालसा जयति निशात्यये युवतिदृक्तनुमधुमदविशदपाटला ॥ टीका २.५१ ॥ यथा वा करन्तरालीनकपोलभित्तिर्बाष्पोच्छलत्कूणितपत्रलेखा । श्रोत्रान्तरे पिण्डितचित्तवृत्तिः शृणोति गीतध्वनिमत्र तन्वी ॥ टीका २.५२ ॥ यथा वा शुचिशीतलचन्द्रिकाप्लुताश्चिरनिःशब्दमनोहरा दिशः । प्रशमस्य मनोभवस्य वा हृदि कस्या प्यथ हेतुतां ययुः ॥ टीका २.५३ ॥ क्रियाविशेषणवक्रत्वं यथा सस्मार वारणपतिर्विनिमीलिताक्षः स्वेच्छाविहारवनवासमहोत्सवानाम् ॥ टीका २.५४ ॥ अत्र सर्वत्रैवस्वभावसौन्दर्यसमुल्लासकत्वं विशेषणानाम् । अलङ्कारच्छायातिशयपरिपोषकत्वं विशेषणस्य यथा शशिनः शोभातिरस्कारिणा ॥ टीका २.५५ ॥ एतदेव विशेषणवक्रत्वं नाम प्रस्तुतौचित्यानुसारि सकलसत्काव्यजीवितत्वेन लक्ष्यते, यस्मादनेनैव रसः परां परिपोषपदवीमवतार्यते । यथा करान्तरालीन इति ॥ टीका २.५६ ॥ स्वमहिम्ना विधीयन्ते येन लोकोत्तरश्रियः । रसस्वभावालङ्कारास्तद्विधेयं विशेषणम् ॥ टीका २.५७ ॥ (इति) अन्तरश्लोकः ॥ एवं विशेषणवक्रतां विचार्य क्रमसमर्पितावसरां संवृतिवक्रतां विचारयति _________________________________________________________________ यत्र संव्रियते वस्तु वैचित्र्यस्य विवक्षया । सर्वनामादिभिः कैश्चित्सोक्ता संवृतिवक्रता ॥ २.१६ ॥ सोक्ता संवृतिवक्रताया किलैवंविधा सा संवृतिवक्रतेत्युक्ता कथिता । संवृत्या वक्रता संवृतिप्रधाना वेति समासः । यत्र यस्यां वस्तु पदार्थलक्षणं सव्रियते समाच्छाद्यते । केन हेतुनावैचित्र्यस्य विवक्षया विचित्रभावस्याभिधानेच्छया, यया पदार्थो विचित्रभावं समासादयतीत्यर्थः । केन संव्रियतेसर्वनामादिभिः कैश्चित् । सर्वस्य नाम सर्वनाम तदादिर्येषां ते तथोक्तास्तैः कैश्चिदपूर्वैर्वाचकैरित्यर्थः । अत्र बहवः प्रकाराः संभवन्ति । यत्र किमपि सातिशयं वस्तु वक्तुं शक्यमपि साक्षादभिधानादियत्तापरिच्छिन्नतया परिमितप्रायं मा प्रतिभासतामिति सामान्यवाचिना सर्वनाम्ना समाच्छाद्य तत्कार्याभिधायिना तदतिशयाभिधानपरेण वाक्यान्तरेण प्रतीतिगोचरतां नीयते । यथा तत्पितर्यथ परिग्रहलिप्सौ स व्यधत्त करणीयमणीयः । पुष्पचापशिखरस्थकपोलो मन्मथः किमपि येन निदध्यौ ॥ टीका २.५८ ॥ अत्र सदाचारप्रवणतया गुरुभक्तिभावितान्तः करणो लोकोत्तरौदार्यगुणयोगाद्विविधविषयोपभोगवितृष्णमना निजेन्द्रियनिग्रहमसंभावनीयमपि शान्तनवो विहितवानित्यभिधातुं शक्यमपि सामान्याभिधायिना सर्वानाम्नाच्छाद्योत्तरार्धेन कार्यान्तराभिधायिना वाक्यान्तरेण प्रतीतिगोचरतामानीयमानं कामपि चमत्कारकारितामावहति । अयमपरः प्रकारो यत्र स्वपरिस्पन्दकाष्ठाधिरूढेः सातिशयं वस्तु वचसामगोचर इति प्रथयितुं सर्वानाम्ना समाच्छाद्य तत्कार्याभिधायिना तदतिशयवाचिना वाक्यान्तरेण समुन्मील्यते । यथा याते द्वारवती तदा मधुरिपौ तद्दत्तकम्पानतां कालिन्दीजलकेलिवञ्जुललतामालम्बय सोत्कण्ठया । तद्गीतं गुरुबाष्पगद्गदलसत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥ टीका २.५९ ॥ अत्र सर्वनाम्ना संवृतं वस्तु तत्कार्याभिधायिना वाक्यान्तरेण समुन्मील्य सहृदयहृदयहारितां प्रापितम् । यथा वा तह रुण्णं कण्ह विसाहीआए रोहगग्गरगिराए । जह कस्स वि जम्मसए वि कोइ मा वल्लहो होउ ॥ टीका २.६० ॥ तथै रुदितं कृष्ण विशाखया रोधगद्गदगिरा । यथा कस्यापि जन्मशतेऽपि कोऽपि मा वल्लभो भवतु ॥ इति छाया । अत्र पूर्वार्धे संवृतं वस्तु रोदनलक्षणं तदतिशयाभिधायिना वाक्यान्तरेण कामपि तद्विदाह्लादकारितां नीतम् । इदमपरमत्र प्रकारान्तरं यत्र सातिशयसुकुमारं वस्तु कार्यातिशयाभिधानं विना संवृतिमात्ररमणीयतया कामपि काष्ठमधिरोप्यते । यथा दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया ॥ टीका २.६१ ॥ अयमपरः प्रकारो यत्र स्वानुभसंवेदनीयं वस्तु वचसा वक्तुमविषय इति ख्यापयितुं संव्रियते । यथा तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ टीका २.६२ ॥ इति । पूर्वमेव व्याख्यातम् । इदमपि प्रकारान्तरं संभवति यत्र परानुभसंवेद्यस्य वस्तुनो वक्तुरगोचरतां प्रतिपादयितुं संवृतिः क्रियते । यथा मन्मथः किमपि येन निदध्यौ ॥ टीका २.६३ ॥ अत्र हि त्रिभुवनप्रथितप्रतामहिमा तथाविधशक्तिव्याघातविषण्णचेताः कामः किमपि स्वानुभवसमुचितमचिन्तयदिति । इदमपरं प्रकारान्तरमत्र विद्यते यत्र स्वभावेन कविविवक्षया वा केनचिदौपहत्येन युक्तं वस्तु महापातकमिव कीर्तनीयतां नार्हतीति समर्पयितुं संव्रियते । यथा दुर्वचं तदथ मास्म भून्मृग स्त्वय्यसौ यदकरिष्यदोजसा । नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्रिणा ॥ टीका २.६४ ॥ यथा वा निवार्यतामालि किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् ॥ टीका २.६५ ॥ अत्रार्जुनमारणं भगवदपभाषणं च न कीर्तनोयतामर्हतीति संवरणेन रमणीयतां नीतमिति । विवक्षयो पहतं यथा सोऽयं दम्भधृतव्रतः प्रियतमे कर्तुं किमप्युद्यतः ॥ टीका २.६६ ॥ इति । प्रथममेव व्याख्यातम् । एव संवृतिवक्रतां विचार्य प्रत्ययवक्रतायाः कोऽपि प्रकारः पदमध्यान्तर्भूतत्वादिहैव समुचितावसरस्तस्मात्तद्विचारमाचरति _________________________________________________________________ प्रस्तुतौचित्यविच्छित्तिं स्वमहिम्ना विकासयन् । प्रत्ययः पदमध्येऽन्यामुल्लासयति वक्रताम् ॥ २.१७ ॥ कश्चित्प्रत्ययः कृदादिः पदमध्यवृत्तिरन्यामपूर्वां वक्रतामुल्लासयति वक्रभावमुद्दीपयति । किं कुर्वन्प्रस्तुतस्य वर्ण्यमानस्य वस्तुनो यदौचित्यमुचितभावस्तस्य विच्छित्तिमुपशोभां विकासयन् समुल्लासयन् । केनस्वमहिम्ना निजोत्कर्षेण । यथा वेल्लद्वलाका घनाः ॥ टीका २.६७ ॥ यथा वा स्निह्यत्कटाक्षे दृशौ इति ॥ टीका २.६८ ॥ अत्र वर्तमानकालाभिधायी शतृप्रत्ययः कामप्यतीतानागतविभ्रमविरहितां तात्कालिकपरिस्पन्दसुन्दरीं प्रस्तुतौचित्यविच्छित्तिमुल्ला सयन् सहृदयहृदयहारिणीं प्रत्ययवक्रतामावहति । इदानीमेतस्याः प्रकारान्तरं पर्यालोचयति _________________________________________________________________ आगमादिपरिस्पन्दसुन्दरः शब्दवक्रताम् । परः कामपि पुष्णाति बन्धच्छायाविधायिनीम् ॥ २.१८ ॥ परो द्वितीयः प्रत्ययप्रकारः कामप्यपूर्वां शब्दवक्रतामाबध्नाति वाचकवक्रतां विदधाति । कीदृकागमादिपरिस्पन्दसुन्दरः । आगमो मुमादिरादिर्यस्य स तथोक्तः, तस्यागमादेः परिस्पन्दः स्वविलसितं तेन सुन्दरः सुकुमारः । कीदृशीं शब्दवक्रताम्बन्धच्छायाविधायिनीं संनिवेशकान्तिकारिणीमित्यर्थः । यथा जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा दित्थंभूतां प्रथमविरहे तामहं तर्कयामि । वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यद् ॥ टीका २.६९ ॥ यथा च दाहोऽम्भः प्रसृतिंपचः इति ॥ टीका २.७० ॥ यथा च पायं पायं कलाचीकृतकदलिदलम् ॥ टीका २.७१ ॥ इति । अत्र सुभगंमन्यभावप्रभृतिषु शब्देषु मुमादिपरिस्पन्दसुन्दराः संनिवेशच्छायाविधायिनी वाचकवक्रतां प्रत्ययाः पुष्णन्ति । एवं प्रसङ्गसमुचितां पदमध्यवर्तिप्रत्ययवक्रतां विचार्य समनन्तरसंभविनीं वृत्तिवक्रतां विचारयति _________________________________________________________________ अव्ययीभावमुख्यानां वृत्तीनां रमणीयता । यत्रोल्लसति सा ज्ञेया वृत्तिवैचित्र्यवक्रता ॥ २.१९ ॥ सा वृत्तिवैचित्र्यवक्रता ज्ञेया बोद्धव्या । वृत्तीनां वैचित्र्यं विचित्रभावः सजातीयापेक्षया सौकुमार्योत्कर्षस्तेन वक्रता वक्रभावविच्छित्तिः । कीदृशीरमणीयता यत्रोल्लसति । रामणीयकं यस्यामुद्भिद्यते । कस्यवृत्तीनाम् । कासामव्ययीभावमुक्यानाम् । अव्ययीभावः समासः मुख्यः प्रधानभूतो यासं तास्तथोक्तास्तासां समासतद्धितसुब्धातुवृत्तीनां वैयाकरणप्रसिद्धानाम् । तदयमत्रार्थःयत्र स्वपरिस्पन्दसौन्दर्यमेतासां समुचितभित्तिभागोपनिबन्धादभिव्यक्तिमासादयति । यथा अभिव्यक्तिं तावद्बहिरलभमानः कथमपि स्फुरन्नन्तः स्वत्मन्यधिकतरसंमूर्छिततरः । मनोज्ञामुद्वृत्तस्मरपरिमल स्पन्दसुभगा महो दत्ते शोभामधिमधु लतानां नवरसः ॥ टीका २.७२ ॥ अत्र "अधिमधुऽशब्दे विभक्त्यर्थविहितः समासः समयाभिधाय्यपि विषयसप्तमीप्रतीतिमुत्पादयन् "नवरसऽशब्दस्य श्लोषच्छायाच्छुरणवैचित्र्यमुन्मीलयति । एतद्वृत्तिविरहिते विन्यासान्तरे वस्तुप्रतीतौ सत्यामपि न तादृक्तद्विदाह्लादकारित्वम् । उद्वृत्तपरिमलस्पन्दसुभगशब्दनामुपचारवक्रत्वं परिस्फुरद्विभाव्यते । यथा च आ स्वर्लोकादुरगनगरं नूतनालोकलक्ष्मीं व्यातन्वद्भिः किमिव सिततां चेष्टितैस्ते न नीतम् । अप्येतासां दयितविरहे विद्विषत्सुन्दरीणां यैरानीता नखपदमयी मण्डना पाण्डिमानम् ॥ टीका २.७३ ॥ अत्र पाण्डुत्वपाण्डुतापाण्डुभावशब्देभ्यः पाण्डिमशब्दस्य किमपि वृत्तिवैचित्र्यवक्रत्वं विद्यते । यथा च कान्त्योन्मीलति सिंहलीमुखरुचां चूर्णाभिषेकोल्लस ल्लावण्यामृतवाहिनिर्झरजुषामाचान्तिभिश्चन्द्रमाः । येनापानमहोत्सवव्यतिकरेष्वेकातपत्राय्यते देवस्य त्रिदशाधिपावधिजगज्जिष्णोर्मनोजन्मनः ॥ टीका २.७४ ॥ अत्र सुब्धातुवृत्तेः समासवृत्तेश्च किमपि वक्रतावैचित्र्यं परिस्फुरति । एवं वृत्तिवक्रतां विचार्य पदपूर्वार्धभाविनीमुचितावसरां भाववक्रतां विचारयति _________________________________________________________________ साध्यतामप्यनादृत्य सिद्धत्वेनाभिधीयते । यत्र भावो भवेदेषा भाववैचित्र्यवक्रता ॥ २.२० ॥ एषा वर्णितस्वरूपा भाववैचित्र्यवक्रता भवत्यस्ति । भावो धात्वर्थरूपस्तस्यै वैचित्र्यं विचित्रभावः प्रकारान्तराभिधानव्यतिरेकि रामणीयकं तेन वक्रता वक्रत्वविच्छित्तिः । कीदृशीयत्र यस्यां भावः सिद्धत्वेन परिनिष्पन्नत्वेनाभिधीयते भण्यते । किं कृत्वासाध्यतामप्यनादृत्य निष्पाद्यमानतां प्रसिद्धामप्यवधीर्य । तदिदमत्र तात्पर्यम्यत्साध्यत्वेनाभिधानादपरिनिष्पत्तेः प्रस्तुतस्यार्थस्य दुर्बलः परिपोषः तस्मात्सिद्धत्वेनाभिधानं परिनिष्पन्नत्वात्पर्याप्तं प्रकृतार्थपरिपोषमावहति । यथा श्वासायासमलीमसाधररुचेर्देः कन्दलीतानवात्केयूरायितमङ्गदैः परिणतं पाण्डिम्नि गण्डत्विषा । अस्याः किं च विलोचनोत्पलयुगेनात्यन्तमश्रुस्त्रुता तारं तादृगपाङ्गयोररुणितं येनोत्प्रतापः स्मरः ॥ टीका २.७५ ॥ अत्र भावस्य सिद्धत्वेनाभिधानमतीव चमत्कारकारि । एवं भाववक्रतां विचार्य प्रातिपदिकान्तर्वर्तिनीं लिङ्गवक्रतां विचारयति _________________________________________________________________ भिन्नयोर्लिङ्गयोर्यस्यां सामानाधिकरण्यतः । कापि शोभाभ्युदेत्येषा लिङ्गवैचित्र्यवक्रता ॥ २.२१ ॥ एषा कथितस्वरूपा लिङ्गवैचित्र्यवक्रता स्त्षादिविचित्रभाववक्रताविच्छित्तिः । भवतीति संबन्धः, क्रियान्तराभावात्कीदृशीयस्यां यत्र भिन्नयोर्विभक्तस्वरूपयोर्लिङ्गयोर्द्वयोः सामानाधिकरण्यतस्तुल्याश्रयत्वादेकद्रव्यवृत्तित्वात्काप्यपूर्वा शोभाभ्युदेति कान्तिरुल्लसति । यथा यस्यारोपणकर्मणापि बहवो वीरव्रतं त्याजिताः कार्यं पुङ्खितबाणमीश्वरधनुस्तद्दोर्भिरेभिर्मया । स्त्रीरत्नं तदगर्भसंभवमितो लभ्यं च लीलायिता तेनैषा मम फुल्लपङ्कजवनं जाता दृशां विंशतिः ॥ टीका २.७६ ॥ यथा वा नभस्वता लासितकल्पवल्ली प्रवालबालव्यजनेन यस्य । उरः स्थलेऽकीर्यत दक्षिणेन सर्वास्पदं सौरभमङ्गरागः ॥ टीका २.७७ ॥ आयोज्य मालामृतुभिः प्रयत्न संपादितांमंसतटेऽस्य चक्रे । करारविन्दं मकरन्दबिन्दु स्यन्दि श्रिया विभ्रमकर्णपूरः ॥ टीका २.७८ ॥ इयमपरा च लिङ्गवैचित्र्यवक्रता _________________________________________________________________ सति लिङ्गान्तरे यत्र स्त्रीलिङ्गं च प्रयुज्यते । शोभानिष्पत्तये यस्मान्नामैव स्त्रीति पेशलम् ॥ २.२२ ॥ यत्र यस्यां लिङ्गान्तरे सत्यन्यस्मिन् संभवत्यपि लिङ्गे स्त्रीलिङ्गं प्रयुज्यते निबध्यते । अनेकलिङ्गत्वेऽपि पदार्थस्य स्त्रीलिङ्गविषयः प्रयोगः क्रियते । किमर्थम्शोभानिष्पत्तये कान्तिसम्पत्तये । कस्मात्कारणात्यस्मान्नामैव स्त्रीति पेशलम् । स्त्रीत्यभिधानमेव हृदयहारि । विच्छित्यन्तरेण रसादिप्रयोजन योग्यत्वात् । उदाहरणं यथेयं ग्रीष्मोष्मव्यतिकरवती पाण्डुरभिदा मुखोद्भिन्नम्लानानिलतरलवल्लीकिसलया । तटी तारं ताम्यत्यतिशशियशाः कोऽपि जलद स्तथा मन्ये भावी भुवनवलयाक्रान्तिसुभगा ॥ टीका २.७९ ॥ अत्र त्रिलिङ्गत्वे सत्यपि "तटऽशब्दस्य, सौकुमार्यात्स्त्रीलिङ्गमेव प्रयुक्तम् । तेन विच्छिन्त्यन्तरेण भावी नायकव्यवहारः कश्चिदासूत्रित इत्यतीव रमणीयत्वाद्वक्रतामावहति ॥ इदमपरमेतस्याः प्रकारान्तरं लक्षयति _________________________________________________________________ विशिष्टं योज्यते लिङ्गमन्यस्मिन् संभवत्यपि । यत्र विछित्तये सान्या वाच्यौचित्यानुसारतः ॥ २.२३ ॥ सा चोक्तस्वरूपा अन्या अपरा लिङ्गवक्रता विद्यते । यत्र यस्यां विशिष्टं योज्यते लिङ्गत्रयाणामेकतमं किमपि कविविवक्षया निबध्यते । कथमन्यस्मिन् संभवत्यपि, लिङ्गान्तरे विद्यमानेऽपि । किमर्थम्विच्छित्तये शोभायै । कस्मात्कारणात्वाच्यौचित्यानुसारतः । वाच्यस्य वर्ण्यमानस्य वस्तुनो यदौचित्यमुचितभावस्तस्यानुसरणमनुसारस्तस्मात् । पदार्थौचित्यमनुसृत्येत्यर्थः । यथा त्वं रक्षसा भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे । अदर्शयन् वक्तुमशक्नुवन्त्यः शाखाभिरावर्जितपल्लवाभिः ॥ टीका २.८० ॥ अत्र सीतया सह रामः पुष्पकेनावतरंस्तस्याः स्वयमेव तद्विरहवैधुर्यमावेदयतितत्त्वं रावणेन तथाविधत्वरापरतन्त्रचेतसा मार्गे यस्मिन्नपनीता तत्र तदुपमर्दवशात्तथाविधसंस्थानयुक्तत्वं लतानामुन्मुखत्वं मम त्वन्मार्गानुमानस्य निमित्ततामापन्नमिति वस्तु विच्छित्त्यन्तरेण रामेण योज्यते । यथाहे भीरु स्वाभाविकसौकुमार्यकातरान्तः करणे, रावणेन तथाविधक्रूरकर्मकारिणा यस्मिन्मार्गे त्वमपनीता तमेताः साक्षात्कारपरिदृश्यमानमूर्तयो लताः किल ममादर्श यन्निति । तन्मार्गप्रदर्शनं परमार्थतस्तासां निश्चेतनतया न संभाव्यत इति प्रतीयमानवृत्तिरुत्प्रेक्षालङ्कारः कवेरभिमतः । यथातव भीरुत्वं रावणस्य क्रौर्यं ममापि त्वत्परित्राणप्रयत्नपरतां पर्यालोच्य स्त्रीस्वभावादार्द्रहृदयत्वेन समुचितस्वविषयपक्षपातमाहात्म्यादेताः कृपयैव मम मार्गप्रदर्शनमकुर्वन्निति । केन करणभूतेनशाखाभिरावर्जितपल्लवाभिः । यस्माद्वागिन्द्रियवर्जितत्वाद्वक्तुमशक्नुवन्त्यः । यत्किल ये केचिदजल्पन्तो मार्गप्रदर्शनं प्रकुर्वन्ति ते तदुन्मुखीभूतहस्तपल्लवैर्बाहुभिरित्येतदतीव युक्तियुक्तम् । तथा चात्रैव वाक्यान्तरमपि विद्यते मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षा स्तवागतिज्ञं समबोधयन्माम् । व्यापारयन्त्यो दिखि दक्षिणस्या मुत्पक्ष्मराजीनि विलोचनानि ॥ टीका २.८१ ॥ हरिण्यश्च मां समबोधयन् । कीदृशम्तवागतिज्ञम्, लताप्रदर्शितमार्गमजानन्तम् । ततस्ताः मम्यगबोधयन्निति, यतस्तास्तदपेक्षया किञ्चित्प्रबुद्धा इति । ताश्च कीदृश्यःतथाविधवैशससंदर्शनवशाद्दुःखितत्वेन परित्यक्ततृणग्रासाः । किं कुर्वाणाःतस्यां दिशि नयनानि समर्पयन्त्यः । कीदृशानिऊर्ध्वोकृतपक्ष्मपङ्क्तीनि । तदेवं तथाविधस्थानकयुक्तत्वेन दक्षिणां दिशमन्तरिक्षेण नीतेति संज्ञया निवेदयन्त्यः । अत्र वृक्षमृगादिषु लिङ्गान्तरेषु संभवत्स्वपि स्त्रीलिङ्गमेव पदार्थौचित्यानुसारेण चेतनचमत्कारकारितया कवेरभिप्रेतम् । तस्मात्कामपि वक्रतामावहति । एवं प्रातिपदिकलक्षणस्य सुबन्तसंभविनः पदपूर्वार्धस्य यथासंभवं वक्रभावं विचार्येदानीमुभयोरपि सुप्तिङन्तयोर्धातुस्वरूपः पूर्वभागो यः संभवति तस्य वक्रतां विचारयति । तस्य च क्रियावैचित्र्यनिबन्धनगेव वक्रत्वं विद्यते । तस्मात्क्रियावैचित्र्यस्यैव कीदृशाः कियन्तश्च प्रकाराः संभवन्तीति तत्स्वरूपनिरूपणार्थमाह _________________________________________________________________ कर्त्तुरत्यन्तरङ्गत्वं कर्त्रन्तरविचित्रता । स्वविशेषणवैचित्र्यमुपचारमनोज्ञता ॥ २.२४ ॥ कर्मादिसंवृतिः पञ्च प्रस्तुतौचित्यचारवः । क्रियावैचित्र्यवक्रत्वप्रकारास्त इमे स्मृताः ॥ २.२५ ॥ क्रियावैचित्र्यवक्रत्वप्रिकारा धात्वर्थविचित्रभाववक्रताप्रभेदास्त इमे स्मृता वर्ण्यमानस्वरूपाः कीर्तिताः । कियन्तः पञ्च पञ्चसंख्याविशिष्टाः । कीदृशाःप्रस्तुतौचित्यचारवः । प्रस्तुतं वर्ण्यमानं वस्तु तस्य यदौचित्यमुचितभावस्तेन चारवो रमणीयाः । तत्र प्रथमस्तावत्प्रकारो यत्कर्तुरत्यन्तरङ्गत्वं नाम । कर्तुः स्वतन्त्रतया मुख्यभूतस्य कारकस्य क्रियां प्रति निर्वर्तयितुर्यदत्यन्तरङ्गत्वमत्यन्तमान्तरतम्यम् । यथा चूडारत्ननिषण्णदुर्वहजगद्भारोन्नमत्कन्धरो धत्तामुद्धुरतामसौ भगवतः शेषस्य मूर्धा परम् । स्वैरं संस्पृशतीषदप्यवनतिं यस्मिन् लुठन्त्यक्रमं शून्ये नूनमियन्ति नाम भुवनान्युद्दामकम्पोत्तरम् ॥ टीका २.८२ ॥ अत्रोद्धुरता धारणलक्षणक्रिया कर्तुः फणीश्वरमस्तकस्य प्रस्तुतौचित्यमाहात्म्यादन्तर्भावं यथा भजते तथा नान्या काचिदिति क्रियावैचित्र्यवक्रतामावहति । यथा वा किं शोभिताहमनयेति पिनाकपाणेः पृष्टस्य पातु परिचुम्बनमुत्तर वः ॥ टीका २.८३ ॥ अत्र चुम्बनव्यतिरेकेण भगवता तथाविधलोकोत्तरगौरी शोभातिशयाभिधानं न केनचित्क्रियान्तरेण कर्तुं पार्यत इति क्रियावैचित्र्यनिबन्धनं वक्रभावमावहति । यथा च रुद्दस्स तैअणअणं पव्वैपरिचुम्बिअं जऐ ॥ टीका २.८४ ॥ रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ॥ इति छाया । यथा वा सिढिलिअचाओ जऐ मअरद्धओ ॥ टीका २.८५ ॥ शिथिलीकृतचापो जयति मकरध्वजः ॥ इति छाया । एतयोर्वैचित्र्यं पूर्वमेव व्याख्यातम् । अयमपरः क्रियावैचित्र्यवक्रतायाः प्रकारःकर्त्रन्तरविचित्रता । अन्यः कर्ता कर्त्रन्तरं तस्माद्विचित्रता वैचित्र्यम् । प्रस्तुतत्वात्सजातीयत्वाच्च कर्तुरेव । एतदेव च तस्य वैचित्र्यं यद्क्रियामेव कर्त्रन्तरापेक्षया विचित्रस्वरूपां संपादयति । यथा नैकत्र शक्तिविरतिः क्वचिदस्ति सर्वे भावाः स्वभावपरिनिष्ठिततारतम्याः । आकल्पमौर्वदहनेन निपीयमान मम्भोधिमेकचुलकेन पपावगस्त्यः ॥ टीका २.८६ ॥ अत्रैकचुलकेनाम्भोधिपानं सतताध्यवसायाभायासकाष्ठाधिरूढिप्रौढत्वाद्वाडवाग्नेः किमपि क्रियावैचित्र्यमुद्वहत्वक्रतामुन्मीलयति । यथा वा प्रपन्नार्तिच्छिदो नखाः ॥ टीका २.८७ ॥ यथा वा स दहतु दुरितं शाम्भवो वः शराग्निः ॥ टीका २.८८ ॥ एतयोर्वैचित्र्यं पूर्वमेव प्रदर्शितम् । अयमन्यः क्रियावैचित्र्यवक्रातायाः प्रभेदःस्वविशेषणवैचित्र्यम् । मुख्यतया प्रस्तुतत्वात्क्रियायाः स्वस्यात्मनो यद्विशेषणं भेदकं तेन वैचित्र्यं विचित्रभावः । यथा इत्युद्गते शशिनि पेशलकान्तिदूती संलापसंवलितलोचनमानसाभिः । अग्राहि मण्डनविधिर्विपरीतभूषा विन्यासहासितसखीजनमङ्गनाभिः ॥ टीका २.८९ ॥ अत्र मण्डनविधिग्रहणलक्षणायाः क्रियाया विपरीतभूषाविन्यासहासितसखीजनमिति विशेषणेन किमपि सौकुमार्यमुन्मीलितम् । यस्मात्तथाविधादरोपरचितं प्रसाधनं यस्य व्यञ्जकत्वेनोपात्तं मुख्यतया वर्ण्यमानवृत्तेर्वल्लभानुरागस्य सोऽप्यनेन सुतरां समुत्तेजितः । यथा वा मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः ॥ टीका २.९० ॥ अस्य वैचित्र्यं पूर्वमेवोदितम् । एतच्च क्रियाविशेषणं द्वयोरपि क्रियाकारकयोर्वक्रत्वमुल्लासयति । यस्माद्विचित्रक्रियाकारित्वमेव कारकवैचित्र्यम् । इदमपरं क्रियावैचित्र्यवक्रतायाः प्रकारान्तरमुपचारमनोज्ञता । उपचारः सादृश्यादिसमन्वयं समाश्रित्य धर्मान्तराध्यारोपस्तेन मनोज्ञता वक्रत्वम् । यथा तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च । दृशोर्लोलारम्भाः स्फुटमपवदन्ते सरलतामहो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥ टीका २.९१ ॥ अत्र स्खलदमललावण्यजलधौ समुल्लसद्विमलसौन्दर्यसंभारसिन्धौ परिस्फुरपरिस्पन्दतया प्लवमानत्वेन लक्ष्यमाणानि पारप्राप्तिमासादयितुं व्यवस्यन्तीवेति चेतनपदार्थसंभविसादृश्योपचारात्तारुण्यतरलतरुणीगात्राणां तरणमुत्प्रेक्षितम् । उत्प्रेक्षायाश्चोपचार एव भूयसा जीवितत्वेन परिस्फुरतीत्युत्प्रेक्षावसर एव विचारयिष्यते । प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च (इति)अत्र स्तनजघनं कर्तृ प्रथिम्नः प्रागल्भ्यं महत्त्वस्य प्रौढिमुन्मुद्रयत्युन्मीलयति । यथा कश्चिच्चेतनः किमपि रक्षणीयं वस्तु मुद्रयित्वा कमपि समयमवस्थाप्य समुचितोपयोगावसरे स्वयमुन्मुद्रयत्युद्धाटयति, तदेवं तत्कारित्वसाम्यात्स्तनजघनस्योन्मुद्रणमुपरितम् । तदिदमुक्तं भवति यद्तदेव शैशवदशायां शक्त्यात्मना विमीलितस्वरूपमनवस्थितमासीत्, तस्य प्रथिम्नः प्रागल्भ्यस्य प्रथमतरतारुण्यावतारावसरसमुचितं प्रथनप्रसरं समर्पयति । दृशोर्लोलारम्भाः स्फुटमपवदन्ते सरलताम् (इति)अत्र शैशवप्रतिष्ठितां स्पष्टतां प्रकटमेवापसार्य दृशोर्विलासोल्लासाः कमपि नवयौवनसमुचितं विभ्रममधिरोपयन्ति । यथा केचिच्चेतनाः कुत्रचिद्विषये कमपि व्यवहारं समासादितप्रसरमपसार्य किमपि स्वाभिप्रायाभिमतं परिस्पन्दान्तरं प्रतिष्ठापयन्तीति तत्कारित्वसादृश्याल्लीलावतीलोचनविलासोल्लासानां सरलत्वापवदनमुपचरितम् । तदेवंविधेनोपचारेणैतास्तिस्त्रोऽपि वक्रताप्रकाराः प्रतिपदं संभवन्तीत्यवसरान्तरे विचार्यन्ते । इदमपरं क्रियावैचित्र्यवक्रतायाः प्रकारान्तरम्कर्मादिसंवृतिः । कर्मप्रभृतीनां कारकाणां संवृतिः संवरणम्, प्रस्तुतौचित्यानुसारेण सातिशयप्रतीतये समाच्छाद्याभिधा । सा च क्रियावैचित्र्यकारित्वात्प्रकारत्वेनाभिधीयते । कारणे कार्योपचाराद्यथा नेत्रान्तरे मधुरमर्पयतीव किञ्चित्कर्णान्तिके कथयतीव किमप्यपूर्वम् । अन्तः समुल्लिखति किञ्चिदिवासिताक्ष्या रागालसे मनसि रम्यपदार्थलक्ष्मीः ॥ टीका २.९२ ॥ अत्र तदनुभवैकगोचरत्वादनाख्येयत्वेन किमपि सातिशयं प्रतिपदं कर्म संपादयन्त्यः क्रियाः स्वात्मनि कमपि वक्रभावमुद्भावयन्ति । उपचारमनोज्ञताप्यत्र विद्यते । यस्मादर्पणकथनोल्लेखनान्युपचारनिबन्धनान्येव चेतनपदार्थधर्मत्वात् । यथा च नृत्तारम्भाद्विरतरभसस्तिष्ठ तावन्मुहूर्तं यावन्मौलौ श्लथमचलतां भूषणं ते नयामि । इत्याख्याय प्रणयमधुरं कान्तया योज्यमाने चूडाचन्द्रे जयति सुखिनः कोऽपि शर्वस्य गर्वः ॥ टीका २.९३ ॥ अत्र "कोऽपिऽ इत्यनेन सर्वनामपदेन तदनुभवैकगोचरत्वादव्यपदेश्यत्वेन सातिशयः शर्वस्य गर्व इति कर्तृसंवृतिः । जयति सर्वोत्कर्षेण वर्तते इति क्रियावैचित्र्यनिबन्धनम् । इत्ययं पदपूर्वार्धवक्रभावो व्यवस्थितः । दिङ्मात्रमेवमेतस्य शिष्टं लक्ष्ये निरूप्यते ॥ टीका २.९४ ॥ इति संग्रहश्लोकः । तदेवं सुप्तिङन्तयोर्द्वयोरपि पदपूर्वार्धस्य प्रातिपदिकस्य धातोश्च यथायुक्ति वक्रतां विचार्येदानीं तयोरेव यथास्वमपरार्धस्य प्रत्ययलक्षणस्य वक्रतां विचारयति । तत्र क्रियावैचित्र्यवक्रातायाः समनन्तरसंभविनः क्रमसमन्वितत्वात्कालस्य वक्रत्वं पर्यालोच्यते, क्रियापरिच्छेदकत्वात्तस्य । _________________________________________________________________ औचित्यान्तरतम्येन समयो रमणीयताम् । याति यत्र भवत्येषा कालवैचित्र्यवक्रता ॥ २.२६ ॥ एषा प्रक्रान्तस्वरूपा भवत्यस्ति कालवैचित्र्यवक्रता । कालो वैयाकरणादिप्रसिद्धो वर्तमानादिर्लट्प्रभृतिप्रत्ययवाच्यो यः पदार्थानामुदयतिरोधानविधायी, तस्य वैचित्र्यं विचित्रभावस्तथाविधत्वेनोपनिबन्धस्तेन वक्रता वक्रत्वविच्छित्तिः । कीदृशीयत्र यस्यां समयःकालाख्यो रमणीयतां याति रामणीयकं गच्छति । केन हेतुनाऔचित्यान्तरतम्येन । प्रस्तुतत्वात्प्रस्तावाधिकृतस्य वस्तुनो यदौचित्यमुचितभावस्तस्यान्तरतम्येनान्तरङ्गत्वेन, तदतिशयोत्पादकत्वेनेत्यर्थः । यथा समविसमणिव्विसेसा समन्तओ मन्दमन्दसंचारा । ऐरा होहिन्ति पहा मणोरहाणं पि दुल्लङ्घा ॥ टीका २.९५ ॥ समविषमनिर्विशेषाः समन्ततो मन्दमन्दसञ्चाराः । अचिराद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लङ्घ्याः ॥ इति छाया । अत्र वल्लभाविरहवैधुर्यकातरान्तः करणेन भाविनः समयस्य संभावनानुमानमहात्म्यमुत्प्रेक्ष्य उद्दीपनविभावत्वविभवविलसितं तत्परिस्पन्दसौन्दर्यसन्दर्शनासहिष्णुना किमपि भयविसंष्ठुलत्वमनुभूय शङ्काकुलत्वेन केनचिदेतदभिधीयतेयदचिराद्भविष्यन्ति पन्थानो मनोरथानामप्यलङघनीया इति भविष्यत्कालाभिधायी प्रत्ययः कामपि परार्धवक्रतां विकासयति । यथा वा यावत्किञ्चिदपूर्वमार्द्रमनसामावेदयन्तो नवाः सौभाग्यातिशयस्य कामपि दशां गन्तुं व्यवस्यन्त्यमी । भावास्तावदनन्यजस्य विधुरः कोऽप्युद्यमो जृम्भते पर्याप्ते मधुविभ्रमे तु किमयं कर्तेति कम्पामहे ॥ टीका २.९६ ॥ अत्र व्यवस्यन्ति जृम्भते कर्ता कम्पामहे चेति प्रत्ययाः प्रत्येकं प्रतिनियतकालाभिधायिनः कामपि पदपरार्धवक्रतां प्रख्यापयन्ति । तथा चप्रथमतरावतीर्णमधुसमयसौकुमार्यसमुल्लसितसुन्दरपदाथ्रसार्थसमुन्मेषसमुद्दीपितसहजविभवविलसितत्वेन मकरकेतोर्मनाङ्मात्रमाधवसामर्थ्य समुल्लसितातुलशक्तेः सरसहृदयविधुरताविधायी कोऽपि संरम्भः समुज्जृम्भते । तस्मादनेनानुमानेन पुनः परं परिपोषमधिरोहति । कुसुमाकरविभवविभ्रमे मानिनीमानदलनदुर्ललितसमुदितसहजसौकुमार्यसंपत्संजनितसमुचितजिगीषावसरः किमसौ विधास्यतीति विकल्पयन्तस्तत्कुसुमशरनिकरनिपातकातरान्तः करणाः किमपि कम्पामहे चकितचेतसः संपद्यामह इति प्रियतमाविरहविधुरचेतसः सरसहृदयस्य कस्यचिदेतदभिधानम् । एवं कालवक्रतां विचार्य क्रमसमुचितावसरां कारकवक्रतां विचारयति _________________________________________________________________ यत्र कारकसामान्यं प्राधान्येन निबध्यते । तत्त्वाध्यारोपणान्मुख्यगुणभावाभिधानतः ॥ २.२७ ॥ परिपोषयितुं काञ्चिद्भङ्गीभणितिरम्यताम् । कारकाणां विपर्यासः सोक्ता कारकवक्रता ॥ २.२८ ॥ सोक्ता कारकवक्रता सा कारकवक्रत्वविच्छित्तिरभिहिता । कीदृशीयत्र यस्यां कारकाणां विपर्यासः साधनानां विपरिवर्तनम्, गौणमुख्ययोरितरेतरत्वापत्तिः । कथम्यत्कारकसामान्यं मुख्यापेक्षया करणादि तत्प्राधान्येन निबध्यते मुख्यभावेन प्रयुज्यते । कया युक्त्या तत्त्वाध्यारोपणात् । तदिति मुख्यपरामर्शः, तस्य भावस्तत्त्वं तदध्यारोपणात्मुख्यगुणभावाभिधानतः । मुख्यस्य यो गुणभावस्तदभिधानादमुख्यत्वेनोपनिबन्धादित्यर्थः । किमर्थम्परिपोषयितुं काञ्चिद्भङ्गीभणितिरम्यताम् । काञ्चिदपूर्वां विच्छित्युक्तिरमणीयतामुल्लासयितुम् । तदेवमचेतनस्यापि चेतनसभविस्वातन्त्र्यसमर्पणादमुख्यस्य करणादेर्वा कर्तृत्वाध्यारोपणाद्यत्र कारकविपर्यासश्चमत्कारकारी संपद्यते । यथा याञ्चां दैन्यपरिग्रहप्रणयिनीं नेक्ष्वाकवः शिक्षिताः सेवासंवलितः कदा रघुकुले मौलौ निबद्धोऽञ्जलिः । सर्वं तद्विहितं तथाप्युदधिना नैवोपरोधः कृतः पाणिः संप्रति मे हठात्किमपरं स्प्रष्टुं धनुर्धावति ॥ टीका २.९७ ॥ अत्र पाणिना धनुर्ग्रहीतुमिच्छामीति वक्तव्ये पाणेः करणभूतस्य कर्तृत्वाध्यारोपः कामपि कारकवक्रतां प्रतिपद्यते । यथा वा स्तनद्वन्द्वमित्यादौ ॥ टीका २.९८ ॥ यथा वा निष्पर्यायनिवेशपेशलरसैरन्योन्यनिर्भर्त्सिभिर्हस्ताग्रैर्युगपन्नपत्य दशभिर्वामैर्धृतं कार्मुकम् । सव्यानां पुनरप्रथीयसि विधावस्मिन् गुणारोपणे मत्सेवाविदुषामहंप्रथमिका काप्यम्बरे वर्तते ॥ टीका २.९९ ॥ अत्र पूर्वंवदेव कर्तृत्वाध्यारोपनिबन्धनं कारकवक्रत्वम् । यथा वा बद्धस्पर्द्ध इति ॥ टीका २.१०० ॥ एवं कारकवक्रतां विचार्य क्रमसमन्वितां संख्यावक्रतां विचारयति, तत्परिच्छेदकत्वात्संख्यायाः _________________________________________________________________ कुर्वन्ति काव्यवैचित्र्यविवक्षापरतन्त्रिताः । यत्र संख्याविपर्यासं तां संख्यावक्रतां विदुः ॥ २.२९ ॥ यत्र यस्यां कवयः काव्यवैचित्र्यविवक्षापरतन्त्रिताः स्वकर्मविचित्रभावाभिधित्सापरवशाः संख्याविपर्यासं वचनविपरिवर्तनं कुर्वन्ति विदधते तां संख्यावक्रतां विदुः तद्वचनवक्रत्वं जानन्ति तद्विदः । तदयमत्रार्थःयदेकवचने द्विवचने प्रयोक्तव्ये वैचित्र्यार्थं वचनान्तरं यत्र प्रयुज्यते, भिन्नवचनयोर्वा यत्र सामानाधिकरण्यं विधीयते । यथा कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निश्वासैरयममृतहृद्योऽधररसः । मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥ टीका २.१०१ ॥ अत्र "न त्वहम्ऽ इति वक्तव्ये, "न तु वयम्ऽ इत्यनन्तरङ्गत्वप्रतिपादनार्थं ताटस्थ्यप्रतीतये बहुवचनं प्रयुक्तम् । यथा वा वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥ टीका २.१०२ ॥ अत्रापि पूर्ववदेव ताटस्थ्यप्रतीतिः । यथा वा फुल्लेन्दीवरकाननानि नयने पाणी सरोजाकराः ॥ टीका २.१०३ ॥ अत्र द्विवचनबहुवचनयोः सामानाधिकरण्यलक्षणः संख्याविपर्यासः सहृदयहृदयहारितामावहति । यथा वा शास्त्राणि चक्षुर्नवमिति ॥ टीका २.१०४ ॥ अत्र पूर्ववदेवैकवचनबहुवचनयोः सामानाधिकरण्यं वैचित्र्यविधायि । एवं संख्यावक्रतां विचार्य तद्विषयत्वात्पुरुषाणां क्रमसमर्पितावसरां पुरुषवक्रतां विचारयति _________________________________________________________________ प्रत्यक्ता परभावश्च विपर्यासेन योज्यते । यत्र विच्छित्तये सैषा ज्ञेया पुरुषवक्रता ॥ २.३० ॥ यत्र यस्यां प्रत्यक्ता निजात्मभावः परभावश्च अन्यत्वमुभ्यमप्येतद्विपर्यासेन योज्यते विपरिवर्तनेन निबध्यते । किमर्थम्विच्छित्तये वैचित्र्याय । सैषा वर्णितस्वरूपा ज्ञेया ज्ञातव्या पुरुषवक्रता पुरुषवक्रत्वविच्छित्तिः । तदयमत्रार्थःयदन्यस्मिन्नुत्तमे मध्यमे वा पुरुषे प्रयोक्तव्ये वैचित्र्यायान्यः कदाचित्प्रथमः प्रयुज्यते । तस्माच्च पुरुषैकयोगक्षेमत्वादस्मादादेः प्रातिपदिकमात्रस्य च विपर्यासः पर्यवस्यति । यथा कौशाम्बीं परिभूय नः कृपणकैर्विद्वेषिभिः स्वीकृतां जानाम्येव तथा प्रमादपरतां पत्युर्नयद्वेषिणः । स्त्रीणां च प्रियविप्रयोगविधुरं चेतः सदैवात्र मे वक्तुं नोत्सहते मनः परमतो जानातु देवी स्वयम् ॥ टीका २.१०५ ॥ अत्र "जानातु देवी स्वयम्ऽ इति युष्मदि मध्यमपुरुषे प्रयोक्तव्ये प्रातिपदिकमात्रप्रयोगेण वक्तुस्तदशक्यानुष्ठानतां मन्यमानस्यौदासीन्यप्रतीतिः । तस्याश्च प्रभुत्वात्स्वातन्त्र्येण हिताहितविचारपूर्वकं स्वयमेव कर्तव्यार्थप्रतिपत्तिः कमपि वाक्यवक्रभावमावहति । यस्मादेतदेवास्य वाक्यस्य जीवितत्वेन परिस्फुरति । एवं पुरुषवक्रतां विचार्य पुरुषाश्रयत्वादात्मनेपदपरस्मैपदयोरुचितावसरां वक्रतां विचारयति । धातूनां लक्षणानुसारेण नियतपदाश्रयः प्रयोगः पूर्वाचार्याणाम् "उपग्रहऽशब्दाभिधेयतया प्रसिद्धः । तस्मात्तदभिधानेनैव व्यवहरति _________________________________________________________________ पदयोरुभयोरेकमौचित्याद्विनियुज्यते । शोभायै यत्र जल्पन्ति तामुपग्रहवक्रताम् ॥ २.३१ ॥ तामुक्तस्वरूपामुपग्रहवक्रतामुपग्रहवक्रत्वविच्छित्तिं जल्पन्ति कवयः कथयन्ति । कीदृशीयत्र यस्यां पदयोरुभयोर्मध्यादेवकमात्मनेपदं परस्मैपदं वा विनियुज्यते विनिबध्यते नियमेन । कस्मात्कारणातौचित्यात् । वर्ण्यमानस्य वस्तुनो यदौचित्यमुचितभावस्तस्मात्, तं समाश्रित्येत्यर्थः । किमर्थम्शोभायै विच्छित्तये । यथा तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः । त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि ॥ टीका २.१०६ ॥ अत्र राज्ञः सुललितविलासवतीलोचनविलासेषु स्मरणगोचरमवतरत्सु तत्परायत्तचित्तवृत्तेराङ्गिकप्रयत्नपरिस्पन्दविनिवर्तमानो मुष्टिर्बिभिदे भिद्यते स्म । स्वयमेवेति कर्मकर्तृनिबन्धनमात्मने पदमतीव चमत्कारकारिणीं कामपि वाक्यवक्रतामावहति । एवमुपग्रहवक्रतां विचार्य तदनुसंभविनीं प्रत्ययान्तरवक्रतां विचारयति _________________________________________________________________ विहितः प्रत्ययादन्यः प्रत्ययः कमनीयताम् । यत्र कामपि पुष्णाति सान्या प्रत्ययवक्रता ॥ २.३२ ॥ सान्या प्रत्ययवक्रता सा समाम्नातरूपादन्यापरा काचित्प्रत्ययवक्रत्वविच्छित्तिः । अस्तीति संबन्धः । यत्र यस्यां प्रत्ययः कामप्यपूर्वां कमनीयतां रम्यतां पुष्णाति पुष्यति । कीदृशःप्रत्ययात्तिङादेर्विहितः पदत्वेन विनिर्मितोऽन्यः कश्चिदिति । यथा लीनं वस्तुनि येन सूक्ष्मसुभगं तत्त्वं गिरा कृष्यते निर्मातुं प्रभवेन्मनोहरमिदं वाचैव यो वा बहिः । वन्दे द्वावपि तावहं कविवरौ वन्देतरां तं पुनर्यो विज्ञातपरिश्रमोऽयमनयोर्भारावतारक्षमः ॥ टीका २.१०७ ॥ "वन्देतराम्ऽ इत्यत्र कापि प्रत्ययवक्रता कवेश्चेतसि परिस्फुरति । ततएव "पुनःऽशब्दः पूर्वस्माद्विशेषाभिधायित्वेन प्रयुक्तः । एवं नामाख्यातस्वरूपयोः पदयोः प्रत्येकं प्रकृत्याद्यवयवविभागद्वारेण यथासंभवं वक्रभावं विचार्येदानीमुपसर्गनिपातयोरव्युत्पन्नत्वादसंभवद्विभक्तिकत्वाच्च निरस्तावयवत्वे सत्यविभक्तयोः साकल्येन वक्रतां विचारयति _________________________________________________________________ रसादिद्योतनं यस्यामुपसर्गनिपातयोः । वाक्यैकजीवितत्वेन सापरा पदवक्रता ॥ २.३३ ॥ सापरा पदवक्रतासा समर्पितस्वरूपापरा पूर्वोक्तव्यतिरिक्ता पदवकत्वविच्छित्तिः । अस्तीति संबन्धः । कीदृशीयस्यां वक्रतायामुपसर्गनिपातयोर्वैयाकरणप्रसिद्धाभिधानयोः रसादिद्योतनं शृङ्गारप्रभृतिप्रकाशनम् । कथम्वाक्यैकजीवितत्वेन । वाक्यस्य श्लोकादेरेकजीवितं वाक्यैकजीवितं तस्य भावस्तत्त्वं तेन । तदिदमुक्तं भवतियद्वाक्यस्यैकस्फुरितभावेन परिस्फुरति यो रसादिस्तत्प्रकाशनेनेत्यर्थः । यथा वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥ टीका २.१०८ ॥ अत्र रघुपतेस्तत्कालज्वलितोद्दीपनविभावसंपत्समुल्लासितः संभ्रमो निश्चितजनितजानकीविपत्तिसंभावनस्तत्परित्राणकरणोत्साहकारणतां प्रतिपद्यमानस्तेदेकाग्रतोल्लिखितसाक्षात्कारस्तदाकारतया विस्मृतविप्रकर्षः प्रत्यग्ररसपरिस्पन्दसुन्दरो निपातपरंपराप्रतिपाद्यमानवृत्तिर्वाक्यैकजीवितत्वेन प्रतिभासमानः कामपि वाक्यवक्रतां समुन्मीलयति । तुशब्दस्य च वक्रभावः पूर्वमेव व्याख्यातः । यथा वा अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥ टीका २.१०९ ॥ अत्र द्वयोः परस्परं सुदुःसहत्वोद्दीपनसामर्थ्यसमेतयोः प्रियाविरहवर्षाकालयोस्तुल्यकालत्वप्रतिपादनपरं "चऽशब्दद्वितयं समसमयसमुल्लसितवह्निदाहदक्षदक्षिणवातव्यजनसमानतां समर्थयत्कामपि वाक्यवक्रतां समुद्दीपयति । "सुऽ "दुःऽशब्दाभ्यां च प्रियाविरहस्याशक्यप्रतीकारता प्रतीयते । यथा च मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥ टीका २.११० ॥ अत्र नायकस्य प्रथमाभिलाषविवशवृत्तेरनुभवस्मृतिसमुल्लिखिततत्कालसमुचिततद्वदनेन्दुसौन्दर्यस्य पूर्वमपरिचुम्बन स्खलितसमुद्दीपितपश्चात्तापदशावेश द्योतनपरः "तुऽशब्दः कामपि वाक्यवक्रतामुत्तेजयति । एतदुत्तरत्र प्रत्ययवक्रत्वमेवंविधप्रत्ययान्तरवक्रभावान्तर्भूतत्वात्पृथक्त्वेन नोक्तमिति स्वयमेवोत्प्रेक्षणीयम् । यथा येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विषणोः ॥ टीका २.१११ ॥ अत्र "अतितराम्ऽ इत्यतीव चमत्कारकारि । एवमन्येषामपि सजातीयलक्षणद्वारेण लक्षणनिष्पत्तिः स्वयमनुसर्तव्या । तदेवमियमनेकाकारा वक्रत्वविच्छित्तिश्चतुर्विधपदविषया वावयैकदेशजीवितत्वेनापि परिस्फुरन्ती सकलवाक्यवैचित्र्यनिबन्धनतामुपयाति । वक्रतायाः प्रकाराणामेकोऽपि कविकर्मणः । तद्विदाह्लादकारित्वहेतुतां प्रतिपद्यते ॥ टीका २.११२ ॥ इत्यन्तरश्लोकः । यद्येवमेकस्यापि वक्रताप्रकारस्य यदेवंविधो महिमा, तदेते बहवः संपतिताः सन्तः किं संपादयन्तीत्याह _________________________________________________________________ परस्परस्य शोभायै बहवः पतिताः क्वचित् । प्रकारा जनयन्त्येतां चित्रच्छायामनोहराम् ॥ २.३४ ॥ क्वचिदेकस्मिन् पदमात्रे वाक्ये वा वक्रताप्रकारा वक्रत्वप्रभेदा बहवः प्रभूताः पतिताः कविप्रतिभामाहात्म्यसमुल्लसिताः । किमर्थम्परस्परस्य शोभायै, अन्योन्यस्य विच्छित्तये । एतामेव चित्रच्छायामनोहरामनेकाकारकान्तिरमणीयां वक्रतां जनयन्त्युत्पादयन्ति । यथा तरन्तीव इति ॥ टीका २.११३ ॥ अत्र क्रियापदानां त्रयाणामपि प्रत्येकं त्रिप्रकारं वैचित्र्यं परिस्फुरतिक्रियावैचित्र्यं कारकवैचित्र्यं कालवैचित्र्यं च । प्रथिमस्तनजघनतरुणिम्नां त्रयाणामपि वृत्तिवैचित्र्यम् । लावण्यजलधिप्रगल्भ्यसरलतापरिचयशब्दानामुपचारवैचित्र्यम् । तदेवमेते बहवो वक्रताप्रकारा एकस्मिन् पदे वाक्ये वा संपतिताश्चित्रच्छायामनोहरामेतामेव चेतनचमत्कारकारिणीं वाक्यवक्रतामावहन्ति । एवं नामाख्यातो पसर्गनिपातलक्षणस्य चतुर्विधस्यापि पदस्य यथासंभवं वक्रताप्रकारान् विचार्येदानीं प्रकरणमुपसंहृत्यान्यदवतारयति _________________________________________________________________ वाग्वल्ल्याः पदपल्लवास्पदतया या वक्रतोद्भासिनी विच्छित्तिः सरसत्वसंपदुचिता काप्युज्ज्वला जृम्भते । तामालोच्य विदग्धषट्पदगणैर्वाक्यप्रसूनाश्रयं स्फारामोदमनोहरं मधु नवोत्कण्ठाकुलं पीयताम् ॥ २.३५ ॥ वागेव वल्ली वाणीलता तस्याः काप्यलौकिकी विच्छित्तिर्जृस्भते शोभा समल्लसति । कथम्पदपल्लवास्पदतया । पदान्येव पल्लवानि सुप्तिङन्तान्येव पत्राणि तदास्पदतया तदाश्रयत्वेन । कीदृशी विच्छित्तिःसरसत्वसंपदुचिता, रसवत्त्वातिशयोपपन्ना । किंविशिष्टा चवक्रतया वक्रभावेनोद्भासते भ्राजते या सा तथोक्ता । कीदृशीउज्ज्वला, छायातिशयरमणीया । तामेवंविधामालोच्य विचार्य विदग्धषट्पदगणैर्विबुधषट्चरणचक्रैर्मधु पीयतां मकरन्द आस्वाद्यताम् । कीदृशम्वाक्यप्रसूनाश्रयम् । वाक्यान्येव पदसमुदायरूपाणि प्रसूनानि पुष्पाण्याश्रयः स्थानं यस्य तत्तथोक्तम् । अन्यच्च कीदृशम्स्फारामोदमनोहरम् । स्फारः स्फीतो योऽसावामोदस्तद्धर्मविशेषस्तेन मनोहरं हृदयहारि । कथमास्वाद्यताम्नवोत्कण्ठाकुलं नूतनोत्कलिकाव्यग्रम् । मधुकरसमूहाः खलु वल्ल्याः प्रथमोल्लसितपल्लवोल्लेखमालोच्य प्रतितचेतसःसमनन्तरोद्भिन्नवस्तु सुकुमारकुसुममकरन्दपानमहोत्सवमनुभवन्ति । तद्वदेव सहृदयाः पदास्पदं कामपि वक्रताविच्छित्तिमालोच्य नवोत्कलिकाकलितचेतसो वाक्याश्रयं किमपि वक्रताजीवितसर्वस्वं विचारयन्त्विति तात्पर्यार्थः । अत्रैकत्र सरसत्वं स्वसमयसंभवि रसार्द्रत्वम्, अन्यत्र शृङ्गारादिव्यञ्जकत्वम् । वक्रतैकत्र बालेन्दुसुन्दरसंस्थानयुक्तत्वम्, इतरत्र रूढ्यादिवैचित्र्यम् । विच्छित्तिरेकत्र सुविभक्तपत्रत्वम्, अन्यत्र कविकौशलकमनीयता । उज्ज्वलत्वमेकत्र पर्णच्छायातिशय युक्तत्वमपरत्र संनिवेशसौन्दर्यसमुदयः । आमोदः पुष्पेषुसौरभम्, वाक्येषु तद्विदाह्लादकारिता । मधु कुसुमेषु मकरन्दः, वाक्येषु सकलकाव्यकारणकलाप संपत्समुदय इति । इति श्रीराजानककुन्तकविरचिते वक्रोक्तिजीविते काव्यालङ्कारे द्वितीय उन्मेषः । ==================================================================== वक्रोक्तिजीवितं तृतीयोन्मेषः एवं पूर्वस्मिन् प्रकरणे वाक्यावयवानां पदानां यथासंभव वक्रभावं विचारयन् वाचकवक्रताविच्छित्तिप्रकारणां दिक्प्रदर्शनं विहितवान् । इदानीं वाक्यवक्रतावैचित्र्यमासूत्रयिर्तु वाच्यस्य वर्णनीयतया प्रस्तावाधिकृतस्य वस्तुनो वक्रातास्वरूपं निरूपयति, पदार्थावबोधपूर्वकत्वाद्वाक्यार्थावसितेः _________________________________________________________________ उदारस्वपरिस्पन्दसुन्दरत्वेन वर्णनम् । वस्तुनो वक्रशब्दैकगोचरत्वेन वक्रता ॥ ३.१ ॥ वस्तुनो वर्णनीयतया प्रस्तावितस्य पदार्थस्य, यदेवंविधत्वेन वर्णनं सा तस्य वक्रता वक्रत्वविच्छित्तिः । किंविधत्वेनेत्याहौदारस्वपरिस्पन्दसुन्दरत्वेन । उदारः सोत्कर्षः सर्वातिशायी यः स्वपरिस्पन्दः स्वभावमहिमा तस्य सुन्दरत्वं सौकुमार्यातिशयस्तेन, अत्यन्तरमणीयस्वाभाविकधर्मयुक्तत्वेन । वर्णनं प्रतिपादनम् । कथम्वक्रशब्दैकगोचरत्वेन । वक्रो योऽसौ नानाविधवक्रताविशिष्टः शब्दः कश्चिदेव वाचकविशेषो विवक्षितार्थसमर्पण समर्थस्तस्यैवैकस्य केवलस्य गोचरत्वेन प्रतिपाद्यतया विषयत्वेन । वाच्यत्वेनेति नोक्तम्, व्यङ्ग्यत्वेनापि प्रतिपादनसंभवात् । तदिदमुक्तं भवतियदेवंविधे भावस्वभावसौसुमार्यवर्णनप्रस्तावे भूयसां न वाच्यालङ्काराणामुपमादीनामुपयोगयोग्यता संभवति, स्वभावसौकुमार्यातिशयम्लानताप्रसङ्गात् । ननु च सैषा सहृदयाह्लादकारिणी स्वभावोक्तिरलङ्कारतया समाम्नात्, तस्मात्किं तद्दषणदुर्व्यसनप्रयासेन ? यतस्तेषां सामान्यवस्तुधर्ममात्रमलङ्कार्यम्, सातिशयस्वभावसौन्दर्यपरिपोषणमलङ्कारः प्रतिभासते । तेन स्वभावोक्तेरलङ्कारत्वमेव युक्तियुक्तमिति ये मन्यन्ते तान् प्रति समाधीयतेतदेतन्नातिचतुरस्त्रम् । यस्मादगतिकगतिन्यायेन काव्यकरणं न यथाकथञ्चिदनुष्ठेयतामर्हति, तद्विदाह्लादकारिकाव्यलक्षणप्रस्तावात् । किञ्चअनुत्कृष्टधर्मयुक्तस्य वर्णनीयस्यालङ्करणमप्यसमुचितभित्तिभागोल्लिखितालेख्यवन्न शोभातिशयकारितामावहति । यस्मादत्यन्तरमणीयस्वाभाविकधर्मयुक्तंवर्णनीयवस्तु परिग्रहणीयम् । तथाविधस्य तस्य यथायोगमौचित्यानुसारेण रूपकाद्यलङ्कारयोजनया भवितव्यम् । एतावांस्तु विशेषो यत्स्वाभाविकसौकुमार्यप्राधान्येन विवक्षितस्य न भूयसा रूपकाद्यलङ्कारौपकाराय कल्पते, वस्तुस्वभावसौकुमार्यस्य रसादिपरिपोषणस्य वा समाच्छादनप्रसङ्गात् । तथा चैतस्मिन् विषये सर्वाकारमलङ्कार्यं विलासवतीव स्नानसमयविरहव्रतपरिग्रहसुरतावसानादौ नात्यन्तमलङ्करणसहतां प्रतिपद्यते, स्वाभाविकसौकुमार्यस्यैव रसिकहृदयाह्लादकारित्वात् । यथा तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने संनिहितेऽपि नार्यः ॥ टीका ३.१ ॥ अत्र तथाविधस्वभाविकसौकुमार्यमनोहरः शोभातिशयः कवेः प्रतिपादयितुमभिप्रेतः । अस्या अलङ्करणकलापकलनं सहजच्छायातिरोधानशङ्कास्पदत्वेन संभावितम् । यस्मात्स्वाभाविकसौकुमार्यप्राधान्येन वर्ण्यमानस्योदारस्वपरिस्पन्दमहिम्नः सहजच्छायातिरोधानविधायि प्रतीत्यन्तरापेक्षमलङ्करणकल्पनं नोपकारितां प्रतिपद्यते । विशेषतस्तुरसपरिपोषपेशलायाः प्रतीतेर्विभावानुभावव्यभिचार्यौचित्यव्यतिरेकेण प्रकारान्तरेण प्रतिपत्तिः प्रस्तुतशोभापरिहारकारितामावहति । तथा च प्रथमतरतरुणीतारुण्यावतारप्रभृतयः पदार्थाः सुकुमारवसन्तादिसमयसमुन्मेषपरिपोषपरिसमाप्तिप्रभृतयश्च स्वप्रतिपादकवाक्यवक्रताव्यतिरेकेण भूयसा न कस्यचिदलङ्करणान्तरस्य कविभिरलङ्करणीयतामुपनीयमानाः परिदृश्यन्ते । यथा स्मितं किञ्चिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः । गतानामारम्भः किसलयितलीलापरिमलः स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥ टीका ३.२ ॥ यथा वा अव्युत्पन्नमनोभवा मधुरिमस्पर्शोल्लसन्मानसा भिन्नान्तः करणं दृशौ मुकुलयन्त्याघ्रातभूतोद्भ्रमाः । रागेच्छां न समापयन्ति मनसः खेदं विनैवालसा वृत्तान्तं न विदन्ति यान्ति च वशं कन्या मनोजन्मनः ॥ टीका ३.३ ॥ यथा च दोर्मूलावधि इति ॥ टीका ३.४ ॥ यथा वा गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः । किं च त्रीणि जगन्ति जिष्णु दिवसैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः ॥ टीका ३.५ ॥ यथा वा हंसानां निनदेषु इति ॥ टीका ३.६ ॥ यथा च सज्जेहि सुरहिमासो ण दाव अप्पेइ जुऐजणलक्खसहे । अहिणअसहआरमुहे णवपल्लवपत्तले अणङ्गस्स सरे ॥ टीका ३.७ ॥ सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यसहान् । अभीनवसहकारमुखान्नवपल्लवपत्रलाननङ्गस्य शरान् ॥ इति छाया ॥ एवंविधविषये स्वाभाविकसौकुमार्यप्राधान्येन वर्ण्यमानस्य वस्तुनस्तदाच्छादनभयादेव न भूयसा तत्कविभिरलङ्करणमुपनिबध्यते । यदि वा कदाचिदुपनिबध्यते तत्तदेव स्वाभाविकं सौकुमार्यं सुतरां समुन्मीलयितुम्, न पुनरलङ्कारवैचित्र्योपपत्तये । यथा धौताञ्जने च नयने स्फटिकाच्छकान्तिर्गण्डस्थली विगतकृत्रिमरागमोष्ठम् । अङ्गानि दन्तिशिशुदन्तविनिर्मलानि किं यन्न सुन्दरमभुत्तरुणीजनस्य ॥ टीका ३.८ ॥ अत्र "दन्तिशिशुदन्तविनिर्मलानि" इत्युपमया स्वाभाविकमेव सौन्दर्यमुन्मीलितम् । यथा वा अकठोरवारणवधूदन्ताङ्कुरस्पर्धिनःिति ॥ टीका ३.९ ॥ एतदेवातीव युक्तयुक्तम् । यस्मान्महाकवीनां प्रस्तुतौचित्यानुरोधेन कदाचित्स्वाभाविकमेव सौन्दर्यमैकराज्येन विजृम्भयितुमभिप्रेतं भवति, कदाचिद्विविधारचनावैचित्र्युक्तमिति । अत्र पूर्वस्मिन् पक्षे, रूपकादेरलङ्कारणकलापस्य नात्यादृतत्वम् । अपरस्मिन् पुनः स एवसुतरां समुज्जृम्भते । तस्मादनेन न्यायेन सर्वातिशायिनः स्वाभाविकसौन्दर्यलक्षणस्य पदार्थपरिस्पन्दस्यालङ्कार्यत्वमेव युक्तियुक्ततामालम्बते, न पुनरलङ्कारणत्वम् । सातिशयत्वशून्यधर्मयुक्तस्य वस्तुनो विभूषितस्यापि पिशाचादेरिव तद्विदाह्लादकारित्वविरहादनुपादेयत्वमेवेत्यलमतिप्रसङ्गेन । यदि वा प्रस्तुतौचित्यमाहात्म्यान्मुक्यतया भावस्वभावः सातिशयत्वेन वर्ण्यमानः स्वमहिम्ना भूषणान्तरासहिष्णुः स्वयमेव शोभातिशयशालित्वादलङ्कार्योऽप्यलङ्करणमित्यभिधीयते तदयमास्माकीनएव पक्षः । तदतिरिक्तवृत्तेरलङ्कारान्तरस्य तिरस्कारतात्पर्येणाभिधानान्नात्र वयं विवदामहे । एवमेषैव वर्ण्यमानस्य वस्तुनो वक्रतेत्युतान्या काचिदस्तीत्याह _________________________________________________________________ अपरा सहजाहार्यकविकौशलशालिनी । निर्मितिर्नूतनोल्लेखलोकातिक्रान्तगोचरा ॥ ३.२ ॥ अपरा द्वितीया वर्ण्यमानवृत्तेः पदार्थस्य निर्मितिः सृष्टिः । वक्रतेति संबन्धः । कीदृशीसहजाहार्यकविकौशलशालिनी । सहजं स्वाभाविकमाहार्यं शिक्षाभायाससमुल्लासितं च शक्तिव्युत्पत्तिपरिपाकप्रौढं यत्कविकौशलं निर्मातृनैपुणं तेन शालते श्लाघ्यते या सा तथोक्ता । अन्यच्च कीदृशीनूतनोल्लेखलोकातिक्रान्तगोचरा । नूतनस्तत्प्रथमो योऽसावुल्लिख्यत इत्युल्लेखस्तत्कालमुल्लिख्यमानातिशयः, तेन लोकातिक्रान्तः प्रसिद्धव्यापारातीतः कोऽपि सर्वातिशायी गोचरो विषयो यस्याः सा तथोक्तेति विग्रहः । निर्मितिस्तेन रूपेण विहितिरित्यर्थः । तदिदमत्र तात्पर्यं यन्न वर्ण्यमानस्वरूपाः पदार्थाः कविभिरभूताः सन्तः क्रियन्ते, केवलं सत्तामात्रेणैव परिस्फुरतां तेषां तथाविधः कोऽप्यतिशयः पुराधीयते, येन कामपि सहृदयहृदयहारिणीं रमणीयतामधिरोप्यन्ते । तदिदमुक्तम् लीनं वस्तुनि ॥ टीका ३.१० ॥ इत्यादि । तदेवं सत्तामात्रेणैव परिस्फुरतः पदार्थस्य कोऽप्यलौकिकः शोभातिशयविधायी विच्छित्तिविशेषोऽभिधीयते, येन नूतनच्छायामनो हारिणा वास्तवस्थितितिरोधानप्रवणेन निजावभासोद्भासितस्वरूपेण तत्कालोल्लिखित इव वर्णनीयपदार्थपरिस्पन्दमहिमा प्रतिभासते, येन विधातृव्यपदेशपात्रतां प्रतिपद्यन्ते कवयः । तदिदमुक्तम् अपारे काव्यसंसारे कविरेव प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥ टीका ३.११ ॥ सैषा सहजार्यभेदभिन्ना वर्णनीयस्य वस्तुनो द्विप्रकारा वक्रता । तदेवमाहार्या येयं सा प्रस्तुतविच्छित्तिविधाप्यलङ्कारव्यतिरेकेण नान्या काचिदुपपद्यते । तस्माद्बहुविधतत्प्रकारप्रभेदद्वारेणात्यन्तविततव्यवहाराः परिदृश्यन्ते । यथा अस्याः सर्गविधौ प्रजपतिरभूच्चन्द्रो नु कान्तद्युतिः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ टीका ३.१२ ॥ अत्र कान्तायाः किमपि कान्तिमत्त्वमसमविलाससंपदां पदं च रसवत्त्वमसामान्यसौष्ठवं च सौकुमार्यं प्रतिपादयितुं प्रत्येकं तत्परिस्पन्दप्राधान्यसमुचितसंभावनानुमानमाहात्म्यात्पृथक्पृथगपूर्वमेव निर्माणमुत्प्रेक्षितम् । तथा च कारणत्रितयस्याप्येतस्य सर्वेषां विशेषणानां स्वयमिति संबध्यमानमेतदेव सुतरां समुद्दीपयति । यः किल स्वयमेव कान्तद्युतिस्तस्य सौजन्यसमुचितादरोचकित्वात्कान्तिकत्कार्यकरणकौशलमेवोपपन्नम् । यश्च स्वयमेव शृङ्गारैकरसस्तस्य रसिकत्वादे रसवद्वस्तुविधानवैदग्ध्यमौचित्यं भजते । यश्च स्वयमेव पुष्पाकरस्तस्याभिजात्यादेव तथाविधः सुकुमार एव सर्गः समुचितः । तथा चोत्तरार्धे व्यतिरेकमुखेन त्रयस्याप्येतस्य कान्तिमत्त्वादेर्विशेषणैरन्यथानुपपत्तिरुपपादिता । यस्माद्वेदाभ्यासजडत्वात्कान्तिमद्वस्तुविधानानभिज्ञत्वम्, विषयव्यावृत्तकौतुकत्वाद्रसवत्पदार्थे विहितवैमुख्यम्, पुराणत्वात्सौकुमार्यसरसभावविरचनवैरस्यं प्रजापतेः प्रतीयते । तदेवमुत्प्रेक्षालक्षणोऽयमलङ्कारः कविना वर्णनीयस्य वस्तुनः कमप्यलौकिकोल्लेखविलक्षणमतिशयमाधातुम निबद्धः । स च स्वभावसौन्दर्यमहिम्ना स्वयमेव तत्सहायसंपदा महार्घमहनीयतामीहमानः सन्देहसंसर्गमङ्गीकरोतीति तेनोपबृंहितः । तस्माल्लोकोत्तरनिर्मातृनिर्मितत्वं नाम नूतनः कोऽप्यतिशयः पदार्थस्य वर्णयमानवृत्तेर्नायिकास्वरूपसौन्दर्यलक्षणस्यात्र निर्मितः कविना, येन तदेव तत्प्रथममुत्पादितमिव प्रतिभाति । यत्राप्युत्पाद्यं वस्तु प्रबन्धार्थवदपूर्वतया वाक्यार्थस्तत्कालमुल्लिख्यते कविभिः, तस्मिन् स्वसत्तासमन्वयेन स्वयमेव परिस्फुरतां पदार्थानां तथाविधपरस्परान्वयलक्षणसंबन्धोपनिबन्धनं नाम नवीनमतिशयमात्रमेव निर्मितिविषयतां नीयते, न पुनः स्वरूपम् । यथा कस्त्वं भो दिवि मालिकोऽहमिह किं पुष्पार्थमभ्यागतः किं तेनास्तु महान् क्रयो यदि महच्चित्रं तदाकर्ण्यताम् । संग्रामेष्वलभाभिधाननृपतौ दिव्याङ्गनाभैः स्त्रजः प्रोज्झन्तीभिरविद्यमानकुसुमं यस्मात्कृतं नन्दनम् ॥ टीका ३.१३ ॥ तदेवंविधे विषये वर्णनीयवस्तुविशिष्टातिशयविधायी विभूषणविन्यासो विधेयतां प्रतिपद्यते । तथा चप्रकृतमिदमुदाहरणमलङ्करणकल्पनं विना सम्यङ्न कथञ्चिदपि वाक्यार्थसङ्गति भजते । यस्मात्प्रत्यक्षादिप्रमाणोपपत्तिनिश्चयाभावात्स्वाभाविकं वस्तु धर्मितया व्यवस्थापनंन सहते, तस्माद्विदग्धकविप्रतिभोल्लिखितालङ्करणगोचरत्वेनैव सहृदयहृदयाह्लादमादधाति । तथा च, दुःसहसमरसमयसमुचितशौर्यातिशयश्लाघया प्रस्तुतनरनाथविषये वल्लभलाभरभसोल्लसितसुरसुन्दरीसमूहसमर्प्यमाणमन्दारादिकुसुमदामसहस्त्रसंभावनानुमाननन्दनोद्यानपादपप्रसूनसमृद्धिप्रध्वंसभावसिद्धिः सुत्प्रेक्षिता । यस्मादुत्प्रेक्षाविषयं वस्तु कवयस्तदिवेति तदेवेति वा द्विविधमुपनबध्नन्तीत्येत (त्त)ल्लक्षणावसर एव विचारयिष्यामः । तदेवमियमुत्प्रेक्षा पूर्वार्धविहिताप्रस्तुतप्रशंसोपनिबन्धबन्धुरा प्रकृतपार्थिवप्रतापातिशयपरिपोषप्रवणतया सुतरां समुद्भासमाना तद्विदावर्जनं जनयतीति सातिशयत्वम् । उत्प्रेक्षातिशयान्विता ॥ टीका ३.१४ ॥ इत्येतस्याः, स्वलक्षणानुप्रवेश इत्यतिशयोक्तेश्च कालङ्कारोऽनया विना ॥ टीका ३.१५ ॥ इति सकलालङ्करणानुग्राहकत्वम् । तस्मात्पृथगतिशयोक्तिरेवेयं मुख्यतयेत्युच्यमानेऽपि न किञ्चिदतिरिच्यते । कविप्रतिभोत्प्रेक्षितत्वेन चात्यन्तमसंभाव्यमप्युपनिबध्यमानमनयैव युक्त्या समञ्जसतां गाहते, न तपुनः स्वतन्त्र्येण । यद्वा कारणतो लोकातिक्रान्तगोचरत्वेन वचसः सैवेयमित्यस्तु, तथापि प्रस्तुतातिशयविधानव्यतिरेकेण न किञ्चिदपूर्वमत्रास्ति । तदेवमभिधानस्य पूर्वमभिधेयस्य चेह वक्रतामभिधायेदानीं वाक्यस्य वक्रत्वमभिधातुमुपक्रमते _________________________________________________________________ मार्गस्थवक्रशब्दार्थगुणालङ्कारसंपदः । अन्यद्वाक्यस्य वक्रत्वं तथाभिहितिजीवितम् ॥ ३.३ ॥ मनोज्ञफलकोल्लेखवर्णच्छायाश्रियः पृथक् । चित्रस्येव मनोहारि कर्तुः किमपि कौशलम् ॥ ३.४ ॥ अन्यद्वाक्यस्य वक्रत्वम्वाक्यस्य परस्परान्वितवृत्तेः पदसमुदायस्यान्यदपूर्वं व्यतिरिक्तमेव वक्रत्वं वक्रभावः । भवतीति संबन्धः, क्रियान्तराभावात् । कुतःमार्गस्थवक्रशब्दार्थगुणालङ्कारसंपदः । मार्गाः सुकुमारादयस्तत्रस्थाः केचिदेव वक्राः प्रसिद्धव्यवहारव्यतिरेकिणो ये शब्दार्थगुणालङ्कारास्तेषां संपत्काप्युपशोभा तस्याः पृथग्भूतं किमपि वक्रत्वान्तरमेव । कीदृशम्तथाभिहितजीवितम् । तथा तेन प्रकारेण केनाप्यव्यपदेश्येन याबिहितिः काप्यपूर्वैवाभिधा सैव जीवितं सर्वस्वं यस्य तत्तथोक्तम् । किस्वरूपमित्याहकर्तुः किमपि कौशलम् । कर्तुर्विधातुः किमप्यलौकिकं यत्कौशलं नैपुणं तदेव वाक्यस्य वक्रत्वमित्यर्थः । कथञ्चिद्चित्रस्येव, आलेख्यस्य यथा, मनोहारि हृदयरञ्जकं प्रकृतोपकरणव्यतिरेकि कर्तुरेव कौशलं किमपि पृथग्भूतं व्यतिरिक्तम् । कुत इत्याहमनोज्ञफलकोल्लेखवर्णच्छायाश्रियः । मनोज्ञाः काश्चिदेव हृदयहारिण्यो याः फलकोल्लेखवर्णच्छायास्तासां श्रीरुपसोभा तस्याः । पृथग्रूपं किमपि तत्त्वान्तरमेवेत्यर्थः । फलकमालेख्याधारभूता भित्तिः, उल्लेखश्चित्रसूत्रप्रमाणोपपन्नं रेखाविन्यसनमात्रम्, वर्णा रञ्जकद्रव्यविशेषाः, छाया कान्तिः । तदिदमत्र तात्पर्यम्यथा चित्रस्य किमपि फलकाद्युपकरणकलापव्यतिरेकि सकलप्रकृतपदार्थजीवितायमानं चित्रकरकौशलं पृथकत्वेन मुख्यतयोद्भासते, तथैव वाक्यस्य मार्गादिप्रकृतपदार्थसार्थव्यतिरेकि कविकौशललक्षणं किमपि सहृदयहृदयसंवेद्यं सकलप्रस्तुतपदार्थस्फुरितभूतं वक्रत्वमुज्जृम्बते । तथा च, भावस्वभावसौकुमार्यवर्णने शृङ्गारादिरसस्वरूपसमुन्मीलने वा विविधविभूषणविन्यासविच्छित्तिविरचने च यः परः परिपोषातिशयस्तद्विदाह्लादकारितायाः कारणम् । पदवाक्यैकदेशवृत्तिर्वा यः कश्चिद्वक्रताप्रकारस्तस्य कविकौशलमेव निबन्धनतया व्यवतिष्ठते । यस्मादाकल्पानामेव तावन्मात्रस्वरूपनियतनिष्ठतया व्यवस्थितानां रसस्वभावालङ्करणवक्रताप्रकाराणां नवनवोल्लेखविलक्षणं चेतनचमत्कारकारि किमपि स्वरूपान्तरमेतस्मादेव समुज्जृम्भते । येनेदमभिधीयते आसंसारं कैपुङ्गवेहिं पडिदिअहगहिअसारो वि । अज्जवि अभिन्नमुद्दो व्व जऐ वाआं परिप्फन्दो ॥ टीका ३.१६ ॥ आसंसारं कविपुङ्गवैः प्रतिदिवसगृहीतसारोऽपि । अद्याप्यभिन्नमुद्र इव जयति वाचां परिस्पन्दः ॥ इति छाया । अत्र सर्गारम्भात्प्रभृति कविप्रधानैः प्रातिस्विकप्रतिभापरिस्पन्दमाहात्म्यात्प्रतिदिवसगृहीतसर्वस्वोऽप्यद्यापि नवनवप्रतिभासानन्त्यविजृम्भणादनुद्धाटितप्राय इव यो वाक्यपरिस्पन्दः स जयति सर्वोत्कर्षेण वर्तते इत्येवमस्मिन् सुसङ्गतेऽपि वाक्यार्थे कविकौशलस्य विलसितं किमप्यलौकिकमेव परिस्फुरति । यस्मात्स्वाभिमानध्वनिप्राधान्येन तेनैतदभिहितं यथाआसंसारं कविपुङ्गवैः प्रतिदिवसं गृहीतसारोऽप्यद्याप्यभिन्नमुद्र इवायम् । एवमपरिज्ञाततत्त्वतया न केनचित किमप्येतस्माद्गृहीतमिति मत्प्रतिभोद्धाटितपरमार्थस्येदानीमेव मुद्राबन्धोद्भेदो भविष्यतीति लोकोत्तरस्वपरिस्पन्दसाफल्यापत्तेर्वाक्यपरिस्पन्दो जयतीतिसंबन्धः । यद्यपि रसस्वभावालङ्काराणां सर्वेषां कविकौशलमेव जीवितम्, तथाप्यलङ्कारस्य विशेषतस्तदनुग्रहं विना वर्णनाविषयवस्तुनो भूषणाभिधायित्वेनाभिमतस्य स्वरूपमात्रेण परिस्फुरतो यथार्थत्वेन निबध्यमानस्य तद्विदाह्लादनिधानानुपपत्तेर्मनाङ्मात्रमपि न वैचित्र्यमुत्प्रेक्षामहे, प्रचुरप्रवाहपतितेतरपदार्थसामान्येन प्रतिभासनात् । यथा दूर्वाकाण्डमिव श्यामा तन्वी श्यामालता यथा ॥ टीका ३.१७ ॥ इति च नूतनोल्लेखमनोहारिणः पुरेतस्य लोकोत्तरविन्यसनविच्छित्तिविशेषितशोभातिशयस्य किमपि तद्विदाह्लादकारित्वमुद्भिद्यते । यथा अस्याः सर्गविधौ ॥ टीका ३.१८ ॥ इति । यथा किं तारुण्यतरोः ॥ टीका ३.१९ ॥ इति । तदेवं पृथग्भावेनापि भवतोऽस्य कविकौशलायत्तवृत्तित्वलक्षणवाक्यवक्रतान्तर्भाव एव युक्तियुक्ततामवगाहते । तदिदमुक्तम् वाक्यस्य वक्रभावोऽन्यो भिद्यते यः सहस्त्रधा । यत्रालङ्कारवर्गोऽसौ सर्वोऽप्यन्तर्भविष्यति ॥ टीका ३.२० ॥ स्वभावोदाहरणं यथा तेषां गोपवधूविलाससुहृदां राधारहः साक्षिणां क्षेमं भद्र कलिन्दशैलतनयातीरे लतावेश्मानाम् । विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगेऽधुना ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः ॥ टीका ३.२१ ॥ अत्र यद्यपि सहृदयसंवेद्यं वस्तुसंभवि स्वभावमात्रमेव वर्णितम्, तथाप्यनुत्तानतया व्यवस्थितस्यास्य विरलविदग्धहृदयैकगोचरं किमपि नूतनोल्लेखमनोहारि पदार्थान्तर्लोनवृत्ति सूक्ष्मसुभगं तादृक्स्वरूपमुन्मीलितं येन वाक्यवक्रतात्मनः कविकौशलस्य काचिदेव काष्ठाधिरूढिरुपपद्यते । यस्मात्तद्व्यतिरिक्तवृत्तिरर्थातिशयो न कश्चिल्लभ्यते । रसोदाहरणं यथा लोको यादृशमाह साहसधनं तं क्षत्रियापुत्रकं स्यात्सत्येन स तादृगेव न भवेद्वार्ता विसंवादिनी । एकां कामपि कालविप्रुषममी शौर्योष्मकण्डूव्यय व्यग्राः स्युश्चिरविस्मृतामरचमूडिम्बाहवा बाहवः ॥ टीका ३.२२ ॥ अत्रोत्साहाभिधानः स्थायिभावः समुचितालम्बनविभावलक्षणविषयसौन्दर्यातिशयश्लाघाश्रद्धालुतया विजिगीषोर्वैदग्ध्यभङ्गीभणितवैचित्र्येण परां परिपोषपदवीमधिरोपितः सन् रसतां नीयमानः किमपि वाक्यवक्रभावस्वभावं कविकौशलमावेदयति । अन्येषां पूर्वप्रकरणोदाहरणानां प्रत्येकन्तथाभिहितिजीवितलक्षणं वाक्यवक्रत्वं स्वयमेव सहृदयैर्विचारणीयम् । वक्रतायाः प्रकाराणामौचित्यगुणशालिनाम् । एतदुत्तेजनायालं स्वस्पन्दमहतामपि ॥ टीका ३.२३ ॥ रसस्वभावालङ्कारा आसंसारमपि स्थिताः । अनेन नवतां यान्ति तद्विदाह्लाददायिनीम् ॥ टीका ३.२४ ॥ इत्यन्तरश्लोकौ । एवमभिधानाभिदेयाभिधालक्षणस्य काव्योपयोगिनस्त्रितयस्य स्वरूपमुल्लिख्य वर्णनीयस्य वस्तुनो विषयविभागं विदधाति _________________________________________________________________ भावानामपरिम्लानस्वभावौचित्यसुन्दरम् । चेतनानां जडानां च स्वरूपं द्विविधं स्मृतम् ॥ ३.५ ॥ भावानां वर्ण्यमानवृत्तीनां स्वरूपं परिस्पन्दः । कीदृशम्द्विविधम् । द्वे विधे प्रकारौ यस्य तत्तथोक्तम् । स्मृतं सूरिभिराम्नातम् । केषां भावानाम्चेतनानां जडानां च । चेतनानां संविद्वतां प्राणिनामिति यावत्॑ जडानां तद्व्यतिरेकिणां प्राणचैतन्यशून्यानाम् । एतदेव च धर्मिद्वैविध्यं धर्मद्वैविध्यस्य निबन्धनम् । कीदृक्स्वरूपंपरिम्लानस्वभावौचित्यसुन्दरम् । अपरिम्लानः प्रत्यग्रपरिपोषपेशलो यः स्वभावः पारमार्थिको धर्मस्तस्य यदौचित्यमुचितभावः प्रस्तावोपयोग्यदोषदुष्टत्व तेन सुन्दरं सुकुमारं तद्विदाह्लादकमित्यर्थः । एतदेव द्वैविध्यं विभज्य विचारयति _________________________________________________________________ तत्र पूर्वं प्रकाराभ्यां द्वाभ्यामेव विभिद्यते । सुरादिसिंहप्रभृतिप्राधान्येतरयोगतः ॥ ३.६ ॥ तत्र द्वयोः स्वरूपयोर्मध्यात्पूर्वं यत्प्रथमं चेतनपदार्थसंबन्धि तद्द्वाभ्यामेव राश्यन्तराभावात्प्रकाराभ्यां विभिद्यते भेदमासादयति, द्विविधमेव संपद्यते । कस्मात्सुरादिसिंहप्रभृतिप्राधान्येतरयोगतः । सुरादयः त्रिदशप्रभृतयो ये चेतनाः सुरासुरसिद्धविद्याधरगन्दर्वनरप्रभृतयः, ये चान्ये सिंहप्रभृतयः केसरिप्रमुखास्तेषां यत्प्राधान्यं मुख्यत्वमितरदप्राधान्यं च ताभ्यां यथासंख्येन प्रत्येकं यो योगः संबन्धस्तस्मात्कारणात् । तदेवं सुरादीनां मुख्यचेतनानां स्वरूपमेकं कवीनां वर्णनास्पदम् । सिंहादीनाममुख्यचेतनानां पशुमृगपक्षिसरीसृपाणां स्वरूपं द्वितीयमित्येतदेव विशेषेणोन्मीलयति _________________________________________________________________ मृख्यमक्लिष्टरत्यादिपरिपोषमनोहरम् । स्वजात्युचितहेवाकसमुल्लेखोज्ज्वं परम् ॥ ३.७ ॥ मुख्यं यत्प्रधानं चेतनसुरासुरादिसंबन्धि स्वरूपं तदेवंविधं सत्कवीनां वर्णनास्पदं भवति स्वव्यापारगोचरतां प्रतिपद्यते । कीदृशमक्लिष्टरत्यादिपरिपोषमनोहरम् । अक्लिष्टः कदर्थनाविरहितः प्रत्यग्रतामनोहरो यो रत्यादिः स्थायिभावस्तस्य परिपोषः शृङ्गारप्रभृतिरसत्वापादनम्, "स्थाय्येव तु रसो भवेदिऽ ति न्यायात् । तेन मनोहरं हृदयहारि । अत्रोदाहरणानि विप्रलम्भशृङ्गारे चतुर्थेऽङ्के विक्रमोर्वश्यामुन्मत्तस्य पुरूरवसः प्रलपितानि । यथा तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः । तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनों सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥ टीका ३.२५ ॥ अत्र राज्ञो वल्लभाविरहवैधुर्यदशावेशविवशवृत्तेस्तदसंप्राप्तिनिमित्तमनधि गच्छतः प्रथमतरमेव स्वाभाविकसौकुमार्यसंभाव्यमानमनन्तरोचितविचारापसार्यमाणोपपत्ति किमपि तात्कालिकविकल्पोल्लिख्यमानमनवलोकनकारणमुत्प्रेक्षमाणस्य तदासादनसमन्वयासंभवान्नैराश्यनिश्चयविमूढमानसतया रसः परां परिपोषपदवीमधैरोपितः । तथा चैतदेव वाक्यान्तरैरुद्दीपितं यथा पद्भ्यां स्पृशेद्वसुमतीं यदि सा सुगात्री मेघाभिवृष्टसिकतासु वनस्थलीषु । पश्चान्नता गुरुनितम्बतया ततोऽस्या दृश्येत चारुपदपङ्क्तिरलक्तकाङ्का ॥ टीका ३.२६ ॥ अत्र पद्भ्यां वसुमतीं कदाचित्स्पृशेदित्याशंसया तत्प्राप्तिः संभाव्येत । यस्माज्जलधरसलिलसेकसुकुमारसिकतासु वनस्थलीषु गुरुनितम्बतया तस्याः पश्चान्नतत्वेन नितरां मुद्रितसंस्थाना रागोपरक्ततया रमणीयवृत्तिश्चरणविन्यासपरंपरा दृश्येत, तस्मान्नैराश्यनिश्चितिरेवसुतरां समुज्जृम्भिता, या तदुत्तरवाक्योन्मत्तविलपितानां निमित्ततामभजत् । करुणरसोदाहरणानि तापसवत्सराजे द्वितीयेऽङ्के वत्सराजस्य परिदेवितानि । यथा धारावेश्म विलोक्य दीनवदनो भ्रान्त्वा च लीलागृहा न्निश्वस्यायतमाशु केसरलतावीथीषु कृत्वा दृशः । किं मे पार्श्वमुपैषि पुत्रक कृतैः किं चाटुभिः क्रूरया मात्रा त्वं परिवर्जितः सह मया यान्त्यातिदीर्घां भुवम् ॥ टीका ३.२७ ॥ अत्र रसपरिपोषनिबन्धनविभावादिसंपत्समुदयः कविना सुतरां समुज्जृम्भितः । तथा चास्यैव वाक्यस्यावतारकं विधूषकवाक्यमेवंविधं प्रयुक्तम् पमादो एसो क्खु देवीए पुत्तकिदको दरिणपोदो अत्तभवन्तं अणुसरदि ॥ टीका ३.२८ ॥ प्रमादः ! एष खलु देव्याः पुत्रकृतको हरिणपोतोऽत्रभवन्तमनुसरति ॥ इति छाया । एतेन करुणरसोद्दीपनविभावता हरिणपोतकधारागृहप्रभृतीनां सुतरां समुत्पद्यते । तथा च "अयमपरः क्षते क्षारावक्षेपः" इति रुमण्वद्वचनानन्तरमेतत्परत्वेनैव वाक्यान्तरमुपनिबद्धम्, यथा कर्णान्तस्थितपद्मरागकलिकां भूयः समाकर्षता चञ्च्वा दाडिमबीजमित्यभिहता पादेन गण्डस्थली । येनासौ तव तस्य नर्मसुहृदः खेदान्मुहुः क्रन्दतो निःशङ्कंन शुकस्य किं प्रतिवचो देवि त्वया दीयते ॥ टीका ३.२९ ॥ अत्र शुकस्यैवंविधदुर्ललितयुक्तत्वं वाल्लभ्यप्रतिपादनपरत्वेनोपात्तम् । "असौऽ इति कपोलस्थाल्याः स्वानुभवस्वदमानसौकुमार्योत्कर्षपरामर्शः । एवंविधोद्दीपनविभावैकजीवितत्वेन करुणरसः काष्ठाधिरूढिरमणीयतामनीयत । एवं विप्रलम्भशृङ्गारकरुणयोः सौकुमार्यादुदाहरणप्रदर्शनं विहितम् । रसान्तराणामपि स्वयमेवोत्प्रेक्षणीयम् । एवं द्वितीयमप्रधानचेतनसिहादिसंबन्धि यत्स्वरूपं तदित्थं कवीनां वर्णनास्पदं संपद्यते । कीदृशम्स्वजात्युचितदेवाकसमुल्लेखोज्ज्वलम् । स्वा प्रत्येकमात्मीया सामान्यलक्षणवस्तुस्वरूपा या जातिस्तस्याः समुचितो यो हेवाकः स्वभावानुसारी परिस्पन्दस्तस्य समुल्लेखःसम्यगुल्लेखनं वास्तवेन रूपेणोपनिबन्धस्तेनोज्ज्वलं भ्राजिष्णु, तद्विदाह्लादकारीति यावत् । यथा कदाचिदेतेन च पारियात्र गुहागृहे मीलितलोचनेन । व्यत्यस्तहस्तद्वितयोपविष्ट दंष्ट्राङ्कुराञ्चच्चिबुकं प्रसुप्तम् ॥ टीका ३.३० ॥ अत्र गिरिगुहागेहान्तरे निद्रामनुभवतः कैसरिणः स्वजातिसमुचितं स्थानकमुल्लिखितम् । यथा वा ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरंस्तोकमुर्व्यां प्रयाति ॥ टीका ३.३१ ॥ एतदेव प्रकारान्तरेणोन्मीलयति _________________________________________________________________ रसोद्दीपनसामर्थ्यविनिबन्धनबन्धुरम् । चेतनानाममुख्यानां जडानां चापि भूयसा ॥ ३.८ ॥ चेतनानां प्राणिनाममुख्यानामप्रधानभूतानां यत्स्वरूपं तदेवंविधं सत्, वर्णनीयतां प्रतिपद्यते प्रस्तुताङ्गतयोपयुज्यमानम् । कीदृशम्रसोद्दीपनसामर्थ्यविनिबन्धनबन्धुरम् । रसाः शृङ्गारादयस्तेषामुद्दीपनमुल्लासनं परिपोषस्तस्मिन् सामर्थ्यं शक्तिस्तया विनिबन्धनंनिवेशस्तेन बन्धुरं हृदयहारि । यथा चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज । मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥ टीका ३.३२ ॥ जडानां चापि भूयसाजडानामचेतनानां सलिलतरुकुसुमसमयप्रभृतीनामेवंविधं स्वरूपं रसोद्दीपनसामर्थ्यविनिबन्धनबन्धुरं वर्णनीयतामवगाहते । यथा इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति । किमुत मलयवातोन्मूलितापाण्डुपत्रै रुपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥ टीका ३.३३ ॥ यथा वा उद्भेदाभिमुखाङ्कुराः कुरवकाः शैवालजालाकुलप्रान्तं भान्ति सरांसि फेनपटलैः सीमन्तिताः सिन्धवः । किञ्चास्मिन् समये कृशाङ्गि विलसत्कन्दर्पकोदण्डिकक्रीडाभाञ्जि भवन्ति सन्ततलताकीर्णान्यरण्यान्यपि ॥ टीका ३.३४ ॥ एवं स्वाभाविकसुन्दरपरिस्पन्दनिबन्धनं पदार्थस्वरूपमभिधाय तदेवोपसंहरति _________________________________________________________________ शरीरमिदमर्थस्य रामणीयकनिर्भरम् । उपादेयतया ज्ञेयं कवीनां वर्णनास्पदम् ॥ ३.९ ॥ अर्थस्य वर्णनीयस्य वस्तुनः शरीरमिदमुपादेयतया ज्ञेयं ग्राह्यत्वेन बोद्धव्यम् । कीदृशं सत् रामणीयकनिर्भरम्, सौन्दर्यपरिपूर्णम्,औपहत्यरहितत्वेन तद्विदावर्जकमिति यावत् । कवीनामेतदेव यस्माद्वर्णनास्पदमभिधाव्यापरागोचरम् । एवंविधस्यास्य स्वरूपशोभातिशयभ्राजिष्णोर्विभूषणान्युपशोभान्तरमारभन्ते । एतदेव प्रकारान्तरेण विचारयति _________________________________________________________________ धर्मादिसाधनोपायपरिस्पन्दनिबन्धनम् । व्यवहारोचितं चान्यल्लभते वर्णनीयताम् ॥ ३.१० ॥ व्यवहारोचितं चान्यत् । अपरं पदार्थानां चेतनाचेतनानां स्वरूपमेवंविधं वर्णनीयतां लभते कविव्यापारविषयतां प्रतिपद्यते । कीदृशम्व्यवहारोचितम्, लोकवृत्तयोग्यम् । कीदृशं सत्धर्मादिसाधनोपायपरिस्पन्दनिबधनम् । धर्मादेश्चतुर्वर्गस्य साधने संपादने उपायभूतो यः परिस्पन्दः स्वविलसितं तदेव निबन्धनं यस्य तत्तथोक्तम् । तदिदमुक्तं भवतियत्काव्ये वर्ण्यमानवृत्तयः प्रधानचेतनप्रभृतयः सर्वे पदार्थाश्चतुर्वर्गसाधनोपायपरिस्पन्दप्राधान्येन वर्णनीयाः, येऽप्यप्रधानचेतनस्वरूपाः पदार्थास्तेऽपि धर्मार्थाद्युपायभूतस्वविलासप्राधान्येन कवीनां वर्णनीयतामवतरन्ति । तथा च राज्ञां शूद्रकप्रभृतीनां मन्त्रिणां च शुकनासमुख्यानां चतुर्वर्गानुष्ठानोपदेशपरत्वेनैव चरितानि वर्ण्यन्ते । अप्रधानचेतनानां हस्तिहरिणप्रभृतीनां संग्रममृगयाद्यङ्गतया परिस्पन्दसुन्दरं स्वरूपं लक्ष्ये वर्ण्यमानतया परिदृश्यते । तस्मादेव च तथाविधस्वरूपोल्लेखप्राधान्येन काव्यकाव्योपकरणकवीनां चित्रचित्रोपकरणचित्रकरैः साम्यं प्रथममेव प्रतिपादितम् । तदेवंविधं स्वभावप्राधान्ये रसप्राधान्येन च द्विप्रकारं सहजसौकुमार्यसरसं स्वरूपं वर्णनाविषयवस्तुनः शरीरमेवालङ्कार्यतामेवार्हति, न पुनरलङ्कारणत्वम् । तत्र स्वाभाविकं पदार्थस्वरूपमलङ्करणं यथा न भवति तथा प्रथममेव प्रतिपादितम् । इदानीं रसात्मनः प्राधानचेतनपरिस्पन्दवर्ण्यमानवृत्तेरलङ्कारकारान्तराभिमतामलङ्कारतां निराकरोति _________________________________________________________________ अलङ्कारो न रसवत्परस्याप्रतिभासनात् । स्वरूपादतिरक्तस्य शब्दार्थासङ्गतेरपि ॥ ३.११ ॥ अलङ्कारो न रसवत् । रसवदिति योऽयमुत्पादितप्रतीतिर्नामालङ्कारस्तस्य विभूषणत्वं नोपपद्यते इत्यर्थः । कस्मात्कारणात्स्वरूपादतिरिक्तस्य परस्याप्रतिभासनात् । वर्ण्यमानस्य वस्तुनो यत्स्वरूपमात्मीयः परिस्पन्दस्तस्मादतिरिक्तस्याभ्यधिकस्य परस्य अन्यस्य अप्रतिभासनादनवबोधनात् । तदिदमत्र तात्पर्यम्यत्सर्वेषामेव सत्कविवाक्यानामिदमलङ्कार्यमिदमलङ्करणमित्यपोद्धारविहितो विविक्तभावः सर्वस्य यस्य कस्यचित्प्रमातुश्चेतसि परिस्फुरति । रसवदलङ्कारवदित्यस्मिन् वाक्ये पुनरवहितचेतसोऽपि न किञ्चिदेतदेव बुध्यामहे । तथा चयदि शृङ्गारादिरेव प्राधान्येन वर्ण्यमानोऽलङ्कार्यः ततस्तदन्येन केनचिदलङ्करणेन भवितव्यम् । यदि वा तत्स्वरूपमेव तद्विदाह्लादनिबन्धनत्वादलङ्करणमित्युच्यते तथापि तद्व्यतिरिक्तमन्यदलङ्कार्यतया प्रकाशनीयम् । तदेवंविधो न कश्चिदपि विवेकश्चिरन्तनालङ्कारकाराभिमते रसवदलङ्कारलक्षणोदाहरणमार्गे मनागपि विभाव्यते । तथा च रसवद्दर्शितस्पष्टशृङ्गारादि ॥ टीका ३.३५ ॥ इति रसवल्लक्षणम् । अत्र दर्शिताः स्पृष्टाः स्पष्टं वा शृङ्गारादयो यत्रेति व्याख्याने काव्यव्यतिरिक्तो न कश्चिदन्यः समासार्थभूतः संलक्ष्यते । योऽसावलङ्कारः काव्यमेवेति चेत्तदपि न सुस्पष्टसौष्ठवम् । यस्मात्काव्यैकदेशयोः शब्दार्थयोः पृथक्पृथगलङ्काराः सन्तीत्युपक्रम्येदानीं काव्यमेवालङ्करणमित्युपक्रमोपसंहारवैषम्यदुष्टत्वमायाति । यदि वादर्शिताः स्पष्टं शृङ्गारादयो येनेति समासः, तथापि वक्तव्यमेवकोऽसाविति । प्रतिपादनवैचित्र्यमेवेति चेत्, तदपि न सम्यक्समर्थनार्हम् । यस्मात्प्रतिपाद्यमानादन्येदेव तदुपशोभानिबन्धनं प्रतिपादनवैचित्र्यम्, न पुनः प्रतिपाद्यमानमेव । स्पष्टतया दर्शितं रसानां प्रतिपादनवैचित्र्यं यद्यभिधीयते, तदपि न सुप्रतीपादनम् । स्पष्टतया दर्शने शृङ्गारादीनां स्वरूपपरिनिष्पत्तिरेव पर्यवस्यति । किञ्च रसवतः काव्यस्यालङ्कार इति तथाविधस्य सतस्तस्यासाविति न किञ्चिदनेन तस्याभिधेयं स्यात् । अथवा तेनैवालङ्कारेण रसवत्त्वं तस्याधीयते, तदेवं तर्ह्यसौ न रसवतोऽलङ्कारः प्रत्युत रसवानलङ्कार इत्यायाति, तन्माहात्म्यात्काव्यमपि रसवत्संपद्यते । यदि वा तेनैवाहितरससम्बन्धस्य रसवतः काव्यस्यालङ्कार इति तत्पश्चाद्रसवलङ्कारव्यवदेशमासादयतियथाग्निष्टोमयाज्यस्य पुत्रो भवितेत्युच्यते, तदपि न सुप्रतिबद्धसमाधानम् । यस्माद्"अग्निष्टोमयाजिऽशब्दः प्रथमं भूतलक्षणे विषयान्तरे निष्प्रतिपक्षतया समासादितप्रसिद्धिः पश्चाद्भविष्यति वाक्यार्थसबन्धलक्षणयोग्यतया तमनुभवितुं शक्नोति । न पुनरत्रैवं प्रयुज्यते । यस्माद्रसवतः काव्यस्यालङ्कार इति तत्संज्ञन्धितयैवास्य स्वरूपब्धिरेव । तत्संबन्धिनिबन्धनं च काव्यस्य रसवत्त्वमित्येवमितरेतराश्रयलक्षणदोषः केनापसार्यते । यदि वा रसो विद्यते यस्यासौ तद्वानलङ्कार एवास्तु इत्यभिधीयते, तथाप्यलङ्कारः काव्यं वा नान्यत्तृतीयं किञ्चिदत्रास्ति । तत्पक्षद्वितयमपि प्रत्युक्तम् । उदाहरणं लक्षणैकयोगक्षेमत्वात्पृथङ्न विकल्प्यते । मृतेति प्रेत्य सङ्गन्तुं यया मे मरणं स्मृतम् । सैवावन्ती मया लब्धा कथमत्रैव जन्मनि ॥ टीका ३.३६ ॥ अत्र रतिपरिपोषलक्षणवर्णनीयशरीरभूतायाश्चित्तवृत्तेरतिरिक्तमन्यद्विभक्तं वस्तु न किञ्चिद्विभाव्यते । तस्मादलङ्कार्यतैव युक्तिमती । यदपि कैश्चित् स्वशब्दस्थायिसंचारिविभावाभिनयास्पदम् ॥ टीका ३.३७ ॥ इत्यनेन पूर्वमेव लक्षणं विशेषितम्, तत्र स्वशब्दास्पदत्वं रसानामपरिगतपूर्वमस्माकम् । ततस्त एव रससर्वस्वसमाहितचेतसस्तत्परमार्थविदो विद्वांस एवं प्रष्टव्याःकिं स्वशब्दास्पदत्वं रसानामुत रसवत इति । तत्र पूर्वस्मिन् पक्षेरस्यन्तैति रसास्ते स्वशब्दास्पदास्तेषु तिष्ठन्तः शृङ्गारादिषु वर्तमानाः सन्तस्तज्ज्ञैरास्वाद्यन्ते । तदिदमुक्तं भवतियत्स्वशब्दैरभिधीयमानाः श्रुतिपथमवतरन्तश्चेतनानां चर्वणचमत्कारं कुर्वन्तीत्यनेन न्यायेन घृतपूरप्रभूतयः पदार्थाः स्वशब्दैरभिधीयमानास्तदास्वादसंपदं संपादयन्तीत्येवं सर्वस्य कस्यचिदुपयोगसुखार्थिनस्तैरुदारचरितैरयत्नेनैव तदभिधानमात्रादेव त्रैलोक्यराज्यसंपत्सौख्यसमृद्धिः प्रतिपाद्येतैति नमस्तेभ्यः । रसवतस्तदास्पदत्वं नोपपद्यते, रसस्यैव स्ववाच्यस्यापि तदास्पदत्वाभावात्, किमुतान्यस्येति । तदलङ्कारत्वं च प्रथममेव प्रतिषिद्धम् । शिष्टं स्थाय्यादि पूर्वलक्षणं व्याख्यातमेवेति न पुनः पर्यालोच्यते । यदपि रसबद्रससंश्रयात् ॥ टीका ३.३८ ॥ इति कैश्चिल्लक्षणमकारि तदपि न सम्यक्समाधेयतामधितिष्ठति । तथा हिरसः संश्रयो यस्यासौ रससंश्रयः, तस्मात्कारणादयं रसवदलङ्कारः संपद्यते । तथापि वक्तव्यमेवकोऽसौ रसव्यतिरिक्तवृत्तिः अन्यपदार्थः? काव्यमेवेति चेत्तदपि पूर्वमेव प्रत्युक्तम्, तस्यस्वात्मनिक्रियाविरोधादलङ्कारत्वानुपपत्तेः । अथवा रसस्य संश्रयो रसेन संश्रियते यस्तस्माद् । रससंश्रयादिति । तथापि कोऽसाविति व्यतिरिक्तत्वेन वक्तव्यतामेवा (याति) । उदाहरणजातमप्यस्य लक्षणस्य पूर्वेण समानयोगक्षेमप्रायमिति (न) पृथक्पर्यालोच्यते । रसपेशलम् ॥ टीका ३.३९ ॥ इति पाठे न किञ्चिदत्रातिरिच्यते । अथ (वस्तुस्वभावरसादि) प्रतिपादकवाक्योपारूढपदार्थसार्थस्वरूपमलङ्कार्यं रसस्वरूपानुप्रवेशेन विगलितस्वपरिस्पन्दानां द्रव्याणामिव कथमलङ्करणं भवतीत्येतदपि चिन्त्यमेव । किञ्च तथाभ्युपगमेऽपि प्रधानगुणभावविपर्यासः पर्यवस्यतीति न किञ्चिदेतत् । अत्रैव (दूषणान्तरमु) पक्रमतेशब्दार्थासङ्गतेरपि । शब्दार्थासङ्गतेरपि । शब्दार्थयोरभिधानाभिधेययोरसमन्वयाच्च रसवदलङ्कारोपपत्तिर्नास्ति । अत्र च रसो विद्यते (तिष्ठ) ति यस्येति मतुप्प्रत्यये विहिते तस्यालङ्कार इति षष्ठिसमासः क्रियते, रसवांश्चासावलङ्कारश्चेति विशेषणसमासो वा । तत्र पूर्वस्मिन् पक्षेरसव्यतिरिक्तं किमन्यत्पदार्थान्तरं विद्यते यस्यासावलङ्कारः । काव्यमेवेति चेत्, तत्रापि तद्व्यतिरिक्तः कोऽसौ पदार्थो यत्र रसवदलङ्कारव्यपदेशः सावकाशतां प्रतिपद्यते ? विशेषातिरिक्तः पदार्थो न कश्चित्परिदृश्यते यस्तद्वानलङ्कार इति व्यवस्थितिमासादयति । तदेवमुक्तलक्षणे मार्गे रसवदलङ्कारस्य शब्दार्थसङ्गतिर्न काचिदस्ति । यदि वा निदर्शनान्तरविषयतया समासद्वितयेऽपि शब्दार्थसङ्गतियोजना विधीयते, यथा तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा । चिन्तामौनमिवास्थिता मधुकृतां शब्दैर्विना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥ टीका ३.४० ॥ यथा वा तरङ्गभ्रूभङ्गा (क्षुभित) विहगश्रेणिरशना विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम् । यथाविद्धं याति स्खलितमभिसंधाय बहुशो नदीभावेनेयं ध्रुवमसहना सा परिणता ॥ टीका ३.४१ ॥ अत्र रसवत्त्वमलङ्कारश्च प्रकटं प्रतिभासेते । तस्मान्न कथञ्चिदपि तद्विवेकस्य दुरवधानता । तेन रसवतोऽलङ्कार इति षष्ठीसमासपक्षे शब्दार्थयोर्न किञ्चिदसङ्गतत्वम्, रसपरिपोषपरत्वादलङ्कारस्य तन्निबन्धनमेव रसवत्त्वम् । रसवांश्चासावलङ्कारश्चेति विशेषणसमासपक्षेऽपि न किञ्चिदसङ्गत्वम् । तथा चैतयोरुदाहरणयोर्लतायाः सरितश्चोद्दीपनविभावत्वेन वल्लभाभावितान्तः करणतया नायकस्य तन्मयत्वेन (निश्चेतन?) मेव पदार्थजातं सकलमवलोकयतः तत्साम्यसमारोपणं तद्धर्माध्यारोपणं चेत्युपमारूपककाव्यालङ्कारयोजनं विना न केनचित्प्रकारेण घटते, तल्लक्षणवाक्यत्वात् । सत्यमेतत्, किन्तु "अलङ्कारऽशब्दाभिधानं विना विशेषणसमा (सप) क्षे केवलस्य रसवानिति (अस्य) प्रयोगः प्राप्नोति । रसवानलङ्कार इति चेत्प्रतीतिरभ्युपगम्यते, तदपि युक्ति (युक्ततां नार्हति), रूपकादेरभावात् । रसवतोऽलङ्कार इति षष्ठीसमासपक्षोऽपि न सुस्पष्टसमन्वयः । सर्वस्य कस्यचित्काव्यस्य रसवत्त्वमेव । यस्मात्सातिशयत्वनिबन्धनं तथाविधं तद्विदाह्लादकारि काव्यं करणीयमिति तस्यालङ्कार इत्याश्रिते सर्वेषामेव च रूपकादीनां रसवदलङ्कारत्वमेव न्यायोपपन्नतां प्रतिपद्यते । अलङ्कारस्य च यस्यकस्यचित्सर्वस्य रसवत्त्वाद्विशेषणसमासपक्षेऽप्येषैव वार्त्ता । कीञ्च तदभ्युपगमेऽपि प्रत्येकमुत्स्खलितलक्षणानां प्रकृतपरिपोषपरतया लब्धात्मनामलङ्कारणां प्रातिस्विकलक्षणाभिहितातिशयव्यतिरिक्तमनेन न किञ्चिदाधिक्यमाधीयते । तस्मात्तत्तल्ल(क्षण) करणवैयर्थ्यमप्रतिवारितप्रसरमेव परापतति । न चैवंविधविषये रसवदलङ्कारव्यवहारस्यावकाशः, तज्ज्ञैस्तथानवगमात्, अलङ्कारान्तराणां च मुख्यतया व्यवस्थानात् । अथवा चेतनपदार्थगोचरतया रसवदलङ्कारस्य, निश्चेतनवस्तुविषयत्वेन चोपमादीनां विषयविभागो व्यवस्थाप्यते, तदपि न विद्वज्जनावर्जनं विदधाति । यस्मादचेतनानामपि रसोद्दीपनसामर्थ्यसमुचितसत्कविसमुल्लिखितसौकुमार्यसरसात्वादुपमादीनां प्रविरलविषयता निर्विषयत्वं वा स्यादिति शृङ्गरादिरसनिस्यन्दसुन्दरस्य सत्कविप्रवाहस्य च नीरसत्वं प्रसज्यत इति प्रतिपादितमेव पूर्वसूरिभिः । यदि वा वैचित्र्यान्तरमनोहारितया रसवदलङ्कारः प्रतिपाद्यते, यथाभियुक्ततरौस्तैरेवाभ्यधायि प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥ टीका ३.४२ ॥ इति । यत्रान्यो वाक्यार्थः प्राधान्यादलङ्कार्यतया व्यवस्थितस्तस्मिन् तदङ्गतया विनबध्यमानः शृङ्गारादिरलङ्कारतां प्रतिपद्यते । यस्माद्गुणः प्रधानं भावाभिव्यक्तिपूर्वमेवंविधविषये विभूषयति, तस्माद्भूषणविवेकव्यक्तिरुज्जृम्भते, यथा क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः सास्त्रनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥ टीका ३.४३ ॥ अत्र सास्त्रनेत्रोत्पलादिशब्दग्म्यवैक्लव्यस्य शाम्भवशराग्निदह्यमानासुरसुन्दरीणां, त्रिपुररिपुप्रभावप्रख्यापनपरस्य प्रयोजकत्वेन करुणो रसः अङ्ग, न पुनरीर्ष्याविप्रलम्भशृङ्गारः, तस्याननुभूयमानत्वात् । तदयमत्र परमार्थःकविप्रतिभापरिपोषितप्रकर्षगम्यमानकरुणरसोपबृंहितसौन्दर्यधाराधिरूढो भगवत्प्रभावातिशयः कामपि सहृदयहृदयहारितां प्रतिपद्यते । न च शब्दवाच्यत्वं नाम समानं कामिशराग्नितेजसोः संभवतीति तावतैव तयोस्तथाविधविरुद्धधर्माध्यासादिवरुद्धस्वभावचोरैक्यं कथञ्चिदपि व्यवस्थापयितुं पार्यते, परमेश्वरप्रयत्नेनापि स्वबावस्यान्यथाकर्तुमशक्यत्वात् । न च तथाविधशब्दावाच्यतामात्रादेवं तद्विदां तदनुभवप्रतीतिरस्तिः गुडखण्डादिशब्दाभिधानादपि प्रीतिविषादादेस्तदास्वादप्रसङ्गात् । तदनुभवप्रतीतौ सत्यां रसद्वयसमावेशदोषोऽप्यनिवार्यतामाचरति । रसद्वयसमावेशादोषोऽप्यत्र गुणप्रधानभावस्य प्र(योजक इति वक्तुं न पार्यते) । यदि वा भगवत्प्रभावस्य मुख्यत्वे द्वयोरप्येतयोरङ्गत्वाद्भूषणत्वमित्युच्यते तदपि (न) समञ्जसम् । यस्मात्करुणस्य वास्तवत्वादेक एव स्यात्निर्मूलत्वादेव तयोर्भावाभावयोरिव न कथञ्चिदपि साम्योपपत्तिरित्यलमनुचितचर्वणचातुर्यचापलेन । यदि वा निदर्शनेऽस्मिन्ननाश्वसन्तः समाम्नातलक्षणोदाहरणसङ्गतिं सम्यक्समीहमानाः सविमर्षणा उदाहरणान्तरं रसवदलङ्कारस्य व्याचक्षते, यथा किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः । स्वप्नान्तेष्विति ते वदन् प्रियतमव्यासक्तकण्ठग्रहो बुद्ध्वा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ॥ टीका ३.४४ ॥ "अत्र भवद्विनिहतवल्लभो वैरिविलासिनीसमूहः शोकावेशाद(शर)णः करुणरसकाष्ठाधिरूढिविहितमेवं विधवैशसमनुभवती"ति तात्पर्ये स एव प्राधान्येन वाक्यार्थः, तदङ्गतया विनिबध्यमानः करुणः । प्रवासविप्रलम्भशृङ्गारपरत्वमत्र न परमार्थः । परस्परान्वितपदार्थसार्थसमर्प्यमाणवृत्तिर्गुणभावेनावभासनादलंङ्करणमित्युच्यते । तस्य च निर्विषयत्वाभावाद्रसालम्बनविभावादिस्वकारणसामग्रीविरहविहिता लक्षणानुपपत्तिर्न संभवति । रसद्वयसमावेशदुष्टत्वमपि दूरमपास्तमेव । द्वयोरपि वास्तवस्वरूपस्य विद्यमानत्वात्तदनुभवप्रतीतौ सत्यां नात्मविरोधः स्पर्धित्वाभावात् । तेन तदपि तद्विदाह्लादविधानसामर्थ्यसुन्दरम्, करुणरसस्य निश्चायकप्रमाणाभावात् । प्रवासविप्रलम्भस्य स्वकारणभूतवाक्योपारूढालम्बनविभावादिसमर्प्यमाणत्वं स्वप्नान्तसमये, प्रबोधावसरे च तथाविधत्वं युक्त्या संभवतस्तस्य करुणस्येत्युभयमुपपन्नमिति प्रथमतरमेव कथमसौ समुद्भवतीति चैतदपि न समञ्जसप्रायम् । यस्माच्चाटुविषयमहापुरुषप्रतापाक्रान्तिचकितचेतसामितस्ततः स्ववैरिणां तत्प्रेयसीनां च पलायनैरपि पृथगवस्थानं न युक्तिप्रयुक्ततामतिवर्तते । करुणरसस्य सत्यपि निश्चये, तस्यैव तथाविधपरिपोषदशाधाराधिरूढेरेकाग्रतास्तिमितमानसस्य तथाभ्यस्तव्यसनाधिवासितचेतसा सुचिरात्समासादितस्वप्नसमागमः पूर्वानुभूतवृत्तान्तुसमुचितसमारब्धकान्तसंलापः कथमपि संप्रबुद्धः प्रबोधसमनन्तरसमुल्लसितपूर्वापरानुसंधानविहितप्रस्तुतवस्तुविसंवादविदारितान्तः करणो भवद्वैरिविलासिनीसार्थो रोदितीति करुणस्यैव परिपोषपदवीसमधिरोहः तथाविधव्यभिचार्यौचित्यचारुत्वं तत्स्वरूपानुप्रवेशोवेति कुतः प्रवासविप्रलम्भस्य पृथग्व्यापारे रसगन्धोऽपि ? यदि वा प्रेयसः प्राधान्ये तदङ्गत्वात्करुणरसस्यालङ्करणत्वमित्यभिधीयते तदपि न निरवद्यम् । यस्माद्द्वयोरप्येतयोरुदाहरणयोर्मुख्यभूतो वाक्यार्थः करुणात्मनैव विवर्तमानवृत्तिरुपनिबद्धः । पर्यायोक्तान्यापदेशन्यायेन वाच्यताव्यतिरिक्तयोः प्रतीयमानतया, न करुणस्य रसत्वाद्व्यङ्ग्यस्य सतो वाच्यत्वमुपपन्नम् । नापि गुणीभूतव्यङ्ग्यस्य विषयः, व्य(ङ्ग्यस्य प्राधान्येन क)रुणात्मनैव प्रतिभासनात् । न च द्वयोरपि व्यङ्ग्यत्वम्, अङ्गाङ्गिभावस्यानुपपत्तेः । एतच्च यथासंभवमस्माभिर्विकल्पितम्, न पुनस्त(न्न्यायमत्र प्रयोजकमित्यलं वि) स्तरेण । किञ्च "काव्ये तस्मिन्नलङ्कारो रसादिःऽ इति रस एवालङ्कारः केवलः न तु रसवदिति मतुत्प्रत्ययस्य जीवितं न किञ्चिदभिहितं स्यात् । एवं सदि शब्दार्थसङ्गतेरभावादनवस्थैव तिष्ठतीत्येतदपि न किञ्चित् । एवमलङ्कारतां रसवतः प्रत्याख्याय वर्ण्यमानार्थशरीरत्वात्तदेकयोगक्षेमस्य प्रेयसः संप्रति (तां) वा (रयति)टिप्पणीअ "प्रेयस्तद्विरुद्धः स्यादप्रेयःऽ इति _________________________________________________________________ न प्रेयस्तद्विरुद्धः स्यादप्रेयो(ऽसावलङ्कृतिः) । अलङ्कारान्तरे स्यातामन्यत्रादर्शनादपि ॥ ३.१२ ॥ यश्चिरन्तनैरलङ्कारः समाम्नातः तस्य न तद्भवाः संभवति । यस्मात्कैश्चित्"प्रेयः प्रियतराख्यान"मिति लक्षणं प्रेयसः समाख्यातम् । कैश्चित्तस्योदाहरणमात्रमेव लक्षणं मन्यमानैस्तु(ता) वदेव प्रदर्शितम् । यथा प्रेयो गृहागतं कृष्णमवादीद्विदुरो यथा । कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ॥ टीका ३.४५ ॥ इति । पूर्वेषां चैतदेवोदाहरणमभिमतम् । तथा च तैरुक्तम् अद्य या मम गोविन्द जाता त्वयि गृहागते ॥ टीका ३.४६ ॥ इति । तदेव न क्षोदक्षमतामर्हति । तथा च कालेने (त्यादिनो)च्यते (यत्) तदेव वर्ण्यमानविषयतया वस्तुनः स्वरूपं, तदेवालङ्करणमित्यलङ्कार्यं न किञ्चिदवशिष्यते । तस्यैवोभयमलङ्कार्यत्वमलङ्करणत्वं चेत्ययुक्तियुक्तम् । एकक्रियाविषयं युगपदेकस्यैव वस्तुनः कर्मकरणत्वं नोपपद्यते । यदि दृश्यन्ते तथाविधानि वाक्यानि येषामुभयमपि संभवति आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना । आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥ टीका ३.४७ ॥ इत्यभिधीयते, तदपि निःसमन्वयप्रायमेव । यस्मादत्र वास्तवेऽप्यभेदे काल्पनिकमुपचारसत्तानिबन्धनं विभागमाश्रित्य तद्व्यवहारः प्रवर्तते । किं च विश्वमयत्वात्परमेश्वरस्य परमेश्वरमयत्वाद्वा विश्वस्य, पारमार्थिकेऽप्यभेदे माहात्म्यप्रतिपादनार्थं प्रातिस्विकपरिस्पन्दविचित्रां जगत्प्रपञ्चरचनां प्रति सकलप्रमातृतामस्य संवेद्यमानो भेदावबोधः स्फुटावकाशतां न कदाचिदप्यतिक्रामति । तस्मादत्र परमेश्वरस्यैव रूपस्य कस्यचित्तदाप्यमानत्वात्वेदनादेः क्रियायाः कर्मत्वं कस्यचित्साधकतमत्वात्करणत्वमिति न किञ्चिदसंगतम् । उदाहरणेपुनरपोद्धारबुद्धिपरिकल्पनयापि न कथञ्चिदपि विभागो विभाव्यते । तस्मात्"स्वरूपादतिरिक्तस्य परस्याप्रतिभासनात्" इति दूषणत्रापि संबन्धनीयम् । अविभागपक्षे च तदेवालङ्कार्यं तदेवालङ्करणमिति प्रेयसो रसवतश्च स्वात्मनि क्रियाविरोधात्"आत्मैव नात्मनः स्कन्धं क्वचिदप्यधिरोहति" इति स्थितमेव । अथ दूषणान्तरं ददाति तद्विरुद्धः स्यादिति । (अनेन न्यायेन वर्ण्यमानत्वात्तद्विरुद्धस्य प्रेयसः प्रतिपक्षोऽपि अप्रेयः प्रसादाधिकृतः ॑तस्मादलङ्कारो भवेत्) । तथापि को दोषः स्यादिति चेत्तदपि न सम्यक्, तैरेव तथानभ्युपगमात् । अन्यच्च लैङ्किकमलङ्कार्यालङ्करणव्यवहारं पर्यालोच्य तथाविधत्वसामान्यमात्रं समाश्रित्य पूर्वसूरयः काव्ये प्रवर्तिततद्व्यवहाराः संवृत्ताः । लोके त्रिभुवनान्तरवर्तिपदार्थजातमनन्तं सिद्धविद्याधराद्यलङ्कार्यम्, अलङ्करणानि कटककेयूरादीनि कतिचिदेव, तदेवमेव काव्ये वर्णनाविषयस्य वस्तुनः शरीरमपर्यवसितमलङ्कार्यम्, तथैवालङ्करणान्युपमादीनि कतिचिदेव । वर्णनीयस्य प्रयेः प्रभृतेरलङ्कारत्वे वर्ण्यमानादन्यालङ्करणानामानन्त्यप्रसङ्गः । ततः परिसमाप्त्यभावे संभावनावदभिधादीनामनारम्भः । तस्माल्लौकिकव्यवहारान्यूनानतिरिक्तमेवालङ्कार्यालङ्कारव्यवहारः काव्यविषयेऽपि वाच्यतामर्हति । अत्रैव दूषणान्तरमुपन्यस्यति"अलङ्कारान्तरे" इति । संसृष्टिसंकरौ स्याताम् । प्रथमः (मं) प्रियतराख्यानमात्रसाधनस्य वर्ण्यमानत्वादलङ्कार्यस्याप्यलङ्करणत्वे सति, अलङ्कारान्तरं रूपकादि यदा विधीयते तदा तस्मिन् विधीयमाने प्रेयसः संसर्गसंकीर्णतानिबन्धने संसृष्टिसङ्करावलङ्कारविशेषौ स्यातां भवेताम् । प्रेयोभणितयुक्तेषु वाक्येषु तज्ज्ञैर्न संसृष्टिसकरव्यवहारः कदाचिदपि प्रवर्तितपूर्वः तथा प्रतिभासाभावात् । यथा इन्दोर्लक्ष्म स्मरविजयिनः काण्ठमूलं मुरारिः दिङ्नागानां मदजलमषीभाञ्जि गण्डस्थलानि । अद्याप्युर्वोवलयतिलक श्यामलिम्नानु(वि) लिप्ता० न्याभासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥ टीका ३.४८ ॥ अत्र प्रेयोभिहितरलङ्कार्या, व्याजस्तुतिरलङ्करणम्॑ न पुनरुभयोरलङ्कारप्रतिभासो येन संसृष्टिव्यपदेशः संकरव्यपदेशो वा प्रवर्तते तृतीयस्यालङ्कार्यतया वस्त्वन्तरस्याप्रतिभासनात् । एतदेव प्रकारान्तरेण प्रत्याख्यातुमुपक्रमते "अन्यत्रादर्शनादपि"(इति) । "अन्यत्र" अन्यस्मिन् विषये प्रेयोभणितिविविक्ते वर्णनीयान्तरे प्रेयसो विभूषणत्वात्(त्वे) उपमादेरिवोपनिबन्धः प्राप्नोति । न च क्वचिदपि तथा दृश्यते, तस्मादन्यत्रादर्शनादपि न च युक्तियुक्तमलङ्कारणत्वं, रसवतोऽपि तदेकयोगक्षेमत्वातेवमेव विभूषणत्वमनुपपन्नम् । एवंमलङ्करणतां प्रेयसः प्रत्यादिश्य वर्णनीयशरीर त्वात्तदेकरूपाणामन्येषां प्रत्यादिशति _________________________________________________________________ ऊर्जस्व्युदात्तयोस्तद्वद्भूषणत्वं न विद्यते । तथा समाहितस्यापि प्रकारद्वयशोभिनः ॥ ३.१३ ॥ ऊर्जस्व्युदात्ताभिधानयोः पौर्वापर्यप्रणीतयोरंलकरणयोः "भूषणत्वं"अलङ्करणत्वं "न विद्यते"न संभवति । कथं "तद्वत्" । तद्वदित्यनन्तरोक्तरसवदादिपरामर्शः, तेन तद्वत्तयोरिव प्रथमप्रतिषिद्धविभूषणभावरसादिवदेतयोर्विभूषणत्वं नास्तीत्यर्थः । (यद्यपि) चिरन्तनैर्लक्षणोदाहरणदर्शनपूर्वकमेतयोरलङ्करणत्वमाख्यातं, तथाप्ययुक्तियुक्तत्वात्(तत्) नोपपद्यतेतथा च कैश्चित्प्रथमस्य लक्षणमुदाहरणं च दर्शितं यथा अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् । भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते ॥ टीका ३.४९ ॥ तथा कामोऽस्य ववृधे यथा हिमगिरेः सुताम् । संगृहीतुं प्रववृते हठेनापास्य सत्पथम् ॥ टीका ३.५० ॥ इति । कैश्चिदुदाहरणमेव वक्तव्यत्वाल्लक्षणं मन्यमानैस्तदेव प्रदर्शितम् । यथा वा ऊर्जस्वि कर्णेन यथा पार्थाय पुनरागतः । द्विः सन्दधाति किं कर्णः शल्येत्यहिरपाकृतः ॥ टीका ३.५१ ॥ यथा वा अपकर्ताहमस्मीति हृदि ते मास्म भूद्भयम् । विमुखेषु न मे खङ्गः प्रहर्तुं जातु वाञ्छति ॥ टीका ३.५२ ॥ इति । तत्र प्रथमयोर्लक्षणोदाहरणयोस्तावदेतत्पर्यालोचनीयं किं तदनौचित्यं नाम्, येन (तथा) प्रवृत्तानां रसादीनामुपनिबन्धनमलङ्कारः संपद्यते । यस्मादौचित्यप्रतियोगिना तेन प्रतीयमानानां तेषां (न केवलं) परिपोषपरिहाणिः, प्रत्युत सौकुमार्यविरहः सावकाशतां प्रतिपद्यते । तदिदमुक्तम् अनौचित्यादृते नान्यद्रभङ्गस्य कारणम् ॥ टीका ३.५३ ॥ इति । यदि वा न पारमार्थिकमनौचित्यमत्र विवक्षितमपि तु विभावानुभावव्यभिचार्यौ चित्याभिव्यङ्ग्यप्रस्तावान्तराविषयनिरवद्यरसापेक्षया किमपि प्रस्तुतानुगुणमेव, तथा च "कामक्रोधादिकारणात्" इति युक्तिरुपन्यस्तेत्युच्यते, तदपि न सु स्थितसमाधि । यस्मादौचित्यपरिपोषपुष्कलरसापेक्षया किञ्चिदनौचित्ययुक्तरसभावोपनिबन्धनं परिमितसत्त्वप्रायप्राणिमात्रविषये कामादिकारणात्करणीयतामर्हति न पुनरुदाहृते विषये । (पुष्क) लविभावादिसमुदयसमुल्लासितः सहजकविशक्तिकौशलसमुद्भासितसौकुमार्यसमर्पितस्वाभाविकरामणीयकः सरसमतिमतः चन्द्रकान्तकौमुदीप्रकाशवदाश्चर्यविलासापसार्यमाणोपपत्तेः समुचितोऽपि रसः परमसौन्दर्यमावहति । तत्कथमनौचित्यपरिम्लानः कामादिकारणकल्पनोपसंहतवृत्तिरलङ्कारताव भासतां प्रयास्यति ? तथा च तथाविधे विषये वर्णनीयान्तरसमानतया रसवत्तां परिकल्पयन्तः सत्कवयो नितान्तं (वि) राजन्ते । यथा पशुपतिरपि तान्यहानि कृच्छ्रा दगमयदद्रिसुतासमागमोत्कः । कमपरवशं न विप्रकुर्युः विभुमपि तं यदमी स्पृशन्ति भावाः ॥ टीका ३.५४ ॥ तदेतदवसरापतितमस्माभिः पर्यालोचितम् । ननु भतनयनिपुणमानसानां परमार्थविदां तत्रभवतां (अस्मिन्विषये) वयं विवदामहे, योऽयमत्रोदाहृतः स भगवान् रसाभासविषयतया वर्णनीयतामर्हति न वेति ? किमौचित्यानौचित्यपरिकल्पनेन । सर्वथा यथा तत्रभवद्भ्यः प्रतिभासते तत्तथैवास्ताम् । तथापि तथाविधस्तदीयश्चित्तवृत्तिविशेषः प्राधान्येन वर्ण्यमानत्वातलङ्कार्यतां नातिक्रामति । "द्विः सन्दधाति" इत्यादौ वीरस्य वक्तुर्लोकोत्तरपौरुषाभिधानव्यसनिनः सहजोत्साहोत्सिक्तचित्तवृत्त्यतिशयव्यतिरेकेण न किञ्चिदन्यन्मुक्यतया वाक्यार्थतामुपनीतम् । तथाहिसायकसन्धानक्रियाभ्यावृत्तिगणनमकस्मादपि स्वपरिस्पन्दतिरस्कारकारणं मन्यमानः किमित्यनेन परिहरति । कर्ण इत्यभिमानप्रतीतिः (प्रधानं पुरुषवक्रभावोपबृंहितं) रूढिवैचित्र्ययोगिनः शल्येत्यामन्त्रणपदस्याभिप्रायः । पार्थायेति सामान्यस्य कस्यचिदाकारान्तरशब्द(र?) प्रतीकारस्य शत्रोः कृते तत्प्रतिघातसमर्थोपाध्यन्तरोपकरणं कदाचित्संभाव्येतापि इति प्रकरणात्प्रतीयते । आगत इति तत्प्रतिनियतार्थं)मनार्थं) प्रयत्नेनाभिमानेनान्योऽपि स्वयमागतः सनपाकृत इत्यभिमानोत्कर्षप्रतीतिः प्रकरणाद्गम्यते । उदाहरणमेवोर्जितम् । तदेवमयं प्रधानचेतनलक्षणोपकृतातिशयविशिष्टचित्तवृत्तिविशेषः वस्तुस्वभाव एव मुख्यतया वर्ण्यमानत्वातलङ्कार्यो न पुनरलङ्कारः । तदिदमुक्तमुदारस्वपरिस्पन्दसुन्दरत्वेन वर्णनम् । वस्तुनो वक्रशब्दैकगोचरत्वेन वक्रिता ॥ इति । तस्मादेवंविधस्य चित्तवृत्तिविशेषत्वात्रसभावतदाभासानां यथायोगमेकतमस्मिन् विवक्षावशादन्तर्भावः संभवतीत्यलङ्कार्यत्वमेव युक्तं न त्वलङ्कारभाव इति । तस्मान्न रसवदाद्यभिहितदूषणपात्रतामतिक्रामति । तदेतदुक्तमत्र सर्वमेव योजनीयम् । तद्वद्"अपकर्ताहमस्मि" इत्यपरमुदाहरणमनेनैव न्यायेन समानयोगक्षेमप्रायमिति गतार्थमेव । एवमुदात्तस्योभयप्रकारस्याप्यलङ्कार्यतैव युक्तिमती न पुनरलङ्करणत्वं, तत्र प्रथमस्य तावल्लक्षणवाक्यमेव दुरधिगमसमन्वयम् उदात्तमृद्धिमद्वस्तु ॥ टीका ३.५५ ॥ इति । अत्र यद्वस्तु तदुदात्तम्, अलकरणं कीदृशमित्याकाङ्क्षायामृद्धिमदित्यनेन यदि विशेष्यते तत्तदेव संपदुपेतं वस्तु वर्ण्यमानमलङ्कार्यं तदेवालङ्करणमिति स्वात्मनि क्रियाविरोधलक्षणस्य दोषस्य दुर्निवारत्वात्स्वरूपादतिरिक्तस्य वस्त्वन्तरस्याप्रतिभासनातूर्जस्विवदुदात्तेऽ(पि भूष)णभावानुपपत्तिः । अथवा ऋद्धिमद्वस्तु यस्मिन् यस्येत्यपि व्याख्यानं क्रियते, तथापि तदन्यपदार्थलक्षणं वस्तु वक्तव्यमेव यत्समासार्थोपनीतम् । तत्काव्यमेव तथाविधं भविष्यतीति चेत्तदपि न किञ्चिदेव, यस्मात्काव्यस्यालङ्कार इति प्रसिद्धिर्न पुनः काव्यमेवालङ्करणमिति । यदि वा ऋद्धिमद्वस्तु यस्मिन् यस्य वा इत्यसावलङ्कारः (एव) समासार्थेनोपनीयते तथापि वर्णनीयादलङ्करणमतिरिक्तमलङ्करणकल्पमन्यदत्र (न किं) चिदेवोपलभ्यते इत्युभयथापि शब्दार्थासंगतिलक्षणो दोषः संप्राप्तावसरः संपद्यते । किं चोदात्तस्यालङ्करणत्वे सति, अलङ्करणान्तरविधानात्तदपेक्षानिबन्धनस्य संसृष्टिसंकरव्यपदेशस्याप्रसिद्धेरन्यस्मिन् विषये वर्णनीयान्तरे रूपकादिवत्तद्विरुद्धस्य समृद्धिरहितस्य वर्णनीयान्तरस्य चालङ्कारत्वप्रसंगातुदात्तस्य न कथञ्चिदपि भूषणत्वोपपत्तिरस्ति । तथा द्वितीयस्याप्युदात्तप्रकारस्यालङ्कार्यत्वमेवोपपन्नं, न पुनरलङ्कारभावः । तथा चैतस्य लक्षणम् "..........चरितं च महात्मनाम् । उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम्" ॥ टीका ३.५५ च्द् ॥ इति । तत्र वाक्यार्थपरमार्थविद्भिरेवं पर्यालोच्यताम्, यन्महानुभावानां व्यवहारस्य लक्षणमात्रवृत्तेरन्वयः प्रस्तुते वाक्यार्थे कश्चिचत्विद्यते न वेति । तत्र पूर्वस्मिन् पक्षे तत्र तदलीनत्वात्पृथगभिधेयस्यापि पदार्थान्तरवत्तदवयवत्वेनैव व्यपदेशोन्याय्यः,पाण्यादेरिव शरीरे, न पुनरेवालङ्कारभावोऽपि इति । द्वितीयस्मिन् पक्षे तदन्वयाभावादेव वाक्यान्तरवर्तिपदार्थवत्तत्र तस्य सत्तैव न संभवति इति न पुनरलङ्कारचर्चा । ननु च रूपकादेरलङ्कारस्यापि तत्रान्वयो विद्यते, ततस्तस्यापि तदन्वितत्वातलङ्कारता निवर्तते । सत्यमेतत्, किं तु तदन्वितस्य द्वैविध्यं विद्यते, अपकर्षान्तरवत्प्रस्तुततात्पर्याङ्गभावेन, विभूषणान्तरवत्तदुपशोभाकारित्वमात्रेणैव च । तत्र पूर्वस्मिन् पक्षे युक्तरुक्तैव । तद्विच्छत्तिविधायित्वमात्रे महापुरुषचरितस्य दूषणानीति न दुष्परिहारण्येव । तद्विरुद्धवृत्तेर्वर्णनीयान्तरस्यालङ्कारत्वप्रसङ्गः । अलङ्कारान्तरसंनिधाने तदपेक्षानिबन्धनसंसृष्टिसंकरव्यपदेशयोग्यता, विषयान्तरेऽप्यलङ्कारान्तरवत्प्रवर्तनं चेति । यदपि समञ्जसोदाहरणबन्धनव्यसनितया पूर्वसूरिभिरत्रादरप्रथनपूर्वकं प्रतिष्ठितम्, तदपि प्रस्तुततात्पर्यपरायत्तवृत्तित्वादेव (सहृदयभाव) नां प्रति मनागपि न पात्रतां प्रतिपद्यते । यथा नेथा कुन्थपृथक्तर्जरत्ता... ...मस्थापत्तेः विच्छित्ति...(?) ॥ टीका ३.५६ ॥ महेन्द्रकन्दरक्वणत्कर्णेषु टङ्कान्विताः ते नीला...शेखरशरक्षेपैकवीथीभुवा... दुर्गा अविगाहिताः शशिरुचा कीर्त्या वसन्त्यास्तव (?) ॥ टीका ३.५७ ॥ (अत्र पूर्वापरवर्णितः महापुरुषचरितलक्षणपदार्थो (व्यतिरेकोपबृंहितः?) प्रस्ततवाक्यार्थतात्पर्यमेव विघटते, न पुनस्तदुपशोभामात्रमेव । तथाचायमत्राभिप्रायो यदस्खलितैः लैखमहापुरुषपुरुष (प्रभृतिः सकलसंचारितचरितापसरणं संरंभमात्मसात्कृते च कार्ये तदतिरिक्तवृत्तान्तपुरुषान्तरव्यतिरेकेण न कस्यचिदन्यस्य निःसामान्यवृत्तेरपि प्रकाशते । तस्मात्तथाविधमहासत्त्वापदानमहमुदितेष्वपि तेषु प्रदेशेषु भवतः परं प्रतापः प्रथितुं प्रगल्भत इति ?) एवं समाहितस्याप्यलङ्कार्यत्वमेव न्याय्यं न पुनरलङ्करणभावः । तदाह"तथा समाहितस्यापि" । "तथा"तेनैव प्रकारेण पूर्वोक्तेनसमाहिताभिधानस्य चालङ्कारस्य "भुषणत्वम्" अलङ्करणत्वं न विद्यते नास्तीत्यर्थः । तथाहि तस्येदं लक्षणम् रसभावतदाभासप्रशमोऽविदितक्रमः (?) अन्यानुभावनिश्शून्यरूपो यस्तत्समाहितम् ॥ टीका ३.५८ ॥ रसभावतदाभासानां प्रशमव्यपदेशविषयो दशाविशेषः, तदनन्तररसावतारतरङ्गवर्जितो निजव्यञ्जकव्यापारविरामविश्रान्तविभ्रमः प्रथमपरिस्पन्दैः परिसमाप्तेः उत्तरसमुदायादनभिव्यक्तेरसंवेद्यमानक्रमः सन्ध्यासमयनिभसंनिवेशविशेषः सत्कविभिरपि कथञ्चिदुन्नेयवृत्ति (र) निमित्तमनोहरः समाहितमलङ्करणम् । तथा अक्ष्णोः स्फुटाश्रुकलुषोऽरुणिमा विलीनः शान्तं च सार्धमधरस्फुरणं भ्रुकुट्या । भावान्तरस्य (तव) गण्डगतोऽपि कोपो नोद्गाढवासनतया प्रसरं ददाति ॥ टीका ३.५९ ॥ तदपि न संपत्(सम्यक्) समाहितम् । यस्माद्रसादिविशेषस्य सतस्तस्य स्वरूपलोभः । तेषां च चित्तवृत्तिविशेषत्वात्भूषणत्वे निपिद्धस्यापि तदेकरूपत्वात्कथं तदुपपद्यते । किं च प्रधानचेतनस्वरूपत्वात्वर्णनीयस्वभावभूतस्य (तदन्यविधस्य) अर्थात्मनः सहजव्यञ्जकासहिष्णोः व्यतिरिक्तपदार्थान्तरसंपर्कसहत्वं स्वच्छस्वभावत्वादेव न कथञ्चिदपि समञ्जसतां समासादयतीत्येवं स्वरूपादतिरिक्तपदार्थान्तरस्याप्रतिभासनादित्यादि यथासंभवमनिवार्यम् । यदपि कैश्चित्प्रकारान्तरेण समाहिताख्यमलकरणमाख्यातं तस्यापि तथैव भूषणत्वं न विद्यते, तदभिधत्ते "तथा समाहितस्यापि प्रकारद्वयशोभिनः" ॥ टीका ३.६० ॥ पूर्वोक्तेन प्रकारेण अनेन चापरेणेति द्वाभ्यां प्रकाराभ्यां शोभमानस्य समाहितस्यालङ्करणत्वं न सभवति । तथाचास्य लक्षणोदाहरणे किञ्चिदारभमाणस्य कार्यं दैववशात्पुन । तत्साधनसमापत्तिर्यत्तमाहुः समाहितम् ॥ टीका ३.६१ ॥ इति । स्पष्टार्थमिदं वाक्यम् । मानमस्या निराकर्तुं पादयोर्मे पतिप्यतः । उपकाराय दिष्टयैतदुदीर्णं घनगर्जितम् ॥ टीका ३.६२ ॥ अत्र पूर्वस्य पूर्वस्य वस्तुनः प्रधानं समर्थनमुत्तरत्र समाहित (मिति) यदुच्यते तदास्तां, समाहितशब्दवाच्यत्वे न केनचित्(निवार्)यते । अलङ्करणत्वं पुनर्द्धयोरपि सरसवृत्तत्वात्गुणप्रधानभावस्याभावान्न किञ्चिदुपपद्यते । द्वयोरपि वस्तुधर्मतया वर्णनीयत्वमेव समानं (तदर्थं घनगर्जितमु)दीर्णमिवेति प्रतीतावुत्प्रेक्षा भविष्यति इत्यलमतिप्रसङ्गेन । तदेवं चेतनाचेतनपदार्थभेदभिन्नं स्वाभाविकसौकुमार्यमनोहरं वस्तुनः स्वरूपं प्रतिपादितम् । इदानीं तदेव कविप्रतिभोल्लिखितलोकोत्तरातिशयशालितया नवनर्मितं मनोज्ञतामुपनीयमानमालोच्यते । तथाविधभूषणविन्यासविहितसौन्दर्यातिशयव्यतिरेकेण भूष्यत्वनिमित्तभूतं न तद्विदाह्लादकारितायाः कारणम् । प्रसिद्धो वस्तुधर्मो यो न विच्छित्त्याश्रयो भवेत् । तदेवं कविमुख्यानां वर्णनायोगमास्थितः ॥ टीका ३.६३ ॥ तस्य लोकोत्तरोत्कर्षलेखालगितवृत्तिभिः । गुणैः (श्च) भासमानस्य नवत्वमुपपद्यते ॥ टीका ३.६४ ॥ इत्यन्तरश्लोकौ । तदेवं नूतनातिशयविधायिनः काव्यार्थस्वरूपस्य अलङ्काराः । ततस्तानेवोपक्रमते _________________________________________________________________ अभिधायाः प्रकारौ स्तः कोऽप्येनं स्फुटयत्यसौ । काव्यस्य कश्चिद्विच्छित्तिं द्योतयत्यङ्गतः स्थितः ॥ ३.१४ ॥ अभिधाया इत्यादि । रसवदलङ्कारादिः कश्चिदंशेन वर्तमानो विभूष्यस्य शोभातिशयमावहति । कश्चिदङ्गतो व्यवस्थितस्तस्य मुख्यतां द्योतयन्नात्मनो विभूषणभावमाविष्करोतीति चोदाहरिष्यामः । इदानीमेतदेव विभज्य विचारयति _________________________________________________________________ यथा स रसवन्नाम सर्वालङ्कारजीवितम् । काव्यैकसारतां याति कथेदानीं विचार्यते ॥ ३.१५ ॥ यथेत्यादि । "यथा स रसवन्नाम"ठयथाऽ येन प्रकारेण "सःऽपूर्वप्रख्यातवृत्तिरलङ्कारो (रसवन्नाम) रसवदभिधानः "काव्यैकसारतां याति" कविकर्मैकसर्वस्वतां प्रतिपद्यते । "सर्वालङ्कारजीवितं"सर्वेषामलङ्काराणामुपमादीनां "जीवितं" स्फुरितभूतं च संपद्यते, "तथा"तेनप्रकारेण"इदानीं" अधुना "विचार्यते"विवच्यते, लक्षणोदाहरणभेदेन वितन्यते । तमेव रसवदलङ्कारं लक्षयति _________________________________________________________________ रसेन वर्तते तुल्यं रसवत्त्वविधानतः । योऽलङ्कारः स रसवत्तद्विदाह्लादनिर्मितेः ॥ ३.१६ ॥ रसेनेत्यादि । योऽलङ्कारः स रसवदिति । यः किलैवंस्वरूपो रूपकादिः स रसवदभिधीयते । किंस्वभावः? "रसेन वर्तते तुल्यं"रसेन शृङ्गारादिना तुल्यं वर्तते समानमातिष्ठति । यथा ब्राह्मणेन तुल्यं वर्तते ब्राह्मणवत्क्षत्रियस्तथैवसौ रसवदलङ्कारः । कस्मात्? "रसवत्त्वविधानतः"रसोऽस्यास्ति इति रसवत्काव्यं, तस्य भावस्तत्त्वं, तद्विधानतःसरसत्वसंपादनात् । (कुतः?) "तद्विदाह्लादनिर्मितेः"तत्काव्यं विदन्तीति तद्विदः तज्ञाः, तेषामाह्लादनिर्मितेरानन्दनिष्पादनात् । यथा रसः काव्यस्य रसवत्तां तद्विदाह्लादं च विदधात्येवमुपमादिरप्युभ्यं निष्पादयन् रसवदलङ्कारः संपद्यते । यथा उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥ टीका ३.६५ ॥ अत्र स्वावसरसमुचितसुकुमारस्वरूपयोर्निशाशशिनोर्वर्णनीयत्वं प्राधान्येन वाक्यार्थशरीरम् । तत्कान्तिकारितया रूपकालङ्कारः समारोपितकान्तवृत्तान्तः कविनोपनिबद्धः । स च श्लेषच्छायामनोज्ञविशेषणवक्रभावात्विशिष्टलिङ्गसामर्थ्याच्च सुतरां समुद्भासमानः काव्यस्य सरसतां समुल्लासयन् तद्विदामाह्लादमादधानः स्वयमेव रसवदलङ्कारतां समासादितवान् । यथा विलासिनीवल्लभादिशब्दाभिधान(मन्तरेणापि) तत्स्वरूपसमर्पणसामर्थ्यरूपकस्य सम्भवति तथैकदेशविवर्तिरूपकविचारावसरे सुतरां समुन्मीलयिष्यामः । न चात्र पूर्वोक्तानि दूषणानि (संसृष्टिसंकरादीनि) प्रभवितुं शक्नुवन्ति । "तथा चान्यत्र दर्शनात्" इति विषयान्तरे परिदृश्यमानत्वादनेनैवोदाहरणेन (तत्) परिहृतम् । "स्वरूपादतिरिक्तस्य परस्याप्रतिभासनात्" इत्यलङ्कार्यालङ्करणयोरपृथग्भावस्य अलङ्कार्यत्वे स्वात्मनि क्रियाविरोधात्तस्यैवालङ्करणत्वानुपपत्तिरुदाहरणान्तरैः परिहृता । यथा चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकरचः । करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥ टीका ३.६६ ॥ अत्र परमार्थःप्रधानवृत्तेः शृङ्गारस्य भ्रमरसमारोपितकान्तवृत्तान्तो (रूपकं) रसवदलङ्कारः शोभातिशयमाहितवात् । यथा वा कपोले पत्राली ॥ टीका ३.६७ ॥ इत्यादौ । तदेवमनेन न्यानेन "क्षिप्तो हस्तावलग्न" ॥ टीका ३.६८ ॥ इत्यत्र रसवदलङ्कारप्रत्याख्यानमयुक्तम् । सत्यमेतत्, कितुं विप्रलम्भशृङ्गार (स्याङ्ग) ता तत्र निवार्यते, शेषस्य पुनस्तत्तुल्यवृत्तान्ततया रसवदलङ्कारत्वमनिवार्यमेव । न चालङ्कारान्तरे सति रसवदपेक्षानिबन्धनः संसृष्टिसंकरव्यपदेशप्रसङ्गः प्रत्याख्येयतां प्रतिपद्यते । यथा अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः । सुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ टीका ३.६९ ॥ अत्र रसवदलङ्कारस्य रूपकादीनां च संनिपातः सुतरां समुद्भासते । तत्र "चुम्बतीव रजनीमुखं शशी"ति उत्प्रेक्षालक्षणस्य रसवदलङ्कारस्य प्राधान्येनोपनिबन्धः । तदङ्गत्वेनोपमादीनाम् । केवलस्य प्रस्तुततरसपरिपोषापरिनिष्पत्तेः । ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥ टीका ३.७० ॥ इति । अत्र समयसंभवः पदार्थस्वभावः तद्वाचकेवादिशब्दाभिधानं विना प्रतीयमानोत्प्रेक्षालक्षणेन रसवदलङ्कारएम कविनाकामपिकमनीयतामधिरोपितः ॑ प्रतीत्यन्तरमनोहारिणां सकलङ्कादीनां वाचकानामुपनिबन्धात्, पाण्डुपयोधरेणार्द्रनखक्षताभमैन्द्रं धनुः दधानेति श्लेषोपमयोश्च तदानुगुण्येन विनिवेशनात्(च) । एवं सकलङ्कमपि प्रसादयन्ती परस्याभ्यधिकं तापं चकारेत्येवंरूपः प्रकारो हि रूपकालङ्कारनिबन्धनः प्रकटाङ्गनावृत्तान्तसमारोप (रमणीयः) सुतरां समन्वयं समासादितवान् । अत्रापि प्रतीयमानवृत्तेः रसवदलङ्कारस्य प्रधान्यं, तदङ्गत्वमुपमादीनामिति पूर्ववदेव सङ्गतिः । यत्रापि प्रथमोद्भेदमनोहररत्यादिवदाचरणमलङ्काराणां तत्राप्ययमेव समन्वयः सहृदयैः स्वयमनुसन्धेयः । यथा लग्नद्विरेफाञ्जनभक्तिचित्रं मुखे मधुश्रीस्तिलकं निवेश्य । रागेण बालारुणकोमलेन चुतप्रवालोष्ठमलञ्चकार ॥ टीका ३.७१ ॥ अत्र समारोपितनायिकावृत्तान्तस्य श्लेषच्छायासहायस्य रूप (कस्य तद्वदा) चरणात्रसवदलङ्कारत्वम् । यदपि नीरसप्रायं पदार्थजातं तदपि सर्वमनेनैव सरसतामुपपद्यते । यथा "बालेन्दुवक्राणि" ॥ टीका ३.७२ ॥ इति । तदेवमयं सकलकाव्योपनिषद्भूतः काष्ठकुड्योपमानां पदार्थानामलङ्काराणां किमपि स्फुरितं समर्थयंश्चेतनचमत्कारकारितायाः कारणतां प्रतिपद्यते । अयं स रसवन्नाम सर्वालङ्करणाग्रणीः । चूडामणिरिवाभाति कायोत्कर्षैककारणम् ॥ टीका ३.७३ ॥ कविकौशलसर्वस्वमद्योद्धाटितमञ्जसा । विपश्चितां विचारस्य गोचरत्वं गमिष्यति ॥ टीका ३.७४ ॥ इत्यन्तरश्लोकौ । एवं नीरसानां पदार्थानां सरसतां समुल्लासयितुं रसवदलङ्कारं समासादितवान् । इदानीं स्वरूपमात्रेणैवावस्थितानां वस्तूनां कमप्यातिशयमुद्दीपयितुं दीपकालङ्कारमुपक्रमते । तच्च प्राचीनाचार्यैरादिदीपकं मध्यदीपकमन्तदीपकमिति दीप्यमानपदापेक्षया वाक्यस्यादौ मध्येऽन्ते च व्यवस्थितं, दीपयतीति क्रियापदमेव दीपकाख्यमलङ्करणमाख्यात्म् । यथा मदो जनयति प्रीतिं सानङ्गं मानभङ्गुरम् । स प्रियासङ्गमोत्कण्ठां सासह्यां मनसः शुचम् ॥ टीका ३.७५ ॥ मालिनीरंशुकभृतः स्त्रियोऽलङ्कुरुते मधुः । हारीतशुकवाचश्च भूधराणामुपत्यकाः ॥ टीका ३.७६ ॥ चीरीमतीररण्यानीः सरितः शुष्यदम्भसः । प्रवासिनां च चेतांसि शुचिरन्तं निनीषति ॥ टीका ३.७७ ॥ अत्र क्रियापदानां दीपकत्वं प्रकाशकत्वम्, यस्यमात्क्रियापदैरेव प्रकाश्यन्ते स्वसंबन्धितया ख्याप्यन्ते । तदेवं सर्वस्य कस्यचिद्दीपकव्यतिरेकिणोऽपि क्रियापदस्यैकरूपत्वात्दीपकाद्वैतं प्रसज्यते । किं च शोभातिशयकारित्वस्य युक्तशून्यत्वे अलङ्करणत्वानुपपत्तिः । अन्यच्चास्तां तावत्क्रिया । एवं यस्य कस्यचिद्वाक्यवर्तिनः कदस्य संबन्धितया पदान्तरद्योतनं स्वभाव एव । परस्परान्वयसंबन्धनिबन्धनत्वात्वाक्यार्थस्वरूपस्येति पुनरपि दीपकवैश्वरूप्यमायातम् । आदौ मध्ये चान्ते वा व्यवस्थितं क्रियापदमतिशयमासादयति येनालङ्कारतां प्रतिपद्यते (इति चेत्) तेषां च वाक्यादीनां परस्परं तथाविधः कः स्वरूपातिरेकः (विशेषः) संभवति क्रियापदप्रकारभेदनिबन्धनं वाक्यस्य यदादिमध्यान्तं तदेतदर्थकवाक्यादिष्वपि संभवतीत्येवमपि दीपकप्रकारानन्त्यप्रसङ्गः । दीपकालङ्कारविहितवाक्यान्तर्वर्तिनः क्रियापदस्य भ्वादिव्यतिरिक्तत्वमेव काव्यत्वव्यपदेशः । यदि वा समानविभक्तीनां बहूनां कारकाणामेकं क्रियापदं प्रकाशकं दीपकमित्युच्यते, तत्रापि काव्यच्छायातिशयकारितायाः किं निबन्धनमिति वक्तव्यमेव । प्रस्तुताप्रस्तुतविषयसामर्थ्यसंप्राप्तप्रतीयमानवृत्तिसाम्यमेव नान्यत्किञ्चिदित्यभियुक्ततरैः प्रतिपादितमेव । यथा आदिमध्यान्तविषयाः प्राधान्येतरयोगिनः । अन्तर्गतोपमाधर्मा यत्र तद्दीपकं विदुः ॥ टीका ३.७८ ॥ उदाहृतं च ग्रन्थान्तरे यथा चङ्कम्मन्ति करीन्दा दिसागअमअगन्धहारिअहिअआ । दुःख बणे च कैणो भणिइविसममहाकैमग्गे ॥ टीका ३.७९ ॥ चङ्क्रम्यन्ते करीन्द्रा दिग्गजमदगन्धहारितहृदयाः । दुःखं वने च कवयो भणितिविषममहाकविमार्गे ॥ इति छाया । अत्र (प्रस्तुताप्रस्तुतविषयसामर्थ्यसंप्राप्त) साम्यसमुल्लसितं सहृदयहृदयाह्लादकारि काव्यरामणीयकं स्वरूपमेव । क्रियापदं पुनर्वाक्याविनाभावि वाक्यान्तरवद्व्यवस्थितम्, अत्रैव पदान्तरवच्च । (अयम)त्र वाक्यार्थः । यथा दिक्कुञ्जरमदामोदसुहितमानसाः करीन्द्राः कानने कथमपि दुःखं चङ्क्रम्यन्ते, तथा भणितिविषमे वक्रोक्तिविचित्रे महाकविमार्गे कवय इति चशब्दस्यार्थः । ते हि साभिमानाः सन्तः तदतिरिक्तपरिस्पन्दतया वर्तितुमीहमानाः कृच्छ्रेण समाचक्षिरे इत्यभिप्रायः । तस्मात्साम्यैकजीवितमलङ्करणमिदं प्रतीयमानत्वान्मनोहारि प्रकारान्तरम् । (यत्र) त्रिविधं हि प्रतीयमानवृत्तिसाम्यं समुद्भासते तत्रायमेव न्यायोऽनुसन्धेयः । शिष्टं पुनर्वार्तामात्रमेव, यथा गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः ॥ टीका ३.८० ॥ इति । तदिदानीं दीपकमलङ्कारान्तरकरणं कलयन् कामपि काव्यकमनीयतां कल्पयितुं प्रकारान्तरेण प्रक्रमते _________________________________________________________________ औचित्यावहमम्लानं तद्विदाह्लादकारणम् । अशक्तं धर्ममर्थानां दीपयद्वस्तु दीपकम् ॥ ३.१७ ॥ औचित्यावहमित्यादि । "वस्तु दीपकं" वस्तु सिद्धरूपमलङ्करणं । भवतीति संबन्धः, क्रियान्तराश्रवणात् । तदेवं सर्वस्य कस्यचिद्वस्तुनः सद्भावात्तदापत्तिरित्याह"दीपयत्" प्रकाशयदलङ्करणं संपद्यते । किं कस्येत्यभिधत्ते"धर्मं" = परिस्पन्दविशेषम्, "अर्थानां" = वर्णनीयानाम् । कीदृशं"अशक्तम्" = अप्रकटम्, तेनैव प्रकाशमानत्वात् । किंस्वरूपं च"औचित्यावहं" = औचित्यमौदार्यमावहतियः तं तथोक्तम् । अन्यच्च किंविधम्"अम्लानं" = प्रत्यग्रमनालीढमिति यावत् । एवंविधस्वरूपत्वात्"तद्विदाह्लादकारणं" = काव्यविदानन्दनिमित्तम् । अस्यैव प्रकारान्तरान्निरूपयति _________________________________________________________________ एकं प्रकाशकं, सन्ति भूयांसि भूयसां क्वचित् । केवलं पङ्क्तिसंस्थं वा द्विविधं परिदृश्यते ॥ ३.१८ ॥ एकमिति । "द्विविधं परिदृश्यते" = द्विप्रकारमवलोक्यते लक्ष्ये विभाव्यते । कथं ?"केवलं" = असहायं, "पङ्क्तिसंस्थं वा " पङ्क्तौ व्यवस्थितं तत्तुल्यकक्षायां सहायान्तरोपरचितायां वर्तमानम् । कथम् ? "एकं" (भूयसा) बहूनां पदार्थानामेकं "प्रकाशकं" दीपकं केवलमित्युच्यते । यथा वा असारं संसारम् ॥ टीका ३.८१ ॥ इत्यादि । अत्र "विधातुं व्यवसितः" कर्ता संसारादीनामसारत्वप्रभृतीन् धर्मानुद्योतयन् दीपकालङ्कारतामवाप्तवान् । पङ्क्तिसंस्थं (?) "भूयांसि" = बहूनि वस्तूनि दीपकानि "भूयसां" प्रभूतानां वर्णनीयानां "सन्ति वा क्वचित्" भवन्ति वा कस्मिंश्चिद्विषये । यथा कैकेसरी वअणाणा मोतिअरअणाणा आइवेअटिओ । ठाणाठाण जाणै कुसुमाण अ जीणमालारो ॥ टीका ३.८२ ॥ कविकेसरी वचनानां मौक्तिकरत्नानामादिवैकटिकः । स्थानास्थानं जानाति कुसुमानां च जीर्णमालाकारः ॥ इति छाया । चिरन्तनैरेतदेवोदाहृतं, तच्चायुक्तमिति पूर्वपक्षतां प्रापितमिदानीं किमेतस्याप्यतिरिक्तत्वमायाति, येन सिद्धान्तसिद्धमनुपादेयतामधितिष्ठति ? युक्तमुक्तम् । किं तु तैर्वाक्यैकदेशवृत्ति क्रियापदं कारकाणि बहूनि स्वसंबन्धितया प्रकाशयदेकं दीपकमित्यभिहितम्, (वयं)पुनस्तान्येव कारकाणि वर्णनीयानां वस्तूनां कमप्यतिशयं प्रकाशयन्ति बहूनि दीपकानीति ब्रूमः । तथा च "स्थानास्थानं जानाति" इत्यस्यायमभिप्रायः । प्रस्तुतवस्तुशोभातिशयावहं कमप्यवकाशविशेषं वेत्तीति । किमुक्तं भवति ? कविकेसरी पदानामुपनिबन्धविदग्धतया कमपि छायातिशयमुत्पादयति, मौक्तिकरत्नानां चादिवैकटिकः, कुसुमानां च जीर्णमालाकार इति । यद्यपि पदानां केसरिप्रभृतीनां च सजातीयापेक्षया परस्परप्रतीयमानवृत्तिसाम्यं समुद्भासते, तथापि प्राधान्याद्दीपकं तात्पर्यपर्यवसितम् । वाक्यार्थेन साम्यं पुनः नात्र परिभासते । यथा वा चन्द्रमऊएहिंणिसा णलिनी कमलेहिं कुसुमगुच्छेहिं लआ । हंसेहिं सारअसोहा कव्वकहा सज्जनेहिं करै गरुरि ॥ टीका ३.८३ ॥ चन्द्रमयूशैर्निशा नलिनी कमलैः कुसुमगुच्छैर्लता । हंसैश्शारदशोभा काव्यकथा सज्जनैः क्रियते गुर्वो ॥ इति छाया । अत्र ऐ(न्दव मयूखादिभि) रेताः सर्वाः समुल्लासितशोभातिशयाः संपद्यन्त इति कर्तृपदान्येव बहूनि दीपकानि । शिष्टं पूर्ववदेव सर्वं समादेयम् । _________________________________________________________________ (अपरं त्रिप्रकारं च क्वचिद्भूयांसि भूयसा । दीपकं दीपयत्यन्यत्तदन्यद्दीपयन्मतम्) ॥ ३.१९ ॥ तदपरं पङ्क्तिसंस्थं नाम (अवस्थाभेद) कारणात्"त्रिप्रकारं" त्रयः प्रकाराः प्रभेदाः यस्येति विग्रहः । तत्र प्रथमस्तावतनन्तरोक्तो भूयांसि भूयसां क्वचिद्भवन्तीति । द्वितीयो "दीपकं दीपयत्यन्यत्तदन्यत्" इति (यद) न्यस्यातिशयोत्पादकत्वेन दीपकम् । यद्विहितं तत्कर्मभूतमन्यत्कर्तृभूतम् । "दीपयति" = प्रकाशयति, "तदुप्यन्यद्दीपयति" इति । द्वितीयदीपकप्रकारो यथा क्षोणीमण्डलमण्डनं नृपतयस्तेषां श्रियो भूषणं ताः शोभां गमयत्यचापलमिदं प्रगल्भ्यतो राजते । तद्भूष्यं नयवर्त्मना तदपि चेत्शौर्यक्रियालङ्कृतं बिभ्राणं यदियत्तया त्रिभुवनं छेत्तुं व्यवस्येदपि ॥ टीका ३.८४ ॥ अत्रोत्तरोत्तराणि पूर्वपूर्वपददीपकानि मालायां कविनोपनिबद्धानि । यथा वा शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलङ्क्रिया । प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभषणः ॥ टीका ३.८५ ॥ यथा च चारुता वपुरभूषयदासां तामनूननवयौवनयोगः । तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसंगमभूषः ॥ टीका ३.८६ ॥ तृतीयप्रकारोऽत्रैव श्लोकार्धे दीपकशब्दस्थाने दीपितमिति पाठान्तरं विधाय व्याख्येयः । तदयमत्रार्थो य "द्दीपितं" यदन्येन केनचिदुत्पादितातिशयसं (पन्नं) वस्तु तत्कर्तृभूतमन्यत्दीपयतुत्तेजयत्तदन्यदिति । यथा "मदो जनयति प्रीतिं सानङ्गं मानभङ्गुरम्" ॥ टीका ३.८७ ॥ इत्यादि । (ननुपूर्वाचार्यैश्चैतदेव पूर्वमुदाहृतं, तदेव प्रथमं प्रत्याख्यायेदानीं समाहितमित्यस्याभिप्रायो व्याख्यातव्यः । सत्यमुक्तम् । तदयं व्याख्यायतेक्रियापदमेकमेव दीपकमिति तेषां तात्पर्यम्, अस्माक पुनः कर्तृपदानि दीपकानि बहूनि संभवन्ति इति) । (अत्र) प्रीत्यादीनां प्रागभावात्, तेषां सतामभूतप्रादुर्भावं विदधातीति नाभिधीयते, मदादिनियतकारणत्वाभावात् । अपि तु स्वसंवृत्तानां कमप्यपूर्वमतिशयमुत्पादयति । जनयतीति क्रियापदस्यार्थः यौवनं परमङ्गनानां लावण्यं जनयतीति । अथवा ज्वलयतीति पाठान्तरं परिकल्प्योदाहार्यम् । इदानीमेतदेवोपसंहरति _________________________________________________________________ यथायोगिक्रियापदं मनः संवादी तद्विदाम् । वर्णनीयस्य विच्छित्तेः कारणं वस्तु दीपकम् ॥ ३.२० ॥ "यथायोगिक्रियापदम्" = यथा येन प्रकारेण युज्यते इति यथायोगि, क्रियापदं यस्य तत्तथोक्तं तेन यथासंबन्धमनुभवितुं शक्नोति । यथा दीपके क्रिया, "तद्विदां" काव्यज्ञानां ("मनःसंवादि")मनसि संवदति = चेतसि प्रतिफलति यत्(तदपि) तथोक्तम् । (एवं दीपकमभिधाय) साम्यप्रायं रूपकं विविनक्ति _________________________________________________________________ उपचारैकसर्वस्वं (यत्र तत्) साम्यमुद्वहन् । यदर्पयति रूपं स्वं वस्तु तद्रुपकं विदुः ॥ ३.२१ ॥ वर्णनीयस्य विच्छित्तेः कारणं (द्विविधं स्मृतं) । समस्तवस्तुविषयमेकदेशविवर्ति च ॥ ३.२२ ॥ उपचारेत्यादि । "वस्तु तद्रूपकं विदुः""तद्वस्तु" = पदार्थस्वरूपं "रूपकं" = रूपकाख्यमलङ्कारं विदुर्जना इति । कीदृशं"यदर्पयति" "यत्" कर्तृभूतम् "अर्पयति" विन्यस्यति । किं"स्वं" = आत्मीयं "रूपं" वाच्यस्य वाचकात्मकं परिस्पन्दम्, अलङ्कारप्रस्तावादलङ्कारस्यैव स्वसंबन्धित्वात् । किं कुर्वत्"साम्यमुद्वहत्" = समत्वन्धारयत् । अन्यच्च (कीदृशं साम्यं) "वर्णनीयस्य विच्छित्तेः कारणम्" "वर्णनीयस्य" = प्रस्तावाझिकृतस्य पदार्थस्य "विच्छित्तेः" = उपशोभायाः "कारणं" = निमित्तभूतम्, न पुनर्जन्यत्व प्रमेयत्वादिसामान्यं, यस्मात्तेनैव पूर्वोक्तलक्षणसाम्येन वर्णनीयं सहृदयहृदयाह्लादकारितामवतरति । "उपचारैकसर्वस्वं" "उपचारः" = तत्त्वाध्यारोपः, तस्यैकं सर्वस्वं केवलमेव जीवितं, तन्निबन्धनत्वात्रूपकप्रवृत्तेः । यस्मादुपचारवक्रताजीवितमेतदलङ्करणमिति प्रथममेव समाख्यातं "यन्मूलासरसोल्लेखा रूपकादिरलङ्कृतिः " इति । तदेव पूर्वसूरिभिरभ्यधायि । तदेवं मुखमिन्दुरिति रूपकमलङ्करणम् । तत्किमन (योः) (विशेषणविशेष्ययोः) भिन्नस्वरूपयोः सामानाधिकरण्यस्य कारणम् ? उच्यते । इन्दुशब्दः प्रथममाञ्जस्येन चन्द्रमसि वर्तमानः प्रत्यासत्तिनिबन्धन (त्वाद्) अतिकान्तिमत्त्वादिगुणवृत्तितामवलम्बते । ततस्तस्मादेतत्सदृशवक्तृगतगुणवृत्तिः सन् वदनविशेषणतां प्रतिपद्यमानश्चेतनचमत्कारितां प्रतिपद्यते । (उपमेयशब्दः) स्वाभिधे (याविना) भूतवृत्तितां (उपमान)शब्दस्य नियमयतीत्येतस्मादेव विशेषणविशेष्यभावनिबन्धनात्मुखेन्दुरित्यत्र समासोपपत्तिः । तस्मादेव च सहृदयहृदयसंवादमाहात्म्यात्"मुखमिन्दुः" इत्यादि न केवलं रूपकं, यावत्"किं तारुण्यतरोः" इत्येवमाद्यपि । एवं रूपकसामान्यलक्षणस्वरूपमुल्लिख्य प्रकारपर्यालोचनेन तदेवोन्मीलयति "समस्तवस्तुविषयम्" इति । समस्तवस्तुविषयो यस्य तत्तथोक्तं॑ तदयमत्र वा (क्यार्)थःयद्सर्वाण्येव प्राधान्येन वाच्यतया सकलवाक्योपारूढान्यभिधेयानि अलङ्कार्यतया सुन्दरस्वपरिस्पन्दसमर्पणेन गोचरो यस्येति तत् । विशेषणानां विशेष्यायत्तत्वातस्वातन्त्रयेण पृथगलङ्कार्यत्वाभावात्तेषामविषयत्वात् । यथा तडिद्वलयकक्ष्याणां बलाकामालभारिणाम् । पयोमुचां ध्वनिर्धोरो दुनोति मम तां प्रियाम् ॥ टीका ३.८८ ॥ इति । अत्र विद्युद्वलयस्य कक्ष्यात्वेन, बलाकानां तन्मालात्वेन रूपणं विद्यते॑ पयोमुचां पुनर्दन्तिभावेन नास्तीत्येक (देश) विवर्तिरूपकमलङ्कारः । तदत्यर्थं युक्तियुक्तम् । यस्मादलङ्कारणस्यालङ्कार्यशोभातिशयोत्पादनमेव प्रयोजनं नान्यत्किञ्चिदिति । तदुक्तरूपकप्रिकारापेक्षया किञ्चिद्विलक्षणमेतेन यदि संपाद्यते तदेतस्य रूपकप्रकारान्तरत्वोपपत्तिः स्यात् । तदेतदास्तां तावत्॑प्रत्युत कक्ष्यादिरूपणोचितमुख्यवस्तुविषये विघटमानत्वादलङ्कारदोषत्वं दुर्निवारतामवम्बते । तस्मादन्यथैवैतदस्माभिः समाधीयते । रूपकालङ्कारस्य परमार्थस्तावदयं, यत्प्रसिद्धसौन्दर्यातिशयपदार्थसौकुमार्यनिबन्धनं वर्णनीयस्य वस्तुनः साम्यसमुल्लिखितं स्वरूपसमर्पणग्रहणसामर्थ्यमविसंवादि । तेन मुखमिन्दुरित्यत्र मुखमेवेन्दुःसंपद्यते तेन रूपेण विवर्तते । तदेवमयमलङ्कारः (पदपूर्वार्धवक्रतानिबन्धनः प) दार्थमात्रवृत्ति) "अलङ्कारोपसंस्कार"इत्यादिना पर्यायवक्रभावान्तर्भावात्वाक्यवक्रभावविचारावसरे वक्तव्यतामेव कदाचिन्नाधिगच्छेदिति । द्वैविध्यमस्योपपादयति(समस्तवस्तुविषयं एकदेशविवर्ति चेति) सर्वे वाक्योपयोगिनः पदार्थाः (प्रत्येकं) विभूष्यतया विषया यस्येति प्रत्येकं यथायोगमेतस्मिन्नुपनिबध्यमाने समस्तेऽपि वर्तन्तेरूपान्तरेणावतिष्ठन्ति । यथा मृदुतनुलतावसन्तः सुन्दरवदनेन्दुबिम्बसितपक्षः । मन्मथमातङ्गमदो जयत्यहो तरुणतारम्भः ॥ टीका ३.८९ ॥ अत्रैव प्रकारान्तरं विचारयति "एकदेशविवर्ति च" इति । अत्र पूर्वाचार्यैर्व्याख्यातम्यथा यदेकदेशेन विवर्तते विघटते विशेषेण वा वर्तते तत्तथोक्तमिति । उभयथाप्येतदुक्तं भवतियद्वाक्यस्य कस्मिंश्चिदेव स्थाने स्वपरिस्पन्दसमर्पणात्मकं रूपणमादधाति । क्वचिदेवेति तदेकदेशविवर्तिरूपकम् । यथा हिमाचलसुतावल्लीगाढालिङ्गितमूर्तये । संसारमरुमार्गैककल्पवृक्षाय ते नमः ॥ टीका ३.९० ॥ एकदेशविवर्तो यत्र तत्तथोक्तम्, एकदेश एव विवर्तते यत्र रूपान्तरेणावतिष्ठते (वा तदेकदेशविवर्ति) रित्यर्थः । तेषां विशेषणसामर्थ्यनिबन्धनायाः पदार्थशोभायाः (अत्र) रूपातिशयकारिरूपकालङ्कारनिष्पत्तेः । यथा "उपोढरागेण" इत्यादौ तिमिरांशुकमित्यत्रैकदेशविवर्ति(रूपणं) विद्यते । शिष्टं पुनः शशिनः कामुकत्वं, निशायाश्च कामिनीत्वं रूपणीयमपि प्रतीत्यन्तरविधायि विशेषणविशिष्टिलिङ्गसामर्थ्यमात्रसमधिगम्यं शब्देनाभि(धीयमानं) पुनरुक्तता ग्राम्यता चाधिरोहति । _________________________________________________________________ तस्मात्वाच्यं सामर्थ्यलभ्यं च प्रतीत्या च समर्पितम् । अलङ्कृतीनामात्मानं त्रिविधं तद्विदो विदुः ॥ ३.२३ ॥ तत्र वाच्यं समस्तवस्तुविषयं रूपकं पूर्वमेवोदाहृतम् । सामर्थ्यलभ्यं तद्(तु) एकदेशविवर्ति तदेव "उपोढरागेणे"त्यादि । प्रतीयमानं यथा लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जल (ड) राशिरयं पयोधिः ॥ टीका ३.९१ ॥ अत्र त्वन्मुखमिन्दुरिति रूपकं प्रतीयमानतया कविनोपनिबद्धम् । एकदेशवृत्तित्वमनेकदेशवृत्तित्वं च रूपकस्य दीपकत्वमेव समालक्ष्यमिति तदनन्तरमस्योपनिबन्धनम् । तदेव विच्छित्त्यन्तरेण विशिनष्टि _________________________________________________________________ नयन्ति रूपकं काञ्चिद्वक्रभावरहस्यताम् । अलङ्कारान्तरोल्लेखसहायं प्रतिभावशात् ॥ ३.२४ ॥ एतदेव रूपकाख्यमलङ्करणं "काञ्चित्" = अलौकिकीं "वक्रभावरहस्यतां" वक्रत्वपरमार्थतां कवयो "नयन्ति" (प्रापयन्ति) । तत्रोपनिबन्धनवक्रताविच्छित्त्यन्तराधिरूढायाः रमणीयता(याः) तदेव तत्त्वं परं प्रतिभासते । कीदृशम् ?"अलङ्कारान्तरोल्लेखसहायम्"अलङ्कारान्तरस्य" = अन्यस्य ससन्देहोत्प्रेक्षाप्रभृतेः, "उल्लेखः", समुद्भेदः, (तत्र)"सहयः"काव्यशोभोत्पादने सहकारी यस्य (तत्तथोक्तम्) । कस्मान्नयन्ति"प्रतिभावशात्"स्वशक्तेरायत्तत्वात् । तथाविधे लोकातिक्रान्तकान्तिगोचरे विषये तस्योपनिबन्धो विधीयते । यत्र तथाप्रसिद्ध्यभावात्सिद्धव्यवहारावतरणं साहसमिवावभासते । विभूषणान्तरसहायस्य पुनरुल्लेखत्वेन विधीयमानत्वात्सहृदयहृदयसंवादसुन्दरी परा प्रौढिरुत्पद्यते । यथा निर्मोकमुक्तिरिव गगनोरगस्य लीलाललाटिकामिव त्रिविष्टपविटस्य ॥ टीका ३.९२ ॥ इति । अत्र कविप्रतिभाप्रतिभासस्यायमभिप्रायःयत्लोकोत्तरसौन्दर्यातिशयश्लाघितया वर्णनीयस्य वस्तुनः प्रकारान्तरेणाभिधातुमशक्यत्वम् । एवंविधया रूपकालङ्काररेखयापि तथा प्रसिद्ध्यभावादेव निष्कम्पतया व्यवहर्तुं न युज्यते । तस्मादस्माकमेवंस्वरूपमेवेदं वर्णनीयंवस्तु प्रतिभातीत्यलङ्कारान्तरमुत्प्रेक्षालक्षणमत्र सहायत्वेनोल्लिखितम् । यथा वा "किं तारुण्यतरोः" ॥ टीका ३.९३ ॥ इत्यादि । अत्राप्ययमेव न्यायोऽनुसन्धेयः । केवलमनेन कविना सर्वातिशायितया वर्णनीयस्य प्रकारान्तरस्य प्रस्तुतसौकुमार्यसमर्पणसामर्थ्यासंभवादेवंस्वरूपस्य रूपकस्य मुखेन्दुरित्यादिवदप्रसिद्धेः । केवलस्योपनिबन्धे "चकितत्वादेवंविधं किमतद्वस्तु स्यादिति सन्दिह्यते मम चेतसा" इति विच्छित्त्या ससन्देहालङ्कारसहायमेतदेवोपनिबद्धमिति चेतस्विनां स्वसंवेदनमेवात्र प्रमाणम् । रूपकरूपङ्क नाम "भ्रूलतानर्तकी" ॥ टीका ३.९४ ॥ इत्यादि लक्षणान्तरस्यासंभवातुदाहरणमात्रादेव पृथङ्नोपपद्यते, लक्षणानन्त्यप्रसङ्गात्, पुनरपि रूपकान्तरावतारोपपत्तेश्चानवस्थाप्रवर्तनात् । एवं रूपकं विचार्य तत्सदृशसाम्यनिर्वचनामप्रस्तुतप्रशंसां प्रस्तौति _________________________________________________________________ अप्रस्तुतोऽपि विच्छित्तिं प्रस्तुतस्यावतारयन् । पदार्थो वाथ वाक्यार्थः प्राप्यते वर्णनीयताम् ॥ ३.२५ ॥ यत्र तत्साम्यमाश्रित्य संबन्धान्तरमेव वा । अप्रस्तुतप्रशंसेति कथितासावलङ्कृतिः ॥ ३.२६ ॥ अप्रस्तुतेत्यादि । "अप्रस्तुतप्रशंसेति (कथितासाव) लङ्कृतिः" "अप्रस्तुतप्रशंसेति" नाम्नासौ कथितालङ्कारविद्भिरलङ्कृतिः । कीदृशी"यत्रऽयस्याम्"अप्रस्तुतोऽपिऽअविवक्षितः (अपि) पदार्थः "वर्णनीयतां प्राप्यते"वर्णनाविषयः संपद्यते । किं कुर्वन् ?"प्रस्तुतस्यऽविवक्षितस्यार्थस्य "विच्छित्तिम्ऽउपशोभाम् "अवतारयन्ऽसमुल्लासयन् । द्विविधो हि तत्त्वभूतः पदार्थः संभवति । वाक्यान्तर्भूतपदमात्रसिद्धोर्ऽथः सकलवाक्यव्यापककार्यो विविधस्वपरिस्पन्दातिशयत्वविशिष्टप्राधान्येन वर्तमानश्च । तदुभयरूपमपि प्रस्तुतं प्रतीयमानतया चेतसि निधाय पदार्थान्तरमप्रस्तुतं तद्विच्छित्तिसंपत्तये वर्णनीयतामस्यामलङ्कृतौ कवयः प्रापयन्ति । किं कृत्वा ? "तत्साम्यमाश्रिताय""तत्"अनन्तरोक्तं रूपकालङ्कारोपकारि "साम्यं"समत्वं, आश्रित्यनिमित्तीकृत्य, "संबन्धान्तरमेव वा " "संबन्धान्तरम्"अपरं वा (संबन्धं) निमित्तभावादि संश्रित्य । "वाक्यार्थः"असत्य (भू) तो वा परस्परान्वितपदसमुदायलक्षणवाक्यकार्यभूतः । साम्यं संबन्धान्तरं वा समाश्रित्याप्रस्तुतं प्रस्तुतशोभायै वर्णनीयतां यत्र नयन्तीति । तत्र साम्यसमाश्रयणाद्वाक्यान्तर्भूताप्रस्तुतपदार्थप्रशंसोदाहरणं यथा लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदणडाः ॥ टीका ३.९६ ॥ इति । अत्र साम्यसमाश्रयणात्वाक्यान्तर्भूताप्रस्तुत (प्रशंसया) कविविवक्षितमुख्यपदार्थः प्रतीयते । सकलवाक्यव्यापकाप्रस्तुतार्थप्रशंसोदाहरणं यथा छाया नात्मन एव या कथमसावन्यस्य निष्प्रग्रहा ग्रीष्मोष्मापदि शीतलस्तलक्षुवि स्पर्शोऽनिलादेः कुतः । वार्ता वर्षशते गते किल फलं भावीति वार्तेव सा द्राघिम्णा मुषिताः कियच्चिरमहो तालेन बाला वयम् ॥ टीका ३.९६ ॥ ठ्ठ ॥ संबन्धान्तरसमाश्रयणात्वाक्यान्तर्भूताप्रस्तुतपदार्थप्रशंसोदाहरणं यथा इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमलता श्यामेव हेमप्रभा । कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सहर्हा इव ॥ टीका ३.९७ ॥ अत्र इन्दुप्रभृतीनां निमित्तिनां विच्छायता निमित्तम् । सीतायाः संबन्धी शोभातिशयसौकुमार्यमनोहरो मुखाद्यवयवसमूहः प्रकृताङ्गभूतभूषणान्तरोपनिबन्धसहायः प्रस्तुतप्रशंसां समर्पयन् सोत्कर्षः प्रतीयते । एवमस्मादेव संबन्धा (न्तर) समाश्रयणात्सकलवाक्यव्यापकाप्रस्तुतप्रशंसोदाहरणं यथा परामृशित सायकं क्षिपति लोचनं कार्मुके विलोकयति वल्लभास्मितसुधार्द्रवक्त्रं स्मरः । मधोः किमपि भाषते भुवननिर्जयायावनिं गतोऽहमिति हर्षितः स्पृशति गात्रलेखामहो ॥ टीका ३.९८ ॥ अत्र प्रकारान्तरप्रतिपादनागोचरस्तरुणीतारुण्यावतारस्तथाविधमन्मथचेष्टातिशयनिमित्तवतः तन्निमित्त(रूपसंबन्धाश्रयणात्प्रतीयते) । असत्यभूतवाक्यार्थतात्पर्यप्रस्तुतप्रशंसोदाहरणं यथा तण्णत्थि किंपि पैणो पकप्पिअं जं ण णिऐ घरणीए । अणवरअगअणसीलस्स कालपहिअस्स पाहिज्जं ॥ टीका ३.९९ ॥ तन्नास्ति किमपि पत्युः प्रिकल्पितं यन्न नियतिगेहिन्या । अनवरतगमनशीलस्य कालपथिकस्य पाथेयम् ॥ (छाया) अत्र साम्यं, निमित्तनिमित्तिभावः, सामान्यविशेषभावश्चेति त्रितयमपि अन्तर्भावयितुं युज्यते । यस्मात्प्रहस्तवधे श्रावयितव्ये साक्षादभिधानानुचितत्वात्विच्छित्त्यैवमभिधीयते । तदेवमयमप्रस्तुतप्रशंसाव्यवहारः कवीनामतिविततप्रपञ्चः परिदृश्यते । तस्मात्सहृदयैश्च स्वयमेवोत्प्रेक्षणीयः । प्रशंसाशब्दोऽत्रार्थप्रकाशादिवत्विपरीतलक्षणया गर्हायामपि वर्तते । वर्णना सामान्यमात्रवृत्तिर्वा । एवमप्रस्तुतप्रशंसां विचार्य विवक्षितार्थप्रतिपादनाय प्रकारान्तराभिधानत्वादनयैव समच्छायप्रायं पर्यायोक्तं विचारयति _________________________________________________________________ यद्वाक्यान्तरवक्तव्यं तदन्येन समर्प्यते । येनोपशोभानिष्पत्त्यै पर्यायोक्तं तदुच्यते ॥ ३.२७ ॥ यद्वाक्यान्तरेत्यादि"पर्यायोक्तं तदुच्यते" = पर्यायोक्ताभिधानमलङ्करणं तदभिधीयते । "यद्वाक्यान्तरवक्तव्यं" = वस्तु वाक्यार्थलक्षणं पदसमुदायान्तराभिधेयं "तदन्येन" = वाक्यान्तरेण येन "समर्प्यते" = प्रतिपाद्यते । किमर्थम् ?"उपशोभानिष्पत्त्यै" = विच्छित्ति (विशेष) संपत्तये । तत्पर्यायोक्तमित्यर्थः । नन्वेवं पर्यायवक्रत्वात्किमत्रातिरिच्यते ? पर्यायवक्रत्वस्य पदार्थमात्रं वाच्यतया विषयः, पर्यायोक्तस्य पुनर्वाक्यार्थोऽप्यङ्गतयेति तस्मात्पृथगभिधीयते । उदाहरणं यथा चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषमिति ॥ टीका ३.१०० ॥ एवम् _________________________________________________________________ यत्र वाच्यतया निन्दा विच्छित्त्यै प्रस्तुतस्य सा । स्तुतिर्व्यङ्ग्यतया चैव व्याजस्तुतिरसौ मता ॥ ३.२८ ॥ "यत्रऽ = यस्यां, "वाच्यतयाऽ = शब्दाभिधेयत्वेन "निन्दाऽ = गर्हा, "व्यङ्ग्यतया स्तुतिःऽ = प्रतीयमानत्वेन प्रशंसा "प्रस्तुतस्य विच्छित्त्यैऽ = शोभायै, तदेवमसौ द्विप्रकारा "व्याजस्तुतिःऽ अलङ्कृतिः "मताऽ = स्मृता । यथा भूभारोद्वहनाय शेषशिरसां सार्थेन संनह्यते विश्वस्य स्थितये स्वयं स भगवान् जागर्ति देवो हरिः । अद्याप्यत्र च नाभिमानमसमं राजंस्त्वया तन्वता विश्रान्तिः क्षणमेकमेव न तयोर्जातेति कोऽयं क्रमः ॥ टीका ३.१०१ ॥ यथा वा इन्दोर्लक्ष्म ॥ टीका ३.१०२ ॥ इत्यादि । विपर्यये विभूष्यस्यालङ्कृतिरेषैव विहिता । यथा हे हेलाजित ॥ टीका ३.१०३ ॥ इत्यादि । यथा वा नामाप्यन्ततरोः ॥ टीका ३.१०४ ॥ इति । यथा वा दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकूप हे परमुपकृतं वक्तुं रोषं ह्रिया न वयं क्षमाः । भवतु सुकृतैरध्वन्यानामशोषजलो भवा नियमपि पुनश्छायाभूया तवोपतटं शमी ॥ टीका ३.१०५ ॥ अत्र स्तुतिशब्दः पूर्ववद्विपरीतलक्षणया निन्दायामपि वर्तते । एवं व्याजस्तुतिं व्याख्याय प्रक्रमोपसंहारानन्यत्वसामान्यातनयोप(मा)समानकक्ष्यां (उत्प्रेक्षां) विवक्षुराह _________________________________________________________________ संभावनानुमानेन सादृश्येनोभयेन वा । निर्वर्ण्यातिशयोद्रेकप्रतिपादनवाञ्छया ॥ ३.२९ ॥ वाच्यवाचकसामर्थ्याक्षिप्तस्वार्थैरिवादिभिः । तदिवेति तदेवेति वादिभिर्वाचकं विना ॥ ३.३० ॥ समुल्लिखितवाक्यार्थव्यतिरिक्तार्थयोजनम् । उत्प्रेक्षा, (काव्यतत्त्वज्ञैरलङ्करणमुच्यते) ॥ ३.३१ ॥ संभावनेत्यादि । "समुल्लिखितवाक्यार्थव्यतिरिक्तार्थयोजनमुत्प्रेक्षा""समुल्लिखितः"सम्यगुल्लिखितः, स्वाभाविकत्वेन समर्पयितुं प्रस्तावितः । "वाक्यार्थः"पदसमुदायाभिधेयं वस्तु, तस्माद्"व्यतिरिक्तस्यार्थस्य"वाक्यान्तरतात्पर्यलक्षणस्य, "योजनम्"उपपादनम् । "उत्प्रेक्षा"उत्प्रेक्षाभिधानमलङ्करणम् । उत्प्रेक्षणमुत्प्रेक्षेति विगृह्यते । (के) न साधनेनेत्याह"संभावनानुमानेन" संभावनया यदनुमानं, संभाव्यमानस्यार्थस्य ऊहनं तेन । तदवश्यं तस्य वस्त्वन्तरत्वापादनं तत्समानकार्यदर्शनादिति भावः । प्रकारान्तरेणाप्येषा संभवतीत्याहसादृश्येनेति । "सादृश्येन"साम्येनापि हेतुना "समुल्लिखितवाक्यार्थव्यतिरिक्तार्थयोजनम्" उत्प्रेक्षैव । द्विविधं सादृश्यं संभवति वास्तवं काल्पनिकं चेति । तत्र वास्तवमुपमादिविषयम्, काल्पनिकमिहाश्रीयते, सातिशयत्वेन प्रस्तावात् । सादृश्यस्योभयाश्रयत्वाविनाभावात्, प्रस्तुतव्यतिरिक्तस्य पदार्थान्तरस्यासंभवात्, तस्य च धर्मत्वे सति पराश्रितत्वात्केवलस्य कल्प्य(त्व) मेवानुपपन्नमिति तदाश्रयः कश्चिदपरः कल्पनीयः । सोऽपि कोऽसाविति नियमासिद्धिः । एकस्य कस्यापि कल्पनेऽप्यनवस्थाप्रसङ्गात्, गुणसमन्वयाभावादप्रतिपत्तेश्च वास्तवसादृश्याधारभूतधर्म्यन्तरसदृशः पारिशेष्यात्परिकल्पनीयतामर्हतीति सचेतसः प्रमाणम् । तस्मात्तथाविधधर्मिणः सादृश्येनेति व्यक्तम् । क्वचिदवास्तवेनापि प्रौढिवादेन उक्तविधप्रकारान्तरममपरमस्याः प्रतिपादयति"उभयेन वा" संभावनानुमानसादृश्यलक्षणोभयेन वा कारणद्वितयेन संवलिवृत्तिना प्रस्तुतव्यतिरिक्तार्थान्तरयोजनमुत्प्रेक्षा । प्रकारात्रितयस्याप्यस्य केनाभिप्रायेणोपनिबन्धनमित्याह"निर्वर्ण्यातिशयोद्रेकप्रतिपादनवाञ्छया"वर्णनीयोत्कर्षकाष्ठाधिरूढिसमर्पणाकाङ्क्षया । कथम् ? "तदिवेति तदेवेति वा "द्वाभ्यां प्रकाराभ्याम् । "तदिव" अप्रस्तुतमिव । तदतिशयप्रतिपादनाय (या) प्रस्तुतसादृश्योपनिबन्धः । "तदेवेति"अप्रस्तुतमेव प्रस्तुतमिति । (समारोपित) स्वरूपप्रसरणपूर्वकमप्रस्तुतस्वरूपसमारो(पस्य) प्रस्तुतोत्कर्षधाराधिरोहप्रतिपत्तये तात्पर्यान्तरयोजनम् । कैः उत्प्रेक्षा प्रकाश्यत इत्याह"इवादिभिः"इवप्रभृतिभिः शब्दैः यथायोगं प्रयुज्यमानैरित्यर्थः । "वाच्या" इति । पक्षान्तरमभिधत्ते"वाच्यवाचकसामर्थ्याक्षिप्तस्वार्थैः " तैरेव प्रयुज्यमानैः प्रतीयमानवृत्तिभिर्वा । तत्र संभावनानुमानोदाहरणं यथा आपीडलोभादुपकर्णमेत्य प्रत्याहितोपांशुरुतैर्द्विरेफैः । अभ्यस्यमानेव महीपतीनां संमोहमन्त्रं मकरध्वजेन ॥ टीका ३.१०६ ॥ काल्पनिकसादृश्योदाहरणं यथा "राशीभूतः प्रतिदिनमिव त्र्यंबकस्याट्टहासः" ॥ टीका ३.१०७ ॥ यथा वा "निर्मोकमुक्तिरिव गगनोरगस्य" ॥ टीका ३.१०८ ॥ इत्यादि । वास्तवसादृस्योदाहरणं यथा आकर्णकिसलयकर अलमलं च चलं तारआदि । हिन्दु अलीलं वस स चाल भवादिहि आसति ॥ टीका ३.१०९ ॥ (छाया ?) उभयोदाहरणं यथा तिक्खारुणं तथारण्ण अणजअं राण्ति प्रलारि । अन्तिरे उदे अअसे अवन्दिलग्ग रिउरूढिरले सव्व महुरेउणा ॥ टीका ३.११० ॥ (छाया ?) (तिक्खारुणं तमिति । आरात्दूरात्भेद एव भेदो द्रुतिरेव विदारणं तत्रेत्यर्थः । लोके हि तीक्ष्णः शरादिपदार्थोऽङ्गविदारणे लग्नरुधिरलेशो दृश्यते । इति तद्धर्मसादृश्ये नयनयुगगततीक्ष्णारुणात्तत्वस्य विद्यमाने प्रस्तुतवस्तुधर्मोऽप्रस्तुतवस्तुधर्मत्वेन संभावित इत्युभयसाधनेयमुत्प्रेक्षा । यथा वा णीसासा खणविरहे फुरन्ति रमणीणसुरहिणो तस्स । कड्ढिअ हिअअट्ठिअ कुसुमबाणमअरन्दलेसव्व ॥ टीका ३.१११ ॥ निःश्वासा क्षणविरहे स्फुरन्ति रमणीनां सुरभयस्तस्य । कृष्टहृदयस्थितकुसुमबाणमकरन्दलेशा इव ॥ छाया । अत्र वास्तवसादृश्योदाहरणं यथा उत्फुल्लचारुकुसुमस्तबकेन नम्रा येयं धुता रुचिरचूतलता मृगाक्ष्या । शङ्के न वा विरहिणीमृदुमर्दनस्य मारस्य तर्जितमिदं प्रतिपुष्पचापम् ॥ टीका ३.११२ ॥ अत्रासूत्रितार्थव्यतिरेकिवस्त्वन्तरविधानादपह्नुतिभ्रान्तिर्न विधातव्या, यतस्तस्याः प्रथमोद्भेदजीवितमुत्प्रेक्षा न पुनरपह्नुतिरेतस्याः । तदेवानन्तरं व्यक्तिमायास्यति । तदिवेत्यत्र वादिभिर्विनोदाहरणं यथा चन्दनासक्तभुजगनिःश्वासानिलमूर्छितः । मूर्च्छयत्येष पथिकान्मधौ मलयमारुतः ॥ टीका ३.११३ ॥ यथा वा "देवि त्वन्मुखपङ्कजेन" ॥ टीका ३.११४ ॥ इत्यादि । यथा वा "त्वं रक्षसा भीरु" ॥ टीका ३.११५ ॥ इत्यादि । तदेवेत्यत्र वाचकं विनोदाहरणम् । यथा "एकैकं दलमुन्नमय्य" ॥ टीका ३.११६ ॥ इत्यादि । एतस्याः प्रकारान्तरमुपक्रमते _________________________________________________________________ प्रतिभासात्तथा बोद्धुः स्वस्पन्दमहिमोचितम् । वस्तुनो निष्क्रियस्यापि क्रियायां कर्तृतार्पणम् ॥ ३.३२ ॥ "प्रतिभासादित्यादि" । तदिदमुत्प्रेक्षायाः प्रकारान्तरं परिदृश्यते"क्रियायाम्"साध्यस्वरूपायां, "कर्तृतार्पणम्"स्वतन्त्रत्वसमारोपणं । कस्य ? "वस्तुनः"पदार्थस्य । "निष्क्रियस्यापि" क्रियाविरहितस्यापि । कीदृशं ? "स्वभावोत्कर्षः, तस्योचितमनुरूपम् । कस्मात्? ("बोद्धुः तथा प्रतिभासात्") "बोद्धुः"अनुभवितुः "तथा"तेन प्रकारेण । "प्रतिभासात्"अवबोधनात् । "निर्वर्ण्यातिशयोद्रेकप्रतिपादनवाञ्छया । तदिवेति तदेवेति वादिभिर्वाचकं विना" इति पूर्ववदिहापि संबन्धनीये । उदाहरणं यथा "लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः " ॥ टीका ३.११७ ॥ यथा वा तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ ॥ टीका ३.११८ ॥ यथा वाः वियति विसर्पतीव कुमुदेषु बहुभवतीव योषितां प्रतिफलतीव जरठशरकाण्डपाण्डुषु गण्डभित्तिषु । अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ॥ टीका ३.११९ ॥ (उत्प्रेक्षावाचकानामि) वादीनां परिगणनमत्र दण्डिना विहितमिति न पुनर्विधीयते । सेयमुत्प्रेक्षा वर्णनीयस्य स्वभावविसंवादसुन्दरं कमप्यतिशयमुल्लासयति । कविप्रतिभासापरपर्यायप्रायाणामन्येषामपि भूषणानां केषाञ्चिदियं सारस्वरूपमासूत्रयन्ती प्रथमोल्लेखकारणतां स्वयमेव समाक्रामति, तन्निबन्धनत्वाद्विच्छित्तिविशेषानाम् । अपहृत्यालङ्कारलावण्यातिशयश्रियः । उत्प्रेक्षा प्रथमोल्लेखजीवितत्वेन जृम्भते ॥ टीका ३.१२० ॥ इत्यन्तरश्लोकः । एवमुत्प्रेक्षां व्याख्याय सातिशयत्वासादृश्यसमुल्लसितावसरामतिशयोक्तिं प्रस्तौति । _________________________________________________________________ उच्यतेऽतिशयोक्तिः सा सर्वालङ्कारजीवितम् । यस्यामतिशयः कोऽपि विच्छित्त्या प्रतिपाद्यते । वर्णनीयस्य धर्माणां तद्विदाह्लाददायिनाम् ॥ ३.३३ ॥ "उच्यतेऽतिशयोक्तिः सा"अतिशयोक्तिरलङ्कृतिरभिधीयते । कीदृशी? "यस्यामतिशयः"प्रकर्षकाष्ठाधिरूढः कोऽप्यतिक्रान्तप्रसिद्धव्यवहारसरणिः । "विच्छित्त्या प्रतिपाद्यते"वैदग्ध्यभङ्ग्या समर्प्यते । कस्य ? "वर्णनीयस्य धर्माणां"प्रस्तावाधिकृतस्य वस्तुनः स्वभावानुसंबन्धिनां परिस्पन्दानाम् । कीदृशानां ? "तद्विदाह्लाददायिनां"काव्यविदानन्दकारिणाम् । यस्यात्सहृदयाह्लादकारिस्वस्पन्दसुन्दरत्वमेव वाक्यार्थः, ततस्तदतिशयपरिपोषिकायामतिशयोक्तावलङ्कारकृतः कृतादराः । एवंविधस्वरूपास्ते यथोल्लासितकान्तयः । रसस्वभावालंकाराः परां पुष्णन्ति वक्त्रतां ॥ ३.३४ ॥ "एवंविधस्वरूपास्ते यथोल्लासितकान्तयः" समुद्दीपितशोभातिशयास्त्रयोऽपि" परां वक्रतां"अलौकिकं काव्यरहस्यभूतवक्रभावं "पुष्णन्ति" उद्भासयन्ति । यथा चन्द्रकान्तमणिदुर्दिने (सद्मनि ?)त्यजद्राजहंसमनुबध्नती गिरा । ज्योत्स्नया जनितसंशया पुनः वक्रदूतिरिव रौति सारसी ॥ टीका ३.१२१ ॥ यथा वा खपुष्पच्छविहारिण्या चन्द्रभासा तिरोहिताः । अन्वमीयन्त भृङ्गालिवाचा सप्तच्छदद्रुमाः ॥ टीका ३.१२२ ॥ अत्र भावस्वभावातिशयः परं परिपोषमधिरोपितः । यथा वा यस्य प्रज्वलति प्रतापतपने तेजस्विनामित्यलं लोकालोकधराधरेऽप्यतिशयः शीतांशुबिम्बे वृथा । त्रैलोक्यप्रथितापदानमहिते क्षोणीशवंशोद्भवे सूर्याचन्द्रमसौ स्वयं कृशतरच्छायां समारोहतः ॥ टीका ३.१२३ ॥ यथा च हिमाम्बुनिर्वृत्तनिमज्जनानां बालातपस्पर्शननिर्मलानाम् । सावित्रभासा विहताङ्गरग मङ्गं किमप्यङ्कुरितं स्थलीनाम् ॥ टीका ३.१२४ ॥ अत्र पूर्वस्मिन् रूपकालङ्कारातिशयपरिपोषप्रकर्षः । तथा प्रथमेऽपरस्मिंश्च रसवदलङ्कारपरिपुष्टिः । तथा च तुहिनसलिलक्षालनक्षपितकलङ्कितया नूतनातपपिहतांशुकेनाभिव्यक्तविमलभावेनांभः स्नानादिसरसरमणीव्यपारसमारोपणेन किमपि सौकुमार्यमारोपितम् । यता च शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव । अप्रगल्भयवसूचिकोमला छेत्तुमग्रनखसंपुटैः कराः ॥ टीका ३.१२५ ॥ अत्र रसपरिस्पन्दसौन्दर्यातिशयः समुद्भासते । तथा च नूतनोदयानां दर्शितसौकुमार्याणां शशाङ्ककिरणानामन्यादृशः कोऽप्यतिशयः संप्रति समुज्जृम्भते, येनात्यर्थं कपोलकर्णालकसंपर्कश्लाघनीयां कर्णपूररचनाविच्छित्तिमर्हतीति पार्वतीपतिः प्रियायाः प्रतिपादयंस्तद्वदनेन्दुसौन्दर्यदर्शनेन तत्कालोदितशशाङ्ककरावलोकनेन च रसोच्चलितचित्तवृत्तिः प्रतीयते । एवमलङ्कार्यस्य वस्तुनः प्रधानभूतस्याङ्गभावेन व्य (वस्थि)तोऽप्यलङ्कारवर्गः किञ्चिदतिरिक्तवृत्तितयोपनिबध्यमानः संनिवेशसौकुमार्यमाहात्म्यादुद्रिक्तभावेन परिस्फुरन् गुणभूतोऽपि मुख्यतामिवापद्यमानः निबन्धनप्रभावात्तु प्राधान्येनावभासमानो व्याख्यातः । इदानीं साम्यसमुद्भासिनो विभूषणवर्गस्य विन्यासविच्छित्तिं विचारयति _________________________________________________________________ विवक्षितपरिस्पन्दमनोहारित्वसिद्धये । वस्तुनः केनचित्साम्यं तदुत्कर्षवतोपमा ॥ ३.३५ ॥ तां साधारणधर्मोक्तौ वाक्यार्थे वा तदन्वयात् । इवादिरपि विच्छित्त्या यत्र वक्ति क्रियापदम् ॥ ३.३६ ॥ विवक्षितेत्यादि"यत्र"यस्यां, "वस्तुनः"प्रस्तावाधिकृतस्य, "केनचित्"अप्रस्तुतेन पदार्थान्तरेण, "साम्यम्" सोपमाउपमालङ्कृतिरित्युच्यते । किमर्थमप्रस्तुतेन साम्यमित्याह"विवक्षितपरिस्पन्दमनोहारित्वसिद्धये" "विवक्षितः"वक्तुमभिप्रेतो योऽसौ "परिस्पन्दः"कश्चिदेव धर्मविशेषः (तस्य "मनोहारित्वं"हृदयाह्लादकत्वं तस्य "सिद्धिः"निष्पत्तिः) तदर्थम् । कीदृशेन पदार्थान्तरेण"तदुत्कर्षवता"॑ तदिति मनोहारित्वं परामृश्यते, तस्य "उत्कर्षः" (अतिशयः) स विद्यते यस्य स तथोक्तः, तेन तदुत्कर्षवता, मनोहारित्वातिशयवता । तदिदमत्र तात्पर्यम्वर्णनीयस्य विवक्षितधर्मसौन्दर्यसिद्ध्यर्थं अप्रस्तुतपदार्थेन धर्मिणा साम्यं युक्तियुक्ततामर्हति । धर्मेणेति नोक्तं, केवलस्य तस्यासंभवात्॑ तदेवमयं धर्मद्वारको धर्मिणोरुपमानोपमेयलक्षणयोः फलत॑ साम्यसमुच्चयः पर्यवस्यति । एवंविधामुपमाङ्कः प्रतिपादयतीत्याहक्रियापदमित्यादि । "क्रिया"धात्वर्थः । (क्रियापदशब्देन) वाचकसामान्यमात्रमत्राभिप्रेतं न पुनराख्यातपदमेव । यस्मातमुख्यभावेनापि क्रिया यत्र वर्तते तदप्युपमावाचकमेव । तथा च पाचकः इत्यत्र पाकशक्तेः प्राधान्येन तदन्तर्लोनवृत्तिः प्रकृत्यर्थो विद्यत एव, पचति इति पाचक इति । तथा पचतीत्यत्र क्रियायाः प्राधान्येऽपि कारकार्थ अपि अन्तर्लोनः । तदेवमुभयरूपमपि क्रियापदपरिस्पन्दस्पन्दिनी "तां"अपमां, "वक्ति"अभिधत्ते । कथं ?"विच्छित्त्या"वैदग्ध्यभह्ग्या । विच्छित्तिविरहेणाभिधानेन तद्विदाह्लादकत्वं न संभवतीति भावः । क्रियापदं न केवलं तां वक्ति यावद्"इवादिरपि"(इवृ) प्रभृतिरपि तत्समर्पणसामर्थ्यसमन्वितो यः कश्चिदेव शब्दविशेषः, समासो बहुब्रीहयादिः, प्रत्ययोऽपि वत्यादिः विच्छित्या तां वक्तीति । अपिः समुच्चये । कस्मिन् सति ?"साधारणधर्मोक्तौ""साधारणः" समानः यो (ऽ सौ) तयोरुपमानोपमेययोरुभयोरनुयायी धर्मः (तदुक्तौ) । धर्मान्वययोः क्रियायोः कर्तृभेदेन सुबन्तस्योपमा । कुत्र ? "वाक्यार्थे वा "परस्परान्वयसंबन्धेन पदसमूहो वाक्यं, तदभिधेयं वा वस्तु विभूष्यत्वेन विषयो गोचरः तस्मिन् । कथं ? "तदन्वयात्"तदिति पदार्थपरामर्शः, तेषां पदार्थानां "समन्वयात्" अन्योन्यमभिसंबध्यमानत्वात् । वाक्ये हि बहवः पदार्थाः संभवन्ति । तत्र परस्पराभिसंबन्धमाहात्म्यात्कस्यचिदेकेन केनचिदेव साम्यनिबन्धन)मुपमोत्प्रेक्षयोः) । तदेवं तुल्येऽस्मिन् वस्तुसाम्ये सति, उपमोत्प्रेक्षावस्तुनोः कीदृक्पृथक्त्वमित्याह _________________________________________________________________ उत्प्रेक्षावस्तुसाम्येऽपि तात्पर्यान्तरगोचरः ॥ ३.३७ ॥ उत्प्रेक्षायाः साम्यसंबन्धे विद्यमानेऽपि "तात्पर्यं" पदार्थव्यतिरिक्तवृत्ति वाक्यार्थजीवितभूतं वस्त्वन्तरमेव "गोचरो" विषयः तद्विदामन्तः प्रतिभासः यस्य, तथा चैवोदाहृतः । उपमोत्प्रेक्षावस्तुनोरत्र केवले करणे कर्मणि वा अवर्तिनोरुभयोरपि तुल्यत्वेनाभिसंबध्यमानत्वात् । एवमुपमितिरुपमेति भावमात्रे व्यवतिष्ठते । तथा च वर्ण्यस्य नि (तरामवर्णनीये) न साम्यं यस्यामिति लक्षणतात्पर्यम् । उभयमेव निश्चितं प्रतिपादयति । अमुख्यक्रियापदप्रतिपन्न । पदार्थानामुदाहरणं यथा पूर्णेन्दोस्तव संवादि वदनं वनजेक्षणे । पुष्णाति पुष्पचापस्य जगत्त्रयजिगीषुताम् ॥ टीका ३.१२६ ॥ इवादिप्रतिपाद्यपदार्थोपमोदाहरणं यथा "निपीयमानस्तबका शिलीमुखैः" ॥ टीका ३.१२७ ॥ इत्यादि । आख्यातपदप्रतिपाद्यपदार्थोपमोदाहरण यथा ततोऽरुणपरिस्पन्देत्यादि ॥ टीका ३.१२८ ॥ तथाविधवाक्योपमोदाहरणं यथा मुखेन सा केतकपत्रपाण्डुना कृशाङ्गयष्टिः कपिमेयभूषणा । स्थिताल्पतारां तरुणेन्दुमण्डलां विभातकल्पां रजनीं व्यडम्बयत् ॥ टीका ३.१२९ ॥ इवादिप्रतिपाद्यपदार्थोपमोदाहरणं यथा चुम्बन् कपोलतलमुत्पुलकं प्रियायाः स्पर्शोल्लसन्नयनमामुकुलीचकार । आविर्भवन्मधुरनिद्रमिवारविन्द मिन्दुरस्पृशास्तमितमुत्पलमुत्पलिन्याः ॥ टीका ३.१३० ॥ तथाविधवाक्योपमोदाहरणं यथा पाण्ड्योऽयमंसार्पितलम्बहारः । कॢप्ताङ्गरागो हरिचन्दनेन ॥ आभाति बालातपरक्तसानुः । सनिर्झरोद्गार इवाद्रिराजः ॥ टीका ३.१३१ ॥ एतयोर्द्वयोरपि वाक्ययोः यद्यप्युपमेयेनोपमानैः सह प्रत्येकं स्वसंबन्धिनं प्रति परस्पर (साम्य) समन्वयलक्षणसंबन्धिनाभिसंबन्धः, तथापि पूर्वस्मिन् साम्यसमन्वयावसायपूर्वको वाक्यार्थावसायः, परस्मिन् पुनः वाक्यार्थावसितपूर्वकसाम्यसमन्वयावसितिः । अस्मिन् वाक्ये समासादि । विषयप्रत्ययान्तरनिरपेक्षत्वात्पदार्थावबोधसमनन्तरतया परस्परसाम्यसमन्वयस्याप्युद्भिद्यमानत्वात्, पदार्थोपमाव्यपदेशः प्रवर्तते । नात्र प्रथमार्धे एव वाक्यार्थपरिसमाप्तिर्वेदितव्या, कविविवक्षाविषयार्थनिष्पत्तेरननुभूतत्वात् । तत्र "सालङ्कारस्य काव्यता" इति च न्यायः । अपरस्मिन् पुनः परस्परान्वयलक्षणसंबन्धनिबन्धनवाक्यार्थावधारणपूर्वकत्वातुपमानोपमेयपरस्परसाम्यसमन्वयावगतेः वाक्योपमाव्यपदेशः युक्ततां प्रतिपद्यते । (क्रियापदप्रतिपाद्योपमोदाहरणानामुपमावार्ताद्युक्तमित्यलमतिप्रसङ्गेन) । आदिग्रहणादिवादिव्यतिरिक्तेनापि यथादिना शब्दान्तरेणोपमाप्रतीतिर्भवतीति (उक्तमेव) । (समासेऽनुक्तौ उक्तौ) वाद्वयं यथा पूर्णेन्दुकान्तिवदना नीलोत्पलविलोचना ॥ टीका ३.१३२ ॥ यथा च यान्त्या मुहुर्वलितकन्धरमाननं त दावृत्तवृत्तशतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥ टीका ३.१३३ ॥ प्रत्ययप्रतिपाद्योपमोदाहरणं यथा माञ्जिष्ठीकृतपद्मसूत्रसदृशः पादानयं पुञ्जयन् यात्यस्ताचलचुम्बिनीं परिणतिं स्वैरं ग्रहग्रामणीः । वात्या चक्रविवर्तिताम्बुजरजच्छत्रायमाणः क्षणं क्षीणज्योतिरितोऽप्ययं स भगवानम्भोनिधौ मज्जति ॥ टीका ३.१३४ ॥ यथा वा इत्याकर्णितकालनेमिवचना (दाघर्घरो) दुर्धरो हुङ्कारः पदयो.....पुरः प्रख्यापितस्यागमः । धैर्यस्तम्भविजृम्भितोद्धुरमदप्रोन्माथपर्याकुलं क्रोधः कुञ्जरवन्महासुरपतेः स्वच्छन्दमा (लोक्यते) ॥ टीका ३.१३५ ॥ यथा इतिदमाकर्ण्य तपस्विकन्या (विलोल) मुद्वीक्षितमुत्सुकस्य । तस्यातिमुक्ताकुलपुष्पकालं गतागतास्या हृदयं मुमोह (?) ॥ टीका ३.१३६ ॥ यथा वा रामेण मुग्धमनसा वृषभध्वजस्य यज्जर्जरं धनुरभाजि मृणालभञ्जम् । तेनामुना त्रिजगदर्पितकीर्तिभारो रक्षः पतिर्ननु मनाङ्न विडम्बितोऽबूत् ॥ टीका ३.१३७ ॥ प्रतीयमानोपमोदाहरणे परस्य रसस्य संबन्धसमन्वितान्यूनामतिरिक्तपरिस्पन्दोभयपदार्थवाचकवाच्यसामर्थ्यादेव क्रियापदादिप्रतिपादकविधीनाप्युपमाप्रतीतिरुपपद्यते । यथा महीभृतः पुत्रवतोऽपि दृष्टि स्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ॥ टीका ३.१३८ ॥ अत्र यस्मात्तथाविधानन्तसामग्रीकस्य मधोरपि तत्समानोप (नीतचूते प्रतीतिरुप) लप्स्यते इति न्याय्यमेतयोः सुव्यक्तमेव साम्यमुपगमयति, तथाचासंख्यकुसुमत्वादिधर्मसौकुमार्यातिरेकात्साम्यसंपत्त्यादिर्विवक्षितेत्याद्युपमालक्षणतात्पर्य (म) विकल्पमेवात्र समर्प्यते । न चार्थान्तरन्यासभ्रान्तिरत्रोद्भावनीया, तस्य वाक्यार्थतात्पर्य (साम्य) लक्षणसामान्यमात्रविषयत्वात् । तस्मादनेन न्यायेन समानवस्तुन्यासोपनिबन्धना प्रतिवस्तूपमापि न पृथग्वक्तव्यतामर्हति, पूर्वोदाहरणेनैव समानयोगक्षेमत्वात् । तथा च लक्षणोदाहरणे तस्याः समानवस्तुन्यासेन प्रतिवस्तूपमा यथा कियन्तः सन्ति गुणिनः साधुसाधारणश्रियः । स्वदुपाकफलानम्राः कियन्तो वाध्वशाखिनः ॥ टीका ३.१३९ ॥ अत्र समानविलसितानामुभयेषामपि कविविक्षित (ता) विरलत्वलक्षणसाम्यव्यतिरेकि (न) किञ्चिदन्यन्मनोहारि जीवितमतिरिच्यमानमुपलभ्यते । तदेवं प्रतिवस्तूपमायाः प्रतीयमानोपमायामन्तर्भावोपपत्तौ सत्यामिदानीमुपमेयोपमादेरुपमायामन्तर्भावो विचार्यते । _________________________________________________________________ उपमेयोमपा येयमुपमानोपमेययोः । सामान्या प्रस्तुतत्वात्तु लक्षणानन्यथास्तितेः ॥ ३.३८ ॥ उपमेयोपमेत्यादि"उपमेयोपमा नाम" = काचिदलङ्कृतिः "सामान्या"न व्यतिरिक्ता । कुतःप्रस्तुतत्वादुपमायाः । कस्मात्कारणात्? "लक्षणानन्यथास्थितेः"तत्स्वरूपस्य असाधारणमभिधानं लक्षणं, तस्य अनन्यथासिद्धेरपि = अतिरिक्तभावानवस्थानात् । तथा चोपमेयमुपमानं यस्यामिति विग्रहे (स्व) यमुपमानमुपमेयं संपद्यते, यदुपमानं तदुपमेयमुदितम् । "प्रसुप्तमथावा निद्रा च शोकात्मतामापन्नस्य हृदयहारीति रतेराश्वासनाभूमयः" ॥ टीका ३.१४० ॥ एतदादेस्तुल्ययोगिताप्रकारत्वमुपपद्यते न वेत्याह _________________________________________________________________ तत्तुल्ययोगिता नाम नासौ पृथगलङ्कृतिः । एतस्यां बहवो द्वौ पदार्थास्तुल्ययोगिनः ॥ ३.३९ ॥ प्रकारत्वं प्रपद्यन्ते प्राधान्यस्य निवर्तनात् । (वस्तु मुख्यतया वर्ण्यं, किं स्यात्कस्य भूषणम्) ॥ ३.४० ॥ येयं तुल्ययोगिता नाम नासावलङ्कृतिः यस्मात्"एतस्यां द्वौ बहवो वा पदार्थाः तुल्ययोगिनः प्रकारत्वमुपपद्यन्ते, "वर्णनीयतां नीयन्ते । अत्र वर्ण्यते मुख्यतया वर्णनीयं वस्तु (इति) किं कस्य विभूषणं स्यातलङ्करणं भवेत् । प्रत्येकं प्राधान्ये नियमा निश्चितेः न किंचित्कस्यचिदित्यर्थः । यदि वा सर्वस्य कस्यचिद्भूषणत्वं स्यादित्यभिधीयते, तत्रैतदपि नोपपद्यते । कस्मात्"प्राधान्यस्य" = परितो मुख्यभावस्य "निवर्तनात्" । यस्माद्भूषणत्वे सति पराङ्गत्वमेव । तेन वस्तुनः प्राधान्यं निवर्तते । मुख्यं हि वस्तु येनैव रूपेणप्राधान्यमनुभवति, न तेनैव पराङ्गत्वमनुभवितुमर्हति, रूपान्तरं विना परस्पराविरुद्धयोरेकत्रानुपपत्तेः । यदि वा राजानुचरादावेकस्मिन्मुख्यत्वं गुणभावश्च संभवतीत्यभिधीयते, तत्र रूपद्वयस्य संभाव्त, तथा च राजानुचरेषु स्वाम्यपेक्षया भृत्यभावः स्वभृत्यापेक्षया स्वामिभावश्चेति धर्मद्वयं विरुद्धव्यपेक्षाद्वितयलक्षणस्य रूपद्वयस्य विद्यमानत्वादुपपन्नमेव । तदेवमिहापि स्वरूपान्तरसद्भावे भूषणत्वं केन वार्यते । सत्यमेततत् । भूषणत्वं न वार्यते तुल्ययोगिताप्रकारत्वं पुनरपसार्यते इत्याह _________________________________________________________________ वर्ण्यत्वमेषामथवा साम्यं यद्यतिरिच्यते । एतेषां प्रस्तुतानां सा भवत्युपमितिः स्फुटम् ॥ ३.४१ ॥ वर्ण्यत्वमित्यादि = "अथवा" इत्यनेन प्रकारान्तरस्योपपत्तेः । अवर्ण्यत्वेऽपि वर्णनीयभावे भवत्यप्येतेषां प्रस्तुतानां पदार्थानां यदि "साम्यं" = सादृश्यं कदाचिततिरिच्यते = वर्ण्यमानत्वादधिकतां प्रतिपद्यते । ततः किं स्यादित्यत्राह"सा भवत्युपमितिः स्फुटम्" प्रकटा चासावलङ्कृतिः साम्यसमन्वयादिसंवादादुपमैव नान्या काचिदित्यर्थः । तथा समुच्चितोपमायांसमुच्चितेन वर्ण्यमानतयार्ऽथेनाभिसंबध्यमाने सति समुच्चिता उपमा यस्यां सा तथोक्ता समुच्चितोपमा, तद्वत्तया तुल्यं वर्तते । उपमाभिधानमत्रोपमाने वर्तते न समुच्चितोपमायाम् । उपमानं प्रस्तुतत्वात्वर्णनीयं साम्यसमन्वयातिरेकातलङ्करणाय कल्पते यथा पररैमत्तअ अमहे पुणो स्सणो देइ दारि अअर्पसणनु विनुदि खिलासिणिओ अणो हुच्छणं यदुसदं च दप्पणो बहुणि अरे (?) ॥ टीका ३.१४१ ॥ तदेतदेवमिहापि वर्ण्यमानत्वेऽपि साम्यातिरेकादुपमैव भवतुमर्हतीति भावः । यथा जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ । गुरुप्रदेयाधिकनिः स्पृहोऽ र्थो नृपोऽर्थिकामादधिकप्रदश्च ॥ टीका ३.१४२ ॥ रुचिरसौकुमार्यातिरेकसुभगधर्मान्तरविषयमुपमानं कल्पितं विवक्षितोपमेयातिशयन्वसंपत्तये समुल्लसति यथा उभौ यदि व्योम्नि पृथक्प्रवाहा वाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनील मामुक्तमुक्तालतमस्य वक्षः ॥ टीका ३.१४३ ॥ (ए) तद्द्वयोरपि निदर्शनम् । तदेवमनन्वयेऽपि वर्ण्यमानसौकुमार्यमाहात्म्यात्काल्पनिकमप्युमानं नोपपन्नमिति मन्यमानाः तत्स्वरूपसमारोपितव्यतिरेकामुपमां तां वर्ण्यन्ति । यथा तत्पूर्वानुभवे भवन्ति लघवो भावाः शशाङ्कादयः तद्वक्त्रोपमिते परं परिणमेच्चेतो रसायाम्बुजात् । एवं निश्चिनुते मनस्तव मुखं सौन्दर्यसारावधि बध्नाति व्यवसायमेतुमुपमोत्कर्षं स्वकान्त्या स्वयम् ॥ टीका ३.१४४ ॥ तदेवमभिधावैचित्र्यप्रकाराणामेवंविधं वैश्वरूप्यं न पूनर्लक्षणभेदानाम् । अभिधायाः प्रकाराणामानन्त्यं प्रतिभोद्भवम् । वक्तुं न पार्यते कान्तालीलावैचित्र्यवत्स्फुटम् ॥ टीका ३.१४५ ॥ अन्तरश्लोकः । तुल्ययोगिताप्यत्रैवान्तर्भावान्नातिरिच्यते । तथा च लक्षणं निदर्शनं चैतस्याः न्यूनस्यापि विशिष्टेन गुणसाम्यविवक्षया । तुल्यकालक्रियायोगादित्युक्ता तुल्ययोगिता ॥ टीका ३.१४६ ॥ इति । तैः प्रतिपादिता, यस्मात्साम्यातिशयात् । यथा शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः । जात्वलङ्घितमर्यादाः चलन्तीं बिभृथ क्षितिम् ॥ टीका ३.१४७ ॥ अत्र लक्षणे तावदुपमान्तर्भावं तुल्ययोगितायाः प्रतिपादयति(असि)द्वातिशयस्य वस्तुनः सिद्धातिशयेन साधर्म्यसमन्वयो निबन्धनमुपमायाः॑ पुररस्या गुणसाम्यविवक्षया तुल्यकालक्रियायोगः प्रस्तुताप्रस्तुतसाम्यव्यतिरेकेण न किञ्चिदत्र तात्पर्यं प्रतिपादयति । निदर्शनमप्येवंप्रायमेव । वर्णनाविषयस्य वर्ण्यमानवृत्तिश्लेषादिसाम्यव्यतिरेकेण अतिरिक्ततया न किञ्चिदपि प्रतिभासते । तेन चैतदुदाहरणं विवक्तार्थवृत्तिश्लिष्टताप्रतिभासमाहात्म्यात्न च निदर्शनान्तरमिति यदभियुक्ततरैः तैरेवाभ्यधायित, न तदपि युक्तियुक्तम् । यथा यैर्दृष्टा सा न वा दृष्टा मुषिताः सममेव ते । हृतं हृदयमेकेषामन्येषां चक्षुषः फलम् ॥ टीका ३.१४८ ॥ एतदलङ्कारवार्तामात्रानभिज्ञस्य कस्यचित्प्रलपितमिति सचेतसां प्रतिभासते । यस्माद्वैदग्ध्यस्य भङ्ग्या तरुणीलावण्यातिशयप्रतिपादनपरेयं अप्रस्तुतप्रशंसा कविचेतसि परिस्फुरति । यदि वा निदर्शनान्तरविषयत्वेन तुल्ययोगिता संभवति । यथा यत्काव्यार्थनिरूपणं प्रयिकथालापा रहोऽवस्थितं कण्ठान्तं मृदुगीतमादृतसुहृददुःखान्तरावेदनम् ॥ टीका ३.१४९ ॥ अनन्वयोऽप्युपमायामेवान्तर्भवतीति विवेच्यते । तथा चास्य लक्षणमुदाहरणं च यत्र तेनैव तस्य स्यादुपमानोपमेयता । असादृश्यविवक्षातस्तमित्याहुरनन्वयम् ॥ टीका ३.१५० ॥ ताम्बूलरागवलयं स्फुरद्दशनदीधिति । इन्दीवराभनयनं तवेव वदनं तव ॥ टीका ३.१५१ ॥ एतस्य लक्षणानन्यत्वमेव (वं) (तत्सहाय) मभिधावैचित्र्यविधायकत्वं चेति द्वितयमप्युपमान्तर्भावमेव साधयति । तत्रोपमानोपमेयभावव्यवस्थितेः । उपमान्तरेण सह लक्षणान्वितत्वमनन्वयस्य न संभवतीत्यभीधीयते तदपि न समाधानं, यस्मात्समारोपितरूपस्य (द्वित्वस्याभ्युपगमादु) पमानोपमेयभावसंबन्धनिबन्धनमेव (साम्यं) भवतामनन्वयलश्रणस्य प्रवृत्तिनिमित्तम्, अस्माकं केवलेनापि साध्यते तदित्याह _________________________________________________________________ कल्पितोपमया तुल्यं कवयोऽनन्वयं विदुः ॥ ३.४२ ॥ "कल्पिता"उल्लिखिता (वा) "उपमा" यस्याः सा तथोक्ता । तथा कल्पितोपमया "तुल्यं" अन्यूनानतिरिक्तमनन्वयमलङ्करणं "कवयः"तद्विदः "विदुः"जानन्ति । तथा च कल्पितोपमायां वर्णनाविषयस्य वस्तुनः सौन्दर्यधाराधिरूढस्वसाम्य समन्वयः समुद्भवति । सातिशयत्वसमर्पणसामर्थ्यविरहात्सर्वेषां पदार्थानां भूतानामसद्भतं किमपि काल्पनिकमुपमानमुल्लिखन्तो यथारुचि रुचिराशयाः कवयः परिदृश्यन्ते । (असद्भूतं) समुल्लिखितमिति च पुनरपि परस्परसाम्यनिबन्धनस्तयोरुपमानोपमेयभावः पर्यवस्याति, नान्यत्किञ्चिदतिरिक्तं मनोहारितायाः कारणम् । तथा च लक्षणमुदाहरणं च उपमेयोपमां नाम ब्रुवते तां यथोदिताम् ॥ टीका ३.१५२ ॥ सुगन्धि नयनानन्दि मदिरामदपाटलम् । अम्भोजमिव ते वक्त्रं त्वदास्यमिव पङ्कजम् ॥ टीका ३.१५३ ॥ नाप्यत्र लक्षणमुपमालङ्कारादलङ्कारान्तरस्य कारणम् । पूर्वोक्तया नीत्या तस्य निराकृतत्वात् । (उपमानोपमेयभावश्चात्र पर्यायतो भवेत्) । (ते) नोपमानोपमेयभावे (भेद) प्रतिभासोऽभेदप्रतिभासोऽपि सप्र (माणः) । न च उपमानान्तरनिरासलक्षणतात्पर्यादलङ्कारान्तरत्वम्, मुखमिन्दुरित्यादौ उपमानेतरस्वभावगन्धस्याप्यविद्यमानत्वा (त्) । (प्रतिभा) प्रतिभासि प्रौढिप्रतिपादितमभिधाप्रकारवैचित्र्यमात्रमेवात्र विजृम्भते न पुनरलङ्करणान्तरत्वम् । वाच्यान्तरेष्वपि वैचित्र्यान्तरदर्(शनात्) । यथा तद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलामाधिरोहतां द्वे ॥ प्रस्पन्दमानपरुषेतरतारमन्तः चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥ टीका ३.१५४ ॥ यथा जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ । गुरुप्रदेयाधिकनिः स्पृहोऽ र्थो नृपोऽर्थिकामादधिकप्रदश्च ॥ टीका ३.१५५ ॥ अत्र द्वयोरपि प्रस्तुतत्वाद्वर्णनीयसाम्यसद्भावः (न) पुनरलङ्कारभावः । यथा वा हेलावभग्नहरकार्मुक एष सोऽपि हेला (पदान) परितोषितचन्द्रचूडः । तस्यैव सोऽस्य च....सख्य वा स्यात्श्लाघ्यं द्वयोरुभयथापि तवाद्य तेषाम् ॥ टीका ३.१५६ ॥ अत्र पूर्वोक्तमेवानुसन्धेयम् । यद्यप्युपमालक्षणावसरे भावमात्रमित्युभयनिष्ठमलङ्करण माख्यातम्, तथापि तत्राप्रस्तुतत्वादुपमानस्य पराङ्गत्वमुपपन्नम् । इह पुनः प्रस्तुतस्य मुख्यत्वम् । कथं तदिति विचारितमेव । परिवृत्तिरप्यनेन न्यायेन पृथङ्नास्तीति निरूप्यते । तथा च लक्षणं परिवृत्तेः "अर्थानां यो विनमयः परिवृत्तिस्तु सा मता " ॥ टीका ३.१५७ ॥ इति । परिवर्तनं च सावन्तरावकाशे वस्त्वन्तरस्यावस्थानम् । असौ परिवृत्तिरलङ्कारोऽभिधीयते । सा च बहुप्रकाराएकस्यैव विषयिणा समुचितविषयावकाशे विषयान्तरं परिवर्तते । यथा स्वल्पं जल्प बृहस्पते सुरगुरो नैषा सभा विज्रिणः ॥ टीका ३.१५८ ॥ क्वचिदेकस्यैव क्रमेण समुच्चितधर्मगोचरे धर्मान्तरं परिवर्तते । यथा विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् । कुशाङ्कुरादानपिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥ टीका ३.१५९ ॥ अत्र गौर्याः करकललक्षणो धर्मः परिवर्तितः क्वचिदेकस्यैव धर्मिणः सुचितस्वसंवादिधर्मावकाशे धर्मान्तरं परिवर्तते । यथा किमित्यपास्याभरणानि यौवने । त्वया धृतं वार्धकशोभि वल्कलम् ॥ टीका ३.१६० ॥ क्वचिद्वहूनामपि धर्मिणां परिस्पर्धिना पूर्वोक्ताः सर्वेऽपि परिवर्तन्ते । तथा च लक्षणकारेणात्रैवोदाहरणं दर्शितम् । यथा शस्त्रप्रहारं ददता भुजेन तव भूभुजा । चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरम् ॥ टीका ३.१६१ ॥ तदेवं परिवृत्तेरलङ्करणत्वं (न) युक्तमित्याह _________________________________________________________________ विनिवर्तनमेकस्य यत्तदन्यस्य वर्तनम् । तदलङ्करणं न स्यात्पूर्ववत्परिवर्तनात् ॥ ३.४३ ॥ विनिवर्तनमित्यादि"यदेकस्य" पदार्थस्य "विनिवर्तनं" अपाकरणं "तदन्यस्य" तद्व्यतिरिक्तस्य परस्य, "वर्तनं" तदुपनिबन्धनं तदलङ्करणं न भवति । कस्मातुभयोः "परिवर्तमानत्वात्" मुख्येनाभिधीयमानत्वात् । कथं "पूर्ववत्" यथापूर्वं प्रत्येकं प्राधान्यान्नियमानिश्चितेश्च (यथा) न किञ्चित्कस्यचिदलङ्करणं, तद्वदिहापि विचारितम् । न च तावन्मात्ररूपतया तयोः परस्परविभूषण (विभूष्य) भावः, (तथा सति) प्राधान्यनिवर्तनप्रसङ्गात् । रूपान्तरानिरोधेषु पुनः साम्यसद्भावे भवत्युपमितिरेषा चालङ्कृतिः समुच्चितोपमावत्पूर्ववदेव । यथा सदयं बुभजे महाभुजः सहसोद्वेगमियं व्रजेदिति । अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥ टीका ३.१६२ ॥ अत्र समतया (ध्रियमाणः) सानुरागः पृथिवी (वधूभोग) यत्नः पार्थिवस्य प्रतीयते, द्वयोरपि वर्ण्यमानत्वात्, तथा परिवृत्तावपि साम्यप्रतितेरुपमैव । यथा अयं रणश्चारणजीवितान्तकृत्ननन्द (तुश्चैव) नरस्य सैनिकाः । इह व्रतो शक्तिशिरोभिरादरात्नवासिधारा न खलूत्पलस्त्रजः ॥ टीका ३.१६३ ॥ साम्यप्रतिभासमात्रं (अत्र) मनोहारितायाः कारणमित्यलङ्करणम् । यस्मादेवंविधे विषये विच्छित्तिविधानस्य संनियत (साम्यं) प्रतीयमानमलङ्करणमुपनिबध्नन्ति, न पुनरभिधीयमानमेव । प्रतीयमानत्वं परिवृत्तेरपि दृश्यते । यथा निर्दिष्टां कुलपतिना स पर्णशाला मध्यास्य प्रयतपरिग्रहद्वितीयः । तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय ॥ टीका ३.१६४ ॥ अत्र सर्वाण्यपि पदानि यथास्वमाक्षिप्तपरिवर्तनीयपदार्थान्तराण्युपनिबद्धानि, ततः प्रतीयमानत्वात्तद्विदाह्लादकारित्वमपि ( न च) संवादिनी परिवृत्तिः कथममुपपद्यमानत्वातन्यथा ? (सत्यं) युक्तमेतत् । न परिवृत्तेरत्यन्ताभावोऽस्माभिरभिधीयते, वर्णनीयत्वादलङ्कृतिर्न भवतीत्यस्माकमभिप्रायः । न च प्रतीयमानतामात्रमलङ्करणसाधनम्, अलङ्कार्यवस्तुमात्रेऽपि तस्याः संभवात् । तथाचैतदेवोदाहरणम् । न च यत्प्रतीयमानं तदलङ्करणं तद्विदाह्लादकारित्वातिति युज्यते वक्तुम् । अलङ्कार्येऽपि तद्विदाह्लादकारित्वस्य दर्शनात् । वस्तुमात्रमलङ्कारो रसादयश्चेति भेदत्रितयानुपपत्तेश्च । किं च परिवृत्तेरलङ्कारत्वे तदुपशोभायै भूषणान्तरं नोपयुज्यते, "किमित्यपास्याभरणानि" इत्यादौ । यदि वा "वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते" इति । यदि वा भूषणेऽपि विभूषणान्तरमसन्तोषादुपनिबध्नन्तीत्यभिधीयते, तदपि न युक्तियुक्तम् । यस्मादन्यस्मिन् विभूष्ये संभवति यत्र भूषणोपनिबन्धः, तत्र भूषणान्तरमसन्तोषादुपपद्यते, न पुनरन्यस्मिन् । नेयं पूर्वोक्तया नीत्या प्रत्येकमेव परस्परं द्वयोरपि भूषणभावे प्रत्यारखाते परिवृत्तेर्विभूषा संभवति, यत्र भूषणत्वमेवावशिष्यते । तस्मादुपशोभार्थमुपमाख्यमलङ्करणमुपनिबद्धम् । तथा चायमत्र वाक्यार्थःयौवनोद्भेदसमयसमुचिताभरणापसारणपूर्वकं वार्धकोपपन्नचीरपरिधानग्रहणं प्रकटशशाङ्कतारकया (विभावर्या प्रदोषेऽरुणसमागमकल्पमिति) किमपि काव्यस्फुरितभूतं तद्विदाह्लादकारित्वमुन्मीलयति । तदयमत्र परमार्थःलक्षणोल्लिखितरेखया विभूषणविन्यासो विधातव्यः । प्रतिभाप्रतिभासमानभणितिवक्रताप्रकारवैचित्र्येणापि यथा सिविणविव्खेण...(?) ॥ टीका ३.१६५ ॥ क्रिययैव विशिष्टस्य तदर्थस्योपदर्शनात् । ज्ञेया निदर्शनैवासौ यथेववतिभिर्विना ॥ टीका ३.१६६ ॥ इति (लक्षिता) निदर्शनाप्युपमितिरेव । अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति । उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥ टीका ३.१६७ ॥ अत्र तथैवेति कविप्रतिभार्पिततात्पर्यान्तरनिश्चयलक्षणस्य वस्तुनः तदिवेति तदेवेति वा सादृश्यस्य प्रतिपादकं विना तत्प्रतिपादनप्रगल्भवाक्य प्रयोगमाहात्म्यादुत्प्रेक्षायाः प्रतीयमानत्वात् । यथा पवाण चल विज्जु च दुलिं राइआसु खनअन्ति मे अआसो उवाण उरुलिसव्दयमि हिळिआसुक जिल्लै विरहए । (?) ॥ टीका ३.१६८ ॥ अत्र गर्जितशब्दं श्रुत्वा महिलासु कासुचित्...चलविद्युद्भाविका (ल) रात्रिषु मेघान् विलोकयन्तीति....महिलानामभिप्रायनिश्चयस्यागोचरत्वात्वाक्यार्थस्यान्यथानुपपत्तेश्च पूर्वोक्तमनुसर्तव्यम् । तमिन्दुरर्धोदितबिम्बशोभा .........शोऽपि । मन्दप्रभालङ्घितकामपाल ललाटपट्टश्रियमाचकर्ष ॥ टीका ३.१६९ ॥ अत्रार्धोदितेन्दुबिम्बशोभायाः सादृश्योल्लङ्घितकामपालललाटपट्टश्रियः.....