विश्वनाथ कविराज साहित्यदर्पण प्रथमः परिच्छेदः ग्रन्थारम्भे निर्विन्घेन प्रारिप्सितपरिसमाप्तिकामो वाङ्भयाधिकृततया वाग्देवतायाः सांमुख्यमाधत्ते शरदिन्दुसुन्दररुचिश्चेतसि सा मे गिरं देवी । अपहृत्य तमः संततमर्थानखिलान्प्रकाशयतु ॥ १.१ ॥ अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्यफलान्याह चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि । काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ॥ १.२ ॥ चतुर्वर्गफलप्राप्तिहि कोव्यतो "रामादिवत्प्रवतितव्यं न रावणादिवत्" इत्यादिः कृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव । उक्तं च (भामहेन) "धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम्" ॥ इति । किञ्च काव्याद्धर्मप्राप्तिर्भगवन्नारायणचरणारविन्दस्तवादिना, "एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामधुग्भवति" इत्यादिवेदवाक्येभ्यश्च सुप्रसिद्धैव । अर्थप्राप्तिश्च प्रत्यक्षसिद्धा । कामप्राप्तिश्चार्थद्वारैव । मोक्षप्राप्तिश्चैतज्जन्यधर्मफलाननुसंधानात्, मोक्षोपयोगिवाक्ये व्युत्पत्त्याधायकत्वाच्च । चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते । परमानन्दसदोहजनकतया सुखादेव सुकुमारबुद्धीनामपि पुनः काव्यादेव । ननु तहि परिणतबुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्नः करणीय इत्यपि न वक्तव्यम् । कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधीयसी न स्यात्? किञ्च काव्यस्योपादेयत्वमग्निपुराणेऽप्युक्तम् "नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा । कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा" ॥ इति । "त्रिवर्गसाधनं नाट्यम्" इति च । विष्णुपुराणेऽपि "काव्यालापाश्च ये केचिद्रीतकान्यखिलानि च । शब्दमूतिधरस्यैते विष्णोरंशा महात्मनः" ॥ इति । तेन हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते । एतेनाभिधेयं च प्रदर्शितम् । तत्किस्वरूपं तावत्काव्यमित्यपेक्षायां कश्चिदाह "तददोषौ शब्दार्थौ सगुणावनवालंकृती पुनः क्वपि" इति । एतच्चिन्त्यम् । तथाहि यदि दोषरहितस्यैव काव्यत्वाङ्गीकारस्तदा "न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः" ॥ इति । अस्य शलोकस्य विधेयाविमर्शदोषदुष्टतया काव्यत्वं न स्यात् । प्रत्युत ध्वनि(स) त्वेनोत्तमकाव्यतास्याङ्गीकृता, तस्मादव्याप्तिर्लक्षणदोषः । ननु कश्चिदेवांशोऽत्र दुष्टो न पुनः सर्वोऽपीति चेत्, तर्हि यत्रांशे दोषः सोऽकाव्यत्वप्रयोजकः, यत्र ध्वनिः स उत्तमकाव्यत्वप्रयोजक इत्यंशाभ्यामुभयत आकृष्यमाणमिदं काव्यमकाव्यं वा किमपि न स्यात् । न च कंचिदेवांशं काव्यस्य दूषयन्तः श्रतिदुष्टादयो दोषाः, किं तर्हि सर्वमेव काव्यम् । तथाहि काव्यात्मभूतस्य रसस्यानपकर्षकत्वे तेषां दोषत्वमपि नाङ्गीक्रियते । अन्यथा नित्यदोषानित्यदोषत्वव्यवस्थापि न स्यात् । यदुक्तं धवनिकृता "श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः । ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः" ॥ इति । किञ्च एवं काव्यं प्रविरलविषयं निर्विषयं वा स्यात्, सर्वथा निर्देषस्यैकान्तमसंभवात् । नन्वीषदर्थे नञः प्रयोग इति चेत्तर्हि "ईषद्दोषौ शब्दार्थौ काव्यम्" इत्युक्ते निर्देषयोः काव्यत्वं न स्यात् । सति संभवे "ईषद्दोषौ" इति चेत्, एतदपि काव्यलक्षणो न वाच्यम् , रत्नादिलक्षणो कीटानुवेधादिपरिहारवत् । नही कीटानुवेधादयो रत्नस्य रत्नत्वं व्याहन्तुमीशाः किन्तूपादेयतारतम्यमेव कर्तुम् । तद्वदत्र श्रुतिदुष्टादयोऽपि काव्यस्य । उक्तं च "कीटानुविद्धरत्नादिसाधारण्येन काव्यता । दुष्टेष्वपि मता यत्र रसाद्यनुगमः स्फुटः" ॥ इति । किञ्च । शब्दार्थयोः सगुणत्वविशेषणमुपपन्नम् । गुणानां रसैकधर्मत्वस्य "ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः" इत्यादिना तेनैव प्रतिपादितत्वात् । रसाभिव्यञ्जकत्वेनोपचारत उपपद्यत इति चेत्? तथाप्ययुक्तम् । तथाहि तयोः काव्यस्वरूपेणाभिमतयोः शब्दार्थयो रसोऽस्ति, न वा ? नास्ति चेत्, गुणवत्त्वमपि नास्ति, गुणानां तदन्वयव्यतिरेकानुविधायित्वात् । अस्ति चेत्? कथं नोक्तं रसवन्ताविति विशेषणम् । गुणवत्त्वान्यथानुपपत्त्यैतल्लभ्यत इति चेत्? तर्हि सरसावित्येव वक्तुं युक्तम् , न सगुणाविति । नहि प्राणिमन्तो देशाइति केनाप्युच्यते । ननु "शब्दार्थौ सगुणौ" इत्यनेनगुणाभिव्यञ्जकौ शब्दार्थौ काव्ये प्रयोज्यावित्यभिप्राय इति चेत्? न, गुणाभिव्यञ्जकशब्दार्थवत्त्वस्य काव्ये उत्कषमात्राधायकत्वम् , न तु स्वरूपाधायकत्वम् । उक्तं हि "काव्यस्य शब्दार्थौ शरीरम् , रसादिश्चात्मा, गुणाः शौर्यादिवत्, दोषाः काणत्वादिवत्, रीतयोऽवयवसंस्थानविशेषवत्, अलङ्काराः कटककुण्डलादिवत्" इति । एतेन "अनलङ्कृती पुनः क्वापि" इति यदुक्तम्, तदपि परास्तम् । अस्यार्थः सर्वत्र सालङ्कारौ क्वचित्त्वस्फुटालङ्कारावपि शब्दार्थौ काव्यमिति । तत्र सालङ्कारशब्दार्थयोरपि काव्ये उत्कर्षाधायकत्वात् । एतेन "वक्रोक्तिः काव्यजीवितम्" इति वक्रोक्तिजीवितकारोक्तमपि परास्तम् । वक्रोक्तेरलङ्काररूपत्वात् । यर्च्च क्वचिदस्फुटालङ्कारत्वे उदाहृतम् यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥ इति । एतच्चिन्त्यम् । अत्र हि विभावनाविशेषोक्तमूलस्य संदेहसङ्करालङ्कारस्यस्फुटत्वम् । एतेन "अदोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् । रसान्वितं कविः कुर्वन् कीर्तिं प्रीतिं च विन्दति" ॥ इत्यादीनामपि काव्यलक्षणत्वमपास्तम् । यत्तु ध्वनिकारेणोक्तम् "काव्यस्यात्मा ध्वनिः" इति तत्किं वस्त्वलङ्काररसादिलक्षणास्तिरूपो ध्वनिः काव्यस्यात्मा, उत रसादिरूपमात्रो वा ? नाद्यः,प्रहेलिकादावतिव्याप्तेः । द्वितीयश्चेदोमिति ब्रूमः । ननु यदि रसादिरूपमात्रो ध्वनिः काव्यस्यात्मा, तदा अत्ता एत्थ णिमज्जै एत्थ अहं दिअसअं पलोएहि । मा पहिअ रत्तिअन्धिअ सेज्जाए मह णिमज्जहिसि ॥ इत्यादौ वस्तुमात्रस्य व्यङ्ग्यत्वे कथं काव्यव्यवहार इति चेत्? न,अत्रापि रसाभासवत्तैवेति ब्रूमः, अन्यथा "देवदत्तो ग्रामं याति" इति वाक्ये तद्भृत्यस्य तदनुसरणरूपव्यङ्ग्यावगतेरपि काव्यत्वं स्यात् । अस्त्विति चेत्? न, रसवत एव काव्यत्वाङ्गीकारात् । काव्यस्य प्रयोजनं हि रसास्वादसुखपिण्डदानद्वारा वेदशास्त्रविमुखानां सुकुमारमतीनां राजपुत्रादीनां विनेयानां "रामादिवत्प्रवर्तितव्यं न रावणादिवत्" इत्यादिकृकत्याकृत्यप्रवृत्तिनिवृत्त्युपदेश इति चिरन्तनैरप्युक्तत्वात् । तथा चाग्नेयपुराणोऽप्युक्तम् "वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम्" इति । व्यक्तिविवेककारेणाप्युक्तम् "काव्यस्यात्मनि अङ्गिनि, रसादिरूपे न कस्यचिद्विमतिः" इति । ध्वनिकारेणाप्युक्तम् "नहि कवेरितवृत्तमात्रनिर्वाहेणात्मपदलाभः, इतिहासादेरेव तत्सिद्धेः" इत्यादि । ननु तर्हि प्रबन्धान्तर्वर्तिनां केषांचिन्नीरसानां पद्यानां काव्यत्वं न स्यादिति चेत्? न, रसवत्पद्यान्तर्गतनीरसपदानामिव पद्यरसेन, प्रबन्धरसेनेव तेषां रसवत्ताङ्गीकारात् । यत्तु नीरसेष्वपि गुणाभिव्यञ्जकवर्णसद्भावद्दोषाभावादलङ्कारसद्भावाच्च काव्यव्यवहारः स रसादिमत्काव्यबन्धसामायाद्रौण एव । यत्तु वामनेनोक्तम् "रीतिरात्मा काव्यस्य" इति, तन्न॑ रीतेः संघटनाविशेषत्वात् । संघटनायाश्चावयवसंस्थानरूपत्वात्, आत्मनश्च तद्भिन्नत्वात् । यच्च ध्वनिकारेणोक्तम् "अर्थः सहृदयश्लाघ्यः काव्यात्मा यो व्यवस्थितः । वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ" ॥ इति । अत्र वाच्यात्मत्वं "काव्यस्यात्माध्वनिः" इति स्ववचनविरोधादेवापास्तम् । तत्किं पुनः काव्यमित्युच्यते वाक्यं रसात्मकं रसस्वरूपं निरूपयिष्यामः । रस एवात्मा साररूपतया जीवनाधायको यस्य । तेन विना तस्य काव्यत्वानङ्गीकारात् । "रस्यते इति रसः" इति व्युत्पत्तियोगाद्भावतदाभासादयोऽपि गृह्यन्ते तत्र रसो यथा शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विस्त्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण इसता बाला चिरं चुम्बिता ॥ अत्र हि संभोगश्र्टङ्गाराख्यो रसः । भावो यथा महापात्रराघवानन्दसान्धिविग्रहिकाणाम् यस्यालीयत शल्कसीम्नि जलधिः पटष्ठे जगन्मण्डलं, दंष्ट्रायां धरणी, नखे दितिसुताधीशः, पदे रोदसी । क्रोधे क्षअगणः, शरे दशमुखः, पाणौ प्रलम्बासुरो, ध्याने विश्वमसावधार्मिककुलं, कस्मैचिदस्मै नमः ॥ अत्र भगवद्विषयारतिर्भावः । रसाभासो यथा मधु द्विरेफः कुसुमैकणत्रे पपौ प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥ अत्र स्म्बोगशृङ्गारस्य तिर्यग्विषयत्वाद्रसाभासः । एवमन्यत् । दोषाः पुनः काव्ये किंस्वरूपा ? इत्युच्यन्ते दोषास्तस्यापकर्षकाः । श्रुतिदुष्टापुष्टार्थत्वादयः काणत्वखञ्जत्वादय इव, शब्दार्थद्वारेण देहद्वारेणोव, व्यभिचारिभावादेः स्वशब्दवाच्यत्वादयो मूर्खत्वादय इव, साक्षात्काव्यस्यात्मभूतं रसमपकर्षयन्तः काव्यस्यापकर्षका इत्युच्यन्ते । एषां विशेषोदाहरणानि वक्षयामःगुणादयः किस्वरूपा इत्युच्यन्ते उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः ॥ १.३ ॥ गुणाः शौर्यादिवत्, अलङ्काराः कटककुण्डलादिवत्, रीतयोऽवयवसंस्थानविशेषवत्, देहद्वारेणोव शब्दार्थद्वारेण तस्यैव काव्यस्यात्मभूतं रसमुत्कर्षयन्तः काव्यस्योत्कर्षका इत्युच्यन्ते । इह यद्यपि गुणानां रसधर्मत्वं तथापिगुणशब्दोऽत्र गुणाभिव्यञ्जकशब्दार्थयोरुपचर्यते । अतश्च "गुणाभिञ्जकाः शब्दा रसस्योत्कर्षकाः" इत्युक्तं भवतीति प्रागेवोक्तम् । एषामपि विशेषोदाहरणानि वक्षयामः । इति श्रीमन्नारायणचरणारबिन्धमधुव्रत साहत्यार्णवकर्णधारध्वनिप्रस्थापनपरमाचार्यकविसूक्तिरत्नाकराष्टादशभाषावारविलासिनीभुजङ्गसान्धिविग्रहिकमहापात्रश्रीविश्वनाथकविराजकृतौ साहित्यदर्पणो काव्यस्वरूपनिरूपणो नाम प्रथमः परिच्छेदः । ___________________________________________________ द्वितीयः परिच्छेदः वाक्यस्वरूपमाह वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः । योग्यता पदार्थानां परस्परसंबन्धे बाधाभावः । पदोच्चयस्यैतदभावेऽपि वाक्यत्वे "वह्निना सिञ्चिति" इत्याद्यपि वाक्यं स्यात् । आकाङ्क्षा प्रतीतिपर्यवसानविरहः । स च श्रोतुर्जिज्ञासारूपः । निराकाङ्क्षस्य वाक्यत्वे "गौरश्वः पुरुषो इस्ती" इत्यादीनामप वाक्यत्वं स्यात् । आसत्तिर्बुद्ध्यविच्छेदः । बुद्धिविच्छेदेऽपि वाक्यत्वे इदानीमुच्चारितस्य देवदत्तशब्दस्य दिनात्नरो च्चारितेन गच्छतीति पदेन सङ्गतिः स्यात् । अत्राकाङ्क्षायोग्यतयोरात्मार्थधर्मत्वेऽपि पदोच्चयधर्मत्वमपचारात् । वाक्योच्चयो महावाक्यम् योग्यताकाङ्क्षासत्तियुक्त इत्येव । इत्थं वाक्यं द्विधा मतम् ॥ २.१ ॥ इत्थमिति वाक्यत्वेन महावाक्यत्वेन च । उक्तं च तन्त्रवार्तिके "स्वार्थबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते" ॥ इति । तत्र वाक्यं यथा"शून्यं वासगृहम्ऽइत्यादि (२२ पृ.) । महावाक्यं यथा रामायणमहाभारतरघुवंशादि । पदोच्चयो वाक्यमित्युक्तम् । तत्र किं पदलक्षणमित्यत आह वर्णाः पदं प्रयोगार्हानन्वितेकार्थबोधकाः । यथाघट. । प्रयोगार्हेति प्रातिपदिकस्य व्यवच्छेदः । अनन्वितेति वाक्यमहावाक्ययोः । एकेति साकाङ्क्षानेकपदवाक्यानाम् । अर्थबोधका इति कचटतपेत्यादीनाम् । वर्णा इति बहुवचनमविवक्षितम् । अर्थो वाच्यश्व लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः ॥ २.२ ॥ एषां स्वरूपमाह वाच्योर्ऽथोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः । व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्त्रः शब्दस्य शक्तयः ॥ २.३ ॥ ता अभिधाद्याः । तत्र संकेतितार्थस्य बोधनादग्रिमाभिधा । उत्तमवृद्धेन मध्यमवृद्धमुद्दिश्य "गामानय" इत्युक्ते तं गवानयनप्रवृत्तमुपलभ्य बालोऽस्य वाक्यस्य "सास्नादिमत्पिण्डानयनमर्थः" इति प्रथमं प्रतिपद्यते, अनन्तरं च "गां बधान" "अश्वमानय" इत्यादावावापोद्वापाभ्यां गोशब्दस्य "सास्नादिमानर्थः" आनयनपदस्य च "आहरणमर्थः" इति संकेतमवधारयति । क्वचिच्च प्रसीद्धपदसमभिव्याहरात्, यथा "इह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति" इत्यत्र । क्वचिदाप्तोपदेशात्, यथा "अयमश्वशब्दवाच्यः" इत्यत्र । तं च सङ्केतितमर्थं बोधयन्ती शब्दस्य शक्त्यन्तरानन्तरिता शक्तिरभिधा नाम । सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च ॥ २.४ ॥ जातिर्गोपिण्डादिषु गोत्वादिका । गुणो विशेषाधानहेतुः सिद्धो वस्तुधर्मः । शुक्लादयो हि गवादिरं सजातीयेभ्यः कृष्णगवादिभ्यो व्यावर्तयन्ति । द्रव्यशब्दा एकव्यक्तिवाचिनो हरिहरडित्थडवित्थादयः । क्रियाः साध्यरूपा वस्तुधर्माः पाकादयः । एषु हि अधिश्रयणावश्रयणान्तादिपूर्वापरीभूतो व्यापारकलापः पाकादिशब्दवाच्यः । एष्वेव हि व्यक्तेरुपाधिषु संकेतो गृह्यते, न व्यक्तौः आनन्त्यव्यभिचारदोषापातात् । अथ लक्षणा मुख्यार्थबाधे तद्युक्तो ययान्योर्ऽथः प्रतीयते । रूढेः प्रयोजनाद्वासौ लक्षणा शक्तिरर्पिता ॥ २.५ ॥ "कलिङ्गः साहसिकः" इत्यादौ कलिङ्गादिशब्दो देशविशेषादिरूपे स्वार्थे । ञसंभवन् यया शब्दशक्त्या स्वसंयुक्तान् पुरुषादीन् प्रत्याययति, यया च "गङ्गायां घोषः" इत्यादौ गङ्गादिशब्दो जलमयादिरूपार्थवाचकत्वात्प्रकृतेऽसंभवन् स्वस्य सामीप्यादिसंबन्धसंबन्धिनं तटादिं बोधयति, सा शब्दस्यार्पिता स्वाभविकेतरा ईश्वरानुद्भाविता वा शक्तिर्लक्षणा नाम । पूर्वत्र हेतू रूढिः प्रसिद्धिरेव । उत्तरत्र "गङ्गातटे घोषः" इति प्रतिपादनालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनम् । हेतुं विनापि यस्य कस्यचित्संबन्धिनो लक्षणोऽतिप्रसङ्गः स्यात्, इत्युक्तम् "रूढेः प्रयोजनाद्वासौ" इति । केचित्तु "कर्मणि कुशलः" इति रूढावुदाहरन्ति । तेषामयमभिप्रायः कुशांल्लातीति व्युत्पत्तिलभ्यः कुशग्राहिरूपो मुख्योर्ऽथः प्रकृतेऽसंभवन् विवेचकत्वादिसाधर्म्यसम्बन्धसम्बन्धिनं दक्षरूपमर्थं बोधयति । तदन्ये न मन्यन्ते । कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वेऽपि दक्षरूपस्यैव मुख्यार्थत्वात् । अन्यद्धि शब्दानां व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम् । व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे "गौः शेते" इत्यत्रापि लक्षणा स्यात् । "गमेर्डेः" (उणादि२६७) इति गमधतोर्डेप्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकाले प्रयोगात् । तद्भेदानाह मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये । स्यादात्मनोऽप्युपादानादेषोपादानलक्षणा ॥ २.६ ॥ रूढावुपादानलक्षणा यथा "श्वेतो धावति" । प्रयोजने यथा "कुन्ताः प्रविशन्ति" । अनयोर्हि श्वेतादिभिः कुन्तादिभिश्चाचेतनतया केवलैर्धावनप्रवेशनक्रिययोः कर्तृतयान्वयमलभमानैरेतत्सिद्धये आत्मसम्बन्धिनोऽश्वादयः पुरुषाद यश्चाक्षिप्यन्ते । पूर्वत्र प्रयोजनाभावाद्रूढिः, उत्तरत्र तु कुन्तादीनामतिगहनत्वं प्रयोजनम् । अत्र च मुख्यार्थस्यात्मनोऽप्युपादानम् । लक्षणलक्षणायां तु परस्यैवोपलक्षणमित्यनयोर्भेदः । इयमेवाजहत्स्वार्थेत्युच्यते । अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये । उपलक्षणहेतुत्वादेषा लक्षणलक्षणा ॥ २.७ ॥ रूढिप्रयोजनयोर्लक्षणलक्षणा यथा "कलिङ्गः साहसिकः" "गङ्गायां घोषः" इति च । अनयोर्हि पुरुषतटयोर्वाक्यार्थेऽन्वयसिद्धये कलिङ्गगङ्गाशब्दावात्मानमर्पयतः । यथा वा "अपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् । विदधदीदृशमेव सदा सखे ! सुखितमास्स्व ततः शरदां शतम्" ॥ अत्रापकारादीनां वाक्यार्थेऽन्वयसिद्धये उपकृतादयः शब्दा आत्मानमर्पयन्ति । अपकारिणं प्रत्युपकारादिप्रतिपादनान्मुख्यार्थबाधो वैपरीत्यलक्षणः सम्बन्धः, फलमप्यपकारातिशयः । इयमेव जहत्स्वार्थेत्युच्यते । आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा । ताः पूर्वोक्ताश्चतुर्भेदलक्षणाः । विषयस्यानिगीर्णस्यान्यतादात्म्यप्रतीतिकृत ॥ २.८ ॥ सारोपा स्यान्निगीर्णस्य मता साध्यवसानिका । विषयिणा अनिगीर्णस्य विषयस्य तेनैव सह तादात्म्यप्रतीतिकृत्सारोपा । इयमेव रूपकालङ्कारस्य बीजम् । रूढावुपादानलक्षणा सारोपा यथा "अश्वः श्वेतो धावति" । अत्र हि श्वेतगुणवानश्वोऽनिगीर्णस्वरूपः स्वसमवेतगुणतादात्म्येन प्रतीयते । प्रयोजने यथा "एते कुन्ताः प्रविशन्ति" । अत्र सर्वनाम्ना कुन्तधारिपुरुषनिर्देशात् । रूढौ लक्षणलक्षणा सारेपा यथा "कलिङ्गः पुरुषो युध्यते" । अत्र कलिङ्ग पुरुषयोराधाराधेयभावः सम्बन्धः । प्रयोजने यथा "आयुर्घृतम्" । अत्रायुष्कारणमपि घृतं कार्यकारणभावसम्बन्धसम्बन्ध्यायुस्तादात्म्येन प्रतीयते । अन्यवैलक्षण्येनाव्यभिचारेणायुष्करत्वं प्रयोजनम् । यथा वा राजकीये पुरुषे गच्छति "राजासौ गच्छति" इति । अत्र स्वस्वामिभावलक्षणः सम्बन्धः । यथा वा अग्रमात्रेऽवयवभागे "हस्तोऽयम्" । अत्रावयवावयवि भावलक्षणसम्बन्धः । "ब्राह्मणोऽपि तक्षासौ" । अत्र तात्कर्म्यलक्षणः । इन्द्रार्थासु स्थूणासु "अमी इन्द्राः" । अत्र तादर्थ्यलक्षणः सम्बन्धः । एवमन्यत्रापि । निगीर्णस्य पुनविषयस्यान्यतादात्म्यप्रतीतिकृत्साध्यवसाना । अस्याश्चतुर्षु भेदेषु पूर्वोदाहरणान्येव । तदेवमष्टप्रकारा लक्षणा । सादृश्येतरसंबन्धाः शुद्धास्ताः सकला अपि ॥ २.९ ॥ सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः । ताः पूर्वोक्ता अष्टभेदा लक्षणाः । सादृश्येतरसंबन्धाः कार्यकारणभावादयः । अत्र शुद्धानां पूर्वोदाहरणान्येव । रूढावुपादानलक्षणा सारेपा गौणी यथा एतानि तैलानि हेमन्ते सुखानि" । अत्र तैलशब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव सार्षपादिषु स्नेहेषु वर्तते । प्रयोजने यथा राजकुमारेषु तत्सदृशेषु च गच्छत्सु"एते राजकुमारा गच्छन्ति" । रूढावुपादानलक्षणा साध्यवसाना गौणी यथा "तैलानि हेमन्ते सुखानि" । प्रयोजने यथा "राजकुमारा गच्छन्ति" रूढौ लक्षणलक्षणा सारेपा गौणी यथा "राजा गौडेन्द्रं कण्टकं शोधयति" । प्रयोजने यथा "गौर्वाहीकः" रूढौ लक्षणलक्षणा साध्यवसाना गौणी यथा "राजा कण्टकं शोधयति" । प्रयोजने यथागौर्जल्पति" । अत्र केचिदाहुःगौसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यन्ते । ते च गोशब्दस्य वाहीकार्थाभिधाने निमित्तीभवन्ति । तदयुक्तम् गोशब्दस्यागृहीतसङ्केतं वाहीकार्थमभिधातुमशक्यत्वाद्गोशब्दार्थमात्रबोधनाच्च । अभिधाया विरतत्वाद्विरतायाश्च पुनरुत्थानाभावात् । अन्ये च पुनर्गौशब्देन वाहीकार्थो नाभिधीयते, किन्तु स्वार्थसहचारिगुणसाजात्येन वाहीकार्थगता गुणा एव लक्ष्यन्ते । तदप्यन्ये न मन्यन्ते । तथाहि अत्र गोशब्दाद्वाहीकार्थः प्रतीयते, न वा ? आद्ये गोशब्दादेव वा ? लक्षिताद्वा गुणाद्? अविनाभावाद्वा ? तत्र, न प्रथमः, वाहीकार्थेऽस्यासङ्केतित्वात् । न द्वितीयः, अविनाभावलभ्यस्यार्थस्य शाब्देऽन्वये प्रवेशासंभवात् । शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते । न द्वितीयः, यदि हि गोशब्दाद्वाहीकार्थो न प्रतीयते, तदास्य वाहीकशब्दस्य च सामानाधिकरण्यमसमञ्जसं स्यात् । तस्मादत्र गोशब्दो मुख्ययावृत्त्या वाहीकशब्देन सहान्वयमलभमानोऽज्ञत्वादिसाधर्म्यसंबन्धाद्वाहीकार्थं लक्षयति । वाहीकस्याज्ञत्वाद्यतिशयबोधनं प्रयोजनम् । इयं च गुणयोगाद्रौणीत्युच्यते । पूर्वा तूपचारामिश्रणाच्छुद्धा । उपचारो हि नामात्यन्तं विशकलितयोः शब्दयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रम् । यथाअग्रिमाणवकयोः" । शुक्लपटयोस्तु नात्यन्तं भेदप्रतीतिः, तस्मादेवमादिषु शुद्धैव लक्षणा । व्यङ्ग्यस्य गूढागूढत्वाद्द्विधा स्युः फललक्षणाः ॥ २.१० ॥ प्रयोजने या अष्टभेदा लक्षणा दशितास्ताः प्रयोजनरूपव्यङ्ग्यस्य गूढागूढतया प्रत्येकं द्विधा भूत्वा षोढश भेदाः । तत्र गूढः, काव्यार्थभावनापरिपक्वबुद्धिविभवमात्रवेद्यः । यथा "उपकृतं बहु तत्र" इति । अगूढः, अतिस्फुटतया सर्वजनसंवेद्यः । यथा उपदिशतिं कामिनीनां यौवनमद एव ललितानि" ॥ अत्र"उपदिशति" इत्यनेन "आविष्करोति" इति लक्ष्यते । आविष्कारतिशयश्चाभिधेयवत्स्फुट प्रतीयते । धर्मिधर्मगतत्वेन फलस्यैता अपि द्विधा । एता अनन्तरोक्ताः षोडशभेदा लक्षणाः फलस्य धर्मिगतत्वेन धर्मगतत्वेन च प्रत्येकं द्विधा भूत्वा द्वात्रिंशद्भेदाः । दिङ्भात्रं यथा "स्त्रिग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव" ॥ अत्रात्यन्तदुःखसहिष्णुरूपे रामे धर्मिणि लक्ष्ये तस्यैवातिशयः फलम् । "गङ्गायां घोषः" इत्यत्र तटे शीतत्वपावनत्वरूपधर्मस्यातिशयः फलम् । तदेवं लक्षणाभेदाश्चत्वारिंशन्मता बुधैः ॥ २.११ ॥ रूढावष्टौ फले द्वात्रिंशदिति चत्वारिशल्लक्षणाभेदाः । किञ्च पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा । ता अनन्तरोक्ताश्च त्वारिंशद्भेदाः । तत्र पदगतत्वे यथा "गङ्गायां घोषः" । वाक्यगतत्वे यथा "उपकृतं बहु तत्रऽइति । एवमशीतिप्रकारा लक्षणा । अथ व्यञ्जना विरतास्वभिधाद्यासु ययार्ऽथो बोध्यते परः ॥ २.१२ ॥ सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च । "शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः" इति नयेनाभिधालक्षणातात्पर्याख्यासु तिसृषु वृत्तिषु स्वं स्वमर्थं बोधयित्वोपक्षीणासु यथा अपरोऽन्योऽन्योर्ऽथो बोध्यते सा शब्दस्यार्थस्य प्रकृतिप्रत्ययादेश्च शक्तिर्व्यञ्जनध्वननगमनप्रत्यायनादिव्यपदेशविषया व्यञ्जना नाम । तत्र अभिधालक्षणामूला शब्दस्य व्यञ्जना द्विधा ॥ २.१३ ॥ अभिधामूलामाह अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते । एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया ॥ २.१४ ॥ आदिशब्दाद्विप्रयोगादयः । उक्तं हि "संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकारणं लिङ्गंशब्दस्यान्यस्य संनिधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः" ॥ इति । "सशङ्ख्चक्रो हरिः" इति शङ्ख्चक्रयोगेन हरिशब्दो विष्णुमेवाभिधत्ते । "अशङ्खचक्रो हरिः" इति तद्वियोगेन तमेव । "भीमार्जुनौ" इति अर्जुनः पार्थः । "कर्णार्जुनौ" इति कर्णः सूतपुत्रः । "स्थाणुं वन्दे" इति स्थाणुः शिवः । "सर्वं जानाति देवः" इति देवो भवान् । "कुपितो मकरध्वजः" इति मकरध्वजः कामः । "देवः पुरारिः" इति पुरारिः शिवः । "मधुना मत्तः पिकः" इति मधुर्वसन्तः । "यातु वो दयितामुखम्" इति मुखं सांमुख्यम् । "विभाति गगने चन्द्रः, इति चन्द्रः शशी । "निशि चित्रभानुः" इति चित्रभानुर्वाह्निः । "भाति रथाङ्गम्" रथाङ्गम्" इति नपुंसकव्यक्त्या रथाङ्गं चक्रम् । स्वरस्तु वेद एव विशेषप्रतीतिकृन्न काव्य इति तस्य विषयो नोदाहृतः । इदं च केऽप्यसहमाना आहुः स्वरोऽपि काक्कादिरूपः काव्ये विशेषप्रतीतिकृदेव । उदात्तादिरूपोऽपि मुनेः पाठोक्तदिशा शृङ्गारादिरसविशेषप्रतीतिकृदेव" इति एतद्विषये उदाहरणमुचितमेव इति, तन्न॑ तथाहि स्वराः काक्कादयः उदात्तादयो वा व्यङ्ग्यरूपमेव विशेषं प्रत्यायन्ति, न खलु प्रकृतोक्तमनेकार्थशब्दस्यैकार्थनियन्त्रणरूपं विशेषम् । किञ्च यदि यत्र क्वचिदनेकार्थशब्दानां प्रकरणादिनियमाभावादनियन्त्रितयोरप्यर्थयोरनुरूपस्वरवशेनैकत्र नियमनं वाच्यं, तदा तथाविधस्थले श्लेषानङ्गीकारप्रसङ्गः॑ न च तथा, अत एवाहुः श्लेषनिरूपणप्रस्तावे "काव्यमार्गे स्वरो न गण्यते" इतिच नयः, इत्यलमुपजीव्यानं मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण । आदिशब्दात्"एतावन्मात्रस्तनी" इत्यादौ हस्तादिचेष्टादिभिः स्तनादीनां कमलकोरकाद्याकारत्वम् । एवमेकस्मिन्नर्थेऽभिधया नियन्त्रिते या शब्दार्थस्यान्यार्थबुद्धिहेतुः शक्तिः साभिधामूला व्यञ्जना । यथा मम तातपादान महापात्रचतुर्दशभाषाविलासिनीभुजङ्गमहाकवीश्वरश्रीचन्द्रशेखरसंधिविग्रहिकाणाम् "दुर्गालङ्घितविग्रहो मनसिजं संमीलयंस्तेजसा प्रोद्यद्राजकलो गृहीतगरिमा विष्वग्वृतो भोगिभिः । नक्षत्रेशकृ तेक्षणो गिरिगुरौ गाढां रुचिं धारयन् गामाक्रम्य विभूतिभूषिततनू राजत्युमावल्लभः" ॥ अत्र प्रकरणोनाभिधया उमावल्लभशब्दस्योमानाम्नीमहादेवीवल्लभभानुदेवनृपतिरूपेर्ऽथे नियन्त्रिते व्यञ्जनयैव गौरीवल्लभरूपोर्ऽथो बोध्यते । एवमन्यत् । लक्षणामूलामाह लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम् । यया प्रत्याय्यते सा स्याद्व्यञ्जना लक्षणाश्रया ॥ २.१५ ॥ "गङ्गायां घोषः" इत्यादौ जलमयाद्यर्थबोधनादभिधायां तटाद्यर्थबोधनाच्च लक्षणायां विरतायां यया शीतत्वपावनत्वाद्यतिशयादिर्बोध्यते सा लक्षणामूला व्यञ्जना । एवं शब्दीं व्यञ्जनामु कत्वार्थोमाह वक्तृबोद्धव्यवाक्यानामन्यसंनिधिवाच्ययोः । प्रस्तावदेशकालानां काकोश्चेष्टादिकस्य च ॥ २.१६ ॥ व्यञ्जनेति सम्बध्यते । तत्र वक्तृवाक्यप्रस्तावदेशकालवैशिष्ट्ये यथा मम "कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः । केलीवनीयमपि वञ्जुलकुञ्जमञ्जुर्दूरे पतिः कथय किं करणीयमद्य" ॥ अत्रैतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखीं प्रति कयाचिद्व्यज्यते । बोद्धव्यवैशिष्ट्ये यथा "निः शेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि ! दूति ! बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिक्म्" ॥ अत्र तदन्तिकमेव रन्तुं गतासीति विपरीतलक्षणया लक्ष्यम् । तस्य च रन्तुमिति व्यङ्ग्यं प्रतिपाद्यं दूतीवैशिष्ट्याद्बोध्यते । अन्यसंनिधिवैशिष्ट्ये यथा "उअ णिच्चल णिप्पन्दा, भिसिणीपत्तम्मि रेहै बलाआ । णिम्मलमरगअभाअणपरिट्ठिआ (दा) सङ्खसुत्ति व्व" ॥ अत्र बलाकाया निस्पन्दत्वेन विश्वस्तत्वम्, तेनास्य देशस्य विजनत्वम्, अतः संकेतस्थानमेतदिति कयापि संनिहितं प्रच्छन्नकामुकं प्रत्युच्यते । अत्रैव स्थाननिर्जनत्वरूपं व्यङ्ग्यार्थवैशिष्ट्यं प्रयोजनम् । भिन्नकण्ठध्वनिर्धोरैः काकुरित्यभिधीयते । इत्युक्तप्रकारायाः काकोर्भेदा आकरेभ्यो ज्ञातव्याः । एतद्वैशिष्ट्ये यथा "गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् । अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमयेऽसौ" ॥ अत्र नैष्यति, अपि तर्हि एष्यत्येवेति काक्का व्यज्यते चेष्टावैशिष्ट्ये यथा "संकेतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकूतं लीलापङ्मं निमीलितम्" ॥ अत्र संध्या संकेतकाल इति पङ्मनिमीलनादिचेष्टया कयाचिद्द्योत्यते । एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् । त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥ २.१७ ॥ "अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः । तत्र वाच्यार्थस्य व्यञ्जना यथा"कालो मधुः" इत्यादि । लक्ष्यार्थस्य यथा"निः शेषच्युतचन्दनम्ऽइत्यादि । व्यङ्ग्यार्थस्य यथा"उअ णिच्चल" इत्यादि । प्रकृतिप्रत्ययादिव्यञ्जकत्वं तु प्रपञ्चयिष्यते । शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः । एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥ २.१८ ॥ यतः शब्दो व्यञ्जकत्वेऽप्यर्थान्तरमपेक्षते, अर्थोऽपि शब्दम्, तदेकस्य व्यञ्जकत्वेऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या । अभिधादित्रयोपाधिवैशिष्ट्यात्र्त्रिविधो मतः । शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥ २.१९ ॥ अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यञ्जनोपाधिको व्ययञ्जकः । किञ्च तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने । तात्पर्यार्थं तदर्थं च वाक्यं तद्वोधकं परे ॥ २.२० ॥ अभिधाया एकैकपदार्थबोधनविरामाद्वाक्यार्थरूपस्य पदार्थान्वयस्य बोधिका तात्पय नाम वृत्तिः । तदर्थश्च तात्पर्यार्थः । तद्वोधकं च वाक्यमित्यभिहितान्वयवादिनां मतम् । इहि साहित्यार्पणो वाक्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः । ___________________________________________________ तृतीयः परिच्छेदः अथ कोऽयं रस इत्युच्यते विभावेनानुभावेन व्यक्तः संचारिणा तथा । रसतामेति रत्यादिः स्थायीभावः सचेतसाम् ॥ ३.१ ॥ विभावादयो वक्ष्यन्ते । सात्त्विकाश्चानुभावरूपत्वात्न पृथगुक्ताः, व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतो व्यक्तीकृत एव रसो न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते । तदुक्तं लोचनकारैः "रसाः प्रतीयन्त इति त्वोदनं पचतीतिवद्व्यवहारः" इति । अत्र च रत्यादिपदोपादानादेव प्राप्ते सथायित्वे पुनः स्थायिपदोपादानं रत्यादीनामपि रसान्तरष्वस्थायित्वप्रतिपादनार्थम् । ततश्च हासक्रोधादयः शृङ्गारवीरादौ व्यभिचारिण एव । तदुक्तम् "रसावस्थः परम्भावः स्थायितां प्रतिपद्यते" इति । अस्य स्वरूपकथनगर्भ आस्वादनप्रकारः कथ्यते सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः । वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ॥ ३.२ ॥ लोकोत्तरचकत्कारप्राणः कैश्चित्प्रमातृभिः । स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः ॥ ३.३ ॥ "रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते" इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् । तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः । अत्र च हेतुस्तथाविधालौकिकाव्यार्थपरिशीलनम् । अखण्ड इत्येक एवायं विभावादिरत्यादिप्रकाशसुखचमत्कारात्मकः अत्र हेतुं वक्ष्यामः । स्वप्रकाशत्वाद्यपि वक्ष्यमाणपरीत्या । चिन्मय इति स्वरूपार्थे मयट् । चमत्कारशिचत्तविस्ताररूपो विस्मयापरपर्य्यायः । तत्प्राणत्वञ्चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नारायणपादैरुक्तम् । तदाह धर्मदत्तः स्वग्रन्थे रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते । तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः । तस्मादद्भुतमेवाह कृती नारायणो रसम्" ॥ इति । कैश्चिदिति प्राक्तनपुण्यशालिभिः । यदुक्तम् "पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम्" । इति । यद्यपि "स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः" इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वमुक्तम्, तथापि "रसः स्वाद्यते" इति काल्पनिकं भेदमुररी कृत्य कर्मकर्त्तरि वा प्रयोगः । तदुक्तम्"रस्यमानतामात्रसारत्वात्प्रकाशशरीरादनन्य एव हि रसः" इति । एकमन्यत्राप्येवंविधस्थलेषूपचारण प्रयोगो ज्ञेयः । नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवतीति व्यञ्जनायाश्च ज्ञानविशेषत्वाद्द्वयोरैक्यमापतितम् । ततश्च "स्वज्ञानेनान्यधीहेतुः सिद्धेर्ऽथे व्यञ्जको मतः । यथा दीपोऽन्यथाभावे को विशेषोऽस्य कारकात्" ॥ इत्युक्तदिशा घटप्रदीपवद्व्यङ्ग्यव्यञ्जकयोः पार्थक्यमेवेति कथं रसस्य व्यङ्ग्यतेति चेत्, सत्यमुक्तम् । अत एवाहुः "विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः स्वादनाख्यः कश्चिद्व्यापारः । अत एव हि रसनास्वादनचमत्करणादयो विलक्षणा एव व्यपदेशाः" इति । अभिधादिविलक्षणव्यापारमात्रप्रसाधनग्रहिलैरस्माभी रसादीनां व्यङ्ग्यत्वमुक्तं भवतीति । ननु तर्हि करुणादीनां रसानां दुः खयत्वाद्रसत्वं (तदुन्मुखत्वं ) न स्यादत्युच्यते करुणादावपि रसे जायते यत्परं सुखम् । सचेतसामनुभवः प्रमाणं तत्र केवलम् ॥ ३.४ ॥ आदिशब्दाद्बीभत्सभयानकादयः । तथाप्यसहृदयानां मुखमुद्रणाय पक्षान्तरमुच्यते किञ्च तेषु यदा दुःखं न कोऽपि स्यात्तदुन्मुखः । नहि कश्चत्सचेता आत्मनो दुःखाय प्रवर्त्तते । करूणादिषु च सकलस्यापि साभिनिवेशप्रवृत्तिदर्शनात्सुखमयत्वमेव । अनुपपत्त्यन्तरमाह तथा रामायणादीनां भविता दुःखहेतुता ॥ ३.५ ॥ करुणरसस्य दुः खहेतुत्वे करुणरसप्रधानरामायणादिप्रबन्धानामपि दुःखहेतुताप्रसङ्गः स्यात् । ननु कथं दुःखकारणोभ्यः सुखोत्पत्तिरित्याह हेतुत्वं शोकहर्षादेर्गतेभ्यो लोकसंश्रयात् । शोकहर्षादयो लोके जायन्तां नाम लौकिकाः ॥ ३.६ ॥ अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात् । सुखं सञ्जायते तेभ्यः सर्वेभ्योऽपीति का क्षतिः ॥ ३.७ ॥ ये खलु रामवनवासादयो लोके "दुःखारणानि" इत्युच्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभावनव्यापारवत्तया कारणशब्दवाच्यतां विहाय अलौकिकविभावशब्दवाच्यत्वं भजन्ते । तेभ्यश्च सुरते दन्तधातादिभ्य इव सुखमेव जायते । अतश्च "लौकिकशोकहर्षादिकारणोभ्यो लौकिकशोकहर्षादयो जायन्ते" इति लोक एव प्रतिनियमः । काव्ये पुन) "सर्वेभ्योऽपि विभावादिभ्यः सुखमेव जायते" इति नियमान्न कश्चिद्दोषः । कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययोरपि दर्शनश्रवणाभ्यामश्रुपाता दयो जायन्त इत्युच्यते अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः । तर्हि कथं काव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्यत आह न जायते तदास्वादो विना रत्यादिवासनाम् ॥ ३.८ ॥ वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः, तत्र यद्याद्या न स्यात्तदा श्रोत्रियजरन्मीमांसकादीनामपि स स्यात् । यदि द्वितीया न स्यात्तदा यद्रगिणा मपि केषाञ्चिद्रसोद्वोधो न दृश्यते तन्न स्यात् । उक्तञ्च धर्म्मदत्तेन "सवासनानां सभ्यानां रसस्यास्वादनं भवेत् । निर्वासनास्तु रङ्गान्तः काष्ठकुड्याश्मसन्निभाः" ॥ इति । ननु कथं रामादिरत्याद्युद्वोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्वोधैत्युच्यते व्यापारोऽस्ति विभावादेर्नाम्ना साधारणीकृतिः । तत्प्रभावेण यस्यासन् पाथोधिप्लवनादयः ॥ ३.९ ॥ प्रमाता तदभेदेन स्वात्मानं प्रतिपद्यते । ननु कथं मनुष्यमात्रस्य समुद्रलङ्घनादावुत्साहोद्वोध इत्युच्यते उत्साहादिसमुद्वोधः साधारण्याभिमानतः ॥ ३.१० ॥ नृणामपि समुद्रादिलङ्घनादौ न दुष्यति । रत्यादयोऽपि साधारण्येनैव प्रतीयान्त इत्याह साधारण्येन रत्यादिरपि तद्वत्प्रतीयते ॥ ३.११ ॥ रत्यादेरपि स्वात्मगतत्वेन प्रतीतौ सभ्यानां ब्रीडातङ्कादिर्भवेत् । परगतत्वेन त्वरस्यतापातः । विभावादयोऽपि प्रथमतः साधारण्येन प्रतीयन्त इत्याह परस्य न परस्येति ममेति न ममेति च । तदास्वादे विभावादेः परिच्छेदो न विद्यते ॥ ३.१२ ॥ ननु तथापि कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते विभावनादिव्यापारमलौकिकमुपेयुषाम् । अलौकिकत्वमेतेषां भूषणं न तु दूषणम् ॥ ३.१३ ॥ आदिशब्दादनुभावसञ्चारणो । तत्र विभावनं रत्यादेविशेषणास्वादाङ्कुरणयौग्यतानयनम् । अनुभावनमेवम्यूतस्य रत्यादेः समनन्तरमेव रसादिरूपतया भावनम् । सञ्चारणं तथाभूतस्यैव तस्य सम्यक्चारणम् । विभावादीनां यथासङ्ख्यं कारणकार्य्यसहकारित्वे कथं त्रयाणामपि रसोद्बोधे कारणत्वमित्युच्यते कारणकार्यसञ्चारिरूपा अपि हि लोकतः । रसोद्वोधे विभावाद्याः कारणान्येव ते मताः ॥ ३.१४ ॥ ननु तर्हि कथं रसास्वादे तेषामेकः प्रतिभास इत्युच्यते प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते । ततः सम्बलितः सर्वो विभावादिः सचेतसाम् ॥ ३.१५ ॥ प्रपाणकरसन्यायाच्चर्व्यमाणो रसो भवेत् । यथा खण्डमरिचादीनां सम्मेलनादपूर्व्व इव कश्चिदास्वादः प्रपाणकरसे सञ्जायते विभावादिसम्मेलनादिहापि तथेत्यर्थः । ननु यदि विभावानुभावव्यभिचारिभिर्म्मिलितैरेव रसस्तत्कथं तेषामेकस्य द्वयोर्वा सद्भावेऽपि स स्यादित्युच्यते सद्भावश्चेद्विभावादेर्द्वयोरेकस्य वा भवेत् ॥ ३.१६ ॥ भ्क्तटित्यन्यसमाक्षेपे तदा दोषो न विद्यते । अन्यसमाक्षेपश्च प्रकरणादिवशात् । यथा "दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः सङ्क्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव । मध्यः पाणिमितो नितम्बि जघनं पादावुदग्राङ्गुली धन्दो नर्त्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः" ॥ अत्र मालविकामभिलषतोऽग्निमित्रस्य मालविकारूपविभावमात्रवर्णनेऽपि सञ्चारिणामौत्सुक्यादीनामनुभावानाञ्च नयनविस्फारादीनामौचित्यादेवाक्षेपः । एकमन्याक्षेपेऽप्यूह्यम् । "अनुकार्य्यगतो रसः" इति वदतः प्रत्याह पारिमित्याल्लौकिकत्वात्सान्तरायतया तथा ॥ ३.१७ ॥ अनुकार्य्यस्य रत्यादेरुद्बोधो न रसो भवेत् ॥ सीतादिदर्शनादिजो रामादिरत्याद्युद्बोधो हि परिमितो लौकिको नाट्यकाव्यदर्शनादेः सान्तरायश्च, तस्मात्कथं रसरूपतामियात् । (क) रसस्यैतद्धर्म्मत्रितयविलक्षणधर्म्मकत्वात् । अनुकर्त्तृगतत्वञ्चास्य निरस्यति शिक्षाभ्यासादिमात्रेण राघवादेः स्वरूपताम् ॥ ३.१८ ॥ दर्शयन्नर्त्तको नैव रसस्यास्वादको भवेत् । किञ्च काव्यार्थभावनेनायमपि सभ्यपदास्पदम् ॥ ३.१९ ॥ यदि पुनर्नटोऽपि काव्यार्थभावनया रामादिस्वरूपतामात्मनो दर्शयेत्तदा सोऽपि सभ्यमध्य एव गण्यते । नायं ज्ञाप्यः स्वसत्तायां प्रतीत्यव्यभिचारतः । यो हि ज्ञाप्यो घटादिः सन्नपि कदाचिदज्ञातो भवति, न ह्ययं तथा॑ प्रतीतिमन्तरेणाभावात् । यस्मादेष विभावादिसमूहालम्बनात्मकः ॥ ३.२० ॥ तस्मान्न कार्यः यदि रसः कार्यः स्यात्तदा विभावादिज्ञानकारणक एव स्यात् । ततश्च रसप्रतीतिकाले विभावादयो न प्रतीयेरन्, कारणज्ञानतकार्य्यज्ञानयोर्युगपददर्शनात् । नहि चन्दनस्पर्शज्ञानं तज्जन्यसुखज्ञानञ्चैकदा सम्भवति । रसस्य च विभावादिसमूहालम्बनात्मकतयैव प्रतीतेर्न विभावादिज्ञानकारणत्वमित्यभिप्रायः । नो नित्यः पूर्वसंवेदनोज्झितः । असंवेदनकाले हि न भावोऽष्यस्य विद्यते (क) ॥ ३.२१ ॥ न खलु नित्यस्य वस्तुनोऽसंवेदनकालेऽसम्भवः । नापि भविप्यन् साक्षादानन्दमयस्वप्रकाशरूपत्वात् । कार्यक्षाप्यविलक्षणभावान्नो वर्त्तमानोऽपि ॥ ३.२२ ॥ विभावादिपरामर्शविषयत्वात्सचेतसाम् । परानन्दमयत्वेन संवेद्यत्वादपि स्फुटम् ॥ ३.२३ ॥ न निर्विकल्पकं ज्ञानं तस्य ग्राहकमिष्यते । तथाभिलापसंसर्गयोग्यत्वविरहान्न च ॥ ३.२४ ॥ सविकल्पकंसंवेद्यः सविकल्पकज्ञानसंवेद्यानां हि वचनप्रयोगयोग्यता, न तु रसस्य तथा । साक्षात्कारतया न च । परोक्षस्तत्प्रकाशो नापरोक्षः शब्दसंभवात ॥ ३.२५ ॥ तत्कथय कीदृगस्य तत्त्वमश्रुतादृष्टपूर्वनिरुपणप्रकारस्येत्याह तस्मादलौकिकः सत्यं वेद्यः सहृदयैरयम् । तत्किं पुनः प्रमाणं तस्य सद्भाव इत्याह प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतम् ॥ ३.२६ ॥ चर्वणा आस्वादनम् । तच्च "स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः" इत्युक्तप्रकारम् । ननु यदि रसो न कार्यस्तत्कथं महषिणा(क) विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः" इति लक्षणं कृतमित्युच्यते निष्पत्त्या चर्वणस्यास्य निष्पत्तिरुपचारतः । यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वं तथापि तस्य कादाचित्कतया उपचरितेन कार्यत्वेन कार्यत्वमुपचर्यते । अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जनरूपणे ॥ ३.२७ ॥ तस्य रसस्य । आदिशब्दादलक्ष्यत्वादि । ननु यदि मिलिता रत्यादयो रसास्तत्कथमस्य स्वप्रकाशत्वं कथं वाखण्डत्वमित्याह रत्यादिज्ञानतादात्म्यादेव यस्माद्रसो भवेत् । अतोऽस्य स्वप्रकाशत्वमखण्डत्वं च सिध्यति ॥ ३.२८ ॥ यदि रत्यादिकं प्रकाशशरीरादतिरिक्तं स्यात्तदैवास्य स्वप्रकाशत्वं न सिध्यते, न च तथा, तादात्म्याङ्गीकारात् । यदुक्तम् "यद्यपि रसानन्यतया चर्वणापि न कार्या तथापि कादाचित्कतया कार्यत्वमुपकल्प्य तदेकात्मन्यनादिवासनापरिणतिरूपे रत्यादिभावेऽपि व्यवहार इति भावः" इति । "सुखादितादात्म्याड्गीकारे चास्माकी सिद्धान्तशय्यामधिशय्य दिव्यं वर्षसहस्त्रं प्रमोदनिद्रामुपेयाः" इति च । "अभिन्नोऽपि स प्रमात्रा वासनोपनीतरत्यादितादात्म्येन गोचरीकृतः" इति च । ज्ञानस्य स्वप्रकाशत्वमनङ्गीकुर्वतामुपरि वेदान्तिभिरेव पातनीयो दण्डः । तादात्म्यादेवास्याखण्डत्वम् । रत्यादयो हि प्रथममेकैकशः प्रतीयमानाः सर्वेऽप्येकीभूताः स्फुरन्त एव रसतामापद्यन्ते । तदुक्तम् "विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः । प्रतीयमानाः प्रथमं खण्डशो यान्त्यखण्डताम्" ॥ इति । "परमार्थतस्त्वखण्ड एवायं वेदान्तप्रसिद्धब्रह्मतत्त्ववद्वेदितव्यः" इति च । अथं के ते विभावानुभावव्यभिचारिण इत्यपेक्षायां विभावमाह रत्याद्युद्वोधका लोके विभावाः काव्यनाट्ययोः । ये हि लोके रामादिगतरतिहासादीनामुद्वोधकारणानि सीतादयस्त एव काव्ये नाट्ये च निवेशिताः सन्तः "विभाव्यन्ते आस्वादाङ्कुरप्रादुर्भावयोग्याः क्रियन्ते सामाजिकरत्यादिभावा एभिः" इति विभावा उच्यन्ते । तदुक्तं भर्त्तृहरिणा "शब्दोपहितरूपांस्तान् बुद्धेर्विषयतां गतान् । प्रत्यक्षानिव कंसादीन् साधनत्वेन मन्यते" ॥ इति । तद्भेदावाह आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ । स्पष्टम् । तत्र आलम्बनं नायकादिस्तमालम्ब्य रसोद्रमात् ॥ ३.२९ ॥ आदिशब्दान्नायिकाप्रतिनायिकादयः । अथ यस्य रसस्य यो विभावः स तत्स्वरूपवर्णने वक्ष्यते । तत्र नायकः त्यागी कृती कुलीनः सुश्रीको रूपयोवनोत्साही । दक्षोऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवान्नेता ॥ ३.३० ॥ दक्षः क्षिप्रकारी । शीलं सद्वृतम् । एवमादिगुणसम्पन्नो नेता नायको भवति । तद्भेदानाह धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च । धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ॥ ३.३१ ॥ स्पष्टम् । तत्र धीरोदात्तः अविकत्थनः क्षमावानतिगम्भीरो माहसत्त्वः । स्थेयान्नगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥ ३.३२ ॥ अविकत्थनोऽनात्मश्लाघाकरः । महासत्त्वो हर्षशोकाद्यनभिभूतस्वभावः । निगूढमानो विनयच्छन्नगर्वः । दृढव्रतोऽङ्गीकृतनिर्वाहकः । यथारामयुधिष्टिरादिः । अथ धीरोद्धतः मायापरः प्रचण्डश्चपलोऽहङ्कारदर्पभूयिष्ठः । आत्मश्लाघानिरतो धीरैर्धोरोद्धतः कथितः ॥ ३.३३ ॥ यथाभीमसेनादिः. अथ धीरललितः निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् । कला नृत्यादिका । यथासत्नवाल्यादौ वत्सराजादिः । अथ धीरप्रशान्तः सामान्यगुणैर्भूयान् द्विजादिको धीरप्रशान्तः स्यात् ॥ ३.३४ ॥ यथामालतीमाधवादौ माधवादिः । एषां च शृङ्गारादिरूपत्वे भेदानाह एभिर्दक्षिणाधृष्टानुकूलशठरूपिभिस्तु षोडशधा । तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोडशप्रकारा नायकः । एषु त्वनेकमहिलासु समरागो दक्षिणः कथितः ॥ ३.३५ ॥ द्वयोस्त्रिचतुः प्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः । यथा स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसुर्द्यूतै रात्रिरियं जिता कलमया, देवी प्रसाद्याद्य च । इत्यन्तः पुरसुन्दरीः प्रति मया विज्ञाया विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः । दृष्टदोषोऽपि मिथ्यावाक्कथितो धृष्टनायकः ॥ ३.३६ ॥ यथा मम शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं ततः पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि । किञ्चित्तत्र विधातुमक्षमतया बाष्पं सृजन्त्याः सखे ! ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः ॥ अनुकूल एकनिरतः एकस्यामेव नायिकायामासक्तोऽनुकूलनायकः । यथा अस्माकं सखि ! वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं, नो वक्रा गातिरुद्धतं न हसितं, नैवास्ति, कश्चिन्मदः । किन्त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥ शठोऽयमेकत्र बद्धभावो यः । दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति ॥ ३.३७ ॥ यः पुनरेकस्यामेव नायिकायां बद्धभावो द्वयोरपि नायिकयोर्बहिर्दर्शितानुरागोऽन्यस्यां नायिकायां गूढं विप्रियमाचरित स शठः । यथा "शटान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । तदेतत्क्वाचक्षे घृतमधुमयत्वद्वहुवचो विषेणाघूर्णन्ती किमपि न सखी मे गणयति" ॥ एषां च त्रैविध्यादुत्तममध्याधमत्वेन । उक्ता नायकभेदाश्चत्वारिंशत्तथाष्टौ च ॥ ३.३८ ॥ एषामुक्तषोडशभेदानाम् । अथ प्रसङ्गादेतेषां सहायानाह दूरानुवर्तिनि स्यात्तस्य प्रासङ्गिकेतिवृत्ते तु । किञ्चित्तद्गुणहीनः सहाय एवास्य पीठमर्द्दाख्यः ॥ ३.३९ ॥ तस्य नायकस्य बहुव्यापिनि प्रसङ्गसंगते इतिवृत्तेऽनन्तरोक्तैर्नायकसामान्यगुणैः किञ्चिदूनः पीठमर्द्दनामासहायो भवति । यथारामचन्द्रादीनां सुग्रीवादयः । अथ शृङ्गारसहायाः शृङ्गारेऽस्य सहाया विटचेटविदूषकाद्याः स्युः । भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाः शुद्धाः ॥ ३.४० ॥ आदिशब्दान्मालाकाररजकताम्बूलिकगान्धिकादयः । तत्र विटः संभोगहीनसंपद्विटस्तु धूर्त्तः कलैकदेशज्ञः । वेशोपचारकुशलो वाग्ग्मी मधुरोऽथ बहुमतो गोष्ठ्याम् ॥ ३.४१ ॥ चेटः प्रसिद्ध एव । कुसुमवसन्ताद्यभिधः कर्मवपुर्वेषभाषाद्यैः । हास्यकरः कलहरतिर्विदूषकः स्यात्स्वकर्मज्ञः ॥ ३.४२ ॥ स्वकर्म हास्यादि । अर्थचिन्तने सहायमाह मन्त्रीस्यादर्थानां चिन्तायां अर्थास्तन्त्रावापादयः । यत्त्वत्र सहायकथनप्रस्तावे "मन्त्री स्वं चोभयं वापि सखा तस्यार्थचिन्तने" इति केनाचिल्लक्षणं कृतम्, तदपि राज्ञोर्ऽथचिन्तनोपायलक्षणप्रकरणो लक्षयितव्यम्, न तु सहायकथनप्रकरणो । "नायकस्यार्थचिन्तने मन्त्री सहायः" इत्युक्तेऽपि नायकस्यार्थत एव सिद्धत्वात् । यदप्युक्तम् "मन्त्रिणां ललितः शेषा मन्त्रिष्वायत्तसिद्धयः" इति, तदपि स्वलक्षणकथनेनैक लक्षितस्य धीरललितस्य मन्त्रिमात्रायत्तार्थचिन्तनोपपत्तेर्गतार्थम् । न चार्थचिन्तने तस्य मन्त्री सहायः, किं तु स्वयमेव संपादकः॑ तस्यार्थचिन्तनाद्यभावात् । अथान्तः पुरसहायाः तद्वदवरोधे । वामनशण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्यः ॥ ३.४३ ॥ मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः । सोऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥ ३.४४ ॥ आद्यशब्दान्मूकादयः । तत्र शण्ढवामनकिरातकुब्जादयो यथा रत्नाबल्याम् नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः । पर्यन्ताश्रयिभिनिजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥ शकारो मृच्छकटिकादिषु प्रसिद्धः । अन्येऽपि यथादर्शनं ज्ञातव्याः । अथ दण्डसहायाः दण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च । दुष्टनिग्रहो दण्डः । स्पष्टम् । ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तापसास्तथा धर्मे ॥ ३.४५ ॥ ब्रह्मविदो वेदविदः, आत्मविदो वा । अत्र च उत्तमाः पीठमर्दाद्याः आद्यशब्दान्मन्त्रिपुरोहितादयः । मध्यौ विटविदूषकौ । तथा शकारचेटाद्या अधमाः परिकीर्तिताः ॥ ३.४६ ॥ आद्यशब्दात्ताम्बूलिकगान्धिकादयः । अथ प्रसङ्गाद्दूतानां विभागगर्भलक्षणमाह निसृष्टार्थो मितार्थश्च तथा संदेशहारकः । कार्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथाविधाः ॥ ३.४७ ॥ तत्र कार्यप्रेष्यो दूत इति लक्षणम् । तत्र उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् । सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस्तु स स्मृतः ॥ ३.४८ ॥ उभयोरिति येन प्रेषितो यदन्तिके प्रेषितश्च । मितार्थभाषी कार्यस्य सिद्धकारी मितार्थकः । यावद्भाषितसंदेशहारः संदेशहारकः ॥ ३.४९ ॥ अथ सात्त्विकनायकगुणाः शीभा बिलासो माधुर्यं गाम्भीर्यं धैर्यतेजसी । ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥ ३.५० ॥ तत्र शूरता तक्षता सत्यं महोत्साहोऽनुरागिता । नीये घृणाधिके स्पर्धा यतः शोभेति तां विदुः ॥ ३.५१ ॥ तत्रानुरागिता यथा अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् । उपधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥ एवमन्यदपि । अथ विलासः धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः । यथा दृष्टीस्तृणीकृतजगत्र्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥ संक्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम् ॥ ३.५२ ॥ ऊह्यमुदाहरणम् । भीशोकक्रोधहर्षाद्यैर्गाम्भीर्यं निर्विकारता । यथा आहूतस्याभिषेकाय विसृष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥ व्यवसायादचलनं धैर्यं विघ्ने महत्यपि ॥ ३.५३ ॥ यथाश्रुताप्सरोगीतिरप क्षणोऽस्मिन् हरः प्रसंख्यानपरो बभूव । आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥ अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ ३.५४ ॥ वाग्वेशयोर्मधुरता तद्वच्छङ्गारचेष्टितं ललितम् । दानं सप्रियभाषणमौदार्य्यं शत्रुमित्रयोः समता ॥ ३.५५ ॥ एषामुदाहरणान्यूह्यानि । अथ नायिका त्रिभेदा स्वान्या साधारणा स्त्रीति । नायकसामान्यगुणैर्भवति यथासंभवैर्युक्ता ॥ ३.५६ ॥ नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासम्भवैर्युक्ता भवति । सा च स्वस्त्री अन्यस्त्री साधारणस्त्रीति त्रिविधा । तत्र स्वस्त्री विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया । यथा "लज्जापज्जत्तपसाहणाइं परभत्तिणिप्पिवासंिम् । अविणअदुम्मेधाइं धण्णाण घरे कलत्ताइम् ॥ सापि कथिता त्रिभेदा मुग्धा मध्या प्रगल्भेति ॥ ३.५७ ॥ तत्र प्रथमावतीर्णयौवनमदनबिकारा रतौ वामा । कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ॥ ३.५८ ॥ तत्र प्रथमावतीर्णयौवना यथा मम तातापादानाम् मध्यस्य प्रथिमानमेति जघनं वक्षोजयोर्मन्दता दूरं यात्युदरं च रोमलतिका नेत्रार्जवं धावति । कन्दर्पं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणा दङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ॥ प्रथमावतीर्णमदनविकारा यथा मम प्रभावती परिणये दत्ते सालसमन्थरं भुवि पदं निर्याति नान्तः पुरात्, नोद्दामं इसति क्षणात्कलयते ह्रीयन्त्रणां कामपि, किंचिद्भावगभीरवक्रिमलवस्प्टष्टं मनाग्भाषते, सभ्रूभङ्गमुदीक्षते प्रियकथामुल्लापयन्तीं सखीम् ॥ रतौ वामा यथा "दृष्टा दृष्टिमधो ददाति, कुरुते नालपमाभाषिता, शय्यायां परिवृत्त्य तिष्ठति, बालादालिङ्गिता वेपते । निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते, जाता वामतयैव संप्रति मम प्रीत्यै नवोढा प्रिया" ॥ माने मृदुर्यथा "सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥ समधिकलज्जावती यथा "दत्ते सालसमन्थरम्ऽइत्यत्र (११३ पृ) श्लोके । अत्र समधिकलज्जावतीत्वेनापि लब्धाया रतिवामताया विच्छित्तिविशेषवत्तया पुनः कथनम् । अथ मध्या मध्या विचित्रसुरता प्ररूढस्मरयौवना । ईषत्प्रगल्भवचना मध्यमव्रीडिता मता ॥ ३.५९ ॥ विचित्रसुरता यथा "कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु । तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथास्याः" ॥ प्ररूढस्मरा यथात्रैवोदाहरणो । प्ररूढयोवना यथा मम "नत्रे खञ्जनगञ्जने, सरसिजप्रत्यर्थि पाणिद्वयं, वक्षोजौ कारिकुम्भविभ्रमकीमत्युन्नतिं गच्छतः । कान्तिः काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्यन्दिनी, स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा" ॥ एवमन्यत्रापि । अथ प्रगल्भा स्मरान्धा गाढतारुण्या समस्तरतकोविदा । भावोन्नता दरव्रीडा प्रगल्भाक्रान्तनायका ॥ ३.६० ॥ स्मरान्धा यथा "धन्यासि या कथयसि प्रियसंगमेऽपि विश्रब्धचाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचदपि स्मरामि(क)" ॥ गाढतारुण्या यथा "अत्युन्नतस्तनमुरो नयने सुदीर्घे, वक्रे भ्रुवावतितरां, वचनं ततोऽपि । मध्योऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः" ॥ समस्तरतकोविदा यथा "क्वचित्ताम्बूलाक्तः क्वचिद्गरुपङ्काङ्कमलिनः क्वचिच्चूर्णोद्ररी क्वचिदपि च सालक्तकपदः । वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः" ॥ भावोन्नता यथा "मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनै रभसरचितैरङ्गन्यासैर्महोत्सवबन्धुभिः । असकृदसकृत्स्फारस्फाररैपाङ्गविलोकितै स्भिभुवनजये सा पञ्चेषोः करोति सहायताम्" ॥ स्वल्पब्रीडा यथा "धन्यासि या कथयसि" इत्यत्रेव (११६ पृ दृ) आक्रान्तनायका यथा स्वामिन् भङ्गुरयालकं, सतिलकं भालं विलासिन् कुरु, प्राणोश त्रुटितं पयोधरतटे हारं पुनर्योजय । इत्युक्त्वा सुरतावसानसमये सम्पूर्णचन्द्रानना स्पृष्टा तेन तथैव जातमुलका प्राप्ता पुनर्मोहनम्" ॥ मध्याप्रगल्भयोर्भेदान्तराण्याह ते धीरा चाप्यधीरा च धीराधीरेति षङ्विधे । ते मध्याप्रगल्भे । तत्र प्रियं सोत्प्रासवक्रोक्त्या मध्या धीरा दहेदुषा ॥ ३.६१ ॥ धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः । तत्र मध्या धीरा यथा "तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः । मदधिवसतिमागाः कामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन" ॥ मध्यैव धीराधीरा यथा "बाले ! नाथ ! विमुञ्च मानिनि ! रुषं, रोषान्मया किं कृतं, खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि । तत्किं रोदिषि गद्रदेन वचसा, कस्याग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते" ॥ इयमेवाधीरा यथा "सार्धं मनोरथशतैस्तव धूर्त ! कान्ता सैव स्थिता मनसि कृत्रिमहावरम्या । अस्माकमस्ति नहिं कश्चिदिहावकाश रस्तस्मात्कृतं चरणणतविडम्बनाभिः" ॥ प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा ॥ ३.६२ ॥ उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः । तत्र प्रिये । यथा "एकत्रासनसंस्थितिः परिहृता प्रत्युद्रमाद्दूरत स्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविघ्नितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थोकृतः" ॥ धीराधीरा तु सोल्लुण्ठभाषैतैः खेदयत्यमुम् ॥ ३.६३ ॥ अमुं नायकम् । यथा मम "अनलङ्कृतोऽपि सुन्दर ? हरसि मनो मे यतः प्रसभम् । किं पुनरलङ्कृतस्त्वं सम्प्रति नखक्षतैस्तस्याः" ॥ तर्जयेत्ताडयेदन्या अन्या अधीरा । यथा"शोणं वीक्ष्य मुखं" इत्यत्र । अत्र च सर्वत्र "रुषा" इत्यनुवर्तते । प्रत्येकं ता अपि द्विधा । कनिष्ठज्येष्ठरूपत्वान्नायकप्रणयं प्रति ॥ ३.६४ ॥ ता अनन्तरोक्ताः षड्भेदा नायिकाः । यथा "दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः । ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति" ॥ मध्याप्रगल्भयोर्भेदास्तस्माद्द्वादश कीतिंताः । मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश ॥ ३.६५ ॥ परकीया द्विधा प्रोक्ता परोढा कन्यका तथा । तत्र यात्रादिनिरतान्योढा कुलटा गलितत्रपा ॥ ३.६६ ॥ यथा "स्वामी निः श्वसितेऽप्यसूयति, मनोजिघ्रः सपत्नीजनः, श्वश्रूरिङ्गीतदैवतं नयनयोरीहालिहो यातरः । तद्दूरादयमञ्जलिः किमधुना दृग्भङ्गिभावेन ते, वैदग्धीमधुरप्रबन्धरसिक ! व्यर्थोऽयमत्र श्रमः" ॥ अत्र हि मम परिणोतान्नाच्छादनादिदातृतया स्वाम्येव न तु वल्लभः । त्वं तु वैदग्धीमधुरप्रबन्धरसिकतया मम वल्लभोऽसीत्यादिव्यङ्ग्यार्थवशादस्याः परनायकविषया रतिः प्रतीयते । कन्या त्वजातोपयमा सलज्जानवयौवना । अस्याश्च पित्राद्यायत्तत्वात्परकीयात्वम् । यथा मालतीमाधवादौ मालत्यादिः । धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका ॥ ३.६७ ॥ निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि । वित्तमात्रं समालोक्य सा रागं दर्शयेद्वहिः ॥ ३.६८ ॥ काममङ्गीकृतमपि परिक्षीणधनं नरम् । मात्रा निः सारयेदेषा पुनः संधानकाङ्क्षया ॥ ३.६९ ॥ तस्कराः पण्डका मूर्खाः सुखप्राप्तधनस्तथा । लिङ्गिनश्छन्नकामाद्या अस्याः प्रायेण वल्लभाः ॥ ३.७० ॥ एषापि मदनायत्ता क्वापि सत्यानुरागिणि । रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम् ॥ ३.७१ ॥ पण्डको वातपाण्ड्वादिः । छन्नं प्रच्छन्नं ये कामयन्ते ते छन्नकामाः । तत्ररागहीना यथा लटकमेलकादौ मदनमञ्जर्यादिः । रक्ता यथा मृच्छकटिकादौ वसन्तसेनादिः । पुनश्च अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः । स्वाधीनभर्तृका तद्वत्खण्डिताथाभिसारिका ॥ ३.७२ ॥ कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका । अन्या वासकसञ्जा स्याद्विरहोत्कण्ठिता तथा ॥ ३.७३ ॥ तत्र कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम् । विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ॥ ३.७४ ॥ यथा "अस्माकं सखि वाससीऽइत्यादि । पार्श्वमेति प्रियो यस्या अन्यसंयोगचिह्नितः । सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता ॥ ३.७५ ॥ यथा "तदवितथमवादीः" इत्यादि । अभिसारयते कान्तं या मन्मथवशंवदा । स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ॥ ३.७६ ॥ क्रमाद्यथा न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणं तथैनमभिगम्य वदेरभिदूति कचिदिति संदिदिशे ॥ "उत्क्षिप्तं करकङ्कणद्वयमिदं, बद्धा दृढं मेखला, यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयोर्मूकता । आरब्धे रभसान्मया प्रियसखि ! क्रीडाभिसारोत्सवे, चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः" ॥ संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा । अवगुण्ठनसंवीता कुलजाभिसरेद्यदि ॥ ३.७७ ॥ विचित्रोज्ज्वलवेषा तु रणन्नूपुकङ्कणा । प्रमोदस्मेरवदना स्याद्वेश्यभिसरेद्यदि ॥ ३.७८ ॥ मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना । आविद्धगतिसंचारा स्यात्प्रेष्याभिसरेद्यदि ॥ ३.७९ ॥ तत्राद्ये "उत्क्षिप्तम्" इत्यादि । अन्ययोः ऊह्यमुदाहरणम् । प्रसङ्गादभिसारस्थानानि कथ्यन्ते क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् । मालापञ्चः श्मशानं च नद्यादीनां तटी तथा ॥ ३.८० ॥ एवं कृताभिसाराणां पुंश्चलीनां विनोदने । स्थानान्यष्टौ तथा ध्वान्तच्छन्ने कुत्रचिदाश्रये ॥ ३.८१ ॥ चाटुकारमपि प्राणनाथं राषादपास्य या । पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ॥ ३.८२ ॥ यथा मम तातपादानाम् "नो चाटुश्रवणं कृतं, न च दृशा हारोऽन्तिके वीक्षितः, कान्तस्य प्रियहेतवे निजसखीवाचोऽपि दूरीकृताः । पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुध्य इन्त ! सहसा कण्ठे कथं नार्पितः" ॥ प्रियः कृत्वापि संकेतं यस्या नायाति संनिधिम् । विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता ॥ ३.८३ ॥ यथा "उत्तिष्ठ दूति, यामो यामो यातस्तथापि नायातः । यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः" ॥ नानाकार्यवशाद्यस्या दूरदेशं गतः पतिः ॥ सा मनोभवदुःखार्ता भवेत्प्रोषितभर्तृका ॥ ३.८४ ॥ यथा "तां जानीयाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम्" ॥ कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि । सा तु वासकसज्जा स्याद्विदितप्रियसङ्गमा ॥ ३.८५ ॥ यथा राघवानन्दानां नाटके "विदूरे केयूरे कुरु, करयुगे रत्नवलयै रलं, गुर्वो ग्रीवाभरणलतिकेयं किमनया । नवामेकामेकावलिमयि मयि त्वं विरचयेर्न नेपथ्यं बहुतरमनङ्गोत्सवविधौ" ॥ आगन्तुं कृतचित्तोऽपि दैवान्नायाति यत्प्रियः । तदनागमदुःखार्ता विरहोत्कण्ठिता तु सा ॥ ३.८६ ॥ यथा "किं रुद्धः प्रियया कयाचि, दथवा सख्या ममोद्वेजितः, किं वा कारणगौरवं किमपि, यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा करतले विन्यस्य वक्त्राम्बुजं दीर्घं निः श्वसितं, चिरं च रुदितं, क्षिप्ताश्च पुष्पस्त्रजः" ॥ इति साष्टाविंशतिशतमुत्तममध्याधमस्वरूपेण । चतुरधिकाशीतियुतं शतत्रयं नायिकाभेदाः ॥ ३.८७ ॥ इह च "परस्त्रियौ कन्यकान्योढे संकेतात्पूर्वं विरहोत्कण्ठिते, पश्चाद्विदूष कादिना सहाभिसरन्तयावभिसारिके, कुतोऽपि संकेतस्थानमप्राप्ते नायके विप्रलब्धे, इति त्र्यवस्थैवानयोरस्वाधींनप्रिययोरवस्थान्तरायोगात्" । इति कश्चित् । क्वचिदन्योन्यसाङ्कर्यमासं लक्ष्येषु दृश्यते । यथा "न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वाम् । विट ! विटपममुं ददस्व तस्यै भवति यतः सदृशोश्चिराय योगः । तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्कर्णपूरैः । ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम्" ॥ मुहुरुपदसिताविवालिनादैवितरसि नः कलिकां किमर्थमेनाम् । वसतिमुपगतेन धाम्नि तस्याः शठ ! कलिरेष महांस्त्वयाद्य दत्तः" ॥ "इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण । श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च" ॥ इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताधीरमध्यताधीरप्रगल्भताभिः संकीर्णा । एकमन्यत्राप्यूह्यम् । इतरा अप्यसंख्यास्ता नोक्ता विस्तरश्ङ्कया ॥ ३.८८ ॥ ता नायिकाः । अथासामलङ्काराः यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः । अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः ॥ ३.८९ ॥ शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता । औदार्थं धैर्यमित्येते सप्तैव स्युरयत्नजाः ॥ ३.९० ॥ लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् । मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥ ३.९१ ॥ विहृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् । हसितं चकितं केलिरित्यष्टादशसंख्यकाः ॥ ३.९२ ॥ स्वभावजाश्च भावाद्या दश पुंसां भवन्त्यपि । पूर्वे भावादयो धैर्यान्ता दश नायकानामपि संभवन्ति । किंतु सर्वेऽप्यमी नायिकाश्रिता एव विच्छित्तिविशेषं पुष्णान्ति । तत्र भावः निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ॥ ३.९३ ॥ जन्मतः प्रभृति निर्विकारे मनसि उद्बुद्धमात्रो विकारो भावः । यथा "स एव सुरभिः कालः स एव मलयानिलः । सैवेयमबला किंतु मनोऽन्यदिव दृश्यते" ॥ अथ हावः भ्रूनेत्रादिविकारैस्तु संभोगेञ्छाप्रकाशकः । भाव एवाल्पसंलक्ष्यविकारो हाव उच्यते ॥ ३.९४ ॥ यथा "विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः । साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन" ॥ अथ हेला हलात्यन्तसमालक्ष्यविकारः स्यात्स एव तु । स एव भाव एव । यथा "तह ते भ्क्तत्ति पौत्ता वहुए सव्वङ्गविब्भमा सअला । संसै अमुद्धभावा होइ चिरं जै सहीणं पि" ॥ अथ शोभा रूपयौवनलालित्यभोगाधैरङ्गभूषणम् ॥ ३.९५ ॥ शोभा प्रोक्ता तत्र यौवनशोभा यथा "असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे" ॥ एव मन्यत्रापि । अथ कान्तिः सैव कान्तिर्मन्यथाष्यायितद्युतिः । मन्मथोन्मषेणातिविस्तीर्णा शोभैव कान्तिरुच्यते । यथा "नेत्रे खञ्जनगञ्जने" इत्यत्र । अथ दीप्तिः कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ॥ ३.९६ ॥ यथा मम चन्द्रकलानामनाटिकायां चन्द्रकलावर्णनम् "तारुण्यस्य विलासः समधिकलावण्यसंपदो हासः । धरणितलस्याभरणं युवजनमनसो वशीकरणम्" ॥ अथ माधुर्यम् सर्वावस्थाविशेषेषु माधुर्यं रमणीयता । यथा "सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोलर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमि हि मधुरणां मण्डनं नाकृतीनाम्" ॥ अथ प्रगल्भता निःसाध्वसत्वं प्रागलभ्यम् यथा "समाश्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि । दष्टाश्च दंशनैः कान्तं दासीकुर्वन्ति योषितः" ॥ अथौदार्यम् औदार्यं विनयः सदा ॥ ३.९७ ॥ यथा "न ब्रूते परुषां गिरं वितनुते न भ्रयुगं भङ्गरं, नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटेऽप्यागसि । कान्ता गर्भगृहे गावाक्षविवरव्यापारिताक्ष्या बहीः सख्या वक्त्रमभिप्रयच्छति परं पर्यश्रुणी लोचने" ॥ अथ धैर्यम् मुक्तात्मश्लाघना धैर्यं मनोवृत्तिरचञ्चला । यथाज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी, दहतु मदनः, किंवा मृत्योः परेण विधास्यति । मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम्" ॥ अथ लीला अङ्गैर्वेषैरलङ्कारैः प्रेमिभिर्वचनैरपि ॥ ३.९८ ॥ प्रीतिप्रयोजितैर्लोलां प्रियस्यानुकृतिं विदुः । यथामृणालव्यालवलया वेणीबन्धकपर्दिनी । हारनुकारिणी पातु लीलया पार्वती जगत् ॥ अथ विलासः यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् ॥ ३.९९ ॥ विशेषस्तु विलासः स्यादिष्टसन्दर्शनादिना । यथा "अत्रान्तरे किमपि वाग्विभवातिवृत्तवैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद्भूरिसात्त्विकविकारमपास्तधैर्यमाचार्यकं विजयि मान्मथमाविरासीत्" ॥ अथ विच्छत्तिः स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् । यथा "स्वच्छाम्भः स्नपनविधौतमङ्गमोष्टस्ताम्बूलद्युतिविशदो विलासिनीनाम् । वासस्तु प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः" ॥ अथ विव्वोकः विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ॥ ३.१०० ॥ यथा "यासां सत्यपि सद्गुणानुसरणो दोषानुवृत्तिः परा, याः प्राणान् वरमर्पयन्ति, न पुनः सम्पूर्णदृष्टिं प्रिये । अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मक स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसिदन्तु ते" ॥ अथ किलकिञ्चितम् स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् । साङ्कर्यं किलाकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् ॥ ३.१०१ ॥ यथा "पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः । कामिनः स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि" ॥ अथ मोट्टायितम् तद्भावभाविते चित्ते वल्लभस्य कथादिषु । मोट्टायितमिति प्राहुः कर्णकण्डूयनादिकम् ॥ ३.१०२ ॥ यथा "सुभग ! त्वत्कथारम्भे कर्णकण्डूतिलालसा । उज्जृम्भवनाम्भोजा भिनत्त्यङ्गानि साङ्गना" ॥ अथ कुट्टमितम् केशस्तनाधरादीनां ग्रहे हर्षेऽपि सम्भ्रमात् । आहुः कुट्टमितं नाम शिरः करविधूननम् ॥ ३.१०३ ॥ यथा "पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे । पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण" ॥ अथ विभ्रमः त्वरया हर्षरागादेर्दयितागमनादिषु । अस्थाने विभ्रमादीनां विन्यासो विभ्रमो मतः ॥ ३.१०४ ॥ यथा "श्रुत्वायान्तं बहिः कान्तमसमाप्तविभूषया । भलेऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः" ॥ अथ ललितम् सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् । यथा "गुरुतरकलनूपुरानुनादं सललितनतितवामपादपद्मा । इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम" ॥ अथ मदः मदो विकारः सौभग्ययौवनाद्यवलेपजः ॥ ३.१०५ ॥ यथा "मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति । अन्यापि किं न खलु भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः" ॥ अथ विहृतम् वक्तव्यकालेऽप्यवचो व्रीडया विहृतं मतम् । यथा "दूरागतेन कुशलं पृष्टा नोवाच सा मया किञ्चित् । पर्यश्रुणी तु नयने तस्याः कथयाम्बभूवतुः सर्वम्" ॥ अथ तपनम् तपनं प्रियविच्छेदे स्मरवेगोत्थचेष्टितम् ॥ ३.१०६ ॥ यथा मम "श्वासान्मुञ्चति भूतले विलुठति, त्वन्मार्गमालोकते, दर्घं रोदिति, विभिपत्य इतः क्षामां भुजावल्लरीम् । किञ्च, प्राणसमान ! काङ्क्षितवती स्वप्नेऽपि ते सङ्गमं, निद्रां वाञ्छति, न प्रयच्छति पुनर्दग्धो विधिस्तामपि" ॥ अथ मौग्ध्यम् अज्ञानादिव या पृच्छा प्रतीतस्यापि वस्तुनः । वल्लभस्य पुरः प्रोक्तं मौग्ध्यं तत्तत्त्ववेदिभिः ॥ ३.१०७ ॥ यथाके द्रुमास्ते क्व वा ग्रामे सन्ति केन प्ररोपिताः । नाय ! मत्कङ्गणन्यस्तं येषां मुक्ताफलं फलम्" ॥ अथ विक्षेपः भूषाणामर्धरचना मिथ्या विष्वगवेक्षणम् । रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके ॥ ३.१०८ ॥ यथा "धम्मिल्लमर्धमुक्तं कलयति तिलकं तथासकलम् । किञ्चिद्वदति रहस्यं चकितं विष्वग्विलोकते तन्वी ॥ अथ कुतूहलम् रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम् । यथा "प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव । उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्का पदवीं ततान" ॥ अथ हसितम् हसितं तु वृथाहासो यौवनोद्भेदसम्भवः ॥ ३.१०९ ॥ यथा "अकस्मादेव तन्वङ्गी जहास यदियं पुनः । नूनं प्रसूनवाणोऽस्यां स्वराज्यमधितिष्ठति ॥ अथ चकितम् कुतोऽपि दयितस्याग्रे चकतं भयसम्भ्रमः । यथा "त्रस्यन्ती चलशफरीविघट्टितोरूर्वामोरूरतिशयमाप विभ्रमस्य । क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लोलाभिः किमु सति कारणो तरुण्यः ॥ अथ केलिः विहारे सह कान्तेन क्रीडितं कोलिरुच्यते ॥ ३.११० ॥ यथा "व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी" ॥ अथ मुग्धाकन्ययोरनुरागेङ्गितानि दृष्टवा दर्शयति व्रीङां सम्मुखं नैव पश्यति । प्रच्छन्नं वा भ्रमन्तं वातिक्रान्तं पश्यति प्रियम् ॥ ३.१११ ॥ बहुधा पृच्छ्यमानापि मन्दमन्दमधोमुखी । सगद्रदस्वरं किञ्चित्प्रियं प्रायेण भाषते ॥ ३.११२ ॥ अन्यैः प्रवर्तितां शश्वत्सावधाना च तत्कथाम् । शृणोत्यन्यत्र दत्ताक्षी प्रिये बालानुरागिणी ॥ ३.११३ ॥ अथ सकलानामपि नायिकानामनुरागेङ्गितानि चिराय सविधे स्थानं प्रियस्य बहु मन्यते । विलोचनपथं चास्य न गच्छत्यनलङ्कृता ॥ ३.११४ ॥ क्वापि कुन्तलसंव्यानसंयमव्यपदेशतः । बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत्स्फुटम् ॥ ३.११५ ॥ आच्छादयति वागाद्यैः प्रियस्य परिचारकान् । विश्वसित्यस्य मित्रेषु बहुमानं करोति च ॥ ३.११६ ॥ सखीमघ्ये गुणान् ब्रूते स्वधनं प्रददाति च । सुप्ते स्वपिति दुःखेऽस्य दुःखं धत्ते सुखे सुखम् ॥ ३.११७ ॥ स्थिता दृष्टिपथे शश्वत्प्रिये पश्यति दूरतः । आभाषते परिजनं सम्मुखं स्मरिविक्रियम् ॥ ३.११८ ॥ यत्किञ्चिदपि संवीक्ष्य कुरुते हसितं मुधा । कर्णकण्डूयनं तद्वत्कबरीमोक्षसंयमौ ॥ ३.११९ ॥ जृम्भते स्फोटयत्यङ्गं बालमाश्लिष्य चुम्बति । भाले तथा वयस्याया रचयेत्तिलकक्रियाम् ॥ ३.१२० ॥ अङ्गुष्ठाग्रेण लिखति सकटाक्षं निरीक्षते । दशति स्वाधरं चापि ब्रूते प्रियमधोमुखी ॥ ३.१२१ ॥ न मुञ्चति च तं देशं नायको यत्र दृश्यते । आगच्छति गृहं तस्य कार्यव्याजेन केनचित् ॥ ३.१२२ ॥ दत्तं किमपि कान्तेन धृत्वाङ्गे मुहुरीक्षते । नित्यं हष्यति तद्योगे वियोगे मलिना कृशा ॥ ३.१२३ ॥ मन्यते बहु तच्छीलं तत्प्रियं मन्यते प्रियम् । प्रार्थयत्यल्पमूल्यानि सुप्ता न परिवर्तते ॥ ३.१२४ ॥ विकारान् सात्त्विकानस्य सम्मुखी नाधिगच्छति । भाषते सूनृतं स्निग्धामनुरक्ता नितम्बिनी ॥ ३.१२५ ॥ एतेष्वधिकलज्जानि चेष्टितानि नवस्त्रियाः । मध्यव्रीडानि मध्यायाः स्त्रंसमानत्रपाणि तु ॥ ३.१२६ ॥ आन्यस्त्रियाः प्रगल्भायास्तथा स्युर्वारयोषितः । दिङ्मात्रं यथा "अन्तिकगतमपि मामियमवलोकयतीव इन्त ! दृष्ट्वापि । सरसनखक्षतलक्षितमाविष्कुरुते भुजामूलम्" ॥ तथा लेख्यप्रस्थापनैः स्निग्धैर्वोक्षितैर्मृदुभाषितैः ॥ ३.१२७ ॥ दूतीसम्प्रेषणैर्नार्या भावाभिव्यक्तिरिष्यते । दूत्यश्च दूत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी ॥ ३.१२८ ॥ बाला प्रव्रजिता कारूः शिल्पिन्याद्यः स्वयं तथा । कारू रजकीप्रभृतिः । शिल्पिनी चित्रकारादिस्त्री । आदिशब्दात्ताम्बूलिकगान्धिकस्त्रीप्रभृतयः । तत्र सखी यथा "श्वासान्मुञ्चति" इत्यादि । स्वयंदूती यथा मम "पन्थिअ पिआसिओ विअ लच्छीअसि जासि ता किमण्णत्तो । ण मणं वि वारओ इध अत्थि धरे घणरसं पिअन्ताणं" ॥ एताश्च नायिकाविषये नायकानामपि दूत्यो भवन्ति । दूतीगुणानाह कलाकौश्लमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः ॥ ३.१२९ ॥ माधुर्यं नर्मविज्ञानं वाग्मिता चेत तद्गुणाः । एत अपि यथैचित्यादुत्तमाधममध्यमाः ॥ ३.१३० ॥ एतादूत्यः । अथ प्रतिनायकः धीरोद्धतः पापकारी व्यसनी प्रतिनायकः । यथा रामस्य रावणः । अथेद्दीपनविभावाः उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये ॥ ३.१३१ ॥ ते च आलम्बनस्य चेष्टाद्या देशकालादयस्तथा । चेष्टाद्या इत्याद्यशब्दाद्रूपभाषणादयः । कालादीत्यादिशब्दाच्चन्द्रचन्दनकोकिलालापभ्रमरभ्क्तंकारादयः । तत्र चन्द्रोदयो यथा मम "करमुदयमहीधरस्तनाग्रे गलिततमः पटलंशुके निवेश्य । विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः" ॥ यो यस्य रसम्योद्दीपनविभावः स तत्स्वरूपवर्णने वक्ष्यते । अथानुभावाः उद्बुद्धं कारणैः स्वैबहिर्भावं प्रकाशयन् ॥ ३.१३२ ॥ लोके यः कार्यरूपः सोऽनुभावः काव्यनाट्ययोः । यः खलु लोके सीतादिचन्द्रादिभिः स्वैः स्वैरालम्बनोद्दीपनकारणे रामादेरन्तरुद्बुद्धं रत्यादिकं बहिः प्रकाशयन् कार्यमित्युच्यते, स काव्यनाट्ययोः पुनरनुभावः । कः पुनरसावित्याह उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावजाः ॥ ३.१३३ ॥ तद्रूपाः सात्त्विका भावास्तथा चेष्टाः परा अपि । तद्रूपा अनुभावस्वरूपाः । तत्र यो यस्य रसस्यानुभावः स तत्स्वरूपवर्णने वक्ष्यते । तत्र सात्त्विकाः विकाराः सत्त्वसंभूताः सात्त्विकाः परिकीर्तिताः ॥ ३.१३४ ॥ सत्त्वं नाम स्वात्मविश्रामप्रकाशकारी कश्चनान्तरो धर्मः । सत्त्वमात्रोद्भवत्वात्ते भिन्ना अष्यनुभावतः । "गोबलीवर्द्दन्ययेन" इति शेषः । के त इत्याह स्तम्भः स्वेदोऽथ लोमाञ्चः स्वरभङ्गोऽथ वेपथुः ॥ ३.१३५ ॥ वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः । तत्र स्तम्भश्चेष्टाप्रतीघातो भहर्षामयादिभिः ॥ ३.१३६ ॥ वपुर्जलोद्रमः स्वेदो रतिघर्मश्रमादिभिः । हर्षाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया ॥ ३.१३७ ॥ मदसंमदपीडाद्यैर्वैस्वर्यं गद्रदं विदुः । रागद्वेषश्रणादिभ्यः कम्पो गात्रस्य वेपथुः ॥ ३.१३८ ॥ विषादमदरोषाद्यैर्वर्णान्यत्वं विवर्णता । अश्रु नेत्रोद्रवं वारि क्रोधदुःखप्रहर्षजम् ॥ ३.१३९ ॥ प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः । यथा ममतनुस्पर्शादस्या दरमुकुलिते हन्त ! नयने उदञ्चद्रोमाञ्चं व्रजति जडतामङ्गमखिलम् । कपोलौ घर्मार्द्रै ध्रुवमुपरताशेषविषयं मनः सान्द्रानन्दं स्पृशति भ्क्तटिति ब्रह्म परमम्" ॥ एवमन्यत् । अथ व्यभिचारिणः विशेषादाभिमुख्येन चरणाद्व्यभिचारिणः । स्थायिन्युन्मग्ननिर्मग्नास्त्रयस्त्रिंशच्च तद्भिदाः ॥ ३.१४० ॥ स्थिरतया वर्तमाने हि रत्यादौ निर्वेदादयः प्रादुर्भावतिरोभावाभ्यामाभिमुख्येन चरणाद्व्यभिचारिणः कथ्यन्ते । के त इत्याह निर्वेदावेगदैन्यश्रममदजडता औग्र्यमोहौ विबोधः स्वष्नापस्मारगर्वा मरणमलसतामर्षनिद्रावहित्थाः । औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसत्रासलज्जा हर्षासूयाविषादाः सधूतिचपलता ग्लानिचिन्तावितर्काः ॥ ३.१४१ ॥ तत्र निर्वेदः तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमाननम् । दैन्यचिन्ताश्रुनिः श्वासवैवर्ण्योच्छवसितादिकृत् ॥ ३.१४२ ॥ तत्त्वज्ञानान्निर्वेदो यथा "मृत्कुम्भवालुकारन्ध्रपिधानरचनार्थिना । दक्षिणावर्तशङ्खोऽयं हन्त ! चूर्णोकृतो मया" ॥ अथावेगः आवेगः संभ्रमस्तत्र वर्षजे पिण्डिताङ्गता । उत्पातजे स्त्ररतताङ्गे, धूमाद्याकुलताग्निजे ॥ ३.१४३ ॥ राजविद्रवजादेस्तु शस्त्रनागादियोजनम् । गजादेः स्तम्भकम्पादि, पांस्वाद्याकुलतानिलात् ॥ ३.१४४ ॥ इष्टाद्धर्षाः, शुचोऽनिष्टाज्ज्ञेयाश्चान्ये यथायथम् । तत्र शत्रुजो यथा "अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः । क्षत्रकोपदहनार्चिषं ततः सन्धे दृशमुदग्रतारकम्" ॥ एवमन्यदूह्यम् । अथ दैन्यम् दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादिकृत् ॥ ३.१४५ ॥ यथा "वृद्धोऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं, कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो । यत्नात्सञ्चिततैलबिन्दुघटिका भग्नेति पर्याकुला दृष्ट्वा गर्भभरालसं निजबधूं श्वश्रूश्चिरं रोदिति" ॥ अथ श्रमः खेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः । यथा "सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी सीता जवात्र्त्रिचतुराणि पदानि गत्वा । गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम्" ॥ अथ मदः संमोहानन्दसंभेदो मदो मद्योपयोगजः ॥ ३.१४६ ॥ अमुना चोत्तमः शेते मध्यो हसति गायति । अधमप्रकृतिश्चापि परुषं वक्ति रोदिति ॥ ३.१४७ ॥ यथा "प्रातिभं त्रिसरकेण गतानां वक्रवाक्यारचनामणीयः । गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः" ॥ अथ जडता अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ॥ ३.१४८ ॥ यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये "णवरिअ तं जुअजुअलं अण्णोण्णं णिहिदसजलमन्थरदिटिंठ । आलेक्खओपित्र्त्रं विअ खणमेत्तं तत्थ संट्ठिअं मुअसण्णां" ॥ अथोग्रता शौर्यापराधादिभवं भवेच्चण्डत्वमुग्रता । तत्र स्वेदशिरः कम्पतर्जनाताडनादयः ॥ ३.१४९ ॥ यथा "प्रणयिसखीसलीलपरिहासरसाधिगत र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् । वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः" ॥ अथ मोहः मोहो विचित्तता भीतिदुः खावेगानुचिन्ततैः । मूर्च्छनाज्ञानपतनभ्रमणादर्शनादिकृत् ॥ ३.१५० ॥ यथा "तिव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणामज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव" ॥ अथ विबोधः निद्रापगमहेतुभ्यो विबोधश्चेतनागमः । जम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत् ॥ ३.१५१ ॥ यथा "चिररतिपरिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः । अपरिचलितगात्राः कुर्वते न प्रियाणा मशिथिलभुजचक्राश्लेषभेदं तरुण्यः" ॥ अथ स्वप्नः स्वप्नो निद्रामुपेतस्य विषयानुभवस्तु यः । कोपावेगभयग्लानिसुखदुः खादिकारकः ॥ ३.१५२ ॥ यथा "मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेन । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति" ॥ अथापस्मारः मनःक्षेपस्त्वपस्मारा ग्रहाद्यावेशनादिजः । भूपातकम्पप्रस्वेदफेनलालादिकारकः ॥ ३.१५३ ॥ "आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के" ॥ अथ गर्वः गर्वो मदः प्रभावश्रीर्विद्यासत्कुलतादिजः । अवज्ञासविलासाङ्गदर्शनाविनयादिकृत् ॥ ३.१५४ ॥ तत्र शौर्यगर्वो यथा "धृतायुधो यावदहं तावदन्यैः किमायुधैः । यद्वा न सिद्धमस्त्रेण मम तत्केन साध्यताम्" ॥ अथ मरणम् शराद्यैर्मरणं जीवत्यागोऽङ्गपतनादिकृत् । यथा "राममन्मथशरेण ताडिता दुः सहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा" ॥ अथालस्यम् आलस्यं श्रमगर्भाद्यैर्जाड्यं जम्भासितादिकृत् ॥ ३.१५५ ॥ यथा "न तथा भूषयत्यङ्ग न तथा भाषते सखीम् । जृम्भते मुहुरासीना बाला गर्भभरालसा" ॥ अथामर्षः निन्दाक्षेपापमानादेरमर्षोऽभिनिविष्टता । नेत्ररागशिरः कम्पभ्रूभङ्गोत्तर्जनादिकृत् ॥ ३.१५६ ॥ यथाप्रायश्चितं चरिष्यामि पूज्यानां वो व्यतिक्रमात् । न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ॥ अथ निद्रा चेतः संमीलनं निद्रा श्रमल्कममदादिजा । जृम्भाक्षिमीलनोच्छ्वासगात्रभङ्गादिकारणम् ॥ ३.१५७ ॥ यथा "सार्थकानर्थकपदं ब्रुवती मन्थराक्षरम् । निद्रार्धमीलिताक्षी सा लिखितेवास्ति मे हृदि" ॥ अथावहित्था भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था । व्यापारान्तरसक्त्यन्यथावभाषणविलोकनादिकरी ॥ ३.१५८ ॥ यथा "एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती" ॥ श्रथौत्सुक्यम् इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता । चित्ततापत्वरास्वेददीर्घनिः श्वसितादिकृत् ॥ ३.१५९ ॥ यथा "यः कौमारहरः स एव हि वरःऽइत्यादौ (१५ पृदृ) अत्र यत्काव्यप्रकाशकारेण रसस्य प्राधान्यमित्युक्तं तद्रसनधर्मयोगित्वाद्व्यभिचारिभावस्यापि रसशबादवाच्यत्वेन गतार्थं मन्तव्यम् । अथोन्मादः चित्तसंमोह उन्मादः कामशोकभयादिभिः । अस्थानहासरुदितगीतप्रलपनादिकृत् ॥ ३.१६० ॥ यथा मम "भ्रतार्द्विरेफ ! भवता भ्रमता समन्ता त्प्राणाधिका प्रियतमा मम वीक्षिता किम् ? । (भ्क्तंकारमनुभूय सानन्दम् । ) "ब्रषे किमोमिति सखे ! कथयाशु तन्मे किं किं व्यवस्यति कुतोऽस्ति च कीदृशीयम्" ॥ अथ शङ्का परक्रौर्यात्मदोषाद्यैः शङ्कानर्थस्य तर्कणम् । वैवर्ण्यकम्पवैस्वर्यपार्श्वालोकास्यशोषकृत् ॥ ३.१६१ ॥ यथा मम "प्राणोशेन प्रहितनखरेष्वङ्गकेषु क्षपान्ते जातातङ्का रचयति चिरं चन्दनालेपनानि । धत्ते लाक्षामसकृदधरे दत्तदन्तावघाते क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती" ॥ अथ स्मृतिः सदृशज्ञानचिन्ताद्यैर्भ्रूसमुन्नयनादिकृत् । स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ॥ ३.१६२ ॥ यथा मम "मयि सकपटं किंचित्क्वापि प्रणीतविलोचने किमपि नमनं प्राप्ते तिर्यग्विजृम्भिततारकम् । स्मितमुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितं कुवलयदृशः स्मेरं स्मेरं स्मरामि तदाननम्" ॥ अथ मतिः नीतिमार्गनुसृत्यादेरर्थनिर्धारणं मतिः । स्मेरता धृतिसंतोषौ बहुमानश्च तद्भवाः ॥ ३.१६३ ॥ यथा "असंशयं क्षअपरिग्रहक्षमा यादर्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः" ॥ अथ व्याधिः व्याधिर्ज्वरादिर्वाताद्यैभूमीच्छोत्कम्पनादिकृत् । तत्र दाहमयत्वे भूमीच्छादयः । शैत्यमयत्वे उत्कम्पनादयः । स्पष्टमुदाहरणम् । अथ त्रासः निर्घातविद्युदुल्काद्यैस्त्रासः कम्पादिकारकः ॥ ३.१६४ ॥ यथा "परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि वोलोकनीयताम्" ॥ अथ व्रीडा धार्ष्ट्याभावो व्रडा वदनानमनादिकृद्दुराचारात् । यथा "मयि सकपटम्" इत्यादि ( १७३ पृदृ) । अथ हर्षः हर्षस्त्विष्टावाप्तेर्मनः प्रसादोऽश्रुगद्गदादिकरः ॥ ३.१६५ ॥ यथा "समीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य यथैव दुर्गतः । मुदा शरीरे प्रबभूव नात्मनः पयोधिरन्दूदयमूर्च्छितो यथा" ॥ अथासूया असूयान्यगुणर्द्धेनामौद्धत्यादसहिष्णुता । दोषोद्धोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत् ॥ ३.१६६ ॥ यथा "अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः । मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम्" ॥ अथ विषादः उपायाभावजन्मा तु विषादः सत्त्वसंक्षयः । निःश्वासोच्छवासहृत्तापसहायान्वेषणादिकृत् ॥ ३.१६७ ॥ यथा ममएसा कुडिलघणोन चिउरकडप्पेण तुह णिबद्धा वेणी । मह सहि दारै ढंसै आअसधट्टीव्व कालौरैव्व हिअअम् ॥ अथ धृतिः ज्ञानाभीष्टागमाद्यैस्तु संपूर्णस्पृहता धतिः । सौहित्यवचनोल्लाससहासप्रतिभादिकत् ॥ ३.१६८ ॥ यथा मम "कृत्वा दीननिपीडनां निजजने बद्ध्वा वचोविग्रहं नैवालोच्य गरीयसीरपि चिरादामुष्मिकीर्यातनाः । द्रव्यौघाः परिसंचिताः खलु मया यस्याः कृते सांप्रतं नीवारञ्जलिनापि केवलमहो सेयं कृतार्था तनुः" ॥ अथ चपलता मात्सर्यद्वेषरागादेश्चापल्यं त्वनवस्थितिः । तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥ ३.१६९ ॥ यथा "अन्यासु तावदुपमर्दसहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु । मुग्धामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमालिकायाः" ॥ अथ ग्लानिः रत्यायासमनस्तापक्षुत्पिपासादिसंभवा । ग्लानिर्निप्प्राणताम्पकार्श्यानुत्साहतादिकृत् ॥ ३.१७० ॥ यथा "किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम्" ॥ अथ चिन्ता ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् । यथा मम "कमलेण विअसिएणं संजोएन्ती विरोहिणं ससिबिम्बम् । करअलपल्लत्थमुही किं चिन्तसि सुमुहि अन्तराहिअहिअआ" ॥ अथ तर्कः तर्का विचारः संदेहाद्भ्रूशिरोऽङ्गुलिनर्तकः ॥ ३.१७१ ॥ यथा "किं रुद्धः प्रियया" इत्यादि । एते च त्रयस्त्रिंशद्व्यभिचारिभेदा इति यदुक्तं तदुपलक्षणमित्याह रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिणः । तथाहिशृङ्गारेऽनुच्छिद्यमानतयावस्थानाद्रतिरेव स्थायिशब्दवाच्या हासः पुनरुपद्यमानो व्यभिचार्येव । व्यभिचारिलक्षणायोगात् । तदुक्तम् "रसावस्थः परं भावः स्थायितां प्रतिपद्यते" । इति । तत्कस्य स्थायिनः कस्मिन् रसे सञ्चारित्वमित्याह शृङ्गारवीरयोर्हासो वीरे क्रोधस्तथा मतः ॥ ३.१७२ ॥ शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः । इत्याद्यन्यत्समुन्नेयं तथा भावितबुद्धिभिः ॥ ३.१७३ ॥ अथ स्थायिभावः अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः । आस्वादाङ्कुरकन्दोऽसौ भावः स्थायीति संमतः ॥ ३.१७४ ॥ यदुक्तम् "स्त्रक्सूत्रवृत्त्या भावानामन्येषामनुगामकः । न तिरोधीयते स्थायी तैरसौ पुष्यते परम्" ॥ इति । तद्भेदानाह रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽपि च ॥ ३.१७५ ॥ तत्र रतिर्मनोऽनुकूलेर्ऽथे मनसः प्रवणायितम् । वागादिवैकृतैश्चेतोविकासो हास इष्यते ॥ ३.१७६ ॥ इष्टनाशादिभिश्चेतोवैक्लव्यं शोकशब्दभाक् । प्रतिकूलेषु तैक्ष्णस्यावबोधः क्रोध इष्यते ॥ ३.१७७ ॥ कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते । रौद्रशक्त्या तु जनितं चित्तवैक्लव्यं भयम् ॥ ३.१७८ ॥ दोषेक्षणादिभिर्गर्हा जुगुप्सा विस्मयोद्भवा । विविधेषु पदार्थेषु लोकसीमातिवर्तिषु ॥ ३.१७९ ॥ विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः । शमो निरीहास्थायां स्वात्मविश्रामजं सुखम् ॥ ३.१८० ॥ यथा मालतीमाधवे रतिः । लटकमेलके हासः । रामायणो शोकः । महाभारते शमः । एवमन्यत्रापि । एते ह्येतेष्वन्तरा उत्पद्यमानैस्तैस्तैविरुद्धैरविरुद्धैश्च भावैरनुच्छिन्नाः प्रत्युत परिपुष्टा एव सहृदयानुभवसिद्धाः । किं च नानाभिनयसंबन्धान् भावयन्ति रसान् यतः । तस्माद्भावा अमी प्रोक्ताः स्थायिसंचारिसात्त्विकाः ॥ ३.१८१ ॥ यदुक्तम् "सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम्" अथ रसस्य भेदानाह शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्सोऽद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः ॥ ३.१८२ ॥ तत्र शृङ्गारः शृङ्ग हि मन्मथोद्भेदस्तदागमनहेतुकः । उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥ ३.१८३ ॥ परोढां वर्जयित्वा तु वेश्यां चाननुरागिणीम् । आलम्बनं नायिकाः स्युर्दक्षिणाद्याश्च नायकाः ॥ ३.१८४ ॥ चन्द्रचन्दननरोलम्बरुताद्युद्दीपनं मतम् । भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्तितः ॥ ३.१८५ ॥ त्यक्त्वौग्र्यमरणालस्यजुगुष्साव्यभिचारिणः । स्थायिभावो रतिः श्यामवर्णोऽयं विष्णुदैवतः । यथा "शून्यं वासगृहम्" इत्यादि । अत्रोक्तस्वरूपः पतिः, उक्तस्वरूपा च बाला आलम्बनविभावौ । शून्यं वासगृहमुद्दीपनविभावः । चुम्बनमनुभावः । लज्जाहासौ व्यभिचारिणौ । एतैरभिव्यक्तः सहृदयविषयो रतिभावः शृङ्गाररसरूपतां भजते । तद्भेदावाह विप्रलम्भोऽथ संभोग इत्येष द्विविधो मतः ॥ ३.१८६ ॥ तत्र यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसा । अभीष्टं नायकं नायिकां वा । स च पूर्वरागमानप्रवासकरुणात्मकश्चतुर्धा स्यात् ॥ ३.१८७ ॥ तत्र श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः । दशाविशेषो योऽप्राप्तौ पूर्वरागः स उच्यते ॥ ३.१८८ ॥ श्रवणं तु भवेत्तत्र दूतवन्दीसखीमुखात् । इन्द्रजाले च चित्रे च साक्षात्स्वष्ने च दर्शनम् ॥ ३.१८९ ॥ अभिलाषश्चिन्तास्मृतिगुणकथनोद्वेगसंप्रलापाश्च । उन्मादोऽथ व्याधिर्जडता मृतिरिति दशात्र कामदशाः ॥ ३.१९० ॥ अभिलाषः स्पृहा चिन्ता प्राप्त्युपायादिचिन्तनम् । उन्मादश्चापरिच्छेदश्चेतनाचेतनेष्वपि ॥ ३.१९१ ॥ अलक्ष्यवाक्प्रलापः स्याच्चेतसो भ्रमणाद्भृशम् । व्याधिस्तु दीर्घनिः श्वासपाण्डुताकृशतादयः ॥ ३.१९२ ॥ जडता हीनचेष्टत्वमङ्गानां मनसस्तथा । शेषं स्पष्टम् । क्रमेणोदाहरणानि "प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्राढरागोदया स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । यास्वन्तः करणस्य बाह्यकरणव्यापाररोधी क्षणा दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः" ॥ अत्र मालतीसाक्षाद्दर्शनप्ररूढरागस्य माधवस्याभिलाषः । "कथमीक्षे कुरङ्गाक्षीं साक्षाल्लक्ष्मीं मनोभुवः । इति चिन्ताकुलः कान्तो निद्रां नैति निशीथिनीम्" ॥ अत्र कस्याश्चिन्नायिकाया इन्द्रजालदर्शनप्ररूढरागस्य नायकस्य चिन्ता । इदं मम । "मयि सकपटम्ऽइत्यादौ नायकस्य स्मृतिः । नेत्रे खञ्जनगञ्जनेऽइत्यादौ गुणकथनम् । "श्वासान्मुञ्चतिऽइत्यादौ उद्वेगः । "त्रिभागशेषासु निशासु च क्षमं निमील्य नेत्रे सहसा व्यबुध्यन । क्वः नीलकण्ठ ! व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना" ॥ अत्र प्रलापः । "भ्रातर्द्विरेफऽइत्यादौ उन्मादः । "पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि ! हृदन्तः" ॥ अत्र व्याधिः । "भिसणीअलसअणीए निहिअं सव्वं सुणिच्चलं अङ्गम् । दीहो णीसासहरो एसो साहेइ जीऐत्ति परं" ॥ अत्र जडता । इदं मम । रसविच्छेदहेतुत्वान्मरणं नैव वर्ण्यते ॥ ३.१९३ ॥ जातप्रायं तु तद्वाच्यं चेतसाकाङ्क्षितं तथा । वर्ण्यतेऽपि यदि प्रत्युञ्जीवनं स्यादढूरतः ॥ ३.१९४ ॥ तत्राद्यं यथा "शेफालिकां विदलितामवलोक्य तन्वी प्राणान् कथंचिदपि धारयितुं प्रभूता । आकर्ण्य संप्रति रुतं चरणायुधानां किं वा भविष्यति न वेद्मि तपस्विनी सा" ॥ द्वितीयं यथा "रोलम्बाः परिपूरयन्तु हरितो भ्क्तंकारकोलाहलैर् मन्दं मन्दमुपैतु चन्दनवनीजातो नभस्वानपि । माद्यन्तः कलयन्तु चूतशिखरे केलीपिकाः पञ्चमं प्राणाः सत्वरमश्मसारकठिना गच्छन्तु गच्छन्त्वमी" ॥ ममैतौ । तृतीयं यथाकादम्बर्यां महश्वेतापुण्डरीकवृत्तान्ते । एष च प्रकारः करुणः विप्रलम्भविषय इति वक्ष्यामः । केचित्तु "नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ संकल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥ उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्यु" । इत्याहुः । तत्र चआदौ वाच्यः स्त्रिया रागः पुंसः पश्चात्तदिङ्गितैः । इङ्गितान्युक्तनि । यथा रत्नाववल्यां सागरिकावत्सराजयोः । आदौ पुरुषानुरोगे संभवत्यप्येवमधिकं हृदयङ्गमं भवति । नीली कुसुम्भं मञ्जिष्ठा पूर्वरागोऽपि च त्रिधा ॥ ३.१९५ ॥ तत्र न चातिशोभते यन्नापैति प्रेम मनोगतम् । तन्नीलीरागमाख्यातं यथा श्रीरामसीतयोः ॥ ३.१९६ ॥ कुसुम्भरागं तत्प्राहुर्यदपैति च शोभते । मञ्जिष्ठारागमाहुस्तद्यन्नापैत्यतिशोभते ॥ ३.१९७ ॥ अथ मानः मानः कोपः स तु द्वेधा प्रणयेर्ष्यासमुद्भवः । द्वयोः प्रणयमानः स्यात्प्रमोदे सुमहत्यपि ॥ ३.१९८ ॥ प्रेम्णः कुटिलगामित्वात्कोपो यः कारणं विना । द्वयोरिति नायकस्य नायिकायाश्च उभयोश्च प्रणयमानो वर्णनीयः । उदाहरणम् । तत्र नायकस्य यथा "अलिअपसुत्तअ णिमिलिअच्छ देसु सुहअ मज्भ्क्त ओआसम् । गण्डपरिउम्बणापुलैअङ्ग ! ण पुणो चिराइस्सं" ॥ नायिकाया यथा कुमारसंभवे संध्यावर्णनावसरे । उभयोर्यथा "पणअकुविआणं देण्ह विं अलिअसुत्ताणां माणैल्लाणम् । णिच्चलणिरुद्धणीसासदिण्णअण्णाणं को मल्लो" ॥ अनुनयपर्यन्तासहत्वे त्वस्य न विप्रलम्भभेदता, किन्तु संभोगसञ्चार्याख्यभावत्वम् । यथा "भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते रुद्धायामपि वाचि सम्मितमिदं दग्धाननं जायते । कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चमालम्बते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने" ॥ यथा वा "एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् । दंपत्योः शनकैरपाङ्गबलनान्मिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहः" ॥ प्रत्युरन्यप्रियासङ्गे दृष्टेऽथानुमिते श्रुते ॥ ३.१९९ ॥ ईर्ष्या मानो भवेत्स्त्रीणां तत्र त्वनुमितिस्त्रिधा । उत्स्वष्नायितभोगाङ्कगोत्रस्खलनसंम्भवा ॥ ३.२०० ॥ तत्र दृष्टे यथा "विनयति सुदृशो दृशोः परागं प्रणयिनि कौसुममाननानिलेन । तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरजोभिरापुरूरे" ॥ संभोगचिह्नेनानुमिते यथा "नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नपवरिमलगन्धः केन शक्यो वरीतुम्" ॥ एवमन्यदपि । साम भेदोऽथ दानं च नत्युपेक्षे रसान्तरम् । तद्भङ्गाय पतिः कुर्यात्षडुपायानिति क्रमात् ॥ ३.२०१ ॥ तत्र प्रियवचः साम भेदस्तत्सख्युपार्जनम् । दानं व्याजेन भूषादेः पादयोः पतनं नतिः ॥ ३.२०२ ॥ सामादौ तु परिक्षीणो स्यादुपेक्षावधीरणम् । रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ॥ ३.२०३ ॥ यथा "नो चाटुश्रवणं कृतम्ऽइत्यादि (१२९ पृदृ) । अत्र सामादयः पञ्च सूचिताः । रसान्तरमूह्यम् ॥ अथ प्रवासः प्रवासो भिन्नदेशित्वं कार्याच्छापाच्च संभ्रमात् । तत्राङ्गचेलमालिन्यमेकवेणीधरं शिरः ॥ ३.२०४ ॥ निः श्वासोच्छ्वासरुदितभूमिपातादि जायते । किञ्च अङ्गेष्वसौष्ठवं तापः पाण्डुता कृशतारुचिः ॥ ३.२०५ ॥ अधृतिः स्यादनालम्बस्तमनयोन्मादमूर्च्छनाः । मृतिश्चेति क्रमाज्ज्ञेया दश स्मरदशा इह ॥ ३.२०६ ॥ असौष्ठवं मलापत्तिस्तापस्तु विरहज्वरः । अरुचिर्वस्तुवैराग्यं सर्वत्रारागिताधृतिः ॥ ३.२०७ ॥ अनालम्बनता चापि शून्यता मनसः स्मृता । तन्मयं तत्प्रकाशो हि बाह्याभ्यन्तरतस्तथा । शेषं स्पष्टम् । एकदेशतो यथा मम तातपादानाम् "चिन्ताभिः स्तिमितं मनः, करतले लीना कपोलस्थली, प्रत्यूषक्षणदेशपाण्डु वदनं श्वासैकखिन्नोऽधरः । अम्भः शीकरपद्मिनीकिसलयैर्नापैति तापः शमं, कोऽस्याः प्रार्थितदुर्लभोऽस्ति सहते दीनां दशामीदृशीम्" ॥ भावी भवन्भूत इति त्रिधा स्यात्तत्र कार्यजः ॥ ३.२०८ ॥ कार्यस्य बुद्धिपूर्वकत्वात्त्रैविध्यम् । तत्र भावी यथा मम "यामः सुन्दरि, याहि पान्थ, दयिते शोकं वृथा मा कृथाः, शोकस्ते गमने कुतो मम ततो वाष्पं कथं मुञ्चसि । शीघ्रं न व्रजसीति मां गमयितुं कस्मादियं ते त्वरा, भूयानस्य सह त्वया जिगमिषोर्जोवस्य मे संभ्रमः" ॥ भवन् यथा "प्रस्थानं वबयैः कृतं, प्रियसखैरस्त्रैजस्त्रं गतं, धृत्या न क्षणमासितं, व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित ! प्रियसुहृत्सार्थः किमु त्यज्यते" ॥ भूतो यथा "चिन्ताभिः स्तिमितम्ऽइत्यादि (२०० पृदृ) शापद्यथा "तां जानीयाःऽइत्यादि (१३० पृदृ) संभ्रमो दिव्यमानुषनिर्घातोत्पातादिजः । यथाविक्रमोर्वश्यामुर्वशीपुरूरवसोः । अत्र पूर्वरागोक्तानामभिलाषादीनामत्रोक्तानां चाङ्गासौष्ठवादीनामपि दशानानुभयेषामप्युभयत्र सम्भवेऽपि चिरन्तनप्रसिद्ध्या विविच्य प्रतिपादनम् । अथ करुणविप्रलम्भः यूनोरेकतरस्मिन्गतवति लोकान्तरं पुनार्लभ्ये । विमनायते यदैकस्तदा भवेत्करुणविप्रलम्भाख्यः ॥ ३.२०९ ॥ यथाकादम्बर्यां तुण्डरीकमहाश्वेतावृत्तान्ते । पुनरलभ्ये शरीरान्तरेण बालभ्ये तु करुणाख्य एव रसः । किञ्चात्राकाशसारस्वतीभाषानन्तरमेव शृङ्गारः, सगमप्रत्याशाया रतेरुद्भवात् । प्रथमं तु करुण एव, इत्यभियुक्ता मन्यन्ते । यच्चात्र "सङ्गमप्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्य प्रवासाख्यो भेद एव" इति केचिदाहुः, तदन्ये "मरणरूपविशेषसंभवात्तद्भिन्नमेव" इति मन्यन्ते । अथ संभोगः दर्शनस्पर्शनादीनि निषेवेते विलासिनौ । यत्रानुरक्तावन्योन्यं संभोगोऽयमुदाहृतः ॥ ३.२१० ॥ आदिशब्दादन्योन्याधरपानचुम्बनादयः । यथा "शून्यं वासगृहम्" (२२ पृदृ) इत्यादौ । सख्यातुमशक्यतया चुम्बनपरिरम्भणादिवहुभेदात् । अयमेक एव धीरैः कथितः संभोगशृङ्गारः ॥ ३.२११ ॥ तत्र स्यादृतुषट्कं चन्द्रादित्यौ तथोदयास्तमयः । जलकेलिवनविहारप्रभातमधुपानयामिनीप्रभृतिः ॥ ३.२१२ ॥ अनुलेपनभूषाद्या वाच्यं शुचि मेध्यमन्यच्च । तथा च भरतः "यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तत्सर्वं शृङ्गारेणोपमीयते (उपयुज्यते च)" इति । किञ्च कथितश्चतुर्विधोऽसावानन्तर्यात्तु पूर्वरागादेः ॥ ३.२१३ ॥ यदुक्तम् "न बिना विप्रलम्भेन संभोगः पुष्टिमश्नुते । कषायिते हि वस्त्रादौ भूयान् रागो विवर्धते" ॥ इति । तत्र पूर्वरागानन्तरं संभोगो यथा कुमारसम्भवे पार्वतीपरमेश्वरयोः । प्रवासानन्तरं सम्भोगो यथा मम तातपादानाम् "क्षेमं ते ननु पक्ष्मलाक्षि ! किसअं खेमं महङ्गं दिढं, एतादृक्कृशता कुतः तुह पुणो पुट्ठं सरीरं जदो । केनाहं पृथुलः प्रये ! पणैणीदेहस्स सम्मेलणात्, त्वत्तः सुभ्रु ! न कपि मे, जै इदं खेमं कुदो पुच्छसि" ॥ एवमन्यत्राप्यूह्यम् । अथ हास्यः विकृताकारवाग्वेषचेष्टादेः कुहकाद्भवेत् । हास्यो हाससथायिभावः श्वेतः प्रथमदैवतः ॥ ३.२१४ ॥ विकृताकारवाक्चेष्टं यमालोक्य हसेज्जनः । तमत्रालम्बनं प्राहुस्तच्चेष्टोद्दीपनं मतम् ॥ ३.२१५ ॥ अनुभावोऽक्षसङ्कोचवदनस्मेरतादयः । निद्रालस्यावहित्थाद्या अत्र स्युर्व्यभिचारिणः ॥ ३.२१६ ॥ ज्येष्ठानां स्मितहसिते मध्यानां विहसितावहसिते च । नीचानामपहसितं तथातिहसितं तदेष षड्भेदः ॥ ३.२१७ ॥ ईषद्विकासिनयनं स्मितं स्यात्स्पन्दिताधरम् । किञ्चिल्लक्ष्यद्विजं तत्र हसितं कथितं बुधैः ॥ ३.२१८ ॥ मधुरस्वरं विहसितं सांसशिरः कम्पमवहसितम् । अपहसितं सास्त्राक्षं विक्षिप्ताङ्गं च भवत्यतिहसितम् ॥ ३.२१९ ॥ यथा "गुरोगिरः पञ्चदिनानधीत्य वेदान्तशास्त्राणि दिनत्रयं च । अमी समाघ्राय च तर्कवादान्समागताः कुक्कुटमिश्रपादाः" ॥ अस्य लटकमेलकप्रभृतिषु परिपोषो द्रष्टव्यः । अत्र च यस्य हासः स चेत क्वापि साक्षान्नैव निबध्यते । तथाष्येष विभावादिसामर्थ्यादुपलभ्यते ॥ ३.२२० ॥ अभेदेन विभावादिसाधारण्यात्प्रतीयते । सामाजिकैस्ततो हास्यरसोऽयमनुभूयते ॥ ३.२२१ ॥ एवमन्येष्वपि रसेषु बोद्धव्यम् । अथ करुणः इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् । धीरैः कपोतवर्णोऽयं कथितो यमदैवतः ॥ ३.२२२ ॥ शोकोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् । तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ॥ ३.२२३ ॥ अनुभावा दैवनिन्दाभूपातक्रन्दितादयः । वैवर्ण्योच्छ्वासनिः श्वासस्तम्भप्रलपनानि च ॥ ३.२२४ ॥ निर्वेदमोहापस्माख्याधिग्लानिस्मृतिश्रमाः । विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥ ३.२२५ ॥ शोच्यं विनष्टबन्धुप्रभृति । यथा मम राघवविलासे "विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः । अनयोर्घटना विधेः स्फुटं ननु खड्गेन शिरीषकर्त्तनम्" ॥ अत्र हि रामवनवासजनितशोकार्त्तस्य दशरथस्य दैवनिन्दा । एवं बन्धुवियोगविभवनाशादावप्युदाहार्यम् । परिपोषस्तु महाभारते स्त्रीपर्वणि द्रष्टव्यः । अस्य करुणविप्रलम्भाद्भेदमाह शोकस्थायितया भिन्नो विप्रलम्भादयं रसः । विप्रलम्भे रतिः स्थायी पुनः संभोगहेतुकः ॥ ३.२२६ ॥ अथ रौद्रः रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः । आलम्बनमरिस्तत्र तच्चेष्चोद्दीपनं मतम् ॥ ३.२२७ ॥ मुष्टिप्रहारपातनविकृतच्छेदावदारणैश्चैव । संग्रामसंभ्रमाद्यैरस्योद्दीप्तिर्भवेत्प्रौढा ॥ ३.२२८ ॥ भ्रविभङ्गौष्ठनिर्देशबाहुस्फोटनतर्जनाः । आत्मावदानकथनमायुधोत्क्षेपणानि च ॥ ३.२२९ ॥ अनुभावास्तथाक्षेपक्रूरसंदर्शनादयः । उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः ॥ ३.२३० ॥ मोहामर्षादयस्तत्र भावाः स्युर्व्यभिचारिणः । यथा "कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः । नरकरिपुणा सार्धं तेषां सभीमकिरीटिना मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम्" ॥ अस्य युद्धवीराद्भेदमाह रक्तास्येनेत्रता चात्र भेदिनी युद्धवीरतः ॥ ३.२३१ ॥ अथ वीरः उत्तमप्रकृतिर्वोर उत्साहस्थायिभावकः । महेन्द्रदैवतो हेमवर्णोऽयं समुदाहृतः ॥ ३.२३२ ॥ आलम्बनविभावास्तु विजेतव्यादयो मताः । विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः । अनुभावास्तु तत्र स्युः सहायान्वेषणादयः ॥ ३.२३३ ॥ सञ्चारिणास्तु धृतिमतिगर्वस्मृतितर्करोमाञ्चाः । स च दानदर्मयुद्धैर्दयया च समन्वितश्चतुर्धा स्यात् ॥ ३.२३४ ॥ स च वीरो दानवीरो धर्मवीरो युद्धवीरो दयावीरश्चेति चतुर्विधः । तत्र दानवीरो यथा परशुरामः "त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः" इति । अत्र परशुरामस्य त्यागे उत्साहः स्थायिभावः, संप्रदानभूतब्राह्मणैरालम्बनविभावैः सत्त्वाध्यवसायादिभिश्चोद्दीपनविभावैविभावितः, सर्वस्वत्यागादिभिरनुभावैरनुभावितो, हर्षधृत्यादिभैः संचारिभिः पुष्टिं नीतो दानवीरतां भजते । धर्मवीरो यथा युधिष्ठिरः "राज्यं च वसु देहश्च भार्या भ्रातृसुताश्च ये । यच्च लोके ममायत्तं तद्धर्माय सदोद्यतम्" ॥ युद्धवीरो यथा श्रीरामचन्द्रः भो लङ्केश्वर ! दीयतां जनकजा रामः स्वयं याचते कोऽयं ते मतिविभ्रमः स्मर नयं नाद्यापि किंचिद्रतम् । नैवं चेत्खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः पत्त्री नैष सहिष्यते मम धनुर्ज्याबन्धबन्धूकृतः" ॥ दयावीरो यथा जीमूतवाहनः "शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्तिं न पश्यामि तवापि तावत्किं भक्षणात्त्वं विरतो गरुत्मन् ! । एष्वपि विभावादयः पूर्वोदाहरणवदूह्याः । अथ भयानकः भयानको भयस्थायिभावो भूताधिदैवतः" । स्त्रीनीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ॥ ३.२३५ ॥ यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम् । चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः ॥ ३.२३६ ॥ अनुभावोऽत्र वैवर्ण्यगद्रदस्वरभाषणम् । प्रलयस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः ॥ ३.२३७ ॥ जुगुष्सावेगसंमोहसंत्रासग्लानिदीनताः । शङ्कापस्मारसम्भ्रान्तिमृत्य्वाद्या व्यभिचारिणाः ॥ ३.२३८ ॥ यथा "नष्टं वर्षवरैः" इत्यादि (१०५ पृदृ) अथ बीभत्सः जुगुष्सास्थायिभावस्तु बीभत्सः कथ्यते रसः । नीलवर्णो महाकालदैवतोऽयमुदाहृतः ॥ ३.२३९ ॥ दुर्गन्धमांसरुंधिरमेदां स्यालम्बनं मतम् । तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम् ॥ ३.२४० ॥ निष्ठीवनास्यवलननेत्रसङ्कोचनादयः । अनुभावास्तत्र मतास्तथा स्युर्व्यभिचारिणः ॥ ३.२४१ ॥ माहोऽपस्मार आवेगो व्याधिश्च मरणादयः । यथा "उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोथभूयांसि मांसा न्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आतेः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का दङ्कस्थादस्थिंस्थं स्थपुटगतमपि क्रव्यमध्यग्रमत्ति" ॥ अथाद्भुतः अद्भुतो विस्मयस्थायिभावो गन्धर्वदैवतः ॥ ३.२४२ ॥ पीतवर्णो वस्तु लोकातिगामालम्बनं मतम् । गुणानां तस्य महिमा भवेदुद्दीपनं पुनः ॥ ३.२४३ ॥ स्तम्भः स्वेदोऽथ रोमाञ्चगद्रदस्वरसंभ्रमः । तथा नेत्रविकासाद्या अनुभावाः प्रकीर्तिताः ॥ ३.२४४ ॥ वितर्कावेगसंभ्रान्तिहर्षाद्या व्यभिचारिणः । यथा "दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत ष्टंकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः । द्राक्पर्यस्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति" ॥ अथ शान्तः शान्तः शमस्थयिभाव उत्तमप्रकृतिर्मतः ॥ ३.२४५ ॥ कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः । अनित्यत्वादिनाशेषवस्तुनिः सारता तु या ॥ ३.२४६ ॥ परमात्मस्वरूपं वा तस्यालम्बनमिष्यते । पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः ॥ ३.२४७ ॥ महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः । रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः ॥ ३.२४८ ॥ निर्वेदहर्षस्मरणमतिभूतदयादयः । यथा "रथ्यान्तश्चरतस्तथा धृतजरत्कन्थालवस्याध्वगैः सत्रासं च सकौतुकं च सदयं दृष्टस्य तैर्नागरैः । निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे निःशङ्कः करटः कदा करपुटीभिक्षां विलुण्ठिष्यति" ॥ पुष्टिस्तु महाभारतादौ द्रष्टव्या । अस्य दयावीरादेः सकाशाद्भेदमाह निरहङ्काररूपत्वाद्दयावीरादिरेष नो ॥ ३.२४९ ॥ दयावीरादौ हि नागानन्ददौ जीमूतवाहनादेरन्तरा मलयवत्याद्यनुरागादेरन्ते च विद्याधरचक्रवतित्वाद्याप्तेर्दर्शनादहङ्कारोपशमो न दृश्यते । शान्तस्तु सर्वाकारेणाहङ्कारप्रशमैकरूपत्वान्न तत्रांन्तर्भावमर्हति । ततश्च नागानन्दादेः शान्तरसप्रधानत्वमपास्तम् । ननु "न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च कचिदिच्छा । रसः स शान्तः कथितो मनीन्द्रैः सर्वेषु भावेषु समप्रमाणः" ॥ इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भावात्तत्र सञ्चार्यादीनामभावात्कथं रसत्वमित्युच्यते युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः । रसतामेति तदस्मिन् सञ्चार्यादेः स्थितिश्च न विरुद्धा ॥ ३.२५० ॥ यश्चास्मिन्सुखाभावोऽप्युक्तस्तस्य वैषयिकसुखपरत्वान्न विरोधः । उक्तं हि "यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्" ॥ "सर्वाकारमहङ्काराहितत्वं ब्रजन्ति चेत् । अत्रान्तर्भावमर्हन्ति दयावीरादयस्तथा" ॥ आदिशब्दाद्धर्मवीरदानवीरदेवताविषयरतिप्रभृतयः । तत्र देवताविषया रतिर्यथा कदा वाराणस्यामिह सुरधुनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् । अये गौरीनाथ ! त्रिपुरहर ! शंभो ! त्रिनयन ! प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्" ॥ अथ मुनीन्द्रसंमतो वत्सलः स्फुटं चमत्कारितया वत्सलं च रसं विदुः । स्थायी वत्सलतास्नेहः पुत्राद्यालम्बनं मतम् ॥ ३.२५१ ॥ उद्दीपनानि तच्चेष्टा निद्याशौर्यदयादयः । आलिङ्गनाङ्गसंस्पर्शशिरश्चुम्बनमीक्षणम् ॥ ३.२५२ ॥ पुलकानन्दवाष्पाद्या अनुभावाः प्रकीर्तिताः । सञ्चारिणोऽनिष्टशङ्काहर्षगर्वादयो मताः ॥ ३.२५३ ॥ पद्मगर्भच्छविर्वर्णो दैवतं लोकमातरः । यथा "यदाह धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गलीम् । अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोर्ऽभकः" ॥ एतेषां च रसानां परस्परविरोधमाह आद्यः करुणबीभत्सरौद्रवीरभयानकैः ॥ ३.२५४ ॥ भयानकेन करुणोनापि हास्यो विरोधभाक् । करुणो हास्यशृङ्गारसाभ्यामपि तादृशः ॥ ३.२५५ ॥ रौद्रस्तु हास्यशृङ्गरभयानकरसैरपि । भयानकेन शान्तेन तथा वीररसः स्मृतः ॥ ३.२५६ ॥ शृङ्गारवीरराद्राख्यहास्यशान्तैर्भयानकः । शान्तस्तु वीरशृङ्गाररौद्रहास्यभयानकैः ॥ ३.२५७ ॥ शृङ्गारेण तु बीभत्स इत्याख्याता विरोधिता । आद्यः शृङ्गारः । एषां च समावेशप्रकारा वक्ष्यन्ते । कुतोऽपि कारणात्क्वापि स्थिरतामुपयन्नपि ॥ ३.२५८ ॥ उन्मादादिर्न तु स्थायी न पात्रे स्यैर्यमेति यत् । यथा विक्रमोर्वश्यां चतुर्थेऽङ्के पुरूरवस उन्मादः । रसभावौ तदाभासौ भावस्य प्रशमोदयौ ॥ ३.२५९ ॥ सन्धिः शबालता चेति सर्वेऽपि रसनाद्रसाः । रसनधर्मयोगित्वाद्भावादिष्वपि रसत्वमुपचारादित्यभिप्रायः । भावादय उच्यन्ते सञ्चारिणः प्रधानानि देवादिविषया रतिः ॥ ३.२६० ॥ उद्बुद्धमात्रः स्थायी च भाव इत्यभिधयते । "न भावहीनोऽस्ति रसो न भावो रसवजितः । परस्परकृता सिद्धिरनयो रसभावयोः" ॥ इत्युक्तदिशा परमालोचनया परमविश्रान्तिस्थानेन रसेन सहैव वर्तमाना अपि राजानुगतविवाहप्रवृत्तभृत्यवदापाततो यत्र प्रधान्येनाभिव्यक्ता व्यभिचारिणो देवमुनिगुरुनृपादिवषया च रतिरुद्बुद्धमात्रा विभावादिभिरपरिपुष्टतया रसरूपतामनापद्यमानाश्च स्थायिनो भावा भावशब्दवाच्याः । तत्र व्यभिचारी यथा "एवंवादिनि देवर्षौऽइत्यादि(१७० पृ.) । अत्रावहित्था । देवविषया रतिर्यथा मुकुन्दमालायाम् "दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक ! प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणोऽपि चिन्तयामि" ॥ मुनिविषया रतिर्यथा "विलोकनेनैव तवामुना मुने ? कृतः कृतार्थोऽस्मि निबर्हितांहसा । तथापि शुश्रषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन तृप्यते" ॥ राजविषया रतिर्यथा मम "त्वद्वाजिराजिनिर्धूतधूलीपटलपङ्किलाम् । न धत्ते शिरसा गङ्गां भूरिभारभिया हरः" ॥ एवमन्यत् । उद्बुद्धमात्रस्थायिभावो यथा "हरस्तु किंचित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि" ॥ अत्र पार्वतीविषया भगवतो रतिः । ननूक्तं प्रपाणकरसवद्विभावादीनामेकोऽत्राभासो रस इति । तत्र सञ्चारिणः पार्थक्याभावात्कथं प्राधान्येनाभिव्यक्तिरित्युच्यते यथा मरिचखण्डादेरेकीभावे प्रपाणके ॥ ३.२६१ ॥ उद्रेकः कस्यचित्क्वापि तथा सञ्चारिणो रसे । अथ रसाभासभावाभासौ अनौचित्यप्रवृत्तत्व आभासो रसभावयोः ॥ ३.२६२ ॥ अनौचित्यं चात्र रसानां भारतादिप्रणीतलक्षणानां सामग्रीरहितत्वे एकदेशयोगित्वोपलक्षणपरं बोध्यम् । तच्च बालव्युत्पत्तये एकदेशतो दर्श्यते उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च । बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् ॥ ३.२६३ ॥ प्रतिनायकनिष्ठत्वे तद्वदधमपात्रतिर्यगादिगते । शृङ्गारेऽनौचित्यं रौद्रे गुर्वादिगतकोपे ॥ ३.२६४ ॥ शान्ते च हीननिष्ठे, गुर्वाद्यलम्बने हास्ये । व्रह्मवधाद्युत्साहेऽधमपात्रगते तथा वारे ॥ ३.२६५ ॥ उत्तमपात्रगतत्वे भयानके ज्ञेयमेवन्यत्र । तत्र रतेरुपनायकनिष्ठत्वे यथा मम "स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनी क्षोणीमावृणुते तमालमलिनच्छाया तमः सन्ततिः । तन्मे सुन्दर ! मुञ्च, कृष्ण ! सहसा वर्त्मेति गोप्या गिरः श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः" ॥ बहुनायकनिष्ठत्वे यथा "कान्तास्त एव भुवनत्रितयेऽपि मन्ये येषां कृते सुतनु ! पाणडुरयं कपोलः" । अनुभयनिष्ठत्वे यथामालतीमाधवे नन्दनस्य मालत्याम् । "पश्चादुभयनिष्ठत्वेऽपि प्रथममेकनिष्ठत्वे रतेराभासत्वम्" इति श्रीमल्लोचनकाराः । तत्रोदाहरणं यथारत्नावल्यां सागरिकाया अन्योन्यसंदर्शनात्प्राग्वत्सराजे रतिः । प्रतिनायकनिष्ठत्वे यथाइयग्रीवव धे हयग्रीवस्य जलक्रीडावर्णने । अधमपात्रगतत्वे यथा "जघनस्थलनद्धपत्रवल्ली गिरिमल्लीकुसुमावनि कापि भिल्ली । अवचित्य गिरौ पुरो निषण्णा स्वकचानुत्कचयाञ्चकार भर्त्रा" ॥ तिर्यगादिगतत्वे यथा "मल्लीमतल्लीषु वनान्तरेषु वल्ल्यन्तरे वल्लभमाह्वयन्ती । चञ्चद्विपञ्चीकलनादभङ्गीसंगीतमङ्गीकुरुते स्म भृङ्गी" ॥ आदिशब्दत्तापसादयः । रौद्राभासो यथा "रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गो मुहुर्मुक्त्वा कर्णमपेतभीर्धृ तधनुर्बाणो हरेः पश्यतः । आध्मातः कटुकोक्तिभिः स्वमसकृद्दोविक्रमं कीर्तय न्नंसास्फोटपटुर्युधिष्ठिरमसौ इन्तुं प्रविष्टोर्ऽजुनः" ॥ भयानकाभासो यथा "अशक्नुवन् सोढुमधीरलोचनः सहस्त्ररश्मेरिव यस्य दर्शनम् । प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय विभ्यद्दिवसानि कौशिकः" ॥ स्त्रीनीचविषयमेव हि भयं रसप्रकृतिः । एवमन्यत्र । भावाभासो लज्जादिके तु वेश्यादिविषये स्यात् ॥ ३.२६६ ॥ स्पष्टम् । भावस्य शान्तावुदये संधिमिश्रितयोः क्रमात् । भावस्य शान्तिरुदयः संधिः शबलता मता ॥ ३.२६७ ॥ क्रमेण यथा "सुतनु ! जहिहि कोपं पश्य पादानतं मां न खलु तव कदाचित्कोप एवंविधोऽभूत् । इति निगदति नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किञ्चित्" ॥ अत्र बाष्पमोचनेनेर्ष्याख्यसञ्चारिभावस्य शमः । "चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते । व्रजति रमणो निः श्वस्योच्चौ स्तनस्थितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता" ॥ अत्र विषादस्योदयः । "नयनयुगासेचनकं मानसवृत्त्याप दुष्प्रापम् । रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति चमे" ॥ अत्र हर्षविषादयोः संधिः । "क्वाकार्यं , शशलक्ष्मणः क्व च कुलं, भूयोऽपि दृश्यन्ते सा, दोषाणां प्रशमाय मे श्रुतमहो, कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषा कृतधियः, स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि, कः खलु युवा धन्योऽधरं धास्यति" ॥ अत्र वितकारैत्सुक्यमतिस्मरणशङ्कादैन्यधूतिचिन्तानां शबलता । इति साहित्यदर्पणे रसादिनिरूपणो नाम तृतीयः परिच्छेदः । ___________________________________________________ चतुर्थः परिच्छेदः अथ काव्यभेदमाह काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यं चेति द्विधा मतम् । तत्र वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम् ॥ ४.१ ॥ वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे ध्वन्यतेऽस्मिन्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम् । भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ । अविवक्षितवाच्योऽन्यो विवक्षितान्यपरवाच्यश्च ॥ ४.२ ॥ तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः । लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं बाधितस्वरूपम् । विवक्षितान्यपरवाच्यस्त्वभिधामूलः, अत एवात्र वाच्यं विवक्षितम् । अन्यपरं व्यङ्ग्यनिष्ठम् । अत्र हि वाच्योर्ऽथः स्वरूपं प्रकाशयन्नेव व्यङ्ग्यार्थस्य प्रकाशकः । यथाप्रदीपो घटस्य । अभिधामूलस्य बहुविषयतया पश्चान्निर्देशः । अविवक्षितवाच्यस्य भेदावाह अर्थन्तरं संक्रमिते वाच्येऽत्यन्तं तिरस्कृते । अविवक्षितवाच्योऽपि ध्वनिर्द्वैविध्यमृच्छति ॥ ४.३ ॥ अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसङ्क्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः । यत्र स्वयमनुपयुज्यमानो मुख्योर्ऽथः स्वविशेषरूपेर्ऽथान्तरे परिणमति, तत्र मुख्यार्थस्य स्वविशेषरूपार्थान्तरसंक्रमितत्वादर्थान्तरसङ्क्रमितवाच्यत्वम् । यथा"कदली कदली, करभः करभः, करिराजकरः करिराजकरः । भुवत्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः" ॥ अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभिया सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादिगुणविशिष्टकदल्यादिरूपमर्थं बोधयन्ति । जाड्याद्यतिशयश्च व्यङ्ग्यः । यत्र पुनः स्वार्थं सर्वथा परित्यजन्नर्थान्तरे परिणमति, तत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् । यथा निऋश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते । अत्रान्धशब्दो मुख्यार्थे बाधितेऽप्रकाशरूपमर्थं बोधयति, अप्रकाशातिशयश्च व्यङ्ग्यः । अन्धत्वाप्रकाशत्वयोः सामान्यविशेषभावाभावान्नार्थान्तरसंक्रमितवाच्यत्वम् । यथा भण धम्मिअ वीसत्थो, सो सुणओ अज्ज मारिओ देण । गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण ॥ अत्र "भ्रम धार्मिक" इत्यतो भ्रमणस्य विधिः प्रकृतेऽनुपयुज्यमानतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्कान कार्या । यत्र खलु विधिनिषैधावुत्पत्स्यमानावेव निषधविध्योः पर्यवस्यतस्तत्रैव तदवसरः । यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषधयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव । तदुक्तम् "क्वचिद्वाध्यतया ख्यातिः क्वचित्ख्यातस्य बाधनम् । पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु" ॥ अत्राद्ये मुखायार्थस्यार्थान्तरे संक्रमणं प्रवेशः, न तु तिरोभावः । अत एवात्राजहत्स्वार्था लक्षणा । द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृतत्वाज्जहत्स्वार्था । विवक्षिताभिधेयोऽपि द्विभेदः प्रथमं मतः । असंलक्ष्यक्रमो यत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा ॥ ४.४ ॥ विवक्षितान्यपरवाच्योऽपि ध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः । तत्राद्यो रसभावादिरेक एवात्र गण्यते । एकोऽपि भेदोऽनन्तत्वात्संख्येयस्तस्य नैव यत् ॥ ४.५ ॥ उक्तस्वरूपो भावादिरसंलक्ष्यक्रमव्यङ्ग्यः । अत्र व्यङ्ग्यप्रतीतेर्विभावादिप्रतितिकारणत्वात्क्रमोऽवश्यमस्ति किन्तूत्पलपत्र्रशतव्यतिभेदवल्लाघवान्न संलक्ष्यते । एषु रसादिषु च एकस्यापि भेस्यानन्तत्वात्संख्यातुमशक्यत्वादसंलक्ष्यक्रमव्यङ्ग्यध्वनिर्नाम काव्यमेकभेदमेवोक्तम् । तथाहिएकस्यैव "शृङ्गारस्यैकोऽपि संभोगरूपो भेदः परस्परालिङ्गनाधरपानचुम्बनादिभेदात्प्रत्येकं च निभावादिवैचित्र्यात्संखायतुमश्क्यः, का गणना सर्वेषाम् । शब्दार्थोभयशक्त्युत्थे व्यङ्क्येऽनुस्वानसन्निभे । ध्वनिर्लक्ष्यक्रमव्यङ्ग्यस्त्रिविधः कथितो बुधैः ॥ ४.६ ॥ क्रमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्ग्यस्तस्य शब्दशक्त्युद्भवत्वेन, अर्थशक्त्युद्भवत्वेन शब्दार्थशक्त्युद्भवत्वेन च त्रैविध्यात्संलक्ष्यक्रमव्यङ्ग्यनाम्नोध्वनेः काव्यस्यापि त्रैविध्यम् । तत्र वस्त्वलङ्काररूपत्वाच्छब्दशक्त्युद्भवोद्विधा । अलङ्कारशब्दस्य पृथगुपादानादनलङ्कारं वस्तुमात्रं गृह्यते । तत्र वस्तुरूपः शब्दशक्त्युद्भवो व्यङ्ग्यो यथा पन्थि अ ! ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे । उण्णअ पओहरं पेक्खिअ ऊण जै वसति ता वससु ॥ अत्र सत्थरादिशब्दशक्त्या यद्युपभोगक्षमोऽसि तदास्स्वेति वस्तु व्यज्यते । अलङ्काररूपो यथा"दुर्गालङ्घितविग्रहः" इत्यादौ (५९ पृदृ) अत्र प्राकरणिकस्य उमानाममहादेवीवल्लभभानुदेवनामनृपतेर्वर्णने द्वितीयार्थसूचितमप्रारणिकस्य पार्वतीवल्लभस्य वर्णनमसम्बनद्धं मा प्रसङ्क्षीदिति ईश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते तदत्र उमावल्लभ उमावल्लभ इवेत्युपमालङ्कारो व्यङ्ग्यः । यथा वा "अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद ! प्रभो ! । अहितः सहितः साधु यशोभिरसतामसि" ॥ अत्रामित इत्यादावपिशब्दाभावाद्विरोधाभासो व्यङ्ग्यः । व्यङ्ग्यस्यालङ्कार्यत्वेऽपि ब्राह्मणश्रमणन्यायादलङ्कारत्वमुपचर्यते । वस्तु वालङ्कृतिर्वापि द्विधार्थः सम्भवी स्वतः ॥ ४.७ ॥ कवेः प्रौठोक्तिसिद्धो वा तन्निबद्धस्य वेति षट् । षड्भिस्तैर्व्यज्यमानस्तु वस्त्वलङ्काररूपकः ॥ ४.८ ॥ अर्थशतयुद्भवो व्यङ्ग्यो याति द्वादशभेदताम् । स्वतः सम्भवी औचित्याद्बहिरपि सम्भाव्यमानः । प्रौढोक्त्या सिद्धः, न त्वौचित्येन । तत्र क्रमेण यथा दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि सत्वरमितः स्त्रोतस्तमालाकुलं नीरन्ध्राः तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ॥ अत्र स्वतः सम्भविना वस्तुना तत्प्रतिपादिकाया भावपरपुषोपयोगजनखक्षतादिगोपनरूपं वस्तुमात्रं व्यज्यते । दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि । तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥ अत्र स्वतः सम्भविना वस्तुना रवितेजसो रघुप्रतापोऽधिक इति व्यतिरेकालङ्कारो व्यज्यते । आपतन्तममुं दूरादूरीकृतपराक्रमः । बलोऽवलोकयामास मातङ्गमिव केसरी ॥ अत्रोपमालङ्कारेण स्वतः सम्भविना व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणुदारिणः क्षयं करिष्यतीति वस्तु व्यज्यते । गाढकान्तदशनक्षतव्यथा सङ्कटादरिबधूजनस्य यः । ओष्ठविद्रुमदलान्यमोचयन्निदर्शन् युधि रुषा निजाधरम् ॥ अत्र स्वतः सम्भविना विरोधालङ्कारेणाधरो निर्दष्टः शत्रवो व्यापादिताश्चेति समुच्चयालङ्कारो व्यङ्ग्यः । "सजेहि सुरहिमासो ण दाव अप्पेइ जुऐजणलक्खमुहे । अहिणवसहआरमुहे णवपत्तले अणङ्गस्स सरे" ॥ अत्र वसन्तः शरकारः, कामो धन्वी, युबतयो लक्ष्यम्, पुष्पाणि शरा इति कविप्रौढोक्तिसिद्धं वस्तु प्रकाशीभवन्मदनविजृम्भणरूपं वस्तु व्यनक्ति । "इजनीषु विमलभानोः करजालेन प्रकाशितं वीर ! धवलयति भुवनमण्डलमखिलं तव कीतिसंततिः सतम्" ॥ अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीतिसन्ततेश्चन्द्रकरजालादधिककालप्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्क्यः । "दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः । मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः" ॥ अत्र कविप्रौढोक्तिसिद्धेनापह्नुत्यलङ्कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु व्यज्यते । "धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः । एकोऽपि त्रिकलिङ्गभूमितिलक ! त्वत्कीर्तिराशिर्ययौ । नानामण्डनतां पुरन्दपुरीवामभ्रुवां विग्रहे" ॥ अत्र कविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण भूमिष्ठोऽपि स्वर्गस्थानामुपकारं करोषीति विभावनालङ्कारो व्यज्यते । "शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । सुमुखै ! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः" ॥ अत्रानेन कविनिबद्धस्य कस्यचित्कामिनः प्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते । "सुभगे ! कोटिसंख्यत्वमुपेत्य मदनाशुगैः । वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम्" ॥ अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामशराणां कोटिसंख्यत्वप्राप्त्यो निखिलवियोगिमरणोन वस्तुना शराणां पञ्चता शरान् विमुच्य वियोगिनः श्रितेवे त्युत्प्रेक्षालङ्कारो व्यज्यते । "मल्लिकामुकुले चणिड ! भाति गुञ्जन्मधुव्रतः । प्रयाणो पञ्जबाणस्य शङ्वमापूरयन्निव" ॥ अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेनोत्प्रेक्षालङ्कारेण कामस्यायमुन्मादकः कालः प्राप्तस्तत्कथं मानिनि मानं न मुञ्चसीति वस्तु व्यज्यते । "महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती । अणुदिणमणण्णकम्मा अङ्ग तणुत्त्रं पि तणुएइ" ॥ अत्रामाअन्तीति कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण तनोस्तनूकरणोऽपि तव हृदये न वर्तत इति विशेषोक्त्यलङ्कारो व्यज्यते । न खलु कवेः कविनिबद्धस्येव रागाद्याविष्टता अतः कविनिबद्धवक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयवमत्कारकारिणीति पृथक्प्रतिपादिता । एषु चालङ्कृतिव्यञ्जनस्थले रूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य प्राधान्यं सहृदयसंवेद्यम्, न तु रूप्यादीनामित्यलङ्कृतेरेव मुख्यत्वम् । एकः शब्दार्थशक्त्युत्थे अभयशक्त्युद्भवे व्यङ्ग्ये एको ध्वनेर्भेदः । यथा "हिममुक्तचन्द्ररुचिरः सपद्मको मदयन् द्विजाञ्जनितमीनकेतनः । अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः" ॥ अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालङ्कारो व्यङ्ग्यः । एवं च व्यङ्ग्यभेदादेव व्यञ्जकानां काव्यानां भेदः । तदष्टादशधा ध्वनिः ॥ ४.९ ॥ अविवक्षितवाच्योर्ऽथान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः । विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्यङ्ग्यत्वेनैकः । संलक्ष्यक्रमव्यङ्ग्यत्वेन च शब्दार्थोभयशक्तिमूलतया पञ्चदशेत्यष्टादशभेदो ध्वनिः । एषु च वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः । तत्रार्थान्तरसंक्रमितवाच्यो ध्वनिः पदगतो यथा "धन्यः स एव तरुणो नयने तस्यैव नयने च । युवजनमोहनविद्य भवितेयं यस्य संमुखे सुमुखई" ॥ अत्र द्वितीयनयनशब्दो भग्यवत्तादिगुणविशिष्टनयनपरः । वाक्यगतो यथा "त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति । आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्" ॥ अत्र प्रतिपाद्यस्य संमुखीनत्वादेव लब्धे प्रतिपाद्यत्वे त्वामिति पुनर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थं तक्षयति । एवं वच्मीत्यनेनैव कर्तरि लब्धेऽस्मीति पुनर्वचनम् । तथा विदुषां समवाय इत्यनेनैव वक्तुः प्रतिपादने सिद्धे पुनर्वच्मीति वचनमुपदिशामीति वचनविशेषरूपमर्थं लक्षयति । एतानि च स्वातिशयं व्यञ्जयन्ति । एतेन मम वचनं तवात्यन्तं हितं तदवश्यमेव कर्तव्यमित्यभिप्रायः । तदेवमयं वाक्यगतोऽपर्थान्तरसंक्रमितवाच्यो ध्वनिः । अत्यन्ततिरस्कृतवाच्यः पदगतो यथा"निःश्वासान्ध" इत्यादि । वाक्यवतो यथा"उपकृतं बहु तत्र" इत्यादि । अन्येषां वाक्यागतत्वे उदाहृतम् । पदगतत्वं यथा "लावण्यं तदसौ कान्तिस्तद्रूपं स वचः क्रमः । तदा सुधास्पदमभूदधुना तु ज्वरो महान्" ॥ अत्र लावण्यादीनां तादृगनुभवैकगौचरताव्यञ्जकानां तदादिशब्दानामेव प्राधान्यम्, अन्येषां तु तदुपकारित्वमेवेति तन्मूलक एव ध्वनिव्यपदेशः । तदुक्तं ध्वनिकृता "एकावयवसंस्थेन भूषणोनेव कामिनी । पदद्योत्येन सुकवेर्ध्वनिना भाति भारती" ॥ एवं भावादिष्वप्यूह्यम् । "भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः । कस्य नानन्दनिस्यन्दं विदधाति सदागमः" ॥ अत्र सदागमशब्दः सन्नहितमुपनायकं प्रति सच्छास्त्रार्थमभिधाय सतः पुरुषस्यागम इति वस्तु व्यनक्ति । ननु सदागमः सदागम इवेति न कथमुपमाध्वनिः ? सदागमशब्दयोरुपमानोपमेयभावाविवक्षणात् । रहस्यस्य सङ्गोपनार्थमेव हि द्व्यर्थपदप्रतिपादनम् । प्रकरणादिपर्यालोचनेन च सच्छास्त्राभिधानस्यासम्बन्धत्वात् । "अनन्यसाधारणधीर्धृताखिलवसुन्धरः । राजते कोऽपि जगति स राजा पुरुषोत्तमः" ॥ अत्र पुरुषोत्तमः पुरुषोत्तम इवेत्युपमाध्वनिः । अनयोः शब्दशक्तिमूलौ संलक्ष्यक्रमभेदौ । सायं स्नानमुपासितं मलयजेनाङ्ग समालेपितं यातोऽस्ताचलमौलिमम्बरमणिविस्त्रब्धमत्रागतिः । आश्चर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति ते नासितुम्" ॥ अत्र स्वतः संभविना वस्तुना कृतपरपुरुषपरिचया क्लान्तासीति वस्तु व्यज्यते । तच्चाधुना क्लान्तासि, न तु पूर्वं कदाचिदपि तवैवंविधः क्लमो दृष्ट इति बोधयतोऽधुना पदस्यैवेतरपदार्थोत्कर्षादस्यैव पदान्तरापेक्षया वैशिष्ट्यम् । तदप्राप्तिमहादुःखविलीनाशेषपातका । तच्चिन्ताविपुलाङ्लादक्षीणपुण्यचया तथा ॥ चिन्तयन्ती जगत्सूतिं परं ब्रह्मस्वरूपिणम् । निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका" ॥ (युग्मकम्) अत्राशेषचयपदप्रभावादनेकजन्मसहस्त्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यवसितातया भगवद्विरहदुःखचिन्ताह्लादयोः प्रत्यायनमित्यतिशयोक्तिद्वयप्रतीतिरशेषचयपदद्वयद्योत्या । अत्र च व्यञ्जकस्य कविप्रौढोक्तिमन्तरेणापि संभवात्स्वतः संभविता । "पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम् । देव ! त्रिपथगात्मानं गोपयत्युग्रमूर्धनि" ॥ इदं मम । अत्र पश्यन्तीति कविप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण न केऽप्यन्ये दातारस्तव सदृशा इति व्यतिरेकालङ्कारोऽसंख्यपदद्योत्यः । एवमन्येष्वप्यर्थशक्तिपूलसंलक्ष्यक्रमभेदेषूदाहार्यम् । तदेवं ध्वनेः पूर्वोक्तेष्वष्टादशसु भेदेषु मध्ये शब्दार्थशक्त्युत्थो व्यङ्ग्यो वाक्यमात्रे भवन्नेकः । अन्ये पुनः सप्तदश वाक्ये पदे चेति चतुस्त्रिंशदिति पञ्चत्रिंशद्भेदाः । प्रबन्धेऽपि मतो धीरैरर्थशक्त्युद्भ्वो ध्वनिः ॥ ४.१० ॥ प्रबन्धे महावाक्ये । अनन्तरोक्तद्वादशभेदोर्ऽथशक्त्युत्थः । यथा महाभारते गृध्रगोमायुसंवादे "अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसंकुले । कङ्कालबहते घोरे सर्वप्राणिभयङ्करे ॥ न चेह जीवितःकश्चित्कालधर्ममुपागतः । प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशई" ॥ इति दिवा प्रभवतो गृध्रस्य श्मशाने मृतं बालमुपादाय तिष्ठतां तं परित्यज्य गमनमिष्टम् । "आदित्योऽयं स्थितो मूढाः ! स्नेहं कुरुत साम्प्रतम् । बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ॥ अमुं कनकवर्णाभं बालमप्राप्तयौवनम् । गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः" ॥ इति निशि समर्थस्य गोमायोर्दिवसे परित्यागोऽनभिलषित इति वाक्यसमहेन द्योत्यते । अत्र स्वतः संभवी व्यञ्जकः । एवमन्येष्वेकादशभेदेषूदाहार्यम् । एवं वाच्यार्थव्यञ्जकत्वे उदाहृतम् । लक्ष्यार्थस्य यथा"निःशेषच्युतचन्दनम्" इत्यादि (पृदृ ६२) । व्यङ्ग्यार्थस्ययथा"उअ णिच्चल" इत्यादि (पृदृ ६३) । अनयोः स्वतः संभविनोर्लक्ष्यव्यङ्ग्यार्थौ यञ्जकौ । एवमन्येष्वेकादशभेदेषूदाहार्यम् । पदांशवर्णरचनाप्रबन्धेष्वस्फुटक्रमः । असंलक्ष्यक्रमव्यङ्ग्यो ध्वनिस्तत्र पदांशप्रकृतिप्रत्ययोपसर्गनिपातादिभेदादनेकविधः ॥ यथा "चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः । करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती" ॥ अत्र "हताः" इति न पुनः "दुःखं प्राप्तवन्तः" इति हन्प्रकृतेः । "मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु" ॥ अत्र "तु" इति निपातस्यानुतापव्यञ्जकत्वम् । "न्यक्कारो ह्ययमेव मे यदरः" इत्यादौ (८ पृ.) "अरयः" इति बहुवचनस्य, "तापसः" इत्येकवचनस्य, "अत्रैव" इति सर्वनाम्नः, "निहन्ति" इति "जीवति इति च तिङः, "अहो" इत्यव्ययस्य, "ग्रामटिका" इति करूपतद्धितस्य, "विलुण्ठन" इति व्युपसर्गस्य, "भुजैः" इति बहुवचनस्य व्यञ्जकत्वम् । "आहारे विरतिः, समस्तविषयग्रामे निवृत्तिः परा, नासाग्रे नयनं तदेतदपरं यच्चैकतानं मनः . मौनं चेदमिदं च शून्यमधुना यद्विश्वमाभाति ते, तद्ब्रूयाः सखि ! योगिनी किमसि, भोः !किं वा वियोगिन्यसि" ॥ अत्र तु "आहारे इति विषयसप्तम्याः, "समस्त" इति "परा" इति च विशेषणद्वयस्य, "मौनं चेदम्" इति प्रत्यक्षपरामर्शिनः सर्वनाम्नः, आभाति" इत्युपसर्गस्य "सखि" इति प्रणयस्मारणस्य "असि भोः" इति सोत्प्रासस्य "किं वा" इत्युत्तरक्षदार्ढ्यसूचकस्य वाशब्दस्य, "असि" इति वर्त्तमानोपदेशस्य च तत्तद्विषयव्यञ्जकत्वं सहृदयसवेद्यम् । वर्णरचनयोरुदाहरिष्यते । प्रबन्धे यथामहाभारते शान्तः । रामायणो करुणः । मालतीमाधवरत्नावल्यादौ शृङ्गारः । एवमन्यत्र । तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्मताः ॥ ४.११ ॥ सङ्करेण त्रिरूपेण संसृष्ट्या चैकरूपया । वेदखाग्निशराः (५३०४) शुद्धैरिषुबाणाग्निसायकाः (५३५५) ॥ ४.१२ ॥ शुद्धैः शुद्धभेदैरेकपञ्चाशता योजनेनेत्यर्थः । दिङ्मात्रं दूदाह्रियते "अत्युन्नतस्तयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय । सा पूर्णकुम्भनवनीरजतोरणस्त्रक्संभारमङ्गलमयत्नकृतं विधत्ते" ॥ अत्र स्तनावेव पूर्णकुम्भौ, दृष्टय एव नवनीरजस्त्रज इति रूपकध्वनिरसध्वन्योरेकाश्रयानुप्रवेशः सङ्करः । "धिन्वन्त्यमूनि मदमूर्च्छदलिध्वनीनि धूताध्वनीनहृदयानि मधोर्दिनानि । निस्तन्द्रचन्द्रवदनावदनारविन्दसौरभ्यसौहृदसगर्वसमीरणानि" ॥ अत्र निस्तन्द्रेत्यादिलक्षणामूलध्वनीनां संसृष्टिः । अथ गुणीभूतव्यङ्ग्यम् अपरं तु गुणीभूतव्यङ्ग्यं वाच्यादनुत्तमे व्यङ्ग्ये । अपरं काव्यम् । अनुत्तमत्वं न्यूनतया साम्येन च संभवति । तत्र स्यादितराङ्गकाक्वाक्षिप्तं च वाच्यसिद्ध्य्ङ्गम् ॥ ४.१३ ॥ संदिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमगूढम् । व्यङ्ग्यमसुन्दरमेवं भेदास्तस्योदिता अष्टौ ॥ ४.१४ ॥ इतरस्य रसादेरङ्गरसादिव्यङ्ग्यम् । यथा"अयं सरसनोत्कर्षो पीनस्तनविमर्दनः । नाभ्यूजघनस्पर्शो नीवीविस्त्रंसनः करः" ॥ अत्र शृङ्गारः करुणस्याङ्गम् । "मानोन्नतां प्रणयिनीमनुनेतुकामस्त्वसैन्यसागररवोद्रतकर्णतापः । हा !हा! कथं नु भवतो रिपुराजधानीप्रासादसंततिषु तिष्ठति कामिलोकः ॥ अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्य राजविषयरतावङ्गभावः । "जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना मायाप्तं रामत्वं कुशलवसुता न त्वधिगता" ॥ अत्र रामत्वं प्राप्तमित्यवचनेऽपि शब्दशक्तेरेव रामत्वमवगम्यते । वचनेन तु सादृश्यहेतुकतादात्म्यारोपणमाविष्कुर्वता तद्रोपनमपाकृतम् । तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाङ्कतां नीतम् । काक्वाक्षिप्तं यथा "मथ्नामि कौरवशतं समरे न कोपाद्दुःशासनस्य रुधिरं न पिबाम्युतरस्तः । संचूर्णयामि गदया न सुयोधनोरूं सन्धि करोतु भवतां नृपतिः पणेन" ॥ अत्र मथ्नाम्येवेत्यादिव्यङ्ग्यं वाच्यस्य निषेधस्य सहभावेनैव स्थितम् । "दीपयन् रोदसीरन्ध्रमेष ज्वलति सर्वतः । प्रतापस्तव राजेन्द्र ! वैरिवंशदवानलः" ॥ अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्ग्यः प्रतापस्य दावानलत्वारोपसिद्ध्यङ्गम् । "हरस्तु किंचित्परिवृत्तधैर्यः" इत्यादौ ((२२.पृ दृ) विलोचनव्यपारलाषयोः प्राधान्ये संदेहः । ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । जामदग्नयश्च वो मित्त्रमन्यथा दुर्मनायते" ॥ अत्र परशुरामो रक्षःकुलक्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समंप्राधान्यम् । "सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः । अल्लावदीननृपतौ न सन्धिर्न च विग्रहः" ॥ अत्राल्लावदीनाख्ये नृपतौ दानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यं व्युत्पन्नानामपि भ्क्तटित्यस्फुटम् । "अनेन लोकगुरुणा सतां धर्मोपदेशिना । अहं व्रतवती स्वैरमुक्तेन किमतः परम्" ॥ अत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्यग्योषिति बालात्कारोपभोगः स्फुटतया वाच्यायमान इत्यगूढम् । "वाणीरकुडङ्गुड्डीणसौणिकोलाहणं सुणन्तीए । घरकम्मवावडाए बहुए सीअन्ति आङ्गाइं" ॥ अत्र दत्तसंकेतः जश्चिल्लतागृहं प्रविष्ट इति व्यङ्ग्यात्"सीदन्त्यङ्गनि" इति वाच्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम् । किञ्च यो दीपकतुल्ययोगितादिषूपमाद्यलङ्कारो व्यङ्ग्यः स गुणीभूतव्यङ्ग्य एव । काव्यस्य दीपकादिमुखेनैव चमत्कारविधायित्वात् । तदुक्तं ध्वनिकृता "अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते । तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः" ॥ यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्यासः । यथा "दृष्ट्या केशव ! गोपरागहृतया किंचिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ ! पतितां किं नाम नालम्बसे । एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिर्गोप्येवं गदितः सलेशमवताद्रोष्ठे हरिर्वश्चिरम्" ॥ अत्र गोपरागादिशब्दानां गोपे राग इत्यादिव्यङ्ग्यार्थानां सलेशमिति पदेन स्फुटतयावभासः । सलेशमिति पदस्य परित्यागे ध्वनिरेव । किञ्च । यत्र वस्त्वलङ्कारसादिरूपव्यङ्ग्यानां रसाभ्यन्तरे गुणीभावस्तत्र प्रधानकृत एव काव्यव्यवहारः । तदुक्तं तेनैव "प्रकारोऽयं गुणीभूतव्यह्ग्योऽपि ध्वनिरूपताम् । धत्ते रसादितात्पर्यपर्यालोचनया पुनः" ॥ इति । यत्र तु"यत्रोन्मदानां प्रमदाजनानामभ्रंलिहः शोणमणीमयखः । संध्याभ्रमं प्राप्नुताकाण्डेऽप्यनङ्गने पथ्यविधिं विधत्ते" ॥ इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेङ्गत्वम्, तत्र तेषामतात्पर्यविषयत्वेऽपि तैरेव गुणीभूतैः काव्यव्यवहारः । तदुक्तमस्मद्गोत्रकविपणिडतमुख्यश्रीचण्डीदासपादैःवाक्या (काव्यार्)थस्याखण्डबुद्धिवेद्यतया तन्मयीभावेनास्वाददशायं गुणप्रधानभावावभासस्तावन्नानुभूयते, कालान्तरे तु प्रकरणादिपर्यालोचनया भवन्नप्यसौ न काव्यव्यवदेशंव्याहन्तुमीशः, तस्यास्वादमात्रयत्तत्वात्" इति । केचिच्चित्राख्यं तृतीयं काव्यभेदमिच्छन्ति । तदाहुः "शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्" । इति । तन्न, यदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस्तदा तस्य काव्यत्वमपि नास्तीति प्रागेवाक्तम् । ईषद्व्यङ्ग्यत्वमिति चेत्, किं नामेषद्व्यङ्ग्यत्वम् ? आस्वाद्यव्यङ्ग्यत्वम्, अनास्वाद्यव्यङ्ग्यत्वं वा ? आद्ये प्राचीनभेदयोरेवान्तः पातः । द्वितीये त्वकाव्यत्वम् । यदि चास्वाद्यत्वं तदाक्षुद्रत्वमेव क्षुद्रतायामनास्वाद्यत्वात् । तदुक्तं ध्वनिकृता "प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते । उभे काव्ये ततोऽन्यद्यत्तच्चित्रमभिधीयते" ॥ इति । इति साहित्यदर्पणे ध्वनिगुणीभूतव्यङ्ग्याख्यकाव्यभेदनिरूपणो नाम चतुर्थः परिच्छेदः । ___________________________________________________ पञ्चमः परिच्छेदः अथ केयमभिनवा व्यञ्जना नाम वृत्तिरित्युच्यते वृत्तीनां विश्रान्तेरभिधातत्पर्यलक्षणाख्यानाम् । अङ्गीकार्या तुर्या वृत्तिर्बोधे रसादीनाम् ॥ ५.१ ॥ अभिधायाः संकेतितार्थमात्रबोधनविरताया न वस्त्वलङ्काररसादिव्यङ्ग्यबोधने क्षमत्वम् । न च संकेतितो रसादिः । नहि विभावाद्यभिधानमेव तदभिधानम्, तस्य तदेकरूप्यानङ्गीकारात् । यत्र च स्वशब्देनाभिधानं तत्र प्रत्युत दोष एवेति वक्ष्यामः । क्वचिच्च "शृङ्गाररसोऽयम्" इत्यादौ स्वशब्देनाभिधानेऽपि न तत्प्रतीतिः, तस्य स्वप्रकाशानन्दरूपत्वात् । अभिहितान्वयवादिभिरङ्गीकृता तात्पर्याख्या वृत्तिरपि संसर्गमात्रे परिक्षीणा न व्यङ्भर्बोधनी । यच्च केचिदाहुः"सोऽयमिषोरिव दीर्घदीर्घतरोऽभिधाव्यापरः" इति । यच्चधनिकेनोक्तम् "तात्पर्याव्यतिरेकाच्च व्यञ्जकत्वस्य न ध्वनिः । यावत्कार्यप्रसारित्वात्तात्पर्यं न तुलाधृतम्" ॥ इति । तयोरुपरि "शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः" इति वादिभिरेव पातनीयो दण्डः । एवं च किमिति लक्षणापुयपास्या ? दीर्घदीर्घतराभिधाव्यापारेणापि तदर्थबोधसिद्धेः । किमिति च "ब्राह्मण ! पुत्रस्ते जातः, कन्या ते गर्भिणी" इत्यादावपि हर्षशोकादीनामपि न वाच्यत्वम् । यत्पुनरूक्तं "पौरुषेयमपौरुषेयं च वाक्यं सर्वमेव कार्यपरम्, अतत्परत्वेऽनुपादेयत्वादुन्मत्तवाक्यवत् । ततश्च काव्यशब्दानां निरतिशयसुखास्वादव्यतिरेकेण प्रतिपाद्यप्रतिपादकयोः प्रवृत्त्यौपयिकप्रयोजनानुपलब्धेर्निरतिशयमुखास्वाद एव कार्यत्वेनावधार्यते । "यत्परः शब्दः स शब्दार्थः" इति न्यायात्" इति । तत्र प्रष्टव्यम्किमिदं तत्परत्वं नाम, तदर्थत्वं वा, तात्पर्यवृत्त्या तद्वोधकत्वं वा ? आद्ये न विवादः, व्यङ्ग्यत्वेऽपि तदर्थतानपायात् । द्वितीये तुकेयं तात्पर्याख्या वृत्तिः, अभिहितान्वयवादिभिरङ्गीकृता, तदन्या वा ? आद्ये दत्तमेवोत्तरम् । द्वितीये तुनाममात्रे विवादः, तन्मतेऽपि तुरीयवृत्तिसिद्धेः । नन्वस्तु युगपदेव तात्पर्यशक्त्या विभावादिसंसर्गस्य रसादेश्च प्रकाशनमिति चेत्? न, तयोर्हेतुफलभावाङ्गीकारात् । यदाह मुनिः"विभावानुभावव्यभिचारिसंयोगद्रसनिष्पत्तिः" इति । सहभावे च कुतः सव्येतरविषाणयोरवि कार्यकारणभावः ? पौर्वापर्यविपर्ययात् । "गङ्गायां घोषः" इत्यादौ तटाद्यर्थमात्रबोधविरताया लक्षणायाश्च कुतः शीतत्वपावनत्वादिव्यङ्ग्यबोधकता । तेन तुरीया वृत्तिरुपास्यैवेति निर्विवादमेतत् । किंच बोद्धृस्वरूपसंख्यानिमित्तकार्यप्रतीतिकालानाम् । आश्रयविषयादीनां भेदाद्भिन्नोऽभिधेयतो व्यङ्ग्यः ॥ ५.२ ॥ वाच्यार्थव्यङ्ग्यार्थयोर्हि पदतदर्थमात्रज्ञाननिपुणैर्वैयाकरणैरपि सहृदयैरेव च संवेद्यतया बोद्धृभेदः । "भम धम्मिअ" (२४२ पृ.) इत्यादौ क्वचिद्वाच्ये विधिरूपे निषधरूपतया, क्वचित्"निः शेषच्युतचन्दनम्" (६२ पृ.) इत्यादौ निषेधरूपे विधिरूपतया च स्वरूपभेदः । "गतोऽस्तकर्कः" इत्यादौ च वाच्योर्ऽथ एक एव प्रतीयते । व्यङ्ग्यस्तु तद्वोद्ध्रादिभेतात्क्वचित्"कान्तमभिसर" इति, "गावो निरुध्यन्ताम्" इति, "नायकस्यायमागमनावसरः" इति, "संतापोऽधुना नास्ति" इत्यादिरूपेणानेक इति संख्याभेदः । वाच्यार्थः शब्दोच्चारणमात्रेण वेद्यः, एष तु तथाविधप्रतिभानैर्मल्यादिनेति निमित्तभेदः । प्रतीतिमात्रकरणाच्चमत्कारकरणाच्च कार्यभेदः । केवलरूपतया चमत्कारितया च प्रतीतिभेदः । पूर्वपश्चाद्भावेन च कालभेदः । शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसंघटनाश्रयत्वेन चाश्रयभेदः । "कस्स व ण होइ रोसो दट्ठूणपिआएं सव्वणं अहरम् । सब्भमरपडमग्घाइणि वारिअवामे सहसु एङ्णिं" ॥ इति सखीतत्कान्तविषयत्वेन विषयभेदः । तस्मान्नाभिधेय एव व्यङ्ग्यः । तथा प्रागसत्वाद्रसादेर्नो बोधिके लक्षणाभिधे । किञ्चि मुख्यार्थबाधस्य विरहादपि लक्षणा ॥ ५.३ ॥ "न बोधिका" इति शेषः । नहि कोऽपि रसनात्मकव्यापारद्भिन्नो रसादिपदप्रतिपाद्यः प्रमाणसिद्धोऽस्ति, यमिमे लक्षणाभिधे बोधयेताम् । किंञ्च, यत्र"गङ्गायां घोषः" इत्यादावुपात्तशब्दार्थानां बुभूषन्नेवान्वयोऽनुपपत्त्या बाध्यते तत्रैव हि लक्षणायाः प्रवेशः । यदुक्तं न्यायकुसुमाञ्जलावुदयनाचार्यैः "श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति । पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः" ॥ न पुनः "शून्यं वासगृहम्" इत्यादौ (२२ पृ.) मुखायाथबाधः । यदि च "गङ्गायां घोषः" इत्यादौ प्रयोजनं लक्ष्यं स्यात्, तीरस्य मुख्यार्थत्वं बाधितत्वं च स्यात् । तस्यापि च लक्ष्यतया प्रयोजनान्तरं तस्यापि प्रयोजनान्तरमित्यनवस्थापातः । न चापि प्रयोजनविशिष्ट एव तीरे लक्षणा । विषयप्रयोजनयोर्युगपत्प्रतीत्यनभ्युपगमात् । नीलादिसंवेदनानन्तरमेव हि ज्ञातताया अनुव्यवसायस्य वा संभवः । नानुमानं रसादीनां व्यङ्ग्यानां बोधनक्षमम् । आभासत्वेन हेतूनां स्मृतिर्न च रसादिधीः ॥ ५.४ ॥ व्यक्तिविवेककारेण हि"यापि विभावादिभ्यो रसादीनां प्रतीतिः सानुमान एवान्तर्भवितुमर्हति । विभावानुभावव्यभिचारिप्रतीतिर्हि रसादिप्रतीतेः साधनमिष्यते" । ते हि रत्यादीनां भावानां कारणकार्यसहकारिभूतास्ताननुमापयन्त एव रसादीन्निष्पादयन्ति । त एव प्रतीयमाना आस्वादपदवी गताः सन्तो लसा उच्यन्ते, इत्यवश्यंभावी तत्प्रतीतिक्रमः केवलमाशुभावितयासौ न लक्ष्यते, यतोऽयमद्याप्यभिव्यक्तिक्रमः" इति यदुक्तम् । तत्र प्रष्टव्यम्किं शब्दाभिनयसमर्पितविभावादिप्रत्ययानुमितरामादिगतरागादिज्ञानमेव रसत्वेनाभिमतं भवतः, तद्भावनयाभावकैर्भाव्यमानः स्वप्रकाशानन्दो वा । आद्ये न विवादः, किन्तु "रामादिगतरगादिज्ञानं रससंज्ञया नोच्यतेऽस्माभिः" इत्येव विशेषः । द्वितीयस्तु व्याप्तिग्रहणाभावाद्धेतोराभासतयासिद्ध एव । यच्चोक्तं तेनैव "यत्र यत्रैवंविधानां विभावानुभावसात्त्विकसञ्चारिणामभिधानमभिनयो वा तत्र तत्र शृङ्गारादिरसाविर्भावः" इति सुग्रहैव व्याप्तिः पक्षधर्मता च । तया "यार्ऽथान्तराभिव्यक्तौ वः सामग्रीष्टा निबन्धनम् । सैवानुमितिपक्षे नो गमकत्वेन संमता" ॥ इति । इदमपि नो न विरुद्धम् । न ह्येवंविधा प्रतीतिरास्वाद्यत्वेनास्माकमभिमता किन्तुस्वप्रकाशमात्रविश्रान्तः सान्द्रानन्दनिर्भरः । तेनात्र सिषाधयिषितादर्थादर्थान्तरस्य साधनाद्धेतोराभासता । यच्च "मम धम्मिअ" इत्यादौ (२४२ पृ.) प्रतीयमानं वस्तु । "जलकेलितरलकरतलमुक्तपुनः पिहितराधिकावदनः । जगदवतु कोकयूनोर्विघटनसंघटनकौतुकी कृष्णः" ॥ इत्यादौ च रूपकालङ्कारादयोऽनुमेया एव । तथाहि"अनुमानं नाम पक्षसत्त्वसपक्षसत्त्वविक्षव्यावृत्तत्वविशिष्टाल्लिङ्गल्लिङ्गिनो ज्ञानम् । ततश्च वाच्यादसंबद्धोर्ऽथंस्तावन्न प्रतीयते । अन्यथातिप्रसङ्गः स्यात्, इति बोध्यबोधकयोरर्थयोः कश्चित्संबन्धोऽस्त्येव । ततश्च बोधकोर्ऽथो लिङ्गम्, बोध्यश्च लिङ्गी, बोधकस्य चार्थस्य पक्षसत्त्वं निबद्धमेव । सपक्षसत्त्वविपक्षव्यावृत्तत्वे अनिबद्धे अपि सामर्थ्योदवसेये । तस्मादत्र यद्वाच्यार्थाल्लिङ्गरूपाल्लिङ्गिनो व्यङ्ग्यार्थस्यावगमस्तदनुमान एव पर्यवस्यति" इति । तन्न, तथा ह्यत्र "भम अम्मिअ" इत्यादौ (२४२ पृदृ) गृहे श्वनिवृत्त्या विहितं भ्रमणं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति" इति यद्वक्तव्यं तत्रानैकान्तिको हेतुः । भीरोरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण वा गमनस्य संभवात्, पुश्चल्या वचनं प्रामाणिकं न वेति संदिग्धासिद्धश्च । "जलकेलि" इत्यत्र "य आत्मदर्शनादर्शनाभ्यां चक्रवाकविघटसंघटनकारी स चन्द्र एव" इत्यनुमितिरेवेयमिति न वाच्यम्, उत्त्रासकादावनैकान्तिकत्वात् । "एवंविधोर्ऽथ एवंविधार्थबोधक एवंविधार्थत्वात्, यन्नैवं तन्नैवम्" इत्यनुमानेऽप्याभाससमानयोगक्षेमो हेतुः । "एवंविधार्थत्वात्" इति हेतुना एवंविधानिष्टसाधनस्याप्युपपत्तेः । तथा "दृष्टि हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे" इत्यादौ (२५० पृदृ) नलग्रन्थीनां तनूल्लिखनम्, एकाकितया च स्त्रोतोगमनम्, तस्याः परकामुकोपभोगस्य लिङ्गिनो लिङ्गमित्युच्यते॑ तच्चात्रैवाभिहितेन स्वकान्तस्नेहेनापि संभवतीत्यनैकान्तिको हेतुः । यच्च "निःशेषच्युतचन्दनम्" इत्यादौ ( ६२ पृ.) दूत्यास्तत्कामुकोपभोगोऽनुमीयते तत्किं प्रतिपाद्यतया दूत्या, तत्कालसंनिहितैर्वान्यैः, तत्काव्यार्थभावनया वा सहृदयैः । आद्ययोर्न विवादः । तृतीये तु तथाविधाभिप्रायविरहस्थले व्यभिचारः । ननु वक्त्राद्यवस्थासहकृतत्वेन विशेष्यो हेतुरिति न वाच्यम् । एवंविधव्याप्त्यनुसंधानस्याभावात् । किञ्चैवंविधानां काव्यानां कविप्रतिभामात्रजन्मनां प्रामाण्यानावश्यकत्वेन संदिग्धासिद्धत्वं हेतोः । व्यक्तिवादिना चाधमपदसहायानामेवैषां पदार्थानां व्यञ्जकत्वमुक्तम्, तेन च तत्कान्तस्याधमत्वं प्रामाणिकं न वेति कथमनुमानम् । एतेनार्थापत्तिवेद्यत्वमपि व्यङ्ग्यानामपास्तम् । अर्थापत्तेरपि पूर्वसिद्धव्याप्तीच्छामुपजीव्यैव प्रवृत्तेः । यथा"यो जीवति स कुत्राप्यवतिष्ठते, जीवति चात्र गोष्ठ्यामविद्यमानश्चैत्रः" इत्यादि । किञ्चिवस्त्रविक्रयादौ तर्जनीतोलनेन दशसंख्यादिवत्सूचनबुद्धिवेद्योऽप्ययं न भवति, सूचनबुद्धेरपि सङ्केतादिलौकिकप्रमाणसापेक्षत्वेनानुमानप्रकारताङ्गीकारात् । यच्च "संस्कारजन्यत्वाद्रसादिबुद्धिः स्मृतिः" इते केचित् । तत्रापि प्रत्यभिज्ञायामनैकान्तिकतया हेतोराभासता । "दुर्गालङ्घित" इत्यादौ (५९ पृ.) च द्वितायार्थो नास्त्येवैति यदुक्तं महिमभटटेन तदनुभवसिद्धिमपलपतो गजनिमीलिकैव । तदेवमनुभवसिद्धस्य तत्तद्रसादिलक्षणार्थस्याशक्यापलापतया तत्तच्छब्दाद्यन्वयव्यतिरेकानुविधायितया चानुमानादिप्रमाणावेद्यतया चाभिधादिवृत्तित्रयाबोध्यतया च तुरीया वृत्तिरुपास्यैवेति सिद्धम् । इयं च व्याप्त्याद्यनुसन्धानं विनापि भवतीत्यखिलं निर्मलम् । तत्किंनामिकेयं वृत्तिरित्युच्यते सा चेयं व्यञ्जनानाम वृत्तिरित्युच्यते बुधैः । रसव्यक्तौ पुनर्वृत्तिं रसनाख्यां परे विदुः ॥ ५.५ ॥ एतच्च विविच्योक्तं रसनिरूपणप्रस्ताव इति सर्वमवदातम् । इति सहित्यर्पणो व्यञ्जनाव्यापारनिरूपणो नाम पञ्चमः परिच्छेदः । ___________________________________________________ षष्ठः परिच्छेदः एवं ध्वनिगुणीभूतव्यङ्ग्यत्वेन काव्यस्य भेदद्वयमुक्त्वा पुनर्दृश्यश्रव्यत्वेन भेदद्वयमाह दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम् । दृश्यं तत्राभिनेयं तस्यरूपकसंज्ञाहेतुमाह तद्रूपारोपात्तुरूपकम् ॥ ६.१ ॥ तद्दृश्यं काव्यं नटे रामादिस्वरूपारोपाद्रूपकमित्युच्यते । कोऽसावभिनाय इत्याह भवेदभिनयोऽवस्थानुकारः स चतुर्विधः । आङ्गिको वाचिकश्चैवमाहार्यः सात्त्विकस्तथा ॥ ६.२ ॥ नटैरङ्गादिभी रामयुधिष्ठिरादीनामवस्थानुकरणमभिनयः । रुपकस्य भेदानाह नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः । ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ॥ ६.३ ॥ किञ्च नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् । प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा ॥ ६.४ ॥ संलापकं श्रीगदितं शिल्पकं च विलासिका । दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥ ६.५ ॥ अष्टादश प्राहुरुपरूपकाणि मनीषिणः । विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम् ॥ ६.६ ॥ सर्वेषां प्रकरणादिरूपकाणां नाटिकाद्युपरूपकाणां च । तत्र नाटकं ख्यातवृत्तं स्यात्पञ्चसंधिसमन्वितम् । विलासर्द्ध्यादिगुणवद्युक्तं नानाविभूतिभैः ॥ ६.७ ॥ सुखदुःखसमुद्भूति नानारसनिरन्तरम् । पञ्चादिका दशपरास्तत्राङ्काः परिकीर्त्तिताः ॥ ६.८ ॥ प्रख्यातवंशो राजर्षिर्धोरोदात्तः प्रतापवान् । दिव्योऽथ दिव्यादिव्यो वा गुणावान्नायको मतः ॥ ६.९ ॥ एक एव भवेदङ्गी शृङ्गारो वीर एव वा । अङ्गमन्ये रसाः सर्वे कार्यो निर्वहणोऽद्भुतः ॥ ६.१० ॥ चत्वारः पञ्च वा मुख्याः कार्यव्यापृतपूरुषाः । गोपुच्छाग्रसमाग्रं तु बन्धनं तस्य कीर्तितम् ॥ ६.११ ॥ ख्यातं रामायणादिप्रसिद्धं वृत्तम् । यथारामचरितादि । सन्धयो वक्ष्यन्ते । नानाविभूतिभिर्युक्तमिति महासहायम् । सुखदुःखसमुद्भूतत्वं रामयुधिष्ठिरादिवृत्तान्तेष्वभिक्तम् । राजर्षयो दुष्यन्तादयः । दिव्याः श्रीकृष्णादयः । दिव्या दिव्यः, यो दिव्योऽप्यात्मनिनराभिमानी । यथा श्रीरामचन्द्रः । गोपुच्छग्रसमाग्रमिति "क्रमेणाङ्काः सूक्ष्माः कर्तव्याः" इति केचित् । अन्ये त्वाहुः"यथा गोपुच्छे केचिद्वाला ह्रस्वाः केचिद्दीर्घास्तथेह कानिचित्कार्याणि मुखसंधो समाप्तानि कानिचित्प्रतिमुखे । एवमन्येष्वपि कानिचित्कानिचित्" इति । प्रत्यक्षनेतृचरितो रसभावसमुज्ज्वलः । भवेदगूढशब्दार्थः क्षुद्रचूर्णकसंयुतः ॥ ६.१२ ॥ विच्छिन्नावान्तरैकार्थः किञ्चित्संलग्नबिन्दुकः । युक्तो न बहुभिः कार्यैर्बोजसंहृतिमान्न च ॥ ६.१३ ॥ नानाविधानसंयुक्तो नातिप्रचुरपद्यवान् । आवश्यकानां कार्याणामविरोधाद्विनिमितः ॥ ६.१४ ॥ नानेकदिननिर्वर्त्यकथया संप्रयोजितः । आसन्ननायकः पात्रैर्युतस्त्रिचतुरैस्तथा ॥ ६.१५ ॥ दूराह्वानं वधो युद्धं राज्यदेशादिविप्लवः । विवाहो भोजनं शापोत्सर्गौ मृत्यू रतं तथा ॥ ६.१६ ॥ दन्तच्छेद्यं नखच्छेद्यमन्यद्व्रीडाकरं च यत् । शयनाधरपानादि नगराद्यवरोधनम् ॥ ६.१७ ॥ स्नानानुलेपने चैभिर्वर्जितो नास्तिविस्तरः । देवीपरिजनादीनाममात्यवणिजमपि ॥ ६.१८ ॥ प्रत्यक्षचित्रचरितैर्युक्तो भावरसोद्भवैः । अन्तनिष्क्रान्तनिखिलपात्रोऽङ्क इति कीर्त्तितः ॥ ६.१९ ॥ बिन्द्वादयो वक्ष्यन्ते । आवश्यकं संध्यावन्दनाहि । अङ्कप्रस्तावाद्गर्भाङ्कमाह अङ्कोदरप्रविष्टो यो रङ्ग द्वारामुखादिमान् । अङ्कोऽपरः स गर्भाङ्कः सबीजः फलवानपि ॥ ६.२० ॥ यथा बालरामायणो रावणं प्रति कोहलः "श्रवणैः पेयमनेकैर्दृश्यं दीर्घैश्च लोचनैर्बहुभिः । भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणम्" ॥ इत्यादिना विरचितः सीतास्वयंवरो नाम गर्भाङ्कः । तत्र पूर्वं पूर्वरङ्गः सभापूजा ततः परम् । कथनं कविसंज्ञादेर्नाटकस्याप्यथामुखम् ॥ ६.२१ ॥ तत्रेति नाटके । यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥ ६.२२ ॥ प्रत्याहारादिकान्यङ्गान्यस्य भूयांसि यद्यपि । तथाप्यवश्यं कर्तव्या नान्दी विन्घोपशान्तये ॥ ६.२३ ॥ तस्याः स्वरूपमाह आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥ ६.२४ ॥ माङ्गल्यशङ्खचन्द्राब्जकोककैरवशंसिनी । पदैर्युक्तादूदशभिरष्टाभिर्वा पदैरुत ॥ ६.२५ ॥ अष्टपदा यथा अनर्घराघवे"निष्प्रत्यूहम" इत्यादि । द्वादशपदा यथा मम तातपादानां पुष्पमालायाम् शिरसि धृतसुरापगे स्मरारावरुणमुखेन्दुरुचिर्गिरीन्द्रपुत्री । अथ चरणयुगानते स्वकान्ते स्मितसरसा भवतोऽस्तु भूतिहेतुः ॥ एवमन्यत्र । एतन्नान्दीति कस्यचिन्मतानुसारेणोक्तम् । वस्तुतस्तु "पूर्वरङ्गस्य रङ्गद्वाराभिधानमङ्गम्" इत्यन्ये । यदुक्तम् "यस्मादभिनयो ह्यत्र प्राथम्यादवतार्यते । रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम्" ॥ इति । उक्तप्रकारायाश्च नान्द्या रङ्गद्वारात्प्रथमं नटैरेव कर्तव्यतया न महर्षिणा निर्देशः कृतः । कालिदासादिमहाकविप्रबन्धेषु च वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः । अन्तर्यश्च मुमुक्षुभिनियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निः श्रेयसायास्तु वः ॥ एवमादिषु नान्दीलक्षणायोगात् । उक्तं च"रङ्गद्वारमारभ्य कविः कुर्यात्ऽइत्यादि । अत एव प्राक्तनपुस्तकेषु "नान्द्यन्ते सूत्रधारः" इत्यनन्तरमेव "वेदान्तेषु" इत्यादि श्लोकले(लि) खनं दृश्यते । यच्च पश्चात्"नान्द्यन्ते सूत्रधारः" इति ले (लि) खनं तस्यायमभिप्रायःनान्द्यन्ते सूत्रधार इदं प्रयोजितवान्, इतः प्रभृति मया नाटकमुपादीयत इति कवेरभिप्रायः सूचित" इति । पूर्वरङ्गं विधायैव सूत्रधारा निवर्तते । प्रविश्य स्थापकस्तद्वत्काव्यमास्थापयेत्ततः ॥ ६.२६ ॥ दिव्यमर्त्ये स तद्रूपो मिश्रमन्यतरस्तयोः । सूचयैद्वस्तु बीजं वा मुखं पात्रमथापि वा ॥ ६.२७ ॥ काव्यार्थस्य स्थापनात्स्थापकः । तद्वदिति सूत्रधारसदृशगुणाकारः । इदानीं पूर्वरङ्गस्य सम्यक्प्रयोगाभावादेक एव सूत्रधारः सर्वं प्रयोजयतीति व्यवहारः । स स्थापको दिव्यं वस्तु दिव्यो भूत्वा, मर्त्यं मर्त्यो भूत्वा, मिश्रं च दिव्यमर्त्ययोरन्यतरो भूत्वा सूचयेत् । वस्तु इतिवृत्तम्, यथोदात्तराघवे रामो मूध्नि निधाय काननमगान्मालामिवाज्ञां गुरो स्तद्भक्त्या भरतेन राज्यमखिलं मात्रा सहैवोज्भ्क्तितम् । तौ सुग्रीवविभीषणावनुगतौ नीतौ परामुन्नतिं प्रोत्सिक्ता दशकंधारप्रभृतयो ध्वस्ताः समस्ता द्विषः ॥ बीजं यथा रत्नावल्याम् द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय भ्क्तटिति घटयति विधिरभिमतमभिमुखीभूतः ॥ अत्र हि समुद्रे प्रवहणभङ्गमग्नोत्थिताया रत्नावल्या अनुकूलदैवलालितो वत्सराजगृहप्रवेशो यौगन्धरायणव्यापारमारभ्य रत्नावली प्राप्तौ बीजम् । मुखं श्लेषादिना प्रस्तुतवृत्तान्तप्रतिपादको वाग्विशेषः । यथा आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तिः । उत्खाया गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ॥ पात्रं यथा शाकुन्तले तवास्मि गीतरागेण हारिणा प्रसभं हृतः । एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा ॥ रङ्गं प्रसाद्य मधुरैः शलोकैः काव्यार्थसूचकैः । रूपकस्य कवेराख्यां गोत्राद्यपि स कीर्तयेत् ॥ ६.२८ ॥ ऋतुं च कञ्चित्प्रायेण भारती वृत्तिमाश्रितः । स स्थापकः । प्रायेणोति क्वचिदृतोरकीतनमपि । यथारत्नावल्याम् । भारतीवृत्तिस्तु भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः ॥ ६.२९ ॥ संस्कृतबहुलो वाक्प्रधानो व्यापारो भारती । तस्याः प्ररोचना वीथी तथा प्रहसनामुखे । अङ्गान्यत्रोन्मुखीकारः प्रशंसातः प्ररोचना ॥ ६.३० ॥ प्रस्तुताभिनयेषु प्रशंसातः श्रोतॄणां प्रवृत्त्युन्मुखीकरणं प्ररोचना । यथा रत्नावल्याम् श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी, लोके हारि च वत्साराजचरितं नाट्ये च दक्षा वयम् । वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुनर्मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥ वीथीप्रहसने वक्ष्येते । नटी विदूषको वापि पारिपाशिवक एव वा । सूत्रधारेण सहिताः सलापं यत्र कुर्वते ॥ ६.३१ ॥ चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः । आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥ ६.३२ ॥ सूत्रधारसदृशत्वात्स्थापकोऽपि सूत्रधार उच्यते । तस्यानुचरः पारिपाश्विकः, तस्मात्किञ्चिदूनो नटः । उद्धात्य(त)कः कथोद्धातः प्रयोगातिशयस्तथा । प्रवर्तकावलगिते पञ्च प्रस्तावनाभिदाः ॥ ६.३३ ॥ तत्र पदानि त्वगतार्थानि तदर्थगतये नराः । योजयन्ति पदैरन्यैः स उद्धात्य (त) क उत्यते ॥ ६.३४ ॥ यथा मुद्राराक्षसे सूत्रधारः "क्रूरग्रहः सकेतुश्चन्द्रमसम्पूर्णमण्डलमिदानीम् । अभिभवितुमिच्छति बालत्" इत्यनन्तरम्"(नेपथ्ये । ) आः, क एष मयि जीवति चन्द्रगुप्तमभि भवितुमिच्छति" । इति । अत्रान्यार्थन्त्यपि पदानि हृदयस्थार्थागत्या अर्थान्तरे संक्रमय्य पात्रप्रवेशः । सूत्रधारस्य वाक्यं वा समादायार्थमस्य वा । भवेत्पात्रप्रवेशश्चेत्कथोद्धातः स उच्यते ॥ ६.३५ ॥ वाक्यं यथा रत्नावल्याम्"द्वीपादन्यस्मादपिऽइत्यादि (३३२ पृ दृ) सूत्रधारेण पठिते"(नेपथ्ये) साधु भरतपुत्र! साधु । एवमेतत् । कः सन्देहः ? द्वीपादन्यस्मादपि" इत्यादि पठित्वा यौगन्धरायणस्य प्रवेशः । वाक्यार्थो यथा वेण्याम् निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ इति सूत्रधारेण पठितस्य वाक्यस्यार्थं गृहीत्वा"(नेपथ्ये) आः दुरात्मन् ! वृथा मङ्गलपाठक !, कथं स्वस्था भवन्तु मयि जीवति धार्तराष्टाः ?" ततः सूत्रधारनिष्क्रान्तौ भीमसेनस्य प्रवेशः । यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते । तेन पात्रप्रवेशश्चेत्प्रयोगातिशयस्तदा ॥ ६.३६ ॥ यथा कुन्दमालायाम्"(नेपथ्ये) इत इतोऽवतरत्वार्या । सूत्रधारःकोऽयं खल्वार्याह्वानेन साहायकमपि मे सम्पादयति । (विलोक्य) कष्टमतिकरुणं वर्तते । "लङ्केश्वरस्य भवने सुचिरं स्थितेति रामेण लोकपरिवादभयाकुलेन । निर्वासितां जनपदादपि गर्भगुर्वों सीतां वनाय परिकर्षति लक्ष्मणोऽयम्" ॥ अत्र नृत्यप्रयोगार्थं स्वभार्याह्वानमिच्छता सूत्रधारेण "सीतां वनाय परिकर्षति लक्ष्मणोऽयम्" इति सीतालक्ष्मणयोः प्रवेशं सूचयित्वा निष्कान्तेन स्वप्रयोगमतिशयान एव प्रयोगः प्रयोजितः । कालं प्रवृत्तमाश्रित्य सूत्रधुग्यत्र वर्णयेत् । तदाश्रयश्च पात्रस्य प्रवेशस्तत्प्रवर्तकम् ॥ ६.३७ ॥ यथा"आसादितप्रकट" इत्यादि (३३२ पृ दृ) । "ततः प्रविशति यथानिदिष्टो रामः" । यत्रैकश्च समावेशात्कार्यमन्यत्प्रसाध्यते । प्रयोगे खलु तज्ज्ञेयं नाम्नावलगितं बुधैः ॥ ६.३८ ॥ यथा शाकुन्तलेसूत्रधारो नटीं प्रति । "तवास्मि गीतरागेण" (३३३ पृ दृ) इत्यादि । ततो राज्ञः प्रवेशः । योज्यान्यत्र यथालाभं वीथ्यङ्गानीतराण्यपि । अत्र आमुखे । उद्धात्य (त) कावलगितयोरितराणि वीथ्यङ्गानि वक्ष्यमाणानि । नखकुट्टस्तु नेपथ्योक्तं श्रुतं यत्र त्वाकाशवचनं तथा ॥ ६.३९ ॥ समाश्रित्यापि कर्तव्यमामुखं नाटकादिषु । एषामामुखभेदानामेकं कञ्चित्प्रयोजयेत् ॥ ६.४० ॥ तेनार्थमथ पात्रं वा समाक्षिप्यवै सूत्रधृक । प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रयोजयेत् ॥ ६.४१ ॥ वस्त्वितिवृत्तम् । इदं पुनर्वस्तु बुधौर्द्विविधं परिकल्प्यते । आधिकारिकमेकं स्यात्प्रासङ्गिकमथापरम् ॥ ६.४२ ॥ अधिकारः फले स्वाम्यमधिकारी च तत्प्रभुः । तस्येतिवृत्तं कविभिराधिकारिकमुच्यते ॥ ६.४३ ॥ फले प्रधानफले । यथा बालरामायणो रामचरितम् । अस्योपकरणार्थं तु प्रासङ्गिकमितीष्यते । अस्याधिकारिकेतिवृत्तस्य उपकरणनिमित्तं यच्चरितं तत्प्रासङ्गिकम् । यथा सुग्रीवादिचरितम् । पताकास्थानकं योज्यं सुविचार्येह वस्तुनि ॥ ६.४४ ॥ इह नाट्ये । यत्रार्थे चिन्तितेऽन्यस्मिंस्तल्लिङ्गोऽन्यः प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकं तु तत् ॥ ६.४५ ॥ तद्रेदानाहसहसैवार्थसंपत्तिर्गुणावत्युपचारतः । पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥ ६.४६ ॥ यथा रत्नावल्याम्"वासवदत्तेयम्" इति राजा यदा तत्कण्ठपाशं मोचयति तदा तदुक्त्या "सागरिकेयम्" इति प्रत्यभिज्ञाय "कथं ? प्रिया मे सागरिका ? अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि ! विमुञ्च त्वं लतापाशमेतम् । चलितमपि निरोद्धुं जीवितं जीवितेशे ! क्षणमिह मम कण्ठे बाहुपाशं निधेहि" ॥ अत्र फलरूपार्थसंपत्तिः पूर्वापेक्षयोपचारातिशयाद्गुणवत्युत्कृष्ट । वचः सातिशयं श्लिष्टं नानाबन्धसमाश्रयम् । पताकास्थानकमिदं द्वितीयं परिकीर्त्तितम् ॥ ६.४७ ॥ यथा वेण्याम् "रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः" । अत्र रक्तादीनां रुधिरशरीरार्थहेतुकश्लेषवशेन बीजार्थप्रतिपादनान्नेतृमङ्गलप्रतिपत्तौ सत्यां द्वितायं पताकास्थानम् । अर्थोपक्षेपकं यत्तु लीनं सविनयं भवेत् । श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमुच्यते ॥ ६.४८ ॥ लीनमव्यक्तार्थम्, श्लिष्टेन सम्बन्धयोग्येनाभिप्रायान्तरप्रयुक्तेन प्रत्युत्तरेणोतपेतम्, सविनयं विशेषनिश्चयप्राप्त्या सहितं संपाद्यते यत्तत्तृतीयं पताकास्थानम् । यथा वेण्यां द्वितीयेऽङ्के "कञ्चुकीदेव ! भग्नं भग्नम् । राजाकेन ? कञ्चुकीभीमेन । राजाकस्य ? कञ्चुकीभवतः । राजाआः ! किं प्रलपसि ? कञ्चुकी(सभयम्) देव ! ननु ब्रवीमि । भग्नं भीमेन भवतः । राजाधिग्वृद्धापसद ! कोऽयमद्य ते व्यामोहः ? कञ्चुकीदेव ! न व्यामोहः । सत्यमेव "भग्नं भीमेन भवतो मरुता रथकेतनम् । पतितिं किङ्गिणीक्वाणबद्धाक्रन्दमिव क्षितौ" ॥ अत्र दुर्योधनोरुभङ्गरूपप्रस्तुतसंक्रान्तमर्थोपक्षेपणम् । द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः । प्रधानार्थान्तराक्षेपि पताकास्थानकं परम् ॥ ६.४९ ॥ यथा रत्नावल्याम् "उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा दायासं श्वसनोद्रमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम्" ॥ अत्र भाव्यर्थः सूचितः । एतानि चत्वारि पताकास्थानानि क्वचिन्मङ्गलार्थं क्वचिदमङ्गलार्थं सर्वसन्धिषु भवन्ति । काव्यकर्तुरिच्छावशाद्भूयो भूयोऽपि भवन्ति । यत्पुनः केनचिदुक्तम्"मुखसन्धिमारभ्य सन्धिचतुष्टये क्रमेण भवन्ति" इति । तदन्ये न मन्यन्ते, एषामत्यन्तमुपादेयानामनियमेन सर्वत्रापि सर्वेषामपि भवितुं युक्तत्वात् । यत्स्यादनुचितं वस्तु नायकस्य रसस्य वा । विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ॥ ६.५० ॥ अनुचितमितिवृत्तं यथारामस्यच्छद्मना बालिवधः । तच्चोदात्तराघवे नोनोक्तमेव । वीरचरिते तु वाली रामवधार्थमागतो रामेण हत इत्यन्यथा कृतः । अङ्केष्वदर्शनीया या वक्तव्यैव च संमता । या च स्याद्वर्षपर्यन्तं कथा दिनद्वयादिजा ॥ ६.५१ ॥ अन्या च विस्तरा सूच्या सार्थोपक्षोपकैर्बुधैः । अङ्केषु अदर्शनीया कथा युद्धादिकथा । वर्षाढूर्ध्वं तु यद्वस्तु तत्स्याद्वर्षादधोभवम् ॥ ६.५२ ॥ उक्तं हि मुनिना "अङ्कच्छेदें कार्यं मासकृतं वर्षसञ्चितं वापि । तत्सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित्" ॥ एवं च चतुर्दशवर्षव्यापिन्यपि रामवनवासे ये ये विराधवधादयः कथांशास्ते ते वर्षवर्षावयवदिनयुग्मादीनामेकतमेन सूचनीया न विरुद्धाः । दिनावसाने कार्यं यद्दिने नैवोपपद्यते । अर्थोपक्षेपकैर्वाच्यमङ्कच्छेदं विधाय तत् ॥ ६.५३ ॥ के तेर्ऽथोपक्षेपका इत्याह अर्थोपपक्षेपकाः पञ्च विष्कम्भकप्रवेशकौ । चूलिकाङ्कावतारोऽथ स्यादङ्कमुखमित्यपि ॥ ६.५४ ॥ वृत्तवर्तिष्यमाणानां कथंशानां निदर्शकः । संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ॥ ६.५५ ॥ मध्येन मध्यमाभ्यां वा पात्राभ्यां संप्रयोजितः । शुद्धः स्यात्स तु संकीर्णो नीचमध्यमकल्पितः ॥ ६.५६ ॥ तत्र शुद्धो यथामालतीमाधवे श्मशाने कपालकुण्डला । सङ्कीर्णो यथारामाभिन्दे क्षपणककापालिकौ । अथ प्रवेशकः प्रवेशकोऽनुदात्तोक्त्या नीचपात्रप्रयोजितः । अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा ॥ ६.५७ ॥ अङ्कद्वयस्यान्तरिति प्रथमाङ्केऽस्य प्रतिषेधः । यथावेण्यामश्चत्थामाङ्के राक्षसमिथुनम् । अथ चूलिका अन्तर्जवनिकासंस्थैः सूचनार्थस्य चूलिका । यथा वीरचरिते चतुर्थाङ्कस्यादौ"(नेपथ्ये) भो भो वैमानिकाः, प्रवर्तन्तां रङ्गमङ्गलानि" इत्यादि । "रामेण परशुरामो जितः" इति नेपथ्ये पात्रैः सूचितम् । अथाङ्कावतारः अङ्कान्ते सूचितः पात्रैस्तदङ्कस्याविभागतः ॥ ६.५८ ॥ यत्राङ्कोऽवतरत्येषोऽङ्कावतार इति स्मृतः । यथाअभिज्ञाने पञ्चमाङ्के पात्रैः सूचितः षष्ठाङ्कस्तदङ्कस्याङ्गविशेष इवावतीर्णः । अथाङ्कमुखम् यत्र सायादङ्क एवस्मिन्नङ्कानां सूचनाखिला ॥ ६.५९ ॥ तदङ्कमुखमित्याहुर्बोजार्थख्यापकं च तत् । यथामालतीमाधवे प्रथमाङ्कादौ कामन्दक्यवलोकिते भूरिवसुप्रभृतीनां भाविभूमिकानां परिक्षिप्तकथाप्रबन्धस्य च प्रसङ्गात्संनिवेशं सूचितवत्यौ । अङ्कान्तपात्रैर्वाङ्कास्यं छिन्नाङ्कस्यार्थसूचनाम् ॥ ६.६० ॥ अङ्कान्तपात्रैङ्कान्ते प्रविष्टैः पात्रैः । यथा वीरचरिते द्वितीयाङ्कान्ते"(प्रविश्य) सुमन्त्रःभगवन्तौ वशिष्ठविश्वामित्रौ भवतः सभार्गवानाह्वयतः । इतरेक्व भगवन्तौ । सुमन्त्रःमहाराजदशरथस्यान्तिके । इतरेतत्तत्रैव गच्छावः" इत्यङ्कपरिसमाप्तौ । "(ततः प्रविशन्त्युपविष्टा वशिष्ठविश्वामित्रपरशुरामः)ऽइत्यत्र पूर्वाङ्कान्त एव प्रविष्टेन सुमान्त्रपात्रेण शतानन्दजनककथाविच्छेदे उत्तराङ्कमुखसूचनादङ्कास्यम्" इति । एतच्च धनिकमतानुसारेणोक्तम् । अन्ये तुं"अङ्कावतरणोनैवेदं गतार्थम्" इत्याहुः । अपेक्षितं परित्याज्यं नीरसं वस्तु विस्तरम् । यदा संदर्शयेच्छेषमामुखानन्तरं तदा ॥ ६.६१ ॥ कार्यो विष्कम्भको नाट्य आमुखाक्षिप्तपात्रकः । यथारत्नावल्यां यौगन्धरायणप्रयोजितः । यदा तु सरसं वस्तु मूलादेव प्रवर्तते ॥ ६.६२ ॥ आदावेव तदाङ्केस्यादामुखाक्षेपसंश्रयः । यथाशाकुन्तले । विष्कम्भकाद्यैरपि नो वधो वाच्योऽधिकारिणः ॥ ६.६३ ॥ अन्योऽन्येन तिराधानं न कुर्याद्रसवस्तुनोः । रसः शृङ्गारादिः । यदुक्तं धनिकेन "न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् । रसं वा न तिरोदध्याद्वस्त्वलङ्कारलक्षणैः" ॥ इति । बीजं बिन्दुः पताका च प्रकरी कार्यमेव च ॥ ६.६४ ॥ अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि । अर्थप्रकृतयः प्रयोजनसिद्धिहेतवः । तत्र बीजम् अल्पमात्रं समुद्दिष्टं बहुधा यद्विसर्पति ॥ ६.६५ ॥ फलस्य प्रथमो हेतुर्बोजं तदभिधीयते । यथारत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तिहेतुर्दैवानुकूल्यलालितो यौगन्धरायणव्यापारः । यथा वावेण्यां द्रौपदीकेशसंयमनहेतुर्भीमसेनक्रोधोपचितो युधिष्ठिरोत्साहः । अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥ ६.६६ ॥ यथारत्नावल्यामनङ्गपूजापरिसमाप्तौ कथार्थविच्छेदे सति "उदयन्स्येन्दोरिवोद्वीक्षते" इति सागरिका श्रुत्वा "(सहर्षम्) कधं एसो सो उदअणणरिन्दो" इत्यादिरवान्तरार्थहेतुः । व्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिधीयते । यथारामचरितेसुग्रीवादेः, वेण्यां भीमादेः, शाकुन्तलेविदूषकस्य चरितम् । पताकानायकस्य स्यान्न स्वकीयं फलान्तरम् ॥ ६.६७ ॥ गर्भे सन्धौ विमर्शे वा निर्वाहस्तस्य जायते । यथासुग्रीवादेः राज्यप्राप्त्यादि । यत्तु मुनिनोक्तम्"आ गार्भाद्वा विमर्शाद्वा पताका विनिवर्तते" ॥ इति । तत्र "पताकेति । पताका नायकफलं निर्वहणपर्यन्तमपि पताकायाः प्रवृत्तिदर्शनात्, इति व्याख्यातमभिनवगुप्तपादैः । प्रासङ्गिकं प्रदेशस्थं चरितं प्रकरी मता ॥ ६.६८ ॥ यथाकुलपत्यङ्के रावणजटायुसंवादः । प्रकरी नायकस्य स्यान्न स्वकीयं फलान्तरम् । यथाजटायोः मोक्षप्राप्तिः । अपेक्षितं तु यत्साध्यमारम्भो यन्निबन्धनः ॥ ६.६९ ॥ समापनं तु यत्सिद्ध्यै तत्कार्यमिति संमतम् । यथारामचरिते रावणवधः । अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ॥ ६.७० ॥ आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः । तत्र भवेदारम्भ औत्सुक्यं यन्मुख्यफलसिद्धये ॥ ६.७१ ॥ यथारत्नावल्यां रत्नावल्यन्तः पुरनिवेशार्थं यौगन्धरायणस्यौत्सुक्यम् । एवं नायकनायिकादीनामप्यौत्सुक्यमाकरेषु बोद्धव्यम् । प्रयत्नस्तु फलाबाप्तौ व्यापारोऽतित्वरान्वितः । यथा रत्नावल्याम्"तहवि ण अत्थि अण्यो दंसण उवाओ त्ति जधा तधा आलिहिअ जधासमीहिदं करैस्सम्" । इत्यादिना प्रतिपादितो रत्नावल्याश्चित्रलेखनादिर्वत्सराजसङ्गमोपायः । यथा चरामचरिते समुद्रबन्धनादिः । उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसम्भवः ॥ ६.७२ ॥ यथारत्नावल्यां तृतीयेऽङ्के वेषपरिवर्तनाभिसरणादेः सङ्गमोपायाद्वासवदत्तालक्षणापायशङ्कया चानिर्धारितैकान्तसङ्गमरूपफलप्राप्तिः प्राप्त्यशा । एवमन्यत्र । अपायाभावतः प्राप्तिनियताप्तिस्तु निश्चिता । अपायाभावान्निर्धारितैकान्तफलप्राप्तिः । यथा रत्नावल्याम्"राजादेवीप्रसादनं त्यक्त्वा नान्यमत्रोपायं पश्यामि" । इति देवीलक्षणापायस्य प्रसादनेन निवारणान्नियतफलप्राप्तिः सूचिता । सावस्था फलयोगः स्याद्यः समग्रफलोदयः ॥ ६.७३ ॥ यथारत्नावल्यां रत्नावलीलाभश्चक्रवर्तित्वलक्षणफलान्तरलाभसहितः । एवमन्यत्र । यथासंख्यमवस्थाभिराभिर्योगात्तु पञ्चभिः । पञ्चधैवेतिवृत्तस्य भागाः स्युः पञ्चसन्धयः ॥ ६.७४ ॥ तल्लक्षणमाह अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति । एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैकप्रयोजनसम्बन्धः सन्धिः । तद्भेदानाह मुखं प्रतिमुखं गर्भो विमर्श उपसंहृतिः ॥ ६.७५ ॥ इति पञ्चास्य भेदाः स्युः क्रमाल्लक्षणमुच्यते । यथाद्देशं लक्षणमाह यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा ॥ ६.७६ ॥ प्रारम्भेण समायुक्ता तन्मुखं परिकीर्त्तितम् । यथारत्नावल्यां प्रथमेऽङ्के । फलप्रधानोपायस्य मुखसन्धिनिवेशिनः ॥ ६.७७ ॥ लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं च तत् । यथारत्नावल्यां द्वितीयेऽङ्के वत्सराजसागरिकासमागमहेतोरनुरागबीजस्य प्रथमाङ्कोपक्षिप्तस्य सुसंगताविदूषकाभ्यां ज्ञायमानतया किंचिल्लक्ष्यस्य वासवदत्तया चित्र फलकवृत्तान्तेन किञ्चिदुन्नीयमानस्योद्देशरूप उद्भेदः । फलप्रधानोपायस्य प्रागुद्भिन्नस्य किञ्चिन ॥ ६.७८ ॥ गर्भो यत्र समुद्भेदो ह्रासान्वेषणवान्मुहुः । फलस्य गर्भोकरणाद्रर्भः । यथा रत्नावल्यां द्वितीयेऽङ्के"सुसंगतासहि, अदक्खिणा दाणि सि तुमं जा एवं भट्टिणा हत्थेण गाहिदा वि कोवं ण मुञ्चसि" इत्यादौ समुद्भेदः । पुनर्वासवदत्ताप्रवेशे ह्रासः । तृतीयेऽङ्के"तद्वार्तान्वेषणाय गतः कथं चिरयति वसन्तकः" इत्यन्वेषणम् । विढूषकःही ही भोः, कोसम्बीरज्जलम्भेणावि ण तादिसो पिअवअस्सस्स परितोसो जादिसो मम सआसादो पियवअणं सुणिअ भवस्सदि" इत्यादावुद्भेदः । पुनरपि वासवदत्ताप्रत्यभिज्ञानाध्रासः । सागरिकायाः सङ्केतस्थानगमनेऽन्वेषणम् । पुनर्लतापाशकरणो उद्भेदः । अथ विमिर्शः यत्र मुख्यफलोपाय उद्भिन्नो गर्भतोऽधिकः ॥ ६.७९ ॥ शापाद्यैः सान्तरायश्च स विमर्श इति स्मृतः । यथा शाकुन्तले चतुर्थाङ्कादौअनसूयापिअंवदे, जैवि गन्धव्वेण विवाहेण णिब्बुत्तकल्लाणा पिअसही सौन्तला अणुरूवभत्तुभाइणी संवुत्तेति निव्वुदं मे हिअअम्, तह वि एत्तिअं चिन्तणिज्जम्" इत्यत आरभ्य सप्तमाङ्कोपक्षिप्ताच्छकुन्तलाप्रत्यभिज्ञानात्प्रागर्थसञ्चयः शकुन्तलाविस्मरणरूपविन्घालिङ्गितः । अथ निर्वहणम् बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ॥ ६.८० ॥ एकार्थमुपनीयन्ते यत्र निर्वहणां हि तत् । यथावेण्याम्"कञ्चुका(उपसृत्य, सहर्षम्) महाराज !वर्धसे । अयं खलु भीमसेनो दुर्योधनक्षतजारुणीकृतसर्वशरीरो दुर्लक्ष्यव्यक्तिः" इत्यादिना द्रौपदीकेशसंयमनादिमुखसन्ध्यादिबीजानां निजनिजस्थानोपक्षिप्तानामेकार्थयोजनम् । यथा वाशाकुन्तले सप्तमाङ्केऽशकुन्तलाभिज्ञानादुत्तरोर्ऽथराशिः । एषामङ्गान्याह उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥ ६.८१ ॥ युक्तिः प्राप्तिः समाधानं विधानं परिभावना । उद्भदः करणं भेद एतान्यङ्गानि वै मुखे ॥ ६.८२ ॥ यथोद्देशं लक्षणमाह काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः । काव्यार्थ इतिवृत्तलक्षणप्रस्तुताभिधेयः । यथा वेण्याम्"भीमः लाभागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृष्य पाण्डववधूपरिधानकेशान् स्वस्था भवन्ति मयि जीवति धर्तराष्ट्राः ॥ समुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरः पुनः ॥ ६.८३ ॥ यथा तत्रैव प्रवृद्धं यद्वैरं मम खलु शिसोरेव कुरुभिर्न तत्रार्यो हेतुर्न भवति किरीटी न च युवाम् । जरासंधस्योरः स्थलमिव विरूढं पुनरपि क्रुधा भीमः सन्धिं विघटयति यूयं घटयत ॥ तन्निष्पत्तिः परिन्यासः यथा तत्रैव चञ्चद्रभुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि ! भीमः ॥ अत्रोपक्षेपो नामेतिवत्तलक्षणस्य काव्याभिधैयस्य संक्षेपेणोपक्षेपणमात्रम् । परिकरस्तस्यैव बहुलीकरणम् । परिन्यासस्ततोऽपि नश्चयापत्तिरूपतया परितो हृदये न्यसनम्, इत्येषां भेदः । एतानि चाङ्गानि उक्तेनैव पौर्वापर्येण भवन्ति, अङ्गान्तराणि त्वन्यथापि । गुणाख्यानं विलोभनम् । यथा तत्रैव"द्रौपदीणाध, किं दुक्करं तुए परिकुविदेण" । यथा वा मम चन्द्रकलायां चन्द्रकलावर्णनेसेयम्, "तारुण्यस्यविलासः" इत्यादि (१३९ पृ.) । यत्तु शकुन्तलादिषु "ग्रीवाभङ्गाभिरामम्" इत्यादि मृगादिगुणवर्णनं तद्वीजार्थसम्बन्धाभावान्न संध्यङ्गम् । एवमङ्गान्तराणामप्यूह्यम् । संप्रधारणमर्थानां युक्तिः यथावेण्यां सहादेवो भीमं प्रति आर्य ! किं महाराजसंदेशोऽयमव्युत्पन्न एवार्येण गृहीतः" इत्यतः प्रभृति यावद्भीमवचनम् । "युष्मान् ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः । न लज्जयति दारणां सभायां केशकर्षणम्" ॥ इति । प्राप्तिः सुखागमः ॥ ६.८४ ॥ यथा तत्रैव"मथ्नामि कौरवशतं समरे न कोपात्" इत्यादि (२८४ पृ.) "द्रौपदी(श्रुत्वा सहर्षम्) णाध, अस्सुदपुव्वं क्खु एदं वअणम्, ता पुणो पुणो भण" । बीजस्यागमनं यत्तु तत्समाधानमुच्यते । यथा तत्रैव"(नेपथ्ये कलकलानन्तरम्) भो भो द्रुपदविराटवृष्ण्यन्धक सहदेवप्रभृतयः ! अस्मदक्षौहिणीपतयः कौरवचमूप्रधानयोधाश्च शृण्वन्तु भवन्तः यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विस्मर्तुमपीहितं शमवता शान्ति कुलस्येच्छता । तद्द्यूतारणिसंभृतं नृपसुताकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते" ॥ अत्र "स्वस्था भवन्तु मयि जीवति" इत्यादि बीजस्य प्रधाननायकाभिमतत्वेन सम्यगहितत्वात्समाधानम् । सुखदुः खकृतो योर्ऽथस्तद्विधानमिति स्मृतम् ॥ ६.८५ ॥ यथा बालचरिते "उत्साहातिशयं वत्स ! तव बाल्यं च पश्यतः । मम हर्षविषादाभ्यामाक्रान्तं युगपन्मनः" । यथा वा मम प्रभावत्याम्"नयनयुगासेचनकम्" इत्यादि (२३६ पृ.) । कुतूहलोत्तरा वाचः प्रोक्ता तु परिभावना । यथावेण्यां द्रौपदी युद्धं स्यान्न वेति संशयाना तूर्यशब्दानन्तरम् "णाध ! किं दाणिं एसो पलअजलहरत्थणिदमन्थ खणे खणे समरदुन्दुभि ताडीअदि" । बीजार्थस्य प्ररोहः स्यादुद्भेदः यथा तत्रैव"द्रौपदीअण्णां च णाह, पुणोवि तुम्हेहि समरादो आअच्छिअ समास्सासैदव्वा । भीमःननु पाञ्चालराजतनये ! किमद्यालीकाश्चासनया भूयः परिभवक्लान्तिलज्जाविधुरिताननम् । अनिः शेषितकौरव्यं न पश्यसि वृकोदरम् ॥ करणं पुनः ॥ ६.८६ ॥ प्रकृतार्थसमारम्भः यथा तत्रैव"देवि ! गच्छामो वयमिदानीं कुरुकुलक्षयाय" इति । भेदः संहतभेदनम् । यथा तत्रैव"अत एवाद्यप्रभृति भिन्नोऽहं भवद्भ्यः" । केचित्तु"भेदः प्रोत्साहना" इति वदन्ति । अथ प्रतिमुखाङ्गानि विलासः परिसर्पश्च विधुतं तापनं तथा ॥ ६.८७ ॥ नर्म नर्मद्युतिश्चैव तथा प्रगमनं पुनः । विरोधश्च प्रतिमुखे तथा स्यात्पर्युपासनम् ॥ ६.८८ ॥ पुष्पं वज्रमुपन्यासो वर्णसंहार इत्यपि । तत्र समीहा रतिभोगार्था विलास इति कथ्यते ॥ ६.८९ ॥ रतिलक्षणस्य भावस्य यो हेतुभूतो भोगो विषयः प्रमदा पुरुषो वा तदर्था समीहा विलासः । यथा शाकुन्तले कमं प्रिया न सुलभा मनस्तु तद्धावदर्शनायासि । अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ इष्टनष्टानुसरणं परिसर्पश्च कथ्यते । यथा शाकुन्तले"राजाभवितव्यमत्र तया । तथा हि अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् । द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा" ॥ कृतस्यानुनयस्यादौ विधुतं त्वपरिग्रहः ॥ ६.९० ॥ यथा तत्रैव"अलं वो अन्तेउरविरहपज्जुस्सुएण राएसिणा उवरुद्धेण" । केचित्तु"विधृतं स्यादरतिः" इति वदन्ति । उपायादर्शनं यत्तु तापनं नाम तद्भवेत् । यथा रत्नावल्याम्"सगरिका दुल्लहजणाणुराओ लज्जा गुरुई परअसो अप्पा । पियसहि विसमं पेम्मं मरणं सरणं णवरि एक्कम्" ॥ परिहासवचो नर्म यथा रत्नावल्याम्"सुसंगतासही ! जस्स किदे तुमं आअदा से अअं दे पुरदो चिट्ठदि । सागरिका(साभ्यसूयम्) कस्स किदे अहं आअदा ? "सुसंगताअलं अण्णसंकिदेण । णं चित्तफलअस्स" । धृतिस्तु परिहासजा ॥ ६.९१ ॥ नर्मद्युतिः तथा तत्रैव"सुसंगतासहि ! अदक्खिणा दाणिं सि तुमं जा एव्वं भट्टिणा हत्थावलम्बिदावि कोवं ण मुञ्चसि । सागरिका(सभ्रूभङ्गमीषद्विहस्य) सुसंगदे ! दाणिं वि कीलिदुं न विरमसि । केचित्तु"दोषस्याच्छादनं हास्यं नर्मद्युतिः" इति वदन्ति । प्रगमनं वाक्यं स्यादुत्तरोत्तरम् । यथा विक्रमोर्वश्यामुर्वशीजअदु जअदु महाराओ । राजा मया नाम जितं यस्य त्वया जय उदीर्यते" । इत्यादि । विरोधो व्यसनप्राप्तिः यथा चण्डकौशिके"राजानूनमसमीक्ष्यकारिणा मया अन्धेनेव स्फुरच्छिखाकलापो ज्वलनः पद्भ्यां समाक्रान्तः" । क्रुद्धस्यानुनयः पुनः ॥ ६.९२ ॥ स्यात्पर्युपासनं यथा रत्नावल्याम्"विढूषकःभो, मा कुप्य । एषा हि कदलीघरन्तरं गादा" इत्यादि । पुष्पं विशेषवचनं मतम् । यथा तत्रैव"(राजा हस्ते गृहीत्वा स्पर्शं नाटयति ) विदूषकाःभो वअस्स ! एसा अपुव्वा सिरी तए समासादिदा । राजावयस्य ! सत्यम् श्रीरेषा, पाणिरप्यस्याः पारिजातस्य पल्लवः । कुतोऽन्यथा स्त्रवत्येष स्वेदच्छद्मामृतद्रवः ॥ प्रत्यक्षनिष्ठुरं वज्रम् यथा तत्रैव"राजाकथमिहस्थोऽहं त्वया ज्ञातः ? सुसंगताण केवलं तुमं समं चित्तफलएण । ता जाव गदुअ गदुअ देवीए णिवेदैस्सम्" । उपन्यासः प्रसादनम् ॥ ६.९३ ॥ यथा तत्रैव"सुसंगताभट्टुण ! अलं सङ्काए । मए वि भटिणीए पसादेण कीलिदं ज्जेव एदिहिम् । ता किं कण्णाभरणोण । अदो वि मे गरुअरो पसादो एसो, जं तुए अहं एत्थ आलिहिदत्ति कुविदा मे पिअसही साअरिआ । एसा ज्जेव पसादीअदु" । केचित्तु"उपपत्तिकृतो ह्यर्थ उपन्यासः स कीर्तितः" । इति वदन्ति । उदाहरन्ति च, तत्रैव"अदिमुहरा क्खु सा गब्भदासी" इति । चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते । यथा महावीरचरिते तृतीयेऽङ्के परिषदियमृषीणामेष वीरो युधाजित्सह नृपतिरमात्यैर्लोमपादश्च वृद्धः । अयमविरतयज्ञो ब्रह्मवादी पुराणः प्रभुरपि जनकानामङ्ग भो याचकास्ते ॥ इत्यत्र ऋषिक्षादीनां वर्णानां मेलनम् । अभिनवगुप्तपादास्तु"वर्णशब्देन पात्राण्युपलक्ष्यन्ते । संहारो मेलनम्" इति व्याचक्षते । उदाहरन्ति च रत्नावल्यां द्वितीयेऽङ्के"अदो वि मे अत्त्रं गुरुअरो पसादो" इत्यादेरारभ्य "णं हत्थे गेण्हिअ पसादेहि णम् । राजाक्वासौ क्वासौ" इत्यादि । अथ गार्भाङ्गानि अभूताहरणं मार्गो रूपोदाहरणो क्रमः ॥ ६.९४ ॥ संग्रहश्चानुमानं च प्रार्थना क्षिप्तिरेव च । त्रो (तो) टकाधिबलोद्वेगा गर्भे स्युर्विद्रवस्तथा ॥ ६.९५ ॥ तत्र व्याजाश्रयं वाक्यमभूताहरणं मतम् । यथा अश्वत्थामाङ्के अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा स्वैरं शेषे गज इति पुनर्व्याहृतं सत्यवाचा । तच्छ्रुत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञः शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच ॥ तत्त्वार्थकथनं मार्गः यथा चण्डकौशिके"राजाभगवन् ! गृह्यतामर्जितमिदं भार्यातनयविक्रयात् । शेषस्यार्थे करिष्यापि चण्डालेऽप्यात्मविक्रयम् ॥ रूपं वाक्यं वितर्कवत् ॥ ६.९६ ॥ यथा रत्नावल्याम्"राजा मनः प्रकृत्यैव चलं दुर्लक्ष्यं च तथापि मे । कामेनैतत्कथं विद्धं समं सर्वैः शिलीमुखैः ॥ उदाहरणमुत्कर्षयुक्तं वचनमुच्यते । यथा अश्वत्थामाङ्के यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । यो यस्तत्कर्मसाक्षी, चरति मयि रणो यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम् ॥ भावतत्त्वोपलब्धिस्तु क्रमः स्यात् यथा शासुन्तले"राजास्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि । तथाहि उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः । पुलकाञ्चितेन कथयति मय्यनुरागं कपोलेन ॥ संग्रहः पुनः ॥ ६.९७ ॥ सामदानार्थसंपन्नः यथा रत्नावल्याम्"राजासाधु वयस्य ! इदं ते पारितोषिकम् । (इति कटकं ददाति ) । लिङ्गादूहोऽनुमानता । यथा जानकीराघवे नाटके"रामः लीलागतैरपि तरङ्गयतो धरित्रीमालोकनैर्नमयतो जगतां शिरांसि । तस्यानुमापयति काञ्चनकान्तिगौरकायस्य सूर्यतनयत्वमधृष्यतां च ॥ रतिहर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत् ॥ ६.९८ ॥ यथा रत्नाषल्याम्"प्रिये सागरिके ! शीतांशुर्मुखमुत्पले तव दृशौ, पद्मानुकारौ करौ, रम्भास्तम्भनिभं तथोरुयुगलं, बाहू मृणालोपमौ । इत्यह्लादकराखिलङ्गि ! रभसान्निः शङ्कमालिङ्ग्य मा मङ्गनि त्वमनङ्गतापविधुराण्येह्येहि निर्वापय ॥ इदं च प्रार्थनाख्यमङ्गम् । यन्मते निर्वहणो भूतावसरत्वात्प्रशस्तिनामाङ्ग नास्ति तन्मतानुसारेणोक्तम्, अन्यथा पञ्चषष्टिसंख्यत्वप्रसङ्गात् । रहस्यार्थस्य तद्भेदः क्षिप्तिः स्यात् यथाश्वत्थामाङ्के एवस्यैव विपाकोऽयं दारुणो भुवि वर्तते । केशग्रहे द्वितीयेऽस्मिन्नूनं निः शेषिताः प्रजाः ॥ त्रो(तो) टकं पुनः । संरब्धवाक् यथा चण्डकौशिके"कौशिकःाः, पुनः कथमद्यापि न सम्भूता स्वणादक्षिणाः" । अधिबलभिसंमधिच्छलेन यः ॥ ६.९९ ॥ यथा रत्नावल्याम्"काञ्चनमालाभट्टिणि, इयं सा चित्तसालिआ । वसन्तअस्स सण्णं करोमि " इत्यादि । नृपादिजनिता भीतरुद्वेगः परिकीर्तितः । यथा वेण्याम् प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः । स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥ शङ्काभयत्रासकृतः सम्भ्रमो विद्रवो मतः ॥ ६.१०० ॥ कालान्तककरालास्यं क्रोधोद्भूतं दशाननम् । विलोक्य वानरानीके सम्भ्रमः कोऽप्यजायत ॥ अथ विमर्शाङ्गानि अपवादोऽथ संफेटो व्यवसायो द्रवो द्युतिः । शक्तिः प्रसङ्गः शेदश्च प्रतिषेधो विरोधनम् ॥ ६.१०१ ॥ प्ररोचना विमर्शे स्यादादानं छादनं तथा । दोषप्रख्यापवादः स्यात् यथा वेण्याम्"युधिष्ठिरःपञ्चालक ! क्वचिदासादिता तस्य दुरात्मनः कौख्यापसदस्य पदवी । पाञ्चालकःन केवलं पदवी, स एव दुरात्मा देवीकेशपाशस्पर्शपातकप्रधानहेतुरुपलव्धः" । संफेटो रोषभाषणम् ॥ ६.१०२ ॥ यथा तत्रैव"राजाअरे रे मरुत्तनय ! वृद्धस्य राज्ञः पुरतो निन्दितमप्यात्मकर्म शलाघसे । शृणु रे कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा प्रत्यश्रं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी । तस्मिन् वेरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा बाह्वोर्वोर्यातिभारद्रविणगुरुमदं मामजित्वैव दर्पः ॥ भीमः(सक्रोधम्) आः पाप । राजाआः पाप" । इत्यादि । व्यवसायश्च विज्ञेयःत प्रतिज्ञाहेतुसंभवः । यथा तत्रैव"भीमः निहताशेषकौरव्यः क्षीबो दुःशासनासृजा । भङ्क्ता दुर्योधनस्यौर्वोर्भोमोऽयं शिरसा नतः ॥ द्रवो गुरुव्यतिक्रान्तिः शोकावेगादिसम्भवा ॥ ६.१०३ ॥ यथा तत्रैव"युधिष्ठिरःभगवन् ! कृष्णाग्रज ! सुभद्राभ्रातः ! ज्ञातिप्रीतिर्मनसि न कृता, क्षत्रियाणां न धर्मो रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन । तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः कोऽयं पन्था यदसि विमुखो मन्दभाग्ये मयि त्वम् । तर्जनोद्वेजने प्रोक्ता द्युतिः यथा तत्रैव दुर्योधनं प्रति कुमारवृकोदरेणोक्तम् जन्मेन्दोविमले कुले व्यपदिशस्यद्यापि धत्से गदां मां दुः शासनकोष्णशोणितमधुक्षीबं रिपुं मन्यसे । दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे त्रासान्मे नृपशो ! विहाय समरं पङ्केऽधुना लीयसे ॥ शक्तिः पुनर्भवेत् । विरोधस्य प्रशमनम् यथा तत्रैव "कुर्वन्त्वाप्ता हतानां रणशिरसि जना भस्मसाद्देहभारा नश्रून्मिश्रं कथञ्चिद्ददतु जलममी बान्धवा बान्धवेभ्यः । मार्गन्तां ज्ञातिदेहान् हतनरगहने खण्डितान् गृध्रकङ्कैः रस्तं भास्वान् प्रयातः सह रिपुभिरयं संह्रिन्तां बलानि ॥ प्रसङ्गो गुरुकीर्त्तनम् ॥ ६.१०४ ॥ यथा मृच्छकटिकायाम्"चाण्डालकःेसो क्खु सागलदत्तस्स सुदो अज्जविस्मदत्तस्म णत्तिओ चालुदत्तो वावादिदुं वञ्भ्क्तट्ठाणं णिज्जै एदेण किल गणिआ वसन्तसेणा सुअण्णलोहेण वावादि देत्ति । चारुदत्तः(सनिर्वेदं स्वगतम्) "मखशतपरिपूतं गोत्रमुद्भासितं यत्, सदसि निविडचेत्यव्रह्मघोषैः पुरुस्तात् । मम निधनदशायां वर्त्तमानस्य पापैस्तदसदृशमनुष्यैर्घुष्यते घोषणायाम्" ॥ इत्यनेन चारुदत्तवधाभ्युदयानुकूलप्रसङ्गाद्गुरुकीर्त्तनमिति प्रसङ्गः । मनश्चेष्टासमुत्पन्नः श्रमः खेद इति स्मृतः । मनः समुत्पन्नो यथा मालतीमाधवे दलति हृदयं गाढोद्वेगो द्विधा न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः, करोति न भस्मसात्प्रहरति विधिर्मर्मच्छेदी, न कृन्तति जीवितम् ॥ एवं चेष्टासमुत्पन्नोऽपि । ईप्सितार्थप्रतीघातः प्रतिषेध इतीष्यते ॥ ६.१०५ ॥ यथा मम प्रभावत्यां विदूषकं प्रति प्रद्युम्नःसखे ! कथमिह त्वमेकाकी वर्त्तसे ? क्व नु पुनः प्रियसखीजनानुगम्यमाना प्रियतमा मे प्रभावती ? विदूषकः असुर वैणा आआरिअ कहिं वि णीदा । प्रद्युम्नः(दीर्घं निश्वस्य ) हा पूर्णचन्द्रमुखि ! मत्तचकोरनेत्रे ! मामानताङ्गि ! परिहाय कुतो गतासि ?" । गच्छ त्वमद्य ननु जीवित ! तूर्णमेव दैवं कदर्थनपरं कृतकृत्यमस्तु ॥ कार्यात्ययोपगमनं विहोधनमिति स्मृतम् । यथा वेण्याम्युधिष्ठिरः तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निवृते कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवम् । भीमेन प्रियसाहसेन रभासादल्पावशेषे जये सर्व जीवितसंशयं वयममी वाचा समारोपिताः ॥ प्ररोचना तु विज्ञेया संहारार्थप्रदर्शिनी ॥ ६.१०६ ॥ यथा वेण्याम्"पाञ्चालकःहं देवेन चक्रपाणिना सहितः" इत्युपक्रम्य कृतं सन्देहेन । पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते कृष्णात्यन्तचिरोज्भ्क्तिते तु कबरीबन्धे करोतु क्षणम् । रामे शातकुठारभास्वरकरे क्षत्रद्रुमोच्छेदिनि क्रमधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः" ॥ कार्यसंग्रह आदानम् यथा वेण्याम्"भो भोः समन्तपञ्चकचारिणः ! । नाहं रक्षो न भूतो रिपुरुधिरजलाह्लादिताङ्गः प्रकामं निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि । भो भो राजन्यवीराः ! समरशिखिशिखाभुक्तशेषाः ! कृतं व स्त्रासेनानेन लीनैर्हतकरितुरगान्तहितैरास्यते यत् ॥ अत्र समस्तरिपुवधकार्यस्य संकृहीतत्वादादानम् तदाहुश्छादनं पुनः । कार्यार्थमपमानादेः सहनं खलु यद्भवेत् ॥ ६.१०७ ॥ यथा तत्रैवअर्जुनःार्य ! प्रसीद किमत्रक्रोधेन अप्रियाणि करोत्वेष वाचा शक्तो न कर्मणा । हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥ अथ निर्वहणाङ्गानि । सन्धिर्विबोधो ग्रथनं निर्णयः परिभाषणम् । कृतिः तप्रसाद आनन्दः समयोऽप्युपगूहनम् ॥ ६.१०८ ॥ भाषणं पूर्ववाक्यञ्च काव्यसंहार एव च । प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः ॥ ६.१०९ ॥ तत्र बीजोपगमनं सन्धिः यथा तत्रैव (वेण्याम्)"भीमःभवति ! यज्ञवेदिसम्भवे ! स्मरति भवती यन्मयोक्तम्"चञ्चद्भुजे" त्यादि" । अनेन मुखे क्षिप्तबीजस्य पुनरुपगमनमिति सन्धिः । विबोधः कार्यमार्गणम् । यथा तत्रैव"भीमःमुञ्चतु मामार्यः क्षणमेकम् । युधिष्ठिरःकिमपरमवशिष्टम् ? भीमःसुमहदवशिष्टम् । संयमयामि तावदनेन सुयोधनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम् । युधिष्ठिरःगच्छतु भवान्, अनुभवतु तपस्विनी वेणीसंहारम्" इति । अनेन केशसंथमनकार्यस्यान्वेषणाद्विबोधः । उपन्यासस्तु कार्याणां ग्रथनं यथा तत्रैवभीमःपाञ्चालि ! न खलु मयि जीवति सहर्ंत्तव्या दुःशासनविलुलिता वेणिरात्मपाणिभ्याम् । तिष्ठ, स्वयमेवाहं संहरमि " इति । अनेन कार्यस्योपक्षेपाद्रग्रथनम् । निर्णयः पुनः ॥ ६.११० ॥ अनुभूतार्थकथनं यथा तत्रैव, भीमःदेव अजातशत्रो ! अद्यापि दुर्योधनहतकः । मया हि तस्य दुरात्मनः भूमौ क्षिप्तं शरीरं निहतमिदमसृक्चन्दनाभं निजाङ्गे तक्ष्मीरार्ये निषक्ता चतुरुदधिपयः सीमया सार्द्धमुर्व्या । भृत्या मित्राणि योधाः कुरुकुलमनुजा दग्धमेतद्रणाग्नौ नामैकं यद्ब्रवीषि क्षितिप ! तदधुना धार्त्तराष्टस्य शेषम् ॥ वदन्ति परिभाषणम् । परिवादकृतं वाक्यम् यथा शाकुन्तलेराजा आर्ये ! अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ? । तापसी को तस्स धम्मदारपरिट्टाइणो णामं गेण्हिस्सदि" । लब्धार्थशमनं कृतिः ॥ ६.१११ ॥ यथा वेण्याम्"कृष्णःेते भगवन्तो व्यासवाल्मीकिप्रभृतयोऽभिषेकं धारयन्तस्तिष्ठन्ति" इति । अनेन प्राप्तराज्यस्याभिषेकमङ्गलैः स्थिरीकरणं कृतिः । शुश्रूषादिः प्रसादः स्यात् यथा तत्रैव भीमेन द्रौपद्याः केशसंयमनम् । आनन्दो वाञ्छितागमः । यथा तत्रैव"द्रौपदीविसुमरिदं एदं वावारं णाधस्स पसादेण पुणो वि सिक्खिस्सं" । समयो दुःखनिर्याणां यथा रत्नावल्याम्"वासवदत्ता(रत्नावलीमालिङ्ग्य) समस्सस बहिणिए ! समस्सस" । तद्भवेदुपगूहनम् ॥ ६.११२ ॥ यत्स्यादद्भुतसम्प्राप्तिः यथा मम प्रभावत्यां नारददर्शनात्प्रद्युम्न ऊर्द्ध्वमवलोक्य दधद्विद्युल्लेखामिव कुसुममालां मरिमल भ्रमद्भृङ्गश्रेणीध्वनिभिरुपगीतां तत इतः । दिगन्तं ज्योतिभिस्तुहिनकरगौरैर्धवलय न्नितः कैलासाद्रिः पतति वियतः किं पुनरिदम् ॥ सामदानादि भाषण्म् । यथा चण्डकौशिके"धर्मःतदेहि धर्मलोकमधितिष्ठ" । पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम् ॥ ६.११३ ॥ यथा वेण्याम्भीमःबुद्धैमतिके ! क्व सा भानुमती । परिभवतु सम्प्रति पाण्डवदारान्" । वरप्रदानसंप्राप्तिः काव्यसंहार इष्यते । यथा सर्वत्रकिं ते भूयः प्रियमुपकरोमि" । इति । नृपदेशादिशान्तिस्तु प्रशस्तिरभिधीयते ॥ ६.११४ ॥ यथा प्रभावत्याम् राजानः सुतनिर्विशेषमधुना पश्यन्तु नित्यं प्रजा जीयसुः सदसद्विवेकपटवः सन्तो गुणग्राहिणः सस्यस्वर्णसमृद्धयः समधिकाः सन्तु क्षमामण्डले भूयादव्यभिचारिणी त्रिजगतो भक्तिश्च नारायणो ॥ अत्र चोपसंहारप्रशस्त्योरन्त एकेन क्रमेणैव स्थितिः । "इह च मुखसंधौ उपक्षेपपरिन्यासयुक्त्युद्भेदसमाधानानां प्रतिमुखे च परिसर्पणप्रगमनवज्रोपन्यासपुष्पाणां गर्भेऽभूताहरणमर्गत्रो (तो) टकाधिबलक्षेपाणां विमर्शेऽपवादशक्तिव्यवसायप्ररोचनादानानां प्राधन्यम् । अन्येषां च यथासम्भवं स्थितिः" इति केचित् । चतुःषष्टिविधं ह्येतदङ्गं प्रोक्तं मनीषिभिः । कुर्यादनियते तस्य संधावपि निवेशनम् ॥ ६.११५ ॥ रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता । यथा वेहीसंहारे तृतीयाङ्के दुर्योधनकर्णयोर्महत्संप्रधारणम् । एवमन्यत्रापि । यत्तु रुद्रटादिभिः "नियम एव " इत्युक्तं तल्लक्ष्याविरुद्धम् । इष्टार्थरचनाश्चर्यलाभो वृत्तान्तविस्तरः ॥ ६.११६ ॥ रागप्राप्तिः प्रयोगस्य गोष्यानां गोपनं तथा । प्रकाशनं प्रकाश्यानामङ्गानां षड्विधं फलम् ॥ ६.११७ ॥ अङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत् । अङ्गहीनं तथा काव्यं न प्रयोगाय युज्यते ॥ ६.११८ ॥ संपादयेतां संध्यङ्गं नायकप्रतिनायकौ । तदभावे पताकाद्यस्तदभावे तथेतरत् ॥ ६.११९ ॥ प्रायेण प्रधानपुरुषप्रयोज्यानि सन्ध्यङ्गानि भवन्ति । किन्तूपक्षेपादित्रयं बीजस्याल्पमात्रसमुद्दिष्टत्वादप्रधानपुरुषप्रयोजितमेव साधु । रसव्यक्तिमपेक्ष्यैषामङ्गानां संनिवेशनम् । न तु केवलया शास्त्रस्थितिसंपादनेच्छया ॥ ६.१२० ॥ तथा च यद्वेण्यां दुर्योधनस्य भानुमत्या सह विप्रलम्भो दर्शितः, तत्ताद्दशेऽवसरेऽत्यन्तमनुचितम् । अविरुद्धं तु यद्वृत्तं रसादिव्यक्तयेऽधिकम् । तदष्यन्यथयेद्धीमान्न वदेद्वा कदाचन ॥ ६.१२१ ॥ अनयोरुदाहरणं सत्प्रबन्धेष्वभिव्यक्तमेव । अथ वृत्तयः शृङ्गारे कौशिकी वीरे सात्त्वत्यारभटी पुनः । रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥ ६.१२२ ॥ चतस्त्रो वृत्तयो ह्येताः सर्वनाट्यस्य मातृकाः । स्युर्नायिकादिव्यापारविशेषा नाटकादिषु ॥ ६.१२३ ॥ तत्र कौशिकी या श्लक्ष्णनेपथ्यविशेषचित्रा स्त्रीसंकुला पुष्कलनृत्यगीता । कामोपभोगप्रभवोपचारा सा कौशिकी चारुविलासयुक्ता ॥ ६.१२४ ॥ नर्म च नर्मस्फूर्जो नर्मस्फोटोऽथ नर्मगर्भश्च । चत्वार्यङ्गान्यस्या तत्र वैदग्ध्यक्रीहितं नर्मः ॥ ६.१२५ ॥ इष्टजनावर्जनकृत्तच्चापि त्रिविधं मतम् । विहितं शुद्धहास्येन सशृङ्गारभयेन च ॥ ६.१२६ ॥ तत्र केवलहास्येन विहितं यथा रत्नावल्याम्"वासवदत्ता(फलकमुद्दिश्य सहासम्) एसा वि अवरा तव समीवे जधालिहिदा एदं किं अज्जवसन्तस्स विण्णाणम् । सशृङ्गारहास्येन यथा शाकुन्तलेराजानं प्रति शकुन्तलाअसंतुट्ठो उण किं करिस्सदि । राजा इदमम् । (इति व्यवसितःशकुन्तलावक्त्रं ढौकते ) सभयहास्येन यथा रत्नावल्यामालेख्यदर्शनावसरे सुसंगताजाणिदो मए एसो वुत्तन्तो समं चित्तफलएण । ता देवीए गदुअ निवेदैस्सम् । एतद्वाक्यसम्बन्धि नर्मोदाहृतम् । एवं वेषचेष्टासम्बन्ध्यपि । नर्मस्फूर्जः सुखारम्भो भयान्तो नवसंगमः । यथा मालविकायाम्सङ्केतनायकमभिसृतायां "नायकः विसृज सुन्दरि ! सङ्गमसाध्वसं ननु चिरात्प्रभृति प्रणयोन्मुखे । परिगृहण गते सहकारतां त्वमतिमुक्तलताचरितं मयि" ॥ मालविका"भट्टा, देवीए भएण अप्पणो वि पिअ कौं ण पारेमि" इत्यादि । अथ नर्मस्फोटः नर्मस्फोटो भावलेशैः सूचिताल्परसा मतः ॥ ६.१२७ ॥ यथा मालतीमाधवे गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिकं किन्त्वेतत्स्यात्किमदन्यदितोऽथवा । भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥ अलसगमनादिभिर्भावलेशैर्माधवस्य मालत्यामनुरागः स्तोकः प्रकाशितः । नर्मगर्भो व्यवहतिर्नेतुः प्रच्छन्नवर्तिनः । यथातत्रैव सखीरूपधारिणा माधवेन मालत्या मरणव्यवसायवारणम् । अथ सात्त्वती सात्त्वती बहुला सत्त्वशौर्यत्यागदयार्जवैः ॥ ६.१२८ ॥ सहर्षा क्षुद्रशृङ्गारा विशोका साद्भुता तथा । उत्थापकोऽथ सांघात्यः संलापः परिवर्त्तकः ॥ ६.१२९ ॥ विशेषा इति चत्त्वारः सात्त्वत्याः परिकीर्त्तिः । उत्तेजनकरी शत्रोर्वागुध्यापक उच्यते ॥ ६.१३० ॥ यथा महावीरचरिते आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा वैतृष्ण्यन्तु ममापि सम्प्रति कुतस्त्वद्दर्शने चक्षुषः । त्वत्साङ्गत्यसुखस्य नास्मि विषयस्तत्किं वृथा व्याहृतैः ? अस्मिन् विश्रुतजामदग्न्यदमने पाणौ धनुर्जृन्भताम् ॥ मन्त्रार्थदैवशक्त्यादेः साघात्यः सङ्घभेदनम् । मन्त्रशक्त्या यथामुद्राराक्षसे राक्षससायानां चाणक्येन स्वबुद्ध्या भेदनम् । अर्थशक्त्यापि तत्रैव । दैवशक्त्या यथारामायणो रावणाद्विभीषणस्य भेदः । संलापः स्याद्रभीराक्तिर्नानाभावसमाश्रयः ॥ ६.१३१ ॥ यथा वीरचरिते"रामःयं सः, यः किल सपरिवारकार्त्तिकेयविजयावजीतेन भगवता नीललोहिते परिवत्सरसहस्त्रान्तेवासिने तुभ्यं प्रसादीकृतः परशुः । परशुरामःराम दाशरथे ! स एवायमार्यपादानां प्रियः परशुः । "इत्यादि । प्रारब्धादन्यकार्याणां कारणं परिवर्तकः । यथा वेण्याम्"भामःसहदेव ! गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यस्त्रागारं प्रविश्यायुधसहायो भवामीति यावत् । अथवा आमन्त्रयितव्यैव मया पाञ्चाली" । इति । अथारभटी मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ॥ ६.१३२ ॥ संयुक्ता वधबन्धाद्यैरुद्धतारभटी मता । वस्तूत्थापनसंफैटौ संक्षिप्तिरवपातनम् ॥ ६.१३३ ॥ इति भेदास्तु चत्वार आरभट्याः प्रकीर्तिताः । मायाद्युत्थापितं वस्तु वस्तुत्थापनमुच्यते ॥ ६.१३४ ॥ यथोदात्तराघवे जीयन्ते जयिनोऽपि सान्द्रतिमिरव्रातैर्वियद्व्यापिभिर्भास्वन्तः सकला रवेरपि कराः कस्मादकस्मादमी । एते चोग्रकबन्धकण्ठरुधिरैराध्मायमानोदरा मुञ्चन्त्याननकंदरानलमुचस्तीव्रान् रवान् फेरवाः ॥ इत्यादि । संफेटस्तु समाघातः क्रुद्धसत्वरयोर्दूयोः । यथा मालत्यां माधवाघोरघण्टयोः । संक्षिप्ता वस्तुरचना शिल्पैरितरथापि वा ॥ ६.१३५ ॥ संक्षिप्तिः स्यान्निवृत्तौ च नेतुर्नेत्रन्तरग्रहः । यथोदयनचरिते कलिञ्जहस्तिप्रयोगः । द्वितीयं यथा वालिनिवृत्त्या सुग्रीवः । यथा वा परशुरामस्यौद्धत्यनिवृत्त्या शान्तत्वापादनम्"पुण्या ब्राह्मणजातिःऽइति । प्रवेशत्रासनिष्क्रान्तिहर्षविद्रवसंभवम् ॥ ६.१३६ ॥ अवपातनमित्युक्तं यथा कृत्यरावणो षष्ठेऽङ्के"(प्रविश्य खङ्गहस्तः पुरुषः)" इत्यतः प्रभृति निष्क्रमणपर्यन्तम् । पूर्वमुक्तैक भारती । अथ नाट्योक्तयः अश्राव्य खलु यद्वस्तु तदिह स्वगतं मतम् ॥ ६.१३७ ॥ सर्वश्राव्यं प्रकाशं स्यात्तद्भवेदपवारितम् । रहस्यं तु यदन्यस्य परावृत्य प्रकाश्यते ॥ ६.१३८ ॥ त्रिपताककरेणान्यानपवार्यान्तरा कथाम् । आन्योन्यामन्त्रणं यत्स्यात्तज्जनान्ते जनान्तिकम् ॥ ६.१३९ ॥ किं व्रवीषीति यन्नाट्ये विना पात्रं प्रयुज्यते । श्रुत्वेवानुक्तमष्यर्थं तत्स्यादाकाशभाषितम् ॥ ६.१४० ॥ यः कश्चिदर्थो यस्माद्रोपनीयस्तस्यान्तरत ऊर्ध्वं सर्वाङ्गुलिनामितानामिकं त्रिपताकलक्षणं करं कृत्वान्येन सह यन्मन्त्र्यते तज्जनान्तिकम् । परावृत्यान्यस्य रहस्यकथनमपवारितम् । शेषं स्पष्टम् । दत्तां सिद्धां च सेनां च वेश्यानां नाम दर्शयेत् । दत्तप्रयाणि वणिजां चेटचेट्योस्तथा पुनः ॥ ६.१४१ ॥ वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद्भवेत् । वेश्या यथा वसन्तसेनादिः । वणिग्विष्णुदत्तादिः । चेटः कलहंसादिः । चेटी मन्दारिकादिः । नाम कार्यं नाटकस्य गर्भितार्थप्रकाशकम् ॥ ६.१४२ ॥ यथा रामाभ्युदयादिः । नायिकानायकाख्यानात्संज्ञा प्रकरणादिषु । यथा मालतीमाधवादिः । नाटिकासट्टकादीनां नायिकाभिर्विशेषणम् ॥ ६.१४३ ॥ यथा रत्नावलीकर्पूरमञ्जर्यादिः । प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते । यथा शाकुन्तलेऋषी, "गच्छावः" इत्यर्थे "साधयावस्तावत्" । राजा स्वमीति देवेति भृत्यैर्भट्टेति चाधमैः ॥ ६.१४४ ॥ राजषिभिर्वयस्येति तथा विढूषकेण च । राजन्नित्यृषिभिर्वाच्यः सोऽपत्यप्रत्ययेन च ॥ ६.१४५ ॥ स्वेच्छया नामभिविप्रविप्र आर्येति चेतरैः । वयस्येत्यथवा नाम्ना वाच्यो राज्ञा विढूषकः ॥ ६.१४६ ॥ वाच्यौ नटीसूत्रधारावार्यनाम्ना परस्परम् । सूत्रधारं वदेद्भाव इति वै पारिपार्शिवकः ॥ ६.१४७ ॥ सूत्रधारो मारिषेति हण्डे इत्यधमैः समाः । वयस्येत्युत्तमैर्हहो मध्यैरार्येति चाग्रजः ॥ ६.१४८ ॥ भगवन्निति वक्तव्याः सर्वैर्देवषिलिङ्गिनः । वदेद्राज्ञीं च चेटीं च भवतीति विदूषकः ॥ ६.१४९ ॥ आयुष्मन् रथिनं सूतो वृद्धं तातेति चेतरः । वत्सपुत्रकतातेति नाम्ना गोत्रेण वा सुतः ॥ ६.१५० ॥ शिष्योऽनुजश्च वक्तव्योऽमात्य आर्येति चाधमैः । विप्रैरयममात्येति सचिवेति च भण्यते ॥ ६.१५१ ॥ साधो ! इति तपस्वी च प्रशान्तश्चोच्यते बुधैः । स्वगृहीताभिधः पूज्यः शिष्याद्यैर्विनिगद्यते ॥ ६.१५२ ॥ उपाध्यायेति चाचार्यो महाराजेति भूपतिः । स्वामीति, युवराजस्तु कुमारो भर्तृदारकः ॥ ६.१५३ ॥ भद्रसौम्यमुखेत्येवमधमैस्तु कुमारकः । वाच्या प्रकृतिभी राज्ञः कुमारी भर्तृदारिका ॥ ६.१५४ ॥ पतिर्यथा तथा वाच्या ज्येष्ठमध्याधमैः स्त्रियः । हलेति सदृशी, प्रेष्या हञ्जे वेश्याज्जुका तथा ॥ ६.१५५ ॥ कुट्टिन्यम्बेत्यनुगतैः पूज्या च जरती जनैः । आमन्त्रणैश्च पाषण्डा वाच्याः स्वसमयागतैः ॥ ६.१५६ ॥ शका (शक्या) दयश्च संभाष्या भद्रदत्तादिनामभिः । यस्य यत्कर्म शिल्पं वा विद्या वा जातिरेव वा ॥ ६.१५७ ॥ तेनैव नाम्ना वाच्योऽसौ ज्ञेयाश्चान्ये यथोचितम् । अथ भाषाविभागः पुरुषाणामनीचानां संस्कृतं स्यात्कृतात्मनाम् ॥ ६.१५८ ॥ सोरसेनी प्रयोक्तव्या तादृशीनां च योषिताम् । आसामेव तु गाथासु महाराष्ट्रीं प्रयोजयेत् ॥ ६.१५९ ॥ अत्रोक्ता मागधी भाषा राजान्तः पुरचारिणाम् । चेटानां राजपुत्राणां श्रेष्ठानां चार्धमगधी ॥ ६.१६० ॥ प्राच्यां विदूषकादीनां, धूर्तानां स्यादवन्तिजा । योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम् ॥ ६.१६१ ॥ शवराणां शकादानां शाबरीं संप्रयोजयेत् । बाह्लीकभाषोदीच्यानां द्राविडी द्राविडादिषु ॥ ६.१६२ ॥ आभीरेषु तथाभीरी चाण्डाली पुक्कसादिषु । आभीरी शाबरी चापि काष्ठपात्रोपजीविषु ॥ ६.१६३ ॥ तथैवाङ्गारकारादौ पैशाची स्यात्पिशाचवाक् । चेटीनामष्यनीचानामपि स्यात्सौरसेनिका ॥ ६.१६४ ॥ बालानां षण्डकानां च नीचग्रहविचारिणाम् । उन्मत्तानामातुराणां सैव स्यात्संस्कृतं क्वचित् ॥ ६.१६५ ॥ ऐश्वर्येण प्रमत्तस्य दारिद्र्योपद्रुतस्य च । भिक्षु वल्कधरादीनां प्राकृतं संप्रयोजयेत् ॥ ६.१६६ ॥ संस्कृतं संप्रयोक्तव्यं लिङ्गिनीषूत्तमासु च । देवीमन्भिसुतावेश्यास्वपि कैश्चित्तथोदितम् ॥ ६.१६७ ॥ कार्यतश्चोत्तमादीनां कार्यो भाषाविपर्ययः ॥ ६.१६८ ॥ योषित्सखीबालवेश्याकितवाष्सरसां तथा । वैदग्ध्याथ प्रदातव्यं संस्कृतं चान्तरान्तरा ॥ ६.१६९ ॥ एषामुदाहरणान्याकरेषु बोद्धव्यानि । भाषालक्षणानि मम तातपादानां भाषार्णवे । षट्त्रिंशल्लक्षणान्यत्र, नाट्यालंकृतयस्तथा । त्रयस्त्रिंशत्प्रयोज्यानि वीथ्यङ्गानि त्रयोदश ॥ ६.१७० ॥ लास्याङ्गानि दश यथालाभंरसव्यपेक्षया । यथालाभं प्रयोज्यानीति सम्बन्धः । अत्रेति नाटके । तत्र लक्षणानि भूषणाक्षरसंघातौ शोभोदाहरणं तथा ॥ ६.१७१ ॥ हेतुसंशयदृष्टान्तास्तुल्यतर्कः पदोच्चयः । निदर्शनाभिप्रायौ च प्राप्तिर्विचार एव च ॥ ६.१७२ ॥ दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा । विशेषणनिरुक्ती च सिद्धिभ्रशविपर्ययौ ॥ ६.१७३ ॥ दाक्षिण्यानुनयौ मालार्थापत्तिर्गर्हणं तथा । पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुणकीर्तनम् ॥ ६.१७४ ॥ लेशो मनोरथोऽनुक्तसिद्धिः प्रियवचस्तथा । तत्र लक्षणानि गुणैः सालंकारैर्योगस्तु भूषणम् ॥ ६.१७५ ॥ यथाआक्षिपन्त्यरविन्दानि मुग्धे ! तव मुखश्रियम् । कोषदण्डसमग्रणां किमेषामस्ति दुष्करम् ॥ वर्णनाक्षरसंघातश्चित्रार्थैरक्षरैर्मितैः । यथा शाकुन्तले"राजाकच्चित्सखीं वो नातिबाधते शरीरसंतापः । प्रियंवदासम्पदं लधोसहो उअसमं गमिस्सदि" । सिद्धैरर्थैः समं यत्राप्रसिद्धोर्ऽथः प्रकाशते ॥ ६.१७६ ॥ श्लिष्टश्लक्षणचित्रार्था सा शोभेत्यभिधीयते । यथा "संद्वंशसम्भवः शुद्धः कोटिदोऽपि गुणान्वितः । कामं धनुरिव क्रूरो वर्जनीयः सतां प्रभुः । यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ॥ ६.१७७ ॥ साध्यतेऽभिमतश्चार्थस्तदुदाहरणं मतम् । यथा अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतम् । का दिनश्रीर्विनार्केण का निशा शशिना विना ॥ हेतुर्वाक्यं समासोक्तमिष्टकृर्द्धतुदर्शनात् ॥ ६.१७८ ॥ यथा वेण्यां भीमं प्रति "चेटीएवं मए भणिदं भाणुमदि तुह्माणं अमुक्केसु केसेसु कहं देवीए केसा संजमिअन्तित्ति । संशयोऽज्ञाततत्त्वस्य वाक्ये स्याद्यदनिश्चयः । यथा ययातिविजये इयं स्वर्गाधिनाधस्य लक्ष्मीः किं यक्षकन्यका । किं चास्य विषयस्यैव देवता किमु पार्वती ॥ दृष्टान्तो यस्तु पक्षेर्ऽथसाधनाय निदर्शनम् ॥ ६.१७९ ॥ यथा वेण्याम् "सहदेवःार्य ! उचितमेवैतत्तस्या यतो दुर्योधनकलत्रं हि सा" इत्यादि । तुल्यतर्को यदर्थेन तर्कः प्रकृतिगामिना । यथा तत्रैव प्रयेणैव हि दृश्यन्ते कामं स्वप्नाः शुभाशुभाः । शतसंख्या पुनरियं सानुजं स्पृशतीव माम् ॥ संचयोर्ऽथानुरूपो यः पदानां स पदोच्चयः ॥ ६.१८० ॥ यथा शाकुन्तले अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ अत्र पदपदार्थयोः सौकुमार्यं सदृशमेव । यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् । परपक्षव्युदासार्थं तन्निदर्शनमुच्यते ॥ ६.१८१ ॥ यथाक्षात्रधर्मोचितैर्धर्मैरलं शत्रुवधे नृपाः । किं तु बालिनि रामेण मुक्तो बाणः पराङ्मुखे ॥ अभिप्रायस्तु सादृश्यादभूतार्थस्य कल्पना । यथा शाकुन्तले इदं किलाव्याजमनोहरं वपुस्तपः क्लमं साधयितुं य इच्छति । ध्रुवं स नीलोत्पलपत्नधारया समिल्लतां छेत्तुमृषिर्व्यवस्यति ॥ प्राप्तिः केनचिदंशेन किञ्चिद्यत्रानुमीयते ॥ ६.१८२ ॥ यथा मम प्रभावत्याम्"अनेन खलु सर्वतश्चरता चञ्चरीकेणावश्यं विदिता भविष्यति प्रियतमा मे प्रभावती" । विचारो युक्तिवाक्यैर्यदप्रत्यक्षार्थसाधनम् । यथा मम चन्द्रकलायाम्"राजानूनमियमन्तः पिहितमदनविकारा वर्तते । यतः "हसति परितोषरहितं निरीक्ष्यमाणापि नेक्षते किञ्चित् । सख्यामुदाहरन्त्यामसमञ्जसमुत्तरं दत्ते" ॥ देशकालस्वरूपेणा वर्णना दिष्टमुच्यते ॥ ६.१८३ ॥ यथा वेण्याम्"सहदेवः "यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धेऽद्य संभृतम् । तत्प्रावृडिव कृष्णोयं नूनं संवर्धयिष्यति" ॥ उपदिष्टं मनोहारि वाक्यं शास्त्रानुसारतः । यथा शाकुन्तले शुश्रूषस्व गुरून्, कुरु प्रियसखीवृत्तिं सपत्नीजने, भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भाग्यष्वनुत्सेकिनी, यान्त्येवं गृहिणीपदं युवतयो, वामाः कुलस्याधयः ॥ गुणातिपातः कार्यं यद्विपरीतं गुणान्प्रति ॥ ६.१८४ ॥ यथा मम चन्द्रकलायां चन्द्रं प्रति जै संहरिज्जै तमो धेप्पै सअलेहि ते पाओ । वससि सिरे पसुबैणो तहवि ह इत्थीअ जीअणं हरसि ॥ यः सामान्यगुणोद्रेकः स गुणातिशयो मतः । यथा तत्रैव"राजा(चन्द्रकलाया मुखं निदिश्य) असावन्तश्चञ्चद्विकचनवनीलाब्जयुगल स्तलस्फूर्जत्कम्बनविलसदलिसंघात उपरि । विना दोषासङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखि ! ते ॥ सिद्धानर्थान् बहूनुक्त्वा विशेषोक्तिर्विशेषणम् ॥ ६.१८५ ॥ यथातृष्णापहारी विमलो द्विजावासो जनप्रियः । हृदः पद्माकरः किन्तु बुधस्त्वं स जलाशयः ॥ पूर्वसिद्धार्थकथनं निरुक्तिरिति कीर्त्यते । यथा वेण्याम्"निहताशेषकौरव्यः"इत्यादि । (३७९ पृ.) बहूनां कीर्तनं सिद्धिरभिप्रेतार्थसिद्धये ॥ ६.१८६ ॥ यथायद्वीर्यं कूर्मराजस्य यश्च शेषस्य विक्रमः । पृथिव्या रक्षणो राजन्नेकत्र त्वयि तत्स्थितम् ॥ दृप्तादीनां भवेद्भ्रंशो वाच्यादन्यतरद्वचः । यथा वेण्याम्कञ्चुकिनं प्रति "दुर्योधनः सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् । स्वबलेन निहन्ति संयुगे नचिरात्पाण्डुसुतः सुयोधनम्" ॥ विचारस्यान्यथाभावः संदेहात्तु विपर्ययः ॥ ६.१८७ ॥ यथामत्वा लोकमदातारं संतोषे यैः कृता मतिः . त्वयि राजनि ते राजन्न तथा व्यवसायिनः ॥ दाक्षिण्यं चेष्टया वाचा परचित्तानुवर्तनम् । वाचा यथाप्रसाधय पुरीं लङ्कां राजा त्वं हि बिभीषण ॥ आर्येणानुगृहीतस्य न विघ्नः सिद्धिमन्तरा ॥ एवं चेष्टयापि । वाक्यैः स्निग्धैरनुनयो भवेदर्थस्य साधनम् ॥ ६.१८८ ॥ यथा वेण्यामश्वत्थामानं प्रति "कृपःदिव्यास्त्रग्रमकोविदे भारद्वाजतुल्यपराक्रमे किं न संभाव्यते त्वयि" । माला स्याद्यदभीष्टार्थं नैकार्थप्रतिपादनम् । यथा शाकुन्तले"राजा किं शीकरैः क्लमविमर्दिभिरार्द्रवातं सञ्चारयामि नलिनीदलतालवृन्तम् । अङ्के निवेश्य चरणावुत पद्मताम्रौ संवादयामि करभोरु ! यथासुखं ते" ॥ अर्थापत्तिर्यदन्यार्थोर्ऽथान्तरोक्तेः प्रतीयते ॥ ६.१८९ ॥ यथा वेण्याम्द्रोणोऽश्चत्थामानं राज्येऽभिषेक्तुमिच्छतीति कथयन्तं कर्णं प्रति "राजासाधु अङ्गराज ! साधु, कथमन्यथा दत्त्वामयं सोऽतिरथो वध्यमानं किरीटिना । सिन्धुराजमुपेक्षेत नैव चेत्कथमन्यथा" ॥ दूषणोद्धोषणायां तु भर्त्सना गर्हणं तु तत् । यथा तत्रैवकर्णं प्रति "अश्वत्थामा निर्वोर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं सम्प्रत्येव भयाद्विहाय समरं प्राप्तोऽस्मि किं त्वं यथा । जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले क्षुद्रारातिकृताप्रियं प्रतिकरोप्यस्त्रेण नास्त्रेण यत्" ॥ अभ्यर्थनापरैर्वाक्यैः पृच्छार्थान्वेषणं मता ॥ ६.१९० ॥ यथा तत्रैव"सुन्दरकःज्जा, अवि णाम सारधिदुदिओदिट्ट तुह्मेर्हि महाराओ दुर्योधणो ण वेत्ति" । प्रसिद्धिर्लोकसिद्धार्थैरुत्कृष्टैरर्थसाधनम् । यथा विक्रमोर्वश्याम्"राजा सूर्याचन्द्रमसौ यस्य मातामहपितामहौ । स्वयं कृतः पतिर्द्वाभ्यामुर्वश्या च भुवा च यः ॥ सारूप्यमनुरूपस्य सारूप्यात्क्षोभवर्धनम् ॥ ६.१९१ ॥ यथा वेण्याम्दुर्योधनभ्रान्त्या भीमं प्रति "युधिष्ठिरःदुरात्मन् !दुर्योधनहतक !" इत्यादि । संक्षेपो यत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते । यथा मम चन्द्रकलायाम्"राजाप्रिये ! अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा । (आत्मानं निर्दिश्य) अयमीहितकुसुमानां सम्पादयिता तवास्ति दासजनः" ॥ गुणानां कीर्तनं यत्तु तदेव गुणाकीर्तनम् ॥ ६.१९२ ॥ यथा तत्रैव"नेत्रे खञ्जनगञ्जने सरसिजप्रत्यथि" इत्यादि (पृ.) स लेशो भण्यते वाक्यं यत्सादृश्यपुरः सरम् । यथा वेण्याम्"राजा हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् । या शलाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति" ॥ मनोरथस्त्वभिप्रायस्योक्तिर्भङ्ग्यन्तरेण यत् ॥ ६.१९३ ॥ यथारतिकेलिकलः किंचिदेष मन्मथमन्थरः । पश्य सुभ्र ! समालम्भात्कादम्बश्चुम्बति प्रियाम् ॥ विशेषार्थोहविस्तारोऽनुक्तसिद्धिरुदीर्यते । यथा"गृहवृक्षवाटिकायाम् दृश्येते तन्वि ! यावेतौ चारुचन्द्रमसं प्रति । प्राज्ञे कल्याणनामानावुभौ तिष्यपुनर्वसू" ॥ स्यात्प्रमाणयितुं पूज्यं प्रियोक्तिर्हर्षभाषणम् ॥ ६.१९४ ॥ यथा शाकुन्तले उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं विधिस्तव प्रसादस्य पुरस्तु सम्पदः ॥ अथ नाट्यालङ्काराः आशीराक्रन्दकपटाज्ञमागर्वोद्यमाश्रयाः । उत्प्रासनस्पृहाक्षोभपश्चात्तापोपपत्तयः ॥ ६.१९५ ॥ आशंसाध्यवसायौ च विसर्पाल्लेखसंज्ञितौ । उत्तेजनं परीवादो नीतिरर्थविशेषणम् ॥ ६.१९६ ॥ प्रोत्साहनं च साहाय्यमभिमानोऽनुवर्तनम् । उत्कीर्त्तनं तथा याच्ञा परिहारो निवेदनम् ॥ ६.१९७ ॥ प्रवर्तनाख्यानयुक्तिप्रहर्षाश्चोपदेशनम् । इति नाट्यालङ्कृतयो नाट्यभूषणहेतवः ॥ ६.१९८ ॥ आशीरिष्टजनाशंसा यथा शाकुन्तले ययातेरिव शमिष्ठा पत्युर्बहुमता भव । पुत्रं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥ आकन्दः प्रलपितं शुचौ । यथा वेण्याम्"कञ्चकीहा देवि ! कुन्ति ! राजभवनपताके !" इत्यादि । कपटं मायया यत्र रूपमन्यद्विभाव्यते ॥ ६.१९९ ॥ यथाकुलपत्यङ्के मृगरूपं परित्यज्य विधाय कपटं वपुः । नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ॥ अक्षमा सा परिभवः स्वल्पोऽपि" न विषह्यते । यथा शाकुन्तले"राजाभोः सत्यवादिन् ! अभ्युपगतं तावदस्माभिः । किं पुनरिमामभिसन्धाय लभ्यते । शार्ङ्गरवःविनिपातःऽइत्यादि । गर्वोऽवलेपजं वाक्यं यथा तत्रैव"राजाममापि नाम सत्त्वैरभिभूयन्ते गृहाः" । कार्यस्यारम्भ उद्यमः ॥ ६.२०० ॥ यथा कुम्भाङ्के"रवणःपश्यामि शोकविवशोऽन्तकमेव तावत्" । ग्रहणं गुणवत्कार्यहेतोराश्रय उच्यते । यथा विभीषणनिर्भर्त्सनाङ्के"विभीषणःराममेवाश्रयामि" इति । उत्प्रासनं तूपहासो योऽसाधौ साधुमानिनि ॥ ६.२०१ ॥ यथा शाकुन्तले"शार्ङ्गरवःराजन् ! अथ पुनः पूर्ववृत्तान्तमन्यसङ्गद्विस्मृतो भवान् । तत्कथमधर्मभीरोर्दारपरित्यागः" इत्यादि । आकाङ्क्षा रमणीयत्वाद्वस्तुनो या स्पृहा तु सा । यथा तत्रैव"राजा चारुणा स्फुरितेनायमपरिक्षतकोमलः । पिपासतो ममानुज्ञां ददातीव प्रियाधरः" ॥ अधिक्षेपवचःकारी क्षोभः प्रोक्तः स एव तु ॥ ६.२०२ ॥ यथात्वया तपस्विचाण्डाल ! प्रच्छन्नवधवर्तिना । न केवलं हतो वाली स्वात्मा च परलोकतः ॥ मोहावधीरितार्थस्य पश्चात्तापः स एव तु । यथानुतापाङ्के"रामः किं देव्या न विचुम्बितोऽस्मि बहुशो मिथ्याभिशप्तस्तदा" इति । उपपत्तिर्मता हेतोरुपन्यासोर्ऽथसिद्धये ॥ ६.२०३ ॥ यथा वध्यशिलायाम् "म्रियते म्रियमाणो या त्वयि जीवति जीवति । तां यदीच्छसि जीवन्तीं रक्षात्मानं ममासुभिः ॥ आशंसनं स्यादाशंसा यथा श्मशाने"माधवः "तत्पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम्" इति । प्रतिज्ञाध्यवसायकः । यथा मम प्रभावत्याम्"वज्रनाभः अस्य वक्षः क्षणोनैव निर्मथ्य गदयानया । लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः" ॥ विसर्पो यत्समारब्धं कर्मानिष्टफलप्रदम् ॥ ६.२०४ ॥ यथा वेण्याम्"एकस्यैव विपाकोऽयम्" इत्यादि (३७६ पृ.) कार्यग्रहणमुल्लेख यथा शाकुन्तलेराजानं प्रति "तापसौसमिदाहरणाय प्रस्थितावावाम् । इह चास्मद्गुरोः कण्वस्य कुलपतेः साधिदैवत इव शकुन्तलयानुमालिनीतीरमाश्रमो दृश्यते । न चेदन्य (था) कार्यातिपातः, प्रविश्य गृह्यतामतिथैसत्कारः" इति । उत्तेजनमितीष्यते । स्वकार्यसिद्धयेऽन्यस्य प्रेरणाय कठोरवाक् ॥ ६.२०५ ॥ यथाइन्द्रजिच्चण्डवीर्योऽसि नाम्नैव बलवानसि । धिग्धिक्प्रच्छन्नरूपेण युध्यसेऽस्मद्भयाकुलः ॥ भर्त्सना तु परीवादो यथा सुन्दराङ्के"दुर्योधनः धिग्धिक्सूत ! किं कृतवानसि । वत्सस्य मे प्रकृतिदुर्ललितस्य पापः पापं विधास्यति" इत्यादि । नीतिः शास्त्रेण वर्तनम् । यथा शाकुन्तले"दुष्यन्तःविनीतवेषप्रवेश्यानि तपोवनानि" । इति । उक्तस्यार्थस्य यत्तु स्यादुत्कीर्तनमनेकधा ॥ ६.२०६ ॥ उपालम्भविशेषेण तत्स्यादर्थविशेषणम् । यथा शाकुन्तले राजानं प्रति "शार्ङ्गरवःाः कथमिदं नाम, किमुपन्यस्तमिति ? ननु भवानेव नितरां लोकवृत्तान्तनिष्णातः । सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते । अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥ प्रोत्साहनं स्यादुत्साहगिरा कस्यापि योजनम् ॥ ६.२०७ ॥ यथा बालरामायणे कालरात्रिकरालेयं स्त्रीति किं विचिकित्ससि । तज्जगत्त्रितयं त्रातुं तात ! ताडय ताडकाम् ॥ साहाय्यं सङ्कटे यत्स्यात्सानुकूल्यं परस्य च । यथा वेण्याम्कृपं प्रति "अश्वत्थामात्वमपि तावद्राज्ञः पाशर्ववर्तो भव । कुपःवाञ्छाम्यहमद्य प्रतिकर्तुम्" इत्यादि । अभिमानः स एव स्यात् यथा तत्रैव"दुर्योधनःमातः किमप्यसदृशं कृपणं वचस्ते" इत्यादि । प्रश्रयादनुवर्तनम् ॥ ६.२०८ ॥ अनुवृत्तिः यथा शाकुन्तले"राजा(शकुन्तलां प्रति) अयि ! तपो वर्धते । अनुसूयादाणिं अदिधिविसेसलाहेण" इत्यादि । भूतकार्याख्यानमुत्कीर्तनं मतम् । यथा बालारामायणे अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः । इत्यादि । याच्ञा तु क्वापि याच्ञा या स्वयं दूतमुखेन वा ॥ ६.२०९ ॥ यथाअद्यापि देहि वैदेहिं दयालुस्त्वयि राघवः । शिरोभिः कन्दुकक्रीडां किं कारयसि वानरान् ॥ परिहार इति प्रोक्तः कृतानुचितमार्जनम् । यथाप्राणप्रयाणदुःखार्त उक्तवानस्म्यनक्षरम् । तत्क्षमस्व विभो ! किं च सुग्रीवस्ते समर्पितः ॥ अवधीरितकर्तव्यकथनं तु निवेदनम् ॥ ६.२१० ॥ यथा राघवाभ्युदये"लक्ष्मणःार्य ! समुद्राभ्यर्थनया गन्तुमुद्यतोऽसि तत्किमेतत्" । प्रवर्तनं तु कार्यस्य यत्सयात्साधुप्रवर्तनम् । यथा वेण्याम्"राजाकञ्चुकिन् ! देवस्य देवकीनन्दनस्य बहुमानाद्वत्सस्य भीमसेनस्य विजयमङ्गलाय प्रवर्तन्तां तत्रोचिताः समारम्भाः" । आख्यानं पूर्ववृत्तोक्तिर् यथा तत्रैव"देशः सोऽयमरातिशोणितजलेर्यस्मिन् ह्रदाः पूरिताःऽइत्यादि । युक्तिरर्थावधारणम् ॥ ६.२११ ॥ यथा तत्रैव यदि समरमपास्य नास्ति मृत्योर्भयमिति युक्तमितोऽन्यतः प्रयातुम् । अख मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वम् ? ॥ प्रहर्षः प्रमदाधिक्यं यथा शाकुन्तले"राजा तात्किमिदानीमात्मानं पूर्णमनोरथं नाभिनन्दामि" । शिक्षा स्यादुपदेशनम् । यथा तत्रैव"सहि, ण जुत्तं अस्समवासिणो जणस्स अकिदसक्कारं अदिधिविसेसं उज्भ्क्तिअ सच्छन्ददो गमनम्" । एषां च लक्षणनाट्यालङ्काराणां सामान्यत एकरूपत्वेऽपि भेदेन व्यपदेशो गड्डलिकाप्रवाहेण । एषु च केषांचिद्गुणालङ्कारभावसंध्यङ्गविशेषान्तर्भावेऽपि नाटके प्रयत्नतः कर्त्तव्यत्वात्तद्विशेषोक्तिः । एतानि च पञ्चसन्धि चतुर्वृत्ति चतुः षष्ट्यङ्गसंयुतम् । षडविंशल्लक्षणोपेतमलङ्कारोपशोभितम् । महारसं महाभोगमुदात्तरचनान्वितम् । महापुरुषसत्कारं साध्वाचारं जनप्रियम् ॥ सुश्लिष्टसन्धियोगं च सुप्रयोगं सुखाश्रयम् । मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ॥ इति मुनिनोक्तत्वान्नाटकेऽवश्यं कर्तव्यान्येव । वीथ्यङ्गानि वक्ष्यन्ते । लास्याङ्गान्याह गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका ॥ ६.२१२ ॥ प्रच्छेदकस्त्रिगूढं च सैन्धवाख्यं द्विगूढकम् । उत्तमोत्तमकं चान्यदुक्तप्रत्युक्तमेव च ॥ ६.२१३ ॥ लास्ये दशविधं ह्येतदङ्गमुक्तं मनीषिभिः । तत्रतन्त्रीभाण्डं पुरस्कृत्योपविष्टस्यासने पुरः ॥ ६.२१४ ॥ शुद्धं गानं गेयपदं यथागौरीगृहे वीणां वादयन्ती "मलयवती उत्फुल्लकलकेसरपरागगौरद्युते ! मम हि गौरि ! । अभिवाञ्छितं प्रसिध्यतु भगवति ! युष्मत्प्रसादेन ॥ स्थितपाठ्यं तदुच्यते । मदनोत्तापिता यत्र पठति प्राकृतं स्थिता ॥ ६.२१५ ॥ अभिनवगुप्तपादास्त्वाहुः"उपलक्षणं चैतत् । क्रोधोद्भ्रान्तस्यापि प्राकृतपठनं स्थितपाठ्यम्" इति । निखिलातोद्यरहितं शोकचिन्तान्विताबला । अप्रसाधितगात्रं यदासीनासीनमेव तत् ॥ ६.२१६ ॥ आतोद्यमिश्रितं गेयं छन्दांसि विविधानि च । स्त्रीपुंसयोविपर्यासचेष्टितं पुष्पगण्डिका ॥ ६.२१७ ॥ अन्यासक्तं पतिं मत्वा प्रेमविच्छेदमन्युना । वीणापुरःसरं गानं स्त्रियाः प्रच्छेदको मतः ॥ ६.२१८ ॥ स्त्रीवेषधारिणां पुंसां नाट्यं श्लक्ष्णं त्रिगूढकम् । यथा मालत्याम्"मकरन्दःेषोऽस्मि मालतीसंवृत्तः" । कश्चन भ्रष्टसंकेतः सुव्यक्तकरणान्वितः ॥ ६.२१९ ॥ प्राकृतं वचनं वक्तिं यत्र तत्सैन्धवं मतम् । करणं वीणादिक्रिया । यतुरस्त्रपदं गीतं मुखप्रतिमुखान्वितम् ॥ ६.२२० ॥ द्विगूढं रसभावाढ्यम् उत्तमोत्तमकं पुनः । क्पप्रसादजमधिक्षेपयुक्तं रसोत्तरम् ॥ ६.२२१ ॥ हावहेलान्वितं चित्रश्लोकबन्धमनोहरम् । उक्तिप्रत्युक्तिसंयुक्तं सोपालम्भमलीकवत् ॥ ६.२२२ ॥ विलासान्वितगीतार्थमुक्तप्रत्युक्तमुच्यते । स्पष्टान्युदाहरणानि । एतदेव यदा सर्वैः पताकास्थानकैर्युतम् ॥ ६.२२३ ॥ अङ्कैश्च दशभिर्धोरा महानाटकमूचिरे । एतदेव नाटकम् । यथाबालरामायणम् । अथ प्रकरणम् भवेत्प्रकरणो वृत्तं लौकिकं कविकल्पितम् ॥ ६.२२४ ॥ शृङ्गारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथवा वणिक् । सापायधर्मकामार्थपरो धीर शान्तकः ॥ ६.२२५ ॥ विप्रनायकं यथा मृच्छकटिकम् । अमात्यनायकं मालतीमाधवम् । वणिड्नायकं पुष्पभूषितम् । नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् । तेन भेदास्त्रयस्तस्य तत्र भेदस्तृतीयकः ॥ ६.२२६ ॥ कितवद्यूतकारादिविटचेटकसंकुलः । कुलस्त्री पुष्पभूषिते । वेश्या तु रङ्गवृत्ते । द्वे अपि मृच्छकटिके । अस्यनाटकप्रकृतित्वाच्छेषं नाटकवत् । अथ भाणः भाणः स्याद्धूर्तचरितो नानावस्थान्तरात्मकः ॥ ६.२२७ ॥ एकाङ्क एक एवात्र निपुणः पण्डितो विटः । रङ्गे प्रकाशयेत्स्वेनानुभूतमितरेण वा ॥ ६.२२८ ॥ संबोधनोक्तिप्रत्युक्तो कुर्यादाकाशभाषितैः । सूचयेद्वीरशृङ्गारौ शौर्यसौभाग्यवर्णनैः ॥ ६.२२९ ॥ तत्रैतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारति । मुखनिवहणो सन्धी लास्याङ्गानि दशापि च ॥ ६.२३० ॥ अत्राकाशभाषितरूपपरवचनमपि स्वयमेवानुवदन्नुत्तरप्रत्युत्तरे कुर्यात् । शृङ्गारवीररसौ च सौभाग्यशौर्यवर्णनया सूचयेत् । प्रायेण भारती, क्वापि कौशिक्यपि वृत्तिर्भवति । लास्याङ्गानि गेयपदादीनि । उदाहणं लीलामधुकरः । अथ व्यायोगः ख्यातेतिवृत्तो व्यायोगः स्वल्पस्त्रीजनसंयुतः । हीनो गर्भविमर्शाभ्यां नरैर्बहुभिराश्रितः ॥ ६.२३१ ॥ एकाङ्कश्च भवेदस्त्रीनिमित्तसमरोदयः । कैशिकीवृत्तिरहितः प्रख्यातस्तत्र नायकः ॥ ६.२३२ ॥ राजषिरथ दिव्यो वा भवेद्धीरोद्धतश्च सः । हास्यशृङ्गारशान्तेभ्य इतरेऽत्राङ्गिनो रसाः ॥ ६.२३३ ॥ यथा सौगन्धैकाहरणम् । अथ समवकारः वृत्तं समवकारे तु ख्यातं देवासुराश्रयम् । सन्धयो निर्विमर्शास्तु त्रयोऽङ्कास्तत्र चादिमे ॥ ६.२३४ ॥ सन्धी द्वावन्त्ययोस्तद्वदेक एको भवेत्पुनः । नायका द्वादशोदात्ताः प्रख्याता देवमानवाः ॥ ६.२३५ ॥ फलं पृथक्पृथक्तेषां वीरमुख्योऽखिलो रसः । वृत्तयो मन्दकौशिक्यो नात्र बिन्दुप्रवेशकौ ॥ ६.२३६ ॥ वीथ्यङ्गानि च तत्र स्युर्ययालाभं त्रयोदश । गायत्र्युष्णिङ्मुखान्यत्र च्छन्दांसि विविधानि च ॥ ६.२३७ ॥ त्रिशृङ्गारस्त्रिकपटः कार्यश्चायं त्रिविद्रवः । वस्तु द्वादशनालीभिर्निष्पाद्यं प्रथमाङ्कगम् ॥ ६.२३८ ॥ द्वितीयेऽङ्के चतसृभिर्द्वाभ्यामङ्केतृतीयके । नालिका घटिकाद्वयमुच्यते । बिन्दुप्रवेशकौ च नाटकोक्तावपि नेह विधातव्यौ । तत्र धर्मार्थकामैस्त्रिविधः शृङ्गारः, कपटः पुनः ॥ ६.२३९ ॥ स्वाभाविकः कृत्रिमश्च दैवजो विद्रवः पुनः । अचेतनैश्चेतनैश्च चेतनाचेतनैःकृतः ॥ ६.२४० ॥ तत्र शास्त्राविरोधेन कृतो धर्मशृङ्गारः । अर्थलाभार्थकल्पितोर्ऽथशृङ्गारः । प्रहसनशृङ्गारः कामशृङ्गारः । तत्र कामशृङ्गारः प्रथमाङ्कः एव । अन्ययोस्तु न नियम इत्याहुः । चेतनाचेतना गजादयः । समवकीर्यन्ते बहवोर्ऽथा अस्मिन्नति समवकारः । यथासमुद्रमथनम् । अथ डिमः मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः । उपरागैश्च भूयिष्ठो डिमः ख्यातेतिवृत्तकः ॥ ६.२४१ ॥ अङ्गी रौद्ररसस्तत्र सर्वेऽङ्गानि रसाः पुनः । चत्वारोऽङ्का मता नेह विष्कम्भकप्रवेशकौ ॥ ६.२४२ ॥ नायका देवगन्धर्वयक्षरक्षोमहोरगाः । भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ॥ ६.२४३ ॥ वृत्तयः कौशिकीहीना निर्विमर्शाश्च सन्धयः । दीप्ताः स्युः षड्रसाः शान्तहास्यशृङ्गारवजिंताः ॥ ६.२४४ ॥ अत्रोदाहरणं च "त्रिपुरदाहः" इति महर्षिः । अथेहामृगः ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्तितः । मुखप्रतिमुखे सन्धी तत्र निर्वहणं तथा ॥ ६.२४५ ॥ नरदिव्यावनियमौ नायकप्रतिनायकौ । ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत् ॥ ६.२४६ ॥ दिव्यस्त्रियमनिच्छन्तीकपहारादिनेच्छतः । शृङ्गाराभासमप्यस्य किञ्चित्किञ्चित्प्रदर्शयेत् ॥ ६.२४७ ॥ पताकानायका दिव्या मर्त्या वापि दशोद्धताः । युद्धमानीय संरम्भं परं व्याजान्निवर्तते ॥ ६.२४८ ॥ महाध्मानो वधप्राप्ता अपि वध्याः स्युरत्र नो । एकाङ्को देव एवात्र नेतेत्याहुः परे पुनः ॥ ६.२४९ ॥ दिव्यस्त्रीहेतुकं युद्धं नायकाः षडितीतरे । मिश्रं ख्याताख्यातम् । अन्यः प्रतिनायकः । पताकानायकास्तु नायकप्रतिनायकयोर्मिलिता दश । नायको मृगवदलभ्यां नायिकामत्र ईहते वाञ्छतीतीहामृगः । यथाकुसुमशेखरविजयादिः । अथाङ्कः उत्सृष्टिकाङ्क एकाङ्को नेतारः प्राकृता नराः ॥ ६.२५० ॥ रसोऽत्र करुणः स्थायी बहुस्त्रीपरिदेवितम् । प्रख्यातमितिवृत्तं च कविर्बुद्ध्या प्रपञ्चयेत् ॥ ६.२५१ ॥ भाणावत्सन्धैवृत्तयङ्गान्यस्मिञ्जयपराजयौ । युद्धं च वाचा कर्त्तव्यं निर्वदवचनं बहु ॥ ६.२५२ ॥ इसं च केचित्नाटकाद्यन्तः पात्यङ्कपरिच्छेदार्थमुत्सृष्टिकाङ्कनामानमाहुः । अन्ये तुउत्क्रान्ता विलोमरूपा सृष्टिर्यत्रेत्युत्सृष्टिकाङ्कः । यथाशमिष्ठाययातिः । अथ वीथी वीथ्यामेको भवेदङ्कः कश्चिदेकोऽत्र कल्प्यते । आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः ॥ ६.२५३ ॥ सूचयेद्भरि शृङ्गारं किञ्चिदन्यान्नसान् प्रति । मुखनिर्वहणो सन्धई अर्थप्रकृतयोऽखिलाः ॥ ६.२५४ ॥ कश्चिदुत्तमो मध्यमोऽधमो वा शृङ्गारबहुलत्वाच्चास्याः कौशिकीवृत्तिबहुलत्वम् । अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः । उद्धात्य (त) कावलगिते प्रपञ्चस्त्रिगतं छलम् ॥ ६.२५५ ॥ वाक्केल्यधिबले गण्डमवस्यन्दितनालिके । असत्प्रलापव्याहारमृद(मार्द) वानि च तानि तु ॥ ६.२५६ ॥ तत्रोद्धात्य(त) कावलगिते प्रस्तावनाप्रस्तावे सोदाहरणं लक्षिते । मिथो वाक्यमसद्भूतं प्रपञ्चो हास्यकृन्मतः । यथा विक्रमोर्वश्याम्वलीभीस्थविदूषकचेट्योरन्योन्यवचनम् । त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः ॥ ६.२५७ ॥ यथा तत्रैवराजा सर्वक्षितिभृतां नाथ !, दृष्टा सर्वाङ्गसुन्दरी । रामा रम्ये वनान्तेऽस्मिन्मया विरहिता त्वया ॥ (नेपथ्ये तत्रैव प्रतिशब्दः) राजा कथं दृष्टेत्याह । अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् । नटादित्रितयविषयमेवेदमिति कश्चित् । प्रियाभैरप्रियैर्वाक्यैर्विलोभ्यच्छलनाच्छलम् । यथा वेण्याम्भीमार्जुनौ कर्ता द्यूतच्छलानां, जतुमयशरणोद्दीपनः सोऽभिमानी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् । कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः क्वाऽस्ते दुर्योधनोऽसौ कथयत, न रुषा, द्रष्टुमभ्यागतौ स्वः ॥ अन्ये त्वाहुश्छलं किञ्चित्कार्यमुद्दिश्य कस्यचित् ॥ ६.२५८ ॥ उदीर्यते यद्वचनं वञ्चनाहास्यरोषकृत् । वाक्केलिर्हास्यसम्बन्धो द्वित्रिप्रत्युक्तितो भवेत् ॥ ६.२५९ ॥ द्वित्रीत्युपलक्षणम् । यथा भिक्षो ! मांसनिषेवणं प्रकुरुषे, किं तेन मद्यं विना मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह । वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽपि भवतो, नष्टस्य कान्या गतिः ॥ केचित्"प्रक्रान्तवाक्यस्य साकाङ्क्षस्यैव निवृत्तिर्वाक्केलिः" इत्याहुः । अन्ये "अनेकस्य प्रश्नस्यैकमुत्तरम्" । अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिबलं मतम् । यथा मम प्रभावत्याम्वज्रनाभः अस्य वक्षः क्षणोनैव निर्मथ्य गदयानया । लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः ॥ प्रद्युम्नःरे रे असुरापसद ! अलममुना बहुप्रलापेन । मम खलु अद्य प्रचण्डभुजदण्डसमर्पितोरुकोदण्डनिर्गलितकाण्डसमूहपातैः । आस्तां समस्तदितिजक्षतजोक्षितेयं क्षोणिः क्षणेन पिशिताशनलोभनीया ॥ गण्डं प्रस्तुतसंबन्धि भिन्नार्थं सत्वरं वचः ॥ ६.२६० ॥ यथा वेण्याम्राजा अध्यासितुं तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु ! ममोरुग्मम् ॥ अनन्तरम् (प्रविश्य) कञ्चुकीदेव ! भग्नं भग्नमित्यादि । अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सम्बन्धे सम्बद्धम् । व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत् । यथा छिलितरामेसीताजाद ! काल्लं क्खु अओज्भ्क्ताएण गन्तव्वम्, तर्हि सो राआ विणएण पणयिदव्वो । लवःथ किमावाभ्यां राजोपजीविभ्यां भवितव्यम् । सीताजाद ! सो क्खु तुम्हाणं पिदा । लवःकिमावयो रघुपतिः पिता । सीता(साशङ्कम्) मा अण्णधा सङ्कद्धम्, ण क्खु तुम्हाणं सअलाए ज्जेव पुहवीएत्ति । प्रहेलिकैव हास्येन युक्ता भवति नालिका ॥ ६.२६१ ॥ संवरणकार्युत्तरं प्रहेलिका । यथा रत्नावल्याम्सुसङ्गतासहि जस्स किदे तुमं आअदा सो इद ज्जेव चिट्ठदि । सागरिकाकस्स किदे अहं आअदा सुसङ्गताणं क्खु चित्तफलअस्स । अत्र त्वं राज्ञः कृते आगतेत्यर्थः संवृतः । असत्प्रलापो यद्वाक्यमसंबद्धं तथोत्तरम् । अगृह्णतोऽपि मूर्खस्य पुरो यच्च हितं वचः ॥ ६.२६२ ॥ तत्राद्यं यथा मम प्रभावत्याम्प्रद्युम्नः (सहकारवल्लीमवलोक्य सानन्दम्) अहो कथमिहैव अलिकुलमञ्जुलकेशी परिमलबहला रसावहा तन्वी । किसलयपेशलपाणिः कोकिलकलभाषिणी प्रियतं मे ॥ एवमसंबद्धोत्तरेऽपि । तृतीयं यथावेण्यां दुर्योधनं प्रति गान्धारीवाक्यम् । व्याहारो यत्परस्यार्थे हास्यक्षोभकरं वचः । यथा मालविकाग्निमित्र(लास्यप्रयोगावसाने मालविका निर्गन्तुमिच्छति) विढूषकःमा दाव उवदेसमुद्धा गमिस्ससि । (इत्युपक्रमेण) गणदासः(विदूषकं प्रति) आर्य ! उच्यतां यस्त्वया क्रमभेदो लक्षितः । विदूषकःपढमं बम्भणपूआ भोदि, सा इमाए लङ्घिदा । (मालविकास्मर्यते) इत्यादिना नायकस्य विशुद्धनायिकादर्शनप्रयुक्तेन हासलोभकारिण वचसा व्याहारः । दोषा गुणा गुणा दोषा यत्र स्युर्मृदर्(मादं)वं हि तत् ॥ ६.२६३ ॥ क्रमेण यथा प्रिय ! जीवितताक्रौर्यं निःस्नेहत्वं कृतघ्नता । भूयस्त्वद्दर्शनादेव ममैते गुणतां गताः ॥ तस्यास्तद्रूपसौन्दर्यं भूषितं यौवनश्रिया । सुखैकायतनं जातं दुःखायैव ममाधुना ॥ एतानि चाङ्गनि नाटकादिषु सम्भवन्त्यपि वीथ्यामवश्यं विधेयानि स्पष्टतया नाटकादिषु विनिविष्टान्यपीहोदाहृतानि । वीथीव नानारसानां चात्र मालारूपतया स्थितत्वाद्वीथीयम् । यथामालविका । अथ प्रहसनम् भाणावत्सन्धिसच्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्मितम् । भवेत्प्रहसनं वृत्तं निन्द्यानां कविकल्पितम् ॥ ६.२६४ ॥ अत्र नारभटी, नापि विष्कम्भकप्रवेशकौ । अङ्गी हास्यरसस्तत्र वीथ्यङ्गानां स्थितिर्न वा ॥ ६.२६५ ॥ तत्र तपस्विभगद्विप्रप्रभृतिष्वत्र नायकः । एको यत्र भवेद्धृष्टो हास्यं तच्छुद्धमुच्यते । यथा कन्दर्पकेलिः । आश्रित्य कञ्चन जनं संकीर्णमिति तद्विदुः ॥ ६.२६६ ॥ यथाधूर्तचरितम् । वृत्तं बहूनां धृष्टानां सङ्कीर्णं केचिदूचिरे । तत्पुनर्भवति द्व्यङ्कमथवैकाङ्कनिर्मितम् ॥ ६.२६७ ॥ यथालटकमेलकादिः । मुनिस्त्वाह वेश्याचेटनपुंसकविटधूर्ता वन्धकी च यत्र स्युः । अविकृतवेषपरिच्छचेष्टितकरणं तु सङ्कीर्णम् ॥ इति । विकृतं तु विदुर्यत्र षण्ढकञ्चुकितापसाः । भुजङ्गचारणभटप्रभृतेर्वेषवाग्युताः ॥ ६.२६८ ॥ इदं तु सङ्कीर्णेनैव गतार्थमिति मुनिना पृथङ्नोक्तम् । अथोपरूपकाणि । तत्र नाटिका कॢप्तवृत्ता स्यात्स्त्रीप्राया चतुरङ्किका । प्रख्यातो धीरललितस्तत्र स्यान्नायको नृपः ॥ ६.२६९ ॥ स्यादन्तः पुरसम्बद्धा सङ्गीतव्यापृताथवा । नवानुरागा कन्यात्र नायिका नृपवंशजा ॥ ६.२७० ॥ सम्प्रवर्तेत नेतास्यां देव्यास्त्रासेन शङ्कितः । देवो भवेत्पुनर्ज्येष्ठा प्रगल्भा नृपवंशजा ॥ ६.२७१ ॥ पदे पदे मानवती तद्वशः सङ्गमो द्वयोः । वृत्तिः स्यात्कौशिकी स्वल्पविमर्शाः सन्धयः पुनः ॥ ६.२७२ ॥ द्वयोर्नायिकानायकयोः । यथारत्नावलीविद्धशालभञ्जिकादिः । अथ त्रोटकम् सप्ताष्टनवपञ्चाङ्कं दिव्यमानुषसंश्रयम् । त्रोटकं नाम तत्प्राहुः प्रत्यङ्कं सविदूषकम् ॥ ६.२७३ ॥ प्रत्यङ्कसविदूषकत्वादत्र शृङ्गारोऽङ्गी । सप्ताङ्कं यथास्तम्भितरम्भम् । पञ्चाङ्कं यथाविक्रमोर्वशी । अथ गोष्ठी प्राकृतैर्नवभैः पुंभिर्दशभिर्वाप्यलंकृता । नोदात्तवचना गोष्ठी कौशिकीवृत्तिशालिनी ॥ ६.२७४ ॥ हीना गर्भविमर्शाभ्यां पञ्चषड्योषिदन्विता । कामशृङ्गारसंयुक्ता स्यादेकाङ्कविनिर्मिता ॥ ६.२७५ ॥ यथारैवतमदनिका । अथ सट्टकम् सट्टकं प्राकृताशेषपाठ्यं स्यादप्रवेशकम् । न च विष्कम्भकोऽप्यत्र प्रचुरश्चाद्भुतो रसः ॥ ६.२७६ ॥ अङ्का जवनिकाख्याः स्युः स्यादन्यन्नाटिकासमम् । यथाकर्पूरमञ्जरी । अथ नाट्यरासकम् नाट्यरासकमेकाङ्कं बहुताललयस्थिति ॥ ६.२७७ ॥ उदात्तनायकं तद्वत्पीठमर्देपनायकम् । हास्योऽङ्ग्यत्र सशृङ्गारो नारी वासकसज्जिका ॥ ६.२७८ ॥ मुखनिर्वहणे सन्धई लास्याङ्गानि दशापि च । केचित्प्रतिमुखं सन्धैमिह नेच्छन्ति केवलम् ॥ ६.२७९ ॥ तत्र सन्धैद्वयवती यथानर्मवती । सन्धैचतुष्टयवती यथाविलासवती । अथ प्रस्थानकम् प्रस्थाने नामको दासो हीनः स्यादुपनायकः । दासी च नायिका वृत्तिः कौशिकी भारती तथा ॥ ६.२८० ॥ सुरापानसमायोगादुद्दिष्टार्थस्य संहृतिः । अङ्कौ द्वौ लयतालादिर्विलासो बहुलस्तथा ॥ ६.२८१ ॥ यथाशृङ्गारतिलकम् । अथोल्लाप्यम् उदात्तनायकं दिव्यवृत्तमेकाङ्कभूषितम् । शिल्पकाङ्गैर्युतं हास्यशृङ्गारकरुणै रसैः ॥ ६.२८२ ॥ उल्लाप्यं बहुसंग्राममस्त्रगीतमनोहरम् । चतस्त्रो नायिकास्तत्र त्रयोऽङ्का इति केचन ॥ ६.२८३ ॥ शिल्पकाङ्गानि वक्ष्यमाणानि । यथादेवीमहादेवम् । अथ काव्यम् काव्यमारभटीहीनमेकाङ्गंहास्यसंकुलम् । खण्डमात्राद्विपदिकाभग्नतालैरलंकृतम् ॥ ६.२८४ ॥ वर्णमात्राछड्डणिकायुतं शृङ्गारभाषितम् । नेता स्त्री चाप्युदात्तात्र सन्धी आद्यो तथान्तिमः ॥ ६.२८५ ॥ यथायादवोदयम् । अथ प्रेङ्खणम् गर्भावमर्शरहितं प्रेङ्खणं हीननायकम् । असूत्रधारमेकाङ्कमविष्कम्भप्रवेशकम् ॥ ६.२८६ ॥ नियुद्धसम्फेटयुतं सर्ववृत्तिसमाश्रितम् । नेपथ्ये गीयते नान्दी तथा तत्र प्ररोचना ॥ ६.२८७ ॥ यथावालिवधः । अथ रासकम् रासकं पञ्चपात्रं स्यान्मुखनिर्वहणान्वितम् । भाषाविभाषाभूयिष्ठं भारती कौशिकीयुतम् ॥ ६.२८८ ॥ असूत्रधारमेकाङ्कं सवीथ्यङ्गं कलान्वितम् । श्लिष्टनान्दीयुतं ख्यातनायिकं मूर्खनायकम् ॥ ६.२८९ ॥ उदात्तभावविन्यससंश्रितं चोत्तरोत्तरम् । इह प्रतिमुखं सन्धिमपि केचित्प्रचक्षते ॥ ६.२९० ॥ यथामेनंकाहितम् । अथ संलापकम् संलापकेऽङ्काश्चत्वारस्त्रयो वा नायकः पुनः । पाषण्डः स्याद्रसस्तत्र शृङ्गारकरुणोतरः ॥ ६.२९१ ॥ भवेयुः पुरसंरोधच्छलसंग्रामविद्रवाः । न तत्र वृत्तिर्भवति भारती न च कौशिकी ॥ ६.२९२ ॥ यथामायाकापालिकम् । अथ श्रीगदितम् प्रख्यातवृत्तमेकाङ्कं प्रख्यातोदात्तनायकम् । प्रसिद्धनायिकं गर्भविमर्शाभ्यां विवर्जितम् ॥ ६.२९३ ॥ भारतीवृत्तिबहुलं श्रीतिशब्देन संकुलम् । मतं श्रीगदितं नाम विद्वद्भिरुपरूपकम् ॥ ६.२९४ ॥ यथाक्रीडारसातलम् । श्रीरासीना श्रीगदिते गायेत्किं चित्पठेदपि । एकाड्को भारतीप्राय इति केचित्प्रचक्षते ॥ ६.२९५ ॥ ऊह्यमुदाहरणम् । अथ शिल्पकम् चत्वारः शिल्पकेऽङ्काः स्युश्चतस्त्रो वृत्तयस्तथा । अशान्तहास्याश्च रसा नायको ब्राह्मणो मतः ॥ ६.२९६ ॥ वर्णनात्र श्मशानादेर्हेनः स्यादुपनायकः । सप्तिविंशतिरङ्गानि भवन्त्येतस्य तानि तु ॥ ६.२९७ ॥ आशंसातर्कसंदेहतापोद्वेगप्रसक्तयः । प्रयत्नग्रथनोत्कण्ठावहित्थाप्रतिपत्तयः ॥ ६.२९८ ॥ विलासालस्यबाष्पाणि प्रहर्षाश्वासमूढताः । साधनानुगमोच्छवासविस्मयप्राप्तयस्तथा ॥ ६.२९९ ॥ लाभविस्मृतिसंफोटा वैशारद्यं प्रबोधनम् । चमत्कृतिश्चेत्यमीषां स्पष्टत्वाल्लक्ष्म नोच्यते ॥ ६.३०० ॥ संफोटग्रथनयोः पूर्वमुक्तत्वादेव लक्ष्म सिद्धम् । यथाकनकावतीमाधवः । अथ विलासिका शृङ्गारबहुलैकाङ्का दशलास्याङ्गसंयुता । विदूषकविटाभ्यां च पीठमर्देन भूषिता ॥ ६.३०१ ॥ हीना गर्भविमर्शाभ्यां संधिभ्यां हीननायका । स्वल्पवृत्ता सुनेपथ्या विख्याता सा विलासिका ॥ ६.३०२ ॥ केचित्तु तत्र विलासिकास्थाने विनायिकेति पठन्ति । तस्यास्तु "दुर्मल्लिकायामन्तर्भावः" इत्यान्ये । अथ दुर्मल्लिका दुर्मल्ली चतुरङ्का स्यात्कौशिकीभारतीयुता । अगर्भा नागरनरान्यूननायकभूषिता ॥ ६.३०३ ॥ त्रिनालिः प्रथमोऽङ्कास्यां विटक्रीडामयो भवेत् । पञ्चनालिद्वितीयोऽङ्को विदूषकविलासवान् ॥ ६.३०४ ॥ षण्णालिकस्तृतीयस्तु पीठमर्दविलासवान् । चतुर्थो दशनालिः स्यादङ्कः क्रीडितनागरः ॥ ६.३०५ ॥ यथाबिन्धुमती । अथ प्रकरणिका नाटिकैव प्रकरणी सार्थवाहादिनायका । समानवंशजा नेतुर्भवेद्यत्र च नायिका ॥ ६.३०६ ॥ मृग्यमुदाहरणम् । अथ हल्लीशः हल्लीश एक एवाङ्कः सप्ताष्टौ दश वा स्त्रियः । वागुदात्तैकपुरुषः कौ (कै) शिकीवृत्तिरुज्ज्वला । मुखान्तिमौ तथा सन्धी बहुताललयस्थितिः ॥ ६.३०७ ॥ यथाकोलिरैवतकम् । अथ भाणिका भाणिका श्लक्ष्णनेपथ्या मुखनिर्वहणन्विता । कौ (कै) शिकीभारतीवृत्तियुक्तैकाङ्कविनिर्मिता ॥ ६.३०८ ॥ उदात्तनायिका मन्दनायकात्राङ्गसप्तकम् । उपन्यासोऽथ विन्यासो विबोधः साध्वसं तथा ॥ ६.३०९ ॥ समर्पणं निवृत्तिश्च संहार इति सप्तमः । उपन्यासः प्रसङ्गेन भवेत्कार्यस्य कीर्तनम् ॥ ६.३१० ॥ निर्वेदवाक्यव्युत्पत्तिर्विन्यास इति स स्मृतः । भ्रान्तिनाशो विबोधः स्यान्मिथ्याख्यानं तु साध्वसम् ॥ ६.३११ ॥ सोपालम्भवचः कोपपीडयेह समर्पणम् । निदर्शनस्योपन्यासो निवृत्तिरिति कथ्यते ॥ ६.३१२ ॥ संहार इति च प्राहुर्यत्कार्यस्य समापनम् । स्पष्टान्युदाहरणानि । यथाकामदत्ता । एतेषां सर्वेषां नाटकप्रकृतित्वेऽपि यथैचित्यं यथालाभं नाटकोक्तविशेषपरिग्रहः । यत्र च नाटकोक्तस्यापि पुनरुपादानं तत्र तत्सद्भावस्य नियमः । अथ श्रव्यकाव्यानि श्रव्यं श्रोतव्यमात्रं तत्पद्यगद्यमयं द्विधा ॥ ६.३१३ ॥ तत्र पद्यमयान्याह छन्दोबद्धपदं पद्यं तेन मुक्तेन मुक्तकम् । द्वाभ्यां तु युग्मकं सांदानतिकं त्रिभिरिष्यते ॥ ६.३१४ ॥ कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम् । तत्र मुक्तकं यथा मम "सान्द्रानन्दमनन्तमव्ययमजं यद्योगिनोऽपि क्षणं साक्षात्कर्तुमुपासते प्रति मुहुर्ध्यानैकतानाः परम् । धन्यास्ता मधुरापिरीयुवतयस्तद्ब्रह्म या कौतुका दालिङ्गन्ति समलपन्ति शतधाऽकर्षन्ति चुम्बन्ति च" ॥ युग्मकं यथा मम "किं करोषि करोपान्ते कान्ते ! गण्डस्थलीमिमाम् । प्रणयप्रवणो कान्तेऽनैकान्ते नोचिताः क्रुधः ॥ इति यावत्कुरङ्गाक्षीं वक्तुमीहामहे वयम् । तावदाविरभूच्चूते मधुरो मधुपध्वनिः" ॥ एवमन्यान्यपि । सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः ॥ ६.३१५ ॥ सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः । एकवंशभवा भूपाः कुलजा बहवोऽपि वा ॥ ६.३१६ ॥ शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते । अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः ॥ ६.३१७ ॥ इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् । चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् ॥ ६.३१८ ॥ आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा । क्वचिन्निन्दा खलादीनां सतां च गुणकीर्तनम् ॥ ६.३१९ ॥ एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः । नास्तिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह ॥ ६.३२० ॥ नानावृत्तमयः कापि सर्गः कश्चन दृश्यते । सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् ॥ ६.३२१ ॥ संध्यासूर्येन्दुरजनीप्रदोषध्वान्तवासराः । प्रातर्मध्याह्नमृगयाशैलर्तुवनसागराः ॥ ६.३२२ ॥ संभागविप्रलम्भौ च मुनिस्वर्गपुनाध्वराः । रणप्रयाणोपयममन्त्रमुत्रोदयादयः ॥ ६.३२३ ॥ वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह । कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा ॥ ६.३२४ ॥ नामास्य सर्गोपादेयकथया सर्गनाम तु । सन्ध्यङ्गानि यथालाभमत्र विधेयानि "अवसानेऽन्यवृत्तकैः" इति बहुवचनमविवक्षितम् । साङ्गोपाङ्गा इति जलकेलिमधौपानादयः । यथारघुवंशशिशुपालवःनैषधादयः । यथा वा ममराघवविलासादिः । अस्मिन्नार्षे पुनः सर्गा भवन्त्याख्यानसंज्ञकाः ॥ ६.३२५ ॥ अस्मिन्महाकाव्ये । यथामहाभारतम् । प्राकृतैर्निर्मिते तस्मिन्सर्गा आश्वाससंज्ञकाः । छन्दसा स्कन्धकेनैतत्क्वचिद्रलितकैरपि ॥ ६.३२६ ॥ यथासेतुबन्धः । यथा वा ममकुवलयाश्वचरितम् । अपभ्रंशनिबद्धेऽस्मिन् सर्गाः कुडवकाभिधाः । तथापभ्रंशयोग्यानि च्छन्दांसि विविधान्यपि ॥ ६.३२७ ॥ यथाकर्णपराक्रमः । भाषाविभाषानियमात्काव्यं सर्गसमुज्भ्क्तितम् । एकार्थप्रवणैः पद्यैः संधिसामग्र्यवर्जितम् ॥ ६.३२८ ॥ यथाभिक्षाटनम्, आर्याविलासश्च । खण्डकाव्यं भवेत्काव्यस्यैकदेशानुसारि च । यथामेघदूतादि । कोषः श्लोकसमूहस्तु स्यादन्योन्यानपेक्षकः ॥ ६.३२९ ॥ व्रज्याक्रमेण रचितः स एवातिमनोरमः । सजातीयानामेकत्र सन्निवेशो व्रज्या । यथा मुक्तावल्यादिः । अथ गाद्यकाव्यानि । तत्र गद्यम् वृत्तगन्धोज्जितं गद्यं मुक्तकं वृत्तगन्धि च ॥ ६.३३० ॥ भवेदुत्कलिकाप्रायं चूर्णकं च चतुर्विधम् । आद्यं समासरिहितं वृत्तभागयुतं परम् ॥ ६.३३१ ॥ अन्यद्दीर्घसमासाढ्यं तुर्य चाल्पसमासकम् । मुक्तकं यथा"गुरुर्वचसि पृथुरुरसि" इत्यादि । वृत्तगन्धि यथा मम "समरकण्डूलनिविडभुजदण्डकुण्डलीकृतकोदण्डशिञ्जिनीटंकारोज्जागरितवैरिनगर" इत्यादि । अत्र "कुण्डलीकृतकोदण्डऽइत्यनुष्टुब्वृत्तस्य पादः, "समरकण्डूल" इति च प्रथमाक्षरद्वयरिहितस्तस्यैव पादः । उत्कलिकाप्रायं यथा ममैव"अणिसविसुमरणिसिदसरविसरविदलिदसमरपरिगदपवरपरवल" इत्यादि । चूर्णकं यथा भम"गुणरत्नसागर ! जगदेकनागर ! कामिनीमदन ! जनरञ्जन !" इत्यादि । कथायां सरसं वस्तु गद्यैरेव विनिमितम् ॥ ६.३३२ ॥ क्वचिदत्र भवेदार्या क्वचिद्वक्त्रापवक्त्रके । आदौ पद्यैर्नमस्कारः खलादेर्वृत्तकीर्तनम् ॥ ६.३३३ ॥ यथाकादाम्बर्यादिः । आख्यायिका कथावत्स्यात्कवेर्वशानुकीर्तनम् । अस्यामन्यकवीनां च वृत्तं पद्यं क्वचित्क्वचित् ॥ ६.३३४ ॥ कथांशानां व्यवच्छेद आश्वास इति वध्यते । आर्यावक्त्रापवक्त्राणां छन्दसा येन केनचित् ॥ ६.३३५ ॥ अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनम् । यथाहर्षचरितादिः । "अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात्" । इति दण्ड्याचार्यवचनात्केचिताख्यायिका नायकेनैव निबद्धव्या" इत्याहुः, तदयुक्तम् । आख्यानादयश्च कथाख्यायिकयोरेवान्तर्भावान्न पृथगुक्ताः । यदुक्तं दण्डिनैवअत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः" । इति । एषामुदाहरणम्पञ्चतन्त्रादि । अथ गद्यपद्यमयानि गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते ॥ ६.३३६ ॥ यथादेशराजचरितम् । गद्यपद्यमयी राजस्तुतिर्विरुदमुच्यते । यथाविरुदमणिमाला । करम्भकं तु भाषाभिविविधाभिर्विनिर्मितम् ॥ ६.३३७ ॥ यथा ममषोडशभाषामयी प्रशास्तिरत्नावली । एवमन्येऽपि भेदा उद्देशमात्रप्रसीद्धत्वादुक्तभेदानतिक्रमाच्च न पृथग्लक्षिताः ॥ इति साहित्यदर्पणो दृश्यश्रव्यकाव्यनिरूपणो नाम षष्ठः परिच्छेदः । ___________________________________________________ सप्तमः परिच्छेदः इह हि प्रथमतः काव्ये दोषगुणरीत्यलङ्काराणामवस्थितिक्रमो दशितः, संप्रति के त इत्यपेक्षायामुद्देशक्रमप्राप्तानां दोषणां स्वरूपमाह रसापकर्षका दोषाः, अस्यार्थः प्रगेव स्फुटीकृतः । तद्विशेषानाह ते पुनः पञ्चधा मताः । पदे तदंशे वाक्येर्ऽथे संभवन्ति रसेऽपि यत् ॥ ७.१ ॥ दुःश्रवत्रिविधाश्लीलानुचितार्थप्रयुक्तताः । ग्राम्याप्रतीतसन्दिग्धनेयार्थनिहतार्थताः ॥ ७.२ ॥ अवाचकत्वं क्लिष्टत्वं विरुद्धमतिकारिता । अविमृष्टविधेयांशभावश्च पदवाक्ययोः ॥ ७.३ ॥ दोषाः केचिद्भवन्त्येषु पदांशेऽपि पदे परे । निरर्थकासमर्थत्वे च्युतसंस्कारता तथा ॥ ७.४ ॥ परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वम् । यथा "कार्त्तर्थ्यं यातु तन्वङ्गी कदानङ्गवशंवदा" । अश्लीलत्वं व्रीडादुगुप्सामङ्गलव्यञ्जकत्वात्निविधम् । क्रमेणोदाहरणम् "तृप्तारिविजये राजन् ! साधनं सुमहत्तव" । "प्रससार शनैर्वायुर्विनाशे तन्वि ! ते तदा" । अत्र साधनवायुविनाशशब्दा अश्लीलाः । "शूरा अमरतां यान्ति पशुभूता रणाध्वरे । अत्र पशुत्वं कातर्यमभिव्यनक्तीत्यनुचितार्थत्वम् । अप्रयुक्तत्वं तथा प्रसिद्धावपि कविभिरनादृतत्वम् । यथा "भाति पद्मः सरोवरे" ॥ अत्र पद्मशब्दः पुंल्लिङ्गः । ग्राम्यत्वं यथा "कटिस्ते हरते मनः" ॥ अत्र कटिशब्दो ग्राम्यः । अप्रतीतत्वमेकदेशमात्रप्रसिद्धत्वम् । यथा योगेन दलिताशयः" ॥ अत्र योगशास्त्र एव वासनार्थ आशयशब्दः । "आशईः परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु" । अत्र वन्द्यामिति किं बन्दीभूतायामुत वन्दनीयामिति संदेहः । नोत्यर्थत्वं रूढीप्रयोजनाभावादशक्तिकृतं लक्ष्यार्थप्रकाशनम् । यथा "कमले चरणाघातं मुखं सुमुखि ! तेऽकरेत् । अत्र चरणाघातेन निर्जितत्वं लक्ष्यम् । निहतार्थत्वमुभयार्थस्य शब्दस्याप्रसिद्धेर्ऽथे प्रयोगः । यथा "यमुनाशम्बरमम्बरं व्यतानीत्" । शम्बरशब्दो दैत्ये प्रसिद्धः, इह तु जले निहतार्थः । "गीतेषु कर्णमादत्ते" । अत्राङ्पूर्वो दाञ्धातुर्दानार्थेऽवाचकः । यथा वा "जिनं मे त्वयि संप्राप्ते ध्वान्तच्छन्नापि यामिनी" । अत्र दिनमिति प्रकाशमयार्थेऽवाचकम् । क्लिष्टत्वमर्थप्रतीतेर्व्यवहितम्, यथा "क्षीरोदजावसतिजन्मभुवः प्रसन्नाः" । अत्र क्षीरोदजा लक्ष्मीस्तस्या वसतिः पद्मं तस्य जन्मभुवो जलानि । "भूतयेऽस्तु भवानीशः" । अत्र भवानीशशब्दो भवान्याः पत्यन्तरप्रतीतिकारित्वाद्विरुद्धमतिकृत् । विधेयस्य विमर्शाभावेन गुणीभूतत्वमविमृष्टविधेयांशत्वम् । यथा "स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः" । अत्र वृथात्वं विधेयम्, तच्च समासे गुणीभावादनुवाद्यत्वप्रतीतिकृत् । यथा वा "रक्षांस्यपि पुरः स्थातुमलं रामानुजस्य मे" । अत्र रामस्येति वाच्यम् । यथा वा "आसमुद्रक्षितीशानाम्" । अत्रासमुद्रमिति वाच्यम् । यथा वा "यत्र ते पतति सुभ्रु ! कटाक्षः षष्ठबाण इव पञ्चशरस्य" । अत्र षष्ठ इवेत्युत्प्रेक्ष्यम् । यथा वा "अमुक्ता भवता नाथ ! मुहूर्त्तमपि सा पुरा" । अत्रामुक्तेत्यत्र "नञः प्रसज्यप्रतिषेधत्व" मिति विधेयत्वमेवोचितम् । यदाहुः "अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ्" ॥ यथा "नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः" । उक्तोदाहरणो तु तत्पुरुषसमासे गुणीभावे नञः पर्युदासतया निषेधस्य विधेयतयानवगमः । यदाहुः "प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयो, यत्रोत्तरपदेन नञ्" ॥ तेन"जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगुध्नुराददे सोर्ऽथानसक्तः सुखमन्वभूत्" ॥ अत्रात्रस्तताद्यनूद्यात्मगोपनाद्येव विधेयमिति नञः पर्युदासतया गुणीभावो युक्तः । ननु "अश्राद्धभोजी ब्राह्मणः" "असूर्यंपश्या राजदाराः" इत्यादिवत्"अमुक्ता" इत्यत्रापि प्रसज्यप्रतिषेधो भवतीति चेद्? न, अत्रापि यदि भोजनादिरूपक्रियांशेन नञः सम्बन्धः स्यात्तदैव तत्र प्रसज्यप्रतिषेधत्वं वक्तुं शक्यम, न च तथा ॑ विशेष्यतया प्रधानेन तद्धोज्यार्थेन कर्त्रंशेनैव नञः सम्बन्धात् । यदाहुः "श्राद्धभोजनशीलो हि यतः कर्ता प्रतीयते । न तद्भोजनमात्रं तु कर्तरीनेर्विधानतः" ॥ इति । "अमुक्ता" इत्यत्र तु क्रिययैव सह संबन्ध इति दोष एव । एते च क्लिष्टत्वादयः समासगता एव पददोषाः । वाक्ये दुः श्रवत्वं यथा "स्मरार्त्त्यन्धः कदा लप्स्ये कार्त्तार्थ्यं विरहे तव" ॥ कृतप्रवृत्तिरन्यार्थे कविर्वान्तं समश्नुते ॥ अत्र जुगुप्साव्यञ्जिकाश्लीलता । "उद्यत्कमललौहित्यैर्वक्राभिर्भूषता तनुः" ॥ अत्र कलललौहित्यं पद्मरागः, वक्राभिर्वामाभिः, इति नेयार्थता । "धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम्" ॥ अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न सज्यतीति संबन्धः क्लिष्टः । "न्यक्कारो ह्ययमेव मे यदरयः" इति । अत्र चायमेव न्यक्कार इति न्यक्कारस्य विधेयत्वं विवक्षितम् । तच्च शब्दरचनावैपरीत्यैन गुणीभूतम् । रचना च पदद्वयस्य विपरीतेति वाक्यदोषः । "आनन्दयति ते नेत्रे योऽसौ सुभ्रु ! समागतः" । इत्यादिषु "यत्तदोनित्यसंबन्धः" इति न्यायादुपक्रान्तस्य यच्छब्दस्य निराकाङ्क्षत्वप्रतिपत्तये तच्छब्दसमानार्थतया प्रतिपाद्यमाना इदमेतदः शब्दा विधेया एव भवितुं युक्ताः । अत्र तु यच्छब्दनिकटस्थतया अनुवाद्यत्वप्रतीतिकृत् । तच्छब्दस्यापि यच्छब्दनिकटस्थितस्य प्रसिद्धपरामर्शित्वमात्रम् । यथा "यः स ते नयनानन्दकरः सुभ्रु ! स आगतः" । यच्छब्दव्यवधानेन स्थितास्तु निराकाङ्क्षत्वमवगमयन्ति । यथा "आनन्दयति ते नेत्रे योऽधुनासौ समागतः" । एवमिदमादिशब्दोपादानेऽपि । यत्र च यत्तदोरेकस्यार्थत्वं संभवति, तत्रैकस्योपादानेऽपि निराकाङ्क्षत्वप्रतीतिरिति न क्षतिः । तथाहि यच्छब्दस्योत्तरवाक्यगत्वेनोपादाने सामर्थ्यात्पूर्ववाक्ये तच्छब्दस्यार्थत्वम् । यथा "आत्मा जानाति यत्पापम्" । एवम्"यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च" इत्यादावपि । तच्छब्दस्य प्रक्रान्तप्रसिद्धानुभूतार्थत्वे यच्छब्दस्यार्थत्वम् । क्रमेण यथा "स हत्वा वालिनं वीरस्तत्पद्रे चिरकाङ्क्षिते । धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत्" ॥ "स वः शशिकलामौलिस्तादात्म्यायोपकल्पताम्" । "तामिन्दुसुन्दरमुखीं हृदि चिन्तयामि" । यत्र च यच्छब्दनिकटस्थितानामपीदमादिशब्दानां भिन्नलिङ्गविभक्तित्वं तत्रापि निराकाङ्क्षत्वमेव । क्रमेण यथा "विभाति मृगशावाक्षी येदं भुवनभूषणम्" । "इन्दुर्विभाति यस्तेन दग्धाः पथिकयोषितः" । क्वचिदनुपात्तयोर्द्वयोरपि सामर्थ्यादवगमः । यथा "न मे शमयिता कोऽपि मारस्येत्युवि ! मा शुचः । नन्दस्य भवने कोऽपि बालोऽस्त्यद्भुतपौरुषः" ॥ अत्र योऽस्ति, स ते भारस्य शमयितेति बुध्यते । "यद्यद्विरहदुःखं मे तत्को वापहरिष्यति" । इत्यत्रैको यच्छब्दः साकाङ्क्ष इति न वाच्यम्, तथाहियद्यदित्यनेन केनचिद्रूपेण स्थितं सर्वात्मकं वस्तु विवक्षितम् । तथाभूतस्य तस्य तच्छब्देन परामर्शः । एवमन्येषामपि वाक्यगतत्वेनोदाहरणं बोध्यम् । पदांशे दुः श्रवत्वं यथा "तद्रच्छ सिद्धयै कुरु देवकार्यम्" । "धातुमत्तां गिरिर्धत्ते" । अत्र मत्ताशब्दः क्षीबार्थे निहतः । "वर्ण्यते किं महासेनो विजेयो यस्य तारकः" । अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थेऽवाचकः । "पाणिः पल्लवपेल्लत्रः" । पेलवशब्दस्याद्याक्षरे अश्लीले । "संग्रामे निहताः शूरा वचो बाणत्वमागताः" । अत्र वचः शब्दस्य गीः शब्दवाचकत्वे नेयार्थात्वम् । तथा तत्रैव बाणस्थाने शरेति पाठे । अत्र पदद्वयमपि न परिवृत्तिसहम् । जलध्यादौ तूत्तरपदम्, वाडवानलादौ पूर्वपदम् । एवमन्येऽपि यथासंभवं पदांशदोषा ज्ञेयाः । निरर्थकत्वादीनां त्रयाणां च पदमात्रगतत्वेनैल लक्ष्ये संभवः । क्रमतो यथा "मुञ्च मानं हि मानिनि !" ॥ अत्र हिशब्दो वृत्तपूरणमात्रप्रयोजनः । कुञ्जं हन्ति कृशोदरी । अत्र हन्तीति गमनार्थे पठितमपि न तत्र समर्थम् । "गण्डीवी कनकशिलानिभं भुजभ्यामाजध्ने विषमविलोचनस्य वक्षः" । "आङो यमहनःऽ, "स्वाङ्गकर्मकाच्च" इत्यनुशासनबलादाङ्पूर्वस्य हनः स्वाङ्गकर्मकस्यैवात्मनेपदं नियमितम् । इह तु तल्लाङ्घतमिति व्याकरणलक्षणहीनत्वात्च्युतसंस्कारत्वम् । नन्वत्र "आजध्ने" इति पदस्य स्वतो न दुष्टता, अपि तु पदान्तरापेक्षयैव इत्यस्य वाक्यदोषता ? मैवम्, तथाहि गुणदोषालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेस्तदन्वयव्यतिरेकानुविधायित्वं हेतुः । इह तु दोषस्य "आजघ्ने" इति पदमात्रस्यैवान्वयव्यतिरेकानुविधायित्वम, पदान्तराणां परिवर्त्तनेऽपि तस्य तादवस्थ्यादिति पददोषत्वमेव । तथा यथेहात्मनेपदस्य परिवृत्तावपि न पददोषः, तथा हन्प्रकृतेरपीति न पदांशदोषः । एवं "पद्मः" इत्यत्राप्रयुक्तस्य पदगतत्वं बोध्यम् । एवं प्राकृतादिव्याकरणलक्षणहानावपि च्युतसंस्कारत्वमूह्यम् । इह तु शब्दानां सर्वथा प्रयोगाभावेऽसमर्थत्वम् । विरलप्रयोगे निहतार्थत्वम् । निहतार्थत्वमनेकार्थशब्दविषयम् । अप्रतीतत्वं त्वेकार्थस्यापि शब्दस्य सार्वत्रिकप्रयोगविरहः । अप्रयुक्तत्वमेकार्थशब्दविषयम् । असमर्थत्वमनेकार्थशब्दविषयम् । असमर्थत्वे हन्त्यादयोऽपि गमनार्थे पठिताः । अवाकचत्वे दिनादयः प्रकाशमयाद्यर्थे, न तथेति परस्परभेदः । एवं पददोषसजातीया वाक्यदोषा उक्ताः, सम्प्रति तद्विजातीया उच्यन्ते "वर्णानां प्रतिकूलत्वं, लुप्ताऽहतविसर्गते । अधिकन्यूनकथितपदताहतवृत्तता ॥ ७.५ ॥ पतत्प्रकर्षता, सन्धौ विश्लेषाश्लीलकष्टताः । अर्धान्तरैकपदता समाप्तपुनरात्तता ॥ ७.६ ॥ अभवन्मतसम्बन्धाक्रमामतपरार्थताः । वाच्यस्यानभिधानं च भग्नप्रकमता तथा ॥ ७.७ ॥ त्यागः प्रसिद्धेरस्थाने न्यासः पदसमास्योः । संकीर्णता गर्भितता दोषाः स्युर्वाक्यमात्रगाः ॥ ७.८ ॥ वर्णानां रसानुगुण्यविपरीतत्वं प्रतिकूलत्वम् । यथा मम "ओवट्टै उल्लट्टै सअणो कहिंपि मोट्टाऐ णो परिहट्टै । हिअएण फिट्टै लज्जाइ खुट्टै दिहीए सा" ॥ अत्र टकाराः शृङ्गारसपरिपन्थिनः केवलं शक्तिप्रदर्शनाय निबद्धाः । एषां चैकद्वित्रिचतुः प्रयोगे न तादृशग्रसभङ्ग इति न दोषः । "गता निशा इमा बाले !" । अत्र लुप्तविसर्गाः । आहता ओत्वं प्राप्ता विसर्गा यत्र । यथा "धीरो वरो नरो याति" । "पल्लवाकृतिरक्तोष्ठी" । अत्राकृतिपदमधिकम् । एवम्"सदाशिवं नौमि पिनाकपाणिम्" । इति विशेषणमधिकम् । "कुर्यां हरस्यापि पिनाकपाणोःऽइति । अत्र तु पिनाकपाणिपदं विशेषप्रतिपत्त्यर्थमुपात्तमिति युक्तमेव । यथा वा "वाचमुवाच कौत्सः" । अत्र वाचमित्यधिकम् । उवाचेत्यनेनैव गतार्थत्वात् । क्वचित्तु विशेषणदानार्थं तत्प्रयोगो युज्यते । यथा "उवाच मधुरा वाचम्" इति । केचित्त्वाहुःयत्र विशेषणस्यापि क्रियाविशेषणत्वं सम्भवति तत्रापि तत्प्रयोगो न घटते । यथा "उवाच मधुरं धीमान्" इति । "यदि मय्यर्पिता दृष्टिः किं ममेन्द्रतया तदा" । अत्र प्रथमे त्वयेति पदं न्यूनम् । "रतिलीलाश्रमं भिन्ते सलीलमनिलो वहन्" । अत्र लीलाशब्दः पुनरुक्तः । एवम्"जक्षुर्विसं धृतविकासिविसप्रसूनाः" । अत्र विसशब्दस्य धृतपरिस्फुटतत्प्रसूना इति सर्वनाम्नैव परामर्शो युक्तः । हतवृत्तम्लक्षणानुसरणोऽप्यश्रव्यम्, रसाननुगुणम्, अप्राप्तगुरुभावान्तलघु च । क्रमेण यथा "हन्त ! सततमेतस्य हृदयं भिन्ते मनोभवः कुपितः" । "अयि ! मयि मानिनि ! मा कुरु मानम्" । इदं वृत्तं हास्यरसस्यैवानुकूलम् । "विकसितसहकारभारहारिपरिमल एष समागतो वसन्तः" । यत्पादान्ते लघोरपि गुरुभावः उक्तः, तत्सर्वत्र द्वितीयचतुर्थपादविषयम् । प्रथमतृतीयपादविषयन्तु वसन्ततिलकादेरेव । अत्र"प्रमुदितसौरभ आगतो वसन्तः" इति पाठो युक्तः । यथा वा "अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा सम्भाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा । श्रीमत्कान्तिजुषां द्विषां करतलात्स्त्रीणां निग्तबस्थलात्दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च" ॥ अत्र "वस्त्राणि च" इति बन्धस्य श्लथत्वश्रुतिः । "वस्त्राण्यपि" इति पाठे तु दार्ढ्यमिति न दोषः । "इदमप्राप्तगुरुभावान्तलघु" इति काव्यप्रकाशकारः । वस्तुतस्तु "लक्षणानुसरणोऽप्यश्रव्यम्" इत्यन्ये । प्रोज्जलज्ज्वालनज्वालाविकटोरुसटाच्छटः । श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेशरी ॥ अत्र क्रमेणानुप्रासप्रकर्षः पतितः । "दलिते उत्पले एते अक्षिणी अमलाङ्गि ! ते" । एवंविधसन्धिविश्लेषस्य असकृत प्रयोग एव दोषः । अनुशासनमुल्लङ्घ्य वृत्तभङ्गभयमात्रेण सन्धैविश्लेषस्य तु सकृदपि । यथा "वासवाशामुखे भाति इन्दुश्चन्दनबिन्दुवत्" । "चलण्डामरचेष्टितः" इति । अत्र सन्धौ जुगुप्साव्यञ्जकमश्लीलत्वम् । "उर्व्यसावत्र तर्वालीमर्वन्ते चार्ववस्थितिः" । "अत्र सन्धौ कष्टत्वम् । "इन्दुर्विभाति कर्पूरगौरैर्धवलयन् करैः । जगन्मा कुरु तन्वङ्गि ! मानं पादानते प्रिये" ॥ अत्र जगदिति प्रथमार्द्धे पठितमुचितम् । "नाशयन्तो घनध्वान्तं तापयन्तो वियोगिनः । पतन्ति शशिनः पदा भासयन्तः क्षमातलम्" ॥ अत्र चतुर्थपादो वाक्यसमाप्तावपि पुनरुपात्तः । श्रभवन्मतसम्बन्धो यथा "या जयश्रीर्मनोजस्य यया जगदलङ्कृतम् । यामेणाक्षीं विना प्राणा विफला मे कुतोऽद्य सा" ॥ अत्र यच्छब्दनिद्दिष्टनां वाक्यानां परस्परनिरपेक्षत्वात्तदेकान्तः पातिना एणाक्षीशब्देन अन्येषां सम्बन्धः कवेरभिमतो नोपपद्यत एव । "यां विनामी वृथा प्राणा एणाक्षी सा कृतोऽद्य मे" । इति तच्छब्दनिर्दिष्टवाक्यान्तः पातित्वेऽपि यच्छब्दनिद्दिष्टवाक्यैः सम्बन्धो घटते । यथा वा "ईक्षसे यत्कटाक्षेण तदा धन्वी मनोभुवः" । अत्र यदित्यस्य तदेत्यनेन सम्बन्धो न घटते । "ईक्षसे चेत्" इति तु युक्तः पाठः । यथा वा "ज्योत्स्नाचयः पयः पूरस्तारकाः कैरवाणि च । राजति व्योमकासारराजहंसः सुधाकरः" ॥ अत्र व्योमकासारशब्दस्य समासे गुणीभावात्तदर्थस्य न सर्वैः संयोगः । विधेयाविमर्शे यदेवाविमृष्टं तदेव दुष्टम् । इह तु प्रधानस्य कासारपदार्थस्य प्राधान्येनाप्रतीतेः सर्वोऽपि पयः पूरादिशब्दार्थस्तदङ्गतया न प्रतीयत इति सर्ववाक्यार्थविरोधावभास इत्युभयोर्भेदः । "अनेन च्छिन्दता मातुः कण्ठं पशुना तव । बद्धस्पर्द्धः कृपाणोऽयं लज्जते मम भार्गव !" ॥ अत्र "भार्गवनिन्दायां प्रयुक्तस्य मातृकण्ठच्छेदनकर्त्तृत्वस्य परशुना सम्बन्धो न युक्तः" इति प्राच्याः । "परशुनन्दामुखेन भार्गवनिन्दाधिक्यमेव वैदग्ध्यं द्योतयति " इत्याधुनिकाः । अक्रमता यथा समय एव करोति बालबलं प्रणिगदन्त इतीव शरीरिणाम् । शरदि हंसरवाः परुषीकृताः स्वरमयूरमयूरयणीयताम् ॥ अत्र परामृश्यमानवाक्यानन्तरमेवेति शब्दोपयोगो युज्यते, न तु "प्रणिगदन्त" इत्यनन्तरम् । एवम् "द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी" ॥ अत्र त्वमित्यनन्तरमेव चकारो युक्तः । अमतपरार्थता यथा "राममन्मथशरेण ताडिता" इत्यादि । अत्र शृङ्गारसस्य व्यञ्जको द्वितीयोर्ऽथः प्रकृतरसविरोधित्वादनिष्टः । वाच्यस्यानिभिधानं यथा "व्यतिक्रमलवं कं मे वीक्ष्य वामाक्षि ! कुप्यसि" । अत्र व्यतिक्रमलवमपीत्यपरिवश्यं वक्तत्र्यो नोक्तः । न्यूनपदत्वे वाचकपदस्यैव न्यूनता विवक्षिता, अपेस्तु न तथात्वमित्यनयोर्भेदः । एवमन्यत्रापि । यथा वा "चरणानतकान्तायास्तन्वि ! कोपस्तथापि ते" ॥ अत्र चरणानतकान्तासीति वाच्यम् । भग्नप्रक्रमता यथा "एतमुक्तो मन्त्रिमुख्यैः रावणः प्रत्यभाषत" । अत्र वचधातुना प्रक्रान्तं प्रतिवचनमपि तेनैव वक्तुमुचितम् । तेन "रावणः प्रत्यवोचत" इति पाठो युक्तः । एवं च सति न कथितपदत्वदोषः, तस्योद्देश्यव्यतिरिक्तविषयकत्वात् । इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिनिर्देशत्वम् । यथा "उदेति सविता ताम्रस्ताम्र एवास्तमेति च" । इत्यत्र हि यदि पदान्तरेण स एवार्थः प्रतिपाद्यते तदान्योर्ऽथ इव प्रतिभासमानः प्रतीतिं स्थगयति । यथा वा "ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः" ॥ अत्र "अस्मै" इतीदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतदः शब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन । यथा वा "उदन्वच्छिन्ना भूः स च पतिरपां योजनशतम्" । अत्र "मिता भूः पत्यापां स च पतिरपाम्" इति युक्तः पाठः । एवम् "यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः" ॥ अत्र "सुखमीहितुम्" इत्युचितम् । अत्राद्ययोः प्रकृतिविषयः प्रक्रमभेदः । तृतीये पर्यायविषयः, चतुर्थे प्रत्ययविषयः । एवमन्यत्रापि । प्रसिद्धत्यागो यथा "घोरो वारिमुचां रवः" । अत्र मेघानां गर्जितमेव प्रसिद्धम् । यदाहुः "मञ्जीरादिषु रणतिप्रायं पक्षिषु च कूजितप्रभृति । स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम्" ॥ इत्यादि । अस्थानस्थपदता यथा "तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम् । अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः" ॥ अत्र तदीयपदात्पूर्वं गङ्गामित्यस्य पाठो युक्तः । एवम् "हितान्न यः संशृणुते स किं प्रभुः" ॥ अत्र संशृणुत इत्यतः पूर्वं नञः स्थितिरुचिता । अत्र च पदमात्रस्यास्थाने निवेशेऽपि सर्वमेव वाक्यं विवक्षितार्थप्रत्यायने मन्थरमिति वाक्यदोषता । एवमन्यत्रापि । इह केऽप्याहु"पदशब्देन वाचकमेव प्रायशो निगद्यते, न च नञो वाचकता, निर्विवादात्स्वातन्त्र्येणार्थबोधनविरहात्" इति । यथा"द्वयं गतम्" इत्यादौ त्वमित्यनन्तरं चकारानुपादानादक्रमता तथात्रापीति । अस्थनस्थसमासता यथा "अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगति क्रोधादिवालोहितः । प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा त्फुल्लत्कैरवकोषनिः सरदलिश्रेणीकृपाणां शशी" ॥ अत्र कोपिन उक्तौ समासो न कृतः, कवेरुक्तौ कृतः । वाक्यान्तरपदानां वाक्यान्तरेऽनुप्रवेशः सङ्कीर्णात्वम् । यथा "चन्द्रं मुञ्च कुरङ्गाक्षि ! पश्य मानं नभोऽङ्गने" । अत्र नभोऽङ्गने चन्द्रं पश्य मानं मुञ्चेति युक्तम् । "क्लिष्टत्वमेकवाक्यविषयम्" इत्यस्माद्भिन्नम् । वाक्यान्तरे वाक्यान्तरानुप्रवेशो गर्भितता । यथा "रमणे चरणप्रान्ते प्रणतिप्रवणेऽधुना । वदामि सखि ! तत्त्वं ते कदाचिन्नोचिताः क्रुधः" ॥ अर्थदोषानाह अपुष्टदुष्कमग्राम्यव्यावहताश्लीलकष्टताः । अनवीकृतनिर्हेतुप्रकाशितविरुद्धताः ॥ ७.९ ॥ सन्दिग्धपुनरुक्तत्वे ख्यातिविद्याविरुद्धते । साकाङ्क्षता सहचरभिन्नतास्थानयुक्तता ॥ ७.१० ॥ अविशेषे विशेषश्चानियमे नियमस्तथा । तयोर्विपर्ययौ विध्यनुवादायुक्तते तथा ॥ ७.११ ॥ निर्मुक्तरुनरुक्तत्वमर्थदोषाः प्रकीर्तिताः । तद्विपर्ययो विशेषेऽविशेषो नियमेऽनियमः । अत्रापुष्टत्वं मुख्यानुपकारित्वम् । यथा "विलोक्य वितते व्योम्नि विधुं मुञ्च रुषं प्रिये !" अत्र विततशब्दो मानत्यागं प्रति न किञ्चिदुपकुरुते । अधिकपदत्वे पदार्थान्वयप्रतीतेः समकालमेव बाधप्रतिभासः, इह तु पश्चादिति विशेषः । दुष्क्रमता यथा "देहि मे वाजिनं राजन् ! गजेन्द्रं वा मदालसम्" । अत्र गजेन्द्रस्य प्रथमं याचनमुचितम् । "स्वपिहि त्वं समीपे मे स्वपिम्येवाधुना प्रिय !" अत्रार्थो ग्राम्यः । कस्यचित्प्रगुत्कर्षमपकर्षं वाभिधाय पश्चात्तदन्यप्रतिपादनं व्याहतत्वम् । यथा"हरन्ति हृदयं यूनां न नवेन्दुकलादयः । वीक्ष्यते यैरियं तन्वी लोकलोचनचन्द्रिका" ॥ अत्र येषामिन्दुकला नानन्दहेतुस्तेषामेवानन्दाय तन्व्याश्चन्द्रिकात्वारोपः । "हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । यथाशु जायते पातो न तथा पुनरुन्नतिः" ॥ अत्रार्थोऽश्लीलः । "वर्षत्येतदहर्पतिर्न तु घनो धामस्थामच्छं पयः सत्यं सा सवितुः सुता सुरसरित्पूरो यथा प्लावितः । व्यासस्योक्तिषु विश्वसित्यपि न कः, श्रद्धा न कस्य श्रुतौ न प्रत्येति तथापि मुग्धहरिणी भास्वन्मरीचिष्वपः" ॥ अत्र यस्मात्सूर्याद्वृष्टेर्यमुनायाश्च प्रभवस्तस्मात्तयोर्जलमपि सूर्यप्रभम् । ततश्च सूर्यमरीचीनां जलप्रत्ययहेतुत्वमुचितम्, तथापि मृगी भ्रान्ततत्वात्तत्र जलप्रत्ययं न करोति । अयमप्रस्तुतोऽप्यर्थो दुर्बोधः, दूरे चास्मत्प्रस्तुतार्थबोध इति कष्टार्थत्वम् । "सदा चरति खे भानुः सदा वहति मारुतः । सदा धत्ते भुवं शेषः सदा धीरोऽविकत्थनः" ॥ अत्र सदेत्यनवीकृतत्वम् । अत्रास्य पदस्य पर्यायान्तरणोपादानेऽपि यदि नान्यद्विच्छित्त्यान्तं तदास्य दोषस्य सद्भाव इति कथितपदत्वाद्भेदः । नवीकृतत्वं यथा "भानुः सकृद्युक्ततुरुङ्ग एवं रात्रिन्दिवं गन्धवहः प्रयाति । विभर्त्ति शेषः सततं धरित्रीं षष्ठांशवृत्तेरपि धर्म एषः ॥ ऽइति । "गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्वमपि सुतशोकान्न तु भया द्विमोक्ष्ये शस्त्र !त्वामहमपि यतः स्वस्ति भवते" ॥ अत्र द्वितीयशस्त्रमोचने हेतुर्नोक्त इति निर्हेतुत्वम् । "कुमारस्ते नराधीश ! श्रियं समधिगच्छतु" । अत्र "त्वं म्रियस्व" इति विरुद्धार्थप्रकाशनात्प्रकाशितविरुद्धत्वम् । "अचला अबला वा स्युः सेव्या ब्रूत मनीषिणः ?" । अत्र प्रकरणाभावच्छान्तशृङ्गारिणोः को वक्तेति निश्चयाभावात्सन्दिग्धत्वम् । "सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः" ॥ अत्र द्वितीयार्धे व्यतिरेकेण द्वितीयपादस्यैवार्थ इति पुनरुक्तता । प्रसिद्धिविरुद्धता यथा "ततश्चार समरे शितशूलधरो हरिः" । अत्र हरेः शूलं लोकेऽप्रसिद्धम् । यथा वा "पदाघातादशोकस्ते सञ्जाताङ्कुरकण्टकः" । अत्र पादाधातादशोकेषु पुष्पमेव जायत इति प्रसिद्धं न त्वङ्कुर इति कविसमयख्यतिविरुद्धता । "अधरे करजक्षतं मृगाक्ष्याः" । अत्र शृङ्गार (काम) शास्त्रीविरुद्धत्वाद्विद्याविरुद्धता । एवमन्यशास्त्रविरुद्धत्वमपि । "ऐसस्य धनुषो भङ्गं क्षत्त्त्रस्य च समुन्नतिम् । स्त्रीरत्नं च कथं नाम मृष्यते भार्गवोऽधुना" ॥ अत्र स्त्रीरत्नमुपेक्षितुमिति साकाङ्क्षता । "सज्जनो दुर्गतौ मग्नः कामिनी गलितस्तनी । खलः पूज्यः समज्यायां तापाय मम चेतसः" ॥ अत्र सज्जनः कामिनी च शोभनौ तत्सहचरः खलोऽशोभन इति सहचरभिन्नत्वम् । "आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी । उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः" ॥ अत्र न रावण इत्येतावतैव समाप्यम् । "हीरकाणां निधेरस्य सिन्धोः किं वर्णयामहे" । अत्र रत्नानां निधेरित्यविशेष एव वाच्यः । "आवर्त्त एव नाभिस्ते नेत्रे नीलसरोरुहे । भङ्गाश्च वलयस्तेन त्वं लावण्याम्बुवापिका" ॥ अत्रावर्त एकेति नियमो न वाच्यः । "यान्ति नीलनिचोलिन्यो रजनीष्वभिसारिकाः" । अत्र तमिस्त्रास्विति रजनीविशेषो वाच्यः । "आपातसुरसे भोगे निमग्नाः किं न कुर्वते" । अत्र आपात एवेति नियमो वाच्यः । ननु वाच्यस्यानिभिधाने "व्यतिक्रमलवम्" इत्यादावपेरभावः, इह चैवकारस्येति कोऽनयेर्भेदः । अत्राह"नियमस्य वचनमेव पृथग्भूतं नियमपरिवृत्तेविषयः" इति, तन्न तथा सत्यपि द्वयोः शब्दार्थदोषतायां नियामकाभावात् । तत्का गतिरिति चेत्? "व्यतिक्रमलवम्" इत्यादौ शब्दोच्चारणानन्तरमेव दोषप्रतिभासः, इह त्वर्थप्रत्ययानन्तरमिति भेदः । एवं च शब्दपरिवृत्तिसहत्वासहत्वाभ्यां पूर्वैरादृतोऽपि शब्दार्थदोषविभाग एवं पर्यवस्यतियो दोषः शब्दपरिवृत्त्यासहः स शब्ददोष एव । यश्च पदार्थन्वयप्रतीतिपूर्वबोध्यः सोऽपि शब्ददोषः । यश्चार्थप्रतीत्यनन्तरं बोध्यः सोर्ऽथाश्रय इति । एवं चानियमपरिवृत्तित्वादेरप्यधिकपदत्वाद्भेदो बोद्धव्यः । अमतपरार्थत्वे तु "राममन्मथशरेण" इत्यादौ नियमेन वाक्यव्यापित्वाभिप्रायाद्वाक्यदोषता । अश्लीलत्वादौ तु न नियमेन वाक्यव्यापित्वम् । "आनन्दितस्वपक्षोऽसौ परपक्षान् हनिष्यति" । अत्र परपक्षं हत्वा स्वपक्षमानन्दयिष्यतीति वेधेयम् । "चण्डीशचूडाभारण ! चन्द्र ! लोकतमोपह ! । विरहिप्राणहरण ! कदर्थय न मां वृथा" ॥ अत्र विरहिण उक्तौ तृतीयपादस्यार्थो नानुवाद्यः । "लग्नं रागावृताङ्ग्या सदृढमिह यथैवासियष्ट्यापरिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्सक्तोऽयं न किञ्चिद्रणयति विदितं तेऽस्तु तेनास्मदत्ता भृत्येभ्यः श्रीनियोगाद्रदितुमिति गतेवाम्बुधिं यस्य कीर्तिः ॥ अत्र विदितं तेऽस्त्वित्यनेन समापितमपि वचनं तेनेत्यादिना पुनरुपात्तम् । अथ रसदोषानाह रसस्योक्तिः स्वशब्देन स्थायिसंचारिणोरपि ॥ ७.१२ ॥ परिपन्थिरसाङ्गस्य विभावादेः परिग्रहः । आक्षेपः कल्पितः कृच्छ्रादनुभावविभावयोः ॥ ७.१३ ॥ अकाण्डे प्रथनच्छेदौ तथा दीप्तिः पुनः पुनः । अङ्गिनोऽननुसंधानमनङ्गस्य च कीर्तनम् ॥ ७.१४ ॥ अतिविस्तृतिरङ्गस्य प्रकृतीनां विपर्ययः । अर्थानौचित्यमन्यच्च दोषा रसगता मताः । रसस्य स्वशब्दो रसशब्दः शृङ्गारादिशब्दश्च । क्रमेण यथा "तामुद्वीक्ष्य कुरङ्गाक्षीं रसो नः कोऽप्यजायत" । "चन्द्रमण्डलमालोक्य शृङ्गारे मग्नमन्तरम्" । स्थायिभावस्य स्वशब्दवाच्यं यथा "अजायत रतिस्तस्यास्त्वयि लोचनगोचरे" । व्यभिचारिणः स्वशब्दवाच्यत्वं यथा "जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने" । अत्र प्रथमे पादे "आसीन्मुकुलिताक्षी सा" इति लज्जाया अनुभावमुखेन कथने युक्तः पाठः । "मानं मा कुरु तन्वङ्गि ! ज्ञात्वा यौवनमस्थिरम्" । अत्र यौवनास्थैर्यनिवेदनं शृङ्गाररसस्य परिपन्थिनः शान्तरसस्याङ्गं शान्तस्यैव च विभाव इति शृङ्गारे तत्परिग्रहो न युक्तः । "धवलयति शिशिररोचिषि भुवनतलं लोकलोचनान्दे ईषत्क्षिप्तकटाक्षा स्मेरमुखई सा निरीक्ष्यतां तन्वी" ॥ अत्र रसस्योद्दीपनालम्बनविभावपर्यवसायिनौ स्थिताविति कष्टकल्पना । "परिहरति रतिं मतिं लुनीते स्खलतितरां परिवर्तते च भूयः । इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः" ॥ अत्र रतिपरिहारादीनां करुणादावपि सम्भवात्कामिनीरूपो विभावः कृच्छ्रादाक्षेप्यः । अकाण्डे प्रथनं यथावेणीसंहारे द्वितीयेऽङ्के प्रवर्तमानानेकवीरसंक्षयेऽकाले दुर्योधनस्य भानुमत्या सह शृङ्गारप्रथनम् । छेदो यथावीरचरिते राघवभार्गवयोर्धाराधिरूढेऽन्योन्यसंरम्भे कङ्कणमोचनाय गच्छामीति राघवस्योक्तिः । पुनः पुनर्देप्तिर्यथाकुमारसंभवे रतिविलापे । अङ्गिनोऽननुसंधानां यथारत्नावल्यां चतुर्थेङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः । अनङ्गस्य कीर्तनं यथाकर्पूरमञ्जर्या राजनायिकयोः स्वयं कृतं वसन्तस्य वर्णनमनादृत्य बन्दिवर्णितस्य प्रशंसनम् । अङ्गस्यातिविस्तृतिर्यथाकिराते सुराङ्गनाविलासादिः । प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्चेति । तेषां धीरोदात्तादिता । तेषामप्युत्तमाधममध्यमत्वम् । तेषु च यो यथाभूतस्तस्यायथावर्णने प्रकृतिविपर्ययो दोषः । यथाधीरोदात्तस्य रामस्य धीरोद्धतवच्छद्मना वालिवधः । यथा वाकुमारसंभवे उत्तमदेवतयोः पार्वतीपरमेश्चरयोः संभोगशृङ्गारवर्णनम् । "इदं पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम्" इत्याहुः । अन्यदनौचित्यं देशकालादीनामन्यथा यद्वर्णनम् । तथा सति हि काव्यस्यासत्यताप्रतिभासेन विनेयानामुन्मुखीकारासंभवः । एभ्यः पृथगलङ्कारदोषाणां नैव संभवः ॥ ७.१५ ॥ पभ्य उक्तदोषेभ्यः । तथाहिउपमायामसादृश्यासंभवयोरुपमानस्य जाति प्रमाणगतन्यनत्वाधिकत्वयोरर्थान्तरन्यासे उत्प्रेक्षितार्थसमर्थने चानुचितार्थत्वं क्रमेण यथा "ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम्" । "प्रज्वलज्जलधारावान्नपतन्ति शरास्तव" । "चण्डाल इव राजासौ संग्रामेऽधिकसाहसः" । "कर्परखण्ड इव राजति चन्द्रबिम्बम्" । "हरवन्नीलकण्ठोऽयं विराजति शिखावलः" । "स्तनावद्रिसमानौ ते" । "दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव" ॥ एवमादिषूत्प्रेक्षितार्थस्यासं त्रततयैव प्रतिभासनं स्वरूपमित्यनुचितमेव तत्समर्थनम् । यमकस्य पादत्रयगतस्याप्रयुक्तत्वं दोषः । यथा "सहसाभिजनैः स्निग्धैः सह सा कुञ्जमन्दिरम् । उदिते रजनीनाथे सहतायाति सुन्दरी" ॥ उत्प्रेक्षायां यथाशब्दस्योत्प्रेक्षाद्यंतकत्वेऽवाचकत्वम् । यथा "एष मूर्तो यथा धर्मः क्षितिपो रक्षति क्षितिम्" । एवमनुप्रासे वृत्तिविरुद्धस्य प्रतिकूलवर्णत्वम् । यथा "ओवट्टै उल्लट्टै इत्यादौ । उपमायां च साधारणधर्मस्याधिकन्यूनत्वयोरधिकपदत्वं न्यूनपदत्वं च । क्रमेणोदाहरणम् "नयनज्योतिषा भाति शंभुमूतिसितद्युतिः । विद्युतेव शरन्मेघो नीलवारिदखण्डवृक्" ॥ अत्र भगवतो नीलकण्ठत्वस्याप्रतिपादनाच्चतुर्थपादोऽधिकः । "कमलालिङ्गितस्तारहारहारी मुरं द्विषन् । विद्युद्वभूषितो नीलजीमूत इव राजते" ॥ अत्रोपमानस्य सबलाकत्वं वाच्यम् । अस्यामेवोपमानोपमेययोलिङ्गवचनभेदस्य कालपुरुषविध्यादिभेदस्य च भग्नप्रक्रमत्वम् । क्रमेणोदाहरणम् "सुधेव विमलश्चन्द्रः" । "ज्योत्स्ना इव सिता कीर्तिः" । "काप्यभिख्या यतोरासीद्व्रजतोः शुद्धवेषयोः । हिमनिर्मुक्तयोयागे चित्रचन्द्रमसोरिव" ॥ अत्र तथाभूतचित्राचन्द्रमसोः शोभा न खल्वासीत् । अपि तु सर्वदापि मवति । "लतेव राजसे तन्वि !" अत्र लता राजते, त्वं तु राजसे । "चिरं जीवतु ते सूतुर्माकण्डेयमुनिर्यथा" । अत्र मार्कण्डेयमुनिर्जावत्येव, न खल्वेतदस्य "जीवतु" इत्यनेन विधेयम् । इह तु यत्र लिङ्गवचनभेदेऽपि न साधारणधपर्मस्यान्यथाभावस्तत्र न दोषः । क्रमेणोदाहरणम् "मुखं चन्द्र इवाभाति" । "तद्वेशोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव" ॥ पूर्वोदाहरणोषु उपमानोपमेययोरेकस्यैव साधारणधर्मेणान्वयसिद्धेः प्रक्रान्तस्यार्थस्य स्फुटोऽनिर्वाहः । एवमनुप्रासे वैफल्यस्यापुष्टार्थत्वम् । यथा"अनणुरणन्मणिमेखलमविरलशिञ्जानमञ्जुमञ्जीरम् । परिसरणमरुणचरणो ! रणरणकमकारणं कुरुते" ॥ एवं समासोक्तौ साधारणविशेषणवशात्परार्थस्य प्रतीतावपि पुनस्तस्य शब्देनोपादानस्याप्रस्तुतप्रशंसायां व्यञ्जनयैव प्रस्तुतार्थावगतेः शब्देन तदभिधानस्य च पुनरुक्तत्वम् । क्रमेणोदाहरणम् "अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् । निरकासयद्रविमपेतवसुं वियदालयादपरिदग्गणिका" ॥ अत्रापरदिगित्येतावतैव तस्या गणिकात्वं प्रतीयते । "आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां धुरम् । खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक्सामान्यमचेतसं प्रभुमिवानामृष्टतत्त्वान्तरम्" ॥ अत्राचेतसः प्रभोरभिधानमनुचितम् । एवमनुप्रासे प्रसिद्ध्यभावस्य ख्यातविरुद्धत्वम् । यथा "चक्राधिष्ठततां चक्री गोत्रं गोत्रभिदुच्छ्रितम् । वृषं वृषभकेतुश्च प्रायच्छन्नस्य भूभुजः" ॥ उक्तदोषाणां च क्वचिददोषत्वं क्वचिद्गुणत्वमित्याह वक्तरि क्रोधसंयुक्ते तथा वाच्ये समुद्धते । रौद्रादौ तु रसेऽत्यन्तं दुः श्रवत्वं गुणो भवेत् ॥ ७.१६ ॥ एषु चास्वादस्वरूपविषात्मकतया मुख्यगुणप्रकर्षोपकारित्वाद्गुण इति व्यपदेशो भाक्तः । क्रमेण यथा "तद्विच्छेदकृशस्य कण्ठलुठितप्राणस्य मे निर्दयं क्रूरः पञ्चशरः शररतिशितैर्भिन्दन्मनो निर्भरम् । शम्भोर्भूतकृपाविधेयमनसः प्रोद्दामनेत्रानल ज्वालाजालकरालितः पुनरसावास्तां समस्तात्मना" ॥ अत्र शृङ्गारे कुपितो वक्ता । "मूर्धव्याधूयमानध्वनदमरधुनीलोलकल्लोलजालो द्धूताम्भः क्षोददम्भात्प्रसभमभिनभः क्षिप्तनक्षत्रलक्षण् । ऊर्ध्वन्यस्ताङिघ्रदण्डभ्रमिभररभसोद्यन्नभस्वत्प्रवेग भ्रान्तब्रह्मण्डखण्डं प्रवितरतु शिवं शाम्भवं ताण्डवं वः" ॥ अत्रोद्धतताण्डवं वाच्यम् । इमे पद्ये मम । रौद्रादिरसत्व एतदिद्वतयोपेक्षयापि दुः श्रवत्वमत्यन्तं गुणः । यथा "उत्कृत्योत्कृत्य कृत्तिम" इत्यादि । अत्र बीभत्सो रसः । सुरतारम्भगोष्ठ्यादावश्लीलत्वं तथा पुनः । तथा पुनरिति गुण एव । यथा "करिहस्तेन संबाधे प्रविश्यान्तविलोडिते । उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते" ॥ अत्र हि सुरतारम्भगोष्ठ्याम् "ताम्बूलदानविधिना विसृजेद्वयस्यां व्द्यर्थैःपदैः पिशुनयेच्च रहस्यवस्तु" इति कामशास्त्रस्थितिः । आदिशब्दाच्छमकथाप्रभृतिषु बोद्धव्यम् । स्यातामदोषौ श्लेषादौ निहतार्थाप्रयुक्तते ॥ ७.१७ ॥ यथा"पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतं गहनम् । हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत" ॥ अत्रैन्द्रपक्षे पवित्रशब्दो निहतार्थः । सिंहपक्षे मतङ्गशब्दो मातङ्गर्थेऽप्रयुक्तः । गुणः स्यादप्रवतीतत्वं ज्ञत्वं चेद्वक्तृवाच्ययोः । यथा"त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवतिनीम् । मद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः" ॥ स्वयं वापि परामर्शे अप्रतीतत्वं गुण इत्यनुषज्यते । यथा"युक्तः कलाभिस्तमसां विवृद्ध्यै क्षीणश्च ताभिः क्षतये य एषाम् । शुद्धं निरालम्बपदावलम्बं तमात्मचन्द्रं परिशीलयामि" ॥ कथितं च पदं पुनः ॥ ७.१८ ॥ विहितस्यानुवाद्यत्वे विषादे विस्मये क्रुधि । दैन्येऽथ लाटानुप्रासेऽनुकम्पायां प्रसादने ॥ ७.१९ ॥ अर्थान्तरसंक्रमितवाच्ये हर्षेऽवधारणो । गुण इत्येव । यथा "उदेति सविता ताम्रः" इत्यादि । अत्र विहितानुवादः । "हन्त ! हन्त ! गतः कान्तो वसन्ते सखि ! नागतः" । अत्र विषादः । "चित्रं चित्रमनाकाशे कथं सुमुखै ! चन्द्रमाः" । अत्र विस्मयः । "सुनयने नयने निधोहि" इति । अत्र लाटानुप्रासः । "नयने तस्यैव नयने च" । इत्यादावर्थान्तरसंक्रमितवाच्यो ध्वनिः । एवमन्यत्रापि । सन्दिग्धत्वं तथा व्याजस्तुतिपर्यवसायि चेत् ॥ ७.२० ॥ गुण इत्येव यथा "पृथुकार्तस्वरपात्रं भूषितनिः शोषपरिजनं देव ! । विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम्" ॥ वैयाकरणमुख्ये तु प्रतिपाद्येऽथ वक्तरि । कष्टत्वं दुः श्रवत्वं वा गुण इत्येव । यथा "दीधीवेवीट्समः कश्चिद्गुणवृद्ध्योरभाजनम् । क्विप्प्रत्ययनिभः कश्चिद्यत्र सन्निहिते न ते" ॥ अत्रार्थः कष्टः । वैयाकरणश्च वक्ता । एवमस्य प्रतिपाद्यत्वेऽपि । "अत्रास्मार्षमुपाध्यायं त्वामहं न कदाचन" । अत्र दुः श्रवत्वम् । वैयाकरणो वाच्यः । एवमस्य वक्तृत्वेऽपि । ग्रम्यत्वमधमोक्तिपु ॥ ७.२१ ॥ गुण इत्येव । यथा मम "एसो ससहरबिम्बो दीसै हेअङ्गवीणपिण्डो व्व । एदे अस्ससमोहा पडन्ति आसासु दुद्धधार व्व" ॥ इयं विदूषकोक्तिः । निर्हेतुता तु ख्यातेर्ऽथे दोषतां नैव गच्छति । यथा"सप्रति संध्यासमयश्चक्रद्वन्द्वानि विघटयति" । कवीनां समये ख्याते गुणः ख्यातविरुद्धता ॥ ७.२२ ॥ कविसमयख्यातानि च मलिन्यं व्योम्नि पापे, यशसि धवलता वर्ण्यते हासकीर्त्योः रक्तौ च क्रोधरागौ॑ सरिदुदधिगतं पङ्कजेन्दीवरादि । तोयाधारेऽखिलेऽपि प्रसरति च मरालादिकः पक्षिसङ्घो ज्योत्स्ना पेया चकोरैर्जलधरसमये मानसं यान्ति हंसाः ॥ ७.२३ ॥ पादाघातादशोकं विकसति बकुलं योषितामास्यमद्यैर्यूनामङ्गेषु हाराः, स्फुटति च हृदयं विप्रयोगस्य तापैः । मौर्वीरोलम्बमाला धनुरथ विशिखाः कौसुमाः पुष्पकेतो र्भिन्नं स्यादस्य बाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्वत् ॥ ७.२४ ॥ अह्न्यम्भोजं, निशायां विकसति कुमुदं, चन्द्रिका शुक्लपक्षे मेघध्वानेषु नृत्यं भवति च शिखिनां नाप्यशोके फलं स्यात् । न स्याज्जाती वसन्ते॑ न च कुसुमफले गन्धसारद्रुमाणा मित्याद्युन्नेयमन्यत्कविसमयगतं सत्कवीनां प्रबन्धे ॥ ७.२५ ॥ एषामुदाहरणान्याकरेषु स्पष्टानि । धनुर्ज्यादिष शब्देषु शब्दास्तु धनुरादयः । आरूढत्वादिबोधाय यथा"पूरिते रोदसी ध्वानैर्धनुर्ज्यास्फालनोद्भवैः" । अत्र ज्याशब्देनापि गतार्थत्वे धनुः शब्देन ज्याया धनुष्यायत्तीकरणं बोध्यते । आदिशब्दात् "भाति कर्णावतंसस्ते" । अत्र कर्णस्थितत्वबोधनाय कर्णशब्दः । एवं श्रवणकुण्डलशिरःशेखरप्रभृतिः । एवं निरुपपदो मालाशब्दः पुष्पस्त्रजमेवाभिधत्त इति स्थितावपि "पुष्पमालाविभाति ते" । अत्र पुष्पशब्द उत्कृष्टपुष्पवृद्ध्यै । एवं "मुक्ताहार" इत्यत्र मुक्ताशब्देनान्यरत्नामिश्रितत्वम् । प्रयोक्तव्याः स्थिता अमी ॥ ७.२६ ॥ धनुर्ज्यादयः सत्काव्यस्थिता एव निबद्धव्याः, न त्वस्थिता जघनकाञ्जीकरकङ्कणादयः । उक्तावानन्दमग्नदेः स्यान्न्यूनपदता गुणः । यथा "गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्रमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नतम्बाम्बरा । मा मा मानद ! माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्" ॥ अत्र पीडयेति न्यूनम् । क्वचिन्न दोषो न गुणः न्यूनपदत्वमित्येव । यथा "तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः । तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्जातेति कोऽयं विधैः" ॥ अत्र प्रभावपिहितेतिं भवेदिति चेत्यनन्तरं "नैतद्यतः" इति पदानि न्यूनानि । एषां पदानां न्यूनतायामप्येतद्वाक्यव्यङ्ग्यस्य वितर्काख्यव्यभिचारिभावस्योत्कर्षाकरणान्न गुणः । "दीर्घं न से" त्यादिवाक्यजन्यया च प्रतिपत्त्या तिष्ठेदित्यादिवाक्यप्रतिपत्तेर्बोधः स्फुटमेवावभासत इति न दोषः । गुणः क्वाष्यधिकं पदम् ॥ ७.२७ ॥ यथा "आचरिति दुर्जनो यत्सहसा मनसोऽप्यगोचरानर्थान् । तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम्" ॥ अत्र "न न जान" इत्ययोगव्यवच्छेदे । द्वितीये "जान" इत्यनेन नाहमेव जाने इत्यन्ययोगव्यवच्छेदाद्विच्छित्तिविशेषः । समाप्तपुनरा त्तत्वं न दोषो न गुणः क्वचित् । यथा"अन्यास्ता गुणरत्न" इत्यादि । अत्र प्रथमार्धेन वाक्यसमाप्तावपि द्वितीयार्घवाक्यं पुनरुपात्तम् । एवं च विशेषणमात्रस्य पुनरुपादाने समाप्तपुनरात्तत्वं न वाक्यान्तरस्येति विज्ञेयम् । गर्भितत्वं गुणः क्वापि यथा "दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सापि वदन्त एव हि वयं रोमाञ्जिताः पश्यत । विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मात्प्रादुरभूत्कथाद्भुतमिदं यत्रैव चास्तं मतम्" ॥ अत्र वदन्त एवेत्यादि वाक्यं वाक्यान्तरप्रवेशात्चमत्कारातिशयं पुष्णाति । पतत्प्रकर्षता तथा ॥ ७.२८ ॥ तथेति क्वचित्गुणः । यथा"चञ्चद्भुज" इत्यादि । अत्र चतुर्थपादे सुकुमारार्थतया शब्दाडम्बरत्यागो गुणः । क्वचिदुक्तौ स्वशब्देन न दोषो व्यभिचारिणः । अनुभावविभावाभ्यां रचना यत्र नोचिता ॥ ७.२९ ॥ यत्रानुभावविभावमुखेन प्रतिपादने विशदप्रतीतिर्नास्ति, यत्र च विभावानुभावकृतपुष्टिराहित्यमेवानुगुणं तत्र व्यभिचारिणः स्वशब्देनोक्तौ न दोषः । यथा "औत्सुक्येन कृतस्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नोताभिमुख्यं पुनः । दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सह्गमे संहोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः" ॥ अत्रोत्सुक्यस्य त्वरारूपानुभावमुखेन प्रतिपादने सङ्गमे न भ्क्तटिति प्रतीतिः, त्वराया भयादिनापि सम्भवात् । ह्रियोऽनुभावस्य च व्यावर्तमानस्य कोपादिना सम्भवात् । साध्वसहासयोस्तु विभावादिपरिपोषस्य प्रकृतरसप्रतिकूलप्रायत्वादित्येषां स्वशब्दाभिधानमेव न्याय्यम् । सञ्चार्यादेर्विरुद्धस्य बाध्यत्वेन वचो गुणः । यथा"क्वाकार्यं शशलक्ष्मणः क्व च कुलम्" इत्यादि । अत्र प्रशमाङ्गानां वितर्कमतिशङ्काधृतीनामभिलाषाङ्गौत्सुक्यस्मृतिदैन्यचिन्ताभिस्तिरस्कारः पर्यन्ते चिन्ताप्रधानमास्वादप्रकर्षमाविर्भावयति । विराधिनोऽपि स्मरणो साम्येन वचनेऽपि वा ॥ ७.३० ॥ भवेद्विरोधो नान्योन्यमङ्गिन्यङ्गत्वमाप्तयोः । क्रमेण यथा"अयं स रसनोत्कर्षो" इत्यादि । अत्रालम्बनविच्छेदे रतेररसात्मतया स्मर्यमाणानां तदङ्गानां शोकोद्दीपकतया कुणानुकूलता । "सरागया स्त्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया । मुहुर्मुहुर्दशनविलङ्घितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे" ॥ अत्र सम्भोगशृङ्गारो वर्णनीयवीरव्यभिचारिणः क्रोधस्यानुभावसाम्येन विवक्षितः । "एकं ध्यानिमीलनान्मुकुलितप्रायं द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनभरे सम्भोगभावालसम् । अन्दद्दूरविकृष्टचापकमनक्रोधानलोद्दीपितं शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः" ॥ अत्र शान्तशृङ्गाररौद्ररसपरिपुष्टा भगवद्विषया रतिः । यथा वा "क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभैः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः" ॥ अत्र कविगता भगवद्विषया रतिः प्रधानम् । तस्याः परिपोषकतया भगवतस्त्रिपुरध्वंसं प्रत्युत्साहस्यापरिपुष्टतया रसपदवीमप्राप्ततया भावमात्रस्य करुणोऽङ्गम् । तस्य च कामीवेतिसाम्यबलादायातः शृङ्गारः । एवं चाविश्रान्तिधामतया करुणस्याप्यङ्गतैवेति द्वयोरपि करुणशृङ्गारयोर्भगवदुत्साहपरिपुष्टतद्विषयरतिभावास्वादप्रकष्रकतया यौगपद्यसम्भावादङ्गत्वेन न विरोधः । ननु समूहालम्बनात्मकपूर्णघनानन्दरूपस्य रसस्य तादृशेनेतररसेन कथं विरोधः सम्भावनीयः ? एकवाक्ये निवेशप्रादुर्भावैर्यौगपद्यविरहेण परस्परोपमर्दकत्वानुपपत्तेः । नाप्यङ्गाङ्गिभावः, द्वयोरपि पूर्णतया स्वातन्त्र्येण विश्रान्तेः । सत्यमुक्तम् । अत एवात्र प्रधानेतरेषु रसेषु स्वातन्त्र्यविश्रामराहित्यात्पूर्णरसभावमात्राच्च विलक्षणतया संचारिरसनाम्ना व्यपदेशः प्राच्यानाम् । अस्मत्पितामहानुजकविपण्डितमुख्यश्रीचण्डीदासपादानां तु खण्डरसनाम्ना । यदाहुः "अङ्गं बाध्योऽथ संसर्गो यद्यङ्गी स्याद्रसान्तरे । नास्वाद्यते समग्रं तत्ततः खण्डरसः स्मृतः" ॥ इति । ननु "आद्यः करुणवीभत्सरौद्रवीरभयानकैः" इत्युक्तनयेन विरोधिनोर्बोरशृङ्गारयोः कथमेकत्र "कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरस्फारोड्डमरपुलकं वक्त्रकमलम् । मुहुः पश्यञ्छृण्वन् रजनिचरसेनाकलकलं जटाजूट्ग्रन्थिं द्रढयति रघूणां परिवृढः" ॥ इत्यादौ समवेशः । अत्रोच्यतेइह खलु रसानां विरोधिताया अविरोधितायाश्च त्रिधा व्यवस्था । कयोश्चिदालम्बनैक्येन, कयोश्चिदाश्रयैक्येन, कयोश्चिन्नैरन्तर्येणोति । तत्र वीरशृङ्गारयोरालम्बनैक्येन विरोधः । तथा हास्यरौद्रबीभत्सैः सम्भोगस्य । वीरकरुणरौद्रादिभिर्विप्रलम्भस्य । (आलम्बनैक्यने) आश्रयैक्येन च वीरभयानकयोः । नैरन्तर्यविभावैक्याभ्यां शान्तशृङ्गारयोः । त्रिधायं विरोधो वीरस्याद्भुतरौद्राभ्याम् । शृङ्गारस्याद्भुतेन भयानकस्य बीभत्सेनेति । तेनात्र वीरशृङ्गारयोभिन्नालम्बनत्वान्न विरोधः । एवं च वीरस्य नायकनिष्ठत्वेन भयानकस्य प्रतिनायकनिष्ठत्वेन निबन्धे भिनानश्रयत्वेन न विरोधः । यश्च नागानन्दे प्रशमाश्रयस्यापि जीमूतवाहनस्य मलयवत्यनुरागो दर्शितः, तत्र "अहो गीतमहो वादित्रम्" इत्यद्भुतस्यान्तरा निवेशनान्नैरन्तर्याभावान्न शान्तशृङ्गारयोर्विरोधः । एकमन्यदपि ज्ञेयम् । "पाण्डुक्षामं वदनम्" इत्यादौ च पाण्डुतादीनामङ्गभावः करुणविप्रलम्भेऽपीति न विरोधः । अनुकारे च सर्वेषां दोषाणां नैव दोषता ॥ ७.३१ ॥ सर्वेषां दुः श्रवत्वप्रभृतीनाम् । यथा "एष दुश्च्यवनं नौमीत्यादि जल्पति कश्चन" । अत्र दुश्च्यवनशब्दोऽप्रयुक्तः । अन्येषामपि दोषाणामित्यौचित्यान्मनीषिभिः । अदोषता च गुणता ज्ञेया चानुभयात्मता ॥ ७.३२ ॥ अनुभयात्मता अदोषगुणता । इति साहित्यदर्पणे दोषनिरूपणो नाम सप्तमः परिच्छेदः । ___________________________________________________ अष्टमः परिच्छेदः गुणानाह रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा । गुणाः यथा खल्वङ्गित्वमाप्तस्यात्मन उत्कर्षहेतुत्वाच्छौर्यादयो गुणशब्दवाच्याः, तथा काव्येऽङ्गित्वमाप्तस्य रसस्य धर्माः स्वरूपविशेषा माधुर्यादयोऽपि स्वसमर्पकपदसन्दर्भस्य काव्यव्यपदेशस्यौपयिकानुगुण्यभाज इत्यर्थः । यथा चैषां रसमात्रस्य धर्मत्वं तथा दर्शितमेव । माधुर्यमोजोऽथ प्रसाद इति ते त्रिधा ॥ ८.१ ॥ ते गुणाः । तत्र चित्तद्रवीभावमयो ङ्लादो माधुर्यमुच्यते । यत्तुकेनचिदुक्तम्"माधुर्यं द्रुतिकारणम्" इति तन्न, द्रवीभावस्यास्वादस्वरूपाह्लादाभिन्नत्वेन कार्यत्वाभावात् । द्रवीभावश्च स्वाभाविकानाविष्टत्वात्मककाठिन्यमन्युक्रोधादिकृतदीप्तत्वविस्मयहासाद्युपहितविक्षेपपरित्यागेन रत्याद्याका रानुविद्धानन्दोद्वोधेनसहृदयचित्तार्द्रप्रायत्वम् । तच्च संभोगे करुणो विप्रलम्भे शान्तेऽधिकं क्रमात् ॥ ८.२ ॥ सम्भोगादिशब्दा उपलक्षणानि । तेन सम्भोगाभासादिष्वप्येतस्य स्थितिर्ज्ञेया । मूर्ध्नि वर्गान्त्यवर्णोन युक्ताष्टठडढान्विना । रणौ लधू च तद्व्यक्तौ वर्णाः कारणतां गताः ॥ ८.३ ॥ अवृत्तिरल्पवृत्तिर्वा मधुरा रचना तथा । यथा "अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः । जनयन्ति मुहुर्यूनामन्तः सन्तापसन्ततिम्" ॥ यथा वा मम "लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलयन् समालिङ्गन्नङ्गं द्रुततरमनङ्गं प्रबलयन् । मरुन्मन्दं मन्दं दलितमरविन्दं तरलयन् रजोवृन्दं विन्दन् किरति मकरन्दं दिशि दिशि" ॥ ओजश्चित्तस्य विस्ताररूपं दीप्तत्वमुच्यते ॥ ८.४ ॥ वीरबीभत्सरौद्रेषु क्रमेणाधिक्यमस्य तु । अस्यौजसः । अत्रापि वीरादिशब्दा उपलक्षणानि । तेन वीराभासादावप्यस्यावस्थितिः । वर्गस्याद्यतृतीयाभायां युक्तौ वर्णौ तदन्तिमौ ॥ ८.५ ॥ उपर्यधो द्वयोर्वा सरेफौ टठडढैः सह । शकारश्च षकारश्र तस्य व्यञ्जकतां गताः ॥ ८.६ ॥ तथा समासो बहुलो घटनौद्धत्यशालिनी । यथा"चञ्चद्भुज" इत्यादि । चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः ॥ ८.७ ॥ स प्रसादः समस्तेषु रसेषु रचनासु च । व्याप्नोति आविष्करोति । शब्दास्तद्व्यञ्जका अर्थबोधकाः श्रुतिमात्रतः ॥ ८.८ ॥ यथा "सूचीमुखेन सकृदेव कृतव्रणस्त्वं मुक्ताकलाप ! लुठसि स्तनयोः प्रियायाः । बाणैः स्मरस्य शतशो विनिकृत्तमर्मा स्वप्नेऽपि तां कथमहं न विलोकयामि" ॥ एषां शब्दगुणत्वं च गुणवृत्त्योच्यते बुधैः । शरीरस्य शौर्यादिगुणयोग इव इति शेषः । श्लेषः समाधिरौदार्यः पसाद इति ये पुनः ॥ ८.९ ॥ गुणाश्चिरन्तनैरुक्ता औजस्यान्तर्भवन्ति ते । ओजसि भक्त्या औजः पदवाच्ये शब्द (अर्थ) धर्मविशेषे । तत्र श्लेषो बहूनामपि पदानामेकपदवद्भासनात्मा । यथा "उन्मज्जज्जलकुञ्जरेन्द्ररभासास्फालानुबन्धोद्धताः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनीः । उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायप्रेंखदसंख्यशङ्खधवला वेलेयमुद्रच्छति" ॥ अथं बन्धवैकट्यात्मकत्वादोज एव । समाधिरारोहावरोहक्रमः । आरोह उत्कर्षः, अवरोहोऽपकर्षः, तयोः क्रमो वैरस्यतानावहो विन्यासः । यथा"चञ्चद्भुज" इत्यादि । अत्र पदात्रये क्रमेण बन्धस्य गाढता । चतुर्थपादे त्वपकर्षः । तस्यापि च तीव्रप्रयत्नोच्चार्यतया ओजस्विता । उदारता विकटत्वलक्षणा । विकटत्वं पदानां नृत्यत्प्रायत्वम् । यथा सुचरणविनिविष्टैर्नूपुरैर्नर्तकीनां भ्क्तणिति रणितमासीत्तत्र चित्रं कलं च । अत्र च तन्मतानुसारेण रसानुसन्धानमन्तरेणैव शब्दप्रौढोक्तिमात्रेणौजः । प्रसाद ओजोमिश्रितशौथिल्यात्मा । यथा "यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदात्पाण्डवीनां चमूनाम्" इति । माधुर्यव्यञ्जकत्वं यदसमासस्य दर्शितम् ॥ ८.१० ॥ पृथक्पदत्वं माधुर्यं तेनैवाङ्गीकृतं पुनः । यथा"श्वासान्मुञ्चति" इत्यादि । अर्थव्यक्तेः प्रसादाख्यगुणेनैव परिग्रहः ॥ ८.११ ॥ अर्थव्यक्तिः पदानां हि झटित्यर्थसमर्पणम् । स्पष्टमुदाहरणम् । ग्राम्यदुः श्रवतात्यागात्कान्तिश्च सुकुमारता ॥ ८.१२ ॥ अङ्गीकृतेति सम्बन्धः । तच्च हालिकादिपदविन्यासवैपरीत्येनालौकिकशोभाशालित्वम् । सुकुमारता अपारुष्यम् । अनयोरुदाहरणे स्पष्टे । क्वचिद्दोषस्तु समता मार्गाभेदस्वरूपिणी । अन्यथोक्तगुणेष्वस्या अन्तः पातो यथायथम् ॥ ८.१३ ॥ मसृणेन विकटेन वा मार्गेणोपक्रान्तस्य सन्दर्भस्य तेनैव परिनिष्ठानं मार्गाभेदः । स च क्वचिद्दोषः । तथाहि "अव्यूढाङ्गमरूढपाणिजठराभोगं च बिभ्रद्वपुः पारीन्द्रः शिशुरेष पाणिपुटके सम्मातु किं तावता । उद्यद्दुर्धरगन्धसिन्धुरशतप्रोद्दामदानार्णव स्त्रोतः शोषणरोषणात्पुनरितः कल्पाग्निरल्पायते" ॥ अत्रोद्धतेर्ऽथे वाच्ये सुकुमारबन्धत्यागो गुण एव । अनेवंविधस्थाने माधुर्यादावेवान्तः पातः । यथा"लताकुञ्जं गुञ्जन्" इत्यादि । ओजः प्रसादो माधुर्यं सौकुमार्यमुदारता । तदभावस्य दोषत्वात्स्वीकृता अर्थगा गुणाः ॥ ८.१४ ॥ ओजः साभिप्रायत्वरूपम् । प्रसादोर्ऽथवैमल्यम् । माधुर्यमुक्तिवैचित्र्यं सौकुमार्यमपारुष्यम् । उदारता अग्रम्यत्वम् । एषां पञ्जानामप्यर्थगुणानां यथाक्रममपुष्टार्थाधिकपदानवीकृतामङ्गलरूपाश्लीलग्राम्याणांनिराकरणेनैवाङ्गीकारः । स्पष्टान्युदाहरणानि । अर्थव्यक्तिः स्वभावोक्त्यालङ्कारेण तथा पुनः । रसध्वनिगुणीभूतव्यङ्ग्यानां कान्तिनामकः ॥ ८.१५ ॥ अङ्गीकृत इति सम्बन्धः । अर्थव्यक्तिर्वस्तुस्वभावस्फुटत्वम् । कान्तिर्देप्तरसत्वम् । स्पष्टे उदाहरणे । श्लेषो विचित्रतामात्रमदोषः समता परम् । श्लेषः क्रमकौटिल्यानुल्वणत्वोपपत्तियोगरूपघटनात्मा । तत्र क्रमः क्रियासन्ततिः, विदग्धचेष्टितं कौटिल्यम्, अप्रसिद्धवर्णनाविरहोऽनुल्वणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः एषां योगः सम्मेलनं स एव रूपं यस्या घटनायास्तद्रूपः श्लेषो वैचित्र्यमात्रम् । अनन्यसाधारणरसोपकरित्वातिशयविरहादिति भावः । यथा "दृष्ट्वैकानसांस्थिते प्रियतमे" इत्यादि । अत्र दर्शनादयः क्रियाः, उभयसमर्थनरूपं कौटिल्यम्, लोकसंव्यवहाररुपमनुल्वणत्वम्, एकासनसंस्थिते, "पश्चादुपेत्य" "नयने पिधाय" "ईषद्वक्त्रितकन्धरः" इति चोपपादकानि, एषां योगः । अनेन च वाच्योपपत्तिग्रहणव्यग्रतया रसत्वादौ व्यवहितप्राय इत्यस्यागुणता । समता च प्रक्रान्तप्रकृतिप्रत्ययाविपर्यासेनार्थस्य विसंवादिताविच्छेदः । स च प्रक्रमभङ्गरूपविरह एव । स्पष्टमुदाहरणम् । न गुणत्वं समाधेश्च समाधिश्चायोन्यन्यच्छायायोनिरूपद्विविधार्थदृष्टिरूपः । तत्रायोनिरर्थो यथा "सद्योमुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम् । अन्यच्छायायोनिर्यथा "निजनयनप्रतिविम्बैरम्बुनि बहुशः प्रतारिता कापि । नीलोत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावी" ॥ अत्र नीलोत्पलनयनयोरतिप्रसिद्धं सादृश्यं विच्छित्तिविशेषेण निबद्धम् । अस्य चासाधारणशोभानाधायकत्वान्न गुणत्वम्, किन्तु काव्यशरीरमात्रनिर्वर्तकत्वम् । क्वचित्"चन्द्रम्" इत्येकस्मिन् पदार्थे वक्तव्ये "अत्रेर्नयनसमुत्थं ज्योतिः" इति वाक्यवचनम् । क्वचित्"निदाघशीतलहिमकालोष्ण्सुकुमारशरीरावयवा योषित्" इति वाक्यार्थे वक्तव्ये "वरवणिनी" इति पदाभिधानम् । क्वचिदेकस्य वाक्यार्थस्य किञ्चिद्विशेषनिवेशादनेकैर्वाक्यारभिधानमित्येवंरूपो व्यासः । क्वचिद्वहुवाक्यप्रतिपाद्यस्यैकवाक्येनाभिधानमित्येवंरूपः समासश्च, इत्येवमादीनामन्यैरुक्तानां न गुणत्वमुचितम्, अपि तुवैचित्र्यमात्रावहत्वम् । तेन नार्थगुणाः पृथक् ॥ ८.१६ ॥ तेनोक्तप्रकारेण । अर्थगुण ओजः प्रभृतयः प्रोक्ताः । इति साहित्यदर्पणे गुणविवेचनो नामाष्टमः परिच्छेदः । ___________________________________________________ नवमः परिच्छेदः अथोद्देशक्रमप्राप्तमलङ्कारनिरूपणं बहुवक्तव्यत्वेनोल्लङ्घ्य रीतिमाह पदसंघटना रीतिरङ्गसंस्थाविरोषवत् । उपकर्त्रो रसादीनां रसादीनामर्थाच्छब्दार्थशरीरस्य काव्यस्यात्मभूतानाम् । सा पुनः स्याच्चतुर्विधा ॥ ९.१ ॥ वैदर्भो चाथ गौडी च पाञ्चाली लाटिका तथा । सरीतिः । तत्र माधुर्यव्यञ्जकेर्वर्णै रचना ललितात्मिका ॥ ९.२ ॥ अवृत्तिरल्पवृत्तिर्वा वैदर्भो रीतिरिष्यते । यथा"अनङ्गमङ्गलभुवः" इत्यादि । रुद्रटस्त्वाह असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदर्भो । वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुविधेया ॥ अत्र दशगुणास्तन्मतोक्ताः श्लेषादयः । ओजः प्रकाशकैर्वणैर्बन्ध आडम्बरः पुनः ॥ ९.३ ॥ समासबहुला गौडी यथा"चञ्चद्भुज" इत्यादि । पुरुषोत्तमस्त्वाह "बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडीया । रीतिरनुप्रासमहिमपरतन्त्रा स्तोकवाक्या च" ॥ वर्णैः शेषैः पुनर्द्वयोः । समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥ ९.४ ॥ द्वयोर्वैदर्भोगौड्योः । यथा "मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया । मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे" ॥ भोजस्त्वाह"समस्तपञ्चषपदामोजः कान्तिसमन्विताम् । मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः" ॥ लाटी तु रीतिर्वैदर्भोपाञ्चाल्योरन्तरे स्थिता । यथा"अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् । विरहविधुरकोकद्वन्द्वबन्धुविभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि" ॥ कश्चिदाह"मृदुपदसमाससुभगा युक्तैर्वर्णैर्न चातिभूयिष्ठा । उचितविशेषणपूरितवस्तुन्यासा भवेल्लाटी" ॥ अन्ये त्वाहुः"गौडी डम्बरबद्धा स्याद्वैदर्भो ललितक्रमा । पाञ्चाली मिश्रभावेन लाटी तु मृदुभैः पदैः" ॥ क्वचित्तु वक्त्राद्यौचित्यादन्यथा रचनादयः ॥ ९.५ ॥ वाक्त्रदीत्यादिशब्दाद्वाच्यप्रबन्धौ . रचनादीत्यादिशब्दाद्वृत्तिवर्णौ । तत्र वक्त्रौचित्याद्यथा "मन्थायस्तार्णवाम्भः प्लुतकुहरचलन्मन्दरध्वानधईरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः । कृष्णाक्रोधग्रढूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम्" ॥ अत्र वाच्यक्रोधाद्य(न) भिव्यञ्जकत्वेऽपि भीमसेनवक्तत्वेनोद्धता रचनादयः । वाच्यौचित्याद्यथोदाहृते "मूर्धव्याधूयमान" इत्यादौ । प्रबन्धौचित्याद्यथा नाटकादौ रौद्रेऽप्यभिनयप्रतिकूलत्वेन न दीर्घसमासादयः । एवमाख्यायिकायां शृङ्गारेऽपि न मसृणवर्णादयः । कथायां रौद्रेऽपि नात्यन्तमुद्धताः । एवमन्यदपि ज्ञेयम् । इति साहित्यादर्पणे रीतिविवेचनो नाम नवमः परिच्छेदः । ___________________________________________________ दशमः परिच्छेदः अथावसरप्राप्तानलङ्कारानाह शब्दार्थयोरस्थिरा यो ध्रर्माः शोभातिशायिनः । रसादीनुपकुर्वन्तोऽलङ्कारास्तेऽङ्गदादिवत् ॥ १०.१ ॥ यथा अङ्गदादयः शरीरशोभातिशायिनः शरीरिणमुपकुर्वन्ति, तथानुप्रासोपमादयः शब्दार्थशोभातिशायिनो रसादेरुपकारकाः । अलङ्कारा अस्थिरा इति नैषां गुणवदावश्यरकी स्थितिः । शब्दार्थयोः प्रथमं शब्दस्य बुद्धिविषयत्वाच्छब्दालङ्कारेषु वक्तव्येषु शब्दार्थालङ्कास्यापि पुनरुक्तवदाभासस्य चिरन्तनैः शब्दालङ्कारमध्ये लक्षितत्वात्प्रथमं तमेवाह आपाततो यदर्थस्य पौनरुक्त्येन भासनम् । पुनरुक्तवदाभासः स भिन्नाकारशब्दगः ॥ १०.२ ॥ उदाहरणम् भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः । जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ॥ अत्र भुजङ्गकुण्डल्यादिशब्दानामापातमात्रेण सर्पाद्यर्थतया पौनरुक्त्यप्रतिभासनम् । पर्यवसाने तु भुजङ्गरूपं कुण्डलं विद्यते यस्येत्याद्यन्यार्थत्वम् । "पायादव्यात्" इत्यत्र क्रियागतोऽयमलङ्गारः, "पायात्" इत्यास्य "अपायात्" इत्यत्र पर्यवसानात् । "भुजङ्गकुण्डली" इति शब्दयोः प्रथमस्यैव परिवृत्तिसहत्वम् । "हरः शिवः" इति द्वितीयस्यैव । "शशिसुभ्रांशु" इति द्वयोरपि । "भाति सदानत्यागः" इति न द्वयोरपि । इति शब्दपरिवृत्तिसहत्वासत्वाभ्यामस्योभयालङ्कारत्वम् । अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत् । स्वरमात्रसादृश्यं तु वैचित्र्याभावान्न गणितम् । रसाद्यनुगतत्वेन प्रकर्षेण न्यासोऽनुप्रासः । छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा ॥ १०.३ ॥ छेकश्छेकानुप्रासः । अनेकधेति स्वरूपतः क्रमतश्च । रसः सर इत्यादे क्रमभेदेन सादृश्यं नास्यालङ्कारस्य विषयः । उदाहरणं मम तातपादानाम् "आदाय बकुलगन्धानन्धीकुर्वन् पदे पदे भ्रमरान् । अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः" ॥ अत्र गन्धनन्धीतिसंयुक्तयोः, कावेरीवारीत्यसंयुक्तयोः, पावनः पवन इति व्यञ्जनानां बहूनां सकृदावृत्तिः । छेको विदग्धस्तत्प्रयोज्यत्वादेष छेकानुप्रासः । अनेकस्यैकधा साम्यमसकृद्वाष्यनेकधा । एकस्य सकृदष्येण वृत्त्यनुप्रास उच्यते ॥ १०.४ ॥ एकधा स्वरूपत एव, न तु क्रमतोऽपि । अनेकधा स्वरूपतः क्रमतश्च । सकृदपीत्यपि शब्दादसकृदपि । उदाहरणम् "उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर क्रीडत्कोकिलकाकलीकलकलैरुद्रीर्णकर्णज्वराः । नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः" ॥ अत्र "रसोल्लासैरमी" इति रसयोरेकधैव साम्यम्, न तु तेनैव क्रमेणापि । द्वितीये पादे, कलयोरसकृत्तेनैव क्रमेण च । प्रथमे एकस्य मकारस्य सकृत्, धकारस्य चासकृत् । रसविषयव्यापारवती वर्णरचनावृत्तिः, तदनुगतत्वेन प्रकर्षेण न्यसनाद्वृत्त्यनुप्रासः । उच्चार्यत्वाद्यदेकत्र स्थाने तालुरदादिके । सादृश्यं व्यञ्जनस्यैव श्रुत्यनुप्रास उच्यते ॥ १०.५ ॥ उदाहरणम् "दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः" ॥ अत्र "जीवयन्ति" इति, "याः" इति, "जयिनीः" इत । अत्र जकारयकारयोरेकत्र स्थाने तालावुच्चार्यत्वात्सादृश्यम् । एवं दन्त्यकण्ठ्यानामप्युदाहार्यम् । एष च सहृदयानामतीव श्रुतिसुखावहत्वाच्छ्रत्यनुप्रासः । व्यञ्जनं चेद्यथावस्थं सहाद्येन स्वरेण तु । आवर्त्यतेऽन्त्ययोज्यत्वादन्त्यानुप्रास एव तत् ॥ १०.६ ॥ यथावस्थमिति यथासम्भवमनुस्वारविसर्गस्वरयुक्ताक्षरविशिष्टम् । एष च प्रायेण पादस्य पदस्य चान्ते प्रयोज्यः । पदान्तगो यथा मम केशः काशस्तवकविकासः कायः प्रकटितकरभविलासः । चक्षुर्दग्धवराटककल्पं त्यजति न चेतः काममनल्पम् ॥ "मन्दं हसन्तः पलकं वहन्तः" इत्यादि । शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्यमात्रतः । लाटानुप्रस इत्युक्तो उदाहरणम् स्मेरराजीवनयने नयने किं निमीलिते । पश्य निजिंतकन्दर्पं कन्दर्पवशगं प्रियम् ॥ अत्र विभक्त्यर्थस्य पौनरुक्त्येऽपि मुख्यतरस्य प्रातिपदिकांशद्योत्यधर्मिरूपस्य भिन्नार्थत्वाल्लाटानुप्रासत्वमेव । "नयने तस्यैव नयने च" । अत्र द्वितीयनयनशब्दो भग्यत्त्वादिगुणविशिष्टत्वरूपतात्पर्यमात्रेण भिन्नार्थः । यथा वा "यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य" ॥ अत्रानेकपदानां पौनरुक्त्यम् । एष च प्रायेण लाटजनप्रियत्वाल्लाटानुप्रासः । ऽनुप्रासः पञ्चधा ततः ॥ १०.७ ॥ स्पष्टम् । सत्यर्थे पृथागर्थायाः स्वरव्यञ्जनसंहतेः । क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥ १०.८ ॥ अत्र द्वयोरपि पदयोः क्वचित्सार्थकत्वं, क्वचिन्निरर्थकत्वम् । क्वचिदेकस्य सार्थकत्वमपरस्य निरर्थकत्वम् । अत उक्तम्"सत्यर्थे" इति । "तेनैव क्रमेण" इति दमो मोद इत्यादेर्विविक्तविषयत्वं सूचितम् । एतच्च पादपादर्ध्दश्लोकावृत्तित्वेन पादाद्यावृत्तेश्चानेकविधतया प्रभूततमभेदम् । दिङ्मात्रमुदाह्रियते "नवपलाशपळाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत्स सुरभि सुरिभिं सुमनोभरैः" ॥ अत्र पदावृत्तिः । "पलाशपलाश" इति "सुरभिं सुरभिं" इत्यत्र च द्वयोः सार्थकत्वम् । "लतान्तलतान्त" इत्यत्र प्रथमस्य निरर्थकत्वम् । "परागपराग" इत्यत्र द्वितीयस्य । एवमन्यत्राप्युदाहार्यम् । "यमकादौ भवेदैक्यं डलोर्बवोर्लरोस्तथा" । इत्युक्तनयात्"भुजलतां जडतामबलाजनः" इत्यत्र नं यमकत्वहानिः । अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद्यदि । अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ॥ १०.९ ॥ द्विधेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च । क्रमेणोदाहरणम् "के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषाश्रयः किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो हरिः । वामा यूयमहो विडम्बरसिकः कदृक्स्मरो वर्तते येनास्मासु विवेकशून्यमनसः पुंस्वेव योषिद्रभ्रमः" ॥ अत्र विशेषपदस्य "विः पक्षी" "शेषो नागः" इत्यर्थद्वययोग्यत्वात्सभङ्गश्लेषः । अन्यत्र त्वभङ्गः । "काले कोकिलवाचाले सहकारमनोहरे । कृतागसः परित्यागात्तस्याश्चेतो न दूयते" ॥ अत्र कयाचित्सख्या निषेधार्थे नियुक्तो नञन्यथा काक्वा दूयत एवेति विध्यर्थे घटितः । शब्दैरेकविधैरेव भाषासु विविधास्वपि । वाक्यं यत्र भवेत्सोऽयं भाषासम इतीष्यते ॥ १०.१० ॥ यथा मम "मञ्जुलमणिमञ्जीरे कलगम्भीरे विहारसरसीतीरे । विरसासि केलिकीरे किमीलि ! धीरे च गन्धसारसमीरे !" ॥ एष श्लोकः संस्कृतप्राकृतशौरसेनीप्राच्यावन्तीनागरापभ्रंशेष्वेकविध एव । "सरसं कैणं कव्वम्" । इत्यादौ तु "सरसम्" इत्यत्र संस्कृतप्राकृतयोः साम्येऽपि वाक्यगतत्वाभावे वैचित्र्याभावान्नायमलङ्कारः । श्लिष्टैः पदैरनैकार्थाभिधाने श्लेष इष्यते । वर्णप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि ॥ १०.११ ॥ श्लेषाद्विभक्तिवचनभाषाणामष्टधा च सः । क्रमेणोदाहरणम् "प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्त्तुरभून्न पतिष्यतः करसहस्त्रमपि" ॥ अत्र "विधौ" इति विधुविधिशब्दयोरुकारेकारयोरौकाररूपत्वाच्छ्लेषः । "किरणा हरिणाङ्कस्य दक्षिणश्च समीरणः । कान्तोत्सङ्गजुषां नूनं सर्व एव सुधाकिरः" ॥ अत्र "सुधाकिरः" इति क्विप्कप्रत्ययोः । किं चात्र बहुवचनैकवचनयोरैकरूप्याद्वचनश्लेषोऽपि । "विकसन्नेत्रनीलाब्जे तथा तन्व्याः स्तनद्वयी । तव दत्तां सदामोदं लसत्तरलहारिणी" ॥ अत्र नपुंसकस्त्रीलिङ्गयोः श्लेषो वचनश्लेषोऽपि । "अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति । सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः" ॥ अत्र "वक्ष्यति" इति वहिवच्योः, "सामर्थ्यकृत्" इति कृन्ततिकरोत्योः प्रकृत्योः । "पृथुकार्तस्वरपात्रम्" इत्यादि । अत्र पदभङ्गे विभक्तिसमासयोरपि वैलक्षण्यात्पदश्लेषः, न तु प्रकृतिश्लेषः । एवञ्च "नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां तदीक्षणे" ॥ अत्र लुब्धशिलीमुखादिशब्दानां श्लिष्टत्वेऽपि विभक्तेकभेदात्प्रकृतिश्लेषः, अन्यथा सर्वत्र पदश्लेषप्रसङ्गः । "सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः । नयोपकारसांमुख्यमायासि तनुवर्तनम्" ॥ अत्र "हर" इति पक्षे शिवसम्बोधनमिति सुप् । पक्षे हृधातोस्तिङिति विभक्तेः । एवं "भव" इत्यादौ । अस्य च भेदस्य प्रत्ययश्लेषेणापि गतार्थत्वे प्रत्ययान्तरासाध्यसुबन्ततिङन्तगतत्वेन विच्छित्तिविशेषाश्रयणात्पृथगुक्तिः । "महदे सुरसन्धं मे तमव समासङ्गमागमाहरणे । हर बहुसरणं तं चित्तमाहेमवसर उमे सहसा" ॥ अत्र संस्कृतमहाराष्ट्रयोः । संस्कृतपैशाच्योर्यथा (ख)"कमनेकतमादानं सुरतनरजतुच्छलं तदासीनम् । अप्पतिमानं खमते सोऽगनिकानं नरं जेतुम्" ॥ कामे कृतामोदानां सुवर्णरजतोच्छलद्दासीनाम् । अप्रतिमानं क्षमते स गणिकानां न रञ्जयितुम् ॥ इति पैशाचीच्छाया । संस्कृतशूरसेन्योर्यथा (ग)"तोदीसदिगगणमदोऽकलहं स सदा बलं विदन्तरिदम् । आरदमेहावसरं सासदमारं गदा भारम्" ॥ ततो दृश्यते गगनमदः कलहंसशतावलम्बितान्तरितम् । आरतमेद्यावसरं शाश्वतमारं गतासारम्" ॥ इति शूरसेनीच्छाया । संस्कृतापभ्रंशयोर्यथा (घ)"धीरागच्छदुमे हृतमुदुद्धर वारिसदः सु । अभ्रमदप्प्रसराहरणुरविकिरणातेजः सु ॥ पुनस्त्रिधा सभङ्गोऽथाभङ्गस्तदुभयात्मकः ॥ १०.१२ ॥ एतद्भेदत्रयं चोक्तभेदाष्टके यथासम्भवं ज्ञेयम् । यथा वा "येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामरा । पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः" ॥ अत्र "येन" इत्यादौ सभ्ङ्गश्लेषः । "अन्धक" इत्यादावभङ्गः । अनयोश्चैकत्र सम्भवात्सभङ्गाभङ्गात्मको ग्रन्थगौरवभयात्पृथङ्नोदाहृतः । इह केचिदाहुः"सभङ्गश्लेष एव शब्दश्लेषविषयः । यत्रोदात्तादिस्वरभेदाद्भिन्नप्रयत्नोच्चार्यत्वेन भिन्नयोः शब्दयोर्जतुकाष्ठन्यायेन श्लेषः । अभङ्गस्त्वर्थश्लेष एव । यत्र स्वराभेदादभिन्नप्रयत्नोच्चार्यतया शब्दाभेदादर्थयोरेकवृन्तगतफलद्वयन्यायेन श्लेषः । यो हि यदाश्रितः स तदलङ्कार एव । अलङ्कार्यालङ्कारणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तिः" इति । तदन्ये न क्षमन्ते । तथाहिअत्र ध्वनिगुणीभूतव्यङ्ग्यदोषगुणालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेरन्वयव्यतिरेकानुविधायित्वेन नियमिति । न च "अन्धकक्षय" इत्यादौ शब्दाभेदः, "अर्थभेदेन शब्दभेदः" इति दर्शनात् । किं चात्र शब्दस्यैव मुख्यतया वैचित्र्यबोधोपायत्वेन कविप्रतिभयोट्टङ्कनाच्छब्दालङ्कारत्वमेव । विसदृशशब्दद्वयस्य बन्धे चेवंविधस्य वैचित्र्याभावाद्वैचित्र्यस्यैव चालङ्कारत्वात् । अर्थमुखप्रेक्षितया चार्थालङ्कारत्वेऽनुप्रासादीनामपि रसादिपरत्वेनार्थमुखप्रेक्षितयार्थालङ्कारत्वप्रसङ्गः । शब्दस्याभिन्नप्रयत्नोच्चार्यत्वेनार्थालङ्कारत्वे "प्रतिकूलतामुपगते हि विधौ" इत्यादौ शब्दभेदेऽप्यर्थालङ्कारत्वं तथापि प्रसज्यत इत्युभयत्रापि शब्दालङ्कारत्वमेव । यत्र तु शब्दपरिवर्त्तनेऽपि न श्लेषत्वखण्डना, तत्र "स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च" ॥ इत्यादावर्थश्लेषः । अस्य चालङ्कारान्तरविविक्तविषयताया असम्भवाद्विद्यमानेष्वलङ्कारान्तरेष्वपवादत्वेन तद्वाधकतया तत्प्रतिभोत्पत्तिहेतुत्वमिति केचित् । इत्थमत्र विचार्यतेसमासोक्त्यप्रस्तुतप्रशांसादौ द्वितीयार्थस्यानभिधेयतया नास्य गन्धोऽपि । "विद्वन्मानसहंस" इत्यादौ श्लेषगर्भे रूपकेऽपि मानसशब्दस्य चित्तसरोरूपोभयार्थत्वेऽपि रूपकेण श्लेषो बाध्यते । सरोरूपस्यैवार्थस्य विश्रान्तिधामतया प्राधान्यात्, श्लेषे ह्यर्थद्वयस्यापि समकक्षत्वम् । "सन्निहितबालान्धकारा भास्वन्मूर्तिश्च" इत्यादौ विरोधाभासेऽपि विरुद्धार्थस्य प्रतिभातमात्रस्य प्ररोहाभावान्न श्लेषः । एवं पुनरुक्तवदाभासेऽपि । तेन "येन ध्वस्त" इत्यादौ प्राकरणिकयोः, "नीतानाम्" इत्यादावप्रकारणिकयोरेकधर्माभिसंबन्धात्तुल्ययोगितायाम्, "स्वेच्छोपजातविषयोऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुः खम् । मोहात्समुत्क्षिपति जीवनमप्यकाण्डे कष्टं प्रसूनविशिखः प्रभुरल्पबुद्धिः" ॥ इत्यादौ च प्राकरणिकाप्राकरणिकयोरेकधर्माभिसम्बन्धाद्दीपके । "सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव" । इत्यादौ चोपमायां विद्यमानायामपि श्लेषस्यैतद्विषयपरिहारेणासंभवादेषां च शलेषविषयपरिहारेणापि स्थितेरेतद्विषये श्लेषस्य प्राधान्येन चमत्कारित्वप्रतीतेश्च श्लेषेणैव व्यपदेशो भवितुं युक्तः, अन्यथा तद्व्यापदेशस्य सर्वथा भावप्रसङ्गाच्चेति । अत्रोच्यतेन तावत्परमार्थतः श्लेषस्यालङ्कारान्तराविविक्तविषयता "येनध्वस्त" इत्यादिना विविक्तविषयत्वात् । न चात्र तुल्ययोगिता, तस्याश्च द्वयोरप्यर्थयोर्वाच्यत्वनियमाभावात् । अत्र च माधवोमाधवयोरेकस्य वाच्यत्वनियमे परस्य व्यङ्ग्यत्वं स्यात् । किञ्चतुल्ययोगितायामप्येकस्यैव धर्मस्यानेकधर्मिसंबन्धितया प्रतीतिः । इह त्वनेकेषां धर्मिणां पृथक्पृथग्धर्मसंबन्धतया । "सकलकलम्" इत्यादौ च नोपमाप्रतिभोत्पत्तिहेतुः श्लेषः । पूर्णोपमाया निर्विषयत्वापत्तेः "कमलमिव मुखं मनोज्ञमेतत्" इत्याद्यस्ति पूर्णोपमाया विषय इति चेत्? न, यदि "सकल" इत्यादौ शब्दश्लेषतया नोपमा तत्किमपराद्धं "मनोज्ञम्" इत्यादावर्थश्लेषेण । "स्फुटमर्थालङ्कारावेतावुपमासमुच्चयौ, किन्तु । आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः" ॥ इति रुद्रटोक्तदिशा गुणक्रियासाम्यवच्छब्दसाम्यस्याप्युपमाप्रयोजकत्वात् । ननु गुणक्रियासाम्यस्यैवोपमाप्रयोजकता युक्ता, तत्र साधर्म्यस्य वास्तवत्वात् । शब्दसाम्यस्य तु न तथा, तत्र साधर्म्यस्यावास्तवत्वात् । ततश्च पूर्णोपमाया अन्यथानुपपत्त्या गुणक्रियासाम्यस्यैवार्थश्लेषविषयतयाः परित्यागे पूर्णोपमाविषयता युक्ता, न तु "सकल" इत्यादौ शब्दसाम्यस्यैवेति चेत्? न"साधर्म्यमुपमा" इत्येवाविशिष्टस्योपमालक्षणस्य शब्दसाम्याद्व्यावृत्तेरभावात् । यदि च शब्दसाम्ये साधर्म्यमवास्तवत्वान्नोपमाप्रयोजकम्, तदा कथं "विद्वन्मानस" इत्यादावाधारभूते चित्तादौ सरोवराद्यारोपो राजादेहसाद्याहोपप्रयोजकः । किञ्चयदि वास्तवसाम्य एवोपमाङ्गीकार्या, तदा कथं त्वयापि "सकलकलम्" इत्यादौ बाध्यभूतोपमाङ्गीक्रियते ? किञ्च अत्र श्लेषस्यैव साम्यनिर्वाहकता, न तु साम्यस्य श्लेषनिर्वाहकता, श्लेषबन्धतः प्रथमं साम्यस्यासंभवात्, इत्युपमाया एवाङ्गित्वेन व्यपदेशो ज्यायान् "प्रधानेन हि ब्यपदेशा भवन्ति" इति न्यायात् । ननु शब्दालङ्कारविषयेऽङ्गाङ्गिभावसङ्करो नाङ्गीक्रियते तत्कथमत्र श्लेषोपमयोरङ्गाङ्गभावः सङ्कर इति चेत्? न, अर्थानुसंधानविरहिण्यनुप्रासादावेव तथानङ्गीकारात् । एवं दीपकादावपि ज्ञेयम् । "सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः । निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे" ॥ अत्र शरद्वर्णनया प्रकरणेन धार्तराष्ट्रादिशब्दानां हंसाद्यर्थाभिधाने नियमनाद्दुर्योधनादिरूपोर्ऽथः शब्दशक्तिमूलो वस्तुध्वनिः । इह च प्रकृतप्रबन्धाभिधेयस्य द्वितीयार्थस्य सूच्यतयैव विवक्षितत्वादुपमानोपमेयभावो न विवक्षित इति नोपमाध्वनिर्न वा श्लेष इति सर्वमवदातम् । पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते । आदिशब्दात्खङ्गमुरजचक्रगोमूत्रिकादयः । अस्य च तथाविधिलिपिसन्निवेशविशेषवशेन चमत्कारविधायिनामपि वर्णानां तथाविधश्रोत्राकाशसमवायवि शेषवशेन चमत्कारविधायिभिर्वर्णेरभेदेनोपचाराच्छब्दालङ्कारत्वम् । तत्र पद्मबन्धो यथा मम "मारमा सुषमा चारुरुचा मारवधूत्तमा । मात्तधूर्ततमावासा सा वामा मेऽस्तु मा रमा" ॥ एषोऽष्टदलपद्मबन्धो दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टवर्णः, किन्तु विदिग्दलेष्वन्यथा, कर्णिकाक्षरं तु श्लिष्टमेव । एवं खड्गबन्धादिकमप्यूह्यम् । काव्यान्तर्गडुभूततया तु नेह प्रपञ्च्यते । रसस्य परिपन्थित्वान्नालङ्कारः प्रहेलिका ॥ १०.१३ ॥ उक्तिवैचित्र्यमात्रं सा च्युतदत्ताक्षरादिका । च्यताक्षरा दत्ताक्षरा च्युतदत्ताक्षरा च । उदाहरणम् "कूजन्ति कोकिलाः साले यौवने फुल्लमम्बुजम् । किं करोतु कुरङ्गक्षी वदनेन निपीडिता" ॥ अत्र "रसाले" इति वक्तव्ये "साले" इति "र" च्युतः । "वने" इत्यत्र "यौवने" इति "यौ" दत्तः । "वदनेन" इत्यत्र "मदनेन" इति "म" च्युतः "व" दत्तः । आदिशब्दात्क्रियाकारकगुप्त्यादयः । तत्र क्रियागुप्तिर्यथा "पाण्डवानां सभामध्ये दुर्योधन उपागतः । तस्मै गां च सुवर्णं च सर्वाण्याभरणानि च" ॥ अत्र "दुर्योधनः" इत्यत्र "अदुर्योऽधनः" इति । "अदुः" इति क्रियागुप्तिः । एवमन्यत्रापि । अथावसरप्राप्तेष्वर्थालङ्कारेषु सादृश्यमूलेषु लक्षितव्येषु तेषामप्युपजीव्यत्वेन प्राधान्यात्प्रथममुपमामाह साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः ॥ १०.१४ ॥ रुपकादिषु साम्यस्य व्यङ्ग्यत्वम्, व्यतिरेके च वैधर्म्यस्याप्युक्तिः, उपमेयोपमायां वाक्यद्वयम्, अनन्वये त्वेकस्यैव साम्योक्तिरित्यस्या भेदः । सा पूर्णा यदि सामान्यधर्म औपम्यवाचि च । उपमेयं चोपमानं भवेद्वाच्यम् सा उपमा । साधारणधर्मो द्वयोः सादृश्यहेतू गुणक्रिये मनोज्ञत्वादि । औपम्यवाचकमिवादि । उपमेयं मुखादि । उपमानं चन्द्रादि । इयं पुनः ॥ १०.१५ ॥ श्रौती यथेववाशब्दा इवार्थो वा वतिर्यदि । आर्थो तुल्यसमानाद्यास्तुल्यार्थो तत्र वा वतिः ॥ १०.१६ ॥ यथेववादयः शब्दा उपमानानन्तरप्रयुक्ततुल्यादिपदसाधारणा अपि श्रुतिमात्रेणोपमानोपमेयगतसादृश्यलक्षणसम्बन्धं बोधयन्तीति तत्सद्भावे श्रौत्युपमा । एवं "तत्र तस्येव" इत्यनेनेवार्थो विहितस्य वतेरुपादाने । तुल्यादयस्तु"कमलेन तुल्यं मुखम्" इत्यादावुपमेय एव । "कमलं मुखस्य तुल्यम्" इत्यादावुपमान एव । "कमलं मुखं च तुल्यम्" इत्यादावभयत्रापि विश्राम्यन्तीत्यर्थानुसन्धानादेव साम्यं प्रतिपादयन्तीति तत्सद्भावे आर्थो । एवं "तेन तुल्यम्"इत्यादिना तुल्यार्थे विहितस्य वतेरुपादाने द्वे तद्धिते समासेऽथ वाक्ये द्वेश्रौती आर्थो च । उदाहरणम् "सौरभम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ । हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले !" ॥ अत्र क्रमेण त्रिविधा श्रौती । "मधुरः सुधावदधरः पल्लवतुल्योऽतिलेपवः पाणिः । चकितमृगलोचनाभ्यां सदृशी चपले च लोचने तस्याः" ॥ अत्र क्रमेण त्रिविधा आर्थो । पूर्णा षदेव तत् । स्पष्टम् । लुप्ता सामान्यधर्मादेरेकस्य यदि वा द्वयोः ॥ १०.१७ ॥ त्रयाणां वानुपादाने श्रौत्यार्थो सापि पूर्ववत् । सा लुप्ता । तद्भेदमाह पूर्णावद्धर्मलोपे सा विना श्रौतीं तु तद्धिते ॥ १०.१८ ॥ सा लुप्तोपमा धर्मस्य साधारणगुणक्रियारूपस्य लोपे पूर्णावदिति पूर्वोक्तरीत्या षट्प्रकारा, किं त्वत्र तद्धिते श्रौत्या असम्भवात्पञ्चप्रकारा । उदाहरणम् "मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये ! । वाचः सुधा इवोष्ठस्ते बिम्बतुल्यो मनोऽश्मवत्" ॥ आधरकर्मविहिते द्विविधे च क्यचि क्यङि । कर्मकर्त्रोर्णमुलि च स्यादेवं पञ्चधा पुनः ॥ १०.१९ ॥ "धर्मलोपे लुप्ता" इत्यनुषज्यते । क्यच्क्यङ्णमुलः कलापमते इनायि णमः । क्रमेणोदाहरणम् अन्तः पुरीयसि रणेषु, सुतीयसि त्वं पौरं जनं तव सदा रमणीयते श्रीः । दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्र सञ्चारमत्र भुवि सञ्चरसि क्षितीश !" ॥ अत्र "अन्तः पुरीयसि" इत्यत्र सुखविहारास्पदत्वस्य, "सुतीयसि" इत्यत्र स्नेहनिर्भरत्वस्य च साधारणधर्मस्य लोपः । एवमन्यत्र । इह च यथादिलुल्यादिविरहाच्छ्रौत्यादिविशेषचिन्ता नास्ति । इदं च केचिदौपम्यप्रतिपादकस्येवादेर्लोप उदाहरन्ति, तदयुक्तम्क्यङादेरपि तदर्थविहितत्वेनौपम्यप्रतिपादकत्वात् । ननु क्यङादिषु सम्यगौपम्यप्रतीतिर्नास्ति प्रत्ययत्वेनास्वतन्त्रत्वादिवादिप्रयोगाभावाच्चेति न वाच्यम्, कल्पबादावपि तथाप्रसङ्गात् । न च कल्पबादीनामिवादितुल्यतयौपम्यस्य वाचकत्वम्, क्यङादीनां तु द्योतकत्वम्॑ इवादीनामपि वाचकत्वे निश्चयाभावात् । वाचकत्वे वा "समुदितं पदं वाचकम्" "प्रकृतिप्रत्ययौ स्वस्वार्थबोधकौ" इति च मतद्वयेऽपि वत्यादिक्यङाद्योः साम्यमेवेति । यच्च केचिदाहुः"वत्यादय इवाद्यर्थेऽनुशिष्यन्ते, क्यङादयस्त्वाचाराद्यर्थे" इति, तदपि न ॑ न खलु क्यङादय आचारमात्रार्थाः अपि तु सादृश्याचारार्था इति । तदेवं धर्मलोपे दशप्रकारा लुप्ता । उपमानानुपादाने द्विधा वाक्यसमासयोः । उदाहरणम् "तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम् । अत्र मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः । अत्रैव च "मुखेन सदृशम्" इत्यत्र "मुखं यथेदं" नयनतुल्यम्" इत्यत्र "दृगीव" इति पाठे श्रौत्यपि संभवतीति । अनयोर्भेदयोः प्रत्येकं श्रौत्यार्थोत्वभेदेन चतुविधत्वसंभवेऽपि प्राचीनानां रीत्या द्विप्रकारत्वमेवोक्तम् । औपम्यवाचिनो लोपे समासे क्विपि च द्विधा ॥ १०.२० ॥ क्रमेणोदाहरणम् "वदनं मृगशावाक्ष्याः सुधाकरमनोहरम्" । "गर्दभति श्रुतिपरुषं व्यक्तं निनदन्महात्मनां पुरतः" । अत्र "गर्दभति" इत्यत्रौपम्यवाचिनः क्विपो लोपः । न चेहोपयमेयस्यापि लोपः, "निनदन्" इत्यनेनैव निर्देशात् । द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः । "तस्या मुखेन" इत्यादौ "रम्यम्" इति स्थाने "लोके" इति पाठेऽनयोरुदाहरणम् । क्विप्समासगता द्वेधा धर्मेवादिविलोपने ॥ १०.२१ ॥ उदाहरणम् "विधवति मुखाब्जमस्याः" अत्र "विधवति" इति मनोहरत्वक्विप्प्रत्यययोर्लोपः । "मुखाब्जम्" इति च समासगा । केचित्त्वत्रायिप्रात्ययलोपमाहुः । उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि । यथा"अरातिविक्रमालोकविकस्वरविलोचनः । कृपाणोदग्रदोर्दण्डः स सहस्त्रार्युधीयति" ॥ अत्र "सहस्त्रायुधमिवात्मानमाचरति" इति वाक्ये उपमेयस्यात्मनो लोपः । न चेहौपम्यवाचकलोपः, उक्तादेव न्यायात् । अत्र केचिदाहुः"सहस्त्रायुधेन सह वर्तत इति ससहस्त्रायुवः स इवाचरतीति वाक्यात्ससहस्त्रायुधीयतीति पदसिद्धौ विशेष्यस्य शब्दानुपात्तत्वादिहोपमेयलोपः" इति, तन्न विचारसहम् ॑ कर्तरि क्यचोऽनुशासनविरुद्धत्वात् । धर्मोपमेयलोपेऽन्या यथा"यशसि प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्वे" । अत्र क्षीरोदमिवात्मानमाचरन्तीत्युपमेय आत्मा साधारणधर्म शुक्लता च लुप्तौ । त्रिलोपे च समासगा ॥ १०.२२ ॥ यथा राजते मृगलोचना । अत्र मृगस्य लोचने इव चञ्चले लोचने यस्या इति समासे उपमाप्रतिपादकसाधारणधर्मोपमानानां लोपः । तेनोपमाया भेदाः स्युः सप्तविंशतिसंख्यकाः । पूर्णाषड्विधा, लुप्ता चैकविशतिविधेत मिलित्वा सप्तविंशतिप्रकारोपमा । एषु चोपमाभेदेषु मध्येऽलुप्तसाधारणधर्मेषु भेदेषु विशेषः प्रतिपाद्यते एकरूपः क्वचित्क्वापि भिन्नः साधारणो गुणः ॥ १०.२३ ॥ भिन्ने बिम्बानुबिम्बत्वं शब्दमात्रेण वा भिदा । तत्र एकरूपे यथा उदाहृतम्"मधुरः सुधावदधरः" इत्यादि । विम्वप्रतिविम्बत्वे यथा "भल्लापवजितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् । तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव" ॥ अत्र "श्मश्रुलैः" इत्यस्य "सरघाव्याप्तैः" इति दृष्टान्तवत्प्रतिबिम्बनम् । शब्दमात्रेण भिन्नत्वे यथा "स्मेरं विधाय नयनं विकसितमिव नीलमुत्पलं मयि सा । कथयामास कृशाङ्गी मनोगतं निखिलमाकूतम्" ॥ अत्रैके एव स्मेरत्वविकसितत्वे प्रतिवस्तूपमावच्छब्देन निर्दिष्टे । एकदेशविवर्तिन्युपमा वाच्यत्वगम्यते ॥ १०.२४ ॥ भवेतां यत्र साम्यस्य यथा"नैत्रैरिवोत्पलैः मद्मैर्मुखैरिव सरः श्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव" ॥ अत्रोत्पलादीनां नेत्रादीनां सादृश्यं वाच्यं सरः श्रीणां चाङ्गनासाम्यं गम्यम् । कथिता रसनोपमा । यथोर्ध्वमुपमेयस्य यदि स्यादुपमानता ॥ १०.२५ ॥ यथा "चन्द्रायते शुक्लरुचापि हंसो हंसायते चारुगतेन कान्ता । कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः" ॥ मालोपमा यदेकस्योपमानं बहु दृश्यते । यथा"वारिजेनेव सरसी शशिनेव निशीथिनी । यौवनेनेव वनिता नयेन श्रीर्मनोहरा" ॥ क्वचिदुपमानोपमेययोरपि प्रकृतत्वं यथा "हसश्चन्द्र इवाभाति जलं व्योमतलं यथा । विमलाः कुमुदानीव तारकाः शरदागमे" ॥ "अस्य राज्ञो गृहे भान्ति भूपानां ता विभूतयः । पुरन्दरस्य भवने कल्पवृक्षभवा इव" ॥ अत्रोपमेयभूतविभूतिभैः "कल्पवृक्षभवा इव " इत्युपमानभूता विभूतय आक्षिप्यन्त इत्याक्षेपोपमा । अत्रैव "गृहे" इत्यस्य "भवने" इत्यनेन प्रतिनिर्देशात्प्रतिनिर्देस्योपमा इत्यादयश्च न लक्षिताः, एवंविधवैचित्र्यस्य सहस्त्रधा दर्शनात् । उपमानोपमेयत्वमेकस्यैव त्वनन्वयः ॥ १०.२६ ॥ अर्थादेकवाक्ये । यथा "राजीवमिव राजीवं जलं जलमिवाजनि । चन्द्रश्चन्द्र इवातन्द्रः शरत्समुदयोद्यमे" ॥ अत्र राजीवादीनामनन्यसदृशत्वप्रतिपादनार्थमुपमानोपमेयभावो वैवक्षिकः । "राजीवमिव पाथोजम्" इति चास्य लाटानुप्रासाद्विविक्तो विषयः । किन्त्वत्रोचितत्वादेकशब्दप्रयोग एव श्रेयान् । तदुक्तम् "अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् । अस्मिंस्तु लाटानुप्रसे साक्षादेव प्रयोजकम्" ॥ इति । पर्यायेण द्वयोरेतदुपमेयोपमा मता । एतदुपमानोपमेयत्वम् । अर्थाद्वाक्यद्वये । यथा"कमलेव मतिर्मतिरिव कमला, तनुरिव विभा विभेव तनुः । धरणीव धृतिर्धृतिरिव धरणी, सततं विभाति बत यस्य" ॥ अत्रास्य राज्ञः श्रीबुद्ध्यादिसदृशं नान्यदस्तीत्यभिप्रायः । सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते ॥ १०.२७ ॥ यथा"अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम् । स्मरामि वदनं तस्याश्चारु चञ्चललोचनम्" ॥ "मयि सकपटम्"इत्यादौ च स्मृतेः सादृश्यानुभवं विनोत्थापितत्वान्नायमलङ्कारः । राघवानन्दमहापात्रास्तुवैसादृश्यात्स्मृतिमपि स्मरणालङ्कारमिच्छन्ति । तत्रोदाहरणं तेषामेव यथा "शिरीषमृद्वी गिरिषु प्रपेदे यदा यदा दुः खशतानि सीता । तदा तदास्याः सदनेषु सौख्यलक्षाणि दध्यौ गलदस्त्रु रामः" ॥ रूपकं रुपितारोपाद्वि (पो वि ) षये निरपह्नवे । "रूपितऽ इति परिणामाद्व्यवच्छेदः । एतच्च तत्प्रस्तावे विवेचयिष्यामः । "निरपह्नवे" इत्यपह्नुतिव्यवच्छेदार्थम् । तत्परम्परितं साङ्गं निरङ्गमिति च त्रिधा ॥ १०.२८ ॥ तद्रूपकम् । तत्र यत्र कस्यचिदारोपः परारोपणकारणम् । तत्परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनम् ॥ १०.२९ ॥ प्रत्येकं केवलं मालारूपं चेति चतुर्विधम् । तत्र श्लिष्टशब्दनिबन्धनं केवलपरम्परितं यथा "आहवे जगदुद्दण्ड ! राजमण्डलाराहवे । श्रीनृसिंहमहीपाल ! स्वस्त्यस्तु तव बाहवे" ॥ अत्र राजमण्डलं नृपसमूह एव चन्द्रबिम्बमित्यारोपो राजबाहौ हाहुत्वारोपे निमित्तम् । मालारूपं यथा "पद्मोदयदिनाधीशः सदागतिसमीरणः । भूभृदावलिदम्भोलिरेक एव भवान् भुवि" ॥ अत्र पद्माया उदय एव पद्मानामुदयः,सतामागतिरेव सदागमनम्, भूभृतो राजान एव पर्वता इत्याद्यारोपो राज्ञः सूर्यत्वाद्यारोपनिमित्तम् । अश्लिष्टशब्दनिबन्धनं केवलं यथा "पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः । त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः" ॥ अत्र त्रैलोक्यस्य मण्डपत्वारोपो हरिबाहूनां स्तम्भत्वारोपे निमित्तम् । मालारूपं यथा "मनोजराजस्य सितातपत्रं श्रीखण्डचित्रं हरिदङ्गनायाः । विराजते व्योमसरः सरोजं कर्पूरपूरप्रभमिन्दुबिम्बम्" ॥ अत्र मनोजादे राजत्वाद्यारोपश्चन्द्रबिम्बस्य सितातपत्रत्वाद्यारोपे निमित्तम् । "तत्र च राजभुजादीनां राहुत्वाद्यारोपो राजमण्डलादीनां चन्द्रमण्डलत्वाद्यारोपे निमित्तम्" इति केचित् । अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् ॥ १०.३० ॥ समस्तवस्तुविषयमेकदेशविवर्ति च । तत्र आरोप्याणामशेषाणां शाब्दत्वे प्रथमं मतम् ॥ १०.३१ ॥ प्रथमं समस्तवस्तुविषयम् । यथा "रावणावग्रहक्लान्तमिति वागमृतेन सः । अभिवृष्य मरुत्सस्यं कृष्णमेधस्तिरोदधे" ॥ अत्र कृष्णस्य मेघत्वारोपे वागादीनाममृतत्वादिकमारोपितम् । यत्र कस्यचिदार्थत्वमेकदेशविवर्ति तत् । कस्यचिदारोप्यमाणस्य । यथा "लावण्यमधुभैः पूर्णमास्यमस्या विकस्वरम् । लोकलोचनरोलम्बकदम्बैः कैर्न पीयते ?" ॥ अत्र लावण्यादौ मधुत्वाद्यारोपः शाब्दः, मुखस्य पद्मत्वारोप आर्थः । न चेयमेकदेशविवर्तिन्युपमा विकस्वरत्वधर्मस्यारोप्यमाणे पद्मे मुख्यतया वर्तमानात्मुखे वोपचरितत्वात् । निरङ्गं केवलस्यैव रूपणं तदपि द्विधा ॥ १०.३२ ॥ मालाकेवलरूपत्वात् तत्र मालारूपं निरङ्गं यथा "निर्माणकौशलं धातुश्चन्द्रिका लोकचक्षुषाम् । क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा" ॥ केवलं यथा "दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि ! नात्र दूये । उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रै र्यद्भिद्यते मृदु पदं ननु सा व्यथा मे" ॥ तेनाष्टौ रूपके भिदाः । "चिरन्तनैरुक्ता" इति शेषः । क्वचित्परम्परितमप्येकदेशविवर्ति यथा "खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य" ॥ अत्रार्थः क्ष्मायां महिषीत्वारोपः खड्गे सौविदल्लत्वारोपे निमित्तम् । अस्य भेदस्य पूर्ववन्मालारोपत्वेऽप्युदाहरणं मृग्यम् । दृश्यन्ते क्वचिदारोप्याः श्लिष्टाः साङ्गेऽपि रूपके ॥ १०.३३ ॥ तत्रैकदेशविवर्ति श्लिष्टं यथा मम "करमुदयमहीधरस्तनाग्रे गलिततमः पटलांशुके निवेश्य । विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः" ॥ समस्तवस्तुविषयं यथाअत्रैव "विचुम्बति" इत्यादौ "चुचुम्बे हरिदबलामुखमिन्दुनायकेन" इति पाठे । न चात्र श्लिष्टपरम्परितम् ? अत्र हि "भूबृदावलिदम्भोलिः" इत्यादौ राजादौ पर्वतत्वाद्यारोप विना वर्णनीयस्य राजादेर्दम्भोलितादिरूपणं सर्वथैव सादृश्याभावादसङ्गतम् । तर्हि कथं "पद्मोदयदिनाधीशः" इत्यादौ परम्परितम्, राजादेः सूर्यादिना सादृश्यस्य तेजस्वितादिहेतुकस्य संभवादिति न वाच्यम् । तथा हिराजादेस्तेजस्तितादिहेतुकं सुव्यक्तं सादृश्यम्, न तु प्रकृते विवक्षितम्, पद्मोदयादेरेव द्वयोः साधारणधर्मतया विवक्षितत्वात् । इह तु महीधरादेः स्तनादिना सादृश्यं पीनोतुङ्गत्वादिना सुव्यक्तमेवेति न श्लिष्टपरम्परितम् । क्वचित्समासाभावेऽपि रूपकं दृश्यते "मुखं तव कुरङ्गाक्षि ! सरोजमिति नान्यथा" । क्वचिद्वैयधिकरण्येऽपि यथा "विदधे मधुपश्रेणीमिह भ्रूलतया विधिः" । क्वचिद्वैधर्म्येऽपि यथा "सौजन्यम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा । यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम्" ॥ इदं मम । अत्र च केषाञ्चिद्रूपकाणां शब्दश्लेषमूलत्वेऽपि रूपकविशेषत्वादर्थालङ्कारमव्ये गणनम् । एवं वक्ष्यमाणालङ्कारेषु बोध्यम् । अधिकारूढवैशिष्ट्यं रूपकं यत्तदेव तत् । तदेवाधिकारूढवैशिष्ट्यसंज्ञकम् । यथा मम "इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः सुधाधाराधारश्चिरपरिणतं बिम्बमधरः । इमे नेत्रे रात्रिन्दिवमधिकशोभे कुवलये तनुर्लावण्यानां जलधिरवगाहे सुखतरः" ॥ अत्र कलङ्कराहित्यादिनाधिकं वैशिष्ट्यम् । विषयात्मतयारोप्ये प्रकृतार्थोपयोगिनि ॥ १०.३४ ॥ परिणामो भवेत्तुल्यातुल्याधिकरणो द्विधा । आरोप्यमाणस्यारोपविषयात्मतया परिणमनात्परिणामः । यथा "स्मितेनोपायनं दूरादागतस्य कृतं मम । स्तनोपपीडमाश्लेषः कृ (त) तो द्यूते पणस्तया" ॥ अन्यत्रोपायनपणो वसनाभरणादिभावेनोपयुज्येते । अत्र तु नायकसंभावनद्यूतयोः स्मिताश्लेषरूपतया । प्रथमार्द्धेवैयधिकरण्येन प्रयोगः, द्वितीये सामानाधिकरण्येन । रूपके "मुखचन्द्रं पश्यामि" इत्यादावारोप्यमाणचन्द्रादेरुपरञ्जकतामात्रम्, न तु प्रकृते दर्शनादावुपयोगः । इह तूपायनोदेर्विषयेण तादात्म्यं प्रकृते च नायकसंभावनादावुपयोगः । अत एव रूपके आरोप्यस्यावच्छेदकत्वमात्रेणान्वयः, अत्र तु तादात्म्येन । "दासे कृतागसि" इत्यादौ रूपकमेव, न तु परिणामः । आरोप्यमाणकण्टकस्य पादभेदनकार्यस्याप्रतुतत्वात् । न खलु तत्कस्यचिदपि प्रस्तुतकार्यस्य घटनार्थमनुसन्धीयते । अयमपि रूपकवदधिकारूढवैशिष्ट्यो दृश्यते । यथा "वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः" ॥ अत्र प्रदीपानामौषध्यात्मतया प्रकृते सुरतोपयोगिन्यन्धकारनाशे उपयोगोऽतलपूरत्वेनाधिकारूढवैशिष्ट्यम् । संदेहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः ॥ १०.३५ ॥ शुद्धो निश्चयगर्भोऽसौ निश्चयान्त इति त्रिधा । यत्र संशय एव पर्यवसानं स शुद्धः । यथा "किं तारुण्यतरोरियं रसभहोद्भिन्ना नवा वल्लरी वेलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः । उद्राढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः" ॥ यत्रादावन्ते च संशय एव मध्ये निश्चयः स निश्चयमध्यः । यथा "अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति पुनः समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः" ॥ अत्र मध्ये मार्तण्डाद्यभावनिश्चयः, राजनिश्चये द्वितीयसंशयोत्थानासंभवात्यत्रादौ संशयोऽन्ते च निश्चयः स निश्चयान्तः । यथा किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते तरुण्याः । संशय्य क्षणमिति निश्चिकाय कश्चिद्विब्बोकैर्वकसवासिनां परोक्षैः" ॥ अप्रतिभोत्थापिते तु "स्थाणुर्वा पुरुषो वा" इत्यादिसंशये नायमलङ्कारः । "मध्यं तव सरोजाक्षि ! पयोधरभरादितम् । अस्ति नास्तीति संदेहः कस्य चित्ते न भासते" ॥ अत्रातिशयोक्तिरेव, उपमेये उपमानसंशयस्यैवैतदलङ्कारविषयत्वात् । साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थितः ॥ १०.३६ ॥ यथा"मुग्धा दुग्धधिया गवां विदधते कुम्भानघो वल्लवाः कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि । कर्कन्धूफसमुच्चिनोति शबरी मुक्ताफलाशङ्कया सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका" ॥ अस्वरसोत्थापिता भ्रान्तिर्नायमलङ्कारः । यथा"शुक्तिकायां रजतम्" इति । न चासादृश्यमूला । यथा "संगमविरहविकल्पे वरमिह न संगमस्तस्याः । सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे" ॥ क्वचिद्भेदाद्ग्रहीतॄणां विषयाणां तथा क्वचित् । एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते ॥ १०.३७ ॥ क्रमेणोदाहरणम् "प्रिय इति गोपवधूभिः शिशुरिति वृद्धैरधीश इति देवैः । नारायण इति भक्तैर्ब्रह्मेत्यग्राहि योगिभिर्देवः" ॥ अत्रैकस्यापि भगवतस्तत्तद्गुणयोगादनेकधोल्लेखे गोपवधूप्रभृतीनां रुच्यादयो यथायोगं प्रयोजकाः । यदाहुः "यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधितः" ॥ अत्र भगवतः प्रियत्वादीनां वास्तवत्वाद्ग्रहीतृभेदाच्च न मालारूपकम्, न च भ्रान्तिमान् । न चायमभेदे भेद इत्येवंरूपातिशयोक्तिः । तथाहि"अन्यदेवाङ्गलावण्यम्" इत्यादौ लावण्यादेर्विषयस्य पृथक्त्वेनाध्यवसानम् । न चेह भगवति गोपवधूप्रभृतिभिः प्रियत्वाद्यध्यवसीयते प्रियत्वादेर्भगवति तत्काले तात्त्विकत्वात् । केचिदाहुः"अयमलङ्कारो नियमेनालङ्कारान्तरविच्छित्तिमूलः । उक्तोदाहरणे च शिशुत्वादीनां नियमनाभिप्रायात्प्रियत्वादीनां भिन्नत्वाध्यवसाय इत्यतिशयोक्तिरस्ति, तत्सद्भावेऽपि ग्रहीतृभेदेन नानात्वप्रतीतिरूपोविच्छित्ति विशेष उल्लेखाख्यभिन्नालङ्कारप्रयोजकः । श्रीकण्ठजनपदवर्णने"वज्रपञ्जरमिति शरणागतैः, अम्बरविवरमिति वातिकैः" इत्यादिश्चातिशयोक्तेर्विविक्तो विषयः । इह च रूपकालङ्कारयोगः" । वस्तुतस्तु"अम्बरविवरम्" इत्यादौ भ्रान्तिमन्तमेवेच्छन्ति न रूपकम्, भेदप्रतीतिपुरः सरस्यैवारोपस्य गौणीमूलरूपकादिप्रयोजकत्वात् । यदाहुः शरीरकमीमांसाभाष्यव्याख्याने श्रीवाचस्पतिमिश्राः"अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तते इति यत्र प्रयोक्तृप्रतिपत्रोः संप्रतिपत्तिः स गौणः, स च भेदप्रत्ययपुरः सरः" इति । इह तु वातिकानां श्रीकण्ठजनपदवर्णने भ्रान्तिकृत एवाम्बरविवराद्यारोप इति । अत्रैव च "चपोवनमिति मुनिभिः कामायतनमिति वेश्याभिः" इत्यादौ परिणामालङ्कारयोगः । "गाम्भीर्येण समुद्रोऽसि सौरवेणासि पर्वतः" । इत्यादौ चानेकधोल्लेखे गाम्भीर्यादिविषयभेदः प्रयोजकः । अत्र च रूपकयोगः । "गुरुर्वचसि, पृथुरुरसि, अर्जुनो यशसि" इत्यादिषु चास्य रूपकाद्विविक्तो विषय इति । अत्र हि श्लेषमूलातिशयोक्तियोगः । प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिः । इयं द्विधा । क्वचिदपह्नपूर्वक आरोपः, क्वचिदारोपपूर्वकोऽपह्नव इति । क्रमेणोदाहरणम् "नदं नभोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङ्गाः । नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः" ॥ "एतद्विभाति चरमाचलचूडचुम्बि हिण्डीरपिण्डरुचिशीतमरीचिबिम्बम् । उज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत्प्रकटलाञ्छनकैतवेन" ॥ इदं पद्यं मम । एवम्"विराजति व्योमवपुः पयोधिस्तारामयास्तत्र च फेनभङ्गाः" इत्याद्याकारेण च प्रकृतनिषेधो बोध्यः । गोपनीयं कलप्यर्थं द्योतयित्वा कथञ्चन ॥ १०.३८ ॥ यदि श्लेषेणान्यथा वान्यथयेत्साप्यह्नुतिः । श्लेषेण यथा "काले वारिधराणामपतितया नैव शक्यते स्थातुम् । उत्कण्ठितासि तरले ! नहि नहि सखि ! पिच्छिलः पन्थाः" ॥ अत्र "अपतितया" इत्यत्र पतिं विनेत्युक्त्वा पश्चात्पतनाभावेन इत्यन्यथा कृतम् । अश्लेषेण यथा "इह पुरोऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता । स्मरसि किं सखि ! कान्तरतोत्सवं नहि घनागमरीतिरुदाहृता" ॥ वक्रोक्तौ परोक्तेरन्यथाकारः, इह तु स्वौक्तेरेवेति भेदः । गोपनकृता गोपनीयस्यापि प्रथममभिहितत्वाच्च व्याजोक्तेः । अन्यन्निषिध्य प्रकृतस्थापनं निश्चायः पुनः ॥ १०.३९ ॥ निश्चयाख्योऽयमलङ्कारः । अन्यदित्यारोप्यमाणम् । यथा मम"वदनमिदं न सरोजं नयने नेन्दीवरे एते । इव सविधे मुग्धदृशो भ्रमर ! मुदा किं परिभ्रमसि" ॥ यथा वा "हृदि विसलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः । मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग ! क्रुधा किमु धावसि" ॥ न ह्ययं निश्चयान्तः संदेहः, तत्र संशयनिश्चययोरेकाश्रयत्वेनावस्थानात् । अत्र तु भ्रमरादेः संशयो नायकादेर्निश्चयः । किञ्च न भ्रमरादेरपि संशयः एककोट्यधिके ज्ञाने, तथा समीपागमनासंभावत् । तर्हि भ्रान्तिमानस्तु, अस्तु नाम भ्रमारादेर्भ्रान्तिः । न चेह तस्याश्चमत्कारविधायित्वम्, अपि तु तथाविधनायकाद्युक्तेरेवेति सहृदयसंवेद्यम् । किञ्चाविवक्षितेऽपिं भ्रमरादेः पतनादौ भ्रान्तौ वा नायिकाचाट्वादिरूपेणैव संभवति तथाविधोक्तिः । न च रूपकध्वनिरयम्, मुखस्य कमलत्वेनानिर्धारणात् । न चापह्नुतिः, प्रस्तुतस्यानिषेधादितिपृथगेवायमलङ्कारश्चिरन्तनोक्तालङ्कारेभ्यः । शुक्तिकायां रजतधिया पतति पुरुषे शुक्तिकेयं न रजतमिति कस्याचिदुक्तिर्नायमलङ्कारो वैचित्र्याभावात् । भवेत्संभावनोत्प्रेक्षा प्रकृतस्य परात्मना । वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ॥ १०.४० ॥ वाच्येवादिप्रयोगे स्यादप्रयोगे परा पुनः । जातिगुणः क्रिया द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि ॥ १०.४१ ॥ तदष्टधापि प्रत्येकं भावाभावाभिमानतः । गुणक्रियास्वरूपत्वान्निमित्तस्य पुनश्च ताः ॥ १०.४२ ॥ द्वात्रिंशद्विधतां यान्ति तत्र वाच्योत्प्रेक्षायामुदाहरणं दिङ्मात्रं यथा "ऊरुः कुरङ्गकदृशश्चञ्चलचेलाञ्चलो भाति । सपताकः कनकमयो विजयस्तम्भः स्मरस्येव" ॥ अत्र विजयस्तम्भस्य बहुवाचकत्वाज्जात्युप्रेक्षा । "ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव" ॥ अत्र सप्रसवत्वं गुणः । "गङ्गाम्भसि सुरत्राण ! तव निः शाननिस्वनः । स्नातीवारिधूवर्गगर्भपातनपातकी" ॥ अत्र स्नातीति क्रिया । "मुखमेणीदृशो भाति पूर्णचन्द्र इवापरः" । अत्र चन्द्र इत्येकव्यक्तिवाचकत्वाद्द्रव्यशब्दः । एते भावाभिमाने । अभावाभिमाने यथा "कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । उपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ" ॥ अत्रापश्यन्ताविति क्रियाया अभावः । एवमन्यत् । निमित्तस्य गुणक्रियारूपत्वे यथा"गङ्गम्भसि" इत्यादौ स्नातीवेत्युत्प्रेक्षानिमित्तं पातकित्वं गुणः । "अपश्यन्तौ" इत्यादौ क्षामतागमनरूपं निमित्तं क्रिया । एवमन्यत् । प्रतीयमानोत्प्रेक्षा यथा "तन्वङ्ग्याः स्तनयुग्मेन मुखं न प्रकटीकृतम् । हाराय गुणिने स्थानं न दत्तमिति लज्जया" ॥ अत्र लज्जयेवेति इवाद्यभावात्प्रतीयमानोत्प्रेक्षा । एवमन्यत् । ननु ध्वनिनिरूपणप्रस्तावेऽलङ्काराणां सर्वेषामपि व्यङ्ग्यात्वं भवतीत्युक्तम् । सम्प्रति पुनविशिष्य कथमुत्प्रेक्षायाः प्रतीयमानत्वम् ? उच्यतेव्यङ्ग्योत्प्रेक्षायाम्"महिलासहस्स" इत्यादावुत्प्रेक्षणं विनापि वाक्यविश्रान्तिः । इह तु स्तनयोर्लज्जाया असम्भवाल्लज्जयेवेत्युत्प्रेक्षयैवेति व्यङ्ग्यप्रतीयमानोत्प्रेक्षयोर्भेदः । अत्र वाच्योत्प्रेक्षायाः षोडशसु भेदेषु मध्ये विशेषमाह तत्र वाच्याभिदाः पुनः । विना द्रव्यं त्रिधा सर्वाः स्वरूपफलहेतुगाः ॥ १०.४३ ॥ यत्रोक्तेषु वाच्यप्रतीयमानोत्प्रेक्षयोर्भेदेषु मध्ये ये वाच्योत्प्रेक्षायाः षोडश भेदास्तेषु च जात्यादीनां त्रयाणां ये द्वादश भेदास्तेषां प्रत्येकं स्वरूपफलहेतुगतत्वेन द्वादशभेदतया षट्त्रिंशद्भेदाः । द्रव्यस्य स्वरूपोत्प्रेक्षणमेव सम्भवतीति चत्वार इति मिलित्वा चत्वालिंशद्भेदाः । अत्र स्वरूपोत्प्रेक्षा यथा पूर्वोदाहरणेषु "स्मारस्य विजयस्तम्भः" इति । "सप्रसवा इव" इत्यादयो जातिगुणस्वरूपगाः । फलोत्प्रेक्षा यथा "रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः । विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम्" ॥ अत्राख्यातुमिति भूप्रवेशस्य फलं क्रियारूपमुत्प्रेक्षितम् । हेतूत्प्रेक्षा यथा "सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुः खादिव बद्धमौनम्" ॥ अत्र दुः खरूपो गुणो हेतुत्वेनोत्प्रेक्षितः । एवमन्यत् । उक्त्यनुक्तयोर्निमित्तस्य द्विधा तत्र स्वरूपगाः । तेषु चत्वारिंशत्संख्याकेषु भेदेषु मध्ये ये स्वरूपगायाः षोडश भेदास्ते उत्प्रेक्षानिमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशद्भेदा इति मिलित्वा षट्पञ्चाशद्भेदा वाच्योत्प्रेक्षायाः । तत्र निमित्तस्योपादानं यथा पूर्वोदाहृते "स्नातीव" इत्युत्प्रेक्षायं निमित्तं पातकित्वमुपात्तम् । अनुपादाने यथा"चन्द्र इवापरः" इत्यत्र तथाविधसौन्दर्याद्यतिशयो नोपात्तः । हेतुफलयोस्तु नियमेन निमित्तस्योपादानमेव, तथाहि"विश्लेषदुः खादिव" इत्यत्र यन्निमित्तं बद्धमौनत्वम् "आख्यातुमिव" इत्यत्र च भूप्रवेशस्तयोरनुपादानेऽसङ्गतमेव वाक्यं स्यात् । प्रतीयमानायाः षोडशसु भेदेषु विशेषमाह प्रतीयमानाभेदाश्च प्रत्येकं फलहेतुगाः ॥ १०.४४ ॥ यथैदाहृते "नन्वङ्ग्याः स्तनयुग्मेन" इत्यत्र लज्जयेवेति हेतुरुत्प्रेक्षितः । अस्यामपि निमित्तस्यानुपादानं न सम्भवति । इवाद्यनुपादाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य प्रमातुर्निश्चेतुमशक्यत्वात् । स्वरूपोत्प्रेक्षाप्यत्र न भवति, धर्मान्तरतादात्मयनिबन्धनायामस्यामिवाद्यप्रयोगे विशेषणयोगे सत्यतिशयोक्तेरभ्युपगमात् । यथा"अयं राजापरः पाकशासनः" इति । (विशेषणाभावे च रूपकस्य, यथा"राजा पाकशासनः" इति । ) तदेवं द्वात्रिंशत्प्रकारा प्रतीयमानोत्प्रेक्षा । उक्त्यनुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा । ता उत्प्रेक्षाः । उक्तौ यथा"उरुः कुरङ्गकदृशः" इति । अनुक्तौ यथा मम प्रभावत्याम"प्रद्युम्नःिव हि सम्प्रति दिगन्तरमाच्छादयता तिमिरपटलेन घटितमिवाञ्जनपुञ्जैः पूरितमिव मृगमदक्षोदैः । ततमिव तमालतरूभिर्वृतमिव नीलांशुकैर्भुवनम्" ॥ अत्राञ्जनेन घटितत्वादेरुत्प्रेक्षणीयस्य विषयव्याप्तत्वं नोपात्तम् । यथा वा "लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः" । अत्र तमसो लेपनस्य व्यापनरूपो विषयो नोपात्तः । अञ्जनवर्षणस्य तमः सम्पातः । अनयोरुत्प्रेक्षानिमित्तं च तमसोऽतिबहुलत्वं धारारूपेणाधः संयोगश्च यथासंख्यम् । केचित्तु"अलपनकर्तृभऊतमपि तमो लेपनकर्तृत्वेनोत्प्रेक्षितं व्यापनं च निमित्तम्, एवं नभोऽपि वर्षणाक्रियाकर्तृत्वेन" इत्याहुः । अलङ्कारान्तरोत्था सा वैचित्र्यमधिकं भजेत् ॥ १०.४५ ॥ तत्र सापह्नवोत्प्रेक्षा यथा मम "अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः । अप्राप्य मानमङ्गे विगलति लावण्यवारिपूर इव" ॥ श्लेषहेतुगा यथा "मुक्तोत्करः सङ्कटशुक्तिमध्यद्विनिर्गतः सारसलोचनायाः । जानीमहेऽस्याः कमनीयकम्बुग्रीवाधिवासाद्गुणवत्त्वमाप" ॥ अत्र गुणवत्त्वे श्लेषः कम्बुग्रीवाधिवासादिवेति हेतूत्प्रेक्षाया हेतुः । अत्र "जानीमहे" इत्युत्प्रेक्षावाचकम् । एवम् मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः । क्वचिदुपमोपक्रमोत्प्रेक्षा यथा "पारेजलं नीरनिधेरपस्यन्मुरारिरानीलपलाशराशीः । वनावलीरुत्कलिकासहस्त्रप्रतिक्षणोत्कूलितशैवलाभाः" ॥ इत्यत्राभाशब्दस्योपमावाचकत्वादुपक्रमे उपमा । पर्यवसाने तु जलधितीरे शैवालस्थितेः सम्भावनानुपपत्तौ सम्भावनोत्थापनमित्युत्प्रेक्षा । एवं विरहवर्णने"केयूरायितमङ्गदैः" इत्यत्र "विकासिनीलोत्पलतिस्म कर्णे मृगायताक्ष्याः कुटिलः कटाक्षः" इत्यादौ च ज्ञेयम् । भ्रान्तिमदलङ्कारे "मुग्घा दुग्धधिया" इत्यादौ भ्रान्तानां बल्लवादीनां विषयस्य चन्द्रिकादेर्ज्ञानमेव नास्ति, तदुपनिबन्धनस्य कविनैव कृतत्वात् । इह तु संभावनाकर्तुविषयस्यापि ज्ञानमिति द्वयोर्भेदः । संदेहे तु समकक्षतया कोटिद्वयस्य प्रतीतिः, इह तूत्कटा संभाव्यभूतैककोटिः । अतिशयोक्तौ विषयिणः प्रतीतस्य पर्ववासनेऽसत्यता प्रतीयते, इह तु प्रतीतिकाल एवेति भेदः । "रञ्जिता नु विविधास्तरुशला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण" ॥ इत्यत्र यत्तर्वादौ तिमिराक्रान्तता रञ्जनादिरूपेण संदिह्यत इति संदेहालङ्कार इति केचिदाहुः, तन्नएकविषये समानबलतयानेककोटिस्फुरणस्यैव संदेहत्वात् । इह तु तर्वादिव्याप्तेः प्रतिसंबन्धिभेदो व्यापनादेर्निगरणेन रञ्जनादेः स्फुरणं च । अन्ये तु"अनेकत्वनिर्धारणरूपविच्छित्त्याश्रयत्वेनैककोट्यधिकेऽपि भिन्नोऽयं संदेहप्रकारः" इति वदन्ति स्म॑ तदप्ययुक्तम्निगीर्णस्वरूपस्यान्यतादात्म्यप्रतीतिहि संभावना, तस्याश्चात्र स्फुटतया सद्भावात्नुशब्देन चेवशब्दवत्तस्याद्योतनादुत्प्रेक्षैवेयं भवितुं युक्ता, अलमदृष्टसंदहप्रकारकल्पनया । "यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा । अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्" ॥ इत्यत्र "भन्ये" शब्दप्रयोगेऽप्युक्तरूपायाः सम्भावनाया अप्रतीतेवितर्कमात्रं नासावपह्नवोत्प्रेक्षा । सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर्निगद्यते । विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः । अस्य चोत्प्रेक्षायां विषयिणोऽनिश्चितत्वेन निर्देशात्साध्यत्वम्, इह तु निश्चितत्वेनैव प्रतीतिरिति सिद्धत्वम् । विषयनिगरणं चोत्प्रेक्षायां विषयस्याधः करणमात्रेण, इहापि मुखं द्वितीयश्चन्द्र इत्यादौ । यदाहुः "विषयस्यानुपादानेऽप्युपादानेऽपि सूरयः । अधः करणमात्रेण निगीर्णत्वं प्रचक्षते" ॥ इति । भेदेऽप्यभेदः सम्बन्धेऽसम्बन्धस्तद्विपर्ययौ ॥ १०.४६ ॥ पौर्वापर्यात्ययः कार्यहेत्वोः सा पञ्चधा ततः । तद्विपर्ययौ अभेदे भेदः, असम्बन्धे सम्बन्धः । सा अतिशयोक्तिः । अत्र भेदेऽभेदो यथा मम "कथमुपरि कलापिनः कलापो विलसति तस्य तलेऽष्टमीन्दुखण्डम् । कुवलययुगलं ततो विलोलं तिलकुसुमं तदधः प्रवालमस्मात्" ॥ अत्र कान्ताकेशपाशादेर्मयूरकलापादिभिरभेदेनाध्यवसायः । यथा वा"विश्लेषदुः खादिव बद्धमौनम्" । अत्र चेतनगतमौनित्वमन्यत्, अचेतनगतं चान्यदिति द्वयोर्भेदेऽप्यभेदः । एवम् "सहाधरदलेनास्य यौवने रागभाक्प्रियः" । अत्राधरस्य रागो लौहित्यम्, प्रियस्य रागः प्रेम, द्वयोरभेदः । अभेदे भेदो यथा "अन्यदेवाङ्गलावण्यमन्याः सौरभसम्पदः । तस्याः पद्मपलाशाक्ष्याः सरसत्वमलौकिकम्" ॥ सम्बन्धेऽसम्बन्धो यथा "अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वय नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः" ॥ अत्र पुराणप्रजापतिनिर्माणसम्बन्धेऽप्यसम्बन्धः । असम्बन्धे सम्बन्धो यथा "यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरद्वयम् । तदोपमीयते तस्या वदनं चारुलोचनम्" ॥ अत्र यद्यर्थबलादाहृतेन सम्बन्धेन सम्भावनया सम्बन्धः । कार्यकारणयोः पौर्वापर्यविपर्ययश्च द्विधा भवति । कारणात्प्रथमं कार्यस्य भावे द्वयोः समकालत्वेच । क्रमेण यथा "प्रागेव हरिणाक्षीणां चित्तमुत्कलिकाकुलम् । पश्चादुद्भिन्नबकुलरसालमुकुलश्रियः" ॥ "सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यं मण्डलं च कहीक्षिताम्" ॥ इह केचिदाहुःकेशपाशादिगतो लौकिकोऽतिशयोऽलौकिकत्वेनाध्यवसीयते । केशपाशादीनां कलापादिभिरध्यवसाये "अन्यदेवाङ्गलावण्यम्" इत्यादिप्रकारेष्वव्याप्तिर्लक्षणस्य" इति । तन्न,तत्रापि ह्यन्यदङ्गलावण्यमन्यत्वेनाध्यवसीयते । तथाहि "अन्यदेव" इति स्थाने "अन्यदिव" इति पाठेऽध्यवसायस्यासाध्यत्वमेवेत्युत्प्रेक्षाङ्गीक्रियते । "प्रगेव हरिणाक्षीणाम्" इत्यत्र बकुलादीश्रीणां प्रथमभावितापि पश्चाद्भावित्वेनाध्यवसिता, अत एवात्रापीवशब्दयोगे उत्प्रेक्षा एवमन्यत्र । पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् ॥ १०.४७ ॥ एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता । अन्येषामप्रस्तुतानाम् । धर्मो गुणक्रियारूपः । उदाहरणम् "अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपदशाः । समयेन तेन सुचिरं शयित प्रतिबोधितस्मरमबोधिषत" ॥ अत्र सन्ध्यावर्णनस्य प्रस्तुतत्वात्प्रस्तुतानामनुलेपनादीनामेकबोधनक्रियाभिसम्बन्धः । "तदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कठोरता" ॥ इत्यत्र मालत्यादीनामप्रस्तुतानां कठोरतारूपैकगुणसम्बन्धः । एवम् "दानं वित्तादृतं वाचः कीर्त्तिधर्मौ तथायुषः । परोपकारणं कायादसारात्सारमाहरेत्" ॥ अत्र दानादीनां कर्मभूतानां सारतारूपैकगुणसम्बन्ध एकाहरणक्रियासम्बन्धः । अप्रस्तुतप्रस्तुतयोर्देपकं तु निगद्यते ॥ १०.४८ ॥ अथ कारकमेकं स्यादनेकासु क्रियासु चेत् । क्रमेणोदाहरणम् "बलावलेपादधुनापि पूर्ववत्प्रबाध्यते तेन जगज्जिगीषुणा । सतीव योषित्प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि" ॥ अत्र प्रस्तुतायाः सुनिश्चलायाः प्रकृतेरप्रस्तुतायाश्च योषित एकानुगमनक्रियासम्बन्धः । "दूरं समागतवति त्वयि जीवनाथे भिन्ना मनोभवशरेण तपस्विनी सा । उत्तिष्ठति स्वपिति वासगृह त्वदीय मायाति याति हसति श्वसिति क्षणेन" ॥ इदं मम । अत्रैकस्या नायिकाया उत्थानाद्यनेकक्रियासम्बन्धः । अत्र च गुणक्रिययोरादिमध्यावसानसद्भावेन त्रैविध्यं न लक्षितम्, तथाविधवैचित्र्यस्य सर्वत्रापि सहस्त्रधासम्भवात् । प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः ॥ १०.४९ ॥ एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् । यथा "धन्यासि वैदभि ! गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि । इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति" ॥ अत्र समाकर्षणमुत्तरलीकरणं च क्रियैकैव पौनरुक्त्यनिरासाय भिन्नवाचकतया निदिष्ट । इयञ्च मालयापि दृश्यते यथा "विमल एव रविर्विशदः शशी प्रकृतिशोभन एव हि दर्ण्णः । शिवगिरिः शिवहाससहोदरः सहजसुन्दर एव हि सज्जनः" ॥ अत्र विमलविशदादिरर्थत एव । वैधर्म्येण यथा "चकोर्य एव चतुराश्चन्द्रिकापानकर्मणि । विनावन्तीर्न निपुणाः सुदृशो रतनर्मणि" ॥ दृष्टन्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम् ॥ १०.५० ॥ सधर्मस्येति प्रतिवस्तूपमाव्यवच्छेदः ! अयमपि साधर्म्यवैधर्म्याभ्यां द्विधा । क्रमेणोदाहरणम् "अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् । अनधिगतपरिमलापि हि हरति दृशं मालतीमाला" ॥ "त्वयि दृष्टे कुरङ्गाक्ष्याः स्त्रंसते मदनव्यथा । दृष्टानुदयभाजीन्दौ ग्लानिः कुमुदसंहतेः" ॥ "वसन्तलेखैकनिबद्धभावं परासु कान्तासु मनः कुतो नः । प्रफुल्लमल्लीमधुलम्पटः किं मधुव्रतः काङ्क्षति वल्लिमन्याम्" ॥ इदं पद्यं मम । अत्र "मनः कुतो नः" इत्यस्य "काङ्क्षति वल्लिमन्याम्" इत्यस्य चैकरूपतयैव वर्यवसानात्प्रतिवस्तूपमैव । इह तु कर्णे मधुधारावमनस्य नेत्रहरणस्य च साम्यमेव, न त्वैकरूप्यम् । अत्र समर्थ्यसमर्थकवाक्ययोः सामान्यविशेषभावोर्ऽथन्तरन्यासः, प्रतिवस्तूपमादृष्टान्तयोस्तु न तथेति भेदः । सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वापि कुत्रचित् । यत्र बिम्बानुबिम्बत्वं बोधयेत्सा निदर्शना ॥ १०.५१ ॥ तत्र सम्भवद्वस्तुसम्बन्धनिदर्शना यथा "कोऽत्र भूमिवलये जनान्मुधा तापयन् सुचिरमेति सम्पदम् । वेदयन्निति दिनेन भानुमानाससाद चरमाचलं ततः" ॥ अत्र रवेरीदृशार्थवेदनक्रियायां वक्तृत्वेनान्वयः सम्भवत्येव । ईदृशार्थज्ञापनसमर्थचरमाचलप्राप्तिरूपधर्मवत्वात् । स च रवेरस्ताचलगमनस्य परितापिनां विपत्प्राप्तेश्च बिम्बप्रतिबिम्बभावं बोधयति । असम्भवद्वस्तुनिदर्शना त्वेकवाक्यानेकवाक्यगतत्वेन द्विविधा । तत्रैकवाक्यगा यथा "कलयति कुवलयमालाललितं कुटिलः कटाक्षविक्षेपः । अधरः किसलयलीलामाननमस्याः कलानिधेविलासम्" ॥ अत्रान्यस्य धर्मं कथमन्यो वहत्विति कटाक्षविक्षेपादीनां कुवलयमालादिगतललितादीनां कलनमसम्भवात्तल्ललितादिसदृशं ललितादिकमवगमयत्कटाक्षविक्षेपादेः कुवलयमालादेश्च बिम्बप्रतिबिम्बभावं बोधयति । यथा वा "प्रयाणे तव राजेन्द्र ! मुक्ता वैरिमृगीदृशाम् । राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः" ॥ अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्थागोऽनुपपन्न इति तयोस्तत्सम्बन्धः कल्प्यते, स चासम्भवन् राजहंसगतिमिव गतिं बोधयति । अनेकवाक्यगा यथा "इदं किलाव्याजमनोहरं वपुस्तपः क्लपं साधयितुं य इच्छति । ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति" ॥ अत्र चच्छब्दनिर्दिष्टवाक्यार्थयोरभेदेनान्वयोऽनुपपद्यमानस्तादृशवपुषस्तपः क्लमत्वसाधनेच्छा नीलोत्पलपत्नधारया शमीलताछेदनेच्छेवेति बिम्बप्रतिबिम्बभावे पर्यवस्यति । यथा "जन्मेदं वन्ध्यतां नीतं भवभोगोपलिप्सया । काचमूल्येन विक्रीतो हन्त ! चिन्तामणिर्मया" ॥ अत्र भवभोगलोभेन जन्मनो व्यर्थतानयनं काचमूल्येन चिन्तामणिविक्रय इवेति पर्यवसानम् । एवम् "क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्" ॥ अत्र मन्मत्या सूर्यवंशवर्णनमुडुपेन सागरतरणमिवेति पर्यवसानम् । इयं च क्वचिदुपमेयवृत्तस्योपमानेऽसम्भवेऽपि भवति । यथा "योऽनुभूतः कुरङ्गाक्ष्यास्तस्या मधुरिमाधरे । समास्वादि स मृद्वीकारसे रसविशारदैः" ॥ अत्र प्रकृतस्याधरस्य मधुरिमधर्मस्य द्राक्षारसेऽसम्भवात्पूर्ववत्साम्ये पर्यवसानम् । मालारूपापि यथा मम "क्षिपसि शुकं वृषदंशकवदने मृगमर्पयसि मृगादनरदने । वितरसि तुरगं महिषविषाणे निदधच्चेतो भोगविताने" ॥ इह विम्बप्रतिबम्बताक्षेपं विना वाक्यार्थापर्यवसानम् । दृष्टान्ते तु पर्यवसितेन वाक्यार्थेन सामर्थ्याद्विम्बप्रतिविम्बताप्रत्यायनम् । नापीयमर्थापत्तिः, तत्र "हारोऽयं हरिणाक्षीणाम्" इत्यादौ सादृश्यपर्यवसानाभावात् । आदिक्यमुपमेयस्योपमानान्न्यूनताथवा । व्यतिरेकः स च एक उक्तेऽनुक्ते हेतौ पुनस्त्रिधा ॥ १०.५२ ॥ चतुर्विधोऽपि साम्यस्य बोधनाच्छब्दतोर्ऽथतः । आक्षेपाच्च द्वादशधा श्लेषेऽपीति त्रिरष्टधा ॥ १०.५३ ॥ प्रत्येकं स्यान्मिलित्वाष्टचत्वारिंशद्विधः पुनः । उपमेयस्योपमानादाधिक्ये हेतुरुपमेयगतमुत्कर्षकारणमुपमानगतं निकर्षकारणं च । तयोर्द्वयोरप्युक्तावेकः, प्रत्येकं समुदायेन वानुक्तौ त्रिविध इति चतुविधेऽप्यस्मिन्नुपमानोपमेयत्वस्य निवेदनं शब्देन अर्थेन आक्षेपेण चेति द्वादशप्रकारोऽपि श्लेषे, "अपि" शब्दादश्लेषेऽपीति चतुर्विंशतिप्रकारः । उपमानान्न्यूनतायामप्यनयैव भङ्ग्या चतुर्विंशतिप्रकारतेति मिलित्वा अष्टचत्वारिंशत्प्रकारो व्यतिरेकः । उदाहरणम् "अकलङ्कं मुखं तस्या न कलङ्की विधुर्यथा" । अत्रोपमेयगतमकलङ्कत्वमुपमानगतं च कलङ्कित्वं हेतुद्वयमप्युक्तम्, यथाशब्दप्रतिपादनाच्च शाब्दमौपम्यम् । अत्रैव "न कलङ्किविधूपमम्" इति पाठे आर्थम् । "जयतीन्दुं कलङ्किनम्" इति पाठे त्विववत्तुल्यादिपदविरहादाक्षिप्तम् । अत्रैवाकलङ्कपदत्यागे उपमेयतोत्कर्षकारणानुक्तिः । कलङ्किपदत्यागे चोपमानगतनिकर्षकारणानुक्तिः । द्वयोरनुक्तौ द्वयोरनुक्तिः । श्लेषे यथा "अतिगाढगुणायाश्च नाब्जवद्भङ्गुरा गुणाः" । अत्रेवार्थे वतिरिति शाब्दमौपम्यम् । उत्कर्षनिकर्षकारणयोर्द्वयोरप्युक्तिः । गुणशब्दः श्लिष्टः । अन्ये भेदाः पूर्ववदूह्याः । एतानि चोपमेयस्योपमानादाधिक्य उदारणानि । न्यूनत्वे दिङ्मात्रं यथा "क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम् । विरम प्रसीद सुन्दरि ! यौवनमनिवर्ति यातं तु" ॥ अत्रोपमेयभूतयोवनास्थैर्यस्याधिक्यम् । तेनात्र "उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः" इति केषांचिल्लक्षणे "विपर्यये वेतिपदमनर्थकम्" इति यत्केचिदाहुः । तन्न विचारसहम् । तथाहिअत्राधिकन्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते । अत्र च चन्द्रापेक्षया यौवनस्यासत्त्वं स्फुटमेव । अस्तु वात्रोदाहरणे यथाकथंचिद्रतिः । "हनूमदाद्यैर्यशसा मया पुनद्विषां हसैर्दूतपथः सितीकृतः" । इत्यादिषु का गतिरिति सुष्ठूक्तं "न्यूनताथवा" इति । सहार्थस्य बलादेकं यत्र स्याद्वाचकं द्वयोः ॥ १०.५४ ॥ सा सहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत् । अतिशयोक्तिरप्यत्राभेदाध्यवसायमूला कार्यकारणपौर्वापर्यविपर्ययरूपा च । अभेदाध्यवसायमूलापि श्लेषभित्तिकान्यथा च । क्रमेणोदाहरम् "सहाधरदलेनास्या यौवने रागभाक्प्रियः" । अत्र रागपदे श्लेषः । "सह कुमुदकदम्बैः कालमुल्लासयन्तः सह घनतिमिरौघैर्धैर्यमुत्सारयन्तः । सह सरसिजषण्डैः स्वान्तमामीलयन्तः प्रतिदिशममृतांशोरंशवः सञ्चरन्ति" ॥ इदं मम । अत्रोल्लासादीनां संबन्धिभेदादेव भेदः, न तु श्लिष्टतया । "सममेव नराधिपेन सा गुरुसंमोहविलुप्तचेतना । अगमत्सह तैलबिन्दुना ननु दीपार्चिरिव क्षितेस्तलम्" ॥ इयं च मालयापि संभवति । यथोदाहृते "सह कुमुदकदम्बैः" इत्यादौ । "लक्ष्मणेन समं रामः काननं गहनं ययौ" । इत्यादौ चातिशयोक्तिमूलाभावान्नायमलङ्कारः । विनोक्तिर्यद्विनान्येन नासाध्वन्यदसाधु वा ॥ १०.५५ ॥ नासाधु अशोभनं न भवति । एवं च यद्यपि शोभनत्व एव पर्यवसानं तथाप्यशोभनत्वाभावमुखेन शोभनवचनस्यायमभिप्रायो यत्कस्यचिद्वर्णनीयस्याशोभनत्वं तत्परसन्निधेरेव दोषः । तस्या पुनः स्वभावतः शोभनत्वमेवेति । यथा"विना जलदकालेन चन्द्रो निस्तन्द्रतां गतः । विना ग्रीष्मोष्मणा मञ्जुर्वनराजिरजायत" ॥ "असाध्वशोभनं यथा "अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतम् । का दिनश्रीर्विनार्केण का निशा शशिना विना" ॥ "निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन" ॥ अत्र परस्पराविनोक्तिभङ्ग्या चकत्कारातिशयः । विनाशब्दप्रयोगाभावेऽपि विनार्थविवक्षायं विनोक्तिरेवेयम् । एवं सहोक्तिरपि सहशब्दप्रयोगाभावेऽपि सहार्थविवक्षायां भवतीति बोध्यम् । समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः । व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः ॥ १०.५६ ॥ अत्र समेन कार्येण प्रस्तुतेऽप्रस्तुतव्यवहारसमारोपः । यथा "व्याधूय यद्वसनमम्बुजलोचनाया वक्षोजयोः कनककुम्भविलासभाजोः । आलिङ्गसि प्रसभमङ्गमशेषमस्या धन्यस्त्वमेव मलयाचलगन्धवाह !" ॥ अत्र गन्धवाहे हठकामुकव्यवहारसमारोपः । लिङ्गसाम्येन यथा "असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः । अनाक्रम्य जगत्कृत्स्नं नो सन्ध्यां भजते रविः" ॥ अत्र पुंस्त्रीलिङ्गमात्रेण रविसन्ध्ययोर्नायकनायिकाव्यवहारः । विशेषणसाम्यं तु श्लिष्टतया, साधारण्येन, औपम्यगर्भत्वेन च त्रिधा । श्लिष्टतया यथा मम "विकसितमुखीं रागासङ्गाद्रलत्तिमिरावृतिं दिनकरकरस्पृष्टामैन्द्रीं निरीक्ष्य दिशं पुरः । जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः श्रयति हरितं हन्त ! प्राचेतसीं तुहिनद्युतिः" ॥ अत्र मुखरागादिशब्दानां श्लिष्टता । अत्रैव हि "तिमिरावृतिम्" इत्यत्र "तिमिराशुकम्" इति पाठे एतदेशस्य रूपणेऽपि समासोक्तिरेव, न त्वेकदेशविवर्ति रूपकम्, तत्र हि तिमिरांशुकयो रूप्यरूपकभावो द्वयोरावरकत्वेन स्फुटसादृश्यतया परसाचिव्यमनपेक्ष्यापि स्वमात्रविश्रान्त इति न समासोक्तिबुद्धिं व्याहन्तुमीशः । यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटं तत्रैकदेशान्तररूपणं विना तदसङ्गतं स्यादित्यशाब्दमप्येकदेशान्तररूपणमार्थमपेक्षत एवेति तत्रैकदेशविवर्तिरूपकमेव । यथा "जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलअम् । रगसंमुही वि सहसा परम्मुही होइ रिउसेणा" ॥ अत्र रणान्तः पुरयोः सादृश्यमस्फुटमेव । क्वचिच्च यत्र स्फुटसादृश्यानामपि बहूनां रूपणं शाब्दमेकदेशस्य चार्थं तत्रैकदेशविवर्ति रूपकमेव । रूपकप्रतीतेर्व्यापितया समासोक्तिप्रतीतितिरोधायकत्वात् । नन्वस्ति रणान्तः पुरयोरपि सुखसंचारतया स्फुटं सादृश्यमिति चेत्? सत्यमुक्तम् ॑ अस्त्येव किंतु वाक्यार्थपर्यालोचनसापेक्षम्, न खलु निरपेक्षम्, मुखचन्द्रादेर्मनोहरत्वादिवद्रणान्तः पुरयोः स्वतः सुखसञ्चारत्वाभावात् । साधरण्येन यथा "निसर्गसौरभोद्भ्रान्तभृङ्गसंगीतशालिनी । उदिते वासराधीशे स्मेराजनि सरोजिनी" ॥ अत्र निसर्गेत्यादिविशेषणसाम्यात्सरोजिन्यां नायिकाव्यवहारप्रतीतौ स्त्रीमात्रगामिनः स्मेरत्वधर्मस्य समारोपः कारणम् । तेन विना विशेषणसाम्यमात्रेण नायिकाव्यवहारप्रतीतेरसम्भवात् । औपम्यगर्भत्वं पुनस्त्रिधा सम्भवति, उपमारूपसङ्करगर्भत्वात् । तत्रोपमागर्भत्वे यथा "अदन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी । केशपाशालिवृन्देन सुवेषा हरिणेक्षणा" ॥ अत्र सुवेषत्ववशात्प्रथमं दन्तप्रभाः पुष्पाणीवेत्युपमागर्भत्वेन समासः । अनन्तरं च दन्तप्रभासदृशैः पुष्पैश्चितेत्यादिसमासान्तराश्रयेण समानविशेषणमहात्म्याद्धरिणेक्षणायां लताव्यवहारप्रतीतिः । रूपकगर्भत्वे यथा"लावण्यमधुभिः पूर्णम्" इत्यादि । सङ्करगर्भत्वे यथा"दन्तप्रभापुष्प" इत्यादि । "सुवेषा" इत्यत्र "परीता" इति पाठे ह्युपमारूपकसाधकाभावात्सङ्करसमाश्रयणम् । समासान्तरं पूर्ववत् । समासान्तरमहिम्ना लताप्रतीतिः । एषु च यषां मते उपमासङ्करयोरेकदेशविवर्तिता नास्ति तन्मते आद्यतृतीययोः समासोक्तिः । द्वितीयस्तु प्रकार एकदेशविर्विंतरूपकविषय एव । पर्यालोचने त्वाद्ये प्रकारे एवदेशविवर्तिन्युपमैवाङ्गीकर्तुमुचिता । अन्यथा "ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् । प्रमोदयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार" ॥ इत्यत्र कथं शरदि नायिकाव्यवहारप्रतीतिः, नायिकापयोधरेणार्द्रनखक्षताभशक्रचापधारणासम्भवात् । ननु "आर्द्रनखक्षताभम्" इत्यत्र स्थितमप्युपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि सञ्चारणीयम् । यथा"दध्ना जुहोति" इत्यादौ हवनस्यान्यथासिद्धेर्दध्नि सञ्चार्यते विधिः । एवञ्चेन्द्रचापाभमार्द्रनखक्षतं दधानेति प्रतीतिर्भविष्यतीति चेत्? न, एवंविधनिर्वाहे कष्टसृष्टिकल्पनादेकदेशविवर्त्युपमाङ्गीकारस्यैव ज्यायस्त्वात् । अस्तु वात्र यथाकथञ्चित्समासोक्तिः । "नेत्रैरिवोत्पलैः पद्मैः" इत्यादौ चान्यगत्यसम्भवात् । किं चोपमायां व्यवहारप्रतीतेरभावात्कथं तदुपजीविकायाः समासोक्तेः प्रवेशः । यदाहुः "व्यवहारोऽथवा तत्त्वमौपम्ये यत्प्रतीयते । तन्नौपम्यं समासोक्तिरेकदेशोपमा स्फुटा" ॥ एवञ्चोपमारूपकयोरेकदेशविवर्तिताङ्गीकारे तन्मूलसङ्करेऽपि समासोक्तेरप्रवेशो न्यायसिद्ध एव, तेनौपम्यगर्भविशेषणोत्थापितत्वं नास्या विषय इति विशेषणसाम्ये श्लिष्टवेशेषणोत्थापिता साधारणविशेषणोत्थापिता चेति द्विधा । कार्यलिङ्गयोस्तुल्यत्वे च द्विविधेति चतुः प्रकारा समासोक्तिः । सर्वत्रैवात्र व्यवहारसमारोपः कारणम् । स च क्वचिल्लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः, शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः, शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा । तत्र लौकिकवस्त्वपि रसादिभेदादनेकविधम् । शास्त्रीयमपि तर्कायुर्वेदज्योतिः शास्त्रप्रसिद्धतयोति बहुप्रकारा समासोक्तिः । दिङ्मात्रं यथा"व्याधूय यद्वसनम्" इत्यादौ लौकिके वस्तुनि लौकिकस्य हठकामुकव्यवहारादेः समारोपः । "यैरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्भिरव्ययमसंख्यतया प्रवृत्तम् । लोपः कृतः किल परत्वजुषो विभक्ते स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये" ॥ अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुव्यवहारसमारोपः । एवमन्यत्र । रूपकेऽप्रकृतमात्मस्वरूपसन्निवेशेन प्रकृतस्य रूपमवच्छादयति । इह तु स्वावस्थासमारोपेणावच्छादितस्वरूपमेव तं पूर्वावस्थातो विशेषयति । अत एवात्र व्यवहारसमारोपो न तु स्वरूपसमारोप इत्याहुः । उपमाध्वनौ श्लेषे च विशेष्यस्यापि साम्यम्, इह तु विशेषणमात्रस्य । अप्रस्तुतप्रशंसायां प्रस्तुतस्य गम्यत्वम्, इह त्वप्रस्तुतस्येति भेदः । उक्तैर्विशेषणैः साभिप्रायैः परिकरो मतः । यथा "अङ्गराज ! सेनापते ! द्रोणोपहासिन् ! कर्ण !, रक्षैनं भीमाद्दुः शानम् !" शब्दैः स्वभावादेकार्थैः श्लेषोऽनेकार्थवाचनम् ॥ १०.५७ ॥ "स्वभावादेकार्थैः" इति शब्दश्लेषाद्व्यवच्छेदः । "वाचनम्" इति च ध्वनेः । उदाहरणम् "प्रवर्तयन् क्रियाः साध्वीर्मालिन्यं हरिता हरन् । महसा भूयसा दीप्तो विराजति विभाकरः" ॥ अत्र प्रकरणादिनियमाभावाद्द्वावपि राजसूर्यौ वाच्यौ । क्वचिद्विशेषः सामान्यात्सामान्यं वा विशेषतः । कार्यान्निमित्तं कार्यं च हेतोरथ समात्समम् ॥ १०.५८ ॥ अप्रस्तुतात्प्रस्तुतं चेद्गम्यते पञ्चधा ततः । अप्रस्तुतप्रशंसा स्याद् क्रमेणोदाहरणम् "पादाहतं यदुत्थाय मूर्धानमधिरोहति । स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः" ॥ अत्रास्मदपेक्षया रजोऽपि वरमिति विशेषे प्रस्तुते सामान्यमभिहितम् । "स्त्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् । विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया" ॥ अत्रेश्वरेच्छया क्वचिदहितकारिणोऽपि हितकारित्वं हितकारिणोऽप्यहितकारित्वमिति सामान्ये प्रस्तुते विशेषोऽभिहितः । एवञ्चात्राप्रस्तुतप्रशंसामूलोर्ऽथान्तरन्यासः । दृष्टान्ते प्रख्यातमेव वस्तु प्रतिबिम्बत्वेनोपादीयते, इह तु विषामृतयोरमृतविषीभावस्याप्रसिद्धेर्न तस्य सद्भावः । "इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव, प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा । कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त ! शिखिनां बर्हाः सहर्हा इव" ॥ अत्र सम्भाव्यमानेभ्य इन्द्रादिगताञ्जनलिप्तत्वादिभ्यः कार्येभ्यो वदनादिगतसौन्दर्यविशेषरूपं प्रस्तुतं कारणं प्रतीयते । गच्छामीति यथोक्तया मृगदृशा निः श्वासमुद्रेकिणं त्यक्त्वा तिर्यगवेक्ष्य बाष्पकलुषेनैकेन मां चक्षुषा । अद्य प्रेम मदर्पितं प्रियसखीवृन्दे त्वया बध्यता मित्थं स्नेहविवर्धितो मृगशिशुः सोत्प्रासमाभाषितः" ॥ अत्र कस्यचिदगमनरूपे कार्ये कारणमभिहितम् । तुल्ये प्रस्तुते तुल्याभिधाने च द्विधा श्लेषमूला सादृश्यमात्रमूला च । श्लेषमूलापि समासोक्तिवद्विशेषणमात्रस्य श्लेषे श्लेषवद्विशेष्यस्यापि श्लेषे भवतीति द्विधा । क्रमेण यथा "सहकारः सदामोदो वसन्तश्रीसमन्वितः । समुज्ज्वलरुचिः श्रीमान् प्रभूतोत्कलिकाकुलः" ॥ अत्र विशेषणमात्रश्लेषवशादप्रस्तुतात्सहकारात्कस्यचित्प्रस्तुतस्य नायकस्य प्रतीतिः । "पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयने न महानपि स्यातभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक्प्रकटिता पुरुषोत्तमेन" ॥ अत्र पुरुषोत्तमपदेन विशेष्येणापि श्लिष्टेन प्रचुरप्रसिद्ध्या प्रथमं विष्णुरेव बोध्यते । तेन वर्णनीयः कश्चित्पुरुषः प्रतीयते । सादृश्यमात्रमूला यथा "एकः कपोतपोतः शतशः श्येनाः क्षुधाभिधावन्ति । अम्बरमावृतिशून्यं हरहर शरणं विधेः करुणा" ॥ अत्र कपोतादप्रतुस्तात्कश्चित्प्रस्तुतः प्रतीयते । इयं च क्वचिद्वैधर्म्येणापि भवति । "धन्याः खलु वने वाताः कह्लारस्पर्शशीतलाः । राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः" ॥ अत्र वाता धन्या अहमधन्य इति वैधर्म्येण प्रस्तुतः प्रतीयते । वाच्यस्य सम्भवासम्भवोभयरूपतया त्रिप्रकारेयम् । तत्र सम्भवे उक्तोदाहरणान्येव । असम्भवे यथा "कोकिलोऽहं भवान् काकः समानः कालिमावयोः । अन्तरं कथयिष्यन्ति काकलीकोविदाः पुनः" ॥ अत्र काककोकिलयोर्वाकोवाक्यं प्रस्तुतस्याध्यारोपणं विनासम्भवि । उभयरूपत्वे यथा "अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः । कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः" ॥ अत्र प्रस्तुतस्य कस्यचिदध्यारोपणं विना कमलनालान्तश्छिद्राणां गुणभङ्गुरीकरणे हेतुत्वमसम्भवि । अन्येषां तु सम्भवीत्युभयरूपत्वम् । अस्याश्च समासोक्तिवद्व्यवहारसमारोपप्राणत्वाच्छब्दशक्तिमूलाद्वस्तुध्वनेर्भेदः । उपमाध्वनावप्रस्तुतस्य व्यङ्ग्यत्वम् । एवं समासोक्तावपि । श्लेषे तु द्वयोरपि वाच्यत्वम् । उक्ता व्याजस्तुतिः पुनः ॥ १०.५९ ॥ निन्दास्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुतिनिन्दयोः । निन्दया स्तुतेर्गम्यत्वे व्याजेन स्तुतिरिति व्युत्पत्त्या व्याजस्तुतिः । स्तुत्या निन्दाया गम्यत्वे व्याजरूपा स्तुतिः । क्रमेण यथा "स्तनयुगमुक्ताभरणाः कण्टककलिताङ्गयष्टयो देव ! । त्वयि कुपितेऽपि प्रागिव विश्वस्ता द्विट्स्त्रियो जाताः" ॥ इदं मम ॥ "व्याजस्तुतिस्तव पयोद ! मयोदितेयं यज्जीवनाय जगतस्तव जीवनानि । स्तोत्रं तु ते महदिदं घन ! धर्मराज साहय्यमर्जयसि यत्पथिकान्निहत्य" ॥ पर्यायोक्तं यदा भङ्ग्या गम्यमेवाभिधीयते ॥ १०.६० ॥ उदाहरणम् "स्पृष्टास्ता नन्दने शच्याः केशसम्भोगलालिताः । सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः" ॥ अत्र हयग्रीवेण स्वर्गो विजित इति प्रस्तुतमेव गम्यं कारणं वैचित्र्यविशेषप्रतिपत्तये सैन्यस्य पारिजातमञ्जरीसावज्ञस्पर्शनरूपकार्यद्वारेणाभिहितम् । न चेदं कार्यात्कारणप्रतीतिरूपाप्रस्तुतप्रशंसा, तत्र कार्यस्याप्रस्तुतत्वात्॑ इह तु वर्णनीयस्य प्रभावातिशयबोधकत्वेन कार्यमिति कारणवत्प्रस्तुतम् । एवञ् "अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान् स्तनेषु । प्रत्यापताः शत्रुविलासिनीनामाक्षेपसूत्रेण विनैव हाराः" ॥ अत्र वर्णनीयस्य राज्ञो गम्यभूतशत्रुमारणरूपकारणवत्कार्यभूतं तथाविधशत्रुस्त्रीक्रन्दनजलमपि प्रभावातिशयबोधकत्वेन वर्णनार्हमिति पर्यायोक्तमेव । "राजन् राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते । इत्थं राजशुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा च्चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते" ॥ अत्र प्रस्थानेद्यतं भवन्तं श्रुत्वा सहसैवारयः पलायिता इति कारणं प्रस्तुतम् । "कार्यमपि वर्णनार्हत्वेन प्रस्तुतम्" इति केचित् । अन्ये तु"राजशुकवृत्तान्तेन कोऽपि प्रस्तुतप्रभावो बोध्यत इत्यप्रस्तुतप्रशंसैव" इत्याहः, सामान्यं वा विशेषण विशेषस्तेन वा यदि । कार्यं च कारणेनेदं कार्येण च समर्थ्यते ॥ १०.६१ ॥ साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः । क्रमेणोदाहरणम् "बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति । सम्भूयाम्भोधिमभ्येति महानद्या नगापगा" ॥ अत्र द्वितीयार्धगतेन विशेषरूपेणार्थेन प्रथमार्धगतः सामान्योर्ऽथः सोपपत्तिकः क्रियते । "यावदर्थपदां वाचमेवमादाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः" ॥ "पृथ्वि ! स्थिरा भव भुजङ्गम् ! धारयैनां त्वं कूर्मराज ! तदिदं द्वितयं दधीथाः । दिक्कुञ्जराः ! कुरुत तत्नितये दिधीर्षां आर्यः करोति हरकार्मुकमाततज्यम्" ॥ अत्र कारणभूतं हरकार्मुकाततज्यीकरणं पृथिवीस्थैर्यादेः कार्यस्य समर्थकम् । "सहसा विदधीत न क्रियाम्" इत्यादौ सम्पद्वरणं कार्यं सहसा विधानाभावस्य विमृश्यकारित्वरूपस्य कारणस्य समर्थकम् । एतानि साधर्म्य उदाहरणानि । वैधर्म्ये यथा "इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् । शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः" ॥ अत्र सामान्यं विशेषस्य समर्थकम् । "सहसा विदधीत" इत्यत्र सहसा विधानाभावस्यापत्प्रदत्वं विरुद्धं कार्यं समर्थकम् । एवमन्यत् । हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते ॥ १०.६२ ॥ तत्र वाक्यार्थता यथा "यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये ! तव मुखच्छायानुकारी शशी । येऽपि त्वद्रमनानुकारिगतयस्ते राजहंसा गता स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते" ॥ अत्र चतुर्थपादे पादत्रयवाक्यानि हेतवः । पदार्थता यथा मम "त्वद्वजिराजिनिर्धूतधूलीपटलपङ्किलाम् । न धत्ते शिरसा गङ्गां भूरिभारभिया हरः" ॥ अत्र द्वितीयार्धे प्रथमार्धमेकपदं हेतुः । अनेकपदं यथा मम "पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम् । देव ! त्रिपथगात्मानं गोपयत्युग्रमूर्धनि" ॥ इह केचिद्वाक्यार्थगतेन काव्यलिङ्गेनैव गतार्थतया कार्यकारणभावेर्ऽथान्तरन्यासं नाद्रियन्ते । तदयुक्तम्, तथा ह्यत्र हेतुस्त्रिधा भवतिज्ञापको निष्पादकः समर्थकश्चेति । तत्र ज्ञापकोऽनुमानस्य विषयः, निष्पादकः काव्यलिङ्गस्य, समर्थकोर्ऽथान्तरन्यासस्य, इति पृथगेव कार्यकारणभावेर्ऽथान्तरन्यासः काव्यलिङ्गीत् । तथाहि"यत्त्वन्नेत्र" इत्यादौ चतुर्थपादवाक्यम्, अन्यथा साकाङ्क्षतयासमञ्जसमेव स्यातिति पादत्रयगतवाक्यं निष्पादकत्वेनापेक्षते । "सहसा विदधीत" इत्यादौ तु "परापकारनिरतैदुर्जनैः सह सङ्गतिः । वदामि भवतस्तत्त्वं न विधेया कदाचन" ॥ इत्यादिवदुपदेशमात्रेणापि निराकाङ्क्षतया स्वतोऽपि गतार्थं सहसा विधानाभावं सम्पद्वरणं सोपपत्तिकमेव करोतीति पृथगेव कार्यकारणभावेर्ऽथान्तरन्यासः काव्यलिङ्गात् । "न धत्ते शिरसा गङ्गां भूरिभारभिया हरः । त्वद्वाजिराजिनिर्धूतधूलिभिः पङ्किला हि सा" ॥ इत्यत्र हिशब्दोपादानेन पङ्किलत्वादितिवद्धेतुत्वस्य स्फुटतया नायमलङ्कारः, वैचित्र्यस्यैवालङ्कारत्वात् । अनुमानं तु विच्छित्त्या ज्ञानं साध्यस्य साधनात् । यथा "जानीमहेऽस्या हृदि सारसाक्ष्या विराजतेऽन्तः प्रियवक्त्रचन्द्रः । तत्कान्तिजालैः प्रसृतैस्तदङ्गेष्वापाण्डुता कुड्मलताक्षिपद्मे" ॥ अत्र रूपकवशाद्विच्छित्तिः । यथा वा "यत्र पतत्यबलानां दृष्टिर्निशिताः पतन्ति तत्र शराः । तच्चापरोपितशरो धावत्यासां पुरः स्मरो मन्ये" ॥ अत्र कविप्रौढोक्तिवशाद्विच्छित्तिः । उत्प्रेक्षायामनश्चिततया प्रतीतिः, इह तु निश्चिततयेत्युभयोर्भेदः । अभेदेनाभिधा हेतुर्हेतोर्हेतुमता सह ॥ १०.६३ ॥ यथा मम"तारुण्यस्य विलासः" इत्यत्र वशीकरणहेतुर्नायिकावशीकरणत्वेनोक्ता, विलासहासयोस्त्वध्यवसायमूलोऽयमङ्कारः । अनुकूलं प्रातिकूल्यमनुकूलानुबन्धि चेत् । यथा"कुपितासि यदा तन्वि ! निधाय करजक्षतम् । बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा" ॥ अस्य च विच्छित्तिविशेषस्य सर्वालङ्कारविलक्षणत्वेन स्फुरणात्पृथगलङ्कारत्वमेव न्याय्यम् । वस्तुनो वक्तुमिष्टस्य विशेषप्रतिपत्तये ॥ १०.६४ ॥ निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा । तत्र वक्ष्यमाणविषये क्वचित्सर्वस्यापि सामान्यतः सूचितस्य निषेधः क्वचिदंशोक्तावंशान्तरे निषध इति द्वौ भेदौ । उक्तविषये च क्वचिद्वस्तुस्वरूपस्य निषेधः, क्वचिद्वस्तुकथनस्येति द्वौ, इत्याक्षेपस्य चत्वारो भेदाः । क्रमेण यथा "स्मरशरशतविधुराया भणामि संख्याः कृते किमपि । क्षणमिह विश्रम्य सखे ! निर्दयहृदयस्य किं वदाम्यथवा" ॥ अत्र सख्या विरहस्य सामान्यतः सूचितस्य वक्ष्यमाणविषये निषेधः । "तव विरहे हरिणाक्षी निरीक्ष्य नवमालिकां दलिताम् । हन्त ! नितान्तमिदानीमाः किं हतजल्पितैरथवा" ॥ अत्र मरिष्यतीत्यंशो नोक्तः । "बालअ ! णाहं दूती तुअ पिओसि त्ति ण मह वावारो । सा मरै तुज्भ्क्त अअसो एत्नं धम्मक्खरं भणिमो" ॥ अत्र दूतीत्वस्य वस्तुनो निषेधः । "विरहे तव तन्वङ्गी कथं क्षपयतु क्षपाम् । दारुणव्यवसायस्य पुरस्ते भणितेन किम् ?" ॥ अत्र कथनस्योक्तस्यैव निषेधः । प्रथमोदाहरणे संख्या अवश्यम्भाविमरणमिति विशेषः प्रतीयते । द्वितीयेऽशक्यवक्तव्यत्वादि, तृतीये दूतीत्वे यथार्थवादित्वम्, चतुर्थे दुः खस्यातिशयः । न चायं विहितनिषेधः, अत्र निषेधस्याभासत्वात् । अनिष्टस्य तथार्थस्य विध्याभासः परो मतः ॥ १०.६५ ॥ तथेति पूर्ववद्विशेषप्रतिपत्तये । यथा "गच्छ गच्छसि चेत्कान्त ! पन्थानः सन्तु ते शिवाः । ममापि. जन्म तत्रैव भूयाद्यत्र गतो भवान्" ॥ अत्रानिष्टत्वाद्रमनस्य विधिः प्रस्खलद्रूपो निषेधे पर्यवस्यति । विशेषश्च गमनस्यात्यन्तपरिहार्यत्वरूपः प्रतीयते । विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते । उक्तानुक्तनिमित्तत्वाद्द्विधा सा परिकीर्तिता ॥ १०.६६ ॥ विना कारणमुपनिबध्यमानोऽपि कार्योदयः किञ्चिदन्यत्कारणमपेक्ष्यैव भवितुं युक्तः । तच्च कारणान्तरं क्वचिदुक्तं क्वचिदनुक्तमिति द्विधा । यथा "अनायासकृशं मध्यमशङ्कतरले दृशौ । अभूषणमनोहारि वपुर्वयसि सुभ्रुवः" ॥ अत्र वयोरूपनिमित्तमुक्तम् । अत्रैव "वपुर्भाति मृगीदृशः" इति पाठेऽनुक्तम् सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा । तथेत्युक्तानुक्तनिमित्तत्वात् । तत्रोक्तनिमित्ता यथा "धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः । प्रभवोऽप्यप्रमत्तास्ते महामहिमशालिनः" ॥ अत्र महामहिमशालित्वं निमित्तमुक्तम् । अत्रैव चतुर्थपादे "कियन्तः सन्ति भूतले" इति पाठे त्वनुक्तम् । अचिन्त्यनिमित्तत्वं चानुक्तनिमित्तस्यैव भेद इति पृथङ्नोक्तम् । यथा "स एकस्त्री४णि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शम्भुना न हृतं बलम्" ॥ अत्र तनुहरणेनापि बलाहरणे निमित्तमचिन्त्यम् । इह च कार्याभावः कार्यविरुद्धसद्भावमुखेनापि निबद्ध्यते । विभावनायामपि कारणाभावः कारणविरुद्धसद्भावमुखेन । एवञ्च "यः कौमारहरः" इत्यादेरुकण्ठाकारणविरुद्धस्य निबन्धनाद्विभावना । "यः कौमार" इत्यादेः कारणस्य च कार्यविरुद्धाया उत्कण्ठाया निबन्धनाद्विशेषोक्तिः, एवं चात्र विभावनाविशेषोक्त्योः सङ्करः । शुद्धोदाहरणं तु मृग्यम् । जातिश्चतुर्भिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः ॥ १०.६७ ॥ क्रिया क्रियाद्रव्याभ्यां यद्द्रव्यं द्रव्येण वा मिथः । विरुद्धमिव भासेत विरोधोऽसौ दशाकृतिः ॥ १०.६८ ॥ क्रमेण यथा "तव विरहे मलयमरुद्दवानलः शशिरुचोऽपि सोष्माणः । हृदयमलिरुतमपि भिन्ते नलिनीदलमपि निदाघरविरस्याः" ॥ "सन्ततमुसलासङ्गाद्वहुतरगृहकर्मघटनया नृपते ! । द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः" ॥ "अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव" ॥ "वल्लभोत्सङ्गसङ्गेन विना हरिणचक्षुषः । राकाविभावरीजानिर्विषज्वालाकुलोऽभवत्" ॥ नयनयुगासेचनकं मानसवृत्तयापि दुष्प्रापम् । रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे ॥ "त्वद्वाजि" इत्यादि । "वल्लभोत्सङ्गऽइत्यादिश्लोके चतुर्थपादे "मध्यन्दिनदिनाधिपः" इति पाठे द्रव्ययोर्विरोधः । अत्र "तव विरह" इत्यादौ पवनादीनां बहुव्यक्तिवाचकत्वाज्जातिशब्दानां दवानलोष्महृदयभेदनसूर्यैर्जातिगुणक्रियाद्रव्यरूपैरन्योन्यं विरोधो मुखत आभासते, विरहहेतुकत्वात्समाधानम् । "अजस्य" इत्यादावजत्वादिगुणस्य जन्मप्रहणादिक्रियया विरोधः, भगवतः प्रभावस्यातिशायित्वात्तु समाधानम् । "त्वद्वाजि" इत्यादौ "हरोऽपि शिरसा गङ्गां न धत्ते" इति विरोधः, "त्वद्वाजि" इत्यादिकविप्रौढोक्त्या तु समाधानम् । स्पष्टमन्यत् । विभावनायां कारणाभावेनोपनिबध्यमानत्वात्कार्यमेव बाध्यत्वेन प्रतीयते, विशोषोक्तौ च कार्याभावेन कारणमेव॑ इह त्वन्योन्यं द्वयोरपि बाध्यत्वमिति भेदः । कार्यकारणयोर्भिन्नदेशतायामसङ्गतिः । यथा "सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातरा सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम्" ॥ अस्याश्चापवादकत्वादेकदेशस्थयोर्विरोधे विरोधालङ्कारः । गुणौ क्रिये वा चेत्स्यातां विरुद्धे हेतुकार्ययोः ॥ १०.६९ ॥ यद्वरब्धस्य वैफल्यनर्थस्य च सम्भवः । विरूपयोः संघटना या च तद्विषमं मतम् ॥ १०.७० ॥ क्रमेण यथा "सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा । तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभारणं प्रसूते" ॥ अत्र कारणरूपासिलतायाः "कारणगुणा हि कार्यगुणमारभन्ते" इति स्थतेर्विरुद्धा शुक्लयशस उत्पत्तिः । "आनन्दममन्दमिमं कुवलयदललोचने ! ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे" ॥ अत्रानन्दजनकस्त्रीरूपकारणात्तापजनकविरहोत्पत्तिः । "अयं रत्नाकरोऽम्भोधिरित्यसेवि धनाशया । धनं दूरेऽस्तु वदनमपूरि क्षारवारिभैः" ॥ अत्र केवलं काङ्क्षितधनलाभो नाभूत्, प्रत्यत क्षारवारिभिर्वदनपूरणम् । "क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता । नियतं प्रतिकूलवतिनो बत धातुश्चरितं सुदुः सहम्" ॥ अत्र वनराज्यश्रियोर्विरूपयोः संघटना । इदं मम । यथा वा "विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा" ॥ समं स्यादानुरूप्येण श्लाघा योग्यस्य वस्तुनः । यथा शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा । इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विबव्रुः" ॥ विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् ॥ १०.७१ ॥ यथा "प्रणमत्युन्नतिहेतोर्जोवितहेतोर्विमुञ्चति प्राणान् । दुः खीयति सुखहेतोः को मूढः सेवकादन्यः" ॥ आश्रयाश्रयिणोरेकस्याधिक्येऽधिकमुच्यते । आश्रयाधिक्ये यथा "किमधिकमस्य ब्रूमो महिमानं वारिघेर्हरिर्यत्र । अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि" ॥ आश्रिताधिक्ये यथा "युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः" ॥ अन्योन्यमुभयोरेकक्रियायाः कारणं मिथः ॥ १०.७२ ॥ "त्वया सा शोभते तन्वी तया त्वमपि शोभसे । रजन्या शोभते चन्द्रश्चन्द्रेणापि निशीथिनी" ॥ यदाधेयमनाधारमेकं चानेकगोचरम् । किञ्चित्प्रकुर्वतः कार्यमशक्यस्येतरस्य वा ॥ १०.७३ ॥ कार्यस्य करणं दैवाद्विशेषस्त्रिविधस्ततः । क्रमेण यथा "दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः" ॥ "कानने सरिदुद्देशे गिरीणामपि कन्दरे । पश्यन्त्यन्तकसङ्काशं त्वामेकं रिपवः पुरः" ॥ "गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्" ॥ व्याघातः स तु केनापि वस्तु येन यथाकृतम् ॥ १०.७४ ॥ तेनैव चेदुपायेन कुरुतेऽन्यस्तदन्यथा । यथा"दृशा दग्धं मनसिजम्" इत्यादि । सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि ॥ १०.७५ ॥ व्याघात इत्येव । "इहैव त्वं तिष्ठ द्रुतमहमहोभिः कतिपयैः समागन्ता कान्ते ! मृदुरसि न चायाससहना । मृदुत्वं मे हेतुः सुभग ! भवता गन्तुमधिकं न मृद्वी सोढा यद्विरहकृतमायासमसमम्" ॥ अत्र नायकेन नायिकाया मृदुत्वं सहगमनाभावहेतुत्वेनोक्तम् । नायिकया च प्रत्युत सहगमने ततोऽपि सौकर्येण हेतुतयोपन्यस्तम् । परं परं प्रति यदा पूर्वपूर्वस्य हेतुता । तदा कारणमाला स्यात् यथा "श्रुतं कृतधियां सङ्गाज्जायते विनयः श्रुतात् । लोकानुरागो विनयान्न किं लोकानुरागतः" ॥ तन्मालादीपकं पुनः ॥ १०.७६ ॥ धर्मिणामेकधर्मेण सम्बन्धो यद्यथोत्तरम् । यथा "त्वयि सङ्गरसम्प्राप्ते धनुषासादिताः शराः । शरैररिशिरस्तेन भूस्तया त्वं त्वया यशः" ॥ अत्रासादनक्रिया धर्मः । पूर्वं पूर्वं प्रति विशेषणत्वेन परं परम् ॥ १०.७७ ॥ स्थाप्यतेऽपोह्यते वा चेत्स्यात्तदैकावली द्विधा । क्रमेणोदाहरणम् "सरो विकसिताम्भोजमम्भोजं भृङ्गसङ्गतम् । भृङ्गा यत्र ससङ्गीताः सङ्गीतं सस्मरोदयम्" ॥ "न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् ॥ न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः" ॥ कचिद्विशेष्यमपि यथोत्तरं विशेषणतया स्थापितमपोहितं च दृश्यते । यथा "वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वापीषु । कमलेषु पतन्त्यलयः करोति सङ्गीतमलिषु पदम्" ॥ एवमपोहनेऽपि । उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते ॥ १०.७८ ॥ यथा"राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम्" ॥ यथासंख्यमूद्देश उद्दिष्टानां क्रमेण यत् । यथा "उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु क्रीडाकाननमाविशन्ति वलयक्वाणैः समुत्नासय । इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठेषु साङ्केतिक व्याहाराः सुभग ! त्वदीयविरहे तस्याः सखीनां मिथः" ॥ क्वचिदेकमनेकस्मिन्ननेकं चैकगं क्रमात् ॥ १०.७९ ॥ भवति क्रियते वा चेत्तदा पर्याय इष्यते । क्रमेण यथा "स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे क्रमेण नाभिं प्रथमोदबिन्धवः" ॥ "विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः । वृककाकशिवास्तत्र धावन्त्यरिपुरे तव" ॥ "विसृष्टरागादधारान्निवर्तितः स्तनाङ्गरागादरुणाच्च कन्दुकात् । कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः" ॥ "ययोरारोपितस्तारो हारस्तेऽरिवधूजनैः" ॥ निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुविन्दवः" ॥ एषु च क्वचिदाधारः संहतरूपोऽसंहतरूपश्च । क्वाचिदाधेयमपि । यथा "स्थिताः क्षणम्" इत्यत्रोदबिन्दवः पक्ष्मादावसंहतरूप आधारे क्रमेणाभवन् । "विचरन्ति" इत्यत्राधेयभूता वृकादयः संहतरूपारिपुरे क्रमेणाभवन् । एवमन्यत् । अत्र चैकस्यानेकत्र क्रमेणैव वृत्तेविशेषालङ्काराद्भेदः । विनिमयाभावात्परिवृत्तेः । परिवृत्तिविंनिमयः समन्यूनाधिकैर्भवेत् ॥ १०.८० ॥ क्रमेणोदाहरणम् "दत्त्वा कटाक्षमेणाक्षी जग्रह हृदयं मम । मया तु हृदयं दत्त्वा गृहीतो मदनज्वरः" ॥ अत्र प्रथमेर्ऽधे समेन, द्वितीयेर्ऽधे न्यूनेन । "तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यतेऽधुना । येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः" ॥ अत्रादिक्येन । प्रश्नादप्रश्नतो वापि कथिताद्वस्तुनो भवेत् । तादृगन्यव्यपोहश्चेच्छाब्द आर्थोऽथवा तदा ॥ १०.८१ ॥ परिसंख्या क्रमेणोदाहरणम् "किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः । किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम्" ॥ अत्र व्यवच्छेद्यं रत्नादि शाब्दम् । "किमाराध्यं सदा पुण्यं कश्च सेव्यः सदागमः । को ध्येयो भगवान् विष्णुः किं काम्यं परमं पदम्" ॥ अत्र व्यवच्छेद्यं पापाद्यार्थम् । अनयोः प्रश्नपूर्वकत्वम् । अप्रश्नपूर्वकत्वे यथा "भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे । चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम्" ॥ "बलमार्तभयोपशान्तये विदुषां संमतये बहु श्रुतम् । वसु तस्य न केवलं विभोर्गुणवत्तापि परप्रयोजनम्" ॥ श्लेषमूलत्वे चास्य वैचित्र्यविशेषो यथा "यस्मिंश्च राजनि "जितजगति पालयति महीं चित्रकर्मसु वर्णसङ्करश्चापेषु गुणच्छेदः" इत्यादि । उत्तरं प्रश्नस्योत्तरादुन्नयो यदि । यच्चासकृदसंभाव्यं सत्यपि प्रश्न उत्तरम् ॥ १०.८२ ॥ यथा मम "वीभितुं न क्षमा श्वश्रूः स्वामी दूरतरं गतः । अहमेकाकिनी बाला तवेह वसतिः कुतः" ॥ अनेन पथिकस्य वसतियाचनं प्रतीयते । "का विसमा देव्यगई किं लद्धव्वं जणो गुणग्गाही । कि सोक्खं सुकलत्तं किं दुग्गोज्भ्क्तं खलो लोओ" ॥ अत्रान्यव्यपोहे तात्पर्याभावात्परिसंख्यातो भेदः । न चेदमनुमानम्, साध्यसाधनयोर्द्वयोनिर्देश एव तस्याङ्गीकारात् । न च काव्यलिङ्गम्, उत्तरस्य प्रश्नं प्रत्यजनकत्वात् । दण्डापूपिकयान्यार्थागमोर्ऽथापत्तिरष्यते । "मूषिकेण दण्डो भक्षित" इत्यनेन तत्सहचरितमपूपभक्षणमर्थादायातं भवतीति नियतसमानन्यायादर्थान्तरमापततीत्येष न्यायो दण्डापूपिका । अत्र च क्वचित्प्राकरणिकादर्थादप्राकरणिकस्यार्थस्यापतनं क्वचिदप्राकरणिकार्थत्प्राकरणिकार्थस्येति द्वौ भेदौ । क्रमेणोदाहरणम् "हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः" ॥ "विललाप स बाष्पगद्रदं सहजामप्यपहाय धीरताम् । अतितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिणाम्" ॥ अत्र च समानन्यायस्य श्लेषमूलत्वे वैचित्र्यविशेषो यथोदाहृते"हारोऽयम्" इत्यादौ न चेदमनुमानम्, समानन्यायस्य सम्बन्धरूपत्वाभावात् । विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयु(य) तः ॥ १०.८३ ॥ यथा"नमयन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियन्तामाज्ञा मौर्व्यो वा" । अत्र शिरसां धनुषां च नमनयोः सन्धिविग्रहोपलक्षणत्वात्सन्धिविग्रहयोश्चैकदा कर्तुमशक्यत्वाद्विरोधः, स चैकपक्षाश्रयणपर्यवसानः । तुल्यबलत्वं चात्र धनुः शिरोनमनयोर्दूयोरपि स्पर्धया सम्भाव्यमानत्वात् । चातुर्यं चात्रौपम्यगर्भत्वेन । एवं "कर्णपूरीक्रियन्ताम्" इत्यत्रापि एवं "युष्माकं कुरुतां भवातिशमनं नेत्रे तनुर्वा हरेः" । अत्र श्लेषावष्टम्भेन चारुत्वम् । "दीयतामजितं वित्तं देवाय ब्राह्मणाय वा" । इत्यत्र चातुर्याभावान्नायमलङ्कारः । समुच्चयोऽयमेकस्मिन् सति कार्यस्य साधके । खलेकपोतिकान्यायात्तत्करः स्यात्परोऽपि चेत् ॥ १०.८४ ॥ गुणौ क्रिये वा युगपत्स्यातां यद्वा गुणक्रिये । यथा मम "हंहो धीरसमिर ! हन्त जननं ते चन्दनक्ष्माभृतो दाक्षिण्यं जगदुत्तरं परिचयो गोदावरीवारिभिः । प्रत्यङ्गं दहसीति मे त्वमपि चेदुद्दामदावाग्निव न्मत्तोयं मलिनात्मको वनचरः किं वक्ष्यते कोकिलः" ॥ अत्र दाहे एकस्मिंश्चन्दनक्ष्माभृज्जन्मरूपे कारणे सत्यपि दाक्षिण्यादीनां हेत्वन्तराणामुपादानम् । अत्र सर्वेषामपि हेतूनां शोभनत्वात्सद्योगः । अत्रैव चतुर्थपादे मत्तादीनामशोभनानां योगादसद्योगः । सदसद्योगो यथा "शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभूर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गनगतः खलो मनसि सप्त शल्यानि मे" ॥ इह केचिदाहुः"शशिप्रभृतीनां शोभनत्वं खलस्याशोभनत्वं चेति सदसद्योगः" इति अन्ये तु"शशिप्रभृतीनां स्वतः शोभनत्वं धूसरत्वादीनां त्वशोभनत्वमिति सदसद्योगः" । अत्र हि शशिप्रभृतिषु धूसरत्वादेरत्यन्तचितत्वमिति विच्छित्तिविशेषस्यैव चमत्कारविधायित्वम् । "मनसि सप्तशल्यानि मे" इति सप्तानामपि शल्यत्वेनोपसंहारश्च । "नृपाङ्गनगतः खल" इति तु क्रमभेदाद्दुष्टत्वमावहति सर्वत्र विशेष्यस्यैव शोभनत्वेन प्रक्रमादिति । इह च खलेकपोतवत्सर्वेषां कारणानां साहित्येनावतारः । समाध्यलङ्कारे त्वेककार्यं प्रति साधके समग्रेऽप्यन्यस्य काकतालीयन्यायेनापतनमिति भेदः । "अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् । मुखमानतं च सखि ते ज्वलितश्चास्यान्तरे स्मरज्वलनः" ॥ अत्राद्येर्ऽथे गुणयोर्यौगपद्यम्, द्वितीये क्रिययोः । उभयोर्यौगपद्ये यथा "कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चश्रुः । पतितं च महीपतीन्द्र ! तेषां वपुषि प्रस्फुटमापदां कटाक्षैः" ॥ "धुनोति चासिं तनुते च कीर्तिम्" । इत्यादावेकाधिकरणेऽप्येष दृश्यते । न चात्र दीपकम्, एते हि गुणक्रियायौगपद्ये समुच्चयप्रकारा नियमेन कार्यकारणकालनियमविपर्ययरूपातिशयोक्तिमूलाः, दीपकस्य चातिशयोक्तिमूलत्वाभावः । समाधिः सुकरे कार्ये दैवाद्वस्त्वन्तरागमात् ॥ १०.८५ ॥ यथा"मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम्" ॥ प्रत्यनीकमशक्तेन प्रतीकारे रिपोर्यदि । तदीयस्य तिरस्कारस्तस्यैवोत्कर्षसाधकः ॥ १०.८६ ॥ तस्यैवेति रिपोरेव । यथा मम "मध्येन तनुमध्या मे मध्यं जितवतीत्ययम् । इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभो हरिः" ॥ प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् । निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ॥ १०.८७ ॥ क्रमेण यथा "यत्त्वन्नेत्रसमानकान्तिसलिले मग्नं तदिन्दीवरम्" । इत्यादि । "तद्वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद्द्युतिः॑ तच्चक्षुर्यदि हारितं कुवलयैस्तच्चेत्स्मितं का सुधा ? । धिक्कन्दर्पधनुर्भ्रुवौ यदि च ते किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः" ॥ अत्र वक्त्रादिभिरेव चन्द्रादीनां शोभातिवहनात्तेषां निष्फलत्वम् । उक्त्वा चात्यन्तमुत्कर्षमत्युत्कृष्टस्य वस्तुनः । कल्पितेऽप्युपमानत्वे प्रतीपं केचिदूचिरे ॥ १०.८८ ॥ यथा "अहमेव गुरुः सुदारुणानामिति हालाहल ! तात ! मा स्म दृप्यः । ननु सन्ति भवादृशानि भुवनेऽस्मिन् वचनानि दुर्जनानाम्" ॥ अत्र प्रथमपादेनोत्कर्षातिशय उक्तः । तदनुक्तौ तु नायमलङ्कारः । यथा "ब्रह्मेव ब्राह्मणो वदति" इत्यादि । मीलितं वस्तुनो गुप्तिः केनचित्तुल्यलक्ष्मणा । अत्र समानलक्षणं वस्तु क्वचिदागन्तुकम् । क्रमेण यथा "लक्ष्मीवक्षोजकस्तूरीलक्ष्म वक्षः स्थले हरेः । ग्रस्तं नालक्षि भारत्या भासा नीलोत्पलाभया" ॥ अत्र भगवतः श्यामा कान्तिः सहजा । "सदैव शोणोपलकुण्डलस्य यस्यां मयूखैररुणीकृतानि । कोपोपरक्तान्यपि कामिनीनां मुखानि शङ्कां विदधुर्न यूनाम्" ॥ अत्र माणिक्यकुण्डलस्यारुणिमा मेखे आगन्तुकः । सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः ॥ १०.८९ ॥ यथा"मल्लिकाचितधम्मिल्लाश्चारुचन्दनचचिताः । अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसारिकाः" ॥ मीलिते उत्कृष्टगुणेन निकृश्टगुणस्य तिरोधानम्, इह तूभयोस्तुल्यगुणतया भेदाग्रहः । तद्गुणः स्वगुणत्यगादत्युत्कृष्टगुणग्रहः । यथा"जगाद वदनच्छद्मपद्मपर्यन्तपातिनः । नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः" ॥ मीलिते प्रकृतस्य वस्तुनो वस्त्वन्तरेणाच्छादनम्, इह तु वस्त्वन्तरगुणेनाक्रान्तता प्रतीयत इति भेदः । तद्रूपाननुहारस्तु हेतौ सत्यष्यतद्गुणः ॥ १०.९० ॥ यथा"हन्त ! सान्द्रेण रागेण भृतेऽपि हृदये मम । गुणगौर ! निषण्णोऽपि कथं नाम न रज्यसि" ॥ यथा वा "गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस ! तव सैव शुभ्रता चीयते न च न चापचीयते" ॥ पूर्वत्रातिरक्तहृदयसंपर्कात्प्राप्तवदपि गुणगौरशब्दवाच्यस्य नायकस्य रक्तत्वं न निष्पिन्नम्, उत्तरत्राप्रस्तुतप्रशंसायां विद्यमानायामपि गङ्गायमुनापेक्षया प्रकृतस्य हंसस्य गङ्गायमुनयोः संपर्केऽपि न तद्रूपता । अत्र च गुणाग्रहणरूपविच्छित्तिविशेषाश्रयाद्विशेषोक्तेर्भेदः, वर्णान्तरोत्पत्त्यभावाच्च विषमात् । संलक्षितस्तु सूक्ष्मोर्ऽथ आकारेणेङ्गितेन वा । कयापि सूच्यते भह्ग्या यत्र सूक्ष्मं तदुच्यते ॥ १०.९१ ॥ सूक्ष्मः स्थूलमतिभिरसंलक्ष्यः । अत्राकारेण यथा "वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख" ॥ अत्र कयाचित्कुङ्कुमभेदेन संलक्षितं कस्याश्चित्पुरुषायितं पाणौ पुरुषचिह्नखड्गलेखालिखनेन सूचितम् । इङ्गितेन यथा सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रापिताकूतं लीलापद्मं निमीलितम् ॥ अत्र विटस्य भ्रूविक्षेपादिना लक्षितः सङ्केतकालाभिप्रायो रजनीकालभाविना पद्मनिमीलनेन प्रकाशितः । व्याजोक्तिर्गोपनं व्याजादुद्भिन्नस्यापि वस्तुनः । यथा "शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस द्रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः । आः शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं शैलान्तः पुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः" ॥ नेयं प्रथमापह्नतिः, आपह्नवकारिणो विषयस्यानभिधानात् । द्वितीयापह्नुतेर्भेदश्च तत्प्रस्तावे दशितः । स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनम् ॥ १०.९२ ॥ दुरूहयोः कविमात्रवेद्ययोः अर्थस्य डिम्भादेः स्वयोस्तदेकाश्रययोश्चेष्टास्वरूपयोः । यथा मम "लाङ्गूलेनाभिहत्य क्षितितलमसकृद्दारयन्नग्रपद्भ्या मात्मन्येवावलीय द्रुतमथ गगनं प्रोत्पतन् विक्रमेण । स्फूर्जद्धुङ्कारधोषः प्रतिदिशमखिलान् द्रावयन्नेष जन्तून कोपाविष्टः प्रविष्टः प्रतिवनमरुणोच्छूनचक्षूस्तरक्षुः" ॥ अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः । यत्प्रत्यक्षायमाणत्वं तद्भाविकमुदाहृतम् ॥ १०.९३ ॥ यथा "मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः । येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ" ॥ यथा वा "आसीदञ्जनमत्रेति पश्यामि तव लोचने । भाविभूषणसम्भारां साक्षात्कुर्वे तवाकृतिम्" ॥ न चायं प्रसादाख्यो गुणः, भूतभाविनोः प्रत्यक्षायमाणत्वे तस्याहेतुत्वात् । न चाद्भुतो रसः, विस्मयं प्रत्यस्य हेतुत्वात् । न चातिशयोक्तिरलङ्कारः, अध्यवसायाभावात् । न च भ्रान्तिमान्, भूतभाविनोर्भूतभावितयैव प्रकाशनात् । न च स्वभावोक्तिः, तस्य लौकिकवस्तुगतसूक्ष्मधर्मस्वभावस्यैव यथावद्वर्णनं स्वरूपम्॑ अस्य तु वस्तुनः प्रत्यक्षायमाणस्वरूपो विच्छित्तिविशेषोऽस्तीति । यदि पुनर्वस्तुनः क्वचित्स्वभावोक्तावप्यस्या विच्छित्तेः सम्भवस्तदोभयोः सङ्करः । "अनातपत्त्रोऽप्ययमत्र लक्ष्यते सितातपत्त्रैरिव सर्वतो वतः । अचामरोऽप्येष सदैव वीज्यते विलासबालव्यजनेन कोऽप्ययम्" ॥ अत्र प्रत्यक्षायमाणस्यैव वर्णनान्नायमलङ्कारः, वर्णनावशेन प्रत्यक्षायमाणत्वस्यैव स्वरूपत्वात् । यत्पुनरप्रत्यक्षायमाणस्यापि वर्णने प्रत्यक्षायमाणत्वं तत्रायमलङ्कारो भवितुं युक्तः, यथोदाहृते "आसीदञ्जनम्ऽइत्यादौ । लोकातिशयसंपत्तिवर्णनोदात्तमुच्यते । यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत् ॥ १०.९४ ॥ क्रमेणोदाहरणम् "अधः कृताम्भोधरमण्डलानां यस्यां शशाङ्कोपलकुट्टीमानाम् । ज्योत्स्नानिपातात्क्षरक्षतां पयोभिः केलीवनं वृद्धिमुरीकरोति" ॥ "नाभिप्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा । अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान् पुरुषोऽधिशते" ॥ रसभावौ तदाभासौ भावस्य प्रशमस्तथा । गुणीभूतत्वमायान्ति यदालङ्कृतयस्तदा ॥ १०.९५ ॥ रसवत्प्रेय ऊर्जस्वि समाहितमिति क्रमात् । तदाभासौ रसाभासो भावाभासश्च । तत्र रसयोगाद्रसवदलङ्कारो यथा "अयं स रसनोत्कर्षो" इत्यादि । अत्र शृङ्गारः करुणस्याङ्गम् । एवमन्यत्रापि । प्रकृष्टप्रियत्वात्प्रेयः । यथा मम "आमीलितालसविवतिततारकाक्षीं मत्कण्ठबन्धनदरश्लथबाहुवल्लीम् । प्रस्वेदवारिकणिकाचितघण्डबिम्बां संस्मृत्य तामनिशमेति न शान्तिमन्तः" ॥ अत्र संभोगशृङ्गारः स्मरणाख्यभावस्याङ्गम् । स च विप्रलम्भस्य । ऊर्जो बलम्, अनौचित्यप्रवृत्तौ तदत्रास्तीत्यूर्जस्वि । यथा "वनेऽखिलकलासक्ताः परिहृत्य निजस्त्रियः । त्वद्वैरिवनितावृन्दे पुलिन्दाः कुर्वते रतिम्" ॥ अत्र शृङ्गाराभासो राजविषयकरतिभावस्याङ्गम् । एवं भावाभासोऽपि । समाहितं परिहारः । यथा"अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः । ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात्" ॥ अत्र मदाख्यभावस्य प्रशमो राजविषयरतिभावस्याङ्गम् । भावस्य चोदये संधौ मिश्रत्वे त तदाख्यकाः ॥ १०.९६ ॥ तदाख्यका भावोदयभावसंधिभावशबलनामानोऽलङ्काराः । क्रमेणोदाहरणम् "मधुपानप्रवृत्तास्ते सुहृद्भिः सह वैरिणः । श्रुत्वा कुतोऽपि त्वन्नम लेभिरे विषमां दशाम्" ॥ अत्र त्रासोदयो राजविषयरतिभावस्याङ्गम् । "जन्मान्तरीणरमणस्याङ्गसङ्गसमुत्सुका । सलज्जा चान्तिके सख्याः पातु नः पार्वती सदा" ॥ अत्रौत्सुक्यलज्जयोश्च संधिर्देवताविषयरतिभावस्याङ्गम् । "पश्येत्कश्चिच्चल चपल ! रे ! का त्वारहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि । इत्थं पृथ्वीपरिवृढ ! भवद्विद्विषोऽरण्यवृत्तेः कन्या कञ्चित्फलकिसलयान्याददानाभिधत्ते" ॥ अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानां शबलता राजविषयरतिभावस्याङ्गम् । इह केचिदाहुः"वाच्यवाचकरूपालङ्करणमुखेन रसाद्युपकारका एवालङ्काराः, रसादयस्तु वाच्यवाचकाभ्यामुपकार्या एवेति न तेषामङ्कारता भवितुं युक्ता" इति । अन्ये तु "रसाद्युपकारमात्रेणेहालङ्कृतिव्युपदेशो भाक्तश्चिरन्तनप्रसिद्ध्याङ्गीकार्य एव" इति । अपरे च"रसाद्युपकारमात्रेणालङ्कारत्वं मुख्यतो रूपकादौ तु वाच्याद्युपधानम्, अजगलस्तनन्यानेन" इति । अभियुक्तास्तु"स्वव्यञ्जकवाच्यवाचकाद्युपकृतैरङ्गभूतैः रसादिभिरङ्गिनो रसादेर्वाच्यवाचकोपस्कारद्वारेणोपकुर्वद्भिरलङ्कृतिव्यपदेशो लभ्यते । समासोक्तौ तु नायिकादिव्यवहारमात्रस्यैवालङ्कृतिता, न त्वास्वादस्य, तस्योक्तरीतिविरहात्" इति मन्यन्ते । अत एव ध्वनिकारेणोक्तम् "प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः" ॥ यदि च रसाद्युपकारमात्रेणालङ्कृतित्वं तदा वाचकदिष्वपि तथा प्रसज्येत । एवं च यच्च कैश्चिदुक्तम्"रसादीनामङ्गित्वे रसवदाद्यलङ्कारः, अङ्गत्वे तु द्वितीयोदात्तालङ्कारः" इति तदपि परास्तम् । यद्येत एवालङ्काराः परस्परविमिश्रिताः । तदा पृथगलङ्कारौ संसृष्टिः सङ्करस्तथा ॥ १०.९७ ॥ यथा लौकिकालङ्काराणामपि परस्परमिश्रणे पृथक्चारुत्वेन पृथगलङ्कारत्वं तथोक्तरूपाणां काव्यालङ्काराणामपि परस्परमिश्रत्वे संसृष्टिसङ्काराख्यौ पृथगलङ्कारौ । तत्र "मिथोऽनपेक्षमेतेषां स्थितिः संसृष्टिरुच्यते । एतेषां शब्दार्थालङ्काराणाम् । यथा "देवः पायादपायान्नः स्मेरेन्दीवरलोचनः । संसारध्वान्तविध्वंसहंसः कंसनिसूदनः" ॥ अत्र पायादपायादिति यमकम्, संसारेत्यादौ चानुप्रास इति शब्दालङ्कारयोः संसृष्टिः । द्वितीये पादे उपमा, द्वितीयार्धे च रूपकमित्यर्थालङ्कारयोः संसृष्टिः । एवमुभयोः स्थितत्वाच्छब्दार्थालङ्कारसंसृष्टिः । अङ्गाङ्गित्वेऽलङ्कृतीनां तद्वदेकाश्रयस्थितौ । संदिग्धत्वे च भवति सङ्करस्त्रिविधः पुनः ॥ १०.९८ ॥ अङ्गाङ्गिभावो यथा "आकृष्टिवेगविगलद्भुजगेन्द्रभोग निर्मोकपट्टपरिवेष्टनायाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले" ॥ अत्र निर्मोकपट्टापह्नवेन मन्दाकिन्या आरोप इत्यपह्नुतिः । सा च मन्दा किन्या वस्तुवृत्तेन यत्पादमूलवेष्टनं तच्चरणमूलवेष्टनमिति श्लेषमुत्थापयतीति तस्याङ्गम् । श्लेषञ्च पादमूलवेष्टनमेव चरणमूलवेष्टदमित्यतिशयोक्तरेङ्गम्, अतिशयोक्तिश्च "मन्थव्यथाव्युपशमार्थमिव" इत्युत्प्रेक्षाया अङ्गम् । उत्प्रेक्षा चाम्बुराशिमन्दाकिन्योर्नायकनायिकाव्यवहारं गमयतीति समासोक्तेरङ्गम् । यथा वा "अनुरागवती संध्यां दिवसस्तत्पुरः सरः । अहो ! दैवगतिश्चित्रा तथापि न समागमः" ॥ अत्र समासोक्तिविशेषोक्तेरङ्गम् । संदेहसङ्करो यथा "इदमाभाति गगने भिन्दानं सन्ततं तमः । अमन्दनयनान्दकरं मण्डलमैन्दवम्" ॥ अत्र किं मुखस्य चन्द्रतयाध्वसानादतिशयोक्तिः, उत इदमिति मुखं निर्दिश्य चन्द्रत्वारोपाद्रूपकम्, अथवा इदमिति मुखस्य चन्द्रमण्डलस्य च द्वयोरपि प्रकृतयोरेकधर्माभिसंबन्धात्तुल्ययोगिता, आहोस्विच्चन्द्रस्याप्रकृतत्वाद्दीपकम्, किं वा विशेषणसाम्यादप्रस्तुतस्य मुखस्य गम्यत्वात्समासोक्तिः, यद्वाप्रस्तुतचन्द्रवर्णनया प्रस्तुतस्य मुखस्यावगतिरित्यप्रस्तुतप्रशंसा, यद्वा मन्मथोद्दीपनः कालः स्वकार्यभूतचन्द्रवर्णनामुखेन वणित इति पर्यायोक्तिरिति बहूनामलङ्कराणां संदेहात्संदेहसङ्करः । यथा वा"मुखचन्द्रं पश्यामि" इत्यत्र किं मुखं चन्द्र इव इत्युपमा ? उत चन्द्र एवेति रूपकमिति संदेहः । साधकबाधकयोर्द्वयोरेकतरस्य सद्भावे न पुनः संदेहः । यथा "मुखचन्द्रं चुम्बति" इत्यत्र चुम्बनं मुखस्यानुकूलमित्युपमायाः साधकम् । चन्द्रस्य तु प्रतिकूलमिति रूपकस्य बाधकम् । "मुखचन्द्रः प्रकाशते" इत्यत्र प्रकाशाख्यो धर्मो रूपकस्य साधको मुखे उपचरितत्वेन संभवतीति नोपमाबाधकः । "राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्" । अत्र योषित आलिङ्गनं नायकस्य सादृश्ये नोचितमिति लक्ष्म्यालिङ्गनस्य राजन्यासंभवादुपमाबाधकम्, नारायणे संभवाद्रूपकम् । एवम् "वदनाम्बुजमेणाक्ष्या भाति चञ्चललोचनम्" । अत्र वदने लोचनस्य सम्भवादुपमायाः साधकता, अम्बुजे चासंभवाद्रूपकस्य बाधकता । एवं"सुन्दरं वदनाम्बुजम्" इत्यादौ साधारणधर्मप्रयोगे "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इति वचनादुपमासमासो न संभवतीत्युपमाया बाधकः । एवं चात्र मयूरव्यंसकादित्वाद्रूपकसमास एव । एकाश्रयानुप्रवेशो यथा मम "कटाक्षेणापीषत्क्षणमपि निरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति पिहिताशेषविषयः । सरोमाञ्चोदञ्चत्कुचकलशनिभिन्नवसयः परीरम्भारम्भः क इव भविताम्भोरुहदृशः" ॥ अत्र कटाक्षेणापीषत्क्षणमपीत्यत्रच्छेकानुप्रासस्य निरीक्षेतेत्यत्र क्षकारमादाय वृत्त्यनुप्रासस्यचैकाश्रयेऽनुप्रवेशः । एवं चात्रैवानुप्रसार्थापत्त्यलङ्कारयोः । यथा वा "संसारध्वान्तविध्वंस" इत्यत्र रूपकानुप्रासयोः । यथा वा"कुरबकारवकारणतां ययुः" इत्यत्र रबका रवका इत्येकं बकारवकार इत्येकमिति यमकयोः । यथा वा "अहिणअपओअरसिएसु पहिअसामाहएसु दिअहेसु । रहसपसारिअगीआणं णच्चिजं मोरविन्दाणम्" ॥ अत्र "पहिअसामाइएसु" इत्येकाश्रये पथिकशयामायितेत्युपमा, पथिकसामाजिकेष्वितिरूपकं प्रविष्टमिति । श्रीचन्द्रशेखरमहाकविचन्द्रसूनु श्रीविश्वनाथकविराजकृतं प्रबन्धम् । साहित्यदर्पणममुं सुधियो विलोक्य साहित्यतत्त्वमखिलं सुखमेव वित्त ॥ १०.९९ ॥ यावत्प्रसन्नेन्दुनिभानना श्रीर्नारायणस्याङ्गमलङ्करोति । तावन्मनः संमदयन् कवीनामेष प्रबन्धः प्रथितोऽस्तु लोके ॥ १०.१०० ॥ इत्यालङ्कारिकचक्रवर्तिसान्धिविग्रहिकमहापात्रश्रीविश्वनाथकविराजकृते साहित्यदर्पणे दशमः परिच्छेदः ।