तदप्यतिरिक्तवृत्तिधम्यर्न्तरेण चमत्कारकारणमन्यथा न किञ्चनापि उपपद्यते । नानार्थमुपमायाः क्रियापदमेवंविधप्रतिपादकतां प्राप्नोति । ततश्च गतार्थत्वाभिधायिनः शब्दस्याप्रयोगः साक्षाद्विलोचनरथवृत्तिर्न भवतीत्युपचारपारंपर्येण तद्विशेषणतां प्राप्यते । तथा च धर्मधर्मिभावलक्षणायाः प्रत्यासत्तेः प्रथमं स्वाभिधेयलक्षणलक्षणाया गुणमात्रेणैव ततश्च सादृश्यनिबन्धनायाः प्रत्यासत्तेरेव तत्सदृशे विलोचनच्छायातिशयवृत्तिमासादयति । तद्विशेषणत्वादेव समासेऽस्मिन्नीलोत्पलशब्दस्य पूर्वनिपातः सप्तमीविशेषणे बहुव्रीहाविति । इन्दुमुखीत्यत्र इन्दुरिव मुखं यस्याः सा तथोक्ता । सकललोकविलोक्यमानाखिलमृगाङ्कमण्डलसंस्थानसादृश्ये निमित्तभावे पूर्वोक्तयैव (नीत्या) इन्दुशब्दस्यैव विशेषणत्वमिति पूर्ववदेव समासोपपत्तिः । यदि वा इन्दुमुखमिव मुखं यस्याः सा तथोक्तेत्यत्र इन्दुशब्दस्तदेकदेशे मुखे विशेषणम् (भवति) यथा ग्रामो दग्ध इति । शिष्टं पूर्वोक्तमेवानुसन्धेयम् । "पुरुषव्याघ्रः" इत्यत्र साधारणधर्मोऽपि प्रतीयते । संबन्धं विनोपमानोपमेयभावस्यानुपपत्तेः॑ पदाभिसंबन्धसामर्थ्यात्तस्यावगतौ गतार्थत्वात्सामान्यशब्दस्याप्रयोगः । तदिदमुक्तम् "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इति । इन्दुरिव कान्तं मुखं यस्याः सा इन्दुकान्तमुखीत्यत्र सामान्यशब्दस्य श्रूयमाणतया युक्तिरभिधीयते । "इन्दुरिव कान्तमिन्दुकान्तम्" इति "उपमानानि सामान्यवचनैः" इत्यनेन समासे विहिते पश्चादिन्दुकान्तं मुखं यस्याः सा तथोक्तेति । सामान्यशब्दस्य वृत्तिवाक्ययोर्द्वयोरपि उपपद्यमानत्वान्न केनचिन्न्यायेन श्रूयमाणता विचारयितुं पार्यते, यतस्तेनैव सह पदान्तरं समस्यते, न पुनरन्येनेति कुतस्तस्य श्रूयमाणवृत्तेः प्रतीयमानता कल्पेत ? । तदेवं विवक्षावशात्क्वचिद्गम्यमानता, क्वचित्प्रयुज्यमानत्वम् । एवमादीनां सादृश्यनिबन्धनोभयविषय (सामान्य) संबन्धाभिधायिनां गम्यमानत्वाद प्रयुज्यमानत्वम् । अर्थप्रत्यायनार्थं हि शब्दस्य प्रयोगः क्रियते । स चेत्कविकौशलकल्पितात्प्राकारान्तरात्प्रतिपन्नः ततः किं शब्दप्रयोगेण ? । तथाच यत्र अन्यूनातिरिक्तच्छायाविशेषमर्थतः शब्दतश्चोपमानोपमेययोः साम्यसमर्पण सामर्थ्य सुभगप्रसादसुन्दरमुपनिबन्धबन्धुरं वाक्यं श्रुतिसमनन्तरमेव वर्णानुपूर्व्याः प्रतिभासवदर्थप्रतिपत्तिपूर्वकमलङ्कार प्रतीति मुत्पादयति, तत्र तदुपपादकानामिवादीनां गतार्थत्वादप्रयुक्तिः । यथा महीभृतः पुत्रवतोऽपि ॥ टीका ३.१७० ॥ यत्राप्यलङ्कारान्तरभेदनिबन्धनमन्तरेण पदार्थपरिवर्तनादौ कविकौशलोल्लासितातिरिक्तसाम्यसमन्वय माहात्म्यादुपमानोपमेयभावावगतिरुद्भिद्यते, तत्राप्यभिधानप्रकारवैचित्र्यवशादलङ्करणविच्छित्तिरेव तद्विदां तत्प्रतीतिकारिणाञ्चमत्कृतिकारितामावहतीति प्रतीयमानत्वमलङ्कारस्य । तदभिधायिनामिवादीनामप्रयोगो यथा महासिदधारा न खलूत्पलस्त्रजः ॥ टीका ३.१७१ ॥ ।िति यत्र पुनर्वाच्यमलं (करणं), तत्रेवादिकं प्रतिपादनवैचित्र्यात्बहुप्रकारं प्रयोगमर्हति । तथाच पदार्थविषयायामुपमायां वाक्यैकदेशवर्तिनोरुपमानोपमेययोः परस्परसाम्यवाच्के प्रयुक्ते, तस्मिन्नेव वाक्ये स्तनान्तरवर्तिनोरुपमानोपमेययोः सादृश्यसंबन्धाभिधायी पुनरिवादिः प्रयुज्यते । (यद्यपि) प्रतियुगलमुपमानोपमेयभावस्य परिसमाप्तिः, तथापि वाक्यार्थनिष्पत्तावुपमानोपमेयभावस्य संभवे प्रथमाभिहितैव युक्तिरनुसर्तव्या । यथा ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् । शरैरुस्त्रैरिवोदीच्यानुद्धरिष्यन् रसानिव ॥ टीका ३.१७२ ॥ क्वचित्पदार्थोपमायामेव वाक्यैकदेशव्यवस्थितयोरुपमानोपमेययोः सादृश्यसमन्वयः वाचिकः । वाचकयुक्ते तस्मिन्नेव वाक्ये तयोरेकतरस्य धर्म्यन्तरेण सह धर्मान्तरं (र) सादृश्यनिबन्धनत्वातुपमानोपमेयभावः संभवति । पूर्वोक्तया नीत्या तदभिधायी पुनरिवादिः प्रयुज्यते । यथा निर्याय विद्याथ दिनादिरम्या द्विम्बादिवार्कस्य मुखन्महर्षेः । पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्ममिवाभिपेदे ॥ टीका ३.१७३ ॥ क्वचित्पदार्थोपमायामुपमेयानामुपमानानां च समसंख्याकानां सूहद्वये प्रथमं विवक्षितसमूहसंख्याभेदसमाहि (त) द्वित्वमेव समाश्रित्य परस्परसाम्यसमन्वयादुपमानोपमेयभावमभिधातुमेकस्मिन् वाचके प्रयुक्ते समुदायधर्माणां समुदायपूर्वकत्वात्तु पश्चादेतेषां प्रत्येकं स्वसंबन्धिनं प्रति साधारणधर्मसंबन्धसामर्थ्यादुपमानोपमेयभावः पर्यवस्यति । यथा "चुम्बन् कपोलम्" ॥ टीका ३.१७४ ॥ इत्यादौ । अत्र स्पर्शोल्लसदिति क्रियाविशेषणं चेति द्वाभ्यां प्रकाराभ्यामुभयनिष्ठतयान्योन्यं (साधारणधर्मसंबन्धादुपमानोपमेयभावः) । क्वचित्पदार्थोपमायामेकस्य वस्तुनः बहुविधपदार्थविशेषणविशिष्टतया मुख्यभावेन वर्ण्यमानवृत्तेरुपमेयत्वे तावन्मात्रविशेषणैः स्वैर्विशिष्टं पदार्थान्तरमुपमानतां यदा प्राप्नोति, तदा तयोरुभयोरपि तथाविधयैव परस्परसाम्यधर्मतयान्वयातुपमानोपमेयभावः । तदभिधानार्थमिवादिरेव प्रियुज्यमानतामर्हति । तद्विशेषणानां परस्परसाम्यसंबन्धाभिधाने पूर्वोक्तैव युक्तिरनुसन्धेया । यथा "पाण्ड्योऽयम्" इत्यादौ ॥ टीका ३.१७५ ॥ तदेवंवि(ध)पक्षे अभिधाप्रिकारवैचित्र्यात्वाचकशक्तिवैचित्र्याच्च सर्वमेतदुपपद्यते । उपमादोषणां तु लक्षणस्येव सुघटितत्वात्दूरोत्सारितत्वेन नेयार्थादिवदपरिगणनम् । (विवक्षाविषयो धर्मश्चेतोहारी यदोच्यते । तदा दोषा भवन्त्येते दूरोत्सारितवृत्तयः) ॥ टीका ३.१७६ ॥ इत्यन्तरश्लोकः । एवं प्रसुताप्रस्तुतवाच्यसादृश्यजीवितमुपमाख्यमलङ्करणमभिधाय समानच्छायाप्रायं वाचकसादृश्यसर्वस्वं श्लेषमभिधत्ते _________________________________________________________________ तदेकशब्दवाच्यत्वमर्थयोर्धार्यते द्वयोः । श्लेषाभिधानोऽलङ्कारः तादृग्वाचकवाच्यता ॥ ३.४४ ॥ तदेकशब्दवाच्यत्वमित्यादि तदित्यनेन श्लेषोपनिबध्यमानवृत्तेर्वाचकस्य परामर्शः । तेन तस्यैवोक्तस्य शब्दस्य पदात्मनो वाचकत्वम् । तेन "वाच्यत्वम्" अभिधेयत्वम् । "अर्थयोः" = वस्तुनोरभिधीयमानयोः द्वयोः सत्यभूतयोः वाक्यार्थतात्पर्यस्वरूपयोः "धार्यते" यस्मिन् स श्लेषाभिधानोऽलङ्कारः । "तादृग्वाचकवाच्यता" = स इव दृश्यते यः स तादृगुच्यते, तादृक्चासौ वाचकश्च स तथोक्तः, तेन वाच्यता वाच्यत्वं अभिधेयत्वम् । तादृशार्थवाचकत्वं यत्र यस्मिन् सोऽपि श्लेष उच्यते । यः श्रुतिसाम्यात्स इवानुभूयतेऽसौ तादृगुच्यते । पुनः स एव स्वरादिधर्माणामुदात्तादीनामन्यत्वाद्भिद्यते । अत्र परस्परापेक्षत्वमेव द्वयोरपि सादृश्यम् । यादृगेकोऽस्य वाचकः तादृकेवासाविति समाश्रितो वास्तवपदवृर्तिर्वा यत्रैकस्मिन् क्वचिद्वाक्यैकदेशे, तदेकशब्दवाच्यत्वं द्वयोः । अथ तयोः तादृग्वाचकवाच्यत्वाविशेषेऽपि श्लेष एवेति कथम् । अतस्त्रिभिः प्रकारैस्त्रिविधैः पदार्थैरेव तत्प्रतीतेः । अर्थश्लेषः शब्दश्लेषः उभयश्लेषः इति । तदेवंविधस्यास्य प्रतिपादकं किमित्याहः _________________________________________________________________ पदार्थान्तरमेतस्य कवयः प्रतिपादकम् । वाच्यसामर्थ्यमपरमिवादि प्रतिजानते ॥ ३.४५ ॥ पदार्थान्तरमित्यादि । "पदार्थान्तरं" = श्लिष्टपदव्यतिरिक्तं "अपरं" तत्समर्पणसामर्थ्यसमेतमेतस्य श्लेषालङ्कारस्य प्रतिपादकं समर्पकं कवयस्तद्विदः"प्रतिजानते" प्रत्यवबुद्ध्यन्ति । वाचकविशेष "मपरं इवादि" इवप्रभृति वा पदार्थान्तरादिव्यतिरिक्तं वाच्यसामर्थ्यमेववा केवलं वाक्यं सकृत्प्रतिपादितम् । तस्य स्वरूपसामर्थ्यविवक्षितार्थ समर्पणशक्तियुक्तार्थं प्रतिजानते । प्रतिपादकमिति संबन्धः । त्रिष्वप्येतेषु प्रकारेषु द्वयोरर्थयोः प्राधान्येन च वर्ण्यमानत्वे तथाविधशब्दवाच्यत्वलक्षणसाम्यसमन्वयस्वरूपं शोभानिमित्तं वाक्यसामर्थ्यलभ्यं प्रतीयमानमलङ्करणं, वाचकसद्भावे पुनः वाच्यमेव । प्रस्तुताप्रस्तुतयोरर्थयोः प्रधानगुणभावे सति तथैव तथाविधशब्दवाच्यत्वसाम्यसमन्वय एव । मुख्यतया वर्ण्यमानस्याप्येकतरस्योपमानत्वे समुच्चितोपमाद्या(लोचनयान्यस्योपमेयत्वसमन्वयोऽनु) सन्धेयः । _________________________________________________________________ अर्थयोरेकमुल्लेखि पदं शब्दतदर्थयोः । एकावभासयोः साम्यं तन्त्रत्वादत्र जृम्भते ॥ ३.४६ ॥ तुल्यशब्दस्मृतेरर्थः तस्मादन्यः प्रतीयते । शब्दस्योद्भूतनष्टत्वात्स्मृतिः सर्वत्र वाचिका ॥ ३.४७ ॥ तत्र प्रथमस्योदाहरणं यथा स्वाभिप्रायसमर्पणप्रवणया माधुर्यमुद्राङ्कया विच्छित्त्या हृदयेऽभिजातमनसामन्तः किमप्युल्लिखत् । आरूढं रसवासनापरिणतेः काष्ठां कवीनां परं कान्तानां च विलोकितं विजयते वैदग्ध्यवक्रं वचः ॥ टीका ३.१७७ ॥ द्विदीयस्य यथा येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतः यश्चोद्वृत्तभुजङ्गाहरवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥ टीका ३.१७८ ॥ तृतीयस्य यथा मालामुत्पलकन्दलैश्च विकचैरायोजितां बिभ्रती नेत्रेणासमदृष्टिपातसुभगेनोद्दीपयन्ती स्मरम् । काञ्चीदामनिबद्धभङ्गि दधती व्यलम्बिना वाससा मूर्तिः कामरिपोः सिताम्बरधरा पायादपायाज्जगत् ॥ टीका ३.१७९ ॥ असत्यभूतार्थश्लेषोदाहरणं यथा दृष्ट्या केशव गोपरागहृतया किञ्चिन्न दृष्टं मया तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे । एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिः गोप्येवं गदितः स लेशमवताद्गोष्ठे हसन्त्या हरिः ॥ टीका ३.१८० ॥ एवं वाक्यबन्धवैचित्र्यशक्तबुद्धिविरचितं चर्वणीयं श्लेषमभिधाय, साम्यैकनिबन्धनत्वादुपमारूपकश्लेषकारणैकं व्यतिरेकमभिधत्ते सति तच्छब्दवाच्यत्वे धर्मसाम्येऽन्यथास्थितेः । _________________________________________________________________ व्यतिरेचनमन्यस्मात्प्रस्तुतोत्कर्षसिद्धये । शाब्दः प्रतीयमानो वा व्यतिरेकोऽभिधीयते ॥ ३.४८ ॥ सतीत्यादिः । स चासौ शब्दश्चेति विगृह्य तच्छब्देन शक्त्या श्लेषनिमित्तभूतः शब्दः परामृश्यते, तस्य "वाच्यत्वे" अभिधेयत्वे "सति" "धर्मसाम्ये" परस्परपरिस्पन्दसादृश्ये विद्यमाने, (विकल्पना) यां तथाविधशब्दवाच्यत्वस्य धर्मसाम्यस्य चोभयनिष्ठत्वादुभयोः प्रकृतत्वात् । प्रस्तुताप्रस्तुतयोरेव तयोः धर्मादेकस्य यथारुचि केनापि विवक्षि(तधर्मान्त) रेण "अन्यथास्थैतेः" अन्यथाभावेनावस्थितेः "व्यतिरेचनं"पृथक्करणं "अन्यस्मात्" उपमेयस्योपमानात्, उपमानस्य वा तस्मात् । सः "व्यतिरेकः" व्यतिरेकनामा अलङ्कारो "ऽभिधीयते" कथ्यते । किमर्थं"प्रस्तुतोत्कर्षसिद्धये", "प्रस्तुतस्य" वर्ण्यमानवृत्तेः "उत्कर्षसिद्धये" छायातिशयनिष्पत्तये । स द्विविधः संभवति "शाब्दः प्रतीयमानो वा" = "शाब्दः" = कविप्रवाहप्रसिद्धः तत्समर्पणसमर्थाभिधानेनाभिधीयमानः । "प्रतीयमानः" = वाक्यार्थसामर्थ्यमात्रावबोध्यः । तत्र प्रथमतारतम्यादुपमाव्यतिरेको यथा एमेअ जणो तिस्सा देइ कवोलोवमाइ ससिबिंबम् । परमत्थविआरे उण चन्दो विअ वराओ ॥ टीका ३.१८१ ॥ एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् । परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराकः ॥ (छाया) यथा वा दिदृक्षवः पक्ष्मलताविलासमक्ष्णां सहस्त्रस्य मनोहरं ते । वापीषु नीलोत्पलिनीविकासरम्यासु नन्दन्ति न षट्पदौघाः ॥ टीका ३.१८२ ॥ यथा वा प्राप्तश्रीरेष कस्मात्पुरनपि मयि ते मन्थखेदं विदध्यात्निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि । सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयातः त्वय्यायाते विकल्पानिति दधत इवाभाति कम्पः पयोधेः ॥ टीका ३.१८३ ॥ अत्र वर्ण्यमानस्य नारायणत्वसमारोपं विना तदारम्भसंभावना न संभवतीति तस्य तत्त्वाध्यारोपणात्प्रतीयमानतया रूपकमेव पूर्वसूरिभिः समाम्नातम्॑ वाच्यव्यतिरेकः तत्कथमस्योपपद्यते । सत्यमुक्तम्, किन्तु युक्तिरत्राभिधीयते, तस्माद्दिविधं प्रतीयमानं वस्तु, प्रतिपादनगुणीभूतस्वार्थवाचकव्यापारगोचरः, तथाविधार्थसामर्थ्यविषयो वा । तत्र वाचकमुपमानमित्यालोच्य विवक्षितार्थोपपत्तिनिमित्तं वाच्यसामर्थ्यमेव समाश्रित्य पूर्वसूरिभिरतदाम्नातम् । वाचकव्यापारः पुनरन्यथैव व्यवस्थितः । तथा च प्राप्त(श्री) प्रभृतीनि पदानि आक्षिप्तप्रतियोगितयोपनिबद्धानि, प्रस्तुतस्य प्राक्तनपरिस्पन्दविशिष्टतरदेवतात्वप्रतिपादकपराणि प्रकटमेव रूपकव्यतिरेकं गमयन्ति । तदिदमुक्तम् यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ । व्यङ्क्तः काव्यविशेषः सध्वनिरिति सूरिभिः कथितः ॥ टीका ३.१८४ ॥ तस्मान्न किञ्चिदनुपपन्नम् । श्लेषव्यतिरेको यथा श्लाघ्यासेषतनुं सुदर्शनकरः सर्वङ्गलीलाजित त्र्यैलोक्यां चरणारविन्दललितेनाक्रान्तलोको हरिः । बिभ्राणा मुखमिन्दुरूपमखिलं चन्द्रात्मचक्षुर्दधत्स्थाने यां स्वतनोरपश्यदधिकां सा रुक्मिणीवोऽवतात् ॥ टीका ३.१८५ ॥ अयैस्व प्रकारान्तरमाह _________________________________________________________________ लोकप्रसिद्धसामान्यपरिस्पन्दाद्विशेषतः । व्यतिरेको यदेकस्य परस्तदविवक्षया ॥ ३.४९ ॥ लोकप्रसिद्धेत्यादिः"परः" अन्यः स व्यतिरेकालङ्कारः । कीदृशः "यदेकस्य" वस्तुनः "व्यतिरेकः "पृथक्करणं । कस्मात्"लोकप्रसिद्धसामान्यपरिस्पन्दात्= "लोकप्रसिद्धः "जगत्प्रतीतः सामान्यभूतः सर्वसाधारणः यः"परिस्पन्दः " व्यापारः तस्मात् । कुतो हेतोः "विशेषतः" कुतश्चिदतिशयात् । कथं "तदविवक्षया" तदित्युपमादीनां परामर्शः, तेषाम् "अविवक्षया" तान्यविविक्षित्वा यो विहितः । अयमत्राभिप्रायःयदयमेव (विवक्षितः) सामान्यभूतत्वेन ते पुनरस्यैव शेषाः प्रस्तावपूर्वमभिहिताः । परस्योदाहरणं यथा चापं पुष्पितभूतलं सुरचिता मौर्वो द्विरेफावली पूर्णेन्दोरुदयेऽभियोगसमयः पुष्पाकरोऽप्यासरः । शस्त्राण्युत्पलकेतकीसुमनसो योधात्मनः कामिनां त्रैलोक्ये मदनस्य कोऽपि ललितोल्लेखो जीगिषाग्रहः ॥ टीका ३.१८६ ॥ अत्र सकललोकप्रसिद्धशस्त्राद्युपकरणकलापाज्जिगीषा व्यवहारान्मन्मथस्य सुकुमारोपकरणत्वाज्जिगीषाव्यवहारो व्यतिरिच्यते । ननु भूतलादीनां चापादिरूपणाद्रूपकव्यतिरेक एवायम् ? नैतदस्ति । रूपकव्यतिरेके हि रूपणं विधाय तस्मादेव व्यतिरेचनं विधीयते ॑ एतस्मिन पुनः सकललोकप्रसिद्धात्सामान्यतात्पर्याद्व्यतिरेचनम् । भूतलादीनां चापादिरूपणं विशेषणान्तरनिमित्तमात्रमवधार्यताम् । एवं व्यतिरेकं विचार्य श्लेषाभिसंभिन्नत्वादुचितावसरं विरोधं विचारयति _________________________________________________________________ विरोधो यो विरुद्धार्थवाचिनां संगतिं पुनः । समर्पयन्नुल्लिखति प्रतीतेर्युक्तियुक्तताम् ॥ ३.५० ॥ विरोधेत्यादि । योऽलङ्कारः परस्परविरुद्धार्थप्रतीत्या, "विरुद्धार्थवाचिनां" विरुद्धवस्तुवचनानां युक्तियुक्ततामुल्लिखति तदभिधायिना पदान्तरेण अर्थसामर्थ्येन वा समर्पयन् युक्त्या प्रकारेणोपपद्यमानतया सङ्गतिं विदधाति । तस्य पदार्थत्वात्समन्वयं करोति विरोधाभिधानः स भण्यते । यथा "कुपतिमपि कलत्रवल्लभम्, महादोषमपि सकलकलाधिष्ठानम्" ॥ टीका ३.१८७ ॥ अत्र "अपि" शब्देन विरोधप्रतिपत्तिः । क्वचिदर्थसामर्थ्येन विरोधः प्रतीयते । यथा "गौर्यादि भवता" ॥ टीका ३.१८८ ॥ श्लेषादिसंभेदेऽपि विरोधः संभवति । यथा "मौलावर्तान्तमते विचित्तोयरे अणं अपरिहत्वेन परि लञ्चितकमन्ता विसेससाहोति अहं । " (?) ॥ टीका ३.१८९ ॥ रूपकादिष्वप्येते भेदाः संभवन्तीति स्वयमुत्प्रेक्षणीयम् । एवं विरोधं विचार्य समासोक्त्यादेर्विरोधच्छायानुप्रवेशप्रसङ्गतः तद्विचारमारचयति _________________________________________________________________ समासोक्तिः सहोक्तिश्च नालङ्कारतया मता । अलङ्कारान्तरत्वेन शोभाशून्यतया तथा ॥ ३.५१ ॥ समासोक्तिरित्यादि । येयं "समासोक्तिः" अलङ्कृतिर (भिहिता) (सा) "नालङ्कारतया मता" न विभूषणभावेन प्रतिभाता, यस्मात्पृथङ्नोपपद्यते । केन हेतुना "अलङ्कारान्तरत्वेन" विभूषणान्तरभावेन । "शोभाशून्यतया तथा" कान्तिरहितत्वेन च । तदिदमुक्तं भवतियदि रामणीयकत्वं संभवति प्रकरान्तरविहिते तस्मिन् भूषणान्तरेऽन्तर्भवति । रमणीयत्वाभावे शोभाशून्यत्वं पर्यवस्यति तस्याः । तथा च लक्षणोदाहरणे यत्रोक्तेर्गम्यतेऽन्योर्ऽथस्तत्समानविशेषणः । सा समासोक्तिरुदिता संक्षिप्तार्थतया यथा ॥ टीका ३.१९० ॥ स्कन्धवानृजुरव्यालः स्थिरोऽनेकमहाफलः । जातस्तरुरयं चोच्चैः पातितश्च नभस्वता ॥ टीका ३.१९१ ॥ अत्र तरोः महापुरुषस्य च द्वयोरपि मुख्यत्वे महापुरुषपक्षे विशेषणानि सन्तीति विशेष्याभिधायि पदान्तरमभिधातव्यम् । अथवा विशेषणान्यथानुपपत्त्या प्रतीयमानतया विशेष्यं परिकल्प्यते । तदेवंविधकल्पनस्य स्फुरितं न किञ्चिदिति स्फुटमेव शोभाशून्यता । तथाविधस्वभावयोरनयोः प्राधान्येनैकवाक्योपावरोहयुक्तिरभिधेया, यतः परस्पराभिधानसंबन्धं विना न किञ्चिदेतदुपपद्यते । न च कामरिपोर्मूर्तिरुमा वा जगत्पायादित्यनेन न्यायेन तयोः सङ्गतिर्घटते, यस्मात्तत्र द्वयोरपि परमेश्वरयोः पालनसामर्थ्योपपत्तेः तथाविधस्याप्यर्थस्याप्युचितत्वेनाशंसनीयत्वात्तथाविधशब्दवाच्यत्वान्न किञ्चिदनुपपन्नम् । एतस्मिन् पुनः परस्पराभिसंबन्धं विना तुल्यकालमेकवाक्योपावरोहे न किञ्चिन्नबन्धनमिति यत्किङ्कचिदेतत् । अथ तथा कश्चिदेवंविधो विधिना पुमान् पातितः, यथायं नभस्वता तरुः इत्याश्रीयते, तदेवं स्फुटमेवोपमानोपमेयभावः । तस्मादलङ्कारान्त (रान्तर्) भावः (केन) वार्यते । यदि वा महापुरुषस्य प्रतीयमान (त्वे), वाच्यतया तरुरुपपद्यते, तदेवमप्रस्तुतप्रसंसैषा । तस्मात्पुनरपितदेव व्यवस्थितम् । विशेषणा(ना)मुभयार्थत्वे श्लेषानुप्रवेशो दुर्निवारः (इति) तेनापि तदेवापतति । निदर्शनान्तरमपि समासोक्तेः पृथक्कृतनिबन्धनं यथा अनुरागवती सन्ध्या दिवसस्तत्पुरः सरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥ टीका ३.१९२ ॥ अत्र सन्ध्यादिवसयोर्मुख्यतया प्रस्तुतत्वेन, समानविशेषणप्रस्तुतकान्तावृत्तान्तप्रतीतिः प्रस्तुतयोः साम्यसमन्वयात्तथाभावं समर्पयन्ती प्रतीयमानोपमास्वरूपं नाति वर्तते । कान्तावृत्तान्तस्य वा मुख्यतया प्रतीयमानत्वे सन्ध्यादिवसयोरुपदिश्यमानत्वमित्यप्रस्तुतप्रशंसैव । "सहोक्तिश्च नालङ्कारतया मता" पूर्वोक्तेनैव हेतुद्वयेन । तथा च लक्षणमुदाहरणं चैतस्याः तुल्यकालक्रिये यत्र वस्तुद्वयसमाश्रये । वाक्येनैकेन कथ्येते सा सहोक्तिर्मता यथा ॥ टीका ३.१९३ ॥ हिमपाताविलदिशो गाढालिङ्गनहेतवः । वृद्धिमायान्ति यामिन्यः कामिनां प्रीतिभिः सह ॥ टीका ३.१९४ ॥ अत्र परस्परसाम्यसमन्वयो मनोहारितानिबन्ध (न) मित्युपमैव तदभावे, "शिष्येण सहोपाध्यायः पठति", "पुत्रेण सह पिता तिष्ठति " इत्यादौ शोभाशून्यत्वेऽपि सा स्यात् । तदेवमेतयोः युक्तियुक्तमलङ्करणत्वमपसार्य प्रमाणोपपन्नमभिधत्ते । तत्र सहोक्तेस्तावत् _________________________________________________________________ यत्रैकेनैव वाक्येन वर्णनीयार्थसिद्धये । उक्तिर्युगपदर्थानां सा सहोक्तिः सतां मता ॥ ३.५२ ॥ यत्रेत्यादि । सा सहोक्तिरलङ्कृतिः, "मता" = प्रतिभाता, "सतां" तद्विदां संमतेत्यर्थः । कीदृशी"यत्र" = यस्यां, "एकेनैव वाक्येन" अभिन्नेनैव पदसमूहेन "अर्थानां" वाक्यार्थतात्पर्यभूतानां वस्तूनां "युगपत्" = तुल्यकालम् "उक्तिः" = अभिहितिः । किमर्थं"वर्णनीयार्थसिद्धये" = "वर्णनीयस्य" = प्रधानत्वेन विवक्षितस्यार्थस्य "सिद्धये" = संपत्तये । तदिदमुक्तं भवतियत्र वाक्यान्तरवक्तव्यमपि वस्तु प्रस्तुतार्थनिष्पत्तये विच्छित्त्या तेनैव वाक्येनाभिधीयते । यथा हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य पाणिरसि निर्भरगर्भखिन्न देवीविवासनपटोः करुणा कुतस्ते ॥ टीका ३.१९५ ॥ अत्र मुख्यार्थसिद्धये यद्(वाक्यांन्तरा)भिधेयं वस्तु विच्छित्त्या तदेकेनैव (वाक्येनो) पनिबद्धम् । यदि च न्याय्यत्वा दवश्यं करणीयमपि निकृतिलक्षणं वस्तु करुणास्पदत्वादकरणीयकल्पं (तथापि) नैवोपेक्षणीयानुष्ठानम्॑ निर्भरगर्भखिन्नदेवीविवासनपटोः दाशरथेः पाणिरसीत्युचितानुरोधित्वात्कुतस्ते करुणा(संभवः)तदवध्यस्यापि शूद्रमुनेः ब्राह्मणशिशुजीवितरक्षणाय मण्डलाग्रं समर्पयेत्येकं वस्तु । द्वितीयं, यदि न्याय्यमवश्यकरणीयमपि तथाविधकारुणिकत्वादुदारचेतसा न करणीयमेवेति मन्यसे, तथापि रामस्य निर्भरगर्भखिन्नदेवीविवासनपटोः निष्करुणचूडामणेः करस्त्वमिति मुनिमारणं कियन्मात्रं तवेति विप्रलम्भशृङ्गारपरिपोषात्किमपि रामशब्दस्य रूढिवैचित्र्यवक्रत्वमुभयत्रापि स्फुरति । तथा च उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी । आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥ टीका ३.१९६ ॥ किं गतेन न हि युक्तमुपैतुं कः प्रिये सुभगमानिनि मानः । योषितामिति कथासु समेतैः कामिभिर्बहुरसा धृतिरूहे ॥ टीका ३.१९७ ॥ अत्र विच्छित्त्या तात्पर्यार्थवाचकमुपनिबद्धम् । तथाहिनायिकायाः सख्याश्चावबद्धयोरपि प्रत्येकं वल्लभतत्सन्धानप्रवणतया सकलमेव वाक्यं (वाचक) मिति प्रतीयते । यथा वा सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी । रामा रम्या वनोद्देशे मया विरहिता त्वया ॥ टीका ३.१९८ ॥ अत्र प्रधानभूतविप्रलम्भशृङ्गाररसपरिपोष (विच्छित्त) ये वाक्यार्थद्वयमुपनिबद्धम् । ननु चानेकार्थसंभवेऽत्र श्लेषानुप्रवेशः कथं न भवतीति ? अभिधीयते । तत्र यस्मात्द्वयोरेकतरस्य वा मुख्यभावे श्लेषः, अत्र पुनस्तथाविधाभावात्, बहूनां द्वयोर्वा सर्वेषां गुणभावः प्रधानार्थपरत्वेनावसानात् । अन्यच्च तस्मिन्नेकेनैव शब्देन युगपत्प्रदीपप्रकाशवदर्थद्वयप्रकाशनं शब्दार्थद्वयप्रकाशनं वेति शाब्दस्तत्र सामान्यार्थो विजृम्भते । सहोक्तौ पुनस्तथाविधस्याङ्गभावादेकेनै(व) वाक्येन पुनः पुनरावर्तमानतया वस्त्वन्तरप्रकाशनं विधीयते, तस्मादावृत्तिरत्र शब्द (स्य) प्राधान्यतां प्रतिपद्यते । (यदि) "सर्वक्षितिभृतां नाथ" इत्यत्र वाक्यैकदेशे श्लेषानुप्रवेशः संभवतीत्युच्यते, तथापि न कश्चिद्दोषः, यस्मादलङ्करणमलङ्करणान्तरं क्वचिदङ्गभावं गमयतीति । अत्र वाक्यैकदेशे श्लेषस्याङ्गत्वं, मुख्यभावः पुनः सहोक्तेरेव । (ननु) तदेवमावृत्त्या वस्त्वन्तरावगतौ सहोक्तेः सहभावाभावादर्थान्येपरिहाणिः प्रसज्यते, नैतदस्ति । यस्मात्सहोक्तिरित्युक्तम्, न पुनः सहप्रतिपत्तिरिति । तेनात्यन्तसहभावाभिधानमेव (सं) प्रतिपन्नमुत्कर्षावगतेरिति न किञ्चिदसंबद्धम् । कैश्चिदेषा समासोक्तिः सहोक्तिः कैश्चिदुच्यते । अर्थान्वयात्सा विद्वद्भिरन्यैरन्यत्वमेतयोः ॥ टीका ३.१९९ ॥ इत्यन्तरश्लोकः । एवं गुणभूतादपि स्वरूपोत्कर्षमाहात्म्यादलङ्कारसामान्यस्वभावात् । कांश्चिदलङ्कारानमिधायेदानीं विभूषणत्वादेव तथविधान् गुणभूतानुपक्रमते । तत्र दृष्टान्तं तावदभिधत्ते _________________________________________________________________ वस्तुसाम्यं समाश्रित्य यदन्यस्योपदर्शनम् । इवाद्यसंभवे तत्र दृष्टान्तः सोऽभिधीयते ॥ ३.५३ ॥ वस्तुसाम्येत्यादि । "यदन्यस्य" ("यस्मात्") वर्ण्यात्प्रस्तुतात्"अन्यस्य" व्यतिरिक्तवृत्तेः पदार्थान्तरस्य "उपदर्शनम्" = उपनिबन्धनं स दृष्टान्तनामालङ्कारोऽभिधीयते । कथं "वस्तुसाम्यं समाश्रित्य" "वस्तुनोः" पदार्थयोः दृष्टान्तदार्ष्टान्तिकयोः "साम्यं" सादृश्यं "समाश्रिताय" निमित्तीकृत्य । लिङ्गसंख्याविभक्तिस्वरूपलक्षणसाम्यवर्जितमिति (बोधनार्थं) वस्तुग्रहणम् । "तत्र" उपन्ते "इवाद्यसंभवे" सादृश्याभिधायिनामिवप्रभृतीनां विरहे । तदेवमुपमायाः वाचकमग्रे व्यतिरिच्यते । यथा सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ टीका ३.२०० ॥ (अत्र) पादत्रयमेवोदाहरणं, चतुर्थे भूषणान्तरसंभवात् । दृष्टान्तमभिधाय तत्संभद्धविभूषणप्रस्तावात्समानच्छायमर्थान्तरन्यासमभिधत्ते । _________________________________________________________________ वाक्यार्थान्तरविन्यासो मुख्यतात्पर्यसाम्यतः । ज्ञेयः सोर्ऽथान्तरन्यासः यः समर्पकतयाहितः ॥ ३.५४ ॥ वाक्यार्थेत्यादि । "ज्ञेयः सोर्ऽथान्तरन्यासः" = (अर्थान्तरन्यास) नामालङ्कारो "ज्ञेयः" = परिज्ञातव्यः । कीदृशः"वाक्यार्थान्तरविन्यासः"परस्परान्वितपदसमुदायाभिधेयं वस्तु वाक्यार्थः तस्मादन्यस्मात्= अप्रकृतत्वात्प्रस्तुतव्यतिरेकि वाक्यार्थान्तरं, तस्य "विन्यासः" = विशिष्टं न्यसनं = तद्विदाह्लादकारितयोपनिबन्धः । कस्मात्कारणात्"मुख्यतात्पर्यसाम्यतः"," मुख्यं" = प्रस्तावाधिकृतत्वात्प्रधानभूतं वस्तु, तस्य "तात्पर्यं" = यत्परत्वेन तत्संमतं, तस्य "साम्यतः" = सादृश्यात् । कथं "समर्(पकत) याहितः" = समर्पकत्वेनोपनिबद्धः, तदुपपत्तियोजनेनेति यावत् । अत्र सामान्ये समर्थनीये विशेषः समर्थको, विशेषे वा सामान्यं, (त) योः परस्पराव्यभिचारात् । यथा असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः ॥ टीका ३.२०१ ॥ यथा वा "किमिव हि मधुराणआं मण्डनं नाकृतीनाम् ॥ टीका ३.२०२ ॥ एवमर्थान्तरन्यासमभिधाय (तत्समानच्छायं विशेषविषयवा) क्यसमन्वयादाक्षेपमभिधत्ते _________________________________________________________________ निषेधच्छाययाक्षेपः कान्तिं प्रथयितुं पराम् । आक्षेप इति स ज्ञेयः प्रस्तुतस्यैव वस्तुनः ॥ ३.५५ ॥ निषेधच्छाययेत्यादि । "आक्षेप इति स ज्ञेयः" = सोऽप्यमाक्षेपालङ्कारोज्ञातव्यः । स कीदृशः"प्रस्तुतस्यैव वस्तुनः आक्षेपः" = प्रकृतस्यैवार्थस्य आक्षेपः = अपाकरणम् = अभिप्रेतस्यार्थस्यापि निवर्तनमिति (यावत्) । कया ? "निषेधच्छायया" = प्रतिषेधविच्छित्त्या । किमर्थम् ? "कान्तिं प्रथयितुं परां" = प्रकृष्टामुपशोभां प्रकटयितुम् । यथा सुहअ विलंवसु थोअं जाव इमं विरहकाअरं हिअअं । संठविऊण भणिस्सं अहवा वोलेसु किं भणिमो ॥ टीका ३.२०३ ॥ सुभग विलम्बस्व स्तोकं यावदिदं विरहकातरं हृदयम् । संस्थाप्य भणिष्याम्यथवापक्रम किं भणामः । (इति छाया) अत्र वाक्यार्थः सुभगेति बहुवल्लभताप्रतिपादनपरमामन्त्रणपदम् । (नायिकाप्रतिवचनं) नासूत्रितम्, (तद्धि) साक्षादभिधीयमानतया न तथा चेतनचमत्कारितां प्रतिपद्यते, यथैतदाक्षेपमात्रं भणितिवैचित्र्येण प्रतीयमानतया नियमात्तद्विदाह्लादविधायित्वं पुष्णाति । तदेवमाक्षेपस्वरूपमभिधाय साधारणवक्तव्यशेषमेतेषामभिधत्ते _________________________________________________________________ वक्ष्यमाणोक्तविषयाः संभवन्ति विवक्षया । दृष्टान्ताद्यास्त्रयोऽप्येते हेतौ सत्यथवासति ॥ ३.५६ ॥ वक्ष्यमाणेत्यादि । वक्ष्यमाणोक्तौ विषयौ येषां ते वक्ष्यमाणोक्तविषयाः, "दृष्टान्तप्रभृतयश्च "त्रयोऽप्येते" अभिधास्यमानाभिहितगोचराः संभवन्तीति संबन्धः । केन हेतुना"विवक्षया" = वक्तुमिच्छया = कवेर्यथाप्रतिभासमभिधातुं वाञ्छया । तदिदमत्र तात्पर्यम्यदा संनिवेशवैचित्र्यमात्रमेतन्न पुनरत्र लक्षणातिरेकः कश्चिदस्ति । मध्यमस्य विशेषान्तरमभिधातुमाह "हेतौ सत्यथवासति" हेताविति । "हेतौ" हेतुवाचिनि हिशब्दादौ "सति" संभवति = प्रमुज्यमाने, "अथवा" कदाचित्, "असति" असभवतिअप्रयुज्यमाने । एवं (हेतोरभिधानेनानभिधानेन) वार्थान्तरन्यासः प्रकारद्वयेन विद्यते । अर्थान्तरन्यासमात्रमभिभूषणमित्यर्थः । निदर्शनजातमत्र पूर्वोक्तव्यतिरेकि न प्रदर्शितम्, तस्मात्स्वयमेवोत्प्रेक्षणीयम् । एवं स्वरूपविशेषप्रतिषेधबोधितछायातिशयमलङ्करणमभिधाय कारणप्रतिषेधोत्तेजित(छाया)तिशयमभिधत्ते _________________________________________________________________ स्वकारणपरित्यागपूर्वकं कान्तिपुष्टये । भावनार्थस्य केनापि विशेषेण विभावना ॥ ३.५७ ॥ स्वकारणेत्यादि । "अर्थस्य" वर्णनीयस्य = प्रस्तुतस्य, "विशेषेण केनापि" अलौकिकेन रूपान्तरेण "भावना" = "विभावना" विभावनेत्यलङ्कृतिरभिधीयते । तदयमत्रार्थःया विना भाव्यते, का सा ? तत्समर्थकारणरूपप्रयोजकव्यापारलक्षणां क्रियां (विना भाव्यते सा) विभावना । "स्वकारणपरित्यगपूर्वकम्" = तस्य विशेषस्य स्वमात्मीयं कारणं यन्निमित्तं तस्य परित्यागः प्रिहाणं पूर्वं प्रथमं यत्र तत्कृतेत्यर्थः । किमर्थं "कान्तिपुष्टये" शोभा(वृद्धये) । तदिदमुक्तं भवतियथा लोकोत्तरविशिष्टतां वर्णनीयं नीयते इति । यथा असंभृतं मण्डनमङ्गयष्टे रनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥ टीका ३.२०४ ॥ अत्र कृत्रिमकारणपरित्यागपूर्वकं लोकोत्तरसहजविशेषविशिष्टता वर्णनीयस्य कवेरभिप्रेता । तदेवमसंभाव्यकारणत्वादविभाव्यमानस्वभावां विभावनां विचार्य विचारगोचरस्वरूपतया स्वरूपसन्देहसमर्पितातिशयं ससन्देहमभिधत्ते _________________________________________________________________ यस्मिन्नुत्प्रेक्षितं रूपमुत्प्रेक्षान्तरसंभवात् । सन्देहमेते विच्छित्त्यै ससन्देहं वदन्ति तम् ॥ ३.५८ ॥ यस्मिन्नित्यादि । "यस्मिन्" = अलकारे, "उत्प्रेक्षितं" संभावनानुमानात्साम्यसमन्वयाच्च स्वरूपान्तरसमारोपद्वारेण प्रतिभोल्लेखितं "रूपं" पदार्थपरिस्पन्दलक्षणं "सन्देहमेति" संशयं समारोहति । कस्मात्कारणात्"उत्प्रेक्षान्तरसंभवात्" = उत्प्रेक्षाप्रकर्षपरस्यापरस्यापितद्विषयस्य सद्भावात् । किमर्थं"विच्छित्त्यै" = शोभायै । तदेवमभिधावैचित्र्यं ससन्देहाभिधानं वदन्ति । यथा रञ्जिता नु विविधास्तरुशैलाः नामितं नु गगनं स्थागितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥ टीका ३.२०५ ॥ यथा वा निमीलदाकेकरलोलचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः । निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे ॥ टीका ३.२०६ ॥ यथा वा अविभाविअछरभअञ्जवैण जणत्समयमन्थरं हि अवरम् । भिस्वै शिशावे गुणआ मुहा सर्वयन्ति अहणरै तम् ॥ टीका ३.२०७ ॥ (छाया ?) यथा वा किं सौन्दर्यमहार्थसञ्चितजगत्कोशैकरत्नं विधेः किं शृङ्गारसरस्सरोरुहमिदं स्यात्सौकुमार्यावधि । किं लावण्यपयोनिधेरभिनवं बिम्बं सुधादीधितेर्वक्तुं कान्तततमाननं तव मया साम्यं न निश्चीयते ॥ टीका ३.२०८ ॥ ससन्देहस्यैकविधत्वमुत्प्रेक्षामूलकत्वात् । एवं स्वरूपसन्देहसुन्दरं ससन्देहमभिधाय स्वरूपापह्नवरमणीयामपह्नुतिमभिधत्ते _________________________________________________________________ अन्यदर्पयितुं रूपं वर्णनीयस्य वस्तुनः । स्वरूपापह्नव्वो यस्यामपह्नुतिरसौ मता ॥ ३.५९ ॥ अन्यादित्यादि । पूर्ववदुत्प्रेक्षामूलत्वमेवास्याः । संभावनानुमानात्सादृश्यसमन्वयाच्च "वर्णनीयस्य वस्तुनः" = प्रस्तुतस्यार्थस्य, "अन्यत्" = किमप्यपूर्वं, "रूपमर्पयितुम्" = रूपान्तरं समारोपयितुं, "स्वरूपापह्नवः" = स्वभावापलापः संभवति, "यस्याम्" "असौ" = एषा एवंविधभणितिरेव, "अपह्नतिः" "मता" = प्रतिभाता तद्विदाम् । यथा भास्वानेष जगत्यशेषनयनं तेजस्विनामग्रणीः नायं कान्ततमाननाप्तसुरुचिर्नेत्रोत्सवश्चन्द्रमाः । पर्यायेण मनोभुवा विरहिणां वेद्धुं मनो निर्दयं पुष्पेषून्निशिताग्रतां विजयिनी नेतुं नियक्तो मम ॥ टीका ३.२०९ ॥ स्वरूपेण धर्मिणः तादवस्थ्ये धर्ममात्रापह्नुतिर्यथा तव कुसुमशरत्वं शीतरश्मित्वमिन्दोः द्वयमिदमयथार्थं दृश्यते मद्विधेषु । विसृजति हिमगर्भैरग्निमिन्दुर्मयूखैस्त्वमपि कुसुभबाणान् वज्रसारीकरोषि ॥ टीका ३.२१० ॥ अत्र भणितिवैचित्र्यवशादशाब्दमपह्नवप्रतिपादनं विहितम्, यस्माद्धर्मस्य कुसुमशरत्वादेः स्वभावसमुचितं सुकुमारकार्यकारित्वमपसार्य तद्विरुद्धमतिकरालकार्यकारित्वमुपनिबद्धम् । क्वचिच्च सादृश्यसमन्वयादपह्नतिर्यथा पूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभासुरं नेदं मण्डलमभुयुदेति गगनाभोगे जिगीषोर्जगत् । मारस्योचितमातपत्रमधुना पाण्डु प्रदोषश्रिया मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनः ॥ टीका ३.२११ ॥ एवमलङ्काराणां तन्त्रतया प्रत्येकमलङ्कार्यं प्रति विच्छित्तिविधायित्वमभिधायेदानीं समुदितानां तदेवाभिधत्ते _________________________________________________________________ राजन्ति यत्रालङ्कारा अन्योन्यान्वितवृत्तयः । यथा पदार्था वाक्यार्थे संसृष्टिः साभिदीयते ॥ ३.६० ॥ राजन्तीत्यादि । "यत्र" = यस्याम्,"अलङ्काराः" = प्रस्तुतसंपदुपेताः सन्तः "राजन्ति" शोभन्ते, "संसृष्टिः साभिधीयते" संसृष्टिसंज्ञालङ्कृतिः सोच्यते । कथं राजन्तीत्याह"यता पदार्था वाक्यार्थे" = तात्पर्यलक्षणे वस्तुनि "यथा" = येन प्रिकारेण "पदार्थाः" प्रविभक्तस्वरूपाः वाक्यैकदेशभूतपदाभिधेयाः सन्तोवा स्वात्मना स्फुरन्तोऽपि परस्परान्वयलक्षणसंबन्धनिबन्धनस्वभावाः प्रधाने हि पारतन्त्र्यमनुभवन्तस्तदेव समुदायात्मकमेकवाक्यार्थतात्पर्यं प्रतिपादयन्ति, यथा तेन प्रकारेण यदेतयोरविसंवादिसमवाये संबन्धितया संसृष्टावन्योन्यान्वितवृत्तयः परस्परसंबन्धावगतसामर्थ्यात्पृथग्भूतवाक्यार्थावयवैकदेशवर्तिनोऽप्यलङ्काराः कामपि सहृदयसंवेद्यपरस्परसंसर्गात्मतामेवं (व) सकलवाक्यार्थविषयां विच्छित्तिमुपपादयन्तः परतन्त्राः परिस्फुरन्ति इत्यभिप्रायः । यथा आश्लिष्टो नवकुङ्कुमारुणरविव्यालोकितैर्विस्तृतो लम्बान्ताम्बरया समेत्य भुवने ध्यानान्तरे सन्ध्यया । चन्द्रांशूत्करकोरकाकुलपतद्ध्वान्तद्विरेफोऽधुना देव्येवार्पितदोहदः कुरवके भाति प्रदोषगमः ॥ टीका ३.२१२ ॥ अत्र रूपकादिना स्वात्मना पृथक्कृतकृत्येन परस्परसंसर्गसंपदुपार्जिता वाक्यार्थवक्रताविच्छित्तिः काचिदेव परिस्फुरति । यथा वा म्लानिं वान्तविषानलेन नयनव्यापारलब्धात्मना नीता राजभुजङ्ग पल्लवमृदू रम्भा तथेयं त्वया । अद्यापीश्वरशेखरेन्दुकिरणस्मेरस्थलीलाञ्छिते कैलासोपवने यथा सुगहने नैति प्ररोहं पुनः ॥ टीका ३.२१३ ॥ अत्र पूर्ववदेव रूपकादीनां परस्परसंसर्गसंपदुपार्जिता वक्रताविच्छित्तिः विभाव्यते । एवं संसृष्टिमभिधाय तथाविधच्छायाविच्छित्तिविधायिनं संकरालङ्कारमभिधत्ते _________________________________________________________________ अलङ्कारकलापोऽयमन्यैः संकीर्णतां गतः । स्फुरन्ननेकधा वाक्ये संकरः सोऽभिधीयते ॥ ३.६१ ॥ अलङ्कारेत्यादि । पूर्वोक्तलक्षणमाक्रान्तवृत्तिः "अलकारकलापोऽयं" रसवदाद्यलङ्कारनिकुरम्बः "संकराख्योऽभिधीयते" संकरनामा निगद्यते । कीदृशः"संकीर्णतां गतः" = संमिश्रतां प्राप्तः, सबलत्वेन प्रतिभासत्वमधिरूढः । किं कुर्वन्"स्फुरन्" = आत्मनः स्फुरितं समुपदर्शयन्प्रतिभासमानतामुपसरन्,"वाक्ये" संकीर्णतामुपपद्यते । तत्संवेशनविशेषस्यानुपपत्तेः भणितान्तर्वर्तो यः कश्चिदलङ्कारो यथोपपत्ति विभूषणान्तरेण संकीर्णः संकर संज्ञाविषयतां प्रतिपद्यते । तेन सकलस्याप्यलङ्कारकलापस्य (संकर इत्यभिधानं संपद्यते) । यथा रोहन्मूलातिगौरैरुरगपतिफणैस्तत्र पातालकुक्षौ प्रोद्यद्वालङ्कुरश्रीः दिशि दिशि दशनैरेभिराशागजानाम् । अस्मिन्नाकाशदेशे विकसितकुसुमा राशिभिस्तारकाणआं नाथ त्वत्कीर्तिवल्ली फलति फलमिदं बिम्बमिन्दोः सुधार्द्रम् ॥ टीका ३.२१४ ॥ अत्र कीर्तिवल्लीति रूपकालङ्कारः सिद्धबद्धतत्साम्याशङ्कां विना न युक्तयुक्ततां प्रतिपद्यते । तेन तदाशङ्कानिबन्धनतथाविधपरिस्पन्दकीर्तिसन्दर्शितसमुद्भुततसंभावनानुमानमाहात्म्यात्प्रतीयमानवृत्तिरुत्प्रेक्षात्र कवेरभिप्रेता । यस्मादेतयोर्द्वयोरपि परस्परसंभावनां विना स्वरूपलब्धिरेव न (पर्य) वस्यतीति, संकीर्णयोरथ संवादादेवंविधविषये संकरोक्तिः प्रवर्तते । वाक्यैकदेशे यथा "निर्मोकमुक्तिरिव गगनोरगस्य" इति निष्कम्पतया व्यवहर्तुमशक्यत्वात्, निर्मोकमुक्तिरिवेत्युत्प्रेक्षया रूपकालङ्कारस्य स्वरूपलाभावकाशः (समर्प्यते) । तथैवोत्प्रेक्षायाः, यस्मादत्रापि संकरालङ्कारव्यवहारः । ननु चानेनन्यायेन "अस्याः सर्गविधौ" इति "किं तारुण्यतरोः" इत्यादेः संकरालङ्कारोक्तिः प्रवर्तताम् ? न प्रवर्तते, यस्मादत्रार्(थसामर्थ्यावगतो) त्प्रेक्षायाः ससन्देहं विनानुपपत्तेः, परस्मिंश्च तथैव रूपकस्येति द्वयोरप्येतयोः तत्त्वं तुल्यम् । ससन्देहस्य पुनस्तद्विभूषणत्वेनान्तर्विधाने मणिमयपदकबन्धबन्धुरहारादिरमणीयत्वमित्युक्तमेव । संसृष्टेर्नानाविधच्छायमणिमालामनोहरता, संङ्करालङ्कारस्य विविधकान्तिरत्नविन्यासविच्त्रबहुलातुलकान्तिकल्पत्वमिति सर्वमेव विभक्तम् । एवं यथोपपत्त्यलङ्कारान् लक्षयित्वा केषाञ्चिदलक्षितत्वात्लक्षणाव्याप्तिदोषं परिहर्तुमुपक्रमते । _________________________________________________________________ भूषणान्तरभावेन शोभाशून्यतया तथा । अलङ्कारास्तु ये केचिन्नालङ्कारतया मनाक् ॥ ३.६२ ॥ भूषणेत्यादि । "ये" = पूर्वोक्तव्यतिरिक्ताः"केचिदलङ्काराः" ते "नालङ्कारतया मनाक्" न विभूषणत्वेनाभ्युपगताः । केन हेतुना "भूषणान्तरभावेन" = अन्यद्भूषणं "भूषणान्तरं", तेभ्यो व्यतिरिक्तम्॑ "तद्भावेन" = तत्स्वभावत्वेन तदनन्यत्वेन पूर्वोक्तानामेवान्यतमत्वेनेत्यर्थः । "शोभाशून्यतया तथा" = शोभा कानतिः तया शून्यं रहितं शोभाशून्य तस्य भावः शोभाशून्यता तया हेतुभूतया । न केवलं ताभ्यामेव, यावदलङ्कार्यतया विभूष्यत्वेनापि तेषामलङ्करणत्वमनुपपन्नम् । एवं च _________________________________________________________________ यथासंख्यमलङ्कारः पूर्वैराम्नातेव यः । कारणद्वितयेनापि नालङ्कारः स संमतः ॥ ३.६३ ॥ "यथासंख्यमलङ्कारः पूर्वैराम्नातः" तुल्य (क्रमं) कैश्चित्स्वशब्देनाभिहितः स्वनाम्ना "स नालङ्कारः,कारणद्वितयेनापि" भूषणान्तरभावेन शोभाशून्यतया च । तथा च तस्योदाहरणम् पद्मेन्दुभृङ्गमातङ्गपुंस्कोकिलकलापिनः । वक्त्र कान्तीक्षणगतिस्वरकेशैस्त्वया जिता ॥ टीका ३.२१५ ॥ अत्रात्मकृतलक्ष्ये भणितिवैचित्र्यविरहात्न काचित्कान्तिर्विद्यते । सत्यामप्येतस्यां साम्यं व्यतिरेको वा जीवितमाम्नातं न पुनः समानसंख्यात्वम् । (केवल) समानसंख्यात्वे "यथासंख्यमनुदेशः समानाम्" इति सूत्रोदाहरणन्यायात्संख्यातानुदेशात्न किञ्चिदतिरिच्यते । केषाञ्चिदाशीः प्रभृतीनामलङ्कारतया मतानां भूषणत्वानुपपत्तेः । आसिषस्तु लक्षणोदाहरणानि नेह पठ्यन्ते । तेषु चाशंसनीयस्यैवार्थस्य मुख्यतया वर्णनीयत्वादलङ्कार्यत्वमिति प्रेयोलङ्कारोक्तानि दूषणान्यापतन्ति । न प्रेयसो विरुद्धः स्यादलङ्कारान्तरे सति । संसृष्टिसंकरौ स्यातामन्यत्रादर्शनादपि ॥ टीका ३.२१६ ॥ (अन्तरश्लोकः) । विशेषोक्तेरप्युक्तालङ्कारान्तर्भावेनालङ्कार्यतया च भूषणत्वानुपपत्तिः । तथा चोदाहरणमेतस्याः स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शम्भुना न हृतं बलम् ॥ टीका ३.२१७ ॥ अत्र सकललोकप्रसिद्धजयित्वव्यतिरेकिकन्दर्पस्वभावमात्रं लोकोत्तरत्वेन वाक्यार्थः । (एवं) सूक्ष्मलेशहेतवः (नालङ्काराः । तथा च) भामहः हेतुश्च सूक्ष्मो लेशोऽथ नालङ्कारतया मतः । समुदायाभिधेयस्य वक्रोक्त्यनभिधानतः ॥ टीका ३.२१८ ॥ तथा च सूक्ष्मस्योदाहरणम् संकेतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥ टीका ३.२१९ ॥ अत्र वर्णनीयात्मा सूक्ष्मो न पुनरलङ्कारणम्, कस्मात्साक्षादभिधया वक्तव्यार्थस्तथाविधया युक्त्या प्रतिपाद्यते । लेशस्योदाहरणं यथा राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः । अवगच्छेयुरा ज्ञातमहो शीतानिलं वनम् ॥ टीका ३.२२० ॥ अत्राप्येतदेव वक्तव्यं वस्तु कथं विभूषणतामर्हति ? । "यत्परः शब्दः स शब्दार्थः" इति न्यायात् । हेतोरुदाहरणम् अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः । उत्पादयति सर्वस्य प्रीतिं मलयमारुतः ॥ टीका ३.२२१ ॥ एवमुपमारूपकमपि नालङ्करणम् । समग्रगगनायाममानदण्डो रथाङ्गिनः । पादो जयति सिद्धस्त्रीमुखेन्दुनवदर्पणः ॥ टीका ३.२२२ ॥ अत्र रसवदलङ्कार (वत्) वाच्यवाचकयोः संगतिरेव नास्ति । तथा च उपमा च रूपकं चेति विग्रहे द्वन्द्वो वा विवक्षितः स्यात्, विशेषणसमासो वा । तत्र द्वन्द्वपक्षे क्वचिद्वाक्यैकदेशे रूपकं क्वचिदुपमेति (द्वितिय) प्रणिबन्धनं न किञ्चिदेकस्मिन् । तत्रापि प्रत्येकं परिस्पन्दतया स्वस्थाने समं विभातीति परस्परापेक्षां विना समुदायात्मकस्य विशेष्यस्यासंभवात्द्वन्द्वपक्षोऽनुपपन्नः । विशेषणसमासेऽपि सर्वस्मिन् वाक्ये, एकदेशे वा द्वितयमपीति द्वयोरेकस्मिन् वस्तुनि युगपत्परस्परविरुद्धयोश्छायातपयोरिव समावेशानुपपत्तिः । एकतरपक्षावलम्बिन्या वाचा प्रत्येकं वाच्यवाचकस्वरूपनिश्चितावपरस्यावकाशभङ्गोऽपि न सम्भवतीति परस्परापेक्षां विना समुदायात्मकविशेषणसमासोऽप्यकिचित्करः । कथञ्चित्तत्रैकतरनिश्चये प्रमाणाभावादन्यतरकल्पनेन दोषायोगात्संकरव्यवहारः । प्रस्तुते पुनरेवंविधस्वरूपनिष्पत्तावपि संसिद्धिविवक्षया यस्यात्मसिद्धआवपि सन्देहदोलाधिरूढिस्तत्राप्यसम्भूताद्वस्तुतोऽव्यवस्थितैव कदाचिदस्तीति यत्किञ्चिदेव वाक्यसामर्थ्यादवसेयः । प्रतीयमानप्रकारात्तृतीयं रमणीयमलङ्करणकलापमिति वाक्यवक्रतासर्वस्वं समाख्येयम् । समुदायात्मकवाक्यवक्रतास्वरूपमासूत्रयति _________________________________________________________________ लावण्यादिगुणोज्ज्वला प्रतिपदन्यासैर्विलासाञ्चिता विच्छित्त्या रचितैर्विभूषणभरैरल्पैनोहारिणी । अत्यर्थं रसवत्तयार्द्रहृदया (शक्नोत्युदाराभिधा वाग्वक्रा सुकवेस्तथैव च) मनो हर्तुं यथा नायिका ॥ ३.६४ ॥ लावण्यादीत्यादि । आसामेवंविधवाक्यस्वरूपायत्तावगमनोदाहरणं प्रवक्ष्यति । तत्समुदायात्मकस्य (वाक्यस्य) रसवत्तया (मनः चेतः) हर्तुं च सक्नोति यता नायिका तथा । कीदृशी"लावण्यादिगुणोज्ज्वला" (लावण्यादिभिः) लावण्यप्रभृतिभिः "गुणैः" प्रथमोल्लेखलक्षणैर्गुणैः "उज्ज्वला" भ्राजिष्णुः "प्रतिपदन्यासैः" "प्रतिपदन्यासः" प्रतिसुप्तिङन्तोपनिबन्धानानि, तैः "विलासाञ्चिता" शोभातिशयेनाभ्यञ्चिता "विच्छित्त्या" वैदग्ध्यभङ्ग्या कयाचित्"रचितैः" उपनिबद्धैः "अल्पैः" परिमितैः (विभूषणभरैः) अलङ्करणैरुपमादिभिः, "मनोहारिणी" हृयपरञ्जिका वाक्विच्छित्तिविहितपरिमितालङ्कारणविन्मयासा शोभातिशयनिधानतां प्रतिपद्यते । कीदृशी वाक्"उदाराभिधा" औदार्यगुणयुक्ताभिहिता । "अत्यर्थं रसवत्तया" रागादिमत्त्वेन "आर्द्रहृदया" सरसाभिप्राया कान्तापि तथाविधविलासाञ्चिता भवति । नायिकापक्षे लावण्यादयः सौन्दर्यप्रभृतयः, पदन्यासः पादविक्षेपः, विलासः चेष्टाविशेषः (वाक्पक्षे) विच्छित्तिः वैदग्ध्यम्, वाक्वाक्यम्, भूषणानि अलङ्काराः, कव्यभिधा वचनम् । प्रबन्धसामर्थ्यमिति । इति श्रीराजानककुन्तकविरिचिते वक्रोक्तिजीविते काव्यालङ्कारे तृतीय उन्मेषः । ==================================================================== वक्रोक्तिजीवितं चतुर्थोन्मेषः एवं सकलसाहित्यसर्वस्वकल्पवाक्यवक्रताप्रकाशनानन्तरमवसरप्राप्तां प्रकरणवक्रतामवतारयति _________________________________________________________________ यत्र निर्यन्त्रणोत्साहपरिस्पन्दोपशोभिनी । वृत्तिर्व्यवहर्तॄणां स्वाशयोल्लेखशालिनी ॥ ४.१ ॥ अप्यामूलादनाशङ्क्यसमुत्थाने मनोरथे । काप्युन्मीलति निःसीमा सा प्रबन्धांशवक्रता ॥ ४.२ ॥ यत्रेत्यादि । "प्रबन्धांशवक्रता" (प्रकरण) वक्रभावो भवतीति सम्बन्धः । कीदृशी"निःसीमा"निरवधिः, "यत्र"यस्यां "व्यवहर्तॄणां"तत्तद्व्यापारपरिग्रहव्यग्राणां प्रवृत्तिः "कापि"अलौकिकी "उन्मीलति"उद्भिद्यते । किंविशिष्टा"निर्यन्त्रणोत्साहपरिस्पन्दोपशोभिनी"निरर्गलव्यवसायस्फुरितस्फारविच्छित्तिः, अत एव "स्वाशयोल्लेखशालिनी" निरुपमनि (ज) हृदयोल्लासितालङ्कृतिः, कस्मिन् सति"अप्यामूलादनाशङ्क्यसमुत्थाने मनोरथे"कन्दात्प्रभृत्यसंभाव्यसमुद्भेदे समीहिते । तदयममत्रार्थःयत्र मनाङ्मात्रमप्यनुन्मीलितमनोरथे कथामध्ये निरुपधिमानधनानामध्यवसायपद्धतिः निरन्तरव्यवसायातिस्फारा चेतनचमत्कारिणी तद्विहितवक्रताविच्छित्तिः प्रिकरणस्यालङ्करणायते, प्रबन्धस्य च । यथा अभिज्ञानजानकीनाम्नि नाटकेतृतीयेऽङ्के सेतुबन्धेऽनाकलितविद्याबलानामविदितवैदेहीदयितदिव्यास्त्र प्रभावसंपदां वानरप्रवीराणां प्रथममेव मकराकरमालोकयतां बन्धाध्यवसायः । तथाहितत्र नीलस्य सेनापतेर्वचनम् शैलाः सन्ति सहस्त्रशः प्रतिदिशं वल्मीककल्पा इमे दोर्दण्डाश्च कठोरविक्रमरसक्रीढासमुत्कण्ठिताः । कर्णास्वादितकुम्भसंभवकथाः किं नाम कल्लोलिनी कान्ते गोष्पदपूरणेऽपि कपयः कौतूहलं नास्ति वः ॥ टीका ४.१ ॥ वानराणामुत्तरवाक्यं नेपथ्ये कलकलानन्तरम् आन्दोल्यन्ते कति न गिरयः कन्दुकानन्दमुद्रां व्यातन्वानाः कपिपरिसरे कौतुकोत्कर्षतर्षात् । लोपामुद्रापरिवृढकथाभिज्ञताप्यस्ति किं तु व्रीडावेशः पवनतनयोच्छिष्टसंस्पर्शनेन ॥ टीका ४.२ ॥ अत्रैव पवनतनयोच्छिष्टे अधिवाचिनि पर्यायवक्रताप्रिकारः स्मर्तव्यः । आर्य, दुष्करोऽयमेभिर्मकराकरबन्धाध्यवसाय इति रामेण पर्यनुयुक्तस्य जाम्बवतोऽपि वाक्यम् अनङ्कुरितनिस्सीममनोरथपथेष्वपि । कृतिनः कृत्यसंरम्भमारभन्ते जयन्ति च ॥ टीका ४.३ ॥ एवंविधमपरमपि तत एव विभावनीयमभिनवाद्भुताभोगभङ्गीसुभगं सुभाषितसर्वस्वम् । यथा वा रघुवंशे पञ्चमे सर्गे चतुरु (द) धिकाञ्चीकलापालङ्करणकाश्यपीपरिवृढस्य विश्वजिदाख्यमखदीक्षादक्षिणीकृतसमस्तसंपदः सहजौदार्यरहस्योदाहरणस्य रघोरर्घसंपादितमृण्मयपात्रसमालोकनसमुन्मूलितमनोरथाडम्बरे वरतन्तोरन्तेवासिनि निषिद्धगमने मुनौ "किं वस्तु विद्वन् गुरवे प्रदेयं त्वया कियद्वेति" ॥ टीका ४.४ ॥ प्रश्नसमनन्तरं समावेदितचतुर्दशकोटिपरिमाणचामीकरामाचार्यप्रददक्षिणा (माकलय्य) द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम् ॥ टीका ४.५ ॥ इति निरर्गलगम्भीरतो दारगरिमागोपायितान्तर्गतया गिरग्न्यगारमलङ्कुर्वति कुबेरं प्रति सामन्तसंभावनया जयाध्यवसायः कामपि सहृदयहृदयाह्लादकारितां प्रतिपद्यते । सूक्तिसुधावीचयोऽप्यत्र तत (एवा) स्वादनीयाः । एतत्प्रकरणप्राणपरिस्पन्दसुन्दरं च किञ्चिदुदाह्रियते । यथा तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् । दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥ टीका ४.६ ॥ अत्र दम्भोलिदलितकाञ्चनाचलपादसादृश्यप्रतीयमानापरिमितस्य तपनीयकूटस्य सर्वस्यापि (विश्रा)णनात्, अन्य एव तादृशद्रविणव्यसनवर्तिनो दिलीपनन्दनस्य, कल्पनाकलङ्ककदर्थितार्थवितरणानुच्चतरान् कल्पतरूपनपि तिरस्कुर्वाणः स कोष्यौदार्यसीमाविशेषः समुज्जृम्भते, येन गर्भोकृतगर्वगरिमग्रन्थीशिथिलाद्वितीययशस्सन्दोहदोहदस्य दात्रन्तरासहिष्णोः "गुर्वर्थम्" इत्यादेः प्रथमोदितवाक्यप्रकाण्डस्य प्राणपरिस्पन्दपरिपोषणमेवाधीयते । अन्यच्च जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ । गुरुप्रेदयाधिकनिस्पृहोर्ऽथो नृपोऽर्थिकामादधिकप्रदश्च ॥ टीका ४.७ ॥ इत्यादि । अत्रापि गुरुप्रदेयदक्षिणातिरिक्तं कार्तस्वरमप्रतिगृह्णतः कौत्सस्य, रघोरपि प्राथितात्शतगुणं सहस्त्रगुणं वा प्रयच्छतः (परस्परं कलहायमानयो) र्निरवधि(नि) स्पृहत्वौदार्यसंपत्साकेतनिवासिनामश्रुतपूर्वां कामपि महोत्सवमुद्रामाततान । एवमेषा महाकविप्रबन्धेषु प्रकरणवक्रताविच्छित्तिः रसनिष्यन्दिनी सहृदयैः स्वयमुत्प्रेक्षणीया । इमामेव प्रकारान्तरेण प्रकाशयति _________________________________________________________________ इतिवृत्तप्रयुक्तेऽपि कथावैचित्र्यवर्त्मनि । उत्पाद्यलवलावण्यादन्या लसति वक्रता ॥ ४.३ ॥ तथा यथा, प्रबन्धस्य सकलस्यापि जीवितम् । भाति प्रकरणं काष्ठाधिरूढरसनिर्भरम् ॥ ४.४ ॥ इतिवृत्तेति । "तथा उत्पाद्यलवलावण्यादन्या भवति वक्रता" = तेन प्रकारेण कृत्रिसंविधानकामनीयकादलौकिकी वक्रभावभङ्गी समुज्जृम्भते सहृदयानावर्जयतीति यावत् । (कस्मिन्) "कथावैचित्र्यवर्त्मनि"काव्यस्य कथाविचित्रभावमार्गे । किंविशिष्टे "इतिवृत्तप्रयुक्तेऽपि"इतिहासपरिग्रहेऽपि । तथेति तथाप्रयोगमपेक्षत अत आह"यथा प्रबन्धस्य सकलस्यापि जीवितम् । भाति प्रकरणं" येन प्रकारेण सर्गबन्धादेः समग्रस्यापि प्राणप्रदं भासतेऽङ्गम् । कीदृग्भूतं"काष्ठाधिरूढरसनिर्भर (म्) = प्रथमधारोद्भासितशृङ्गारादिपरिपूर्णम् । तदयमत्र परमार्थः = विख्यातविचित्ररुचिरकथाकरण्डकायमा(ने)महाभारतादौ रससमुद्रमुद्रितायामपि कथायां कस्यचिदुत्तराधरविच्छित्तिकारणविकल्पकाभावात्, सवि(शेष)रसभावजनकाश्चर्यजननकार्यजातानि अतिबन्धुरनिजप्रतिभासमुन्मीलितसमुचितनिरुपमाननिमित्तानि निबन्धनीयानीति । तदतिशयवक्रताप्रकारेण प्रकरणेन व्यवहरन् कविः सकलकविरसिकपरिषत्परितोषणमावहति । प्रबन्धेऽपि प्रवरनवसंस्कारकारणरमणीयकान्तिपरिपोषः रेखाराजमानपुरातनत्रुटितचित्रदशास्पदसौभाग्यमनुभवति । अभिज्ञानशाकुन्तले नाटके इतरतरुणीतिरस्कारकारणाविरोधकत्वेनेक्षणक्षणाकलितललितलावण्यलक्ष्मीललामनिरुपमरूपरेखा सुखप्रत्यभिज्ञा समुज्जृम्भते । विस्त्रम्भसंभावनासनाथकथारहस्यरम्यपरस्परानुरूपप्रेमप्रकर्षप्रवर्तितचिरतरविचित्रविहरणव्यापारसुप्राप्तप्रत्यभिज्ञां तांशकुन्तलां प्रति दुष्यन्तस्य विस्मरणकारणमितिवृत्तागदितमपि अल्पमात्रापराधप्रवर्तमानक्रूरक्रुधः करुणापराङ्मुखस्यमुनेर्दुवाससः शापमुत्पादितवान् कविः । तत्र हि प्रकरणप्रकाण्डे शकुन्तला किल प्रथमप्रियप्रवासवासरवितीर्णविरहदुःसहदुःखावेशविवशान्तःकरणवृत्तिरुटज(संनिहिता) पर्याकुलेन प्राङ्गणप्रान्ते स्थिते (न) महर्षिणा मन्युसङ्गात् विचिन्तयन्ती यमनन्यमानसा तपोनिधिं वेत्सि न मामुपस्थितम् । स्मरिष्यति त्वां स न बोधितोऽपि सन् कथां प्रमत्तः प्रथमं कृतामिव ॥ टीका ४.८ ॥ इत्थं शप्ता । तच्छ्रवणपर्याकुलाभ्यां सखीभ्यां (अनुनीतः) प्रवास्यमानोऽपि मुनिप्रवरः प्रियतमन्यासाङ्गुलीयकविलोकनं (शापा) वसाना (वधि) मकार्षोत् । प्रियं प्रति यान्त्याश्च मुनिदुहितुरलङ्कृताङ्गुलीकिसलयस्याङ्गलीयकस्य कुत्रचित्कुटिलतरतरङ्गिणीपयोवतारादन्तर्जलमलक्षितं परिभ्रष्टस्य ससंभ्रममदभ्रमरीचिमण्डलमाणिक्यसमुल्लसितसरसामिषविशङ्काकुलशकलीकवलितस्य कालान्तरे तदन्तकारिणा कैवर्तनेन पुनरपि (समर्पणम्) । एवंविधस्य संविधानकस्य रसनिधानकलशायमानस्य माहात्म्यादिखिलस्यापि नाटकस्य कापि (विच्छित्तिः) समये चञ्चरीकोपालम्भगर्भगीत्यवगमनात्मुनिशापापसारितप्रेयसीस्मृतेरपि तदधिवासवासनापि च परिस्फुरन्ती पौरवस्य पारवश्यं निश्चयामास । तथा च रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः । तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥ टीका ४.९ ॥ अत्र संमुग्धसुभगमेनकानन्दिनीस्मरणलेखालावण्यमन्यदेव चमत्कारकारणं सहृदयानां समुद्योतते । अपरं च परावर्तितायामपि व्यलीकमभिज्ञकं च, महर्षिशिष्यसमाख्यातकरग्रहणगर्भाधानायां महामन्युसमुन्मेषः । मनागुल्लङ्घितसहजलज्जावतारतापसशीघ्रापनीतावगुण्ठनेन (पराङ्गनारचित)तथाविधसकलललनालावण्यावलेपसंपदि संपादितविपञ्चिटङ्कारवल्गुवाग्विलासव्याहृतवनविहरणरहस्याभि ज्ञायां भरतमातरि तथारूपं प्रत्याख्यानपारुष्यमपि राज्ञः शापस्य संपत्स्यमानानुतापं परस्परं प्रकाशीभवदनर्गलानुरागप्रग्भारसङ्गादतीव सहृदयाह्लादकारि । शापावसानसमुत्पत्तये प्रसिद्धस्यरणसमुल्लासिदुःसहविरहज्वरपातावेगविकलत्वं च समनन्तरमेवाङ्गुलीयसङ्गमादतीव सहृदयानाह्लादयति । नरपतेस्तत्र कञ्चुकिनो वचनम् प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः । चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥ टीका ४.१० ॥ रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः । दाक्षिण्येन ददाति वाचमुचितामन्तः पुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥ टीका ४.११ ॥ अत्र राज्ञो विशेषणवक्रता, गोत्रेष्विति वचनवक्रत्वं च किमपि चित्तचमत्कारकारि । राज्ञोऽपि स्वयंलिखितालेख्यालोकमानविलोचनस्य स्मरणात्मक दयितात्ममुद्रामुद्रितं सहृदयवचनम् । अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु । बिम्बाधरं स्पृशसि चेत्भ्रमर प्रियायाः त्वां कारयामि कमलोदरबन्धनस्थम् ॥ टीका ४.१२ ॥ इत्युदित एवास्वादनीयः । अविद्यमाने पुनरेतस्मिन् तत्पाद्यलवलावण्यल्लाम्नि प्रकरणे निष्कारणविस्मरणवैरस्यमितिहासांस्येव रूपकस्यापि विरूपकतापत्तिनिमित्ततामवगाहते । उत्पाद्यलवलावण्यादिति द्विधा व्याख्येयम् = यथा क्वचिदसदेवोत्पाद्यम्, क्वचिदौचित्यत्यक्तं सदप्यन्यथासंपाद्यं सहृदयहृदयाह्लादनाय । यथादात्तराघवे मारीचवधः । तच्च प्रागेव व्याख्यातम् । एवमन्यदप्यस्या वक्रताविच्छित्तेरुदाहरणं महाकविप्रबन्धेषु स्वयमुत्प्रेक्षणीयम् । निरन्तररसोद्गारगर्भसन्दर्भनिर्भराः । गिरः कवीनां जीवन्ति न कथामात्रमाश्रिताः ॥ टीका ४.१३ ॥ (इत्यन्तरश्लोकः) । अपरमपि प्रकरणवक्रताप्रकारमाविर्भावयति _________________________________________________________________ प्रबन्धस्यैकदेशानां फलबन्धानुबन्धवान् । उपकार्योपकर्तृत्वपरिस्पन्दः परिस्फुरन् ॥ ४.५ ॥ असामान्यसमुल्लेखप्रतिभाप्रतिभासिनः । सूते नूतनवक्रत्वरहस्यं कस्यचित्कवेः ॥ ४.६ ॥ "सूते"समुन्मीलयति । (किं) "नूतनक्रत्वरहस्यं"अभिनववक्रभावोपनिषदं । "कस्याचित्"(न) सर्वस्य । "कवेः"कवयितुः, प्रस्तुतौ (चित्य) चारुरचनाविचक्षणस्येति यावत् । कः "उपकार्योपकर्तृत्वपरिस्पन्दः"अनुग्राह्यनुग्रहकत्वमहिमा । किं कुर्वन् "परिस्फुरन्"समुन्मीलयन् । किंविशिष्टः"फलबन्धानुबन्धवान्" = प्रधानकार्यानुसन्धानवान् कार्यानुसन्धाननिपुण(इति भावः) । कथमेवंविधस्य हत्याह"असामान्यसमुल्लेखप्रतिभाप्रतिभासिनः"निरुपमोन्मीलितशक्ति विभवभ्राजिष्णोः । केषां "प्रबन्धस्यैकदेशानां" = प्रकरणानाम् । तदिदमुक्तं भवतिप्रातिस्विकसंनिवेशशोभिनामपि प्रबन्धावयवानां प्रधानफलसंबन्धनिबन्धानुग्राह्यानुग्राहकभावः स्वभावसुभगप्रतिभाप्रकाश्यमानः कस्यचिद्विचक्षणस्य वक्रताचमत्कारिणः कवेरलौकिकं (कथाप्राणप्रौढिप्ररूढ) वक्रतोल्लेखलावण्यं समुल्लासयति । यथा पुष्पदूषितके द्वितीयेऽङ्के प्रस्थानात्प्रतिनिवृत्य निबिडानुरागात्(अन्धकारावृतायां) विभावर्याममन्दमदनोन्मादमुद्रेण समुद्रदत्तेन निजभार्यानिकेतनं तुल्यदिवसं नन्दयन्तीसंगमाय मलीम्लुचेनेव प्रविशता प्रकम्पावेगविकलालसकायनिपातननिहतनिद्रस्य द्वारदेशशायिनः कलहायमानस्य कुवलयस्योत्कोचकारणं स्वकरादङ्गुलीयकदानं यत्कृतं, तच्चतुर्थेऽङ्के मथुराप्रतिनिवृत्तेन तेनैव श्वशुरस्य समावेदितसमुद्रदत्तवृत्तान्तेन कुलकलङ्कातङ्ककदर्थ्यमानस्य सार्थवाहसागरदत्तस्य स्वतनयस्पर्श (समाहित) मान (सस्य) स्नुषाशीलशुद्धिमुन्मीलयत्तदुपकाराय कल्पते । तथा च सागरदत्तस्य वचनम् तदङ्गुलीयं सुतनामचिह्नं चरित्रसुद्धिं विशदीकरोति । ममापि सामान्यसमुद्यतोऽनु तापस्तु पापस्य भवेत्स शुद्धिः ॥ टीका ४.१४ ॥ अत्र भृत्य, किमिति त्वया प्रथममस्माकं (नोक्तमिति पृष्टस्य) कुवलयस्योत्तरं तदोपणिकमन्ते राम पणि यात त हिं एव्व पविसंति । द्ग्धाच्छादितं च मए स अं एव्व पेख्खिअं छन्वाहनसंपदं पुतन वेदैस्सदि ॥ टीका ४.१५ ॥ तत एवावधार्यम् । यथोत्तररामचरिते पृथुगर्भभरखेदितदेहाया विदेहराजदुहितुर्विनोदाय दाशरथिना चिरन्तनराजचरितचित्ररुचिं दर्शयता निर्व्याजविजयविजृम्भमाणजृम्भकास्त्राण्युद्दिश्य "सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति" इति यदभिहितं तत्पञ्चमाङ्के प्रवीरचर्याचतुरेण चन्द्रकेतुना क्षणं समरकेलिमाकाङ्क्षता तदन्तरायकलितकलकलाडम्बराणां वरूथिनीनां सहजजयोत्कण्ठाभ्राजिष्णोर्जानकीनन्दनस्य जृम्भकास्त्रव्यापारेण कमप्युपकारमुत्पादयति । तथा च तत्र लवः "भवतु, कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि" सुमन्त्रःतत्किमकस्मादुल्लोलाः सैन्ययोधाः प्रशाम्यन्ति । लवःपश्याम्येनमधुना प्रगल्भम् । सुमन्त्रः(ससंभ्रमम्) वत्स, सुमारेणानेन जृम्भकास्त्रमभिमन्त्रितम् । चन्द्रकेतुःार्य, कः सन्देहः व्यतिकर इव भीमो वैद्युतस्तामसश्च प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति । अबिलिखितमिवैतत्सैन्यमस्पन्दमास्ते नियतमजितवीर्यं जृम्भते जृम्भकास्त्रम् ॥ टीका ४.१६ ॥ आर्श्चर्यम् (आश्चर्यम्) पातालोदरकुञ्जपुञ्जिततमः श्यामैर्नभो जृम्भकै रुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दीप्तिभिः । कल्पक्षेपकठोरभैरवमरुद्ध्वस्तैरवस्तीर्यते नीलाम्भोदतडित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव ॥ टीका ४.१७ ॥ इत्यादि । एक एवायमेकदेशानामिति बहुवचनम् । अत्र द्वयोरपि बहूनामुपकार्योपकारकत्वं स्वयमुत्प्रेक्षणीयम् । एकप्रकरणप्राप्तप्रकारान्तरशोभितः । प्रबन्धो भासते नूत्नपरिस्पन्द इवोदितः ॥ टीका ४.१८ ॥ (इत्यन्तरश्लोकः) । अस्या एव प्रकारान्तरं प्रकाशयति _________________________________________________________________ प्रतिप्रकरणं प्रौढप्रतिभाभोगयोजितः । एक एवाभिधेयात्मा बध्यमानः पुनः पुनः ॥ ४.७ ॥ अन्यूननूतनोल्लेखरसालङ्करणोज्ज्वलः । बध्नाति वक्रतोद्भेदभङ्गीमुत्पादिताद्भुताम् ॥ ४.८ ॥ "बध्नाति"नियन्त्रयति निबन्धयतीति यावत् । कां"वक्रतोद्भेदभङ्गीम्"गम्भीरवक्रभावाविर्भावितां शोभाम् । किंविशिष्टां"उद्भाविताद्भुताम्" = कन्दलितकुतूहलाम् । कः "एक एवाभिधेयात्मा"तदेव वस्तुस्वरूपम् । किं क्रियमाणः"बध्यमानः"प्रस्तुतौचित्यचारुरचनामात्रस्पन्दमानः । कथं "पुनः पुनः"वारं वारं । क्व"प्रतिप्रकारणम्" = प्रकरणे प्रकरणे, स्थाने स्थाने इति यावत् । नन्वेवं पुनरुक्ततापात्रतां समासादयतीत्याह"अन्यूननूतनोल्लेखरसालङ्करणोज्ज्वलः"अविकलाभिनवोल्लासशृङ्गाररूपकादिपरिस्पन्दभ्राजिष्णुः । कीदृशः"प्रौढप्रतिभाभोगयोजितः" प्रगल्भतरप्रज्ञाप्रकारप्रकाशितः । अयमस्य परमार्थःतदेवं सकलचन्द्रोदया (दि) प्रकरणप्रकारेषु वस्तु प्रस्तुतकथासंविधानकानुरोधात्मुहुर्मुहुरुपनिबध्यमानं यदि परिपूर्णपूर्वविरूपरसालङ्काररामणीयकनिर्भरं भवति तदा कामपि रामणीयकमर्यादां वक्रतामवतारयति । यथा हर्षचरितेअभिनवभङ्गीपरिग्रहग्रथितसौभाग्योपसंपत्(धरा) धरविभावरीविराम्(दि) रामणीयककर्त्रो नैकस्थानेषु चमत्कुरुते । तत एव च तदास्वादनीयम् । बहुत्वादत्र वर्णयितुमशक्यम् । राजा(सकरुणं पुरोऽवलोक्य) हा देवि पादपैरप्यपगतासि कुरवकतरुर्गाढाश्लेषं, मुखासवलालनां बकुलविटपी, रक्ताशोकस्तथा चरणाहतिम् । तव सुकृतिनः संभाव्यैते प्रसादमहोत्सवाननुगतदशाः सर्वे, सर्वश्शठो न यथा वयम् ॥ टीका ४.१९ ॥ यथा अन्यत्र हि प्रदीप्तान्तः पुरेण कृशानुना कवलितान् विलासशाखिनः पश्यन्नभिनवशोकावेशविवशान्तः करण॑ "साक्षाद्देवीमनुसरन्तस्ते" इति समुत्पन्नमतिनिर्विकल्पमवयवैकैकप्रसादपात्रेभ्योऽपि अविद्वद्भ्योऽपि समनुष्ठितसमुचितसाहसेभ्यः समुचिततादृशप्रसादसाधनमभ्यस्ततदास्वादानुभवसर्वस्वमप्यात्मानं तत्समय एव प्रियानुगमनमनाचरन्तमधमं मन्यमानो निरुपमव्रीडानिवेशनिर्भरं निर्भर्त्सयति वत्सराजः । "धारावेश्मऽ इत्यादि, "कर्णऽ इत्यादि च श्लोकद्वयं प्रागुदाहृतमत्र योज्यम् । तृतीयेऽङ्के राजा(सास्त्रं निश्वस्य) सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्रुते त्रासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तदा । हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तथा शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे ॥ टीका ४.२० ॥ अत्र शान्तेनापि निर्वाणेनापि तेनाम्लानमालतीमुकुलकोमलदेहविदाहानुमीयमाननैर्घृण्येन दहनेनाप्येकव्यापारा(नपगत)करणा वयमद्यापि दह्यामहे इति नूतनोल्लेखविरोधालङ्कारेण करुणा पूर्वं निविष्टापि वक्रतां नीयते । अपि च तथा विधातुं कोमलत्वादेव देव्या तदैव दग्धं, वयं पुनर्वज्रसारातिकटोरिमाणोऽद्यापि दह्यामहे न भस्मीभवाम इति विशेषणं प्रस्तुतमेवोल्लासयति । चतुर्थेऽङ्के राजा(सकरुणमात्मगतम्) हा देवि चक्षुर्यस्य तवाननादपगतं नाभूत्क्वचिन्नर्वृतं येनैषा सततं त्वदेकशयनं वक्षःस्थली कल्पिता । येनोक्तासि विना त्वया बत जगच्छून्यं क्षणाज्जायते सोऽयं दम्भधृतव्रतः प्रियतमे कर्तुं किमप्युद्यतः ॥ टीका ४.२१ ॥ इति सखेदमास्ते । अत्र हि क्वचिदिति केलिक्लमापनोदननिमित्तं निकेतपृष्ठसंचारणीयासु लीलासु अप्रयत्नसुलभदर्शने तनुमात्रोन्मीलितसंपातबिम्बलावण्यलेशशङ्कमानत्वदाननान्तेवासित्वे चन्द्रमसि दर्शितनिजवाक्योपारूढपदार्थत्वात्पर्यालोचनया (करुणमेव) प्रत्याययति । येनेति पर्यङ्कार्धशयनमपि प्रवासपदमिव परिहरतीति तदेव व्यनक्ति । क्षणादिति एतावन्तमपि कालं त्वया विरहितस्य जीवतः कियदौग्यं मम । (एवं) पुनः सकलोऽप्यलीक एवायं प्रेमबन्धोऽवधार्यतामिति तथैव प्रतिपादयति । सोऽयमित्यादि प्रागेव व्याख्यातम् ॥ एवमेतत्, अन्तरवाक्यकदम्बकाभिव्यक्तयाभिनवभङ्ग्या पूर्वस्मात्स्वादादास्वादान्तरसम्पदं कामपि करुणस्य कुरुते । पञ्चमेऽङ्के राजा(सविशेषोत्कण्ठं निश्वस्य) भ्रूभङ्गं रुचिरे ललाटफलके तारं समारोपयेत्बाष्पाम्बुप्लुतपीतपत्ररचनां कुर्यात्कपोलस्थलीम् । व्यावृत्तैर्विनिबद्धचाटुमहिमामालोक्य लज्जानता तिष्ठेत्किं कृतकोपचारकरुणैराश्वासयैनां प्रियाम् ॥ टीका ४.२२ ॥ अत्राधिगमप्रत्याशासंभावितपद्मावतीपाणिपीडस्यानङ्कुरितमनोरथलेशस्यापि तत्कालकन्दलितौत्सुक्यपरवशीकृतान्तः करणवृत्तेरुन्माद्यत इव प्राप्तामेव प्रद्योतराजपुत्रीं (मन्वानस्य) राज्ञः प्रसादसमयसमुचितप्रकार (चिन्तनं काष्ठां) करुणस्यावतारयति । तत्रैवाङ्के किं प्राणा न मया तवानुगमनं कर्तुं समुत्साहिता बद्धा किं न जटा न वा प्ररुदितं भ्रान्तं वने निर्जने । त्वत्संप्राप्तिविलोभनेन पुनरप्यूनेन पापेन किं किङ्कृत्वा कुपिता यदद्य न वचस्त्वं मे ददासि प्रिये ॥ टीका ४.२३ ॥ "इति रोदिति" इत्यन्तेन मनागुन्मादमुद्राप्युन्मीलिता तमेव प्रोद्दीपयति । षष्ठेऽङ्के राजाहा देवि ! त्वत्संप्राप्तिविलोभनेन सचिवैः प्राणा मया धारिताः तन्मत्वात्यजतः शरीरकमिदं मे नास्ति निःस्नेहता । आसन्नोऽवसरस्तदानुगमने जाता धृतिः किं त्वयं खेदो यच्छतधा गतं न हृदयं तद्वत्क्षणे दारुणे ॥ टीका ४.२४ ॥ अत्र नैराश्येन राशीभूतभूरितरशोकावेगवेदनादह्यमानमानसप्रतीकारकारणं कालिन्दीनामनिम्नगासंगमनम् । तस्य प्रियानुगममपि वस्तु वाच्यविस्तरं प्रकरणाभरणायते । "प्रोच्यते कियत्" इत्युक्त्या विविधैर्वा विलासैः, कुतः कथोपकारकादिति कथायाः समाशङ्कितविच्छेदायाः प्ररोहयतीति (?) । किमुक्तं भवतिस्वल्पोऽपि वाच्यविशेषः सविशेषविस्फारितः समुद्धाटितरसकवाटद्वारसरसोक्तिविसरविकासिन्या प्रकरणविच्छित्त्या वितन्यमानः कमपि वक्रिमाणमासादयति । यथा रघुवंशे मृगयाप्रकरणे अत्र हि तरङ्गिणीतीरलेखास्वाखेटवाटोद्यतेन प्रमाद्यता दशरथेन राज्ञा स्थविरान्धतपस्विबालवधो व्यधीयतेति एकवाक्यशक्यप्रतिपादनोऽप्ययमर्थः पुनः परमार्थसरससरस्वतीसर्वस्वायमानप्रतिभाविधानकुशले कविना तादृश्या प्रकरणविच्छित्त्या विस्फारितश्चेतनचमत्कारकारणतामधितिष्ठति । तथाहियद्यत्रानेकनक्तन्दिनानुबन्धिविविधमृगयाव्यापारपरवशीकृतान्तः करणकवलितसकलतदितर (व्यापार) व्यावृत्त्यवसरप्रसरदभ्यासरससोदरात्मकमृगयानुरागगरिमातः प्राण्येतादृग्रूपो न प्रतिहन्येत, तदा सदाचारसंपादनचणे त्रिभुवनाभयदीक्षाधिकारिणि किरणमालिनः कुले तिलकायमानस्याखिलविद्यापारावारपारदृश्वनः कीर्तिधनस्य धन्य(दशरथ) नाम्नो धरित्रीपतेः पवित्रितत्रिदिवाधिपार्धासनस्य तथाविधाकरणीयकरणं महर्षिणाप्युदाह्रियमाणमनुपपन्नप्रायमेव प्रतिभासेतापाततः । इदं च तत्रैव सकलमुन्मीलितं मनागुदाह्रियते । व्याघ्रानभीरभिमुखोत्पतितान् गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान् । शिक्षाविशेषलघुहस्ततया स धन्वी तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥ टीका ४.२५ ॥ अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार । सपदि गतमनस्कश्छिन्नमाल्यानुकीर्णे रतिविगलितबन्धे केशहस्ते प्रियायाः ॥ टीका ४.२६ ॥ लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहात् । आकर्णकृष्टमपि कामितया स धन्वी बाणं कृपामृदुमनाः प्रतिसंजहार ॥ टीका ४.२७ ॥ इत्यादि । एतैर्हि विचित्रवाच्यवाचकौचित्यचारुभिर्वाक्यविशेषैर्विवधव्यापारपारवश्यमति तरां प्रतीयते । यथा स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् । वनरति रतिवाहयांबभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥ टीका ४.२८ ॥ अत्र वनरतिरिति विशेषणवक्रता वने स्थित्या विलासगृहकेलीपर्यङ्के प्रेयसी समेत्य मधुगोष्ठीप्रभृत्युपभोगप्रतीतिप्रत्याख्यातप्रतीतिं प्रतिपादयन्त्या प्रस्तुतरसावेश एव वितन्यते । त्रियामेति वचनवक्रतोल्लेखेन चिरतरसमयमन्ध (कारः) समुन्मील्यते । रूढिवक्रतामहिम्ना च निर्भरान्धकारनिवारितरुचिरव्यापारप्रकारान्तरसान्तरायकारित्वात्तत्प्रतिकूलता प्रतिपाद्यते । अत एवातिवाहयांबभूवेति क्रियावक्रत्ववैचित्र्येण दारुणदेहवेदनां शयनगतः अपगमयामास, परमपरिश्रमविधाने निद्रा रसदायिनीत्यभिननन्द । यथा च इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं धरापतिम् । परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ॥ टीका ४.२९ ॥ अत्र जहारेति क्रियावक्रत्वविच्छित्त्या, मृगयाया करणीयेतरभावनासुविकलान्तः करणत्वमङ्कुरितं महीभर्तुः । तथा अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः । श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरङ्गमेण ॥ टीका ४.३० ॥ अत्र तपस्विगाढामिति विशेषणवक्रतया विविधधर्माचारपरायणतापससंकुलां तमसां पश्यन्नपि शब्दश्रवणमात्रात्शरं व्याकृष्य शरमोक्षमविकलान्तः करणः कथमकुर्वतेति प्रकाश्यते । "अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः" इत्यनेन न्यायेन परधाराधिरूढदुर्धरव्यसनरागान्दकारकवलितविवेकदृष्टयस्तथाविधा अशुद्धाध्वनि सञ्चरन्त इत्युपपत्तिरप्युपपादिता । उत्तरकथोपकारोऽप्येकदेशस्यास्त्येव । तथा हि दिष्टान्तमाप्स्यति भवानपि पुत्रशोका दन्ते वयस्यहमिवेति तमुक्तवन्तम् ॥ टीका ४.३१ ॥ इति विशीर्णतापसवितीर्णशापस्य तापसं प्रति प्रतिवचनं कौसल्यापतेःतथा हि शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयम् । कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धः बीजप्ररोहजननीं दहनः करोति ॥ टीका ४.३२ ॥ अत्र शाप इति एवंविधापचारप्राग्भारप्रभवो भवतु नाम । सानुग्रह इति अनुग्रहः पुनरयमनुपपन्न एवास्यामवस्थायाम् । भगवतेत्यनर्थदर्शनेन सहजदयालुना । यदि वा भगवता शापोऽपि इति शापानुग्रहयोर्दहनवारिणोरिवैककालमेकविषयवर्तित्वमसतोरपि भगवत्(स्वरूप)संपत्सामर्थ्यादेव संभाव्यते, अदृष्टतनयाननपद्मशोभे मयि एतस्मादेवानुग्रहादवश्यंभाविनः सुचिरकालाभिकाङ्क्षितस्य सुतावलम्बनतनोर्जोवितफलस्य विलोकनोत्कण्ठापारवश्यात्(सार्थक्यम्) इत्यलमतिप्रसङ्गेन । अस्या एव प्रभेदान्तरमुन्मीलयति _________________________________________________________________ कथावैचित्र्यपात्रं तद्वक्रिमाणं प्रपद्यते । यदङ्गं सर्गबन्धादेः सौन्दर्याय निबध्यते ॥ ४.९ ॥ "तद्वक्रिमाणं(प्रपद्यते)" किंविसिष्टं"कथवैचित्र्यपात्रं" = प्रस्तुतसंविधानकभङ्गीभाजनं । किं तत्? "यदङ्कंसर्गबन्धादेः सौन्दर्याय निबध्यते" = "यत्"जलक्रीडादिप्रकरणं ("सर्गबन्धादेः") महाकाव्यप्रभृतेः ("सौन्दर्याय")उपशोभानिषपत्त्यै ("निबध्यते") निवेश्यते । अयमस्य परमार्थःप्रबन्धेषु जलकेलिकुसुमापचयप्रभृति प्रकरणं प्रक्रान्तसंविधानकानुबन्धि निबध्यमानं निधानमिव कमनीयसंपदः संपद्यते । यथा रघुवंशे अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः । विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥ टीका ४.३३ ॥ इत्यादि । जलक्रीडास्पर्शानन्तरलक्षितत्वातखिलमदविकल(ललना)विलासमूलाध्यास्यमानोत्सवाकुलस्य(कुमुदकन्या)कन्दुकक्रीडालक्षणमुत्सवान्तरमुत्तरकथोपकार्युपपद्यते, तद्विदामाह्लादमावैति च । तथा हि राज्ञः करा(स्फालनाभ्युक्षणा)दिवारिविहाररसपरवशान्तः करणस्य (करारविन्दा) दलङ्करणमलक्षितपतनमुत्पन्नकुतूहला कुमुद्वती नाम नागकन्या जगृहे । ततस्तस्मिन्नादरोद्रेकादन्विष्टेऽप्यनासादिते पाथोन्तर्वर्तिनं नागनायकमानीय निवेदितं कुमुदमुद्दिश्य दशाननान्तकनन्दनः समधत्त धनुषि धन्वी गारुत्मतमस्त्रम् । अथ परित्राणपर्याकुलः कुमुदः कुमुद्वतीं स्वसारमाभरणेन समं करकमलालङ्कारिणा विदेहनन्दिनीनन्दनस्यार्(पयामास) । अत्र सूक्तानि कानिचिदुदाह्रियन्ते । अवैमि कार्यन्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् । सोऽहं कथं नाथ तवाचरेय माराधनीयस्य धृतेर्विघातम् ॥ टीका ४.३४ ॥ कराभिघातोत्त्थितकन्दुकेय मालोक्य बालातिकुतूहलेन । ह्रदात्पतज्ज्योतिरिवान्तरिक्षा ददत्त जैत्राभरणं त्वदीयम् ॥ टीका ४.३५ ॥ तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन । भुजेन रक्षापरिघेण भूमे रुपैतु योगं पुनरंसलेन ॥ टीका ४.३६ ॥ इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् । आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते ॥ टीका ४.३७ ॥ एतेषु भुजङ्गराजवाक्येषु आद्ये "विष्णोऽरिति रूढिवक्रतया वक्तृप्रभावात्पर्यङ्कीभूय भुवनाधारेण अनन्तेन निषेव्यमाणस्य सकलाज्ञापालनसंपादने सज्जो भुजङ्गान्तरो भविष्यतीति प्रतिपाद्यते । "सऽ इति संवृतिवक्रत्वेन यः सततमेव तव वास्तव्यविषयः स एवेत्यभिव्यज्यते । कथमिति पदवक्रतया (त्वयि) भक्तिरिति विधेयतानियन्त्रितस्य मम न केनापि प्रकारेण दुश्चरितापन्नं शीलमाशङ्क्यमिति । द्वितीयेऽपि "औत्पातिकज्योतिरिवान्तरिक्षात्" इत्युपमया न कथं किसलयितदिगन्तरालतरलितमरीचिमण्डलतया यावदस्माकं अकारणकमहाभयसंशयसंपादनमपीत्यवगम्यते । तृतीयेऽपि तदेतदिति संवृतिवक्रतया यस्य त्वत्पितुरुरस्थलमिव कौस्तुभस्य भद्रजयविभूष्यताविषयः इति "रक्षापरिघेण भूमेः" इति रूपकेण निवारितनिखिलवसुन्धरादुःखस्य त्वद्वाहोरलङ्करणम्, "शुश्रूषया पादयोऽ रिति चरणशुश्रूषापवित्रेण पाणिनां संपादितपरिणयोत्सवां "यवियसीऽ मिति द्रुततरतारुण्यावतारितत्वदनुरागप्राग्भाराम् । अत एव नार्हसि नानुमन्तुमपि । तर्ह्यर्हस्यैव गत्यन्तराभावादिति प्रतीयते । "अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुद्वती" ॥ टीका ४.३८ ॥ इत्यनन्तरप्रकरणे कथोपकारोऽपि प्रकटमेव वारिविहारस्य दर्शितः । नस्मादेव च तदवसरनिदानतया निदाघवर्णनमपि अत्र अथास्य रत्नग्रथितोत्तरीय मेकान्तपाण्डुस्तनलम्बिहारम् । निश्वासहार्यांशुकमाजगाम घर्मः प्रियावेषमिवोपदेष्टुम् ॥ टीका ४.३९ ॥ इत्यादिना निबध्यमानं न कथावैचित्र्यमात्रमतिक्रामति । (अस्मिन् समस्त) प्रबन्धे प्रकरणं प्रक्रान्तसंविधानमपि (नानाप्रियकार्यतन्तुमिलितरूपकारणं प्रसक्तम् । अस्या निदर्शनान्यपि स्वयमन्यान्युदाहरणणीयानि । जलक्रीडादिकाख्यानमपि संदर्भसुन्दरम् । प्रबन्धस्य कथाप्राणपरिस्पन्दपरं सुखम् ॥ टीका ४.४० ॥ (इत्यन्तरश्लोकः) पुनरप्यस्याः प्रभेदान्तरमुद्भावयति _________________________________________________________________ यत्राङ्गिरसनिष्यन्दनिकषः कोऽपि लक्ष्यते । पूर्वोत्तरैरसंपाद्यः साङ्कादेः कापि वक्रता ॥ ४.१० ॥ "साङ्कादेः कापि वक्रता" "अङ्कादेः" = अङ्कसर्गादेः प्रकरणस्य "सा कापि" = अलौकिकी "वक्रता" = वक्रभावो भवतीति संबन्धः । "यत्राङ्गिरसनिष्यन्दनिकषः कोऽपि" लक्ष्यते" "यत्र"यस्यां अङ्गी यः "रसः" प्राणरूपः, तस्य निष्यन्दः प्रवाहः तस्य, काञ्चनस्येव निकषः परीक्षोपलवद्विषयविशेषः "कोऽपि" अभूतनिर्माणनिरुपमो लक्ष्यते (निकष) योजने (काञ्चनस्य रेखो) दयैरिव विशेषः । किं विशिष्टः "पूर्वोत्तरैरसंपाद्यः"प्रक्परवृत्तिभिरङ्काद्यैः संपादयितुमशक्यः । इदमत्र तात्पर्यम् । प्रधानरससर्वस्वक्रीडानिकेतनं तात्किमपि प्रकरणं (यत्र) प्रकटतरं च वक्रताविच्छित्तिर्विद्योतते । यदीयलावण्यातिशयं मनाङ्मात्रमपि पूर्वाण्यपराणि वा प्रकरणान्तराणि नानुकर्तुं शक्रुवन्ति । यथा विक्रमोर्वश्यामुन्मत्ताङ्कः तत्र हि प्रस्तुतरसासाधारण(विभावानुभाव) माधुर्यसंपत्त्या विप्रलम्भशृङ्गारस्याङ्गिनः स कोऽपि (सहृदयहृदया) देः रसनिष्यन्दपरिस्पन्दः परिस्तीर्यते, यः न केवलं प्रकरणान्तरे प्रबन्धान्तरेऽप्यशक्यकामनीयककणिकानुकारः । तथा च तदुपक्रम एव राजा (ससंभ्रमम्)आ दुरात्मन्, तिष्ठ तिष्ठ ! क्व नु खलु प्रियतमामादाय गच्छिसि ?(विलोक्य) कथं शैलशिखरात्गगनमुत्प्लुत्य बाणैर्मामभिवर्षति ? (विभाव्य सबाष्पम्) कथं विप्रलब्धोऽस्मि नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम् । अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ॥ टीका ४.४१ ॥ अनेनोन्मीलितोन्माददशावैशसस्य राज्ञः, कवचितः शिञ्चितकोदण्डदण्डो दर्पादापतन्नक्तञ्चरोऽपि शक्यप्रतीकारो न त्वसौ नवाम्भोद इति, नाराचनिचयोऽपि न तथा मर्माणि कृन्तति यथायमासारधारानिकर इति । किं च नभसि वा भूयः सौदामिन्याः अन्वीक्षणदृष्टनष्टायाः क्षणान्तरे दर्शनमासाद्यते, तथाविधस्थैर्यासंभावितभूमेरपि प्रियायाः तत्किमिदमिति चाभिप्रायो वाक्येन प्रतिपाद्यते । "तिष्ठेत्कोपवशादि"त्यादि, "पद्भ्याऽमिति, "तरङ्गेऽ त्यादिकं (च) प्रागुदाहृतमस्माभिरनुसन्धेयम् । यथा वा किरातार्जुनीये बाहुयुद्धप्रकरणम्तत्रापि कवचादिकायरक्षणाद्युपकरणमन्तरेणापि सहजबाहुबलावलेपप्रकाशनप्रस्तावप्राप्तिप्रमोदमानमानसस्य निरुपमनियुद्धनिर्माणनिर्मर्यादनिवेद्यमानसाहससाहाय्यस्य पाण्डुसूनोः स कोऽपि वीररसस्योत्कर्षः प्रकाशते । (तिष्ठतु तावत्सर्वमितरं सचेतसामित्यभिप्रायः) । परमेश्वरस्यापि केवलमानुषस्य बाहुबलादेवं दूरमुत्क्षिप्य वियत्यान्दोल्यमानस्य कविकल्पितचमत्कारान्तरकारणम् (स्पष्टम्) । एवमन्यदप्युदाहार्यम् । पुनरिमामेवान्यथा प्रथयति _________________________________________________________________ प्रधानवस्तुनिष्पत्त्यै वस्त्वन्तरविचित्रता । यत्रोल्लसति सोल्लेखा सापराप्यस्य वक्रता ॥ ४.११ ॥ "अपराप्यस्य" प्रकरणस्य "वक्रता" वक्रभावो भवतीति संबन्धः । "यत्रोल्लसति" = उन्मीलति । (कीदृशी) "सोल्लेखा"अभिनवोद्भेदभङ्गी । (सुभगा चासौ सुन्दरप्रतिरूपा) "वस्त्वन्तरविचित्रता" = वस्त्वन्तरमितरद्वस्तु, तस्य विचित्रता वैचित्र्यं नूतनचमत्कार इति यावत् । किमर्थं "प्रधानवस्तुनिष्पत्त्यै" । प्रधानमधिकृतं प्रकरणं कमपि वक्रिमाणमाक्रामति । यथा मुद्राराक्षसे षष्ठेऽङ्के "ततः प्रविशति रज्जुहस्तः पुरुषः" इत्यादि प्रकरणम् । तत्र हि स पुमान्निरुपमाननयकेलिकुशलकौटिल्यप्रयोज्यमानो निपुणमतिर्जोर्णोद्याने मुद्रोद्गलनसमुच्चलितविपक्षतारूक्षं राक्षसमाकृष्टकृपाणपाणिमापतन्तमपश्यन्निव स्वयमुदग्रग्रीवावलम्बिना रज्जुवलयेन व्यापादयितुम् (आत्मानं) आरेभे । राक्षसेनापि कौतुककरुणाक्रान्तमनसा भद्रमुख किमिदमिति पृष्टम् । आः किं मम महादुःखप्रशमकारणे मरणेऽन्तरायमाचरसीत्याचचक्षे । तन्निर्बन्धाच्च वध्यभूमिमानीतस्य महासत्त्व(मुकुट)मणेर्मणिकारश्रेष्ठिनश्चन्दनदासस्य प्रियसुहृदो दुःखावेगमसहिष्णुर्विष्णुदासोऽपि मत्प्रियमित्रं पुरोऽस्य पावकं प्रविष्टुमुद्यतः । ततोऽहमपि तद्वदेव शोकावेगमसहमानः प्रथममेवात्मानं व्यापादयामीत्यावेदयामास । किं बहुना, विचित्रसंभावनागहने नीतिवर्त्मनि विचक्षणंमन्यस्य राक्षसस्यापि तथा संभ्रमः सन्तापमुज्जनयांबभूवे, यथा वा सः स्वदेहदानेन चन्दनदासदेहमोचनायोपचक्रमे । अत्रापि किञ्चिदुदाह्रियते यथा छग्गुणसंजोअदिढा उवाअपरिवाडिधडिअपासमुही । चाणक्कणीतिरज्जू रिपुसंजमअज्जआ जअदि ॥ टीका ४.४२ ॥ षङ्गणसंयोगदृढा उपायपरिपाटिघचितपाशमुखी । चाणक्यनीतिरज्जू रिपुसंयमनोद्यता जयति ॥ इति छाया ॥ विशेषणवक्रताविशिष्टेन रूपकेण पुरुषस्यायमभिप्रायः प्रकाश्यते । यथा त एव गुणास्त एवाभ्युपायास्तदेव च नीतितन्त्रम्, तथापि कस्यचिदेवाविकलकौशलप्रसारिता रिपुकुलसंयमनाय संघटना अविदितविविधबन्धयुक्ता नीतिप्रयुक्ता तद्विदामपि विमोहमावहति, अत एव जयतीति । तथा च "राक्षसःभद्रमुख अस्याग्निप्रवेशे सुहृदस्ते को हेतुः ? किमौषधपथातिगैरुपहतो महाव्याधिभिः ? पुरुषःज्ज णहि णहि (आर्य न हि न हि) राक्षसःकिमग्निविषकल्पया नरपतेर्निरस्तः क्रुधा ? पुरुषःसन्तं पावं सन्तं पावं, चन्दौत्तस्स जणवदे ण णिसंसा पडिवत्ती । (शान्तं पापं, शान्तं पापम् । चन्द्रगुप्तस्य जनपदेष्वनृशंसा प्रतिपत्तिः) राक्षसःलभ्यमनुरक्तवान् कथय किं नु नारीजनम् ? पुरुषः(कर्णौ पिधाय) सन्तं पावं, अभूमि क्खु एसो अविणअस्स । (शान्तं पापम् । अभूमिः खल्वेष अविनयस्यः राक्षसः किमस्य भवतो यथा सुहृद एव नाशो विषम् ॥ टीका ४.४३ ॥ पुरुषःज्ज अह इं ? (आर्य अथ किम्)" अत्र महाव्याधिभिरिति बहुवचनवक्रत्वं, अग्निविषकल्पयेति च (विशेषणवक्रत्वं) तथाविधाराजापथ्यविधायी वध्यस्थानस्थापितोऽपि चन्दनदासः तत्कलत्रमद्यापि याचितो न समर्पयतीति व्यापाद्यत इत्यस्य वक्ष्यमाणस्य प्रधानाभिधेयस्य निमित्तमादत्ते । अस्येति सहजसौहार्दनिबर्हणनिहन्यमानस्य । "भवतो यथा" विततव्यतिकरोत्सेककारिणः सावत्महत्येच्छा । अनेनैव विविधविकल्पनेन योऽयमर्थः समुद्दीप्यमानो नवताभाजनं विभूष्यमाणः सन् प्रिकाशते । एवमन्यदपि तत एव विभाव्य व्याख्येयम् । प्रधानफलसिद्धश्चात्र "...व्यापत्तिं ज्ञातमस्य स्वतनुमहमिमां निष्क्रयं कल्पयमि" इत्युन्मीलिता ततस्तदनन्तरप्रकरणे "तस्येयं मम मृत्युलोकपदवी वध्यस्त्रगाबध्यताम्" इत्यादिना निष्पादिता । तामेव भङ्ग्यन्तरेण व्याचष्टे । _________________________________________________________________ सामाजिकजनाह्लादनिर्माणनिपुणैर्नटैः । तद्भूमिकां समास्थाय निर्वर्तितनचान्तरम् ॥ ४.१२ ॥ क्वचित्प्रकरणस्यान्तः स्मृतं प्रकरणान्तरम् । सर्वप्रबन्धसर्वस्वकल्पां पुष्णाति वक्रताम् ॥ ४.१३ ॥ "सर्वप्रबन्धसर्वस्वकल्पां पुष्णाति वक्रताम्" = सकलरूपकप्राणरूपं समुल्लासयति वक्रिमाणम् । "क्वचित्प्रकरणस्यान्तः स्मृतं प्रकरणान्तरम्" कस्मिंमश्चित्कविकौशलोन्मेषशालिनि नाटके, न सर्वत्र । एकस्य मध्यवर्त्यङ्कान्तरगर्भोकृतं गर्भो वा नामेति यावत् । किंविशिष्टं "निर्वर्तितनटान्तरं" = विभावितान्यनर्तकं । नटैः कीदृग्भिः "सामाजिकजनाह्लादनिर्माणनिपुणैः"सहृदयपरिषत्परितोषपोषणनिष्णातैः । (किं कृत्वा) "तद्भूमिकां समास्थाय" सामाजिकीभूय । इदमत्र तात्पर्यम्कुत्रचिदेव निरङ्कुशकौशलाः कुशीलवाः स्वीयभूमिकापरिग्रहेण रङ्गमलङ्कुर्वाणा नर्तकान्तरप्रयुज्यमाने प्रकृतार्थजीवित इव गर्भवर्तिन्यङ्कान्तरे तरङ्गितवक्रतामहिम्नि सामाजिकीभवन्तो विविधाभिर्भावनाभङ्गीभिः साक्षात्सामाजिकानां किमपि चित्तचमत्कारवैचित्र्यमासूत्रयन्ति । यथा बालरामायणे चतुर्थेऽङ्केलङ्केश्वरानुकारी प्रहस्तानुकारिणा नटो नटेनानुवर्तमानः कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने । नमः शृङ्गारबीजाय तस्मै कुसुमधन्वने ॥ टीका ४.४४ ॥ इत्यादिना नटान्तराभिनीयमान (विविधभावनाः भङ्गीतरङ्गितवक्रतागरिमणि गर्भाङ्के सामाजिकीभूय (सीता) सखीभिर्विभावनविक्रियाभिरभिनीयमानो मनोरथातिरिक्तमानन्दमुत्पादयति सहृदयानाम् । तत्सूक्तिसर्वस्वं च स्वयमेवोत्प्रेक्ष्य व्याख्येयम् । प्रबन्धान्तः प्रकरणवक्रताप्यस्य प्रकरणस्य तत्रैव श्रवणैः पेयमनेकैर्दृश्यं दीर्घैश्च लोचनैर्बहुभिः । भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणम् ॥ टीका ४.४५ ॥ इत्यनेन प्रकाश्यते । यथा वा उत्तररामचरिते सप्तमेऽङ्के रामभद्रा (नुकारी) लक्ष्मणासहकारिणा नर्तको नर्तकेनोपास्यमानः "(नेपथ्ये) अज्जौत्त, हा कुमार उक्खण, एआइणिं असरणं अरण्णे आसण्णपसववेअणं हदासं सावदा मं अहिलसन्ति । साहं दाणिं मन्दभाइणी भारिररिए अत्ताणं णिक्खिविस्सामि" ॥ टीका ४.४६ ॥ (हा अर्यपुत्र, हा कुमारलक्ष्मण्, एकाकिनीं मन्दभागिनीमशरणामरण्ये आसन्नप्रसववेदनां हताशांश्वापदा मामभिलषन्ति । साहमिदानीं मन्दभागिनी भागीरथ्यामात्मानं निक्षिपामि) । इत्यादिना नटान्तरेत्यादि पूर्ववत् । अपरमपि प्रकरणवक्रतायाः प्रकारमाविष्करोति _________________________________________________________________ मुखाभिसन्धिसंह्लादि संविधानकबन्धुरम् । पूर्वोत्तरादिसंगत्यादड्गानां विनिवेशनम् ॥ ४.१४ ॥ न त्वमार्गग्रहग्रस्तवर्णकाङ्गैः कदर्थितम् । वक्रतोल्लेखलावण्यमुल्लासयति नूतनम् ॥ ४.१५ ॥ "वक्रतोल्लेखलावण्यमुल्लासयति नूतनम्" = वक्रतोन्मेषकामनीयकमुन्मीलयत्यभिनवम् । "अड्गानां विनिवेशनम्"प्रकरणानां विशेषेण न्यासः । कस्मात्"पूर्वोत्तरादिसांगत्यात्"पूर्वस्य पूर्वस्योत्तरोत्तरेण यत्सांगत्यमतिशयितसंबन्धत्वमुपजीव्योपजीवकभावलक्षणं तस्मात् । किंभूतं "मुखाभिसन्धिसंह्लादि" = मुखानि च तानि अभिसन्धीनि, तैः संह्लादि सुन्दरं हृदयहारि । (पुनः कीदृशं)"संविधानकबन्धुरम्" = प्रस्तुतसंविधानरमणीयम् । इदमुक्तं भवतिप्रबन्धेषु पूर्वं पूर्वं प्रकरणं परस्य परस्य प्रकरणान्तरस्य सरससंपादितसन्धिसंबन्धसंविधानकसमर्प्यमाण(कामनीयक)ताप्राणप्रौढिप्ररूढवक्रतोल्लेखमाह्लादयति । यथा पुष्पदूषितके प्रथमं प्रकरणमतिदारुणाभिनवविप्रवासवेदनानिरानन्दस्य नन्दयन्तीमसंमान्य समागतस्य समुद्रतीरे समुद्रदत्तस्योत्कण्ठाप्रकारप्रकाशनम् । द्वितीयमपिप्रस्थानात्प्रतिनिवृत्य निशीथिन्यामुत्कोचालङ्कारदानमूकीकृतकुवलयस्य कुसुमवाटिकायामनाकलिताननस्य सहचरीसंगमनम् । तृतीयमपिसंभावितदुर्विन्यविजयदत्तनन्दिनीनिर्वासनव्यसननि बन्धनम् । चतुर्थमपिमथुराप्रतिनिवृत्तकुवलयप्रदर्श्यमानाङ्गुलीयकसमावेदितविमलशीलसंपदः कठोरतरगर्भभारखिन्नायाः स्नुषाया निष्कारणनिष्कासनादनासादिततत्प्रवृत्तेर्महापातकिनमात्मानं मन्यमानस्य सार्थवाहसागरदत्तस्य तीर्थयात्राप्रवर्तनम् । पञ्चममपिवनान्तरे वनपालपालिताया नन्दयन्त्याः कुवलयेन समुद्रदत्तकुशलोदन्तकथनम् । षष्ठमपिविचित्रसरण्या समागमाभ्युपायसंपादनमिति । एवमेतेषामनन्तोपायानां कथारसनिष्यन्दतत्पराणां परिपाटिः कामपि कामनीयकसंपदमुद्भावयति । यथा वा कुमारसंभवे पार्वत्याः प्रथमतारुण्यावतारवर्णनम्, शङ्करशुश्रूषा, दुस्तरतारकपराभवपारावारोत्तारकारणमरविन्दसूतेरुपदेशः, कुसुमाकरसुहृदः कन्दर्पस्य पुरन्दरोद्देशात्गौर्याः सौन्दर्यबलाद्विप्रहरतो हरविलोचनविचित्रभानुना भस्मीकरणं, दुःखावेशविवशाया रत्या विलापनम्, विक्षतविकलमनसो मेनात्मजायास्तपश्चरणम्, आदृतवृद्धा (चारया सह) मनसिजविषूदनसंवादनिरूपणं, चित्रशिखण्डिभिः शिखरिनाथाभ्यर्थनम्, निरर्गलानुरागप्राग्भारपरिमृष्टचेतसा (परमेश्वरेण) पाणिपीडनम्, इति प्रकरणानि पौर्वापर्यपर्यवसितसुन्दरसमावेशसंबन्धबन्धुराणि रामणीयकधारमधिरोहन्ति । एवमन्येष्वपि महाकविप्रबन्धेषु प्रकरणवैचित्र्यमेवमेव विवेचनीयम् । अस्यैव प्राधान्यमभिधातुं व्यतिरेकमाह "न त्वमार्गग्रहग्रस्तवर्णकाङ्गैः कदर्थितम्"न त्वङ्गानां विनिवेशनं वक्रतोल्लासभाग्भवति । किं भूतममार्गग्रहग्रस्तवर्णकान्तरकदर्थितम् । उत्तरोत्तरपरस्परान्वयलक्षणसंबन्धनिबन्धनमेतद्वाक्यार्थतात्पर्यमिति वाक्यविचारलक्षणस्योपयोगः, प्रमाणेन प्रत्यक्षादिनैतत्, उपपन्नमिति प्रमाणलक्षणस्योपयोगः । युक्तियुक्तत्वं नाम ग्रथनावेशकलितं भरतादिलक्षणयोजनाविलम्बितं, संध्यङ्गप्रभृतिप्रतिपादनाय कथानुपयुक्तैर्वर्णकैराकीर्णम् ॥ यथा वेणीसंहारे प्रतिमुखसन्ध्यङ्गभागिनि द्वितीयेऽङ्के भानुमत्याः स्वप्नवृत्तान्तश्रवणसमुत्पन्नदुर्विनयबुद्धेर्दुर्योधनस्य विविधविपक्षवैलक्ष्ये तादृशि समरसंमर्दे समुद्वृत्ते, शरशय्याशायिनि मन्दाकिनीनन्दने, निहन्यमानेषु च कुमारसोदरसंबन्धिसुहृत्सु, तथाविधवीरवृत्तेरभिमानिनोऽस्पन्दमवस्थितिरप्यनुचिता किं पुनर्विलासव्यापृतिः, तत्रापि वेश्यायामिव विलासः महाराजस्य महिष्यां, (वि) चारमन्तरेण तदुचितचित्तपरिचितिं विना च दुर्विनयाध्यासः सकलमिदमसमञ्जसताभाजनमुपेक्ष्यमेव । यथा शिशुपालवधे उपेन्द्रस्येन्द्रप्रस्थं प्रति प्रतिष्ठमानस्य द्वारवतीव्यावर्णनम् । औचित्यचारुवचनैरन्यैः प्रकरणैः कवेः । रत्नैरलङ्कार इव प्रबन्धः पुष्यति श्रियम् ॥ टीका ४.४७ ॥ विचित्रभङ्गीसंचारकथामूर्त्येकजीवितम् । रसायनं रसस्येव स्वानुप्रकरणं विदुः ॥ टीका ४.४८ ॥ (इत्यन्तरश्लोकौ) एवमनेकप्रकारां प्रकरणवक्रतां प्रतिपाद्य समुदायात्मकस्य प्रबन्धस्य तामभिदधाति _________________________________________________________________ इतिवृत्तान्यथावृत्तरससंपदुपेक्षया । रसान्तरेण रम्येण यत्र निर्वहणं भवेत् ॥ ४.१६ ॥ तस्या एव कथामूर्तेरामूलोवनमीलिताश्रियः । विनेयानन्दनिष्पत्त्यै सा प्रबन्धस्य वक्रता ॥ ४.१७ ॥ "सा" "प्रबन्धस्य"नाटकसर्गबन्धादेः "वक्रता"वक्रभावो भवतीति संबन्धः । "यत्र निर्वहणं भवेत्" = यस्यामुपसंहरणं स्यात् । "रसान्तरेण रम्येण" इतरेण रसेन रामणीयक (त्व) विधायिना । कया "इतिवृत्तान्यथावृत्तरससंपदुपेक्षया""इतिवृत्ते" इतिहासेऽन्यथाअपरेणप्रकारेण "वृत्ता" निर्व्यूढा या "रससंपत्" शृङ्गारादिभङ्गी "तदुपेक्षया"तदनादरेण तां परित्यज्येति यावत् । कस्याः "तस्या एव कथामूर्तेः" तस्यैव काव्यशरीरस्य । किंभूतायाः"आमूलोन्मीलितश्रियः""आमूलं" प्रारम्भातुन्मीलिता श्रीः = वाच्यवाचकरचनावैचित्र्यसंपत्यस्याः सा तथोक्ता तस्याः । किमर्थं "विनेयानन्दनिष्पत्त्यै" = प्रतिबोध्यपार्थिवादिप्रमोदसंपादनाय । अनेनेदमभिहितं भवतिइतिवृत्तान्तर्वृत्तायाः कस्याश्चिदेकस्याः कथायाः कविस्तन्निबन्धनिर्वहणगतरसपद्धतिं परित्यज्याभिजातानामाह्लादकारिणा कामनीयकेन केनाप्यन्येन रसेनोपसंहरणमुपपादयन् प्रबन्धे कमपि वक्रिमाणमादधाति । यथा वेणीसंहारे स हि कामान्तरकवलितसकलभावभावनावारितनिःसारसंसारवासनामहिमनि महाभारते शान्तरसविनासिना निबन्धनि र्(वहण)पद्धतौ पाण्डवकथायास्तथाविधाद्भुताभोगशोभिना वीरेण रणप्राङ्गणनिहताखिलारातिचक्रधाराधिष्ठितराजधर्मधर्मराजाभ्युदयसंपादितां समाप्तमुपपादयन् प्रबन्धप्ररूढप्रौढवक्रताविच्छित्त्याच्छिन्नमभिजातानामाह्लादमावहति । ते हि तथाविधव्यसनक्षेत्रीभूतैरपि पुनः स्वपक्षोपबृंहितपराक्रमपराजितपरिपन्थिभिर्भुज्यत एषा राज्यश्रीरिति अखिद्यमाना विपत्स्वपि विपुलोत्साहभाजो भवन्ती । यथा वोत्तररामचरितम्रामायणेऽप्यङ्गिना करुणेन दारुणविरहवेदनाभाजनजनकराजपुत्रीपातालप्रवेशात्, प्रबाहोदर (पतितस्य) सोदरसहितस्य रघुपतेर्निबन्धनिर्वहणविपर्यस्तकथायाः सकलदिव्यास्त्रकुशललवबलदर्शनोत्सवान्तरोपबृंहितत्वेन विदेहनन्दिनीसंभोगशृङ्गारः उपसंहरणमात्रे विच्छित्तिविशेषपोषण (पदवीं) भजनभिजातानामभिनन्दनीयो भवति । एवमन्यदपि स्वयमूह्यम् । विध्वस्तव्यसनानां यो नायकाभ्युदयावहः । प्रबन्धः प्रतिपाद्यानां प्रीतिबन्धाय जायते ॥ टीका ४.४९ ॥ (इत्यन्तरश्लोकः) रामायणमहाभारतयोश्च करुणशान्ताङ्गित्वं पूर्वसूरिभिरेव निरूपितम् । अस्याः प्रकारान्तरमप्यवतारयतिः _________________________________________________________________ त्रैलोक्याभिनवोल्लेखनायकोत्कर्षपोषिणा । इतिहासैकदेशेन प्रबन्धस्य समापनम् ॥ ४.१८ ॥ तदुत्तरकथावर्तिविरसत्वजिहासया । कुर्वोत यत्र सुकविः सा विचित्रास्य वक्रता ॥ ४.१९ ॥ "सा विचित्रा"विविधभङ्गीभ्राजिष्णुः । "अस्य"प्रबन्धस्य । "वक्रता"वक्रभावो भवतीति संबन्धः । "कुर्वोत यत्र सुकविः" "कुर्वोत"विदधीत । "यत्र"यस्यां । "सुकविः"औचित्यपद्धतिप्रभावचतुरः । "प्रबन्धस्य समापनम्" ("प्रबन्धस्य")सर्गबन्धादेः, "समापनम्"उपसंहरणं समर्थनमिति यावत् । "इतिहासैकदेशेन" इतिवृत्तस्यावयवेन । किंभूतेन "त्रैलोक्याभिनवोल्लेखनायकोत्कर्षपोषिणा" जगदसाधारणस्फुरितनेतृप्रकर्षप्रकाशकेन । किमर्थंतदुत्तरकथावर्तिविरसत्वजिहीर्षयातस्मादुत्तरा या कथा तद्वृत्ति तदन्तर्गतं यद्विरसत्वं वैरस्यमनार्जवं, तस्य "जिहासया" परिजिहीर्षया । इदमुक्तं भवतिःितिहासोदाहृतां काञ्चन महाकविः सकलां कथां प्रारभ्यापि, तदवयवेन त्रैलोक्यचमत्कारकारणनिरुपमाननायकयशः समुत्कर्षोदयदायिना तदग्रिमग्रन्थप्रसङ्गतः संभावितविरसभावभयातुपसंहारमाणः तस्य प्रबन्धस्य कामनीयकनिकेतनायमानं वक्रिमाणमादधाति । यथा किरातार्जुनीये स हि सर्गबन्धः द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः ॥ टीका ४.५० ॥ ... रिपुतिमिरमुदस्योदीयमानं दिनादौ दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥ टीका ४.५१ ॥ एते दुरापं समवाप्य वीर्यमुन्मूलितारः कपिकेतनेन ॥ टीका ४.५२ ॥ इत्यादिना दुर्योधननिधनान्तां धर्मराजाभ्युदयदायिनीं सकलामपि कथामुपक्रम्य कविना निबध्यमानत्वात्तेजस्विवृन्दारकस्य दुरोदरद्वारा दूरीकृतविभूतेः प्रभूतद्रुपदात्मजानिकारनिरतिशयोद्दीपितमन्योः कृष्णद्वैपायनोपदिष्टविद्यायोगसंपदः पाशुपतादिदिव्यास्त्रप्राप्तये तपस्यतो गाण्डीवसुहृदः पाण्डुनन्दनस्यान्तरा किरातराजसंप्रहरणात्समुन्मीलितानुपमविक्रमोल्लेखं कमप्यभिप्रायं प्रकाशयति । तथाहि यत्प्रथमम्प्राप्तपाशुपतप्रभृतिपरमास्त्रसंभारेणाप्येकाकिना (पार्थेन) पिनाकिना (सह) महाहवः, यस्मिन् भुजयोरादायान्दोल्यमानो वियति विषमलोचनोऽपि विस्मयावेशविकलतां विलक्षतां चालब्धपूर्वां लम्भितः । तस्य प्रत्यक्षीकृतत्र्यक्षस्य तत्प्रसादासादितदिव्यास्त्रसंपदो व्यापदापातरक्षणविचक्षणचक्रधरसारथेस्तथाविधरथोत्तममास्थितस्य स्थिरतरसमरसंरम्भभीमसेनाद्युपेतानीकिनीपरंपरापरिवारितस्य पुरुस्कृतशिखण्डिनः पराङ्मुखे वर्षोयस्यपि पितामहे, महादयालोः"अर्जुनस्य इमे बाणाः नेमे बाणाः स्यपि पितामहे, महादयालोः "अर्जुनस्य हमे बाणाः नेमे बाणाः शिखण्डिनः" इत्यादिनार्षेण वचसा सूचितं श्वपचादपि (नृशंसवृत्ताचारणम्) । औच्तियप्रधानपद्धतिप्रवर्धमानवीररसपरिवृढप्रबन्धनिबध्यमानमयशस्यमेवान्यथा व्यापृतस्य पृथिवीपतेः भूरिश्रवसोऽप्यधीरवर्त्मना भुजदण्डोच्छेदनम् । तद्वन्मेदिनीनिमग्नस्यन्दनाभ्युद्धरणव्यापृतस्य व्याहृतविरोधिताहवपद्धतेरप्यङ्गभर्तुरुत्तमाङ्गकर्तनम् । एवमन्यदप्यूह्यम् । सातिरेकरसोत्सेककर्मनिर्माणकर्मणः । प्रत्युहदूरीकरणात्कान्तिं पुष्णाति नायकः ॥ टीका ४.५३ ॥ इत्यन्तरश्लोकः । भूयोऽपि भेदान्तरमस्यां संभावयति _________________________________________________________________ प्रधानवस्तुसंबन्धतिरोधानविधायिना । कार्यान्तरान्तरायेण विच्छिन्नविरसा कथा ॥ ४.२० ॥ तत्रैव तस्य निष्पत्तेर्निर्निबन्धरसोज्ज्वलाम् । प्रबन्धस्यानुबध्नाति नवां कामपि वक्रताम् ॥ ४.२१ ॥ "प्रबन्धस्य"सर्गबन्धादेः, "अनुबध्नाति"द्रढयति । "नवाम्"अपूर्वोल्लेखां, "कामपि" सहृदयानुभूयमानां न पुनरभिधागोचरचमत्कारां, "वक्रतां"वक्रिमाणं । कासौ "कार्यान्तरान्तरायेण विच्छिन्नविरसा कथा" "कार्यान्तरान्तरायेण"अन्यकार्यकृतेन आधिकारिककथाप्रत्यूहेन "विच्छिन्नविरसा" विच्छिन्ना चासौ विरसा च सा, विच्छिद्यमान (रस) त्वातनावर्जनसंज्ञेत्यर्थः । किमभूतेन "प्रधानवस्तुसंबन्ध(तिरोधान) विधायिना"आधिकारिकफलसिद्धयुपायनिरोधिना । कुतः "तत्रैव तस्य निष्पत्तेः" "नत्रैव" कार्यान्तरानुष्ठाने "तस्या" धिकारिकस्य "निष्पत्तेः"संसिद्धेः । तत एव "निर्निबन्धरसोज्ज्वलाम्"निरन्तरायतरङ्गिताङ्गिरसप्राग्भारभ्राजिष्णुम् । अयमस्य परमार्थःया किलाधिकारिककथानिषेधिकार्यान्तरव्यवधानात्झगिति विघटमानालब्धावकाशापि विकाश्यमाना सा प्रस्तुतेतरव्यापारादेव प्रस्तुतवस्तुनिष्पन्नेन्दीवरसितरसनिर्भरा प्रबन्धस्य रामणीयकवक्रिमाणमादधाति । यथा शिशुपालवधे । स हि सर्गबन्धः । त्रैलोक्यरक्षाधिकारव्यापृतबाहुना वासुदेवेन देवर्षिमुखात् "तदिन्द्रसन्दिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते" ॥ टीका ४.५४ ॥ इत्यादिना पुरन्दरसंदेशं "ओमित्युक्तवतोऽथशार्ङ्गिणः ॥ टीका ४.५५ ॥ इत्यादिना तत्कालकन्दलितक्रोधानुभावभङ्ग्या निशम्याङ्गीकृतमाधिकारिकं माहिष्मतीनाथमनादृत्य, इंन्द्रप्रस्थं प्रति प्रतिष्ठास्यमानेन निमग्ननिखिलवीरस्थितिर्विषयतामनीयत । ततस्तस्मिन्नेव संश्रितसकलराजके धर्मराजस्य राजसूयमण्डपे मधुरिपोर (ग्रपूजासं) मानमसहमानेनातिदुःसहवाक्यपारुष्यावरोधपरंपराविरचनचतुरेण चेदिराजेन "कृतार्थोकृत" इत्यन्तेन च । प्रबन्धवक्रतामेव प्रिकारान्तरेण व्याचष्टे _________________________________________________________________ यत्रैकफलसंपत्तिसमुद्युक्तोऽपि नायकः । फलान्तरेष्वनन्तेषु तत्तुल्यप्रतिपत्तिषु ॥ ४.२२ ॥ धत्ते निमित्ततां स्फारयशः संभारभाजनम् । स्वमाहात्म्यचमत्कारात्सा पराप्यस्य वक्रता ॥ ४.२३ ॥ "सा परापि"अन्यापि न केवलं प्रागुक्ता, "अस्य" रूपकादेः, "वक्रता"वक्रभावो भवतीति संबन्धः । "यत्रैकफलसंपत्तिसमुद्युक्तोऽपि नायकः", "यत्र"यस्यां, "एकफलसंपत्तिसमुद्युक्तोऽपि"पराभिमतवस्तुसाधनव्यवसितोऽपि नायकः, "फलान्तरेष्वनन्तेषु" "फलान्तरेषु"साध्यरूपेषु वस्तुषु, "अनन्तेषु"गणनातीतेषु । "तत्तुल्यप्रतिपत्तिषु धत्ते निमित्तताम्" "तत्तुल्यप्रतिपत्तिषु"आधिकारिकफलसमानोपपत्तिषु, प्रस्तुतार्थसिद्धेरेवाधिगतसिद्धिष्वति (यावत्) । किंभूतः "स्फरायशःसंभारभाजनम्" "स्फारस्य" ब्रह्माण्डोदरभरित्वादतिरिक्तस्य, "यशसः"कीर्तेः यः "संभारः"समुदयः, तस्य "भाजनं" पात्रं भूमिरिति यावत् । कुतो हेतोः "स्वमाहात्म्यचमत्कारात्" "स्वमाहात्म्यं" स्वस्य प्रभावः, तस्य "चमत्कारः" आश्चर्यकारित्वं, तस्मात् । एतदुक्तं भवतिनिःसीममनोरथमलङ्करिष्णुनैकेनांशकेन फलेन संयुतोऽप्यपरिमितानि तादृशस्वरूपाणि फलान्यगम्यान्यध्यवसायादनिच्छन्नपि स्वप्रभावसंपदा संपादयन्नायकः कमपि कामनीयकनिधानकलशं प्रबन्धस्य वक्रिमाणमावहति । यथा नागानन्दे तत्र दुर्निवारवैरादपि वैनतेयान्तकादे (काकिनम्) सकलकारुणिकचूचमणिः शङ्खचूडं जीमूतवाहनो निजदेहदानादभिरक्षन्न (केवलं तं) रक्षितवानपितु सकलं तत्कुलमेव _________________________________________________________________ आस्तां वस्तुषु वैदग्धी काव्ये कामपि वक्रताम् । प्रधानसंविधानाङ्कनाम्नापि कुरुते कविः ॥ ४.२४ ॥ "आस्तां वस्तुषु वैदग्धी" "आस्ताम्"दूरत एव वर्तताम्, "वस्तुषु"अभिधेयेषु प्रकरणप्रतिपाद्येषु, "वैदग्धी"विच्छित्तिः, "काव्यं कामपि वक्रतां कुरुते कविः" ठकाव्येऽनाटके सर्गबन्धादौ च, कामपि वक्रतां "कुरुते"विदधाति । "कविःऽअद्भुतप्रतिभाप्रसारप्रकाशकः । केन"प्रधानसंविधानाङ्कनाम्नापि" "प्रधानं"प्रबन्धप्राणप्रायं, "यत्संविधानंऽकथायोजनं, "नदङ्कः" चिह्नमुपलक्षणं यस्य यत्र वा तत्तथोक्तं, तच्च तन्नाम च, तेनापि । अपिशब्दो विस्मयमुद्द्योतयति । इदमस्य रहस्यम्विचारितविचित्रवस्तुविच्छित्तेः प्रबन्धस्य वक्रताविर्भवति (इति) किमद्भुतम् । अद्भुतं पुनरिदं यत्सारतरसंविधानकनिबन्धलक्षणा (योजितसर) साक्षरेण नाम्नापि सा निवेश्यते । यथाअभिज्ञानशाकुन्तलमुद्राराक्षसप्रतिमानिरुद्धमायापुष्पककृत्यारावणछलितरामपुष्पदूषितकादीनि नामानि । एवंविधानि काव्यबन्धानां नामधेयान्यपि निरुपमोल्लेखानि (विलक्षणवक्रतासरसा) क्षराणि निवेदितान्तर्गतविशिष्टसंबन्धतया निबध्नन्त्येव वक्रिमाणम्, न पुनर्हयग्रीववधशिशुपालवधपाण्डवाभ्युदयरामानन्दरामचरितप्रायाणि सरलस्वरूपाणि । _________________________________________________________________ अप्येककक्षया बद्धाः काव्यबन्धाः कवीश्वरैः । पुष्णन्त्यनर्घामन्योन्यवैलक्षण्येन वक्रताम् ॥ ४.२५ ॥ "पुष्णन्ति"उल्लासयन्ति, "अनर्घाम्"अपरिच्छेद्याम्, "वक्रतां"वक्रभवम् । केन"अन्योन्यवैलक्षण्येन"परस्परवैसादृश्येन । के ते "काव्यबन्धाः"रूपकपुरःसराः । किंविशिष्टाः"अप्येककक्षया बद्धाः"एकेनापीतिवृत्तेन योजिताः । कैः"कवीश्वरैःऽअन्यत्र विस्तीर्णं वस्तु संक्षिपद्भिः संक्षिप्तं वा विस्तारयद्भिः, विचित्रवाच्यवाचकालङ्करणसंकलनया नवतां नयाद्भिरित्यर्थः । इदमत्र तात्पर्यमेकामेव कामपि कन्दलितकामनीयकां कथां निर्वहद्भिर्बहुभिरपि कविकुञ्जरैर्निबध्यमाना बहवः प्रबन्धा मनागप्यन्योन्यसंवादमनासादयन्तः सहृदयहृदयाह्लादकं कमपि वक्रिमाणमादधति । यथा एकस्यामेव दाशरथिकथायां रामाभ्युदयौदात्तराघववीरचरितबालरामायणकृत्यारावणमायापुष्पकप्रभृतयः । ते हि प्रबन्धप्रवरास्तेनैव कथामार्गेण निरर्गलरसासारगर्भसन्दर्भसंपदा प्रतिपदं प्रतिवाक्यं प्रतिप्रकरणं च प्रकाशमानाभिनवभङ्गीप्रायाः भ्राजिष्णवो नवोनबोन्मीलितनायकाद्भुतगुणोत्कर्षाकर्षाः हर्षातिरेकमनेकशोऽप्यास्वाद्यमानाः समुत्पादयन्ति सहृदयानाम् । एवमन्यदपि निदर्शनान्तरमुद्भावनीयम् । कथोन्मेषे समानेऽपि वपुषीव निजैर्गुणैः । प्रबन्धाः प्राणिन इव प्रभासान्ते पृथक्पृथक् ॥ टीका ४.५६ ॥ इत्यन्तरश्लोकः । भूयोऽप्यस्या भेदमुपपादयति _________________________________________________________________ महाकविप्रबन्धानां सर्वेषामस्ति वक्रता । नूतनोपायनिष्पन्ननयवर्त्मोपदेशिनाम् ॥ ४.२६ ॥ "महाकविप्रबन्धनाम्"नवनिर्माणनिपुणनिरुपमकविप्रकाण्ड (विरचितानां) "सर्वेषां" । (किंभूतानां)"नूतनोपायनिषपन्ननयवर्त्मो पदेशिनां""नूतनाः"प्रत्यग्राः, "उपायाः"सामादिप्रयोगप्रकाराः तद्विदां गोचरा ये "तैर्निष्पन्नंऽ सिद्धं यत्"नयवर्त्म" नीति (मार्गः) तदुपदिशन्ति शिक्षयन्ति ये (ते) तथोक्तास्तेषाम् । किमुक्तं भवतिसकलेष्वपि सत्कविप्रबन्धषु अभिनवभङ्गीनिवेशपेशलिन्या नीत्याः फलमुपपद्यमानं प्रतिपाद्योपदेशद्वारेण किमपि चमत्कारणमुपलभ्यत एव । यथा मुद्राराक्षसे तत्र हि प्रवरप्रज्ञाप्रभावप्रपञ्चितविचित्रनीतिव्यापाराः प्रगल्भन्त एव । यथा च तापसवत्सराजोद्देश एव व्याख्यातः । एवमन्यदप्युत्प्रेक्षणीयम् । वक्रतोल्लेखवैकल्य (मसत्काव्ये वि) लोक्यते । प्रबन्धेषु कवीन्द्राणां कीर्तिकन्देषु किं पुनः ॥ टीका ४.५७ ॥ इत्यन्तरश्लोकः । समाप्तप्रायोऽयं ग्रन्थः ।