प्रथमः परिच्छेदः ग्रन्थारम्भे निर्विन्घेन प्रारिप्सितपरिसमाप्तिकामो वाङ्मयाधिकृततया वाग्देवतायाः सांमुख्यमाधत्ते-- ************* टीका ************* विज्ञप्रिया (वि, क) वीक्ष्य कौस्तुभगतं निजबिम्बं हृद्रतान्यवनिताजनबुद्ध्या । मानमाश्रितवतीं निजकान्तां चिन्तयाम्यनुनयन्तमनन्तम् ॥ १. ॥ दृष्ट्वा भूरितध्वनिप्रभृतिकालङ्कारशास्त्रं मुहु- स्तन्मूलञ्च विसृष्टमर्थमखिलं काव्यप्रकाशस्य च । साहित्योत्तरदर्पणं विशदयन्नान्दयन् सज्जनान् भट्टाचार्य्यमहेश्वरो वितनुते विज्ञाप्रियां टिप्पणीम् ॥ २ ॥ शरदिन्द्वित्यादि स्वीयश्लोकं ग्रन्थकृदुत्थापयति--ग्रन्थारम्भ इति । ग्रन्थस्य प्रकृतग्रन्थस्य साहित्यदर्पणाख्यस्य, आरम्भे आरम्भकाले, वाग्देवतायाः साम्मुख्यामानुकूल्यमाधत्ते जनयती अर्थः । अत्र ग्रन्थकृदेब कर्त्ता बोध्यः । आरम्भकालस्य स्थूलत्वाद्योग्यतावशात्तत्पूर्वकाले एव साम्मुख्याधानं बोध्यम् । न च श्लोके साम्मुख्याधानबोधकाभावात्कथमिदमाभाषितमिति वाच्यम्, शरदिन्द्वित्यादि तत्सौन्दर्य्यकथनरूपस्तुत्या स्वचेतसि तमोनाशार्ऽथ प्रकाशनप्रार्थनया च तल्लाभात्, स्तुतस्यानुकूलत्वनियमात्तदानुकूल्यं प्रत्येवाभीष्ठप्रार्थनाच्च चेतस्यर्थप्रकाशे सत्यपि विघ्नाद्ग्रन्थस्य समाप्तिर्न भवतीत्यते । निर्विघ्नपरिसमाप्तिरपि तत्साम्मुख्यात्कामनीयेत्यत आह- निर्विघ्नेनेति । समाप्तिमात्रस्य लौकिकारणाधीनत्वेऽपि तद्विघ्नविघातो देवतानुकूल्यादेवेति विघ्नाभावविशिष्ठसमाप्ति कामनयापि विघ्नाभावरूपविशेषणांशो विषयीक्रियते अहं सुखी स्यामिति कामनया सुखंशा इव । प्रारिप्सितग्रन्थपरिसमाप्तिरूपे फलेऽन्यदेवतापेक्षया तस्याः शीघ्नकारित्वप्रतिपादनाय तद्विशेषणमाह--वाङ्मयेति--स्वार्थे मयट् । वागधिकृताया इत्यर्थः । वस्तुतस्तु वाङ्मयाधिकृततयेति प्रामाणिकः पाठः । तथा च वागात्मकस्य ग्रन्थस्य निर्विघ्नपरिसमाप्तिरूपं फलं वागधिकारिण्या शीघ्रं दातुं शक्यमेवेति दर्शितम् । लोचना (लो, अ) प्रणमामि परां देवीं मूलाधारधृतोदयाम् । याद्विवर्त्तमिमं कृत्स्न्नं प्रपञ्चं परिचक्षते ॥ १ ॥ आसीत्कपिञ्जलकुलक्षीराकूपारचन्द्रमाः त्रिकलिङ्गधिपधराधामधीसचिवः कृती ॥ २ ॥ अशेषभाषारमणीभुजङ्गः साहित्यविद्यर्णवकर्णधारः । ध्वन्यध्वनिप्रौढधियां पुरोगः श्रीवश्वनाथः कविचकवर्त्तो ॥ ३ ॥ स्वल्पाक्षरः सुबोधार्थः प्रध्वस्ताशेषढूषणः । साहित्यदर्पणो नाम ग्रन्थस्तेन विनिर्मितः ॥ ४ ॥ पारं साहित्यविद्याब्धेर्गन्तुं वाञ्छन्ति ये क्षितौ कृतिरेषा तरिस्तेषां विश्वनाथमहाकवेः ॥ ५ ॥ श्रव्याभिनेयालङ्कारतत्त्वं सत्कविसम्मतम् । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ ६ ॥ अस्य सत्कविवाग्गुम्फजीवातोः कृतिनां मुदे । मया विधीयते टीका दुर्बोधार्थ-वेबोधैनी ॥ ७ ॥ इह खलु सूत्राणामेवार्थं वृत्त्या विशदीकुर्वन् ग्रन्थादौ विघ्नविघाताय अविगीतसदाचारपरम्पराप्राप्ततया स्वाभीष्टदेवताराधनेन सम्मुखीकरणसूचिकां कारिकामवतारयति-ग्रन्थेति । विन्घः प्रतिबन्धकदुरितसद्भावः प्रवर्त्तकसुकृतविरहो वा, तस्य अभावः-निर्विन्घम्, अव्ययीभावः । प्रारिप्सितं प्रारब्धुमिष्टं दृश्यश्रव्यकाव्यनिरूपकं प्रमेयजातम्, तस्य परिसमाप्तिर्यावद्विवक्षितार्थस्यास्खलनपूर्वकं समापनम् । वाङ्मयेत्यनेन स्वशास्त्रविधेयवग्वैभवदातृतया ह्मादिदेवाराध्यत्वेन भगवत्याः प्रकृतार्थनिर्वाहकत्वं सूचितम् । ********** टीका सम्पूर्णा ********** शरदिन्दुसुन्दररुचिश्चेतसि सा मे गिरं देवी । अपहृत्य तमः संततमर्थानखिलान्प्रकाशयतु ॥ १.१ ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) शरदिन्द्वित्यादि । शरदिन्दुवत्सुन्दररुचिः, सा प्रसिद्धागिरां देवी सरस्वती, मे मम चेतसि सन्ततं विस्तृतं, तमः तमस्तुल्यमज्ञानम्, अपहृत्य, अखिलान्मया वक्ष्यमाणानर्थान् प्रकाशयत्वित्यर्थः । अत्राद्ये पादे लुप्तोपमामहिम्ना शरदिन्दोरपि सुन्दररुचित्वं सन्ततं तमः पदार्थान्धकारनाशकत्वं घटपटाद्यखिलार्थप्रकाशकत्वं च सिद्ध्यति । तथा च एभिः साधर्म्यैः शरदिन्दुगीर्देव्योरुपमानोपमेयभाव इति बोध्यम् । लोचना (लो, आ) शरदीत्यादि-शरदिन्दुसुन्दररुचेरेव शरदिन्दोः सुन्दररुचिरित्यध्यवसाना । सेति तच्छब्दाच्चतुराननादिवाग्वैभवादिदातृतया प्रसिद्धा । तमोऽज्ञानमम्धकारश्च, अर्थान्-विवक्षितप्रमेयान् घटपटांश्च । ********** टीका सम्पूर्णा ********** अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्यफलान्याह-- चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि । काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ॥ १.२ ॥ चतुर्वर्गफलप्राप्तिहि कोव्यतो "रामादिवत्प्रवतितव्यं न रावणादिवत्" इत्यादिः कृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव । ************* टीका ************* विज्ञप्रिया (वि, ग) काव्याङ्गतयेति---काव्यविचारकत्वेन तदङ्गता । चतुर्वर्गा धर्मार्थकाममोक्षाः, तद्रूपस्य फलस्य प्राप्तिरित्यर्थः । काव्यस्य चतुर्वर्गफलप्रापकत्वं दर्शयति--रामादिवदिति । प्रवृत्तिनिवृत्त्युपदेशद्वारेणेति--प्रवृत्त्युपदेशेन प्रवृत्तस्य धर्मोत्पत्तिः साक्षादेव, निवृत्त्युपदेशेन निवृत्तस्य धर्मोत्पत्तिः प्रतिबन्धकदुरितानुत्पत्त्या च, द्वेधापि तेषां प्रापकत्वम् । प्रवृत्तिजन्यधर्मात्तु साक्षादेवार्थादयः । लोचना (लो,इ) "प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्त्तते"इति निबध्यमानकाव्यपरीक्षाशास्त्रस्य प्रयोजने वत्कव्ये "अङ्गिनः फलेनैवाङ्गस्य फलवत्ता"इति न्यायातुत्कां काव्यफलप्रतिपादिकां द्वितीयकारिकामवतारयति-अस्येति । काव्याङ्गत्वं काव्यपरीक्षाशास्त्रत्वात् । चत्वारो वर्गाः धर्मार्थकाममोक्षाः । कृत्याकृत्यप्रवृत्तीत्यनेन काव्यस्य शास्त्रत्वं प्रदर्शितम् । यदाहुः "प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमिति कथ्यते ॥ ननु कथं कविनोप्तादितेतिवृत्तानां मालतीमाधवरत्नावलीमृच्छकटिकादीनां स्वाभिधेयेषु प्रामाण्यम् ? नचाप्रमाणरूपस्य शब्दस्य शास्त्रत्वमिति चेदत्राह--- "सुविदग्धप्रमा काव्यं प्रमाणं सर्वभेव नः । स्वप्रकाशरसास्वादप्रमितिप्रभवं यतः" ॥ इति । नतु प्रकारभेदाः प्रहेलिका व्यह्ग्यार्थविशिष्ठा नीरसा वाक्यविशेषाः । यथा- के दारपोषणरताः का शीतलाम्बुवाहिनी गङ्गा । कं संजघान कृष्णः कं बलवन्तं न बाधते शीतम् "इति । अत्र हि प्रश्नरूपोर्ऽथो वाच्यः, उत्तररूपश्च व्यङ्ग्यः । तश्वाविनिबद्धविभावादिज्ञानस्य बाष्पारोपितधूमज्ञानादेस्तात्त्विकधूमध्वजादिज्ञापकत्ववत्रसप्रमित्यबुपपादकत्वमिति चेत्तत्राप्याह---"शरीरादिविवत्कात्मतत्त्वभावनया यथा । तत्त्वतोऽप्रमयास्पष्ट-तत्त्वसाक्षात्कृतिः प्रमा ॥ असत्यमुल्लिखन्त्यापि विभावादिधियामुया । तद्वदेव रसादीनां व्यक्तिः प्रकरणादिषु" ॥ इति । इह च न्यायोऽयमन्वाचयः, प्रकरणादि प्रमाणं रसास्वादजनकत्वात्काव्यत्वाद्वा, यदेवं तदेवं, यथा रामायणादि, तथा चेदं, तस्मात्तथेति । न यदेवं न तदेवं यथा प्रहेलिकेति । ननु रसरूपप्रमाणत्वेपि प्रकरणादेः रत्यास्वादानन्तरमसद्भूतत्वेनार्थानर्थोपदर्शनाभावाद्धिताहितप्रवृत्तिनिवृत्तिकारित्वप्रयोजितं कथं हि शास्त्रत्वमिति न वाच्यम् । तथा हि-- "लोकप्रसिद्धो व्युत्पादो नाटकाद्यवलोकनात् । कार्य्यदर्शनतस्तस्यानुगुणा हेतुकल्पना"इति न्यायेन सत्यासत्यत्वं वर्णनाबलात् ॥ "स्फुरता, तेन वृत्तेन व्युत्पत्तिर्जायते नृणाम् । सत्यासत्यत्वजिज्ञासा रसादेश्चरितेष्वपि ॥ व्युत्पत्तिकालेनैवास्ति तया पाश्चात्यया त्वलम् । "काकोऽस्ति वाटिकामध्ये"इति बालविभीषिका ॥ स्वार्थंप्रामारायहीनापि न किं व्युत्पत्तिसाधनम् । रसस्य ज्ञानरूपत्वं तादात्म्यादिति वक्ष्यते ॥ नचाप्रमारसज्ञानं शुक्तौ रजतधीरिव । तस्मिन्न जायते बाधो यस्मादौत्तरकालिकः," ॥ ********** टीका सम्पूर्णा ********** उक्तं च (भामहेन)-- "धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम्" ॥ इति । किञ्च काव्याद्धर्मप्राप्तिर्भगवन्नारायणचरणारविन्दस्तवादिना, "एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामधुग्भवति" इत्यादिवेदवाक्येभ्यश्च सुप्रसिद्धैव । अर्थप्राप्तिश्च प्रत्यक्षसिद्धा । कामप्राप्तिश्चार्थद्वारैव । मोक्षप्राप्तिश्चैतज्जन्यधर्मफलाननुसंधानात्, मोक्षोपयोगिवाक्ये व्युत्पत्त्याधायकत्वाच्च । ************* टीका ************* विज्ञप्रिया (वि, घ) कला वैदग्धी, वैचक्षण्यं प्रवर्त्तकं ज्ञानं प्रवृत्त्युपदेशात्, एतज्जन्यफलाननुसन्धानादिति--तत्र फलं काशीप्राप्तिर्योगाभ्यासश्च, व्युत्पत्त्याधायकत्वादितिकाव्यस्थसंस्कृतदर्शनाद्व्युत्पत्तेः । एतानि च फलानि काव्यविशेषाणामेव । तथा च समस्तकाव्यप्रयोजनम्--"काव्यं यशसेर्ऽथकृतेठ इति यत्काव्यप्रकाशकारेणोक्तं तच्च "करोति कीर्त्तिं प्रीतिं च" इत्यत्रैवोक्तम्, समस्तकाव्यफलेन तेनैवास्य फलवत्त्वं बोध्यम्, लोचना (लो,ई) सुप्रयुक्तः व्याकरणाविरोधेनोक्तः । मोक्षोपयोगिवाक्यं श्रुत्यादि । तत्र व्युत्पत्त्याधायकत्वं पदपदार्थसम्बन्धबोधकत्वात् । ********** टीका सम्पूर्णा ********** चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते । परमानन्दसदोहजनकतया सुखादेव सुकुमारबुद्धीनामपि पुनः काव्यादेव । ************* टीका ************* विज्ञप्रिया (वि, ङ) ननु चतुर्वर्गफलसाधके वेदशास्त्रे सति किमर्थं लोकः काव्ये प्रवर्त्ततामित्यत आह--चतुर्वर्गफलप्राप्तिरिति । लोचना (लो, उ) सुखादित्यादि विवृणोति-चतुर्वर्गेति । परमानन्दो रसादिरूपः तत्सन्दोहो विगलितवेद्यान्तररसततिस्तज्जनकत्वाद्युपचारात् । सुकुमारमतयः सुखैकप्रवणाः राजपुत्रप्रभृतयः । परिणतबुद्धयः श्रुत्याद्यभ्यासब्धक्लेशाः । ********** टीका सम्पूर्णा ********** ननु तहि परिणतबुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्नः करणीय इत्यपि न वक्तव्यम् । कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधीयसी न स्यात्? किञ्च काव्यस्योपादेयत्वमग्निपुराणेऽप्युक्तम्-- "नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा । कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा" ॥ इति । "त्रिवर्गसाधनं नाट्यम्" इति च । विष्णुपुराणेऽपि-- "काव्यालापाश्च ये केचिद्रीतकान्यखिलानि च । शब्दमूतिधरस्यैते विष्णोरंशा महात्मनः" ॥ इति । तेन हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते । एतेनाभिधेयं च प्रदर्शितम् । ************* टीका ************* विज्ञप्रिया (वि, च) एवं चाभिधेयं चेति । निरूपणार्थं काव्यस्य एतद्ग्रन्थाभिधेयत्वात् । लोचना (लो, ऊ) शक्तिः कवित्वबीजरूपः संस्कारविशेषः यां विना काव्यं न प्रसरेत्, प्रसृतं वा उपहसनीयं स्यात् । नाट्यमभिनेयं नाटकादि । काव्यपरीक्षणं दिदर्शयिषुः प्राचीनकाव्यलक्षणेषु प्रमेयविरोधं दर्शयन्नाह--तत्किं स्वरूपमित्याह--"तददोषाविति" तदिति काव्यम्, दोषाः श्रुतिकट्वादयः, गुणा माधुर्य्यादयः, क्वाप्यनलङ्कृतीत्यनेन सर्वत्र सालङ्कारौ शब्दार्थौ काव्यम्, क्वचित्तु स्फुटालङ्कारविरहेऽपि न काव्यत्वहानिरिति । ********** टीका सम्पूर्णा ********** तत्किंस्वरूपं तावत्काव्यमित्यपेक्षायां कश्चिदाह-- "तददोषौ शब्दार्थौ सगुणावनवालंकृती पुनः क्वपि" इति । एतच्चिन्त्यम् । ************* टीका ************* विज्ञप्रिया (वि, छ) कश्चिदिति काव्यप्रकाशकार इत्यर्थः । ********** टीका सम्पूर्णा ********** तथाहि-- यदि दोषरहितस्यैव काव्यत्वाङ्गीकारस्तदा-- "न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः" ॥ इति । ************* टीका ************* विज्ञप्रिया (वि, ज) न्यक्कारो ह्ययमेवेति--श्रीरामाक्रान्तलङ्कस्य रावणस्य विषादोक्तिरियम्, मे यदरयः अयमेव न्यक्कारः । तपस्विभक्षकस्य मम एकस्तापसोऽरिरिति, अत्यन्तन्यक्कारत्वात्, आस्तां सोऽपि सिन्धोरुदीचीतीरे खरदूषणादिहन्ता, सोऽप्यत्रैव निहन्ति राक्षसकुलं नतु द्वित्रिराक्षसान् । अहो आश्चर्यमेवं न्यक्कारोऽपि रावणो जीवतीति । भवतु वा मम दैवस्य प्रातिकूल्यादेवं, शक्रस्य जेतारमर्थात्मेघनादं मम पुत्रं धिक्धिक्, तथा प्रबोधितवता प्रबोधितं प्रबोधः तद्वता भावक्तन्तत्वेन प्रबोधवता कुम्भकर्णेन वा किं फलमित्यर्थः । नत्वत्र क्तवतुः, तस्य कर्मण्यनभिधानात्, तथा मम भुजैर्वापि किम् ? कीदृशैः, मम विलुण्ठने स्वर्गोऽपि ग्रामटिका स्वल्पग्रामः, तद्विलुण्ठनेन वृथोच्छूनैः निष्फलमुद्भटैः । लोचना (लो, ऋ) न्यक्कार इति-एतद्रामभद्रेणाभिभूयमानस्य रावणस्य निर्वेदवाक्यम् । क्षुद्रो ग्रामो ग्रामटिका । विलुण्ठनं विधूननम् । ********** टीका सम्पूर्णा ********** अस्य शलोकस्य विधेयाविमर्शदोषदुष्टतया काव्यत्वं न स्यात् । प्रत्युत ध्वनि(स) त्वेनोत्तमकाव्यतास्याङ्गीकृता, तस्मादव्याप्तिर्लक्षणदोषः । ************* टीका ************* विज्ञप्रिया (वि, झ) विधेयाविमर्शेति--विधेयस्य न्यक्कारस्योद्देश्यादरिमत्त्वात्पूर्वनिपातात्"अनुवाद्यमनुक्त्वैन विधेयमुदीरयेत्" इति नियमात् । अनुभवबलादेष नियमः । काव्यत्वं न स्यादिति--नत्विष्ठापत्तिरित्यत आह--प्रत्युतेति । अङ्गीकृतेति सर्वैरिति शेषः । न केवलं काव्यप्रकाशकृता, परं सर्वैः । काव्यप्रकाशकृता काव्यप्रकाशे, "इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः" इत्यनेन लक्षणेन ध्वनियुक्तत्वादस्य उत्तमकाव्यत्वस्वीकारात्, तस्मादव्याप्तिदोष इति---अत्र दोषसामान्याभावो लक्षणघटक इति तदभिप्रायमुन्नीय इदमुक्तम्, तस्य तु शाब्दबोधविघटकदोषसामान्याभाव एवाभिप्रयः । अन्यथा "तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयाम्" इत्यादिश्लेकः काकुसहकृतध्वन्युदाहरणतयोक्त्वा कथं तेनैव न्यूनपदत्वदोषे उदाहृतः । कथं वा "कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकम्" इत्यादिश्लेकः रौद्ररसोदाहरणत्वेनोक्त्वापि पुनरुक्तदोषत्वे उदाहृतः । तस्मादव्याप्तिप्रदर्शनं तदभिप्रायानवधानादेव । लोचना (लो, ॠ) विधेयाविमर्शोऽविमृष्टविधेयांशः । वृथोच्छूनैरित्यत्र भुजामुच्छूनतया बृथात्त्वस्य तत्कालमात्रजातत्वाभिप्रयेण विधेयतां नेतुमुचितस्य तत्पुरुषसमासेन कविना गुणीभावं नीततया पूर्वसिद्धत्वातनुवाद्यत्व-प्रतीतिरिति विधेयस्य प्राधान्येनाविमर्शः, अनिर्द्दशः । अस्य श्लोकस्याङ्गीकृता पूर्वाचार्य्यैरिति शेषः । ध्वनित्वं ह्यत्र प्रतिपदमेवावभासते । तथा हि, अयमेवेत्यन्ययोगव्यवच्छेदसूचकस्य एवकारस्य, मे इति काकुपदस्य, अरय इति बहुवचनस्य, अत्रैवेति सर्वनाम्नः, निहन्ति जीवतीति तिङः, अहो इत्यव्ययस्य, रावण इति तत्तत्विशेषार्थान्तरसंकमितवाच्यपदस्य, धिक्धिकिति द्विरुक्तेः, शकजितमिति ताच्छील्यविहितक्किप्प्रत्ययस्य, ग्रामटिकेति करूपतद्वितस्य, विठ्ठुणठनेति व्युपसर्गस्य, भुजैरिति बहुवचनस्य तद्व्यञ्जकविशेषत्वातसंलक्ष्यकमो ध्वनिश्चात्र स्वामाननान्निर्वेदाख्यःसंचारिभावः । तस्मादव्याप्तिः । ध्वनिकारादिभिः ध्वनित्वेनोत्तमकाव्यत्वस्याङ्गीकारात्समनन्तरश्लेके तददोषविति लक्षणाव्यापनात् । ********** टीका सम्पूर्णा ********** ननु कश्चिदेवांशोऽत्र दुष्टो न पुनः सर्वोऽपीति चेत्, तर्हि यत्रांशे दोषः सोऽकाव्यत्वप्रयोजकः, यत्र ध्वनिः स उत्तमकाव्यत्वप्रयोजक इत्यंशाभ्यामुभयत आकृष्यमाणमिदं काव्यमकाव्यं वा किमपि न स्यात् । न च कंचिदेवांशं काव्यस्य दूषयन्तः श्रतिदुष्टादयो दोषाः, किं तर्हि सर्वमेव काव्यम् । तथाहि-- काव्यात्मभूतस्य रसस्यानपकर्षकत्वे तेषां दोषत्वमपि नाङ्गीक्रियते । अन्यथा नित्यदोषानित्यदोषत्वव्यवस्थापि न स्यात् । ************* टीका ************* विज्ञप्रिया (वि, ञ) स्वदत्तदोषं च स्वोद्भावितसिद्धान्तेन उद्धर्तुमाशङ्कते--नन्विति । तद्दूषयति--चेत्तर्हेति । नन्वंशविशेषस्थितेन दोषेण अपरांशादूषणात्तदंशे काव्यत्वं दोषवदंशे चाकाव्यत्वं स्यादत आह--नचेति । किं तर्हि समस्तमेवेति, समस्तस्यैव दूषणे युक्तिमाह--तथा हि--अन्यथेति । काव्यात्मभूतरसाद्यदूषणेऽपीत्यर्थः । नित्यदोषानित्यदोषेति । च्युतसंस्कारादयः समस्तरसापकर्षकत्वान्नित्याः, श्रुतिदुष्टत्वं तु कतिपयशृङ्गरादिरसापकर्षत्वादनित्यमित्यभियुक्तकृतां व्यवस्थापि न स्यात्, तन्मते रसापकर्षकत्वस्य दोषत्वप्रयोजकत्वादित्यर्थः । लोचना (लो, ळ) कश्चिदेवांशः, वृथोच्छूनैरित्ति भावः । इदं पद्यम्, ननु पदैकस्यैव विषयस्य विरुद्धधर्मयोगः स्यात् । इह तु दोषस्य यदङ्गस्य दूषकत्वं तस्याकाव्यत्वम्, ध्वनेश्च यस्योत्कर्षकत्वं तस्योत्तमकाव्यत्वमिति द्वयोर्न विरोधः इत्याशङ्क्याह-न चेति । कथमङ्गमात्रनिष्ठस्य दोषस्य काव्यापकर्षकतेत्यत आह-तथा हीति । रसापकर्षकाणामेव दोषत्वात्, कथमेवेत्याह-अन्यथेति । रसापकर्षकत्वेऽप्यदोषत्वे, नित्यदोषाश्च्युतसंस्कृतप्रभृतयः, तेषां सकलरसापकर्षकत्वात्, अनित्यदोषाः श्रुतिकटुप्रभृतयः तथा हिरौद्रादिरसे प्ररूढश्रुतिकटुत्वस्य गुणत्वम्, यथा मम तातपादानां विजयनरसिंहे--- "निःश्वासोद्घातवातप्रसरधुतकुलाहार्य्यमुद्घृष्टदंष्ट्रा- जातज्योतिः स्फुलिङ्गप्रकरविरचितोल्कानिकायाभिशङ्काः । अर्द्धेपारीन्द्रमर्द्धेनरमहह महालोकमालोक्य लोकाः स्तोकास्तोकाविशेषाः शरणमुपययुर्वारिधिं वारिधिं वा" ॥ ********** टीका सम्पूर्णा ********** यदुक्तं धवनिकृता-- "श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः । ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः" ॥ इति । किञ्च एवं काव्यं प्रविरलविषयं निर्विषयं वा स्यात्, सर्वथा निर्देषस्यैकान्तमसंभवात् । ************* टीका ************* विज्ञप्रिया (वि, ट) ध्वन्यात्मन्येवेति--ध्वनिकाव्यस्यात्मभूते शृङ्गारे इत्यर्थः । शृङ्गारपदं चात्र माधुर्य्यवद्रसोपलक्षकम् । तेन करुणशान्तरसयोश्च ते हेया इत्यर्थः । ननु नित्यत्वानित्यत्वप्रयोजकमेव रसापकर्षकानपकर्षकत्वं, दोषताप्रयोजकं तु न रसापकर्षकत्वं, किन्त्वभ्युक्तोक्तित्तत्स्वरूपमेव तत्प्रयोजकमित्यत आह--किंचेति । लोचना (लो, ए) ध्वन्यात्मनि ध्वनिस्वरूप इत्यर्थः । ननूत्तमकाव्यत्वेनाङ्गीकृतानामपि सदोषत्वे काव्यत्वं माभूतित्याशङ्क्याह--किञ्चेति । एवमदोषशब्दर्थयोरेकवाक्यत्वे । ********** टीका सम्पूर्णा ********** नन्वीषदर्थे नञः प्रयोग इति चेत्तर्हि "ईषद्दोषौ शब्दार्थौ काव्यम्" इत्युक्ते निर्देषयोः काव्यत्वं न स्यात् । ************* टीका ************* विज्ञप्रिया (वि, ठ) ईषदर्थे नञ इति---अदोषाविति नञ इत्यर्थः । निर्देषयोरिति शब्दार्थयोरित्यर्थः । प्रौढदोषयोस्तु काव्यत्वाभावस्य इष्टत्वादिति भावः । तथा च न्यक्कार इत्यादावव्याप्तिर्न दोषः । तयोः प्रौढदोषवतोः काव्यत्वाभावादिति भावः । लक्षणस्य दोषविशेषाभावघटितत्वेन कश्चिद्दोष इत्युक्तमवधेयम् । लोचना (लो, ऐ) नञः अदोषावितिपदस्थितस्य । निर्देषयोः क्वचित्कदाचित्कविनादोषभावेन निर्मितयोः काव्यत्वं न स्यात्, ईषद्दोषत्वकाव्यलक्षणस्य तत्रासम्भवात् । ********** टीका सम्पूर्णा ********** सति संभवे "ईषद्दोषौ" इति चेत्, एतदपि काव्यलक्षणो न वाच्यम् , रत्नादिलक्षणो कीटानुवेधादिपरिहारवत् । नही कीटानुवेधादयो रत्नस्य रत्नत्वं व्याहन्तुमीशाः किन्तूपादेयतारतम्यमेव कर्तुम् । तद्वदत्र श्रुतिदुष्टादयोऽपि काव्यस्य । उक्तं च-- "कीटानुविद्धरत्नादिसाधारण्येन काव्यता । दुष्टेष्वपि मता यत्र रसाद्यनुगमः स्फुटः" ॥ इति । ************* टीका ************* विज्ञप्रिया (वि, ड) सति सम्भव इति---स्फुटदाषरहिते कदाचिदीषद्दोषस्य सम्भवे सतीत्यर्थः । उक्तञ्चेति---यत्र रसादीनामसंलक्ष्यक्रमाणामनुगमः स्फुटः तत्र दुष्टेष्वपि कीटानुविद्धरत्नादिसाधारण्येन काव्यता मता इत्यर्थः । लोचना (ओ) कीटानुविद्धेति-साधारण्येन सामान्येन काव्यतादुष्टेष्वपि मतेति संबन्धः । ********** टीका सम्पूर्णा ********** किञ्च । शब्दार्थयोः सगुणत्वविशेषणमुपपन्नम् । गुणानां रसैकधर्मत्वस्य "ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः" इत्यादिना तेनैव प्रतिपादितत्वात् । रसाभिव्यञ्जकत्वेनोपचारत उपपद्यत इति चेत्? तथाप्ययुक्तम् । ************* टीका ************* विज्ञप्रिया (वि, ढ) एवमदोषाविति विशेषणं दूषयित्वा सगुणाविति विशेषणं दूषयितुमाह--किञ्चेति । तेन गुणाश्रयरसव्यञ्जकत्वरूपपरम्परासम्बन्धेन शब्दार्थयोर्गुणवत्त्वोपचार इत्यर्थः । तथाप्युक्तं गुणवत्त्वविशेंषणमित्यर्थः । लोचना (लो, औ) एवमदोषत्वस्य काव्यलक्षणत्वं दूषयित्वा सगुणत्वस्यापि दूषयति । अनुपपन्नमसम्भवीत्यर्थः । रसैकधर्म्मत्वस्य रसभात्रधर्भत्वस्य । तेनैव काव्यप्रकाशकारेणैव । रसाभिव्यञ्जकत्वेनेति । अयमर्थः-शब्दार्थौ खलु प्राचीनोक्तरीत्या निर्भितौ रसाभिव्यञ्जकौ भवतोऽप्यनुमतौ॑ तेन रसादिरूपव्यङ्ग्यरूपाणामपि माधुर्य्यार्दानां व्यञ्जकरूपशब्दार्थधर्मत्वेनोपचारः । यदाह स एव "गुणवृत्त्या पुनस्तेषां स्थितिः शब्दार्थयोर्मता"इति । मैवमित्याह--तथापीति । उपचारतः सगुणौ शब्दार्थौ काव्यमिति यदुच्यत इत्यर्थः । ********** टीका सम्पूर्णा ********** तथाहि-- तयोः काव्यस्वरूपेणाभिमतयोः शब्दार्थयो रसोऽस्ति, न वा ? नास्ति चेत्, गुणवत्त्वमपि नास्ति, गुणानां तदन्वयव्यतिरेकानुविधायित्वात् । अस्ति चेत्? कथं नोक्तं रसवन्ताविति विशेषणम् । ************* टीका ************* लोचना (लो, अ) कुतोऽयुक्तमित्याह--तथा हीति । तयोरुपचारतः । सगुणयो रसोऽस्ति नवेति, अयमर्थः--रसस्य सद्भावे एव काव्यत्वं तदभावे वेति । आदौ तुच्छतया द्वितीयं निराकरोति--नास्ति चेदिति । तदन्वयेति समानधर्मत्वादिति भावः । रसोऽस्तीति प्रथमपक्षं दूषयति--अस्ति चेदिति । कथमिति--अयमाशयः, यदि गुणाभिव्यञ्जकयोः शब्दार्थयोः सतोरेव काव्यलक्षणत्वमाभिमतं तदा लक्षणस्य न्यूनपदत्वम् । ********** टीका सम्पूर्णा ********** गुणवत्त्वान्यथानुपपत्त्यैतल्लभ्यत इति चेत्? तर्हि सरसावित्येव वक्तुं युक्तम् , न सगुणाविति । नहि प्राणिमन्तो देशाइति केनाप्युच्यते । ************* टीका ************* विज्ञप्रिया (वि, ण) चेत्तर्हेत्यत्र चेत्तथपीत्यर्थः । नही प्राणिमन्त इति । शौर्य्यद्याश्रयप्राण्याश्रये देशेऽनया शौर्य्यादिमन्तो देशा इति केनापि नोच्यते इत्यर्थः । इदं च ग्रन्थकृताऽरोपबीजानवधानादेकोक्तम्॑ तथा हि परम्पराघटक्य मध्यभूतसम्बन्धिनो बहिरिन्द्रियप्रत्यक्षत्वे सत्येव नैकमारोपः । यत्र तु परम्पराघटकमध्यभूतसम्बन्धी न बहीरिन्द्रियप्रतय्क्षस्तत्रत्वेवमारेपो दृश्यत एव । यथा शीतो वायुरुष्णं जलं सुगन्धिर्वायुरित्त्र परम्परासम्बन्धघटकानां मध्यभूतजलाग्निपुष्पावयवानां सूक्ष्यमत्वेनाप्रत्यक्षत्वात्तादृश आरोपः । प्रकृतेऽपि बहिरिन्द्रियाप्रतय्क्षस्य रसादेश्च परम्परासम्बन्धघटकत्वात्सम्भवत्येव गुणवत्तारोपः शब्दार्थयोरिति । अत एव शब्दतारत्ववदाकाशमिति नारोपः । तत्र परम्परासम्बन्धघटकस्य शब्दस्य बहिरिन्द्रियप्रत्यक्षत्वात् । नचैवं ज्ञानत्ववानात्मा इत्यारोपापत्तिः । तत्र परम्परासम्बन्धघटस्य ज्ञानस्य वहिरिन्द्रियाप्रत्यक्षत्वादिति वाच्यम् । यदि च तादृशरोपो नास्ति तदा कारणान्तराभावस्यैव तत्र कल्पनीयत्वात् । अत एनोदयनाचार्य्यैरुक्तम्, "आरोपे सति निमित्तानुसरणं न तु निमित्तमस्ति इत्यारोपः" इति । यस्तु जवाकुसुमस्य वहिरिन्द्रियप्रत्यक्षत्वेऽपि लोहितः स्फटिक इत्यारोपः तत्र जवाकुसुमं नेदृशपरम्पराघटकं जवाकुसुमस्य स्फटिकावृत्तित्वात् । किन्तु जवाकुसुमस्य स्वच्छद्रव्यसान्निध्यमेव तद्रहितं पृथगेवारोपनिमित्तमिति सुधीभिरवधेयम् । लोचना (लो, आ) गुणवत्त्वेति--सगुणाविति पदेनैव शब्दार्थयोः सरसत्वमुक्तमित्यर्थः, तर्हेति--यदि सरसत्वप्रतिपादनाय सगुणावित्युक्तमित्यर्थः । तेन अलङ्काराः कटककुण्डलादिवदिति वचनेन अलङ्कारस्योत्कर्षमात्राधायकत्वात्लक्षणं परास्तमित्यर्थः । किंचात्र, तददोषाविति लक्षणे शब्दार्थाविति वचनमप्यसमीचीनं, तथा हि, काव्यत्वसामान्यस्य किं शब्दार्थयोः संयोगादिवद्व्यासज्यवृत्तित्वम् ? उत गोत्वादिवत्प्रत्येकपरिसमाप्तिवृत्तित्वम् ? नाद्यः सामान्यत्वादेव । न द्वितीयः शब्दार्थयोः प्रत्येकं काव्यत्व-प्रसङ्गात् । एतच्च एतद्ग्रन्थकृता स्वकृतायां काव्यप्रकाशटीकायां लिखितमपि प्राचीनगौरवनियन्त्रितेनात्रोपेक्षितम् । अदोषत्वादीनां तु काव्यलक्षणत्वे प्रमेयार्थविरोधप्रसङ्ग इति तन्निराकृतम् ॥ ********** टीका सम्पूर्णा ********** ननु "शब्दार्थौ सगुणौ" इत्यनेनगुणाभिव्यञ्जकौ शब्दार्थौ काव्ये प्रयोज्यावित्यभिप्राय इति चेत्? न, गुणाभिव्यञ्जकशब्दार्थवत्त्वस्य काव्ये उत्कषमात्राधायकत्वम् , न तु स्वरूपाधायकत्वम् । ************* टीका ************* विज्ञप्रिया (वि, त) इदानीं सगुणत्वविशेषणस्य न लक्षणघटकत्वं किन्तु कव्युपदेशपरत्वमित्याशङ्कते, ननु शब्दार्थाविति दूषयति---चेन्नेति । शब्दार्थवत्वस्यापीत्यत्र तादात्म्यैनवतद्वत्ता शब्दार्थात्मक-काव्यस्य बोध्या । न तु स्वरूपाधायकत्वमिति स्वरूपं लक्षणम् । ने चेदमयुक्तं दूषणं स्वरूपाधायकत्वस्योक्ताशङ्कायामविषयत्वात्, किन्तु कव्युपदेशपरतया एवाशङ्कितत्वादिति वाच्यम् । न तु स्वरूपाधायकत्वामित्यस्य स्वरूपे लक्षणे न निवेशौचित्यमित्येव, अर्थात्कव्युपदेशपरविशेषणस्य लक्षणे दानानौचित्यादित्यर्थः । ********** टीका सम्पूर्णा ********** उक्तं हि-- "काव्यस्य शब्दार्थौ शरीरम् , रसादिश्चात्मा, गुणाः शौर्यादिवत्, दोषाः काणत्वादिवत्, रीतयोऽवयवसंस्थानविशेषवत्, अलङ्काराः कटककुण्डलादिवत्" इति । एतेन "अनलङ्कृती पुनः क्वापि" इति यदुक्तम्, तदपि परास्तम् । अस्यार्थः- सर्वत्र सालङ्कारौ क्वचित्त्वस्फुटालङ्कारावपि शब्दार्थौ काव्यमिति । तत्र सालङ्कारशब्दार्थयोरपि काव्ये उत्कर्षाधायकत्वात् । एतेन "वक्रोक्तिः काव्यजीवितम्" इति वक्रोक्तिजीवितकारोक्तमपि परास्तम् । वक्रोक्तेरलङ्काररूपत्वात् । ************* टीका ************* विज्ञप्रिया (वि, थ) शौर्य्यादिवदिति---रसस्योत्कर्षाधायका इति शेषः । कटककुण्डलादिवदिति शब्दार्थयोः शोभका इति शेषः । एतेनेति । उत्कर्षाधायकविशेषणस्य लक्षणेऽप्रवेश्यत्वेन इत्यर्थः । सालङ्कारशब्दार्थयोरिति---शब्दार्थयोः सालङ्कारत्वस्येति पर्य्यवसितार्थः । लोचना (लो, इ) एतेनेति अलङ्कारादीनां कटककुण्डलादिसामान्यता उक्ता । वक्रीक्तिजीवितकारः, कश्चिदाह--अलङ्काररूपत्वात् । तथा ह्युक्तम्--- "सैषा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते । यत्नोऽस्यां कविना कार्य्यः कोऽलङ्कारोऽनया विना"इति । ********** टीका सम्पूर्णा ********** यच्च क्वचिदस्फुटालङ्कारत्वे उदाहृतम्-- यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥ इति । एतच्चिन्त्यम् । ************* टीका ************* विज्ञप्रिया (वि, द) "यः कौमारहरऽ इत्यादिश्लोकमस्फुटालङ्कारोदाहरणतया काव्यप्रकाशकार उदाहृतवान्, तत्र स्फुटालङ्कार एवास्तीत्याह---यच्चेति । यः कौमारहर इति । रेवातीरे कृतसङ्केतायाः कुलटायाः स्वगृहे इयं भावना । उत्कण्ठाकरणं मम यद्यपि नास्ति तथापि तत्र कृतसङ्केते रेवारोधसि रेवातीरे वेतसीनामतरुतले सुरतव्यापाररूपलीलाविधिनिमित्तं चेतः समुत्कण्ठते इत्यर्थः । उत्कण्ठाकारणभावं दर्शयति---"यठ कौमारहरऽ इत्यादिना । कौमारं कुमारीत्वम्---अपरिणीतात्वम्, परिणयनेन यस्तद्वरः पतिरित्यर्थः । स एव वरः श्रेष्ठः, यथेष्टरतिसमर्थ इत्यर्थः । चैत्रक्षपा अपि सङ्केतस्थल इवात्राप्यविशिष्टा इत्याह--"ता एवऽ इति । सुगन्धिवायुरप्यत्राप्यविशिष्ट इत्याह "ते चेतिऽ । कदम्बानिलाः मध्यस्थितकदम्बवनानिला इत्यर्थः । अत एव ते प्रौढाः अपि मन्दत्वपर्य्यवसन्नाः वनानिलस्य प्रौढत्वेऽपि मन्दत्वं वहबहिर्भावेन । सौगन्ध्यं तु मालत्यधीनमेव । चैत्रे कदम्बपुष्पस्याभाव एव, केचित्तु धूलीकदम्बपुष्पपरतया व्याचक्षते । तन्मते वायोः प्रौढत्वविशेषणानौचित्यापत्तेः अन्ये तून्मीलितमालतीनां ते च प्रौढसुरभयो घ्राणतर्पणगन्धाः, इति वायचक्षते । तन्न । तदा कदम्बानिला इत्यत्र ते च इत्यस्याभावात्, प्रत्यत्रिज्ञानुपपत्तेः । ते च इत्यस्यानुषंगे प्रकमभङ्गदोषापत्तेः, अनुषंगग्राहकाभावाच्च । सा चेति अहमपि तदवस्थैव, उभयत्र इत्यर्थः । इत्थमुत्कण्ठाकारणं नास्ति, तथापि चित्तस्वभाववैलक्षण्यादुत्कण्ठेत्यर्थः । लोचना (लो, ई) एवं काव्यलक्षणं दूषयित्वा काव्यप्रकाशकृतः स्फुटालङ्कारविरहोदाहरणे स्फुटालङ्कारं दर्शयन्नाह, यच्चेति---उदाहृतं काव्यप्रकाशकारैरिति शेषः । "यः कौमारेतिऽ कौमारं नवयौवनम्, तदकृतकप्रेमासकृत्तया योऽतिवाहितवान् स कौमारहरः वरः स्वयंवृतः, नतु पित्रादिभिर्ग्राहितः । चैत्रो वसन्त॑, तत्र जातिकदम्बाभावात्, मालती वासन्तिका । कदम्बो धूलिकदम्ब इति केचित् । संप्रदायविदस्तु स एव वसन्तः ता एव वर्षा इति मन्मथोद्दीपकत्वाविशेषादृतुद्वयस्यापि ग्रह इति व्याचक्षते । ********** टीका सम्पूर्णा ********** अत्र हि विभावनाविशेषोक्तमूलस्य संदेहसङ्करालङ्कारस्यस्फुटत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ध) विभावनेति---उत्कण्ठाकारणाभावेऽपि उत्कण्ठावर्णना विभावना । "विभावना विना हेतुं कार्य्योत्पात्तिर्यदुच्यते" इति तल्लक्षणात् । तथानुत्कण्ठाकारणपत्यादिसत्त्वेऽपि उत्कण्ठारूपस्यानुत्कण्ठाभावस्य वर्णनाद्विशेषोक्तिः । "सति हेतौ फलाभावे विशेषोक्तिः" इति च लक्षणस्य वक्ष्यमाणत्वात्॑ तन्मूलसन्देहसङ्करस्य तन्मूलसन्देसङ्करालङ्कारस्य इत्यर्थः । तयोर्न सन्देहः । अविरोधिनोस्तयोरेकत्र समावेशसम्भवेन सन्देहाभावात् । किन्तु तदुत्थापिताद्भुतरसशृङ्गाराभासयोरङ्गङ्गिभावसन्देहेन रसवत्प्रेयोऽलङ्कारयोरेव सन्देहः । तथा हि कारणाभावे फलात्कारणसद्भावे फलाभावाच्च विस्मयस्य उत्थापितत्त्वात्तत्स्थायिभावकोऽद्भुतरसः । स किमुपनायकविषयरत्युकण्ठालब्धस्य शृङ्गाराभासस्याङ्गमिति रसवदलङ्कार॑? रसस्याङ्गत्वेन रसवदलङ्कारस्य वक्ष्यमाणत्वात् । किं वा स एव रसाभासाद्भुतरसस्याङ्गमिति प्रयोऽलङ्कारछ, आभासस्याङ्गत्वे प्रेयोऽलङ्गारस्य वक्ष्यमाणत्वात् । अङ्गाङ्गिभावं विना स्वातन्त्र्येण रसद्वयप्रतीत्यभावस्य सर्वालङ्कारिकसम्मतत्वात् । स्फुटत्वमति---इदं च न रुचिरं दूषणं, तथा हि स्फुटत्वास्फुटत्वे तावत्शीघ्रप्रतीयमानत्वाप्रतीयमानत्वाभ्यामेव, तथा चात्र कारणभावफलाभावयोर्वाचकस्य नञोऽभावेन तत्कल्पनाया विलम्बेनास्फुटत्वातेवं तयोरस्फुटत्वाच्च सुतरां तन्मूलदर्शितालङ्कारयोरस्फुटत्वम् । लोचना (लो, उ) अत्र हीति कारणाभावे कार्य्योत्पत्तिर्विभावना सा चात्रास्फुटा । ये खलु उत्कण्ठायाः कारणानि प्रियसङ्गमाभावादयः, तदभावेऽप्यत्र उत्कण्ठोत्पन्नेति॑ तदभावश्च तद्विरोधिप्रियसङ्गमसद्भावमुखेनोपनिबद्ध इति विभावानास्फुटा । यदि खलु प्रियसङ्गमाभावादीनां कारणानामसद्भावमुखेन वर्णनं तदेव तस्याः स्फुटत्वम् । विशेषोक्तश्च कारणसामग्र्ये कार्य्यानुत्पत्तिरूपा, साप्यत्रास्फुटा, प्रियसन्निधानादयो धृतेः कारणानि । अत्र च तेषु सत्खपि धृतिर्नोत्पन्नेत्युत्कण्ठोत्पत्तिमुखेन वर्णितम्, यदिधृतिर्नोत्पन्नेत्युच्यते, तदा कार्य्यानुत्पत्तेः स्फुटतयोक्तत्वात्विशेषोक्तिः स्फुटा स्यात् । इह विरुद्धरूपोत्कण्ठोत्पत्तिमुखेन धृतेरनुपपत्तिरुक्ता, अतो विशेषोक्तिरस्फुटा । एवमत्र द्वयोर्विभावनाविशेषोक्त्योरस्फुटार्थत्वात्स्फुटालङ्कारविरह इति काव्यप्रकाशकृतो मतम् । तत्राह---अत्रहीति, अयमर्थः--अत्र विभावनाविशेषोक्ती अस्फुटे, तथापि तदुभयारब्धसन्देहे सङ्करालङ्कारस्य स्फुटत्वात्कथं स्फुटालङ्कारविरह इति । संसृष्टि सङ्करौ च लौकिकमुकुटाद्यलङ्कारमिश्रणेनेव पृथगलङ्कारत्वेनाभ्युपगतौ । ********** टीका सम्पूर्णा ********** एतेन-- "अदोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् । रसान्वितं कविः कुर्वन् कीर्तिं प्रीतिं च विन्दति" ॥ इत्यादीनामपि काव्यलक्षणत्वमपास्तम् । ************* टीका ************* विज्ञप्रिया (वि, न) एतेनेति--अस्मदुक्तदूषणेनेत्यर्थः । लोचना (लो, ऊ) एतेन-तददोषाविति लक्षणस्य काव्यलक्षणत्वाभावकथनेन । अदोषभित्यादि सरस्वतीकण्ठाभरणोक्तलक्षण्म् । विशेषश्चात्र सरसाविति वचने श्रुत्यर्थत्वेन सगुणाविति वचनं समनन्तरोक्तरीत्यानर्थकम् । ********** टीका सम्पूर्णा ********** यत्तु ध्वनिकारेणोक्तम्-- "काव्यस्यात्मा ध्वनिः"-- इति तत्किं वस्त्वलङ्काररसादिलक्षणास्तिरूपो ध्वनिः काव्यस्यात्मा, उत रसादिरूपमात्रो वा ? नाद्यः,-प्रहेलिकादावतिव्याप्तेः । द्वितीयश्चेदोमिति ब्रूमः । ************* टीका ************* विज्ञप्रिया (वि, प) ध्वनिरितीति---व्यङ्ग्यार्थ इत्यर्थः । नतु ध्वनिकाव्यम् । काव्यस्य काव्यात्मत्वासम्भवात् । प्रहेलिकादाविति । न च तदपि काव्यमेवेति वाच्यं व्यङ्ग्यस्यास्वाद्यत्ववशादेव काव्यात्मत्वकथनात् । प्रहेलिकादौ तु व्यङ्ग्यस्याबोध्यतायामेव कवेस्तात्पर्य्यात्, अबोध्यत्वादेव तस्य वैचित्र्यम्, नत्वास्वाद्यव्यङ्ग्यत्वम्, तथा हि-- "तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः । गुरूणां सन्निधानेपि कः कूजति मुहुर्मुहुः ॥ ऽ इत्यत्र यः पूर्णकलशो व्यङ्ग्यस्तस्याबोध्यतायामेव कवेस्तात्पर्य्यादत्रैव वैचित्र्येण अलङ्कार एव प्रहेलिका । यत्तु अस्फुटाख्ये गुणीभूते व्यङ्ग्ये कृच्छ्रगम्यत्वं तत्र कृच्छ्रगम्यतायां न कवेस्तात्पर्य्यमतस्तस्य नातिकृच्छ्रगम्यत्वम्, आस्वाद्यत्वं चास्त्येव । प्रहेलिकादावित्यादिपदात्कर्तृकर्मगुप्त्यादिपरिग्रहः । द्वितीयश्चेदिति--स्वीकारे ओंकारः । मयापि "वाक्यं रसात्मकं काव्यम्ऽ इति वक्ष्यमाणत्वादिति भावः । लोचना (लो,ऋ) सम्प्रति रसमात्रध्वनेः काव्यत्वं सिषाधयिषुर्वस्त्वलङ्कारयोस्तन्निरस्यनाह-यत्त्विति । ध्वनिकारः श्रीमदानन्दवर्द्धनाचार्य्यः । वस्तु अर्थमात्रम्, अलङ्कारस्तदेव विच्छित्तियुक्तम् । रसः शृङ्गारादिः, आदिशब्दात्भावतदाभासादयोऽसंलक्ष्यकमभेदाः । प्रहेलिका-व्यङ्ग्यार्थविशिष्टो नीरसो वाक्यविशेषः । यथा--- "के दारपोषणरताः का शीतलाम्बुवाहिनी गङ्गा । कं संजघान कृष्णः कं बलवन्तं न बाधते शीतम्" ॥ इत्यत्र प्रश्ररूपोर्ऽथो वाच्यः, उत्तररूपश्च व्यङ्ग्यः । तथा हि--दाराणां भार्य्याणां पोषणे रताः के ? शीतम्बुवाहिनी गंगा का ? कं कृष्णः संजघान ? बलवन्तं कं न बाधते शीतम् ? इति प्रश्नः । उत्तरपक्षे केदाराः क्षेत्राणि । ********** टीका सम्पूर्णा ********** ननु यदि रसादिरूपमात्रो ध्वनिः काव्यस्यात्मा, ************* टीका ************* विज्ञप्रिया (वि, फ) ननु यदि व्यङ्ग्यो रस एव काव्यस्यात्मा तदा वस्तुनो व्यङ्ग्यत्वे कथं काव्यत्वमित्याशङ्कते "ननु रसादिमात्रेति" । ********** टीका सम्पूर्णा ********** तदा-- अत्ता एत्थ णिमज्जै एत्थ अहं दिअसअं पलोएहि । मा पहिअ रत्तिअन्धिअ सेज्जाए मह णिमज्जहिसि ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) अत्ता एत्थेति--- "श्वश्रूरत्र निमज्जति अत्राहं दिवसकं प्रलोकय । मा पथिक रात्र्यन्ध शय्यायामावयोर्मङ्क्ष्यसि ॥ " रात्र्यन्धत्वेन कथितात्मानं स्वगृहे कृतावासं पथिकं प्रति स्वयं दूत्या उक्तिरियम् । अत्ता श्वश्रूः वेशी । श्वश्रा निमज्जनकथनेन अस्या मृतप्रायत्वं सूचितम् । लोचना (लो, ॠ) अत्तेति--दिवसकमिति काले कर्म, अत्र पुंश्चलीवचनेन मत्शय्यास्थानमभीतं समागच्छेत्यर्थमात्रस्य ध्वनितम् । कथमेवमादीनां काव्यत्वाभ्युपगम इति पूर्वपक्षः । सिद्धान्तमाह--अत्रापीति, रसाभासवत्तयैव । नतु केवलं वस्तुमात्रस्य व्यङ्ग्यत्वेन । रसाभासश्चात्र पुंश्चल्याः परनायकविषयाया रतेः प्रकाशनात् । अथवा नरिसेष्वपि वस्तुमात्रप्राधान्येन काव्यव्यवहारस्वीकारः । ********** टीका सम्पूर्णा ********** इत्यादौ वस्तुमात्रस्य व्यङ्ग्यत्वे कथं काव्यव्यवहार इति चेत्? न,-अत्रापि रसाभासवत्तैवेति ब्रूमः, ************* टीका ************* विज्ञप्रिया (वि, भ) वस्तुमात्रस्य व्यङ्ग्यत्व इति । मम शय्यायामागमिष्यसीत्येवं वस्तुमात्रस्य इत्यर्थः । रसाभासेति । उपनायकविषयत्वादाभासः । व्यङ्ग्यान्तरसत्त्वेऽपि रसपर्य्यवसान एव काव्यत्वम् । तथात्वाभावे काव्यत्वस्वीकारे त्वतिव्याप्तिरित्याह---अन्यथेति । ********** टीका सम्पूर्णा ********** अन्यथा "देवदत्तो ग्रामं याति" इति वाक्ये तद्भृत्यस्य तदनुसरणरूपव्यङ्ग्यावगतेरपि काव्यत्वं स्यात् । अस्त्विति चेत्? न, रसवत एव काव्यत्वाङ्गीकारात् । काव्यस्य प्रयोजनं हि रसास्वादसुखपिण्डदानद्वारा वेदशास्त्रविमुखानां सुकुमारमतीनां राजपुत्रादीनां विनेयानां "रामादिवत्प्रवर्तितव्यं न रावणादिवत्" इत्यादिकृकत्याकृत्यप्रवृत्तिनिवृत्त्युपदेश इति चिरन्तनैरप्युक्तत्वात् । ************* टीका ************* विज्ञप्रिया (वि, म) रसवत एव काव्यत्वाङ्गीकारे बीजमाह--काव्यस्य प्रयोजनमिति । कृत्याकृत्येति रसास्वादमुखपिण्डदानदर्शनात्तादृशमुखपिण्डस्यैव मुख्यप्रयोजनत्वमुक्तम् । तादृशोपदेशस्तु यथासम्भवमेवेत्युक्तम् । तथा च---"शून्यं वासगृहमित्यादिऽ "यः कौमारहरऽ इत्यादिश्लेकेषु तादृशोपदेशाभावेऽपि काव्यत्वमक्षुण्णम् । लोचना (लो, ळ) काव्यस्येति--अयमर्थः, रसास्वाद एव मुखं पिण्डस्य द्वारेण तदुक्तम्--- "स्वादुकाव्यरसोन्मिश्रं वाक्यार्थमुपयुञ्जते । ग्रथमालीढमधवः पिबन्ति कटु भेषजम्" ॥ इति । ********** टीका सम्पूर्णा ********** तथा चाग्नेयपुराणोऽप्युक्तम्-- "वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम्" इति । व्यक्तिविवेककारेणाप्युक्तम्-- "काव्यस्यात्मनि अङ्गिनि, रसादिरूपे न कस्यचिद्विमतिः" इति । ************* टीका ************* विज्ञप्रिया (लो, ए) व्यक्तिविवेककारो हि महिमाचार्य्यः । आत्मलाभः कविसंज्ञाप्रप्तिः तत्सिद्धेः इतिवृत्तलाभात् । आदिशब्देन रसमात्रस्य काव्यजीवात्मत्वाप्रतिपादको वाग्गुम्फः । ननु तर्हेति--ननु यदि रसवदेव काव्यमित्यर्थः । नीरसानां वर्णिणतपर्वतादिपात्राणाम् । सिद्धान्तमाह--प्रबन्धरसो महाकाव्यम् । रीतिः पदसंघटना, अवयवाः पदानि । ********** टीका सम्पूर्णा ********** ध्वनिकारेणाप्युक्तम्-- "नहि कवेरितवृत्तमात्रनिर्वाहेणात्मपदलाभः, इतिहासादेरेव तत्सिद्धेः" इत्यादि । ननु तर्हि प्रबन्धान्तर्वर्तिनां केषांचिन्नीरसानां पद्यानां काव्यत्वं न स्यादिति चेत्? न, रसवत्पद्यान्तर्गतनीरसपदानामिव पद्यरसेन, प्रबन्धरसेनेव तेषां रसवत्ताङ्गीकारात् । यत्तु नीरसेष्वपि गुणाभिव्यञ्जकवर्णसद्भावद्दोषाभावादलङ्कारसद्भावाच्च काव्यव्यवहारः स रसादिमत्काव्यबन्धसामायाद्रौण एव । यत्तु वामनेनोक्तम्-- "रीतिरात्मा काव्यस्य" इति, तन्न॑ रीतेः संघटनाविशेषत्वात् । संघटनायाश्चावयवसंस्थानरूपत्वात्, आत्मनश्च तद्भिन्नत्वात् । ************* टीका ************* विज्ञप्रिया (वि, य) वाग्वैदग्ध्यमलङ्कारः । संज्ञिनि काव्यसंज्ञावति व्यङ्ग्यार्थसाधारणस्यार्थस्य काव्यसंज्ञावत्त्वात् । इतिवृत्तं वर्णितार्थः । गुणक्रियेति । यद्यपि वर्णो गुणस्यैव व्यञ्जको न क्रियायास्तथापि अत्र वर्णपदं वर्णादिपरं बोध्यम् । ********** टीका सम्पूर्णा ********** यच्च ध्वनिकारेणोक्तम्-- "अर्थः सहृदयश्लाघ्यः काव्यात्मा यो व्यवस्थितः । वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ" ॥ इति । अत्र वाच्यात्मत्वं "काव्यस्यात्माध्वनिः-" इति स्ववचनविरोधादेवापास्तम् । ************* टीका ************* विज्ञप्रिया (वि, र) नच्यप्रतीयमानाविति । अत्र वाच्यपदं प्रतीयमानपदार्थव्यङ्ग्यभिन्नपरम्, तेन लक्षणार्थस्यापि परिग्रहः । स्ववचनेति । ध्वनिर्व्यङ्ग्यार्थः । तस्यात्मकत्वकथनवाच्यार्थात्मकथनरूपयोः स्ववचनयोर्विरोधादित्यर्थः । ********** टीका सम्पूर्णा ********** तत्किं पुनः काव्यमित्युच्यते-- वाक्यं रसात्मकं--- रसस्वरूपं निरूपयिष्यामः । रस एवात्मा साररूपतया जीवनाधायको यस्य । तेन विना तस्य काव्यत्वानङ्गीकारात् । "रस्यते इति रसः" इति व्युत्पत्तियोगाद्भावतदाभासादयोऽपि गृह्यन्ते तत्र रसो यथा-- ************* टीका ************* विज्ञप्रिया (वि, ल) तत्किं पुनः काव्यमित्यादिप्रश्रः । "उच्यतेऽ इत्यादि समाधानम् । प्रतिपादितत्वादिति--"देवदत्तो गच्छतिऽ इत्यादिनेत्यर्थः । लोचना (लो, ऐ) एवं प्राक्तनलक्षणानां प्रमेयविरोधं दर्शयित्वा स्वलक्षणामवतारयति । तत्किं पुनरिति--यदि नैतानि काव्यलिङ्गलक्षणानीत्यर्थः । रसात्मकमित्यत्र रसपदेनासंलक्ष्यकमभेदानां सर्वेषां परिग्रह इत्याह--रस्यत इति । रस्यते आस्वाद्यते, स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भव इत्युक्तप्रकारः, कर्मत्वं रसादीनामुपचारात् । कर्मकर्त्तरि, वा प्रयोगादिति वक्ष्यते । तदाभासाः रसाभासा भावाभासाश्च आदिशब्दात्भावस्य शान्तिरुदयः सन्धिः शबलता च । ********** टीका सम्पूर्णा ********** शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैर्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विस्त्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण इसता बाला चिरं चुम्बिता ॥ ************* टीका ************* विज्ञप्रिया (वि, व) शून्यं वासगृहमित्यादि । किंचिदुद्भिन्नयौवनायाः नवोढयाः क्रियावर्णनमिदम् । अत्र विलोक्येत्यादिक्रमेणैव सकलक्रियाणां पूर्वापरभावः क्त्वानिर्द्दिष्टो बोध्यः । शयनात्किंचिदुत्थानं प्रियजागरणे द्रुतं सम्वरणाय । शनैस्त्वं तु शब्दानुत्पत्तये । पतिमुखचिरनिर्वर्णनं निद्रानिश्चयायानुरागेण च । विश्रब्धं निद्रानिश्चयेन जाताश्वासं, यथा स्यात्तथा चुम्बनक्रियाविशेषणमिदम्, आलोक्य लज्जानम्रमुखी जाता इति शेषः मुखेन बोध्यम् । तदैव क्रियाद्वयैककर्त्त्षट्क्येन क्त्वानिर्द्देशोपपत्तेः (?) । एतत्पर्य्यन्ताक्रियासु बाला कर्त्त्रे, हासप्रियचुम्बनस्य तु कर्म । चुम्बनस्य चिरत्वं नायिकाया भावनिश्चयेन त्रासाशङ्काभावादनुरागाधिक्योत्पत्तेश्च । अत्र व्यङ्ग्यौ परस्पररतिसम्भोगशृङ्गारौ । शून्यवासगृहविलोकनं रतेरेवोद्दीपनविभावः । शय्योत्थानादिमुखनम्रतान्ताः क्रिया नायिकाया रतेरनुभावाः । ता एव नायकरतेरुद्दीपनविभावाछ, प्रियेण चुम्बनं तदीयहासश्च तदीयरतेरनुभावौ, तावेव नायिकारतेरुद्दीपनविभावौ, उभयाभिज्ञे सामाजिके रसोत्पत्तिः । लोचना (लो, ओ) शून्यमिति-शून्यं विविक्तं वासगृहं केलिभवनं विलोक्य, शयनात्, शय्यायाः किञ्चिदुत्थाय उत्थिता भूत्वा शनैर्मन्दं निः शब्दमित्यर्थः । बाला निद्राव्याजमुफगतस्य प्रियस्य मुखं सुचिरं निर्वर्ण्य दीर्घकालं विलोक्य सम्यक्परीक्ष्य इत्यर्थः । विश्रब्धं निः शङ्कं यथा स्यात्तथा परिचुम्ब्य आस्वाद्य जातपुलका उत्फुल्लरोमाञ्चाङ्कितां गण्डस्थलीं विलोक्य लज्जानम्रमुखी व्रीडावनतवदना सती हसता प्रियेण चिरं चुम्बितेति सम्बन्धः । नायिका स्वीया, नायकोऽनुकूलः, अत्र नर्मगर्भजातिरलङ्कारः । शून्यभित्यादि, अत्र विलोकनशब्दोऽन्तर्भूतणिजर्थः, तेनालोकनम्, अनयोरेककर्त्तृकतया पूर्वकालीनक्त्वाप्रत्ययः । इह च नायको नायिका चालम्बनविभावौ । शून्यवासगृहादिरुद्दीपनविभावः । अनुभावा बालागतविलोकनादयः नायकागता व्याजनिद्रादयश्च । निद्राया हि व्याजारब्धतया न व्यभिचारित्वम्, व्यभिचारिणश्चनायिकागताः, विलोकनेन शङ्का, उत्थानेन चपलता । उत्थानस्य शनैस्त्वेन त्रासः, चिरं निर्वर्णनेन सुप्तो न वेति सन्देहप्रभवो वितर्कः, विश्रब्धमित्यनेन निद्रानिश्चयज्ञानेन हर्षः, परिचुम्बनेनौत्सुक्यम्, आलोकनेन चपलता, विश्रब्धमित्यनेन लज्जा निर्द्दिष्टैव । नायकगता च व्याजनिद्राश्रयेण धृतिः, चिरपरिचुम्बनेनौत्सुक्यं हर्षश्च । एभिश्च साधारण्येनाभिव्यक्तः सामाजिकरतिभावः शृङ्गारसरूपतां भजते । एवं वक्ष्यमाणोदाहरणोष्वपि विभावादिविवेको बोद्धव्यः । ********** टीका सम्पूर्णा ********** अत्र हि संभोगश्र्टङ्गाराख्यो रसः । भावो यथा महापात्रराघवानन्दसान्धिविग्रहिकाणाम्-- "यस्यालीयत शल्कसीम्नि जलधिः पटष्ठे जगन्मण्डलं, दंष्ट्रायां धरणी, नखे दितिसुताधीशः, पदे रोदसी । क्रोधे क्षअगणः, शरे दशमुखः, पाणौ प्रलम्बासुरो, ध्याने विश्वमसावधार्मिककुलं, कस्मैचिदस्मै नमः" ॥ अत्र भगवद्विषयारतिर्भावः । ************* टीका ************* विज्ञप्रिया (वि, श) यस्यालीयत इति । अस्मै यत्पदोपस्थापिताय कस्मैचितनिर्वचनीयाय अर्थाद्दशावतारिणे नारायणाय नमः । तस्य मत्स्यादिदशावतारभेदेन धर्म्मानाह---यस्येति । उलधितोऽपि मत्स्यस्य प्रौढोक्त्या महत्त्वात्तच्छल्कसीम्नि लयः । पृष्ठ इति-इदं कूर्मावतारे । अलीयत इति सर्वत्रान्वयः । जगन्मण्डलं भूमण्डलं पृष्ठस्य महत्त्वात् । दंष्ट्रायामिति वराहावतारे । दितिसुताधीशो हिरण्यकशिपुः, इदं नरसिंहावतारे । रोदसी द्यावापृथिव्यौ, इदं वामनावतारे । क्रोध इति परशुरामावतारे । ध्यानमिति बुद्धावतारे विश्वध्यायित्वात् । असाविति कल्क्यवतारे आसिना म्लेच्छच्छेदनात् । लोचना (लो, औ) यस्यालीयतेति--अत्र भगवतो दशावतारवर्णानम् । अत्रालीयतेति कियायाः प्रतिवाक्यमन्वयः । शल्कसीन्मि वल्कलप्रदेशे जलधिरलीयतेति, अनेन मत्स्यः । पृष्टदेशे जगन्मण्डलमलीयतेति कूर्मः, एवं वराहादयः । कस्मैचिद्विशेषतो निर्द्देष्टुमशक्यत्वात् । ********** टीका सम्पूर्णा ********** रसाभासो यथा-- मधु द्विरेफः कुसुमैकणत्रे पपौ प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) मधुद्विरेफ इति---महेशतपोभङ्गायाऽकालिके वसन्ते जाते तिरश्चामपि मान्मथक्रियावर्णनमिदम् । अत्र प्रियया साहित्येन मधुपानं प्रियाकण्डूयनं च द्विरेफकृष्णसारयो रतेरनुभावौ । तयोः शृङ्गारयोस्तिर्य्यग्गतत्वेन भासः । एवमन्यदिति । भावाभासादयोऽप्येवम्, ते चाग्रे प्रदर्शयिष्यन्ते । लोचना (लो, अ) कुसुमरूपे एकस्मिन् पात्रे । ********** टीका सम्पूर्णा ********** अत्र स्म्बोगशृङ्गारस्य तिर्यग्विषयत्वाद्रसाभासः । एवमन्यत् । दोषाः पुनः काव्ये किंस्वरूपा ? ************* टीका ************* विज्ञप्रिया (लो, आ) दोषाः पुनरिति---येषां सद्भावेन काव्यत्वं खणिडतमित्यर्थः । किं स्वरूपाः किमाकारेण वर्त्तन्ते इति पूर्ववद्व्याख्यानम् । ********** टीका सम्पूर्णा ********** इत्युच्यन्ते-- ---दोषास्तस्यापकर्षकाः । श्रुतिदुष्टापुष्टार्थत्वादयः काणत्वखञ्जत्वादय इव, शब्दार्थद्वारेण देहद्वारेणोव, व्यभिचारिभावादेः स्वशब्दवाच्यत्वादयो मूर्खत्वादय इव, साक्षात्काव्यस्यात्मभूतं रसमपकर्षयन्तः काव्यस्यापकर्षका इत्युच्यन्ते । एषां विशेषोदाहरणानि वक्षयामःगुणादयः किस्वरूपा इत्युच्यन्ते-- उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः ॥ १.३ ॥ गुणाः शौर्यादिवत्, अलङ्काराः कटककुण्डलादिवत्, रीतयोऽवयवसंस्थानविशेषवत्, देहद्वारेणोव शब्दार्थद्वारेण तस्यैव काव्यस्यात्मभूतं रसमुत्कर्षयन्तः काव्यस्योत्कर्षका इत्युच्यन्ते । ************* टीका ************* विज्ञप्रिया (वि, स) श्रुतीति---श्रुतिदुष्टादयः अपुष्टत्वादयोर्ऽथदोषाः । एते च शब्दार्थद्वारेण रसमपकषर्यन्त इत्यन्वयः । व्यभिचारिभावादेः स्वशबादवाच्यत्वादयः साक्षादित्यर्थः । उत्कर्षहेतव इति---काव्यात्मभूतस्य रसस्य उत्कर्षहेतव इत्यर्थः । तद्धेतुता च शब्दार्थद्वारेण इति व्याख्यास्यते । शब्दार्थावुत्कुष्य रसमुत्कर्षयन्तीत्यर्थः । ********** टीका सम्पूर्णा ********** इह यद्यपि गुणानां रसधर्मत्वं तथापिगुणशब्दोऽत्र गुणाभिव्यञ्जकशब्दार्थयोरुपचर्यते । अतश्च "गुणाभिञ्जकाः शब्दा रसस्योत्कर्षकाः" इत्युक्तं भवतीति प्रागेवोक्तम् । एषामपि विशेषोदाहरणानि वक्षयामः । ************* टीका ************* विज्ञप्रिया (वि, ह) ननु शब्दार्थद्वारेण रसोत्कर्षकत्वमलङ्काररीतीनां शब्दार्थधर्माणामेव सम्भवति रसमात्रधर्माणामेव गुणानां कथं तद्द्वारकत्वं व्याख्यातमित्यत आह---इहेति । गुणाभिव्यञ्जकशब्दार्थयोरिति । यद्यपि वर्णा एव गुणाभिव्यञ्जका इति वक्ष्यन्ते तथापि वर्णेन पदंतेनार्थस्तेन च गुणो व्यज्यते, इत्यभिप्रायेण अर्थस्य गुणाभिव्यञ्जकत्वमुक्तम् । तथा च स्वाव्याख्यातार्थ एवानेनोपपादितः स्वयं, तथा व्याख्याने तु गुणानां साक्षाद्रसोपकारकत्वेनैव कारिकार्थः संगच्छते इति बोध्यम् । प्रागेवोक्तमिति---ननु शब्दार्थद्वारा गुणानां रसोत्कर्षकत्वं प्राङ्नैवौक्तम् । तत्कथमिदमुक्तमिति चेत्, सत्यं किन्तूत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतय इत्युक्तौ अलङ्काररीत्योः समभिवायहारेण पाठवशात्तद्रीतिकत्वलाभः । अत उक्तमित्यत्र उक्तप्रायमित्येवार्थः । लोचना (लो, इ) शौर्य्यादिवदिति--शौर्य्यादिव्यञ्जकशरीरिकधर्मविशेषवत् । अलङ्गाराश्चानुप्रासोपमादयः, ये च तद्धर्मविशेषान्तः पातित्वादिरूपेण प्रतिपादयिष्यमाणाः प्राचीनोक्ताः श्लेषप्रसादादयः तद्युक्तशब्दः चार्थश्च प्राचीनोक्तश्लेषप्रसादादिगुणयुक्तः तयोः रसादिरूपव्यङ्ग्यानां गुणानां व्यञ्जकत्वेन उपचर्य्यते, तदाह काव्यप्रकाशकार एव, "गुणवृत्त्या पुनस्तेषां स्थितिः शब्दार्थयोर्मता"इति । ननु भवन्मते माधुर्य्यादयस्त्रय एव गुणास्ते च रसमात्रनिष्टाः । प्राचीनोक्ताः श्लेषप्रसादादयः शब्दार्थनिष्टत्वेन विंसातिप्रकारास्ते च भवद्भिरस्वीकृतत्वेन च निर्द्देष्टव्याः॑ तत्कथमिदानीं तद्युक्तयोः शब्दार्थयोर्व्यञ्जकत्वम् ? उच्यते न खलु तेषामखीकारः, किन्तु अन्तर्भावित्वादिरूपेण शब्दार्थमात्रनिष्टत्वात्रसमात्रनिष्टगुणवैजात्यात्न पृथगुक्तिः । यदाह--"केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः"इति । न वयं तेषां यथासम्भवं ससधर्मत्वेनोक्तानां व्यञ्जकत्वं न स्वीकुर्मः, किन्तु रसधर्मत्वम् । तदुक्तं ध्वनिकृता, "रौद्रवीररसाविष्टा लक्ष्यन्ते काव्यवर्तिनः । तद्व्याक्तिहेतू शब्दार्थवाश्रित्यौजो व्यवस्थितम्" ॥ इति सर्वमतावदातम् । ********** टीका सम्पूर्णा ********** इति श्रीमन्नारायणचरणारबिन्धमधुव्रत- साहत्यार्णवकर्णधार-ध्वनिप्रस्थापन-परमाचार्यकविसूक्तिरत्नाकराष्टादशभाषा-वारविलासिनीभुजङ्ग-सान्धिविग्रहिक-महापात्र-श्रीविश्वनाथ-कविराजकृतौ साहित्यदर्पणो काव्यस्वरूपनिरूपणो नाम प्रथमः परिच्छेदः । ___________________________________________________ द्वितीयः परिच्छेदः वाक्यस्वरूपमाह-- ************* टीका ************* लोचना (लो, अ) सम्प्रति काव्यलक्षणयोर्वाक्यरसयोः स्वरूपजिज्ञासायां प्रथमोद्दिष्टं वाक्यं द्वितीयपरिच्छेदेन सपरिकरं निरूपयितुकामः तत्सामान्यतक्षणप्रतिपादिकां कारिकामवतारयति--वाक्यस्वरूपमिति । स्वमसाधारणं रूपं स्वरूपम्॑ इतरव्यावर्तको धर्मः । ********** टीका सम्पूर्णा ********** वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः । योग्यता पदार्थानां परस्परसंबन्धे बाधाभावः । पदोच्चयस्यैतदभावेऽपि वाक्यत्वे "वह्निना सिञ्चिति" इत्याद्यपि वाक्यं स्यात् । ************* टीका ************* विज्ञप्रिया (वि, क) वाक्यं रसात्मकं काव्यमित्युक्तत्वात्वाक्यलक्षणं वक्तुमाह---वाक्यस्वरूपमिति । बाधाभावो बाधमात्राभावत्वे बाधज्ञानाभावः, तु बाधिते बाधाज्ञाने शाब्दबोधानुपपत्तेः । वह्निना सिञ्चतीत्यन्वयबोधनकस्यैव वाक्यत्वं, सेकं प्रति वन्हेः करणतान्वयबाधान्नान्वयबोधः । नन्वेवमन्वयबोधजनकत्वमेव लक्षणमिति वाच्यम् ? अन्वयबोधजनकसामग्रीप्रदर्शनार्थं तद्घटितलक्षणकरणात् । ********** टीका सम्पूर्णा ********** आकाङ्क्षा प्रतीतिपर्यवसानविरहः । स च श्रोतुर्जिज्ञासारूपः । ************* टीका ************* विज्ञप्रिया (वि, ख) आकङ्क्षेति---प्रतीतिपर्य्यवसानविरहमेव व्याचष्ठे सचेति । जिज्ञासा च प्रतीतपदार्थातिरक्तपदार्थः॑ सा च प्रथमप्रतीतपदार्थान्वयबाधार्थमुत्थिता बोध्या, तेन गौरश्व इत्यादौ दैवादश्वेति जिज्ञासासत्त्वेऽपि नाकाङ्क्षा । चैत्रस्य भ्राता गृहं गच्छतीत्यादौ चैत्रस्य न गृहे आकाङ्क्षा उदेति भ्रातरि जनितान्वयबोधात् । तेन चैत्रस्य गृहमिति न बोधः । "विमलं जलं नद्याः कच्छे महिषश्चरति"इत्य॑ विमलजलेऽन्विताया अपि नद्याः कच्छस्य सम्बन्धिकत्वेनोपस्थितेः नदीरूपे सम्बन्धिनि तात्पर्य्यशात्कच्छान्वयार्थमपि कच्छे जिज्ञास उदेति इति न तत्राव्याप्तिः । वह्निना सिञ्चतीत्यत्र तु करणतायाः कार्यं विता अनुपपत्त्या सेके तत्कार्य्ये उदेति एव आकाङ्क्षा इति बोध्यम् । एवं चाकाङ्क्षितपरस्परसम्बन्धे बाधविरह एव योग्यता, अन्यथा अनाकाङ्क्षितस्य कालिकसम्बन्धस्य वह्निकरणतासेकयोरपि सत्त्वाद्योग्यता स्यात् । लोचना (लो, आ) वाक्यं स्यादिति । एतद्विवृणोति । योग्यतेति । पदार्थानामिति । पदानां गौरित्यादीनामर्थाः पदार्थः । एतदभावे योग्यताया अभावेऽपि गौरित्यादीनां परस्परमाकाङ्क्षाविरहिणां पदानां प्रतीतिपर्य्यवसानविरह इत्येव विशादयतिश्रोतुर्जिज्ञासा इति । आकाङ्क्षा आत्मधर्मः श्रोतुर्जिज्ञासारूपत्वेन इच्छास्मत्वात् । योग्यतार्ऽथधर्मः स्फुट एव । एतदभावात्गौरश्वः पुरुषो हस्तीत्यत्र च नान्वयबोधः । साकाङ्क्षावाक्येऽपि अन्वयबोधानन्तरं निराकाङ्क्षत्वव्यवहारात् । प्रकृतान्वयबोधसमानाकारशाब्दबोधाभावोऽपि आकाङ्क्षान्तरम् । अतो "घटमानयऽ इति वाक्यमेकदा अन्वयबोधेजनिते न अन्वयबोधान्तरजनकम् (का-प्र-टीदृविश्वनाथ) । प्रतीतीति-प्रतीतेः पर्य्यवसानम् (समाप्तिः) तस्यः विरहः (अभावः) केवलं क्रियाश्रवणे बोधाभावोच्च कारकस्य (प्रथमं कर्त्तुः ततः कर्मप्रभृतीनां) जिज्ञासा स्वत एवोदेति । ********** टीका सम्पूर्णा ********** निराकाङ्क्षस्य वाक्यत्वे "गौरश्वः पुरुषो इस्ती" इत्यादीनामप वाक्यत्वं स्यात् । ************* टीका ************* विज्ञप्रिया (वि, ग) गौरश्व इत्यादि । अत्र चाकाङ्क्षाभावादेव आकाङ्क्षितसम्बन्धे बाधविरहरूपा योग्यतैव नास्ति॑ इत्याकाङ्क्षाया एवाभावान्न वाक्यत्वम् । आकाङ्क्षाभावश्च प्रथमान्तपदार्थस्य प्रथमान्तपदार्थान्तरे भेदेनान्वयार्थं जिज्ञासानुदयस्यानुभाविकत्वादेव॑ अभेदान्वयेतु, बाध एव ********** टीका सम्पूर्णा ********** आसत्तिर्बुद्ध्यविच्छेदः । बुद्धिविच्छेदेऽपि वाक्यत्वे इदानीमुच्चारितस्य देवदत्तशब्दस्य दिनात्नरो च्चारितेन गच्छतीति पदेन सङ्गतिः स्यात् । ************* टीका ************* विज्ञप्रिया (वि, घ) आसत्तिलक्षणमाह--यत्पदबुव्द्यव्यवधानेन यत्पदबुद्धिस्तेनैव सह तस्यासत्तिरित्यर्थः । अव्यवधानं च तदन्वयानुपयुक्तार्थकसार्थकपदान्तरेण, चिरकालेन वा बोध्यम् । तेन काष्ठैः स्थाल्यादिपदार्थानां तदन्वयोपयोगित्वात् । निरर्थकेन व्यवधाने तु अस्त्येवाऽसत्तिः--यथा"स वै गच्छति"इत्यत्र वैकारस्तु निरर्थकोऽपि प्रामाणिकप्रयुक्त एव बोध्यः । नतु चकारादिः । तेन तदन्वयानुपयुक्तार्थकेन प्रामाणिकाप्रयुक्तनिरर्थकेन चाव्यवधानमर्थः । गिरिर्भुक्तमाग्निमान् देवदत्तेन इत्यत्र तु गिर्य्यग्निमत्पदयोर्नासत्तः । तिदन्वयानुपयुक्तभुक्तपदेन व्यवधानात् । कालव्यवधाने तु कालस्य चिरत्वं, तत्पदबुद्धिधारालोपाधिकरणत्वमेव । तत्रासत्त्यभावं दर्शयति--बुद्धिविच्छेदेऽपीति--नच तत्र पूर्वोच्चारितपदार्थस्मृतिर्यद्यस्ति तदेष्वत एव तत्र वाक्यत्वं, नचैतदभावादेव शाब्दबोधानुत्पत्त्या वाक्यत्वाभाव इति वाच्यम्, शब्दबोधजनकत्वस्यासत्तिलक्षणेऽप्रवेशेन तत्पदस्मृत्यभावेन शाब्दबोधाजनकतया वाक्ये तत्रातिव्याप्तिप्रदर्शनस्य औचित्यादेव । ********** टीका सम्पूर्णा ********** अत्राकाङ्क्षायोग्यतयोरात्मार्थधर्मत्वेऽपि पदोच्चयधर्मत्वमपचारात् । ************* टीका ************* विज्ञप्रिया (वि, ङ) ननु बाधज्ञानाभावरूपाया योग्यताया जिज्ञासारूपाया आकाङ्क्षायाश्चात्मार्थवृत्तित्वात्कथं पदोच्चयस्य तद्युक्तत्वमित्यत आह--आकाङ्क्षायोग्यतयोरिति---उपचारो विषयतासम्बन्धेन वृत्तिः । सा च बाधविरहस्य प्रतियोगिनो बाघज्ञानस्य विषये पदोच्चये तद्विषयता साक्षादेव । ********** टीका सम्पूर्णा ********** वाक्योच्चयो महावाक्यम् योग्यताकाङ्क्षासत्तियुक्त इत्येव । इत्थं वाक्यं द्विधा मतम् ॥ २.१ ॥ इत्थमिति वाक्यत्वेन महावाक्यत्वेन च । उक्तं च तन्त्रवार्तिके-- "स्वार्थबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते" ॥ इति । ************* टीका ************* लोचना (लो, इ) महावाक्यस्यापि काव्यत्वे आचार्य्यसम्पतिं दर्शयति---तदुक्तमिति । अङ्गङ्गित्वेन प्रबन्धेषु विशकलितान्यपि वाक्यानि, अन्योऽन्यमङ्गाङ्गिभावं विना तु वातुलप्रलापवदसम्बन्धतां भजन्ते । संहत्य समेत्य वाक्यमहावाक्ययोरित्यादिषु प्रत्येकं व्यवच्छेद इत्यन्वयः । साकाङ्क्षानि अनेकपदानि, यथा देवदत्तो दण्डेन गाम् । अनेकवाक्यानि च संहत्य समुदितार्थबोधानार्थमितरवाक्यसापेक्षाणि प्रबन्धेषु प्रसिद्धनि । तथाभूतानां हि पदानां वाक्यानां च विशकलितानेकार्थबोधन एव भट्टमते सामर्थ्यं नत्वेकार्थबोधने । ********** टीका सम्पूर्णा ********** तत्र वाक्यं यथा--"शून्यं वासगृहम्-ऽइत्यादि (२२ पृ.) । ************* टीका ************* विज्ञप्रिया (वि, च) वाक्यस्य द्वैविध्यमाह---वाक्योच्चय इति । क्वचित्वाक्यमात्रस्य क्वचिच्च महावाक्यस्य वाक्यत्वेन, द्वयोरपि लक्षणकथने आकाङ्क्षासत्त्वात्महावाक्यलक्षणेऽपि योग्यतादिकं विशेषणमित्याह---योग्यताकाङ्क्षेति । तत्रार्द्रकाष्ठे वह्निर्ज्वलति तेन सिञ्चितीत्यत्र महावाक्यत्वापत्त्या तद्वारणाय योग्यतायाः, चैत्रः पचति, मैत्रौ गच्छति, इत्येतद्वारणायाकाङ्क्षायाः, दिनान्तरोच्चारितवाक्यद्वयस्य विरोधिवाक्यव्यवहितयोः साकाङ्क्षयोग्यवाक्ययोर्वारणायाऽसत्तेरुपादानम् । सून्यं वासगृहमित्यादि---अत्र सर्वपदार्थानामेव उत्तरत्र साकाङ्क्षत्वेन कस्यापि स्वार्थबोधसमाप्त्यभावात्न महावाक्यत्वम् । ********** टीका सम्पूर्णा ********** महावाक्यं यथा-- रामायण-महाभारत-रघुवंशादि । पदोच्चयो वाक्यमित्युक्तम् । तत्र किं पदलक्षणमित्यत आह-- वर्णाः पदं प्रयोगार्हानन्वितेकार्थबोधकाः । ************* टीका ************* विज्ञप्रिया (वि, छ)---वर्ण्णाः पदमिति---प्रयोगार्हाश्च तेऽनन्वितैकार्थबोधकाश्चेति कर्मधारयः । एकार्थबोधका इत्यत्र एकैकार्थबोधका इत्यर्थः । तेन वाक्यस्थपदेषु मिलनेन अनेकार्थबोधकेषु नाव्याप्तिः । एकैकार्थवत्त्वं हि स्वसमसंख्यार्थत्वम्॑ अर्थस्य एकैकत्वस्य वक्तुमशक्यत्वात् । न त्रिविधा सुरा इत्यत्र एकसुराशब्दस्य गौडीपैष्ठीमाध्वीत्रयबोधकत्वात्तत्राव्याप्तिरिति वाच्यम्, तत्र गौडी सुरा पैष्ठी सुरामाध्वी सुरा इत्येवमावृत्त्यैवान्वयबोधस्वीकरणे सुरापदत्रयस्य स्वसमसंख्यार्थबोधकत्वेनाव्यप्त्यभावात् । न च तैत्र-मैत्र-देवदत्ताः सुन्दरा इत्यत्र एकसुन्दरपदेन सुन्दरत्रितयाबोधनात्तत्राव्याप्तिरिति वाच्यम्॑ अर्थपदस्यार्थतावच्छेदेकपरत्वेन सौन्दर्य्यस्यैकत्वादेव । न च तथापि त्रिविधा सुरा इत्यत्राव्याप्तिरिति वाच्यमर्थतावच्छेदकानेकत्वे आवृत्तेरेव स्वीकारात् । ********** टीका सम्पूर्णा ********** यथा--घट. । प्रयोगार्हेति प्रातिपदिकस्य व्यवच्छेदः । ************* टीका ************* विज्ञप्रिया (वि, ज) प्रतिपदिकस्येति---तन्मात्रसायेत्यर्थः । विभक्त्यन्तस्यैव पदत्वस्वीकारात्, नहि विभक्तिं विना सुद्धप्रतिपदिकस्य प्रयोगार्हता । नचानन्वितैकार्थपदे नैव पद्वारणमिति वाच्यम्॑ अभिहितान्वयवादे तस्यानन्विताभिधायित्वादेव । ********** टीका सम्पूर्णा ********** अनन्वितेति वाक्यमहावाक्ययोः । ************* टीका ************* विज्ञप्रिया (वि, झ) वाक्यमहावाक्ययोरिति---व्यवच्छेद इत्यत्रान्वयः । तयोः परस्परमन्वितार्थबोधकत्वादेव । अत्र च वाक्यस्याश्वितानेकार्थबोधकत्वादेकार्थबोधकत्वेनैव तद्वारणसम्भवेऽपि तद्विशेषणदानमन्विताभिधानवादोऽस्मभिर्नाद्रियते इत्यभिप्रयसूचनायैव इत्यवधेयम् । ********** टीका सम्पूर्णा ********** एकेति साकाङ्क्षानेकपदवाक्यानाम् । ************* टीका ************* विज्ञप्रिया (वि, ञ) साकाङ्क्षानेकेति---साकाङ्क्षानि अनेकानि पदानि यत्र तादृशवाक्यानां व्यवच्छेद इत्यर्थः । अत्र च वाक्यानामित्येव विवक्षितं॑ वाक्यत्वेनैवानेकपदत्वपरस्परसाकाङ्क्षत्वयोः प्राप्तेः । स्वरूपाख्यानपरत्वादेव तयोरुपादनस्य, न चानन्वितार्थबोधकत्वविशेषणादेवान्वितार्थबोधकवाक्यावृत्तिरिति वाच्यम्॑ परस्परन्वितार्थकवाक्यद्वयस्य मिलित्वा पदत्वापत्तिवारणपरत्वादेव वाक्यानामित्युक्तेः । अनन्वितार्थेत्यादिना तु एकैकवाक्यस्यैव वारणम् । ********** टीका सम्पूर्णा ********** अर्थबोधका इति कचटतपेत्यादीनाम् । वर्णा इति बहुवचनमविवक्षितम् । ************* टीका ************* विज्ञप्रिया (वि, ट) क-च-ट-त-पेत्यादीनामिति---ननु प्रयोगार्हेत्यत्र प्रयोगो नोच्चरणमात्रं, तदा प्रतिपदिकवारणापत्तेः । किन्तु अर्थबोधनार्थमुच्चारणमेवावश्यं वाच्यम् । प्रतिपदिकमात्रस्य तदर्थमनुच्चारणात् । तथा च प्रयोगार्हपदादेव निरर्थक-क-च-ट-त-पादीनां वारणं सायदिति चेत्, सत्यम् । अर्थबोधकत्वानुपादानेर्ऽथविशेषणस्यानन्वितेत्यस्यानुपादानमनायत्यैव पर्य्यवस्यति । ततश्च तदनुपादाने वाक्यमहावाक्ययोरतिव्याप्त्यापत्त्या तद्वारणायानन्वितेत्यस्य दानावश्म्यभावे तदनुरोधेन तद्विशेषस्यार्थस्य बोधकत्वमुपादेयम् । अत एव क-च-ट-त-पित्यादेरपि वारणमित्यभिप्रायात् । कचटतपदायश्च पदैकदेशवर्ण्णा इत्यत्र बहुत्वाविवक्षामाह---वर्ण्णा इति । लोचना (लो, ई) वर्णा इति । बहुवचनमविवक्षितं तेनैकस्य वर्णास्य द्वयोरपि च परिग्रहः एवं च मयि सानुग्रहो भवेत्यत्र अकारस्य एकवर्णस्य वासुदेवसम्बन्धोक्तस्य न पदत्वहानिः । तत्रेति--यथासम्भवं पदवाक्ययोः । ********** टीका सम्पूर्णा ********** अर्थो वाच्यश्व लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः ॥ २.२ ॥ एषां स्वरूपमाह-- वाच्योर्ऽथोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः । व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्त्रः शब्दस्य शक्तयः ॥ २.३ ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) योग्यताकाङ्क्षयोरर्थघटितत्वेन अर्थस्य प्रभेदमाह---अर्थ इत्यादि । स्वरूपं लक्षणम् । शक्तयो वृत्तयः । लोचना (लो, उ) तत्राभिहितान्वयवादिनां मते वाक्यार्थोऽपि पदभिधेय इति वक्ष्येत । आन्वताभिधानवादिनां मते च वाक्याभिधेयः, लक्ष्यश्च पदमात्रस्यार्थः । व्यङ्ग्यश्च वर्णपदवाक्यादीनाम् । ये चान्वितादयो लक्ष्ये वाक्यार्थे इति ऊचुः तन्मते तत्पर्य्यवृत्तिरेव वाक्यार्थबोधिका, द्वितीयलक्षणेत्यपरं नाम । ननु तत्र गङ्गायां घोष इत्यादौ तटार्थबोधिका वक्ष्यमाणलक्षणा वृत्तिः । गौण्याश्च लक्षणायामन्तर्भावनीयत्वादेव गौणार्थस्य न पृथङ्निर्देशः । इह व्यञ्जनाया अभिधालक्षणयोः साहचर्य्यकथनप्रस्तावात्शब्दमात्रशक्तित्ववचनमुपलक्षणम् । व्यञ्जनाप्रस्तावे लक्षणाप्रस्तावे तु भट्टमते "सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य चऽ इति वक्ष्यति । ********** टीका सम्पूर्णा ********** ता अभिधाद्याः । तत्र संकेतितार्थस्य बोधनादग्रिमाभिधा । ************* टीका ************* विज्ञप्रिया (वि, ड) तत्राभिधालक्षणमाह--तत्र संकेतितार्थस्येति । अभिधेति अभिधीयते बोध्यते इति योगार्थ एव लक्षणम्॑ तत्र कस्यार्थस्य बोधनात्तादृशो योगार्थ इत्यत्राह संकेतितेति । संकेतो वृत्तिर्न त्वभिधा, आत्माश्रयापत्तेः । ततस्तद्ग्रहार्थे कारितम् । तत्र कर्मणि क्तप्रत्ययेन गृहीतवृत्तिकस्यार्थस्येत्यर्थः । एवं चागृहीतवृत्तिकार्थबोधिका व्यञ्जना कथं वारितेति वाच्यम् । गृहीततद्वृत्तिकस्योत्यर्थातः ततश्च लक्षणायमतिव्याप्तिः स्यादित्यत आह---अग्निमेति । प्रथमगृहीतेत्यर्थः । लक्षणा तु शक्तिग्रहोत्तरं बाधावतारे सत्येव गृह्यते । अत एव व्याख्यास्यति--शत्त्यन्तरानन्तरितेति । केचित्तु तिसॄणां वृत्तीनामग्रोक्तेत्यग्रिमपदार्थं व्याचक्षते । तन्न । तद्भङ्ग्याभिधाभिधेत्येवमनन्वयापत्तेः॑ शक्त्यन्तरानन्तरितेति व्याख्यानुपपत्तेश्च । ********** टीका सम्पूर्णा ********** उत्तमवृद्धेन मध्यमवृद्धमुद्दिश्य "गामानय" इत्युक्ते तं गवानयनप्रवृत्तमुपलभ्य बालोऽस्य वाक्यस्य "सास्नादिमत्पिण्डानयनमर्थः" इति प्रथमं प्रतिपद्यते, अनन्तरं च "गां बधान" "अश्वमानय" इत्यादावावापोद्वापाभ्यां गोशब्दस्य "सास्नादिमानर्थः" आनयनपदस्य च "आहरणमर्थः" इति संकेतमवधारयति । ************* टीका ************* विज्ञप्रिया (वि, ढ) तत्र वृद्धव्यवहारदर्शनार्थः संकेतग्रहः॑ तत्प्रकारं दर्शयति--उत्तमेति । मतमाश्रित्य व्याचष्ठे--उत्तमेति । णध्यमं वृद्धम् । बालो व्युत्पिसुः । वाक्यस्याखण्डस्येत्यर्थः । सास्त्रादिमत्पिण्डानयनमस्य खण्डार्थः । नतु प्रत्येकं गोशब्दस्य सास्त्रादिमान्, पिण्डः । आनयनस्य आहरणमिति प्रतिपद्यते जानाति । अस्य वाक्यस्येति । अनेन प्रथमं वाक्यवाक्यार्थयोः शक्तिग्रहो दर्शितः । आवापः प्रतिज्ञा, उद्वापः उद्धारः । आवापोद्वापौ श्रुतपदत्यागेन तत्स्थाने पदान्तरश्रुतिः । लोचना (लो, ऊ) क्रमेणाभिधादीनां स्वरूपमाह-तत्रपि एतत्कारिकार्थमन्विताभिधानअयमर्थः-शब्दतदर्थयोर्वाच्यवाचकत्वे व्युत्पन्नानामेव वाक्यार्थप्रतीतिः, व्युत्पत्तिश्च वृद्धप्रयोगादेव, स च वाक्यरूप एव, वाक्यं चान्वितबोधनियतम् । ततश्चोपदेशकलेऽन्वित एव सम्बन्धग्रहणमिति । ननु तर्हि वाक्यभागरूपेषु पदेषु पदार्थबोधव्यतिरेकेण भिन्नवाक्यनिष्टेषु पदेषु कथमर्थावबोध इत्यत आह---अनन्तरं चेति । अयमाशयः---यद्यपि वृद्धव्यवहारपूर्विकैव सर्वा व्युत्पत्तिः, वृद्धव्यवहारश्च वाक्येनैव, तथापि यस्य पदरूपस्य वाक्यभागस्य बोधे यस्यार्थभागस्यावापः, यदुद्धारे चोद्धारस्तस्मेन् पदार्थे तस्य पदस्य शक्तिरावापोद्धरदर्शनेनैवानुगृहीततयार्ऽथापत्त्यावगम्यत इति । एवं चात्र पक्षे प्रत्ययानुमानार्थापत्तिभिः प्रमाणैः संकेतग्रह इति सूचितम् । यदाहुः--- "शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति । श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया ॥ अन्यथानुपपत्त्या च बोधच्छक्तिं द्वयात्मिकाम् । अर्थापत्त्या च बुध्येत सम्बन्धं त्रिप्रमाणकम्" ॥ इति । अस्य ह्यर्थः--शब्दो गामानय इत्यादिवाक्यम्, वृद्धौ प्रयोजकप्रयोज्यौ, अभिधेयो गवानयनादिः । तान् श्रोता प्रत्यक्षेण पश्यति जानाति । अनुमिति शरीरं च-येयं प्रयोज्य वृद्धस्य प्रवृत्तिः सा एतदनुगुणबुद्धि पूर्विका॑ प्रवृत्तित्वात्॑ मदीयैवंविधप्रवृत्तिवत् । सा च प्रवृत्तिरेतत्प्रयोगजन्या॑ एतदन्वयव्यतिरेकानुविधानादिति द्वयमाश्रयभूतस्य वाक्यस्य वाचकत्वनियमनं, विषयभूतस्य वाच्यत्वनियमनमात्मा-स्वरूपं यस्याः तथाभूतां शक्तिं वाचकवाच्यत्वरूपं सम्बन्धमन्यथानुपपत्त्या अर्थात्प्रयोजकवृद्धप्रवृत्तेर्जानाति । नन्वेवं भिन्नवाक्ययोगात्प्रतिवाक्यं व्युत्पत्तिरेवेक्षणीया, सावाच्या दुरुपपाद्येति शब्दव्यवहारेच्छेदे इत्यत आह--अर्थापत्त्या च इति । अत्र चकारेण बोधे तु शक्तिं दूयात्मिकामित्यस्या परामर्शः । अवबुध्यते इति पाठे त्वर्थत एव तत्परामर्शः । एवं चायमर्थः॑ गृहीतसंकेतवाक्यभागरूपस्य तदर्थद्वयात्मिकां शक्तिं वाच्यवाचकसम्बद्धामवापोद्धारदर्शनानुगृहीततया अर्थापत्त्या जानातीति । अर्थस्तु वाक्यवाक्यार्थयोः वाच्यवाचकत्वसम्बन्धिनि बोधने एकार्थापत्तिः । पदतदर्थयोश्चापरेति द्वयोरप्यर्थापत्त्योः सामान्यत एकतयागणनम् । ********** टीका सम्पूर्णा ********** क्वचिच्च प्रसीद्धपदसमभिव्याहरात्, यथा-- "इह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति" इत्यत्र । क्वचिदाप्तोपदेशात्, यथा-- "अयमश्वशब्दवाच्यः" इत्यत्र । ************* टीका ************* विज्ञप्रिया (लो, ऋ) क्वचिदेकेनैवोपमानेन प्रमाणेन संकेतग्रहं दर्शयति-क्वचिच्चेति । अयमर्थः--त्रिधा खलु उपमानप्रमाणव्यवस्थितिः॑ यदाहुः--"सादृश्यं धर्ममात्रं च वैसादृश्यं च भेदतः"इति॑ तत्र सादृश्ये गोसदृशो गवयः । वैसादृश्ये काकविसदृशः कोकिलः । धर्ममात्रे प्रकृतमेव । उपादेयाद्युदाहरणम्--अत्र हि प्रभिन्नकमलोदरे मधुपातृत्वधर्मप्रतिपादकैः पूर्वावधारितसंकेततया प्रसिद्धैः पदैः समभिव्याहारत्मधुकरपदार्थो भ्रमर इति सङ्केतमवधारयति । एतच्च उपलक्षणं॑ तेन गोसदृशो गवयः काकविसदृशः कोकिल इत्यनयोरुपमानप्रमाणेन सङ्केतग्रहः सूचितः क्वचित्शब्दप्रमाण इत्यत आह---क्वचिदिति । आप्तो विश्वस्तः, स च निर्द्धारितवचनः । तेनायमश्वशब्दवाच्य इत्युक्तोऽप्यश्वार्थं संकेतं गृह्णाति । ********** टीका सम्पूर्णा ********** तं च सङ्केतितमर्थं बोधयन्ती शब्दस्य शक्त्यन्तरानन्तरिता ************* टीका ************* विज्ञप्रिया (लो, ॠ) अग्रिमेति--कारिकापदार्थः शक्त्यन्तरानन्तरितेति । तेन लक्षणाव्यञ्जनयोरस्य वैपरीत्यं सूचितम् । लक्षणा हि अभिधान्तरितैव॑ व्यञ्जना यत्र लक्षणा नास्ति तत्राभिधान्तरिता । तद्द्वितीयान्तरिता, यद्वा, अग्रिमेत्यनेन यन्नामा यत्र चैत्रादिः तन्नामाविषयतयापि स इत्युक्तप्रकारादाश्रित चैत्रेत्यादिनान्ना विषयोदेरिव सान्तरायसंकेतिताद्वैतलक्षणं सूचितम् । ********** टीका सम्पूर्णा ********** शक्तिरभिधा नाम । ************* टीका ************* विज्ञप्रिया (वि, ण) क्वचिच्चेति---समभिव्याहारोऽन्वयित्वेनैकवाक्ये निर्द्देशः । प्रभिन्नेति-- अत्र मधुपदं पिबतिपदं च प्रसिद्धम् । केनापि कृतोप्यगृहीतशक्तिकस्य मधुकरपदस्यसमभिव्याहृतमधुपानान्वयित्वात्भ्रमरे शक्तिर्गृह्यते । तं च सङ्केतितमिति--तत्तद्ग्राहकगृहीतवृत्तिकमित्यर्थः । शक्त्यन्तरानन्तरितेति--शक्तिवृत्तिस्तद्ग्रहानन्तरितेत्यर्थः । इयमाग्रिमपदव्याख्या । ********** टीका सम्पूर्णा ********** सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च ॥ २.४ ॥ जातिर्गोपिण्डादिषु गोत्वादिका । गुणो विशेषाधानहेतुः सिद्धो वस्तुधर्मः । शुक्लादयो हि गवादिरं सजातीयेभ्यः कृष्णगवादिभ्यो व्यावर्तयन्ति । द्रव्यशब्दा एकव्यक्तिवाचिनो हरिहर-डित्थडवित्थादयः । क्रियाः साध्यरूपा वस्तुधर्माः पाकादयः । एषु हि अधिश्रयणावश्रयणान्तादिपूर्वापरीभूतो व्यापारकलापः पाकादिशब्दवाच्यः । एष्वेव हि व्यक्तेरुपाधिषु संकेतो गृह्यते, न व्यक्तौः आनन्त्यव्यभिचारदोषापातात् । ************* टीका ************* विज्ञप्रिया (वि, त) ननु संकेतितोर्ऽथः किं धर्मो धर्मो वा इत्यत्राह--सङ्केतितेति । शब्दभेदेन संकेतग्रहविषयोर्ऽथो भिन्न इत्युक्तक्रमेण । विशेषाधानमितरतो वैलक्षण्यबोधजनकम्॑ एतद्रूपो यो वस्तुधर्मः स सिद्धो नित्य इत्याह--सिद्धो वस्तुधर्म इति---एतन्मेत गुणा अपि नित्या एव---उत्पत्तिविनाशप्रतीतिस्त्वाविर्भावतिरोभावरूपैव । गुणानां विशेषाधानं ग्राहयति--सुक्लादयोहि इति--व्यावर्त्तयन्ति विलक्षणतया बोधयन्ति हरिहरेति । इदं च बाल्याद्यवस्थाभेदेन व्यक्तिभेदानङ्गीकारे । तदङ्गीकर्त्तॄणां मते तु अयमपि जातिशब्द एव । आकाशविन्ध्यमन्दरादिशब्दा एकैकव्यक्तिद्रव्यवाचका बोध्याः । क्रिया इति--साध्यरूपाः जन्यरूपा महाप्रलये परमाणूनामपि निष्क्रियत्वेन क्रियाया न नित्यत्वम्, अतस्तस्या जन्यत्वमेवेत्यतस्तस्यानाविर्भावतिरोभावकल्पना । अपाकजरूपाणि परमाणुवृत्तीनि--नित्यान्येव इत्यतस्तद्वृत्तिपदार्थविभाजकोपाधिकत्त्वरूपं नित्यत्वं सर्वगुणानामेवेत्यभिप्रायः । एष्वेवेति--एषु क्रियारूपवस्तुधर्मेषु बोध्येषु पाकादिशब्दवाच्योऽधिश्रयणावश्रयणान्तादिक्रियाकलाप इत्यर्थः । अन्यथानेकक्रियाघटितपाके का क्रियापदधात्वर्थः स्यादिति भावः । एष्वेवेति--द्रव्यंविना एषु व्यक्तेरुपाधिषुइत्यर्थः । आनन्त्येति---गवादिव्यक्तीनामानन्त्येन तत्र सर्वत्र शक्तिग्रहासम्भवादित्यर्थः । यदि च एकव्यक्तावेव संकेतग्रह इत्युच्यते तदाह---व्यभिचारेति । यद्व्यक्तौ संकेतो गृहीतस्ततभिन्नस्तत्सजातीयव्यक्तावपि स्वरूपोद्बोधात्कारणं शक्तिग्रहं विनापि कार्य्यबोधाद्व्यभिचारजोष इत्यर्थः । लोचना (लो, ळ) इह केचिदाहुः॑ जातिरेव पदार्थः, केचित्जातिव्यक्ती, केचिद्व्यक्त्याकृतिजातय इत्यादीनि मतान्तराणि परिहृत्य सर्वेषां वाङ्मयाना व्याकरणमूलत्वातलङ्कारप्रन्थेषु च प्रायेण तदनुगतत्वेनैव व्यवहाराच्च महाभाष्यकारमतमाश्रित्याह---सङ्केत इति । गुणपदार्थं विवृणोति--गुण इति । विशेषाधानहेतुरिति जातेर्व्यवच्छेदः । सिद्ध इति क्रियायाः । गुणानां विशेषाधानहेतुत्वोपपत्तिमाह--शुक्लादय इति । गवादिकं जात्या लब्धगोव्यवहारयोग्यताकम् । द्रव्येत्यादि । हेतुं विनापि अयं डित्थः डवित्थ इत्यादिरूपेणं शृङ्गग्राहिकया वक्तृसंकेतेन व्यक्तिषु सान्निवेशितः । सजातीयशून्ये डित्थाद्यर्थोपस्थापकः शब्दः संकेतस्य विषय इति । पूर्वापरीभूतः प्रधानक्रियाया अवयवरूपतया कार्य्यकारणभूतेन सन्तानीभूतः । एष्वेवेति---एषु जात्यादिषु । इह च द्रव्यस्योपाधिविषयत्वासम्भवेऽपि तत्संज्ञायाः उपाधित्वेन तत्त्वमुपचारात् । डित्थाद्यर्थे चानन्त्यव्यभिचाराभावातुपाधिं विनैव सम्भवति वाच्यवाचकसम्बन्धसमयग्रह इति नोपाधिरपेक्ष्यते । वक्तृस्वेच्छाकल्पितस्य संज्ञाशब्दस्य स्वप्रवृत्तावुपाध्युपगमे पुनरात्माश्रयदोषः । तथापि द्रव्यसंज्ञाया अप्युपाधित्वं प्रतीत्यनुरोधेनोक्तम् । अत एव गुणद्रव्यकियासु चेति द्रव्यकियासु चेति द्रव्यस्य संकेतविषयत्वमुक्तं, तत्रानन्त्यव्यबिचारदोषापाताभावात् । आनन्त्येति-व्यक्तीनामनन्तत्वात्प्रत्येकं च रेखोपरेखादिसंस्थानविशेषस्य च भिन्नत्वात्तत्राशक्यः सभयग्रह इति । नन्वेवं गवादिपदेन संकेतितत्वात्जातावन्तर्हितायां कथं व्यक्तिप्रतीतिः । अविनाभावस्यानुसन्धानमन्तरेणाक्षेपकत्वाभावात् । यथा वा धूमादिगतस्य वह्न्यादेरविनाभावानुसन्धानं चात्रानुपलब्धिबाधितं॑ तत्रानुपयोगितया व्यक्तेः शब्दबोधितत्वं विना शाब्देऽन्वये प्रवेशासम्भव इति जात्यभिधायके शब्दे तद्बोनार्थं व्यञ्जनैव वृत्तिरूपासितुमुचितेति रहस्यम् । एवं च जातिमात्रसङ्केतपक्षे च निर्विवादम् । किं च संशयापगमार्थमुपात्तानि पदानि संसर्गस्य मुख्याङ्गं संसृज्यमानं व्यक्तिरूपं साक्षान्न बोधयन्ति, बहिरङ्गन्तु तदुपाधिभूतं सामान्यमेव बोधयन्ति, इत्यसङ्गतम् । ये त्वाहुः, "व्यक्तिसध्रीचीनायामेव जातौ सङ्केतऽ इति तैरपि प्रकृतस्य लक्षणस्यासङ्केतितत्वात्सङ्केतितभेदानामभावात्, प्रकृतसंसर्गयोग्यव्यक्तिप्रतीतौ शक्त्यन्तरमवश्यमभ्युपेयम् । सामान्यस्य सर्वविशेषत्वाङ्गीकारात्सङ्केतेन सर्वविशेष्यज्ञाने तु सर्वस्यापि सर्वज्ञत्वापत्तिः । प्रथमोद्देशकाले तु सर्वव्यक्तीनां साम्मुख्याङ्गीकारतया सामान्यलिङ्गितया प्रत्यङ्गीकारे पुनराधुनिकस्यापि स्वलक्षणस्य प्रथमोपदेशकालवत्सम्मुखीकारेणैव प्रतीतिः स्यात् । ततश्चान्वयोपपादिकायाः साक्षात्प्रतीतेः पदस्य शक्त्यन्तरं विना किं बीजभित्यलं बहुना । ********** टीका सम्पूर्णा ********** अथ लक्षणा-- मुख्यार्थबाधे तद्युक्तो ययान्योर्ऽथः प्रतीयते । रूढेः प्रयोजनाद्वासौ लक्षणा शक्तिरर्पिता ॥ २.५ ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) लक्ष्यो लक्षणया ग्राह्यः इत्युक्तत्वाल्लक्षणाया लक्षणमाह---मुख्यार्थेति । मुख्यार्थः शक्यार्थः, तत्रापरपदार्थस्यान्वयबाधे ज्ञाते सतीत्यर्थः । गङ्गायां घोष इत्यादौ मुख्यार्थस्य गङ्गाया अबाधात्॑ किन्तु अपरपदार्थस्य घोषान्वयस्यैव बाधात् । तद्युक्तोमुख्यार्थसम्बद्धः अन्यो मुख्यार्थादन्यः । यथा वृत्या ज्ञातया इति शेषः । न केवलं मुख्यार्थबाधज्ञानाधीनं तज्ज्ञानं, अपि तु रूढेः प्रयोजनाद्वापीति । ---रूढिः भूरिकालप्रयोगः । तथा च एतत्त्रितयज्ञापितया या वृत्त्या मुख्यार्थादन्यो मुख्यार्थसम्बद्धोर्ऽथः प्रतीयते असौ शक्तिर्वृत्तिर्लक्षणेत्यर्थः । सा चार्पिता वक्तृपुरुषेण लक्ष्यार्थविषयतया-जनितेत्यर्थः, तथा च वक्तृतात्पर्य्यत्मिकैव सा बोध्या । नतु नैयायिकोक्तशक्यसम्बन्धरूपा॑ तस्या ववत्रान्येन वार्पितत्वाभावात् । या तु व्यङ्ग्यार्थे तात्पर्य्यख्या वृत्तिर्ध्वनिकेनोक्ता या च पदार्थद्वयसंसर्गे तात्पर्य्याख्या वृत्तिः प्राचीवनैयायिकैरुक्ता सा नैतात्त्रितय-ज्ञापिता॑ इत्यतो भिन्नैव सा । मुख्यार्थेऽपरपदार्थान्वयबोधेऽपि तात्पर्य्यविषयस्य तादृशान्वयस्य मुख्यतावच्छेदकरूपेण बोधानुपपत्तिरेव॑ तेन छत्रिणो गच्छन्ति कुन्ताः प्रविशन्तीत्यत्र मुख्यार्थयोः छत्रिकुन्तयोः गमनप्रवेशान्वयसत्त्वेऽपि निरुक्तमुख्यार्थबाधसत्त्वान्नाव्याप्तिः । छत्रिसार्थवाहित्वेन किन्तित्वेन च रूपेणान्वयस्य तात्पर्य्यविषयस्य मुख्यतावच्छेदकच्छत्रित्वकुन्तत्वाभ्यामनुपपत्तेः । अत्र च तात्पर्य्यविषयत्वानुपादाने तु छत्रिकुन्तयोर्गमनप्रवेशान्वयस्य मुख्यतावच्छेदकच्छ त्रित्वकुन्ताभ्यामुत्पद्यमानत्वात्--तत्राव्याप्त्यापत्तेः । एवं मुख्यतावच्छेद्रकरूपेण इत्यनुपादानेऽपि तयोरेवाव्याप्तिः स्यात् । तात्पर्य्यविषयस्य छत्रिसार्थवाहिनो गमनान्वयस्य कुन्तिनः प्रवेशान्वयस्य च लक्षतावच्छेदकच्छत्रिसार्थवाहित्वकुन्तित्वाभ्यामुपपत्तेः । अन्योर्ऽथ इत्यत्रापि मुख्यतावच्छेदकान्यधर्मावाच्छिन्न इत्यर्थः । तेन घटपदस्य नीलघटे लक्षणायां तस्य घटन्यत्वाभावेऽपि नाव्याप्तिः । मुख्यतावच्छेदकघटत्वान्यनीलघटत्वावच्छिन्नत्वात् । लोचना (लो, ए) अथेति-अथाभिधानन्तरं लक्षणोद्देशक्रमप्राप्ता लक्षणा निरूण्यत इति शेषः । मुख्यार्थेति---मुख्यार्थो गङ्गादिशब्दस्य जलमयादिः तस्य च आधेयपदार्थान्तरेऽन्वयानुपपत्तौ, न च यतः कुतश्चित्यदेव तदेव लक्ष्यते-अतिप्रसङ्गादित्यत आह---तद्युक्त इति । तेन मुख्यार्थेन येन केनचित्सम्बन्धेन सम्बद्धः अन्योर्ऽथः तटादिः यया शब्दशक्त्या प्रतीयते बोध्यते॑ न च सम्बन्धमात्रादपि लक्ष्यार्थप्रतीतिः अपि प्रसङ्गादेव इत्याह--रूढेः प्रयोजनाद्वा । क्वचिद्रूढेः अनादिवृद्धव्यवहारप्रसिद्धेः क्वचित्पावनत्वाद्यतिशयं प्रयोजनमुद्दिश्य । अर्पितपदार्थश्च वृत्तावेव सुव्यक्तः । एवं चात्र लक्षणायां हेतुत्रयं मुख्यार्थबादः॑ च तत्सम्बन्धः, क्वचित्रूढिः क्वचित्प्रयोजनं चेति । ********** टीका सम्पूर्णा ********** "कलिङ्गः साहसिकः" इत्यादौ कलिङ्गादिशब्दो देशविशेषादिरूपे स्वार्थे । ञसंभवन् यया शब्दशक्त्या स्वसंयुक्तान् पुरुषादीन् प्रत्याययति, यया च "गङ्गायां घोषः" इत्यादौ गङ्गादिशब्दो जलमयादिरूपार्थवाचकत्वात्प्रकृतेऽसंभवन् स्वस्य सामीप्यादिसंबन्धसंबन्धिनं तटादिं बोधयति, सा शब्दस्यार्पिता स्वाभविकेतरा ईश्वरानुद्भाविता वा शक्तिर्लक्षणा नाम । पूर्वत्र हेतू रूढिः प्रसिद्धिरेव । उत्तरत्र "गङ्गातटे घोषः" इति प्रतिपादनालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनम् । हेतुं विनापि यस्य कस्यचित्संबन्धिनो लक्षणोऽतिप्रसङ्गः स्यात्, इत्युक्तम्-- "रूढेः प्रयोजनाद्वासौ" इति । ************* टीका ************* विज्ञप्रिया (वि, द) व्याचष्टे---कलिङ्ग इति । स्वाभाविकेतरेति । गवादिशब्दस्य स्वभावसिद्धा वृत्तिः शक्तिस्तद्भिन्ना । स्वाभाविकस्यापि पुनरुक्तत्वगौरवादाह---ईश्वरमात्रनियमितेतरेत्यर्थः । मात्रगर्भत्वाकरणे वक्तृतात्पर्य्ययापि ईश्वरनियतत्वात्तस्य च तद्भिन्नत्वानुपपत्तेः । ईश्वरानङ्गीकर्त्तृमीमांसकमते तु शक्तिरूपादतिरिक्तपदार्थान्तरादितरेत्यर्थः । शक्तिर्वृत्तिः । पूर्वत्रेति--कलिङ्गः साहस्क इत्यत्रेत्यर्थः । प्रसिद्धिरति भूरिकालप्रयोग इत्यर्थः । अतिप्रसङ्ग इति-इयं कविप्रयोगार्हा लक्षणा व्युत्पाद्यते । रूढिप्रयोजनशून्या, लक्षणा तु नेयार्थ इति वक्ष्यते, सा च काव्ये दोष एव । तत्राति प्रसङ्गः स्यादित्यर्थः । लोचना (लो, ऐ) उदाहरणदर्शनपूर्वकं कारिकार्थं वृत्त्या विशदयति--कलिङ्ग इति । स्वार्थे वाच्यरूपेऽसम्भवन् देशविशेषादिरूपार्थस्याचेतनतया साहसिकाद्यर्थेनान्वयानुपपत्त्यानुपपद्यमानप्रयोगः कुत इत्याह--जलमयादिरूपार्थस्य वाचकत्वात् । अयमर्थः--गङ्गदिशब्दो यस्मात्जलमयादिरूपमेवार्थं समयस्मरणाकातरः सन् स्मारयति, तस्माद्वाच्यरूपस्य जलाद्यर्थस्य घोषाद्यर्थेन सहान्वयानुपपत्त्या प्रकृते वाचकत्वेन तस्य प्रयोगो न घटत इति । स्वस्यात्मीयस्य वाक्याद्यर्थस्य जलमयादेः, तस्याक्षेपमाकृष्योपनयनम् । सम्बन्धस्यान्वयस्य, तद्धि तटशब्दार्थं यया बोधयतीति सम्बन्धः । भट्टमते स्वाभाविकी अभिधा, तदन्या पदस्य शक्तिर्व्यापारः, तेषामीश्वरानादरात्संकेतस्यानादिव्यवहारप्रवृत्तिस्वीकारात् । ईश्वरानुद्भावितेति नैयायिकमतम् । तदनयोरेकतरा स्वाभाविकी, इतरा ईश्वरानुद्भावितेति द्विधा व्याख्यातम् । पूर्वत्र कलिङ्गः साहसिक इत्यत्र, उत्तरत्र गङ्गायां घोष इत्यादौ । गङ्गातट इत्यादौ तटस्य गङ्गाशब्देन प्रतिपादनात्गङ्गातादात्म्यप्रतीतेः गङ्गार्थनिष्टानां नटार्थनिष्ठातिशयितानां शीतत्वपावनत्वादीनां प्रतीतिर्लक्षणायाः फलमित्यर्थः । ********** टीका सम्पूर्णा ********** केचित्तु "कर्मणि कुशलः" इति रूढावुदाहरन्ति । तेषामयमभिप्रायः-- कुशांल्लातीति व्युत्पत्तिलभ्यः कुशग्राहिरूपो मुख्योर्ऽथः प्रकृतेऽसंभवन् विवेचकत्वादिसाधर्म्यसम्बन्धसम्बन्धिनं दक्षरूपमर्थं बोधयति । तदन्ये न मन्यन्ते । कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वेऽपि दक्षरूपस्यैव मुख्यार्थत्वात् । अन्यद्धि शब्दानां व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम् । व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे "गौः शेते" इत्यत्रापि लक्षणा स्यात् । "गमेर्डेः" (उणादि--२-६७) इति गमधतोर्डेप्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकाले प्रयोगात् । ************* टीका ************* विज्ञप्रिया (वि, ध) काव्यप्रकाशकृदुक्तं रूढिलक्षणोदाहरणं दूषयितुमुत्थापयति--केचित्तु इति । प्रकृते असम्भवन्निति--कर्मणीत्यस्य लौकिककर्मपरत्वेन तन्निमित्तं कुशग्रहणमसम्भवदित्यर्थः । दक्षस्यैव मुख्यार्थत्वादिति---भूरिप्रयोगेण दक्षत्वस्य लघुत्वेन च तदच्छिन्नस्यैव शक्यत्वेन मुख्यत्वादित्यर्थः । अन्यद्धि इति---व्युत्पत्तिर्योगार्थबाधः । प्रवृत्तिः प्रयोगः । तथा च तेनैव निमित्तेन शब्दस्य प्रवृत्तेस्तदवच्छिन्न एव मुख्यार्थ इत्यर्थः । लक्ष्यार्थे क्वचित्प्रयोगस्तु तात्पर्य्यविशेषसत्वे एव॑ यथा दक्षे शक्तस्य कुशलपदस्य गृहविशेषे शक्तस्य मण्डपपदस्य च दैवकर्मणि कुशल इति रोगी मण्डप इति च तयोदवकर्मरोगिपदसमभिव्याहरस्य तात्पर्य्यग्राहकत्वात् । गौः शेते इत्यत्र शेते इति सुप्तगोः- प्रदर्शनार्थमेव । गौरस्तीति सुप्तगवि प्रयोगेऽपि लक्षणा स्यादिति बोध्यम् । अयं च प्रतिबन्धः न सर्वसम्मतः । उणादिप्रत्ययानां व्युत्पत्तेः प्रायिकत्वेन तया प्रयोगाभावात् । अत एव चिन्तामणिकृतोक्तं "पञ्चपादिकालभ्यानुणादिप्रत्ययान्"एकेनैव "उणादयो बहुलम्ऽ इति सूत्रेण वदतः पाणिनेः अयमभिप्रायो यदुणादिप्रत्ययानां प्रायिक्येव व्युत्पत्तिरिति, तथा च न तया प्रयोगः । तथा च गोत्वेनैव रूपेण रूढिशक्त्या गोपदं स्वपदगच्छद्गोसाधारण्येन प्रयुज्यते, न उणादि-प्रत्ययव्युत्पत्त्या इति । ********** टीका सम्पूर्णा ********** तद्भेदानाह-- ************* टीका ************* लोचना (लो, ओ) केचित्त्विति---प्रकृते कर्मणि कुशल इत्यनेनापि अर्थतयासम्भवननुपपत्तिर्बाधितः । विवेचकरूपस्य मुख्यार्थत्वादित्यनेन मुख्यार्थबाधाभावादत्र कथं लक्षणेत्यर्थः । गोशब्दो यद्यपि गमनार्थो व्युत्पत्तिनिमित्तं तथापि गोत्वापत्तिकियैव प्रवृत्तिनिमित्तमत एव गच्छत्यागच्छति गवि गोशब्दप्रयोगः । यदाह, घटशब्दप्रसंगे"घटंन च तदात्मत्वापत्तिरूपा किया मताऽ इति । तद्भेदानिति॑--तयोः रूढिप्रयोजनाभ्यां द्विधोक्तयोर्लक्षणयोर्भेदान् विशेषान् भिद्यतेऽनेन इति भेद इति व्युत्पत्त्या । ********** टीका सम्पूर्णा ********** मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये । स्यादात्मनोऽप्युपादानादेषोपादानलक्षणा ॥ २.६ ॥ ************* टीका ************* विज्ञप्रिया (वि, न) तद्भेदानाह---मुख्यार्थस्येति । वाक्यार्थे बोध्ये, मुख्यार्थस्य तात्पर्य्यविषयान्वयसिद्धये इतरस्य अमुख्यार्थस्याक्षेपः प्रत्यायनमित्यर्थः । अन्वयवाक्यार्थयोरभेदात्वाक्यार्थे मुख्यार्थस्यान्वयसिद्धये इति नान्वयः । अत्रापि ययैति शेषः । अस्या उपादानसंज्ञाव्युत्पत्तिमाह---स्यादात्मनोऽपीति । आत्मनो मुख्यार्थस्यापि । अत्र तात्पर्य्यविषयत्वं यदि अन्वयविशेषणं न क्रियते तदा छत्रिणे गच्छन्ति कुन्ताः प्रविशन्ति इत्यादिषु अव्याप्तिः स्यात्॑ अत्र तात्पर्य्याविषयस्य शुद्धशक्यार्थस्यान्वयसिद्धिसम्भवेन तदर्थमितिरेषामच्छत्रिकुन्तादीनामनाक्षेपात् । इतरसाहित्येनान्वये तात्पर्य्यवशादेव शुद्धमुख्यान्वयस्य बाधोऽवधेयः । तद्बाधोऽपि मुख्यतावच्छेदकरूपेणासम्भवरूप एव॑ लक्षतावच्छेदकरूपेण तु नासम्भव इति बोध्यम् । ********** टीका सम्पूर्णा ********** रूढावुपादानलक्षणा यथा-- "श्वेतो धावति" । प्रयोजने यथा-- "कुन्ताः प्रविशन्ति" । अनयोर्हि श्वेतादिभिः कुन्तादिभिश्चाचेतनतया केवलैर्धावनप्रवेशनक्रिययोः कर्तृतयान्वयमलभमानैरेतत्सिद्धये आत्मसम्बन्धिनोऽश्वादयः पुरुषाद यश्चाक्षिप्यन्ते । ************* टीका ************* विज्ञप्रिया (वि, प) लक्षणसामान्यलक्षणोक्तं रूढिप्रयोजनान्यतरहेतुकत्वमत्र घटयन्नुदाहरति---रूढावुपादानेति । श्वेतः श्वेतगुणवान् । कुन्ता इति कुन्तवन्त इत्यर्थः अनयोर्मुख्यार्थान्वयबाधं दर्शयति । अनयोरिति । श्वेतादिभिरित्यादिपदात्नीलादिगुणानां कुन्तादिभिरित्यादि पदातस्त्रान्तराणां च परिग्रहः । अचेतनतयेति । इदमेतदुदाहरणाभिप्रायेणैवोक्तम् । वस्तुतस्तु छत्रिणो गच्छन्ति इत्यत्र छत्रिणश्चेतनत्वेऽपि तात्पर्य्यविषयच्छत्र्यन्वयत्त्यालाभ एव सर्वसाधारणो मुख्यार्थबाधो बोध्यः । अश्वादय इत्यादिपदच्छ्वेतगवादेः, पुरुषादयः इत्यादिपदात्कुन्तधारिवतितरस्य परिग्रहः । ********** टीका सम्पूर्णा ********** पूर्वत्र प्रयोजनाभावाद्रूढिः, उत्तरत्र तु कुन्तादीनामतिगहनत्वं प्रयोजनम् । अत्र च मुख्यार्थस्यात्मनोऽप्युपादानम् । लक्षणलक्षणायां तु परस्यैवोपलक्षणमित्यनयोर्भेदः । इयमेवाजहत्स्वार्थेत्युच्यते । ************* टीका ************* विज्ञप्रिया (वि, फ) प्रयोजनाभावादिति--रूढिसत्त्वादेन प्रयोजनाननुसन्धानात्तदभावः । प्रयोजनं प्रयोजनीभूतज्ञानविषयः । एवं रीत्यैव पावनत्वादिरपि प्योजनपदार्थो बोध्यः । लक्षणलक्षणायामिति---वक्ष्यमाणायामिति शेषः । परस्यैवेति एवकारान्मुख्यार्थव्यवच्छेदः । उपलक्षणमुपस्थापनम् । लोचना (लो, औ) मुख्यार्थेति---मुख्याभिधेयोर्ऽथः तस्य इतरः प्रकृतनिर्वाहौपायिकः, तस्याक्षेपः आकृष्य उपनयनम् । अन्वयसम्बन्धस्य सिद्धये निर्वाहाय । आत्मनोऽप्युपादानात्, अयमर्थः, इह खल्वभिधया बोधितस्यापि श्वेतकुन्ताद्यर्थस्य पुनः पुरुषादेर्विशेषणतया लक्षणीयत्वेन उपादानमिति । अतिगहनत्वं-कुन्तयुक्ताः पुरुषाः प्रविशन्तीति अभिधानालभ्यम् । उच्यते-परैरिति शेषः । ********** टीका सम्पूर्णा ********** अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये । उपलक्षणहेतुत्वादेषा लक्षणलक्षणा ॥ २.७ ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) लक्षणलक्षणामाह--अर्पणमिति । अत्र अर्पणमित्यत्र परत्रैवेति शेषः, स्वस्य परमात्रविषयता इत्यर्थः । नतु मुख्यार्थविषयतापीत्यर्थः । उपादानलक्षणायां तु मुख्यार्थस्यापि विषयता इति भेदः । स्वस्येत्यत्र यस्या इति शेषः । तथा च वाक्यार्थे बोध्ये परस्य अमुख्यार्थस्य अन्वयसिद्धये अन्वयबोधाय यस्या लक्षणायाः स्वस्य अर्पणं परमात्रविषयता॑ एषा लक्षणलक्षणेत्यर्थः । वाक्यार्थन्वययोरभेदाद्वाक्यार्थे परस्यान्वयसिद्धये इति तु नान्वयः । तादृशसंज्ञाव्युत्पत्तिमाह---उपलक्षणेति । मुख्यार्थं विहायामुख्यार्थमात्रबोधनमुपलक्षणं स्वस्य तद्धेतुत्वादित्यर्थः । ********** टीका सम्पूर्णा ********** रूढिप्रयोजनयोर्लक्षणलक्षणा यथा-- "कलिङ्गः साहसिकः" "गङ्गायां घोषः" इति च । अनयोर्हि पुरुषतटयोर्वाक्यार्थेऽन्वयसिद्धये कलिङ्गगङ्गाशब्दावात्मानमर्पयतः । ************* टीका ************* विज्ञप्रिया (वि, भ) अत्र रूढिप्रयोजनहेतुकत्वे यथासंख्यमुदाहरणद्वयमाह---कलिङ्ग इत्यादि । अत्र कलिङ्गः साहसिक इति न पाठः । किन्तु कलिङ्गः साहसं करोति इत्येव पाठः । साध्यवसानालक्षणाया उदाहरणप्रसङ्गे व्यक्तिर्भाविष्यतीत्यर्थः । उभयत्रैव मुख्यार्थं कलिङ्गरूपं देशं प्रवाहरूपां सङ्गा च विहाय तद्देशस्थपुरुषतत्तीरयोः परयोरन्वयप्रबोधाय पुरुषतरि-रूप-मात्र-विषयता लक्षणायाः । तद्दर्शयति---अनयोर्हेति । वाक्यार्थ बोध्ये पुरुषतटयोरन्वयसिद्धये इत्यन्वयः । समर्पयत इत्यत्र परमात्र इति शेषः । परमात्रं ---विषयीकुरुत इत्यर्थः । कलिङ्गगङ्गाशब्दौ इत्यत्र कलिङ्गगङ्गाशबादपदं तन्निष्ठलक्षणाद्वयपरं यथा व्याख्यातार्थनुसारेण बोध्यम् । एवमुत्तरत्रपि व्याख्येयम् । लोचना (लो, अ) अर्पणं स्वस्य गङ्गादेः । परस्याङ्गस्य तटादिरूपलक्षणहेतुत्वात्सम्बन्धमात्रस्य इत्यर्थः । ********** टीका सम्पूर्णा ********** यथा वा-- "अपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् । विदधदीदृशमेव सदा सखे ! सुखितमास्स्व ततः शरदां शतम्" ॥ अत्रापकारादीनां वाक्यार्थेऽन्वयसिद्धये उपकृतादयः शब्दा आत्मानमर्पयन्ति । अपकारिणं प्रत्युपकारादिप्रतिपादनान्मुख्यार्थबाधो वैपरीत्यलक्षणः सम्बन्धः, फलमप्यपकारातिशयः । इयमेव जहत्स्वार्थेत्युच्यते । ************* टीका ************* विज्ञप्रिया (वि, म) प्रयोजनहेतुकत्वे उदाहरणान्तरमाह-यथा वा-उपकृतमिति । अपकारित्वेन अन्यतो ज्ञातं प्रतीयमुक्तिः । त्वया बहु उपकृतं तत्र किमुच्यत इत्यर्थः । यत्रेति पाठे तु तत्रेति पूरणीयम् । अपकारादीनामिति--अत्रादिपदाद्दुर्जनतादुः खितयोः परिग्रहः । फलमपकारद्यतिशय इति फलीभूतज्ञानविषय इत्यर्थः । एवमुत्तरोत्तरमपि बोध्यम् । इदं च न रुचिरमुक्तम् । लक्ष्यार्थातिशयस्य प्रयोजनत्वे रूढिलक्षणायामपि तत्सम्भवात्विशेषाभावापत्तेः । किन्तु अपकारदुर्जनत्वलक्षणयोः फलं सम्बोध्यस्य कौटिल्यं दुः खितलक्षणायास्तु कौटिल्यफलत्वम् । लोचना (लो, आ) अपकारार्दानामित्यादिशब्देन दुर्जनत्वदुः खितत्वे उपकृतादयं इत्यादिशब्देन सुजनत्वसुखितत्वे । अपकाराद्यतिशयः-स्वशब्दाभिधानालभ्यः । ********** टीका सम्पूर्णा ********** आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा । ************* टीका ************* विज्ञप्रिया (वि, य) उपादानलक्षणलक्षणाद्वयं रूढिप्रयोजनद्वयहेतुकत्वेन चतुर्विधमुक्तम् । अधुनातच्चतुष्टयस्य द्वैगुण्येनाष्टविधमाह---आरोपेति । लक्ष्यार्थे प्रथमतः शक्यार्थाभेदारोप आरोपः । तस्यारोपस्य उत्कटत्वमध्यवसानम् । ********** टीका सम्पूर्णा ********** ताः पूर्वोक्ताश्चतुर्भेदलक्षणाः । विषयस्यानिगीर्णस्यान्यतादात्म्यप्रतीतिकृत ॥ २.८ ॥ सारोपा स्यान्निगीर्णस्य मता साध्यवसानिका । विषयिणा अनिगीर्णस्य विषयस्य तेनैव सह तादात्म्यप्रतीतिकृत्सारोपा । इयमेव रूपकालङ्कारस्य बीजम् । ************* टीका ************* विज्ञप्रिया (वि, र) ते कीदृशत्वे भवत इत्यत्राह---विषयस्येति । विषय आरोपाधिकरणं लक्ष्यार्थः । तस्य अनिगार्ण्णस्य अनाच्छादितस्य अर्थात्स्ववाचकनामपदेन उक्तस्य अन्यतादात्म्यं शक्यार्थाभेदः । तत्प्रतीतिकृल्लक्षण सारोपा स्यादित्यर्थः । निगीर्ण्णस्य विशिष्य स्वावाचक-नामपदेन अनुक्तस्य तु साध्यवसानिका मतेत्यर्थः । अन्यतादात्म्यप्रतीतिश्च लक्षणज्ञानतः पूर्वं बोध्या । तत्प्रतीतिकृच्च यद्यपि समानविभक्तिकपदद्वयमेव, न तु लक्षणा॑ तथाप्यन्यतादात्म्यप्रतीतिपूर्वकप्रतितिकृदित्येवान्यतादात्म्यप्रतीतिकृदित्यस्यार्थः । न च साध्यवसानायां स्वावाचकनामपदेनानिर्द्देशे समानविभक्त्यन्तपदाभावात्, कथं तादात्म्यप्रतीतिकृदिति वाच्यम्, आख्यातेन लक्ष्यार्थस्योक्तौ तत्प्रतीतेः॑ तच्चाग्रे दर्शयिष्यते । लोचना (लो, इ) एवं चतुर्विधापि लक्षणा प्रत्येकं सारोपा साध्यवसाना इत्यष्टविधेत्याह--आरोपेति । अनिगीरार्णस्वरूपसामान्यतादात्म्यप्रतीतिरारोपः । विषयनिगरणेऽभेदप्रतिपत्तिर्विषयिणोऽध्यवसानम् । एवं स्वशब्दार्थनाम्ना गतार्थेऽपि स्फुटीकरणाय लक्षणेन निर्द्दिशति--विषयस्येति । ********** टीका सम्पूर्णा ********** रूढावुपादानलक्षणा सारोपा यथा-- "अश्वः श्वेतो धावति" । अत्र हि श्वेतगुणवानश्वोऽनिगीर्णस्वरूपः स्वसमवेतगुणतादात्म्येन प्रतीयते । प्रयोजने यथा-- "एते कुन्ताः प्रविशन्ति" । अत्र सर्वनाम्ना कुन्तधारिपुरुषनिर्देशात् । ************* टीका ************* विज्ञप्रिया (वि, ल) अश्वःश्वेत इति---अत्र श्वेतगुणवानश्वः लक्ष्यार्ऽथोऽनिगार्ण्णोऽश्वशब्देनैवोक्तत्वात् । श्वेतगुणश्वयोः समानविभक्त्या तादात्म्यप्रतीतिः । प्रयोजने यथा--इति उपदानलक्षणेति शेषः । एते कुन्ता इति॑ कुन्तानामविरलत्वमत्र प्रयोजनम् । कुन्तवान् लक्ष्यार्थः । एतत्पदेनोक्तत्वातनिगीर्ण्णः । अत्र सर्वनाम्नेति---काव्यप्रकाशे तु सर्वनाम्ना लक्ष्यार्थनिर्द्देशे विशिष्य स्वावाचककुन्तादिपदेनानुपादानात्साध्यवसानैव सेत्युक्तम् । विशिष्य स्वावाचकपदनिर्द्देश एव सारोपत्वात् । लोचना (लो, ई) अश्व आरोपविषयः । स्वसमवेत इत्यनेन समवायरूपस्य लक्षणाहेतोः स्वसम्बन्धस्य निगरणं श्वेतगुण आरोप्यमाणः । प्रयोजन इत्यनन्तरं पूर्वोक्ता उपादानलक्षणा सारोपेति अनुषज्यते । एवमुत्तरोदाहरणेष्वपि । सर्वनाम्ना एतत् ********** टीका सम्पूर्णा ********** रूढौ लक्षणलक्षणा सारोपा यथा-- "कलिङ्गः पुरुषो युध्यते" । अत्र कलिङ्ग पुरुषयोराधाराधेयभावः सम्बन्धः । प्रयोजने यथा-- "आयुर्घृतम्" । अत्रायुष्कारणमपि घृतं कार्यकारणभावसम्बन्धसम्बन्ध्यायुस्तादात्म्येन प्रतीयते । अन्यवैलक्षण्येनाव्यभिचारेणायुष्करत्वं प्रयोजनम् । यथा वा-- राजकीये पुरुषे गच्छति "राजासौ गच्छति" इति । अत्र स्वस्वामिभावलक्षणः सम्बन्धः । यथा वा-- अग्रमात्रेऽवयवभागे "हस्तोऽयम्" । अत्रावयवावयवि भावलक्षणसम्बन्धः । "ब्राह्मणोऽपि तक्षासौ" । अत्र तात्कर्म्यलक्षणः । इन्द्रार्थासु स्थूणासु "अमी इन्द्राः" । अत्र तादर्थ्यलक्षणः सम्बन्धः । एवमन्यत्रापि । ************* टीका ************* विज्ञप्रिया (वि, व) कलिङ्गः पुरुष इति---अत्र पुरुषपदेन लक्ष्यार्थोपादानातनिगीर्ण्णत्वम् । कलिङ्गत्वेन लक्षणा । प्रयोजने यथेति---लक्षणलक्षणेति शेषः । अन्यवैलक्षण्येनाव्यभिचारेणेति, अव्यभिचारः अन्यवेलक्षण्यं च हेतुरुक्तः । काव्यप्रकाशे तु आयुर्घृतमिति सारोपायमन्यवैलक्षण्यम् । आयुरिदमिति साध्यवसानायमव्यभिचार इति द्वयोः पृथक्प्रयोजनद्वयमुक्तम् । कार्य्यकारणभावरूपसम्बन्धेन सारोपां लक्षणामुक्त्वा सम्बन्धान्तरैरपि तां दर्शयति---राजर्कायेतीति । अत्र असावितिपदेन लक्ष्यार्थे पुरुषे निर्द्दिष्टे राज्ञोऽभेदारोपात्सारोपा । एवमुभयत्रापि सर्वनाम्ना लक्ष्यार्थनिर्द्दशे तथात्वां बोध्यम् । स्थूणाः स्तम्भा इन्द्रध्वजरूपाः तादर्थ्यलक्षणः तत्पूजार्थतालक्षणः, अत्र इन्द्रवत्पूज्यत्वं प्रयोजनम् । ********** टीका सम्पूर्णा ********** निगीर्णस्य पुनविषयस्यान्यतादात्म्यप्रतीतिकृत्साध्यवसाना । अस्याश्चतुर्षु भेदेषु पूर्वोदाहरणान्येव । तदेवमष्टप्रकारा लक्षणा । ************* टीका ************* विज्ञप्रिया (वि, श) इत्थं सारोपामुक्त्वा "निगीर्ण्णस्य मता साध्यवसानिकाऽ इति कारिकाञ्चलं व्याचष्टे-निगीर्ण्णस्य पुनरिति । अस्याश्चतुर्ष्विति रूढिप्रयोजनद्वये उपादानलक्षणाद्वयं तद्द्वये लक्षणलक्षणाद्वयं चेति साध्यवसानायश्चत्वारोभेदाः । पूर्वोदाहरणान्येवेति रूढावुपादानलक्षणायाः---"श्वेतो धावतिऽ इति प्रयोजने उपादानलक्षणायाः "कुन्ताः प्रविशन्तिऽ इति यद्द्वयमुदाहृतं रूढौ लक्षणलक्षणायाः "कलिङ्गः साहसं करोतिऽ इति प्रयोजने लक्षणलक्षणायां तु राजकीये पुरुषे गच्छति "राजासौ गच्छतिऽ इति यदुदाहृतं तत्र इदं पदत्यागेन उदाहरणमित्यत एतानि चत्वारि साध्यवसानाया उदाहरणानीत्यर्थः । राजा गच्छतीत्यत्र राजवत्परिचारकवेष्टितत्वं प्रयोजनम् । एतेषु चतुर्षु हि कर्त्र्या ख्यातेनैव कर्तृलक्ष्यार्थस्य उपस्थापनात्नामपदेन तु अनुपस्थानान्निगीर्ण्णता । तस्मिंश्च प्रथमं शक्यार्थतादम्यारोपात्साध्यवसानत्वमिति बोध्यम् । प्रथमान्तोक्तकारके प्रथमान्तपदार्थस्याभेदान्वयत्युत्पत्तेः । गङ्गायां घोष इति तु लक्षणलक्षणोदाहरणं यद्दर्शेतं तत्तु न साध्यवसानोदाहरणम् । तत्र लक्ष्यार्थे तीरे प्रवाहतादात्म्यानारोपात् । एवं च रूढौ लक्षणलक्षणेदाहरणं कलिङ्ग इत्यादिकं यदुक्तं तत्र साहसिक इति प्रामादिकः पाठः । नामपदेन साहसिक इत्यनेन लक्ष्यार्थस्य पुरुषस्योपादानात्सारोपत्वेन साध्यवसानत्वाभावात् । किन्तु कलिङ्गः साहसं करोति इत्येव तत्र पाठः । इत्थमुपादानलक्षणालक्षणलक्षणयोः रूढिप्रयोजनहेतुकत्वेन चतुर्विधयोः सारोपासाध्यवसानिकारूपत्वेन द्वैगुण्यातष्टविधत्वम् । लोचना (लो, उ) एवमारोपे रूढिप्रयोजनयोरुदाहरणे चतुष्टयं दर्शयित्वा विषयव्याप्त्यर्थं सम्बन्धभेदेन उदाहरणान्याह--यथा वेत्यादि---राजासौ इत्यत्र पूर्ववतदः शब्देन विषयप्रकटनम् । अग्रेति । अत्र हस्तावयवेऽग्रेऽपि हस्तशब्दप्रयोगः, एकदेशदाहेऽपि ग्रामो दग्ध इति वत् । अत्र इदंशब्दो राजा असौ इत्यत्र च अदः शब्दवत् । साध्यवसानालक्षणं विवृणोति--निगीरार्णस्येति--पूर्वोदाहरणानि श्वेतोधावति, कुन्ताः प्रविशन्ति, कलिङ्गः साहसिकः, गङ्गयां घोषः । ********** टीका सम्पूर्णा ********** सादृश्येतरसंबन्धाः शुद्धास्ताः सकला अपि ॥ २.९ ॥ सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः । ************* टीका ************* विज्ञप्रिया (वि, ष) षोडशभेदानाह---सादृश्येतरेति । सादृश्येतरसम्बन्धाः कार्य्यकारणभावादिरूपाः पूर्वदर्शिताः सकला अष्टविधा अपि सुद्धाः शुद्धपरिभाषिताः । सादृश्यसम्बन्धात्तु ता अष्टविधा गौण्यः सादृश्यघटकरूपशक्यगुणयोगरूपयोगार्थेन गौण्यो गौणीपरिभाषिता इत्यर्थः । षोडशभेदिता अष्टद्वैगुण्यात् । लोचना (लो ऊ) एवमष्टविधापि लक्षणा प्रत्येकं शुद्धा गौणी चेति षोडशप्रकारेति दर्शयति---सादृश्येतरेति । वृत्तौ स्पष्टो लक्षणार्थः । ********** टीका सम्पूर्णा ********** ताः पूर्वोक्ता अष्टभेदा लक्षणाः । सादृश्येतरसंबन्धाः कार्यकारणभावादयः । अत्र शुद्धानां पूर्वोदाहरणान्येव । ************* टीका ************* विज्ञप्रिया (वि, स) पूर्वोक्तोदाहरणान्येव इति---श्वेतो धावतीत्यादीनि, इन्द्रार्था स्थूणा इत्यन्तानि सकलानि एव । तेषु एकत्रापि सादृश्यसम्बन्धाभावात् । ********** टीका सम्पूर्णा ********** रूढावुपादानलक्षणा सारेपा गौणी यथा-- एतानि तैलानि हेमन्ते सुखानि" । अत्र तैलशब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव सार्षपादिषु स्नेहेषु वर्तते । ************* टीका ************* लोचना (लो, ऋ) एतानीति---अत्र तैलशब्दस्य तिलभवस्त्रेहमात्रवाचकत्वात्प्रकृते तस्य केवलस्य सुखमयत्वादिविवक्षणत्मुख्यार्थबादः॑ प्रयोजनाभावात्रूडिः उपादानलक्षणात्वं मुख्यार्थमुपादायैव इति वृत्त्या स्मारितम् । स्त्रेहेषु वर्त्तत इत्यनेन उभयोः स्त्रेहरूपत्वात्सादृश्यलक्षणः सम्बन्धः । एतानीति सर्वानम्ना सारोपात्वम्, एवमुत्तरोदाहरणेष्वपि बोद्धव्यम् । ********** टीका सम्पूर्णा ********** प्रयोजने यथा-- राजकुमारेषु तत्सदृशेषु च गच्छत्सु"एते राजकुमारा गच्छन्ति" । ************* टीका ************* विज्ञप्रिया (वि, ह) तिलभवस्नेहरूपं मुख्यार्थमिति । तिलस्येदमिति योगार्थवशात्तस्य मुख्यार्थत्वं, तस्य चिक्कणताकारित्वेन सादृश्याश्रयं शक्यलक्ष्योभयमेवात्र तैल शब्दार्थ इत्यतो मुख्योपादानम् । एते राजकुमारा इति । अत्र राजकुमारतुल्यशोभावत्त्वं प्रयोजनम्--तुल्यवयस्कत्वंसादृश्यम् । उभयत्रैव एतानि एते इति सर्वनामपदेन लक्ष्यार्थोपादानात्तत्र शक्यार्थतादात्म्यारोपाच्च सारोपा लक्षणा । ********** टीका सम्पूर्णा ********** रूढावुपादानलक्षणा साध्यवसाना गौणी यथा-- "तैलानि हेमन्ते सुखानि" । प्रयोजने यथा-- "राजकुमारा गच्छन्ति" ************* टीका ************* विज्ञप्रिया (वि, क्ष) सादृश्यात्साध्यवसानामाह---तैलानीति । अत्र सर्वनामपदेन लक्ष्यार्थानुपस्थापनान्न सारोपा, किन्तु शक्यार्थाव्यावर्त्तकेन शक्यलक्ष्यसाधारण्येन सुखपदेन लक्ष्यार्थोपस्थापनात्तस्याच्छादनरूपा निगीर्ण्णता । ततः शक्यार्थतादात्म्यारोपात्साध्यवसाना । राजकुमार इति । अत्राख्यातेनैव कर्त्तॄणां लक्ष्यार्थाना मुपस्थापनात्तेषां निगीर्ण्णता । तत्र शक्यराजकुमारतादात्म्यारोपश्चेति साध्यवसाना । तुल्यशोभावत्त्वं प्रयोजनम्, तुल्यवयस्कत्वं सांदृश्यम् । ********** टीका सम्पूर्णा ********** रूढौ लक्षणलक्षणा सारेपा गौणी यथा-- "राजा गौडेन्द्रं कण्टकं शोधयति" । ************* टीका ************* विज्ञप्रिया (वि, क) राजा गौडेन्द्रमिति । अत्र दुः खदायित्वेन कण्टकसदृशः गौडेन्द्रो लक्ष्यार्थः स्वशब्देनैवोपात्तः । अत्र कण्टकतादात्म्यारोपात्सारोपा । ********** टीका सम्पूर्णा ********** प्रयोजने यथा-- "गौर्वाहीकः" रूढौ लक्षणलक्षणा साध्यवसाना गौणी यथा-- "राजा कण्टकं शोधयति" । प्रयोजने यथा--गौर्जल्पति" । ************* टीका ************* विज्ञप्रिया (वि, ख) गौर्वाहीक इति । वाहीको हलावाहकः । स च स्वशब्देनैवोपात्तः । अज्ञत्वधर्मेण सादृश्यम् । जाड्यमान्द्यादिकमवैदग्ध्यं वा प्रयोजनम् । राजा कण्टकमित्यर्थपरम्परालिखितः प्रामादिक एव पाठः । तक्ष्यार्थस्य केनापि पदेन अनुपस्थापनात्, प्रथमं तत्र शक्यतादात्म्यारोपानुपपत्तेः । किन्तु राज्ञा कण्टकं शोध्यते, इत्येव पाठः । तत्र कर्माख्यातेनोपस्थापिते शोध्ये कर्मणि वौरीणि प्रथमान्तकण्टपदशक्यार्थस्य तादात्म्यारोपात् । गौर्जल्पतीत्यत्रापि गौर्जल्पकत्वासम्भवादाख्यातेनोपस्थापिते जल्पके निगीर्ण्णे गोतादात्म्यारोपात्साध्यवसाना । गोवद्वैदग्ध्यं प्रयोजनम्, जडत्वादिना सादृश्यम् । लोचना (लो, ॠ) प्रयोजन इत्यनन्तरमुपादानलक्षणा सारोपा गौणीत्यनुषज्यते, एवमुत्तरत्राप्युदाहरणे पूर्वोक्ता वृत्तिः । एते इति । अत्र राजकुमारसदृशेषु राजकुमारप्रयोगात्मुख्यार्थबादः । शौर्य्यसौन्दर्य्यपरिच्छदादिभिः सादृश्यं सम्बन्धः । प्रयोजनमेषामतिशयः । लाजेति--गौडेन्द्रे कण्टकशब्दस्य प्रयोगे प्रयोजनाभावाद्रूढिः । क्षुद्रदुः खदायित्वं सादृश्यं सम्बन्धः । कण्टकशब्दस्य प्रकृते स्वार्थपरित्यागात्लक्षणलक्षणा, गौडेन्द्रस्य विषयस्यानिगरणात्सारोपात्वम् । गौर्वाहीक इत्यादिएतस्मिनुदाहरणे यथा प्रयोजने लक्षणलक्षणा सारोपा गौणी । तथा वृत्तावेवाग्रे स्फुटीभविष्यति । एवं गौर्जल्पतीत्यत्रापि प्रयोजने लक्षणलक्षणा साध्यवसाना गौणी । ********** टीका सम्पूर्णा ********** अत्र केचिदाहुः--गौसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यन्ते । ते च गोशब्दस्य वाहीकार्थाभिधाने निमित्तीभवन्ति । तदयुक्तम्-- गोशब्दस्यागृहीतसङ्केतं वाहीकार्थमभिधातुमशक्यत्वाद्गोशब्दार्थमात्रबोधनाच्च । अभिधाया विरतत्वाद्विरतायाश्च पुनरुत्थानाभावात् । ************* टीका ************* विज्ञप्रिया (वि, ग) अत्र केचिदिति---स्वार्थो गोत्वं तत्सहचारिण इत्यर्थः । वाहीकार्थाभिधाने इति---अभिधया प्रतिपादने इत्यर्थः । निमित्तीभवन्तीति---शक्यताव्च्छेदकीभवन्तीत्यर्थः । तथा च जडत्वेन रूपेण वाहीकः शक्त्यैव, जडो वाहीक इति प्रतीतिरिति तत्सिद्धान्तः । तदयुक्तमिति । अयं च दोषः तत्सिद्धान्तानवकलेनादेव धर्मे लक्षणया एव धर्मिणि शक्तिग्राहकत्वस्य तैः सिद्धान्तितत्वात् । गोशब्दार्थेति---सकृदुच्चारितस्य शब्दस्य सकृदर्थबोधनेन शब्दविरित्या अभिधाया अपि विरतेरिति भावः । लोचना (लो, ळ) सम्प्रति पूर्वपक्षनिरासपूर्वकं गौण्या वृत्तेर्लक्षणायामन्तर्भावं दर्शयनेकत्रापि उदाहरणे विप्रतिपत्तिनिरासेन सर्वमपि सामञ्जस्यं भविष्यतीत्याह--अत्रेति । गौर्वाहीक इत्यत्र स्वार्थो गौः॑ लक्ष्यन्ते लक्षणया बोध्यन्ते ते तत्र लक्षिता गुणाः॑ चकारेण न खलु तेषां लक्षितत्वमात्रेण विश्रन्तिरिति, वाहीकार्थस्याभिधानेऽभिधया बोदने निमित्तीभवन्ति । पुनरुत्थानाभावात्शब्दबुद्धिकर्म्मणां विरम्य व्यापाराभाव इति न्यायात्, अभिधान्तरकल्पने कल्पनागौरवमित्याशयः । ********** टीका सम्पूर्णा ********** अन्ये च पुनर्गौशब्देन वाहीकार्थो नाभिधीयते, किन्तु स्वार्थसहचारिगुणसाजात्येन वाहीकार्थगता गुणा एव लक्ष्यन्ते । तदप्यन्ये न मन्यन्ते । ************* टीका ************* विज्ञप्रिया (वि, घ) गुणा एव लक्ष्यन्त इति---वाहीकप्रतीतिस्त्वाक्षेपादिति भावः । लोचना (लो, ए) मतान्तरमाह--अन्य इति । नाभिधीयते उक्तादेव न्यायात् । स्वार्थो गौः । साजात्येन सम्बन्धेन वाहीकगता गुणा जाड्यमान्द्यादय एव ॑ अत्रैवकारेण गुणिनो व्यवच्छेदः । लक्ष्यन्ते लक्षणया बोध्यन्ते तत्समनन्तरोक्तं मतान्तरमपि । ********** टीका सम्पूर्णा ********** तथाहि-- अत्र गोशब्दाद्वाहीकार्थः प्रतीयते, न वा ? आद्ये गोशब्दादेव वा ? लक्षिताद्वा गुणाद्? अविनाभावाद्वा ? तत्र, न प्रथमः, वाहीकार्थेऽस्यासङ्केतित्वात् । ************* टीका ************* लोचना (लो, ऐ) अत्र पक्षे आद्ये प्रतीतिपक्षे । लक्षितात्गुणात्स्वनिष्टजाड्यमान्द्यादेः । अविनाभावोऽव्यभिचारसम्बन्धः तद्द्रारा तद्वलेनाक्षेपादिभावः । प्रथमः गौशब्दमात्रात्वाहीकस्य प्रतीतिपक्षेः । प्रतीतिश्चाभिधया बोधिता । ********** टीका सम्पूर्णा ********** न द्वितीयः,-- अविनाभावलभ्यस्यार्थस्य शाब्देऽन्वये प्रवेशासंभवात् । शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते । न द्वितीयः,-- यदि हि गोशब्दाद्वाहीकार्थो न प्रतीयते, तदास्य वाहीकशब्दस्य च सामानाधिकरण्यमसमञ्जसं स्यात् । ************* टीका ************* विज्ञप्रिया (वि, ङ) आद्येऽपीति--गोशब्दाद्वाहीकप्रतीतिपक्षे इत्यर्थः । न प्रथमैत्यनेन तद्दूषणम् । असंकेतितत्वादिति---एतदुद्धारश्च तन्मते दर्शित एव, इत्यवधेयम् । न द्वितीयो--लक्षितगुणाविनाभावेनाक्षेपात्प्रतीतिपक्षः । शाब्देऽन्वये प्रवेशासम्भवादिति--इदं च स्वसिद्धान्ताभिप्रायेणैवोक्तम् । वस्तुतस्तु जातिशक्तिवादे जात्यविनाभावलभ्याया व्यक्तेः शाब्दबोधप्रवेशवदत्रापि तथात्वे बाधकाभावात् । न तृतीय इति--गोशब्दात्वाहीकप्रतीत्यभावपक्षे । सामानाधिकरण्यमिति---स्वार्थयोरभेदबोधकत्वनियतं समानविभक्तिकत्वमित्यर्थः । लोचना (लो, ओ) अविनाभावलभ्यस्य न तु शब्दबोधितस्येत्यर्थः । आचार्य्यसम्मतिमाह--शाब्दीत्यादि--हि यस्मात्शब्देनैव न त्वाविनाभावादिलभ्यार्थेन । तृतीयो न प्रतीतेपक्षः । ********** टीका सम्पूर्णा ********** तस्मादत्र गोशब्दो मुख्ययावृत्त्या वाहीकशब्देन सहान्वयमलभमानोऽज्ञत्वादिसाधर्म्यसंबन्धाद्वाहीकार्थं लक्षयति । वाहीकस्याज्ञत्वाद्यतिशयबोधनं प्रयोजनम् । ************* टीका ************* विज्ञप्रिया (वि, च) तथा हि गोशब्दस्य वाहीकगतजाड्यमान्द्यादि गुणोर्ऽथः । वाहीकशब्दस्य हलवाहिकोर्ऽथः । वाहीकार्थं लक्षयतीति--गोसदृशत्वेन रूपेणेति शेषः । लोचना (लो, औ) तत्का गतिरित्याकाङ्क्षायां स्वमतमाह-तस्मादिति । यस्मादेवमन्या गतिर्नास्ति इत्यर्थः । गोशब्दो गोशब्दार्थः । शब्दतदर्थयोरभेदोपचारात् । एवमन्यत्राप्येवंविधस्थले बोद्धव्यम् । मुख्या वृत्तिरभिधाप्रयोजनम् । वाहीकोऽज्ञ इति स्वशब्दप्रतिपादनालभ्यम्, एतस्या गौण्याख्याया वृत्तेर्मुख्यार्थबाधादित्रितयहेतुकत्वात्लक्षणायामन्तर्भावः स्फुट एव इत्याशयः । इह च गङ्गतटयोस्तादात्म्यप्रतीत्या तटे शीतत्वाद्यतिशयः । गौर्वाहीक इत्यत्र गोवाहीकशब्दयोस्तादात्म्यप्रतीत्या वाहीके जाड्याद्यतिशयः प्रतीयते इति व्यर्थोऽयमुपचारो लक्षणायासः काव्यप्रकाशकारस्येति चण्डीदासपण्डितानामविचारिताभिधानम् । तथाहि सादृश्यसम्बन्धिनोरिव तदितरसम्बन्धिनोर्न सम्बन्धौदासीन्येन वृत्तिः॑ अत एवान्यैरुक्तसम्बन्धान्तरं लक्ष्यलक्ष्यकयोः साक्षात्सम्बन्धेन, सादृश्यं तु गौर्वाहीकादितद्धर्मसाजात्यरूपं, न तथेति, अत एव क्वचित्तटादौ गङ्गदिसम्बन्धात्किञ्चित्शेत्यादिकमस्त्वेवं, किन्तु गङ्गाशब्देन प्रतिपादने गङ्गात्वप्रतीतौ तत्शैत्यादिकमाधिकं प्रतीयते । वाहीके पुनर्गोनिष्टानां गुणानां कदाचिन्न सम्भवः, किन्तु तत्सजातीयानाम् । किञ्च गौर्वाहीक इत्युक्तेऽपि प्रतिपत्तुः सर्वथा नाभेदप्रतिपत्तिः, किन्तु सामानाधिकरण्यप्रयोगात्तस्याः स्थगनमात्रम् । तदुक्तं शारीरिकमीमांसाव्याख्याने वाचस्पतिमिश्रैः---"अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्त्ततऽ इति यत्र प्रयोक्तृप्रतिपत्त्रोः सम्प्रतिपत्तिः स गौणः, सच भेदप्रत्ययपुरः सर इति । ********** टीका सम्पूर्णा ********** इयं च गुणयोगाद्रौणीत्युच्यते । पूर्वा तूपचारामिश्रणाच्छुद्धा । उपचारो हि नामात्यन्तं विशकलितयोः शब्दयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रम् । यथा--अग्रिमाणवकयोः" । शुक्लपटयोस्तु नात्यन्तं भेदप्रतीतिः, तस्मादेवमादिषु शुद्धैव लक्षणा । ************* टीका ************* विज्ञप्रिया (वि, छ) गुणयोगादिति---शक्यगोनिष्ठजाङ्यादिगुणसजातीयजाड्यादिगुणयोगादित्यर्थः । पूर्वा त्विति--सुक्लपटः, आयुर्घृतमित्यादिकेत्यर्थः । ननु तत्रापि समानविभक्तिकत्ववशादायुर्घृतयोः प्रथमभेदोपचारोऽस्तेयेव इत्यत आह---उपचारो हीति । समानविभक्तिकत्वाभिधानेन उपचारेणामिश्रणं न शौद्धत्वप्रयोजकं, किन्तु तत्रैव सादृश्यसत्त्वे एवेति भावः । शुक्लपटयोस्त्विति--आयुर्घृतयोश्चेत्यपि बोध्यम् । लोचना (लो, अ) एतदभिप्रेत्य उक्तप्रकारेण लक्षणाविशेषणयोर्गौणशुद्धयोर्भेदं दर्शयतिइयं चेति । इयं सादृश्यसंबन्धहेतुका गुणयोगात्नतु साक्षात्सम्बन्धात् । उपचारो नाम अत्यन्तं विशकलितयोरित्यनेन सम्बन्धस्य साक्षात्त्वं दर्शितम् । स्थगनमात्रं नतु सर्वथाभावः । नात्यन्तं भेदप्रतीतः उक्तनयेन सम्बन्धस्य साक्षात्त्वात् । ********** टीका सम्पूर्णा ********** व्यङ्ग्यस्य गूढागूढत्वाद्द्विधा स्युः फललक्षणाः ॥ २.१० ॥ प्रयोजने या अष्टभेदा लक्षणा दशितास्ताः प्रयोजनरूपव्यङ्ग्यस्य गूढागूढतया प्रत्येकं द्विधा भूत्वा षोढश भेदाः । तत्र गूढः, काव्यार्थभावनापरिपक्वबुद्धिविभवमात्रवेद्यः । यथा-- "उपकृतं बहु तत्र-" इति । अगूढः, अतिस्फुटतया सर्वजनसंवेद्यः । यथा-- उपदिशतिं कामिनीनां यौवनमद एव ललितानि" ॥ अत्र"उपदिशति" इत्यनेन "आविष्करोति" इति लक्ष्यते । आविष्कारतिशयश्चाभिधेयवत्स्फुट प्रतीयते । ************* टीका ************* विज्ञप्रिया (वि, ज) फललक्षणाः प्रयोजनवत्यो लक्षणाः । प्रयोजने या अष्टभेदा दर्शिता इति षोडशसु रूढावष्टौ प्रयोजने त्वष्टाविति दर्शतत्वात् । परिपक्वबुद्धैः दृढसंस्कारजा बुद्धिः । उपकृतमिति---अत्र ग्रन्थकृन्मतेऽपकारद्यतिशयः, अन्यमते त्वपकारिणः कौटिल्यादिकं प्रयोजनं, व्यङ्ग्यविदग्धैकगमम् । सोल्लुण्ठनार्थस्याविदग्धावेद्यत्वात् । आविष्करोतीति--उपदेशकत्वस्य गुरुधर्मत्वेन यौवनमदे तद्बाधातिति भावः । आविष्कारातिशयश्चेति--इदं तु नानुभाविकमुक्तम् । काव्यप्रकाशे तु शिक्षादानमेव लक्ष्यार्थस्तत्रानायास एव प्रयोजनमभिधेयवत्सर्वजनवेद्यम् । तद्धि प्रयोनजमुपदेशस्य वाक्यार्थस्य धर्मो लक्ष्यार्थे शिक्षादाने प्रतीयते---उपदेशात्शिक्षायां चानायासः सर्वजनवेद्य एव इति तदभिप्रायः । लोचना (लो, आ) सम्प्रति व्यङ्ग्यवैचित्र्यैणैव लक्षणाभेदान् दर्शयति, व्यङ्गयस्येतिफलं प्रयोजनं, तद्युक्ता लक्षणा । ललितानि चेष्टितानि । आभ्यामेव व्यङ्ग्यस्य गूढागूढत्वाभ्यां ध्वनिगुणीभूतव्यङ्ग्याख्यौ काव्यप्रकारविशेषौ वक्ष्येते । ********** टीका सम्पूर्णा ********** धर्मिधर्मगतत्वेन फलस्यैता अपि द्विधा । एता अनन्तरोक्ताः षोडशभेदा लक्षणाः फलस्य धर्मिगतत्वेन धर्मगतत्वेन च प्रत्येकं द्विधा भूत्वा द्वात्रिंशद्भेदाः । दिङ्मात्रं यथा-- "स्त्रिग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव" ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) षोडशभेदा इति---गूढागूढप्रयोजनरूपा इत्यर्थः । धर्मिधमर्गतत्वेनेति॑ धर्मो लक्ष्यार्थः । धर्मस्तु लक्ष्यार्थनिष्ठपदार्थः स्त्रिग्धश्यामलेति---प्रावृट्काले उपस्थिते सीताविरहिणो रामस्येयमुक्तिः । वेल्लन्ती चञ्चला वलाका यत्र तादृशाः । पयोदसुहृदांमयूराणामेते विरहोद्दीपकाः कामं स्वाच्छन्द्येन सन्तु तथापि मां मारयितुं न शक्ता इत्यर्थः । यतो रामोऽस्मि, दुः खसहिष्णुरस्मि, तथात्वे हेतुमाहकठोरेति । अत उक्तं घनादिकं सर्वमहं सहे इत्यर्थः । वैदेही तु अनीदृशी । कथं भविष्यति, किप्रकारा भविष्यतीत्यर्थः । हाहा खेदे । तस्माद्देवि वैदेहि ! धीरा भव---दुः खसहिष्णुर्भवेत्यर्थः । ********** टीका सम्पूर्णा ********** अत्रात्यन्तदुःखसहिष्णुरूपे रामे धर्मिणि लक्ष्ये तस्यैवातिशयः फलम् । "गङ्गायां घोषः" इत्यत्र तटे शीतत्वपावनत्वरूपधर्मस्यातिशयः फलम् । ************* टीका ************* विज्ञप्रिया (वि, ञ) रामे लक्ष्ये इति---घनाद्युद्दीपकसहरामत्वस्य प्रयोजकत्वाद्दुः खसहिष्णुत्वरूपेण रामो लक्ष्यत इत्यर्थः । तस्यैवातिशय इति तस्यैव दुः खसहिष्णो रामस्यातिशयः विप्रलम्भरूपः, नचात्र दुः खसहिष्णुत्वस्याप्यतिशयः प्रतीयत एव । तत्कथमिदं धर्मगतस्योदाहरणं न दर्शितमिति वाच्यम् । विवक्षितार्थाविवेकेन तस्यापि धर्मिगत्वादेव॑ तथाहि दुः खसहिष्णुत्वं तावद्दुः खद्वेषाभावस्तस्य चाभावरूपस्यातिशयान्तराभावद्वेषसामान्याभावरूपत्वमेवतिशयः । स च नातिरिक्तपदार्थः । किन्तु अभावस्वरूप एव । तस्य च रामरूपधर्मिगतत्वादेव । शीतत्वपावनत्वातिशयस्येति---अतिशयस्यातिशयान्तराभावादतिशयितशीतत्वपावनत्वयोरित्यर्थः । अत्र चातिशयितांशो नातिप्रयोजनः सम्पातायात एव बोध्यः नन्वत्र धर्मिगते शीतत्वपावनत्वे एव प्रयोजने किं न स्यादितिचेन्न । गङ्गसम्बन्धवशात्तटस्य शीकत्वपावनत्वे वास्तवे एव । ततश्च लक्षणया तटप्रतीतौ तत्सम्बन्धिनोः तयोः स्मरणस्यैवं सम्भवेन व्यङ्ग्यत्वनियमरहितयोस्तयोरतिशय एव प्रयोजनमित्यभिप्रायात् । लोचना (लो, इ) स्निग्धेति--वेल्लनं चलनं॑ पयोदसुहृदां मयूराणाम्॑ आनन्देन केकाः ध्वनयः कला मधुरास्फुटाः । अत्रेति--अयमर्थः॑ रामोऽहं सर्वं सह इत्यत्र रामस्य सर्वंसहत्वस्याप्रसिद्धेः॑ मुख्यार्थबाधात्रामस्यात्यन्तदुः खसहिष्णुत्वरूपोविशेषो लक्ष्यते । तेन फलातत्यन्तदुः खसहिष्णू रामोऽस्मि इति शब्दाभिधानालभ्यं तथाभूतरामविशेषस्य एवातिशयस्तन्निष्टमेव प्रयोजनमिति । ********** टीका सम्पूर्णा ********** तदेवं लक्षणाभेदाश्चत्वारिंशन्मता बुधैः ॥ २.११ ॥ रूढावष्टौ फले द्वात्रिंशदिति चत्वारिशल्लक्षणाभेदाः । किञ्च-- पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा । ता अनन्तरोक्ताश्च त्वारिंशद्भेदाः । तत्र पदगतत्वे यथा-- "गङ्गायां घोषः" । वाक्यगतत्वे यथा-- "उपकृतं बहु तत्रऽइति । एवमशीतिप्रकारा लक्षणा । ************* टीका ************* विज्ञप्रिया (वि, ट) फले द्वात्रिंशदिति--पूर्वोक्ताष्टविधप्रयोजनस्य गूढागूढत्वाभ्यां द्रैगुण्येन षोडशविधस्य धर्मिधर्मगतत्वेन द्वैगुण्याद्द्वात्रिंशदित्यर्थः । पदवाक्यगतत्वेन व्यङ्ग्यत्वेन । गङ्गायामिति--नन्विदमपि घोषन्वयवशात्वाक्यमेव यदि च वाक्यस्थैकपदस्यैव लाक्षणिकत्वात्तद्व्यङ्ग्यस्य पदगतत्वं तदा उपकृतं बह्वित्यत्रापि न वाक्यगतत्वम् । उपकृतं बहु तत्र किमुच्यते इति वाक्यस्थस्योपकृतपदस्य एकस्यैव लक्षणिकत्वादिति चेन्न । वाक्यगतपदद्वयस्य लाभणिकत्वे तयोः पदयोर्वाक्यत्वेन वाक्यगतत्वात् । भवति हि उपकृतमित्यत्र उपकृतमित्यत्र उपकृतसुजनतापदयोर्वाक्यस्थयोर्लाक्षणिकत्वम् । नच किमुच्यते इत्यन्तस्य भिन्नवाक्यत्वात्कथं तयोरेकवाक्यत्वमिति वाक्यम्, "किमुच्यते अतः सुजनता प्रथिता"इत्येवमेकवाक्यत्वात् । लोचना (लो, ई) तस्मातेवमुक्तप्रकारेण"उपकृतं बहु तत्र"इत्यत्र बहुपदनिष्टत्वाभिप्रायेण वाक्यगतत्वम् । एवमेव हि ध्वनिगुणीभूतव्यङ्ग्यदोषगुणालङ्काराणां वाक्यनिष्टत्वं प्राचीनालङ्कारग्रन्थष्वपि प्रयशो दृश्यते । तथाहि काव्यप्रकाशकृतो हि निहतार्थत्वे उदाहरणम् । "सायकसहायवाहोर्मकरध्वजनियमितक्षमाधिपतेः । अब्जरुचिभास्वरस्ते भातितरामवनिपश्लोक." ॥ इति । ********** टीका सम्पूर्णा ********** अथ व्यञ्जना-- विरतास्वभिधाद्यासु ययार्ऽथो बोध्यते परः ॥ २.१२ ॥ सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च । "शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः" इति नयेनाभिधालक्षणातात्पर्याख्यासु तिसृषु वृत्तिषु स्वं स्वमर्थं बोधयित्वोपक्षीणासु यथा अपरोऽन्योऽन्योर्ऽथो बोध्यते सा शब्दस्यार्थस्य प्रकृतिप्रत्ययादेश्च शक्तिर्व्यञ्जनध्वननगमनप्रत्यायनादिव्यपदेशविषया व्यञ्जना नाम । ************* टीका ************* विज्ञप्रिया (वि, ठ) व्यङ्ग्यो व्यञ्जनयेत्युक्तत्वात्व्यञ्जनालक्षणं वक्तुमाह---अथेति । नयेनेति । एतन्न्यायात्शब्दस्येव तन्निष्ठवृत्तेरपि विरतिः सिद्ध्यति इत्यर्थः । उपक्षीणास्विति । अर्थान्तरबोधने क्षीणसमर्थ्यासु । लोचना (लो, उ)--उद्देशकमप्राप्तां व्यञ्जनां निरूपयति--अथेति । परोभिधेयादिव्यतिरिक्तो व्यङ्ग्यत्वेन निरूपयिष्यमाणो वस्त्वलङ्काररसलक्षणः । तिसृष्विति---अभिहितान्वयवादिमतमाश्रित्य अन्विताभिधानमते तु द्वयोः । तत्रापि लक्षणाया अभावे तु प्रथममते तु द्वयोः द्वितीयमते त्वेकस्याः । ध्वननादयो व्यञ्जनस्य पर्यायान्तरणि । ********** टीका सम्पूर्णा ********** तत्र-- अभिधालक्षणामूला शब्दस्य व्यञ्जना द्विधा ॥ २.१३ ॥ अभिधामूलामाह-- अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते । एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया ॥ २.१४ ॥ आदिशब्दाद्विप्रयोगादयः । ************* टीका ************* विज्ञप्रिया (वि, ड) अनेकार्थस्येति---संयोगादीन् वक्ष्यति, तैरनेकार्थस्य शब्दस्य एकार्थे नियन्त्रिते अर्थान्तरबोधं प्रतिरुध्य बोधिते सति अन्यस्य प्रतिरुद्धार्थस्य धियो हेतुर्या वृत्तिः सा व्यञ्जनाभिधाश्रया इत्यर्थः । आद्यशब्दादिति संयोगाद्यैरित्याद्यशब्दादित्यर्थः । लोचना (लो, ऊ) अनेकार्थस्य विष्णुसिंहाद्यनेकाभिधेयशब्दस्य हर्य्यादेः एकार्थे नियन्त्रिते इत्यन्वयः । अर्थे वाच्यरूपे नियन्त्रिते अर्थान्तरनिरुद्धप्रसरतया व्यवस्थापिते । अन्यस्य संयोगादिसाचिव्याभावातभिधाया अविषयस्य बुद्धिहेतुः व्यञ्जना । ********** टीका सम्पूर्णा ********** उक्तं हि-- "संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकारणं लिङ्गंशब्दस्यान्यस्य संनिधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः" ॥ इति । ************* टीका ************* विज्ञप्रिया (वि, ढ) संयोगः, समभिव्याहृतापरपदार्थस्य । विप्रयोगः---त्यागः, सोऽपि तस्यैव । साहचर्य्यं-समभिव्याहृतपदार्थेन सह सर्वदा स्थितिः विरोधिता वैरिता सापि तादृशापरपदार्थेन सह । अर्थः प्रयोजनं तच्च समभिव्याहृतम् । प्रकरणमुपक्रमः । लिङ्गं चिह्नं तदपि समभिव्याहृतम् । सामर्थ्यं समभिवायाहृतपदार्थजनने । औचिती तात्पर्य्यम् । तेशकालावपि समभिव्याहृतौ । व्यक्तिः शब्दस्य पुंस्त्वादिलिङ्गानि । स्वरः उदात्तादिः । अनवच्छेदेऽनेकत्वे । विशेषस्यैकस्यैवार्थस्य स्मरणहेतवः संयोगादय इत्यर्थः । नैयायिकमते सर्वेषामेव पदार्थनां स्मरणमन्वयबोधस्त्वेकमेव पदार्थमादाय । एतन्मते तु यस्य पदार्थस्यान्वयबोधस्तस्यैव विशेषस्य स्मरणमिति । लोचना (लो, ऋ) उक्तं हि भर्तृहरिणा इति शेषः । संयोग इति । विलोधो वध्यघातकादिः । अर्थः फलम्, प्रकरणं प्रस्तावः । लिङ्गम्, विषयव्यावृत्तो धर्मः । सन्निधिः सामानाधिकरण्यम् । सामर्थ्यं तत्कारणनियमः । देशस्तद्विशेषः । कालस्तद्विशेषः । व्यक्तिः पुंस्त्वादिः स्वरा उदात्तादयः । अनवच्छेदे एकवाक्यनियमे । विशेष एकवाक्यरूपः । ********** टीका सम्पूर्णा ********** "सशङ्ख्चक्रो हरिः" इति शङ्ख्चक्रयोगेन हरिशब्दो विष्णुमेवाभिधत्ते । "अशङ्खचक्रो हरिः" इति तद्वियोगेन तमेव । "भीमार्जुनौ" इति अर्जुनः पार्थः । "कर्णार्जुनौ" इति कर्णः सूतपुत्रः । "स्थाणुं वन्दे" इति स्थाणुः शिवः । "सर्वं जानाति देवः" इति देवो भवान् । "कुपितो मकरध्वजः" इति मकरध्वजः कामः । "देवः पुरारिः" इति पुरारिः शिवः । "मधुना मत्तः पिकः" इति मधुर्वसन्तः । "यातु वो दयितामुखम्" इति मुखं सांमुख्यम् । "विभाति गगने चन्द्रः, इति चन्द्रः शशी । "निशि चित्रभानुः" इति चित्रभानुर्वाह्निः । "भाति रथाङ्गम्" रथाङ्गम्" इति नपुंसकव्यक्त्या रथाङ्गं चक्रम् । स्वरस्तु वेद एव विशेषप्रतीतिकृन्न काव्य इति तस्य विषयो नोदाहृतः । ************* टीका ************* विज्ञप्रिया (वि, ण) तदवियोगेनेति---शङ्खचक्रत्यागेनेत्यर्थः । नञोऽत्र त्यागार्थकत्वात् । भीमार्जुनाविति साहचर्य्ये । अत्र अर्जुनपदं पार्थकार्त्तवीर्य्ययोः । भीमपदं महेशपार्थयोरनेकार्थम् । कर्णार्जुनाविति विरोधितायाम् । अत्र द्वयमपि पदमनेकार्थम् । प्रयोजने स्थाणुमिति । अत्र राज्ञ उपक्रमो वाक्यान्तराल्लभ्यः । चिह्ने-कुपित इति कोपस्य कामचिह्नत्वात् । समुद्रोऽपि मकरध्वजः । नच कामदेवस्यापि कोप इति वाच्यम्, विरहिण्यां कुपति इत्यर्थात् । अन्यशब्दसन्निधौ स देव इति--अत्र देवशब्दोऽनेकार्थः । तुल्यविभाक्तिकपुरारातिशब्दस्य सान्निध्यम् । सामर्थ्ये मधुनेति---अत्र मधुर्दैत्यविशेषेऽपि, कोकिलमादने वसन्तस्यैव सामर्थ्यम् । औचित्यां "पातु वऽ इति--अत्र मुखपदं प्रभृत्यादावनेकार्थम् । मानिन्याः साम्मुख्ये वक्तुस्तात्पर्य्यम् । देशे भावीति--अत्र चन्द्रपदं कर्पूरेऽपि । देशोगमनम् । काले निशीति--चित्रभानुः सूर्य्योऽपि । व्यक्तौ--रथाङ्गमिति, चक्रवाकस्तु रथाङ्गः । लोचना (लो, ॠ) एषां नियन्त्रणस्वरूपं क्रमादुदाहरणैर्दर्शयति---सशङ्खेत्यादि । विष्णुमेवेत्येवकारेण शकसिंहाश्वादेर्व्यवच्छेदः । तयोः शङ्वचक्रयोर्वियोगेऽभावेऽपि तमेव हरिमेवाभिधत्ते इत्यनुषज्यते, प्रतिषेधस्य प्रसक्तिपूर्वकत्वात् । पार्थो नतु वृक्षविशेषः । सूतपपुत्रो नतु श्रवणम् । अत्र वध्यघातको विरोधः, सहानवस्थाने तु छायातपाविति । स्थाणुशब्दस्य शङ्कुवाचकत्वे लब्धच्छेदाख्यं न घटते । भवान् प्रकृतो राजा । कामो न तु मकराकारो ध्वजः, तस्य कोपरूपधर्माभावात् । शिवो न मुररिपुः । वसन्तो न तु मद्यम् । सान्निध्यं न तु वदनं, तस्य कामकातरतायोग्यत्वाभावात्शशी न तु कर्पूरम् । वह्निर्न तु रविः । चकं न तु चक्रवाकः । वेद एव विशेषप्रतीतिकृतिति अनेकार्थवाचकशब्दस्य एकार्थवाचकत्वे नियन्त्रणरूपः, तत्प्रत्ययं च स्वरो वेदे एव करोति । यथा इन्द्रशत्रुरित्यादौ षष्टीतत्पुरुषे समासान्तोदात्तसूचिते इन्द्रस्य शमीयता वा दैत्योऽरिरेवाभिधीयते । बहुव्रीहौ तु पूर्वपदान्तोदात्तनिर्णोते इन्द्र एव शमयिता शातयिता चेति । इदं हि काव्यप्रकाशकारस्य उदाहरणम् । ********** टीका सम्पूर्णा ********** इदं च केऽप्यसहमाना आहुः-- स्वरोऽपि काक्कादिरूपः काव्ये विशेषप्रतीतिकृदेव । उदात्तादिरूपोऽपि मुनेः पाठोक्तदिशा शृङ्गारादिरसविशेषप्रतीतिकृदेव" इति एतद्विषये उदाहरणमुचितमेव इति, तन्न॑ तथाहि-- स्वराः काक्कादयः उदात्तादयो वा व्यङ्ग्यरूपमेव विशेषं प्रत्यायन्ति, न खलु प्रकृतोक्तमनेकार्थशब्दस्यैकार्थनियन्त्रणरूपं विशेषम् । ************* टीका ************* लोचना (लो, ळ) केऽपीति--श्रीचण्डीदासराघवानन्दप्रभृतयः । असहमाना इति । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतव इत्यत्र विशेषपदस्यार्ऽथानवबोधने इति शेषः । आहुः--स्वरोऽपि इत्यादि उचितमेवेत्यन्तम् । तत्र काव्यादीनां विशेषप्रतीतिकृदेव नियन्त्रणरूपः । उदाहरणं तैरेव दर्शितम् । यथा "मथ्नामीत्यनेन काकुवचनेन मथ्नाम्येव इति विशेषप्रतीतिकृदिति । मुनेः पाठगुणोक्तमार्गश्च तैरेव दर्शितो यथा---"यथाह मुनिर्भरतः----"हस्यशृङ्गरयोः स्वरीतोदात्तं, वीररौद्राद्भुतेषु उदात्तकम्पितं, करुणबीभंत्सभयानकेषु अनुदात्तकम्पितमुत्पादयेदिति । तन्न, तत्तेषां वचनमयुक्तम्, कथमित्याह--तथाहीति । व्यङ्ग्यरूपमेव भवद्दर्शितं, मथ्नम्येवेतिरूपं शृङ्गारसरूपं च । प्रकृतोक्तं "संयोगो विप्रयोगश्चऽ इत्यादिना भर्त्तृहरिणा उक्तं दर्शितम् । अनेकार्थे इत्यादौ अर्थशब्दो वाच्यपरः, विशेष इत्यनन्तरं संयोगादिप्रयोगादिति शेषः । ********** टीका सम्पूर्णा ********** किञ्च यदि यत्र क्वचिदनेकार्थशब्दानां प्रकरणादिनियमाभावादनियन्त्रितयोरप्यर्थयोरनुरूपस्वरवशेनैकत्र नियमनं वाच्यं, तदा तथाविधस्थले श्लेषानङ्गीकारप्रसङ्गः॑ ************* टीका ************* विज्ञप्रिया (वि, त) मुनेः पाठोक्तदिशेति--मुनिना वेदस्य स्वरविशेषेणैव पठनात् । द्वयोरर्थयोरनुरूपेति--द्वयोर्र्थयोर्मध्ये एकस्यानुरूपस्वरवशेनेत्यर्थः । एकोच्चारणे द्वयोरनुरूपस्वरासम्भवात् । तथात्वे एकत्र नियमनासम्भवाच्च । तदा तथाविधस्थले श्लेषानङ्गीकारप्रसङ्ग इत्यर्थः । एकार्थनियमनेऽन्यार्थस्य व्यङ्ग्यत्वेन तस्योपमानत्वातुपमाध्वनित्वस्यैव प्रसक्तेर्नतु श्लेषस्य । यथा वक्ष्यमाणे दुर्गालङ्घितविग्रहे इत्यादौ प्रकरणादुमामहादेवीवल्लभभानुदेवराजनियमने पार्वतीवल्लभस्य व्यङ्ग्यत्वेन राज्ञः तदुपमाध्वनिरेव । ********** टीका सम्पूर्णा ********** न च तथा, अत एवाहुः श्लेषनिरूपणप्रस्तावे-- "काव्यमार्गे स्वरो न गण्यते" इतिच नयः, इत्यलमुपजीव्यानं मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण । आदिशब्दात्"एतावन्मात्रस्तनी" इत्यादौ हस्तादिचेष्टादिभिः स्तनादीनां कमलकोरकाद्याकारत्वम् । ************* टीका ************* लोचना (लो ए) एवं प्रचीनोक्तं दूषयित्वा स्वयमेव पूर्वपक्षमुत्पाद्य निराचष्टे-किञ्चेति । यत्र क्वचित्--- "येन ध्वस्तमनोभवेन वलिजित्कायः पुरा स्त्रीकृतो यश्चोद्वृत्तभुजङ्गहारवलयोगंगां च योऽधारयत् । यस्याहुः शशिमत्शिरो हर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः" ॥ इत्यादौ द्वयोरप्यर्थयोर्हरिहरस्तुतिपरयोरनुरूपः स्वर उदात्तादिरेकत्र हरौ हरे वा । नच तथा श्लेषाङ्गीकारः । अत्राचार्य्यसम्मति दर्शयति--अत एवेत्यादि । नये नीत्यां लोकप्रसिद्धायाम् । तेषामुपजीव्यत्वं-तद्ग्रन्थनिष्टया स्वव्युत्पत्त्या विशेषसम्पादनात् । आदिशब्दः, कालो व्यक्तिः स्वरदय इत्यत्र । चेष्टादीत्यादिशब्देन---"इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम्ऽ इत्यादौ आत्मनिर्द्देशादयः । ********** टीका सम्पूर्णा ********** एवमेकस्मिन्नर्थेऽभिधया नियन्त्रिते या शब्दार्थस्यान्यार्थबुद्धिहेतुः शक्तिः साभिधामूला व्यञ्जना । ************* टीका ************* विज्ञप्रिया (वि, थ) न च तथेति--तथात्वे पृथुकार्त्तस्वरपात्रमित्यादिश्लेषालङ्कारोच्छेदप्रसङ्गादिति भावः । अत एवाहुरिति काव्यप्रकाशकारादय आहुरित्यर्थः । उपज्ञीव्यानामिति काव्यमार्गेऽपि स्वरगणयितृणां प्राचीनानामुपरीत्यर्थः । आदिशब्दादिति---स्वरादय इत्यादिशब्दादित्यर्थः । हस्तेति---हस्तचेष्टादिभिः स्तनादीनां कमलकोरकाद्याकारत्वं स्मार्य्यत इत्यर्थः । "एद्दहमेत्तथिणिआ एद्दहमेत्तेहि आच्छिवत्तेहि । एद्दमेत्तावत्था एद्दहमेत्तेहिं दिं एहि" ॥ इत्यादि प्राकृतश्लोकस्य हि--- "एतावन्मात्रस्तनिका एतावन्मात्रैरक्षिपत्तैः । एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैःऽ ॥ इति संस्कृतम् । स्तनादीनामिति---कमलकोरकादित्यादिपदद्वयात्चक्षुरादीनां पद्मपलाशाद्याकारपरिग्रहः । अत्र एतत्पदं नानाकारबोधकत्वेनानेकार्थम् । चेष्टाविशेषस्त्वाकारविशेषस्मारकः । शक्तिः वृत्तिः । ********** टीका सम्पूर्णा ********** यथा मम तातपादान महापात्रचतुर्दशभाषाविलासिनीभुजङ्गमहाकवीश्वरश्रीचन्द्रशेखरसंधिविग्रहिकाणाम्-- "दुर्गालङ्घितविग्रहो मनसिजं संमीलयंस्तेजसा प्रोद्यद्राजकलो गृहीतगरिमा विष्वग्वृतो भोगिभिः । नक्षत्रेशकृ तेक्षणो गिरिगुरौ गाढां रुचिं धारयन् गामाक्रम्य विभूतिभूषिततनू राजत्युमावल्लभः" ॥ अत्र प्रकरणोनाभिधया उमावल्लभशब्दस्योमानाम्नीमहादेवीवल्लभभानुदेवनृपतिरूपेर्ऽथे नियन्त्रिते व्यञ्जनयैव गौरीवल्लभरूपोर्ऽथो बोध्यते । एवमन्यत् । ************* टीका ************* विज्ञप्रिया (वि, द) दुर्गालङ्घितेति । अत्र उमा नाम महादेवी तस्या वल्लभो भानुदेवनृपतिः । प्राकरणिको राजति । कीदृशः शत्रुदुर्गेणावारितयुद्धः । तेजसा देहकान्त्या मनसिजं सम्मीलयन् सान्दैर्य्यगवार्त सङ्कोचयन् । प्रोद्यन्ती राजकला नृपतिचातुर्य्यं यस्य तादृशः । गरिमा, वपुः पुष्टिः, गृहीततत्त्वः । भोगिभिर्नाम भोगवद्भिः अमात्यैर्विष्वक्सर्वतो वृतः । क्षत्रैशेषु क्षत्रियेश्वरेषु राजसु अवज्ञया न कृतेक्षणो अकृतदृक्पातः । गुरौ महत्यां गिरि वाचि, गाढां रुचिं प्रीतिं धारयन् गामाक्रम्य पृथिवीमधिकृत्य, विभूत्या ऐश्वर्य्येण भूषिततनुः । अत्र दुर्गादिपदान्यनेकार्थानि प्रकरणवशाद्दर्शितार्थे नियन्त्रिते वाचकानि (शब्दाः) अर्थान्तरं तु व्यञ्जनया बोधयन्ति । तथा हि--उमायाः पार्वत्या वल्लभो महेशो राजति । कीदृशः--दुर्गया, पार्वत्या, लङ्घितविग्रहः आश्लेषेण आक्रान्तशरीरः । तेजसा नेत्रज्योतिषा, मनसिजं सम्मीलयन्निघ्नन् । राजकला चन्द्रकला, शिरसि प्रद्योत्तत्कः गृहीतगरिमा गृहीतजगद्गुरुभारः । भोगिभिः सर्पैः सर्वतो वृतः । क्षत्रेशेन चन्द्रेण घटितलोचनः सूर्य्यचन्द्राग्निमयलोचनत्वात् । गिरीणां गुरौ हिमालये गाढां रुचिं धारयन् श्वशुरत्वात्स्वीयतपोनिलयत्वाच्च । गां वृषमाक्रम्यारुह्य राजतीत्यन्वयः । विभूतिभिर्भस्मभिर्भूषिततनुश्च । इत्थमत्राप्राकरणिके महेशे व्यञ्जिते प्रकृते सङ्गमनाय महेश इव राजेत्युपमाव्यञ्जनादुपमाध्वनिरयम् । लोचना (लो, ऐ) दुर्गालङ्घितेति---दुर्गाणि वनगिरिजलमयस्थानानि दुर्गा पार्वती च, अलङ्घितो लङ्घितश्च, विग्रहो युद्धं देहश्च, सम्मीलनं तिरस्कारो दहनं च, तेजः कान्ति. नयनाग्निश्च । राजा पार्थिवश्चन्द्रश्च । कला कलनां अंशश्च, गरिमा महिमा ऐश्वर्य्यविशेषश्च । भोगिनः स्त्रक्चन्दनादिभोगवन्तः सर्पाश्च । क्षत्रेश्वरेषु अकृतदृष्टिः क्षत्रेशेन चन्द्रेण कृतनयनश्च । गुरौ महत्याम् । गिरि वाचि । गिरीणां गुरौ, श्रेष्टे च गां पृथिवीं वृषभं च । विभूतिः सम्पत्भस्म च । उमावल्लभो भानुदेव ईश्वरश्च । प्रकरणेन वर्णनीयत्वात् । इह च उमावल्लभशब्देन योऽयमप्रकृतो महेश्वरार्थः प्रतीयते तस्यासम्बद्धत्वमासीदिति महेश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते । तेन उमावल्लभैवेत्युपमाध्वनिः व्यञ्जनयैव बोध्यते । इत्यत्रै वकारस्यायमाशयः-इह खलूमावल्लभशब्दे येयं द्वितीयार्थप्रतीतिः तत्राभिधाया प्रकृतार्थमात्रबोधने विरमात्लक्षणायाश्च मुख्यार्थबोधहेतुकत्वात् । तात्पर्य्यस्य शक्त्यभिहितलक्षितसंसर्गमात्रबोधननैयत्यात्व्यञ्जनाख्या तुरीया वृत्तिरुपास्यैवेति । नन्वत्राप्यर्थभेदेन शब्दभेद इति दर्शनात्शब्दभेदद्वयमस्ति । तच्च साजात्यदैक्यभ्रमहेतुः । अतश्च प्रथममुमावल्लभादिशब्देन राजार्थबोधनाद्विरतायां प्रथमाभिधायां द्वितीयः शब्दः तन्निष्टाभिधाशक्त्या द्वितीयार्थं बोधयतु किं वृत्त्यन्तरकल्पनया इति चेन्न । अत्र हि शब्दद्वयकल्पने कथं प्रकृतार्थस्य प्रथमं प्रतीतिरनुभूयते, द्वयोरभिधेयत्वेन पूर्वपश्चाद्भावनैयत्यासम्भवात् । एवं"भ्रमिमरतिम्"इत्यादावपि विषशब्दस्य गरलार्थत्वे भुजङ्गादिपदसाचिव्यात्न पनरभिधाया उज्जीवनं, किन्तु व्यञ्जनैव व्यापारः । किन्त्वत्र द्वितीयार्थबोधे हेतुर्भुजङ्गादिरूपः शाब्दः । दुर्गालङ्घितेत्यादावार्थः । "येन ध्वस्तम्" इत्यादौ तु नियामकाभावातनेकार्थविषयः सन्देहः"व्यथां द्वयेषामपि मेदिनीभृताम्"इत्यादौ चोभयाभिधानमपीति चण्डीदासपण्डिताः । एतन्निराकरिष्यामहे श्लेषालङ्कारव्याख्यानावसरे । दुर्गालङ्घितेत्यादौ च द्वितीयार्थस्यानुभवसिद्धस्याभावं वदतो महिमाचार्य्यस्य गजनिमीलिकैव दुर्व्याख्यातृदुरुपदेशपरम्परयैव द्वितीयार्थप्रत्याख्याने व्यासवाल्मीकिप्रभृतिमहाकवीनां तादृशकाव्यनिबन्धस्य निष्फलताप्रसङ्गः । अर्थद्वयस्यापि प्रतीयमानत्वविशेषाद्व्याख्याविशेषनिगमनायां प्रामाण्याभावश्च । किञ्च द्वितीयार्थबोधने धर्मिकल्पनातो वरं धर्मकल्पनेति भिन्नशब्दकल्पनात्भिन्ना एव व्यञ्जनाख्या वृत्तिरङ्गीकर्त्तुमुचिता ॑ तस्यास्तु यत्र तत्र प्रसरेऽतिप्रसङ्गभीत्या सम्बन्धत्वेन सैवाभिधाश्रीयत इति सर्वमवदातम् । ********** टीका सम्पूर्णा ********** लक्षणामूलामाह-- लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम् । यया प्रत्याय्यते सा स्याद्व्यञ्जना लक्षणाश्रया ॥ २.१५ ॥ ************* टीका ************* लोचना (लो, ओ) लक्षणामूलामुद्देशकमप्राप्तामिति शेषः । उपास्यते आद्रियते, यस्य कृते यन्निमित्तं यथा शब्दशक्त्या । ********** टीका सम्पूर्णा ********** "गङ्गायां घोषः" इत्यादौ जलमयाद्यर्थबोधनादभिधायां तटाद्यर्थबोधनाच्च लक्षणायां विरतायां यया शीतत्वपावनत्वाद्यतिशयादिर्बोध्यते सा लक्षणामूला व्यञ्जना । एवं शब्दीं व्यञ्जनामु कत्वार्थोमाह-- वक्तृबोद्धव्यवाक्यानामन्यसंनिधिवाच्ययोः । प्रस्तावदेशकालानां काकोश्चेष्टादिकस्य च ॥ २.१६ ॥ व्यञ्जनेति सम्बध्यते । ************* टीका ************* विज्ञप्रिया (वि, ध) यस्य कृते इति । यत्प्रतीतेर्निमित्तमित्यर्थः । वैशिष्ट्यात्वैलक्षण्यात् । लोचना (लो, औ) प्रकरणसङ्गतिमाह एवमिति--बोध्यते यः स बोद्धव्यः । शब्दप्रयोगस्य परार्थत्वात्, यत्समवेता प्रतीतिरुपपद्यते स इत्यर्थः । उच्यते शब्देन प्रतिपाद्यते यः स वाच्यः । तेन वाच्य-लक्ष्य-व्यङ्ग्यात्मनस्त्रिविधस्यार्थस्य परिग्रहः । प्रस्तावः प्रकरणं, काकुः ध्वनेर्विकारः, वैशिष्ट्यात्वैलक्षण्यादिति वक्त्रादिषु प्रत्येकमन्वयः । अन्यं प्राचीनाभिधेयादिवैलक्षण्यम् । ********** टीका सम्पूर्णा ********** तत्र वक्तृवाक्यप्रस्तावदेशकालवैशिष्ट्ये यथा मम-- "कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः । केलीवनीयमपि वञ्जुलकुञ्जमञ्जुर्- दूरे पतिः कथय किं करणीयमद्य" ॥ अत्रैतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखीं प्रति कयाचिद्व्यज्यते । ************* टीका ************* विज्ञप्रिया (लो, अ) काल इति । एष इत्यनेन तत्कालानुभूयमानोंन्मादकत्वं कामस्य सूचितम् । पतिरिति--पतिर्भर्त्ता न तु प्रियः । अत्र वक्त्र्या मदनविह्वलतादिना वैशिष्ट्यम्, वाक्यस्य तथाभूतानुभूयमानविच्छित्तियुक्तत्वेन । प्रस्तावस्य पतिदूरस्थित्यादिना॑ देशस्य च कीडावनरूपस्य वकुलकुञ्जादिना॑ कालस्य वसन्तवत्त्वेन॑ एवमेषां वैशिष्ट्येन वक्रोक्त्या व्यङ्ग्यार्थप्रकाशनं स्फुटमेव । (वि, न) कालो मधुरिति--सखीं प्रति प्रोषितभर्त्तृकाया उक्तिरियम् । स्पष्टोर्ऽथः । अत्रेति--एतं देशं केलीवनीरूपम् । ईदृशव्यङ्ग्यबोधे केलीवनीरूपस्य तत्प्रदर्शनेन करणीयाजज्ञासार्थकवाक्यस्य तत्वक्त्र्या उद्दीपकप्रदर्शनलब्धशृङ्गारप्रकरणस्य मधुरूपकालस्य च वैलक्षण्यं हेतुः । लोचना ********** टीका सम्पूर्णा ********** बोद्धव्यवैशिष्ट्ये यथा-- "निः शेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि ! दूति ! बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, प) निः शेषेति--उपनायकमानेतुं प्रेषितां युवतिं तेनैव उपभुक्तामागत्यासौ मत्प्रार्थनयापि नायात इति प्रतारयन्तीं दूतीं प्रति नायिकायाः सोल्लुण्ठनोक्तिरियम् । हे मत्प्रार्थनयापि नायात इति मिथ्यावादिनि ! दूति ! बान्धवजनस्य मम अज्ञातकामपीडागमे इतः स्त्रातुं वापीं गतासि न पुनस्तस्याधमस्यान्तिकं गतासि । वापीं स्त्रातुमिति नान्वयः, स्त्राधातोरकर्मकत्वात् । आपाततः स्त्रानकार्य्याणि दर्शयति---निः शेषेति । यतस्ते स्तनतटं स्तनपार्श्वभागो निः शेषच्युतचन्दनम् । अधरश्च निर्मृष्टरागः । नेत्रे च दूरमतिशयं यथा स्यात्तथानञ्जने जाते इति शेषः । तत्क्रियाविशेषणं च दूरमिति । तथा इयं तन्वी कृशा तव तनुः पुलकिता॑ स्त्रानशैत्यात्जातपुलका इत्यर्थः । तथेति विशेषणसमुच्चये । लोचना ( लो, आ) निः शेषेति--तटं समीपं, स च समप्रयो देशः । तत्र चन्दनं निः शेषच्युतं॑ चूचुकादिषु च शेषम्॑ अधरो निर्मृष्टरागः॑ दूरभनञ्जने निकटे तु साञ्जने॑ अञ्जनस्य क्वचित्क्वचिदवशेषः सूचितः । इयं तनुः चिरकालेऽपि स्त्राने इदानीं पुलकिता॑ तन्वी क्षामा च । अधमस्य प्रागपि लक्षितनिकृष्टपरिग्रहस्य । ********** टीका सम्पूर्णा ********** अत्र तदन्तिकमेव रन्तुं गतासीति विपरीतलक्षणया लक्ष्यम् । तस्य च रन्तुमिति व्यङ्ग्यं प्रतिपाद्यं दूतीवैशिष्ट्याद्बोध्यते । ************* टीका ************* विज्ञप्रिया (वि, फ) गतासि इति लक्ष्यमिति । चन्दनच्यवनादीनां रतिकार्य्यत्वेनैव प्रतीत्या तदीन्तकेऽगमनबोधात्, तद्विपरीतं गमनं लक्षणयार्थः । तेषां रतिकार्य्यत्वेनैत प्रतीतिर्हि-चन्दनाधररगयोश्च्युतिमार्जनाभ्यां, स्त्राने त्वनयोः क्षालनमेवोक्तं स्यात् । तथा दूरं चुम्बनस्पृष्टं नेत्रप्रान्तभागं प्राप्य अनञ्जने स्त्राने तु समस्तनेत्रस्यैवानञ्जनत्वमुक्तं स्यात् । तथा चन्दनच्युतिमहिन्मा ग्रीष्मकालप्राप्तौ पुलकेन च तदानीं स्नानेन पुलकाभावात् । तता तदन्तिकागमने तस्य दोषाभावातधमत्वोक्त्यनौचित्यम्, दूतिरन्तृत्वेनैवाधमत्वोपपत्तेश्च । अत्र गमनं लक्षणयेति यदुक्तं तत्काव्यप्रकाशकारस्यासम्मतम् । रन्तुं तदन्तिकगमनस्यैव तन्मते व्यङ्ग्यत्वात् । तथा हि न गतासीत्यस्य काव्यत्वेन तत्र लक्षणाया एवाभावात् । तदुक्तं "वाक्ये न शक्तिर्नवा लक्षणेतिऽ पदलक्षणा तु न सम्भवत्येव गमनस्य गमधातुवाच्यत्वादेव । नञर्थस्य तु वापीगमनान्वयेनैव तदुपपत्तेः । यदि च वाक्येऽपि लक्षणा स्वीक्रियते तथापि न लक्षणा । रन्तुं तदन्तिकस्यैव तन्मते प्रथमं व्यङ्ग्यत्वादेव । तथा हि चन्दनच्यवनादीनां प्रथमं स्नानकार्य्यत्वेनैव प्रतीत्या बाधानवतारात् । प्रतिसन्धानविशेषण उत्तरकालमेव बाधावतारात् । अत्र च व्यञ्जनायाः प्रवृत्तेर्नतु लक्षणाया एव । प्रथमं बाधावतार एव लक्षणायाः प्रवृत्तेः । तदुक्तम् । "क्वचित्बाध्यतया ख्यतिः क्वचित्ख्यातस्य बाधनम् । पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु" ॥ इति । पूर्वत्र प्रथमं बाध्यतया ख्यातौ प्रतीतौ अभिधैव त्वित्यनेन तत्र लक्षणाया अभावात् । तदुत्तरं रन्तुं तदन्तिकगमनं व्यञ्जनैवेत्युक्तम् । अत्र चन्दनच्युतादिसत्त्वं बोद्धव्याया दूत्या वैलक्षण्यम् । लोचना (लो, इ) एषां च पदार्थानां वापीस्नानविरुद्धानामनुसन्धानादेव वापीस्नानाभावमात्रस्य प्ररोहाभावेन तदन्तिकं न गतासीत्यत्र विपरीतलक्षणया गतासीति लक्ष्यते न्तुमित्यतः पूर्वं तेन सहेति शेषः । ********** टीका सम्पूर्णा ********** अन्यसंनिधिवैशिष्ट्ये यथा-- "उअ णिच्चल णिप्पन्दा, भिसिणीपत्तम्मि रेहै बलाआ । णिम्मलमरगअभाअणपरिट्ठिआ (दा) सङ्खसुत्ति व्व" ॥ अत्र बलाकाया निस्पन्दत्वेन विश्वस्तत्वम्, तेनास्य देशस्य विजनत्वम्, अतः संकेतस्थानमेतदिति कयापि संनिहितं प्रच्छन्नकामुकं प्रत्युच्यते । अत्रैव स्थाननिर्जनत्वरूपं व्यङ्ग्यार्थवैशिष्ट्यं प्रयोजनम् । ************* टीका ************* विज्ञप्रिया (वि, ब) सङ्केतस्थानमुपनायके दर्शयन्त्या दूत्या उक्तिरियम्--उअ इति । जानीहीत्यर्थः पश्येति यावत् । निश्चलेति सम्बोधनम् । अथवा निश्चलनिष्पन्देत्येकं वा पदम् । तदा निश्चलादपि निष्पन्देत्यर्थः । शङ्खशुक्तिः शच्च्यकपालम् । उच्यमानस्य नायकस्य सान्निध्यात्--सङ्केतस्थलप्रदर्शनं सामाजिकैर्व्यञ्जनयावगम्यते इत्यर्थः । तथा च द्योत्यत इत्यत्र द्योतनं सामाजिकैर्व्यञ्जनया बुध्यत इति शेषः । नायकेन तु बलाकाप्रदर्शनरूपात्वक्त्र्या वैलक्षण्यात्सङ्केतस्थलं व्यञ्जनया बुध्यते । लोचना (लो, ई) उस णिच्चेति--- पश्य निश्चलनिष्पन्दा बिसिनीपत्रे राजते बलाका । निर्मलमरकतभाजनप्रतिष्टिता शङ्खसुक्तिरिव ॥ निश्चलेति---निरुद्यमेति विटसम्बोधनम् । शङ्खशुक्तिः संखपात्री । ********** टीका सम्पूर्णा ********** भिन्नकण्ठध्वनिर्धोरैः काकुरित्यभिधीयते । इत्युक्तप्रकारायाः काकोर्भेदा आकरेभ्यो ज्ञातव्याः । ************* टीका ************* लोचना (लो, उ) भिन्नेति--भेदाः तत्तत्सहकारिभेदाः स्वरूपभेदान्ताः । ********** टीका सम्पूर्णा ********** एतद्वैशिष्ट्ये यथा-- "गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् । अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमयेऽसौ" ॥ अत्र नैष्यति, अपि तर्हि एष्यत्येवेति काक्का व्यज्यते-- ************* टीका ************* विज्ञप्रिया (वि, भ) आकरेभ्य इति---भिन्नकण्ठध्वनिरित्यादिकाकुविवेचकग्रन्थ आकरः । स्वाभाविककण्ठध्वनितो भिन्नः कण्ठध्वनिरित्यर्थः । गुरुपरतन्त्रतयेति--दूरतरदेशगतं पतिं शोचयन्त्या नायिकाया उक्तिः प्रथमार्द्धम् । तामाश्वासयन्त्याः सख्या उक्तिः परार्द्धम् । नैष्यतीति---अपि त्वेष्यत्येवेत्यर्थः काक्का व्यज्यते इति--काक्काः परं नञर्थोपस्थापनान्न एष्यति एष्यत्येवेत्येवंरूपः । अत्र शिरश्चालनसहोत्पन्नत्वं काकोर्वैलक्षण्यम् । ********** टीका सम्पूर्णा ********** चेष्टावैशिष्ट्ये यथा-- "संकेतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकूतं लीलापङ्मं निमीलितम्" ॥ ************* टीका ************* लोचना (लो, ऊ) सङ्केतेति--हसता विकशता नेत्रेण अर्पितमाकूतमभिप्रयोयेन इति विटविशेषणम् । एषां चोक्तोदाहरणानां ध्वनिगुणीभूत-व्यङ्ग्यत्वे तान्निरूपणे अग्रेस्फुटीभविष्यति, किन्तु व्यञ्जनाया आर्थत्वमात्रेणोदाहरणम् । चेष्टादीत्यादिशब्देन वरर्णनीयनायकादिगतसात्त्विकादिपरिग्रहः । ********** टीका सम्पूर्णा ********** अत्र संध्या संकेतकाल इति पङ्मनिमीलनादिचेष्टया कयाचिद्द्योत्यते । ************* टीका ************* विज्ञप्रिया (वि, म) संकेतकालेति---विटं धूर्त्तमुपनायकं संकेतकालमनसं तज्जिज्ञासार्थं तन्मनस्कं ज्ञात्वेत्यर्थः । हसता नेत्रेणार्पितं स्थापितमाकूतं भावो यत्र तादृशं यथा स्यात्तथा लीलापद्मं निमीलितमित्यर्थः । द्योत्यत इति विटं प्रतीत्यर्थः । सामाजिकैस्तु तद्द्योतनमपि बुध्यते इति बोध्यम् ॥ ********** टीका सम्पूर्णा ********** एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् । त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥ २.१७ ॥ "अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः । तत्र वाच्यार्थस्य व्यञ्जना यथा-"कालो मधुः-" इत्यादि । लक्ष्यार्थस्य यथा--"निः शेषच्युतचन्दनम्ऽ--इत्यादि । व्यङ्ग्यार्थस्य यथा--"उअ णिच्चल-" इत्यादि । प्रकृतिप्रत्ययादिव्यञ्जकत्वं तु प्रपञ्चयिष्यते । शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः । एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥ २.१८ ॥ ************* टीका ************* लोचना (लो, ऋ) शब्दबोध्य इत्यर्थान्तरमपेक्षते, नत्वेकार्थमात्रप्रतिपादको व्यञ्जकः यथा--दुर्गालङ्घितेत्यादौ । अर्थोऽपि शब्दमपेक्षते यथा कालो मधुरित्यादौ । एकस्येत्यादेरयमर्थः । शब्दार्थयोरेकस्य व्यञ्जकत्वे तदितरः सहकारी सतु अवर्जनीयसान्निधिमात्रेणावस्थितः । किन्तु यत्र यच्छक्तिरुत्कटा तत्र तन्मूलो व्यञ्जकत्वव्यपदेशः । ********** टीका सम्पूर्णा ********** यतः शब्दो व्यञ्जकत्वेऽप्यर्थान्तरमपेक्षते, अर्थोऽपि शब्दम्, तदेकस्य व्यञ्जकत्वेऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या । अभिधादित्रयोपाधिवैशिष्ट्यात्र्त्रिविधो मतः । शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥ २.१९ ॥ ************* टीका ************* विज्ञप्रिया (वि, य) वक्तृबोद्धव्यादिदशवैशिष्ट्यात्यार्ऽथो व्यञ्जनोक्ता, सा व्यञ्जकार्थत्रौविध्यात्त्रिविधेत्याह--अर्थानां व्यञ्जकार्थानाम् । इयं दशविधा व्यञ्जना । निः शेषेत्यादौ लक्ष्यार्थस्य व्यञ्जकत्वं स्वमताभिप्रायेणैवोक्तम् । उक्तशब्दार्थव्यञ्जकार्थत्रैविध्यस्यैवोक्तत्वातिदानीं व्यञ्जकशब्दस्यापि त्रैविध्यमाह--अभिधादित्रयेति । ********** टीका सम्पूर्णा ********** अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यञ्जनोपाधिको व्ययञ्जकः । किञ्च-- तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने । तात्पर्यार्थं तदर्थं च वाक्यं तद्वोधकं परे ॥ २.२० ॥ ************* टीका ************* विज्ञप्रिया (वि, र) न केवलं वाच्यादित्रिविध एव शब्दस्यार्थोऽपि तु वाच्यादित्रयभिन्नः पदार्थसंसर्गोऽपि शब्दार्थस्तद्बोधकं च वाक्यमित्याह--किं चेत्यादिना । पदार्थान्वयबोधने तदन्वयबोधनिमित्तम् । परे नैयायिकास्तात्पर्य्याख्यां वृत्तिमाहुः । तदर्थं तस्या वृत्तेर्विषयरूपमर्थं तात्पर्य्यार्थं संसर्गरूपं तद्वोधकं च वाक्यमित्याहुः । ********** टीका सम्पूर्णा ********** अभिधाया एकैकपदार्थबोधनविरामाद्वाक्यार्थरूपस्य पदार्थान्वयस्य बोधिका तात्पय नाम वृत्तिः । तदर्थश्च तात्पर्यार्थः । तद्वोधकं च वाक्यमित्यभिहितान्वयवादिनां मतम् । ************* टीका ************* विज्ञप्रिया (वि, ल) अभिधायाः संसर्गबोधनेऽसामर्थ्यं दर्शयन् व्याचष्टे--अभिधाया इति । तदर्थश्चेति संसर्गरूप इत्यर्थः । अभिहितान्वयवादिनां नैयायिकानां पदेन पदार्थेऽभिहिते स्मारिते तदन्वयबोधो वाक्यादेव ॥ इति । इति श्रीसाहित्यदर्पणटीकायां द्वितीयपरिच्छेदविवरणम् ********** टीका सम्पूर्णा ********** इहि साहित्यार्पणो वाक्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः । ___________________________________________________ तृतीयः परिच्छेदः अथ कोऽयं रस इत्युच्यते-- ************* टीका ************* विज्ञप्रिया (वि, क) वाक्यं रसात्मकभित्युक्तत्वाद्रसं निरूपयितुं पृच्छति--अथेति । लोचना (लो, अ) रसस्वरूपं निरूपयितुकामस्तस्यावसरप्रप्तत्वं दर्शयन्नाह--अथेति । अथ--काव्यस्वरूपनिरूपणानन्तरं कोयं रसो यदात्मकं वाक्यं काव्यमित्यर्थः । इत्यपेक्षायामुच्यते--तत्स्वरूपं निरूप्यते । ********** टीका सम्पूर्णा ********** विभावेनानुभावेन व्यक्तः संचारिणा तथा । ************* टीका ************* विज्ञप्रिया (ख) विभावो रत्यादेरालम्बनोद्दीपनकारणदूयम् । अनुभावस्तस्य कार्यम् । सञ्चारी व्यभिचारी, निर्वेदादिरूपः कार्यविशेषः । तस्य पृथगुपादानं च गोवृषन्यायात्प्राशस्त्यार्थम्, प्रशस्त्यं च रत्यादेः शीघ्रप्रतिपादकत्वात् । यद्यपि विभावादित्रयस्य मिलितस्यैव रसहेतुता वक्ष्यते, तथापि यत्र श्लोके मिलिता न सन्ति तत्रैकेनान्यव्यञ्जने व्यभिचारिणामन्यापेक्षया शीघ्रव्यञ्जकत्वभित्येतद्द्वारा रसस्यापि शीघ्रप्रतिपादकत्वं बोध्यम् । ********** टीका सम्पूर्णा ********** रसतामेति रत्यादिः स्थायीभावः सचेतसाम् ॥ ३.१ ॥ ************* टीका ************* विज्ञप्रिया (ग) रत्यादिः स्थायी भावो रसतामेतीत्यन्वयः । ननु रामादिवृत्ती रत्यादिर्विभावादिभिर्व्यज्यते । तद्व्यञ्जनावशादेव रसादेरसंलक्ष्यक्रमव्यङ्ग्यपरिभाषा, ततश्च भावनोपनीतः स रत्यादिर्विभावादिनिष्ठेन स्वादनाख्यव्यापारेण सामाजिकरत्याद्यभेदेनारोप्यमाणः स्वप्रकाशानन्दतया तथा परिणमतीति परिणामवादसिद्धान्तेन, तस्य सामाजिके रसताप्राप्तिः । एवमेवाग्रे व्यक्तिर्भविष्यति । लोचना (लो, आ) विभावेनेत्यादि--सचेतसां-सहृदयानां रत्यादिः स्थायीभावः । भाव्यते-वास्यते इति व्युत्पत्त्या अनादिवासनान्तर्लोन इत्यर्थः । तदुक्तम्--- "वासनानादिकालीना यासौ हृदि सचेतसाम् । स्वसामग्रीं समासाद्य व्यक्ता सैति रसात्मताम्" ॥ यद्यपीह मिलितो रत्यादिः प्रपानकरसन्यायेन चर्व्यमाणोऽखण्डस्वरूपो रसः, तथापि लोकप्रसिद्धिमासाद्य प्रत्यभिज्ञानात्स्थायिभावो रसतामेति । ********** टीका सम्पूर्णा ********** विभावादयो वक्ष्यन्ते । ************* टीका ************* लोचना (लो, इ) इत्युक्तं विवृणोति-विभावादय इति । वक्ष्यते इहैव परिच्छेदे । सामान्यतस्तु-- "कारणानि च कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः । विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः" ॥ त्युक्तप्रकाराः । दण्ड्याद्यैरुत्कम्--- "विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीय नीतः स्वाद्यत्वं स्थायिभावो रसः स्मृतः" ॥ ********** टीका सम्पूर्णा ********** सात्त्विकाश्चानुभावरूपत्वात्न पृथगुक्ताः । ************* टीका ************* विज्ञप्रिया (वि, घ) ननु सात्त्विकभावोऽपि रसादिव्यञ्जकः, स कथं नोक्त इत्यत आह---सात्त्विकाश्चेति । ते चाग्रे वक्ष्यन्ते । लोचना (लो, ई) तत्कथमत्र लक्षणे सात्त्विकानामनुपादानमित्याशङ्क्याह--सात्त्विकाश्चेति । सात्त्विकाः स्तम्भस्वेदादयः । ********** टीका सम्पूर्णा ********** व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतो व्यक्तीकृत एव रसो न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते । ************* टीका ************* विज्ञप्रिया (वि, ङ) परिणामवादसिद्धान्तं दर्शयति---दध्यदिन्यायेनेति । दुग्धमेव यथाम्लद्रव्ययोगाद्दध्यादिरूपतया परिणमति॑ तन्न्यायेन रामादिरत्यादिरेव विभावादिनिष्ठखादनाख्यव्यापारेण सामाजिकरत्यादौ अभेदेनारोप्यमाणः स्वप्रकाशानन्दत्मकज्ञानरूपतया परिणमतीत्यर्थः । व्यक्त इत्यस्यार्थं परिणत इत्यन्तेन दर्शयित्वा, तादृगवस्थ एव रसः, नतु अतादृगवस्थ इति प्रतिपादयन् पुनराह---व्यक्तो व्यक्तीकृत एवेति । इदं च व्यक्तीकृतरसास्वादाख्येन व्यापारेण विभावादिनिष्ठेन व्यञ्जनाभिन्नव्यापारान्तरेण रामादिरत्याद्यारोपविषयसामाजिकरत्यादेः स्वप्रकाशानन्दरूपतया विषयीकरणमित्यग्रे व्यक्तिर्भविष्यति । लोचना (लो, उ) दध्यादीति---यथा दुग्धं दधिरूपेण परिणमते इत्यर्थः । ********** टीका सम्पूर्णा ********** तदुक्तं लोचनकारैः-- "रसाः प्रतीयन्त इति त्वोदनं पचतीतिवद्व्यवहारः" इति । ************* टीका ************* विज्ञप्रिया (वि, च) ओदनं पचतीतिवदिति । पाकोत्तरमेवोदनोत्पत्तेस्तण्डुलपाकस्यैव तत्रोपचारः व्यञ्जनया, रत्यादिप्रतीतेरेवं रसे व्यञ्जनया प्रतीत्युपचारः इत्यर्थः । अयमुपचारो मानस एव॑ शाब्दस्तु नोपचारः । किन्तु ओदनपदस्य तण्डुले लक्षणेति बोध्यम् । लोचना (लो, ऊ) ओदनं पचतीतिवत्--न खल्वोदनः पूर्वसिद्धो व्यज्यते, किन्तु पक्वः सनोदनो भवतीति तथायमपि व्यक्तः सन् रसो भवतीत्यर्थः । ********** टीका सम्पूर्णा ********** अत्र च रत्यादिपदोपादानादेव प्राप्ते सथायित्वे पुनः स्थायिपदोपादानं रत्यादीनामपि रसान्तरष्वस्थायित्वप्रतिपादनार्थम् । ततश्च हासक्रोधादयः शृङ्गारवीरादौ व्यभिचारिण एव । तदुक्तम्-- "रसावस्थः परम्भावः स्थायितां प्रतिपद्यते" इति । ************* टीका ************* विज्ञप्रिया (वि, छ) रसतामेति रत्यादिः स्थायीभावः सचेतसाम्"इति यदुक्तं तत्र स्थायीत्यस्य उपादानफलमाह--अत्र रत्यादीति । अस्थायित्वप्रतिपादनार्थमिति--किन्तु व्यभिचारिभावत्वप्रतिपादनार्थमिति बोध्यम्, तदाह--ततश्चेति । रसान्तरे स्थायित्वाभावे संवादमाह--तदुक्तं रसावस्थ इति । रस एव उत्तरकालमवस्था यस्य । परं केवलं तादृशो हासक्रोधादिभावः स्थायितां प्रतिपद्यते इत्यर्थः । अतादृगवस्थस्तु न स्थायित्वं प्रतिपद्यते इत्यर्थः । लोचना (लो ऋ) कोधादय इत्यादिशब्दात्जुगुप्सादयः । रसावस्थः रसरूपताप्रप्तियोग्यः । ********** टीका सम्पूर्णा ********** अस्य स्वरूपकथनगर्भ आस्वादनप्रकारः कथ्यते-- सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः । वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ॥ ३.२ ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) सत्त्वोद्रेकादिति कारिकार्थं प्रतिपदं स्वयमेव व्याख्यास्यति । चिन्मय इत्यत्र चिद्ज्ञानम् । स्वाकारवदभिन्नत्वेनेति---अयं रत्यादिज्ञानरूपो रसः परिणामवशाद्रत्याद्यभिन्नत्वेन विशिष्ट आस्वाद्यते इत्यर्थः । नत्वभिन्नत्वं तद्वोधे प्रकारः । आरोप्यमाणरामादिरत्याद्यभेदन अधिकरणीभूतसामाजिकरत्यादेरेव यः स्वप्रकाश आस्वादः तस्येव रसत्वात्तत्र चाभिन्नत्वाभावात् । तत्रास्वादतद्विषयरत्यादेरमभेदे स्वाकारवादेक्तं दृष्टान्तमाह--स्वाकारवदिति । स्वाकारवादे हि विषयो ज्ञानाभिन्नो ज्ञानस्याकार एवेति । लोचना (लो, ॠ) सम्प्रति कीदृगसावासाद्यते येनैतदास्वादनलम्पटः काव्ये प्रवर्तिष्यते लोकः इत्याशङ्क्योक्तां सत्त्वोद्रेकादिति कारिकामवतारयति--अस्येति । आस्वादनप्रकार इति उपचारप्रयोगः॑ अस्याऽस्वादनातिरिक्तत्वात् । सत्त्वोद्रेकादिति---स्वात्मैवाकारः । स यथाभिन्नत्वेनानुभूयते उपचारादिति शेषः तथायमास्वाद्यते । विवृणोति-- ********** टीका सम्पूर्णा ********** लोकोत्तरचकत्कारप्राणः कैश्चित्प्रमातृभिः । स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः ॥ ३.३ ॥ "रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते" इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् । तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः । अत्र च हेतुस्तथाविधालौकिकाव्यार्थपरिशीलनम् । अखण्ड इत्येक एवायं विभावादिरत्यादिप्रकाशसुखचमत्कारात्मकः अत्र हेतुं वक्ष्यामः । स्वप्रकाशत्वाद्यपि वक्ष्यमाणपरीत्या । चिन्मय इति स्वरूपार्थे मयट् । ************* टीका ************* लोचना (लो, ळ) रजस्तमोभ्यामिति---मनो हि सत्वरजस्तमोरूपं त्रिगुणात्मकम् । बाह्यमेया घटपटादयः । आन्तरो धर्मः सत्त्वमात्रावस्थितिरूपः । ननु कथमेवंविधः सत्त्वोद्रेको जायते, ततश्च कथमखण्डस्वप्रकाशानन्दाद्बोधः इत्याशङ्क्याह--तत्र चेति । अयमाशयः-"सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च । इत्यादि भगवद्वचनात्त्रिगुणात्मके मनसि सत्त्वांशस्य प्रकाशे सुखेत्पत्तिः सत्त्वांशस्य प्रकाशश्च रजस्तमसोरभिभवाद्वैषयिकं सुखं जनयति । तथा हि सत्त्वांशप्रकाशतारतम्याद्वैषयिकसुखस्यापि तारतम्यं दृश्यते । तच्च सुखतारतम्यं सुखकारणतारतम्यहेतुकमित्यवश्यमभ्युपगन्तव्यम् । तच्च सुखकारणं यदि सकललौकिकसुखकारणोत्तरं तेन रजस्तमसोरभिभवः सर्वथा शक्यक्रिय एवेति । ततो न्यायात्लोकोत्तरकाव्यार्थश्रवणरूपकारणात्सर्वथा रजस्तमस्यभिभूय मनसः सत्त्वांशस्यैव प्रकाशस्तदा तन्मात्रहेतुकोऽखण्डप्रकाशरूप आत्मावबोधः प्रमाणिक एव । अत एवाहुः--"स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः । "इत्युक्तप्रकारः । स चात्मानन्दाद्बोधो यदि"अन्वयव्यतिरेकाभ्यां निरस्य प्राणतो यतः । वीक्ष्यासन्नस्य कोऽस्मीति तत्त्वमित्याह---सौहृदात्"इत्यादि । शास्त्रानयनहेतुकः स्यात्तदा निरुपहितं ब्रह्म प्रकाशते । यदि पुनर्नाद्यकाव्यदर्शनश्रवणाभ्यां, तदा विभावादिसम्वलित-रत्याद्यंशकर्बुरितत्वेन किंकुर्मः । कारणवेचित्र्यस्यैवायं सहृदयानुभवसिद्धोऽनुभाव इति तस्य च रत्याद्यंशशवलत्वेऽपि यथा स्वप्रकाशतमोविरुद्धं तथेहग्रे दर्शयिष्यते । एतदेवाह---स्वप्रकाशत्वाद्यपि वक्ष्यमाणरीत्येति । रत्याद्यंशशवलत्वादेव चास्य ब्रह्मास्वादस्य सहोदरत्वं॑ नतु तत्त्वं सूत्रेणोक्तम् । स्वरूपार्थ इत्यनेन मयटः प्रस्तुतार्थस्य निरासः, तेन स्वप्रकाशानन्दचिदभिन्नत्वं रसस्योक्तं भवति । ********** टीका सम्पूर्णा ********** चमत्कारशिचत्तविस्ताररूपो विस्मयापरपर्य्यायः । तत्प्राणत्वञ्चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नारायणपादैरुक्तम् । तदाह धर्मदत्तः स्वग्रन्थे-- ************* टीका ************* विज्ञप्रिया (वि, झ) तत्र सत्त्वमाचष्टे--रजस्तमोभ्यमिति । बाह्यमेयविमुखतासामाजिकस्याविर्भावः उद्बोधः सहकारिप्राप्त्या कार्यजनकतेति यावत् । सहकारिप्राप्तिं दर्शयति--तत्र च हेतुरिति । एकत्वं ग्राहयति---विभावादीति । विभावादिश्च रत्यादिश्च तद्विषयं यत्स्वप्रकाशरूपं सुखं तत्सहितः चमत्कार आत्मा स्वरूपं यस्य तादृशः । चमत्कारश्च विस्मय इति वक्ष्यते । तादृशसुखचमत्कारयोरेकदा स्थितौ तत्र हेतुं वक्ष्यामः "व्यापारोस्ति विभावादेः"इत्यादिना । विभावादेः स्वादनाख्यव्यापारस्य चमत्कारहेतुतायाः सामाजिकानां रामादिनायकाभेदारोपहेतुतायाश्च वक्ष्यमाणत्वात् । चिन्मय इतीति---स्वप्रकाशानन्द एव चिद्ज्ञानं तत्स्वरूप इत्यर्थः । ज्ञानानन्दयोरभेदस्वीकारात् । लोकोत्तरचमत्कारपदार्थं व्याचष्टे---चमत्कार इति । चित्तस्य विस्तारः आत्मसंयोगविशेषेण जनितं विलक्षणं ज्ञानम् । तदेव दर्शयति---विस्मयेति । तत्प्राणत्वं च तत्सहभावेनैव स्थित्या । तदाहेत्यादि किमपि नारायणस्यैवोक्तिः । ********** टीका सम्पूर्णा ********** रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते । तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः । तस्मादद्भुतमेवाह कृती नारायणो रसम्" ॥ इति । ************* टीका ************* विज्ञप्रिया (वि, ञ) रसे सार इति रसास्वादहेतुत्वात्सारः । तच्चमत्कारसारत्वे इति सति सप्तमीयम् । चमत्कारस्य विस्मयरूपत्वात्तेन स्वप्रकाशसुखेऽतिशयकरणात्तस्य सारत्वं विलक्षणसुखात्मकरसजनकत्वम् । तस्मिन् सति शृङ्गारादिरसकाव्येष्वपि अद्भुतो रसः सम्भवति । तथा च सामान्यतः शृङ्गारादिरसे जातेऽद्भुतमुत्पाद्य विलक्षणास्वादरूपः प्रकृष्टशृङ्गारादिरसो जन्यत इत्यर्थः । काव्यप्रकाशे तु आस्वाद एव चमत्कारः नतु तद्भिन्नो विस्मयः । इत्यद्भुतप्रवेशो न सर्वत्र । तस्मादद्भुतमेवेति--अतः शृङ्गारादिकाव्ये प्रकृष्टशृङ्गारादिजनकतया अद्भुतमपि रसमब्रवीदित्यर्थः । लोचना (लो, ऐ) नारायणदासैरप्युक्तमिति---चमत्कार एव सर्वरसप्रणभूतः । तस्य च रत्याद्यंशशवलत्वेन यथायथं शृङ्गारादिव्यपदेशः । तद्भावादद्भुतव्यपदेश इति । ********** टीका सम्पूर्णा ********** कैश्चिदिति प्राक्तनपुण्यशालिभिः । यदुक्तम्-- "पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम्" । इति । ************* टीका ************* विज्ञप्रिया (वि, ट) पुण्यवद्भिरिति--पुण्यशालिभिरिति क्वचित्पाठः । वासनायामास्वादनाख्यव्यापारे च पुण्यमेव हेतुरित्यर्थः । "न जायते तदास्वादो विना रत्यादिवासनाम्ऽ इति वक्ष्यमाणत्वात् । "विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः स्वादनाख्यः कश्चिद्व्यापारऽ इति वक्ष्यमाणत्वाच्च । लोचना (लो, ओ) पुण्यवन्त इति । प्रमिण्वन्तीत्यत्रापि पूर्ववदुपचारः । स्वप्रकाशरूपस्यास्य प्रमाविषयत्वानुपपत्तेः । योगिवदिति । यथा योगिनः शुद्धं ब्रह्म स्वप्रकाशानन्दचिद्रूपतया साक्षात्कुर्वन्ति रत्याद्यंशकर्बुरितमपि तथा पुण्यवन्त इत्यर्थः । तथा चोक्तं "विभावादिसंभिन्नानुद्रिक्ताङ्गरत्याद्यंशकर्बुरितः स्वप्रकाशानन्दचमत्काररूपो रसःऽ इति । किचित्तु रत्यादिसंभिन्नानन्दसाक्षात्कारानन्तरं प्रशान्तनिखिलप्रपञ्चचिदानन्दमयब्रह्मतत्त्वाभिव्यक्तिं सुषुप्तिदशावत्समाधिवच्चेच्छन्ति । यदाहुः--- पाठ्यादथ ध्रुवाख्यानात्ततः संपूरिते रसे । तदास्वादभरैकाग्रो हृष्यत्यन्तर्मुखः क्षणम् ॥ ततो निर्विषयस्यास्य स्वभावोऽवस्थितो निजः । व्यज्यते ह्लादनिष्यन्दो येन तृप्यन्ति योगिनः । आचार्यास्तु शवलितस्यैवानुभवात्सुखमनुभवामीति प्रतिसन्धानस्य च तावतवोपपत्तेरधिकं नेच्छन्ति । रससन्ततिं सन्तन्यमानं रसम् । सन्तन्यमानत्वेन व्रह्मास्वादसहोदरस्यास्य निद्ययोऽविच्छिन्नप्रवाहवाहित्वं सूचितम् । ********** टीका सम्पूर्णा ********** यद्यपि "स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः" इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वमुक्तम्, ************* टीका ************* विज्ञप्रिया (वि, ठ) काव्यार्थसंभेदातिति । रत्यादिरूपो यः काव्यस्य व्यङ्ग्यार्थस्तत्संभेदात्--तत्परिशीलनादित्यर्थः । वस्तुतस्तु संभेदादिति ल्यब्--गर्भत्वात्पञ्चमी तेन विभावादिशवलित इति । आत्मानन्देति---आत्मनि य आनन्दस्तद्रूपेण समुद्भवो यस्य तादृश इत्यर्थः । तथा च आनन्दात्मकस्य रसस्य स्वादानतिरिक्तत्वभित्यर्थः । लोचना (लो, औ) काव्यार्थो विभावादिः । तत्सम्भेदादिति ल्यब्लोपे पच्चमी तेन विभावादिशवलित इत्यर्थः । ********** टीका सम्पूर्णा ********** तथापि "रसः स्वाद्यते" इति काल्पनिकं भेदमुररी कृत्य कर्मकर्त्तरि वा प्रयोगः । ************* टीका ************* विज्ञप्रिया (वि, ड) काल्पनिकम्--अभेदे भेदारोपेण भेदम् । कर्मकर्तरि वेति--"भिद्यते कुशूलः स्वयमेव"इत्यत्र एकस्यैव कुशूलस्य कर्मत्वकर्त्तृत्वोभयविवक्षया भेदारोपवदत्रापि आस्वाद्यास्वादनयोरभेदेपि भेदविवक्षया कर्मकर्तरि प्रयोगः इत्यर्थः । नच आस्वाद्ये आस्वादस्य विषयिताएव, तत्कथं कर्तृत्वमिति वाच्यम्, स्वप्रकाशत्वेन तत्र कर्तृत्वारोपात् । ********** टीका सम्पूर्णा ********** तदुक्तम्-"रस्यमानतामात्रसारत्वात्प्रकाशशरीरादनन्य एव हि रसः" इति । ************* टीका ************* विज्ञप्रिया (वि, ढ) रस्यमानतामात्रसारत्वादिति--सारपदमत्र स्वरूपार्थकम् । तथा च रस्यमानताया आस्वादकर्मत्वं दर्शितम् । प्रकाशशरीरत्वेन आस्वादकर्तृत्वं च दर्शितम् । तथा च कर्मकर्तृत्वमुपपादितम् । स्वप्रकाशस्य प्रकाशकोभयरूपत्वात्ताभ्यामनन्य एवेत्यर्थः । लोचना (लो, अ) काल्पनिकमौपचारिकम् । कर्मकर्तरि वेति । स्वाद्यते-आस्वाद्यते प्रमाणान्तरोपनीतरत्यादितादात्म्येन समुल्लिख्यत इत्यर्थः । ********** टीका सम्पूर्णा ********** एवमन्यत्राप्येवंविधस्थलेषूपचारण प्रयोगो ज्ञेयः । नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवतीति । ************* टीका ************* विज्ञप्रिया (वि, ण) एवमन्यत्रापीति--सः प्रतीयत इत्यादावित्यर्थः । नन्वेतावतेति--रसस्यास्वादाभिन्नत्वकथनेनेत्यर्थः । अज्ञेयत्वं स्वभिन्नज्ञानग्राह्यत्वमित्यर्थः । स्वेनैव स्वस्वग्राह्यत्वेन घटादिवत्ज्ञेयत्वासिद्धेरिति भावः । ********** टीका सम्पूर्णा ********** व्यञ्जनायाश्च ज्ञानविशेषत्वाद्द्वयोरैक्यमापतितम् । ************* टीका ************* विज्ञप्रिया (वि, त) ननु विभावादिजन्येन व्यञ्जनाधीनज्ञानेनैव विषयीकरणात्स्वभिन्नज्ञानग्राह्यत्वमस्त्येवेत्याशङ्कायामाह--अङ्कायामाह---व्यञ्जनायाश्च ज्ञानविशेषत्वादिति । व्यञ्जनायाः व्यञ्जनाधीनज्ञानस्य ज्ञानविशेषत्वातास्वादरूपज्ञानविशेषत्वात् । तथा च तद्दशायां तद्भिन्नज्ञानग्राह्यत्वादज्ञेयत्वमित्यर्थः । तथा च रसरूपास्वादव्यञ्जनाधीनज्ञानयोरैक्यमेवापतितमित्याह---द्वयोरैक्यमिति । द्वयोरास्वादाभिन्नरसव्यञ्जनाधीनज्ञानयोरित्यर्थः । नन्वेतावता किमनिष्टमित्यतो विभावादेर्व्यञ्जकत्वानुपपत्त्या रसस्य व्यङ्ग्यत्वानुपपत्तिः एवानिष्टमितिवक्तुं प्रथमं विभावादेर्व्यञ्जकत्वानुपपत्तिं घटव्यञ्जकदीपवैलक्षण्येन साधयति---ततश्चेति । घटादेर्व्यञ्जको यथा दीपो विभावादेस्तथात्वाभावाद्घटव्यञ्जकदीपतो विभावादेः पार्थक्यं पृथग्भावो वैलक्षण्यमिति समुदायार्थः । यथाश्रुताक्षरार्थेन त्वयमर्थो न घटते, स्वविषयज्ञानेन स्वजन्यज्ञानेन वा घटधियो हेतोर्देपस्य घटव्यञ्जकभावप्रसक्त्या "यथा दीपऽ इति दृष्टान्तानुपपत्तेः । अतोऽत्रज्ञानेनेति । तृतीयाभेदे । "अर्थेनैव विशेषो हि निराकारतया धियाम्ऽ इतिवत् । तथा च स्वजन्यज्ञानाभिन्नाया अन्यस्य ज्ञानदन्यस्य धियो हेतुर्यः स एव सिद्धे ज्ञानं विनापि सिद्धे अर्थे व्यञ्जको मतो यथा दीप इत्यर्थः विभावादिस्तु स्वजन्यव्यञ्जनाधीनज्ञानभिन्नस्याऽस्वादात्मकरसादेर्जनक एव न दीपवत्व्यञ्जक इत्यर्थः । अन्यथाभावे अन्यथात्वे स्वजन्यं प्रत्यपि स्वस्वव्यञ्जकत्वे इत्यर्थः । अस्य विभावादेः कारकात्को विशेष इत्यर्थः । घटप्रतीपवत्द्वौ यौ व्यङ्ग्यव्यञ्जकौ तयोः सकाशादनयोः रसविभावाद्योः पार्थक्यं वैलक्षण्यमेवेत्यर्थः । न तु व्यङ्ग्यव्यञ्जकयोः परस्परं पार्थक्यं भेद इत्यर्थः । तदा प्रत्युत रसस्य व्यङ्ग्यत्वस्यैव सिद्धेराशङ्कानुपपत्तेः । लोचना (लो, आ) एतावतेत्यत्र प्रबन्धेनेति शेषः । रसस्य व्यङ्ग्यत्वेन निरूप्यमाणस्यैकं ज्ञानत्वाविशेषादित्यर्थः । ********** टीका सम्पूर्णा ********** ततश्च-- "स्वज्ञानेनान्यधीहेतुः सिद्धेर्ऽथे व्यञ्जको मतः । यथा दीपोऽन्यथाभावे को विशेषोऽस्य कारकात्" ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) व्यञ्जनास्वादयोराशङ्कितमैक्यं निरस्य रसावस्थस्य व्यङ्ग्यत्वाभावं सिद्धान्तयनाह---"चेत्सत्यमिति" । लोचना (इ) अन्यधीहेतुर्व्यङ्ग्यबुद्धेः कारणम् । सिद्धे नतु साध्ये व्यञ्जको मतः शब्द इत्यर्थः । यथा दीप इति । न खलु दीपो घटादिकं करोति । किन्तु स्वप्रकाशेन सिद्धमेव तं प्रकाशयति । अन्यथाभावे-असिद्धस्य साधने । ********** टीका सम्पूर्णा ********** इत्युक्तदिशा घटप्रदीपवद्व्यङ्ग्यव्यञ्जकयोः पार्थक्यमेवेति कथं रसस्य व्यङ्ग्यतेति चेत्, सत्यमुक्तम् । ************* टीका ************* लोचना (लो, ई) उक्तदिशा ध्वनिकाराद्युक्तमार्गेण व्यङ्ग्यव्यञ्जकयोः पार्थक्यमित्यनेन व्यञ्जनाया व्यङ्ग्यस्य च पार्थक्यं न्यायसिद्धमेव इति भावः । न खलु घटस्य दीपप्रकाशेनैक्यम् । ********** टीका सम्पूर्णा ********** अत एवाहुः-- "विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः स्वादनाख्यः कश्चिद्व्यापारः । ************* टीका ************* विज्ञप्रिया (वि, द) कृतिज्ञप्तिभेदेभ्य इति--कृतिरुत्पादको व्यापारः दण्डदेर्भ्रम्यादिः । ज्ञाप्तिः ज्ञापको व्यापारः, अभिधालक्षणाव्यञ्जनाः॑ तेभ्यो व्यापारेभ्यो भिन्न इत्यर्थः । स्वादनाख्यः आस्वादरूपः स्वप्रकाशज्ञानजनको वृत्तिविशेष इत्यर्थः । तथा च तद्विषय एव रसः । व्यञ्जनाधीनज्ञानं तु रत्यदिविषयः ततो भिन्नमेव इत्यतो रसव्यञ्जनाधीनज्ञानयोर्नैक्यमित्युक्तम् । स च विभावादिर्निष्टो व्यञ्जनाभिन्न इत्यर्थः । तथा च व्यञ्जनया रत्यादिज्ञानमेव, स्वादनाख्यव्यापारेण तु रसास्वाद इत्यन्वयः । ननु कथं तर्हि रसो व्यङ्ग्य इत्युच्यते इत्यत आह---अभिधादीति । विलक्षणो व्यापारो व्यञ्जना रसो व्यङ्ग्य इति व्यह्ग्यरामादिरत्याद्यारोपाधिकरणसामाजिकरत्यादेः रसरूपतया परिणामात्परम्परया व्यङ्ग्य इत्यर्थः । लोचना (लो, उ) अत एवेति--॑ आहुरित्यस्य व्यङ्ग्यत्वमुक्तं भवतीत्यत्र दूरस्थेनेतिशब्देनान्वयः । अत एव-यतो ज्ञानरूप एव रस इत्यर्थः । आहुर्न्यायविदः प्राचीनाचार्या इति शेषः । कृतिः करणं॑ ज्ञप्तिर्ज्ञानम्॑ स्वादनं स्वादः"स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भव"इत्युक्तप्रकारः । कश्चिदित्यलौकिकः । व्यापारः--व्यापारविषयाद्रसादभिन्नः । विलक्षणो व्यञ्जकादिति शेषः । ********** टीका सम्पूर्णा ********** अत एव हि रसनास्वादनचमत्करणादयो विलक्षणा एव व्यपदेशाः" इति । अभिधादिविलक्षणव्यापारमात्रप्रसाधनग्रहिलैरस्माभी रसादीनां व्यङ्ग्यत्वमुक्तं भवतीति । ************* टीका ************* लोचना (ऊ) व्यङ्ग्यत्वमुक्तं, प्रकाशनमात्रोपचारादित्यर्थः । ********** टीका सम्पूर्णा ********** ननु तर्हि करुणादीनां रसानां दुः खयत्वाद्रसत्वं (तदुन्मुखत्वं ) न स्यादित्युच्यते-- ************* टीका ************* विज्ञप्रिया (वि, ध) रसत्वं न स्यादिति---स्वप्रकाशानन्दरूपत्वाद्रसस्य इत्यर्थः । ********** टीका सम्पूर्णा ********** करुणादावपि रसे जायते यत्परं सुखम् । सचेतसामनुभवः प्रमाणं तत्र केवलम् ॥ ३.४ ॥ ************* टीका ************* विज्ञप्रिया (वि, न) रसे इति--करुणादौ रस ग्राह्ये करुणादिरसस्वरूपमेव यत्सुखं जायत इत्यर्थः । रसातिरिक्तसुखाभावात् । सचेतसामनुभव इति । रसादीनामेव शोकदुः खं तज्ज्ञातॄणआं, सामाजिकानां तु सुखमेव जायत इत्यत्र सचेतसामनुभवः प्रमाणमित्यर्थः । लोचना (ऋ) नन्विति । तर्हि यदिदृशानन्दस्वरूपो रस इत्यर्थः । रसे सुखमित्युपचारः । सचेतसां सहृदयानाम् । तेषु करुणादिषु । ********** टीका सम्पूर्णा ********** आदिशब्दाद्बीभत्सभयानकादयः । तथाप्यसहृदयानां मुखमुद्रणाय पक्षान्तरमुच्यते-- ************* टीका ************* विज्ञप्रिया (वि, प) असहृदयानामपि परदुः खज्ञानादपि दुः खमेव जायते इत्येवंहृदयानामपीत्यर्थः । ********** टीका सम्पूर्णा ********** किञ्च तेषु यदा दुःखं न कोऽपि स्यात्तदुन्मुखः । नहि कश्चत्सचेता आत्मनो दुःखाय प्रवर्त्तते । करूणादिषु च सकलस्यापि साभिनिवेशप्रवृत्तिदर्शनात्सुखमयत्वमेव । ************* टीका ************* विज्ञप्रिया (वि, फ)किञ्च तेष्विति---दुः खहेतुत्वे अनुपपत्त्यन्तरमित्यर्थः । लोचना (लो, ॠ) साभिनिवेशा, नतु राजादिकारिता । ********** टीका सम्पूर्णा ********** अनुपपत्त्यन्तरमाह-- तथा रामायणादीनां भविता दुःखहेतुता ॥ ३.५ ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) तथा रामायणेति---रामायणमत्र करुणरसविशिष्टतदेकदेशः । दुःखहेतुत्व-प्रसङ्ग इति--तथा च तत्--श्रवणे न कोपि प्रवर्तते । लोचना (लो, ळ) रामायणं वाल्मीकिमहाकाव्यम् । ********** टीका सम्पूर्णा ********** करुणरसस्य दुः खहेतुत्वे करुणरसप्रधानरामायणादिप्रबन्धानामपि दुःखहेतुताप्रसङ्गः स्यात् । ननु कथं दुःखकारणोभ्यः सुखोत्पत्तिरित्याह-- ************* टीका ************* विज्ञप्रिया (वि, भ) दुः खहेतुभ्य इति---परशोकादयः स्वदुः खहेतव एव, तेभ्यः कथमित्यर्थः । ********** टीका सम्पूर्णा ********** हेतुत्वं शोकहर्षादेर्गतेभ्यो लोकसंश्रयात् । शोकहर्षादयो लोके जायन्तां नाम लौकिकाः ॥ ३.६ ॥ ************* टीका ************* विज्ञप्रिया (म) हेतुत्वमिति लोकसंश्रयात्---लोके दृष्टत्वात्स्वीय--शोकहर्षादेर्हेतुत्वगतेभ्यः परशोकादिकारणेभ्यो लौकिकाः शोकहर्षादयो जायन्तां नामेति तुष्यतु दुर्जन इति न्यायेन उक्त्वा आह---अलौकिकेति । ********** टीका सम्पूर्णा ********** अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात् । सुखं सञ्जायते तेभ्यः सर्वेभ्योऽपीति का क्षतिः ॥ ३.७ ॥ ************* टीका ************* लोचना (लो, ए) हेतुत्वमिति--हेतुत्वं गतेभ्यो रामवनवासादिभ्यो लोकसंश्रयात्॑ नतु काव्यसंश्रयात् । लोके नतु काव्ये॑ लौकिकाः॑ नत्वलौकिकाः । तेभ्यः--- रामवनवासादिभ्यः । ********** टीका सम्पूर्णा ********** ये खलु रामवनवासादयो लोके "दुःखारणानि" इत्युच्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभावनव्यापारवत्तया कारणशब्दवाच्यतां विहाय अलौकिकविभावशब्दवाच्यत्वं भजन्ते । तेभ्यश्च सुरते दन्तधातादिभ्य इव सुखमेव जायते । ************* टीका ************* लोचना (लो, ऐ) अलौकिकविभावनव्यापारवत्तया, नतु पर्यायान्तरत्वमात्रेण । विभावनादिस्वरूपं वक्ष्यते । सुरते दन्तघातादिभ्य इति । अनेन देखकालादिविशेषेणषेण सुखमयस्यापि दुः खमयत्वं॑ दुः खमयस्यापि सुखमयत्वम् । अत एवाहुः॑--"प्रपञ्चस्य सुखदुः खमोहात्मकत्वम्"--साङ्ख्याः ********** टीका सम्पूर्णा ********** अतश्च "लौकिकशोकहर्षादिकारणोभ्यो लौकिकशोकहर्षादयो जायन्ते" इति लोक एव प्रतिनियमः । काव्ये पुनः ************* टीका ************* लोचना (ओ) काव्ये अलौकिकार्थे । ********** टीका सम्पूर्णा ********** "सर्वेभ्योऽपि विभावादिभ्यः सुखमेव जायते" इति नियमान्न कश्चिद्दोषः । कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययोरपि दर्शनश्रवणाभ्यामश्रुपाता दयो जायन्त इत्युच्यते-- अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः । ************* टीका ************* विज्ञप्रिया (वि, य) द्रुतत्वाच्चेतस इति--चित्तस्य सदयत्वमेव द्रुतत्वम् । सुखसत्त्वेपि तद्दयया अश्रुपता इति भावः । लोचना (लो, औ) द्रुतत्वात्--द्रवीभावात्रसोद्धोध इति । ********** टीका सम्पूर्णा ********** तर्हि कथं काव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्यत आह-- न जायते तदास्वादो विना रत्यादिवासनाम् ॥ ३.८ ॥ ************* टीका ************* विज्ञप्रिया (र) विना रत्यादिवासनामिति--तथा च पुण्यजनितरत्यादिवासनापि रसास्वादहेतुरित्युक्तम् । ********** टीका सम्पूर्णा ********** वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः, तत्र यद्याद्या न स्यात्तदा श्रोत्रियजरन्मीमांसकादीनामपि स स्यात् । ************* टीका ************* विज्ञप्रिया (ल) यद्याद्येति--इदानीन्तनीत्यर्थः । ओत्रियेति--जरन्मीमांसका हि कार्यकारणभावादितर्कमात्रानुशीलनान्न काव्यरसास्वादवन्तः तदनुशीलनाच्च तदानीन्तनवासनावन्त इत्यर्थः । नच प्राक्तनवासनाभावादेव तेषां न काव्यरसास्वाद इत्येवमुच्यताम्, किमर्थमिदानीन्तन-वासनाङ्गीकारः इति वाच्यम्, तेषामेव तर्कानुशीलनत्यागेन काव्यानुशीलनाभ्यासे रसोद्वोधेन इदानीन्तन्या अपि अवश्यंवाच्यत्वात् । ********** टीका सम्पूर्णा ********** यदि द्वितीया न स्यात्तदा यद्रगिणा मपि केषाञ्चिद्रसोद्वोधो न दृश्यते तन्न स्यात् । ************* टीका ************* विज्ञप्रिया (व) रागिणामपीति--काव्यरसबोधानुभाववतामपीत्यर्थः तेषामिदानीन्तन-वासनाभावादेव न रसोद्वोध इति वाच्यम् । इदानीन्तनवासनाजनकतदनुरागसत्त्वेन तत्सत्त्वावश्यंभावात् । वस्तुतस्तु वासनात्वेनैव कारणत्वमुचितम् । नतु तत्र इदानीन्तनत्वादिप्रवेशः जरन्मीमांसकानां तु अत्यन्ततर्कानुराग एव प्रतिबन्ध इत्येवान्वयः । ********** टीका सम्पूर्णा ********** उक्तञ्च धर्म्मदत्तेन-- "सवासनानां सभ्यानां रसस्यास्वादनं भवेत् । निर्वासनास्तु रङ्गान्तः काष्ठकुड्याश्मसन्निभाः" ॥ इति । ननु कथं रामादिरत्याद्युद्वोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्वोधैत्युच्यते-- ************* टीका ************* विज्ञप्रिया (वि, श) ननु कथमिति---नाट्यकाव्यदृष्टश्रुत--सीतादिभ्यः इत्यर्थः लोचना (लो, अ) नन्विति । रामादिरत्याद्युद्वोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्वोधः तन्मते रसतामापद्यमानः । ********** टीका सम्पूर्णा ********** व्यापारोऽस्ति विभावादेर्नाम्ना साधारणीकृतिः । तत्प्रभावेण यस्यासन् पाथोधिप्लवनादयः ॥ ३.९ ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) व्यापारोस्ति इति । साधारणी कृतिः सामाजिके रामाद्यभेदारोपरूपस्य, रामादिसीतादौ स्वीयत्वारोपरूपस्य, स्वीयरत्यादौ रामादिरत्याद्यभेदारोपरूपस्य च साधारणी सा इति कारिकार्थः । कर्तरि अपि क्तिरत एव प्रयोगात् । तत्प्रभावेणेति । यस्य हनूमदादेः पाथोधिप्लवनादयः आसन् प्रमाता तदभेदेन स्वात्मानं प्रतिपद्यत इत्यर्थः । तत्र हेतुमाह---तत्प्रभावेणेति । साधारणीकृतिप्रभावेणेत्यर्थः । भेदाग्रहे सत्येन अभेदग्रह उपपद्यते इत्यत आह---तदभेदेनेति । भेदाग्रहेपि--साधारणीकृतिप्रभावेणेत्यर्थः । लोचना (लो, आ) साधारणीकृतिः--साधारणीकरणं नाम । तत्प्रभावेण--साधारणीकरणव्यापरस्य प्रभावेण । तदभेदेन स्वात्मानं प्रतिपद्यत इति सम्बन्धः । यस्यासन्निति । विवृणोति--तदभेदेनेति । अयमर्थः, सभ्यानां रामाद्यभेदप्रतिपत्तौ नाट्यकाव्ययोः रावणादिदर्शनश्रवणाभ्यां रोषोद्वोधेन सभातः समुत्थाय धनुराकर्षणादिर्भवत् । भेदेन प्रतिपत्तौ तु आत्मनिष्टरोषादिस्थायिभावोद्वोधो न स्यात् । एवं च यो दोषः समनन्तरमेव दर्शयिष्यते । यदुक्तम्---अभेदेन प्रतिपद्यते--अख्यातिवादिनां शुक्तौ रजतप्रत्यये भेदग्रहवत् । ********** टीका सम्पूर्णा ********** प्रमाता तदभेदेन स्वात्मानं प्रतिपद्यते । ननु कथं मनुष्यमात्रस्य समुद्रलङ्घनादावुत्साहोद्वोध इत्युच्यते-- ************* टीका ************* विज्ञप्रिया (वि, स) इत्थं स्वस्मिन् हनुमदाद्याभेदारोपमुक्त्वा तदुत्साहज्ञानादेव स्वोत्साहोद्वोधमुपपादयितुमाशङ्कते । ********** टीका सम्पूर्णा ********** उत्साहादिसमुद्वोधः साधारण्याभिमानतः ॥ ३.१० ॥ ************* टीका ************* विज्ञप्रिया (ह) ननु कथमिति---साधारण्याभिमानतः--स्वस्मिन् हनुमदाद्यभेदाभिमानतः । ********** टीका सम्पूर्णा ********** नृणामपि समुद्रादिलङ्घनादौ न दुष्यति । ************* टीका ************* लोचना (लो, इ) साधारण्याभिमानतः--उक्तप्रकारेण विभावादीनां साधारणीकरणव्यापारप्रभावेनोत्पन्नस्य स्वात्मनि साधारण्याभिमानबलात् । नृणां--सभ्यानाम् । ********** टीका सम्पूर्णा ********** रत्यादयोऽपि साधारण्येनैव प्रतीयान्त इत्याह-- ************* टीका ************* विज्ञप्रिया (क) साधारण्येनेति--उभयसाधारण्येनेत्यर्थः, न त्वात्मगतत्वेनैव नैव रामादिगतत्वेनैवेत्यर्थः । ********** टीका सम्पूर्णा ********** साधारण्येन रत्यादिरपि तद्वत्प्रतीयते ॥ ३.११ ॥ ************* टीका ************* लोचना (लो, ई) रत्यादि॑ सभ्यानां स्थायिभावः । साधारण्येन प्रतीयते । विभावादिसाधारणीकरणव्यापारप्रभावादेवेत्यर्थः । ********** टीका सम्पूर्णा ********** रत्यादेरपि स्वात्मगतत्वेन प्रतीतौ सभ्यानां ब्रीडातङ्कादिर्भवेत् । ************* टीका ************* विज्ञप्रिया (ख) रत्यादेरिति--आत्मगतत्वेन--आत्ममात्रगतत्वेन एवमुत्तरत्रापि मात्रगर्भिता । ********** टीका सम्पूर्णा ********** परगतत्वेन त्वरस्यतापातः । ************* टीका ************* लोचना (लो, उ) आत्मगतत्वेन प्रतीतावुक्तम्--देवतादिरूपसीतादिहेतुकत्वेनेति शेषः । अरस्यता-अनास्वाद्यता । ********** टीका सम्पूर्णा ********** विभावादयोऽपि प्रथमतः साधारण्येन प्रतीयन्त इत्याह-- परस्य न परस्येति ममेति न ममेति च । तदास्वादे विभावादेः परिच्छेदो न विद्यते ॥ ३.१२ ॥ ************* टीका ************* विज्ञप्रिया (ग) परस्य न परस्येति--अत्रापि परस्यैवेत्यादिरर्थः । लोचना (लो, ऊ) तदास्वादे-तस्य रसस्याऽस्वादे । एवं च विभावादयः स्वयं साधारण्येन प्रत्याययन्तीत्यर्थः । ********** टीका सम्पूर्णा ********** ननु तथापि कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते-- विभावनादिव्यापारमलौकिकमुपेयुषाम् । अलौकिकत्वमेतेषां भूषणं न तु दूषणम् ॥ ३.१३ ॥ आदिशब्दादनुभावसञ्चारणो । तत्र विभावनं रत्यादे ************* टीका ************* लोचना (लो, ऋ) रत्यादेर्जगतो वासनान्तर्गतवासनान्तर्लोनस्येत्यर्थः । ********** टीका सम्पूर्णा ********** विशेषणास्वादाङ्कुरणयौग्यतानयनम् । ************* टीका ************* विज्ञप्रिया (वि, घ) आस्वादाङ्कुर इति--व्यञ्जनया रत्याद्युपस्थापनमेव तद्योग्यता । अस्य योगार्थस्यानुभावादावपि सत्त्वेति परिभाषाया योगरूढत्वान्न तत्र प्रयोगः । एवमग्रे अनुभावव्यभिचारिपरिभाषयोरपि बोध्यम् । ********** टीका सम्पूर्णा ********** अनुभावनमेवम्यूतस्य रत्यादेः समनन्तरमेव रसादिरूपतया भावनम् । ************* टीका ************* विज्ञप्रिया (वि, ङ) अनुसंज्ञार्थमाह---समनन्तरत्वमिति । एवंभूतस्य आस्वादाङ्कुरतां प्रापितस्य रत्यादेः स्वनिष्ठस्वादनाख्यव्यापारेण रसरूपतया प्रवेशनमित्यर्थः । विभावादिभिरेवं क्रियत इति बोध्यम् । ********** टीका सम्पूर्णा ********** सञ्चारणं तथाभूतस्यैव तस्य सम्यक्चारणम् । विभावादीनां यथासङ्ख्यं कारणकार्य्यसहकारित्वे कथं त्रयाणामपि रसोद्बोधे कारणत्वमित्युच्यते -- कारण-कार्य-सञ्चारिरूपा अपि हि लोकतः । ************* टीका ************* लोचना (लो, ॠ) लोकतो-लोके । ********** टीका सम्पूर्णा ********** रसोद्वोधे विभावाद्याः कारणान्येव ते मताः ॥ ३.१४ ॥ ननु तर्हि कथं रसास्वादे तेषामेकः प्रतिभास इत्युच्यते-- ************* टीका ************* विज्ञप्रिया (वि, च) कथं त्रयाणामपीति कार्यस्य कारणत्वाभावादित्यर्थः । रसास्वादे एकः प्रतिभास इत्यर्थः । ********** टीका सम्पूर्णा ********** प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते । ततः सम्बलितः सर्वो विभावादिः सचेतसाम् ॥ ३.१५ ॥ प्रपाणकरसन्यायाच्चर्व्यमाणो रसो भवेत् । यथा खण्डमरिचादीनां सम्मेलनादपूर्व्व इव ************* टीका ************* लोचना (लो, ळ) अपूर्व इव--तद्भिन्न इव । ********** टीका सम्पूर्णा ********** कश्चिदास्वादः प्रपाणकरसे सञ्जायते विभावादिसम्मेलनादिहापि तथेत्यर्थः । ननु यदि विभावानुभावव्यभिचारिभिर्म्मिलितैरेव रसस्तत्कथं तेषामेकस्य द्वयोर्वा सद्भावेऽपि स स्यादित्युच्यते-- सद्भावश्चेद्विभावादेर्द्वयोरेकस्य वा भवेत् ॥ ३.१६ ॥ झटित्यन्यसमाक्षेपे तदा दोषो न विद्यते । ************* टीका ************* विज्ञप्रिया (वि, छ) झटित्यन्येति---शीघ्रमन्यव्यञ्जके सतीत्यर्थः । ********** टीका सम्पूर्णा ********** अन्यसमाक्षेपश्च प्रकरणादिवशात् । यथा-- "दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः सङ्क्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव । मध्यः पाणिमितो नितम्बि जघनं पादावुदग्राङ्गुली छन्दो नर्त्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) दीर्घाक्षमिति---अग्निमित्रनाम्ना राज्ञा मालविकानामराजपुत्र्या रूपवर्णनमिदम् । उत्तमनटीं नर्तुयितुर्मनसो यथैवच्छन्द इच्छा तथैवास्या वपुः सृष्टम् (विधात्रा) तदेवाह--दीर्घाक्षमिति--बाहू--अंसयोः स्वमूलयोर्नतौ । संक्षिप्तं नातिस्फारम् । निबिडौ--अन्योन्यसंसक्तौ उन्नतौ च स्तनौ यत्र तादृशं च उरुः । प्रमृष्टे मार्जिते । पाणिमितः करतलेन परिमातुं शक्यः । जघनोत्तरभागः नितम्बः प्रशस्तः तद्युक्तं जघनम्, उद्ग्रा-उन्नता । अत्रेति--अभियं वर्णयतः । लोचना (लो, ए) दीर्घाक्षमिति । छन्दोऽभिप्रायः । सृष्टं विधात्रा इति शेषः नर्तयिता नर्तकीषु दीर्घाक्षत्वाद्यभिनयेन दर्शयितुं शिक्षयति, मालविकायां सहजसौन्दर्यादेव तदस्तीति भावः । ********** टीका सम्पूर्णा ********** अत्र मालविकामभिलषतोऽग्निमित्रस्य मालविकारूपविभावमात्रवर्णनेऽपि सञ्चारिणामौत्सुक्यादीनामनुभावानाञ्च नयनविस्फारादीनामौचित्यादेवाक्षेपः । एकमन्याक्षेपेऽप्यूह्यम् । ************* टीका ************* लोचना (लो, ऐ) अन्याक्षेप इति---अन्यत्--एकतमं द्वितयं वा । ********** टीका सम्पूर्णा ********** "अनुकार्य्यगतो रसः" इति वदतः प्रत्याह-- ************* टीका ************* विज्ञप्रिया (वि, झ) अनुकार्येति--नाट्येऽनुकार्यो रामादिरनुकारको नटः । लोचना (लो, ओ) अनुकार्यो--रामादिः, अनकर्ता-नटः पाठकश्च । ********** टीका सम्पूर्णा ********** पारिमित्याल्लौकिकत्वात्सान्तरायतया तथा ॥ ३.१७ ॥ अनुकार्य्यस्य रत्यादेरुद्बोधो न रसो भवेत् । ************* टीका ************* विज्ञप्रिया (वि, ञ) पारिमित्यादिति--सीतादिविषयरतेः रामादिमात्रनिष्ठत्वेन परिमितत्वादित्यर्थः । लौकिकत्वादिति--तन्निष्ठरत्यादेस्तत्रैव दृष्टत्वादित्यर्थः । काव्यनाट्ययोस्तु तद्रतरत्याद्यभेदेन आरोपविषयस्य सामाजिकरत्यादेरलौकिकत्वमेव । सन्तरेति---रामादिरत्यादेरित्यर्थः । तदभेदेनारोपविषयः सामाजिकरत्यादिरेव विभावादिनिष्ठस्वादनाख्यव्यापारजन्यास्वादविषयो रसः इत्यर्थः । ********** टीका सम्पूर्णा ********** सीतादिदर्शनादिजो रामादिरत्याद्युद्बोधो हि परिमितो लौकिको नाट्यकाव्यदर्शनादेः सान्तरायश्च, तस्मात्कथं रसरूपतामियात् । (क) रसस्यैतद्धर्म्मत्रितयविलक्षणधर्म्मकत्वात् । अनुकर्त्तृगतत्वञ्चास्य निरस्यति-- ************* टीका ************* विज्ञप्रिया (वि, ट) अनुकर्तेति--अनुकर्ता नट एव । ********** टीका सम्पूर्णा ********** शिक्षाभ्यासादिमात्रेण राघवादेः स्वरूपताम् ॥ ३.१८ ॥ दर्शयन्नर्त्तको नैव रसस्यास्वादको भवेत् । ************* टीका ************* विज्ञप्रिया (वि, ठ) स यदा काव्यार्थभावकः स्यात्तदा सोपि सामाजिको भवेदित्याह---किंचेति । ********** टीका सम्पूर्णा ********** किञ्च-- काव्यार्थभावनेनायमपि सभ्यपदास्पदम् ॥ ३.१९ ॥ यदि पुनर्नटोऽपि काव्यार्थभावनया रामादिस्वरूपतामात्मनो दर्शयेत्तदा सोऽपि सभ्यमध्य एव गण्यते । ************* टीका ************* लोचना (लो, औ) सभ्यमध्य एव गण्यते । एतावता सभ्यनिष्ट एव रसः इत्यर्थः । ********** टीका सम्पूर्णा ********** नायं ज्ञाप्यः स्वसत्तायां प्रतीत्यव्यभिचारतः । ************* टीका ************* विज्ञप्रिया (वि, ड) यद्यप्युक्तरीत्या रसस्य साक्षात्क्रियमाणत्वं कार्यत्वं कादाचित्कत्वेन भविष्यद्वर्तमानत्वं सविकल्पकज्ञानविषयत्वं तज्-ज्ञानस्य साक्षात्कररूपत्वं च तथापि तस्य वैलक्षण्यं साधयितुं साक्षात्क्रियमाण्घटादितोऽपि वैलक्षण्यसाधनेन कौतुकादसाक्षात्क्रियमाणत्वं कारणविशेषकार्यत्वस्य केनचिदुक्तस्य दूषणेन कौतुकात्सामान्यतोऽकार्यत्वमेवमभविष्यत्वादिकमपि कौतुकाद्वक्तुं प्रथमं घटादिसाधारणसाक्षात्कारविषयत्वामाह--नायं ज्ञाप्येति--स्वार्थककारितान्तत्वेन (णिजन्तत्वेन) नायं ज्ञेय इत्यर्थः । ज्ञाप्यत्व--ज्ञेयत्वयोः समनियतत्वात्यथाश्रुतमेव वा । अज्ञेयत्वं चात्र घटादिसाधारणेतरसाक्षात्कारविषयत्वाम् । ज्ञेयत्वस्य केवलान्वयित्वेन तदभावासम्भवात् । तत्र हेतुमाह--स्वसत्तायामिति । प्रतित्यव्यभिचारतः । साक्षात्कारं विना असत्त्वात्साक्षात्कारदशायामेव रसः । अन्यदा तु रत्यादिरेव । घटादिस्त्वसाक्षात्कारदशायामपि घटादिरित्यतस्तद्वैलक्षण्यम् । साक्षात्कारहेतुसन्निकर्षार्थं पूर्वसत्त्वस्यावश्यमेवापेक्षणीयत्वात् । एतावतैव सामान्यतोऽज्ञेयत्वमेव अग्रे कौतुकाद्व्यक्तीकरिष्यति । लोचना (लो, अ) नायं ज्ञाप्य इति--अयं रसः सत्तायां सद्भावे प्रतीतिमन्तरेणाभावात् । असंविदितसत्त्वे च प्रमाणाभावात् । ********** टीका सम्पूर्णा ********** यो हि ज्ञाप्यो घटादिः सन्नपि कदाचिदज्ञातो भवति, न ह्ययं तथा॑ प्रतीतिमन्तरेणाभावात् । यस्मादेष विभावादिसमूहालम्बनात्मकः ॥ ३.२० ॥ तस्मान्न कार्यः-- ************* टीका ************* विज्ञप्रिया (वि, ढ) हेतुविशेषकार्यत्वं रसस्य ये वदन्ति तन्मतं निरस्यति---यस्मादेष इत्यादि तस्मान्न कार्य इत्यन्तेन । अयमर्थः ---"प्रपानकरसन्यायाच्चर्व्यमाणो रसो भवेदित्युक्त्या विभावादिरत्यादिसमूहालम्बनात्मको रस इत्युक्तम् । तच्च समूहालम्बनं स्वादनाख्यव्यापारजन्यम् । केचित्तु तत्समकालोत्पन्नं व्यञ्जनयापि तादृशं समूहालम्बनानन्तरं जायते, तत्कार्य एव रस इत्याहुः, तन्निरस्यति---यस्मादेष इति । एष रसो यस्मात्स्वादनाख्यव्यापराधीनसमूहालम्बनात्मकः, अतो न कार्यः, न समूहालम्बनकार्यः स्वस्य स्वकार्यत्वात्स्वकालोत्पत्तिकस्य व्यञ्जनाधीनसमूहालम्बनान्तरस्याभावाच्चेति भावः । तत्र स्वस्य स्वकार्यत्वासम्भवस्य स्फुटत्वात् । लोचना (लो, अ) रसस्येति--नहि विभावादिज्ञानकारणकमित्यनन्तरं ततश्चानुपलभ्यमानकारणान्तरस्य रसस्य न कार्यत्वमिति भावः । ********** टीका सम्पूर्णा ********** यदि रसः कार्यः स्यात्तदा विभावादिज्ञानकारणक एव स्यात् । ************* टीका ************* विज्ञप्रिया (वि, ण) स्वसमकालोत्पत्तिकसमूहालम्बनानन्तरकार्यत्वासम्भवं व्याचष्टे---यदि रसः कार्यः स्यादिति । यदि समूहालम्बनकार्यः स्यादित्यर्थः । विभावादिज्ञानकारणको विभावादिसमूहाम्बनज्ञानकारणकः स्यादित्यर्थः । प्रत्येकं विभावादिज्ञानकारणकत्वे त्विष्टापत्तिरेव । "प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते"इत्यनेन प्रत्येकस्य हेतुत्वोक्त्या तत्कार्यत्वे विप्रतिपत्त्यभावात् । ********** टीका सम्पूर्णा ********** ततश्च रसप्रतीतिकाले विभावादयो न प्रतीयेरन्, ************* टीका ************* विज्ञप्रिया (वि, त) ननु तादृश्समूहातम्बनकारणत्वे को दोषः इत्याह--ततश्चेति । रसप्रतीतिकाले, स्वादनाख्यव्यापारजन्यविभावादिसमूहालम्बनात्मकरसप्रतीत्युत्पत्तिकाले विभावादयो न प्रतीयेरन्॑ तत्कालोत्पन्नप्रतीतिविषयाः स्युरित्यर्थः । ********** टीका सम्पूर्णा ********** कारणज्ञानतकार्य्यज्ञानयोर्युगपददर्शनात् । ************* टीका ************* विज्ञप्रिया (वि, थ) कारणज्ञानस्य स्थितिः कार्यज्ञानस्योत्पत्तिरिति तु न सम्भवत्येव । कार्यकारणयोरुत्पत्तियोगपद्स्यैवाभावात् । तदाह--ज्ञानतत्कार्यज्ञानयोरिति । अत्र ज्ञानेति प्रकृताभिप्रयेणैव । कारणकार्यमात्रयोरेव युगपदुत्पत्त्यभावात् । न च पूर्वोत्पन्नमेव व्यञ्जनाधीनसमूहालम्बनमस्त्विति वाच्यम् । स्वादनाख्यव्यापाराधीनरसात्मकसमूहालम्बनातिरिक्तसमूहालम्बनस्यानुभावात्, तत्स्वीकारवैफल्याच्च । ********** टीका सम्पूर्णा ********** नहि चन्दनस्पर्शज्ञानं तज्जन्यसुखज्ञानञ्चैकदा सम्भवति । ************* टीका ************* विज्ञप्रिया (वि, द) कारणकार्यज्ञानयोर्युगपदुत्पत्त्यसंभवं दर्शयति--नहि चन्दनेति । ********** टीका सम्पूर्णा ********** रसस्य च विभावादिसमूहालम्बनात्मकतयैव प्रतीतेर्न विभावादिज्ञानकारणत्वमित्यभिप्रायः । ************* टीका ************* विज्ञप्रिया (वि, ध) तस्मात्रसस्य समूहालम्बनात्मकत्वमेव॑ नतु समूहालम्बनजन्यत्वमित्युपसंहरति--रसस्येति । समूहालम्बनात्मकतयैव इत्येवकारात्समूहालम्बनजन्यत्वव्यवच्छेदः । तदेवाह--न विभावादीति । ज्ञानमत्रापि समूहालम्बनम् । एवं रसस्य समूहालम्बनकार्यत्वमेव खण्डितं नतु कार्यत्वम् । एतावतैव कार्यत्वसामान्याभावमग्रे कातुकाद्वक्ष्यति । लोचना (लो, आ) नो नित्य इति--नित्यत्वाभावे हेतुमाह--- पूर्वसंवेदनोज्झित इति । पूर्वसम्वेदनाभावादित्यर्थः । ननु पूर्वसंवेदनाभावान्नित्यत्वाभावे इतरषामपि नित्यवस्तूनामभावप्रसङ्ग इत्यत आह-असम्वेतनेति । अस्य रसस्य । ********** टीका सम्पूर्णा ********** -- नो नित्यः पूर्वसंवेदनोज्झितः । असंवेदनकाले हि न भावोऽष्यस्य विद्यते (क) ॥ ३.२१ ॥ ************* टीका ************* लोचना (वि, न) नित्यत्वाभावः स्पष्ट एव, तमाह--नो नित्य इति । पूर्वसंवेदनं, संवेदनात्पूर्वमुज्झितोऽसन्नित्यर्थः । तदेव दर्शयति--असंवेदनकाल इति । ********** टीका सम्पूर्णा ********** न खलु नित्यस्य वस्तुनोऽसंवेदनकालेऽसम्भवः । नापि भविष्यन् साक्षादानन्दमयस्वप्रकाशरूपत्वात् । (लो, इ) नापि भविष्यन्नित्याह--साक्षादनुभूयमानस्य हि कथं भविष्यत्त्म् । यस्य खलु वस्तुनो भविष्यत्त्वं सहजो धर्मस्तत्सदा भविष्यदेवेति भावः । कार्यज्ञाप्यविलक्षणभावात्समनन्तरोक्तन्यायसिद्धावित्यर्थः । ********** टीका सम्पूर्णा ********** कार्यक्षाप्यविलक्षणभावान्नो वर्त्तमानोऽपि ॥ ३.२२ ॥ ************* टीका ************* विज्ञप्रिया (वि, प) नापि भविष्यन्निति यद्यपि संवेदनात्पूर्वमसत्त्वेनैव भविष्यत्वं दुरपह्नवम् । तथापि भविष्यत्पदार्थान्तरस्य साक्षादानन्दमयप्रकाशत्वस्वरूपाभावात्तद्वैलक्षण्यमेव भविष्यत्वाभावः कौतुकादुक्तः । ********** टीका सम्पूर्णा ********** विभावादिपरामर्शविषयत्वात्सचेतसाम् । परानन्दमयत्वेन संवेद्यत्वादपि स्फुटम् ॥ ३.२३ ॥ न निर्विकल्पकं ज्ञानं तस्य ग्राहकमिष्यते । ************* टीका ************* विज्ञप्रिया (वि, फ) वर्तमानत्वाभावमपि कौतुकादाह--कार्यज्ञाप्येति । यद्यपि घटादिसाधारणज्ञाप्यत्वस्यैव समूहालम्बनकार्यत्वस्यैव चाभावः प्रग्दर्शितः, तथापि तावतैव कार्यत्वज्ञाप्यत्वाभावं कौतुकादारोप्यैवमुक्तम् । तथा च कार्यज्ञाप्यभिन्नस्यालीकत्वान्न वर्तमान इत्यर्थः । स्वप्रकाशरूपस्य स्वमेव ग्राहकं, तत्तु न निर्विकल्पकमित्याह--विभावादीति । तत्परामर्शस्तत्समूहालम्बनं॑ तद्विषयत्वात्स्वेनैव स्वस्य विषयीकरणात् । तत्प्रधानत्वादिति क्वचित्पाठे तत्परामर्शः प्रत्येकं तज्ज्ञानं, तत्प्रधानत्वात्तज्जन्यत्वादित्यर्थः । उभयथापि निर्विकल्पकत्वाभाव एव । अद्ये विभावादिसमूहालम्बनस्य सविकल्पकत्वात् । अन्त्ये तु ज्ञानजन्यत्वेन निर्विकल्पकत्वाभावात्, ज्ञानजन्यज्ञानस्यैव निर्विकल्पकत्वात् । हेत्वन्तरमाह---परानन्देति । प्रकारप्रदर्शनात्सप्रकारत्वं प्रदर्शितम् । तथा च न निर्विकल्पकं निष्प्रकारकज्ञानस्यैव तथात्वात् । लोचना (लो, ई) निर्विकल्पकं ज्ञानम्--अस्ति ह्मालोचनमात्रप्रथमं निर्विकल्पकं ज्ञानम्, अमुकासदृशं ज्ञानं शुद्धवस्तुजमित्युक्तप्रकारं, तस्य ग्राहकमित्युपचारप्रयोगः । स एव रसो निर्विकल्पकज्ञानत्वेन गृह्यमाणो न भवतीत्यर्थः । तथा निर्विकल्पकस्य ज्ञानविषयोपीति । तत्र पक्षे यस्य ग्राहकत्वमिष्यते इत्यत्र नोपचारः । ********** टीका सम्पूर्णा ********** तथाभिलापसंसर्गयोग्यत्वविरहान्न च ॥ ३.२४ ॥ सविकल्पकंसंवेद्यः-- ************* टीका ************* विज्ञप्रिया (वि, ब) सविकल्पकसंवेद्यत्वाभावमपि तस्य कौतुकादाह--तथाभिलापेति । यद्यपि तद्ग्राहकस्य निर्विकल्पकत्वाभावयुक्तिप्रदर्शनेनैव सविकल्पकसंवेद्यत्वं सिद्धं तथापि सविकल्पकसंवेद्यान्तरतो वैलक्षण्येन तदवेद्यत्वं कौतुकादुक्तम् । वैलक्षण्यमेवाह---तथाभिलापेति । तत्काव्यस्थशब्देन तस्याभिलप्यमानत्वाभावादित्यर्थः । तस्य विभावाद्यभिधानद्वारेणैव तस्य ज्ञेयत्वम्, नतु काव्यस्थशब्देन । प्रत्युत तस्य तत्काव्यस्य शब्दवाच्यत्वे स्वशब्दवाच्यत्वं दोष एव वक्ष्यते । अत्र एव काव्यप्रकाशकृताप्युक्तं,"रसादिलक्षणस्त्वर्थः स्वप्रेति न वाच्यऽ इति । अयं रसवानित्यादितत्काव्यस्थेन अशब्देन तु वाच्यं, सविकल्पकवेद्यं पदार्थान्तरं तत्काव्यस्थशब्देनैव वाच्यमिति ततो वैलक्षण्यमिति वचनम् । ********** टीका सम्पूर्णा ********** सविकल्पकज्ञानसंवेद्यानां हि वचनप्रयोगयोग्यता, न तु रसस्य तथा । ************* टीका ************* विज्ञप्रिया (वि, भ) प्रयोगयोग्यता तत्काव्यस्थशब्देनेति शेषः । ********** टीका सम्पूर्णा ********** --साक्षात्कारतया न च । परोक्षस्तत्प्रकाशो नापरोक्षः शब्दसंभवात ॥ ३.२५ ॥ ************* टीका ************* विज्ञप्रिया (वि, म) तत्प्रकाशस्य परोक्षत्वं नास्तीत्याह---साक्षात्कारतेयेति । स्पष्टमिदम् । साक्षात्कारानन्तरवैलक्षण्यप्रतिपादनाय साक्षात्काररूपस्यापि तत्प्रकाशस्य साक्षात्कारत्वाभावमपि कौतुकादाह--नापरोक्ष इति । न साक्षात्कार इत्यर्थः । तत्र हेतुमाह---शब्दसंभवादिति । शब्दसंभवात्--शाब्दत्वादित्यर्थः । लोचना (लो, ऋ) तथाभिलापेति--अत्रापि पूर्ववत्रसो न सविकल्पकरूप इति । नच तद्विषयोपीतिव्याख्येयम् । सविकल्पकस्वरूपं च---"अतः परं पुनर्वस्तुधर्मैर्जात्यादिभिर्यया । बुद्ध्यावसयिते सापि प्रत्यक्षत्वेन सम्मता । "प्रत्यक्षमत्र प्रकरणात सविकल्पकम् । साविकल्पकत्वेन सम्मतेत्युक्तप्रकारम् । अतः परमित्यत्र इदमानुपूर्वोक्तनिर्विकल्पकपरामर्शः शब्दसंभाव्त शाब्दज्ञानं परोक्षमिति भावः । तत्कथयतितत्त्वं स्वरूपं, पूर्वं न श्रुतो न दृष्टश्चोक्तस्वरूपो निरूपणप्रकारो यस्य रसस्येत्यर्थः । ********** टीका सम्पूर्णा ********** तत्कथय कीदृगस्य तत्त्वमश्रुतादृष्टपूर्वनिरुपणप्रकारस्येत्याह-- तस्मादलौकिकः सत्यं वेद्यः सहृदयैरयम् । ************* टीका ************* विज्ञप्रिया (वि, य) इत्थं किञ्चित्वस्तुतः किञ्चिच्च कौतुकाद्वैलक्षण्यमुक्त्वा कीदृशं तादृशविलक्षणं वस्तु ततिति पृच्छति॑ तत्कथयति । तस्यादृष्टचरत्वात्तन्निरूपमसायपि अदृष्टचरत्वं भवतीत्याह---अदृष्टनिरूपणेति । विलक्षणं दर्शयति---तस्मादलौकिक इति । लोकदृष्टसुखादिपदार्थविलक्षण इत्यर्थः । स चान्यलोकैरज्ञेयः । लोचना (लो, ॠ) अलोकिको लौकिकवस्तुविलक्षणः । यदाह एतन्निरूपणप्रस्ताव एव काव्यप्रकाशकारः---अलौकिकसिद्धेर्भूषणं नतु दूषणम् । न खल्वदर्शनमात्रेणानुभूयमानवस्तुस्वरूपापह्निवः शक्यकिय एवेति भावः । कथमीदृशोऽसावस्माभिरनुभूयत इत्याह--वेद्य इति । प्राचीनवासनासम्वलिता विद्यानिपुणतोपस्कृता बुद्धिरत्र हृदयम् । तद्वद्भिः सहृदयैः॑ नतुं वैयाकरणमीमांसकदर्दुरकैर्युष्माभिरिति भावः । ********** टीका सम्पूर्णा ********** तत्किं पुनः प्रमाणं तस्य सद्भाव इत्याह-- प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतम् ॥ ३.२६ ॥ ************* टीका ************* विज्ञप्रिया (वि, र) तत्संवेद्यत्वे एव किं प्रमाणमित्यत्राह---प्रमाणमिति । तदीयसाक्षात्कार एव प्रमाणमित्यर्थः । स्वप्रकाशत्वेन साक्षात्कार्यसाक्षात्कारयोरभेदादिदं विदुषां मतमित्यर्थः । लोचना (लो, ळ) अत्रैवमुक्तरूपे रसे स्वस्याश्चर्वणाया एवाभिन्ने । एवं च सहृदयानुभव एवात्र प्रमाणमिति पर्यवस्यति । तथाच नात्माश्रयदोषः । ********** टीका सम्पूर्णा ********** चर्वणा आस्वादनम् । तच्च "स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः" इत्युक्तप्रकारम् । ************* टीका ************* विज्ञप्रिया (वि, ल) स्वादः काव्यार्थेति--स्वादः--साक्षात्कारः । काव्यार्थसम्भदात्काव्यस्य वाच्य इत्यर्थः । लक्ष्यव्यङ्ग्यवस्तूनां सम्भेदात्ज्ञानातात्मनो रसस्यानन्दरूपेण समुद्भवः । कृदभिहितभावत्वात्समुद्भूत आनन्द इत्यर्थः । ********** टीका सम्पूर्णा ********** ननु यदि रसो न कार्यस्तत्कथं महषिणा(क) विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः" इति लक्षणं कृतमित्युच्यते-- निष्पत्त्या चर्वणस्यास्य निष्पत्तिरुपचारतः । यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वं ************* टीका ************* विज्ञप्रिया (वि, व) रामादिरत्यादेः सामाजिकरत्यादेर्वो उद्दीपनविभावानुभावव्यभिचारिजन्यत्वं नास्त्येव, ततस्तदात्मकस्य रसस्य तत्साक्षात्कारांशमात्रजन्यत्वं सिद्धान्तयितुं कौतुकोक्तमपि तस्याकार्यत्वमुक्त्वा आशङ्कते--ननु यदि रसो न कार्य इति । वस्तुतस्तु समूहालम्बनाकार्यस्यैव उक्तत्वात्निष्पत्रिरुपचारत इति । विभावादितो निष्पत्तिरित्यर्थः । स्वकारणाधीननिष्पत्तिकस्य रत्यादेर्निष्पत्तेर्वास्तवत्वेन निष्पत्तेरुपचाराभावात् । इत्थं विभावादितश्चर्वणाया निष्पत्तिरेव वास्तविकरत्याद्यंशस्य ततो निष्पत्तिरुपचरितेत्युक्त्या चर्वणांशस्यापि निष्पत्तिरुपचरितैवेति वक्तुमाह---यद्यपीति । अयमर्थः--रत्यादयस्तावदुद्दीपनविभावानुभावव्यभिचारिणामकार्यमित्युक्तमेव । अत एव रत्यादयश्चर्वणात्मकसाक्षात्काररूपतया परिणमन्तीति सिद्धान्तितम् । ततश्च रत्यादिरूपरसाभिन्न एव चर्वणात्मकः साक्षात्कारस्तथा रत्यादेः विभावाद्यकार्यतयैव चर्वणस्यापि विभावाद्यकार्यत्वमर्थसिद्धमिति यद्यपि रत्यादेरर्थः । ********** टीका सम्पूर्णा ********** तथापि तस्य कादाचित्कतया उपचरितेन कार्यत्वेन कार्यत्वमुपचर्यते । ************* टीका ************* विज्ञप्रिया (वि, श) समाधाने तथापीति । परिणामरसास्वादचर्वणादिभावाद्यभिन्नतया निष्पन्ना । सा विभावादिज्ञानात्पूर्वं नास्तीति । किन्तु विभावादिज्ञानेत्तरमेव निष्पन्नेत्येवं कादाचित्कतया उपचरितेन कार्यत्वेन कार्यत्वमुपचर्यते इत्यर्थ । नचैवमन्यथासिद्धविभावादिज्ञानोत्तरभावित्वेन तत्कार्यत्वं चर्वणायामवास्तवमेव तत्कथमुपचार इति वाच्यम् । रत्याद्यभिन्नतया कार्यत्वस्यैव वास्तवत्वात्, शुद्धायास्तस्या अवास्तवत्वमित्यभिप्रायात् । लोचना (लो, ए) यद्यपीत्यादि---अयमर्थः समनन्तरोक्तप्रकारेण रसाभिन्ने चर्वणे कादाचित्कत्वाद्वस्तुनि व्यभिचारेण तस्य कार्यत्वं कादाचित्कत्वादेवोपचर्यते । तेन चर्वणस्यापरिचितेन कार्यत्वेन तदभिन्ने रसेपि कार्यत्वमुपचारादिति भावः । अस्य कादाचित्कत्वेपि न कार्यत्वमिति समनन्तरमेवोक्तम् । व्यञ्जननिरूपणे पञ्चमपरिच्छेदे । ********** टीका सम्पूर्णा ********** अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जनरूपणे ॥ ३.२७ ॥ तस्य रसस्य । आदिशब्दादलक्ष्यत्वादि । ************* टीका ************* विज्ञप्रिया (वि, ष)"तथाभिलापसंसर्गयोग्यत्वविरहान्नचे"त्यादिना यत्तत्काव्यस्थशब्दावाच्यत्वमुक्तं तदुपात्तमग्रे करिष्यत इत्याह---अवाच्यत्वादिकमिति । आदिशब्दा दलक्ष्यत्वादि इत्यत्र आदिपदादननुमेयत्वपरिग्रहः । ********** टीका सम्पूर्णा ********** ननु यदि मिलिता रत्यादयो रसास्तत्कथमस्य स्वप्रकाशत्वं कथं वाखण्डत्वमित्याह-- ************* टीका ************* विज्ञप्रिया (स) मिलिता इति । विभावादिसाहित्येन समूहालम्बनविषया इत्यर्थः । तत्कथमस्य स्वप्रकाशत्वमिति---रत्यादेर्ज्ञानरूपत्वाभावात्ज्ञानस्यैव स्वप्रकाशत्वात् । मिलनकथंन च स्वरूपाख्यानमात्रमेकैकत्राप्येवमाशङ्कासम्भवात् । लोचना (लो, ऐ) ननु यदीति । कथं स्वप्रकाशत्वं रत्यादीनां जडत्वादित्यर्थः । ********** टीका सम्पूर्णा ********** रत्यादिज्ञानतादात्म्यादेव यस्माद्रसो भवेत् । अतोऽस्य स्वप्रकाशत्वमखण्डत्वं च सिध्यति ॥ ३.२८ ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) ज्ञानतादात्म्यादिति । ज्ञानरूपतया परिणामादित्यर्थः । लोचना (लो, ओ) रत्यादिरिति--अस्य रत्याद्यंशस्य यस्याहुः"आत्मभूतसुखाकारप्रकाशप्रतिमानतः । ज्ञानाकारावलम्बित्वे सिद्धा स्यात्स्वप्रकाशताऽ इति । अस्यार्थः--ज्ञानकारावलम्बित्वे नात्मभूतः सुखाकारोऽपि प्रकाशते । तस्य प्रतिमानतः सत्सादृश्यातित्याद्यंशोपि स्वप्रकाश इति । ननु यदि चैतन्यस्य सज्ञानत्वेन जडस्य स्वप्रकाशता तदा प्रमातृभावमापन्नस्यान्तः करणस्यापि स्वप्रकाशत्वं स्यादिति चेन्मैवम् । तत्र हि त्रिगुणात्मके मनसि सत्त्वांशस्य रजस्तमोभ्यामस्पृष्टत्वम् । येनात्मानन्दस्वप्रकाशकारा वृत्तिरुत्पद्यते । नच तयोः शवलत्वमपि तात्त्विकं, कुतो तादात्म्यमिति, किमार्द्रकवणिजां नो वहित्रचिन्तयाऽ । ********** टीका सम्पूर्णा ********** यदि रत्यादिकं प्रकाशशरीरादतिरिक्तं स्यात्तदैवास्य स्वप्रकाशत्वं न सिध्यते, न च तथा, तादात्म्याङ्गीकारात् । यदुक्तम्-- "यद्यपि रसानन्यतया चर्वणापि न कार्या तथापि कादाचित्कतया कार्यत्वमुपकल्प्य तदेकात्मन्यनादिवासनापरिणतिरूपे रत्यादिभावेऽपि व्यवहार इति भावः" इति । "सुखादितादात्म्याड्गीकारे चास्माकी सिद्धान्तशय्यामधिशय्य दिव्यं वर्षसहस्त्रं प्रमोदनिद्रामुपेयाः" इति च । "अभिन्नोऽपि स प्रमात्रा वासनोपनीतरत्यादितादात्म्येन गोचरीकृतः" इति च । ************* टीका ************* विज्ञप्रिया (वि, क) यद्यपीति उक्ताशङ्कासमाधानयोः प्राक्-कृतयोः सम्वादमाह---यदुक्तमिति । प्रागेव कृतव्याख्यानमिदम् । अनादिवासनेति---अनादिवासना प्राक्तनी तत्त्वादिशून्या । तया रसादिरूपा परिणतिर्यस्य तादृशरूपे रत्यादिभागे विभावादिकार्यत्वव्यवहारः इत्यर्थः । द्वितीय इति चेति पर्यन्तं सम्वादवाक्यत्वं बोध्यम् । तत्राभिन्नोपीत्यादिकं स्वप्रकाशनप्रदर्शनम् । रत्यादय इत्यादिपदात्विभावादिपरिग्रहः । तत्र विभावादेः शब्दशक्त्यैव प्रतीतिः । लोचना (लो, औ) तादात्म्यानङ्गीकारे प्राचीनाचार्याणामति शेषः । यद्यपीत्यादौ तदेकात्मनीति पदं तादात्म्यसूचकम् । गेचरीकृत इति चिदानन्दमयोयं पुरुष इति वदुपचारः । ********** टीका सम्पूर्णा ********** ज्ञानस्य स्वप्रकाशत्वमनङ्गीकुर्वतामुपरि वेदान्तिभिरेव पातनीयो दण्डः । तादात्म्यादेवास्याखण्डत्वम् । रत्यादयो हि प्रथममेकैकशः प्रतीयमानाः सर्वेऽप्येकीभूताः स्फुरन्त एव रसतामापद्यन्ते । तदुक्तम् -- "विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः । प्रतीयमानाः प्रथमं खण्डशो यान्त्यखण्डताम्" ॥ इति । ************* टीका ************* विज्ञप्रिया (वि, ख) सात्त्विका व्यभिचारिण इति । व्यभिचारिण एव सात्त्विका इत्यभेदेनान्वयः । लोचना (लो, अ) अखंण्डत्वे सम्मतिं दर्शयति--तदुक्तमित्यादि । विभावा इत्यादि कारिकायां रत्यादिप्रकाशसुखचमत्कारा अकण्ठोक्ता अपि प्रकरणदवसेयाः । ********** टीका सम्पूर्णा ********** "परमार्थतस्त्वखण्ड एवायं वेदान्तप्रसिद्धब्रह्मतत्त्ववद्वेदितव्यः" इति च । ************* टीका ************* विज्ञप्रिया (वि, ग) अखण्डताप्राप्तौ विमतिं निरस्यति---परमार्थतस्त्विति । नतु पूर्वोक्तपरिच्छेदेन परमार्थताप्रदर्शनम् । ब्रह्मतत्त्ववदिति---खण्डाखणअडनानापदार्थानामद्वैतभावानया अखण्डस्वरूपत्वात्ब्रह्मतत्त्वस्य इतिच इत्यन्तं सम्वादवाक्यम् । लोचना (लो, आ) [तेxतोf चोम्म्. wअन्तिन्गिन् बोथ्प्रिन्तेदेद्. अन्द्सन्स्क्नेते-तेxत्!] ********** टीका सम्पूर्णा ********** अथं के ते विभावानुभावव्यभिचारिण इत्यपेक्षायां विभावमाह-- रत्याद्युद्वोधका लोके विभावाः काव्यनाट्ययोः । लोचना (लो, इ) रत्यादीति---अनादिवासनान्तर्लोनस्य रत्यादेः प्रकाशकाः । ********** टीका सम्पूर्णा ********** ये हि लोके रामादिगतरतिहासादीनामुद्वोधकारणानि सीतादयस्त एव काव्ये नाट्ये च निवेशिताः सन्तः "विभाव्यन्ते आस्वादाङ्कुरप्रादुर्भावयोग्याः क्रियन्ते सामाजिकरत्यादिभावा एभिः" इति विभावा उच्यन्ते । ************* टीका ************* विज्ञप्रिया (वि, घ) विभाव्यन्ते इति । रसप्रतीत्यर्थं विशेषेण भाव्यन्त इत्यर्थः । नतु प्रतीत्यर्थं कथं विशेषेण भाव्यन्तेतत्प्रतिपादनसामर्थ्य एव तथात्वौचित्यादित्यत आहआस्वादाङ्कुरेति । यत एभिर्विभावादिभिः सामाजिकरत्यादिभावा आस्वादाङ्कुरप्रादुर्भावयोग्याः क्रियन्ते, अतो विशेषेण भाव्यन्त इत्यर्थः । अतो विभावा उच्यन्ते इत्यर्थः सामाजिकरत्यादिभावानां तथात्वकरणं रामादिरत्यादीनां च तत्रारोपात्बोध्यम् । स चारोपो वासनासहकृतैर्विभावादिभिर्व्यञ्जनयेति बोध्यम् । अत एवोक्तं---वासनोपनीतरत्यादितादात्म्येनेति । अस्या परिभाषायायोगारूढत्वादेतद्योगार्थस्यानुभावादौ सत्त्वेपि न तत्र प्रयोग इति प्रागप्युक्तम् । ********** टीका सम्पूर्णा ********** तदुक्तं भर्त्तृहरिणा-- "शब्दोपहितरूपांस्तान् बुद्धेर्विषयतां गतान् । प्रत्यक्षानिव कंसादीन् साधनत्वेन मन्यते" ॥ ************* टीका ************* विज्ञप्रिया (वि, ङ) शब्दोपहितेति--तान् प्रसिद्धान् कंसादीन् श्रीकृष्णादिक्रोधस्य रौद्ररसस्थायिभावस्थालम्बनविभावान् शब्दोपहितरूपान् शब्दोपस्थाप्यात्प्रत्यक्षानिव सामाजिका मन्यन्ते । मन्यत इति पाठे तु सामाजिकः । केन हेतुनेत्यत्राह---साधनत्वेनेति । शब्दोपहितत्वरूपेण प्रत्यक्षसाधनत्वेनेत्यर्थः । इदमेव विशेषणभावनं सम्वादेन प्रदर्शितम् । लोचना (लो, ई) शब्देति---शब्दोपहितरूपान् काव्यरूपशब्दोपाधिना श्रवणात्तद्वुद्धिविषयतामापन्नानां साधनत्वेन सोत्साहाद्युदबोधे मन्यन्ते सभ्या इति शेषः । ********** टीका सम्पूर्णा ********** इति । तद्भेदावाह-- आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ । स्पष्टम् । तत्र-- आलम्बनं नायकादिस्तमालम्ब्य रसोद्रमात् ॥ ३.२९ ॥ आदिशब्दान्नायिकाप्रतिनायिकादयः । अथ यस्य रसस्य यो विभावः स तत्स्वरूपवर्णने वक्ष्यते । ************* टीका ************* विज्ञप्रिया (वि, च) आलम्बनं नायकादिरिति नायिकाशृङ्गारे बोध्यम् । नायिका प्रतिनायकादय इति नायकशृङ्गारे बोध्यम् । प्रतिनायिका चोपनायिका, सा च शृङ्गाराभासे । एवं नायिकाशृङ्गाराभासे उपनायकोपि बोध्यः । लोचना (लो, उ) प्रतिनायकादीत्यादिशब्देन विकृतवेशा व्याघ्रादयः । वक्ष्यत इति । इहैव परिच्छेदे । ********** टीका सम्पूर्णा ********** तत्र नायकः-- ************* टीका ************* विज्ञप्रिया (वि, छ) तत्र नायको---नायकलक्षणमाहेति शेषः । ********** टीका सम्पूर्णा ********** त्यागी कृती कुलीनः सुश्रीको रूपयोवनोत्साही । दक्षोऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवान्नेता ॥ ३.३० ॥ दक्षः क्षिप्रकारी । शीलं सद्वृतम् । एवमादिगुणसम्पन्नो नेता नायको भवति । तद्भेदानाह-- धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च । धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ॥ ३.३१ ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) प्रथमं चतुर्भेद इति---पश्चात्तु धीरोदात्तादीनामपि दक्षिणधृष्टत्वादिभेदस्य वक्ष्यमाणत्वात् । ********** टीका सम्पूर्णा ********** स्पष्टम् । तत्र धीरोदात्तः-- अविकत्थनः क्षमावानतिगम्भीरो माहसत्त्वः । स्थेयान्नगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥ ३.३२ ॥ लोचना (लो, ऊ) स्थेयान्-स्थिरतरः । ********** टीका सम्पूर्णा ********** अविकत्थनोऽनात्मश्लाघाकरः । महासत्त्वो हर्षशोकाद्यनभिभूतस्वभावः । निगूढमानो विनयच्छन्नगर्वः । दृढव्रतोऽङ्गीकृतनिर्वाहकः । यथा--रामयुधिष्टिरादिः । अथ धीरोद्धतः-- मायापरः प्रचण्डश्चपलोऽहङ्कारदर्पभूयिष्ठः । आत्मश्लाघानिरतो धीरैर्धोरोद्धतः कथितः ॥ ३.३३ ॥ यथा--भीमसेनादिः. अथ धीरललितः-- निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् । कला नृत्यादिका । यथा--सत्नवाल्यादौ वत्सराजादिः । अथ धीरप्रशान्तः-- सामान्यगुणैर्भूयान् द्विजादिको धीरप्रशान्तः स्यात् ॥ ३.३४ ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) सामान्यगुणैरिति---धीरोदात्तादित्रयसाधारणगुणैर्भूयान्महानित्यर्थः । लोचना (लो, ऋ) सामान्यगुणा--मन्वाद्युक्तधृतिक्षमादयः ********** टीका सम्पूर्णा ********** यथा--मालतीमाधवादौ माधवादिः । एषां च शृङ्गारादिरूपत्वे भेदानाह-- एभिर्दक्षिणाधृष्टानुकूलशठरूपिभिस्तु षोडशधा । ************* टीका ************* विज्ञप्रिया (वि, ञ) षोडशधेति---धीरोदात्तादीनां चतुर्णा दक्षिणत्वादिचातुर्गुण्येन षोडशत्वम् । ********** टीका सम्पूर्णा ********** तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोडशप्रकारा नायकः । एषु त्वनेकमहिलासु समरागो दक्षिणः कथितः ॥ ३.३५ ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) अनेकमहिला--इति व्याचष्टे द्वयोस्त्रिचतुरिति । लोचना (लो, ॠ) एषु---दक्षिणादिषु नायकमध्ये । ********** टीका सम्पूर्णा ********** द्वयोस्त्रिचतुः प्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः । यथा-- स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसुर्द्यूतै रात्रिरियं जिता कलमया, देवी प्रसाद्याद्य च । इत्यन्तः पुरसुन्दरीः प्रति मया विज्ञाया विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) स्नाता तिष्ठतीति---अन्तः पुरचरजनस्य कस्मिंश्चिदियमुक्तिः । अनेकपत्नीसम्भोगार्हा इयं रात्रिरिति तत्कर्मनियुक्तस्य राज्ञि निवेदनम् । श्लोकार्थः--स्नाता, ऋतुस्नाता । वारः तत्सम्भोगनियतवासरः । कमलया तन्नाम्न्या देव्या । देवीकृताभिषेका । मानिन्यास्तस्या अद्यावश्यं प्रसादनम् । द्वित्रा इति । सर्वासु अनुरागसाम्येन कस्याप्युपेक्षानर्हत्वातप्रतिपत्त्या कर्तव्यनिर्णयाभावेन मूढमनस्कत्वेन द्वित्रादिदण्डस्थितिः । ********** टीका सम्पूर्णा ********** कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः । दृष्टदोषोऽपि मिथ्यावाक्कथितो धृष्टनायकः ॥ ३.३६ ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) कृतागा अपीति--आगोपराधः । मिथ्यावाक्कृतस्यापि मिथ्यात्ववादी । ********** टीका सम्पूर्णा ********** यथा मम-- शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं ततः पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि । किञ्चित्तत्र विधातुमक्षमतया बाष्पं सृजन्त्याः सखे ! ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) शोणं वीक्ष्येति---रोषारुणमुखीं प्रियां चुम्बितुं गतस्य तया प्रहर्तुमुद्यतं पादं धृत्वा किञ्चित्कर्तुमक्षमीकृतां रुदतीं तां दृष्ट्वा हसितवतो नायकस्य सख्यौ वृत्तान्तकथनमिदम् । अत्र नायिकाक्रोधवशात्नायकस्य कृतागस्त्वसिद्धिः । लोचना (लो, ळ) शोणमिति--विचुम्बितुं समीपं यातोऽनुनयादिकमकृत्वापीति भावः । ********** टीका सम्पूर्णा ********** अनुकूल एकनिरतः-- एकस्यामेव नायिकायामासक्तोऽनुकूलनायकः । यथा-- अस्माकं सखि ! वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं, नो वक्रा गातिरुद्धतं न हसितं, नैवास्ति, कश्चिन्मदः । किन्त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥ ************* टीका ************* विज्ञप्रिया (वि, ण) अस्माकं सखीति--पष्यौ सुभगाया सख्या उक्तिरियम् । वस्त्रौज्ज्वल्यादिकं सौभाग्यहेतुर्मम नास्ति । किन्तु न केवलमहमन्येपि जना वदन्ति अस्याः पतिरन्यतोऽन्यस्यां नायिकायां दृष्टिं न निक्षिपतीति । विश्वम्---एतद्विश्ववर्ति स्त्रीजनं दुः स्थितं, मयि असूयया मदपेक्षया सौभाग्याल्पत्वेन वा दुः स्थितं वयं मन्यामहे । पतिः-कीदृशः, सुभगोपि सौन्दर्येणान्यनायिकाभिलषणीयत्वरूपसौभाग्यवानपि इत्यर्थः । लोचना (लो, ए) अन्यतः अन्यस्यां विनेत्यर्थः । विश्वं दुः स्थितं मन्यामहे । किन्तु मामेव सुंस्थितामिति भावः । ग्रैवेयकं, कण्ठाभरणम्, मदोपि यौवनाद्यहङ्कारजनितः गर्वोपि नैवास्ति । ********** टीका सम्पूर्णा ********** शठोऽयमेकत्र बद्धभावो यः । दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति ॥ ३.३७ ॥ यः पुनरेकस्यामेव नायिकायां बद्धभावो द्वयोरपि नायिकयोर्बहिर्दर्शितानुरागोऽन्यस्यां नायिकायां गूढं विप्रियमाचरित स शठः । यथा-- "शटान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । तदेतत्क्वाचक्षे घृतमधुमयत्वद्वहुवचो- विषेणाघूर्णन्ती किमपि न सखी मे गणयति" ॥ ************* टीका ************* विज्ञप्रिया (वि, त) शठान्यस्या इति---नायिकाया विप्रियकारिणं नायकं भर्त्सयन्त्या सख्या उक्तिरियम् । हे शठ ! मम सखीमाश्लिष्यन्नेव त्वं यदन्यस्या नायिकायाः काञ्चीमणिरणितशब्दमाकर्ण्य सहसा प्रशिथिलभुजग्रन्थिः (वाहुवेष्टनं) अभवः तदेतत्क्व जने आचक्षे । अतो मे सखी घृतमधुमयेन मिश्रितघृतमधुरूपेण त्वदीयबहुचाटुवचोविषेणाघूर्णन्ती किमपि कर्तव्यं न गणयतीत्यर्थः । मिश्रितघृतमधुनी हि आपातमधुरेपि विषत्वं प्राप्नुतः । ********** टीका सम्पूर्णा ********** एषां च त्रैविध्यादुत्तममध्याधमत्वेन । उक्ता नायकभेदाश्चत्वारिंशत्तथाष्टौ च ॥ ३.३८ ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) एषां चेति---एषामुत्तममध्यमाधमत्वेन त्रौविध्यादित्यन्वयः । चत्वारिंशदिति षोडश त्रैगुण्येन अष्टचत्वारिशत् । ********** टीका सम्पूर्णा ********** एषामुक्तषोडशभेदानाम् । अथ प्रसङ्गादेतेषां सहायानाह-- ************* टीका ************* विज्ञप्रिया (वि, द) अथ प्रसङ्गादिति---अत्र एषामित्यनेन नायकमात्रस्यैव परामर्शो नतु प्रकान्त शृङ्गारीयाष्टचत्वारिंशत एव । अत एव रामस्य सुग्रीवः सहायो दर्शयिष्यते । लोचना (लो, ऐ) प्रसङ्गादिति । एषां हि सहाययुक्तत्वेन कार्यकारित्वेऽधिकरसपरिपोषः । एवमन्यत्र । ********** टीका सम्पूर्णा ********** दूरानुवर्तिनि स्यात्तस्य प्रासङ्गिकेतिवृत्ते तु । किञ्चित्तद्गुणहीनः सहाय एवास्य पीठमर्द्दाख्यः ॥ ३.३९ ॥ तस्य नायकस्य बहुव्यापिनि प्रसङ्गसंगते इतिवृत्तेऽनन्तरोक्तैर्नायकसामान्यगुणैः लोचना (वि, ओ) नायकसामान्यगुणैस्त्यागादिभिः । ********** टीका सम्पूर्णा ********** किञ्चिदूनः पीठमर्द्दनामासहायो भवति । यथा-रामचन्द्रादीनां सुग्रीवादयः । ************* टीका ************* विज्ञप्रिया (वि, ध) दूरानुवर्तिनीति व्याचष्टे---तस्येति दूरानुवर्तिनि इत्यस्य व्याख्या बहुव्यापिनीति बहुदेशव्याप्यसाध्ये इत्यर्थः । प्रसङ्गसङ्गते--दैवत उपस्थित इतिवृत्ते वृत्तान्ते । किञ्चित्तद्गुणहीन इत्यस्यार्थमाह---अनन्तरेति---अनन्तरोक्तैः पूर्वोक्तैः । ********** टीका सम्पूर्णा ********** अथ शृङ्गारसहायाः-- शृङ्गारेऽस्य सहाया विटचेटविदूषकाद्याः स्युः । भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाः शुद्धाः ॥ ३.४० ॥ आदिशब्दान्मालाकाररजकताम्बूलिकगान्धिकादयः । तत्र विटः-- संभोगहीनसंपद्विटस्तु धूर्त्तः कलैकदेशज्ञः । वेशोपचारकुशलो वाग्ग्मी मधुरोऽथ बहुमतो गोष्ठ्याम् ॥ ३.४१ ॥ ************* टीका ************* विज्ञप्रिया (वि, न) नायकसामान्यगुणैस्त्यागादिभिः । ********** टीका सम्पूर्णा ********** चेटः प्रसिद्ध एव । ************* टीका ************* विज्ञप्रिया (वि, प) चेटः प्रसिद्ध इति---चेटीपुत्र इत्यर्थः । ********** टीका सम्पूर्णा ********** कुसुमवसन्ताद्यभिधः कर्मवपुर्वेषभाषाद्यैः । हास्यकरः कलहरतिर्विदूषकः स्यात्स्वकर्मज्ञः ॥ ३.४२ ॥ ************* टीका ************* विज्ञप्रिया (वि, फ) विदूषकमाह---कुसुमेति । कर्मादिभिर्हास्यकरः इत्यन्वयः । कर्मणा, वपुषा, वेशेन, वासनदिना भाषाद्यैः सर्वेषां हास्यं जनयति । लोचना (लो, औ) कुसुमेति---कुसुमाभिधो विदूषको रसालकादिः । वसन्ताभिधावसन्तकमाधवादिः । ********** टीका सम्पूर्णा ********** स्वकर्म हास्यादि । अर्थचिन्तने सहायमाह-- ************* टीका ************* विज्ञप्रिया (वि, ब) रसीयनायकसहायकथनप्रसङ्गादन्यत्रापि सहायमाह---अर्थचिन्तनेति । ********** टीका सम्पूर्णा ********** मन्त्रीस्यादर्थानां चिन्तायां-- अर्थास्तन्त्रावापादयः । ************* टीका ************* विज्ञप्रिया (वि, भ) तन्त्रावापेति । तन्त्रं राजकृत्यं तस्य आवापो योग्यायोग्यानुष्ठानम् । तस्मिनर्थे मन्त्री सहाय इत्यर्थः । ********** टीका सम्पूर्णा ********** यत्त्वत्र सहायकथनप्रस्तावे-- "मन्त्री स्वं चोभयं वापि सखा तस्यार्थचिन्तने" इति केनाचिल्लक्षणं कृतम्, तदपि राज्ञोर्ऽथचिन्तनोपायलक्षणप्रकरणो लक्षयितव्यम्, न तु सहायकथनप्रकरणो । "नायकस्यार्थचिन्तने मन्त्री सहायः" इत्युक्तेऽपि नायकस्यार्थत एव सिद्धत्वात् । ************* टीका ************* विज्ञप्रिया (वि, म) स्वं चेति--स्वं राजा तस्य राज्ञः । केनचिदिति लक्षणं सहायज्ञापनम् । अत्र स्वस्यापि सहायत्वेन कथनात्पूर्वस्माद्भेदः । सहायकथनप्रकरणे इति---स्वस्य स्वसहायत्वात्सहायताया भेदघटीतत्वात् । नन्वेवं तेन चिन्ता न क्रियतामित्याह---नायकस्येति । ********** टीका सम्पूर्णा ********** यदप्युक्तम्-- "मन्त्रिणां ललितः शेषा मन्त्रिष्वायत्तसिद्धयः" इति, तदपि स्वलक्षणकथनेनैक लक्षितस्य धीरललितस्य मन्त्रिमात्रायत्तार्थचिन्तनोपपत्तेर्गतार्थम् । न चार्थचिन्तने तस्य मन्त्री सहायः, किं तु स्वयमेव संपादकः॑ तस्यार्थचिन्तनाद्यभावात् । ************* टीका ************* विज्ञप्रिया (वि, य) मन्त्रिणेति---ललितो धीरललितस्तादृशो राजा मन्त्रिणैवार्थसाधकः इति शेषः, स्वस्य शृङ्गारनिरतत्वात् । शेषाः धीरोदात्तधीरोद्धतादयः । स्वलक्षणकथनेनेति । धीरललितलक्षणकथनेनेत्यर्थः । "निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यादिति धीरललितलक्षणे निश्चिन्तेत्वैनार्थचिन्तनस्य मन्त्रिमात्रनिष्ठत्वसिद्धेस्तस्य मन्त्रिणः सहायताकथनं गतार्थमित्यर्थः । धीरललितस्य यो मन्त्री तस्य स्वयमेवार्थचिन्तकत्वम् । नतु स्वचिन्तने तस्य सहायत्वम् । स्फुटमेवाह---नचार्थचिन्तनमिति---तस्यार्थचिन्तनाद्यभावादित्यत्र तस्य धीरललितस्य । अयं मन्त्री स्यादर्थानां चिन्तायामिति सूत्रस्य परभागः । लोचना (लो, अ) यत्त्वत्रेति--यत्त्वत्रेत्यादेर्गतार्थत्वमित्यनेनान्वयः । तस्य ग्रन्थस्यायमर्थः । सहायकथनप्रस्तावे मन्त्रिण एव सहायत्वकथनं युक्तम्॑ नतु आत्मन उभयस्य वा । आत्मन एव आत्मसहायत्वं विरुद्धम् । किन्तु राजा केनार्थचिन्तनं कुर्यादित्यपेक्षायामेव क्वचिन्मन्त्रिणा क्वचिदात्मना, क्वचिदुभयेनेति वक्तुं युक्तम् । धीरललितस्य निश्चिन्तत्वादिरूपकथनेन मन्त्रिमात्रायत्तार्थचिन्तनमुपपद्यते । किञ्च तदप्यर्थचिन्तनोपायप्रकरण एव लक्षितव्यम्॑ नतु सहायकथनप्रकरणे । तस्य धीरललितस्य नच सहायः सः । मन्त्रिणः सहायत्वे धीरललितस्याप्यर्थचिन्तनप्रसङ्गात् । ********** टीका सम्पूर्णा ********** अथान्तः पुरसहायाः-- --तद्वदवरोधे । वामनशण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्यः ॥ ३.४३ ॥ मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः । सोऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥ ३.४४ ॥ ************* टीका ************* विज्ञप्रिया (वि, र) शकारलक्षणमाह---मदेति । दुष्कुलता ऐश्वर्यं च ताभ्यां संयुक्तोपि मदमूर्खताभ्यामभिमानीत्यर्थः । लोचना (लो, आ) शकारस्वरूपमाह---मदेति--मदो गर्वः, मद्यविकारो वा । ********** टीका सम्पूर्णा ********** आद्यशब्दान्मूकादयः । तत्र शण्ढवामनकिरातकुब्जादयो यथा रत्नाबल्याम्-- नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा- मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः । पर्यन्ताश्रयिभिनिजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) नष्टं वर्षवरैरिति---राज्ञो वाजिशालात आगतमेकं महावनरं दृष्ट्वा अन्तः पुरस्थनपुंसकादीनां भीतिक्रियावर्णनमिदम् । कञ्चुकस्य सर्वाङ्गव्यापकलम्बमानवस्त्रस्यान्तरित्यर्थः । निजस्य नाम्न इति कृ वेक्षेप इति धातुना किरातपदस्य साधितत्वात्स्वस्य पर्यन्तविशीर्णत्वं कृतमित्यर्थः । कुब्जा न पलायिताः । किन्तु नीचतयैव वानरकर्तृके आत्मकर्मके ईक्षणे अशङ्किनः शङ्कारहिताः सन्तः शनकैर्यान्तीत्यर्थः । लोचना (लो, इ) निजस्य नाम्नः अन्तेवासित्वस्य । ********** टीका सम्पूर्णा ********** शकारो मृच्छकटिकादिषु प्रसिद्धः । ************* टीका ************* विज्ञप्रिया (वि, व) मृच्छकटिकं नाटकविशेषः । ********** टीका सम्पूर्णा ********** अन्येऽपि यथादर्शनं ज्ञातव्याः । अथ दण्डसहायाः-- दण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च । ************* टीका ************* विज्ञप्रिया (वि, श) आटविकानां दण्डसहायत्वम् । दण्डनीयस्य अटव्यां पलायितस्य प्रदर्शकत्वाद्दण्डनीयविपक्षराज्याटव्यां स्थितत्वात्तद्वृत्तान्तज्ञातत्वाच्च । सामन्तः सेनापतिः । ********** टीका सम्पूर्णा ********** दुष्टनिग्रहो दण्डः । स्पष्टम् । ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तापसास्तथा धर्मे ॥ ३.४५ ॥ ब्रह्मविदो वेदविदः, आत्मविदो वा । अत्र च-- उत्तमाः पीठमर्दाद्याः-- आद्यशब्दान्मन्त्रिपुरोहितादयः । --मध्यौ विटविदूषकौ । तथा शकारचेटाद्या अधमाः परिकीर्तिताः ॥ ३.४६ ॥ आद्यशब्दात्ताम्बूलिकगान्धिकादयः । अथ प्रसङ्गाद्दूतानां विभागगर्भलक्षणमाह-- लोचना (लो, ई) विभागगर्भम्--विभागस्य गर्भे स्थितम् । ********** टीका सम्पूर्णा ********** निसृष्टार्थो मितार्थश्च तथा संदेशहारकः । कार्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथाविधाः ॥ ३.४७ ॥ तत्र कार्यप्रेष्यो दूत इति लक्षणम् । तत्र-- उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् । सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस्तु स स्मृतः ॥ ३.४८ ॥ लोचना (लो, उ) भावमभिप्रयम् । सुश्लिष्टं सुशोभनम् । उन्नीय ऊहित्वा । ********** टीका सम्पूर्णा ********** उभयोरिति येन प्रेषितो यदन्तिके प्रेषितश्च । मितार्थभाषी कार्यस्य सिद्धकारी मितार्थकः । यावद्भाषितसंदेशहारः संदेशहारकः ॥ ३.४९ ॥ लोचना (लो, ऊ) मितार्थमाषी अल्पभाषी । यावदिति प्रेरकेण यावद भाषितस्य सन्देशस हारः । ********** टीका सम्पूर्णा ********** अथ सात्त्विकनायकगुणाः-- ************* टीका ************* विज्ञप्रिया (वि, ष) सात्त्विका नायकगुणा इति । सत्त्वं बलं बलवन्नायकगुणा इत्यर्थः । ********** टीका सम्पूर्णा ********** शीभा बिलासो माधुर्यं गाम्भीर्यं धैर्यतेजसी । ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥ ३.५० ॥ लोचना (लो, ऋ) सत्त्वं गुणविशेषः । सत्त्वजाः तदुद्भवाः सत्त्ववतां नायकाना गुणा इत्यर्थः । ********** टीका सम्पूर्णा ********** तत्र-- शूरता तक्षता सत्यं महोत्साहोऽनुरागिता । नीये घृणाधिके स्पर्धा यतः शोभेति तां विदुः ॥ ३.५१ ॥ तत्रानुरागिता यथा-- ************* टीका ************* विज्ञप्रिया (वि, स) यतः शोभेति--यतो बलात्शोभालक्षणेन अनुरागितोक्ता । तामुदाहरति---अहमेवेति । ********** टीका सम्पूर्णा ********** अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् । उपधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥ एवमन्यदपि । अथ विलासः-- ************* टीका ************* विज्ञप्रिया (वि, ह) रघौ अजवर्णनमिदम् । प्रकृतिषु अमात्येषु मध्ये सर्व एव इत्यचिन्तयत्किं ततित्यत्राह--अहमेवेति । मतः सम्मतः । अस्य अजस्य । विमानना अवज्ञा अपमानम् । निम्नगा नद्यः तासां सर्वासामेवोदधिना जलग्रहणेन कृतादरत्वात् । ********** टीका सम्पूर्णा ********** धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः । ************* टीका ************* विज्ञप्रिया (वि, क) धीरेति---विलासे सात्त्विके गुणे सति धीरेत्यादिकं भवतीत्यर्थः । ********** टीका सम्पूर्णा ********** यथा-- दृष्टीस्तृणीकृतजगत्र्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) दृष्टिस्तृणीकृतेति---कुशमवलोक्य रामचन्द्रेण वर्णनमिदम् । तृणीकृतो जगत्त्रयस्य सत्त्वानां बलानां सारः प्रकृष्टो भागो यथा । अस्य कुशस्य दृष्टिस्तादृशी । स्फुटमन्यत् । ********** टीका सम्पूर्णा ********** संक्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम् ॥ ३.५२ ॥ ऊह्यमुदाहरणम् । ************* टीका ************* विज्ञप्रिया (वि, ग) ऊह्यमुदाहरणमिति--- "त्यजतो मङ्गलक्षौमे चीरे च प्रतिगृह्णतः । ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः ॥ ऽ इत्युदाहरणम् । अत्र हि मङ्गलक्षौमे गृह्णतः चीरे प्रतीलक्षीकृत्य त्यजतश्च रामस्य मुखरागं विस्मिता जनाः समानं ददृशुः इत्यनेन वनवासार्थं चीरग्रहणसंक्षोभेपि मङ्गलक्षौमग्रहणवदनुद्वेगः । ********** टीका सम्पूर्णा ********** भीशोकक्रोधहर्षाद्यैर्गाम्भीर्यं निर्विकारता । ************* टीका ************* विज्ञप्रिया (वि, घ) भीशोकेति । अत्र भयशोकयोः प्रवेशात्माधुर्यतः कियान् भेदः । आहूतस्येत्यादिकं तु माधुर्यस्याप्युदाहरणं संभवतीति बोध्यम् । गाम्भीर्यस्य माधुर्यासंकीर्णमुदाहरणं तु --- योऽविकल्पमिदमर्थमण्डलं पश्यतीश ! निखिलं भवद्वपुः । आत्मपक्षपरिपूरिते जग- त्यस्य नित्यसुखिनः कुतो भयम् ॥ इति । इयं हि तपस्यतः परमेश्वरेण भीषितस्य कस्यचिदुक्तिः । अविकल्पं निः संशयम् । निखिलमर्थमण्डलं यो भगवद्वपुः स्वरूपं पश्यति । आत्मपक्षेण भवता परिपूरिते जगति अस्य कुतो भयमित्यर्थः । यथा वा"न खल्वनिर्जित्य रघुं कृती भवान्"इति इन्द्रेण भीषितस्य रघोरुक्तिः । ********** टीका सम्पूर्णा ********** यथा-- आहूतस्याभिषेकाय विसृष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥ व्यवसायादचलनं धैर्यं विघ्ने महत्यपि ॥ ३.५३ ॥ यथा-श्रुताप्सरोगीतिरप क्षणोऽस्मिन् हरः प्रसंख्यानपरो बभूव । आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥ ************* टीका ************* विज्ञप्रिया (वि, ङ) श्रुताप्सरोगीतिरिति---हरस्य समाधिभङ्गार्थमप्सरेभिर्गोयमानेपि तस्य समाधिभङ्गो माभूदिति पूर्वार्द्धार्थः । तत्र प्रसंख्यानां समाधिः । अत्रार्थन्तरन्यासमाह---आत्मश्वराणामिति । आत्मा धृतिस्तदीश्वराणां स्वायत्तधृतीनामित्यर्थः । "आत्मा यत्नो धृतिर्वृद्धिः स्वभावो ब्रह्मवर्ष्म चऽ इति कोषः । जातु कदाचित् । ********** टीका सम्पूर्णा ********** अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ ३.५४ ॥ वाग्वेशयोर्मधुरता तद्वच्छङ्गारचेष्टितं ललितम् । दानं सप्रियभाषणमौदार्य्यं शत्रुमित्रयोः समता ॥ ३.५५ ॥ एषामुदाहरणान्यूह्यानि । ************* टीका ************* विज्ञप्रिया (वि, च) एषामप्युदाहरणन्यूह्यानि--तत्र तेजस उदाहरणं यथा--- "पुरोजन्मा नाद्यप्रभृति मम रामः पुनरहं न पुत्रः पौत्रो वा रघुकुलभुवां च क्षितिभुजाम् । अधीरं धीरं वा कलयतु जनो मामयमहो मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः ॥ इयं परशुरामेणाधिक्षिप्तस्य लक्ष्मणस्य उक्तिः । ललितोदाहरणं यथा--- "प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥ "इति । अत्र हि कामिनो वाङ्मधुरता शृङ्गारचेष्टा च । औदार्योदाहरणं यथा---"एते वयममी दाराः कन्येयं कुलभूषणा । ब्रूत केनार्थिनो यूयमनास्था बाह्यवस्तुषु । "इति सप्तर्षोनिति हिमालयस्योक्तिः । ********** टीका सम्पूर्णा ********** अथ नायिका त्रिभेदा स्वान्या साधारणा स्त्रीति । नायकसामान्यगुणैर्भवति यथासंभवैर्युक्ता ॥ ३.५६ ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) नायिकाप्रभेदामाह--अथेति--स्वान्ययोरपि स्त्री इत्यस्यान्वयः । ********** टीका सम्पूर्णा ********** नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासम्भवैर्युक्ता भवति । सा च स्वस्त्री अन्यस्त्री साधारणस्त्रीति त्रिविधा । तत्र स्वस्त्री-- विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया । ************* टीका ************* विज्ञप्रिया (वि, ज) विनयार्जवादीति । एतादृशगुणरहिता तु स्वस्त्री अपि नोपक्रान्तशृङ्गारविभावः॑ किन्तु तदाभासविभाव एवेति बोध्यम् । ********** टीका सम्पूर्णा ********** यथा-- "लज्जापज्जत्तपसाहणाइं परभत्तिणिप्पिवासंिम् । अविणअदुम्मेधाइं धण्णाण घरे कलत्ताइम् ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) लज्जाप इति--"लज्जापर्याप्तप्रसाधनानि परचिन्तानिष्पपासानि । अविनयदुर्मेधांसि धन्यानां गृहे कलत्राणि । ऽ इति संस्कृतम् । पर्याप्तप्रसाधनं पर्यवसितालङ्कारः । परचिन्ता--परपुरुषचिन्ता, तत्र तृष्णारहितानि । तन्त्रचिन्तायां देशी । अविन्यदुर्मेधांसि--अविनयाद्दूरीकृतबुद्धीनि । सपीति--सा स्वीया । लोचना (लो, ॠ) लज्जा एव पर्याप्तं पूर्वं प्रसाधनं भूषणं येषाम् । निष्पिपासानि--निः स्पृहाणि । दुर्मेधांसि अनभिज्ञानि । ********** टीका सम्पूर्णा ********** सापि कथिता त्रिभेदा मुग्धा मध्या प्रगल्भेति ॥ ३.५७ ॥ ************* टीका ************* विज्ञप्रिया (वि, ञ) प्रथमेति--प्रथमावतीर्णयौवना, प्रथमावतीर्णमदनविकारेति द्विधा । एतानि विशेषणानि एकाकान्येव मुग्धाया बोध्यानि । लोचना (लो, ळ) सा स्वस्त्री । ********** टीका सम्पूर्णा ********** तत्र-- प्रथमावतीर्णयौवनमदनबिकारा रतौ वामा । कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ॥ ३.५८ ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) मध्यस्य प्रथिमानमिति--नूतनं यदस्या मनोराज्यं मनस्याधिपत्यं तत्राभिषिक्तं कन्दर्पं परिवीक्ष्य सुभ्रुवः अङ्गानि परस्परं निर्ल्लुण्ठनं विदधते इत्यर्थः । राज्ञः प्रथमाधिपत्यदिनेऽराजके राज्ये परस्परनिर्लुण्ठनस्य लोकसिद्धत्वात्, तद्दर्शयति--मध्यस्येति । शैशवे मध्यस्य प्रथिमा पृथुत्वमासीत् । यौवने च मध्यं क्षीणं जघनं च पृथु बभूव इत्यर्थः । वक्षोजयोर्मन्दता तनुत्वं दूरमतिशयमुदर यातीत्यर्थः । नेत्रस्य आर्जवं रोमलतिका धावति प्रप्रोतीत्यर्थः, यौवनारम्भे नेत्रयो रक्तत्वात्रोमलतिकाया ऋजुभावेन उत्थितत्वात् । ********** टीका सम्पूर्णा ********** तत्र प्रथमावतीर्णयौवना यथा मम तातापादानाम्-- लोचना (लो, ए) तत्र-तासु मध्ये । ********** टीका सम्पूर्णा ********** मध्यस्य प्रथिमानमेति जघनं वक्षोजयोर्मन्दता दूरं यात्युदरं च रोमलतिका नेत्रार्जवं धावति । कन्दर्पं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणा- दङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ॥ लोचना (लो, ऐ) प्रथिमानं पृथुत्वमेति गृहणाति । मन्दतां च यादि गृहणातीत्यर्थः । निर्लुण्ठनं परस्परवित्तविग्रहणम् । ********** टीका सम्पूर्णा ********** प्रथमावतीर्णमदनविकारा यथा मम प्रभावती परिणये-- दत्ते सालसमन्थरं भुवि पदं निर्याति नान्तः पुरात्, नोद्दामं इसति क्षणात्कलयते ह्रीयन्त्रणां कामपि, किंचिद्भावगभीरवक्रिमलवस्प्टष्टं मनाग्भाषते, सभ्रूभङ्गमुदीक्षते प्रियकथामुल्लापयन्तीं सखीम् ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) दत्ते सालसेति---प्रियस्य कथां प्रसङ्गमुल्लासयन्तीं प्रस्तुवन्तीं सभ्रूभङ्गमुदीक्षते--पश्यति । गभीरो दुरवगाहो यो वक्रिमः वक्रताया लवोऽल्पत्वम् । तेन स्पृष्टं यथा स्यात्तथा । मनाक्शनैः किञ्चिदल्पं भाषते । सालसपददानं शुश्रूषया । कामपि अनिर्वचनीयां ह्रीयन्त्रणां लज्जाकृतपीडां कलयते अनुभवति । ********** टीका सम्पूर्णा ********** रतौ वामा यथा-- "दृष्टा दृष्टिमधो ददाति, कुरुते नालपमाभाषिता, शय्यायां परिवृत्त्य तिष्ठति, बालादालिङ्गिता वेपते । निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते, जाता वामतयैव संप्रति मम प्रीत्यै नवोढा प्रिया" ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) दृष्टा दृष्टिमिति---नवोढाया वृत्तं सख्ये कथयत उक्तिरियम् । श्लोकार्थः स्पष्टः । ********** टीका सम्पूर्णा ********** माने मृदुर्यथा-- "सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) माने मृदुरल्पमाना । सा पत्युरिति---अल्पमानायाः क्रियां सख्यां कथयन्त्याः सख्या उक्तिरियम् । सख्या उपदेशं सखीकर्तृकमुपदेशं विना सा पत्युरुपनायिकासम्भोगरूपप्रथमापराधसमये सविभ्रमयोरङ्गभङ्गीवक्रोक्त्योः संसूचनं प्रकाशं नो जानाति । ततः किं कुरुते इत्यत्राह--स्वच्छैरिति । विरहात्पाण्डुत्वेन कपोलस्याच्छता । अञ्जनत्यागादश्रुणः स्वच्छता । नेत्रोत्पलस्य पर्य्यासः परेण तद्दर्शने लज्जया । लोचना (लो, ओ) सा पत्युरिति---सख्योपदेशं सख्येन सौहार्द्देन कृतमुपदेशम् । अथवा सख्येति हेत्वर्थतृतीयान्तं पदम् । तेन सख्या कृतमुपदेशमित्यर्थः । सविलासाङ्गपेरिवर्तना सती पराङ्मुखीत्यर्थः । वकोक्तिभिः कुटिलभाषितैः संसूचनमपराधज्ञापनं यतो नो जानाति नो वेत्ति । ततः स्वच्छैः अकलुषैः अच्छकपोलमूलगलितैः नर्मलगण्डप्रान्तनिः सृतैः । लुठल्लोलालकैः लुठन्तः परिवर्तमानाः लोलाश्चञ्चला अलकाः चूर्णकुन्तला येषु तानि तैः । अश्रुभिर्बाष्पैः पर्य्यस्तनेत्रोत्पला-पर्य्यस्ते नेत्रोत्पले यस्याः तथा भूत्वा केवलं रोदित्येव-रोदनमेव करोति । न किञ्चिदुपायं जानातीत्यर्थः । अत्र सविभ्रमाङ्गवलनेत्यनेन शय्याविरहो बोध्यते । एकशय्या शयनेनैवालकानामश्रुलुण्ठनं सम्भवति । मुग्धा तूषदेशं विना न किञ्चिज्जानाति । नायिका स्वीया मुग्धा च । नायकः शठः । प्रतीयमानकृतो विप्रलम्भशृङ्गारः । अश्रुभिः पर्य्यस्तनेत्रोत्पलेतिसम्बन्धः । ********** टीका सम्पूर्णा ********** समधिकलज्जावती यथा-- "दत्ते सालसमन्थरम्--ऽइत्यत्र (११३ पृ-) श्लोके । अत्र समधिकलज्जावतीत्वेनापि लब्धाया रतिवामताया विच्छित्तिविशेषवत्तया पुनः कथनम् । अथ मध्या-- मध्या विचित्रसुरता प्ररूढस्मरयौवना । ईषत्प्रगल्भवचना मध्यमव्रीडिता मता ॥ ३.५९ ॥ ************* टीका ************* विज्ञप्रिया (वि, ण) विचित्रसुरतादिकमप्येकैकमेव मध्याया विशेषणम् । प्ररूढस्मरा प्ररूढयौवनेति विशेषणद्वयम् । ********** टीका सम्पूर्णा ********** विचित्रसुरता यथा-- "कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु । तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथास्याः" ॥ ************* टीका ************* विज्ञप्रिया (वि, त) कान्ते तथेति---सुरते नायिकया नानाविधं चातुर्य्यं कृतम् । तत्र च कण्ठे नायिकया पारावतवद्ध्वनयः उच्चरिताः । पारावतैश्च तदनुवादः कृत इति समुच्चयार्थः । ********** टीका सम्पूर्णा ********** प्ररूढस्मरा यथात्रैवोदाहरणो । ************* टीका ************* विज्ञप्रिया (वि, थ) अत्रैवोदाहरणे इति--किन्तु सुरतवैचित्र्याभावे प्ररूढस्मराया असंकीर्णमुदाहरणं बोध्यम्॑ यथा--- निद्रानिवृत्तावुदिते द्युरत्ने सखीजने द्वारपदं प्रयाते । श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतोऽङ्गना सा ॥ इति । भुजङ्गे कामुके । ********** टीका सम्पूर्णा ********** प्ररूढयोवना यथा मम-- "नत्रे खञ्जनगञ्जने, सरसिजप्रत्यर्थि पाणिद्वयं, वक्षोजौ कारिकुम्भविभ्रमकीमत्युन्नतिं गच्छतः । कान्तिः काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्यन्दिनी, स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा" ॥ ************* टीका ************* विज्ञप्रिया (वि, द) नेत्रे खञ्जनेति । नेत्रे इत्यादिषु सवत्र तस्या इति सम्बन्धः । प्रत्यर्थि प्रतिद्वन्दि । विभ्रमकरी विशेषभ्रान्तिजनिका । सोदरं तुल्यम् । छटा कान्तिः । अत्र स्मरक्रियानुक्त्या यौवनस्यैव प्ररूढत्वम् । एवमन्यत्रापीति । "दीर्घाक्षं शरदिन्दु"इत्यादौबोध्यम् । ********** टीका सम्पूर्णा ********** एवमन्यत्रापि । अथ प्रगल्भा-- स्मरान्धा गाढतारुण्या समस्तरतकोविदा । भावोन्नता दरव्रीडा प्रगल्भाक्रान्तनायका ॥ ३.६० ॥ ************* टीका ************* विज्ञप्रिया (वि, ध) स्मरान्धेत्यादिकमपि प्रत्येकमेव विशेषणम् । दरव्रीडेति--समधिकलजाजाभिन्ना इत्येवार्थः । तेन स्वल्पव्रीडत्वे व्रीडाभावे वा दरक्रीडत्वं बोध्यमिति ग्रन्थकृतोऽभिप्रायः । आक्रान्तनायका इत्यर्थः । ********** टीका सम्पूर्णा ********** स्मरान्धा यथा-- "धन्यासि या कथयसि प्रियसंगमेऽपि विश्रब्धचाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचदपि स्मरामि(क)" ॥ ************* टीका ************* विज्ञप्रिया (वि, न) सखिषु मध्ये एकया नायिकया कथितम्--"मया रतिकाले बहूनि चाटुवचांसि पत्यौ कथ्यन्ते"तां रसानिविष्टां प्रतिपादयितुं तत्कालेऽत्यन्तरसाविष्टत्वमात्मन सूचयन्ती कचित्सोल्लुण्ठमाह--धन्यासीति । रतान्तरेषु अत्यन्तरसावेशयोग्येषु रतमध्येषु स्वीयोत्कर्षकथने बह्वीनामवधानाय सख्य इति बह्वीनां सम्बोधनम् । शपामि शपथं करोमि । ********** टीका सम्पूर्णा ********** गाढतारुण्या यथा-- "अत्युन्नतस्तनमुरो नयने सुदीर्घे, वक्रे भ्रुवावतितरां, वचनं ततोऽपि । मध्योऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः" ॥ ************* टीका ************* विज्ञप्रिया (वि, प) अत्युन्नतस्तनमिति--अत्र अद्भुतयौवनाया इति सर्वत्रान्वयः । किमपीत्यत्र किं पदमव्ययम् । कापि गतिर्मन्ये इत्यर्थः । लोचना (लो, औ) अनूनगुरुः--अत्यन्तगुरुः । ********** टीका सम्पूर्णा ********** समस्तरतकोविदा यथा-- "क्वचित्ताम्बूलाक्तः क्वचिद्गरुपङ्काङ्कमलिनः क्वचिच्चूर्णोद्ररी क्वचिदपि च सालक्तकपदः । वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः" ॥ ************* टीका ************* विज्ञप्रिया (वि, फ) क्वचित्ताम्बूलाक्त इति । प्रच्छदपटः-शय्याच्छादनपटः स्त्रियाः सर्वावस्थं न्युब्जोत्तानान्यावस्थीयं रतं कथयतीत्यर्थः । पटः कीदृशः ? क्वचित्ताम्बूलाक्तः इदं न्युब्जरते । क्वचिदगुरुपङ्केति--इदं पार्श्वरते । क्वचित्चूर्णेति--चूर्णक्षेपपूर्वकरते । क्वचिदपि सालक्तकेति--पदमत्र पदचिह्नम्, इदमुत्थैतावस्थारते । वलीभङ्गः प्रच्छदपटस्य वलनेन भङ्गः संकोचः तस्य आभोगैः तत्परिपूर्णिताभिरपि कथयतीत्यर्थः । इदमलकपतितेत्यादिकं च विमर्दरते । विचित्रसुरतायास्त्वेतादृशविमर्दाभावादस्याः ततो भेदः । लोचना (लो, अ) यूर्णानि कर्पूरादीनाम् । वलिभङ्गाभोगैरिति त्रयाणां विशेषणे तृतीया । तैरेव कथयतीति कथनकरणत्वं वा । सर्वावस्थं बहुप्रकारम् । ********** टीका सम्पूर्णा ********** भावोन्नता यथा-- "मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनै- रभसरचितैरङ्गन्यासैर्महोत्सवबन्धुभिः । असकृदसकृत्स्फारस्फाररैपाङ्गविलोकितै- स्भिभुवनजये सा पञ्चेषोः करोति सहायताम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) मधुरवचनैरिति---नायिका सा मधुरवचनादिभिः पञ्चेषोः त्रिभुवनजये सहायतां करोति इत्यन्वयः । मधुरवचनादिकं सर्वं नायके कदाचित्मधुरवचन कदाचित्सभ्रूभङ्गेत्यादिकं बोध्यम् । रभसः - सहसा । मबोत्सवस्य बन्धुभिः सहायैः यूनामानन्दकरैः रङ्गाभ्यासैः स्फारैः स्फारिरतिदीर्घैः । ********** टीका सम्पूर्णा ********** स्वल्पब्रीडा यथा-- "धन्यासि या कथयसि"-- इत्यत्रैव (११६ पृ दृ) ************* टीका ************* विज्ञप्रिया (वि, भ) धन्यासि येत्यादिकं स्वल्पव्रीडोदाहरणमुक्तं, तन्न युक्तम्--अत्राल्पाया अपि व्रीडाया अप्रतीतेः । किन्तु-- "वनकोलि हिअनिअं सनकवलि सनअअवहुलम् । यन युअन स्मरुन्मत्त इअ गअणं पवि उपरि चुम्बि अंज" ॥ इत्येव स्वल्पव्रीडोदाहरणम् । यथा वा"शूलिनः करतलद्वयेन सासंनिरुध्य नयने हृतांशुका । तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ॥ "इति । अत्र पार्वतीशूलिनोर्नयने इत्यन्वयः । ********** टीका सम्पूर्णा ********** आक्रान्तनायका यथा-- स्वामिन् भङ्गुरयालकं, सतिलकं भालं विलासिन् कुरु, प्राणोश त्रुटितं पयोधरतटे हारं पुनर्योजय । इत्युक्त्वा सुरतावसानसमये सम्पूर्णचन्द्रानना स्पृष्टा तेन तथैव जातमुलका प्राप्ता पुनर्मोहनम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, म) स्वामिनित्यादि---सम्पूर्णचन्द्रानना सुरतावसानसमये स्वामिन्नित्यादिकमुक्त्वा तेन स्पृष्टा सती पुनर्मोहनं याता इत्यन्वयः । भङ्गुराणामलकानां विकीर्णत्वात्पुनर्भङ्गुरीकरणाय प्रेरणा । अत्र स्वामिन्नित्याज्ञाकरणात्नायिकाक्रान्तः । ********** टीका सम्पूर्णा ********** मध्याप्रगल्भयोर्भेदान्तराण्याह-- ते धीरा चाप्यधीरा च धीराधीरेति षङ्विधे । लोचना (लो, आ) षड्विधे प्रत्येकं त्रिविधत्वात् । ********** टीका सम्पूर्णा ********** ते मध्याप्रगल्भे । तत्र-- प्रियं सोत्प्रासवक्रोक्त्या मध्या धीरा दहेदुषा ॥ ३.६१ ॥ धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः । ************* टीका ************* विज्ञप्रिया (वि, य) प्रियं सोत्प्रसेति---उत्प्रासः समनाक्स्मितम् । लोचना (लो, इ) प्रियं दहेदित्यस्य रुदितैः परुषोक्तिभिरित्याभ्यां सम्बन्धः । ********** टीका सम्पूर्णा ********** तत्र मध्या धीरा यथा-- "तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः । मदधिवसतिमागाः कामिनां मण्डनश्रीर्- व्रजति हि सफलत्वं वल्लभालोकनेन" ॥ ************* टीका ************* विज्ञप्रिया (वि, र) तदवितथमित्यादि--त्वं मम प्रियेति यदवादीस्तदवितथं सत्यम् । यद्यस्मात्प्रियजनेन उपनायिकया सपत्न्या वा परिभुक्तं दुकूलं वस्त्रं वसानः दधानः सन्मदधिवसतिं मम गृहमागाः आगतोऽसि । ननु एतावता कथं प्रियेत्युक्तेः सत्यत्वमित्यत आह--कामिनामिति । वल्लभाया आलोकनेनेत्यर्थः । प्रियजनपरिभुक्तवस्त्रधारणमेवात्र मण्डनश्रीः सफलत्वं व्रजति । सेयं सोत्प्रसवक्रोक्तिः । ********** टीका सम्पूर्णा ********** मध्यैव धीराधीरा यथा-- "बाले ! नाथ ! विमुञ्च मानिनि ! रुषं, रोषान्मया किं कृतं, खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि । तत्किं रोदिषि गद्रदेन वचसा, कस्याग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते" ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) बाले इति---कामुकस्य मानिन्याश्च इमे उक्तिप्रत्युक्ती न मेऽपराध्यतीत्यादि ममेत्यन्तं नायिकया उक्तिः, नन्वेतन्मे इत्यत्रापि अग्रत इत्यस्याप्यनुषङ्गः । दयिता पत्नी । नायिकोक्तौ दयिताविषयः । लोचना (लो, ई) बाले अज्ञे । धीरमध्याया वक्रोक्त्या प्रियतापनं धीराधीरायास्तु सोपहासवचनेनेति भावः । सर्वत्र मध्याप्रगल्भयोः समनन्तरोक्तेषु भेदेषु । ********** टीका सम्पूर्णा ********** इयमेवाधीरा यथा-- "सार्धं मनोरथशतैस्तव धूर्त ! कान्ता सैव स्थिता मनसि कृत्रिमहावरम्या । अस्माकमस्ति नहिं कश्चिदिहावकाश- रस्तस्मात्कृतं चरणणतविडम्बनाभिः" ॥ ************* टीका ************* विज्ञप्रिया (वि, व) इयमेवेति मध्यैव इत्यर्थः । सार्द्धं मनोरथेति--चरणपतितं कामुकं प्रति मानिन्या अधीरमध्यमाया उक्तिरियम् । धूर्तेति कान्तसम्बोधनम् । सैव उपनायिकैव कृत्रिमभावः परस्त्रीत्वेन मिथ्यानुरागः । इह मनसि । कृतं व्यर्थम्, कृतंशब्दयोगे स्वार्थे तृतीया । विडम्बनाभिः प्रतारणाभिः इत्यर्थः । ********** टीका सम्पूर्णा ********** प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा ॥ ३.६२ ॥ उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः । ************* टीका ************* विज्ञप्रिया (वि, श) तत्रेत्यस्य व्याख्या दर्शयन्त्यादरमिति । बहिरादरं दर्शयन्तीत्यर्थः । ********** टीका सम्पूर्णा ********** तत्र प्रिये । यथा-- "एकत्रासनसंस्थितिः परिहृता प्रत्युद्रमाद्दूरत- स्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविघ्नितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थोकृतः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) एकत्रासनेति---चतुरया नायिकया उपचारतोऽथवार्थक्रियातः कान्तं प्रति कोपः कृतार्थोकृतः, सम्वरणेन तद्वञ्चनात्सार्थोकृत इत्यर्थः । कोपसम्वरणहेतूनुपचारान् दर्शयति--एकत्रेति--एकत्र देशे आसनसंस्थितिरित्यर्थः । रभसाश्लेषः, कान्तेन सहसालिङ्गनम् । अन्तिके परिजनमर्थात्तदुपचारार्थं गृहकार्यार्थं व्यापारयन्त्येत्यर्थः । ********** टीका सम्पूर्णा ********** धीराधीरा तु सोल्लुण्ठभाषैतैः खेदयत्यमुम् ॥ ३.६३ ॥ अमुं नायकम् । यथा मम-- "अनलङ्कृतोऽपि सुन्दर ? हरसि मनो मे यतः प्रसभम् । किं पुनरलङ्कृतस्त्वं सम्प्रति नखक्षतैस्तस्याः" ॥ ************* टीका ************* विज्ञप्रिया (वि, स) सोल्लुण्ठेति--सोल्लुण्ठभाषितमापतमधुरकटुवचनम् । अनलङ्कृतोपीति । यतस्त्वमनलङ्कृतोपि मम मनः प्रसभं सहसा हरसि । अतः किं पनरित्यन्वयः । तस्या उपनायिकाया अत्र नखक्षतानामलङ्कारत्वासम्भवातेतदुक्तेः कटुत्वस्य अतिस्फुटत्वात्तदवितथमवादीरित्यादि धीरमध्योदाहरणादस्य विशेषः, तत्र दुकूलस्यालङ्कारताया अपि सम्भवात् । कटुत्वस्फुटत्वादेव चास्याः प्रगल्भत्वं, न मध्यत्वम् । ********** टीका सम्पूर्णा ********** तर्जयेत्ताडयेदन्या-- अन्या अधीरा । यथा-"शोणं वीक्ष्य मुखं-" इत्यत्र । अत्र च सर्वत्र "रुषा" इत्यनुवर्तते । --प्रत्येकं ता अपि द्विधा । कनिष्ठज्येष्ठरूपत्वान्नायकप्रणयं प्रति ॥ ३.६४ ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) शोणं वीक्ष्येत्यादि व्याख्यात्म् । तत्र पादप्रहरकथन्त्ताडनम् । कनिष्ठज्येष्ठेति--नायकस्य यः कपटप्रणयस्तं प्रति न्यूनाधिक्यादित्यर्थः । षड्विधा इति । धीरा अधीरा धीराधीरा चेति त्रैविध्यात्मध्याप्रगल्भयोः षट्त्वम् । ********** टीका सम्पूर्णा ********** ता अनन्तरोक्ताः षड्भेदा नायिकाः । यथा-- "दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः । ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति" ॥ ************* टीका ************* विज्ञप्रिया (वि, क्ष) दृष्ट्वैकेति---एकासनसंस्थितं पत्निद्वयं दृष्ट्वा विहितक्रीडानुबन्धच्छलः कृतकौतुकोत्पत्तिः धूर्तो नायकः आदरात्तयोः पश्चात्पृष्ठत उपेत्य गत्वा एकस्या पत्न्या नयेन पिधाय ईषद्वक्रितकन्धरः सनपरां चुम्बति । अपरां कीदृशीं सपुलकं यथा स्यात्तथा प्रेम्णा उल्लसन्मानसां हृष्यन्मनस्कां पुनः कीदृशीं अन्तर्हासेन लसती कपोलफलके गण्डयुगलं यस्यास्ताम् । अत्र नायिकानुरागस्य न्यूनाधिकत्वं स्फुटमेव । ********** टीका सम्पूर्णा ********** मध्याप्रगल्भयोर्भेदास्तस्माद्द्वादश कीतिंताः । मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश ॥ ३.६५ ॥ परकीया द्विधा प्रोक्ता परोढा कन्यका तथा । ************* टीका ************* विज्ञप्रिया (वि, क) द्वादशेति--षट्द्वैगुण्यात् । मुग्घा त्वेकैवेति । तस्याः प्रथमावतीर्णमदनविकाराद्यभावादेकत्वम् । इत्थं स्वीयास्त्रयोदशेति उक्त्वा अन्या इत्युक्तामन्यां विभजति । परकीयेति--तत्र परकीयामाह । ********** टीका सम्पूर्णा ********** तत्र-- यात्रादिनिरतान्योढा कुलटा गलितत्रपा ॥ ३.६६ ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) यात्रादीति--या परोढा कुलटा भवति सा गलितत्रपा सती यात्रादिनिरता भवतीत्यर्थः । यात्रा अभिसारः । आदिना दूतीप्रेषणात्नायकानयनपरिग्रहः ********** टीका सम्पूर्णा ********** यथा-- "स्वामी निः श्वसितेऽप्यसूयति, मनोजिघ्रः सपत्नीजनः, श्वश्रूरिङ्गीतदैवतं नयनयोरीहालिहो यातरः । तद्दूरादयमञ्जलिः किमधुना दृग्भङ्गिभावेन ते, वैदग्धीमधुरप्रबन्धरसिक ! व्यर्थोऽयमत्र श्रमः" ॥ लोचना (लो, उ) निः श्वसितेऽपि--चेष्टायामपीत्यर्थः । मनोजिघ्रः भनसा घृतमप्यनायासादनुमिनोति, इङ्गितदैवतमिङ्गितज्ञानं तस्या एव आयत्तम् । यः खलु यत्राधिष्टानं तस्य तदभिज्ञानं सुकरमेव । ईहालिहः अत्रैव चेष्टग्रहणशीलाः । वैदग्ध्या चातुर्य्येण मधुरो मनोहरो यः प्रबन्धो व्यापारस्तत्र रसिकेत्यनेन चातुर्य्येण निर्वाह्यो यो मदभिगमनार्थं प्रबन्धस्तमाचरेति भावः । ********** टीका सम्पूर्णा ********** अत्र हि मम परिणोतान्नाच्छादनादिदातृतया स्वाम्येव न तु वल्लभः । त्वं तु वैदग्धीमधुरप्रबन्धरसिकतया मम वल्लभोऽसीत्यादिव्यङ्ग्यार्थवशादस्याः परनायकविषया रतिः प्रतीयते । ************* टीका ************* विज्ञप्रिया (वि, ग) स्वामीति--उपनायकं प्रति नायिकाया उक्तिरियम् । दीर्घनिःश्वासेन विरहाशङ्काया असूया । जिघ्रः घ्राता । ईषल्लिङ्गेनापि परनायकविषयमनोऽनुमापक इत्यर्थः । इङ्गितदैवतमिति दैवतत्वेन अत्यन्तं तद्बोद्धी । नयनयोरिति--लेहनात्सामस्त्येन तद्बोद्ध्रीत्यर्थः । यातरः पतिभ्रातृपत्न्यः । वल्लभोऽसीत्यादि--इत्यत्र आदिपदातञ्जलिकरणादपीत्यर्थः । रतिः प्रतीयते इति तत्प्रतीतिवशाच्चास्या निरतत्वसिद्धिः । ********** टीका सम्पूर्णा ********** कन्या त्वजातोपयमा सलज्जानवयौवना । अस्याश्च पित्राद्यायत्तत्वात्परकीयात्वम् । यथा मालतीमाधवादौ मालत्यादिः । धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका ॥ ३.६७ ॥ निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि । वित्तमात्रं समालोक्य सा रागं दर्शयेद्वहिः ॥ ३.६८ ॥ काममङ्गीकृतमपि परिक्षीणधनं नरम् । मात्रा निः सारयेदेषा पुनः संधानकाङ्क्षया ॥ ३.६९ ॥ तस्कराः पण्डका मूर्खाः सुखप्राप्तधनस्तथा । लिङ्गिनश्छन्नकामाद्या अस्याः प्रायेण वल्लभाः ॥ ३.७० ॥ एषापि मदनायत्ता क्वापि सत्यानुरागिणि । रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम् ॥ ३.७१ ॥ ************* टीका ************* विज्ञप्रिया (वि, घ) सान्या साधारणीत्युक्तां साधारणीमाह--धीरेति । सामान्यनायिको साधारणी नायिका, सा च वेश्या इत्यर्थः । सैव च धीरा, कलाप्रगल्भा च इत्यर्थः, कला विलासकला विलासः विव्वोकादयः । मात्रा मातृद्वारा । इदमुपलक्षणम्॑ अन्यद्वारापि इति बोध्यम् । तस्करादिप्रच्छन्नकामाद्यन्ता प्रायेण सुखप्राप्तधनाः । अत एव तासां वल्लभा इत्यर्थः । एषापीति--एषा साधारणी मदनायत्ता चेत्तदा क्वाप्यनुरागिणी भवति । तथापि धनमात्रसाध्यत्वाद्रक्तायां विरक्तायां वा अस्यां स्तं धनं विना सुदुर्ल्लभमित्यर्थः । वातपण्ड्रो रतिप्रतिबन्धकव्याधिविशेषः । लोचना (लो, ऊ) सामान्येति । सामान्यनायिका साधारणी स्त्रीत्युद्दिष्टा वेश्या । साच धीरा चतुरा । न रज्यति बहिर्दर्शयते, नत्वन्तर्वहति । मात्रेति-मात्रा निष्कासयेत्, पत्वात्मना, पुनर्धनयोगे सति मातरि दोषं दत्त्वा परिग्राहयितुम् । सुखेति--सुखप्राप्तधनं पित्राद्यर्जितधनम्, दुः खार्जितस्य व्ययितुमशक्यत्वात् । लिङ्गिनः तपस्विभगवत्प्रभृतयः । मदनायत्तेति---अयमर्थः । मदनपरवशत्वस्य स्त्रीपुरुषसाधारणत्वात्तदुद्भवस्तस्यां न दण्डकारिति इति । प्रच्छन्नं गुप्तम् । वातपण्ड्रो रोगविशेषः । ********** टीका सम्पूर्णा ********** पण्डको वातपाण्ड्वादिः । छन्नं प्रच्छन्नं ये कामयन्ते ते छन्नकामाः । तत्ररागहीना यथा लटकमेलकादौ मदनमञ्जर्यादिः । रक्ता यथा मृच्छकटिकादौ वसन्तसेनादिः । पुनश्च-- अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः । ************* टीका ************* विज्ञप्रिया (वि, ङ) विरक्तायां वेत्युक्तां रागहीनां दर्शयति--तत्रेति । अवस्थाभिरितिस्वास्त्रयोदश, परकीये द्वे । साधारणी चैका । एवं षोडश नायिका । अवस्थाभिरष्टगिर्विशेषणैरष्टौ अष्टगुणा भवन्ति । लोचना (लो, ऋ) अवस्थाभिरष्टौ प्रत्येकमित्यर्थः । ********** टीका सम्पूर्णा ********** स्वाधीनभर्तृका तद्वत्खण्डिताथाभिसारिका ॥ ३.७२ ॥ कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका । अन्या वासकसञ्जा स्याद्विरहोत्कण्ठिता तथा ॥ ३.७३ ॥ ************* टीका ************* विज्ञप्रिया (वि, च) आसामष्टावस्थारूपविशेषणवौशिष्ट्यं दर्शयति--स्वाधीनेति । ********** टीका सम्पूर्णा ********** तत्र-- कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम् । विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ॥ ३.७४ ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) स्वाधीनभर्तृकालक्षणमाह---कान्तो रतीति । कन्यकायास्तु उपनायक एव कान्तो भर्ता च बोध्यः । तदनूढत्वमेव चास्याः । परोढत्वमुपनायकानेकहेतुसाधारणत्वमस्याः । अन्तिकात्यागोऽन्यस्थले न स्थितिः । वेश्यायास्तु निजपतेरेवं भावः । लोचना (लो, ॠ) तत्र तासु मध्ये । गुणे रतेर्विचित्रसुरतादिः सुश्रूषादिर्वा । ********** टीका सम्पूर्णा ********** यथा-- "अस्माकं सखि वाससी--ऽइत्यादि । पार्श्वमेति प्रियो यस्या अन्यसंयोगचिह्नितः । सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता ॥ ३.७५ ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) खण्डितालक्षणमाह---पार्श्वमेतीति---कन्यकायास्तु उपनायक एव प्रियः । एवं साधारण्या अपि । ********** टीका सम्पूर्णा ********** यथा-- "तदवितथमवादीः--" इत्यादि । अभिसारयते कान्तं या मन्मथवशंवदा । स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ॥ ३.७६ ॥ क्रमाद्यथा-- ************* टीका ************* विज्ञप्रिया (वि, झ) अभिसारिकालक्षणमाह---अभिसारयते इति । नच स्वीयायाः कथमभिसारः । उपनायकाभिसारे परोढत्वमिति वाच्यम् । पितृगृहस्थायाः स्वस्वामिन्यपि अभिसारसम्भवात् । क्रमात्यथेति । प्रथमं कान्तमभिसारयन्त्या ततः कान्तमभिसारन्त्या उदाहरणमिति ब्रूमः । ********** टीका सम्पूर्णा ********** न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणं तथैनमभिगम्य वदेरभिदूति कचिदिति संदिदिशे ॥ ************* टीका ************* विज्ञप्रिया (वि, ञ) नच मे इति । अभिदूति दूत्यां काचिन्नायिका इति संदिदिशे । सन्देशमाह---नच मे इति । एवं नायकमभिगम्य निपुणं प्रकृष्टं वदेः इत्यन्वयः । ********** टीका सम्पूर्णा ********** "उत्क्षिप्तं करकङ्कणद्वयमिदं, बद्धा दृढं मेखला, यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयोर्मूकता । आरब्धे रभसान्मया प्रियसखि ! क्रीडाभिसारोत्सवे, चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) कान्तमभिसरन्तीमुदाहरति---उत्क्षिप्तमिति । तमस्विन्यां चन्द्रोदयात्पथि स्वस्या अभिसारभङ्ग सख्यां कथयन्त्या उक्तिरियम् । अवगुण्ठनामाच्छादनं, तस्य क्षेपमपसारणं विधत्ते इति अतीतसामीप्ये वर्तमानं व्यधादित्यर्थः । ********** टीका सम्पूर्णा ********** संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा । अवगुण्ठनसंवीता कुलजाभिसरेद्यदि ॥ ३.७७ ॥ विचित्रोज्ज्वलवेषा तु रणन्नूपुकङ्कणा । प्रमोदस्मेरवदना स्याद्वेश्यभिसरेद्यदि ॥ ३.७८ ॥ मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना । आविद्धगतिसंचारा स्यात्प्रेष्याभिसरेद्यदि ॥ ३.७९ ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) आविद्धगतिसंचारेति---आविद्धः सभङ्गीका पितृगृहगत्यर्थं संचारो यस्यास्तादृशी । ********** टीका सम्पूर्णा ********** तत्राद्ये "उत्क्षिप्तम्" इत्यादि । अन्ययोः ऊह्यमुदाहरणम् । ************* टीका ************* विज्ञप्रिया (वि, ड) अनयोरूह्यमिति---आद्ये । "अनणुरणन्मणिनूपुरमविरतशिञ्जानमञ्जुमञ्जीरम् । परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥ "इति इयं हि अभिसरन्तीं वेश्यां प्रति शान्तस्य कस्यचिदुक्तिः । रणरणकं कामचिन्ताम् । प्रेष्यायास्तु"निः शङ्कच्युत"इत्यादिकमुदाहरणम् । मदस्खलितादिविशेषणान्यस्यां चन्दनादिवेशादूह्यानि । लोचना (लो, ळ) प्रेष्याभिसारिका यथा-- ताम्बूलाक्तं दशनमसकृद्दर्शयन्तीह चेटी घोटी ह्रेषाद्विकृतरुदितं हेतुहीनं हसन्ती । स्थानास्थानस्खलितपदविन्यासमाभाषमाणा यूनामग्रे सरति कुटिलं नर्तितोच्चैर्नितम्बम् । ********** टीका सम्पूर्णा ********** प्रसङ्गादभिसारस्थानानि कथ्यन्ते-- लोचना (लो, ए) स्थानानीति--अष्टानां स्थानानां महर्षिणोक्तत्वात्भिन्ननिर्देशः । यदाह-- ********** टीका सम्पूर्णा ********** क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् । मालापञ्चः श्मशानं च नद्यादीनां तटी तथा ॥ ३.८० ॥ एवं कृताभिसाराणां पुंश्चलीनां विनोदने । स्थानान्यष्टौ तथा ध्वान्तच्छन्ने कुत्रचिदाश्रये ॥ ३.८१ ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) मालामञ्चमुद्यानम्, कुत्रचिदाश्रय इत्यत्र विनोद इति शेषः । ********** टीका सम्पूर्णा ********** चाटुकारमपि प्राणनाथं राषादपास्य या । पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ॥ ३.८२ ॥ ************* टीका ************* विज्ञप्रिया (वि, ण) कलहान्तरितालश्रणमाह--चाटुकारमपीति । कन्यकासाधारण्योरुपनायक एव प्राणनाथः । ********** टीका सम्पूर्णा ********** यथा मम तातपादानाम्-- "नो चाटुश्रवणं कृतं, न च दृशा हारोऽन्तिके वीक्षितः, कान्तस्य प्रियहेतवे निजसखीवाचोऽपि दूरीकृताः । पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुध्य इन्त ! सहसा कण्ठे कथं नार्पितः" ॥ ************* टीका ************* विज्ञप्रिया (वि, त) नो चाटुश्रवणिति । हारस्तत्प्रीत्यर्थं कान्तेन दत्तः । विनिपत्येत्यनन्तरं मया निराकृत इति पूरणीयम् । ********** टीका सम्पूर्णा ********** प्रियः कृत्वापि संकेतं यस्या नायाति संनिधिम् । विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता ॥ ३.८३ ॥ यथा-- "उत्तिष्ठ दूति, यामो यामो यातस्तथापि नायातः । यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः" ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) विप्रलब्धालक्षणमाह--प्रियः कृत्वेति । उत्तिष्ठ इति । यामोमदागमनावधिप्रहरो यात इत्यर्थः । या नायिका अतः परमपि जीवेत्तस्या एवासौ जीवितनाथो भवेत्॑ भविष्यतीत्यर्थः, नतु ममेति भावः । ********** टीका सम्पूर्णा ********** नानाकार्यवशाद्यस्या दूरदेशं गतः पतिः ॥ सा मनोभवदुःखार्ता भवेत्प्रोषितभर्तृका ॥ ३.८४ ॥ यथा-- "तां जानीयाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ञ) प्रोषितभर्तृकालक्षणमाह नानाकार्य्येति । अत्रापि कन्यापरोढयोरुपनायक एव पतिः । तां जानीया इति---शापप्रतिरुद्धप्रियासंनिधगमनस्य यक्षस्य मेघं संबोध्य प्रियावस्थाकथनमिदम् । जीनीयाः जानीहि । एषु गुरुषु दिवसेषु गच्छत्सुगाढोत्कण्ठामत एव शिशिरमथितां पद्मिनीमिवान्यरूपां जातामहमित्यर्थः । वाशब्द इवार्थे । ********** टीका सम्पूर्णा ********** कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि । सा तु वासकसज्जा स्याद्विदितप्रियसङ्गमा ॥ ३.८५ ॥ यथा राघवानन्दानां नाटके-- "विदूरे केयूरे कुरु, करयुगे रत्नवलयैरलं, गुर्वो ग्रीवाभरणलतिकेयं किमनया । नवामेकामेकावलिमयि मयि त्वं विरचयेर्न नेपथ्यं बहुतरमनङ्गोत्सवविधौ" ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) वासकसज्जालक्षणमाह---कुरुत इति । सज्जिते केलियोग्यतया सज्जीकृते वासवेश्मनि यस्या मण्डनं सखी कुरुत इत्यर्थः । विदितप्रियसंगमा निश्चितप्रियसंगमा । स्वीयाकन्ययोस्तु पितृगृहस्थयोरेवंभावो बोध्यः । विदूरे इति । वासगृहे नायकसंयोगार्थमल्पभूषणरचनार्थं सखीं प्रेरयन्त्यास्तां प्रत्युक्तिरियम् । अयि सखि त्वं नवीनामेकामेकावलीं हारं मयि विरचयेः । यतोऽनङ्गोत्सवविधौ बहुतरं नेपथ्यं वेशः न पथ्यं न हितम्॑ कठिनसंयोगत्वेन आलिङ्गने दुः खदायककृततोलङ्कारान्तरं निषेधति । लोचना (लो, ऐ) नवामिति । एकावली एकगुणमुक्ताहारः । ********** टीका सम्पूर्णा ********** आगन्तुं कृतचित्तोऽपि दैवान्नायाति यत्प्रियः । तदनागमदुःखार्ता विरहोत्कण्ठिता तु सा ॥ ३.८६ ॥ यथा-- "किं रुद्धः प्रियया कयाचि, दथवा सख्या ममोद्वेजितः, किं वा कारणगौरवं किमपि, यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा करतले विन्यस्य वक्त्राम्बुजं दीर्घं निः श्वसितं, चिरं च रुदितं, क्षिप्ताश्च पुष्पस्त्रजः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) विरहोत्कण्ठितालक्षणम्---आगन्तुमिति । अत्रापि कन्यकापरोढयोरुपनायक एव पातिः । किं रुद्ध इति---परोढाकन्यकयोरुपनायकस्य स्वीयायाश्च सपत्निगृहं गतस्य नायकस्यानागमनेनोत्कण्ठितया इति पूर्वार्द्धेक्तिमालोच्य वक्त्राम्बुजं करतले विन्यस्य दीर्घं निश्वसितमित्यादि । सख्या मया प्रेषितया । ********** टीका सम्पूर्णा ********** इति साष्टाविंशतिशतमुत्तममध्याधमस्वरूपेण । चतुरधिकाशीतियुतं शतत्रयं नायिकाभेदाः ॥ ३.८७ ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) इति साष्टाविंशतीति षोडशानामष्टगुणेन साष्टाविंशतिशतम् । तच्च उत्तममध्यमाधमस्वरूपं सत्चतुरधिकाशीतियुतं शतत्रयम् । नायिकाभिधानम्--नायिकेति अभिधानं यस्य साष्टाविंशतिनायिकाशतस्य तादृशमित्यर्थः । कुलटानां पापित्वेऽपि उत्तमत्वादिकामकलाकौशलतारतम्यात् । यद्वा--ब्राह्मणदिजातितारतम्यात्तथात्वम् । साष्टविंशतिशतत्नैगुण्यादुक्तसंख्या । ********** टीका सम्पूर्णा ********** इह च "परस्त्रियौ कन्यकान्योढे संकेतात्पूर्वं विरहोत्कण्ठिते, पश्चाद्विदूष कादिना सहाभिसरन्तयावभिसारिके, कुतोऽपि संकेतस्थानमप्राप्ते नायके विप्रलब्धे, इति त्र्यवस्थैवानयोरस्वाधींनप्रिययोरवस्थान्तरायोगात्" । इति कश्चित् । ************* टीका ************* विज्ञप्रिया (वि, ढ) अत्र परस्त्रियोः कन्यकोढयोरवस्थात्रयस्य एवासंभवातष्टगुणत्वाभावेन उक्तसंख्यान भविष्यतीति कश्चिदाह--तदृर्शयति । इह चेति । संकेतात्पूर्वमिति संकेताथेतोः पूर्वं विलहोत्कण्ठिते पश्चात्विदूषकेत्याद्यन्वयः । अवस्थान्तरायोगादिति---तथाहि स्वापीनभर्तृकात्वखण्डितात्वकलहान्तरितात्वप्रोषितभर्तृकात्ववासकसज्जात्वरूपाः पञ्चावस्थाः भर्तृघटिताः, कन्यकापरोढयोस्तादृशावस्थाभावादित्यर्थः । कश्चिदित्यस्वरससूचनस्यायभिप्रायः---सर्वत्र भर्तृपतिपदानि उत्कटानुरागविषयकामुकपराणि स्वभर्त्रुपनायकसाधारणनि । अतस्तद्धटिताः स्वाधीनभर्तृकदिचतुरवस्थआः संभवन्त्येव । वासकसज्जात्वावस्था तु पतिघटितैव न भवति इत्यतः कन्यकापरोढयोरपि ताः पञ्चावस्थाः संभवन्त्येव । एवं च स्वस्त्रिया अपि पितृगृहस्थायाः पित्रधीनत्वेन पत्या सह स्वच्छन्दसम्भोगासंभवात् । पत्यौ अभिसारविरहोकण्ठाविप्रलम्भा भवन्त्येव इति यथोक्तसंख्याः । लोचना (लो, ओ) अष्टेति---अष्टाविंशतिशतं षोडशानां प्रत्येकमष्टधा गुणनात् । पुनश्च उत्तममध्यमाधमभेदात्तत्त्निगुणितम् । चतुरशीत्यधिकं शतत्रयमित्यर्थः । कश्चिदित्यसंतोषोक्तिः, तथा हि जयदेवकृतगीतगोविन्दे मम पितॄणां कंसवधे परस्त्रिया राधिकाया अष्टावप्यवस्थाः स्पष्टमेव प्रकाशिताः, अन्यस्याप्यात्मीयत्वेन परिगृहीतस्य परयोषिदुपभोगेष्ववस्थोचिता । मृदुरान्तरो मानः । तथापि मानेन कथंचिद्विभावदर्शनार्थमभिमुखं नायके गते कलहान्तरितात्वम् । तस्यैव प्रवासे प्रोषितभर्तृकात्वम् । एकमन्यदपि सुबुद्धिभिरूह्यम् । ********** टीका सम्पूर्णा ********** क्वचिदन्योन्यसाङ्कर्यमासं लक्ष्येषु दृश्यते । ************* टीका ************* विज्ञप्रिया (वि, ण) क्वचिदन्योऽन्यसाङ्कर्य्यमिति---आसां धीराधीराधीरणाम् । ********** टीका सम्पूर्णा ********** यथा-- "न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वाम् । विट ! विटपममुं ददस्व तस्यै भवति यतः सदृशोश्चिराय योगः । ************* टीका ************* विज्ञप्रिया (वि, त) न खलु वयमिति---कुसुमितविटपं दित्सुं स्वनायकं प्रति कोपनाया उक्तिरियम् "हे विट ! धूर्त्त !अमुष्य विटपस्य दानयोग्या न खलु वयम् । किन्तु असकौ असौ या उपनायिका त्वां चक्षुषा पिबति सुरते प्रीतिजननात्प्रतिपालयति च तस्यै अमु विटपं ददस्व यतः सदृशोर्योगशचिराय भवति । असदृशोस्तु क्षणिककृत्निष्फल इत्यर्थः, सदृशत्वं च दर्शितयोगार्थवशात् । सापि विटपी अयं च विटप इति सादृश्यम् । लोचना (लो, औ) न खल्विति--पिबति सर्वतो निरुद्धप्रसरीकृत्य स्वामत्रायत्ततायां प्रवेशयति उपभुङ्क्तेवा । मदनशरपातकातरं पाति रक्षति । असकाविति करूपतद्धितत्वेन तस्याः कुत्सितत्वं प्रकाश्यते । विटपेऽपि विटं पाति रक्षतीति व्युत्पत्तियोगः । तस्यामप्युक्तप्रकारेण तथात्वमिति द्वयोः सादृश्यम् । एवञ्चानयोर्विटपत्वेन सदृशयोर्विटपयुवयोर्वा गर्हितत्वेन सदृशयोर्वा उचितो योगो यतः तस्यैव विटपप्रदानेन भवतीति उभयथा सम्बन्धः । ********** टीका सम्पूर्णा ********** तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्कर्णपूरैः । ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) तव कितवेति---वृक्षपल्लवं कर्णपूरं ददानं नायकं प्रति कोपनायाः नायिकाया उक्तिरियम् । हे कितव ! धूर्त ! आहतैः दत्तैः क्षितिरुहाणां वृक्षाणां पल्लवरूपैः कर्णपूरैः मम किं प्रयोजनमित्यर्थः । ननु भोः जनविदितैः भवद्व्यलीकैः भवदपकर्मभिः मम कर्णयुग्मं चिरपरिपूरितमेव । तथा च योगार्थवशात्भवद्व्यलीकमेव मे कर्णपूर इत्यर्थः । ********** टीका सम्पूर्णा ********** मुहुरुपदसिताविवालिनादैवितरसि नः कलिकां किमर्थमेनाम् । वसतिमुपगतेन धाम्नि तस्याः शठ ! कलिरेष महांस्त्वयाद्य दत्तः" ॥ "इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण । श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च" ॥ ************* टीका ************* विज्ञप्रिया (वि, द) इति गदितेति---पूर्वर्णितनायिकातोऽन्या नायिका इति गदितवती सती रुषा अम्बुरुहेण चक्षुषा च तं नायकं जघान । कषयितचक्षुषा दर्शनमेव हननमम्बुरुहचक्षुषोर्द्वयोः विशेषणमाह---स्फुरितेति---स्फुरितं मनोहरं पक्ष्मैव केशरवत्यस्य तादृशेन चक्षुषा । स्फुरितोमनोहरपक्ष्मवत्केशरो यस्य तादृशेन अम्बुरुहेण, तथा श्रवणपर्यन्तनियमितेन चक्षुषा श्रवणे नियमितेन अम्बुरुहेण उभयत्र स्थापनमेव नियमनम् । ********** टीका सम्पूर्णा ********** इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताधीरमध्यताधीरप्रगल्भताभिः संकीर्णा । एकमन्यत्राप्यूह्यम् । इतरा अप्यसंख्यास्ता नोक्ता विस्तरशङ्कया ॥ ३.८८ ॥ लोचना (लो, अ) इतरा इति असंख्याः पद्मिनीमृग्यादिभेदात् । ********** टीका सम्पूर्णा ********** ता नायिकाः । अथासामलङ्काराः-- यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः । लोचना (लो, आ) अथेति । अलङ्क्रियते भूष्यते एभिरित्यलङ्काराः । सत्त्वं गुणविशेष । तासां नायिकानमीरिता उक्ताः । ********** टीका सम्पूर्णा ********** अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः ॥ ३.८९ ॥ शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता । औदार्थं धैर्यमित्येते सप्तैव स्युरयत्नजाः ॥ ३.९० ॥ लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् । मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥ ३.९१ ॥ विहृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् । हसितं चकितं केलिरित्यष्टादशसंख्यकाः ॥ ३.९२ ॥ स्वभावजाश्च भावाद्या दश पुंसां भवन्त्यपि । पूर्वे भावादयो धैर्यान्ता दश नायकानामपि संभवन्ति । किंतु सर्वेऽप्यमी नायिकाश्रिता एव विच्छित्तिविशेषं पुष्णान्ति । ************* टीका ************* विज्ञप्रिया (वि, ध) अलङ्कारा इति । शोभका धर्मा इत्यर्थः । अङ्गजत्वायत्नजत्वस्वभावजत्वानि परिभाषामात्राणि नतु एषां परस्परवैलक्षण्यमस्ति । अत्र भावाद्यास्त्रयः शोभाद्याः सप्त लीलाद्या अष्टादश इति अष्टाविंशतिः । विच्छित्तिविशेषं भङ्गीविशेषम् । ********** टीका सम्पूर्णा ********** तत्र भावः-- निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ॥ ३.९३ ॥ लोचना (लो, इ) निर्विकारेति--विकारो मदनविकारः । ********** टीका सम्पूर्णा ********** जन्मतः प्रभृति निर्विकारे मनसि उद्बुद्धमात्रो विकारो भावः । यथा-- "स एव सुरभिः कालः स एव मलयानिलः । सैवेयमबला किंतु मनोऽन्यदिव दृश्यते" ॥ अथ हावः-- भ्रूनेत्रादिविकारैस्तु संभोगेञ्छाप्रकाशकः । भाव एवाल्पसंलक्ष्यविकारो हाव उच्यते ॥ ३.९४ ॥ यथा-- "विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः । साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन" ॥ ************* टीका ************* विज्ञप्रिया (वि, न) विवृण्वती शैलसुतापीति--तपस्यतो महेशस्य समीपे कामेन धनुषि आरोपिते पार्वला हाववर्णनमिदम्, क्वचित्तस्थावित्यन्वयः । अङ्गैर्भावं विवृण्वतीत्यन्वयः । बालकदम्बपुष्पतुल्यतामङ्गानां पुलकेन मुखेन साचीकृता वक्रीकृता॑ वक्रमुखवैशिष्ट्यात्तस्या वक्रता । लोचना (लो, ई) विवृण्वतीति अत्न हावेऽपि भावविशेषत्वात्भावशब्दप्रयोगः मुखेन साचीकृता न संमुखीभूतेत्यर्थः । पर्य्यस्तं समन्ततः क्षिप्तम् । ********** टीका सम्पूर्णा ********** अथ हेला-- हलात्यन्तसमालक्ष्यविकारः स्यात्स एव तु । स एव भाव एव । यथा-- "तह ते झत्ति पौत्ता वहुए सव्वङ्गविब्भमा सअला । संसै अमुद्धभावा होइ चिरं जै सहीणं पि" ॥ ************* टीका ************* विज्ञप्रिया (वि, प) तथा तस्या झटिति प्रवृत्ता वध्वाः सर्वाङ्गविभ्रमाः सकलाः । संशयितमुग्धभावा भवन्ति चिरं यथा सखीनामपि ॥ इति संस्कृतम् । नायकं प्रति नायिकायाः विभ्रमोन्मेषवर्णनमिदम् । मुग्धभावो बाल्यात्मूढभावः । ********** टीका सम्पूर्णा ********** अथ शोभा-- रूपयौवनलालित्यभोगाधैरङ्गभूषणम् ॥ ३.९५ ॥ शोभा प्रोक्ता-- तत्र यौवनशोभा यथा-- "असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे" ॥ ************* टीका ************* विज्ञप्रिया (वि, फ)रूपयौवनेति---रूपातिचतुर्भिरङ्गभूषणमङ्गशोभा । असम्भृतं मण्डनमिति--सा पार्वती अथ अनन्तरं बाल्यात्परं वयः यौवनं प्रपेदे । वयसि रूपकाण्याह--असम्भृतमिति हरितालादि संभारजनितमङ्गयष्टेर्मण्डनम् । मदस्य मत्ततायाः कारणं हेतुः । अनासवाख्यमासवस्य मदिराया या आख्या संज्ञा तद्रहितमासवभिन्नमितियावत् । पुष्पभिन्नं कामस्य अस्त्रमङ्गभूषणमङ्गशोभा असम्भृतमण्डनमिति । अथानन्तरम् । ********** टीका सम्पूर्णा ********** एव मन्यत्रापि । अथ कान्तिः-- सैव कान्तिर्मन्यथाष्यायितद्युतिः । मन्मथोन्मषेणातिविस्तीर्णा शोभैव कान्तिरुच्यते । यथा-- "नेत्रे खञ्जनगञ्जने--" इत्यत्र । ************* टीका ************* विज्ञप्रिया (वि, ब) नेत्रे खञ्जनेति । इदमुदाहरण प्ररूढयौवनायाः प्रगुक्तम् । ********** टीका सम्पूर्णा ********** अथ दीप्तिः-- कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ॥ ३.९६ ॥ यथा मम चन्द्रकलानामनाटिकायां चन्द्रकलावर्णनम्-- "तारुण्यस्य विलासः समधिकलावण्यसंपदो हासः । धरणितलस्याभरणं युवजनमनसो वशीकरणम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, भ) तारुण्यस्येति । एतदादीनि चन्द्रकलाया विशेषणानि । विलासहासयोर्जनिका इत्यर्थः । शुद्धसारोपा इयं लक्षणा । ********** टीका सम्पूर्णा ********** अथ माधुर्यम्-- सर्वावस्थाविशेषेषु माधुर्यं रमणीयता । यथा-- "सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोलर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमि हि मधुरणां मण्डनं नाकृतीनाम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, म) सरसिजमिति--इयं शकुन्तला वल्कलेनापि अधिकमनोज्ञा । अतो मधुराणामाकृतीनां किमिव मण्डनम्, तत्र दृष्टान्तमाह---सरसिजमिति--अनुविद्धं सम्बद्धम् । लक्ष्म कलङ्कः । लक्ष्मीं शोभाम् । ********** टीका सम्पूर्णा ********** अथ प्रगल्भता-- निःसाध्वसत्वं प्रागलभ्यम्-- यथा-- "समाश्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि । दष्टाश्च दंशनैः कान्तं दासीकुर्वन्ति योषितः" ॥ अथौदार्यम्-- --औदार्यं विनयः सदा ॥ ३.९७ ॥ यथा-- "न ब्रूते परुषां गिरं वितनुते न भ्रयुगं भङ्गरं, नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटेऽप्यागसि । कान्ता गर्भगृहे गावाक्षविवरव्यापारिताक्ष्या बहीः सख्या वक्त्रमभिप्रयच्छति परं पर्यश्रुणी लोचने" ॥ ************* टीका ************* विज्ञप्रिया (वि, य) न ब्रूते इति । प्रयायाश्चरितं सख्यौ कथयत उत्किरियम् । मे मम स्फुटेऽप्यागसि अपराधे स्कान्ता सख्या वक्त्रमभि सख्या वक्त्रे पर्य्यश्रुणी लोचने प्रयच्छति । सख्याः कीदृशयाः सागसं मां द्रष्टुं गवाक्षविवरव्यापारिताक्ष्याः । मन्तु परुषं रुषा न ब्रूते इत्यादि स्पष्टम् । क्षितौ श्रवणतः उत्तंसं क्षिपतीत्यन्वयः । ********** टीका सम्पूर्णा ********** अथ धैर्यम्-- मुक्तात्मश्लाघना धैर्यं मनोवृत्तिरचञ्चला । यथा--ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी, दहतु मदनः, किंवा मृत्योः परेण विधास्यति । मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, र) मुक्तात्मश्लाघनेति---अचञ्चला मनोवृत्तिर्या मुक्तात्मश्लाघना सा धैर्य्यमिति भावः । ज्वलतु इति गौरिकाविवाहे उद्वेजमानायास्तत्र संमितायाः मालत्या उक्तिरियम् । मम विरहोद्दीपनाय रात्रौ अखण्डकलः शशी ज्वलतु । मदनोऽपि मां दहतु । मृत्योः परेण कर्मणा किंवा तेन विधास्यते । वरं मृत्युरेव विधीयते॑ तथापि पितृमातृकुलकलङ्कं न जनयिष्यामि इत्यभिप्रायेणाह---मम त्विति । अतस्तु मयि मम दयितः द्रयायोग्यो यतः ख्लाघ्यः निष्कलङ्कः । अतस्तत्कलङ्कं न जनयिष्यामीत्यर्थः । एवममलान्वया मम जनन्यपि दयितेत्यर्थः । नत्वेवायं जनो माधवः दयितो जीवितञ्च न दयितमित्यर्थः । ********** टीका सम्पूर्णा ********** अथ लीला-- अङ्गैर्वेषैरलङ्कारैः प्रेमिभिर्वचनैरपि ॥ ३.९८ ॥ प्रीतिप्रयोजितैर्लोलां प्रियस्यानुकृतिं विदुः । यथा--मृणालव्यालवलया वेणीबन्धकपर्दिनी । हारनुकारिणी पातु लीलया पार्वती जगत् ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) अङ्गैर्वेषैरिति । प्रीतिप्रयोजितैरङ्गादिभिः प्रयस्यानुकृतिं सदृशाचरणं लीलां विदुरित्यर्थः । मृणालेति । मृणालात्मकसर्पवलया । वेणीबन्धात्मककपर्दिनी पार्वती सर्पवलयस्य जटावतो हरस्यानुकारिणी जगत्पात्वित्यन्वयः । ********** टीका सम्पूर्णा ********** अथ विलासः-- यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् ॥ ३.९९ ॥ विशेषस्तु विलासः स्यादिष्टसन्दर्शनादिना । यथा-- "अत्रान्तरे किमपि वाग्विभवातिवृत्तवैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद्भूरिसात्त्विकविकारमपास्तधैर्यमाचार्यकं विजयि मान्मथमाविरासीत्" ॥ ************* टीका ************* विज्ञप्रिया (वि, व) यानासनेति । इष्टसंदर्शनादिना यानादीनां विशेष इत्यन्वयः । यानं गमनम् । विशेषो हर्षसूचकं वैलक्षण्यम् । अत्रान्तर इति---वकुलवीथ्यामुपविष्टं माधवं विलोक्य गजेन यान्त्या मालत्या हर्षक्रियां मकरन्दे कथयतः माधवस्योक्तिरियम् । अत्रान्तरे पूर्वकथितवृत्तान्तमध्ये आयताक्ष्या मालत्यास्तन्मयानुभूतम्॑ मान्मथमाचार्य्यकं मन्मथाचार्य्योपदिष्टक्रियाऽविरासीदित्यर्थः । कीदृशं वाग्विभवातिक्रान्तवैचित्र्यं स्पष्टमन्यत् । लोचना (लो, उ) अत्रान्तरे इति । मन्मथस्याचार्यकमाचार्यकत्वं भावशिक्षाविशेषः । मन्मथदेवाराधनेन यं यं भावविशेषमधिगतवती तं तं तत्र प्रकाशितवतीत्यर्थः । ********** टीका सम्पूर्णा ********** अथ विच्छत्तिः-- स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् । यथा-- "स्वच्छाम्भः स्नपनविधौतमङ्गमोष्टस्ताम्बूलद्युतिविशदो विलासिनीनाम् । वासस्तु प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः" ॥ ************* टीका ************* विज्ञप्रिया (वि, श) स्तोकापीति । कान्तिपोषिका स्तोकापि आकल्परचना अल्पापि वेशरचनेत्यर्थः । स्वच्छाम्भ इति--विलासिनीनामाकल्पो वेशः कुसुमेषुणा यदि न शून्यः तदा इयानप्यस्तु । स क इत्यत्राह--स्वच्छेति--स्वच्छाम्भसि स्नपनेन विधौतं विक्षालितमङ्गम् । ओष्ठश्च ताम्बूलद्युतिविशदः । प्रतनु सूक्ष्मं विविक्तं परिच्छिन्नं वासश्चेति । ********** टीका सम्पूर्णा ********** अथ विव्वोकः-- विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ॥ ३.१०० ॥ यथा-- "यासां सत्यपि सद्गुणानुसरणो दोषानुवृत्तिः परा, याः प्राणान् वरमर्पयन्ति, न पुनः सम्पूर्णदृष्टिं प्रिये । अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मक- स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसिदन्तु ते" ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) यासामिति---सत्यपि भावे वामाचरणशीलासु नायिकासु अनुरागिणः कस्यचिदुक्तिरियम् । दोषानुवृत्तिः दोषार्पणम् । तच्च गर्वात्चाटुं कारयितुं प्रियेपरं केवलं प्राणानर्पयन्तीति अन्वयः । न संपूर्णदृष्टिं गर्वात्कटाक्षमात्रम् । अत्यन्ताभिमते वस्तुनि सुरते । लोचना (लो, ऊ) अत्यन्ताभिमते इति--निषधात्मको विधिः किमनेनास्माकमित्याद्यनादरयुक्तमेवाभिमतवस्तुनः अपरिग्रह इत्यर्थः । ********** टीका सम्पूर्णा ********** अथ किलकिञ्चितम्-- स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् । साङ्कर्यं किलाकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् ॥ ३.१०१ ॥ यथा-- "पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः । कामिनः स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि" ॥ ************* टीका ************* विज्ञप्रिया (वि, स) पाणिरोधमिति । करभोरूः कामिनः पाणिरोधादिकमविरोधितेत्यादि विशिष्टं यथा स्यात्तथा कुरुते स्म । स्पष्टमन्यत् । ********** टीका सम्पूर्णा ********** अथ मोट्टायितम्-- तद्भावभाविते चित्ते वल्लभस्य कथादिषु । मोट्टायितमिति प्राहुः कर्णकण्डूयनादिकम् ॥ ३.१०२ ॥ यथा-- "सुभग ! त्वत्कथारम्भे कर्णकण्डूतिलालसा । उज्जृम्भवनाम्भोजा भिनत्त्यङ्गानि साङ्गना" ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) तद्भाव इति । वल्लभस्य कथादिषु प्रसङ्गेषु केनाप्यारभ्यमाणेषु तद्भावभाविते तदनुरागनिषोविते चित्ते सति कर्णकणअडूयनादिकं मोट्टायितमिति प्राहुः इत्यर्थः । कथासु इत्यादिपदादिङ्गितपरिग्रहः । कण्डूयनादिकमित्यादिपदादङ्गभङ्गीचरणभूमिलिखनपरिग्रहः । सुभगेत्यादि स्पष्टम् । ********** टीका सम्पूर्णा ********** अथ कुट्टमितम्-- केशस्तनाधरादीनां ग्रहे हर्षेऽपि सम्भ्रमात् । आहुः कुट्टमितं नाम शिरः करविधूननम् ॥ ३.१०३ ॥ यथा-- "पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे । पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण" ॥ ************* टीका ************* विज्ञप्रिया (वि, क्ष) पल्लवोपमिति इति---अभीष्टे प्रियेऽधरबिम्बं दष्टवति सति अर्थात्निषेधार्थं धूयमानेन करेण पर्य्यकूजीत्यन्वयः । कीदृशेन करेण तारस्वरलोलबलयेन । तदुत्प्रेक्षते--सरुजेवेति । धर्मिणोऽधरक्षतमेव तदवयवस्यापि करस्य रुकितिभावः । अधरबिम्बं कीदृशाम् ? उपमित्यर्थेन साम्येन पल्लवसपक्षम् । लोचना (लो, ऋ) पल्लवेति । पल्लवस्य उपमित्या साम्येन सपक्षम् । द्वयोरपि कराधरयोः पल्लवस्तु उपमानत्वेन निर्दिश्यते । ********** टीका सम्पूर्णा ********** अथ विभ्रमः-- त्वरया हर्षरागादेर्दयितागमनादिषु । अस्थाने विभ्रमादीनां विन्यासो विभ्रमो मतः ॥ ३.१०४ ॥ यथा-- "श्रुत्वायान्तं बहिः कान्तमसमाप्तविभूषया । भलेऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः" ॥ अथ ललितम्-- सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् । ************* टीका ************* विज्ञप्रिया (वि, क) सुकुमारतयेति---अङ्गानां विन्यासो विलक्षणन्यासः सुकुमारतया कोमलतया । ********** टीका सम्पूर्णा ********** यथा-- "गुरुतरकलनूपुरानुनादं सललितनतितवामपादपद्मा । इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम" ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) गुरुतरेत्यादिकं नर्त्तनक्रियाविशेषणम् । ललितं सुन्दरम्, नतु प्रकृतललितभावम्, नर्तनस्यैव तत्त्वात् । इतरत्पदम् । ********** टीका सम्पूर्णा ********** अथ मदः-- मदो विकारः सौभग्ययौवनाद्यवलेपजः ॥ ३.१०५ ॥ यथा-- "मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति । अन्यापि किं न खलु भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ग) मदो विकार इति । अवलेपो गर्वः । मा गर्वमिति--अन्यनायिकायाः पतिसौभग्याधीनगर्वं सूचयन्त्याः तत्सख्याः तत्सपत्न्यामुक्तिरियम् । हे साखि ! मम कपोलतले कान्तस्वहस्तलिखिता मञ्जरी पुष्पकलिका चकास्ति शोभते इति गर्व मा उद्वहम् । कथमित्यत आह--अन्यापीति । अन्या तव सपत्नी मम सखी किं कपोले तन्न लिखतीत्यत्राह । वैरीति--वेपथुरत्र मञ्जरीलिखनाधिकारणमलाभो नायिकाया एव पत्युर्भावातिशयदर्शनेन भावोदयात्--नतु लेखकस्य पत्युः पाणेः, तस्य गर्वितनायिकाविकारत्वाभावात् । लोचना (लो, ॠ) मा गर्वमिति । वेपथुः कान्तस्य हस्तसम्बन्धी । ********** टीका सम्पूर्णा ********** अथ विहृतम्-- वक्तव्यकालेऽप्यवचो व्रीडया विहृतं मतम् । यथा-- "दूरागतेन कुशलं पृष्टा नोवाच सा मया किञ्चित् । पर्यश्रुणी तु नयने तस्याः कथयाम्बभूवतुः सर्वम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, घ) दूरागतेनेति । सख्यौ सख्युरुक्तिरियम् । मया कुशलं पृष्टेत्यन्वयः सर्वमितिविरहाधीनं तत्तद्दुः खमित्यर्थः । ********** टीका सम्पूर्णा ********** अथ तपनम्-- तपनं प्रियविच्छेदे स्मरवेगोत्थचेष्टितम् ॥ ३.१०६ ॥ यथा मम-- "श्वासान्मुञ्चति भूतले विलुठति, त्वन्मार्गमालोकते, दर्घं रोदिति, विभिपत्य इतः क्षामां भुजावल्लरीम् । किञ्च, प्राणसमान ! काङ्क्षितवती स्वप्नेऽपि ते सङ्गमं, निद्रां वाञ्छति, न प्रयच्छति पुनर्दग्धो विधिस्तामपि" ॥ ************* टीका ************* विज्ञप्रिया (वि ङ) श्वासान्मुञ्चति इति । इयं विरहण्याश्चेष्टां नायके कथयत्या उक्तिः । हे तस्याः प्राणसमान ! तव विरहे तव प्रिया श्वासान्मुञ्चतीत्यादि । क्षामां क्षीणआं चेष्टान्तरकथनार्थमाह---किञ्चेति । तामपि निद्रामपि । लोचना (लो, ळ) किञ्चेति । प्रणसमानेति प्रियस्य सम्बोधनम् । ********** टीका सम्पूर्णा ********** अथ मौग्ध्यम्-- अज्ञानादिव या पृच्छा प्रतीतस्यापि वस्तुनः । वल्लभस्य पुरः प्रोक्तं मौग्ध्यं तत्तत्त्ववेदिभिः ॥ ३.१०७ ॥ यथा-- के द्रुमास्ते क्व वा ग्रामे सन्ति केन प्ररोपिताः । नाथ ! मत्कङ्गणन्यस्तं येषां मुक्ताफलं फलम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, च) अज्ञानादिवेति---प्रतीतस्यापि वस्तुनः अज्ञानादिव या वल्लभस्य पुरः पृच्छा इत्यर्थः । के द्रुमा इति । येषां फलं मुक्ताफलमित्यन्वयः । ********** टीका सम्पूर्णा ********** अथ विक्षेपः-- भूषाणामर्धरचना मिथ्या विष्वगवेक्षणम् । रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके ॥ ३.१०८ ॥ यथा-- "धम्मिल्लमर्धमुक्तं कलयति तिलकं तथासकलम् । किञ्चिद्वदति रहस्यं चकितं विष्वग्विलोकते तन्वी ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) भूषाणामिति---विष्वक्सर्वतो वृथान्वेक्षणमित्यन्वयः । दयिकान्तिके इति सर्वत्रान्वयः । धम्मिल्लमिति--संयतकेशम्, अर्द्धमुक्तम् । तिलकमसकलञ्च तन्वी कलयते कुरुते इत्यर्थः । अत्र पूर्वार्द्धं नायकानुरागोद्दीपकम्, परार्द्धं लज्जया । ********** टीका सम्पूर्णा ********** अथ कुतूहलम्-- रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम् । यथा-- "प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव । उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्का पदवीं ततान" ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) प्रसाधिकालम्बितमिति---इन्दुमत्या स्वयं वृतस्य अजस्य पुरीप्रवेशे दिदृक्षोः स्त्रियाः क्रियावर्णनमिदम् । प्रसाधिकया स्त्रिया आलम्बितमग्रपादं पदाग्रं द्रवरागमशुष्कालक्तकमेव काचित्पुरस्त्री आक्षिप्य आकृष्य उत्सृष्टलीलागतिः त्यक्तलीलागतिः सती पदवीमागवाक्षात्गवाक्षपर्य्यन्तमलक्तकाङ्कां ततानेत्यन्वयः । ********** टीका सम्पूर्णा ********** अथ हसितम्-- हसितं तु वृथाहासो यौवनोद्भेदसम्भवः ॥ ३.१०९ ॥ यथा-- "अकस्मादेव तन्वङ्गी जहास यदियं पुनः । नूनं प्रसूनवाणोऽस्यां स्वराज्यमधितिष्ठति ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) अवस्मादेवेति---इयं तन्वी यत्पुनरकस्मादेव जहास तेन इति पूरणादुत्तरार्द्धान्वयः । स्वाराज्यं स्वर्गराजत्वमियमेव स्वर्ग इति भावः । ********** टीका सम्पूर्णा ********** अथ चकितम्-- कुतोऽपि दयितस्याग्रे चकतं भयसम्भ्रमः । यथा-- "त्रस्यन्ती चलशफरीविघट्टितोरूर्वामोरूरतिशयमाप विभ्रमस्य । क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणो तरुण्यः ॥ ************* टीका ************* विज्ञप्रिया (वि, ञ) कुतोऽपीति---दयितस्याग्रे कुतोऽपि हेतोः भयसंभ्रमः व्याकुलता इत्यर्थः । अस्यन्तीति--दयितेन सह जलक्रीढायां नायिकायाभयविभ्रमवर्णनमिदम् । वामोरूः चलशफरीभिर्विघट्टितोरूः सती त्रस्यन्ती विभ्रमस्य विलासस्यातिशयमाप इत्यन्वयः । अर्थान्तरन्यासमाह क्षुभ्यन्तीति । अहो तरुण्यः हेतोर्विनापि लीलाभिः प्रततमतिशयं क्षुभ्यन्ति संचलन्ति कारणे तु सति किमु इत्यर्थः । ********** टीका सम्पूर्णा ********** अथ केलिः-- विहारे सह कान्तेन क्रीडितं कोलिरुच्यते ॥ ३.११० ॥ यथा-- "व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी" ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) व्यपोहितुमिति---काचिदुन्नतपीवरस्तनी उन्मनाः कामोद्विग्नमनाः प्रियमुरसि पीवरस्तनेन जघान । कीदृसं प्रियं पुष्पजं रजः तस्या लोचनतो मुखनिलैर्व्यपोहितुमपाकर्त्तुमपारयन्तम् । ********** टीका सम्पूर्णा ********** अथ मुग्धाकन्ययोरनुरागेङ्गितानि-- दृष्टवा दर्शयति व्रीङां सम्मुखं नैव पश्यति । प्रच्छन्नं वा भ्रमन्तं वातिक्रान्तं पश्यति प्रियम् ॥ ३.१११ ॥ बहुधा पृच्छ्यमानापि मन्दमन्दमधोमुखी । सगद्रदस्वरं किञ्चित्प्रियं प्रायेण भाषते ॥ ३.११२ ॥ अन्यैः प्रवर्तितां शश्वत्सावधाना च तत्कथाम् । शृणोत्यन्यत्र दत्ताक्षी प्रिये बालानुरागिणी ॥ ३.११३ ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) मुग्धाकन्ययोरनुरागेङ्गितानि स्पष्टानि । अथ मकलनायिकानुरागेङ्गितान्याह । संव्यानं वस्त्रम् (उत्तरीयम्) ********** टीका सम्पूर्णा ********** अथ सकलानामपि नायिकानामनुरागेङ्गितानि-- चिराय सविधे स्थानं प्रियस्य बहु मन्यते । विलोचनपथं चास्य न गच्छत्यनलङ्कृता ॥ ३.११४ ॥ क्वापि कुन्तलसंव्यानसंयमव्यपदेशतः । ************* टीका ************* विज्ञप्रिया (वि, ड) वागाद्यैरित्यादिपदात्ताम्बूलदानादिपरिग्रहः । ********** टीका सम्पूर्णा ********** बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत्स्फुटम् ॥ ३.११५ ॥ आच्छादयति वागाद्यैः प्रियस्य परिचारकान् । विश्वसित्यस्य मित्रेषु बहुमानं करोति च ॥ ३.११६ ॥ सखीमघ्ये गुणान् ब्रूते स्वधनं प्रददाति च । ************* टीका ************* विज्ञप्रिया (वि, ढ) स्वधनं ददाति च इत्यत्र याचकाय भत्ते इति शेषः । ********** टीका सम्पूर्णा ********** सुप्ते स्वपिति दुःखेऽस्य दुःखं धत्ते सुखे सुखम् ॥ ३.११७ ॥ स्थिता दृष्टिपथे शश्वत्प्रिये पश्यति दूरतः । ************* टीका ************* विज्ञप्रिया (वि, ण) प्रिये दूरतः पश्यति सति इति शश्वत्वारम्वारमस्य दृष्टिपथे स्थिता भवतीति शेषः । लोचना (लो, ए) स्थितेति । प्रियस्य दृष्टिपथे स्थिता तस्मिन् दूरतः पश्यति सति । मुग्धस्वरविकारादियुक्तपरिजनाभाषणादीनि स्वाधरदशनपर्य्यन्तानि कर्म्माणि करोति इत्यर्थः । यदि च प्रियस्य कथां कथयति तदाधोमुखी सती कथयति । ********** टीका सम्पूर्णा ********** आभाषते परिजनं सम्मुखं स्मरिविक्रियम् ॥ ३.११८ ॥ यत्किञ्चिदपि संवीक्ष्य कुरुते हसितं मुधा । ************* टीका ************* विज्ञप्रिया (वि, त) समुग्धस्वरविक्रियं मधुरस्वरविकारं यथा स्यात्तथा । ********** टीका सम्पूर्णा ********** कर्णकण्डूयनं तद्वत्कबरीमोक्षसंयमौ ॥ ३.११९ ॥ जृम्भते स्फोटयत्यङ्गं बालमाश्लिष्य चुम्बति । ************* टीका ************* विज्ञप्रिया (वि, थ) स्फोटयति लीलया भङ्गुरयति । बालचुम्बनं पतिसम्मुखे । ********** टीका सम्पूर्णा ********** भाले तथा वयस्याया रचयेत्तिलकक्रियाम् ॥ ३.१२० ॥ अङ्गुष्ठाग्रेण लिखति सकटाक्षं निरीक्षते । ************* टीका ************* विज्ञप्रिया (वि, द) सकटाक्षमिति । पूर्वं कटाक्षपूर्वकहासोक्तिः॑ इदानीं कटाक्षमत्रस्य इति भेद्रः । ********** टीका सम्पूर्णा ********** दशति स्वाधरं चापि ब्रूते प्रियमधोमुखी ॥ ३.१२१ ॥ न मुञ्चति च तं देशं नायको यत्र दृश्यते । ************* टीका ************* विज्ञप्रिया (वि, ध) अधरदंशनमपि लीलाविशेषः । ********** टीका सम्पूर्णा ********** आगच्छति गृहं तस्य कार्यव्याजेन केनचित् ॥ ३.१२२ ॥ ************* टीका ************* विज्ञप्रिया (वि, न) आगच्छति गृहं तस्येति भिन्नगृहस्थितस्य इत्यर्थः । ********** टीका सम्पूर्णा ********** दत्तं किमपि कान्तेन धृत्वाङ्गे मुहुरीक्षते । लोचना (लो, ऐ) दत्तमिति । किमपि तुच्छमपि वस्तु । ********** टीका सम्पूर्णा ********** नित्यं हष्यति तद्योगे वियोगे मलिना कृशा ॥ ३.१२३ ॥ मन्यते बहु तच्छीलं तत्प्रियं मन्यते प्रियम् । प्रार्थयत्यल्पमूल्यानि सुप्ता न परिवर्तते ॥ ३.१२४ ॥ ************* टीका ************* विज्ञप्रिया (वि, प) प्रार्थयत्यल्पमूलानीति--बहुमूल्यप्रार्थने तदप्रीतिभयमित्यर्थः । ********** टीका सम्पूर्णा ********** विकारान् सात्त्विकानस्य सम्मुखी नाधिगच्छति । ************* टीका ************* विज्ञप्रिया (वि, फ) सम्मुखं नाधिगच्छति किन्तु पार्श्वस्था एव इत्यर्थः । ********** टीका सम्पूर्णा ********** भाषते सूनृतं स्निग्धामनुरक्ता नितम्बिनी ॥ ३.१२५ ॥ एतेष्वधिकलज्जानि चेष्टितानि नवस्त्रियाः । लोचना (लो, ओ) एतेषु अनुरागेङ्गितेषु मध्ये । ********** टीका सम्पूर्णा ********** मध्यव्रीडानि मध्यायाः स्त्रंसमानत्रपाणि तु ॥ ३.१२६ ॥ आन्यस्त्रियाः प्रगल्भायास्तथा स्युर्वारयोषितः । दिङ्मात्रं यथा-- "अन्तिकगतमपि मामियमवलोकयतीव इन्त ! दृष्ट्वापि । सरसनखक्षतलक्षितमाविष्कुरुते भुजामूलम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) अन्तिकगतमपीति । सख्यौ सक्युरुक्तिरियम् । हन्त हर्षे दृष्ट्वापि इयं प्रियान्तिकगतमपि मामलोकयन्तीव अपश्यन्तीव सरसनखक्षतेन लक्षितं चिह्नितं भुजामूलं बाहुमूलमाविष्कुरुत इत्यर्थः । ********** टीका सम्पूर्णा ********** तथा-- लेख्यप्रस्थापनैः स्निग्धैर्वोक्षितैर्मृदुभाषितैः ॥ ३.१२७ ॥ दूतीसम्प्रेषणैर्नार्या भावाभिव्यक्तिरिष्यते । दूत्यश्च-- दूत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी ॥ ३.१२८ ॥ बाला प्रव्रजिता कारूः शिल्पिन्याद्यः स्वयं तथा । कारू रजकीप्रभृतिः । शिल्पिनी चित्रकारादिस्त्री । आदिशब्दात्ताम्बूलिकगान्धिकस्त्रीप्रभृतयः । तत्र सखी यथा-- "श्वासान्मुञ्चति--" इत्यादि । स्वयंदूती यथा मम-- "पन्थिअ पिआसिओ विअ लच्छीअसि जासि ता किमण्णत्तो । ण मणं वि वारओ इध अत्थि धरे घणरसं पिअन्ताणं" ॥ ************* टीका ************* विज्ञप्रिया (वि, भ) स्वयं तथेति स्वयमपि दूती । पन्थिअ इति । पथिक ! पिपासुरिव लक्ष्यसे यासि तत्किमन्यत्र । न मनागपि वारक इहास्ति गृहे घनरसं पिबताम् ॥ इति संस्कृतं मनाकल्पः । घनरसं जलम् । व्यङ्ग्यार्थस्तु त्वं पिपासू रसस्वादेच्छुः । घनरसं सुखेन निहितं शृङ्गाररसं पिबतामास्वादयताम् । वारकोऽल्पोऽपि नास्तीत्यर्थः । लोचना (लो, औ) पन्थिअ इति । पथिक ! पिपासुरिव लक्ष्यसे यासि तत्किमन्यत्र । न मनागपि वारक इहास्ति गृहे घनरसं पिबताम् ॥ घनरसं जलम् । व्यङ्ग्यार्थश्च घनरसां मामनिबारितमुपभुङ्क्ष्व । ********** टीका सम्पूर्णा ********** एताश्च नायिकाविषये नायकानामपि दूत्यो भवन्ति । दूतीगुणानाह-- कलाकौश्लमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः ॥ ३.१२९ ॥ माधुर्यं नर्मविज्ञानं वाग्मिता चेत तद्गुणाः । एत अपि यथैचित्यादुत्तमाधममध्यमाः ॥ ३.१३० ॥ एतादूत्यः । अथ प्रतिनायकः-- धीरोद्धतः पापकारी व्यसनी प्रतिनायकः । ************* टीका ************* विज्ञप्रिया (वि, म) प्रतिनायक इति वीररौद्ररसयोरित्यर्थः । ********** टीका सम्पूर्णा ********** यथा रामस्य रावणः । अथेद्दीपनविभावाः-- ************* टीका ************* विज्ञप्रिया (वि, य) इत्थमालम्बनविभावप्रदर्शनं समाप्य उद्दीपनविभावमाह--अथेति । लोचना (लो, अ) एवं सपरिकरं विभावस्य आलम्बनाख्यं भेदं निरूप्य उद्दीपनाख्यं भेदं निरूपयन्नाह--अथोर्द्दापनेत्यादि । ********** टीका सम्पूर्णा ********** उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये ॥ ३.१३१ ॥ ते च-- आलम्बनस्य चेष्टाद्या देशकालादयस्तथा । चेष्टाद्या इत्याद्यशब्दाद्रूपभाषणादयः । कालादीत्यादिशब्दाच्चन्द्रचन्दनकोकिलालापभ्रमरझंकारादयः । तत्र चन्द्रोदयो यथा मम-- "करमुदयमहीधरस्तनाग्रे गलिततमः पटलंशुके निवेश्य । विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः" ॥ ************* टीका ************* विज्ञप्रिया (वि, र) करमुदयमहीधरेति---अयं सुधांशुः अमरेशस्य इन्द्रस्य दिशः प्राच्याः मुखं विचुम्बति । किं कृत्वा गलितं तमः पटलरूपमंशुकं यस्मात्तादृशे उदयमहीधररूपस्य स्तनस्याग्रे करं रश्मिमेव करं निवेश्य । यद्यप्यत्र चन्द्रो नायक एव न उद्दीपनविभावः । तथापि चन्द्रदिशोर्नायकनायिकयोर्वृत्तान्तदर्शनातुद्दीप्तस्य वक्तृशृङ्गारस्य चन्द्र उद्दृपकः । स्फुटमुदाहरणन्तु--- कर्पूरधूलधवलद्युतिपूरधौत-- दिङ्मण्डले शिशिररोचिषि तस्य यूनः । लीलाशिरोंऽशुकनिवेशविशेषकॢप्ति-- व्यक्तस्तनोन्नतिरभून्नयनावनौ सा ॥ इति लोचना (लो, आ) करमुदयेति-करं किरणं हस्तश्च कुमुदानामीक्षणं दर्शनं पक्षे कुमुदमेव ईक्षणं चक्षुर्यत्र । एवंविधः चन्द्रः प्रकरणस्थं शृङ्गारादिरसमुद्दीपयति । ********** टीका सम्पूर्णा ********** यो यस्य रसम्योद्दीपनविभावः स तत्स्वरूपवर्णने वक्ष्यते । अथानुभावाः-- उद्बुद्धं कारणैः स्वैबहिर्भावं प्रकाशयन् ॥ ३.१३२ ॥ लोके यः कार्यरूपः सोऽनुभावः काव्यनाट्ययोः । ************* टीका ************* विज्ञप्रिया (वि, ल) इत्थं विभावान् समाप्य अनुभावानाह । अथ अनुभावा इति । उद्बुद्धमिति । स्वैः स्वैः कारणैः उद्बुद्धं भावं रत्यादिकं बहिः प्रकाशयनित्यर्थः । बहिर्दृष्टः सन् रत्यादिभावं सामाजिके प्रकाशयन्नित्यर्थः । लोचना (लो, इ) उद्देशकमप्राप्तमनुभावं निरूपयितुमवतारयति । अथेति---उद्बुद्धमिति रामादेर्वासनान्तर्लोनस्य रत्यादिभावनस्य उद्वोधं बहिः प्रकटयन्नित्यर्थः । ********** टीका सम्पूर्णा ********** यः खलु लोके सीतादिचन्द्रादिभिः स्वैः स्वैरालम्बनोद्दीपनकारणे रामादेरन्तरुद्बुद्धं रत्यादिकं बहिः प्रकाशयन् कार्यमित्युच्यते, स काव्यनाट्ययोः पुनरनुभावः । कः पुनरसावित्याह-- उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावजाः ॥ ३.१३३ ॥ तद्रूपाः सात्त्विका भावास्तथा चेष्टाः परा अपि । ************* टीका ************* विज्ञप्रिया (वि, व) उक्ताः स्त्रीणमिति---अङ्गजाः स्वाभाविकाश्च ये स्त्रीणामष्टाविंशतिरलङ्काराः सात्त्विका उक्ताः तथा अपरा अपि तासां पुंसां वा याः चेष्टाः वक्ष्यमाणास्ताः सर्वाः सात्त्विकास्तद्रूपा अनुभावरूपा इत्यर्थः । लोचना ********** टीका सम्पूर्णा ********** तद्रूपा अनुभावस्वरूपाः । तत्र यो यस्य रसस्यानुभावः स तत्स्वरूपवर्णने वक्ष्यते । तत्र सात्त्विकाः-- विकाराः सत्त्वसंभूताः सात्त्विकाः परिकीर्तिताः ॥ ३.१३४ ॥ सत्त्वं नाम स्वात्मविश्रामप्रकाशकारी कश्चनान्तरो धर्मः । ************* टीका ************* विज्ञप्रिया (वि, श) आत्मविश्रमेति---रजस्तमोऽधीनविकारराहित्येन आत्मनः स्थितिः विश्रामः । तत्प्रकाशः तदुत्पत्तिस्तत्कारीत्यर्थः । लोचना (लो, ई) कश्चनान्तरो धर्म्मः सच परगतदुः खहर्षादिभावनायामत्यन्तानुकूलान्तः करणत्वम् । तस्य च समाहितमनस्त्वेन राघवादि समानदान्तरत्वम् । ********** टीका सम्पूर्णा ********** सत्त्वमात्रोद्भवत्वात्ते भिन्ना अष्यनुभावतः । "गोबलीवर्द्दन्ययेन" इति शेषः । के त इत्याह-- स्तम्भः स्वेदोऽथ लोमाञ्चः स्वरभङ्गोऽथ वेपथुः ॥ ३.१३५ ॥ वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः । ************* टीका ************* विज्ञप्रिया (वि, ष) ते भिन्ना इति---लोके यः कार्यरूपः सोऽनुभाव इत्यनेन रत्यादेः कार्यमात्रस्यैवानुभावत्वभुक्तम् । उक्तसात्विकभावानामपि तत्कार्यकृतनुभावतो भिन्ना इत्यर्थः । ननु किं तर्हि सात्त्विकेन पृथगुपादानमित्यत आह---गोबलीवर्देति । गोत्वेन प्राप्तस्यापि बलीवर्दस्यैव कार्यत्वेन प्राप्तनामिपि सात्त्विकानां प्राशस्त्यार्थं पृथगुपादानमित्यर्थः । प्रशास्त्यञ्च अन्यकार्यापेक्षया रत्यादिप्रकर्षबोधकत्वरूपं प्राधान्यम् । तथा अपरा अपि सात्त्विका इति यदुक्तं तान् पृच्छति । के ते इत्यष्टाविति---इत्यष्टावपीत्यर्थः । लोचना (लो, उ) गोबलीवर्द्दन्यायेन तु स्वरूपेण । ********** टीका सम्पूर्णा ********** तत्र-- स्तम्भश्चेष्टाप्रतीघातो भहर्षामयादिभिः ॥ ३.१३६ ॥ वपुर्जलोद्रमः स्वेदो रतिघर्मश्रमादिभिः । हर्षाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया ॥ ३.१३७ ॥ मदसंमदपीडाद्यैर्वैस्वर्यं गद्रदं विदुः । रागद्वेषश्रणादिभ्यः कम्पो गात्रस्य वेपथुः ॥ ३.१३८ ॥ विषादमदरोषाद्यैर्वर्णान्यत्वं विवर्णता । अश्रु नेत्रोद्रवं वारि क्रोधदुःखप्रहर्षजम् ॥ ३.१३९ ॥ प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः । ************* टीका ************* विज्ञप्रिया (वि, स) आमयादिभिरित्यत्र आमयो रोगः आदिपदात्शोकपरिग्रहः । इतिधर्म्मेत्यत्र घर्म्म आतपः, आदिपदात्ज्वरपरिग्रहः भयादिभ्य इत्यत्र आदिपदात्शीतपरिग्रहः । मदसंमदेत्यत्र मदो मत्तता सम्मदो हर्षः । पीडाद्यैरित्यादिपदातत्यन्तरुदितपरिग्रहः । चेष्टाज्ञानयोर्निराकृतिरनुत्पादः । लोचना (लो, ऊ) सम्मदो हर्षः । चेष्टाज्ञानयोर्निराकृतिरभावः । ********** टीका सम्पूर्णा ********** यथा मम--तनुस्पर्शादस्या दरमुकुलिते हन्त ! नयने उदञ्चद्रोमाञ्चं व्रजति जडतामङ्गमखिलम् । कपोलौ घर्मार्द्रै ध्रुवमुपरताशेषविषयं मनः सान्द्रानन्दं स्पृशति झटिति ब्रह्म परमम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) तनुस्पर्शादस्या इति । अस्या नायिकायास्तनुस्पर्शान्नयनमुकुलादिकपोलघर्म्मान्ता जाता इत्यर्थः । अतो ध्रुवं निश्चितमुपरताशेषविषयं त्यक्तसमस्तविषयं मनः परमं ब्रह्म झटिति स्पृशतीत्यर्थः । अत्र पुसो रोमाञ्चादयस्त्रयः सात्त्विकाः । ********** टीका सम्पूर्णा ********** एवमन्यत् । अथ व्यभिचारिणः-- विशेषादाभिमुख्येन चरणाद्व्यभिचारिणः । स्थायिन्युन्मग्ननिर्मग्नास्त्रयस्त्रिंशच्च तद्भिदाः ॥ ३.१४० ॥ ************* टीका ************* विज्ञप्रिया (वि, क्ष) स्थायिन्युन्मग्न इति---स्थायिनि रत्यादौ आभिमुख्येन इत्यन्वयः आभिमुख्यञ्च आस्वादविशेषव्यञ्जने सहायत्वम् । केचित्तु चित्तपरं स्थायिपदम् । तत्र उन्मग्नेत्यादिरर्थ इत्याहुः । लोचना (लो, ऋ) अथ व्यभिचारिणः उद्देशकमप्रप्त्या इति शेषः । इत्यादौ तु लवणाकरप्राये निर्वेदादयो बुद्बुद्प्रायाः । ते त्र्यधिकत्निंशत्प्रकारा व्यभिचारिण इत्यर्थः । ********** टीका सम्पूर्णा ********** स्थिरतया वर्तमाने हि रत्यादौ निर्वेदादयः प्रादुर्भावतिरोभावाभ्यामाभिमुख्येन चरणाद्व्यभिचारिणः कथ्यन्ते । के त इत्याह-- ************* टीका ************* विज्ञप्रिया (वि, क) उन्मग्नेत्यादयो व्याख्यायन्ते---स्थिरतयेति । प्रादुर्भावेत्युन्मग्नतायास्तिरोभावेति निर्मग्नतायाः व्याख्या । प्रादुर्भावतिरोभावौ चोत्पत्तिविनाशौ एव॑ न तु प्रकाशाप्रकाशौ । मरणादेस्तथात्वाभावात् । ********** टीका सम्पूर्णा ********** निर्वेदावेगदैन्यश्रममदजडता औग्र्यमोहौ विबोधः स्वष्नापस्मारगर्वा मरणमलसतामर्षनिद्रावहित्थाः । औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसत्रासलज्जा हर्षासूयाविषादाः सधूतिचपलता ग्लानिचिन्तावितर्काः ॥ ३.१४१ ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) स्मृतिमतिसहिता इत्यस्य विषादा इत्यस्यान्वयः । साहित्यञ्च उक्तावेव नतु एषां परस्परसाहित्यम् । एकैकस्य तथात्वात् । लोचना (लो, ॠ) के किमाख्याः ? एते च निर्वेदादयो वितर्कान्ता भावा उद्देशतस्त्रयत्रिंशदुक्ताः । अन्याः चित्तस्य वृत्तय एषामेव वक्ष्यमाणविभावानुभावरूपतया एष्वेवान्तर्भवितुमर्हन्तील्यर्थः । ********** टीका सम्पूर्णा ********** तत्र निर्वेदः-- तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमाननम् । दैन्यचिन्ताश्रुनिः श्वासवैवर्ण्योच्छवसितादिकृत् ॥ ३.१४२ ॥ ************* टीका ************* विज्ञप्रिया (वि, ग) तत्त्वज्ञानेति---तत्त्वज्ञानापदीर्ष्यादेरिति आदिपदात्योगाभ्यासप्रवृत्तेश्च स्वस्यावमाननमित्यर्थः । ********** टीका सम्पूर्णा ********** तत्त्वज्ञानान्निर्वेदो यथा-- लोचना (लो, ळ) तत्त्वेति---अयमर्थः । निर्वेदाख्यसंचारिभावस्य स्वस्यात्मनोऽवमानस्वरूपम् । सच तत्वज्ञानादेर्विभावादुत्पद्यते । दैन्यादिकमनुभावं करोति । उच्छ्वासो निश्वास एव मुहुरुत्कटतया उपलब्धः । एवमेषाञ्च सर्वेषामपि व्यभिचारिणां स्वरूपकथनप्रस्तावे विभावानुभावयोः कथनं वक्ष्यमाणस्वशब्दवाच्यत्वदोषरीत्या महाकविभिस्तद्रद्वारेण निर्देशेनापि महाकाव्येषु स्वप्रतिपत्त्यर्थम् । किंचैवं स्वरूपप्रितिज्ञानमपि अतिसुगमं भवतीत्याशयः । ********** टीका सम्पूर्णा ********** "मृत्कुम्भवालुकारन्ध्रपिधानरचनार्थिना । दक्षिणावर्तशङ्खोऽयं हन्त ! चूर्णोकृतो मया" ॥ ************* टीका ************* विज्ञप्रिया (वि, घ) मृत्कुम्भेति सुगमम् । अनेनान्यापदेशेन ऐहिकस्वल्पदुः खनिवारणाय कुकर्म कुर्वता मयाधमेन पारत्रिकात्यन्तसुखं विनाशितमिति लभ्यते । अत्र च स्वस्य कुकर्मकारित्वेन निन्दा स्वावमाननमेव । लोचना (लो, ए) मृत्कुम्भेति । अत्र तुच्छसंसारभोगप्रवणतया निः श्रेयससाधनसमर्थोऽयं देहो मया नाशितः । तन्मां धिगिति स्वावमाननम् । ********** टीका सम्पूर्णा ********** अथावेगः-- आवेगः संभ्रमस्तत्र वर्षजे पिण्डिताङ्गता । उत्पातजे स्त्ररतताङ्गे, धूमाद्याकुलताग्निजे ॥ ३.१४३ ॥ राजविद्रवजादेस्तु शस्त्रनागादियोजनम् । गजादेः स्तम्भकम्पादि, पांस्वाद्याकुलतानिलात् ॥ ३.१४४ ॥ इष्टाद्धर्षाः, शुचोऽनिष्टाज्ज्ञेयाश्चान्ये यथायथम् । ************* टीका ************* विज्ञप्रिया (वि, ङ) आवेग इति । अतर्कितवस्तूपस्थित्या व्याकुलता संभ्रमः । विभिन्नकारणजन्यस्य तस्य कार्याणि विभिन्नान्याह । वर्षजेति । वर्षजे तस्मिन् सति पिण्डिताङ्गता भवतीत्यर्थः । लोचना (लो, ऐ) वर्षजे वृष्टिभवे स्त्रस्तता अनायत्ततया स्तब्धता । शस्त्रैः शरादिभिः, नागैर्गजैश्चमियोजनं समन्तादाक्रमणम् । अन्ये एतज्जनिता लोकप्रसिद्धाः श्रेष्टा इत्यर्थः । ********** टीका सम्पूर्णा ********** तत्र शत्रुजो यथा-- "अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः । क्षत्रकोपदहनार्चिषं ततः सन्धे दृशमुदग्रतारकम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, च) अर्य्यमर्घ्यमिति रामस्य शत्रुभावेन उपस्थितं परशुरामं दृष्टवा दशरथस्य संभ्रमादुक्तिः । प्रथमचरणं कथयन्तं दशरथमनादृत्य भताग्रजो रामः यतो यस्यां दिशि वर्त्तते तत्रोदग्रतारकां दृशं संदधे सन्निहितवान् । कीदृशीं दृश क्षत्रकोपदहनस्यार्च्चिः स्वरूपाम् । अत्र विद्रावणादेरित्यादिपदग्राह्यमुनिजन्ये संभ्रमे सति अर्घ्यानयनादित्वम् । लोचना (लो, ओ) अर्ध्यमित्यत्र प्रथमपादे एवावेगः । ********** टीका सम्पूर्णा ********** एवमन्यदूह्यम् । अथ दैन्यम्-- दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादिकृत् ॥ ३.१४५ ॥ लोचना (लो, औ) दैर्गत्यं दारिद्र्यम् । अनौजस्यमोजो हानिः । ********** टीका सम्पूर्णा ********** यथा-- "वृद्धोऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं, कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो । यत्नात्सञ्चिततैलबिन्दुघटिका भग्नेति पर्याकुला दृष्ट्वा गर्भभरालसं निजबधूं श्वश्रूश्चिरं रोदिति" ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) दौर्गत्याद्यैरित्यादि । आद्यपदातिष्टालाभेन चिन्तया च । अनौजस्यं दुर्बलता । वृद्धोऽन्ध इति---वृद्धान्धदरिद्रभर्त्तृकायाः प्रोषितपुत्रायाः तैलघटिकाभङ्गेन रोदनस्य वर्णनमिदम् । स्थूणास्तम्भः उपरिपटलभङ्गेन तदवशेषता । वत्सस्य पुत्रस्य प्रोषितस्य । तैलबिन्दुर्नतु बहुतैलम्, तच्च वधूप्रसवार्थं सञ्चितम् । ********** टीका सम्पूर्णा ********** अथ श्रमः-- खेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः । यथा-- "सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी सीता जवात्र्त्रिचतुराणि पदानि गत्वा । लोचना (लो, अ) त्रीणि च चतुराणि च त्रिचतुराणि । ********** टीका सम्पूर्णा ********** गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) सद्यः पुरीति---वनवासे चलितायाः सीतायाः पुरीवहिरेव वर्णनमिदम् । परिसरेषु समीपेषु । प्रथमावतारमिति । सीताहरणे तूत्तरोत्तरं बह्वश्रुपातः स्यात् । ********** टीका सम्पूर्णा ********** अथ मदः-- संमोहानन्दसंभेदो मदो मद्योपयोगजः ॥ ३.१४६ ॥ अमुना चोत्तमः शेते मध्यो हसति गायति । अधमप्रकृतिश्चापि परुषं वक्ति रोदिति ॥ ३.१४७ ॥ यथा-- "प्रातिभं त्रिसरकेण गतानां वक्रवाक्यारचनामणीयः । गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः" ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) सम्मोहानन्देति---प्रकृतबुद्धितोऽन्यादृशबुद्धिः सम्मोहः । सम्भेदो मिलनम् । अमुनेति---अमुना मदेन उत्तमादयो मद्यपातारः । प्रातिभमिति त्रिसरकं मधुमदिरा तेन प्रतिभं प्रतिभासमूहं गतानां सुभ्रुवां परिहासः प्रववृते । गूढसूचितरहस्यवृत्तान्तश्चासौ सहसश्च इति विग्रहः । अत्र प्रतिभासमूहप्राप्त्या वक्रवाक्येन मधुमद्योपयोगवशात्प्रकृतबुद्ध्यादृशबुद्धिः परिहासहासाभ्यां चानन्दः । लोचना (लो, आ) सम्मोहानन्दयोः संभेदो मिश्रणः । प्रतिभा एव प्रातिभम् । त्रिविधः सरको मधु "गौडी माध्वी पैष्टीऽ च । ********** टीका सम्पूर्णा ********** अथ जडता-- अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ॥ ३.१४८ ॥ यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये-- "णवरिअ तं जुअजुअलं अण्णोण्णं णिहिदसजलमन्थरदिटिंठ । आलेक्खओपित्र्त्रं विअ खणमेत्तं तत्थ संट्ठिअं मुअसण्णां" ॥ ************* टीका ************* विज्ञप्रिया (वि, ञ) णवरि तमिति--- केवलं तद्युवयुगलमन्योऽन्यनिहितसजलमन्थरदृष्टि । आलेख्यार्पितमिव क्षणमात्रं तत्र स्थितमासन्नकम् ॥ इति संस्कृतम् । चिरप्रवासागतपतिगृहस्थितपत्नीरूपं तद्युवयुगलं च केवलमालेख्यार्पितभिव क्षणमात्रमासन्नकं तत्र स्थितमित्यर्थः । चिरप्रवासागतपतिगृहस्थितपत्निरूपं तत्युवयुगलम् । नवरिशब्दः केवले देशी । कीदृशमन्योऽन्यनिहितसजलमन्थरदृष्टि । अत्रेष्टदर्शनाज्जडता । लोचना (लो, इ) णवरीति--अनन्तरं तत्युवयुगलमन्योन्यनिक्षिप्तसजलमन्थरदृष्टि । आलेख्यार्पितभिव क्षणमात्रं स्थितम उक्तसंज्ञम् । युवा च युवतिश्च युवानौ तयोर्युगलम् । अत्रेष्टदर्शनात्जडता । एवम ********** टीका सम्पूर्णा ********** अथोग्रता-- शौर्यापराधादिभवं भवेच्चण्डत्वमुग्रता । तत्र स्वेदशिरः कम्पतर्जनाताडनादयः ॥ ३.१४९ ॥ यथा-- "प्रणयिसखीसलीलपरिहासरसाधिगत- र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् । वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) मालतीं छेत्तुमुद्यतमघोरघण्टं प्रति माधवस्योक्तिरियम् । यदस्या मालत्या वपुः प्रणयिनीनां सखीनां सीलपारहासरसेनाधिगतैर्ललितशिरीषपुष्पहननैरपि ताम्यति । अत्र वपुषि वधाय शस्त्रमुपक्षिपतस्तव शिरसि मम एष भुजोऽकाण्डयमदण्ड इव पततु इत्यर्थः । अकाण्ड आकस्मिकः । अत्र माधवस्य शौर्यमघोरघण्टस्यापराधः । चण्डत्वं माधवस्य । ********** टीका सम्पूर्णा ********** अथ मोहः-- मोहो विचित्तता भीतिदुः खावेगानुचिन्ततैः । मूर्च्छनाज्ञानपतनभ्रमणादर्शनादिकृत् ॥ ३.१५० ॥ यथा-- "तिव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणामज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव" ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) मोह इति । विचित्तता विषयात्विगतचित्तता ज्ञानलोप इति यावत् । तीव्राभिषङ्गेति--हरेण दग्धे कामदेवे रतिर्मोहेन ज्ञानलोपात्क्षणं कृतो पकारेव बभुव । उपकारं दर्शयति---उज्ञानेति । मोहेन कीदृशेन तीव्रेणाभिषङ्गेण आपदा (पतिमृन्युना ) जानितेन । पुनः कीदृशेन । इन्द्रियाणां वृत्तिं ग्राहकतां संस्तम्भयता प्रतिबघ्नता । लोचना (लो, ई) तीव्रति । अभैषङ्गः पराभवः । ********** टीका सम्पूर्णा ********** अथ विबोधः-- निद्रापगमहेतुभ्यो विबोधश्चेतनागमः । जम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत् ॥ ३.१५१ ॥ यथा-- "चिररतिपरिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः । अपरिचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) चिररतिपरिखेदेति । तरुण्यः चरमं नायकशयनतः पश्चाद्शयित्वा तज्जागरणात्पूर्वमेव प्रबुद्धाप्यपरिचलितगात्राः सत्यः प्रियाणामशिथिलभुजचक्रस्य आश्लेषभङ्गं न कुर्वते इत्यर्थः । अत्र विबोधः वाच्य एव । ********** टीका सम्पूर्णा ********** अथ स्वप्नः-- स्वप्नो निद्रामुपेतस्य विषयानुभवस्तु यः । कोपावेगभयग्लानिसुखदुः खादिकारकः ॥ ३.१५२ ॥ यथा-- "मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर्- लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेन । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति" ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) मामाकाशेति । मेघद्वारा यक्षस्य प्रियायां स्वप्रवृत्तिनिवेदनमिदम् । वप्नसंदर्शनेषु तव निर्दयाश्लेषहेतोराकाशप्रणिहितभुजं मां पश्यन्तीनां स्थलीदेवतानां मुक्तातुल्यस्थूला अश्रुबिन्दवो बहशः तरुकिसलयेषु न पतन्ति न । अपि तु पतन्त्येव इत्यर्थः । ********** टीका सम्पूर्णा ********** अथापस्मारः-- मनःक्षेपस्त्वपस्मारा ग्रहाद्यावेशनादिजः । भूपातकम्पप्रस्वेदफेनलालादिकारकः ॥ ३.१५३ ॥ "आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के" ॥ ************* टीका ************* विज्ञप्रिया (वि, ण) आश्लिष्टभूमिमिति--असौ कृष्ण आपगानां नदीनां पतिं समुद्रमपस्मारिणमाशशङ्के । अपस्मारिधर्म्मानाह---आश्लिष्टेत्यादि । अपस्मारी अपि भूमौ पतति । अत्र समुद्रे आरोप्यमाणः पुरुषे स्मर्य्यमाणः अपस्मारः । ********** टीका सम्पूर्णा ********** अथ गर्वः-- गर्वो मदः प्रभावश्रीर्विद्यासत्कुलतादिजः । अवज्ञासविलासाङ्गदर्शनाविनयादिकृत् ॥ ३.१५४ ॥ तत्र शौर्यगर्वो यथा-- "धृतायुधो यावदहं तावदन्यैः किमायुधैः । यद्वा न सिद्धमस्त्रेण मम तत्केन साध्यताम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, त) गर्व इति । अवज्ञा परस्मिन् सविलासाङ्गमात्मनः । धृतेत्यादिकंस्पष्टम् । ********** टीका सम्पूर्णा ********** अथ मरणम्-- शराद्यैर्मरणं जीवत्यागोऽङ्गपतनादिकृत् । यथा-- "राममन्मथशरेण ताडिता दुः सहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा" ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) शराद्यैरिति । ईदृशं मरणं न व्यभिचारिभावः । किन्तु मरणमात्रकथनमिदम् । राममन्मथेत्यादिकमपि मरणमात्रस्यैव उदाहरणम् । व्यभिचारिभावरूपमरणन्तु जातप्रायमेव वर्णनीयम्, नतु जातमित्यग्रे वक्ष्यते । राममन्मथेति--सा निशाचरी ताडकैव निशाचरी अभिसारिका जीवितेशस्य यमस्य जीवितेशस्य प्राणनाथस्य उपनायकस्य वसतिं जगाम । कीदृशी राम एव मन्मथस्तस्य मारकः तस्य शर एव कामोद्दीपकः शरः तेन हृदयेन ताडिता । पुनः कीदृशी दुर्गन्धवत्रुधिरमेव सुगन्धिद्रव्यविशिष्टं रक्तचन्दनं तेन उक्षिता । लोचना (लो, उ) रामेति । जीवितेशो यमः प्राणेश्वरश्च । ********** टीका सम्पूर्णा ********** अथालस्यम् -- आलस्यं श्रमगर्भाद्यैर्जाड्यं जम्भासितादिकृत् ॥ ३.१५५ ॥ यथा-- "न तथा भूषयत्यङ्ग न तथा भाषते सखीम् । जृम्भते मुहुरासीना बाला गर्भभरालसा" ॥ ************* टीका ************* विज्ञप्रिया (वि, द) जृम्भास्मितं जृम्भायुक्तहासः । न तथेत्यादि सुगमम् । ********** टीका सम्पूर्णा ********** अथामर्षः-- निन्दाक्षेपापमानादेरमर्षोऽभिनिविष्टता । नेत्ररागशिरः कम्पभ्रूभङ्गोत्तर्जनादिकृत् ॥ ३.१५६ ॥ यथा--प्रायश्चितं चरिष्यामि पूज्यानां वो व्यतिक्रमात् । न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ॥ अथ निद्रा-- चेतः संमीलनं निद्रा श्रमल्कममदादिजा । जृम्भाक्षिमीलनोच्छ्वासगात्रभङ्गादिकारणम् ॥ ३.१५७ ॥ यथा-- "सार्थकानर्थकपदं ब्रुवती मन्थराक्षरम् । निद्रार्धमीलिताक्षी सा लिखितेवास्ति मे हृदि" ॥ ************* टीका ************* विज्ञप्रिया (वि, ध) सार्थकेति । काञ्चित्निद्राणां प्रियां स्मरत उक्तिरियम् । ********** टीका सम्पूर्णा ********** अथावहित्था-- भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था । व्यापारान्तरसक्त्यन्यथावभाषणविलोकनादिकरी ॥ ३.१५८ ॥ यथा-- "एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती" ॥ ************* टीका ************* विज्ञप्रिया (वि, न) व्यापारान्तरासक्तिः कर्म्मान्तरसङ्गः । अन्यथाभाषणमन्यथालोकनञ्च हर्षजन्यक्रियातोऽन्यरूपम् । एवं वादिनीति । महेशेन पार्वतीपरिणयघटनावाक्यवादिनि सतीत्यर्थः । अत्र पद्मपत्रगणनमन्यथा क्रिया । ********** टीका सम्पूर्णा ********** श्रथौत्सुक्यम्-- इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता । चित्ततापत्वरास्वेददीर्घनिः श्वसितादिकृत् ॥ ३.१५९ ॥ यथा-- "यः कौमारहरः स एव हि वरः --" इत्यादौ (१५ पृदृ) अत्र यत्काव्यप्रकाशकारेण रसस्य प्राधान्यमित्युक्तं तद्रसनधर्मयोगित्वाद्व्यभिचारिभावस्यापि रसशबादवाच्यत्वेन गतार्थं मन्तव्यम् । ************* टीका ************* विज्ञप्रिया (वि, प) यः कौमारहर इत्यादि व्याख्यातं प्राक् । अत्र उत्कण्ठापदार्थे एवमौत्सुक्यम् । रसनधर्मयोगित्वादिति--असंलक्ष्यक्रमत्वं रसधर्म्मः व्यभिचारिभावेऽप्यस्तीत्यर्थः । एतन्मते शृङ्गाराभासो नात्र प्रधानम्, किन्तु तथापि चेतः समुत्कण्ठते इत्यनेन व्यङ्ग्ये विस्मय एव प्रधानतय्भासते । स चाद्भुतरसस्य स्थायिभावोऽपि शृङ्गाराभासीयश्लेके व्यभिचारिभाव इत्यभिप्रायेण तस्य व्यभिचारिभावत्वं युक्तम् । तस्य चात्र निराकाङ्क्ष्यवाक्यव्यङ्ग्यत्वेन शृङ्गाराभासापेक्षया प्राधान्यम् । नचैवमद्भुत एव तदात्र रस इति वाच्यम्, लोकविलक्षणगुणबन्धतुल्यविषयत्वे एव विस्मयस्याद्भुतरसत्वप्राप्तिर्नान्यविषयत्वे अद्भुतालम्बनतया । वक्ष्यते हि "वस्तुलोकातिगमालम्बनं मतम्"इति । "गुणानां तस्य महिमा भवेदुद्दीपनं पुनः"इति च । अत्र च उत्कण्ठाया अहेतुरेव विस्मयस्य विषयः । गतार्थमिति अवगतार्थमित्यर्थः । व्यभिचारिभाव एव तत्र रसशब्दार्थ इत्यर्थः । ********** टीका सम्पूर्णा ********** अथोन्मादः-- चित्तसंमोह उन्मादः कामशोकभयादिभिः । अस्थानहासरुदितगीतप्रलपनादिकृत् ॥ ३.१६० ॥ यथा मम-- "भ्रतार्द्विरेफ ! भवता भ्रमता समन्ता- त्प्राणाधिका प्रियतमा मम वीक्षिता किम् ? । (झंकारमनुभूय सानन्दम् । ) "ब्रषे किमोमिति सखे ! कथयाशु तन्मे किं किं व्यवस्यति कुतोऽस्ति च कीदृशीयम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, फ) भ्रतर्द्विरेफ इति । द्विरेफं सम्बोध्य विरहोन्मत्तस्य उक्तिरियम् । झङ्कार इत्यादि मध्ये चूर्णकम् । ब्रूषे किमोमिति इति झङ्कारस्यैव स्वीकारार्थम् । ओमिति शब्दत्वेनावगतत्वात् । इयं मम नायिका किं किं व्यवस्यति कीदृशी च इति कथम इत्यर्थः । ********** टीका सम्पूर्णा ********** अथ शङ्का-- परक्रौर्यात्मदोषाद्यैः शङ्कानर्थस्य तर्कणम् । वैवर्ण्यकम्पवैस्वर्यपार्श्वालोकास्यशोषकृत् ॥ ३.१६१ ॥ यथा मम-- "प्राणोशेन प्रहितनखरेष्वङ्गकेषु क्षपान्ते जातातङ्का रचयति चिरं चन्दनालेपनानि । धत्ते लाक्षामसकृदधरे दत्तदन्तावघाते क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती" ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) परक्रौर्य्यैति । परस्य क्रूरतया आत्मदोषादिनानर्थस्य चिन्तनं शङ्केत्यर्थः । प्राणेशेनेति--क्षामाङ्गी कृशाङ्गीयम् । चकितमभितश्चक्षुषी निक्षिपन्ती सखीभ्यो जाताशङ्का सती प्राणेशेनार्पितनखरेष्वङ्गकेषु चन्दनालेपनानि रचयति दत्तदन्तावघातेऽधरे लाक्षामलक्तकमसकृत्धत्ते चेत्यर्थः । अत्र सखीनामुपदेश एव आनन्दः । उपहासादिहेतुनखक्षतादित्वमेव चात्मदोषः । लोचना (लो, ऊ) प्राणेशेनेति । अङ्गकेष्वत्र स्वार्थे कः । ********** टीका सम्पूर्णा ********** अथ स्मृतिः-- सदृशज्ञानचिन्ताद्यैर्भ्रूसमुन्नयनादिकृत् । स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ॥ ३.१६२ ॥ यथा मम-- "मयि सकपटं किंचित्क्वापि प्रणीतविलोचने किमपि नमनं प्राप्ते तिर्यग्विजृम्भिततारकम् । स्मितमुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितं कुवलयदृशः स्मेरं स्मेरं स्मरामि तदाननम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, भ) मयि सकपटमिति । सकपटं यथा स्यात्तथा क्वापि किञ्चित्प्रणीतविलोचने निभिप्तचक्षुषि सति मयि नयनं नयनपथं प्राप्ते तिर्य्यक्विजृम्भित (प्रेरित) तारकम् । स्मेरं तदाननं स्मरमि । पुनः कीदृशं स्मितमुपगतां सखीं दृष्ट्वा सलज्जमवञ्चितं नमितम् । नायिकामुखस्य सकक्षस्मेरतया नायको धूर्त इति बुद्ध्वा एवं सख्याः स्मितमपि तत्बुद्ध्वैव । नायिकामुखनमनं तु स्वानादरस्य सख्या दर्शनात्लज्जया । लोचना (लो, ऋ) मयीति---एवं सति स मां पश्यतु इति सकपटं नतु तां विनान्यत्र प्रहितलोचनत्वं मम कदाचिदभिलषितमिति भावः । अवाञ्चितमवनतम् । ********** टीका सम्पूर्णा ********** अथ मतिः-- नीतिमार्गनुसृत्यादेरर्थनिर्धारणं मतिः । स्मेरता धृतिसंतोषौ बहुमानश्च तद्भवाः ॥ ३.१६३ ॥ यथा-- "असंशयं क्षअपरिग्रहक्षमा यादर्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः" ॥ ************* टीका ************* विज्ञप्रिया (वि, म) असंशयं क्षत्त्रपरिग्रहेति--शकुन्तलां दृष्ट्वा ब्राह्मणकन्यकाबुद्ध्यनन्तरं प्राप्ताश्वासस्य दुष्यन्तस्य उक्तिरियम् । इयमसंशयं क्षत्त्रेण परिग्रहस्य क्षमा योग्या ब्राह्मणकन्या नैवेत्यर्थः । कुत इत्याह---यदार्य्य्मिति । आर्यमनुचितानभिलाषित्वेन उत्त्मं मम मनो यदस्यामभिलाषि कृताभिलाषम् । अत्रार्थान्तरन्यासमाह---सतां हीति । संदेहपदेषु वस्तुषु सतामन्तः करणप्रवृत्तयो हि प्रसाणं सन्देहनिरासकम् । अत्र स्वीयमनसो विशेषस्य निश्चायकत्वस्य सतां सामान्यानां मनोभिः सामान्यैः समर्पितत्वादर्थान्तरन्यासः । ********** टीका सम्पूर्णा ********** अथ व्याधिः-- व्याधिर्ज्वरादिर्वाताद्यैभूमीच्छोत्कम्पनादिकृत् । तत्र दाहमयत्वे भूमीच्छादयः । शैत्यमयत्वे उत्कम्पनादयः । स्पष्टमुदाहरणम् । ************* टीका ************* विज्ञप्रिया (वि, य) स्पष्टमुदाहरणमिति---"भूमौ पतति तापार्त्ता विप्रयुक्ता वधूरिव । कदलीवानिलोद्धूता ज्वरार्त्ता कम्पते प्रियाऽ ॥ इति ********** टीका सम्पूर्णा ********** अथ त्रासः-- निर्घातविद्युदुल्काद्यैस्त्रासः कम्पादिकारकः ॥ ३.१६४ ॥ यथा-- "परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि वोलोकनीयताम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, र) परिस्फुरदिति---जलक्रिडायामूरुप्रविष्टमीनकदर्थितानामप्सरसां त्रासवर्णनमिदम् । सखीजनस्यापि विलोकनीयतामुपाययुरित्यन्वयः । मीनघट्टितोरुत्वमजानतोऽन्यजनस्य विलोकनीयता तावदस्तु॑ दिनान्तरेऽपि तया त्वं जानतः सखीजनस्यापि इत्यर्थः । तच्चातित्रासात्सर्पदंशादिसम्भावनयेति भावः । ********** टीका सम्पूर्णा ********** अथ व्रीडा-- धार्ष्ट्याभावो व्रडा वदनानमनादिकृद्दुराचारात् । यथा-- "मयि सकपटम्--" इत्यादि ( १७३ पृदृ) । ************* टीका ************* विज्ञप्रिया (वि, ल) धार्ष्ट्याभाव इति---धार्ष्ट्यमलज्जत्वम् । मयि सकपटमित्यादिकं स्मृतेरुदाहरणम् । यत्तत्र सलज्जमवाञिचितमित्यनेन लज्जा । ********** टीका सम्पूर्णा ********** अथ हर्षः-- हर्षस्त्विष्टावाप्तेर्मनः प्रसादोऽश्रुगद्गदादिकरः ॥ ३.१६५ ॥ यथा-- "समीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य यथैव दुर्गतः । मुदा शरीरे प्रबभूव नात्मनः पयोधिरन्दूदयमूर्च्छितो यथा" ॥ ************* टीका ************* विज्ञप्रिया (वि, व) समीक्ष्येति---रघोर्मुखं वीक्ष्य दिलीपस्य वर्णनमिदम्---निधानकुम्भस्य निधकुम्भस्य । मूर्च्छितो वर्द्धितः । ********** टीका सम्पूर्णा ********** अथासूया-- असूयान्यगुणर्द्धेनामौद्धत्यादसहिष्णुता । दोषोद्धोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत् ॥ ३.१६६ ॥ यथा-- "अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः । मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, श) असूयान्येति---औद्धत्यादहङ्कारादन्यगुणस्य ऋद्धीनामाधिक्यानामसहिष्णुतेत्यन्वयः । अथ तत्रेति---अर्थानन्तरं तत्र समायां पाण्डुतनयेन युधिष्ठिरेण विहितं सुरद्विषः श्रीकृष्णस्य मानं पूजां चेदिपतिः शिशुपालः नासहत । तत्रार्थान्तरन्यासमाह--परवृद्धीति । मत्सरि असहिष्णुः । ********** टीका सम्पूर्णा ********** अथ विषादः-- उपायाभावजन्मा तु विषादः सत्त्वसंक्षयः । निःश्वासोच्छवासहृत्तापसहायान्वेषणादिकृत् ॥ ३.१६७ ॥ यथा मम--एसा कुडिलघणोन चिउरकडप्पेण तुह णिबद्धा वेणी । मह सहि दारै ढंसै आअसधट्टीव्व कालौरैव्व हिअअम् ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) सत्वसंक्षयो बलहानिः । उपायाभावजन्मत्वेनास्य दैन्याद्भेदः । एषा कुडिलेति---"एषा कुटिलघनेन चिकुरकलापेन तव निबद्धा वेणी । मम सखि ! दारयति दशति आयासयाष्टिरिव कालोरगीव हृदयम्ऽ ॥ इति संस्कृतम् । बद्धवेणिकां प्रोषितभर्तृकां दृष्ट्वा सख्या विषादोक्तिरियम् । दारणे आयासयष्टिर्दृष्टन्तः, दंशने च कालोरगी । लोचना (लो, ॠ) एषेत्ति---एषा कुटिलघनेन चिकुरकलापेन तव निबद्धा वेणी मम सखि ! दारयति दशति आयसयष्टिरिव कालोरगीव हृदयम् । ********** टीका सम्पूर्णा ********** अथ धृतिः-- ज्ञानाभीष्टागमाद्यैस्तु संपूर्णस्पृहता धतिः । सौहित्यवचनोल्लाससहासप्रतिभादिकत् ॥ ३.१६८ ॥ लोचना (लो, ळ) ज्ञानेति---सौहित्यं तृप्तिः । ********** टीका सम्पूर्णा ********** यथा मम-- "कृत्वा दीननिपीडनां निजजने बद्ध्वा वचोविग्रहं नैवालोच्य गरीयसीरपि चिरादामुष्मिकीर्यातनाः । द्रव्यौघाः परिसंचिताः खलु मया यस्याः कृते सांप्रतं नीवारञ्जलिनापि केवलमहो सेयं कृतार्था तनुः" ॥ ************* टीका ************* विज्ञप्रिया (वि, स) कृत्वा दीनेति---संसारविरक्तस्य तपोवनस्थस्य उक्तिरियम् । यसायास्तनोः कृते दीननिपीडनादिकं कृत्वा मया द्रव्यौघाः संचिताः सेयं तनुः साम्प्रतं नीवाराञ्जलिनापि खलु कृतार्था इत्यन्वयः । निजजने इष्टजने वचोविग्रहं वाक्कलहम् । आमुष्मकीः पारलौकिकीः । चिराच्चिरकालीनाः । ********** टीका सम्पूर्णा ********** अथ चपलता-- मात्सर्यद्वेषरागादेश्चापल्यं त्वनवस्थितिः । तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥ ३.१६९ ॥ यथा-- "अन्यासु तावदुपमर्दसहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु । मुग्धामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमालिकायाः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) अन्यास्विति---हे भृङ्ग ! उपमर्दसहासु अन्यासु सुमनोलतासु पुष्पलतासु लोलं मनो विनोदय । नवमालिकायाः कलिकामकाले किं व्यर्थं कदर्थयासि कीदृशीं मुग्धां मूढां विमर्दसहामित्यर्थः । अजातरजसमाजातोपारगाञ्च । समासोक्तिवशाच्च नवोढाकदर्थकनायकप्रतीतिः । अत्र अजातरजसमजातरजोयोगामित्यर्थः । अत्र वाच्यभृङ्गस्य व्यङ्गग्यनायकस्य च चपलता । ********** टीका सम्पूर्णा ********** अथ ग्लानिः-- रत्यायासमनस्तापक्षुत्पिपासादिसंभवा । ग्लानिर्निप्प्राणताम्पकार्श्यानुत्साहतादिकृत् ॥ ३.१७० ॥ यथा-- "किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, क्ष) रत्यायासेति---निष्प्राणता बलहानिः । हेतुविशेषाधनित्वेन दैन्यविषादयो भेदः । किसलयमिवेति । दारुणो दीर्घशोकः अस्याः क्षामं क्षीणं परिपाण्डु च शरीरं ग्लपयति । तत्रोपमामाह । किसलयमिवेति---बन्धनात्वृन्तात् । लोचना (लो, ए) किसयमिवेति---शरदिज इत्यलुक्समासः । ********** टीका सम्पूर्णा ********** अथ चिन्ता-- ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् । यथा मम-- "कमलेण विअसिएणं संजोएन्ती विरोहिणं ससिबिम्बम् । करअलपल्लत्थमुही किं चिन्तसि सुमुहि अन्तराहिअहिअआ" ॥ ************* टीका ************* विज्ञप्रिया (वि, क) कमलेणेति । "कमलेन विकसितेन संयोजयन्ती विरोधिनं शशिविम्बम् । करतलपर्यस्तमुखी किं चिन्तयसि सुमुखै ! अन्तराहितहृदयाऽ ॥ इति संस्कृतम् । अत्र करतलं विकसितकमलं मुखं शशिबिम्बम् । नायिकायाश्चिन्ता । लोचना (लो, ऐ) कमलेणेति---"कमलेन विकसितेन संयोजयन्ती विरोधिनं शशिबिम्बम् । करतलपर्यस्तमुखी किं चिन्तयसि सुमुखै ! अन्तराहितहृदया" ॥ ********** टीका सम्पूर्णा ********** अथ तर्कः-- तर्का विचारः संदेहाद्भ्रूशिरोऽङ्गुलिनर्तकः ॥ ३.१७१ ॥ यथा-- "किं रुद्धः प्रियया--" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, ख) किं रुद्ध इति---विरहोत्कण्ठिताया उदाहरणम् । ********** टीका सम्पूर्णा ********** एते च त्रयस्त्रिंशद्व्यभिचारिभेदा इति यदुक्तं तदुपलक्षणमित्याह-- लोचना (लो, ओ) एते चेति---एतानि च उदाहरणानि व्यभिचारिस्वरूपसद्भावदर्शनमात्रपराणि । तेषां क्वचित्प्राधान्ये क्वचितप्राधान्ये न काचित प्रतीतिक्षतिः । ********** टीका सम्पूर्णा ********** रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिणः । तथाहि--शृङ्गारेऽनुच्छिद्यमानतयावस्थानाद्रतिरेव स्थायिशब्दवाच्या हासः पुनरुपद्यमानो व्यभिचार्येव । व्यभिचारिलक्षणायोगात् । तदुक्तम्-- "रसावस्थः परं भावः स्थायितां प्रतिपद्यते" । इति । ************* टीका ************* विज्ञप्रिया (वि, ग) रत्यादयोऽपीति--स्थायिभावानां ये रसा नियतास्तद्भिन्नेऽनियते । व्यभिचारिलक्षणेति---उन्मग्ननिर्मग्नतारूपस्य कादाचित्कत्वस्य तल्लक्षणत्वात् । स्थायिभावोऽपि व्यभिचारिभावो भवत्यत्र संवादं दर्शयति--रसावस्थ इति । रस एव उत्तरकालमवस्था यस्य परं केवलं तादृश एव भावः रत्यादिस्थायित्वं प्रतिपद्यते । अतादृघवस्थस्तु न स्थायितां प्रतिपद्यते इति पहं पदाल्लभ्यते । उतादृगवस्थस्तु रसान्तर एव सम्भवति । स च यदि तत्र उपकारको भवति तदा तदीयस्थायिनि आभिमुख्येन चरणाद्व्यभिचारिलक्षणाक्रान्तत्वेन तत्रापि व्यभिचारिपदस्य योगरूढत्वात्सोऽपि व्यभिचारी भवति, अर्थवशलभ्यमिममर्थमभिप्रेत्य सम्बन्धो दर्शित इति बोध्यम् । ********** टीका सम्पूर्णा ********** तत्कस्य स्थायिनः कस्मिन् रसे सञ्चारित्वमित्याह-- शृङ्गारवीरयोर्हासो वीरे क्रोधस्तथा मतः ॥ ३.१७२ ॥ शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः । इत्याद्यन्यत्समुन्नेयं तथा भावितबुद्धिभिः ॥ ३.१७३ ॥ ************* टीका ************* विज्ञप्रिया (वि, घ) इत्याद्यन्यत्समुन्नेयमिति---अत एव यः कौमारहर इत्यत्राद्भुतरसस्थायिभावस्य विस्मयस्य व्यभिचारिभावत्वम् । ग्रन्थकृन्मते तु स श्लेकः व्यभिचारिभावध्वनेरेवोदाहरणमिति । रसस्यैव हि प्राधान्यातिति काव्यप्रकाशलिखने रसपदस्य व्यभिचारिभावपरत्वं व्याख्यानादवसीयते । ********** टीका सम्पूर्णा ********** अथ स्थायिभावः-- अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः । आस्वादाङ्कुरकन्दोऽसौ भावः स्थायीति संमतः ॥ ३.१७४ ॥ ************* टीका ************* विज्ञप्रिया (वि, ङ) अविरुद्धा विरुद्धा वेति--स्थायिभावस्य अविरुद्धा विरुद्धा वाव्यभिचारिभावा इत्यर्थः । तिरोधातुं बुद्ध्यविषयीकर्त्तुम् । ********** टीका सम्पूर्णा ********** यदुक्तम्-- "स्त्रक्सूत्रवृत्त्या भावानामन्येषामनुगामकः । न तिरोधीयते स्थायी तैरसौ पुष्यते परम्" ॥ इति । ************* टीका ************* विज्ञप्रिया (वि, च) स्त्रक्सूत्रवृत्त्येति । भावानां व्यभिचारिभावानामनुगामुकः सम्बद्धः स्थायी तैर्भावैर्न तिरोधीयते न बुद्ध्यविषयीक्रियते इत्यर्थः । अनुगामित्वे दृष्टान्तमाहस्त्रक्सूत्रेति । वृत्त्यारीत्या स्त्रजिमालायां यथासूत्रमवश्यं सम्बद्धं भवतीत्यर्थः । स्वसम्बद्धैः तैः कीदृशः क्रियते इत्यत्राह--तैरसाविति । पुष्यते आस्वादाङ्कुरीक्रियते इत्यर्थः । लोचना (लो, औ) अथेति । स्थायीभाव उद्देशक्रमप्राप्तः । अविरुद्धेति । विरुद्धैरपि स्थायिनोऽतिरोधानं महाकविकाव्येष्वभिव्यरक्तमेव । स्त्रगिति । स्त्रवसूत्रं सर्वेषां पुष्पाणां मुक्तानां वा यथा अनुगतं तिष्टति तथेत्यर्थः । तैर्भावैः । ********** टीका सम्पूर्णा ********** तद्भेदानाह-- रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽपि च ॥ ३.१७५ ॥ लोचना (लो, अ) शान्तिरसस्थायिभावस्य शमस्य निराकरिष्यमाणविवादस्य नवत्वे नवमतया पृथङ्निर्देशः । ********** टीका सम्पूर्णा ********** तत्र-- रतिर्मनोऽनुकूलेर्ऽथे मनसः प्रवणायितम् । वागादिवैकृतैश्चेतोविकासो हास इष्यते ॥ ३.१७६ ॥ इष्टनाशादिभिश्चेतोवैक्लव्यं शोकशब्दभाक् । प्रतिकूलेषु तैक्ष्णस्यावबोधः क्रोध इष्यते ॥ ३.१७७ ॥ कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते । रौद्रशक्त्या तु जनितं चित्तवैक्लव्यं भयम् ॥ ३.१७८ ॥ दोषेक्षणादिभिर्गर्हा जुगुप्सा विस्मयोद्भवा । विविधेषु पदार्थेषु लोकसीमातिवर्तिषु ॥ ३.१७९ ॥ विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः । शमो निरीहास्थायां स्वात्मविश्रामजं सुखम् ॥ ३.१८० ॥ यथा मालतीमाधवे रतिः । लटकमेलके हासः । रामायणो शोकः । महाभारते शमः । एवमन्यत्रापि । एते ह्येतेष्वन्तरा उत्पद्यमानैस्तैस्तैविरुद्धैरविरुद्धैश्च भावैरनुच्छिन्नाः प्रत्युत परिपुष्टा एव सहृदयानुभवसिद्धाः । ************* टीका ************* विज्ञप्रिया (वि, छ) रतिरित्यादि । प्रवणायितमुत्कट आवेशः । स चानुरागे एव पर्य्यवस्यति । वागादीत्यादिपदात्वेशपरिग्रहः । चेतोविकाशो विलक्षणचित्तसंयोगजन्यं ज्ञानमुपहास्यताज्ञानपर्य्यवसन्नं यतो मुखविकाशरूपं स्मितं जायते । वैक्लव्यं दुः खविशेषः । संरम्भः सहर्षत्वरा । स्थेयान् स्थायी । तैक्ष्ण्यस्य उत्कटापचिकीर्षयावबोधः । रौद्रोऽपकर्त्तुं क्षमः॑ तस्य शक्त्या सामर्थ्येन वैकल्यं भाविदुः खज्ञानपलायनहेतुः । दोषेक्षणादिभिरिति--दोषः विकृतशब्दादिः ईक्षणादिभिरित्यादिपदात्घ्राणपरिग्रहः । गार्हा निन्दा । विस्मयोद्भवेति । कथमस्य एतादृशो दोष इत्येवं विस्मयेन जनिता । चेतोविस्तारो दृष्टहेतुभ्योऽसंभव्यत्वज्ञानेन हेत्वनुसंधानम् । आत्मविश्रान्तिरात्ममात्रविषयं ज्ञानम् । एतेष्विति । एतेषु रत्यादिषु सत्सु इत्यर्थः । स्थायिभावव्यभिचारिभावादीनां भावसंज्ञाव्युत्पत्तिमाह--- लोचना (लो, आ) रतिरित्यादि । प्रवणायितं प्रवणीभावः । इयं रतिर्मदनाविष्टा । स्त्रीपुंसानिष्टैव । शृङ्गारस्य स्थायी नत्वान्यथा स्थायिलक्षणायेगात् । एतेषु समनन्तरोक्तग्रन्थेषु । ********** टीका सम्पूर्णा ********** किं च-- नानाभिनयसंबन्धान् भावयन्ति रसान् यतः । तस्माद्भावा अमी प्रोक्ताः स्थायिसंचारिसात्त्विकाः ॥ ३.१८१ ॥ यदुक्तम्-- "सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम्" ************* टीका ************* विज्ञप्रिया (वि, ज) किंचेति । भावयन्ति ज्ञापयन्ति । सुखदुः खादिभिरिति । सुखदुः खादिभावैस्तद्भावस्य रत्यादिसत्तायाः भावनमुद्वोधनमतो रत्यादिको भाव इत्यर्थः । लोचना (लो, इ) सुखेति । भावैरात्मनिष्टैः काव्यनिष्टैर्वा तस्य रामादेरनुकार्य्यस्य यो भावः स्वरूपं तस्य भावनं श्रवणं दर्शनं वा । ********** टीका सम्पूर्णा ********** अथ रसस्य भेदानाह-- शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्सोऽद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः ॥ ३.१८२ ॥ लोचना (लो, ई) एवं सपरिकरस्य रसस्य स्वरूपमुक्तदिशा निरूपयितुमुद्दिशति । अथेति । सात्त्विकबहुलगीतवाद्यादिपूर्वकपुराणवृत्तानुकाराभिनयाश्रयत्वेन महर्षिणा कण्ठोक्ता अष्टौ । श्रव्ये महाकाव्यादौ शान्तोऽपि नवमो रसोऽस्तीति तस्य पृथङ्निर्देशः न सम्यङ्नाट्योपयोगित्वाभावात् । यदाह धनिकः"पुष्टिर्नाट्येषुनैतस्येति" । एवञ्च निरतिशयसुखास्वादनलक्षणत्वातेक एव रसो न विशेषाः सन्ति इति वादिनां मतमप्यपास्तम् । अत एवोक्तम्"यक्तारणं च कार्य्यञ्च ये च स्युर्व्यभिचारिणः । स्वरूपं यच्च तद्भावात्शृङ्गारादिभिदाः स्मृताः । इति" ********** टीका सम्पूर्णा ********** तत्र शृङ्गारः-- शृङ्ग हि मन्मथोद्भेदस्तदागमनहेतुकः । उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥ ३.१८३ ॥ परोढां वर्जयित्वा तु वेश्यां चाननुरागिणीम् । आलम्बनं नायिकाः स्युर्दक्षिणाद्याश्च नायकाः ॥ ३.१८४ ॥ चन्द्रचन्दननरोलम्बरुताद्युद्दीपनं मतम् । भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्तितः ॥ ३.१८५ ॥ त्यक्त्वौग्र्यमरणालस्यजुगुष्साव्यभिचारिणः । स्थायिभावो रतिः श्यामवर्णोऽयं विष्णुदैवतः । ************* टीका ************* विज्ञप्रिया (वि, झ) तदागमनेहेतुक इति । मन्मथस्यागमनं प्राप्तिः तदेव हेतुर्यस्य तादृशः, कामिन एव शृङ्गाररसोद्वोधात् । वेश्यां चेति । वेश्यानूढा॑ ऊढायाः परोढत्वेन एव प्राप्तेः । एवमनुरागिणी स्वस्त्री कन्यका च । दक्षिणाद्या इति । दक्षिणधृष्टानुकूलशठा इत्यर्थः । ते च स्वनायका एव परनायकस्य तु परोढावत्शृङ्गारभासालम्बनमेव । रोलम्बा भ्रमराः । औग्र्यां शस्य त्यागः । सम्भोग एव मरणस्य जातप्रायमात्रस्यैव वर्णनीयत्वात्वास्तवमरणस्यैव त्यागः । लोचना (लो, उ) शृङ्गमिति---मन्मथोद्भेदस्य शृङ्गमिति नामन्तरम् । तस्यागमनं रमादिष्वाविर्भावः । आङ्पूर्वातृगतौ इत्यस्य धातोः घञन्तातारशब्दस्य व्युत्पादितत्वात्तत्र मन्मथोद्भेदस्य विशेषनिर्द्देशादुभयोरप्येतद्रसप्रकृतिभूतयोः स्त्रीपुंसयोः परस्परं प्रौढतरानुरागहेतुकत्वमस्य सूचितम् । अनुरागस्य एकनिष्टत्वे हि रसाभासो वक्ष्यते । दक्षिणाद्याश्चत्वारः । एषां रसानां वर्णदैवतकथनं नाटकादिषु विधेयाविघ्नहेतुकेषु नटसंपाद्यपूजादिषु प्रत्यूह्यते । विवृणोति---अत्र इत्यादि । इहोद्दीपनविभावादेकदेशतो दर्शितम् । विस्तरतः प्रथमपरिच्छेदतो बोद्धव्यम् । ********** टीका सम्पूर्णा ********** यथा-- "शून्यं वासगृहम्--" इत्यादि । अत्रोक्तस्वरूपः पतिः, उक्तस्वरूपा च बाला आलम्बनविभावौ । शून्यं वासगृहमुद्दीपनविभावः । चुम्बनमनुभावः । लज्जाहासौ व्यभिचारिणौ । एतैरभिव्यक्तः सहृदयविषयो रतिभावः शृङ्गाररसरूपतां भजते । तद्भेदावाह- विप्रलम्भोऽथ संभोग इत्येष द्विविधो मतः ॥ ३.१८६ ॥ तत्र-- यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसा । अभीष्टं नायकं नायिकां वा । ************* टीका ************* विज्ञप्रिया (वि, ञ) नाभीष्टमुपैतीति---नायकस्य नायिका । नायिकायाश्च नायकोऽभीष्टः । अभीष्टता च अनुकूलतया । तेन मानिन्यामनुकूलतायां प्राप्तायामपि नायकस्य विप्रलम्भ एव । लोचना (लो, ऊ) यत्र त्विति---रतिरुक्तण्ठा प्रकृष्टा प्रकृष्टतां यातिरतिप्रकर्षस्य नायिकानिष्टत्वे नायकं नायकपक्षे च नायिकां नोपैति न प्राप्तोतीत्यर्थः । स च विप्रलम्भः--- ********** टीका सम्पूर्णा ********** स च पूर्वरागमानप्रवासकरुणात्मकश्चतुर्धा स्यात् ॥ ३.१८७ ॥ तत्र-- श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः । दशाविशेषो योऽप्राप्तौ पूर्वरागः स उच्यते ॥ ३.१८८ ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) दशाविशेषो यज्जन्य इति शेषः । दशाविशेषो विरहकालीनदशदशाः । विशेष इत्येकवचनं विशेषत्वैक्यमाश्रित्य । पूर्वरागोऽभीष्टप्राप्तेः पूर्वं रागः । स च श्रवणात्दर्शनात्वा भवतीत्युक्तत्वात्श्रवणदर्शनयोरुपायमाह--- ********** टीका सम्पूर्णा ********** श्रवणं तु भवेत्तत्र दूतवन्दीसखीमुखात् । इन्द्रजाले च चित्रे च साक्षात्स्वष्ने च दर्शनम् ॥ ३.१८९ ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) श्रवणं त्विति---दूतादिमुखात्श्रवणमिन्द्रजालस्वप्राभ्यां चक्षुषा वा दर्शनमित्यर्थः । साक्षात्पदमत्र तद्धेतुचक्षुः परम् । ********** टीका सम्पूर्णा ********** अभिलाषश्चिन्तास्मृतिगुणकथनोद्वेगसंप्रलापाश्च । उन्मादोऽथ व्याधिर्जडता मृतिरिति दशात्र कामदशाः ॥ ३.१९० ॥ अभिलाषः स्पृहा चिन्ता प्राप्त्युपायादिचिन्तनम् । उन्मादश्चापरिच्छेदश्चेतनाचेतनेष्वपि ॥ ३.१९१ ॥ अलक्ष्यवाक्प्रलापः स्याच्चेतसो भ्रमणाद्भृशम् । व्याधिस्तु दीर्घनिः श्वासपाण्डुताकृशतादयः ॥ ३.१९२ ॥ जडता हीनचेष्टत्वमङ्गानां मनसस्तथा । ************* टीका ************* विज्ञप्रिया (वि, ड) अपरिच्छेदः चेतनाचेतनेष्वपीति---चेतनत्वाद्यपरिच्छेद इत्यर्थः । तेन वृक्षादावचेतनत्वाप्रतिसन्धान्त्कातरोक्तिः । संलापस्य प्रलापपर्य्यायत्वात्प्रलापलक्षणमाह---अलक्ष्येति । अलक्ष्येऽनाश्रये आकाशादौ वाक् । इदमुपलक्षणमनर्थकवाचापि । दीर्घनिश्वासेति । तथा च व्याधिज्वरादिति यदुक्तं प्राक्तदीयादिपदग्राह्यमिदं मुक्तमिति बोध्यम् । ********** टीका सम्पूर्णा ********** शेषं स्पष्टम् । क्रमेणोदाहरणानि-- "प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्राढरागोदया- स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । यास्वन्तः करणस्य बाह्यकरणव्यापाररोधी क्षणा- दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) प्रेमार्द्रा इति---माधवस्य वचनमिदम् । मुखदृशो मालत्यास्तास्ताः अन्यादृशः चेष्टा मयि भवेयुः । चेष्टविशेषणानि---प्रेमार्द्रा इत्यादीनि । आर्द्रत्वं निस्पन्दत्वेन सजलत्वम् । प्रणयो वात्सल्यम् । तत्सूचिका इत्यर्थः । परिचयो वारं वारं दर्शनम् । यासु चेष्टासु आशंसायामिच्छायां परिकल्पितास्वपि अन्तः करणस्य आनन्देन सान्द्रो व्याप्तो लयः लीनता क्षणाद्भवति । अन्तः करणमानन्दव्याप्तं भवतीत्यर्थः । लयः कीदृशः---बाह्यकरणस्य व्यापारस्य रोधी प्रतिबन्धकः । अत्र दृक्चेष्टाऽशंसाद्वारा मालत्यामेवाभिलाषः । लोचना (लो, ऋ) प्रेमार्द्रा इति---दर्शनादिगतो भावव्यञ्जकः कश्चन चित्तवृत्तिविशेषः प्रेम तत्पूर्वको वशीकारः प्रणयः । रहस्यसम्वेदनं परिचयः । लयः तन्मयत्वमेव । ********** टीका सम्पूर्णा ********** अत्र मालतीसाक्षाद्दर्शनप्ररूढरागस्य माधवस्याभिलाषः । "कथमीक्षे कुरङ्गाक्षीं साक्षाल्लक्ष्मीं मनोभुवः । इति चिन्ताकुलः कान्तो निद्रां नैति निशीथिनीम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ण) कथमीक्षे इत्यादिकं स्पष्टम् । निशीथिनीं व्याप्य नैति प्राप्नोति । ********** टीका सम्पूर्णा ********** अत्र कस्याश्चिन्नायिकाया इन्द्रजालदर्शनप्ररूढरागस्य नायकस्य चिन्ता । इदं मम । "मयि सकपटम्ऽ--इत्यादौ नायकस्य स्मृतिः । नेत्रे खञ्जनगञ्जनेऽ--इत्यादौ गुणकथनम् । ************* टीका ************* विज्ञप्रिया (वि, त) नेत्रे इत्यादौ सौन्दर्यमेव गुणः । ********** टीका सम्पूर्णा ********** "श्वासान्मुञ्चतिऽ--इत्यादौ उद्वेगः । "त्रिभागशेषासु निशासु च क्षमं निमील्य नेत्रे सहसा व्यबुध्यन । क्वः नीलकण्ठ ! व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना" ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) त्रिभागशेषासु इति । पार्वतीसख्या विजयाया जटिलवेशप्रच्छन्नं महेश प्रति उक्तिरियम् । भागत्रये जागरितत्वात्शेषावशिष्टासु निशासु नेत्रे निमील्य मीलयित्वा इयं सहसा व्यबुध्यत । कीदृशी असत्ये हरस्य कण्ठेऽर्पितबाहुबन्धना सती हे नीलकण्ठ ! क्व व्रजसि इत्येवमलक्ष्यवाकनाश्रयवाक् । ********** टीका सम्पूर्णा ********** अत्र प्रलापः । "भ्रातर्द्विरेफऽ--इत्यादौ उन्मादः । "पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि ! हृदन्तः" ॥ लोचना (लो, ॠ) पाणिड्वति---परक्षेत्रे न छेदनीयो रोगः क्षेत्रियरोगः । ********** टीका सम्पूर्णा ********** अत्र व्याधिः । ************* टीका ************* विज्ञप्रिया (वि, द) पाण्डुक्षामामिति---मालत्यां तद्विरहावस्थां पृच्छन्त्या लवङ्गिकाया उक्तिरियम् । हे सखि ! तव हृदन्तः क्षेत्रियरोगमस्मिन् क्षेत्रे शरीरे अचिकित्स्यं रोगं पाण्डुक्षामवदनादिकं कर्त्तृ आवेदयतीत्यन्वयः । क्षामं क्षीणम् । सरसं स्त्रहार्द्रम् । ********** टीका सम्पूर्णा ********** "भिसणीअलसअणीए निहिअं सव्वं सुणिच्चलं अङ्गम् । दीहो णीसासहरो एसो साहेइ जीऐत्ति परं" ॥ ************* टीका ************* विज्ञप्रिया (वि, ध) भिसिणीति---"बिसिनीदलशयनीये निहितं सर्वमपि निश्चलमङ्गम् । दीर्घो निः श्वासभर एष साधयति जीवतीति परम् । ऽ इति संस्कृतम् । सर्वमप्यङ्गं निश्चलम् । अतो दीर्घनिश्वास एव इयं जीवति साधयति इत्यर्थः । ********** टीका सम्पूर्णा ********** अत्र जडता । इदं मम । रसविच्छेदहेतुत्वान्मरणं नैव वर्ण्यते ॥ ३.१९३ ॥ जातप्रायं तु तद्वाच्यं चेतसाकाङ्क्षितं तथा । वर्ण्यतेऽपि यदि प्रत्युञ्जीवनं स्यादढूरतः ॥ ३.१९४ ॥ ************* टीका ************* विज्ञप्रिया (वि, न) चेतसाकाङ्क्षितमिति---मरणाकाङ्क्षा एव वर्णनीया न मरणमित्यर्थः । वर्ण्यतेऽपीति । पुनरव्यवहिते जीवने सति मरणमपि वर्णनीयमित्यर्थः । ********** टीका सम्पूर्णा ********** तत्राद्यं यथा-- "शेफालिकां विदलितामवलोक्य तन्वी प्राणान् कथंचिदपि धारयितुं प्रभूता । आकर्ण्य संप्रति रुतं चरणायुधानां किं वा भविष्यति न वेद्मि तपस्विनी सा" ॥ ************* टीका ************* विज्ञप्रिया (वि, प) शेफालिकामिति---विदलितां पतितकुसुमां किञ्चिदवशिष्टायां रात्रौ तद्विदलनात्, कदाचित्तदानीमपि नायकागमनसंभावनया प्राणधारणम् । चारणायुधानां कुक्कुटानां रुतम् । प्रातः काल एवेति तत्र मरणसंभावनया सख्या विषादोक्तिरियम् । तपस्विनी दुः खिता । लोचना (लो, ळ) शेफालिकामिति---शेफालिकाविदलनेन निशीथकालः सूचितः तपस्विनी शोच्या । ********** टीका सम्पूर्णा ********** द्वितीयं यथा-- "रोलम्बाः परिपूरयन्तु हरितो झंकारकोलाहलैर्मन्दं मन्दमुपैतु चन्दनवनीजातो नभस्वानपि । माद्यन्तः कलयन्तु चूतशिखरे केलीपिकाः पञ्चमं प्राणाः सत्वरमश्मसारकठिना गच्छन्तु गच्छन्त्वमी" ॥ ************* टीका ************* विज्ञप्रिया (वि, फ) रोलम्बा इति । अप्राप्तनायकदर्शनाया नायिकाया उक्तिरियम् । परिपूरयन्तु इत्यस्य हरितः इति कर्म्म । हरितो दिशः । नभस्वान् पवनः । केलीपिकाः । पालितकोकिलाः । भ्रमरझङ्कारादयः तावदुद्दीपकाः सन्तु । कठिनाः प्राणा अपि यान्तु इत्यर्थः । कलयन्तु गायन्तु । लोचना (लो, ए) रोलम्बाः भ्रमराः । ********** टीका सम्पूर्णा ********** ममैतौ । तृतीयं यथा-- कादम्बर्यां महश्वेतापुण्डरीकवृत्तान्ते । ************* टीका ************* विज्ञप्रिया (वि, ब) तृतीयमिति---तृतीयं मरणोत्तरं जीवनम् । ********** टीका सम्पूर्णा ********** एष च प्रकारः करुणः विप्रलम्भविषय इति वक्ष्यामः । लोचना (लो, ऐ) महाश्वेतापुण्डरीकवृत्तान्ते पुण्डरीकस्त्यक्तप्राणः पुनर्जोवनमल भत । करुणविप्रलम्भस्य विषयः, नतु पूर्वरागप्रवासयोः । ********** टीका सम्पूर्णा ********** केचित्तु-- "नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ संकल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥ उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्यु" । इत्याहुः । तत्र च-- आदौ वाच्यः स्त्रिया रागः पुंसः पश्चात्तदिङ्गितैः । लोचना (लो, ओ) आदाविति---तदिङ्गितैः तदिङ्गितानि दृष्ट्वा इत्यर्थः । इङ्गितानि अनुरागचेष्टितानि । अक्तान्यत्रैव"दृष्टा दर्शयति व्रीडाम्"इत्यादिना । ********** टीका सम्पूर्णा ********** इङ्गितान्युक्तनि । यथा रत्नाववल्यां सागरिकावत्सराजयोः । आदौ पुरुषानुरोगे संभवत्यप्येवमधिकं हृदयङ्गमं भवति । ************* टीका ************* विज्ञप्रिया (वि, भ) इङ्गितान्युक्तानीति--अनुरागकथनमेव तदुक्तिः । आदौ स्त्र्यनुरागं दर्शयति---रत्नावल्यामिति--अत्र सागरिकायाः प्रगनुरागः । ********** टीका सम्पूर्णा ********** नीली कुसुम्भं मञ्जिष्ठा पूर्वरागोऽपि च त्रिधा ॥ ३.१९५ ॥ लोचना (लो, औ) नीली नीलिरागः "कुसुम्भरागःऽ मञ्जिष्टारागश्चेत्यर्थः । ********** टीका सम्पूर्णा ********** तत्र-- न चातिशोभते यन्नापैति प्रेम मनोगतम् । तन्नीलीरागमाख्यातं यथा श्रीरामसीतयोः ॥ ३.१९६ ॥ कुसुम्भरागं तत्प्राहुर्यदपैति च शोभते । मञ्जिष्ठारागमाहुस्तद्यन्नापैत्यतिशोभते ॥ ३.१९७ ॥ ************* टीका ************* विज्ञप्रिया (वि, म) न चातिशोभते इति---अविस्पष्टत्वात्न चातिशोभते इत्यर्थः । श्रीरामसीतयोरिति---श्रीरामस्य धीरोदात्तत्वात्पुरूवस इवात्यन्तप्रलापाभावेन नातिशोभते इत्यर्थः । ********** टीका सम्पूर्णा ********** अथ मानः-- मानः कोपः स तु द्वेधा प्रणयेर्ष्यासमुद्भवः । ************* टीका ************* विज्ञप्रिया (वि, य) पूर्वरागानन्तरं मानमाह--अथेति---प्रणयेर्ष्येति । प्रणयेन ईर्ष्यया वा समुद्भवो यस्य तादृश इत्यर्थः । ********** टीका सम्पूर्णा ********** द्वयोः प्रणयमानः स्यात्प्रमोदे सुमहत्यपि ॥ ३.१९८ ॥ प्रेम्णः कुटिलगामित्वात्कोपो यः कारणं विना । द्वयोरिति नायकस्य नायिकायाश्च उभयोश्च प्रणयमानो वर्णनीयः । उदाहरणम् । तत्र नायकस्य यथा-- "अलिअपसुत्तअ णिमिलिअच्छ देसु सुहअ मज्झ ओआसम् । गण्डपरिउम्बणापुलैअङ्ग ! ण पुणो चिराइस्सं" ॥ ************* टीका ************* विज्ञप्रिया (वि, र) अलीअपसुत्तअ इति । अलीकप्रसुप्त विनिमीलताक्ष ते सुभग ममावकाशः । गण्डपरिचुम्बनात्पुलकितमङ्गं न पुनश्चिरयिष्यामि ॥ इति संस्कृतम् । प्रणयमानेन अलीकप्रसुप्तं नायकं चुम्बित्वा तेनाश्लाधिताया नायिकायास्तं प्रत्युक्तिरियम् । हे अलीकप्रसुप्त ! हे विनिमीलिताक्ष ! हे सुभग ! मया ते तव गण्डपरिचुम्बनया पुलकितमर्थात्तवाङ्गमेव ममावकाशो मम स्थित्यवकाशः । इदानीमपि उन्मीलनाभावेन तदभावनिश्चयात् । अतो न चिरयिष्यामीत्यर्थः । अत्र च"प्रागामन्त्रितमसकृदि"ति सूत्रेण ते इत्यस्य असम्भवो नाशङ्कनीयः । अव्यवहितपूर्वस्य आमन्त्रणपदस्यैवासत्तायास्तदर्थत्वात् । उपपूर्वामन्त्रणपदोत्तरं तु भवत्येव ते इत्यादेशः । लोचना (लो, अ) मानः उद्देशकमप्राप्त इत्यर्थः । प्रणयः प्रेम । अलिअ इति । अलीकप्रसुत ! निमीलताक्ष ! देहि सुभग ! मह्यवकाशम् । गण्डपिरचुम्बनात्पुलकिताङ्ग ! न पुनाश्चिरायिष्ये ॥ एतच्चिरायितायां नायिकायां सकलामपि शय्यामावृत्य मिथ्याप्रसुप्तस्य नायकस्य गण्डं परिचुम्ब्य तस्या वचनम् । ********** टीका सम्पूर्णा ********** नायिकाया यथा कुमारसंभवे संध्यावर्णनावसरे । ************* टीका ************* विज्ञप्रिया (वि, ल) कुमारसंभव इति । अत्र पार्वतीं त्यक्त्वा सन्ध्यावन्दनाय गते महेशे पार्वत्या माने तस्य तद्भङ्गप्रवृत्तौ तत्र हि "सन्ध्यया कमलयोनिकन्यया या तनुः सुतनु ! पूर्वमुज्झिता । सेयमस्तमुदयञ्च सेवते तेन मानिनि ! ममात्र गौरवम् ॥ ऽ इत्यादि महेशोक्तौ । ********** टीका सम्पूर्णा ********** उभयोर्यथा-- "पणअकुविआणं देण्ह विं अलिअसुत्ताणां माणैल्लाणम् । णिच्चलणिरुद्धणीसासदिण्णअण्णाणं को मल्लो" ॥ ************* टीका ************* विज्ञप्रिया (वि, व) पणअकुविदेति---"प्रणयकुपितयोर्द्वयोरप्यलीकप्रसुप्तयोर्मानविज्ञयोः । निश्चलनिरुद्धनिः श्वासदत्तकर्णयोः को मल्लः ॥ "इति संस्कृतं को मल्लः को मानरक्षणसमर्थः । लोचना (लो, आ) पणत्र इति--- "प्रणयकुपितयोर्द्वयोरप्यलीकप्रसुप्तयोर्मानवतोः । निश्चलनिरुद्धनिः श्वासदत्तकर्णयोः को मल्लः" ॥ अत्र को मल्लः कश्चिरं सोढुं समर्थः न ज्ञायते इति भावः । ********** टीका सम्पूर्णा ********** अनुनयपर्यन्तासहत्वे त्वस्य न विप्रलम्भभेदता, किन्तु संभोगसञ्चार्याख्यभावत्वम् । ************* टीका ************* विज्ञप्रिया (वि, श) न विप्रलम्भभेदता न विप्रलम्भप्रभेदता । भ्रूभङ्गे इति मानरक्षणासमर्थाया नायिकायाः सख्यामुक्तिरियम् । ********** टीका सम्पूर्णा ********** यथा-- "भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते रुद्धायामपि वाचि सम्मितमिदं दग्धाननं जायते । कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चमालम्बते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने" ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) मया भ्रूभङ्गे रचितेऽपि मम दृष्टिस्तं प्रियं सोत्कण्ठमुद्वीक्षते । इत्यादिरीत्या तस्मिन् जने प्रियतमे दृष्टे सति कथं मानस्य निर्वहणं निर्वाहो भविष्यतीत्यन्वयः । दग्धाननं गर्हितं ममाननम् । ********** टीका सम्पूर्णा ********** यथा वा-- "एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् । दंपत्योः शनकैरपाङ्गबलनान्मिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहः" ॥ प्रत्युरन्यप्रियासङ्गे दृष्टेऽथानुमिते श्रुते ॥ ३.१९९ ॥ ईर्ष्या मानो भवेत्स्त्रीणां तत्र त्वनुमितिस्त्रिधा । उत्स्वष्नायितभोगाङ्कगोत्रस्खलनसंम्भवा ॥ ३.२०० ॥ लोचना (लो, इ) ईर्ष्येति---ईर्ष्याख्यभावत्वं संचारिलक्षणयोगात् । उत्स्वन्पायितमिति---उत्स्वप्रायितं स्वप्रे चेष्टा । स्वप्रस्योद्रमनकाल एव तत्कथनाय उत्थानम् । गोत्रस्खलनं संबोधने तन्नामग्रहणम् । ********** टीका सम्पूर्णा ********** तत्र दृष्टे यथा-- "विनयति सुदृशो दृशोः परागं प्रणयिनि कौसुममाननानिलेन । तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरजोभिरापुरूरे" ॥ ************* टीका ************* विज्ञप्रिया (वि, स) उत्स्वप्रायितं पत्युरन्यनायिकासङ्गस्य स्वप्ने दर्शनम् । यथा मम---"सखि ! त्वं किं ब्रूषे न भवति मदन्यत्र निरतः पतिर्मे धूर्त्तोऽसावृजुरसि न जानासि तमिमम् । समुद्रत्यागारादपरयुवतीसङ्गनिरतो मया दृष्टः स्वप्ने तदलमिह संप्रीतिकथया ॥ "पत्युरन्यप्रियासङ्गे दृष्टे उदाहरति---विनयतीति । सपत्नीरूपायाः सुदृशो दृशः । ईर्ष्यामानः । ********** टीका सम्पूर्णा ********** संभोगचिह्नेनानुमिते यथा-- "नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नपवरिमलगन्धः केन शक्यो वरीतुम्" ॥ एवमन्यदपि । ************* टीका ************* विज्ञप्रिया (वि, ह) नवनखेति---अन्यनायिकासङ्गचिह्नखपदादिमंशुकादिना यद्यपि गोपायितुं शक्नोषि तथापि विमर्देत्थाङ्गरागगन्धः केन प्रकारेण वारयितुं शक्य इति वाक्यार्थः । एवमन्यत्रेति । उत्स्वप्नायिते उदाहृतमेव । गोत्रस्खलिते यथा---"एकस्मिन् शयने विपक्षरमणीनामग्रहे मुग्धया सद्यः कोपपराङ्मुखं शयितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमः तूष्णीं स्थितः तत्क्षणाद्माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वोक्षितः ॥ "यथा वा मम । "परसक्तासक्तः सखि ! मम स यत्चाटु कुरुते समस्तोऽसौ व्याजप्रणय इति जानीहि नियतम् । तदा तां तु ध्यायन् स खलु कितवः केलिसमये मुहुस्तस्य नाम्ना ननु रहसि सम्बोधयति माम् ॥ "इति । ********** टीका सम्पूर्णा ********** साम भेदोऽथ दानं च नत्युपेक्षे रसान्तरम् । तद्भङ्गाय पतिः कुर्यात्षडुपायानिति क्रमात् ॥ ३.२०१ ॥ तत्र प्रियवचः साम भेदस्तत्सख्युपार्जनम् । दानं व्याजेन भूषादेः पादयोः पतनं नतिः ॥ ३.२०२ ॥ सामादौ तु परिक्षीणो स्यादुपेक्षावधीरणम् । रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ॥ ३.२०३ ॥ ************* टीका ************* विज्ञप्रिया (वि, क्ष) नत्युपेक्षे । नतिश्च उपेक्षा च इति । तत्सक्युपार्जनमिति । तस्याः मानिन्याः सख्या उपार्जनमाप्तीकरणमित्यर्थः । व्याजेन भूषादेर्दानं दानमित्यर्थः । एकमेवात्र दानपदमुद्दिश्य विधेयोभयात्मकम् । रभसत्रासाकस्मिकत्रासः हर्षादेरित्यादिपदातुत्कटकार्ययतिपातपरिग्रहः । लोचना (लो, ई) प्रसङ्गात्मानभङ्गोपायानाह । सामेति । प्रवास उद्वेशकमप्राप्त । ********** टीका सम्पूर्णा ********** यथा-- "नो चाटुश्रवणं कृतम्ऽ--इत्यादि (१२९ पृदृ) । अत्र सामादयः पञ्च सूचिताः । रसान्तरमूह्यम् ॥ ************* टीका ************* विज्ञप्रिया (वि, क) नो चाट्विति । कलहान्तरितोदाहरणम् । अत्र नोचाट्वित्यत्र साम । नच दृशेत्यत्र दानम् । निजसखीवाच इत्यत्र भेदः सखीनामाप्तिकरणरूपः । आप्तिभावादेव कान्तस्य प्रयहेतुवाक्यकथनात् । पादान्त इत्यत्र नतिः । गच्छन्नित्यत्र उपेक्षा एताः पञ्च सूचिता इत्यर्थः । एभिरुपायैरस्य मानभङ्गाभावेऽपि न तदुपायहीनिः तस्यामजातोद्वेगरूपसहकारिविरहेण फलानुत्पादनात् । पश्चात्तु तत्प्राप्त्यां भग्न एव मानः । रसान्तरन्तूह्यमिति--हर्षाद्यथा---"चिरप्रवासात्सुहृदि प्रयाते यस्तत्र हर्षो मिथुनस्य जातः । तन्मानिमीमानविघातहेतुः स एव यातः चटुलाविमानी ॥ "अत्र तन्मानिनी तन्मिथुनीयमानिनी । अत्र हर्ष एव व्यभिचारिभावो रसान्तरम् । भयाद्यथा---"प्रवृत्ते मानभङ्गाय पत्यौ नाग उपागतः । तं दृष्ट्वा सहसा कण्ठे पतिं जग्राह मानिनी ॥ "इति । अत्र भयानको रसान्तरम् । ********** टीका सम्पूर्णा ********** अथ प्रवासः-- प्रवासो भिन्नदेशित्वं कार्याच्छापाच्च संभ्रमात् । तत्राङ्गचेलमालिन्यमेकवेणीधरं शिरः ॥ ३.२०४ ॥ निः श्वासोच्छ्वासरुदितभूमिपातादि जायते । ************* टीका ************* विज्ञप्रिया (वि, ख) विप्रलम्भस्य पूर्वरागमानप्रवासकरुणरूपचातुर्विध्यस्य उक्तत्वात्पूर्वरागं मान्ञ्च समाप्य प्रवासमाह---अथ प्रवास इति । ********** टीका सम्पूर्णा ********** किञ्च-- अङ्गेष्वसौष्ठवं तापः पाण्डुता कृशतारुचिः ॥ ३.२०५ ॥ अधृतिः स्यादनालम्बस्तमनयोन्मादमूर्च्छनाः । मृतिश्चेति क्रमाज्ज्ञेया दश स्मरदशा इह ॥ ३.२०६ ॥ असौष्ठवं मलापत्तिस्तापस्तु विरहज्वरः । ************* टीका ************* विज्ञप्रिया (वि, ग) अङ्गासौष्ठवादेर्लक्षणमाह---असौष्ठवमनायत्तिरिति । अनायत्तिरस्वाधीनता । ********** टीका सम्पूर्णा ********** अरुचिर्वस्तुवैराग्यं सर्वत्रारागिताधृतिः ॥ ३.२०७ ॥ अनालम्बनता चापि शून्यता मनसः स्मृता । तन्मयं तत्प्रकाशो हि बाह्याभ्यन्तरतस्तथा । शेषं स्पष्टम् । एकदेशतो यथा मम तातपादानाम् -- "चिन्ताभिः स्तिमितं मनः, करतले लीना कपोलस्थली, प्रत्यूषक्षणदेशपाण्डु वदनं श्वासैकखिन्नोऽधरः । अम्भः शीकरपद्मिनीकिसलयैर्नापैति तापः शमं, कोऽस्याः प्रार्थितदुर्लभोऽस्ति सहते दीनां दशामीदृशीम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, घ) चिन्ताभिः स्तिमितमिति । पत्यौ प्रवासस्थे करतले गण्डं कृत्वा चिन्तयन्तीं प्रति कस्यचिदुक्तिरियम् । ********** टीका सम्पूर्णा ********** भावी भवन्भूत इति त्रिधा स्यात्तत्र कार्यजः ॥ ३.२०८ ॥ कार्यस्य बुद्धिपूर्वकत्वात्त्रैविध्यम् । तत्र भावी यथा मम-- ************* टीका ************* विज्ञप्रिया (वि, ङ) प्रवासस्य कार्य्यात्शापातित्यादि त्रैविध्यस्योक्तत्वात्कार्य्यजमेव त्रिविधमाह--भावीति । कार्य्यानुरोधेन प्रवासस्त्रिविध इत्यर्थः । तस्य बुद्धीति । बुद्धिः कार्य्यज्ञानम् । ********** टीका सम्पूर्णा ********** "यामः सुन्दरि, याहि पान्थ, दयिते शोकं वृथा मा कृथाः, शोकस्ते गमने कुतो मम ततो वाष्पं कथं मुञ्चसि । शीघ्रं न व्रजसीति मां गमयितुं कस्मादियं ते त्वरा, भूयानस्य सह त्वया जिगमिषोर्जोवस्य मे संभ्रमः" ॥ ************* टीका ************* विज्ञप्रिया (वि, च) यामः सुन्दरीति । द्वयोरुक्तिप्रत्युक्ती इमे । तत्र सुन्दरीत्यन्तं पत्युः । याहि पान्थेति प्रियायाः । मा कृथा इत्यन्तं पत्युः । शोक इत्यादिकं ममेत्यन्तं प्रियायाः । तत इत्यादि मुञ्चसीत्यन्तं पत्युः । शीघ्रं न व्रजसीत्यन्तं प्रियायाः । त्वरेत्यन्तं पत्युः । भूयानित्यादि प्रियायाः । त्वया सह जिगमिषोः अस्य मे जीवस्य भूयान् संभ्रमस्त्वरेत्यर्थः । लोचना (लो, उ) याम इति । तव गमने मम कुतः शोकः जीवनाभावादिति भावः । शीघ्रनं न व्रजसीति । त्वामग्रे पश्यन्त्या मम तवागमनस्यप्यशङ्का । तया धारयन्त्या नास्य मोचनमित्याशयः । मयि कृतकप्रेमकवस्तब न खलु कदाचिद्गमनम् । ततश्च दुराशयान्दोलितत्वेन प्राणानामाकुलीभावोऽयमसहनीय इति । तत्रावश्यंभाविनि गमने हससोत्पन्ने एषामपि निर्याण आकुलीभावो निवर्त्ततामिति । ********** टीका सम्पूर्णा ********** भवन् यथा-- "प्रस्थानं वबयैः कृतं, प्रियसखैरस्त्रैजस्त्रं गतं, धृत्या न क्षणमासितं, व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित ! प्रियसुहृत्सार्थः किमु त्यज्यते" ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) प्रस्थानं वलयैः कृतमिति । स्वजीवितं सम्बोध्य प्रियाया उक्तिरियम् । हे जीवित ! प्रियतमे यातुं निश्चितचेतसि सति तवापि गन्तव्ये गतत्वे सति वलयादिप्रियसुहृत्सार्थः । किमु त्यज्यते तेनैव सह गम्यतामित्यर्थः । वलयादयः सर्वेऽपि समं प्रस्थिताश्चलिताः । तेषां प्रस्थानमाह---प्रस्थानमिति । प्रस्थानं यात्रा बहुदिनव्यापकतद्वार्त्तया कार्श्येन वलयभ्रंशः गतं चलितम् । अत्र पृथक्प्रियसुहृत्त्वोपादानमत्यन्तप्रियत्वप्रतिपादनाय । तच्च मरणहेतुशोकादिदुः खेऽप्यश्रुपातेन तद्दुः खस्य किञ्चिदुपशमात् । जीवनरक्षा भवत्यतः स्वरक्षाकरित्वेनात्यन्तं प्रियत्वम् । ********** टीका सम्पूर्णा ********** भूतो यथा-- "चिन्ताभिः स्तिमितम्-ऽइत्यादि (२०० पृदृ) शापद्यथा-- "तां जानीयाः--ऽइत्यादि (१३० पृदृ) संभ्रमो दिव्यमानुषनिर्घातोत्पातादिजः । यथा--विक्रमोर्वश्यामुर्वशीपुरूरवसोः । अत्र पूर्वरागोक्तानामभिलाषादीनामत्रोक्तानां चाङ्गासौष्ठवादीनामपि दशानानुभयेषामप्युभयत्र सम्भवेऽपि चिरन्तनप्रसिद्ध्या विविच्य प्रतिपादनम् । अथ करुणविप्रलम्भः-- ************* टीका ************* विज्ञप्रिया (वि, ज) उर्वशीपुरूरवसोरिति । तयोर्वृत्तान्ते इत्यर्थः । पुरूरवस एव विप्रलम्भात् । तत्र च देवेन उर्वश्या हरणमेव दैव उत्पातः । ********** टीका सम्पूर्णा ********** यूनोरेकतरस्मिन्गतवति लोकान्तरं पुनार्लभ्ये । विमनायते यदैकस्तदा भवेत्करुणविप्रलम्भाख्यः ॥ ३.२०९ ॥ यथा--कादम्बर्यां तुण्डरीकमहाश्वेतावृत्तान्ते । ************* टीका ************* विज्ञप्रिया (वि, झ) पुण्डरीकेति । तत्र महाश्वेताया मरणे आकाशसरस्वत्याः पुनर्लभ्यत्वमुक्तम् । तथा च तत्र विप्रलम्भ एव इत्युक्त्वा प्रथमं करुणः पश्चात्तु विप्रलम्भ इत्यभियुक्तानां मतं दर्शयितुमाह--किञ्चेति । मरणविशेषसम्भवादिति । यथा पूर्वरागमानप्रवासरूपा विशेषास्तथा मरणस्यापि विशेषस्य सम्भवादेतद्भेदेन प्रवासभिन्नमपीत्यर्थः । लोचना (लो, ऊ) करुणविप्रलम्भाख्यः करुणाख्यो विप्रलम्भः । कादम्बर्यां पुण्डरीके मृते महाश्वेताया विलापः । एतद्ग्रन्थकृतः कुवलयाश्वचरिते च युवतेर्मदालसायस्तथाभावे कुवलयाश्वस्य शरीरान्तरेण लभ्ये अजेन्दुमतीवृत्तान्तवत् । आकाशसरस्वतीभाषान्तरे त्वयासौ पुनर्लभ्ये इति । ********** टीका सम्पूर्णा ********** पुनरलभ्ये शरीरान्तरेण बालभ्ये तु करुणाख्य एव रसः । किञ्चात्राकाशसारस्वतीभाषानन्तरमेव शृङ्गारः, सगमप्रत्याशाया रतेरुद्भवात् । प्रथमं तु करुण एव, इत्यभियुक्ता मन्यन्ते । यच्चात्र "सङ्गमप्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्य प्रवासाख्यो भेद एव" इति केचिदाहुः, तदन्ये "मरणरूपविशेषसंभवात्तद्भिन्नमेव" इति मन्यन्ते । लोचना (लो, ऋ) यच्चात्रेत्यादि । अयमाशयः---यथा भवद्भिरेकदेशस्थयोर्वियोगो विरहाख्यः विदेशस्थयोः प्रवासाख्य इति ईषद्भिन्नधर्मयोगेऽपि भेदः स्वीकृतः । अस्माभिस्तस्मिन्नेव शरीरे वियोगः--प्रवासाख्यः, शरीरान्तरे तु करुण इति बहुतरभिन्नयोगे इति का क्षतिः । यत्तु कैश्चिदभिलाषप्रवासेर्ष्याविरहशापहेतुकत्वेन पञ्चधा विप्रलम्भैत्युक्तं तत्र सङ्गमप्रागभावरूपोऽभिलाषः पूर्वराग एव । एकदेशस्थयोरपि गुर्वादिवशाद्सङ्गमोपरोधस्वरूपः विरहश्च॑ यदि कन्याविषयस्तदा पूर्वराग एव । यदा तु परोढाविषयः तदा रसाभावसत्त्वात्न शृङ्गररसभेदः, यदि तूपभुक्तनायिकाविषयस्तदास प्रावासाख्यभेदान्तः पातः । एवमेव च शापतोऽप्यन्तराये स्वदेशस्थयोरपि प्रवासाख्यभेदमेवाचख्यते । अत्र एव महर्षिणा प्रवासदशदशालक्षणे"पूर्वानुभव जा ज्ञेया दश स्मरदशा इह"इति पूर्वानुभवत्वमुक्तम् । पूर्वानुभावः पूर्वोपभोगानुभवः । एवं च पूर्वरागोऽनुपभुक्त इति विषयः । तथा च एकदेशस्थयोर्भिन्नदेशस्थयोर्वा पूर्वरागप्रवासौ भवतः । यत्तु प्रवासलक्षणे भिन्नदेशत्वमुक्तं तद्व्यवहितत्वमात्रविषयम् । यदि चैकदेशस्थयोर्न प्रवासस्तत्कथय कियति योजने कियति वा कोशेऽसौ महर्षिभिर्निरूपितः । कथं वा दूरदेशस्थयोर्नलदमयन्त्योः प्रद्युम्नप्रभावत्योर्हंसमुखा गुणश्रवणानन्तरं पुर्वंरागस्तया चकवाकयोस्तृणमात्रव्यवधानेऽपि शाप्रवासा ख्यशृङ्गाराभास इति सर्वं सुस्थम् । ********** टीका सम्पूर्णा ********** अथ संभोगः-- दर्शनस्पर्शनादीनि निषेवेते विलासिनौ । यत्रानुरक्तावन्योन्यं संभोगोऽयमुदाहृतः ॥ ३.२१० ॥ लोचना (लो, ॠ) संभोग इति---संभोगः सम्भोगाख्यो भेदः । विलासी चावालासिनी च विलासिनौ । ********** टीका सम्पूर्णा ********** आदिशब्दादन्योन्याधरपानचुम्बनादयः । यथा-- "शून्यं वासगृहम्--" (२२ पृदृ) इत्यादौ । ************* टीका ************* विज्ञप्रिया (वि, ञ) दर्शनस्पर्शनादीनीति---अन्योऽन्यमित्यस्यायमर्थः । कदाचितेकैकेन कदाचित्तूभयेन नापि दर्शनादिकं क्रियत इत्यर्थः । तेन एकैकस्य दर्शनादौ अपि सम्भोगो बोद्ध्यः । "शून्यं वासगृहऽ मित्यादौ उभयोरेव । "यान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥ "इत्यत्र गजोपरि स्थिताया मालत्या दर्शनम् । माधवस्य तु विप्रलम्भ एव । ********** टीका सम्पूर्णा ********** संख्यातुमशक्यतया चुम्बनपरिरम्भणादिवहुभेदात् । अयमेक एव धीरैः कथितः संभोगशृङ्गारः ॥ ३.२११ ॥ तत्र स्यादृतुषट्कं चन्द्रादित्यौ तथोदयास्तमयः । जलकेलिवनविहारप्रभातमधुपानयामिनीप्रभृतिः ॥ ३.२१२ ॥ अनुलेपनभूषाद्या वाच्यं शुचि मेध्यमन्यच्च । तथा च भरतः-- "यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तत्सर्वं शृङ्गारेणोपमीयते (उपयुज्यते च)" इति । ************* टीका ************* विज्ञप्रिया (वि, ट) वाच्यं शुचिमेध्यमिति---शुचि शुद्धं वस्त्रादि, मेध्यं पवित्रमन्यद्वा यत्तदुद्दीपनविभावरूपतया वाच्यमित्यर्थः । शृङ्गारेणोपमीयते इति । शृङ्गारेण हेतुना उपमीयते तदुद्दीपनतया उपमीयते उपस्थाप्यते इत्यर्थः । वर्ण्यते इति यावत् । युज्यते इति श्रृङ्गारे तदुपयोगात् । लोचना (लो, ळ) संख्यातुमिति---परिरम्भणादित्यादिशब्दात्विभावानुभाववैचित्र्यम् । तत्र स्यादित्यनन्तरं यथासंभवं विभावादिरूपेणेति बोद्धव्यम् । यत्किञ्चित्दर्शनीयं शय्यागृहादि । ********** टीका सम्पूर्णा ********** किञ्च-- कथितश्चतुर्विधोऽसावानन्तर्यात्तु पूर्वरागादेः ॥ ३.२१३ ॥ यदुक्तम्-- "न बिना विप्रलम्भेन संभोगः पुष्टिमश्नुते । कषायिते हि वस्त्रादौ भूयान् रागो विवर्धते" ॥ इति । तत्र पूर्वरागानन्तरं संभोगो यथा कुमारसम्भवे पार्वतीपरमेश्वरयोः । ************* टीका ************* विज्ञप्रिया (वि, ठ) सम्भोगशृङ्गारस्य एवविधत्वमुक्त्वा पूर्वरागाद्यानन्तर्येण तस्य चातुर्विध्यं वक्तुमाह--किञ्चेति । कषायिते प्रथमं किञ्चिद्रक्तीकृते । पार्वतीपरमेश्वरयोरिति---अत्रापि तयोर्वृत्तान्ते इत्यर्थः । पूर्वरागसंभोगो मदनदाहानन्तरं विवाहे सति पार्वतीपरमेश्वरयोः । एवं मालतीमाधवयोरपि बोध्यम् । ********** टीका सम्पूर्णा ********** प्रवासानन्तरं सम्भोगो यथा मम तातपादानाम्-- "क्षेमं ते ननु पक्ष्मलाक्षि !- किसअं खेमं महङ्गं दिढं, एतादृक्कृशता कुतः तुह पुणो पुट्ठं सरीरं जदो । केनाहं पृथुलः प्रये !- पणैणीदेहस्स सम्मेलणात्, त्वत्तः सुभ्रु ! न कपि मे, जै इदं खेमं कुदो पुच्छसि" ॥ लोचना (लो, ए) किसअमिति---कृशकं क्षेमं ममाङ्गं दृढम् । तुहेति--तव पुनः पुष्टं शरीरं यतः । पणैणीति---प्रणयिनीदहस्य संभिश्रणात् । जै इति--- यदि इदं क्षेमं कुतः पृच्छसि । अयमर्थः---यदाहमेव प्रणयिनी किमिति मां परिहृत्य दूरं गतोऽसि यद्धेतुकस्तवायं प्रश्रः । सम्भोगः संयुक्तनायकविषयः । संयोगवियोगौ च परस्परायत्ततारूपौ तेन दूतिप्रषणादेः संभोगविषयत्वम् । ईर्ष्यामानादेश्च विप्रलम्भविषयत्वमविरुद्धम् । ********** टीका सम्पूर्णा ********** एवमन्यत्राप्यूह्यम् । ************* टीका ************* विज्ञप्रिया (वि, ड) क्षेमं ते ननु इत्यादि---इमे दम्पत्योरुक्तिप्रत्युक्ती । तत्र प्रवासादगतस्य पत्युः संस्कृतोक्तिः॑ तत्पत्न्याः प्राकृतोक्तिः । प्रथमसंस्कृतेन पृच्छा नायकस्य॑ प्राकृतेनोत्तरं प्रियायाः । एवमुत्तरोत्तरम् । कीदृशं क्षेमं ममाङ्गं दृढमित्यर्थः । पुट्ठमिति---तव पुनः शरीरं पुष्टं यत इत्यर्थः । पणैणीति---प्रणयिन्या मम देहस्य संभिश्रणात्संकोचात्कृशीकरणादित्यर्थः । एतावत्कालं तव वैदेश्यात्, निश्चितेन तवानुरागेण यतोऽहं कृशा॑ अतो मां कृशां कृत्वा मन्मासेन तव शरीरं पुष्टमित्यर्थः । त्वत्त इति । हे सुभ्रु ! त्वत्तः कापि न मे कापि पुष्टिः इत्यर्थः । जै इदमिति यदीदं तदा क्षेमं कुतः पृच्छसि । स्वानुरागविषयस्यैव क्षेमपृच्छा । मत्कार्श्येऽपि तव पष्ट्या च मयि तवानुरागाभावेनैव पुष्टिः । अनुरागसत्त्वे तु मद्विरहात्कार्श्यं स्यादिति भावः । एवमन्यत्रेति---करुणविप्रलम्भानन्तरं सम्भोग इत्यर्थः । तत्र च मरणानन्तरं जीवने महाश्वेतापुण्डरीकयोः सम्भोगे । ********** टीका सम्पूर्णा ********** अथ हास्यः-- विकृताकारवाग्वेषचेष्टादेः कुहकाद्भवेत् । हास्यो हाससथायिभावः श्वेतः प्रथमदैवतः ॥ ३.२१४ ॥ विकृताकारवाक्चेष्टं यमालोक्य हसेज्जनः । तमत्रालम्बनं प्राहुस्तच्चेष्टोद्दीपनं मतम् ॥ ३.२१५ ॥ अनुभावोऽक्षसङ्कोचवदनस्मेरतादयः । निद्रालस्यावहित्थाद्या अत्र स्युर्व्यभिचारिणः ॥ ३.२१६ ॥ ज्येष्ठानां स्मितहसिते मध्यानां विहसितावहसिते च । नीचानामपहसितं तथातिहसितं तदेष षड्भेदः ॥ ३.२१७ ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) ज्येष्ठानामिति---उत्तमानां नायकानामित्यर्थः । स्मितहसित इति---कस्याचिदुत्तमनायकस्य स्मितं कस्यचित्तु हसितमित्यर्थः । एवमुत्तरोत्तरमपि एकैकस्य एकैकमिति षड्भेदा । लोचना (लो, ऐ) हास्य इति---विकृताद्विकियायुक्ताद वाग्वेशचेष्टादेः कुहकाख्यवञ्चनाप्रयोगाच्च हास्यरसो भवेदिति सम्बन्धः । प्रमथाः शिवगणविशेषाः । यद्वस्तु । ज्येष्टानामुत्तमप्रकृतीनाम् । ********** टीका सम्पूर्णा ********** ईषद्विकासिनयनं स्मितं स्यात्स्पन्दिताधरम् । किञ्चिल्लक्ष्यद्विजं तत्र हसितं कथितं बुधैः ॥ ३.२१८ ॥ मधुरस्वरं विहसितं सांसशिरः कम्पमवहसितम् । अपहसितं सास्त्राक्षं विक्षिप्ताङ्गं च भवत्यतिहसितम् ॥ ३.२१९ ॥ यथा-- "गुरोगिरः पञ्चदिनानधीत्य वेदान्तशास्त्राणि दिनत्रयं च । अमी समाघ्राय च तर्कवादान्समागताः कुक्कुटमिश्रपादाः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ण) स्मितादिलक्षणमाह । ईषदिति । गुरोर्गिर इति---कुक्कुटमिश्रपादोपहासः । ********** टीका सम्पूर्णा ********** अस्य लटकमेलकप्रभृतिषु परिपोषो द्रष्टव्यः । लोचना (लो, ओ) अत्र कुक्कुटमिश्रपादा आलम्बनम् । तेषां च पञ्चदिनाध्ययनादय उद्दीपनानि । कायोच्छ्वसनदृष्टिसङ्कोचादयो हर्षावहित्थादयश्च अनुभावव्यभिचारिणः अनुक्ता अपि सामर्थ्याल्लभ्याः । एवमन्यत्रापि । ********** टीका सम्पूर्णा ********** अत्र च-- यस्य हासः स चेत क्वापि साक्षान्नैव निबध्यते । तथाष्येष विभावादिसामर्थ्यादुपलभ्यते ॥ ३.२२० ॥ अभेदेन विभावादिसाधारण्यात्प्रतीयते । सामाजिकैस्ततो हास्यरसोऽयमनुभूयते ॥ ३.२२१ ॥ ************* टीका ************* विज्ञप्रिया (वि, त) अत्र चोत्तमादिषु य उपहासकस्तस्य स्मितादिकमुन्नेयम् । साक्षान्नेव निबध्यत इति । नशब्देन वाच्य इत्यर्थः । अभेदेनेति---स उपहासकः सामाजिकैः विभावादिसाधारण्यात्यतः अभेदेन प्रतीयते ततो हास्यरसोऽयमनुमीयत इत्यर्थः । विभावादिसाधारण्यञ्च उपहासकस्य यो विभावादिरूपो हसनीयवैकृत्यादिः, तत्र सामाजिकस्यापि स्वोपहसनीयत्वाद्यारोप्यः । स च स्वात्मनि उपहासकाभेदारेपात् । ततश्च स्वनिष्ठहासे उपहासकहासाभेदारोपः विभावादीनां साधारणीकरणव्यापारात् । ततश्च स्वादनाख्येन व्यापारेण हास्यरस आस्वाद्यत इति पूर्वापरग्रन्थनिष्कर्षः । एवमेव रसान्तरेऽपि रीतिः । ********** टीका सम्पूर्णा ********** एवमन्येष्वपि रसेषु बोद्धव्यम् । अथ करुणः-- इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् । धीरैः कपोतवर्णोऽयं कथितो यमदैवतः ॥ ३.२२२ ॥ शोकोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् । तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ॥ ३.२२३ ॥ अनुभावा दैवनिन्दाभूपातक्रन्दितादयः । वैवर्ण्योच्छ्वासनिः श्वासस्तम्भप्रलपनानि च ॥ ३.२२४ ॥ निर्वेदमोहापस्माख्याधिग्लानिस्मृतिश्रमाः । विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥ ३.२२५ ॥ शोच्यं विनष्टबन्धुप्रभृति । यथा मम राघवविलासे-- "विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः । अनयोर्घटना विधेः स्फुटं ननु खड्गेन शिरीषकर्त्तनम्" ॥ अत्र हि रामवनवासजनितशोकार्त्तस्य दशरथस्य दैवनिन्दा । एवं बन्धुवियोगविभवनाशादावप्युदाहार्यम् । परिपोषस्तु महाभारते स्त्रीपर्वणि द्रष्टव्यः । ************* टीका ************* विज्ञप्रिया (वि, थ) विपिने क्वेति स्पष्टम् । एवं बन्धुवियोगेति । तत्र बन्धुवियोगे यथा---"हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्वाशिषः धिक्प्राणान् पतितोऽशनिर्हुतवहस्तेऽङ्गेषु दग्धे दृशौ । इत्थं घर्घरमध्यरुद्धकरुणापौराङ्गनानां गिरः चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥ "इदं मदालसायां मृतायां पुरस्त्रीणां रोदनस्य केनापि कथनम् । वित्तनाशे यथा-"किं करोमि क्क गच्छामि शरणं क्क व्रजाम्यहम् । चिरेणोपर्ज्जितं वित्तं दस्युनापहृतं मम" ॥ इति । ********** टीका सम्पूर्णा ********** अस्य करुणविप्रलम्भाद्भेदमाह-- शोकस्थायितया भिन्नो विप्रलम्भादयं रसः । विप्रलम्भे रतिः स्थायी पुनः संभोगहेतुकः ॥ ३.२२६ ॥ ************* टीका ************* विज्ञप्रिया (वि, द) पुनः सम्भोगहेतुक इति । पूर्वरागमानप्रवासहेतुकत्वे करुणसाङ्कर्य्यशङ्कैव नास्ति । मरणे सत्येव तत्साङ्कर्यसम्भावना । तत्र पुनः सम्भोगसम्भावनासत्त्वे विप्रलम्भः । पुनः सम्भोगहेतुकः पुनः सम्भोगसम्भावनाहेतुक इत्यर्थः । ********** टीका सम्पूर्णा ********** अथ रौद्रः-- रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः । आलम्बनमरिस्तत्र तच्चेष्चोद्दीपनं मतम् ॥ ३.२२७ ॥ मुष्टिप्रहारपातनविकृतच्छेदावदारणैश्चैव । संग्रामसंभ्रमाद्यैरस्योद्दीप्तिर्भवेत्प्रौढा ॥ ३.२२८ ॥ भ्रविभङ्गौष्ठनिर्देशबाहुस्फोटनतर्जनाः । आत्मावदानकथनमायुधोत्क्षेपणानि च ॥ ३.२२९ ॥ अनुभावास्तथाक्षेपक्रूरसंदर्शनादयः । उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः ॥ ३.२३० ॥ मोहामर्षादयस्तत्र भावाः स्युर्व्यभिचारिणः । यथा-- "कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः । नरकरिपुणा सार्धं तेषां सभीमकिरीटिना- मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ध) कृतमनुमतमिति । अर्जुनं सम्बोध्य क्रुद्धस्य अश्वत्थाम्न उक्तिरियम् । इदं स्वयं मृतस्य मम पितुः शिरच्छेदरूपं गुरुपातकं यैरुदायुधैर्मनुजपशुभिर्निर्मयादैर्भवद्धिः कृतमनुमतं दृष्टं वा नरकासुरस्य रिपुणा श्रीकृष्णेन सार्द्धं सभीमकिरीटिनां तेषां मेदोमांसैः दिशां दिक्स्थितभूतानां बलिमयमहमेतत्क्षणवर्त्तो अहं करोमीत्यर्थः । किरीटी अर्जुनः । मेदस्तैलम् । नरकरिपुपदोपादानात्नरकहेतुपातकहन्तारं गुरुपातककारिणञ्च हनिष्यामीति सूचनात्मत्क्रोधे जगदेव नङ्क्ष्यति इति सूचितम् । लोचना (लो, औ) कृतमनुमतमिति । तेषां भवताम् । ********** टीका सम्पूर्णा ********** अस्य युद्धवीराद्भेदमाह-- रक्तास्येनेत्रता चात्र भेदिनी युद्धवीरतः ॥ ३.२३१ ॥ अथ वीरः-- उत्तमप्रकृतिर्वोर उत्साहस्थायिभावकः । महेन्द्रदैवतो हेमवर्णोऽयं समुदाहृतः ॥ ३.२३२ ॥ आलम्बनविभावास्तु विजेतव्यादयो मताः । ************* टीका ************* विज्ञप्रिया (वि, न) धर्मवीरदानवीरयुद्धवीरदयावीररूपतया वीररसस्य चातुर्विध्यं वक्ष्यते । तेषामालम्बनादिभेदो विजेतव्यादय इत्यादि सर्वग्रहार्थमादिपदम् । ********** टीका सम्पूर्णा ********** विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः । अनुभावास्तु तत्र स्युः सहायान्वेषणादयः ॥ ३.२३३ ॥ सञ्चारिणास्तु धृतिमतिगर्वस्मृतितर्करोमाञ्चाः । स च दानदर्मयुद्धैर्दयया च समन्वितश्चतुर्धा स्यात् ॥ ३.२३४ ॥ स च वीरो दानवीरो धर्मवीरो युद्धवीरो दयावीरश्चेति चतुर्विधः । तत्र दानवीरो यथा परशुरामः-- "त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः" इति । अत्र परशुरामस्य त्यागे उत्साहः स्थायिभावः, संप्रदानभूतब्राह्मणैरालम्बनविभावैः सत्त्वाध्यवसायादिभिश्चोद्दीपनविभावैविभावितः, सर्वस्वत्यागादिभिरनुभावैरनुभावितो, हर्षधृत्यादिभैः संचारिभिः पुष्टिं नीतो दानवीरतां भजते । ************* टीका ************* विज्ञप्रिया (वि, प) त्यागः सप्तसमुद्रेति---सप्तसमुद्रावृत्तया मह्या निर्व्याजदानपर्य्यन्तः त्याग इत्यर्थः । सत्त्वाध्यवसायः सात्विकक्रियाभावितः । पूर्वोक्तप्रकारेण ज्ञापितः । ********** टीका सम्पूर्णा ********** धर्मवीरो यथा युधिष्ठिरः-- "राज्यं च वसु देहश्च भार्या भ्रातृसुताश्च ये । यच्च लोके ममायत्तं तद्धर्माय सदोद्यतम्" ॥ युद्धवीरो यथा श्रीरामचन्द्रः-- भो लङ्केश्वर ! दीयतां जनकजा रामः स्वयं याचते कोऽयं ते मतिविभ्रमः स्मर नयं नाद्यापि किंचिद्रतम् । नैवं चेत्खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः पत्त्री नैष सहिष्यते मम धनुर्ज्याबन्धबन्धूकृतः" ॥ ************* टीका ************* विज्ञप्रिया (वि, फ) भो लङ्केश्वर इति । रामो रामनाम्ना ख्यातो वालिहन्ता स्वयं याचते । नयं नीतिं स्मर । नाद्यापीति । मया सह सन्धेरुपायः कोऽपि न गत इत्यर्थः । नैवं चेत्सीता न दीयते चेत्तदा मम धनुः ज्याबन्धस्य बन्धूकृत एष पत्री वाणो न सहिष्यते । कीदृशः खरादीनामसृजा रक्तेन पङ्किलः । ********** टीका सम्पूर्णा ********** दयावीरो यथा जीमूतवाहनः-- "शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्तिं न पश्यामि तवापि तावत्किं भक्षणात्त्वं विरतो गरुत्मन् ! । एष्वपि विभावादयः पूर्वोदाहरणवदूह्याः । ************* टीका ************* विज्ञप्रिया (वि, ब) शिरामुखैरिति । गरुडेन भक्ष्यमाणं नागं परित्रातुं तद्भक्षणाय आत्मदेहमर्पितवतस्तद्भक्षितबहुमांसस्य जीमूतवाहनस्यातृप्तं प्रत्युक्तिरियम् । हे गरुत्मन् ! अद्यापि मम देहे मांसमस्ति । अत्र हेतुमाह---मम कीदृशस्य शिरामुखें रक्तं स्यन्दत एव । अतो यद्यपि बहूनि मांसानि भक्षितानि तथापि तृप्तिमात्मनि न पश्यामि । अतस्त्वं किं भक्षणाद्विरतोसीत्यर्थः । ********** टीका सम्पूर्णा ********** अथ भयानकः-- भयानको भयस्थायिभावो भूताधिदैवतः" । स्त्रीनीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ॥ ३.२३५ ॥ यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम् । चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः ॥ ३.२३६ ॥ अनुभावोऽत्र वैवर्ण्यगद्रदस्वरभाषणम् । प्रलयस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः ॥ ३.२३७ ॥ ************* टीका ************* विज्ञप्रिया (वि, भ) भयानकानुभावेषु पुलकः किञ्चिदङ्गेषु रोमाञ्चः । रोमाञ्चस्तु सर्वाङ्गेषु इति भेदः । ********** टीका सम्पूर्णा ********** जुगुष्सावेगसंमोहसंत्रासग्लानिदीनताः । शङ्कापस्मारसम्भ्रान्तिमृत्य्वाद्या व्यभिचारिणाः ॥ ३.२३८ ॥ यथा-- "नष्टं वर्षवरैः--" इत्यादि (१०५ पृदृ) अथ बीभत्सः-- जुगुष्सास्थायिभावस्तु बीभत्सः कथ्यते रसः । नीलवर्णो महाकालदैवतोऽयमुदाहृतः ॥ ३.२३९ ॥ दुर्गन्धमांसरुंधिरमेदां स्यालम्बनं मतम् । तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम् ॥ ३.२४० ॥ निष्ठीवनास्यवलननेत्रसङ्कोचनादयः । अनुभावास्तत्र मतास्तथा स्युर्व्यभिचारिणः ॥ ३.२४१ ॥ मोहोऽपस्मार आवेगो व्याधिश्च मरणादयः । यथा-- "उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोथभूयांसि मांसान्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आर्त्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्कादङ्कस्थादस्थिंस्थं स्थपुटगतमपि क्रव्यमध्यग्रमत्ति" ॥ ************* टीका ************* विज्ञप्रिया (वि, म) तद्व्यभिचारिभावेषु--जुगुप्साभयहेतुप्रेतादिदर्शनात् । संत्रासश्च भयाद्भिन्नः । उत्कृत्येति---करालाराधनाय गतस्य माधवस्य शवं भुञ्जानं प्रेतं दृष्ट्वा उक्तिरियम् । अयं प्रेतरङ्गः । प्रेतेषु दरिद्रः । अङ्कस्थात्शवातस्थिसंस्थं स्थपुटगतमपि क्रव्यंमांसं प्रकटितदशनः सन्नव्यग्रं यथा स्यात्तथात्ति । किं कृत्वा प्रथमं कृत्तिं चर्म्म उत्कृत्योकृत्य । अथानन्तरं अंसे भुजमूले स्फिचि नितम्बे पृष्टे च । आदिना उरौ च । पिण्डेऽवयवे सुलभानि मांसानि जग्ध्वा भक्षयित्वा । ईदृशक्रमेण भक्षणादव्यग्रता । मांसानि कीदृशानि पृथुना उच्छोथेन तत्फुल्लतया भूयांसि बहूनि तथा अतिदुर्गन्धीनि । लोचना (लो, अ) उत्कृत्येति-उच्छोथ उच्छूनता । पिण्डो जङ्घोर्द्ध्वभागः । रङ्कश्चिरदुर्लभाहारः । करङ्कोऽस्थिशेषं शिरः । स्थपुटं विकटगभीरभागः । ********** टीका सम्पूर्णा ********** अथाद्भुतः-- अद्भुतो विस्मयस्थायिभावो गन्धर्वदैवतः ॥ ३.२४२ ॥ पीतवर्णो वस्तु लोकातिगामालम्बनं मतम् । गुणानां तस्य महिमा भवेदुद्दीपनं पुनः ॥ ३.२४३ ॥ स्तम्भः स्वेदोऽथ रोमाञ्चगद्रदस्वरसंभ्रमः । तथा नेत्रविकासाद्या अनुभावाः प्रकीर्तिताः ॥ ३.२४४ ॥ वितर्कावेगसंभ्रान्तिहर्षाद्या व्यभिचारिणः । यथा-- "दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत-- ष्टंकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः । द्राक्पर्यस्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति" ॥ ************* टीका ************* विज्ञप्रिया (वि, य) अद्भुतव्यभिचारिभावेषु संभ्रान्तिः॑ भ्रमणं चपलता । तेनानुभावत्वेन उक्तसंभ्रमाद्भेदः । दोर्दण्डेति--रामेण धनुषि भग्ने तच्छब्दं श्रुत्वा लक्ष्मणस्य उक्तिरियम् । दोर्दण्डेनाञ्चितस्य उत्क्षिप्तस्य चन्द्रशेखरधनुर्दण्डस्यावभङ्गेन उद्गतो झङ्कारध्वनिः अहोऽद्यापि न विश्राम्यति । कीदृशः । आर्य्यस्य रामस्य बालचरितानां प्रस्तावनायाः प्रख्यापनायाः डिण्डिमो वाद्यविशेषः । पुनः कीदृशः--द्राक्सहसा पर्य्यस्ताभ्यामुत्क्षिप्ताभ्यां कपालसंपुटाभ्यां पुनर्मिलितो ब्रह्माण्डभाण्डस्य चण्डशब्दातुत्फुल्य पुनर्मिलितं ब्रह्माण्डकपालद्वयं तदुदरे भ्राम्यनित्यर्थः । अत्र रामो लोकातिगं वस्तु । धनुर्भङ्गे गुणः । लोचना (लो, आ) दोर्दण्डेति । आर्य्योरामः द्राक्झटिति । पर्य्याप्तौ संपूर्णो कपालसंपुटौ यस्य । एवं विशेषणविशिष्टतया मिलति जायमाने ब्रह्मण्डभाण्डोदरे भ्राम्यन् पिण्डितः पिण्डीभूतः चण्डिमा चण्डत्वं यस्येति झङ्कारध्वनोर्विशेषणम् । ********** टीका सम्पूर्णा ********** अथ शान्तः-- शान्तः शमस्थयिभाव उत्तमप्रकृतिर्मतः ॥ ३.२४५ ॥ लोचना (लो, इ) उक्तरूपः शमः स्थायिभावो यस्य । यत्तु निर्वेदस्य स्थायिभावतावलम्बनेन शान्तरसस्वीकारः गृतस्तदयुक्तम् , तस्य स्वाद्यमानरूपत्वात्संचारिभावस्यैव नाट्यत्वात् । ********** टीका सम्पूर्णा ********** कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः । अनित्यत्वादिनाशेषवस्तुनिः सारता तु या ॥ ३.२४६ ॥ ************* टीका ************* विज्ञप्रिया (वि, र) अनित्यत्वादिना इत्यत्र आदिपदातिष्टवियोगादिना वैराग्यपरिग्रहः । ********** टीका सम्पूर्णा ********** परमात्मस्वरूपं वा तस्यालम्बनमिष्यते । पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः ॥ ३.२४७ ॥ महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः । रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः ॥ ३.२४८ ॥ निर्वेदहर्षस्मरणमतिभूतदयादयः । यथा-- "रथ्यान्तश्चरतस्तथा धृतजरत्कन्थालवस्याध्वगैः सत्रासं च सकौतुकं च सदयं दृष्टस्य तैर्नागरैः । निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे निःशङ्कः करटः कदा करपुटीभिक्षां विलुण्ठिष्यति" ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) रथ्यान्त इति । संसारविरक्तस्योक्तिरियम् । निर्बोजीकृतया चित्सुधारसमुदा ज्ञानामृतहर्षेण निद्रायमाणस्य मे कदा करपुटीभिक्षां करटः काको विलुण्ठिष्यति । कामनाभावात्निर्बोजता । मम कीदृशस्य, भिक्षाविलुण्ठनादिभयाभावात्निः शङ्कं चरतः रथ्यान्तः नगरराजमार्गमध्ये चरतः । धृतजरत्कन्थालवस्य । अतः तैः रथ्यास्थैः अध्वगैर्नागरैः कन्थादिविपरीतदर्शनात्सत्रासञ्च सकौतुकञ्च दरिद्रावस्थादर्शनात्सदयञ्च दृष्टस्य । अत्र समस्तसुखहेतूपक्षेपणात्लब्धाशेषवस्तुनिः सारता आलम्बनम् । नागरैरुक्तरूपेण दर्शनानि उद्दीपनानि । भिक्षाविलुण्ठनाशंसालभ्यौ रोमाञ्चहर्षावनुभावव्यभिचारिणौ । लोचना (लो, ई) रथ्येतिं---लवो लेशः । छिद्रमयत्वात्विकृताकारत्वात्सत्रासम् । तथाद्भुतस्यादृष्टपूर्वकत्वात्सकौतुकम् । अकिञ्चनत्वात्सदयम् । निर्बोजीकृतो योऽसौ चित्ज्ञानमेव सुधारसः तेन प्रकाशेन या मुत्प्रीतिः सुखैकमयता तया निद्रायमाणस्य पश्यतोऽपि प्रमेयजातमपश्यतः चित्सुधारसस्य । निर्बोजीकृतस्यायमर्थः-- निर्गतं बीजं संसारकारणमविद्याख्यं यस्मात्प्रकाशादित्यर्थः । निर्गतं बीजमात्मप्रकाशज्ञानकारणं मनो यत्र स निर्बोजः । ब्रह्माकारं वृत्तिमुत्पाद्य मनसः सत्त्वांशस्यापि विनाशाभ्युपगमात् । ********** टीका सम्पूर्णा ********** पुष्टिस्तु महाभारतादौ द्रष्टव्या । अस्य दयावीरादेः सकाशाद्भेदमाह-- निरहङ्काररूपत्वाद्दयावीरादिरेष नो ॥ ३.२४९ ॥ दयावीरादौ हि नागानन्ददौ जीमूतवाहनादेरन्तरा मलयवत्याद्यनुरागादेरन्ते च विद्याधरचक्रवतित्वाद्याप्तेर्दर्शनादहङ्कारोपशमो न दृश्यते । शान्तस्तु सर्वाकारेणाहङ्कारप्रशमैकरूपत्वान्न तत्रांन्तर्भावमर्हति । ततश्च नागानन्दादेः शान्तरसप्रधानत्वमपास्तम् । ननु-- "न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च कचिदिच्छा । रसः स शान्तः कथितो मनीन्द्रैः सर्वेषु भावेषु समप्रमाणः" ॥ ************* टीका ************* विज्ञप्रिया (वि, व) दयावीरस्य भेदमाह---निरहङ्कारेति । नागानन्देति---जीमूतवाहननायके नागानन्दे नाटके काव्यप्रकाशे शान्तस्य जीमूतवाहनस्य युक्तिमाक्षिपतिअतश्च इति । सर्वेषु भावेष्विति---सर्वेषु कान्तादिसकलपदार्थेषु सत्स्वपीत्यर्थः । अत्र च इति---मोक्षावस्थीयशान्तः स एवयतो रसतामेतीति काव्यनाट्यसमर्पितः सन्निति शेषः । लोचना (लो, उ) निरहमिति---दयावीरादीत्यादिशब्दात्धर्मवीरादिः । नागानन्दाख्यं नाम नाटकम् । सर्वेषु लोष्ट्राश्मकाञ्चनादिषु भावेषु पदार्थेषु गमं तुल्यं प्रमाणं ज्ञानं यत्र । ********** टीका सम्पूर्णा ********** इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भावात्तत्र सञ्चार्यादीनामभावात्कथं रसत्वमित्युच्यते-- लोचना (लो, ऊ) आत्मेति---आत्मस्वरूपस्य आपत्तिः प्राप्तिः लक्षणं स्वरूपं यस्याः । ********** टीका सम्पूर्णा ********** युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः । रसतामेति तदस्मिन् सञ्चार्यादेः स्थितिश्च न विरुद्धा ॥ ३.२५० ॥ यश्चास्मिन्सुखाभावोऽप्युक्तस्तस्य वैषयिकसुखपरत्वान्न विरोधः । उक्तं हि- ************* टीका ************* विज्ञप्रिया (वि, श) न विरुद्धेति---निर्वेदरूपसंचारिस्थितिः अत्रास्त्येव इत्यर्थः । वैषयिकसुखपरत्वादिति । तेन शान्तस्य वैषयिकसुखभिन्नं तृष्णाक्षयाधीनं सुखमस्त्येव इत्युक्तम् । लोचना (लो, ऋ) युक्तेति---तत्र विषयेभ्यः परावृत्य साक्षात्कर्तव्ये ब्रह्मणि मनो निधाय वर्त्तमानत्वचिन्तासन्तानवान् युक्तः, यस्य च योगजधर्मसहकृतेन मनसा, जिज्ञासितवस्तुसाक्षात्कारो जायते, यश्च भूत्वेन्द्रियजयी अणिमाद्यः कायसिद्धीर्दूरश्रणाद्या ह्यतीन्द्रियाणि स्वे स्वे विषये सहत्त्वसन्निकर्षादिसहकारनिरपेक्षाणि वर्त्तन्ते, एवं युक्तवियुक्तावस्थायामित्यर्थः । ********** टीका सम्पूर्णा ********** "यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्" ॥ "सर्वाकारमहङ्काराहितत्वं ब्रजन्ति चेत् । अत्रान्तर्भावमर्हन्ति दयावीरादयस्तथा" ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) तत्र च सम्वादमाह । उत्कं हीति---एते कामसुखदिव्यसुखे । लोचना (लो, ॠ) अत्रेति---अत्र महाविषये दयावीरादयः स्वल्पविषयाः । ********** टीका सम्पूर्णा ********** आदिशब्दाद्धर्मवीरदानवीरदेवताविषयरतिप्रभृतयः । तत्र देवताविषया रतिर्यथा-- कदा वाराणस्यामिह सुरधुनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् । अये गौरीनाथ ! त्रिपुरहर ! शंभो ! त्रिनयन ! प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्" ॥ ************* टीका ************* विज्ञप्रिया (वि, स) देवताविषयरतिर्यथेति---शान्तान्तर्भावमापन्ना देवताविषयरतिर्यथेत्यर्थः । कदा वाराणस्यामिति--इह वाराणस्यां सुरधुन्या गङ्गाया रोधसि तीरे पुलिन् वा वसनहं कौपीनद्वयञ्च वसानः शिरस्यञ्जलिपुटं दधानश्च अये गौरीनाथेत्यादिनाऽक्रोशन् च कदा दिवसान्निमेषमिव नेष्यामीत्यर्थः । अत्र कौपीनादिविशेषणैः सुखादिराहित्यप्राप्त्या सर्वाहङ्कारराहित्यलाभाद्देवविषयरतेरपि शान्तरसत्वप्राप्तिः । ********** टीका सम्पूर्णा ********** अथ मुनीन्द्रसंमतो वत्सलः-- स्फुटं चमत्कारितया वत्सलं च रसं विदुः । स्थायी वत्सलतास्नेहः पुत्राद्यालम्बनं मतम् ॥ ३.२५१ ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) वत्सलतास्नेह इति---न चैवं दयावीरत्वप्रसक्तिरिति वाच्यम् , आत्मापकारेणापि परोपचिकीर्षाप्रयोजकधर्मविशेषस्य दयात्वात्सुखसम्बन्धिनि अनुरागविशेषस्य च स्नेहत्वातिति अनयोर्भेदात् । लोचना (लो, ळ) स्फुटमिति---चकत्कारस्यात्रोक्तप्रकारेण रसे सारत्वान्नर्देशः । तस्य च विभावादिशवालितस्वप्रकाशानन्द्रमयत्वं दैवसिद्धमित्युक्तम् । चमत्कारि तयेति । वत्सलतारूपः स्त्रेहः । ********** टीका सम्पूर्णा ********** उद्दीपनानि तच्चेष्टा निद्याशौर्यदयादयः । आलिङ्गनाङ्गसंस्पर्शशिरश्चुम्बनमीक्षणम् ॥ ३.२५२ ॥ पुलकानन्दवाष्पाद्या अनुभावाः प्रकीर्तिताः । सञ्चारिणोऽनिष्टशङ्काहर्षगर्वादयो मताः ॥ ३.२५३ ॥ पद्मगर्भच्छविर्वर्णो दैवतं लोकमातरः । यथा-- "यदाह धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गलीम् । अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोर्ऽभकः" ॥ ************* टीका ************* विज्ञप्रिया (वि, क्ष) यदाह धात्र्येति---उदितस्य उच्चारितस्य प्रथमं प्रथमोदितमिति"राजदन्तादिसमासात्" । दात्र्या उदितश्च नारायणेत्यादिशब्दश्च प्रथमं"ना"इत्यादि यद्वचः रघुराह तदीयां धात्रीयामङ्गुलिमवलम्ब्य यच्च ययौ प्रणिपातशिक्षया यच्च नम्नोऽभूत्, तेन कर्मणा पितुर्दिलीपस्य मुदं ततान इत्यर्थः । ********** टीका सम्पूर्णा ********** एतेषां च रसानां परस्परविरोधमाह-- आद्यः करुणबीभत्सरौद्रवीरभयानकैः ॥ ३.२५४ ॥ भयानकेन करुणोनापि हास्यो विरोधभाक् । करुणो हास्यशृङ्गारसाभ्यामपि तादृशः ॥ ३.२५५ ॥ रौद्रस्तु हास्यशृङ्गरभयानकरसैरपि । भयानकेन शान्तेन तथा वीररसः स्मृतः ॥ ३.२५६ ॥ शृङ्गारवीरराद्राख्यहास्यशान्तैर्भयानकः । शान्तस्तु वीरशृङ्गाररौद्रहास्यभयानकैः ॥ ३.२५७ ॥ शृङ्गारेण तु बीभत्स इत्याख्याता विरोधिता । आद्यः शृङ्गारः । एषां च समावेशप्रकारा वक्ष्यन्ते । कुतोऽपि कारणात्क्वापि स्थिरतामुपयन्नपि ॥ ३.२५८ ॥ उन्मादादिर्न तु स्थायी न पात्रे स्यैर्यमेति यत् । ************* टीका ************* विज्ञप्रिया (वि, क) पात्रे न---स्वभावत इति शेषः । लोचना (लो, ए) ननून्मादानां स्थायित्वमवलम्ब्य कथमन्येऽपि रसा नोक्ताः इत्याशङ्क्याह--कुतोऽपीति । ********** टीका सम्पूर्णा ********** यथा विक्रमोर्वश्यां चतुर्थेऽङ्के पुरूरवस उन्मादः । रसभावौ तदाभासौ भावस्य प्रशमोदयौ ॥ ३.२५९ ॥ सन्धिः शबालता चेति सर्वेऽपि रसनाद्रसाः । रसनधर्मयोगित्वाद्भावादिष्वपि रसत्वमुपचारादित्यभिप्रायः । भावादय उच्यन्ते-- ************* टीका ************* विज्ञप्रिया (वि, ख) प्रशमोदयो नाशोत्पत्ती । रसनाद्रसा इति---रसनमास्वादनं तद्रूपसादृश्यात्गौण्या लक्षणया रसपदार्थ इत्यर्थः । तस्य रसस्य सादृश्यं व्याचष्टे--रसनधर्म्मेति-- लोचना (लो, ऐ) ननु यदि रसात्मकं वाक्यमेव काव्यं ताह भावादिप्रधानमकाव्य स्यादित्यशङ्क्याह---रसाभावादिति । तदाभासौ रसाभासो भावाभासश्च । रसनं स्वादनमुक्तप्रकारम् । ********** टीका सम्पूर्णा ********** सञ्चारिणः प्रधानानि देवादिविषया रतिः ॥ ३.२६० ॥ उद्बुद्धमात्रः स्थायी च भाव इत्यभिधयते । "न भावहीनोऽस्ति रसो न भावो रसवजितः । परस्परकृता सिद्धिरनयो रसभावयोः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ग) प्रधानानीति । निराकाङ्क्षवाक्यव्यङ्ग्यत्वमेव प्राधान्यम् । प्रधानभूता देवादिविषया रतिश्चेति चार्थो बोध्यः । उद्वुद्धमात्रः ज्ञातमात्रः॑ नतु विशिष्य निश्चित इत्यर्थः । स्थायी स्थायिभाववद्वाच्यो नतु स्थिरतामापन्न इत्यर्थः । ननु सञ्चारिणस्तावद्रसनधर्मसम्बन्धिन एव, ततश्च सञ्चारिसत्त्वेऽवश्यं रससत्त्वम् । तथा च ध्वनिरेव रस इत्यतः कथं तत्र भावध्वनित्वमित्यत आह---न भावो रसेति । अत्र भावपदं सञ्चारिपरं, देवादिरतिभावस्य रसहीनत्वाद् । तत्र यथाप्रधानतया रसस्तिष्ठति एवं रसेऽपि अप्रधानतया भावस्तिष्ठतीत्याह---न भावहीन इति । ********** टीका सम्पूर्णा ********** इत्युक्तदिशा परमालोचनया परमविश्रान्तिस्थानेन रसेन सहैव वर्तमाना अपि राजानुगतविवाहप्रवृत्तभृत्यवदापाततो यत्र प्रधान्येनाभिव्यक्ता व्यभिचारिणो देवमुनिगुरुनृपादिवषया च रतिरुद्बुद्धमात्रा विभावादिभिरपरिपुष्टतया रसरूपतामनापद्यमानाश्च स्थायिनो भावा भावशब्दवाच्याः । ************* टीका ************* विज्ञप्रिया (वि, घ) राजानुगतेति । स्वविवाहदिने भृत्य एव प्रधानम् । राजा च तदनुगः । एवं प्रधानमपि रसो निराकाङ्क्षवाक्यव्यङ्ग्यस्य भावस्य प्रधानस्य अनुग इत्यर्थः । उद्वुद्धमात्रा इत्यादिकं स्थायिनो भावा इत्यस्य विशेषणम् । तेषां रसतानाप्तौ हेतुः विभावादिरिति, तैरपरिपोषश्च तस्य विशिष्यानिश्चितत्वात् । तच्चग्रे उदाहरणे दर्शयिष्यते । ********** टीका सम्पूर्णा ********** तत्र व्यभिचारी यथा-- "एवंवादिनि देवर्षौ--ऽइत्यादि(१७० पृ.) । अत्रावहित्था । ************* टीका ************* विज्ञप्रिया (वि, ङ) एवं वादिनीति । देवर्षो हरेण पार्वतीघटनार्थवाक्यवादिनि सति इत्यर्थः । अधोमुखत्वं लज्जया । कमलपत्रगणनमनवधानसूचनाधर्षाकारगोपनाय । अवहित्था आकारगुप्तिः । ********** टीका सम्पूर्णा ********** देवविषया रतिर्यथा मुकुन्दमालायाम्-- "दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक ! प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणोऽपि चिन्तयामि" ॥ ************* टीका ************* विज्ञप्रिया (वि, च) दिवि वा भुवि वेति---हे नरकासुरान्तक मरणे जाते मम दिवि भुवि वा नरके वा वासोऽस्तु । तथापि तव चरणौ स्मरामि इत्यार्थः । मरणकालेऽपि स्मरामीति बहवः । तदा च दिवि वा इत्यादिकमसम्बद्धं स्यात् । नहि त्वच्चारणस्मरणात्नरकवासप्रसक्तिः॑ येन तत्सहितोक्तिः । चरणौ कीदृशौ शोभयावधीरितशरत्कालपद्मौ । ********** टीका सम्पूर्णा ********** मुनिविषया रतिर्यथा-- "विलोकनेनैव तवामुना मुने ? कृतः कृतार्थोऽस्मि निबर्हितांहसा । तथापि शुश्रषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन तृप्यते" ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) विलोकनेनैवेति । नारदं प्रति श्रीकृष्णस्योक्तिरियम् । हे मुने तव अमुना विलोकनेनैव कृतार्थः कतोऽस्मि । कृतार्थतां दर्शयति--निबर्हितेति । नबर्हितं नाशितमंहः पापं येन तादृशेन । तथापि तव गरीयसीः गिरः शुश्रूषुः श्रोतु मिच्थुरम्मि । हेतुं विनैव श्रवणेच्छामुक्त्वा हेतुमपि वक्तुमाह---अथवेति । केन जनेन श्रेयसि मङ्गले तृप्यते॑ अपि तु न केनापीत्यर्थः । ********** टीका सम्पूर्णा ********** राजविषया रतिर्यथा मम-- "त्वद्वाजिराजिनिर्धूतधूलीपटलपङ्किलाम् । न धत्ते शिरसा गङ्गां भूरिभारभिया हरः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) त्वद्वाजिराजीति । तव वाजिराज्या निर्धूतं यद्धूलिपटलं तेन पङ्किलाम् । पङ्किलत्वात्पङ्कजलाभ्यां भूरिर्भारः । भियेति---वोढुमसामर्थ्येन उत्तरोत्रं भाविदुः खद्वेषरूपेण भयेनेत्यर्थः । ********** टीका सम्पूर्णा ********** एवमन्यत् । उद्बुद्धमात्रस्थायिभावो यथा-- "हरस्तु किंचित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि" ॥ अत्र पार्वतीविषया भगवतो रतिः । ************* टीका ************* विज्ञप्रिया (वि, झ) स्थायिन इति । स्थायिभावस्य भावत्वप्रप्तेर्यथा इत्यर्थः । क्वचित्तु स्थायी यथेत्येव पाठः । हरस्त्विति । कन्दर्पेण धनुषि आरोपिते आकालिके वसन्ते जाते तपस्यतो महेशस्य पार्वतीं दृष्ट्वा किंचिद्धैर्य्यपरावृत्तिवर्णनमिदम् । चन्द्रोदयस्यारम्भे प्राथमिकदशायां तदानीमेव तस्य धैर्य्यपरावृत्तेः । किंचित्त्वात्भगवतो रतिरत्रभवतां प्राप्ता इत्यर्थः । धैर्य्यपरावृत्तेः किञ्चिदुद्भावेन रसतामनाप्तत्वेन भावत्वस्यैव प्राप्तेरित्यर्थः । लोचना (लो, ओ) रतिरित्यनन्तरं परिपोषं न नीतेति शेषः । ********** टीका सम्पूर्णा ********** ननूक्तं प्रपाणकरसवद्विभावादीनामेकोऽत्राभासो रस इति । तत्र सञ्चारिणः पार्थक्याभावात्कथं प्राधान्येनाभिव्यक्तिरित्युच्यते-- ************* टीका ************* विज्ञप्रिया (वि, ञ) संचारिणः प्रधानानि इत्यनेन प्रधानीभूतस्यैव व्यभिचारिभावस्य भावत्वप्राप्तिरुक्ता । विभावादीनां सर्वेषामेव रसादिबोधे एकीभावेन विषयतोक्ता । ननु तत्र व्यभिचारिभावस्य पार्थक्येन प्राधान्यमवगम्यते । अत्र एव कथमेवंवादिनीत्यत्रावहित्थायाः प्राधान्यमेवाशङ्कते--ननूक्तमिति । रस इत्यत्र भाव एव रसः । भावस्यैवाप्राधान्यशङ्कया भावत्वाभावस्यैव शङ्कितत्वात्, पार्थक्याभावात्पृथक्प्राधान्याभावात् । ********** टीका सम्पूर्णा ********** यथा मरिचखण्डादेरेकीभावे प्रपाणके ॥ ३.२६१ ॥ उद्रेकः कस्यचित्क्वापि तथा सञ्चारिणो रसे । ************* टीका ************* विज्ञप्रिया (वि, ट) तथा सञ्चारिण इति । उद्रेक इति अनुषङ्गः । रसो भाव उद्रेकनियमश्च निराकाङ्क्षवाक्यव्यङ्ग्यत्वेन । लोचना (लो, औ) रसास्वादनन्तरं विकारेणानुभूयमानः । ********** टीका सम्पूर्णा ********** अथ रसाभासभावाभासौ-- अनौचित्यप्रवृत्तत्व आभासो रसभावयोः ॥ ३.२६२ ॥ अनौचित्यं चात्र रसानां भारतादिप्रणीतलक्षणानां सामग्रीरहितत्वे एकदेशयोगित्वोपलक्षणपरं बोध्यम् । तच्च बालव्युत्पत्तये एकदेशतो दर्श्यते-- ************* टीका ************* विज्ञप्रिया (वि, ठ) अनौचित्यप्रवृत्तेति । रसानामनौचित्यप्रवृत्तत्वे इत्यन्वयः । भरतादिप्रणीतेति । भरतादिमुनिप्रणीतानि यानि लक्षणानि तेषां सामग्रीसमग्रत्वम् । तद्राहित्ये सति तदेकदेशयोगित्वोपलक्षणमनौचित्यमित्यर्थः । तल्लक्षणाक्तें यत्किञ्चिद्सत्त्वे एकदेशयोगिता इत्यर्थः । भरताद्युक्तलक्षणं वक्ष्यमाणानौचित्यमालायां यद्यदालम्बनादिकमुक्तं तद्रसादेर्बोध्यम् । लोचना (लो, अ) सामग्रीति । न खलु सामग्री सर्वथा नास्ति । किन्त्वेकदेशयोगित्वे सति आभासत्वमित्यर्थः । ********** टीका सम्पूर्णा ********** उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च । बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् ॥ ३.२६३ ॥ प्रतिनायकनिष्ठत्वे तद्वदधमपात्रतिर्यगादिगते । शृङ्गारेऽनौचित्यं रौद्रे गुर्वादिगतकोपे ॥ ३.२६४ ॥ शान्ते च हीननिष्ठे, गुर्वाद्यलम्बने हास्ये । व्रह्मवधाद्युत्साहेऽधमपात्रगते तथा वारे ॥ ३.२६५ ॥ उत्तमपात्रगतत्वे भयानके ज्ञेयमेवन्यत्र । ************* टीका ************* विज्ञप्रिया (वि, ड) उपनायकेति । उपनायकविषयायामित्यर्थः । इदं प्रियारतौ । मुनिगुर्विति । इदं मुनिगुर्वोरेव स्वपत्न्यां रतौ । अन्यस्यां तु परोढावर्जनादेव आभासस्यासिद्धिः । बहुनायकेति । अनूढवेश्याया रतौ तस्या उपनायकाभावात् । अनुभावनिष्ठायामिति । नायकनायिकयोरेकतरमात्रनिष्ठत्वे इत्यर्थः । प्रतिनायकेति । इदं वीररसे॑ तत्र जतव्यः प्रतिनायकः । तन्निष्ठत्वे गुर्वादिगते गुर्वादिविषये । एवमुत्तरोत्तरं गतपरं क्वचित्तद्विषयपरं क्वचित्तद्विशिष्टपरं योग्यतया बोध्यम् । ********** टीका सम्पूर्णा ********** तत्र रतेरुपनायकनिष्ठत्वे यथा मम-- "स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनी क्षोणीमावृणुते तमालमलिनच्छाया तमः सन्ततिः । तन्मे सुन्दर ! मुञ्च, कृष्ण ! सहसा वर्त्मेति गोप्या गिरः श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) सन्ध्याकाले पन्थानमावृत्य तिष्ठन्तं श्रीकृष्णं प्रति गोप्या उक्तिरियम् । मुग्धतरो भद्रानभिज्ञः, अविचारेणैव क्रोधकारीत्यर्थः । अत्रं कृष्णविषया गोप्या रतिः । तथा हि मुग्धतरो मूढतरो मम तव आसङ्गं तर्कयितुमसमर्थः । घनवनादिकं रतिहेतुः । मुनिगुरुपत्नीगतत्वेनोदाहृतम् । तत्र गुरुपत्नीगतत्वे यथा--- मधौ प्रभूते पिकनाददूते मन्दानिलोद्धूतविकाशिचूते । प्रियामुखालोकनमात्रकर्म्मा गुरुर्न धर्म्माय न पाठनाय ॥ मुनिपत्नीगतत्वे यथा--- तपोविभावसंभवातुलविभूतिकः सौभरि- र्मुनिर्नृपतिकन्यकाशतपरिग्रहः कामतः । प्रचुम्बति मुहुर्मुहुः कुचनिपीडमालिङ्गति स्मितोत्तरमुदीक्षते परिहसत्यजस्त्रं प्रियाम् ॥ लोचना (लो, आ) स्वामीति । इह हि स्वामीति मुघ्धतर इति च पदाभ्यां भयदत्वं पक्षे प्रियत्वाभावो रतिनागरत्वाभावश्च, वनस्य घनत्वे गृहगमनदुर्घटत्वम् , बाल्ये भयं योवनं च, यौवनेन यौवनेन च एतादृशि वयसि अनुरूपपतिर्नास्ति, एकाकिनीत्यनेन अन्धकारावराणकथनेन च स्वैरयानासहत्वं गोप्यरसप्रकाशाभावश्च, सुन्दरेति सम्बोधने परित्यागर्थं चाटुः, स्वाभिलषणीयत्वञ्च । लोचनी समाप्ता । ********** टीका सम्पूर्णा ********** बहुनायकनिष्ठत्वे यथा-- "कान्तास्त एव भुवनत्रितयेऽपि मन्ये येषां कृते सुतनु ! पाणडुरयं कपोलः" । अनुभयनिष्ठत्वे यथा--मालतीमाधवे नन्दनस्य मालत्याम् । "पश्चादुभयनिष्ठत्वेऽपि प्रथममेकनिष्ठत्वे रतेराभासत्वम्" इति श्रीमल्लोचनकाराः । तत्रोदाहरणं यथा--रत्नावल्यां सागरिकाया अन्योन्यसंदर्शनात्प्राग्वत्सराजे रतिः । ************* टीका ************* विज्ञप्रिया (वि, ण) कान्तास्त एव इति । कान्ताः कमनीयपुरुषाः । अत्र वहुवचनादनूढनायिकाया वेश्याया नायकबहुत्वलाभः । वत्सराज इति । अत्र वत्सराजस्येति क्वचिदप्रामाणिकः पाठः । ********** टीका सम्पूर्णा ********** प्रतिनायकनिष्ठत्वे यथा--इयग्रीवव धे हयग्रीवस्य जलक्रीडावर्णने । अधमपात्रगतत्वे यथा-- "जघनस्थलनद्धपत्रवल्ली गिरिमल्लीकुसुमावनि कापि भिल्ली । अवचित्य गिरौ पुरो निषण्णा स्वकचानुत्कचयाञ्चकार भर्त्रा" ॥ ************* टीका ************* विज्ञप्रिया (वि, त) जघनस्थलेति---कापि भिल्ली किराती जघनस्थले नद्धा धृता पत्रवल्लिः पत्रलता यथा सा तथा । गिरिमल्लीकुसुमानि कुटजपुष्पाणि अवचित्य गिरौ पुरो निषण्णा सती भर्त्रा स्वप्रयोज्येन स्वकचानर्थादवचितकुसुमैः उत्कचयाञ्चकार उद्दीप्तांश्चकारेत्यर्थः । दीप्त्यर्थकचधातोः इदं रूपम् । अत्र च वल्लि इत्यत्र ह्रस्वान्तवल्लिशब्दस्य रूपम् । दीर्घान्तत्वे कप्रत्ययप्रसङ्गात् । अत्राधमस्य भर्त्तूरतिः । ********** टीका सम्पूर्णा ********** तिर्यगादिगतत्वे यथा-- "मल्लीमतल्लीषु वनान्तरेषु वल्ल्यन्तरे वल्लभमाह्वयन्ती । चञ्चद्विपञ्चीकलनादभङ्गीसंगीतमङ्गीकुरुते स्म भृङ्गी" ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) मल्लीमतल्लीष्विति । मतल्ली पुष्पविशेषः । वल्यन्तरे स्थित्वेत्यर्थः । चञ्चद्विपञ्चीकलनादभङ्गीसङ्गीतं चञ्चन्त्या विपञ्च्या वीणायाः कलनादभङ्ग्या सङ्गीतम् । ********** टीका सम्पूर्णा ********** आदिशब्दत्तापसादयः । रौद्राभासो यथा-- "रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गो मुहुर्- मुक्त्वा कर्णमपेतभीर्धृ तधनुर्बाणो हरेः पश्यतः । आध्मातः कटुकोक्तिभिः स्वमसकृद्दोविक्रमं कीर्तय- न्नंसास्फोटपटुर्युधिष्ठिरमसौ इन्तुं प्रविष्टोर्ऽजुनः" ॥ ************* टीका ************* विज्ञप्रिया (वि, द) तापसादय इति । अत्र च तापसस्य जीमूतवाहनस्य नृपस्य मलयवत्यां रतौ बोध्यम् । रक्तोत्फुल्लेति । कर्णात्प्राप्तापमानस्य युधिष्ठिरस्य कटुकोक्तिभिराध्मातः कुपितोर्ऽजुनः युध्यमानं कर्णं त्यक्त्वा युधिष्ठिरं हन्तुं प्रवृत्तः । अपेतभीर्गुरुहननभयरहितो हरेः कृष्णस्य पश्यतः इति---पश्यन्तं हरिमनादृत्य इत्यत्रानादरे षष्ठी । स्वं स्वीयम् । अंसो भुजमूलं, तस्य आस्फोटे पटुः । हीननिष्ठे शान्ते गुर्वाद्यालम्बने हास्ये ब्रह्मवधाद्युत्साहेऽधमपात्रगते वीरे च नोदाहृतम् । क्रमेण यथा चण्डालयोनाविह जन्म लब्धं द्विजातिजन्मापि न काङ्क्षितं मे । पुण्ये वने क्कापि वपुर्विहास्यन् पुनर्भवच्छेदमहं समीहे ॥ १ ॥ अपानवायुं सततं विमुञ्चनसंयमव्यग्रकपूर्वकेशः । अध्यापयत्वेष गुरुः सदा मे लालाक्तवक्त्रो मलदिग्धवासाः ॥ २ ॥ अनिवृत्तपिपासा हि क्षुद्रवीरजशोणितैः । द्रोणस्य रुधिरेणाद्य तृप्यन्तु मम सायकाः ॥ ३ ॥ नरेद्रपुत्रान्मृगया प्रवृत्तान् विद्धं मृगं नेतुमुपात्तवेगाः । अमी किराताः शरपूर्णचापा धावन्ति मत्वा तृणवत्तमेव ॥ ४ ॥ ********** टीका सम्पूर्णा ********** भयानकाभासो यथा-- "अशक्नुवन् सोढुमधीरलोचनः सहस्त्ररश्मेरिव यस्य दर्शनम् । प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय विभ्यद्दिवसानि कौशिकः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ध) अशक्नुवन्निति---कौशिको वासवो यस्यासुरस्य सहस्त्रश्मेरिव दर्शन सोढुमशक्नुवन् बिभ्यथेमाद्रिगुहां प्रविश्य दिनानि निनाय । अधीरलोचनः कातरात्चञ्चललोचनः । शब्दशक्तिमूल उपमाध्वनिरियम् । तथा हि कौशिकः पेचकः सहस्त्ररश्मेर्दर्शनं सोढुमशक्नुवनद्रिगुहां प्रविश्य यथा दिनानि नयति, अधीरबुद्धिरलोचनो दिवान्धत्वात्, तथा च पेचक इव इन्द्र इत्युपमाध्वनिः । अत्र इदमवधेयम् । रसभावतदाभासादीनामसंलक्ष्यक्रमव्यङ्ग्यत्वं वक्ष्यते । तच्च स्थायिभावस्य व्यङ्ग्यस्य बोधक्रमापरिचयादेव । अत्र श्लोके भयस्य स्थायिभावस्य बिभ्यदियेतद्वाच्यत्वात्व्यङ्ग्यत्वमेव नास्ति, कथं व्यङ्ग्यक्रमापरिचयाधीनमसंलक्ष्यकमव्यङ्ग्यत्वमतोयं न रसाभासध्वनिः, किन्तूपमाध्वनिरेव । तदुदाहरणं तु जातिदुष्टोऽपि संश्लाघ्यः स कालयवनो नृपः । युद्धोद्युक्तं यमालोक्य श्रीकृष्णोऽपि पलायितः ॥ ********** टीका सम्पूर्णा ********** स्त्रीनीचविषयमेव हि भयं रसप्रकृतिः । एवमन्यत्र । भावाभासो लज्जादिके तु वेश्यादिविषये स्यात् ॥ ३.२६६ ॥ ************* टीका ************* विज्ञप्रिया (वि, न) वेश्यादिविषये । वेश्यादिनिष्ठे यथा--- लीलानम्रमुखी शिरोंऽशुकमवाकृष्यानयन्ती पुरो नेत्रोपान्तविलोकनेन परितो यूनां धयन्ती मनः । दृष्टा वारविलासिनी ननु सखे ! कस्यापि पुण्यात्मनः पुण्यौघं परिपाकमाशमयितुं लीलोत्तरं गच्छति ॥ अत्र वेश्यालज्जामिश्रितत्वम् । ********** टीका सम्पूर्णा ********** स्पष्टम् । भावस्य शान्तावुदये संधिमिश्रितयोः क्रमात् । ************* टीका ************* विज्ञप्रिया (वि, प) सन्धिरुत्तरोत्तरविरुद्धभावमिश्रणम् । सैव शबलता । तत्र उत्तरोत्तरभावस्य पूर्वपूर्वापेक्षया बलवत्त्वात् । सन्धिस्तु द्वयोस्तुल्यकक्षत्वे । सुतन्विति स्पष्टम् । ********** टीका सम्पूर्णा ********** भावस्य शान्तिरुदयः संधिः शबलता मता ॥ ३.२६७ ॥ क्रमेण यथा-- "सुतनु ! जहिहि कोपं पश्य पादानतं मां न खलु तव कदाचित्कोप एवंविधोऽभूत् । इति निगदति नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किञ्चित्" ॥ अत्र बाष्पमोचनेनेर्ष्याख्यसञ्चारिभावस्य शमः । "चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते । व्रजति रमणो निः श्वस्योच्चौ स्तनस्थितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता" ॥ ************* टीका ************* विज्ञप्रिया (वि, फ)"हे निभृत ! कितवाचार !"इत्युक्त्वा इत्यर्थः । स्तनास्थितहस्तया मानिन्या इत्यर्थः । ********** टीका सम्पूर्णा ********** अत्र विषादस्योदयः । "नयनयुगासेचनकं मानसवृत्त्याप दुष्प्रापम् । रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति चमे" ॥ अत्र हर्षविषादयोः संधिः । "क्वाकार्यं , शशलक्ष्मणः क्व च कुलं, भूयोऽपि दृश्यन्ते सा, दोषाणां प्रशमाय मे श्रुतमहो, कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषा कृतधियः, स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि, कः खलु युवा धन्योऽधरं धास्यति" ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) क्वाकार्य्यमिति---उर्वशीविरहे मरणे प्रवृत्य निवृत्तस्य पुरूरवस उक्तिरियम् । अत्र कुलमित्यन्ते वितर्कः । सेत्यन्ते औत्सुक्यम् । श्रुतमित्यन्ते अर्थनिर्द्धारणरूपा मतिः । मुखमित्यन्ते स्मरणम् । कृतधिय इत्यन्ते शङ्का । दुर्लभेत्यन्ते दैन्यम् । उपैहिइत्यन्ते धृतिः । कः खलु इत्यादौ चिन्ता । एतेषां व्यभिचारिभावानां पूर्वपूर्वापेक्षया बलवत्ता । इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्यविरचितायां साहित्यदर्पणटीकायां तृतीयपरिच्छेदविवरणम् । ********** टीका सम्पूर्णा ********** अत्र वितकारैत्सुक्यमतिस्मरणशङ्कादैन्यधूतिचिन्तानां शबलता । इति साहित्यदर्पणे रसादिनिरूपणो नाम तृतीयः परिच्छेदः । ___________________________________________________ चतुर्थः परिच्छेदः अथ काव्यभेदमाह-- लोचना (लो, अ) एवं काव्यस्य स्वरूपमुक्त्वा विशेषं निरूपयितुमवतारयति--अथेति---भिद्यते अनेनेति भेदः । ********** टीका सम्पूर्णा ********** काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यं चेति द्विधा मतम् । तत्र--- वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम् ॥ ४.१ ॥ वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे ध्वन्यतेऽस्मिन्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम् । ************* टीका ************* विज्ञप्रिया (वि, क) काव्यलक्षणे कृते तदेव काव्यं कतिविधमित्याकाङ्क्षायामाह---काव्यं ध्वनिरित्यादि । ध्वन्यतेऽस्मिन्निति--ध्वन्यते व्यज्यते व्यङ्ग्यार्थः शब्दादिना अस्मिन् काव्ये इत्यर्थः । लोचना (लो, आ) वाच्येति---वाच्यादतिशयस्तात्पर्याविषयत्वात् । ********** टीका सम्पूर्णा ********** भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ । अविवक्षितवाच्योऽन्यो विवक्षितान्यपरवाच्यश्च ॥ ४.२ ॥ लोचना (लो, इ) लक्षणाभिधा च मूले कारणेर्ऽथाद्व्यङ्ग्यात्व्यञ्जने ययोः । यस्य ध्वनेः व्यङ्ग्यार्थरूपोपाधिलक्षणाभिधामूलत्वेन द्वैविध्यप्रतिपादनां तदुपाधिकस्य काव्यस्य द्वैविध्यम् । ध्वनिशब्दो ह्यनेकार्थः, तथा हि ध्वन्यत इति ध्वनिः, शब्दादिगता शक्तिः । ध्वननं ध्वनिः रसादिप्रतीतिः । ध्वन्यते अस्मिनिति ध्वनिः काव्यम् । ********** टीका सम्पूर्णा ********** तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः । लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं बाधितस्वरूपम् । विवक्षितान्यपरवाच्यस्त्वभिधामूलः, अत एवात्र वाच्यं विवक्षितम् । अन्यपरं व्यङ्ग्यनिष्ठम् । अत्र हि वाच्योर्ऽथः स्वरूपं प्रकाशयन्नेव व्यङ्ग्यार्थस्य प्रकाशकः । यथा---प्रदीपो घटस्य । अभिधामूलस्य बहुविषयतया पश्चान्निर्देशः । अविवक्षितवाच्यस्य भेदावाह-- ************* टीका ************* विज्ञप्रिया (वि, ख) लक्षणामूलाभिधामूलयोर्यथासंख्यं स्वरूपमाह---अविवश्रितेति---व्याचष्टे---तत्रेति । अविवक्षितमिति---वाच्याविवक्षायां बीजमाह---बाधितस्वरूपमिति---वाच्यतावच्छेदकरूपेण विवक्षाभावात्तेन रूपेण बाधो विशिष्टाभावरूपः । तेन अजहत्स्वार्थात्मिकायामुपादानलक्षणायां वाच्यस्याबाधेऽपि वाच्यतावच्छेदकरूपेण तद्वाधःष जहत्स्वार्थायां तु अर्थयोरेव बाधः । वाच्यं विवक्षितमिति---वाच्यतावच्छेदकरूपेण बोध्यम् । व्यङ्ग्यनिष्ठमिति---व्यङ्ग्यनिष्ठा तात्पर्यपर्याप्तिर्यस्य तादृशम् । लोचना (लो, ई) अन्यपरमिति कारिकापदार्थो व्यङ्ग्यनिष्टमिति भावः, व्यङ्ग्ये निष्टातात्पर्यं यस्य वाच्यार्थस्य, एतेन गुणीभूतव्यङ्ग्यव्यवच्छेदः । अत्र हीति---अयमाशयः, अविवक्षितवाच्ये लक्ष्योर्ऽथः स्वरूपं प्रकाशयन् व्यङ्ग्यार्थं प्रकाशयति, तत्र लक्षणामूला व्यञ्जना । इह तु वाच्योर्ऽथः तथा इत्यभिधामूला । ********** टीका सम्पूर्णा ********** अर्थन्तरं संक्रमिते वाच्येऽत्यन्तं तिरस्कृते । अविवक्षितवाच्योऽपि ध्वनिर्द्वैविध्यमृच्छति ॥ ४.३ ॥ अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसङ्क्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः । यत्र स्वयमनुपयुज्यमानो मुख्योर्ऽथः स्वविशेषरूपेर्ऽथान्तरे परिणमति, लोचना (लो, उ) संकमिति इति --- योगकाक्वादिसाहाय्यसूचनं वाच्ये इति काकाक्षिन्यायेनोभयत्र सम्बध्यते । अनुपयुज्यमानत्वमर्थात्स्वरूपमात्रेण संकमिते इति कारिकापदार्थः । परिणमतीति---परिणामश्च तत्त्वादपरिच्युतस्य धर्मिणोऽवस्थान्तरगमनम् । जाड्याद्यतिशयः स्वशब्दाभिधानालभ्यः । ********** टीका सम्पूर्णा ********** तत्र मुख्यार्थस्य स्वविशेषरूपार्थान्तरसंक्रमितत्वादर्थान्तरसङ्क्रमितवाच्यत्वम् । यथा--- ************* टीका ************* विज्ञप्रिया (वि, ग) भेदावाहेति---वाच्येर्ऽथेर्ऽथान्तरमवच्छेदकान्तरं संक्रमिते प्रापिते अर्थाद्वोद्धुर्ज्ञाने इत्यर्थः । अत्यन्तं तिरस्कृत इति---वाच्यार्थस्यावच्छेदकान्तरेणापि अविवक्षणातत्यन्तं तिरस्कारः, तत्रार्थान्तरसंक्रमितवाच्यं व्याचष्टे---मुख्यार्थस्येति । ********** टीका सम्पूर्णा ********** "कदली कदली, करभः करभः, करिराजकरः करिराजकरः । भुवत्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः" ॥ अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभिया सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादिगुणविशिष्टकदल्यादिरूपमर्थं बोधयन्ति । जाड्याद्यतिशयश्च व्यङ्ग्यः । ************* टीका ************* विज्ञप्रिया (वि, घ) कदली कदलीत्यादि । चमूरुदृशः हरिणेक्षणायाः ऊरुयुगं भुवनत्रितयेऽपि कस्यापि तुलां सादृश्यं न बिभर्त्तोत्यर्थः । तथा च तेन कस्यापि सादृश्याधारणात्कोऽपि तदुपमानं न अस्तीत्यत्राह---कदलीति । कदली रम्भा करभः ऊर्वाकारः पणिपार्श्वभागः"मणिबन्धादाकनिष्ठं करस्य करभो बहिः "इति कोषात् । करिराजस्य हस्तिश्रेष्ठस्य करः, सुण्डा, एषु उद्देश्येषु द्वितीयकदल्यादिपदानां पौनरुक्त्यात्तदर्थानां विधेयत्वासम्भवात्तानि पदानि जाड्यादिविशिष्टकदल्यादिपराणि । पदेभ्यः कदल्याद्यंशप्राप्तौ जाड्यादिवैशिष्ट्यमात्रे द्वितीयकदल्यादिशब्दानां लक्षणा । ततः कदली जाड्या करभोऽशोभनः करिराजकरः कर्कश इत्यर्थः । ********** टीका सम्पूर्णा ********** यत्र पुनः स्वार्थं सर्वथा परित्यजन्नर्थान्तरे परिणमति, तत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् । लोचना (लो, ऊ) अत्यन्ततिरस्कृत इति कारिकापदार्थं विवृणोति---यत्र पुनरिति--अत्र परिणमतीत्युपचारपदप्रयोगः तेन प्रवर्तते इत्यर्थः । ********** टीका सम्पूर्णा ********** यथा--- निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते । अत्रान्धशब्दो मुख्यार्थे बाधितेऽप्रकाशरूपमर्थं बोधयति, अप्रकाशातिशयश्च व्यङ्ग्यः । अन्धत्वाप्रकाशत्वयोः सामान्यविशेषभावाभावान्नार्थान्तरसंक्रमितवाच्यत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ङ) निः श्वासान्ध इति । निः श्वासेन अन्धः आदर्श इव चन्द्रमा न प्रकाशते न दीप्यते । अत्राचेतनस्य आदर्शस्यान्धत्वबाधात्लक्ष्यार्थमाह--अत्रेति । तथा च निः श्वासेन अप्रकाश आदर्श इवेत्यर्थः । ननु शक्यतावच्छेदकभिन्नेन अप्रकाशत्वेन रूपेण बोधनात्कथं नेयमर्थान्तरसक्रमितवाच्यलक्षणा इत्यत आह---अन्धत्वाप्रकाशत्वयोरिति---शक्यतावच्छेदकं सामान्यं लक्ष्यतावच्छेदकं यदि तद्विशेषो भवेत्तदा एव अर्थान्तरसंक्रमिति वाच्यलक्षणा । यथा घटपदस्य नीलघटपदत्वे अत्र तु लक्ष्यतावच्छेदकमप्रकाशत्वमेव सामान्यम् । अन्धत्वमेव तद्विशेष इति अतो न तथा इति भावः । इदं तु प्रायिकमेव न सार्वत्रिकं "रामोऽस्मि सर्वं सहे "इत्यत्र दुः खसहिष्णुत्वरामत्वयोः करभः करभः इत्यत्र शोभाराहित्यकरभत्वयोश्च तथात्वाभावात् । किन्तु अत्रान्धत्वरूपस्वार्थपरित्यागादेव न तथात्वमिति बोध्यम् । लोचना (लो, ऋ) अन्धत्वेति---अयमाशयः, न ह्यत्रार्थस्याप्रकाशत्वं विशेषः, ********** टीका सम्पूर्णा ********** यथा--- भण धम्मिअ वीसत्थो, सो सुणओ अज्ज मारिओ देण । गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण ॥ ************* टीका ************* विज्ञप्रिया (वि, च) भम धम्मिअ इत्यत्रापि विपरीलक्षणाभ्रमं केषाञ्चित्निरसयितुमाह---भमेति । भ्रम धार्मिक विश्वस्तः स श्वाद्य मारितस्तेन । गोदानदीकच्छकुञ्चवासिना दृप्तसिंहेन ॥ इति संस्कृतम् । गोदावरी नदी तत्तीरे कुञ्जे कृतंकेतायाः तत्रैव प्रतिदिनं पुष्पावचयनेन तत्संकेतभञ्जकं स्वपोषितकुक्कुरोपद्रवेणापि अनिवृत्तं धार्मिकं प्रति उत्किरयम् । स श्वा तव उपद्रावकः कुक्कुरः । ********** टीका सम्पूर्णा ********** अत्र "भ्रम धार्मिक--" इत्यतो भ्रमणस्य विधिः प्रकृतेऽनुपयुज्यमानतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्कान कार्या । यत्र खलु विधिनिषैधावुत्पत्स्यमानावेव निषधविध्योः पर्यवस्यतस्तत्रैव तदवसरः । ************* टीका ************* विज्ञप्रिया (वि, छ) भ्रमणविधिः प्रकृते अनुपपद्यमानतया इति---सिंहवत्त्वेन कथिते स्वसंकेतस्थले भ्रमणोपदेशस्य बाधितार्थकत्वात्निवृत्तीच्छया उक्तवाक्यस्य प्रवर्त्तकत्वानुपपत्तेश्च निषेधे पर्यवस्यतीति विपरीतलक्षणयेति शेषः । उत्पद्यमानावेवेति---वाक्यार्थबोधोत्पत्तिदशायाम एव इत्यर्थः । तद्दशायां क्वचित्विधिः निषेधे क्वचित्निषेधो विधौ पर्यवस्यतीत्यर्थः । तत्र तद्दशायां विधेः निषेधे पर्यवसानं यथा--- औन्निद्षं दौर्बल्यं चिन्तालसत्वं सनिः श्वसितम् । मम मन्दभागिन्याः कृते सखि त्वामपि परिभवति ॥ इत्यत्र नायिकायाः सोल्लुण्ठवाक्ये मम कृते इति विधेः न मम कृते इति लक्षणया पर्यवसानम् । निषेधस्य विधौ पर्यवसानं यथा---"मा पथिक रात्र्यन्ध शय्यायामावयोर्निमङ्क्षासि "इति स्वयं दूतिकाया उक्तौ स्वशय्यायां गमननिषेधस्य स्वशय्यायामागमनविधौ लक्षणया पर्यवसानम् । यत्तु निः शेषच्युतचन्दनमित्यादावपि तदन्तिकगमननिषेधस्य तदन्तिकगमनविधौ लक्षणया पर्यवसानमिति ग्रन्थकृता पूर्वमुक्तं तन्न रुचिरम्, तत्र भ्रम धार्मिक इत्यादाविव प्रथमं वाच्यनिषेधस्यैव बोधातुत्तरकालमेवाधमत्वोक्तेश्च्युतनिर्मृष्टपदग्रीष्मकालपुलककथनात्तात्पर्यपर्यालोचनया एव तदन्तिकगमनविधेः व्यञ्जनयैव प्रतीयमानत्वात् । अत एव काव्यप्रकाशकृता तत्र तदन्तिकगमनविधेः व्यङ्ग्यत्वमेवोक्तम् । लोचना (लो, ॠ) उत्पत्स्यमानावेवेति--अनन्तरमनुपपद्यमानान्वयसिद्ध्यर्थमिति शेषः । तदवसरस्तस्या विपरीतलक्षणाया अवसरः । ********** टीका सम्पूर्णा ********** यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषधयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव । तदुक्तम् --- ************* टीका ************* विज्ञप्रिया (वि, ज) तत्र ध्वनित्वमेवेति---व्यङ्ग्यत्वमेवेत्यर्थः, न तु लक्ष्यत्वमेवेत्यर्थः । ध्वनिकाव्यं तु गमनलक्षणायामपि रमणव्यञ्जनया अविहतमेव । तद्वतिहापि प्रथमं भ्रमणविधिः शक्त्यैव प्रतीयते । पश्चादेव तस्याः कुलटात्वस्य प्रकरणादिना प्रतीतौ भ्रमणनिषेधो व्यञ्जनयैव प्रतीयते, इत्यतोऽत्र विपरीतलक्षणाशङ्का न कार्या इत्यर्थः । लोचना (लो, ळ) विधिनिषेधयोरित्यत्र पूर्वमन्वयानुपपत्त्या पर्यवसितयोरिति पूरणीयम् । ********** टीका सम्पूर्णा ********** "क्वचिद्वाध्यतया ख्यातिः क्वचित्ख्यातस्य बाधनम् । पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु" ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) क्वचित्बाध्यतयेति---ख्यातिः प्रतीतिः । यथा गङ्गायां घोष इत्यादौ घोषनिवासस्य यथा वा "उपकृतं बहु तत्र किमुच्यते "इत्यपकारिणं प्रत्युक्त्वा उपकारस्य च प्रथममेव बाध्यतया ख्यातिः । क्वचित्ख्यातस्येति---प्रथमं प्रतीतस्य इत्यर्थः । यथात्रैव श्लोके, निः शेषेत्यादौ च । उत्तरत्र अभिधैव तु इत्युक्त्या निषेधविध्योस्तु व्यङ्ग्यत्वमेवेति दर्शितम् । लोचना (लो, ए) क्वचिदिति---अत्रोत्तरमभिधेव त्वितिवचनम् । यत्परः शब्दः स शब्दार्थ इति व्यङ्ग्यार्थस्याप्यभिधाने यत्परत्वेन ख्यातस्य बाधनेऽप्यभिधाव्यापारस्वीकारीत् । एतत्त्वग्रे निराकरिष्यते । ********** टीका सम्पूर्णा ********** अत्राद्ये मुखायार्थस्यार्थान्तरे संक्रमणं प्रवेशः, न तु तिरोभावः । अत एवात्राजहत्स्वार्था लक्षणा । द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृतत्वाज्जहत्स्वार्था । ************* टीका ************* विज्ञप्रिया (वि, ञ) इत्थमविवक्षितवाच्यध्वनेरर्थान्तरसंक्रमितवाच्यत्वात्यन्ततिरस्कृतवाच्यत्वेन द्वैविध्यमुक्त्वा तदुदाहृतस्य च आद्यस्यार्थान्तरसंक्रमितवाच्यस्य तादृशपरिभाषाया बीजमाह--अत्राद्ये इति । अर्थान्तरे शक्यतावच्छेदकार्थान्तरेऽवच्छेदकान्तरे शक्यतावच्छेदकरूपेण बोधनमित्यर्थः , न तु तिरोभावः नतु अबोधनमित्यर्थः । अत एवेति स्वार्थं स्वाश्रयशब्दस्य मुख्यार्थमजहती उपस्थापयन्ती अजहत्स्वार्था (राजदन्तादिसमाससिद्ध) नच कदली कदलीत्यादौ प्रथमकदलीपदेनैव सदल्या उपस्थितौ तत्र लक्ष्यार्थस्य जडताया अभेदान्वयसम्भवे किमर्थं कदल्यंशे लक्षणेति वाच्यम्, लक्ष्यतावच्छेदकजडत्वाश्रयत्वेन तेन रूपेण तदुपस्थापनस्य अनिवार्यत्वात् । द्वितीये त्विति--अत्यन्ततिरस्कृतवाच्ये इत्यर्थः । अत्यन्ततिरस्कृतत्वात्केनापि रूपेणाबोधितत्वात्जहत्स्वार्था, उक्तरूपं स्वार्थं जहती अनुपस्थापयन्ती । ********** टीका सम्पूर्णा ********** विवक्षिताभिधेयोऽपि द्विभेदः प्रथमं मतः । असंलक्ष्यक्रमो यत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा ॥ ४.४ ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) विवक्षितान्यपरवाच्यस्यापि प्रथमं भेदद्वयमाह---विवक्षिताभिधेयोपीति---विवक्षितवाच्य इत्यर्थः । प्रथममिति पश्चात्तूभयोरपि प्रभेदबाहुल्यस्य वक्ष्यमाणत्वात् । तद्द्वैविध्यमाह । असंलक्ष्येति---व्यङ्ग्यो यत्र असंलक्ष्यक्रमः अपरिचेयज्ञानोत्पत्तिक्रमः, वाच्यज्ञानान्तरं व्यङ्ग्यज्ञानं जायते इति क्रमो यत्र अपरिचेय इति भावः । रसभावादीनामत्यन्तास्वाद्यतया शीघ्रबोध्यत्वेन उत्पलपत्रशतभेदनस्येव क्रमापरिचयात् । अपरो वस्त्वलङ्काररूपो व्यङ्ग्यस्तु लक्ष्यक्रमः । तद्ज्ञानोत्पत्तिक्रमस्य लक्षणीयत्वात् । लोचना (लो, ऐ) विविक्षिताभिधेय इत्यस्यार्थः विवक्षितान्यपरवाच्यो ध्वनिरिति । तत्र च रसवति काव्ये झटित्यास्वादपर्यन्तगमनाद्वस्त्वलङ्काररूपव्यङ्ग्ययोरपि प्रतीतिर्न विलम्बिता, नीरसे तु प्रतीतिविलम्बात्तत्साजात्येन सलक्ष्यक्रमव्यङ्ग्यव्यवहारः । ********** टीका सम्पूर्णा ********** विवक्षितान्यपरवाच्योऽपि ध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः । तत्राद्यो रसभावादिरेक एवात्र गण्यते । एकोऽपि भेदोऽनन्तत्वात्संख्येयस्तस्य नैव यत् ॥ ४.५ ॥ उक्तस्वरूपो भावादिरसंलक्ष्यक्रमव्यङ्ग्यः । अत्र व्यङ्ग्यप्रतीतेर्विभावादिप्रतितिकारणत्वात्क्रमोऽवश्यमस्ति किन्तूत्पलपत्रशतव्यतिभेदवल्लाघवान्न संलक्ष्यते । ************* टीका ************* विज्ञप्रिया (वि, ठ) आद्यः असंलक्ष्यक्रमः । विभावादिप्रतीतिकारणकत्वादिति । प्रत्येकं तत्प्रतीतिकारणकत्वादित्यर्थः । "प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते"इत्युक्तत्वात् । "तत्समूहालम्बनप्रतीतिस्तु रस एव"इत्युक्तत्वाच्च । लाघवात्शीघ्रप्रतीतिकत्वात् । ********** टीका सम्पूर्णा ********** एषु रसादिषु च एकस्यापि भेस्यानन्तत्वात्संख्यातुमशक्यत्वादसंलक्ष्यक्रमव्यङ्ग्यध्वनिर्नाम काव्यमेकभेदमेवोक्तम् । तथाहि---एकस्यैव "शृङ्गारस्यैकोऽपि संभोगरूपो भेदः परस्परालिङ्गनाधरपानचुम्बनादिभेदात्प्रत्येकं च निभावादिवैचित्र्यात्संखायतुमश्क्यः, का गणना सर्वेषाम् । ************* टीका ************* विज्ञप्रिया (वि, ड) एकोऽपि भेद इत्यादिकं व्याचष्टे--एषु चेति । एकभेदमेवेतिअसंलक्ष्यक्रमत्वमेकमुपाधिमाश्रित्य इति शेषः । विभावानुभावभेदाभेदगणने अनन्तत्वम्, तद्दर्शयति---तथाहीति । विभावादिवैचित्र्यं कन्यामध्याप्रगल्भत्वादिभेदेन उत्तममध्यमाधमत्वभेदेन वैचित्र्यं बोध्यम् । ********** टीका सम्पूर्णा ********** शब्दार्थोभयशक्त्युत्थे व्यङ्क्येऽनुस्वानसन्निभे । ध्वनिर्लक्ष्यक्रमव्यङ्ग्यस्त्रिविधः कथितो बुधैः ॥ ४.६ ॥ क्रमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्ग्यस्तस्य शब्दशक्त्युद्भवत्वेन, अर्थशक्त्युद्भवत्वेन शब्दार्थशक्त्युद्भवत्वेन च त्रैविध्यात्संलक्ष्यक्रमव्यङ्ग्यनाम्नोध्वनेः काव्यस्यापि त्रैविध्यम् । ************* टीका ************* विज्ञप्रिया (वि, ढ) लक्ष्यक्रमव्यङ्ग्यध्वनिं विभजति---शब्दार्थोभयेति--तत्र अनुस्वानसान्नेभ इति यदुक्तं तद्व्याचष्टे---क्रमलक्ष्यत्वादेवानुरणनरूप इति । अनुरणनं प्रतिध्वनिः । स हि प्रथमध्वनेरनन्तरं जायते तदुत्पत्तिक्रमश्च लक्ष्यते तत्तुल्यो यो व्यङ्ग्यस्तस्य त्रैविध्यं व्याचष्टे---तस्य शब्दशक्त्युद्भवत्वेन इति । शब्दस्य अर्थस्य च शक्तिः सामर्थ्यम् । न तु अभिधारूपा वृत्तिः तया व्यङ्ग्याबोधनातर्थस्य तदभावाच्च । तेन सामर्थ्यैन उद्भव उत्पन्नविषयता यस्य तादृशव्यङ्ग्यस्येत्यर्थः । तत्त्रैविध्यात्तत्सम्बन्धेन संलक्ष्यक्रमव्यङ्ग्यनाम्नो ध्वनिकाव्यस्य त्रैविध्यमित्यर्थः । लोचना (लो, ओ) संलक्ष्यकमव्यङ्ग्यभेदानाह---शब्दार्थेति । अनुस्वानेति कारिकापदस्यार्थं विवृणोति---अनुरणनमिति । ********** टीका सम्पूर्णा ********** तत्र--- वस्त्वलङ्काररूपत्वाच्छब्दशक्त्युद्भवोद्विधा । अलङ्कारशब्दस्य पृथगुपादानादनलङ्कारं वस्तुमात्रं गृह्यते । लोचना ( लो, औ) अनलङ्करणं वैचिञ्यमात्रराहितम् । ********** टीका सम्पूर्णा ********** तत्र वस्तुरूपः शब्दशक्त्युद्भवो व्यङ्ग्यो यथा--- ************* टीका ************* विज्ञप्रिया (वि, ण) तत्र काव्यस्य शक्त्युत्थत्वप्रयोजकं शब्दशक्त्युद्भवं व्यङ्ग्यं द्विधा विभजति---तत्र वस्त्वलङ्काररूपत्वादिति । पृथकुपादानादिति वस्तुत्वस्य केवलान्वयित्वेन अलङ्कारस्यापि वस्तुत्वात् । तथा च गोवृषन्यायात्वस्तुपदस्यालङ्कारभिन्नवस्तुपरतां व्याचष्टे---अलङ्करणमिति । अलङ्कारणमलङ्कारः तद्भिन्नमित्यर्थः । अनलङ्कार इति बहुपुस्तकेषु पाठः तल्लोखकप्रमादादेव । अलङ्कारशब्दस्य पुंलिङ्गत्वेन तस्य नञ्तत्पुरुषे लिङ्गत्यागाभावात् । ********** टीका सम्पूर्णा ********** पन्थि अ ! ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे । उण्णअ पओहरं पेक्खिअ ऊण जै वसति ता वससु ॥ लोचना (लो, अ) स्त्रस्तरं-तृणादिशय्या । प्रस्तराः पाषाणाः । पयोधरः मेघः । व्यङ्ग्यपक्षे स्त्रस्तरं शास्त्रं सत्यनुशासकम् । उन्नतपयोधरां मामित्यर्थः । न चेह स्त्रस्तरशब्दस्य शास्त्रार्थत्वेन उपमाध्वनिः॑ सादृश्यस्याविवक्षितत्वात् । रहस्यसंगोपनार्थमेव हि ह्यर्थप्रयोगः । ********** टीका सम्पूर्णा ********** अत्र सत्थरादिशब्दशक्त्या यद्युपभोगक्षमोऽसि तदास्स्वेति वस्तु व्यज्यते । ************* टीका ************* विज्ञप्रिया (वि, त) पन्थिअ ण एत्थेति-- "पथिक नात्र स्त्रस्तरमस्ति मनाक्प्रस्तरस्थले ग्रामे । उन्नतपयोधरं प्रेक्ष्य यदि वससि तद्वस" ॥ इति संस्कृतम् । निवासार्थिनं पथिकं प्रति स्वयं-दूत्या उक्तिरियम् । हे पथिक ! प्रस्तरस्थलेऽत्र ग्रामे मनाक्स्वल्पमपि स्त्रस्तरं शयनीयास्तरणं नास्ति । प्रस्तर एवं वयं स्वमिप इति भावः । मनागित्यत्रापि अर्थोऽध्याहार्यः । उन्नतमुद्भूतं पयोधरं मेघं प्रेक्ष्य गमनप्रतिबन्धात्यदि वस्तुमिच्छसि तदा वस इति आपाततो भावार्थः । अत शब्दशक्त्युत्थं गूढं व्यङ्ग्यार्थ दर्शयति---अत्रेति । प्राकृतश्लिष्टस्य स्त्रत्थरशब्दस्य शास्त्रमप्यर्थः । प्रकरणनियन्त्रणवशात्सोर्ऽथो व्यङ्ग्यस्तथा च "परदारान्न गच्छेदि ति स्मृत्यादिशास्त्रं नास्ति इत्यर्थः । इति आदिपदात्प्रस्तरस्थलपयोधरपदयोरपि परिग्रहः । तथा हि शय्याविरहात्प्रस्तरस्थं स्त्रीजनं पुरुषो लातिरत्यर्थं गृह्णाति इति प्रस्तरस्थलः तत्र इत्यर्थेन उत्तुङ्गस्तनदर्शनेन च" यद्युपभोगक्षमेत्यादि"व्यञ्जनात्परम्परया शब्दशक्तिमूलता । ********** टीका सम्पूर्णा ********** अलङ्काररूपो यथा--"दुर्गालङ्घितविग्रहः" इत्यादौ (५९ पृदृ) अत्र प्राकरणिकस्य उमानाममहादेवी-वल्लभ-भानुदेवनाम-नृपतेर्वर्णने द्वितीयार्थसूचितमप्रारणिकस्य पार्वतीवल्लभस्य वर्णनमसम्बनद्धं मा प्रसङ्क्षीदिति ईश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते तदत्र उमावल्लभ उमावल्लभ इवेत्युपमालङ्कारो व्यङ्ग्यः । ************* टीका ************* विज्ञप्रिया (वि, थ) शब्दशक्त्युद्भवोपमालङ्कारव्यञ्जनामाह---दुर्गालङ्घितेति । व्याख्यातमिदम् । द्वितीयार्थः पार्वत्यादिः तेन सूचितं पार्वतीवल्लभस्य वर्ण्णनमित्यर्थः । मा प्रसाङ्क्षीदिति--प्रसक्तं माभूदित्यर्थः । तत्प्रसक्तौ कवेरुन्मत्ततापत्तेः । अतः कवेरीश्वरभानुदवयोरुपमानोपमेयभावे तात्पर्य्यातुपमानोपमेयभावः कल्प्यते संव्यज्यते इत्यर्थः । स एव च उपमालङ्कारः । तं व्यङ्ग्यं विशदयित्वा दर्शयतितदत्रेति । ********** टीका सम्पूर्णा ********** यथा वा--- "अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद ! प्रभो ! । अहितः सहितः साधु यशोभिरसतामसि" ॥ अत्रामित इत्यादावपिशब्दाभावाद्विरोधाभासो व्यङ्ग्यः । ************* टीका ************* विज्ञप्रिया (वि, द) शब्दशक्त्या व्यङ्ग्यविरोधभासालङ्कारमाह--यथा वा---अमित इति । हे हर्षद प्रभो ! समितः युद्धात्प्राप्तौरुत्कर्षैरमितः अपरिच्छिन्नोसि, उत्कर्षबाहुल्यात्त्वं कीदृशः असतामहितः शत्रुः साधुयशोभिः सहितः । अत्र अमितः परिमाणरहितः समितः परिमाणयुक्तश्चेति । अहितो हितशून्यः सहितो हितयुक्तश्चेति विरोधः । विरोधस्य वाचकाभावात्व्यङ्ग्यतामाह---अत्रेति । लोचना (लो, आ) आमिति इति । समितः संग्रमात्प्राप्तौरुत्कर्षैरपरिमितः, असतामहितः शुवुः । मानं भितं तेन सहितः । हितेन रहितः कथं तेन युक्त इति विरोधः । अपिशब्दाभावादिति । अपिशब्दसद्भावे"कुपतिमपि कलत्रवल्लभमित्यादौ अपिशब्दबलात्झटिति विरुद्धार्थ एवाभासते । अन्यथा अपिशब्दस्य निरर्थकतापत्तेः । अमित इत्यादौ तु अपेरभावात्प्राकरणिकतया प्रथममविरुद्धार्थ एव प्रतिभासते । अनन्तरममितः सन्कथं समिति इति विरोधप्रतिभासनाद्विरोधाभासो व्यङ्ग्य इति । अपिशब्दाभावादित्युपलक्षणमः अन्येषामपि विरोधभिधायि शब्दानामभावेऽपि विरोधाभासस्य व्यङ्ग्यत्वं बोद्धव्यम् । ********** टीका सम्पूर्णा ********** व्यङ्ग्यस्यालङ्कार्यत्वेऽपि ब्राह्मणश्रमणन्यायादलङ्कारत्वमुपचर्यते । ************* टीका ************* विज्ञप्रिया (वि, ध) ननु व्यङ्ग्यार्थ एव आस्वाद्यः तस्य शोभको यः स एवालङ्कारः । तथा च उपमादेर्व्यङ्ग्यत्वे परेण शोभ्यमान एव सः न शोभकः । तत्कथमत्र व्यङ्ग्योपमादेरलङ्कारत्वमित्यत आह---व्यङ्ग्यस्येति--अलङ्कार्य्यत्वे वाच्यालङ्कारन्तरेणैव शोभ्यत्वेऽपि इत्यर्थः । श्रमणः सन्यासी तद्दशायां तस्य ब्राह्मण्याभावेऽपि यथा तस्य दशान्तरीयं ब्राह्मण्यमादाय ब्राह्मणत्वमुपचर्य्यते तथा वाच्यतादशायामलङ्कारत्वमादाय व्यङ्ग्योपमादेरलङ्कारत्वमुपचर्य्यते इत्यर्थः । ********** टीका सम्पूर्णा ********** वस्तु वालङ्कृतिर्वापि द्विधार्थः सम्भवी स्वतः ॥ ४.७ ॥ कवेः प्रौठोक्तिसिद्धो वा तन्निबद्धस्य वेति षट् । षड्भिस्तैर्व्यज्यमानस्तु वस्त्वलङ्काररूपकः ॥ ४.८ ॥ अर्थशतयुद्भवो व्यङ्ग्यो याति द्वादशभेदताम् । लोचना (लो, इ) वस्तु वेति---स्वतः सम्भविकविप्रौढोत्कितन्निबद्धवस्तुप्रौढोत्किसिद्धाभिः वस्त्वलङ्काररूपाभैः षङ्विधाभिः व्यञ्जनाभिः व्यङ्ग्ययोर्वस्त्वलङ्कारयोः द्वादश विधत्वेन द्वादशप्रकारमर्थशक्त्युद्भवव्यङ्ग्यध्वनिकाव्यमिति । ********** टीका सम्पूर्णा ********** स्वतः सम्भवी औचित्याद्बहिरपि सम्भाव्यमानः । प्रौढोक्त्या सिद्धः, न त्वौचित्येन । ************* टीका ************* विज्ञप्रिया (वि, न) अर्थशक्त्युद्भवं दर्शायितुं व्यञ्जकार्थस्य वस्त्वलङ्काररूपद्विविधस्य स्वतः सम्भवित्वादित्रौविध्येन षड्विधत्वमाह--वस्तु वालङ्कृतिर्वेति । षड्विधव्यङ्ग्यानां द्वादशविधत्वमाह---षड्भिस्तैरिति । बहिरपीति । शब्दप्रमाणात्बहिः । प्रमाणेनापि सिद्धत्वातुचितसम्भावन इत्यर्थः । प्रौढोक्त्येति--कवितन्निबद्धयोः प्रतिभामात्राधीनोक्त्या इत्यर्थः । नतु औचित्येनेति---तस्यार्ऽथस्यालीकत्वेनौचित्याभावात् । ********** टीका सम्पूर्णा ********** तत्र क्रमेण यथा-- दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि सत्वरमितः स्त्रोतस्तमालाकुलं नीरन्ध्राः तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ॥ ************* टीका ************* विज्ञप्रिया (वि, प) स्वतः सम्भविवस्तुव्यङ्ग्यं वस्त्वाह--दृष्टिं हे इति । नदीजलानयनवर्त्मनि वने कृतसंकेतायाः कुलटायाः तज्जलानयनच्छलेन जिगमिषोर्भाविनखक्षतसम्वरणोक्तिरियम् । इहापीति--स्वगृह इव अस्मद्गृहेऽपीत्यर्थः । अस्य मदीयस्य शिशोः पिता कुलटात्वात्स्वपतित्वेनानुक्तिः । विरसाः स्वादारहिताः कौपीः कूपसम्बन्धिनीः अपः जलीभिप्रायेण इत्यनेन मम बाध्यादिना अशक्तिदिने पिबतीत्युक्तम् । आलिखन्तु इति, तदा लेखनसम्भावनासत्त्वेऽपि यास्यामीत्यर्थः । जरठच्छेदाः कठिनच्छिन्नभागाः नीरन्ध्रा अविरलाः । नलग्रन्थयः नलाख्यतृणपर्वदेशाः ********** टीका सम्पूर्णा ********** अत्र स्वतः सम्भविना वस्तुना तत्प्रतिपादिकाया भावपरपुषोपयोगजनखक्षतादिगोपनरूपं वस्तुमात्रं व्यज्यते । ************* टीका ************* विज्ञप्रिया (वि, फ) स्वतः सम्भविनेति---अस्य श्लोकार्थस्यानलीकत्वेन प्रमाणान्तरेणापि गम्यत्वसम्भवात् । ********** टीका सम्पूर्णा ********** दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि । तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥ अत्र स्वतः सम्भविना वस्तुना रवितेजसो रघुप्रतापोऽधिक इति व्यतिरेकालङ्कारो व्यज्यते । ************* टीका ************* विज्ञप्रिया (वि, ब) स्वतः सम्भविवस्तुव्यङ्ग्यमलङ्कारमाह---दिशीति । पाण्ड्याः पाण्ड्यदेशीयाः राजानः । व्यतिरेकालङ्कार इति उपमानात्रवितेजसो रघुप्रतापस्याधिकरूपः । सच व्यङ्ग्य एव असहनेनैव तत्प्राप्तेः । ********** टीका सम्पूर्णा ********** आपतन्तममुं दूरादूरीकृतपराक्रमः । बलोऽवलोकयामास मातङ्गमिव केसरी ॥ अत्रोपमालङ्कारेण स्वतः सम्भविना व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणुदारिणः क्षयं करिष्यतीति वस्तु व्यज्यते । ************* टीका ************* विज्ञप्रिया (वि, भ) स्तः सम्भव्यलङ्कारव्यङ्ग्यं वस्त्वाह--आपतन्तममुमिति । आपतन्तमागच्छन्तममुं वेणुदारिनामासुरं रामो बलरामः । वेणुदारिणः क्षयमिति बलोपमानस्य सिंहस्य वेणुदार्युपमानमात्रसंक्षयकरित्वेन तदुपमानोपमेययोरपि तद्धर्मलाभात् । ********** टीका सम्पूर्णा ********** गाढकान्तदशनक्षतव्यथा सङ्कटादरिबधूजनस्य यः । ओष्ठविद्रुमदलान्यमोचयन्निदर्शन् युधि रुषा निजाधरम् ॥ अत्र स्वतः सम्भविना विरोधालङ्कारेणाधरो निर्दष्टः शत्रवो व्यापादिताश्चेति समुच्चयालङ्कारो व्यङ्ग्यः । ************* टीका ************* विज्ञप्रिया (वि, म) स्वतः सम्भव्यलङ्कारव्यङ्ग्यमलङ्कारमाह---गाढकान्तेति । यो राजा युधि निजाधरं निर्दशनरिवधूजनस्य ओष्ठरूपाणि विद्रुमस्य प्रवालस्य दलानि रतकालीनगाढकान्तदशनक्षतव्यथारूपात्संकटादापदोऽमोचयत् । युधि क्रोधेन स्वाधरं निर्दश्य तत्पतिं हत्वा तथा चकारेत्यर्थः । अत्रेति---अधरदंशकत्वाधरदंशमोचकत्वयोः वस्तुगत्या अविरोधेऽपि आपततो विरोधस्य आभासमानत्वात्विरोधाभासालङ्कारेण इत्यर्थः । समुच्चयालङ्कार इति--द्वयोरेककालोत्पत्तिरूप इत्यर्थः । चकारद्वयस्य समं शब्दस्य वाभावात्व्यङ्ग्यएव इत्यर्थः । लोचना (लो, ई) विरोधालङ्कारेणेति---विरोधमूलेन कार्यकारणपोर्वापर्यविपर्ययरूपेणैवातिशयोक्त्यलङ्कारेणेत्यर्थः । तथा ह्यत्र स्वाधरनिर्दंशनं कारणभूतं वैरिस्त्रीणामोष्टानां च कान्तदन्तक्षतमोचनं कार्यभूतं समकालतया निर्दिष्टम् । किञ्चात्र निर्द्दंशनरूपकरपिशाचो ममाधरं वलिरूपं प्राप्यान्यानधरान् सुखिनः करोत्विति बुद्ध्वैव निजाधरं दष्टवानिति तस्य राज्ञः वुद्धिमपेक्ष्य उत्प्रेक्षा च । ततश्चात्र समुच्चयोत्प्रेक्षयोरेकाश्रयानुप्रवेशः सङ्करश्च । ********** टीका सम्पूर्णा ********** "सजेहि सुरहिमासो ण दाव अप्पेइ जुऐजणलक्खमुहे । अहिणवसहआरमुहे णवपत्तले अणङ्गस्स सरे" ॥ लोचना (लो, उ) सज्जेति---"सज्जयति सुरभिमासो न चार्पयति युवतिजनलक्ष्यसहान् । अभिनवसहकारमुखान्नवपल्लवपत्तलाननङ्गस्य शरान्" ॥ इति संस्कृतम् । ********** टीका सम्पूर्णा ********** अत्र वसन्तः शरकारः, कामो धन्वी, युबतयो लक्ष्यम्, पुष्पाणि शरा इति कविप्रौढोक्तिसिद्धं वस्तु प्रकाशीभवन्मदनविजृम्भणरूपं वस्तु व्यनक्ति । ************* टीका ************* विज्ञप्रिया (वि, य) कविप्रौढोक्तिसिद्धवस्तुव्यङ्ग्यं वस्तु आह---सज्जेइ इति । "सज्जयति सुरभिमासो न चार्पयति युवतिजनलक्ष्यशते । अभिनवसकारमुखान्नवपल्लवपत्तलाननङ्गस्य शरान् ॥ "इति संस्कृतम् । प्रथमप्रवृत्तवसन्तवर्णनमिदम् । सुरभिमासोऽभिनवसहकारमुखानभिनवानि सहकाराणि मुखमादिर्येषां तादृशाननङ्गस्य शरान् सज्जयति । युवतिजनरूपे लक्ष्यशते शरव्यशते न चार्पयति । शरसज्जनस्य वर्त्तमानत्वातनिष्पन्नत्वेन तन्निष्पत्त्यानन्तरमेव तादृशलक्ष्यशतेऽर्पयितुं प्रेरयिष्यति इति भावः । शतपदात्द्वित्रियुवत्यां त्वर्पायितुं प्रेरयतीति लभ्यते । न चार्पयतीति हेतुकारितान्तम् । अनङ्गशरान् कीदृशान्-नवपल्लवपत्तलान्नवपल्लवैः पत्तला पत्ररचना येषां तादृशान् । "खराणां पत्ररचना पत्तला परिकीर्त्त्यते"इति कोषः । वस्तुप्रकाशीभवदिति-- न च सुरभिमासादौ शरकारादिरूपकालङ्कार एव प्रकाशीभवति इत्यतोऽलङ्कारस्यैव व्यञ्जकत्वमात्रेति वाच्यम् । सुरभिमासादौ शरकाराद्यभेदाप्रकाशात्किन्तु सुरभिमासादौ खरसज्जनादेरेव प्रकाशात् । ********** टीका सम्पूर्णा ********** "रजनीषु विमलभानोः करजालेन प्रकाशितं वीर ! धवलयति भुवनमण्डलमखिलं तव कीतिसंततिः सतम्" ॥ अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीतिसन्ततेश्चन्द्रकरजालादधिककालप्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्क्यः । ************* टीका ************* विज्ञप्रिया (वि, र) कविप्रौढोक्तिसिद्धवस्तुव्यङ्ग्यमलङ्कारमाह---रजनीष्विति । हे वीरविमलभानोः निर्मलकिरणस्य चन्द्रस्य करजालेन भुवनमण्डलं धवलयतीत्यर्थः । व्यतिरेकालङ्कार इति---अधिककालं व्याप्य प्रकाशनातुपमानात्चन्द्रकराताधिक्यरूप इत्यर्थः । ********** टीका सम्पूर्णा ********** "दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः । मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः" ॥ अत्र कविप्रौढोक्तिसिद्धेनापह्नुत्यलङ्कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु व्यज्यते । ************* टीका ************* विज्ञप्रिया (वि, ल) कविप्रौढोक्तिसिद्धालङ्कारव्यङ्ग्यं वस्त्वाह---धसाननेति । दशाननस्य किरीटेभ्यः मणिव्याजेन मणिपतनच्छलेन राक्षसश्रियः अश्रुबिन्दवः पृथिव्यां पर्यस्ताः पतिताः । अपह्नुत्यलङ्कारेणेति---मणिपातापह्नुत्या व्याजपदेन अश्रुबिन्दुसाधनात् । ********** टीका सम्पूर्णा ********** "धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः । एकोऽपि त्रिकलिङ्गभूमितिलक ! त्वत्कीर्तिराशिर्ययौ । नानामण्डनतां पुरन्दपुरीवामभ्रुवां विग्रहे" ॥ अत्र कविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण भूमिष्ठोऽपि स्वर्गस्थानामुपकारं करोषीति विभावनालङ्कारो व्यज्यते । ************* टीका ************* विज्ञप्रिया (वि, व) कविप्रौढोक्तिसिद्धालङ्कारव्यङ्ग्यमलङ्कारमाह---धम्मिल्ल इति । हे त्रिकलिङ्गभूमितिलक ! कलिङ्गदेशभूत्रयातिलक ! एकोऽपि तव कीर्तिराशिः पुरन्दरपुरीवामभ्रुवां सुराङ्गनानां विग्रहे शरीरे नानामण्डनतां ययौ । तदेव दर्शयतिधम्मिल्ल इति । धमिल्लः संयताः कचाः । विभावनेति--स्वर्गस्थितिरेव स्वर्गस्थानामुपकारकारणम् । तदभावेऽपि स्वर्गस्थोपकारकरणरूपकफलव्यक्तिरूपा विभावना, सा च स्वर्गस्थित्यभाववाचकशब्दाभावात्व्यङ्ग्या । ********** टीका सम्पूर्णा ********** "शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । सुमुखै ! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः" ॥ अत्रानेन कविनिबद्धस्य कस्यचित्कामिनः प्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते । ************* टीका ************* विज्ञप्रिया (वि, श) कविनिबद्धवक्तृप्रौढोक्तिसिद्धवस्तुव्यङ्ग्यं वस्त्वाह---शिखरिणि इति । असौ शुकशावकः क्क नु शिखरिणि कस्मिन् पर्वते कियच्चिरं किमभिधानं किं नामकं तपः अकरोत् । येन हेतुना तव अधरवत्पाटलं बिम्बफलं दशाति । तव अधरतुल्यवस्तुदंशनमपि तपः फलमिति श्लोकस्य भावरथः । ********** टीका सम्पूर्णा ********** "सुभगे ! कोटिसंख्यत्वमुपेत्य मदनाशुगैः । वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम्" ॥ अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामशराणां कोटिसंख्यत्वप्राप्त्यो निखिलवियोगिमरणोन वस्तुना शराणां पञ्चता शरान् विमुच्य वियोगिनः श्रितेवे त्युत्प्रेक्षालङ्कारो व्यज्यते । ************* टीका ************* विज्ञप्रिया (वि, ष) कविनिबद्धवस्तुप्रौढोक्तिसिद्धवस्तु व्यङ्ग्यमलङ्कारमाह---सुभग इति । वसन्ते मदनाशगैः कोटिसंख्यत्वमुपेत्य लब्ध्वा, पञ्चता पञ्चसंख्यता त्यक्ता, वियोगिनां पञ्चता मरणकालीनपञ्चभूतविश्लेषः । आसीत् । अत्रति---सुभगे इति । सम्बोधनात्कामुक एवात्र वक्ता नतु कविः । तत्प्रौढोक्तिसिद्धेन वियोगिनां मरणेन इत्यन्वयः । उत्प्रेक्षा व्यज्यत इति--तद्वाचकेवकाराधभावाद्व्यञ्जना । ********** टीका सम्पूर्णा ********** "मल्लिकामुकुले चणिड ! भाति गुञ्जन्मधुव्रतः । प्रयाणो पञ्जबाणस्य शङ्वमापूरयन्निव" ॥ अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेनोत्प्रेक्षालङ्कारेण कामस्यायमुन्मादकः कालः प्राप्तस्तत्कथं मानिनि मानं न मुञ्चसीति वस्तु व्यज्यते । ************* टीका ************* विज्ञप्रिया (वि, स) सविनिबद्धवक्तृप्रौढोक्तिसिद्धालङ्कारव्यङ्ग्यं वस्त्वाह---मल्लिकेति । शङ्खमापूरयन्निवेति । मल्लिकामुकुलस्य शङ्खाकारत्वात्भृङ्गगुञ्जनस्य शङ्खशब्दतुल्यत्वात् । मानिनी प्रतीयमुक्तिरित्यभिप्रायेण कविनिबद्धवक्तृप्रौढोक्तिसिद्धमुदाहरणमिदम् । अत एव कथंमानं न मुञ्चसि इति व्याख्या । ********** टीका सम्पूर्णा ********** "महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती । अणुदिणमणण्णकम्मा अङ्ग तणुत्त्रं पि तणुएइ" ॥ लोचना (लो, ऊ) महिलासहस्त्रभरिते तव हृदये सुभग सामान्ती । अनुदिनमनन्यमना अङ्गं तनुकमपि तनूकरोति । ********** टीका सम्पूर्णा ********** अत्रामाअन्तीति कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण तनोस्तनूकरणोऽपि तव हृदये न वर्तत इति विशेषोक्त्यलङ्कारो व्यज्यते । ************* टीका ************* विज्ञप्रिया (वि, ह) कविनिबद्धवक्तृप्रौढोक्तिसिद्धालङ्कारव्यङ्ग्यमलङ्कारमाह---महिलासहस्सेति । "महिलासहस्त्रभरिते तव हृदये सुभग ! सामान्ती । अनुदिनमनन्यकर्मा अङ्गं तन्वपि तनयति ॥ "इति संस्कृतम् । नायकस्य बहुनायिकाभावनादुः खेन कृशाया नायिकाया अवस्थां नायके कथयन्त्यास्तत्सख्या उक्तिरियम् । महिला स्त्री तासां सहस्त्रेण भरिते तव हृदये अमान्ती अवकाशमलभमाना सा अनुदिनं दिवसं व्याप्य अनन्यकर्म्मा त्यक्तान्यकार्य्या सती तनु स्वतः कृशं अङ्गं तनयति तनूकरोति कृशतरं करोति । नामकारितान्तस्य तनुशब्दस्य रूपमिदम् । काव्यलिङ्गेति--काव्यलिङ्गं हेत्वलङ्कारः । हृदये स्थानालाभस्य अङ्गतनूकरणहेतुत्वात् । हृदये न वर्त्तते इति---तनयतीति वर्त्तमाननिर्द्देशातद्यापि हृदये वृत्त्यलाभः । विशेषोक्तिरिति अङ्गतनूकरणरूपकारणसत्वेऽपि हृदये स्थानलाभरूपकार्य्यस्याभावरूपा विशेषोक्तिः । लोचना (लो, ऋ) अत्रेति---रूपणादयः कवेर्व्यापाराः कवेश्च प्राधान्यव्यङ्ग्यबोधनार्था रूपणादयो व्यापारा यथात्र चमत्कुर्वन्ति न तथा वाच्येषु । रूपकाद्यलङ्कारेषु हि वाच्यानां रूप्याणां मुखादीनामेव रूपणादिव्यापाराद्रूपकादिभ्यश्चन्द्रादिभ्यश्च प्राधान्यमित्यर्थः । ********** टीका सम्पूर्णा ********** न खलु कवेः कविनिबद्धस्येव रागाद्याविष्टता अतः कविनिबद्धवक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयवमत्कारकारिणीति पृथक्प्रतिपादिता । ************* टीका ************* विज्ञप्रिया (वि, क) ननु---प्रौढोक्तिसिद्धत्वेनैव उभयसंग्रहसम्भवे किमर्थं कविनिबद्धवक्तृकत्वेन पृथगुपादानमित्यत आह-न खल्विति । कव्यपेक्षया कविनिबद्धस्य रागातिशयात्पृथगुपादानमित्यर्थः । ********** टीका सम्पूर्णा ********** [एवं वाच्यार्थस्य व्यञ्चकत्वे उदाहृतम् ।] ************* टीका ************* विज्ञप्रिया (वि, ख) एवं वाच्यार्थस्येति---इदमत्रावधेयम् । गाढकान्तदशनेत्यादौ दर्शितस्य विरोधालङ्कारस्य व्यञ्जकस्य वाचकापिकाराभावाद्व्यङ्ग्यत्वमेव, एवं सज्जयति सुरभिमास इत्यादौ वसन्तादेः शरकरणदिरूपवस्तुनो व्यञ्जकस्य व्यङ्ग्यत्वमेव इत्यतोऽत्र प्रायश इति पूरणीयम् । काव्यप्रकाशकृन्मते तु व्यञ्जकवस्त्वलङ्कारयोः वाच्यत्वाद्यनियम एव । अत एव लक्ष्यव्यङ्ग्ययोरपि व्यञ्जकत्वमुदाहार्य्यमिति तेनोक्तं ननु रूपणमेव रूपकालङ्कारः । उत्प्रेक्षणमेव उत्प्रेक्षालङ्कारः, व्यतिरेचनमेव व्यतिरेकालङ्कारः तथा च यत्र रूपकालङ्कारस्य व्यङ्गयत्वं तत्र किं रूप्यमानवस्तूदाहरणं न स्यात् । कारः । एवमुत्प्रेक्ष्यमाणव्यतिरिच्यमानवस्तुनोरित्यत आह--एषु चेति--तत्तद्वस्तवपेक्षया तदलङ्कार एव आधिकचमत्कारीति तत्तदुदाहरणमेव तत्ततिति भावः । यद्यपि सुभगे कोटिसंख्यात्वमित्यत्र उत्प्रेक्षालङ्कारः, दिशि मन्दायते इत्यत्र व्यतिरेकालङ्कारश्च व्यङ्ग्य उक्तः । रूपकालङ्कार व्यङ्ग्यत्वं तु नोक्तं तथापि--- चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमती रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः । करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती ॥ इत्यत्र मधुकरे कामुकरूपणं व्यङ्ग्य बोध्यम् । ********** टीका सम्पूर्णा ********** एषु चालङ्कृतिव्यञ्जनस्थले रूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य प्राधान्यं सहृदयसंवेद्यम्, न तु रूप्यादीनामित्यलङ्कृतेरेव मुख्यत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ग) लक्ष्यार्थस्य यथेत्यादि-इदमत्रावधेयम्--"भम्म धम्मिअ"इत्यादावप्यभ्रमणं व्यङ्ग्यमुक्तम् । तत्तुल्ययुक्तिके निः शेषेत्यादौ तदन्तिकगमनं लक्ष्यमित्युक्तमितीदं स्वोक्तिविरुद्धम् । "क्वचिद्बाध्यतया ख्याति "रित्याद्युक्तयुक्तेरुभयत्र समानत्वात् । ********** टीका सम्पूर्णा ********** एकः शब्दार्थशक्त्युत्थे-- अभयशक्त्युद्भवे व्यङ्ग्ये एको ध्वनेर्भेदः । यथा--- ************* टीका ************* विज्ञप्रिया (वि, घ) उभयशक्त्युत्थमुदाहरणमाह---एकेति । एकः प्रभेद इत्यर्थः । शब्दशक्त्युत्थे व्यञ्जने तत्प्रपञ्चस्य अर्थशक्त्युत्थे व्यञ्जने तत्प्रपञ्चस्य दर्शितत्वात् । उभयशक्त्युत्थप्रपञ्चस्य तावतैव गतार्थत्वातेक इत्युक्तम् । न तु दर्शयिष्यमाणोदाहरणेऽलङ्कारस्य व्यङ्ग्यत्वातलङ्काररूपतया एक इत्युक्त इति केनचिदुक्तं युक्तम् । "क्षणदासावक्षणदावनमवनं व्यसनमव्यसनम् । बत वीर ! तव द्विषतां पराङ्मुखे त्वयि पराङ्मुखं सर्वम्" ॥ इत्यत्रार्ऽथान्तरन्यासघटकशब्दशक्त्यार्ऽथान्तरन्यासरूपार्ऽथशक्त्या च विधिरपि त्वामनुवर्त्तते इति वस्तुव्यञ्जनाया अपि सम्भवात्स्वतः सम्भव्याद्यर्थव्यङ्ग्यत्वेन भेदान्तरप्रसक्तेर्दुर्वारत्वाच्च । ********** टीका सम्पूर्णा ********** "हिममुक्तचन्द्ररुचिरः सपद्मको मदयन् द्विजाञ्जनितमीनकेतनः । अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ङ) हिममुक्तेति---माधवः कृष्णः प्रमदाजनस्य महोत्सवो महोत्सवे हेतुश्चिराय अभवत् । अत्र सुद्धसारोपा लक्षणा । कीदृशः हिममुक्तचन्द्र इव रुचिरः । सपद्मकः पद्मया लक्ष्म्या हस्तपादस्थरेखारूपपद्मेन वा साहितः । द्विजान् ब्राह्मणान्मदयनानन्दयन् । जनितो मीनकेतनः प्रद्युन्मः येन तादृशः । प्रसादिताः प्रीणिताः सुरा देवा येन तादृशश्च । अत्र माधवो वसन्तोऽपि शब्दशक्त्या अर्थशक्त्या च व्यज्यते । तथा हि माधवशब्दस्य वसन्तेऽपि शक्त्या सपद्मक इत्यत्र सपद्मकशब्दरूपस्य पद्मसहितेऽपि शक्त्या, द्विजानित्यत्र द्विजशब्दस्य पक्षिष्वपि शक्त्या जनितमीनकेतन इत्यत्र सुराप्रसादनेऽप्यस्य शब्दस्य शक्त्या च वसन्तप्रत्यायने शब्द शक्तिः । हिममुक्तेत्यत्र प्रमदाजनस्येत्यत्र श्लिष्टशब्दाभावातर्थशाक्तः । ततश्च वसन्तस्याप्राकरणिकत्वेन तत्प्रत्यायनस्य प्रकृतेऽनुपयोगाद्वसन्त इव कृष्ण इत्युपमाप्रतीतिः । तदाह---उपमालङ्कार इति । ********** टीका सम्पूर्णा ********** अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालङ्कारो व्यङ्ग्यः । लोचना (लो, ॠ) हिमेति---हिममुक्तचन्द्र इव पक्षे हिममुक्तचन्द्रेण रुचिरः । पद्मा लक्ष्मीः पद्मं कमलं च । मीनकेतनः प्रद्युम्नावतारः, सामान्यमदनश्च, सुराः त्रिदशाः, मुरा मद्यम् । माधवो हरिर्वसन्तश्च । अत्र माधवशब्दप्रतिपाद्यतया हरिवसन्तयोः औपम्यप्रतिपादकस्य हिममुक्त इत्यादिशब्दस्य शब्दपरिवृत्तिसहत्वादर्थशक्तेर्दार्ढ्यम् । ********** टीका सम्पूर्णा ********** एवं च व्यङ्ग्यभेदादेव व्यञ्जकानां काव्यानां भेदः । तदष्टादशधा ध्वनिः ॥ ४.९ ॥ अविवक्षितवाच्योर्ऽथान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः । विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्यङ्ग्यत्वेनैकः । संलक्ष्यक्रमव्यङ्ग्यत्वेन च शब्दार्थोभयशक्तिमूलतया पञ्चदशेत्यष्टादशभेदो ध्वनिः । ************* टीका ************* विज्ञप्रिया (वि, च) अष्टादशत्वं दर्शयति---अविवक्षितेति । पञ्चदशेति--शब्दशक्त्युत्थौ द्वौ, अर्थशक्त्युत्थश्च द्वादश, उभयशक्त्युत्थे एव इति पञ्चदश । ********** टीका सम्पूर्णा ********** एषु च-- वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः । लोचना (लो, ळ) शब्दपरिवृत्तिसहत्वासहत्वाभ्यामेव हि सर्वत्र शब्दार्थशक्तिमूलत्वस्य व्यवस्थापनम् । अत एव चास्य भेदस्य बहुपदनिष्टत्वेनैव सम्भवाभिप्रायेण ग्रन्थकृत्पदनिष्टत्वं नास्तीति वक्ष्यति । तथैव च प्राचीनैरुक्तम् । "पथिअ ण एत्थ"इत्यादौ परिवृत्त्यसह एव स्त्रस्तरपयोधरशब्दयोरेव व्यञ्जकत्वमिति शब्दशक्तिमूलत्वम् । व्यञ्जकत्वस्य बहुनिष्टत्वेऽपि पदसमुदयनिष्टत्वाभिप्रयेण वाक्यनिष्टत्वम् । ********** टीका सम्पूर्णा ********** तत्रार्थान्तरसंक्रमितवाच्यो ध्वनिः पदगतो यथा--- ************* टीका ************* विज्ञप्रिया (वि, छ) वाक्य इति---उभयशक्त्युत्थो व्यङ्ग्यो वाक्यमात्रव्यङ्ग्य इत्यर्थः । व्यञ्जकार्थवाचकश्लिष्टशब्दानां च एकव्यङ्ग्यव्यञ्जने वाक्यत्वनियमात् । तदन्ये इति---तदन्ये व्यङ्ग्याः पदेन वाक्येन च व्यङ्ग्या इत्यर्थः । तत्रेति---तत्र ध्वनिपद व्यङ्ग्यपरम् । पदगतः पदमात्रव्यङ्ग्यः । ********** टीका सम्पूर्णा ********** "धन्यः स एव तरुणो नयने तस्यैव नयने च । युवजनमोहनविद्य भवितेयं यस्य संमुखे सुमुखई" ॥ अत्र द्वितीयनयनशब्दो भग्यवत्तादिगुणविशिष्टनयनपरः । ************* टीका ************* विज्ञप्रिया (वि, ज) द्विजीयनयतशब्द इति---अत्र लक्ष्यार्थस्य अतिशयो व्यङ्ग्य इति वक्ष्यति । ********** टीका सम्पूर्णा ********** वाक्यगतो यथा--- "त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति । आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्" ॥ अत्र प्रतिपाद्यस्य संमुखीनत्वादेव लब्धे प्रतिपाद्यत्वे त्वामिति पुनर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थं तक्षयति । एवं वच्मीत्यनेनैव कर्तरि लब्धेऽस्मीति पुनर्वचनम् । तथा विदुषां समवाय इत्यनेनैव वक्तुः प्रतिपादने सिद्धे पुनर्वच्मीति वचनमुपदिशामीति वचनविशेषरूपमर्थं लक्षयति । एतानि च स्वातिशयं व्यञ्जयन्ति । एतेन मम वचनं तवात्यन्तं हितं तदवश्यमेव कर्तव्यमित्यभिप्रायः । ************* टीका ************* विज्ञप्रिया (वि, झ)त्वामस्मीत्यत्र त्वदाद्यनेकलाक्षणिकपदानां लाक्षणिकत्वं दर्शयति---अत्रेति । अन्यव्यावृत्तिविशिष्टमिति---तथा च त्वामेव अहमेव इत्यर्थः । एतानि चेति---एतानि लक्ष्यार्थे रूपाणि वस्तूनीत्यर्थः । स्वातिशयमिति---स्वापेक्षयाधिकार्थ एव स्वातिशयः । तमधिकमर्थमाह---एतेनेति । अभिप्रायो अभिप्रायस्थव्यङ्ग्यार्थः । ********** टीका सम्पूर्णा ********** तदेवमयं वाक्यगतोऽपर्थान्तरसंक्रमितवाच्यो ध्वनिः । अत्यन्ततिरस्कृतवाच्यः पदगतो यथा---"निःश्वासान्ध-" इत्यादि । वाक्यवतो यथा-"उपकृतं बहु तत्र-" इत्यादि । अन्येषां वाक्यागतत्वे उदाहृतम् । पदगतत्वं यथा-- "लावण्यं तदसौ कान्तिस्तद्रूपं स वचः क्रमः । तदा सुधास्पदमभूदधुना तु ज्वरो महान्" ॥ लोचना (लो, ए) लावण्यमिति---सर्वावयवगतः कोऽप्यातिशयः लावण्यम् । कान्तिरुज्ज्वलता च पृथक्पृथगवयवाश्रिता । ज्वरः पीडादायकः । लावण्यादीनामित्यतः पूर्वं प्रतीतेर्विभावादिसामग्रीसाध्यत्वेऽपि पूरणीयम् । ********** टीका सम्पूर्णा ********** अत्र लावण्यादीनां तादृगनुभवैकगौचरताव्यञ्जकानां तदादिशब्दानामेव प्राधान्यम्, अन्येषां तु तदुपकारित्वमेवेति तन्मूलक एव ध्वनिव्यपदेशः । ************* टीका ************* विज्ञप्रिया (वि, ञ) असंलक्ष्यक्रमं पदगतं व्यङ्ग्यमुदाहरति---लावण्यमिति । अत्रेति---लावण्यादीनां यदनुभवैकगोचरत्वं तत्तद्व्यञ्जकानामित्यर्थः । व्यञ्जकानामित्यत्र ज्ञापकानामित्यर्थः । तेन अनुभवैकगोचरत्वं तदादिपदानां वाच्यमेव बोध्यं, न तु व्यङ्ग्यं किन्तु विप्रलम्भ एव व्यङ्ग्यः । तदाद्यनेकपदानां चात्र न वाक्यत्वं विभिन्नवाक्यस्थत्वेन परस्परानन्वयात् । न च तदा सुधास्पदमभूदित्यत्र सर्वेषां तदादिपदार्थानामन्वयात्वाक्यत्वमेवेति वाच्यम् । तल्लावण्यमित्यनेनैव विप्रलम्भव्यञ्जनेन तदा सुधास्पदमित्यन्वयापेक्षां विनैव व्यञ्जक्त्वेन पदत्वेनैव व्यञ्जकत्वात् । महावाक्यव्यङ्ग्यत्वेऽपि पदगतव्यङ्ग्यमूलो व्यवहारः । ********** टीका सम्पूर्णा ********** तदुक्तं ध्वनिकृता--- "एकावयवसंस्थेन भूषणोनेव कामिनी । पदद्योत्येन सुकवेर्ध्वनिना भाति भारती" ॥ एवं भावादिष्वप्यूह्यम् । ************* टीका ************* विज्ञप्रिया (वि, ट) तन्मुखेनैव काव्यशोभाप्रतीतिरित्यत्र संवादं दर्शयति---तदुक्तमिति । ध्वनिना व्यङ्ग्येन भारती वाक्यरूपा । पदव्यङ्ग्ये रसादिरूपेऽसंलक्ष्यक्रमे उदाहृते भावादिरूपासंलक्ष्यक्रमस्यापि पदव्यङ्ग्यत्वमूह्यमित्याह । ********** टीका सम्पूर्णा ********** "भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः । कस्य नानन्दनिस्यन्दं विदधाति सदागमः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) शब्दशक्त्युद्भवं वस्तुपदव्यङ्ग्यमाह---भुक्तिमुक्तिकृदिति---उपनायकागमनं दृष्ट्वा सन्तोषं व्यञ्जयन्त्या उक्तिरियम् । वाच्यार्थे सदागमः सच्छास्त्रम् । भुक्तिमुक्ती स्वर्गभोगमोक्षौ । एकन्तं सम्यगादेशनं तत्त्वज्ञानोपदेशः । व्यङ्ग्यार्थे तु सदगमः सत्पुरुषोपनायकागमः । भुक्तिमुक्ती सुरतोपयोगगृहकर्मत्यागौ । एकन्तस्य समादेशनं रहस्योपदेशः । लोचना (लो, ऐ) भुक्तीति । भुक्तिर्भोगः, सम्भोगश्च । मुक्तिः निः श्रेयसमितरव्यापारव्यासङ्गपरित्यगसुशं च । एकान्तः परमार्थस्वरूपं संकेतस्थानं च । सदागमः सच्छास्त्रं सतः पुरुषस्यागमनं च । ********** टीका सम्पूर्णा ********** अत्र सदागमशब्दः सन्नहितमुपनायकं प्रति सच्छास्त्रार्थमभिधाय सतः पुरुषस्यागम इति वस्तु व्यनक्ति । ************* टीका ************* विज्ञप्रिया (वि, ड) अत्र श्लिष्टसदागमपदशक्तिमूलकव्यञ्जकत्वमेव अन्यव्यञ्जकपदानामिति तत्पदस्यैव व्यञ्जकत्वं तदाह--अत्रेति---सच्छास्त्रमापाततः प्रकरणगम्यं गामान्यतोऽभिधाय उपनायकं प्रति सत्पुरुषागमं व्यनक्ति इत्यर्थः । ********** टीका सम्पूर्णा ********** ननु सदागमः सदागम इवेति न कथमुपमाध्वनिः ? सदागमशब्दयोरुपमानोपमेयभावाविवक्षणात् । रहस्यस्य सङ्गोपनार्थमेव हि द्व्यर्थपदप्रतिपादनम् । प्रकरणादिपर्यालोचनेन च सच्छास्त्राभिधानस्यासम्बन्धत्वात् । ************* टीका ************* विज्ञप्रिया (वि, ढ) सत्पुरुषागमसच्छास्त्रयोरुपमाध्वनित्वमाशङ्कते--नन्विति । समाधत्ते--नेति । उपमाविवक्षावीजमाह--रहस्येति । ननु रलस्य संगोपनमुपमा चास्त्वित्यत्र आह--प्रकरणदीति । आदिपदात्तात्पर्य्यपरिग्रहः । प्रतिसन्धानेन सत्पुरुषागमस्यैव आस्वाद्यत्वेन अप्राकरणिकसच्छास्त्रस्य प्रकृतासम्बन्धत्वात्॑ तस्या आस्वाद्यत्वाभावात्तदुपमाया अपि अनास्वाद्यत्वेन तावता सम्बन्धीकरणस्यापि अनुपयोगात् । ********** टीका सम्पूर्णा ********** "अनन्यसाधारणधीर्धृताखिलवसुन्धरः । राजते कोऽपि जगति स राजा पुरुषोत्तमः" ॥ अत्र पुरुषोत्तमः पुरुषोत्तम इवेत्युपमाध्वनिः । अनयोः शब्दशक्तिमूलौ संलक्ष्यक्रमभेदौ । ************* टीका ************* विज्ञप्रिया (वि, ण) शब्दशक्तिमूलमलङ्कारं पदद्योत्यमाह--अनन्येति । धृता पालिता, पक्षे कूर्मानन्तमूर्त्त्या ऊढा । अस्य पदस्यापि शक्त्या व्यङ्ग्यत्वेऽपि न वाक्यव्यङ्ग्यत्वं पुरुषोत्तमपदश्लेषाधीनप्रतीतिकत्वादस्य श्लिष्टार्थस्य । उपमाध्वनिरिति--अस्य पुरुषोत्तमपदस्य सङ्गोपनादिप्रयोजनकत्वाभावेन उपमायामेव तात्पर्य्यात्संलक्ष्यक्रमभेदौ वस्त्वलङ्कारौ । ********** टीका सम्पूर्णा ********** सायं स्नानमुपासितं मलयजेनाङ्ग समालेपितं यातोऽस्ताचलमौलिमम्बरमणिविस्त्रब्धमत्रागतिः । आश्चर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति ते नासितुम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, त) स्वतः सम्भविवस्तुव्यङ्ग्यं वस्तुपदद्योत्यमाह--सायमिति । स्नानवर्त्मनि उपनायकोपभुक्तां स्नातागतां क्लान्तां सशीं प्रति सख्या उपहासोक्तिरियम् । अधुना तव सौकुमार्य्यमाश्चर्य्यम् । येन सौकुमार्य्येण अभितः सर्वाङ्गं क्लान्तासि । ननु वर्त्मनि आतपातीदृशः क्लम इत्यत्राह---सायमिति । मलयजेन चन्दनेन इति । एतद्द्वयमपि क्लमनिवारकम् । ननु स्नानादुत्तरं मुहूर्त्तद्वयात्मकसायंकाले आतपसत्त्वात्तत एव क्लम इत्यत्राह--यातोऽस्तेति । अम्बरमणिः सूर्य्यः । द्रुतगमनात्क्लममपि निरस्यति--विस्त्रब्धमिति---विस्त्रब्धं यथेष्टम्, आगातिक्रियाविशेषणमिदम् । विश्रब्धमन्येति क्वचित्पाठः । ननु क्लमः कथं जात इत्यत्राह--येनाधुना इति । येन क्लमेन तव नेत्रद्वन्द्वममीलनव्यतिकरं मीलनसम्बन्धरहितं यथा स्यात्तथा आसितुं स्थातुं न शक्रोति । लोचना (लो, ओ) सायमिति---न विद्यते मीलनेन व्यतिकरः सम्पर्को यत्र ततमीलनव्यतिकरं यथा स्यात्तथाऽसितुं स्थातुमित्यर्थः । ********** टीका सम्पूर्णा ********** अत्र स्वतः संभविना वस्तुना कृतपरपुरुषपरिचया क्लान्तासीति वस्तु व्यज्यते । तच्चाधुना क्लान्तासि, न तु पूर्वं कदाचिदपि तवैवंविधः क्लमो दृष्ट इति बोधयतोऽधुना पदस्यैवेतरपदार्थोत्कर्षादस्यैव पदान्तरापेक्षया वैशिष्ट्यम् । तदप्राप्तिमहादुःखविलीनाशेषपातका । तच्चिन्ताविपुलाङ्लादक्षीणपुण्यचया तथा ॥ चिन्तयन्ती जगत्सूतिं परं ब्रह्मस्वरूपिणम् । निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका" ॥ (युग्मकम्) ************* टीका ************* विज्ञप्रिया (वि, थ) स्वतः सम्भविवस्तुव्यङ्ग्यमलङ्कारं पदव्यङ्ग्यमाह--तदप्राप्तीत्यादिश्लोकद्वयं पूर्ववर्ण्णितव्यवसायादन्या गोपकन्यका निरुच्छ्वासतया निरुद्धप्रणवायुतया मुक्तिं गता । मुक्तिहेतुं श्रीकृष्णचिन्तनमाह--चिन्तयन्तीति । जगत्सूतिं जगज्जनकं श्रीकृष्णं तथापि समस्तपापपुण्यक्षये एव मुक्तिरित्यतस्तदुपपादयति--तदप्राप्तीति--तच्चिन्तेति च । लोचना (लो, औ) तदप्राप्तीति---मुक्तिं गुरुयन्त्रणाया मोक्षम् । न तस्य प्राणा उत्कामन्ति तत्रैव समवलीयन्ते॑ इति श्रुतेः । निरुच्छ्वासताया मोक्षेऽपि सम्बन्धः । ********** टीका सम्पूर्णा ********** अत्राशेषचयपदप्रभावादनेकजन्मसहस्त्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यवसितातया भगवद्विरहदुःखचिन्ताह्लादयोः प्रत्यायनमित्यतिशयोक्तिद्वयप्रतीतिरशेषचयपदद्वयद्योत्या । अत्र च व्यञ्जकस्य कविप्रौढोक्तिमन्तरेणापि संभवात्स्वतः संभविता । ************* टीका ************* विज्ञप्रिया (वि, द) अत्रेति---तदप्राप्तिदुः खस्य तच्चिन्ताह्लादस्य चोपभोगेन तज्जनकपापपुण्ययोरेव क्षयः सम्भवति॑ नतु समस्तपापपुण्ययोः । अतः समस्तपापपुण्यनाशकसमस्ततत्फलदुः खसुखेष्वनुक्तेषु उक्तदुः खसुखयोरारोपः । अयमेव चात्रातिशयोक्त्यलङ्कारः । अतोऽत्र तदलङ्कारद्वयम् । अनुक्ते उपमेये उक्तोपमानारोपस्य तत्त्वात् । यथा कमलमनम्भसीत्यत्र अनुक्ते उपमेये मुखे उपमानकमलारोपः । प्रकृतानीत्यत्र उपमेयानि अनुक्तानि उक्तसुखदुः खदूयं चाप्रकृतत्वातुपमानानि अतस्तदारोपादतिशयोक्तिद्वयम् । उपमेयस्यानुक्तत्वेन चातिशयोक्त्यलङ्कारो व्यङ्ग्य एव । तव्द्ययव्यञ्जकौ चात्राशेषचयशब्दौ पापपुण्ययोः, अशेषचयत्वाभ्यां नाशकयोर्दुः खसुखयोरशेषचयत्वव्यञ्जनात् । अत्र अशेषचयपदयोरेकवाक्यस्थत्वेऽपि द्वाभ्यां व्यङ्ग्यद्वयव्यञ्जनान्नैकवाक्यत्वेन व्यञ्जकत्वमतः पदत्वेनैव व्यञ्जकत्वम् ********** टीका सम्पूर्णा ********** "पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम् । देव ! त्रिपथगात्मानं गोपयत्युग्रमूर्धनि" ॥ इदं मम । अत्र पश्यन्तीति कविप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण न केऽप्यन्ये दातारस्तव सदृशा इति व्यतिरेकालङ्कारोऽसंख्यपदद्योत्यः । ************* टीका ************* विज्ञप्रिया (वि, ध) संक्षेपार्थमलङ्कारस्य वस्त्वलङ्कारव्यञ्जनामुपेक्ष्य प्रौढोक्तिसिद्धालङ्कारस्य व्यङ्ग्यमलङ्कारपदद्योत्यमाह--पश्यन्तीति । त्वद्दानजलवाहिन्या नद्या असंख्यपथगामित्वदर्शनात्पथत्रयगामिन्या गङ्गाया लज्जया शिवाशिरसि आत्मगोपनम् । काव्यलिङ्गेनेति--दर्शनस्य आत्मगोपनहेतुत्वाथेत्वलङ्कारेण इत्यर्थः । ********** टीका सम्पूर्णा ********** एवमन्येष्वप्यर्थशक्तिपूलसंलक्ष्यक्रमभेदेषूदाहार्यम् । तदेवं ध्वनेः पूर्वोक्तेष्वष्टादशसु भेदेषु मध्ये शब्दार्थशक्त्युत्थो व्यङ्ग्यो वाक्यमात्रे भवन्नेकः । अन्ये पुनः सप्तदश वाक्ये पदे चेति चतुस्त्रिंशदिति पञ्चत्रिंशद्भेदाः । प्रबन्धेऽपि मतो धीरैरर्थशक्त्युद्भ्वो ध्वनिः ॥ ४.१० ॥ प्रबन्धे महावाक्ये । ************* टीका ************* विज्ञप्रिया (वि, न) महावाक्यमिति--कुल करूपमाहवाक्यमित्यर्थः । तदप्राप्तिमहादुः खेत्यादिश्लोकद्वयस्य महावाक्यत्वेऽपि तत्र व्यञ्जकपदद्वयसत्त्वात्तद्व्यङ्ग्यस्यैवोदाहरणत्वेन तद्दर्शितम् । ********** टीका सम्पूर्णा ********** अनन्तरोक्तद्वादशभेदोर्ऽथशक्त्युत्थः । यथा महाभारते गृध्रगोमायुसंवादे--- "अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसंकुले । कङ्कालबहते घोरे सर्वप्राणिभयङ्करे ॥ न चेह जीवितःकश्चित्कालधर्ममुपागतः । प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशई" ॥ लोचना (लो, अ) अलमिति---कालधर्मो मरणम् । अस्य च श्लोकस्य पद्यान्तरसचिवस्यैव महावाक्यतेति स्पष्टार्थम् । महावाक्यन्तरमुदाहरति । ********** टीका सम्पूर्णा ********** इति दिवा प्रभवतो गृध्रस्य श्मशाने मृतं बालमुपादाय तिष्ठतां तं परित्यज्य गमनमिष्टम् । ************* टीका ************* विज्ञप्रिया (वि, प) अलं स्थित्वेत्यति---श्मशाने मृतबालकमत्यजतस्तद्वन्धून् प्रति गृध्रवाक्यमिदं श्लोकद्वयरूपं महावाक्यम् । दिवसे शक्तस्य इति--दिवसे एव भक्षणासमर्थस्येत्यर्थः । गमनमिष्टमिति--वक्तुर्गृध्रस्य इष्टं मृतबन्धूनां गमनमित्यर्थः । तथा च बालकं त्यक्त्वा यूयं गच्छध्वमिति वस्तु स्वतः सम्भविवस्तुनः उक्तप्रबन्धार्थस्य व्यङ्ग्यमित्यर्थः । ********** टीका सम्पूर्णा ********** "आदित्योऽयं स्थितो मूढाः ! स्नेहं कुरुत साम्प्रतम् । बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ॥ अमुं कनकवर्णाभं बालमप्राप्तयौवनम् । गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः" ॥ इति निशि समर्थस्य गोमायोर्दिवसे परित्यागोऽनभिलषित इति वाक्यसमहेन द्योत्यते । अत्र स्वतः संभवी व्यञ्जकः । एवमन्येष्वेकादशभेदेषूदाहार्यम् । ************* टीका ************* विज्ञप्रिया (वि, फ) आदित्योऽयमित्यादिश्लोकद्वयरूपं महावाक्यं गोमायोरुक्तिः । वहुविघ्न इति--तथा च विघ्नशून्यमुहूर्त्तान्तरे जावनसम्भावना दर्शिता । एवं कनकवर्ण्णत्वेन रूपविपर्य्ययाभावादप्राप्तयौवनत्वेन च मृत्युहेतुयौवनाधीनाकार्य्याभावाज्जीवनसम्भावना दर्शिता । बाला इति--शिशुबुद्धय इत्यर्थः । मूढा इति क्वचित्पाठः । नाभिलषित इति । तथा च आत्रापि स्वतः सम्भविना एतत्प्रबन्धार्थेन वालकपरित्यागानभिलाषरूपं वस्तु व्यज्यते इत्यर्थः । एवमन्येष्विति । स्वतः सम्भविवस्तुव्यङ्ग्यालङ्काराद्येकादशभेदेष्वित्यर्थः । लोचना (लो, आ) आदित्य इति--स्त्रेहं जीवनोपायानुसरणबीजम् । मुहुर्त्तः सन्ध्याकालः॑ बहुविन्घः भूताद्यावेशसम्भावनादायित्वाम् । अतः स्वतः सम्भविना वस्तुना वसुत व्यज्यते । उदाहार्य्यमिति--तथा च रघुवंशे"समयुज्यत भूपतिर्युवा"इत्यादिना"उभयां सिद्धिमुभाववापतुः"इत्यन्ते तुल्ययोगितया काव्यलिङ्गेन वा रघुराघवयोर्व्यतिरेकालङ्कारः प्रतीयते । किञ्च कुमारसम्भवे हिमगिरिवर्ण्णनप्रौढोक्त्यप्रौढोक्तिसिद्धालङ्कारसंसृष्टे हिमगिरेरितरोत्कर्षः प्रतीयते । अर्थशक्तिभूरित्युपलक्षणम् । शब्दशक्त्युद्भवोऽपि क्वचित्प्रबन्धव्यङ्ग्यो दृश्यते । यथा माघकाव्ये शिशुपालदूतोक्तौ सन्धौ काव्ये वस्तुमात्ररूपो विग्रहः उपमाध्वनिरपि तथाविधः सम्भाव्यते । ********** टीका सम्पूर्णा ********** एवं वाच्यार्थव्यञ्जकत्वे उदाहृतम् । लक्ष्यार्थस्य यथा---"निःशेषच्युतचन्दनम्--" इत्यादि (पृदृ ६२) । व्यङ्ग्यार्थस्ययथा--"उअ णिच्चल-" इत्यादि (पृदृ ६३) । अनयोः स्वतः संभविनोर्लक्ष्यव्यङ्ग्यार्थौ यञ्जकौ । एवमन्येष्वेकादशभेदेषूदाहार्यम् । पदांशवर्णरचनाप्रबन्धेष्वस्फुटक्रमः । असंलक्ष्यक्रमव्यङ्ग्यो ध्वनिस्तत्र पदांशप्रकृतिप्रत्ययोपसर्गनिपातादिभेदादनेकविधः ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) पदांश इति---अस्फुटपदक्रमस्य अक्रमव्यङ्ग्यध्वनिरर्थ इत्याह--असंलक्ष्येति । अत्र ध्वनिपदं काव्यपरम् । व्यङ्ग्यपरत्वे व्यङ्ग्यो व्यङ्ग्य इत्यन्वयानुपपत्तेः । पदांशादिव्यङ्ग्य इत्यर्थः । तत्र पदांशद्योत्यानां बहुविधत्वमाह--तत्रेति । ********** टीका सम्पूर्णा ********** यथा--- "चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः । करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती" ॥ अत्र "हताः" इति न पुनः "दुःखं प्राप्तवन्तः" इति हन्प्रकृतेः । ************* टीका ************* विज्ञप्रिया (वि, भ) चलापाङ्गामितिः शकुन्तलां व्याकुलयन्तं भ्रमरं प्रति दुष्यन्तस्योक्तिरियम् । तत्त्वान्वेषातिति । किं ब्राह्मणस्य औरसकन्यात्वेन मत्परिणयायोग्या, किं वा तस्य पुष्टकन्यात्वेन मत्परिणययोग्या इत्येवं तत्त्वस्यान्वेषणादित्यर्थः । हन्प्रकृतेरिति । हन्धातुरूपप्रकृतेरित्यर्थः । अत्र भृत्युकथनात्विप्रलम्भातिशयो व्यङ्ग्यः । लोचना (लो, इ) पदांशे इति--इह यद्यपि प्रकृत्यादेः केवलस्य न व्यञ्जकत्वम्, तथापि वाचकसमुदायप्रविष्टस्य रसादिषु तदतिशयाधायकत्वं सहृदयानुभवसिद्धम् । हता इत्यादि---अत्र इननप्रतीतेरनन्तरं निर्वेदव्यङ्ग्यत्वमिति शोकः । तथा ह्यत्र हता इत्यस्य स्थाने क्तप्रत्ययं स्थापयित्वा हनः स्थाने प्रकृत्यन्तरनिवेशने न तथा प्रतीतिः । ********** टीका सम्पूर्णा ********** "मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु" ॥ अत्र "तु" इति निपातस्यानुतापव्यञ्जकत्वम् । ************* टीका ************* विज्ञप्रिया (वि, म) मुहुरङ्गुलीति---शकुन्तलां प्राप्य तत्सम्भोगविघ्ने सति अनुतप्यसानस्य दुष्यन्तस्य उक्तिरियम् । अंसविवर्त्तोति भुजमूले परावर्त्तमानम् । अङ्गुलि शकुन्तलायाः । अत्रेति---नञा एव चुम्बनाभावलाभे तुशब्देन चुम्बस्य अत्यन्तव्यवच्छेदलाभात्विप्रलम्भानुतापातिशयो व्यङ्ग्यः । ********** टीका सम्पूर्णा ********** "न्यक्कारो ह्ययमेव मे यदरः--" इत्यादौ (८ पृ.) "अरयः" इति बहुवचनस्य, "तापसः" इत्येकवचनस्य, "अत्रैव" इति सर्वनाम्नः, "निहन्ति" इति "जीवति इति च तिङः, "अहो" इत्यव्ययस्य, "ग्रामटिका" इति करूपतद्धितस्य, "विलुण्ठन" इति व्युपसर्गस्य, "भुजैः" इति बहुवचनस्य व्यञ्जकत्वम् । ************* टीका ************* विज्ञप्रिया (वि, य) न्यक्कार इति---अत्र व्यञ्जकत्वमित्यत्र विषादव्यञ्जकत्वमित्यर्थः । बहुवचनस्येति---मम एकोऽप्यरिर्नास्ति बहु तत्सत्त्वे सम्भाविते विषादः । एकवचनस्येति---बह्वीभैः पिपील्लिकाभिरप्यपकर्त्तुशक्यत्वे एकस्मिन्नपकारिणि तु अत्यन्तविषादः । अत्रैवेति इति---विप्रकृष्टमार्गवर्त्तिखरदूषणाद्यनेकराक्षसवधोऽपि सह्यः । अत्रैव लङ्कायामित्यत्र विषादः । तिङ इति---मदनवधाने पूर्वं निहन्तु, वर्त्तमानमपि हननमित्यत्र विषादः । अहो इति---अदृश्यविपर्ययदर्शनात्विस्मयेन अत्यन्तविषादः । करूपेति कप्रत्ययस्य तद्धितत्वं पाणिनिमते । अल्पार्थकस्य तस्य विषादतिशयव्यञ्जकत्वम् । तथा हि--यदि लुण्ठने स्वर्गोऽपि स्वल्पग्रामः कप्रत्ययवशात्चात्यन्तस्वल्पः । तद्विलुण्ठनोच्छूनभुजानामिदानीं किमपि कर्त्तुमक्षमत्वेन वैयर्थ्यमित्यन्तविषादः । व्युपसर्गस्येति विशेषलुण्ठनबोधनात् । भुजैरिति एकद्विक्षिभुजवैयर्थ्यं सह्यं बहूनां वैयर्थ्यादित्यत्यन्तविषादः । नरि नरि किरति द्राक्सायकान् पुष्पधन्वा पुरि पुरि च निवृत्ता मानिनीमानचर्च्चा ॥ "अ६ किरतीति वर्त्तमानप्रत्ययेन निवृत्तेत्यत्र क्तप्रत्ययेन कार्यकारणपौर्वापर्यव्यत्ययरूपातिशयोक्तिः प्रतीयते । उदाहरिष्यते गुणरीतिनिरूपण इति शेषः । लोचना (लो, ई) न्यक्कार इत्यादौ उदाहरणद्वये पदांशव्यञ्जकत्वस्य प्रकृतत्वेऽपि प्रसङ्गात्पदव्यञ्जकत्वकथनम् । एवम्--- "रामोऽसौ भुवनेषु विकमगुणैः प्राप्तः प्रसिद्धिं परामस्मद्भाग्यविपर्ययादिह परं देवो न जानाति तम् । वन्दी वैष यशांसि गायति मरुत्यस्यैकबाणाहतश्रेणीभूतविशालशालविवरोक्तीर्णैः स्वरैः सप्तभैः" ॥ अत्रासाविति सर्वनाम्ना साक्षात्कियमाणा तदीयलोकोत्तरप्रसिद्धिर्व्यज्यते । भुवनेष्वित्यत्र बहुवचनेन गुणैरित्यत्र प्रकृत्या बहुवचनेन च । ते ते विशेषा अस्मद्भाग्यविपर्ययादित्यत्र च न तव न मम किन्त्वस्माकं सर्वेषामपि भाग्यविपर्ययादित्यस्मद्भाग्यविपर्ययादित्यत्र न खल्वभाग्यात्किन्तु भग्यविपर्ययात् । एवं हि पूर्वमस्माकं भाग्यमवस्थितम् । संप्रति तु अनवधानेन तस्य विपर्ययो जात इति प्रतिपादनादात्माना प्रतिपादनेन च ते ते सहृदयसंवेद्या अर्थाः प्रतीयन्ते । तथा सक्तोत्फुल्लेत्यादौ हरेः पश्यत इत्यत्रानादरषष्ठ्या किञ्च न केवलं रसादिध्वनेरेव पदांशप्रकाशता, किन्तु वस्त्वलङ्कारयोरपि । अत्रालङ्कारस्य यथा--- "पथि पथि सुकचञ्चूचारुराभाङ्कुराणां दिशि दिशि पवमानो वीरुधां लासकश्च । ********** टीका सम्पूर्णा ********** "आहारे विरतिः, समस्तविषयग्रामे निवृत्तिः परा, नासाग्रे नयनं तदेतदपरं यच्चैकतानं मनः . मौनं चेदमिदं च शून्यमधुना यद्विश्वमाभाति ते, तद्ब्रूयाः सखि ! योगिनी किमसि, भोः !किं वा वियोगिन्यसि" ॥ ************* टीका ************* विज्ञप्रिया (वि, र) आहारे इति--ध्यायन्तीं वियोगिनीं योगधर्मिणीं दृष्ट्वा कस्यचिदियं पृच्छा । अत्र नायिकाया विप्रम्भातिशयः समस्तपदव्यङ्ग्यः । एकतानमेकमात्रविषयः । तव स्थाने यदा विश्वं शून्यमाभाति इत्यन्वयः । ********** टीका सम्पूर्णा ********** अत्र तु "आहारे इति विषयसप्तम्याः, "समस्त" इति "परा" इति च विशेषणद्वयस्य, "मौनं चेदम्" इति प्रत्यक्षपरामर्शिनः सर्वनाम्नः, आभाति" इत्युपसर्गस्य "सखि" इति प्रणयस्मारणस्य "असि भोः" इति सोत्प्रासस्य "किं वा" इत्युत्तरक्षदार्ढ्यसूचकस्य वाशब्दस्य, "असि" इति वर्त्तमानोपदेशस्य च तत्तद्विषयव्यञ्जकत्वं सहृदयसवेद्यम् । ************* टीका ************* विज्ञप्रिया (वि, ल) विषयसप्तम्या इति । मनसा अपि आहारविषय इत्यर्थः । न तु आहारक्रियायामधिकरणमित्यर्थः । समस्तेति । न तु यत्किञ्चिद्विषये एतद्विशेषणस्य समासपदैकदेशः, किन्तु पदस्यापि पदे व्यञ्जकत्वमस्तीति दर्शितम् । प्रत्यक्षपरामर्शिन इति । अनुभूयमानत्वपरामर्शिन इत्यर्थः । क्वचित्तु प्रत्यक्षपरामर्षिण इति सम्यक्पाठः । मौनात्मिथ्यात्वसूचनाच्च तस्य विप्रलम्भव्यञ्जकत्वम् । इदमपि पदमेव न पदैकदेशः । उपसर्गस्येति । आङुपसर्गेण मिथ्यात्वरूपं सम्यक्प्रतिभाति इति भावबोधनात्विप्रलम्भव्यञ्जनम् । प्रणयस्मरणस्येति--तेन दृश्यमानो विप्रलम्भो न त्वया गोपनीय इत्यर्थः । सोत्प्रासोपहासस्येति---सोत्प्रासः समनाक्स्मितम् । वियोगकथनात्मन्दस्मितोपहासः । उत्तरपक्षेति---वियोगपक्ष एव दृढ इत्यर्थः । वर्त्तमानोपदेशस्येति--विप्रलम्भविशेषः । ********** टीका सम्पूर्णा ********** वर्णरचनयोरुदाहरिष्यते । प्रबन्धे यथा--महाभारते शान्तः । रामायणो करुणः । मालतीमाधवरत्नावल्यादौ शृङ्गारः । एवमन्यत्र । ************* टीका ************* विज्ञप्रिया (वि, व) प्रबन्ध इति । प्रबन्धोऽत्र ग्रन्थरूपः । शान्त इति । स्वर्गारोहणरूपमहाभारतश्रोतुः युधिष्ठिरशमज्ञातुः शान्तरसो बोध्य इत्यर्थः । रामायणेति । रामशोकज्ञातुः रामायणश्रोतुः करुणरस इत्यर्थः । मालतीति--माधववत्सराजरतिज्ञातुस्तन्नाटकश्रोतुः शृङ्गार इत्यर्थः । लोचना (लो, उ) प्रबन्ध इत्यादि । अयमाशयः--न केवलं वस्त्वलङ्कारध्वनिवदर्थान्तरमाह । वाक्यव्यङ्ग्येऽपि तत्समुदायभूते महाभारतादिप्रबन्धेऽपि॑ अन्यथा काव्यत्वहानेरिति । ********** टीका सम्पूर्णा ********** तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्मताः ॥ ४.११ ॥ सङ्करेण त्रिरूपेण संसृष्ट्या चैकरूपया । वेदखाग्निशराः (५३०४) शुद्धैरिषुबाणाग्निसायकाः (५३५५) ॥ ४.१२ ॥ शुद्धैः शुद्धभेदैरेकपञ्चाशता योजनेनेत्यर्थः । ************* टीका ************* विज्ञप्रिया (वि, श) एकपञ्चाशदिति---पूर्वदर्शिताः पञ्चत्रिंशत्कुलकरूपमहावक्यव्यङ्ग्याः द्वादशपदैकदेशादिव्यङ्ग्याः चत्वार इत्येकपञ्चाशतेषां परस्परयोजने संख्यां दर्शयति---सङ्करेति । अङ्गाङ्गित्वरूपेण एकाश्रयानुप्रवेशरूपेण संदिग्धरूपेण च त्रिविधेन संकरेण योजने तस्य त्रिरूपता । किमयम्--अयं वेति संशयास्पदत्वरूपः एकः, तयोः परस्परानुग्राहकानुग्राह्यभावरूपो द्वितीयः, तयोरेकव्यञ्जकेन व्यञ्जनरूपस्तृतीयः । संसृष्टिः तु एतत्त्रितयराहित्येनैकपदे स्थितिः । एबिर्याः संख्या भवन्ति ता आहवेदेति---"अङ्कानां वामतः क्रमऽ इति रीत्यावेदाश्चत्वारः तद्वामे खं शून्यम् । तद्वामेऽग्नयस्त्रयः । तद्वामे शराः पञ्च । नन्वेवमित्थमेकपञ्चाशत्चतुर्गुणेन चतुरधिकद्विशतमेव भवति । तत्कथमेतादृशी संख्येति चेन्न । एकस्यैव स्वजातीयेन एकेन स्वस्वजातीयैः पञ्चाशता च चतुर्गुणने एकस्यैव चतुरधिकद्विशतरूपत्वम् । एवं तदुत्तरस्य पूर्वेण सह चातुर्विध्यं पूर्वगणनायां प्रविष्टमित्यतः तस्य चातुर्विध्यस्य अगण्यत्वात्तस्य द्विशतरूपत्वम् । एवं तदुत्तरस्य पूर्वद्धाभ्यां चतुश्चतुर्विधत्वस्य अगण्यत्वात्चतुर्न्यूनद्विशतरूपत्वम् । एवं रीत्या चरमस्य चतुरूपत्वमात्रं गुण्यमिति भवत्युक्तरूपा संख्या । काव्यप्रकाशे तु दर्शितक्रमेण क्रमशो ह्रसमाविचार्य्य सर्वेषामेव चतुरधिकद्विशतरूपत्वेन एकपञ्चाशत एव तादृशसंख्यात्वेन "वेदखाग्निवियच्चन्द्राःऽ इत्येवं संख्या एव उत्सर्गसिद्धा दर्शिताः । वस्तुतस्तु अत्यन्तविचारे वेदखाग्निशररूपा या संख्या ग्रन्थकृता दर्शिता सापि न सम्भवति । तथा हि एकपञ्चाशत एव उक्तचातुर्विध्यं न सम्भवति, पदैकदेशपदव्यङ्ग्ययोः पदवाक्यव्यङ्ग्ययोश्च शब्दशक्त्युत्थव्यङ्ग्ययोरर्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृतवाच्यव्यङ्ग्ययोश्च एकव्यञ्जकानुप्रवेशरूपसंकरासम्भावात्चातुर्विध्याभावात् । एषु शुद्धैकपञ्चाशन्मीलनेन संख्यामाह---शुद्धैरिषुबाणेति । व्याचष्टे--शुद्धैरिति । योजनेन संस्थातुं योजनेन । लोचना (लो, ऊ) तदेवमिति---एवं व्यङ्ग्यस्य पदवाक्यगतत्वेङ्गवृत्तौ पञ्चत्रिंशद्भेदाः संख्याताः । तदनन्तरमर्थशक्त्युद्भवस्य प्रबन्धगतत्वेन द्वादश । रसस्य पदांशवर्णरचनाप्रबन्धगतत्वेन चत्वार इति मिलित्वा ध्वनिकाव्यस्य एकपञ्चशद्भेदाः शुद्धा इत्यर्थः । संकरेणेति । संकरस्याङ्गाङ्गिभावैकव्यञ्जकानुप्रवेशसन्देहभेदात्त्रिभिः प्रकारैः परस्परनिरपेक्षयैकप्रकारया संसृष्ट्या चान्योऽन्यमिश्रणे शुद्धभेदानामेव पञ्चाशतः सम्भूय वेदाश्चत्वारः, ख शून्यम्, अग्नयस्त्रयः, शराः पञ्च॑ एवं"चाङ्कविन्यासे वैलोम्यस्य गणितशास्त्रप्रसिद्धत्वात्"पञ्चसहस्त्राणि॑ शतत्रयं चत्वारश्च भेदाः"५३०४" । तथा हि प्रथमभेदस्य सजातीयमिश्रणे चत्वारो भेदाः॑ विजातीयैः पञ्चाशता प्रत्येकं ध्वनिना विमश्रणे चत्वारो भेदाः इति मिलित्वा चतुरधिकं भेदशतद्वयं द्वितीयस्य भेदशतद्वयमेव । यदि प्रथमभेदस्य द्वितीयभेदेन सह मिश्रयणं॑ द्वितीयभेदस्य प्रथमभेदेन सह तत्तदेवेति । द्वितीयभेदे प्रथमभेदापेक्षया चत्वारो भेदाः पातनीयाः । एवं तृतीयेऽष्टौ चतुर्थे द्वादश इति क्रमेणान्येषामपि स्वकीयाद्यभेदापेक्षया सर्वेषां भेदचतुष्टयपातनम् । शुद्धैरिति । इषवः पञ्चबाणाः॑ पञ्च अग्रयः त्रयः सायकाः पञ्च एवं पञ्चसहस्त्राणि शतत्रयं पञ्चाशत्पञ्च च॑"५३५५" ज्रत्र अग्रिमाग्रिमभेदस्य योजने एकैकभेदह्रासातेवं प्रकारेण एवं योजनं भवति । "एको राशिर्द्विधा स्थाप्य एकमेकाधिकं कुरु । समार्द्धेनासमो गुण्यः एतत्संकलितं लघु" ॥ इत्युक्तदिशा द्विपञ्चाशदर्द्धेन षड्विंशत्या एकपञ्चाशतं गुणयेत् । तथा ( ५१ २ ) --२ २६ । ५१ २६ १३२६ अंख्या जायन्ते । तेषु चतुर्भिर्गुणितेषु (१३२६ ४ ५३०४ अञ्चसहस्त्राणि चतुरधिकं शतत्रयं संकीर्ण्णभेदाः । ********** टीका सम्पूर्णा ********** दिङ्मात्रं दूदाह्रियते--- "अत्युन्नतस्तयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय । सा पूर्णकुम्भनवनीरजतोरणस्त्रक्संभारमङ्गलमयत्नकृतं विधत्ते" ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) अत्युन्नतेति---प्रवासादागच्छन्तं पतिं द्वारि स्थित्वा दृष्टवतीं नायिकां कस्मिंश्चिन्निवेदयतः कस्यचिदुक्तिरियम् । स्तनयुगं पूर्ण्णकुम्भौ आयतमक्षियुगं नवनीरजतोरणस्त्रक्सम्भारः । रसध्वन्योरिति---एतत्वाक्यव्यङ्ग्यत्वात्शृङ्गारस्य । व्वनिपदमत्र व्यङ्ग्यरसपरम् । एकाश्रय एतत्वाक्यम् । ********** टीका सम्पूर्णा ********** अत्र स्तनावेव पूर्णकुम्भौ, दृष्टय एव नवनीरजस्त्रज इति रूपकध्वनिरसध्वन्योरेकाश्रयानुप्रवेशः सङ्करः । "धिन्वन्त्यमूनि मदमूर्च्छदलिध्वनीनि धूताध्वनीनहृदयानि मधोर्दिनानि । निस्तन्द्रचन्द्रवदनावदनारविन्दसौरभ्यसौहृदसगर्वसमीरणानि" ॥ ************* टीका ************* विज्ञप्रिया (वि, स) ध्वन्योः संसृष्टिमाह---धिन्वन्त्यमूनि इति । अमूनि मधौर्दिनानि धिन्वन्ति लोकान् प्रीणयन्ति । कीदृशानि-मदेन मूर्च्छन् वर्द्धमानः अलिध्वनिर्येषु । तथा निस्तन्द्र उन्निद्रः चन्द्रः तादृशवदनायाः यद्वदनारविन्दं तस्य सौरभ्यं सौगन्ध्यं तस्य सौहृदेन संपर्केण सगर्वाः समीरणा यत्र तादृशानि । अत्रेति चन्द्रस्य निद्राभावात्तन्द्रापदस्याप्रकाशे लक्षणा समीरणस्योत्कृष्टत्वं तद्व्यङ्ग्यम्, तथा समीरणस्य गर्वाभावातुत्कृष्टे लक्षणा सुखस्पर्शत्वं तद्व्यङ्ग्यम् । एषां व्यङ्ग्यानां त्रिविधसंकराभावातेकपदसंस्थितिरूपा संसृष्टिः । तदाह--निस्तन्द्रेत्यादीति । इदमुपलक्षणम् । अलिध्वनिचन्द्रसमीरणैः कामोद्दीपकैः व्यङ्ग्यस्य शृङ्गारस्य अप्यत्र प्रतीतिरित्यतस्तस्य चन्द्रोज्ज्वलत्वेन समीरणोत्कृष्टत्वेन तस्य सुखस्पर्शत्वेन च लक्षणामूलकव्यङ्ग्ये न प्रकर्षणादनुग्राह्यानुग्राहकभावरुपसंकरोप्यत्रैव श्लोके बोध्यः । संशयास्पदरूपसङ्कराश्चात्र नोदाहृतः । तदुदाहरणं च काव्यप्रकाशकृता दत्तमन्वेष्टव्यम् । यथा--- खणपाहुणिआ देअर जाआए किं पिदे भाणिआ । रुऐ पडाहेपिलहीधरम्मि अणुणिज्वौ वाराई ॥ "इति । क्षणप्राघुणिका देवर जायया किमपि ते भणिता । रोदिति पश्चाद्भागवलभीगृहे-अनुनीयतां वराकी ॥ इति संस्कृतम् । गृहपतिप्रसक्तामुपनायिकामुत्सवे तद्गृहागतां तत्पत्न्या भर्त्सितां पश्चात्गृहे रुदतीमनुनेतुं गृहपतिज्येष्ठभ्रातृपत्न्याः सोपहासोक्तिरियम् । अत्र क्षण उत्सवस्तत्र प्राघुणका अभ्यागता उत्सवागतेत्यर्थः । तद्देवर सा ते तव जाययाकिमप्यप्रियं भणिता सती पश्चाद्वलभीगृहे रोदितीति । तादृशी वराकी दुः खिता अनुनीयतामित्यर्थः । भवता इति शेषः । अत्र च अनुनयो वाच्यार्थः । तद्व्यङ्ग्य उपभोग इति । अयं किं स्वतः सम्भविवस्तुव्यङ्ग्यवस्तुध्वनिः किंवा अनुनयपदे उपभोगलक्षणा॑ तद्व्यङ्ग्य तस्याः दुः खापसारणमित्ययमर्थान्तरसंक्रमितवाच्यलक्षणा मूलध्वनिरिति ध्वन्योः संशयास्पदत्वम् । एतादृशव्यङ्गयोपयोगाय पश्चाद्गृहमुक्तं निर्जनत्वात् । लोचना (लो, ऋ) धिन्वन्तीति---धिन्वन्ति प्राणयन्ति । अध्वनीनाः पथिकाः नस्तन्द्रसौहृदसगर्वशब्दा निर्मलाद्यभावप्रौढरूपार्थपर्य्यवसानादत्यन्ततिरस्कृतवाच्याः । ********** टीका सम्पूर्णा ********** अत्र निस्तन्द्रेत्यादिलक्षणामूलध्वनीनां संसृष्टिः । अथ गुणीभूतव्यङ्ग्यम्--- अपरं तु गुणीभूतव्यङ्ग्यं वाच्यादनुत्तमे व्यङ्ग्ये । अपरं काव्यम् । अनुत्तमत्वं न्यूनतया साम्येन च संभवति । तत्र स्यादितराङ्गकाक्वाक्षिप्तं च वाच्यसिद्ध्य्ङ्गम् ॥ ४.१३ ॥ संदिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमगूढम् । व्यङ्ग्यमसुन्दरमेवं भेदास्तस्योदिता अष्टौ ॥ ४.१४ ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) गुणी भूतव्यङ्ग्यकाव्यमाह--अथेति । काव्यमनुत्तमत्वमिति । व्यङ्ग्यानुत्तमत्वेन काव्यानुत्तमत्वम् । भेदास्तस्योदिति इति--तस्य गुणीभूतव्यङ्ग्यकाव्यस्य एवमष्टविधव्यङ्ग्यभेदात्तस्याष्टौ भेदा उदिता इत्यर्थः । लोचना (लो, ॠ) एवं ध्वन्याख्यं काव्यस्य भेदं निरुप्य गुणीभूतव्यङ्ग्यमवतारयति अथेति--तत्र स्यादिति---काक्का आक्षिप्तं वाच्यवत्स्फुटीकृतम् । वाच्यसिद्धेरङ्गं कारणम् । अस्फुटं सहृदयानामपि क्लेशप्रत्येयम् । एवं पूर्वव्यङ्ग्याद्भेदः । असुन्दरं वाच्यापकृष्टचमत्कारकम् । व्यङ्ग्यमिति प्रतिपदमन्वयः । भेदाः विशेषाः । ********** टीका सम्पूर्णा ********** इतरस्य रसादेरङ्गरसादिव्यङ्ग्यम् । यथा-- "अयं सरसनोत्कर्षो पीनस्तनविमर्दनः । नाभ्यूजघनस्पर्शो नीवीविस्त्रंसनः करः" ॥ ************* टीका ************* विज्ञप्रिया (वि, क) रसादेरङ्गं रसादि इत्युभयत्र आदिपदात्भावाद्यङ्गतापि रसादेः, एवं वाच्याङ्गत्वमपि वस्त्वलङ्कारयोरित्युक्तम् । अयं स इति---भूरिश्रवसः समरपतितं हस्तमादाय रुदत्यास्तत्पत्न्या उरक्तिरियम् । अत्रेति---रसोत्कर्षणादिना व्यङ्ग्यः शृङ्गारः मृतालम्बनकत्वेन रसतामनापन्नो मृतालम्बनकस्य करुणस्याङ्गम् । रसतापन्नस्य तस्य शृङ्गारेण प्रकर्षणात्पूर्वानुभूतसुखस्मरणे हि करुणप्रकर्षः । लोचना (लो, ळ) यथोद्देशमुदाजिहीर्षुरितराङ्गमिति विवृणोति, इतरस्यार्थात्प्रधानभूतस्य रसादेः, रसशब्देनात्र भावादीनामुपग्रहः आदिशब्देन वाच्यस्याङ्गमुत्कर्षकारिरसादि अत्रादिशब्दादनुरणनरूपम् । अयं स इति ---इदं हि महाभारते, समरच्छिन्नं भूरिश्रवसो हस्तमादाय तत्कान्ताया विलपनम् । ********** टीका सम्पूर्णा ********** अत्र शृङ्गारः करुणस्याङ्गम् । "मानोन्नतां प्रणयिनीमनुनेतुकामस्त्वसैन्यसागररवोद्रतकर्णतापः । हा !हा! कथं नु भवतो रिपुराजधानीप्रासादसंततिषु तिष्ठति कामिलोकः ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) भावस्याङ्गं करुणमाह---मानोन्नतामिति । उन्नतमानामित्यर्थः । हाहेति त्रासविज्ञातुर्वक्तुस्तद्विषयकशोकः । भवतो रिपुराजधानीप्रसादसन्ततिषु कथं कमिलोकस्तिष्ठति इति अन्वयः । अत्रेति औत्सुक्यं मानिन्यनुनयकामनया व्यङ्ग्यम् । तद्विरुद्धः त्रासः यथोक्तकर्णतापपदव्यङ्ग्य इत्यनयोः सिद्धिः । तादृशसन्दिविशिष्टानां रिपुराजधानीकामिलोकानां शोच्यावस्थाज्ञातुर्वक्तुः शोकरूपः करुणो राजविषयरतिभावस्याङ्गमित्यर्थः । अत्र च हाहाशब्दः क्रोधव्यञ्जकहुङ्कारवन्निरर्थकः । शोकव्यञ्जक इति ग्रन्थकृतोऽभिप्रायः तदैव व्यङ्ग्यभूतस्य हाहाशब्दप्रतिपाद्यस्य शोकरूपकरुणस्य व्यङ्ग्यत्वोपपत्तेः । हाहाशब्दस्य वाच्य एव शोरूपः करुणः । हाहेत्युक्ते शोचामीति प्रतीत्या तद्वच्यतासिद्धेः । अन्यथा गोशब्दस्यापि गैर्न वाच्यः स्यात् । अतो ग्रन्थकृतः छिद्रमेवात्र । ********** टीका सम्पूर्णा ********** अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्य राजविषयरतावङ्गभावः । "जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना मायाप्तं रामत्वं कुशलवसुता न त्वधिगता" ॥ ************* टीका ************* विज्ञप्रिया (वि, ग) वाच्यार्थस्याङ्गं सादृश्यरूपं वस्त्वाह---जनस्थान इति । दरिद्रस्योक्तिरियम् । मया रामत्वं प्राप्तं रामसदृशोऽहं जात इत्यर्थः । शब्दात्मकं सादृश्यमाह---जनस्थान इति । मया कनकरूपया मृगतृष्णया मरीचिकायान्धितधिया जनानां स्थाने भ्रान्तमसारे संसारे कनकस्यापि तुच्छत्वेन तस्योपादेत्वभ्रमजनकत्वादुपादेयजलभ्रमकनकमृगृष्णयान्धितधिया भ्रान्तम् । मया वै इति सम्बोध्य प्रतिपदं स्थाने देहीति वचः । मया भर्त्तुः ईश्वरस्य परिपाटीषु परिचर्य्यासु अंलमित्यर्थका घटना न कृता तद्वत्रामेणापि लङ्काभर्त्तुः रावणस्य वदनानां मुखानां परिपाट्यां परिपाटनस्य निमित्तमिषुघटना कृता ॥ किन्तु कुशलं दारिद्षापनायकं वसु धनं यस्य तादृशता तु मया न प्राप्ता । अत्र तुशब्देन रामवाक्छेदात्रामेण तु कुशलवसुता प्राप्ता इत्यर्थः प्रतीयते--तत्र च कुशलवौ सुतौ यस्यास्तादृशी सीतेत्यर्थः । लोचना (लो, ए) अङ्गपरिपोषकत्वाद्वाच्याङ्गभूतमनुरणनरूपं शब्दशक्तिमूलमुदाहरति-एवं च रसभावादेरङ्गं रसभावादि, वाच्यस्य चानुरणनरूपं व्यड्ग्यमिति द्विधेत्यर्थः । जनस्थान इति । जनस्थानं-नगरग्रामादि, दण्डकारण्यं च । कनकं प्रति मृगतृष्णा विफलाशा, कनकमृगे तृष्णा च वै निश्चितं॑ देहि प्रयच्छ॑ विदेहजा सीता च । अलं व्यर्थम् । काभर्त्तुः कुत्सितस्वामिनः यद्वदनं तस्य परिपाटीषु परम्परासु लङ्काभर्त्तुः रावणस्य वदनानां मुखानां परिपाट्यां पङ्क्तौ इषुघटना शरयोगश्च । कुशलमायतिशुद्धं वसु धनं यस्य एवंभूतता, कुशलवौ सुतौ यस्याः सा सीता च । ********** टीका सम्पूर्णा ********** अत्र रामत्वं प्राप्तमित्यवचनेऽपि शब्दशक्तेरेव रामत्वमवगम्यते । वचनेन तु सादृश्यहेतुकतादात्म्यारोपणमाविष्कुर्वता तद्रोपनमपाकृतम् । तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाङ्कतां नीतम् । ************* टीका ************* विज्ञप्रिया (वि, घ) अत्र विषादाधिक्यव्यञ्जकया कुशलवसुताप्राप्त्या प्राप्ततत्कात्रामातुपमानाद्वैलक्षण्यरूपो व्यतिरेकालङ्कारः नञो वाच्यः । तत्प्रकर्षकतया रामसादृश्यं व्यङ्ग्यम् । तदङ्गमिति मनसिकृत्य व्यङ्ग्यस्य सादृश्यस्य अगूढत्वात्गुणीभूतत्वमुपपादयितुमाह--अत्र रामत्वमिति । अवचनेऽपीति अनुक्तावपीत्यर्थः । वचनेतु इति । तदुक्तौ इत्यर्थः । तादात्म्यारोपणं रामत्वप्राप्त्या रामतादात्म्यारोपम् । तदारोपश्च सादृश्यमूलकः इत्याह---सादृश्यहेतुरिति---आविष्कुर्वाता वक्त्रा तद्गोपनं ध्वनित्वहेतुतद्रूढत्वम् । तद्रोपनात्सादृश्यस्य गुणीभूतत्वमुपपादितम् । यद्यपि एकशब्दरूपं सादृश्यं श्रोत्रग्राह्यमेव न तु वाक्यं, व्यङ्ग्यस्यैव च गुणीभूतत्वे गुणीभूतव्यङ्ग्यं भवति । तथापि शब्दस्य सादृश्यत्वेन रूपेण व्यङ्ग्यत्वमेव न श्रोत्रग्रह्यत्वम् । तथा च तस्यापराङ्गत्वमुपपादयति--तेन वाच्यमिति---व्यङ्ग्यमित्यर्थः । न च तद्गोपनातगूढरूपगुणीभूतव्यङ्ग्यप्रभेद एवायमिति वाच्यम् । तथात्वेऽपि अपरङ्गतानपायात् । वाच्यार्थो रामव्यतिरेको नञो वाच्यः, तत्प्रकर्षान्वयोपपादकतया इत्यर्थः । न तु रामव्यतिरेकस्यान्वयनिष्पादकतया अबाधितत्वेन तद्विनापि तन्निष्पत्तेः । प्रकर्षद्वारापराङ्गत्वाच्च । ननूपमानापेक्षया उपमेयस्याधिकं व्यतिरेकालङ्कारः । स च सादृश्यहेतुकोपमानत्वघटित एव । तथा च व्यतिरेकालङ्कारशरीरघटकमेव सादृश्यम्॑ कथं तत्प्रकर्षकमिति चेन्न । एकविशेषणेनापि तद्घटनसम्भवे बहुविशेषणसम्भवात्तत्प्रकर्षकत्वमपि लभ्यते तच्च सहृदयैकवेद्यम् । लोचना (लो, ऐ) अत्रेति वचने तु रामोऽस्मीत्युक्त्वा पुनः सादृश्यहेतुकतादात्म्यरोपणं जनस्थान इत्यादि वचनप्रतिपादनेनापि लभ्यम् । तद्गोपनं व्यङ्ग्यभूतरामतादात्म्यारोपस्य गोपनम् । वाच्यं मयाप्तं रामत्वमिति पदाभिधेयम् । सादृश्यस्य व्यङ्ग्यतो व्यङ्ग्यत्वेऽपि स्फुटप्रतिभासने व्च्यत्वमुक्तम् । व्यङ्ग्यमिति पाठे तु सुगमा एव व्याख्या । सादृश्यं रामेण सहेत्यर्थः । वाक्यं जनस्थान इत्यादि । एवभर्थशक्तिमूलानुरणनरूपस्य व्यङ्ग्यस्यापि व्यङ्ग्यत्वे उदाहार्य्यम् ********** टीका सम्पूर्णा ********** काक्वाक्षिप्तं यथा--- "मथ्नामि कौरवशतं समरे न कोपाद्दुःशासनस्य रुधिरं न पिबाम्युतरस्तः । संचूर्णयामि गदया न सुयोधनोरूं सन्धि करोतु भवतां नृपतिः पणेन" ॥ अत्र मथ्नाम्येवेत्यादिव्यङ्ग्यं वाच्यस्य निषेधस्य सहभावेनैव स्थितम् । ************* टीका ************* विज्ञप्रिया (वि, ङ) काक्काक्षिप्तमिति---काक्का उच्चारणेन शिरश्चालनसहकृतध्वनिविशेषणाक्षिप्तम् । शाब्दबोधस्य प्राक्पदार्थविधया सहसा प्रत्यायितमित्यर्थः । मथ्नामीति---दुर्योघनेन सह सन्धिकरणे प्रवृत्तं युधिष्ठिरं श्रुत्वा कुद्धस्य भीमस्य सहदेवं प्रत्युक्तिरियम् । भवतामित्यनेन अस्माकमसमीहितकारित्वात्नास्माकं नृपतिरिति सूचितम् । सुयोधनमिति दुर्योधनस्यापरं नाम । कृतकौरवशतवधप्रतीज्ञस्य तत्क्रोधसत्त्वेन मथ्नामीत्युक्तिर्बाधितार्था । अतो नञः शिरश्चालनसहकृता काकुः प्रतीयते । तया व्यञ्जनया अपरनञोर्ऽथोपस्थापनात्न मथ्नामीत्यर्थो लभ्यते । तच्च मथनायोगव्यवच्छेदरूपम् । तदाह---अत्र मथ्नाम्येवेति । आदिपदात्पिबाम्येव इत्यादिकं बोध्यम् । इत्यादि व्यङ्ग्यमिति---इत्यादि एकदेशरूपं व्यङ्ग्यमित्येवार्थः । एवकारार्थक नञ्द्वये एकनञर्थस्यैव व्यङ्ग्यत्वात् । लोचना (लो, ओ) सहभावेनैव स्थितमित्यनेन ध्वनित्वनिरासः । ********** टीका सम्पूर्णा ********** "दीपयन् रोदसीरन्ध्रमेष ज्वलति सर्वतः । प्रतापस्तव राजेन्द्र ! वैरिवंशदवानलः" ॥ अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्ग्यः प्रतापस्य दावानलत्वारोपसिद्ध्यङ्गम् । ************* टीका ************* विज्ञप्रिया (वि, च) वाच्यसिद्ध्यङ्गमुदाहरति---अनुपन्नस्य वाच्यार्थस्य यद्व्यङ्ग्यान्वयेनैव सिद्धिः तादृशं व्यङ्ग्यं वाच्यसिद्ध्यङ्गम् । दीपयन्निति---रोपसीरन्ध्रं द्यावापृथिव्योरन्तरालम् । अत्रेति । अन्वयसाय वैरिकुलस्य वंशपदवाच्यस्य वेणुत्वरोपणरूपो व्यङ्गय इति कुलवेणुद्वयार्थकस्य वंशपदस्य प्रकरणात्कुले नियन्त्रणेन वेणो स्तद्व्यङ्ग्यत्वेन तद्रूपणस्यापि व्यङ्ग्यत्वात्दवानलत्वारोपसिद्ध्यङ्गमिति कुले दवा नलवाधेन वेणावेद तद्बाधात् । अत्रेदमवधेयम् । यदि प्रकरणवशातनेकार्थस्य वंशपदस्य प्रथमं कुलबोधकत्वम्॑ तदैव वेणुरूपोर्ऽथो व्यङ्ग्यो भवति तदेव तु न॑ दवानलस्य कुले भाधात् । किन्तु कुलवेण्योरुभयोरेकदा एव दवानलान्वयार्थं तात्पर्य्याद्वंशयोरुपस्थित्या अर्थद्वयमेव वाच्यम् । नतु वेणुरूपोर्ऽथो व्यङ्ग्यस्तथा च परम्परितरूपमेवेदं वेणुत्वरूपणस्य दवानलरूपणकारणत्वात्तद्वक्ष्यति स्वयमेव--- "यत्र कस्यचिदारोपः परारोपस्य कारणम् । तत्परम्परितम् । इति । उदाहरिष्यति च--- "आहवे जगदुद्दण्डराजमण्डलराहवे । श्रीनृसिंहमहीपाल ! स्वस्त्स्तु तव बाहवे ॥ "इति अत्र हि राजमण्डलस्य ग्रासकरूपसम्बन्धितया राहुवाधात्बाहौ राहुरूपणमनुपपन्नमतो नृपमण्डले चन्द्रमण्डलत्वस्यारोपो बाहौ राहुरुपणकारणमिति । अत एव काव्यप्रकाशकृतापि सद्वंशमुक्तामणिरित्यत्र राज्ञो मुक्तामण्यारोपणस्य सत्कुले बाधात्सत्कुले सह वेणुरोपणं तत्कारणमित्युक्तम् । अतो दीपयन् रोदसीरन्ध्रमित्यादिकं परम्परितरूपकोदाहरणमेव, न वाच्यसिद्ध्यङ्गोदाहरणम् । अन्यथा स्वोक्तेः काव्यप्रकाशकृदुक्तेश्च विरोधापत्तेः । न हि दीपयनित्यादौ आहवे जगदुद्दण्डेत्यादौ च एकस्य वाच्यसिद्ध्यङ्गत्वमन्यस्य परम्परितरूपकत्वमित्यत्रविनिगमकं नास्ति । वाच्यसिद्ध्यङ्गोदाहरणं तु-- "गच्छाम्यच्युत ! दर्शनेन भवतः किं तृप्तिरुत्पद्यते किन्त्वेवं विजनस्थग्रेर्हतजनः सम्भावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदाहसा-- माश्लिष्यन् पुलकोत्कराञ्चिततनुगोपी हरिः पातु वाः ॥ "इति काव्यप्रकाशकृद्भिर्दत्तमेवान्वेष्टव्यम् । तथा हि इत्यामन्त्रणेत्यादिर्वाच्यार्थः । पूर्वार्द्धामन्त्रणेत्यादिवाक्यार्थस्य अप्रतीतिकाले असिद्धेस्तद्-व्यङ्ग्यार्थस्य हे अच्युत ! मद्विधनायिकादर्शनेनापि धैर्य्यच्युतरहित इत्येवंविधायाः भङ्ग्याः प्रतीत्यैव सिद्धयति । न च नृपमण्डले चन्द्रमण्डलारोपणमपि व्यङ्ग्यं सदेवालङ्कारः । तथा च परम्परितरूपकालङ्कारवाच्यसिद्ध्यङ्गयोः संकर एवेति वाच्यम् । व्यङ्ग्यत्वेऽलङ्कारत्वाभावस्य ब्रह्मणश्रमणेत्यादिना एव उक्तत्वात् । प्रथमं नृपमण्डले राहोरन्वयासम्भावेन राजमण्डलपदादेकदैव नृपचन्द्रमणअडलयोः उपस्थित्या द्रयोरपि वाच्यत्वाच्च । ननु तत्कथम्--- भ्रमिमरतिमलसहृदयतां प्रणयं मूर्च्छां तमः शरीरसादम् । मरणं च जलददभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् । "इत्यत्र विशेषजले रूपेतं हलाहलं व्यङ्ग्यं भुजगरुपणसिद्धिकृदित्युक्त्या हलाहलस्य व्यङ्ग्यत्वमुक्त्वा काव्यप्रकाशकृता वाच्यसिद्ध्यङ्गोदाहरणत्वेन तदुक्तमिति चेन्न । तत्र उद्दीपकतया प्राकरणिकमनेकार्थस्य विषशब्दस्यार्थो जलमित्यतोऽप्राकरणिकं हलाहलं व्यङ्ग्यमित्युक्तम् । न च दीपयन्नित्यत्रापि प्राकरणिकत्वेन वंशपदार्थकुलवाच्यं वेणुस्तु अप्राकरणिको व्यङ्ग्य एवेति वाच्यम् । दवानलरूपणस्यापि तात्पर्य्यविषयत्वेन तस्य कुले बाधेन तदुपपादनतया वेणोरपि प्राकरणिकत्वात् । अन्यथा "आहवे जगदुद्दण्द"इत्यादावपि परम्परितरूपकं न स्यात् । किन्तु वाच्यसिद्ध्यह्गमेव तदपि स्यात् । भ्रमिमरतिमित्यादौ तु जलदे भुजगरूपणं श्यामत्वेनापकारित्वेन च जले हलाहलरूपणं विनापि आपाततः सिद्धत्येवेति हलाहलमप्राकरणिकमित्यतो व्यङ्ग्यमेव । परन्तु प्रणिधाने सति जलस्य भुजगजन्यत्वासम्भवेन भजगरूपणासिद्ध्या तत्सिद्धिकारित्वेन पश्चाज्जले हलाहलरूपणमिति । ********** टीका सम्पूर्णा ********** "हरस्तु किंचित्परिवृत्तधैर्यः--" इत्यादौ ((२२.पृ दृ) विलोचनव्यपारलाषयोः प्राधान्ये संदेहः । ************* टीका ************* विज्ञप्रिया (वि, छ) संदिग्धप्राधान्यमाह---हरस्त्विति । प्राधान्यं रसव्यञ्जकतया व्यज्यते रसे । किं वाच्यार्थेन किं वा व्यङ्ग्यार्थेन व्यञ्जितोऽयं इत्येवं सन्देहविषयत्वं तत्त्वम् । हलस्त्विति कुमारसम्भवे आकालिके वसन्ते जाते सर्वेषामेव कामोद्रेके सति हलस्यापि किञ्चित्तथात्ववर्णनमिदम् । चन्द्रोदयस्यारम्भे नतु चन्द्रस्योदये तदानीमेवाम्बुराशेर्धेर्य्यपरिवृत्तेः किञ्चित्त्वात् । अत्रेति---प्राधान्यसन्देहो हरस्य शृङ्गारव्यञ्जकतासन्देहः । विलोचनव्यापारो हि वाच्यः । चुम्बनाभिलाषस्तु व्यङ्ग्यः तद्द्वयमपि शृङ्गारनुभावस्तत्केन रसो व्यञ्जित इति सन्देहात् । न च द्वाभ्यामेव व्यज्यतां, तथा च तुल्यप्राधान्योदाहरणमेव हदमस्त्विति वाच्यम् । धैर्य्यपरिवृत्तेः किञ्चित्त्वेन चुम्बनाभिलाषो जातो न वा॑ इति सन्देहेन नदीयरसव्यञ्जकताया अपि तदधीनसन्देहातत एव वाच्यार्थेन तद्व्यञ्जनमपि संदिग्धमेव । लोचना (लो, औ) सन्देहः--द्वयोरपि रसाभिव्यञ्जकत्वाविशेषात् । ********** टीका सम्पूर्णा ********** ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । जामदग्नयश्च वो मित्त्रमन्यथा दुर्मनायते" ॥ अत्र परशुरामो रक्षःकुलक्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समंप्राधान्यम् । ************* टीका ************* विज्ञप्रिया (वि, ज) तुल्यप्राधान्यमाह---ब्राह्मणेति---दिग्विजये परशुरामं जिगीषुं रावणं प्रति तदमात्यस्य तत्त्रासकवाक्यमिदम् । भवतामेव भूतये न तु स्वार्थ ब्रवीमीत्यर्थः । तथेति---ब्राह्मण इत्यर्थः । मित्रामित्यत्र चार्थो गम्यः मित्रं चेत्यर्थः । अन्यथेति अतिक्रमे इत्यर्थः । दुर्मनायत इत्यत्र भविष्यत्सामीप्ये वर्त्तमाना । समंप्राधान्यमिति--यथोक्तव्यङ्ग्यार्थस्याप्यत्र निंश्चितत्वेन द्वयोरपि रावणत्रासरूपव्यभिचारिभावे व्यञ्जकत्वात् । वाच्येंन ब्राह्मणातिक्रमेणापि शापतो भस्मीकरणसम्भावनया त्रासात् । लोचना (लो, अ) व्राह्मणेति--रावणं प्रति परशुरामदूतस्य वाक्यमिदम् । भवतां रक्षसां मित्रे जन्मप्रभृति निखिलरहस्यवेदी । अत्रेति--अत्र वाच्यव्यङ्ग्ययोः सामदण्डयोस्तुल्यतयैव वैरमोचने पर्य्याप्तात्वादप्रस्तुतप्रशंसावत्परस्परानपेक्षया चमत्कारास्पदत्वात्द्वयोरपि समं प्राधान्यम् । ********** टीका सम्पूर्णा ********** "सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः । अल्लावदीननृपतौ न सन्धिर्न च विग्रहः" ॥ अत्राल्लावदीनाख्ये नृपतौ दानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यं व्युत्पन्नानामपि झटित्यस्फुटम् । ************* टीका ************* विज्ञप्रिया (वि, झ) अस्फुटमाह सन्धाविति---विदग्धानामपि कष्टग्म्यं व्यङ्ग्यमस्फुटम् । झटित्यस्फुटमिति तत्प्रशमोपायो नास्त्येव इति हि व्यङ्ग्यमापाततः प्रतिभाति । यथोक्तं व्यङ्ग्यं तु कृछ्रगम्यम् । तद्धि जीवनरक्षार्थं सर्वस्वदानेनापि सन्धिकरणीय इत्येवंरूपम् । लोचना (लो, आ) पूर्वत्र सन्दहालङ्कारवत्संदिग्धत्वम् । नान्य उपशमोपाय इति व्यङ्ग्यम् । प्राणनिग्रहे प्राप्ते धनत्यागादेः ईषत्करत्वाभिप्रायोणेत्यर्थः । ********** टीका सम्पूर्णा ********** "अनेन लोकगुरुणा सतां धर्मोपदेशिना । अहं व्रतवती स्वैरमुक्तेन किमतः परम्" ॥ अत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्यग्योषिति बालात्कारोपभोगः स्फुटतया वाच्यायमान इत्यगूढम् । ************* टीका ************* विज्ञप्रिया (वि, ञ) अगूढमाह---अनेनेति । शाक्यमुनिना बलादुपभोक्तुमुपक्रम्यमाणायाः तैर्थिकयोषित उक्तिरियम् । अहं व्रतवतीति धर्मोपदेशिनः अस्य उपभोगो मम व्रतभङ्गाय नो भविष्यतीत्यतोऽहं व्रतवत्येव इत्यर्थः । स्वैरं स्वच्छन्दमतः परमुक्तेन किं प्रयोजनमित्यर्थः । अत्रेति--प्रतीयमानोऽपि व्यज्यमानोऽपि । प्रतीयमानस्य प्रायशोऽस्फुटत्वेन स्फुटत्वे तद्विरोधेऽत्रापिकारः स्फुटतयेति---प्रबन्धश्लोकात्प्रकरणवशाद्बलात्करोपभोगज्ञानात्स्फुटता । लोचना (लो, इ) अनेनेत्यादौ अर्थशक्तिमूलानुरणनरूपव्यङ्ग्यस्यागूढत्वम् । अत्यन्ततिरस्कृतवाच्यस्यागूढत्वं यथा--- "एतद्विभाति चरमाचलचूलचुम्बी हिण्डीरपिण्डरुचिशीतमरीचिबिम्बम् । प्रज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत्प्रकटलाञ्छनकैतवेन" । अत्र चुम्बीति पदे वदनसंसर्गरूपसायर्थस्यासम्भवात्संसर्गमात्रं लक्ष्यंत तदतिशयश्चाभिधेयवत्स्फुटं प्रतीयते । ********** टीका सम्पूर्णा ********** "वाणीरकुडङ्गुड्डीणसौणिकोलाहणं सुणन्तीए । घरकम्मवावडाए बहुए सीअन्ति आङ्गाइं" ॥ अत्र दत्तसंकेतः जश्चिल्लतागृहं प्रविष्ट इति व्यङ्ग्यात्"सीदन्त्यङ्गनि" इति वाच्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम् । ************* टीका ************* विज्ञप्रिया (वि, ट) असुन्दरमाह--वाणीरेति । वाच्यार्थान्न्यूनचमत्कारिव्यङ्ग्यमसुन्दरम् । "वानीरकुञ्जोड्डीनशकुनिकोलाहलं शृण्वन्त्याः । गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि" ॥ इति संस्कृतम् । वानीरकुञ्जे कृतसंकेताया गृहकर्मव्यापारात्तत्र गन्तुमशक्ताया वध्वा अङ्गावसादवर्णनमिदम् । अत्रेति--प्रविष्ट इत्यन्तमात्रं न व्यङ्ग्यं वध्वास्तत्रागमनस्यापि तदीयपक्षिकोलाहलश्रवणाधीनाङ्गावसादेन व्यङ्ग्यत्वात् । तथा चेति--व्यङ्ग्यादित्यत्र इत्यादि व्यङ्ग्यादित्यर्थः वाच्यस्य चमत्कार इति वध्वा विप्रलम्भव्यञ्जकत्वेन ह्यत्र चमत्कारः । स चात्रोद्दीपकशकुनिकोलाहलश्रवणाधीनावसादस्य विप्रलम्भं विना अन्यतोऽसम्भवात्तत्प्रतीत्यवश्यम्भावेन संकेतस्थले वध्वा अगमनादुक्ताङ्गावसादसहकारं विना न विप्रलम्भप्रतीत्यवश्यम्भावः । वध्वा ईदृशकार्य्यत्यागेनापि तत्रागमनसम्भवादृते वाच्याङ्गावसादमुखप्रेक्षत्वेन तस्य न्यूनचमत्कारितेत्यर्थः । लोचना (लो, ई) वानीरेति---वानीरकुञ्जोड्डीनशकुनिकोलाहलं शृण्वन्त्याः । गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥ वाच्यस्य चमत्कारः प्रधानप्रत्यासत्तेरधिकत्वात् । ********** टीका सम्पूर्णा ********** किञ्च यो दीपकतुल्ययोगितादिषूपमाद्यलङ्कारो व्यङ्ग्यः स गुणीभूतव्यङ्ग्य एव । काव्यस्य दीपकादिमुखेनैव चमत्कारविधायित्वात् । तदुक्तं ध्वनिकृता-- "अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते । तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) असुन्दरस्य बहून्युदाहरणानि सम्भवन्तीति दर्शयितुमाह---किञ्च यो दीपकेति । बहूपमानानामेकधर्मान्वयो दीपकम् । उपमेयोपमानानामेकधर्म्मान्वयस्तुल्ययोगिता । सर्वत्रैव व्यञ्जनया उपमा प्रतीयते । अस्याश्च गुणीभूतत्वे हेतुमाह---काव्यस्येति । अलङ्कारान्तरस्यापि प्रतीतौ सत्यां यच्चालङ्कारान्तरं भसत इत्यर्थः । काव्यस्य न तत्परत्वं, चमत्कारनुत्कटत्वेन तत्तत्तात्पर्य्यकत्वम् । अतो भासमानालङ्काररूपोसौ न ध्वनेर्मार्ग इत्यर्थः । यत्रेति पाठे तु यत्र काव्ये भासते इत्यलङ्कार इति कर्तृपदमध्याहार्य्यम् । लोचना (लो, उ) इदानीमन्यत्रापि व्यङ्ग्यस्य गुणीभावस्थले ध्वनिभ्रमं निरस्यनाह---किञ्चेति । अलङ्कारान्तरस्यापीति । काव्यस्य च तत्परत्वं न भासत इति सम्बन्धः । ********** टीका सम्पूर्णा ********** यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्यासः । ************* टीका ************* विज्ञप्रिया (वि, ड) अन्यमपि गुणीभूतव्यङ्ग्यप्रकारमाह यत्रेति---व्यङ्ग्यार्थस्य गोपनकृतचारुत्वे हि ध्वनित्वं तद्विपर्य्यासो व्यक्तीकारणं यत्र शब्दान्तरादिना क्रियते सोऽगूढरूपगुणीभूतव्यङ्ग्यप्रभेद इत्यर्थः । ********** टीका सम्पूर्णा ********** यथा--- "दृष्ट्या केशव ! गोपरागहृतया किंचिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ ! पतितां किं नाम नालम्बसे । एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिर्- गोप्येवं गदितः सलेशमवताद्रोष्ठे हरिर्वश्चिरम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) दृष्ट्येति---केशवं दृष्ट्वा मदनान्धतया गोष्टे पतिताया गोप्याः सलेशं सश्लेषं गदितो हरिश्चिरमवतात् । दृष्ट्येत्यादि--सश्लेषोक्तिः तत्र वाच्यार्थो यथा---हे केशव गवां परागेण रजसा हृतया नष्टया दृष्ट्या मया किञ्चित्न दृष्टम् । तेन हेतुना अत्र स्खलिता । ॰ास्मि पतितास्मि । हे नाथ ! पतितां मां किं नालम्बसे । कथमालम्बिष्ये इत्यत्राह---एकस्त्वमिति---विषमेषूञ्चनीचेषु वर्त्मसु खिन्नमनसां पत्नेन क्लान्तहृदयानां सर्वाबलानां सकलबलरहितानां स्त्रीणां पुंसां च यतस्त्वं गतिरिति । व्यङ्ग्यार्थो यथा-हे केशव गोप गोपालक । रागेण त्वय्यनुरागेण हृतया दृष्ट्या मया किञ्चिन्निजतिरोषादिकं न दृष्टम् । तेनात्र गोष्ठे स्खलितास्मि आगतास्मि । हे नाथ ! पतितां पतिभावं भर्त्तृत्वं किं नाम नालम्बसे नाश्रयसि । यतो विषमेषुणा पञ्चेषुणा खिन्नमनसां सर्वासामबलानां त्वमेको गतिरिति । लोचना (लो, ऊ) दृष्ट्येति---गवां परागेण रजसा हृतया तिरस्कृतया । गाः इन्द्रियाणि सम्भागदानादिना पातीति गोपः तस्मिन् गोपे त्वयि, रागेण प्रम्णा हृतया वशीकृतया स्खलिता भ्रष्टपादा गतधैर्य्या च । अथ पतितां मार्गपतितां धवत्वं च नावलम्बसे न धारयसि न परिगृहणासि च । विषमेषु उच्चनीचस्थानेषु, विषमेषुः कामः तेन च खिन्नमनसाम् । अबलानां दुर्बलानां स्त्रीणां च । ********** टीका सम्पूर्णा ********** अत्र गोपरागादिशब्दानां गोपे राग इत्यादिव्यङ्ग्यार्थानां सलेशमिति पदेन स्फुटतयावभासः । ************* टीका ************* विज्ञप्रिया (वि, ण) स्फुटयेति---श्लेषवशादेव तत्प्रतीतेः सलेशपदेन तत्स्फुटीकरणम् । रसाभास इति बोद्धृणामल्पसन्तोष इत्यर्थः । न त्वनौचित्यप्रवर्त्तितरूपरसाभासः तद्गोपनेऽपि परनायकविषयत्वेन तदवश्यंभावात् । ********** टीका सम्पूर्णा ********** सलेशमिति पदस्य परित्यागे ध्वनिरेव । किञ्च । यत्र वस्त्वलङ्कारसादिरूपव्यङ्ग्यानां रसाभ्यन्तरे गुणीभावस्तत्र प्रधानकृत एव काव्यव्यवहारः । ************* टीका ************* विज्ञप्रिया (वि, त) क्वचित्तु व्यङ्ग्ये गुणीभूतेऽपि ध्वनिकाव्यव्यवहार एव न गुणीभूतव्यवहार इत्याह---किञ्चात्र यत्र वस्त्विति । रसाभ्यान्तरे प्रधानीभूतरसादौ । तत्र प्रधानकृत एवेति व्यवहारो ध्वनिव्यवहारः । न चेदं कथमुपपद्यते ईदृशस्थलेऽपराङ्गाख्यगुणीभूतव्यङ्ग्यस्यैवोक्तत्वातिति वाच्यम्, यत्र गुणीभूतानामलङ्कारसादीनामङ्गिजनकत्वमेव नत्वङ्गि प्रकर्षकत्वं तत्रैवाङ्गिनो व्यञ्जकविशेषणत्वेनाङ्गिन एष चमत्कारित्वात्ध्वनिव्यवहारत् । यथा च चलापाङ्गां दृष्टिमित्यत्र मधुकरकामुकरूपालङ्कारस्य व्यङ्ग्यस्य हता इति व्यञ्जकविशेषलभ्यव्यङ्ग्यविप्रलम्भप्रतिजनकत्वात्नापराङ्गत्वं किन्तु विप्रलम्भध्वनित्वमेव । यथा--- "जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः । नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां भ्रतस्तावदहं शठेन विधिना निद्राहरिद्रीकृतः" ॥ इत्यत्र विधिं प्रत्यसूयाध्वनिरेव शठपदेन व्यञ्जकविशेषेण व्यक्तः । नो यावदाश्वासयामि इत्यनेन व्यङ्ग्यस्य विप्रलम्भस्य तु असूयाजनकत्वमेव नासूयाप्रकर्षकत्वमित्यतो नापराङ्गत्वमित्यादि स्वयमूह्यम् । लोचना (लो, ऋ) किञ्चात्रेति । प्रधानेन रसेनैव काव्यव्यवहारो न तु गुणीभूतव्यङ्ग्येन । तथा च तत्रोत्तमकाव्यत्वमेव इत्यर्थः यथा"अयं स रसनोत्कर्षो"त्यादवेव हि तत्र शृङ्गारस्य गुणीभावेऽपि तं भागमवलम्ब्य मध्यमकाव्यव्यवहारोऽपि न कर्त्तव्यः । ********** टीका सम्पूर्णा ********** तदुक्तं तेनैव--- "प्रकारोऽयं गुणीभूतव्यह्ग्योऽपि ध्वनिरूपताम् । धत्ते रसादितात्पर्यपर्यालोचनया पुनः" ॥ इति । ************* टीका ************* विज्ञप्रिया (वि, थ) प्रकारोऽयमिति---रसादितात्पर्य्यपर्य्यालोचनमङ्गीभूतरसादेरङ्गादिजन्यत्वादिनो तत्रैव तात्पर्य्यपर्य्यालोचनम् । क्वचित्तु प्रकारणग्म्ये वस्तुनि तात्पर्य्यसत्त्वेन अङ्गीभूतरसादौ तात्पर्य्याभावेऽपि आपाततश्चमत्कारिभिस्तैरङ्गभूतै रसाद्यैरेव पराङ्गव्यवहार इत्याह । ********** टीका सम्पूर्णा ********** यत्र तु---"यत्रोन्मदानां प्रमदाजनानामभ्रंलिहः शोणमणीमयखः । संध्याभ्रमं प्राप्नुताकाण्डेऽप्यनङ्गने पथ्यविधिं विधत्ते" ॥ ************* टीका ************* विज्ञप्रिया (वि, द) यत्र तु यत्रोन्मदानामिति---अत्र पुरेऽभ्रंलिहः मेघस्पर्शो शोणमणीमयूखः पद्मरागमणीनां रश्मिः । सन्ध्याभ्रमं तादृशरश्मिसञ्चरणादेव सन्ध्याकाले इति भ्रान्तिं प्राप्नुवतामुन्मदानां मदनमत्तानां प्रमदाजनानामनङ्गनेपथ्यविधिं कामसम्भोगवेशं विधत्त इत्यन्वयः । सन्ध्याकाले प्रमदानामनङ्गक्रीडार्थनेपथ्यविधानात् । ********** टीका सम्पूर्णा ********** इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेङ्गत्वम्, तत्र तेषामतात्पर्यविषयत्वेऽपि तैरेव गुणीभूतैः काव्यव्यवहारः । ************* टीका ************* विज्ञप्रिया (वि, ध) अत्र हि प्रकरणात्पुराप्रकर्षे तात्पर्य्यसत्त्वेन अनङ्गनेपथ्यविधानव्यङ्ग्यस्य शृङ्गारस्य तात्पर्य्यविषयत्वाभावेऽपि आपाततश्चमत्कारित्वलाभेनैवापराङ्गव्यवहारः । ********** टीका सम्पूर्णा ********** तदुक्तमस्मद्गोत्रकविपणिडतमुख्यश्रीचण्डीदासपादैः-वाक्या (काव्यार्)थस्याखण्डबुद्धिवेद्यतया तन्मयीभावेनास्वाददशायं गुणप्रधानभावावभासस्तावन्नानुभूयते, कालान्तरे तु प्रकरणादिपर्यालोचनया भवन्नप्यसौ न काव्यव्यवदेशंव्याहन्तुमीशः, तस्यास्वादमात्रयत्तत्वात्" इति । ************* टीका ************* विज्ञप्रिया (वि, न) काव्यार्थस्याखण्डेति---प्रकृते काव्यार्थः अनङ्गनेपथ्यव्यङ्ग्यः शृङ्गारः । तस्य विभावादिनानापदार्थघटितत्वेऽपि प्रपानकरसन्यायेनाखण्डबुद्धिवेद्यत्वं॑ बोद्धुस्तन्मयीभावेनाऽस्वाददशायां शृङ्गारो गुणः । पुरीप्रकर्षः प्रधानमित्यवभासस्तावदापाततो नानुभूयत इत्यर्थः । तत्र आपाततस्तदननुभवेऽपि उत्तरकालं प्रकरणादिपर्य्यालोचनया पुरीप्रकर्षप्राधान्यावगमो भवन्नपि काव्यस्य गुणीभूतव्यङ्ग्यव्यपदेशं व्याहन्तुं नेश इत्यर्थः । अत्र हेतुमाह---तस्येति । अस्य काव्यव्यवहारस्य आस्वादमात्रायत्तत्वादित्यर्थः । तथाच अप्रधानेनापि शृङ्गारेणाऽस्वादात्न गुणीभूतव्यङ्ग्यव्यपदेश इत्यर्थः । लोचना (लो, ॠ) यत्रेति---असौ गुणप्रधानभावाभासः । काव्यव्यपदेशं प्राधान्यदर्शनेन मूढमतिभिः अपेक्षणीयम् । ********** टीका सम्पूर्णा ********** केचिच्चित्राख्यं तृतीयं काव्यभेदमिच्छन्ति । तदाहुः--- "शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्" । इति । लोचना (लो, ळ) चित्रमिति---गुणालङ्कारयुक्तम् । अवरं मध्यमम् । ********** टीका सम्पूर्णा ********** तन्न, यदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस्तदा तस्य काव्यत्वमपि नास्तीति प्रागेवोक्तम् । ************* टीका ************* विज्ञप्रिया (वि, प) काव्यप्रकाशकृता चित्राख्यं तृतीयं काव्यमुच्यते तद्दूषयितुमाह---केचिदिति । तद्दूषयितुं वितर्कयति । तन्न यदि हीति, काव्यत्वमपि नास्तीति । सगुणाविति तैः काव्यलक्षणे कृते व्यङ्ग्यरसद्वारेणैव च सगुणत्वेन व्यङ्ग्याभावे सगुणत्वाभावात्काव्यत्वं नास्तीत्यर्थः । ********** टीका सम्पूर्णा ********** ईषद्व्यङ्ग्यत्वमिति चेत्, किं नामेषद्व्यङ्ग्यत्वम् ? आस्वाद्यव्यङ्ग्यत्वम्, अनास्वाद्यव्यङ्ग्यत्वं वा ? आद्ये प्राचीनभेदयोरेवान्तः पातः । द्वितीये त्वकाव्यत्वम् । यदि चास्वाद्यत्वं तदाक्षुद्रत्वमेव क्षुद्रतायामनास्वाद्यत्वात् । ************* टीका ************* विज्ञप्रिया (वि, फ) आद्ये आस्वाद्यत्वे प्राचीनभेदयोः ध्वनिगुणीभूतव्यङ्ग्ययोः । द्वितीये त्विति---अनास्वाद्यव्यङ्ग्यत्वे इत्यर्थः । अकाव्यत्वमिति । आस्वाद्यव्यङ्ग्यत्वे एव कावयत्वाङ्गीकारातिदं च स्वकपोलकल्पितं दूषणम् । अनास्वाद्यव्यङ्ग्यत्वेऽप्यास्वाद्यालङ्कारत्वेन तैः काव्यत्वाङ्गीकारात् । ननु आस्वाद्ये एव तारतम्यान्न प्राचीनद्वयान्तर्भाव इत्यत आह---यदि चास्वाद्यत्वमिति---तदा क्षुद्रत्वमेवेति---प्राचीनभेदद्वयातस्याल्पत्वमेवेत्यर्थः । अस्तु तावत्क्षुद्रत्वं तु काव्यत्वाप्रयोजकत्वेनानुपादेयत्वादनास्वाद्यत्वमेव इत्याह---क्षुद्रतायामिति---तथा च ध्वनिगुणीभूतव्यङ्ग्याख्यं द्वयमेव काव्यम् । चित्राख्यं पद्यं न तु काव्यमिति भावः । लोचना (लो, ए) प्राचीनभेदयोः ध्वनिगुणीभूतव्यङ्ग्ययोरेव । ********** टीका सम्पूर्णा ********** तदुक्तं ध्वनिकृता--- "प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते । उभे काव्ये ततोऽन्यद्यत्तच्चित्रमभिधीयते" ॥ इति । ************* टीका ************* विज्ञप्रिया (वि, ब) अत एव ध्वनिकारोक्तसंवादमाह---यदुक्तमिति । एवमुक्तप्रबन्धेन व्यङ्ग्यस्य प्रधानगुणभावाभ्यामुभ एव काव्ये व्यवस्थिते । ततोऽन्यत्तु चित्राख्यपद्यमेव न तु काव्यमित्यर्थः । तत्र काव्यव्यवहारस्तु साधर्म्याद्गौण इति भावः । इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्य्याविरिचितायां साहित्यदर्पणटीकायां चतुर्थपरिच्छेदविवरणम् ॥ लोचना (लो, ऐ) काव्यत्वमाचार्य्यसम्मतमित्याह---तदुक्तमिति । चित्रं विचित्रमात्रमास्वादाभावादिति भावः । ननु सरसत्वमेव काव्यसामान्यमिति न्यायसहस्त्रैरुक्तम्॑ उच्यते वक्ष्यते च--तस्य च व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्ग्याख्यौ द्वौ भेदौ, तयोरपि प्रत्येकं व्यङ्ग्यस्य वस्त्वलङ्कारसरूपत्वेन त्रैविध्यमित्युक्तप्रकारेणात्मना एव आत्मनो भेदः प्रभेदश्च । इति दुरुपपादः सामान्यलश्रणश्च व्याप्तेः इति चेत्॑ अत्रोच्यते-यदि वयं रसवत्त्वाख्यस्य काव्यसामान्यलक्षणस्य वस्त्वलङ्कारव्यङ्ग्ययोः काव्यभेदयोरभावं ब्रूमः तदैष दोषो, न तथा । "गतोऽस्तमर्कऽ इत्यादिवाक्यानां "गावो निरुध्यन्ताऽ मित्यादिव्यङ्ग्येषु तात्पर्य्येऽपिन काव्यत्म् । किन्तु गुणीभूतयोर्वस्त्वलङ्काररूपयोः रपसवत्त्वादेव काव्यत्वमित्युक्तत्वात् । रसवत एव काव्यत्वादित्युक्तत्वात्तथा चेयमत्र व्यवस्था । रसवदेव काव्यं॑ तच्च क्वचित्वस्तुध्वनिना शवलं क्वचिदलङ्कारध्वनिना॑ क्वचिच्छुद्धञ्चेति त्रिविधम् । एवं गुणीभूतव्यङ्ग्येऽपि त्रैविध्यं बोद्धव्यम् । अत एवाहुः---रसाद्यपेक्षया तु सर्वगुणाभावव्यभिचार एव इति । ननु तर्हि कथं निःशेषच्युतचन्दनमित्यादौ वस्तुध्वनेः प्राधान्यं, तत्र हि दौत्यकर्मजीविकायां कृतघ्नायां त्वयि तस्मिनधमे शठे च मम नासूया, किन्तु यदेवंविधायां त्वयि विश्वसिमि, तथाविधे च तस्मिननुरक्तास्मि, तदेवंवञ्चनासहस्त्रजनितप्रौढपरितापायास्तु मम युक्तमेवेति विप्रलम्भप्रभेदेर्ष्यामानव्यभिचारनिर्वेदध्वनिः प्रधानम् । तदङ्गस्तु लक्षणामूलध्वनिरिति चेत्, मैवम् । वाच्यतः प्राधान्याप्राधान्यमात्रेण वस्तुध्वनिगुणीभूतव्यङ्ग्याभ्युपगमात् । "प्राधान्याप्राधान्ये च प्रधानभूतास्वादप्रत्यासक्तयप्रत्यासक्त्यपेक्षे एव" इति न्यायविदामभ्युपगमात् । नन्वेवमलं यथाकथञ्चित्प्राधान्यमुपकल्प्य वस्त्वलङ्काररूपयोर्ध्वनिगुणीभूतव्यङ्ग्योः काव्यव्यवहारप्रवर्त्तकोक्त्या रसध्वनिनापि स निवर्त्ततामिति चेत्, अत्राह काव्यप्रकाशकारः---"समनन्तरोक्तं यद्यपि स नास्ति कश्चिद्विषय इति । प्रधानं चापातमात्रेण आपर्यन्तं प्रधानेन रसेन एव व्यपदेशः" । तथा तेनैवोक्तमलङ्कारप्रस्तावे---"रसादिरूपस्तद्व्यङ्ग्योर्ऽथोलङ्कारान्तरं च सर्वत्राव्यभिचारीत्यगणयित्वा एव तदलङ्कारा उदाहृताः" । इति । नन्वेवमलं ध्वनिगुणीभूतव्यङ्ग्याख्यकाव्यभेदकल्पनया । तयोरलङ्कारेभ्यः पृथगप्रतीतेरिति चेत्, मैवम् । यत्र खलु समासोक्त्याद्यलङ्कारेषु व्यङ्ग्यस्य वैषद्येनापि प्रतीतिः, न तेषु ध्वनेरन्तर्भावः । वाच्यापेक्षया व्यङ्ग्यस्य प्राधान्याभावात् । यदुक्तं ध्वनिकृता--- "काव्यस्य यत्राप्रधान्यं वाच्यमात्रानुयायिनः । समासोक्त्यादयस्तत्र वाच्यालङ्कृतयः स्फुटाः" ॥ इति किञ्च क्वचित्कदाचित्यत्रालङ्कारे व्यङ्ग्यस्यास्वादप्रकर्षकत्वेन प्राधान्यमपि यथाप्रस्तुतप्रशंसायां--- "जं वेल्लिहिण म असि जं चासि परविरं पिलघेमम् । तमण्डे कोहलि अज्जं वलं पिफुलि हंसि" ॥ इत्यादावचमत्कारैणः कुण्डाकर्षणार्थात्प्रस्तुतात्गृहकर्मरत्या युवानं प्रति नायिकाया अप्रसङ्गनिषेधाय प्रस्तुतस्य बालाया यौवनोद्भेदकथनस्य तस्य ध्वनौ अन्तर्भावोऽस्तु, उक्तरीत्या तस्य महाविषयत्वात् । एवं चालङ्कारेषु गुणीभूतव्यङ्ग्यस्यान्तर्भावे एष एव न्यायः । किञ्च दीपकतुल्ययोगितादौ येयमुपपाद्यालङ्काण्णां प्रतीतिर्न तत्र गुणीभूतव्यङ्ग्याख्याकाव्यभेदान्तः पातोऽनास्वाद्यत्वात्व्यङ्ग्यस्य, सिं त्ववर्जनीयसन्निधित्वमात्रेणावस्थितेः । अत एव कविप्रतिभासंरम्भगोचरत्वं तेषु नास्तीति वाच्यम् । वानीरकुञ्जे इत्यादौ व्यङ्ग्यस्य नानास्वाद्यत्वम्, किन्तु वाच्यापेक्षया आस्वादपकर्ष इति तेषु उचितो गुणीभूतव्यङ्ग्याख्यकाव्यव्यवहारः । कथं च ध्वनिगुणीभूतव्यङ्ग्ययोरलङ्कारेष्वन्तर्भावः, तयोरङ्गित्वात् । अलङ्कारणां च तदङ्गभूतशब्दार्थाश्रितत्वात् । तदुक्तं ध्वनिकृता एव--- "अङ्गाश्रितास्त्वलङ्काराः मन्तव्याः कटकादिवत्" ॥ इत्यलं बहुना । इति श्रीसाहित्यदर्पणलोचने चतुर्थः परिच्छेदः । ********** टीका सम्पूर्णा ********** इति साहित्यदर्पणे ध्वनिगुणीभूतव्यङ्ग्याख्यकाव्यभेदनिरूपणो नाम चतुर्थः परिच्छेदः । ___________________________________________________ पञ्चमः परिच्छेदः अथ केयमभिनवा व्यञ्जना नाम वृत्तिरित्युच्यते--- ************* टीका ************* विज्ञप्रिया (वि, क) व्यङ्ग्यभेदात्काव्यभेदस्य उक्तत्वाद्व्यङ्ग्यस्य च व्यञ्जनावृत्तिगम्यत्वाद्व्यञ्जनां पृच्छति---अथ केयमिति । अभिनवेति । आलङ्कारिकैरेवस्वीकृतत्वेन अभिनवत्वम् । लोचना (लो, अ) इदानीं समनन्तरोक्तकाव्यभेदद्वयस्य व्यञ्जनाव्यापारसिद्ध्यधीनत्वेन तत्र विप्रतिपत्तिं निराचिकीर्षुः प्रथमं परिच्छेदमारभमाणः प्रथममभिधादिप्राचीनवृत्तिवेद्यत्वनिरासिकां प्रथमकारिकामवतारयति--अथेति । का--किं प्रमाणा । इयं समनन्तरोक्ता काव्यभेदद्वयस्य साधिका । अभिनावा---अशिलशास्त्रार्थतत्त्ववेदिनः काव्यपुरुषस्यावतारात्श्रीमदानन्दवर्धनाचार्यात्प्राचीनैराचार्यैरप्रदर्शिता । ********** टीका सम्पूर्णा ********** वृत्तीनां विश्रान्तेरभिधातत्पर्यलक्षणाख्यानाम् । अङ्गीकार्या तुर्या वृत्तिर्बोधे रसादीनाम् ॥ ५.१ ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) वृत्तीनामिति---अभिधालक्षणातात्पर्याख्यानां तिसृणां वृत्तीनाम् । विक्षान्तेरिति---स्वबोध्यार्थं बोधयतित्वा विरतेरित्यर्थः । तुर्या चतुर्थीम् । लोचना (लो, आ) वृत्तिनामिति---तुर्या वृत्तिर्व्यञ्जनध्वननगमनप्रत्ययनादिव्यपदेशविषया । रसशब्देनात्रास्वाद्यमात्रस्य ग्रहणम् । आदिशब्देन वस्त्वलङ्कारयोः । रसस्य प्राधान्यात्प्रथमं निर्देशः । ********** टीका सम्पूर्णा ********** अभिधायाः संकेतितार्थमात्रबोधनविरताया न वस्त्वलङ्काररसादिव्यङ्ग्यबोधने क्षमत्वम् । न च संकेतितो रसादिः । नहि विभावाद्यभिधानमेव तदभिधानम्, तस्य तदेकरूप्यानङ्गीकारात् । यत्र च स्वशब्देनाभिधानं तत्र प्रत्युत दोष एवेति वक्ष्यामः । क्वचिच्च "शृङ्गाररसोऽयम्" इत्यादौ स्वशब्देनाभिधानेऽपि न तत्प्रतीतिः, तस्य स्वप्रकाशानन्दरूपत्वात् । अभिहितान्वयवादिभिरङ्गीकृता तात्पर्याख्या वृत्तिरपि संसर्गमात्रे परिक्षीणा न व्यङ्घ्यबोधिनी । ************* टीका ************* विज्ञप्रिया (वि, ग) व्याचष्टे---अभिधाया इति । ननु रसादिरभिधयैव बोध्यतामित्यत आहन च संकेतित इति । ननु विभावादिभिरेव रसादिभावादिः संकेतित एव इत्यत्राहन हीति । तदैक्यरूप्यं तत्स्वरूपता, विभावादिर्हि नायकादिः, रसश्च तद्व्यक्तेरत्यादिः । रसस्याभिधा गम्यत्वे बाधकान्तरमाह---यत्र चेति । काव्यान्तर्गतरसादिशब्देनाभिधाने तु न रसादिप्रतीतिरित्याह---क्वचिच्चेति । ननु रसादिर्नाभिधया बोध्यताम्, नैयायिकस्वीकृतया तात्पर्याख्यया वृत्त्या बोध्यतामित्यत आह---अभिहितान्वयेति । लोचना (लो, इ) संकेतितो वाच्यार्ऽथः । रसादिरपि कथं न संकेतित इत्याशङ्क्याह---न चेति । कुत इत्याह---न हीति । यदि स्यादयमर्थः । यदि रसादेः संकेतितत्वमुच्यते तत्किं विभावादिवाचकेन शब्देन ? किं स्वशब्देना वा ? नाद्यः, तस्य विभावादिभिर्व्यञ्जनीयत्वात् । स्वशब्दाभिधाने च न तस्य प्रतीतिः किन्तु दोष एव । स्वशब्दो हि रसशब्दः, शृङ्गारादिशब्दो वा इत्यर्थः । "शृङ्गारः सखि ! मूर्तिमानिव मधौ मुग्धो हरिः कीडती"त्यादौ च विभावादिसामग्रयादेव तद्व्यञ्जकत्वं न तु शृङ्गारादिशब्दस्य । संसर्गमात्रेण प्रत्येकं पदैरभिहितांनामर्थानामित्यर्थः । ********** टीका सम्पूर्णा ********** यच्च केचिदाहुः---"सोऽयमिषोरिव दीर्घदीर्घतरोऽभिधाव्यापरः" इति । ************* टीका ************* विज्ञप्रिया (वि, घ) उभयसिद्धवाच्यार्थस्य बोधिका शक्तिरूपा वृत्तिरेव व्यङ्ग्यबोधिका, यथा धनुर्धरमुक्तेन इषुणा प्रतिसंहितमेकं लक्ष्यं दीर्घेण वेगरूपव्यापारेण भित्त्वा अप्रतिसंहितं लक्ष्यान्तरमपि दीर्गतरीभूतेन तेनैव वेगरूपव्यापारेण भिद्यत इति यत्केषाञ्चिमतम्, यच्च तात्पर्यवृत्तिरेव व्यङ्ग्यबोधिका इति ध्वनिकस्य मतम्, दूषयितुं कदुभयमुत्थापयति---यच्च केचिदिति । सोऽयमित्यभिधैव व्यङ्ग्यबोधिकेति यत्कैश्चिदुक्तं तत्र सोऽयमित्यभिधानरूपेषोर्व्यापार इवेत्यर्थः । लोचना (लो, ई) यच्चेति । अयमर्थः--यथा खलु धनुष्मता मुक्तो बाण एकेनैव वेगरूपव्यापारेण शत्रोः कवचादिकमनेकं भिनत्ति, तथैक एव शब्दस्य व्यापारो यावदुद्देश्यं बोधयति । ********** टीका सम्पूर्णा ********** यच्चधनिकेनोक्तम्--- "तात्पर्याव्यतिरेकाच्च व्यञ्जकत्वस्य न ध्वनिः । यावत्कार्यप्रसारित्वात्तात्पर्यं न तुलाधृतम्" ॥ इति । ************* टीका ************* विज्ञप्रिया (वि, ङ) यच्च ध्वनिकेति---तात्पर्यव्यतिरेकादिति---व्यञ्जकत्वस्य व्यञ्जनायास्तात्पर्याततिरिक्तत्वादसौ नं ध्वनिर्न व्यञ्जना, किन्तु तात्पर्यमेवेत्यर्थः । यावत्कार्मं यावदर्थबोधनरूपं कार्यम्, तत्रप्रसारित्वात्तात्पर्यम्, न तुलाधारणेन नियमितमित्यर्थः । लोचना (लो, उ) ध्वनिको दशरूपकर्ता । तात्पर्यकार्यमुद्देश्यम्, यदर्थं शब्दप्रयोग इति भावः । न तुलया धृतम्॑ क्वचिन्निरूद्धप्रसरीकृत्य वाक्यार्थबोधनमात्रे व्यवस्थापितम् । ********** टीका सम्पूर्णा ********** तयोरुपरि "शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः" इति वादिभिरेव पातनीयो दण्डः । ************* टीका ************* विज्ञप्रिया (वि, च) तयोरुपरीति । इषुव्यापारवादितात्पर्यवादिनोरुपरीत्यर्थः । वाच्यव्यङ्ग्ययोर्युगपद्बोधने तात्पर्यसत्त्वे क्रमशो बोधनानुपपत्तिः, क्रमशो बोधे च तत्सत्त्वे विरम्य व्यापारभाव इत्यर्थः । इदं च दूषणं न रुचिरम्॑ व्यञ्जनावादिनापि क्रमशो बोधाङ्गीकारेण विरम्य व्यापारस्वीकारात् । तात्पर्यसत्त्वे वृत्तिभेद एव विरम्य व्यापारः स्वीक्रियते, न तु एकया वृत्त्या इति चेन्न । तात्पर्यस्यैव नियामकत्वेन वृत्तिभेदस्याकिञ्चित्करत्वात्॑ शब्दविरतेश्चोभयत्र साम्यात् । तस्मात्क्रमशो बोधेन तात्पर्यग्राहकाभाव एव तयोरुपरि दोषः । न च फलमेव तद्ग्राहकमिति वाच्यम्॑ फलस्य तात्पर्योत्तरभावित्वात् । क्रमशो व्यञ्जनया बोधने तु वक्तृबोद्धवायदिवैशिष्ट्यमेव तात्पर्यग्राहकम् । न चैवं तद्ग्राहितं तदेवं तात्पर्यं ध्वनिकमते वृत्तिरस्तु, न व्यञ्जनेति वाच्यम् "इत्यत्रातात्पर्यविषयस्य व्यङ्ग्यशृङ्गारस्य अपराङ्गम्, यथा वा "सुरभिमांसं भुङ्क्ष्व "इति सुगन्धिमांसतात्पर्यके वाक्ये धेनुमांसव्यञ्जना । दीर्घदीर्घतराभिधावादिमते तु तदभिधाग्राहककोषाद्यभाव एव दोषः, अगृहीतथैवाभिधया व्यङ्ग्यबोधनोक्तिस्तत्प्रमाणाभावेनैव निरसनीया । लोचना (लो, ऊ) विरम्य व्यापाराभाववादिभिः--अभिहितान्वयवादिभिः । किमस्माकमार्द्रकवणिजां वहित्रचिन्तया इत्यर्थः । ********** टीका सम्पूर्णा ********** एवं च किमिति लक्षणापुयपास्या ? दीर्घदीर्घतराभिधाव्यापारेणापि तदर्थबोधसिद्धेः । ************* टीका ************* विज्ञप्रिया (वि, छ) अभिधारूपाया वाच्यार्थबोधकवृत्तेर्व्यङ्ग्यबोधकत्वे दोषान्तरमाह--एचञ्चेति । लोचना (लो, ऋ) एवं च यदि शब्दश्रुतेरनन्तरं यावानर्थोऽवगम्यते तावति शब्दस्याभिधा एव वायपार इति भावः । "लक्षणाऽ इत्यनन्तरं पृथगिति शेषः । तदर्थो लक्षणीयः । ********** टीका सम्पूर्णा ********** किमिति च "ब्राह्मण ! पुत्रस्ते जातः, कन्या ते गर्भिणी" इत्यादावपि हर्षशोकादीनामपि न वाच्यत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ज) ननु न अङ्गीकार्यैव लक्षणा इत्यत आह---किमिति चेति । कन्येति---अत्र कन्या अदत्ता॑ तस्या एव गर्भे पितुः शोकात् । अत्र हि सम्बोध्यव्राह्मणसन्निहितापरजनस्य तादृशशब्दश्रवणानन्तरं व्राह्मणस्य हर्षशोकावगमात्तच्छब्दीयदीर्घतराभिधयैव तद्वोधसम्भवेन तयोर्वाच्यतापत्तिरित्यर्थः । लोचना (लो, ॠ) अनुपपत्त्यन्तरमाह--किमिति चेति । अयमर्थः--हर्षादयो हि न केनापि वाच्यत्वेनाभ्युपगम्यन्ते, यतोऽमी वाच्यार्थप्रतीत्या न कियन्ते । न खलु शब्दस्य कारकत्वं, ज्ञापकत्वात्तस्य । ********** टीका सम्पूर्णा ********** यत्पुनरूक्तं "पौरुषेयमपौरुषेयं च वाक्यं सर्वमेव कार्यपरम्, अतत्परत्वेऽनुपादेयत्वादुन्मत्तवाक्यवत् । ततश्च काव्यशब्दानां निरतिशयसुखास्वादव्यतिरेकेण प्रतिपाद्यप्रतिपादकयोः प्रवृत्त्यौपयिकप्रयोजनानुपलब्धेर्निरतिशयमुखास्वाद एव कार्यत्वेनावधार्यते । "यत्परः शब्दः स शब्दार्थः" इति न्यायात्" इति । ************* टीका ************* विज्ञप्रिया (वि, झ) यत्परः शब्दः स शब्दार्थः "इति जैमिनिवाक्यमेव व्यङ्ग्यबोधने तात्पर्याख्यवृत्तौ प्रमाणमिति मतं दूषयितुमुत्थापयति---यत्पुनरिति । पौरुषेयं लौकिकवाक्यम्, अपौरुषेयं वैदिकवाक्यम् । कार्यपरम्---साध्यतात्पर्यकम् । ननु कार्यपरत्वे प्रकृते किमायातमित्यत आह---ततश्चेति । निरतिशयसुखास्वाद एव कार्यत्वेनानुभूयत इति । तथा च सुखास्वादकारणता काव्यवाक्यस्य व्यङ्ग्यबोधद्वारेणैव एतद्वाक्यस्य व्यङ्ग्यतात्पर्यकत्वात् । स शब्दार्थ इति । जैमिनिवाक्यस्य सशब्दस्य तात्पर्यवृत्तिलभ्योर्ऽथ इतियर्थः । काव्यप्रकाशे तु अस्य वाक्यस्य भिन्न एवार्थः कृतः । तथा हि--"यत्परो यत्साध्यतात्पर्यकः शब्दः स शब्दस्य प्रामाण्यनियामकोर्ऽथः न तु सिद्धंशे तस्य शब्दस्य प्रामाण्यम्"इति । यथा,"गामभ्याज"इत्यत्र साध्यांशोऽभ्याजनं प्रामाण्यनियामकोर्ऽथो न तु सिद्धगवांशः॑ यथा वा, "दध्ना जुहोति"इत्यत्र दध्नः करणत्वं पाध्यांशस्तु तथा॑ न तु वाक्यान्तरतः सिद्धहोमांश इति । लोचना (लो, ळ) सम्प्रति गुरुमतैकदेशीयस्य, "यत्परः शब्दः स शब्दार्थः "इति वादिनो मतमाशङ्क्य दूषयति---यत्पुनर इति । पौरुषेयमित्यादिन्यायादित्यन्तः शङ्कग्रन्थः । तत्रेत्यादिना सिद्धान्तः । पौरुषेयं लौकिकमपौरुषेयो वैदिकम् । कार्यमुद्देश्यम् । ततश्च यस्मादेवमनुमानमित्यर्थः । प्रतिपाद्यो यं प्रति वाक्यं श्राव्यते॑ प्रतिपादकस्तस्य श्रावयिता । कार्यत्वेनावधार्यते इत्यर्थः । तस्मान्निरतिशयसुखास्वादरूपो रसादिरूपोर्ऽथः शब्दस्य तात्पर्यविषयो जातः किं वृत्त्यन्तरकल्पनयेति । यत्पसे यदुद्देश्यप्रयुक्तः॑ स शब्दार्थः शब्देनावश्यं बोद्धव्यः । ********** टीका सम्पूर्णा ********** तत्र प्रष्टव्यम्-किमिदं तत्परत्वं नाम, तदर्थत्वं वा, तात्पर्यवृत्त्या तद्वोधकत्वं वा ? आद्ये न विवादः, व्यङ्ग्यत्वेऽपि तदर्थतानपायात् । द्वितीये तु--केयं तात्पर्याख्या वृत्तिः, अभिहितान्वयवादिभिरङ्गीकृता, तदन्या वा ? आद्ये दत्तमेवोत्तरम् । द्वितीये तु---नाममात्रे विवादः, तन्मतेऽपि तुरीयवृत्तिसिद्धेः । ************* टीका ************* विज्ञप्रिया (वि ञ) स्वयं कल्पितार्थे वितर्कयति---तत्र प्रष्टव्यमिति । स शब्दार्थ इत्यस्य वाक्यस्य तत्परत्वमर्थः तदेव तत्परत्वं पृच्छति---किमिदमिति । तदर्थत्वम्तत्प्रतीतिप्रयोजनकत्वम् । तदर्थत्वानपायात्---तत्प्रतीतिप्रयोजनकत्वानपायात् । दत्तमेवोत्तरमिति---संसर्गमात्र एव तैस्तात्पर्याख्यवृत्त्यभ्युपगमादित्यर्थः । तदन्या वा इति तात्पर्याख्या वृत्तिः संसर्गं बोधयित्वा व्यङ्ग्यार्थमपि बोधयतीति ध्वनिकेन यदुक्तं तच्च प्रागेव दूषितम् । ततोऽन्या वेत्यस्य तात्पर्यभिन्नोऽतिरिक्तपदार्थ इत्येवार्थः । नाममात्रेति---अङ्गीकृतायां तुरीयवृत्तौ, "व्यञ्जना वा तात्पर्यं वा तन्नामऽ इत्येव विवाद इत्यर्थः । लोचना (लो, ए) तत्रेति---यदुक्तं पौरुषेयमित्यादि तत्र प्रष्टव्यमित्यर्थः । तदर्थत्वं तस्य शब्दस्यार्थत्वम् । दत्तमेवोत्तरं तयोरुपरीत्यादिना । ********** टीका सम्पूर्णा ********** नन्वस्तु युगपदेव तात्पर्यशक्त्या विभावादिसंसर्गस्य रसादेश्च प्रकाशनम्-इति चेत्? न, तयोर्हेतुफलभावाङ्गीकारात् । यदाह मुनिः--"विभावानुभावव्यभिचारिसंयोगद्रसनिष्पत्तिः" इति । सहभावे च कुतः सव्येतरविषाणयोरवि कार्यकारणभावः ? पौर्वापर्यविपर्ययात् । ************* टीका ************* विज्ञप्रिया (वि, ट) ननु अतिरिक्तपदार्थरूपा तुरीया वूत्तिर्ध्वनिकेन नोच्यते, किन्तु कॢप्ततात्पर्यमेव व्यङ्ग्यबोधकम् । तेन च क्रमशो बोधन एव, "शबादबुद्धिकर्मणाम् "इत्याद्युक्तं दूषणं युगपदेव तेन बोध्यतामित्याशङ्कते---नन्विति । तात्पर्यशक्त्या तात्पर्यरूपतया वृत्त्या । तयोः विभावादिसंसर्गप्रकाशनरसादिप्रकाशनयोरित्यर्थः । रसनिष्पत्तिरित्यत्र रसस्य ज्ञाननिष्पत्तिरेव निष्पत्तिः स्वप्रकाशस्य स्वज्ञानाभिन्नत्वात् । पञ्चम्या च विभावादिसंसर्गज्ञानस्य कारणताप्रदर्शनात् । सहभावेनोत्पत्तौ तद्दर्शितकारणतानुत्पत्तिं दर्शयति---सहभावे चेति । सव्येत्ररविषाणे वामदभिणगावादिशृङ्गे । लोचना (लो, ऐ) नन्विति । प्रकाशनमित्यनन्तरं,"तथा सति विरम्यव्यापारो न भविष्यति"इति शेषः । अनयैव दिशा प्रतीयमानयोर्वस्त्वलङ्कारयोरपि,"यत्परः शब्दः स शब्दार्थः"इतिन्यायाश्रयेण व्यञ्जनाङ्गीकारोऽनुपपन्न एव । किञ्च, "यत्परः शब्दः स शब्दार्थः"इति न्यायमङ्गीकुर्वतां व्यञ्जनानङ्गीकारे वानीरकुञ्ज इत्यादौ गुणीभूतः प्रतीयमानोर्ऽथः प्रथममवतरन् शब्दस्य तत्परत्वाभावात्कस्य व्यापारस्य विषयतामवलम्बताम् ? ननु तर्हि भट्टनयवत्, "पीनो देवदत्तो दिवा न भुङ्क्ते । ऽ इत्यादौ, "रात्रौ भुङ्क्तेऽ इत्यादिवदत्रापि व्यङ्ग्यार्थप्रतीतौ वाक्यशेषं कल्पतामिति चेन्न । "धर्मिकल्पनातो वरं धर्मकल्पना"इति न्यायाद्व्यापारन्तरकल्पनस्यैव न्याय्यत्वात् । ********** टीका सम्पूर्णा ********** "गङ्गायां घोषः" इत्यादौ तटाद्यर्थमात्रबोधविरताया लक्षणायाश्च कुतः शीतत्वपावनत्वादिव्यङ्ग्यबोधकता । तेन तुरीया वृत्तिरुपास्यैवेति निर्विवादमेतत् । ************* टीका ************* विज्ञप्रिया (वि, ठ) ननु लक्षणामूलव्यञ्जना नाद्रियताम्, एकयैव लक्षणया लक्षयव्यङ्ग्यार्थद्वयं बोध्यतामित्यत आह---गङ्गायामिति । लोचना (लो, ओ) एवं पूर्वोक्तव्यङ्ग्यानामभिधातात्पर्यावेद्यत्वं निरस्य लक्षणावेद्यत्वं दूषयति---गङ्गायामिति । उपसंहरति---तेनेति । तेन हेतुना । ********** टीका सम्पूर्णा ********** किंच--- बोद्धृस्वरूपसंख्यानिमित्तकार्यप्रतीतिकालानाम् । आश्रयविषयादीनां भेदाद्भिन्नोऽभिधेयतो व्यङ्ग्यः ॥ ५.२ ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) ननु अभिधा लक्षणा च दीर्घतरीभूतैव व्यङ्ग्यार्थं बोधयतु, कुतस्तयोर्विरामः? शब्दस्य विरम्यव्यापारस्तु भवन्मते व्यङ्ग्यबोधन इव स्वीकार्य इत्यतो वैधर्म्यादेव वाच्यव्यङ्ग्यबोधकव्यापारयोर्भेदं साधयति । किञ्च---बोद्धृस्वरूपेति---बोद्धा, स्वरूपम्, संख्या, निमित्तम्, कार्यम्, प्रतीतिः, कालः, आश्रयः, विषयश्चेत्यादीनां च भेदादित्यर्थः । एषां भेदं स्वयमेव दर्शयिष्यति । भिन्नोऽभिधेयतो व्यङ्ग्य इति---यद्यपि अभिधाव्यञ्जनयोरेव भेदः प्रदर्शनीयः, तथापि तद्भेदप्रदर्शनेनैव तद्वोधकस्यापि भेदः प्रदर्शित इत्याशयेन इत्थमुक्तम् । लोचना (लो, औ) व्यङ्ग्यस्याभिधेयत्वे दूषणान्तरमवतारयति---किञ्चेति । भेदादित्यस्य बोद्ध्रित्यादौ प्रत्येकमन्वयः । तेन बोद्धृभेदात्, स्वरूपभेदात्, संख्याभेदादित्यादि बोद्धव्यम् । ********** टीका सम्पूर्णा ********** वाच्यार्थव्यङ्ग्यार्थयोर्हि पदतदर्थमात्रज्ञाननिपुणैर्वैयाकरणैरपि सहृदयैरेव च संवेद्यतया बोद्धृभेदः । ************* टीका ************* विज्ञप्रिया (वि, ढ) तत्र बोद्धृभेदं दर्शयति---वाच्यार्थव्यङ्ग्यार्थयोरिति । वाच्यार्थस्य वैयाकरणैर्वेद्यतया, व्यङ्ग्यार्थस्य च सहृदयैरित्येवं यथासंख्यमन्वयः । वैयाकरण हि पदस्य पदवाच्यार्थस्य ज्ञानमात्रे निपुणाः, न तु व्यङ्ग्यार्थज्ञाने । ********** टीका सम्पूर्णा ********** "भम धम्मिअ--" (२४२ पृ.) इत्यादौ क्वचिद्वाच्ये विधिरूपे निषधरूपतया, क्वचित्"निः शेषच्युतचन्दनम्-" (६२ पृ.) इत्यादौ निषेधरूपे विधिरूपतया च स्वरूपभेदः । ************* टीका ************* विज्ञप्रिया (वि, ण) स्वरूपभेदं दर्शयति---भमेति । अत्र भ्रमणविधिर्वाच्योर्ऽथः । अभ्रमणं निषेधो व्यङ्गयः । निषेधरूपे इति---तदन्तिकेऽगमनं निषेधो वाच्यः । तदन्तिके गमनविधिर्व्यङ्ग्य इत्यर्थः । विधिरूपे वाच्ये ज्ञाते सति निषेधिरूपतया व्यङ्ग्यो ज्ञायत इत्यर्थः । एवमुत्तरत्रापि । लोचना (लो, अ) "निः शेषच्युतचन्तनम्ऽ इत्यादौ "गतासीत्"इत्यर्थस्य व्यङ्ग्यत्वमङ्गीकृत्य विधिरूपत्वोक्तिः । ********** टीका सम्पूर्णा ********** "गतोऽस्तकर्कः" इत्यादौ च वाच्योर्ऽथ एक एव प्रतीयते । व्यङ्ग्यस्तु तद्वोद्ध्रादिभेतात्क्वचित्"कान्तमभिसर" इति, "गावो निरुध्यन्ताम्" इति, "नायकस्यायमागमनावसरः" इति, "संतापोऽधुना नास्ति" इत्यादिरूपेणानेक इति संख्याभेदः । लोचना (लो, आ) बोद्ध्रादीत्यादिशब्देन वक्तृप्रकरणादयः । ********** टीका सम्पूर्णा ********** वाच्यार्थः शब्दोच्चारणमात्रेण वेद्यः, एष तु तथाविधप्रतिभानैर्मल्यादिनेति निमित्तभेदः । प्रतीतिमात्रकरणाच्चमत्कारकरणाच्च कार्यभेदः । ************* टीका ************* विज्ञप्रिया (वि, त) संख्याभेदं दर्शयति---वाच्यार्ऽथः इति । एष इति---व्यङ्ग्यैत्यर्थः । कार्यभदं दर्शयति---प्रतीतिमात्रेति---अभिधाया अभिधेयप्रतीतिमात्रं कार्यम्, व्यञ्जनायास्तु चमत्कारोऽपि कार्यम् । ********** टीका सम्पूर्णा ********** केवलरूपतया चमत्कारितया च प्रतीतिभेदः । पूर्वपश्चाद्भावेन च कालभेदः । शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसंघटनाश्रयत्वेन चाश्रयभेदः । ************* टीका ************* विज्ञप्रिया (वि, थ) कालभेदं दर्शयति---पूर्वपश्चादिति । आश्रयभेदं दर्शयति---शब्दाश्रयत्वेनेति । अभिधायाः शब्दमात्रामाश्रयः । व्यञ्जनायास्तु शब्दतदेकदेशवर्णादिः । ********** टीका सम्पूर्णा ********** "कस्स व ण होइ रोसो दट्ठूणपिआएं सव्वणं अहरम् । सब्भमरपडमग्घाइणि वारिअवामे सहसु एङ्णिं" ॥ इति सखीतत्कान्तविषयत्वेन विषयभेदः । तस्मान्नाभिधेय एव व्यङ्ग्यः । ************* टीका ************* विज्ञप्रिया (वि, द) विषयभेदं दर्शयति---"कस्स वा ण होइऽ इति । कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् ? सभ्रमरपद्माघ्रायिणि ! वारितवामे ! सहस्वेदानीम् । "इति संस्कृतम् । उपनायकदष्टाधरां पत्नीं तर्जयन्तं प्रति नायिकासख्याः प्रतारणोक्तिरियम् । हे वारितवामे ! वारिते सभ्रमरपद्माघ्राणे वामे प्रतिकूले इत्यापाततः । "वारितायामधरदंशपर्यन्तायां रतौ वामेऽ इति तु गूढम् । सहस्वेत्यत्र पत्युस्तर्जनकर्म बोध्यम् । सखीतत्कान्तेति---वक्तर्याः सखी नायिका, तत्कान्तस्तत्पतिः । तद्विषयत्वेनतज्ज्ञानविषयत्वेन । नायिकया हि प्रतीयते इयं प्रतारयतीत्येवं व्यङ्ग्यार्थः । तस्मादिति---व्यङ्ग्यार्थो नाभिधागम्य इत्यर्थः । लोचना (लो, इ) कस्स वा णेति---वारितादर्थाद्वामे प्रतिकूलकारिणि । तत्र वाच्यं सखीविषयम्, "भ्रमरेण दष्टधरेयं, न पुनः परकामुकेनऽ इति व्यङ्ग्यं तु कान्तविषयम् । एवं बोद्धृस्वरूपादिभेदेऽपि यदि वाच्यव्यङ्ग्ययोरेकत्वं तदा क्वचिदपि नीलपीतादौ नरपुङ्गवादौ भेदो न स्यादित्याशयः । ननु गतोऽस्तमर्क इत्यादिवाक्ये प्रकरणादिरूपज्ञापकान्तरसहायेनैव बोधितस्य कान्तमभिसरेत्यादिव्यङ्ग्यार्थस्य कथं शब्दप्रमाणबोध्यत्वम्, शब्दैकसमधिगम्यत्वाभावाद्, इति चेदत्र केचिदाहुः-यथा शब्दबोधितस्य क्वचिद्वाच्यस्यार्थस्य सत्यासत्यत्वजिज्ञासायां सत्यत्वमनुमानविषय इति शब्दानुमानप्रमाणयोर्भिन्नविषयत्वम् । व्यङ्ग्यस्तु एव एव शब्दप्रमाणेन प्रकरणादिबोध्य इति दृष्टान्तदार्ष्टान्ति कयोर्वैषम्यम् । तत्र का गतिरिति चेत्---तत्रैवं सङ्गतिः । यथा प्रकरणादेर्विष्ण्वाद्यनेकाभिधेयस्यापि हर्याद्यभिधेयावच्छेदकत्वं तथानेकव्यञ्जकस्यापि शब्दस्य एकव्यङ्ग्ये प्रकरणदिसाहाय्यस्येति कर्तव्यतारूपतया शब्दस्याङ्गत्वं स्वाङ्गस्य चाव्यवधायकत्वं न्यायसिद्धमेविति न शब्दप्रमाणव्याकोपः । इह च यद्यपि वाक्यार्थस्य प्रतीत्यनन्तरं तस्य सत्यासत्यत्वजिज्ञासायां सत्यत्वं प्रमाणान्तरेणानुमानेनैव बोध्यते, तथापि सत्यासत्यत्वजिज्ञासातः पूर्वमुपपन्नाया वाक्यार्थप्रमाया अप्रमाभावात्शब्दैकसमधिगम्यत्वाच्च न शब्दप्रामाण्यव्याकोपः । न हि चक्षुरादिना प्रतीतौ सत्यासत्यत्वप्रत्यक्षप्रामाण्यं व्याकुप्येत । ********** टीका सम्पूर्णा ********** तथा--- लोचना (लो, ई) तथेति । न खलु एतावतैव व्यङ्ग्यानामभिधालक्षणाबोध्यत्वं नास्ति, अपि तु इतरधापीत्यर्थः । ********** टीका सम्पूर्णा ********** प्रागसत्वाद्रसादेर्नो बोधिके लक्षणाभिधे । किञ्चि मुख्यार्थबाधस्य विरहादपि लक्षणा ॥ ५.३ ॥ "न बोधिका" इति शेषः । ************* टीका ************* विज्ञप्रिया (वि, ध) रसादिबोधिका न लक्षणा नापि अभिधा सम्भवतीत्याह--प्रागसत्त्वादिति । तत्काव्यस्थशब्दजन्यो यो रसस्तस्य शब्दबोधानन्तरमेव जन्यमानत्वात्तत्प्राक्तस्यासत्त्वात्तत्र तत्काव्यस्थशब्दस्य शक्तेर्लक्षणाया वा ग्रहीतुमशक्तत्वादित्यर्थः॑ प्रागुपस्थिते वस्तुन्येव तयोर्ग्रहणसम्भवात् । ननु काव्यात्प्रथममनुभूयमानो यो रसस्तन्निष्ठसामान्यधर्मरूपया सामान्यलक्षणया उपस्थिते भाविन्यपि रसे शक्तिग्रहोऽस्त्विति चेन्न । शक्त्या लक्षणया वा प्राथमिकरसबोधस्यैव तत्सम्भवात्प्राक्तस्यानुपस्थितत्वात्विभावादिवाचकशब्दानांतत्र शक्तिग्रहकत्वाभावाच्चेत्यपि बोध्यम् । नापि कोषग्राहितशक्तिकात्काव्यस्थशृङ्गारादिशब्दात्तद्वोधः, अननुभवात् । प्रत्युत तत्सत्त्वे रसादेः स्वशब्दवाच्यतादोषस्यैव वक्ष्यमाणत्वात् । अतः शृङ्गारादिशब्दाबोध्यत्वे रसत्वानाप्तेः॑ किन्तु विभावाद्यभिधानद्वारैव तत्प्रतीतेरानुभाविकत्वात्ननु इह काव्यस्थात्शृङ्गारादिशब्दाज्ज्ञातस्य रसस्य प्रागुपस्थितत्वेन विभावादिवाचकशब्दैर्लणया रसादेर्बोधोऽस्तु इत्यत आह---किञ्च मुख्यार्थेति । लक्षणेत्यस्य शेषाञ्चलं पूर्वतोऽनुषञ्जयति---न बोधिकेति । लोचना (लो, उ) प्रागिति । अयमर्थः--रसभावादेर्व्यङ्ग्यस्य प्रागसत्त्वाल्लक्षणाभिधे न बोधिके । त्रयाणामपि व्यङ्ग्यानां मुख्यार्थबाधविरहादपि न लक्षणा बोधिकेति । अपिः पूर्वोक्तसमुच्चये । ********** टीका सम्पूर्णा ********** नहि कोऽपि रसनात्मकव्यापारद्भिन्नो रसादिपदप्रतिपाद्यः प्रमाणसिद्धोऽस्ति, यमिमे लक्षणाभिधे बोधयेताम् । किंञ्च, यत्र"गङ्गायां घोषः" इत्यादावुपात्तशब्दार्थानां बुभूषन्नेवान्वयोऽनुपपत्त्या बाध्यते तत्रैव हि लक्षणायाः प्रवेशः । ************* टीका ************* विज्ञप्रिया (वि, न) ननु रसेऽपि तात्पर्यसत्त्वाल्लक्षणां विना तदनिर्वाह एव मुख्यार्थबाध उच्यत इत्यत आह--न हीति । यदि रसादिशब्दात्तस्य प्रागुपस्थितिस्तदैव तस्य लक्षणया बोधार्थमुक्तरूपमुख्यार्थबाधनिर्वचनं सैव तु नेत्यर्थः । रसनात्मको व्यञ्जनात्मको व्यापारो यस्य, एतादृशरसाद्भिन्न एव रसादिप्रतिपाद्य इत्यर्थः । बुभूषन्--भवितुमिच्चन् । प्रवाहादौ घोषाद्यन्वयः । लोचना (लो, ऊ) प्रमाणासिद्ध इत्यनन्तरम्, "क्वचिद्"इति शेषः । ********** टीका सम्पूर्णा ********** यदुक्तं न्यायकुसुमाञ्जलावुदयनाचार्यैः--- "श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति । पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः" ॥ ************* टीका ************* विज्ञप्रिया (वि, प) अस्मिन्नर्थे संवादं दर्शयति---तदुक्त्मिति । श्रुतान्वयात्--श्रुतपदार्थयोरन्वयसम्भवात्॑ अबाधितादन्यत्रानाकाङ्क्षं वाक्यमन्यद्धि नेच्छति नाकाङ्क्षति । पदार्थान्वयवैधुर्यात्--पदार्थयोरन्वयासम्भवात् । तदाक्षिप्तेन--तदुल्लिखितेन । सङ्गतिरन्वय इत्यर्थः । लोचना (लो, ऋ) श्रुतान्वयादिति । अन्यत्---पदार्थान्तरम् । नेच्छति नापेक्षते । यदि तु "गङ्गायां घोषःऽ इत्यादौ पदार्थानामन्वयकाल एव बाधप्रतिभासाद्यन्वयस्य विधुरीभावस्तदा तेन पदार्थेन जलमयादिना आक्षिप्तो यस्तटादिस्तेन सङ्गतिरन्वय इत्यर्थः । ********** टीका सम्पूर्णा ********** न पुनः "शून्यं वासगृहम्--" इत्यादौ (२२ पृ.) मुखायाथबाधः । ************* टीका ************* विज्ञप्रिया (वि, फ) एवं, "शून्यं वासगृहम्ऽ । इत्यादौ शून्यवासगृहादीनां विलोकनाद्यन्वयाबाधात्न रसलक्षणेत्यह--न पुनरिति । लोचना (लो, ॠ) ततः किमित्यत आह---न पुनरिति । तत्कथं रसादिप्रतीतौ लक्षणा इत्यर्थः । ********** टीका सम्पूर्णा ********** यदि च "गङ्गायां घोषः" इत्यादौ प्रयोजनं लक्ष्यं स्यात्, तीरस्य मुख्यार्थत्वं बाधितत्वं च स्यात् । तस्यापि च लक्ष्यतया प्रयोजनान्तरं तस्यापि प्रयोजनान्तरमित्यनवस्थापातः । ************* टीका ************* विज्ञप्रिया (वि, ब) नन्वेवं रसबोधनार्थमेव व्यञ्जना स्वीक्रियताम्॑ "गङ्गायां घोषःऽ इत्यादौ यत्शैत्यपावनत्वं च व्यङ्ग्यमुक्तं तीरलक्षणानन्तरं तत्रापि लक्षणैवास्तु॑ किं व्यञ्जनया ? इत्याह---यदि चेति । प्रयोजनं प्रयोजनीभूतज्ञानाविषयः । मुख्यार्थत्वं बाधितत्वं च स्यादिति---उभयमेव तु नास्तीति शेषः । प्रयोजनस्य लक्ष्यत्वेऽनवस्था स्यादित्यत आह--तस्यापीति । अनवस्थापातित्यत्र अनवस्थापातश्चेत्यर्थः । लोचना (लो, ळ) नन्वेवं विवक्षितान्यपरवाच्ये ध्वनौ मास्तु लक्षणा॑ अविवक्षितवाच्ये तु शीतत्वपावनत्वादिरूपं प्रयोजनं लक्षणीयमस्तित्वत्याशङ्क्याह---यदि चेति । शब्दो हि प्रथमं मुख्यमर्थं प्रतिपाद्य तस्य वाक्यार्थान्वयानुपपत्तौ तत्सम्बन्धिनमर्थं लक्षयति । इह यदि तीरप्रत्ययानन्तरं बोध्यं प्रयोजनं लक्षयति तदा गङ्गाशब्दस्य तीरं मुख्योर्ऽथः स्यात् । तस्य च वाक्यार्थान्वयानुपपत्तिः स्यातित्यर्थः । प्रयोजनलक्ष्यत्वेऽनवस्थादोषोऽपीत्याह---तस्यापीति । तस्य तया तक्ष्यतया अङ्गीकार्यस्य प्रयोजनान्तरम्, रूढिप्रयोजनाभावे लक्षणासम्भावादित्यर्थः । तस्यापि---द्वितीयप्रयोजनस्य । "अनवस्था या मूलक्षतिकारिणी"मूलं ह्यत्र तीरनिष्टस्य पावनत्वस्य च पूर्वपक्षेण लक्ष्यत्वेनाङ्गीकारः । तस्येवंविधानर्थमूलत्वेन परित्यागो न्याय्य इति भावः । ********** टीका सम्पूर्णा ********** न चापि प्रयोजनविशिष्ट एव तीरे लक्षणा । विषयप्रयोजनयोर्युगपत्प्रतीत्यनभ्युपगमात् । नीलादिसंवेदनानन्तरमेव हि ज्ञातताया अनुव्यवसायस्य वा संभवः । ************* टीका ************* विज्ञप्रिया (वि, भ) ननु लक्ष्यार्थबोधानन्तरं यदि प्रयोजने लक्षणा तदैवानवस्था॑ शीतपावने तीरे घोष इत्येवं प्रयोजनविशिष्ट एव लक्षणास्त्वित्यत आह---न चापीति । तत्र गङ्गातीरे घोष इत्यतोऽधिकार्थस्य प्रतीतिः प्रयोजनमिति काव्यप्रकाशकृदुक्तं प्रयोजनमनुसन्धेयम् । समाधत्ते--विषयप्रयोजनयोरिति । पावनत्वविशिष्टतीरलक्षणायां हि लक्षणाविषयस्तीरम्, विशेषणं पावनत्वादि । प्रयोजनं---प्रयोजनीभूतज्ञानविषयरूपं पावनत्वादि तयोर्युगपत्प्रतीतिः॑--लक्षणायन्यैकप्रतीतिः॑ तदनभ्युपगमादित्यर्थः । ननु तदनभ्युपगमे किं बीजम् ? इति चेत्--लक्षणया यत्पावनत्वविशिष्टं ज्ञानं जनयितव्यं तत्प्रयोजनीभूतं ज्ञानं च तदेव पर्यवसितमित्यतः कार्यकारणयोरभेदापत्तिरेव बीजमिति सर्वत्र तु तयोर्भेद एव दृश्यते इत्याह--नीलादीति । नीलादिज्ञानं व्यवसायरूपं कारणं, तत्कार्यं तु ज्ञातता । नैयायिकानां मुरारेश्च मतेऽनुव्यवसायः तादृशकार्यकारणयोश्च क्रमोत्पत्तिरेव इत्यर्थः । क्रमिकयोश्च भेद इत्यर्थः लोचना (लो, ए) ननु यदि तटाद्यर्थबोधनाय लक्षणावृत्तिराश्रयणीया, इह चैतद्विशिष्टमेव तटं लक्षणा बोधयतु किं वृत्त्यन्तरेण ? तथा हि गङ्गातादात्म्येन तटप्रत्ययस्तावल्लक्ष्यः, गङ्गातादात्म्यप्रतीत्या च तटस्य दैवसिद्धमेव शैत्यादिविशिष्टत्वमित्याशङ्क्याह--न चापीति---प्रयोजनविशिष्टेऽपि लक्षणैत्यर्थः । कुतः ? इत्याह--- ********** टीका सम्पूर्णा ********** नानुमानं रसादीनां व्यङ्ग्यानां बोधनक्षमम् । आभासत्वेन हेतूनां स्मृतिर्न च रसादिधीः ॥ ५.४ ॥ ************* टीका ************* विज्ञप्रिया (वि, म) व्यक्तिविवेककारमते विभावादिभ्यो रत्याद्यनुमितिरेव रस॑ न रत्यादीनां व्यञ्जना--इति॑ तद्दूषयति--नानुमानमिति । रसादीनां रत्यादीनां व्यङ्ग्यानां बोधनक्षमं बोधकारणं नानुमानमित्यर्थः । कुतः ? इत्यत्राह--आभासत्वेनेति । ग्रन्थकृन्मते हि ज्ञायमानविभावादीनां रत्यादिलिङ्गत्वसम्भवेऽपि, रामः सीताविषयकरतिमान्॑ सीतादिविभावादिमत्त्वातित्यनुमितिर्न रसः तस्यानन्दस्वरूपत्वाभावेन अनास्वाद्यत्वात्॑ किन्तु शब्दान्वयव्यतिरेकानुविधायत्वेन व्यञ्जनया शाब्दबोधविषयो रत्यादिर्भावुकैर्भाव्यमानः स्वप्रकाशानन्दमयत्वेन परिणत आस्वाद्यमानो रसः । तस्य च व्यङ्ग्यत्वं प्रपानकरसन्यायेन, तच्छरीरप्रविष्टरत्यादेर्वा व्यङ्ग्यत्वादिति । तथा च तादृशरसस्य हेतूनां रत्यादिकार्यकारणसहकारिरूपाणां विभावादानामाभासत्वेन नानुमानं नानुमितिरित्यर्थः । तथा हि विभावादयः सीतादयो हेतवो मुतुबर्थदिदृक्षादिसम्बन्धेन रामादिवृत्तयः । साध्यस्तूक्तरूपो रसः काव्यबोद्धनिष्ठ इत्यतो हेतूनां विरुद्धत्वमसिद्धिश्चेति हेत्वाभासता । वृत्तावप्ययमर्थो व्यक्तिर्भविषयति । रसादिबुद्धिः स्मृतिरूपापि नेत्याह--स्मृतिर्न च रसादिधीः इति । संस्कारजन्यत्वेन रसादिबुद्धिः स्मृतिरूपेति केचिदाहुः । तच्च संस्कारजन्यप्रत्यभिज्ञायां व्यभिचारादाभासरूपमेवेत्यग्रे वक्ष्यते । वस्तुतस्तु स्वप्रकाशानन्दरूपत्वेनैव न स्मृतिः॑ तस्या एवंभावाभावात् । लोचना (लो, ऐ) एवं व्यङ्ग्यस्यास्य प्राचीनवेद्यत्वं निरस्य महिमभट्टेन खलु रसवस्त्वलङ्कारव्यञ्जकानां वाक्यानामन्तर्भावार्थं यदनुमानं दर्शितं तत्तद्धेत्वाभासदोषेण विधुरीकृतम् । ********** टीका सम्पूर्णा ********** व्यक्तिविवेककारेण हि--"यापि विभावादिभ्यो रसादीनां प्रतीतिः सानुमान एवान्तर्भवितुमर्हति । विभावानुभावव्यभिचारिप्रतीतिर्हि रसादिप्रतीतेः साधनमिष्यते" । ते हि रत्यादीनां भावानां कारणकार्यसहकारिभूतास्ताननुमापयन्त एव रसादीन्निष्पादयन्ति । त एव प्रतीयमाना आस्वादपदवी गताः सन्तो लसा उच्यन्ते, इत्यवश्यंभावी तत्प्रतीतिक्रमः केवलमाशुभावितयासौ न लक्ष्यते, यतोऽयमद्याप्यभिव्यक्तिक्रमः" इति यदुक्तम् । ************* टीका ************* विज्ञप्रिया (वि, य) व्याचष्टे---व्यक्तिविवेककारेणेति । रसादिनिष्ठा रसादिविषया । क्वचित्तु, "रसादीनाम्ऽ इति पाठः । तादृशी या विभावादिभ्यः प्रतीतिः सिद्धेत्यर्थः । तान् रसादीन्निष्पादयन्तीलि निष्पादनप्रकारमाह---त एवेति । त एव अनुमीयमाना रत्यादय एव पुनः पुनरनुशीलनादास्वाद्यपदवीं गताः सन्तो ज्ञानसम्बन्धेन सामाजिकनिष्ठरसतामापद्यन्त इत्यर्थः । तत्प्रतीतिक्रम इति---विभावादिज्ञानम्, ततो रत्यनुमितिः, ततः पुनः पुनरनुशीलनम्, तत आस्वाद इत्येवं प्रतीतिक्रम इत्यर्थः । आशुभावितया इति । रत्याद्यनुमितेर्विभावादिज्ञानानन्तर्यस्याशुभावितया व्यापत्याद्युपस्थित्यधीनानुमितिक्रमो न तक्ष्यत इत्यर्थः । किन्तु विभावादिभिरेव रत्यादिर्व्यज्यत इत्यवे भ्रमो जायत इत्याह---यतोऽयमद्यापीति । ********** टीका सम्पूर्णा ********** तत्र प्रष्टव्यम्--किं शब्दाभिनयसमर्पितविभावादिप्रत्ययानुमितरामादिगतरागादिज्ञानमेव रसत्वेनाभिमतं भवतः, तद्भावनयाभावकैर्भाव्यमानः स्वप्रकाशानन्दो वा । ************* टीका ************* विज्ञप्रिया (वि, र) शब्दाभिनयेति---शब्दो विभावादिवाचकः शब्दः, अभिनयो नाट्याभिनयः, सर्मणं ज्ञापनम्, रागोऽनुरागो रतिः । तदिति---पूर्वमेवेदं दर्शितम् । स्वप्रकाशानन्दो वेत्यत्रानुमिति इति शेषः । अनुमितिविषयस्यैव वितर्क्यमाणत्वात् । ********** टीका सम्पूर्णा ********** आद्ये न विवादः, किन्तु "रामादिगतरगादिज्ञानं रससंज्ञया नोच्यतेऽस्माभिः" इत्येव विशेषः । द्वितीयस्तु व्याप्तिग्रहणाभावाद्धेतोराभासतयासिद्ध एव । ************* टीका ************* विज्ञप्रिया (वि, ल) न विवाद इति । रत्यादेरनुमानं व्यञ्जना चेति विवादो नापातत इत्यर्थः । तदैवात्र विवादः स्याद्यदा रामादिगतरत्यादिव्यञ्जनं मया रसत्वेनोक्तस्यात्, तदेव तु नेत्याह---किन्त्विति । मयोच्यते रामादिगतरत्यादेर्व्यञ्जनम्, ततश्च व्यङ्ग्यरत्यादिरेव सामाजिकरत्यादावभेदेनाऽप्यमाणो रसनाख्यव्यापारेणास्वाद्यमानो रस इति रसनिरूपणप्रस्तावोक्तसिद्धान्तः । स एव द्वितीयः पक्षः, तस्यानुमेयत्वासम्भव इत्याह---द्वितीयस्त्विति । व्याप्तिग्रहणाभावादिति---विरुद्धहेतौ तद्भावनियमादित्यर्थः । इदमुपलक्षणं स्वरूपासिद्धेश्चेत्यपिबोध्यम्, सीतादिविभावादिमत्त्वस्य रामादिमात्रवृत्तेर्न तु सामाजिके । ईदृशाभासतामाह---हेतोरिति । असिद्ध इत्यस्य द्वितीयः पक्षः विशेष्यम् । आभासत्वेन हेतूनामित्यस्य व्याख्यानमिदम् । लोचना (लो, ओ) हेतोराभासतयेति---"आभासत्वेन हेतूनाम्ऽ इति कारिकापदार्थः । कथं हेतोराभासतेत्याह---व्याप्तिग्रहणाभावादिति । ********** टीका सम्पूर्णा ********** यच्चोक्तं तेनैव--- "यत्र यत्रैवंविधानां विभावानुभावसात्त्विकसञ्चारिणामभिधानमभिनयो वा तत्र तत्र शृङ्गारादिरसाविर्भावः" इति सुग्रहैव व्याप्तिः पक्षधर्मता च । ************* टीका ************* विज्ञप्रिया (वि, व) व्यक्तिविवेककारेण सम्बन्धविशेषणविभावादीनां यथोक्तानन्दरूपसव्याप्यता पक्षधर्मता च साध्यते, दूषयितुं तदप्युत्थापयति---यच्चोक्तमिति । सात्त्विकसंचारिणामिति---शृङ्गाररसानुमित्यभिप्रयेणोक्तम्, तेषां शृङ्गाररसस्यैव व्याप्यत्वात् । क्वचित्तु विभावानुभावसंचारिणामित्येव पाठो न सात्त्विकेत्यादिः । अभिधानं वाचकः शब्दः, अभिधेयो नाट्याम्, तद्व्यञ्जिका क्रिया, तदुभयमपि स्वविषयबोधाश्रयतासम्बन्धेन रसाश्रयसामजिकवृत्तिरिति व्याप्तिः । पक्षर्धमता च सुग्रहेत्यर्थः । लोचना (लो, औ) अत्र महिमभट्टदर्शितां व्याप्तिं दूषयित्वा व्याप्तिग्रहणाभावं द्रढयति--यच्चेत्यादि । पक्षधर्मतेत्यन्तेन । तस्मादतः शृङ्गाररसाविर्भाव इति रूपः । ********** टीका सम्पूर्णा ********** तया-- "यार्ऽथान्तराभिव्यक्तौ वः सामग्रीष्टा निबन्धनम् । सैवानुमितिपक्षे नो गमकत्वेन संमता" ॥ इति । ************* टीका ************* विज्ञप्रिया (वि, श) अस्मिन्नेतस्य कारिकामाह--यार्थान्तरेति । अर्थान्तरस्य रसस्याभिव्यक्तौ आस्वादने निबन्धनकारणं वो युष्माकं या सामग्रीष्टा सैव विभावादिरूपा सामग्री नोऽस्माकं मते गमकत्वेन अनुमापकत्वेन सम्मतेर्यर्थः । लोचना (लो, अ) भवद्भिरेवंविधा व्याप्तिरन्वेष्टव्येत्यत आह--यार्थेति । अर्थान्तराभिव्यक्तौ या सामग्री कारणमिष्टा सैवास्माकमनुमितौ लिङ्गमित्यर्थः । सामग्रीभावेऽपि हि व्यङ्ग्यार्थप्रतिपत्तौ यतः कुतश्चिदपि यदेव तदेव प्रतीयते । एवं व्यङ्ग्यस्य प्रकाशने लिङ्गमवश्यमन्वेष्टव्यम् । तस्य व्याप्तिग्रहणं विना आभासतैव स्यादिति भवतामपि व्याप्तिग्रहणं विना व्यङ्ग्यज्ञानं न सम्भवतीति भावः । सम्मतेत्यत्रेतिपदस्य यच्चोक्तमित्यत्र सम्बन्धः । ********** टीका सम्पूर्णा ********** इदमपि नो न विरुद्धम् । न ह्येवंविधा प्रतीतिरास्वाद्यत्वेनास्माकमभिमता किन्तु--स्वप्रकाशमात्रविश्रान्तः सान्द्रानन्दनिर्भरः । तेनात्र सिषाधयिषितादर्थादर्थान्तरस्य साधनाद्धेतोराभासता । ************* टीका ************* विज्ञप्रिया (वि, ष) दूषयति---इदमपीति । अनुमितिर्हि न स्वप्रकाशानन्दरूपा इत्यर्थः । निर्भरस्तद्रूपः, तादृश एव सिषाधयिषित इत्यर्थः । सिषाधयिषितत्वं चात्र इच्छाविषयत्वमात्रम्, न तु अनुमित्सितत्वम्, रसेऽनुमित्यभावात् । आभासता असिद्धसाधनरूपाभासता । इदं दूषणं सौलभ्यादेवोक्तम् । वस्तुतस्तु सामाजिके सात्रात्क्रियमाणः स्वप्रकाशानन्दोऽनुमीयत एव न, अनुमित्साभावात्, न हि तस्य नियमतोऽनुमित्सा भवति, रसबोधस्तु नियमत एव । तथा ज्ञातविभावादिरूपा सामग्री रसाबोद्धुर्जनस्याप्यस्तीति व्यभिचारश्चेति बोध्यम् । लोचना (लो, आ) सिद्धान्तमाह---इदमपीति । इदं महिमभट्टस्य समनन्तरोक्तम् । सिषाधयिषितोर्ऽथो रसादेरनुमानान्तर्भावः । साधितमर्थान्तरम् । तत्र काव्ये शृङ्गारादिरस इत्यादिज्ञानस्यानुमेयत्वम् । ********** टीका सम्पूर्णा ********** यच्च "मम धम्मिअ--" इत्यादौ (२४२ पृ.) प्रतीयमानं वस्तु । "जलकेलितरलकरतलमुक्तपुनः पिहितराधिकावदनः । जगदवतु कोकयूनोर्विघटनसंघटनकौतुकी कृष्णः" ॥ इत्यादौ च रूपकालङ्कारादयोऽनुमेया एव । ************* टीका ************* विज्ञप्रिया (वि, स) यत्र वस्तुनोऽलङ्कारस्य वा व्यञ्जना तत्र वस्त्वलङ्कारौ अनुमानगम्यौ एवेति नैयायिकमतं दूषयितुमुत्थामपयति---यच्चेति । यच्च पर्यवस्यतीति दूरेन्वयः । उक्तमिति तस्य शेषः । तथा च यच्च पर्यवस्यतीत्युक्तमित्यर्थः । प्रतीयमानं वस्तु, अभ्रमणम् । अलङ्कारव्यञ्जनास्थलं दर्शयति--जलकेलीति । जलकेलौ श्रीकृष्णेन स्वीयकरदत्तजलेन राधिकामुखचन्द्रं पुनः पुरभिषिच्य स्वीयकरेण पिधीयते च मुच्यते च । ततस्तादृशचन्द्रस्य पिधानमोचनाभ्यां कोकमिथुनस्य संघटनविघटने भवतः । पिधाने रात्रौ विरहिणस्तस्य प्रातः कालभ्रमात्संघटनम्, मोचने चन्द्रोदयविशिष्टसन्ध्याकालभ्रमाद्विघटनम् । कृष्णस्य तादृशकौतुकवर्णनमितम् । पिधानमोचने कृष्णस्यैव करेण नतु राधिकायाछ, तत्करस्य जलकेलितरलत्वे कृष्णमुखस्यैव सिच्यमानत्वसम्भवेन स्वमुखस्य पिधानायोगात् । यद्वा--राधिकारेण पिधानमोचनयोरपि जलसेकद्वारा कृष्णकरप्रयोज्यत्वात्तद्द्वारा कृष्टकरेणैव पिधानमोचने । इत्यादौ रूपकादय इति । अत्र श्लोके मुखे चन्द्ररूपणमादिपदद्वयात्श्लोकान्तरे अलङ्कारान्तरमित्यर्थः । लोचना (लो, इ) एवं रसादेरनुमानागोचरत्वं व्यवस्थाप्य वस्त्वलङ्कारयोरपि व्यङ्ग्ययोस्तद्दर्शयति---यच्चेति । चः पूर्वोक्तसमुच्चये । पर्यवस्यतीत्यत्र दूरस्थितेन इतिशब्देन मम्बन्धः । यदुक्तं महिमभट्टेन तदप्ययुक्तमित्यर्थः । किमुक्तमित्याह---जलकेलीत्यादि । जलकेलीत्यादौ रूपकालङ्कारः । राधिकामुखस्य चन्द्रत्वस्य व्यङ्ग्यत्वाच्चन्द्रदर्शनादर्शनाभायां हि रात्रिसद्भावाभावबुद्ध्या चकवाकयोर्विघनसंघटने भवतः । ********** टीका सम्पूर्णा ********** तथाहि---"अनुमानं नाम पक्षसत्त्वसपक्षसत्त्वविक्षव्यावृत्तत्वविशिष्टाल्लिङ्गल्लिङ्गिनो ज्ञानम् । ************* टीका ************* विज्ञप्रिया (वि, ह) तत्र वस्तुरूपं व्यङ्ग्यमुपक्रम्य तस्यानुमेयतां घटयति---तथा हीति । लिङ्गिनि साध्ये विषये ज्ञानम् । लोचना (लो, ई) कथमनुमेय इत्याह---तथाहीति । नाम प्राकाश्ये । पक्षे पर्वतादौ सपक्षे महानसादौ च विपक्षे जलह्रदादौ व्वावृत्तत्वम् । लिङ्गाद्व्याप्याद्धूमादेः लिङ्गिनि व्यापके वह्न्यादौ । ********** टीका सम्पूर्णा ********** ततश्च वाच्यादसंबद्धोर्ऽथंस्तावन्न प्रतीयते । अन्यथातिप्रसङ्गः स्यात्, इति बोध्यबोधकयोरर्थयोः कश्चित्संबन्धोऽस्त्येव । ************* टीका ************* विज्ञप्रिया (वि, क) लिङ्ग्यस्य त्रिरूपता च साध्यव्याप्तिसत्त्वे एव सम्भवतीति । अतस्तान् दर्शयति--ततश्चेति । असम्बन्धोऽव्याप्यः । अतिप्रसङ्गाव्यापकस्यापि प्रतीत्यापत्तिः । कश्चित्सम्बन्धो व्याप्तिरूपः । लोचना (लो, उ) अत्र प्रकृते, "भ्रम धार्मिकऽ इत्यादौ बोध्यार्ऽथो व्यङ्ग्यो बोधको वाच्यः । ********** टीका सम्पूर्णा ********** ततश्च बोधकोर्ऽथो लिङ्गम्, बोध्यश्च लिङ्गी, बोधकस्य चार्थस्य पक्षसत्त्वं निबद्धमेव । सपक्षसत्त्वविपक्षव्यावृत्तत्वे अनिबद्धे अपि सामर्थ्योदवसेये । तस्मादत्र यद्वाच्यार्थाल्लिङ्गरूपाल्लिङ्गिनो व्यङ्ग्यार्थस्यावगमस्तदनुमान एव पर्यवस्यति" इति । ************* टीका ************* विज्ञप्रिया (वि, ख) बोधकस्य चार्थस्य इति । गोदावरीतीरदेशे भीरुणा धार्मिकेण न भ्रमणीयम्, तत्र सिंहसत्त्वादित्यनुमानेन बोधकार्थः सिंहसत्त्वम् । सामर्थ्यादिति---अव्यभिचारिसहचारादित्यर्थः । पर्यवस्यतीति--यच्च पर्यवस्यतीत्युक्तमित्यर्थः प्रागेव व्याख्यातः । लोचना (लो, ऊ) बोधकस्य चार्थस्य-लिङ्गरूपस्य दृप्तसिंहसद्भावस्य । पक्षे गोदावरीतीरनिकुञ्जरूपे आश्रये सामर्थ्यादवसेय इति न खलु सपक्षसत्त्वविपक्षव्यावृत्तत्वाभावः । लिङ्गात्साध्यावगमः स्यात्--लिङ्गिनः साध्यस्य भीरोरभ्रमणरूपव्यङ्ग्यस्य । ********** टीका सम्पूर्णा ********** तन्न, तथा ह्यत्र "भम अम्मिअ-" इत्यादौ (२४२ पृदृ) गृहे श्वनिवृत्त्या विहितं भ्रमणं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति" इति यद्वक्तव्यं तत्रानैकान्तिको हेतुः । ************* टीका ************* विज्ञप्रिया (वि, ग) दूषयितुं तदभिमतार्थमनुवदति--तन्न तथा हीति । सिंहोपलब्धेरिति--कुलटावाक्योपलब्धसिंहादित्यर्थः । अनुमापयतीत्यत्र कुलटा कर्त्रो । दूषयतितत्रेति । अनैकान्तिको व्यभिचारी । लोचना (लो, ऋ) दूषयति--तन्नेति । तन्न युक्तम् । कुतो न युक्तमित्याह--तथा हीति अत्र--गृहे इति । अयमर्थः--यस्य खलु भीरोर्गृहे श्वनिवृत्त्या भ्रमणं विहितं स कथं संहोपलब्धिस्थाने भ्रमिष्यति । अनैकान्तिकः साध्यव्यभिचारी । ********** टीका सम्पूर्णा ********** भीरोरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण वा गमनस्य संभवात्, पुश्चल्या वचनं प्रामाणिकं न वेति संदिग्धासिद्धेश्च । ************* टीका ************* विज्ञप्रिया (वि, घ) व्यभिचारं ग्राहयति---भीरोरपीति । प्रियानुरागः सिंदवद्देशं प्रविष्टप्रियानुरागः । हेतोः सन्दिग्धासिद्धिमपि दर्शयति--पुंश्चल्या इति । पुंश्चलीवाक्ये प्रामाण्यसन्देहात् । पक्षे गोदावरीतीरे हेतोः सिंहसत्त्वस्य सन्देहात्सान्दिग्धासिद्धिरित्यर्थः । लोचना (लो, ॠ) कुतोऽनैकान्तिक इत्यत आह---भीरोरपीति । प्रियानुरगेण चेत्यनन्तरं भयस्थान इति शेषः । पुंश्चल्या वचनम्--भ्रम धार्मिकेत्यादिवचनम् । किञ्च य खलु वीरः स्पर्शादिशङ्कया शुनो बिभेति स संहसद्भावस्थानं प्रत्युत मृगयादिकुतूहलेन गच्छतीति दर्शनाद्विरुद्धो भ्रमणरूपसाध्यविरुद्धस्य साधनात् । ********** टीका सम्पूर्णा ********** "जलकेलि-" इत्यत्र "य आत्मदर्शनादर्शनाभ्यां चक्रवाकविघटसंघटनकारी स चन्द्र एव" इत्यनुमितिरेवेयमिति न वाच्यम्, उत्त्रासकादावनैकान्तिकत्वात् । ************* टीका ************* विज्ञप्रिया (वि, ङ) "जलकेलिऽ इत्यादौ अलङ्कारस्यानुमेयतामपि हेतोर्व्यभिचाराद्दूषयति---जलकेलीत्यत्रेति । आत्मा दर्शनीयरूपः । उत्त्रासकादाविति । उत्त्रासको हि आत्मनो दर्शनादर्शनाभ्यां चक्रवाकसंघटनविघटनकारी । न चासौ चन्द्र इति व्यभिचारः । आदिपदात्सूर्यपरिग्रहः । सोऽपि तथाविधोऽपि न चन्द्रः । लोचना (लो, ळ) उत्त्रासकः--यस्य करतालदानादिनोत्रासेन पक्षिणो न घटन्ते, तदभावे च संघटन्ते । ********** टीका सम्पूर्णा ********** "एवंविधोर्ऽथ एवंविधार्थबोधक एवंविधार्थत्वात्, यन्नैवं तन्नैवम्" इत्यनुमानेऽप्याभाससमानयोगक्षेमो हेतुः । "एवंविधार्थत्वात्" इति हेतुना एवंविधानिष्टसाधनस्याप्युपपत्तेः । ************* टीका ************* विज्ञप्रिया (वि, च) सामान्यसिद्ध्यव्याप्त्या व्यङ्ग्यस्यानुमेयताप्रदर्शनमपि दूषयितुमाहएवंविधेति । आभासमान आभासौ हेतोरुपलभ्यमानो व्यभिचारः कोकत्रासकवृत्तिः स्वदर्शनादर्शनरूपः । एवंविधार्थत्वादितिहेतुस्तत्तुल्ययोगक्षेमस्तत्तुल्यव्यभिचारः । स हेतुः साध्याभावेन सहचरितत्वेन व्यभिचरतीत्यर्थः । तद्दर्शयति---एवंविधार्थत्वादिति । एवंविधानिष्टार्थस्येति---तथा च एवंविधार्थव्यभिचारी हेतुरित्यर्थः । लोचना (लो, ए) योगक्षेम इतिकर्तव्यता आभासस्य॑ यथा इतिकर्तव्यता कार्यनिष्पादनं तथैवेवंविधार्थत्वादितिहेतोरिति भावः । कुत इत्याह---एवमिति । ********** टीका सम्पूर्णा ********** तथा "दृष्टि हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे-" इत्यादौ (२५० पृदृ) नलग्रन्थीनां तनूल्लिखनम्, एकाकितया च स्त्रोतोगमनम्, तस्याः परकामुकोपभोगस्य लिङ्गिनो लिङ्गमित्युच्यते॑ तच्चात्रैवाभिहितेन स्वकान्तस्नेहेनापि संभवतीत्यनैकान्तिको हेतुः । ************* टीका ************* विज्ञप्रिया (वि, छ) श्लोकान्तरेपि व्यङ्ग्यान्तरस्यानुमेयतां हेतोर्व्यभिचारेण दूषयितुमाह--तथा यद्दृष्टिमिति । स्त्रोतोगमनमित्यत्र स्त्रोतोगमनकथनं चेत्यर्थः । अत्रेत्थमनुमानम्, इयं परकामुकोपभोगेच्छावती नलग्रन्थिना स्तनदारणसम्भावनासत्त्वेऽपि स्त्रोतोगमने एकाकिप्रवृत्तत्वादिति । ग्रन्थकृतस्तु स्तनाघातस्त्रोतोगमनयोः पृथक्कथनेऽप न पृथखेतुद्वयम् । किन्तु हेतुविशेषणमेव तद्द्वयं बोध्यम् । हेतोर्व्याभिचारं दर्शयति---स्वकान्तेति । अपिकारात्तद्भयेनापीति बोध्यम् । लोचना (लो, ऐ) इममेवाभिमतमर्थमुदाहरणेष्वपि हेत्वाभासं दर्शयन् द्रढयतितथेति । हेतुर्वाच्यार्ऽथः । ********** टीका सम्पूर्णा ********** यच्च "निःशेषच्युतचन्दनम्--" इत्यादौ ( ६२ पृ.) दूत्यास्तत्कामुकोपभोगोऽनुमीयते तत्किं प्रतिपाद्यतया दूत्या, तत्कालसंनिहितैर्वान्यैः, तत्काव्यार्थभावनया वा सहृदयैः । ************* टीका ************* विज्ञप्रिया (वि, ज) निः शेषच्युतेत्यादावपि दूत्यास्तत्कामुकोपभोगस्य व्यङ्ग्यस्यानुमेयतां दूषयितुमाह---यच्चेति । ********** टीका सम्पूर्णा ********** आद्ययोर्न विवादः । तृतीये तु तथाविधाभिप्रायविरहस्थले व्यभिचारः । ************* टीका ************* विज्ञप्रिया (वि, झ) आद्ययोर्न विवाद इति---दूतिकर्तृकमनुमानं तावन्न सम्भवत्येव, तस्यास्तदुपयोगस्य प्रत्यक्षसिद्धत्वेन सिद्धसाधनात् । तत्काले सन्निहतजनस्तु यदि न व्यङ्ग्यबोद्धा तदा तस्यानुमानमपि नास्तीत्यतस्तत्रापि नविवादः । यदि तु व्यङ्ग्यबोद्धा तदा तृतीयपक्षे एवान्तर्भाव इत्यर्थः । सामाजिकबोधविषयस्यैव तदास्वाद्यस्य मया विचार्यत्वेन तत्रैवानुमेयत्वादनुमेयत्वविवादात् । तदनुमेयतां दूषयति---तृतीये त्विति । तथाविधाभिप्रायो दूत्यास्तत्कामुकोपभागोभिप्रायः । तद्विरहेणेक्तस्य चन्दनच्यवनादेरुपभोगव्याप्यता नास्तीति तत्रैव व्यभिचार इत्यर्थः । लोचना (लो, ओ) न विवाद इति---न खलु वयं दूत्यास्तत्कलसन्निहितानां वानुमानं निराकुर्मः । तथाविधेति---न खलु, "निः शेषच्युतचन्दनम्ऽ इत्यादिप्रतिपादिकाया अभिप्रायः केनचिन्निश्चिततया विषयीकृतैत्यर्थः । ********** टीका सम्पूर्णा ********** ननु वक्त्राद्यवस्थासहकृतत्वेन विशेष्यो हेतुरिति न वाच्यम् । ************* टीका ************* विज्ञप्रिया (वि, ञ) स्नानादिव्यावृत्तचन्दवनादेर्विशेषणदानेन व्यभिचाराभावोक्तिं दूषयितुमाह---वक्त्राद्यवस्थेति । वक्त्र्यवस्थादिरित्यर्थः । आदिपदात्स्तनाकर्षणचुम्बननखक्षतपरिग्रहः । अवस्था तु रतिक्तिष्टत्वम् । तथा च तादृशावस्थादिसहकृतत्वेन चन्दनच्यवनादिहेतुर्विशेषणीय इत्यर्थः । लोचना (लो, औ) नन्विति---वक्त्री यादृशीमवस्थां प्राप्य तथोक्तवती सावस्था हेतोर्विशेषणीकर्तव्येत्यर्थः । ********** टीका सम्पूर्णा ********** एवंविधव्याप्त्यनुसंधानस्याभावात् । ************* टीका ************* विज्ञप्रिया (वि, ट) समाधत्ते--एवंविधेति । एवंविधविशेषणघटितव्याप्त्यनुसन्धानस्येत्यर्थः । न हि श्लोके तादृशविशेषणमस्ति । व्याप्त्यादिपदादीदृशविशिष्टहेतुपरिग्रहः । ********** टीका सम्पूर्णा ********** किञ्चैवंविधानां काव्यानां कविप्रतिभामात्रजन्मनां प्रामाण्यानावश्यकत्वेन संदिग्धासिद्धत्वं हेतोः । ************* टीका ************* विज्ञप्रिया (वि, ठ) तत्रापि हेतोः सन्दग्धत्वमपि दर्शयति---किञ्चेति । प्रामाण्यानावश्यकत्वेनेति--वक्त्र्या चन्दनच्यवनाद्यकथनेऽपि सम्भाव्यैव कवेस्तदुक्त्यनुवादसम्भवादित्यर्थः । कव्यनूदितवाक्यलब्धचन्दनच्यवनादिना हि सामाजिकैः सम्भोगोऽनुमातव्यः । तच्चन्दनादिकं वक्त्रयुक्तमनुक्तं वेति सन्देहात्सन्दिग्धमित्यर्थः । लोचना (लो, अ) किञ्चेति---सन्दिग्धासिद्धत्वम्---न खुल कविः सिद्धमेवार्थंवर्णयति । ********** टीका सम्पूर्णा ********** व्यक्तिवादिना चाधमपदसहायानामेवैषां पदार्थानां व्यञ्जकत्वमुक्तम्, तेन च तत्कान्तस्याधमत्वं प्रामाणिकं न वेति कथमनुमानम् । ************* टीका ************* विज्ञप्रिया (वि, ड) ननु व्यभिचारिण सन्दिग्धेन वा चन्दनच्यवनादिना कथमुपभोगस्य भवन्मते व्यञ्जनापीत्यत आह---व्यक्तिवादिना चेति । व्यञ्जनावादिनेत्यर्थः । फलबलेन व्यञ्जकत्वसिद्धेस्तथोक्तमित्यर्थः । न ह्यनुमान इव व्यञ्जनायामपि व्यभिचारादिकमङ्गमिति भावः । अनुमानपक्षे अधमसनिनहितप्रेषितत्वे सतीति विशेषणदानमपि न सम्भवतीत्याह---तेन चेति । तेन अधमपदेन उक्तमधमत्वमित्यर्थः । इदमुपलक्षणम् । अधमत्वस्य प्रामाणिकत्वेपि तस्य दूतीगमनेच्छारादित्ये सति तावताप्यनुमानासम्भव इत्यपि बोध्यम् । लोचना (लो, आ) व्यक्तिवादिना व्यञ्जनाव्यापारस्थापनार्थमुद्युक्तेन । अधमपदं न पुनस्तस्याधमस्यान्तिकमित्यत्र स्थितम् । ********** टीका सम्पूर्णा ********** एतेनार्थापत्तिवेद्यत्वमपि व्यङ्ग्यानामपास्तम् । अर्थापत्तेरपि पूर्वसिद्धव्याप्तीच्छामुपजीव्यैव प्रवृत्तेः । ************* टीका ************* विज्ञप्रिया (वि, ढ) व्यङ्ग्यानामर्थापत्तिवेद्यत्वमपि खण्डयति---एतेनार्थापत्तिरिति । व्याप्तिच्छायां व्याप्तिरीतिमव्यभिचरितसहचारमित्यर्थः । लोचना (लो, इ) एतेनेति--एतेनानुमानेहत्वाभासदर्शनेन । कुतः ? इत्याह--- अर्थापत्तेरपीति । पूर्वगृहीतां व्याप्तिच्छायाम् । ********** टीका सम्पूर्णा ********** यथा "यो जीवति स कुत्राप्यवतिष्ठते, जीवति चात्र गोष्ठ्यामविद्यमानश्चैत्रः" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, ण) तादृशं सहचारं दर्शयति--यो जीवतीति । तमुपजीव्य प्रवृत्तामर्थापत्तिं दर्शयति--जीवति चेति । तस्मादेतद्गोष्ठीभिन्नस्थलेऽस्तीत्यर्थापत्तिलभ्योर्ऽथः । तथा च दर्शितोदाहरणेषु हेतोर्व्यभिचारेण व्याप्तिच्छायोपजीवनासम्भवान्नार्थापत्तिरिति भावः । लोचना (लो, ई) यदि खलु पूर्वं जीवतः कुत्रापि स्थानमवगच्छेत् । अर्थपत्तिस्वरूपं हि--दृष्टः श्रुतो वा अन्यथा नोपपद्यते इति, तदर्थकल्पनमर्थापत्तिरिति । तद्भट्टा विवृण्वते--दृष्ट इति । प्रत्यक्षानुमानोपमानार्थापत्त्यभावलक्षणः पञ्चभिः प्रमाणैरुपलब्धः शब्दस्य च प्राधान्यख्यापनार्थं भेदेन निर्दिशति--श्रुत इति । श्रुत इति शब्दलक्षणेन ज्ञातोर्ऽथोर्ऽथविशेषोऽन्यथा नोपपद्यत इति । शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यत इति दर्शनात् । "पीनो देवदत्तो दिवा न भुङ्क्तेऽ इत्यत्र रात्रौ भुङ्क्ते इति वाक्यशेषः कल्प्यते । प्रभाकरगुरुस्त्वाह--दृष्टः श्रुतो वेति । लौकिकीयमनास्थोक्तिः । ततो लोकप्रसिद्ध्योपलब्धिमात्रे वर्तते, न तु विकल्पप्रतिपादन इति । शब्दो हि कल्प्यतेर्ऽथप्रतीत्यै विप्रकृतसाधनं तद्वरमर्थे एव कल्प्यतामिति । तेन भट्टमते श्रुतार्थापत्तौ, रात्रौ भुङ्क्ते । इति शब्दः कल्पते । गुरुमते तु अर्थापत्तौ रात्रिभोजनमर्थ एव । एवमत्र वाक्यविशेषः कल्प्यताम्, मैवम् । गुरुमते तु अर्थापत्तौ रात्रिभोजनमर्थ एव । एवमत्र वाक्यविशेषः कल्प्यताम्, मैवम् । पीनो देवदत्त इत्यादौ रात्रिभोजने, जीवंश्चैत्रोऽत्र गोष्ठ्यां न विद्यत इत्यत्र कुत्राप्यवस्थाने पूर्वानुभव्याप्तिमुपजीव्यैवार्थापत्तेः प्रवृत्तिरिति । व्यङ्ग्यानामनुमानाविषयत्वेन नार्थापत्तिविषयत्वमिति भावः । व्याप्तिश्च साहचर्यनियमः । व्याप्तिशरीरं दर्शयति-यथेति । ********** टीका सम्पूर्णा ********** किञ्चि---वस्त्रविक्रयादौ तर्जनीतोलनेन दशसंख्यादिवत्सूचनबुद्धिवेद्योऽप्ययं न भवति, सूचनबुद्धेरपि सङ्केतादिलौकिकप्रमाणसापेक्षत्वेनानुमानप्रकारताङ्गीकारात् । ************* टीका ************* विज्ञप्रिया (वि, त) सूचना नाम कश्चिद्व्यापारः कैश्चिदुच्यते तद्गम्य एव व्यङ्ग्यार्थः इति मतं दूषयितुमाह---किञ्चेति । दशसंक्यादिवदिति---दशसंख्यादिर्यथा तर्जन्यादितोलनाधीनसूचनाबुद्धिगम्यस्तथा व्यङ्ग्यार्थोऽपीत्यर्थः । सूचनाप्यनुमितावन्तर्भवतीति सिद्धान्तयति---सूचनाबुद्धेरपीति । अनुमानप्रकारता अनुमितस्वरूपता । तथा च यद्यङ्गुलितोलनादौ व्यभिचारशङ्का न भवति तत्रानुमानम् । चन्दनच्यवनादौ तु व्यभिचारग्रहात्सम्भोगादिबुद्धिव्यञ्जनाधीनैवेति भावः । लोचना (लो, उ) अधुना व्यङ्ग्यानामनुमानाविषयत्वेन चेष्टाप्रमाणाविषयत्वमपीत्याह--किञ्चेति । अयं ---व्यङ्ग्यः । संकेतादिलौकिकप्रमाणासापेक्षत्वेनेत्यनेन यत्र यत्रां र्ध्वतर्जनी तत्र तत्र दशंसख्येति पुनर्गृहीतव्याप्तिरुरस्कारवचनम् । ********** टीका सम्पूर्णा ********** यच्च "संस्कारजन्यत्वाद्रसादिबुद्धिः स्मृतिः" इते केचित् । तत्रापि प्रत्यभिज्ञायामनैकान्तिकतया हेतोराभासता । ************* टीका ************* विज्ञप्रिया (वि, थ) रसादिबुद्धेः स्मृतिरूपत्वं संस्कारजन्यत्वेनानुमन्यमानानां मतं दुषयितुमाह---तत्रापीति । इदं चापातत एव॑ सर्वंशे संस्कारजन्यत्वस्य हेतोख्यभिचारात् । किन्तु स्वप्रकाशानन्दस्वरूपस्य रसस्य स्मृतीत्वासम्भव एव दोषः । लोचना (लो, ऊ) स्मृतिर्न च रसादिधीः इतिकारिकापदार्थं विशदयति--यञ्चेति । अनैकान्तिकत्वं सोऽयं देवदत्त इत्यादिज्ञानरूपायाः प्रत्यभिज्ञाया अपि संस्कारजन्यत्वात् ********** टीका सम्पूर्णा ********** "दुर्गालङ्घित-" इत्यादौ (५९ पृ.) च द्वितायार्थो नास्त्येव---इति यदुक्तं महिमभटटेन तदनुभवसिद्धिमपलपतो गजनिमीलिकैव । ************* टीका ************* विज्ञप्रिया (वि, द) द्वितीयार्थो महेशरूपो नास्त्येवेति---बुद्धिविषयो नास्त्येवेत्यर्थः अपलपत इत्यस्य, उपरि, इति शेषः । गजनिमीलिकावज्ञा । लोचना (लो, ऋ) गजनिमीलिकैवेति--पर्यालोचनं विनापि लोकापवादशङ्कया मत्तगजवच्चक्षुषी निमिल्य वचनमित्यर्थः । ********** टीका सम्पूर्णा ********** तदेवमनुभवसिद्धस्य तत्तद्रसादिलक्षणार्थस्याशक्यापलापतया तत्तच्छब्दाद्यन्वयव्यतिरेकानुविधायितया चानुमानादिप्रमाणावेद्यतया चाभिधादिवृत्तित्रयाबोध्यतया च तुरीया वृत्तिरुपास्यैवेति सिद्धम् । लोचना (लो, ॠ) एतद्विविच्योक्तमत्रैव द्वितीयपरिच्छेदे । उपसंहरति--तदेवमिति । ********** टीका सम्पूर्णा ********** इयं च व्याप्त्याद्यनुसन्धानं विनापि भवतीत्यखिलं निर्मलम् । लोचना (लो, ळ) न च शब्दसमर्पितस्य विभावादेर्ज्ञानस्यैव रसादेर्जनकत्वात्काव्यमत्र साक्षान्न हेतुत्वेन व्याप्रियत इति वाच्यम्॑ स्वाङ्गमव्यवधायकमितिन्यायेन विभावाद्विभावनस्यावान्तरव्यापारीकारणेन काव्यस्यैवास्वादो भावकत्वात्यथा स्वार्थस्य ज्ञानद्वारेण तत्संसर्गं भावयतां पदानामेव करणत्वाभायुपगमो भट्टनैयायिकादीनाम् । किञ्च सद्वारकरणमिति न्यायेनान्तरालवर्तिव्यापारान्तरविरहादसम्भाव्यं विभावादिसंवलनज्ञानस्यास्वादं प्रति कारणत्वम् । नन्वेवं व्याप्त्याद्यनुसन्धानमन्तरेणाकस्माद्वाच्यार्थस्यावगतौ कथं नातिप्रसङ्ग इत्याशङ्क्याह--इयं चेति । उत्पत्तिमन्तरेणापि अनुभवसिद्धाया व्यङ्ग्यार्थप्रतीतेरन्यार्थोपपत्त्यैव । ********** टीका सम्पूर्णा ********** तत्किंनामिकेयं वृत्तिरित्युच्यते--- सा चेयं व्यञ्जनानाम वृत्तिरित्युच्यते बुधैः । रसव्यक्तौ पुनर्वृत्तिं रसनाख्यां परे विदुः ॥ ५.५ ॥ एतच्च विविच्योक्तं रसनिरूपणप्रस्ताव इति सर्वमवदातम् । ************* टीका ************* विज्ञप्रिया (वि, ध) रसव्यञ्जनाया रसनेत्यपि नाम केचिदाहुरित्याह---रसव्यक्तौ पुनरिति । रसवृत्तौ रसबोधकवृत्तावित्यर्थः । इत्थं व्यङ्ग्यार्थबोधस्य मानसबुद्धिरूपत्वमात्रं न दूषितम् । तत्रायमभिप्रायः---मनसस्तावद्बाहः स्वातन्त्र्यमेव नास्ति । स्मृत्युपनयसहकारेण बोधनं तु व्यङ्ग्यार्थस्य पूवानुभवाभावेन स्मरणासम्भावनयैव निरस्तम् । नह्युक्तानन्दरूपो रसो दूत्यादेः कामुकसम्भोगादिरूपोर्ऽथो वा पूर्वमनुभूतः । इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्यकृतायां साहित्यदर्पणटीकायां पञ्चमपरिच्छे लोचना (लो, ए) व्यञ्जनाव्यापारकल्पनं श्रीश्रीमदानन्दवर्धनाचार्यस्येतिभावः । रसस्य रसनव्यापारप्रकाशत्वं स्मारयति--रसनेति । रसनिरुपणप्रस्तावे, सत्त्वोद्रेकादित्यादिकारिकाव्याख्यायाम् । सर्वम्--व्यञ्जनाव्यापारस्थापकं प्रमेयजातम् । इति साहित्यदर्पणलोचने व्यञ्जनाव्यापारस्थापनो नाम पञ्चमः परिच्छेदः ********** टीका सम्पूर्णा ********** इति सहित्यर्पणो व्यञ्जनाव्यापारनिरूपणो नाम पञ्चमः परिच्छेदः । ___________________________________________________ षष्ठः परिच्छेदः एवं ध्वनिगुणीभूतव्यङ्ग्यत्वेन काव्यस्य भेदद्वयमुक्त्वा पुनर्दृश्यश्रव्यत्वेन भेदद्वयमाह-- दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम् । ************* टीका ************* विज्ञप्रिया (वि, क) श्रव्यं काव्यमुक्त्वा नाट्यात्मकं दृश्यकाव्यं वक्तुमाह--एवं---ध्वनीति । लोचना (लो, अ) परिच्छेदसङ्गतिमाह---एवमिति । ********** टीका सम्पूर्णा ********** दृश्यं तत्राभिनेयं-- ************* टीका ************* विज्ञप्रिया (वि, ख) अभिनेयं नाट्यम् । लोचना (लो, आ) दृश्यं दर्शनीयप्रधानम् । श्रव्यं श्रोतव्यमात्रम् । अभिनेयं नटैरङ्गादिभिरिति शेषः । ********** टीका सम्पूर्णा ********** तस्यरूपकसंज्ञाहेतुमाह-- तद्रूपारोपात्तुरूपकम् ॥ ६.१ ॥ लोचना (लो, इ) अन्यस्य रामादेः रूपेणान्यान्नटान् रूपयतीति रूपकम् । ********** टीका सम्पूर्णा ********** तद्दृश्यं काव्यं नटे रामादिस्वरूपारोपाद्रूपकमित्युच्यते । ************* टीका ************* विज्ञप्रिया (वि, ग) नाट्यं रूपकमिति पर्यायाद्रूपसंज्ञाहेतुं वक्तुमाह---तस्येति रामादिस्वरूपारोपणादिति वेशाभिनयाभ्यां तदारोपस्यानेन बोधनादित्यर्थः । ********** टीका सम्पूर्णा ********** कोऽसावभिनाय इत्याह-- भवेदभिनयोऽवस्थानुकारः स चतुर्विधः । आङ्गिको वाचिकश्चैवमाहार्यः सात्त्विकस्तथा ॥ ६.२ ॥ ************* टीका ************* विज्ञप्रिया (वि, घ) तदारोपहेतुत्वेन प्राप्तमभिनयं पृच्छाते---कोऽसाविति । आहार्य इति । आङ्गिकवाचिकौ द्वावप्याहार्यो । सात्विकः च तेन चातुर्विध्यम् । तत्र नाट्यस्य सत्त्वानुद्रेकात्रसावेशाभावेन क्रियमाणवाहार्य्यौ । सत्वोद्रेकाद्रसावेशेन क्रियमाणै सात्त्विकौ । लोचना (लो, ई) अङ्गकृतः आङ्गिकः । वचसा वाचिकः । आहार्य्यं मुकुटकेयूरादिरचना । सात्त्विकः स्तम्बस्वेदादिः । ********** टीका सम्पूर्णा ********** नटैरङ्गादिभी रामयुधिष्ठिरादीनामवस्थानुकरणमभिनयः । ************* टीका ************* विज्ञप्रिया (वि ङ) तच्चतुः साधारणमभिनयलक्षणमाह---नटैरङ्गादिभिरिति । अङ्गं शरीरम् । आदिपदात्वचनपरिग्रहः । अवस्थास्तदीया धर्माः मनः कथावाक्यपाण्डुत्वादिरूपवेशाधारणः तस्या अनुकरणं ताद्रूप्येण प्रत्यायनम् । ********** टीका सम्पूर्णा ********** रुपकस्य भेदानाह-- नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः । ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ॥ ६.३ ॥ किञ्च--- नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् । प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा ॥ ६.४ ॥ संलापकं श्रीगदितं शिल्पकं च विलासिका । दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥ ६.५ ॥ अष्टादश प्राहुरुपरूपकाणि मनीषिणः । विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम् ॥ ६.६ ॥ ************* टीका ************* विज्ञप्रिया (वि, च) दशविधं रूपकमुत्त्कीर्त्याष्टादशविधरूपकमुत्कीर्त्तयति । किञ्चनाटिकेति । नाट्यात्मकमित्येकम् । विना विशेषमिति---तदुक्तस्तत्तद्विशेष एव भेदकः । तं विहाय सर्वेषां लक्ष्म लक्षणं नाटकवदेवेत्यर्थः । लोचना (लो, उ) लक्ष्म वक्ष्यमाणं लक्षणम् । ********** टीका सम्पूर्णा ********** सर्वेषां प्रकरणादिरूपकाणां नाटिकाद्युपरूपकाणां च । तत्र--- नाटकं ख्यातवृत्तं स्यात्पञ्चसंधिसमन्वितम् । ************* टीका ************* विज्ञप्रिया (वि, छ) नाटकलक्षणमाह । नाटकमिति---ख्यातेतिवृत्तादयः स्वयमेव व्याख्यायन्ते ********** टीका सम्पूर्णा ********** विलासर्द्ध्यादिगुणवद्युक्तं नानाविभूतिभैः ॥ ६.७ ॥ सुखदुःखसमुद्भूति नानारसनिरन्तरम् । पञ्चादिका दशपरास्तत्राङ्काः परिकीर्त्तिताः ॥ ६.८ ॥ प्रख्यातवंशो राजर्षिर्धोरोदात्तः प्रतापवान् । दिव्योऽथ दिव्यादिव्यो वा गुणावान्नायको मतः ॥ ६.९ ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) [तेxत्मिस्सिन्गिन् प्रिन्तेदेद्.] ********** टीका सम्पूर्णा ********** एक एव भवेदङ्गी शृङ्गारो वीर एव वा । ************* टीका ************* विज्ञप्रिया (वि, झ) एव एवेति । नाटकेऽवान्तरनानारससम्भवेऽपि तेऽङ्गान्येव । समस्तरसनिर्वाहः शृङ्गारवीरयोरेक एव त्वङ्गी प्रधानमित्यर्थः । ********** टीका सम्पूर्णा ********** अङ्गमन्ये रसाः सर्वे कार्यो निर्वहणोऽद्भुतः ॥ ६.१० ॥ चत्वारः पञ्च वा मुख्याः कार्यव्यापृतपूरुषाः । गोपुच्छाग्रसमाग्रं तु बन्धनं तस्य कीर्तितम् ॥ ६.११ ॥ लोचना (लो, ऊ) यथोद्देशं लक्षणमाह--नटकामेति । यदुक्तं कविना । नानाविभूतिसमयुक्तमृद्धिविलासादिभिर्गुणैश्चैवेति । निर्वहणेऽन्तिमसन्धौ चत्वारः पञ्च वा इत्युपलक्षणमात्रं कार्यव्यापारिणां प्रयत्ने नाल्पत्वं विधेयम्, बहुत्वेऽभिनयदुः खावहत्वात् । ********** टीका सम्पूर्णा ********** ख्यातं रामायणादिप्रसिद्धं वृत्तम् । यथा--रामचरितादि । सन्धयो वक्ष्यन्ते । नानाविभूतिभिर्युक्तमिति महासहायम् । सुखदुःखसमुद्भूतत्वं रामयुधिष्ठिरादिवृत्तान्तेष्वभिक्तम् । राजर्षयो दुष्यन्तादयः । दिव्याः श्रीकृष्णादयः । दिव्या दिव्यः, यो दिव्योऽप्यात्मनिनराभिमानी । यथा श्रीरामचन्द्रः । गोपुच्छग्रसमाग्रमिति "क्रमेणाङ्काः सूक्ष्माः कर्तव्याः" इति केचित् । लोचना (लो, ऋ) सूक्ष्माः स्वल्पाः । ********** टीका सम्पूर्णा ********** अन्ये त्वाहुः--"यथा गोपुच्छे केचिद्वाला ह्रस्वाः केचिद्दीर्घास्तथेह कानिचित्कार्याणि मुखसंधो समाप्तानि कानिचित्प्रतिमुखे । एवमन्येष्वपि कानिचित्कानिचित्" इति । प्रत्यक्षनेतृचरितो रसभावसमुज्ज्वलः । भवेदगूढशब्दार्थः क्षुद्रचूर्णकसंयुतः ॥ ६.१२ ॥ लोचना (लो, ॠ) कोऽसावङ्क इत्याह---प्रत्यक्ष इति । नेतारौ नायको नायिका च । तयोरेकस्य द्वयोर्वा चरितं तत्र प्रत्यक्षं दर्शनीयमिति भावः । चूर्णकानां क्षुद्रत्वं झटिति बोधफलं विच्छिन्नावनान्तरैकार्थत्वादि अन्तिमाङ्कवर्जं न्यायसिद्धम् । ********** टीका सम्पूर्णा ********** विच्छिन्नावान्तरैकार्थः किञ्चित्संलग्नबिन्दुकः । युक्तो न बहुभिः कार्यैर्बोजसंहृतिमान्न च ॥ ६.१३ ॥ नानाविधानसंयुक्तो नातिप्रचुरपद्यवान् । लोचना (लो, ळ) तत्र सर्वार्थविच्छेदात् । पद्यानां प्राचुर्यमभिनयदुः खावहत्वाथेयम् । ********** टीका सम्पूर्णा ********** आवश्यकानां कार्याणामविरोधाद्विनिमितः ॥ ६.१४ ॥ नानेकदिननिर्वर्त्यकथया संप्रयोजितः । आसन्ननायकः पात्रैर्युतस्त्रिचतुरैस्तथा ॥ ६.१५ ॥ दूराह्वानं वधो युद्धं राज्यदेशादिविप्लवः । विवाहो भोजनं शापोत्सर्गौ मृत्यू रतं तथा ॥ ६.१६ ॥ दन्तच्छेद्यं नखच्छेद्यमन्यद्व्रीडाकरं च यत् । शयनाधरपानादि नगराद्यवरोधनम् ॥ ६.१७ ॥ स्नानानुलेपने चैभिर्वर्जितो नास्तिविस्तरः । ************* टीका ************* विज्ञप्रिया (वि, ञ) ख्यातं रामायणदीति---कार्यं निर्वहणेऽद्भुतमिति यदुक्तं तत्तत्प्रकीणार्तसमुच्चयीकरणरूपे निर्वहणेऽद्भुतं कार्यमित्यर्थः । निर्वहणसन्धिर्हि नानास्थले प्रकीर्णर्थानां वैशिष्ट्यरूपमैकात्म्यमिति वक्ष्यते । सन्धयो वक्ष्यन्ते । तत्रैकेनैव प्रयोजनेनान्वितानां कथांशानामवान्तरैकार्थसंबन्ध इति सन्धिसामान्यलक्षणम् । तत्र च एकेनैकेनेत्यर्थः । तत्र इतिवृत्तस्योत्साहसहितबीजसमुत्पत्तिर्मुखसन्धिः । इतिवृत्तमभिनेतव्यप्रसङ्गः । बीजं तदङ्कुरः तस्यैव यत्नयुक्त उद्भेदः प्रतिमुखसन्धिः । ह्रासोन्मेषवानुद्देश्यप्राप्त्याशायुक्तः फलप्रधानोपायस्योद्भेदो गर्भसन्धिः । गर्भसन्धितोरधिकतया उद्भिन्नो मुख्यफलोपायः शापादिना विघ्नितो विमर्षसन्धिः । बीजवतां प्रकीर्णनांसकलसन्ध्युक्तार्थानामेकार्थताप्रापणं निर्वहणसन्धिः । अयमुपसंहृतिसन्धिरित्युच्यते । एते पञ्च सन्धयः । महासहायमति । रामादेः सुग्रीवादयो महासहायाः । नायकः प्रधानपात्रम् । पञ्चाधिकदशपरास्तत्राङ्का इत्युक्तत्वात्परिच्छेदरूपस्याङ्कस्य स्वरूपमाह---प्रत्यक्षेति । प्रत्यक्षनेत्रेति । अङ्क इति कीर्त्तित इत्यग्रेन्वयः । नेता नायकः, तच्चरितं प्रत्यक्षं यत्र तादृशः । रसभावेति । भावो नायकनायकयोराकूतम् । क्षुद्रचूर्णकमदीर्घसमासं संस्कृतम् । विच्छिन्नेति । व्यापकप्रसङ्गस्य एवदेशरूपोर्ऽथो विच्छिन्नसमापितो यत्र तादृशः । किञ्चित्संसग्नबिन्दुक इति । अवान्तरार्थविच्छेदेऽपि प्रसङ्गान्तरोक्त्याकाङ्क्षोत्थापकं वस्तु बिन्दुसंज्ञकम् । "अवान्तरार्थविच्छेदे बिन्द्वविच्छेदकारणम्"इति वक्ष्यमाणत्वात् । किञ्चित्तद्वानित्यर्थः । बीजमभिनेतव्यप्रसङ्गस्याङ्कुर इत्यर्थः । नच तत्संहृतिमान् तद्विच्छेदवान् । अङ्केऽभिनेतव्यवस्तुनां निषेधमाह---दूराह्वानमिति । दूरस्थजनस्याह्वानमित्यर्थः । भोजनमन्नभोजनम् । दन्तच्छेद्यनखच्छेद्ययोर्वस्तुनोरपि भक्षणनिषेधः । तदपि नाभिनेतव्यमित्यर्थः । एषामभिनयः सदस्यानाममङ्गलमित्य भिप्रायः । लोचना (लो, ए) नानेकेत्यादिना---एकदिने कथैवाङ्केऽभिनेया इति त्रिचतुरैरिति पूर्ववदुपलक्षणम् । दूराह्वानमित्यादिभिर्वर्जित इति सम्बन्धः । वूधयुद्धादिकञ्च यस्य कस्यचित्मुखेनान्येन वा कविप्रतिभोत्थितेन प्रकारेण दर्शनीयम् । तथार्थेपक्षेपकैरिति वक्ष्यते । ********** टीका सम्पूर्णा ********** देवीपरिजनादीनाममात्यवणिजमपि ॥ ६.१८ ॥ प्रत्यक्षचित्रचरितैर्युक्तो भावरसोद्भवैः । ************* टीका ************* विज्ञप्रिया (वि, ट) देवीपरिजनादीनां प्रत्यक्षचित्रचरितैर्युक्त इत्यन्वयः । भावरसोद्भवैरिति । भावो लीला रसो वैदग्ध्यम् । तेन रसभावसमुज्ज्वल इत्यनेन न पौनरुक्त्यम् । ********** टीका सम्पूर्णा ********** अन्तनिष्क्रान्तनिखिलपात्रोऽङ्क इति कीर्त्तितः ॥ ६.१९ ॥ बिन्द्वादयो वक्ष्यन्ते । आवश्यकं संध्यावन्दनाहि । ************* टीका ************* विज्ञप्रिया (वि, ठ) कन्ध्यावन्दनादीति । रसान्तरप्रसक्तस्य नायकस्येति बोध्यम् । ********** टीका सम्पूर्णा ********** अङ्कप्रस्तावाद्गर्भाङ्कमाह- अङ्कोदरप्रविष्टो यो रङ्ग द्वारामुखादिमान् । अङ्कोऽपरः स गर्भाङ्कः सबीजः फलवानपि ॥ ६.२० ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) गर्भाङ्कः प्रधानाङ्कमध्येऽवान्तरविच्छेदरूपोऽपरोऽङ्कस्तल्लक्षणमाह--अङ्कोदरेति । प्रथमतोऽभिनयेन नटप्रवेशो रङ्गद्वारम् । तद्वक्ष्यति "यस्मादभिनयात्पूर्वम्"इत्यादिनात्र चाभिनयो नाट्यवस्तुप्रदर्शनम् । गर्भाङ्कः प्रथमाङ्क एवेति नियमाभावाताह--रङ्गद्वारामुखादीति । आमुखं प्रस्तावना तल्लक्षणमग्रे वक्ष्यते । रङ्गद्वारामुखे प्रथमाङ्के । आदिपदात्वक्ष्यमाणलक्षणकशुद्धसंकीर्णविष्कम्भकद्वयस्यप्रवेशकस्य च परिग्रहः । वक्ष्यते हि---वृत्तवर्त्तिष्यमाणकथांशप्रदर्शकोभिनयो विष्कम्भकः । सच मध्यविधजनप्रवर्त्तितः शुद्धः । मध्यनीचाभ्यां प्रवर्त्तितः संकीर्णः । नीचजनमात्रप्रवर्त्तितः प्रवेशकः । तेषान्तु सकलाङ्क एव सम्भवः । अङ्कोदर इति । मुख्यनाटकमध्ये केनापि पात्रेण नाटकान्तरप्रदर्शनं गर्भाङ्क इत्यर्थः । तत्प्रदर्शनफलमाह---सबीज इति तत्प्रदर्शनात्,मुख्यनाटकभिनेतव्यार्थस्याङ्कुरफलयोर्लाभात्तद्द्वयवानित्यर्थः । ********** टीका सम्पूर्णा ********** यथा बालरामायणो रावणं प्रति कोहलः--- "श्रवणैः पेयमनेकैर्दृश्यं दीर्घैश्च लोचनैर्बहुभिः । भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणम्" ॥ इत्यादिना विरचितः सीतास्वयंवरो नाम गर्भाङ्कः । ************* टीका ************* विज्ञप्रिया (वि, ढ) तं गार्भाङ्कं दर्शयति---यथा बालरामायण इत्यादि---तत्र हि केनापि कविना निबद्धं श्रवणैरित्यादिगुणयुक्तं सीतस्वयम्वरं नाम नाट्यं कञ्चुकिना रावणे निवेदितम् । तच्छवणआत्सीताहरणकनकमृगरामक्रोधरूपबीजस्य सीताहरणरूपकस्य च सूचनात्तद्द्वयवत् । इत्यादिना विरचित इति । इत्यादिना दर्शितः केनापि विरचित इत्यर्थः । कञ्चुकिवाक्येन तद्विरचनाभावात् । लोचना (लो, ऐ) नृत्यपात्रभूतोऽपि रावणोऽस्य गर्भाङ्कस्य नटान्तरैरभिनेयस्य द्रष्टा । ********** टीका सम्पूर्णा ********** तत्र पूर्वं पूर्वरङ्गः सभापूजा ततः परम् । कथनं कविसंज्ञादेर्नाटकस्याप्यथामुखम् ॥ ६.२१ ॥ ************* टीका ************* विज्ञप्रिया (वि, ण) प्रसङ्गतो गर्भाङ्कमुक्त्वा प्रकृतनाटके यद्यदभिनेतव्यं तदाह---तत्रपूर्वमिति---पूर्वरङ्गश्च नटाभिनयरूपरङ्गद्वारादिसूत्रधारनिष्कामणान्तः क्रियाकलापः नाटकस्येति---नाटकसंज्ञाया अपि कथनमित्यर्थः । लोचना (लो, ओ) संज्ञादीति--आदिशब्दात्गोत्रादिः । नाटकस्यापि संज्ञास्वरूपादिकथनमिति सम्बन्धः । ********** टीका सम्पूर्णा ********** तत्रेति नाटके । यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥ ६.२२ ॥ प्रत्याहारादिकान्यङ्गान्यस्य भूयांसि यद्यपि । तथाप्यवश्यं कर्तव्या नान्दी विन्घोपशान्तये ॥ ६.२३ ॥ ************* टीका ************* विज्ञप्रिया (वि, त) अस्य पूर्वरङ्गरूपसंज्ञाव्युत्पत्तिमाह---यन्नाट्येति । नाट्यवस्तुनो अभिनेतव्येति वृत्तरूपवस्तुनो रामायणादेः । कुशीलवाश्च सूत्रधारादिनटाः । प्रत्यहारादीति--सूत्रधारनटादीनां क्रियाविशेषाः प्रत्याहारादयः । लोचना (लो, औ) प्रत्याहारादिकान्यङ्गानि रङ्गविघ्नशान्त्यर्थं नटमात्रकर्त्तव्यान्याकरेषु बोद्धव्यानि । कविकर्त्तव्यत्वाभावात्नेह लक्ष्यन्ते । ********** टीका सम्पूर्णा ********** तस्याः स्वरूपमाह-- लोचना (लो, अ) अस्या नान्द्याः । ********** टीका सम्पूर्णा ********** आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥ ६.२४ ॥ लोचना (लो, आ) आशीरिति । देवद्विजनृपादीनामाशीराशंसा तत्प्रतिपादकेनवचनेन युक्ता । नाटकादिषु नित्यमवश्यं प्रयुज्यते, नत्वस्याः कदाचित्कत्वस्थितिः । नान्दीति नादिधातोः सिद्धा । ********** टीका सम्पूर्णा ********** माङ्गल्यशङ्खचन्द्राब्जकोककैरवशंसिनी । पदैर्युक्तादूदशभिरष्टाभिर्वा पदैरुत ॥ ६.२५ ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) नान्दीसंज्ञाव्युत्पत्तिमाह---आशीर्वचनेति । आशंसानुरूपा समृद्धिर्नान्दी । नान्दिस्वरूपपदव्युत्पत्तौ नान्दी समृद्धिरिति चोच्यते इति स्तुतिवचनसंयुक्ता नान्दी यस्मात्प्रवर्त्तते सभासत्सु श्राव्यते । अतस्तद्वचनमेव तत्सम्बन्धान्नान्दी । देवद्विजनृपादीनामाशीर्वचनेत्यन्वयः । एतादृशनान्दीकथनञ्च न मुमेः तन्मते रङ्गद्वारमेव नान्दी । किन्तु मुनिभिन्नानां कारिकाकृतामेवेदृशनान्दीकथनमित्यग्रे व्यक्तीभविष्यति । यद्यद्वस्त्वात्मिका सा तत्तदाह---मङ्गल्येति । एषामन्यतरदेव शंसनीयमित्यर्थः । पदैः द्वादशभिरिति । अत्र चपदं श्लोकपादो विभक्त्यन्तं पदञ्च । यथासम्भवं विवक्ष्यते । तदन्येतरैर्युक्तेत्यर्थः । लोचना (लो, इ) उतेत्यनेन क्वचित्पदैरष्टभिर्द्वादशभिर्वा युता । ********** टीका सम्पूर्णा ********** अष्टपदा यथा अनर्घराघवे--"निष्प्रत्यूहम" इत्यादि । द्वादशपदा यथा मम तातपादानां पुष्पमालायाम्--- ************* टीका ************* विज्ञप्रिया (वि, द) अष्टपदा अनर्घराघवे इति । अत्र निष्प्रत्यूह इत्यादि विरमति महाकल्प इत्यादि श्लोकद्धयाष्टपादैरष्टपदत्वम् । नच निष्प्रत्यूहमुपास्महे भगवतः कौमौदकीलक्षणः कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने । याभ्यामर्द्धविबोधमुग्धमधुरश्रीरर्द्धनिद्रायितो नाभिपल्लवपुण्डरीकमुकुलः कम्बोः सपत्नीकृतः ॥ इत्यत्र विभक्त्यन्तपदानां द्वादशत्वप्यस्ति, तत्कथमष्टपदत्वं दर्शितमिति वाच्यम् । उभयसत्त्वेऽपि अष्टपदत्वानपायात्तद्दर्शनौचित्यात्व्याख्यातम् । अष्टपदत्वासम्भवे विभक्त्यन्तपदरूपद्वादशपदवतीं नान्दीमुदाहरति । ********** टीका सम्पूर्णा ********** शिरसि धृतसुरापगे स्मरारावरुणमुखेन्दुरुचिर्गिरीन्द्रपुत्री । अथ चरणयुगानते स्वकान्ते स्मितसरसा भवतोऽस्तु भूतिहेतुः ॥ एवमन्यत्र । एतन्नान्दीति कस्यचिन्मतानुसारेणोक्तम् । वस्तुतस्तु "पूर्वरङ्गस्य रङ्गद्वाराभिधानमङ्गम्" इत्यन्ये । ************* टीका ************* विज्ञप्रिया (वि, ध) एतन्नान्दीति । आशीर्वचनरूपा नान्दीत्यर्थः । रङ्गविघ्नोपशान्तये इत्यनेन पूर्वङ्गस्य रङ्गविघ्नोपशान्तफलत्वस्योक्तत्वात्तथाप्यवश्यं कर्तव्या नान्दी विध्नोपशान्तये इति तदर्थान्मुनीतरनाट्याकारिकाकृतः कस्यचिन्मताभिप्रायेणोक्तम् । वस्तुतस्तु पूर्वरङ्गस्य रङ्गद्वारमेवाङ्गं नतु नान्दीत्यन्ये आहुरित्यर्थः । ********** टीका सम्पूर्णा ********** यदुक्तम्--- "यस्मादभिनयो ह्यत्र प्राथम्यादवतार्यते । रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम्" ॥ इति । उक्तप्रकारायाश्च नान्द्या रङ्गद्वारात्प्रथमं नटैरेव कर्तव्यतया न महर्षिणा निर्देशः कृतः । ************* टीका ************* विज्ञप्रिया (वि, न) रङ्गद्वारस्याङ्गदर्शिकां कारिकां दर्शयति--यस्मादभिनयो ह्यत्रेति । प्राथम्यादित्याशीर्वचनतोऽपि प्राथम्यादित्यर्थः । वागङ्गेति । वागभिनयात्मकमङ्गाभिनयात्मकमित्यर्थः । अत्र प्राथम्यादित्यनेन पूर्वरङ्गाङ्गत्वं रङ्गद्वारस्य दर्शितम् । नतु नान्द्याइति भावः । तस्याः पूर्वरङ्गानङ्गत्वे महर्षेस्तथात्वाप्रदर्शनमपि साधकमित्याह । उक्तप्रकारया इति । द्वादशपदाष्टपदप्रकाराया इत्यर्थः । महर्षिणा नान्दीमांत्रस्यैवानिर्द्दिष्टत्वात् । उक्तकाराया अपि तस्या अनिर्द्देशः नटैरेवेति । नाट्येऽवश्यं नान्दी कर्त्तव्या इति महर्षिभिन्नानां मतानुसारिभिर्नटैरेवेत्यर्थः । नतु महर्षिमतानुसारिभिरित्यर्थः । महर्षिणा तदनिर्द्देशात्तदाह--न महर्षिणेति । महर्षिण तदनिर्देशे तस्या द्वादशपदत्वादिविशेषणव्यभिचारे हेतुरित्याह---कालिदासादीति । ********** टीका सम्पूर्णा ********** कालिदासादिमहाकविप्रबन्धेषु च--- लोचना (लो, ई) एतदिति । एतन्नाटकादेः प्रथमं पादम् । कस्यचित्कोलाहलादेः । नटैरेव नर्त्तकैरेव काव्यत्वान्तः पातित्वाभावातित्यर्थः । ********** टीका सम्पूर्णा ********** वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः । अन्तर्यश्च मुमुक्षुभिनियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निः श्रेयसायास्तु वः ॥ लोचना (लो, उ) वेदान्तेति । यथार्थाक्षर ईश्वरशब्द ईशिधातेः सिद्धत्वादैश्वर्य्ययोगरूढरूपोर्ऽथस्तस्मिनेव तात्त्विक इत्यर्थः । ********** टीका सम्पूर्णा ********** एवमादिषु नान्दीलक्षणायोगात् । ************* टीका ************* विज्ञप्रिया (वि, प) वेदान्तेषु इति । स स्थाणुर्महेशो वा युष्माकं श्रेयसेऽस्तु इति अन्वयः । एकपुरुषं प्रधानं पुरुषम् । रोदसी द्यावापृथिव्यौ । अभिन्नविषयोऽन्यत्राप्रवृत्तिः । अनन्यविषय इति क्वचित्पाठः । अक्षरमत्र पदम् । वर्णस्यार्थाभावेन यथार्थाभावात् । अर्थश्च ईशऐश्वर्य्ये इति कर्त्तृविहितवरप्रत्ययान्तः धात्वर्थः । प्राणदयः प्राणपानादयः पञ्चवायव इत्यर्थः । अन्तर्नियमितोक्तौ मुमुक्षुभिर्यो मृग्यते ध्यायते । नान्दीलक्षणेकति । द्वादशत्वाष्टपदत्वाभावेन तल्लक्षणभावादित्यर्थः । ********** टीका सम्पूर्णा ********** उक्तं च---"रङ्गद्वारमारभ्य कविः कुर्यात्-ऽइत्यादि । अत एव प्राक्तनपुस्तकेषु "नान्द्यन्ते सूत्रधारः" इत्यनन्तरमेव "वेदान्तेषु-" इत्यादि श्लोकले(लि) खनं दृश्यते । यच्च पश्चात्"नान्द्यन्ते सूत्रधारः" इति ले (लि) खनं तस्यायमभिप्रायः---नान्द्यन्ते सूत्रधार इदं प्रयोजितवान्, इतः प्रभृति मया नाटकमुपादीयत इति कवेरभिप्रायः सूचित" इति । ************* टीका ************* विज्ञप्रिया (वि, फ) तथा च रङ्गद्वारमेव नान्दी । सैवावश्यं कर्त्तव्येति दर्शयतिउक्तञ्चेति । उक्तमत्र महर्षिणेति बोध्यम् । अत एव तत्र रङ्गद्वाररूपैव नान्दी महर्षेरभिमता । तस्या एवादौ सूत्रधारेण कर्त्तव्यत्वादेवेत्यर्थः । अत्र च नन्द्यन्ते रङ्गद्वाररूपनान्द्यन्त इत्यर्थः । यच्च पश्चादिति । वेदान्तेषु इत्यादिश्लेकस्य पश्चादित्यर्थः । नान्द्यन्ते रङ्गद्वाररूपनान्द्यन्ते सूत्रधार इदं वेदान्तेषु इत्यादि प्रयोजितवान् । इतः परं मया कविना नाटकमुपादीयते । इत्येवं कवेरभिप्रायो नान्द्यन्त इत्यादिना कविनैव सूचित इत्यर्थः । लोचना (लो, ऊ) नान्दीलक्षणं समनन्तरोक्तप्रकारम् । यञ्च पश्चादिति । वेदान्तेषु इत्यादि पदानन्तरं ततः श्लोकात् । ********** टीका सम्पूर्णा ********** पूर्वरङ्गं विधायैव सूत्रधारा निवर्तते । प्रविश्य स्थापकस्तद्वत्काव्यमास्थापयेत्ततः ॥ ६.२६ ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) पूर्वरङ्गानन्तरकृत्यमाह---पूर्वरङ्गमिति । स्थापकः सूत्रधारसदृशं नटान्तरम् । तद्वदिति । सूत्रधारवदित्यर्थः । काव्यमत्नाटकरूपम् । लोचना (लो, ऋ) पूर्वरङ्ग इति । एवं प्रत्याहारमारभ्य कविकर्त्तव्यरूपरङ्गद्वारपर्य्यन्ताङ्गमध्यमिति शेषः । ********** टीका सम्पूर्णा ********** दिव्यमर्त्ये स तद्रूपो मिश्रमन्यतरस्तयोः । सूचयैद्वस्तु बीजं वा मुखं पात्रमथापि वा ॥ ६.२७ ॥ ************* टीका ************* विज्ञप्रिया (वि, भ) दिव्यमर्त्येषु इत्यादिकं स्वयमेव व्याख्यास्यति । दिव्यं मर्त्त्यं चेति क्वचित्पाठः । लोचना (लो, ॠ) मिश्रं दिव्यमर्त्त्याभ्यामिति, वृत्ताभ्यामित्यर्थः । ********** टीका सम्पूर्णा ********** काव्यार्थस्य स्थापनात्स्थापकः । तद्वदिति सूत्रधारसदृशगुणाकारः । इदानीं पूर्वरङ्गस्य सम्यक्प्रयोगाभावादेक एव सूत्रधारः सर्वं प्रयोजयतीति व्यवहारः । स स्थापको दिव्यं वस्तु दिव्यो भूत्वा, मर्त्यं मर्त्यो भूत्वा, मिश्रं च दिव्यमर्त्ययोरन्यतरो भूत्वा सूचयेत् । वस्तु इतिवृत्तम्, यथोदात्तराघवे--- रामो मूध्नि निधाय काननमगान्मालामिवाज्ञां गुरो- स्तद्भक्त्या भरतेन राज्यमखिलं मात्रा सहैवोज्झितम् । तौ सुग्रीवविभीषणावनुगतौ नीतौ परामुन्नतिं प्रोत्सिक्ता दशकंधारप्रभृतयो ध्वस्ताः समस्ता द्विषः ॥ ************* टीका ************* विज्ञप्रिया (वि, म) वृत्तमिति--वृत्तमभिनेतव्यवृत्तान्तः । रामो मूर्ध्नि इत्यादिना रामो गुरोः पितुराज्ञां मूर्ध्नि निधाय काननमगादित्यन्वयः । तद्भकत्या रामभक्त्या मात्रा जनन्या । तौ पुराणे श्रुतौ । प्रेत्सिक्ताः उद्धताः । दशकन्धरप्रभृतयः समस्ताद्विषः ध्वस्ता तेनेति शेषः । अत्राभिनेतव्यस्य समस्तवस्तुसूचकम् । लोचना (लो, ळ) प्रोस्तिक्ताः प्रकर्षेण दर्पिष्टाः । ********** टीका सम्पूर्णा ********** बीजं यथा रत्नावल्याम्--- द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥ ************* टीका ************* विज्ञप्रिया (वि, य) बीजमिति---अभिनेतव्यार्थमूलमङ्कुरः । द्वीपादन्यस्मादिति । दूरस्थेनापि वरेण स्वीयकन्यापरिणयस्य भावित्वेन निजपत्नीमाश्वासयतः स्थापकस्य सूत्रधारस्य च उक्तिरियम् । अन्यद्वीपादितोऽप्यानीयाभिमुखीभूतो विधिर्घटयतीत्यर्थः । ********** टीका सम्पूर्णा ********** अत्र हि समुद्रे प्रवहणभङ्गमग्नोत्थिताया रत्नावल्या अनुकूलदैवलालितो वत्सराजगृहप्रवेशो यौगन्धरायणव्यापारमारभ्य रत्नावली प्राप्तौ बीजम् । मुखं श्लेषादिना प्रस्तुतवृत्तान्तप्रतिपादको वाग्विशेषः । ************* टीका ************* विज्ञप्रिया (वि, र) अत्रेति वहनं नौका । वहित्रेति क्वचित्पाठः । गृहप्रवेशो बीजमित्यन्वयः । श्लेषादिनेत्यत्र आदिपदादन्यापदेशपरिग्रहः । लोचना (लो, ए) यौगन्धरायणः अमात्यविशेषः । ********** टीका सम्पूर्णा ********** यथा--- आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तिः । उत्खाया गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) तत्र श्लेषेणाह । आसादितेति---गाढतमसमतिशयन्धकारमुग्रं घनकालं प्रावृट्कालमुत्खाय उन्मील्य शरत्समय एष प्राप्त आगतः । रामो दशास्यमिव दशास्योऽपि गाढतमो गाढमोह उग्रश्च । शरत्समयरामयोर्विशेषणान्याह---आसादितेत्यादीनि---शरत्पक्षे प्रकटो व्यक्तीभूतो निर्मलचन्द्र एव हासः । आसादितेति । रामपक्षे चन्द्रहासः खङ्गः--रावणवधार्थं काले एव तदासादनं बोध्यम् । शरत्पक्षे विशुद्धश्चासौ कान्तः कमनीयश्चेति विग्रहः । रामपक्षे वह्वौ विशुद्धा कान्ता पत्नी यस्य तादृशः । शरत्पक्षे संभृतं जनितं बन्धुजीवकुसुमं येन तादृशः,रामपक्षे सम्भृतो जनितो बन्धूनां रणपतितवानराणां जीवोऽमृतवृष्ट्या येन तादृशः । अत्र चन्द्रहासदिपदश्लेषवान् वाग्विशेषः । आदिपदग्राह्योऽन्यापदेशस्तु नोदाहृतः । तच्च मम तारावतीचन्द्रशेखरनाटके यथा--- "उद्यते शशिनि पूर्वभूधरं राजितं कल्पचन्द्रशेखरम् । एष यास्यति शकी महार्णवं तातपादमिव वन्दनमिच्छुः ॥ "तत्र हि चन्द्रस्य तादमहार्णवगमनान्यापदेशेन प्रस्तुतवस्तुनश्चन्द्रशेखरनृपस्य वने तपः प्रसक्तस्य तातपादवन्दनार्थगमनसूचकम् । एवमन्यत्राप्यनुसन्धेयम् । लोचना (लो, ऐ) आसादितेति---चन्द्रहासः प्रभाखड्गश्च । कस्य जलस्य । अन्तं स्वरूपं कान्ता वह्निप्रवेशशुद्धा सीता । तमोऽन्धकारः मोहश्च बन्धुजीवारव्यं कुसुमम् । बन्धूनां जीवाः प्राणाश्च । ********** टीका सम्पूर्णा ********** पात्रं यथा शाकुन्तले --- तवास्मि गीतरागेण हारिणा प्रसभं हृतः । एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा ॥ ************* टीका ************* विज्ञप्रिया (वि, व) तवास्मीति---तव नट्याः । प्रसभं बलात् । हारिण मनोहारिणा । एष पुराणेषु श्रुतः । अत्र पात्रं राजा । ********** टीका सम्पूर्णा ********** रङ्गं प्रसाद्य मधुरैः शलोकैः काव्यार्थसूचकैः । रूपकस्य कवेराख्यां गोत्राद्यपि स कीर्तयेत् ॥ ६.२८ ॥ ऋतुं च कञ्चित्प्रायेण भारती वृत्तिमाश्रितः । स स्थापकः । प्रायेणोति क्वचिदृतोरकीतनमपि । यथा--रत्नावल्याम् । भारतीवृत्तिस्तु--- ************* टीका ************* विज्ञप्रिया (वि, श) रङ्गं प्रसाद्येति---रङ्गमत्र वस्तु, एतत्सूचनरूपं नाट्यैकदेशम् । यथा रत्नावल्यामिति । तत्र वसन्तोत्सवस्य वर्णने वसन्तर्त्तोरपि वर्णनात् । ********** टीका सम्पूर्णा ********** भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः ॥ ६.२९ ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) भारतीति---नराश्रयः पुंप्रयोज्यः । स्त्रीवाचां प्रकृतत्वात्पुंसामप्यधनानां वचः प्रकृतत्वात्प्राय इत्युक्तम् । ********** टीका सम्पूर्णा ********** संस्कृतबहुलो वाक्प्रधानो व्यापारो भारती । तस्याः प्ररोचना वीथी तथा प्रहसनामुखे । अङ्गान्यत्रोन्मुखीकारः प्रशंसातः प्ररोचना ॥ ६.३० ॥ ************* टीका ************* विज्ञप्रिया (वि, स) तस्या इति । भारत्या इत्यर्थः । तत्र प्ररोचनालक्षणमाह---अत्रोन्मुखीकार इति । लोचना (लो, ओ) तस्या भारतीवृत्तेः । वीथी वीथ्यङ्गानि । प्रहसनं प्रहसनाङ्गानि वक्ष्यमाणानि । ********** टीका सम्पूर्णा ********** प्रस्तुताभिनयेषु प्रशंसातः श्रोतॄणां प्रवृत्त्युन्मुखीकरणं प्ररोचना । यथा रत्नावल्याम्--- श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी, लोके हारि च वत्साराजचरितं नाट्ये च दक्षा वयम् । वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुनर्- मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥ वीथीप्रहसने वक्ष्येते । ************* टीका ************* विज्ञप्रिया (वि, ह) श्रीहर्ष इति । धावक एवात्र यद्यपि कविः तथापि राज्ञः श्रीहर्षस्य प्रीतये तत्रैव कवित्वारोपः कृतः । वस्त्वेकैकमपीहेति । इह एषु । निपुणकवि--परिषत्स्वीयनाट्यदक्षत्वात्तेषु वस्तुषु मध्ये । एकैकं वस्तु इत्यर्थः । किं पुनरिति । किं पुनर्वक्तव्यमित्यर्थः । गुणानां फलप्राप्तिहेतुत्वातुपादेयानाम् । अत्राभिनेतव्यस्य वत्सराजचरितस्याभिनेतॄणां नटानां परिषदश्च प्रशंसा । संस्कृतेनेति । तदङ्गता । वीथीप्रहसने इति । तद्द्वयमुखरूपकविशेषौ नाटकप्रभेदौ वक्ष्यते । तौ च संस्कृतेनैवेति तद्द्वयं भारत्या अङ्गम् । ********** टीका सम्पूर्णा ********** नटी विदूषको वापि पारिपाशिवक एव वा । सूत्रधारेण सहिताः सलापं यत्र कुर्वते ॥ ६.३१ ॥ चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः । आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥ ६.३२ ॥ ************* टीका ************* विज्ञप्रिया (वि, क) आमुखरूपमाह--नटीति । ********** टीका सम्पूर्णा ********** सूत्रधारसदृशत्वात्स्थापकोऽपि सूत्रधार उच्यते । तस्यानुचरः पारिपाश्विकः, तस्मात्किञ्चिदूनो नटः । उद्धात्य(त)कः कथोद्धातः प्रयोगातिशयस्तथा । प्रवर्तकावलगिते पञ्च प्रस्तावनाभिदाः ॥ ६.३३ ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) ईदृशीं प्रस्तावनामुक्त्त्वा तस्याः पञ्चभेदानाह---उद्धात्यक इति । ********** टीका सम्पूर्णा ********** तत्र--- पदानि त्वगतार्थानि तदर्थगतये नराः । योजयन्ति पदैरन्यैः स उद्धात्य (त) क उच्यते ॥ ६.३४ ॥ ************* टीका ************* विज्ञप्रिया (वि, ग) तत्र उद्धात्यकलक्षणमाह---पदानीति । अगतर्थानि इत्यत्रार्धो योजकवक्तृहृदयस्थितोर्ऽथः । तदर्थागतय इति । पदद्वयेऽवगतिपरोऽगमिः । तथा च वक्त्रा स्थापकेनानवगततादृशार्थानि स्वोच्चरितपदानि, तदर्थस्य योजकनरहृदयस्थितस्यार्थस्यावगतयेऽन्यैः स्थापकोच्चारितभिन्नैः पदैर्योजयन्ति । स्वहृदयस्थितार्थतां प्रतिपादयन्तीत्यर्थः । ********** टीका सम्पूर्णा ********** यथा मुद्राराक्षसे सूत्रधारः--- "क्रूरग्रहः सकेतुश्चन्द्रमसम्पूर्णमण्डलमिदानीम् । अभिभवितुमिच्छति बालत्--" लोचना (लो, औ) कूरग्रहेति---क्रूरो दारुणग्रहो राहुः, पक्षे-क्रूरो दारुणो ग्रह आग्रहः चन्द्रगुप्ताभिभवरूपः यस्य । चन्द्रं शशिनं चन्द्रगुप्ताख्यं राजानञ्च । ********** टीका सम्पूर्णा ********** इत्यनन्तरम्---"(नेपथ्ये । ) आः, क एष मयि जीवति चन्द्रगुप्तमभि- भवितुमिच्छति" । इति । अत्रान्यार्थन्त्यपि पदानि हृदयस्थार्थागत्या अर्थान्तरे संक्रमय्य पात्रप्रवेशः । ************* टीका ************* विज्ञप्रिया (वि, घ) क्रूरग्रहेति---चन्द्रग्रहणं भविष्यति इति प्रतीपादयतः स्थापकस्योक्तिरियम् । स क्रूरग्रहः केतू राहुरित्यर्थः । एषां पदानां चन्द्रगुप्तनृपतिमन्त्रिणा चाणक्यब्राह्मणरूपनरेण राक्षसरूपात्क्रूरग्रहात्क्रूरो ग्रहो यस्य तस्मात् । चन्द्रगुप्तनृपत्यभिभवरूपे स्वहृदयस्थितेर्ऽथे संक्रमः कृतः । तादृशार्थता दर्शितेत्यर्थः । तदाह--अत्रार्थवन्तयपीति । राहुचन्द्ररूपार्थवन्त्यपीत्यर्थः । हृदीस्थोर्ऽथो राक्षसचन्द्रगप्तरूपः । पात्रं चाणक्यः । लोचना (लो, अ) पदानि क्रूरग्रह इत्यादीनि । हृदिस्थः सूत्रधारस्येत्यर्थः । प्रकृतश्चन्द्रोपरागरूपस्तस्यागत्याबोधेन । अर्थान्तरे प्रकृतग्रन्थाभिधेये । अत्राह भाण्डिः-- विस्मृतं न प्रतीतं वा यत्र वाक्यं प्रकाश्यते । प्रश्नोत्तरमनोहारी स उद्धात्यक उच्यते ॥ यथा पारण्डवाभ्युदये--- का श्लाघा गुणिनां क्षमापरिभवः कोऽक्षः सुकुल्यैः कृतः किं दुः खं परसंश्रयो जगति कः श्लाघ्यो य आश्रीयते । को मृत्युर्व्यसनं गुण दधति के यैर्निर्जिता शत्रवः केन ज्ञातमिदं विराटनगरे छन्नस्थितैः पाण्डवैः ॥ अतः सूत्रधारनिष्कान्तौ पाण्डवप्रवेशः । ********** टीका सम्पूर्णा ********** सूत्रधारस्य वाक्यं वा समादायार्थमस्य वा । भवेत्पात्रप्रवेशश्चेत्कथोद्धातः स उच्यते ॥ ६.३५ ॥ ************* टीका ************* विज्ञप्रिया (वि, ङ) कथोद्धातलक्षणमाह--सूत्रधारस्येति । इदानीं स्थापककृत्याभावात्सूत्रधार एव स्थापरककृत्यं करोतीत्यभिप्रायेणाह--सूत्रधारस्येति । वाक्यादानं वाक्यानुकरणम् । अर्थादानं वाक्यानुकरणं विना तदर्थानुशीलनम् । ********** टीका सम्पूर्णा ********** वाक्यं यथा रत्नावल्याम्--"द्वीपादन्यस्मादपि--ऽइत्यादि (३३२ पृ दृ) सूत्रधारेण पठिते--"(नेपथ्ये) साधु भरतपुत्र! साधु । एवमेतत् । कः सन्देहः ? द्वीपादन्यस्मादपि--" इत्यादि पठित्वा यौगन्धरायणस्य प्रवेशः । वाक्यार्थो यथा वेण्याम्-- निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ ************* टीका ************* विज्ञप्रिया (वि, च) द्वीपादिति--अत्र यौगन्धरायणमन्त्रिरूपपात्रस्य तद्वाक्यं पुनरनुकृत्य प्रवेशः । लोचना (लो, आ) निर्वाणेति---शमः कोपाद्यभावः विनाशश्च । रक्ता रञ्जिता प्रसाधिता प्रकर्षेण साधिता, रक्तेन रुधिरेण प्रसाधिता मण्डिताश्च । विग्रहो युद्धं देहश्च । स्वस्थाः कुशलिनः स्वर्गस्थाश्च । ********** टीका सम्पूर्णा ********** इति सूत्रधारेण पठितस्य वाक्यस्यार्थं गृहीत्वा--"(नेपथ्ये) आः दुरात्मन् ! वृथा मङ्गलपाठक !, कथं स्वस्था भवन्तु मयि जीवति धार्तराष्टाः ?" ततः सूत्रधारनिष्क्रान्तौ भीमसेनस्य प्रवेशः । ************* टीका ************* विज्ञप्रिया (वि, छ) निर्वाणेति--पाण्डुतनयाः निर्वाणवैरग्नयः सन्तो माधवेन सह नन्दन्तु । कुरुराजसुताश्च दुर्योधनादयोऽनुरक्तप्रसन्नीकृतभूमिष्ठलोका त्यक्तयुद्धाश्च सन्तः सभृत्याः स्वस्था भवन्तु इत्यर्थः । अर्थं गृहीत्वेति । एतद्वाक्यानुकारणं विना तदर्थानुशीलनेनैव आ इत्याद्युक्तवतः भीमस्य प्रवेशः । लोचना (लो, इ) भीमसेनस्य प्रवेश इत्यनन्तरं प्रथमार्थमादाय इति शेषः । ********** टीका सम्पूर्णा ********** यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते । तेन पात्रप्रवेशश्चेत्प्रयोगातिशयस्तदा ॥ ६.३६ ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) प्रयोगातिशयलक्षणमाह--यदि प्रयोग इति । भूय इति । पुनरप्यन्य इत्यर्थः । प्रयोगोऽन्य इति क्वचित्पाठः । ********** टीका सम्पूर्णा ********** यथा कुन्दमालायाम्---"(नेपथ्ये) इत इतोऽवतरत्वार्या । सूत्रधारः---कोऽयं खल्वार्याह्वानेन साहायकमपि मे सम्पादयति । (विलोक्य) कष्टमतिकरुणं वर्तते । "लङ्केश्वरस्य भवने सुचिरं स्थितेति रामेण लोकपरिवादभयाकुलेन । निर्वासितां जनपदादपि गर्भगुर्वों सीतां वनाय परिकर्षति लक्ष्मणोऽयम्" ॥ अत्र नृत्यप्रयोगार्थं स्वभार्याह्वानमिच्छता सूत्रधारेण "सीतां वनाय परिकर्षति लक्ष्मणोऽयम्" इति सीतालक्ष्मणयोः प्रवेशं सूचयित्वा निष्कान्तेन स्वप्रयोगमतिशयान एव प्रयोगः प्रयोजितः । ************* टीका ************* विज्ञप्रिया (वि, झ) इति इतोऽवतरित्विति । सूत्रधारपत्न्या आह्वाननागमनोपदेशः कृतः । लङ्केश्वरस्येति । जनपदातयोध्यातो निर्वासितां निष्कामितां गर्भगुर्वोमित्यन्वयः । प्रयोगातिशयपदयोगार्थं घदृयन् व्याचष्टे---स्वप्रयोगमतिशयान इति । एव प्रयोगः सूचित इति---सीतालक्ष्मणयोः प्रवेशरूपोऽन्यः प्रयोगः सूचित इत्यर्थः । सूचित इत्यत्र प्रयोजित इति क्वचित्पाठः । लोचना (लो, ई) इत इति । अत्रार्य्यपदार्थः सीतारूपो नेपथ्ये पात्राभिमतः । नटीरूपस्तु सूत्रधारेणावगतः स्वप्रयोगमतिशयानः प्रकृताथप्रतिपादनात् । ********** टीका सम्पूर्णा ********** कालं प्रवृत्तमाश्रित्य सूत्रधुग्यत्र वर्णयेत् । तदाश्रयश्च पात्रस्य प्रवेशस्तत्प्रवर्तकम् ॥ ६.३७ ॥ ************* टीका ************* विज्ञप्रिया (वि, ञ) प्रवर्त्तके कालाश्रयेणाह---कालमिति । तदाश्रयस्य तत्सूचितस्य । ********** टीका सम्पूर्णा ********** यथा---"आसादितप्रकट--" इत्यादि (३३२ पृ दृ) । "ततः प्रविशति यथानिदिष्टो रामः" । यत्रैकश्च समावेशात्कार्यमन्यत्प्रसाध्यते । प्रयोगे खलु तज्ज्ञेयं नाम्नावलगितं बुधैः ॥ ६.३८ ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) अवलगितलक्षणमाह--यत्रैकत्रेति । यत्रैकत्र प्रयोगे सतीत्यन्यः । समावेशात्तत्प्रयोगस्य समनिर्दिष्टत्वातान्यत्कार्य्यं प्रसाध्यते इत्यर्थः । ********** टीका सम्पूर्णा ********** यथा शाकुन्तले--सूत्रधारो नटीं प्रति । "तवास्मि गीतरागेण-" (३३३ पृ दृ) इत्यादि । ततो राज्ञः प्रवेशः । योज्यान्यत्र यथालाभं वीथ्यङ्गानीतराण्यपि । अत्र आमुखे । उद्धात्य (त) कावलगितयोरितराणि वीथ्यङ्गानि वक्ष्यमाणानि । ************* टीका ************* विज्ञप्रिया (वि, ठ) तवास्मीति । अत्र गीतप्रशंसारूपप्रयोगे सति राज्ञः प्रवेशरूपमन्यत्कार्य्यं साधितम् । प्रवर्त्तके कालाश्रयणमतो भेदकं बोध्यम् । इत्थं प्रस्तावनारूपेस्य उद्घातकादिपञ्चभेदमुक्त्वा तत्रैव प्रयोगे यथालाभं वीथ्यङ्गान्यपि प्रयोजनीयानीत्याह---योज्यान्यत्रेति । वीथ्याख्योपरूपात्मकनाटकप्रभेदस्य वक्ष्यमाणस्याङ्गम् । उद्घात्यकावलगितादीनि तयोर्दशाङ्गानि वक्ष्यन्ते । आमुखप्रभेदतयापि उद्घात्यकावलगिते उक्ते । अतस्तद्भिन्नैकदेशे तदङ्गान्यप्यत्र योजनीयानीत्याह---उद्घात्यकावलगितयोरितराणीति । ********** टीका सम्पूर्णा ********** नखकुट्टस्तु--- ************* टीका ************* विज्ञप्रिया (वि, ड) पञ्चप्रभेदा आमुखस्यामी प्रविष्टपात्रसूचितपात्रान्तरप्रवेशघटिता उक्तः । अप्रविष्टसूचितपात्रघटितोऽपि नखकुट्टाख्यः षष्ठप्रभेद इत्याह--नखकुट्टस्तु इति । ********** टीका सम्पूर्णा ********** नेपथ्योक्तं श्रुतं यत्र त्वाकाशवचनं तथा ॥ ६.३९ ॥ समाश्रित्यापि कर्तव्यमामुखं नाटकादिषु । एषामामुखभेदानामेकं कञ्चित्प्रयोजयेत् ॥ ६.४० ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) तल्लक्षणमाह--नेपथ्येति । नेपथ्ये वेशरचनास्थले उक्तं पात्रं आकाशे वचनं यस्य तादृशं वा पात्रमाश्रित्य आमुखं कर्त्तव्यमित्यर्थः । इत्थमामुखस्य षड्भेदाः । ********** टीका सम्पूर्णा ********** तेनार्थमथ पात्रं वा समाक्षिप्यवै सूत्रधृक । प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रयोजयेत् ॥ ६.४१ ॥ ************* टीका ************* विज्ञप्रिया (वि, ण) तेनार्थमिति । सूत्रधृक्पात्रं तद्भिन्नमर्थं वा समाक्षिप्यैव सूचयित्वैव तादृशप्रस्तावनान्ते निर्गच्छेदित्यर्थः । ********** टीका सम्पूर्णा ********** वस्त्वितिवृत्तम् । लोचना (लो, उ) श्रुतं कस्यापि सम्मुखीनस्य मुखादितिवृत्तं प्रकृतग्रन्थाभिधेयम् । अस्व च प्रपञ्चनमर्थात्पत्रद्वारेणैव । यद्यपि नासूचितस्य पात्रस्य रङ्गभूमिषु प्रवेश इति वचनात्सर्वेषामपि पात्राणां सूचितानामेव रङ्गे प्रवेशस्तथापि प्रस्तावनानन्तरं प्रवेश्यपात्राणामुक्तप्रकारेण विच्छित्तिभिः सूचनमिति शेषः । क्वचित्तु सम्भ्रमादियुक्तानां पात्राणां प्रवेशेन सूचनं न पटीक्षेपोऽपिः यथा चन्द्रकलायां प्रविश्यापटीक्षेपेण संभ्रान्तः शबर इत्यादि । ********** टीका सम्पूर्णा ********** इदं पुनर्वस्तु बुधौर्द्विविधं परिकल्प्यते । लोचना (लो, ऊ) बुधैर्ग्रन्थकारैः । ********** टीका सम्पूर्णा ********** आधिकारिकमेकं स्यात्प्रासङ्गिकमथापरम् ॥ ६.४२ ॥ अधिकारः फले स्वाम्यमधिकारी च तत्प्रभुः । तस्येतिवृत्तं कविभिराधिकारिकमुच्यते ॥ ६.४३ ॥ फले प्रधानफले । यथा बालरामायणो रामचरितम् । ************* टीका ************* विज्ञप्रिया (वि, त) बालरामायणे रामचरितमिति । रामोऽहं रावणादिवधफले स्वामी, तस्य चरितमाधिकारिकमित्यर्थः । ********** टीका सम्पूर्णा ********** अस्योपकरणार्थं तु प्रासङ्गिकमितीष्यते । अस्याधिकारिकेतिवृत्तस्य उपकरणनिमित्तं यच्चरितं तत्प्रासङ्गिकम् । यथा सुग्रीवादिचरितम् । पताकास्थानकं योज्यं सुविचार्येह वस्तुनि ॥ ६.४४ ॥ इह नाट्ये । ************* टीका ************* विज्ञप्रिया (वि, थ) उपकरणनिमित्तमिति । उपकरणमुपकारः साहाय्यमित्यर्थः । नाटकस्यान्तरङ्गमाह---पताकास्थानकमिति । इह नाट्ये इति । आमुखे इति---वृत्तसाधारणे नाट्ये इत्यर्थः । तेनास्य आमुखे इतिवृत्ते च सम्भव इत्यग्रे व्यक्तीभविष्यति । ********** टीका सम्पूर्णा ********** यत्रार्थे चिन्तितेऽन्यस्मिंस्तल्लिङ्गोऽन्यः प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकं तु तत् ॥ ६.४५ ॥ ************* टीका ************* विज्ञप्रिया (वि, द) तक्ष्मिङ्ग इति । चिन्तितार्थसमानचिह्न इत्यर्थः । लोचना (लो, ऋ) आगन्तुकेन प्रकृतादितरेण । ********** टीका सम्पूर्णा ********** तद्रेदानाह--सहसैवार्थसंपत्तिर्गुणावत्युपचारतः । पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥ ६.४६ ॥ ************* टीका ************* विज्ञप्रिया (वि, ध) सहसैवेति । उपचारतः क्रियातो गुणवती । अर्थसंपत्तिरुद्देश्य संपत्तिः । सहसैवेत्यर्थः । ********** टीका सम्पूर्णा ********** यथा रत्नावल्याम्--"वासवदत्तेयम्" इति राजा यदा तत्कण्ठपाशं मोचयति तदा तदुक्त्या "सागरिकेयम्" इति प्रत्यभिज्ञाय "कथं ? प्रिया मे सागरिका ? अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि ! विमुञ्च त्वं लतापाशमेतम् । चलितमपि निरोद्धुं जीवितं जीवितेशे ! क्षणमिह मम कण्ठे बाहुपाशं निधेहि" ॥ अत्र फलरूपार्थसंपत्तिः पूर्वापेक्षयोपचारातिशयाद्गुणवत्युत्कृष्ट । ************* टीका ************* विज्ञप्रिया (वि, न) वासवदत्तेयमिति । वासवदत्ता राजपत्नी । तद्वेशेन सागरिका आयास्यतीति कृतसङ्केते राज्ञि स्थिते तज्ज्ञात्वा वासवदत्तैव सागरिकाया आगमनात्पूर्वमागत्य सङ्केतभ्गं कृत्वा राजनां ह्रेपयित्वां गता । राजा च तामनुनेतुं पश्चाद्चलितः । ततस्तद्वेशा सागरिका आगत्य राजानमनासाद्य निर्वदाल्लतापाशेनात्मानं बद्ध्वा मर्त्तुमुद्यता । राजा च वासवदत्तामनुनेतुं चलितः । पथि तां दृष्ट्वा वासवदत्तैवायं म्रियत इति ज्ञात्वा पाशं मोचयन् सागरिकाया उक्त्या सागरिकेयमिति ज्ञात्वा गुणवतीमुद्देश्यफलसम्पत्तिमाप्तवान् । अत्र वासवदत्तामरणरूपेऽन्यस्मिन्नर्थे चिन्तिते आगन्तुकेन लतापाशेन वासवदत्तामरणचिह्नद्यङ्कितम्रियमाणसागरिकारूपार्थप्रयोग इति पताकस्थानसामान्यलक्षणं बोध्यम् । लोचना (लो, ॠ) पूर्वापेक्षया पूर्वस्य वासवदत्ताज्ञानस्यापेक्षया । ********** टीका सम्पूर्णा ********** वचः सातिशयं श्लिष्टं नानाबन्धसमाश्रयम् । पताकास्थानकमिदं द्वितीयं परिकीर्त्तितम् ॥ ६.४७ ॥ ************* टीका ************* विज्ञप्रिया (वि, प) द्वितीयपताकस्थानमाह---वचः सातिशयमिति । नानाबन्धो बीजप्रकाशननायकमङ्गलसूचनादिरूपः । ********** टीका सम्पूर्णा ********** यथा वेण्याम्--- "रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः" । अत्र रक्तादीनां रुधिरशरीरार्थहेतुकश्लेषवशेन बीजार्थप्रतिपादनान्नेतृमङ्गलप्रतिपत्तौ सत्यां द्वितायं पताकास्थानम् । ************* टीका ************* विज्ञप्रिया (वि, फ) रक्तप्रसाधितेति । रक्तेण रुधिरेण भण्डितभूमयः । क्षतशरीराः स्वर्गस्था भवन्त्विति श्लेषलभ्योर्ऽथः । तदाह---अत्र रक्तादीनामिति । अत्रानुरक्ताद्यर्थे चिन्तिते शब्दरूपतल्लिङ्गोऽन्यो रुधिराद्यर्थ आगन्तुकेन शब्देन प्रयोगात्पताकस्थानसामान्यलक्षणसत्त्वम् । इदं पताकास्थानमामुखान्तर्गतं वक्ष्यमाणं च वृत्तान्तर्गतं बोध्यम् । ********** टीका सम्पूर्णा ********** अर्थोपक्षेपकं यत्तु लीनं सविनयं भवेत् । श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमुच्यते ॥ ६.४८ ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) तृतीयमाह---अर्थोपक्षेपकमिति । अर्थोपक्षेपकं प्रस्तुतवस्तुसूचकं यत्तु वच इत्यर्थः । श्लिष्टेति व्याचष्टे । सम्बन्धयोग्येन इति उक्तवाक्यान्वयः सविनयमित्यत्र विनयो विशेषण नयः निश्चयः तद्व्याचष्टे--विशेषेति । ********** टीका सम्पूर्णा ********** लीनमव्यक्तार्थम्, श्लिष्टेन सम्बन्धयोग्येनाभिप्रायान्तरप्रयुक्तेन प्रत्युत्तरेणोतपेतम्, सविनयं विशेषनिश्चयप्राप्त्या सहितं संपाद्यते यत्तत्तृतीयं पताकास्थानम् । यथा वेण्यां द्वितीयेऽङ्के "कञ्चुकी-देव ! भग्नं भग्नम् । राजा--केन ? कञ्चुकी--भीमेन । राजा--कस्य ? कञ्चुकी--भवतः । राजा--आः ! किं प्रलपसि ? कञ्चुकी--(सभयम्) देव ! ननु ब्रवीमि । भग्नं भीमेन भवतः । राजा-धिग्वृद्धापसद ! कोऽयमद्य ते व्यामोहः ? कञ्चुकी-देव ! न व्यामोहः । सत्यमेव-- "भग्नं भीमेन भवतो मरुता रथकेतनम् । पतितिं किङ्गिणीक्वाणबद्धाक्रन्दमिव क्षितौ" ॥ ************* टीका ************* विज्ञप्रिया (वि, भ) बग्नमिति--- भग्नं भीमेव मरुता भवतो रथकेतनम् । पतितं किङ्किणीजालं बद्धाक्रन्दमिव क्षितौ । इति कञ्चुकिना वक्तव्ये सम्भ्रमात्खण्डश उक्तम् । दुर्योधनोरुभङ्गरूपार्थोपक्षेपकं भीमेनेत्यत्र भीमसेनरूपेण स्वानुष्ठानयोग्येन केतनभङ्गतिरिक्तभिप्राययुक्तेन दुर्योधनस्य प्रत्युत्तरेणेपेतम् । अत्र लीनादिकं स्पष्टार्थमवधेयम् । ********** टीका सम्पूर्णा ********** अत्र दुर्योधनोरुभङ्गरूपप्रस्तुतसंक्रान्तमर्थोपक्षेपणम् । ************* टीका ************* विज्ञप्रिया (वि, म) अर्थोपक्षेपकत्वं व्याचष्टे---अत्रेति । अत्र केतुभङ्गरूपेऽन्यस्मिन् चिन्तिते ऊरुभङ्गरूपार्थप्रयोग आगन्तुकेन श्लिष्टशब्देनेत्यतः पताकास्थानसामान्यलक्षणसत्त्वम् । ********** टीका सम्पूर्णा ********** द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः । प्रधानार्थान्तराक्षेपि पताकास्थानकं परम् ॥ ६.४९ ॥ ************* टीका ************* विज्ञप्रिया (वि, य) चतुर्थमाह---व्द्यर्थो वचनेति । सुश्लिष्टः अर्थद्वये शोभनश्लिष्टः । काव्यं श्लोकस्तत्र योजतिः । प्रधानार्थान्तरस्य मुख्यतया प्रतिपाद्यार्थान्तरस्य सूचक इत्यर्थः । ********** टीका सम्पूर्णा ********** यथा रत्नावल्याम्--- "उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा- दायासं श्वसनोद्रमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, र) उद्दामेति---राज्ञा परिगृहीतां माधवीलतामकालकुसुमितां वासवदत्तयाः पराजयशंसिनीं तस्यैव दर्शयतो राज्ञ उक्तिरियम् । समदानां विरहिणीमन्यां नारीमिव । इमामुद्यानलतां पश्यन्नहं देव्या वासवदत्ताया मुखं कोपविपाटलद्युतिं करिष्यामीत्यन्वयः । ममान्यनारीदर्शनेन इव तत्पराजयहेतुकुसुमितमाधवीलतादर्शनेनापि तस्याः कोपो भावीत्यर्थः । उद्यानलताया विरहिनार्याश्च विशेषणान्याह---उद्दामेत्यादीनि । उक्तलिका उद्रतकलिका उत्कण्ठा च । तयोरुद्दामत्वमतिशयः । विपाण्डुरं स्वभावाद्विरहाच्च । जृम्भा विकाशः श्विसविशेषश्च । श्वसनस्य वहिर्वायोर्निः श्वासस्य चोद्रमातायासं व्याकुलतां खेदञ्च आतन्वतीं कुर्वतीम् । लोचना (लो, ळ) उद्दामेति---उद्रता कलिका कोरक उत्कण्ठा च । जृम्भा विकाशः सुखनिः श्वासविशेषश्च । श्वसनो निः श्वासः बाह्यपवनश्च । ********** टीका सम्पूर्णा ********** अत्र भाव्यर्थः सूचितः । ************* टीका ************* विज्ञप्रिया (वि, ल) अत्र भाव्यर्थ इति । राज्ञा सागरिकादर्शनात्वासवदत्तायाः भावी कोपो मुख्यातया प्रतिपाद्य इति प्रधानं सूचितम् । अत्र कुसुमिलतादर्शनाद्भाविनि कोपे चिन्तिते सागरिकादर्शनात्तत्कोप आगन्तुकेन श्लिष्टशब्देन प्रतिपादितः । अतः पताकास्थानसामान्यलक्षणसत्त्वम् । ********** टीका सम्पूर्णा ********** एतानि चत्वारि पताकास्थानानि क्वचिन्मङ्गलार्थं क्वचिदमङ्गलार्थं सर्वसन्धिषु भवन्ति । काव्यकर्तुरिच्छावशाद्भूयो भूयोऽपि भवन्ति । यत्पुनः केनचिदुक्तम्--"मुखसन्धिमारभ्य सन्धिचतुष्टये क्रमेण भवन्ति" इति । तदन्ये न मन्यन्ते, एषामत्यन्तमुपादेयानामनियमेन सर्वत्रापि सर्वेषामपि भवितुं युक्तत्वात् । ************* टीका ************* विज्ञप्रिया (वि, व) क्वचिन्मङ्गलार्थमिति । प्रथमे मर्त्तु प्रवृत्तवासवदत्ताज्ञानाद्भिलषितसागरिकाप्राप्तेरुद्दामोत्कलिकामित्यत्र भाविन्याः सागरिकाप्राप्तेश्च बोधनात्मङ्गलार्थता । रक्तप्रसाधितेत्यादौ कुरूणां मरणस्य भग्नं भीमेनेत्यादौ दुर्योधनोरुभङ्गस्य च बोधनात्तेषाममङ्गलार्थता । भूयो भूयोऽपि इति । स्थाने स्थाने इत्यर्थः । सन्धिचतुष्टये इति । पताकास्थानस्य चतुष्कत्वात्प्रथमोपस्थितसन्धिचतुष्टये इत्यर्थः । सर्वत्रापीरि । पञ्चसन्धिष्वपि इत्यर्थः । सर्वेषामिति सर्वपताकास्थानानामित्यर्थः । ********** टीका सम्पूर्णा ********** यत्स्यादनुचितं वस्तु नायकस्य रसस्य वा । विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ॥ ६.५० ॥ लोचना (लो, ए) यत्स्यादिति । रामादेर्हि छद्मना वालिवधादेरभिधाने गूढतरतदभिप्रायपरिज्ञानानिपुणानां नाटककाव्यादिभिः रसास्वादमुखपिण्डद्वारेण कृत्याकृत्यप्रवृत्तिनिवृत्तियोज्यानां सुकुमारमतीनां राजपुत्रभृतीनां श्रीरामचन्द्रादिमहापुरुषचरितमालोच्यानुचितासु कथासु प्रवृत्तिप्रसङ्गः स्यादिति । माहपुरुषचरितमप्यनुचितमितिवृत्तम् । नाटकादौ परिहार्यमिति भावः । रसस्यानुचितत्वं वक्ष्यमाणव्यभिचारिभावादेः स्वशब्दवाच्यत्वम् । ********** टीका सम्पूर्णा ********** अनुचितमितिवृत्तं यथा--रामस्यच्छद्मना बालिवधः । तच्चोदात्तराघवे नोनोक्तमेव । वीरचरिते तु वाली रामवधार्थमागतो रामेण हत इत्यन्यथा कृतः । अङ्केष्वदर्शनीया या वक्तव्यैव च संमता । या च स्याद्वर्षपर्यन्तं कथा दिनद्वयादिजा ॥ ६.५१ ॥ ************* टीका ************* विज्ञप्रिया (वि, श) या च स्याद्वर्षपर्यन्तमिति । तादृशी कथा दिनद्वयादिनाभिनेतव्या इत्यर्थः । अन्या चेति---अन्या विस्तरा बाहुल्यादभिनेतुमशक्या । सा कथा अर्थोपक्षेपकैर्वक्ष्यमाणार्ऽथोपक्षेपकपरिभावितैर्विष्कम्भकादिपञ्चभि र्बुधैः सूच्येत्यर्थः । सूच्या इत्यत्र क्षेप्याइति क्वचित्पाठः । अङ्केष्वदर्शनीयेत्यादिकं पूर्वत्र अन्या इत्यत्रान्वितम् । तेन साप्यर्थोपक्षेपकैः सूच्येत्यर्थः । लोचना (लो, ऐ) ननु यदि दूराह्वानादयोऽङ्केष्वदर्शनीयास्तत्कथं नाटकादवुपक्षेपणीया । एकदिनमात्रस्य च कथाया अङ्कदर्शनीयत्वेन दिनद्वयादिकथायाः कथं परिग्रहः कथाविस्तारो वा रसविन्घहेतुत्वात्कथमङ्के दर्शनीय इत्यत आहृअङ्केष्विति । ********** टीका सम्पूर्णा ********** अन्या च विस्तरा सूच्या सार्थोपक्षोपकैर्बुधैः । अङ्केषु अदर्शनीया कथा युद्धादिकथा । वर्षाढूर्ध्वं तु यद्वस्तु तत्स्याद्वर्षादधोभवम् ॥ ६.५२ ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) वर्षादधोभवमुत्तरभवं द्वितीयवर्षादिनापि निष्पाद्यम् । पूर्वत्र वर्षपर्यन्तत्वमिह तु वर्षादूर्द्ध्वत्वमिति भेदान्न पौनरुक्त्यम् । वर्षादूर्द्ध्वमिति । तत्सर्वं वर्षादूर्द्ध्वं न कर्तव्यम् । इदमुपलक्षणम् । किन्तु मासपर्यन्तमपि न कर्त्तव्यम् । किन्तु अङ्कविच्छेदे एव कार्यमित्यर्थः । लोचना (लो, ओ) ननु एकवर्षकथैव यद्यर्थोपक्षेपेण वाच्या तदूर्द्ध्वं कथा किं परित्याज्या इत्यत आह---वर्षादिति । ********** टीका सम्पूर्णा ********** उक्तं हि मुनिना-- "अङ्कच्छेदें कार्यं मासकृतं वर्षसञ्चितं वापि । तत्सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित्" ॥ लोचना (लो, औ) अङ्कच्छेद इति । तदिति, प्रासिद्धम् । सर्वं माससञ्चितं वर्षसञ्चितं वापि कार्यं कृत्यमङ्कच्छेदेऽपि कर्त्तव्यम् । अर्थादर्थोपक्षेपकैः सूच्यमित्यर्थः । ********** टीका सम्पूर्णा ********** एवं च चतुर्दशवर्षव्यापिन्यपि रामवनवासे ये ये विराधवधादयः कथां--शास्ते ते वर्षवर्षावयवदिनयुग्मादीनामेकतमेन सूचनीया न विरुद्धाः । दिनावसाने कार्यं यद्दिने नैवोपपद्यते । अर्थोपक्षेपकैर्वाच्यमङ्कच्छेदं विधाय तत् ॥ ६.५३ ॥ ************* टीका ************* विज्ञप्रिया (वि, स) दिनावसाने इति । दिनावसानकार्यं यद्वस्तु दिनेनैवोपपद्यते क्रियाबाहुल्याभावात् । दिनेनैवाभिनेतुं शक्यत इत्यर्थः । दिनैकोपपादनीयं वस्तु कथं वाच्यमित्यत्राह---अर्थोपक्षेपकैरिति । ********** टीका सम्पूर्णा ********** के तेर्ऽथोपक्षेपका इत्याह-- अर्थोपपक्षेपकाः पञ्च विष्कम्भकप्रवेशकौ । चूलिकाङ्कावतारोऽथ स्यादङ्कमुखमित्यपि ॥ ६.५४ ॥ वृत्तवर्तिष्यमाणानां कथंशानां निदर्शकः । संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ॥ ६.५५ ॥ मध्येन मध्यमाभ्यां वा पात्राभ्यां संप्रयोजितः । शुद्धः स्यात्स तु संकीर्णो नीचमध्यमकल्पितः ॥ ६.५६ ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) विष्कम्भस्य द्वैविध्यमाह---मध्येनेति । उत्कृष्टाधमापात्रभिन्नं पात्रमध्यम् । कपालकुण्डलेति । तत्कृत्यमित्यर्थः । एवमुत्तरत्रापि । लोचना (लो, अ) यथोद्देशलक्षणमाह--वृत्तेति । पात्रस्य मध्यत्वमतिमहतः श्रीरामचन्द्रादेर्न्यूनत्वेन । विष्कम्भके पात्राणां संस्कृतभाषित्वस्य लक्ष्येषु दर्शनात् । मध्यमपात्राणां हि प्राकृतभाषित्वम् । तदुक्तं भाषार्णवे--- भाषामध्यमपात्राणां नाटकादौ विशेषतः । महाराष्ट्री सौरसेनीत्युक्ता भाषा द्विधा बुधैः ॥ इति । ********** टीका सम्पूर्णा ********** तत्र शुद्धो यथा--मालतीमाधवे श्मशाने कपालकुण्डला । सङ्कीर्णो यथा--रामाभिन्दे क्षपणककापालिकौ । अथ प्रवेशकः--- प्रवेशकोऽनुदात्तोक्त्या नीचपात्रप्रयोजितः । अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा ॥ ६.५७ ॥ ************* टीका ************* विज्ञप्रिया (वि, क) अङ्कद्वयेति । अङ्कद्वयपदस्य द्वितीयाद्यङ्कपरत्वमित्यभिप्रायः । शेषमिति । वृत्तवर्त्तिष्यमाणेत्यादिरूपम् । लोचना (लो, आ) नीचपात्रप्रयोजित इत्यत्र नीचत्वं हि असंस्कृतभाषित्वादेव । तेन सख्यादिभिश्च प्रवेशकस्य प्रयोजितत्वम् । ********** टीका सम्पूर्णा ********** अङ्कद्वयस्यान्तरिति प्रथमाङ्केऽस्य प्रतिषेधः । यथा--वेण्यामश्चत्थामाङ्के राक्षसमिथुनम् । अथ चूलिका--- अन्तर्जवनिकासंस्थैः सूचनार्थस्य चूलिका । ************* टीका ************* विज्ञप्रिया (वि, ख) अन्तर्जवनिका । वेशरचनास्थानवेष्टनपटः । अर्थस्य सूचनेत्यन्वयः । ********** टीका सम्पूर्णा ********** यथा वीरचरिते चतुर्थाङ्कस्यादौ--"(नेपथ्ये) भो भो वैमानिकाः, प्रवर्तन्तां रङ्गमङ्गलानि" इत्यादि । "रामेण परशुरामो जितः" इति नेपथ्ये पात्रैः सूचितम् । अथाङ्कावतारः--- अङ्कान्ते सूचितः पात्रैस्तदङ्कस्याविभागतः ॥ ६.५८ ॥ यत्राङ्कोऽवतरत्येषोऽङ्कावतार इति स्मृतः । ************* टीका ************* विज्ञप्रिया (वि, ग) अङ्कान्त इति । अङ्कान्ते पात्रैः सूचितोर्ऽथादपरः अङ्कः यदवतरति इत्यर्थः । तदङ्कस्याविभागत इति । विभागस्तद्भेदः, तदभिन्नत्वेन प्रयोजित इत्यर्थः । अत्र द्वितीयान्तात्तस्। अङ्कविच्छेदेऽपि तदङ्कोत्थापिताऽकाङ्क्षयैवावतीर्णोऽपराङ्क इत्यर्थः । तदाह---तदङ्कस्याङ्गविशेष इवेति । ********** टीका सम्पूर्णा ********** यथा---अभिज्ञाने पञ्चमाङ्के पात्रैः सूचितः षष्ठाङ्कस्तदङ्कस्याङ्गविशेष इवावतीर्णः । अथाङ्कमुखम्--- यत्र सायादङ्क एवस्मिन्नङ्कानां सूचनाखिला ॥ ६.५९ ॥ तदङ्कमुखमित्याहुर्बोजार्थख्यापकं च तत् । ************* टीका ************* विज्ञप्रिया (वि, घ) यत्र स्यादङ्क इति । अङ्कानां समस्ताङ्कवक्ष्यमाणानमर्थनामखिला पूचनेत्यर्थः । अङ्कावतारे तदङ्कमात्रसूचनमङ्कमुखे तु समस्ताङ्कसूचनेति भेदः । गजार्थेति बीजभूतार्थख्यापनात् । बीजार्थख्यापकसंज्ञकञ्च तदित्यर्थः । ********** टीका सम्पूर्णा ********** यथा---मालतीमाधवे प्रथमाङ्कादौ कामन्दक्यवलोकिते भूरिवसुप्रभृतीनां भाविभूमिकानां परिक्षिप्तकथाप्रबन्धस्य च प्रसङ्गात्संनिवेशं सूचितवत्यौ । ************* टीका ************* विज्ञप्रिया (वि, ङ) भाविभूमिकानां भाविप्रसङ्गानां परिक्षिप्तः संक्षिप्तः । सन्निवेशं स्थानेऽभिनेयम् । ********** टीका सम्पूर्णा ********** अङ्कान्तपात्रैर्वाङ्कास्यं छिन्नाङ्कस्यार्थसूचनाम् ॥ ६.६० ॥ अङ्कान्तपात्रैङ्कान्ते प्रविष्टैः पात्रैः । ************* टीका ************* विज्ञप्रिया (वि, च) अङ्कमुखस्य धनिकेनोक्तं लक्षणान्तरमाह--अङ्कान्तपात्रैरिति । छिन्नाङ्कस्य समाप्यमानाङ्कस्य सम्बन्धिभिस्तदङ्कान्ते प्रविष्टैः पात्रैरपराङ्कसूचनमित्यर्थः । पूर्वलक्षणे पूर्वप्रविष्टपात्रैः समस्ताङ्कार्थसूचनमत्र तु अङ्कान्तः प्रविष्टपात्रैस्तदुत्तराङ्कार्थमात्रसूचनमिति भेदः । ********** टीका सम्पूर्णा ********** यथा वीरचरिते द्वितीयाङ्कान्ते--"(प्रविश्य) सुमन्त्रः-भगवन्तौ वशिष्ठविश्वामित्रौ भवतः सभार्गवानाह्वयतः । इतरे--क्व भगवन्तौ । सुमन्त्रः--महाराजदशरथस्यान्तिके । इतरे---तत्तत्रैव गच्छावः" इत्यङ्कपरिसमाप्तौ । "(ततः प्रविशन्त्युपविष्टा वशिष्ठविश्वामित्रपरशुरामः)ऽइत्यत्र पूर्वाङ्कान्त एव प्रविष्टेन सुमान्त्रपात्रेण शतानन्दजनककथाविच्छेदे उत्तराङ्कमुखसूचनादङ्कास्यम्" इति । एतच्च धनिकमतानुसारेणोक्तम् । अन्ये तुं---"अङ्कावतरणोनैवेदं गतार्थम्" इत्याहुः । ************* टीका ************* विज्ञप्रिया (वि, छ) इदं लक्षणं धनिकमत एव इत्याह---एतच्चेति । अङ्कावतारेणैवेति । तल्लक्षणाक्रान्तत्वादेतस्य आदावङ्कस्य दर्शित इत्यनेन । ********** टीका सम्पूर्णा ********** अपेक्षितं परित्याज्यं नीरसं वस्तु विस्तरम् । यदा संदर्शयेच्छेषमामुखानन्तरं तदा ॥ ६.६१ ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) विष्कम्भकरणमङ्कादावेवेति प्रग्दर्शितमिदानी तस्यैव विशेषवशादामुखस्यान्तेऽपि करणमित्याह---अपेक्षितमिति । शेषमपेक्षितकार्य्यतः । शेषं नीरसं भिन्नं वस्तुविस्तरमित्यन्वयः । अमुखानन्तरं कार्य्यमित्यन्वयः । यौगन्धरायणप्रयोजित इति---विष्कम्भक इति शेषः । तत्र हि अपेक्षितो वत्सराजसागरिकयोर्वृत्तान्तः । तं परित्यज्यामुखानन्तरं स्वेच्छाचारी भीत एवास्मि भर्त्तुरिति नीरसंस्वभयं यौगन्धरायणेन दर्शितम् । ********** टीका सम्पूर्णा ********** कार्यो विष्कम्भको नाट्य आमुखाक्षिप्तपात्रकः । यथा--रत्नावल्यां यौगन्धरायणप्रयोजितः । यदा तु सरसं वस्तु मूलादेव प्रवर्तते ॥ ६.६२ ॥ आदावेव तदाङ्केस्यादामुखाक्षेपसंश्रयः । ************* टीका ************* विज्ञप्रिया (वि, झ) आदावङ्कस्य दर्शित इति यदुक्तं तद्विषयं दर्शयति---यदात्विति । मूलादेव नीरसवस्त्वमिश्रणादेव । आमुखाक्षेपसंश्रय इति । आमुखेन यः पात्रस्याक्षेपः तमाश्रित्य प्रवृत्त इत्यर्थः । शाकुन्तलेति । तत्र हि मूलादेवानसूयया प्रवर्त्तितः स रस एव शकुन्तलाया विरहः । ********** टीका सम्पूर्णा ********** यथा---शाकुन्तले । विष्कम्भकाद्यैरपि नो वधो वाच्योऽधिकारिणः ॥ ६.६३ ॥ अन्योऽन्येन तिराधानं न कुर्याद्रसवस्तुनोः । ************* टीका ************* विज्ञप्रिया (वि, ञ) अधिकारिण इति । मुख्यफलस्वामिन इत्यर्थः । तेन नायकवधः क्वापि न वर्णनीयं इत्यर्थः । ********** टीका सम्पूर्णा ********** रसः शृङ्गारादिः । यदुक्तं धनिकेन--- "न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् । रसं वा न तिरोदध्याद्वस्त्वलङ्कारलक्षणैः" ॥ इति । ************* टीका ************* विज्ञप्रिया (वि, ट) रसवस्तुनोरिति । वस्तु अलङ्कारभिन्नपदार्थः । लक्षणैर्ज्ञापकैः । ********** टीका सम्पूर्णा ********** बीजं बिन्दुः पताका च प्रकरी कार्यमेव च ॥ ६.६४ ॥ अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि । अर्थप्रकृतयः प्रयोजनसिद्धिहेतवः । तत्र बीजम्--- अल्पमात्रं समुद्दिष्टं बहुधा यद्विसर्पति ॥ ६.६५ ॥ फलस्य प्रथमो हेतुर्बोजं तदभिधीयते । ************* टीका ************* विज्ञप्रिया (वि, ठ) नाट्ये कर्त्तव्यान्तरमाह---स्वल्पमात्रमिति । युधिष्ठिरोत्साह इति तस्य बलोत्साह इत्यर्थः । ********** टीका सम्पूर्णा ********** यथा---रत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तिहेतुर्दैवानुकूल्यलालितो यौगन्धरायणव्यापारः । यथा वा---वेण्यां द्रौपदीकेशसंयमनहेतुर्भीमसेनक्रोधोपचितो युधिष्ठिरोत्साहः । अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥ ६.६६ ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) बिन्दुरूपामर्थप्रकृतिमाह---अवान्तरेति । बिन्द्वविच्छेदेति परिभाषारूपभिदम् । बिन्दुपदं नपुंसकलिङ्गमिति । ********** टीका सम्पूर्णा ********** यथा---रत्नावल्यामनङ्गपूजापरिसमाप्तौ कथार्थविच्छेदे सति "उदयन्स्येन्दोरिवोद्वीक्षते" इति सागरिका श्रुत्वा "(सहर्षम्) कधं एसो सो उदअणणरिन्दो" इत्यादिरवान्तरार्थहेतुः । ************* टीका ************* विज्ञप्रिया (वि, ढ) उदयनस्येन्दोरिव इत्यादिकं वन्दिवाक्यम् । कथमिति । कथं स एव उदयननरेन्द्र इति संस्कृतम् । वत्सराज एव उदयननामा । अवान्तरार्थे सागरिकविरहे उदयननृपत्वेन ज्ञानाथि तस्य विरहवर्णनप्रवृत्याच्छेदः । किन्तु तत्सूचकं विनैव नृपदर्शनरूपकारणसत्त्वात्प्रवर्त्तते इत्यतोऽङ्कावतारादिभेदः । अङ्कावतारे तु पूर्वप्रविष्टपात्रैः सूचनेति । लोचना (लो, इ) कथमिति । कथमेष सौदयननरेन्द्रः । रत्नावल्यामेव द्वितीयबिन्दुर्यथा देवीगमनानन्तरमेवान्तराविच्छेदे विदूषकं प्रति राज्ञा वचनम् । धिङमूर्ख ! अलं परिहासेन आभिजात्येन गूढो देव्यास्त्वया न लक्षितः कोपः । तथा हि देवीमेव प्रसादयितुं गच्छाव इति । ********** टीका सम्पूर्णा ********** व्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिधीयते । ************* टीका ************* विज्ञप्रिया (वि, ण) पताकारूपामर्थप्रकृतिमाह---व्यापीति । वृत्तं नायकसहायस्य तच्च व्यापि अनेकालव्यापि । प्रासङ्गिकं नायकप्रसङ्गवृत्तम् । ********** टीका सम्पूर्णा ********** यथा---रामचरिते-सुग्रीवादेः, वेण्यां भीमादेः, शाकुन्तले-विदूषकस्य चरितम् । पताकानायकस्य स्यान्न स्वकीयं फलान्तरम् ॥ ६.६७ ॥ गर्भे सन्धौ विमर्शे वा निर्वाहस्तस्य जायते । ************* टीका ************* विज्ञप्रिया (वि, त) प्रकारान्तरमाह---पताकानायकस्यापीति । अनायकस्यापीत्यकारप्रश्लेषः । तथा चानायकस्य सुग्रीवादेरपि स्वकीयराज्यलाभादिफलान्तरं यत्तदपि पताकान्तरमित्यर्थः । अपिशब्दात्नायकस्य रामस्य सेतुबन्धादि फलान्तरमपि पताकान्तरमिति बोध्यम् । गर्भे सन्धाविति । गर्भे विमर्षे वा सन्धौ इत्युभयत्र सन्धावित्यस्यान्वयः । गर्भविमर्शोपसंहृतिरूपा हि पञ्चसन्धयो वक्ष्यन्ते । तत्र गर्भविमर्शरूपसन्धिद्वये तस्य पताकासंज्ञकस्यानायकनायकद्वयफलान्तरस्य निर्वाहो निष्पत्तिरित्यर्थः । ********** टीका सम्पूर्णा ********** यथा---सुग्रीवादेः राज्यप्राप्त्यादि । यत्तु मुनिनोक्तम्--"आ गार्भाद्वा विमर्शाद्वा पताका विनिवर्तते" ॥ इति । तत्र "पताकेति । पताका नायकफलं निर्वहणपर्यन्तमपि पताकायाः प्रवृत्तिदर्शनात्, इति व्याख्यातमभिनवगुप्तपादैः । ************* टीका ************* विज्ञप्रिया (वि, थ) आगर्भादिति । मुनिवाक्ये पताकेत्युत्कीर्त्य व्याचष्टे---पताकानायकेति । अत्रापि अकारप्रश्लेषः । अनायकफलरूपा पताकैव आगर्भादाविमर्षाद्वा निवर्त्तते इत्यर्थः । अस्मिन्नभिनवगुप्तपादव्याख्याने हेतुमाह---निर्वाहपर्य्यन्तमपीति । पताकाव्यापि प्रासङ्गिकरूपायाः । अनायकस्य फलान्तररूपाया एव पताकाया आगर्भाद्वा आविमर्शाद्वा निवृत्तिरित्यर्थः । ********** टीका सम्पूर्णा ********** प्रासङ्गिकं प्रदेशस्थं चरितं प्रकरी मता ॥ ६.६८ ॥ ************* टीका ************* विज्ञप्रिया (वि, द) प्रकरीरूपामर्थप्रकृतिमाह---प्रासङ्गिकमिति । प्रसङ्गादुपस्थितं प्रदेशस्थं प्रदेशविशेषे निष्पन्नमित्यर्थः । ********** टीका सम्पूर्णा ********** यथा---कुलपत्यङ्के रावणजटायुसंवादः । ************* टीका ************* विज्ञप्रिया (वि, ध) रावणजटायुसंवाद इति । तस्यार्ऽथप्रकृतित्वं तु रावणहृतसीतावर्णनप्राप्तिद्वारा । ********** टीका सम्पूर्णा ********** प्रकरी नायकस्य स्यान्न स्वकीयं फलान्तरम् । ************* टीका ************* विज्ञप्रिया (वि, न) नायकस्यापि फलान्तरं पताका । प्रकरी तु न नायकस्य फलान्तरमित्यर्थः । नच रावणस्यानायकत्वात्फलं तत्फलकत्वातस्य पताकत्वप्रसक्तिरिति वाच्यम् । अनायकत्वेन नायकसहायस्यैव विवक्षितत्वात्, नञः सदृशर्थकत्वात् । ********** टीका सम्पूर्णा ********** यथा---जटायोः मोक्षप्राप्तिः । अपेक्षितं तु यत्साध्यमारम्भो यन्निबन्धनः ॥ ६.६९ ॥ समापनं तु यत्सिद्ध्यै तत्कार्यमिति संमतम् । ************* टीका ************* विज्ञप्रिया (वि, प) कार्य्यरूपार्थप्रकृतिमाह------अपेक्षितमिति । आरम्भो नाटकारम्भः । समापनमपि नाटकस्यैव । रावणवध इति । तत्सिद्धौ सत्यां हि नाटकसमापनम् । ********** टीका सम्पूर्णा ********** यथा---रामचरिते रावणवधः । अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ॥ ६.७० ॥ आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः । ************* टीका ************* विज्ञप्रिया (वि, फ) अस्य कार्य्यस्य पञ्चावस्था आह---अवस्था इति । निष्पादकनिष्पाद्यरूपा अवस्था इत्यर्थः । तत्रारम्भयत्नप्राप्त्याशानियताप्तिरूपाः चतस्त्रोऽवस्था विष्पादिकाः । फलागमरूपा तु निष्पाद्या इत्यवधेयम् । ********** टीका सम्पूर्णा ********** तत्र--- भवेदारम्भ औत्सुक्यं यन्मुख्यफलसिद्धये ॥ ६.७१ ॥ यथा---रत्नावल्यां रत्नावल्यन्तः पुरनिवेशार्थं यौगन्धरायणस्यौत्सुक्यम् । एवं नायकनायिकादीनामप्यौत्सुक्यमाकरेषु बोद्धव्यम् । ************* टीका ************* विज्ञप्रिया (वि, ब) तत्रारम्भलक्षणमाह---भवेदिति । आकर इति तत्तन्नाटके इत्यर्थः । ********** टीका सम्पूर्णा ********** प्रयत्नस्तु फलाबाप्तौ व्यापारोऽतित्वरान्वितः । यथा रत्नावल्याम्---"तहवि ण अत्थि अण्यो दंसण उवाओ त्ति जधा तधा आलिहिअ जधासमीहिदं करैस्सम्" । ************* टीका ************* विज्ञप्रिया (वि, भ) तह वि इति । तथापि नास्त्यन्यो दर्शनोपाय इतिन्यथा तथा आलिख्य यथासमीहितं करिष्यमीति संस्कृतम् । अङ्गुलिकम्पनानन्तरं तथाप्युक्तिः । सङ्गमोपायः तदङ्गभूतो व्यापारस्यैव यत्नत्वेनोक्तत्वात् । लोचना (लो, ई) तथापि इति । तथापि नास्ति अन्यो दर्शनोपाय इति । यथा तथालिख्य यथासमीहितं करिष्यामि । यथा चन्द्रकलायां यक्ष्मीवरप्रदानरूपफलप्राप्तिसहितो राज्ञश्चन्द्रकलालाभः । ********** टीका सम्पूर्णा ********** इत्यादिना प्रतिपादितो रत्नावल्याश्चित्रलेखनादिर्वत्सराजसङ्गमोपायः । यथा च---रामचरिते समुद्रबन्धनादिः । उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसम्भवः ॥ ६.७२ ॥ ************* टीका ************* विज्ञप्रिया (वि, म) प्राप्त्यशामाह---उपायेति । उपायापायशङ्काभ्यां प्राप्तिसम्भवः । उद्देश्यप्राप्तिसम्भावना प्राप्त्याशा । ********** टीका सम्पूर्णा ********** यथा---रत्नावल्यां तृतीयेऽङ्के वेषपरिवर्तनाभिसरणादेः सङ्गमोपायाद्वासवदत्तालक्षणापायशङ्कया चानिर्धारितैकान्तसङ्गमरूपफलप्राप्तिः प्राप्त्यशा । एवमन्यत्र । ************* टीका ************* विज्ञप्रिया (वि, य) वेशपरिवर्त्तनं सागरिकाया वासवदत्तावेशकरणम् । तेन राज्ञः समीपे तस्या अभिसारः । सङ्गमोपायस्य राज्ञः सागरिकासङ्गमोपायस्य । वासवदत्ताया आगमनरूपापायस्य शङ्कयेत्यर्थः । ********** टीका सम्पूर्णा ********** अपायाभावतः प्राप्तिनियताप्तिस्तु निश्चिता । अपायाभावान्निर्धारितैकान्तफलप्राप्तिः । यथा रत्नावल्याम्--"राजा--देवीप्रसादनं त्यक्त्वा नान्यमत्रोपायं पश्यामि" । इति देवीलक्षणापायस्य प्रसादनेन निवारणान्नियतफलप्राप्तिः सूचिता । ************* टीका ************* विज्ञप्रिया (वि, र) नियतफलप्राप्तिः सूचितेति । अत्र देव्याः कोपशान्तिरूपफलस्य नियताप्तिः । नचास्य कथं कार्यावस्थात्वं सागरिकासङ्गमनरूपकार्यस्य तेनानिष्पादनातिति वाच्यम् । तत्कोपस्य तत्प्रतिबन्धकत्वेन तदभावस्य तत्कारणत्वात् । ********** टीका सम्पूर्णा ********** सावस्था फलयोगः स्याद्यः समग्रफलोदयः ॥ ६.७३ ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) फलागममाह---सावस्थेति । फलयोगः फलागमः । समग्रफलोदयः समस्तोद्देश्यफलसिद्धिः । सामग्यञ्च मुख्योद्देश्यफलस्य उद्देश्यफलान्तरसाहित्यम् । तद्वक्ष्यति फलान्तरसहित इति । इयमवस्था पूर्वोक्तचतुरवस्थाभिर्निष्पाद्या । ********** टीका सम्पूर्णा ********** यथा---रत्नावल्यां रत्नावलीलाभश्चक्रवर्तित्वलक्षणफलान्तरलाभसहितः । एवमन्यत्र । यथासंख्यमवस्थाभिराभिर्योगात्तु पञ्चभिः । पञ्चधैवेतिवृत्तस्य भागाः स्युः पञ्चसन्धयः ॥ ६.७४ ॥ ************* टीका ************* विज्ञप्रिया (वि, व) यथासंख्यमिति । आभिः पञ्चावस्थाभिर्योगादिति वृत्तस्य पञ्चविधैव भागाः । पञ्चसन्धयो भवन्तीत्यर्थः । लोचना (लो, उ) आभिरवस्थाभिरारम्भादिभिः । ********** टीका सम्पूर्णा ********** तल्लक्षणमाह--- अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति । एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैकप्रयोजनसम्बन्धः सन्धिः । ************* टीका ************* विज्ञप्रिया (वि, श) तल्लक्षणं सन्धिसामान्यलक्षणम् । कथांशनामित्यत्र एकान्वये सतीत्यस्य व्याख्या । एकेनेति । एकैकेन प्रयोजनेनेत्यर्थः । अवान्तरेत्यादेर्व्याख्या अवान्तरेति । ********** टीका सम्पूर्णा ********** तद्भेदानाह-- मुखं प्रतिमुखं गर्भो विमर्श उपसंहृतिः ॥ ६.७५ ॥ लोचना (लो, ऊ) उपसंहृतिः निर्वहणापरपर्याया । ********** टीका सम्पूर्णा ********** इति पञ्चास्य भेदाः स्युः क्रमाल्लक्षणमुच्यते । ************* टीका ************* विज्ञप्रिया (वि, ष) तद्भेदान् सन्धिभेदान् । क्रमादिति---उक्तपञ्चावस्थासाहित्येनैव सन्धिपञ्चकसिद्धेरुक्तत्वात् । तत्सहितमुखसन्ध्यादिक्रमेण इत्यर्थः । तथा चारम्भावस्थायुक्त इति । वृत्ताद्याभासो मुखसन्धिः । यत्नयुक्तः प्रतिमुखसन्धिः । प्राप्त्याशयुक्तो गर्भसन्धिः । नियताप्तियुक्तो विमर्शसन्धिः । फलागमयुक्तः उपसंहृतिः । ********** टीका सम्पूर्णा ********** यथाद्देशं लक्षणमाह--- यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा ॥ ६.७६ ॥ लोचना (लो, ऋ) नानार्थेति । नानाविधानामर्थानां वाच्यरूपाणां रसानाञ्च सम्भवो यस्यामित्यर्थः । ********** टीका सम्पूर्णा ********** प्रारम्भेण समायुक्ता तन्मुखं परिकीर्त्तितम् । ************* टीका ************* विज्ञप्रिया (वि, स) यत्र बीजेति । बीजमितिवृत्तस्य । प्रारम्भेणेति । उत्साहरूपप्रारम्भावस्थायुक्ता इत्यर्थः । प्रथमेऽङ्के इति तत्र कन्दर्पपूजायां सागरिकाया राज्ञो दर्शनं विधिना आनीय घटितं बीजम् । तच्च सागरिकायास्तत्सङ्गमोत्साहसहितम् । ********** टीका सम्पूर्णा ********** यथा--रत्नावल्यां प्रथमेऽङ्के । फलप्रधानोपायस्य मुखसन्धिनिवेशिनः ॥ ६.७७ ॥ लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं च तत् । ************* टीका ************* विज्ञप्रिया (वि, ह) मुखसन्धिनिवेशिन इति । बीजसमुत्पत्तिरूपमुखसन्धावुद्दिष्टस्य इत्यर्थः । ********** टीका सम्पूर्णा ********** यथा---रत्नावल्यां द्वितीयेऽङ्के वत्सराजसागरिकासमागमहेतोरनुरागबीजस्य प्रथमाङ्कोपक्षिप्तस्य सुसंगता--विदूषकाभ्यां ज्ञायमानतया किंचिल्लक्ष्यस्य वासवदत्तया चित्र फलकवृत्तान्तेन किञ्चिदुन्नीयमानस्योद्देशरूप उद्भेदः । ************* टीका ************* विज्ञप्रिया (वि, क) वासवदत्तया चित्रफलकेति । सागरिकालिखितेन राज्ञा स्वेन च युक्तं चित्रफलकं राज्ञा प्राप्तम् । वसन्तकहस्तात्स्खलितं वासवदत्तया तत्प्राप्य तत्र लिखितस्य तदुभयानुरागबीजनमुन्नीतम् । तादृशो भेदरूपः प्रतिमुखसन्धिश्च वासवदत्तायामागतायां सुसङ्गतावसन्तकयोर्व्यापाररूपो यत्नसहितः । ********** टीका सम्पूर्णा ********** फलप्रधानोपायस्य प्रागुद्भिन्नस्य किञ्चिन ॥ ६.७८ ॥ गर्भो यत्र समुद्भेदो ह्रासान्वेषणवान्मुहुः । ************* टीका ************* विज्ञप्रिया (वि, ख) प्रागुद्भिन्नस्येति । प्रतिमुखसन्धावुद्भिन्नस्येत्यर्थः । मुहुर्ह्रासान्वेषणवान् समुद्भेद इत्यन्वयः । ह्रासेत्यत्र त्रासेत्यपि क्वचित्पाठः । ********** टीका सम्पूर्णा ********** फलस्य गर्भोकरणाद्रर्भः । यथा रत्नावल्यां द्वितीयेऽङ्के---"सुसंगता---सहि, अदक्खिणा दाणि सि तुमं जा एवं भट्टिणा हत्थेण गाहिदा वि कोवं ण मुञ्चसि" इत्यादौ समुद्भेदः । पुनर्वासवदत्ताप्रवेशे ह्रासः । तृतीयेऽङ्के---"तद्वार्तान्वेषणाय गतः कथं चिरयति वसन्तकः" इत्यन्वेषणम् । विढूषकः--ही ही भोः, कोसम्बीरज्जलम्भेणावि ण तादिसो पिअवअस्सस्स परितोसो जादिसो मम सआसादो पियवअणं सुणिअ भवस्सदि" इत्यादावुद्भेदः । पुनरपि वासवदत्ताप्रत्यभिज्ञानाध्रासः । सागरिकायाः सङ्केतस्थानगमनेऽन्वेषणम् । पुनर्लतापाशकरणो उद्भेदः । ************* टीका ************* विज्ञप्रिया (वि, ग) सहीति । सखि ! अदक्षिणा इदानीमसि त्वम् । या एवं भर्त्रा हस्ते गृहीतापि कोपं न मुञ्चसीति संस्कृतम् । ही हीति । ही हीत्याश्चर्ये । भो भोः कौशाम्बीराज्यलाभेनापिन तादृशः प्रियवयस्यस्य परितोषः यादृशो मम सकाशात्प्रियवचनं श्रुत्वा भविष्यतीति संस्कृतम् । उद्भेदः सागरिकासङ्गमोपायस्य । वासवदत्ताप्रत्यभिज्ञानादिति सङ्केतभङ्गार्थमागतां तां दृष्ट्वेत्यर्थः । पुनः सागरिकाकर्त्तृकम् । उद्भेदः फलप्रधानोपायस्य । लतापाशकरणाद्धि राज्ञः सागरिकादर्शनं ततो गर्भसन्धेः प्राप्त्याशायोगरूपावस्थायोगः । लोचना (लो, ॠ) सहीति । सखि ! अदक्षिणेदानीमसि त्वम् । या एवं भर्त्राहस्तेऽपि गृहीतापि कोपं न मुञ्चसि । ही ही भो परितोषे । कौशाम्बीराज्यलाभेनापि न तादृशः प्रियवयस्यस्य परितोषः यादृशं मम सकाशात्प्रियवचनं श्रुत्वा भविष्यति । ********** टीका सम्पूर्णा ********** अथ विमिर्शः--- यत्र मुख्यफलोपाय उद्भिन्नो गर्भतोऽधिकः ॥ ६.७९ ॥ शापाद्यैः सान्तरायश्च स विमर्श इति स्मृतः । ************* टीका ************* विज्ञप्रिया (वि, घ) गर्भतोऽधिक इति । गर्भसन्धौ किञ्चिदुद्भिन्नो ह्रासान्वेषणवांश्च उद्भेदः । अत्र ततोऽधिको ह्रासराह्त्यात् । सान्तरायः सविघ्नः । ********** टीका सम्पूर्णा ********** यथा शाकुन्तले चतुर्थाङ्कादौ---अनसूया---पिअंवदे, जैवि गन्धव्वेण विवाहेण णिब्बुत्तकल्लाणा पिअसही सौन्तला अणुरूवभत्तुभाइणी संवुत्तेति निव्वुदं मे हिअअम्, तह वि एत्तिअं चिन्तणिज्जम्" इत्यत आरभ्य सप्तमाङ्कोपक्षिप्ताच्छकुन्तलाप्रत्यभिज्ञानात्प्रागर्थसञ्चयः शकुन्तलाविस्मरणरूपविन्घालिङ्गितः । अथ निर्वहणम्--- ************* टीका ************* विज्ञप्रिया (वि, ङ) अनसूयेति । वक्त्र्या उत्कीर्त्तनम् । प्रियंवदे । इत्यादिकमुक्तिः । "प्रियंवदे ! यद्यपि गान्धर्वेण विवाहेन निवृत्तकल्याणा प्रियसखी शकुन्तला अनुरूपभर्त्तृगामिनी संवृत्ता इति निर्वृतं मम हृदयम्"इति संस्कृतम् । षष्ठाङ्क इति । तत्पूर्वं दुर्वाससः शापेन राज्ञः शकुन्तलासमागमरूपप्रधानफलस्य उपायः प्रतिरुद्धः । विस्मरणरूपेति । "विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम् । स्मारिष्यति त्वां न स बोधैतोऽपि सन् कथां प्रमत्तः प्रथमोदितामिव । इति । दुर्वाससः शापेन विस्मरणम् । अयं शपप्रतिबन्धकप्रधानफलोपायरूपः विमर्शसन्धिः शकुन्तलाया राजसमागमप्रत्याशारूपावस्थासहितः । लोचना (लो, ळ) पिअंवदे इति । प्रियंवदे यद्यपि गान्धर्वेण विधिना निवृत्तकल्याणा प्रियसखी शकुन्तला अनुरूपभर्त्तृगामिनी संवृत्तेति निवृत्तं मे हृदयम् । ********** टीका सम्पूर्णा ********** बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ॥ ६.८० ॥ एकार्थमुपनीयन्ते यत्र निर्वहणां हि तत् । ************* टीका ************* विज्ञप्रिया (वि, च) ऐकार्थ्यमुपनीयन्त इति । एकोद्देश्यनिर्वाहादेकार्थता । स्पष्टमपरम् । ********** टीका सम्पूर्णा ********** यथा--वेण्याम्--"कञ्चुका--(उपसृत्य, सहर्षम्-) महाराज !वर्धसे । अयं खलु भीमसेनो दुर्योधनक्षतजारुणीकृतसर्वशरीरो दुर्लक्ष्यव्यक्तिः" इत्यादिना द्रौपदीकेशसंयमनादिमुखसन्ध्यादिबीजानां निजनिजस्थानोपक्षिप्तानामेकार्थयोजनम् । यथा वा-शाकुन्तले सप्तमाङ्केऽशकुन्तलाभिज्ञानादुत्तरोर्ऽथराशिः । एषामङ्गान्याह-- ************* टीका ************* विज्ञप्रिया (वि, छ) अयं प्रकीर्णार्थैकात्मतोपनयनरूपो निर्वहणसन्धिः । उद्देश्यशकुन्तलासमागमरूपफलागमावस्थासहितः । एषामिति पञ्चसन्धानामित्यर्थः । ********** टीका सम्पूर्णा ********** उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥ ६.८१ ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) तत्र मुखसन्धेर्द्वादशाङ्गान्याह---उपक्षेप इत्यादि । ********** टीका सम्पूर्णा ********** युक्तिः प्राप्तिः समाधानं विधानं परिभावना । उद्भदः करणं भेद एतान्यङ्गानि वै मुखे ॥ ६.८२ ॥ यथोद्देशं लक्षणमाह-- काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः । लोचना (लो, ए) समुत्पत्तिः समुत्पत्तिमात्रम् । ********** टीका सम्पूर्णा ********** काव्यार्थ इतिवृत्तलक्षणप्रस्तुताभिधेयः । यथा वेण्याम्--"भीमः--- लाभागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृष्य पाण्डववधूपरिधानकेशान् स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) लाक्षागृहानलेति---"स्वस्था भवन्तु कुरुराजसुताः सभृत्याः"इति सूत्रधारस्योक्तिं श्रुत्वा प्रविष्टस्य भीमस्योक्तिरियम् । लाक्षेत्यादिभिः प्राणेषु वित्तनिचयेषु च येऽस्मान् प्रहृत्य धार्तराष्ट्रा मयि जीवति सति स्वस्था भवन्ति ? इति । अत्र काकुध्वनिना न स्वस्था भविष्यन्तीत्यर्थः । लाक्षेत्यादिना प्राणेषु प्रहारप्रवेशेन वित्तनिचयेषु च प्रहारः । परिधानकेशानित्यत्र द्वन्द्वः । अत्र काव्यार्थस्य कुरुकुलवधप्रतिपादनस्योत्पत्तिः । ********** टीका सम्पूर्णा ********** समुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरः पुनः ॥ ६.८३ ॥ यथा तत्रैव--- प्रवृद्धं यद्वैरं मम खलु शिसोरेव कुरुभिर्- न तत्रार्यो हेतुर्न भवति किरीटी न च युवाम् । जरासंधस्योरः स्थलमिव विरूढं पुनरपि क्रुधा भीमः सन्धिं विघटयति यूयं घटयत ॥ ************* टीका ************* विज्ञप्रिया (वि, ञ) परिकरलक्षणमाह---समुत्पन्नेति । प्रवृद्धं यद्वैरमिति---सन्धिकरणविमुखस्य भीमस्य सहदेवं प्रत्युक्तिरियम् । शिशोरेवेति---मम यौवनापेक्षापि तैर्न कृता, शिशुकाल एव विषदानात् । आर्यो युधिष्ठिरः । किरीटी अर्जुनः । युवां नकुलसहदेवौ । विरूढं कृष्णदौत्येन जातं, सन्धिमित्यन्वयः । अत्र समुत्पन्नलाक्षागृहादिकथनरूपार्थबाहुल्यम् । ********** टीका सम्पूर्णा ********** तन्निष्पत्तिः परिन्यासः--- यथा तत्रैव--- चञ्चद्रभुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि ! भीमः ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) परिन्यासलक्षणमाह---तन्निष्पत्तिरिति । काव्याभिधेयरूपस्येतिवृत्तस्य निष्पत्तिः---भावनिष्पत्तिकथनमित्यर्थः । चञ्चदिति---द्रौपदीं प्रती भीमस्योक्तिरियम् । हे देवि द्रौपदि ! तव कचान् केशान् वेणीबद्धान् कुर्वन् भीम उत्तंसयिष्यति । उत्तंसनेन दुर्योधनोरुरूपालङ्कारेण विशिष्टान् करिष्यतीत्यर्थः । भीमः कीदृशः ? सुयोधनस्य स्त्यानावनद्धेन प्रवृद्धसम्बद्धेन घनशोणितेन शोणपाणिः । सुयोधनस्य कीदृशस्य ? चञ्चता चलता भुजेन भ्रमितया गदयाभिघातेन संचूर्णितमूरुयुगलं यस्य तादृशस्य । अत्र भाविन्या ऊरुभङ्गनिष्पत्तेः कथनम् । लोचना (लो, ऐ) स्त्यानेति-स्त्यानः सनवनद्धः दृढीभूत इत्यर्थः । ********** टीका सम्पूर्णा ********** अत्रोपक्षेपो नामेतिवत्तलक्षणस्य काव्याभिधैयस्य संक्षेपेणोपक्षेपणमात्रम् । परिकरस्तस्यैव बहुलीकरणम् । परिन्यासस्ततोऽपि नश्चयापत्तिरूपतया परितो हृदये न्यसनम्, इत्येषां भेदः । एतानि चाङ्गानि उक्तेनैव पौर्वापर्येण भवन्ति, अङ्गान्तराणि त्वन्यथापि । ************* टीका ************* विज्ञप्रिया (वि, ठ) अक्तत्रयाणां भेदं विचिन्त्य दर्शयति---अत्रेति । ततोऽपि नश्चयापत्तिरूपतया इति निश्चयस्य भाविकर्त्तव्यनिश्चयस्यापत्तिरपादानं बोधनमिति यावत् । हृदये बोद्धुर्हृदये । ********** टीका सम्पूर्णा ********** ---गुणाख्यानं विलोभनम् । यथा तत्रैव---"द्रौपदी--णाध, किं दुक्करं तुए परिकुविदेण" । यथा वा मम चन्द्रकलायां चन्द्रकलावर्णने--सेयम्, "तारुण्यस्यविलासः---" इत्यादि (१३९ पृ.) । यत्तु शकुन्तलादिषु "ग्रीवाभङ्गाभिरामम्---" इत्यादि मृगादिगुणवर्णनं तद्वीजार्थसम्बन्धाभावान्न संध्यङ्गम् । एवमङ्गान्तराणामप्यूह्यम् । ************* टीका ************* विज्ञप्रिया (वि, ड) विलोभनलक्षणमाह--गुणआख्यानमिति । किमिति । किं दुष्करं त्वया कुपितेन इति संस्कृतम् । इदं भीमस्य बलाधिक्यरूपगुणकथनम् । तारुण्यस्येति । अत्र विलासहासपदे तज्जनकपरे सारोपया लक्षणया प्रयुक्ते । अत्र चन्द्रकलासौन्दर्य्याख्यानम् । मृगादिगुणवर्णनमिति । गुणः--स्पृहणीयो धर्म्मः, अत्र क्रियारूपः । बीजार्थः--शकुन्तलाप्राप्तिबीजरूपोर्ऽथः । मृगक्रियावर्णनस्य तदसम्बन्धत्वात् । ********** टीका सम्पूर्णा ********** संप्रधारणमर्थानां युक्तिः--- ************* टीका ************* विज्ञप्रिया (वि, ढ) युक्तिलक्षणमाह---सम्प्रधारणिति । उद्देश्यार्थोपपादकयुक्तिप्रदर्शनम् ********** टीका सम्पूर्णा ********** यथा--वेण्यां सहादेवो भीमं प्रति आर्य ! किं महाराजसंदेशोऽयमव्युत्पन्न एवार्येण गृहीतः" इत्यतः प्रभृति यावद्भीमवचनम् । "युष्मान् ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः । न लज्जयति दारणां सभायां केशकर्षणम्" ॥ इति । ----प्राप्तिः सुखागमः ॥ ६.८४ ॥ यथा तत्रैव---"मथ्नामि कौरवशतं समरे न कोपात्---" इत्यादि (२८४ पृ.) "द्रौपदी--(श्रुत्वा सहर्षम्--) णाध, अस्सुदपुव्वं क्खु एदं वअणम्, ता पुणो पुणो भण" । ************* टीका ************* विज्ञप्रिया (वि, ण) प्राप्तिलक्षणमाह---प्राप्तिरिति । णाधेति । नाथ ! अश्रुतपूर्वं खलु ईदृशं वचनम्, तत्पुनः पुनर्भण इति संस्कृतम् । ********** टीका सम्पूर्णा ********** बीजस्यागमनं यत्तु तत्समाधानमुच्यते । ************* टीका ************* विज्ञप्रिया (वि, त) समाधानलक्षणमाह---बीजस्येति । उक्तस्य उद्देश्यबीजस्य प्रधाननायकसम्मतत्वेन कथनं तत् । ********** टीका सम्पूर्णा ********** यथा तत्रैव--"(नेपथ्ये कलकलानन्तरम्) भो भो द्रुपदविराटवृष्ण्यन्धक सहदेवप्रभृतयः ! अस्मदक्षौहिणीपतयः कौरवचमूप्रधानयोधाश्च शृण्वन्तु भवन्तः--- यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विस्मर्तुमपीहितं शमवता शान्ति कुलस्येच्छता । तद्द्यूतारणिसंभृतं नृपसुताकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते" ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) यत्सत्येति । यत्यौधिष्ठिरं क्रोधज्योति इति सर्वत्र विशेषणम् । द्यूतारणीति । द्यूतरूपायामरण्यां मन्थनकाष्ठे नृपसुताया द्रुपदसुताया द्रौपद्याः केशस्याम्बरस्य चाकर्षणात्सम्भृतक्रोधज्योतिरग्निः । अन्यदपि हि ज्योतिररण्यामाकर्षणात्सम्भृतं भवति । ********** टीका सम्पूर्णा ********** अत्र "स्वस्था भवन्तु मयि जीवति--" इत्यादि बीजस्य प्रधाननायकाभिमतत्वेन सम्यगहितत्वात्समाधानम् । ************* टीका ************* विज्ञप्रिया (वि, द) समाधानपदस्य योगार्थमत्रोपपादयति---अत्रेति । अत्र भीमोक्त बाजस्य प्रधाननायकयुधिष्ठिरसम्मतत्वकथनम् । ********** टीका सम्पूर्णा ********** सुखदुः खकृतो योर्ऽथस्तद्विधानमिति स्मृतम् ॥ ६.८५ ॥ यथा बालचरिते--- "उत्साहातिशयं वत्स ! तव बाल्यं च पश्यतः । मम हर्षविषादाभ्यामाक्रान्तं युगपन्मनः" । यथा वा मम प्रभावत्याम्--"नयनयुगासेचनकम्-" इत्यादि (२३६ पृ.) । ************* टीका ************* विज्ञप्रिया (वि, ध) विधानरूपाङ्गलक्षणमाह---सुखदुः खाभ्यां कृतोऽपर्थ इत्यर्थः । उत्साहेति । इदं रामं प्रति जनकस्य वाक्यम् । अत्र उत्साहेन सुखम् । बाल्येन च दुःखम् । नयनयुगेत्यत्र यथोक्तार्थेन सुखम् । तद्विरहाद्दुः खम् । ********** टीका सम्पूर्णा ********** कुतूहलोत्तरा वाचः प्रोक्ता तु परिभावना । यथा--वेण्यां द्रौपदी युद्धं स्यान्न वेति संशयाना तूर्यशब्दानन्तरम् "णाध ! किं दाणिं एसो पलअजलहरत्थणिदमन्थ खणे खणे समरदुन्दुभि ताडीअदि" । ************* टीका ************* विज्ञप्रिया (वि, न) भावनालक्षणमाह--कुतूहलेति । णाधेति । नाथ किमिदानीमेष प्रलयजलधरस्तनितमांसलः क्षणे क्षणे समरदुन्दुभिस्ताड्यते । इति संस्कृतम् । अत्र युद्धेच्छा द्रौपद्याः कुतूहलोत्तरा एता वाचः । लोचना (लो, अ) णाधेति । नाथ किमिदानीमेष प्रलयजलधरः स्तनितमांसलः क्षणे क्षणे समरदुन्दुभिस्ताड्यते । ********** टीका सम्पूर्णा ********** बीजार्थस्य प्ररोहः स्यादुद्भेदः--- यथा तत्रैव--"द्रौपदी--अण्णां च णाह, पुणोवि तुम्हेहि समरादो आअच्छिअ समास्सासैदव्वा । भीमः--ननु पाञ्चालराजतनये ! किमद्यालीकाश्चासनया-- भूयः परिभवक्लान्तिलज्जाविधुरिताननम् । अनिः शेषितकौरव्यं न पश्यसि वृकोदरम् ॥ ************* टीका ************* विज्ञप्रिया (वि, प) उद्भेदलक्षणमाह---बीजार्थस्येति । प्ररोह उत्पाद्यतानिश्चयः । णधेति । नाथ पुनरपि समाश्वासयितव्याहमिति संस्कृतम् । अहमिति द्रौपद्या आत्मनिर्द्देशः । भूय इति । बन्धुरितं नामितं भूयो न पश्यसीत्यन्वयः । भविष्यत सामीप्ये वर्त्तमाना अत्र भीमस्य कौरववधोत्पाद्यतानिश्चयः । लोचना (लो, आ) णाधेति । नाथ पुनरपि त्वया समाश्वासयितव्याहम् । ********** टीका सम्पूर्णा ********** ---करणं पुनः ॥ ६.८६ ॥ प्रकृतार्थसमारम्भः-- ************* टीका ************* विज्ञप्रिया (वि, फ) करणलक्षणमाह---करणमिति । स्पष्टम् । ********** टीका सम्पूर्णा ********** यथा तत्रैव---"देवि ! गच्छामो वयमिदानीं कुरुकुलक्षयाय" इति । ---भेदः संहतभेदनम् । यथा तत्रैव---"अत एवाद्यप्रभृति भिन्नोऽहं भवद्भ्यः" । केचित्तु---"भेदः प्रोत्साहना" इति वदन्ति । ************* टीका ************* विज्ञप्रिया (वि, ब) भेदलक्षणमाह---भेद इति । अद्य प्रभृतीति सहदेवे भीमस्योक्तिः । ********** टीका सम्पूर्णा ********** अथ प्रतिमुखाङ्गानि--- विलासः परिसर्पश्च विधुतं तापनं तथा ॥ ६.८७ ॥ नर्म नर्मद्युतिश्चैव तथा प्रगमनं पुनः । विरोधश्च प्रतिमुखे तथा स्यात्पर्युपासनम् ॥ ६.८८ ॥ पुष्पं वज्रमुपन्यासो वर्णसंहार इत्यपि । ************* टीका ************* विज्ञप्रिया (वि, भ) प्रतिमुखसन्धेस्त्रयोदशाङ्गान्याह--विलास इति । ********** टीका सम्पूर्णा ********** तत्र--- समीहा रतिभोगार्था विलास इति कथ्यते ॥ ६.८९ ॥ ************* टीका ************* विज्ञप्रिया (वि, म) रतिबोगार्थेति । रतिरनुरागः, तद्भोगस्तद्विषयो नायिकादिः, तत्र समीहा इच्छा । यद्यति रतिर्निधूवनं तद्भोगाय इच्छेत्येवमर्थ एव उदाहरणानुसारी युज्यते । तथापि ग्रन्थकृद्व्याख्यानुरोधादित्थं व्याख्यातम् । ********** टीका सम्पूर्णा ********** रतिलक्षणस्य भावस्य यो हेतुभूतो भोगो विषयः प्रमदा पुरुषो वा तदर्था समीहा विलासः । यथा शाकुन्तले--- कमं प्रिया न सुलभा मनस्तु तद्धावदर्शनायासि । अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ ************* टीका ************* विज्ञप्रिया (वि, य) कामं प्रयेति । शकुन्तलालिप्सोर्दुष्मन्तस्य उक्तिरियम्---अकृतार्थेऽपीति । कामिन उद्देश्यसिद्धिरेव मनसिजस्य कृतार्थता, तद्रहितेऽपि मनसिजे इत्यर्थः । उभयप्रार्थना उभयस्य रतिमनुरागाधिक्यं कुरुत इत्यर्थः । प्रकृते च शकुन्तलाया भावदर्शनात्तत्प्रार्थनाप्रार्थितस्य दुष्मन्तस्य रतिं कुरुत इत्यर्थः । लोचना (लो, इ) काममिति । मनसिजेऽकृतार्थेऽपि स्त्रीपुंसयुगलस्य सम्भोगं विनापि उभयप्रार्थना अन्योऽन्यप्रार्थना रतिं प्रीतिं कुरुते इत्यर्थः । नायिकाया नायके नायकस्य नायिकायां यदि प्रार्थन दृश्यते तदा उपभोगाभावेऽपि तयोः प्रीतिर्भवति तेन तस्या भावदर्शनेन प्रार्थना मयि अभिव्यक्तेति मनः समाश्वासि इति । ********** टीका सम्पूर्णा ********** इष्टनष्टानुसरणं परिसर्पश्च कथ्यते । ************* टीका ************* विज्ञप्रिया (वि, र) परिसर्पलक्षणमाह---दृष्टनष्टेति । नष्टेति णश अदर्शने इति धात्वर्थानुसाराद्दृष्टस्यानर्थक्यम् । तथा च पूर्वदृष्टस्य पश्चाददृष्टस्य वस्तुनोऽनुसरणमित्यर्थः । ********** टीका सम्पूर्णा ********** यथा शाकुन्तले---"राजा---भवितव्यमत्र तया । तथा हि--- अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् । द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा" ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) भवितव्यमत्र तयेति राज्ञः उक्तिरियम् । तया शकुन्तलया भवितव्यं स्थातव्यमिति । तत्र हेतुमाह---अभ्युन्नतेति । यतोऽस्य लतागृहस्य पाण्डुसिकते द्वारेऽभिनवा पदपङ्क्तिर्दृश्यते । कीदृशी पुरस्तात्पदस्य पूर्वभागेऽभ्युन्नता । पश्चाद्भागे जघनगौरवादवगाढा । अत्र पूर्वदृष्टशकुन्तलानुसरणम् । ********** टीका सम्पूर्णा ********** कृतस्यानुनयस्यादौ विधुतं त्वपरिग्रहः ॥ ६.९० ॥ ************* टीका ************* विज्ञप्रिया (वि, व) विधूतलक्षणमाह---कृतस्येति । आदौ कृतस्यानुनयस्य प्रीतेः पश्चादपरिग्रह आहार्य्य इत्यर्थः । ********** टीका सम्पूर्णा ********** यथा तत्रैव---"अलं वो अन्तेउरविरहपज्जुस्सुएण राएसिणा उवरुद्धेण" । केचित्तु---"विधृतं स्यादरतिः" इति वदन्ति । ************* टीका ************* विज्ञप्रिया (वि, श) तत्रैवेति । शाकुन्तल एव इत्यर्थः । अलमिति---अलं वोन्तः--पुरिकविरहपर्युत्सुकेन राजर्षिणा उपरूद्धेनेति संस्कृतम् । अत्र सख्या उपरोधवशात्शकुन्तलाया आदौ प्रीतिर्लभ्यते । उपरोधनिषेधाच्चाहार्यस्तदपरिग्रहः । केचिदितिआहार्यदीदृशनिषेधादरत्यवगमादत्र अस्वरसः । ********** टीका सम्पूर्णा ********** उपायादर्शनं यत्तु तापनं नाम तद्भवेत् । ************* टीका ************* विज्ञप्रिया (वि, ष) तापनलक्षणमाह---उपायेति । उद्देश्यार्ऽथोपायः । ********** टीका सम्पूर्णा ********** यथा रत्नावल्याम्---"सगरिका--- दुल्लहजणाणुराओ लज्जा गुरुई परअसो अप्पा । पियसहि विसमं पेम्मं मरणं सरणं णवरि एक्कम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, स) दुल्लहेति---"दुर्लभजनानुरागो लज्जा गुर्वो परवश आत्मा । प्रियसखि ! विषमं प्रेम मरणं शरणं केवलमेकम्" ॥ इति संस्कृतम् । दुर्लभजनो राजा । णवरीति केवले देशी, एवं प्रधानं शरणमित्यन्वयः । ********** टीका सम्पूर्णा ********** परिहासवचो नर्म--- यथा रत्नावल्याम्---"सुसंगता--सही ! जस्स किदे तुमं आअदा से अअं दे पुरदो चिट्ठदि । सागरिका---(साभ्यसूयम्) कस्स किदे अहं आअदा ? "सुसंगता--अलं अण्णसंकिदेण । णं चित्तफलअस्स" । ************* टीका ************* विज्ञप्रिया (वि, ह) नर्मलक्षणमाह--परिहासेति । सहीति । "सिखि ! यस्य कृते त्वामायाता सोऽयं ते पुरतस्तिष्ठती"ति संस्कृतम् । कस्सेति । "कस्य कृतेऽहमागता"इति संस्कृतम् । अयीति । "अयि अन्यशङ्किते ननु चित्रफलकस्य"इति संस्कृतम् । ********** टीका सम्पूर्णा ********** ---धृतिस्तु परिहासजा ॥ ६.९१ ॥ नर्मद्युतिः--- तथा तत्रैव--"सुसंगता-सहि ! अदक्खिणा दाणिं सि तुमं जा एव्वं भट्टिणा हत्थावलम्बिदावि कोवं ण मुञ्चसि । सागरिका--(सभ्रूभङ्गमीषद्विहस्य) सुसंगदे ! दाणिं वि कीलिदुं न विरमसि । केचित्तु--"दोषस्याच्छादनं हास्यं नर्मद्युतिः" इति वदन्ति । ************* टीका ************* विज्ञप्रिया (वि, क) नर्मद्युतिलक्षणमाह---धृतिरिति । परिहाससहिष्णुता इत्यर्थः । सहीति । सखि अदक्षिणा इदानीमसि त्वम् । या एवं भर्त्रा हस्तावलम्बितापि कोपं न मुञ्चसीति । सुसङ्गते ! इदानीमपि न विरमसि । अत्र सागरिकायाः सुसङ्गताकृतपरिहाससहिष्णुता । नर्मणि तस्यासूयताप्रदर्शनादसहिष्णुता इति भेदः । केचिदिति । अत्र दोषाच्छादनाप्रतीत्या अस्वरसः । ********** टीका सम्पूर्णा ********** ---प्रगमनं वाक्यं स्यादुत्तरोत्तरम् । ************* टीका ************* विज्ञप्रिया (वि, ख) प्रशंसनरूपाङ्गस्य लक्षणमाह--प्रशंशनमिति । प्रशस्यतेऽनेन इति प्रशंसनम्, उत्तरोत्तरं तादृशं वाक्यमेव प्रशंसननामाङ्गमित्यर्थः । ********** टीका सम्पूर्णा ********** यथा विक्रमोर्वश्याम्--उर्वशी--जअदु जअदु महाराओ । राजा--- मया नाम जितं यस्य त्वया जय उदीर्यते" । इत्यादि । विरोधो व्यसनप्राप्तिः--- यथा चण्डकौशिके---"राजा---नूनमसमीक्ष्यकारिणा मया अन्धेनेव स्फुरच्छिखाकलापो ज्वलनः पद्भ्यां समाक्रान्तः" । ************* टीका ************* विज्ञप्रिया (वि, ग) विरोधलक्षणमाह---विरोध इति । राजा हरिश्चन्द्रः । स्फुरदर्चिः--समूहोज्ज्वलनो विश्वामित्रः । ********** टीका सम्पूर्णा ********** ---क्रुद्धस्यानुनयः पुनः ॥ ६.९२ ॥ स्यात्पर्युपासनं-- यथा रत्नावल्याम्--"विढूषकः---भो, मा कुप्य । एषा हि कदलीघरन्तरं गादा" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, घ) पर्युपासनाङ्गलक्षणमाह---कृतस्येति । कृतस्य कोपहेतोरित्यर्थः । पुनरनुनयः कोपाकरणहेतुप्रदर्शनप्रित्यर्थः । भो इति । भो वयस्य मा कुप्य । एषा हि कदलीगृहान्तरं गतेति संस्कृतम् । एषेति---कदलीगृहान्तरप्रवेशस्य प्रदर्शनम् । ********** टीका सम्पूर्णा ********** ---पुष्पं विशेषवचनं मतम् । ************* टीका ************* विज्ञप्रिया (वि, ङ) पुष्पनामाङ्गलक्षणमाह---मुष्पमिति । अयं विशेषो विलक्षणपदार्थ इत्येवमर्थकं वचनमित्यर्थः । ********** टीका सम्पूर्णा ********** यथा तत्रैव---"(राजा हस्ते गृहीत्वा स्पर्शं नाटयति ) विदूषकाः---भो वअस्स ! एसा अपुव्वा सिरी तए समासादिदा । राजा---वयस्य ! सत्यम्--- श्रीरेषा, पाणिरप्यस्याः पारिजातस्य पल्लवः । कुतोऽन्यथा स्त्रवत्येष स्वेदच्छद्मामृतद्रवः ॥ ************* टीका ************* विज्ञप्रिया (वि, च) भो इति । "भो वयस्य एषापूर्वा श्रीस्त्वया समासादिता"इति संस्कृतम् । श्रीरेषेति । स्वेदच्छद्म घर्मव्याजः । पारिजातपल्लवादमृतद्रवस्त्रवणात् । ********** टीका सम्पूर्णा ********** प्रत्यक्षनिष्ठुरं वज्रम्--- यथा तत्रैव---"राजा---कथमिहस्थोऽहं त्वया ज्ञातः ? सुसंगता---ण केवलं तुमं समं चित्तफलएण । ता जाव गदुअ गदुअ देवीए णिवेदैस्सम्" । ************* टीका ************* विज्ञप्रिया (वि, छ) वज्ररूपाङ्गलक्षणमाह--प्रत्यक्षेति । न केवलमिति । न केवलं त्वं समं चित्रफलकेन । तद्यावद्रत्वा देव्यै निवेदयिष्यमि । इति संस्कृतम् । इदं सुसङ्गतावाक्यं राज्ञः साक्षान्निष्ठुरम् । ********** टीका सम्पूर्णा ********** ---उपन्यासः प्रसादनम् ॥ ६.९३ ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) उपन्यासलक्षणमाह--उपन्यास इति । प्रसादनं प्रसादनप्रार्थना । ********** टीका सम्पूर्णा ********** यथा तत्रैव--"सुसंगता--भट्टुण ! अलं सङ्काए । मए वि भटिणीए पसादेण कीलिदं ज्जेव एदिहिम् । ता किं कण्णाभरणोण । अदो वि मे गरुअरो पसादो एसो, जं तुए अहं एत्थ आलिहिदत्ति कुविदा मे पिअसही साअरिआ । एसा ज्जेव पसादीअदु" । केचित्तु---"उपपत्तिकृतो ह्यर्थ उपन्यासः स कीर्तितः" । इति वदन्ति । उदाहरन्ति च, तत्रैव---"अदिमुहरा क्खु सा गब्भदासी" इति । ************* टीका ************* विज्ञप्रिया (वि, झ) भर्तः ! अलं शङ्कया मयापि भर्त्र्याः प्रसादेन क्रीडितमेव एतैः । तत्किं कर्णाभरणेन ? अतोऽपि मे गुरुतरः प्रसाद एष यत्त्वयाहमत्रालिखितेति कुपिता मे प्रियसखी सागरिका । एषैव प्रसाद्यतामिति संस्कृतम् । तैः कर्णाभरणैः किं त्वयेत्यादिः सागरिकोक्तेरनुवादः । अत्र सागरिकाप्रसादनप्रार्थना उपपत्तिकृत इति युक्त्युपपादसत्वादुक्तेत्यर्थः । अदीति । अदिमुखरा खल्वेषा गर्भदासीति संस्कृतम् । नार्भदासी अन्तः पुरदासी । अत्र समं चित्रफलकेनेत्यादि निष्ठुरं सुसङ्गतया पूर्वमुक्तं वचनं विदूषकोक्त्युपपादकम् । ********** टीका सम्पूर्णा ********** चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते । ************* टीका ************* विज्ञप्रिया (वि, ञ) वर्णसंहाराङ्गलक्षणमाह---चातुर्वर्ण्येति । ब्राह्मणाद्यनेकवर्णानां मेलनकथनमित्यर्थः । ********** टीका सम्पूर्णा ********** यथा महावीरचरिते तृतीयेऽङ्के--- परिषदियमृषीणामेष वीरो युधाजित्सह नृपतिरमात्यैर्लोमपादश्च वृद्धः । अयमविरतयज्ञो ब्रह्मवादी पुराणः प्रभुरपि जनकानामङ्ग भो याचकास्ते ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) परिषदियमिति । मिलितब्राह्मणाद्यनेकवर्णसभाप्रदर्शनमिदम् । इयमृषीणां परिषद्सभा । युधाजित् । केकयदेशपकतिरिति ऋषिभिरमात्यैश्च सममेष वृद्धो राजा लोमपादः । अयमपि जनकानां जनकवंशस्य प्रभुः सीरध्वजः अविरतयज्ञो ब्रह्मवादी च । अद्रुहः द्रोदशून्यास्ते प्रसिद्धा याजकाः एते इति शेषः । ********** टीका सम्पूर्णा ********** इत्यत्र ऋषिक्षादीनां वर्णानां मेलनम् । अभिनवगुप्तपादास्तु--"वर्णशब्देन पात्राण्युपलक्ष्यन्ते । संहारो मेलनम्" इति व्याचक्षते । उदाहरन्ति च रत्नावल्यां द्वितीयेऽङ्के--"अदो वि मे अत्त्रं गुरुअरो पसादो--" इत्यादेरारभ्य "णं हत्थे गेण्हिअ पसादेहि णम् । राजा--क्वासौ क्वासौ" इत्यादि । अथ गार्भाङ्गानि--- ************* टीका ************* विज्ञप्रिया (वि, ठ) पात्राणीति । नाट्यपात्राणीत्यर्थः । अदोवीति । अतोऽपि मे अयं गुरुतरः प्रसाद इत्यादेरारभ्य इत्यर्थः । इत्यादेरित्यवधौ पञ्चमी । जं किण अहं तत एत्थ आलिहि देत्यादिकमादावित्याद्यविधिरूपेत्यर्थः । णं हत्थेति । ननु हस्ते गृहीत्वा प्रसादय एनामित्यर्थः । क्वासौ क्वासाविति हर्षे वीप्सा । अत्र राजा सुसङ्गता सागरिकाश्च पात्राणि, एषां मेसनम् । ********** टीका सम्पूर्णा ********** अभूताहरणं मार्गो रूपोदाहरणो क्रमः ॥ ६.९४ ॥ संग्रहश्चानुमानं च प्रार्थना क्षिप्तिरेव च । त्रो (तो) टकाधिबलोद्वेगा गर्भे स्युर्विद्रवस्तथा ॥ ६.९५ ॥ तत्र व्याजाश्रयं वाक्यमभूताहरणं मतम् । यथा अश्वत्थामाङ्के--- अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा स्वैरं शेषे गज इति पुनर्व्याहृतं सत्यवाचा । ************* टीका ************* विज्ञप्रिया (वि, ड) गर्भसन्धेर्द्वादशाङ्गान्याह---अभूतेति । अभूताहरणलक्षणमाह---तत्र व्याजेति । अश्वत्थामा हत इति युधिष्ठिरस्य व्याजाश्रयवाक्यम् । ********** टीका सम्पूर्णा ********** तच्छ्रुत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञः शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच ॥ तत्त्वार्थकथनं मार्गः--- यथा चण्डकौशिके--"राजा---भगवन् ! गृह्यतामर्जितमिदं भार्यातनयविक्रयात् । शेषस्यार्थे करिष्यापि चण्डालेऽप्यात्मविक्रयम् ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) मार्गरूपाङ्गलक्षणमाह---तत्त्वार्थेति । अव्याजकथनमित्यर्थः । गृह्यतामिति--विश्वामित्रं प्रति हरिश्चन्द्रनृपतेरुक्तिरियम् । भार्य्यायास्तनयस्य विक्रयणादर्जितमिदं वित्तं गृह्यतामित्यन्वयः । शेषस्य वित्तस्याप्यर्थे निमित्तमात्मविक्रयं करिष्यासि । तत्र राज्ञः आपद्यपि अव्याजकथनम् । ********** टीका सम्पूर्णा ********** रूपं वाक्यं वितर्कवत् ॥ ६.९६ ॥ यथा रत्नावल्याम्--"राजा--- मनः प्रकृत्यैव चलं दुर्लक्ष्यं च तथापि मे । कामेनैतत्कथं विद्धं समं सर्वैः शिलीमुखैः ॥ ************* टीका ************* विज्ञप्रिया (वि, ण) रूपात्मकमङ्गमाह---रूपमिति । वितर्कोऽसम्भविस्तुहेत्वनुसन्धानम् । मनः प्रकृत्यैवेति--सागरिकाविरहिणो राज्ञोऽयं वितर्कः । दुर्लक्ष्यं लक्षितुं द्रष्टुमशक्यम् । ********** टीका सम्पूर्णा ********** उदाहरणमुत्कर्षयुक्तं वचनमुच्यते । ************* टीका ************* विज्ञप्रिया (वि, त) उदाहरणरूपस्याङ्गस्य लक्षणमाह---उदाहरणमिति । उत्कर्षयुक्तं स्वाहङ्कारयुक्तम् । ********** टीका सम्पूर्णा ********** यथा अश्वत्थामाङ्के-- यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । यो यस्तत्कर्मसाक्षी, चरति मयि रणो यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम् ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) यो यः शस्त्रमिति । क्रुद्धस्याश्वत्थाम्न उक्तिरियम् । मयि रणे चरति सात पाण्डवीनां चमूनां मध्ये स्वभुजगुरुमदः सन् यो यः शस्त्रं बिभिर्ति एवं यो यः पाञ्चालगोत्र इत्यादि । एवं यो यस्तत्कर्म इत्यादि । तत्कर्म मृतस्य मम पितुः शिरश्छेदनरूपम् । एवं यश्च यश्च मम प्रतीमः क्रोधान्धोऽहं जगतमन्तकस्य तस्य तस्यान्तक इत्यर्थः । तैर्जगदन्तकस्य क्रोधोद्दीपनादेव जगदन्तक इत्यर्थः । ********** टीका सम्पूर्णा ********** भावतत्त्वोपलब्धिस्तु क्रमः स्यात्--- यथा शासुन्तले---"राजा---स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि । तथाहि-- उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः । पुलकाञ्चितेन कथयति मय्यनुरागं कपोलेन ॥ ************* टीका ************* विज्ञप्रिया (वि, द) क्रमरूपाङ्गलक्षणमाह---भावेति । भावस्यानुरागस्य तत्त्वेनोपलब्धिरित्यर्थः उन्नमितेति---पदानि श्लोकघटकदानि रचयन्त्याः अस्या आननं कर्तृ पुलकाञ्चितेन कपोलेन मयि अनुरागं कथयति इत्यर्थः । कीदृशमाननम् ? उन्नमितैकभ्रूलतम् । ********** टीका सम्पूर्णा ********** ---संग्रहः पुनः ॥ ६.९७ ॥ सामदानार्थसंपन्नः-- यथा रत्नावल्याम्---"राजा---साधु वयस्य ! इदं ते पारितोषिकम् । (इति कटकं ददाति ) । ************* टीका ************* विज्ञप्रिया (वि, ध) सामदानेति । साम्ना प्रीत्या दानेन च संप्रदानस्य दीपमानधनसंपत्तिरित्यर्थः । साध्विति---अत्र दीयमानकटकरूपधनसंपत्तिविर्दूषकस्य । ********** टीका सम्पूर्णा ********** ---लिङ्गादूहोऽनुमानता । यथा जानकीराघवे नाटके---"रामः--- लीलागतैरपि तरङ्गयतो धरित्रीमालोकनैर्नमयतो जगतां शिरांसि । तस्यानुमापयति काञ्चनकान्तिगौरकायस्य सूर्यतनयत्वमधृष्यतां च ॥ ************* टीका ************* विज्ञप्रिया (वि, न) अनुमानरूपाङ्गलक्षणमाह---लिङ्गादिति । अनुमानता का मानम् । लीलेति । परशुरामवर्णनमिदम् । तस्य लीला व्यवसायः । सूर्य्यतनयत्वं सूर्य्यतुल्यतेजस्वित्वेन सूर्य्यपुत्रत्वमधृष्यत्वं चानुमापयति । तस्य कीदृशस्य गतैर्गमनैरपि धरित्रो तरङ्गयतः चालयतः । आलोकनैर्जगतां शिरांसि नमयतस्तद्दृष्टमात्रैः सर्वैः प्रणम्यमानत्वात् । काञ्चनकान्तिवद्गौरकायस्य । ********** टीका सम्पूर्णा ********** रतिहर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत् ॥ ६.९८ ॥ यथा रत्नाषल्याम्---"प्रिये सागरिके ! शीतांशुर्मुखमुत्पले तव दृशौ, पद्मानुकारौ करौ, रम्भास्तम्भनिभं तथोरुयुगलं, बाहू मृणालोपमौ । इत्यह्लादकराखिलङ्गि ! रभसान्निः शङ्कमालिङ्ग्य मा- मङ्गनि त्वमनङ्गतापविधुराण्येह्येहि निर्वापय ॥ ************* टीका ************* विज्ञप्रिया (वि, प) प्रार्थनाङ्गरूपाङ्गलक्षणमाह---रतीति । रत्यर्थं यो नायिकाया हर्षो नायकस्य तादृशोत्सवानां प्रार्थनेत्यर्थः । शीतांशुरित्यादि । शीतांशुरूपत्वादिना आह्लादकराखिलाङ्गि ! एहि एहि रभसात्बलात्मदङ्गानि निः शङ्कमालिङ्ग्य अनङ्गतापविधुराणि तानि निर्वापय । तापशून्यानि कुरु इत्यर्थः । अत्रालङ्गनाधीनोत्सवप्रार्थना । ********** टीका सम्पूर्णा ********** इदं च प्रार्थनाख्यमङ्गम् । यन्मते निर्वहणो भूतावसरत्वात्प्रशस्तिनामाङ्ग नास्ति तन्मतानुसारेणोक्तम्, अन्यथा पञ्चषष्टिसंख्यत्वप्रसङ्गात् । ************* टीका ************* विज्ञप्रिया (वि, फ) अत्रैतदंशस्य निर्वहणसन्धेः प्रशस्तिनामाङ्गस्य वैकल्पिका स्थितिः । अनयोर्मिलितस्थितसत्त्वे तु वक्ष्यमाणचतुः षष्टिसंख्यासान्ध्यङ्गानां न भवति । पञ्चषष्टित्वापत्तेः । तथा हि अत्र गर्भसन्धौ एतदङ्गसत्त्वे एतान्यङ्गनि त्रयोदश भवन्ति, मुखसन्ध्यङ्गनि च द्वादशोक्तानि, अन्यसन्धिद्वयाङ्गानि च त्रयोदश त्रयोदश । निर्वहणसन्ध्यङ्गानि चतुर्दशेति । पञ्चषष्टित्वं प्रसजति । अतो यन्मते निर्वहणसन्धौ प्रशस्तिनामकं चरमाङ्गं नास्ति तन्मते एवात्रेदमङ्गमन्यथा तु नेत्याह--इदञ्चेति । तत्र प्रशस्तिनामाङ्गसत्त्वे हेतुमाह---भूतावसरत्वाभावादिति । भूतानि प्राणिनो नाट्यपात्राणि तदवसरत्वं तद्वत्त्वम् । अङ्गानामित्यङ्गनि भूतावसराण्युच्यन्ते । प्रशस्तयङ्गस्य सदस्याशीर्वादत्वेन तथात्वाभावादित्यर्थः । ********** टीका सम्पूर्णा ********** रहस्यार्थस्य तद्भेदः क्षिप्तिः स्यात्--- यथाश्वत्थामाङ्के--- एवस्यैव विपाकोऽयं दारुणो भुवि वर्तते । केशग्रहे द्वितीयेऽस्मिन्नूनं निः शेषिताः प्रजाः ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) क्षिप्तिरूपमङ्गमाह--रहस्यार्थस्येति । रहस्यार्थोऽभिनेतव्यार्थ इतिवृत्तरूपोर्ऽथस्तस्य भेद उत्पत्तिसूचनम् । एकस्येति । एकस्य द्रौपदीकेशग्रहणस्य । द्वितीये मृतद्रोणस्य धृष्टद्युम्नेन केशग्रहेऽत्र सर्वसंहाररूपस्य रहस्यस्य उत्पत्तिसूचनम् । ********** टीका सम्पूर्णा ********** ---त्रो(तो) टकं पुनः । संरब्धवाक्-- यथा चण्डकौशिके---"कौशिकः--आः, पुनः कथमद्यापि न सम्भूता स्वर्णादक्षिणाः" । ************* टीका ************* विज्ञप्रिया (वि, भ) त्रोटकरूपाङ्गलक्षणमाह--त्रोटकं पुनरिति । संरब्धवाक्सक्रोधवाक् । आः पापेति । हरिश्चन्द्रं नृपं प्रति पृथिवीदानदक्षिणादानार्थं विश्चामित्रस्य सक्रोधवाक । ********** टीका सम्पूर्णा ********** ---अधिबलभिसंमधिच्छलेन यः ॥ ६.९९ ॥ ************* टीका ************* विज्ञप्रिया (वि, म) अधिबलाङ्गलक्षणमाह---अधिबलमिति । अभिसन्धिरुद्देशषटनार्थं छलेनानुसन्धानम् । ********** टीका सम्पूर्णा ********** यथा रत्नावल्याम्---"काञ्चनमाला---भट्टिणि, इयं सा चित्तसालिआ । वसन्तअस्स सण्णं करोमि " इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, य) भट्टिणि इति । हे भर्त्रि ! इयं चित्रशालिका । तावद्वसन्तकस्य संज्ञां करोमीति संस्कृतम् । चित्रशालिकायां राज्ञः समीपे वासवदत्तावेशेन सागरिकामानेतुं तया सह वसन्तकेन संकेते कृते काञ्चनमालया तज्ज्ञात्वा वासवदत्तामेवानीय वसन्तकस्थाने सागरिकाऽगता इत्यङ्गुलिसंज्ञां कर्त्तुं वासवदत्तायामुक्तिरियं तस्याः । ********** टीका सम्पूर्णा ********** नृपादिजनिता भीतरुद्वेगः परिकीर्तितः । यथा वेण्याम्--- प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः । स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥ ************* टीका ************* विज्ञप्रिया (वि, र) नृपादिजनितेति । नृपादौ केनापि जनिता भीतिरित्यर्थः । प्राप्तावेकरथेति । स कर्णारिरर्जुनः स च कूरकर्म्मा कूरो वृकोदरो भीमः । एतावेकरथारूढौ भ्रातरौ प्राप्तावगतावित्यर्थः । कर्णारित्वेन कूरकर्म्मत्वेन च दुर्य्योधनस्य भीतिजननम् । ********** टीका सम्पूर्णा ********** शङ्काभयत्रासकृतः सम्भ्रमो विद्रवो मतः ॥ ६.१०० ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) विद्रवरूपाङ्गमाह---शङ्काभयेति । शङ्कया अनिष्टशङ्कया भयत्रासौ तत्कृतो यः संभ्रमः व्याकुलता विद्रवो मत इत्यर्थः । भाव्यनिष्टद्वेषो भयम् । आकस्मिकानिष्टोत्पत्त्या कर्त्तव्यमूढता तु त्रासः । ********** टीका सम्पूर्णा ********** यथा-- कालान्तककरालास्यं क्रोधोद्भूतं दशाननम् । विलोक्य वानरानीके सम्भ्रमः कोऽप्यजायत ॥ ************* टीका ************* विज्ञप्रिया (वि, व) कालान्तकेति । क्रोधोद्धूतं क्रोधकम्पितं दशाननं विलोक्य वान रानीके कोऽपि संभ्रमोऽजायत इत्यर्थः । ********** टीका सम्पूर्णा ********** अथ विमर्शाङ्गानि--- अपवादोऽथ संफेटो व्यवसायो द्रवो द्युतिः । शक्तिः प्रसङ्गः शेदश्च प्रतिषेधो विरोधनम् ॥ ६.१०१ ॥ प्ररोचना विमर्शे स्यादादानं छादनं तथा । ************* टीका ************* विज्ञप्रिया (वि, श) विमर्शसन्धेस्त्रयोदशाङ्गान्याह---अपवाद इत्यादि । ********** टीका सम्पूर्णा ********** दोषप्रख्यापवादः स्यात्--- यथा वेण्याम्---"युधिष्ठिरः---पञ्चालक ! क्वचिदासादिता तस्य दुरात्मनः कौख्यापसदस्य पदवी । पाञ्चालकः--न केवलं पदवी, स एव दुरात्मा देवीकेशपाशस्पर्शपातकप्रधानहेतुरुपलब्धः" । ************* टीका ************* विज्ञप्रिया (वि, ष) दोषप्रख्या दोषप्रख्यापनम् । कौरवापसदस्य कौरवाधमस्य पदवी पादचिह्नम् । सोऽपि दुरात्मा दुर्योधनः । अत्रोक्त्यामेव दोषप्रख्यापनम् । ********** टीका सम्पूर्णा ********** ---संफेटो रोषभाषणम् ॥ ६.१०२ ॥ यथा तत्रैव---"राजा---अरे रे मरुत्तनय ! वृद्धस्य राज्ञः पुरतो निन्दितमप्यात्मकर्म शलाघसे । शृणु रे-- कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा प्रत्यश्रं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी । तस्मिन् वेरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा बाह्वोर्वोर्यातिभारद्रविणगुरुमदं मामजित्वैव दर्पः ॥ भीमः---(सक्रोधम्) आः पाप । राजा---आः पाप" । इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, स) सम्फेटरूपमङ्गमाह---अरे रे इत्यादि । दुर्योधनस्य भीमं संबोध्य उक्तिरियम् । वृद्धस्य राज्ञः धृराष्ट्रस्य । कृष्टा इति--तव भीमस्य तव अर्जुनस्य तस्य राज्ञो युधिष्ठिरस्य वा पशोस्तयोर्नकुलसहदेवयोर्वा पश्वोर्भार्या, भुवनपतेर्मम आज्ञया नृपतीनां समक्षं द्यूतदासी केशेषु कृष्टा । ये नरेन्द्रा युष्माभिर्हतास्तैस्तादृशे वैरानुबन्धे किमपकृतं तद्वद । तान् जित्वा यो दर्पः स किं मामजित्वेति काकुध्वनिविशेषवशाज्जित्वैव दर्प इति गम्यते । मां कीदृशम् ? बाह्वोर्वोर्यातिभाररूपेण द्रविणेन धनेन गुरुमदम् । आः पापेति । भीमदुर्योधनयोः परस्परं प्रति उक्तिः । राजा दुर्योधनः । अत्र द्वयोरेव रोषभाषणम् । ********** टीका सम्पूर्णा ********** व्यवसायश्च विज्ञेयःत प्रतिज्ञाहेतुसंभवः । यथा तत्रैव---"भीमः--- निहताशेषकौरव्यः क्षीबो दुःशासनासृजा । भङ्क्ता दुर्योधनस्यौर्वोर्भोमोऽयं शिरसा नतः ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) व्यवसायरूपमङ्गमाह---व्यवसायश्च इति । प्रतिज्ञाहेतोः प्रतिज्ञार्थस्य संभवो निष्पत्तिः, तत्कथनमित्यर्थः । निहतेति । क्षीबो मत्तः । असृजा शोणितेन । भङ्क्ता भङ्गकर्त्ता । ********** टीका सम्पूर्णा ********** द्रवो गुरुव्यतिक्रान्तिः शोकावेगादिसम्भवा ॥ ६.१०३ ॥ यथा तत्रैव---"युधिष्ठिरः---भगवन् ! कृष्णाग्रज ! सुभद्राभ्रातः ! ज्ञातिप्रीतिर्मनसि न कृता, क्षत्रियाणां न धर्मो रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन । तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः कोऽयं पन्था यदसि विमुखो मन्दभाग्ये मयि त्वम् । ************* टीका ************* विज्ञप्रिया (वि, क) द्रवरूपमङ्गमाह--द्रव इति । गुरोर्व्यतिक्रान्तिः भर्त्सनमित्यर्थः । भगवनित्यादि । युधिष्ठिरस्य दुर्योधनानुरागक्रुद्धबलभद्रभर्त्सनमिदम् । कृष्णग्रजेति सुभद्राभ्रातरिति च द्वयं स्वपक्षानुरागौचित्याय सम्बन्धप्रदर्शनम् । ज्ञातिप्रीतिरिति । ज्ञातयो वयम् । क्षत्रियाणां धर्मोऽपि मनसि न कृत इत्यर्थः । अयुध्यमानवधवैमुख्यं हि क्षत्रियाणां धर्मः । वयं ह्ययुध्यमानाः । तवानुजस्य श्रीकृष्णस्य अर्जुनेन सह रूढं तत्सख्यमपि न गणितम् । शिष्ययोर्भोमदुर्योधनयोस्तुल्यः स्नेहानुबन्धः । कामं यथेष्टम् । भवतु वरम् । यन्मन्दभाग्ये मयि त्वं विमुखः । कोऽयं पान्यथाः इत्यर्थः । अत्र गुरोर्बलभद्रस्य युधिष्ठिरेण भर्त्सनम् । ********** टीका सम्पूर्णा ********** तर्जनोद्वेजने प्रोक्ता द्युतिः--- यथा तत्रैव दुर्योधनं प्रति कुमारवृकोदरेणोक्तम्---- जन्मेन्दोविमले कुले व्यपदिशस्यद्यापि धत्से गदां मां दुः शासनकोष्णशोणितमधुक्षीबं रिपुं मन्यसे । दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे त्रासान्मे नृ-पशो ! विहाय समरं पङ्केऽधुना लीयसे ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) द्युतिरूपाङ्गलक्षणमाह---तर्ज्जनेति । कुमारेणेति । भीमेनेत्यर्थः । क्वचित्कुमारवृकोदरेणेत्येव पाठः । जन्मेति । विमलेन्दोः कुले जन्म व्यपदिशसि । अद्यापि गदां धत्से दधासि । दुः शासनस्य कोष्णेनाल्पोष्णेन शोणितमधुना क्षीबं मत्तं मां रिपुं भाषसे । न तु कार्येण प्राणदातारं भाषस इत्यर्थः । मुधुकैटभद्विषि श्रीकृष्णेऽपि दर्पान्धः उद्धतं साहङ्कारं चेष्टसे । हे नृपशो ! मे मत्तस्त्रासात्समरं विहायाधुना स त्वं कथं पङ्के लीयसे इत्यर्थः । अत्र कथमिति काकुगम्यम् । ********** टीका सम्पूर्णा ********** ---शक्तिः पुनर्भवेत् । विरोधस्य प्रशमनम्--- यथा तत्रैव--- "कुर्वन्त्वाप्ता हतानां रणशिरसि जना भस्मसाद्देहभारा- नश्रून्मिश्रं कथञ्चिद्ददतु जलममी बान्धवा बान्धवेभ्यः । मार्गन्तां ज्ञातिदेहान् हतनरगहने खण्डितान् गृध्रकङ्कैः- रस्तं भास्वान् प्रयातः सह रिपुभिरयं संह्रिन्तां बलानि ॥ ************* टीका ************* विज्ञप्रिया (वि, ग) शक्तिरूपमङ्गमाह---शक्तिरिति । विरोधस्य प्रशमनं समापनकथनमित्यर्थः । कुर्वन्त्वाप्ता इति । रणशिरसि हतानां देहभारान् । आप्ता बान्धवाः वह्निसात्कुर्वन्त्वित्यर्थः । तथा अमी बान्धवाः कथञ्चितस्त्रैर्मिश्रं जलं बान्धवेभ्यो ददतु । तथा हतनरगहने गृध्रकाकैः खण्डितान् ज्ञातिदेहान्मार्गन्ताम् । रिपुभिः सहायं भास्वानस्तं प्रयातः, बलानि संह्रियन्तामित्यर्थः । ********** टीका सम्पूर्णा ********** ---प्रसङ्गो गुरुकीर्त्तनम् ॥ ६.१०४ ॥ यथा मृच्छकटिकायाम्---"चाण्डालकः---एसो क्खु सागलदत्तस्स सुदो अज्जविस्मदत्तस्म णत्तिओ चालुदत्तो वावादिदुं वञ्झट्ठाणं णिज्जै एदेण किल गणिआ वसन्तसेणा सुअण्णलोहेण वावादि देत्ति । चारुदत्तः---(सनिर्वेदं स्वगतम्) "मखशतपरिपूतं गोत्रमुद्भासितं यत्, सदसि निविडचेत्यव्रह्मघोषैः पुरुस्तात् । मम निधनदशायां वर्त्तमानस्य पापैस्तदसदृशमनुष्यैर्घुष्यते घोषणायाम्" ॥ इत्यनेन चारुदत्तवधाभ्युदयानुकूलप्रसङ्गाद्गुरुकीर्त्तनमिति प्रसङ्गः । ************* टीका ************* विज्ञप्रिया (वि, घ) प्रसङ्गरूपाङ्गमाह---प्रसङ्ग इति । चाण्डालक इति । हन्तुं नीयमानं चारुदत्तं दृष्ट्वा चाण्डालक आह इत्यर्थः । एष इति । एष सगरदत्तस्य सुत आर्यविश्वदत्तस्य नप्ता चारुदत्तः व्यापादयितुं वध्यस्थानं नीयते । एतेन किल गणिका वसन्तसेना सुवर्णलोभेन व्यापादितेति (संस्कृतम् ) । एतच्छ्रुत्वा चारुदत्तः स्वीयप्रशस्तकुलकीर्त्तनात्लज्जया आह---मखशतेति । यन्मम गोत्रं परिपूतं तथा पुरस्तात्पूर्वकाले निबिडैश्चैत्यैरुद्भटैर्ब्रह्मघोषैः सदसि उद्भाषितं सभायामुच्चैः-- स्वरेण ब्राह्मणैः प्रशस्तमित्यर्थः । निधनदशायां वर्त्तमानस्य मम तद्रोत्रं पापैः असदृशमनुष्यैश्चाण्डालैः वध्यघोषणायामुद्धोष्यत इत्यर्थः । इत्यनेन इति । चारुदत्तस्य वधरूपो यो घातकानामभ्युदयस्तदनुकूल इत्यर्थः । तत्कुलघातकस्यैव घातकानामिष्टत्वात्गुरुकीर्त्तनम् । वध्यस्य पितृपितामहादिकीर्त्तनम् । ********** टीका सम्पूर्णा ********** मनश्चेष्टासमुत्पन्नः श्रमः खेद इति स्मृतः । मनः समुत्पन्नो यथा मालतीमाधवे--- दलति हृदयं गाढोद्वेगो द्विधा न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः, करोति न भस्मसात्प्रहरति विधिर्मर्मच्छेदी, न कृन्तति जीवितम् ॥ एवं चेष्टासमुत्पन्नोऽपि । ************* टीका ************* विज्ञप्रिया (वि, ङ) खेदरूपमङ्गमाह---मनश्चेष्टेति । दललीति । कपालकुण्डलापहृतमालतीशोकात्माधवस्योक्तिरियम् । न विदीर्यते न तु द्विखण्डं भवतीत्यर्थः । विकलः कायो मोहं वहतीत्यन्वयः । न कृन्तति न छिनत्ति । एवं चेष्टेति । स्त्रस्तांशावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा- दद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः । बद्धं कर्णशिरीषरोधिवदने घर्माम्भसां जालकं बन्धे स्त्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्द्धजाः ॥ इति घटोत्क्षेपणचेष्टया शकुन्तलायाः श्रमः । ********** टीका सम्पूर्णा ********** ईप्सितार्थप्रतीघातः प्रतिषेध इतीष्यते ॥ ६.१०५ ॥ यथा मम प्रभावत्यां विदूषकं प्रति प्रद्युम्नः---सखे ! कथमिह त्वमेकाकी वर्त्तसे ? क्व नु पुनः प्रियसखीजनानुगम्यमाना प्रियतमा मे प्रभावती ? विदूषकः- असुर वैणा आआरिअ कहिं वि णीदा । प्रद्युम्नः---(दीर्घं निश्वस्य ) हा पूर्णचन्द्रमुखि ! मत्तचकोरनेत्रे ! मामानताङ्गि ! परिहाय कुतो गतासि ?" । गच्छ त्वमद्य ननु जीवित ! तूर्णमेव दैवं कदर्थनपरं कृतकृत्यमस्तु ॥ ************* टीका ************* विज्ञप्रिया (वि, च) प्रतिषेधरूपमङ्गमाह---ईप्सितेति । असुरवैणेति---असुरपतिना आकृष्य कुत्रापि नीता इति संस्कृतम् । हा पूर्णचन्द्र इति पूर्वार्धे प्रियां सम्बोध्य शोचित्वापरार्द्धे जीवितं सम्बोध्य आह गच्छ त्वमद्यति । तत्र एव कदर्थनपरं दैवं कृतकृत्यमस्तु इत्यर्थः । अत्रेप्सितस्य प्रभावतीसमागमस्य प्रतिघातः । ********** टीका सम्पूर्णा ********** कार्यात्ययोपगमनं विहोधनमिति स्मृतम् । यथा वेण्याम्---युधिष्ठिरः--- तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निवृते कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवम् । भीमेन प्रियसाहसेन रभासादल्पावशेषे जये सर्व जीवितसंशयं वयममी वाचा समारोपिताः ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) निरोधरूपमङ्गमाह---कार्य्यत्ययेति । उद्देश्यकार्य्यस्यात्ययोपगमनं भवनमित्यर्थः । तीर्णे इति । दुर्य्योधनेन समं गदायुद्धे भीमेनोक्तम् । मत्पराजये सर्वेषां भ्रातॄणां पराजय इति । इदं श्रुत्वा युधिष्ठिरस्य स्वजयरूपकार्य्यस्यात्ययो भावनीमदम् । अल्पावशेषे जये प्रियसाहसेन भीमेन सर्वे वयं जीवितसंशयं प्रापिता इत्यन्वयः । जयस्याल्पावशेषत्वं दर्शयति---तीर्ण इति । निर्वृत शान्ते । कर्णाशीविषेति । आशीदन्तस्तत्र विषं यस्य । कर्णरूपे तादृशे भोगिनि सर्पे इत्यर्थः । ********** टीका सम्पूर्णा ********** प्ररोचना तु विज्ञेया संहारार्थप्रदर्शिनी ॥ ६.१०६ ॥ यथा वेण्याम्---"पाञ्चालकः--अहं देवेन चक्रपाणिना सहितः---" इत्युपक्रम्य कृतं सन्देहेन । पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते कृष्णात्यन्तचिरोज्झिते तु कबरीबन्धे करोतु क्षणम् । रामे शातकुठारभास्वरकरे क्षत्रद्रुमोच्छेदिनि क्रमधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) प्ररोचनारूपमङ्गमाह---प्ररोचना त्विति । संहारार्थप्रदर्शिनीति । कार्य्योपसंहारप्रदर्शिनी वाकित्यर्थः । पूर्य्यन्तामिति । गदायुद्धे भीमजयजिज्ञासार्थं कृष्णेन प्रहितस्य पाञ्चालकस्य युधिष्ठिरं प्रति उक्तिरियम् । ते तव राज्याभिषेकाय पूर्य्यन्तामित्यन्वयः । अत्यन्तचिरोज्झितेऽपि कबरीबन्धे कृष्णा द्रौपदी क्षणमुत्सवं करोतु इत्यन्वयः । भीमस्य जयसंशये कथमेतत्स्यादित्याह । राम इति । शातकुठारेण भासुरकरे क्षत्ररूपद्रुमोच्छेदिनि रामे परशुरामे वृकोदरे च क्रोधान्धे आजौ परिपतति गच्छति सति कुतो जयसंशय इत्यर्थः । ********** टीका सम्पूर्णा ********** कार्यसंग्रह आदानम्--- यथा वेण्याम्---"भो भोः समन्तपञ्चकचारिणः ! । नाहं रक्षो न भूतो रिपुरुधिरजलाह्लादिताङ्गः प्रकामं निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि । भो भो राजन्यवीराः ! समरशिखिशिखाभुक्तशेषाः ! कृतं व-- स्त्रासेनानेन लीनैर्हतकरितुरगान्तहितैरास्यते यत् ॥ अत्र समस्तरिपुवधकार्यस्य संकृहीतत्वादादानम् --- ************* टीका ************* विज्ञप्रिया (वि, झ) आदानरूपाङ्गलक्षणमाह---कार्य्यसंग्रह इति । उद्देश्यकार्य्यस्य संग्रहः प्राप्तिरित्यर्थः । नाहं भूत इति । देवयोनिप्राणिविशेषो भूतो नाहमित्यर्थः । अत एव पुंलिङ्गता । भूतोऽमी देवयोनय इति कोषात् । तर्हि कस्त्वमिति अत्राह---रिपुरुधिरेति । क्रोधनःसन् रिपुरुधिरजलेन क्लेदिताङ्गः प्रीणिताङ्गः सन् प्रकामं यथेष्टं निस्तीर्णः महाप्रतिज्ञारूपे जलनिधित्वं वनत्वं च रूपितं बोध्यम् । भो भोः समररूपाग्निशिखया भुक्तशेषा राजन्यवीराः ! वो युष्माकमनेन आसेन कृतमलम् । अयं आसो व्यर्थः । मया यूयं न हन्तव्या इत्यर्थः । आसः कथं ज्ञात इत्यत्राह--हतेति । यद्यधतकरितुरगान्तर्हितैर्युष्माभिरास्यते स्थीयते । अत्रेति । समस्तरिपुवधरूपस्य कार्य्यस्य संगृहीतत्वात्प्राप्तत्वादित्यर्थः । ********** टीका सम्पूर्णा ********** तदाहुश्छादनं पुनः । कार्यार्थमपमानादेः सहनं खलु यद्भवेत् ॥ ६.१०७ ॥ यथा तत्रैव---अर्जुनः-आर्य ! प्रसीद किमत्रक्रोधेन-- अप्रियाणि करोत्वेष वाचा शक्तो न कर्मणा । हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥ ************* टीका ************* विज्ञप्रिया (वि, ञ) अपमानादेरित्यादि पदाद्व्द्युरुक्तिपरिग्रहः । आप्रियाणीति । एष दुर्य्योधनः । ********** टीका सम्पूर्णा ********** अथ निर्वहणाङ्गानि । सन्धिर्विबोधो ग्रथनं निर्णयः परिभाषणम् । कृतिः तप्रसाद आनन्दः समयोऽप्युपगूहनम् ॥ ६.१०८ ॥ भाषणं पूर्ववाक्यञ्च काव्यसंहार एव च । प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः ॥ ६.१०९ ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) निर्वहणसन्धेश्चतुर्दशाङ्गान्याह---सन्धिर्विबोध इत्यादि । ********** टीका सम्पूर्णा ********** तत्र--- बीजोपगमनं सन्धिः--- ************* टीका ************* विज्ञप्रिया (वि, ठ) तत्र सन्धिरूपाङ्गमाह---बीजोपगमनमिति । प्रतिज्ञातार्थरूपस्य बीजस्य सिद्ध्या तत्स्मरणमित्यर्थः । ********** टीका सम्पूर्णा ********** यथा तत्रैव (वेण्याम्)---"भीमः-भवति ! यज्ञवेदिसम्भवे ! स्मरति भवती यन्मयोक्तम्--"चञ्चद्भुजे" त्यादि" । अनेन मुखे क्षिप्तबीजस्य पुनरुपगमनमिति सन्धिः । ************* टीका ************* विज्ञप्रिया (वि, ड) कौरवशतं हत्वा भवति यज्ञेत्यादिकं भीमस्योक्तिः । चञ्चद्भुजेत्यादिकं प्राग्व्याख्यातम् । अनेनेति । मुखे प्रथमतः क्षिप्तमुपन्यस्तं प्रतिज्ञया बोधितं बीजं प्रतिज्ञातार्थरूपं पुनरुपगतं ज्ञापितमित्यर्थः । ********** टीका सम्पूर्णा ********** ---विबोधः कार्यमार्गणम् । यथा तत्रैव---"भीमः--मुञ्चतु मामार्यः क्षणमेकम् । युधिष्ठिरः--किमपरमवशिष्टम् ? भीमः--सुमहदवशिष्टम् । संयमयामि तावदनेन सुयोधनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम् । युधिष्ठिरः--गच्छतु भवान्, अनुभवतु तपस्विनी वेणीसंहारम्" इति । अनेन केशसंथमनकार्यस्यान्वेषणाद्विबोधः । ************* टीका ************* विज्ञप्रिया (वि, ढ) विबोधरूपमङ्गमाह---विबोध इति । कार्य्यमार्गणं कार्य्यस्यान्वेषणम् । केशहस्तमिति । केशकलापं "पाशश्च पक्षश्च हस्तश्च कलापार्थाः । कचात्परे । " इति कोषः । ********** टीका सम्पूर्णा ********** उपन्यासस्तु कार्याणां ग्रथनं--- यथा तत्रैव---भीमः--पाञ्चालि ! न खलु मयि जीवति सहर्ंत्तव्या दुःशासनविलुलिता वेणिरात्मपाणिभ्याम् । तिष्ठ, स्वयमेवाहं संहरमि " इति । अनेन कार्यस्योपक्षेपाद्रग्रथनम् । ************* टीका ************* विज्ञप्रिया (वि, ण) उपन्यासरूपमङ्गमाह---उपन्यास इति । ग्रथनं करिष्यमाणकार्य्यकथनम् । विलुलिता विशकलीकृता । उपक्षेपात्करिष्यमाणतयोपन्यासात् । ********** टीका सम्पूर्णा ********** ---निर्णयः पुनः ॥ ६.११० ॥ अनुभूतार्थकथनं--- यथा तत्रैव, भीमः--देव अजातशत्रो ! अद्यापि दुर्योधनहतकः । मया हि तस्य दुरात्मनः-- भूमौ क्षिप्तं शरीरं निहतमिदमसृक्चन्दनाभं निजाङ्गे तक्ष्मीरार्ये निषक्ता चतुरुदधिपयः सीमया सार्द्धमुर्व्या । भृत्या मित्राणि योधाः कुरुकुलमनुजा दग्धमेतद्रणाग्नौ नामैकं यद्ब्रवीषि क्षितिप ! तदधुना धार्त्तराष्टस्य शेषम् ॥ ************* टीका ************* विज्ञप्रिया (वि, त) निर्णयरूपमङ्गमाह---निर्णय इति । अजातशत्रो इति युधिष्ठिरस्यापरं नाम । भूमौ क्षिप्तमिति । तस्य दुरात्मनो दुर्य्योधनस्य शरीरं मया भूमौ क्षिप्तं पातितम् । तस्येदमसृक्निजाङ्गं चन्दनाभं चन्दनवन्निहितम् । चतुरुदधिपयः सीमया उर्व्या सार्द्धम् । आर्य्ये! त्वयि लक्ष्मीर्नियुक्ता । रणाग्नवेतद्दग्धम् । तदेव किमितीत्याह---भृत्या इत्यादि । भृत्याद्याः कुरुकुलमनुजाः इत्यन्वयः । हे क्षितिप ! धार्त्तराष्ट्रस्य यन्नाम ब्रवीषि अधुना तदेव शेषमित्यर्थः । ********** टीका सम्पूर्णा ********** ---वदन्ति परिभाषणम् । परिवादकृतं वाक्यम्--- यथा शाकुन्तले--राजा आर्ये ! अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ? । तापसी--- को तस्स धम्मदारपरिट्टाइणो णामं गेण्हिस्सदि" । ************* टीका ************* विज्ञप्रिया (वि, थ) परिभाषणरूपमङ्गमाह---वदन्तीति । परिवादेति परिवादेनार्थेन कृतं वाक्यं परिवादार्थकं वाक्यमित्यर्थः । आर्य्ये ! अथ सेत्यादिपृच्छा दुर्वाससः शापाधीनविस्मरणकृतशकुन्तलापरित्यागस्य पश्चात्तां स्मृत्वा तामनासाद्य विरहिणः स्वर्गादागच्छतस्तापसीमुखात्तत्प्रसङ्गं श्रुत्वा दुष्मन्तस्य । को तस्सेति । कस्तस्य धर्मदारपरित्यागिनो नाम ग्रहीष्यतीति । ********** टीका सम्पूर्णा ********** ---लब्धार्थशमनं कृतिः ॥ ६.१११ ॥ यथा वेण्याम्--"कृष्णः--एते भगवन्तो व्यास--वाल्मीकिप्रभृतयोऽभिषेकं धारयन्तस्तिष्ठन्ति" इति । अनेन प्राप्तराज्यस्याभिषेकमङ्गलैः स्थिरीकरणं कृतिः । ************* टीका ************* विज्ञप्रिया (वि, द) कृतिरूपमङ्गमाह---लब्धानुगमनमिति । अनुगमनं स्थिरीकरणम् । अभिषेकं धारयन्तः प्रापयन्तः । धारयन्तीति क्वचित्पाठः । ********** टीका सम्पूर्णा ********** शुश्रूषादिः प्रसादः स्यात्--- यथा तत्रैव भीमेन द्रौपद्याः केशसंयमनम् । ---आनन्दो वाञ्छितागमः । यथा तत्रैव---"द्रौपदी---विसुमरिदं एदं वावारं णाधस्स पसादेण पुणो वि सिक्खिस्सं" । ************* टीका ************* विज्ञप्रिया (वि, ध) आनन्दरूपाङ्गमाह---आनन्द इति । विसुमरिदं इति । विस्मृतमिमं व्यापारं नाथस्य प्रसादेन पुनरपि शिक्षिष्ये इति संस्कृतम् । व्यापारः केशसंयमनरूपः । ********** टीका सम्पूर्णा ********** समयो दुःखनिर्याणां--- यथा रत्नावल्याम्--"वासवदत्ता---(रत्नावलीमालिङ्ग्य) समस्सस बहिणिए ! समस्सस" । ************* टीका ************* विज्ञप्रिया (वि, न) समयरूपमङ्गमाह---समय इति । समस्सस इति । समाश्वसिहि भगिनि ! समाश्वसिहीति संस्कृतम् । इयं सागरिकायाः मातुलकन्यकात्वेन परिचये सति वासवदत्ताया उक्तिः । ********** टीका सम्पूर्णा ********** ---तद्भवेदुपगूहनम् ॥ ६.११२ ॥ यत्स्यादद्भुतसम्प्राप्तिः-- यथा मम प्रभावत्यां नारददर्शनात्प्रद्युम्न ऊर्द्ध्वमवलोक्य--- दधद्विद्युल्लेखामिव कुसुममालां मरिमलभ्रमद्भृङ्गश्रेणीध्वनिभिरुपगीतां तत इतः । दिगन्तं ज्योतिभिस्तुहिनकरगौरैर्धवलयन्नितः कैलासाद्रिः पतति वियतः किं पुनरिदम् ॥ ************* टीका ************* विज्ञप्रिया (वि, प) उपगूहनरूपमङ्गमाह---तद्भवेदिति । अद्भुतसंप्राप्तिः अद्भुतदर्शनम् । दधदित्यादि । कैलासाद्रेरित्यपाये पञ्चमी । तथा च कैलासाद्रेरपेतो वियतो वियतोऽवधेः पतति कश्चित्पदार्थ इति शेषः । कैलासाद्रिरिति क्वचित्प्रामादिकः पाठः । तस्य कुसुममालाधारणाभावात् । कीदृशः पदार्थः ? विद्युल्लेखामिव कुसुममालां दधत् । मालां कीदृशी ? परिमलेन तत इतो भ्रमन्तीनां भृङ्गश्रेणीनां ध्वनिभिरुपगीताम् । पदार्थश्च कीदृशः ? तुहिनकरगौरैर्ज्योतिर्भिर्दिगन्तं शवलयन् । दिगन्तस्यापि श्यामत्वेन धवलज्योतिर्मिश्रणात्शवलता । अतः किं पुनरिदमित्यर्थः । ********** टीका सम्पूर्णा ********** ---सामदानादि भाषण्म् । यथा चण्डकौशिके--"धर्मः---तदेहि धर्मलोकमधितिष्ठ" । ************* टीका ************* विज्ञप्रिया (पि, फ) भाषणरूपमङ्गमाह---सामदानेति । सम्प्रदानस्य शान्तत्वं सामतेन दानम् । आदिपदाद्दातुर्मुक्तिर्वा इति । यत्तु संग्रहरूपस्य गर्भसन्धङ्गस्य सामदानार्थसम्पत्तिरिति लक्षणम्, तत्र दातुरेव सामप्रीतिरर्थश्च धनमिति भेदः । धर्मलोकं धर्म्मार्ज्जितं लोकम् । ********** टीका सम्पूर्णा ********** पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम् ॥ ६.११३ ॥ यथा वेण्याम्--भीमः--बुद्धैमतिके ! क्व सा भानुमती । परिभवतु सम्प्रति पाण्डवदारान्" । ************* टीका ************* विज्ञप्रिया (वि, ब) पूर्ववाक्यरूपमङ्गमाह---पूर्ववाक्यं त्विति । यथोक्तार्थोपदर्शनं परेण यथोक्तकटुवाक्यस्य स्मरणमित्यर्थः । भानुमती दुर्य्योधनस्य पत्नी तथा दासीद्वारा प्राक्कटूक्तिः कृता । ********** टीका सम्पूर्णा ********** वरप्रदानसंप्राप्तिः काव्यसंहार इष्यते । यथा सर्वत्र---किं ते भूयः प्रियमुपकरोमि" । इति । ************* टीका ************* विज्ञप्रिया (वि, भ) काव्यसंहाररूपमङ्गमाह---वरप्रदानेति । वरप्रदानार्थं संप्रप्तिस्तत्कालोपस्थितिरित्यर्थः । सर्वत्रेति । सर्वनाटकान्ते इत्यर्थः । किन्ते इत्यादिना हि वरप्रदानार्थं तत्कालोपस्थितिर्लभ्यते । ********** टीका सम्पूर्णा ********** नृपदेशादिशान्तिस्तु प्रशस्तिरभिधीयते ॥ ६.११४ ॥ यथा प्रभावत्याम्--- राजानः सुतनिर्विशेषमधुना पश्यन्तु नित्यं प्रजा जीयसुः सदसद्विवेकपटवः सन्तो गुणग्राहिणः सस्यस्वर्णसमृद्धयः समधिकाः सन्तु क्षमामण्डले भूयादव्यभिचारिणी त्रिजगतो भक्तिश्च नारायणो ॥ अत्र चोपसंहारप्रशस्त्योरन्त एकेन क्रमेणैव स्थितिः । ************* टीका ************* विज्ञप्रिया (वि, म) प्रशस्तिरूपमङ्गमाह---नृपदेशादीति । नृपस्य देशादः शान्तिः स्वस्त्ययनमाशीर्वाद इत्यर्थः । राजान इत्यादि । अधुना सुतनिर्विशेषं यथा स्यात्तथा राजानः प्रजाः पश्यन्तु । गुणग्राहिणः सन्तः शिष्टा जीयासुः उत्कर्षभाजो भवन्तु, यतस्ते सदसद्विवेकपटवः । क्षमामण्डले शस्यानां सुवर्णानाञ्च समृद्धयः समधिकाः सन्तु । नारायणे चाव्यभिचारिणी अकादाचित्की भक्तिः त्रिजगतां भूयादिति नृपदेशादिशान्तिः । अत्र चेति---काव्यसंहाररूपमङ्गोपसंहारः । अनेनाटकान्ते उपसंहारप्रशस्त्योर्निर्दिष्टक्रमणैवोपस्थितिरित्यर्थः । ********** टीका सम्पूर्णा ********** "इह च मुखसंधौ उपक्षेपपरिन्यासयुक्त्युद्भेदसमाधानानां प्रतिमुखे च परिसर्पणप्रगमनवज्रोपन्यासपुष्पाणां गर्भेऽभूताहरणमर्गत्रो (तो) टकाधिबलक्षेपाणां विमर्शेऽपवादशक्तिव्यवसायप्ररोचनादानानां प्राधन्यम् । अन्येषां च यथासम्भवं स्थितिः" इति केचित् । ************* टीका ************* विज्ञप्रिया (वि, य) सन्धिषु यान्यङ्गान्युक्तानि तेषु कतिचितङ्गान्येव आवश्यकत्वेन प्रधानानीति केचिदाहुः । सन्धौ सन्धौ च तानि दर्शयति । इह चेति । केचिदिति अस्वरसः । सर्वेषामङ्गानामनियमे नानावश्यकत्वदर्शनादुपसंहारप्रशस्त्योरेवावश्यकत्वदर्शनात् । ********** टीका सम्पूर्णा ********** चतुःषष्टिविधं ह्येतदङ्गं प्रोक्तं मनीषिभिः । कुर्यादनियते तस्य संधावपि निवेशनम् ॥ ६.११५ ॥ रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता । यथा वेहीसंहारे तृतीयाङ्के दुर्योधनकर्णयोर्महत्संप्रधारणम् । एवमन्यत्रापि । यत्तु रुद्रटादिभिः "नियम एव " इत्युक्तं तल्लक्ष्याविरुद्धम् । ************* टीका ************* विज्ञप्रिया (वि, र) चतुः षष्टिरिति । प्रार्थनाप्रशस्त्योर्मतभेदेन वैकल्पिकत्वस्योक्तत्वात् । समुच्चये तु पञ्चषष्टित्वापत्तेरित्युक्तं प्रगेव । सन्धीनामुक्तान्यङ्गानि । प्रायिकत्वाभिप्रायेणैवोक्तानि । रसानुगुणानुरोधेन तु एकसन्धेरङ्गनि अन्यसन्धावपि कुर्य्यादित्याह---कुर्य्यादनियते इति । अनियते सन्धवपि तस्याङ्गस्य निवेशनं कुर्य्यातित्यन्वयः । संप्रधारणमिति । मुखसन्धेर्युक्तिरूपमङ्गसंप्रधारणं तच्च गर्भसन्धावपि कृतमित्यर्थः । तत्र दुर्य्योधनकर्णाभ्यां युक्तिकरणात् । तल्लक्ष्यविरुद्धमिति । लक्ष्येषु उदाहरणनाटकेषु अनियमदर्शनात्विरुद्धमित्यर्थः । ********** टीका सम्पूर्णा ********** इष्टार्थरचनाश्चर्यलाभो वृत्तान्तविस्तरः ॥ ६.११६ ॥ रागप्राप्तिः प्रयोगस्य गोष्यानां गोपनं तथा । प्रकाशनं प्रकाश्यानामङ्गानां षड्विधं फलम् ॥ ६.११७ ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) इदानीमुक्ताङ्गानां यथासम्भवं षट्फलान्याह । इष्टानुसरणेति । इष्टस्यार्थस्यानुसरणमित्यर्थः । इष्टार्थरचनेति । इष्टानुहरणेति क्वचित्पाठः । आश्चर्य्यलाभोऽद्भुतवस्तुलाभ इत्यर्थः । वृत्तान्तस्य विस्तरेण ज्ञानम् । रागप्राप्तिरनुरागलाभः । गोप्यानामर्थानां संगोपनम् । प्रकाश्यानामर्थानां प्रकाशनञ्चेति प्रयोगस्य मुखसन्ध्यादिप्रयोगस्य अङ्गानामुपक्षेपाद्यङ्गानां षट्फलानीत्यर्थः । यथा काव्यार्थेत्पत्तिरूपस्य उपक्षेपरूपस्य मुखसन्ध्यङ्गस्य इष्टानुसरणं फलम् । एवमन्याङ्गानामन्यानि पञ्चफलानि यथासम्भवं नाटकेषुअनुसन्धेयानि । लोचना (लो, ई) यद्वस्तु गोपयितुमिष्टं तदङ्गस्वरूपविज्ञापनेन सुखेन गोपयितु एवं प्रकाश्यानां प्रकाशश्चेत्यर्थः । ********** टीका सम्पूर्णा ********** अङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत् । अङ्गहीनं तथा काव्यं न प्रयोगाय युज्यते ॥ ६.११८ ॥ संपादयेतां संध्यङ्गं नायकप्रतिनायकौ । तदभावे पताकाद्यस्तदभावे तथेतरत् ॥ ६.११९ ॥ ************* टीका ************* विज्ञप्रिया (वि, व) नाट्ये प्रयोगेऽङ्गानामावश्यकत्वमाह---अङ्गहीन इति । नारम्भक्षमः न कार्य्यारम्भक्षमः । सम्पादयेतामिति । अनेन सन्ध्यङ्गनिर्वाहकौ प्रथमतो नायकप्रतिनायकावेवेति उक्तम् । तदभावे क्वचित्ताभ्यामनिर्वाहे पताकाद्यास्तन्निर्वाहकाः । पताका च "व्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिदीयते । ऽ इत्यनेन नायकस्य वृत्तं पताकेत्युक्तम् । अत्र च तत्सम्बन्धात्नायकसहाय एव तत्त्वेनोक्तः । तदाद्यास्तन्निर्वाहकाः । आद्यपदात्नायिकासहायाः, तैरप्यनिर्वाह्यं यत् । इतरोऽपि तन्निर्वाहक इत्यर्थः । ********** टीका सम्पूर्णा ********** प्रायेण प्रधानपुरुषप्रयोज्यानि सन्ध्यङ्गानि भवन्ति । किन्तूपक्षेपादित्रयं बीजस्याल्पमात्रसमुद्दिष्टत्वादप्रधानपुरुषप्रयोजितमेव साधु । ************* टीका ************* विज्ञप्रिया (वि, श) उपक्षेपाद्यङ्गत्रयस्य च प्रधाननायकेतरेण समुद्दिष्टत्वे एव साधुता इत्याह--किन्तूपक्षेपेति । तत्र हेतुमाह---बीजस्येति । प्रधानेतिवृत्तरूपस्य काव्यार्थस्य यन्मूलं तद्वीजं तस्याल्पमात्रसमुद्देशस्योपक्षेपकाद्यङ्गत्रयेण कृतत्वादप्रधानपुरुषभीमसेनादिसमुद्दिष्टत्वमेव साध्वित्यर्थः । प्रधानपुरुषस्य धीरोदात्तत्वेन कर्त्तव्येतिवृत्तबीजसमुद्देशस्य अल्पस्यापि तेन करणानौचित्यादिति भावः । तथा हि काव्यार्थस्य समुत्पत्तिरूपं यदुपक्षेपरूपमङ्गं तेन वेण्यां लाक्षागृहानलेत्यादि भीमोक्त्या कुरुकुलवधरूपकाव्यार्थस्य तस्य बीजसमुत्पत्तिः प्रतिपादिता । समुत्पन्नार्थबाहुल्यं यत्परिकरात्मकमङ्गं तेन "प्रवृद्धं यद्वैरं ममऽ इत्यादि भीमोक्त्या तद्बाहुल्यं प्रतिपादितम् । काव्यार्थनिष्पत्तिकथनरूपं यत्परिन्यासात्मकमङ्गं तेन "चञ्चद्भुजेऽ त्यादिभीमोक्त्या निष्पत्तिः प्रतिपादिता । एतत्त्रयञ्च प्रधाननायकोक्तं तदधीरतापदकं स्यात् । नच समुत्पन्नार्थबाहुल्यकाव्यार्थनिष्पत्त्योः कथं बीजस्याल्पसमुद्दिष्टत्वमिति वाच्यम् । असमस्तोद्दिष्टस्यैवाल्पोद्दिष्टत्वमित्यभिप्रायात् । बीजोद्देशमात्रादेव नायकस्य धीरोदात्तत्वभङ्ग इत्यत्र एव तात्पर्य्यात् । ********** टीका सम्पूर्णा ********** रसव्यक्तिमपेक्ष्यैषामङ्गानां संनिवेशनम् । न तु केवलया शास्त्रस्थितिसंपादनेच्छया ॥ ६.१२० ॥ तथा च यद्वेण्यां दुर्योधनस्य भानुमत्या सह विप्रलम्भो दर्शितः, तत्ताद्दशेऽवसरेऽत्यन्तमनुचितम् । ************* टीका ************* विज्ञप्रिया (वि, ष) रसव्यक्तिमिति । तत्सन्धीनां यान्यङ्गन्युक्तानि । तानि तत्रैवेति नियमः । किन्तु रसव्यञ्जनापेक्षया एव एषां निवेशनं न तु नाट्यसास्त्रोक्तस्थितिसम्पादनेच्छया इत्यर्थः । यद्यपीदं प्रागप्युक्तं तथापि रसव्यक्त्यनपेक्षया करणे दोष त्वप्रतिपादनाय पुररूक्तम् । तदाह--तथा चेति । रसव्यक्त्यनपेक्षया निवेशनं तु नोचितमेवेत्यर्थः । तादृशेऽवसरे इति । वीररसे इत्यर्थः । न चाङ्गसन्निवेशनानौचित्ये दर्शयितव्ये रसनिवेशनानौचित्यप्रदर्शनमिदमसम्बद्धमिति वाच्यम् । अङ्गहीनरसाभावेन विप्रलम्भप्रदर्शनादेव तदङ्गस्यापि प्रदर्शनात् । ********** टीका सम्पूर्णा ********** अविरुद्धं तु यद्वृत्तं रसादिव्यक्तयेऽधिकम् । तदष्यन्यथयेद्धीमान्न वदेद्वा कदाचन ॥ ६.१२१ ॥ अनयोरुदाहरणं सत्प्रबन्धेष्वभिव्यक्तमेव । ************* टीका ************* विज्ञप्रिया (वि, स) स्वविरुद्धमिति । स्वस्योपक्रान्तवृत्तस्य विरुद्धमधिकं यद्वृत्तं वृत्तान्तः तदपि रसाभिव्यक्तयेऽन्यथयेदुपक्रान्तरसाविरुद्धतया प्रतिपादयेत् । तदसम्बे तु न वदेदितियर्थः । ********** टीका सम्पूर्णा ********** अथ वृत्तयः--- शृङ्गारे कौशिकी वीरे सात्त्वत्यारभटी पुनः । रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥ ६.१२२ ॥ चतस्त्रो वृत्तयो ह्येताः सर्वनाट्यस्य मातृकाः । स्युर्नायिकादिव्यापारविशेषा नाटकादिषु ॥ ६.१२३ ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) अथ वृत्तय इति । शृङ्गार इति । नायकादीनां व्यापारविशेषाश्चतस्त्रो वृत्तयो नाटकादिषु नाटकप्रकरणादिदशरूपकेषु नाटिकाद्यष्टादशोपरूपकेषु च सर्वनाट्यस्य मातृका मूलभूताः जनन्य इत्यर्थः । नायकादीत्यादिपदात्समस्तपात्रपरिग्रहः । तेन वक्ष्यमाणोदाहरणेषु पात्रान्तरकृत्यं नानुपपन्नम् । तत्र रसविशेषेषु वृत्तिविशेषानाह---शृङ्गार इत्यादि । वीरे सात्त्वतीत्यन्वयः । ********** टीका सम्पूर्णा ********** तत्र कौशिकी--- या श्लक्ष्णनेपथ्यविशेषचित्रा स्त्रीसंकुला पुष्कलनृत्यगीता । कामोपभोगप्रभवोपचारा सा कौशिकी चारुविलासयुक्ता ॥ ६.१२४ ॥ लोचना (लो, उ) कामेन मदनेन हेतुना य उपभोगः सम्भोगस्तत्कारणानि उपचाराश्चन्द्रचन्दनघनसारादयो यस्याम् । ********** टीका सम्पूर्णा ********** नर्म च नर्मस्फूर्जो नर्मस्फोटोऽथ नर्मगर्भश्च । चत्वार्यङ्गान्यस्या--- ************* टीका ************* विज्ञप्रिया (वि, क) या श्लेक्ष्णेति---लक्षणमुत्तमम् । नेपथ्यं वेशः । स्त्रीसंकुला स्त्रीव्यापारविमिश्रिता । पुष्कलं बहुलम् । अस्या अङ्गानि चत्वारि इत्याह---नर्म चेति । ********** टीका सम्पूर्णा ********** तत्र--- ---वैदग्ध्यक्रीहितं नर्मः ॥ ६.१२५ ॥ इष्टजनावर्जनकृत्तच्चापि त्रिविधं मतम् । विहितं शुद्धहास्येन सशृङ्गारभयेन च ॥ ६.१२६ ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) अत्र नर्मलक्षणमाह---वैदग्ध्येति । वैदग्ध्येन क्रीडितमित्यर्थः । तत्फलमाह---इष्टेति । इष्टजनस्यावर्जनमनुरागेण नम्रता तत्कृदित्यर्थः । तच्च नर्मत्रिविधमित्याह । तच्चेति । त्रैविध्यमाह---शुद्धहास्येनेति । शुद्धेन सशृङ्गारेण समयेन च हास्येन विहितमिति त्रैविध्यम् । भयञ्च हास्यविषयं बोध्यम् । ********** टीका सम्पूर्णा ********** तत्र केवलहास्येन विहितं यथा रत्नावल्याम्---"वासवदत्ता--(फलकमुद्दिश्य सहासम्) एसा वि अवरा तव समीवे जधालिहिदा एदं किं अज्जवसन्तस्स विण्णाणम् । ************* टीका ************* विज्ञप्रिया (वि, ग) एसावीति । एषाप्यपरा तव समीपे या आलिखिता एतत्किमार्यवसन्तकस्य विज्ञानम् ? (संस्कृतम्) । चित्रफलके सागरिकया लिखितं राजानं दृष्ट्वा सुसङ्गतया तत्समीपे सागरिकापि लिखिता । तत्र लिखितं राजानं दृष्ट्वा वासवदत्तया पृष्टं केन त्वमत्र लिखिता इति । ततो राज्ञोक्तं शिल्पविज्ञानार्थं समुल्लिखितमिदमिति । ततस्तदन्तिके सागरिकां लिखितां दृष्ट्वा "एषा क्रोधेन तस्याः शृङ्गाराभावात् । प्रबन्धरसस्तु शृङ्गार इति तत्रेयं वृत्तिः । ********** टीका सम्पूर्णा ********** सशृङ्गारहास्येन यथा शाकुन्तले--राजानं प्रति शकुन्तला--असंतुट्ठो उण किं करिस्सदि । राजा-- इदमम् । (इति व्यवसितःशकुन्तलावक्त्रं ढौकते) । ************* टीका ************* विज्ञप्रिया (वि, घ) असंतुष्ठो उणेति । असंतुष्टः पुनः किं करिष्यति ? इति (संस्कृतम्) ननु कमलस्य मधुकरः सन्तुष्यति गन्धमात्रेण इति राज्ञ उक्त्यनन्तरं शकुन्तलाया इयं पृच्छा । ढौकते चुम्बनार्थम् । वक्त्रमाननमाच्छादयति । ********** टीका सम्पूर्णा ********** सभयहास्येन यथा रत्नावल्याम्---आलेख्यदर्शनावसरे सुसंगता--जाणिदो मए एसो वुत्तन्तो समं चित्तफलएण । ता देवीए गदुअ निवेदैस्सम् । एतद्वाक्यसम्बन्धि नर्मोदाहृतम् । ************* टीका ************* विज्ञप्रिया (वि, ङ) जाणिदो इति । ज्ञातो मयैष वृत्तान्तः । समं चित्रफलकेन । तद्देव्यै गत्वा निवेदयिष्यामीति (संस्कृतम्) । अत्र राज्ञो भीतियुक्तेन सुसङ्गताया हासेन विहितं नर्म वैदघ्ध्यक्रीडितम् । ********** टीका सम्पूर्णा ********** एवं वेषचेष्टासम्बन्ध्यपि । ************* टीका ************* विज्ञप्रिया (वि, च) वाचा इव वेशचेष्टाभ्यामपि संभवतीत्याह---एवमिति । तत्र सागरिकायाः सङ्केतभङ्गार्थं तद्वेशाया वासवदत्ताया आगमने वेशेन बोध्यम् । क्वचित्नायिकायाश्च पलायमानादिचेष्टया आपि तद्वोध्यम् । ********** टीका सम्पूर्णा ********** नर्मस्फूर्जः सुखारम्भो भयान्तो नवसंगमः । यथा मालविकायाम्--सङ्केतनायकमभिसृतायां "नायकः-- विसृज सुन्दरि ! सङ्गमसाध्वसं ननु चिरात्प्रभृति प्रणयोन्मुखे । परिगृहण गते सहकारतां त्वमतिमुक्तलताचरितं मयि" ॥ मालविका--"भट्टा, देवीए भएण अप्पणो वि पिअ कौं ण पारेमि" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, छ) नर्मस्फूर्जमाह---नर्मस्फुर्ज इति । मालविकायामिति । मालविकानामनाटिकायामित्यर्थः । सङ्केतनायकं नायकम्, नियिकायां मालविकायाम् । विसृजेति । सुन्दरि ! सङ्गमे साध्वसं भयं विसृज । ननु भोश्चिरात्प्रणयोन्मुखे मयि अतिमुक्तलतायाः माधवीलतायाश्चरितं गृहाण । मयि कीदृशे ? सहकारतां चूतवृक्षतां गते, माधविकया चूतालिङ्गनात्, तद्वत्मामालिङ्गेत्यर्थः । भट्टा इति । हे भर्त्तः ! देव्याः भयेन आत्मनोऽपि प्रियं कर्त्तुं न पारयामि (संस्कृतम्) । आत्मनः प्रियमपीकत्यन्वयः । अत्र सुखेन सङ्गमरूपनर्मारम्भो भयान्तः । ********** टीका सम्पूर्णा ********** अथ नर्मस्फोटः--- नर्मस्फोटो भावलेशैः सूचिताल्परसा मतः ॥ ६.१२७ ॥ यथा मालतीमाधवे--- गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिकं किन्त्वेतत्स्यात्किमदन्यदितोऽथवा । भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥ अलसगमनादिभिर्भावलेशैर्माधवस्य मालत्यामनुरागः स्तोकः प्रकाशितः । ************* टीका ************* विज्ञप्रिया (वि, ज) नर्मस्फोटमाह---नर्मस्फोट इति । गमनमलसमित्यादि । माघवस्य मालत्यां भवसूचिकेयमुक्तिः । अलसगमनादिकमेतत्किन्नु तस्याः, ननु भोः किं स्यातितोऽन्यत्, अथ वा कियत्स्यादित्यर्थः । अधिकाधिकस्यापि सम्भावनीयत्वादिति भावः । अधिकाधिकस्य सम्भावनीयं हेतुमाह---भ्रमति भुवन इति । ते ते भावा वसन्तरवेन्द्वादयः । अत्रोत्तरोत्तराधिकाधिकसम्भावनायां पूर्वोक्तैः सूचितस्य भावस्य लेश एवेत्याह---अलसेत्यादि । अलसगमनादिभिरित्यत्र अलसगमनादिभैः सूचितैरित्यर्थः । अनुरागो निप्रलम्भरसः । सम्भोगरूपनर्मेच्छावत्त्वातत्र नर्म । ********** टीका सम्पूर्णा ********** नर्मगर्भो व्यवहतिर्नेतुः प्रच्छन्नवर्तिनः । यथा--तत्रैव सखीरूपधारिणा माधवेन मालत्या मरणव्यवसायवारणम् । ************* टीका ************* विज्ञप्रिया (वि, झ) नर्मगर्भमाह---नर्मगर्भ इति । प्रच्छन्नवर्त्तिनः प्रच्छन्नीभूय तिष्ठतः नेतुर्नायकस्य इत्यर्थः । व्यवहृतिर्व्यवसायः । सखीरूपेति । मालत्याः सखी लवङ्गिका । पित्रा राजाज्ञया जरते नन्दनाय दातुं कृतनिश्चया मालतीति देवतगृहे स्वमरणं प्रार्थयन्ती लवङ्गिकायाः पादे पतिता मालती । स्तम्भन्तरितस्थितो माधवश्च लवङ्गिकावेशेन आगत्य लवङ्गिकामपसार्य तत्स्थाने स्वपादं दत्त्वा स्थितः । ततो मालती उत्थाया लवङ्गिकाबुद्ध्या तमालिङ्ग्य पश्चाद्दृष्ट्वा परिचीयमाना व्यवसायत्निववृते इत्यर्थः । ********** टीका सम्पूर्णा ********** अथ सात्त्वती--- सात्त्वती बहुला सत्त्व--शौर्यत्यागदयार्जवैः ॥ ६.१२८ ॥ सहर्षा क्षुद्रशृङ्गारा विशोका साद्भुता तथा । उत्थापकोऽथ सांघात्यः संलापः परिवर्त्तकः ॥ ६.१२९ ॥ विशेषा इति चत्त्वारः सात्त्वत्याः परिकीर्त्तिः । ************* टीका ************* विज्ञप्रिया (वि, ञ) सात्त्वतीं वृत्तिमाह---अथेति । सत्त्वादिभिः समस्तव्यस्ताल्पतरैर्बहुला तद्वैशिष्ट्यात्बाहुल्यवती हर्षाद्यन्यतरयुक्ता वृत्तिश्च सात्त्वतीत्यर्थः । विशोक विगतशोका । वीरे रसे शृङ्गारस्यानुषङ्गिकत्वेन क्षुद्रत्वम् । अत्र क्षुद्रशृङ्गारत्वेन स्त्रीसंकुलत्वकामोपबोगराहित्येन वीररसत्वेन कौशिकीतो विशेषः । अस्याः प्रभेदचतुष्टयमाह---उत्थापक इत्यादि । ********** टीका सम्पूर्णा ********** उत्तेजनकरी शत्रोर्वागुध्यापक उच्यते ॥ ६.१३० ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) उत्तेजनेति---शत्रुं जेतुं मित्रस्य उत्तेजनम् । ********** टीका सम्पूर्णा ********** यथा महावीरचरिते--- आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा वैतृष्ण्यन्तु ममापि सम्प्रति कुतस्त्वद्दर्शने चक्षुषः । त्वत्साङ्गत्यसुखस्य नास्मि विषयस्तत्किं वृथा व्याहृतैः ? अस्मिन् विश्रुतजामदग्न्यदमने पाणौ धनुर्जृन्भताम् ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) आनन्दाय चेति---परशुरामागमे रामं प्रति जनकस्य वाक्यमिदम् । धनुर्भङ्गेन प्रतीज्ञातार्थसिद्ध्या योग्यवरप्राप्त्या चानन्दः । वीर्य्यातिशयदर्शनाद्विस्मयः । रामं हन्तुं परशुरामागमनात्दुः खम् । अतोऽद्य त्वद्दर्शने सम्प्रति एतत्क्षणे चक्षुषः कुतो वैतृष्णयम् । उत्कण्ठाबाहुल्यात्क्षणान्तरेऽनिष्टनिवृत्तौ तु उत्कण्ठानिवृत्त्या वैतृष्ण्यं स्यादिति सम्प्रति पदभावार्थः । बहुव्याहृतैर्वा किं, यतो वैवाहिकमाङ्गल्यसुखस्य न विषयोऽस्मि । अतोऽस्मिन् विंस्मृतस्य जामदग्न्यस्य विजयनिमित्तं तव बाहौ धनुर्जृम्भतामित्यर्थः । अत्र परशुरामं जेतुमुत्तेजनम् । अत्र विस्मयवशाद्रामशौर्य्येणानन्दादिना च वैशिष्ट्यं वीरो रसः । ********** टीका सम्पूर्णा ********** मन्त्रार्थदैवशक्त्यादेः साघात्यः सङ्घभेदनम् । मन्त्रशक्त्या यथा---मुद्राराक्षसे राक्षससायानां चाणक्येन स्वबुद्ध्या भेदनम् । अर्थशक्त्यापि तत्रैव । दैवशक्त्या यथा---रामायणो रावणाद्विभीषणस्य भेदः । ************* टीका ************* विज्ञप्रिया (वि, ड) संहात्यमाह--मन्त्रार्थेति । मन्त्रस्य मन्त्रणार्थस्य धनस्य दैवस्यादृष्टस्य वा शक्तेः शक्तिहेतोः संघस्य सैन्यसमूहस्य भेदनमित्यर्थः । राक्षसः शत्रुमन्त्री॑ चाणक्यो राजमन्त्री॑ स्वबुद्ध्या स्वमन्त्रणया । अत्र चाणक्यस्य सत्त्वदानानेकसत्त्वं संघभेदनवशाद्वीरो रसः । ********** टीका सम्पूर्णा ********** संलापः स्याद्रभीराक्तिर्नानाभावसमाश्रयः ॥ ६.१३१ ॥ यथा वीरचरिते---"रामः--अयं सः, यः किल सपरिवारकार्त्तिकेयविजयावजीतेन भगवता नीललोहिते परिवत्सरसहस्त्रान्तेवासिने तुभ्यं प्रसादीकृतः परशुः । परशुरामः--राम दाशरथे ! स एवायमार्यपादानां प्रियः परशुः । "इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, ढ) संलापमाह--संलाप इति । कार्त्तिकेयविजयावर्जितेनेति । तद्विजये नम्रीभूतेनेत्यर्थः । अत्र कौतुकेनेव विजयो न तु वास्तव इति तत्पितृप्रसादगम्यम् । तथापरप्रसादलब्धेन परशुना कोऽयं गर्व इति रामस्य गभीरात्मिका उक्तिः । परशुरामोक्तौ तत्प्रियवस्त्वपि मह्यं दत्तमिति स्वमहत्त्वख्यापनमेव गभीरता । ********** टीका सम्पूर्णा ********** प्रारब्धादन्यकार्याणां कारणं परिवर्तकः । यथा वेण्याम्---"भामः---सहदेव ! गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यस्त्रागारं प्रविश्यायुधसहायो भवामीति यावत् । अथवा आमन्त्रयितव्यैव मया पाञ्चाली" । इति । ************* टीका ************* विज्ञप्रिया (वि, ण) परिवर्त्तकमाह--प्रारब्धादिति । सहदेवेति--अत्र प्रारब्धं कार्य्यं युद्धम् । ततोऽन्यत्पाञ्चाल्यामन्त्रणम् । ********** टीका सम्पूर्णा ********** अथारभटी--- मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ॥ ६.१३२ ॥ संयुक्ता वधबन्धाद्यैरुद्धतारभटी मता । ************* टीका ************* विज्ञप्रिया (वि, त) अथारभटीति । मायेति । माया विद्याविशेषस्तया इन्द्रजालं परस्परविरुद्धनानावस्तुप्रदर्शनम्, संग्रमो युद्धम्, क्रोधेन उद्भ्रान्तचेष्टितम्---स्वपरंज्ञानराहित्येन चेष्टा । एतैर्युक्ता इत्यर्थः । अस्याः प्रभेदचतुष्टयमाह--- ********** टीका सम्पूर्णा ********** वस्तूत्थापनसंफैटौ संक्षिप्तिरवपातनम् ॥ ६.१३३ ॥ इति भेदास्तु चत्वार आरभट्याः प्रकीर्तिताः । मायाद्युत्थापितं वस्तु वस्तुत्थापनमुच्यते ॥ ६.१३४ ॥ यथोदात्तराघवे--- जीयन्ते जयिनोऽपि सान्द्रतिमिरव्रातैर्वियद्व्यापिभिर्- भास्वन्तः सकला रवेरपि कराः कस्मादकस्मादमी । एते चोग्रकबन्धकण्ठरुधिरैराध्मायमानोदरा मुञ्चन्त्याननकंदरानलमुचस्तीव्रान् रवान् फेरवाः ॥ इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, थ) वस्तृत्थापनलक्षणमाह--मायेति । जीयन्त इत्यादि । जयिनोऽपि वीरा वियद्व्यापिभिर्निशीथतिमिरैः समूहैर्जोयन्ते आच्छाद्यन्ते । रवेरपि अमी भास्वन्तः सकलाः कराः अकस्मादकाले कस्मादच्छाद्यन्ते । उग्रकबन्धकण्ठरुधिरैराध्मायमानमुत्फुल्लमानमुदरं येषां तादृशाः । आननरूपाभ्यः कन्दराभ्योऽनलमुच एते फेरवाः शृगालाश्च तीव्रान् रवान्मुञ्चन्तीत्यर्थः । अत्र परस्परविरुद्धालीकतिमिररविरश्म्यादिप्रदर्शनरूपमिन्द्रजालरूपवस्तु माययोत्थापितम् । रौद्रो रसः । ********** टीका सम्पूर्णा ********** संफेटस्तु समाघातः क्रुद्धसत्वरयोर्दूयोः । यथा मालत्यां माधवाघोरघण्टयोः । ************* टीका ************* विज्ञप्रिया (वि, द) सम्फेटलक्षणमाह---सम्फेटस्त्विति । समाघातः प्रहारोक्तिः । क्रुद्धेति । क्रुद्धौ च तौ सत्वरौ चेति कर्मधारयः । माधवाघोरेति । तत्र द्वयोः क्रुद्धता । सत्वरता परस्परप्रहारोक्तिश्च । ********** टीका सम्पूर्णा ********** संक्षिप्ता वस्तुरचना शिल्पैरितरथापि वा ॥ ६.१३५ ॥ संक्षिप्तिः स्यान्निवृत्तौ च नेतुर्नेत्रन्तरग्रहः । यथोदयनचरिते कलिञ्जहस्तिप्रयोगः । द्वितीयं यथा वालिनिवृत्त्या सुग्रीवः । यथा वा परशुरामस्यौद्धत्यनिवृत्त्या शान्तत्वापादनम्--"पुण्या ब्राह्मणजातिः--ऽइति । ************* टीका ************* विज्ञप्रिया (वि, ध) संक्षिप्तिलक्षणमाह--संक्षिप्तेति । नेतुर्नृत्यपात्रस्य एकस्य निवृत्तौ नेत्रन्तरस्य ग्रह एव संक्षिप्तवस्तुरचना । सा च शिल्पैरशिल्पैर्वेत्यर्थः । शिल्पं विलक्षणवस्तु निर्माणकौशलम् । किलिञ्जहस्तिप्रयोग इति । तत्र वास्तवस्तिरूपपात्रनिवृत्तौ शिल्पेन किलिञ्जनामहस्तिरूपपात्रप्रदर्शनम् । अशिल्पैराह---द्वितीयमिति । औद्धत्यनिवृत्त्येति । अत्र धर्मनिवृत्त्या धर्मिणि निवृत्तिर्बोध्या । औद्धत्यकालीनश्च रौद्रो रसः । एव सुग्रीवकिलञ्जहस्तिनोः पूर्वं रौद्रो रसो बोध्यः । ********** टीका सम्पूर्णा ********** प्रवेशत्रासनिष्क्रान्तिहर्षविद्रवसंभवम् ॥ ६.१३६ ॥ ************* टीका ************* विज्ञप्रिया (वि, न) अवपातलक्षणमाह---प्रवेशेति । प्रवेशादिविद्रवान्तानां सम्भव उत्पादनमवपातनमित्यर्थः । विद्रवः पलायनम् । मिलितानामेषामुत्पादनम् । प्रविश्येति । तेन पुरुषेण सर्वमिदं कृतम् । क्रोधवशातेतत्कारणात्रौद्रोरसः । ********** टीका सम्पूर्णा ********** अवपातनमित्युक्तं--- यथा कृत्यरावणो षष्ठेऽङ्के--"(प्रविश्य खङ्गहस्तः पुरुषः)" इत्यतः प्रभृति निष्क्रमणपर्यन्तम् । ---पूर्वमुक्तैक भारती । ************* टीका ************* विज्ञप्रिया (वि, प) भारतीवृत्तिस्तु पूर्वमुक्तैवेत्याह---पूर्वमिति । भारती संस्कृतप्रायो वाग्व्यापारो नराश्रय इति । स्थापककृत्यप्रसङ्गेन प्रागुक्तेत्यर्थः । सा च सर्वसाधारण्येनेत्युक्तम् । रसे सर्वत्र भारती । ********** टीका सम्पूर्णा ********** अथ नाट्योक्तयः--- अश्राव्य खलु यद्वस्तु तदिह स्वगतं मतम् ॥ ६.१३७ ॥ सर्वश्राव्यं प्रकाशं स्यात्तद्भवेदपवारितम् । रहस्यं तु यदन्यस्य परावृत्य प्रकाश्यते ॥ ६.१३८ ॥ त्रिपताककरेणान्यानपवार्यान्तरा कथाम् । आन्योन्यामन्त्रणं यत्स्यात्तज्जनान्ते जनान्तिकम् ॥ ६.१३९ ॥ ************* टीका ************* विज्ञप्रिया (वि, फ) नाट्योक्तय इति । नाट्ये परिभाषाविशेषा इत्यर्थः । तद्भवेदित्यादेः परत्रान्वयः । त्रिपताकेत्यादिकं जनान्तिकलक्षणम् । त्रिपताकलक्षणमग्रे वक्ष्यति । अन्तरा कथां कथामध्ये । तादृशेन करेणान्यमपवार्य्याच्छाद्य जनस्यान्ते अन्तिके यतन्योन्यामन्त्रणं कथनं, तज्जनान्तिकमित्यर्थः । ********** टीका सम्पूर्णा ********** किं व्रवीषीति यन्नाट्ये विना पात्रं प्रयुज्यते । श्रुत्वेवानुक्तमष्यर्थं तत्स्यादाकाशभाषितम् ॥ ६.१४० ॥ यः कश्चिदर्थो यस्माद्रोपनीयस्तस्यान्तरत ऊर्ध्वं सर्वाङ्गुलिनामितानामिकं त्रिपताकलक्षणं करं कृत्वान्येन सह यन्मन्त्र्यते तज्जनान्तिकम् । परावृत्यान्यस्य रहस्यकथनमपवारितम् । शेषं स्पष्टम् । ************* टीका ************* विज्ञप्रिया (वि, ब) विना पात्रमिति । रङ्गाप्रविष्टमुद्दिश्य इत्यर्थः । त्रिपताकेयादिकं व्याचष्टे---यः कश्चिदिति । तस्यन्तरत इति । तद्भिन्ने जने इत्यर्थः । इयं जनान्ते इत्यस्य व्याख्या । ऊर्द्ध्वं सर्वेति त्रिपताकव्याख्यानम् । अपवारितं व्याचष्टे---परावृत्त्येति । ********** टीका सम्पूर्णा ********** दत्तां सिद्धां च सेनां च वेश्यानां नाम दर्शयेत् । दत्तप्रयाणि वणिजां चेटचेट्योस्तथा पुनः ॥ ६.१४१ ॥ वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद्भवेत् । ************* टीका ************* विज्ञप्रिया (वि, भ) पात्राणां नामान्याह---दत्तामिति । वसन्तादिषु वर्णनीयस्य वस्तुनो यन्नाम भवेत्चेटचेट्योस्तथा नाम इत्यर्थः । ********** टीका सम्पूर्णा ********** वेश्या यथा वसन्तसेनादिः । वणिग्विष्णुदत्तादिः । चेटः कलहंसादिः । चेटी मन्दारिकादिः । नाम कार्यं नाटकस्य गर्भितार्थप्रकाशकम् ॥ ६.१४२ ॥ ************* टीका ************* विज्ञप्रिया (वि, म) गर्भितार्थ इति । नाटके गर्भितः प्रतिपाद्यो योर्ऽथस्तत्प्रकाशकं नाटकस्य नाम कार्य्यमित्यर्थः । सूचितार्थेति क्वचित्पाठः । ********** टीका सम्पूर्णा ********** यथा रामाभ्युदयादिः । नायिकानायकाख्यानात्संज्ञा प्रकरणादिषु । ************* टीका ************* विज्ञप्रिया (वि, य) नायिकानायकेति । प्रकरणभाणादयो ये रूपकप्रभेदास्तेषु । संज्ञा नायकनायिकयोराख्यानं संज्ञानामैवेत्यर्थः । नाटिकासट्टकादीनामिति । ********** टीका सम्पूर्णा ********** यथा मालतीमाधवादिः । नाटिकासट्टकादीनां नायिकाभिर्विशेषणम् ॥ ६.१४३ ॥ ************* टीका ************* विज्ञप्रिया (वि, र) नाटिकादीन्यष्टादशोपरूपकाणि यान्युक्तनि तेषां विशेषणं नाम काभिर्नायिकानाम्नैवेत्यर्थः । ********** टीका सम्पूर्णा ********** यथा रत्नावली-कर्पूरमञ्जर्यादिः । प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते । यथा शाकुन्तले--ऋषी, "गच्छावः" इत्यर्थे "साधयावस्तावत्" । ************* टीका ************* विज्ञप्रिया (वि, ल) प्रायेणेति---कलापमते कारितम्, पाणिनिमते णिच् । तदन्तः साधधातुः गमेः स्थाने प्रायेण प्रयुज्यते इत्यर्थः । ऋषी इति । शर्ङ्गरवशारद्वतयवक्त्रोर्निदेशः । ********** टीका सम्पूर्णा ********** राजा स्वमीति देवेति भृत्यैर्भट्टेति चाधमैः ॥ ६.१४४ ॥ राजषिभिर्वयस्येति तथा विढूषकेण च । ************* टीका ************* विज्ञप्रिया (वि, व) राजर्षिभिरिति । विदूषकेण च वयस्येति राजर्षिर्वाच्य इत्यर्थः । ********** टीका सम्पूर्णा ********** राजन्नित्यृषिभिर्वाच्यः सोऽपत्यप्रत्ययेन च ॥ ६.१४५ ॥ लोचना (लो, ऊ) अपत्यप्रत्ययेन यथा--हे राघव ! हे दाशरथे ! इत्यादि । ********** टीका सम्पूर्णा ********** स्वेच्छया नामभिविप्रविप्र आर्येति चेतरैः । ************* टीका ************* विज्ञप्रिया (वि, श) राजन्निति । स राजा ऋषिभिः राजन्नति अपत्यप्रत्ययेन च वाच्य इत्यर्थः । यथानर्घराघवे ऐन्दुमतेयेति विश्वामित्रेण दशरथः । विप्रस्तु विप्रैः स्वेच्छया नामभिर्वाच्यः । इतरैस्तु आर्य्येति । ********** टीका सम्पूर्णा ********** वयस्येत्यथवा नाम्ना वाच्यो राज्ञा विढूषकः ॥ ६.१४६ ॥ वाच्यौ नटीसूत्रधारावार्यनाम्ना परस्परम् । ************* टीका ************* विज्ञप्रिया (वि, ष) वयस्येत्यथवेति । विदूषको राज्ञा वयस्येति वाच्यः, अथवा नाम्नैव इति । वाच्यौ नटीसूत्रधारविति । आर्य्यनाम्ना इति । एकदेशे समस्तद्वयकीर्त्तनम् । तेन नट्या आय्यर्पुत्र इति । सूत्रधारेणार्य्येति वाच्यावित्यर्थः । ********** टीका सम्पूर्णा ********** सूत्रधारं वदेद्भाव इति वै पारिपार्शिवकः ॥ ६.१४७ ॥ सूत्रधारो मारिषेति हण्डे इत्यधमैः समाः । ************* टीका ************* विज्ञप्रिया (वि, स) मारिषेति पारिपार्श्विकं वदेत् । हण्डे इति समास्तुल्यजनाः । अधमैर्हण्डेति वाच्या । ********** टीका सम्पूर्णा ********** वयस्येत्युत्तमैर्हहो मध्यैरार्येति चाग्रजः ॥ ६.१४८ ॥ भगवन्निति वक्तव्याः सर्वैर्देवषिलिङ्गिनः । ************* टीका ************* विज्ञप्रिया (वि, ह) समा उत्तमैस्तु वयस्येति । मध्यमैस्तु हंहो इति वाच्या इत्यर्थः । अग्रजः सानुजैरार्य्येत्यर्थः । भगवन्निति । देवर्षयो लिङ्गिनः परिव्राजकाश्च सर्वैरेव भगवन्निति वाच्याः । ********** टीका सम्पूर्णा ********** वदेद्राज्ञीं च चेटीं च भवतीति विदूषकः ॥ ६.१४९ ॥ आयुष्मन् रथिनं सूतो वृद्धं तातेति चेतरः । ************* टीका ************* विज्ञप्रिया (वि, क) रथिनं वृद्धसूत आयुष्मन्निति इतरस्तु तातेति वदेदित्यर्थः । ********** टीका सम्पूर्णा ********** वत्सपुत्रकतातेति नाम्ना गोत्रेण वा सुतः ॥ ६.१५० ॥ लोचना (लो, ऋ) गोत्रेण यथा--हे कौशिक ! हे आत्रेय ! इत्यादि । ********** टीका सम्पूर्णा ********** शिष्योऽनुजश्च वक्तव्योऽमात्य आर्येति चाधमैः । ************* टीका ************* विज्ञप्रिया (वि, ख) वत्स पुत्रकेति । सुतः शिष्योऽनुजश्च वत्सेत्यादिभिर्वक्तव्य इत्यर्थः । ********** टीका सम्पूर्णा ********** विप्रैरयममात्येति सचिवेति च भण्यते ॥ ६.१५१ ॥ साधो ! इति तपस्वी च प्रशान्तश्चोच्यते बुधैः । ************* टीका ************* विज्ञप्रिया (वि, ग) प्रशान्तश्चेति---शान्तो जन इत्यर्थः । ********** टीका सम्पूर्णा ********** स्वगृहीताभिधः पूज्यः शिष्याद्यैर्विनिगद्यते ॥ ६.१५२ ॥ उपाध्यायेति चाचार्यो महाराजेति भूपतिः । स्वामीति, युवराजस्तु कुमारो भर्तृदारकः ॥ ६.१५३ ॥ भद्रसौम्यमुखेत्येवमधमैस्तु कुमारकः । ************* टीका ************* विज्ञप्रिया (वि, घ) भूपतिर्महाराजेति । युवराजस्तु स्वमीते सम्बोधने वाच्य इत्यर्थः । एवमुत्तरत्रापि । कुमारो युवराजेतरः । ********** टीका सम्पूर्णा ********** वाच्या प्रकृतिभी राज्ञः कुमारी भर्तृदारिका ॥ ६.१५४ ॥ पतिर्यथा तथा वाच्या ज्येष्ठमध्याधमैः स्त्रियः । ************* टीका ************* विज्ञप्रिया (वि, ङ) पतिर्यथेति । ज्येष्ठ उत्तमस्तथा चोत्तममध्यमाधमैः स्वस्त्रियः स्त्रीभिः पतिर्यथा तथा वाच्य इत्यर्थः । तथा चार्य्यपुत्रेति पत्युरुच्यमानत्वातार्य्यैति पत्या स्त्रियो वाच्या इत्यर्थः । लोचना (लो, ॠ) पतिर्यथेति । पतिर्येन स्वामिन्नित्युच्यते तेन तद्भार्य्या स्वामिनीति । येन भर्त्तोति तेन भट्टिणीते । ********** टीका सम्पूर्णा ********** हलेति सदृशी, प्रेष्या हञ्जे वेश्याज्जुका तथा ॥ ६.१५५ ॥ कुट्टिन्यम्बेत्यनुगतैः पूज्या च जरती जनैः । ************* टीका ************* विज्ञप्रिया (वि, च) वेश्या सम्बोधने अज्जुकेत्युच्यते इत्यर्थः । भट्टिन्यम्बेति । अनुगतैर्जनैरर्थादनुगम्यमानस्त्रीभिर्भट्टिनीत्यम्बेति चोच्यते । इतरैर्जनैः पूज्या वृद्धा जरतीति वाच्येत्यर्थः । ********** टीका सम्पूर्णा ********** आमन्त्रणैश्च पाषण्डा वाच्याः स्वसमयागतैः ॥ ६.१५६ ॥ लोचना (लो, ळ) हे चार्वाक ! हे कोलिकेय ! इत्यादि । ********** टीका सम्पूर्णा ********** शका (शक्या) दयश्च संभाष्या भद्रदत्तादिनामभिः । ************* टीका ************* विज्ञप्रिया (वि, छ) पाषण्डाश्च स्वसमयागतैरामन्त्रणैश्च वाच्या इत्यर्थः । शाक्यादयो बौद्धादयः । ********** टीका सम्पूर्णा ********** यस्य यत्कर्म शिल्पं वा विद्या वा जातिरेव वा ॥ ६.१५७ ॥ तेनैव नाम्ना वाच्योऽसौ ज्ञेयाश्चान्ये यथोचितम् । अथ भाषाविभागः--- पुरुषाणामनीचानां संस्कृतं स्यात्कृतात्मनाम् ॥ ६.१५८ ॥ सोरसेनी प्रयोक्तव्या तादृशीनां च योषिताम् । ************* टीका ************* विज्ञप्रिया (वि, ज) अथ भाषेति । वक्तृविशेषस्य भाषाविशेष इत्यर्थः । पुरुषाणामिति । नीचेतरेषां कृतात्मनां शुद्धानां पुरुषाणामित्यन्वयः । शौरसेन्यादयो बह्व्यो भाषाः प्राकृतविशेषाः प्राकृतवृत्तौ अनुसन्धेयाः । ********** टीका सम्पूर्णा ********** आसामेव तु गाथासु महाराष्ट्रीं प्रयोजयेत् ॥ ६.१५९ ॥ अत्रोक्ता मागधी भाषा राजान्तः पुरचारिणाम् । ************* टीका ************* विज्ञप्रिया (वि, झ) तादृशानामनीचानाम् । नाथा गीतयः । अत्रेति । गाथस्वित्यर्थः । ********** टीका सम्पूर्णा ********** चेटानां राजपुत्राणां श्रेष्ठानां चार्धमगधी ॥ ६.१६० ॥ प्राच्यां विदूषकादीनां, धूर्तानां स्यादवन्तिजा । ************* टीका ************* विज्ञप्रिया (वि, ञ) चेटानामिति । श्रेष्ठिनां राजपुत्रचेटानामित्यर्थः । ********** टीका सम्पूर्णा ********** योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम् ॥ ६.१६१ ॥ शवराणां शकादानां शाबरीं संप्रयोजयेत् । ************* टीका ************* विज्ञप्रिया (वि, ट) अहिदीव्यतां सर्पशेलकानां तेषां चेत्यन्वयः । शकारो राजशालकः । शकानां पार्वतीयम्लेच्छविशेषाणाम् । ********** टीका सम्पूर्णा ********** बाह्लीकभाषोदीच्यानां द्राविडी द्राविडादिषु ॥ ६.१६२ ॥ आभीरेषु तथाभीरी चाण्डाली पुक्कसादिषु । ************* टीका ************* विज्ञप्रिया (वि, ठ) पुक्तसश्चण्डालविशेषः । ********** टीका सम्पूर्णा ********** आभीरी शाबरी चापि काष्ठपात्रोपजीविषु ॥ ६.१६३ ॥ तथैवाङ्गारकारादौ पैशाची स्यात्पिशाचवाक् । चेटीनामष्यनीचानामपि स्यात्सौरसेनिका ॥ ६.१६४ ॥ बालानां षण्डकानां च नीचग्रहविचारिणाम् । उन्मत्तानामातुराणां सैव स्यात्संस्कृतं क्वचित् ॥ ६.१६५ ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) षण्डका नपुंसकाः । नीचानां ग्रहविचारकाणा चेत्यन्वयः । सैवशौरसेनिकैव । क्वचिदेषां संस्कृतमपीत्यर्थः । ********** टीका सम्पूर्णा ********** ऐश्वर्येण प्रमत्तस्य दारिद्र्योपद्रुतस्य च । भिक्षु वल्कधरादीनां प्राकृतं संप्रयोजयेत् ॥ ६.१६६ ॥ संस्कृतं संप्रयोक्तव्यं लिङ्गिनीषूत्तमासु च । देवीमन्त्रिसुतावेश्यास्वपि कैश्चित्तथोदितम् ॥ ६.१६७ ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) तथोदितं संस्कृतोक्तिः । ********** टीका सम्पूर्णा ********** यद्देश्यं नीचपात्रन्तु तद्देश्यं तस्य भाषितम् । ************* टीका ************* विज्ञप्रिया (वि, ण) यद्देश्यं यद्देशीयम् । ********** टीका सम्पूर्णा ********** कार्यतश्चोत्तमादीनां कार्यो भाषाविपर्ययः ॥ ६.१६८ ॥ योषित्सखीबालवेश्याकितवाष्सरसां तथा । वैदग्ध्याथ प्रदातव्यं संस्कृतं चान्तरान्तरा ॥ ६.१६९ ॥ एषामुदाहरणान्याकरेषु बोद्धव्यानि । भाषालक्षणानि मम तातपादानां भाषार्णवे । षट्त्रिंशल्लक्षणान्यत्र, नाट्यालंकृतयस्तथा । त्रयस्त्रिंशत्प्रयोज्यानि वीथ्यङ्गानि त्रयोदश ॥ ६.१७० ॥ लास्याङ्गानि दश यथालाभंरसव्यपेक्षया । ************* टीका ************* विज्ञप्रिया (वि, त) षट्त्रिंशदिति । अत्र नाटकलक्षणानि सकलानि षट्त्रिंशद्धर्माणि प्रयोज्यानि इत्यर्थः । तथा च त्रयः त्रिंशत्नाट्यालङ्कृतयः । त्रयोदश वीथ्यङ्गानि, द श लास्याङ्गानि यथालाभं प्रयोज्यानि । तत्र षट्त्रिंशल्लक्षणानि उद्दिशतिभूषणेति । ********** टीका सम्पूर्णा ********** यथालाभं प्रयोज्यानीति सम्बन्धः । अत्रेति नाटके । तत्र लक्षणानि-- भूषणाक्षरसंघातौ शोभोदाहरणं तथा ॥ ६.१७१ ॥ हेतुसंशयदृष्टान्तास्तुल्यतर्कः पदोच्चयः । निदर्शनाभिप्रायौ च प्राप्तिर्विचार एव च ॥ ६.१७२ ॥ दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा । विशेषणनिरुक्ती च सिद्धिभ्रशविपर्ययौ ॥ ६.१७३ ॥ दाक्षिण्यानुनयौ मालार्थापत्तिर्गर्हणं तथा । पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुणकीर्तनम् ॥ ६.१७४ ॥ लेशो मनोरथोऽनुक्तसिद्धिः प्रियवचस्तथा । तत्र--- लक्षणानि गुणैः सालंकारैर्योगस्तु भूषणम् ॥ ६.१७५ ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) लक्षणानीति । एतानि लक्षणसंज्ञकानि षट्त्रिंशतित्यर्थः । ********** टीका सम्पूर्णा ********** यथा---आक्षिपन्त्यरविन्दानि मुग्धे ! तव मुखश्रियम् । कोषदण्डसमग्रणां किमेषामस्ति दुष्करम् ॥ ************* टीका ************* विज्ञप्रिया (वि, द) अत्र भूषणसंज्ञकस्य लक्षणस्य लक्षणमाह--तत्र गुणैरिति । आभिपन्तीति । अरविन्दानि कर्त्तॄणि । आक्षिपन्ति अधिक्षिपन्ति स्पर्द्धन्ते वा । कोषः कुङ्भवा एवा को षो धनम् । दण्डो नालमेव दण्डः शास्तिः । अर्थश्लेषमूलोर्ऽथान्तरन्यासोऽलङ्कारः । माधुर्यं च गुणः । लोचना (लो, ए) आक्षिपन्तीति---कोषः कुड्मलः द्रव्यौघश्च । दण्डो नालं दुष्टनिग्रहश्च । ********** टीका सम्पूर्णा ********** वर्णनाक्षरसंघातश्चित्रार्थैरक्षरैर्मितैः । यथा शाकुन्तले--"राजा---कच्चित्सखीं वो नातिबाधते शरीरसंतापः । प्रियंवदा--सम्पदं लधोसहो उअसमं गमिस्सदि" । ************* टीका ************* विज्ञप्रिया (वि, ध) अक्षरसङ्घातमिति । वर्णनेति । चित्रार्थैर्मितैरक्षरैर्वर्णनेत्यर्थः । सम्पदमिति । साम्प्रतं लब्धौषध उपशमं गमिष्यतीति (संस्कृतम्) । अत्र त्वत्प्रप्तिरेवौषधप्राप्तिरिति भङ्ग्या कथयमानोर्ऽथश्चित्रः । अक्षराणि चाल्पानि । ********** टीका सम्पूर्णा ********** सिद्धैरर्थैः समं यत्राप्रसिद्धोर्ऽथः प्रकाशते ॥ ६.१७६ ॥ श्लिष्टश्लक्षणचित्रार्था सा शोभेत्यभिधीयते । ************* टीका ************* विज्ञप्रिया (वि, न) शोभालक्षणमाह---सिद्धैरिति । सिद्धैरुपमानभूतैरर्थैः सममेकवाक्येनैव अप्रसिद्ध उपमेयभूतोर्ऽथो विधेयान्वयार्थं प्रकाशते । सा शोभा कीदृशी, श्लिष्टशब्दचिह्नचित्रार्थेत्यर्थः । ********** टीका सम्पूर्णा ********** यथा--- "संद्वंशसम्भवः शुद्धः कोटिदोऽपि गुणान्वितः । कामं धनुरिव क्रूरो वर्जनीयः सतां प्रभुः । ************* टीका ************* विज्ञप्रिया (वि, प) सद्वंशेति । धनुरिव क्रूरः प्रभुः काम यथेष्टं सतां वर्जनीयः । आवर्जनहेतुसत्त्वेऽपि क्रौर्यात्वर्जनीय इत्यर्थः । द्वयोरेवावर्जनहेतून् श्लेषादाहसद्वंशेति । सद्वंशः सद्वेणुः सत्कुलं च । शुद्धः कीटाविद्धो निष्पापश्च । कोटि कोटिसंख्यकं धनं ददाति तथाकोट्याद्यतिगुणो ज्या शौर्यादिश्च । अत्र सिद्धेन धनुषा समं प्रसिद्धः क्रूरः प्रभुः विधेयवर्जनान्वयार्थं प्रकाश्यते । श्लेष्टशब्देन च चित्रोर्ऽथः । लोचना (लो, ऐ) सद्वंशेति । वंशोन्वयः पेणुश्च । सुद्धो निष्पापः कीटवेधादिरहितश्च । कोटिः संख्याविशेषः अटनी च । गुणः शौर्यादिः मौर्वो च । कूरो दारुणः कर्कशश्च । ********** टीका सम्पूर्णा ********** यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ॥ ६.१७७ ॥ साध्यतेऽभिमतश्चार्थस्तदुदाहरणं मतम् । ************* टीका ************* विज्ञप्रिया (वि, फ) उदाहरणलक्षणमाह---यत्र तुल्यार्थेति । प्रक्रान्तार्थतुल्यावबोधकेन वाक्येन प्रक्रान्तार्थस्यातिशयित्वप्रदर्शनातभिमतोऽतिशयितत्वरूपोर्ऽथः साध्यते इत्यर्थः । ********** टीका सम्पूर्णा ********** यथा--- अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतम् । का दिनश्रीर्विनार्केण का निशा शशिना विना ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) अनुयान्त्येति । राममनुयान्तीं सीतां प्रति अनसूयाया उक्तिरियम् । जनातीतं जनेभ्यो निर्गतं वनगमनोन्मुखमित्यर्थः । विनार्केण इति । मेघाच्छन्नदिनश्रियोर्ऽकाभावो बोध्यः । अत्र सीतातुल्यार्थे दिनश्रीनिशे । सीतायाश्च प्रशंसारूपोतिशयोऽभिमतस्तदुक्तवाक्येन साधितः । अत्र वाक्यभेदातुपमानोपमेययोः समं प्रकाशनाभावात्श्लेषाभावाच्च पूर्वस्माद्भेदः । ********** टीका सम्पूर्णा ********** हेतुर्वाक्यं समासोक्तमिष्टकृर्द्धतुदर्शनात् ॥ ६.१७८ ॥ ************* टीका ************* विज्ञप्रिया (वि, भ) हेतुसंज्ञकलक्षणमाह---हेतुरिति । समासः संक्षेपः । इष्टकृत्प्रतिपाद्यस्याभिमतकृद् । हेतुप्रदर्शनात्पृष्टार्थस्य हेतुदर्शनात् । ********** टीका सम्पूर्णा ********** यथा वेण्यां भीमं प्रति "चेटी--एवं मए भणिदं भाणुमदि तुह्माणं अमुक्केसु केसेसु कहं देवीए केसा संजमिअन्तित्ति । ************* टीका ************* विज्ञप्रिया (वि, म) एवं मए इति । "एवं मया भणितम् । भानुमति ! युष्माकममुक्तेषु केशहस्तेषु कथं देव्याः केशाः संयम्यन्ते इति" (संस्कृतम्) अत्र द्रौपद्याः केशासंयमनहेतौ भानुमत्या पृष्टे सभ्रातृकदुर्योधनवधाभावे हेतौ प्रदर्शयितव्ये वैधव्यचिह्नस्य भानुमत्याः केशमोचनस्य अभावो हेतुः संक्षेपेण प्रदर्शितः, स एव च भीमस्याभिमतकृत् । ********** टीका सम्पूर्णा ********** संशयोऽज्ञाततत्त्वस्य वाक्ये स्याद्यदनिश्चयः । यथा ययातिविजये--- इयं स्वर्गाधिनाधस्य लक्ष्मीः किं यक्षकन्यका । किं चास्य विषयस्यैव देवता किमु पार्वती ॥ ************* टीका ************* विज्ञप्रिया (वि, य) संशयाख्यं लक्षणमाह---संशयेति । अज्ञाततत्त्वस्य जनस्य वाक्ये शृण्वता यदनिश्चयः स इत्यर्थः । यदित्यनिश्चयक्रियाविशेषणमव्ययम् । इयमिति । काञ्चिद्दिव्यकन्यकां दृष्ट्वा तत्त्वमजानतो वितर्कोऽयम् । स्वर्गाधिनाथस्य इन्द्रस्य लक्ष्मीः सम्पत्किम् ? किं यक्षकन्यकेत्युभयत्र किंपदार्थान्वयः । अस्य विषयस्य संसारस्य । अत्र श्रोतुरनिश्चयः । ********** टीका सम्पूर्णा ********** दृष्टान्तो यस्तु पक्षेर्ऽथसाधनाय निदर्शनम् ॥ ६.१७९ ॥ यथा वेण्याम् --"सहदेवः---आर्य ! उचितमेवैतत्तस्या यतो दुर्योधनकलत्रं हि सा" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, र) दृष्टान्ताख्यं लक्षणमाह--दृष्टान्त इति । पक्षार्थस्योपन्यस्तार्थस्य साधनाय निदर्शनं हेतुप्रदर्शनम् । आर्य इत्यादि । अत्र द्रौपद्या उपन्यस्तस्य भानुमत्या दौर्जन्यस्य दुर्योधनकलत्रत्वं हेतुः । ********** टीका सम्पूर्णा ********** तुल्यतर्को यदर्थेन तर्कः प्रकृतिगामिना । यथा तत्रैव--- प्रयेणैव हि दृश्यन्ते कामं स्वप्नाः शुभाशुभाः । शतसंख्या पुनरियं सानुजं स्पृशतीव माम् ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) तुल्यतर्काख्यं लक्षणमाह--तुल्यतर्क इति । प्रकृतोऽत्र वक्ता तद्रामिनार्थेन यत्तर्क आशङ्केत्यर्थः । अत्रापि यदित्यव्ययम् । प्रायेणैव हीति । नकुलेनाहिशतं हत्वा भानुमत्याः स्तने क्षत इति भानुमत्या दृष्टे स्वप्रे कथिते दुर्योधनस्येयमाशङ्का । ********** टीका सम्पूर्णा ********** संचयोर्ऽथानुरूपो यः पदानां स पदोच्चयः ॥ ६.१८० ॥ यथा शाकुन्तले--- अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ अत्र पदपदार्थयोः सौकुमार्यं सदृशमेव । ************* टीका ************* विज्ञप्रिया (वि, व) पदोच्चयाख्यं लक्षणमाह---सञ्चय इति । पदानां सञ्चय इति । पदानां सञ्चयः समूहो योर्ऽथानुरूपः स इत्यर्थः । अनुरूपं चार्थस्य कोमलत्वे पदानामपि तथात्वम् । अधर इत्यादि राज्ञः शकुन्तलावर्णनमिदम् । अर्थो यथा कोमलस्तथा शब्दोच्चयोऽपि कटुवर्णविरहात्कोमल इत्याह---अत्र पदपदार्थयोरिति । ********** टीका सम्पूर्णा ********** यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् । परपक्षव्युदासार्थं तन्निदर्शनमुच्यते ॥ ६.१८१ ॥ यथा--क्षात्रधर्मोचितैर्धर्मैरलं शत्रुवधे नृपाः । किं तु बालिनि रामेण मुक्तो बाणः पराङ्मुखे ॥ ************* टीका ************* विज्ञप्रिया (वि, श) निदर्शनाख्यं लक्षणमाह---यत्रार्थानामिति सूत्रार्थः स्पष्टः । क्षात्रेति । अत्राधर्मयुद्धेन शत्रुमारणार्थं प्रसिद्धस्य रामेणान्यायेन वालिवधस्य निदर्शनम् । ********** टीका सम्पूर्णा ********** अभिप्रायस्तु सादृश्यादभूतार्थस्य कल्पना । यथा शाकुन्तले--- इदं किलाव्याजमनोहरं वपुस्तपः क्लमं साधयितुं य इच्छति । ध्रुवं स नीलोत्पलपत्नधारया समिल्लतां छेत्तुमृषिर्व्यवस्यति ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) अभिप्रायाख्यं लक्षणमाह---अभिप्रायस्त्विति । अभूतार्थस्य असम्भाविनोर्ऽथस्य कल्पना आपादनम् । इदं किलेति । तपस्योचितवेशां शकुन्तलां दृष्ट्वा दुष्यन्तस्योक्तिरियम् । किल निश्चितमिदम् । अव्याजमनोहरमकृत्रिमरम्यं वपुः यः ऋषिः कण्वः तपः क्षमं साधयितुमिच्छति । ध्रुवमुत्प्रेक्षते । स ऋषिर्नोलोत्पलपत्रधारया शमीलतां छेत्तुं व्यवस्यतीत्यर्थः । अत्र लतारूपसादृश्यातसम्भविनो नीलोत्पलपत्रधारया शमीलताछेदनस्यापादनम् । ********** टीका सम्पूर्णा ********** प्राप्तिः केनचिदंशेन किञ्चिद्यत्रानुमीयते ॥ ६.१८२ ॥ यथा मम प्रभावत्याम्--"अनेन खलु सर्वतश्चरता चञ्चरीकेणावश्यं विदिता भविष्यति प्रियतमा मे प्रभावती" । ************* टीका ************* विज्ञप्रिया (वि, स) प्राप्त्याख्यं लक्षणमाह---प्राप्तिरिति । अनेनेति--चञ्चरीको भ्रमरः । अत्र सर्वतश्चरणांशेन प्रभावतीदर्शनानुमानम् । ********** टीका सम्पूर्णा ********** विचारो युक्तिवाक्यैर्यदप्रत्यक्षार्थसाधनम् । यथा मम चन्द्रकलायाम्---"राजा---नूनमियमन्तः पिहितमदनविकारा वर्तते । यतः-- "हसति परितोषरहितं निरीक्ष्यमाणापि नेक्षते किञ्चित् । सख्यामुदाहरन्त्यामसमञ्जसमुत्तरं दत्ते" ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) विचारलक्षणमाह---विचार इति । हसतीति---अन्येन निरीक्ष्यमाणपि किञ्चिन्नेक्षते । असमञ्जसं सख्या आकाङ्क्षानिवर्त्तकम् । सर्वमिदं मदनाकुलमनस्त्वात् । अत्र समस्तयुक्तिवाक्यैरप्रत्यक्षमदनविकारसाधनम् । पूर्वोक्तमनुमानं त्वंशेन इति भेदः । ********** टीका सम्पूर्णा ********** देशकालस्वरूपेणा वर्णना दिष्टमुच्यते ॥ ६.१८३ ॥ यथा वेण्याम्--"सहदेवः-- "यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धेऽद्य संभृतम् । तत्प्रावृडिव कृष्णोयं नूनं संवर्धयिष्यति" ॥ ************* टीका ************* विज्ञप्रिया (वि, क) दिष्टाख्यं लक्षणमाह--देशेति । यद्वैद्युतमिति । आर्य्ये त्वयिभीमे ज्योतिः क्रोधजनितं स्वतेजः सम्भृतमाविष्कृतम् । वैद्युतं विद्युत्सम्बन्धि । तत्प्रावृडिवेति । प्रावृषा वैद्युततेजसः सम्बर्द्धनात् । अत्र क्रोधोचितकाले तद्वर्णनम् ********** टीका सम्पूर्णा ********** उपदिष्टं मनोहारि वाक्यं शास्त्रानुसारतः । यथा शाकुन्तले--- शुश्रूषस्व गुरून्, कुरु प्रियसखीवृत्तिं सपत्नीजने, भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भाग्यष्वनुत्सेकिनी, यान्त्येवं गृहिणीपदं युवतयो, वामाः कुलस्याधयः ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) उपदिष्टाख्यं लक्षणमाह---उपदिष्टमिति । शास्त्रमत्र नीतिशास्त्रं शुश्रूषस्व इति । पतिगृहे प्रेष्यमाणां शकुन्तलां प्रति कण्वस्योक्तिरियम् । विप्रकृता तिरस्कृतापि रोषणतया भर्त्तुः प्रतीपं मा स्म गमः । भूयिष्ठमतिशयं दक्षिणा यथोचितव्यवहारिणी । वामा उपदिष्टे तद्विपरीतकारिण्यः कुलस्याधयो मनसः व्यथाकारिण्यः । शुद्धसारोपात्रलक्षणा । कुलस्याधमा इति क्वचित्पाठः । इदं नीतिशास्त्रानुसारि वाक्यम् । ********** टीका सम्पूर्णा ********** गुणातिपातः कार्यं यद्विपरीतं गुणान्प्रति ॥ ६.१८४ ॥ यथा मम चन्द्रकलायां चन्द्रं प्रति--- जै संहरिज्जै तमो धेप्पै सअलेहि ते पाओ । वससि सिरे पसुबैणो तहवि ह इत्थीअ जीअणं हरसि ॥ ************* टीका ************* विज्ञप्रिया (वि, ग) गुणातिपाताख्यं लक्षणमाह---गुणातिपात इति । गुणाः स्वनिष्ठगुणाः । तान् प्रति इति तेषामित्यर्थः । तथा च स्वनिष्ठगुणानां विरोधि यत्स्वकार्य्यं तदित्यर्थः । तह संहरिज्जै इति । त्वया संह्रियते तमो गृह्यते सकलैस्तव पादः । वससि शिरसि पशुपतेस्तथापि स्त्रीणां जीवनं हरसि ॥ (इति संस्कृतम्) । तमः तिमिरमेव तमोगुणः । पादो रश्मिरेव चरणः । अत्र एतादृशगुणविरुद्धमुक्तकार्य्यम् । लोचना (लो, ओ) अस्यार्थः--तमोऽन्धकारः अज्ञानं च । पादो रश्मिश्चरणश्च । ********** टीका सम्पूर्णा ********** यः सामान्यगुणोद्रेकः स गुणातिशयो मतः । ************* टीका ************* विज्ञप्रिया (वि, घ) गुणातिशयाख्यं लक्षणमाह---योऽसामान्येति । असामान्यस्य अन्यावृत्तेर्गुणसाय यो निर्दिश्यमाने वस्तुनि उद्रेक इत्यर्थः । ********** टीका सम्पूर्णा ********** यथा तत्रैव---"राजा---(चन्द्रकलाया मुखं निदिश्य) असावन्तश्चञ्चद्विकचनवनीलाब्जयुगल- स्तलस्फूर्जत्कम्बनविलसदलिसंघात उपरि । विना दोषासङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखि ! ते ॥ ************* टीका ************* विज्ञप्रिया (वि, ङ) असाविति । हे सुमुखि ! निर्दिश्यमानमुखरूपश्चन्द्रः कुतस्ते प्राप्तः । त्वया प्राप्त इत्यर्थः । सम्बन्धविवक्षया निष्ठासंयोगेऽपि षष्ठी । यद्वा ते तुभ्यं तव स्थाने वा कुतः प्राप्तः कुत आगत इत्यर्थः । कीदृशः । अन्तर्मध्ये चञ्चत्चञ्चलं विकचनवनीलोत्पलयुगलं यस्य तादृशः । नयनद्वयमत्र नीलाब्जम् । तथा तलेऽधोभागे स्फूर्जत्दीप्यमानः कम्बुः रेखात्रयं यस्य तादृशः । कणलेखात्रयं कम्बुः । श्लेषाञ्च स एव कम्बुः शंखः । तथा उपरि विलसनलिसङ्घातो यस्य तादृशः । अत्र केशा एव अलिसङ्घातः । तथा दोषारात्रेरासङ्ग एव दोषाणामासङ्गस्तं विना सततमेव परिपूर्णाखिलकलो विगलितकलङ्कश्च । अत्रैषामन्यचन्द्रावृत्तिगुणानां मुखात्मकचन्द्रे उद्रेकः । ********** टीका सम्पूर्णा ********** सिद्धानर्थान् बहूनुक्त्वा विशेषोक्तिर्विशेषणम् ॥ ६.१८५ ॥ ************* टीका ************* विज्ञप्रिया (वि, च) विशेषणाख्यलक्षणमाह---अर्थानिति । सिद्धानुपमानोपमेयसाधारणान् बहूनुत्कर्षहेतूनर्थान् धर्मानित्यर्थः । विशेषोक्तिः उपमेये उपमानव्यावर्त्तकधर्मोक्तिरित्यर्थः । ********** टीका सम्पूर्णा ********** यथा---तृष्णापहारी विमलो द्विजावासो जनप्रियः । हृदः पद्माकरः किन्तु बुधस्त्वं स जलाशयः ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) तृष्णापहारीति---अत्र त्वं चेत्यर्थवशात्लभ्यम् । तथा च ह्रदः सरः त्वं च तृष्णापहारी तृष्णा पिपासा धनाकाङ्क्षा च । विमलः स्वच्छजलः निष्पापश्च । द्विजानामावासोऽधिकरणम्॑ द्विजानां विप्राणामाश्रयश्च । जनानां प्रियः हितकारित्वात् । पद्मानां पद्मायाश्च आकरो निवासस्थानम् । इत्थमुभयसाधारणानुकूलधर्मानुक्त्वा व्यावर्त्तकधर्ममाह---किन्त्विति । बुधः पण्डितः त्वं स तु ह्रदो जलाशयो जलयुक्तः ख्यात एव । जडाशयः निर्बुद्धिचित्तः डलयोरेकत्वं, जलाशयः शीतलः ख्यात इति वा । लोचना (लो, औ) तृष्णेति---द्विजाः ब्राह्मणाः पक्षिणश्च । पद्माकरो लक्ष्मीविधात्पद्मानामाकरश्च । जलाशयो जलस्याशयो जडाशयश्च । ********** टीका सम्पूर्णा ********** पूर्वसिद्धार्थकथनं निरुक्तिरिति कीर्त्यते । यथा वेण्याम्---"निहताशेषकौरव्यः---"इत्यादि । (३७९ पृ.) ************* टीका ************* विज्ञप्रिया (वि, ज) निरुक्त्याख्यं लक्षणमाह---पूर्वसिद्धेति । स्वयं पूर्वकृतार्थकथनमित्यर्थः । निहतेति । प्रतिज्ञाहेतुसम्भवरूपस्य विमर्शसन्ध्यङ्गस्य अपीदमुदाहरणमुपाधिभेदाताविरुद्धम् । ********** टीका सम्पूर्णा ********** बहूनां कीर्तनं सिद्धिरभिप्रेतार्थसिद्धये ॥ ६.१८६ ॥ यथा---यद्वीर्यं कूर्मराजस्य यश्च शेषस्य विक्रमः । पृथिव्या रक्षणो राजन्नेकत्र त्वयि तत्स्थितम् ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) सिद्ध्याख्यं लक्षणमाह---बहूनामिति । अभिप्रेतार्थः स्तुतिः स्तुत्यर्थं बहुधर्भिकीर्त्तनमित्यर्थः । यद्वीर्य्यमिति । अत्र कूर्मराजाद्यनेकधर्मिकीर्त्तनम् । ********** टीका सम्पूर्णा ********** दृप्तादीनां भवेद्भ्रंशो वाच्यादन्यतरद्वचः । यथा वेण्याम्---कञ्चुकिनं प्रति "दुर्योधनः--- सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् । स्वबलेन निहन्ति संयुगे नचिरात्पाण्डुसुतः सुयोधनम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ञ) भ्रंशाख्यलक्षणमाह---दृप्तादीनामिति । वाच्याद्वक्तुमिष्टादन्यद्यत्दृप्तानां वचो भवेदित्यर्थः । वाच्यादन्यतरद्वच इति अप्रामाणिकः पाठः । सहभृत्यगणमिति । अत्र वक्ता दुर्य्योधनो दृप्तः । पाण्डुसुतं सुयोधन इति वक्तव्ये वैपरीत्येन अन्यदभिहितः । लोचना (लो, अ) पाण्डुसुतं सुयोधन इति वक्तव्ये पाण्डुसुतः सुयोधनभिति वचनम् । ********** टीका सम्पूर्णा ********** विचारस्यान्यथाभावः संदेहात्तु विपर्ययः ॥ ६.१८७ ॥ यथा---मत्वा लोकमदातारं संतोषे यैः कृता मतिः . त्वयि राजनि ते राजन्न तथा व्यवसायिनः ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) विपर्य्ययाख्यलक्षणमाह--विचारस्येति । सन्देहानन्तरं यो विचारो निर्णयस्तस्यान्यथात्वमित्यर्थः । मत्वा लोकमिति । अयाचनेनापि सन्तुष्टत्वे त्वयि अन्यथा व्यवसायिनो याचन्ते इत्यर्थः । अत्रार्थप्राप्त्यप्राप्तिसन्देहादनन्तरं याचनवैमुख्यनिर्णयस्य उपश्लोक्ये राजनि अन्यथाभावः । ********** टीका सम्पूर्णा ********** दाक्षिण्यं चेष्टया वाचा परचित्तानुवर्तनम् । वाचा यथा---प्रसाधय पुरीं लङ्कां राजा त्वं हि बिभीषण ॥ आर्येणानुगृहीतस्य न विघ्नः सिद्धिमन्तरा ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) दाक्षिण्याख्यं लक्षणमाह---दाक्षिण्यमिति । परचिन्तानुवर्त्तनं परचित्तप्रीणनम् । प्रसाधयेति । विभीषणचित्तप्रीणनमिति लक्ष्मणस्य वारक्यम् । सिद्धिमन्तरा सिद्धेर्मध्ये । एवं चेष्टयापीति । दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा । आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥ इति शकुन्तलायाश्चेष्टया दुष्मन्तस्य चित्तप्रीणनम् । ********** टीका सम्पूर्णा ********** एवं चेष्टयापि । वाक्यैः स्निग्धैरनुनयो भवेदर्थस्य साधनम् ॥ ६.१८८ ॥ यथा वेण्याम्---अश्वत्थामानं प्रति "कृपः---दिव्यास्त्रग्रमकोविदे भारद्वाजतुल्यपराक्रमे किं न संभाव्यते त्वयि" । ************* टीका ************* विज्ञप्रिया (वि, ड) अनुनयाख्यं लक्षणमाह---वाक्यैः स्निग्धैरिति । अर्थः स्वाभीष्टम् । दिव्यास्त्रेति, अत्र युद्धप्रवर्त्तनमेव स्वाभीष्टम् । ********** टीका सम्पूर्णा ********** माला स्याद्यदभीष्टार्थं नैकार्थप्रतिपादनम् । यथा शाकुन्तले---"राजा--- किं शीकरैः क्लमविमर्दिभिरार्द्रवातं सञ्चारयामि नलिनीदलतालवृन्तम् । अङ्के निवेश्य चरणावुत पद्मताम्रौ संवादयामि करभोरु ! यथासुखं ते" ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) मालाख्यं लक्षणमाह---माला स्यादिति । नैकार्थस्य नानाविधार्थस्य प्रतिपादनमित्यर्थः । नञर्थस्यात्र नशब्दस्य नाक्षरविपर्ययः । किं शीकरैरिति । शकुन्तलां प्रती दुष्मन्तस्य वाक्यमिदम् । तालवृन्तं व्यजनम् । शीकरैरार्द्रवातमित्यन्वयः । संवाहयामि पीडयामि । अत्र शकुन्तलासम्भोगरूपस्वाभीष्टार्थं तालवृन्तचालनाद्यनेकप्रतिपादनम् । ********** टीका सम्पूर्णा ********** अर्थापत्तिर्यदन्यार्थोर्ऽथान्तरोक्तेः प्रतीयते ॥ ६.१८९ ॥ यथा वेण्याम्---द्रोणोऽश्चत्थामानं राज्येऽभिषेक्तुमिच्छतीति कथयन्तं कर्णं प्रति "राजा---साधु अङ्गराज ! साधु, कथमन्यथा--- दत्त्वामयं सोऽतिरथो वध्यमानं किरीटिना । सिन्धुराजमुपेक्षेत नैव चेत्कथमन्यथा" ॥ ************* टीका ************* विज्ञप्रिया (वि, ण) दत्त्वाभयमिति । किरीटिनार्जुनेन सिन्धुराजम् । नैवं चेदिति । राज्ये स्वपुत्राभिषेकेच्छा न चोदित्यर्थः । अत्र सिन्धुराजोपेक्षारूपान्यार्थोक्तिवशात्निर्द्दिष्टाया द्रोणस्य तादृशेच्छाया निश्चय इत्यर्थः । ********** टीका सम्पूर्णा ********** दूषणोद्धोषणायां तु भर्त्सना गर्हणं तु तत् । यथा तत्रैव--कर्णं प्रति "अश्वत्थामा-- निर्वोर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं सम्प्रत्येव भयाद्विहाय समरं प्राप्तोऽस्मि किं त्वं यथा । ************* टीका ************* विज्ञप्रिया (वि, त) गर्हणाख्यं लक्षणमाह---दूषणेति । दूषणोद्धोषणायां सत्यां तयैव उद्धोषणया दूष्यमाणस्य भर्त्सनेत्यर्थः । निर्वोर्यमिति । कर्णस्य गुरुः परशुरामः । तस्य शापरूपं भाषितं तद्वशात्निर्वोर्यमेव तवायुधं किं मे करिष्यतीर्यर्थः । एवकारश्चात्र दर्शितक्रमेण योज्यः । अत्र शस्त्रस्य निर्वोर्यत्वरूपदूषणोद्धोषणया दूष्यमाणस्य कर्णस्य भर्त्सनाप्रतीतिः । ********** टीका सम्पूर्णा ********** जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले क्षुद्रारातिकृताप्रियं प्रतिकरोप्यस्त्रेण नास्त्रेण यत्" ॥ अभ्यर्थनापरैर्वाक्यैः पृच्छार्थान्वेषणं मता ॥ ६.१९० ॥ यथा तत्रैव---"सुन्दरकः---अज्जा, अवि णाम सारधिदुदिओदिट्ट तुह्मेर्हि महाराओ दुर्योधणो ण वेत्ति" । ************* टीका ************* विज्ञप्रिया (वि, थ) पृच्छाख्यं लक्षणमाह--अभ्यर्थनेति । अभ्यर्थनापरैर्वाक्यैरर्थस्यानुसन्धीयमानस्यार्थस्यान्वेषणं पृच्छेत्यर्थः । सुन्दरको दुर्य्योधनस्यानुचरः । अज्ज इति । आर्य, आर्य, अपि नाम सारथिद्वितीयो दृष्टो युष्माभिर्माहारजो दुर्य्योधनो न वेति । (इति संस्कृतम्) ********** टीका सम्पूर्णा ********** प्रसिद्धिर्लोकसिद्धार्थैरुत्कृष्टैरर्थसाधनम् । यथा विक्रमोर्वश्याम्---"राजा--- सूर्याचन्द्रमसौ यस्य मातामहपितामहौ । स्वयं कृतः पतिर्द्वाभ्यामुर्वश्या च भुवा च यः ॥ ************* टीका ************* विज्ञप्रिया (वि, द) प्रसिद्धाख्यं लक्षणमाह---प्रसिद्धिरिति । लोकसिद्धार्थैरुत्कृष्टैरर्थाप्यमाणैरर्थस्य स्वाभीष्टार्थस्य साधनमित्यर्थः । सूर्याचन्द्रमसौ इति । द्वाभ्यामुर्वश्या भुवा चेत्यन्वयः । सोऽहं पृच्छामीति शेषः । अत्र लोकसिद्धार्थसूर्यादिकुलोद्भवत्वादिः तदुक्त्या स्वाभीष्टार्थस्य पृष्टार्थकथनरूपस्य साधनम् । ********** टीका सम्पूर्णा ********** सारूप्यमनुरूपस्य सारूप्यात्क्षोभवर्धनम् ॥ ६.१९१ ॥ यथा वेण्याम्--दुर्योधनभ्रान्त्या भीमं प्रति "युधिष्ठिरः---दुरात्मन् !दुर्योधनहतक !-" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, ध) सारूप्याख्यं लक्षणमाह---सारूप्यमिति । अनुभूतविशेषभिन्नेऽनुभूतार्थसादृश्यातात्मनः क्षोभवर्द्धनमित्यर्थः । दुरात्मनित्यादि । अत्रानुभूतदुर्योधनसादृश्यात्भीमदर्शने क्षोभवृद्धिः । ********** टीका सम्पूर्णा ********** संक्षेपो यत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते । यथा मम चन्द्रकलायाम्---"राजा---प्रिये ! अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा । (आत्मानं निर्दिश्य---) अयमीहितकुसुमानां सम्पादयिता तवास्ति दासजनः" ॥ ************* टीका ************* विज्ञप्रिया (वि, न) संक्षेपाख्यं लक्षणमाह--संक्षेपेति । अन्यजनस्यार्थे प्रयोजननिमित्तमात्मा प्रयुज्यते नियुज्यते इत्यर्थः । अङ्गानि खेदयसीति--कुसुमापचयार्थमिति शेषः । अत्र प्रियायाः कुसुमापचयनिमित्तं राज्ञा आत्मा नियुक्तः । ********** टीका सम्पूर्णा ********** गुणानां कीर्तनं यत्तु तदेव गुणाकीर्तनम् ॥ ६.१९२ ॥ यथा तत्रैव--"नेत्रे खञ्जनगञ्जने सरसिजप्रत्यथि--" इत्यादि (पृ.) ************* टीका ************* विज्ञप्रिया (वि, प) गुणकीर्त्तनाख्यं लक्षणमाह--गुणानामिति । नेत्रे खञ्जनगञ्जने इत्यादि प्रागुक्तम् । ********** टीका सम्पूर्णा ********** स लेशो भण्यते वाक्यं यत्सादृश्यपुरः सरम् । यथा वेण्याम्---"राजा--- हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् । या शलाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति" ॥ ************* टीका ************* विज्ञप्रिया (वि, फ) लेशाख्यं लक्षणमाह---सलेश इति । सादृश्यपुरः सरं सादृश्योक्तिपूर्वकम् । हते जरतीति । सा श्लोघा अभिमन्युवधातिति शेषः । ********** टीका सम्पूर्णा ********** मनोरथस्त्वभिप्रायस्योक्तिर्भङ्ग्यन्तरेण यत् ॥ ६.१९३ ॥ यथा---रतिकेलिकलः किंचिदेष मन्मथमन्थरः । पश्य सुभ्र ! समालम्भात्कादम्बश्चुम्बति प्रियाम् ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) मनोरथाख्यं लक्षणमाह---मनोरथस्त्विति । स्वाभिप्रायस्थवृत्तान्ततुल्यस्य अन्यदीयवृत्तान्तस्य प्रदर्शनं भङ्गिः । रतिकेलीति, रति--केल्यर्थं किञ्चित्कलः मधुरास्फुटाल्पध्वनिः । मन्मथेन मन्थरः । अन्यत्र उढ्ढीयागच्छन् । आश्वस्तामनुद्विग्नाम् । अत्र स्वाभिप्रायस्थाया रतेस्तुल्यायाः कादम्बरतेः प्रदर्शनभङ्ग्या उक्तिः । ********** टीका सम्पूर्णा ********** विशेषार्थोहविस्तारोऽनुक्तसिद्धिरुदीर्यते । यथा---"गृहवृक्षवाटिकायाम्--- दृश्येते तन्वि ! यावेतौ चारुचन्द्रमसं प्रति । प्राज्ञे कल्याणनामानावुभौ तिष्यपुनर्वसू" ॥ ************* टीका ************* विज्ञप्रिया (वि, भ) अनुक्तसिद्ध्याख्यं लक्षणमाह---विशेषेति । प्रस्तावे प्रकरणे सति विशेषार्थस्य ऊहः प्रणिधानेन गम्यत्वम् । प्रकरणाभावे तु तादृशोहासम्भव एवेति भावः । दृश्येत इति । हे तन्वि ! हे प्राज्ञे ! चन्द्रमसं प्रति चन्द्रमसि यावेतौ चारू दृश्येते तावुभौ कल्याणनामानौ तिष्यपुनर्वसू इत्यर्थः । अत्र तद्द्वयविशिष्टचन्द्रतृल्यता प्राकरणिकनेत्रद्वयविशिष्टे मुखे ऊह्यते । ********** टीका सम्पूर्णा ********** स्यात्प्रमाणयितुं पूज्यं प्रियोक्तिर्हर्षभाषणम् ॥ ६.१९४ ॥ यथा शाकुन्तले--- उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं विधिस्तव प्रसादस्य पुरस्तु सम्पदः ॥ ************* टीका ************* विज्ञप्रिया (वि, म) प्रियवचः संज्ञकं लक्षणमाह--स्यादिति । पूज्यं जनं प्रमाणयितुमिति प्रमाणत्वेन उत्कृष्टत्वेन ज्ञापयितुं हर्षेण भाषणं प्रियोक्तिः प्रियवच इत्यर्थः । उदेतीति । तव प्रसादस्येति । प्रसादजन्यानां सम्पदां शीघ्रोत्पत्त्या पुरस्त्वारोपः । अत्र मुनेः प्रकृष्टत्वप्रतिपादनार्थमिदं हर्षभाषणम् । ********** टीका सम्पूर्णा ********** अथ नाट्यालङ्काराः-- आशीराक्रन्दकपटाज्ञमागर्वोद्यमाश्रयाः । उत्प्रासनस्पृहाक्षोभपश्चात्तापोपपत्तयः ॥ ६.१९५ ॥ आशंसाध्यवसायौ च विसर्पाल्लेखसंज्ञितौ । उत्तेजनं परीवादो नीतिरर्थविशेषणम् ॥ ६.१९६ ॥ प्रोत्साहनं च साहाय्यमभिमानोऽनुवर्तनम् । उत्कीर्त्तनं तथा याच्ञा परिहारो निवेदनम् ॥ ६.१९७ ॥ प्रवर्तनाख्यानयुक्तिप्रहर्षाश्चोपदेशनम् । इति नाट्यालङ्कृतयो नाट्यभूषणहेतवः ॥ ६.१९८ ॥ ************* टीका ************* विज्ञप्रिया (वि, य) नाट्यालङ्कृतयस्त्रस्त्रिंशादिति यदुक्तं ता वक्तुमाह---अथेति । ता अलङ्कतीरुद्दिशति---आशीरित्यादि । ********** टीका सम्पूर्णा ********** आशीरिष्टजनाशंसा--- यथा शाकुन्तले--- ययातेरिव शमिष्ठा पत्युर्बहुमता भव । पुत्रं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥ ************* टीका ************* विज्ञप्रिया (वि, र) आशीराख्यानमलङ्कृतिमाह---आशीरिष्टजनेति । इष्टजने आशीर्वादः इत्यर्थः । शर्मिष्टा पुरुं पुत्रं यथा प्राप तथा त्वमाप्येवं पुत्रं प्राप्नुहीत्यन्वयः । ********** टीका सम्पूर्णा ********** ---आकन्दः प्रलपितं शुचौ । यथा वेण्याम्--"कञ्चकी--हा देवि ! कुन्ति ! राजभवनपताके !-" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, ल) आक्रन्दाख्यामलङ्कृतिमाह---आक्रन्द इति । स्पष्टम् । ********** टीका सम्पूर्णा ********** कपटं मायया यत्र रूपमन्यद्विभाव्यते ॥ ६.१९९ ॥ यथाकुलपत्यङ्के--- मृगरूपं परित्यज्य विधाय कपटं वपुः । नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ॥ ************* टीका ************* विज्ञप्रिया (वि, व) कपटाख्यामलङ्कृतिमाह---कपटमिति । विभाव्यते दर्श्यते । मृगरूपमिति । तेन मायामृगरूपेण मारीचराक्षसो मृगरूपं मृगधर्मं स्वरविशेषं परित्यज्य । अर्थाद्रमणीयस्वरविशेषमुच्चार्य्य इत्यर्थः । ********** टीका सम्पूर्णा ********** अक्षमा सा परिभवः स्वल्पोऽपि" न विषह्यते । यथा शाकुन्तले---"राजा--भोः सत्यवादिन् ! अभ्युपगतं तावदस्माभिः । किं पुनरिमामभिसन्धाय लभ्यते । शार्ङ्गरवः---विनिपातः---ऽइत्यादि । ************* टीका ************* विज्ञप्रिया (वि, श) अक्षमाख्यामलङ्कृतिमाह---अक्षमेति । स्वल्पेऽपि परिभवो यन्न विषह्यते इत्यर्थः । भो भो इत्यादि । शकुन्तलापरिणयमस्मरन्तं दुष्यन्तं प्रति तवेयं जायेति शार्ङ्गरवेण कण्वसिष्येण उक्ते भो भो इति राज्ञ उक्तिः । इमां जायाम् । उत्र भो भोः सत्यवादिनित्याक्षेपोक्त्या कृतस्य परिभवस्य विनिपात इत्युक्त्या शार्ङ्गरवेण न विषेहे । ********** टीका सम्पूर्णा ********** गर्वोऽवलेपजं वाक्यं--- यथा तत्रैव---"राजा---ममापि नाम सत्त्वैरभिभूयन्ते गृहाः" । ************* टीका ************* विज्ञप्रिया (वि, ष) गर्वाख्यामलङ्कृतिमाह---गर्व इति । अवलेपोऽहङ्कारः । ********** टीका सम्पूर्णा ********** ---कार्यस्यारम्भ उद्यमः ॥ ६.२०० ॥ यथा कुम्भाङ्के--"रवणः--पश्यामि शोकविवशोऽन्तकमेव तावत्" । ************* टीका ************* विज्ञप्रिया (वि, स) उद्यमाख्यामलङ्कृतिमाह---कार्य्यस्येति । कुम्भे कुम्भनाम्नि नाटके पश्यामीति इन्द्रजित्शोकार्त्तस्य रावणस्य स्वयं युद्धारम्भे आत्मनोऽन्तकत्वकथनमिदम् । ********** टीका सम्पूर्णा ********** ग्रहणं गुणवत्कार्यहेतोराश्रय उच्यते । यथा विभीषणनिर्भर्त्सनाङ्के--"विभीषणः--राममेवाश्रयामि" इति । ************* टीका ************* विज्ञप्रिया (वि, ह) आश्रयाख्यामलङ्कृतिमाह---ग्रहणमिति । राममेवेति । अत्रात्मनो लङ्काधिपत्यस्य गुणवत्कार्य्यस्य हेतो रामाश्रयणस्य ग्रहणम् । ********** टीका सम्पूर्णा ********** उत्प्रासनं तूपहासो योऽसाधौ साधुमानिनि ॥ ६.२०१ ॥ यथा शाकुन्तले--"शार्ङ्गरवः--राजन् ! अथ पुनः पूर्ववृत्तान्तमन्यसङ्गद्विस्मृतो भवान् । तत्कथमधर्मभीरोर्दारपरित्यागः---" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, क) उत्प्रासनाख्यामलङ्कृतिमाह---उत्प्रासनमिति । साधुमानिनि, आत्मनि साधुत्वमानिनि । राजनित्यादिरुपहासः । कृतविस्मरणात्राज्ञोऽसाधुत्वम् । ********** टीका सम्पूर्णा ********** आकाङ्क्षा रमणीयत्वाद्वस्तुनो या स्पृहा तु सा । यथा तत्रैव---"राजा--- चारुणा स्फुरितेनायमपरिक्षतकोमलः । पिपासतो ममानुज्ञां ददातीव प्रियाधरः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) स्पृहाख्यामलङ्कृतिमाह---आकाङ्क्षा इति । चारुणेति---शकुन्तलायाः स्फुरदधरदर्शनात्तत्पानेच्छो राज्ञ उक्तिरियम् । अपरिक्षतकोमलोऽयमधरश्चारुणि स्फुरितेन मम पानानुज्ञां ददातीव इत्यर्थः । ********** टीका सम्पूर्णा ********** अधिक्षेपवचःकारी क्षोभः प्रोक्तः स एव तु ॥ ६.२०२ ॥ ************* टीका ************* विज्ञप्रिया (वि, ग) क्षोभाख्यामलङ्कृतिमाह---अधिक्षेपेति । अधिक्षेपः तिरस्कारः तदर्थकवचोजनको यः क्षोभः क्रोधश्चलचित्तता स क्षोभाख्योऽलङ्कार इत्यर्थः । त्वयेत्यादिकं रामं प्रति रावणस्य वाक्यम् । ********** टीका सम्पूर्णा ********** यथा---त्वया तपस्विचाण्डाल ! प्रच्छन्नवधवर्तिना । न केवलं हतो वाली स्वात्मा च परलोकतः ॥ मोहावधीरितार्थस्य पश्चात्तापः स एव तु । यथानुतापाङ्के--"रामः--- किं देव्या न विचुम्बितोऽस्मि बहुशो मिथ्याभिशप्तस्तदा" इति । ************* टीका ************* विज्ञप्रिया (वि, घ) पश्चात्तापाख्यामलङ्कृतिमाह---मोहावधीरितार्थस्येति । गोत्रस्खलितादितो रामे मिथ्यामिशापं दत्त्वा मानिन्यां सीतायां तामनुनीय कार्य्यान्तराद्वहिर्गतस्य रामस्य तदा तत्कर्त्तृकचुम्बनकरणानुतापोऽयम् । ********** टीका सम्पूर्णा ********** उपपत्तिर्मता हेतोरुपन्यासोर्ऽथसिद्धये ॥ ६.२०३ ॥ यथा वध्यशिलायाम्--- "म्रियते म्रियमाणो या त्वयि जीवति जीवति । तां यदीच्छसि जीवन्तीं रक्षात्मानं ममासुभिः ॥ ************* टीका ************* विज्ञप्रिया (वि, ङ) उपपत्त्याख्यामलङ्कृतिमाह---उपपत्तिरिति । अर्थस्याभिमतार्थस्य सिद्धये तद्धतोरुपन्यास इत्यर्थः । वध्यशिला नाटकविशेषः । म्रियत इति वध्यशिलायां हन्तुमानीतं स्वमरणेन मरिष्यमाणां स्वप्रियामनुशोचन्तं कञ्चित्प्रति माहदयालोरुक्तिरियम् । पूर्वाद्धोक्तरूपां प्रियां जीवन्तीं यदिच्छसि तदा मामासुभिरात्मानं रक्ष । त्वत्परिवर्त्तमहं म्रिये । अत्र वध्यत्राणं वक्तुरभिप्रेतं तत्सिद्धये वध्यप्रियादीवनेच्छारूपेतोरुपन्यासः । ********** टीका सम्पूर्णा ********** आशंसनं स्यादाशंसा--- यथा श्मशाने---"माधवः--- "तत्पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम्" इति । ************* टीका ************* विज्ञप्रिया (वि, च) आशंसाख्यामलङ्कृतिमाह---आशंसनमिति । आशंसनमर्थसिद्धये प्रार्थनम् । आशीर्नामालङ्कृतिस्तु परार्थस्य सिद्धये आशीर्वादः । तत्पश्येयमिति । तस्या मालत्या मुखम् । ********** टीका सम्पूर्णा ********** ---प्रतिज्ञाध्यवसायकः । यथा मम प्रभावत्याम्---"वज्रनाभः--- अस्य वक्षः क्षणोनैव निर्मथ्य गदयानया । लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः" ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) व्यवसायाख्यामलङ्कृतिमाह---प्रतिज्ञेति व्यवसायक इति स्वार्थे कः । अस्य वक्ष इति । वो युष्माकं श्रीकृष्णादीनां सम्बन्धिनोऽस्य प्रद्युम्नस्य वक्ष इत्यर्थः । भुवनद्वयं स्वर्गमर्त्त्यरूपम् । ********** टीका सम्पूर्णा ********** विसर्पो यत्समारब्धं कर्मानिष्टफलप्रदम् ॥ ६.२०४ ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) विसर्परूपामलङ्कृतिमाह---विसर्प इति । समारब्धमिति । अतीतारम्भप्रदर्शनम् । अनिष्टफलदं कथितमिति शेषः । तच्च समारब्धम् । एकस्येति । केशेषु गृहीत्वा धृष्टद्युम्नेन हतस्य द्रोणस्य शिरसि छिन्ने क्रुद्धस्य अश्वत्थाम्न उक्तिरियम् । एकस्य दुः शासनेन द्रौपद्याः केशग्रहणस्यायं विपाकः अखिलक्षत्त्रिय क्षयकृत्संगरः । द्वितीये मत्पितुः केशग्रहः । अत्र केशग्रहारम्भणमनिष्टफलयुक्तम् । ********** टीका सम्पूर्णा ********** यथा वेण्याम्---"एकस्यैव विपाकोऽयम्--" इत्यादि (३७६ पृ.) कार्यग्रहणमुल्लेख--- ************* टीका ************* विज्ञप्रिया (वि, झ) उल्लेखाख्यामलङ्कृतिमाह---कार्य्यदर्शनमिति । संबोध्यस्य कार्य्यप्रदर्शनमित्यर्थः । तापसाविति राज्ञो मृगहननं निर्वार्य्य समिदाहरणाय इत्युचतुरित्यर्थः । अत्र राज्ञः शकुन्तलाविशिष्टाश्रमप्रवेशरूपकार्य्यप्रदर्शनम् । ********** टीका सम्पूर्णा ********** यथा शाकुन्तले---राजानं प्रति "तापसौ---समिदाहरणाय प्रस्थितावावाम् । इह चास्मद्गुरोः कण्वस्य कुलपतेः साधिदैवत इव शकुन्तलयानुमालिनीतीरमाश्रमो दृश्यते । न चेदन्य (था) कार्यातिपातः, प्रविश्य गृह्यतामतिथैसत्कारः" इति । ---उत्तेजनमितीष्यते । स्वकार्यसिद्धयेऽन्यस्य प्रेरणाय कठोरवाक् ॥ ६.२०५ ॥ यथा---इन्द्रजिच्चण्डवीर्योऽसि नाम्नैव बलवानसि । धिग्धिक्प्रच्छन्नरूपेण युध्यसेऽस्मद्भयाकुलः ॥ ************* टीका ************* विज्ञप्रिया (वि, ञ) उत्तेजनाख्यामलङ्कृतिमाह---उत्तेजनमिति । कठोरा परुषा । इन्द्रजितित्यादिकमिन्द्रजितं संबोध्य लक्ष्मणस्य परुषवाक्यमिदम् । प्रच्छन्नरूपेण मेघान्तरितवषुषा । अत्र दर्शनरूपस्वकार्य्यसिद्धये इन्द्रजित्प्रेरणाय इयं वाक् । ********** टीका सम्पूर्णा ********** भर्त्सना तु परीवादो--- यथा सुन्दराङ्के--"दुर्योधनः धिग्धिक्सूत ! किं कृतवानसि । वत्सस्य मे प्रकृतिदुर्ललितस्य पापः पापं विधास्यति--" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, ट) परीवादाख्यामलङ्कृतिमाह---भर्त्सनेति । सुन्दरो वेणीसंहारस्यैवाङ्कः । वत्सस्य कर्णपुत्रस्य वृषसेनस्य पापः पाण्डवः पापं वधम् । अत्र रथमादाय पलायितस्य सारथेर्भर्त्सना । ********** टीका सम्पूर्णा ********** ---नीतिः शास्त्रेण वर्तनम् । यथा शाकुन्तले--"दुष्यन्तः---विनीतवेषप्रवेश्यानि तपोवनानि" । इति । ************* टीका ************* विज्ञप्रिया (वि, ठ) नीत्यख्यामलङ्कृतिमाह---नीतिरिति । स्पष्टमिदम् । ********** टीका सम्पूर्णा ********** उक्तस्यार्थस्य यत्तु स्यादुत्कीर्तनमनेकधा ॥ ६.२०६ ॥ उपालम्भविशेषेण तत्स्यादर्थविशेषणम् । यथा शाकुन्तले राजानं प्रति "शार्ङ्गरवः--आः कथमिदं नाम, किमुपन्यस्तमिति ? ननु भवानेव नितरां लोकवृत्तान्तनिष्णातः । सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते । अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) अर्थविशेषाख्यमलङ्कृतिमाह---उत्कस्यार्थस्येति । परोक्तस्यार्थस्य उपालम्भविधया यतनेकधा उत्कीर्त्तनमित्यर्थः । उत्कीर्त्तनमनुवादः । आः कथमिदमिति । शकुन्तलां स्वीकर्त्तुं बहुशः शार्ङ्गरवेणोक्ते राज्ञोक्तं किमिदमुपन्यस्तमिति । उपहासविधया शार्ङ्गरवेणानेकधा तदनुवादः क्रियते । किमिदमितीति । अत्र वीप्सा बोध्या तदेव अनेकधात्वात् । सतीमपीति । ज्ञातिः पतृपक्षः । अन्यथा भासतीम् । स्वबन्धुभिः पितृपक्षीयैः । ********** टीका सम्पूर्णा ********** प्रोत्साहनं स्यादुत्साहगिरा कस्यापि योजनम् ॥ ६.२०७ ॥ यथा बालरामायणे--- कालरात्रिकरालेयं स्त्रीति किं विचिकित्ससि । तज्जगत्त्रितयं त्रातुं तात ! ताडय ताडकाम् ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) प्रोत्साहनाख्यामलङ्कृतिमाह---प्रोत्साहनमिति । योजनं नियोजनं प्रवर्त्तनमित्यर्थः । कालरात्रीति । रामं प्रति विश्वामित्रस्य वाक्यमिदम् । कालराक्षिवत्कराला भीषणा इयं ताडका । विचिकित्ससि त्यजसि । ********** टीका सम्पूर्णा ********** साहाय्यं सङ्कटे यत्स्यात्सानुकूल्यं परस्य च । यथा वेण्याम्--कृपं प्रति "अश्वत्थामा---त्वमपि तावद्राज्ञः पाशर्ववर्तो भव । कुपः---वाञ्छाम्यहमद्य प्रतिकर्तुम्--" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, ण) साहाय्याख्यामलङ्कृतिमाह--साहाय्यमिति स्पष्टम् । ********** टीका सम्पूर्णा ********** अभिमानः स एव स्यात्--- लोचना (लो, आ) स एव यो भाषितः स एवाभिमान एव । ********** टीका सम्पूर्णा ********** यथा तत्रैव---"दुर्योधनः---मातः किमप्यसदृशं कृपणं वचस्ते---" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, त) अभिमानाख्यमालङ्कृतिमाह---अभिमान इति । वाक्यात्योऽभिमानः प्रतीयते स एवाभिमानाख्यालङ्कार एव । मातरिति । पाण्डवेभ्यो राज्यं दातुं गान्धार्या उक्ते दुर्योधनस्याभिमानमूलेयमुक्तिः । ********** टीका सम्पूर्णा ********** ---प्रश्रयादनुवर्तनम् ॥ ६.२०८ ॥ अनुवृत्तिः--- यथा शाकुन्तले--"राजा---(शकुन्तलां प्रति) अयि ! तपो वर्धते । अनुसूयादाणिं अदिधिविसेसलाहेण" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, थ) अनुवृत्त्याख्यामलङ्कृतिमाह---प्रश्रयादिति । प्रश्रयो विनयः । अनुवर्त्तनं प्रीणनम् । अयीति । अत्र राज्ञोऽनसूयायाः परस्परं प्रीणनम् । ********** टीका सम्पूर्णा ********** ---भूतकार्याख्यानमुत्कीर्तनं मतम् । यथा बालारामायणे--- अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः । इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, द) उत्कीर्त्तनाख्यामलङ्कृतिमाह---भूतेति । भूतकार्यं पूर्ववृत्तम् । न च पूर्वसिद्धार्थकथनात्मकं यत्निरुक्तिरूपं नाट्यलक्षणमुक्तं तद्भेद इति वाच्यम् । तत्र स्वकृतिरूपस्य पूर्वसिद्धार्थस्य निहताशेषकौरव्य इत्यादिना कथनमत्र तु स्वपरसाधारणकृतपूर्ववृत्तस्य इति तद्भेदः । अत्र आसीदिति पुष्पकेणागमने रणस्थलं सीतां दर्शयतो रामस्य वाक्यमिदम् । भवद्देवरे लक्ष्मणे वक्षसि रावणेन शक्त्या गाढं ताडिते सति द्रोणाद्रिः गन्धमाहनाद्रिः अत्र हनुमता आहृतः । देवरत्वकथनमनुरागोत्पादनाय । दिव्यैः लक्ष्मणशरैः इन्द्रजित्लोकान्तरं प्रापितः । हे मृगाक्षि ! राक्षसपतेः रावणस्य कण्ठाटवी केनाप्यत्र कृत्ता अर्थात्मया । ********** टीका सम्पूर्णा ********** याच्ञा तु क्वापि याच्ञा या स्वयं दूतमुखेन वा ॥ ६.२०९ ॥ यथा----अद्यापि देहि वैदेहिं दयालुस्त्वयि राघवः । शिरोभिः कन्दुकक्रीडां किं कारयसि वानरान् ॥ ************* टीका ************* विज्ञप्रिया (वि, ध) याच्ञारूपामलङ्कृतिमाह---याच्ञेति । दूतमुखेन वा इत्युक्तेः दूतमुखेन याचनोचितवस्तुयाच्ञा लभ्यते । तेन तत्पश्येयमनङ्गमङ्गलगृहमित्यादौ उदाहरणके आशंसनाख्यालङ्कारेणैव भेदः । अद्यापीत्यादिकं रावणेऽङ्गदस्य वाक्यम् । शिरोभिरिति । रामच्छिन्नत्वच्छिरोभिरित्यर्थः । ********** टीका सम्पूर्णा ********** परिहार इति प्रोक्तः कृतानुचितमार्जनम् । यथा--प्राणप्रयाणदुःखार्त उक्तवानस्म्यनक्षरम् । तत्क्षमस्व विभो ! किं च सुग्रीवस्ते समर्पितः ॥ ************* टीका ************* विज्ञप्रिया (वि, न) परिहाररूपामलङ्कृतिमाह---परिहार इतीति । प्राणप्रयाणमिति । रामं प्रति म्रियमाणस्य वालिन उक्तिरियम् । ********** टीका सम्पूर्णा ********** अवधीरितकर्तव्यकथनं तु निवेदनम् ॥ ६.२१० ॥ यथा राघवाभ्युदये---"लक्ष्मणः--आर्य ! समुद्राभ्यर्थनया गन्तुमुद्यतोऽसि तत्किमेतत्" । ************* टीका ************* विज्ञप्रिया (वि, प) निवेदनाख्यामलङ्कृतिमाह---अवधीरितेति । अवधीरितमबधारणा । तत्र किमेतादित्यर्थः । अवधीरणैवात्र कर्त्तव्या इत्यर्थः । ********** टीका सम्पूर्णा ********** प्रवर्तनं तु कार्यस्य यत्सयात्साधुप्रवर्तनम् । यथा वेण्याम्---"राजा---कञ्चुकिन् ! देवस्य देवकीनन्दनस्य बहुमानाद्वत्सस्य भीमसेनस्य विजयमङ्गलाय प्रवर्तन्तां तत्रोचिताः समारम्भाः" । आख्यानं पूर्ववृत्तोक्तिर्--- यथा तत्रैव--"देशः सोऽयमरातिशोणितजलेर्यस्मिन् ह्रदाः पूरिताः--ऽइत्यादि । ************* टीका ************* विज्ञप्रिया (वि, फ) प्रवर्त्तनाख्यामलङ्कृतिमाह---प्रवर्त्तनं तु इति । कार्यस्य सम्बन्धै यत्साधुनो मङ्गलस्य प्रवर्त्तनं ततित्यर्थः । आख्यानरूपामलङ्कृतिमाह---पूर्ववृत्तोक्तिरत्र क्रोधमूलकत्वेन विशेषणीया । तेन भूतकार्य्याख्यानरूपातुत्कीर्त्तनालङ्कारात्भेदः देशः सोऽयमित्यादि । अश्वत्थाम्नः क्रोधात्पूर्ववृत्तोक्तिः । ********** टीका सम्पूर्णा ********** ---युक्तिरर्थावधारणम् ॥ ६.२११ ॥ यथा तत्रैव--- यदि समरमपास्य नास्ति मृत्योर्भयमिति युक्तमितोऽन्यतः प्रयातुम् । अख मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वम् ? ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) युक्तिरूपामलङ्कृतिमाह---युक्तिरिति । हेतुप्रदर्शनेन परेषां कार्यार्थनिश्चायनमित्यर्थः । यदि समरमिति । द्रोणस्य मरणेन पलायमानान् वीरान् प्रति अश्वत्थाम्न उक्तिरियम् । अत्रोक्तहेतुप्रदर्शनेन युद्धकर्त्तव्यतानिश्चायनम् । ********** टीका सम्पूर्णा ********** प्रहर्षः प्रमदाधिक्यं--- यथा शाकुन्तले---"राजा - तात्किमिदानीमात्मानं पूर्णमनोरथं नाभिनन्दामि" । ************* टीका ************* विज्ञप्रिया (वि, भ) प्रहर्षाख्यामलङ्कृतिमाह---प्रहर्ष इति स्पष्टम् । ********** टीका सम्पूर्णा ********** ---शिक्षा स्यादुपदेशनम् । यथा तत्रैव--"सहि, ण जुत्तं अस्समवासिणो जणस्स अकिदसक्कारं अदिधिविसेसं उज्झिअ सच्छन्ददो गमणम्" । ************* टीका ************* विज्ञप्रिया (वि, म) उपदेशानरूपामलङ्कृतिमाह---शिक्षेति । सहीति । सखि ! न युक्तमाश्रमवासिनो जनस्याकृतसत्कारमतिथिविशेषमुक्त्वा स्वच्छन्दतो गमनम् । ********** टीका सम्पूर्णा ********** एषां च लक्षणनाट्यालङ्काराणां सामान्यत एकरूपत्वेऽपि भेदेन व्यपदेशो गड्डलिकाप्रवाहेण । ************* टीका ************* विज्ञप्रिया (वि, य) एषां चेति । लक्षणानि उक्तानि षटत्रिंशत्, नाट्यालङ्कारा उक्तास्त्रयत्रिंशत् । एकरूपत्वेऽपीति । लक्षणत्वालङ्कारत्वयोर्विनिगमकाभावाल्लक्षणानामप्यलङ्कारत्वमलङ्काराणमपि लक्षणत्वमित्येवमेकरूपत्वसम्भवेऽपीत्यर्थः । भेदेनेति । एतानि लक्षणानि, एता अलङ्कृतय इत्येवं भेदेन इत्यर्थः । गड्डलिकाप्रवाहोऽनादिसिद्धो निर्मलो व्यवहारः । लोचना (लो, इ) गड्डरिकाप्रवाहेणेति---यथा गड्डरिका एका अपरां तां चंतरानुगच्छति, तासां गतानुगतमात्रेण भेदः तथा लक्षणनाट्यालङ्कारयोरपीति भावः । ********** टीका सम्पूर्णा ********** एषु च केषांचिद्गुणालङ्कारभावसंध्यङ्गविशेषान्तर्भावेऽपि नाटके प्रयत्नतः कर्त्तव्यत्वात्तद्विशेषोक्तिः । ************* टीका ************* विज्ञप्रिया (वि, र) एषु चेति । केषाञ्चित्वक्ष्यमाणोपमाव्यतिरेकालङ्कारादिरूपत्वेन तेषु काव्याङ्गेषु केषाञ्चिच्च गुणभावतत्सम्वन्धिव्यञ्जकत्वेन तेषु काव्याङ्गेषु अन्तर्भावसम्भवेऽपि इत्यर्थः । प्रयत्नतः कर्त्तव्यत्वादिति---कर्त्तव्यता च तत्तप्रसङ्गौचित्यानुसारेण यथायोग्यमेव न तु सर्वत्रैव सर्वेषाभित्यवधेयम् । ********** टीका सम्पूर्णा ********** एतानि च--- पञ्चसन्धि चतुर्वृत्ति चतुः षष्ट्यङ्गसंयुतम् । षडविंशल्लक्षणोपेतमलङ्कारोपशोभितम् । महारसं महाभोगमुदात्तरचनान्वितम् । लोचना (लो, ई) महारसमिति---रसभावनिरन्तरम् । ********** टीका सम्पूर्णा ********** महापुरुषसत्कारं साध्वाचारं जनप्रियम् ॥ सुश्लिष्टसन्धियोगं च सुप्रयोगं सुखाश्रयम् । मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ॥ इति मुनिनोक्तत्वान्नाटकेऽवश्यं कर्तव्यान्येव वीथ्यङ्गानि वक्ष्यन्ते । ************* टीका ************* विज्ञप्रिया (वि, ल) सुकविना तु एतत्सकलविशिष्टमपि नटकं कर्त्त्यमिति मुनिनांक्तत्वात्तेन सर्वभिदं कर्त्तव्यमित्याह---पञ्चसन्धि चतुर्वृत्तीत्यादि कुर्यात्तु नाटकमित्यन्तम् । पञ्चसन्धयो मुखसन्ध्याद्याः प्रागुक्ताः पञ्च । चतुः षष्ट्यङ्गानि च सन्धीनां प्रागुक्तानि । षट्त्रिंशत्लक्षणानि च नाट्यानां प्रागुक्तानि । अलङ्कारस्त्रयस्त्रिंशत्सम्प्रत्युक्ताः । "त्रयस्त्रिंशत्प्रयोज्यानि वीथ्यङ्गानि त्रयोदशऽ इत्युक्तत्वात्त्रयस्त्रिंशदलङ्कारोक्त्यनन्तरं वीथ्यङ्गानां वक्तव्यत्वे प्राप्ते वीथिरूपकनाटकविशेषस्य विशिप्य दर्शितत्वात्दर्शयिष्यमाणतदवसरे वीथ्यङ्गानि वक्ष्यन्ते इत्याह---वीथ्यङ्गानीति । ********** टीका सम्पूर्णा ********** लास्याङ्गान्याह-- गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका ॥ ६.२१२ ॥ प्रच्छेदकस्त्रिगूढं च सैन्धवाख्यं द्विगूढकम् । उत्तमोत्तमकं चान्यदुक्तप्रत्युक्तमेव च ॥ ६.२१३ ॥ लास्ये दशविधं ह्येतदङ्गमुक्तं मनीषिभिः । ************* टीका ************* विज्ञप्रिया (वि, व) दश लास्याङ्गानि वक्तुमाह---लास्याङ्गानीति । ********** टीका सम्पूर्णा ********** तत्र-- तन्त्रीभाण्डं पुरस्कृत्योपविष्टस्यासने पुरः ॥ ६.२१४ ॥ शुद्धं गानं गेयपदं--- लोचना (लो, उ) शुष्कमनुकरणीयम् । ********** टीका सम्पूर्णा ********** यथा---गौरीगृहे वीणां वादयन्ती "मलयवती--- उत्फुल्लकलकेसरपरागगौरद्युते ! मम हि गौरि ! । अभिवाञ्छितं प्रसिध्यतु भगवति ! युष्मत्प्रसादेन ॥ ************* टीका ************* विज्ञप्रिया (वि, श) तत्र गेयपदरूपं लास्याङ्गमाह---तन्त्रीभाण्डेति । तन्त्रीभाण्डं तन्त्र्याश्रयां वीणां पुरस्कृत्य प्रधानीकृत्य शुष्कं गानं नृत्यहीनगानम् । उत्फुल्लेति---ममाभिवाञ्छितमित्यन्वयः । ********** टीका सम्पूर्णा ********** ---स्थितपाठ्यं तदुच्यते । मदनोत्तापिता यत्र पठति प्राकृतं स्थिता ॥ ६.२१५ ॥ अभिनवगुप्तपादास्त्वाहुः---"उपलक्षणं चैतत् । क्रोधोद्भ्रान्तस्यापि प्राकृतपठनं स्थितपाठ्यम्" इति । निखिलातोद्यरहितं शोकचिन्तान्विताबला । अप्रसाधितगात्रं यदासीनासीनमेव तत् ॥ ६.२१६ ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) आसीनमङ्गमाह---निखिलातोद्येति । मृदङ्गादिवाद्यरहितम् । शोकाकुला वस्त्राच्छादितगात्री यत्तिष्ठति तदासीनमित्यर्थः । ********** टीका सम्पूर्णा ********** आतोद्यमिश्रितं गेयं छन्दांसि विविधानि च । स्त्रीपुंसयोविपर्यासचेष्टितं पुष्पगण्डिका ॥ ६.२१७ ॥ ************* टीका ************* विज्ञप्रिया (वि, स) पुष्पगण्डिकाख्यमङ्गमाह---आतोद्येति । छन्दांसि गद्यपद्यरागाणं विपर्यासश्चष्टाव्यत्यासः । लोचना (लो, ऊ) विपर्यासचेष्टितं स्त्रियाः पुरुषस्य चोष्टितं, परुषस्य स्त्रीचेष्टितम् । ********** टीका सम्पूर्णा ********** अन्यासक्तं पतिं मत्वा प्रेमविच्छेदमन्युना । वीणापुरःसरं गानं स्त्रियाः प्रच्छेदको मतः ॥ ६.२१८ ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) प्रच्छेदाख्यमङ्गमाह---अन्यासक्तमिति । उक्तमन्युना पतिमवज्ञाय वीणापुरस्सरं गानमित्यर्थः । ********** टीका सम्पूर्णा ********** स्त्रीवेषधारिणां पुंसां नाट्यं श्लक्ष्णं त्रिगूढकम् । ************* टीका ************* विज्ञप्रिया (वि, क) त्रिगूढाख्यमङ्गमाह---स्त्रीवेशेति । श्लक्ष्णं मनोहरम् । मकरन्द इति । तेन मालतीप्रतारणाय लवङ्गिकावेशस्य नन्दनप्रतारणाय मालतीवेशधारणात् । ********** टीका सम्पूर्णा ********** यथा मालत्याम्--"मकरन्दः--एषोऽस्मि मालतीसंवृत्तः" । कश्चन भ्रष्टसंकेतः सुव्यक्तकरणान्वितः ॥ ६.२१९ ॥ प्राकृतं वचनं वक्तिं यत्र तत्सैन्धवं मतम् । करणं वीणादिक्रिया । चतुरस्त्रपदं गीतं मुखप्रतिमुखान्वितम् ॥ ६.२२० ॥ लोचना (लो, ऋ) चतुरस्त्रपदं भरतादि प्रसिद्धम् । ********** टीका सम्पूर्णा ********** द्विगूढं रसभावाढ्यम्-- ---उत्तमोत्तमकं पुनः । कोपप्रसादजमधिक्षेपयुक्तं रसोत्तरम् ॥ ६.२२१ ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) द्विगूढकमङ्गमाह---चतुरस्त्रपदमिति । पादचतुष्टयान्वितं गीतमित्यर्थः । तच्च गीतं मुखप्रतिमुखसन्ध्योर्गेयमित्यर्थः । उत्तमोत्तमकमङ्गमाह---उत्तमोत्तमकं पुनरिति । कोपेति । लास्यं कदाचित्कोपजत्वातधिक्षेपयुक्तम् । कदाचित्प्रसादजत्वात्रसोत्तरमित्यर्थः । हावहेलेति । हेलाभिन्नोऽत्र हावो गोवृषन्यायाथेलाबाहुल्यार्थं तत् । ********** टीका सम्पूर्णा ********** हावहेलान्वितं चित्रश्लोकबन्धमनोहरम् । उक्तिप्रत्युक्तिसंयुक्तं सोपालम्भमलीकवत् ॥ ६.२२२ ॥ विलासान्वितगीतार्थमुक्तप्रत्युक्तमुच्यते । ************* टीका ************* विज्ञप्रिया (वि, ग) उक्तप्रत्युक्तमङ्गमाह---उक्तिप्रत्युक्तीति । उपालम्भ उपहासः । स चालीकार्थमुपन्यस्येत्याह---अलीकवदिति । ********** टीका सम्पूर्णा ********** स्पष्टान्युदाहरणानि । एतदेव यदा सर्वैः पताकास्थानकैर्युतम् ॥ ६.२२३ ॥ अङ्कैश्च दशभिर्धोरा महानाटकमूचिरे । ************* टीका ************* विज्ञप्रिया (वि, घ) महानाटकाख्यं नाटकप्रभेदमाह---एतदेवेति । नाटकमेवेत्यर्थः । सर्वैः पताकास्थानकैरिति । सहसैवार्थसम्पत्तिर्गुणवत्युपचारतः । पताकास्थानकमिदं प्रथमं परिकीर्त्तितम् ॥ इत्यादिभिरुक्तैश्चतुर्भिः पताकस्थानकैरित्यर्थः । लोचना (लो, ॠ) एवं नटकलक्षणं गोबलीवर्दन्यायेन भिन्नं महानाटकलक्षणम् । ********** टीका सम्पूर्णा ********** एतदेव नाटकम् । यथा---बालरामायणम् । अथ प्रकरणम् --- भवेत्प्रकरणो वृत्तं लौकिकं कविकल्पितम् ॥ ६.२२४ ॥ शृङ्गारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथवा वणिक् । सापायधर्मकामार्थपरो धीर शान्तकः ॥ ६.२२५ ॥ लोचना (लो, ळ) अथ उद्देश्यकमेण प्रकरणादीन्निरूपयति---भवोदिति । लौकिकं न तु दिव्यं मिश्रं वा । ********** टीका सम्पूर्णा ********** विप्रनायकं यथा मृच्छकटिकम् । अमात्यनायकं मालतीमाधवम् । वणिड्नायकं पुष्पभूषितम् । ************* टीका ************* विज्ञप्रिया (वि, ङ) नाटकप्रकरणभाणादयो ये रूपकोपरूपकप्रभेदा उत्कीर्त्तिता "विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम्" । इत्युक्तत्वादित्थं साङ्गोपाङ्गनाटकलक्षणमुक्त्वा प्रकरणाख्यं द्वितीयरूपकमाह---अथ प्रकरणमिति । वृत्तं तन्नाट्यवर्णनीयप्रसङ्गः । तच्च कविनैव कल्पितत्वेन पुराणेषु अदृष्टत्वाल्लौकिकम् । सापायेति । शृङ्गारित्वेन कदाचिद्धर्मस्य नायिकाया मानात्कदाचित्कामस्य कामार्थव्यवसायातर्थस्य चापायवानित्यर्थः । धीरप्रशान्त इति । "सामान्यगुणैर्भूयान् द्विजादिको धरिप्रशान्त"इति । तल्लक्षणं प्रागुक्तम् । पुष्पभूषितंप्रकरणविशेषः । ********** टीका सम्पूर्णा ********** नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् । तेन भेदास्त्रयस्तस्य तत्र भेदस्तृतीयकः ॥ ६.२२६ ॥ कितवद्यूतकारादिविटचेटकसंकुलः । ************* टीका ************* विज्ञप्रिया (वि, च) तेन भेदास्त्रयस्तस्येति । तस्य प्रकरणस्य कुलजा वेश्या तदुभयनायिकाभेदात्भेदक्षत्रयम् । तत्रोभयनायकत्वे तृतीयभेदपात्राण्याह--कितवेति । ********** टीका सम्पूर्णा ********** कुलस्त्री पुष्पभूषिते । वेश्या तु रङ्गवृत्ते । द्वे अपि मृच्छकटिके । अस्यनाटकप्रकृतित्वाच्छेषं नाटकवत् । अथ भाणः--- भाणः स्याद्धूर्तचरितो नानावस्थान्तरात्मकः ॥ ६.२२७ ॥ एकाङ्क एक एवात्र निपुणः पण्डितो विटः । रङ्गे प्रकाशयेत्स्वेनानुभूतमितरेण वा ॥ ६.२२८ ॥ संबोधनोक्तिप्रत्युक्तो कुर्यादाकाशभाषितैः । सूचयेद्वीरशृङ्गारौ शौर्यसौभाग्यवर्णनैः ॥ ६.२२९ ॥ तत्रैतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारति । मुखनिवहणो सन्धी लास्याङ्गानि दशापि च ॥ ६.२३० ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) भाणाख्यं रूपकमाह---अथेति । नानावस्थेति । नाटकस्यान्तरात्मा नायकः स नानावस्थो यत्र तादृशः । पण्डित एव धूर्त्तो बोध्यः । स्वन इतरेण वानुभूतार्थमित्यन्वयः । सूचयेदिति । शौर्य्येण वीरम्, सौभाग्येन शृङ्गारम् । सूचयेदित्यर्थः । उत्पाद्यं कविनैव । ********** टीका सम्पूर्णा ********** अत्राकाशभाषितरूपपरवचनमपि स्वयमेवानुवदन्नुत्तरप्रत्युत्तरे कुर्यात् । शृङ्गारवीररसौ च सौभाग्यशौर्यवर्णनया सूचयेत् । प्रायेण भारती, क्वापि कौशिक्यपि वृत्तिर्भवति । लास्याङ्गानि गेयपदादीनि । उदाहणं लीलामधुकरः । ************* टीका ************* विज्ञप्रिया (वि, ज) व्याचष्टे---अत्रेति । लीलामधुकरो भाणाख्यरूपकविशेषः । ********** टीका सम्पूर्णा ********** अथ व्यायोगः--- ख्यातेतिवृत्तो व्यायोगः स्वल्पस्त्रीजनसंयुतः । हीनो गर्भविमर्शाभ्यां नरैर्बहुभिराश्रितः ॥ ६.२३१ ॥ लोचना (लो, ए) प्रकरणाद्भेदो गर्भाविमर्शाभावेन । ********** टीका सम्पूर्णा ********** एकाङ्कश्च भवेदस्त्रीनिमित्तसमरोदयः । कैशिकीवृत्तिरहितः प्रख्यातस्तत्र नायकः ॥ ६.२३२ ॥ राजषिरथ दिव्यो वा भवेद्धीरोद्धतश्च सः । हास्यशृङ्गारशान्तेभ्य इतरेऽत्राङ्गिनो रसाः ॥ ६.२३३ ॥ यथा सौगन्धैकाहरणम् । अथ समवकारः--- वृत्तं समवकारे तु ख्यातं देवासुराश्रयम् । सन्धयो निर्विमर्शास्तु त्रयोऽङ्कास्तत्र चादिमे ॥ ६.२३४ ॥ सन्धी द्वावन्त्ययोस्तद्वदेक एको भवेत्पुनः । नायका द्वादशोदात्ताः प्रख्याता देवमानवाः ॥ ६.२३५ ॥ फलं पृथक्पृथक्तेषां वीरमुख्योऽखिलो रसः । वृत्तयो मन्दकौशिक्यो नात्र बिन्दुप्रवेशकौ ॥ ६.२३६ ॥ वीथ्यङ्गानि च तत्र स्युर्ययालाभं त्रयोदश । गायत्र्युष्णिङ्मुखान्यत्र च्छन्दांसि विविधानि च ॥ ६.२३७ ॥ लोचना (लो, ऐ) गायत्र्यादीनां छन्दसां लक्षणान्याकारेषु बोद्धव्यानि । ********** टीका सम्पूर्णा ********** त्रिशृङ्गारस्त्रिकपटः कार्यश्चायं त्रिविद्रवः । वस्तु द्वादशनालीभिर्निष्पाद्यं प्रथमाङ्कगम् ॥ ६.२३८ ॥ द्वितीयेऽङ्के चतसृभिर्द्वाभ्यामङ्केतृतीयके । ************* टीका ************* विज्ञप्रिया (वि, झ) व्यायोगाख्यं रूपकमाह---अथेति । सौगन्धिकाहरणं व्यायोगाख्यरूपकविशेषः । समवकाराख्यं रूपकमाह---अथेति । आदिमेऽङ्के अन्त्ययोरङ्कयोरेकः सन्धिरित्यर्थः । मन्दकौशिक्यः कौशिक्या एवाम्तरविशेषाः । त्रिशृङ्गारादिकं स्वयमेव व्याख्यास्यति---वस्तु इति । प्रथमाङ्कगं प्रथमाङ्कबोधनीयं वस्तु । घटिकाद्वयात्मकनाडीद्वादशकैरष्टचत्वारिंशद्दण्डैर्निष्पाद्यं कार्य्यमित्यर्थः । ********** टीका सम्पूर्णा ********** नालिका घटिकाद्वयमुच्यते । बिन्दुप्रवेशकौ च नाटकोक्तावपि नेह विधातव्यौ । ************* टीका ************* विज्ञप्रिया (वि, ञ) व्याचष्टे---नाडिका चेति घटिका दण्डद्वयम् । ********** टीका सम्पूर्णा ********** तत्र--- धर्मार्थकामैस्त्रिविधः शृङ्गारः, कपटः पुनः ॥ ६.२३९ ॥ स्वाभाविकः कृत्रिमश्च दैवजो विद्रवः पुनः । अचेतनैश्चेतनैश्च चेतनाचेतनैःकृतः ॥ ६.२४० ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) तत्र शृङ्गारादिकं कारिकया आह---धर्मार्थेति । त्रिकपटत्वं व्याख्यातुं कपटत्रैविध्यमाह---कपटः पुनरिति । त्रिविद्रवत्वं व्याख्यातुमाह---विद्रवः पुनः इति । कौतुकेन प्रतारणादिविशेषो विद्रवः । स चाचेतनैः काष्ठपुत्तलिकादिभिश्चेतनैः प्रहसनकरैश्चेतनाचेतनैश्चेतनत्वेऽपि प्रकृष्टचेतनारहितैः पश्वादिभिः तद्वक्ष्यति । गजादिभिरिति तत्र धर्मशृङ्गारादिकमिच्छया व्युत्कमेण दर्शयति । ********** टीका सम्पूर्णा ********** तत्र शास्त्राविरोधेन कृतो धर्मशृङ्गारः । अर्थलाभार्थकल्पितोर्ऽथशृङ्गारः । प्रहसनशृङ्गारः कामशृङ्गारः । तत्र कामशृङ्गारः प्रथमाङ्कः एव । अन्ययोस्तु न नियम इत्याहुः । चेतनाचेतना गजादयः । समवकीर्यन्ते बहवोर्ऽथा अस्मिन्नति समवकारः । यथा---समुद्रमथनम् । ************* टीका ************* विज्ञप्रिया (वि, ठ) तत्र नायिकानायकयोः अर्थलाभार्थः शृङ्गारो वेश्यानां॑ धर्माविरोधी शृङ्गारः स्वदारेषु पुंसः । समवकारपदव्युत्पत्तिमाह---समवकीर्य्यन्त इति । लोचना (लो, ओ) प्रहसनो हास्ययुक्तः प्रथमोद्दिष्टोऽपि धर्मशृङ्गारः पश्चाद्विधेयत्वेन पश्चाद्व्याख्यातः । अनियमादिति क्वचिद्दिव्यः क्वचिन्नरो वा नायकः अर्थप्रकृतयः आरम्भयत्नाद्याः । ********** टीका सम्पूर्णा ********** अथ डिमः--- मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः । उपरागैश्च भूयिष्ठो डिमः ख्यातेतिवृत्तकः ॥ ६.२४१ ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) डिमसंज्ञकं रूपकमाह--अथेति । मायेति । मायात्मकत्वातदृश्यता । इन्द्रजालमलीकनानावस्तुप्रदर्शनम् । सङ्ग्रामक्रोधोद्भ्रान्तादिचेष्टितमितस्ततो विक्षेपः । उपरागः उपद्रवः । ********** टीका सम्पूर्णा ********** अङ्गी रौद्ररसस्तत्र सर्वेऽङ्गानि रसाः पुनः । चत्वारोऽङ्का मता नेह विष्कम्भकप्रवेशकौ ॥ ६.२४२ ॥ नायका देवगन्धर्वयक्षरक्षोमहोरगाः । भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ॥ ६.२४३ ॥ वृत्तयः कौशिकीहीना निर्विमर्शाश्च सन्धयः । दीप्ताः स्युः षड्रसाः शान्तहास्यशृङ्गारवजिंताः ॥ ६.२४४ ॥ अत्रोदाहरणं च "त्रिपुरदाहः" इति महर्षिः । अथेहामृगः-- ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्तितः । मुखप्रतिमुखे सन्धी तत्र निर्वहणं तथा ॥ ६.२४५ ॥ नरदिव्यावनियमौ नायकप्रतिनायकौ । ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत् ॥ ६.२४६ ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) ईहामृगाख्यं रूपकमाह---अथेहेति । मिश्रवृत्तः ख्याताख्यातवृत्तान्तः निर्वहणोपसंहृतिरूपसिद्धिरपि तत्रेत्यर्थः । नरदिव्याविति । नरौ वा दिव्यौ वा नरदिव्यौ वा नायकप्रतिनायकावित्यर्थः । तयोराद्यो धीरः । अन्त्य उद्धतः । स च मूढभावातयुक्तकारी । ********** टीका सम्पूर्णा ********** दिव्यस्त्रियमनिच्छन्तीकपहारादिनेच्छतः । शृङ्गाराभासमप्यस्य किञ्चित्किञ्चित्प्रदर्शयेत् ॥ ६.२४७ ॥ पताकानायका दिव्या मर्त्या वापि दशोद्धताः । युद्धमानीय संरम्भं परं व्याजान्निवर्तते ॥ ६.२४८ ॥ महाध्मानो वधप्राप्ता अपि वध्याः स्युरत्र नो । ************* टीका ************* विज्ञप्रिया (वि, ण) दिव्यस्त्रियमनिच्छन्तीमिच्छतः शृङ्गाराभासमपीत्यन्वयः । पताकानायकव्यापिप्रासङ्गिकवृत्तप्रवर्त्तका नायिका "व्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिधीयते"इत्युक्तत्वात् । ते तु दिव्यमर्त्त्या द्वादश इत्यर्थम् । तथा च नायकप्रतिनायकौ द्वौ, पताकानायका दश इति द्वाधशा । युद्धमिति युद्धरूपं संरम्भं विक्रमं परबलमानीय प्रापय्य व्याजात्निवर्त्तयेतित्यर्थः । तत्र हेतुमाह---माहत्मान इति । तेषां वधानर्हत्वादित्यर्थः । इत्थं नायकप्रतिनायकयोर्दिव्यमर्त्त्यादित्वात्नियम उक्तः । ********** टीका सम्पूर्णा ********** एकाङ्को देव एवात्र नेतेत्याहुः परे पुनः ॥ ६.२४९ ॥ दिव्यस्त्रीहेतुकं युद्धं नायकाः षडितीतरे । मिश्रं ख्याताख्यातम् । अन्यः प्रतिनायकः । पताकानायकास्तु नायकप्रतिनायकयोर्मिलिता दश । नायको मृगवदलभ्यां नायिकामत्र ईहते वाञ्छतीतीहामृगः । यथा---कुसुमशेखरविजयादिः । ************* टीका ************* विज्ञप्रिया (वि, त) अन्ये तु दिव्यैकानायकनियममाहुः । अन्ये तु षड्नायकमाहुरित्याह--एकाङ्को दिव्य इत्यादि च । पताकानायक इत्यादिकं व्याचष्टै---पताकास्था इति नायकप्रतिनायकयोः सम्बन्धिनः पताकास्था नायका मिलिताः सङ्गता दश इत्यर्थः ईहामृगव्युत्पत्तिमाह---नायको मृगवदिति । ********** टीका सम्पूर्णा ********** अथाङ्कः--- उत्सृष्टिकाङ्क एकाङ्को नेतारः प्राकृता नराः ॥ ६.२५० ॥ रसोऽत्र करुणः स्थायी बहुस्त्रीपरिदेवितम् । प्रख्यातमितिवृत्तं च कविर्बुद्ध्या प्रपञ्चयेत् ॥ ६.२५१ ॥ भाणावत्सन्धैवृत्तयङ्गान्यस्मिञ्जयपराजयौ । युद्धं च वाचा कर्त्तव्यं निर्वदवचनं बहु ॥ ६.२५२ ॥ इसं च केचित्नाटकाद्यन्तः पात्यङ्कपरिच्छेदार्थमुत्सृष्टिकाङ्कनामानमाहुः । अन्ये तु---उत्क्रान्ता विलोमरूपा सृष्टिर्यत्रेत्युत्सृष्टिकाङ्कः । यथा--शमिष्ठाययातिः । ************* टीका ************* विज्ञप्रिया (वि, थ) उत्सृष्टिकाङ्काख्यं रूपकमाह---अथेति । बहुस्त्रीणां परिदेवितं शोकः स्थायिभावः इत्यर्थः । उत्सृष्टिकाङ्कपदार्थं व्याचष्टे--इमं चेति । नाटकाद्यन्तः--पातीति नाटकान्तरे द्वित्र्याद्यङ्काः । अस्य च एकाङ्कत्वेन अङ्कान्तरोत्सङ्कातमुमुत्सृष्टिकाङ्कनामानं केचिदाहुरित्यर्थः । अन्ये तु वक्ष्यमाणवीथ्यामपि एकाङ्कसत्त्वात्तस्या अपि उत्सृष्टिकाङ्कत्वापत्तेः । तत्पदार्थमन्यथाहुस्तदाह---अन्ये त्विति । विलोमेति प्राकृतनायकत्वेन विलोमता । ********** टीका सम्पूर्णा ********** अथ वीथी--- वीथ्यामेको भवेदङ्कः कश्चिदेकोऽत्र कल्प्यते । आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः ॥ ६.२५३ ॥ सूचयेद्भरि शृङ्गारं किञ्चिदन्यान्नसान् प्रति । मुखनिर्वहणो सन्धई अर्थप्रकृतयोऽखिलाः ॥ ६.२५४ ॥ ************* टीका ************* विज्ञप्रिया (वि, द) वीथ्याख्यं रूपकमाह--अथेति । कश्चिदेक इत्यत्र नायक इति शेषः । अर्थप्रकृतय इति बीजं बिन्दुः पताका च प्रकरी कार्य्यमेव इति याः पञ्च प्रकृतयः प्रागुक्तास्ता आखिला अपि अत्रेत्यर्थः । ********** टीका सम्पूर्णा ********** कश्चिदुत्तमो मध्यमोऽधमो वा शृङ्गारबहुलत्वाच्चास्याः कौशिकीवृत्तिबहुलत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ध) व्याचष्टे---कश्चिदिति । उत्तमाद्यन्यतरो नायक इत्यर्थः । कौशिक्या वृत्तेरत्र अनुक्तत्वेऽपि भूरिशृङ्गारवत्त्वात्तल्लाभ इत्याह--शृङ्गारबहुलत्वादिति । ********** टीका सम्पूर्णा ********** अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः । उद्धात्य (त) कावलगिते प्रपञ्चस्त्रिगतं छलम् ॥ ६.२५५ ॥ वाक्केल्यधिबले गण्डमवस्यन्दितनालिके । असत्प्रलापव्याहारमृद(मार्द) वानि च तानि तु ॥ ६.२५६ ॥ तत्रोद्धात्य(त) कावलगिते प्रस्तावनाप्रस्तावे सोदाहरणं लक्षिते । ************* टीका ************* विज्ञप्रिया (वि, न) प्रस्तावनाप्रस्तावे इति । "पादनि त्वगतार्थनि तदर्थगतये नराः । योजयन्ति पदैरन्यैः स उद्घात्यक उच्यते ॥ "इत्युद्धातकलक्षणस्य "यत्रैकत्र समावेशात्कार्य्यमन्यत्प्रसाध्यते । प्रयोगे सति तद्ज्ञेयं नाम्नावलगितं बुधैः" ॥ इति अवलगितलक्षणस्य च प्रस्तावनाप्रस्तावे उक्तत्वात् । ********** टीका सम्पूर्णा ********** मिथो वाक्यमसद्भूतं प्रपञ्चो हास्यकृन्मतः । ************* टीका ************* विज्ञप्रिया (वि, प) प्रपञ्चाख्यमङ्गमाह---मिथ इति--असद्भूतमलीकार्थमत एव हास्यकृत् । लोचना (लो, औ) मिथः असद्भतूं वाक्यमिति सम्बन्धः । ********** टीका सम्पूर्णा ********** यथा विक्रमोर्वश्याम्--वलीभीस्थविदूषकचेट्योरन्योन्यवचनम् । त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः ॥ ६.२५७ ॥ ************* टीका ************* विज्ञप्रिया (वि, फ) त्रिगताख्यमङ्गमाह---त्रिगतमिति । श्रुतिसाम्यतः श्रूयमाणशब्दद्वयसाम्यात्तयोर्वस्तुत एकार्थत्वेऽपि अनेकार्थयोरेकभिन्नार्थयोर्योजनं प्रत्यायनमित्यर्थः ********** टीका सम्पूर्णा ********** यथा तत्रैव---राजा--- सर्वक्षितिभृतां नाथ !, दृष्टा सर्वाङ्गसुन्दरी । रामा रम्ये वनान्तेऽस्मिन्मया विरहिता त्वया ॥ (नेपथ्ये तत्रैव प्रतिशब्दः) राजा कथं दृष्टेत्याह । अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् । नटादित्रितयविषयमेवेदमिति कश्चित् । ************* टीका ************* विज्ञप्रिया (वि, ब) सर्वक्षितीति---इदं हिमालयस्य सम्बोधनम् । मया विरहिता सर्वाङ्गसुन्दरी रामा उर्वशी रम्येऽस्मिन् वनान्ते त्वया दृष्टा इति प्रश्नः । कथं दृष्टा इत्याहत्वया विरहिता मया दृष्टेति प्रतिशब्दार्थस्य योजनाद्दर्शनोत्तरणशब्दयोरेकार्थत्वेऽपि दर्शितरीत्या प्रश्रोत्तरभावेन योजनादनेकार्थता, तद्व्याचष्टे---अत्र प्रश्रेति । नटनटीसूत्रधारत्रयप्रयोज्यत्वेनास्य त्रिगतत्वं केचित्व्याचक्षते, तदाह---नटादीति । लोचना (लो, अ) क्षितिभृतां पर्वतानां राज्ञाञ्च । मया विरहिता त्वया दृष्टा॑ पक्षे त्वया विरहिता मया दृष्टा । अत्र राज्ञां प्रथमार्थाभिप्रायेण प्रश्ररूपार्थं वाक्यमिदमुक्त्वा पर्वते प्रतिध्वनिमाकर्ण्य द्वितीयार्थः पर्वतस्योत्तरत्वेनावगतो विरहोन्मादात । ********** टीका सम्पूर्णा ********** प्रियाभैरप्रियैर्वाक्यैर्विलोभ्यच्छलनाच्छलम् । यथा वेण्याम्--भीमार्जुनौ--- कर्ता द्यूतच्छलानां, जतुमयशरणोद्दीपनः सोऽभिमानी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् । कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः क्वाऽस्ते दुर्योधनोऽसौ कथयत, न रुषा, द्रष्टुमभ्यागतौ स्वः ॥ ************* टीका ************* विज्ञप्रिया (वि, भ) छलाख्यमङ्गमाह---प्रियाभैरिति । विलोभ्य प्रतार्य छलनादुपहसनात् । कर्त्तेति---पलायितुं दुर्योधनमन्विष्यतो भीमार्जुनयोर्वाक्यमिदम् । द्यूतच्छलादिकर्त्तृत्वविशिष्टो यस्तं द्रष्टुमागतौ स्वः न तु रुषा इत्यन्वयः । शरणं गृहम् । दुः शासनादेरनुजशतस्य गुरुरित्यन्वयः । अङ्गराजस्य कर्णस्य । अत्र द्रष्टुमेव न रुषेति प्रियाभेन वाक्येन प्रतार्य उपहसनम् । लोचना (लो, आ) शरणं गृहम् । ********** टीका सम्पूर्णा ********** ********** टीका सम्पूर्णा ********** अन्ये त्वाहुश्छलं किञ्चित्कार्यमुद्दिश्य कस्यचित् ॥ ६.२५८ ॥ उदीर्यते यद्वचनं वञ्चनाहास्यरोषकृत् । वाक्केलिर्हास्यसम्बन्धो द्वित्रिप्रत्युक्तितो भवेत् ॥ ६.२५९ ॥ ************* टीका ************* विज्ञप्रिया (वि, म) अन्ये इति । कस्यचित्किञ्चित्कार्यमुद्दिश्य इत्यन्वयः । वाक्केलिरूपमङ्गमाह---वाक्केलीति । ********** टीका सम्पूर्णा ********** द्वित्रीत्युपलक्षणम् । यथा--- भिक्षो ! मांसनिषेवणं प्रकुरुषे, किं तेन मद्यं विना मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह । वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽपि भवतो, नष्टस्य कान्या गतिः ॥ ************* टीका ************* विज्ञप्रिया (वि, य) भिक्षो इति । परिहासाय मांसं भक्षन्तं भिक्षुं प्रति भिक्षो इत्यादिर्गृहिणः प्रश्रः । किं तेन इति भिक्षोः प्रत्युत्तरम् । मद्यं चापि इत्यादिकं गृहिणः । प्रियमहो वेश्याङ्गनाभिरित्यादिकं भिक्षोः । अत्राधिकस्याप्यकार्यस्य सत्त्वे अल्पकार्यप्रश्रातहो इत्युक्तम् । वेश्यापीत्यादि धनमित्यन्तं गृहिणः । द्यूतेनेत्यादिकं भिक्षोः । चौर्य्येत्यादिकं गृहिणः । नष्टस्येत्यादिकं भिक्षोः प्रत्युक्तिः । ********** टीका सम्पूर्णा ********** केचित्--"प्रक्रान्तवाक्यस्य साकाङ्क्षस्यैव निवृत्तिर्वाक्केलिः" इत्याहुः । अन्ये "अनेकस्य प्रश्नस्यैकमुत्तरम्" । ************* टीका ************* विज्ञप्रिया (वि, र) केचिदिति---आकाङ्क्षोत्थापकप्रक्रान्तवाक्यस्य तदनिवृत्तौ तन्निवर्तकवाक्याद्युक्तिः । ********** टीका सम्पूर्णा ********** अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिबलं मतम् । यथा मम प्रभावत्याम्--वज्रनाभः--- अस्य वक्षः क्षणोनैव निर्मथ्य गदयानया । लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः ॥ प्रद्युम्नः---अरे रे असुरापसद ! अलममुना बहुप्रलापेन । मम खलु--- अद्य प्रचण्डभुजदण्डसमर्पितोरुकोदण्डनिर्गलितकाण्डसमूहपातैः । आस्तां समस्तदितिजक्षतजोक्षितेयं क्षोणिः क्षणेन पिशिताशनलोभनीया ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) अधिबलाख्यमङ्गमाह---अन्योन्येति । अस्य वज्ञ इत्यादिकं प्राग व्याख्यातम् । अद्य प्रचण्डेति । अद्य मम प्रचण्डे भुजदण्डे समर्पितो य उरुः कोदण्डस्ततो निर्गलितानां काण्डानां बाणआनां समूहस्य (सहस्त्रस्य वा पाठभेदात्) पातैरियं क्षौणी क्षणेन समस्तदैत्यक्षतजैः उक्षिता सती पिशिताशनानां लोभनीय आस्तामित्यन्वयः । ********** टीका सम्पूर्णा ********** गण्डं प्रस्तुतसंबन्धि भिन्नार्थं सत्वरं वचः ॥ ६.२६० ॥ यथा वेण्याम्--राजा--- अध्यासितुं तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु ! ममोरुग्मम् ॥ अनन्तरम् (प्रविश्य) कञ्चुकी--देव ! भग्नं भग्नम्-इत्यादि । अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सम्बन्धे सम्बद्धम् । ************* टीका ************* विज्ञप्रिया (वि, व) गण्डाख्यमङ्गमाह---गण्डमिति । सत्वरेणोक्तत्वात्सत्वरं भिन्नार्थं वचो यत्प्रस्तुतस्य प्रक्रान्तस्य वर्णनं तत्सम्बन्धितया प्रतीयते इत्यर्थः । राजा दुर्योधनः । करभोरु इति भानुमत्याः सम्बोधनम् । जघनस्थलस्याध्यासितुमध्यासनाय इत्यर्थः । भावे तुम्योगात्षष्टी । पर्याप्तं योग्यम् । अत्र प्रक्रान्तस्य ऊरोर्भङ्गप्रतीतिरित्याह---अत्रेति । ********** टीका सम्पूर्णा ********** व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत् । यथा छिलितरामे--सीता-जाद ! काल्लं क्खु अओज्झाएण गन्तव्वम्, तर्हि सो राआ विणएण पणयिदव्वो । लवः--अथ किमावाभ्यां राजोपजीविभ्यां भवितव्यम् । सीता--जाद ! सो क्खु तुम्हाणं पिदा । लवः--किमावयो रघुपतिः पिता । सीता--(साशङ्कम्) मा अण्णधा सङ्कद्धम्, ण क्खु तुम्हाणं सअलाए ज्जेव पुहवीएत्ति । ************* टीका ************* विज्ञप्रिया (वि, श) अवस्यन्दिताख्यमङ्गमाह---व्याख्यानमिति । स्वरसोक्तस्य वक्तृभावेन उत्कस्य श्रोतुरस्वरसात्यदन्यथा व्याख्यानं तदवस्यन्दितमित्यर्थः । जादेत्यादि लवकुशौ प्रति सीताया उक्तिः । जात ! कल्यं खलु युवाभ्यामयोध्यायां गन्तव्यम् । तत्र स राजा विनयेन प्रणमितव्यः (इति संस्कृतम्) । जादेति । जातः स खलु युवयोः पिता (इति संस्कृतम्) । सातङ्कमिति । वाल्मीकिनेषेधातातङ्कः । मा अण्णधा इति, मा अन्यथा शङ्केथाम् । न खलु युवयोः किं तु सकलाया एव पृथिव्या इति (इति संस्कृतम्) पृथिव्या इत्यत्र पृथिवीस्थलोकस्य इत्यर्थः । अत्रपितेति जनकपरतया सीतया स्वरसोक्तस्य लब्धावस्यन्दनात्तया एव पालकतया व्याख्यानं कृतम् । ********** टीका सम्पूर्णा ********** प्रहेलिकैव हास्येन युक्ता भवति नालिका ॥ ६.२६१ ॥ संवरणकार्युत्तरं प्रहेलिका । यथा रत्नावल्याम्---सुसङ्गता---सहि जस्स किदे तुमं आअदा सो इद ज्जेव चिट्ठदि । सागरिका--कस्स किदे अहं आअदा सुसङ्गता--णं क्खु चित्तफलअस्स । अत्र त्वं राज्ञः कृते आगतेत्यर्थः संवृतः । ************* टीका ************* विज्ञप्रिया (वि, ष) नालिकाख्यमङ्गमाह---प्रहोलिकेति । संवरणकारीति व्याख्यानरूपाङ्गेऽपि संवरणरूपस्य सत्त्वेऽप्यत्र हास्ययुक्तत्वं विशेषः । सहि जस्सेति---सखि यस्य कृते त्वमागता सोऽत्रैव तिष्ठतीति संस्कृतम् । कस्सेति । कस्य कृते अहमागता (इति संस्कृतम्) णं चित्तेति । ननु चित्रफलकस्य (इति संस्कृतम्) ********** टीका सम्पूर्णा ********** असत्प्रलापो यद्वाक्यमसंबद्धं तथोत्तरम् । अगृह्णतोऽपि मूर्खस्य पुरो यच्च हितं वचः ॥ ६.२६२ ॥ ************* टीका ************* विज्ञप्रिया (वि, स) त्रिविधमसत्प्रलापाख्यमङ्गमाह---असदिति । असम्बद्धमलीकारोयमाणार्थकं वाक्यमुत्तरञ्च तादृशमित्यर्थः । तृतीयमसत्प्रलापाख्यमङ्गमाह---अगृह्णतोऽपीति । हितं वचोऽगृह्णतोऽपि मूर्खस्येत्यन्वयः । ********** टीका सम्पूर्णा ********** तत्राद्यं यथा मम प्रभावत्याम्--प्रद्युम्नः-- (सहकारवल्लीमवलोक्य सानन्दम्) अहो कथमिहैव--- अलिकुलमञ्जुलकेशी परिमलबहला रसावहा तन्वी । किसलयपेशलपाणिः कोकिलकलभाषिणी प्रियतं मे ॥ एवमसंबद्धोत्तरेऽपि । तृतीयं यथा--वेण्यां दुर्योधनं प्रति गान्धारीवाक्यम् । ************* टीका ************* विज्ञप्रिया (वि, ह) अलिकुलेति---चूतलतिकायां प्रभावतीभ्रमादियमुक्तिः । इहेयं चूतलतिकेति । कैव प्रभावती कीदृशी ? अलिकुलमेव मञ्जुलाः केशआ यस्यास्तादृशी, किसलयमेव पेशलपाणिर्यस्यास्तादृशी । कोकिलपदमत्र तद्भाषापरम् । तथा च तद्भाषारूपविभाषावतीत्यर्थः । न तु कोकिलवद्भाषणशीला इत्यर्थः । तदाभेदभाषणातभेदारोपानुपपत्तेः । अत्र च आहार्यारोपाभावात्न रूपकं किन्तु वास्तवभ्रमात्भ्रान्तिमदलङ्कार एव । एवमसम्बद्धोत्तरेष्वपीति । तत्र यथा मम-- द्विजः शाखायुक्तस्त्वयि कृतकथः कोकिल इति त्वयाख्येयं मन्दे मयि विरहिपाते कियदघम् । इति प्रश्रे वायोर्मुकुलपुलका चूतलतिका ध्रुवं धृत्वा मौलिं न खलु कियदित्युत्तरयति ॥ अत्र हि वातधूतमौलिकायां चूतलतिकायां मन्दवयोः कति मापप्रश्रे मौलिपूननेन पापभावोत्तरारोपः । वायोः प्रश्रप्रकारः पूर्वार्द्धार्थः । पूर्वप्राप्तपापव्यवस्थके जने एक प्रश्रौचित्यादित्याह---द्विज इति । शाखायुक्तविटपस्थितो द्विजः पक्षी । कोकिल एव द्रुपदामन्त्रस्य ऋषिः कोकिलनाम वेदशाखायुक्तो द्विजः स त्वयि कृतकथ इत्यतस्त्वया मन्दे वेदरहिते इदमप्याख्येयम् । विरहिवधे कियत्पापमिति प्रश्रः । मन्दवायोः कामोद्दीपकत्वेन विरहिहन्तृत्वातयं प्रश्रः । व्यवस्थाकथने हर्षोत्पुलकः । तृतीयं यथा वेण्यां दुर्योधनं प्रति गान्धार्या हितवाक्यम् । अथवा प्रदीयतां दाशरथये मैथिलीति रावणं प्रति विभीषणस्य वाक्यमिदमपि बोध्यम् । ********** टीका सम्पूर्णा ********** व्याहारो यत्परस्यार्थे हास्यक्षोभकरं वचः । यथा मालविकाग्निमित्र---(लास्यप्रयोगावसाने मालविका निर्गन्तुमिच्छति) विढूषकः--मा दाव उवदेसमुद्धा गमिस्ससि । (इत्युपक्रमेण) गणदासः--(विदूषकं प्रति---) आर्य ! उच्यतां यस्त्वया क्रमभेदो लक्षितः । विदूषकः--पढमं बम्भणपूआ भोदि, सा इमाए लङ्घिदा । (मालविकास्मर्यते) इत्यादिना नायकस्य विशुद्धनायिकादर्शनप्रयुक्तेन हासलोभकारिण वचसा व्याहारः । ************* टीका ************* विज्ञप्रिया (वि, क) व्याहाररूपकमङ्गमाह---व्याहार इति । लास्यावसाने नृत्यसमाप्तौ । मा दाव इति । मा तावदुपदेशमुग्धा गमिष्यसीति (संस्कृतम्) । उपदेशः शास्त्रेपदेशः । तद्विसंमुग्धा तर्करुद्धकारिणी भूत्वा इति शेषः । पठममिति । प्रथमं ब्राह्मणपूजा भवति सा अनया लङ्घिता । (इति सं-) । अत्र परस्य लाज्ञो लाभार्थं हास्यकरं विदूषकस्य वाक्यमाह-- ********** टीका सम्पूर्णा ********** दोषा गुणा गुणा दोषा यत्र स्युर्मृदर्(मादं)वं हि तत् ॥ ६.२६३ ॥ क्रमेण यथा--- प्रिय ! जीवितताक्रौर्यं निःस्नेहत्वं कृतघ्नता । भूयस्त्वद्दर्शनादेव ममैते गुणतां गताः ॥ तस्यास्तद्रूपसौन्दर्यं भूषितं यौवनश्रिया । सुखैकायतनं जातं दुःखायैव ममाधुना ॥ एतानि चाङ्गनि नाटकादिषु सम्भवन्त्यपि वीथ्यामवश्यं विधेयानि स्पष्टतया नाटकादिषु विनिविष्टान्यपीहोदाहृतानि । वीथीव नानारसानां चात्र मालारूपतया स्थितत्वाद्वीथीयम् । यथा---मालविका । अथ प्रहसनम्--- भाणावत्सन्धिसच्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्मितम् । भवेत्प्रहसनं वृत्तं निन्द्यानां कविकल्पितम् ॥ ६.२६४ ॥ अत्र नारभटी, नापि विष्कम्भकप्रवेशकौ । अङ्गी हास्यरसस्तत्र वीथ्यङ्गानां स्थितिर्न वा ॥ ६.२६५ ॥ तत्र--- तपस्विभगद्विप्रप्रभृतिष्वत्र नायकः । एको यत्र भवेद्धृष्टो हास्यं तच्छुद्धमुच्यते । यथा कन्दर्पकेलिः । आश्रित्य कञ्चन जनं संकीर्णमिति तद्विदुः ॥ ६.२६६ ॥ यथा---धूर्तचरितम् । वृत्तं बहूनां धृष्टानां सङ्कीर्णं केचिदूचिरे । तत्पुनर्भवति द्व्यङ्कमथवैकाङ्कनिर्मितम् ॥ ६.२६७ ॥ यथा--लटकमेलकादिः । मुनिस्त्वाह--- वेश्याचेटनपुंसकविटधूर्ता वन्धकी च यत्र स्युः । अविकृतवेषपरिच्छचेष्टितकरणं तु सङ्कीर्णम् ॥ इति । विकृतं तु विदुर्यत्र षण्ढकञ्चुकितापसाः । भुजङ्गचारणभटप्रभृतेर्वेषवाग्युताः ॥ ६.२६८ ॥ इदं तु सङ्कीर्णेनैव गतार्थमिति मुनिना पृथङ्नोक्तम् । अथोपरूपकाणि । तत्र नाटिका कॢप्तवृत्ता स्यात्स्त्रीप्राया चतुरङ्किका । प्रख्यातो धीरललितस्तत्र स्यान्नायको नृपः ॥ ६.२६९ ॥ स्यादन्तः पुरसम्बद्धा सङ्गीतव्यापृताथवा । नवानुरागा कन्यात्र नायिका नृपवंशजा ॥ ६.२७० ॥ सम्प्रवर्तेत नेतास्यां देव्यास्त्रासेन शङ्कितः । देवो भवेत्पुनर्ज्येष्ठा प्रगल्भा नृपवंशजा ॥ ६.२७१ ॥ पदे पदे मानवती तद्वशः सङ्गमो द्वयोः । वृत्तिः स्यात्कौशिकी स्वल्पविमर्शाः सन्धयः पुनः ॥ ६.२७२ ॥ द्वयोर्नायिकानायकयोः । यथा--रत्नावली---विद्धशालभञ्जिकादिः । अथ त्रोटकम्- सप्ताष्टनवपञ्चाङ्कं दिव्यमानुषसंश्रयम् । त्रोटकं नाम तत्प्राहुः प्रत्यङ्कं सविदूषकम् ॥ ६.२७३ ॥ प्रत्यङ्कसविदूषकत्वादत्र शृङ्गारोऽङ्गी । सप्ताङ्कं यथा--स्तम्भितरम्भम् । पञ्चाङ्कं यथा--विक्रमोर्वशी । अथ गोष्ठी--- प्राकृतैर्नवभैः पुंभिर्दशभिर्वाप्यलंकृता । नोदात्तवचना गोष्ठी कौशिकीवृत्तिशालिनी ॥ ६.२७४ ॥ हीना गर्भविमर्शाभ्यां पञ्चषड्योषिदन्विता । कामशृङ्गारसंयुक्ता स्यादेकाङ्कविनिर्मिता ॥ ६.२७५ ॥ यथा---रैवतमदनिका । अथ सट्टकम्-- सट्टकं प्राकृताशेषपाठ्यं स्यादप्रवेशकम् । न च विष्कम्भकोऽप्यत्र प्रचुरश्चाद्भुतो रसः ॥ ६.२७६ ॥ अङ्का जवनिकाख्याः स्युः स्यादन्यन्नाटिकासमम् । यथा---कर्पूरमञ्जरी । अथ नाट्यरासकम्--- नाट्यरासकमेकाङ्कं बहुताललयस्थिति ॥ ६.२७७ ॥ उदात्तनायकं तद्वत्पीठमर्देपनायकम् । हास्योऽङ्ग्यत्र सशृङ्गारो नारी वासकसज्जिका ॥ ६.२७८ ॥ मुखनिर्वहणे सन्धई लास्याङ्गानि दशापि च । केचित्प्रतिमुखं सन्धैमिह नेच्छन्ति केवलम् ॥ ६.२७९ ॥ लोचना (लो, इ) तालः चञ्चुपुटादिः । पीठमर्द्देऽत्रैवोक्तप्रकारः । गीतं भरतदि प्रसिद्धम् । ********** टीका सम्पूर्णा ********** तत्र सन्धैद्वयवती यथा--नर्मवती । सन्धैचतुष्टयवती यथा--विलासवती । अथ प्रस्थानकम्-- प्रस्थाने नामको दासो हीनः स्यादुपनायकः । दासी च नायिका वृत्तिः कौशिकी भारती तथा ॥ ६.२८० ॥ सुरापानसमायोगादुद्दिष्टार्थस्य संहृतिः । अङ्कौ द्वौ लयतालादिर्विलासो बहुलस्तथा ॥ ६.२८१ ॥ यथा---शृङ्गारतिलकम् । अथोल्लाप्यम्--- उदात्तनायकं दिव्यवृत्तमेकाङ्कभूषितम् । शिल्पकाङ्गैर्युतं हास्यशृङ्गारकरुणै रसैः ॥ ६.२८२ ॥ उल्लाप्यं बहुसंग्राममस्त्रगीतमनोहरम् । चतस्त्रो नायिकास्तत्र त्रयोऽङ्का इति केचन ॥ ६.२८३ ॥ शिल्पकाङ्गानि वक्ष्यमाणानि । यथा--देवीमहादेवम् । अथ काव्यम्--- काव्यमारभटीहीनमेकाङ्गंहास्यसंकुलम् । खण्डमात्राद्विपदिकाभग्नतालैरलंकृतम् ॥ ६.२८४ ॥ लोचना (लो, ई) खण्डमात्रादय आकरेषु बोद्धव्याः । आदौ मुखप्रतिमुखे । अन्तिमो निर्वहणम् । ********** टीका सम्पूर्णा ********** वर्णमात्राछड्डणिकायुतं शृङ्गारभाषितम् । नेता स्त्री चाप्युदात्तात्र सन्धी आद्यो तथान्तिमः ॥ ६.२८५ ॥ यथा---यादवोदयम् । अथ प्रेङ्खणम्--- गर्भावमर्शरहितं प्रेङ्खणं हीननायकम् । असूत्रधारमेकाङ्कमविष्कम्भप्रवेशकम् ॥ ६.२८६ ॥ नियुद्धसम्फेटयुतं सर्ववृत्तिसमाश्रितम् । लोचना (लो, उ) नियुद्धं बाहुयुद्धम् । सम्फेटो रोषभाषणम् । ********** टीका सम्पूर्णा ********** नेपथ्ये गीयते नान्दी तथा तत्र प्ररोचना ॥ ६.२८७ ॥ यथा---वालिवधः । अथ रासकम्--- रासकं पञ्चपात्रं स्यान्मुखनिर्वहणान्वितम् । भाषाविभाषाभूयिष्ठं भारती कौशिकीयुतम् ॥ ६.२८८ ॥ लोचना (लो, ऊ) भाषेति--भाषाविभागे यथा--भाषार्णवे--- "भाषा मध्यमपात्राणां नाटकादौ विशेषतः । महाराष्ट्री सौरसेनीत्युक्ता भाषा द्विधा बुधैः । हीनैर्भाष्या विभाषा स्यात्सा च सप्तविधा स्मृता । प्राच्यावन्ती मागधी च शाकारी च तथापरा । चाण्डाली शावरी चैव तथा भीरीति भेदतः ॥ ********** टीका सम्पूर्णा ********** असूत्रधारमेकाङ्कं सवीथ्यङ्गं कलान्वितम् । श्लिष्टनान्दीयुतं ख्यातनायिकं मूर्खनायकम् ॥ ६.२८९ ॥ उदात्तभावविन्यससंश्रितं चोत्तरोत्तरम् । इह प्रतिमुखं सन्धिमपि केचित्प्रचक्षते ॥ ६.२९० ॥ यथा---मेनंकाहितम् । अथ संलापकम्--- संलापकेऽङ्काश्चत्वारस्त्रयो वा नायकः पुनः । पाषण्डः स्याद्रसस्तत्र शृङ्गारकरुणोतरः ॥ ६.२९१ ॥ भवेयुः पुरसंरोधच्छलसंग्रामविद्रवाः । न तत्र वृत्तिर्भवति भारती न च कौशिकी ॥ ६.२९२ ॥ यथा---मायाकापालिकम् । अथ श्रीगदितम्--- प्रख्यातवृत्तमेकाङ्कं प्रख्यातोदात्तनायकम् । प्रसिद्धनायिकं गर्भविमर्शाभ्यां विवर्जितम् ॥ ६.२९३ ॥ भारतीवृत्तिबहुलं श्रीतिशब्देन संकुलम् । मतं श्रीगदितं नाम विद्वद्भिरुपरूपकम् ॥ ६.२९४ ॥ यथा---क्रीडारसातलम् । श्रीरासीना श्रीगदिते गायेत्किं चित्पठेदपि । एकाङ्को भारतीप्राय इति केचित्प्रचक्षते ॥ ६.२९५ ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) श्रीगदिताख्यमुपरूपकमाह---अथेति । प्रीतिशब्देन प्रीतिजनकशब्देन । श्रीरासीनेति । श्रीः लक्ष्मीः । आसीना प्रविष्टा । ********** टीका सम्पूर्णा ********** ऊह्यमुदाहरणम् । अथ शिल्पकम्--- चत्वारः शिल्पकेऽङ्काः स्युश्चतस्त्रो वृत्तयस्तथा । अशान्तहास्याश्च रसा नायको ब्राह्मणो मतः ॥ ६.२९६ ॥ वर्णनात्र श्मशानादेर्हेनः स्यादुपनायकः । सप्तिविंशतिरङ्गानि भवन्त्येतस्य तानि तु ॥ ६.२९७ ॥ आशंसातर्कसंदेहतापोद्वेगप्रसक्तयः । प्रयत्नग्रथनोत्कण्ठावहित्थाप्रतिपत्तयः ॥ ६.२९८ ॥ विलासालस्यबाष्पाणि प्रहर्षाश्वासमूढताः । साधनानुगमोच्छवासविस्मयप्राप्तयस्तथा ॥ ६.२९९ ॥ लाभविस्मृतिसंफोटा वैशारद्यं प्रबोधनम् । चमत्कृतिश्चेत्यमीषां स्पष्टत्वाल्लक्ष्म नोच्यते ॥ ६.३०० ॥ ************* टीका ************* विज्ञप्रिया (वि, ग) शिल्पकाख्यमुपरूपकमाह---अथेति । हीन इति । निकृष्टजनोऽसहायः । अस्याशंसाद्यङ्गान्युद्दिश्य तल्लक्षणोदाहरणे स्पष्टत्वादुपेक्षिते । ********** टीका सम्पूर्णा ********** संफोटग्रथनयोः पूर्वमुक्तत्वादेव लक्ष्म सिद्धम् । यथा---कनकावतीमाधवः । अथ विलासिका--- शृङ्गारबहुलैकाङ्का दशलास्याङ्गसंयुता । विदूषकविटाभ्यां च पीठमर्देन भूषिता ॥ ६.३०१ ॥ हीना गर्भविमर्शाभ्यां संधिभ्यां हीननायका । स्वल्पवृत्ता सुनेपथ्या विख्याता सा विलासिका ॥ ६.३०२ ॥ केचित्तु तत्र विलासिकास्थाने विनायिकेति पठन्ति । तस्यास्तु "दुर्मल्लिकायामन्तर्भावः" इत्यान्ये । ************* टीका ************* विज्ञप्रिया (वि, घ) विलासिकाख्यमुपरूपकमाह---अथेति । ********** टीका सम्पूर्णा ********** अथ दुर्मल्लिका--- दुर्मल्ली चतुरङ्का स्यात्कौशिकीभारतीयुता । अगर्भा नागरनरान्यूननायकभूषिता ॥ ६.३०३ ॥ त्रिनालिः प्रथमोऽङ्कास्यां विटक्रीडामयो भवेत् । पञ्चनालिद्वितीयोऽङ्को विदूषकविलासवान् ॥ ६.३०४ ॥ षण्णालिकस्तृतीयस्तु पीठमर्दविलासवान् । चतुर्थो दशनालिः स्यादङ्कः क्रीडितनागरः ॥ ६.३०५ ॥ ************* टीका ************* विज्ञप्रिया (वि, ङ) दुर्मल्लिकाख्यमुपरूपकमाह--अथेति । अगर्भा गर्भसन्धिरहिता । नागरनराः नागरपात्राणि । नायको निकृष्टः । त्रिनालिः नालिकात्रयसाध्यः । एवमुत्तरत्र । विटक्रीडा, धूर्तक्रीडा । ********** टीका सम्पूर्णा ********** यथा---बिन्धुमती । अथ प्रकरणिका--- नाटिकैव प्रकरणी सार्थवाहादिनायका । समानवंशजा नेतुर्भवेद्यत्र च नायिका ॥ ६.३०६ ॥ ************* टीका ************* विज्ञप्रिया (वि, च) प्रकरणिकाख्यमुपरूपकमाह---अथेति । नाटिकैवेति । नाटिकालक्षणक्रान्तैवेत्यर्थः । ष सार्थवाहाः पथिकाः । आदिशब्दात्प्रवासिनश्च । ********** टीका सम्पूर्णा ********** मृग्यमुदाहरणम् । अथ हल्लीशः--- हल्लीश एक एवाङ्कः सप्ताष्टौ दश वा स्त्रियः । वागुदात्तैकपुरुषः कौ (कै) शिकीवृत्तिरुज्ज्वला । मुखान्तिमौ तथा सन्धी बहुताललयस्थितिः ॥ ६.३०७ ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) हल्लीशाख्यमुपरूपकमाह---अथेति । मुखेति---मुखनिर्वहणसन्धिद्वयवती । ********** टीका सम्पूर्णा ********** यथा---कोलिरैवतकम् । अथ भाणिका-- भाणिका श्लक्ष्णनेपथ्या मुखनिर्वहणन्विता । कौ (कै) शिकीभारतीवृत्तियुक्तैकाङ्कविनिर्मिता ॥ ६.३०८ ॥ उदात्तनायिका मन्दनायकात्राङ्गसप्तकम् । उपन्यासोऽथ विन्यासो विबोधः साध्वसं तथा ॥ ६.३०९ ॥ समर्पणं निवृत्तिश्च संहार इति सप्तमः । उपन्यासः प्रसङ्गेन भवेत्कार्यस्य कीर्तनम् ॥ ६.३१० ॥ निर्वेदवाक्यव्युत्पत्तिर्विन्यास इति स स्मृतः । भ्रान्तिनाशो विबोधः स्यान्मिथ्याख्यानं तु साध्वसम् ॥ ६.३११ ॥ सोपालम्भवचः कोपपीडयेह समर्पणम् । निदर्शनस्योपन्यासो निवृत्तिरिति कथ्यते ॥ ६.३१२ ॥ संहार इति च प्राहुर्यत्कार्यस्य समापनम् । स्पष्टान्युदाहरणानि । यथा---कामदत्ता । एतेषां सर्वेषां नाटकप्रकृतित्वेऽपि यथैचित्यं यथालाभं नाटकोक्तविशेषपरिग्रहः । यत्र च नाटकोक्तस्यापि पुनरुपादानं तत्र तत्सद्भावस्य नियमः । ************* टीका ************* विज्ञप्रिया (वि, ज) भाणिकाख्यमुपरूपकमाह---अथेति । मन्दो निकृष्टः । अस्य कार्याण्याह---उपन्यास इत्यादि । तेषां लक्षणान्याह---उपन्यास इति । निर्वेदवाक्यस्य व्युत्पत्तिर्विन्यासः, सा च विन्याससंज्ञिका । कोपपीडयोपालम्भवचः समर्पणाख्यं कार्यमित्यर्थः । निदर्शनस्य दृष्टान्तस्योपन्यास इत्यर्थः । कार्यस्य समापनम्---मुख्यकार्यावान्तरकार्यस्येत्यर्थः । एषां कार्याणां सर्वनटकेष्वेवोचित्यात्सर्वनाटकानामेवैतत्कार्यत्वमाह---एषामिति । नाटकोक्तविशेषे परिग्रह इति विग्रहः । तथा च भाणिकोक्तकार्यस्य नाटकान्तरेपि दातव्यमुक्तम् । यच्चेति । नाटके हि षट्त्रिंशल्लक्षणालङ्कारादयश्चोक्ताः । तदुक्तवस्तुनो यच्च पुनरुपादानं नाटकान्तर इति बोध्यम् । तत्सद्भावस्येति---तत्सद्भावस्य तत्रावश्यकतारूपनियमित्यर्थः । ********** टीका सम्पूर्णा ********** अथ श्रव्यकाव्यानि--- श्रव्यं श्रोतव्यमात्रं तत्पद्यगद्यमयं द्विधा ॥ ६.३१३ ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) श्रव्यकाव्यानीति । तत्प्रबेदद्वयमाह---पद्यगद्यमिति । ********** टीका सम्पूर्णा ********** तत्र पद्यमयान्याह--- छन्दोबद्धपदं पद्यं तेन मुक्तेन मुक्तकम् । द्वाभ्यां तु युग्मकं सांदानतिकं त्रिभिरिष्यते ॥ ६.३१४ ॥ ************* टीका ************* विज्ञप्रिया (वि, ञ) द्वाभ्यामित्यादिचतुर्षु परस्परैकवाक्यतापन्नत्वे सतीति वोध्यम् । ********** टीका सम्पूर्णा ********** कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम् । तत्र मुक्तकं यथा मम--- "सान्द्रानन्दमनन्तमव्ययमजं यद्योगिनोऽपि क्षणं साक्षात्कर्तुमुपासते प्रति मुहुर्ध्यानैकतानाः परम् । धन्यास्ता मधुरापिरीयुवतयस्तद्ब्रह्म या कौतुका-- दालिङ्गन्ति समलपन्ति शतधाऽकर्षन्ति चुम्बन्ति च" ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) सान्द्रानन्दमिति--यत्परं प्रकृष्टं ब्रह्म क्षणमपि साक्षात्कतुध्यानैकताना ध्यानमात्राविष्टा योगिनः प्रतिमुहुरुपासते तद्ब्रह्म या मथुरापुरयुवतयः कौतुकादालिङ्गन्तीत्यादि ता धन्यः । ********** टीका सम्पूर्णा ********** युग्मकं यथा मम--- "किं करोषि करोपान्ते कान्ते ! गण्डस्थलीमिमाम् । प्रणयप्रवणो कान्तेऽनैकान्ते नोचिताः क्रुधः ॥ इति यावत्कुरङ्गाक्षीं वक्तुमीहामहे वयम् । तावदाविरभूच्चूते मधुरो मधुपध्वनिः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) मानिन्या मानभङ्गप्रकारं सख्यौ कथयन्नाह--किं करोषीत्यादि । हे कान्ते ! करोपान्ते इमां गण्डस्थलीं किमर्थं करोषि ? ततः प्रणयप्रवण इत्यादि स्पष्टम् । कुरङ्गाक्षीमिति वक्तुं वयं यावदीहामहे तावन्मधुरो मधुपध्वनिः चूते आविरभूत् । अत्र प्रथमश्लोकार्थो द्वितीयश्लोक उत्किकर्मत्वेन उक्त इति एकवाक्यता । ********** टीका सम्पूर्णा ********** एवमन्यान्यपि । ************* टीका ************* विज्ञप्रिया (वि, ड) एवमिति---सन्दानितकादावपि एवं बोध्यमित्यर्थः । ********** टीका सम्पूर्णा ********** सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः ॥ ६.३१५ ॥ सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः । एकवंशभवा भूपाः कुलजा बहवोऽपि वा ॥ ६.३१६ ॥ शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते । अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः ॥ ६.३१७ ॥ इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् । ************* टीका ************* विज्ञप्रिया (वि, ढ) महाकाव्यलक्षणमाह---सर्गबन्ध इत्यादि । परिच्छेदरूपः सर्गो बध्येतऽस्मिन्निति सर्गबन्धः । सुरो देवः । सर्वे नाटकसन्धयो मुखप्रतिमुखादयः पञ्च । सज्जनाश्रयम्---वर्णनीयोत्तमजनस्य वृत्तं वेत्यर्थः । ********** टीका सम्पूर्णा ********** चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् ॥ ६.३१८ ॥ आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा । क्वचिन्निन्दा खलादीनां सतां च गुणकीर्तनम् ॥ ६.३१९ ॥ एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः । नास्तिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह ॥ ६.३२० ॥ नानावृत्तमयः कापि सर्गः कश्चन दृश्यते । सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् ॥ ६.३२१ ॥ संध्यासूर्येन्दुरजनीप्रदोषध्वान्तवासराः । प्रातर्मध्याह्नमृगयाशैलर्तुवनसागराः ॥ ६.३२२ ॥ संभागविप्रलम्भौ च मुनिस्वर्गपुनाध्वराः । रणप्रयाणोपयममन्त्रमुत्रोदयादयः ॥ ६.३२३ ॥ वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह । कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा ॥ ६.३२४ ॥ नामास्य सर्गोपादेयकथया सर्गनाम तु । ************* टीका ************* विज्ञप्रिया (वि, ण) चत्वार इति---धर्मार्थकाममोक्षा ये चत्वारो वर्गास्तेष्वेकमपि तत्फलमित्यर्थः । एकवृत्तमयैरिति---एकच्छन्दोव्याप्तैरित्यर्थः । अवसाने सर्गान्ते । साङ्गोपाङ्ग इति---अमी सान्ध्यासूर्येन्द्वादयः पुत्रजन्मान्ता इह काव्ये यथायोगं यथासम्भवं साङ्गोपाङ्गा वर्णनीया इत्यर्थः । तत्र सन्ध्याङ्गम्--चक्रवाकविरहः, वासराङ्गम्जलकेत्यादिः, रजन्यङ्गम्--मधुपानादि, उपाङ्गम्--तत्रैव परिहासादयः, मुनिः--नारदादिः, प्रयाणम्--यात्रा, उपयमः विवाहः, मन्त्रः--मन्त्रणा, पुत्रोदयः-पुत्रजन्म । इतरस्य प्रतिनायकस्य, तन्नाम्नास्य नामेत्यर्थः । सर्गोपादेयेति---सर्गे उपादेया वर्णिता या कथा तया सर्गनामेत्यर्थः । ********** टीका सम्पूर्णा ********** सन्ध्यङ्गानि यथालाभमत्र विधेयानि "अवसानेऽन्यवृत्तकैः" इति बहुवचनमविवक्षितम् । साङ्गोपाङ्गा इति जलकेलिमधौपानादयः । यथा---रघुवंश---शिशुपालवः---नैषधादयः । यथा वा मम---राघवविलासादिः । ************* टीका ************* विज्ञप्रिया (वि, त) बहुवचनमविवक्षितमिति---अवसान एकस्यापि अन्यवृत्तिकस्य दृष्ट त्वात् । यथा रघुवंशमिति । तत्र वृत्तस्य नाम्ना रघुवंशेति । एकवंशजा बहुभूपाः । प्रतिनायकस्य नाम्ना शिशुपालवध इति । नैषधादौ तु नायकस्य नाम्ना । नायकस्तु सद्वंराजः क्षत्त्रियः । ********** टीका सम्पूर्णा ********** अस्मिन्नार्षे पुनः सर्गा भवन्त्याख्यानसंज्ञकाः ॥ ६.३२५ ॥ अस्मिन्महाकाव्ये । यथा---महाभारतम् । ************* टीका ************* विज्ञप्रिया (वि, थ) अस्मिन्नार्ष इति---ऋषिप्रणीतेऽस्मिन्महाकाव्य इत्यर्थः । आख्यानसंज्ञका इति । शिष्यं प्रति गुरुणामाख्यानशास्त्रकथने याः संज्ञा अध्यायरूपास्तादृशसंज्ञका इत्यर्थः । ********** टीका सम्पूर्णा ********** प्राकृतैर्निर्मिते तस्मिन्सर्गा आश्वाससंज्ञकाः । छन्दसा स्कन्धकेनैतत्क्वचिद्रलितकैरपि ॥ ६.३२६ ॥ यथा---सेतुबन्धः । यथा वा मम---कुवलयाश्वचरितम् । ************* टीका ************* विज्ञप्रिया (वि, द) स्कन्धकगलितके छन्दोविशेषौ । ********** टीका सम्पूर्णा ********** अपभ्रंशनिबद्धेऽस्मिन् सर्गाः कुडवकाभिधाः । तथापभ्रंशयोग्यानि च्छन्दांसि विविधान्यपि ॥ ६.३२७ ॥ यथा---कर्णपराक्रमः । ************* टीका ************* विज्ञप्रिया (वि, ध) कडवकाभिधाः--कडवकनामानः । ********** टीका सम्पूर्णा ********** भाषाविभाषानियमात्काव्यं सर्गसमुज्झितम् । एकार्थप्रवणैः पद्यैः संधिसामग्र्यवर्जितम् ॥ ६.३२८ ॥ यथा---भिक्षाटनम्, आर्याविलासश्च । ************* टीका ************* विज्ञप्रिया (वि, न) भाषाविशेषेति---तादृशवाक्ये संस्कृतप्राकृतभाषयोरनियमः । ********** टीका सम्पूर्णा ********** खण्डकाव्यं भवेत्काव्यस्यैकदेशानुसारि च । यथा---मेघदूतादि । कोषः श्लोकसमूहस्तु स्यादन्योन्यानपेक्षकः ॥ ६.३२९ ॥ व्रज्याक्रमेण रचितः स एवातिमनोरमः । ************* टीका ************* विज्ञप्रिया (वि, प) अन्योन्यानपेक्षकः---अन्योन्यनिरपेक्षकः । ********** टीका सम्पूर्णा ********** सजातीयानामेकत्र सन्निवेशो व्रज्या । यथा मुक्तावल्यादिः । अथ गाद्यकाव्यानि । ************* टीका ************* विज्ञप्रिया (वि, फ) व्रज्यापदार्थमाह---सजातीयानामिति । वर्णनीयैक्येन साजात्यम् । ********** टीका सम्पूर्णा ********** तत्र गद्यम्--- वृत्तगन्धोज्जितं गद्यं मुक्तकं वृत्तगन्धि च ॥ ६.३३० ॥ भवेदुत्कलिकाप्रायं चूर्णकं च चतुर्विधम् । आद्यं समासरिहितं वृत्तभागयुतं परम् ॥ ६.३३१ ॥ अन्यद्दीर्घसमासाढ्यं तुर्य चाल्पसमासकम् । ************* टीका ************* विज्ञप्रिया (वि, ब) वृत्तगन्धोज्झितमिति । गद्यसामान्यलक्षणम् । तच्चातुर्विध्यमाह---मुक्तकमिति । आद्यं मुक्तकम् । परं वृत्तगन्धिः । वृत्तम्--अक्षरसंख्यातं छन्दस्तदकदेशयुक्तमित्यर्थः । तुर्यं चतुर्थं चूर्णकम् । ********** टीका सम्पूर्णा ********** मुक्तकं यथा---"गुरुर्वचसि पृथुरुरसि--" इत्यादि । वृत्तगन्धि यथा मम-- "समरकण्डूलनिविडभुजदण्डकुण्डलीकृतकोदण्डशिञ्जिनीटंकारोज्जागरितवैरिनगर" इत्यादि । अत्र "कुण्डलीकृतकोदण्डऽ--इत्यनुष्टुब्वृत्तस्य पादः, "समरकण्डूल" इति च प्रथमाक्षरद्वयरिहितस्तस्यैव पादः । उत्कलिकाप्रायं यथा ममैव---"अणिसविसुमरणिसिदसरविसरविदलिदसमरपरिगदपवरपरवल---" इत्यादि । चूर्णकं यथा भम--"गुणरत्नसागर ! जगदेकनागर ! कामिनीमदन ! जनरञ्जन !" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, भ) समरकण्डुलेति--समरोत्साहेन कण्डुले निबिडे दृढे भुजदण्डे कुण्डलीकृतकोदण्डस्य शिञ्जिन्याः गुणस्य टङ्कारेण उज्जगरितं वैरिनगरं येन । हे तादृशेत्यर्थः । अत्र वृत्तभागयुक्तत्वं दर्शयति--अत्रेति । प्रथमाक्षरत्रयरहित इति--एतस्यैव अनुष्टुभ एव पादोऽपरपादः । समरेत्यक्षरत्यगे, "कण्डूलनिबिडभूजःऽ इत्येवंरूपः । अणिसेति--अनिशविषमनिशितशरविसरविदलितपरिघगदपरबल इति संस्कृतम् । अनिशं विषमानां निशितानां शराणं विसरेण--पातेन विदलिताः परिघाः मुद्रराः गदाश्च यत्र तादृशं परबलं यस्मात्, हे तादृशेत्यर्थः । गुणरत्नसागरेत्यादि---अत्र रेफान्तं नाम द्वयं नान्तञ्च सम्बोधनद्वयमल्पसमासकम् । ********** टीका सम्पूर्णा ********** कथायां सरसं वस्तु गद्यैरेव विनिमितम् ॥ ६.३३२ ॥ क्वचिदत्र भवेदार्या क्वचिद्वक्त्रापवक्त्रके । आदौ पद्यैर्नमस्कारः खलादेर्वृत्तकीर्तनम् ॥ ६.३३३ ॥ ************* टीका ************* विज्ञप्रिया (वि, म) कथारूपकाव्यधरमानह---कथायामिति । आर्यामात्राकृतं छन्दः । वक्त्रापवक्त्रके--छन्दोविशेषौ । तस्य धर्मान्तरानाह---आदाविति । ********** टीका सम्पूर्णा ********** यथा---कादाम्बर्यादिः । आख्यायिका कथावत्स्यात्कवेर्वशानुकीर्तनम् । अस्यामन्यकवीनां च वृत्तं पद्यं क्वचित्क्वचित् ॥ ६.३३४ ॥ कथांशानां व्यवच्छेद आश्वास इति वध्यते । आर्यावक्त्रापवक्त्राणां छन्दसा येन केनचित् ॥ ६.३३५ ॥ अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनम् । ************* टीका ************* विज्ञप्रिया (वि, य) आख्यायिकात्मककाव्यधर्मानाह---आख्यायिकेति । कथावत्सेति---सा कथोक्तधर्मतुल्यधर्मवतीत्यर्थः । कथातो विशेषमाह--कवेरिति । अस्यामिति--अस्यामाख्यायिकायामन्यकवीनाञ्च वंशादिकीर्तनमित्यर्थः । तथा वृत्तक्षरसंख्यातं छन्दः क्वचित्क्वचिदित्यर्थः । आश्वास इति--आश्वासनामात्र परिच्छेद इत्यर्थः । आर्येति--आर्यादिच्छन्दसां मध्ये येन केनचिच्छन्दसा आश्वसस्य मुखेआदौ अन्यापदेशेन--अन्यच्छलेन भाव्यर्थस्य वक्ष्यमाणार्थस्य सूचनमित्यर्थः । ********** टीका सम्पूर्णा ********** यथा---हर्षचरितादिः । "अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात्" । इति दण्ड्याचार्यवचनात्केचिताख्यायिका नायकेनैव निबद्धव्या" इत्याहुः, तदयुक्तम् । आख्यानादयश्च कथाख्यायिकयोरेवान्तर्भावान्न पृथगुक्ताः । यदुक्तं दण्डिनैव---अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः" । इति । एषामुदाहरणम्---पञ्चतन्त्रादि । ************* टीका ************* विज्ञप्रिया (वि, र) "आख्यायिका नायकेनैव निबद्धव्या" इति यद्केनचिदुक्तं तद्"आपितु"--इत्यादिदण्ड्याचार्यवचनादयुक्तमित्यर्थः । आख्यानादिरूपाणां काव्यान्तरणां पृथग्युक्तिबीजमाह--आख्यानादय इति । यदुक्तं दण्डिनैवेति--यतो दण्डिनैवोक्तम्, अत्रैवान्तः--इत्यादीत्यर्थः । ********** टीका सम्पूर्णा ********** अथ गद्यपद्यमयानि--- गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते ॥ ६.३३६ ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) चम्पूसंज्ञकं काव्यान्तरमाह--गद्यपद्यमयमिति । ********** टीका सम्पूर्णा ********** यथा---देशराजचरितम् । गद्यपद्यमयी राजस्तुतिर्विरुदमुच्यते । यथा---विरुदमणिमाला । ************* टीका ************* विज्ञप्रिया (वि, व) विरुदमणिमाला प्रबन्धविशेषः । ********** टीका सम्पूर्णा ********** करम्भकं तु भाषाभिविविधाभिर्विनिर्मितम् ॥ ६.३३७ ॥ यथा मम---षोडशभाषामयी प्रशास्तिरत्नावली । एवमन्येऽपि भेदा उद्देशमात्रप्रसीद्धत्वादुक्तभेदानतिक्रमाच्च न पृथग्लक्षिताः ॥ ************* टीका ************* विज्ञप्रिया (वि, श) एवमन्येपि भेदा इति । न पृथग्लक्षिता इत्यन्वयः । पृथगलक्षणे हेतुमाह--उद्देशमात्रसिद्धत्वादिति । तत्तत्कीर्त्तनमात्रेणैव सिद्धाः न तु कृतलक्षणः । तेषामुक्तप्रभेदलक्षणाक्रान्तत्वमेवेत्याह---उक्तभेदानेति । इति श्रीमहेश्वरन्यायालङ्कारविरचितायां साहित्यदर्पणटीकायां षष्ठपरिच्छेदविवरणम् ********** टीका सम्पूर्णा ********** इति साहित्यदर्पणो दृश्यश्रव्यकाव्यनिरूपणो नाम षष्ठः परिच्छेदः । ___________________________________________________ सप्तमः परिच्छेदः इह हि प्रथमतः काव्ये दोषगुणरीत्यलङ्काराणामवस्थितिक्रमो दशितः, संप्रति के त इत्यपेक्षायामुद्देशक्रमप्राप्तानां दोषणां स्वरूपमाह--- ************* टीका ************* विज्ञप्रिया (वि, क) इह हि प्रथमतः प्रथमपरिच्छेदे दोषानामवस्थितिक्रमोऽवस्थितिप्रकारो दर्शित इत्यर्थः । ते दोषाः । "दोषास्तस्यापकर्षकाऽ इत्युक्त्या अपकर्षकत्वेन दोषाणां प्रकारो दर्शितः । "उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयःऽ इत्युक्त्या च गुणादीनामुत्कर्षकत्वेनावस्थितिप्रकारो दर्शित इति । अत्र च रीत्यलङ्काराणामिति पाठस्तु उद्देशव्युत्क्रमेण लेखकप्रमादपरम्परयैवेति लक्ष्यते । तत एव उद्देशक्रमप्राप्तानामित्युक्तम् । लोचना (लो, अ) काव्यस्वरूपं निरूप्य दोषान्निरूपयितुकामः तत्प्रस्तावं दर्शयति । इह हि इति । स्वरूपं स्वमसाधारणं रूपमितरव्यावर्त्तको धर्म्मः । ********** टीका सम्पूर्णा ********** रसापकर्षका दोषाः,--- अस्यार्थः प्रगेव स्फुटीकृतः । तद्विशेषानाह--- ************* टीका ************* विज्ञप्रिया (वि, ख) प्रागेव स्फुटीकृत इति । श्रुतिदुष्टत्वादीनां शब्दद्वारा, अपुष्टार्थत्वादीनाम्, अर्थद्वारा, व्यभिचारिभावादिशब्दवाच्यत्वादीनां च साक्षात्रसापकर्षकत्वमित्यर्थः । प्रागेव स्फुटीकृत इत्यर्थः । तद्विशेषान् दोषविशेषान् । ते पुनरिति ते दोषाः । लोचना (लो, आ) रसेति--रसापकर्षका आस्वादविन्घहेतवः । प्रगेवेति---प्राकप्रथमपरिच्छेदे । ********** टीका सम्पूर्णा ********** ---ते पुनः पञ्चधा मताः । पदे तदंशे वाक्येर्ऽथे संभवन्ति रसेऽपि यत् ॥ ७.१ ॥ लोचना (लो, इ) ते पुनरिति--ते दोषाः पदतदंशादिपञ्चके स्थिता यस्मात्वाक्यार्थभूतस्यास्वादस्यापकर्षकारणानि तस्मात्पञ्च प्रकाराः । ********** टीका सम्पूर्णा ********** दुःश्रवत्रिविधाश्लीलानुचितार्थप्रयुक्तताः । ग्राम्याप्रतीतसन्दिग्धनेयार्थनिहतार्थताः ॥ ७.२ ॥ अवाचकत्वं क्लिष्टत्वं विरुद्धमतिकारिता । अविमृष्टविधेयांशभावश्च पदवाक्ययोः ॥ ७.३ ॥ दोषाः केचिद्भवन्त्येषु पदांशेऽपि पदे परे । निरर्थकासमर्थत्वे च्युतसंस्कारता तथा ॥ ७.४ ॥ ************* टीका ************* विज्ञप्रिया (वि, ग) दुः श्रव इत्यादि । अप्रयुक्तता इत्यत्र द्वन्द्वोत्तरस्य भावप्रत्ययस्य प्रत्येकमभिसम्बन्धात्दुः श्रवत्वादय एव दोषाः । एतदाद्यविमृष्टविधेयाशभावान्ताः त्रयोदश दोषाः पदवाक्ययोः पदे वाक्येऽपि सम्भवन्ति इत्यर्थः । एषां मध्ये केचिद्दोषाः पदांशेऽपीत्यर्थः । पदे परमिति । निरर्थकत्वमसमर्थत्वं च्युतसंस्कारता चेति दोषत्रयं परं केवलं पदे नतु वाक्ये इत्यर्थः । तद्बीजं तत्तद्दोषप्रस्ताबे वक्ष्यामः । लोचना (लो, ई) तत्र के दोषाः किनिष्टा इत्यत आह--दुः श्रवेति । तल्प्रत्ययस्य दुः श्रवादिषु प्रत्येकं सम्बन्धः । सन्दिग्धं सन्देहः । अथ भवेत्क्लिष्टमविमृष्टविधेयांशं विरुद्धमतिकृत्समासपदमेव । सर्वे दोषां पदवाक्ययोः । एषु दुः श्रवादिषु मध्ये । ********** टीका सम्पूर्णा ********** परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वम् । यथा--- ************* टीका ************* विज्ञप्रिया (वि, घ) तत्र दुः श्रवत्वलक्षणमाह--परुषेति । एतच्च वीरबीभत्सरौद्रान् रसान् विहाय इति बोध्यम्, तेषु तस्यानुगुणत्वादेव । तथा प्रादेशिकत्वे एवाय दोषः । समग्रपदव्यापकत्वे तु प्रतिकूलवर्णत्वदोष एव इत्यदि बोद्धव्यम् । ********** टीका सम्पूर्णा ********** "कार्त्तर्थ्यं यातु तन्वङ्गी कदानङ्गवशंवदा" । ************* टीका ************* विज्ञप्रिया (वि, ङ) कार्त्तार्थ्यमिति । स्पष्टम् । रेफयुक्तवर्णं श्रुतिदुः खदायि । लोचना (लो, उ) परुषवर्णं परुषाक्षरम् । कार्त्तर्थ्यं कृतार्थतां--कृतार्थस्य भावम् । ********** टीका सम्पूर्णा ********** अश्लीलत्वं व्रीडादुगुप्सामङ्गलव्यञ्जकत्वात्निविधम् । ************* टीका ************* विज्ञप्रिया (वि, च) व्रीडाजुगुप्सामङ्गलत्वादिति । एतत्त्रयहेतुत्वादित्यर्थः । हेतुत्वं ज्ञापकत्वं कारकत्वं च । तत्र व्रीडाजुगुप्सयोः कारकत्वं मङ्गलस्य च ज्ञापकत्वं बोध्यम् । ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्--- "तृप्तारिविजये राजन् ! साधनं सुमहत्तव" । ************* टीका ************* विज्ञप्रिया (वि, छ) दृप्तारीति---साधनं सेना च चार्थः प्राकरणिकत्वातनेकार्थस्य साधनशब्दस्य वाच्यः । पुंव्यञ्जनरूपस्त्वर्थो व्यङ्ग्यः श्रोतॄणां व्रीडाजनकः॑ नतु व्रीडाव्यञ्जकः तदप्रतीतेः । ********** टीका सम्पूर्णा ********** "प्रससार शनैर्वायुर्विनाशे तन्वि ! ते तदा" । ************* टीका ************* विज्ञप्रिया (वि, ज) प्रससारेति--विरहोत्तरं नायकां प्राप्य नायकस्योक्तिरियम् । हे तन्वि ! तव विनाशे अदर्शने सति तदा मम दुः खोत्पादनाय वायुः शनैः मन्दं प्रससार इत्यर्थः । अत्र अनेकार्थस्य विनाशशब्दस्य व्यङ्ग्यो मरणरूपोर्ऽथोऽमङ्गलव्यञ्जकः । वायुशब्दस्तु अपानवायुव्यञ्जनया घृणारूपजुगुप्साजनकः । दुः खकाले शनैः प्रसृतवायोरपानवायुत्वप्रतीतेः । अनुचितार्थत्वमिति--अपश्लोक्यस्य निन्दाव्यञ्जकत्वं तत्त्वम् । लोचना (लो, ऊ) दृप्तेति--अत्र साधनशब्दो हस्त्यश्वादिसाधनार्थे प्रयुक्तः पुंध्वजस्य, वायुशब्दः पवनमात्रार्थे अपानपवनविशेषस्य, विनाशशब्दश्च अदर्शनार्थे मरणस्य च स्मारणात्कमेण व्रीडादिव्यञ्जकाः । ********** टीका सम्पूर्णा ********** अत्र साधन-वायु-विनाश-शब्दा अश्लीलाः । "शूरा अमरतां यान्ति पशुभूता रणाध्वरे । अत्र पशुत्वं कातर्यमभिव्यनक्तीत्यनुचितार्थत्वम् । ************* टीका ************* विज्ञप्रिया (वि, झ) दृप्तेति--अत्र साधनशब्दो हस्त्यश्वादिसाधनार्थे प्रयुक्तः पुंध्वजस्य, वायुशब्दः पनवमात्रार्थे अपानपवनविशेषस्य, विनाशशब्दश्च अदर्शनार्थे मरणस्य च स्मारणात्क्रमेण व्रीडादिव्यञ्जकाः । लोचना (लो, ऋ) पशुपदं तथाविधसमये प्रयुक्तम् । ********** टीका सम्पूर्णा ********** अप्रयुक्तत्वं तथा प्रसिद्धावपि कविभिरनादृतत्वम् । यथा--- "भाति पद्मः सरोवरे" ॥ अत्र पद्मशब्दः पुंल्लिङ्गः । ************* टीका ************* विज्ञप्रिया (वि, ञ) तथा प्रसिद्धावपि इति । अनुशासने तल्लिङ्गकत्वेन उक्तावपीत्यर्थः । कविभिरित बहुवचनात्प्राचीनानेककविभिरित्यर्थः । तेन इदानीन्तनानेककविभिः प्राचीनैककविना वास्याऽदरेऽपि दोष एव । एवञ्च "पद्मान् हि मे प्रावृषि खञ्जरीटान् "इति नैषधकृता प्राचीनैककविना आदरेऽपि दोष एव । काव्यव्यतिरिक्ते भाषामात्रे तदादरे तु अदोष एव, इत्यतः नानुशासनप्रामाण्यम् । ********** टीका सम्पूर्णा ********** ग्राम्यत्वं यथा--- "कटिस्ते हरते मनः" ॥ अत्र कटिशब्दो ग्राम्यः । ************* टीका ************* विज्ञप्रिया (वि, ट) ग्राम्यो यथेति---ग्राम्यः शब्द इत्यर्थः । तस्य तथात्वं च विदग्धाप्रयोज्यत्वात् । काव्यकविसाधारणविदग्धानादरादप्रयुक्तत्वादस्य भेदः । ********** टीका सम्पूर्णा ********** अप्रतीतत्वमेकदेशमात्रप्रसिद्धत्वम् । यथा--- योगेन दलिताशयः" ॥ अत्र योगशास्त्र एव वासनार्थ आशयशब्दः । ************* टीका ************* विज्ञप्रिया (वि, ठ) एकदर्शने, एकशास्त्रमात्रे । लोचना (लो, ॠ) आशय इति । योगशस्त्र एव न तु लोके अर्थशास्त्रे वा । तथा हि पातञ्जलसूत्रं,"क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः"इति । क्लेशा अविद्याकर्माणि, दुष्कृतसुकृतादि तत्फलं विपाकः । तदनुगुणा वासना आशयाः । ते च मनसि वर्त्तमानाः पुरुषे अपदिश्यन्ते इति । किञ्चैवं वक्तृबोद्धव्ययोः शास्त्रानभिज्ञत्वबोधादिं विना दोष इति । ततश्च अप्रयुक्तत्वाद्भिद्यते । ********** टीका सम्पूर्णा ********** "आशईः परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु" । अत्र वन्द्यामिति किं बन्दीभूतायामुत वन्दनीयामिति संदेहः । ************* टीका ************* विज्ञप्रिया (वि, ड) सन्दिग्धमिति । किमिदं वा पदमिति पदस्यैवं सन्दिग्धत्वम् । कर्णे कृत्वा इति श्रुत्वा इत्यर्थः । वन्दीभूतायामिति, बलात्वन्दीकृतशत्रुनार्यामित्यर्थः । अत्र वन्दीवन्द्याशब्दयोः सन्देहः । लोचना (लो, ळ) वन्द्यामिति--अस्य सप्तम्यन्तत्वेन द्वितीयान्तत्वेन च सम्भवात्प्रकरणाभावेन विनिगमनाभावात्सन्देहः । ********** टीका सम्पूर्णा ********** नोत्यर्थत्वं रूढीप्रयोजनाभावादशक्तिकृतं लक्ष्यार्थप्रकाशनम् । ************* टीका ************* विज्ञप्रिया (वि, ढ) नेयार्थत्वमिते । अशक्तिकृतं कवेरसामर्थ्यमात्रेण कृतं न तु रूढिप्रयोजनयोः अन्यतरेण कृतमित्यर्थः । कमले इति । मुखं कर्त्तृ । चरणाघातं कर्म । अत्र चरणाघातेन इति । चरणाघातपदेन इत्यर्थः । वाक्येऽपि लक्षणास्वीकारात्निर्जितत्वं लक्ष्यते । तथा च कमले निर्जितत्वमकरोदित्यर्थः । नन्वत्र निर्जितत्वातिशयः कथं न प्रयोजनम् । दर्शितं हि स्थाने स्थाने लक्ष्यार्थातेशयः प्रयोजनमिति चेत्, न । कविप्रयोगार्हलक्षणाया मुख्यार्थबाधावगम इव विवक्षितमुख्यार्थयोगावगमोऽपि हेतुः । न तु विवक्षितप्रमेयत्वाद्येकथर्मवत्त्वप्रयोगावगमोऽपि अव्यावर्त्तकत्वात् । प्रकृते निर्जितत्वे लक्ष्यार्थे मुखनिष्ठशोभाजन्यत्वमेव विवक्षितो योगश्चरणाघाते मुख्यार्थे चालीके तच्छोभाभावात्तज्जन्यत्वनिर्जितत्वं न प्रतीयत एव । ततश्च तदप्रतीत्या अस्या लक्षणायाः कविप्रयोगानर्हत्वज्ञानेन अश्रद्धेयत्वात्लक्ष्यार्थतिशयः प्रयोजनं न प्रतीयते एव इति भावः । ********** टीका सम्पूर्णा ********** यथा--- "कमले चरणाघातं मुखं सुमुखि ! तेऽकरेत् । अत्र चरणाघातेन निर्जितत्वं लक्ष्यम् । निहतार्थत्वमुभयार्थस्य शब्दस्याप्रसिद्धेर्ऽथे प्रयोगः । यथा--- "यमुनाशम्बरमम्बरं व्यतानीत्" । शम्बरशब्दो दैत्ये प्रसिद्धः, इह तु जले निहतार्थः । ************* टीका ************* विज्ञप्रिया (वि, ण) निहतेति । यमुनायाः शम्बरं जलमम्बरमाकाशं व्यतानीत्व्याप्तमित्यर्थः "अम्बु शम्बुम्" इति कोषः । अत्रेति---नच नपुंसकलिङ्गरूपव्यक्तिविशेषात्जलस्यैव उपस्थितिरिति वाच्यम्, तुल्यप्रसिद्धिकस्थले एव तस्य नियन्त्रितत्वात् । अत्र तु प्रसिद्धिवशात्लिङ्गाननुसन्धानेऽपि पदमात्रेणैव प्रथमतः तदुपस्थित्यवलम्बनात्लिङ्गस्यान्वयस्य च बोधात्तु पश्चादेव जलप्रतीतेः । ********** टीका सम्पूर्णा ********** "गीतेषु कर्णमादत्ते" । अत्राङ्--पूर्वो दाञ्-धातुर्दानार्थेऽवाचकः । ************* टीका ************* विज्ञप्रिया (वि, त) अवाचकेति । शक्तिभ्रमप्रयुक्तत्वमवाचकत्वम् । आदत्ते ददाति । अत्रेति न च घधातोर्नानार्थत्वेन दाने ग्रहणेऽपि शक्तिरस्त्येव, आङुपसर्गेण तु दानबोधप्रतिबन्ध एवेत्यतः शक्यार्थे कथं शक्तिभ्रम इति वाच्यम् । उपसर्गस्य प्रतिबन्धकत्वकल्पने कारणीभूताभावप्रतियोगित्वप्रवेशेन गौरवात्, तदपेक्ष्या आडुपसर्गरहितस्यैव दाञः दाने शक्तिरित्यस्यैव युक्तत्वात् । डुदाञ्दाने इति सामान्यतः शक्तिदर्शनात्तु शक्तिभ्रमः । नेयार्थे तु भ्रमबीजाभावात्न भ्रम इति विशेषः । अतो नेयार्थत्वलक्षणे शक्तिभ्रमाभावे सति इति विशेषणादानादसाङ्कर्यम् । अवाचके च शक्तिभ्रमात्विवक्षितार्थे तात्पर्यसत्त्वात्तात्पर्यरूपाया लक्षणाया विवक्षितार्थत्वबोधकत्वमस्त्येव इति । अतो वाक्यार्थबोधकत्वेन निरर्थकासमर्थत्वच्युतसंस्कारणामिव नास्य वाक्यार्थदोषतापास्या । एतद्युतपदसमूहे वाक्यार्थबोधजननात्लक्षणया स्ववाक्यार्थबोधजनकद्वारा वाक्यार्थबोधजननात् । परन्तु इयं लक्षणा न नेयार्थो, नापि कविप्रयोगार्हेति बोध्यम् । निर्थकादिदोषपत्रयस्य तु वाक्यदोषत्वं न सम्भवतीति तदपास्यम् । लोचना (लो, ए) दानार्थे अवाचकः, ग्रहणार्थत्वात् । "उपसर्गेण धात्वर्थो बलादन्यत्र नीयते"इति न्यायात् । ********** टीका सम्पूर्णा ********** यथा वा--- "जिनं मे त्वयि संप्राप्ते ध्वान्तच्छन्नापि यामिनी" । अत्र दिनमिति प्रकाशमयार्थेऽवाचकम् । ************* टीका ************* विज्ञप्रिया (वि, थ) यथा वा--"दिनं मे त्वयि संप्राप्ते ध्वान्तच्छन्नापि यामिनी । "मे मम दिनं प्रकाशमयमित्यर्थः । ध्वान्तच्छन्नापीति अपिकारेण ध्वान्तच्छन्नत्वविपरीतबोधनात्प्रकाशमयत्वस्यैव तद्विपरीतबोधात्न तु दिनत्वस्य । मेघाच्छन्नदिनस्य तद्विपरीतत्वाभावात् । अत्रापिदिनस्य प्रायशः प्रकाशमयत्वदर्शनात्तथात्वेनैव शक्तिभ्रमः । लोचना (लो, ऐ) दिनमिति । सूर्यस्यास्तमयनपर्यन्तं, तद्रत्यवच्छिन्नः कालविशेष एव दिनशब्दवाच्यः । न तदविनाभूतं प्रकाशमयत्वमपीति भावः । ********** टीका सम्पूर्णा ********** क्लिष्टत्वमर्थप्रतीतेर्व्यवहितम्, यथा--- "क्षीरोदजावसतिजन्मभुवः प्रसन्नाः" । ************* टीका ************* विज्ञप्रिया (वि, द) क्लिष्टत्वमिति---व्यवधानं च द्विधा, क्वचिदन्वितान्वयवशेन विशेषाप्रतीतौ कालिकव्यवधानम् । क्वचित्तु अनासत्तिरूपं व्यवधानम् । तत्राद्यं पदगतमुदाहरति--"क्षीरोदजावसतिजन्मभुवः" । अस्य व्याख्या वृत्तावेव । अनासत्तिरूयं व्यवधानं तु वाक्यदोषे उदाहरिष्यति । ********** टीका सम्पूर्णा ********** अत्र क्षीरोदजा लक्ष्मीस्तस्या वसतिः पद्मं तस्य जन्मभुवो जलानि । लोचना (लो, ओ) क्षीरोदजेत्यादि पादोऽपि पदं, समस्तत्वात् । ********** टीका सम्पूर्णा ********** "भूतयेऽस्तु भवानीशः" । अत्र भवानीशशब्दो भवान्याः पत्यन्तरप्रतीतिकारित्वाद्विरुद्धमतिकृत् । ************* टीका ************* विज्ञप्रिया (वि, ध) विरुद्धमतीति । अन्यान्वयवशेन उपश्लोक्यस्य निन्दाव्यञ्जकत्वं तत्त्वम् । अनुचितार्थस्य तु अन्यान्वयं विनेति भेदः । अत्रेति---भवस्य पत्नीत्यर्थे साधितस्य भवानीशब्दस्य अर्थेन पतिशब्दार्थस्य अन्वयवशात्चैत्रस्य भार्यायाः पतिरित्यत्र इव उपपतिप्रतीत्यानिन्दा । लोचना (लो, औ) भवानीशब्दो भवस्य पत्नीत्यर्थे नदादौ आनप्रत्ययान्तः । ********** टीका सम्पूर्णा ********** विधेयस्य विमर्शाभावेन गुणीभूतत्वमविमृष्टविधेयांशत्वम् । यथा--- "स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः" । अत्र वृथात्वं विधेयम्, तच्च समासे गुणीभावादनुवाद्यत्वप्रतीतिकृत् । ************* टीका ************* विज्ञप्रिया (वि, न) अविमृष्टेति---समभिव्याहारविशेषवशाद्विधेयस्य विधेयत्वप्रतीत्यजनकत्वं तत्त्वम् । स च समभिव्याहारप्रतीतिसाक्षिको न तु गत एव । तथा हि प्राङ्निर्द्दिष्टविधेयकं बहुव्रीहिं विना समासान्तरे विधेयस्य पाते, असमासे तु उद्देश्यात्पूर्वविधेयस्य पाते तथात्वम् । तत्र कर्मधारयसमासगतविधेयस्याविमर्शमुदाहरति---स्वर्गेति । रामसैन्यवेष्टितलङ्कस्य रावणस्य विषादोक्तिरियम् । विलुण्ठनेनेत्यर्थः । अत्र भुजानामुच्छूनत्वं सिद्धमेव । तस्येदानीं वृथात्वमित्यतः उच्छूनत्वे उद्देश्ये वृथात्व विधेयम् । तच्चात्र कर्मधारयसमासगतत्वेनाविमृष्टमित्यर्थः बहुव्रीहिसमासे प्राङ्निर्द्दिष्टं विधेयं तु विधेयतयैव प्रतीयते । यथा "वपुर्विरूपाक्ष"मित्यत्र अक्षिण वैरूप्यस्य,"निर्मृष्टरागोऽधर"इत्यत्र रागे निर्मृष्टत्वस्य चित्रगुरित्यत्र गविचित्रत्वस्य च विधेयस्य विधेयतयैव सार्वलौकिकी प्रतीतिः । न तु कर्मधारये विधेयपाते तदविमर्श इति सत्यम् । किन्तु यदि विधेयमुद्देश्यान्वयि भवति । यथा--- अग्रे उदाहरिष्यणामे,"षष्ठबाण इव पञ्चशरस्य"इत्यत्र बाणे उद्देश्येऽन्वयि षष्ठत्वं विधेयमविमृष्टम् । यत्र तूद्देश्यतावच्छेदके विधेयमन्वेति तत्र विधेयतयैव प्रतीतेः आनुभाविकत्वान्न दोषः । यथा"एष्वयमत्यन्वपण्डित"इत्यत्र अत्यन्तस्य विधेयस्य उद्देश्यतावच्छेदके पाण्डित्ये एवान्वयो विधेयतयैव प्रतीतिः । एवं"नितान्तसुन्दरीकान्ता"इत्यत्रापि सौन्दर्येऽन्वितस्य नितान्तत्वस्य एव---"अनिर्द्दयोपभोगस्य रूपस्य मृदुनः कथम् । कठिनं खलु ते चेतः शिरीषस्येव बन्धनम् ॥ "इत्यत्र उपभोग उद्देश्यतावच्छेदकेऽन्वितस्यानिर्द्दयत्वस्य विधेयतयेव प्रतीतिरानुभाविकी । तथा च प्रकृतेऽपि उच्छूनत्वेन उद्देश्यतावच्छेदकेनान्वितस्य वृथात्वस्य कथमविमृष्टत्वम्. उच्छूनभुजे वृथात्वस्य तु किंपदेनैव उक्तत्वात् । यत्तु काव्यप्रकाशकृता अस्यैव श्लोकस्य प्रथमचरणे"न्यक्कारो ह्ययमेव मे यदहयःऽ इत्यत्र वाक्यगतं विधेयाविमर्शमुदाहरति । अत्र चरणे उच्छूनत्वमात्रं चानुवाद्यं नतु वृथात्वविशेषितम्"इत्युक्तम्, तेन विधेयाविमर्शदोषो विधेये दर्शितः । वाक्ये दोषप्रदर्शनप्रस्तावे समासगतदोषप्रदर्शनानुपयोगात्समासगतस्य तदुदाहरणस्य"मूर्द्ध्रामुद्वृत्तकृत्ता"इत्यादेरेव दर्शितत्वात् । किन्तु प्रसङ्गातभवन्मतयोगदोष एव दर्शितः । तथा हि स्वर्गविलुण्ठने उच्छूनत्वमेव जन्यते नतु तद्वृथात्वं वृथात्वविशेषितमुच्छूनत्वं वा । उच्छूनत्ववृथात्वस्य रामेण लङ्कावेष्टनादेव जातत्वात् । अतो विलुण्ठनस्य जनकतासम्बन्धेन वृथोच्छूनत्वेऽनन्वयादभवन्मतयोगदोष एव दर्शितः न चाभवन्मतदोषस्य वाक्यमात्रगामित्वमेव तेनोक्तं कथं,"समासैकपदे तत्सम्भव"मिति वाच्यम् । समासस्य पदत्ववाक्यत्वोभयसत्त्वादसमस्तपदगामित्वाभावस्य तदभिप्रतेत्वात् । तथा चात्र अविमृष्टत्वं नास्त्येव इत्यतोऽन्यदुदाहरति । लोचना (लो, अ) अत्र वृथात्वमिति । समासे तत्पुरुषसमासे गुणीभावात् । अयमाशयः-- तत्पुरुषसमासे उत्तरपदस्यैव प्राधान्यात्वृथेति पूर्वपदस्य विधेयस्य प्राधान्येनानिर्द्देशादविमृष्टविधेयांशो दोषः । अविमर्शो हि प्राधान्येनानिर्द्देशः । इह वक्तुर्दशमुखस्यायमाशयः--पुरा मम भुजानां यदुच्छूनत्वं स्थितं तदितानीं वृथाभूतमिति । एवं विधेयत्वेन विवभितस्य वृथात्वस्य समासे गुणीभावादनुवाद्यत्वप्रत्ययः । तेन च पूर्वतो भुजानामुच्छूनत्वस्य वृथात्वाभावाद्भुजानामपकर्ष एव प्रतीयते न भुजविक्षेपणोत्कर्षः । एवमुपरितनोदाहरणेष्वपि बोद्धव्यम् । ********** टीका सम्पूर्णा ********** यथा वा--- "रक्षांस्यपि पुरः स्थातुमलं रामानुजस्य मे" । अत्र रामस्येति वाच्यम् । ************* टीका ************* विज्ञप्रिया (वि, प) यथा वा---रक्षांस्यपि इति । अत्र शिरश्चालनकाक्का पुरः स्थातुं नालमेवेत्यर्थः । अत्र रामसम्बन्धादेवायमहङ्कार इत्यतो रामसम्बन्धबोधिकायाः षष्ठ्याः तत्पुरुषे लोपात्रामसम्बन्धस्य विधेयसाविमर्शः । षष्ठीसत्त्वे तु अदोष इत्याह---अत्रेति । लोचना (लो, आ) विषयव्याप्तये उदाहरणान्तराणी दर्शयति--रक्षांसीति । इदं लक्ष्मणवचनम् । रामस्येति । न खलु तस्य केवलस्य मुख्यता किन्तु रामसम्बन्धिन इत्यर्थः । ********** टीका सम्पूर्णा ********** यथा वा--- "आसमुद्रक्षितीशानाम्" । अत्रासमुद्रमिति वाच्यम् । यथा वा--- "यत्र ते पतति सुभ्रु ! कटाक्षः षष्ठबाण इव पञ्चशरस्य" । अत्र षष्ठ इवेत्युत्प्रेक्ष्यम् । ************* टीका ************* विज्ञप्रिया (वि, फ) यथा वेति---अत्र समुद्रपर्य्यन्तत्वस्य विधेयस्य समासेऽविमर्शः । कर्म्मधारये उद्देश्यान्वितविधेयस्याविमर्शमुदाहरति---यथा वा यत्र ते इति । उत्प्रेक्ष्यमुत्प्रेक्षया विधेयम् । लोचना (लो, इ) षष्ठ इति--अत्र उत्प्रेक्षाविषयत्वेन विवक्षितस्य षष्टपदस्य तत्पुरुषसमासे पूर्वानिक्षेपो न युक्त इत्यर्थः । विधेयत्वमेवोचितं नतु तत्पुरुषसमासेन गुणीवृत्त्यानुवाद्यत्वप्रत्यायनमिति भावः । ********** टीका सम्पूर्णा ********** यथा वा--- "अमुक्ता भवता नाथ ! मुहूर्त्तमपि सा पुरा" । अत्रामुक्तेत्यत्र "नञः प्रसज्यप्रतिषेधत्व" मिति विधेयत्वमेवोचितम् । ************* टीका ************* विज्ञप्रिया (वि, ब) नञ्समासेऽप्युदाहरति---अमुक्तेति । प्रसज्यप्रतिषेधत्वमिति---प्रतियोगिनमसमासेन प्रसज्य प्रसक्तीकृत्य प्रतिषेधत्वमत्यन्ताभावत्वमित्यर्थः । तथा च मोचनाभावस्य एवात्र विधेयत्वातसमासेनैव तथात्वं बोधयितुमुचितमित्याह---विधेयत्वमेवोचितमिति । समासे तु तद्भन्नत्वस्य एव प्रतीत्या पर्य्युदासत्वमेव तत्र तु विधेयस्य प्रतीषेधो न प्रतीयते इतद्यतस्तस्याविमर्श इति भावः । ********** टीका सम्पूर्णा ********** यदाहुः--- "अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ्" ॥ लोचना (लो, ई) कोऽसौ प्रसज्यप्रतिषेध इत्यत आह--अप्राधान्यमिति । जुगोपात्मानमत्रस्त इत्यादौ इव विधेः प्राधान्य यत्र नास्ति । नवजलधर इत्यादिसमनन्तरोक्तोदाहरणवत्यत्र प्रतिषेधस्य प्राधान्यं कियया कण्ठोक्तया अध्याहार्य्यया वा अस्तिभवत्यादिरूपया पर्य्युदासतापातात्पर्य्युदासयोगक्षेमापत्तेः । ********** टीका सम्पूर्णा ********** यथा--- "नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः" । उक्तोदाहरणो तु तत्पुरुषसमासे गुणीभावे नञः पर्युदासतया निषेधस्य विधेयतयानवगमः । ************* टीका ************* विज्ञप्रिया (वि, भ) असमासे एव नञर्थस्य विधेयत्वरूपं प्राधान्यं, प्रतियोगिनस्त्वप्राधान्यं तादृशस्थले नञः प्रसज्यप्रतिषेधत्वमित्यत्र सम्वादमाह---अप्राधान्यमिति । विधेः भावस्य प्रतियोगिन इत्यर्थः । प्रतिषेधे नञर्थेऽसमासवशात्प्रधानता, विधेयता प्रतीयते इति शेषः । तथात्वं कीदृशप्रयोगमित्यत्राह---क्रिययेति---न पचतीत्यादौ आख्यातक्रियया सह समासाभावात्॑ क्रिययेत्यनेन असमास एव लक्ष्यते । तथा च असमासे यत्र नञित्यर्थः । अत एवात्र मुक्तक्रियया नञः साहित्येऽपि असमासाभावात्न प्रसज्यप्रतिषेधता । एवं नवजलधर इत्यत्रापि नञःक्रियासाहित्याभावेऽप्यसमासात्प्रसज्यप्रतिषेधता । अमुक्तेत्यत्र तु समासात्न तथात्वमित्याह---उक्तोदाहरणे त्विति । समासवशात्तथात्वनवगमेन पर्य्युदासत्वमेव । ********** टीका सम्पूर्णा ********** यदाहुः--- "प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयो, यत्रोत्तरपदेन नञ्" ॥ ************* टीका ************* विज्ञप्रिया (वि, म) इत्यत्र सम्वादमाह---यदाहुरिति । प्रधानत्वमुत्तरपदप्रधानतत्पुरुषवशाद्विशेष्पत्वम् । विधेयप्रतियोगिभूताभावस्य प्रतिषेधे नञोऽप्रधानता समासवशातप्रतीयमानविधेयतारूपाप्रधानता इत्यर्थः । तादृशस्थलं दर्शयति---यत्रेत्तरपदे इति । पदं चात्र स्थानपरम् । प्रतियोगिपदोत्तरस्थाने यत्र नञ इत्यर्थे यत्रोत्तरपदे, अर्थातसमासेन पर्य्युदासो ज्ञेय इत्यर्थः । न पचतीत्यत्र उत्तरत्र नञ्सत्त्वात्तु न पर्य्युदास इत्यर्थः । इदमत्रावधेयम्---प्रतियोगिपदोत्तरनञ्सत्त्वे समासासम्भवात्यत्रोत्तरेत्यादिना समासस्थ एव पर्य्युदास इत्यर्थः । अन्यथा न पचतीत्यत्र, न दृप्तनिशाचर इत्यत्र पूर्वपतितस्यापि नञः पर्य्युदासत्वात्यत्रोत्तरेत्यादेः प्रलापत्वापत्तेः । यद्यप्यसमासस्थस्यापि घटो नेत्यत्र पर्य्युदासत्वमसमासस्थस्य क्रियान्वयिनः प्रसज्यप्रतिषेधत्वमिति तु नियतं बोध्यम् । समासे कृदन्तक्रियान्वयिनोऽपि पर्य्युदासत्वातसमस्तेति क्रियाविशेषणं समासे पर्य्युदासत्वमेव । तत्र च विवेकेन तदुत्तरं साकाङ्क्षतैव । ********** टीका सम्पूर्णा ********** तेन---"जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगुध्नुराददे सोर्ऽथानसक्तः सुखमन्वभूत्" ॥ अत्रात्रस्तताद्यनूद्यात्मगोपनाद्येव विधेयमिति नञः पर्युदासतया गुणीभावो युक्तः । ************* टीका ************* विज्ञप्रिया (वि, य) इत्यस्य उदाहरणं दर्शयति--जुगोपेति--एवं च नञः पर्य्युदासत्वे तदर्थस्य समासे विधेयत्वाप्रतीतेः इत्याह । युक्त इत्यत्र विधयस्य नञर्थस्य अविमर्श एवेति साधितम् । लोचना (लो, उ) प्रधानत्वमिति--प्रधानत्वं जुगोपात्मानमित्यादाविव अप्रधानता अत्रैवोदाहरणे । अत्र, अत्रस्ततादौ इत्यर्थः । नोत्तरपदे किन्तु पूर्वपदे । अमुक्तेत्यत्रापि अनन्तरं नञः समासान्तरप्रवेशेषऽपीति शेषः । ********** टीका सम्पूर्णा ********** ननु "अश्राद्धभोजी ब्राह्मणः" "असूर्यंपश्या राजदाराः" इत्यादिवत्"अमुक्ता" इत्यत्रापि प्रसज्यप्रतिषेधो भवतीति चेद्? न, अत्रापि यदि भोजनादिरूपक्रियांशेन नञः सम्बन्धः स्यात्तदैव तत्र प्रसज्यप्रतिषेधत्वं वक्तुं शक्यम, न च तथा ॑ विशेष्यतया प्रधानेन तद्धोज्यार्थेन कर्त्रंशेनैव नञः सम्बन्धात् । लोचना (लो, ऊ) भोजनदर्शनरूपकियांशे । कर्त्रंशेनेति । भुजिदृशोः कर्तर्थविहितणिनिप्रत्ययान्तत्वागतेन । यदि क्रियांशे नञः सम्बन्धः स्यात्तदैव प्रसज्यप्रतिषेधः स्यात्"कियया सह यत्र नञ"इति वचनात् । इह तु श्राद्धबोजनशीलादयमन्य इति कर्त्रंशेनैव सम्बन्धात्नञः पर्य्युदासत्वमेवेति । तदभोज्यर्थेनेत्युपलक्षणं तददर्श्यर्थेनेत्यपि बोद्धव्यम् । ********** टीका सम्पूर्णा ********** यदाहुः--- "श्राद्धभोजनशीलो हि यतः कर्ता प्रतीयते । न तद्भोजनमात्रं तु कर्तरीनेर्विधानतः" ॥ इति । ************* टीका ************* विज्ञप्रिया (वि, र) अश्राद्धभोजी, असूर्य्यम्पश्या इत्यत्र समासेऽपि प्रसज्यप्रतिषेधरूपयोः श्राद्धभोजनाभावसूर्य्यदर्शनाभावयोः प्रतीतिदर्शनात्तद्दृष्टान्तेन अमुक्तेत्यत्रापि मोचनाभावरूपस्य प्रतिषेधस्य विधेयस्य विधेयत्वापत्तिमाशङ्कते---नन्विति । समाधत्ते, चेन्नेति । क्रियान्वयिन एव प्रसज्यप्रतिषेधत्वनियमः । अक्षोद्धेत्यनयोरपि यदि भजनदर्शनक्रिययोर्नञर्थस्यान्वयः स्यात्तदैव तथात्वापादनं सम्भवति । तयोरन्वय एव तत्र नेत्याह--- न च तथेति । तर्हि कुत्रान्वयः इत्यत्राह---विशेष्यतयेति । कर्त्तरि विहिताभ्यां कृत्प्रत्ययाभ्यामुपस्थापितेन भोजिरूपकर्त्रंशेन च सहैव नञो नञर्थस्य सम्बन्धातित्यर्थः । कुत इत्यत्राह---कर्त्तर णिनेरिति । भोज्यार्थेन इत्यस्य उपलक्षणतया दर्शनकर्त्रंशेनेत्यपि बोध्यम् । कृत्प्रत्ययेन कर्त्रुपस्थानात्श्राद्धभोजी इत्यत्र भोजनकर्त्तैव प्रतीयते इत्यत्र सम्वादमाह--यदाहुः--श्राद्धभोजनेति । अत्र कृत्प्रत्ययादेवं दर्शनकर्त्तारो राजदारा अपि प्रतीयन्ते इत्यपि बोध्यम् । तथा च तयोरपि श्राद्धभोजिभिन्नसूर्य्यदर्शकभिन्नत्वमित्येवं पर्य्युदास एव प्रतीयते इत्यर्थः । तथा च समासस्थतन्नञ्--दृष्टान्तेनाप्यमुक्ता इत्यत्र समासस्थनञः पर्य्युदासत्वमेव सिध्यतीति मनसिकृत्य अमुक्तेत्यत्र भोजीत्यतः किञ्चिन्मात्रं वलक्षण्यं दर्शयति । लोचना (लो, ऋ) अत्रार्थे आचार्य्यसम्मतिमाह---यदाहुरिति । अत्राश्राद्धभोजीत्यत्र तद्भोजनमात्रम् । अश्राद्धभोजनमात्रम् । सम्बन्ध इत्यनन्तरमभिमत इति शेषः । इह तु भाष्यकारादिमतमाश्रित्य कियान्वयांशापेक्षया प्रसज्यप्रतिषेधार्थस्वीकारेऽपि अमुक्तेत्यादौ । कियामात्रप्राधान्यात्समासो नोपपद्यत एव । ********** टीका सम्पूर्णा ********** "अमुक्ता" इत्यत्र तु क्रिययैव सह संबन्ध इति दोष एव । ************* टीका ************* विज्ञप्रिया (वि, ल) अमुक्तेत्यत्र त्विति । अभोजीत्यत्र समासस्थकर्त्रन्वयः । अमुक्तेत्यत्र तु समासस्थक्रियायामेवान्व इत्येतन्मात्रं विशेषः । उभयत्रापि पर्य्युदासत्वमेवेति भावः । न पचति न निद्राति इत्यन्वये कर्त्तुरुपस्थानेऽपि निद्रापाककृत्योरेवान्वयातथ नियमाभावेऽपि तात्पर्य्यवशात्तत्र कर्त्तर्य्येव नञर्थान्वय इति चेन्न । तादृशतात्पर्य्यस्य एव तत्राभावात् । श्राद्धाभोजनशीलान्वये तु श्राद्धभोजनशीलभिन्न इति प्रतीतौ न कदचित्भोजनकृतपि प्रतीयते इत्यतो ग्रन्थकृतानवधानादेव इत्थं समाधानं कृतम् । वयं तु तात्पर्य्यवशात्श्राद्धपदं श्राद्धमात्रपरं, तत्रेव च नञर्थान्वयः, तथा च श्राद्धमात्रभोजीत्यर्थलाभे मात्रार्थवशात्श्राद्धभोजनशीललाभ इति ब्रूमः । ********** टीका सम्पूर्णा ********** एते च क्लिष्टत्वादयः समासगता एव पददोषाः । ************* टीका ************* विज्ञप्रिया (वि, व) एते चेति । क्लिष्टत्वविरुद्धमतिकृत्त्वाविमृष्टविधेयांशभावास्त्रय इत्यर्थः । समासगता एवेति नतु असमासेऽपि पददोषा इत्यर्थः । अन्वितान्वयाधीनक्लिष्टत्वस्य समासं विना पदगतत्वासम्भवात् । अनासत्त्यधीनक्लिष्टत्वे तु समासस्य एवासम्भवात्पदगतत्वं नास्ति । विरुद्धमतिकृतः पदार्थन्तरान्वयेनैव दुष्टत्वातविमृष्टविधेयांशस्य चानुवाद्यविधेयार्थकपदद्वयघटितत्वात्वा समासं विना पदत्वासम्भवात् । ********** टीका सम्पूर्णा ********** वाक्ये दुः श्रवत्वं यथा--- ************* टीका ************* विज्ञप्रिया (वि, श) एषां त्रयोदशानां पदगतत्वं दर्शयित्वा वाक्यगतं तु दर्शयितुमारभते । वाक्ये दुः श्रवत्वं यथेति । एवमेकवाक्ये पदद्वयावलम्बित्वेन वाक्यदोषत्वम् । लोचना (लो, ॠ) क्लिष्टत्वादय इत्यादिशब्दाद विरुद्धमतिकृत्त्वमविमृष्टविधेयांशत्वं च । अतः श्रुतिकट्वादीनां क्वचित्पदांशनिष्टत्वेऽपि बहुव्यापित्वेन वाक्यगतत्वं बोद्धव्यम् । ********** टीका सम्पूर्णा ********** "स्मरार्त्त्यन्धः कदा लप्स्ये कार्त्तार्थ्यं विरहे तव" ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) स्मरार्त्त्येति---स्मरार्त्त्यान्धोऽहमित्यर्थः । अत्र आर्त्त्येति कार्त्तार्थ्यमिति पदद्वयगामित्वाद्वाक्यदोषता । ********** टीका सम्पूर्णा ********** कृतप्रवृत्तिरन्यार्थे कविर्वान्तं समश्नुते ॥ लोचना (लो, ळ) प्रवृत्तिः, प्रसहणं, पुरीषोत्सर्गश्च । वान्तं कथितं, भक्षितोद्रीर्णं च । ********** टीका सम्पूर्णा ********** अत्र जुगुप्साव्यञ्जिकाश्लीलता । ************* टीका ************* विज्ञप्रिया (वि, स) जुगुप्साश्लीलमाह---कृतप्रवृत्तिरिति । अन्यार्थे अन्यकविनिबद्धार्थे कृतयत्नः । अत्र प्रवृत्तिशब्दस्य पुरीषव्यञ्जनया, वान्तशब्दस्य च उद्रीर्णवाचकतया जुगुप्सा । व्यञ्जनेन इत्यत्र जननेन इत्यर्थः । ********** टीका सम्पूर्णा ********** "उद्यत्कमललौहित्यैर्वक्राभिर्भूषता तनुः" ॥ अत्र कलललौहित्यं पद्मरागः, वक्राभिर्वामाभिः, इति नेयार्थता । ************* टीका ************* विज्ञप्रिया (वि, ह) संक्षेपायान्यान् दोषानुपेक्ष्य वाक्ये नेयार्थदोषमाह---उद्यदिति । उद्यद्भिर्देप्यमानैः कमललौहित्यैः पद्मरागमणिभिः करणभूतैः, वक्राभिः वामाभिः स्त्रीभिः कर्त्त्त्रोभिस्तनुर्भूषिता इत्यर्थः । अत्रेति । कमललौहित्ये तनुभूषणस्य बाधितत्वात्तत्तुल्यपर्य्यायार्थकं पद्मारगपदमत्र लक्ष्यते । लक्षितेन पदेन च पद्मरागमणिरुच्यते इत्यर्थः न च प्रत्ययानां कृत्यर्थान्वितस्वार्थबोधकत्वात्कथमत्र तृतीयया पद्मारगे करणता बोध्यते इति वाच्यम् , ईदृशस्थले प्रकृत्यर्थेऽपि तत्स्वीकारात् । वक्रभिरित्यत्र च वामापदे लक्षणा । तेन च स्त्रीरूपार्थ उपस्थाप्यते । वस्तुतस्तु वामावक्रापदयोः पर्य्यायैक्यदर्शनस्य शक्तिभ्रमबीजस्य सत्त्वातत्र अवाचकत्वमेव युक्तम् । ********** टीका सम्पूर्णा ********** "धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम्" ॥ अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न सज्यतीति संबन्धः क्लिष्टः । ************* टीका ************* विज्ञप्रिया (वि, क) क्लिष्टत्वमाह---धम्मिल्लस्य इति । "धम्मिल्लः संयताः कचाः "निक्रममतिशयं रज्यतीति अन्यः । बन्धव्युत्पत्तिः बन्धविन्यासः । शेषं वृत्तावेव व्याख्यातम् । ********** टीका सम्पूर्णा ********** "न्यक्कारो ह्ययमेव मे यदरयः" इति । अत्र चायमेव न्यक्कार इति न्यक्कारस्य विधेयत्वं विवक्षितम् । तच्च शब्दरचनावैपरीत्यैन गुणीभूतम् । रचना च पदद्वयस्य विपरीतेति वाक्यदोषः । ************* टीका ************* विज्ञप्रिया (वि, ख) अविमृष्टविधेयांशभावमाह---न्यक्कार इति । शब्दरचनेति । विधेयवाचकपदस्य उद्देश्यवाचकपदात्पूर्वनिर्द्देशेन इत्यर्थः । अनुवाद्यमनुक्त्वैव न विधयमुदीरयेतिति नियमादिति भावः । अत एव वह्निमान् पर्वत इति न प्रयुज्यते । ननु विधेयपदस्य पूर्वनिपातेन दोषे पददोषत्वमेव उचितमित्यत आह---रचना चेति लोचना (लो, ए) न्यक्कार इति--अयमाशयः, तत्र धर्म्मिणमुद्दिश्य साद्यधर्म्मोविधीयते इत्यनुसारेण प्रथममनूद्य विधेयो न्यक्कारः पश्चान्निर्द्दिष्टुमुचितः । अन्वयवैपरीत्येनाविमृष्टविधेयांशो दोषः । अत एव शब्दोऽनित्य इति वक्तव्येऽनित्यः शब्द इति वचनेन च प्राप्तं निग्रहस्थानमाहुः । तथा हि कथमत्र वाक्यदोष इत्यत आह---रचनेति । पदद्वयस्य विपरीततायामेवेति पदं निर्द्दिश्य पश्चान्न्यक्कार इति पदस्य च पश्चान्निर्द्देश्यस्य प्रथमनिर्द्देशात् । किञ्च दोषस्यास्य बहुव्यापित्वेन वाक्यदोषत्वम् । वृथोच्छूनैरित्यत्रापि अवस्थानसत्त्वे पूर्वमत्र पददोषत्वमुदाहृतं तत्र न्यक्कार इत्याद्यनपेक्षा ग्रन्थगौरवभयात् । ********** टीका सम्पूर्णा ********** "आनन्दयति ते नेत्रे योऽसौ सुभ्रु ! समागतः" । इत्यादिषु "यत्तदोनित्यसंबन्धः" इति न्यायादुपक्रान्तस्य यच्छब्दस्य निराकाङ्क्षत्वप्रतिपत्तये तच्छब्दसमानार्थतया प्रतिपाद्यमाना इदमेतदः शब्दा विधेया एव भवितुं युक्ताः । लोचना (लो, ऐ) आनन्दयतीति । य आनन्दयति असौ समागत इति सम्बन्धः । नित्यसम्बन्धः एवं विना अपरस्य साकाङ्क्षत्वात् । यच्छब्दस्य निराकाङ्क्षत्वप्रतिपत्तये प्रतिपद्यमाना इदमेतददः शब्दाः इत्यनेन तेषां सर्वत्र तच्छब्दाभिधानमिति शेषः । तथाहि---"असावन्तश्चञ्चत्पिकवचननीलाब्जयुगल- स्थलस्फूर्जत्कम्बुविलसदलिसम्पात उपरि । विना दोषासङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखै ! ते" ॥ अत्र हि अदस्शब्दस्तच्छब्दार्थमाह । एवमिदमेतदावपि । ********** टीका सम्पूर्णा ********** अत्र तु यच्छब्दनिकटस्थतया अनुवाद्यत्वप्रतीतिकृत् । तच्छब्दस्यापि यच्छब्दनिकटस्थितस्य प्रसिद्धपरामर्शित्वमात्रम् । लोचना (लो, ओ) अत्र त्विति । योऽसावित्यत्रानुवाद्यत्वप्रतीतिकृददः शब्दः प्रसिद्धिपरामर्शित्वादित्यर्थः । ********** टीका सम्पूर्णा ********** यथा--- "यः स ते नयनानन्दकरः सुभ्रु ! स आगतः" । ************* टीका ************* विज्ञप्रिया (वि, ग) विधेयार्थकस्यादः शब्दस्य उद्देश्यार्थकात्यच्छब्दात्परनिपातेऽपि सान्निध्यवशात्विधेयत्वाप्रतीत्या एतद्देषमुदाहरति---आवन्दयतीति । अत्र यस्ते नेत्रे आनन्दयति असौ समागत इति बोधे यच्छब्दार्थेऽनुवाद्योऽदः शब्दार्थो विधेयः, तस्याविमर्शं ग्राहयितुमदः शब्दस्य विधेयतौचित्यं दर्शयति---यत्तदोरिति । उपक्रान्तस्येति । प्रथमोद्दिष्टस्येत्यर्थः । तस्य आकाङ्क्षायाः पूरकत्वादेव तदस्तत्र नित्यसम्बन्धः । आकाङ्क्षापूरणरूपबीजसत्त्वात् । इदमदसोरपि तत्र नित्यसम्बन्ध इत्याह---तच्छब्दसमानेति । तथा च तच्छब्द इव इदमेतददः शब्दा अपि आकाङ्क्षापूरकत्वेन विधेयार्थकतयौव विधेया भवितुं युक्ता इत्यर्थः । ततश्चादस्शब्दार्थोऽत्र विधेयोऽप्यविमृष्ट इत्याह---अत्र इति । अनुवाद्यत्वस्य प्रतीतेरेवाविमर्शः । न केवलमेवंभूतोऽदः शब्द एव ईदृशः । अपि तच्छब्दोऽपि इत्याह---तच्छब्दस्यापि । हिशब्द एवार्थे । प्रसिद्धपरामर्शकत्वमात्रमेवेत्यर्थः । यः स ते इति यः प्रसिद्ध इत्यर्थः । ********** टीका सम्पूर्णा ********** यच्छब्दव्यवधानेन स्थितास्तु निराकाङ्क्षत्वमवगमयन्ति । लोचना (लो, औ) निराकाङ्क्षत्वमवगमयति इति । तथा सति तेषां विधेयत्वं स्फुटमवगम्यत इति भावः । ********** टीका सम्पूर्णा ********** यथा--- "आनन्दयति ते नेत्रे योऽधुनासौ समागतः" । एवमिदमादिशब्दोपादानेऽपि । ************* टीका ************* विज्ञप्रिया (वि, घ) निराकाङ्क्षत्वमिति । निराकाङ्क्षत्वगमकस्यैव च विधेयत्वाप्रतीतिविषयत्वमित्यतस्ततो नाविमर्श इति भावः । आनन्दयतीति अत्र अधुनापदेन वायवधानान्नाविमर्शः । ********** टीका सम्पूर्णा ********** यत्र च यत्तदोरेकस्यार्थत्वं संभवति, तत्रैकस्योपादानेऽपि निराकाङ्क्षत्वप्रतीतिरिति न क्षतिः । तथाहि यच्छब्दस्योत्तरवाक्यगत्वेनोपादाने सामर्थ्यात्पूर्ववाक्ये तच्छब्दस्यार्थत्वम् । यथा--- "आत्मा जानाति यत्पापम्" । एवम्--- लोचना (लो, अ) उपादाने साक्षादुक्तौ सामर्थ्यात्तच्छब्दस्यार्थतयाक्षेपक्षमत्वात् । आत्मेति । तदात्मा जानातीत्यर्थः । ********** टीका सम्पूर्णा ********** "यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च---" इत्यादावपि । ************* टीका ************* विज्ञप्रिया (वि, ङ) द्वयोरुपादाने एव एष विचारः । एकस्यैवोपादाने तु नायं विचार इत्याह---यत्र च यत्तदोरिति । आर्थत्वं पदानुपादानेऽपि तस्यार्थवशाल्लभ्यत्वमित्यर्थः । न क्षतिरिति । विधेयत्वाप्रतीतिरूपा क्षतिः नास्ति इत्यर्थः । आत्मेति । यत्पापमर्थात्स्वनिष्टं तदात्मा जानाति इत्यर्थः--एवं यं सर्वेति । अत्र सोऽस्तीति बोधः । न चात्र कथमुत्तरस्थत्वमिति वाच्यम्, कुलकत्वेन तत्पूर्ववाक्यार्थतत्पदेन साहऽस्यान्वयात्तद्वाक्योत्तरवाक्यस्थत्वात् । ********** टीका सम्पूर्णा ********** तच्छब्दस्य प्रक्रान्तप्रसिद्धानुभूतार्थत्वे यच्छब्दस्यार्थत्वम् । क्रमेण यथा--- "स हत्वा वालिनं वीरस्तत्पद्रे चिरकाङ्क्षिते । धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत्" ॥ "स वः शशिकलामौलिस्तादात्म्यायोपकल्पताम्" । "तामिन्दुसुन्दरमुखीं हृदि चिन्तयामि" । ************* टीका ************* विज्ञप्रिया (वि, च) यत्तदोर्नित्यसाकाङ्श्रत्वेन तच्छब्दमात्रोपादाने यच्छब्दस्यार्थत्वं प्रसङ्गाद्दर्शयति---तच्छब्दस्य इति । स हत्वेति ---स प्रकान्तो रामस्तत्पदे तत्स्थाने । धातोरिति बोधनम् । धातोः कार्यं यथा आदेशेन । क्रियते तथा वालिकार्यमपि सुग्रीवेण कर्त्तव्यमित्यर्थः । स वः शशिकलेति । स प्रसिद्धः । तामिन्द्विति । तामनुभूताम् । लोचना (लो, आ) सहत्वेति । स इत्यनेन यः प्रकृतो रामचन्द्रः स इति । तत्र स इत्यनेन यः सकललोकप्रसिद्धः सर्वज्ञात्वादिगुणाविशिष्टः तादात्म्यायात्मन एकाभावापत्तये । तां या तद्गुणविशिष्टतया अनुभूतेत्यादिषु यद आर्थत्वम् । ********** टीका सम्पूर्णा ********** यत्र च यच्छब्दनिकटस्थितानामपीदमादिशब्दानां भिन्नलिङ्गविभक्तित्वं तत्रापि निराकाङ्क्षत्वमेव । क्रमेण यथा-- "विभाति मृगशावाक्षी येदं भुवनभूषणम्" । "इन्दुर्विभाति यस्तेन दग्धाः पथिकयोषितः" । ************* टीका ************* विज्ञप्रिया (वि, छ) विभातीति, या भुवनभूषणमित्यर्थः । यत्र य आधारस्तदधिकारणमित्यत्र इव इदं पदे विधेयस्य भू,णस्य लिङ्गम् । विभक्तिभेदे उदाहरति---इन्दुरिति । यः इन्दुर्विभाति तेन पथिकयोषितो दग्धा इत्यर्थः । एवमपिकारान्वितस्यापि तदादेर्निराकाङ्क्षत्वमेव । यथा"शीतांशुरपि यः सोऽपि दग्धवान् पथिकाङ्गनाः । "इति । ********** टीका सम्पूर्णा ********** क्वचिदनुपात्तयोर्द्वयोरपि सामर्थ्यादवगमः । यथा--- लोचना (लो, इ) द्वयोः उपात्तवस्तुविषयत्वेनोपकल्पितयोर्यत्तदोः । ********** टीका सम्पूर्णा ********** "न मे शमयिता कोऽपि मारस्येत्युवि ! मा शुचः । नन्दस्य भवने कोऽपि बालोऽस्त्यद्भुतपौरुषः" ॥ अत्र योऽस्ति, स ते भारस्य शमयितेति बुध्यते । ************* टीका ************* विज्ञप्रिया (वि, ज) अनुपात्तयोर्द्वयोरिति । क्षत्रियभारादूनामुर्वो प्रति वाक्यमिदम् । हे उर्वि ! मे भारस्य शमयिता कोऽपि न, एवं मा शुचः । यतो नन्दस्येत्यादि । अत्रेति । इदं च द्वयोरनुपादानोदाहरणतया न युक्तमुदाहृतम् । व्याख्यातं च तच्छब्दार्थावगमं विनापि यथोक्तबालकसत्त्वस्य यत इति उत्तरवाक्यगततया कारणहेतुत्वावगमादुत्तरवाक्यगतयच्छब्दस्य तच्छब्दानपेक्षणात् । किन्तु--- "ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः । उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥ इति यो भवभूतेरहङ्कारश्लोकः काव्यप्रकाशकृता यत्तदोर्द्वयोरनुपादानोदाहरणं दर्शितं तदेवोदाहरणं बोध्यम् । तत्र उत्पत्स्यमानस्य धर्मिणो विशेष्यानिश्चितत्वात्यत्तद्भ्यां सामान्यत एव य उत्पत्स्यते तं प्रति यत्न इत्युक्तौचित्यात् । ********** टीका सम्पूर्णा ********** "यद्यद्विरहदुःखं मे तत्को वापहरिष्यति" । इत्यत्रैको यच्छब्दः साकाङ्क्ष इति न वाच्यम्, तथाहि---यद्यदित्यनेन केनचिद्रूपेण स्थितं सर्वात्मकं वस्तु विवक्षितम् । तथाभूतस्य तस्य तच्छब्देन परामर्शः । ************* टीका ************* विज्ञप्रिया (वि, झ) यच्छब्दस्योत्तरवाक्यगतत्वे एव तच्छब्दस्य निराकाङ्क्षत्वं दर्शितम् । पूर्ववाक्यगतत्वे उत्तरवाक्यगतं तच्छब्दं विना साकाङ्क्षमित्यनुभवसिद्धम् । तथापि वीप्सितयच्छब्दस्थले एकयत्पदाकाङ्क्षैव एकतत्पदेन निवर्त्ततामन्यद्यत्पदं तु साकाङ्क्षमेवस्यात् । तथा च---यद्यद्विरहदुः खं मे तदित्यत्र एकं यत्पदं साकाङ्क्षंस्यातित्याशङ्क्य समाधत्ते--इति न वाच्यमिति । तथा हि इति । येन केनचितित्यस्यायमभिप्रायो वीप्सया तावत्समस्ता व्यक्तय उपस्थाप्यन्ते । ता व्यक्तय एव तत्पदेन च परामर्श यदि वक्तुस्तात्पर्य्यं तदा एकतत्पदेनैव समस्तव्यक्तिपारमर्शात्यत्पदद्वयाकाङ्क्षापूरणात्न तत्पदे वीप्सा । यथा दर्शितोदाहरणे । तदाह--येन केनचिदिति । तथाभूतं दुः खत्वसामान्यावच्छिन्नम् । यदि वीप्सितयत्पदद्वयेन तद्व्यक्तित्वेन एव उपस्थापयितुं वकातुस्तात्पर्य्यं तदा भवत्येव तत्पदेऽपि वीप्सा । यथा "यं यं व्यतीयाय पतिं वरा सा विवर्णभावं स स भूमिपालः । "इत्यत्र "यां यां प्रियः प्रैक्षत कातरक्षीं सा सा ह्रिया नम्रंमुकी बभूत । "यो यः पाञ्चालगोत्रे......तस्य तस्यान्तकोऽहम् ॥ "इत्यत्र च । ********** टीका सम्पूर्णा ********** एवमन्येषामपि वाक्यगतत्वेनोदाहरणं बोध्यम् । लोचना (लो, ई) अन्येषामनुचितार्थत्वादीनाम् । तत्र अप्रयुक्तस्य वाक्यगतत्वे यथा--"स पातु वो दुश्च्यवनो भावुकानां परम्पराम् । " अत्र दुश्च्यवन इन्द्रः । ग्राम्यत्वस्य यथा---"ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानुषः । "निहतार्थस्य यथा---सायकसहायवाहोरित्यादि । एवमन्यदपि । अत्र पददोषानन्तरं पदांशदोषाणामुद्देश्यकमप्राप्तत्वे येषां वाक्यदोषाणां पददोषसजातीयत्वेन प्रथमं कथनं, "न्यक्कारो ह्ययमेव"इत्यादेश्च पददोषजातीयत्वेऽपि अविमृष्टविधेयांशस्य विशेषत्वेनैतत्प्रस्ताव एवोदाहरणम् । एवं धम्मिल्लस्येत्यादेरपि क्लिष्टविशेषत्वेन क्लिष्टप्रस्तावः । निरर्थकत्वादीनाञ्च पदमात्रनिष्टत्वेन पञ्चान्निर्देशः सूत्रस्य सूगमप्रतिपत्तये । ********** टीका सम्पूर्णा ********** पदांशे दुः श्रवत्वं यथा--- "तद्गच्छ सिद्धयै कुरु देवकार्यम्" । ************* टीका ************* विज्ञप्रिया (वि, ञ) तद्गच्छ सिद्ध्यै कुरु देवकार्य्यमित्यत्र इति श्रुतिकटुः । ********** टीका सम्पूर्णा ********** "धातुमत्तां गिरिर्धत्ते" । अत्र मत्ताशब्दः क्षीबार्थे निहतः । "वर्ण्यते किं महासेनो विजेयो यस्य तारकः" । अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थेऽवाचकः । ************* टीका ************* विज्ञप्रिया (वि, ट) क्लप्रत्ययार्थे अवाचक इति । न चात्र च्युतसंस्कारता इति वाच्यम् । अनिर्द्दिष्टकालकाः प्रत्ययाः त्रिष्वपि कालेषु भवन्तीत्यनुसासनात्त्रैकालिकक्रियास्वेव तस्य साधुत्वात् । परन्तु कालस्तस्य न वाच्यः । किन्तु लक्षणीय एव सा लक्षणा न नेयार्था । अनिर्द्दिष्टेत्याद्यनुशासनेन कालत्रयवाचकत्वभ्रमप्रयुक्तत्वेनावाचकत्वमेव । लोचना (लो, उ) विजेय इत्यनेन विजेतुं शक्य एव प्रतिपाद्यते नतु विजितत्वम् । ********** टीका सम्पूर्णा ********** "पाणिः पल्लवपेल्लत्रः" । पेलवशब्दस्याद्याक्षरे अश्लीले । लोचना (लो, ऊ) पेलवशब्दे ह्याद्यक्षरे उत्कलभाषायां पुंव्यञ्जकस्मारके । ********** टीका सम्पूर्णा ********** "संग्रामे निहताः शूरा वचो बाणत्वमागताः" । अत्र वचः शब्दस्य गीः शब्दवाचकत्वे नेयार्थात्वम् । ************* टीका ************* विज्ञप्रिया (वि, ठ) संग्रामे इति--- वचोबाणत्वं गीर्वाणत्वम् । गीः शब्दवाचकत्व इति । गीः शब्दबोधकल्पे इत्यर्थः । न गीर्वचः शब्दयोर्द्वयोरपि वाच्यवाचकत्वेन वाक्यबाणत्वरूपयोगार्थेन देवार्थे कथं शब्दलक्षणेति वाच्यम् । बाणशब्दपूर्ववर्त्तिनो गीः शब्दस्य परिवृत्त्यक्षमत्वात्वचोबाणशब्देन देवाबोधनात् । यौगिकशक्तिसत्त्वेऽपि आनुपूर्वोविशेषस्य बोधप्रतिबन्धकत्वात् । शक्तिसत्त्वादेव नच देवे लक्षणा किन्तु गीः शब्दबोधस्य आनुभविकत्वात्, गीः शब्दे एव लक्षणेत्यर्थः । न चैवं गीः शब्दो वाणत्वमेव प्रत्येतुमुचितम्, न वाक्यबाणत्वमिति वाच्यम् । लक्षितगीः शब्देनैकवाक्यबोधनात्तथा प्रतीतिरिति प्रपञ्चितमिदमस्मत्कृतकाव्यप्रकाशटीकायां वस्त्रवैदूर्यचरणैरिति नेयार्थोदाहरणे । ********** टीका सम्पूर्णा ********** तथा तत्रैव बाणस्थाने शरेति पाठे । अत्र पदद्वयमपि न परिवृत्तिसहम् । जलध्यादौ तूत्तरपदम्, वाडवानलादौ पूर्वपदम् । ************* टीका ************* विज्ञप्रिया (वि, ड) शरेति पाठ इति---तथा च गीः शर इति न भवति । तथा पाठेऽपि नेयार्थता इत्यर्थः । जलध्यादौतु इति । उत्तरपदं न परिवृत्तिसमित्यर्थः । एवमुत्तरत्रापि । तथा च जलाशय इति समुद्रत्वेन रूपएमाबोधकम् । योगार्थेनैव बोधकम् । जलनिधिरित्यत्र तु उपसर्गमात्रमबोधकम् । पदं तु तदेव । पूर्वपदं तु परिवृत्तिसहम् । तेन वारिधिरित्यादयो भवन्ति । बडवेति तेनाश्वानल इति न भवति बडवाग्निरिति तु भवति । लोचना (लो, ऋ) वचऋ शब्दस्येति---अत्र वचोबाणशब्देन गीर्वाणो विवक्षितः उत्तरपदमेव परिवृत्तिं न सहत इत्यर्थः । जलस्थाने सलिलादिपदप्रयोगे न काचित्क्षतिः । यथा---सलिलनिधिः पयोनिधिरित्यादि । ********** टीका सम्पूर्णा ********** एवमन्येऽपि यथासंभवं पदांशदोषा ज्ञेयाः । निरर्थकत्वादीनां त्रयाणां च पदमात्रगतत्वेनैल लक्ष्ये संभवः । लोचना (लो, ॠ) निरर्थकत्वादीनामिति । पदमात्रगतत्वेनैव वाक्यगतत्वेनापि लक्ष्येऽसम्भवः । तथाविधदोषावहं हि को नाम मूढः पुनः पुनरभिदध्यात् । ********** टीका सम्पूर्णा ********** क्रमतो यथा--- "मुञ्च मानं हि मानिनि !" ॥ अत्र हिशब्दो वृत्तपूरणमात्रप्रयोजनः । कुञ्जं हन्ति कृशोदरी । अत्र हन्तीति गमनार्थे पठितमपि न तत्र समर्थम् । ************* टीका ************* विज्ञप्रिया (वि, ढ) न तत्र सामर्थ्यमिति । शक्तिसत्त्वेऽपि जङ्घापद्धतिरित्यादौ प्रत्ययविशेषोपपदविशेषसहकारेणैव गतिस्मारणसमर्थं न स्वत इत्यर्थः । पुनः पुनः गम्यते, पद्भ्यां गम्यते, इति हि जङ्घापद्धतिपदयोर्व्युत्पत्तिः । ********** टीका सम्पूर्णा ********** "गण्डीवी कनकशिलानिभं भुजभ्यामाजध्ने विषमविलोचनस्य वक्षः" । "आङो यमहनःऽ, "स्वाङ्गकर्मकाच्च" इत्यनुशासनबलादाङ्पूर्वस्य हनः स्वाङ्गकर्मकस्यैवात्मनेपदं नियमितम् । इह तु तल्लाङ्घतमिति व्याकरणलक्षणहीनत्वात्च्युतसंस्कारत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ण) च्युतसंस्कारत्वमाह---गाण्डीवीति । गाण्डीवी अर्जुनः । कनकशिलानिभं किरातमूर्त्तेस्त्रिलोचनस्य वक्षो भुजाभ्यामाजघ्ने इत्यर्थः । अत्र संस्कृतच्युतिर्वृत्तौ एव दर्शिता । लोचना (लो, ळ) गाण्डीवी-अर्जुनः । तल्लङ्गितापराङ्गकर्मकस्य तस्यात्मनेपदप्रयोगादित्यर्थः । ********** टीका सम्पूर्णा ********** नन्वत्र "आजध्ने" इति पदस्य स्वतो न दुष्टता, अपि तु पदान्तरापेक्षयैव इत्यस्य वाक्यदोषता ? मैवम् । ************* टीका ************* विज्ञप्रिया (वि, त) तत्रास्य वाक्यदोषत्वमाशङ्कते---नन्विति । न स्वत इति । स्वाङ्गकर्मकत्वेऽदृष्टत्वात् । पदान्तरेति---पराङ्गकर्मवाचकपदान्तरमित्यर्थः । संस्कृतच्युतेः पदमात्रदोषत्वम् । ********** टीका सम्पूर्णा ********** तथाहि गुणदोषालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेस्तदन्वयव्यतिरेकानुविधायित्वं हेतुः । इह तु दोषस्य "आजघ्ने" इति पदमात्रस्यैवान्वयव्यतिरेकानुविधायित्वम, पदान्तराणां परिवर्त्तनेऽपि तस्य तादवस्थ्यादिति पददोषत्वमेव । तथा यथेहात्मनेपदस्य परिवृत्तावपि न पददोषः, तथा हन्प्रकृतेरपीति न पदांशदोषः । लोचना (लो, ए) आजघ्न इत्यत्र न सकलस्य पदस्य परिवृत्त्यसहनम् । किन्तु प्रत्ययमात्रस्य । तथा हि आजघान इत्युक्ते हनप्रकृतिसद्भावेऽपि दोषस्याभाव इत्याशङ्क्य आह---यथाहेति । अयमर्थः--यथेह प्रकृत्यंशमवस्थाप्य प्रत्ययांशपरित्यागे दोषाभावः । तथा प्रत्ययांशमवस्थाप्य प्रकृत्यंशपरित्यागेऽपीत्युभयान्वयव्यतिरेकानुविधायित्वात्पददोषताभ्युपगमः । ********** टीका सम्पूर्णा ********** एवं "पद्मः" इत्यत्राप्रयुक्तस्य पदगतत्वं बोध्यम् । एवं प्राकृतादिव्याकरणलक्षणहानावपि च्युतसंस्कारत्वमूह्यम् । ************* टीका ************* विज्ञप्रिया (वि, थ) न वाक्यदोषत्वमिति साधयितुमाह---गुणदोषेति । श्लेषप्रसादादयो दशगुणाः परोक्तास्तेषामेव शब्दार्थगतत्वात् । स्वमते तु माधुर्यौजः प्रसादाख्यास्त्रय एव गुणाः । ते तु रसवृत्तय एव । आजघ्ने इति पदस्य दोषश्व पदमात्रगामीति दर्शयति---इह त्विति । तस्यान्वयवायतिरेकानुविधायित्वं तु तदर्थकस्य आजघान इत्यस्य प्रजहारेत्यस्य च दानेन दोषाभावात् । पदान्तराणआं त्विति--विषमविलोचनादिपदानामित्यर्थः । तस्य तादवस्थ्यादिति । अजघ्ने इति पदस्य दुष्टतातादवस्थ्यादित्यर्थः । एवं हन्धातूत्तरात्मनेपदस्य दोषताप्रयोजकान्वयाद्यनुविधानं दर्शयित्वा तस्य पदैकदोषताप्रसक्तिवारणाय आत्मनेपदपूर्ववर्त्तिहन्धातोरपि तथात्वमाह---यथेहेत्यादि न पददोष इति । प्रकृतिप्रत्ययमेलनेन दोषत्वात्पददोष एव । न पदांशदोष इत्यर्थः । उक्तन्यायादप्रयुक्तत्वस्यापि पदमात्रगतत्वं दर्शयति । एवं पद्म इत्यत्रापि इति । "भाति पद्मः सरोवर" इत्यत्रोक्तः पुंलिङ्गः पद्मशब्दोऽप्रयुक्त इत्यर्थः । इदमुपलक्षणम् । आदत्ते इति अवाचकपदस्य श्रुतिकटुपदादेरपि एवं न्यायात्पददोषतेत्यर्थः । इदमत्रावधेयम् । तथाहि----यदि उक्तन्यायातप्रयुक्तत्वाद्यनेकदोषाणामपि पदमात्रदोषत्वमुक्तं तत्कथं स्मारार्त्त्यन्धः इत्यादिषु तेषां वाक्यगतत्वमुदाहृतम् । कथं वा निरर्थकत्वच्युतसंस्कृतत्वासमर्थत्वानामेव वाक्यदोषतो बहिर्भावः कृतः । अप्रयुक्तत्वावाचकत्वादीनामपि तद्वद्बहिर्भावौचित्यात् । अथ तेषामेकवाक्यस्थानेकपदावलम्बित्वाद्वाक्यदोषता उदाहृता इति चेत्तदा पदमात्रदोषताप्रयोजकतया दर्शितन्यायकथनस्य प्रमत्तगीततैव । किञ्च निरर्थकत्वादित्रयस्यापि एकवाक्यस्थानैकपदावलम्बित्वं न सम्भवति । यथा "शोभनपथा गच्छते । स पुनातु हि हरिश्च वः । हन्तीत्यर्थान्तरे---हन्ति गङ्गां सम्प्रति धार्मिकः । इति तस्मादेतद्दोषत्रयविशिष्टपदघटितपदसमूहस्य शब्दबोधाजनकत्वाद्वाक्यत्वासम्भव एव । एतत्त्रयस्य वाक्यदोषतो बहिर्भावेऽवाचकत्वदोषव्याख्याप्रसङ्गेन अस्माभिर्दर्शितो हेतुर्बोध्यः । लोचना (लो, ऐ) प्राकृतादीति---संस्कारोऽत्र सूत्रव्याकरणमात्रलक्षणः । संस्कियतेऽनेन इति व्युत्पत्तियोगात् । देषाः केचितित्यादिकारिकावाक्यस्य काकाक्षि(गोलक) न्यायेन निरर्थक इत्यादिवाक्ये सम्बन्धः । तेन निरर्थकत्व यथा--- "पयसां प्रवाह इव सौरसैन्धवः"अत्र सुरसिन्धोरित्येतावतापि गतार्थत्वे अण्प्रत्ययो निरर्थकः । एवं वनकरिणामित्येतावतैव गतार्थत्वे वन्यकरिणामित्यत्र यप्रत्ययः । तथा---"तदीयमातङ्गघटाविघच्चितै"रित्यत्रेयप्रत्ययः । एवं "बिसकिसलयच्छेदपाथेयवन्त"इत्यत्र वतुपप्रत्ययः । तेन पदपरमित्यत्र परमित्यनेन वाक्यमात्रव्यवच्छेदः । ननु "कुञ्जं हन्ति कृशोदरी"इत्यत्र हन् प्रकृतेरेव परिवृत्तयसहत्वादसगर्थस्य पदांशनिष्टत्वमेव कथं पदनिष्टत्वमिति चेत् । अत्रोच्यते असमर्थत्वस्य पृथक्पदनिष्टत्वस्य प्रायेणादर्शनात्प्रकृतिप्रत्ययौ हि स्वार्थबोधकौ । इत्यनादृत्य समुदितं पदं वाचकमिति मतमालम्ब्य इन्तीत्यत्र पदनिष्टत्वमेवोक्तम् । अत एव काव्यप्रकाशकृतापि-- अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् । वाक्येऽपि दोषाः सन्त्येते पदस्यांशेऽपि केचन ॥ इति सूत्रं पदांशदोषोदाहरणप्रस्तावेऽसमर्थत्वेऽप्युक्तम् । दिनशोणितादिपदेषौ परिवृत्तिसहत्वेऽपि मुख्यतरधर्मिरूपप्रतिपादकप्रतिपादिकानां तथाविधत्वाभावादवाचकत्वादीनां पदगतत्वामुक्तम् । अत एवालङ्कारे "सुनयने ! नयने विधेही"त्यस्यापौनरुक्त्येऽपि लाटानुप्रास उक्तः । ********** टीका सम्पूर्णा ********** इह तु शब्दानां सर्वथा प्रयोगाभावेऽसमर्थत्वम् । विरलप्रयोगे निहतार्थत्वम् । निहतार्थत्वमनेकार्थशब्दविषयम् । ************* टीका ************* विज्ञप्रिया (वि, द) इदानीं दर्शितस्वस्वलक्षणानुसारेणैव उक्तदोषाणां परस्परभेदसम्भवेऽपि भेदान्तरमाह--इव शब्दानामिति । शब्दानामसमर्थादिशब्दानां परस्परभेद इत्यन्वयः । शब्दानामित्यत्र दुष्टशब्दानामित्यर्थः । सर्वथा प्रयोगाभाव इति जङ्घापद्धतिरित्येतन्निष्ठसहकारिविशेषणं विनेति शेषः । विरलेति---प्रसिद्धाप्रसिद्धानेकार्थविषयम् । निहतार्थत्वं विरलप्रयोगे इत्यर्थः । लोचना (लो, ओ) सर्वथा प्रयोगाभावः अत एव वाक्यदोषमध्येऽगणनम् । एवंविधस्खलनस्य कादाचित्कस्यापि दुर्ल्लभत्वात्विरलप्रयोगे निहतार्थत्वम् । अत एवाहुः- अप्रयुक्तनिहतार्थो श्लेषादावदुष्टाविति । ********** टीका सम्पूर्णा ********** अप्रतीतत्वं त्वेकार्थस्यापि शब्दस्य सार्वत्रिकप्रयोगविरहः । अप्रयुक्तत्वमेकार्थशब्दविषयम् । ************* टीका ************* विज्ञप्रिया (वि, ध) असमर्थत्वाप्रयुक्तयोर्भेदमाह---अप्रयुक्तत्वमिति । अनेकार्थशब्देति, शब्दोऽत्र धातुः । ********** टीका सम्पूर्णा ********** असमर्थत्वमनेकार्थशब्दविषयम् । असमर्थत्वे हन्त्यादयोऽपि गमनार्थे पठिताः । अवाकचत्वे दिनादयः प्रकाशमयाद्यर्थे, न तथेति परस्परभेदः । ************* टीका ************* विज्ञप्रिया (वि, न) असमर्थत्वावाचकत्वायोर्भेदमाह---असमर्थेति । अस्यानेकार्थत्वं ग्राहयति---हन्त्यादय इति । लोचना (लो, औ) सार्वत्रिकप्रयोगविरहः, किञ्च निहतार्थत्वेर्ऽथदक्षमपि लौकिकम् । अप्रतीतहेतुस्त्वेकोर्ऽथः शस्त्रीय एव । द्वितीयस्तु सम्भवन्नपि लौकिकः । तथानुचितार्थमपि लौकिकमपश्वादिपदानामारोपितत्वात्तदभेदः । ********** टीका सम्पूर्णा ********** एवं पददोषसजातीया वाक्यदोषा उक्ताः, सम्प्रति तद्विजातीया उच्यन्ते--- ************* टीका ************* विज्ञप्रिया (वि, प) इदानीमुक्तषोडशदोषभिन्नान् त्रयोविंशतिवाक्यदोषान् वक्तुमाह---एवं पदेति । पदे यो दोषः वाक्येऽपि तादृशदोषस्य सत्त्वात्---तत्सजातीयता॑ तदवृत्तेस्तद्विजातीयता । लोचना (लो, अ) सम्प्रति वक्ष्यमाणानां वाक्यदोषाणां समनन्तरेभ्यो भेददर्शिकां कारिकामाह--एवमिति । पददोषाणां सजातीयाः श्रुतिकट्वादय उभयत्र वर्त्तमानत्वाद्वाक्यमात्रगाः न पुनः श्रुतिकट्वादिवत्पदतदंशवाक्यगाः । ********** टीका सम्पूर्णा ********** "वर्णानां प्रतिकूलत्वं, लुप्ताऽहतविसर्गते । अधिकन्यूनकथितपदताहतवृत्तता ॥ ७.५ ॥ पतत्प्रकर्षता, सन्धौ विश्लेषाश्लीलकष्टताः । अर्धान्तरैकपदता समाप्तपुनरात्तता ॥ ७.६ ॥ अभवन्मतसम्बन्धाक्रमामतपरार्थताः । वाच्यस्यानभिधानं च भग्नप्रकमता तथा ॥ ७.७ ॥ त्यागः प्रसिद्धेरस्थाने न्यासः पदसमास्योः । संकीर्णता गर्भितता दोषाः स्युर्वाक्यमात्रगाः ॥ ७.८ ॥ ************* टीका ************* विज्ञप्रिया (वि, फ) लुप्ताहतेति---लुप्तविसर्गता आहतविसर्गता चेति दोषद्वयम् । अधिकपदता न्यूनपदता कथितपदता चेति दोषत्रयम् । विश्लेषताश्लिलता कष्टता च सन्धौ दोषत्रयम् । अभवन्म--सम्बन्धता अक्रमता अमतपरार्थता चेति दोषत्रयम् । पदसमासयोरस्थाने न्यास इति दोषद्वयम् । ********** टीका सम्पूर्णा ********** वर्णानां रसानुगुण्यविपरीतत्वं प्रतिकूलत्वम् । यथा मम--- "ओवट्टै उल्लट्टै सअणो कहिंपि मोट्टाऐ णो परिहट्टै । हिअएण फिट्टै लज्जाइ खुट्टै दिहीए सा" ॥ अत्र टकाराः शृङ्गारसपरिपन्थिनः केवलं शक्तिप्रदर्शनाय निबद्धाः । एषां चैकद्वित्रिचतुः प्रयोगे न तादृशग्रसभङ्ग इति न दोषः । ************* टीका ************* विज्ञप्रिया (वि, ब) ओवट्ट इति---अवलुठति उल्लुठति, लुठति, शयने कदापि । मुञ्चति नो परिहसति हृदये एनं पश्यति, लज्जया खिद्यति । विरहिण्याः क्रियावर्णनमिदम् । अवलुठति अवाङ्मुखीभवति, उल्लुठति उत्ताना भवति । लुठति पार्श्वं बहुशः परावर्त्तयति । शयने शय्यायाम् । हृदये एनं मुञ्चति परिहसति । लज्जया पश्यति च दिशि दिशि खिद्यति च इत्यर्थः । न दोष इति । न प्रतिकूलवर्णत्वदोष इत्यर्थः । दुः श्रवत्वदोषस्तु तदा भवत्येव । लोचना (लो, आ) रसानुगुण्यं गुणप्रस्तावे वक्ष्यमाणम् । ओवट्टै इति---संस्कृतच्छाया---"अपवर्त्तत उद्वर्त्तते परिवर्त्तते शयने कस्मिन्नपि । रमते नो विलुलितहृदये भ्रश्यति लज्जया त्रुट्यति धृतौ सा" ॥ इति । एषां तु इत्यादिनास्यवाक्यगतश्रुतिकट्वादेर्विजातीयत्वं सूचितम् । विकटवर्णादीनां पदपदांशनिष्ठत्वेऽपि दुष्टत्वम् । किन्तु तथासति तेषां पदपदांशदोषत्वम् । अत एव तथाविधानां बहुवारप्रयोगे पददोषसजातीयो वाक्यदोषः । टकारदीनां तु एकपदनिष्ठत्वे नायं दोषः । वर्णवाक्यव्यपित्वे एवेत्यत्र पददोषसजातीयो वाक्यदोषः । ********** टीका सम्पूर्णा ********** "गता निशा इमा बाले !" । अत्र लुप्तविसर्गाः । आहता ओत्वं प्राप्ता विसर्गा यत्र । यथा--- "धीरो वरो नरो याति" । ************* टीका ************* विज्ञप्रिया (वि, भ) लुप्तविसर्गत्वमाह--गता निशा इमा बाले । गता निशा इति । अत्र घोषवति स्वरे च विसर्गत्रयलोपः । बन्धशैथिल्यकारित्वमत्र दोषताबीजम् । एकद्विलोपे तु तदभावान्न दोषः । आहतेति---अस्य तु बहुशः पात एव दोषः । लोचना (लो, इ) एवं ळुप्ताहतप्रयोगयोरपि सकृदेव प्रयोगे न दोषः । ********** टीका सम्पूर्णा ********** "पल्लवाकृतिरक्तोष्ठी" । अत्राकृतिपदमधिकम् । एवम्---"सदाशिवं नौमि पिनाकपाणिम्" । इति विशेषणमधिकम् । "कुर्यां हरस्यापि पिनाकपाणोःऽइति । अत्र तु पिनाकपाणिपदं विशेषप्रतिपत्त्यर्थमुपात्तमिति युक्तमेव । यथा वा--- "वाचमुवाच कौत्सः" । अत्र वाचमित्यधिकम् । उवाचेत्यनेनैव गतार्थत्वात् । ************* टीका ************* विज्ञप्रिया (वि, म) पल्लवेति---पल्लवरक्तेत्युक्त्यैव विवक्षितसिद्धेः । विशेषणमधिकमिति । अपुष्टार्थदोषसंकीर्णमिदम् । विशेषप्रतिपत्त्यर्थमिति---धनुर्धरणादप्यसौ न मां वारयितुं शक्त इत्यर्थो विशेषः । ********** टीका सम्पूर्णा ********** क्वचित्तु विशेषणदानार्थं तत्प्रयोगो युज्यते । यथा--- "उवाच मधुरा वाचम्" इति । केचित्त्वाहुः---यत्र विशेषणस्यापि क्रियाविशेषणत्वं सम्भवति तत्रापि तत्प्रयोगो न घटते । यथा--- "उवाच मधुरं धीमान्" इति । ************* टीका ************* विज्ञप्रिया (वि, य) क्वचित्तु इति---क्वचित्स्थल इत्यर्थः । तत्प्रयोगो वाचमित्यस्य प्रयोगः । एतच्च काव्यप्रकाशकृता दूषितम् । तदाह---केचित्त्विति---अत्रापि न युज्यत इति प्रकाशाभिप्रायमबुद्ध्वा लिखितं वाच्प्रयोगस्तु उपपत्त्यन्तरासत्त्वाद्युज्यत एव । किन्तु विशेषणदानार्थं तत्प्रयोग इत्युक्तिरेव विशेषणस्य क्रियाविशेषणसम्भवोक्त्या दूषिता न तु वाचमित्यस्य प्रयोगः । "ऊचे वचस्तापसकुञ्जरेण" "नृपमूचे वचनं वृकोदरः । "संप्रस्थितो वाचमुवाच कौत्सः" । "जगाद वाक्यं गिरिराजपुत्री" । इत्यादिबहुप्रयोगदर्शनात्तत्प्रयोगस्य तत्सम्मतत्वादेव । तदुपपत्तिस्तु यथा---वचेर्द्विधा वुयत्पत्तिः कण्ठताल्वाद्यभिघातः तज्जन्यं वचनं चार्थः । तत्र वचनार्थकतया प्रयोगे वाचमिति न प्रयुज्यते । कण्ठताल्वाद्यभिघातार्थकतया प्रयोगे तु तत्कर्मभूतस्य वाचमित्यस्य युज्यत एव प्रयोग इति । यच्च वाचमित्यधिकमित्युक्तं तदपि युक्तम् । वच्धातोर्वचनार्थकत्वे वाचमित्यस्य पुनरुक्तत्वादेव । पुनरुक्तभाव एव अधिकपदत्वदोषप्रसक्तेः । यथा---पल्लवाकृतिरक्तेत्यत्र । लोचना (लो, ई) अधिकं सदाशिवमित्यतो विशेषप्रतिपत्त्यभावात् । उपात्तस्यापि पिनाकीति पदेन विशेषप्रतिपत्तेरिवेत्यर्थः । ********** टीका सम्पूर्णा ********** "यदि मय्यर्पिता दृष्टिः किं ममेन्द्रतया तदा" । अत्र प्रथमे त्वयेति पदं न्यूनम् । ************* टीका ************* विज्ञप्रिया (वि, र) न्यूनपदत्वमाह---यदि मयीति---मम इन्द्रतया इन्द्रत्वेन तदा किमित्यर्थः । लोचना (लो, उ) त्वयेति । नूनं प्रस्तुतकाव्यप्रतिपादकस्य चासंमुखीनस्य महात्मन एवेति दृष्टिपातेन वक्तुरभिष्टपूरणमिति । तस्यानिर्द्देशेन यस्य कस्यचिदपि दृष्टपातसूचनेन तत्प्रत्यायनमन्थरमिति भावः । ********** टीका सम्पूर्णा ********** "रतिलीलाश्रमं भिन्ते सलीलमनिलो वहन्" । अत्र लीलाशब्दः पुनरुक्तः । एवम्---"जक्षुर्विसं धृतविकासिविसप्रसूनाः" । अत्र विसशब्दस्य धृतपरिस्फुटतत्प्रसूना इति सर्वनाम्नैव परामर्शो युक्तः । ************* टीका ************* विज्ञप्रिया (वि, ल) कथितपदत्वमाह---रतिलीलेति । लीलाशब्द इति सलीलभित्यत्र लीलाशब्द इत्यर्थः । पुनरुक्त इति । पुनः कथित इत्यर्थः । नतु पुनरुक्तदोषः । शब्दार्थयोरन्वयभेदेन पुनरुक्त्यभावात्तस्यार्थदोषत्वात् । न्यूनपदोत्तरं कथितपदस्यैव क्रमप्राप्तत्वाच्च । चक्षुरिति । बिसप्रसूनं पद्मम् । धृतविकाशितत्काः सैन्याः सेनासमवेतजनाः विसं मृणालं जक्षुः बुभुजिरे । अत्र बिसशब्दस्येति कथितपदत्वमिति शेषः । पाठान्तरेण कथितपदत्वोद्धारौचित्यं दर्शयति---धृतपरिस्फुटेति । ********** टीका सम्पूर्णा ********** हतवृत्तम्---लक्षणानुसरणोऽप्यश्रव्यम्, रसाननुगुणम्, अप्राप्तगुरुभावान्तलघु च । क्रमेण यथा--- "हन्त ! सततमेतस्य हृदयं भिन्ते मनोभवः कुपितः" । "अयि ! मयि मानिनि ! मा कुरु मानम्" । इदं वृत्तं हास्यरसस्यैवानुकूलम् । ************* टीका ************* विज्ञप्रिया (वि, व) हतपदार्थत्रैविध्येन त्रिविधं हतवृत्तमाह---हतवृत्तमिति । अप्राप्तगुरुभावः, अन्तलघुः पादान्तलघुर्यस्य तादृशवाक्यमित्यर्थः । अत्र पदमध्ययतिवशादश्रव्यवृत्तमाह---हन्त सततमेतस्या इति । अत्र सततमेतस्य इत्यत्र पदमध्ये यतिरश्रव्या । पढमं वारदमत्तेति गाहाच्छन्दोलक्षणानुसरणमस्त्येव । रसाननुगुणवृत्तमाह---अयि मयि मानिनि इति । इदं वृत्तमिति दोधकं नाम वृत्तं छन्द इत्यर्थः । लोचना (लो, ऊ) हन्तेति--हन्त सततमेतस्या इति । एतत्द्वितीयार्य्यालक्षणानुगमेऽपि श्रुतिवैरस्यजा । इदमिति । अयमाशयः--सामान्यतो हासस्य शृङ्गाररसप्रतिकूल्याभावेऽपि तथाविधमानस्थले स्मरशरविषार्द्दितस्य नायकस्योक्तौ प्रतिकूलतेति ********** टीका सम्पूर्णा ********** "विकसित-सहकार-भार-हारि-परिमल एष समागतो वसन्तः" । यत्पादान्ते लघोरपि गुरुभावः उक्तः, तत्सर्वत्र द्वितीयचतुर्थपादविषयम् । प्रथमतृतीयपादविषयन्तु वसन्ततिलकादेरेव । अत्र"प्रमुदितसौरभ आगतो वसन्तः" इति पाठो युक्तः । ************* टीका ************* विज्ञप्रिया (वि, श) अप्राप्तगुरुभावान्तलघु आह---विकसितेति--एष वसन्तः समागतः । कीदृशः विकसितसहकारभारस्य हारी मनोहारी परिमोल यत्र तादृशः । अत्र हारीति पादान्तलघोर्गुरुर्भावाप्राप्तिः । पादान्तलघोर्गुरुभावप्राप्तेः विषयं दर्शयतियत्पादान्त इति, वसन्ततिलकादावेवेति । नह्यत्र पुष्पिताग्रा छन्दसीत्यर्थः । पाठं परिष्कारोति---अत्रेति---प्रमुदितं प्रमोदविषयः । ********** टीका सम्पूर्णा ********** यथा वा--- "अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा सम्भाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा । श्रीमत्कान्तिजुषां द्विषां करतलात्स्त्रीणां निग्तबस्थलात्दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च" ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) शार्द्दूलविक्रीडितेति दर्शयति---अन्यास्ता इति । रत्नरोहणभुवः प्रसिद्धा एव, गुणरत्नरोहणभुवस्त्वन्या विलक्षणा एव । एवं धन्या मृदन्यैव, एवं सम्भारा अपि खल्वन्ये । एवं यैरर्थात्यद्गुणरत्नमृद्विशेषसहितैः सम्भारैरेष युवा विधिना सृष्टः । यत्र यूनि दृष्टे सति मूढमनसां द्विषां करतलादस्त्राणि मूढमनसां स्त्रीणां नितम्बस्थलाद्वस्त्राणि च पतन्ति इत्यर्थः । श्रीमदित्यादि द्वयोर्विशेषणम् । द्विषां मोहो भयेन । स्त्रीणां मोहः कामेन । ********** टीका सम्पूर्णा ********** अत्र "वस्त्राणि च" इति बन्धस्य श्लथत्वश्रुतिः । लोचना (लो, ऋ) रोहणो माणिक्याद्रिः । अथवा गुणरत्नस्य रोहणमुत्पत्तिर्यासु ता भुवः । सम्भार उपकारणम् । मृत्समवायिकारणरूपः पार्थिवो भागः । अत्र चकारस्य अतीव्रप्रयत्नोच्चार्य्यतया बन्धशोथिल्यम् । ********** टीका सम्पूर्णा ********** "वस्त्राण्यपि" इति पाठे तु दार्ढ्यमिति न दोषः । "इदमप्राप्तगुरुभावान्तलघु" इति काव्यप्रकाशकारः । वस्तुतस्तु "लक्षणानुसरणोऽप्यश्रव्यम्" इत्यन्ये । ************* टीका ************* विज्ञप्रिया (वि, स) अत्र चतुर्थपादान्तलघोर्बन्धशौथिल्यकारित्वेन गुरुकार्य्यबन्धदार्ढ्यकारित्वाभावादश्रव्यवृत्तदोष इत्याह---अत्रेति । बन्धदार्ढ्यमिति न दोष इति । तखत्वकरणान्न दोष इत्यर्थः । काव्यप्रकाशकारमते द्वयमप्यप्राप्तगुरुभावान्तलघुभूतापहतवृत्तदोष एवेत्याह---इदमपीति । अन्यमते तु, अश्रव्यवृत्तरूपहतवृत्तमेवेदमित्याह---वस्तुतस्तु इति । अत्र स्वमतानुसारिण एवान्ये इत्यनेनोक्ताः । लोचना (लो, ॠ) लक्षणानुसरणेऽप्यत्र द्वितीयचतुर्थपादान्तलघोरप्राप्तगुरुभावादित्यर्थः । ********** टीका सम्पूर्णा ********** प्रोज्जलज्ज्वालनज्वाला-विकटोरुसटाच्छटः । लोचना (लो, ळ) ग्रीवागतोद्दामकेसरकलापः । ********** टीका सम्पूर्णा ********** श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेशरी ॥ अत्र क्रमेणानुप्रासप्रकर्षः पतितः । ************* टीका ************* विज्ञप्रिया (वि, ह) पतत्प्रकर्षमाह---प्रोज्ज्वलदिति---नरकेसरी वः पातु । कीदृशः । प्रोज्ज्वलतः ज्वलनस्य ज्वालावत्विकटा सुन्दरी उरुसटानां छटा कान्तिर्यस्य तादृशः । श्वासेनाक्षिप्ताः पातिताः कुलक्ष्माभृतः कुलाचला येन तादृशः । पातो न्यूनता । ********** टीका सम्पूर्णा ********** "दलिते उत्पले एते अक्षिणी अमलाङ्गि ! ते" । एवंविधसन्धिविश्लेषस्य असकृत प्रयोग एव दोषः । लोचना (लो, ए) असकृत्प्रयोग एव सकृत्प्रयोगे तथाविधारुचिदायित्वाभावात् । ********** टीका सम्पूर्णा ********** अनुशासनमुल्लङ्घ्य वृत्तभङ्गभयमात्रेण सन्धैविश्लेषस्य तु सकृदपि । यथा--- "वासवाशामुखे भाति इन्दुश्चन्दनबिन्दुवत्" । लोचना (लो, ऐ) भातीन्दुरित्यनयोर्वृत्तोपगतत्वेन सन्धैर्न कृतः, तच्च महाकविसमयविरुद्धम् । आद्यन्तरगतयोरेवेत्यर्थः । ********** टीका सम्पूर्णा ********** "चलण्डामरचेष्टितः" इति । अत्र सन्धौ जुगुप्साव्यञ्जकमश्लीलत्वम् । "उर्व्यसावत्र तर्वालीमर्वन्ते चार्ववस्थितिः" । ************* टीका ************* विज्ञप्रिया (वि, क) विश्लेषसन्धिमाह--दलितेति । दलिते वृन्तादाकृष्टे एवंविधे व्याकरणनिषिद्धसन्धौ । वासवाशा ऐन्द्री दिक् । अश्लीलसन्धिमाह---चलण्डामरचेष्टितेति । अत्र सन्धौ लण्डाशब्दोत्पत्त्यापभ्रंशलण्डाशब्दार्थस्य दीर्घपुरीषव्यञ्जनया जुगुप्सा । मौलिः श्रेणीः । चारुरवस्थितिर्यस्यास्तादृशीत्यर्थः । अत्र सन्ध्युत्पन्ना वर्णाः कटवः । लोचना (लो, ओ) मर्वन्ते--मरोरन्ते असौ उर्वो इति सम्बन्धः । ********** टीका सम्पूर्णा ********** "अत्र सन्धौ कष्टत्वम् । "इन्दुर्विभाति कर्पूरगौरैर्धवलयन् करैः । जगन्मा कुरु तन्वङ्गि ! मानं पादानते प्रिये" ॥ अत्र जगदिति प्रथमार्द्धे पठितमुचितम् । "नाशयन्तो घनध्वान्तं तापयन्तो वियोगिनः । पतन्ति शशिनः पदा भासयन्तः क्षमातलम्" ॥ अत्र चतुर्थपादो वाक्यसमाप्तावपि पुनरुपात्तः । ************* टीका ************* विज्ञप्रिया (वि, ख) समाप्तपुनरात्ततामाह---नाशयन्त इति । अत्रेति । तृतीयपादे विशेषस्य क्रियान्वयेन वाक्यार्थसमाप्तावपि अनाकङ्क्षितविशेषणान्वयार्थं विशेषस्यावृत्तिरूपोऽत्र दोषः । अत्र हि ध्वान्तनाशनेनैव क्षमातलभासनप्राप्तौ तद्विशेषणमनाकङ्क्षितम् । यत्र तु विशेषणे आकाङ्क्षा तिष्ठति तत्र नायं दोषः । तथा---"अद्यापि स्तनेपथुं जनयति श्वासः प्रमाणाधिकः । ऽ इत्यत्र प्रमाणाधिकत्वविशेषणं विना प्रकृतश्वासेन स्तनेवपथ्वजननात्श्वासस्य प्रमाणाधिकत्व आकाङ्क्षा । एवं "उअ णिच्चल" इत्यादानप्युपमानालङ्काररूपप्रकर्षप्राप्त्यर्थमाकाङ्क्षा । एवमेवान्यत्रापि विचार्यम् । ********** टीका सम्पूर्णा ********** अभवन्मतसम्बन्धो यथा--- "या जयश्रीर्मनोजस्य यया जगदलङ्कृतम् । यामेणाक्षीं विना प्राणा विफला मे कुतोऽद्य सा" ॥ अत्र यच्छब्दनिद्दिष्टनां वाक्यानां परस्परनिरपेक्षत्वात्तदेकान्तः पातिना एणाक्षीशब्देन अन्येषां सम्बन्धः कवेरभिमतो नोपपद्यत एव । ************* टीका ************* विज्ञप्रिया (वि, ग) अभवन्निति । असम्भवनसम्भवी कवेरभिमतसम्बन्धो यत्रेत्यर्थः । असम्भवश्च शाब्दव्युत्पत्तिराहित्यात् । तच्चोदाहरणे दर्शयिष्यते । या जयश्रीरिति---अत्र या एणाक्षी । यया एणाक्ष्या इत्येवमेणाक्षीविशेष्यकोऽन्वयः कवेरभिप्रेतः स च न सम्भवति । द्वितीयान्तपदार्थस्य, या, ययेति प्रथमान्ततृतीयान्तयत्पदार्थयोः अभेदेन विशेष्यभावाप्युत्पत्तेरिति प्रतिपादयितुमाह---अत्रेति । ननु या ययेत्यनयोर्न एणाक्ष्यामन्वयः । किन्तु या ययेत्यनयोरेव परस्परमन्वय इत्यत्राह---यच्छब्दनिर्द्दिष्टानामिति । निरपेक्षत्वादन्वयित्वान्निराकाङ्क्षत्वेन तथात्वं बोध्यम् । तथा च एणाक्ष्यामेव साकाङ्क्षत्वात्तद्विशेष्यक एव । या ययेत्यानयोरर्थान्वयः कवेरभिमतः स च न सम्भवतीत्याह---एकान्तः पातिनेति । यां विनेति । एकं यत्पदं तदन्तः पातिना तदर्थान्वयिना एणाक्षीशब्देन एणाक्षीशब्दार्थेन इत्यर्थः । अन्येषां या ययेति यच्छब्दार्थानां द्वयोरप्यत्र बहुत्वारोपाद्बहुवचनम् । न चात्र एणाक्षीमितिपदस्य विभक्तिव्यत्ययेन या ययेत्यनयोरन्वय इति बाच्यम्, अव्यत्ययेन प्रथममन्वितस्यैव व्यत्ययव्युत्पत्तेः । अत्र तु पश्चादेव यामित्यस्याव्यत्ययेनान्वयः । लोचना (लो, औ) समाप्तपुनरात्तत्वे उदाहरति । अभवन्, मतम्, इष्टम्, अर्थात्कवेः योगः सम्बन्धो यत्र । परस्परनिरपेक्षत्वादनुवाद्यत्वेन तच्छब्दनिर्द्दिष्टविधेयवाक्यस्य गुणभूत्वेन तुल्यतयासमवायात् । यदाहुः--"गुणानां च परार्थत्वातसम्बन्धः, सम्त्वात्स्यादिति"तदेकान्तः पातिनां तेषां-वाक्यानामेकवाक्यान्तः पातिनाम् । ********** टीका सम्पूर्णा ********** "यां विनामी वृथा प्राणा एणाक्षी सा कृतोऽद्य मे" । इति तच्छब्दनिर्दिष्टवाक्यान्तः पातित्वेऽपि यच्छब्दनिद्दिष्टवाक्यैः सम्बन्धो घटते । ************* टीका ************* विज्ञप्रिया (वि, घ) यदि तु तच्छब्दार्थस्य विशेष्यतया एणाक्षीशब्दः प्रयुज्यते तदादोष इत्याह---यां विना मे वृथा इति । सा एणाक्षीति तच्छब्दविशेष्यतयैव प्रयोगः । सर्वैरपीति । न च तथापिं भिन्नविभक्तिकयत्तत्पदार्थयोः कथमभेदान्वय इति वाच्यम् । तत्पदार्थान्वितविशेष्यस्य यत्पदार्थेऽन्वये समानविभक्तिकत्वनियमाभावात् । यथा यत्र धूमः स देशो वाह्निमानित्यत्र तत्पदार्थान्वितस्य प्रथमान्तपदार्थस्य देशस्य सप्तम्यन्तयत्पदार्थेऽन्वयः । लोचना (लो, अ) यथा तद्धटते तदाह । यां विनेत्यादिः । तच्छब्दनिर्द्दिष्टं वेधेयं वाक्यम् । सम्बन्ध एणाक्षीशब्दस्य इत्यर्थः । ********** टीका सम्पूर्णा ********** यथा वा--- "ईक्षसे यत्कटाक्षेण तदा धन्वी मनोभुवः" । अत्र यदित्यस्य तदेत्यनेन सम्बन्धो न घटते । "ईक्षसे चेत्" इति तु युक्तः पाठः । ************* टीका ************* विज्ञप्रिया (वि, ङ) अत्र प्रथममपि व्यत्ययमङ्गीकुर्वतः प्रत्युदाहरणान्तरमाह---ईक्षसे यदिति । यतो हेतोरित्यर्थः । अत्रेति---यदितिपदेन कटाक्षेक्ष्णस्योपस्थानम् । तदेत्यनेन तु कालस्योपस्थानमित्येकार्थानुपस्थानात्तयोर्नाभेदान्वयः इत्यर्थः । ईक्षसे चेदिति । तथा च यदि कटाक्षेण ईक्षसे तदा तेन कटाक्षेण मनोभवः धन्वी इत्यर्थः । ********** टीका सम्पूर्णा ********** यथा वा--- "ज्योत्स्नाचयः पयः पूरस्तारकाः कैरवाणि च । राजति व्योमकासारराजहंसः सुधाकरः" ॥ अत्र व्योमकासारशब्दस्य समासे गुणीभावात्तदर्थस्य न सर्वैः संयोगः । ************* टीका ************* विज्ञप्रिया (वि, च) इत्थमभेदान्वयसम्भवं दर्शयित्वा भेदान्वयासम्भवमाह---ज्योत्स्नाचय इति । कासारः सरः । व्योमरूपेऽस्मिन् ज्योत्स्नाचयादिरूपपयः पूरादय इत्यर्थः । अत्रेति---कासारे राजहंस इत्येवंशमासे तत्पुरुषे उत्तरपदार्थस्य विशेष्यत्वात्कासारशब्दार्थस्य विशेषणीभाव एव गुणीभावः । तादृशगुणीभूतस्य च विशेष्यान्तरेऽपि गुणीभावोऽव्युत्पन्नो निराकाड्क्षत्वात्, तथा च तस्य पयः पूरादौ विशेषणीभावेन अन्वयासम्भव इत्यर्थः । तादृशविशेषणस्य अन्यत्र विशेष्याभावेनान्वये तु निराकाङ्क्षत्वम् । अत एव चैत्रस्य दासभार्य्या इत्यत्र भार्य्यायं विशेषणस्य दासस्य चैत्रविशेष्याभावेनान्वये साकाङ्क्षतैव । लोचना (लो, आ) सर्वैः पयः पूरादिपदार्थैः । ********** टीका सम्पूर्णा ********** विधेयाविमर्शे यदेवाविमृष्टं तदेव दुष्टम् । इह तु प्रधानस्य कासारपदार्थस्य प्राधान्येनाप्रतीतेः सर्वोऽपि पयः पूरादिशब्दार्थस्तदङ्गतया न प्रतीयत इति सर्ववाक्यार्थविरोधावभास इत्युभयोर्भेदः । ************* टीका ************* विज्ञप्रिया (वि, छ) अभवन्मतयोगविधेयाविमर्शयोर्भेदमाह---विधेयाविमर्श इति । विधेयाविमर्शेऽन्वयबोधो जायत एव । किन्तु विधेयस्य विधेयत्वाप्रतीत्या यदेव विधेयमविमृष्टं तदेव दुष्टमित्यर्थः । न चैवं तस्य वाक्यदोषत्वभावापत्तिरिति वाच्यम् । उद्देश्यसम्बन्धितया विधेयत्वाप्रतीत्या उद्देश्यघटितवाक्यस्यान्वयव्यतिरेकाद्वाक्यदोषत्वाद्दुष्टं तु विधेयपदमेवेत्यर्थः । प्रकृते तु निराकाङ्क्षत्वेनान्वयासम्भवादन्वयप्रतियोगिसमस्तमेव दुष्टमित्याह---इह त्विति । प्रधानस्येति---पयः पूरादिसमस्तान्वयित्वेन प्रधानस्येत्यर्थः । प्राधान्येनेति समस्तान्वयित्वेनेत्यर्थः । तदङ्गतयेति तदन्वयित्वेनेत्यर्थः । तिरोभाव इतीति । बोधानुपपत्तिरित्यर्थः । लोचना (लो, इ) यदेवोच्छूनत्वादेर्वृथात्वं तदेव दुष्टम् । न तु सर्ववाक्यानां तिरोभावः । एवं कल्पोपपदाः द्रुमाः । कल्पोपपदत्वं द्रुमस्य नतु द्रुमार्थस्य । इत्येवमादिषु अभवन्मतयोगो बोद्धव्यः । ********** टीका सम्पूर्णा ********** "अनेन च्छिन्दता मातुः कण्ठं पशुना तव । बद्धस्पर्द्धः कृपाणोऽयं लज्जते मम भार्गव !" ॥ अत्र "भार्गवनिन्दायां प्रयुक्तस्य मातृकण्ठच्छेदनकर्त्तृत्वस्य परशुना सम्बन्धो न युक्तः" इति प्राच्याः । "परशुनन्दामुखेन भार्गवनिन्दाधिक्यमेव वैदग्ध्यं द्योतयति " इत्याधुनिकाः । ************* टीका ************* विज्ञप्रिया (वि, ज) वाच्यार्थे विवक्षितस्य व्यङ्ग्यार्थयोगस्यासम्भवेऽपि क्वचिदयं दोष इति काव्यप्रकाशकृन्मतं दूषयितुमाह---अनेनेति । तव मातुः कण्ठं छिन्दता इत्यन्वयः । मम कृपाण इत्यन्वयः । प्राच्याः काव्यप्रकाशकृदादयो दूषयन्ति । परश्विति । भार्गवस्याधिकनिन्दा कर्तरो अधिकं वैदग्ध्यं द्योतयति इत्यन्वयः । ********** टीका सम्पूर्णा ********** अक्रमता यथा--- समय एव करोति बालबलं प्रणिगदन्त इतीव शरीरिणाम् । शरदि हंसरवाः परुषीकृताः स्वरमयूरमयूरयणीयताम् ॥ अत्र परामृश्यमानवाक्यानन्तरमेवेति शब्दोपयोगो युज्यते, न तु "प्रणिगदन्त" इत्यनन्तरम् । एवम् ---- ************* टीका ************* विज्ञप्रिया (वि, झ) अक्रमतेति--अव्यवधानेन तदुत्तरपातनियमेनैव तत्परामर्शकस्य शब्दस्य तत्परामर्शार्थमन्योत्तरपातस्तत्त्वम् । समय एवेति । परुषीकृताः दुः श्रवीकृताः स्वरा येषां तादृश मयूरा यत्र क्रियायां तादृशं यथा स्यात्तथा शरदिं हंसरवा रमणीयतामयुः प्राप्तवन्तः । कीदृशाः ? शरीरिणां बलाबलं समय एव करोतीति विनिगदन्तः कथयन्त इति । मयूररवापेक्षया हंसरवाणामपकृष्टत्वेऽपि शरदिं हंसरवाणां परुषीकरणात्समयेन स्वराणां बलाबलकरणात्शरीरिणामपि बलाबललाभ इति भावः । अत्रेति---परामृश्यवाक्यं बलावलमित्युक्तम् । अत्र च शरीरिणामपिबलाबलमिति अन्वये क्लिष्टतापि बोध्या । लोचना (लो, ई) नतु प्रणिगदन्त इत्यनन्तरम् । एवं सति प्रणिगदन्त इति पदस्यापि अनुवाद्यवाक्यप्रवेशशङ्केत्यर्थः । ********** टीका सम्पूर्णा ********** "द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी" ॥ अत्र त्वमित्यनन्तरमेव चकारो युक्तः । ************* टीका ************* विज्ञप्रिया (वि, ञ) दूयं गतं सम्प्रति शोचनीयतामिति---तपस्यन्तीं पार्वतीं प्रतिजटिलवेशस्य शिवस्य स्वनिन्दावाक्यमिदम् । चन्द्रकला एव प्राक्शोचनीया आसीत्संप्रति तु तवापि तथात्वाद्द्वयमिति । निन्द्राप्रतिपादनार्थं कपालवत्त्वकथनं कलायाः प्रार्थना च तत्समागमादनुमेया । ********** टीका सम्पूर्णा ********** अमतपरार्थता यथा--- "राममन्मथशरेण ताडिता-" इत्यादि । अत्र शृङ्गारसस्य व्यञ्जको द्वितीयोर्ऽथः प्रकृतरसविरोधित्वादनिष्टः । ************* टीका ************* विज्ञप्रिया (वि, ट) अमतेति---परार्थोऽप्रकृतार्थो रूप्यमाणस्वरूपोऽमतः प्रकृतरसविरोधरसव्यञ्जकत्वेनानुचितः यत्र तादृशं वाक्यमित्यर्थः । राममन्मथेति--सा निशाचरी राक्षसी ताडका एव निशाचरी अभिसारिका रामस्य एव मन्मथस्य कन्दर्पस्यैव दुः सहेन शरेण हृदये ताडिता सती दुर्गन्धवद्रुधिरणैव गन्धद्रव्ययुक्तरक्तचन्दनैव उक्षिता जीवितेशस्य यमस्यैव जीवितेशस्य प्राणेशस्य उपनायकस्य वसतिं गता इत्यर्थः । अत्रेति---द्वितीयोर्ऽथो रूप्यमाणः मन्मथाभिसारिकादिरूपः अनिष्टः अनुचितः प्रकृतवीभत्सविरोधिशृङ्गारव्यञ्जकत्वात् । लोचना (लो, उ) जीवितेशो यमः प्राणेशश्च प्रकृतो रसः बीभत्सः । ********** टीका सम्पूर्णा ********** वाच्यस्यानिभिधानं यथा--- "व्यतिक्रमलवं कं मे वीक्ष्य वामाक्षि ! कुप्यसि" । अत्र व्यतिक्रमलवमपीत्यपरिवश्यं वक्तत्र्यो नोक्तः । ************* टीका ************* विज्ञप्रिया (वि, ठ) वाच्यस्यानभिधानमिति---वाच्यमवश्यं वक्तव्यं तस्योच्चारणेनाध्याहारेण च अनभिधानमित्यर्थः । न्यूनपदे तु अध्याहारेणाभिधानमिति भेदो वक्ष्यते । व्यतिक्रमलवमिति---प्रीतिहेतुक्रियाव्यतिक्रमस्याल्पभावमपीत्यर्थः । अत्रेतिस्थूलास्थूलव्यतिक्रमसामान्यादर्शनार्थं व्यतिक्रमस्य लवं कथमपीति वाच्यमित्यर्थः । अत्र तु व्यतिक्रमलवमपीति अपिकाराध्याहरेणापि न विवक्षितसिद्धिः । व्यतिक्रमस्येत्येव समासेन षष्ठीसत्त्व एव व्यतिक्रमसम्बन्धिस्थूलभागप्रतीतिसम्भवान्नतु व्यतिक्रमलवमपीति । समासे तदा व्यतिक्रमलवं पदार्थन्तरमपीत्येवम्व बोधोदयादतोऽत्रोच्चारणेनाध्याहारेणावश्यं वाच्यस्यानभिधानम् । ********** टीका सम्पूर्णा ********** न्यूनपदत्वे वाचकपदस्यैव न्यूनता विवक्षिता, अपेस्तु न तथात्वमित्यनयोर्भेदः । ************* टीका ************* विज्ञप्रिया (वि, ड) न्यूनपदत्वादस्य भेदमाह---न्यूनेति---वाचकपदस्यैव नत्वध्याहारस्यपि न्यूनपदत्वमित्यर्थः । तत्र अध्याहारसम्भवादिति भावः । अत्र तु न तथा अध्याहारसम्भव इत्यर्थः । ********** टीका सम्पूर्णा ********** एवमन्यत्रापि । यथा वा--- "चरणानतकान्तायास्तन्वि ! कोपस्तथापि ते" ॥ अत्र चरणानतकान्तासीति वाच्यम् । ************* टीका ************* विज्ञप्रिया (वि, ढ) चरणनतेति---हे चण्डि ! कोपने ! चरणे आनतः कान्तः यस्यास्तस्यास्तव तथापि कोप इत्यर्थः । अत्र काकुवशात्कथं कोप इत्यर्थः । अत्रेतितथापीत्यनेन यद्यपि इति आकाङ्क्षते । यद्यपीति निराकाङ्क्षमेव सम्बद्धं भवति तथापीति तत्र द्वितीयवाक्यगतत्वे एव उपपद्यते इत्यर्थः । अत्रापि अध्याहारासम्भवः । लोचना (लो, ऊ) न्यूनपदत्वे न्यूनपदसद्भावमात्रेण दोषाभावः । इह तु ङसन्तं पदं विहायासीति पदनिवेशनेन इत्यनयोर्भेदः । ********** टीका सम्पूर्णा ********** भग्नप्रक्रमता यथा--- "एतमुक्तो मन्त्रिमुख्यैः रावणः प्रत्यभाषत" । अत्र वचधातुना प्रक्रान्तं प्रतिवचनमपि तेनैव वक्तुमुचितम् । तेन "रावणः प्रत्यवोचत" इति पाठो युक्तः । एवं च सति न कथितपदत्वदोषः, तस्योद्देश्यव्यतिरिक्तविषयकत्वात् । इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिनिर्देशत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ण) भग्नप्रक्रमतेति---प्रथमोपक्रान्तरूपेणाकाङ्क्षितं यादृशं रूपं तादृशरूपेणानुक्तिः तत्त्वम् । एवमुक्त इति--स्पष्टम् । अत्र वच्धातुना उद्देश्ये प्रतिवचनेऽपि वच्धातुनापि आकाङ्क्षा इति दर्शयति---प्रत्यवोचतेति । तथा च कथितपदत्वदोषप्रसक्तिं निरस्यतिएवमिति---तस्योद्देश्येति--उद्देश्ये प्रतिनिर्देश्यता अनेकविधाः तत्र विध्यतया निर्देश्यस्य धर्मस्यैव पुनर्विधेयतया आकाङ्क्षितस्य प्रतिनिर्देशः । यथत्रैव श्लोके रावणे विधेयतया निर्दिष्टस्य वचनस्य प्रतिवचनत्वेन विधेयतया प्रतिनिर्देशः । यथा वा--- उदेति सविता ताम्रस्ताम्र एवास्तमेति च । सम्पत्तौ च विपत्तौ महतामेकरूपता ॥ इत्यत्र एकरूपताकथनादुद्यत्सवितरि विधेयतया निर्दिष्टस्य ताम्रत्वस्य अस्तसवितर्य्यपि विधयतया प्रतिनिर्देशः । (२) एकोद्देशेन विध्यस्य विधेयान्तरे उद्देश्यतया प्रतिनिर्देश इत्यपरा । यथा---"जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यतेऽ इत्यत्र जितेन्द्रियत्वेन विधेयस्य विनयकारणत्वस्य शरीरप्रविष्टतया विधेयस्य विनयस्य गुणप्रकर्षविधौ उद्देश्यतया प्रतिनिर्देशः । (३) एकविधौ उद्दिष्टस्य विधेयान्तरेऽप्युदेस्यतया प्रतिनिर्देश इत्यपरा । यथा--ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मैनिवेद्यार्थं तद्विसृष्टाः खमुद्ययुः । इत्यत्र सिद्धार्थनिवेदनविधौ उद्दिष्टस्य तत्रैव विधेये उद्देश्यतया पुनः प्रतिनिर्देश इत्यपरा । एतदुदाहरणं च---यशोऽधिगन्तुमित्यादिकं दर्शयिष्यते । तच्च तत्रैव दर्शयिष्यामि । लोचना (लो, ॠ) तेनैव वक्तुमुचितं नतु भाषिधातुना । तस्य कथितपदत्वस्य उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तविषयत्वात् । अयमाशयः---यदेवोद्दिष्टं तदेव प्रतिनिर्देष्टुमिष्टम् । तत्पूर्वोद्दिष्टशब्दत्वेन सर्वनाम्ना वा प्रतीनिर्देष्टव्यम् । एतदेवोदाहरणदर्शनेन द्रढयति । ********** टीका सम्पूर्णा ********** यथा--- "उदेति सविता ताम्रस्ताम्र एवास्तमेति च" । इत्यत्र हि यदि पदान्तरेण स एवार्थः प्रतिपाद्यते तदान्योर्ऽथ इव प्रतिभासमानः प्रतीतिं स्थगयति । ************* टीका ************* विज्ञप्रिया (वि, त) इत्थमेवमुक्त इत्यत्र प्रक्रमभङ्गमुदाहृत्य प्रक्रमाभङ्गमुदाहरति । यथा-- उदेतीति । अन्योर्ऽथ इवेति नाविशिष्टस्यैव नामिनो बोध इति मते ताम्ररक्तशब्दद्वरूपविशेषणभेदाद्भेदावभास इत्यर्थः । प्रतीतिमभेदप्रतीतिम् । लोचना (लो, ळ) उदेतीति---प्रतीतिं स्थगयति । तथा च सति रसानुभवविघ्न इति भावः । ********** टीका सम्पूर्णा ********** यथा वा--- "ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः" ॥ अत्र "अस्मै" इतीदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतदः शब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन । ************* टीका ************* विज्ञप्रिया (वि, थ) एकविधौ उद्दिष्टस्य विधेयान्तरेऽप्युद्देश्यतया प्रतिनिर्देशे प्रक्रमभङ्गमुदाहरति---ते हिमालयमिति । ते सप्तर्षयः सिद्धमर्थं पार्वतीपरिणयघटनारूपम् । तद्विसृष्टाः शूलिना विसृष्टः । तत्समानार्थभ्यामिति । नच तत्समानार्थकपदभेदाद्भेदावभास इति वाच्यम् । सर्वनाम्ना प्रथमोक्तनामविशिष्टस्यैव परामर्शात्नत्वविशिष्टस्य । न चैवं तत्पदेनापि सर्वनाम्ना तथैव परामर्शाददोष इति वाच्यम् । तत्तु अत्र अस्मैव इति इदं शब्देन बुद्धिस्थपुरोवर्त्तितया महादेवः परामृष्टः । तच्छब्देन विप्रकृष्टपरामर्शितया तस्य परामर्शः कर्तुं न शक्यते इति भावः । ********** टीका सम्पूर्णा ********** यथा वा--- "उदन्वच्छिन्ना भूः स च पतिरपां योजनशतम्" । अत्र "मिता भूः पत्यापां स च पतिरपाम्" इति युक्तः पाठः । ************* टीका ************* विज्ञप्रिया (वि, द) धर्मिभेदभासकत्वेन भेदावभासादेकोद्देशेन विधेयस्य विधेयान्तरोद्देश्यरूपेण प्रतिनिर्देशेऽपि तद्दोषमुदाहरति---उदन्वदिति । भूः उदन्वच्छिन्ना स चापां पतिः योजनशतं व्याप्य तिष्ठतीति शेषः । अत्र भुवमुद्दिश्य उदन्वच्छिन्नत्वे विधेये उदन्वानपि विधेयः । तस्य योजनशतव्याप्तिविधौ उद्देश्यतया अपांपतिशब्देन प्रतिनिर्देशः कृत इति दोषः । पाठन्तरेण दोषं परिहरति---मिति भूरिति । अयां पत्या मिता परिच्छिन्ना इत्यर्थः । ********** टीका सम्पूर्णा ********** एवम्--- "यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः" ॥ अत्र "सुखमीहितुम्" इत्युचितम् । ************* टीका ************* विज्ञप्रिया (वि, ध) एवविधेये उद्दिष्टस्य तत्रैव विधेये उद्देश्यतया प्रतिनिर्देशस्य प्रत्ययार्थस्य क्रमभङ्गमुदाहरति---यशोऽधिगन्तुमिति । योद्धुमुद्वेजन्तीं द्रौपदीं प्रति युधिष्ठिरस्योक्तिरियम् । यशोऽधिगमनस्य सुखलाभस्य मनुष्यगणनायामाधिक्यरूपस्य मनुष्यसंख्यातिवर्त्तनस्य वेच्छया निरुत्सुकानामुत्कण्ठारहितानामथ च तदनुकूलचेष्टारूपाभियोगभाजामङ्कं सिद्धिः समुत्सुकेव उत्कण्ठितेव उपैतीत्यर्थः । अत्र निरुसुकविधावुद्दिष्टाया इच्छायास्तत्रैव निरुत्सुकत्वविधौ उद्देश्यतया प्रतिनिर्देशः । तत्क्रमश्च तुमुन्प्रत्ययभेदेनोद्देशकथनात्भग्न इत्यर्थः । ********** टीका सम्पूर्णा ********** अत्राद्ययोः प्रकृतिविषयः प्रक्रमभेदः । तृतीये पर्यायविषयः, चतुर्थे प्रत्ययविषयः । ************* टीका ************* विज्ञप्रिया (वि, न) अत्राद्ययोरति । एवमुक्तो मन्त्रिमुख्यैरित्यत्र"ते हिमालयमामन्त्र्य"इत्यत्र चेत्यर्थः । तृतीये उदन्वच्छिन्ना इत्यत्र चतुर्थे यशोऽधिगन्तुमित्यत्र । ********** टीका सम्पूर्णा ********** एवमन्यत्रापि । प्रसिद्धत्यागो यथा--- "घोरो वारिमुचां रवः" । अत्र मेघानां गर्जितमेव प्रसिद्धम् । यदाहुः--- "मञ्जीरादिषु रणतिप्रायं पक्षिषु च कूजितप्रभृति । स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम्" ॥ इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, प) प्रसिद्धीति । सम्बन्धिविशेषे प्रसिद्धार्थकस्य शब्दस्य तादृशसम्बन्धिनि अप्रयोगस्तत्त्वम् । घोर इति---सम्बन्धैविशेषे एव शब्दविशेषाणां प्रयोग इत्यत्र काव्यप्रकाशकृदुक्तिसम्वादमाह--मञ्जीरादिष्विति । मञ्जीरादिषु सम्बन्धिषु इत्यर्थः । एवमुत्तरत्रापि । ********** टीका सम्पूर्णा ********** अस्थानस्थपदता यथा--- "तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम् । अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः" ॥ अत्र तदीयपदात्पूर्वं गङ्गामित्यस्य पाठो युक्तः । ************* टीका ************* विज्ञप्रिया (वि, फ) अस्थानस्थेति---यादृशस्थानसत्त्व एव यत्पदस्य बोधकता तद्भिन्नस्थानस्थत्वं तत्त्वम् । त्वमस्य लोकस्य च इत्यत्र तु उत्तरपठितनियतपदस्य तथात्वमत्र तु तन्नियमरहितपदस्येति भेदः । तीर्थे तदीये इति---अस्य राज्ञो गजैः सेतुबन्धात्प्रतीपगां गङ्गमुत्तरतो तदीये गाङ्गीये तीर्थे उत्तरदिशि नभोलङ्घनलोलपक्षा हंसा अयत्नबालव्यजनीबभूवुरित्यर्थः । सेतुबन्धेन जलवृद्ध्या प्रावृट्कालबुद्ध्या उत्तरदिशि मानसरोवरगमनार्थं हंसा उड्डीना इति भावः । अत्रेति । गङ्गायाः । प्रथमज्ञाने तत्पदेन तत्परामर्शसम्भवात् । लोचना (लो, ए) तदीय इत्यस्य पूर्वं गङ्गामित्यस्य पाठो युक्तः । तच्छब्दपरामृष्ट्यनन्तरमेव वक्तुमुचितत्वात् । ********** टीका सम्पूर्णा ********** एवम् --- "हितान्न यः संशृणुते स किं प्रभुः" ॥ अत्र संशृणुत इत्यतः पूर्वं नञः स्थितिरुचिता । अत्र च पदमात्रस्यास्थाने निवेशेऽपि सर्वमेव वाक्यं विवक्षितार्थप्रत्यायने मन्थरमिति वाक्यदोषता । एवमन्यत्रापि । इह केऽप्याहु--"पदशब्देन वाचकमेव प्रायशो निगद्यते, न च नञो वाचकता, निर्विवादात्स्वातन्त्र्येणार्थबोधनविरहात्" इति । यथा---"द्वयं गतम्-" इत्यादौ त्वमित्यनन्तरं चकारानुपादानादक्रमता तथात्रापीति । ************* टीका ************* विज्ञप्रिया (वि, ब) हितान्न य इति---हितात्जनात् । हितमिति क्वचित्पाठः । अत्रेति---क्रियान्वयिनो नञः क्रियासन्निहितपाठस्यैवौचित्यात् । अत्र वाक्यदोषतामुपपादयति । अत्र चेति---मन्थरमसमर्थम् । हितान्न य इति अक्रमदोषोदाहरणमिति केषाञ्चिन्मतं दर्शयति--इह केऽपीति । पदशब्देनेति । अपदस्थपदेत्यत्र द्वितीयपदशब्देन इत्यर्थः । वाचकमेवेति पदान्तरे योगं विना प्रयोगाभावेन पञ्चपदं त्रिपदमिति यथा न प्रयोगः तथा नञोऽपि प्रतियोगिपदयोगं विनाप्रयोगात्न तत्र वाचकता, नियतपदत्वं निर्विवादमित्यर्थः । घटादिपदस्य तु स्वतः प्रयोगात्तत्र पदत्वं निर्विवादमित्यर्थः । शक्तिमद्वर्णमात्रस्यैव नैयायिकैः पदव्यवहारात्प्रायश इत्युक्तम् । यथा द्वयमित्यादाविति । तत्तदत्राक्रमत्वदोष एवेत्यर्थः । तथा च अस्थानस्थपदत्वोदाहरणं तीर्थे तदीये इत्येवेत्यर्थः । ********** टीका सम्पूर्णा ********** अस्थनस्थसमासता यथा--- "अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगति क्रोधादिवालोहितः । प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा त्फुल्लत्कैरवकोषनिः सरदलिश्रेणीकृपाणां शशी" ॥ अत्र कोपिन उक्तौ समासो न कृतः, कवेरुक्तौ कृतः । ************* टीका ************* विज्ञप्रिया (वि, भ) अस्थानस्थेति---यद्रसीयव्यञ्जको यः समासस्तद्रसव्यञ्जकस्थानमुपेक्ष्यस्थानान्तरे तत्समासपातस्तत्त्वम् । अद्यापीति--सन्ध्याकाले पर्य्युषितकुमुदकुड्मलान्निः सरतां श्रेणीभूतालीनां वर्णनमिदम् । अद्यापीत्याद्युक्तक्रोधादालोहितः प्रोद्यनसौशशी फुल्लतःकैरवकुड्मलादिव खड्गपिधानरूपात्कोषात्निः सरतामलीनां श्रेणीभूतं कृपाणां दूरतरं प्रसारितः करो रश्मिरेव तादृशो हस्तो येन तादृशः सन् तत्क्षणात्कर्षणेऽपि हस्तस्य दूरे प्रसारणात् । क्रोधबीजमाह---अद्यापीति । सीमन्तिनीनां मानस्तावत्स्तनरूपेणैव दुर्गमाश्रित्यान्यदा तिष्ठतु, अद्यापि ममोदयेऽपीति तन्मां धिगिति क्रोधः । अत्रेति कोपिनश्चन्द्रस्य समासो दीर्घसमासः । लोचना (लो, ऐ) कोषः कुड्मलं खड्गपिधानं च । ********** टीका सम्पूर्णा ********** वाक्यान्तरपदानां वाक्यान्तरेऽनुप्रवेशः सङ्कीर्णात्वम् । यथा--- "चन्द्रं मुञ्च कुरङ्गाक्षि ! पश्य मानं नभोऽङ्गने" । अत्र नभोऽङ्गने चन्द्रं पश्य मानं मुञ्चेति युक्तम् । "क्लिष्टत्वमेकवाक्यविषयम्" इत्यस्माद्भिन्नम् । वाक्यान्तरे वाक्यान्तरानुप्रवेशो गर्भितता । यथा--- "रमणे चरणप्रान्ते प्रणतिप्रवणेऽधुना । वदामि सखि ! तत्त्वं ते कदाचिन्नोचिताः क्रुधः" ॥ ************* टीका ************* विज्ञप्रिया (वि, म) संकीर्णमाह---वाक्यान्तरेति । मुञ्च मानमिति । वृत्तावेव अस्यान्वयः स्पष्टः । अस्य क्लिष्टत्वे भेदमाह---क्लिष्टत्वमेवेति । गर्भितत्वमाह---वाक्यान्तरेति । रमणे इति---अत्र रमणे चरणप्रान्तपतिते सत्यधुना क्रोधो नोचित इति वाक्यस्य मध्ये वदामि सखि ते तत्त्वमिति वाक्यमनुप्रविष्टम् । ********** टीका सम्पूर्णा ********** अर्थदोषानाह--- अपुष्टदुष्कमग्राम्यव्यावहताश्लीलकष्टताः । अनवीकृतनिर्हेतुप्रकाशितविरुद्धताः ॥ ७.९ ॥ सन्दिग्धपुनरुक्तत्वे ख्यातिविद्याविरुद्धते । साकाङ्क्षता सहचरभिन्नतास्थानयुक्तता ॥ ७.१० ॥ अविशेषे विशेषश्चानियमे नियमस्तथा । तयोर्विपर्ययौ विध्यनुवादायुक्तते तथा ॥ ७.११ ॥ निर्मुक्तरुनरुक्तत्वमर्थदोषाः प्रकीर्तिताः । ************* टीका ************* विज्ञप्रिया (वि, य) इदानीं त्रयोविंशतिमर्थदोषानाह---अर्थदोषानिति । ख्यातेति । ख्यातविरुद्धता विद्याविरुद्धतेति दोषद्वयम् । तयो विपर्य्ययाविति । अविशेषे विशेषोक्तेर्विपर्य्ययो विशेषेऽविशेषोक्तिः । अनियमे नियमोक्तेर्विपर्य्ययश्च नियमेऽनियमोक्तरित्यर्थः । विध्ययुक्तताऽनुवादायुक्तता चेति दोषद्वयम् । लोचना (लो, ओ) अर्थदोषानुद्देश्यकमप्राप्तान् । ताप्रत्ययस्यापुष्टादिप्रत्येकमन्वयः । ********** टीका सम्पूर्णा ********** तद्विपर्ययो विशेषेऽविशेषो नियमेऽनियमः । अत्रापुष्टत्वं मुख्यानुपकारित्वम् । यथा--- "विलोक्य वितते व्योम्नि विधुं मुञ्च रुषं प्रिये !" अत्र विततशब्दो मानत्यागं प्रति न किञ्चिदुपकुरुते । अधिकपदत्वे पदार्थान्वयप्रतीतेः समकालमेव बाधप्रतिभासः, इह तु पश्चादिति विशेषः । ************* टीका ************* विज्ञप्रिया (वि, र) मुख्येति---मुख्यो विधेयरूपः । अन्यत्स्पष्टम् । अधिकपदादस्य भेदमाह---अधिकेति । पल्लवाकृतिरक्तोष्ठीत्यत्र ह्याकृतिशब्दस्य निष्प्रयोजनत्वरूपो बाधोऽन्वयबोधसमकालमेव प्रतिभासत इत्यर्थः । लोचना (लो, औ) मुख्यं प्रकृतप्रतिपाद्यम् । समकालमेवं बोधप्रतिभासः, अत एव वाक्यदोषता । इह अर्थप्रत्ययानन्तरम्, अत एव अस्यार्थदोषत्वम् । विवरं छिद्रं स्त्रीवराङ्गं वा अश्लीलम् । पुंध्वजस्मारकत्वात् । ********** टीका सम्पूर्णा ********** दुष्क्रमता यथा--- "देहि मे वाजिनं राजन् ! गजेन्द्रं वा मदालसम्" । अत्र गजेन्द्रस्य प्रथमं याचनमुचितम् । ************* टीका ************* विज्ञप्रिया (वि, ल) दुष्क्रमतामाह---देहीति । अत्रेति---अधिकमूल्यवस्तुप्रर्थने सति तत्रासम्मतिसम्भावनयैव न्यूनमूल्यप्रार्थनौचित्यात् । ********** टीका सम्पूर्णा ********** "स्वपिहि त्वं समीपे मे स्वपिम्येवाधुना प्रिय !" । अत्रार्थो ग्राम्यः । ************* टीका ************* विज्ञप्रिया (वि, व) स्वपिहीति---नायकं प्रति नायिकाया उक्तिरियम् । हे प्रिय ! एषा अहं स्वपिमि । त्वमपि समीपे स्वपिहीत्यर्थः । ग्राम्य इति वैदग्धीराहित्येनोक्त इत्यर्थः । ********** टीका सम्पूर्णा ********** कस्यचित्प्रगुत्कर्षमपकर्षं वाभिधाय पश्चात्तदन्यप्रतिपादनं व्याहतत्वम् । यथा---"हरन्ति हृदयं यूनां न नवेन्दुकलादयः । वीक्ष्यते यैरियं तन्वी लोकलोचनचन्द्रिका" ॥ अत्र येषामिन्दुकला नानन्दहेतुस्तेषामेवानन्दाय तन्व्याश्चन्द्रिकात्वारोपः । ************* टीका ************* विज्ञप्रिया (वि, श) व्याहतत्वलक्षणमाह---कस्यचिदिति---तदन्यथात्वमुत्कर्षान्यथात्वमपकर्षः । अपकर्षान्यथात्वमुपकर्षस्तत्प्रतिपादनमित्यर्थः । तत्र प्रगपकर्षे उदाहरति हरन्तीति--इयं लोकलोचनचन्द्रिकासुरूपा तन्वी यौर्युवभिर्वोक्षते तेषां यूनां हृदयं नवेन्दुकलादयो न हरन्तीत्यर्थः । अत्र आदिपदाच्चन्द्रिकापि निन्दिता, तन्व्यां तदारोपादुत्कर्षः प्रतिपादितस्तदाह---अत्रेति । प्रागुत्कर्षे तु यथा---"तव कर्णन्दुना तन्वि ! नभसीन्दुस्तिरस्कृतः" । इति । ********** टीका सम्पूर्णा ********** "हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । यथाशु जायते पातो न तथा पुनरुन्नतिः" ॥ अत्रार्थोऽश्लीलः । ************* टीका ************* विज्ञप्रिया (वि, ष) हन्तुमेवेति । अप्रणिधानेन युद्धप्रवृत्तपुरुषवर्णनमिदम् । स्तब्धस्य भद्राभद्राविवेचिनः विवरं परस्य च्छिद्रं तत्र इच्छामात्रं नतु प्रवृत्तौ तदपेक्षा स्तब्धत्वात् । अत्र पुंसो लिङ्गस्य प्रतीतिः । ********** टीका सम्पूर्णा ********** "वर्षत्येतदहर्पतिर्न तु घनो धामस्थामच्छं पयः सत्यं सा सवितुः सुता सुरसरित्पूरो यथा प्लावितः । व्यासस्योक्तिषु विश्वसित्यपि न कः, श्रद्धा न कस्य श्रुतौ न प्रत्येति तथापि मुग्धहरिणी भास्वन्मरीचिष्वपः" ॥ ************* टीका ************* विज्ञप्रिया (वि, स)क्लिष्टत्वाद्यभावेऽपि कष्टगम्यार्थत्वं तत्त्वम् । वर्षतीति--कस्याश्चित्कामिन्याः कान्तदूतीः प्रति अन्यापदेशेन सोत्कण्ठवचनमिदम्---अहः पतिः सूर्य्यो धामस्थं स्वीयरश्मिस्थमेतद्दृश्यामानं पयो वर्षति नतु घनो वर्षति घनस्य सूर्य्यहस्तस्थानीयत्वात् । तथा यया सुरसरितो गङ्गायाः पूरः प्रवाहः प्लावितः सा अर्थात्यमुनासवितुः सूर्य्यस्य सत्यं सुता । कथमेतन्निश्चितमित्यत्राह---व्यासस्येति---वृष्टियमुनयोः सूर्य्यप्रभवत्वं न खलु केनचिदनाप्तेनोक्तं, किन्तु व्यासेन श्रुत्या वेदापरपर्य्यायनाम्ना चेति । अपि जिज्ञासायाम् । "आदित्याज्जायते वृष्टिस्ततश्चान्नं ततः प्रजाः"इति । एवंरूपासु कालिन्द्याः सूर्य्यकन्यात्वबोधिकासु च व्यासोक्तिषु को जनो न विश्वसिति कस्य जनस्या वा एवमर्थिकायां श्रुतौ वेदे न श्रद्धा ? अपि पु सर्व एव विश्वसिति सर्वस्य च श्रद्धा॑ तथा च हरिण्या अपि तत्र विश्वासश्रद्धौचित्यमेव । तथापि मुग्धा मूढा हरिणी भास्वन्मरीचिषु अधिकरणेषु जलं न प्रत्येति । धामस्थमच्छं पय इत्यनेन पयसः सूर्य्यमरीचिवृत्तितया व्यासश्रुतिभ्यां बोधितत्वेन तथा प्रत्ययोचित्यात् । लोचना (लो, अ) वर्षतीति यमुना व्यासेनेति । वृष्टियमुनयोः सूर्य्यप्रभवत्वं न खलु केनानाप्तेनोक्तं, किन्तु व्यासेन श्रुत्या वेदाचारचर्य्यया चेति । श्रद्धा संप्रत्ययः । कस्याश्चित्कामिन्याः कान्तदूतीच्छलापदेशेन सोल्लुण्टनवचनमिदम् । अत्र प्रकृष्टतरः प्रकृतोयमर्थः-स नागरः सत्यवागिति प्रामाणिकमेवेदम् । तस्य दूतीनां भवतीनां वाचि सत्यप्रत्ययो युज्यते । किन्त्वहमेव मुग्धा मिथ्याप्रत्ययमेव करोमीति । कृगीणां मरुमरीचिकासु जलप्रत्ययो यथा, ममापि भवतीषु संप्रत्ययस्तथैव । ********** टीका सम्पूर्णा ********** अत्र यस्मात्सूर्याद्वृष्टेर्यमुनायाश्च प्रभवस्तस्मात्तयोर्जलमपि सूर्यप्रभम् । ततश्च सूर्यमरीचीनां जलप्रत्ययहेतुत्वमुचितम्, तथापि मृगी भ्रान्ततत्वात्तत्र जलप्रत्ययं न करोति । अयमप्रस्तुतोऽप्यर्थो दुर्बोधः, दूरे चास्मत्प्रस्तुतार्थबोध इति कष्टार्थत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ह) अत्र विविक्षितार्थस्य कष्टबोधत्वं दर्शयति---अत्रेति । प्रभवो जनकम्, तयोर्जलमपीति वृष्टेर्यमुनायाश्च इत्यर्थः । सूर्य्यजन्यवृष्टिलेनैव नदीपूरणात्यमुनायाश्च वृष्टिजनकप्रत्ययहेतुत्वमुचितमित्यर्थः । जलस्य तद्धामस्थत्वेनोक्तत्वात् । भ्रान्तत्वात्तत्रेति । तत्र मरीचिष्वधिकरणेषु यमुनाजलस्य सूर्य्यप्रभवत्वप्रदर्शनात्पिपासया यमुनायामेव प्रवर्त्तते तत्र न जलाप्रत्ययः । मरीचिषु त्तुल्याम्बुभ्रमान्न प्रत्येति इत्येतत्प्रदर्शनार्थमयमप्रस्तुतोर्ऽथ इति । अत्र हि अप्रस्तुतप्रशंसानामालङ्कारः । अप्राकरणिककथनात्प्राकरणिकप्रत्यायनरूपः । प्राकरणिकश्चात्र नायायसिद्धेऽप्यर्थे भ्रान्तानां जनानां प्रत्ययाभाव इत्येवंरूपः । अप्राकरणिकस्तु मृग्या जलप्रत्ययरूपः । ********** टीका सम्पूर्णा ********** "सदा चरति खे भानुः सदा वहति मारुतः । सदा धत्ते भुवं शेषः सदा धीरोऽविकत्थनः" ॥ ************* टीका ************* विज्ञप्रिया (वि, क) अनवीकृतमाह सदेति---धीरोऽविकत्थनः । नञः प्रश्लेषः । कथितपदादस्य भेदमाह---अत्रेति । पर्यायान्तरेण समानार्थकेन विच्छित्त्यनन्तरं प्रकारकृतो भङ्गीभेदः । तथापीति---प्रकारकृतभङ्गीभेदाभावादनवीकृतत्वमेवेत्यर्थः यथा---"सदा चरति खे भानुर्नित्यं वहति मारुतः । धत्ते क्ष्मां सर्वदा शेषोऽजस्त्रं धीरोऽविकत्थनः ॥ "अत्र सदानित्यसर्वदाजस्त्रपदानां रामानार्थता समानप्रकारता च । भानुः सदेति--- षष्ठांशवृत्ते राज्ञोऽपि षष्ठांशग्रहणं प्रजापालनरूपो धर्म एषः सदैवेत्यर्थः । अत्र सदासततशब्दयोः समानप्रकारकत्वसमानार्थकत्वेऽपि रात्रिन्दिवमित्यत्रार्थस्यैव साम्यं रात्रित्वदिवात्व प्रकारभेदः ********** टीका सम्पूर्णा ********** अत्र सदेत्यनवीकृतत्वम् । अत्रास्य पदस्य पर्यायान्तरणोपादानेऽपि यदि नान्यद्विच्छित्त्यान्तं तदास्य दोषस्य सद्भाव इति कथितपदत्वाद्भेदः । लोचना (लो, आ) अस्येत्यनन्तरं सदेति शेषः । पर्यायान्तरेण सर्वदेत्यादिना । ********** टीका सम्पूर्णा ********** नवीकृतत्वं यथा--- "भानुः सकृद्युक्ततुरुङ्ग एवं रात्रिन्दिवं गन्धवहः प्रयाति । विभर्त्ति शेषः सततं धरित्रीं षष्ठांशवृत्तेरपि धर्म एषः ॥ ऽइति । "गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्वमपि सुतशोकान्न तु भया- द्विमोक्ष्ये शस्त्र !त्वामहमपि यतः स्वस्ति भवते" ॥ अत्र द्वितीयशस्त्रमोचने हेतुर्नोक्त इति निर्हेतुत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ख) निर्हेतुमाह--गृहीतमिति---हेत्वाकाङ्क्षासत्त्वेऽपि हेत्वनुक्तिस्तत्त्वम् । कर्णक्रोधात्त्यज्यमानमस्त्रं सम्बोध्य अश्वत्थाम्न उक्तिरियम् । हे शस्त्र ! त्वं येन मम पित्रा ब्राह्मणजातेर्नोचितमनुचितमपि परिभवभयाद्द्रुपदनृपतितः परिभवभयाद्गृहीतमासीः, तथा यस्य मम पितुः प्रभावात्तव खलु न विषयो न कश्चिदभूदिन्दोऽपि त्वद्विषय आसीदित्यर्थः । तेन मम पित्रा सुतस्य हतत्वेन श्रुतस्य मम शोकात्नतु भयात्परित्यक्तमसि अहमपि यतस्त्वां विमोक्षेये, अतः स्वस्ति भवते इत्यर्थः । अत्रेति---द्वितीयमश्वत्थाम्नाः शस्त्रमोचनम् । तत्र चाहमपि इत्यपिकार एव हेत्वाकाङ्क्षोत्थापकः । लोचना (लो, इ) शस्त्रमोचन इत्यत्र अश्वत्थाम्न इति शेषः । ********** टीका सम्पूर्णा ********** "कुमारस्ते नराधीश ! श्रियं समधिगच्छतु" । अत्र "त्वं म्रियस्व" इति विरुद्धार्थप्रकाशनात्प्रकाशितविरुद्धत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ग) प्रकशितविरुद्धार्थमाह---कुमारस्ते इति । कुमारः पुत्रः । अत्रेति पितृमरणानन्तरमेव पुत्रस्य श्रीलाभः प्रायश इति भावः । ********** टीका सम्पूर्णा ********** "अचला अबला वा स्युः सेव्या ब्रूत मनीषिणः ?" । अत्र प्रकरणाभावच्छान्तशृङ्गारिणोः को वक्तेति निश्चयाभावात्सन्दिग्धत्वम् । ************* टीका ************* विज्ञप्रिया (वि, घ) सन्दिग्धमर्थमाह---अचला इति । अत्रेति---उक्तिनिश्चयाभावातचला एव अबला एव वा सेव्या इति निश्चयाभावात्सन्देह इत्यर्थः । ********** टीका सम्पूर्णा ********** "सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः" ॥ अत्र द्वितीयार्धे व्यतिरेकेण द्वितीयपादस्यैवार्थ इति पुनरुक्तता । ************* टीका ************* विज्ञप्रिया (वि, ङ) पुनरुक्तमर्थमाह---सहसेति---अविवेकोऽविमृश्यकारिता स तु आपदां पदमापज्जनक इत्यर्थः । अनेककारणस्य कार्यव्यापकत्वादविमृश्यकारिताया आपद्व्यापकत्वं दर्शितम् । ईदृशान्वयवायाप्त्या लभ्यां व्यतिरेकव्याप्तिमाह-- वृणुते हि इति । विमृश्यकारिता अविमृश्यकारितारूपसाय वायपकस्य व्यतिरेकस्तस्यापद्रूपव्याप्याभावरूपाणां सम्पदां व्याप्यतामाह---गुणलुब्धा इति । यत्र विमृश्यकारिता तत्र सम्पद इत्यर्थः । अत्रेति---द्वितीयार्द्धव्यतिरेकेण द्वितीयार्द्धलब्धव्यतिरेकव्याप्त्या द्वितीयस्यैव द्वितीयपादलब्धान्वयव्याप्तेरेवेत्यर्थः । अन्वयव्याप्तेरेव पर्यवसितोर्ऽथो व्यतिरेकव्याप्तिः । सोर्ऽथः द्वितीयार्द्धेक्तव्यतिरेकव्याप्त्या उक्त इत्यतः पुनरुक्त इत्यर्थः । ********** टीका सम्पूर्णा ********** प्रसिद्धिविरुद्धता यथा--- "ततश्चार समरे शितशूलधरो हरिः" । अत्र हरेः शूलं लोकेऽप्रसिद्धम् । यथा वा--- "पदाघातादशोकस्ते सञ्जाताङ्कुरकण्टकः" । अत्र पादाधातादशोकेषु पुष्पमेव जायत इति प्रसिद्धं न त्वङ्कुर इति कविसमयख्यतिविरुद्धता । "अधरे करजक्षतं मृगाक्ष्याः" । अत्र शृङ्गार (काम) शास्त्रीविरुद्धत्वाद्विद्याविरुद्धता । एवमन्यशास्त्रविरुद्धत्वमपि । ************* टीका ************* विज्ञप्रिया (वि, च) प्रसिद्धिविरुद्धमाह---प्रसिद्धीति । कविप्रसिद्धिविरुद्धत्वं तत्त्वम् । कीर्त्तिधावल्यवर्णनादावन्यलोकप्रसिद्धिविरोधस्तु न दोषः । तत्र इति । शीतेति---शीत शिलाघर्षणेन तनूकृतम् । हरिः कृष्णः । अत्रेति---लोके कविलोके । पादाघातादिति । ते पाताघातादिति अन्वयः । अत्रेति---नत्वङ्कुर इति । न च कुसुमं कृतदोहदं त्वया इति कालिदासकाव्ये दोहदस्यापि वर्णनात्कथमङ्कुरो न प्रसिद्ध इति वाच्यम् ? "कवीनां सत्यर्थेऽपि अप्रसिद्धिरसत्येऽपि प्रसिद्धिः"इति अङ्कुरस्य केनापि कविना अवर्णनाद्दोष इत्यर्थः । अप्रयुक्तत्वं तु पदस्य नार्थस्, इति अतोऽत्र न तत्प्रसक्तिः । विद्याविरुद्धमाह---अधरे इति । विद्याशास्त्रम् । एवमन्यति---"स्नाति रात्रौ बुधः सदाऽ इति धर्मशास्त्रस्य, "शूरो नीतिं विना जयीऽति नीतिशास्त्रस्य, "ज्वरवान् स्नातुमर्हतिऽ इति वैद्यशास्त्रस्य विरुद्धम् । ********** टीका सम्पूर्णा ********** "ऐसस्य धनुषो भङ्गं क्षत्त्त्रस्य च समुन्नतिम् । स्त्रीरत्नं च कथं नाम मृष्यते भार्गवोऽधुना" ॥ अत्र स्त्रीरत्नमुपेक्षितुमिति साकाङ्क्षता । ************* टीका ************* विज्ञप्रिया (वि, छ) साकाङ्क्षतामाह---ऐशस्येति । उपात्तपदार्थान्वयभ्रमविषयत्वे सति अनुपात्तपदार्थसाकाङ्क्षत्वं तत्त्वम् । न्यूनपदत्वे तु न तादृशो भ्रम इति भेदः । ऐशस्येति । कथं मृष्यते कथं सहते कथं न द्वेष्टि इत्यर्थः । इयमुक्तिश्च द्वेष्यवस्तुन्येव घटते स्त्रीरत्नं न द्वेषयोग्यमित्यतः स्त्रीरत्नोपेक्षा एव द्वेषयोग्या इत्यत उपेक्षितुमित्याकाङ्क्षति इत्याह---अत्रेति । अत्र कर्मपदोत्तरचकारस्य कर्मान्यरेण सहैकक्रियान्वयित्वं प्रत्याय्यते इत्यतः स्त्रीरत्नस्यापि मृष्यतिक्रियान्वयित्वभ्रमः । अत्र च रावण इत्येव पाठो युक्तो न भार्गव इति तस्य जितेन्द्रियस्य स्त्रीरन्तोपेक्षायां द्वेषाभावेन मृष्यते तदाकाङ्क्षत्वाभावात् । ********** टीका सम्पूर्णा ********** "सज्जनो दुर्गतौ मग्नः कामिनी गलितस्तनी । खलः पूज्यः समज्यायां तापाय मम चेतसः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) सहचरभिन्नत्वमाह---सज्जन इति । समज्यायां समाजे । उत्कृष्टनिकृष्टयोरेकक्रियान्वयित्वेन कथनं तत्त्वम् । ********** टीका सम्पूर्णा ********** अत्र सज्जनः कामिनी च शोभनौ तत्सहचरः खलोऽशोभन इति सहचरभिन्नत्वम् । "आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी । उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः" ॥ अत्र न रावण इत्येतावतैव समाप्यम् । ************* टीका ************* विज्ञप्रिया (वि, झ) अस्थानमुक्ततामाह---अस्थाने समापनायोग्यस्थाने मुक्तता समाप्ताता तत्त्वम् । आज्ञेति---सीतापरिणयप्रार्थनाय रावणेन प्रेषितं तत्पुरोहितं शौष्कलं प्रतिजनकपुरोहितस्य शतानन्दस्य रावणप्रशंसापूर्वकोपेक्षावाक्यमिदम् । अहो आश्चार्य्यमीदृग्वरो न लभ्यते । यतस्तस्य आज्ञा शक्रिशिखामणेः प्रणयिनी, मणिरिव तदाज्ञआपि शिखायां शक्रेण धार्य्यत इत्यर्थः । तथा शास्त्राण्येव नवं नवीनं चक्षुः शास्त्रदृष्ट्यैव कर्मकरणात् । तथा भूतानां प्राणिनां पत्यौ पिनाकिनि महेशे भक्तिः । तथा लङ्केति दिव्यापुरी पदं निवासस्थानम् । तथा द्रुहिणस्य ब्रह्मणेऽन्वये कुले उत्पत्तिः । एतानि सर्वण्येव उत्कर्षहेतवः सन्ति एव चेत्यदि एष रावणोन स्यात्दुर्वृत्तत्वेन ख्यातनामा लोकनामपकारकत्वेन आर्त्तरवकारकश्च यदि न स्यात्तदा ईदृग्वरो न लभ्यते इत्यर्थः । तस्मादयं त्याज्य एव इति भावः । पुनराह---क्व पुनरिति । सर्वत्र जने सर्वे धर्म्माः क्व नु गुणाः ? कश्चिद्धर्मो दोषोऽपीत्यर्थः । तथा च सर्वेषां दोषमिश्रिता एव गुणा इत्यर्थः । नतु क्व नु सर्वे गुणा इत्यर्थः । सर्वगुणासत्त्वस्यानुक्तत्वात्तत्समर्थनाननौचित्यात्सर्वगुणसत्त्वमुक्त्वा किञ्चिद्दोषसत्त्वस्यैवोक्तत्वात् । अत्रेति । न रावण इत्यन्तस्यैव रावणत्यागार्हत्वात् । क्व नु पुनरित्यादेः तत्परिग्रहार्हत्वादेव । लोचना (लो, ई) आज्ञा शकेति---द्रुहिणोब्रह्मा । ईदृगुक्तप्रकारगुणाविशिष्टो वरो जामाता श्रेष्टो वा । रावणः जगदाकन्दकारी । अयमर्थः--अस्मिन् दशमुखे सर्वे गुणाः सन्ति । जगदाक्रन्दकारित्वं दोषः । अतश्च रावणपदस्यार्थान्तरसंकमणाद्वाच्यत्वेनैव दोषास्पदत्वम् । एतावतैववाक्यं समापयितुमुचितम् । यत्पुनरुक्तं क्व नु पुनरित्यादि तेन पूर्वस्थानेर्ऽथप्रतिपादनं न त्यक्तमित्यपदमुक्ततेयं दोषः । ननु क्व पुनरित्यादिसमर्थकवाक्यत्वेन पुनरुक्तमिति वाच्यम् ? रावणस्यार्थस्य अयुक्ततापादनार्थमेव वक्तुमित्यस्य वाक्यस्य तथाप्रयुक्तत्वेन समर्थनस्यानौचित्यात् । तथा सति युक्तवेन वक्तुमिष्टं वाक्यं युक्तमुक्तं स्यात् । ********** टीका सम्पूर्णा ********** "हीरकाणां निधेरस्य सिन्धोः किं वर्णयामहे" । अत्र रत्नानां निधेरित्यविशेष एव वाच्यः । ************* टीका ************* विज्ञप्रिया (वि, ञ) अविशेषे विशेषोक्तिमाह---हीरकाणामिति--अत्रेति । अत्कर्षापर्य्याप्त्या ह्यवर्णनीयत्वं वक्तुमुचितम् । रत्नान्तरासत्त्वे तु हीरकमात्रार्थेत्कर्षापर्य्याप्तिबोध इति भावः । ********** टीका सम्पूर्णा ********** "आवर्त्त एव नाभिस्ते नेत्रे नीलसरोरुहे । भङ्गाश्च वलयस्तेन त्वं लावण्याम्बुवापिका" ॥ अत्रावर्त एकेति नियमो न वाच्यः । ************* टीका ************* विज्ञप्रिया (वि, ट) अनियमे नियमोक्तिमाह---आवर्त एवेति । वलयः स्त्रीवलयः । अत्र नाभ्यादिषु आवर्त्तादयो रूप्यत्वेन विधेयास्तत्र नाभिरेवावर्त्त इति करणे आवर्त्तरूपणयोग्यस्य अन्यतरस्य व्यावर्त्तनार्थमेवकारो दातव्यः । एवम् "आवर्त्त एवऽ इति करणे तु नाभायां रूपणयोग्यवापीधर्मान्तरभावेन व्यावर्त्तनीयाभावात्तादृशनियमार्थक एवकारो न युक्त इत्याह---अत्रेति---नाभिरेवेत्येवं नाभिपदोत्तरमुचितस्यैवकारस्यावर्त्तोत्तरपातदास्थानस्थपदत्वं नाशङ्कनीयम् । नियमोक्तित्वेन विशेषात्तद्भेदस्य तत्र प्रवेशनीयत्वात् । ********** टीका सम्पूर्णा ********** "यान्ति नीलनिचोलिन्यो रजनीष्वभिसारिकाः" । अत्र तमिस्त्रास्विति रजनीविशेषो वाच्यः । ************* टीका ************* विज्ञप्रिया (वि, ठ) विशेषविपर्य्योक्तिमाह---यान्तीति---निचोलो वस्त्रम् । अत्रेति---तमिस्त्रायामेव नीलवस्त्रौचित्याद्रजनीविशेषरूपायास्तमिस्त्राया एवं वक्तुमौचित्येन ज्योत्स्त्रासाधारणरजन्युक्त्यानौचित्यमित्यर्थः । ********** टीका सम्पूर्णा ********** "आपातसुरसे भोगे निमग्नाः किं न कुर्वते" । अत्र आपात एवेति नियमो वाच्यः । ************* टीका ************* विज्ञप्रिया (वि, ड) नियमविपर्ययोक्तिमाह---आपातेति---ननु भोः किं न कुर्वते---अकार्यमेव कुर्वत एवेत्यर्थः । अत्रेति--सर्वकालसुरसत्वे तन्निमज्जनं नाकार्यम्, अतः सर्वकालव्यावर्त्तनाय आपातत एवेति नियमो वाच्य इत्यर्थः । ********** टीका सम्पूर्णा ********** ननु वाच्यस्यानिभिधाने "व्यतिक्रमलवम्" इत्यादावपेरभावः, इह चैवकारस्येति कोऽनयेर्भेदः । अत्राह---"नियमस्य वचनमेव पृथग्भूतं नियमपरिवृत्तेविषयः" इति, तन्न लोचना (लो, उ) नियमस्यावचनमेवापवादरूपमित्यर्थः । गमकाभावादेकजातित्वादिति भावः । ********** टीका सम्पूर्णा ********** तथा सत्यपि द्वयोः शब्दार्थदोषतायां नियामकाभावात् । तत्का गतिरिति चेत्? "व्यतिक्रमलवम्" इत्यादौ शब्दोच्चारणानन्तरमेव दोषप्रतिभासः, इह त्वर्थप्रत्ययानन्तरमिति भेदः । ************* टीका ************* विज्ञप्रिया (वि, ढ) अस्य वाच्यानभिधानाद्भेदमाशङ्कते---नन्विति---इह त्वेकारस्येत्यत्राभाव इत्यन्वयः । अत्र समाधानसम्भवं दर्शयित्वा दोषान्तरं दर्शयितुमाह--अत्र नियमस्येति--अत्र नियमस्यावचनमेव पृथग्भूतं विशेषभूतं नियमपरिवृत्तेर्विषय इत्यर्थः । तथा च विशेषविषयपरिहारेणैव सामान्यं प्रवर्त्तते इति न्यायान्नित्यमभिन्नवाच्यानभिधानं तदर्थ इत्यर्थः । एतत्समाधानस्य सोढव्यत्वेन दोषान्तरमाह---इति चेदिति--द्वयोः शब्दार्थेति--एकः शब्ददोषोऽन्योर्ऽथदोष इत्यत्रेत्यर्थः । नियामकाभावादित्यत्र नियामकाभाव एव दोषः इति पूरणीयम् । तत्का गतिरिति तस्मात्क उपाय इत्यर्थः । समाधत्ते---व्यतिक्रमलवमित्यादाविति । शब्दोच्चारणानन्तरमेवेति । व्यतिक्रमस्य लवमपि इत्येवमाकाङ्क्षया उच्चारणानन्तरमेव उदयति इति भावः । इह त्विति । अपातसुरस इत्यादिनियमविपर्योक्तावित्यर्थः । अर्थप्रत्ययोनन्तरमिति । आपातसुरसत्वं प्रथमं प्रतीयते एव तदनन्तरमेव सर्वदा सुरसत्वव्यावृत्तिरित्यर्थप्रतिसंघानमित्यर्थः । ********** टीका सम्पूर्णा ********** एवं च शब्दपरिवृत्तिसहत्वासहत्वाभ्यां पूर्वैरादृतोऽपि शब्दार्थदोषविभाग एवं पर्यवस्यति--यो दोषः शब्दपरिवृत्त्यासहः स शब्ददोष एव । यश्च पदार्थन्वयप्रतीतिपूर्वबोध्यः सोऽपि शब्ददोषः । यश्चार्थप्रतीत्यनन्तरं बोध्यः सोर्ऽथाश्रय इति । एवं चानियमपरिवृत्तित्वादेरप्यधिकपदत्वाद्भेदो बोद्धव्यः । अमतपरार्थत्वे तु "राममन्मथशरेण-" इत्यादौ नियमेन वाक्यव्यापित्वाभिप्रायाद्वाक्यदोषता । अश्लीलत्वादौ तु न नियमेन वाक्यव्यापित्वम् । ************* टीका ************* विज्ञप्रिया (वि, ण) इदं चानुभवादुक्तम् । वस्तुतस्तु क्वचित्कचिच्छब्दार्थदोषतायां शास्त्रकर्त्तुरिच्छैव नियामिकान्याथा वाक्यगताविमृष्टविधेयांशे दुष्कमे च द्वयोरपि शब्दरचनावैपरीत्याधीनत्वेऽपि एकः शब्ददोषोऽन्योर्ऽथदोष इत्यत्र का विनिगमना ?इत्थं स्वयमुक्तः शब्दार्थदोषतानियामकोऽपि क्वचित्व्यभिचरति । अप्रयुक्तत्वादिशब्ददोषाणामर्थप्रतीत्यनन्तरमेव बोधात्, कष्टार्थत्वरूपार्थदोषस्य प्रथममर्थाप्रत्ययाच्छब्द एवार्थप्रत्यायक इति ज्ञानोदयाच्छब्द प्रतीत्यनन्तरमेव बोधाच्च । अतः प्राचीनैरुक्तो नियामकः क्वचिच्चास्मदुक्तौ नियामक इति द्विविध एव नियामक इति वक्तुमाह---एवञ्चेति । पूर्वैरादृतस्य नियामकस्य पर्य्यवसाने एवं पर्य्यवस्यतीति । वक्ष्यमाणं तदेवाह---शब्दवृत्तिसह इति । अत्रार्थसाम्ये इति शेषः । यथा "पल्लवाकृतिरक्तोष्टीऽ इत्यत्र पल्लवाकारेति करणेऽपि शब्ददोष एव । निरर्थकश्रुतिकट्वादिवर्णानां त्वर्थसाम्याभावान्नैतन्नियमविषयत्वं, किन्तु शब्दोच्चारणानन्तरप्रतीयमानरूपस्योक्तनियमविषयत्वमेव । एवं हन्तीत्यस्यासमर्थेऽप्येष एव नियमः तमेव स्वोक्तनियमं दर्शयति---यश्चार्थप्रतीत्यनन्तरमिति । अनियमपरिवृत्त्यादेरर्थदोषताधिकपदत्वादेः शब्दोषता । इत्यत्राप्यस्मदुक्तभेदकादेव देवभेदो बोध्य इत्याह---एवञ्चेति । अमतपदार्थत्वस्य वाक्यदोषतानियामकमन्यदेवाह---अमतेति । वाक्यव्यापित्वं समस्तपद्यरूपवाक्यव्यप्तित्वम् । अश्लीलार्थत्वे तु वाक्यव्यापित्वेऽप्यर्थान्वयव्यतिरेकानुविधानादर्थदोषत्वमिति हृदयेन वाक्यव्यापित्वं दर्शयति---अश्लीलत्वादाविति । अर्थाश्लीलत्वादावित्यर्थः । लोचना (लो, ऊ) सहत्वासहत्वाभ्यामित्यनन्तरमेवेति शेषः । शब्दपरिवृत्तिसहत्वे यथा श्रुतिकटुन्यूनत्व-प्रतिकूलवर्णत्वादिः । पदार्थान्वयप्रतीतिपूर्वबोध्यो यथा न्यूनाधिकपदत्वादिः । राममन्मथशरेण, इत्यादावित्यनन्तरमर्थप्रतीत्यनन्तरबोद्ध्यत्वेऽपि इति शेषः । अश्लीलत्वादाविति--हन्तुमेवेत्यादौ क्वचिद्वाक्यव्यापित्वेऽपि क्वचिद्विवरैषिण इत्यादौ पदनिष्टत्वेऽपि सम्भवान्न वाक्यदोषतेत्यर्थः । ********** टीका सम्पूर्णा ********** "आनन्दितस्वपक्षोऽसौ परपक्षान् हनिष्यति" । अत्र परपक्षं हत्वा स्वपक्षमानन्दयिष्यतीति विधेयम् । ************* टीका ************* विज्ञप्रिया (वि, त) विध्ययुक्तत्वमाह---आनन्दितेति । विधेयतात्पर्य्याप्त्ययोग्ये तात्पर्य्यार्पणं तत्त्वम् । अत्र परपक्षहननानन्तरमेव स्वपक्षानन्ददानविधावेव विधेयतात्पर्य्याप्त्यौचित्यं नतु परपक्षहननविधौ इत्यर्थः । न चात्र विधेयाविमर्श इति वाच्यम् । तत्र विधेयता न प्रतीयते अत्र तु प्रतीतिविधेयताके, तात्पर्य्याप्त्यनौचित्यमिति भेदात् । ********** टीका सम्पूर्णा ********** "चण्डीशचूडाभारण ! चन्द्र ! लोकतमोपह ! । विरहिप्राणहरण ! कदर्थय न मां वृथा" ॥ अत्र विरहिण उक्तौ तृतीयपादस्यार्थो नानुवाद्यः । ************* टीका ************* विज्ञप्रिया (वि, थ) अनुवादायुक्ततामाह---चण्डीशेति । अनुवाद्यविशेषणस्य विधिविरोधित्वं तत्त्वम् । चन्द्रं प्रती विरहिण्या उक्तिरियम् । हे चन्द्र मां वृथा न कदर्थय इत्यन्वयः । चण्डीशेत्यादिकमपि सम्बोधनत्रयं तदीयैककालायास्तथात्वात्स एव तथात्वेन सम्बोधितः । प्रथमविशेषणद्वयं तस्य महत्त्वप्रतिपादनाय । प्राणेत्यादितृतीयपदार्थस्तदनुपकारकरूपोऽयुक्त इत्यर्थः । ********** टीका सम्पूर्णा ********** "लग्नं रागावृताङ्ग्या सदृढमिह यथैवासियष्ट्यापरिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्सक्तोऽयं न किञ्चिद्रणयति विदितं तेऽस्तु तेनास्मदत्ता भृत्येभ्यः श्रीनियोगाद्रदितुमिति गतेवाम्बुधिं यस्य कीर्तिः ॥ अत्र विदितं तेऽस्त्वित्यनेन समापितमपि वचनं तेनेत्यादिना पुनरुपात्तम् । अथ रसदोषानाह--- ************* टीका ************* विज्ञप्रिया (वि, द) निर्मुक्तपुनरुक्तत्वमाह---लग्नमिति--निर्मुक्तस्य समापितस्य कारकस्य पुनरुक्तिस्तत्त्वम् । समाप्तपुनरात्तता तु विशेषणस्याऽवृत्तिरूपैवेति भावः । लग्नमित्यादि । यस्य राज्ञः कीर्त्तिरम्वुधिं गता तत्पर्यन्तगामिनी तस्य कीर्त्तिरित्यर्थः । अत्रोत्प्रेक्ष्यते---श्रीनियोगादिति । गदितुमिवेति समुद्रपुत्र्याः श्रियः स्वपितरिस्वभर्त्तुरपचारं गदितुं प्रेष्यायां कीर्त्तौ नियोगः । नियोगमाह---लग्नमिति । ययसियष्ट्या स्त्रीलिङ्गशब्दार्थत्वेन उपस्त्रीत्वेनाध्यासितया अरिकण्ठ एव लग्नं कीदृश्या ? रागो रक्तिमाह एवअनुरागस्तयाऽवृताङ्ग्या, तथा यासियष्टिरिह जगति मातङ्गानां हस्तिनामेव मातङ्गानां षिड्गानां उपरि पतन्ती परपुरुषैः शत्रुपुरुषैरेव प्रकृष्टपुरुषैर्दृष्टा । अनेन साक्षित्वं दर्शितम् । तत्सक्तस्तादृश्यामसन्नायिकायां सक्तोऽयं मम भर्त्ता राज्ञा न किञ्चिद्भद्राभद्रं गणयति इति मे मम पितुः समुद्रस्य विदितमस्तु । तेन भद्राभद्रागणनेन भृत्येभ्योऽहं दत्तास्मीति गदितुमिवेत्यर्थः । असियष्टिसाहाय्येन शत्रुभ्यो भीत्यगणनेनाश्रितत्वाद्भृत्या अपि श्रीमन्तः कृता इति स्तुतिः । अत्रेतिवचनं कर्मकारकवचनं न किञ्चिद्रणयति इत्यन्तं हि वेदनीयं कर्मकारकम् । तच्च विदितं तेऽस्तु इत्यनेन समापितम् । तेनास्मि दत्ता इत्यपि वेदनीयकर्मकारकं पुनरुपात्तम् । लोचना (लो, ऋ) लग्नमिति---रागो रक्तः शोणिमा, अनुरागश्च । मातङ्गा गजाश्चाण्डालाश्च । पर उत्कृष्टः अन्य इति । ********** टीका सम्पूर्णा ********** रसस्योक्तिः स्वशब्देन स्थायिसंचारिणोरपि ॥ ७.१२ ॥ परिपन्थिरसाङ्गस्य विभावादेः परिग्रहः । आक्षेपः कल्पितः कृच्छ्रादनुभावविभावयोः ॥ ७.१३ ॥ अकाण्डे प्रथनच्छेदौ तथा दीप्तिः पुनः पुनः । अङ्गिनोऽननुसंधानमनङ्गस्य च कीर्तनम् ॥ ७.१४ ॥ अतिविस्तृतिरङ्गस्य प्रकृतीनां विपर्ययः । अर्थानौचित्यमन्यच्च दोषा रसगता मताः । ************* टीका ************* विज्ञप्रिया (वि, ध) रसदोषानाह---रसस्येति । स्थायिसंचारिणोरपीत्यत्रापि स्वशब्देन उक्तिरित्यस्यान्वयः । परिपन्थीति---प्रतिकूलरसङ्गविभावाद्युक्तिरित्यर्थः । आक्षेप इति । अनुभावविभावयोः कृस्त्रादत्यन्तप्रणिधानादाक्षेपः प्रत्ययनं दोषः कथित इत्यर्थः । अकाण्डे अनुचितकाले प्रथनच्छेदौ विस्तारत्यागौ रसस्य इति शेषः । अनङ्गस्य प्रकृतरसस्यानुपकारकस्य । अर्थानौचित्यमिति---अन्यद्वा उक्तादन्यद्वा अर्थानौचित्यमित्यर्थः । ********** टीका सम्पूर्णा ********** रसस्य स्वशब्दो रसशब्दः शृङ्गारादिशब्दश्च । क्रमेण यथा--- "तामुद्वीक्ष्य कुरङ्गाक्षीं रसो नः कोऽप्यजायत" । "चन्द्रमण्डलमालोक्य शृङ्गारे मग्नमन्तरम्" । स्थायिभावस्य स्वशब्दवाच्यं यथा--- "अजायत रतिस्तस्यास्त्वयि लोचनगोचरे" । ************* टीका ************* विज्ञप्रिया (वि, न) तामुदीक्ष्येति---अत्र पूर्वार्द्धे रसशब्दः परार्द्धे शृङ्गारशब्दो वाचकः । ननु श्रोतुरेव काव्यश्रवणाद्रसो जायते न तु स्वीयरत्वादिवक्तुः तत्कथमत्र स्यीयरतिवक्तूरसो वाच्य इति चेन्न । रसस्य इत्यत्र स्थायिभावस्येत्यर्थात् । न चैवं स्थायिनः स्वशब्दवाच्यतायाः पृथगुक्त्यनुपपत्तिरिति वाच्यम् । स्थायिभावस्यैव रसादिवाचकरसशब्देन स्थायिभावशब्देन उक्तिरित्येवं वाचकशब्दभेदादेव पृथगुक्तेः । अत एव रसशब्देनात्र स्थायिभाव एव उक्त इति । "रसादिलक्षणस्त्वर्थः स्वप्रेऽपि न वाच्यःिति च काव्यप्रकाशकृता लिखितम् । स्थायिभाववाचकशब्देन वाच्यतामाह---अजायतेति । ********** टीका सम्पूर्णा ********** व्यभिचारिणः स्वशब्दवाच्यत्वं यथा--- "जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने" । अत्र प्रथमे पादे "आसीन्मुकुलिताक्षी सा" इति लज्जाया अनुभावमुखेन कथने युक्तः पाठः । ************* टीका ************* विज्ञप्रिया (वि, प) व्यभिचारिण इति---भावताप्राप्तियोग्यस्येति शेषः । तत्प्राप्तिश्च निराकाङ्क्षावाक्यव्यङ्ग्यत्वे सत्येव जायते । अत्र लज्जावत्त्वस्य विधेयस्य निराकाङ्क्षवाक्यबोध्यत्वेन भावताप्राप्तियोग्यता अस्त्येव । तस्य स्वशब्दवाच्यत्वात्तु दोषः । साकङ्क्षवाक्यबोध्यत्वे भावताप्राप्तियोग्यतामनापन्नस्य तस्य स्वशब्दवाच्यत्वं न दोषः । यथा---"लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बने विधेयेऽनुवाद्यविशेषणस्य लज्जाया भावताप्राप्तियोग्यतामनापन्नायाः स्वशब्देननोक्तिर्न दोषः । लोचना (लो, ॠ) अनुभावमुखेन कथन इति---व्यभिचारिणो हि स्वस्वानुभाव व्यक्ता एव सहृदयानामास्वाद्याः । इह च यत्रैकत्र व्यभिचारिणामनुभावमुखेन वर्णनं स्वशब्देन त्वभिधानं॑ तत्र न रसादिमात्रदोषः । किन्तु अधिकपदाख्यो वाक्यदोषोऽपि । यथा---"लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता"इति । ********** टीका सम्पूर्णा ********** "मानं मा कुरु तन्वङ्गि ! ज्ञात्वा यौवनमस्थिरम्" । अत्र यौवनास्थैर्यनिवेदनं शृङ्गाररसस्य परिपन्थिनः शान्तरसस्याङ्गं शान्तस्यैव च विभाव इति शृङ्गारे तत्परिग्रहो न युक्तः । ************* टीका ************* विज्ञप्रिया (वि, फ) परिपन्थिरसाङ्गविभावपरिग्रहमाह---मानमिति । यन्निष्ठः स्थायिभावः सामाजिके रसतामापद्यते प्रकृतरसपरिपन्थिरसविभावस्य तदुक्त्यैव प्रत्यायनं दोष इत्यर्थः । मानं मा कुरु इति---अत्र सामाजिके रसतामापद्यमाना रतिः स्थायिभावो वक्तृनिष्ठस्तप्रतिकूलशान्तरसविभावो यौनवास्थैर्यमिदं तेनैवोक्तमित्याह--अत्रेति । एवं च "त्यजतमानमलं बल विग्रहैर्न पुनरेति गतं च तुरं वयः । परभृताभिरितीव निवेदिते स्मरमतेऽरमतेष्टसखीजनः " । इति रघौ यौवनास्थैर्यकथनं न दोषः । अत्रेष्टसखजनिष्ठरतिभाव एव सामाजिके रसतामापद्यते । नत्विष्टसखजनेन यौवनास्थैर्यमुक्तं किन्तु परभृताभिरित्यदोषः अत्रैव यौवनास्थैर्योक्तिरेव परिपन्थ्यनुभावो ग्रन्थकृदनुक्तोऽपि बोध्यः । लोचना (लो, ळ) शृङ्गारे प्रतिकूल इत्यर्थः । विभावादेरित्यादिशब्दादनुभावसञ्चारिणौ । तत्र प्रतिकूलानुभावपरिग्रहो यथा--- "सुरतोत्सुकमालोक्य मृगाक्षी पथिकं पथि । निर्मुक्तसर्वविषया प्रययौ विपिनान्तरम्" ॥ अत्र निर्मुक्तसर्वविषयतया वनगमनं शान्तरसानुभावः । अन्यथा तु वनगमनं क्वचित्क्वचिदभिसारादिना गुणः । एवं व्यभिचारिणोऽपि । ********** टीका सम्पूर्णा ********** "धवलयति शिशिररोचिषि भुवनतलं लोकलोचनान्दे ईषत्क्षिप्तकटाक्षा स्मेरमुखई सा निरीक्ष्यतां तन्वी" ॥ अत्र रसस्योद्दीपनालम्बनविभावपर्यवसायिनौ स्थिताविति कष्टकल्पना । ************* टीका ************* विज्ञप्रिया (वि, ब) अनुभावस्य कष्टकल्पनयाप्रकाशमाह---धवलयतीति । निरीक्षितेति । अर्थात्पुंसा । उद्दीपनं चन्द्रः । आलम्बनं नायिका । अनुभावस्य सहर्षचक्षुः प्रसारणस्य पर्यवसायिनौ प्रणिधानातिशयेनैव बोधकौ इत्यर्थः । द्रष्टुः शान्तत्वे वैराग्येण चक्षुर्निमीलनस्यापि सम्भवात् । प्रकरणप्रतिसन्धानवृच्छ्रेण तु उक्तानुभावप्रकाशः । लोचना (लो, ए) अनुभावपर्यवसायिनौ इति । रसपर्यवसायित्वे कटाक्षक्षेपणादेरनुभावत्वं सुव्यक्तं भवेत् । इह च कटाक्षक्षेपणादीनि तस्या नायकविषयत्वरत्युद्धोधकार्याणि अत्रान्येन केन सहोपपन्नानि झटित्यनिश्चितप्रतीतिकारणत्वात् । यद्वा कस्यचिन्नायकस्या निरीक्ष्यमाणो रूपानुभावः तस्या रत्युद्वोधको न जात इति कटाक्षाक्षेपविक्षेपविभावयोः शृङ्गाररसपर्यवसानाभावादित्यर्थः । ********** टीका सम्पूर्णा ********** "परिहरति रतिं मतिं लुनीते स्खलतितरां परिवर्तते च भूयः । इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः" ॥ अत्र रतिपरिहारादीनां करुणादावपि सम्भवात्कामिनीरूपो विभावः कृच्छ्रादाक्षेप्यः । ************* टीका ************* विज्ञप्रिया (वि, भ) विभावस्य कृच्छ्रात्कल्पनमाह---परिहरतीति । परिहरतीत्यादौ सर्वत्र मुमान् कर्त्ता । बत खेदे इत्यस्य विषमा तशा अस्य देहमित्यन्वयः । प्रसभं बलात् । अत्रेति---अत्रापि प्रकरणप्रतिसन्धानकृच्छ्रगम्यम् । ********** टीका सम्पूर्णा ********** अकाण्डे प्रथनं यथा---वेणीसंहारे द्वितीयेऽङ्के प्रवर्तमानानेकवीरसंक्षयेऽकाले दुर्योधनस्य भानुमत्या सह शृङ्गारप्रथनम् । छेदो यथा--वीरचरिते राघवभार्गवयोर्धाराधिरूढेऽन्योन्यसंरम्भे कङ्कणमोचनाय गच्छामीति राघवस्योक्तिः । ************* टीका ************* विज्ञप्रिया (वि, म) कङ्कणमोचनं विवाहोत्तरमाङ्गल्यक्रियाविशेषः । ********** टीका सम्पूर्णा ********** पुनः पुनर्देप्तिर्यथा--कुमारसंभवे रतिविलापे । ************* टीका ************* विज्ञप्रिया (वि, य) रतिविलाप इति--- "अथ सा पुनरे विह्वला वसुधालिङ्गनधूसरस्तनी । विललाप विकीर्णमूर्द्धजा समदुः खामिव कुर्वती स्थलीम् ॥ "इत्युपक्रम्य प्रवर्त्तिते धारावाहिके करुणरसे मधौ दृष्टे--- "तमवेक्ष्य रुरोद सा भृशं स्तनसंबाधमुरो जघान च । "इति विशिप्य पुनर्देप्तिः । लोचना (लो, ऐ) रतिविलापेति---अथ मोहपरायणा सतीत्यादिना परिपुष्टिमागतस्यापि करुणस्य"अथ सा पुनरेव विह्वला"इत्यनेन कण्ठपरिपूर्णभोज्यस्य पुनर्भोज्यदानेन वैरस्यम् । ********** टीका सम्पूर्णा ********** अङ्गिनोऽननुसंधानां यथा--रत्नावल्यां चतुर्थेङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः । ************* टीका ************* विज्ञप्रिया (वि, र) सागरिकाया विस्मृतिरिति---सागरिका रत्नावली । तन्नाटकेऽङ्गिनी । ********** टीका सम्पूर्णा ********** अनङ्गस्य कीर्तनं यथा--कर्पूरमञ्जर्या राजनायिकयोः स्वयं कृतं वसन्तस्य वर्णनमनादृत्य बन्दिवर्णितस्य प्रशंसनम् । अङ्गस्यातिविस्तृतिर्यथा---किराते सुराङ्गनाविलासादिः । ************* टीका ************* विज्ञप्रिया (वि, ल) अनङ्गस्येति---प्रक्रान्तरसानुपकारकस्येत्यर्थः । वन्दिवर्णितस्येति । राज्ञा इति शेषः । किरातार्जुनीये भारवौ । ********** टीका सम्पूर्णा ********** प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्चेति । तेषां धीरोदात्तादिता । तेषामप्युत्तमाधममध्यमत्वम् । लोचना (लो, ओ) प्रकृतिविपर्ययाख्यं दोषं च व्याचष्टे---प्रकृतय इत्यादि । दिव्या महेन्द्रादयः श्रीकृष्णादयश्च । अदिव्या दुष्म (ष्य) न्तादयः । दिव्यादिव्याः श्रीरामचन्द्रादयः इत्यादि प्रागेव उक्तम् । धीरोदात्तादीनामन्यतमाश्रयत्वस्य सम्भवेऽपि प्रायेण वीरादिप्रधानत्वमेव । तेषां लक्षणानि उक्तानि । ********** टीका सम्पूर्णा ********** तेषु च यो यथाभूतस्तस्यायथावर्णने प्रकृतिविपर्ययो दोषः । यथा--धीरोदात्तस्य रामस्य धीरोद्धतवच्छद्मना वालिवधः । यथा वा---कुमारसंभवे उत्तमदेवतयोः पार्वतीपरमेश्चरयोः संभोगशृङ्गारवर्णनम् । "इदं पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम्" इत्याहुः । ************* टीका ************* विज्ञप्रिया (वि, व) दिव्या इत्यादिषु दिव्यादिनायिकाया इत्यर्थः । दिव्या--देवाः अदिव्या मनुष्याः । दिव्यादिव्या देवावतारा मानुषाः तदीयाः प्रकृतय इत्यर्थः । अर्थानौचित्यमन्यद्वेति यदुक्तं तदृर्शयति-- लोचना (लो, औ) उत्तमदेवतयोः शृङ्गाररसवर्णनमनुचितमिति यदुक्तं तत्रायमेवाशयः । ये ये शृङ्गारव्यञ्जकाः रहस्यार्थाः पित्रोर्वर्णयितुमनुचितास्ते उत्तमदेवतानिष्टा न वर्णनीयाः अन्यथा रघुवंशे रावणवधानन्तरं स्वराज्यमभिनिवृत्तस्य रामचन्द्रस्य सीतासम्वादवर्णनं तादृशंवान्यन्महाकविनिष्टत्वमनुचितं स्यात् । अनुचितमेव सकलमहाकवीनां प्रबन्धेषु तथा तथा वर्णनमसमञ्जसं स्यात् । एवमदिव्यानां स्वः- पातालगमनसमुद्रलङ्घनादिः । एतद्वस्तु महानुभावकुवलयाश्वादेर्यद्वृत्तमितिहासादिप्रसिद्धं वर्णनीयमेव । अन्यथा वर्णनस्यैव दोषावहत्वात् । एवमन्यस्यापि कृत्यानौचित्यस्य वर्णन प्रकृतिविपर्य्ययाख्यो दोषो बोद्धव्यः । ********** टीका सम्पूर्णा ********** अन्यदनौचित्यं देशकालादीनामन्यथा यद्वर्णनम् । तथा सति हि काव्यस्यासत्यताप्रतिभासेन विनेयानामुन्मुखीकारासंभवः । ************* टीका ************* विज्ञप्रिया (वि, श) अन्यदनौचित्यमिति---देशकालेति । दिवि मानुषभाषावर्णनं देशानुचितम् । एकर्तौ अन्यर्तुधर्मवर्णनं कालानुचितम् । लोचना (लो, अ) अन्यदनौचित्यं दर्शयति--अन्यदिति--देशकालादिरित्यादिशब्देन नायिकायाः पादप्रहारादिः । नायकस्य कोपः । बालाया धर्ष्ट्यम् । प्रौढाया वेश्यायाश्चातिलज्जा । प्रतिनायकस्य अन्वयत्वम् । तथा चाह--- वंशवीर्य्यश्रुतादीनि वर्णयित्वा रिपोरपि । तज्जयान्नायकोत्कर्षकथनं हि धिनोति नः ॥ इति । एवं देवतानामवयवानां शिर आरभ्य वर्णनम् । तेषां शिर आराध्यत्वे पादारब्धवर्णनमेव इष्यते । मनुष्याणां न पादारब्धवर्णनं तेषां शिर आरभ्य वर्णनस्यैव इष्टेः । एवमनयैव दिशा सकलमनौचित्यं रसभङ्गकारणं प्रयत्नेन सुकविभैः परिहार्य्यम् । यदुक्तं ध्वनिकृता--- अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । औचित्योपनिबन्धस्तु रसस्योपनिषत्परा । ********** टीका सम्पूर्णा ********** एभ्यः पृथगलङ्कारदोषाणां नैव संभवः ॥ ७.१५ ॥ एभ्य उक्तदोषेभ्यः । ************* टीका ************* विज्ञप्रिया (वि, ष) इति दोषानुक्त्वालङ्कारदोषा अपि एष्वेवान्तर्भवन्ति इत्याह--एभ्यः पृथगिति । लोचना (लो, आ) ननु यद्येत एव दोषास्तदा प्राचीनोक्ताः पुनरलङ्कारदोषा इत्याह । एभ्यः इत्यादिभ्य इति । कथं तेभ्योऽपृथगित्याह--- ********** टीका सम्पूर्णा ********** तथाहि--उपमायामसादृश्यासंभवयोरुपमानस्य जाति प्रमाणगतन्यनत्वाधिकत्वयोरर्थान्तरन्यासे उत्प्रेक्षितार्थसमर्थने चानुचितार्थत्वम् । ************* टीका ************* विज्ञप्रिया (वि, स) अत्र यो यदलङ्कारदोषो यत्रान्तर्भवति तदाह---उपमायामिति । असादृश्यम्---उपमानोपमेययोः सादृश्याभावः । असम्भवश्चोपमानाप्रसिद्धिः । जातिप्रमाणेति । प्रमाणं परिमाणम् । उपमेयजात्यपेक्षया उपमानजातेरुपमेयपरिमाणापेक्षयोपमानपरिमाणस्य चात्यन्तन्यूनाधिकत्वयोरनुचितार्थत्वमित्यर्थः । एवमुत्प्रेक्षितार्थस्यार्थान्तरन्यासेन समर्थेन च तदैव दोषस्तस्यानुचितार्थत्वमित्यर्थः । ननु पशुभूता रणाध्वरे इत्यत्र शूराणां कातरत्वव्यञ्जनया तेषां निन्दाव्यञ्जनमेवानुचितार्थत्वं दर्शितम् । असादृश्यासम्भवयोरुप्रेक्षितार्थसमर्थने नएतादृशमनौचित्यं किन्तु प्रतिपाद्यमानार्थालीकत्वमेवानौचित्यं वाच्यं तथा च कथमुभयसाधारणमनौचित्यम् । यदि च औचित्याभाव एव तर्हि इत्युच्यते तदा समस्तदोषाणामेव अनुचितत्वेनैतस्य दोषविशेषत्वानुपपत्तिरिति चेत्सत्यम् । दोषान्तरलक्षणानाघ्रातत्वे सति औचित्याभाव एव तल्लक्षणम् । ********** टीका सम्पूर्णा ********** क्रमेण यथा--- "ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम्" । लोचना (लो, इ) तथा हीति--अत्र काव्यस्य शशिना न सादृश्यम् । ********** टीका सम्पूर्णा ********** "प्रज्वलज्जलधारावान्नपतन्ति शरास्तव" । ************* टीका ************* विज्ञप्रिया (वि, ह) क्रमेणेति---ग्रथ्नामीत्यत्र असादृश्यम् । काव्यं शशीव इत्युपमा । अत्र रूपकत्वेऽपि स एव दोषस्तस्यपि सादृश्यमूलत्वादुपमानासम्भवे---प्रज्वलदिति -- प्रज्वलन्त्यो जलधारा ह्मप्रसिद्धाः । नन्वत्राभूतोपमा स्यादिति चेन्न, सम्भावनयापि यत्रोपमानप्रसिद्धिस्तत्रैवाभूतोपमात्वात् । यथा--- सर्वपद्मप्रभासारः समाहृत इव क्वचित् । त्वदाननं विभावीति तामभूतोपमां विदुः ॥ इत्यत्र दण्डिं ना क्वचित्पदेन स्त्रष्टुर्विधेः क्वचित्सर्वपद्मप्रभाहरणसम्भावनां प्रदर्श्य तादृशोपमानेनाभूतोपमा दर्शिता । अत एव बालप्रवावलविटपप्रभाव लतेव इत्यत्रापि वटादिविटमे लतादर्शनात्प्रवालविटपे लतां सम्भाव्य तदुपमा कृता । प्रकृते तु जले ज्वलनस्य सर्वथा बाधात्प्रज्वलज्जलधारायाः सम्भावनाशक्यत्वात् । लोचना (लो, ई) जलधाराणां प्रज्वलनमसम्भवि । ********** टीका सम्पूर्णा ********** "चण्डाल इव राजासौ संग्रामेऽधिकसाहसः" । "कर्पूरखण्ड इव राजति चन्द्रबिम्बम्" । ************* टीका ************* विज्ञप्रिया (वि, क) उपमेयजात्यपेक्षयोपमानजातेरत्यन्तन्यूनत्वमाह---चण्डाल इवेति । अत्र राजजात्यपेक्षया चण्डालजातेरत्यन्तन्यूनत्वम् । उपमानपरिमाणोपेक्षयोपमानपरिमाणस्यात्यन्तन्यूनत्वमुदाहरति---कर्पूर इति । ********** टीका सम्पूर्णा ********** "हरवन्नीलकण्ठोऽयं विराजति शिखावलः" । "स्तनावद्रिसमानौ ते" । ************* टीका ************* विज्ञप्रिया (वि, ख) एवं जातिपरिमाणयोराधिक्यमप्याह---हरवदिति । स्तनाविति च । शिखाबलो मयूरः । अवस्थाभेदेन हरशरीरस्यानेकव्यक्तित्वाथरत्वमपि जातिः शिखाभलत्वापेक्षयाधिका । लोचना (लो, उ) राज्ञश्चण्डालेन, चन्द्रस्य कर्पूरखण्डेन, हरस्य नीलकण्ठेन, स्तनयोश्चाद्रिणा च साम्यम् । ********** टीका सम्पूर्णा ********** "दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव" ॥ एवमादिषूत्प्रेक्षितार्थस्यासं त्रततयैव प्रतिभासनं स्वरूपमित्यनुचितमेव तत्समर्थनम् । ************* टीका ************* विज्ञप्रिया (वि, ग) अर्थान्तरन्यासेनोत्प्रेक्षितार्थसमर्थनमाह---दिवाकरादिति । यो हिमालयो गुहासु लीनमन्धकारं दिवाकराद्रक्षति । अत्रोत्प्रेक्षते---भीतमिवेति । अत्रार्थान्तरन्यासमाह---क्षुद्रोऽपीति । उच्चैः शिरसां महिम्ना उच्चमौलीनामर्थान्महतामुच्चैः शिखराणां च । अत्र दोषं दर्शयति---एवमादिष्विति । समर्थनम्---सत्यत्वेन प्रतिपादनम् । तमसो भयं च सर्वथैवालीकमुत्प्रेक्षितम् । कथं तस्यार्थन्तरन्यासेन सत्यतया प्रतिपादनमित्यर्थः । लोचना (लो, ऊ) दिवाकरादौ चोत्प्रेक्षितार्थस्य समर्थनेऽनौचित्यं दर्शयति---उत्प्रेक्षितार्थस्येत्यादि । असद्भूततयैव प्रतिभासनम्, सम्भावनविषयत्वादित्यर्थः । दिवाभीत उल्लूकः । अथ वा--दिवा दिवसाद्भीतमित्यन्धकारविशेषणम् । यो हिमालयः, शिरः शृङ्गं मूर्धा वा । ********** टीका सम्पूर्णा ********** यमकस्य पादत्रयगतस्याप्रयुक्तत्वं दोषः । यथा--- "सहसाभिजनैः स्निग्धैः सह सा कुञ्जमन्दिरम् । उदिते रजनीनाथे सहतायाति सुन्दरी" ॥ ************* टीका ************* विज्ञप्रिया (वि, घ) सहसेति---सा सुन्दरी नायिका स्त्रिग्धैरालिजनैः सह सहसा सस्मिता उदिते रजनीनाथे सहसा तत्क्षणं कुञ्जमन्दिरं यातीत्यर्थः । लोचना (लो, ऋ) आलिजनैः सह सार्धं सहसा वेगेन सहसा हसेन सह वर्तमाना । ********** टीका सम्पूर्णा ********** उत्प्रेक्षायां यथाशब्दस्योत्प्रेक्षाद्यंतकत्वेऽवाचकत्वम् । लोचना (लो, ॠ) यथाशब्दो हि इवादिशब्दवन्नोत्प्रेक्षाया वाचकः । ********** टीका सम्पूर्णा ********** यथा--- "एष मूर्तो यथा धर्मः क्षितिपो रक्षति क्षितिम्" । ************* टीका ************* विज्ञप्रिया (वि, ङ) उत्प्रेक्षाद्योतकत्व इति---उत्प्रेक्षाभिधानार्थं प्रयुक्तत्व इत्यर्थः । एष इति । धर्मः पुण्यं तस्य मूर्त्यभावात्तदुत्प्रेक्षा न तु धर्मरूपदेवतोपमा, तदा मूर्तित्वविशेषणवैयर्थ्यापातात् । ********** टीका सम्पूर्णा ********** एवमनुप्रासे वृत्तिविरुद्धस्य प्रतिकूलवर्णत्वम् । यथा--- "ओवट्टै उल्लट्टै-- इत्यादौ । ************* टीका ************* विज्ञप्रिया (वि, च) एवमिति । वृत्तिविरोधस्तद्रसप्रतिकूलवर्णानां स्थितिः । "ओवट्टऽ इत्यादिकं प्राग्व्याख्यातम् । लोचना (लो, ळ) वृत्तिः नियतवर्णगतो यो रसविषयो व्यापारः । ********** टीका सम्पूर्णा ********** उपमायां च साधारणधर्मस्याधिकन्यूनत्वयोरधिकपदत्वं न्यूनपदत्वं च । ************* टीका ************* विज्ञप्रिया (वि, छ) साधारणधर्मस्येति । उपमेयेऽनिर्दिष्टधर्मसमानधर्मस्योपमाने निर्देशोऽधिकत्वम् । उपमेये निर्दिष्टधर्मसमानधर्मस्योपमानेनुपादानं न्यूनत्वम् । ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्--- "नयनज्योतिषा भाति शंभुमूतिसितद्युतिः । विद्युतेव शरन्मेघो नीलवारिदखण्डवृक्" ॥ अत्र भगवतो नीलकण्ठत्वस्याप्रतिपादनाच्चतुर्थपादोऽधिकः । ************* टीका ************* विज्ञप्रिया (वि, ज) नयनज्योतिषेति---अत्र शम्भुरुपमेयः । शरन्मेघ उपमानम्, नयनज्योतिर्विद्युत् । भूतिसितत्वशारदीयलब्धशुभ्रत्वयोश्च समानधर्मयोरस्त्येव निर्देशः । किन्तु शम्भोरुपमेयस्य नीलकण्ठत्वानुपादानात्तत्समानधर्मनीलवारिद्योत्यादेरुपमाने शरन्मेघे आधिक्यमाह---अत्रेति । समानधर्म एवायं नियमः । वर्मान्तरोपादाने तु वाधिक्यम्॑ यथात्रैव नभोमण्डलमध्यम इति वतुर्थपादकरणे । लोचना (लो, ए) सबलाकत्वं वाच्यम् । ********** टीका सम्पूर्णा ********** "कमलालिङ्गितस्तारहारहारी मुरं द्विषन् । विद्युद्वभूषितो नीलजीमूत इव राजते" ॥ अत्रोपमानस्य सबलाकत्वं वाच्यम् । ************* टीका ************* विज्ञप्रिया (वि, झ) न्यूनत्वमाह---कमलेति । कमलया लक्ष्म्या आलिङ्गितः, उज्ज्वलहारवांश्च मुरं द्विषन्मुरारी राजते । विद्युद्विभूषितो नीलजीमूत इव इत्यर्थः । अत्र लक्ष्मीस्थानीया विद्युथारस्थानीयाया बालाकाया न्यूनत्वमिति भङ्ग्या प्रतिपादयति---अत्रेति । लोचना (लो, ऐ) उपमेयस्य तारहारत्वस्य वचनात् । ********** टीका सम्पूर्णा ********** अस्यामेवोपमानोपमेययोलिङ्गवचनभेदस्य कालपुरुषविध्यादिभेदस्य च भग्नप्रक्रमत्वम् । क्रमेणोदाहरणम्--- "सुधेव विमलश्चन्द्रः" । "ज्योत्स्ना इव सिता कीर्तिः" । ************* टीका ************* विज्ञप्रिया (वि, ञ) अस्यामेवेति । उपमायामेवेत्यर्थः । भग्रनप्रक्रमत्वमिति । यल्लिङ्गेन एकद्व्यादियद्वचनेन चोपमेयोक्त्युपक्रम उपमानस्यापि तल्लिङ्गकत्वेन तद्वचनेन चोक्तिराकाङ्क्षिता तथात्वानुक्तौ क्रमभङ्ग इत्यर्थः । एवं वर्त्तमानादिकालभेदस्य च भग्नप्रक्रमत्वमित्यर्थः । आकाङ्क्षितरूपेणानभिधानात् । सुधेव इत्यत्र स्त्रीपुलिङ्गभेदः । ज्योत्स्त्रा इव इत्यत्र वचनभेदः । ********** टीका सम्पूर्णा ********** "काप्यभिख्या यतोरासीद्व्रजतोः शुद्धवेषयोः । हिमनिर्मुक्तयोयागे चित्रचन्द्रमसोरिव" ॥ अत्र तथाभूतचित्राचन्द्रमसोः शोभा न खल्वासीत् । अपि तु सर्वदापि भवति । लोचना (लो, ओ) अस्यामुपमायां सर्वदापि भवतीत्यनेन उपमानोपमेययोः कालभेदः । ********** टीका सम्पूर्णा ********** "लतेव राजसे तन्वि !" अत्र लता राजते, त्वं तु राजसे । ************* टीका ************* विज्ञप्रिया (वि, ट) कालभेद त्वाह---काप्यभिख्येति । तयोर्दिलीपसुदक्षिणयोरभिख्या शोभआ चित्राचन्द्रमसोः चैत्रे योगः । न खलु आसीतिति सार्वदिक्शोभासत्त्वे अतीत्वेन तद्विवक्षाभावात् । अतेवेत्यत्र पुरुषभेदः, लता राजते इत्येव सम्भवात् । ********** टीका सम्पूर्णा ********** "चिरं जीवतु ते सूतुर्माकण्डेयमुनिर्यथा" । अत्र मार्कण्डेयमुनिर्जावत्येव, न खल्वेतदस्य "जीवतु" इत्यनेन विधेयम् । ************* टीका ************* विज्ञप्रिया (वि, ठ) चिरं जीवत्वित्यत्र विधिभेदः । अयं च स्वल्प एव दोषः व्यत्ययेन अन्वयसम्भवात् । अत एव सर्वत्र काव्ये ईदृश एव प्रयोगः । ********** टीका सम्पूर्णा ********** इह तु यत्र लिङ्गवचनभेदेऽपि न साधारणधपर्मस्यान्यथाभावस्तत्र न दोषः । क्रमेणोदाहरणम्--- "मुखं चन्द्र इवाभाति" । लोचना (लो, औ) इह त्विति---अयमर्थः--यत्र लिङ्गादिभेदे हि साधारणधर्णोऽभिन्नौपमानोपमेययोर्द्वयोरपि सम्बन्धमापाद्यते तत्र न प्रतीति स्थगयति । मुखमिति---अत्र भातीति साधारणमुखचन्द्ररूपोर्ऽथः साध्यः । एतमुत्तरत्रापि । ********** टीका सम्पूर्णा ********** "तद्वेशोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव" ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) लिङ्गवचनभेदे साधारणधर्मस्य निर्दिष्टरूपेणोभयत्रानन्वयो दोषबीजम् । यदि तु निर्दिष्टरूपेणैवोभयत्रान्वयसम्भवस्तदा न दोष इत्याह---अत्र च लिङ्गवचनेति । मुखं चन्द्र इवेति । अत्राभातिसाधारणधर्म उभयत्रैकरूप एव लिङ्गद्वयं तु भिन्नम् । वचनभेदे त्वाह---तद्वेश इति । मधुरतया रम्यतया भृतः पूर्णस्तस्यावेशः परां शोभां दधते धत्त इत्यर्थः । तध धारणे इत्यस्यैकवचने रूपम् । कीदृशः अन्याभिः स्त्रीभिरसदृशः अन्यस्त्र्यसाधारणः । टक्प्रत्ययान्तस्य दृशो रूपमिदम् । तदीया विभ्रमा इव--तेऽपि हि परां शोभां दधते । धाङो बहुवचने रूपमिदम् । एवं मधुरताभृतः मधुरतां बिभ्रतः । भृञः क्किपि रूपमिदम् । एवमसदृश इत्यत्रापि क्किपि रूपम् । लिङ्गादिभेदेषु प्रक्रमभङ्गं दोषान्तर्भाव उक्तस्तं ग्राहयति---पूर्वोदाहरणेष्विति । सुधेव विमलश्चन्द्र इत्यादिष्वित्यर्थः । लोचना (लो, अ) सदृश इत्यस्योद्देश्यविशेषणत्वे एकवचनान्तः सदृशशब्दः । पक्षे मधुरतया भृत इति एकवचनम् । विभ्रमविशेषणत्वे बहुवचनान्तः सदृकशब्दः । दधतीति दधधातोरेकवचनान्तं, धाधातोर्बहुवचनान्तं च तिङ्न्तं च पदम् । ********** टीका सम्पूर्णा ********** पूर्वोदाहरणोषु उपमानोपमेययोरेकस्यैव साधारणधर्मेणान्वयसिद्धेः प्रक्रान्तस्यार्थस्य स्फुटोऽनिर्वाहः । ************* टीका ************* विज्ञप्रिया (वि, ढ) एकस्यैवेति । साधारणधर्म्मेण विमलत्वादिना एकस्यौपमेयस्यैव समानलिङ्गत्वादिनान्वयसिद्धेरसमानलिङ्गकेनोपमानेनान्वयासिद्धोरि त्यर्थः । प्रक्रान्तस्येति---उभयान्वयिकत्वाकाङ्क्षया उपक्रान्तस्येत्यर्थः । ********** टीका सम्पूर्णा ********** एवमनुप्रासे वैफल्यस्यापुष्टार्थत्वम् । यथा-- "अनणुरणन्मणिमेखलमविरलशिञ्जानमञ्जुमञ्जीरम् । परिसरणमरुणचरणो ! रणरणकमकारणं कुरुते" ॥ ************* टीका ************* विज्ञप्रिया (वि, ण) एवमिति---वैफल्यस्यानुप्रासार्थमुपात्तस्य विशेषणस्य यद्वैफल्यं तस्येत्यर्थः । अनु इति । सविलासं गच्छन्तीं वेश्यां दृष्ट्वा शान्तस्य पुरुषस्योक्तिरियम् । हे अरुणचरणे ! तव परिसरणं गमनं कर्त्तृ । अकारणमर्थात्पुंसां रणरणकं कामचिन्तां कुरुते जनयतीत्यर्थः । परिसरणं कीदृशम् ? अनणु अनल्पं रणन्ती मणियुक्ता मेखला यत्र तादृशम् । अविरतंशिञ्जनं मञ्जु मञ्जीरं नूपुरं यत्र तादृशम् । अत्र वक्तुः शान्तत्वेन कामोद्दीपकपरिसरणविशेषणानामपुष्टार्थत्वं केवलमनुप्रासार्थमेव तदुपादानम् । अत्र च वैयर्थ्यप्रतियोगिकामचिन्तोपयोगित्वेऽपि तद्विशेषणानां प्रकृतशान्तरसानुपयोगित्वादपुष्टार्थता । लोचना (लो, आ) वैफल्यस्यापुष्टार्थत्वं च चित्रवर्णारब्धत्वभावेन प्रकृतानुपयोगादित्यर्थः । ********** टीका सम्पूर्णा ********** एवं समासोक्तौ साधारणविशेषणवशात्परार्थस्य प्रतीतावपि पुनस्तस्य शब्देनोपादानस्याप्रस्तुतप्रशंसायां व्यञ्जनयैव प्रस्तुतार्थावगतेः शब्देन तदभिधानस्य च पुनरुक्तत्वम् । ************* टीका ************* विज्ञप्रिया (वि, त) एवं समासोक्ताविति । प्राकरणिककथनेनाप्राकरणिकव्यञ्जनं समासोक्तिः । अप्राकरणिककथनेन प्राकरणिकव्यञ्जनमप्रस्तुतप्रशंसा । अस्मिन्नलङ्कारद्वयेऽप्राकरणिकप्राकरणिकार्थयोः व्यङ्ग्यत्वेऽपि शब्देन तदुपादानं पुनरुक्तत्वमेवेत्यर्थः । ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्--- "अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् । निरकासयद्रविमपेतवसुं वियदालयादपरिदग्गणिका" ॥ अत्रापरदिगित्येतावतैव तस्या गणिकात्वं प्रतीयते । ************* टीका ************* विज्ञप्रिया (वि, थ) तत्र समासोक्तौ पुनरुक्तत्वमाह---अनुरागेति । अपरदिक्पाश्चिमदिगेन गणिका वेश्या वियद्रूपादालयादाश्रयात्रविं निरकासयत्निष्कासयामास । किंभूतमपेतवसुमपगतराशिमम् । अनिष्कासनोपयोगिविशेषणसत्त्वेऽपि अपेतरश्मित्वा निरकासयादित्याह---अनुरागेति । अनु दिवसस्य पश्चाद्रागवन्तं रक्तिमावन्तमपि अत एव लोचनयोः सुखं सुखजनकमतापकं च वपुर्दधतमपीत्यर्थः । अत्र श्लिष्टविरोषणवशादनुरागवतो लोचनसुखजनकसुशीतलवपुष्मतो नायकस्य वसुना धनेन रहितत्वात्स्वगृहरूपादालयात्वेश्यया निष्कासनं व्यञ्जनया प्रतीयते । तत्र च निर्धननायकस्य यथाश्लिष्टविशेषणमहिम्ना व्यङ्ग्यत्वं, तथा वेश्यायाअपि व्यङ्ग्यत्वमेवोचितम् । वाच्यत्वे तु पुनरुक्तिरित्याह---अत्रापरदिगेवेति । लोचना (लो, इ) अनुगतो रागः शोणिमा, प्रेमा च । वसुपदेन रश्मयः धनानि च । आलयः आश्रयः गृहं च । गणिकात्वं प्रतीयते । पुनः स्वशब्देनोपादानेन च पुनरुक्तत्वमावहति इत्यर्थः । ********** टीका सम्पूर्णा ********** "आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां धुरम् । खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक्सामान्यमचेतसं प्रभुमिवानामृष्टतत्त्वान्तरम्" ॥ लोचना (लो, ई) तृणमणिः तृणापकर्षको मणिविशेषः । अनामृष्टं तत्त्वान्तरं येन महीयसामल्पीयसां च पदार्थानां भेदो न प्रकाश्यते । सामान्यं जातिः सामान्यस्य सर्वासु विभक्तिषु एकरूपेणैवावस्थितेरित्यर्थः । अनुचितं च व्यञ्जनयैव प्रत्युत चमत्कारातिशयदायित्वेन गतार्थत्वात् । ********** टीका सम्पूर्णा ********** अत्राचेतसः प्रभोरभिधानमनुचितम् । ************* टीका ************* विज्ञप्रिया (वि, द) अप्रस्तुतप्रशंसायाः पुनरुक्तिमाह---आहूतेष्विति--सामान्यं जनं धिक् । यतोऽचेतनं भद्राभद्रादिचेतनरहितम् । अनामृष्टमपरिभावितं तत्त्वं येन तादृशमन्तरं मनो यस्य तादृशं प्रभुमिव । सामान्यस्य अचेतनत्वं दर्शयति---आहूतेषु विहङ्गमेषु विहायसा गच्छत्सु जनेषु प्रणिषु आहतेषु विहायोगामित्वात्पुर आयानागच्छन्मशकोऽपि न वार्यते, वारणा एव निवर्त्तते । गमनमेवात्र विधेयं बोध्यं तदेव सामान्ये चेतनत्वप्रतिपादनसम्भवात् । तथा तृणमणिस्तु तृणाकर्षकोऽल्पमूल्यो मणिः धुरि वा मध्ये वा वसन् रथशोभाकारकमहामूल्यमणीनां धुरं रथशोभाकरणरूपं धुरं भारं विधत्ते । "धूः स्त्री क्लीबे यानमुखम् "इति कोषः । यानं रथम् । मध्ये इत्यत्रोपस्थितत्वात्यानस्येति लभ्यते । मध्ये वसनित्यत्र मध्येवारिधि वा वसनिति क्वचित्पाठः । तदा च मध्ये वारिधेः मध्ये वा वसन् पुनः पुनर्वसन्नित्यर्थः । मणीनां वारिध्वाससाधर्म्यान्महामूल्यमणीनां धुरं मणित्वेन गण्यत्वरूपां धुरं भारमित्यर्थः । मध्येऽपि इति अपिकारस्य तेजस्विषु अन्वयः । अत एतादृशायुक्तकारित्वात्सामान्यं धिकित्यर्थः । अत्रेति । अचेताः प्रभुः प्राकरणिकः । मशकादयोऽप्राकरणिकाः । तेषामभिधानवशादेव अचेचसः प्रभोः व्यञ्जनया लाभे तदभिधानं पुनरुक्तमित्यर्थः । ********** टीका सम्पूर्णा ********** एवमनुप्रासे प्रसिद्ध्यभावस्य ख्यातविरुद्धत्वम् । यथा--- "चक्राधिष्ठततां चक्री गोत्रं गोत्रभिदुच्छ्रितम् । वृषं वृषभकेतुश्च प्रायच्छन्नस्य भूभुजः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ध) प्रसिद्ध्यभावस्येति---अनुप्रासितपदार्थस्य निर्दिष्टकर्मणि प्रसिद्ध्यभाव इत्यर्थः । चक्रेति । अस्य भूभुजः चक्राधिष्ठिततां राजमण्डलाक्रमणं चक्री विष्णुः प्रयच्छत्दत्तवान् । एवमुच्छ्रितं गोत्रं गोत्रभित इन्द्रः, वृषं धर्मं वृषभकेतुः महेशः । अत्रैष्टकर्मसु एषां कर्त्तृत्वप्रसिद्धिर्नास्ति किन्तु अनुप्रासार्थमेव तथोक्तम् । लोचना (लो, उ) चकेति---अयमाशयः, चकप्रभृतीनां च चक्रधिष्टिततादिमात्रेण प्रशंसनं न खलु प्रसिद्धम् । किन्त्वनुप्रासार्थमेवोपनिबद्धम् । ********** टीका सम्पूर्णा ********** उक्तदोषाणां च क्वचिददोषत्वं क्वचिद्गुणत्वमित्याह--- ************* टीका ************* विज्ञप्रिया (वि, न) उक्तदोषाणामिति दुः श्रवत्वप्रभृतीनामित्यर्थः । ********** टीका सम्पूर्णा ********** वक्तरि क्रोधसंयुक्ते तथा वाच्ये समुद्धते । रौद्रादौ तु रसेऽत्यन्तं दुः श्रवत्वं गुणो भवेत् ॥ ७.१६ ॥ लोचना (लो, ऊ) अधुना पदनिष्टत्वेन पञ्चधा विभक्तानामेषां दोषाणां क्वचित्केषांचिदन्यथात्वमित्याह । कोधोऽत्र रौद्ररसतामनापद्यमानो विवक्षितः, तस्य पृथगुक्तत्वात् । समुद्धते सम्यगौद्धत्यगुणयुक्ते वस्तुनि । आदिशब्देन बीभत्सः । ********** टीका सम्पूर्णा ********** एषु चास्वादस्वरूपविषात्मकतया मुख्यगुणप्रकर्षोपकारित्वाद्गुण इति व्यपदेशो भाक्तः । ************* टीका ************* विज्ञप्रिया (वि, प) वक्तरीति---समुद्धते प्रचण्डे भीषणे इति यावत् । रौद्रादौ रसे अत्यन्तं गुण इत्यन्वयः । ननु माधुर्यादय एव गुणास्तत्कथं दुः श्रवत्वादेर्गुणत्वमित्यत्राह---एषु चेति । माधुर्यादय आस्वादस्वरूपविशेषत्मका गुणा मुख्याः । तेषां प्रकर्षरूपो य उपचारः तत्कारित्वादौपचारिको गुणव्यपदेशो युक्त इत्यर्थः । लोचना (लो, ऋ) मुख्यो गुणो यदादित्यस्वरूपात्मको माधुर्यादिः । भाक्तः औपचारिकः । ********** टीका सम्पूर्णा ********** क्रमेण यथा--- "तद्विच्छेदकृशस्य कण्ठलुठितप्राणस्य मे निर्दयं क्रूरः पञ्चशरः शररतिशितैर्भिन्दन्मनो निर्भरम् । शम्भोर्भूतकृपाविधेयमनसः प्रोद्दामनेत्रानल- ज्वालाजालकरालितः पुनरसावास्तां समस्तात्मना" ॥ अत्र शृङ्गारे कुपितो वक्ता । ************* टीका ************* विज्ञप्रिया (वि, फ) अत्र क्रोधसंयुक्ते वक्तरि दुः श्रवत्वगुणमाह---तद्विच्छेदेति । तस्या विच्छेदेन कृशस्य कण्ठलुलितप्राणस्य च मे मनः, क्रूरः पञ्चशरः अतिशितैः शरैर्निर्दयं भिन्दन्, शम्भोः प्रोद्दामनेत्रानलज्वालेन समस्तात्मना करालित आस्ताम् । शम्भुः कथमिदं करिष्यतीत्यत्राह---भूतकृपेति । भूते प्रार्थिनि मयि कृपया एवं करिष्यति । अन्नेति । विच्छेदकण्ठलुठितादौ छकारठकारादयो वर्णा दुः श्रवाः कुपतवक्तृका गुणाः । ********** टीका सम्पूर्णा ********** "मूर्धव्याधूयमानध्वनदमरधुनीलोलकल्लोलजालो- द्धूताम्भः क्षोददम्भात्प्रसभमभिनभः क्षिप्तनक्षत्रलक्षण् । ऊर्ध्वन्यस्ताङिघ्रदण्डभ्रमिभररभसोद्यन्नभस्वत्प्रवेग- भ्रान्तब्रह्मण्डखण्डं प्रवितरतु शिवं शाम्भवं ताण्डवं वः" ॥ अत्रोद्धतताण्डवं वाच्यम् । इमे पद्ये मम । रौद्रादिरसत्व एतदिद्वतयोपेक्षयापि दुः श्रवत्वमत्यन्तं गुणः । यथा-- "उत्कृत्योत्कृत्य कृत्तिम--" इत्यादि । अत्र बीभत्सो रसः । ************* टीका ************* विज्ञप्रिया (वि, ब) उद्धते वाच्ये चाह---मूर्द्ध इति । शाम्भवं ताण्डवं नृत्यं वो युष्माकं शुभं प्रवितरतु । ताण्डवं कीदृशम् । मूर्द्धव्याधूयमानाया ध्वनन्त्या अमरधुन्या गङ्गाया लोलेन कल्लोलजालेन तरङ्गसमूहेन उद्धूतानां क्षिप्तानामम्भः क्षोदानां जलकणानां दम्भात्छलात्प्रसभं सहसा अभिनभो नभसि क्षिप्तनि नक्षत्राणां लक्षाणि---तादृशम् । पुनः कीदृशम् । ऊर्द्ध्वन्यस्तयोरङ्घ्रिदण्डयोर्भ्रमिभरेण भ्रम्याधिक्येन रभसोद्यतः सहसोद्रच्छतः नभस्वतः वयोः प्रवेगेण भ्रान्तं ब्रह्मण्डखण्डं यत्र तादृशम् । अत्रेति । उद्धतं भीषणं उत्कृत्य इत्यादौ बीभत्सो रसः । लोचना (लो, ॠ) उद्धतं हरताणडवम् । रौद्रे दुः श्रवत्वं यथा मम तातपादानां--- स्फुटविकटचपेटाघातनेनायमष्टौ सपदि कुलगिरीन् वा खण्डशश्चूर्णयित्वा । प्रलयमरूदुदारस्फीत्कृतो धूतवातः प्रसृतिभिरथ पारावारमुत्क्षेपयामि ॥ ********** टीका सम्पूर्णा ********** सुरतारम्भगोष्ठ्यादावश्लीलत्वं तथा पुनः । तथा पुनरिति गुण एव । यथा--- "करिहस्तेन संबाधे प्रविश्यान्तविलोडिते । उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते" ॥ अत्र हि सुरतारम्भगोष्ठ्याम्--- "ताम्बूलदानविधिना विसृजेद्वयस्यां व्द्यर्थैःपदैः पिशुनयेच्च रहस्यवस्तु" इति कामशास्त्रस्थितिः । आदिशब्दाच्छमकथाप्रभृतिषु बोद्धव्यम् । ************* टीका ************* विज्ञप्रिया (वि, भ) सुरतेति---सुरतस्यारम्भो यस्यां तादृशगोष्ठ्यादौ इत्यर्थः । करिहस्तेनेति । बालिकायाः सुरतोपायस्य द्वयर्थपदेन सूचनमिदम् । तथाहि पुंसो ध्वजः पताका साधनस्य सैन्यस्यान्तर्मध्ये प्रविश्योपसर्पन् गच्छन् विराजते । साधनान्तः कीदृशं सम्बाधे निबिडत्वादावृते । तर्हि कथं प्रवेश इत्यत्राह---करिहस्तेनेति । करिणां हस्तिनां हस्तेन शुण्डया विलोडिते । बालिकासुरतोपायस्यात्र द्व्यर्थपदेन सूचनम् । तथाहि सम्बाधे संकुचिते साधनस्य योनेरन्तः प्रविश्य उपसर्पन् गतागतं कुर्वन् पुंसो ध्वजः लिङ्गं विराजते । प्रवेशोपायमाह---करिहस्तेनेति । "तर्जन्यनामिकायुक्ते मध्यमा स्याद्वहिर्यदि । करिहस्त इति ख्यातः कामशास्त्रविशारदैः ॥ "इति । तादृशाङ्गुलित्रयेण विलोडिते इत्यर्थः । अत्रेति । रहस्यवस्तु गोप्यवस्तु तत्पिशुनयेत्सूचयेदित्यर्थः । गोष्ट्यादावित्यादि पदग्राह्यमाह---शमकथेति । यथा-- "उत्तानोच्छूनमण्डूकपटितोदरसन्निभे । क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥ "अत्र जुगुप्साश्लीलम् । प्रभृतिपदग्रह्यंचामङ्गलाभिप्रयवद्वक्तृबोध्यम् । यथा--- निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ अत्र कुरूणां भाव्यमङ्गलकाश्लीलसूचनम् । लोचना (लो, ळ) करिणो गजस्य हस्तः श्थूलहस्तः । "तर्ज्जन्यनामिके श्लिष्टे मध्यमा स्याद्वहिर्यदि । ऽ इति शृङ्गारशास्त्रप्रसिद्धरूपः स्त्रीयोनिविद्रावणः पुंध्वजास्याकारः करिकराख्यश्च । संबाधे संकटे । ध्वजश्च साधनमश्वादि स्त्रीवराङ्गं च पिशुनयेत्सूचयेत्शमकथायामश्लीलो यथा--- "लत्तानोच्छूनमण्डूकपाटितोदरसन्निभे । क्लेदिनि स्त्रीव्रणं सक्तिरकृमेः कस्य जायते" ॥ इति । ********** टीका सम्पूर्णा ********** स्यातामदोषौ श्लेषादौ निहतार्थाप्रयुक्तते ॥ ७.१७ ॥ यथा---"पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतं गहनम् । हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत" ॥ अत्रैन्द्रपक्षे पवित्रशब्दो निहतार्थः । सिंहपक्षे मतङ्गशब्दो मातङ्गर्थेऽप्रयुक्तः । ************* टीका ************* विज्ञप्रिया (वि, म) स्यातामिति---आदिपदात्यमकचित्रपरिग्रहः । तत्र निहतार्थाप्रयुक्तत्वयोर्द्वयोरदोषत्वे श्लेषे एकमुदाहरणमाह---पर्वतभेद पवित्रमिति । पतत्प्रवहत्सुरसरितो गङ्गाया अम्भो नमत् । तत्र विशेषणभेदात्दृष्टान्तत्रयं ददद्विशेषणान्याह--पर्वतेति । अम्भः कीदृशं पर्वतभेदि पवित्रं च । अत्र हरिमिन्द्रमिवेति दृष्टान्तः । सोऽपि हि पर्वतभोदिना पविना वज्रेण त्रायते अर्थात्देवान् । अम्भः कीदृशं नरंकस्य पापजन्ययातनाया जैत्रं नाशकमित्यर्थः । अत्र हरिं श्रीकृष्णरूपं विष्णुमिवेति दृष्टान्तः सोऽपि नरकस्य नरकासुरस्य जैत्रः । अम्भः कीदृशम्---बहुमतं बहुजनसम्मतं गहनं निबिडं च प्रवाहातिशयादत्र हरिं सिंहमिवेति दृष्टान्तः । सोऽपि बहूनां मतहगानां हन्ता । दोषद्वयं दर्शयति---अत्रेति । न चात्र हरिमेवेत्यत्रानवीकृतत्वं कथितपदत्वं वा दोष इति वाच्यम् । एकपदवाच्यानेकेषां दृष्टन्तकरणस्य वैचित्र्यविशेषत्वेन तदाधायकत्वेनादोषत्वात् । लोचना (लो, ए) पर्वतेति--गङ्गाजलपक्षे पर्वतं भेत्तुं शीलं यस्य । वपित्रं पूतं चेति पदद्वयम् । इन्द्रपक्षे पर्वतभोदिना पविना वज्रेण त्रायत इति । जलपक्षे बहूनां मतं सम्मतम् । गहनं चेति पदद्वयम् । सिंहपक्षे बहूनां मातङ्गानां हन्तरामित्येकपदम् । ********** टीका सम्पूर्णा ********** गुणः स्यादप्रवतीतत्वं ज्ञत्वं चेद्वक्तृवाच्ययोः । यथा--- "त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवतिनीम् । मद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः" ॥ ************* टीका ************* विज्ञप्रिया (वि, य) गुणः स्यादिति । ज्ञत्वं पण्डितत्वम् । त्वामामनन्तीत---त्वां व्रह्माणं पुरुषार्थानां धर्म्मार्थकाममोक्षाणां प्रवर्त्तिनीं प्रवर्त्तिकां प्रकृतिमामनन्ति वदन्ति सत्त्वरजस्तमसां सम्यावस्था प्रकृतिः तत एव समस्तपदार्थोत्पत्तिरिति सांख्यसिद्धान्तात् । तादृशावस्थास्वरूपं त्वामित्यर्थः । तथा च त्वामेव पुरुषं सर्वकर्त्तृपुरुषं विदुः । तत्र किं प्रमाणमित्यत आह---तद्दर्शिनमिति---तत एव दर्शनं ज्ञानं यस्य तादृशम् । तत्प्रणीतवेदेन तन्निर्मितगिरिसागरादिभ्योऽनुमानेन च तज्ज्ञानात् । उदासीनं समस्तकार्य्योत्पदाने स्वार्थत्वाभावात् । अत्र ब्रह्मा वाच्यः, वक्तार इन्द्रादयः । सर्व एव पण्डिताः । प्रकृत्यादयोऽप्रतीताः पाण्डित्यप्रकाशनाद्गुणत्वम् । लोचना (लो, ऐ) त्वां तदेकदर्शनमात्रप्रतीतरूपां प्रतीतशब्दाभिव्यञ्जकत्वम् । सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । कूटस्थः चित्स्वरूपः पुरुषः । तदर्थे प्रवर्त्तयितुं शीलं यस्याः । यदुक्तम्--- प्रकृतेः कियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते ॥ तस्या दर्शनं प्रकाशनं--प्रकृतेर्जडरूपायाश्चित्संकमणादेव कार्य्यकारित्वात् । अत्र प्रकृत्यादिशब्दः सांख्यशास्त्रप्रसिद्धः । ********** टीका सम्पूर्णा ********** स्वयं वापि परामर्शे--- अप्रतीतत्वं गुण इत्यनुषज्यते । यथा---"युक्तः कलाभिस्तमसां विवृद्ध्यै क्षीणश्च ताभिः क्षतये य एषाम् । शुद्धं निरालम्बपदावलम्बं तमात्मचन्द्रं परिशीलयामि" ॥ ************* टीका ************* विज्ञप्रिया (वि, र) स्वयं वापि परामर्शे इति कारिकापादस्तत्राप्रतीतत्वं गुण इति पूर्वोक्तमनुसञ्जयति---अप्रतीतत्वमिति । युक्तः कलाभिरिति--तं परमात्मस्वरूपं चन्द्रं परिशीलयामि सततं भावयामि इत्यर्थः । विलक्षणचन्द्रत्वादिति भावः । अन्यचन्द्रतो वैलक्षण्यमाह--युक्त इति । कालाभैः शरीरपरिग्रहेच्छारूपाभिः कलाभिः धर्मैः विशिष्टः सन् यस्तमसां शरीरात्मनोरभेदाबोधरूपाणां मोहानां विवृद्ध्यै भवति यथा रामशरीरपरिग्रहे । अन्यचन्द्रस्तु स्वीयषोडशांशरूपाभिः कलाभिर्युक्तः सन् तमसामन्धकारणां क्षतये एव भवति । तथा ताभिः कलाभैः हीनः सन्नेषां तमसां क्षतये भवति । अगृहीतशरीरत्वेन तादृशमोहाभावात्, अन्यचन्द्रस्तु कलाहीनः सन् तमोविवृद्ध्ये एव भवति । तमोनाशककलाभावेन तस्य तमो वृद्धीं प्रति यत्सत्त्वेऽग्रिमक्षणे यस्य सत्त्वं यदसत्त्वेऽग्रिमक्षणे यदसत्त्वं तत्तस्य कारणमित्येवंरूपकारणत्वात् । तथातं कीदृशं शुद्धं, चन्द्रस्तु कलङ्गी । तथा निरालम्बशून्ये पदेऽवलम्बमानं चन्द्रस्तु ज्योतिश्चक्रावलम्बी । अत्र कलातमः पदार्थौ अप्रतीतावपि स्वयं परामर्शे गुणौ पराप्रतीतेरुद्देश्यत्वात् । लोचना (लो, ओ) कलाभिः षोडशभिः, ताश्च एकादशेन्द्रियाणि, पञ्च तन्माभाणि । चन्द्रपक्षे--कला अवयवाः । तमांसि अज्ञानानि, अन्धकाराणि च । ताभिः कलाभिरेषां तमसाम् । निरालम्बपदमात्मपक्षे एतस्याश्रयाभावात् । चन्द्रपक्षे गगनम् । अत्र कलाशब्दार्थः योगशास्त्रमात्रप्रसिद्धः यदुक्तं--"षोडशकलः पुरुष"इति । ********** टीका सम्पूर्णा ********** ---कथितं च पदं पुनः ॥ ७.१८ ॥ विहितस्यानुवाद्यत्वे विषादे विस्मये क्रुधि । दैन्येऽथ लाटानुप्रासेऽनुकम्पायां प्रसादने ॥ ७.१९ ॥ अर्थान्तरसंक्रमितवाच्ये हर्षेऽवधारणो । गुण इत्येव । यथा--- "उदेति सविता ताम्रः---" इत्यादि । अत्र विहितानुवादः । ************* टीका ************* विज्ञप्रिया (वि, ल) विहितस्येति । तत्र विहितानुवादे उदाहरति---उदेतीति । अत्रेति । उदयसवितुरुद्देशे विहितस्य ताम्रत्वस्य अस्तमयसवितुरुद्देशेनापि विधेयतया प्रतिनिर्देशरूपोऽनुवाद इत्यर्थः । ********** टीका सम्पूर्णा ********** "हन्त ! हन्त ! गतः कान्तो वसन्ते सखि ! नागतः" । अत्र विषादः । "चित्रं चित्रमनाकाशे कथं सुमुखै ! चन्द्रमाः" । अत्र विस्मयः । लोचना (वि, व) अनाकाश इति---आकाशभिन्नायां त्वयि इत्यर्थः । ********** टीका सम्पूर्णा ********** "सुनयने नयने निधोहि" इति । अत्र लाटानुप्रासः । "नयने तस्यैव नयने च" । इत्यादावर्थान्तरसंक्रमितवाच्यो ध्वनिः । एवमन्यत्रापि । ************* टीका ************* विज्ञप्रिया (वि, श) लाटानुप्रासः समासासमासगतः । एकार्थत्वेन यमकम् । नयने तस्यैवेति--अत्र द्वितीयनयनपदमुत्कृष्टरूपार्थान्तरे संक्रमितवाच्यम् । एवमन्यदिति---तत्र "गच्छ गच्छ न तिष्ठात्र"इति क्रुधि । "हा हतोऽस्मि"इति दैन्ये । "एहि एहि वत्स !"इत्यनुकम्पायाम् । "मुञ्च मुञ्च रुषम्"इति प्रसादने । "कथय कथय वार्ताम्"इति हर्षे । "अयमयं वीर" इत्यवधारणे । ********** टीका सम्पूर्णा ********** सन्दिग्धत्वं तथा व्याजस्तुतिपर्यवसायि चेत् ॥ ७.२० ॥ गुण इत्येव यथा--- "पृथुकार्तस्वरपात्रं भूषितनिः शोषपरिजनं देव ! । विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) सन्दिग्धत्वमिति---सन्देयोग्यमित्यर्थः । द्व्यर्थत्वेन तद्योग्यता--विशेष्यद्वयेर्ऽथद्वयात्तु निश्चय एव तथा पदार्थमाह---गुण एवेति । निश्चयवशात्गुणैत्यर्थः । पृथुकार्त्तेति---राज्ञि दरिद्रस्योक्तिरियम् । आवयोः सदनं सम्प्रति समं, त्वत्तो धनलाभे तुपश्चात्समं न भविष्यति इति भावः । पृथूनि कार्त्तस्वरस्य सुवर्णस्य पात्राणि यत्र राजसदनं तादृशम् । पृथुकानां शिशूनामार्त्तस्वरस्य पात्रं दरिद्रसदनं भक्ष्याभावात् । भूषिताः सुवर्णदिमाण्डिताः निः शेषपरिजनाः यत्र राजसदनं तादृशम् । भुवि उषिताः सुप्ताः निः शेषपरिजना यत्र दरिद्रसदनं तादृशं शय्याविरहात् । बिलसद्धिः करेणुभिः हस्तिभिर्गहनं व्याप्तं राजसदनम्॑ विलसत्का बिले तिष्ठन्तो मूषिकपिपील्लिकादयस्तेषां रेणुभिः गहनं दरिद्रसदनम् । अत्र स्वगृहसाम्यव्याजेन राज्ञः सम्पदाधिक्यकथनात्व्याजस्तुतिः । व्याजस्तुतीत्युपलक्षणम् । पर्वतभेदि पवित्रमित्यादौ उपमाश्लेषादावपि तथात्वं बोध्यम् । लोचना (लो, औ) पृथ्विति---पृथुकानां बलानामार्त्तस्वरस्य पात्रं स्थानम् । पृथु बहुलं कार्त्तस्वरपात्रं सुवर्णभाजनं यत्र । भूषिताः भुवि पृथिव्यामुषिता मण्डिताश्च । विलसन्तः तिष्ठन्त एव विलसत्का रेणवो धूलयः । विलसन्तः करेणवो गजाश्च । ********** टीका सम्पूर्णा ********** वैयाकरणमुख्ये तु प्रतिपाद्येऽथ वक्तरि । कष्टत्वं दुः श्रवत्वं वा--- गुण इत्येव । यथा--- "दीधीवेवीट्समः कश्चिद्गुणवृद्ध्योरभाजनम् । क्विप्प्रत्ययनिभः कश्चिद्यत्र सन्निहिते न ते" ॥ अत्रार्थः कष्टः । वैयाकरणश्च वक्ता । ************* टीका ************* विज्ञप्रिया (वि, स) वैयाकरणमुख्य इति । अतिशयवैयाकरणमित्यर्थः । कष्टत्वं कष्टार्थत्वम् । दीधीवेवीङिति कश्चिज्जनो गुणवृद्ध्योरभाजनं गुणवृद्ध्या च हीन इत्यर्थः । दीधीवेवीङ्धात्वोरिडागमस्य च समस्तयोरपि गुणस्य तद्वाधिकाया वृद्धेश्चाभावात् । तथा कश्चिज्जनः क्विप्प्रत्ययनिभः, यत्र जने सन्निहिते सति तत्सन्निहितस्यापि न ते गुणवृद्धी, क्विप्प्रत्ययसन्निहितधातोरपि गुणवृद्ध्यभावात् । लोचना (लो, अ) दीधीवेवीङिति । कश्चिद्रिपुः । गुणः शौर्य्यादिः । पक्षे ईका रादीनामेत्वादिः । वृद्धिः समृद्धिः । पक्षे ईकारादीनामैत्वादिश्च दीधीवेवीधात्त्वेर्गुणवृद्धिनिषेधात् । क्विप्प्रत्ययनिभः क्विपः सर्वापहारीति लोपाद्रिपोः सर्वनाशः । अत्र न केवलं दुः श्रवत्वं कष्टत्वं च । ********** टीका सम्पूर्णा ********** एवमस्य प्रतिपाद्यत्वेऽपि । "अत्रास्मार्षमुपाध्यायं त्वामहं न कदाचन" । अत्र दुः श्रवत्वम् । वैयाकरणो वाच्यः । एवमस्य वक्तृत्वेऽपि । ************* टीका ************* विज्ञप्रिया (वि, ह) एवमिति । अस्य वैयाकरणस्य तद्दर्शयति---अत्रेति । हे उपाध्याय ! अत्र लोके त्वामहं कदाचन न अतार्प्सम् । एवमिति । अस्य वैयाकरणस्य वक्तृत्वे कष्टत्वं दुः श्रवत्वमपि गुण इत्यर्थः । तस्य वक्तृत्वे कष्टत्वस्य च उदाहृतत्वात् । ********** टीका सम्पूर्णा ********** ---ग्रम्यत्वमधमोक्तिपु ॥ ७.२१ ॥ गुण इत्येव । यथा मम--- "एसो ससहरबिम्बो दीसै हेअङ्गवीणपिण्डो व्व । एदे अस्ससमोहा पडन्ति आसासु दुद्धधार व्व" ॥ इयं विदूषकोक्तिः । ************* टीका ************* विज्ञप्रिया (वि, क) अदमोक्तिष्विति । गुण इत्यनुषङ्गः । एसो इति । "एष शशधरविम्बो दृश्यते हैयङ्गवीनपिण्ड इव । एते चास्य मयूखाः पतीन्ति आशासु दुग्धधारा इव ॥ " (इति संस्कृतानुवादः) (वि, क) ह्यो गोदोहोद्भवं घृतं हैयङ्गवीन भक्ष्यलम्पटस्योक्तौ भक्ष्यद्रव्यदृष्टान्तोऽत्र ग्रम्यो गुणः । लोचना (लो, आ) अधमा विदूषकादयः । एसो इति--- "एषः शशधरबिम्बो दृश्यते हैयङ्गवीनपिण्ड इव । एते चास्य मयूखाः पतन्त्याशासु दुग्धधारा इव" ॥ ********** टीका सम्पूर्णा ********** निर्हेतुता तु ख्यातेर्ऽथे दोषतां नैव गच्छति । यथा---"सप्रति संध्यासमयश्चक्रद्वन्द्वानि विघटयति" । कवीनां समये ख्याते गुणः ख्यातविरुद्धता ॥ ७.२२ ॥ कविसमयख्यातानि च--- मलिन्यं व्योम्नि पापे, यशसि धवलता वर्ण्यते हासकीर्त्योः रक्तौ च क्रोधरागौ॑ सरिदुदधिगतं पङ्कजेन्दीवरादि । तोयाधारेऽखिलेऽपि प्रसरति च मरालादिकः पक्षिसङ्घो ज्योत्स्ना पेया चकोरैर्जलधरसमये मानसं यान्ति हंसाः ॥ ७.२३ ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) सम्प्रतीति---सन्ध्यासमयस्य चक्रवाकद्वन्द्वविघटकत्वे तेषां ख्यातिसत्त्वान्नात्र हेत्वाकाङ्क्षा । कविसमयख्यातादिं दर्शयति---मालिन्यमिति । पापे इत्यर्थः । सत्कर्मणा कीर्तिः, दाने च यश इति यशकीर्त्त्योर्भेदः, मरालो हंसः । ********** टीका सम्पूर्णा ********** पादाघातादशोकं विकसति बकुलं योषितामास्यमद्यैर्- यूनामङ्गेषु हाराः, स्फुटति च हृदयं विप्रयोगस्य तापैः । मौर्वीरोलम्बमाला धनुरथ विशिखाः कौसुमाः पुष्पकेतो- र्भिन्नं स्यादस्य बाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्वत् ॥ ७.२४ ॥ ************* टीका ************* विज्ञप्रिया (वि, ग) योषितामास्यमद्यैर्वकुलं विकसतीत्यन्वयः । लोचना (लो, इ) हारो हृदयं च स्फुटतीति सम्बन्धः । युवजना युवानो युवतयश्च । स्त्रीकटाक्षैर्यून एव । ********** टीका सम्पूर्णा ********** अह्न्यम्भोजं, निशायां विकसति कुमुदं, चन्द्रिका शुक्लपक्षे मेघध्वानेषु नृत्यं भवति च शिखिनां नाप्यशोके फलं स्यात् । न स्याज्जाती वसन्ते॑ न च कुसुमफले गन्धसारद्रुमाणा- मित्याद्युन्नेयमन्यत्कविसमयगतं सत्कवीनां प्रबन्धे ॥ ७.२५ ॥ एषामुदाहरणान्याकरेषु स्पष्टानि । धनुर्ज्यादिष शब्देषु शब्दास्तु धनुरादयः । आरूढत्वादिबोधाय--- यथा---"पूरिते रोदसी ध्वानैर्धनुर्ज्यास्फालनोद्भवैः" । अत्र ज्याशब्देनापि गतार्थत्वे धनुः शब्देन ज्याया धनुष्यायत्तीकरणं बोध्यते । आदिशब्दात्--- "भाति कर्णावतंसस्ते" । अत्र कर्णस्थितत्वबोधनाय कर्णशब्दः । लोचना (लो, ई) एष्ववतंसादिपदप्रतिपादनेनापि कर्णार्थप्रतिपत्तेः पौनरुक्त्यम् । तथा हि---कर्णपदान्यन्यकर्णादिव्यवच्छेदेन प्रकृतस्यैव कर्णादीन् बोधयन्ति । तेश्च तेषां शोभादिः स्वहेतुकः । किन्तु प्रकृतनायिकाहेतुक एव पर्यवस्यतीति भावः । ********** टीका सम्पूर्णा ********** एवं श्रवणकुण्डलशिरःशेखरप्रभृतिः । ************* टीका ************* विज्ञप्रिया (वि, घ) धनुरिति । आरूढत्वेति । तद्वोधश्च धनुः शब्दादौ धनुरारूढत्वं लक्षणया रूढिहेतुकया लुप्तषष्ट्यर्थो वा आरूढत्वम् । गतार्थत्वेपीति--न च ज्याशब्दार्थः कथं धनुर्ज्यात्वस्य संस्थानविशेषव्यङ्ग्यजातिविशेष इति वाच्यम् । ज्यात्वस्य जातित्वेऽपि तत्सम्बन्धिनो धनुषो नमयतः स्मारकत्वेन तद्वशादेव धनुर्लाभे, धनुः पदस्याधिक्यप्रसक्तेरारूढत्वप्रतिपादनेन निरवसितत्वात्, यत्र कर्णस्थितत्वेऽपिअत्र पुनरुक्तिप्रसाक्तिवारणमेव कर्णावतंस्यापि सवतंसपदार्थत्वात्न चैवं कर्णस्थैतलक्षणायामपि कर्णस्थितकर्णभूषा इति बोधनेनैव पुनरुक्तिरिति वाच्यम् । अवतंसपदस्य कर्णयोग्यभूषार्थकत्वेन कर्णस्थितकर्णयोग्यभूषा इति पुनरुक्त्यभावात् । एवं श्रवणेति--एतद्द्वये पदाधिक्यस्यैव प्रसाक्तिः कुण्डलत्वकिरीटत्वयोः संस्थानव्यङ्ग्यजातित्वादेव । ********** टीका सम्पूर्णा ********** एवं निरुपपदो मालाशब्दः पुष्पस्त्रजमेवाभिधत्त इति स्थितावपि "पुष्पमालाविभाति ते" । अत्र पुष्पशब्द उत्कृष्टपुष्पवृद्ध्यै । एवं "मुक्ताहार" इत्यत्र मुक्ताशब्देनान्यरत्नामिश्रितत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ङ) पुष्पस्त्रजमेवाभिधत्ते इति । तथा चात्रापि पुनरुक्तेरेव प्रसक्तिः । उत्कृष्टपुष्पप्रसिद्ध्यै इति पुष्पांशो मालाशब्दार्थ एव पुष्पशब्दस्य तु उत्कृष्टे लक्षणेत्यर्थः । एवं मुक्ताहार इत्यत्रेति । मुक्तग्रैवेयकं हार इति कोशात् । मुक्तांशोऽपि हारशब्दार्थ एव इत्यतोऽत्रापि पुनरुक्तेरेव प्रसिक्तिः । अन्यरत्नामिश्रितत्वं तु मुक्ताशब्दलक्षणागम्यम् । ********** टीका सम्पूर्णा ********** ---प्रयोक्तव्याः स्थिता अमी ॥ ७.२६ ॥ धनुर्ज्यादयः सत्काव्यस्थिता एव निबद्धव्याः, न त्वस्थिता जघनकाञ्जीकरकङ्कणादयः । ************* टीका ************* विज्ञप्रिया (वि, च) सत्काव्यस्थिता एवेति---यतः सत्काव्ये स्थिता अतो निबद्धव्या एवेत्यन्वयः । तथा चात्र लक्षणाया रूढिहेतुकत्वं दर्शितम् । जघनकाञ्च्यादौ तु न रूढिरिति भावः । ********** टीका सम्पूर्णा ********** उक्तावानन्दमग्नदेः स्यान्न्यूनपदता गुणः । यथा--- "गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्रमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नतम्बाम्बरा । मा मा मानद ! माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) उक्तविति---आनन्दमग्नादेर्वचनस्योक्तावित्यर्थः । गाठालिङ्गनेति---सख्यौ सख्युरुक्तिरियम् । गाठालिङ्गनेन वामनीकृतकुचा चासौ प्रोद्भिन्नरोमोद्रमा चेति समासः । कुचे रोमवर्णनानौचित्यान्नास्य समासः । सान्द्रस्नेहरसातिरेकेण विगलत्श्रीमतो नितम्बादम्बरं यस्यास्तादृशविशेषणद्वयवती सा मम नायिका पीडयेत्यनुक्तिवशात्, हे मानद ! मां मा मा मा इत्यलिमित्येवमलक्षरोल्लापिनी सती सुप्तेत्यादिवितर्कचतुष्टयविषयोऽभूदित्यर्थः । सुप्ता निद्रिता निष्पन्दत्वाततिनिष्यन्दत्वेन मरणवितर्कः । मनोगतत्वेन मनसि लयवितर्कः मनसोरद्यापि अबहिर्भावातत्यन्तलयरूपस्य विलयस्य वितर्कः । लोचना (लो, उ) गाढेति--अत्र सुप्तेत्यादिना उत्तरोत्तरं निश्चलाधिक्यम् । किम् ? उक्तरूपा प्रिया मम मनसि सुप्ता नु ! स्थिरतया वर्त्तमानत्वात् । सुप्तापि पुनरुत्थाय पातीत्याशङ्क्याह मृता नु किम् ? सापि परैर्बहिष्कर्तुं शक्या इत्यत आह---लीनेति । जतुकाष्टादिवदिति विशेषः । तथाभूतापि केनचिद्व्यावर्त्तयितुं शक्येतेत्यत आहविलीनेति--दुग्ध्रे जलवत्सर्वथा भेदोपलम्भाभाव इति भावः । ततोमामेति सामान्यतः प्रकृतनिराकरणम् । माति मामित्यत्र पडियेति कियापदं न्यूनम् । एतत्प्रतिपादिकाया नायिकायाः सान्द्रानन्दजडीभूततया सङ्कीर्णवाक्योच्चारणेऽप्यसामर्थ्यं व्यनक्तीति न्यूनपदत्वं गुणः । ********** टीका सम्पूर्णा ********** अत्र पीडयेति न्यूनम् । क्वचिन्न दोषो न गुणः--- न्यूनपदत्वमित्येव । यथा--- "तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः । तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्जातेति कोऽयं विधिः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) तिष्ठेत्कोपेति---उर्वशीमनासाद्य पुरुरवसोऽयं वितर्कः । सा उर्वशी स्वप्रभावेन पिहिता अदृश्या तिष्ठदिति वितर्क्याह--दीर्घं न सा इति एवं स्वर्गाय इति वितर्क्याह---मयि पुनरिति । अस्या असुरेण हरणकोटिस्तु असम्भव्या इत्याह---तां हर्तुमिति । मे पुरोवर्ततिनीमिति तत्र हेतुः । अतोऽदर्शने हेत्वभावान विस्मयादाह---सा चेति---अगोचरमगोचरत्वं याता प्राप्ता । ********** टीका सम्पूर्णा ********** अत्र प्रभावपिहितेतिं भवेदिति चेत्यनन्तरं "नैतद्यतः" इति पदानि न्यूनानि । एषां पदानां न्यूनतायामप्येतद्वाक्यव्यङ्ग्यस्य वितर्काख्यव्यभिचारिभावस्योत्कर्षाकरणान्न गुणः । "दीर्घं न से" त्यादिवाक्यजन्यया च प्रतिपत्त्या तिष्ठेदित्यादिवाक्यप्रतिपत्तेर्बोधः स्फुटमेवावभासत इति न दोषः । ************* टीका ************* विज्ञप्रिया (वि, झ) अत्रेति---पूर्वोक्तस्य निषेधं प्रत्येव दीर्घं न सा इत्यनयोः हेतुत्वात्नतु पूर्वप्रतीतिं प्रति इति भावः । ननूत्कर्षस्याकरणात्मा भवतु गुणत्वं, दोषत्वं तु स्यादित्यत आह--दीर्घं न सेत्यादीति । बाधः स्फुटमेवेति---विरोधिनः परवाक्यस्य तथात्वनियमात् । तथा च "नैतद्यतः"इत्यस्याकाङ्क्षावशादध्याहारोऽपि न दोषाय इति भावः । लोचना (लो, ऊ) तिष्ठेदित्यादि । प्रभावेन दिव्येन पिहिता, अदृश्या सा उर्वशी । प्रतिपत्त्या ज्ञानेन । उत्तरा प्रतिपत्तिः पूर्वां प्रतिपत्तिं बाधते । ********** टीका सम्पूर्णा ********** ---गुणः क्वाष्यधिकं पदम् ॥ ७.२७ ॥ यथा--- "आचरिति दुर्जनो यत्सहसा मनसोऽप्यगोचरानर्थान् । तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम्" ॥ अत्र "न न जान" इत्ययोगव्यवच्छेदे । लोचना (लो, ऋ) अयोगव्यवच्छेदोऽहं जानामीत्येवंरूपः । ********** टीका सम्पूर्णा ********** द्वितीये "जान" इत्यनेन नाहमेव जाने इत्यन्ययोगव्यवच्छेदाद्विच्छित्तिविशेषः । ************* टीका ************* विज्ञप्रिया (वि, ञ) गुणः क्वापीति---यत्राधिकपदस्य रूढिलक्षणया अर्थान्तरं तत्रेत्यर्थः । आचारतीति---मनसोऽप्यगोचरानर्थातसदर्थान् सहसा यत्दुर्जन आचरति तदहं न न जाने । अपि त्वहमेव जाने इत्यर्थः, किन्तु मम भनः निष्ठुरतां नैव स्पृशति इत्यर्थः । विच्छित्तिर्बोधविशेषरूपा भङ्गिः । अत्रेति---आकाङ्क्षोत्थानानुत्थानद्वयमत्र अदोषदोषतयोर्बोजम् । ********** टीका सम्पूर्णा ********** समाप्तपुनरा त्तत्वं न दोषो न गुणः क्वचित् । यथा---"अन्यास्ता गुणरत्न-" इत्यादि । अत्र प्रथमार्धेन वाक्यसमाप्तावपि द्वितीयार्घवाक्यं पुनरुपात्तम् । एवं च विशेषणमात्रस्य पुनरुपादाने समाप्तपुनरात्तत्वं न वाक्यान्तरस्येति विज्ञेयम् । ************* टीका ************* विज्ञप्रिया (वि, ट) अन्यस्ता इत्यत्र पूर्वार्द्धेन वाक्यसमाप्तावपि कथमत्र निष्पादकगुणरत्नादीनां वैलक्षण्यमित्याकाङ्क्षोत्थानाददोषता । समाप्तपुनरात्तत्वस्य दोषत्वादोषत्वे विनिगमयति---एवञ्चेति । विशेषणमात्रस्य इत्यत्रापि अनाकाङ्क्षितस्येति बोध्यं, विशेषणे आकाङ्क्षासत्त्वे तु न दोष इति प्रागेव दर्शितम् । तथा चाकाङ्क्षाया एव नियामकत्वं॑ न वाक्यत्वविशेषणत्वयोरिति स्थितेन वाक्यान्तरस्येति यदुक्तं तद्वाक्यान्तरे आकाङ्क्षा अवश्यं तिष्ठतीत्यभिप्रायेणैव । लोचना (लो, ॠ) द्वितीयार्द्धवाक्यं श्रीमत्कान्तीत्यादि । एवञ्चेति--विशेषणमात्रस्येत्युपलक्षणम् । तेन कर्त्तृकर्मादीनामन्येषां पदानामपि वाक्यसमाप्तावुक्तौ । यथोदाहृतं दिवाकरो हरिरित्यादिः । ********** टीका सम्पूर्णा ********** गर्भितत्वं गुणः क्वापि--- यथा--- "दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सापि वदन्त एव हि वयं रोमाञ्जिताः पश्यत । विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मात्प्रादुरभूत्कथाद्भुतमिदं यत्रैव चास्तं मतम्" ॥ अत्र वदन्त एवेत्यादि वाक्यं वाक्यान्तरप्रवेशात्चमत्कारातिशयं पुष्णाति । ************* टीका ************* विज्ञप्रिया (वि, ठ) दिङ्मातङ्गघटेति । आघाटः पर्यन्तः । तथा च दिङ्मातङ्गघटाभिर्विभक्ताश्चत्वारः पर्यन्ताः यस्याः तादृशी मही येन रामेण साध्यते । सिद्धा व्याघातशून्यसाधनेन स्ववशीकृता सापि मही विप्राय प्रतिपाद्यते । किमपरं ब्रूम इति शेषः । तस्मै रामाय नम इदं काथाद्भुतं यस्मात्प्रादुरभूतन्यैरतथाकारणात्यस्मादेव प्रादुरभूदित्यर्थः । यत्रैव चास्तं गतं, केनाप्युत्रकालं तथाकरणादस्तं गतमित्येवं वदन्त एव वयं रोमाञ्चिता एव इदं पश्यतेत्यर्थः । हिरवधारणे । अत्रेति । चमत्कारस्य वाक्यऽसमाप्तावेव विस्मयोद्वोधात् । लोचना (लो, ळ) दिङ्भातङ्गेत्यादिपदस्य चतुः समुद्रसीमा इत्यर्थः । ********** टीका सम्पूर्णा ********** ---पतत्प्रकर्षता तथा ॥ ७.२८ ॥ तथेति क्वचित्गुणः । यथा---"चञ्चद्भुज-" इत्यादि । अत्र चतुर्थपादे सुकुमारार्थतया शब्दाडम्बरत्यागो गुणः । ************* टीका ************* विज्ञप्रिया (वि, ड) अत्र चतुर्थपाद इति । उत्तंसयिष्यति कचांस्तव देवि ! भीम इत्यत्र सुकुमारतया वर्णानामसमासेन च सुकुमारतयेत्यर्थः । ********** टीका सम्पूर्णा ********** क्वचिदुक्तौ स्वशब्देन न दोषो व्यभिचारिणः । अनुभावविभावाभ्यां रचना यत्र नोचिता ॥ ७.२९ ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) क्वचिदुक्ताविति । व्यभिचारणः स्वशब्देनोक्तौ क्वचिन्न दोष इत्यर्थः । कुत्र न दोष इत्यत्राह---अनुभावेति । रचना प्रतिपादनम् । अनौचित्यमेव द्विविधं तद्द्वयं व्याचष्टे यत्रेत्यादिभ्याम् । ********** टीका सम्पूर्णा ********** यत्रानुभावविभावमुखेन प्रतिपादने विशदप्रतीतिर्नास्ति, यत्र च विभावानुभावकृतपुष्टिराहित्यमेवानुगुणं ************* टीका ************* विज्ञप्रिया (वि, ण) विभावानुभावकृतेति---व्यभिचारिभावस्य यौ विभावानुभावौ ताभ्यां व्यङ्ग्यत्वरूपाया व्यभिचारिभावस्य पुष्टिस्तद्राहित्यमेवेत्यर्थः । ********** टीका सम्पूर्णा ********** तत्र व्यभिचारिणः स्वशब्देनोक्तौ न दोषः । यथा--- "औत्सुक्येन कृतस्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नोताभिमुख्यं पुनः । दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सह्गमे संहोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः" ॥ ************* टीका ************* विज्ञप्रिया (वि, त) द्वयोरेकमेवोदहरणमाह---औत्सुक्येन इति । गौरी नवे संगमे प्रथमदिने हरसान्निध्यनिमित्तमौत्सुक्येन कृतत्वारानन्तरं च सहभुवा साहजिकया ह्रिया व्यावर्त्तमाना ततश्च तैस्तैरित्यादि । ततश्च वरं स्वामिनं हरमग्रे दृष्ट्वा आत्तसाध्वसरूपरसा, ततश्च हसता हरेणश्लिष्टा सती संरोहत्पुलका ईदृशी वः शिवायास्तु । लोचना (लो, ए) कुतो न दोष इत्याह---अनुभावेति । औत्सुक्येनेति । सहभुवा त्वरासमनन्तरकालोत्पन्नया त्वरयेति । भयेन त्वरां कृतवतीति सम्भ्रान्तिसम्भावनत्वादित्यर्थः । एवमन्यत्र एषामौत्सुक्यादीनां "दूरादुत्सुकमागते विवलितम्"इत्यादौ विवलनादिरूपानुभावमुखेन यथा लज्जादिप्रतिपाद्रनं तथा सहसा प्रसारणरूपानुभावमुखेन औत्सुक्यस्य प्रतिपादने न विशदप्रतीतिरिति व्यभिचारिणः स्वशब्दप्रतिपादनमेवोचितमिति भावः । ********** टीका सम्पूर्णा ********** अत्रौत्सुक्यस्य त्वरारूपानुभावमुखेन प्रतिपादने सङ्गमे न झटिति प्रतीतिः, त्वराया भयादिनापि सम्भवात् । ह्रियोऽनुभावस्य च व्यावर्तमानस्य कोपादिना सम्भवात् । साध्वसहासयोस्तु विभावादिपरिपोषस्य प्रकृतरसप्रतिकूलप्रायत्वादित्येषां स्वशब्दाभिधानमेव न्याय्यम् । ************* टीका ************* विज्ञप्रिया (वि, थ) अत्रेति । औत्सुक्यस्य त्वरारूपो योऽनुभावस्तुन्मुखेनेत्यर्थः । झटित्यप्रतीतौ बीजमाह---त्वराया भयादिनापीति । एवं ह्रियोऽप्यनुभावव्यावर्त्तनात्न झटिति तत्प्रतीतिः इत्यतः तस्यापि ह्रियेति शब्दस्य वाच्यत्वं न दोष इत्याह---ह्रियोऽनुभावस्य चेति । विभावानुभावकृतपुष्टिराहित्यं दर्शयति---साध्वसहासयोस्तु इति । साध्वसं भयं हासश्च हास्यहेतुश्चेतोविकासः स्थायिभावलक्षणे दर्शितः । तद्द्वयं च भयानकहास्यरसयोः स्थायिभावावपि गौरमहेशयोः शृङ्गरेऽत्र व्यभिचारभावौ । तयोः स्वस्वविभावादिना परिपोषस्य प्रकृतशृङ्गाररसप्रतिकूलप्रायत्वातित्यर्थः । विभावादीत्यादिपदातनुभावपरिग्रहः । तथा हि कम्पस्तावद्गौरी साध्वसस्यानुभावः । महेशहासश्चोद्दीपनविभावस्ततश्च साध्वसहासावनुपादाय यदि सकम्पा इति क्रियेत तदा तदङ्गसर्पदर्शनात्भयेन आर्द्रगजचर्मकपालदर्शनात्जुगुप्सया च शृङ्गारप्रतिकूलाभ्यां तत्कम्पसम्भवात्न शृङ्गारव्यभिचारिणोः साध्वसहासयोरेव व्यञ्जना स्यात्, भयजुत्पसोश्च व्यञ्जनासम्भवादित्यत एषामौत्सुक्यह्रीसाध्वसहासानां स्वशब्देनाभिधानिमित्यर्थः । साध्वसहासयोरपि व्यञ्जनसम्भवात्नात्यन्तं प्रातिकूल्यमित्यतः प्रायत्वादित्युक्तम् । ********** टीका सम्पूर्णा ********** सञ्चार्यादेर्विरुद्धस्य बाध्यत्वेन वचो गुणः । लोचना (लो, ऐ) विरुद्धस्य प्रकृतरसादिप्रतिकूलस्य । ********** टीका सम्पूर्णा ********** यथा--"क्वाकार्यं शशलक्ष्मणः क्व च कुलम्-" इत्यादि । अत्र प्रशमाङ्गानां वितर्कमतिशङ्काधृतीनामभिलाषाङ्गौत्सुक्यस्मृतिदैन्यचिन्ताभिस्तिरस्कारः पर्यन्ते चिन्ताप्रधानमास्वादप्रकर्षमाविर्भावयति । ************* टीका ************* विज्ञप्रिया (वि, द) सञ्चार्य्यादेरिति---सञ्चारी व्यभिचारी । आदिपदादनुभावविभावौ च । विरुद्धरसीयस्यापि तस्य बलवता बाध्यस्य बाध्यत्वेन कथनं विरोधिनो जये यथातथा गुणः । प्रशमाङ्गानामिति । शान्तरसस्थाभीभावः प्रशमः । तदङ्गानां तदीयानामित्यर्थः । अभिलाषाङ्गेति । अभिलाषो रतिस्तदीयौत्सुक्यादिभिरित्यर्थः । पर्य्यन्त इति । कः खलु युवा धन्योऽधरं पास्यत्यनेन व्यङ्ग्येत्यर्थः । ********** टीका सम्पूर्णा ********** विराधिनोऽपि स्मरणो साम्येन वचनेऽपि वा ॥ ७.३० ॥ भवेद्विरोधो नान्योन्यमङ्गिन्यङ्गत्वमाप्तयोः । ************* टीका ************* विज्ञप्रिया (वि, ध) विरोधिनोऽपि इति---विरोधिरसस्यापि सञ्चार्य्यादेः स्मरणि स्मर्य्यमाणत्वेन व्यञ्जितस्य वचने साम्येन वथनेऽपि प्रकृतरसेन सह न विरोधो भवेत् । एवकङ्गिन्यङ्गत्वमाप्तयोश्च नान्योन्यविरोध इत्यर्थः । अङ्गिन्यङ्गत्वमाप्तयोरित्यत्र चार्थः पूरणीयः । ********** टीका सम्पूर्णा ********** क्रमेण यथा---"अयं स रसनोत्कर्षो-" इत्यादि । अत्रालम्बनविच्छेदे रतेररसात्मतया स्मर्यमाणानां तदङ्गानां शोकोद्दीपकतया कुणानुकूलता । ************* टीका ************* विज्ञप्रिया (वि, न) अयं स इत्यादिकं स्पष्टम् । अत्र रसनोत्कर्षणादयः उद्दीपनविभावाः स्मर्य्यमाणास्तद्व्यङ्ग्याः । शृङ्गारोऽपि स्मर्य्यमाणो व्यङ्ग्यस्यापि अतीतत्वेन स्मर्य्यमाणता । लोचना (लो, ओ) आलम्बनं, संग्रामनिग्रहः । ********** टीका सम्पूर्णा ********** "सरागया स्त्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया । मुहुर्मुहुर्दशनविलङ्घितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे" ॥ ************* टीका ************* विज्ञप्रिया (वि, प) साम्येन वचने आह---सरागयेति । पीठोपविष्टानां राज्ञां युद्धोद्यमार्थं क्रोधस्य वर्णनमिदम् । नृपा रुषा भेजिरे प्रपेदिरे प्रियतमया इव । अर्थात्क्रुद्धाया रुषः क्रुद्धिप्रियतमायाः विशेषणान्याह---सरागयेति । रुषो रक्तवर्णनं कविसम्प्रदायसिद्धम्, पक्षे तु प्रियतमत्वेन अनुरागयुक्तया॑ क्रोधाधीनलौहित्यभाजा । स्त्रुतं क्षरितं घनं घर्मतोयं राज्ञां यतः, रुषा तादृश्या, स्त्रुतं निः सृतं घनं घर्मतोयं गात्रात्यस्यास्तादृश्या प्रियतमया । कराहतीति । राज्ञां कराहत्या पीठध्वननं रुषा प्रयुक्तम् । पीठस्य पृथुत्वं विस्तारः, उरुत्वं उच्चत्वं, प्रियतमया तु स्वीयकराहत्या पृथोः स्वोरुदेशरूपस्य पीठस्य ध्वननम् । मुहुरिति । दशनोष्ठलङ्घनं नृपकर्त्तृकं रुषा प्रयुक्तम् । प्रियतमायास्तु स्वकर्त्तृकम् । लोचना (लो, औ) रागो लौहित्यं प्रेमा च । ********** टीका सम्पूर्णा ********** अत्र सम्भोगशृङ्गारो वर्णनीयवीरव्यभिचारिणः क्रोधस्यानुभावसाम्येन विवक्षितः । ************* टीका ************* विज्ञप्रिया (वि, फ) अत्रेति । एकसस्थायिभावोऽपि अन्यरसे व्यभिचारिभाव इत्यतो रौद्रसस्थायिभावः क्रोधोऽत्र प्रक्रान्तवीररसस्य व्यभिचारिभावस्तद्व्यङ्ग्यस्य प्रकृतबीररसस्य साम्येनात्र सरागत्वादिव्यङ्ग्यः सम्भोगशृङ्गारो विवक्षित इत्यर्थः । ननु प्रियतमया इव इत्युक्त्या प्रियतमैव साम्येन विवक्षिता, न तु शृङ्गार इत्यत आह---अनुभावसाम्येनेति । वीरशृङ्गारयोर्द्वयोरपि सरागत्वादयोऽनुभावाः । तेषामेकशब्दवाच्यत्वरूपरससाम्ये तु तद्व्यङ्ग्ययोर्वोरशृङ्गारयोरपि साम्यमित्यर्थः । यद्यपि "अनुकूलौ निषेवेति यत्रान्योऽन्यं विलासिनौ । दर्शनस्पर्शनादीनि स सम्भोग उदाहृतः ॥ "इत्येवं सम्भोगलक्षणमुक्तम् । तथापि प्रमाधीनक्रोधदर्शनादावानुकूल्यमस्त्येव, इत्यतोऽयं सम्भोगशृङ्गार एव । ********** टीका सम्पूर्णा ********** "एकं ध्यानिमीलनान्मुकुलितप्रायं द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनभरे सम्भोगभावालसम् । अन्दद्दूरविकृष्टचापकमनक्रोधानलोद्दीपितं शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः" ॥ अत्र शान्तशृङ्गाररौद्ररसपरिपुष्टा भगवद्विषया रतिः । ************* टीका ************* विज्ञप्रिया (वि, ब) अङ्गिनि अङ्गत्वमाप्तयोरविरोधमाह---एकमिति । समाधिसमये विभिन्नरसं शम्भोः नेत्रत्रयं वः पातु । तत्र भिन्नरसत्वं दर्शयति---ध्याननिमीलनेन मुकुलप्रायमिति । क्वचित्तु ध्याननिमीलनात्मुकुलतप्रायमिति पाठः, तदा मुकुलितं मुकुलशब्दात्क्तप्रत्ययेन मुकुलतुल्यम् । प्रायः पदात्तु अल्पमुकुलम् । अयं शान्तानुभावः । द्वितीयमिति । वदनाम्भुजस्तनभरे इत्यत्र प्राण्यङ्गत्वात्समाहारद्वन्द्वः । अयं शृङ्गारानुभावः । अन्यदिति । दूरे विकृष्टचापो यो मदनः तद्विषये क्रोधानलेनोद्दीपितमित्यर्थः । अत्र रौद्ररसस्थायिभावस्य क्रोधस्य वाच्यत्वेऽप्युद्दीपनेन तदनुभावेन पुनर्व्यञ्जना अपराङ्गतेत्याह---अत्रेति । शान्तादिपदमत्र स्थायिपरम् । तेषां विरोधिनामुक्तानुभावैर्व्यङ्ग्यानामपराङ्गत्वेनाविरोध इत्याह---अत्रेति । लोचना (लो, अ) अत्र शान्तेति---अङ्गिनो भगवद्विषयरतिभावस्य अङ्गभावेन विरुद्धानामपि शान्तादीनां नान्योऽन्यविरोध इति भावः । ********** टीका सम्पूर्णा ********** यथा वा--- "क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभैः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः" ॥ ************* टीका ************* विज्ञप्रिया (वि, भ) इत्थमङ्गिनि विरोधिनां साक्षादविरोधं दर्शयित्वा साक्षात्परम्पराभ्यां तादृशानामविरोधमाह---यथा वा---क्षिप्त इति । त्रिपुरुदाहे स प्रसिद्धः शाम्भवः शराग्निर्वो दुरितं दहतु । कीदृशः हस्तावलग्नः सन् साश्रुनेत्रोत्पलाभिस्त्रिपुरयुवतिभिरार्द्रपराधः कामीव क्षिप्तः एवमंशुकस्यान्तमाददानोऽपि अभिहतः । अपिकारो ह्यत्र भिन्नक्रमे । तथा केशेषु गृह्णनपास्तः । कामिपक्षे---चुम्बनार्थं केशग्रहणं तथा चरणनिपाततोऽग्निः सम्भ्रमेण भयेन नेक्षितः । कामी तु चरणनिपतितः संभ्रमेणादरेण यतीक्षणं तद्विषयो न कृतः । आलिङ्गनिति स्पष्टम् । अग्निपक्षे---भयात्कामिपक्षे क्रोधादश्रु । ********** टीका सम्पूर्णा ********** अत्र कविगता भगवद्विषया रतिः प्रधानम् । तस्याः परिपोषकतया भगवतस्त्रिपुरध्वंसं प्रत्युत्साहस्यापरिपुष्टतया रसपदवीमप्राप्ततया भावमात्रस्य करुणोऽङ्गम् । तस्य च कामीवेतिसाम्यबलादायातः शृङ्गारः । एवं चाविश्रान्तिधामतया करुणस्याप्यङ्गतैवेति द्वयोरपि करुणशृङ्गारयोर्भगवदुत्साहपरिपुष्टतद्विषयरतिभावास्वादप्रकष्रकतया यौगपद्यसम्भावादङ्गत्वेन न विरोधः । ************* टीका ************* विज्ञप्रिया (वि, म) कविगता कविनिष्ठा प्रधानम्, स दहतु इत्यादि निराकाङ्क्षवाक्यव्यङ्ग्यत्वात्ष तस्याश्चेति । तस्याः प्रधानस्य भगवदुत्साहस्त्रिपुरं प्रत्याग्नेयास्त्रप्रयोगाद व्यङ्ग्यः । स च तन्महत्त्वसूचकत्वेन तद्विषयरतिभावस्याधिक्यरूपपुष्टिकारक इत्याह---परिपोषकतयेति । उत्साहो रतिभावस्याङ्गमित्यर्थः । तस्योत्साहस्य करुणोऽङ्गमित्यन्वयः । ननु उत्साहो वीररसस्थायिभावः । स चात्र व्यङ्ग्य इत्यतो वीररस एवात्र प्रधानम् । तत्कथं रतिभावस्य प्राधान्यमुक्तमित्यत आह---तस्य चापरिपुष्टतया इति । तस्योत्साहस्य साकाङ्क्षवाक्यव्यङ्ग्यत्वेन दहत्विति निराकाङ्क्षवाक्यव्यङ्ग्यकविभावाङ्गत्वेनाप्राधान्यरूपया अपरिपुष्टतया रसपदवीमनाप्ततया भावमात्रस्य स्थायिभावस्येत्यर्थः । करुण इति । त्रिपुरयुवतीनां शोच्यावस्थाव्यङ्ग्यः करुणः तत्पुष्टिकारकोऽङ्गमित्यर्थः । तस्य चेति । अस्य करुणस्य इत्यर्थः । शृङ्गारोऽङ्गमित्यन्वयः । तस्याङ्गता च उपमानोपमेयप्रकर्षणात् । इत्थं भगवदुत्साहपुष्टस्य भगवद्विषयकविभावस्य साक्षात्परम्पराभ्यामङ्गभूतौ करणशृङ्गारौ विरोधिस्वरूपौ अपि अविरुद्धौ इति दर्शयति---एवं चाविश्रान्तीति । अविश्रान्तिधामतया साकाङ्क्षताऽश्रयतया, अङ्गिसाकाङ्क्षतयेति यावत् । भगवदुत्साहस्तु अङ्गमपि भावस्याविरोधित्वात्तद्विरोधो न दर्शितः । ननु स्मर्य्यमाणविभावादिव्यङ्ग्यस्य रसस्यापि, स्मर्य्यमाणस्य विभावादिसाम्यस्य विवक्षाधीनविवक्षितसाम्यस्य अङ्गिरसेन सह विरोधप्रसक्तावपि न विरोधैत्युक्तम्, अङ्गिरसेन सह विरोधप्रसक्तिरेव नास्तीत्याशङ्कते--- लोचना (लो, आ) अपरिपुष्टतया विभावादिभिरित्यर्थः । भावमात्रस्य इत्यत्र हेतुः । रसपदवीमप्राप्तत्वमङ्गत्वादित्यर्थः । साम्यबलादायातः सदृशविशेषणमहिम्ना प्राप्तः । करुणस्येति । करुणस्य शृङ्गरापेक्षयोऽङ्गित्वेऽपि भगवद्रत्युत्साहस्याङ्गत्वादेवेत्यर्थःकिञ्चात्र शृङगाररसस्य "अयं स रसनोत्कर्षो"त्यादिपूर्वोक्तदिशा स्मर्य्यमाणतयांशभूतत्वेनापि व्यक्तीकरणेन न विरोधः । तथा हि यासां त्रिपुरयुवतीनां प्रणयरोषनिवारणार्थं कामी निराकृतहस्तग्रहणानि कृतवान् । तास्वेव निष्करुणासु शाम्भवः शराग्निस्तथा चेष्टितवानिति सादृश्यसंदर्शनात्स्मर्य्यमाणेनेर्ष्यविप्रलम्भेन करुणः प्रत्युत पुष्टं नीतः । तेन च त्रिपुररिपुप्रभावातिशयपरिपुष्टस्तद्विषयरतिभावः परिषोषं नीयते । ********** टीका सम्पूर्णा ********** ननु समूहालम्बनात्मकपूर्णघनानन्दरूपस्य रसस्य तादृशेनेतररसेन कथं विरोधः सम्भावनीयः ? एकवाक्ये निवेशप्रादुर्भावैर्यौगपद्यविरहेण परस्परोपमर्दकत्वानुपपत्तेः । ************* टीका ************* विज्ञप्रिया (वि, य) ननु इति । समूहालम्बनेति---प्रपानकरसन्यायाच्चर्व्यमाणो रसो भवेदित्यनेनोक्तस्य विभावादिसमूहालम्बनात्मकस्य निराकाङ्क्षवाक्यव्यङ्ग्यत्वेनाकाङ्क्षापूर्त्त्या पूर्णस्य घनस्य विषयान्तराग्रहणे निबिडस्याऽनन्दरूपस्य रसस्य अङ्गिरसस्य तादृशेन स्मर्यमाणेन विवक्षितसाम्येन वा रसेन सह कथं विरोधः सम्भावनीय इत्यर्थः । असम्भावनायां हेतुमाह---एकवाक्ये इति । अङ्गिरसस्तावन्निराकाङ्क्षविधेयवाक्यात्प्रादुर्भवति । स्मर्यमाणोपमानयोस्तु साकाङ्क्षोद्देश्यवाक्ययोरेव प्रादुर्भावेण एकवाक्यप्रादुर्भवरूपयौगपद्यविरहेणपरस्परोपमर्द्दकत्वानुपपत्तेरित्यर्थः । तुल्यबलत्वाभावेन प्रधानभूतेन निराकाङ्क्षविधेयवाक्येन व्यङ्ग्यतया प्रधानेन अङ्हिरसेन बलवता स्मर्यमाणोपमानयोरेव उपमर्दनादिति भावः । न चायं स रसनोत्कर्षोत्यादौ निराकाङ्क्षवाक्यैरेव स्मर्यमाणशृङ्गार इति वाच्यम् । रसनोत्कर्ष्यादिकरोऽयं हस्तः पतित इत्येवं विधेयपातित्यसाकाङ्क्षत्वादेव । तेषां विधेयपातित्यं तु करुणव्यञ्जकमेव शृङ्गारस्य व्यङ्ग्यत्वेऽपि परोक्षत्वादेव स्मर्यमाणतोपचार इति बोध्यम् । ********** टीका सम्पूर्णा ********** नाप्यङ्गाङ्गिभावः, द्वयोरपि पूर्णतया स्वातन्त्र्येण विश्रान्तेः । ************* टीका ************* विज्ञप्रिया (वि, र) इत्थं स्मर्यमाणोपमानयोर्विरोधाप्रसक्तिं दर्शयित्वा अङ्गिन्यङ्गत्वमाप्तयोरङ्गाङ्गिभावासम्भवमेवाशह्कते---नाप्यङ्गङ्गिभाव इति । द्वयोरपि इति । शृङ्गारकरुणयोर्विरोधिनोरित्यर्थः । स्वातन्त्र्येणेति । क्षिप्त इत्यादिवाक्यानां कामीव इत्यादिवाक्यस्य चनिराकाङ्क्षत्वेन तद्व्यङ्ग्यत्वादित्यर्थः । स्वातन्त्र्यमेव च पूर्णता, आकाङ्क्षायाः पूर्णत्वात् लोचना (लो, इ) ननु समूहेत्यादि--यदि रसयोर्विरोधः स्यात्, यदि वा अङ्गाङ्गि भावः स्यात् । नत्वेतत्प्रकारद्वितयमपि रसयोः सम्भवति । कथं विरोधो न सम्भवतीत्याह---परस्परोपमर्दकत्वानुपपत्तेः । परस्परोपमर्दकत्वं कथमनुपपन्नमित्याह---एकवाक्येति---एकवाक्यनिर्देशे च प्रादुर्भावस्यैकवाक्यनिर्देशहेतुकस्य यौगपद्यस्य विरहात् । अयमर्थः--यौगपद्यं हि एकवाक्यनिर्देशेनैव सम्भवति । स तु रसयोर्नसम्भवति, अत्र हेतुः---समूहेति । अयमर्थः द्विरुक्तप्रकारेण विभावादिसमूहालम्बनत्वात् । विभावादिसामग्री खलु एकवाक्यस्यार्थः । एका च सामग्री कथंविरोधिनोर्द्वयोरपि स्यात् । कथमेकवाक्यहेतुकं परिपूर्णत्वं स्यात् । घनशब्दो हि विजातीयानवच्छिन्नप्रवाहत्वम् । अङ्गाङ्गिभावासम्भवे हेतुमाह--नापीति । अङ्गाङ्गिभाव उपकार्योपकारित्वम् । ********** टीका सम्पूर्णा ********** सत्यमुक्तम् । अत एवात्र प्रधानेतरेषु रसेषु स्वातन्त्र्यविश्रामराहित्यात्पूर्णरसभावमात्राच्च विलक्षणतया संचारिरसनाम्ना व्यपदेशः प्राच्यानाम् । अस्मत्पितामहानुजकविपण्डितमुख्यश्रीचण्डीदासपादानां तु खण्डरसनाम्ना । ************* टीका ************* विज्ञप्रिया (वि, ल) समाधत्ते---सत्यमिति । एकवाक्यव्यङ्ग्यत्वाभावेऽपि द्वयोर्निराकङ्क्षवाक्यव्यङ्ग्यत्वेऽपि च शृङ्गारवति करुणाप्रतीत्या विरोधाप्रसक्तिरस्त्येव । किन्तु स्मर्यमाणशृङ्गारपेक्षया अनुभूयमानस्योपमानशृङ्गारापेक्षया उपमेयस्य च करुणस्य पर्यन्तिकप्रतीतिविषयतया प्राधान्यम् । एवं करुणापेक्षया भगवति कविभावस्य च पार्यन्तिकप्रतीतिविषयत्वेन प्राधान्यम् । इत्यतः तादृशप्रधानेतरेषु करुणेतरत्र शृङ्गारे भावेतरत्र करुणे श्लोकान्तरे चान्येतरत्र अन्यस्मिन् रसे च पार्यन्तिकप्रतीतिविषयतारूपस्वतन्त्रविश्रान्तिराहित्यात्तद्वशेन पूर्णरसभावमात्रान्मुख्यरसात्विलक्षणतया व्यपदेशविशेष इत्यर्थः । खण्डरसनाम्नेत्यत्रापि व्यपदेश इत्यन्वयः । लोचना (लो, ई) सिद्धान्तमाह---सत्यमुक्तमिति । अत एव विरोधस्य अङ्गाङ्गिभावस्य चासम्भवात् । भावमात्रवैलक्षण्यं चापाततः स्वसामग्रीपरिपुष्टतया । ********** टीका सम्पूर्णा ********** यदाहुः--- "अङ्गं बाध्योऽथ संसर्गो यद्यङ्गी स्याद्रसान्तरे । नास्वाद्यते समग्रं तत्ततः खण्डरसः स्मृतः" ॥ इति । ************* टीका ************* विज्ञप्रिया (वि, व) चण्डीदासोक्ते खण्डरसव्यपदेशे योगार्थवशात्संवादमाह---अङ्गमिति । बाध्यो यो रसः सोऽङ्गबाध्यत्वमेव । कीदृशमित्यत्राह---अथ संसर्गादिति । अथ सम्बोधने । एकपद्यबोध्यतारूपात्संसर्गात्यदि रसान्तरे अङ्गप्रकर्षकं स्यात्तदा बाध्य इत्यर्थः । योगार्थविशेषवशात्खण्डरसव्यपदेश इत्याह---नास्वाद्यत इति । पार्यन्तिकप्रतीतिविषये एव समग्नास्वाद इति भावः । इत्थं पार्यन्तिकप्रतीतिविषयस्य बाधकत्वम् । अतथाभूतस्य च बाध्यत्वं स्वण्डरसत्वं च इत्युक्तम् । लोचना (लो, उ) यद्यङ्गी रसः अपरिपुष्टतया भावमात्रवैलक्षण्येनापाततमात्रतः प्राधान्येनाभिव्यक्तः समग्रं नास्वाद्यत इति पस्तन्त्रत्वात्, न्यूनाङ्गसमग्रीकत्वात्, समग्रापुष्टत्वाच्च । ********** टीका सम्पूर्णा ********** ननु "आद्यः करुणवीभत्सरौद्रवीरभयानकैः" इत्युक्तनयेन विरोधिनोर्बोरशृङ्गारयोः कथमेकत्र--- ************* टीका ************* विज्ञप्रिया (वि, श) यत्र तु कपोले जानक्या इत्यत्र विलोधिनोः शृङ्गारवीररसयोर्नेदृशो बाध्यबाधकभावस्तत्र तयोः कथं सन्निवेश इत्याशङ्क्य तु वीरशृङ्गारयोर्विरोधं परोक्तं दर्शयति---नन्वाद्य इति । आद्यः शृङ्गारः करुणादिभयानकान्तैर्विरुध्यते इति वाक्यान्तरे । इत्युक्तनयेन विरुद्धयोः कथमेकत्र वीरशृङ्गारयोः सन्निवेश इत्यन्वयः । लोचना (लो, ऊ) आद्यः शृङ्गारः । कथमेकत्रेत्यस्य उपरिततेनेत्यादौ सन्निवेश इत्यनेन सम्बन्धः । ********** टीका सम्पूर्णा ********** "कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरस्फारोड्डमरपुलकं वक्त्रकमलम् । मुहुः पश्यञ्छृण्वन् रजनिचरसेनाकलकलं जटाजूट्ग्रन्थिं द्रढयति रघूणां परिवृढः" ॥ इत्यादौ समवेशः । ************* टीका ************* विज्ञप्रिया (वि, ष) कपोल इत्यादि । श्लोकार्थस्तु रघूणां परिवृढः प्रभुः रामः जानक्या वक्त्रकमलं मुहुः पश्यन् खरदूषणादिरजनिचरसेनाकलकलं शृण्वान् जटाजूटस्य जटासमूहस्य ग्रन्थिं द्रढयति । वक्त्रकमलं कीदृशं करिकलभदन्तद्युतिमुषि कपोले स्मरेणजानकीनिष्ठेन रामविषयकस्मरेण स्मेरः हर्षप्रायः स्फारी विस्तृतः उड्डामरो बाहुल्यातुद्भटः पुलको यस्य तादृशं वक्त्रकमलमित्यर्थः । अत्र जानकीमुखदर्शनव्यङ्ग्यः शृङ्गारः । जटाजुटद्रढनव्यङ्ग्यो वीररसश्च परस्परमबाध्यतमनङ्गतां चापन्नौ स्वातन्त्र्येण उपलभ्येति । तत्कथमनयोरेकत्र समावेश इत्यन्वयः । ********** टीका सम्पूर्णा ********** अत्रोच्यते---इह खलु रसानां विरोधिताया अविरोधितायाश्च त्रिधा व्यवस्था । कयोश्चिदालम्बनैक्येन, कयोश्चिदाश्रयैक्येन, कयोश्चिन्नैरन्तर्येणोति । तत्र वीरशृङ्गारयोरालम्बनैक्येन विरोधः । तथा हास्यरौद्रबीभत्सैः सम्भोगस्य । वीरकरुणरौद्रादिभिर्विप्रलम्भस्य । (आलम्बनैक्यने) आश्रयैक्येन च वीरभयानकयोः । नैरन्तर्यविभावैक्याभ्यां शान्तशृङ्गारयोः । त्रिधायं विरोधो वीरस्याद्भुतरौद्राभ्याम् । शृङ्गारस्याद्भुतेन भयानकस्य बीभत्सेनेति । तेनात्र वीरशृङ्गारयोभिन्नालम्बनत्वान्न विरोधः । लोचना (लो, ऋ) स्फारो बहुलः उड्डामर उत्कटः । परिवृढः प्रभुः । त्रिधाप्यालम्बनेत्यादिना कपोले जानक्या इत्यादौ भिन्ने आलम्बने वीरस्य रजनीचरसेना, शृङ्गारस्यजानकीति । ********** टीका सम्पूर्णा ********** एवं च वीरस्य नायकनिष्ठत्वेन भयानकस्य प्रतिनायकनिष्ठत्वेन निबन्धे भिनानश्रयत्वेन न विरोधः । ************* टीका ************* विज्ञप्रिया (वि, स) स्वतन्त्रयोरनेकयोरेकावलम्बनकत्वे एव विरोधः । प्रकृते तु जानक्यालम्बनकः शृङ्गारो, रजनीचरालम्बनकस्तु वीररस इत्यविरोध इति समाधास्यनाह---अत्रेच्यते । इह खल्विति । नैरन्तर्य्येण अव्यवधानेन । तत्र यस्य येन सह विलोधस्तं दर्शयति---तत्र वीरशृङ्गारयोरिति । एतानि स्पष्टानि । लोचना (लो, ॠ) नायकनिष्ठत्वं भयानकस्य प्रतिनायकनिष्ठत्वम् । यथा मम---प्रौढामादाय भीतिं मनसि सरभसं प्राप्य लोकापकीर्तिं नैव स्तोकाप्यपेक्षाक्रियत पथि पथि प्राक्तनासु प्रियासु । श्रीमन्निः शङ्कभानोः समरपरिसरद्भीम्मनिः सीमसेना- निः शाणस्वानशङ्काकुलमपसरतां पञ्चगौडेश्वेरेण । अत्र वीरभयानकयोरेकाश्रयाभावान्न विरोधः । ********** टीका सम्पूर्णा ********** यश्च नागानन्दे प्रशमाश्रयस्यापि जीमूतवाहनस्य मलयवत्यनुरागो दर्शितः, तत्र "अहो गीतमहो वादित्रम्" इत्यद्भुतस्यान्तरा निवेशनान्नैरन्तर्याभावान्न शान्तशृङ्गारयोर्विरोधः । एकमन्यदपि ज्ञेयम् । ************* टीका ************* विज्ञप्रिया (वि, ह) ननु शान्तशृङ्गारयोर्नैरन्तर्य्ये विरोधश्चेत्कथं नागानन्दे न तथा निबद्धमित्यत आह---यत्त्विति । अद्भुतस्येति । रसनामनापन्नोऽद्भुतो अहोशब्दवाच्योऽपि अन्तरास्थितो नैरन्तर्य्यविघटकित्यर्थः । लोचना (लो, ळ) शान्तशृङ्गारयोर्नैरन्तर्य्यविरोधिनोर्न परं प्रबन्धे यावदेकस्मिन्नपि वाक्ये विराधः । यथा--- भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः गाढं शिवाभिः परिरभ्यमाणान् सुराङ्गनाश्लिष्टभुजान्तरालाः । सशोणितैः कव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः । विमानपर्य्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीं निर्द्दिश्यमानान् ललनाङ्गुलिभिर्वोराः स्वदेहान् पतितानपश्यन् । अत्र बीभत्सशृङ्गारयोर्वोररसस्यान्तरा निवेशनान्न विरोधः । एवमन्येषामपि रसानां परिहारप्रकाराः सत्कविकाव्येषु अनुसर्त्तव्याः । ********** टीका सम्पूर्णा ********** "पाण्डुक्षामं वदनम्-" इत्यादौ च पाण्डुतादीनामङ्गभावः करुणविप्रलम्भेऽपीति न विरोधः । ************* टीका ************* विज्ञप्रिया (वि, क) ननु परिपन्थिरसाङ्गस्य विभावादेः परिग्रहो दोष इत्युक्तम्, तत्कथम् "पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ॥ "इत्यादौ शृङ्गारसीये मालतीमाधवीये श्लोके शृङ्गारपरिपन्थिकरुणानुभावस्य वदनपाण्डुतादेः सत्त्वेऽपि अदुष्टतानुभव इत्यत आह---पाण्डु क्षाममिति । मालतीं प्रति लवङ्गिकाया इयं पृच्छा । हे सखि ! तव पाण्डुक्षामवदनादिकं तव हृदन्तः क्षेत्रियरोगमस्मिन् क्षेत्रे शरीरेऽचिकित्स्यं रोगमावेदयतीत्यर्थः । क्षामं क्षीणं, सरसं सस्वेदद्रवम् । समाधत्ते---पाण्डुतादीनामिति । परिपन्थिमात्रईयत्वे एव दोषः । उभयीयत्वे तु प्रकरणसाचिव्यात्प्रकृतसबोधात्न दोष इति भावः । लोचना (लो, ए) अङ्गभावोऽनुभावतयेत्यर्थः । यदि खलु पाण्डुत्वादीनां विप्रलम्भापेक्षयाधिका करुणाङ्गता भवेत्तदैव दोषः स्यादित्यर्थः । इति उक्तप्रकारात् । ********** टीका सम्पूर्णा ********** अनुकारे च सर्वेषां दोषाणां नैव दोषता ॥ ७.३१ ॥ सर्वेषां दुः श्रवत्वप्रभृतीनाम् । यथा--- "एष दुश्च्यवनं नौमीत्यादि जल्पति कश्चन" । अत्र दुश्च्यवनशब्दोऽप्रयुक्तः । ************* टीका ************* विज्ञप्रिया (वि, ख) अनुकारे अनुकरणे । एष इति । एष कश्चन इत्यन्वयः । ********** टीका सम्पूर्णा ********** अन्येषामपि दोषाणामित्यौचित्यान्मनीषिभिः । अदोषता च गुणता ज्ञेया चानुभयात्मता ॥ ७.३२ ॥ अनुभयात्मता अदोषगुणता । ************* टीका ************* विज्ञप्रिया (वि, ग) इत्यौचित्यातेवमौचित्यात्, अदोषता गुणता इति । तथादोषतामात्रं पर्यवस्याति । अनुभयात्मतां व्याचष्टे---अदोषगुणेति । अदोषता अगुणता च इत्यर्थः । दोषतागुणतयोर्व्यातिरेको हि न दोषता न गुणता । दोषतासहितगुणत्वसत्त्वेऽपि उभयाभावसत्त्वात्यथा---प्रहेलिकाक्रियाकर्मकर्तृगुप्त्यादौ कष्टार्थतायाः । इति श्रीमहेश्वरतर्कालङ्कारभट्टाचार्यकृतायां साहित्यदर्पणटीकायां दोष- निरूपणाख्यसप्तमपरिच्छेदस्य विवरणम् । लोचना (लो, ऐ) अदोषता "औत्सुक्येन कृतत्वरा"इत्यादिवद् । गुणता "क्वाकार्य-"मित्यादिवत् । अदोषगुणात्मता "तिष्ठेत्कोपवशा"दित्यादिवत् । इति साहित्यदर्पणलोचने दोषनिरूपणो नाम सप्तमपरिच्छेदः । ********** टीका सम्पूर्णा ********** इति साहित्यदर्पणे दोषनिरूपणो नाम सप्तमः परिच्छेदः । ___________________________________________________ अष्टमः परिच्छेदः गुणानाह--- रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा । ************* टीका ************* विज्ञप्रिया (वि, क) गुणनिरूपणमारभते---गुणानाहेति । अङ्गित्वमाप्तस्येति । एतच्च काव्यमङ्गं रसोऽङ्गी इत्येतत्प्रदर्शनपरमेव, नत्वङ्गिपदादङ्गरसस्य व्यवृत्तिस्तत्रपि माधुर्य्याद्यनुभवात्रसपदं चासंलक्ष्यक्रमपरं भावादावपि गुणाङ्गीकारात् । लोचना (लो, अ) एवं दोषान्निरूप्य गुणनिरूपणमवतारयति । अङ्गित्वमाप्तस्य काव्यात्मभूततया । ********** टीका सम्पूर्णा ********** गुणाः--- यथा खल्वङ्गित्वमाप्तस्यात्मन उत्कर्षहेतुत्वाच्छौर्यादयो गुणशब्दवाच्याः, तथा काव्येऽङ्गित्वमाप्तस्य रसस्य धर्माः स्वरूपविशेषा माधुर्यादयोऽपि स्वसमर्पकपदसन्दर्भस्य काव्यव्यपदेशस्यौपयिकानुगुण्यभाज इत्यर्थः । यथा चैषां रसमात्रस्य धर्मत्वं तथा दर्शितमेव । ************* टीका ************* विज्ञप्रिया (वि, ख) अङ्गित्वमाप्तस्येत्यनेन शरीरिण आत्मन उपस्थितत्वात्तं दृष्टान्तयति--यथा खल्विति । स्वरूपविशेषा इति । वैलक्षण्यरूपत्वेन इतरव्यावर्त्तकविशेषा इत्यर्थः । स्वसमर्पकेति---स्वस्य गुणस्य समर्पको बोधको यः पदसमूहस्तस्य काव्यव्यपदेशस्यौपयिकं यदानुगुण्यं स्वाश्रयिणा रसेन सह काव्ये स्थितिरूपं तद्भाज इत्यर्थः । नीरसस्य काव्यशब्दवाच्यत्वाभावात्किन्तु तत्र लाक्षणिकमेव काव्यपदमित्यर्थः । यद्यपि वर्णैरेव गुणा व्यडज्यन्ते न पदैरिति पदसमूहस्य गुणसमर्पकता नास्ति तथापि पदसमूहघटकवर्णैस्तत्समर्पणात्॑ पदसमूहस्यापि तत्समर्पकत्वं युक्तम् । आनुगुण्यप्रधर्शनेन गुणपदार्थो विवृतः । रसमात्रधर्मत्वं दर्शितमिति । शौर्य्यदृष्टान्तेन दरिशतमित्यर्थः । मात्रपदात्वर्णधर्मत्वव्यवच्छेदः । लोचना (लो, आ) यथा खल्वित्यतोऽनन्तरं लोके इति शेषः । स्वस्यात्मनो माधुर्य्यादेरेव समर्पकः अर्थात्सहृदयहृदयेषु निवेशयिता यः पदसमुदायः यदनुगुणत्वमिति॑ यद्यपि माधुर्य्यादीनां रसस्यात्मस्वरूपविशेषात्मकत्वातुत्कर्षहेतुत्वं नास्ति, तथापि पदसन्दर्भस्य तन्मुखप्रेक्षितयैव तथाविधव्यञ्जकत्वौचित्यानुसारेण "मूद्र्ध्नि वर्गान्त्यगाः स्पर्शा इत्याद्युक्तप्रकारकविनिर्माणात्तत्कारणकत्वम् । तेन पदसन्दर्भेणनुकूल्यत्तस्य रसोत्कर्षकत्वं माधुर्य्यादिगुणेषु उपचर्य्यत इति दर्शितं प्रथमपरिच्छेदे । ********** टीका सम्पूर्णा ********** माधुर्यमोजोऽथ प्रसाद इति ते त्रिधा ॥ ८.१ ॥ लोचना (लो, इ) त्रिधा प्राचीनोक्तस्य प्रत्येकं दशप्रकारस्य निराकरिष्यमाणत्वात् । ********** टीका सम्पूर्णा ********** ते गुणाः । तत्र--- चित्तद्रवीभावमयो ङ्लादो माधुर्यमुच्यते । ************* टीका ************* विज्ञप्रिया (वि, ग) माधुर्य्यलक्षणमाह---चित्तद्रवीति--मयट्प्रत्ययोऽत्र स्वार्थे आह्लाद इत्यत्र आह्लादविशेषवृत्तिः । स च आह्लादविशेषे रत्यादिज्ञानानन्दजातः स्वादनाख्यव्यापारग्रह्यो रसस्वरूपः तद्वृत्तिः न तु तादृशाह्लाद एव माधुर्य्यं, तदा तस्य रसधर्मत्वानुपपत्तेः तथा च चित्तद्रवीभावस्वरूपाह्लादवृत्तिः तादृशाह्लादतावच्छेदको धर्मो माधुर्य्यमित्यर्थः । लोचना (लो, ई) ह्लादो ह्लादस्वरूपः तस्य तद्भिन्नत्वस्योक्तत्वात् । इह चास्वादस्य आनन्दपरपर्य्यायत्वेन स्वादसाधारणत्वात्चित्तद्रवीभावमय इत्यनेनाव्याप्तिपरिहारः । ********** टीका सम्पूर्णा ********** यत्तु--केनचिदुक्तम्--"माधुर्यं द्रुतिकारणम्" इति तन्न, द्रवीभावस्यास्वादस्वरूपाह्लादाभिन्नत्वेन कार्यत्वाभावात् । ************* टीका ************* विज्ञप्रिया (वि, घ) काव्यप्रकाशकृदुक्तं दूषयितुमाह---यत्त्विति । आह्लादकत्वं माधुर्य्यं शृङ्गारे द्रुतिकारणमिति तल्लक्षणम् । स च रसस्वरूपाह्लादजनकतावच्छेदको रत्यादिनिष्ठो धर्म इत्यर्थः । रत्यादेरेव रसताप्राप्त्या तस्य रसवृत्तित्वमपि॑ स एव धर्मो मनसो द्रुतिकारणमित्यर्थः । तद्दषूयति--तन्नेति । द्रवीभावस्येति---स्वेन स्वाश्रयाजननादिभावः । एतच्च द्रवीभावाह्लादयोरभेदं स्वयमभ्युपेत्य दूषितं च । तन्मते तु द्रवीभावश्चित्तवृत्तिराह्लाद आत्मवृत्तिरित्यनयोरभेद एव नास्ति । किन्तु आह्लादस्थेन माधुर्य्येण चित्तस्य द्रवीभावो जन्यत एव रागमाधुर्य्येणैवेति ********** टीका सम्पूर्णा ********** द्रवीभावश्च स्वाभाविकानाविष्टत्वात्मककाठिन्यमन्युक्रोधादिकृतदीप्तत्वविस्मयहासाद्युपहितविक्षेपपरित्यागेन रत्याद्याका रानुविद्धानन्दोद्वोधेनसहृदयचित्तार्द्रप्रायत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ङ) आस्वादरूपाह्लादाभिन्नत्वेन उक्तं द्रवीभावं दर्शयति---द्रवीभावश्चेति । चित्तस्याविष्टत्वमेव हि द्रवीभावः । अनाविष्टता तु तस्य स्वाभाविकी तदात्मकं यत्काठिन्यं तज्जन्यौ यौ शत्रुमारणोत्साहरूपमन्युक्रोधौ तदादिकृत्वा ये उष्णप्रायत्वरूपदीप्तत्वविस्मयहासास्तदाद्युपहितो यश्चित्तस्य विक्षेपश्चाञ्चल्यं तत्परित्यागेन अर्थात्चित्तस्याविष्टत्वेन यो रत्याद्याकारानुविद्धो रत्यादिविषयपारणिमेव ज्ञानरूपानन्दस्तदुद्धोधेन सहृदयचित्तस्यार्द्रप्रायत्वं द्रवीभाव इत्यर्थः । एतत्सिद्धान्तस्तु आह्लादस्य मनोवृत्तित्वस्वीकारे एव सम्भवतीत्यवधेयम् । अन्यथा द्रुत्याह्लादयोरभेदोक्त्यनुपपत्तेः । रत्याद्याकारेत्यत्र आदिपदात्माधुर्य्याश्रययोः करुणशान्तयोः स्थायिभावस्यापि परिग्रहः । एवं च रत्यादिज्ञानानन्दजन्याह्लादविशेष एव रसः । स एव स्वादनाख्यव्यापारगम्यः प्रागुक्तो रस इत्युक्तं, तद्वृत्तिधर्मविशेषो माधुर्य्यमिति सिद्धान्तसिद्धः । लोचना (लो, उ) स्वाभाविकेति---स्वाभाविकं सहजमनाविष्टत्वमनावेशोर्ऽथात्चित्तस्य एव तत्स्वरूपं काठिन्यं, तथा वीरादाविव मन्युकोधादिजन्यं यद्दीप्तत्वम्, एवं अद्भुतादाविव विस्मयहासयुक्तो यो विक्षेपस्तेषां परित्यागेन परिहारेण । एतस्य माधुर्याख्यगुणस्य । ********** टीका सम्पूर्णा ********** तच्च--- संभोगे करुणो विप्रलम्भे शान्तेऽधिकं क्रमात् ॥ ८.२ ॥ ************* टीका ************* विज्ञप्रिया (वि, च) तच्चेति---तच्च माधुर्य्यमित्यर्थः । क्रमात्तदाधिक्यं सम्भोगादौ क्रमशश्चित्तद्रुत्याधिक्यात् । लोचना (लो, ऊ) शान्तेऽधिकमिति । तस्य सहजानन्दसुन्दरतया माधुर्य्यं प्रायेणेति प्रकृष्टमेव । क्वचित्तु विषयजुगुप्साद्यनुगमे भेदः । ********** टीका सम्पूर्णा ********** सम्भोगादिशब्दा उपलक्षणानि । तेन सम्भोगाभासादिष्वप्येतस्य स्थितिर्ज्ञेया । मूर्ध्नि वर्गान्त्यवर्णोन युक्ताष्टठडढान्विना । रणौ लधू च तद्व्यक्तौ वर्णाः कारणतां गताः ॥ ८.३ ॥ अवृत्तिरल्पवृत्तिर्वा मधुरा रचना तथा । ************* टीका ************* विज्ञप्रिया (वि, छ) तद्व्यञ्जकान् वर्णानाह---मूद्र्ध्निति । वर्गान्त्यवर्णेन पञ्चमेन युक्ता इत्यन्वयः । तत्रैव टठडढान् पर्य्युदस्यति । तकारस्तु तन्मूद्र्ध्नि अपर्य्युदस्तः । तद्व्यक्तौ माधुर्य्यस्य व्यञ्जने कारणतामित्यन्वयः । अवृत्तिरसमासः । रचना सन्धिः तस्य च तदुत्पन्नवर्णमाधुर्य्यवशादेव माधुर्य्यवर्णत्वेन प्राप्तावपि सन्धौ अपि तादृशा वर्णः न ऊहाद्या इति कव्युपदेशार्थं पृथगुक्तम् । लोचना (लो, ऋ) मूद्र्ध्नि इति वर्गा कादयो मावसानाः पञ्च पञ्च भूत्वा पञ्चवार्गाः तेषामन्त्याः ङञणनमाः तैर्मूद्र्ध्नि स्थितैर्युक्ता अर्थात्निजवर्गोया एव । ट ठ ड ढाः न तु अन्तिमवर्णेन युक्ताः न च स्वरूपावास्थिता अपि । रणौ लघुह्रस्वान्तरितौ, तस्य माधुर्य्यस्य व्यक्तौ, एवमसमासा मन्दसमासाश्च । मधुरा पदान्तरयोगे माधुर्य्यवती । ********** टीका सम्पूर्णा ********** यथा--- "अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः । जनयन्ति मुहुर्यूनामन्तः सन्तापसन्ततिम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) अनेङ्गेत्यादि उदाहरणे सन्ध्युत्पन्नतादृशवर्णौ, सन्तापसन्ततिमित्यत्र उपसर्गधात्वोः सन्धौ द्वावेव । ********** टीका सम्पूर्णा ********** यथा वा मम--- "लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलयन् समालिङ्गन्नङ्गं द्रुततरमनङ्गं प्रबलयन् । मरुन्मन्दं मन्दं दलितमरविन्दं तरलयन् रजोवृन्दं विन्दन् किरति मकरन्दं दिशि दिशि" ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) अतो बहून् तादृशान् वर्णान् दर्शयितुमाह---यथा वेति । मरुत्दिशि दिशि मकरन्दं किरति, कीदृशः, गुञ्जतां मदवतामलीनां पुञ्जो यत्र तादृशं लताकुञ्जं मन्दं मन्दं चपलयन् । अङ्गमर्थात्नृणां समालिङ्गन् । अनङ्गं च द्रुततरं प्रवलयन् प्रकृष्टं बलवन्तं कुर्वन् । स्वेनैव दलितं विकासितमरविन्दं तरलयन् । रजोवृन्दमर्थात्विकसितारविन्दानां परागसमूहं विन्दन् लभमानः (विदॢ लाभे ) अत्र सन्धावपि बहवो वर्णा उक्तरूपाः । लोचना (लो,ऋ) लताकुञ्जमित्यादौ विधानमात्रवर्णनेऽपि शृङ्गारः प्रकारणात् । ********** टीका सम्पूर्णा ********** ओजश्चित्तस्य विस्ताररूपं दीप्तत्वमुच्यते ॥ ८.४ ॥ वीरबीभत्सरौद्रेषु क्रमेणाधिक्यमस्य तु । ************* टीका ************* विज्ञप्रिया (वि, ञ) ओजोलक्षणमाह---ओजश्चित्तस्येति । अत्रापि दीप्तत्वजनकमित्येवार्थः । आयुर्घृतमितिवत्, तथा च रसवृत्तिना ओजसा चित्तस्य विस्ताररूपं दीप्तत्वं जन्य इत्यर्थः । अत्र एव चित्तस्य विस्ताररूपदीप्तत्वजनकमोज इति काव्यप्रकाशकृताप्युक्तम् । विस्तारस्तु चित्तस्य उष्णप्रायत्वकारक आत्मसंयोगविशेषः । यथाश्रुते तु चित्तवृत्तेः दीप्तत्वस्य रसवृत्तित्वानुपपत्तेः । क्रमेणाधिक्यमिति दीप्तत्वरूपफलाधिक्यादाधिक्यम् । ********** टीका सम्पूर्णा ********** अस्यौजसः । अत्रापि वीरादिशब्दा उपलक्षणानि । तेन वीराभासादावप्यस्यावस्थितिः । लोचना (लो, ॠ) इह चानुक्तमपि औचित्यादेव । हास्ये विकाशधर्मकत्वातोजश्च प्रायः शृङ्गारनिष्ठतया च माधुर्यस्योत्कृष्टत्वम् । भयानके चित्तवृत्तेर्विकाशाभावात्यद्यपि माधुर्यं, तथापि विभावौचित्यादोजः समावेशः । अद्भुते शृङ्गारिगते द्वयोः साम्यम् । अत्र प्रकृष्टमोजः । यद्यपि बीभत्से प्रकृष्टतममोजस्तथापि माधुर्यमप्रकृष्टतरम् । ********** टीका सम्पूर्णा ********** वर्गस्याद्यतृतीयाभायां युक्तौ वर्णौ तदन्तिमौ ॥ ८.५ ॥ उपर्यधो द्वयोर्वा सरेफौ टठडढैः सह । शकारश्च षकारश्र तस्य व्यञ्जकतां गताः ॥ ८.६ ॥ तथा समासो बहुलो घटनौद्धत्यशालिनी । लोचना (लो, ळ) अयमर्थः--कचटतपैः खछठथफाः, गजडदबैः घझढधभाः युक्ताः । ********** टीका सम्पूर्णा ********** यथा---"चञ्चद्भुज--" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, ट) तद्व्यञ्जकानाह---वर्गस्येति । तदन्तिमौ इति । आद्यतृतीययोरन्तिमौ द्वितीयचतुर्थौ इत्यर्थः । तथा चाद्येन युक्तः द्वितीयः । तृतीयेन युक्तश्चतुर्थौ वर्ण इत्यर्थः । आद्यतृतीययोस्तदन्तिमयोश्च नैकवर्गोयत्वनियमः । किन्तु भिन्नवर्गोययोरपि तथात्वं बोध्यम् । तेन कख्ख इव केच्चछापि गघ्घ इव घेच्छापि तथा बोध्या कटुत्वसाम्यात् । अत्र चानुक्तेऽपि तुल्ययोर्योगोऽपि काव्यप्रकाशकृदुक्तो ग्राह्यः कटुत्वाविशेषात् । तेन क्क ग्ग ज्ज इत्यादयोऽपि बोध्याः । उपर्यध इत्यादि । तर्क इत्यादौ उपरि । तक्रचक्रादौ अधः आर्द्रकमित्यादौ द्वयोः रेफौ बोध्यौ । टठडढैः सहेति । साहित्यं व्यञ्जकत्वकथनेन व्यञ्जनपरस्परसहितैरपि व्यञ्जनात् । समासबहुला घटना इत्यत्र घटनापदं विन्यासमात्रपरं सन्धिपरं च । तेन समासबहुला दीर्घसमासवान् विन्यासः, औद्धत्येन कटुत्वेन युक्तः सन्धिश्चेत्यर्थः । चञ्जद्भुजेत्यादिकं नाट्यपरिच्छेदे व्याख्यातम् । अत्र दीर्घसमासः कतिपये यथोक्ता वर्णाः । ********** टीका सम्पूर्णा ********** चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः ॥ ८.७ ॥ स प्रसादः समस्तेषु रसेषु रचनासु च । ************* टीका ************* विज्ञप्रिया (वि, ठ) प्रसादगुणलक्षणमाह---चित्तमिति । अत्र चित्तपदं ज्ञानपरम् । तथा च यो गुणः क्षिप्रं श्लोकार्थज्ञानं व्याप्नोति आविष्करोति जनयतीति यावत् । अत एवाविष्करोतीति व्याख्यास्यति । स गुणः प्रसाद इत्यर्थः । अत्र दृष्टान्तमाह शुष्केति । अनलः शुष्केन्धनं यथा क्षिप्रं सुविशिष्टतयाऽविष्करोतीत्यर्थः । समस्तेषु रसेषु इति । रचनासु इति । सप्तम्यधिकरणतायां, रचना शब्दप्रथना तत्र सप्तमी च व्यञ्जकतायाम् । तथा च सर्वरचनाव्यङ्ग्यश्चेत्यर्थः । न चैवं प्रसादरहितः कोऽपि अलोको न स्यादिति वाच्यम् । सर्वजातीयासु रचनासु, न तु सर्वरचनाव्यक्तिषु इत्यर्थः । लोचना (लो, ए) चित्तं प्रतिपत्तॄणामित्यर्थः । ********** टीका सम्पूर्णा ********** व्याप्नोति आविष्करोति । शब्दास्तद्व्यञ्जका अर्थबोधकाः श्रुतिमात्रतः ॥ ८.८ ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) तद्व्यञ्जकरचनाव्यक्तिं दर्शयति---शब्दा इति । श्रुतिमात्रतोर्ऽथबोधकाः शब्दास्तद्व्यञ्जका इत्यर्थः । लोचना (लो, ऐ) इह च प्रसादगुणस्य झटित्यर्थप्रकाशनेन उक्तरूपरसनिष्ठप्रसादगुणाभिव्यञ्जनादौ परिचारिकमपि रचनानिष्ठत्वं प्रयत्नविधेयत्वेन रससादचर्येण उक्तिं प्रसादातिक्रमेषु सामान्यमपि सङ्घटना करुणविप्रलम्भशृङ्गारौ व्यनाक्ति । तदपि परित्यागे मध्यमसमासापि प्रकाशयतिति । ********** टीका सम्पूर्णा ********** यथा--- "सूचीमुखेन सकृदेव कृतव्रणस्त्वं मुक्ताकलाप ! लुठसि स्तनयोः प्रियायाः । बाणैः स्मरस्य शतशो विनिकृत्तमर्मा स्वप्नेऽपि तां कथमहं न विलोकयामि" ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) सूचिमुखेनेति---प्रियायाः स्तनन्यस्तं मुक्ताहारं परोक्षमपि भावोपनीतं सम्बोध्य विरहिण उक्तिरियम् । श्लोकार्थस्तु प्रसादात्स्पष्ट एव । ********** टीका सम्पूर्णा ********** एषां शब्दगुणत्वं च गुणवृत्त्योच्यते बुधैः । शरीरस्य शौर्यादिगुणयोग इव इति शेषः । लोचना (लो, ओ) यत्पुनरेषां शब्दवृत्तित्वमुच्यते तत्र हेतुमाह---एषामिति । गुणवृत्त्या पूर्वोक्तरीत्या उपचारेण । ********** टीका सम्पूर्णा ********** श्लेषः समाधिरौदार्यः पसाद इति ये पुनः ॥ ८.९ ॥ गुणाश्चिरन्तनैरुक्ता औजस्यान्तर्भवन्ति ते । ओजसि भक्त्या औजः पदवाच्ये शब्द (अर्थ) धर्मविशेषे । ************* टीका ************* विज्ञप्रिया (वि, ण) रसवृत्तीनामप्येषां शब्दगुणत्वव्यवहारमुपपादयति---एषामिति । गुणवृत्त्या परम्परावृत्त्या गुणाश्रयरसव्यञ्जकत्वं परम्पराशब्दगुणत्वमित्युपलक्षणम् । अर्थगुणत्वमप्येवं बोध्यम् । इत्थं रसवृत्तय एव त्रय एव गुणाः परम्परया शब्दार्थवृत्तयः । चिरन्तनैरुक्तानां"श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिमुदारत्वमोजः कान्तिः समाधयः "इति दशगुणानां मध्ये श्लेषादिगुणचतुष्टयमोजस्यन्तर्भवतीत्याह---श्लेष इत्यादि । ओजस्यन्तर्भावे प्रकारमाह---भक्त्येति । अस्मदुक्तौजोगुणव्यञ्जकवर्णेष्वेव हि ते चत्वारा गुणा वर्त्तन्ते इति तैरुच्यते । तथा च परम्परया शब्दवृत्तेरस्मदुक्तौजोगुणसमाधानाधिकरणा एव ते तन्मते पर्य्यवस्यन्ति । तथा तेषां तद्भिन्नत्वोक्तौ गौरवं तदात्मकत्वमेवोचितमित्येतदेवाह---भक्त्येति । आजः पदवाच्ये रसगुणविशेषे भक्त्या परम्परारूपया भक्त्या शब्दधर्मेऽन्तर्भवन्तीत्यर्थः । तदभिन्ना एते इत्यर्थः । ********** टीका सम्पूर्णा ********** तत्र श्लेषो बहूनामपि पदानामेकपदवद्भासनात्मा । लोचना (लो, औ) कथं त्रय एव गुणा इत्यत्राह---श्लेष इति । भक्त्या उपचारेण । पदानां बहूनामेकपदवद्भासनम् । ********** टीका सम्पूर्णा ********** यथा--- "उन्मज्जज्जलकुञ्जरेन्द्ररभासास्फालानुबन्धोद्धताः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनीः । उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायप्रेंखदसंख्यशङ्खधवला वेलेयमुद्रच्छति" ॥ अयं बन्धवैकट्यात्मकत्वादोज एव । ************* टीका ************* विज्ञप्रिया (वि, त) तत्र तैरुक्तस्य श्लेषस्य लक्षणमाह---श्लेषो बहूनामिति । एकपदवद्भासनं दीर्घसमासेन । उन्मज्जदिति---उन्मज्जतो जलकुञ्जरेन्द्रस्य रभसा स्फालनानुबन्धेन सहसा स्फालनक्रियया उद्धतः इत्यतः अयं ध्वनिः यथा उच्चैरुच्चरति, प्रायः सम्भावने, तथा वेला समुद्रस्य नीरमुद्रच्छति॑ कुञ्जरास्फालनेन तीरं प्लावयतीत्यर्थः । वेला कीदृशी---प्रेङ्कद्भिश्चलद्भिरसंख्यशङ्खैः धवला । ध्वनिः कीदृशः ?श्रुतिपथोन्माथी । सर्वाः पर्वतकन्तरोदरभुवश्च प्रतिध्वानिनीः कुर्वंश्च । अयमिति । बन्धवैकट्यमुद्धतबलविशिष्टशब्दत्वम् । तच्च तादृशशब्दवृत्तित्वात्परम्परया शब्दवृत्त्योजोगुण एव इत्यर्थः । समानाधिकरणधर्मद्वयकल्पने गौरवादिति भावः । लोचना (लो, अ) उच्चैरुच्चरति ध्वनिरित्यादौ सुव्यक्तम् । जलकुञ्जरो हस्त्याकारमुखो जलजन्तुविशेषः । तस्य रभसेन आस्फालः अर्द्दनमर्थात्जलस्यैव । प्रेङ्खन्तः वल्गन्तः । वेला समुद्रवीचिः । ********** टीका सम्पूर्णा ********** समाधिरारोहावरोहक्रमः । आरोह उत्कर्षः, अवरोहोऽपकर्षः, तयोः क्रमो वैरस्यतानावहो विन्यासः । यथा---"चञ्चद्भुज--" इत्यादि । अत्र पदात्रये क्रमेण बन्धस्य गाढता । चतुर्थपादे त्वपकर्षः । तस्यापि च तीव्रप्रयत्नोच्चार्यतया ओजस्विता । ************* टीका ************* विज्ञप्रिया (वि, थ) समाधिकरणलक्षणमाह---समाधिरिति । उत्कर्षः समासाधीनः अपकर्षस्तदभावादीनः । तयोः क्रम इति । क्रमो यथोच्तस्थाने विन्यासाद्वैरस्यानधानम्, तदाह--वैरस्यानावह इति । चञ्चद्भुजेत्यादि इति । व्याख्यातमिदं प्राक् । बन्धगाढतेति--दीर्घसमासात्स एव चोत्कर्षः । चतुर्थपाद इति । "उत्तंसयिष्यति कचांस्तव देवि भीम "इत्यत्र दीर्घसमासाभावोऽपकर्षः स चात्र द्रौपदायश्वासनरूपेण क्रोधाभावेन दीर्घसमासाभावः योग्यस्थाने विन्यासाद्वैरस्यानाधायकः । अत एवात्र पतत्प्रकर्षत्वमपि गुणः । अस्याप्योजस्यन्तर्भावं दर्शयति---अस्यापीति । तथा च पादत्रयवशादोजस्यान्तर्भाव इति भावः । ********** टीका सम्पूर्णा ********** उदारता विकटत्वलक्षणा । विकटत्वं पदानां नृत्यत्प्रायत्वम् । लोचना (लो, आ) नृत्यत्प्रायत्वमिति । पदानि नर्त्तकीकृत्य दर्शितानीवानुभूयन्ते यत्र । ********** टीका सम्पूर्णा ********** यथा--- सुचरणविनिविष्टैर्नूपुरैर्नर्तकीनां झणिति रणितमासीत्तत्र चित्रं कलं च । अत्र च तन्मतानुसारेण रसानुसन्धानमन्तरेणैव शब्दप्रौढोक्तिमात्रेणौजः । ************* टीका ************* विज्ञप्रिया (वि, द) औदार्य्यलक्षणमाह---उदाहता चेति । नृत्यत्प्रायता च अनुभवैकगम्या वक्तुमशक्या उदाहरणे बोध्या । स्वचरणेति । अयं शृङ्गरीयः श्लोकः । लघुरेफशकारल्पसमासाश्च तदीयमाधुर्य्यव्यञ्जकाः । तथापि तन्मते तादृशरसानुसन्धानात्प्रागेव शब्दानां नृत्यत्प्रायत्वरूपप्रौढौक्तिमात्रज्ञानातौजोगुणानुभाव इत्याह---अत्र तन्मते इति । तथा चात्र सृङ्गारनुगुणेऽप्येतादृशप्रौढ्या व्यज्यमाने औजस्य स्मदुक्ते औदार्य्यस्यान्तभार्व इति भावः । ********** टीका सम्पूर्णा ********** प्रसाद ओजोमिश्रितशौथिल्यात्मा । यथा--- "यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदात्पाण्डवीनां चमूनाम्" इति । ************* टीका ************* विज्ञप्रिया (वि, ध) प्रसादगुणलक्षणमाह---प्रसाद इति । कठिनकोमलवर्णमिश्रणमित्यर्थः । यो य इति प्राग्व्याख्यातम् । अत्र कठिनवर्णानामपि मिश्रणादोजस्विता । ********** टीका सम्पूर्णा ********** माधुर्यव्यञ्जकत्वं यदसमासस्य दर्शितम् ॥ ८.१० ॥ पृथक्पदत्वं माधुर्यं तेनैवाङ्गीकृतं पुनः । ************* टीका ************* विज्ञप्रिया (वि, न) माधुर्य्यलक्षणं पृथक्पदत्वं तच्चास्माकं माधुर्य्यव्यञ्जकोऽसमासेनाङ्गीकृतमित्याह---माधुर्य्येति । श्वासान्मुञ्चतीत्यादावसमासः । लोचना (लो, इ) असमासस्य वर्णितम्---अवृत्तिरल्पवृत्तिर्वेत्यनेन । ********** टीका सम्पूर्णा ********** यथा---"श्वासान्मुञ्चति-" इत्यादि । अर्थव्यक्तेः प्रसादाख्यगुणेनैव परिग्रहः ॥ ८.११ ॥ अर्थव्यक्तिः पदानां हि झटित्यर्थसमर्पणम् । स्पष्टमुदाहरणम् । ग्राम्यदुः श्रवतात्यागात्कान्तिश्च सुकुमारता ॥ ८.१२ ॥ अङ्गीकृतेति सम्बन्धः । तच्च हालिकादिपदविन्यासवैपरीत्येनालौकिकशोभाशालित्वम् । सुकुमारता अपारुष्यम् । अनयोरुदाहरणे स्पष्टे । ************* टीका ************* विज्ञप्रिया (वि, प) स्पष्टमुदाहरणमिति । सूचिमुखेनेत्यादि प्रसादगुणोदाहरणस्यान्येषां च बहूनां तदुदाहरणत्वात् । अपारुष्यमदुः श्रवत्वम् । अनयोरुदाहरणे इति । एतद्दोषद्वयरहिताः श्लोका एवेत्यर्थः । लोचना (लो, ई) कान्तिर्यथा मम--- नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थिपाणिद्वयं वक्षोजौ करिकुम्भविभ्रमकरीमत्युन्नतिं गच्छतः । कान्तिः काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्पर्द्धिनी स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा ॥ ********** टीका सम्पूर्णा ********** क्वचिद्दोषस्तु समता मार्गाभेदस्वरूपिणी । अन्यथोक्तगुणेष्वस्या अन्तः पातो यथायथम् ॥ ८.१३ ॥ मसृणेन विकटेन वा मार्गेणोपक्रान्तस्य सन्दर्भस्य तेनैव परिनिष्ठानं मार्गाभेदः । स च क्वचिद्दोषः । तथाहि--- "अव्यूढाङ्गमरूढपाणिजठराभोगं च बिभ्रद्वपुः पारीन्द्रः शिशुरेष पाणिपुटके सम्मातु किं तावता । उद्यद्दुर्धरगन्धसिन्धुरशतप्रोद्दामदानार्णव- स्त्रोतः शोषणरोषणात्पुनरितः कल्पाग्निरल्पायते" ॥ अत्रोद्धतेर्ऽथे वाच्ये सुकुमारबन्धत्यागो गुण एव । अनेवंविधस्थाने माधुर्यादावेवान्तः पातः । यथा---"लताकुञ्जं गुञ्जन्-" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, फ) क्वचिदिति । मार्गाभेदप्रदर्शनी समता क्वचिद्दोषः । अन्यथेति । अत्र तादृशस्थले तु समता माधुर्य्यौजोगुणयोरन्यतरगुण इत्यर्थः । व्याचष्टे---मसृणेनेति । अव्यूढाङ्गमिति । शिसुरेषः पारीन्द्रः सिंहः अव्यूढाङ्गमप्रौढावयवं पाणिजठराणामाभोगेन परिपूर्णतया रहितं त वपुः दधत्, क्षुद्रतया पाणिपुटके सम्मातु । एतावता किमितो दृश्यमानात्प्रोद्यतां दुर्द्धरगन्धानां सिन्धुरशतस्य हस्तिशतस्य प्रोद्दामदानार्णवानां शोषणात्पुनः कल्पाग्निरल्पायते । अनेवंविधेति । अनुद्धते वाच्ये इत्यर्थः । दोषस्तु प्रकृतिविपर्य्ययरूपोबोध्यः । ********** टीका सम्पूर्णा ********** ओजः प्रसादो माधुर्यं सौकुमार्यमुदारता । तदभावस्य दोषत्वात्स्वीकृता अर्थगा गुणाः ॥ ८.१४ ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) इदानीमुक्तनाम्नां भिन्नलक्षणानां परोक्तदशार्थगुणानामप्यनङ्गीकारबीजमाह---ओजः प्रसाद इत्यादि । ओज आदि उदाहान्ताः पञ्चार्थगुणाः तदभावस्य दोषत्वादेव स्वीकृता इत्यर्थः । तथा च दोषाभाव एव एते पञ्चगुणा इत्यर्थः । ********** टीका सम्पूर्णा ********** ओजः साभिप्रायत्वरूपम् । प्रसादोर्ऽथवैमल्यम् । माधुर्यमुक्तिवैचित्र्यं सौकुमार्यमपारुष्यम् । उदारता अग्रम्यत्वम् । एषां पञ्जानामप्यर्थगुणानां यथाक्रममपुष्टार्थाधिकपदानवीकृतामङ्गलरूपाश्लीलग्राम्याणांनिराकरणेनैवाङ्गीकारः । स्पष्टान्युदाहरणानि । ************* टीका ************* विज्ञप्रिया (वि, भ) ओज आदिपञ्चगुणानां लक्षणान्याह---ओज इति । विशेष्यपुष्ट्यभिप्रायकविशेषणत्वं साभिप्रायत्वम् । तच्चापुष्टार्थत्वदोषाभावत्वेन स्वीकृतम् । अर्थवैमल्यमधिकपदेनाकलुषीकरणम् । तच्चाधिकपदत्वदोषाभावत्वेन उक्तिवैचित्र्यमनेकवारप्रतिपादनीयस्यार्थस्य भङ्ग्यन्तरेण कथनम्, तच्च अनवीकृत्वादोषाभावत्वेन । अपारुष्यममङ्गलरूपपारुष्यविरहः, । तच्चामङ्गलाश्लीलत्वदोषाभावत्वेन, अग्रम्यतावैदग्ध्यप्रतिपादकार्थभिन्नत्वम्॑ तच्च ग्राम्यत्वदोषाभावत्वेन स्वीकृतमित्यर्थः । स्पष्टानीति---एतद्दोषपञ्चकरहितश्लोका एवेत्यर्थः । ********** टीका सम्पूर्णा ********** अर्थव्यक्तिः स्वभावोक्त्यालङ्कारेण तथा पुनः । रसध्वनिगुणीभूतव्यङ्ग्यानां कान्तिनामकः ॥ ८.१५ ॥ ************* टीका ************* विज्ञप्रिया (वि, म) रसध्वनिः शून्यं वासगृहमित्यादि । रसगुणीभूतव्यङ्ग्यः । "अयं स रसनोत्कर्षो" त्यादि अपराङ्गम् । ********** टीका सम्पूर्णा ********** अङ्गीकृत इति सम्बन्धः । अर्थव्यक्तिर्वस्तुस्वभावस्फुटत्वम् । लोचना (लो, उ) उद्धतार्थः प्रोद्यद्दुर्द्धरेत्यादौ । अर्थव्यक्तिर्ययो-- लाङ्गूलेनाभिहत्य क्षितितलमसकृद्दारयन्नग्रपद्भ्या- मात्मन्येवावलीय द्रुतमथ गगनं प्रोत्पतन् विकमेण । स्फूर्जत्फुत्कारघोरः प्रतिदिशमखिलान् वारयन्नेष जन्तून् कोपाविष्टः प्रविष्टः प्रतिवनमरूणोच्छूनचक्षुस्तरक्षुः ॥ ********** टीका सम्पूर्णा ********** कान्तिर्देप्तरसत्वम् । स्पष्टे उदाहरणे । श्लेषो विचित्रतामात्रमदोषः समता परम् । ************* टीका ************* विज्ञप्रिया (वि, य) विचित्रतामात्रमिति---तथा च वैचित्र्यमलङ्कार इत्यलङ्कारसामान्यलक्षणाक्रान्तत्वादलङ्कार एवैसौ न गुण इत्यर्थः । समतेति । समता परमदोषो दोषाभावमात्रमित्यर्थः । ********** टीका सम्पूर्णा ********** श्लेषः क्रमकौटिल्यानुल्वणत्वोपपत्तियोगरूपघटनात्मा । तत्र क्रमः क्रियासन्ततिः, विदग्धचेष्टितं कौटिल्यम्, अप्रसिद्धवर्णनाविरहोऽनुल्वणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः एषां योगः सम्मेलनं स एव रूपं यस्या घटनायास्तद्रूपः श्लेषो वैचित्र्यमात्रम् । अनन्यसाधारणरसोपकरित्वातिशयविरहादिति भावः । ************* टीका ************* विज्ञप्रिया (वि, र) तत्र श्लेषलक्षणमाह---श्लेषक्रमेति । क्रमादीन् व्याचष्टे-क्रमः क्रियते---साकाङ्क्षाक्रियाबाहुल्यमित्यर्थः । क्रमकौटिल्येत्यादि बहुव्रीहिसमासं विवृणोतिस एव रूपं यस्या इति । स एव एषां योग एव इत्यर्थः । तद्रूप इत्यत्र रूपपदमात्मपदार्थविवरणम् । अनन्येति । माधुर्य्यादयस्तदन्तर्भूतं गुणान्तरं वा यथा विलक्षणरसोपकारातिशयहेतुरस्य, तथात्वविरहान्न गुणत्वभित्यर्थः । ********** टीका सम्पूर्णा ********** यथा--- "दृष्ट्वैकानसांस्थिते प्रियतमे-" इत्यादि । अत्र दर्शनादयः क्रियाः, उभयसमर्थनरूपं कौटिल्यम्, ************* टीका ************* विज्ञप्रिया (वि, ल) दृष्ट्वैकेति---प्रियतमे प्रियतमाद्वयमेकासनसंस्थित तद्द्वयं दृष्ट्वा धूर्त्तो नायकः पश्चात्पृष्ठतः उपेत्य विहितक्रीडानुबन्धच्छलः सनेकस्या नयने नयनद्वयं पिधाय ईषद्वक्रितकन्धरः सपुलकः सनादरादपरां चुम्बति । अपरां कीदृशी, प्रेम्णा उल्लसन्मनसामन्तर्हासेन लसत्कपोले पुलको यस्यास्तादृशी च । उभयसमर्थनेति---पिहितनयनायाः क्रोधः, चुम्बितायाः प्रीतिश्चेत्युमयं पृष्टतो गमनेन नयनपिधानेन च विदग्धचेष्टितरूपकौटिल्येन तत्समर्थनं समर्थनरूपमित्यत्र करणे ल्युट् । ********** टीका सम्पूर्णा ********** लोकसंव्यवहाररुपमनुल्वणत्वम्, एकासनसंस्थिते, "पश्चादुपेत्य" "नयने पिधाय" "ईषद्वक्त्रितकन्धरः" इति चोपपादकानि, एषां योगः । अनेन च वाच्योपपत्तिग्रहणव्यग्रतया रसत्वादौ व्यवहितप्राय इत्यस्यागुणता । समता च प्रक्रान्तप्रकृतिप्रत्ययाविपर्यासेनार्थस्य विसंवादिताविच्छेदः । स च प्रक्रमभङ्गरूपविरह एव । स्पष्टमुदाहरणम् । ************* टीका ************* विज्ञप्रिया (वि, व) लोकव्यवहारेति---अन्यलोकैरप्येवं करणात् । उपपादकानीति---सपत्न्यादृश्यमानचुम्बनोपपादकानीत्यर्थः । अस्य गुणत्वाभावं दर्शयति---अनेन चेति । वाच्यं यच्चुम्बनं पश्चाद्गमनादिना तदुपपत्तेर्ग्रहणनिष्पादने धूर्त्तस्य व्यग्रतया तद्वोधात्बोद्धॄणां रसास्वादो व्यवहितप्राय इत्यर्थः । किञ्जिद्धिलम्बनादितिभावः । प्रक्रान्तेति---प्रक्रान्तयोः प्रक्रम्यमाणयोः प्रकृतिप्रत्यययोः साम्यमित्यर्थः । स्पष्टमिति । प्रक्रमभङ्गदोषरहितश्लोक एवेत्यर्थः । ********** टीका सम्पूर्णा ********** न गुणत्वं समाधेश्च--- समाधिश्चायोन्यन्यच्छायायोनिरूपद्विविधार्थदृष्टिरूपः । तत्रायोनिरर्थो यथा--- "सद्योमुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम् । अन्यच्छायायोनिर्यथा--- "निजनयनप्रतिविम्बैरम्बुनि बहुशः प्रतारिता कापि । नीलोत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावी" ॥ अत्र नीलोत्पलनयनयोरतिप्रसिद्धं सादृश्यं विच्छित्तिविशेषेण निबद्धम् । अस्य चासाधारणशोभानाधायकत्वान्न गुणत्वम्, किन्तु काव्यशरीरमात्रनिर्वर्तकत्वम् । ************* टीका ************* विज्ञप्रिया (वि, श) अयोनिरन्यैरवर्णितार्थः । अन्यच्छायायोनिरन्यवर्णितार्थानुसारी, सद्य इति । हूणः पाश्चात्यदेशविशेषीययवनः, स च ताम्रवर्णः । मत्तत्वेन चातिताम्रः , नारङ्गकं नारङ्गफलमातिताम्रम् । अन्यैरवर्णितोऽयमर्थः । निजनयनेति---कापि कुसुमलावी मालाकारपत्नी जले निजनयनप्रतिबिम्बे नीलोत्पलभ्रमेण तद्धरणे प्रवर्त्त्य तदप्राप्त्या प्रतारिता वास्तवनीलोत्पलेऽपि करमर्पायितुं तद्भवति न वेति विमृशतीत्यर्थः । इयमन्यवर्णितार्थच्छाया । अस्य चेति---तनुभ्रमेण रसानुपकारादिति भावः । लोचना (लो, ऊ) अयोनिः पूर्वकविभिरदृष्टोर्ऽथः । काव्यशरीरमात्रनिर्वाहकत्वमेतत्प्रकारद्वयव्यतिरेकेण काव्यशरीरानिर्वाहात् । ********** टीका सम्पूर्णा ********** क्वचित्"चन्द्रम्" इत्येकस्मिन् पदार्थे वक्तव्ये "अत्रेर्नयनसमुत्थं ज्योतिः" इति वाक्यवचनम् । लोचना (लो, ऋ) वाक्यवचनमिति पदसमूहाभिधानम् । ********** टीका सम्पूर्णा ********** क्वचित्"निदाघशीतलहिमकालोष्ण्सुकुमारशरीरावयवा योषित्" इति वाक्यार्थे वक्तव्ये "वरवणिनी" इति पदाभिधानम् । ************* टीका ************* विज्ञप्रिया (वि, ष) प्रौढिरोज इत्यपरः परोक्त ओजोगुणः । तत्र च पदार्थे वाक्यरचना वाक्यार्थे च पदाभिधा । प्रादिर्व्याससमासौ च इति चतुर्विधा प्रौढिः परैरुक्ता । तस्य गुणत्वं नोचितमिति वक्तुं तदीयं पदार्थे वाक्यरचनेत्यादिकं दर्शयति---क्वचिञ्चन्द्र इतीति । वाक्यार्थे पदाभिधानं दर्शयति---क्वचिन्निदाघेति । शीतकाले भवेदुष्णा ग्रीष्मे च सुखशीतला । सर्वावयवशोभाढ्या सा स्मृता वरवर्णिनी । इति वरवर्णिनीलक्षणं व्यासं दर्शयदि । ********** टीका सम्पूर्णा ********** क्वचिदेकस्य वाक्यार्थस्य किञ्चिद्विशेषनिवेशादनेकैर्वाक्यारभिधानमित्येवंरूपो व्यासः । क्वचिद्वहुवाक्यप्रतिपाद्यस्यैकवाक्येनाभिधानमित्येवंरूपः समासश्च, लोचना (लो, ॠ) वाक्यार्थन्यासो यथा--- असौ नानाकारो भवति सुखदुः खव्यतिकरः सुखं वा दुःखं वा प्रभवति भवत्येव भवतः । जनस्तस्मादूर्द्धं भवति न च दुःखं न च सुखम् । इति अस्यैव समासो यथा--- श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्य्यताम् । आत्मनुः प्रतिकूलानि परेषां न समाचरेति ॥ इति ********** टीका सम्पूर्णा ********** इत्येवमादीनामन्यैरुक्तानां न गुणत्वमुचितम्, लोचना (लो, ळ) न गुणत्वम्---अनन्यसाधारणरसोपकारिताभावादिति भावः । इति । इति श्रीसाहित्यदर्पणलोचने गुणनिरूपणो नामाष्टमः परिच्छेदः । ********** टीका सम्पूर्णा ********** अपि तु वैचित्र्यमात्रावहत्वम् । ************* टीका ************* विज्ञप्रिया (वि, स) क्वचिदेकस्येति---वेशेषात्विच्छेदविशेषात्खण्डखण्डवाक्येन कथनादित्यर्थः । यथा नायं पण्डित इत्येकवाक्येन वक्तव्ये नायं व्याकरणं नायं तर्कं वेत्तीत्यादिखण्डखण्डवाक्येन समस्तशास्त्राज्ञानकथनम् । समासं दर्शयति---क्वचिदूह्विति । बहुप्रतिपाद्यस्य बहुवाक्यप्रतिपाद्यस्य यथा दर्शितव्यासविपर्य्ययः--एवमादीनांमिति । औजोगुणत्वेन अन्यैरुक्तानां चतुर्विधप्रौढीनामित्यर्थः । वैचित्र्यमात्रेति तथा चालङ्कार एवायमित्यर्थः । इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्य्यविरचितायां साहित्यदर्पणटीकायां गुणविवेचनाख्यस्याष्टमपरिच्छेदस्य विवरणम् ********** टीका सम्पूर्णा ********** ---तेन नार्थगुणाः पृथक् ॥ ८.१६ ॥ तेनोक्तप्रकारेण । अर्थगुण ओजः प्रभृतयः प्रोक्ताः । इति साहित्यदर्पणे गुणविवेचनो नामाष्टमः परिच्छेदः । ___________________________________________________ नवमः परिच्छेदः अथोद्देशक्रमप्राप्तमलङ्कारनिरूपणं बहुवक्तव्यत्वेनोल्लङ्घ्य रीतिमाह--- ************* टीका ************* विज्ञप्रिया (वि, क) उद्देशेति---गुणआलङ्काररीतय इत्युद्देशेऽलङ्कारस्य प्रागुद्दिष्टत्वेन तदुल्लङ्घयमित्यर्थः । तदुल्लङ्घने हेतुमाह---बहुवक्तव्यत्वेनेति । एतेन सूचीकटाहन्यायो दर्शितः । लोचना (लो, अ) इदानीं रीतिं निरूपयितुकामः संगति करोति---अथोद्देशेति । बहुवक्तव्यत्वेन उल्लङ्घ्यकमं सूचीकटाहन्यायादित्यर्थः । ********** टीका सम्पूर्णा ********** पदसंघटना रीतिरङ्गसंस्थाविरोषवत् । उपकर्त्रो रसादीनां--- ************* टीका ************* विज्ञप्रिया (वि, ख) रसादीनामित्यादिपदात्समस्तासंलक्ष्यक्रमपरिग्रहः । ********** टीका सम्पूर्णा ********** रसादीनामर्थाच्छब्दार्थशरीरस्य काव्यस्यात्मभूतानाम् । लोचना (लो, आ) पदानां सङ्गटना रचना अर्थात्विशिष्टा, विशेषश्च विशेषलक्षणेष्वभिव्यक्तः । रसादीनामिति । अङ्गसंस्थाविशेषो यथा लोके आत्मानमुपकरोति तथा काव्येषु । ********** टीका सम्पूर्णा ********** ---सा पुनः स्याच्चतुर्विधा ॥ ९.१ ॥ वैदर्भो चाथ गौडी च पाञ्चाली लाटिका तथा । सरीतिः । तत्र--- माधुर्यव्यञ्जकेर्वर्णै रचना ललितात्मिका ॥ ९.२ ॥ अवृत्तिरल्पवृत्तिर्वा वैदर्भो रीतिरिष्यते । यथा---"अनङ्गमङ्गलभुवः--" इत्यादि । रुद्रटस्त्वाह--- असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदर्भो । वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुविधेया ॥ अत्र दशगुणास्तन्मतोक्ताः श्लेषादयः । ************* टीका ************* विज्ञप्रिया (वि, ग) अनङ्गमङ्गलभुव इत्यादि व्याख्यातम् । एकपदसमस्ता न त्वनेकपदैर्देर्घसमस्ता । स्वल्पप्राणानि अक्षराणि ईषत्प्रयत्नोच्चार्य्यापि ककारहकारादीनि यत्र । श्लेषादिर्दशगुणाः । लोचना (लो, इ) ललितात्मिका सुकुमारस्वरूपा । वृत्तिः समासः । अत्र रुद्रटाचार्य्यमतप्रकटनम् । एकसमस्ता एकपदसमासयुक्ता, स्वल्पप्राणाक्षरा मूर्द्ध्ना मृद्वृत्तेत्यादिवत्न कष्टोच्चारणीयवर्णा । ********** टीका सम्पूर्णा ********** ओजः प्रकाशकैर्वणैर्बन्ध आडम्बरः पुनः ॥ ९.३ ॥ समासबहुला गौडी--- यथा---"चञ्चद्भुज--" इत्यादि । पुरुषोत्तमस्त्वाह--- "बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडीया । रीतिरनुप्रासमहिमपरतन्त्रा स्तोकवाक्या च" ॥ ************* टीका ************* विज्ञप्रिया (वि, घ) आडम्बर उद्दतवर्णघटितः । पुरुषोत्तस्त्विति । अन्यापेक्षया प्राक्लिखितबन्ध आडम्बरः॑ एतन्मते उक्तवर्णानामनुप्रसितत्वनियम इति विशेषस्तदाहअनुप्रासमहिमपरतन्त्रेति । पारतन्त्र्यं व्याप्तिः । अस्तोभवाक्य यतिरहितवाक्या । लोचना (लो, ई) अनुप्रासमहिमपरतन्त्रानुप्रासबहुला । ********** टीका सम्पूर्णा ********** ---वर्णैः शेषैः पुनर्द्वयोः । समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥ ९.४ ॥ ************* टीका ************* विज्ञप्रिया (वि, ङ) पाञ्चालिकां रीतिमाह---वर्णैरिति । द्वयोः शेषैरवशिष्टैर्वर्णैरित्यर्थः । समस्तपञ्चमपद इति अत्र पदपदमक्षरम् । तेन समासगतपञ्चमाक्षर इत्यर्थः । ********** टीका सम्पूर्णा ********** द्वयोर्वैदर्भोगौड्योः । यथा--- "मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया । मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे" ॥ ************* टीका ************* विज्ञप्रिया (वि, च) मधुरयेति । मधुकराङ्गनया भ्रमर्य्या निभृताक्षरं गुप्ताक्षरमस्फुटाक्षरं यथा स्यात्तथा मुहुरुज्जगेऽगीयत । कीदृश्या मधुरया ध्वनिमधुरतयैव तस्या मधुरता, तथा मधुना वसन्तेन बोधिताया उद्वोधिताया माधवीलताया मधुनो मकरन्दस्य समृद्ध्या सम्पत्त्या समेधिता दीप्ता मेधा बुद्धिर्यस्यास्तादृश्या । तथोन्मदद्वनिभृता उच्चत्वमेवोन्मदत्वम् । अत्र मकारनकारौ पञ्चमवर्णौ समासगतौ । ********** टीका सम्पूर्णा ********** भोजस्त्वाह--- "समस्तपञ्चषपदामोजः कान्तिसमन्विताम् । मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः" ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) कण्ठारणकृतो भोजस्य सम्पतलक्षणमाह---भोजस्त्विति । ओजः कान्तीति । साभिप्रायत्वरूपेण ओजसा औज्ज्वल्यरूपया कान्त्वा च समन्वितामित्यर्थः । मधुरांसुकुमारां चेति । पृथक्पदत्वरूपेण माधुर्य्येण सौकुमार्येण च युक्तामित्यर्थः । अनङ्गमङ्गलभुव इति वैदर्भ्युदाहरणे पञ्चममूर्द्धान एव वर्णा इति । न तत्र समस्तपञ्चमवर्णघटितपाञ्चालीत्वप्रसक्तिः । मधुरयेत्यादिपाञ्चाल्युदाहरणे समासगता एव पञ्चमवर्णा इति न तत्र पञ्चममूर्द्धवर्णघटितवैदर्भोत्वप्रसक्तिः । तत्र माधुर्य्यव्यञ्जकैरित्यत्र बहुवचनादत्र मधुकराङ्गनया इत्यत्र तद्व्यञ्जकैकवर्णमात्रसत्त्वेन तत्प्रसक्त्यभावात् । लोचना (लो, उ) ओजः--कान्ती तन्मतोक्तौ गुणविशेषौ । ********** टीका सम्पूर्णा ********** लाटी तु रीतिर्वैदर्भोपाञ्चाल्योरन्तरे स्थिता । लोचना (लो, ऊ) अन्तरा स्थितेत्यनेन नात्यल्पसमासा न बहुलसमासा, एवमन्यत्र । ********** टीका सम्पूर्णा ********** यथा--- "अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् । विरहविधुरकोकद्वन्द्वबन्धुविभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि" ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) अयमुदयतीति । लाट्युदाहरणे तदुभयमिश्रणं दर्शयिष्यते । तदर्थस्तु अयमर्थात्सूर्य्य उदयति । कीदृशः । पद्मिनीनां मुद्रायाः सङ्कोचस्य भञ्जनः तत्पुष्पविकाशकरत्वात् । तथा उदयगिरिस्थाया वनश्रेण्या नवीनमन्दारपुष्पस्वरूपः । विरहदुः खितस्य चक्रवाकमिथुनस्य बन्धुर्मित्रं तद्विरहनाशकत्वात् । तमांसि भिन्दन् च कुपितस्य वानरस्य कपोलक्रोडोभयवत्ताम्रश्च । कोपशात्कपोलस्य ताम्रता क्रोडस्य तु स्वाभाविकी । अत्र भञ्जनेति, मन्दारेति, द्वन्द्वबन्धुरिति, भिन्दन्निति पञ्चममूर्द्धवर्णानां वैदर्भोघटकत्वं तच्छेषवर्णानांबहूनामेवं पाञ्चालीघटकत्वमित्युभयमिश्रणम् । ********** टीका सम्पूर्णा ********** कश्चिदाह--- "मृदुपदसमाससुभगा युक्तैर्वर्णैर्न चातिभूयिष्ठा । लोचना (लो, ऋ) युक्तैः संयुक्तैः । ********** टीका सम्पूर्णा ********** उचितविशेषणपूरितवस्तुन्यासा भवेल्लाटी" ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) कश्चिदाहेति---लाटीलक्षणमिति शेषः । मृदुपदेति---पदसमासयोरुभयत्र मृदुत्वान्वयः । युक्तैः संयुक्तैर्वर्णैर्नचातिभूयिष्ठा, भूयिष्ठसंयुक्तवर्णरहितेत्यर्थः । उचितेति---उचितमुक्तदोषरहितं विशेषणं पूरितं प्रतिपालितं येन तादृशस्य वस्तुनो न्यासयुक्ता लाटी भवेदित्यर्थः । एतदप्युक्तोदाहरणे एव सम्भवति । तत्तद्गुणव्यञ्जकानां वर्णादीनां तत्तद्गुणव्यञ्जनार्थमुपादेयत्वेनोक्तत्वात् । ********** टीका सम्पूर्णा ********** अन्ये त्वाहुः--- "गौडी डम्बरबद्धा स्याद्वैदर्भो ललितक्रमा । पाञ्चाली मिश्रभावेन लाटी तु मृदुभैः पदैः" ॥ क्वचित्तु वक्त्राद्यौचित्यादन्यथा रचनादयः ॥ ९.५ ॥ ************* टीका ************* विज्ञप्रिया (वि, ञ) क्वचित्तत्तद्रसाभावेन तद्गुणव्यञ्जनार्थमनुपादेयत्वेऽपि वक्त्राद्यौचित्यादन्यथा रचनादय इत्याह---क्वचिद्वक्त्रादीति । तद्गुणव्यञ्जनाभावेऽपि तन्निबन्ध एवान्यथात्वम् । लोचना (लो, ॠ) इह सङ्घटनादीनां गुणपरतन्त्रत्वेऽपि विशेषमाह--क्वचिदिति । यदाह सर्वत्रैव रसाश्रिता रचनादयो वक्त्राद्यपेक्षायां तु किञ्चित्तरातम्यमिति । ********** टीका सम्पूर्णा ********** वाक्त्रदीत्यादिशब्दाद्वाच्यप्रबन्धौ . रचनादीत्यादिशब्दाद्वृत्तिवर्णौ । तत्र वक्त्रौचित्याद्यथा--- "मन्थायस्तार्णवाम्भः प्लुतकुहरचलन्मन्दरध्वानधईरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः । कृष्णाक्रोधग्रढूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम्" ॥ अत्र वाच्यक्रोधाद्य(न) भिव्यञ्जकत्वेऽपि भीमसेनवक्तत्वेनोद्धता रचनादयः । ************* टीका ************* विज्ञप्रिया (वि, ट) मन्थायस्तेत्यादि---रणस्थले दुन्दुभिशब्दं श्रुत्वा भीमस्येयं पृच्छा । केनायं दुन्दुभिस्ताडितः--ताडनेन जनितः । यथा श्रुते विशेषणानां दुन्दुभौ अन्वयः । शब्दः कीदृशः । मन्थनेन मथनेन आयस्तस्य प्राप्तायासस्यार्णवस्याम्भसापुलुतं व्याप्तं कुहरं गुहा यस्य तादृशस्य चलतः मन्दरस्य ध्वानवत्धीरः । कोणस्य वादनदण्डस्याघातेषु ताडनेषु सत्सु । गर्ज्जन्त्याः प्रलयघनघटाया अन्योऽन्यसंघट्टनेन चण्डः । यद्वा--- ढक्काशतसहस्त्राणि भेरीशतशतानि च । एकदा यत्र वाद्यन्ते कोणाघातः स उच्यते ॥ यत्रेति निमित्तसप्तम्यां यादृशशब्दनिमित्तं ढक्कादय एकदा ताड्यन्ते स शब्दः कोणआघात इत्यर्थः । तथा च तादृशशब्देषु मध्ये अयं गर्ज्जतित्यादि चण्ड इत्यर्थः । कृष्णाया द्रौपद्याः क्रोधस्य अग्रदूतः तत्प्रवर्त्तकत्वात्कुरुकुलनिधनसूचक उत्पातभूतो निर्घातवातश्च इत्यर्थः । अत्रेति वाच्यपदमत्र प्रतिपाद्यपरं तथा च लक्ष्यस्य दुन्दुभिशब्दस्य इत्यर्थः । लोचना (लो, ळ) मन्थायस्तेत्यादौ कोधाव्यञ्जकत्वं वाक्यस्य च नाटकरूपस्याभिनेयदुः- खावहत्वात् । अनुचितमपि दीर्घसमासान्तत्वेऽपि विशेषमाह---धीरोद्धतो भीमसेनो वक्तेति नानौचित्यमिति भावः । ********** टीका सम्पूर्णा ********** वाच्यौचित्याद्यथोदाहृते "मूर्धव्याधूयमान---" इत्यादौ । लोचना (लो, ए) मूर्द्धव्याधूयमानेत्यादौ च न वक्त्रौचित्यम्, नाटकान्तः पातित्वाच्च उक्तप्रकारेण प्रबन्धौचित्यमपि । किन्तु काव्यस्य उद्धतार्थप्रकाशकत्वादुद्धतरचना । ********** टीका सम्पूर्णा ********** प्रबन्धौचित्याद्यथा नाटकादौ रौद्रेऽप्यभिनयप्रतिकूलत्वेन न दीर्घसमासादयः । एवमाख्यायिकायां शृङ्गारेऽपि न मसृणवर्णादयः । कथायां रौद्रेऽपि नात्यन्तमुद्धताः । ************* टीका ************* विज्ञप्रिया (वि, ठ) आख्यायिकाकथे प्रबन्धविशेषौ । इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्य्यकृतायां साहित्यदर्पणटीकायां रीतिनिरूपणख्यस्य नवमपरिच्छेदस्य विवरणम् । ********** टीका सम्पूर्णा ********** एवमन्यदपि ज्ञेयम् । लोचना (लो, ऐ) आख्यायिकादिलक्षणमुक्तमेव । आख्यायिकाया गद्यमयप्रबन्धत्वेनगद्यस्य च विकटबन्धदीर्घसमासबहुलप्राचुर्य्यौतित्यात्तत्र शृङ्गारेऽपि न प्रायेण सुकुमाररचनादिः । यदुक्तं ध्वनिकृता--- "रसबद्धोक्तमौचित्यं भाति सर्वत्र संश्रिता । रचनाविषयापेक्षं तत्तु किञ्चिद्विभेदवत्" ॥ इति कथाप्रबन्धस्य गद्यमयत्वेऽपि शृङ्गाररसमयत्वाद्रौदादिरसप्रवेशेऽपि नात्यन्तमुद्धतरचनादयो विधेयाः । एवमन्यदपि । यदुक्तं ध्वनिकृता---"सन्दानिकादिषु विकटबन्धौचित्याद्मध्यमसमासदीर्घरमासे एव सङ्घटने" । इति श्रीसाहित्यदर्पणलोचने रीतिविवेको नाम नवमः परिच्छेदः । ********** टीका सम्पूर्णा ********** इति साहित्यादर्पणे रीतिविवेचनो नाम नवमः परिच्छेदः । ___________________________________________________ दशमः परिच्छेदः ************* टीका ************* विज्ञप्रिया (वि, क) अथावसरेति । उद्देश्यक्रमलङ्घनात्, न तु तत्क्रमप्राप्तनिति भावः । लोचना (लो, अ) इदानीमलङ्कारं निरूपयितुकामोऽवतारयति--अथेति । अलङ्कारानाहस्वरूपतो विशेषतश्चेत्यर्थः । ********** टीका सम्पूर्णा ********** अथावसरप्राप्तानलङ्कारानाह-- शब्दार्थयोरस्थिरा यो ध्रर्माः शोभातिशायिनः । रसादीनुपकुर्वन्तोऽलङ्कारास्तेऽङ्गदादिवत् ॥ १०.१ ॥ यथा अङ्गदादयः शरीरशोभातिशायिनः शरीरिणमुपकुर्वन्ति, तथानुप्रासोपमादयः शब्दार्थशोभातिशायिनो रसादेरुपकारकाः । लोचना (लो, आ) यथेति । शब्दार्थशोभातिशायित्वमात्रेणालङ्कारत्वम् । तथाहि रसाद्यध्यवसायपृथक्यत्ननिवर्त्त्यस्य यमकादेरेकरूपानुबन्धनवतोऽनुप्रसास्यासमीक्ष्य विनिवेशितस्य रूपकादेश्च रसानुपकारित्वादलङ्कारता । यदुक्तं ध्वनिकृता--- "यमकादिनिबन्धेषु पृथक्यत्नोऽस्य जायते । शक्तस्यापि रसाङ्गत्वं तस्मादेषां न विद्यते" ॥ शक्तस्याप्यस्य कवेः । यमकदुष्करादीनां यथा--- "शृङ्गारस्याङ्गिनो यत्नादेकरूपानुबन्धनात् । सर्वेष्वेव प्रबन्धेषु नानुप्रासः प्रकाशकः" ॥ इति रूपकादेः समीक्ष्य निवेशनं च तेनैवोक्तम्--- "विवक्षातत्परत्वेन नाङ्गित्वेन कथञ्चन । काले च ग्रहणत्यागो नाति निर्वहणैषिता ॥ निर्व्यूढावपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणम् । रूपकादेरलङ्कारवर्गस्याङ्गत्वसाधनम् ॥ इति ॥ "कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निश्वासैरयममृतहृद्योऽधररसः । मुहुऋ कण्ठे लगनः तरलयति बाष्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे ! न तु वयम्" ॥ कपोले गण्डस्थले, पत्राली पत्ररचना, करतलनिरोधेन पाणितलपीडनेन, मृदिता प्रमृष्टा । निश्वासैरमृतहृद्योऽमृतवन्मधुरोऽधररसः, निपीतः आहतः । बाष्पः अश्रु, कण्ठे लग्नः सक्तः सन, स्तनतटं, कुचप्रान्तं, मुहुः पुनः पुनः तरलयति कम्पयति । एवमनेन प्रकारेण नायको नायिकामुपालभते । मन्युः क्रोधः, तव प्रियो जातः अयि निरनुरोधे ! अनङ्गीकृतानुवर्त्तने ! वयं प्रिया हिताः न भवामः इति सम्बन्धः । अत्र पत्रालीमर्द्दनवायापारेण सौभाग्यहारी मन्युः तव प्रियो जात इत्यनेन त्वदनुरोधकारिणो वयं तव हिता न भवाम इत्यनेन च उपालम्भो गम्यते । नायिका, स्वीया मध्या, नायकस्तु शठः । मानकृतो विप्रलम्भशृङ्गारः । अत्र सोपलम्भवचनं नर्म । आक्षेपोऽलङ्कारः"इत्यादौ । मम तातपादानां प्रभावतीपरिणये प्रभावतीवर्णनं यथा--- कलाकुलगृहं मनः--पतगपञ्जरं कामिनां वशीकरणभेषजं, परमकौशलं वेधसः । जगद्विजयकर्मणि स्मरमहीभुजः कार्मणं दृशोर्निगडबन्धनं त्रिजगतां परं भूषणम् ॥ इत्यादौ अलङ्कारणां निर्वाहकरससम्बन्धाक्षिप्तचेतसः कवेरपृथक्-यत्ननिवर्त्त्यत्वात्न दोषः, इत्यतोऽतीवरसपरिपोषकत्वम् । यदुक्तं ध्वनिकृता--- रसाक्षिप्ततया यस्य बन्धः शक्यकियो भवेत् । अपृथक्यत्ननिर्वर्त्त्यः सोऽलङ्कारो ध्वनेर्मतः । तथालङ्कारन्तरणि निरूप्यमाणदुर्घटनान्यपि रससमाहितचेतसः प्रतिभानवतः कवेरहंपूर्विकया परापतन्ति । यथा--- "इयमम्लीपत्तशमनी त्रिदोषदमनी बुभुक्षुकमीनया । मर्त्त्यानाममृतवटी रसगन्धकपर्पटी जयति" ॥ इत्यादौ । सत्यपि रसे तमपि नोपकुर्वन्ति अनुप्रासादयः । यथा---"औवट्टै उल्लट्टै" इत्यत्र अनुप्रासः । "मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति कन्दत्सु भ्रमरेषु वीक्ष्य दयिता सन्नं पुरः सारसम् । चकाह्वेन वियोगिना बिसलता नास्वादिता नोज्झिता कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः" ॥ इत्यत्र चोद्दीपनरूपाया बिसलतायाः प्रयत्नजीवहरणावसानोपकारकत्वात्जीवननिरोधार्गलरूपोत्प्रेक्षायां विप्रलम्भशृङ्गारतदाभासयोरननुगुणत्वान्नालङ्कारः रसस्योपकारकः । इह नोपमेति उत्प्रेक्षानिरूपणे वक्ष्यते । तदेव सुष्ठूक्तं शब्दार्थशोभातिशयद्वारेण रसादेरुपकारका अलङ्कारा इति । ********** टीका सम्पूर्णा ********** अलङ्कारा अस्थिरा इति नैषां गुणवदावश्यरकी स्थितिः । ************* टीका ************* विज्ञप्रिया (वि, ख) नैषां गुणवदिति---माधुर्य्यादीनां शृङ्गारादिव्यापकत्वात्तत्र तेषामवश्यस्थितेः । लोचना (लो, इ) अस्थिरा इति---कारिकापमनूद्य विवृणोति । नैषामिति--गुणादीनां वाक्येष्वन्वयव्यतिरेकानुविधायिनो रसस्य धर्मत्वेन अवस्थितिः । अलङ्काराणां च क्वचिदभावेऽपि न काव्यत्वहानिरित्यर्थः । यथा गुणा रसस्य स्थिरधर्मास्तथा नैते शब्दार्थयोः । एवं शब्दार्थयोरनुपचरितधर्मत्वेनास्थिरत्वेन शब्दार्थशोभाधानद्वारेण रसोपकारकत्वेन च गुणव्यतिरिक्तत्वमलङ्काराणां दर्शितम् । ********** टीका सम्पूर्णा ********** शब्दार्थयोः प्रथमं शब्दस्य बुद्धिविषयत्वाच्छब्दालङ्कारेषु वक्तव्येषु शब्दार्थालङ्कास्यापि पुनरुक्तवदाभासस्य चिरन्तनैः शब्दालङ्कारमध्ये लक्षितत्वात्प्रथमं तमेवाह-- ************* टीका ************* विज्ञप्रिया (वि, ग) तत्रादौ पुनरुक्तवदाभासस्य शब्दार्थोभयालङ्कारत्वे शब्दालङ्कारतया कथनबीजं प्रदर्शयंस्तमाह---शब्दालङ्कारस्यापीति । लोचना (लो, ई) समप्रतीत्यवतार्य्य तद्भेदानाह--शब्दार्थयोरिति । आह लक्षयतीत्यर्थः । ********** टीका सम्पूर्णा ********** आपाततो यदर्थस्य पौनरुक्त्येन भासनम् । पुनरुक्तवदाभासः स भिन्नाकारशब्दगः ॥ १०.२ ॥ ************* टीका ************* विज्ञप्रिया (वि, घ) आपाततो यदर्थस्येति । आपातत एव न तु प्रणिधानेऽप्यर्थपौनरुक्त्यम् । भिन्नाकारशब्दत्वेन पौनरुक्त्यप्रसक्तिस्तु नास्त्येव । लोचना (लो, उ) आपाततः पौनरुकत्यावभासनं, पुनरुक्तिवत्प्रत्ययः, पर्य्यवसाने तु न तथा । अतः पुनरुक्तवदाभास इत्यर्थवन्नामालङ्कारः । भिन्नाकारशब्दग इत्यनेन यमकव्यवच्छेदः । अत्र "नवपलाशपलाशवनं पुरः" इत्यादावपि आपाततः पौनरुक्त्यावभासनं॑ किन्तु तदेकरूपशब्दगतम् । ********** टीका सम्पूर्णा ********** उदाहरणम्-- भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः । जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ॥ ************* टीका ************* विज्ञप्रिया (वि, ङ) भुजङ्गकुण्डलीति । शिवो जगन्त्यपि सदापायादव्यादवतु । कीदृशः, भुजङ्गरूपकुण्डलवान्॑ तथा व्यक्तेन शशिनः शुभ्रांशुना शीतः शीतलः गौर्वृषः यस्य तादृशः । चेतोहरः मनोहरः । लोचना (लो, ऊ) कुण्डली सर्पः॑ कुण्डलवांश्च । शशिसुभ्रांशुशीतगुशब्दास्त्रय एव आपाततश्चन्द्रार्थाः । पर्य्यवसाने तु शशिनः शुभ्रा उज्ज्वला येंऽशवः तद्वत्शीता गावः कान्तयो यस्य इति । अपायातपायतः अव्यात्रक्षतात् । हरः सदाशिवः मनोहरश्च । अत्र पायादिति पाधातोः, अव्यादिति अवधातोः रक्षणार्थस्य लिङन्तत्वे पौनरुक्त्यावभासः । पर्य्यवसाने तु सन्धिहेतुकं लुप्तमकारमादायापायशब्दस्य सुबन्तत्वमित्यर्थः । ********** टीका सम्पूर्णा ********** अत्र भुजङ्गकुण्डल्यादिशब्दानामापातमात्रेण सर्पाद्यर्थतया पौनरुक्त्यप्रतिभासनम् । पर्यवसाने तु भुजङ्गरूपं कुण्डलं विद्यते यस्येत्याद्यन्यार्थत्वम् । "पायादव्यात्" इत्यत्र क्रियागतोऽयमलङ्गारः, "पायात्" इत्यास्य "अपायात्" इत्यत्र पर्यवसानात् । ************* टीका ************* विज्ञप्रिया (वि, च) अपायादित्यत्र पर्य्यवसानादिति । प्रश्लिष्टाकारप्रतिसन्धानात्तत्र पर्य्यवसानम् । ********** टीका सम्पूर्णा ********** "भुजङ्गकुण्डली" इति शब्दयोः प्रथमस्यैव परिवृत्तिसहत्वम् । "हरः शिवः" इति द्वितीयस्यैव । "शशिसुभ्रांशु" इति द्वयोरपि । ************* टीका ************* विज्ञप्रिया (वि, छ) प्रथमस्यैवेति । सर्पकुण्डलीत्युक्तेऽपि पौनरुक्त्यस्य भानात् । द्वितीयस्यैवेति । परिवृत्तिसहत्वमित्यन्वयः । मृडो भव इत्युक्तावपि तथात्वात् । द्वयोरपीति । परिवृत्तिसहत्वामित्यन्वयः । चन्द्रशीतांशुपददानेऽपि तथात्वात् । लोचना (लो, ऋ) अस्य च शब्दार्थालङ्कारत्वे हेतुमाह---भुजङ्गेति । परिवृत्तिसहत्वम्॑ अहि--कुण्डली, सर्पकुण्डलीत्याद्युक्तावपि पौनरुक्त्यावभासता । तेनात्र कुण्डलीति पदस्य न परिवृत्तिसहत्वम् । एवं "हरः शिवःऽ इत्यादावपि बोद्धव्यम् । ********** टीका सम्पूर्णा ********** "भाति सदानत्यागः" इति न द्वयोरपि । इति शब्दपरिवृत्तिसहत्वासत्वाभ्यामस्योभयालङ्कारत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ज) भातीति । भाति सदानत्यागः स्थिरतायामिति काव्यप्रकाशोक्त्यैकदेशप्रदर्शनमिदम् । तत्र भवान् सदा अनत्या परनतिराहित्येन भातीति । स्थिरतायामगः पर्वतश्चेत्यर्थः । तत्र दानत्यागपदपौनरुक्त्यावभासः । अत्र न द्वयोरपि परिवृत्तिसहत्वम् । लोचना (लो, ॠ) तृतीयादौ च दानत्यागाभ्यां सह वर्त्तते इति पौनरुक्त्यावभासः । सदा सर्वदा अनत्वा, अनमनेन, अगः पर्वत इति पर्य्यवसानम् । न द्वयोर्दानत्यागयोः । परिवृत्तिसहत्वासहत्वाभ्यां क्वचित्परिवृत्तिसहत्वादर्थालङ्कारत्व॑ क्वचित्तदसहत्वाच्छब्दाजङ्कारत्वं, दोषगुणालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेरन्वयव्यतिरेकाभ्यां नियमनादित्यर्थः । ********** टीका सम्पूर्णा ********** अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत् । स्वरमात्रसादृश्यं तु वैचित्र्याभावान्न गणितम् । रसाद्यनुगतत्वेन प्रकर्षेण न्यासोऽनुप्रासः । ************* टीका ************* विज्ञप्रिया (वि, झ) अनुप्रासालङ्कारमाह---अनुप्रास इति । स्वरमात्रसादृश्यमितिमात्रपदात्व्यञ्जनसाम्यव्युदासः । तेन "के वाते सेवया देशे गेहे च लेभिरे यश"इत्यत्र नानुप्रासः । व्यञ्जनमात्रसाम्ये तु कुपितकपिकपोलेत्यादौ अनुप्रास एव । क्वचिदुभयसाम्येऽपि यथा---"धूतचूतप्रसून" इति । यथा वा---"गुणसिन्धुः सतां बन्धुसत्वबन्धुस्त्वपरो जनः । "केवलं स्वरमात्रसाम्यं व्युदस्तं बोध्यम् । अनुप्रासपदव्युत्पत्तिमाह---रसाद्येति । अनुगमश्च व्यञ्जना । अनुपारसविशिष्टपदवाक्याभ्यां रसादिव्यञ्जनात् । आदिपदाद्वक्तुर्वैदग्ध्यपरिग्रहः । लोचना (लो, ळ) अनुप्रास इति---स्वरवैषम्येऽपि शब्दसाम्यमित्यत्र शब्दा व्यञ्जनान्येव । स्वराणां स्वरानाधारत्वात् । तेनैषा बालायातीत्यादौ स्वरमात्रस्य असकृदावृत्तावपि व्यञ्जनवैसादृश्ये चारुत्वाभावस्य सहृदयसंवेद्यत्वान्नालङ्कारः । एतदेवोक्तं वृत्तौ स्वरमात्र इत्यादिना । किञ्च स्वरस्य वैषम्येऽपि इत्यनेन "कावेरी वारी" त्यादेरेतदवाह्यत्वम् । अपिशब्दात्"दर्दुरदुरध्यवसाय सायम्" इत्यादौ दुरशबादसाम्ये स्वरसाम्येऽप्यनुप्रासत्वम् । "नवपालशपलाशवनं पुर" इत्यादौ यमकस्यापवादत्वेनानुप्रासबाधकता । दर्दुरदुर इत्यादौ प्रथमदुरशब्ददकारस्य मूर्ध्रि रेफलोगान्न यमकम् । दुरध्यवसाय सायमित्यादौ चानुस्वारयोगादनुप्रसा एव न यमकम् । "आकर्ण्य कर्णमधुराणी" त्यादौ च प्रथमकर्णशब्दस्य स्वतः स्वरायोगेऽपि द्वितीयकर्णशब्दनिष्ठस्वभावात्स्वरवैषम्यम् । नैत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृतेत्यादौ नकाररफेयुक्तदकारयोर्दूरावस्थानादनुप्रासाभावबुद्धिर्न कार्य्या, संस्कारविच्छेदाभावाद्यदुक्तं--"पूर्वानुभवसंस्कारबोधनीयेत्यदूरते"ति । ********** टीका सम्पूर्णा ********** छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा ॥ १०.३ ॥ ************* टीका ************* विज्ञप्रिया (वि, ञ) तत्र छेकानुप्रासलक्षणमाह---छेक इति । व्यञ्जनसङ्गत्वमत्र एकव्यञ्जनभिन्नत्वमात्रं विवक्षितम् । तेन द्वयोस्त्षादीनां च तथात्वम् । लोचना (लो, ए) तद्भेदानाह । सङ्घशब्देनात्र नैकस्य व्यञ्जनस्यासकृदेकवारमनेकधा स्वरूपतः क्रमतश्च । एतदेवोक्तं वृत्तावनेकधेत्यादिना । ********** टीका सम्पूर्णा ********** छेकश्छेकानुप्रासः । अनेकधेति स्वरूपतः क्रमतश्च । रसः सर इत्यादे क्रमभेदेन सादृश्यं नास्यालङ्कारस्य विषयः । ************* टीका ************* विज्ञप्रिया (वि, ट) अनेकधेति । वर्णानामानुपूर्व्याश्च साम्यमित्यनेकधात्वम् । ईदृशैकधात्वं साम्यानुप्रासस्य विषय इत्याह---सरोरस इति । न चैवं वर्णैरानुपूर्व्याच्च साम्येऽनुप्रासाद्यमकाभेदप्रसक्तिरिति वाच्यम्॑ तत्र स्वरस्यापि साम्येन एतद्भेदात् । लोचना (लो, ऐ) रस रस इत्यत्र रसयोः स्वरूपत एव साम्यं, न तु कमतः । कौवरौ वारीत्यादौ वरयोरिव कमतोऽपि । ********** टीका सम्पूर्णा ********** उदाहरणं मम तातपादानाम्-- "आदाय बकुलगन्धानन्धीकुर्वन् पदे पदे भ्रमरान् । अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) आदायेति---भ्रमराणामन्धीकरणं गन्धलोभेन तदनुसरणमात्रेण विषयान्तरादर्शनम् । ********** टीका सम्पूर्णा ********** अत्र गन्धनन्धीतिसंयुक्तयोः, कावेरीवारीत्यसंयुक्तयोः, पावनः पवन इति व्यञ्जनानां बहूनां सकृदावृत्तिः । छेको विदग्धस्तत्प्रयोज्यत्वादेष छेकानुप्रासः । ************* टीका ************* विज्ञप्रिया (वि, ड) वर्णद्वयस्यापि संघपदार्थत्वेनात्र विवक्षणत्त्योरनेकवर्णानां चात्र सकृत्त्वं दर्शयति---अत्रेति । तत्प्रयोज्यत्वादेवेति । तथा च छेकपदं तत्प्रयोज्ये निरूढलाक्षणिकम् । एवं च वृत्त्यनुप्रासस्यापि विदग्धप्रयोज्यत्वेऽपि तत्र रूढ्यभावात्न छेकपदप्रयोगः । लोचना (लो, ओ) संयुक्तयोर्नकारधकारयोः । छेक इत्यादिना पूर्वप्रसिद्धस्य नाम्नः कथञ्चिन्निरुक्तिः । ********** टीका सम्पूर्णा ********** अनेकस्यैकधा साम्यमसकृद्वाष्यनेकधा । एकस्य सकृदष्येण वृत्त्यनुप्रास उच्यते ॥ १०.४ ॥ लोचना (लो, औ) अनेकस्येति । अनेकस्यार्थाद्व्यञ्जनस्य एकधा साम्यमेकः । अनेकधापि वासकृत्साम्यं द्वितीयः, असकृदित्यनेन छेकानुप्रासव्यवच्छेदः । एकस्य व्यञ्जनस्य सकृदसकृद्वा साम्यमिति द्वाविति चतुर्द्धा वृत्त्यनुप्रासः । ********** टीका सम्पूर्णा ********** एकधा स्वरूपत एव, न तु क्रमतोऽपि । अनेकधा स्वरूपतः क्रमतश्च । सकृदपीत्यपि शब्दादसकृदपि । ************* टीका ************* विज्ञप्रिया (वि, ढ) वृत्त्यनुप्रासमाह---अनकस्येकधेति । तत्रैकधा पदार्थं व्याचष्टे---स्वरूपत एवेति । व्यञ्जनवर्णस्वरूपत इत्यर्थः । असकृद्वाप्यनेकधेत्यत्रानेकधात्वं व्याचष्टे---अनेकधेति । अंत्र अनेकस्येत्यस्यान्वयः, तथा चानेकस्यानेकधा सकृत्त्वे छेकः । असकृत्त्वे तु वृत्त्यनुप्रासः । "एकस्य सकृदपि" इत्यत्रापिकारसमुचितं दर्शयति---सकृदपीत्यपिशब्दादिति । एकस्य सकृत्त्वे अनुप्रासस्तु न काव्यप्रकाशसम्मतः । जातच्युतेत्यत्र वैचित्र्याननुभवात् । स्वरसादृश्यसत्त्वे तु तस्यापि सम्मतो यथा "धूतचूतप्रसून" इत्यत्र । ********** टीका सम्पूर्णा ********** उदाहरणम्-- "उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर- क्रीडत्कोकिलकाकलीकलकलैरुद्रीर्णकर्णज्वराः । नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण- प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ण) उन्मीलदित्यादि । "काकली तु कलौ सूक्ष्मे ध्वनौ तु मधुरा स्फुटे" इत्यमरः । तद्रूपैः कलकलैः । ********** टीका सम्पूर्णा ********** अत्र "रसोल्लासैरमी" इति रसयोरेकधैव साम्यम्, न तु तेनैव क्रमेणापि । द्वितीये पादे, कलयोरसकृत्तेनैव क्रमेण च । प्रथमे एकस्य मकारस्य सकृत्, धकारस्य चासकृत् । रसविषयव्यापारवती वर्णरचनावृत्तिः, तदनुगतत्वेन प्रकर्षेण न्यसनाद्वृत्त्यनुप्रासः । ************* टीका ************* विज्ञप्रिया (वि, त) अत्र अनेकस्यैकधासकृत्त्वं दर्शयति---रसोल्लासैरमी इति । रसयोरिति---रसेति रेफसकारयोरानुपूर्वोराहित्यादेकधा । कल्योरिति---कोकिलकाकलीकलवलैरित्यत्रेत्यर्थः । एकस्य सकृत्त्वमसकृत्त्वं दर्शयति---प्रथमे इति । धूतचूतेत्यत्र तकारस्य । मधुगन्धलुब्धमधुपेत्यत्र धकारस्येत्यर्थः । समासमेत्यत्र तु अनेकधानेकस्य सकृत्त्वाच्छेक एवेत्यतस्तन्न दर्शितम् । वृत्त्यनुप्रास इत्यत्र वृत्तिपदार्थं व्याचष्टे---रसविषयेति । रसविषयो वायपारः व्यञ्जना, तद्वत्यां वस्तुरचनायां वस्तुनोर्ऽथस्य शब्देन रचनायां वृत्तिसंज्ञा इत्यर्थः । तत्रानुप्रसशब्दार्थं यौजयति--तदनुगतत्वेनेति । तादृशरचनासम्बन्धत्वेनेत्यर्थः । प्रकर्षश्च वर्णसाम्यम् । लोचना (लो, अ) प्राणसमासमागमेत्यत्र च यमकत्वं वक्ष्यते । यद्यपि ल्लासैरमी वासरा इत्यत्र च सरयोरनेकधा साम्यहेतुकेन छेकानुप्रासेनसहैकधासाम्यभेदस्य वृत्त्यनुप्रासभेदस्य एकवाचकानुप्रवेशरूपः सङ्करो वक्ष्यते॑ तथापि वासरशब्दमगणयित्वा वृत्त्यनुप्रासभेदकथनम् । एवमन्यत्र । रसविषयेति । रसविषयः स्वादानुप्राणको व्यापारो वृत्तिः । वृत्त्यतेऽनया शब्दो रसव्यञ्जनयेति व्युत्पत्त्या । तेन नद्वती उक्तरीत्या शृङ्गारादिरसौपयिककोमलपरुषमध्यमवर्णारब्धा वापि रचना वृत्तिरुपचारादिति भावः । तदनुगतत्वेन तया वृत्त्योपलक्षितत्वेन । ********** टीका सम्पूर्णा ********** उच्चार्यत्वाद्यदेकत्र स्थाने तालुरदादिके । सादृश्यं व्यञ्जनस्यैव श्रुत्यनुप्रास उच्यते ॥ १०.५ ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) श्रुत्यनुप्रासाख्यमनुप्रासान्तरमाह---उच्चार्य्यत्वादिति । वर्णसाम्याभावेऽपि एकस्थानोच्चार्य्यत्वसादृश्यादित्यर्थः । लोचना (लो, आ) उच्चार्य्यत्वादिति--द्वयोर्बहूनां वा व्यञ्जनानां तालव्यत्वेन दन्त्यत्वेनादिशब्दात्कण्ठ्यत्वादिना साम्यं श्रुत्यनुप्रास इत्यर्थः । इमं च श्रुत्यनुप्रासं "निवेशयति वाग्देवी कस्यचित्प्रतिभावतःऽ इत्यादीना प्रशंसन्ति प्राच्याः । ********** टीका सम्पूर्णा ********** उदाहरणम्-- "दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः" ॥ ************* टीका ************* विज्ञप्रिया (वि, द) दृशा दग्धमिति---विरूपाक्षस्य जयिनीस्ता वामलोचना अहं स्तुवे । लोचनस्य विरूपत्वसुन्दरत्वात्मकवामत्वाभ्यां जयपराजयावुक्त्वा क्रियाभायामप्याह---दृशा दग्धमिति । हरेण मनसिजस्य दृशा दाहस्ताभिस्तु कटाक्षरूपया दृशा जीवनमतोऽपि जयः । ********** टीका सम्पूर्णा ********** अत्र "जीवयन्ति" इति, "याः" इति, "जयिनीः" इत । अत्र जकारयकारयोरेकत्र स्थाने तालावुच्चार्यत्वात्सादृश्यम् । एवं दन्त्यकण्ठ्यानामप्युदाहार्यम् । एष च सहृदयानामतीव श्रुतिसुखावहत्वाच्छ्रत्यनुप्रासः । व्यञ्जनं चेद्यथावस्थं सहाद्येन स्वरेण तु । आवर्त्यतेऽन्त्ययोज्यत्वादन्त्यानुप्रास एव तत् ॥ १०.६ ॥ ************* टीका ************* विज्ञप्रिया (वि, ध) अन्त्यानुप्रसाख्यमनुप्रासान्तरमाह---व्यञ्जनं चेदिति । यथावस्थमिति । अनुस्वारेण विसर्गेण वा विशिष्टोऽविशिष्टो वा यः स्वरः केवलो वा पूर्वपादस्य पूर्वपदस्य वा अन्ते उच्चरितस्तादृशस्वरविशिष्टावस्थं व्यञ्जनं चेदाद्येन स्वरेण स्वपूर्वभूतस्वरेण सह आवर्त्त्यते तदान्त्यानुप्रास इत्यर्थः । तत्संज्ञाव्युत्पत्तिमाह अन्तयोज्यत्वादिति । यथा एकपादान्ते धीरः अन्यपादान्ते वीरः इति, यथा वा एकपादान्ते सारमन्यपादान्ते हारमिति । एवं कारी हारीति स्वरमात्रे । ********** टीका सम्पूर्णा ********** यथावस्थमिति यथासम्भवमनुस्वारविसर्गस्वरयुक्ताक्षरविशिष्टम् । एष च प्रायेण पादस्य पदस्य चान्ते प्रयोज्यः । पदान्तगो यथा मम-- ************* टीका ************* विज्ञप्रिया (वि, न) यथावस्थमिति व्याचष्टे---यथासम्भवमिति । अनुस्वरविसर्गस्वराणामन्यतरसम्भवो यथासम्भवपदार्थः । अक्षरविशिष्टमित्यत्र यथावस्थं बोध्यम् । अन्त्ययोज्यत्वं व्यचष्टे---एष चेति । प्रायेण इत्यनेन पज्झटिकादिच्छन्दः स्वेवास्य सम्भवो नानुष्ठुबादाविति दर्शतम् । ********** टीका सम्पूर्णा ********** केशः काशस्तवकविकासः कायः प्रकटितकरभविलासः । चक्षुर्दग्धवराटककल्पं त्यजति न चेतः काममनल्पम् ॥ ************* टीका ************* विज्ञप्रिया (वि, प) केशः काशेति---जरत उक्तिरियम् । काशपुष्पस्तबकवद्धवलः केशः प्रकटितस्य वक्रस्य कुब्जस्य करभस्य करिशावकस्यैव विलासो यस्य कायस्तादृशः । तथापि चेतोऽनल्पं बहु काममभिलाषं न त्यजतीत्यर्थः । तथापीत्याकाङ्क्षाबललभ्यम् । अत्र काशलासशब्दौ स्वविसर्गान्त्यस्वरविशिष्टान्त्यव्यञ्जनौ । कल्पानल्पशब्दौ सानुस्वारान्त्यस्वरविशिष्टन्त्यव्यञ्जनौ । तच्चान्त्यव्यञ्जनं तत्पूर्वस्वरेण सहवृत्तम् । लोचना (लो, इ) व्यञ्जनमिति । केश इत्यत्र यथासम्भवमिति वचनात्संयुक्ताक्षररहितो विकाश इत्यत्र शकारः स्वरविसर्गयुक्तः ककारस्थितेनाऽकारेण सह । विलास इत्यत्र लकारस्थितेनाऽकारेण सह वर्त्तते । कल्पमित्यत्र लकाररूपं व्यञ्जनं पकारनुस्वरयुक्तं, ककारस्थितेनाकारेण सह । अनल्पेत्यत्र नकारस्थितेनाकारेण सहेत्यर्थः । प्रायेण इति वचनात्मम तातपदानां लक्ष्भीस्तवे यथा--- "श्रुताधीता गीता श्रुतिभिरविगीताखिलगुणा गुणातीता भीताभयकृदविनीतापचयदा । नतिप्रीता पीताम्बरसुपरिणीतामरवधू- दृशा पीता स्फीता मलरुचिपरीता विजयताम्" ॥ इत्यादौ क्वचिद्दन्त्ययोज्यत्वाभावेऽप्ययमनुप्रासो दृश्यते । अस्य च प्राचीनोक्तालङ्कारेभ्यः पृथगनुभवसिद्धश्चमत्कारविशेष इति पृथगलङ्कारत्वम् । ********** टीका सम्पूर्णा ********** "मन्दं हसन्तः पलकं वहन्तः" इत्यादि । शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्यमात्रतः । लाटानुप्रस इत्युक्तो-- ************* टीका ************* विज्ञप्रिया (वि, फ) लाटानुप्रासख्यमनुप्रासमाह---शब्दार्थयोरिति । शब्दद्वयार्थयोरित्यर्थः । पौनरुक्त्यं पुनः पुनः कथनम् । ततश्च पुनरुक्तिदोषप्रसक्तावाह---भेदे इति । तात्पर्य्यमुद्देश्यविधेयताविषयम् । मात्रपदादर्थभेदो व्यावर्त्त्यति । लोचना (लो, ई) शब्दार्थयोरिति । तात्पर्य्यमन्यपरत्वं, तच्चार्थान्तरसंक्रमितस्वरूपं तच्छब्देन विधेयतया प्रकृतोपयोगार्थविवक्षणात्तन्मात्रेण, न तु स्वरूपेण भेदो विशेषः । ********** टीका सम्पूर्णा ********** उदाहरणम्--- स्मेरराजीवनयने नयने किं निमीलिते । पश्य निजिंतकन्दर्पं कन्दर्पवशगं प्रियम् ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) स्मेरराजीवेति---नायंकं दृष्ट्वा क्रोधान्निमीलिताक्षीं मानिनीं प्रतिसख्या उक्तिरियम् । रूपेण कन्दर्पनिर्जेतापि त्वदनुरागात्त्वद्वशगस्तथा चात्र मानानौचित्यमिति भावः । अत्र आद्ये नयनकन्दर्पपदे उद्देश्यतात्पर्य्यकेऽन्त्ये तत्पदे तु विधेयतात्पर्य्यके इत्यतो भेदः । पदार्थौ तु अभिन्नौ मात्रपदात्प्रकृत्यर्थस्य एव भेदव्यावृत्तिर्न तु प्रत्ययार्थस्य । ********** टीका सम्पूर्णा ********** अत्र विभक्त्यर्थस्य पौनरुक्त्येऽपि मुख्यतरस्य प्रातिपदिकांशद्योत्यधर्मिरूपस्य भिन्नार्थत्वाल्लाटानुप्रासत्वमेव । ************* टीका ************* विज्ञप्रिया (वि, भ) इत्यतो विभक्त्यर्थभेदं दर्शयति---अत्र विभक्त्यर्थस्येति । मुख्यतरस्येति । प्रातिपदिकांशौ नयनकन्दर्पपदे, तद्द्योत्यस्य, तद्वोध्यस्य धर्मिरूपस्य नयनकन्दर्पात्मकस्य अर्थस्य प्रकृत्यर्थान्वितस्वार्थबोधकत्वेन अस्वतन्त्रप्रत्ययापेक्षया स्वातन्त्र्याद्मुख्यतरस्याभिन्नत्वादित्यर्थः । ********** टीका सम्पूर्णा ********** "नयने तस्यैव नयने च" । अत्र द्वितीयनयनशब्दो भग्यत्त्वादिगुणविशिष्टत्वरूपतात्पर्यमात्रेण भिन्नार्थः । ************* टीका ************* विज्ञप्रिया (वि, म) यत्र तु प्रकृत्यर्थस्यापि भेदस्तत्र न लाटानुप्रासत्वमित्याह---नयने इति । अत्र द्वितीयनयनशब्दस्य भाग्यवत्तादीत्यर्थे तात्पर्यात्तात्पर्य्यस्यैव प्रातिपदिकार्थस्यापि भेद इति दर्शयति---अत्र हीति । तथा च अर्थान्तरसंक्रमितवाच्यलक्षणाविषय एवायं न लाटानुप्रास इत्युक्तम् । अतएव अर्थान्तंसंक्रमितवाच्यलाटानुप्रासयोः कथितपदादोषताकथने पृथगेन तद्द्वयमुक्तम् । लोचना (लो, उ) अत्रेति । विभक्त्योः सुपोः । धर्मिरूपस्य चक्षुरादिरूपस्य । विभक्तीत्युपलक्षणं॑ तेन लिङ्गवचनयोरपि । एवं सुप्रतिपत्तयेऽसन्दिग्धमुदाहरणं दर्शयित्वा सन्दिग्धं दर्शयति-नयने इति । तात्पर्य्यमात्रेण न तु स्वरूपेण । इह च पौनरुक्त्यप्रतिभासमात्रमलाङ्कारः,न तु प्रतीयमानो विशेषः तस्य गूढत्वादिगुणीभावहेतुत्वाभावात् । ********** टीका सम्पूर्णा ********** यथा वा--- "यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य" ॥ ************* टीका ************* विज्ञप्रिया (वि, य) अस्य एकपदे इव अनेकपदेष्वपि सम्भवं दर्शयति---यथा वा । यस्य तेति---अत्र प्रथमार्धे दवदहने तुहिनदीधितित्वं विधेयमतापकरत्वात् । लोचना (लो, ऊ) एष च बहुपदनिष्ठोऽपि सम्भवतीति तत्रोदाहरणान्याह---यथा वेति । यस्य न सविधे दयितेत्यादौ प्रथमार्धे तुहिनदीधितिर्दवदहनः द्वितीयार्धे दवदहनः तुहिनदीधितिरिति सम्बन्धः । ********** टीका सम्पूर्णा ********** अत्रानेकपदानां पौनरुक्त्यम् । एष च प्रायेण लाटजनप्रियत्वाल्लाटानुप्रासः । --ऽनुप्रासः पञ्चधा ततः ॥ १०.७ ॥ ************* टीका ************* विज्ञप्रिया (वि, र) पञ्चधेति---छेकानुप्रासः, वृत्त्यनुप्रासः, श्रुत्यनुप्रासः, अन्त्यानुप्रसो लाटानुप्रासश्चेति पञ्चधा । काव्यप्रकाशे तु लाटानुप्रासस्यैव पञ्चधात्वमुक्तम् । लोचना (लो, ऋ) उपसंहरति---अनुप्रास इति । ********** टीका सम्पूर्णा ********** स्पष्टम् । सत्यर्थे पृथागर्थायाः स्वरव्यञ्जनसंहतेः । क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥ १०.८ ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) यमकनिकरमाह---सत्यर्थ इति । अर्थे सति पृथगर्थायाः पदसंहतेः तेनैव क्रमेण आवृत्तिरित्यर्थः । अत्र लाटानुप्रासवारणाय पृथगर्थाया इत्यवश्यं देयम् । तथा च शमरतेऽमरतेजसीत्यत्र यमकितबागयोः द्वयोः "समरसमरसोऽय" मित्यत्र एकतरस्य निरर्थकत्वे पृथगर्थाया इत्युक्त्यनौचित्यमः अतोर्ऽथे सत्युक्तमित्याह । ********** टीका सम्पूर्णा ********** अत्र द्वयोरपि पदयोः क्वचित्सार्थकत्वं, क्वचिन्निरर्थकत्वम् । क्वचिदेकस्य सार्थकत्वमपरस्य निरर्थकत्वम् । अत उक्तम्--"सत्यर्थे" इति । ************* टीका ************* विज्ञप्रिया (वि, व) अत्र द्वयोरपीति । द्वयोरेकतरस्य वा अर्थासत्त्वे तु स्वरव्यञ्जनसंहतेः तेनैव क्रमेण आवृत्तिरित्येवमेव लक्षणान्तरमित्यभिप्रायः । उभयानुगमस्तु एकार्थाभिन्नाया इत्येवंरूपेण बोध्यम् । लोचना (लो, ॠ) एतदेव वृत्तौ विशदयति---अत्रेत्यादि । अत्र यमके । पदयोर्यमकावयवभूतयोः स्वरव्यञ्जनयोरित्यर्थः । प्रियतमायतमानेत्यादिवत्निरर्थकत्वम् । द्वयोरेकस्य वानर्थकत्वे पदत्वाभावादिति क्वचिद्विषये सार्थकत्वे स्वातन्त्र्येणेत्यर्थः । अनर्थकत्वं पदावयवरूपाक्षरसाचिव्येनैव सार्थकत्वात् । इह च प्रायिकत्वात्वर्णसमुदायद्वयमधिकृत्य सार्थकत्वादिकमुक्तम् । त्रिचतुः पौनरुक्त्येन लक्षणानुसारेण यथा--योगमूह्यम् । ********** टीका सम्पूर्णा ********** "तेनैव क्रमेण" इति दमो मोद इत्यादेर्विविक्तविषयत्वं सूचितम् । एतच्च पादपादर्ध्दश्लोकावृत्तित्वेन पादाद्यावृत्तेश्चानेकविधतया प्रभूततमभेदम् । ************* टीका ************* विज्ञप्रिया (वि, श) अस्य प्रभेदा बहव इत्याह---एतच्चेति । पादादीत्यादिपदात्पादस्यैव तृतीयचतुर्थभागस्य अनियततद्भागस्य च परिग्रहः । ********** टीका सम्पूर्णा ********** दिङ्मात्रमुदाह्रियते-- "नवपलाश-पळाशवनं पुरः स्फुटपराग-परागत-पङ्कजम् । मृदुल-तान्त-लतान्तमलोकयत्स सुरभि सुरिभिं सुमनोभरैः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) नवपलाशेति । स कृष्णः पुरः सुरभिं वसन्तमलोकयत् । कीदृशं नवं पलाशं पत्रं यस्य तादृशं पलाशवनं किंशुककाननं यत्र तादृशम् । स्फुटैः परागैः परगतं व्याप्तं पङ्कजं यत्र तादृशम् । मृदुतो मृदुतरः एव क्लान्तोर्ऽथात्रविरश्मना लतया अन्तः अग्रभागो यत्र तादृशम् । यद्वा मृदुलः मृदुः तान्तः अर्थात्युवभिराकङ्क्षितो लताया अन्तो अग्रभागो यत्र तादृशम् । तं काङ्क्षायामिति धातुः । सुरआभिं कीदृशम् । सुमनोभरैः पुष्पसमूहैः सुरभिं सुगन्धिम् । लोचना (लो, ळ) नवपलाशं नूतनपत्रम् । पलाशवनं, किंशुकवनम्, स्फुटैः परागैः कुसुमरेणुभिः परागतं, संगतं, मृदुलं कोमलं, तान्तं विस्तृतं, लतान्तं लताम् । द्वयोर्निरर्थकत्वे "प्रियतमायतमामेत्याद्युदाहरणम् । ********** टीका सम्पूर्णा ********** अत्र पदावृत्तिः । "पलाशपलाश" इति "सुरभिं सुरभिं" इत्यत्र च द्वयोः सार्थकत्वम् । "लतान्तलतान्त" इत्यत्र प्रथमस्य निरर्थकत्वम् । "परागपराग" इत्यत्र द्वितीयस्य । एवमन्यत्राप्युदाहार्यम् । ************* टीका ************* विज्ञप्रिया (वि, स) अत्र सार्थकयोः पलाशं सुरभिमित्यनयोः पदयोः द्वयौः आवृत्तिः इत्याह---अत्रेति । अन्यतरनिरर्थकत्वं तु दर्शयति---लतान्तेति । लोचना (लो, ए) अन्यत्र पादाद्यावृत्तौ । अत्र पादावृत्तिर्यथा मम तातपादानां कुवलयाश्वचरिते मुन्याश्रमवर्णनम् । "जीअ उअ जण माणअं, जीअ उअ जण माणअम् । " केचित्तु स्वरैकव्यञ्जनावृत्तावपि यमकमिच्छन्ति । यथा मुद्राहस्तगोविन्दानन्दकवेः--- "एकं कूपे नयनमपरं मन्मुखे खेलयन्ती मामुद्दिश्य प्रतिकृतिमपि स्वां किमप्यालपन्ती । उद्यत्पीनोरसिजयुगलं कुम्भमभ्युद्धरन्ती शिक्षाकूतस्मितशुचिमुखी प्राविशन्मानसं मे" ॥ ********** टीका सम्पूर्णा ********** "यमकादौ भवेदैक्यं डलोर्बवोर्लरोस्तथा" । लोचना (लो, ऐ) यमकादावित्यादिशब्देन श्लेषादौ । ********** टीका सम्पूर्णा ********** इत्युक्तनयात्"भुजलतां जडतामबलाजनः" इत्यत्र नं यमकत्वहानिः । ************* टीका ************* विज्ञप्रिया (वि, ह) यमकादावित्यादिपदात्श्लेषपरिग्रहः । डलोरित्यादौ सर्वत्र प्रथमवर्णेअकार उच्चारणार्थः । ववेरित्यत्र अन्यस्थपवर्गोययोरैक्यमुक्तम् । अत्र चालङ्कारिकसमयमात्रम् । अन्ये द्वये तु जलयोरेकत्वं डश्रुतेर्लश्रुतिरित्यनुशासनमप्यस्ति । ********** टीका सम्पूर्णा ********** अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद्यदि । अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ॥ १०.९ ॥ द्विधेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च । ************* टीका ************* विज्ञप्रिया (वि, क) वक्रोक्त्यलङ्कारमाह---अन्यस्य वक्तुरन्यार्थकं वाक्यमन्यः श्रोता तद्वाक्यश्लेषेण स्ववाक्यकाक्का वान्याभिप्रायकतया यदि योजयेद्योजनविशिष्टं प्रत्याययेत्तदा सा द्विधा वक्रोक्तिरित्यर्थः । द्विधात्वं दर्शयति---श्लेषेति । लोचना (लो, ओ) अन्यस्यति । अन्येन केनचिदन्यार्थकत्वेनोक्तम् । तदितरेण सभङ्गेनाभङ्गेन वा श्लेषण, काक्का, स्वरविशेषेण वा यदि यथार्थतोऽन्यार्थत्वेन प्रयोज्यते सा वक्रोक्तिः । ततः श्लेषकाकुरुपोपाधिद्वययोगाद्द्विविधेत्यर्थः । ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्-- "के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषाश्रयः किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो हरिः । वामा यूयमहो विडम्बरसिकः कदृक्स्मरो वर्तते येनास्मासु विवेकशून्यमनसः पुंस्वेव योषिद्रभ्रमः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) के यूयमिति । अविज्ञातनामजातिकं कञ्चित्प्रति अयं वक्तुः प्रश्रः । पृष्टः पुरुषश्च विद्रावकः स तद्वाक्यं तद्वाक्यश्लेषेण के जले यूयमित्यभिप्रायकं स्थले एवेत्यादि स्वोत्तरेण प्रत्याययति । पूर्ववक्ता त्वाह--प्रश्र इति । त्वदयिनामजातिरूपविशेषविषय इत्यर्थः । श्रोता तु विः पक्षी, शेषोऽनन्तनागस्तदाश्रयस्तद्द्वयोः प्रश्र इत्यर्थकतां स्वोत्तरेण प्रत्याययति---किं व्रूते इति । यत्र वौ गरुडे हरिरस्ति, यत्र शेषेऽनन्ते हरिः शेते इत्यर्थः । प्रष्टा तत्श्रुत्वा क्रोधादाह---वामा विपरीतबाद्धृत्वेन प्रतीकूला यूयमिति । श्रोता तु यूयं वामाः स्त्रियः इत्यभिप्रायकतां प्रत्याययन् तं निन्दति---अहो विडम्बेति । विडम्बो विडम्बनं वर्त्तते त्वयीति शेषः । विवेकशून्यमनसस्तवेति शेषः । अस्मासु पुंसु इत्यन्वयः । अत्र श्लेषं सभङ्गभङ्गपदयोर्दर्शयति---अत्रेति । लोचना (लो, औ) के किमाख्याः ? जले च । विशेषो वैधर्म्यं, विः पश्री, शेषो नागश्च । वामा वक्राः स्त्रियश्च । विडम्बरसिकः विडम्बे रसिकः सकौतुकः । ********** टीका सम्पूर्णा ********** अत्र विशेषपदस्य "विः पक्षी" "शेषो नागः" इत्यर्थद्वययोग्यत्वात्सभङ्गश्लेषः । अन्यत्र त्वभङ्गः । "काले कोकिलवाचाले सहकारमनोहरे । कृतागसः परित्यागात्तस्याश्चेतो न दूयते" ॥ अत्र कयाचित्सख्या निषेधार्थे नियुक्तो नञन्यथा काक्वा दूयत एवेति विध्यर्थे घटितः । ************* टीका ************* विज्ञप्रिया (वि, ग) काक्का योजनमाह--काले इति । क्रोधान्नायिकया परित्यक्तस्य कृतामसो नायकस्य आश्वासजनकसखीं प्रति सख्या उक्तिरियम् । कोकिला वाचाला यत्र इति विग्रहः । सहकारं तत्पुष्पम् । अत्रैकयेति । यद्यपि तत्प्रयुक्तं वाक्यं न श्रुतमस्ति यदन्तर्गतः नञ्निषेधार्थक. स्यात् । अतोऽस्य काले इत्यादिवाक्यस्य काक्का योजनया तदर्थकवाक्यस्यासम्भव एव, तथापि प्रकरणादस्य वाक्यस्य नायकश्वासजनकवाक्यत्वप्रतीतौ काकुनञा एव तदुपपत्तेस्तदाक्षिप्तवाक्यस्थनञेव स्ववाक्यस्थनञो विध्यर्थकताघटनं बोध्यम् । इदं च तादृक्प्रंकरणसत्त्वे एव संगच्छते, तादृक्प्रकरणग्राहकासत्त्वे तु नेदमुदाहरणम् । तथाऽक्षिप्तवाक्यस्थस्य नञो विषेधार्थकत्वम् । एवं काकुनञ्विशिष्टवाक्यस्यैव विध्यर्थकता । तथा च--- "गुरुपरतन्त्रतया बत, दूरतरं देशमुद्यतो गन्तुम् । अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमयेऽसौ ॥ "इति काव्यप्रकाशकृदुक्तमेव उदाहरणं बोध्यम् । तत्र हि शोचनाभिप्रायकस्य पूर्ववाक्यस्य कामाकुलाभिप्रयकत्वेन द्वितीयवक्त्र्या योजनम् । ********** टीका सम्पूर्णा ********** शब्दैरेकविधैरेव भाषासु विविधास्वपि । वाक्यं यत्र भवेत्सोऽयं भाषासम इतीष्यते ॥ १०.१० ॥ ************* टीका ************* विज्ञप्रिया (वि, घ) भाषासमालङ्कारमाह---शब्दैरिति । शब्दैः पदैः । वाक्यं तत्समूहः, स च संस्कृतप्राकृतसकलभाषासु एकविधपदघटित इत्यर्थः । लोचना (लो, अ) शब्दैरिति । एकविधैर्विशेषाभावादेकप्रकारैः । भाषासु संस्कृतप्राकृतादिषु । भाषासमः । भाषासु समान्येकरूपाणि पदानि विद्यन्ते यत्रेति व्युत्पत्तियोगादन्वर्थनां पृथगलङ्कारः । एष च श्लेषालङ्कारविशेष इति यदुक्तं चणडीदासपण्डितैस्तदसङ्गतम्, अर्थद्वयाभावात् । ********** टीका सम्पूर्णा ********** यथा मम-- "मञ्जुलमणिमञ्जीरे कलगम्भीरे विहारसरसीतीरे । विरसासि केलिकीरे किमीलि ! धीरे च गन्धसारसमीरे !" ॥ ************* टीका ************* विज्ञप्रिया (वि, ङ) मञ्जुलेति । हे आलि ! मञ्जुलमणिमञ्जीरे मञ्जुलं मणियुक्तं मञ्जीरं यस्याः हे तादृशि । अथवा मञ्जीरे कलशब्दो गम्भीरो यत्र तादृशि । विहारसरसीतीरे कीदृशे, केल्यर्थकः कीरो यत्र । गन्धसारः गन्धप्रधानः समीरश्चयत्र तादृशे । एतादृशानेकोद्दीपकसत्त्वेऽपि किं विरसासीत्यर्थः । ********** टीका सम्पूर्णा ********** एष श्लोकः संस्कृत-प्राकृत-शौरसेनी-प्राच्यावन्तीनागरापभ्रंशेष्वेकविध एव । "सरसं कैणं कव्वम्" । इत्यादौ तु "सरसम्" इत्यत्र संस्कृतप्राकृतयोः साम्येऽपि वाक्यगतत्वाभावे वैचित्र्याभावान्नायमलङ्कारः । ************* टीका ************* विज्ञप्रिया (वि, च) सर्वभाषासु एकविधैः पदैः वाक्यघटितत्वे एवायमलङ्कारः तादृशैकपदेन तु वाक्यघटने तादृशस्थले नायमलङ्कार इत्याह---सरसं कैण इति । सरसं कवीनां काव्यमित्यर्थः । अत्र तादृशैकसरसपदघटितत्वाद्वाक्यस्य नायकलङ्कार इत्यर्थः । ********** टीका सम्पूर्णा ********** श्लिष्टैः पदैरनैकार्थाभिधाने श्लेष इष्यते । ************* टीका ************* विज्ञप्रिया (वि, छ) श्लेषालङ्कारमाह---ख्लिष्टैरिति । श्लिष्टैरुभयवाचकैः एकरूपैरित्यर्थः । लोचना (लो, आ) श्लिष्टैरिति । अनेकेत्यनेन द्वयोर्वा बहूनां वार्थानामभिधाने प्रकरणादिनियमाभावादभिधया बोधने । एतेन ध्वनिव्यवच्छेदः । ननु किं भिन्नैः पदैरनेकार्थाभिधानमुतैकैकेन ? आद्ये गौरश्वः पुरुषो, हस्तीत्यादावपि श्लेषप्रसङ्गः । द्वितीये लक्षणस्यासम्भवित्वमन्यायं चोनेकार्थत्वमिति न्यायात् । इत्यत आह--- श्लिष्टैरिति । श्लिष्टैः "अर्थभेदेन शब्दभेद" इति दर्शनात्, "काव्यमार्गे स्वरो न गण्यते" इति च नयात्वाच्यभेदेन भिन्नैरपि युगपदुच्चारणेनापगतभेदैः । त्रिधा खलु शब्दाभिव्यक्तिः रूपतोर्ऽथतः स्वरतश्चेति दर्शनात् । एवं च भिन्नयोरपि समानश्रुत्योः शब्दयोस्तत्तन्न्यायेन उच्चरितयोः कमेण स्वस्यार्थबोधनं यत्र तत्र शब्दस्वरूपश्लेषेण शब्दश्लेषः । शब्दपरिवृत्तिसहत्वे त्वर्थश्लेष इति नियममङ्गीकुर्वतां काव्यप्रकाशकारादीनां मतमनुसृत्य व्याख्यानम् । अन्ये त्वाहुः--न खलु घटपटयोरिव "वसुधामहित पुराजित निरागमनाभावाः । वर्षाश्चासुरभितवराहवपुषस्तर्वे च हरेश्चोपमा घटता" ॥ इत्यादौ शब्दानामेकप्रयत्नेन निष्पत्तिद्वयमुपपद्यते । द्वयोरेकाकारत्वेन तथाङ्गीकारे एव एव कुलालः, एकाकारं घचशतमेकया सामग्या निष्पादयेत् । तथा सति भेदव्यवहारोच्छेदः स्यात् । "अयमेव भेदो भेदहेतुश्च यद्विरुद्धधर्माध्यासः कारणभेदश्चेति" । किं च यद्युभयार्थप्रतिपादनसमीहया वक्तुरेकदा शब्दद्वयोदाहरणसम्भवस्तदा घटसहस्त्रचिकीर्षुः कुलालोऽपि एकदा तत्निर्वाहयेत् । तदुक्तमाचार्यश्रीमदुद्योतकरचरणैः "क्रमवृत्तित्वाद्वाच" इति । तेनैकत्रैव शब्दे नानाविषयाणामर्थानां स्वंस्वसामग्रीवशेन कमेणोज्जीवनमिति वादिनां मतमेवाश्रयितुमुचितम् । किन्त्वत्र मते तत्प्रथमविरुद्धाया द्वितीयाभिधायाः पुनरुज्जीवनमनुपपन्नमिति द्वितीयाभिधानाम्ना"जनस्थाने भ्रान्त" मित्यादाविवात्रापि व्यञ्जनैव वृत्तिरुपदिश्यते । एवं च ध्वनितन्त्रे प्रकरणनियमस्थले तस्मादेव शब्दादुच्चारणादिसामग्रीसहकृता तद्व्यापारन्तरेण सभङ्गाभङ्गशब्दान्तरलभ्यार्थप्रतीतिः । यत्र तु येन ध्वस्तेत्यादौ प्रकरणादिनियमो नास्ति तत्र द्वयोरभिधानसंशयः । यत्र च शब्दपरिवर्तनेऽपि द्व्यर्थहानिस्तत्र शब्दशक्तेर्मूलत्वेन शब्दश्लेषः । यत्र च शब्दपरिवर्त्तनेऽपि न तदर्थक्षतिस्तत्रार्थमात्रं प्रत्येवंशब्दोपयोगादर्थश्लेषता । एतन्मतानुसारेण तु श्लिष्टावर्थौ विद्येते एष्विति मत्वर्थोयप्रत्ययान्तत्वेन श्लिष्टैः पदैरित्यादि सौत्रं श्लिष्टपदं व्याख्येयम् । अनेकार्थाभिधान इति । अनेकार्थाभिधानसंशय इति । अस्य सूत्रस्य शब्दालङ्कारप्रकरणे पठितत्वादेव सिद्धं पदानां परिवृत्तयसहत्वम् । ये त्वाहुः "प्रति प्रसूते शब्दः शब्दान्तर"मिति तदयुक्तं, प्रतिप्रसूतशब्दानुभवाभावात्, अननुभूतशब्देनार्थप्रतीतौ चातिप्रसङ्गात्, भिन्नवाचकाद्भिन्नवाच्योत्पत्तिनियमाभावाद्वा । एवं च वर्णादिगतत्वेन श्लेषस्य प्राचीनानुरोधेन व्यवहारः । तथोच्चारणाङ्गीकारे हि शब्दयोः "दुर्गालङ्घित" इत्यादौ जनस्थान इत्यादावपि व्यञ्जनानङ्गीकारप्रसङ्गः । "हृदिज्ञेषु च वक्ष्यति" इत्यादौ "व्यथां द्वयेषामपि मेदिनीभृताम्"इत्यादौ च यस्यार्थस्य प्रथमं बुद्ध्यारोहस्तस्योपमेयता, अन्यस्य च उपमानतेति संगतिः । ********** टीका सम्पूर्णा ********** वर्णप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि ॥ १०.११ ॥ श्लेषाद्विभक्तिवचनभाषाणामष्टधा च सः । ************* टीका ************* विज्ञप्रिया (वि, ज) तस्य अष्टविधत्वमाह--वर्णेति । सकलषष्ठ्यन्तानां श्लेषादित्यत्रान्वयः । वर्णादित्रयेऽपि वर्णद्वयप्रत्ययद्वयलिङ्गद्वयेति बोध्यम् । एवं विभक्तिवचनभाषास्वपि द्वित्वं च बोध्यम् । प्रकृतिपदयोस्तु द्विवचनेनैव तथात्वं बोधितं, विभिन्नरूपवर्णद्वयस्य ऐक्यरूप्यं तत्त्वम् । लोचना (लो, इ) इह च वर्णादिगतत्वेन अष्टविधत्वं श्लेषस्यासमीचीनमिति चण्डीदासपण्डितराघवानन्दप्रभृतीनां मतम् । तदभिधानमसत् । तथाहि---वर्णादिगतत्वेन सर्वथा श्लेषस्याष्टविधत्वमस्ति । तथा च --- "वक्रीभूते विधौ मूद्र्ध्नि भवेद्भस्मानुलेपनम् । श्मशाने रक्तिरावासः स्याद्दिगम्बरता तथा" ॥ इत्यत्र प्रकरणाभावात्किं महादेवः? उताहो कश्चिद्दरिद्रो वाच्य इति सन्देहः । तेनात्र विधुविधिशब्दयोरुकारेकारयोरौकाररूपत्वाद्वर्णश्लेषः । "येन ध्वस्तमनोभवेन" इत्यादौ "स्यान्नन्दिता विरूपाक्षपादपद्मनिषेवणात्" इत्यादौ च प्रकरणाज्ञाने किमहं नन्दितानन्दकः स्यामिति कस्यचिद्भक्तस्य वचनम् ? उत कस्यचिद्भक्तस्य नन्दितानन्दिनामगणविशेषत्वं स्यादिति वचनमिति सन्देहः । तेनात्र स्यात्स्यामिति प्रत्ययश्लेषः । नन्दिता इत्यत्र तल्तृचोर्विभक्त्योः श्लेषः । "योऽसकृत्परगोत्राणां पक्षच्छेदक्षणमः । शतकोटिदतां बिभ्रद्विबुधेन्द्रः स राजते" ॥ इत्यत्र पुंनपुंसकलिङ्गयोः शतकोटिदतामित्यत्र ददाति-द्यत्योः धात्वोः प्रकृत्योश्चश्लेषः । "येन ध्वस्त" इत्यादौ विभक्तिसमासयोर्वैलक्षण्येन श्लेषः । "सर्वस्वं हर सर्वस्व" इत्यत्रापि वक्ष्यमाणोदाहरणेर्ऽथद्वयस्यापि सन्देहास्पदत्वाद्विभक्तिश्लेषः । "दधतेऽस्य परां शोभामहो मधुरताभृतः" इत्यादौ च किं मधुरतां बिभ्रतीति मधुरताभृतो बहवो जनाः, उत मधुरतया भृतः कश्चिद्वर्त्तत इति बहुवचनैकवचनयोः श्लेषः । किञ्च मधुरताभृत इत्यत्रापि क्किप्प्रत्ययक्तप्रत्यययोः । दधत इत्यत्रापि च पक्षे धाधातोर्बहुवचनं पक्षे च दधधातोरेकवचनं श्लिष्टं च । तदेवमभिधादूयसंवेद्यप्रत्ययोक्तितः श्लेषालङ्कारविषयेऽष्टविधश्लेषस्य सम्भवमविचार्य्य प्राचीनाधिक्षेपकारिभिरुपजीव्यैः सहालं बहुना विवादेन । नन्वेवं "येन ध्वस्त" इत्यादावपि यस्यार्थस्य प्रथमं बुद्ध्यारोहः स वाच्योऽस्तु अपरस्तु व्यङ्ग्योऽस्तु किं तत्रापि श्लेषालङ्कारकल्पनैरिति चेन्नैवम् । इह यदि संशयज्ञानविषयत्वादनिर्द्धारितत्वात्"भद्रात्मनऽ इत्यादौ, "हृदिज्ञेषु च वक्ष्यतिऽ इत्यादौ च निर्द्धारितत्वात्वृत्तिद्वयकल्पनसद्भावे संगतिः । यत्तु चणडीदासपण्डितैरुक्तं "व्यथां द्वयेषामपि मेदिनीभृताम्" इत्यादौ उभयाभिधानं चेतीति "सन्ध्यावन्दनवेलायां मुक्तोऽहमिति मन्यते । खण्डलड्डुकवेलायां हण्डमुद्यम्य धावति" ॥ इत्याभाणकमनुकरोति । क्वचिदभिधाङ्गीकारे हि भद्रात्मन इत्यादावपि किमपराद्धमभिधाद्वयेन । नन्वत्रैव दोषनिरूपणप्रस्तावे सन्दिग्धयोरर्थशब्दयोर्दुष्टता, तत्कथं "येन ध्वस्त" इत्यादावभिधानसंशये अलङ्कारत्वमप्युच्यते ? "अबला अचला वा स्युः"इत्यादौ "आशीः परम्परांवन्द्याम्" इत्यादौ च दोषस्थले सन्देहवशेन विवक्षितैकार्थानिर्द्धारणादतिव्यग्रतयाऽस्वादं प्रति प्रातिकूल्यम् । इह तु विवक्षितयोरप्यर्थयोरनिर्द्धारणरूपाया विच्छित्तरानुकूल्यमनुभवसिद्धम् । अतएव पूर्वत्र महाकवेः स्खलनमन्यत्र वह्वर्थपदनिर्वाहे प्रयुक्तसाधनं सार्वलौकिकमेव । किञ्च पूर्वत्रैकार्थस्यास्वादप्रदाने द्वितीयार्थः प्रतिकूलभूतः, तं हठादिवाकृष्य ततो बहिष्करोति, इह तु द्वयोरर्थयोरेकस्य बुद्ध्यारोहेणापरेणार्थेन तन्निमित्तकाव्यादावपकर्षत्वम् । एवमेव द्वयोरर्थयोः निर्द्धारितत्वेन कवित्वविवक्षानुभवसाक्षिकेति रहस्यम् । एवं "वौरिवंशदवानल" इत्यादौ वंशशब्दात्व्यञ्जनया बौधितस्य वेणुरूपार्थस्यैकान्वयरूपेणार्थेन "गौर्वाहीकऽ इत्यादौ गोवहीकयोरिव "मुखचन्द्रऽ इत्यादौ मुखचन्द्रयोरिव तादात्म्याद्रूपकम् । ननु गौर्वाहीक इत्यादौ आरोप्यमाणगवार्थस्य उत्पद्यमानान्वयबाधः । स च गवार्थो मुख्य इति तत्र गौणी लक्षणा । इह च वेणुरूपार्थो व्यङ्ग्य इति कथं मुख्यार्थबाधजीविता लक्षणेति चेत्? अत्रैवं सङ्गतिः । यथा खलु "जातिरेकपदार्थ" इति वादिनां मते प्राचीनैरस्माभिश्च इहैव द्वितीयपरिच्छेदे सङ्केतितार्थनिरूपणे प्रदर्शितेन नयेन जातिमात्रबोधनादभिधायां विरतायां व्यङ्ग्यत्वेनाभ्युपगन्तव्यया व्यक्ते रूप्यमाणान्वयबोधे लक्षणा तथेहापि व्यङ्ग्यत्वेनाह---त्सय वेणुरूपार्थस्य यथाव्यक्तिरूपव्यङ्ग्यस्य जातिरूपव्यङ्ग्येनाविनाभावेन तद्वत्प्रतीतिः । "गतोऽस्तमर्कऽ इत्यादौ "कान्तमभिसरेऽ त्यादिव्यङ्ग्यवैलक्षण्येनावश्यकत्वेन मुख्यप्रायत्वं दवानलादित्वसमग्रीसमुत्थितस्य वेणुरूपार्थस्यापीति तौल्यम् । यद्वा "सोऽयमिषोरिव दीर्घदीर्घतरो व्यापार" इति मताश्रयणाद्वेणुरूपर्थवंशशब्दस्यान्वयरूपार्थवंशशब्देन एकाकारत्वादभेदोपचाराद्व्यङ्ग्यस्य वेणुरूपार्थस्य विधेयत्वाद्मुख्यार्थत्वमिति । श्लेषादित्यस्य वर्णेत्यादौ प्रत्येकमन्वयः । तेन वर्णयोः श्लेषात्प्रत्यययोः श्लेषादित्यादि । ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्-- "प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्त्तुरभून्न पतिष्यतः करसहस्त्रमपि" ॥ लोचना (लो, ई) विधौ चन्द्रे, विधातरि वा । कराः किरणाः, हस्ताश्च । ********** टीका सम्पूर्णा ********** अत्र "विधौ" इति विधुविधिशब्दयोरुकारेकारयोरौकाररूपत्वाच्छ्लेषः । ************* टीका ************* विज्ञप्रिया (वि, झ) प्रतिकूलतामिति । हि एवार्थे । विधौ विधातरि प्रतिकूलतामुपगते बहुसाधनता बहूपायत्वं विफलत्वमेति इत्यर्थः । तदेव दर्शयति---अवलम्बनायेति । पतिष्यतः दिनभर्त्तुः अवलम्बनाय रक्षणाय करसहस्त्रं रश्मिसहस्त्रमेव करसहस्त्रं हस्तहसस्त्रं नाभूदित्यर्थः । विधौ चन्द्रे तस्यैव तत्प्रतिकूलत्वान्न तु विधातुः । अत्र विधावित्यत्र उकारेकाररूपवर्णयोर्विकारेण ऐक्यरूप्यमित्याह---अत्रेति । ********** टीका सम्पूर्णा ********** "किरणा हरिणाङ्कस्य दक्षिणश्च समीरणः । कान्तोत्सङ्गजुषां नूनं सर्व एव सुधाकिरः" ॥ अत्र "सुधाकिरः" इति क्विप्-क-प्रत्ययोः । किं चात्र बहुवचनैकवचनयोरैकरूप्याद्वचनश्लेषोऽपि । ************* टीका ************* विज्ञप्रिया (वि, ञ) प्रत्ययश्लेषमाह---किरणा इति । विभक्तिश्लेषस्य पृथगुपादानात्प्रत्ययोऽत्र विभक्तिभिन्नो बोध्यः । विभिन्नरूपप्रत्ययद्वयस्यैवरूप्यं तत्त्वम् । कान्तोत्सङ्गजुषां नारीणामित्यर्थः । अत्रैकवचनश्लेषोऽप्यस्तीत्यत्राह---किञ्जेति । वचद्वयेऽपि ऐक्यरूप्यंतत्त्वम् । अत्र किरणा इति बहुवचनान्तम् । समीरण इति एकवचनान्तम् । उभयत्रैव सर्व इति किर इति च । अत्र च सर्व इत्यत्र प्रत्ययश्लेषं विना वचनश्लेष एव । "दोषयुक्तः पदादर्थऽ इत्यत्र तु वचनश्लेषं विना प्रत्ययश्लेष एवेत्यतः पृथक्श्लेषद्वयम् । अत्र हि दोषयुक्तैत्यस्य पदादित्यत्रन्वये पञ्चम्यास्तसिप्रत्ययः । अर्थ इत्यन्वये तु क्तप्रत्यये उभयत्र एकवचनम् । लोचना (लो, उ) सर्व एव इत्यत्र सर्वशब्दो बहुवचनान्तः, एकवचनान्तश्च । तेन सुधाकिरः इत्यस्य बहुवचनान्तस्य विशेषणत्वे विक्षेपार्थात्कृधातोः क्किपप्रत्ययः । एकवचनान्तस्य तु कप्रत्ययः । ********** टीका सम्पूर्णा ********** "विकसन्नेत्रनीलाब्जे तथा तन्व्याः स्तनद्वयी । तव दत्तां सदामोदं लसत्तरलहारिणी" ॥ अत्र नपुंसकस्त्रीलिङ्गयोः श्लेषो वचनश्लेषोऽपि । ************* टीका ************* विज्ञप्रिया (वि, ट) लिङ्गश्लेषमाह---विकसदित्यादि । लिङ्गद्वयेऽप्यैकरूप्यं तत्त्वम् । तन्व्या विकसन्ती नेत्रनीलाब्जे स्तनद्वयी च तव मोदं सदा दत्ताम् । उभयोर्विशेषणमाह---लसदिति । नेत्रपक्षे---लसन्ती ते तरले चेति समासे । तादृशी च ते हारिणी मनोहारिणीत्यर्थः । लसन तरलःहरमध्यगः मणिर्यस्य तादृशहारवती स्तनद्वयी । अत्रापि वचनश्लेषसङ्करमाह---अत्र चेति । अत्रापीत्यर्थः । अत्र लिङ्गश्लेषं विना दत्तामित्यत्र वचनश्लेषः । वचनश्लेषं विना लिङ्गश्लेषस्तु "हरिस्तन्नाम चाघनुत्" इति । अत्र हरिस्तन्नाम्नो लिङ्गभेदेऽपि अघनुदित्यैकरूप्यम् । वचनं तु अभिन्नम् । लोचना (लो, ऊ) दत्तामिति---दाधातोः परस्मैपदे द्विवचनान्तः । आत्मनेपदे चैकवचनान्तः । लसत्तरलहारिणीति पदं नेत्रनीलाब्जविशेषणत्वे द्विवचनान्तं स्तनद्वय्यास्त्वेकवचनान्तं स्त्रीलिङ्गम् । वचनश्लेषोऽपीत्यपिशब्दात्न केवलं लिङ्गश्लेषमात्रमित्यर्थः । ********** टीका सम्पूर्णा ********** "अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति । सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः" ॥ अत्र "वक्ष्यति" इति वहि-वच्योः, "सामर्थ्यकृत्" इति कृन्तति-करोत्योः प्रकृत्योः । ************* टीका ************* विज्ञप्रिया (वि, ठ) प्रकृतिश्लेषमाह---अयमिति । राजपुत्रे जाते ज्योतिर्विद उक्तिरियम् । हृदि वक्ष्यतीत्यन्वयः । ज्ञेषु पण्डितेषु शास्त्राणि वक्ष्यति कथयिष्यति । अमित्राणां समर्थ्यस्य छेत्ता । मित्राणां सामर्थ्यस्य कर्त्ता जनकः । लोचना (लो, ऋ) वहिवच्योरिति---हृदोऽधिकरणत्वे वहिधातुर्ज्ञानार्थवाची । सामर्ध्यकृत्चामित्रसम्बन्धित्वे छेदनार्थः कृन्तति इति धातोः । मित्रसम्बन्धित्वे करणार्थः । विभक्त्यभेदेऽपि प्रकृतिमात्रस्य भेदात्प्रकृतिश्लेष एव इत्यत आह--प्रकृत्योरिति । ********** टीका सम्पूर्णा ********** "पृथुकार्तस्वरपात्रम्-" इत्यादि । अत्र पदभङ्गे विभक्तिसमासयोरपि वैलक्षण्यात्पदश्लेषः, न तु प्रकृतिश्लेषः । ************* टीका ************* विज्ञप्रिया (वि, ड) पदश्लेषमाह---पृथुकेति । न्यूनाधिकवर्णयोः पदयोर्मिलनादर्थद्वयेऽपि ऐक्यरूप्यं तत्त्वम् । पृथुकार्त्तेत्यादि व्याख्यातम् । अत्र प्रकृतिश्लेषत्वं निरस्यति अत्र पदभङ्गे इति । विभक्तेर्वैलक्षण्यमत्र समासे लुप्ताया बोध्यम् । यद्यपि न्यूनाधिकेत्यादिलक्षणवशादेव प्रकृतिश्लेषतो भेदसिद्धिस्तथापि प्रकारान्तरेणापि तत्सिद्धिर्दर्शिता । तथा चैतत्सकलवैलक्षण्यविशिष्टः पदश्लेषः । प्रकृतिमात्रवैलक्षण्ये तु प्रकृतिश्लेषः । लोचना (लो, ॠ) पृथुकेत्यादि व्याख्यातमेव सन्दिग्धत्वस्य क्वचिददोषकत्वकथनप्रस्तावे । अत्रेति । अयमर्थः । विभक्त्यादेरभिन्नत्वे हि प्रकृतिमात्रस्य भेदे प्रकृतिश्लेषत्वमेवोचित्म् । इह तु विभक्तेः पृथ्वादिशब्देषु पृथुकादिशब्देषु च भिन्नतया पददोष एव । विभक्त्यादेरभेदेऽपि पदमात्रस्य भेदात्प्रकृतिश्लेष एव इत्याह । ********** टीका सम्पूर्णा ********** एवञ्च-- "नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां तदीक्षणे" ॥ अत्र लुब्धशिलीमुखादिशब्दानां श्लिष्टत्वेऽपि विभक्तेकभेदात्प्रकृतिश्लेषः, अन्यथा सर्वत्र पदश्लेषप्रसङ्गः । ************* टीका ************* विज्ञप्रिया (वि, ढ) तन्मात्रवैलक्षण्ये प्रकृतिश्लेषमप्यत्राह---एवं नीतनामिति । मधुलुब्धैर्भ्रमरैर्नोलोत्पलभ्रमेणाकुलीकृतयोः नायिकायाः नेत्रयोः वर्णनमिदम् । अत्र कमलानामित्यत्र चार्थो गम्यः । तथा च वनेवृद्धानां वृद्धमृगणां कमलानां च सदृशे तस्या लोचने । वनवृद्धकमलनायिकालोचनद्वयानां विशेषणमाह---नीतानमिति । भूरिशिलीमुखेरनेकबाणैः करणभूतैः लुब्धकैर्व्याधैः कर्त्तृभराकुलीभावं नीता वनवृद्धाः मृगाः, लुब्धैर्मधुलुब्धैर्भूरिशिलीमुखैरनेकमधुकरैराकुलीभावं नीतानि वने जले वृद्धानि कमलानि च । परं तु नीलोत्पलभ्रमान्नेत्रद्वयमिति विशेषः । "अलिबाणौ शिलीमुखौऽ इति कोषः । अत्र लुब्धशिलीमुखौ प्रकृती । अन्यथेति । न्यूनाधिक इत्यादिलक्षणाभावपक्षे इति बोध्यम् । लोचना (लो, ळ) एवं चेति । कमलशब्दस्य पदार्थत्वे लुब्धैर्लोभयुक्तैर्भूरिभिः शिलीनुशैर्भ्रमरैः । मृगविशेषार्थत्वे लुब्धैर्लुब्धकैर्भूरिभिः पूर्णभूतैः शिलीमुखैर्बाणैः । वनं जलं काननं च । विभक्तेः प्रत्ययरूपायाः सर्वत्र वक्ष्यत्यादौ । ********** टीका सम्पूर्णा ********** "सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः । नयोपकारसांमुख्यमायासि तनुवर्तनम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ण) विभक्तिश्लेषमाह---सर्वस्वमिति । सुप्तिङन्तत्वेन भेदेऽपि पदयोश्चैक्यरूप्यं तत्त्वम् । सर्वस्वमिति । शिवभक्तस्तं प्रति दस्योश्च पुत्रादिकं प्रति चोक्तिरियम् । हे हर ! त्वं सर्वस्य सर्वस्वम् । भवस्य उत्पत्तेश्छेदतत्परश्च मुक्तिदत्वात् । नयस्य नीतेः उपकारन्तरस्य साम्मुख्यं सम्भवो यस्मात्तादृशं तनुवर्त्तनं शरीरस्थितमायासि अगच्छसि प्राप्रोषीति यावत् । दस्युपक्षे---त्वं सर्वस्य सर्वस्वं हर । छेदतत्परो भव । उपकारस्य साम्मुख्यमानुकूल्यं नय अपनय । आयासि परायासकारिवर्त्तनं तनु विस्तारय । लोचना (लो, ए) सर्वस्वमिति । हे हर शम्भो ! त्वं सर्वस्य लोकस्य सर्वस्वं, त्वं किमभूतः ? भवस्य संसारस्य छेदतत्परः । आयासि आयासयुक्तं तनोर्देहस्य वर्त्तनं वृत्तिमुपकारसाम्मुख्यं नय प्रापय । देहवृत्तिमायासरहितां कुर्विति भावः । पक्षे-चं सर्वस्य सर्वस्वं हर नाशय । छेदे खण्डने तत्परो भव । उपकारात्साम्मुख्यं नय उपकारं मा कुर्विति भावः । वर्त्तनं वृत्तिमायासि आयासयुक्तं तनु विस्तारय । ********** टीका सम्पूर्णा ********** अत्र "हर" इति पक्षे शिवसम्बोधनमिति सुप् । पक्षे हृधातोस्तिङिति विभक्तेः । एवं "भव" इत्यादौ । अस्य च भेदस्य प्रत्ययश्लेषेणापि गतार्थत्वे प्रत्ययान्तरासाध्यसुबन्ततिङन्तगतत्वेन विच्छित्तिविशेषाश्रयणात्पृथगुक्तिः । ************* टीका ************* विज्ञप्रिया (वि, त) अत्र आयासि इति विना सर्वत्र लुप्तसुप्तिङन्तत्वेऽपि आयासि इत्यत्र लुप्तालुप्तद्वयान्तत्वेऽपि च पदयोरैकरूप्यं दर्शयति---अत्र चेति । अस्य प्रत्ययश्लेषतो वैलक्षण्यमाह---अस्य चेति । प्रत्ययान्तरासाध्येति । स्वतुल्यत्वेन प्रत्ययान्तरमसाध्यमबोध्यं ययोः तादृशौ यौ सुप्तिङौ तदन्तर्गतत्वेनास्य श्लेषस्य इत्यर्थः । विच्छित्तिर्वैचित्र्यम् । लोचना (लो, ऐ) विच्छित्तिविशेषः सहृदयानुभवसिद्धः । ********** टीका सम्पूर्णा ********** "महदे सुरसन्धं मे तमव समासङ्गमागमाहरणे । हर बहुसरणं तं चित्तमाहेमवसर उमे सहसा" ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) भाषाश्लेषमाह---महदे इति । संस्कृतपक्षे---हे महदे हे उत्सवदात्रि ! हे उमे पार्वति ! आगमस्य वेदस्य आहरणे वशीकरणे मे मम तं प्रसिद्धं समासङ्गमव रक्ष । मुनिजनेषु प्रसिद्धं वेदाभ्यासं मम जनयेत्यर्थः । समासङ्गं कीदृशं सुरसन्धं सुराणां सन्धं सम्बन्धिकारकं, मम सुरत्वप्रापकमित्यर्थः । तथा तं प्रसिद्धं चित्तमोहमवसरेऽपर्थान्मरणरूपे सहसा हर नाशयः कीदृशं चित्तमोहं बहुसरणं नानाविधकार्य्यविषयम् । सृ गतौ । प्राकृतपक्षे--- मम देहि रसं धर्में तमोवशामाशां गमागमाधर नः । हरवधु शरणं त्वं चित्तमोहोऽपसरतु मे सहसा ॥ "इति संस्कृतम् । तदर्थश्च--हे हरवधु ! मम धर्मे रसं देहि । गमागमात्संसारात्तमोवशामाशां नोऽस्माकं हर । त्वं मे शरणम् । मम चित्तमोहः सहसापसरतु । लोचना (लो, ओ) "महदे" इति । संस्कृतपक्षे---महदे उत्सवदे ! उमे ! पार्वति ! मे मम आगमाहरणे आगमानामाकलने तं समासङ्गमासक्तिमव स्थिरीकुर्विति भावः । सुरैर्देवैः सन्धः समाधानं येनेति समासङ्गविशेषणम् । आगमाध्यासस्य स्वर्गहेतुत्वाद्बहु बहुलं सरणं प्रसारो यस्य एवंभूतं चित्तमोहं मनोनिष्ठमज्ञानम्, अवसरे, सहसा वेगेन हर अपनय । (महाराष्ट्रीयप्राकृतपक्षे) चतुर्थ्यर्थे "महद इति षष्ठी । तेन --- "मह्यं देहि रसं धर्मे तमोवशामाशं गमागमाद्वर नः । हरवधु ! शरणं त्वं चित्तमोहोऽपसरतु मे सहसा" ॥ गमागमो विद्यते यत्र तस्मात्ममागमात्संसारादित्यर्थः । ********** टीका सम्पूर्णा ********** अत्र संस्कृतमहाराष्ट्रयोः । संस्कृतपैशाच्योर्यथा-- (ख)"कमनेकतमादानं सुरतनरजतुच्छलं तदासीनम् । अप्पतिमानं खमते सोऽगनिकानं नरं जेतुम्" ॥ कामे कृतामोदानां सुवर्णरजतोच्छलद्दासीनाम् । अप्रतिमानं क्षमते स गणिकानां न रञ्जयितुम् ॥ इति पैशाचीच्छाया । संस्कृतशूरसेन्योर्यथा-- (ग)"तोदीसदिगगणमदोऽकलहं स सदा बलं विदन्तरिदम् । आरदमेहावसरं सासदमारं गदा भारम्" ॥ ततो दृश्यते गगनमदः कलहंसशतावलम्बितान्तरितम् । आरतमेद्यावसरं शाश्वतमारं गतासारम्" ॥ इति शूरसेनीच्छाया । संस्कृतापभ्रंशयोर्यथा-- (घ)"धीरागच्छदुमे हृतमुदुद्धर वारिसदः सु । अभ्रमदप्प्रसराहरणुरविकिरणातेजः सु । पुनस्त्रिधा सभङ्गोऽथाभङ्गस्तदुभयात्मकः ॥ १०.१२ ॥ लोचना (लो, औ) एवं वर्णादिगतत्वेनाष्टविधं श्लेषमुक्त्वा पुनः प्रकारान्तरेण त्रिविधमाहृ---पुनरिति । ********** टीका सम्पूर्णा ********** एतद्भेदत्रयं चोक्तभेदाष्टके यथासम्भवं ज्ञेयम् । ************* टीका ************* विज्ञप्रिया (वि, द) पुनस्त्रिधेति । अयमष्टविधः श्लेषालङ्कारस्त्रिधा भवतीत्यर्थः । कथमित्यत्राह---सभङ्ग इति । तदुभयात्मकः सभङ्गाभङ्गात्मक इत्यर्थः । उत्कभेदाष्टक इति । तत्र पृथुकार्त्तेत्यत्र सभङ्गः । "किरणा" इत्यत्र "सर्व एव सुधाकिर" इत्यत्राभङ्गः । कहदे इत्यत्र चित्तमोहमित्यत्राभङ्गः । महदे इत्यादिषु सभङ्गः, इत्युभयात्मकः । ********** टीका सम्पूर्णा ********** यथा वा-- "येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामरा । पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः" ॥ अत्र "येन-" इत्यादौ सभ्ङ्गश्लेषः । "अन्धक-" इत्यादावभङ्गः । अनयोश्चैकत्र सम्भवात्सभङ्गाभङ्गात्मको ग्रन्थगौरवभयात्पृथङ्नोदाहृतः । ************* टीका ************* विज्ञप्रिया (वि, ध) श्लोकान्तरेऽपि त्रैविध्यं दर्शयति----येन ध्वस्तमिति । त्वां सर्वदा स उमाधवः सर्वदो माधवश्च पायात् । तत्र माधवपक्षे, अभवेन अनुत्पत्तिना येन अनः शकटं ध्वस्तं नित्यशरीरस्य तस्यं रूपान्तरेणाविर्भावमात्रं, नतूत्पत्तिः । तथा यो वलिजित्बलिजेता । येन कायः पुरा मोहिनीरूपेण स्त्रीकृतः । एकत्रैव नित्यशरीरे आकारभेदप्रदर्शनमात्रं, न तु शरीरभेद इति भावः । यश्च उद्वृत्तस्य दुर्वृत्तस्य भुजङ्गस्य अघासुरस्य हन्ता । रवस्य नानात्मकब्रह्मणो लयो लीनता यत्र तादृशः । अगं गोवर्द्धनं, कूर्मवराहमूर्त्त्या च गां पृथिवीं च योऽधारयत् । शशिमथः राहोः शिरोहर इति स्तुत्यं नाम यस्यामरा आहुः । स कीदृशः ? स्वयमन्धकवंशक्षयकरः निवासकरः । क्षि निवासगत्योः इति धातोः । उमाधवपक्षे---ध्वस्तमनोभवेन ध्वस्तो दलितो मनोभवो कामो यस्मात् । येन बलिजितो विष्णोः कायः पुरस्य त्रिपुरासुरस्य नाशकास्त्रीकृतः, त्रिपुरवधे विष्णोः कायस्य शरीकृतत्वात् । यश्चोद्वृत्तभुजङ्गरूपो हारः वलयश्च कङ्कणः यस्य तादृशः, गङ्गां च यो मौलौ अधारयत् । यस्य खिरः शशिमत्चन्द्रयुक्तम् । हर इति स्तुत्यं नाम चामरा आहुः । स कीदृशः---स्वयनम्धकासुरस्य नाशकरः । अत्र त्रितयसत्त्वं दर्शयति---अत्रेति । एकैकश्लोके एकैकाप्रदर्शनस्य बीजमाह---ग्रन्थेति । लोचना (लो, अ) हरपक्षे---मनोभवः कामः । बलिजित्विष्णुः, तस्य कायः पुरा दैत्यार्थमस्त्रीकृतः । उद्वृत्ता अतिवर्त्तुलाकारा भुजङ्गा एव हारा वलयाश्च यस्य । गङ्गां त्रिपथगाम् । शशी विद्यते यत्र तत्शशिमत् । अन्धकदैत्यस्य क्षयो नाशः, तत्करः सर्वदा उमाधवः गौरीपतिः । हरिपक्षे--येन अनः शकटं ध्वस्तम् । अभवेन चिद्रूपेण । आत्मन एव कायः पुरा पूर्वममृताहरणकालेऽसुरमोहनार्थं स्त्रीरूपः कृतः । उद्वृत्तः उद्धतो भुजङ्गः कालियः तं हन्तीति । रवे नादरूपे ब्रह्मणि लयो यस्य । अगं पर्वतं गोवर्द्धनाख्यं गां पृथ्वीं च । शसिनं मथ्नाति इति शशिमद्राहुः तस्य शिरोहरः । अन्धकानामन्धकवंशीयानां क्षयो निवासो द्वारकापुरसम्भन्धी तत्करः । सर्वं ददाति इति सर्वदः । माधवः श्रीपतिः । सभङ्गः पदभङ्गे अर्थप्रत्ययात् । अनयोः सभङ्गाभङ्गरूपयोः श्लेषयोरेकश्लोके । ********** टीका सम्पूर्णा ********** इह केचिदाहुः--"सभङ्गश्लेष एव शब्दश्लेषविषयः । यत्रोदात्तादिस्वरभेदाद्भिन्नप्रयत्नोच्चार्यत्वेन भिन्नयोः शब्दयोर्जतुकाष्ठन्यायेन श्लेषः । लोचना (लो, आ) सम्प्रति सभङ्ग एव शब्दश्लेषविषयः॑ अभङ्गस्त्वर्थश्लेष इति स्वीकुर्वतां पक्षमनूद्य दूषयति---इहेत्यादि । आहुरित्यस्य दूरस्थेनोपपत्तेरितीति शब्देनान्वयः । सभङ्गः वर्णव्यूहेषु भङ्गेन युतः, तद्भावात्मकेन भिन्नपदेन वा सहितः । शब्दश्लेषविषयः शब्दद्वैधभिन्ननिर्व्यूढार्थद्वैविध्यादित्यर्थः । उदात्तादीति--उच्चैरुदात्तः । नौच्चैरनुदात्तः । आदिशब्दात्तदन्तर्गतानामनुनासिकादीनां काकुभेदानां चोपसङ्ग्रहः । भिन्नप्रयत्नोच्चार्य्यत्वेन प्रयत्नभेदेन उच्चारणं विना उदात्तदिभेदाभावात् । एतेन तत्कार्य्येणातिभेदश्चाभिप्रेतः । यथा-- "सारसवत्ता विहता न बका विलसन्ति चरति नो कङ्कः । सरसीव कीर्त्तिशेषं गतवति भुवि विकमादित्ये" ॥ इति अत्र हि राजपक्षे सा, इति, कमिति । सरः पक्षे नेतीत्यत्र तु सा नास्ति । जतुकाष्ठन्यायेनेति । यथा काष्ठयोर्भिन्नयोरप्युपायवशेन जडीकृतयोरेकता तथाभिन्नयोः पदयोः शब्दयोरेकत्र वर्णव्यूहे सन्निवेशः । ********** टीका सम्पूर्णा ********** अभङ्गस्त्वर्थश्लेष एव । यत्र स्वराभेदादभिन्नप्रयत्नोच्चार्यतया शब्दाभेदादर्थयोरेकवृन्तगतफलद्वयन्यायेन श्लेषः । लोचना (लो, इ) अर्थश्लेष एव शब्दस्वरूपविपर्यासाभावेऽप्यर्थस्य द्विधात्मकत्वादित्यर्थः । यत्रेति । यथा एकस्मिन्नेव वृन्ते फलद्वयं तथा एकस्मिन्नेव शब्देर्ऽथद्वयसंसर्गः । ********** टीका सम्पूर्णा ********** यो हि यदाश्रितः स तदलङ्कार एव । अलङ्कार्यालङ्कारणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तिः" इति । ************* टीका ************* विज्ञप्रिया (वि, न) सभङ्गत्वे शब्दश्लेषत्वबीजमाह यत्रेति । सभङ्गश्लेषस्थले काव्येऽपि स्वरभेदगणनमिति तन्मतम् । ततश्च भिन्नप्रयत्नोच्चार्य्यत्वेनैव पृथक्पृथक्शब्दभेदः । केवलं विभिन्नत्वेन प्रतीयमानयोरपि अत्यन्तसन्निधानरूप एव जतुकाष्ठयोरिव श्लेष इत्यर्थः । अभङ्गश्लेषस्त्वर्थश्लेष इत्याह---अभङ्गस्त्विति । तदर्थश्लेषत्वे बीजमाह---यत्रेति । अभिन्नप्रयत्नोच्चार्य्यत्वेन शब्दभेदाभावादेकवृन्तलग्नफलद्वयवदेकशब्दलग्नार्थयोरेव श्लिष्टत्वमित्यर्थः । तावतैव कथमर्थालङ्कारत्वमित्यत्राह---यो हि यदाश्रय इति । सभङ्गत्वे शब्दयोरेव श्लिष्टत्वात्तत्र श्लेषः शब्दाश्रितः । एकदेशाश्रित्योरर्थयोरेव च श्लिष्टत्वादर्थाश्रितस्तत्र श्लेष इत्यर्थः । लोचना (लो, ई) यो हीति । यथा लोके भुजाश्रितो भुजस्थालङ्कारः कण्ठश्रितः कण्ठस्य तथासौ शब्दाश्रित इति भावः । लोकवदिति । लोके आश्रयाश्रयिभावेन एव व्यपदेशः, यथा राजपुरुषः । यद्वा उपपत्तेरुपादानाद्व्यवहरणादिति यावत् । ********** टीका सम्पूर्णा ********** तदन्ये न क्षमन्ते । तथाहि--अत्र ध्वनिगुणीभूतव्यङ्ग्यदोषगुणालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेरन्वयव्यतिरेकानुविधायित्वेन नियमिति । ************* टीका ************* विज्ञप्रिया (वि, प) तदन्ये इति । काव्यप्रकाशकारादयस्तदनुयायिनो वयञ्च इत्यर्थः । तथा ह्यत्रेति । अत्रालङ्कारशास्त्रे शब्दशक्तिमूलव्यङ्ग्यत्वे ध्वनिगुणीभूतव्यङ्ग्ययोः शब्दगतत्वव्यवहारः । अर्थशक्तिमूलत्वे तु अर्थगतत्वेन दोषादीनां तु शब्दार्थन्वयाद्यविधानं स्फुटमेव । तथा च नानार्थाभङ्गशब्दस्यापि श्लेषेणान्वयव्यतिरेकानुविधानात तत्रापि शब्दश्लेषत्वमेव इति भावः । लोचना (लो, उ) सिद्धान्तमाह---तदुक्तप्रकारं पूर्वेषां मतम्, अन्येऽभियुक्ता न मन्यन्ते न स्वीकुर्वन्ति । कुतो न मन्यन्ते तत्र हेतुमाह---तथाहीति । अत्र अलङ्कारप्रस्तावे येषां द्वन्द्वार्थानां शब्दानां पर्य्यान्तरेण प्रतिपादनेऽपि न क्षतिस्त एवार्थगताः । येषांन तु तथा ते शब्दगता एवेति नियमनात्प्राचीनैरलङ्कारकारैरिति शेषः । ********** टीका सम्पूर्णा ********** न च "अन्धकक्षय" इत्यादौ शब्दाभेदः, "अर्थभेदेन शब्दभेदः" इति दर्शनात् । ************* टीका ************* विज्ञप्रिया (वि, फ) मतविशेषे तु यत्र नानार्थस्थलेऽपि शब्दभेदस्तथा च तत्रापि श्लिष्टानेकशब्दकृतः शब्दालङ्कारस्तन्मते निर्बाध एवेति तन्मतं दर्शयति---न चान्धक इति । न च शब्दाभेद इत्यन्वयः । तत्र हेतुमाह---अर्थभेदेनेति । घटपटरूपार्थभेदेन घटपटशब्दभेदनादित्यर्थः । तथा चैतद्दृष्टान्तेनैवार्थभेदस्य शब्दभेदव्याप्यत्वसिद्धिरिति भावः । न च तत्कथं नानार्थकशब्दाः श्रूयन्ते इति वाच्यम्--एकप्रयत्नोच्चार्य्यत्वदोषेण भेदाग्रहात् । लोचना (लो, ऊ) नच तन्नियमनमात्रेणाभङ्गस्य शब्दश्लेषत्वं, शब्दभेदादपि इत्याह--नचेति । हेतुमाह--अर्थभेदेनेति । दर्शनाद्युष्माभिरेव सिद्धान्तात्प्रमाणीकृतादिति शेषः । ********** टीका सम्पूर्णा ********** किं चात्र शब्दस्यैव मुख्यतया वैचित्र्यबोधोपायत्वेन कविप्रतिभयोट्टङ्कनाच्छब्दालङ्कारत्वमेव । विसदृशशब्दद्वयस्य बन्धे चेवंविधस्य वैचित्र्याभावाद्वैचित्र्यस्यैव चालङ्कारत्वात् । अर्थमुखप्रेक्षितया चार्थालङ्कारत्वेऽनुप्रासादीनामपि रसादिपरत्वेनार्थमुखप्रेक्षितयार्थालङ्कारत्वप्रसङ्गः । ************* टीका ************* विज्ञप्रिया (वि, ब) ननु सभङ्गश्लेषस्थलेर्ऽथभेदात्त्वदभिमतस्वरभेददृष्टान्तेन अभङ्गानेकशब्दानामर्थभेदात्स्वरभेद एव स्यात् । तथा च स्वरभेदवैलक्षण्यग्रहे कथं भेदग्रहः स्यादतोर्ऽथभेदस्य शब्दभेदव्याप्तिरप्रयोजिकैव इत्यत एकप्रयत्नेन नानाशब्दोच्चारणमित्यत आह---किञ्चेति । शब्दस्यैव मुख्यतया वैचित्र्योपायत्वेन कविप्रतिभयोट्टङ्कनाद्विषयीकारणादित्यर्थः । ननु अन्धकाद्यखण्डशब्दस्य मुख्यत्वे किं प्रमाणमित्यत आहविसदृशशब्दद्वयस्येति । नहि हरिणशब्दस्थले तदर्थकेन्द्रादिशब्दप्रयोगे हरि नौमीत्यत्रेव विष्णिवन्द्रौ नौमीत्यत्रापि श्लेषरूपवैचित्र्याननुभव इत्यर्थः । नन्वर्थमुखप्रोक्षित्वादभङ्गश्लेषस्यार्ऽथालङ्कारत्वमुच्यते इत्यत आह---अर्थमुखेति । अनुपारसादीनामित्यादिपदात्सभङ्गश्लेषवक्रोत्त्यादिपरिग्रहः । रसादिपरत्वेनेति । रसनिष्टगुणार्थकत्वेनैव रसपरत्वं बोध्यम् । आदिपदात्लाटानुप्रासे वाच्यार्थमुखप्रेक्षित्वमेव बौध्यम् । लोचना (लो, ऋ) येऽप्याहुर्यो यदाश्रेतः स तदलङ्कार इति तन्मतेऽप्यत्र वौचित्र्यस्य शब्दनिष्ठत्वाच्छब्दालङ्कारत्वमित्याह---किञ्चेति । वैचित्र्यं लोकोत्तरविच्छित्तिरलङ्काररूपा । प्रतिभा नवनवोन्मेषशालिनी प्रज्ञा । उट्टङ्कनातुल्लेखनात्, अत्र हेतुमाह--- विसदृशेति । विसदृशमसमानश्रुतिकम् । यथा अन्धकक्षयकर इत्यत्र क्षयशब्दस्थाने विनाशनिवासरूपकशब्दद्वयम् । अस्य च वैचित्र्यस्यार्थानुसन्धानमन्तरेणनुपलब्धेरर्थालङ्कारत्वमस्तीत्याशङ्क्याह---अर्थेति । अर्थमुखप्रेक्षित्वमर्थानुसान्धाने वैचित्र्ययोगः । तथा सति अलङ्कारान्तरेऽतिप्रसङ्ग इत्यत आह---अनुप्रासादीनामिति । अयमर्थः---अनुप्रासादीनामपि हि रसादिपरत्वाभावे वृत्तिविरोधात् । रसादिरूपस्यार्थस्य तदभिवयञ्जकस्य विभावादिरूपस्यार्थस्य वानुसन्धानमस्त्येवेति तेपि कथं शब्दालङ्कारमध्ये युष्माभिरपि गण्यन्त इति । ********** टीका सम्पूर्णा ********** शब्दस्याभिन्नप्रयत्नोच्चार्यत्वेनार्थालङ्कारत्वे "प्रतिकूलतामुपगते हि विधौ" इत्यादौ शब्दभेदेऽप्यर्थालङ्कारत्वं तथापि प्रसज्यत इत्युभयत्रापि शब्दालङ्कारत्वमेव । ************* टीका ************* विज्ञप्रिया (वि, भ) अभिन्नप्रयत्नोच्चार्य्यत्वेनार्थालङ्कारत्वस्य तदुक्तस्य शब्दालङ्कारतया निर्विवादे वर्णश्लेषवर्णानुप्रासेऽपि अतिप्रसाक्तिमाह---प्रतिकूलंतमिति । उभयत्रापि इति । सभङ्गभङ्गयोरित्यर्थः । लोचना (लो, ॠ) यत्पुनरुक्तं शब्दस्यैकप्रयत्नोच्चार्य्यत्वेर्ऽथालङ्कारत्वमिति तथाप्यव्याप्तिदोष इत्याह---शब्दस्येति । प्रतिकूलतामित्यादौ विधावित्यत्र इकारोकारयोरौकाररूपत्वेनाभिन्नप्रयत्नोच्चार्य्यत्वं तत्शब्दभेदेन शब्दश्लेषमङ्गीकुर्वतः । उभयत्र "येन ध्वस्त"इत्यादौ "अन्धकक्षय" इत्यादौ च । ********** टीका सम्पूर्णा ********** यत्र तु शब्दपरिवर्त्तनेऽपि न श्लेषत्वखण्डना, तत्र-- "स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च" ॥ इत्यादावर्थश्लेषः । ************* टीका ************* विज्ञप्रिया (वि, म) नन्वेवमर्थस्लेषालङ्कारोच्छेदप्रसङ्ग इत्यत आह---यत्र त्विति । तमेव विषयमाह---तत्र स्तोकेनेति । अहो तुलाया मानतुलायाः कोटेरग्रभागस्य खलस्य च सुसदृशी वृत्तिर्यतः स्तोकेनेत्यादि । स्तोकेन गुञ्जाद्यल्पवस्तुना, पक्षे स्तोकेनाल्पप्रशंसनेनाल्पनिन्दनेन च । अत्रोन्नत्यधोगत्यर्थकपदान्तरदानेऽपि नार्थश्लेषत्वखण्डना । लोचना (लो, ळ) तत्क्व नु पुनरर्थश्लेष इत्याह---यत्र हीति । शब्दस्य परिवर्त्तने पर्य्यायान्तरेण प्रतिपादने । सुवर्णदिगौरवप्रकर्षापकर्षसूचिका तुलाकोटिः । अत्र स्तोकादिस्याने स्वल्पादिपदनिवेशेऽपि न ह्यर्थताहानिः । ********** टीका सम्पूर्णा ********** अस्य चालङ्कारान्तरविविक्तविषयताया असम्भवाद्विद्यमानेष्वलङ्कारान्तरेष्वपवादत्वेन तद्वाधकतया तत्प्रतिभोत्पत्तिहेतुत्वमिति केचित् । ************* टीका ************* विज्ञप्रिया (वि, य) इदानीं श्लेषस्य अलङ्कारान्तरासङ्कीर्णविषयाभावादलङ्कारान्तरस्य च श्लेषासङ्कीर्णविषयसत्त्वात्सामान्यमलङ्कारान्तरमपवादत्वेन बाधित्वा श्लेष एवालङ्कारः अलङ्कारान्तरं तु तत्सङ्कीर्णं तद्ग्राहकमेवेति केचिदाहुः । तन्मतं दर्शयति---अस्येति । तत्प्रतिभोत्पत्तिहेतुत्वमिति---तत्प्रतिभा, अलङ्कारान्तरविषयिणी प्रतिभा तस्या एवोत्पत्तिहेतुत्वमस्य श्लेषस्य तद्विषयबोधकत्वमित्यर्थः । शब्दश्लेषेण श्लेषालङ्कारविषयप्रतिभैव जन्यत इत्यर्थः । नतु अलङ्कारान्तरविषयप्रतिभा इत्यर्थः । तथा चालङ्कारान्तरसंकरे श्लेष एवालङ्कार इत्यर्थः । लोचना (लो, ए) एष च नियमादलङ्कारणां विच्छित्तिमादायैव सम्भवतीत्येतद्विषये विद्यमानानामलङ्कारणां बाध इति ये मन्यन्ते तेषां पक्षमुपन्यस्य दूषयति--अस्य चेति । विद्यमानेष्वेतद्विषयेषु । तद्वाधकत्वात् । तेषामलङ्कारणां बाधकत्वादवकाशान्तराभावेन तह्यपदेशं बाधित्वा मुख्यत्वेन व्यपदेष्टुं योग्यत्वात् । अस्य च हेतुरपवादत्वेनेति । तेषामलङ्कारणां प्रतिभाबुद्धिस्विता उत्पत्तिहेतुरस्येति तत्प्रतिभोत्पत्तिहेतुः । ********** टीका सम्पूर्णा ********** इत्थमत्र विचार्यते--समासोक्त्यप्रस्तुतप्रशांसादौ द्वितीयार्थस्यानभिधेयतया नास्य गन्धोऽपि । ************* टीका ************* विज्ञप्रिया (वि, र) तन्मतेऽपि सकलालङ्कारसंकरे श्लेषो न बादकः, किन्तु कतिपयालङ्कारसंकरे एवेति निष्कर्षं प्रतिपादयितुमाह---इत्थमत्रेति । तत्र समासोक्त्यप्रस्तुतप्रशंसासङ्कीर्णस्य श्लेषस्य तद्द्वयबाधकप्रसक्तिरेव नास्ति इत्याह---समासेक्तीति । प्रस्तुतकथनेनाप्रस्तुतव्यञ्जनं समासोक्तिः । क्वचित्श्लेषसङ्कीर्णा सा । यथा--- "अनुरागवती सन्ध्या दिवसस्तत्पुरः सरः । अहो दैवगतिश्चित्रा तथापि न समागमः" ॥ इत्यत्र प्रकृतदिवसपुरः सरसन्ध्याकथनादप्रकृतनायकपुरः सरनायिकाप्रतीतौ रक्तिमानुरगोभयार्थकानुरागपदश्लेषसंकरः । अप्रस्तुतकथनेन प्रस्तुतव्यञ्जनं चाप्रस्तुतप्रशंसा॑ सा च क्वचित्श्ल्षसङ्कीर्णापि भवति । यथा--- "सततं या मध्यस्था कथयति यष्टिः प्रतिष्टितासीति । पुष्करिणी नैव तदुचितं पूर्णायत्तामधो नयसि" ॥ इत्यत्र जनैः यष्टिप्लावनाप्राकरणिकपुष्करिणीकथनेन प्राकरणिकप्रतिष्टागायकजनतिरस्कारकसम्पत्तिमज्जनप्रतीतौ मध्यस्थादिपदश्लेषसंकरः । एतदुभयत्र श्लेषालङ्कारप्रसक्तिरेव नास्तीत्यत आह----नास्य गन्धोऽपीति । अत्र हेतुमाह---द्वितीयार्थस्येति । अनयोर्द्वितीयार्थस्य व्यङ्ग्यत्वादेव । अर्थद्वयस्य वाच्यत्व एव श्लेषालङ्कारः । अप्रस्तुतप्रशंसादौ इत्यादिपदादुपमाध्वनिपरिग्रहः, यथा दुर्गालङ्घितेत्यादौ । लोचना (लो, ऐ) इत्थमिति वक्ष्यमाणस्य बुद्धिस्थितयां इदमा परामर्शः । अत्रेत्थमनतरोक्तम् । केषाञ्चित्पूर्वपक्षिणां मते समासोक्तिर्यथा--- "उपोढरागेण विलोलतारकं, तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम्" ॥ अप्रस्तुतप्रशंसा यथा--- "एणालं सम्भ्रमेण त्यज गवय ! भयं सैरिभ ! स्वैरमास्स्व क्षौभं मा यास्तरक्षो ! विहर गिरिदरीं स्वेच्छयैवाच्यभल्ल ! पारिन्द्रः पारदृश्वा निखिलवनभुवः केवलं मोदतेऽसौ माद्यत्कुम्भीन्द्रकुम्भस्थलगलितघनस्थूलमुक्ताफलोघैः" ॥ आदिशब्देन पर्य्यायोक्त्यादिः । द्वितीयार्थः प्रकृताप्रकृतो वा यथा नायकय्यवहारादिः । अनभिधेयतया अभिधायाः प्रकृतबोधनेन विरमादस्य श्लेषस्य । ********** टीका सम्पूर्णा ********** "विद्वन्मानसहंस--" इत्यादौ श्लेषगर्भे रूपकेऽपि मानसशब्दस्य चित्तसरोरूपोभयार्थत्वेऽपि रूपकेण श्लेषो बाध्यते । सरोरूपस्यैवार्थस्य विश्रान्तिधामतया प्राधान्यात्, श्लेषे ह्यर्थद्वयस्यापि समकक्षत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ल) पूर्वोक्ते श्लिष्टपरम्परितरूपकेऽपि न श्लेषालङ्कारप्रसक्तिरित्याह---विद्वन्मानसेति । विदुषां मन एव मानसं सरस्तत्र हंसेति राज्ञः सम्बोधनम् । अत्र रूपकस्य श्लेषबाधकत्वे हेतुमाह---सरोरूपस्येति । विश्रान्तिधामता पर्य्यन्तिकप्रतीतिविषयता, हंसाश्रयत्वेन न तद्रूपकस्यैव तथात्वात् । उभयत्रैव विश्रान्तिसत्त्वे एव श्लेषप्रसाक्तिः । यथा "पृथुकार्त्तस्वरपात्रम्" इत्यत्र सदनद्वयविशेषणयोः श्लिष्टार्थयोः विश्रान्तिस्तदाह---श्लेषे हीति । लोचना (लो, ओ) श्लेषो बाध्यते--श्लेषव्यपदेशमनूद्यात्मना व्यपदेशः कार्य्यते । विश्रान्तिधामता चित्तरूपार्थानुवादेन विधेयत्वालाभात् । इह हि चित्तादिकमवच्छादितस्वरूपं सरोवरादिरूपत्वमापद्यते । अतएवात्र "राजनारायणं लक्ष्मीः समालिङ्गति निर्भरम्" इत्यत्र राज्ञो नारायणत्वोचितलक्ष्मीसमालिङ्गनं वर्ण्यते । तथा "मुखचन्द्र प्रकाशते" इत्यत्र मुखं चन्द्ररूपतामापद्यत इत्युपरचितचन्द्रधर्मस्य तत्र वर्णनम् । समकक्षत्वं न खलु रूपकवदेकस्य गौणतान्यस्य प्राधान्यम् । स्वस्वसामग्रीवशेन पृथक्पृथक्स्वस्वार्थबोधनेनोपक्षेपात् । यथा---"हृदिज्ञेषु वक्ष्यति" इत्यादौ वहनवचनयोः तथा "पृथुकार्तस्वर" इत्यादौ पृथुकादीनाम् । ********** टीका सम्पूर्णा ********** "सन्निहितबालान्धकारा भास्वन्मूर्तिश्च" इत्यादौ विरोधाभासेऽपि विरुद्धार्थस्य प्रतिभातमात्रस्य प्ररोहाभावान्न श्लेषः । ************* टीका ************* विज्ञप्रिया (वि, व) श्लिष्टविरोधाभासेऽपि न श्लेषालङ्कारप्रसक्तिरित्याह---सन्निहितेति । नायिका भास्वन्मूर्त्तिर्देप्यमानमूर्त्तिः सन्निहितबालरूपान्धकारा च मोहजनकत्वेन । बालस्यान्धकारत्वरूपणम् । अत्र भास्वन्मूर्त्तेः सूर्य्यविम्बस्याल्पान्धकारसान्निध्यं बालपदभास्वत्पदश्लेषादुपस्थितं विरुद्धतयाऽभासते । अत्र श्लेषालङ्काराप्रसक्तिबीजमाह---विरुद्धार्थस्येति । प्रतिभातमात्रस्य उपस्थितमात्रस्य इत्यर्थः । प्ररोहाभावादन्वयबोधाभावात् । नही अन्धकारसन्निहितसूर्य्यमूर्त्तिर्नायिका न वान्धकारसान्निध्यं सूर्य्यबिम्बस्य इति बाधस्यापि उपस्थितिमात्रेण एव विरोधाभासालङ्कारता श्लेषस्य तु श्लिष्टार्थस्यान्वये सत्येव अलङ्कारता विरोधाभासवत्श्लेषाभासालङ्कारानभ्युगमात् । लोचना (लो, औ) बालः क्षुद्रः केशश्च । भास्वतः सूर्य्यस्य, भास्वतः कान्तिमतोऽपीवा सूर्य्यमूर्त्तौ अन्धकारस्य सन्निधानाभावाद्विरोधाभासः । यथा भासनं न तथा विश्रान्तिप्ररोहः । ********** टीका सम्पूर्णा ********** एवं पुनरुक्तवदाभासेऽपि । ************* टीका ************* विज्ञप्रिया (वि, श) एवं पुनरुरक्तेति---न हि भुजङ्गकुण्डलिशब्दयोः एकार्थत्वबोधः पर्य्न्तिकः॑ आपातमात्रतः श्लेषेण तथा बोधात् । ********** टीका सम्पूर्णा ********** तेन "येन ध्वस्त-" इत्यादौ प्राकरणिकयोः, "नीतानाम्-" इत्यादावप्रकारणिकयोरेकधर्माभिसंबन्धात्तुल्ययोगितायाम्, ************* टीका ************* विज्ञप्रिया (वि, ष) इत्थमुक्तस्थलेषु श्लेषालङ्कारं बाधित्वा ते ते अलङ्कारा एवेत्युक्त्वा अलङ्कारान्तरस्यैव बाधकः श्लेष इति तदभिप्रेतं वक्तुमाह---येन ध्वस्तमिति । येन ध्वस्तमित्यादौ नीतानामित्यादौ च तुल्ययोगितायां, स्वेच्छोपजातेत्यादौ दपिके सकलकलमित्यादौ चोपमायां विद्यमानायामपि श्लेषेणैव व्यपदेशो भवितुं युक्त इत्यग्रेऽन्वयः । तेन येन ध्वस्तमित्यादौ माधवोमाधवयोर्द्वयोरपि प्राकरणिकयोः येन ध्वस्तेत्याद्येकधर्मान्वयरूपस्तुल्ययोगितालङ्कारः । "पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् । एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ॥ "इति लक्षणात् । अत्र हि प्रस्तुतानां प्राकरणिकानामेवान्येषामप्राकरणिकानामेवेत्यर्थः । नीतानामित्यादौ तु अप्राकरणिकयोरेव वनवृद्धरकमलयोः नीतानीमित्यादि पूर्वार्द्धेक्ते कर्मान्वयः । स्वेच्छोपजातेत्यादौ सलक्षणं दीपकं दर्शयिष्यते । लोचना (लो, अ) पुनरुक्तवदाभासे यथोदाहृतभुजङ्गकुण्डलीत्यादौ । तेन हेतुना तुल्ययोगितायामित्यादेरुपरितनेन विद्यमानायामित्यनेन सम्बन्धः । ********** टीका सम्पूर्णा ********** "स्वेच्छोपजातविषयोऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुःखम् । मोहात्समुत्क्षिपति जीवनमप्यकाण्डे कष्टं प्रसूनविशिखः प्रभुरल्पबुद्धिः" ॥ इत्यादौ च प्राकरणिकाप्राकरणिकयोरेकधर्माभिसम्बन्धाद्दीपके । ************* टीका ************* विज्ञप्रिया (वि, स) तच्च्लोकार्थस्तु यथा---प्रभुरल्पबुद्धिरित्यत्र चकारार्थो गम्यः । वक्तुमित्यत्र भावतुम्वचनमित्यर्थः । तथा च कष्टं खेदे । प्रसूनविशिखोऽल्पबुद्धिः प्रभुश्च स्वेच्छोपजातविषयोऽपि स्वेच्छया सर्वलोकोपरि प्राप्ताधिकारोऽपि देहीति वचनं न याति न प्राप्तोति । देहाभावेन देहीति वाग्विषयो न प्रसूनविशिखः । तथापि मार्गणशतैः असंख्यबाणैः दुः खं ददाति । उक्तरूपः प्रभुस्तु लोकेषु देहीति ददस्वेति वचनं न याति न प्राप्तोति । एतादृशवाग्वक्तान भवतीत्यर्थः । मार्गणशतैः परधनान्वेषणरूपमार्गणशतैः अर्थातीदृशपदातिशतैः दुः खं ददाति । देहीत्यनुक्त्वापि पदतिद्वारा सर्वसंव हृत्वा दुः खं ददातीत्यर्थः । अधिकारसत्त्वाद्देहीत्युक्त्वापि सर्वस्वं ग्रहीतुं सामर्थ्यसत्त्वेऽपि अल्पबुद्धित्वात्तथा न करोतीत्यर्थः । एवं प्रसूनविशिखः स्वदत्तमोहादकाण्डेऽकस्माज्जीवनमपि समाक्षिपति हरति इत्यर्थः । अत्र प्राकरणि क उक्तरूपः प्रभुरप्राकरणिकः प्रसूनविशिखः॑ तयोर्न याति इत्याद्येकधर्मान्वयरूपं दीपकम् । तदुक्तम्---"अप्रस्तुतप्रस्तुतयोर्देपकन्तु तदुच्यते"इति । एकधर्मान्वय इति तत्र शेषः । लोचना (लो, आ) स्वेच्छेति । स्वेच्छया उपजात आश्रितः विषयः भोगः यस्य । वक्तुं न यातीति न तत्र स्वार्थनिवेदनं वक्तुं शक्य इत्यर्थः । देहि प्रयच्छ । इति मार्गणशतैः याचनशतैः प्रदानाभावात्पुनः पुनः कृतैः । मोहादपराधगुरुलघुविचारादक्षत्वात् । अकाण्डेऽकस्मात्, स्वल्पेऽप्यागसीति यावत् । पक्षान्तरे तु विषयः कामस्याश्रयो वनितादिः । वक्तुं न यातीति । वक्तुं न यातीदृशः सम्प्रति मे काम इति । देहा प्राणीत्येतावन्मात्रेण विशेषमनपेक्ष्य, मार्गणशतैर्मोहादात्मनो निवेकाभावात् । कष्टमिति निर्वेदेऽव्ययम् । दीपके विद्यमान इत्यर्थः । ********** टीका सम्पूर्णा ********** "सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव" । इत्यादौ चोपमायां विद्यमानायामपि श्लेषस्यैतद्विषयपरिहारेणासंभवादेषां च शलेषविषयपरिहारेणापि स्थितेरेतद्विषये श्लेषस्य प्राधान्येन चमत्कारित्वप्रतीतेश्च श्लेषेणैव व्यपदेशो भवितुं युक्तः, अन्यथा तद्व्यापदेशस्य सर्वथा भावप्रसङ्गाच्चेति । ************* टीका ************* विज्ञप्रिया (वि, ह) सकलकलमित्यादौ च सकलकलावत्त्वकलकलशब्दवत्त्वार्थद्वयश्लिष्टोपमा स्पष्टैव । तत्र परस्परव्यभिचारसत्त्वेन द्वयोरप्यलङ्कारत्वं द्रढयन्नुभयसत्त्वेषु विषयेषु श्लेषस्यैवौचित्यमित्याह---श्लेषस्यैतदित्यादि । प्रतिकूलतामुपगते हि विधौ इत्यादिषु एतद्विषयपरिहारेण श्लेषस्य श्लेषरहिततुल्ययोगितादीपकोपमानान्तु श्लेषपरिहारेण स्थितिर्बहुष्वेवोदाहरणेषु द्रष्टव्या । एषु श्लेषालङ्कारस्यैवौचित्ये हेतुमाह---प्राबल्येन चमत्कारित्वेति । अन्यथेति । एषु विषयेष्वपि तुल्ययोगितादित्रयस्यैवालङ्कारत्वमित्यर्थः । तद्व्यपदेशस्येति । श्लेषव्यपदेशस्येत्यर्थः । नच कथं तदभावप्रसङ्गः । प्रतिकूलतामित्यादिष्वेव तत्सत्त्वादिति वाच्यम् ? तत्रापि विधेः प्रतिकूलतोपगमनस्य बहुसाधनतावैफल्यहेतुत्वेन हेत्वलङ्कारसत्त्वात् । लोचना (लो, इ) सकलकलं कोलाहलध्वनिसहितं, सकलाभैः कलाभिर्युक्तं च । एषां तुल्ययोगितादीनां त्रयाणामलङ्कारणां प्राबल्येन चमत्कारित्वं कविना व्द्यर्थशब्दस्य वैचित्र्यबोधोपायत्वेनोपादानात् । ********** टीका सम्पूर्णा ********** अत्रोच्यते--न तावत्परमार्थतः श्लेषस्यालङ्कारान्तराविविक्तविषयता "येनध्वस्त-" इत्यादिना विविक्तविषयत्वात् । न चात्र तुल्ययोगिता, तस्याश्च द्वयोरप्यर्थयोर्वाच्यत्वनियमाभावात् । अत्र च माधवोमाधवयोरेकस्य वाच्यत्वनियमे परस्य व्यङ्ग्यत्वं स्यात् । लोचना (लो, ई) अत्र सिद्धान्तमाह---अत्रेति । वाच्यत्वे नियमाभावादिति । येन ध्वस्तेत्यादावुक्तप्रकारेण प्रकरणादिनियमाभावात्, माधवोमाधवार्थयोर्द्वयोर्वाच्यत्वनियमः । तुल्ययोगितायां च द्वयोर्वाच्यत्वनियमो नास्ति । शब्दयोस्तन्त्रताङ्गीकारेण द्वयोर्वाचय्त्वनियमः समनन्तरोक्तप्रकारेण ध्वनितन्त्रवादिमते चैकस्य वाच्यत्वमितरस्य व्यङ्ग्यत्वमिति भावः । एतदेव विशेषयति---अत्र हीति । अत्र येन ध्वस्तेत्यादौ । अत्र हीत्यनन्तरं तुल्ययोगिताङ्गीकारे इति शेषः । ********** टीका सम्पूर्णा ********** किञ्च--तुल्ययोगितायामप्येकस्यैव धर्मस्यानेकधर्मिसंबन्धितया प्रतीतिः । इह त्वनेकेषां धर्मिणां पृथक्पृथग्धर्मसंबन्धतया । ************* टीका ************* विज्ञप्रिया (वि, क) इत्थं स्लेषसायलङ्कारान्तरविविक्तविषयासत्त्वादलङ्कारान्तरस्य च श्लेषविविक्तविषयस्यापि सत्त्वेन सामान्यत्वादपवादेन श्लेषेण दर्शितास्तुल्ययोगितादयोऽलङ्कारा बाध्यन्त इति केषाञ्चिन्मते दर्शिते, तद्दूषयितुमाह---अत्रोच्यत इति । श्लेषस्यालङ्कारान्तरविविक्तविषयासत्त्वे एव तस्यापवादकत्वं, तदेव तु न । तस्यापि तद्विविक्तविषयसत्त्वादित्याह---न तावत्परमार्थत इति । अलङ्कारान्तरविविक्तं विषयं दर्शयति---येन ध्वस्तमिति । अत्र येन ध्वस्तमित्यादौ इति समीचीनः पाठः । क्वचित्तु येन ध्वस्तेत्यादिना इति पाठः । तदाच इत्यादिना श्लोकेन हेतुना विविक्तविषयसत्त्वादित्यर्थः । अत्र माधवोमाधवयोः प्रकरणिकयोर्येनेत्याद्येकधर्मान्वयित्वात्तुल्ययोगितालङ्कारमाशङ्कते---नचेति । समाधत्ते---तस्यामिति । तुल्ययोगितायामित्यर्थः । नन्वत्रापि द्वयोः प्राकरणिकयोर्वाच्यत्वमित्याह---अत्र हीति । अत्र द्वयोरर्थयोश्च प्राकरणिकत्वे नियामकं नास्ति । तथा च वक्त्रा यद्येकमेवार्थं प्रक्रम्येदं पद्यमुक्तं स्यात्तदान्यार्थस्य व्यङ्ग्यत्वेन तुल्ययोगिताया अत्र प्रसक्त्यभावेनायमेव तुल्ययोगितालङ्कारविविक्तः श्लेषस्य विषयः स्यादित्यर्थः । नच तथापि व्यङ्ग्योपमालङ्कारसङ्कीर्ण एवायं श्लेष इति वाच्यम्, सम्भवदवाच्यताकस्यालङ्कारस्य व्यङ्ग्यत्वे अलङ्कारत्वाभावात्किन्तु तदलङ्कारध्वनित्वादेव केवलं तत्रालङ्कारव्यपदेशो ब्राह्मणश्रमणन्यायेन वाच्यतादशायामलङ्कारत्वमादाय गौण एव । समासोक्त्यप्रस्तुतप्रशंसयोस्तु वाच्यतासम्भवाद्व्यङ्ग्यत्वेऽपि अलङ्कारता, ननु माधवोमाधवयोः द्वयारपि तुल्यविभक्तिविषयत्वेन प्राकराणकत्वमेवेत्यतो द्वयार्वाच्यत्वेनात्र तुल्ययोगितैवेत्यत आह---किञ्चेति । एकस्यैव धर्मस्येति । न तु एकशब्दावाच्यधर्मद्वयस्येत्यर्थः । इह त्विति । येन ध्वस्तेत्यादावित्यर्थः । अनेकेषामित्यत्र बहुत्वमविवक्षितम् । उमाधवमाधवयोरित्यर्थः । पृथग्धर्मैः श्लिष्टैकशब्दस्य पृथगर्थौ अनोमनोभवादिरूपौ । सम्बन्धितयेत्यत्र प्रतीतिरित्यन्वयः । एवं च येन ध्वस्तेत्यादौ नीतानामित्यादौ च यत्तुल्ययोगिता---प्रदर्शनं प्राक्कृतंतत्परकीयमपप्रदर्शनमात्रं कृतमिति बोध्यम् । वस्तुतस्तु तद्द्वये श्लेष एव तुल्ययोगितारहित इति साधितं बोध्यम् । लोचना (लो, उ) अनुपपत्त्यन्तरमाह---किञ्चेति । अयमाशयः--- "सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचकमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः" ॥ इत्यादौ तुल्ययोगितायामेकस्यैव निलयगमनोपक्रमरूपधर्मस्य सौरभीप्रभयोर्धर्मिणोः सम्बद्धतया प्रत्ययः । इह तु श्लेषेषु पुनरनेकेषां धर्मिणां माधवोमाधवप्रभृतीनां येन ध्वस्तमनोभवेनेत्यादिरूपपृथग्धर्मसम्बद्धतया प्रत्यय इत्यन्वयः । धर्मवाचकशब्दयोर्भिन्नरूपत्वात् । तुल्ययोगितायां तु निलयगमनोपक्रमस्य भिन्नार्थत्वेऽपि एकताध्यवसादेकता । नही येन ध्वस्तेत्यादावपि माधवोमाधवगामिनोर्धर्मयोरेकताध्यवसायः । द्वयोरनिश्चयेन प्रकृताप्रकृतत्वाभावात् । यद्यपि तुल्ययोगितायामपि द्वयोर्न प्रकृताप्रकृतत्वं तथापि तद्विवक्षा, तत्रोपमानोपमेयत्वस्य प्राच्यानामप्यभिमतत्वात् । ********** टीका सम्पूर्णा ********** "सकलकलम्--" इत्यादौ च नोपमाप्रतिभोत्पत्तिहेतुः श्लेषः । पूर्णोपमाया निर्विषयत्वापत्तेः "कमलमिव मुखं मनोज्ञमेतत्" इत्याद्यस्ति पूर्णोपमाया विषय इति चेत्? न, यदि "सकल-" इत्यादौ शब्दश्लेषतया नोपमा तत्किमपराद्धं "मनोज्ञम्" इत्यादावर्थश्लेषेण । "स्फुटमर्थालङ्कारावेतावुपमासमुच्चयौ, किन्तु । आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः" ॥ इति रुद्रटोक्तदिशा गुणक्रियासाम्यवच्छब्दसाम्यस्याप्युपमाप्रयोजकत्वात् । ************* टीका ************* विज्ञप्रिया (वि, ख) तथा सकलकलमित्यादौ च यदुपमायां विद्यमानायामपि अपवादत्वेन श्लेषस्यैव प्राधान्येन व्यपदेशो भवितुं युक्त इत्युक्तं तत्रोपमैवालङ्कारो न श्लेष इति प्रतिपादयति---सकलकलमित्यादौ चेति । नोपमाप्रतिभोत्पत्तिरिति । उपमाप्रतिभा उपमाज्ञानम् । सैव उत्पत्तिहेतुर्ज्ञानोत्पत्तिहेतुर्यस्य॑ श्लेषस्तादृशो न, उपमाज्ञानज्ञाप्यो न श्लेष इत्यर्थः । उपमा श्लेषज्ञापिकैव । अत्र श्लेष एव त्वलङ्कार इति नेत्यर्थः । तथा च श्लिष्टधर्मसाधर्म्या उपमा एवालङ्कार इत्युक्तमनेन । तत्रोपमांबाधित्वा श्लेषस्यैवालङ्कारत्वेऽनिष्टोत्पत्तिमाह---पूर्णोपमाया इति । उपमानोपमेय साधारणधर्मे वादिचतुर्णामुपादाने हि पूर्णोपमा । अत्राप्युपमेयं पुरम्, उपमानं वन्दरबिम्बं, सकलकलरूपमुभयान्वितार्थकत्वेन साधर्म्यम्, इवशब्दोऽस्तीति पूर्णोपमा । तद्बाधयात्र स्लेषस्यैवालङ्कारत्वे पूर्णोपमाया निर्विषत्वापत्तिरित्यर्थः । ननु श्लेषरहितगुणसाधर्म्योपमैव पूर्णोपमा ॑ तद्वान् विषय एव पूर्णोपमाया विषयः स्यादित्याशङ्कते---कमलमिवेति । अत्र हि न श्लेषो मनोज्ञत्वगुणकथनरूपक्रिययोरेव साधर्म्याद्न तु श्लिष्टशब्दस्य इति । तत्र प्रतिबन्धमाह---यदीति । श्लेषो द्विविधःशब्दश्लेषोर्ऽथश्लेषश्च । यदि सकलकलमित्यत्रोपमां बाधित्वा श्लेष एव शब्दालङ्कारस्तदा कमलमिव मुखमित्यादावप्युपमां बाधित्वा अर्थश्लेषालङ्कारे प्रसजति तेन किमपराद्धं मनोज्ञत्वादिधर्माणामुभयत्रान्वयरूपश्लिष्टत्वदिति भावः । इवशब्दसद्भावादुपमाया एव तत्रानुभविकत्वे तु सकलकलमित्यादावपि शब्दसाधर्म्योदनुभूयमानोपमैवेत्यभिप्रायेणात्र रुद्रटोक्तमपि प्रमाणयति---स्फुटमर्थेति । इहापि शब्दालङ्कारमध्येऽपि "तवाधेर च रागोऽभूद्रम्भोरु ! हृदये च मे" इत्यत्र शब्दासाधर्म्यात्समुच्चयालङ्कारः । लोचना (लो, ऊ) न केवलं श्लेषस्यालङ्कारान्तरविविक्तविषयता । पूर्णापमादिविषयेऽस्यासम्भवोऽपीत्याह---सकलेति । पूर्णोपमाप्रकरणे लक्ष्यमाणार्थश्लेषेण कमल मिवेत्यादौ मनोज्ञत्वधर्मस्य कमलमुखरूपप्रतिसम्बन्धिभेदाङ्गीकारप्रयोजितेन किमपराद्धम् । तुल्येनापराधेन शब्दश्लेषविषये पूर्णोपमामनङ्गीकृत्य एतद्विषये किं तस्याः परिग्रहोऽभिमतो युष्माकं, द्वयोः समानत्वादिति भावः । कथं द्वयोः समानन्यायत्वमित्याहस्फुटमिति । समुच्चयो यथा वसुधामहितेत्यादिः । सामान्यं साधारणो धर्मः । इह शब्दालङ्कारमध्ये गुणसाम्यं, कमलमित्यादि, क्रियासाम्यं चन्द्र इव मुखं शोभते इत्यादि । ********** टीका सम्पूर्णा ********** ननु गुणक्रियासाम्यस्यैवोपमाप्रयोजकता युक्ता, तत्र साधर्म्यस्य वास्तवत्वात् । शब्दसाम्यस्य तु न तथा, तत्र साधर्म्यस्यावास्तवत्वात् । ततश्च पूर्णोपमाया अन्यथानुपपत्त्या गुणक्रियासाम्यस्यैवार्थश्लेषविषयतयाः परित्यागे पूर्णोपमाविषयता युक्ता, न तु "सकल-" इत्यादौ शब्दसाम्यस्यैवेति चेत्? न-"साधर्म्यमुपमा" इत्येवाविशिष्टस्योपमालक्षणस्य शब्दसाम्याद्व्यावृत्तेरभावात् । ************* टीका ************* विज्ञप्रिया (वि, ग) तत्र साधर्म्यस्यावास्तवत्वादिति । शब्दस्य पुरचन्द्रबिम्बधर्मत्वाभावादिति भावः । ततश्च सकलकलमित्यादावुपमाप्रसक्त्यभावात्तत्र श्लेषालङ्कार एवास्तु । पूर्णोपमाया निर्विषयत्वापत्तिपरिहाराय गुणक्रियासाधर्म्येर्ऽथश्लेषं बाधित्वा पूर्णोपमैवास्तामित्याह---ततश्चेति । न तु सकलकलमित्यादौ शब्दसाधर्म्यस्य इत्यत्र उपमाप्रयोजकत्वमित्यन्वयः । शब्दसाधर्म्याद्व्यावृत्तेरभावादिति--उपमालक्षणस्य शब्दसाम्यतोऽव्यावृत्तत्वात्शब्दसाम्यविषयत्वादपीत्यर्थः । शब्दस्य साधर्म्यं च वाचकतासम्बन्धेन इति यद्वृत्तित्वादितिभावः । लोचना (लो, ऋ) तत्र गुणक्रियासाम्ये वास्तवत्वात्स्वाभाविकत्वातवास्तवत्वाततात्त्विकत्वात् । पूर्णोपमाविषयता युक्ता गत्यन्तराभावादिति भावः । अविशिष्टस्य गुणक्रियासाम्ये चेति विशिष्यानिर्द्दिष्टस्य । ********** टीका सम्पूर्णा ********** यदि च शब्दसाम्ये साधर्म्यमवास्तवत्वान्नोपमाप्रयोजकम्, तदा कथं "विद्वन्मानस--" इत्यादावाधारभूते चित्तादौ सरोवराद्यारोपो राजादेहसाद्याहोपप्रयोजकः । ************* टीका ************* विज्ञप्रिया (वि, घ) यदि हि वाचकतासम्बन्धस्य वृत्तिनियामकत्वाभावेन शब्दरूपसाधर्म्यस्य अवास्तवत्वान्नालङ्कारप्रयोजकत्वं तदा परम्परितरूपके एव शब्दवाच्यत्वेन साम्येन तदर्थयोरभेदारोपात्मकरूपं कथं रूपकालङ्कारप्रयोजकमित्याह---शब्दसाम्य इति । लोचना (लो, ॠ) दूषणान्तरमाह---यदि वेति । अयमर्थः-यदि शब्दसाम्यस्य सकलकलमित्यादौ नोपमाप्रयोजकता कथं तर्हि "विद्वन्मानसहंस" इत्यादौ राज्ञो हंसारोपस्य मानसासाधारणप्रयोजकता चेति । ********** टीका सम्पूर्णा ********** किञ्च-यदि वास्तवसाम्य एवोपमाङ्गीकार्या, तदा कथं त्वयापि "सकलकलम्-" इत्यादौ बाध्यभूतोपमाङ्गीक्रियते ? ************* टीका ************* विज्ञप्रिया (वि, ङ) ननु साधर्म्यं तावत्समानो धर्मस्तस्यावास्तवत्वे तदनुपपन्नम् । विद्वन्मानसेत्यादौ त्वभेदारोप आहार्य्येऽवास्तवत्वेऽपि श्लिष्टशब्दरूपदोषेण सम्भवत्येव इत्यत आह---किञ्चेति । बाध्यभूतोपमेति । उपमात्वाभावे उपमाया बाध्यत्वस्याप्यनुपपत्तिः इत्यर्थः । लोचना (लो, ळ) पुनर्दूषणान्तरमाह---किञ्चेति । बाध्यभूता श्लेषस्य सर्वालङ्कारापवादत्वप्रपन्नेत्यर्थः । कथमङ्गीक्रियते, उत्सर्गसिद्धस्यैवापवादबाध्यत्वादित्यर्थः । ********** टीका सम्पूर्णा ********** किञ्च अत्र श्लेषस्यैव साम्यनिर्वाहकता, न तु साम्यस्य श्लेषनिर्वाहकता, श्लेषबन्धतः प्रथमं साम्यस्यासंभवात्, इत्युपमाया एवाङ्गित्वेन व्यपदेशो ज्यायान् "प्रधानेन हि ब्यपदेशा भवन्ति" इति न्यायात् । ननु शब्दालङ्कारविषयेऽङ्गाङ्गिभावसङ्करो नाङ्गीक्रियते तत्कथमत्र श्लेषोपमयोरङ्गाङ्गभावः सङ्कर इति चेत्? न, अर्थानुसंधानविरहिण्यनुप्रासादावेव तथानङ्गीकारात् । एवं दीपकादावपि ज्ञेयम् । ************* टीका ************* विज्ञप्रिया (वि, च) ननु तत्रैव शब्दबोध्यत्वरूपसादृश्यात्तत्रोपमापदं गौणमेवेत्यत आहकिञ्चेति । श्लेषस्यैव इति । श्लिष्टपदस्यैवेत्यर्थः । साम्यनिर्वाहकता--उपमाघटकसाम्यनिर्वाहकता । उभयात्मकत्वे ज्ञाते सत्येव तादृशैकशब्दार्थरूपसाम्यबोधादित्यर्थः । श्लेषबन्धः प्रथममिति । सकलकलपदबन्धाभावे पुरचन्द्रबिम्बयोः साम्याप्रतीतेः, अङ्गित्वेन पर्य्यन्तिकप्रतीतिविषयतया प्रधानत्वेन॑ तथा च श्लिष्टपदार्थानुसन्धानेन साम्यप्रतीतौ ततोऽङ्गिन्युपमा प्रतीयते । श्लेषस्तु तन्निर्वाहकरूपमङ्गमिति भावः । अङ्गाङ्गिभावो निर्वाहकनिर्वाह्यभावः । एवं दीपकादवपीति । दीपकतुल्ययोगितार्ऽथालङ्कारादावपि श्लेषस्तदङ्गमित्यर्थः । लोचना (लो, ए) एवं चात्रेपमायाः श्लेषप्रतिभोत्पत्तिहेतुत्वेनाङ्गित्वं, श्लेषस्य तदङ्गत्वमिति युक्त्यन्तरेणापि द्रढयति--किञ्चात्रेति । साम्यमुपमाप्रयोजकम् । अङ्गङ्गिभावसंकरः । "अविश्रान्तजुषामात्मन्यङ्गाङ्गित्वे तु संकर"इत्युक्तप्रकारः । अर्थाननुसन्धानात्शब्दालङ्कारेष्वनुप्रसादीनां परस्परनिरपेक्षत्वेनाङ्गङ्गिभावसंकरः नाङ्गीक्रियते, श्लेषादेस्त्वर्थानुसाधानात्सापेक्षत्वेन परस्परापेक्षासम्भवात्कथं वा न स्वीक्रियते इति भावः । एकमुक्तप्रकार उपमाभिधायकन्यायो दीपकादावपि ज्ञेयः । अयमर्थः---यथा शब्दसाम्यस्योपमाप्रयोजकत्वे श्लेषस्य तदङ्गता, तथा दीपकादिप्रयोजकत्वे दीपकाद्यङ्गतेति । आदिशब्दात्तुल्ययोगितादौ । ********** टीका सम्पूर्णा ********** "सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः । निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे" ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) इत्थं सकलकलमित्यत्रोपमैव न श्लेष इति साधिते श्लेषाधीनवस्तुध्वनावपि न श्लेषालङ्कार इत्याह---सत्पक्षा इति । शरत्कालवर्णनमिदं प्राकरणिकम् । तत्र धार्त्तराष्ट्राः कृष्णवर्णचञ्चूचरणा हंसविशेषाः शरत्कालवशात्मेदिनीपृष्टे निपन्तीत्यन्वयः । पक्षं पतत्रम् । आशा प्रसाधनं दिक्षु गमनं, चौरादिकस्य साधेर्गत्यर्थत्वात् । अत्र धृतराष्ट्रपुत्राणाममङ्गले वक्तुस्तात्पर्य्यम् । तेषां मरणरूपं वस्तु श्लिष्टशब्दव्यञ्जनया प्रीतयते । तत्र धार्त्तराष्ट्रा धृतराष्ट्रापुत्रा दुर्य्योधनादयः प्रसाधिताशाः शासितदिङ्मण्डलाः । अतएव मदोद्धतारम्भाः । सत्पक्षाः प्रकृष्टसहायाः कालवशाद्यमवशात्मधुरगिरः कान्तवाचः मेदिनीष्टे निपतन्ति इत्यर्थः । लोचना (लो, ऐ) सत्पक्षा इति । पक्षे गरुत्सहायश्च । प्रसाधिताः भूषिताः प्रकर्षेणात्मसात्कृताश्च । धार्त्तराष्ट्रा हंसाः दुर्योधनादयश्च । उपमाध्वनिशङ्कां निराचष्टे । ********** टीका सम्पूर्णा ********** अत्र शरद्वर्णनया प्रकरणेन धार्तराष्ट्रादिशब्दानां हंसाद्यर्थाभिधाने नियमनाद्दुर्योधनादिरूपोर्ऽथः शब्दशक्तिमूलो वस्तुध्वनिः । इह च प्रकृतप्रबन्धाभिधेयस्य द्वितीयार्थस्य सूच्यतयैव विवक्षितत्वादुपमानोपमेयभावो न विवक्षित इति नोपमाध्वनिर्न वा श्लेष इति सर्वमवदातम् । ************* टीका ************* विज्ञप्रिया (वि, ज) अत्र चोपमाध्वनित्वं श्लेषालङ्कारश्च न प्रसज्यत इत्याह---इह चेति । प्रकृतप्रबन्धो वेणीसंहारनाटकं तदभिधेयस्य तत्प्रतिपाद्यस्य कुरूणां मरणरूपस्य द्वितीयार्थस्य सूच्यतयैव व्यङ्ग्यतयेत्यर्थः, न तु हंसोपमानत्वेनेति एवकारार्थः । तदेव विवृणोति---उपमेय इति । निच श्लेष इति । उभयार्थस्य वाच्यत्वाभावादिति भावः । सर्वमवदातमिति । येन ध्वस्तमित्यादावलङ्कारन्तरासङ्कीर्ण एव श्लेषः । सकलकलमित्यादौ च श्लेषघटित उपमालङ्कार एवेत्यादिकं विशदितमित्यर्थः । लोचना (लो, ओ) प्रकृतप्रबन्धो वेणीसंहारख्यं नाटकम् । सूच्यतयैव विवक्षितत्वात्यदुक्तमत्रैव नाटकलक्षणावसरे "सूचयेद्वस्तुबीजं वा मुख्यपात्रमथापिवा"इति उपमेयोपमानभावो हंसादीनां दुर्योधनादिभैः सहेत्यर्थः । नच श्लेषः , शरद्वर्णनाया एव प्रकृतत्वात् । ********** टीका सम्पूर्णा ********** पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते । लोचना (लो, औ) सम्प्रति रसानुपकारकमपि कविभिस्तेषु तेषु शक्तिप्रदर्शनार्थमुपनिबद्धत्वात्प्राच्यैरलङ्कारमध्ये लक्षितं चित्रं निरूपयति---पद्मेति । अस्य चालङ्कारतायां तथाविधनैपुण्यादिसंस्कारवशेन विस्मयावेशो यथाकथञ्चिद्बीजम् । ********** टीका सम्पूर्णा ********** आदिशब्दात्खङ्ग-मुरज-चक्र-गोमूत्रिकादयः । अस्य च तथाविधिलिपिसन्निवेशविशेषवशेन चमत्कारविधायिनामपि वर्णानां तथाविधश्रोत्राकाशसमवायवि शेषवशेन चमत्कारविधायिभिर्वर्णेरभेदेनोपचाराच्छब्दालङ्कारत्वम् । ************* टीका ************* विज्ञप्रिया (वि, झ) चित्रालङ्कारमाह---पद्मेति । अत्र वर्णस्मारकलिपीनां सन्निवेशस्यैव पद्माद्याकारकत्वाल्लिपीनां चाशब्दत्वात्शब्दालङ्कारत्वमस्यानुपपन्नमित्याशङ्क्य्समाधत्ते---तथाविधश्रोत्रेति । तथाविधलिपिस्मार्य्यवर्णस्य यः श्रोत्ररूप आकाशे समवायविशेषः तद्वशेन चमत्काराधायिभिर्वर्णैः सह लिपेः अभेदोपचारादित्यर्थः । तादृशसमवायस्य वर्णानुभवजनकत्वं तज्जनितसंस्कारेण लिपितो वर्णस्मरणं ततश्चमत्कार इत्येतत्परम्परया श्रोत्राकाशसमवायस्य चमत्कारजनकत्वं बोध्यम् । तत्तद्वर्णनिरूपितसमवायलाभार्थं विशेषपर्य्यन्तानुधावनम् । लोचना (लो, अ) तथाविधश्चक्षुरिन्द्रियैरनुभूयमानो यो लिपिनिवेशः । सन्निवेशविशेषोर्ऽथाद्भूम्यादिस्थले सम्यगभिमतनिर्वाहोपयिकतया निवेशविशेषः, तद्वशेन तन्निमित्तीकृत्येत्यर्थः । तथाविधश्रोत्रेन्द्रियेणानुभूयमानैर्वर्णौरर्थादनुप्रसादिशब्दालङ्कारप्रयोजकैः । अत्र हिशब्दान्वयव्यतिरेकानुविधायित्वमात्रेण शब्दलङ्कारत्वाङ्गीकारेऽनुप्रसान्तः- पातित्वमेव स्यादिति भावः । ********** टीका सम्पूर्णा ********** तत्र पद्मबन्धो यथा मम-- "मारमा सुषमा चारु-रुचा मारवधूत्तमा । मात्तधूर्ततमावासा सा वामा मेऽस्तु मा रमा" ॥ ************* टीका ************* विज्ञप्रिया (वि, ञ) मारमेति । "मारमा सुषमा चारु--रुचा सारधूत्तमा । मात्तधूर्त्ततमा वासा सा वामा मेऽस्तु मारमा" ॥ इति श्लोकः । अस्यार्थः---सा वामा मा आर नागता । कीदृशी चारुरुचा विशिष्टा अतएव मासुषमा, लक्ष्मीतुल्यपरमाशोभा । तथा मारस्य कामस्य वधू रतिरिवोत्तमा । तत्किं धूर्त्ततया नागता इत्यत्राह---मात्तधूर्त्ततमा इति । धूर्त्ततमा पुनर्मेत्यर्थः । तत्कथं नागतेत्यत्राह--अवासा---वासो वसतिः तद्रहिता । इत्थं श्रुत्वा नायक आत्मनमाशस्ते--सा वामेति । पूर्वत्रान्वितस्यापि आवृत्त्या पश्चादप्यन्वयेन सा वामा मे मारमा कामलक्ष्मीरस्तु । आवृत्तिवशेन सा वामा इत्यस्य पश्चादप्यन्वयेन तस्य वा परकीयपदत्वादपि तत्परत्वाद्मे इत्यादेशः । ********** टीका सम्पूर्णा ********** एषोऽष्टदलपद्मबन्धो दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टवर्णः, किन्तु विदिग्दलेष्वन्यथा, कर्णिकाक्षरं तु श्लिष्टमेव । एवं खड्गबन्धादिकमप्यूह्यम् । ************* टीका ************* विज्ञप्रिया (वि, ट) अस्य बन्धप्रकारं दर्शयितुमाह---एषोऽष्टदलपद्मबन्ध इति । अष्टदलता च दिग्विदिग्दलैर्लेख्या । तत्र प्रवेशनिर्गमाभ्यामिति । कर्णिकायामाद्यवर्णं लिखित्वा दले द्वौ द्वौ वर्णौ लेख्यौ । तत्र निर्गमप्रवेशाभ्यामित्येव बोध्यम् । लोचना (लो, आ) मारमेति---माया लक्ष्म्या रमणात्मारमो विष्णुस्तस्य असुसमा प्रणसमा । भारवधू रतिः । ततोऽपि उत्तमा श्रेष्ठा । आत्तो गृहीतो धूर्त्ततमस्यावासो यथा एवंभूता न भवतीत्यर्थः । तथाभूता सा प्रसिद्धा रमा लक्ष्मीर्मे वामा, वकामास्त्विति सम्बन्धः । एषोऽष्टदलैति । कर्णिकायाम् "मा" शब्दं विन्यस्य "रमा" इत्यस्याक्षरद्वयं तत्र दिग्दले लिशित्वा, "सुऽ "षऽ इति अक्षरद्वयं विदिग्दलेन प्रवेश्य "चारु" इत्यक्षराभ्यामितरदिग्रदलेन निर्गमप्रवेशौ । तदनन्तरं विदिग्दले "रवऽ इति अक्षरद्वंय दत्त्वा तदनन्तरदिग्दले "धूर्त्त" इत्यक्षरद्वयेन प्रविश्य पुनः कर्णिकाक्षरात्प्रभृति तेनैव निर्गम्य "तमा" इत्यक्षरद्वयेन, पुनः तदनन्तरविदिग्दले प्रविश्य, तदनुदिग्दले, "वा सा " इत्यक्षरद्वयेन निर्गमप्रवेशौ । तदितरदिग्दले "मेऽस्तु" इत्यक्षरद्वयेन निर्गत्य पुनः प्राक्निर्गम्य दिग्दले "मार" इत्यक्षरद्वयेन प्रविश्य कर्णिकातां गते "मा" इत्यत्र विश्रान्तिः । श्लिष्टवर्णः अभिन्नवर्णः । कर्णिकाक्षरं "मा" इति । खङ्गबन्धो यथा--- "सानन्दं देवदैत्यद्विजभुजगमुखैः प्रणिभिः सेव्यमाना नाशं तापं नयन्ती शरदि शशिकलां श्यामयन्ती स्वभासा । सा सख्यः साधरारे सकलजगदधीशेन संयुक्तहारा सा ध्वस्ताशेषपाता सलिलनिधिसुता सन्तं पातु युष्मान्" ॥ ********** टीका सम्पूर्णा ********** काव्यान्तर्गडुभूततया तु नेह प्रपञ्च्यते । लोचना (लो, इ) अन्तर्गडुभूततया काव्यमध्यप्रविष्टगडुवदसारतया । ********** टीका सम्पूर्णा ********** रसस्य परिपन्थित्वान्नालङ्कारः प्रहेलिका ॥ १०.१३ ॥ उक्तिवैचित्र्यमात्रं सा च्युतदत्ताक्षरादिका । ************* टीका ************* विज्ञप्रिया (वि, ठ) प्रहेलिकां वक्तुमाह---रसस्येति । नालङ्कारो न रसप्रकर्षकोऽलङ्कार इति, किन्तु उक्त्यङ्कार एवेत्याह---उक्तिवैचित्र्यमात्रमिति । तथा च वैचित्र्यमलङ्कार इति अलङ्कारसामान्यलक्षणाक्रान्तत्वादुक्त्यलङ्कार एव स इत्यर्थः । सा च्युतदत्तेत्यादित्रिप्रकारा क्रिया गुप्त्यादिका च भवतीत्याह---व्युतदत्तेति । च्युताक्षरायुक्तैकाक्षरा । दत्ताक्षरा उक्ताधिकैकाक्षरा । च्युतदत्ताक्षरा एकाक्षरं च्यावयित्वा तत्स्थले दत्तापराक्षरा । ********** टीका सम्पूर्णा ********** च्यताक्षरा दत्ताक्षरा च्युतदत्ताक्षरा च । उदाहरणम्-- "कूजन्ति कोकिलाः साले यौवने फुल्लमम्बुजम् । किं करोतु कुरङ्गक्षी वदनेन निपीडिता" ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) एतत्त्रयस्य एकमुदाहरणमाह---कूजन्तीति । अत्र यथाश्रुतेर्ऽथसम्भवेपि अनुपयुक्तकथनरूपत्वेन च्युतदत्ताक्षरत्वे एव तात्पर्य्यात् । प्रहेलिकात्वं तत्र यथाश्रुतेऽपर्थो यथा---कोकिलाः शालवृक्षे कूजन्ति । नारीणां यौवनेऽम्बुजं फुल्लम् । निपीडिता कुरङ्गाक्षी वदनेन किं करोतु इति । अनुपयुक्तकथनमेतत् । च्युतदत्ताक्षरत्वे तुभवत्येव उपयुक्तकथनम्---यथा--"कूजन्ति रसाले कोकिलाः । वने जले चाम्बुजं फुल्लम् । एभिरुद्दीपकैर्मदनेन निपीडिता सती कुरङ्गाक्षी किं करोत्विति । ********** टीका सम्पूर्णा ********** अत्र "रसाले" इति वक्तव्ये "साले" इति "र" च्युतः । "वने" इत्यत्र "यौवने" इति "यौ" दत्तः । "वदनेन" इत्यत्र "मदनेन" इति "म" च्युतः "व" दत्तः । आदिशब्दात्क्रियाकारकगुप्त्यादयः । तत्र क्रियागुप्तिर्यथा-- "पाण्डवानां सभामध्ये दुर्योधन उपागतः । तस्मै गां च सुवर्णं च सर्वाण्याभरणानि च" ॥ अत्र "दुर्योधनः" इत्यत्र "अदुर्योऽधनः" इति । "अदुः" इति क्रियागुप्तिः । एवमन्यत्रापि । ************* टीका ************* विज्ञप्रिया (वि, ढ) अत्र च्युतदत्ताक्षराणि दर्शयति---अत्रेति । पाण्डवानामित्यादि स्पष्टम् । कारकगुप्त्यादौ यथा मम--- "षड्जसम्वादमापन्नैः स्वरैः श्रुतिमनोहरैः । गिरिशृङ्गस्थितं सर्वं मयूरं जयति ध्रुवम्" ॥ इति अत्र मयूरं जयति इत्यत्र लुप्तः कर्त्ता । सिद्धान्ते तु मयुस्तुरङ्गवदनो गिरिशङ्गस्थितं सर्वं जनं रञ्जयतीत्यर्थः । कर्मगुप्तिर्यथा--- "कर्माभिर्बहुभिः आन्तः पुरुषो वारयत्वाययम् । अपयातपरिश्रान्तेरस्य दास्यामि वेतनम् ॥ "अत्र पुरुषोऽयं वारयतीति । अस्य कर्म गुप्तम् । सिद्धान्ते तु वाः जलं पुरुषोऽयमयति याति । अक्षरलोपगुप्तिः विरुद्धप्रदर्शनं च यथा--- "मुकुन्देनामुना नूनं शुभ्रेण वरवर्णिनि । हसितेनासितेनापि राजमाना व्रजाङ्गने ॥ " अत्र मुकुन्देन श्भ्रेण हसितेनासितेन इति विरुद्धधर्मवत्त्वम् । अत्रैव कस्यचिदक्षरस्य लोपो गुप्तः । सिद्धान्ते तु मुकुन्दपदस्य मुकारराहित्यात्कुन्देन इत्यर्थः । तथा च तेन कुन्दवैशिष्ट्येन यधसितं तेन राजमानासीत्यर्थः । ********** टीका सम्पूर्णा ********** अथावसरप्राप्तेष्वर्थालङ्कारेषु सादृश्यमूलेषु लक्षितव्येषु तेषामप्युपजीव्यत्वेन प्राधान्यात्प्रथममुपमामाह-- ************* टीका ************* विज्ञप्रिया (वि, ण) अर्थालङ्कारान् वक्तुमाह---अथेति । प्राधान्यात्सादृश्यमूलेष्विति । उपमारूपकोत्प्रेक्षादयो बहवोऽलङ्काराः सादृश्यमूला अन्यालङ्कारान्तरापेक्षया चमत्काराधिक्यात्प्रथमं ते लक्षितुमुचिताः । तत्रापि तत्सर्वोपजीव्यत्वेन प्रथममुपमामाहेत्यर्थः । तस्यास्तदुपजीव्यत्वं च सर्वत्रैव सादृश्यवशात्प्रथममुपमास्फुरणात् । लोचना (लो, ई) अथेति । अथ शब्दालङ्कारनिरूपणानन्तरमर्थालङ्कारेष्वर्थालङ्कारविशेषलक्षणेषु । प्राधान्यादित्यनन्तरं प्रथममिति शेषः । उपजीव्यत्वं तेषामेतन्मूलत्वेन प्रवृत्तेः । यदुक्तम्--उपमैव प्रकारवैचित्र्येण सर्वालङ्काराणां बीजभूतेति । ********** टीका सम्पूर्णा ********** साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः ॥ १०.१४ ॥ ************* टीका ************* विज्ञप्रिया (वि, त) साम्यमिति । अवैधर्म्यमनुक्तवैधर्म्यम् । द्वयोरुपमेयोपमानयोः साम्यं वाक्यैक्ये वाच्यं सदुपमा इत्यर्थः । ********** टीका सम्पूर्णा ********** रुपकादिषु साम्यस्य व्यङ्ग्यत्वम्, व्यतिरेके च वैधर्म्यस्याप्युक्तिः, उपमेयोपमायां वाक्यद्वयम्, अनन्वये त्वेकस्यैव साम्योक्तिरित्यस्या भेदः । ************* टीका ************* विज्ञप्रिया (वि, थ) तत्र वाच्यपदव्यावृत्तिमाह---रूपकादिष्विति । एवं च उपमाध्वनावुपमापदं गौणमिति बोध्यम् । अवैधर्म्यपदव्यावृत्तिमाह---व्यतिरेके चेति । वाक्यैक्यपदवृत्तिमाह---उपमेति । द्वयोरित्यस्य व्यावृत्तिमाह---अनन्वये चेति । अनन्वयनामालङ्कार इत्यर्थः । अत्रोपमेयस्यैव उपमानत्वेन द्विर्भावात् । अत्र च साम्यमित्यस्य समानो धर्म इति नार्ऽथः । वक्ष्यमाणधर्मलुप्तोपमायां धर्मस्यावाच्यत्वेनाव्याप्त्यापत्तेः । मुखमाह्लादकश्चन्द्र इति रूपकधर्मस्य वाच्यत्वेन तत्रातिव्याप्त्यापत्तेः । किन्तूपमेयोपमानयोः सामान्यसादृश्यरूपस्य धर्मस्य तयोरनुयोगितप्रतियोगिताख्यः सम्बन्ध एव अत्र साम्यपदार्थः । यन्द्र इव मुखमित्यत्र चन्द्रप्रतियोगिसादृश्यवन्मुखमिति बोधे सादृश्यस्य प्रतियोगितायाश्चन्द्रेऽनुपयोगितायाश्च मुखे प्रतीतेः सादृश्यसम्बन्ध एवोपमेत्यर्थः । एतएव साधर्म्यमुपमाभेदे इतिकाव्यप्रकाशोक्तलक्षणे समानेन धर्मेण सम्बन्ध उपमा इत्येव तत्र व्याख्यातम् । परन्त्विवादयः षष्ठीवत्सम्बन्धं प्रतिपादयन्ति, इति तत्र लिखनात्सादृश्यप्रतियोगिताख्यः सम्बन्ध एव तन्मते उपमानानुयोगिताख्यः । ग्रन्थकृन्मते तु उपमानोपमेयगतं सन्बन्धं बोधयन्तीत्यग्रे लिखनात्प्रतियोगितानुयोगिताख्यसम्बन्धद्वयमेवोपमा । काव्यप्रकाशे च तादृशप्रतियोगिताया इवाद्यव्ययपदवाच्यत्वेन उपमायाश्च श्रौतीत्वं तुल्याद्यनव्ययपदवाच्यत्वेन तस्या आर्थोत्वम् । अव्ययानामन्विताभिधायित्वमतेन चन्द्रान्वितप्रतियोगिताया इवादिवाच्यत्वात्तुल्याद्यनव्ययपदानां त्वावाच्यत्वात् । प्रकृतग्रन्थकृत्तुः इवादयः श्रुतमात्रा एव शीघ्रमुपमां प्रतिपादयन्तीति तत्सद्भावे श्रोती उपमा । तुल्यादयोऽनव्ययशब्दास्तु प्रणिधानेन विलम्बादेव उपमां प्रतिपादयन्तीति तत्सद्भावे आर्थोति वक्ष्यति । अतएव तन्मतेऽन्विताभिधानं नास्ति । ननु तत्कथं तादृशसम्बन्धरूपस्य साम्यस्य वाच्यत्वम् ? यदि चान्विताभिधानवादावलम्बेन वाच्यत्वस्वीकारस्तथापि इवादेरुपमानस्य वानुपादाने या लुप्तोपमा तत्र तादृशसम्बन्धस्यावाच्यत्वात्तत्राव्याप्तिः । अतएव काव्यप्रकाशे तादृशसम्बन्धरूपाया उपमाया वाच्यत्वघटितं लक्षणं न कृतम् । उच्यते । अत्रापि वाच्यत्वघटितं लक्षणं कृतम् । किन्तु वाच्यमित्यस्याव्यङ्ग्यमित्येवार्थः । अतएव रूपकादौ साधर्म्यस्य व्यङ्ग्यत्वादेव तत्र वाच्यपदेन तद्व्यावृत्तिर्दर्शिता । इवादेरुपमानस्यानुपादाने त्वध्याहृतादिवादेरुपमानवाचकपदाच्च तल्लाभो, न व्यञ्जनयेति तत्त्वम् । इवाद्युपादाने तु अन्विताभिधानाभ्युपगमे वाच्यत्वमेव तादृशसम्बन्धस्य । तदनभ्युपगमे तु इवाद्युपादाने तुल्याद्युपादाने वा संसर्गमर्य्यादयैव तल्लाभ इति । सर्वत्राव्यङ्ग्यत्वमेव । लोचना (लो, उ) रूपकमित्यादिशब्दाद्दीपकतुल्ययोगितादयः । वैधर्म्यस्य अकलङ्कंखं तस्याश्चन्द्रवदित्यादावकलङ्कत्वादेः । एकाकारकपदावृत्तिरनन्वये चेति । ********** टीका सम्पूर्णा ********** सा पूर्णा यदि सामान्यधर्म औपम्यवाचि च । उपमेयं चोपमानं भवेद्वाच्यम्-- सा उपमा । साधारणधर्मो द्वयोः सादृश्यहेतू गुणक्रिये मनोज्ञत्वादि । औपम्यवाचकमिवादि । उपमेयं मुखादि । उपमानं चन्द्रादि । ************* टीका ************* विज्ञप्रिया (वि, द) सा च पूर्णा लुप्ता चेति द्विधा । तत्र पूर्णामाह---सा पूर्णेति । भवेद्वाच्यमिति । कारिकाञ्चलस्य "इयं पुनः" अग्रे शेषभागः । व्याचष्टे---साउपमेति । सामान्यधर्मपदार्थमाह---साधारणधर्म इति । स एव क इत्यत्राह---द्वयोरिति । श्लिष्टशब्दोऽपि गुण इत्यभिप्रायः । तेन सकलकलं पुरमित्यादेः परिग्रहः । लोचना (लो, ऊ) तद्भेदानाह---सेति । सामान्यधर्म इत्यस्य विवृत्तिः साधारणधर्म इति द्वयोरुपमानोपमेययोः । ********** टीका सम्पूर्णा ********** इयं पुनः ॥ १०.१५ ॥ श्रौती यथेववाशब्दा इवार्थो वा वतिर्यदि । लोचना (लो, ऋ) इयं पूर्णा । श्रौतीशब्दः श्रुत्या ज्ञायत इति व्युत्पत्त्या । तेन साक्षान्निवेदिता श्रौती । ********** टीका सम्पूर्णा ********** आर्थो तुल्यसमानाद्यास्तुल्यार्थो तत्र वा वतिः ॥ १०.१६ ॥ यथेववादयः शब्दा उपमानानन्तरप्रयुक्ततुल्यादिपदसाधारणा अपि श्रुतिमात्रेणोपमानोपमेयगतसादृश्यलक्षणसम्बन्धं बोधयन्तीति तत्सद्भावे श्रौत्युपमा । एवं "तत्र तस्येव" इत्यनेनेवार्थो विहितस्य वतेरुपादाने । ************* टीका ************* विज्ञप्रिया (वि, ध) अस्याः श्रौत्यार्थोत्वद्वैविध्यमाह----इयं पुनरिति । इयं पूर्णोपमा सर्वप्रकारैव श्रौत्री आर्थो चेत्यर्थः । वक्ष्यमाणा लुप्ता तु किञ्चित्प्रकारैव । यथाववाशब्दा इत्यत्रादिपदशब्दोऽपि बोध्यः । तेन "शात्रवं च पपुर्यशः" इत्यादावपि तथात्वम् । श्रुतिमात्रेण श्रवणमात्रेण शीघ्रमित्यर्थः । उपमानोपमेयगतं सम्बन्धं प्रतियोगितानुपयोगितारूपमित्यर्थः । सादृश्यलक्षणमिति । सादृश्याल्लक्षणं ज्ञानं यस्य तादृशमित्यर्थः । प्रतियोगितानुयोगिताख्यस्य सम्बन्धस्य सादृश्यनिरूप्यत्वेन तज्ज्ञानज्ञेयत्वात् । नतु सादृश्यरूप एव सम्बन्ध उपमा, तस्य तुल्यादिपदानामपि वाच्यत्वात्शीघ्रप्रतीयमानत्वेन इवादितोऽविशेषेण श्रौत्यार्थोविभागानुपपत्तेः । षष्ठ्यन्तसप्तम्यन्ततो विहितस्य वतेरपीवार्थे पाणिनिना विहितत्वात्, तस्यापि इवतुल्यव्युत्पत्तिकत्वेन तदुपादानेऽपि श्रौतीत्याह---एवं तत्रेति । तत्र तस्येवेति वतिविधायकं पाणिनिसूत्रम् . तत्रैव तस्येव इत्यर्थकं षष्ठ्यन्तात्सप्तम्यन्ताद्वा इवार्थे वतिरित्यर्थः । लोचना (लो, ॠ) उपमानानन्तरप्रयुक्ततुल्यादिपदसाधारणा अपीति । ननु मुखं चन्द्रतुल्यमित्याद्याकारेण उपमानानन्तरे यानि प्रयुक्तानि तुल्यसदृशानि पदानि तत्साधारणास्तत्प्रायाः यद्यपीत्यर्थः । श्रुतिमात्रेणेत्यादि । अयमाशयः---मुखं कमलमिव इत्यादेः शब्दस्य प्रयोगादेव मुखमुपमेयं कमलं चोपमानमिति प्रतीतिः । न त्वेवं तुल्यादिपदोपादान इति समनन्तरमेव वक्ष्यति--एवमिति । अनेन व्याकारणेन । यत इवशब्दस्योपादाने श्रौती, अतस्तदर्थविहितस्य वतेरुपादानेऽपि सैव युक्तेति भावः । ********** टीका सम्पूर्णा ********** तुल्यादयस्तु-"कमलेन तुल्यं मुखम्" इत्यादावुपमेय एव । "कमलं मुखस्य तुल्यम्" इत्यादावुपमान एव । "कमलं मुखं च तुल्यम्" इत्यादावभयत्रापि विश्राम्यन्तीत्यर्थानुसन्धानादेव साम्यं प्रतिपादयन्तीति तत्सद्भावे आर्थो । एवं "तेन तुल्यम्--"इत्यादिना तुल्यार्थे विहितस्य वतेरुपादाने ************* टीका ************* विज्ञप्रिया (वि, न) तुल्याद्यनव्ययोपादाने तु आर्थोत्वं वक्तुमाह---तुल्यादयस्त्विति । तुल्यादयः शब्द विश्राम्यन्तीत्यग्रेऽन्वयः । विश्राम्यन्ति विशेष्यतां प्रतिपादयन्ति । यत्र हि विशेष्यताप्रतीतिस्तदुपमेयं तदितरदुपमानम्, तुल्यादिपदोपादाने तु तत्प्रतिपादनस्यानियतत्वादुपमेयोपमानयोः प्रतिसन्धानगम्यत्वादुपमेयोपमाननिष्ठप्रतियोग्यनुयोगिरूपाया उपमाया अपि प्रतिसन्धानगम्यत्वात्तत्सद्भावे आर्थोत्यर्थः । तत्र तुल्यादिपदोपादाने विशेषताप्रतीतेरनियतत्वं दर्शयति---कमलेनेति । कमलं मुखस्येति---नचात्र मुखमुपमानं कमलमुपमेयमेवैति कथमुपमाने विश्रान्तिरिति वाच्यम्, कमलस्योपमानत्वे तात्पर्य्यादप्येवं प्रयोगे तथात्वात् । तुल्यार्थेऽपि वतिविधायकं "तेन तुल्यम्" इति पाणिनेरपरं सूत्रम् । तादृशवत्युपादनेऽपि भवति आर्थोत्याह---एवं तेनेति । लोचना (लो, ळ) उपमेये इत्यादिभिः सप्तम्यन्तैः विश्राम्यन्तीति क्रियायाः सम्बन्धः । उपमेय एव विश्राम्यन्ति तद्विशेषणत्वेनोपादानात् । एवमुत्तरत्रापि । साम्यं मुखस्य उपमेयत्वम् । कमलस्य उपमानत्वम् । एवमिति---इवार्थविहितवतिविषयोर्तन्यायेन इत्यर्थः । ********** टीका सम्पूर्णा ********** द्वे तद्धिते समासेऽथ वाक्ये-- द्वेश्रौती आर्थो च । उदाहरणम्-- "सौरभम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ । हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले !" ॥ अत्र क्रमेण त्रिविधा श्रौती । ************* टीका ************* विज्ञप्रिया (वि, प) तत्र पूर्णायाः षड्विधत्वं दर्शयति--द्वे इति । वाक्ये इत्यन्तं कारिका पूर्णा । षडेव तदिति तच्छेषः । तत्र तद्धितादिषु त्रिषु श्रौतीमाह---सौरभमिति । मुखस्य सौरभमित्यन्वयः । अत्राम्भोरुहस्येव इति षष्ठ्यन्ताद्वतिः । कुम्भाविवेत्यत्र इवशब्दयोगे नित्यसमासात्समासगा । शरदिन्दुर्यथा वदनमित्यत्र वाक्यगा । इवादेस्तदर्थकवतेश्च सत्त्वात्श्रौतीति । त्रिविधेति--तद्धितसमासवाक्यगामित्वरूपत्रैविध्यवतीत्यर्थः । लोचना (लो, ए) सौरभमिवेत्यादौ सौरभं साधारणधर्मः । कुम्भाविवेत्यत्र "इवेन नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च" इति नित्यसमासः । एतत्प्रोक्तस्य पूर्वपदप्रकृतिस्वरत्वस्य वेद एव उपयोगः । ********** टीका सम्पूर्णा ********** "मधुरः सुधावदधरः पल्लवतुल्योऽतिलेपवः पाणिः । चकितमृगलोचनाभ्यां सदृशी चपले च लोचने तस्याः" ॥ ************* टीका ************* विज्ञप्रिया (वि, फ) एतत्त्रिविधामार्थोमाह---मधुर इति । अत्र सुधया तुल्य इत्यर्थे तृल्यार्थे वतिः । पल्लवतुल्य इत्यत्र समासः । चकितमृगलोचनाभ्यामित्यत्र वाक्यम् । ********** टीका सम्पूर्णा ********** अत्र क्रमेण त्रिविधा आर्थो । ---पूर्णा षदेव तत् । स्पष्टम् । लुप्ता सामान्यधर्मादेरेकस्य यदि वा द्वयोः ॥ १०.१७ ॥ त्रयाणां वानुपादाने श्रौत्यार्थो सापि पूर्ववत् । ************* टीका ************* विज्ञप्रिया (वि, ब) लुप्तामाह---लुप्तेति । सामान्यधर्मः साधारणधर्मः । आदिपदादुपमाप्रतिपादकेवतुल्यादिशब्दा उपमानमुपमेयं च । तेषामेकस्य द्वयोस्त्रयाणां वेत्यर्थः । सापि यथासम्भवं श्रौती आर्थो च भवतीत्यर्थः । पूर्ववदिति--तद्धितादित्रयगामिनीत्यर्थः । लोचना (लो, ऐ) सामान्यधर्मादेरित्यादिशब्देन उपमानोपमेयोपमाप्रतिपादकानां सड्ग्रहः । ********** टीका सम्पूर्णा ********** सा लुप्ता । तद्भेदमाह-- पूर्णावद्धर्मलोपे सा विना श्रौतीं तु तद्धिते ॥ १०.१८ ॥ सा लुप्तोपमा धर्मस्य साधारणगुणक्रियारूपस्य लोपे पूर्णावदिति पूर्वोक्तरीत्या षट्प्रकारा, किं त्वत्र तद्धिते श्रौत्या असम्भवात्पञ्चप्रकारा । ************* टीका ************* विज्ञप्रिया (वि, भ) पूर्णावदिति---लोपेऽनुपादाने । पूर्णावदिति व्याचष्टे---पूर्वोक्तेति । तद्धितादित्रयगामित्वं पूर्वोक्तरीतिः । षडिति---षट्प्रसक्ता इत्यर्थः । वस्तुतस्तु पञ्चेत्याह---किन्त्विति । श्रौत्या असम्भवादिति । दर्मलोपे धर्मनिष्टसम्बन्धबोधिका षष्ठी नास्ति । ततस्तदन्तादिवार्थके वतिरपि नास्ति इत्यतोऽसम्भवः । लोचना (लो, ओ) लुप्तोपमायां तद्धिते श्रौत्या असम्भवः । मुखस्य चन्द्रवत्शोभेत्यत्रशोभारूपसाधारणधर्मानुपादानेनार्थस्य साकाड्क्षत्वेनासङ्गतेः । ********** टीका सम्पूर्णा ********** उदाहरणम्-- "मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये ! । वाचः सुधा इवोष्ठस्ते बिम्बतुल्यो मनोऽश्मवत्" ॥ ************* टीका ************* विज्ञप्रिया (वि, म) मुखमिन्दुरिति । तत्राह्लादकत्वं धर्मो लुप्तः । यथाशब्देन सह समासाभावाद्वाक्यगा आर्थो । वाचः सुधा इवेत्यत्र मधुरत्वं धर्मो लुप्तः । इवशब्देन सह नित्यसमासात्श्रौती । ओष्ठस्ते इत्यत्र शोणत्वं ध्रमो लुप्तः । तुल्यशब्देन समासात्समासगा आर्थो । मनोऽश्मवत् । इत्यत्राश्मना तुल्यमित्यर्थे तुल्यार्थे लद्धिते वतिरित्यार्थो । लोचना (लो, औ) मुखमिन्दुर्यथेत्यादौ पूर्वोक्तकमव्यत्ययः पद्यनिर्वाहार्थः । ********** टीका सम्पूर्णा ********** आधरकर्मविहिते द्विविधे च क्यचि क्यङि । कर्मकर्त्रोर्णमुलि च स्यादेवं पञ्चधा पुनः ॥ १०.१९ ॥ ************* टीका ************* विज्ञप्रिया (वि, य) धर्मलुप्तमित्थं वञ्चविधामुक्त्वा तामेवान्यपञ्चविधामाह---आधारकर्मविहित इति । द्विवेधे इत्यस्य क्यचि इत्यत्रैवान्वयो न तु क्यङईत्यत्रापि । कर्मकर्त्रोरिति--कर्मर्त्रोरुपपदयोरित्यर्थः । लोचना (लो, अ) क्यङीति । अर्थात्कर्त्तृविहिते । ********** टीका सम्पूर्णा ********** "धर्मलोपे लुप्ता" इत्यनुषज्यते । क्यच्क्यङ्-णमुलः कलापमते इन्-आयि णमः । क्रमेणोदाहरणम्-- अन्तः पुरीयसि रणेषु, सुतीयसि त्वं पौरं जनं तव सदा रमणीयते श्रीः । दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्र- सञ्चारमत्र भुवि सञ्चरसि क्षितीश !" ॥ ************* टीका ************* विज्ञप्रिया (वि, र) अन्तः पुरीयसीति । रणेषु निर्भयत्वेन अन्तः पुरेष्विवाचरसीत्यर्थः । अत्र निर्भयसञ्चारस्थानत्वं धर्मो लुप्तः । पौरमिति । पौरं जनं सुतमिवाचरसीत्यर्थः । अत्र स्त्रेहविषयत्वं धर्मो लुप्तः अनयोराधारकर्मणोः क्यच् । सदा रमणीयते इत्यत्र रमणीवाचरतीत्यर्थे क्यङ् । अत्र अदीनत्वं धर्मो लुप्तः । दृष्ट इति । अमृतद्युतिकर्मकदर्शनेन त्वं प्रियाभिर्दृष्टः । अत्र मनोहरत्वं धर्मो लुप्तः । तथा चात्र भुवि इन्द्रकर्त्तृकसञ्चारेणैव सञ्चरसीत्यर्थः । अत्राऽधिपत्यं धर्मो लुप्तः । उभयत्रकर्मकर्त्त्रेरुपपदयोर्णमुल् । लोचना (लो, आ)अमृतद्युतिदर्शं दृष्टः--अमृतद्युतिरिव दृष्ट । इन्द्रसञ्चारं सञ्चरसि । इन्द्रवत्सञ्चरसीत्यर्थः । ********** टीका सम्पूर्णा ********** अत्र "अन्तः पुरीयसि" इत्यत्र सुखविहारास्पदत्वस्य, "सुतीयसि" इत्यत्र स्नेहनिर्भरत्वस्य च साधारणधर्मस्य लोपः । एवमन्यत्र । इह च यथादिलुल्यादिविरहाच्छ्रौत्यादिविशेषचिन्ता नास्ति । लोचना (लो, इ) अन्यत्रेति । यथा रमणीयते इत्यत्र अधीनत्वस्य । अमृतद्युतिदर्शमित्यत्र मनोहरत्वस्य । इन्द्रसाञ्चारमित्यत्र परिच्छदाद्यतिशयस्य । नास्तीत्यनन्तरं प्राचीनानुसारादिति शेषः । ********** टीका सम्पूर्णा ********** इदं च केचिदौपम्यप्रतिपादकस्येवादेर्लोप उदाहरन्ति, ************* टीका ************* विज्ञप्रिया (वि, ल) अत्र क्यङदित्रये तदर्थाचारस्य णमुल्द्वये च धात्वर्थदर्शनसञ्जारयोश्च साधारणधर्माणां सत्त्वाद्धर्मलुप्तोदाहरणानि एतानि न सम्भवन्तीत्यतः काव्यप्रकाशकृता उपमाप्रतिपादके वादिलोपोदाहरणतयैव क्यङदिलोपे उदाहृतम् । ग्रन्थकृता तु आचारादीनां साधारणधर्मत्वमनवधायैवोदाहृत्य औपम्यप्रतिपादकलोपोदाहरणतया यत्काव्यप्रकाशकृतैतत्पञ्चकमुदाहृतं तद्दूषयितुमुत्कीर्थयति---इदं च केचिदिति । ********** टीका सम्पूर्णा ********** तदयुक्तम्--क्यङादेरपि तदर्थविहितत्वेनौपम्यप्रतिपादकत्वात् । ननु क्यङादिषु सम्यगौपम्यप्रतीतिर्नास्ति प्रत्ययत्वेनास्वतन्त्रत्वादिवादिप्रयोगाभावाच्चेति न वाच्यम्, ************* टीका ************* विज्ञप्रिया (वि, व) दूषयति---तदयुक्तमिति । तदर्थविहितत्वेनेति---तादृशाचारविहितत्वेनेत्यर्थः । सुतमिवाचरतीति प्रतीतिवशात्तथार्थे एव विधानादित्यर्थः । ननु तादृशार्थे विधानसत्त्वेऽपि इवादिवन्न तेभ्यः स्वत औपम्यप्रतीतिः॑ प्रत्ययानां प्रकृत्यर्थान्वयेनैव बोधकत्वात् । अतः क्यजादयः स्वत औपम्यप्रतिपादकत्वाभावान्न स्वत औपम्यप्रतिपादकाः । तथा च तत्सत्त्वेऽपि विवक्षितः स्वत औपम्यप्रतिपादकलोपो नास्तीत्याशङ्कते---नन्विति । ननु तैरौपम्यं स्वतः प्रत्याय्यते एव॑ किन्तु तादृशार्थस्य प्रकृत्यर्थान्वितत्वमात्रं नियतं, तेषां तादृशार्थकत्वे तु तद्विवरकेवशब्दप्रयोग एव नासिति । कथमसौ तदर्थविवरक इति भावः । तथा च क्यजादय इवादिवन्न स्वत औपम्यप्रतिपादकाः इत्यापातत एवेयं विचारसहाप्याशङ्का । तत्रं स्वतस्तु अविवक्षैव न सम्भवतीति समाधत्ते---नेति । लोचना (लो, ई) तदर्थो वत्यर्थः । अस्वतन्त्रत्वात्प्रकृतियोगं विना केवलानामर्थबोधनसामर्थ्याभावात् । ********** टीका सम्पूर्णा ********** कल्पबादावपि तथाप्रसङ्गात् । न च कल्पबादीनामिवादितुल्यतयौपम्यस्य वाचकत्वम्, क्यङादीनां तु द्योतकत्वम्॑ इवादीनामपि वाचकत्वे निश्चयाभावात् । ************* टीका ************* विज्ञप्रिया (वि, श) कल्पबादाविति । तेषामपि प्रत्ययत्वादित्यर्थः । इदमुपलक्षणम् । इवादेरपि स्वतः प्रयोगाभावात् । तत्सत्त्वेऽपि औपम्यप्रतिपादकलोपापत्तेरिति बोध्यम् । आपातत आशङ्कते---नच कल्पबादीनामिति---आचारमत्र वाचकत्वम्॑ इवाद्यर्थस्य तु व्यञ्जकत्वमेवेत्यर्थः । प्रतिबन्धमाह---इवादीनामपीति । विनिगमकाभावेऽपि स्वतन्त्रमुख्यतया यदि कस्यचित्प्रत्ययस्य वाचकत्वं कस्यचित्प्रत्ययस्य व्यञ्जकत्वमुच्यते तदा इवादयोऽपि न वाचकाः स्युरुक्तिमात्रेणैव प्रमाणखण्डने तत्रापि प्रमाणाभावादित्यर्थः । ********** टीका सम्पूर्णा ********** वाचकत्वे वा "समुदितं पदं वाचकम्" "प्रकृतिप्रत्ययौ स्वस्वार्थबोधकौ" इति च मतद्वयेऽपि वत्यादिक्यङाद्योः साम्यमेवेति । ************* टीका ************* विज्ञप्रिया (वि, ष) नन्वत्र नायं प्रतिबन्धकः । इवादीनामौपम्यवाचकत्वेऽनुशासनमेव प्रमाणमित्यतो यदि त्वयेवादेः स्वतोऽस्वतो वा वाचकत्वमिष्यते तदा ममापि क्यजादीनामपि मतभदेन स्वतोऽस्वतो वा वाचकत्वं समानमेवेत्याह---वाचकत्वे वेत्यादि । तव यथा वाचकत्वं ममापि तथा वाचकत्वमिति साम्यमित्यर्थः । मतभेदेन तद्द्विधेति दर्शयति---समुदितमिति । स्वप्रकृतिप्रत्ययसमुदितमित्यर्थः । मतान्तरमाह---प्रकृतीति । स्वस्वार्थबोधकौ--स्वतः स्वस्वार्थबोधकवित्यर्थः । वत्यादिक्यङाद्येरिति । कल्पबित्यादयो यथेवादितुल्यतया त्वन्मते साम्यवाचकाः॑ क्यजादयोऽपि तथेति द्वयोः साम्यमित्यर्थः । एवं क्यजादीनामिवाद्यर्थकत्वेन नेदमौपम्यप्रतिपादकलोपोदाहरणमित्युक्तम् । लोचना (लो, उ) धूषणान्तरमाह कल्पबादावपीति---अयमर्थः---यदि क्वचित्क्यङादीनां सद्भावेऽपि तेषां प्रत्ययत्वेनास्वतन्त्रतयार्थबोधनासामर्थ्यादौपम्यवाचकत्वाभावः तदा कल्पबादीनां सद्भावे अपि तथा स्यात् । नच तथा कल्पबादीनां सद्भावेऽपि औपम्यवाचकत्वम् । कल्पेऽप्यभावस्य सर्ववादिनिषिद्धत्वाद्निश्चयाभावात्॑ तथाहि--कैश्चिदिवादीनामपि वाचकत्वमङ्गीक्रियते । तन्मतानुसारेणास्माभिः कल्पबादीनामिवार्थविहितत्वेन वाचकत्वम् । क्यङादीनां तु द्योतकत्वमङ्गीक्रियते इत्यत आह--- वाचकत्वे वा इति । समुदितं प्रकृतिप्रत्ययाभ्यां मिलितं, तत्स्वरूपं पदम् । मतेत्यतः पूर्वं वैयाकरणेति शेषः । वत्यादिक्यङाद्योः साम्यमेवेति । अयमाशयः- यदि वत्यादीनां वाचकत्वाङ्गीकारः तदा क्यङादीनामपि वाचकत्वम् । यदा तेषामपि न चाचकत्वं तदेषामपीति । सर्वैरपि वतिकल्पबादिसद्भावे औपम्यवाचकसद्भावङ्गीकारात्प्रत्ययत्वेन तत्सदृशैः क्यङादिभिः किमपराद्धं यदेषां सद्भावे औपम्यवाचकलोपः स्यादिति । ********** टीका सम्पूर्णा ********** यच्च केचिदाहुः--"वत्यादय इवाद्यर्थेऽनुशिष्यन्ते, क्यङादयस्त्वाचाराद्यर्थे" इति, तदपि न ॑ न खलु क्यङादय आचारमात्रार्थाः अपि तु सादृश्याचारार्था इति । तदेवं धर्मलोपे दशप्रकारा लुप्ता । ************* टीका ************* विज्ञप्रिया (वि, स) काव्यप्रकाशकृता तु तेषामाचारमात्रेऽनुशासनादिवाद्यर्थेऽनुशासनाभावान्न तदर्थकत्वमित्युक्तम् । तद्दूषयितुमाह---यच्च केचिदिति । न खलु आचारमात्रार्था इति । उपमानादाचारे इत्यनुशासनस्यैव तुल्याचारोर्ऽथ इति भावः । तस्य च इवार्थकत्वेऽनुशासनाभावोक्तिदूषणायोक्तत्वेन पूर्वोक्तेन सह न पौनरुक्त्यमिति बोध्यम् । तदेवमिति । तद्धितादित्रयगाः श्रौत्यार्थोभेदा उक्ताः पञ्च॑ क्यजादावुक्ताः पञ्च, इत्येवं दशेत्यर्थः । लोचना (लो, ऊ) सादृश्याचारार्था इति । अयमर्थः-क्यङादीनामाचारमात्रार्थत्वे एव सादृश्यार्थत्वं न स्यात्न च तथा । सादृश्याचारोभयार्थत्वादिति । ********** टीका सम्पूर्णा ********** उपमानानुपादाने द्विधा वाक्यसमासयोः । ************* टीका ************* विज्ञप्रिया (वि, ह) उपमानामुपादाने इति । उपमानतावच्छेदकचन्द्रत्वादिना अनुपादाने इत्यर्थः । तेन सदृशतुल्यादिपदेन तदनुपादानेऽप्यनुपादानं बोध्यम् । ********** टीका सम्पूर्णा ********** उदाहरणम्-- "तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम् । ************* टीका ************* विज्ञप्रिया (वि, क) तस्या मुखेनेति वाक्ये । नास्ते न वा नयनतुल्यमिति समासे । अत्र रम्यत्वं साधारणधर्म उक्त इत्यत्र उपमानमात्रलोपः । नच कथमत्रोपमानलोपः मुखेन सदृशमित्युक्तौ मुखस्येव उपमानताप्रतीतेस्यस्य चोक्तत्वदेवेति वाच्यम् । मुखस्योपमानत्वे सदृशपदमत्रोपमेयपरं स्यात्॑ उपमेयस्य च उपमानापेक्षया नाधिकत्वम्, किन्तु न्यूनत्वं समानत्वं वा । तथा च तस्या मुखस्य न्यूनं समानं वा नास्तीत्युक्तेऽधिकत्वाकाङ्क्षानिवृत्तौ मुखप्रशंसानुपपत्त्या सदृशपदस्यात्रोपमानपरत्वादेव उपमेयापेक्षया उपमानस्याधिकत्वेन तस्या मुखस्याधिक्यं नास्तीत्येवार्थात् । लोचना (लो ऋ) वाक्यसमासयोः । वाक्ये समासे चेत्यर्थः । वाक्ये समासाभावो वैयाकरणरीत्या । तस्या इत्यादौ मुखेन सदृशमित्यत्र वाक्यगा । नयनतुल्यमित्यत्र समासगा । नास्ते किमपि वस्त्वन्तरमित्यर्थः । ********** टीका सम्पूर्णा ********** अत्र मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः । ************* टीका ************* विज्ञप्रिया (वि, ख) नन्वेवं सदृशपदेनैव उपमानकथनात्कथं तल्लोप इत्यत आह---अत्र मुखप्रतिनिधीति । प्रतिनिधिरुपमानं चन्द्रादिवस्तु । गम्यमानत्वादिति । चन्द्रत्वादिना उपमानतावच्छेदकरूपेणानुपादानादाकाङ्क्षाबलेनाध्याहार्य्यत्वादित्यर्थः । एवं चाध्याहारलभ्ये तत्र सादृश्यप्रतियोगितारूपसाम्यं वाच्यमित्यत्र वाच्यपदस्य व्यङ्ग्यपरत्वं यद्व्याख्यातं तदत्रापि उपपन्नं बोध्यम् । एवमुत्तरत्रापि । ********** टीका सम्पूर्णा ********** अत्रैव च "मुखेन सदृशम्" इत्यत्र "मुखं यथेदं" नयनतुल्यम्" इत्यत्र "दृगीव" इति पाठे श्रौत्यपि संभवतीति । अनयोर्भेदयोः प्रत्येकं श्रौत्यार्थोत्वभेदेन चतुविधत्वसंभवेऽपि प्राचीनानां रीत्या द्विप्रकारत्वमेवोक्तम् । ************* टीका ************* विज्ञप्रिया (वि, ग) दर्शितद्वये सादृश्यतुल्यपदवशादार्थोत्वमेव, तत्पदद्वयस्थाने यथा इवादिपददाने तु श्रौत्यौ अप्युपमाने लुप्ते भवतः । अतश्चतुर्विधा उपमानलुप्ता भवितुमर्हति । किन्तु काव्यप्रकाशकृदादिप्राचीनैस्तद्द्वयस्यानुक्तत्वाद्द्विप्रकारत्वमेवोक्तमित्याह---अत्रैव चेति । ********** टीका सम्पूर्णा ********** औपम्यवाचिनो लोपे समासे क्विपि च द्विधा ॥ १०.२० ॥ ************* टीका ************* विज्ञप्रिया (वि, घ) औपम्यवाचिन इति । औपम्यप्रतिपादकस्येत्यर्थः, तुल्याद्यनव्ययानां तद्वाचकत्वाभावस्य दर्शितत्वात् । लोचना (लो, ॠ) औपम्यवाचिन इवादेः क्किपो लोपः । ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्-- "वदनं मृगशावाक्ष्याः सुधाकरमनोहरम्" । "गर्दभति श्रुतिपरुषं व्यक्तं निनदन्महात्मनां पुरतः" । ************* टीका ************* विज्ञप्रिया (वि, ङ) वदनमिति---सुधाकर इवेत्यर्थः । गर्दभतीति---महात्मनां पुरतो व्यक्तं श्रुतिपरुषं निनदन्नयं गर्दभ इवाचरतीत्यर्थः । उभयत्र मनोहरत्वश्रुतिपरुषनिनादयोर्धर्मयोः सत्त्वादौपम्यप्रतिपादकयोरिव क्रिपोर्लोपमात्रमत्र । लुप्तयोस्तयोः प्रतिसन्धानाच्चौपम्यस्य प्रत॰ीतिरित्यतो न तस्य व्यङ्ग्यत्वमित्यतो निरुक्तं वाच्यत्वमस्त्येव । ********** टीका सम्पूर्णा ********** अत्र "गर्दभति" इत्यत्रौपम्यवाचिनः क्विपो लोपः । न चेहोपयमेयस्यापि लोपः, "निनदन्" इत्यनेनैव निर्देशात् । ************* टीका ************* विज्ञप्रिया (वि, च) औपम्यवाचिनः क्विप इति । यद्यपि लुप्तस्य एव क्किपः क्किप्परेभाषा इत्यतः तस्य लोप इत्युक्तिसम्भवः, तथापि भविष्यल्लोपस्य क्किप एव क्किपत्वमुक्तं तस्यैवौपम्यवाचित्वं तु एवेत्युक्तमेव । निनदन्नित्यनेनैवेति । कर्त्तुरुपमेयस्य कर्त्तरिवेहितेन शतृङैवोक्तत्वात् । ********** टीका सम्पूर्णा ********** द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः । लोचना (लो, ळ) एवेमवैकलोपे लुप्तोपमां दर्शयित्वा द्विलोपे दर्शयति । अनयोरुदाहरणं व्युत्कमेण इत्यर्थः । इयमपि पूर्ववतौत्यार्थो चेति चतुर्धा सम्भवति । ********** टीका सम्पूर्णा ********** "तस्या मुखेन" इत्यादौ "रम्यम्" इति स्थाने "लोके" इति पाठेऽनयोरुदाहरणम् । ************* टीका ************* विज्ञप्रिया (वि, छ) एवं धर्मलोपे दश, उपमानानुपादाने च द्वे औपम्यवचिलोपे च द्वे इति चतुर्दशविधामेकलुप्तामुक्त्वा द्विलुप्ताप्रभेदानाह---द्विधेति । रम्यमिति स्थाने इति । धर्मस्यापि लोपात् । ********** टीका सम्पूर्णा ********** क्विप्समासगता द्वेधा धर्मेवादिविलोपने ॥ १०.२१ ॥ उदाहरणम्-- "विधवति मुखाब्जमस्याः" अत्र "विधवति" इति मनोहरत्व-क्विप्प्रत्यययोर्लोपः । "मुखाब्जम्" इति च समासगा । ************* टीका ************* विज्ञप्रिया (वि, ज) विधवतीति---विधुरिवाचरति इत्यर्थः । क्किपो लोप एव । मुखा ब्जमितीति । मुखमब्जमिवेति पुरुषव्याघ्रादिसमासः । न चात्र रूपकमेव नोपमेति वाच्यम्, उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इति पाणिनिसूत्रेण साधारणधर्माप्रयोगे रूपकबाधया उपमानविधानात् । साधारणधर्मप्रयोगसत्त्वे एव रूपकसम्भवात् । लोचना (लो, ए) केचिदिति---अनेनात्मनोऽसम्मतिप्रकटनम् । ********** टीका सम्पूर्णा ********** केचित्त्वत्रायिप्रात्ययलोपमाहुः । उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि । लोचना (लो, ऐ) पुनरेकलोपे लुप्तोपमां प्राचीनानुरोधाद्द्विलोपप्रकरणे लक्षयति--उपमेयस्येति । ********** टीका सम्पूर्णा ********** यथा-- "अरातिविक्रमालोकविकस्वरविलोचनः । कृपाणोदग्रदोर्दण्डः स सहस्त्रार्युधीयति" ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) इत्थं द्विलुप्ताश्चातस्त्रः एकलुप्ताश्चतुर्द्दशोक्ता इत्यष्टादशोक्त्वा पुनरेकलुप्तामेकामाह---उपमेयस्येति । अरातीति । सहस्त्रायुधीयतीति । कृपाणोदग्रदोर्दण्डोऽपि सहस्त्रायुधो यस्तमिवात्मानमाचरतीत्यर्थः । ********** टीका सम्पूर्णा ********** अत्र "सहस्त्रायुधमिवात्मानमाचरति" इति वाक्ये उपमेयस्यात्मनो लोपः । न चेहौपम्यवाचकलोपः, उक्तादेव न्यायात् । अत्र केचिदाहुः--"सहस्त्रायुधेन सह वर्तत इति ससहस्त्रायुवः स इवाचरतीति वाक्यात्ससहस्त्रायुधीयतीति पदसिद्धौ विशेष्यस्य शब्दानुपात्तत्वादिहोपमेयलोपः" इति, तन्न विचारसहम् ॑ कर्तरि क्यचोऽनुशासनविरुद्धत्वात् । ************* टीका ************* विज्ञप्रिया (वि, ञ) नच सहस्त्रायुधीयते इत्येवमपि सम्भवात्क्यङा चापि अस्याः सम्भव इति वाच्यम् । क्यङन्तस्याकर्मकत्वेन कर्मभूतस्यात्मनः उपमेयस्यात्र प्रसक्त्यभावात् । नचेत्याशङ्क्योत्तस्यति--उक्तदेवेति । क्यन एव तद्वाचकत्वस्योक्तत्वादित्यर्थः । ननु क्यजर्थस्य आचारस्य साधारणधर्मत्वमनवधाय पौरं सुतीयतीत्यादिकं धर्मलुप्तत्वेन प्रागुदाहृतं, तत्कथमत्र उपमेयमात्रलोपे उदाहृतम्, आचारस्य साधारणधर्मत्वानवधानेन तस्यापि लोपादिति चेन्न, अरातीत्यादेः साधारणधर्मवत्त्वेऽवधानात् । सहस्त्रायुधपुरुषस्यापि तादृशविलोचनत्वात् । केचित्तु कर्मभूतस्यात्मन उपमेयस्यात्रन लोपः । "अकर्मके कर्त्तरि वा " अत्र क्यचो विधानात् । तथा च कर्तैवात्रोपमेयस्तस्य च विशेष्यतावच्छेदकेन रूपएमाननुपादानाल्लोप इत्याहुः । तन्मतमाह---अत्र केचिदिति । शब्दानुपात्तत्वादित्यर्थः । तन्मते कर्त्तरि विहितस्य क्यच आख्यातस्य च कर्त्तृत्वेन रूपेण वाचकत्वात् । अतो विशेष्यतावच्छेदकेन रूपेणानुपादानात् । अननुशासनादिति । अकर्मके कर्त्तरीत्यर्थः । तथा च दर्शितार्थे ईदृशप्रयोगोऽसाधुरेवेत्युक्तं पुक्षीयतीत्यादौ कर्त्तृबोधस्तु कर्त्राख्यातादेवेति बोध्यम् । स इत्यनेन विशेष्यतावच्छेदकेन रूपेण कर्त्तुरुपाद्रानमस्त्येवेत्यपि तन्मते दूषणं बोध्यम् । लोचना (लो, ओ) उक्तादाधारकर्मविहित इति सूत्रव्याख्यानप्रसङ्गे इत्यर्थः । केचिद्चण्डीदासपण्डितादयः । अनुशासनविरुद्धत्वात्कर्त्तरि क्यच एवानुशासनात् । किञ्च "स सहस्त्रायुधीयति" इत्यत्र क्किपप्रत्ययस्य औपम्यवाचकत्वादुपकमे उपगमः । पर्य्यवसाने तु सम्भावनोत्थापनात् । उत्प्रेक्षा यथा--- कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालवालमुकुलोत्तंसन्ति मौलीं प्रति । याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालगुरू- स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः" ॥ इत्यादौ । ********** टीका सम्पूर्णा ********** धर्मोपमेयलोपेऽन्या-- यथा-- "यशसि प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्वे" । अत्र क्षीरोदमिवात्मानमाचरन्तीत्युपमेय आत्मा साधारणधर्म शुक्लता च लुप्तौ । ************* टीका ************* विज्ञप्रिया (वि, ट) क्षीरोदीयन्तीत्यत्र साधारणधर्मलोपप्रदर्शनमाधारस्य साधारणधर्मत्वानवधानादिति प्रागेव दर्शितम् । काव्यप्रकाशकृता तु एवादृशस्थले आचारस्यैव साधारणधर्मत्वादुपमेयलोपमात्रोदाहरणमेवोच्यते । क्षीरोदं यथा चरति तथात्मानमिति प्रतीत्या कर्मत्वेनोभयधर्मत्वादाचारस्य । ********** टीका सम्पूर्णा ********** --त्रिलोपे च समासगा ॥ १०.२२ ॥ यथा-- राजते मृगलोचना । अत्र मृगस्य लोचने इव चञ्चले लोचने यस्या इति समासे उपमाप्रतिपादकसाधारणधर्मोपमानानां लोपः । ************* टीका ************* विज्ञप्रिया (वि, ठ) प्रभेदान्तरमाह---त्रिलोपे चेति । मृगलोचनेत्यत्र त्रिलोपं दर्शयति । अत्र मृगस्येति । मृगस्येवेति प्रामादिकः पाठः । लोचने इवेत्येव पाठः । इवकारस्योपमानपरभागनियमात् । ********** टीका सम्पूर्णा ********** तेनोपमाया भेदाः स्युः सप्तविंशतिसंख्यकाः । पूर्णाषड्विधा, लुप्ता चैकविशतिविधेत मिलित्वा सप्तविंशतिप्रकारोपमा । लोचना (लो, औ) उपसंहरति---तेनेति । लुप्तोपमा चैकविंशतिप्रकारा । तथा हि धर्मलोपेन दश । उपमानानुपादाने द्वौ । इवादिलोपे द्वौ । धर्मोपमानलोपे द्वौ । धर्मे वादिलोपे द्वौ । उपमेयलोपे एवः । धर्मोपमेयलोपे एकः । त्रिलोपे एकप्रकार इति गणनया एकविशतिप्रकारा लुप्तोपमा । किं चोपमानानुपादाने धर्मे वादिलोपेनेति मिलित्वा प्रकारचतुष्टयं श्रौतमार्थं च सम्भवतीत्यष्टविधमिति पञ्चविंशतिप्रकारा । ********** टीका सम्पूर्णा ********** एषु चोपमाभेदेषु मध्येऽलुप्तसाधारणधर्मेषु भेदेषु विशेषः प्रतिपाद्यते-- ************* टीका ************* विज्ञप्रिया (वि, ड) अलुप्तेति । साधारणधर्मस्य शब्दप्रतिपाद्यत्वे इत्यर्थः । ********** टीका सम्पूर्णा ********** एकरूपः क्वचित्क्वापि भिन्नः साधारणो गुणः ॥ १०.२३ ॥ भिन्ने बिम्बानुबिम्बत्वं शब्दमात्रेण वा भिदा । ************* टीका ************* विज्ञप्रिया (वि, ढ) एकरूपत्वमेकशब्दप्रतिपाद्यतावच्छेदकैक्यात् । तेन "त्वं सुधावन्मधुर" इत्यत्र तदुदाहरणे व्यक्तैक्यस्य शक्यतावच्छेदकस्याभावेऽपि मनोहरत्वस्य लक्ष्यतावच्छेदकस्यैक्येनैकरूप्यं बोध्यम् । भिन्नरूपत्वे तु शब्दभेदो वक्ष्यते । गुणो धर्मः भिन्नस्य द्वैविध्यमाह---भिन्ने इति । बिम्बानुबिम्बत्वं व्यक्त्योर्मनसा अभेदारोपः । लोचना (लो, अ) एकरूपतया सम्बन्धिभेदमात्रेण वेति द्विधा । तत्राद्यं वृत्तावेव--मधुरः सुधावदित्यादि । द्वितीयं सकलकलं पुरमेतदित्यादि । बिम्बानुबिम्बत्वं बिम्बप्रतिबिम्बभावः । सा च प्रकृतेः सदृशता यथा श्मश्रुलत्वसरघाव्याप्तत्वयोः । शब्दमात्रेण नत्वर्थतोऽपि भिदाभेदः । यथा---स्मेरं विधाय इत्यादि । ********** टीका सम्पूर्णा ********** तत्र एकरूपे यथा उदाहृतम्-"मधुरः सुधावदधरः--" इत्यादि । विम्वप्रतिविम्बत्वे यथा-- "भल्लापवजितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् । तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव" ॥ ************* टीका ************* विज्ञप्रिया (वि, ण) भल्लेति---स रघुस्तेषां पारसीकानां यवनानां भल्लरूपास्त्रविशेषेणापवर्जितैस्त्यजितैः शिरोभिः मही तस्तार व्यापारयामास । कीदृशैः श्मश्रुलैः (अस्त्येर्थे लच्) क्षौद्रपटलैः मधुरससमूहैरिव सरघा मधुमक्षिका । दृष्टान्तवदिति-- दृष्टान्तः---सादृश्यं तच्चात्र श्यामरूपम् । तद्वत्तद्विशिष्टं नन्मूलमिति यावत् । तादृशं प्रतिबिम्बनं मनसा अभेदारोपः इत्यर्थः । क्षौद्रपटलमुखयोः सादृश्यम्---श्यामसरघाभिन्नश्मश्रुमत्त्वादिति बोदनात् । लोचना (लो, आ) सरघा मधुमक्षिका । क्षौदं मधु । अत्र श्मश्रुलत्वसरघाव्याप्तत्वयोः धर्मयोर्भेदेऽपि स्वगतपिङ्गलत्वादिधर्मसाजात्येन सादृश्यादेकरूपतया समानता शिरः क्षौद्रपटलयोर्धर्मिणोः साम्यबीजम् । एवं च गुणासाधारण्यं धर्मिणोर्विरुद्धधर्मयोगेऽपि सुसङ्गतम् । दृष्टान्तप्रतिवस्तूपमे सोदाहरणे लक्षयिष्यते । ********** टीका सम्पूर्णा ********** अत्र "श्मश्रुलैः" इत्यस्य "सरघाव्याप्तैः" इति दृष्टान्तवत्प्रतिबिम्बनम् । शब्दमात्रेण भिन्नत्वे यथा-- "स्मेरं विधाय नयनं विकसितमिव नीलमुत्पलं मयि सा । कथयामास कृशाङ्गी मनोगतं निखिलमाकूतम्" ॥ अत्रैके एव स्मेरत्वविकसितत्वे प्रतिवस्तूपमावच्छब्देन निर्दिष्टे । ************* टीका ************* विज्ञप्रिया (वि, त) स्मेरं विधायेति स्पष्टम् । अत्रेति---एके एवेति---एकधर्मावच्छिन्ने एवेत्यर्थः । यद्यपि स्मेरत्वं मुखस्यैव धर्मः न नयनस्येत्यतो विस्तारत्वमेव लक्षतावच्छेदकम् । विकसितत्वं तु नीलोत्पलधर्म इत्यवच्छेदकस्यापि भेदस्तथापि विकासस्यापि विस्तारविशेषत्वादभेदो बोध्यः । प्रतिवस्तूपमावदिति । तत्रैकधर्मावच्छिन्नसाधारणधर्मस्य शब्दभेदो वक्ष्यते । लोचना (लो, इ) एके एवेति---स्मेरत्वस्य विकसितत्वस्याविशेषत्वात् । ********** टीका सम्पूर्णा ********** एकदेशविवर्तिन्युपमा वाच्यत्वगम्यते ॥ १०.२४ ॥ भवेतां यत्र साम्यस्य-- ************* टीका ************* विज्ञप्रिया (वि, थ) एकदेशविवर्त्त्युपमामाह---एकदेशेति । गम्यत्वं व्यङ्ग्यत्वम्॑ साम्यस्य सादृश्यप्रतियोगितानुयोगितारूपाया उपमायाः । लोचना (लो, ई) वाच्यत्वगम्यत्वे एकदेशे वाच्यत्वमेकदेशे गम्यत्वमित्येकदेशे विशेषेण वर्त्तमानादेकदेशविवर्त्तिनीत्यन्वर्थं नाम क्वचित्रूपकवत्समस्तवस्तुविषयाप्युपमा दृश्यते । यथा गोपीनाथकवेः--- "ब्रह्माण्डं भवनायते त्वदुदरे लोकेश ! लोकः स्फुर- न्नानाचेतनकल्पनाशबलितः साक्षात्वितानायते । तन्मध्येऽपि तवामरायत इयं भूमण्डलालम्बिनी हारक्षीरपटीरसोदररुचिः स्वर्गौकसामापगाः" ॥ अत्र भवनस्याङ्गिनो वितानाद्यङ्गसहितस्य उपमानत्वेन समस्तवस्तुविषयता । ********** टीका सम्पूर्णा ********** यथा-- "नैत्रैरिवोत्पलैः मद्मैर्मुखैरिव सरः श्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव" ॥ अत्रोत्पलादीनां नेत्रादीनां सादृश्यं वाच्यं सरः श्रीणां चाङ्गनासाम्यं गम्यम् । ************* टीका ************* विज्ञप्रिया (वि, द) नेत्रैरिवेति । सरः श्रीयः सरोवरलक्ष्म्याः पदे पदे देशे देशे उत्पलैः पद्मैश्चक्रवाकैश्च विभान्ति स्म । तत्रोत्पलादित्रयस्य नेत्रादित्रयोपमामाह---नेत्रैर्मुखैस्तनैरिवेति । अत्रेति । सादृश्यं सादृश्यप्रतियोगितानुयोगितारूपोपमा । सादृश्यप्रतियोगितानुयोगितारूपसम्बन्धस्य एवोपमात्वेनोपमाग्रन्थे प्रतिपादितत्वात् । तच्चात्र इवादेर्वाच्यमव्यङ्ग्यम् । अव्यङ्ग्यत्वस्यैव वाच्यपदार्थत्वेन प्राक्प्रतिपादितत्वादन्विताभिधानपक्षे वाच्यमन्यथा तु संसर्गमर्य्यादगम्यम् । सरः श्रीणमिति । उत्पलादीनां नेत्रादिसादृश्यवशाद्गम्यं व्यङ्ग्यमित्यर्थः । ********** टीका सम्पूर्णा ********** --कथिता रसनोपमा । यथोर्ध्वमुपमेयस्य यदि स्यादुपमानता ॥ १०.२५ ॥ ************* टीका ************* विज्ञप्रिया (वि, ध) रसनोपमामाह---कथितेति । यथोर्ध्वमिति उत्तरस्येत्यर्थः । लोचना (लो, उ) यथोर्ध्वमूर्ध्वोर्ध्वक्रमेण । ********** टीका सम्पूर्णा ********** यथा-- "चन्द्रायते शुक्लरुचापि हंसो हंसायते चारुगतेन कान्ता । कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः" ॥ ************* टीका ************* विज्ञप्रिया (वि, न) चन्द्रायते इति । चन्द्र इवाचरति इत्यादिरर्थः । शुक्लरुचापीत्यत्र अपिकारस्य हंसोऽपि इत्यन्वयः । विहाय आकाशम् । ********** टीका सम्पूर्णा ********** मालोपमा यदेकस्योपमानं बहु दृश्यते । यथा-- "वारिजेनेव सरसी शशिनेव निशीथिनी । यौवनेनेव वनिता नयेन श्रीर्मनोहरा" ॥ ************* टीका ************* विज्ञप्रिया (वि, प) मालोपमामाह---मालोपमेति । वारिजेनेत्यादि स्पष्टम् । अत्र प्रत्युपमानं मनोहरत्वमेको धर्मः । विभिन्नधर्माप्येषा सम्भवति---यथा "विज्ञो गुरुरिवासि त्वं कन्दर्प इव सुन्दरः । पाथोधिरिव गम्भीरो गरुत्मानिव विक्रमी ॥ "इति । लोचना (लो, ऊ) नयेनेत्यादौ मनोहरत्वमेकः साधारणो धर्मः । क्वचिद्भिन्नसाधारणधर्मा मालोपमा यथा--- "ज्योत्स्त्रेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाविष्टसर्वलोका नितम्बिनी" ॥ एवं रसनोपमाप्यभिन्नसाधारणधर्मांभिन्नसाधारणधर्मावेति द्विधा बोद्धव्या । ********** टीका सम्पूर्णा ********** क्वचिदुपमानोपमेययोरपि प्रकृतत्वं यथा-- "हसश्चन्द्र इवाभाति जलं व्योमतलं यथा । विमलाः कुमुदानीव तारकाः शरदागमे" ॥ ************* टीका ************* विज्ञप्रिया (वि, फ) मालोपमाप्रसङ्गेन स्मृतमुपमाया विशेषान्तरमाह--क्वचिदिति । हसं इति । अत्र प्रकृतशरद्वर्णने तद्धर्मा हंसचन्द्रादयः सर्व एव प्रकृताः । लोचना (लो, ऋ) हंसश्चन्द्र इवेत्यादौ शरद्वर्णनस्य प्रकृतत्वाद्धंसचन्द्रयोर्जलव्योम्नोस्तारकाकुमुदयोश्च प्रकृतत्वम् । ********** टीका सम्पूर्णा ********** "अस्य राज्ञो गृहे भान्ति भूपानां ता विभूतयः । पुरन्दरस्य भवने कल्पवृक्षभवा इव" ॥ अत्रोपमेयभूतविभूतिभैः "कल्पवृक्षभवा इव " इत्युपमानभूता विभूतय आक्षिप्यन्त इत्याक्षेपोपमा । अत्रैव "गृहे" इत्यस्य "भवने" इत्यनेन प्रतिनिर्देशात्प्रतिनिर्देस्योपमा इत्यादयश्च न लक्षिताः, एवंविधवैचित्र्यस्य सहस्त्रधा दर्शनात् । ************* टीका ************* विज्ञप्रिया (वि, ब) आक्षेपोपमा--प्रतिनिर्देश्योपमयोः सूत्रेणनुक्तिबीजं दर्शयितुं तद्द्वयमाह--अस्य राज्ञ इति । भूपानीताः पराजितभूपेभ्यः आनीताः । कल्पवृक्षभवास्तज्जन्या विभूतय इत्यनुषङ्गः । आक्षिप्यन्ते अनुषज्यन्ते । आक्षेपोपमा अनुषङ्गोपमा । अत्रैव प्रतिनिर्देश्योपमावत्त्वमप्याह---अत्रैवेति । लोचना (लो, ॠ) भूपानीताः राजभिरुपहारीकृताः गृहे इत्यस्य उपमेयवाक्यगतस्य भवन इत्यनेन उपमानवाक्यगतेन । एवंविधेति । अयमाशयः यदित्थं क्वचिदपि विच्छित्त्याभासमादाय विशेषतो लक्षितव्यं तेन तस्य तथाविधस्य सहस्त्रधासम्भवाद्ग्रन्थगौरवं विना न किञ्चित्फलमिति । तथाविधस्यापि लिखितव्यत्वे वा यद्युक्तप्रकारवैलक्ष्यण्यं तदा लक्षितव्यम् । नच तथा । ********** टीका सम्पूर्णा ********** उपमानोपमेयत्वमेकस्यैव त्वनन्वयः ॥ १०.२६ ॥ अर्थादेकवाक्ये । ************* टीका ************* विज्ञप्रिया (वि, भ) अनन्वयालङ्कारमाह---उपमेति । अर्थादेकवाव्य इति । वाक्यभेदे उक्तरसनोपमाया वक्ष्यमाणोपमेयोपमायाश्च प्रसक्त्या तद्भेदस्यात्र प्रवेशात् । लोचना (लो, ळ) तुः पुनर्थे । उपमालक्षणस्थस्य द्वयोरित्यस्य व्यवच्छेदार्थः । न विद्यत उपमेयस्य उपमानान्तरेणान्वयः सम्बन्धोऽत्रेत्यन्वर्थनामानन्वयालङ्कारः, अर्थादिति । वाक्यद्वये उपमेयोपमाया वक्ष्यमाणत्वादित्यर्थः । ********** टीका सम्पूर्णा ********** यथा-- "राजीवमिव राजीवं जलं जलमिवाजनि । चन्द्रश्चन्द्र इवातन्द्रः शरत्समुदयोद्यमे" ॥ ************* टीका ************* विज्ञप्रिया (वि, म) राजीवमिति । अतन्द्रोऽनिद्रितो घूर्णमान इति यावत् । शरत्समुदयः शरल्लक्ष्मीस्तस्या उद्यमे उपक्रमे । ********** टीका सम्पूर्णा ********** अत्र राजीवादीनामनन्यसदृशत्वप्रतिपादनार्थमुपमानोपमेयभावो वैवक्षिकः । "राजीवमिव पाथोजम्" इति चास्य लाटानुप्रासाद्विविक्तो विषयः । किन्त्वत्रोचितत्वादेकशब्दप्रयोग एव श्रेयान् । तदुक्तम्-- "अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् । अस्मिंस्तु लाटानुप्रसे साक्षादेव प्रयोजकम्" ॥ इति । ************* टीका ************* विज्ञप्रिया (वि, य) वैवक्षिक इति । विवक्षाशब्दात्कण । मुखं चन्द्र इत्यत्र यथा भेदेऽभेदारोपाद्व्यधिकरणेनाऽरोपितेन चन्द्रत्वेन मुखप्रतीतिस्तथात्राभेदे भेदारोपाद्विवक्षितेन व्यधिकरणेनापि भेदघटितसादृश्येनेवार्थे नौपम्यप्रतीतिरित्यर्थः । आहार्य्यतादृशविवक्षाप्रयोजनमाह---अनन्यसदृशत्वेति । अत्र लाटानुप्रासोऽप्यस्ति । तदसङ्कीर्णमिममाह--पाथेजमिति । उचितत्वादिति । अलङ्कारद्वयेन शोभातिशयजननादौचित्यम् । अनन्वये चेति । आनुषङ्गिकमन्यार्थप्रयत्नेन सिद्धम् । अस्मिंमस्त्विति । लाटानुप्रासोक्तकारिकात्वेनास्मिन्नित्यनेन लाटानुप्रास उक्तः---साक्षादेवेति । अन्यार्थप्रयत्नाभावादित्यर्थः । प्रयोजनं लाटानुप्रासस्य शब्दैक्यमित्यनुषङ्गः । लोचना (लो, ए) नन्वेकस्यैव उपमानोपमेयभावः कथं न विरुद्ध इत्यत आह---अत्रेति । वैवक्षिको न हि तात्त्विकः । अस्यालङ्कारस्य राजीवशब्दयोस्तात्पर्य्यमात्रभिन्नार्थत्वेन लाटानुप्रासे सम्भवत्यपि न तद्विशेषत्वमित्याशयः । तत्र विषयविवेकं दर्शयति-कथं राजीवमित्येकशब्दप्रयोगः पौनरुक्त्यापततीत्याह---किन्त्वत्रेति । उचितत्वं पर्य्यायक्रमभङ्गदोषस्यावश्योपेक्षणीयत्वादिति भावः । अत्र प्राचीनसम्मति दर्शयति--यदाहुरिति । आनुषङ्गिकं तल्लक्षणानन्तर्गतमपि काव्योज्ज्वलीकरणार्थमुपादेयमिति भावः । साक्षादेव न तु दोषनियमात्, तल्लक्षणन्तर्गतत्वादित्यर्थः । ********** टीका सम्पूर्णा ********** पर्यायेण द्वयोरेतदुपमेयोपमा मता । एतदुपमानोपमेयत्वम् । अर्थाद्वाक्यद्वये । यथा-- "कमलेव मतिर्मतिरिव कमला, तनुरिव विभा विभेव तनुः । धरणीव धृतिर्धृतिरिव धरणी, सततं विभाति बत यस्य" ॥ अत्रास्य राज्ञः श्रीबुद्ध्यादिसदृशं नान्यदस्तीत्यभिप्रायः । ************* टीका ************* विज्ञप्रिया (वि, र) उपमेयोपमामाह---पर्य्यायेणेति । द्वयोरुपमानोपमेययोरित्यर्थः । तेनोपमेयोपमालङ्कार इत्यर्थः । अर्थादिति । वाक्यद्वयं विना पर्य्यायेणोक्त्यसम्भवात् । कमलेवेति । अत्र सर्वत्र विभातीत्यन्वयः । लोचना (लो, ओ) उपमेयोपमेति । उपमेयेन पूर्ववाक्यत्थेन उपमासादृश्यं द्वितीयवाक्यस्थयोपमानस्येत्यन्वर्थं नाम, एतदितरोपमानव्यवच्छेदः फलम् । एतदेव वृत्तावुक्तमस्य राज्ञ इति । धृतिर्धेर्य्यम् । ********** टीका सम्पूर्णा ********** सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते ॥ १०.२७ ॥ यथा-- "अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम् । स्मरामि वदनं तस्याश्चारु चञ्चललोचनम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) स्मरणालङ्कारमाह---सदृशेति । अरविन्दमिति । अरविन्दस्यैवोपरि खेलता खञ्जनेन मञ्जुलमरविन्दं वीक्ष्य चारुचञ्चललोचनं तस्या वदनं स्मरामीत्यर्थः । अत्र अरविन्दसादृश्यान्मुखस्य, खञ्जनसादृश्याल्लोचनस्य, खेलासादृश्यात्चाञ्चल्यस्य स्मरणम् । ********** टीका सम्पूर्णा ********** "मयि सकपटम्--"इत्यादौ च स्मृतेः सादृश्यानुभवं विनोत्थापितत्वान्नायमलङ्कारः । लोचना (लो, औ) सदृशानुभवादिति प्रतीकव्यवच्छेद्यं दर्शयति---मयि सकपटमित्यादि । अरविन्दमित्याद्युदाहरणे स्मृतिरुपाया विप्रलम्भाङ्गत्वेन प्रेयोऽलङ्कारविषयत्वेऽपि स्मरणालङ्कारस्यावादत्वेन तद्वाधकता । तेनानुचिन्तनीयदर्शनोत्थापिता स्मृतिः प्रेयोलङ्कारविषयः । यथा मयि सकपटमित्यादिरेव । ********** टीका सम्पूर्णा ********** राघवानन्दमहापात्रास्तु-वैसादृश्यात्स्मृतिमपि स्मरणालङ्कारमिच्छन्ति । तत्रोदाहरणं तेषामेव यथा-- "शिरीषमृद्वी गिरिषु प्रपेदे यदा यदा दुः खशतानि सीता । तदा तदास्याः सदनेषु सौख्यलक्षाणि दध्यौ गलदस्त्रु रामः" ॥ ************* टीका ************* विज्ञप्रिया (वि, व) मयि सकपटमित्यादाविति । तत्र "स्मेरं स्मेरं स्मरामि तदाननम्" इति । स्मृतेश्चिन्तयैवोत्थापितत्वादित्यर्थः । "सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः" इत्युक्तत्वात् । स्मृतिबीजसंस्कारोद्वोधकबाहुल्यात् । शिरीषेति । शिरीषमृद्वी सीता यदा यदा गिरिषुदुः खशतानि प्रपेदे तदा तदा रामोऽस्याः सदनेषु सौख्यलक्षाणि गलदश्रु यथा स्यात्तथा दध्यावित्यर्थः । सुखध्यानमिति स्मृतिः । दुः खे सुखवैसादृश्यम् । लोचना (लो, अ) सुखमेव सौख्यम्, अत्र सुखदुः खयोर्वैसादृश्यम् । ********** टीका सम्पूर्णा ********** रूपकं रुपितारोपाद्वि (पो वि ) षये निरपह्नवे । ************* टीका ************* विज्ञप्रिया (वि, श) रूपकालङ्कारमाह---रूपकमिति । रूपितेत्यत्र रूपणं रूपः तत इतच्प्रत्ययाद्रूपणवानित्यर्थः । तथा च रूपयिष्यमाणश्चन्द्रादिरत्र रूपितपदार्थः । उक्तप्रत्ययान्तत्वेऽतीतत्वानन्वयात् । तस्य मुखादावारोपो रूपकमित्यर्थः । केचिदत्र आरोपादिति पञ्चमी ज्ञापकतायां, स्वज्ञानद्वारा स्वस्यैव रूपकत्वप्रकारज्ञानहेतुता बोध्या इत्याहुः । लोचना (लो, आ) एवं साधर्म्येऽभेदप्राधान्ये अलङ्कारन्निर्णोय भेदप्राधान्ये लक्षयति--रूपकमिति । रूपितारोपवत्त्वं नच प्रकृतेऽपुयपयोगः । अनिगीर्णस्वरूपस्यान्यतादात्म्यप्रतीतिरारोपः । तेनाध्यवसायमूलकोत्प्रेक्षादेरपि व्यवच्छेदः॑ अध्यवसायोऽपि विषयनिगरणेन विषयिणोऽभेदप्रतिपत्तिः । अपह्नवो "न मुखं चन्द्र" इत्याकारः । एवं च निरपह्नवस्यानिगीर्णस्य विषयस्य विषयिणा तादात्म्याद्यद्रूपवत्त्वं तद्रूपकाख्यमलङ्करणमन्यरूपेणान्यस्य रूपवत्त्वादित्यर्थः । ********** टीका सम्पूर्णा ********** "रूपितऽ- इति परिणामाद्व्यवच्छेदः । एतच्च तत्प्रस्तावे विवेचयिष्यामः । "निरपह्नवे" इत्यपह्नुतिव्यवच्छेदार्थम् । ************* टीका ************* विज्ञप्रिया (वि, ष) पदव्यावृत्तिमाह---रूपितेति । परिणामालङ्कारे रूपणाधिकरणतया रूप्यमाणस्य परिणामाद्वास्तवोऽभेदस्तथात्वानारोपवत्त्वरूपं रूपितत्वम् । यथा---"स्तनोपपीडमाश्लेषः कृतो द्यूते पणस्तया"इति परिणामोदाहरणे रूपणाधिकरणाऽश्लेषतयैव रूप्यमाणस्य पणस्य परिणामादिवास्तव एव प्रणाऽश्लेषयोरभेद इत्यतः पणो न रूपति इति तद्व्यवच्छेदः । अपह्नुतिव्यवच्छेदायेति--"नायं शशी कुण्डलितः फणीन्द्रः" इत्यादौ शशिनि कुण्डलितफणीन्द्रारोप एव, किन्तु शशित्वापह्नवपूर्वक इत्यतः तद्व्यवच्छेदः । ********** टीका सम्पूर्णा ********** तत्परम्परितं साङ्गं निरङ्गमिति च त्रिधा ॥ १०.२८ ॥ ************* टीका ************* विज्ञप्रिया (वि, स) तस्य त्रैविध्यमाह---तदिति । लोचना (लो, इ) तद्भेदानाह--नदिति । त्रिधेत्यतः पूर्वं प्रथममिति शेषः । अन्यभेदानामेतदन्तरत्वात् । ********** टीका सम्पूर्णा ********** तद्रूपकम् । तत्र-- यत्र कस्यचिदारोपः परारोपणकारणम् । तत्परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनम् ॥ १०.२९ ॥ प्रत्येकं केवलं मालारूपं चेति चतुर्विधम् । ************* टीका ************* विज्ञप्रिया (वि, ह) यत्र कस्यचिदिति । यत्र रूपके गृह्यमाणे क्वचित्कस्यचिदारोप इत्यर्थः । परारोपणस्य प्रकृष्टारोपस्य मुख्यारोपस्य इत्यर्थः । कारणं साधकम् । श्लिष्टेति---एकशब्देनैव रूप्यरोपकोभयोपस्थापने श्लिष्टत्वनिबन्धनत्वम् । अतथात्वे तु अश्लिष्टशब्दनिबन्धनत्वम् । लोचना (लो, ई) परस्य मुख्यस्य तथाविधसम्यगर्थान्तररूपणं विनानुपपद्यमाने आरोपणे कारणं निमित्तम् । श्लुष्टः, प्रकृतरोपणोत्पादकरूपाश्रयस्यात्मनो व्द्यर्थता श्लिष्टः । अश्लिष्टः पृथक्पदनिर्दिष्टरूपरूपकार्थः । तथाविधः शब्दो निबन्धनं कारणम् । अर्थात्मुख्यारोपे यस्यैत्यर्थः । केवलं सकृद्रूपणात्मकम् । मालारूपमेकत्रैव विषयपरम्परामनपेक्ष्यानेकवस्त्वारोपात्मकम् । एवमन्यत्रापि । परम्परा जातास्येति परम्परितं सार्थकम् । ********** टीका सम्पूर्णा ********** तत्र श्लिष्टशब्दनिबन्धनं केवलपरम्परितं यथा-- "आहवे जगदुद्दण्ड ! राजमण्डलाराहवे । श्रीनृसिंहमहीपाल ! स्वस्त्यस्तु तव बाहवे" ॥ ************* टीका ************* विज्ञप्रिया (वि, क) आहवेति---हे नृसिंहमहीपाल ! तव बाहवे हस्ताय स्वस्त्यस्तु । कीदृशाय---आहवे युद्धे जगत्युद्दण्डं राजमण्डलं नृपतिमण्डलमेव राजमण्डंल चन्द्रमण्डलं तदीयराहवे सैहिकेयाय तत्तिरस्कारकत्वात् । अत्र नृपतिमण्डलसम्बन्धित्वेन राहुत्वारोपोऽनुपपन्नः राहोर्नृपतिमण्डलतिरस्कारकत्वाभावात् । अतो मुख्यतदारोपसाधको नृपतिमण्डले चन्द्रमण्डलारोपः । श्लिष्टराजशब्देन च तदुभयोपस्थापनमेतदाह---अत्रेति । अत्र च मुख्यरूपकनिर्वाहाय द्वयोर्नृपतिचन्द्रयोः प्राकरणिकत्वादादावेव नृपचन्द्रो राजपदवाच्यो न तु चन्द्रो व्यङ्ग्यः । एकार्थमात्रे प्रकरणत्वे एवान्यार्थस्य व्यङ्ग्यत्वात् । अतो नात्र वाच्यसाधकत्वव्यङ्ग्यरूपस्य वाच्यसिद्ध्याङ्गाख्यगुणीभूतव्यङ्ग्यत्वस्य प्रसक्तिः । यत्र तु कस्यचिदारोपं विनैव प्रथमं मुख्यरूपकं सिद्ध्यति पश्चात्तादृशनिरूप्यमाणस्यापरपदार्थान्वयानुपपत्तिस्तत्रप्राकरणिके तादृशापरपदार्थे नियन्त्रकस्य श्लिष्टशब्दस्यापरार्थो मुख्यरूपमाणस्यापरपदार्थान्वयानुपपत्तिरिरासाय रूप्यमाणे व्यङ्ग्य एव॑ तत्र वाच्यसिद्ध्यङ्गतैव तस्य । यथा--- "भ्रमिमरतिमत्वसहृदयतां प्रलयं मूर्च्छां तमः शरीरसादं च । मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम्" ॥ इत्यत्र श्यामत्वेनोपकारकत्वेन च जलदे भुजगरूपणं प्रथमं सिद्ध्यत्येव । पश्चाच्च स्यमाणस्य भुजगस्य विषपदार्थे प्राकरणिकजलजनकत्वानुपपत्त्या तन्निरासाय विषपदद्वितीयार्थो हलाहलं व्यङ्ग्यम् । तत्र रूप्यतो वृष्टिवर्णनप्रकरणज्जलस्यैव वाच्यत्वात् । ततो भुजगस्य हलाहलजनकत्वेनानुपपत्त्यभावाद्भुजगरूपेण सिद्धिरिति विषयस्य विभागः सुधीभिरवधेयः । एवं च मुख्यरूपकसाधकविशेष्यस्य वाच्यत्वे परम्परितं रूपकं, तस्य व्यङ्ग्यत्वे तु वाच्यसिद्ध्यङ्गमिति स्थिते "दीपयने रोदसीरन्ध्रमेष ज्वलति सर्वतः । प्रतापस्तव राजेन्द्र वैरिवंशदवानलः । "इत्यत्र कुले वेण्वारोपणस्य व्यङ्ग्यतया वाच्यदावानलरूपसिद्ध्यङ्गत्वमिति ग्रन्थकृता प्रागुक्तं चिन्त्यम् । राजमण्डलराहवे इत्यत्र इव तत्रापि मुख्यदवानलरूपकसाधकत्वेन वेण्वारोपणस्य वाच्यत्वादेव । लोचना (लो, उ) जगदुद्दण्डोऽतिशयोत्कटः, राजमण्डलं नृपसमूहः चन्द्रमण्डलं च । ********** टीका सम्पूर्णा ********** अत्र राजमण्डलं नृपसमूह एव चन्द्रबिम्बमित्यारोपो राजबाहौ हाहुत्वारोपे निमित्तम् । मालारूपं यथा-- "पद्मोदयदिनाधीशः सदागतिसमीरणः । भूभृदावलिदम्भोलिरेक एव भवान् भुवि" ॥ अत्र पद्माया उदय एव पद्मानामुदयः,सतामागतिरेव सदागमनम्, भूभृतो राजान एव पर्वता इत्याद्यारोपो राज्ञः सूर्यत्वाद्यारोपनिमित्तम् । ************* टीका ************* विज्ञप्रिया (वि, ख) श्लिष्टपरम्परितरूपकमालामाह---पद्मोदयेति । अस्यार्थो वृत्तावेव विवृतः । इत्याद्यारोपः सूर्य्यत्वाद्यारोपे निमित्तमिति । अत्र हि लक्ष्या उदये सूर्य्यस्य, सतामागतौ समीरणस्य, भूभृतां राज्ञामावलौ दम्भोलेश्चानुपयोगेन पद्माया उदयादौ पङ्गजोदयाद्यारोपणैवतदुपयोगात्तन्निमित्तता । "विद्वन्मानसहंस ! वैरिकमलासङ्कोचदीप्तद्युते ! दुर्गामार्गणनीललोहित ! समित्स्वीकारवैश्वानर ! सत्यप्रतिविधानदक्ष ! विजयप्राग्भावभीम ! प्रभो ! साम्राज्यं वरवीर ! वत्सरशतं वैरिंचमुच्चैः क्रियाः । " इति श्लोकः काव्यप्रकाशकृता श्लिष्टपरम्परितमालारूपकोदाहरणतयैव दर्शितः । तस्यार्थो हि "हे वरवीर ! वैरिंचं ब्राह्मं वत्सरशतमुच्चैः साम्राज्यं क्रियाः कुर्य्याः । राज्ञः अन्यान्यपि सम्बोधनान्याह---विद्वदिति । विदुषां मानसं मनः एव मानससरः तथंस, कमलानामसङ्कोचो विकाशस्तत्र दीप्तद्युते सूर्य्य । दुर्गाणाममार्गणं दुर्गं विना योद्वृत्वं, तदेव दुर्गाया मार्गणं तत्र नीललोहित ! समितां युद्धानां स्वीकार एव समिधां स्वीकारः तत्र वैश्वानर ! सत्ये प्रीतिविधानमेव सत्यामप्रीतिविधानं तत्र दक्ष प्रजापते ! विजयः परपराभव एव विजयोर्ऽजुनस्तत्प्राग्भावे पूर्वोत्पत्तौ भीमसेन ! हे प्रभो इत्यत्र राज्ञि हंसाद्यारोपमुख्यरूपकारण्यनेकानि प्रत्येकं तत्साधकानि मनआदौ मानससरोवरादिरूपकाण्यनेकानि । प्रकृते अपि राज्ञि दिनाधीशाद्यनेकरूपकसाधकानि लक्ष्म्यादीनामुदयादौ पङ्कजोदयादिरूपकाणीति । केवलश्लिष्टपरम्परितरूपकोदाहरणं तु काव्यप्रकाशकृता दत्तं यथा-- "अलोकिकमहालोकप्रकाशितजगत्त्रय ! स्तूयते देव ! सद्वंशमुक्तरत्नं न कैर्भवान्" ॥ इति । अस्यार्थः हे देव ! सद्वंशः सत्कुलमेव सद्वंशः सद्वेणुः तत्र मुक्तारत्नं भावान् कैर्न स्तूयते ? वंशे मुक्तोत्पत्तेः । राज्ञः सम्बोधनान्तरमाह---अलौकिकेति । अलौकिकोऽन्यलोकविलक्षणो यो महालोको महादृष्टिपातः स एव महालोको महाज्योतिस्तेन प्रकाशितं जगत्त्रयमर्थान्मुक्तामण्डितं येन हे तादृश ! अत्र हि राज्ञि मुक्तारोपो मुख्यरूपकं तत्साधकं कुले वेण्वारोपणम् । दृष्टिपाते ज्योतिरारोपणं च ज्योतिरभावे मुक्तोत्कर्षाभावात् । लोचना (लो, ऊ) पद्मा लक्ष्मीः पद्मं च । सतामागमनं सर्वदागमनं च । भूमृतो राजानः वर्वताश्च । पद्माया लक्ष्म्याः सर्वदा सदा च । एवं-- "त्वमेव देव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुद्भूमिर्को लोकत्रयात्मकः" ॥ इत्यत्र लोकत्रयात्मकत्वमित्यादि रूपणं पातालमित्यादि रूपणं हेतुः ॥ ********** टीका सम्पूर्णा ********** अश्लिष्टशब्दनिबन्धनं केवलं यथा-- "पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः । त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः" ॥ अत्र त्रैलोक्यस्य मण्डपत्वारोपो हरिबाहूनां स्तम्भत्वारोपे निमित्तम् । ************* टीका ************* विज्ञप्रिया (वि, ग) अश्लिष्टं केवलमाह---पान्तु वो जलदश्यामा इति । चत्वारो हरिबाहवो वः पान्तु । कीदृशाः ? त्रैलोक्यमेव मण्डपस्तस्य स्तम्भाः, धारकत्वात् । तथा शार्ङ्गस्य धनुषो व्याघातेन कर्कशाः । स्तम्भत्वारोपे निमित्तमिति । त्रैलोक्ये स्तम्भावन्वयात् । ********** टीका सम्पूर्णा ********** मालारूपं यथा-- "मनोजराजस्य सितातपत्रं श्रीखण्डचित्रं हरिदङ्गनायाः । विराजते व्योमसरः सरोजं कर्पूरपूरप्रभमिन्दुबिम्बम्" ॥ अत्र मनोजादे राजत्वाद्यारोपश्चन्द्रबिम्बस्य सितातपत्रत्वाद्यारोपे निमित्तम् । "तत्र च राजभुजादीनां राहुत्वाद्यारोपो राजमण्डलादीनां चन्द्रमण्डलत्वाद्यारोपे निमित्तम्" इति केचित् । ************* टीका ************* विज्ञप्रिया (वि, घ) मालारूपं यथेति---अश्लिष्टशब्दनिबन्धनमिति शेषः । मनोजराजस्येति । कर्पूरपूरप्रभमिन्दुबिम्बं विराजति । तत्र परम्परितरूपकनिमित्तकानि रूपकान्तराण्याह---मनोजेति । मनोज एव राजा तस्य सितातपत्रम् । हरिद्रूपाया अङ्गनायाः श्रीखण्डस्य, चन्दनस्य चित्रम् । व्योमरूपस्य सरसः सरोजम् । एषु चतुर्षु रूपकयोर्निमित्तनैमित्तकभाव उक्तविपरीत एवेति केषाञ्चिन्मतं दर्शयति---एष्विति । लोचना (लो, ऋ) केचिन्नतु वयमिति भावः । एतच्चात्रैव स्फोटयिष्यति । ********** टीका सम्पूर्णा ********** अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् ॥ १०.३० ॥ समस्तवस्तुविषयमेकदेशविवर्ति च । ************* टीका ************* विज्ञप्रिया (वि, ङ) द्विविधं साङ्गरूपकमाह---अङ्गिन इति । साङ्गस्य सधर्मस्य । यो रूप्यते तस्य धर्मा अपि यदि रूप्यन्ते तदा साङ्गमित्यर्थः । लोचना (लो, ॠ) साङ्गस्य सोपकरणस्य । ********** टीका सम्पूर्णा ********** तत्र-- आरोप्याणामशेषाणां शाब्दत्वे प्रथमं मतम् ॥ १०.३१ ॥ लोचना (लो, ळ) अशेषाणामङ्गतदुपकरणानाम् । शाब्दत्वे शब्देनाभिधेयत्वे । ********** टीका सम्पूर्णा ********** प्रथमं समस्तवस्तुविषयम् । यथा-- "रावणावग्रहक्लान्तमिति वागमृतेन सः । अभिवृष्य मरुत्सस्यं कृष्णमेधस्तिरोदधे" ॥ अत्र कृष्णस्य मेघत्वारोपे वागादीनाममृतत्वादिकमारोपितम् । ************* टीका ************* विज्ञप्रिया (वि, च) रावणवग्रह इति । रावणरूपेणावग्रहेण वृष्टिविघातेन क्लान्तं मरुद्रूपं शस्यं वाग्रूपामृतेन स कृष्णो विष्णुर्मेघो शस्यमभिवृष्य अभिषिच्य तिरोदधे । अन्योऽपि रूप्यमाणो मेघोऽङ्गी । तस्य धर्मो जलं वाचि रूपितम् । एवं स्वजलसिच्यमानत्वसम्बन्धेन शस्यमप्यङ्गम् । मरुत्सु तद्रूपितम् । तदाह---अत्रेति । लोचना (लो, ए) वागादीनां कृष्णोपकरणानाममृतत्वादीति मेघोपकरणम् । इह चच परतरूपणम् । यदाहुः--- "मुखपङ्कजरङ्गेऽस्मिन् भ्रूलतानर्त्तकी तव । लीलानृत्यं करोतीति रम्यं रूपितरूपणम्" ॥ इति ॥ इह हि मुखे पङ्कजत्वरूपणानन्तरं पुना रङ्गत्वरूपणम् । एवं भ्रूलतानर्त्तकीत्यत्रापि ज्ञेयम् । ********** टीका सम्पूर्णा ********** यत्र कस्यचिदार्थत्वमेकदेशविवर्ति तत् । लोचना (लो, ऐ) आर्थत्वमर्थगम्यत्वम् । एकदेशे विशेषेण शाब्दतया स्फुटत्वेन विर्त्तितुं शीलमस्य रूपकस्येत्येकदेशविवर्ति । ********** टीका सम्पूर्णा ********** कस्यचिदारोप्यमाणस्य । यथा-- "लावण्यमधुभैः पूर्णमास्यमस्या विकस्वरम् । लोकलोचनरोलम्बकदम्बैः कैर्न पीयते ?" ॥ अत्र लावण्यादौ मधुत्वाद्यारोपः शाब्दः, मुखस्य पद्मत्वारोप आर्थः । न चेयमेकदेशविवर्तिन्युपमा विकस्वरत्वधर्मस्यारोप्यमाणे पद्मे मुख्यतया वर्तमानात्मुखे वोपचरितत्वात् । ************* टीका ************* विज्ञप्रिया (वि, छ) एकदेशविवर्त्तिरूपकमाह---यस्य कस्येति । कस्यचिद्रूप्यमाणस्येति । क्वचिदङ्गिनः क्वचिदङ्गस्य तथात्वं बोध्यम् । तत्राङ्गिन आर्थत्वमाह---लावण्येति । लावण्यरूपैर्मधुभिः पूर्णं विकस्वरं चास्या आस्यं लोकलोचनरूपाणां रोलम्बानां भ्रमराणां कदम्बैः कैर्न पीयते । मुखे पद्माद्यारोप इति । मधुपूर्णता भ्रमरनिपीयमानता अत्राङ्गम् । रूप्यमाणं पद्मादिकमत्राङ्गि । क्वचिदङ्गरूप्यमेवार्ऽऽथः । यथा---"गुणासिन्धुर्भावानिति । " अत्राङ्गिनः सिन्धोर्घर्मो जलं गुणे आरोप्यमाणमार्थम् । नचेत्यादि लावण्यं मधु इव इत्याद्युपमानसम्भवात्तद्वशेन मुखेऽपि पद्मोपमाप्रतीतेः इत्याशङ्कार्थः । विकस्वरेत्याद्युत्तरम् । विकस्वरत्वं पुष्पधर्म एवेत्यस्तद्धर्मणि पुष्पे एव मुख्यतया साक्षात्सम्बन्धेन वर्त्तमानत्वातित्यर्थः । मुखे चेति पद्मतुल्ये मुखे स्वाश्रयसादृश्यसम्बन्धेनेत्येवं परम्परासम्बन्धरूपादुपचारादित्यर्थः । लोचना (लो, ओ) मुख्यतया वर्त्तनादिति । मुख्यतया विधेयतया । अयमाशयः । अत्र हि विषयस्यास्य रूपमवच्छाद्य, विषयिणः पद्मरूपेण रूपवत्तापादने तस्य विकस्वराख्यधर्मपरिग्रहः साधकं प्रामाणम् । एतच्च संकरनिरूपणप्रस्तावे सुव्यक्तं भविष्यतीति नेह तन्यते । ********** टीका सम्पूर्णा ********** निरङ्गं केवलस्यैव रूपणं तदपि द्विधा ॥ १०.३२ ॥ मालाकेवलरूपत्वात्-- लोचना (लो, औ) केवलस्य सहयोगान्तररूपणासंयुक्तस्य । मालाकेवलरूपत्वं पूर्वोक्तवद्व्याख्येयम् । ********** टीका सम्पूर्णा ********** तत्र मालारूपं निरङ्गं यथा-- "निर्माणकौशलं धातुश्चन्द्रिका लोकचक्षुषाम् । क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा" ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) निर्माणकौशलमिति । अत्र सारोपा लक्षणा । तत्कौशलजन्या इत्यर्थः । नात्रांशे रूपकम् । चन्दिकाक्रीडागृहद्वयरूपणात्तु मालेत्यवधेयम् । लोचना (लो, अ) निर्माणेति---अत्रैकस्यामिन्दीवरेक्षणायामनेकवस्त्वारोपात्निरवयविमाला । ********** टीका सम्पूर्णा ********** केवलं यथा-- "दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि ! नात्र दूये । उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रै- र्यद्भिद्यते मृदु पदं ननु सा व्यथा मे" ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) दासे कृतागसीति । उद्यतां कठोरपुलकाङ्कुररूपाणां कण्टकानामग्रेरित्यन्वयः । यत्र पुलकाङ्कुरेषु कण्टरूपणमात्रम् । लोचना (लो, आ) दास इति । दासे, स्वाधीनजने, कृतागसि कृतापराधे, प्रभूणां सेव्यानाम् । अत्र प्रहारे न दूये नाभ्यसूयामि । भिद्यते विध्यते । अत्र केवलमिति निरवयवरूपं समानान्तररूपणं विना एकत्रैव निरूपणणानिबन्धनात्, इहापि पुलकस्याङ्कुररूपणानन्तरं कण्टकत्वरूपपणेन रूपितरूपणम् । ********** टीका सम्पूर्णा ********** --तेनाष्टौ रूपके भिदाः । ************* टीका ************* विज्ञप्रिया (वि, ञ) तेनाष्टाविति । श्लिष्टाश्लिष्टवाचकभेदे द्विविधस्य परम्परितरूपकस्य मालोकेवलभेदाच्चातुर्विध्यम् । साङ्गंच समस्तवस्तुविषयत्वैकदेशविवर्तित्वाभ्यां द्विविधम् । निरङ्गं च केवलमालात्वाभ्यां द्विविधमित्यष्टावित्यर्थः । लोचना (लो, इ) तेन तेन प्रकारेण अष्टौ, अन्यथा पुनर्वक्ष्यमाणा अपि भेदाः सम्भवन्तीत्याशयः । ********** टीका सम्पूर्णा ********** "चिरन्तनैरुक्ता" इति शेषः । क्वचित्परम्परितमप्येकदेशविवर्ति यथा-- "खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य" ॥ अत्रार्थः क्ष्मायां महिषीत्वारोपः खड्गे सौविदल्लत्वारोपे निमित्तम् । अस्य भेदस्य पूर्ववन्मालारोपत्वेऽप्युदाहरणं मृग्यम् । ************* टीका ************* विज्ञप्रिया (वि, ट) खड्गः क्ष्मेति---खड्ग एव स्त्रीत्वेनानारोपितायाः क्षमायाः पृथिव्याः सौविदल्लः अन्तः पुरस्थनपुंसकः । "सौविदल्लो महल्लिका"इति कोषः । अत्रेति । क्ष्मायाः स्त्रीत्वेनाऽरोपणं विना खड्गे सौविदल्लारोपस्यानुयोगेनानुपपत्तेः । उदाहरणं मृग्यमिति । यथा--- "प्रसूचबाणस्य सितातपत्रमैन्द्र्या दिशश्चन्दनबिन्दुरिन्दुः । विराजते विष्णुपदारविन्दं मयूखविक्षालितभूमिपीठम्" ॥ इति अत्र हि प्रसूनबाणादेः राजत्वाद्यारोपः चन्द्रस्य सितातपत्राद्यारोपहेतुः । यदि चैकस्य वाच्यस्य रूप्यस्य साधकान्यनेकान्यन्यानि रूपकाण्येव माला इत्यभिप्रायः, तदा "राकाया नभसश्चन्द्रः पुण्डरीकं शशस्य च" इत्युदाहार्य्यम् । अत्र हि शशिनि रूप्यमाणे पुण्डरीके वाच्ये राकायाः पदहस्तलक्ष्मीत्वं गगनस्य सरोरत्वं शशस्य भ्रमरत्वं चार्थसाधकम् । लोचना (लो, ई) सौविदल्लोऽवलोधाध्यक्षः । अत्रेति । अयमर्थः-अत्र क्ष्मायां महिषीत्वरूपणस्यार्थत्वादेकदेशविवर्तिरूपकं, तद्रूपणस्य च खड्गस्य सौविदल्लत्वरूपणहेतुत्वात्परम्परितमिति । इह च क्ष्मायां महिषीत्वरूपणं विना खड्गस्य सौविदल्लत्वरूपणं नोपपद्यते । सावयवैकदेशविवर्त्तिनि तु वाक्यरूपणं स्वयमनुपपन्नमेव । सामर्थ्यात्त्वन्यदाक्षिपतीति वेवेकः । मृग्यं लक्ष्येष्वित्यर्थः । यथा--- "अस्ति स्वस्त्ययनं श्रियः सुचरितं द्राघीयसः श्रेयसः सौन्दर्य्यस्य रसायनं निरवधेः शीलस्य लीलायितम् । विद्यानामधिदैवतं निरुपधेः शौर्य्यस्य विस्फूर्जितं श्रीभानुस्त्रिकलिङ्गमङ्गलपदं गङ्गान्वये भूपतिः" ॥ अत्र श्रीप्रभृतीनां प्राणिविशेषत्वरूपणमार्थं स्वस्त्ययनरूपणे हेतुः । ********** टीका सम्पूर्णा ********** दृश्यन्ते क्वचिदारोप्याः श्लिष्टाः साङ्गेऽपि रूपके ॥ १०.३३ ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) साङ्केऽपि रूपके इति । सास्तवस्तुविषयैकदेशविवार्त्तित्वेन द्विविधे साङ्गे इत्यर्थः । लोचना (लो, उ) क्वचिदेकदेशे आरोप्या आरोपविषयवाचके पदे व्यङ्ग्यतया निर्दिष्टाः ********** टीका सम्पूर्णा ********** तत्रैकदेशविवर्ति श्लिष्टं यथा मम-- "करमुदयमहीधरस्तनाग्रे गलिततमः पटलांशुके निवेश्य । विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः" ॥ समस्तवस्तुविषयं यथा--अत्रैव "विचुम्बति-" इत्यादौ "चुचुम्बे हरिदबलामुखमिन्दुनायकेन" इति पाठे । ************* टीका ************* विज्ञप्रिया (वि, ड) करमुदयेति । अयं सुधांशुः अमरेशदिशः प्राच्याः, मुखं विचुम्बति । किं कृत्वा ? उदामहीधररूपस्य स्तनस्याग्रे करं रश्मिमेव करं पाणिं निधाय, स्तनाग्रे कीदृशे गलितं तम. पटलरूपमंशुकं यत्न तादृशे । मुखं कीदृशं ? विकसितकुमुदरूपमीक्षणं यस्य तादृशम् । अत्रामरेशदिशः नायिकात्वं, सुधांशोर्नायकत्वं चार्थम् । तयोर्धर्मौ स्तनदत्तहस्तविकशितनेत्ने शाब्दौ । करपदञ्च श्लिष्टम् । द्वितीयस्योदाहरणं स्पष्टम् " चुचुम्बे हरिदबलामुखमिन्दुनायकेन" इति पाठे । लोचना (लो, ऊ) करं किरणं हस्तं च । मुखमाद्यभागं, वदनं च ********** टीका सम्पूर्णा ********** न चात्र श्लिष्टपरम्परितम् ? अत्र हि "भूबृदावलिदम्भोलिः--" इत्यादौ राजादौ पर्वतत्वाद्यारोप विना वर्णनीयस्य राजादेर्दम्भोलितादिरूपणं सर्वथैव सादृश्याभावादसङ्गतम् । तर्हि कथं "पद्मोदयदिनाधीशः-" इत्यादौ परम्परितम्, राजादेः सूर्यादिना सादृश्यस्य तेजस्वितादिहेतुकस्य संभवादिति न वाच्यम् । तथा हि--राजादेस्तेजस्तितादिहेतुकं सुव्यक्तं सादृश्यम्, न तु प्रकृते विवक्षितम्, पद्मोदयादेरेव द्वयोः साधारणधर्मतया विवक्षितत्वात् । इह तु महीधरादेः स्तनादिना सादृश्यं पीनोतुङ्गत्वादिना सुव्यक्तमेवेति न श्लिष्टपरम्परितम् । ************* टीका ************* विज्ञप्रिया (वि, ढ) नचात्रेति । श्लिष्टपदेन कररूपणस्य स्तनरूपणसाधकत्वात् । समाधत्ते---तत्र हि इति । परम्परितं यद्रूपकं तदेव मुख्यरूपकसाधकं नतु सादृश्यं तत्साधकम् । यत्र तु सादृश्यादपि मुख्यरूपकं सिद्ध्यति न तत्र परम्परितरूपकम् । तेन प्रकृते पर्वतसादृश्यादुच्चत्वादेव स्तनरूपणमित्युक्तमनेन । ननु यदि सादृश्यासत्त्वे एव परम्परितरूपकं, तदा " पद्मोदय" इत्यादावव्याप्तिरित्याक्षिपति---तर्हि इति । अव्याप्तिमुपपादयति । राजादेरिति । नतु तद्विवक्षितमिति । यत्तुविवक्षितं तदाह---पद्मोदयादेरेवेति । पद्मोदयादिश्लिष्टपदस्यैव इत्यर्थः । लोचना (लो, ए) करादिशब्दस्य श्लिष्टत्वेन श्लिष्टपरम्परितशङ्कां निराकरोति---नचेति । राजादौ शात्रवादिरूपे सुव्यक्तमित्यतः पूर्वमस्त्येवेति शेषः । पद्मोदयेत्यादौ प्रद्योतत्तेजस्वितादिकमेव सादृश्यम् । पद्मोदयादेरिव सकलकलं पुरमित्यादावुपमायां सकलकलत्वस्येव इत्यर्थः । राजदिनाधीशयोः प्रकृते योजयति--इह त्विति । इह करमुदयमहीधरस्तनाग्र इत्यादौ । तुः पुनरर्थः । एवं च "भ्रमिमरति " मित्यादौ विषं जलमेव विषमित्यारोपो जलदे प्रसिद्धसादृश्यभुजगस्यारोपे निमित्तमिति श्लिष्टपरम्परितमेव । अत्र "विद्वन्मानसहंस" इत्यादौ राजादौ हंसत्वारोपो मानसे मानसत्वारोपे हेतुरिति मन्यमाना आहुः--"नेह विषशब्दस्य द्व्यर्थता "विद्वन्मानसहंस" इत्यादाविव जलदे भुजगारोपहेतुका, किन्तु एतत्पद्यावस्थितवैद्यशास्त्रप्रसिद्धभ्रमादिमरणान्ताष्टविधगरलकार्य्यविशेषोत्थापितेति द्व्यर्थतायास्तादात्म्यारोपणं विना प्रसिद्धेरिह श्लेषालङ्कार एवेति । ऽ तदयुक्तम् । जलदे भुजगसादृश्यस्य सकलकलं पुरमित्यादाविव विषशब्दस्य द्व्यर्थतां विनानुपपत्तेः । किञ्च जलदभुजगजं विषं जलमिति न घटते । जलदस्य भुजगताया अवास्तवत्वाद्भुजगाच्च जलजन्मानिबन्धनात् । तस्माद्विषमेव विषमिति रूपणमाक्षिप्यैव वाच्यरूपणं संगच्छते । नच श्लेषमात्नेणास्तु वाच्यरूपणोपपत्तिरिति युक्तं, श्लेषेण तादात्म्याप्रतीतेः । श्लेषोपपादकविशकलितप्रतीतौ व्च्यरूपणासङ्गतिः, तादवस्थ्यात् । अन्यथा "विद्वन्मानसहंस" इत्यादावपि तथाप्रसङ्गः स्यात् । "आभाति ते क्षितिभृतः क्षणदानिभेयं निस्त्रिंशमांसलतमालवनान्तलेखा । इन्दुत्विषो युधि हठेन तवारिकीर्त्ति- रानीय यत्र रमते तरुणप्रतापः" ॥ इह एकदेशवर्त्तिनि रूपके क्षितिभृद्राजा एव क्षितिभृत्पर्वत इति श्लिष्टम् । तात्रालङ्कारिकचण्डिदासपण्डितादयः राजनि पर्वतत्वारोपणं निस्त्रिंशस्य तमालवनत्वारोपणे हेतुरिति श्लिष्टपरिम्परितमाद्रियन्ते । तच्चिन्त्यम् । तथाहि क्षितिभृतो व्द्यर्थतया "विद्वन्मानसहंसऽ इत्यादौ मानसत्वादे राज्ञो हंसत्वादिरूपणनिमित्तमिव, निस्त्रिंशस्य तमालवनत्वरूपणोपयोगित्वम् । अपितु हठकामुककार्य्येऽपीति प्रतापकीर्त्त्योर्नायिकनायिकात्वोपकरणत्वादिह प्रकृतसूत्रोक्तं श्लिष्टैकदेशरूप्यं सावयवैकदेशविवर्तिरूपकमेव भावितुं युक्तं, नतु श्लिष्टपरम्परितमिति मन्यामहे । किञ्च श्लिष्टपरम्परिते विद्वन्मानसहंसेत्यादौ राज्ञो हंसत्वं मानसस्य मानसत्वारोपणसादृश्यं विनासिद्धम् । इह तु निस्त्रिंशस्य तमालवनान्तत्वं नीलिमादिनापि प्रसिद्धम् । किञ्च सावयवे रूपके क्वचिदेकैकस्य सादृश्याप्रसिद्धेरप्येकोभूयान्योन्यसाहाय्येन सादृश्यप्रतीतिः । यथा---रावणावग्रहेत्यादौ मरुदादीनां शस्यत्वादेः । अपिच परम्परितस्यावयवरूपणाभावादेव सावयवान्तः पातिता नोच्यते । केवलं मानसादिपदेषु आक्षिप्यमाणं सरोवराद्यर्थरूपं व्यङ्ग्यं हंसत्वादिसाधकमात्रम् । अतएवात्र क्षणदानिभेत्यस्यापि पदस्य रात्रिकालाक्षेपेण अनिः शेषं भातीति तमसो बहुलीभावाथठरमणोपयोगितेति प्राच्यानामपि व्याख्या । तदेवं क्षितिभृत इत्यादि सर्वेषां रूप्यमाणानां हठरमणोपकरणत्वाद्यथोक्तमेव ज्यायः । "द्यामालिलिङ्ग, मुखमाशुदिशां चुचुम्ब रूद्धाम्बरः शशिकलामलिखत्करग्रैः । आन्तर्निमग्नचरपुष्पशरोऽतिपाता-- त्किं किं चकार तरुणो नयदीक्षणाग्निः ॥ इत्यत्र नयनाग्नेः तरुणत्वस्य प्रौढत्वरूपमर्थमादाय प्रथममभिधाया विश्रामाद्व्यञ्जनयैव युवरूपोर्ऽथः प्रतीयते । इह तु क्षितिभृत इत्यादौ बहूनां रूपणात्प्रतापस्य तरुणत्वरूपणं शाब्दम् । इतश्च रमत इत्यादिपदानां रूपकसाधकतैव, नतु द्यामालिलिङ्ग इत्यादावालिङ्गनादीनामिव समासोक्तिसाधकता । अन्यथा सर्वत्रैव एकदेशविवर्तिरूपकेषु समासोक्तिप्रसङ्गः स्यात् । हठादानीय रमत इत्यत्र कार्य्यसाम्येऽपि न समासोक्तिः । यदि हि कार्य्यलेशसाम्यं वा समाश्रित्य समासोक्तिरङ्गीकार्य्या तदेकदेशविवर्तिरूपकस्य विषयापहार एव स्यात्, तस्यानेवंविधस्व लक्ष्यस्याप्रसिद्धेः । यत्र वाचा रूपणं नास्ति द्यामालिलिङ्गेत्यादि समासोक्त्युदाहरणवत्कार्य्यसाम्यबाहुल्यसम्वलितत्वम्, तत्रैव सामग्षभावादप्रस्तुतनायिकातादात्म्यं प्रतीयते । आभातीत्यादौ च वाच्यरूपणानां बहुत्वेन कार्य्यादिसाम्यं स्वल्पतया तत्सहाय्यमेवाचरति इति । अरिकीर्त्त्यादेस्तादात्म्यप्रतीतिहेतुत्वं सहृदयानुभवसिद्धं नतु व्यवहारसमाहोपजीविता समासोक्तिः । अनयोश्च समासोक्त्येकदेशविवर्तिरूपकयोरपरमपि युक्तिजातमिहैव समासोक्तिप्रस्तावे सुव्यक्तं भविष्यतीत्यलं बहुना । ********** टीका सम्पूर्णा ********** क्वचित्समासाभावेऽपि रूपकं दृश्यते-- "मुखं तव कुरङ्गाक्षि ! सरोजमिति नान्यथा" । क्वचिद्वैयधिकरण्येऽपि यथा-- "विदधे मधुपश्रेणीमिह भ्रूलतया विधिः" । ************* टीका ************* विज्ञप्रिया (वि, ण) उक्तरूपकाणामेवान्तरविशेषान् प्रपञ्चयति---क्वचित्त्विति । "राजमण्डलराहवे" इत्यादिषु सर्वत्र समास एव तस्य दर्शितत्वात् । मुखं तवेति । स्पष्टम् । वैयाधिकरण्ये विभिन्नविभक्तिकत्वे । विदधे इति । तथा चात्र भ्रूलतया हेतुना मधुपश्रेणीं विधिर्विदधे इत्यर्थः । भ्रूलतां विधातुं मधुपश्रेणीं विदधे इति पर्य्यवसितोर्ऽथः । इच्छाद्वारा भ्रूलतायास्तद्विधानहेतुत्वात् । लोचना (लो, ऐ) समासमभावेऽपि रुपकमुदाहृतमपि स्पष्टप्रतिपत्तये पुनरुदाहरति-मुखमिति । विदध इत्यादौ तव भ्रूलता मधुपश्रेणी इत्यर्थः । ********** टीका सम्पूर्णा ********** क्वचिद्वैधर्म्येऽपि यथा-- "सौजन्यम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुणज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा । यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, त) क्वचिद्वैधर्म्येऽपि इति । रूप्यरूपकयोर्विरुद्धधर्मो नार्ऽथः । किन्तु निर्दिष्टं यत्साधर्म्यं तदभाववत्त्वमेवात्र वैधर्म्यम् । सौजन्याम्बिति । अत्र कलियुगे यैर्दुराशया एषा राजावली नृपश्रेणी सेविता भक्तिमात्रसुलभे शूलिनि तेषां सेवा कियत्कौशलम् । राजावली कीदृशी ? सौजन्यरूपस्याम्बुनो मरुस्थली । अत्राभिन्नत्वेन निर्दिष्टयोः सौजन्याम्बुनोरुभयधर्मता इति । तयोरभावत्वमेव द्वयोर्मरुराजावल्योर्यथोक्तं वैधर्म्यम् । एवमुत्तरोत्तरं बोध्यम् । सुचरितरूपं यदालेख्यं वस्तु, तस्य द्युरूपा गगनरूपा भित्तिराश्रयः । गुणरूपायाः ज्योत्स्त्रायाः कृष्णचतुर्दशी । सरलतायोगश्वपुच्छच्छटा । अत्र छटापदं स्वरूपार्थकम् । तथा सरलतायाः योगस्य सम्बन्धस्य कुक्कुरपुच्छस्वरूपेत्यर्थः । सर्वत्र निर्दिष्टधर्माभावो बोध्यः । लोचना (लो, ओ) वैधर्म्येण, वैपरीत्येन, समानधर्मरूपतानापन्नेन । सरलता सन्मार्गता, वक्रताविरहश्च । अत्र वैधर्म्येण परम्परितरूपकम् । ********** टीका सम्पूर्णा ********** इदं मम । अत्र च केषाञ्चिद्रूपकाणां शब्दश्लेषमूलत्वेऽपि रूपकविशेषत्वादर्थालङ्कारमव्ये गणनम् । एवं वक्ष्यमाणालङ्कारेषु बोध्यम् । लोचना (लो, औ) ननु पद्मोदयेत्यादौ परम्परितादेः शब्दान्वयव्यतिरेकानुविधायित्वात्कथं वार्ऽथालङ्कारमध्ये गणनमित्यत आह---अत्रेति । शब्दश्लेषमूलत्वेऽपि शब्दद्व्यर्थतायाः शब्दान्वयव्यतिरेकानुविधानप्रयोजकत्वादुक्तरीत्या यद्यपि शब्दालङ्कारतैवोचितेति भावः । वक्ष्यमाणालङ्कारा विरोधादयः । वक्ष्यमाण इत्युपलक्षणम् । तेन उक्तायां शब्दसाधारणधर्मायामुपमायामपि ज्ञेयमिति शेषः । ********** टीका सम्पूर्णा ********** अधिकारूढवैशिष्ट्यं रूपकं यत्तदेव तत् । तदेवाधिकारूढवैशिष्ट्यसंज्ञकम् । यथा मम-- "इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः सुधाधाराधारश्चिरपरिणतं बिम्बमधरः । इमे नेत्रे रात्रिन्दिवमधिकशोभे कुवलये तनुर्लावण्यानां जलधिरवगाहे सुखतरः" ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) रूपकान्तरमाह--अधिकेति । रूप्यमाणेन व्यक्तिविशेषेणापरप्रसिद्धतत्सजातीयतोऽधिकमारूढं वैशिष्ट्यं तदित्यर्थः । तदेव तन्नामकमेव । इदं वक्त्रमिति । कलङ्कविरहो वैशिष्ट्यं रूप्यमाणशशधरव्यक्तिविशेषेण आरूढम् । एवमुत्तरत्र सुधाधाराया आधारोऽधरश्चिरकालस्थमेव परिणतं पक्कं बिम्बम् । अत्र एक्कस्य चिरकालस्थितिर्वैशिष्ट्यम् । परार्द्धं स्पष्टम् । एवं च--- "असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे" ॥ इत्यत्रायमप्यलङ्कारो मालारूपो बोध्यः । असम्भृतत्वानासवाख्यत्वपुष्पभिन्नत्वरूपवैशिष्ट्यारोहणात् । लोचना (लो, अ) अधिकारूढं वैशिष्ट्यं विशेष आर्थादारोप्यमाणादारोपविषयस्य यत्रेत्यर्थः । अवगाहे सुखतर इत्यत्र लवणेदधिर्मकरतरङ्गलवणादिसद्भावादवगाहकानां सुखावहो न भवतीत्याशयः । अधिकं वैशिष्ट्यमर्थात्सुखादेः । प्रस्थानान्तरे चेदमेकगुणहानौ विशेषोक्तिरिति । "असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे" ॥ इहासम्भृतं मण्डनमित्यत्र केचिदाहुर्विभावनाख्योऽलङ्कार इति, तन्न । न खलु सम्भरणपुष्पे मण्डनास्त्रयोः कारणे, किन्तु तत्स्वरूपे । अन्ये त्वाहुः, परिणामोऽयमिति । तदप्यसत्, तत्कार्य्यस्य शरीरशोभाकरणस्य मदनोद्दीपनस्य च प्रस्तुत्वेन केनचिदनुसन्धीयमानत्वाभावात् । राघवानन्दमहापात्रास्त्वाहुः- अधिकारूढवैशिष्ट्यं रूपकमिदमिति । तदपिचिन्त्यम् । आरोपविषयस्यारोप्यमाणात्केनचिदंशेन वैशिष्ट्यस्यैतत्प्रयोजकत्वात्तत्स्वरूपत्वम् । तेनात्र "अयं राजा अपरः पाकशासनःऽ "अन्यदेवाङ्गलावण्यम्ऽ इत्यादिवदतिशयोक्तिरेव भवितुं युक्तेति मामकः पक्षः । अध्यवसायस्य स्फीततयानुभूयमानत्वात् । रूपकस्य च आरोपमूलत्वात् । ********** टीका सम्पूर्णा ********** अत्र कलङ्कराहित्यादिनाधिकं वैशिष्ट्यम् । विषयात्मतयारोप्ये प्रकृतार्थोपयोगिनि ॥ १०.३४ ॥ परिणामो भवेत्तुल्यातुल्याधिकरणो द्विधा । ************* टीका ************* विज्ञप्रिया (वि, द) परिणामालङ्कारमाह---विषयात्मतयेति । विषयो रूपणाधिकरणं, प्रकृतार्थोपयोगिन्यनुष्ठीयमानार्थोपयोगिनि आरोप्ये, आरोप्यस्य परिणामित्यर्थः । तुल्यातुल्येति । अभिन्नाभिन्नविभक्तिक इत्यर्थः । लोचना (लो, आ) विषय आरोपविषयः, तदात्मतया, तद्रूपतया नतु रूपकवत्तदुपरञ्जकत्वमात्रेण । एवं चास्य विषयात्मत्वेन, प्रकृते कार्य्योपयोगित्वेन रूपकाद्व्यवच्छेदः । रूपके विद्यमानाया अपि तादात्म्यप्रतीतेर्न पर्य्यन्तं गन्तुमाकाङ्क्षा इत्याशयः । परिणामालङ्कारस्य तथाभूतो रूप्यमाणो विद्यते यदेतद्द्विप्रकारं परिणामं नाम निर्वक्ति । ********** टीका सम्पूर्णा ********** आरोप्यमाणस्यारोपविषयात्मतया परिणमनात्परिणामः । लोचना (लो, इ) आरोप्येति---परिणमनस्थाननिवेशेन तद्रूपतापत्तेः । नतु सतो धर्मिणो वै पूर्वरूपपरित्यागेन रूपान्तरापत्तेरिति भावः । ********** टीका सम्पूर्णा ********** यथा-- "स्मितेनोपायनं दूरादागतस्य कृतं मम । स्तनोपपीडमाश्लेषः कृ (त) तो द्यूते पणस्तया" ॥ अन्यत्रोपायनपणो वसनाभरणादिभावेनोपयुज्येते । अत्र तु नायकसंभावनद्यूतयोः स्मिताश्लेषरूपतया । ************* टीका ************* विज्ञप्रिया (वि, ध) स्मितेनेति । अत्राभेदे तृतीया । अत्र स्मिते आरोप्यमाणमुपायनं वास्तवस्मिततयैव परिणतं, तच्चानुष्ठीयमानसम्भावनोपयोगि । स्तनोपपीडमिति । स्तनावुपपीड्याऽश्लेष इत्यर्थः । अत्राऽश्लेषे आरोप्यमाणः पणो वास्तवश्लेषतयैव परिणतः अनुष्ठीयमानद्यूतोपयोगी । उभयत्रानुष्ठीयमानार्थोपयोगं दर्शयति---अन्यत्रेति । सम्भावनद्यूतयोरित्यत्रोपयुज्येते इत्यस्यान्वयः । आरोप्यमाणयोरुपायनपण्योः स्मिताश्लेषरूपतयेत्यत्र परिणाम इति शेषः । ********** टीका सम्पूर्णा ********** प्रथमार्द्धेवैयधिकरण्येन प्रयोगः, द्वितीये सामानाधिकरण्येन । रूपके "मुखचन्द्रं पश्यामि" इत्यादावारोप्यमाणचन्द्रादेरुपरञ्जकतामात्रम्, न तु प्रकृते दर्शनादावुपयोगः । इह तूपायनोदेर्विषयेण तादात्म्यं प्रकृते च नायकसंभावनादावुपयोगः । अत एव रूपके आरोप्यस्यावच्छेदकत्वमात्रेणान्वयः, अत्र तु तादात्म्येन । ************* टीका ************* विज्ञप्रिया (वि, न) रूपके आरोप्यमाणस्यानुष्ठीयमानार्थोपयोगो नास्तीति दर्शयति---रूपके इति । उपरञ्जकत्वमात्रं शोभाबोधकत्वमात्रम् । नत्विति । उपयोगो निर्वाहकत्वं चन्द्रेण दर्शनानिर्वाहात् । प्रकृते तु निर्वाहकत्वमस्त्येवेत्याह । इह त्विति । तदात्म्यमित्यत्र उपयुज्यते इति शेषः । तादात्म्यस्योपयोगप्रदर्शनं परिणामतः उपायनादेरेवोपयोगप्रदर्शनपर्य्यवसन्नं बोध्यम् । उपायनेन सम्भावनस्य पणेन द्यूतस्य च निर्वाहात् । तदेव विशदयित्वा दर्शयति---प्रकृते चेति । उपयोगः सम्भावनद्यूतयोर्निर्वाहकत्वेनोपायनपणयोः स्मिताश्लेषाभेदेनान्वयैत्यर्थः । स चान्वयोऽनारोपित इत्यतो निर्वाहकता । आरोपे तु न निर्वाहकतेत्याह---अतएवेति । अनारोपे सत्येव निर्वाहकत्वादेवेत्यर्थः । अवच्छेदकत्वेन अवास्तवत्वेन । प्रकृते तु वास्तवत्वेन इत्याह---अत्र चेति । तादात्म्यं वस्तवोऽभेदः । लोचना (लो, ई) कविनिबन्धाहार्य्यतादात्म्येऽप्यारोपस्यैव रूपकप्रयोजकत्वादित्यवच्छेदकत्वमात्रेण । उपरञ्जकत्वामात्रं चारुत्वातिशयप्रकटनमात्रम् । तुश्चार्थः । तादात्म्यं तत्र निवेशः स्मितादेः उपायनत्वमस्ति तद्विशेषकत्वात् । मुखादेश्चन्द्रादित्वं न तथेति भावः । ********** टीका सम्पूर्णा ********** "दासे कृतागसि-" इत्यादौ रूपकमेव, न तु परिणामः । आरोप्यमाणकण्टकस्य पादभेदनकार्यस्याप्रतुतत्वात् । न खलु तत्कस्यचिदपि प्रस्तुतकार्यस्य घटनार्थमनुसन्धीयते । ************* टीका ************* विज्ञप्रिया (वि, प) दासे कृतागसीत्यादिश्लोकीयरूपके तु परिणामाप्रसक्तिं दर्शयति---दासे इति । नन्वत्र कथं रूपकमेवेत्युक्तं सूक्ष्माग्रत्वेन कठोरत्वेन च पुलकाङ्कुराणां कण्टकभेदस्य वास्तवत्वादेवेत्याह---आरोप्यमाणेति । पादभेदः कार्य्यं यस्य तादृशस्यारोप्यमाणकण्टक्सय पुलकरूपस्येत्यर्थः । अत्र यद्यपि पुलकस्य कण्टकारोपविषयत्वमेव कण्टकत्वेनारोप्यमाणत्वं यथापि पादभेदकार्य्यकत्वेऽनारोप्यमाणस्येत्यर्थः । तथाच तत्कार्य्यनिर्वाहकत्वं यतस्तस्यारोप्यमाणमतस्तस्य कण्टकत्वमपि न वास्तवम् । किन्तु आरोप्यमाणमेवेत्यतो रूपकमेवेत्यर्थः । ननु पादभेदकार्य्यनिवार्हकत्वमेव पुलकाङ्कुराणामस्ति । तत्कथमवास्तवत्वमित्याह---न खल्विति । तत्पुलकाङ्कुराग्रं कस्यचिदपि--भेदो हि प्रस्तुतं कार्य्यम् । कस्यचिदपि पादीयभेदस्यान्यदीयभेदस्य वा कस्यचिद्घटनार्थमित्यर्थः । इत्थं रूपकाभिन्नतया परिणामः सिद्धः । एवम् --- "शिष्यतां निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया । शिक्षितं सुरतिनैपुणं तया यत्तदेव गुरुदक्षिणीकृतम्" ॥ इत्यत्रापि गुरुदक्षिणायाः सुरतिनैपुण्येन परिणामात्परिणआमालङ्कार एवेति बोध्यम् । ********** टीका सम्पूर्णा ********** अयमपि रूपकवदधिकारूढवैशिष्ट्यो दृश्यते । यथा-- "वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः" ॥ अत्र प्रदीपानामौषध्यात्मतया प्रकृते सुरतोपयोगिन्यन्धकारनाशे उपयोगोऽतलपूरत्वेनाधिकारूढवैशिष्ट्यम् । ************* टीका ************* विज्ञप्रिया (वि, फ) वनेचराणामिति । यत्र हिमालये औषधय एव रजन्यां वनेचराणां वनितासखानां सुरतप्रदीपा भवन्ति इत्यन्वयः । प्रदीपीभावे हेतुमाह---दरीगृहेति । अतैलपूराः तैलपूरणरहितास्तैलसमूहरहिता वा । अत्र प्रदीपीभावस्य प्रकृतार्थोपयोगित्वं दर्शयति---अत्रेति । प्रकृते सुरतोपयोग्यन्धकारनाशे प्रदीपानामौषध्यात्मतया उपयोग इत्यन्वयः । औषध्यात्मतया परिणामस्येत्यपि क्वचिन्धोभनः पाठः । औषध्यात्मतया प्रकृत इति क्वचित्प्रामादिकः पाठः । नच सुरतमेव शाब्दं प्रकृतं नान्धकारनाशः॑ तस्याशाब्दत्वादिति वाच्यम् ? सुरतोपयोगित्वेन तस्यापि प्रकृतत्वात् । ********** टीका सम्पूर्णा ********** संदेहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः ॥ १०.३५ ॥ शुद्धो निश्चयगर्भोऽसौ निश्चयान्त इति त्रिधा । ************* टीका ************* विज्ञप्रिया (वि, ब) सन्देहालङ्कारमाह---सन्देह इति । प्रतिभया उत्थितोऽन्यस्याप्रस्तुतार्थकोटेः प्रस्तुते वस्तुनि यः संशयः स सन्देहालङ्कार इत्यर्थः । लोचना (लो, उ) सन्देहः सन्देहाख्योऽलङ्कारः । प्रकृते वर्ण्यमाने अन्यस्य आरोप्यमाणस्य । एवं च प्रकृतसन्देहेऽप्रकृतमपि सन्दिह्यत एव । एवं च प्रकृताप्रकृतविषयसंशयज्ञानं सन्देहालङ्कारः इत्यर्थः । संशयश्च व्यवस्थानाद्यनेककोटिकज्ञानम् । एवंच संशय इत्येतावतैव लक्षणे पर्याप्ते प्रकृते अन्यस्येति वचनं "मध्यं तव " इत्यादि वृत्त्युदाहरिष्यमाणव्यवच्छेदार्थम् । प्रतिभोत्थित इति, प्रतिभा कवेः, तया उत्थितः आदृतः,एवञ्च कविवर्णितस्यापि "स्थाणुर्वा पुरुषो वा" इति संशयस्य नालङ्कारता । एतदेव वृत्तौ स्फुटीभविष्यति । अप्रतिभोत्थापित इत्यादिना । ********** टीका सम्पूर्णा ********** यत्र संशय एव पर्यवसानं स शुद्धः । यथा-- "किं तारुण्यतरोरियं रसभहोद्भिन्ना नवा वल्लरी वेलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः । उद्राढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः" ॥ ************* टीका ************* विज्ञप्रिया (वि, भ) किं तारुण्येति । इयं नायिका किं लावण्यतरोः नवा वल्लरी ! लावण्यरूपतर्वाश्रिता नवा लतेत्यर्थः । कीदृशी रसभरोद्भिन्ना शृङ्गररस एव रसोजलं तेनोद्भिन्नो जलसेकेन लतोद्भेदात् । किंवा वेलया नीरेण प्रोच्छलितस्य उच्छलितस्य लावण्यरूपस्य वारांनिधेः समुद्रस्यलहरिका तरङ्गः । "वेला स्यान्नीरतीरयोः" इति कोषः । किं वा शृङ्गारिणो देवस्य कन्दर्पस्य अर्थात्शृङ्गारार्थमुद्दमोत्कलिकानतां गाढोत्कण्ठावतां जनानां स्थाने उपदेशस्य अर्थात्शृङ्गारोपदेश्स्य साक्षाद्वष्टिणलम्बनभूता यष्टिः । एनामालम्ब्य शृङ्गारोऽनुभूयतामित्युपदेशः । देवस्य कीदृशस्य स्वसमयस्य वसन्तस्य उपन्यासेन विश्रम्मिणो विश्वस्तस्य ममेदानीमुपदेशो योग्य इत्यवें विश्वासवत इत्यर्थः । असन्दिहानत्वमेव विश्वासः । लोचना (लो, ऊ) रसः तारुण्यपक्षे---भोगभिलाषः, पक्षे सामान्यद्रवः । वेलालावण्यपक्षे-सामान्यमर्य्यादा, समुद्रपक्षे-तटम् । उच्छलितमुत्सर्पणमतिक्रमः । उत्कलिका उत्कण्ठा । स्त्रसमयोपन्यासविश्रम्भिणः स्वसम्मतार्थकथने विश्वासप्रवर्त्तकस्य साक्षादुपदेशयष्टिः, यष्ट्याकारमूर्त्तिमत्त्वेन प्रत्यक्षमुद्देशः । यद्वा उपदेशार्थं यष्टिः, ताडनवेत्रादिदण्डः । तथाहि---यस्याः कस्या अपि विद्याया उपदेष्टारः चपलचित्तनिवारणाय ताडनार्थं यष्टिमाददते इति लोकप्रसिद्धः । ********** टीका सम्पूर्णा ********** यत्रादावन्ते च संशय एव मध्ये निश्चयः स निश्चयमध्यः । यथा-- "अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति पुनः समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः" ॥ लोचना (लो, ऋ) सर्वा दिशो न प्रसरति, किन्तूर्ध्वमेव ज्वलतीति प्रसिद्धम् । ********** टीका सम्पूर्णा ********** अत्र मध्ये मार्तण्डाद्यभावनिश्चयः, राजनिश्चये द्वितीयसंशयोत्थानासंभवात् ************* टीका ************* विज्ञप्रिया (वि, म) मध्ये च निश्चय इति । एककोटेर्व्यातिरेकनिश्चय इत्यर्थः । अयमिति । आजौ युद्धे त्वां समालोक्य प्रतिभटाः प्रतिकूलवीरा इत्येवं वितर्कान् विदधति कुर्वान्ति । तान् वितर्कानाह---अयमिति । इतो गतः । सर्वा दिश इति । कृशानुः सर्वा दिशो न प्रसरति । अयं तु सर्वदिक्प्रसारी, अतो न कृशानुरित्यर्थः । साक्षात्कृतान्त इत्यन्वयः । महिषवाहनत्वाभावान्न कृतान्त इत्यर्थः । अत्र मार्त्तण्डाद्यभावनिश्चयो मध्ये । ननु विरुद्धकोट्यभावनिश्चयाद्राजकोटिनिश्चयोऽपीत्यत आह---राजत्वनिश्चय इति । ********** टीका सम्पूर्णा ********** यत्रादौ संशयोऽन्ते च निश्चयः स निश्चयान्तः । यथा-- किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते तरुण्याः । संशय्य क्षणमिति निश्चिकाय कश्चिद्विब्बोकैर्वकसवासिनां परोक्षैः" ॥ ************* टीका ************* विज्ञप्रिया (वि, य) किं तावदिति । नायिकायामपि सरस्त्वाशङ्का बोध्या । आरादेतत्किमित्यर्थः । विव्वोकैः "विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादर"इति । एवंलक्षणैः स्त्रीणां हावविशेषैरित्यर्थः । कीदृशैः बकसहवासिनां परोक्षैः--बका हि मत्स्यनिश्चयार्थं ध्यायिनस्तत्सहवासिनस्ततः शिक्षितध्यानास्तेषामपि परोक्षैः अप्रत्यक्षैः । अतिदुरूहत्वादत्यन्तध्यानेनैव ज्ञेयैरित्यर्थः । ********** टीका सम्पूर्णा ********** अप्रतिभोत्थापिते तु "स्थाणुर्वा पुरुषो वा" इत्यादिसंशये नायमलङ्कारः । लोचना (लो, ॠ) विव्वोको, भावविशेषः । यदुक्तमत्रैव "विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादर" इति । बकसहवासिनां पद्मानां परोक्षैरगोचरैः । अप्रतिभोत्थापिते इत्यनन्तरं काव्योपनिबद्धेऽपीति शेषः । ********** टीका सम्पूर्णा ********** "मध्यं तव सरोजाक्षि ! पयोधरभरादितम् । अस्ति नास्तीति संदेहः कस्य चित्ते न भासते" ॥ अत्रातिशयोक्तिरेव, उपमेये उपमानसंशयस्यैवैतदलङ्कारविषयत्वात् । ************* टीका ************* विज्ञप्रिया (वि, र) एकमसादृश्यमूलकाहार्य्यसंशयान्तरेऽपि नायकलङ्कार इत्याह---मध्यं तवेति । सन्देहः कस्य चित्ते न भासते इत्यन्वयः । तत्रातिशयोक्तिः इति वक्ष्यमाणायाः पञ्चविधाया अतिशयोक्तेर्भेदेऽप्यभेदारोपरूपप्रभेद एवात्रेत्यर्थः । नास्ति यः पदार्थः तदसत्त्वेऽपि तदभेदारोपरूपत्वात् । नन्वेवं सन्देहालङ्कारेऽप्येवमारोपोऽस्त्येवेत्यत आह---उपमेयेति । तथाचानयोरलङ्कारयोः परस्परभेदो निवेशनीय इति भावः । लोचना (लो, ळ) अतिशयोक्तिरेवाध्यवसायमूलत्वात् । ********** टीका सम्पूर्णा ********** साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थितः ॥ १०.३६ ॥ लोचना (लो, ए) मिथ्याज्ञानसादृश्येन सन्देहानन्तरमस्य प्रस्तावः । भ्रान्तिश्चित्तधर्मविशेषो विद्यते यत्र भ्रमप्रकारे स भ्रान्तिमानित्यन्वर्थनामालङ्कारः । ********** टीका सम्पूर्णा ********** यथा-- "मुग्धा दुग्धधिया गवां विदधते कुम्भानघो वल्लवाः कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि । कर्कन्धूफसमुच्चिनोति शबरी मुक्ताफलाशङ्कया सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका" ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) भ्रान्तिमदलङ्कारमाह---साम्यादिति । तद्वुद्धिस्तत्त्वेन बुद्धिः । मुग्धा इति । चन्द्रमसः सान्द्रा चन्द्रिका कस्य जनस्य चित्तविभ्रमं न कुरुते इत्यर्थः । भ्रान्तान् दर्शयति---मुग्धा इति । बल्लवाः गोपाः मुग्धा भ्रान्ताः सन्तः दुग्धधिया गवामधः कुम्भान् विदधते दुग्धमादातुमित्यर्थः । कैरवशङ्कया इत्यत्र शङ्काभ्रम एव । कर्कन्ध्विति । बदरफलमित्यर्थः । आकाङ्क्षा चात्र भ्रममूलिका । लोचना (लो, ऐ) कर्कन्धूर्बदरी । ********** टीका सम्पूर्णा ********** अस्वरसोत्थापिता भ्रान्तिर्नायमलङ्कारः । लोचना (लो,ओ) प्रतिभोत्थापितेति लक्षणपदस्य व्यावृत्तिं दर्शयति---स्वरस ज्ञत । स्वारसः स्वभावः । ********** टीका सम्पूर्णा ********** यथा--"शुक्तिकायां रजतम्" इति । लोचना (लो, औ) शुक्तिकायां रजतभ्रान्तिरित्यर्थः । स्वरस इत्यतः पूर्वं काव्येऽपीति शेषः । ********** टीका सम्पूर्णा ********** न चासादृश्यमूला । यथा-- "संगमविरहविकल्पे वरमिह न संगमस्तस्याः । सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे" ॥ ************* टीका ************* विज्ञप्रिया (वि, व) प्रतिभोत्थितेत्यस्य व्यावृत्तिमाह---स्वरसेति । असादृश्यमूलकम्रमेऽपि नायमलङ्कार इत्याह---नचासादृश्येति । सङ्गमेति । सङ्गमविरहयोः विकल्पे वरन्त्वविचारे इत्यर्थः । वरं मनागिष्टम् । न चात्रापि त्रिभुवने तत्सादृश्यभ्रमात्तद्भ्रम इति वाच्यम् । सादृश्यांशेऽभ्रमस्यैव विवक्षितत्वात् । तथाच सङ्गमाद्विरहस्याधिक्याद्व्यतिरेकालङ्कारः एवायमिति भावः । एवं च लोभादिना भ्रमेऽपि न भ्रान्तिमान् । यथा "जगद्धनमयं लुब्धाः कामुकाः कामिनीमयम् । नारायणमयं धीराः पश्यन्ति परमार्थिनः ॥ "इति । नचात्र धनभेदेऽपि धनाभेदारोपारूपातिशयोक्तिरेवात्रेति वाच्यम् । अतिशयोक्तिघटकस्य आरोपस्य आहार्य्यत्वे एव तथात्वात् । अत्र तु प्रथमे चिन्तारूपव्यभिचारिभावध्वनिः । द्वितीये शृङ्गारध्वनिः । तृतीये भावध्वनिरेव । लोचना (लो, अ) साम्यादित्यस्य व्यावृत्तिर्नचेत्यादि । ********** टीका सम्पूर्णा ********** क्वचिद्भेदाद्ग्रहीतॄणां विषयाणां तथा क्वचित् । एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते ॥ १०.३७ ॥ ************* टीका ************* विज्ञप्रिया (वि, श) उल्लेखालङ्कारमाह---क्वचिद्भेदादिति । एकस्य वस्तुनोऽनेकधा अनेकत्वेनोल्लेखो बुद्धैविषयत्वमित्यर्थः । तादृशबुद्धेर्हेतुद्रयमाह---क्वचिद्भेदादिति । क्वचिन्नानाग्रहीतॄणां तत्तद्रूपेणानेकत्वबुद्धिः । क्वचित्तु तादृशबुद्धिप्रयोजकधर्मरूपाणां विषयाणां भेदादेकस्यैव ग्रहीतुस्तथात्वबुद्धिविषयत्वमित्यर्थः । तेनास्य द्वैविध्यम् । ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्-- "प्रिय इति गोपवधूभिः शिशुरिति वृद्धैरधीश इति देवैः । नारायण इति भक्तैर्ब्रह्मेत्यग्राहि योगिभिर्देवः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) प्रिय इतीति । देवः श्रीकृष्णस्तैस्तैः सममित्यग्रहीत्यर्थः । तत्तदेवाह--प्रिय इत्यादि । प्रियः स्वामी । सागरशायिरूपनीरूपत्वेन भेदान्नारायणब्रह्माणोर्भेदः । "आपो हि नाराः" तदयनः तत्स्थो नारायणः जलशायी इत्यर्थः । ********** टीका सम्पूर्णा ********** अत्रैकस्यापि भगवतस्तत्तद्गुणयोगादनेकधोल्लेखे गोपवधूप्रभृतीनां रुच्यादयो यथायोगं प्रयोजकाः । ************* टीका ************* विज्ञप्रिया (वि, स) तत्तद्गुणे इति । तादृशबुद्धिप्रयोजकतत्तद्गुण इत्यर्थः । सच प्रिय इत्यत्र सौन्दर्यरूपः, शिशुरित्यत्र स्त्रेहविषयत्वम्, अधीश इत्यत्रैश्वर्य्यम्, नारायण इत्यत्र ध्यानोपयोगिमूर्त्तिमदभिन्नत्वम्, ब्रह्मेत्यत्र तद्व्यावृत्तस्वरूपाभिन्नत्वम् । रुच्यादयः प्रयोजका इति । तथाच तादृशरुचिमन्तो ग्रहीतारो भिन्ना इति दर्शितम् । ********** टीका सम्पूर्णा ********** यदाहुः-- "यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधितः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) रुच्यादीनां तद्वुद्धिप्रयोजकत्वे संवादमाह---यथारुचीति । एकस्मिन्नर्थे अनुसन्धानेन मनोनिवेशेन साधित आभासः ज्ञानं बुद्धिरपि यथारुच्यादि---भेदात्भिद्यत इत्यर्थः । रुचिरिच्छा, अर्थित्वं किञ्चित्प्राप्त्यर्थमिच्छारूपा । व्युत्पत्तिः संस्कारः । लोचना (लो, आ) व्युत्पत्तिरभ्यासकृता वासना, वा प्रतीतिः । अनुसन्धानं मनसस्तद्विषये प्रविणीकरणम् । तेन साधितः विषयान्तरं व्यवच्छिद्य निर्वाहितः । एवं च प्रिय इत्यादौ भगवतः प्रियत्वे गोपवधूनां रुच्यादित्रितयमपि प्रयोजकम् । शिशुत्वे च वृद्धानां व्युत्पत्तिः । सच्चिदानन्दब्रह्मत्वे योगिनां व्युत्पत्तिः एवमन्यत्र । ********** टीका सम्पूर्णा ********** अत्र भगवतः प्रियत्वादीनां वास्तवत्वाद्ग्रहीतृभेदाच्च न मालारूपकम्, न च भ्रान्तिमान् । न चायमभेदे भेद इत्येवंरूपातिशयोक्तिः । तथाहि--"अन्यदेवाङ्गलावण्यम्-" इत्यादौ लावण्यादेर्विषयस्य पृथक्त्वेनाध्यवसानम् । न चेह भगवति गोपवधूप्रभृतिभिः प्रियत्वाद्यध्यवसीयते प्रियत्वादेर्भगवति तत्काले तात्त्विकत्वात् । ************* टीका ************* विज्ञप्रिया (वि, क) अत्र मालारूपकप्रसाक्तिं निरस्यति---अत्र भगवत इति । वास्तवत्वेन अहार्य्याभेदारोपात्मकरूपकाप्रसाक्तिः ग्रहीतृभेदाच्च न तन्मालात्वप्रसाक्तिः॑ मालाया ग्रहीतृभेदाविवक्षमाणादेव । यद्यपि वास्तवत्वेन रूपकाप्रसक्तौ मालारूपकप्रसक्तिरपि तत एव निरस्ता तथापि ग्रहीतृभेदप्रदर्शनं मालापरिणामप्रसक्तिवारणसूचनार्थम् । वास्तवत्वेन तत्प्रसक्तिसत्त्वेऽपि ग्रहीतृभेदस्य तद्वाधकत्वादिति हेतुः । अप्रसक्तमप्यतिशयोक्तिप्रभेदविशेषं वैशद्याय निरस्यति---नचायमभेद इति । तत्प्रभेदस्योदाहरणं प्रदर्शयते । तत्प्रसक्तिर्नास्तीत्याह---तत्र हीति । तत्रातिशयोक्तिप्रभेदे पृथक्त्वेन तत्रैव तदन्यत्वेन । नचेहेति । इह प्रिय हत्याद्युल्लेखोदाहरणे । प्रियतान्यथेति । प्रियतातः अन्यथा इत्यर्थः । किन्तु प्रियत्वाद्यध्यवसीयते इति क्वचित्प्रामादिकः पाठः । स चाध्यवसीयत इत्यत्र निरस्यते इत्येवं लक्षणया समर्थनीयः । तात्त्विकत्वादित्यन्यत्वेनाबोधितत्वादित्यर्थः । तात्त्विकबुद्ध्या च नाहार्य्यारोपरूपं रूपकं चेत्युक्तम् । लोचना (लो, इ) भगवतस्तत्काले तात्त्विकत्वाद्ग्रीतृभेदाच्चेति हेतोर्द्वयमपि मालारूपकभ्रान्तिमतोर्द्वयोरपि विवेकः । तात्त्विकं वस्तुतस्तद्रूपतायाः सम्भवात् । तथा मालारूपकस्य कविनिबद्धाहार्य्यतादात्म्यारोप एव प्रयोजकः । भ्रान्तिमतश्च मिथ्या ज्ञानमेव निदानम् । ग्रोतृभेदस्य च द्वयोरपि सम्भवेऽपि अपवादत्वेन उल्लेखाख्यभिन्नालङ्कारस्य न प्रयोजकत्वमिति भावः । नाचाध्यवसीयते ॑ किन्तु तत्त्वेनैवावसीयते । अध्यवसानं विषयनिगरणेन विषयिणोरभेदप्रतिपत्तिः । ********** टीका सम्पूर्णा ********** केचिदाहुः--"अयमलङ्कारो नियमेनालङ्कारान्तरविच्छित्तिमूलः । उक्तोदाहरणे च शिशुत्वादीनां नियमनाभिप्रायात्प्रियत्वादीनां भिन्नत्वाध्यवसाय इत्यतिशयोक्तिरस्ति, तत्सद्भावेऽपि ग्रहीतृभेदेन नानात्वप्रतीतिरूपोविच्छित्ति विशेष उल्लेखाख्यभिन्नालङ्कारप्रयोजकः । ************* टीका ************* विज्ञप्रिया (वि, ख) अलङ्कारान्तरसङ्करात्तद्भङ्गिमूल एव नियमेनायमलङ्कार इति केचिदाहुः तद्दर्शयति---केचिदिति । विच्छित्तिर्भङ्गिः । उक्तोदाहरणेषु तां विच्छित्तिं दर्शयति---उक्तेति । नियमाभिप्रायादिति । वृद्धैश्च शिशुरेवाग्राहि इत्येवं नियमाभिप्रायदित्यर्थः । अतिशयोक्तिरस्तीत्यग्रेऽन्वयः । तथाच यूनि देवे शिशुभिन्नेऽपि नियमतः शिश्वभेदारोपाद्भेदेऽप्यभेदारोपारूपातिशयोक्तिर्दर्शिता । अत्र च नियमप्रदर्शनं तेषां तथात्वेन भावनातिशयप्रदर्शनार्थमेव, नतु तस्यातिशयोक्तिघटनार्थतेति बोध्यम् । प्रिय इत्याद्यंशेऽपि तमेवातिशयोक्तिं दर्शयति---प्रिय इत्यादीनामिति । अत्र च भेदेऽप्यभेदारोपरूपाया अतिशयोक्तेरेव सम्भवः । तथा च भिन्नार्थाध्यवसाय इत्यत्र भिन्नत्ववत्यध्यवसाय इत्यर्थः । कस्याध्यवसाय इत्यत्राह---प्रियत्वादीनामिति । तथा च अस्वामिनि देवे स्वामित्वारोप एव स्वाम्यभेदारोप इत्यर्थः । अत्रैव केचिदित्यनेनास्वरससूचनम् । देव इत्यनेन आरोपविषयस्योक्तिसत्त्वे तु निगरणघटितस्यातिशयोक्तिसामान्यलक्षणस्यात्राभावात् । वक्ष्यमाणे "श्रीकण्ठजनपदेऽ इत्यादौ नास्वरस इत्यवधेयम् । नन्वेवमतिशयोक्तिसत्त्वे स एवात्राङ्कारोऽस्तु नोल्लेख इत्यत आह---तत्सद्भणेपीति । अतिशयोक्तिसत्त्वेपीत्यर्थः । प्रतीतिरूपविच्छित्तिविशेष अल्लेखाख्यातिशयोक्तिभिन्नस्यालङ्कारस्य प्रयोजक इत्यर्थः । ********** टीका सम्पूर्णा ********** श्रीकण्ठजनपदवर्णने--"वज्रपञ्जरमिति शरणागतैः, अम्बरविवरमिति वातिकैः" इत्यादिश्चातिशयोक्तेर्विविक्तो विषयः । इह च रूपकालङ्कारयोगः" । वस्तुतस्तु--"अम्बरविवरम्-" इत्यादौ भ्रान्तिमन्तमेवेच्छन्ति न रूपकम्, भेदप्रतीतिपुरः सरस्यैवारोपस्य गौणीमूलरूपकादिप्रयोजकत्वात् । यदाहुः शरीरकमीमांसाभाष्यव्याख्याने श्रीवाचस्पतिमिश्राः- "अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तते इति यत्र प्रयोक्तृप्रतिपत्रोः संप्रतिपत्तिः स गौणः, स च भेदप्रत्ययपुरः सरः" इति । इह तु वातिकानां श्रीकण्ठजनपदवर्णने भ्रान्तिकृत एवाम्बरविवराद्यारोप इति । ************* टीका ************* विज्ञप्रिया (वि, ग) अतिशयोक्त्यसङ्कीर्णोऽप्युल्लेखस्य विषयोऽस्तीति दर्शयति---श्रीकण्ठेति । श्रीकण्ठनामा राजविशेषः तस्य नगरं शरणागतैः शत्रुतो भीतैः वज्रपञ्जरमित्यबोधीत्यर्थः । स्वप्रविष्टरक्षकत्वेन वज्रपञ्जरसादृश्यादभेदारोपरूपं रूपकमेवेत्यर्थः । ग्रहीतुर्भेदात्तत्सङ्कीर्ण उल्लेखः । नचासम्बन्धे सम्बन्धारोपरूपातिशयोक्तिरेवेयमिति वाच्यम्, स्वसादृश्यमूलकत्व एव तदवसरात् । शिशुरित्यत्र तु तात्त्विकत्वादेव न रूपकमित्युक्तमेव । असुरविवरमितीति । वातिकैरुन्मतैरप्रकाशरूपसादृश्यबुद्ध्या विवरमित्यर्थः । अतिशयोक्तेर्विविक्त इति । नगरस्यारोपविषयस्य स्वशब्देनैवोक्तत्वेन तन्निगरणाभावादतिशयोक्त्यप्रसक्तेरिति भावः । गौणीमूलेति । गौर्वाहीक इत्यादिवद्गौणीलक्षणमूलेति नात्रार्थः, रूपके लक्षणाभावात् । व्यधिकरणेनैव चन्द्रत्वेन शक्त्यैव चन्द्रपदात्मुखबोधात् । आरोपाधिकरणस्य प्रङ्निर्देशे रूपकं यथा---अयं चन्द्र इत्यत्र । "आरोपस्य प्राङ्निर्देशे तु गौणी लक्षणा, यथा गौर्वाहीक इत्यत्र । किन्तु आरोपाधिकरणस्यारोप्यगुणयोगात्मकसादृश्यरूपा या बुद्धिः सैवात्र गौणीपदार्थः । तादृशबुद्धिमूलकरूपकादिप्रयोजकत्वाद्भेदप्रतीतिपुरः सरारोपस्य इत्यर्थः । रूपकादीत्यादि शब्दात्सादृश्यमूलकोत्प्रेक्षाद्यनेकालङ्कारपरिग्रहः । तत्र मूलकत्वप्रदर्शनं च तत्पूर्वके परिणामालङ्कारे तथात्वाभावप्रदर्शनाय । परशब्द इत्यादि । परशब्दश्चन्द्रादिशब्दो गवादिशब्दश्चेत्यर्थः । परत्र मुखादौ वाहीकादौ च । लक्ष्यमाणेति । लक्ष्यमाणो ज्ञायमानो य आरोपस्य गुणो धर्म आरोपाधिकरणस्य तद्योगेनेत्यर्थः । परत्र वृत्तिश्च रूपके व्यधिकरणप्रकारेण शक्त्यैव । गौर्वाहीक इत्यादौ गौणीलक्षणास्थले तु लक्षणयेति विशेषः । वर्त्तत इतीति । संप्रतिपत्तिर्यत्र शब्दे प्रयोक्तृप्रतिपत्रोः स शब्दो गौण इत्यर्थः । स चेति । स गुणयोग इत्यर्थः । तादृशगुणयोगबुद्धिस्तु असुरविवरमित्यत्र नास्तीत्याह---इव तु इति । लोचना (लो, ई) अलङ्कारान्तरविच्छित्तिर्निदानं यस्येति भावः । शिशुत्वादीनामित्यादिशब्देन प्रियत्वादेः संग्रहः । अयमर्थः--भगवतः शिशुत्वादिभेदेषु सत्स्वपि गोपवधूभिः प्रिय इत्येवायं गृह्यते न शिशुरिति । यथा प्रियत्वादौ सत्यपि वृद्धैः शिशुरित्येव गृह्यते । तदत्रानेकरूपस्यापि प्रतिग्रहीत्रैकैकभेदरूपत्वेन नियमनमिति चाभेदे भेदाध्यवसायादतिशयोक्तिः । यदि त्वयं प्रत्येतृभेदेन भेदेऽतिशयोक्तिसद्भाव एव स्यात्तदातिशयोक्तिप्रकारविशेष एव स्यात्नच तथा, अलङ्कारन्तरेऽपि सम्भवादित्याह---श्रीकण्ठेति । श्रीकण्ठजनपदो नाम श्रीकण्ठदेवताधिष्ठितो देशः । असुरविवरं सिद्धविवरं वातिकाः पवनयोगिनः । यद्वा--असुरविवरं वातरोगशान्तिकरः कोऽपि रोगविशेषः । वातिकैः वातरोगिभिः । अत्राप्यलङ्कारान्तरविच्छित्तिमूलतां दर्शयति---इह चेति । इच्छन्ति तत्त्वज्ञा इति शेषः । रूपकालङ्कारयोग इति तु केषाञ्चिद्मतानुसारेणोक्तमित्यर्थः । कथं न रूपकमित्यत आह---भेदेति । भेदप्रतीतिपुरः--सरस्यैव इत्येवकारेण भ्रान्त्यादेर्व्यवच्छेदः । प्रथमतोऽपि भेदप्रतीतौ भ्रान्त्यादे रभावात् । मुग्धा दुग्धधियेत्यादौ मिथ्याज्ञानस्य कविप्रतिभाहृतत्वेन कविना बल्लवादिनिष्ठत्वेन सत्यत्वेनोपनिबद्धत्वाद्रूपकादीत्यादिशब्देनापह्नुत्यादिसंग्रहः । कथं तथाभूतस्यारोपस्य रूपकादिप्रयोजकत्वमित्यत आह---गौणीमूलेति । रूपकादेर्गौणी लक्षणाहेतुकत्वादित्यर्थः । तथापि कथं तत्रारोपस्य भेदप्रतीतिपुरः सरत्वमित्यत्राचार्य्यसम्मतिं शारीरमीमांसाभाष्यं श्रीमदाचार्य्यशङ्करभगवत्पादकृतम् । परशब्दोऽग्निर्माणवक इत्यादौ माणवकादिशब्दः परत्र माणवकादौ तन्मते लक्ष्यमाणो गुणस्तेक्ष्णयपिङ्गलादिः । प्रयोक्ता वाक्यप्रयोजकः । प्रतिपत्ता तदर्थज्ञाता । स च गौणीवृत्त्या बोध्योर्ऽथः । प्रकृते योजयति--इह तु इति । भ्रान्तिकृत एव प्राच्यानां मते भ्रान्तिकृतत्वाभावे पुना रूपकमस्ति इति भावः । अत्र भ्रान्तिमतोऽलङ्कारत्वेऽपि नालङ्कारान्तरविच्छित्तिमूलत्वं हीयत इति प्रकृते न काचित्क्षतिः । ********** टीका सम्पूर्णा ********** अत्रैव च "चपोवनमिति मुनिभिः कामायतनमिति वेश्याभिः" इत्यादौ परिणामालङ्कारयोगः । लोचना (लो, उ) अत्रैव श्रीकण्ठजनपदवर्णने परिणामालङ्कारयोगः । श्रीकण्ठजनपदे तपोवनत्वाद्यारोपस्य मुन्यादेः प्रकृते तपः प्रभृतावुपयोगात् । नचेह रूपकं तपोवनत्वाद्यारोपस्य सादृश्यमूलत्वाभावात्, मुन्यादीनां तु तपोवनादिभिन्नरूपस्य तद्रूपताप्रतीतेरिह भ्रान्तिमानिति ये । अप्याहुः तेषामयमाशयः--- श्रीकण्ठजनपदे एकदेशस्य तपोवनादित्वेप्यवयवावयविनोरभेदात्समुदायस्य तथात्वप्रतीतिरिह न तात्त्विकीति न परिणामिति । एवमत्र एषु सर्वेषु अलङ्कारान्तरविच्छित्तिसम्भवेऽपि ग्रहीतृभेदेनानेकधोल्लेखस्य विच्छित्तिविशेषस्य सम्भवात्तत्प्रयोजितस्य उल्लेखालङ्कारस्यापलापो न शक्यक्रिय इत्यर्थः । ********** टीका सम्पूर्णा ********** "गाम्भीर्येण समुद्रोऽसि सौरवेणासि पर्वतः" । इत्यादौ चानेकधोल्लेखे गाम्भीर्यादिविषयभेदः प्रयोजकः । अत्र च रूपकयोगः । ************* टीका ************* विज्ञप्रिया (वि, घ) अत्रैव चेति । तपोनमित्यादौ परिणामयोग इत्यन्वयः । तपोवनत्वकामायतनत्वयोस्तत्र वास्तवत्वेन परिणामालङ्कारत्वसम्भवात् । नच तपोवनत्वस्य कथं तत्र वास्तवत्वमिति वाच्यम् । वनपदस्यात्राश्रमे लाक्षणिकत्वाभिप्रायेण परिणामालङ्कारत्वकथनात् । इत्थं ग्रहीतृभेदघटितमुल्लेखमुदाहृत्य विषयभेदघटितं तमुदाहरति---गाम्भीर्य्येणेति । विषयभेदो धर्म्मरूपविषयभेदः । अत्र ग्रहीत्र्यैक्यमेव । ********** टीका सम्पूर्णा ********** "गुरुर्वचसि, पृथुरुरसि, अर्जुनो यशसि-" इत्यादिषु चास्य रूपकाद्विविक्तो विषय इति । अत्र हि श्लेषमूलातिशयोक्तियोगः । ************* टीका ************* विज्ञप्रिया (वि, ङ) रूपकासङ्कीर्णमस्य विषयं दर्शयति---गुरुरिति । उपदेश्यरूपे वचसि विषये गुरुरुपदेष्टा इत्यर्थः । श्लेषाच्च बृहस्पतिरित्यर्थः । पृथुरिति । उरसि उरोवच्छेदेन पृथुर्विस्फारः श्लेषाच्च---पृथू राजा । अर्जुन इति । अत्र यशसि इत्यत्र तृतीयार्थे सप्तमी । यशसार्जुनो धवलः इत्यर्थः । श्लेषाच्च पाण्डवोर्ऽजुनः कार्त्तवीर्य्यार्जुनो वा । रूपकाद्विविक्त इति । त्वं भवानित्यनयोरन्यतरस्यापि अनुक्तिरूपान्निगरणादतिशयोक्तेरेव विषयत्वात् । सा चात्र भेदेऽपि अभेदारोपरूपा । यदि तु त्वं भवानित्यनयोरेकतरस्य निर्देशस्तदारूपकमेव, रूपकातिशयोक्त्योरेतन्मात्र भेदात् । अत्र हीति । नच दुर्गालङ्घितविग्रह इत्यादिवदुपमाध्वनिरयमिति वाच्यं तत्र विशेष्यस्य श्लिष्टोमावल्लभपदस्येवात्र विशेष्यपदाभावात्त्वंपदसत्त्वेऽपि रूपकमेव नोपमाध्वनिस्तस्य श्लिष्टत्वाभावात् । लोचना (लो, ऊ) एवं ग्रीतृभेदे उदाहृत्य विषयभेदे उदाहरति---गम्भीर्य्येणेति । श्लेषमूलातिशयोक्तिः । गुरुरुपदेष्टैव गुरुर्बृहस्पतिरिति भेदेऽप्यभेदाध्यवसायात्श्लेषमूलातिशयोक्तिरिति । पृथुर्विशालो वैण्यश्च । अर्जुनो धवलः, पक्षे कार्त्तवीर्य्यः, पार्थो वा । नचात्रशब्दशक्तिमूलो ध्वनिः, नच रूपकमुपदेष्टृत्वादीनां बृहस्यतित्वादित्वेनाध्यवसानात् । ********** टीका सम्पूर्णा ********** प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिः । लोचना (लो, ऋ) प्रकृतमारोपविषयमन्यस्थापनमारोप्यविषयत्वस्थापनम् । ********** टीका सम्पूर्णा ********** इयं द्विधा । क्वचिदपह्नपूर्वक आरोपः, क्वचिदारोपपूर्वकोऽपह्नव इति । ************* टीका ************* विज्ञप्रिया (वि, च) अपह्नुत्यलङ्कारमाह---प्रकृतमिति । प्रकृतं प्रक्रान्तम्, अन्यस्थापनमप्रकृतस्थापनम् । इत्थञ्चेति । प्रकृतापह्नवो अन्यस्थापनञ्चेत्येतन्मात्रविलक्षणे सतीत्यर्थः । प्रकृतापह्नवाप्रकृतस्थापनयोः पौर्वापर्य्यव्यत्यासाद्द्वैविध्यमिति दर्शयति क्वचिदिति । नच निषिध्येति कत्वानिर्देशादपह्नवपूर्वकत्वमेव लभ्यते कथं द्वैविध्यमिति वाच्यम् । निषेधबुद्धिं विषयीकृत्य इत्येव तदर्थात् । तद्विषयीकरणस्य चोभयथापि सम्भवात् । ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्-- "नदं नभोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङ्गाः । नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः" ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) नेदं नभ इति । नभआदिनिषेधेन सफेनसमुद्रे फणिशयितमुरारिस्थापनमिदम् । अम्बुराशिरित्यादौ सर्वत्र किन्तु इति बोध्यम् । ********** टीका सम्पूर्णा ********** "एतद्विभाति चरमाचलचूडचुम्बि हिण्डीर-पिण्ड-रुचि-शीतमरीचिबिम्बम् । उज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत्प्रकटलाञ्छनकैतवेन" ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) अन्यस्थापनपूर्वकं निषेधमाह---एतद्विभातीति । एतद्बिम्बमर्थाच्चन्द्रस्य । हिण्डीरं कर्पूरः । उज्ज्वालितस्येति । निर्वापितस्येत्यर्तः । निर्भरस्वकान्तसम्भोगेन रजन्या मदनानलनिर्वाणाद्धूमोद्रमः । कैतवेनेति । नायं लाञ्छनः किन्तु यथोक्तधूम इति निषेधप्रतीतिः पश्चात्कैतवपदेन । लोचना (लो, ॠ) हिण्डीरः फेनः । अत्र कैतवपदेन कपटार्थेन न प्रकटलाञ्छनमिति प्रतीतेरपह्नव आर्थः । ********** टीका सम्पूर्णा ********** इदं पद्यं मम । एवम्-- "विराजति व्योमवपुः पयोधिस्तारामयास्तत्र च फेनभङ्गाः" ************* टीका ************* विज्ञप्रिया (वि, झ) भङ्ग्यन्तरेणापि निषेधप्रतीतावाह---विराजतीति । अत्र वपुः पदमयट्प्रत्ययाभ्यां व्योमादिनिषेधप्रतीतिः । ********** टीका सम्पूर्णा ********** इत्याद्याकारेण च प्रकृतनिषेधो बोध्यः । गोपनीयं कलप्यर्थं द्योतयित्वा कथञ्चन ॥ १०.३८ ॥ यदि श्लेषेणान्यथा वान्यथयेत्साप्यह्नुतिः । लोचना (लो, ळ) अन्यथयेदिति । अन्यार्थे घटयेत् । कश्चिदिति शेषः । सपीति । अपिशब्देन समनन्तरोक्तप्रकारभिन्नापह्नुतिः इत्यर्थः । ********** टीका सम्पूर्णा ********** श्लेषेण यथा-- "काले वारिधराणामपतितया नैव शक्यते स्थातुम् । उत्कण्ठितासि तरले ! नहि नहि सखि ! पिच्छिलः पन्थाः" ॥ अत्र "अपतितया" इत्यत्र पतिं विनेत्युक्त्वा पश्चात्पतनाभावेन इत्यन्यथा कृतम् । ************* टीका ************* विज्ञप्रिया (वि, ञ) द्वितीयापह्नुतिमाह---गोपनीयमिति । श्लेषेण द्योतनं शक्त्यैव । अन्यथाद्योतनन्तु व्यञ्जनया । अन्यकथनन्तु श्लेषेण श्लिष्टपदवाच्यार्थेन चेति बोध्यम् । काले इति । अत्र वारिधाराणां कालस्य कामोद्दीपकत्वेन पतिशून्यतया स्थित्यशक्यत्वं गोपनीयमर्थमुक्त्वा तद्बोद्ध्याः संख्याः प्रश्रानन्तरं तदन्यथयतिनहि नहीति । वर्षाकाले पथः पिच्छिलत्वेन पतितभिन्नतया इत्युक्तवाक्यश्लेषण अन्यथा कृतं तदाहात्रेति । ********** टीका सम्पूर्णा ********** अश्लेषेण यथा-- "इह पुरोऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता । स्मरसि किं सखि ! कान्तरतोत्सवं नहि घनागमरीतिरुदाहृता" ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) इह पुरोनिलेति । इह देशे पुरः सम्मुखे का लता । वनस्पतिपदमहिम्ना व्यञ्जनया साध्वसवन्नायिकायां सङ्गतनायकप्रतीतिः समासोक्तिरूपा संख्या तत्प्रतीत्या स्मरसीत्यादिप्रश्रे कृते वक्त्री वाच्यार्थेनेव तदन्यथयति---नहि घनागमेति । ********** टीका सम्पूर्णा ********** वक्रोक्तौ परोक्तेरन्यथाकारः, इह तु स्वौक्तेरेवेति भेदः । गोपनकृता गोपनीयस्यापि प्रथममभिहितत्वाच्च व्याजोक्तेः । ************* टीका ************* विज्ञप्रिया (वि, ठ) अस्या वक्रोक्तितो भेदमाह--वक्रोक्ताविति । व्याजोक्तितोऽप्यस्या भेदमाह---गोपनेति । गोपनीयार्थो वक्ता व्याजोक्तौ प्रथमं नोच्यते । यथा--- "पृथुना जलकुम्भेन श्रमोऽयं श्वासकृन्मम । विश्राम्यामि क्षणं तस्माद्वयस्ये ! तव सन्निधौ ॥ "इत्यत्र जलाहरणस्य पथि उपनायकसम्भगजन्यः श्रमो वक्त्र्या प्रथममनुक्तोऽपि सखिप्रतीतिभिया निगूहितः । व्याजोक्तेरिति भेद इत्यन्वयः । लोचना (लो, ए) अपतितया न विद्यते पतिर्यस्याः सा अपतिः तस्या भावस्तत्ता पतनरहितयेत्यर्थः । अन्यथाकरणमेतदेवाह । वक्रोक्तौ "के यूयं स्थल एव " इत्यादौ । व्याजोक्तौ शेलेन्द्रप्रतिपाद्यमानेत्यादौ गिरिजाकरस्पर्शजन्यस्य रोमाञ्चादेर्नाभिधानम् । ********** टीका सम्पूर्णा ********** अन्यन्निषिध्य प्रकृतस्थापनं निश्चायः पुनः ॥ १०.३९ ॥ लोचना (लो, ऐ) निश्चयाख्यः । अपह्नुतिवैधर्म्यात् ॥ ********** टीका सम्पूर्णा ********** निश्चयाख्योऽयमलङ्कारः । अन्यदित्यारोप्यमाणम् । यथा मम--"वदनमिदं न सरोजं नयने नेन्दीवरे एते । इव सविधे मुग्धदृशो भ्रमर ! मुदा किं परिभ्रमसि" ॥ यथा वा-- "हृदि विसलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः । मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग ! क्रुधा किमु धावसि" ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) निश्चयालङ्कारमाह---अन्यन्निषिध्येति । अपह्नुतौ प्रकृतनिषेधेन अन्यस्थापनम्, इह तु तद्वैपरीत्यमित्यर्थः । वदनमिदमिति । हे मधुकर इह मुग्धदृशः सविधे मुधा न परिभ्राम्य । भ्राम्येत्यत्र वैकल्पिकदिवादिश्यन्नन्तता । पद्मादिबुद्ध्या यद्भ्राम्यसि तन्मुधेत्यर्थः । मुधात्वमुपपादयति---वदनमिदमिति । हृदि बिसलताहार इत्यादिका विरहिण उक्तिः । एवम्---"नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः, सुरधनुरिदं दूराकृष्टं न तस्य शरासनम् । अयमपि पटुधारसारो न वाणपरम्परा, कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी । "इत्यादावप्ययमलङ्कारो बोध्यः । लोचना (लो, ओ) मुग्धदृशो मनोहराक्ष्याः । अस्यालङ्कारस्य पूर्वाचार्य्याप्रकाशितत्वाद्विषयव्याप्तये पुनरुदाहरति---यथा वेति । भुजङ्गमनायको वासुकिः । ********** टीका सम्पूर्णा ********** न ह्ययं निश्चयान्तः संदेहः, तत्र संशयनिश्चययोरेकाश्रयत्वेनावस्थानात् । अत्र तु भ्रमरादेः संशयो नायकादेर्निश्चयः । किञ्च न भ्रमरादेरपि संशयः एककोट्यधिके ज्ञाने, तथा समीपागमनासंभावत् । तर्हि भ्रान्तिमानस्तु, अस्तु नाम भ्रमारादेर्भ्रान्तिः । न चेह तस्याश्चमत्कारविधायित्वम्, अपि तु तथाविधनायकाद्युक्तेरेवेति सहृदयसंवेद्यम् । किञ्चाविवक्षितेऽपिं भ्रमरादेः पतनादौ भ्रान्तौ वा नायिकाचाट्वादिरूपेणैव संभवति तथाविधोक्तिः । ************* टीका ************* विज्ञप्रिया (वि, ढ) न ह्ययमिति । वार्थो हिकारः । नवायमित्यर्थः । भ्रमरादेरित्यादिपदादनङ्गस्य नायिकादेरित्यादिपदात्ततद्वोधकपुरुषस्य च परिग्रहः । ननु निश्चयान्तसन्देहे तदैक्यं न विवक्षितमित्यत आह---एककोट्यनधिके ज्ञाने इत्यर्थः । तज्ज्ञानं च एककोटौ उत्कटत्वेन तद्वृतितकोटेरेव निश्चये च भवति, तादृशनिश्चयश्च भ्रम एवेति तां कोटिमादायाशङ्कते---तर्हीति । अस्तु नामेति समाधानम् । तथाविधनायकाद्युक्तेरेवेति । नायिकासुखोत्कर्षस्य द्वितीयश्लोके वक्तुर्विप्रलम्भोत्कर्षस्य च प्रतिपादनादेव चमत्कारादिति भावः । तस्मिन्नर्थे सहृदयाः प्रमाणमित्याह---सहृयेति । मुग्धा दुग्धधिया" इत्यादौ अपि चन्द्रोत्कर्षप्रतिपादनादेव चमत्कार इति तुल्यमित्यत आह---किञ्चेति । तत्र तु भ्रान्तिमिति भ्रमाधीनकुम्भपातादिक्रिया, अत्र तु भ्रमरस्य नतु भ्रमाधीनपातक्रियेति समाधानसम्भवेऽपि तादृशक्रियाभावेऽपि भ्रान्तिमदलङ्कारादित्युपपत्तॄन् प्रत्याह । अविवक्षितेऽपीति । तुष्यतु इति न्यायात् । तथात्वाभ्युपपत्तौ आह--नायिकाचाट्विति । तथाच भ्रान्तिमदलङ्कारसङ्कीर्ण एव निश्चयालङ्कार इति स्वीकृतम् । ********** टीका सम्पूर्णा ********** न च रूपकध्वनिरयम्, मुखस्य कमलत्वेनानिर्धारणात् । न चापह्नुतिः, प्रस्तुतस्यानिषेधादितिपृथगेवायमलङ्कारश्चिरन्तनोक्तालङ्कारेभ्यः । शुक्तिकायां रजतधिया पतति पुरुषे शुक्तिकेयं न रजतमिति कस्याचिदुक्तिर्नायमलङ्कारो वैचित्र्याभावात् । ************* टीका ************* विज्ञप्रिया (वि, ण) अप्रसक्तमपि रूपकध्वनित्वं स्पष्टत्वाय निषिध्यति--नच रूपकेति । कमलत्वेनानिर्द्धारणादिति । न सरोजमिति तद्विरोधिनिर्देशादनिर्द्धारणम् । अपह्नुतिस्तु न सम्भवत्येव इत्याह---नचेति । चिरन्तनेति । न केवलमयमलङ्कारः किन्तु--- "दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् । दशपूर्वरथं यमाख्यया दशकण्ठरिगुरुं विदुर्बुधाः" ॥ इत्येकसंख्यालङ्कारः । एकं विष्णुं द्वे तदीये च नेत्रे त्रींस्तान् देवान् दोश्चतुष्कं च विष्णोः पञ्चेशास्यान्यग्निभूषरामुखानि सप्तार्चिष्कं नौमि साष्टाङ्गपातम् ॥ इति क्रमिकसंख्यालङ्कारः । अन्येऽपि वैचित्र्यावहा अलङ्कार अनुक्ता अपि स्वयमूह्याः । प्रयाशः सर्वेषामेव अलङ्कारणामाहार्य्यारोपबुद्धिविषयत्वे एवालङ्कारत्वं नतु वास्तवत्वे इत्यत आह---शुक्तिकायामिति । लोचना (लो, औ) एकाश्रयत्वेनावस्थानात्संशयितुरेव निश्चेतृत्वाद्यथा---किं तावत्सरसीत्यादौ । एककोटिः सरोजादिः । तथा समीपगमनादिसम्भवश्च शास्त्रयुक्तिसिद्ध एव । आदिशब्देन हृदि बिसलताहार इत्यादौ प्रहारादेः संग्रहः । तर्हेति । यद्येकं कोट्यनधिकं मिथ्याज्ञानमित्यर्थः । तस्याः यथाकथञ्चिदङ्गीकृताया भ्रान्तेस्तथाविधायाः "तव वदनं सरोजसदृशमेवऽ इत्यादेर्नायिकाद्युक्तेर्विशेषणं, तत्र किं प्रमाणमित्याह--सहृदयसंवेद्यं सहृदयानामनुभव इत्यर्थः । भ्रमरादेः पतनादिसद्भावे तदभावेऽपि वा भ्रान्तिज्ञानस्य तेषां हृदयग्राह्यत्वे भ्रान्तिमदलङ्कारो वक्तुं युक्तः । नच तथेति । युक्त्यन्तरदर्शनेनापि तदभावं दृढयति---किञ्चेति । तथाविधवदनमिदं सरोजरूपम् । एवं च भ्रान्तेः स्वरूपस्याभावात् । तदभावे च कथं भ्रान्तिमदलङ्कार इत्यर्थः । कमलत्वेन अनिर्द्धारणादित्यतः पूर्वं व्यङ्ग्ययोरपीति शेषः । अयमस्माभिः प्रकाशितो निश्चयाख्योऽलङ्कारः । वैचित्र्यमलङ्कारबीजभूता लोकोत्तरा विच्छित्तिः ॥ ********** टीका सम्पूर्णा ********** भवेत्संभावनोत्प्रेक्षा प्रकृतस्य परात्मना । ************* टीका ************* विज्ञप्रिया (वि, त) उत्प्रेक्षालङ्कारमाह---भवेदिति । प्रकृतस्य परात्मनाप्रकृत---तादात्म्येन सम्भावनमुत्कटकोटिकः संशय इत्यर्थः । तेनानुत्कटकोटिकसन्देहनिश्चययोः रूपकादौ च नातिप्रसङ्गः । लोचना (लो, अ) एवमभेदप्राधान्येनारोपगर्भालङ्कारान् लक्षयित्वाध्यवसायगर्भान् लक्षयति---भवेदिति । प्रकृतस्य सम्भविनो वर्णनीयस्य परः सदृशतयोपकल्पितः । अर्थादसम्भवी योर्ऽथः तदात्मना तत्स्वरूपेण सम्भावना । मिथ्याज्ञानविशेष उत्प्रेक्षालङ्कार इत्यर्थः । ********** टीका सम्पूर्णा ********** वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ॥ १०.४० ॥ वाच्येवादिप्रयोगे स्यादप्रयोगे परा पुनः । जातिगुणः क्रिया द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि ॥ १०.४१ ॥ तदष्टधापि प्रत्येकं भावाभावाभिमानतः । गुणक्रियास्वरूपत्वान्निमित्तस्य पुनश्च ताः ॥ १०.४२ ॥ द्वात्रिंशद्विधतां यान्ति-- ************* टीका ************* विज्ञप्रिया (वि, थ) अस्या विभक्तविभागबाहुल्येन षट्सप्तत्युत्तरैकशतविधतां पर्यवस्थापयितुमादौ द्वैविध्यमाह---वाच्येति । प्रतीयमाना चात्र न व्यङ्ग्या, तदा उत्प्रेक्षाध्वनित्वापत्तेः, यथा दर्शयिष्यमाणे महिलासहस्त्रेत्यादौ, किन्तु अध्याह्रियमाणा इत्येवेत्यर्थः । परा अध्याह्रियमाणा द्वयोरपीति वाच्योत्प्रेक्षायामध्याह्रियमाणोत्प्रेक्षायां चेत्यर्थः । तेन जात्यादिचतुष्कोत्प्रेक्षा वाच्या अध्याह्रियमाणा च इत्यष्टधेत्यर्थः । जात्यादिचतुष्काभावोत्प्रेक्षाप्येवमष्टधेत्याह---तदष्टधापीति । भावस्य जात्यादिभावचतुष्कस्य प्रत्येकमभावाभिमानतोऽभावोत्प्रेक्षणादपि तदष्टधा तस्या उत्प्रेक्षायाः अष्टधा अष्टप्रकारभाव इत्यर्थः । अपिकारस्य दर्शितरीत्या भिन्नक्रमेण योजना । एवं च जात्यादिभावोत्प्रेक्षाष्टकं तदभावोत्प्रेक्षाष्टकं चेति षोडशप्रकाराः षोडशत्वानुक्तावपि पर्य्यवसिताः, तद्द्वैगुण्येन द्वात्रिंशत्वमाह---गुणाक्रियेति । निमित्तस्य उत्प्रेक्षाया हेतोर्गुणक्रियास्वरूपत्वात्ताः षोडशविधाः उत्प्रेक्षाः पुनर्द्वात्रिंशद्विधतां यान्तीत्यर्थः । ते वाच्यप्रतीयमानत्वभेदादष्टौ जात्यादिभावोत्प्रेक्षा अष्टौ च तदभावोत्प्रेक्षाश्च इति षोडशैव गुणक्रियाहेतुवत्त्वेन द्वैगुण्याद्द्वात्रिंशदित्यर्थः । हेतुश्च उत्प्रेक्षाजनकः । लोचना (लो, आ) तद्भेदानाह---वाच्येति । वाच्या इवादिद्योतकपदनिबन्धनाद्झटिति प्रत्येया । प्रतीयमाना द्येतकपदविरहेण वाच्यार्थपर्य्यालोचनानुसन्धेया । तदेवाह---वाच्ये वादेरिति । एकधर्म्मवन्नानाधर्मवाचकोपमेयोर्ऽथो जातिः । गुणः सामानाधिकरण्येन सिद्धतानिर्देश्यो धर्मः । क्रिया साध्यताकारनिर्द्देश्यो धर्मः । द्रव्यं शृङ्गग्राहिकया निर्देश्यो धर्मः । उत्प्रेक्ष्यमध्यवसेयम् । प्रकृतस्यापि एतद्भेदयोगेऽपि वैचित्र्यानावहत्वान्न भेदगणनम्, सम्भावनप्राणस्य अस्यालङ्कारस्य सम्भाव्यमानविशेषादेव विशेषोपालम्भात् । द्वयोरुक्तभेदयोः । भावो जात्यादिरेव । अभावस्तेषामेवासत्ता । निमित्तस्य उत्प्रेक्षणकारणस्य विषयधर्मस्य ता उक्तषोडशप्रकाराः । उत्प्रक्ष्यते प्रकाश्यते, अर्थात्सजातीयमनेकमनया स्वल्पयापीत्युत्प्रेक्षा । ********** टीका सम्पूर्णा ********** तत्र वाच्योत्प्रेक्षायामुदाहरणं दिङ्मात्रं यथा-- "ऊरुः कुरङ्गकदृशश्चञ्चलचेलाञ्चलो भाति । सपताकः कनकमयो विजयस्तम्भः स्मरस्येव" ॥ अत्र विजयस्तम्भस्य बहुवाचकत्वाज्जात्युप्रेक्षा । ************* टीका ************* विज्ञप्रिया (वि, द) दिङ्मात्रमल्पमात्रम् । ऊरुरिति । चञ्चलचेलाञ्चलः चलवस्त्रैकदेशः । कुरङ्गकदृशः ऊरुः स्मरस्य सपताकः कनकमयो निजयस्तम्भ इव भातीत्यर्थः । स्तम्भो हेमयष्टिः । पताका तदुपरिवस्त्रम्, चलचेलाञ्चलस्थाने तत्र । अत्र जात्युत्प्रेक्षात्वं ग्राहयति---अत्रेति । विजयस्तम्भस्येति । तद्वाचकपदस्येत्यर्थः, प्रक्रान्तस्य बहुवाचकत्वाद्बहुव्यक्तिवाचित्वात्, तथाच स्तम्भत्वस्य जातित्वमुपपादितम् । स्तम्भोत्प्रेक्षायाश्च तत्प्रकारकत्वात्तस्या अप्युत्प्रेक्षा । एवं सर्वत्र विधेयम् । इदमुदाहरणं न गुणाक्रियानिमित्तोत्प्रेक्षायाः किन्तु वक्ष्यमाणाया अनुक्तनिमित्तोत्प्रेक्षाया एव । अतोऽत्र विजयस्तम्भोत्प्रेक्षाहेतु कामोद्दीपकत्वमनुक्तम् । लोचना (लो, इ) जात्युत्प्रेक्षा । जातिस्वरूपोत्प्रेक्षणात् । ********** टीका सम्पूर्णा ********** "ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव" ॥ अत्र सप्रसवत्वं गुणः । ************* टीका ************* विज्ञप्रिया (वि, ध) वाच्यगुणोत्प्रेक्षामाह---ज्ञाने मौनमिति । तस्य दिलीपस्य गुणागुणनुबन्धित्वात्सप्रसवा इवेत्यर्थः । गुणानां गुणान्तरानुबन्धित्वं दर्शयति---ज्ञानमिति । ज्ञानादौ सति मौनादिकमित्यर्थः---अत्रेति । प्रसवो योनिबहिर्भावः । उत्पादने प्रकृतेऽप्रकृततदुत्प्रेक्षा । प्रसवपदस्य कृदन्तत्वेन नामत्वप्राप्त्या तदर्थो न क्रियेत्यतो गुण एव । अत्र गुणानुबन्धित्वमुत्प्रेक्षाहेतुरुक्त एव । लोचना (लो, ई) एवं वक्ष्यमाणे गुण इत्यनन्तरमुत्प्रेक्ष्यते इति शेषः । एवमन्यत्र । ********** टीका सम्पूर्णा ********** "गङ्गाम्भसि सुरत्राण ! तव निः शाननिस्वनः । स्नातीवारिधूवर्गगर्भपातनपातकी" ॥ अत्र स्नातीति क्रिया । ************* टीका ************* विज्ञप्रिया (वि, न) वाच्यां क्रियोत्प्रेक्षामाह---गङ्गाम्भसीति । सुरत्राणेति---पाश्चात्त्ययवननृपतीनामुत्कर्षबोधकः करिभाषाविशेषः सुलतान इति पदस्यापभ्रंशः । हे तादृश तव निः शाणस्य सैन्यवाद्यस्य निः स्वनः अरिवधूवर्गगर्भपातनपातकी यतः अतस्तत्पातकक्षयार्थं गङ्गम्भसि स्नातीवेत्यर्थः । गङ्गायाः पाश्चात्यनृपतिसैन्यदूरवर्त्तित्वात्तत्पर्य्यन्तमपि सैन्यनिः स्वन आयात इति भावः । अत्र हेतुं ग्रन्थकृदेव प्रदर्शयिष्यति । ********** टीका सम्पूर्णा ********** "मुखमेणीदृशो भाति पूर्णचन्द्र इवापरः" । ************* टीका ************* विज्ञप्रिया (वि, प) द्रव्योत्प्रेक्षामाह---मुखमिति । इयमपि अनुक्तहेतुका । ********** टीका सम्पूर्णा ********** अत्र चन्द्र इत्येकव्यक्तिवाचकत्वाद्द्रव्यशब्दः । एते भावाभिमाने । अभावाभिमाने यथा-- "कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । उपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ" ॥ अत्रापश्यन्ताविति क्रियाया अभावः । एवमन्यत् । ************* टीका ************* विज्ञप्रिया (वि, फ) अभावाभिमाने जात्याद्यभावोत्प्रेक्षायां तत्र क्रियाभावोत्प्रेक्षामाह---कपोलफलकाविति । अस्याः कपोलफलकौ कपोलरूपस्फरदेशौ तथाविधौ पुष्टस्वरूपौ भूत्वा ईदृक्षामीदृशीं क्षामतां क्षीणतां गतौ इति कष्टमित्यर्थः । इष्टदर्शनात्क्षीणत्वप्राप्तिः । अत्र क्षामत्वहेतौ विरहे प्रकृते तद्धेतुत्वेन परस्परदर्शनक्रियाभाव उत्प्रेक्षितः । अत्र हेतूक्तिः ग्रन्थकृतैव अग्रे दर्शयिष्यते---एवमन्यदिति । अत्र जात्यभावोत्प्रेक्षा यथा---"न सन्धयां कुरुते भास्वान् द्विजत्वाभावतः किमु" इत्यातपक्लान्तोक्तौ सन्ध्याकरणहेतौ मन्दगमनेप्रकृतेऽप्रकृतश्लिष्टसन्ध्यापदार्थकरणहेतुत्वेन द्विजत्वजात्यभाव उत्प्रेक्षितः । सन्ध्याकरणञ्च उत्प्रेक्षाहेतुरुक्तः । अनुक्तहेतुका जात्यभावोत्प्रेक्षा यथा--- "आगच्छन्नेव पुरुषो न विप्र इति लक्ष्यते" ॥ इति । अत्र तु विप्रत्वव्यञ्जकसंस्थानाभावो हेतुरनुक्तः । एवं रीत्यान्यत्रापि हेतूक्त्यनुक्ती बोध्ये । "कीर्त्तिस्ते श्रीमतो दूरं प्रयातानादृतेव किम् । " इत्यत्र कीर्त्तिरनादरो गुण उत्प्रेक्षितः । तत्सपत्नीत्वेन अध्यासित्वं श्रीमत्त्वं हेतुरुक्तः । "अस्तं जगाम रजनी तदीशेन्दुमृतेरिव" ॥ इत्यत्र द्रव्यस्य इन्दोरभाव उत्प्रेक्षितः । रजन्यस्तगमनं तद्धेतुरुक्तः लोचना (लो, उ) तथाविधौ रुपवन्तौ । क्रियाया दर्शनरूपायाः । ********** टीका सम्पूर्णा ********** निमित्तस्य गुणक्रियारूपत्वे यथा--"गङ्गम्भसि" इत्यादौ स्नातीवेत्युत्प्रेक्षानिमित्तं पातकित्वं गुणः । "अपश्यन्तौ-" इत्यादौ क्षामतागमनरूपं निमित्तं क्रिया । एवमन्यत् । ************* टीका ************* विज्ञप्रिया (वि, ब) एषु हेतूनां क्रियात्वगुणत्वे स्वयमेव अवधात्व्ये । पातकित्वं हेतुरिति । "प्रभाते हसतीवेयम् " इत्यत्र तु प्रियसूर्य्यदर्शनं हेतुरनुक्तः । एवमन्यदिति । उत्सुकेव हसत्येषा हसत्येषा ज्योत्स्नामिन्दोः कुमुद्वती । " इत्यत्रोत्सुकत्वोत्प्रेक्षायामिन्दुज्योत्स्ना गुणः । ********** टीका सम्पूर्णा ********** प्रतीयमानोत्प्रेक्षा यथा-- "तन्वङ्ग्याः स्तनयुग्मेन मुखं न प्रकटीकृतम् । हाराय गुणिने स्थानं न दत्तमिति लज्जया" ॥ अत्र लज्जयेवेति इवाद्यभावात्प्रतीयमानोत्प्रेक्षा । एवमन्यत् । ************* टीका ************* विज्ञप्रिया (वि, भ) तन्वङ्ग्या इति । मुखाप्रकटनं वस्त्रावृतत्वात् । हाराय स्थानादानं निबिडसान्निध्येन सन्धिराहित्याच्च । स्थानादानमत्र गुणो हेतुरुक्तः । एवमन्यदिति । "विक्रीय विस्पष्टमुखेन बाला, मालाकृतः कैरवकोरकाणि । विक्रेतुकामा विकचाम्बुजानि चेलाञ्चलेनाननमावृणोति" ॥ इत्यत्राप्यम्बुजविक्रयेच्छाया मुखावरणेहतुत्वाभावात्विक्रेतुकामेव "इत्युत्प्रेक्षाध्याहारः । तदैव मुखचन्द्रादर्शनात्पद्मनिमीलनस्य वारणमिति भावः । क्रियोत्प्रेक्षाध्याहारे तु हसत्यर्कोदयेऽम्बुजमिति जात्युत्प्रेक्षाध्याहारे"चाण्डालोऽन्यो द्विजः पापीऽ इति । द्रव्योत्प्रेक्षाध्याहारे--चन्द्रोऽन्यमुखमेतस्या इत्यनयोरन्यपदसत्त्वान्न रूपकम् । लोचना (लो, ऊ) मुखं चूचुकापरपर्य्यायं वदनञ्च । गुणः सूत्रं विज्ञात्वविनयादिश्च । अत्र गुणोत्प्रेक्षा प्रतीयमाना । भावाभिमानश्च अन्यत्र यथा मम तातपादानाम् । विकसितमुखीं रागासङ्गाद्गलत्तिमिरांशुकां दिनकरकरस्पृष्टामैन्द्रीं निरीक्ष्य दिशं पुरः । जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः श्रयति हरितं प्रातः प्रचेतसीं तुहिनद्युतिः ॥ अत्र निरीक्ष्येवेति निरीक्षणक्रियोत्प्रेक्षा प्रतीयमाना । एवमन्यत्र । ********** टीका सम्पूर्णा ********** ननु ध्वनिनिरूपणप्रस्तावेऽलङ्काराणां सर्वेषामपि व्यङ्ग्यात्वं भवतीत्युक्तम् । सम्प्रति पुनविशिष्य कथमुत्प्रेक्षायाः प्रतीयमानत्वम् ? उच्यतेव्यङ्ग्योत्प्रेक्षायाम्--"महिलासहस्स-" इत्यादावुत्प्रेक्षणं विनापि वाक्यविश्रान्तिः । इह तु स्तनयोर्लज्जाया असम्भवाल्लज्जयेवेत्युत्प्रेक्षयैवेति व्यङ्ग्यप्रतीयमानोत्प्रेक्षयोर्भेदः । ************* टीका ************* विज्ञप्रिया (वि, म) ननु इत्याद्याशङ्का स्पष्टैव । वाक्यार्थबोधस्योत्प्रेक्षाध्याहारं विनानुपपत्तौ तदध्याहारे प्रतीयमानोत्प्रेक्षा तदध्याहारं विनापि वाक्यार्थबोधसम्भवे पश्चत्तात्पर्य्यवशादुत्प्रेक्षाव्यञ्जने उत्प्रेक्षाध्वनिरिति सिद्धान्तयितुमुत्प्रेक्षाध्वनिविषयंदर्शयति---उच्यत इति । महिलेति । प्राग्व्याख्यातम् । नायकस्यानेकनायिकानुरागात्कृशीभवन्त्यास्तत्पन्या अवस्थां तस्मिनवेदयन्त्यास्तत्सख्या उक्तिरियम् । सा तव पत्नी अमान्ती अवकाशमलभमाना दिवसं व्याप्य तनयति तनूकरोति । नामकारितान्तस्य तनुशब्दस्य रूपमिदम् । इत्यादाविति । विश्रान्तिर्बोधः । भाव्यमानत्वसम्बन्धेन स्थानप्राप्तेरभावस्याभाव्यमानत्वादेव बोधसम्भवात् । परन्तु अङ्गतनूकरणतात्पर्य्यानुसन्धानेन संयोगसम्बन्धेन मनसि स्थानाप्राप्तिरेवाङ्गतनूकरणहेतुतया प्रतीयते । तच्च बाधितमित्यतः स्थानाप्राप्युत्प्रेक्षाध्वनिः । तन्वङ्गया इत्यत्र तु न तथेत्याह---इह तु इति । इत्युत्प्रेक्षयेव इत्यत्र । विश्रान्तिरिति अनुषङ्गः । उत्प्रेक्षयोर्भेद इति । उत्प्रेक्षयोरधायाहार्य्यत्वव्यङ्ग्यत्वाभ्यां भेद इत्यर्थः । लोचना (लो, ऋ) एवं च उत्प्रेक्षाध्वनेर्विवेकं दर्शयितुकाम आशङ्कते--ननु इति । सिद्धान्तमाह---उच्यत इति । व्यङ्ग्योत्प्रेक्षायां काव्यस्य ध्वनित्वप्रयोजकस्य व्यङ्ग्यभूतस्योत्प्रेक्षायाम् । गाथार्थः पूर्वं व्याख्यातेव उत्प्रेक्षां विना अपि वाक्यविश्रान्तेरिति । अयमाशयः । अमान्तीति पदस्य तव हृदयानुरागपात्रतामप्राप्य" इत्यर्थेनाभिधेये विश्रान्तेरिति । इह प्रकृतोदाहरणे व्यङ्ग्यप्रतीयमानोत्प्रेक्षयोर्भेद इति । अयमाशयः । प्रतीयमानस्य वाच्यसिद्ध्यङ्गत्वादित्यादिना यथान्येषामपि बहूनामलङ्कारणामलङ्कारविशेषता तथोत्प्रेक्षाया अपीति न काचित्क्षतिः । यत्र तु काव्यध्वनित्वहेतुर्व्यङ्ग्यता न तत्रालङ्कारता युक्तेति । एवं यत्कैश्चित्महिलासहस्त्रेत्यादि प्रतीयमानोत्प्रेक्षायामुदाहृतं तदयुक्तमिति भावः । ********** टीका सम्पूर्णा ********** अत्र वाच्योत्प्रेक्षायाः षोडशसु भेदेषु मध्ये विशेषमाह-- ************* टीका ************* विज्ञप्रिया (वि, य) वाच्योत्प्रेक्षायाः षोडशसु इति । जात्यादिचतुष्कस्य तच्चतुकाभावस्य च उत्प्रक्षा वाच्या अष्टविधाः तदष्टकस्यैव गुणक्रियाहेतुकत्वाद्द्वैविध्येन षोडशत्वम् । एवं प्रतीयमानायामपि षोडशत्वं प्रागुक्तं स्मर्त्तव्यम् । ********** टीका सम्पूर्णा ********** --तत्र वाच्याभिदाः पुनः । विना द्रव्यं त्रिधा सर्वाः स्वरूपफलहेतुगाः ॥ १०.४३ ॥ ************* टीका ************* विज्ञप्रिया (वि, र) तत्र वाच्येति । वाच्याया उत्प्रेक्षाया भिदाः भेदाः । जात्यादिचतुष्कस्य भावाभावरूपत्वेन द्वैगुण्यं प्रत्येकं च गुणक्रियाहेतुकत्वेन द्वैगुण्याच्चतुर्विधत्वमिति वाच्योत्प्रेक्षाया यत्तत्षोडशविधत्वमुक्तं तत्र द्रव्योत्प्रेक्षाचतुष्कं विना द्वायशानामेव त्रैगुण्यं भवतीत्याह--विना द्वव्यमिति । द्रव्योत्प्रेक्षाचतुष्कं विनेत्यर्थः । स्वरूपेति । उत्प्रेक्षितस्य वस्तुनः कस्यापि फलत्वेन हेतुत्वोक्तौ तत्स्वरूपविषया उत्प्रेक्षास्वरूपोत्प्रेक्षा । तद्द्वयान्यतरत्वेन उक्तौ तु तद्द्वयान्यतरगा । लोचना (लो, ॠ) स्वरूपफलहेतुगाः । स्वरूपोत्प्रेक्षा, फलोत्प्रेक्षा, हेतूत्प्रेक्षा चेति । स्वरूपं धर्म्मान्तरम्, विषयसमसंख्यतयाभिहितौ धर्म्मश्च । ********** टीका सम्पूर्णा ********** यत्रोक्तेषु वाच्यप्रतीयमानोत्प्रेक्षयोर्भेदेषु मध्ये ये वाच्योत्प्रेक्षायाः षोडश भेदास्तेषु च जात्यादीनां त्रयाणां ये द्वादश भेदास्तेषां प्रत्येकं स्वरूपफलहेतुगतत्वेन द्वादशभेदतया षट्त्रिंशद्भेदाः । द्रव्यस्य स्वरूपोत्प्रेक्षणमेव सम्भवतीति चत्वार इति मिलित्वा चत्वालिंशद्भेदाः । अत्र स्वरूपोत्प्रेक्षा यथा पूर्वोदाहरणेषु "स्मारस्य विजयस्तम्भः" इति । "सप्रसवा इव" इत्यादयो जातिगुणस्वरूपगाः । ************* टीका ************* विज्ञप्रिया (वि, ल) व्याचष्टे---तत्रेति । ये द्वादश भेदा इति । चतुष्कत्रयस्य द्वादशत्वात् । तेषां प्रत्येकं द्वादशभेदतयेत्यर्थः । एकैकचतुष्कस्य त्रैगुण्याद्द्वादशत्वम्---षट्त्रिंशदिति । द्वादशत्रयस्य षट्त्रिंशत्त्वात् । चत्वारिंशादिति । द्रव्यो प्रेक्षाचतुष्कस्यषट्त्रिंशत्साहित्यात् । तत्र जातिगुणयोः स्वरूपोत्पेक्षाद्वयं पूर्वोक्तमेव दर्शयति---अत्र स्वरूपेति । जातिगुणस्वरूपा इत्यत्र जातिगुणादिस्वरूपा इत्यर्थः । आदिपदात्क्रियाद्रव्योत्प्रेक्षापरिग्रहः । अत्रैव जातिगुणेत्यत्र क्रियगुणेति क्वचित्प्रामादिक एव पाठः । क्रियोत्प्रेक्षाया अनुक्त्त्वेन आदिपदग्राह्यत्वादेव, तक्तियास्वरूपोत्प्रेक्षा स्नातीवेति, द्रव्यस्वरूपोत्प्रेक्षा पूर्णचन्द्र इवापर इति पूर्वोक्तद्वयमेव । ********** टीका सम्पूर्णा ********** फलोत्प्रेक्षा यथा-- "रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः । विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम्" ॥ अत्राख्यातुमिति भूप्रवेशस्य फलं क्रियारूपमुत्प्रेक्षितम् । ************* टीका ************* विज्ञप्रिया (वि, व) इत्थं स्वरूपोत्प्रेक्षाया द्रव्येऽपि सम्भवादादिपदग्राह्याभ्यां सह जात्यादिचतुर्ष्वेव दर्शयित्वा फलोत्प्रेक्षां हेतूत्प्रेक्षाञ्च द्रव्यं विहाय जात्यादित्रिषु दर्शयितुं क्रियागामिनीं फलोत्प्रेक्षामाह---रावणस्यापीति । रामास्तौ रामक्षिप्तः आशुगोऽपि रावणस्य हृदयं भित्त्वा उरगेभ्यः प्रियमाख्यातुमिव भुवं विवेश इत्यन्वयः । अत्रेति । आख्यानक्रियारूपं प्रवेशस्य फलमुत्प्रेक्षितमित्यर्तः । तुमर्थेच्छाविषयस्य फलत्वप्रतीतेः । लोचना (लो, ळ) रामास्तो रामेण क्षिप्तः । प्रियमाख्यातुमिवेति सम्बन्धः । ********** टीका सम्पूर्णा ********** हेतूत्प्रेक्षा यथा-- "सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुः खादिव बद्धमौनम्" ॥ अत्र दुः खरूपो गुणो हेतुत्वेनोत्प्रेक्षितः । एवमन्यत् । ************* टीका ************* विज्ञप्रिया (वि, श) सैषा स्थलीति---पुष्पकस्थां सीतां प्रति रामस्योक्तिरियम् । त्वां विचिन्वता विचारयता मया, यत्र भ्रष्टमर्थात्त्वच्चरणात्पतितमेकं नूपुरमदृश्यत सैषा स्थली । निः शब्दस्य नूपुरस्य मौनहेतुमुत्प्रेक्षते---त्वच्चरणेति । अत्रेति । हेतुत्वाभावादित्यर्थः । एवमन्यदिति . क्रियोत्प्रेक्षायाः फलगामित्वमेवोक्तं न हेतुगामित्वम्, गुणोत्प्रेक्षाया हेतुगामित्वमेवोक्तं न फलगामित्वम्, जात्युत्प्रेक्षायास्त्वनेकगामित्वमप्युक्तम् । एवं रीत्या तदूह्यमित्यर्थः । तत्र क्रियोत्प्रेक्षाया हेतुगत्वं यथा--- "यशस्तव महीपाल ! मार्जनादिव निर्मलम् । ऽ इत्यत्र नैर्मल्यहेतुत्वेन मार्जनक्रियोत्प्रेक्षिता । गुणस्य फलगामित्वं यथा--- "सदा कीर्तिमुखं पद्मं पुण्यार्थमिव तिष्ठति । ऽ अत्र मुण्यं गुणश्च फलत्वेनोत्प्रेक्षितम् । जात्युप्रेक्षायाः फलगामित्वं यथा-- "कामुकस्य रतौ वामा कन्दर्पशरपीडिता । नखक्षतकृतं दुः खं सुखत्वायेव वाञ्छति ॥ " अत्र नित्याया अपि सुखत्वजातेर्दुः खे आरोप्यत्वरूपवाञ्छायाः फलमुत्प्रेक्षितम् । जात्युत्प्रेक्षाया हेतुगामित्वं यथा--- "राहुग्रस्तोऽपि शीतांसुर्द्विजत्वादिव पुण्यकृत् । ऽ इति अत्र पुण्यजननत्वेन द्विजत्वजातिरुत्प्रेक्षिता । यद्यपि---- "कोकयूनोर्मनोदुः खं चन्द्रादिव समुत्थितम् । ऽ इत्यादिषु द्रवोयत्प्रेक्षाया अपि हेतुगामित्वं सम्भवति तथापि विरलत्वाद्वैचित्र्यविशेषानावहत्वाच्च तदसम्भवो दर्शितः । लोचना (लो, ए) सैषेत्यत्र चलनद्रव्यसंयोगाभावाद्नूपुरस्य मौनित्वम्, तदेवं दुः खहेतुकमौनित्वाभावेनाध्यवसितम् । यद्वा नूपुमौनित्वहेतुश्चलद्द्रव्यसंयोगाभाव एवंदुः खतादात्म्येन अध्यवसितः तत्र च पक्षेऽतिशयोक्तिवद्विषयस्य गम्यमानता एतच्चाग्रे स्फुटीभविष्यति । ********** टीका सम्पूर्णा ********** उक्त्यनुक्तयोर्निमित्तस्य द्विधा तत्र स्वरूपगाः । ************* टीका ************* विज्ञप्रिया (वि, ष) वाच्योत्प्रेक्षायाश्चत्वारिंशद्विधत्वं गुणक्रियारूपनिमित्तद्वयघटितं दर्शितमेव । संप्रति तु निमित्तानुक्रिवशादेव षोडशप्रकारप्रवेशात्षट्पञ्चाशद्विधत्वं दर्शयितुमाह---उक्त्यनुक्त्योरिति । जात्यादित्रयस्य फलहेतुगत्वेन निमित्तानुक्त्यसम्भवस्य वक्ष्यमाणत्वात्त्रयस्य द्रव्यगोत्प्रेक्षायाः स्वरूपगामित्व एव निमित्तानुक्तिसम्भवादाह---द्विधेति । स्वरूपगा इति । नतु फलहेतुगा इत्यर्थः । ********** टीका सम्पूर्णा ********** तेषु चत्वारिंशत्संख्याकेषु भेदेषु मध्ये ये स्वरूपगायाः षोडश भेदास्ते उत्प्रेक्षानिमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशद्भेदा इति मिलित्वा षट्पञ्चाशद्भेदा वाच्योत्प्रेक्षायाः । तत्र निमित्तस्योपादानं यथा पूर्वोदाहृते "स्नातीव" इत्युत्प्रेक्षायं निमित्तं पातकित्वमुपात्तम् । अनुपादाने यथा--"चन्द्र इवापरः" इत्यत्र तथाविधसौन्दर्याद्यतिशयो नोपात्तः । हेतुफलयोस्तु नियमेन निमित्तस्योपादानमेव, तथाहि--"विश्लेषदुः खादिव" इत्यत्र यन्निमित्तं बद्धमौनत्वम् "आख्यातुमिव" इत्यत्र च भूप्रवेशस्तयोरनुपादानेऽसङ्गतमेव वाक्यं स्यात् । ************* टीका ************* विज्ञप्रिया (वि, स) व्याचष्टे---तेष्विति । ये स्वरूपगायाः षोडश भेदाः जातिगामिन्यो जात्या चतस्त्रो, भावाभावविषयत्वेनाष्टौ, गुणक्रियानिमित्तद्वैविध्यात्षोडशप्रकारत्वं स्वरूपोत्प्रेक्षाया बोध्यम् । उपादानानुपादानाभ्यामिति । उपादानघटिताश्च षोडश तत्वारिंशट्रणनाप्रविष्टा एव । अनुपादानघटिता षोडशमात्रवृत्तिर्बोध्या । नच निमित्तानु पादाने कथं तद्द्वैविध्यघटितं षोडशत्वमष्टत्वस्यैवौचित्यादिति वाच्यम् । क्वचिन्निमित्तभूता क्रिययैव तस्या अनुक्तिः । क्वचित्तादृशस्य गुणस्यानुक्तिः । अनुक्तावपि द्वैविध्यसम्भवात् । मिलित्वेति । अनुक्तिनिमित्तकषोडशाभिः सह मिलित्वेत्यर्थः । इत्थं स्वरूपोत्प्रेक्षायामेव हेत्वनुक्तिसम्भवात्षट्पञ्चाशत्त्वं नतु फलयोगोत्प्रेक्षायामित्याह---हेतुफलयोस्त्विति । भूप्रवेश इत्यत्रापि यन्निमित्तमित्यन्वयः । असङ्गतमेवेति । तुमन्तपञ्चम्यन्तयोराकाङ्क्षानिवृत्तिरेवासङ्गतिः । लोचना (लो, ऐ) उक्तिर्वाचकपदप्रयोगः, अनुक्तिस्तदभावेऽप्यर्थलभ्यता । असङ्गतमेवेति । साकाङ्क्षत्वादिति भावः । ********** टीका सम्पूर्णा ********** प्रतीयमानायाः षोडशसु भेदेषु विशेषमाह-- लोचना (लो, ओ) षोडशसु---समनन्तरोक्तेषु । ********** टीका सम्पूर्णा ********** प्रतीयमानाभेदाश्च प्रत्येकं फलहेतुगाः ॥ १०.४४ ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) प्रतीयमानायाः षोडशस्विति---भावाभावविषयकत्वेन जात्यादिचतुष्कोत्प्रेक्षा अष्टौ, गुणक्रियानिमित्तद्वयवशाच्च षोडशेति प्रागेव दर्शितम् । फलहेतुगा इति । नतु स्वरूपेणेति वक्ष्यते । तथा च फलगामित्वहेतुगामित्वद्वैविध्याद्द्वात्रिंशत्प्रकारा इति वक्ष्यते । ********** टीका सम्पूर्णा ********** यथैदाहृते "नन्वङ्ग्याः स्तनयुग्मेन" इत्यत्र लज्जयेवेति हेतुरुत्प्रेक्षितः । अस्यामपि निमित्तस्यानुपादानं न सम्भवति । इवाद्यनुपादाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य प्रमातुर्निश्चेतुमशक्यत्वात् । ************* टीका ************* विज्ञप्रिया (वि, क) ननु निमित्तानुपादानकृता परषोडशवृद्धिः कथं न प्रदर्श्यते इत्याह-- अस्यामपीति । अस्यां प्रतीयमानोत्प्रेक्षायामित्यर्थः । फलहेतुगत्वे वाच्योत्प्रेक्षायामिवास्यामपीत्यर्थः । तदसम्भवमुपपादयति---इवाद्यनुपादान इति । तथा हि, "तत्वङ्ग्याः"इत्यादौ हाराय स्थानादानं लज्जोत्प्रेक्षाया हेतुः, तदनुपादाने तु लज्जाहेत्वदर्शनाल्लज्जोत्प्रेक्षा प्रमात्रा बोद्धा निश्चेतुमशक्यैवेत्यर्थः । तदनिश्चयेऽचेतनस्य तनयुग्मस्य लज्जासम्भवात्तदन्वयो बाधित एव स्यादित्यर्थः । नच बाधवशादुत्प्रेक्षा निश्चीयतामिति वाच्यम् । हेत्वभावे कुतो लज्जोत्याकाङ्क्षासत्त्वान्निश्चयासम्भवात् । ********** टीका सम्पूर्णा ********** स्वरूपोत्प्रेक्षाप्यत्र न भवति, धर्मान्तरतादात्मयनिबन्धनायामस्यामिवाद्यप्रयोगे विशेषणयोगे सत्यतिशयोक्तेरभ्युपगमात् । यथा--"अयं राजापरः पाकशासनः" इति । (विशेषणाभावे च रूपकस्य, यथा--"राजा पाकशासनः" इति । ) तदेवं द्वात्रिंशत्प्रकारा प्रतीयमानोत्प्रेक्षा । ************* टीका ************* विज्ञप्रिया (वि, ख) अस्या हेतुफलगामित्वमेवोक्तम्, स्वरूपगामित्वेनापरप्रभेदवृद्धिश्च कथं न दर्शितेत्यत्राह---स्वरूपोत्प्रेक्षाप्यत्रेति । तदसम्भवमुपपादयति---धर्म्यन्तरेति । प्रकृते धर्मिण्यप्रकृतधर्म्यन्तरतादात्म्यं यत्र निबन्धयते, तन्निबन्धनं यस्यां तादृश्यामस्यामुत्प्रेक्षायामित्यर्थः । विशेषणयोग इति । उत्प्रेक्षणीयचन्द्रादेरपरत्वादिविशेषणोपादान इत्यर्थः । तथात्वेऽतिशयोक्तिं दर्शयति---यथायं राजेति । अत्र भेदेऽप्यभेदारोपरूपातिशयोक्तिः । तदनुपादाने तु रूपकस्याभ्युपगमादित्याहविशेषणस्येति । तद्दर्शयति--राजेति । द्वात्रिंशत्प्रकारेति । वाच्योत्प्रेक्षाया मेलने त्वष्टाशीतिप्रकारेति बोध्यम् । लोचना (लो, औ) न भवति--तद्विषयेऽलङ्कारान्तरङ्गीकारादित्यर्थः । तदेवाह---धर्म्यन्तरेति । ********** टीका सम्पूर्णा ********** उक्त्यनुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा । लोचना (लो, अ) प्रस्तुतस्य--उत्प्रक्षावषयस्य । ताः--समनन्तरोक्तप्रकाराः । ********** टीका सम्पूर्णा ********** ता उत्प्रेक्षाः । उक्तौ यथा--"उरुः कुरङ्गकदृशः-" इति । ************* टीका ************* विज्ञप्रिया (वि, ग) अष्टाशीतिप्रकाराया अस्या द्वैगुण्येन षट्सप्तत्युत्तरैकशतरूपतामाहौक्त्यनुक्त्योरिति । प्रस्तुतस्य प्राकरणिकस्य । वाच्यप्रतीयमानसमस्तमेलनेनाष्टाशीतिरूपोत्प्रोक्षा । नच प्राकरणिकानुक्तो तस्य निगरणरूपातिशयोक्तिरेवेति वाच्यम् । स्वरूपोत्प्रेक्षायामेव तत्प्रसक्तेः । प्रतीयमानोत्प्रेक्षायां तु स्वरूपोत्प्रेक्षआसम्भवस्य दर्शितत्वादेव । वाच्योत्प्रेक्षायामिवादिसत्त्वादेव नातिशयोक्तिप्रसक्तिः वाच्योत्प्रेक्षायां प्रकृतोक्तिं दर्शयति---ऊरुरिति । ********** टीका सम्पूर्णा ********** अनुक्तौ यथा मम प्रभावत्याम--"प्रद्युम्नः--इव हि सम्प्रति दिगन्तरमाच्छादयता तिमिरपटलेन-- घटितमिवाञ्जनपुञ्जैः पूरितमिव मृगमदक्षोदैः । ततमिव तमालतरूभिर्वृतमिव नीलांशुकैर्भुवनम्" ॥ अत्राञ्जनेन घटितत्वादेरुत्प्रेक्षणीयस्य विषयव्याप्तत्वं नोपात्तम् । ************* टीका ************* विज्ञप्रिया (वि, घ) घटितमिवेत्यादि--तिमिरपुञ्जेनैवमेवं कृतमिवेत्यर्थः । तत्तत्करणं दर्शयति---घटितमिवेति । भुवनमञ्जनपुञ्जैर्घटितं निर्मितमिवेत्यर्थः । तत्तं व्याप्तम् । वृतमाच्छादितम् । विषय इति--प्रस्तुतरूपः । ********** टीका सम्पूर्णा ********** यथा वा-- "लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः" । अत्र तमसो लेपनस्य व्यापनरूपो विषयो नोपात्तः । अञ्जनवर्षणस्य तमः सम्पातः । अनयोरुत्प्रेक्षानिमित्तं च तमसोऽतिबहुलत्वं धारारूपेणाधः संयोगश्च यथासंख्यम् । केचित्तु--"अलपनकर्तृभऊतमपि तमो लेपनकर्तृत्वेनोत्प्रेक्षितं व्यापनं च निमित्तम्, एवं नभोऽपि वर्षणाक्रियाकर्तृत्वेन" इत्याहुः । ************* टीका ************* विज्ञप्रिया (वि, ङ) परकीयश्लोकमपि दर्शयति---लिम्पतीवेति । तमः सम्पात इत्यनुपात्त इत्यन्वयः । सम्पातश्चाधः संयोगहेतुप्तनक्रिया, नत्वधः संयोगः । अतोऽत्र निमित्तत्वेन वक्ष्यमाणाधः संयोगस्य भेदः । अनयोरनुक्तं निमित्तं दर्शयति---अनयोरिति । इयं क्रियास्वरूपोत्प्रेक्षा । केचित्त्वत्र कर्तृस्वरूपद्रव्योत्प्रेक्षामाहुः । तद्दर्शयति---केचित्त्विति । अत्र केचिदित्यस्वरससूचनम् । क्रियोत्तरमिवकारत्त्मोनभसोर्वास्तवत्वेनानुत्प्रेक्षणीयत्वाच्च । लेपनवर्षणकर्तृत्वमवास्तवमिति चेत्तदा लेपनवर्षण्योरेवोत्प्रेक्षापर्यवसानात् । संयोगविशेषस्येव हि व्याप्तिनाम्नारेतिशयस्थागनसाम्येन रूपसम्भावना उत्प्रेक्षाभेदः प्रतीयते । विषयस्य गम्यता हेतुफलोत्प्रेक्षयोरङ्गीक्रियते । स च यदि स्वरूपोत्प्रेक्षायामेव स्यात्तदा को दोष इत्यलं बहुना । लोचना (लो, आ) क्षोदैश्चूर्णैः । अनयोर्घाटितामिवेत्यादेर्लिम्पतीवेत्यादेश्चोदाहरणयोरुत्प्रेक्षानिमित्तमित्यतः पूर्वं व्यापनस्याञ्जनघटनादिति शेषः । "वर्षतीवाञ्जनं नभः" इत्यत्र च धारारूपेणाधः संयोग इत्यर्थः । केचिदलङ्कारसर्वस्वकारादयः इत्याहुरिति सम्बन्धः । लेपनकर्तृत्वेनोत्प्रेक्षितं लिम्पतीति ततः कर्तृताभिधानात्तस्य च तमसि सामानाधिकारण्येन तद्रतताप्रत्ययादित्यभिसान्धिः । तेषामेषा युक्तिः-तमोगतत्वेन लेपनक्रियाकर्तृत्वोत्प्रेक्षायां लेपनादिनिमित्तं गम्यमानम् । व्यापनादावुत्प्रेक्षाविषयत्वे निमित्तमन्यदन्वेष्यं स्यात् । नच विषयस्य गम्यमानत्वं युक्तम्, तस्योत्प्रेक्षाधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात् । अत्र केचिदित्यनेनात्मनोऽरुचिप्रकटनम् । तथा हि अतिशयोक्तौ कमलमनम्भसीत्यादाविवात्र विषयनिमित्तयोर्द्वयोरप्यत्र गम्यमानत्वमेव । व्यापनकर्तर्येव तमसि लेपनकर्तृत्वसम्भावनस्य तमसो लेपनकर्त्रा सादृश्यविरहाच्च । ********** टीका सम्पूर्णा ********** अलङ्कारान्तरोत्था सा वैचित्र्यमधिकं भजेत् ॥ १०.४५ ॥ ************* टीका ************* विज्ञप्रिया (वि, च) अलङ्कारान्तरोत्थेति । सा दर्शितसमस्तप्रकारोत्प्रेक्षालङ्कारान्तरोत्था अलह्कारन्तरनिष्पन्ना चेत्तदाधिकं वैचित्र्यं भजेदित्यर्थः । ********** टीका सम्पूर्णा ********** तत्र सापह्नवोत्प्रेक्षा यथा मम-- "अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः । अप्राप्य मानमङ्गे विगलति लावण्यवारिपूर इव" ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) अश्रुच्छलेनेति । पत्यौ जुह्वति तत्सन्निधिस्थाया नायिकाया अश्रुनिर्गमवर्णनमिदम् । हुतपावकधूमकलुषाक्ष्याः सुदृशोऽङ्गे मानमवकाशमप्राप्य लावण्यवारिपूर इव अश्रुच्छलेन विगलतीत्यर्थः । अत्र छलपदादश्र्वपह्ववो विगलल्लावण्यवारिपूरात्मकस्वरूपोत्प्रेक्षानिष्पादकः । अश्र्वपह्नवं विना तदसम्भवादश्रुणि लावण्यरूपकस्यैवापत्तेः । अत्र च वारिपूरकसत्त्वेति न तदुत्प्रेक्षानिष्पादकम् । तद्वि नापि लावण्यमित्युक्तावप्युत्प्रेक्षानिष्पत्तेः । लोचना (लो, इ) सापह्नवोत्प्रेक्षेत्यनेन सहार्थनिर्देशेनापह्नुतेरङ्गभावः । सम्भावनाया एव उद्रेकावभासात् । हुतः पावको विवाहकालीनः । ********** टीका सम्पूर्णा ********** श्लेषहेतुगा यथा-- "मुक्तोत्करः सङ्कटशुक्तिमध्यद्विनिर्गतः सारसलोचनायाः । जानीमहेऽस्याः कमनीयकम्बुग्रीवाधिवासाद्गुणवत्त्वमाप" ॥ अत्र गुणवत्त्वे श्लेषः कम्बुग्रीवाधिवासादिवेति हेतूत्प्रेक्षाया हेतुः । अत्र "जानीमहे" इत्युत्प्रेक्षावाचकम् । ************* टीका ************* विज्ञप्रिया (वि, ज) मुक्तोत्कर इति । आवरणयन्त्रितत्वेन संकटाद्दुः खद्रायकात्शुक्तिमाध्याद्विनिर्गतो मुक्तोत्करः सारसाक्ष्या अस्या कमनीयकम्बुग्रीवाधिवासाद्गुणंवत्त्वं तन्तमत्त्वमेव, गुणवत्त्वं ज्योतिराधिक्यमापेति जानीमहे उत्प्रेक्षामहे इत्यर्थः । अस्थानस्थितिदुःखोत्तीर्णस्य गुणवत्स्थानवासादिव गुणवत्त्वप्राप्तिरित्यर्थः । त्रिलेखाविशिष्टा ग्रीवा कम्बुः । अत्र तन्तोर्वास्तवत्वान्न तत्प्राप्तिहेतूत्प्रेक्षा सम्भवतीत्यतो गुणपदश्लेषाज्ज्योतिर्विशेषप्राप्तिहेतूत्प्रेक्षा इत्यतः श्लेषनिर्वाह्या इयमुत्प्रेक्षा । लोचना (लो, ई) गुणः सूत्रं महार्घ्यतादिश्च । अत्र श्लेषहेतुकत्वं श्लिष्टशब्दान्वयव्यतिरेकानुविधानादेव । ********** टीका सम्पूर्णा ********** एवम्-- मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः । लोचना (लो, उ) जानीमहे इति मन्ये इत्यादयोऽप्युत्प्रेक्षावाचका ज्ञेया इत्यर्थः । आदिशब्देन किमादयः । तत्र किंशब्दस्य प्रयोगे यथा गोपीनाथस्य गङ्गावर्णन--- "वलिप्रसूनावलिमूर्मिहस्तैः सञ्चारयन्ती भजतां सुदूरम् । विक्रीय कैवल्यममुष्य मूल्यं वराटसंख्यां किमियं करोति" ॥ ********** टीका सम्पूर्णा ********** क्वचिदुपमोपक्रमोत्प्रेक्षा यथा-- "पारेजलं नीरनिधेरपस्यन्मुरारिरानीलपलाशराशीः । वनावलीरुत्कलिकासहस्त्रप्रतिक्षणोत्कूलितशैवलाभाः" ॥ इत्यत्राभाशब्दस्योपमावाचकत्वादुपक्रमे उपमा । पर्यवसाने तु जलधितीरे शैवालस्थितेः सम्भावनानुपपत्तौ सम्भावनोत्थापनमित्युत्प्रेक्षा । ************* टीका ************* विज्ञप्रिया (वि, झ) क्वचिदुपमोपक्रमोत्प्रेक्षा इति । उपक्रान्ताया उपमाया एवोत्प्रेक्षेत्यर्थः । पारेजलमिति---मुरारिः श्रीकृष्णः नीरनिधेः समुद्रस्य पारेजलं जलस्य पारे कूले वनावलीरपश्यत् । कीदृशीः ? आनीलः पलाशानां पत्राणां राशिर्यासु । पुनः कीदृशी ? उत्कलिकासहस्त्रेण तरङ्गसहस्त्रेण प्रतिक्षणोत्कूलितानां शैवलानामाभा इवेत्यर्थः । अत्रोपमाया एवोत्प्रेक्षां ग्राहयति---अत्राभाशब्दस्येति । शैवलस्येव आभा यत्रेति बहुव्रीहिसमासवशादुपमाप्रतिपादकस्येत्यर्थः । अनेन उपमोपक्रमो दर्शितः । ततस्तस्या उपमाया उत्प्रेक्षामुपपादयति---पर्यवसाने त्विति । "शैवलाभाऽ इत्यनेनैवोपमापर्यवसानसम्भवे उत्कूलत्वकथनमनुपयुक्तमत उत्कूलितशैवलाभा इवेति पर्यवसाने उत्प्रेक्षेत्यन्वयः । तादृशोत्प्रेक्षाया उत्थानमुपपादयति---जलधितीर इति । वनान्तर उत्कूलितशैवलासम्भवात्तत्र न तत्सम्भावनोत्थानम् । जलनिधितीरे शैवलस्थितेः सम्भवस्योपपत्तेरनुपपत्त्यभावात्सम्भावनोत्थानमुत्कूलितशैवलसम्भावोत्थानमित्यर्थः । ततस्तदाभा इवेत्युत्प्रेक्षेत्यत आह---उत्प्रेक्षेति । तत्सम्भावनोत्थानाभावे उत्कूलितविशेषणवैयर्थ्यमिति भावः एवं चोत्प्रेक्षाया उपक्रान्तोपमाविषयत्वादुपमानिष्पाद्येयमुत्प्रेक्षेत्यर्थः । लोचना (लो, ऊ) उपमोकक्रमोत्प्रेक्षा---उपमोपक्रमे पदार्थान्वयवेलायां तद्वाचकशब्दोपादानाद्यस्यास्तथाभूता । वाक्यप्रतीत्यनन्तरं सम्भावनाकर्तुरभिमानव्यापारस्याविर्भावाद्विश्रान्तावुत्प्रेक्षा । उत्कलिका वीचयः । उत्कूलितानि--कूलमुद्रतानि । ********** टीका सम्पूर्णा ********** एवं विरहवर्णने--"केयूरायितमङ्गदैः--" इत्यत्र "विकासिनीलोत्पलतिस्म कर्णे मृगायताक्ष्याः कुटिलः कटाक्षः" इत्यादौ च ज्ञेयम् । ************* टीका ************* विज्ञप्रिया (वि, झ) केयूरायितमिति । केयूरैरिवाचरितमिवेत्यर्थः । केयूरं कङ्कणम् । विरहकार्श्यादङ्गदैः केयूरस्थानं प्राप्तमित्यर्थः । तत्रापि प्रत्ययवशात्प्राप्तोपमा अङ्गदस्याऽचाराभावादुत्प्रेक्ष्यते । औत्युपमोत्प्रेक्षां दर्शयित्वा आर्थ्युपमोत्प्रेक्षां दर्शयति---विकासीति । अत्रापि क्किब्लोपादार्थो ळुप्तोपमा उत्प्रेक्ष्यते । लोचना (लो, ऋ) सम्प्रति प्रत्ययस्योपमावाचकत्वे उदाहरति---केयूरायितमिति । प्रत्ययलोपे उदाहरति---विकासीति । ********** टीका सम्पूर्णा ********** भ्रान्तिमदलङ्कारे "मुग्घा दुग्धधिया--" इत्यादौ भ्रान्तानां बल्लवादीनां विषयस्य चन्द्रिकादेर्ज्ञानमेव नास्ति, तदुपनिबन्धनस्य कविनैव कृतत्वात् । इह तु संभावनाकर्तुविषयस्यापि ज्ञानमिति द्वयोर्भेदः । ************* टीका ************* विज्ञप्रिया (वि, ञ) भ्रान्तिमदलङ्कारे निश्चयोऽत्र तु उत्कटकोटिकः संशय इति भेदसम्भवेऽपि भेदकान्तरमाह---भ्रान्तिमदलङ्कार इति । ज्ञानमेव नास्तीत्यर्थः । तत्सत्त्वे दुग्धधिया गावामधः कुम्भदानानुपपत्तेः । ज्ञानमेव नास्ति चन्द्रिकात्वेन । ननु, "न कस्य कुरुते चित्तभ्रमंचन्द्रिका" इत्युक्तितश्चन्द्रिकात्वेन ज्ञानमस्तीत्यत आह---तदुपनिबन्धस्येति । चन्द्रिकायां बल्लवानां भ्रमोपनिबन्धस्येत्यर्थः । तथा च कव्युक्त्या श्रोतॄणां बल्लवादीनां न चन्द्रिकात्वेन ज्ञानमित्यर्थः । उत्प्रेक्षायामस्यां तद्वैलक्षण्यमाह---इह त्विति । सम्भवानाकर्तुः कवेस्तदुपनिबद्धनस्येत्यर्थः । विषयस्यापि विषयस्यानुत्कटतया तत्कोटेरपि ज्ञानात् । लोचना (लो, ॠ) विषयस्य वर्ण्यमानस्य । चन्द्रिकादेरित्यादिशब्दाच्चन्द्रिकाशबलितकुवलयादिः । तदुपनिबन्धस्य काव्ये शब्देनोपनिबन्धस्य । इह---उत्प्रेक्षायां कोटिद्वयस्य विषयविषयिरूपात्मकस्य । ********** टीका सम्पूर्णा ********** संदेहे तु समकक्षतया कोटिद्वयस्य प्रतीतिः, इह तूत्कटा संभाव्यभूतैककोटिः । अतिशयोक्तौ विषयिणः प्रतीतस्य पर्ववासनेऽसत्यता प्रतीयते, इह तु प्रतीतिकाल एवेति भेदः । ************* टीका ************* विज्ञप्रिया (वि, ट) तर्हि सन्देहालङ्काराभेद इत्यत आह---सन्देह इति । एककोटेरुत्कटत्वतुल्यत्वाभ्यां भेद इत्यर्थः । अतिशयोक्तितो भेदमाह---अतिशयोक्ताविति । विषयिण आरोप्यमाणस्य पर्यवसाने उत्तरकाले, "कथमुपरि कलापिनः कलापऽ इत्यत्र कलापभ्रमानन्तरमेव केशत्वविशेषदर्शनात्कलापेऽसत्यता प्रतिपाद्यत इत्यर्थः । इह त्विति---सप्रसवा इवेत्याद्युत्प्रेक्षाकाल इत्यर्थः । एतच्चानुभववैलक्षण्यमभिप्रेत्यापातत एवोक्तम् । वस्तुतस्तु योनिबहिर्भावरूपप्रसवबाधस्येव नायिकाशिरसि कलापभाधस्यापि सत्त्वे एवाहार्यतदुभयबुद्धिसत्त्वेनोभयत्र साम्यमेव । किन्तूत्प्रेक्षा उत्कटकोटिकसन्देह रूपा, अतिशयोक्तिस्तु निश्चयरूपेति भेदः । "कथमुपरि" इत्यत्र हि कलापस्याहार्यनिश्चय एव कथंपदबोध्यः सन्देहः । लोचना (लो, ळ) उत्कटा---विषयनिगरणेन प्रतीयमानत्वात् । एककोटिविषयरूपा । ********** टीका सम्पूर्णा ********** "रञ्जिता नु विविधास्तरुशला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण" ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) उत्प्रेक्षालङ्कारस्यैव विषये क्वचिच्छ्लोके सन्देहालङ्कारं केचिदाहुः, तद्दूषयितुं श्लोकमाह---"रञ्जिता नु" इत्यादि । गाढतमोवर्णनमिदम् । रञ्जिता न्विति---कृष्णवर्णोकृतेत्यर्थः । सर्वत्र तिमिरेणेत्यन्वयः । स्थगितमाच्छादितम् । विषमेषु--गभीरोच्चस्थलीषु । संहृता नाशैताः । ********** टीका सम्पूर्णा ********** इत्यत्र यत्तर्वादौ तिमिराक्रान्तता रञ्जनादिरूपेण संदिह्यत इति संदेहालङ्कार इति केचिदाहुः, तन्न-एकविषये समानबलतयानेककोटिस्फुरणस्यैव संदेहत्वात् । इह तु तर्वादिव्याप्तेः प्रतिसंबन्धिभेदो व्यापनादेर्निगरणेन रञ्जनादेः स्फुरणं च । अन्ये तु--"अनेकत्वनिर्धारणरूपविच्छित्त्याश्रयत्वेनैककोट्यधिकेऽपि भिन्नोऽयं संदेहप्रकारः" इति वदन्ति स्म॑ तदप्ययुक्तम्--निगीर्णस्वरूपस्यान्यतादात्म्यप्रतीतिहि संभावना, तस्याश्चात्र स्फुटतया सद्भावात्नुशब्देन चेवशब्दवत्तस्याद्योतनादुत्प्रेक्षैवेयं भवितुं युक्ता, अलमदृष्टसंदहप्रकारकल्पनया । ************* टीका ************* विज्ञप्रिया (वि, ड) अत्र कैश्चिदुक्तं सन्देहालङ्कारं दर्शयति---इत्यत्रेति । एकविषय इति । एकधर्मिणि । तर्वादिव्याप्तिः--तर्वादिकर्मकरञ्जनादिव्याप्तिः । प्रतिसम्बन्धितर्वादिरूपं विशेष्यं प्रतीत्यर्थः । ननु प्रतिविशेष्यं सन्देहा एव बहवः स्युरित्यत्र उत्प्रेक्षाप्रापकहेतुविशेषश्चास्तीत्याह---व्यापनादेरिति । तिमिरव्यापनादेरित्यर्थः । आदिपदात्तिमिरकृतोच्चनीचादर्शनपरिग्रहः । तस्य निगरणमत्रानुत्कटकोटिकरणम् । अन्ये तु सन्देहालङ्कारविशेष इत्याहुः, तद्दर्शयति---अन्ये त्विति । अत्रोत्प्रेक्षामेव व्यवस्थापयितुमाह---तदप्ययुक्तमिति । निगीर्णस्वरूपस्यानुत्कटकोटिविशेषीकृतस्वरूपस्यान्यतादात्म्यमनुत्कटान्यकोटिमदभेदः । नन्वेवं निगरणसत्त्वादतिशयोक्तित्वप्रसक्तिरित्यत आह---नुशब्देन चेवशब्दवदिति । लोचना (लो, ए) रञ्जनादीत्यादिशब्देन नमनादिः । एको विषयः, "स्थाणुर्वा पुरुषो वेत्यादौ स्थाण्वादिः । अयं मार्तण्डः किमित्यादौ राजादिः । समानबलतया--चैककोटितया, इह--प्रकृतोदाहरणे, तुः--पुनरर्थः । तर्वादिव्याप्तेः--तरुगगनादौ तमसो व्यापनस्य सम्बन्धिनस्तरुगगनादयः , तदभेदाद्व्यापनस्यापि भेदः । ततश्च विषयभेदात्कथमुक्तरूपः संशय इत्यर्थः । नच समानबलतयानेककोटिस्फुरणमपीत्याह--व्यापनादेरिति । अन्ये--एकदेशिनः । अनिर्धारणम्--संशयबीजैकदेशः । कथमयुक्तमित्याह--निगीर्णेति । अन्यद्विषयात् । तस्याः सम्भावनायाः । अदृष्टन्यायविद्भिरित्यर्थः । सन्देहप्रकारोऽनेकविषयनिष्ठ एककोट्यधिकस्फुरणाकारश्च । ********** टीका सम्पूर्णा ********** "यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा । अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी- कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) "यदेतच्चन्द्रान्तःऽ इत्यादिश्लोके सापह्नवोत्प्रेक्षाप्रसक्तिं निरस्यापह्नुत्यलङ्कारमात्रं व्यवस्थापयितुमाह---यदेतदित्यादि । राज्ञि कस्यचिदुक्तिरियम् । चन्द्रस्यान्तर्यदेतद्वस्तु, जलदलवस्य जलदखण्डस्य जलदखण्डस्य सादृश्यरूपां लीलां वितनुते तद्वस्तु, लोकः शशक इति आचष्टे । अन्यजनं प्रति तदाचष्टां, मां प्रति तु न तथाचष्टे इत्यर्थः । मम तथात्वाभावनिश्चयादिति भावः । तर्हि तव कीदृशे निश्चय इत्यत्राह---आहन्त्विति । त्वया वन्दीकृतानामरीणां विरहेणाक्रान्तानां तदीयतरुणीनां कटाक्षोल्कापातैर्जातो यो व्रणस्तस्य किणो व्रणस्थाने प्रकटभागः, स एव कलङ्को दोषः, तच्चिह्निता तनुर्यस्य तादृशम् । ********** टीका सम्पूर्णा ********** इत्यत्र "भन्ये" शब्दप्रयोगेऽप्युक्तरूपायाः सम्भावनाया अप्रतीतेवितर्कमात्रं नासावपह्नवोत्प्रेक्षा । ************* टीका ************* विज्ञप्रिया (वि, ण) उत्करूपायाः सम्भावनाया इति । उत्कटानुत्कटकोटिद्वयरूपाया इत्यर्थः । तदप्रतीतिश्च नो मां प्रति तथेत्यर्थः । तेन वक्तुः शशकोट्यभावनिश्चयस्य प्रतीतेः । नासावपह्नहेति---तथा चापह्नवमात्रमत्रेति भावः । लोचना (लो, ऐ) जलदस्य मेघस्य लवः । कलङ्काङ्कितम्--कलङ्कचिह्नितम् । "मन्येऽ शब्दः क्वचित्क्वचिदुत्प्रेक्षाद्योतकः । उक्तरूपायाः--अध्यवसायसाध्यतापदवाच्यायाः । वितर्कः--ऊहनम् । ********** टीका सम्पूर्णा ********** सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर्निगद्यते । विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः । ************* टीका ************* विज्ञप्रिया (वि, त) अतिशयोक्त्यलङ्कारमाह---सिद्धत्व इति । आध्यवसायस्यारोपस्य सिद्धत्वे निश्चयरूपत्वे सति अतिशयोक्तिरित्यर्थः । एवं चानिश्चयरूपयोः सन्देहोत्प्रेक्षालङ्कारयोर्वारणम् । परन्तु निश्चयालङ्कारापह्नुत्यलङ्काररूपकालङ्कारेष्वतिव्याप्तिरवशिष्यते, तदलङ्कारत्रये आरोप्यस्य निश्चयरूपत्वात् । तद्वारणार्थमारोपविषयनिगारणपूर्वकत्वं विशेषणं दत्त्वाऽरोपविशेष्यपरत्वं निबध्नन् व्याचष्टे---विषयनिगरणेनेति । विषयिणोऽभेदप्रतिपत्तिरर्थाद्विषये अध्यवसाय इह विवक्षित इत्यर्थः । यत्रारोप्यते स विषयः । य आरोप्यते स विषयी । निगरणं चाधः करणं व्याख्यास्यते । तदप्यविस्पष्टार्थमतो विशेषार्थकं शब्दं विना व्यञ्जनयैव विषयनिषेधबुद्धिरधः करणम् । तच्च सर्वविधातिशयोक्तौ तदवसरे दर्शयिष्यते । अपह्नुतिनिश्चयालङ्कारयोर्निषेधार्थकशब्द एवास्ति इत्यतो न तत्र निषेध--व्यञ्जना । रूपके तु चन्द्रतादात्म्येनैव मुखप्रतीतिर्नतु मुखनिषेधप्रतीतिः । अपह्नुतेर्व्यङ्ग्यत्वे तु नासावलङ्कारः किन्तु तद्ध्वनिः । तत्रालङ्कारपदप्रयोगस्तु बह्मणश्रमन्यायादोपचारिक एव । किन्तु अपह्नुतिध्वनौ अपह्नुतावेवातिव्याप्तिरिति, अतिशयोक्तौ तु अपह्नुतिपूर्वकेऽन्यतादात्म्यारोप इत्यनयोर्भेदः । ********** टीका सम्पूर्णा ********** अस्य चोत्प्रेक्षायां विषयिणोऽनिश्चितत्वेन निर्देशात्साध्यत्वम्, इह तु निश्चितत्वेनैव प्रतीतिरिति सिद्धत्वम् । विषयनिगरणं चोत्प्रेक्षायां विषयस्याधः करणमात्रेण, इहापि मुखं द्वितीयश्चन्द्र इत्यादौ । ************* टीका ************* विज्ञप्रिया (वि, थ) सिद्धत्व इत्यस्य व्यावृत्तिं दर्शयति---तस्य चेति । साद्ध्यत्वमनिश्चयत्वम् । सिद्धत्वं निश्चयत्वम् । उत्प्रेक्षावारणं निश्चयत्वविवक्षयैव न तु निगरणपूर्वकत्वविवक्षयेति दर्शयति---विषयनिगरणं चेति । अधः करणपदार्थो विवृत एव । उत्प्रेक्षायां च विषयतावच्छेदककोटेः क्वचिदनुक्तिवशात्क्वचिच्चोक्ताया अपि अनुत्कटत्वशान्निषेधव्यञ्जना । यथा---"गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इति । " इत्यत्र गर्भबहिर्भावरूपप्रसवकोट्या उत्कटाया अनुत्कटाया गुणानुबन्धकोट्या उक्ताया एव निषेधव्यञ्जना । "गङ्गम्भसि स्नातीव" इत्यादौत्वनुक्ताया गङ्गसम्बन्धकोटेर्निषेधव्यञ्जना । अतिशयोक्तिविशेषेऽपि न तदसम्भव इत्यत आह---इहापि मुखं द्वितीयः इत्यादि । द्वितीयचन्द्रोक्तिवशादेव मुखत्वकोटिषेधव्यञ्जनेत्यर्थः । द्वितीयचन्द्राभावन्नेदं मुखमयमेव द्वितीयचन्द्र इति प्रतीतेः । द्वितीयपदाभावे तु नेदृशई निषेधप्रतीतिरिति तत्र रूपकमेव । ********** टीका सम्पूर्णा ********** यदाहुः-- "विषयस्यानुपादानेऽप्युपादानेऽपि सूरयः । अधः करणमात्रेण निगीर्णत्वं प्रचक्षते" ॥ इति । ************* टीका ************* विज्ञप्रिया (वि, द) यदाहुरिति---अनिगीर्णस्योपात्तस्य निगीर्णस्यानुपात्तस्य अधः-- करणं तु विवृतमेव । ********** टीका सम्पूर्णा ********** भेदेऽप्यभेदः सम्बन्धेऽसम्बन्धस्तद्विपर्ययौ ॥ १०.४६ ॥ पौर्वापर्यात्ययः कार्यहेत्वोः सा पञ्चधा ततः । तद्विपर्ययौ अभेदे भेदः, असम्बन्धे सम्बन्धः । सा अतिशयोक्तिः । ************* टीका ************* विज्ञप्रिया (वि, ध) अस्याः पञ्चविधत्वमाह---भेदेऽप्यभेद इति । अभेद आरोप्यमाणश्चेत्तदा स आरोपोऽतिशयोक्तिरित्यर्थः । एवमुत्तरत्रापि । कार्यहेत्वोः पौर्वापर्यात्ययः--पौर्वापर्यविपर्यय इत्यर्तः । ********** टीका सम्पूर्णा ********** अत्र भेदेऽभेदो यथा मम-- "कथमुपरि कलापिनः कलापो विलसति तस्य तलेऽष्टमीन्दुखण्डम् । कुवलययुगलं ततो विलोलं तिलकुसुमं तदधः प्रवालमस्मात्" ॥ अत्र कान्ताकेशपाशादेर्मयूरकलापादिभिरभेदेनाध्यवसायः । ************* टीका ************* विज्ञप्रिया (वि, न) कथमुपरीति---नायिकाया उपरीत्यथः । तदाप तदवयवरूपतयेति बोध्यम् । ततो विलोलमित्यत्र तत्स्थानमित्यनुषङ्गः । तिलकुसुममित्यत्रापि तत्स्थानमित्यनुषङ्गः । प्रवालं----नवपल्लवम् । अत्रारोपविषयाणां केशपाशादीनामनुपादानादेव निषेध्व्यञ्जनरूपाधः करणम् । एवमुत्तरोत्तरमपि विषयानुपादाने बोध्यम् । उपादाने तु रूपकमेवेति बोध्यम् । ********** टीका सम्पूर्णा ********** यथा वा--"विश्लेषदुः खादिव बद्धमौनम्" । अत्र चेतनगतमौनित्वमन्यत्, अचेतनगतं चान्यदिति द्वयोर्भेदेऽप्यभेदः । एवम्-- "सहाधरदलेनास्य यौवने रागभाक्प्रियः" । अत्राधरस्य रागो लौहित्यम्, प्रियस्य रागः प्रेम, द्वयोरभेदः । ************* टीका ************* विज्ञप्रिया (वि, प) अचेतनगतं चान्यदिति---उत्तरकरणसामर्थ्येऽपि तदकरणरूपामौनादन्यदित्यर्थः । तच्च शब्दाकरणरूपम् । स च विषयोत्रानुपात्तः । अस्या यौवने अस्या एवाधरदलेनेत्यन्वयः । द्वयोरभेद इति । रागपदश्लेषादिति भावः । एककालोत्पत्तिकत्वरूपसाहित्यमात्रप्रतीतौ तु अरुणाधरेण सह रागवानित्यतोऽधिकस्य वेचित्र्यस्यानुभूयमानस्यानुपपत्तिप्रसङ्गात् । ********** टीका सम्पूर्णा ********** अभेदे भेदो यथा-- "अन्यदेवाङ्गलावण्यमन्याः सौरभसम्पदः । तस्याः पद्मपलाशाक्ष्याः सरसत्वमलौकिकम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, फ) अन्यदेवेति । अङ्गलावण्यादेर्वैलक्षण्यात्तत्रेव तद्भेदारोपः । सरसत्वमिति । रसिकत्वमित्यर्थः । लौकिके तस्मिन्नलौकिकभेदारोपः । अत्रान्यत्वाद्यारोपानुक्तस्यापि तद्विषयलावण्यस्य निषेधव्यञ्जना । ********** टीका सम्पूर्णा ********** सम्बन्धेऽसम्बन्धो यथा-- "अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वय नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः" ॥ लोचना (लो, ओ) पुराणो मुनिः विधिः । अत्र च प्रथमार्द्धे नुशब्देनाध्यवसायस्य सिद्धतानिरासादुत्प्रेक्षा । ********** टीका सम्पूर्णा ********** अत्र पुराणप्रजापतिनिर्माणसम्बन्धेऽप्यसम्बन्धः । ************* टीका ************* विज्ञप्रिया (वि, ब) अस्याः सर्गविधौ इति । नु वितर्के । अस्या निर्माणविधौ प्रजापत्रिर्निर्माता चन्द्रः यतोऽसौ कान्तिप्रदः कान्तिमत्त्वेनैव तस्य कान्तिप्रदत्वं सम्भाव्योक्तम् । स्वयं मदनो नु यतोऽसौ शृङ्गारैकरसः । इयं हि शृङ्गारिणी । पुष्पाकरे चैत्रमासे अपि शृङ्गारैकरसत्वान्वयः । मूलविधातृभावं कथं खण्डयसीत्यत्राह---वेदाभ्यासेति । पुराणो जीर्णः । मुनिः मुनिधर्मा तपस्वीत्यर्थः अत्र । चन्द्रादेर्विधातृत्वकथनादारोपविषयस्य विधातृसम्बन्धस्य निषेधव्यञ्जना । ********** टीका सम्पूर्णा ********** असम्बन्धे सम्बन्धो यथा-- "यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरद्वयम् । तदोपमीयते तस्या वदनं चारुलोचनम्" ॥ अत्र यद्यर्थबलादाहृतेन सम्बन्धेन सम्भावनया सम्बन्धः । ************* टीका ************* विज्ञप्रिया (वि, भ) यदि स्यादिति । चारुलोचनस्थाने इन्दीवरद्वयं वदनस्थाने इन्दुमण्डलम् । आहृतेन सम्बन्धेन इति । इन्दुमण्डले इन्दीवरस्य सम्बन्ध एव स्यादित्येवं सम्बन्धसम्भावना । अत्रापि सम्बन्धसम्भावनयैव आरोपविषयस्यासम्बन्धस्य निषेधव्यञ्जना । लोचना (लो, औ) यद्यर्थेति । इह यद्यपि चन्द्रमण्डलस्येन्दीवरद्वयेन सम्बन्धो न सम्भवति तथापि कविना निबद्धस्य वा सम्भावनारूपेणासावस्तीत्यर्थः । एतेन "यद्यर्थोक्तौ च कल्पन" मिति कैश्चिदुक्तोऽतिशयोक्तेर्भेद उदाहृतः, एकस्यैव नानाभावोल्लेखश्च । अत्र प्रथमे ग्रन्थकृतैव उदाहृतम्, अन्यदेव इत्यादौ । द्वितीये केशपाशादेरित्यादिशब्देन ललाटनयननासाधाराणां संग्रहः । एवं मुखं द्वितीयश्चन्द्रः । तथा च--- "चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज । मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य" ॥ नचेह तस्या मुखं चन्द्र इतिवदारोपमूलं रूपकम् । तादात्म्यदृढतायामध्यवसायस्वरूपोत्थानात् । अत्र ही मदनस्य उद्यमं विनापि कोकिलरुतमात्रेण जगद्वशमासीदित्यर्थः । यथा---"अत्यारूढो हि नारीणामकालज्ञो मनोभवः । " एवं "न कामवृत्तिर्वचनीयमीक्षते" अत्र करणयोर्मनोभवकामवृत्त्योः क्रियाकर्त्तृभेदेऽप्यभेदेनोक्तिः । "इयं कान्ता युवजनमनसो वशीकरण" मित्यादौ च हेत्वलङ्कारो वक्ष्यते । स तस्या एवासम्बन्धे सम्बन्धरूपेण भेदेन सङ्गृह्यत इत्यर्थः । अत्र शुद्धोदाहरणं विरहवर्णने---"दाहोऽम्भः प्रसृतिं पचः प्रचयवान् बाष्पः प्रणालोचितऽ इत्यादि । अत्र दाहादीनामम्भः प्रसृतिपाकाद्यैः असम्बन्धेऽपि सम्बन्धः सिद्धत्वेनोक्तः । ********** टीका सम्पूर्णा ********** कार्यकारणयोः पौर्वापर्यविपर्ययश्च द्विधा भवति । कारणात्प्रथमं कार्यस्य भावे द्वयोः समकालत्वेच । क्रमेण यथा-- "प्रागेव हरिणाक्षीणां चित्तमुत्कलिकाकुलम् । पश्चादुद्भिन्नबकुलरसालमुकुलश्रियः" ॥ ************* टीका ************* विज्ञप्रिया (वि, म) पञ्चमातिशयोक्तिप्रभेदमुदाहर्त्तुमाह---कार्य्यकारणयोरिति प्रागेवेति--उत्कलिका उत्कण्ठा बकुलरसालयोर्द्वन्द्वः । तयोरुद्भिन्नमुकुलश्रियः पश्चादित्यर्थः । अत्र मुकुलश्रीदर्शनस्य कारणस्य जन्योत्कण्ठोत्तरोपपन्नत्वेन निर्देशाद्विपर्य्ययः । आहार्यबुद्धिविषयेण तेन कारणस्य शीघ्रकारित्वं व्यज्यते । अत्राप्युत्तरोपपन्नत्वादारोपविषयस्य पूर्वोत्पन्नस्य निषेधव्यञ्जना । एवमुत्तरत्रापि बोध्यम् । लोचना (लो, अ) उत्कलिका, उत्कण्ठा, उद्रतकोरकश्च । ********** टीका सम्पूर्णा ********** "सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यं मण्डलं च कहीक्षिताम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, य) सममेवेति---तेन रघुणा । पितृसिंहासनाक्रमणरूपकारणस्य महीक्षिन्मण्डलाक्रमणरूपकार्य्यस्य समकालोपपन्नत्वकथनात्पैर्वापर्य्यविपर्य्ययः । ********** टीका सम्पूर्णा ********** इह केचिदाहुः--केशपाशादिगतो लौकिकोऽतिशयोऽलौकिकत्वेनाध्यवसीयते । केशपाशादीनां कलापादिभिरध्यवसाये "अन्यदेवाङ्गलावण्यम्" इत्यादिप्रकारेष्वव्याप्तिर्लक्षणस्य" इति । तन्न,--तत्रापि ह्यन्यदङ्गलावण्यमन्यत्वेनाध्यवसीयते । तथाहि "अन्यदेव" इति स्थाने "अन्यदिव" इति पाठेऽध्यवसायस्यासाध्यत्वमेवेत्युत्प्रेक्षाङ्गीक्रियते । "प्रगेव हरिणाक्षीणाम्--" इत्यत्र बकुलादीश्रीणां प्रथमभावितापि पश्चाद्भावित्वेनाध्यवसिता, अत एवात्रापीवशब्दयोगे उत्प्रेक्षा एवमन्यत्र । ************* टीका ************* विज्ञप्रिया (वि, र) ग्रन्थकृदुक्तस्यातिशयोक्तिसामान्यलक्षणस्य अन्यदेवाङ्गलावण्यमित्यादावव्याप्तिं केचिदाहुस्तद्दूषयितुमाह---इह केचिदिति । विषये विषयिणोऽभेदेनाध्यवसायो हि भवत्कृतलक्षणार्थः, विषयविषयिभावश्च भेदघटितः । तथा च "कथमुपरि कलापिनः" इत्यत्र केशकलापयोर्भेदसत्तवात्तल्लक्षणार्थसम्भवेऽपि "अन्यदेवाङ्गलावण्यम्ऽ इत्यत्र तत्रैव तद्भेदारोपे भेदघटितविषयविषयिभावाभावादव्याप्तिरिति केषाञ्चिदुक्तिं दर्शयति---केशपाशादिगत इति । अतिशयः सौन्दर्य्यं लौकिकोऽन्यलोककेशसाधारणः अलौकिकत्वेन लोकविलक्षणकलापनिष्टसौन्दर्य्यत्वेनाध्यवसीतय इत्यर्थः । तयोः सौन्दर्ययोरभेदाध्यासमूलककेशपाशकलापयोर्भिन्नयोरभेदध्यासः सम्भवतीत्याह---केशापाशादीनामिति । अध्यवसाये इत्यनन्तरं सम्भवत्यपीति पूरणीयम् । तथापि अन्यदेवेत्यादिप्रकारेष्वव्याप्तिरित्याह---अन्यदेवेति । आरोप्यमाणरोपविषयलावण्ययोर्भेदाभावादिति भावः । अभेदे भेदारोपोऽस्मदुक्तलक्षणार्थेऽत्राप्यस्तीति ब्रुवन् समाधत्ते---तन्न । तत्र हीति । अनन्यदङ्गलावण्यमभिन्नमङ्गलावण्यमन्यत्वेन भिन्नत्वेनाध्यवसीयत इत्यर्थः । तथा च भिन्नत्वेनाध्यवसायादारोपविषयेऽभेदे तद्भिन्नस्य भेदस्यारोपाद्भेदघटीतो विषयविषयिभावोऽत्राप्यस्तीति साधितम् । उत्प्रेक्षायां विषयविषयिभेदघटित आरोपस्तवापि सम्मतः । अत्रैवोत्प्रेक्षासम्भवाद्भेदघटितारोपः त्वन्मतेऽपीत्याह---तथा हीति---अतिशयोक्तितो वायवृत्तिदर्शनाय साध्यत्वप्रदर्शनम् "प्रागेव हरिणाक्षीणाम्ऽ इत्यत्रापि भेदघटीतो विषयविषयिभावोऽस्तीति दर्शयति । अत्राप्युत्प्रेक्षासम्भवं दर्शयति---अत एवेति । भेदघटितविषयविषयिभावसत्त्वादेवेत्यर्थः । लोचना (लो, आ) लौकिकः स्वाभाविकः । अलौकिकत्वेनाध्यवसायफलभूतालौकिकातिशयत्वेनाङ्गलावण्यमित्यादिशब्देन"प्रिय इति गोपवधूभि" रित्यादेरुपसंग्रहः । अव्याप्तिलक्षणस्य इत्ययमाशयःुउपमेयवस्तुनः उपमानवस्तुतादात्म्ये एवाध्यवसायरूपोत्थापनम् । इह चान्यादिशब्दाख्यं लावाण्यादेः किमपि प्रतिनिधिवस्त्वन्तरं नास्ति । तदेवमादिषूहारणेषु लक्षणस्याव्याप्तिरिति सिद्धान्तमाह--तन्नेति । कथमन्यत्वेनाध्यवसाय इत्यत आह---तथा हीति । ********** टीका सम्पूर्णा ********** पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् ॥ १०.४७ ॥ एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता । ************* टीका ************* विज्ञप्रिया (वि, ल) तुल्ययोगितालङ्कारमाह---पदार्थानामिति । अन्येषां वेति । वाकारेण पृथक्स्वतन्त्र्यबोधनात्प्रस्तुताप्रस्तुतयोर्मिश्रणनिषेधो वोध्यः । तन्मिश्रणे तु दीपकालङ्कारो वक्ष्यते । लोचना (लो, इ) पदार्थानामिति । बहुवचनमतन्त्रम् । तेन पदार्थयोरपीति ज्ञेयम् । प्रस्तुतानां प्राकरणिकानाम् । अप्रस्तुतानामप्राकरणिकानाम् । ********** टीका सम्पूर्णा ********** अन्येषामप्रस्तुतानाम् । धर्मो गुणक्रियारूपः । उदाहरणम्-- "अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपदशाः । समयेन तेन सुचिरं शयित- प्रतिबोधितस्मरमबोधिषत" ॥ लोचना (लो, ई) अनुलेपनानीति । सुचिरं शयितं स्मरं प्रतिबोधितस्यरमबोधिषतेत्यर्थः । ********** टीका सम्पूर्णा ********** अत्र सन्ध्यावर्णनस्य प्रस्तुतत्वात्प्रस्तुतानामनुलेपनादीनामेकबोधनक्रियाभिसम्बन्धः । ************* टीका ************* विज्ञप्रिया (वि, व) अनुलेपनानीति । तमिस्त्रायां तत्कालीनवस्तूनां कामुककामोद्दीपकवर्णनमिदम् । सुचिरं शयितं तेन समयेन तादृशरात्रिरूपेण प्रतिबोधितं जागरितं स्मरमनुलेपनादयो अबोधिषत क्रीडार्थं बोधयामासुरित्यर्थः । तमोवर्णनस्येति । तमसः कामोद्दीपकत्वात्तस्मिन् प्रस्तुते तत्कालीनानामन्येषामुद्दीपकानामनुलेपनादीनामपि प्रस्तुतत्वमिति भावः । ********** टीका सम्पूर्णा ********** "तदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कठोरता" ॥ इत्यत्र मालत्यादीनामप्रस्तुतानां कठोरतारूपैकगुणसम्बन्धः । ************* टीका ************* विज्ञप्रिया (वि, श) अप्रकृतानामेकगुणसम्बन्धमाह---त्वदङ्गमार्दवं द्रष्टुरिति । तद्द्रष्टुः कस्य जनस्य चित्ते मालत्यादीनां कठोरता न भासते । तन्मार्दवाधिक्येनात्र कठोरताभासनात् । अत्र त्वदङ्गोपमानत्वेन मालत्यादयोऽप्रकृताः । ********** टीका सम्पूर्णा ********** एवम्-- "दानं वित्तादृतं वाचः कीर्त्तिधर्मौ तथायुषः । परोपकारणं कायादसारात्सारमाहरेत्" ॥ अत्र दानादीनां कर्मभूतानां सारतारूपैकगुणसम्बन्ध एकाहरणक्रियासम्बन्धः । ************* टीका ************* विज्ञप्रिया (वि, ष) प्रकृतानामेकगुणसम्बन्धोऽप्रकृतानामेवक्रियासम्बन्धश्चानुदाहृत एवश्लोकेन उदाह्रियते---एवं दानं वित्तादिति । वित्तादितोऽसाराद्दानादिकं सारमुद्धरेदित्यन्वयः । अत्र प्रकृतानामेकगुणक्रियासम्बन्धं दर्शयति---अत्र दानादीनामिति । उपार्जनीयत्वेन दानादीनिप्रकृतानि । अत्र प्रकृतानामपादानभूतानामेसारतागुणसम्बन्धोऽप्यत्रैवास्ति । ग्रन्थगौरवापत्त्या न प्रदर्शितः । लोचना (लो, उ) कारकान्तरेऽपि उदाहरति--दानमिति । अत्र न केवलं दानादीनामुद्धरणक्रियासम्बन्धो वित्तादीनामप्यसारतारूपैकगुणसम्बन्धः । इह च तुल्ययोगितायां "हसश्चन्द्र इवाभातीऽत्यादिवद्द्वयोः प्रकृतत्वेऽप्युपमानोपमेयभावो वैवक्षिकः । इहे वाद्यभावादौपम्यस्य गम्यत्वम् । ********** टीका सम्पूर्णा ********** अप्रस्तुतप्रस्तुतयोर्देपकं तु निगद्यते ॥ १०.४८ ॥ अथ कारकमेकं स्यादनेकासु क्रियासु चेत् । ************* टीका ************* विज्ञप्रिया (वि, स) दीपकालङ्कारमाह---अप्रस्तुतप्रस्तुयोरित्यनयोरेकधर्म्माभिसम्बन्ध इत्यनुषङ्गः । अन्यविधं दीपकमाह---अथेति । लोचना (लो, ऊ) अप्रस्तुतप्रस्तुतयोरेकधर्माभिसम्बन्ध इत्यर्थः । इह च द्वयोः प्रकृताप्रकृतत्वादिवाद्यभावादौपम्यस्य गम्यत्वं स्फुटमेव । ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्-- "बलावलेपादधुनापि पूर्ववत्प्रबाध्यते तेन जगज्जिगीषुणा । सतीव योषित्प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि" ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) बलावलेपादिति । अवलेपोऽहङ्कारः । पूर्ववद्धिरण्यकशिपुरूपपूर्वजन्मवत्जिगीषुणा शिशुपालेनापि जगद्बाध्यत इत्यन्वयः । अर्थान्तरं न्यस्यतिसती चेति । भवान्तरेषु जन्मान्तरेषु । ********** टीका सम्पूर्णा ********** अत्र प्रस्तुतायाः सुनिश्चलायाः प्रकृतेरप्रस्तुतायाश्च योषित एकानुगमनक्रियासम्बन्धः । "दूरं समागतवति त्वयि जीवनाथे भिन्ना मनोभवशरेण तपस्विनी सा । उत्तिष्ठति स्वपिति वासगृह त्वदीय- मायाति याति हसति श्वसिति क्षणेन" ॥ ************* टीका ************* विज्ञप्रिया (वि, क) अनेकक्रियास्वेककारकान्वयमाह---दूरमिति । प्रवासादागते नायके तत्पत्नीसख्या तद्विरहावस्थाकथनमिदम् । समागतवति---आगतवति । तपस्विनी दुः खान्विता सा तव प्रिया वासगृहगमनं, त्वत्प्राप्तिसम्भावनया । ********** टीका सम्पूर्णा ********** इदं मम । अत्रैकस्या नायिकाया उत्थानाद्यनेकक्रियासम्बन्धः । अत्र च गुणक्रिययोरादिमध्यावसानसद्भावेन त्रैविध्यं न लक्षितम्, तथाविधवैचित्र्यस्य सर्वत्रापि सहस्त्रधासम्भवात् । लोचना (लो, ऋ) तपस्विनीति--शोच्या । इह दीपकप्रकारे क्रियाणां प्रस्तुतत्वादुपमानोपमेयभावो वैवश्रिकः । तत्रादिमध्यान्तवाक्यगतत्वेन धर्मस्य प्रवृत्तौ आदिमध्यान्तदीपकास्त्रयोऽस्य भेदाः । तत्रादिदीपकं यथा--- "रहेइ मिहिरेण णहं रसेण कव्विं सरेण जोव्वणअम् । अमएण धुणिधवओ तुमए णरणाह भुअणमिणम् । ऽ मध्यदीपकं यथोदाहृते बलावलेपादित्यादौ । एवमन्यत् । ********** टीका सम्पूर्णा ********** प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः ॥ १०.४९ ॥ एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् । ************* टीका ************* विज्ञप्रिया (वि, ख) प्रतिवस्तूपमालङ्कारमाह---प्रतिवस्त्विति । अत्र गम्यसाम्ययोरुक्तिवशादुपमेयोपमानयोरिति लभ्यते । तेन वाक्यद्वये ये उपमेयोपमाने, तयोरेकोऽपि सामान्यो धर्मः पृथक्शब्दभेदेन यत्रालङ्कारे निर्दिश्यते सा प्रतिवस्तूपमेत्यर्थः । गम्यसाम्ययोरिति बोध्यमाम्ययोरित्यर्थः । बोध्यता च क्वचिच्छब्दद्वयेन शक्तिलक्षणाभ्यां क्वचिच्चोपमेयगतस्य शब्दशक्त्या ध्रमान्तरे तद्वैधर्म्येण व्यञ्जनया । तच्चोदाहरणे दर्शयिष्यति । लोचना (लो, ॠ) व्सुतवाक्यार्थः । एवं च प्रतिनिर्दिष्टेन वाक्यार्थेन वाक्यार्थस्य उपमासादृश्यं यस्यामित्यनेन वाक्यार्थस्योपमासादृश्यं यस्यामित्यन्वर्था प्रतीवस्तूपमा । सामान्यः साधारणः । पृथक्पर्य्यायादिना निर्दिश्यते प्रतिपाद्यते पौनरुक्त्यनिरासाय इत्यर्थः । एकैकोपचाराश्रयेण नैकार्थपर्य्यवसानात् । ********** टीका सम्पूर्णा ********** यथा-- "धन्यासि वैदभि ! गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि । इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति" ॥ अत्र समाकर्षणमुत्तरलीकरणं च क्रियैकैव पौनरुक्त्यनिरासाय भिन्नवाचकतया निर्दिष्टा । ************* टीका ************* विज्ञप्रिया (वि, ग) धन्यासीति । प्रसिद्धजितेन्द्रियत्वेन धीरो नैषधौऽपीत्यर्थः । अत्र प्रतिवस्तूपमामाह---अत्रेति । अत्र दमयन्ती उपमेया चन्द्रिका उपमानं तयोर्धोराकर्षणमेको धर्मः । आकृष्यत इति । शब्दशक्त्या उत्तरलीकरोति इत्यत्र उत्तरलताजनकाकर्षणविशिष्टीक्रियते इत्यर्थः । उत्तरलीकरणं चेति । उत्तरलीकरणजनिका चेत्यर्थः । एकैवेति । आकर्षणरूपकैवेत्यर्थः । भिन्नवाचकतयेति भिन्नप्रातिपदिकतयेत्यर्थः । ********** टीका सम्पूर्णा ********** इयञ्च मालयापि दृश्यते यथा-- "विमल एव रविर्विशदः शशी प्रकृतिशोभन एव हि दर्णः । शिवगिरिः शिवहाससहोदरः सहजसुन्दर एव हि सज्जनः" ॥ ************* टीका ************* विज्ञप्रिया (वि, घ) विमल एवेति । शिवगिरिः कैलासः । शिवहासः शिवस्य अट्टहासः हासन्तरापेक्षया विलक्षणः । अत्र सज्जन एव वाक्ये उपमेयः । वाक्यान्तरेषु उपमानानि । निर्मलत्वमेको धर्मः शब्दभेदेन प्रतिपादितः । लोचना (लो, ळ) विमल एवेत्यादौ चतुर्थपादः प्रकृतः । ********** टीका सम्पूर्णा ********** अत्र विमलविशदादिरर्थत एव । वैधर्म्येण यथा-- "चकोर्य एव चतुराश्चन्द्रिकापानकर्मणि । विनावन्तीर्न निपुणाः सुदृशो रतनर्मणि" ॥ ************* टीका ************* विज्ञप्रिया (वि, ङ) वैधर्म्येण यथेति---उपमेये निर्दिष्टधर्मविपरीताद्धर्म्यन्तरे निर्दिष्टाद्धर्माद्व्यञ्जनया लभ्येनोपमाननिष्ठसाधर्म्येण इत्यर्थः । चकोर्य एवेति । आवन्त्योऽवन्तीदेशीयाः स्त्रीर्विना, रतिकर्मणि नान्याः सुदृशो निपुणा इत्यर्थः । अत्र स्वकर्मचातुर्यस्य उपमेयासु चकोरीषु निर्दिष्टस्य विपरीतो धर्मः अवन्तीयस्त्रीभिन्नस्त्रीषु निर्दिष्टो रत्यनैपुण्यरूपः ततो व्यञ्जनया उपमानेषु अवन्तीस्त्रीषु स्वकर्मचातुर्य्यं साधर्म्यं प्रतीयते । ********** टीका सम्पूर्णा ********** दृष्टन्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम् ॥ १०.५० ॥ लोचना (लो, ए) सधर्मस्य साधारणगुणक्रियासहितस्य वस्तुनो वाक्यार्थस्य । ********** टीका सम्पूर्णा ********** सधर्मस्येति प्रतिवस्तूपमाव्यवच्छेदः ! अयमपि साधर्म्यवैधर्म्याभ्यां द्विधा । ************* टीका ************* विज्ञप्रिया (वि, च) दृष्टान्तालङ्कारमाह---दृष्टन्तस्त्विति । सधर्मस्य साधारणैकधर्मस्य, प्रतिबिम्बनमुभयत्र निर्दिष्टाभ्यां परस्परसमानाभ्यां धर्माभ्यामेकस्य तस्य व्यञ्जनमित्यर्थः । सधर्मः प्रसिद्ध एवं विवक्षित इत्यप्रस्तुतप्रशंसायां व्यक्तिर्भविष्यति । प्रतिवस्तूपमायां तूपमेयनिर्दिष्टो धर्मो वाच्य एव उपमाननिर्दिष्टशब्दस्य लक्षणया क्वचिच्छक्त्या वा स बोध्य इति भेदः । तस्य व्यञ्जनया बोधे तु दृष्टान्तः । साधर्म्यवैधर्म्याभ्यामिति । साधर्म्यव्यञ्जनार्थं निर्दिष्टाभ्यां साधर्म्याभ्यां साधर्म्यवैधर्म्याभ्यां चेत्यर्थः । ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्-- "अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् । अनधिगतपरिमलापि हि हरति दृशं मालतीमाला" ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) अविदितगुणापीति । वर्णमाधुर्य्यादेवेति भावः । अत्र कर्णे मधुधारावमननेत्रहारणे धर्मै भिन्नौ प्रीतिजनकतया परस्परसमानौ । प्रतिजनकत्वरूप एको धर्मः ताभ्यां व्यङ्ग्यः । ********** टीका सम्पूर्णा ********** "त्वयि दृष्टे कुरङ्गाक्ष्याः स्त्रंसते मदनव्यथा । दृष्टानुदयभाजीन्दौ ग्लानिः कुमुदसंहतेः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) साधर्म्यवैधर्म्याभ्यां व्यञ्जनेत्याह----त्वयि दृष्टेति । दृष्टानुदयेति । दृष्टो योऽनुदय इन्दौ तद्भाजि सतीत्यर्थः । उदयसत्त्वेऽपि मेघात्तददर्शनात् । क्लान्तिप्रतिपादनार्थं दृष्टेत्युक्तम् । अत्र व्यथास्त्रंसनस्य विपरीतो धर्मः क्लान्तिः, उपमेयोपमानगताभ्यां ताभ्यां स्वस्वप्रियदर्शने स्वार्थप्राप्तित्वमेको धर्मः व्यज्यते । नच वैधर्म्यव्यङ्ग्यप्रतिवस्तूपमातोऽस्या को भेद इति वाच्यम् । तत्र वैधर्म्यं धर्मान्तरनिष्ठम्, अत्र तूपमाननिष्ठं तथा च तत्र वैधर्म्येणैव व्यञ्जना । अत्र तु उभयनिष्ठाभ्यां साधर्म्यवैधर्म्याभ्यां व्यञ्जनेति भेदात् । ********** टीका सम्पूर्णा ********** "वसन्तलेखैकनिबद्धभावं परासु कान्तासु मनः कुतो नः । प्रफुल्लमल्लीमधुलम्पटः किं मधुव्रतः काङ्क्षति वल्लिमन्याम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) यत्र तु समानधर्मप्रतिपादकशब्दाभ्यामेको धर्मो व्यञ्जनां विनैव प्रतिपाद्यते तत्र प्रतिबिम्बाभावात्प्रतिवस्तूपमैवेति । अत्र स्वकीयं श्लोकमुदाहरति---वसन्तलेखैकेति---वसन्तलेखा नायिकाविशेषः । राज्ञश्चेयमुक्तिः । ********** टीका सम्पूर्णा ********** इदं पद्यं मम । अत्र "मनः कुतो नः" इत्यस्य "काङ्क्षति वल्लिमन्याम्" इत्यस्य चैकरूपतयैव वर्यवसानात्प्रतिवस्तूपमैव । इह तु कर्णे मधुधारावमनस्य नेत्रहरणस्य च साम्यमेव, न त्वैकरूप्यम् । ************* टीका ************* विज्ञप्रिया (वि, ञ) एकरूपतयैव पर्य्यवसानादिति । वाच्यप्रश्ररूपैकधर्मविषयतया एकत्वारोपादित्यर्थः । अत्र हि परनायिका उपमेया अन्या बह्व्यश्च उपमानानि तासां मनोविषयत्वाकाङ्क्षाविषयत्वयोर्हेतुप्रश्रैकधर्मविषयतया एकत्वारोपरूपपर्य्यवसानम् । अविदितगुणापीत्यत्र तु नैकत्वपर्यवसानम् । किन्तु समानधर्माभ्यामुभयसाधारणैकधर्मव्यञ्जनमेवेत्याह---इह त्विति । लोचना (लो, ऐ) एकरूपतयैव पर्य्यवसानादिति । "मनः कुतोनऽ इत्यस्य पर्य्यवसाने नान्यां कान्तां काङ्क्षामि इत्येतदर्थत्वादिह दृष्टान्ते तु पुनः बिम्बप्रतिबिम्बभावः । ********** टीका सम्पूर्णा ********** अत्र समर्थ्यसमर्थकवाक्ययोः सामान्यविशेषभावोर्ऽथन्तरन्यासः, प्रतिवस्तूपमादृष्टान्तयोस्तु न तथेति भेदः । ************* टीका ************* विज्ञप्रिया (वि, ट) अर्थान्तरन्यासाद्द्वयोः प्रतिवस्तूपमादृष्टान्तयोर्भेदमाह---समर्थ्येति । वाक्ययोरित्यत्र वाक्यार्थयोरित्यर्थः । अनयोरपि उपमेयं सामर्थ्यमुपमानं समर्थनमित्यतोऽभेदप्रसक्तिः । न तथेति । न सामान्यविशेषभाव इत्यर्थः । ********** टीका सम्पूर्णा ********** सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वापि कुत्रचित् । यत्र बिम्बानुबिम्बत्वं बोधयेत्सा निदर्शना ॥ १०.५१ ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) निदर्शनालङ्कारमाह---सम्भवन्निति । वस्तुनोः क्वचित्क्रियाकारकयोः । क्वचिद्यत्तद्पदार्थयोः सम्बन्धः असम्भवन्, क्वचिदसम्भवन्, वाचकयोर्यत्र कुत्रचिद्बिम्बानुबिम्बत्वं सादृश्यं बोधयेदित्यर्तः । लोचना (लो, ओ) वस्तुसम्बन्धो ध्रमधर्मिभाव इत्यर्थः । असम्भवन् बाधप्रतिभासादित्यर्थः । बिम्बानुबिम्बत्वं, बिम्बप्रतिबिम्बभावः । निदर्शनं प्रतिबिम्बीकरणम् । तदस्यां भणितावस्तीति निदर्शना । ********** टीका सम्पूर्णा ********** तत्र सम्भवद्वस्तुसम्बन्धनिदर्शना यथा-- "कोऽत्र भूमिवलये जनान्मुधा तापयन् सुचिरमेति सम्पदम् । वेदयन्निति दिनेन भानुमानाससाद चरमाचलं ततः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) कोऽत्रेति । अत्र बूमिवलये मुधा निरर्थकं जनांस्तापयन् कः सुचिरं सम्पदमेति । भानुमानिति । वेदयन् ज्ञापयन् दिनेन चरमाचलं ततो नभोमध्यादाससादेत्यर्थः । दिनेनेत्यत्र दिनस्य पूर्ववर्त्तित्वरूपकारणतायं तृतीया । लोचना (लो, औ) दिनेनेत्यपवर्गे तृतीया । तृतीयार्थः परितापिनां विपत्प्राप्तिरूपः । ********** टीका सम्पूर्णा ********** अत्र रवेरीदृशार्थवेदनक्रियायां वक्तृत्वेनान्वयः सम्भवत्येव । ************* टीका ************* विज्ञप्रिया (वि, ढ) अत्रेति । अत्र कर्त्तृत्वान्वयो जनकत्वान्वयः स्वस्तिगमनेन तादृशवदस्यानुमितिरूपस्य जनकत्वात् । जनः सुचिरं न सम्पदमेति परतापकत्वादस्तगामिरविवदित्यनुमितिसम्भवात् । सादृश्यव्यञ्जनरूपं प्रतिबिम्बानुबिम्बबोधकत्वं तस्य दर्शयति---स चेति । स च सम्बन्धः इत्यर्थः । परतापिनो रवेरस्तगमनवदन्येषामपि परतापिनां विपत्प्राप्तिरित्येवं हि तत् । ********** टीका सम्पूर्णा ********** ईदृशार्थज्ञापनसमर्थचरमाचलप्राप्तिरूपधर्मवत्वात् । स च रवेरस्ताचलगमनस्य परितापिनां विपत्प्राप्तेश्च बिम्बप्रतिबिम्बभावं बोधयति । असम्भवद्वस्तुनिदर्शना त्वेकवाक्यानेकवाक्यगतत्वेन द्विविधा । तत्रैकवाक्यगा यथा-- "कलयति कुवलयमालाललितं कुटिलः कटाक्षविक्षेपः । अधरः किसलयलीलामाननमस्याः कलानिधेविलासम्" ॥ अत्रान्यस्य धर्मं कथमन्यो वहत्विति कटाक्षविक्षेपादीनां कुवलयमालादिगतललितादीनां कलनमसम्भवात्तल्ललितादिसदृशं ललितादिकमवगमयत्कटाक्षविक्षेपादेः कुवलयमालादेश्च बिम्बप्रतिबिम्बभावं बोधयति । ************* टीका ************* विज्ञप्रिया (वि, ण) कलयतीति । अस्याः कुटिलः कटाक्षविक्षेपः कुवलयमालाया ललितं विन्यासं कलयति तधाति । एकमुत्तरत्रापि कलयतीत्यस्यान्वयः---अत्रेति । कटाक्षविक्षेपादीनां कर्तॄणां ललितादीनां कर्मणां धर्मतया धर्मिणोरप्यत्र प्रतिविम्बानुबिम्बं दर्शयति॑ तद्वल्ललितादिकमवगमयत्कटाक्षविक्षेपादेश्चेति । अत्रैकवाक्यगतयोरुपमेयोपमानयोः प्रतिबिम्बानुबिम्बनम् । एवमुत्तरत्रापि । लोचना (लो, अ) अवगमयत्-प्रत्यायत् । ललितव्यक्तेः सजातीयत्वेनात्यन्तासङ्गतिविरहेणादूरविप्रकर्षादिभावः । एवं लीलादावपि ज्ञेयम् । ********** टीका सम्पूर्णा ********** यथा वा-- "प्रयाणे तव राजेन्द्र ! मुक्ता वैरिमृगीदृशाम् । राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः" ॥ अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्थागोऽनुपपन्न इति तयोस्तत्सम्बन्धः कल्प्यते, स चासम्भवन् राजहंसगतिमिव गतिं बोधयति । ************* टीका ************* विज्ञप्रिया (वि, त) प्रयाणे तवेति । तव प्रयाणे यात्रायां सत्यां वैरिमृगीदृशां पद्भ्यां राजहंसगतिर्मुक्ता द्रुतपलायमानत्वात्. आननेन च शशिद्युतिर्मुक्ता म्लानत्वात् । असम्बद्धेति । सम्बद्धस्यैव त्यागसम्भवात् । सम्बन्धः कल्प्यत इति । प्रतियोग्यारोपपूर्वकत्वादभावग्रहस्य । प्रतिबिम्बनं दर्शयति---स चेति । लोचना (लो, आ) कल्प्यत इत्यतः पूर्वं प्रथममिति शेषः । उपलक्षणं चैतत् । एवमाननेन शशिद्युतिरित्यत्रापि ज्ञेयम् । ********** टीका सम्पूर्णा ********** अनेकवाक्यगा यथा-- "इदं किलाव्याजमनोहरं वपुस्तपः क्लपं साधयितुं य इच्छति । ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति" ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) इदं किलेति---आश्रमे तपस्योचितवेशां शकुन्तलां दृष्ट्वा दुष्मन्तस्योक्तिरियम् । अव्याजेन यथार्थ्येन । मनोहरमिदं वपुर्यो मुनिस्तपः क्षमं साधयितुमिच्छति ध्रुवं निश्चितं स मुनिर्नोलोत्पलपत्रधारया कोमलया कठिनां शमीलतां छेत्तुं व्यवस्यतीत्यर्थः । ********** टीका सम्पूर्णा ********** अत्र चच्छब्दनिर्दिष्टवाक्यार्थयोरभेदेनान्वयोऽनुपपद्यमानस्तादृशवपुषस्तपः क्लमत्वसाधनेच्छा नीलोत्पलपत्नधारया शमीलताछेदनेच्छेवेति बिम्बप्रतिबिम्बभावे पर्यवस्यति । ************* टीका ************* विज्ञप्रिया (वि, द) अत्र यत्तच्छब्देति । वाक्यार्थयोरित्यत्र काव्यद्वयार्थयोरित्यथः । वाक्यार्थौ तु तपः क्षमत्वसाधनेच्छुः शमीलताच्छेदनेच्छुश्च । व्यवसायस्यापीच्छार्थकत्वात्तयोरभेदान्वयोऽनुपपद्यमान इत्यर्थः । यत्तदोरेकधर्मिबोधकत्वेनाभेदान्वय एव व्युत्पत्तिसिद्धः । स चेच्छाद्वययोरभेदाभावादनुपपद्यमान इत्यर्थः । लोचना (लो, इ) इदं वपुः तपः क्षमं साधयितुमिच्छति योऽनेन शकुन्तलाया वपुषा तपो निर्वाहयितुमिच्छतीति भावः । न केवलं यत्तदोर्द्वयोः शाब्दत्वे वाक्यनिदर्शना । एकस्यार्थत्वेऽपि यथा--- "शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः" ॥ एवम्---"मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । निर्वाणस्य प्रदीपस्य स्नेहः संवर्द्धयोच्छिखाम्" ॥ "यञ्चकार विवरं शिलाघने ताडकोरसि स रामसायकः । अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत्" ॥ इत्यत्र तु निदर्शना अलङ्कार्य्या । नहीह "द्वारताऽ मिवेति सामर्थ्यातिरस्ति । उपमेयादिसम्भवादिह प्रतीयमानोत्प्रेक्षेति राघवानन्दमहापात्राः--- "मुनेस्तत्र मनोभेदे दुर्लभे सुरकाङ्क्षिते कटाक्षा एवमेणाक्ष्याः प्रययुः स्मरबाणताम् । " इत्यादिषु तु परिणामादय एव । ********** टीका सम्पूर्णा ********** यथा-- "जन्मेदं वन्ध्यतां नीतं भवभोगोपलिप्सया । काचमूल्येन विक्रीतो हन्त ! चिन्तामणिर्मया" ॥ अत्र भवभोगलोभेन जन्मनो व्यर्थतानयनं काचमूल्येन चिन्तामणिविक्रय इवेति पर्यवसानम् । एवम्-- ************* टीका ************* विज्ञप्रिया (वि, ध) जन्मेदमिति । व्यर्थतानयनं चिन्तामणिविक्रयश्चेति जन्मापि चिन्तामणिरिवेति बोध्यम् । ********** टीका सम्पूर्णा ********** "क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्" ॥ अत्र मन्मत्या सूर्यवंशवर्णनमुडुपेन सागरतरणमिवेति पर्यवसानम् । ************* टीका ************* विज्ञप्रिया (वि, न) क्क सूर्येति । रघुवंशं वर्णयितुमिच्छोः कालिदासस्य उक्तिरियम् । मतिरित्यत्र ममेति शेषः । अत्र पूर्वार्द्धे वक्ष्यमाणो विषमालङ्कारः । परार्द्धं तु प्रकृतोदाहरणम् । तद्ग्राहयति---अत्र मन्मत्येति । नच तितीर्षुपुरुषरूपकमेव कथं नात्रेति वाच्यम्॑ तादृशपुरुषाप्रसिद्धेः॑ कस्यचिदुत्मत्तस्य तादृशस्य सत्त्वेऽपि तस्य बुद्ध्यनारोहात्॑ किन्तु वक्तर्येव तितीर्षायाः स्फुटमवभासः । तस्य बोधेन रघुवंशवर्णनतितीर्षयोः सादृश्यमवगम्यते । लोचना (लो, ई) सागरतरणमिवेत्यनन्तरं बिम्बप्रतिबिम्बभाव इति शेषः । ********** टीका सम्पूर्णा ********** इयं च क्वचिदुपमेयवृत्तस्योपमानेऽसम्भवेऽपि भवति । यथा-- "योऽनुभूतः कुरङ्गाक्ष्यास्तस्या मधुरिमाधरे । समास्वादि स मृद्वीकारसे रसविशारदैः" ॥ ************* टीका ************* विज्ञप्रिया (वि, प) इयं चेति । इयं निदर्शना उपमेयवृत्तस्योपमेयधर्मस्य "कलयति कुवलयऽ इत्यादौ तूपमानधर्मस्यैवोपमेयासम्भवाद्दर्शिता । असम्भवेऽपीति । उपमानगतत्वेनोक्तस्यासम्भवेऽपि तत्सादृश्यबोधनादित्यर्थः । योऽनुभूत इति । मधुरिमा । मृद्वीका द्राक्षा, तस्या रसे द्रवे । ********** टीका सम्पूर्णा ********** अत्र प्रकृतस्याधरस्य मधुरिमधर्मस्य द्राक्षारसेऽसम्भवात्पूर्ववत्साम्ये पर्यवसानम् । लोचना (लो, उ) पूर्ववत्पूर्वोदाहरणवत् । एवं "सोऽपि त्वदाननरुचं विजहति चन्द्रः" इत्यत्र "प्रयाणे तव राजेन्द्र" इत्युदाहरणवन्निदर्शनैव, निदर्शनालङ्कारलक्षणस्य तथाविधपर्यवसितबिम्बप्रतिबम्बभावस्य सम्भवात् । अन्यथा योऽनुभूत इत्यादौ समनन्तरोक्तोदाहरणेऽपि निदर्शनाभावप्रसङ्गाच्च । एवं "सम्भवन् वस्तुसम्बन्ध उपमापरिकल्पकः निदर्शने"ति लक्षणे चोपमाशब्दः सादृश्यमात्रार्थो न तूपमालङ्कारार्थः । अत एवालङ्कारसर्वस्वकृतापि प्रतिबिम्बकारणं निदर्शनेत्युक्तम् । ********** टीका सम्पूर्णा ********** मालारूपापि यथा मम-- "क्षिपसि शुकं वृषदंशकवदने मृगमर्पयसि मृगादनरदने । वितरसि तुरगं महिषविषाणे निदधच्चेतो भोगविताने" ॥ ************* टीका ************* विज्ञप्रिया (वि, फ) क्षिपसीति । भोगासक्तपुरुषं प्रति शान्तपुरुषस्योक्तिरियम् । हे पुरुष ! त्वं भोगविताने भोगसमूहे चेतो विदधद्वृषदंशकस्य मार्जारस्य मुखे शुकं क्षिपसि । यथा मार्जारः शुकं हिनस्ति तथा भोगवितानोऽपि नरकपातेन हिंसिष्यति । अतः शुकस्य तत्र क्षेप इव भोगे चेतोविधानमित्यर्थः । एवमुत्तरत्रापि । मृगादनो व्याघ्रः । ********** टीका सम्पूर्णा ********** इह विम्बप्रतिबम्बताक्षेपं विना वाक्यार्थापर्यवसानम् । दृष्टान्ते तु पर्यवसितेन वाक्यार्थेन सामर्थ्याद्विम्बप्रतिविम्बताप्रत्यायनम् । नापीयमर्थापत्तिः, तत्र "हारोऽयं हरिणाक्षीणाम्--" इत्यादौ सादृश्यपर्यवसानाभावात् । ************* टीका ************* विज्ञप्रिया (वि, ब) दृष्टान्तनिदर्शनयोर्भेदं दर्शयति---इह बिम्बेति । वाक्यार्थापर्यवसानं बाधादिति भावः । पर्यवसितेनेति । तत्र बाधाभावादित्यर्थः । सामर्थ्योदिति । प्रयुक्तानुपयुक्तकथनापत्तिपरिहार एव सामर्थ्यम्, । "हारोऽयं हरिणाक्षीणाऽ मिति--- "हारोऽयं हरिणआक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं क्व वयं स्मरकिंकराः । " इति श्लोकेऽस्माकं स्तनमण्डले सुतरां लुठनमुचितमित्येव हि पर्यवसानम् । न तु सादृश्यस्येत्यर्थः । एककथनाद्दण्डापूपन्यायादन्यपर्यवसानस्यैवार्थापतित्वात् । लोचना (लो, ऊ) मृगादनस्तरक्षुः । वाक्यार्थस्यापर्यवसानमन्वयानुपपत्तेः, पर्यवसितेनान्वयानुपपत्त्यभावादुपमेयवाक्येनोपमानवाक्येन च प्रत्येकं स्वस्वबोधनविश्रान्तेन । अपर्यवसानस्य सादृश्येऽभावः । किन्तु नियतसमानन्यायेनार्थान्तरस्यापतनमात्रेण । ********** टीका सम्पूर्णा ********** आदिक्यमुपमेयस्योपमानान्न्यूनताथवा । व्यतिरेकः-- स च-- --एक उक्तेऽनुक्ते हेतौ पुनस्त्रिधा ॥ १०.५२ ॥ ************* टीका ************* विज्ञप्रिया (वि, भ) व्यतिरेकालङ्कारमाह---आधिक्यमिति । उपमेयस्योपमानादाधिक्यं न्यूनताथवा वर्ण्यते स व्यतिरेकालङ्कार इत्यर्थः । तस्य विभक्तविभागेनाष्टचत्वारिंशद्विधत्वम् । स चेति । क्वचित्तु एक उत्केऽनुक्ते हेतौ पुनः त्रिधेति कारिका । एव इत्यादेरुत्थापिकावृत्तिः । हेतावित्युत्कर्षानुपकर्षतया हेतुद्वयेः इत्यर्थः । ********** टीका सम्पूर्णा ********** चतुर्विधोऽपि साम्यस्य बोधनाच्छब्दतोऽर्थतः । लोचना (लो, ऋ) हेताविति । ज्त्यपेक्षयैकवचनम् । यदुक्तं वृत्तौ हेतुरुपमेयगतमित्यादि । शब्दत इति । यदुक्तमत्रैव---श्रौती यथेववाशब्दा इति । अर्थत इति । यदुक्तमत्रैव---आर्थो तुल्यसमानाद्या इत्युक्तन्यायात् । ********** टीका सम्पूर्णा ********** आक्षेपाच्च द्वादशधा श्लेषेऽपीति त्रिरष्टधा ॥ १०.५३ ॥ प्रत्येकं स्यान्मिलित्वाष्टचत्वारिंशद्विधः पुनः । उपमेयस्योपमानादाधिक्ये हेतुरुपमेयगतमुत्कर्षकारणमुपमानगतं निकर्षकारणं च । तयोर्द्वयोरप्युक्तावेकः, प्रत्येकं समुदायेन वानुक्तौ त्रिविध इति चतुविधेऽप्यस्मिन्नुपमानोपमेयत्वस्य निवेदनं शब्देन अर्थेन आक्षेपेण चेति द्वादशप्रकारोऽपि श्लेषे, "अपि" शब्दादश्लेषेऽपीति चतुर्विंशतिप्रकारः । उपमानान्न्यूनतायामप्यनयैव भङ्ग्या चतुर्विंशतिप्रकारतेति मिलित्वा अष्टचत्वारिंशत्प्रकारो व्यतिरेकः । ************* टीका ************* विज्ञप्रिया (वि, म) कारिकार्थं स्वयमेव विशदयति---उपमेयस्येति । प्रत्येकमिति । उत्कर्षहेतोर्निकर्षहेतोर्वानुक्तौद्वौ । समुदायानुक्तौ चैकं इत्यनुक्तित्रयमित्याह---त्रिविध इति । हेतुद्वयोक्तिसाहित्यादाह---चतुर्विधेऽप्यस्मिन्निति । निवेदनं ज्ञापनम् । शब्देनेति । उपमायाः श्रौतीत्वे इत्यर्थः । अर्थेनेति । उपमाया आर्थोत्वे इत्यर्थः । आक्षेपेणेति । उपमाप्रतिपादकानामिवादीनां तुल्यादिपदानां चाभावे कल्पनेनेत्यर्थः । इति द्वादशविधोपीति । हेतुद्वयोक्त्यनुक्तित्रयवशाच्चतुर्विधस्य उपमायाः शब्दार्थाक्षेपवशात्त्रिगुणत्वेन द्वादशविध इत्यर्थः । तद्द्वादशकस्य श्लेषाश्लेषयोः सम्भवं कारिकोक्तादपिशब्दाद्दर्शयति---श्लेषेऽपीति । भङ्ग्या प्रकारेण । ********** टीका सम्पूर्णा ********** उदाहरणम्-- "अकलङ्कं मुखं तस्या न कलङ्की विधुर्यथा" । ************* टीका ************* विज्ञप्रिया (वि, य) अकलङ्कमिति । कलङ्की विधुर्यथा तस्या मुखं तथा न, किन्तु ततोधिकम् । यतोऽकलङ्कमित्यर्थः । ********** टीका सम्पूर्णा ********** अत्रोपमेयगतमकलङ्कत्वमुपमानगतं च कलङ्कित्वं हेतुद्वयमप्युक्तम्, यथाशब्दप्रतिपादनाच्च शाब्दमौपम्यम् । अत्रैव "न कलङ्किविधूपमम्" इति पाठे आर्थम् । "जयतीन्दुं कलङ्किनम्" इति पाठे त्विववत्तुल्यादिपदविरहादाक्षिप्तम् । अत्रैवाकलङ्कपदत्यागे उपमेयतोत्कर्षकारणानुक्तिः । कलङ्किपदत्यागे चोपमानगतनिकर्षकारणानुक्तिः । द्वयोरनुक्तौ द्वयोरनुक्तिः । ************* टीका ************* विज्ञप्रिया (वि, र) तत्रैवानेकप्रकारसम्भवं दर्शयति---अत्रैवेति । द्वयोरनुक्तिरिति । "तस्या मुखं न विधुर्यथेऽ त्येवं करणमित्यर्थः । लोचना (लो, ॠ) द्वयोरकलङ्ककलङ्किपदयोर्द्वयोर्हेत्वोः । ********** टीका सम्पूर्णा ********** श्लेषे यथा-- "अतिगाढगुणायाश्च नाब्जवद्भङ्गुरा गुणाः" । लोचना (लो, ळ) गुणः सौन्दर्य्यादिः, सूत्रं च । ********** टीका सम्पूर्णा ********** अत्रेवार्थे वतिरिति शाब्दमौपम्यम् । उत्कर्षनिकर्षकारणयोर्द्वयोरप्युक्तिः । गुणशब्दः श्लिष्टः । ************* टीका ************* विज्ञप्रिया (वि, ल) श्लेषेऽप्येवं रीत्या द्वादशविधानाह---अतिगाढेति । अत्रेवार्थ इति । अब्जस्येवेति षष्ठ्यन्तोपात्तत्वात् । उत्कर्षेति । गुणगतगाढत्वाभङ्गत्वे उत्कर्षनिकर्षहेतू । ********** टीका सम्पूर्णा ********** अन्ये भेदाः पूर्ववदूह्याः । ************* टीका ************* विज्ञप्रिया (वि, व) अन्ये भेदा इति । तत्र हेतुद्वयस्य प्रत्येकं समुदायानुपादाने शाब्दौपम्ये यथा---"चन्द्रमुख्याः कुरङ्गाक्ष्या नाब्जवद्भङ्गुरा गुणाऽ इत्युत्कर्षनिमित्तानुपादाने, "अतिगाढगुणायाश्च तस्या नाम्बुजवद्गुणाऽ इति निकर्षहेत्वनुपादाने, "इन्दीवरपलाशाक्ष्यास्तस्या नाम्बुजवद्रुणाऽ इत्युभयानुपादाने । आक्षिप्तौपम्ये यथा--"अतिगाढगुणा बाला नाब्जतुल्यस्खलद्गुणाऽ इत्युभयोपादाने, "अतिगाढगुणा बाला नाब्जतुल्यगुणा किलऽ इति निकर्षनिमित्तानुपादाने, "असौ चन्द्रमुखी बाला नाब्जतुलयगुणा किलऽ इति उभयानुपादाने । आर्थौपम्ये यथा---"अतिगाढगुणा बाला नाब्जतुल्यस्खलद्गुणाऽ इत्युभयोरुपादाने, "अतिगाढगुण बाला नाब्जतुल्यगुण किलऽ इति निकर्षनिमित्तानुपादाने, "असौ चन्द्रमुखी बाला नाब्जतुल्यस्खलद्गुणाऽ इत्युत्कर्षहेत्वनुपादाने, "असौ चन्द्रमुखी बाला नाब्जतुल्यगुणा किलऽ इति उभयानुपादाने । आक्षिप्तौपम्ये यथा---"अतिगाढागुणास्तस्याः पद्मस्य भङ्गुरा गुणाऽ इत्युभयोपादाने, "पङ्कजं गुणवत्सत्यं गुणास्तस्यास्तु भङ्गुराऽ इति निकर्षहेत्वानुपादाने, "पङ्कजं गुणवज्जिग्ये गुणवत्या तया ध्रुवम्ऽ इति उभयाननुपादाने । ********** टीका सम्पूर्णा ********** एतानि चोपमेयस्योपमानादाधिक्य उदारणानि । न्यूनत्वे दिङ्मात्रं यथा-- "क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम् । विरम प्रसीद सुन्दरि ! यौवनमनिवर्ति यातं तु" ॥ अत्रोपमेयभूतयोवनास्थैर्यस्याधिक्यम् । तेनात्र "उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः" इति केषांचिल्लक्षणे "विपर्यये वेतिपदमनर्थकम्" इति यत्केचिदाहुः । तन्न विचारसहम् । तथाहि-अत्राधिकन्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते । लोचना (लो, ए) सत्त्वासात्त्वे, शोभनाशोभनत्वे । ********** टीका सम्पूर्णा ********** अत्र च चन्द्रापेक्षया यौवनस्यासत्त्वं स्फुटमेव । अस्तु वात्रोदाहरणे यथाकथंचिद्रतिः । ************* टीका ************* विज्ञप्रिया (वि, श) न्यूनत्व इति । उपमेयस्येति शेषः । क्षीणः क्षीण इति । मानिनीं प्रति कामुकस्योक्तिरियम् । विरमेति मानादिति शेषः । यौवनं त्वित्यन्वयः । यातं गतम् । अस्थैर्य्यस्याधिक्यमिति । तथा चास्थैर्यस्यापकर्षकहेतुत्वेन उपमेयस्य न्यूनत्वं चन्द्रस्यैवाधिक्यमिति मया वायख्यायते, तेनात्र यत्किञ्चिदाहुः तन्न विचारसहमित्याह---तेनात्रेति । केचित्काव्यप्रकाशकाराः । किमाहुरित्यत्राह---उपमानादिति । व्यतिर्के इत्यन्तेयं प्राचीना कारिका । तल्लक्षणे "विपर्यये वेतिऽ पदमनर्थकमित्याहुरेत्यर्थः । सत्त्वासत्त्वे तत्रत्यातत्रत्ये, यौवनस्यातत्रत्वमाह---अत्र चन्द्रापेक्षयेति । ननूद्देश्यार्थस्याधिक्यमेव विवक्षितं प्रकृते च मानिन्यां यौवनास्थैर्य्यं प्रदर्शयितुमुद्देश्यं तदाधिक्यं चोपमेयाधिक्यमेवेत्यत आह---अस्तु वेति । ********** टीका सम्पूर्णा ********** "हनूमदाद्यैर्यशसा मया पुनद्विषां हसैर्दूतपथः सितीकृतः" । इत्यादिषु का गतिरिति सुष्ठूक्तं "न्यूनताथवा" इति । ************* टीका ************* विज्ञप्रिया (वि, ष) हनूमदाद्यैरिति । नलस्य देवदूतभूतस्य दौत्यफलासिद्ध्या विषादोक्तेरियम् । का गतिरिति । दूतपथस्य यशसा सीतिकर्त्तॄणां हनुमदादीनामुपमानानामेवाधिक्यादिति भावः । इदमुपलक्षणम् । "चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमती रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः । करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती" ॥ इत्यभिज्ञाने "पादाहतं यदुत्थाय मूर्द्धानमधिरोहति । स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः" ॥ इति माघे चोपमानभूततया मधुकररजसोः कृतिपदवरपदाभ्यामेवाधिक्यस्योक्तत्वात्काव्यप्रकाशस्य मतमत्रानुपादेयमेव । लोचना (लो, ऐ) हनूमदाद्यैरित्यादि दमयन्ती प्रति देवदूतस्य नलस्य वचनम् । द्विषां हसैर्दूतत्वं परित्यज्य स्वयं नायकत्वप्रतिग्रहादिति भावः । ********** टीका सम्पूर्णा ********** सहार्थस्य बलादेकं यत्र स्याद्वाचकं द्वयोः ॥ १०.५४ ॥ सा सहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत् । ************* टीका ************* विज्ञप्रिया (वि, स) सहोक्त्यलङ्कारमाह---सहार्थस्येति । वाचकं द्वयोरिति । उभयत्र स्वार्थान्वयबोधकमित्यर्थः । भिन्नविभक्तिकमपि पदं साहार्थस्य बलात्समानविभक्तिकभिन्नविभक्तिकपदार्थयोरभेदेन स्वार्थान्वयबोधकमित्यर्थः । लोचना (लो, ओ) सहार्थस्य सहपर्य्यायशब्दस्य । एकं क्रिया, गुणो वा । मूलभूता, बीजभूता । ********** टीका सम्पूर्णा ********** अतिशयोक्तिरप्यत्राभेदाध्यवसायमूला कार्यकारणपौर्वापर्यविपर्ययरूपा च । अभेदाध्यवसायमूलापि श्लेषभित्तिकान्यथा च । क्रमेणोदाहरम्-- ************* टीका ************* विज्ञप्रिया (वि, ह) अभेदाध्यवसायमूलेति । नच भेदाध्यवसायस्यैव अतिशयोक्तित्वेन सा कथं तन्मूलेति वाच्यम्, शब्दस्यैवाध्यवसायस्यातिशयोक्तिचेन तस्या वक्तृतदध्यवसायमूलत्वात् । भित्तिराश्रयः स्लेषाश्रितेत्यर्थः । ********** टीका सम्पूर्णा ********** "सहाधरदलेनास्या यौवने रागभाक्प्रियः" । अत्र रागपदे श्लेषः । ************* टीका ************* विज्ञप्रिया (वि, क) सहाधरेति । अत्र तृतीयान्तपदार्थेऽधरदले प्रथमान्तपदार्थे प्रिये च रागवानितिपदमभेदेन स्वार्थबोधकम्॑ अधरदलमपि रागवदिति प्रतीतेः । रागपदार्थयोरभेदाध्यासरूपातिशयोक्तिश्च मूलम् । लोचना (लो, औ) अन्यथाश्लेषभित्तिका । रागो लौहित्यम्, अनुरागश्च । श्लेषां व्द्यर्थता । उपमानोपमेयभावोऽत्र वैवक्षिकः । द्वयोः प्रकृत्वात् । प्रकृतत्वं च द्वयोः प्रज्ञाविशेषत्वात् । अत्र तृतीयान्तनिर्दिष्टस्य गुणभावेनोपमानविवक्षा । किञ्चात्रोदाहरणे अभेदाध्यवसायोऽपि कार्य्यकारणैककालीनतासंपृक्तः अधरदलस्य रागभजनानन्तरमेव प्रियस्य रगदर्शनात्॑ तेनात्रातिशयोक्तिद्वयमप्यवास्थितं, सम्बन्धिभेदादाश्रयभेदाद् । यदुक्तं राघवानन्दैः--"एकोऽपि धर्म आरोपमाश्रित्य सहार्थबलादन्यधर्मण्यपि सम्बद्धश्चेत्तदा सहोक्तिरिति, तदसङ्गतम् । अस्यातिशयोक्तिमूलत्वस्य तैरपि स्वयमुपगमात् । अध्यवसायमूलायामतिशयोक्तौ पृथग्बीजस्यारोपस्यासम्भवः । तदाहुश्चण्डीदासप्रभृतयः---अनिगीर्णस्य विषयस्यान्यतादात्म्यप्रतीतिरारोपः । निगीर्णस्य त्वध्यवसाय इति । अलङ्कारसर्वस्वकृताऽरोपे रूपकादिरध्यवसाये चोत्प्रेक्षादिरेवेति विवेकः कृतः । ********** टीका सम्पूर्णा ********** "सह कुमुदकदम्बैः कालमुल्लासयन्तः सह घनतिमिरौघैर्धैर्यमुत्सारयन्तः । सह सरसिजषण्डैः स्वान्तमामीलयन्तः प्रतिदिशममृतांशोरंशवः सञ्चरन्ति" ॥ इदं मम । अत्रोल्लासादीनां संबन्धिभेदादेव भेदः, न तु श्लिष्टतया । ************* टीका ************* विज्ञप्रिया (वि, ख) श्लेषं विना त्वाह---सह कुमदेति । अमृतांशोरंशवः प्रतिदिशं सञ्चरन्ति । अंशूनां विशेषणान्याह---सह कुमुदेति । कदम्बः षण्डः, समूहः । आमीलयन्तः सङ्कोचयन्तः । स्वान्तस्य विषयान्तराद्व्यावर्त्तनमेव सङ्कोचः । अत्रेति । भेद इत्यनन्तरमभेदस्याध्यवसाय इति पूरणीयम् । तथा च सोऽध्यवसायो नतु श्लिष्टतयेत्यन्वयः । ********** टीका सम्पूर्णा ********** "सममेव नराधिपेन सा गुरुसंमोहविलुप्तचेतना । अगमत्सह तैलबिन्दुना ननु दीपार्चिरिव क्षितेस्तलम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ग) कार्यकारणपौर्वापर्यविपर्ययरूपातिशयोक्तिमूलिकामाह---सममेवेति । गुरुसम्मोहविलुप्तचेतना सा इन्दुमती नराधिपेन अजेन सममेव क्षितेस्तलं पृष्ठमगमत् । तनुतैलबिन्दुना सह दीपार्चिरिवेत्यर्थः । अत्र नराधिपोऽपि क्षितेस्तलमगमदिति सहार्थस्य समं पदबलाद्बोध्यम् । इन्दुमतीपातः कारणं नराधिपपातः कार्य्यं, तयोः समकालत्वकथनरूपः पौर्वापर्यविपर्ययः । ********** टीका सम्पूर्णा ********** इयं च मालयापि संभवति । यथोदाहृते "सह कुमुदकदम्बैः--" इत्यादौ । "लक्ष्मणेन समं रामः काननं गहनं ययौ" । इत्यादौ चातिशयोक्तिमूलाभावान्नायमलङ्कारः । विनोक्तिर्यद्विनान्येन नासाध्वन्यदसाधु वा ॥ १०.५५ ॥ नासाधु अशोभनं न भवति । एवं च यद्यपि शोभनत्व एव पर्यवसानं तथाप्यशोभनत्वाभावमुखेन शोभनवचनस्यायमभिप्रायो यत्कस्यचिद्वर्णनीयस्याशोभनत्वं तत्परसन्निधेरेव दोषः । तस्या पुनः स्वभावतः शोभनत्वमेवेति । ************* टीका ************* विज्ञप्रिया (वि, घ) विनोक्त्यलङ्कारमाह---विनोक्तिरिति । व्याचष्टे---नासाध्विति । नञ्द्वयमुखेनोक्ते भावार्थं वक्तुमाह---एवं चेति । परसन्निधेरेव दोष इति । परसन्निधेर्यो दोषस्तदेवाशोभनत्वमित्यर्थः । लोचना (लो, अ) शोभन एव पर्यवसानम् "अभावस्य तु योऽभावो भाव एवावशिष्यतेऽ इति न्यायादित्यर्थः । ********** टीका सम्पूर्णा ********** यथा-- "विना जलदकालेन चन्द्रो निस्तन्द्रतां गतः । विना ग्रीष्मोष्मणा मञ्जुर्वनराजिरजायत" ॥ ************* टीका ************* विज्ञप्रिया (वि, ङ) विना जलदकालेनेति । निस्तन्द्रतां निर्मलताम् । अत्र जलदकालादेव चन्द्रो मलिनो ग्रीष्मर्त्तौ च वनराजिरमञ्जुरिति प्रतीतेः । लोचना (लो, आ) निस्तन्द्रतां निर्मलताम् । अत्र चन्द्रवनराज्योरनिर्मलत्वामञ्जुलत्वे जलदकालग्रीष्मकालहेतुके, निर्मलत्वमञ्जुलत्वे पुनः सहजधर्मादित्याशयः । ********** टीका सम्पूर्णा ********** "असाध्वशोभनं यथा-- "अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतम् । का दिनश्रीर्विनार्केण का निशा शशिना विना" ॥ ************* टीका ************* विज्ञप्रिया (वि, च) अनुयान्त्येति । सीतां प्रति अनसूयावाक्यमिदम् । जनानीतं परिजनरहितम् । लोचना (लो, इ) जनातीतं लोकान्तिकान्निर्जनस्थानं गतमिति यावत् । ********** टीका सम्पूर्णा ********** "निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन" ॥ लोचना (लो, ई) विभाता-विकसिता । ********** टीका सम्पूर्णा ********** अत्र परस्पराविनोक्तिभङ्ग्या चकत्कारातिशयः । विनाशब्दप्रयोगाभावेऽपि विनार्थविवक्षायं विनोक्तिरेवेयम् । एवं सहोक्तिरपि सहशब्दप्रयोगाभावेऽपि सहार्थविवक्षायां भवतीति बोध्यम् । ************* टीका ************* विज्ञप्रिया (वि, छ) विनाशब्दाभावेऽपि तदर्थपर्यवसानेऽप्ययमलङ्कार इत्याह---निरर्थकमिति । अत्रेति । परस्परादर्शनादेव परस्परविनोक्तिभङ्गिलाभ इत्यर्थः । एवं सहोक्तिरपीति । तृतीयामात्रबलादित्यर्थः । लोचना (लो, उ) विनाशब्दाभावादत्र कथं विनोक्तिरित्याशङ्क्याह---विनाशब्देति । सहशब्दाभावे सहार्थविवक्षा, यथा "ततो भार्गवप्रौढाहड्कृतिकन्दलेन सहसा तद्भग्नमैशं धनुऽरिति । "वनश्रियं वसन्तेन ज्योत्स्त्रया तुहिनद्युतिम् । कान्तया शून्यमालोक्य कस्य चेतो न दूयते" ॥ इत्यत्र न दूयत इत्यनेनासाधुत्वमुक्तप्रायमिति विनोकिरेव । ********** टीका सम्पूर्णा ********** समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः । व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः ॥ १०.५६ ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) समासोक्त्यलङ्कारमाह---समासोक्तिरिति । अन्यस्य अप्रस्तुतस्य वस्तुनो व्यवहारस्य अर्थाद्व्यङ्ग्यस्य प्रस्तुते वस्तुनि समारोप इत्यर्थः । तद्व्यञ्जनं च समैः प्रस्तुताप्रस्तुतसमानैः कार्यलिङ्गविशेषणैरित्यर्थः । लोचना (लो, ऊ) समासोक्तिरिति । समैस्तुल्यैर्व्यवहारस्य कृतस्य न तु रूपकवत्स्वात्मनः । अन्यस्याप्रस्तुतस्य । ********** टीका सम्पूर्णा ********** अत्र समेन कार्येण प्रस्तुतेऽप्रस्तुतव्यवहारसमारोपः । यथा-- "व्याधूय यद्वसनमम्बुजलोचनाया वक्षोजयोः कनककुम्भविलासभाजोः । आलिङ्गसि प्रसभमङ्गमशेषमस्या धन्यस्त्वमेव मलयाचलगन्धवाह !" ॥ अत्र गन्धवाहे हठकामुकव्यवहारसमारोपः । ************* टीका ************* विज्ञप्रिया (वि, झ) व्याधूयेति । वक्षोजयोर्वसनं व्याधूय दूरीकृत्येत्यर्थः । अत्रालिङ्गनं कार्यम् । सम्बोध्यत्वेन मलयानिलः प्रकृतः । यथा वा मम---"उल्लास्य लास्यनिलयं विपुलोरुयुग्मं प्रोत्क्षिप्य बाहुलतिकामतिकान्तगात्र्यः । यं साभिलाषमनसः प्रमदा भजन्ते पुण्यात्मने शिशिरपावन ते नमोऽस्तु ॥ "अत्र नायिकाव्यवहारारोपभजनं कार्य्यं सम्बोध्यत्वेन पावनः प्रकृतः । लोचना (लो, ऋ) व्याधूयेत्यत्र गन्धवाहे हठकामुकव्यवहारसमारोपे लिङ्गसाम्यस्यापि प्रयोजकत्वे वसनव्याधूननादिकार्यसाम्यप्राधान्यादन्योदाहरणम् । एवमन्येष्वपि समासोक्त्युदाहरणेषु । कार्य्यलिङ्गविशेषणानां क्वचिद्द्वयोः क्वचित्त्त्रयाणां वा समावेशेऽपि बोध्यम् । ********** टीका सम्पूर्णा ********** लिङ्गसाम्येन यथा-- "असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः । अनाक्रम्य जगत्कृत्स्नं नो सन्ध्यां भजते रविः" ॥ अत्र पुंस्त्रीलिङ्गमात्रेण रविसन्ध्ययोर्नायकनायिकाव्यवहारः । ************* टीका ************* विज्ञप्रिया (वि, ञ) असमाप्तेति । स्पष्टार्थः । परार्द्धे दृष्टान्तः । सन्ध्यां सायंसन्ध्याम् । नायकव्यवहार इत्यत्रैकशेषः । यद्यप्यत्र जिगीषुरेव प्रकृततयोपमेयभूतो रविरप्रकृतः, तथापि व्यङ्ग्यनायिकापेक्षया वाच्यो रविरापेक्षिकः प्रकृतः । ********** टीका सम्पूर्णा ********** विशेषणसाम्यं तु श्लिष्टतया, साधारण्येन, औपम्यगर्भत्वेन च त्रिधा । श्लिष्टतया यथा मम-- ************* टीका ************* विज्ञप्रिया (वि, ट) श्लिष्टतयेति । श्लिष्टशब्दस्यैवोभयविशेषणत्वेन इत्यर्थः । साधारण्येनेति । आर्थोरूपविशेषणस्योभयसाधारण्येनेत्यर्थः । औपम्यगर्भत्वमौपम्यप्रतीत्यनन्तरमप्यप्रस्तुतत्वव्यवहारारोपः । तस्य च त्रिधात्वं वक्ष्यते । लोचना (लो, ॠ) पुंस्त्रीलिङ्गत्वमात्रेणेति । प्राधान्यतो हेतुभूतेनेत्यर्थः । श्लेष्टतया व्द्यर्थतया । साधारण्येन सम्बन्धभेदभिनैकधर्मवत्त्वेन । ********** टीका सम्पूर्णा ********** "विकसितमुखीं रागासङ्गाद्रलत्तिमिरावृतिं दिनकरकरस्पृष्टामैन्द्रीं निरीक्ष्य दिशं पुरः । जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः श्रयति हरितं हन्त ! प्राचेतसीं तुहिनद्युतिः" ॥ अत्र मुखरागादिशब्दानां श्लिष्टता । ************* टीका ************* विज्ञप्रिया (वि, ठ) विकसितमुखीमिति । प्रभातवर्णनमिदम् । हन्त खेदे । ऐन्द्रीं दिशं दिनकरकरस्पृष्टां पुरः सम्मुखे निरीक्ष्य जरठस्य कठिनस्य लवलीफलस्येव पाण्डुच्छायः सन् तुहिनद्युतिः कलुषान्तरः कलङ्कमलिनान्तरः प्रायेतसीं प्रतीचीं हरितं श्रयति । लवलीफलस्य पक्तत्वे सति काठिन्यं पाण्डुरत्वं च । शशिनः पाण्डुरत्वदर्शनात् । ऐन्द्रीं कीदृशीं विकसितमुखीं, प्राप्तप्रकाशसम्मुखीम् । रागासङ्गात्, किरणरक्तिमाहसङ्गाद्गलत्तिमिररूपावरणाम् । हन्तेत्यनेन खेदप्रकाशनम् । स्वाक्रान्तां दिशं विरोधिनाऽक्रान्तां दृष्ट्वा दुः खेन पाण्डुरःसन् दिगन्तरमाश्रयतीति वाक्यार्थभिप्रायः । अप्रस्तुतस्य व्यञ्जनया रविचन्द्रयोरैन्द्रीप्राचेतसीदिशोश्चारोपः । तथा हि---स्वनायिकां स्मेरमुखीमनुरागेण गलिताङ्गावरणां करेण स्पृशन्तं परनायकं दृष्ट्वा दुः खात्पाण्डुरच्छायो नायकस्तां त्यक्त्वा नायिकान्तरमाश्रयतीत्येवं व्यवहारस्य प्राचीरव्योः प्रतीचीचन्द्रयोश्चारोपः । तत्र च सम्मुखमुखोभयाश्लिष्टमुखपदरागकरपदानां श्लिष्टतेत्याह अत्र मुखेति । लोचना (लो, ळ) विकसितेति । मुखमारम्भो वदनं च । रागो लौहित्यमासक्तिश्च । करः किरणो हस्तश्च । श्लिष्टतेत्ययमाशयः श्लेषाच्चातिशयोक्तिप्रयोजने नायकव्यवहारे बीजम् । ********** टीका सम्पूर्णा ********** अत्रैव हि "तिमिरावृतिम्" इत्यत्र "तिमिराशुकम्" इति पाठे एतदेशस्य रूपणेऽपि समासोक्तिरेव, न त्वेकदेशविवर्ति रूपकम्, तत्र हि तिमिरांशुकयो रूप्यरूपकभावो द्वयोरावरकत्वेन स्फुटसादृश्यतया परसाचिव्यमनपेक्ष्यापि स्वमात्रविश्रान्त इति न समासोक्तिबुद्धिं व्याहन्तुमीशः । लोचना (लो, ए) स्फुटसादृश्यतया मुखचन्द्रयोरिवेत्यर्थः । परसाचिव्यं, परस्य शब्दार्थस्य वा रोपणस्य साचिव्यं साहाय्यम् । स्वमात्रे नतु शब्दान्यापेक्षी । ********** टीका सम्पूर्णा ********** यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटं तत्रैकदेशान्तररूपणं विना तदसङ्गतं स्यादित्यशाब्दमप्येकदेशान्तररूपणमार्थमपेक्षत एवेति तत्रैकदेशविवर्तिरूपकमेव । ************* टीका ************* विज्ञप्रिया (वि, ड) न त्वेकदेशविवर्त्तिरूपकमिति । ऐन्द्रीप्रधाननायिकानिरूपणं व्यङ्ग्यम् । तद्धर्मरूपस्यांशुकरूपस्यैकदेशस्य तिमिररूपस्य वाच्यत्वेन वाच्यत्वेन तत्प्रसक्तिर्बोध्या । तद्भावे हेतुमाह---अत्र हीति । रूपकान्तरस्याऽक्षेपे एव यत्र वाच्यो रूप्यरूपकभावो, न तु स्वस्य स्फुटसादृश्यात्तत्रैव वाच्यरूपकान्तरस्य आक्षेपत्वेन एकदेशविवर्त्तिरूपकम् । तदुदाहरणं च "जस्स रणन्ते" इति दर्शयिष्यते । प्रकृते तु अंशुकतिमिरयोः स्फुटसादृश्यादार्थरूपकनिरपेक्षः स्वतो रूप्यरूपकाभाव इत्यतो नैकदेशविवर्त्तितेत्यर्थः । स्वमात्रविश्रान्तः स्वतन्त्रः । एकदेशविवर्त्तिनो विषयं दर्शयति । अशाब्दमित्यस्य विवरणस्य व्यङ्ग्यमित्यर्थः । ********** टीका सम्पूर्णा ********** यथा-- "जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलअम् । रगसंमुही वि सहसा परम्मुही होइ रिउसेणा" ॥ अत्र रणान्तः पुरयोः सादृश्यमस्फुटमेव । ************* टीका ************* विज्ञप्रिया (वि, ढ) जस्स रणन्ते इति । "यस्य रणान्तः पुरे करे कुर्वतो मण्डलाग्रलताम् । रससम्मुख्यपि सहसा पराङ्मुखी भवति रिपुसेना" ॥ इति सं दृ । मण्डलाग्रलतां खड्गलताम् । रसो युद्धरस एव । व्यङ्ग्यप्रतिनायिकापक्षे शृङ्गाररसः । भीत्यः पराङ्मुखी, तयैव लज्जया पराङ्मुखता मुखस्य पराश्रयत्वेन । रण एव अन्तः पुरं तत्र स्त्रीलिङ्गशब्दार्थत्वेन मण्डलाग्रलतया रूप्यमाणनायिकाव्यञ्जनात् । स्वकरेकुर्वतो राज्ञोऽपि नायकत्वं व्यङ्ग्यम् । तद्भ्रष्टायां रिपुसेनायामपि स्त्रीलिङ्गशब्दार्थत्वेन रूप्यमाण प्रतिनायिका व्यङ्ग्या अत्र रणेऽन्तः--पुररूपणमेकदेशविवर्त्ति । लोचना (लो, ऐ) तर्हि कः पुनरेकदेशविवर्त्तिरूपकस्य विषय इत्याशङ्क्याह---तत्र त्विति । "जस्स रणन्तौरऽ इत्यादौ रणान्तः पुरादिकयो रूप्यरूपकयोरेकदेशान्तररूपणं मण्डलाग्रलतादिषु राजनायिकात्वाद्यारोपं विनास्फुटमेव । जस्सेति । "यस्य रणान्तः पुरे करे कुर्वतो मण्डलाग्रलताम् । रससम्मुख्यपि सहसा पराङ्मुखी भवति रिपुसेना" ॥ रसा उत्साहोऽनुरागश्च । ********** टीका सम्पूर्णा ********** क्वचिच्च यत्र स्फुटसादृश्यानामपि बहूनां रूपणं शाब्दमेकदेशस्य चार्थं तत्रैकदेशविवर्ति रूपकमेव । ************* टीका ************* विज्ञप्रिया (वि, ण) नन्वेवमस्फुटसादृश्यसत्त्व एव एकदेशविवर्त्तित्वं, तत्कथम् "लावण्यमधुभिः पूर्णमास्यमस्या विकस्वरम् । लोकलोचनरोलम्बकदम्बैः कैर्न पीयते ॥ "इत्येकदेशविवर्त्त्युदाहरणं दत्तम् । तत्र लावण्यमधुनो माधुर्यस्य उपादेयत्वपर्य्यवसन्नस्य सादृश्यस्य लोचनभ्रमरयोश्च चाञ्चल्यरूपसादृश्यस्य स्फुटत्वादित्यत आह---यत्रेति । लोचना (लो, ओ) क्वचिल्लावण्यमधुभिः पूर्णामित्यादौ । करमुदयमहीधर इत्यादौ । ********** टीका सम्पूर्णा ********** रूपकप्रतीतेर्व्यापितया समासोक्तिप्रतीतितिरोधायकत्वात् । ************* टीका ************* विज्ञप्रिया (वि, त) ननु स्फुटसादृश्यादीनां वहुत्वे एकदेशविवर्त्तित्वमित्यत्र का युक्तिरित्यत्र आह---रूपकप्रतीतेरिति । व्यापितया बहुत्वेन तस्याश्च बहुत्ववशात्प्रथमोत्पन्नत्वो समासोक्तिविरोधकत्वम् । लोचना (लो, औ) व्यपितयानेकपदाश्रयत्वादिति भावः । ********** टीका सम्पूर्णा ********** नन्वस्ति रणान्तः पुरयोरपि सुखसंचारतया स्फुटं सादृश्यमिति चेत्? लोचना (लो, अ) सुखसञ्चारतयानायासविहारास्पदत्वेन स्वतो मण्डलाग्रलतादीनां नायिकात्वाद्यारोपमनपेक्ष्य । ********** टीका सम्पूर्णा ********** सत्यमुक्तम् ॑ अस्त्येव किंतु वाक्यार्थपर्यालोचनसापेक्षम्, न खलु निरपेक्षम्, मुखचन्द्रादेर्मनोहरत्वादिवद्रणान्तः- पुरयोः स्वतः सुखसञ्चारत्वाभावात् । ************* टीका ************* विज्ञप्रिया (वि, थ) रणान्तः पुरयोरपि स्फुटसादृश्यात्वमाखङ्कते---नन्वस्तीति । वाक्यार्थपर्य्यालोचनसापेक्षमिति । नृपदर्शनाद्रिपुसेनापराङ्मुखत्वं प्रत्यर्थतात्पर्य्यालोचनेन राज्ञः शूरत्वस्य ततो रणेऽभीतत्वस्य च लाभेन तत एव सुखसञ्चारलाभ इत्यर्थः । रणान्तः पुरयोः स्वतः सुखसञ्चारालाभादिति । नहि मुखचन्द्रयोर्मनोहरत्वमिव राज्ञो रणे भीतत्वबुद्धिं विना प्रत्यक्षादिना सुखसञ्चारत्वं गम्यमिति भावः । अत्र रणान्तः पुरयोरिति सञ्चारालाभादित्यत्र सञ्चारत्वाभावादिति क्वचित्प्रामादिक एव पाठः । ********** टीका सम्पूर्णा ********** साधरण्येन यथा-- "निसर्गसौरभोद्भ्रान्तभृङ्गसंगीतशालिनी । उदिते वासराधीशे स्मेराजनि सरोजिनी" ॥ ************* टीका ************* विज्ञप्रिया (वि, द) निसर्गेति । अत्राप्रस्तुतनायिका व्यङ्ग्या । तत्पक्षे च निसर्गसिद्धमुखसौरभेणोद्भ्रान्तो भृङ्गो यस्यास्तादृशी चासौ सङ्गीतशालिनी चेति समासः । एवं वासरं दिनमेव । वासरं गृहं तदधीशे गृहपतौ उदिते इत्यर्थः । अत्र दर्शितरीत्या निसर्गेति विशेषणान्नायिकाऽपतति । लोचना (लो, आ) स्मेरा ईषद्धासवती । ********** टीका सम्पूर्णा ********** अत्र निसर्गेत्यादिविशेषणसाम्यात्सरोजिन्यां नायिकाव्यवहारप्रतीतौ स्त्रीमात्रगामिनः स्मेरत्वधर्मस्य समारोपः कारणम् । लोचना (लो, इ) स्त्रीमात्रगामिनः सरोजिन्यामुपचारादेव प्रवृत्तेः, कारणं प्रधानम्, इतरेषां तु तच्छक्तिसाहाय्यमेव । ********** टीका सम्पूर्णा ********** तेन विना विशेषणसाम्यमात्रेण नायिकाव्यवहारप्रतीतेरसम्भवात् । ************* टीका ************* विज्ञप्रिया (वि, ध) प्राकरणिकरविकमलिनीवृत्तान्तमात्रप्रत्यायकत्वेनापि तदुपपत्तेरित्यतस्तत्प्रत्यायकत्वनियतं स्मेरविशेषणमेवेति वक्तुमाह----अत्र निसर्गेत्यादीति । स्त्रीमात्रेति॑ मात्रपदात्सरोजिनीव्यवच्छेदः । तथा सरोजिन्याः, पुष्पविकाशस्मेरत्वस्यारोपवशात्तस्याः साधारणधर्मत्वं तादृशारोपश्च नायिकाव्यवहारप्रतीतेर्हेतुरित्यर्थः । विशेषणसाम्यमात्रेणेति । निसर्गेत्यादिविशेषणसाम्यमात्रेणेत्यर्थः । असम्भवादिति । रविकमलिनीवृत्तान्तेनैव तदुपपत्तेरित्यर्थः । ********** टीका सम्पूर्णा ********** औपम्यगर्भत्वं पुनस्त्रिधा सम्भवति, उपमारूपसङ्करगर्भत्वात् । ************* टीका ************* विज्ञप्रिया (वि, न) उपमारूपकेति । उपमागर्भत्वे रूपकगर्भत्वे उपमारूपकयोः सन्देहसङ्करगर्भत्वे चेत्यर्थः । गर्भत्वं च तज्ज्ञानपूर्वकत्वम् । नच रूपकगर्भकस्य कथमुपमानगर्भप्रभेद इति वाच्यम्, रूपकस्यापि सादृश्यजनकत्वेन तज्जननत्पूर्वं तद्वोधेन तत्पूर्वत्वादपीत्याह-- ********** टीका सम्पूर्णा ********** तत्रोपमागर्भत्वे यथा-- "अदन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी । केशपाशालिवृन्देन सुवेषा हरिणेक्षणा" ॥ अत्र सुवेषत्ववशात्प्रथमं दन्तप्रभाः पुष्पाणीवेत्युपमागर्भत्वेन समासः । अनन्तरं च दन्तप्रभासदृशैः पुष्पैश्चितेत्यादिसमासान्तराश्रयेण समानविशेषणमहात्म्याद्धरिणेक्षणायां लताव्यवहारप्रतीतिः । ************* टीका ************* विज्ञप्रिया (वि, प) तदन्तप्रभेति । अत्र दन्तप्रभाः पुष्पाणीव इत्यादिरीत्या सर्वत्र पुरुषव्याघ्रादित्वादुपमासमासः । नच दन्तप्रभैव पुष्पमित्यादिरीत्या रूपकमेवेति वाच्यम् । रूपकस्य बाधकद्वयसत्त्वात् । तथा हि---"उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इति पाणिन्यनुशासनेनसाधारणधर्माप्रयोगे रूपकसमासबाधादुपमासमासस्यैव व्यवस्थापनादित्येकं बाधकम् । द्वितीयं ग्रन्थकृदेव आह---अत्र सुवेषत्ववशादिति । अयं भावः । वेषास्तदारोपितधर्माः । कटककुण्डलसिन्दूरादीनां दन्तप्रभादीनां च नायिकाधर्मवृत्तिधर्मत्वेनारोपितत्वात् । कटककुण्डलसिन्दूरादीनां दन्तप्रभादीनां च नायिकाधर्मवृत्तिधर्मत्वेनारोपितत्वात् । पुष्पादिभिन्नैः तैः सुवेषप्रतीतिर्न घटते इत्यतः प्रथमं दन्तप्रभादिविशेष्यके व्याघ्रादिसमास एवेत्याह---उपमागर्भत्वेनेति । ननु तथापि सैवानुपपत्तिः, स्वीयधर्मैः सुवेषत्वासम्भवादित्यत आह---अनन्तरं चेति । अयमर्थः---सकृदुच्चरितैः शब्दैरसकृच्छक्तिलक्षणाभ्यां बोधासम्भवाद्दर्शितोऽयं पुष्पादिविशेष्यक उपमासमासार्थो व्यङ्ग्य एव । तात्पर्यवशाच्छक्त्या वाक्यबोधकत्वं वा । सुवेषत्वोपपत्तिकत्वं च समासद्वयतात्पर्यग्राहकं तेन च सुवेषत्वेपपत्तौ उपपत्तिमाह---समानविशेषणमाहात्म्यादिति । समासद्वयघटितत्वेनोभयविशेषणात्साम्यम् । एकैकसमासेन एकैकविशेषणमिति भावः । लताव्यवहारस्तद्वल्लास्यादिः । लोचना (लो, ई) सुवेषत्ववशात्सुवेषेति पदसामर्थ्यात् । तद्धि नायिकायां मुख्यं नतु लतायामिति नायिकाधर्मिणामेव दन्तप्रभादीनामुपमेयप्रयोजकं, नतु हरिणेक्षणपदोपादानं, प्रस्तुतेतरपदापेक्षयैव समासप्रवृत्तेर्व्यवस्थानात् । अन्यथा दासे कृतागसीत्यादावपि प्राचीनप्रसिद्धेऽपि रूपकसमासविषये उपात्तनायिकानुगुण्येन पुलकाङ्कुरकण्टकाग्रैरित्यत्र उपमासमास एव स्यात् । समासान्तरेण सामग्रीवशादामर्षितेन । ********** टीका सम्पूर्णा ********** रूपकगर्भत्वे यथा-- "लावण्यमधुभिः पूर्णम्-" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, फ) लावण्यमध्विति---नच एकदेशविवर्त्तिरूपकोदाहरणमेव प्रागुक्तम्, कथमत्र समासोक्तिरिति वाच्यम् । साम्प्रदायिकमते एकदेशविवर्त्तिरूपकस्थले सर्वत्र व्यङ्ग्यरूप्यांशे समासोक्तित्वस्वीकारात्, यत्र विशेषे तु न स्वीकार इत्यग्रे व्यक्तिर्भविष्यति । अत्र सामान्यधर्माप्रयोगेऽपि नोपमासमासः । मधुतुल्यलावण्यस्य पानासम्भवात् । रूपकत्वे तु मधुनः सम्भवत्येव पानम् । आस्यस्यैवात्र पानमुक्तं तस्य चोभयथापि पानासम्भव इति न वाच्यम्, "सविशेषणौ विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्ये बोधेऽ इति न्यायान्मधुन्येव चान्वयात् । ********** टीका सम्पूर्णा ********** सङ्करगर्भत्वे यथा-"दन्तप्रभापुष्प-" इत्यादि । "सुवेषा" इत्यत्र "परीता" इति पाठे ह्युपमारूपकसाधकाभावात्सङ्करसमाश्रयणम् । समासान्तरं पूर्ववत् । समासान्तरमहिम्ना लताप्रतीतिः । ************* टीका ************* विज्ञप्रिया (वि, ब) परीतेति पाठे इति । सुवेषत्वस्य निजधर्मेणासम्भवात्तत्सत्त्वे क्रमशः समासद्वयेनैवोपपत्तिर्दर्शितेत्यतस्तत्र न रूपकोपमायाः सन्देहसङ्करः । परीतेति पाठे तु परीतत्वं व्याप्तिः पुष्पैर्लावण्यैः सम्भवतीत्यत्र समासद्वयेनोपमारूपकयोर्भवत्येव सन्देह इति भावः । नच सामान्यधर्माप्रयोगवशादुपमा रूपकं बाधत इति वाच्यम् । रूपकस्य सम्भवे तथा रूपकाबाधात् । सुवेषत्ववशाद्रूपकबाधादेव तथा तद्बाधस्य प्राग्दर्शितत्वात् । सन्देहसङ्करं ग्राहयति---अत्र हीति । समासान्तरमिति । विनिगमकाभोवेनोभयसमासान्तरं पूर्ववल्लताप्रतीतिरित्यन्वयः । तत्र हेतुमाह---समासान्तरमहिम्नेति । समासान्तरमत्र रूपकसमासः । तद्वत्त्वे लावण्यमधुभिः पूर्णमित्येकदेशविवर्त्तिरूपकोदाहरणेऽपि समासोक्तित्वमिदं दर्शितं साम्प्रदायिकमतानुसारेणैव । लोचना (लो, उ) साधकाभावादिति । परीतत्वस्य हरिणेक्षणायां लतायां च साधारण्येनैव प्रवृत्तेः । सङ्करसमाश्रयेणेति । सङ्करोऽत्र उपमारूपकसन्देहसङ्करः । तदाश्रयेण समासो निर्द्धारिताकारः । पूर्वं दन्तप्रभासदृशैः पुष्पैश्चितेत्युक्तप्रकारः । लताप्रतीतिरित्यत्र लतापदं भावप्रधानम् । ********** टीका सम्पूर्णा ********** एषु च यषां मते उपमासङ्करयोरेकदेशविवर्तिता नास्ति तन्मते आद्यतृतीययोः समासोक्तिः । द्वितीयस्तु प्रकार एकदेशविर्विंतरूपकविषय एव । ************* टीका ************* विज्ञप्रिया (वि, भ) केचित्त्वत्रैकदेशविवार्त्तिरूपके समासोक्तिं न मन्यन्ते, किन्तूपमातत्सङ्करगर्भत्व एव तां मन्यन्ते । तत्र प्रथमं रूपकसमासबाधस्यादर्शितत्वात्तेषां मतं दर्शयति---एषु चेति । आद्यं दन्तप्रभेत्यादिकम् । तृतीयं परीतत्वपाठविशिष्टम् । तदेवं द्वितीयो लावण्यमधुभैरित्याद्युक्तो रूपकविषय एव न समासोक्तिविषयः । व्यङ्ग्यरूपकं मुखस्य पद्मत्वं तद्धर्मलावण्यादौ मध्वादिरूपकं वाच्यमित्येकदेशविवर्त्तिसुवेषत्वविशेषणवति दन्तप्रभेत्यादौ । ********** टीका सम्पूर्णा ********** पर्यालोचने त्वाद्ये प्रकारे एवदेशविवर्तिन्युपमैवाङ्गीकर्तुमुचिता । ************* टीका ************* विज्ञप्रिया (वि, म) पर्यालोचने तु न समासोक्तिर्नाप्येकदेशविवर्त्तिरूपकं किन्त्वेकदेशविवर्त्त्युपमैव इति स्वमतं ग्रन्थकृदाह---पर्यालोचने त्विति । समासे लुप्तेवकाराल्लावण्यादौ मध्वाद्युपमा वाच्या । नायिकायां तूपमा व्यङ्ग्या इत्येकदेशविवर्त्तिनी उपमैवेत्येवकारात्समासोक्तिव्यवच्छेदः । तद्व्यवच्छेदस्तु तत्पर्यालोचनादित्याह---पर्यालोचने त्विति । विशेषणसाम्ये यत्समासोक्तिरित्युक्तं तत्र विशेषणस्य साधारणत्वं श्लिष्टत्वं चेति । द्वैविध्यमेवोचितम् । औपम्यगर्भत्वरूपस्तृतीयप्रकारो नोचितः । तत्र दन्तप्रभापुष्पमिवेत्युपमासमासबोधे हरिणेक्षणा लते वेति बोधस्य समासद्वयकुसृष्टिकल्पनं विनैवोपपत्तिरित्येवं पर्यालोचना । एवं चाद्यप्रकाररीतेस्तृतीयप्रकारेऽपि सम्भवात्तत्राप्येकदेशविवर्त्युपमैवेत्यत्र उपमागर्भाविशेषणिका समासोक्तिर्नास्त्येवेत्यभिप्रायः । आद्ये प्रकारे इत्युपलक्षणमेव । लोचना (लो, ऊ) इह चौपम्यगर्भस्यैवं त्रैविध्यसम्भवेऽपि द्वितीयोदाहरणमेकदेशविवर्त्तिरूपकविषय एवेति न पूर्वोत्तरविरोध इत्याह---एषु चेति । आद्यं दन्तप्रभाइत्यादि पद्यम् । तृतीयं तदेव सुवेषा इत्यत्र परीतपाठयुक्तम् । द्वितीयो लावण्यमधुभिः पूर्णमित्यादिपद्यवस्थितः । नच प्रथमतृतीययोरपि समासोक्तिरित्याह---पर्यालोचने त्विति । पर्यालोचने तत्त्वतो विवेचने उचिता हरिणेक्षण लतेवेति प्रतीतेः । ********** टीका सम्पूर्णा ********** अन्यथा-- ************* टीका ************* विज्ञप्रिया (वि, य) अन्यथेति । समासद्वयकल्पना कुसृष्ट्यैव औपम्यगर्भस्थले समासोक्त्यङ्गीकारे इत्यर्थः । यत्र समासद्वयकल्पना कुसृष्ट्यसम्भवस्तत्र कथं समासोक्तिरित्यत्राह । ********** टीका सम्पूर्णा ********** "ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् । प्रमोदयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार" ॥ ************* टीका ************* विज्ञप्रिया (वि, र) ऐन्द्रं धनुरिति । पाण्डुना पयोधरेण औपम्येनार्द्रनखक्षताभमैन्द्रं धनुः दधाना सकलङ्कमिन्दुं प्रसादयन्ती प्रसन्नं निर्मलं कुर्वती शरद्रवेरत्यधिकं तापं ततानेत्यर्थः । शरदि मेघस्य पाण्डुत्वादिन्दोः निर्मलत्वान्मेघावरणाभावेन रवेस्तापाधिक्याच्च । अत्र पाण्डुपयोधरेण गौरस्तनेनार्द्रनखक्षतं दधानायाः परनायिकाया गन्तृत्वेन कलङ्किनमुपनायकमनुनयन्त्यास्तत्प्रदर्शनेन पत्युस्तापाधिक्यं जनयन्त्याश्च नायिकायाः समासोक्त्या प्रतीतिः तद्व्यवहारस्य च शरदि प्रतीतिः । लोचना (लो, ऋ) ऐन्द्रमिति । पयोधरो मेघः स्तनश्च । प्रसादनं निर्मलीकरणं, परितोषणं च । कलङ्को लक्ष्म, कुलादिदोषश्च । तापः आतपो मनोज्वरश्च । शरदो नायिकात्वप्रतीतिरित्युक्तम् । तद्विशेषणस्यैव विचारदशारूढत्वात् । रविशशिनोर्टायकप्रतिनायकत्वे सैव मुख्यं पदं निदानम् । सकलङ्कतापशब्दयो रविशशिनोर्मुख्ययोर्वर्णनात्नायकविषयानियतत्वात् । उपमानत्वमाभाशब्दबोध्यम् । वस्तुपर्यालोचनया तद्विचारेण सच्चारणीयम् । धनुराभमिति प्रत्यनुदयप्रसङ्गदिति भावः । ********** टीका सम्पूर्णा ********** इत्यत्र कथं शरदि नायिकाव्यवहारप्रतीतिः, नायिकापयोधरेणार्द्रनखक्षताभशक्रचापधारणासम्भवात् । ************* टीका ************* विज्ञप्रिया (वि, ल) उपमागर्भसमासोक्त्यङ्गीकारे तद्रर्भत्वे च समासद्वयनियमे सा कथं स्यादित्यर्थः । आर्द्रनखक्षताभमित्यत्रोपमाबोधकस्याभापदस्य सक्त्वे रूपकासम्भवादुपमासमासे च ऐन्द्रे धनुषि आर्द्रनखक्षततुल्यत्वाप्राप्तौ नायिकायां च विशेषणाभावेन तद्विशेषणस्य शरन्नायिकोभयधर्मत्वाभावेन कथं विशेषणसाम्यं कथं तस्यैवोपम्यगर्भात्वं कथं वा समासगर्भद्वयकल्पनमिति मनसिकृत्याह--- नायिकापयोधरेणेति । तथा च उपमागर्भसमासोक्तिर्नास्त्येव । किन्त्वत्र पयोधरस्य प्रसादयन्तीति पदस्य सकलङ्कपदस्य तापपदस्य च श्लिष्टविशेषणिका समासोक्तिरेवेयम् । नौपम्यगर्भविशेषणिका इत्युक्तमनेन । ********** टीका सम्पूर्णा ********** ननु "आर्द्रनखक्षताभम्" इत्यत्र स्थितमप्युपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि सञ्चारणीयम् । ************* टीका ************* विज्ञप्रिया (वि, व) ननु आर्द्रनखक्षताभमित्यत्रार्द्रनखक्षतमुपमानम् । ऐन्द्रं धनुश्चोपमेयम् । धारणान्वयश्चोपमेव एव बोधितस्तेनासम्भवो दर्शितः । मनसा तु आर्द्रनखक्षतस्योपमानत्वं धनुषि बोध्यम् । क्षते तु तदुपमेयत्वं बोध्यम् । तथा च तत्क्षतधारणं स्तनस्य सम्भवत्येव इत्यत उपमागर्भसमासोक्तिरेवात्रापीति कथमुपमागर्भसमासोक्तिविलोप इत्याशङ्कते---नन्विति । स्थितमपि इति । नखक्षते स्थितमपीत्यर्थः । इदमुपलक्षणम् । धनुषि स्थितमुपमेयत्वमपि नखक्षते सञ्चारणीयमित्यापि बोध्यम् । तत्सञ्चारस्यैव प्रकृतस्तनधरणोपयोगित्वात् । पर्यालोचनयेति । पयोधरादिपदश्लेषात्तादृशार्थपर्यालोचनयेत्यर्थः । ********** टीका सम्पूर्णा ********** यथा--"दध्ना जुहोति" इत्यादौ हवनस्यान्यथासिद्धेर्दध्नि सञ्चार्यते विधिः । एवञ्चेन्द्रचापाभमार्द्रनखक्षतं दधानेति प्रतीतिर्भविष्यतीति चेत्? न, एवंविधनिर्वाहे कष्टसृष्टिकल्पनादेकदेशविवर्त्युपमाङ्गीकारस्यैव ज्यायस्त्वात् । ************* टीका ************* विज्ञप्रिया (वि, श) शब्देनैकत्र बोधितार्थस्यान्यत्र सञ्चारे दृष्टान्तमाह--यथा दध्नेति । आक्यातेन हवनस्येव प्रकृतस्तनधारणोपयोगित्वाद्बोध्यते । हवनस्य तु "हविषा जुहोतिऽ इति वाक्यरूपादन्यतः सिद्धेः सिद्धस्य च विधेयत्वासम्भवपर्यालोचनया तदेव विधेयत्वं यत्त्वसिद्धम् । अतो दध्नि सञ्चार्यते इत्यर्थः । दध्नो होमकरणत्वस्यान्यतः प्राप्त्यभावात् । तथा चैवं रीत्या धनुरुपमेयनखक्षतधारणं पयोधरे सम्भवति, इत्युपमागर्भसमासोक्तिरस्त्येव । कथं तद्विलोप इत्याह---एवंविधनिर्वाहे इति । एवंविधया निर्वाह इत्यर्थः । एकदेशविवर्त्युपमाङ्गीकारस्यैवेति । उपमागर्भसमासोक्तिर्नास्त्येवेति भावः । लोचना (लो, ॠ) शब्दशक्त्यर्पितलभ्यस्यार्थस्य पर्यालोचनायामन्यथाभावे दृष्टान्तमाह---यथेति । विधिः कर्त्तव्यतोपदेशः । अत्र हि होतव्यमित्यर्थे जुहोतिना यद्यपि होमविधानोपदेशः प्रतीयते तथापि वाक्यान्तरलभ्ये तस्मिन् "अप्राप्ते हि शास्त्रमर्थवदि" ति नयेन पिष्टपेषणवदुपदेशवैयर्थ्यादत्रानुक्त एव दध्नः करणत्वांशे पर्यवस्यत्युपदेशः । प्रकृतोदाहणे सञ्चारणशरीरं दर्शयति-प्रतीतिः हि पर्यालोचनोत्पन्ना । एवंविधेति । अयमर्थः । समनन्तरोक्तप्रकारेण दध्नो हवनविधिसञ्चारणवदिन्द्रधनुषि चौपम्यसञ्चारणमयुक्तम् । शब्दानां हि प्रधानक्रियानिवर्त्तकस्वक्रियाभिसम्बन्धात्साध्यायमानता न्यायसिद्धा, तेन दध्नि विधिसञ्चरणम् । आर्द्रनखक्षताभमित्यत्रार्द्रनखक्षतसम्बन्धादाभाशब्दस्यार्थस्य औपम्यस्य च तत्परित्यागेन सम्बद्धे इन्द्रधनुषि सञ्चारणे दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमित्यनिर्वाहात्॑ यथा कथञ्चिन्नर्वाहे वा न स्वारसिकीति कष्टा या सञ्चारणसृष्टिः तस्याः कल्पनादस्योत्पादानाद्ज्यायस्त्वादनायससिद्धत्वेन । ऐन्द्रं धनुरित्यादौ अर्थापत्तिः । ऐन्द्रं धनुरित्यादौ मुख्यतया वर्त्तमानस्य उपमामात्रे विशेषेण समासोक्त्युद्दीपकस्य प्रसादनक्रियादेः सद्भावः॑ तस्यानुभावात् । ********** टीका सम्पूर्णा ********** अस्तु वात्र यथाकथञ्चित्समासोक्तिः । "नेत्रैरिवोत्पलैः पद्मैः-" इत्यादौ चान्यगत्यसम्भवात् । ************* टीका ************* विज्ञप्रिया (वि, ष) ननु प्राचीनोक्तत्वात्कष्टसृष्टिकल्पनापि कार्य्या । एकदेशविवर्त्युपमा तु प्राचीनैरनुक्ताप्युदाहरणेऽदृष्टा नाङ्गीकर्त्तव्येत्यत उदाहरणे दृष्टत्वं दर्शयितुमाह--अस्तु वेति । "नेत्रोरिवोत्पलै" रित्यादौ । नेत्रौरिवोत्पलैः पद्मैर्मुखैरिव सरः श्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥ इत्यत्र एकदेशविवर्त्युपमोदाहरणे कष्टसृष्टिरूपगत्यन्तराभावादित्यर्थः । एतदनन्तरं च उपमागर्भसमासोक्त्यसम्भवात् । एकदेशविवर्त्युपमैवेति शेषः पूरणीयः । न चात्राप्युत्पलैरिव नेत्रैरित्युपमानोपमेयभाववैपरीत्यं सञ्चार्य्यतां कथं गत्यन्तरभाव इति वाच्यम् । तदा सरः श्रीषु नेत्रादिबोधात्सरः श्रिय इव नायिका इति पर्यवसाने प्रक्रान्तसरः श्रीवर्णनाभावापत्तेः । ********** टीका सम्पूर्णा ********** किं चोपमायां व्यवहारप्रतीतेरभावात्कथं तदुपजीविकायाः समासोक्तेः प्रवेशः । यदाहुः-- ************* टीका ************* विज्ञप्रिया (वि, स) नन्वेवं "दन्तप्रभे" त्यत्र उपमागर्भसमासोक्तिर्नेत्रैरिवोत्पलैरित्यत्रैकदेशविवर्त्युपमा इति कथमुपमागर्भसमासोक्तिविलोप इत्यत आह---किञ्चेति । लोचना (लो, ळ) प्रत्युत "नेत्रैरिवोत्पलै" रित्युपमासाधकसद्भावात् । यत्पुनरुक्तं राघवानन्दैः सरः श्रीनिष्ठं लिङ्गसाम्यं समासोक्तिप्रयोजकमिति॑ तदसत्व्यवहारप्रतीतिसाधकाभावात् । लिङ्गसाम्यमात्रेण समासोक्तिप्रतीतौ "दृश्यते सखि ! शीतांशुः" इत्यादावप्यतिप्रसङ्गात् । किन्तु प्रस्तुतमपेक्ष्यैव समासोक्तिः क्रियते इति स्वयमनन्तरमेवोक्तम् । तत्कथं युष्मन्मतेऽपि लिङ्गसाम्ये समासोक्तिप्रतीतिरिति चेत् । समनकार्यलिङ्गविशेषणानां लक्ष्येषु द्वयोः त्रयाणआं वा सद्भावे प्राधान्येन व्यवहार इति । यच्चोक्तं तैरपि "नेत्रैरिवोत्पलै" रित्यादावुत्प्रेक्षापि । तदत्यन्तमनुचितम् । हेत्वभावेऽध्यवसानस्याननुत्थानात् । किञ्चैवं "मुखेन कमलेनेव विभाति हरिणेक्षणा"इत्यादावपि हरिणेक्षणायां नलिनीव्यवहारसमारोपेण समासोक्त्युत्प्रेक्षयोः समवेशः स्यात् । एतत्सर्वं गर्भोकृत्य प्राचीनाचार्य्यसम्मतिं दर्शयति--यदाहुरिति । ********** टीका सम्पूर्णा ********** "व्यवहारोऽथवा तत्त्वमौपम्ये यत्प्रतीयते । तन्नौपम्यं समासोक्तिरेकदेशोपमा स्फुटा" ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) व्यवहारोऽथवेति । ऐन्द्रं धनुरित्यादौ उपमानोपमेयभाववैपरीत्यसञ्चारणोक्तेः कष्टसृष्टिककल्पनारूपं दूषणमुक्त्वा औपम्यगर्भसमासोक्त्यङ्गीकारे दूषणान्तरं ददत इतीयं कारिका । अतो दूषणआन्तरत्वबोधकमथवेति । यद्यस्मात्काव्यलिङ्गादिसाम्यहेतुकसमासोक्तौ यथाव्यवहारसमारोपः प्रतीयते तद्वदौपम्यगर्भत्वममुष्मान्न प्रतीयते । तत्तस्मान्नौपम्यसमासोक्तिरङ्गीकार्य्योति शेषः । किन्तु तादृशे स्थले एकदेशोपमा एकदेशविवर्त्युपमैव स्फुटेत्यर्थः । तथा चौपम्यगर्भा समासोक्तर्नास्त्येवेत्युक्तम् । लोचना (लो, ए) यद्यस्माद्व्यवहारः समासोक्तिवत्तत्त्वं रूपकवदौपम्येन प्रतीयते । तदौपम्यगर्भकसमासोक्तिर्न । अत एवालङ्कारसर्वस्वकृताप्युक्तम् । नेत्रैरिवोत्पलैरित्यादौ सरः श्रिया नायिकात्वप्रतीतिर्न समासोक्त्या विशेषणसाम्याभावात् । तस्मान्नायिकात्र उपमानत्वेन प्रतीयते, नतु सरः श्रीधर्मत्वेन नायिकात्वप्रतीतिरिति । एकदेशविवर्तिन्युपमैवोपास्येते । एतेन दन्तप्रभापुष्पेत्यादौ पदानामुपमानरूपकसमाससम्भवेन हरिणेक्षणाया लतायाश्च विशेषणत्वे सम्भवत्यपि ऐन्द्रं धनुरित्यादौ च कष्टकल्पितोक्तयुक्तिसद्भावेऽपि चोक्तप्रकारेणावश्याभ्युपगन्तव्यतथैकदेशविवर्त्युपमयैव व्यवहारो युक्तः । तथाच भाषणम्-- "अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्" इति । ********** टीका सम्पूर्णा ********** एवञ्चोपमारूपकयोरेकदेशविवर्तिताङ्गीकारे तन्मूलसङ्करेऽपि समासोक्तेरप्रवेशो न्यायसिद्ध एव, तेनौपम्यगर्भविशेषणोत्थापितत्वं नास्या विषय इति । ************* टीका ************* विज्ञप्रिया (वि, क) उपमाया रूपकस्य एकदेशविवर्तित्वे तुल्यन्यायादुभयत्रैव समासोक्त्यप्रवेशे तदुभयसन्देहसङ्करस्थलेऽपि समासोक्तिर्नास्तीत्याह----एवं चेति । नास्या विष्य इति । आस्याः समासोक्तेरित्यर्थः । लोचना (लो, ऐ) तन्मूलसङ्करे दन्तप्रभेत्यादौ परीतेति पाठे यत्पुनरुक्तं कैश्चित् । सन्देहसङ्करे सन्देहास्पदत्वेनाव्यवस्थितत्वाद्रूपकोपमयोरभाव इति तन्न । द्वयोरपि साधकबाधकाभावेन पर्य्यन्तेऽप्यन्यूनानतिरिक्तत्वेन वृत्तौ हि सन्देहसङ्कराङ्कारः । नतु स्थाणुर्वा पुरुषो वेति असंशयवर्तित्वज्ञानदशायां क्वचित्कस्यचिन्मिथ्यात्वं क्वचिद्द्वयोरपि । अन्यथा तत्र प्राचीनोक्तलौकिकहारमुद्रिकादिसंसृष्ट मुकुटाद्यलङ्कारसादृश्यमनुपपन्नं स्यात् । नच सन्देहसङ्करस्य निर्वाहः शक्यक्रिय इति वक्तुं न युक्तं, वैचित्र्यस्यानुभवसिद्धत्वात्तस्यैव चालङ्कारत्वात् । किञ्च क्षीरनीरन्यायेन मिश्रणेन सङ्कर इति प्राच्याः । तयोश्च मिश्रणेन चैकस्य द्वयोर्वा भावः । किन्त्वत्र एकतरिनिश्चयाभावमात्रेण सन्देहसङ्करव्यवहार इत्यलं बहुना । उपसंहरति--तेनेति । अस्याः समासोक्तेः । ********** टीका सम्पूर्णा ********** विशेषणसाम्ये श्लिष्टवेशेषणोत्थापिता साधारणविशेषणोत्थापिता चेति द्विधा । कार्यलिङ्गयोस्तुल्यत्वे च द्विविधेति चतुः प्रकारा समासोक्तिः । सर्वत्रैवात्र व्यवहारसमारोपः कारणम् । ************* टीका ************* विज्ञप्रिया (वि, ख) औपम्यगर्भत्वं समासोक्तेर्निरस्य चतुर्विधमेव समासोक्ते रूपं संहृत्य व्यवस्थापयति---विशेषणसाम्ये श्लिष्टेत्यादि । व्यवहारसमारोपस्याप्यत्र चातुर्विध्यं वक्तुमाह---सर्वत्र चेति । ********** टीका सम्पूर्णा ********** स च क्वचिल्लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः, शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः, शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा । लोचना (लो, ओ) लौकिके सर्वमार्गसाधारणे । शास्त्रीये विद्याव्युत्पत्तिविशेषगम्ये । ********** टीका सम्पूर्णा ********** तत्र लौकिकवस्त्वपि रसादिभेदादनेकविधम् । शास्त्रीयमपि तर्कायुर्वेदज्योतिः शास्त्रप्रसिद्धतयोति बहुप्रकारा समासोक्तिः । दिङ्मात्रं यथा--"व्याधूय यद्वसनम्-" इत्यादौ लौकिके वस्तुनि लौकिकस्य हठकामुकव्यवहारादेः समारोपः । "यैरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्भिरव्ययमसंख्यतया प्रवृत्तम् । लोपः कृतः किल परत्वजुषो विभक्ते-- स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये" ॥ अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुव्यवहारसमारोपः । एवमन्यत्र । ************* टीका ************* विज्ञप्रिया (वि, ग) यैरेकरूपमिति । परमेश्वरं प्रति कस्यचिदुक्तिरियम् । अखिलासु वृत्तिषु संसारेषु एकरूपमद्वितीयं त्वां पश्यद्भिर्यैर्जनैः परत्वजुषो भिन्नत्वविषयाया विभक्तेर्विभागस्य लोपः कृतः । तदैतद्दर्शनाद्भेदबुद्धिर्न कृतेत्यर्थः । तैरेव तस्य च ध्रुवं ध्रुवत्वं लक्षणं कृतमित्यहं मन्ये । ध्रुवमिति भावप्रधाननिर्द्देशः । त्वां कीदृशमव्ययमक्षयम्, असंख्यतया संख्यातुमशक्यतया प्रवृत्तमसंख्यपदानुवृत्तित्वात् । अत्र श्लिष्टविशेषणसामर्थ्यादपिकारदव्ययप्रतीतिः । तेषामपि हि अखिलपदसाहित्येन वृत्तिषु स्थितेष्वेकरूपं विकाराहित्यात्तदर्थे संख्याराहित्यम् । परस्याः सुब्विभक्तेर्लोपश्च कृतः इति ध्रुवं निश्चितं मन्ये । ईदृशं त्वां पश्यद्भिर्विभक्तिलोपं कुर्वद्भिः चादीनामीदृशत्वं लक्षणं चिह्नं कृतमित्येवं भावः । अत्रेति । आगमशास्त्रं वेदः । व्याकरणप्रसिद्धं वस्तु चकारादि । तद्वद्व्यवहारश्च शब्दात्मकत्वम् । ईश्वरे तदारोपस्यापि शब्दब्रह्मात्मकत्वात् । एवमन्यत्रेति । तत्र चान्यशास्त्रव्यवहारसमारोपो वेदशास्त्रप्रसिद्धे वस्तुनि ईश्वरे यथा मम । "यस्यौज्ज्वल्यं द्युतिभिरधिकं विग्रहेरलङ्कृतीनां यत्पादान्ते लघुरपि पतत्गौरवं सम्प्रयाति । छन्दः । सिद्धाक्षरतनुरसौ सद्रुणः शब्दमूर्त्तिः पुण्यश्लोको मनसि सततं सन्निधिं मे प्रयातु" ॥ इत्यत्र वाक्ये प्रस्तुतोर्ऽथो यथासौ पुण्यश्लोकः परमेश्वरो मे मनसि सततं सन्निधिं प्रयातु । यस्य विग्रहे शरीरेऽलङ्कृतीनां कौस्तुभभूषणआनां द्युतिभिरधिकमौज्ज्वल्यं, यत्पादान्ते लघुर्निकृष्टोऽपि पतन् गौरवं गुरुत्वमुत्तमत्वं सम्प्रयाति । असौ पुण्यश्लोकः कीदृशः । छन्दसि वेदे सिद्धाक्षररूपा अस्खलनरूपा तनुर्यस्य तादृशः सद्रुण ऐश्वर्य्यरूपगुणवान् । शब्दमूर्त्तिधरस्यैते विष्णोरंशा इति विष्णुपुराणम् । अत्र श्लिष्टविशेषणैर्व्यञ्जनया पुण्यस्योत्तमश्लोकस्य कविरिव प्रतीतिः । तस्यापि विग्रहे समासेऽलङ्कृतीनामनुप्रासोपमादीनां द्युतिभिः शोभाभिरधिकमौज्ज्वल्यं तत्पादस्य चतुर्थभागस्यान्ते पततो लघुवर्णस्यापि गुरुत्वम्, पदान्तगो गुरुर्वेति छन्दः--शास्त्रे उक्तत्वात् । असौ छन्दसानुष्टुब्त्वादिच्छन्दसा सिद्धो वर्णमयमूर्त्तिः । मादुर्य्यादिगुणवान् शब्दात्मकश्चेति । लोचना (लो, औ) एकरूपं सन्मात्रत्वेनाविकारित्वात्प्रत्ययादिविशेषाभावाद्वा । वृत्तिषु वर्त्तन्ते प्रवर्त्तन्ते आविर्भवन्तीति व्युत्पत्त्या वस्तुषु स्त्रीत्वादिलिङ्गेषु वा आव्ययं क्षयरहितं चकारादिकञ्च । असंख्यतया प्रवृत्तमनन्तपदार्थरूपेण विवर्तनात् । एकत्रादिसंख्याविरहित्वेन प्रसिद्धेश्च । परत्वाजुषो भिन्नत्वभाजः विभक्तेर्व्यक्तेर्वस्तुन इति यावत् । लोपः कृतः अभावो निश्चितः । प्रत्ययत्वेन पराद्भाविन्याः विभक्तेः अवच्छादयति निगूहति । अनवच्छादितस्वरूपमगूढस्वरूपम् । पूर्वावस्था लोकप्रसिद्धा । यदुक्तं चण्डीदासपण्डितैरपि "यत्राप्रकृततादात्म्येन प्रकृतप्रतीतिस्तत्र रूपकम् । यत्रापकृतव्यापारवतः प्रकृतस्य स्वतन्त्रस्यैव प्रतीतिस्तत्र समासोक्तिरिति स्पष्टार्थः । एवं रूपकेऽपि व्यवहारसमारोपवचनं राघवनन्दानामपास्तम् । ********** टीका सम्पूर्णा ********** रूपकेऽप्रकृतमात्मस्वरूपसन्निवेशेन प्रकृतस्य रूपमवच्छादयति । इह तु स्वावस्थासमारोपेणावच्छादितस्वरूपमेव तं पूर्वावस्थातो विशेषयति । अत एवात्र व्यवहारसमारोपो न तु स्वरूपसमारोप इत्याहुः । ************* टीका ************* विज्ञप्रिया (वि, घ) एकदेशविवर्त्तिरूपकसामासोक्त्योर्भेदमाह---रूपक इति । एकदेशविवर्त्तिरूपके इत्यर्थः । अप्रकृतमात्मस्वरूपेति । अप्रकृतं व्यङ्ग्यरूपं तत्कर्त्तृ । आत्मस्वरूपसन्निवेशेनेति । आत्मस्वरूपस्योभेदारोपेण प्रकृतं वाच्यमवच्छादयत्यपह्नवविषयीकरोतीत्यर्थः । यथा"लावण्यमधुभिः पूर्णम्" इत्यादौ । इह त्विति । स्वावस्थाव्यङ्ग्यस्य स्वरूपं तत्समारोपेण तदारोपेणानवच्छादितस्वरूपमह्नुतस्वरूपं तत्प्रकृतं वाच्यम् । पूर्वावस्थातोऽन्यारापितव्यङ्ग्यव्यवहाररूपकावस्थातो विशेषयति आरोपितव्यङ्ग्यव्यवहारं करोतीत्यर्थः । एकदेशविवर्त्तिरूपके व्यङ्ग्यं रूप्यं वाच्ये आरोपिते यथा व्याधूय वसनमित्यादौ वाच्ये गन्धवहेन कामुकाभेदारोपः । किन्तु कामुकव्यवहारस्य रत्यर्थं वसनाक्षेपालिङ्गनरूपव्यवहारस्यैवारोपोऽत्र इत्यर्थः । संवादमाह---अत एवात्र व्यवहारेति । वस्तुतस्तु व्यङ्ग्यव्यवहाररूपकत्वद्वयमेकदेशविवर्त्तिरूपके समासोक्तितो भेदकम् । ********** टीका सम्पूर्णा ********** उपमाध्वनौ श्लेषे च विशेष्यस्यापि साम्यम्, इह तु विशेषणमात्रस्य । अप्रस्तुतप्रशंसायां प्रस्तुतस्य गम्यत्वम्, इह त्वप्रस्तुतस्येति भेदः । ************* टीका ************* विज्ञप्रिया (वि, ङ) उपमाध्वनितोऽस्य भेदमाह---उपमाध्वनाविति । अत्र श्लेषेणेत्येव पाठः, श्लेषाकारे द्वयोरेव वाच्यत्वेन व्यङ्ग्यस्यैवाभावात् । श्लेषेण विशेष्यस्यापि साम्यमित्यर्थः । प्रामादिकपाठे तु श्लेषे सति ततो विशेष्यादिसाम्यमित्यर्थः । तथापि चकारो निरर्थकः । अप्रस्तुतप्रशंसातो भेदः स्फुट एव । लोचना (लो, अ) इह चाप्रस्तुप्रशंसायामप्रस्तुतवर्णनामुखेन प्रस्तुतप्रतीतिर्युक्ता तथाच मूलमन्तरेणाप्रस्तुतवर्णनस्यासम्बन्धप्रलापप्रायत्वात् । इह च विशेषणानां वर्णनीयार्थप्रतिपादनेन प्रकरणेन नियमितेऽपि द्वितीयार्थप्रतीतेरनुभवसिद्धेः । ********** टीका सम्पूर्णा ********** उक्तैर्विशेषणैः साभिप्रायैः परिकरो मतः । यथा-- "अङ्गराज ! सेनापते ! द्रोणोपहासिन् ! कर्ण !, रक्षैनं भीमाद्दुः शानम् !" ************* टीका ************* विज्ञप्रिया (वि, च) परिकरालङ्कारमाह---उक्तिरिति । साभिप्रायत्वं प्रतीपादनीयार्थपुष्ट्यार्ऽथपुष्टिकारित्वम् । तच्च यद्यपुष्टार्थदोषत्यागेनैव लभ्यं तथापि विशेषणैरित्यत्र बहुविवक्षणाद्बहुत्वे वैचित्र्यविशेषानुभवादलङ्कारित्वम् । अङ्गराजेत्यादिकं कर्णोपहासिनोऽश्वत्थाम्न उक्तिः । अत्र प्रतिपाद्यः कर्णोपहासः तत्पुष्टिकारीण्येतानि सम्बोधनानि । साक्षाद्भीमेन बध्यमानस्य दुः शासनस्य रक्षकत्वेनाङ्गदेशनृपतित्वं सेनापतित्वं महावीरद्रोणोपहासित्वं तदा वीरस्य योग्यमित्युपहासः स्पष्टः । लोचना (लो, आ) सम्प्रिति सादृश्यमूलालङ्कारलक्षणावसरेऽपि विशेषणविच्छित्तिहेतुकत्वेन समासोक्त्यनन्तरं परिकरं लक्षयति--उक्तिरिति । विशेषणैरिति बहुवचनस्य नैकस्य द्वाभ्यां विशेषणाभ्यामिदं वैचित्र्यम्, किन्तु अपुष्टार्थदोषपरिहार एवेति भावः । साभिप्रायैर्गर्भोकृतप्रतीयमानार्थैः । इह च प्रतीयमानार्थस्यागूढत्वे गुणीभूतव्यङ्ग्यता, अतोऽस्यालङ्कारस्य न ध्वनित्वम् । अङ्गराजेति । इदं भीमवचनम् । अङ्गो देशविशेषः । अत्र अङ्गराजत्वेन परक्षार्थमधिनायकत्वम् । सेनापतित्वेन राजपूजा । द्रोणोपहासित्वेन शैर्य्यमदः प्रतीयते । ********** टीका सम्पूर्णा ********** शब्दैः स्वभावादेकार्थैः श्लेषोऽनेकार्थवाचनम् ॥ १०.५७ ॥ "स्वभावादेकार्थैः" इति शब्दश्लेषाद्व्यवच्छेदः । "वाचनम्" इति च ध्वनेः । उदाहरणम्-- ************* टीका ************* विज्ञप्रिया (वि, छ) अर्थश्लेषालङ्कारमाह---शब्दैरिति । एकार्थैरित्येकार्थे एव शक्तैरित्यर्थः । अनेकार्थेति । शक्यैकभिन्नो योर्ऽथः अपरार्थः तस्य वाचनं लक्षणया बोधनमित्यर्थः श्लेषाद्व्यवच्छेद इति । श्लेषः--शब्दश्लेषालङ्कारः । अत्र शब्दस्य स्वभावादेकार्थत्वाद्वाचनमित्यनेन व्यञ्जनाव्यवच्छेदमाह---ध्वनेरिति । गुणीभूतव्यङ्ग्यस्याप्युपलक्षणमिदम् । लोचना (लो, इ) श्लेषप्रकरणादत्र श्लेषः । वाचनमनिर्द्धारितत्वेन बोधनम् । एवञ्व शब्दैरितिकारिकापदार्थ एकीभूय बाध्यभावमापन्नैरिति विशकलितानां बहूनां पदार्थानां तथाविधार्थबोधनक्षमत्वात् । नच कस्यचित्पदार्थविशिष्टार्थे शक्तिः । ********** टीका सम्पूर्णा ********** "प्रवर्तयन् क्रियाः साध्वीर्मालिन्यं हरिता हरन् । महसा भूयसा दीप्तो विराजति विभाकरः" ॥ अत्र प्रकरणादिनियमाभावाद्द्वावपि राजसूर्यौ वाच्यौ । ************* टीका ************* विज्ञप्रिया (वि, ज) प्रवर्त्तयन्निति । विभाकरः सूर्य्यः विभाकरनामा राजविशेषश्च विराजति । द्वयोर्विशेषणान्याह---प्रवर्त्तयन्निति । क्रियाः आलोकसाध्याः, पक्षेब्राह्मणादिवर्णक्रियाः । हरितां दिशां, पक्षे--दिक्स्थितलोकानां मालिन्यं तमः श्यामतां, पक्षेदारिद्र्यवशादनुज्ज्वलतां च, महसा ज्योतिषा, पक्षे---शौर्य्येण । अत्र क्रिया इत्यत्र नानेकार्थता । मालिन्यादिपदत्रयस्य त्वेकार्थे शक्तिरन्यार्थे लक्षणा, विभाकरांशे तु शब्दश्लेषः । अत्रोपमाध्वनित्वं व्यवच्छिनत्ति "अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रितेऽ इत्यत्र शक्तिलक्षणाभ्यामनेकार्थतापि परिग्राह्येत्यभिप्रायेणैवात्रोपमाध्वनिप्रक्तिर्बोध्या । लोचना (लो, ई) क्रियाः सन्ध्योपासनाद्याः इष्टापूर्त्ताद्याः । मालिन्यमन्धकारमयत्वम् । दुराचारयोगो वा । महस्तेज उत्सवश्च, दीप्तः प्रकाशितः निर्मलीभूतश्च विभाकरः सूर्य्यः । विभां करोति व्यनक्तीते व्युत्पत्त्या राजा च विभायाः कान्तेः कारकत्वात्तदाश्रयत्वाद्वाच्यवन्निर्द्धारितत्वेन बोध्या । ********** टीका सम्पूर्णा ********** क्वचिद्विशेषः सामान्यात्सामान्यं वा विशेषतः । कार्यान्निमित्तं कार्यं च हेतोरथ समात्समम् ॥ १०.५८ ॥ अप्रस्तुतात्प्रस्तुतं चेद्गम्यते पञ्चधा ततः । अप्रस्तुतप्रशंसा स्याद्-- ************* टीका ************* विज्ञप्रिया (वि, झ) अप्रस्तुतप्रशंसालङ्कारं पञ्चविधमाह---क्वचिद्विशेष इति । सकलपञ्चम्यन्तपदार्थादप्रस्तुतात्सकलप्रथमान्तपदार्थः प्रस्तुतश्चेद्गम्यते बुध्यते तदा पञ्चविधोऽप्रस्तुतप्रशंसालङ्कार इत्यर्थः । अन्यापदेशपरिभाषाप्यन्यत्र । लोचना (लो, उ) विशे, इत्यादीनां कर्मपदानां प्रस्तुतमिति विशेषणम् । सामान्यादित्यादिपञ्चम्यन्तपदानामप्रस्तुतादिति अप्रस्तुतादर्थतोऽवाच्यात् । अत्र एवाप्रस्तुतस्य प्रशंसावाच्यतया वर्णनमित्यर्थादप्रस्तुतप्रशंसाख्योऽलङ्कारः । एवं चाप्रस्तुतात्प्रस्तुतप्रतीतिरप्रस्तुतप्रशंसेति सामान्यलक्षणम् । तस्याश्चोक्तनयात्पञ्चप्रकारतेति भावः । ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्--- "पादाहतं यदुत्थाय मूर्धानमधिरोहति । स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः" ॥ अत्रास्मदपेक्षया रजोऽपि वरमिति विशेषे प्रस्तुते सामान्यमभिहितम् । ************* टीका ************* विज्ञप्रिया (वि, ञ) तत्र सामान्यादप्रस्तुतात्प्रस्तुतविशेषव्यङ्ग्यत्वमाह---पादाहतमिति । अपमानेऽपि स्वस्थाद्देहिनः तद्रजः वरं श्रेष्ठम् । यद्रजः पादाहतं सदुत्थायाभिहन्तुरेव मूर्द्धानमधिरोहति आरोहतीत्यर्थः । अत्रेति सामान्यं देहिसामान्यं, तदभिधानात्प्रस्तुतस्यास्मत्त इत्यस्य व्यञ्जनेत्यर्थः । लोचना (लो, ऊ) पादाहतमिति । एवं माघकाव्योक्त्या शिशुपालं प्रति प्रयाणाभिमुखीकरणाय श्रीकृष्णं प्रति बलरामवाक्यम् । अस्मदिति । अस्मत्पदवाच्याः श्रीकृष्णादयो हि वाच्याः । ********** टीका सम्पूर्णा ********** "स्त्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् । विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया" ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) विशेषादप्रस्तुतात्प्रस्तुतसामान्यव्यञ्जनमाह---स्त्रगियमिति । इन्दुमतीभर्तुर्नारदीयपारिजातस्त्रजं हृदि निधायाजस्यायं विलापः । ********** टीका सम्पूर्णा ********** अत्रेश्वरेच्छया क्वचिदहितकारिणोऽपि हितकारित्वं हितकारिणोऽप्यहितकारित्वमिति सामान्ये प्रस्तुते विशेषोऽभिहितः । एवञ्चात्राप्रस्तुतप्रशंसामूलोर्ऽथान्तरन्यासः । दृष्टान्ते प्रख्यातमेव वस्तु प्रतिबिम्बत्वेनोपादीयते, इह तु विषामृतयोरमृतविषीभावस्याप्रसिद्धेर्न तस्य सद्भावः । ************* टीका ************* विज्ञप्रिया (वि, ठ) अत्रेति । सामान्ये हिताहितकारित्वादिना सामान्ये विशेषः । अहितकारिविशेषोऽमृतम् । अर्थान्तरन्यासालङ्कारस्यात्रानयाप्रस्तुतप्रशंसया निष्पाद्यत्वादनयोरत्रानुग्राह्यानुग्राहकभावरूपसङ्कर इत्याह---एवं चेति । अर्थान्तरन्यासो समान्येनेति । यस्तत्प्रभेदः स चात्र अप्रस्तुतप्रशंसानिष्पाद्यः । तथाहि किं न हन्ति इत्यनेन हन्तृविशेषस्य स्त्रजो हननसामर्थ्यसत्त्वेऽपि हननाभावे विशेष उक्तः । स चाप्रस्तुतप्रशंसालभ्येनाहितकारिसामान्येन ईश्वरेच्छाधीनाहितकारित्वाभावरूप एव साधर्म्यात् । समानार्थतः स्त्रजोऽहननघटितम् । ईश्वरेच्छाहितकारिणोऽप्यहितकारित्वाभावादिति प्रतीतेः । ननु स्त्रङ्निष्ठयोरहननामृतभावयोरपकारसामर्थ्येऽप्यनपकारित्वरूपसाधनप्रतिबिम्बनादत्र दृष्टान्तालङ्कारस्यापि प्रसक्तिरित्यतस्तन्निरस्यति---दृष्टान्त इति । प्रख्यातमेव प्रसिद्धमेव बिम्बप्रतिबिम्बत्वेन व्यङ्ग्यसाधर्म्येण । अत्र तस्येति न दृष्टान्तालङ्कारसद्भाव इत्यर्थः । तथा च दृष्टान्तस्तु सधर्मस्य इत्यत्र प्रसिद्धसधर्मस्येत्यर्थः । लोचना (लो, ऋ) आहितकारिविशेषो विषं हतकारिविशेषोऽमृतम् । अप्रस्तुतप्रशंसामूलमुत्थानबीजम् । यस्यार्थान्तरन्यासस्य सामान्येन विशेषकृतः समर्थकत्वात् । तस्य दृष्टान्तस्य । इह तु विषामृतत्वेनाध्यवसानादतिशयोक्तिरेव । तयोश्च सामान्यविशेषाभावरूपेण विच्छित्तिविशेषसम्भवात् । ********** टीका सम्पूर्णा ********** "इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव, प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा । कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त ! शिखिनां बर्हाः सहर्हा इव" ॥ अत्र सम्भाव्यमानेभ्य इन्द्रादिगताञ्जनलिप्तत्वादिभ्यः कार्येभ्यो वदनादिगतसौन्दर्यविशेषरूपं प्रस्तुतं कारणं प्रतीयते । ************* टीका ************* विज्ञप्रिया (वि, ड) अप्रस्तुतात्कार्य्यात्प्रस्तुतकारणव्यञ्जनमाह---इन्दुर्लिप्तैवेति । वदनादिसौन्दर्य्यवत्याः सीतायाः पुरतः । इन्द्वादयो निकृष्टा इति समुदायार्थः । तत्र सीतायाः वदनापेक्षया इन्दोः, चञ्चलनयनापेक्षया मृगदृशः, अरुणाधरापेक्षया विद्रुमस्य, अङ्गगौरत्वापेक्षया हेमप्रभायाः, मधुरस्वरोच्चारककोमलकण्ठापेक्षया तादृशस्वरोच्चारककोकिलकण्ठस्य, केशापेक्षया शिखिबर्हस्य च निकृष्टता प्रतिपादकविशेषणान्युत्प्रेक्ष्यन्ते । इन्दुर्लिप्त इवेति । जडिता चाञ्चल्यरहिता, प्रम्लानारुणिमेव आरुण्यम्लानिवत् । कार्कश्यं मधुरस्वरोच्चारणासमर्थकाठिन्यम् । प्रस्तुतं स्थितं तयैव जनितं वा । तच्च कलयापि चाल्पभावेनापि कोकिलयापि किञ्चिन्मधुरस्वरोच्चारणात् । बर्हाः सगर्हाः सनिन्दाः । हन्तेतीन्द्वादीनामपकर्षात्खेदे सीताया उत्कर्षाद्धर्षे वा । सम्भावितेभ्य उत्प्रेक्षितेभ्यः । कारणं प्रतीयते । इत्युत्प्रेक्षाकारणत्वेन कारणत्वं बोध्यम् । लोचना (लो, ॠ) इन्दुरित्यादि । वदनादीत्यादिशब्देन ईक्षणाधरकान्तिवचन केशसंग्रहः । ********** टीका सम्पूर्णा ********** गच्छामीति यथोक्तया मृगदृशा निः श्वासमुद्रेकिणं त्यक्त्वा तिर्यगवेक्ष्य बाष्पकलुषेनैकेन मां चक्षुषा । अद्य प्रेम मदर्पितं प्रियसखीवृन्दे त्वया बध्यता- मित्थं स्नेहविवर्धितो मृगशिशुः सोत्प्रासमाभाषितः" ॥ अत्र कस्यचिदगमनरूपे कार्ये कारणमभिहितम् । ************* टीका ************* विज्ञप्रिया (वि, ढ) अप्रस्तुतकारणात्प्रस्तुतकार्य्यव्यञ्जनमाह---गच्छामीति । त्वं किं प्रस्थाननिवृत्तोऽसीति पृच्छन्तं प्रति प्रस्थानप्रवृत्तस्योक्तिरियम् । उद्रोकिणमुद्भटं निः श्वासं मुक्त्वा बाष्पकलुषेणैकेन चक्षुषा मां तिर्य्यगवेक्ष्य इत्यन्वयः । स्नेहविवर्द्धितस्य मृगशिशोः स्वस्मिन्नर्पितस्य प्रेम्णः प्रियसखीवृन्दे विवन्धोपदेशस्य मरणसूचनाय सोछ्वासं प्रोद्गतस्य ममाभाषणक्रियाविशेषणम् । अत्र कस्यचिदिति । गमननिवृत्तस्य नायकस्येत्यर्थः । प्रस्तुत इति । कस्यचित्प्रश्नात्प्रस्तुत इत्यर्थः । कारणं नायिकायाः स्वमरणसूचनम् । लोचना (लो, ळ) अत्रेति । कस्याचिदर्थात्केनचित्कुतो न गतोऽसीति पृष्टस्याप्रस्तुतेनाभिधातुमुचितत्वात् । कारणमगमनस्येत्यर्थः । ********** टीका सम्पूर्णा ********** तुल्ये प्रस्तुते तुल्याभिधाने च द्विधा श्लेषमूला सादृश्यमात्रमूला च । श्लेषमूलापि समासोक्तिवद्विशेषणमात्रस्य श्लेषे श्लेषवद्विशेष्यस्यापि श्लेषे भवतीति द्विधा । ************* टीका ************* विज्ञप्रिया (वि, ण) समात्सममिति । पञ्चमप्रकारस्य त्रैविध्यं वक्तुमादौ द्वैविध्यमाह---श्लेषमूला सादृश्यमूलता चेति । श्लेषमूला च द्विधा भवतीत्याह---समासोक्तिवदिति । समासोक्तौ हि विशेष्यस्यापि श्लेष उपमाध्वनित्वापत्त्या न विशेष्ये श्लेषः । प्रकारान्तरमाह---श्लेषवदिति । शब्दालङ्कारविशेष्यवदित्यर्थः । "प्रतिकूलतामुपगते हि विधौ" इति विशेष्यपदेपि श्लेषऋ । लोचना (लो, ए) श्लेषमूलेति । श्लेषोर्ऽथश्लेषाभासः प्रस्तुतस्य गम्यत्वात् । ********** टीका सम्पूर्णा ********** क्रमेण यथा-- "सहकारः सदामोदो वसन्तश्रीसमन्वितः । समुज्ज्वलरुचिः श्रीमान् प्रभूतोत्कलिकाकुलः" ॥ लोचना (लो, ऐ) आमोदः अतिनिर्हारी गन्धः, हर्षश्च । उत्कलिका उद्गतकोरक उत्कण्ठा च । ********** टीका सम्पूर्णा ********** अत्र विशेषणमात्रश्लेषवशादप्रस्तुतात्सहकारात्कस्यचित्प्रस्तुतस्य नायकस्य प्रतीतिः । ************* टीका ************* विज्ञप्रिया (वि, त) अत्र विशेषणमात्रश्लेषे आह---सहकार इति । सहकार आम्रवृक्षो वसन्तश्रीसमाश्रितः सन प्रभूताभिर्बहुभिरुद्गताभिः कलिकाभिः मुकुलैः आकुलो व्याप्तः सन् सदामोदो विद्यमानोत्तमगन्धस्तत एव समुज्ज्वलदीप्तिस्तत एव श्रीमांश्व । अत्रेति । नायकोऽपि वसन्तलक्ष्म्याऽश्रितः सनामोदेन हर्षेण समुज्ज्वले सम्यक्शृङ्गारे रुचिर्यस्य तादृशः । "शृङ्गारशुचिरुज्ज्वलः" इत्यमरः । श्रीमानत एवोत्कलिकया उत्कण्ठयान्वितः । "उत्कण्ठोत्कलिके समे " इति कोषः । कस्यचिदिति । उक्तविशेषणवत इत्यर्थः । ********** टीका सम्पूर्णा ********** "पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयने न महानपि स्यात् । अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक्प्रकटिता पुरुषोत्तमेन" ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) विशेष्यपदश्लेषे त्वाह---पुंस्त्वादिति । सपत्नापहृतं राव्यं येन केनापि प्रकारान्तरेणोद्धर्त्तुं कञ्चिद्राजानमुपदिशतः कस्यचिदुक्तिरियम् । केनाप्यनिर्वचनीयेन पुरुषोत्तमेन नारायणेन ईदृशीत्येवंप्रकारा इयं दिकयं प्रकारः प्रकटिता दर्शिता । कीदृशी दिगित्यत्र आह---पुंस्त्वादिति । पुंस्त्वात्पुरुषभावाद्यदि प्रविचलेद्यदि स्यात्तदपि विश्वं संसारमुद्धरेत् । पुरा ह्यसुराहृतं राज्यं मोहिनीरूपा कन्या भूत्वा नारायणेनोद्धृतम् । तथा यद्यधोऽपि यायात्तपीत्यर्थः---पुरा वराहमूर्त्त्या पातालं गत्वा तेन पृथिव्या उद्धृतत्वात् । तथा यदि प्रणयने याचने याचननिमित्ते न महान् लघुः स्यात्तदपीत्यर्थः । वलिदैत्यापहृतराज्यस्य उद्धरणाय तेन वामनीभावरूपलघुत्वप्राप्तोः । एवं च त्वयापि पुरुषश्रेष्ठेन पुंस्त्वात्पौरुषाच्चलनेनापि निकृष्टताप्राप्तिरूपताधः पातेनापि याचनार्थं लघुत्वप्राप्त्यापि सपत्नापहृतं राज्यमर्ज्यतामिति प्रकृतव्यञ्जना । लोचना (लो, ओ) पुंस्त्वादिति । अप्रस्तुतवासुदेवपक्षे, पुंस्त्वात्प्रविचलनममृतहारणकाले स्त्रीरूपधारित्वादधोगमनं नीचताप्राप्तिः । प्रणयने प्रीतिविषये महानुत्तमो यदि न स्यात् । पुरुषोत्तमेन पुरुषश्रेष्ठेन । ********** टीका सम्पूर्णा ********** अत्र पुरुषोत्तमपदेन विशेष्येणापि श्लिष्टेन प्रचुरप्रसिद्ध्या प्रथमं विष्णुरेव बोध्यते । तेन वर्णनीयः कश्चित्पुरुषः प्रतीयते । ************* टीका ************* विज्ञप्रिया (वि, द) प्रचुरप्रसिद्ध्या प्रथममिति । तेन तुल्यकालबोधश्लेषाव्यपदेशः । इदमुपलक्षणम् । अप्रस्तुतेश्वरस्यैव प्रथमं बोधितत्वात्तात्पर्य्याच्चेति बोध्यम् । लोचना (लो, औ) श्लिष्टेन द्व्यर्थेन । प्रचुरप्रसिद्ध्येति । सामग्रीवशात्प्रकरणमपास्यैकदेशप्रसिद्धेः समुदायप्रसिद्धिर्गरीयसीति नयेनेति भावः । यत्पुनरुक्तं राघवानन्दैः पुंस्त्वादिशब्दानामत्र भगवन्तं प्रत्यधिकान्वयित्वमिति तन्न, प्रमाणआभावात् । प्रत्युत प्रकरणे वर्णनीयार्थनियमाच्च । ********** टीका सम्पूर्णा ********** सादृश्यमात्रमूला यथा-- लोचना (लो, अ) सादृश्यमात्रमूला नतु विशेषणादिद्व्यर्थताहेतुका । ********** टीका सम्पूर्णा ********** "एकः कपोतपोतः शतशः श्येनाः क्षुधाभिधावन्ति । अम्बरमावृतिशून्यं हरहर शरणं विधेः करुणा" ॥ अत्र कपोतादप्रतुस्तात्कश्चित्प्रस्तुतः प्रतीयते । ************* टीका ************* विज्ञप्रिया (वि, ध) एक इति । पोतः शिशुः । क्षुधेतितृतीयान्तम् । अत्रेति । कशिचिदत्र बहुदस्युवेष्टितः पलायनासमर्थो विधिकरुणाशरणं प्राप्तो बोध्यः । ********** टीका सम्पूर्णा ********** इयं च क्वचिद्वैधर्म्येणापि भवति । "धन्याः खलु वने वाताः कह्लारस्पर्शशीतलाः । राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः" ॥ अत्र वाता धन्या अहमधन्य इति वैधर्म्येण प्रस्तुतः प्रतीयते । वाच्यस्य सम्भवासम्भवोभयरूपतया त्रिप्रकारेयम् । तत्र सम्भवे उक्तोदाहरणान्येव । ************* टीका ************* विज्ञप्रिया (वि, न) धन्या इति । वनप्रेषितरामशोकाकुलस्य दशरथस्योक्तिरियम् । सम्भवेति । सम्भवसम्भवं सम्भवासम्भवं चेति पक्षत्रयम् । लोचना (लो, आ) उभयरूपता, अंसतः सम्भवित्वादंशतश्चासम्भवित्वादयमलङ्कारः । ********** टीका सम्पूर्णा ********** असम्भवे यथा-- "कोकिलोऽहं भवान् काकः समानः कालिमावयोः । अन्तरं कथयिष्यन्ति काकलीकोविदाः पुनः" ॥ अत्र काककोकिलयोर्वाकोवाक्यं प्रस्तुतस्याध्यारोपणं विनासम्भवि । ************* टीका ************* विज्ञप्रिया (वि, प) असम्भवे व्यङ्ग्यस्य वाच्ये आरोपः । कोकिलोऽहमिति । काकली मधुरास्फुटध्वनिः । "काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटेऽ इति कोषः । वाकोवाक्यमिति । कोकिलस्यैव वाच्यमिदम् । तत्कथमुक्तिप्रत्युक्तिरूपं वाकोवाक्यमिदमन्तरकथनाय मध्यस्थावलम्बनात्, कलहत्वप्राप्तौ काकस्यापि कोकिलसाम्योक्तेराक्षेपात् । प्रस्तुताध्यारोपं विनेति । अप्रस्तुते कोकिले वाच्ये प्रस्तुतस्य व्यङ्ग्यस्याध्यारोपं विनेत्यर्थः । नच वाच्यार्थबोधे तत्कथमप्रस्तुते वाच्ये तदारोप इति वाच्यम् । कोकिलस्योक्त्यसम्भवात्तद्व्यङ्ग्यस्याप्युक्तियोग्यस्य पुरुषस्य स्मरणात्तदारोपसम्भवात्वश्चात्तु व्यञ्जनया पुरुषविशेषबोधेऽप्यनुपपत्त्यभावात् । ********** टीका सम्पूर्णा ********** उभयरूपत्वे यथा-- "अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः । कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः" ॥ अत्र प्रस्तुतस्य कस्यचिदध्यारोपणं विना कमलनालान्तश्छिद्राणां गुणभङ्गुरीकरणे हेतुत्वमसम्भवि । अन्येषां तु सम्भवीत्युभयरूपत्वम् । ************* टीका ************* विज्ञप्रिया (वि, फ) अन्तश्छिद्राणीति । अत्रेति । अत्र अन्तश्छिद्रादिमत्त्वं यत्कमलनालस्य वाच्यं तत्रान्तश्छिद्रस्य तन्तुभङ्गे हेतुत्वं न सम्भवति तदाह---छिद्राणामिति । अन्येषान्त्विति । कण्टकानामित्यर्थः । कण्टकैस्तन्तुच्छेदनसम्भवात् । तथा छिद्रांश एव निर्गुणस्य कण्टकतुल्यपरिजनवतश्च प्रस्तुतपुरुषस्य तत्रारोपः । नतु कण्टकानामंश इति भावः । लोचना (लो, इ) अन्तश्छिद्राणि मध्ये छिद्राणि कुटुम्बसुदुश्चरितानि च । कण्टकाः सूक्ष्मा अवयवाः मत्सरिणश्च । भङ्गुराः छिदुराविनश्वराश्च । गुणाः सूत्राणि । शिल्पादि गौरवादिश्च । असम्भविसूत्रोपदेशता तेषां पृथक्त्वात् । सम्भवि उद्ध्रियमाणे सूत्रे तत्सीम्नि छेददर्शनात् । इह च--- अङ्ग देहि लिहिण मा अपि जवप्पसि परवैं प्पीनं येउम् । अमण्डे कोहलिए अञ्जुकल्लिं पि पुं वहिंसि । अत्र नाप्रस्तुतप्रशंसा व्यङ्ग्यस्य वाच्यादधिकमास्वाद्यत्वेन ध्वनित्वात्॑ व्यङ्ग्य्स्य वाच्यादप्राधान्य एव एतदलङ्काराभ्युपगमः । यत्र पुनरप्रस्तुतप्रशंसाङ्गीकारे राघवानन्दमहापात्रैरप्रस्तुतार्थव्यङ्ग्यो व्यङ्ग्य इति मुहुर्मुहुरभिधतां ध्वनिकारप्रभृतिचण्डोदासपण्डितानामाचार्यणां ग्रन्थजातमत्रैव च साहित्यदर्पणे "लक्षणामूलध्वनिपरीक्षावसरे प्रदर्शितम्, "क्वचिद्बाध्यतया ख्यातिऽ रित्यादिशास्त्रविदां वचनमनालोच्य लक्षणाजीवितमित्यभिधायैतदुदाहरणे सुलक्ष्यो लक्ष्य इत्युत्कुश्यते तेषां कस्यचिद्दुर्मेधसः प्रलपितेनवञ्चितानां मतमतितुच्छतरं पूर्वपक्षतया लिखितमात्मनो दुर्मतित्वप्रकटनाय । इह पादाहतं यदुत्थायेत्यादौ "क्वचिद्बाध्यतया ख्यातिः, इत्याक्तनयेन "भ्रम धार्मिकऽ इत्यादिवत्"दृष्टिं हे प्रतिवेशिनीऽ त्यादिवच्च लक्षणा मास्तु "कोकिलोऽहऽ मित्यादौ वाच्यस्यासम्भवित्वे अन्तश्छिद्रेत्यादाववयवस्यासम्भवित्वे कथं न लक्षणेति । अत्रोच्यते, यत्र खलु कोकिलोऽहमित्यादौ वाक्यबोधस्तत्रोत्पत्स्यमानान्वयबाधहेतुका कथं लक्षणा ? यच्च तैरेव दर्शितम् । श्रुतान्वयादनाकाङ्क्षमित्यादि । किञ्चात्रोदाहरणे अन्तश्छिद्राणीत्यादौ वा यदि लक्षणा तदा शुद्धा गौणी वा, नाद्या । तस्याः सादृश्येतरसम्बन्धमूलत्वात् । यदि द्वितीया सापि सारोपा साध्यवसाना वा, नाद्या विषयस्य निर्गोर्णत्वात् । द्वितीया चेदतिशयोक्तिरस्तु किमलङ्कारान्तरकल्पनया । कथं वा पदमात्रान्वयबोधहेतुकाया वाक्यबोधे प्रवेशः । इह खलु प्रभुप्रभृतिषु केनचिदभिसन्धानेन कर्त्तव्योर्ऽथस्तात्पर्य्यम्, गोपनेनाभिमतकार्य्यनिवेदने । अत एवात्र समासोक्तिवद्व्यवहारसमारोप इति प्राच्याः । तथाहि "अयं रत्नाकरोऽम्भोधिरित्यसेवि धनाशयेऽ त्यादौ प्रकृतराजविषयकोऽम्भोधिव्यपदेशः प्रकृतेन तन्निष्ठसुशब्दप्रतिपादनाल्लक्ष्यगाम्भीर्य्यादिगुणाद्यतिशयस्य लक्षणाफलस्य प्रतिपत्तये किन्तु अभिलषितं तत्सेवार्थं वाच्यार्थमलब्ध्वा प्रत्युतानिष्ठप्राप्तेः । सुशब्दरचनाया एवं कोकिलोऽहमित्यादावपि कुत्रचित्कोकिलव्यपदेशः । कस्मिंश्चित्प्रस्तुते महापुरुषे हीनस्य मत्सरो न युक्त इति बोधनाय तुल्येऽप्रस्तुते तुल्याभिधाने च लक्षणायां "जं दे लिहिण मा असीत्यादौ सुप्रसिद्धे तैरभ्युपगते व्यञ्जनाविषयत्वेऽपि लक्षणा स्यात् । अन्तश्छिद्राणीत्यादौ अप्यन्तश्छिद्रादीनां कमलनालगुणभङ्गुरीकरणादेरसम्भवात्कथमन्वयोपपत्तिरिति चेत्, अत्राहुश्चण्डीदासपण्डिताः "अत्र बाह्यस्य प्रस्तुतपरत्वात्प्रारम्भात्प्रकृत्यैव वाच्यार्थवेलय्तत्समर्पणेन प्रतीतेर्न दूष्यत इति । " अत एवात्र सर्वेष्वपि भेदेषु प्रस्तुताभिधानस्य युक्तताप्रकाशनायालङ्कारसर्वस्वकृताप्युक्तम् । "इहाप्रस्तुतवर्णनमेवायुक्तमप्रस्तुतत्वात् । प्रस्तुतपरत्वे तु कदाचित्युक्तं स्यादिति । यदि "चान्तश्छिद्राणीऽ त्यादौ लक्षणा तदा तत्र मुख्यार्थबाधे वाक्यार्थान्वयोपपादकं किं नाम लक्ष्यते कुटुम्बे दुश्चरितानीति रूपोऽप्रस्तुतोर्ऽथश्चेत्तस्यापि न कमलनालभङ्गुरीकरणमपास्तम् । यच्चैषां मान्यानां मते बहुतरमस्खलितमवधार्य्यापि किञ्चित्किञ्चिदेव दूषणमुद्धुष्यते तत्र ध्वनिकारप्रभृतिचण्डीदासपण्डिताचार्यवर्यप्रयत्नप्रणीतविमलतरप्रमेयजातभङ्गभीरुणा तदतिक्षमध्वमविध्वस्तबुद्धयो विभुधाः । यच्च तैरेव--- "का त्वं कुन्तलमल्लकीर्त्तिरहह क्वापि स्थिता न क्वचित्सख्यस्तास्तव कुत्र कुत्र वद वाग्लक्ष्मीरुचः सम्प्रतिऽ वागाप्ता चतुराननस्य वदनं लक्ष्मीर्मुरारेरुरः- कान्तिर्मण्डनमण्डलं मम पुनः नाद्यापि विश्रामभूः । ऽ इति क्वचित्प्रश्रोत्तरिकया कल्पयित्वा "वर्णनीयस्य लेशोद्दिष्टस्य लक्ष्यते" इत्यप्रस्तुतप्रशंसादिविशेषस्य लक्षणं लिखित्वा तदुदाहरणत्वेन दर्शितं तदस्माभिरुपेक्षणीयम् । अत्र हि प्रश्रोत्तरिकाभावेन भवने वस्तुषु न व्यवहारसमारोपेण समासोक्तिं प्रयोजयति । वाच्योर्ऽथो द्विविधः, स्वतः सम्भवी प्रौढक्तिसिद्धश्चेति प्रसिद्धम् । तत्र प्रौढोक्तिसिद्धार्थस्यालङ्कारत्वे "सज्जै सुरै " ( हि ) मासो इत्याद्यर्थानामाप्यलङ्कारत्वप्रसङ्गः । कुन्तलेश्वरस्य वागादीनां चतुराननादिगमनेन "योऽनुभूतः कुरङ्गाक्ष्या" इत्यादिवन्निदर्शना इह । ह्यध्यवसायस्य सिद्धेत्वन निर्देशात्शब्दमूलातिशयोक्त्यलङ्कारपरिकल्पनम् । तथाप्यत्र निदर्शनाविवेकप्रस्तावे उक्तम्---उपमापरिकल्पनं निदर्शनेति लक्षणे उपमापदं सादृश्यमात्रवाचकमिति । अत एवालङ्कारसर्वस्वकृताप्युक्तम् । सम्भवतासम्भवता वा वस्तुसम्भन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शनेति । तथाच पद्भ्यां हंसगतिरित्यादौ सोऽपि तदाननरुचमित्यादौ च प्रतिकल्पना । "मरकतमयमेदिनीषु भानोस्तरुविटपान्तरपातिनो मयूखाः । अवनतशितिकण्ठकण्ठलक्ष्मीमिह दधति स्फुरिताणुरेणुजालाः" ॥ इत्यत्र च तथाभूतभूमिषु अवनतशितिकण्ठकण्ठानां सम्भवापत्तेः उत्प्रेक्षाकल्पने प्रकृतोदाहरणं वातिशयोक्तिकल्पने निदर्शनायां न विरोधः । किञ्च एकैकस्य वागादे राजनि चतुराननादौ च भवनात् । ********** टीका सम्पूर्णा ********** अस्याश्च समासोक्तिवद्व्यवहारसमारोपप्राणत्वाच्छब्दशक्तिमूलाद्वस्तुध्वनेर्भेदः । उपमाध्वनावप्रस्तुतस्य व्यङ्ग्यत्वम् । एवं समासोक्तावपि । श्लेषे तु द्वयोरपि वाच्यत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ब) ननु "पन्थिअ" इत्यादौ यः शब्दशक्तिमूलो वस्तुध्वनिरुक्तस्तत्र उपभोगक्षमत्वे सति यत्स्थित्यनुमितिरूपं वस्तुव्यङ्ग्यमुक्तं तत्र वक्त्र्या उद्देश्यत्वेन तदेव प्रस्तुतं वाच्यार्थस्त्वप्रस्तुतः । तथा च तत्राप्रस्तुतप्रशंसात्वमेवापतितमित्यतस्ततोऽस्या भेदमाह । वस्तुध्वनौ तथा स्थित्यनुमतिर्व्यङ्ग्या । न तत्र वाच्यस्य व्यवहारस्य व्यङ्ग्यपुरुषादौ समारोपस्य प्राणत्वाच्च तत्कारकत्वादित्यर्थः । अत्र च शब्दशक्तिमूलादित्युपलक्षणम् । "दृष्टिं हे प्रतिवेशिनी" त्यादावपि यद्भाविनखक्षतगोपनं व्यङ्ग्यम्, तदपि वक्त्र्या उद्देश्यत्वेन प्रस्तुतम् । वाच्योर्ऽथोऽप्रस्तुतस्तत्राप्येव मस्याः प्रसक्तिरेवं समाधानं च बोध्यम् । उपमाध्वनौ समासोक्तौ शब्दश्लेषालङ्कारे तस्याः प्रसक्तिरेव नास्तीत्याह---उपमाध्वनाविति । अत्र ह्यप्रस्तुतो वाच्यः । उपमाध्वनिसमासोक्तौ चाप्रस्तुतो व्यङ्ग्य एवेति तयोर्नास्याः प्रसक्तिः । श्लेषेऽपि नास्याः प्रसक्तिरित्याह । श्लेषेणाप्रस्तुतव्यञ्जनत्वे सति ह्यप्रस्तुतप्रशंसा । श्लेषे तु द्वयोरप्यर्थयोर्वाच्यत्वमित्यर्थः । लोचना (लो, ई) सम्प्रति सुमतिवेद्यमस्या ध्वन्यलङ्कारविवेकं दर्शयति--अस्याश्चेति । अस्याः अप्रस्तुतप्रशंसायाः शब्दशक्तिमूलाद्वस्तुध्वनेर्भेदः । तथाहि "भुक्तिमुक्तिकृदेकान्त" इत्यादौ यदागम इत्यत्र सच्छास्त्रे न सत आगमनरूपस्यार्थस्य व्यवहारः समारोप्यते, किन्तु रहस्यगोपनार्थमेव व्द्यर्थपदपयोगः, ततोऽसा भेद इति भावः । वाच्यत्वमनिर्द्धारितत्वेनेति शेषः । ********** टीका सम्पूर्णा ********** उक्ता व्याजस्तुतिः पुनः ॥ १०.५९ ॥ निन्दास्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुतिनिन्दयोः । लोचना (लो, उ) व्याजस्तुतिरित्यलङ्कारनाम । व्यङ्ग्यहेतुकवैचित्र्यसारूप्यादप्रस्तुतप्रशंसानन्तरमस्या लक्षणम्॑ अस्याश्च स्तुतिनिन्दयोः सामान्यविशेषकार्यकारणतुल्याभावादप्रस्तुतप्रशंसातो भेदः । ********** टीका सम्पूर्णा ********** निन्दया स्तुतेर्गम्यत्वे व्याजेन स्तुतिरिति व्युत्पत्त्या व्याजस्तुतिः । स्तुत्या निन्दाया गम्यत्वे व्याजरूपा स्तुतिः । ************* टीका ************* विज्ञप्रिया (वि, भ) व्याजस्तुत्यलङ्कारमाह---उक्ता व्याजेति । वाच्याभ्यामिति । यद्यपि बक्ष्यमाणोदाहरणयोर्निन्दास्तुत्योरेकस्यापि वाच्यत्वं तथापि निन्दास्तुतिप्रयोजकार्थाभ्यां वाच्याभ्यामित्यर्थः । गम्यत्वे व्यङ्ग्यत्वे निन्दाव्याजेन स्तुतौ व्याजनिन्दात्वेन व्याजस्तुतिपरयोगार्थसम्भवात्समासद्वयेनोभयत्र तत्पदार्थं घटयति---निन्दयेति । ********** टीका सम्पूर्णा ********** क्रमेण यथा-- "स्तनयुगमुक्ताभरणाः कण्टककलिताङ्गयष्टयो देव ! । त्वयि कुपितेऽपि प्रागिव विश्वस्ता द्विट्स्त्रियो जाताः" ॥ ************* टीका ************* विज्ञप्रिया (वि, म) अत्र निन्दाव्याजेन स्तुतिमाह---स्तनेति । हे देव ताः प्रसिद्धाः तव वैरिस्त्रियः त्वयि कुपिते प्रागिव विश्वस्ताः । अकोपदशायामिव कोपदशायामैक्यरूपमाह---स्तनयुगेति । मुक्तारचिताभारणाः । अकोपदशायां दृष्टत्वेन कण्टकैर्व्याप्ताङ्गयष्टयः कोपदशायां तु भयेन कण्टकवनप्रवेशात्तादृशास्तथाकोपदशायां विश्वस्ता अभीता कोपदशायां तु विशिष्टमधिकं श्वस्तं श्वासो यासां तादृशाः, चिन्तया दीर्घनिः-- श्वासात् । सर्वत्रैव शब्दवाच्यत्वेन प्राक्तुल्यत्वं कोपेऽपि अकोपकालीनावस्थातोऽविशेषान्निन्दा । श्लिष्टपदद्वितीयार्थेन तु स्तुतिः । लोचना (लो, ऊ) मुक्तेत्यत्र मुक्तानि त्यक्तनि, पक्षे---मौक्तिकमयान्याभरणानि यस्यां कणअटकस्तत्र लतागतः प्रसिद्धः, लोमाञ्चश्च । विश्वस्ता विधवा विश्वसयुक्ताश्च । ********** टीका सम्पूर्णा ********** इदं मम ॥ "व्याजस्तुतिस्तव पयोद ! मयोदितेयं यज्जीवनाय जगतस्तव जीवनानि । स्तोत्रं तु ते महदिदं घन ! धर्मराज- साहय्यमर्जयसि यत्पथिकान्निहत्य" ॥ ************* टीका ************* विज्ञप्रिया (वि, य) स्तुत्या निन्दामाह---व्याजस्तुतिरिति । हे पयोद ! यज्जगतः जीवनाय तव जीवनानि जलानि इयं तव मया व्याजस्तुतिर्मिर्थ्यास्तुतिरेवोदिता । इतोऽधिकस्तुतिसत्त्वे इयं न स्तुतिरप्यस्तुतिरेवेत्यर्थः । अधिकां स्तुतिमाह---स्तोत्रन्तु ते इति । हे घन ! यत्पथिकानि विरहणो निहत्य धर्मराजस्य यमस्य साहाय्यं महिमानमर्जयसि इदं तु ते महत्स्तोत्रं धर्मराजस्य तुल्यकर्म लोकमारणकारित्वेन माहात्म्याधिक्यात्तद्विरुद्धजगज्जीवकारित्वे, नतु तादृशमाहात्म्यम् । अत्र पथिकमारकत्वेन निन्दा । अत्र स्तुतेर्वाच्यत्वेऽपि स्तुतिप्रयोजकार्थपरतया यत्स्तुतिपदं व्याख्यातं तदुदाहरणान्तरसंग्रहाय । यथा "दानात्प्रशंसां प्राप्तोऽसि कर्णेदानीं तु संगरात् । अपक्रम्य यशो दत्त्वारये प्राप्तस्ततोऽधिका"मिति कर्णं प्रति अश्वत्थाम्न उक्तौ स्तुतेरवाच्यता । लोचना (लो, ऋ) जीवनानि जलानि प्राणश्च । घनं निरन्तरम् । धर्मराजो यमश्च । ********** टीका सम्पूर्णा ********** पर्यायोक्तं यदा भङ्ग्या गम्यमेवाभिधीयते ॥ १०.६० ॥ ************* टीका ************* विज्ञप्रिया (वि, र) पर्यायोक्तालङ्कारमाह---पर्यायोक्तमिति । गम्यं व्यङ्ग्यं तच्च प्रस्तुतस्य कारणरूपं बोध्यं भङ्ग्या प्रस्तुतमपि कार्यकथनरूपं भङ्ग्यभिधीयते प्रतिपाद्यते । व्यञ्जनयैवेति शेषः । नतु शक्त्या बोध्यत इत्यर्थः । प्रस्तुतकार्येण प्रस्तुतं कारणं यदा व्यज्यत इत्यर्थः । कारणव्यञ्जककार्यरूपायामप्रस्तुतप्रशंसायां तु अप्रस्तुतेन कार्येण प्रस्तुतं कारणं व्यज्यते इति भेदो वक्ष्यते यथा "इन्दुर्लिप्त इवाञ्जनेन" इत्यादौ । लोचना (लो, ॠ) सम्प्रति व्यङ्ग्यविच्छित्तिप्रकरणप्रसक्तं पर्यायोक्तं लक्षयति---पर्यायोक्तमिति । भङ्ग्या चमत्कारनिपुणविच्छित्त्यन्तराश्रयेण व्यङ्ग्यमभिधीयते बोध्यते कार्यादिद्वारेणेत्यर्थः । ********** टीका सम्पूर्णा ********** उदाहरणम्-- "स्पृष्टास्ता नन्दने शच्याः केशसम्भोगलालिताः । सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः" ॥ अत्र हयग्रीवेण स्वर्गो विजित इति प्रस्तुतमेव गम्यं कारणं वैचित्र्यविशेषप्रतिपत्तये सैन्यस्य पारिजातमञ्जरीसावज्ञस्पर्शनरूपकार्यद्वारेणाभिहितम् । ************* टीका ************* विज्ञप्रिया (वि, ल) स्पृष्टास्ता इति । शच्याः केशसम्भोगलालितास्ताः प्रसिद्धाः पारिजातस्य मञ्जर्यो यस्य इयग्रीवस्य नृपस्य सैनिकैर्नन्दने वने सावज्ञं स्पृष्टा इत्यर्थः । अत्रेति । गम्यं व्यङ्ग्यं कारणरूपं सावत्रमञ्जरीस्पर्शस्य अभिहितं व्यञ्जनया प्रतिपादितम् । वर्णनीयस्येति । हयग्रीवनृपस्येत्यर्थः । तत्प्रभावेनैव सावज्ञमञ्जरीस्पर्शात् । लोचना (लो, ळ) केशसम्भोगलालिताः केशसंयमपरिचिताः । कार्यद्वारेणोक्तं पारिजातमञ्जरीस्पर्शस्य स्वर्गविजयानतिरिक्तत्वात् । वैचित्र्यविशेषश्चात्र स्वर्गो विजित इति प्रतिपादनाल्लभ्योऽनुभवसाक्षिकः । एवं यं प्रक्ष्य चिररूढापि निवासप्रीतिरुज्झिता । मदेनैरावणमुखे मानेन हृदयं हरेः" ॥ इत्यत्र मदमानयोर्विनाश एव तयोर्निवासप्रीतिपरित्याग इति पर्यायोक्तम् । एवं च यदेव गम्यते तस्यैवाभिधाने पर्यायोक्तमिति भावः । तदुक्तं काव्यप्रकाशकृता "यदेवोच्यते तदेव व्यङ्ग्यं यथा तु व्यङ्ग्यं न तथा उच्यते" इति पर्यायोक्तलक्षणव्याख्याने । अयं च क्वचित्कारणेन वाच्येन कार्यस्य गम्यत्वेऽपि सम्भवति । ********** टीका सम्पूर्णा ********** न चेदं कार्यात्कारणप्रतीतिरूपाप्रस्तुतप्रशंसा, तत्र कार्यस्याप्रस्तुतत्वात्॑ इह तु वर्णनीयस्य प्रभावातिशयबोधकत्वेन कार्यमिति कारणवत्प्रस्तुतम् । एवञ्-- "अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान् स्तनेषु । प्रत्यापताः शत्रुविलासिनीनामाक्षेपसूत्रेण विनैव हाराः" ॥ ************* टीका ************* विज्ञप्रिया (वि, व) श्लोकान्तरेणापि प्रस्तुतकार्येण प्रस्तुतकारणव्यञ्जनादिदानीमलङ्कारं दर्शयति---एवं चेति । पतिंवरामिन्दुमतीं धात्र्या उक्तिरियम् । अनेन राज्ञा शत्रुविलासिनीनां स्तनेषु मुक्ताफलवत्स्थूलतमानश्रुबिन्दून् पर्यासयता पातयता आक्षेपसूत्रेण ग्रथनसूत्रेणविनैव हाराः प्रत्यर्पिताः अश्रुबिन्दव एव हारा कृता इत्यर्थः । ********** टीका सम्पूर्णा ********** अत्र वर्णनीयस्य राज्ञो गम्यभूतशत्रुमारणरूपकारणवत्कार्यभूतं तथाविधशत्रुस्त्रीक्रन्दनजलमपि प्रभावातिशयबोधकत्वेन वर्णनार्हमिति पर्यायोक्तमेव । "राजन् राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते । इत्थं राजशुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा- च्चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते" ॥ ************* टीका ************* विज्ञप्रिया (वि, श) अप्रस्तुतकार्येण प्रस्तुतकारणव्यञ्जनरूपाया अप्रस्तुतप्रशंसाया उदाहरणं "राजन् राजसुता इत्यादिक "काव्यप्रकाशकृता दत्तम्॑ तत्रापि कार्यस्य प्रस्तुतत्वमेवेति केचिदाहुः तद्दर्शयितुमाह---राजन्निति । शत्रुजयोद्यतं राजानं प्रति तदमात्यस्योक्तिरियम् । तवारयः पलायिताः । तत्पुरीमध्येनैव वर्त्त्म प्रवृत्तम् । अतौऽध्वगैः पञ्जरान्मुक्तो राजशुकस्तदीयशून्यवच्भौ चित्रलिखितान् राजादीनवलोक्य एकैकमित्थमाभाषत इत्यर्थः । किमाभाषत इत्यत्राह---राजन्निति । देव्य इति सम्बोधनं यूयमपि तूष्णीं स्थिता इत्यर्थः । न तु राज्ञ इयमुक्तिरेकैकभाषणानुपपत्तेः । कुब्जा शुकभोजननियुक्ता काचिद्राजकुमारी । सचिवभोजनकाले तद्भोजननियमात्पृच्छतिकुमारेति । लोचना (लो, ए) कुब्जा अन्तः पुरवृद्धाः । कुमारसचिवाः कुमाराणां बालमित्रभूताः शिशवः । ********** टीका सम्पूर्णा ********** अत्र प्रस्थानेद्यतं भवन्तं श्रुत्वा सहसैवारयः पलायिता इति कारणं प्रस्तुतम् । "कार्यमपि वर्णनार्हत्वेन प्रस्तुतम्" इति केचित् । अन्ये तु--"राजशुकवृत्तान्तेन कोऽपि प्रस्तुतप्रभावो बोध्यत इत्यप्रस्तुतप्रशंसैव" इत्याहुः, ************* टीका ************* विज्ञप्रिया (वि, ष) केषाञ्चिन्मते अत्रारिपलायनरूपप्रस्तुतकारणस्य कार्यं शुकभाषणप्रस्तुतमेवेति तद्दर्शयति---अत्रेति । काव्य प्रकाशकृदभिप्रायं दर्शयति---अन्ये त्विति । राजशुकवृत्तान्तेनेति । शत्रुमारणकार्याश्रुबिन्दुपातनवत्शुकाभाषणस्य शत्रुपलायननियतकार्यत्वाभावेन सम्भोध्यराजप्रभावबोधकत्वाभावादित्यर्थः । महामारीवशादपि तत्पुरशून्यत्वसम्भवादिति भावः । पलायनकार्यत्वाभिप्रायेणत्वमात्येन कथनमुपपद्यते एव । वस्तुतस्तु अमात्यवाक्ये प्रस्तुतत्वमखण्डनीयमेव । ********** टीका सम्पूर्णा ********** सामान्यं वा विशेषण विशेषस्तेन वा यदि । कार्यं च कारणेनेदं कार्येण च समर्थ्यते ॥ १०.६१ ॥ साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः । ************* टीका ************* विज्ञप्रिया (वि, स) अष्टविधमर्थान्तरन्यासालङ्कारमाह---सामान्यं वेति । सामान्यभुक्त्वा विशेषेण, एवं, विशेषः सामान्येन, एवं कार्यं कारणेन कारणं वा कार्येण समर्थ्यते उचितत्वेन प्रतिपाद्यते इत्यर्थः । उक्तं यत्सामान्यं तद्विशेषे तथात्वदर्शनादुचितमिति बोधनं समर्थनरीतिः । इति चतुर्विधं समर्थनं समर्थ्यसमर्थकयोः साधर्म्येण तयोः परस्परवैधर्म्यरूपेणेतरेण वेत्यातोऽष्टधेत्यर्थः । ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्-- "बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति । सम्भूयाम्भोधिमभ्येति महानद्या नगापगा" ॥ अत्र द्वितीयार्धगतेन विशेषरूपेणार्थेन प्रथमार्धगतः सामान्योर्ऽथः सोपपत्तिकः क्रियते । ************* टीका ************* विज्ञप्रिया (वि, ह) तत्र सामान्यस्य विशेषेण समर्थनं साधर्म्येणाह---बृहदिति । कार्यान्तमुद्देश्यकार्यान्तम् । क्षोदीयान् क्षुद्रः । महानद्या सम्भूय मिलित्वेत्यर्थः । नागापगा पार्वतीयाल्पनदीनिर्झरः । अत्र द्वितीयार्धेति । क्षुद्रविशेषो नगापगा तद्रूपेणार्थेनेत्यर्थः । सामान्योर्ऽथः क्षुद्रसामान्यरूपः । अत्र कार्यान्तगामित्वं द्वयोः साधर्म्यम् । सोपपत्तिक इति । उपपत्तिरौचित्यं तद्विशिष्टत्वेन प्रतिपाद्यत इत्यर्थः । यद्यपि क्षुद्रसामान्यस्य नेदृशं समर्थनमुचितमित्यप्रतीतेः तथापि कार्यान्तगमनविशिष्टस्य तस्य तत्समर्थनं विशेषणांशमादायेति बोध्यं सविशेषणे विधिनिषेधाविति न्यायात् । एवमुत्तरत्रापि । अत्र च क्षुद्रविशेषस्य नगापगायाः कार्यान्तगामित्वदर्शनात्क्षुद्रसामान्यस्य कार्यान्तगामित्वमौचित्येन सम्भवतीति प्रतीतिः । एवं सर्वत्र । ********** टीका सम्पूर्णा ********** "यावदर्थपदां वाचमेवमादाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः" ॥ ************* टीका ************* विज्ञप्रिया (वि, क) सामान्येन विशेषसमर्थनं साधर्म्येणाह---यावदर्थेति । श्रईकृष्णस्योक्तिविरतिवर्णनमिदम् । यावान् विवक्षितोर्ऽथो यस्य तादृशापदामित्यर्थः । महीयांसो महान्तः । अत्रोक्तिविरति विशिष्टः श्रीकृष्णे विशेषः । मितभाषित्वे विशिष्टा महान्तः सामान्यम् । भाषाविरामः साधर्म्यं मितभाषित्वेऽस्यापि बहुभाषाविरामरूपत्वात् । कृष्णविशेषस्य भाषाविरतेः समर्थनमेवतस्य सगर्थनम् । ********** टीका सम्पूर्णा ********** "पृथ्वि ! स्थिरा भव भुजङ्गम् ! धारयैनां त्वं कूर्मराज ! तदिदं द्वितयं दधीथाः । दिक्कुञ्जराः ! कुरुत तत्नितये दिधीर्षां आर्यः करोति हरकार्मुकमाततज्यम्" ॥ अत्र कारणभूतं हरकार्मुकाततज्यीकरणं पृथिवीस्थैर्यादेः कार्यस्य समर्थकम् । ************* टीका ************* विज्ञप्रिया (वि, ख) कारणेन कार्यसमर्थनं साधर्म्येणाह---पृथ्वीरिति । कार्यकारणयोश्चाविरुद्धधर्मवत्त्वमेव साधर्म्यम् । विरुद्धधर्मवत्त्वञ्च वैधर्म्य बोध्यम् । धनुर्भङ्गकाले लक्ष्मणस्योक्तिरियम् । आर्यो रामो हरकार्भुकमाततज्यं यतः करोति ततः कारणात्पृथ्व्यादिकं स्थिरादिकं भवेत्यर्थः । एनां पृथ्वीम् । द्वितीयं पृथ्वीभुजङ्गमौ, तत्त्रितये पृथ्वीभुजङ्गमकूर्मराजत्रितये । दिधीर्षां धर्त्तुमिच्छाम् । अन्यथा तु आततज्यीकरणे यावान् भरः स्यात्तेन सर्वेषामस्थैर्यं स्यादित्यर्थः । अत्रेति । नच पृथ्वीस्थैर्यादेः कथमाततज्यीकरणस्य कार्यत्वमस्थैर्यादेरेव तत्कार्यत्वादिति वाच्यम् । अस्थैर्यादिसम्भावनया विशेषस्थैर्यधारणदेस्तत्कार्यत्वात् । नचैवमाततज्यीकरणात्पूर्वभूतस्य विशेषस्थैर्यादेस्तत्रापि कथं कार्यत्वमिति वाच्यम्तज्ज्ञानकार्यत्वे च तत्कार्यत्वोपचारात्नान्दीमुखस्य विवाहनिमित्तकत्ववत् । अत्रानयोः कार्यकारणयोश्चाविरुद्धतत्कार्यकारणतावच्छेदकधर्मवत्त्वं साधर्म्यम् । तादृशात्क्रारणात्पृथ्व्यादेः स्थिरीभवनादिकमुचितमित्येवं समर्थनं स्थिरीभावाद्युपदेश एक कार्यम् । तस्यौचित्यमेव समर्थनमित्यपि वदति । कार्यादिसमर्थनचतुष्कं हेत्वलङ्काररूपस्यैवेत्यतः काव्यप्रकाशकृता तदुपेक्ष्य चातुर्विध्यमेवार्थान्तरन्यासोक्तं कारणस्य जनकहेतुत्वात्कार्यस्य च ज्ञापकहेतुत्वात्, ग्रन्थकृता तु ततो भेदोऽस्य वक्ष्यते । ********** टीका सम्पूर्णा ********** "सहसा विदधीत न क्रियाम्" इत्यादौ सम्पद्वरणं कार्यं सहसा विधानाभावस्य विमृश्यकारित्वरूपस्य कारणस्य समर्थकम् । एतानि साधर्म्य उदाहरणानि । ************* टीका ************* विज्ञप्रिया (वि, ग) कार्येण कारणस्य समर्थनं साधर्म्येणाह---सहसेति । सहसा विमर्षणं विना क्रियां न विदधीत, यतोऽविवेकोऽविमृस्यकारिता परमापदां पदं स्थानम् । विमृश्यकारित्वे तु न केवलं नापदः किन्तु सम्पदश्चेत्याह---वृणते हीति । विमृश्यकारितागुणेनैव लोभः । अत्रेति । सम्पद्वरणकार्याद्विमृश्यकारित्वमुचितमिति समर्थनम् । ********** टीका सम्पूर्णा ********** वैधर्म्ये यथा-- "इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् । शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः" ॥ अत्र सामान्यं विशेषस्य समर्थकम् । ************* टीका ************* विज्ञप्रिया (वि, घ) विशेषेण सामान्यस्य समर्थनं वैधर्म्यैणेत्यस्योदाहरणमूह्यमिति वक्ष्यते । अतस्तदनुदाहृत्य सामान्येन विशेषसमर्थनमेव वैधर्म्येणोदाहरति---इत्थमिति । तारकासुरस्य भुवनत्रयक्तेशकत्वबोधके श्लोके भुवनत्रयक्लेशकत्वविशिष्टदुर्जनविशेषस्ताहकासुरः । आराध्यमानत्वतद्धर्मस्य विरुद्धधर्मः प्रत्ययक्रियमाणत्वं दुर्जनसामान्यस्य । एवं क्तेशकत्ववैधर्म्यं शान्तिः । क्तेशकत्वविशिष्टदुर्जनविशेषसमर्थनं क्तेशकत्वसमर्थनरूपमेव । विशेषणे हीति न्यायात् । भवति हि प्रत्यपकारेणैव दुर्जनस्य शान्तिः । तद्विरुद्धारध्यमानत्ववतो दुर्जनविशेषस्य तारकस्य भुवनक्तेशनमुचितमिति प्रतीतिः । ********** टीका सम्पूर्णा ********** "सहसा विदधीत-" इत्यत्र सहसा विधानाभावस्यापत्प्रदत्वं विरुद्धं कार्यं समर्थकम् । एवमन्यत् । ************* टीका ************* विज्ञप्रिया (वि, ङ) कारणेन कार्यसमर्थनं वैधर्म्येणेत्यस्योदाहरणमूह्यमिति वक्ष्यते । अतस्तदनुक्त्वा कार्येण कारणसमर्थनं वैधर्म्येणेत्यस्याप्युदाहरणं सहस्विदधीतेत्यत्रैवेत्याह---सहसेति । सहसा विधानाभावस्येति । कारणस्येत्यर्थः । आपत्पदत्वं समर्थकं कार्यम्, सम्पदा विरुद्धमिति विरुद्धधर्मवदित्यर्थः । अभावत्वभावत्वेऽत्र विरुद्धधर्मे । अत्र हि विमृष्यकारिण एव सम्पदावरणात्कार्यात्सहसा विधानाभाव उचित इति प्रतीतिः । एवमन्यदिति । विशेषणसामान्यसमर्थनं कारणेन कार्यसमर्थनञ्च वैधर्म्येण यदनुदाहृतं तदित्यर्थः । तत्र विशेषेण सामान्यसमर्थनं वैधर्म्येण यथा--- "गुणआनाभेव दौरात्म्याद्धुरि धूर्यो न युज्यते । असंजातकिणस्कन्धः सुखं स्वपति गौर्गलिः" ॥ इति । अस्यार्थः--धूर्यः आरोप्यमाणभारवहनसमर्थश्च प्राणी धुरि भारवहने नियुज्यते । तच्च गुणानामेव दौरात्म्याद्दौर्जन्याद्धूर्यत्वगुणस्य भारवहनदुः खप्रयोजकत्वात्तस्य दौर्जन्यम् । गुणाभावे तु तादृशं दुः खं न भवतीत्याह--असंजातेति । किणो युगघर्षणादुच्छूनभागः । असंजाततत्स्कन्धो गलिरलसो गौः सुखं स्वपिति, नतु धुरि नियुज्यते इत्यर्थः । अत्र धुरि नियुज्यमानधूर्यप्राणी सामान्यम्॑ अनियुज्यमानप्राणिविशेषेण गलिगवादियुज्यमानत्वविरुद्धधर्मेण सुखस्वापेन धूर्यविरुद्धधर्मेण गलित्वेन च समर्थितम् । अलसस्य सुखस्वपनशीलस्य धूर्यस्य धुरि नियुज्यमानत्वमुचितमिति प्रतीतेः नियोगसमर्थनमेव नियुज्यमानधूर्यसमर्थनं॑ "सविशेषणे हिऽ इति न्यायात् । कारणेन कार्यसमर्थनं वैधर्म्येण यथा--- "स विजिग्ये रणे सर्वान् राक्षसेन्द्रो बलोद्धतः । रामबाणकटुस्वादमनास्वाद्य हि तादृशः ॥ इति । अत्र हि रावणस्य विजयः कार्यं रामबाणकटुस्वादानास्वादेन कारणेन समर्थितम् । तदनास्वादेन तस्य विजय उचितस्तदास्वादे सति तदसम्भवादिति प्रतितेः । भावत्वाभावत्वे तयोर्वैधर्म्ये । ********** टीका सम्पूर्णा ********** हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते ॥ १०.६२ ॥ ************* टीका ************* विज्ञप्रिया (वि, च) काव्यलिङ्गालङ्कारमाह---क्रियाकारकभावेन समाप्तत्वे वाक्यं, असमाप्तत्वे पदम् । अयमेव हेत्वलङ्कारः काव्यहेतुश्चोत्यते । ********** टीका सम्पूर्णा ********** तत्र वाक्यार्थता यथा-- "यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये ! तव मुखच्छायानुकारी शशी । येऽपि त्वद्रमनानुकारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते" ॥ अत्र चतुर्थपादे पादत्रयवाक्यानि हेतवः । ************* टीका ************* विज्ञप्रिया (वि, छ) यत्त्वन्नेत्रेति । वर्षासु भावनोपनीतां रावणोपहृतां सीतां सम्बोध्य रामस्येयमुक्तिः । हे प्रिये ! त्वत्सादृश्येनार्थाद्दृश्यमानेन यो विनोदस्तन्मात्रमपि मे दैवेन न क्षम्यते । ननु नीलोत्पलचन्द्रहंसगतिषु त्वन्नेत्रमुखसादृश्यानि विलोक्यन्तामित्यत आह । यत्त्वन्नेत्रेति । वर्षाकालंवशात्नीलोत्पलं जलमग्नं, चन्द्रो मेघान्तरितः, राजहंसाश्च मानसं गता इत्यर्थः । पादत्रयवाक्यानीति । वाक्यत्रयस्यैव क्रियाकारकभावेन समाप्तत्वाधेतव इत्यत्र हेत्वर्थका इत्यर्थः । ********** टीका सम्पूर्णा ********** पदार्थता यथा मम-- "त्वद्वजिराजिनिर्धूतधूलीपटलपङ्किलाम् । न धत्ते शिरसा गङ्गां भूरिभारभिया हरः" ॥ अत्र द्वितीयार्धे प्रथमार्धमेकपदं हेतुः । ************* टीका ************* विज्ञप्रिया (वि, ज) त्वद्वाजीति । निर्द्धूत उद्धूतः । न धत्ते इत्युत्प्रेक्षितम् । एकपदमिति । पङ्किलामित्यन्तं क्रियानन्वयेनासमाप्त्या समासेन चैकपदमित्यर्थः । ********** टीका सम्पूर्णा ********** अनेकपदं यथा मम-- "पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम् । देव ! त्रिपथगात्मानं गोपयत्युग्रमूर्धनि" ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) पश्यन्त्यसंख्येति । अत्रापि गोपायतीत्युत्प्रेक्षितम् । अत्र पश्यन्तीत्यसंख्यपथ्गामिति त्वद्दानजलवाहिनीमिति च पदादेव क्रियानन्वयेनासमाप्तत्वात्पथत्रयगमनापेक्षया असंख्यापथगमनोक्तर्षेण तद्दर्शनं गोपनहेतुः । ********** टीका सम्पूर्णा ********** इह केचिद्वाक्यार्थगतेन काव्यलिङ्गेनैव गतार्थतया कार्यकारणभावेर्ऽथान्तरन्यासं नाद्रियन्ते । तदयुक्तम्, तथा ह्यत्र हेतुस्त्रिधा भवति--ज्ञापको निष्पादकः समर्थकश्चेति । तत्र ज्ञापकोऽनुमानस्य विषयः, निष्पादकः काव्यलिङ्गस्य, समर्थकोर्ऽथान्तरन्यासस्य, इति पृथगेव कार्यकारणभावेर्ऽथान्तरन्यासः काव्यलिङ्गात् । ************* टीका ************* विज्ञप्रिया (वि, ञ) काव्यप्रकाशकृदभिप्रेतार्थमाह---इह केचिदिति । वाक्यार्थगतेनेति । कार्यकरणसमर्थेन यान्युदाहरणानि दर्शितानि तत्र हेतूनां वाक्यार्थमात्रगतत्वाज्ज्ञापकोऽनुमानस्य विषय इति । इदं तु काव्यप्रकाशकृद्विषयविभागमनादृत्यैव लिखितं तन्मते हि प्रश्रस्यैव ज्ञापको हेतुर्न हेत्वलङ्कारः, तत्रोत्तरालङ्कारेणाघ्रातत्वात् । अन्यत्र तु जनको ज्ञापकश्च हेतुर्हेत्वलङ्कार एव । अत एव--- "भस्मोद्धूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरम्परां गिरिसुताकान्तालयालङ्कृतिम् । अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा- ल्लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे" ॥ इति श्लोके सुखालोकच्छेदित्वं मोक्षस्य महामोहत्वे हेतुरित्युक्त्या हेत्वलङ्कारोदाहरणतया उदाहृतम् । तत्र मोक्षस्य महामोहताया अलीकत्वेन सुखालोकच्छेदित्वस्य जनकहेतुत्वासम्भवेन ज्ञापकहेतुत्वादेव । अनुमानं तु साध्यसाधनयोरेकधर्मिगतत्वेन निर्देशे सति हेतोर्हेतुत्वेन निर्देशे सत्येव । इह तु सुखालोकाच्छेदिनीत्यनेन हेतोरेव निर्देशो नतु हेतुत्वेन । भवताप्यनुमानोदाहरणतया वक्ष्यमाणेषु श्लोकेषु हेतूनां हेतुत्वेनैव निर्देशात्नहि "पर्वातो वह्निमान् धूमात्ऽ इत्युक्तेऽनुमानम् । तस्माद्ज्ञापकहेतुमात्रं नानुमानालङ्कारस्य विषयः, किन्तु दर्शितहेतुरेव । अतो ज्ञापकहेतुमात्रस्यानुमानस्यानुमानत्वमुक्तमित्युक्तम् । निष्पादकः काव्यलिङ्गस्येति । इदमपि "भस्मोद्धूलनेऽ त्यादौ न सम्भवतीत्यवधेयम् । त्वद्वाजिराजीत्यत्र पश्यन्त्यसंख्येत्यत्र च हेतोर्निष्पादकत्वासम्भवादुत्प्रेक्षा । ********** टीका सम्पूर्णा ********** तथाहि--"यत्त्वन्नेत्र-" इत्यादौ चतुर्थपादवाक्यम्, अन्यथा साकाङ्क्षतयासमञ्जसमेव स्यातिति पादत्रयगतवाक्यं निष्पादकत्वेनापेक्षते । ************* टीका ************* विज्ञप्रिया (वि, ट) यत्त्वन्नैत्रसमानकान्तीत्युक्तहेत्वलङ्कारोदाहरणे दैवाक्षमां प्रति नीलोत्पलादीनां सलिलमग्नत्वादेर्जनकहेतुत्वासम्भवात्कष्टसृष्ट्या जनकत्वमुपपादयितुमाह । तथाहि "यत्त्वन्नेत्रेतिऽ चतुर्थपादवाक्यं दैवाक्षमाबोधकम्, अन्यथा यत्त्वन्नेत्रेत्यादिहेत्वनुपादानेऽसमञ्जसं हेत्वाकाङ्क्षासत्त्वेनानिवृत्ताकाङ्क्षम् । पादत्रयवाक्यमित्यत्र वाक्यार्थमित्यर्थः । निष्पादकत्वेन निराकाङ्क्षबोधविशिष्टतया दैवाक्षमानिष्पादकत्वेन । तथा च ईदृशबोधविषयतारूपविशेषणांशनिष्पादकत्वेन सविशेषणन्यायाद्विशेष्टनिष्पादकत्वमित्युक्तम् । इदं न रुचिरमुक्तम् । ज्ञापकांशविषयताजनकत्वेन तद्विषयजनकत्वस्वीकारेऽनुमानालङ्कारे प्र)ज्ञापकालङ्कारे च तदापत्तेः । तस्मादीदृशकष्टसृष्टिमनादृत्य काव्यप्रकाशकृता कार्यकारणसमर्थनेर्ऽथान्तरन्यासोऽनादृतः । स एव ज्यायान् । ********** टीका सम्पूर्णा ********** "सहसा विदधीत-" इत्यादौ तु-- "परापकारनिरतैदुर्जनैः सह सङ्गतिः । वदामि भवतस्तत्त्वं न विधेया कदाचन" ॥ इत्यादिवदुपदेशमात्रेणापि निराकाङ्क्षतया स्वतोऽपि गतार्थं सहसा विधानाभावं सम्पद्वरणं सोपपत्तिकमेव करोतीति पृथगेव कार्यकारणभावेर्ऽथान्तरन्यासः काव्यलिङ्गात् । ************* टीका ************* विज्ञप्रिया (वि, ठ) नन्वेवं "सहसा विदधीतेऽ त्यादावपि "वृणते हिऽ इत्यादिपदार्धं विना पूर्वार्धवाक्यं साकाङ्क्षमित्यत उक्तरित्या तत्रापि काव्यलिङ्गमेव स्यान्नार्थन्तरन्यास इत्यर्थः । तत्र तादृशाकाङ्क्षा नास्तीत्याह---सहसेत्यादि । उपदेशमात्रेणापि निराकाङ्क्षतया वृणते हि इत्यादावाकाङ्क्षाराहित्येनापि गतार्थं चरितार्थमित्यतः सहसा विधानाभावं कर्मभूतं सम्पद्वरणं कर्त्तृ सोपपतिकमेव कुरुते । ननु आकाङ्क्षाबलाद्धेतुर्भवतीत्यर्थः । तत्रोपदेशताया दृष्टन्तमाह---परापकारनिरतैरिति । तत्र "न विधेयेऽ ति कृत्यप्रत्ययादिनात्रापि "विदधीतेऽ त्यत्र विधिप्रत्ययादुपदेशप्रतीतिरित्यर्थः । परापकारेत्यादौ समर्थनीयानिर्देशात्नास्त्येव तत्रार्थान्तरन्यास इति विशेषः । इदं त्ववधेयम्--सहसेत्यादावुपदेशरूपत्वेन चरितार्थत्वान्मा भवतु तद्धेत्वलङ्कारः । पृथ्वि स्थिरा भवेत्यादौ सिद्धे स्थैर्ये उपदेशसम्भवात्कार्मुकज्याततीकरणं हेतुमपेक्षते एवेति तत्र हेत्वलङ्कारप्रसक्तिर्दुर्वारैव । ********** टीका सम्पूर्णा ********** "न धत्ते शिरसा गङ्गां भूरिभारभिया हरः । त्वद्वाजिराजिनिर्धूतधूलिभिः पङ्किला हि सा" ॥ इत्यत्र हिशब्दोपादानेन पङ्किलत्वादितिवद्धेतुत्वस्य स्फुटतया नायमलङ्कारः, वैचित्र्यस्यैवालङ्कारत्वात् । ************* टीका ************* विज्ञप्रिया (वि, ड) यत्र जनकहेतोर्हेतुत्वेनैव निर्देशस्तत्र वैचित्र्याभावान्न हेत्वलङ्कार इत्याह--नि धत्त इत्यादि । अत्र "हि" शब्दोहेतुताबोधक इत्याह---हि शब्द इति । लोचना (लो, ऐ) अत्र हेतुस्त्रिधा भवति, त्रैविध्येन अलङ्कारणां विषयविभागस्थापनात्कथं त्रिधेत्याह । ज्ञापकः सिद्धत्वेनैवानिर्दिष्टस्याप्रतीतस्य प्रत्यायकः । यत्र साध्यसाधकत्वाकारेण हेतुमतोर्निर्देशः, यथा "यत्र पतत्यबलाना" मित्यादौ शरापातेन मदनधावनस्यानिष्पादकः साकाङ्क्षत्वेन सिद्धस्य साधकः । यथा---सहसा विदधीत न क्रियामित्यादौ । अन्यथा यत्त्वन्नेत्र इत्यादि पादत्रयं विनासमञ्जसं स्यात्तदैवास्य विरहिणो नायिकासादृश्यविनोदासहत्वस्य स्वतोऽप्रतीतेः । स्वतोऽपि समर्थकत्वाद्वाक्याभावेऽपीत्यर्थः । गतार्थं--यत्त्वन्नेत्रेत्यादिवैलक्षण्येन निराकाङ्क्षताया प्रतीताभिधेयम् । उक्तमेव द्रढयति---पृथगेवेति । स्फुटतयाभिधेयविषयतया, वैचित्र्यस्यालौकिकविच्छित्तेः । इदञ्च काव्यलिङ्गस्य हेतुर्वैचितर्यावहनेन न निवर्त्तत इति काव्यलिङ्गाख्यमलङ्करणम् । ********** टीका सम्पूर्णा ********** अनुमानं तु विच्छित्त्या ज्ञानं साध्यस्य साधनात् । ************* टीका ************* विज्ञप्रिया (वि, ढ) अनुमानालङ्कारमाह---अनुमानं त्विति । विचिछत्त्या भङ्ग्या साधनाद्साध्यस्य ज्ञानमित्यर्थः । भङ्गी चाहार्यारोपरूपा॑ वह्निमान् धूमादित्यस्य वारणाय तत् । अत्र साध्यसाधनयोरेव धर्मिगतत्वं काव्यप्रकाशकृदुक्तं विशेषणं देयमेव । अन्यथा धनुराततज्यीकरणरूपहेतुपृथ्वीस्थैर्ययोर्धर्मिभेदेऽपि पृथ्वी स्थिरेत्यादौ अतिप्रसक्त्यापतेतेः । लोचना (लो, ओ) विच्छित्त्या कविप्रतिभोत्थापितेन वैचित्र्येण । वह्निमान् धूमवत्त्वादित्यादौ लौकिकोक्तिमात्रे सधर्मिण्ययोगव्यवच्छेदः । व्यापकस्य साध्यत्वम् । पक्षसत्त्वसपक्षसत्त्वविपक्षव्यावृत्तत्वविशिष्टो हेतुः साधनम् । एवं शब्दवृत्तेनापि यत्र साध्यसाधनत्वाकारेण निर्देशस्तत्रानुमानालङ्कारः । काव्यलिङ्गे त्वर्थानुसन्धानादेव हेतुहेतुमद्भावप्रतीतिः । ********** टीका सम्पूर्णा ********** यथा-- "जानीमहेऽस्या हृदि सारसाक्ष्या विराजतेऽन्तः प्रियवक्त्रचन्द्रः । तत्कान्तिजालैः प्रसृतैस्तदङ्गेष्वापाण्डुता कुड्मलताक्षिपद्मे" ॥ अत्र रूपकवशाद्विच्छित्तिः । ************* टीका ************* विज्ञप्रिया (वि, ण) पाण्डोर्घूर्णमाननेत्राया विरहिण्या वर्णनमिदम् । जानीमहे अनुमिनुम इत्यर्थः । अस्या अन्तरित्यन्वयः । इयमन्तः प्रियवक्त्रचन्द्रवती तत्कान्त्यधीनपाण्डुदेहकुड्मलितनेत्रपद्मत्त्वादित्यनुमानम् । अत्र विच्छित्तिं ग्राहयति--अत्र रूपकेति । मुखनेत्रायोश्चन्द्रपद्मरूपकमङ्गपाण्डुपाण्डुत्वांशेऽपह्नुतिरपि बोध्या । लोचना (लो, औ) तस्य चन्द्रस्य कान्तिजालैः । तत्तस्मात्रूपकवशादक्ष्णेः पद्मत्वप्रयोजितं रूपकालङ्कारमन्तर्भाव्योक्तत्वाम् । ********** टीका सम्पूर्णा ********** यथा वा-- "यत्र पतत्यबलानां दृष्टिर्निशिताः पतन्ति तत्र शराः । तच्चापरोपितशरो धावत्यासां पुरः स्मरो मन्ये" ॥ अत्र कविप्रौढोक्तिवशाद्विच्छित्तिः । उत्प्रेक्षायामनश्चिततया प्रतीतिः, इह तु निश्चिततयेत्युभयोर्भेदः । ************* टीका ************* विज्ञप्रिया (वि, त) विच्छित्त्यन्तरेणाप्युदाहरति---यत्र पततीति । शरा इत्यत्र स्मरीयशरत्वबोधकवेलक्षण्यं बोध्यम् । मन्ये इत्यत्रानुमिनुम इत्यर्थः । अबलाश्चारोपितशरस्मरपुरः सराः स्वदृष्टिपातविशिष्टदिक्पतन्निमित्तशरकत्वादित्यनुमानम् । शरेषुपुष्पमयत्वं बोध्यम् । तेषां निशितत्वं तु आरोप्यम् । उत्प्रेक्षाविशेषादस्य भेदमाह---उत्प्रेक्षायामिति । हेतूत्प्रेक्षायामित्यर्थः । एवञ्च दर्शितोदाहरणद्वये "जानीमहे" "मन्ये" इति पदयोरुत्प्रेक्षावाचकत्वे तद्द्वये उत्प्रेक्षा नैवेति बोध्यम् । तत्पदद्वयाभावे तु द्वयोः सन्देहसङ्कर इति च बोध्यम् । लोचना (लो, अ) न केवलमलङ्कारन्तराश्रयेणैव विच्छत्तिरेतदलङ्कारप्रयोजिकेत्युदाहरणान्तरं दर्शयति---यथा वेति । अन्योरुदाहरणयोर्हृदये प्रयसद्भावस्य स्मरधावनस्य च कारणरूपस्य साध्यस्यापि पद्मकुड्मलता शरपतनञ्च साधनं यथा पर्वतोऽयं वह्निमान् धूमवत्त्वादित्यादौ । एवम् । "आरूढः पतित इति स्वसम्भवेऽपि स्वच्छानां परिहरणीयतामुपैति । कर्णेभ्यश्च्युतमसितोत्पलं वधूनां वीचीभिस्तटमनु यन्निरासुरापः" ॥ अत्र स्वच्छानां पतितपरिहाररूपसामान्यस्य जलानामसितोत्पले निरसनरूपो विशेषरूपः साधनम् । यथा वृक्षोऽयं शिंशपात्वादित्यादौ । एवं चास्य विच्छित्तिविशेषस्य वितर्काख्यभिन्नालङ्कारप्रयोजकत्व । निरूपणप्रयासो राघवानन्दानामविचारमूल एव । अनिश्चिततयानिर्द्धरितत्वेन सम्भावनोत्थानादिति भावः । निश्चिततया पर्वतोऽयं वाह्निमानित्यादौ वह्निमत्त्वादिवत् । ********** टीका सम्पूर्णा ********** अभेदेनाभिधा हेतुर्हेतोर्हेतुमता सह ॥ १०.६३ ॥ यथा मम--"तारुण्यस्य विलासः--" इत्यत्र वशीकरणहेतुर्नायिकावशीकरणत्वेनोक्ता, विलासहासयोस्त्वध्यवसायमूलोऽयमङ्कारः । ************* टीका ************* विज्ञप्रिया (वि, थ) काव्यलिङ्गतिरिक्तमपरमपि हेतुसंज्ञकमलङ्कारमाह---अभेदेनेति । हेतुमता कार्येण सह हेतोरभेदेनाभिधाभिधानं हेतुनामालङ्कार इत्यर्थः । तारुण्यस्येत्यादौ तद्दर्शयति---वशीकरणेति । विलासहासतांशे कार्यकारणभावादाह---विलासेति । विलासादिस्तारुण्यादिजन्य एव नायिकायाः परम्परायाः कारणत्वाद्योऽभेदाध्यासस्तन्मूलस्तच्छोभितोऽयमित्यर्थः । बहुषु तत्पात एव शोभेत्यभिप्रायः । अत्र च शुद्धसारोपा लक्षणैव, नह्ययमलङ्कार इति काव्यप्रकाशकृत् । लोचना (लो, आ) अभेदेनाभिधानं समानधिकरणनिर्देशादिति भावः । हेतुर्हेत्वाख्योऽलङ्कारः । कार्यकारणविच्छित्त्याश्रयेणानुमानानन्तरमस्य प्रस्तावः । अध्यवसायमूलः । वैचित्र्यं विजृम्भणस्य विलासत्वेन प्रचुरतरोल्लासस्य हासत्वेनाध्यवसायात् । ********** टीका सम्पूर्णा ********** अनुकूलं प्रातिकूल्यमनुकूलानुबन्धि चेत् । ************* टीका ************* विज्ञप्रिया (वि, द) अनुकूलसंज्ञकमलङ्कारन्तरमाह---अनुकूलमिति । प्रातिकूल्य यद्यनुकूलस्य इष्टार्थसायनुबन्धि जनकमित्यर्थः । लोचना (लो, इ) अनुकूलमित्यलङ्कारनाम । अनुकूलानुबन्धि आनुकूल्यावहम् । अस्यापि कारणवैचित्र्यमूलत्वेन हेत्वलङ्कारान्तरं लक्षणम् । अस्य सागस इत्यर्थः । ********** टीका सम्पूर्णा ********** यथा-- "कुपितासि यदा तन्वि ! निधाय करजक्षतम् । बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा" ॥ अस्य च विच्छित्तिविशेषस्य सर्वालङ्कारविलक्षणत्वेन स्फुरणात्पृथगलङ्कारत्वमेव न्याय्यम् । ************* टीका ************* विज्ञप्रिया (वि, ध) कुपितासीति---मानिनीं प्रति सख्या उक्तिरियम् । यदीत्यथे यदा । हे तन्वि ! यदि कुपितासि तदा करजक्षतं विधाय भुजपाशाभ्यामस्य नायकस्य कण्ठं दृढं बधान इत्यर्थः । अत्र करजक्षतभुजपाशबन्धौ प्रतिकूलौ॑ नायकप्रीतेः अभीष्टस्यानुबन्धि । अत्रानुकूलपदार्थस्य व्यङ्ग्यत्वम् । क्वचित्तु तस्य वाच्यत्वमपि । "अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे । यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥ " अत्राभिमतशब्दस्येष्ठपदत्वं वाच्यम् । अन्यैरनुक्तस्यालङ्कारस्य स्वीकारबीजमाह---अस्य चेति । ********** टीका सम्पूर्णा ********** वस्तुनो वक्तुमिष्टस्य विशेषप्रतिपत्तये ॥ १०.६४ ॥ निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा । ************* टीका ************* विज्ञप्रिया (वि, न) चतुर्विधमाक्षेपालङ्कारमाह---वस्तुन इति । वक्तुमिष्टस्य वस्तुनो निषेधाभासोऽनिषेधाभिप्रायत्वेन निषेधाभास आक्षेपालङ्कार इत्यर्थः । निषेधाभासस्य फलमाह---विशेषप्रतिपत्तये इति । प्रथमं तस्य द्वैविध्यमाह---वक्ष्यमाणेति । वक्ष्यमाणस्य उक्तस्य वा वक्तुमिष्टस्य निषेधाभास इत्यर्थः । उक्तस्य वक्तुमिष्टस्य चोक्तिः प्राचीनेच्छाविषयत्वात् । लोचना (लो, ई) सम्प्रत्यर्थस्य गम्यत्ववैशिष्ट्येनावशिष्टमाक्षेपालङ्कारमाह--वस्तुन इति । अयमर्थः-विवक्षितस्य वस्तुनः प्राकरणिकत्वादयुक्तो निषेधः कुतः सन् बाधितस्वरूपो यत्राभासतामवगमयति स आक्षेपोऽलङ्कारः । न चात्र निष्फल इत्याह---विशेष इति । प्रकृतनिष्ठत्वेन विशेषस्य प्रतिपत्तये इत्यर्थः । सत्तासमानो निषेधः । क्वचिद्वक्ष्यमाणविषयः क्वचिदुक्तविषय इति द्विविध आक्षेपोऽलङ्कारः । ********** टीका सम्पूर्णा ********** तत्र वक्ष्यमाणविषये क्वचित्सर्वस्यापि सामान्यतः सूचितस्य निषेधः क्वचिदंशोक्तावंशान्तरे निषध इति द्वौ भेदौ । उक्तविषये च क्वचिद्वस्तुस्वरूपस्य निषेधः, क्वचिद्वस्तुकथनस्येति द्वौ, इत्याक्षेपस्य चत्वारो भेदाः । क्रमेण यथा-- "स्मरशरशतविधुराया भणामि संख्याः कृते किमपि । क्षणमिह विश्रम्य सखे ! निर्दयहृदयस्य किं वदाम्यथवा" ॥ अत्र सख्या विरहस्य सामान्यतः सूचितस्य वक्ष्यमाणविषये निषेधः । ************* टीका ************* विज्ञप्रिया (वि, प) स्मरशरेति । नायिकाया विरहावस्थां नायके विवक्षोस्तत्सख्या उक्तिरियम् । सखीपतित्वेन सखे ! इति सम्बोधनम् । क्षणमिह विश्रम्य भणामीत्यन्वयः । कथनीयबाहुल्याद्विश्रमपूर्वकत्वकथनम् । निर्दयहृदयेषु युष्मादृशेष्वित्यर्थः । अत्रेति । विरहस्य विरहावस्थायाःवक्ष्यमाणे विशेषे पाण्डुत्वकृशत्वादौ निर्दयहृदयत्वेन तु सामान्यतः सूचनम् । निषेधाभासवशाच्च तस्या वश्यमरणरूपविशेषप्रतिपत्तिः । लोचना (लो, उ) सर्वत्रापि वक्ष्यमाणस्य विरहस्य सामान्यतः सूचनं स्मरशरविधुराया इति प्रतिपादनात् । वक्ष्यमाणो विरहिण्यास्तत्तदवस्थाविशेषाणामकथनात् । ********** टीका सम्पूर्णा ********** "तव विरहे हरिणाक्षी निरीक्ष्य नवमालिकां दलिताम् । हन्त ! नितान्तमिदानीमाः किं हतजल्पितैरथवा" ॥ अत्र मरिष्यतीत्यंशो नोक्तः । ************* टीका ************* विज्ञप्रिया (वि, फ) अंशनिषेधाभासमाह---तव विरह इति । नितान्तमिदानीमिति । अन्यदा उद्दीपकविकसितमल्लिकादर्शनादक्षितजीवना ह्यासीत् । इदानीं तु मरिष्यतीत्यस्यांशस्यानुक्तस्य निषेधाभासः । वीक्ष्येत्यंशस्तूक्तः । एवं निषिद्धोक्तिविषयस्य मरणस्याशक्यवक्तव्यत्वरूपस्य विशेषस्य प्रतिपत्तिस्तत्फलम् । ********** टीका सम्पूर्णा ********** "बालअ ! णाहं दूती तुअ पिओसि त्ति ण मह वावारो । सा मरै तुज्झ अअसो एत्नं धम्मक्खरं भणिमो" ॥ अत्र दूतीत्वस्य वस्तुनो निषेधः । ************* टीका ************* विज्ञप्रिया (वि, ब) उक्तनिषेधविषये वक्तुमित्यस्य वस्तुस्वरूपस्य निषेधमाह---बालअ इति । "बालक नाहं दूती तिष्ठ प्रियोऽसीति न मम व्यापारः । सा म्रियते तवायशः एतद्धर्माक्षरं भणामः ॥ इति । धर्मानभिज्ञात्वेन धर्मवक्त्रया बालकत्वेन सम्बोधितः । धर्मकथनमात्रस्योद्देश्यत्वसूचनाय आत्मनो दूतीत्वनिषेदः । नायिकायाः प्रवृत्त्यनुमतिरपि मम नास्तीत्येतत्सूचनाय तिष्ठेत्युक्तम् । तथा प्राणिमात्रधर्मो वक्तव्यस्तत्र स्वप्रियत्वमन्यजनप्रियत्वं वा न प्रयोजकमित्येतत्सूचनाय प्रियोऽसीत्युक्तम् । तस्या मम वा प्रियोऽसीति नेत्यर्थः । अत्र सा म्रियते इत्युक्तविषये वक्तुमिष्टस्यात्मनो दूतीत्वस्य वस्तुना एव निषेधो नतु तदुक्तेः । नच दूतीत्वनिषेधः कथमुक्तमरणविषयक इति वाच्यम् । मरणव्यावर्त्तकदूतीत्वविषयत्वेन परम्परया तद्विषयत्वातत्राधर्मतो निवृत्तये यथार्थवादित्वस्य विशेषस्य प्रतिपत्तिः । ********** टीका सम्पूर्णा ********** "विरहे तव तन्वङ्गी कथं क्षपयतु क्षपाम् । दारुणव्यवसायस्य पुरस्ते भणितेन किम् ?" ॥ अत्र कथनस्योक्तस्यैव निषेधः । ************* टीका ************* विज्ञप्रिया (वि, भ) उक्तिनिषेधमाह---विरहे इति । अत्रोक्तस्य क्षपाक्षपणासामर्थ्यस्य उक्तेरेव निषेधः । अत्रेति । अत्र कथनस्योक्तस्यैवेत्यत्र उच्चारितस्यैवेत्यर्तः । अत्र तद्व्यङ्ग्यदुः खातिशयस्य विशेषस्य प्रतिपत्तिः । ********** टीका सम्पूर्णा ********** प्रथमोदाहरणे संख्या अवश्यम्भाविमरणमिति विशेषः प्रतीयते । द्वितीयेऽशक्यवक्तव्यत्वादि, तृतीये दूतीत्वे यथार्थवादित्वम्, चतुर्थे दुः खस्यातिशयः । न चायं विहितनिषेधः, अत्र निषेधस्याभासत्वात् । ************* टीका ************* विज्ञप्रिया (वि, म) उक्तश्लोकचतुष्टये उक्तरूपविशेषप्रतिपत्तिं दर्शयति---अत्र प्रथममिति । तृतीये दूत्या इत्येव सम्यक्पाठः । तथा च दूतीरेव सतीत्यर्थः । ननु "कर्त्तव्यं प्रत्यहं स्त्रानं नतु रात्रौ कदाचनऽ इत्यत्र विहितस्य प्रत्यहस्नानस्य रात्रौ निषेधवद्विधिनिषेध एवायम् । स च नालङ्कारतां भजत इत्याशङ्कते--न चेति । समाधत्ते---अत्रेति । वास्तवनिषेधस्यैवानलङ्कारत्वम्॑ निषेधाभासस्य तु अलङ्कारत्वमेवेति भावः ॥ लोचना (लो, ऊ) अत्र च विहितनिषेधेन विच्छित्तेरभावात्क्षुद्रत्वाद्यलङ्कारमध्ये काव्यप्रकाशकारादिभिर्लाक्षितेन साङ्कर्यभ्रमं निरस्यति--न चायमिति । अत्र विहितनिषेधे । यथा--- "बाणेन हत्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य । इत्यर्थनीयः शबराधिराजः श्रीखण्डपृथ्वीधरकन्दरस्थः" ॥ "यद्वा मृषा तिष्ठतु दैन्यमेत- न्नैच्छन्ति वैरं मरुता किराताः । कीलिप्रसङ्गे शवराङ्गनानां स हि श्रमग्लनिमपाकरोति" ॥ इह हि प्रथमपद्योक्तस्य द्वितीयपदेन निषेधस्तात्त्विक एव । एवञ्च निषिद्धविधिनापि नास्य साङ्कर्यं, स हि यथा--- "क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्" ॥ "मन्दः कवियश- प्रेप्सुर्गमिष्याम्युपहास्यताम् । प्रांशुलभ्ये फले लोभादुद्वाहुरिव वामनः" ॥ "अथवा कृतवग्द्वारे वंशेऽस्मिन् पूर्वसूरिभिः । मणौ वज्रसमुत्कीर्णो सूत्रस्थे वास्ति मे गतिः" ॥ अत्र पद्यद्वयोक्तनिषेधस्य तृतीयपद्येन विधाने निषेधस्याभासता एव । ********** टीका सम्पूर्णा ********** अनिष्टस्य तथार्थस्य विध्याभासः परो मतः ॥ १०.६५ ॥ ************* टीका ************* विज्ञप्रिया (वि, य) अन्यविधमाक्षेपालङ्कारमाह---अनुष्टस्येति । अनिष्टस्यार्थस्य विध्याभासो निषेधबोधको विधिस्तथा पूर्वोक्तवत्विशेषप्रतिपत्तये चेत्तदापर आक्षेपालङ्कार इत्यर्थः । लोचना (लो, ऋ) एवमीषन्निषेधाभासाश्रयमेकमाक्षेपमुक्त्वा तद्विपरीतमनिष्ठविध्याभासं द्वितीयमाह---अनिष्टस्येति । अयमर्थः । यथेष्टस्य निषेधस्तथनिष्टस्य निधिरनुपपद्यमान आभासे पर्यवसायी द्वितीयाक्षेपालङ्कारबीजमिति । ********** टीका सम्पूर्णा ********** तथेति पूर्ववद्विशेषप्रतिपत्तये । यथा-- "गच्छ गच्छसि चेत्कान्त ! पन्थानः सन्तु ते शिवाः । ममापि. जन्म तत्रैव भूयाद्यत्र गतो भवान्" ॥ अत्रानिष्टत्वाद्रमनस्य विधिः प्रस्खलद्रूपो निषेधे पर्यवस्यति । विशेषश्च गमनस्यात्यन्तपरिहार्यत्वरूपः प्रतीयते । ************* टीका ************* विज्ञप्रिया (वि, र) "गच्छ गच्छसि चेत्कान्तऽ इत्यत्र जन्मकथनान्मरणं व्यङ्ग्यम् । प्रस्खलद्रूप इति---अविधीभवद्रूप इत्यर्थः । विशेषप्रतिपत्तिं दर्शयति---विशेषश्चेति । लोचना (लो, ॠ) अत्यन्तपरिहार्यरूपः ममापीत्यादिना द्वितीयार्धेन व्यञ्जितः । यतत्र--- यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि सादरं वचः । खण्डिताधरकलङ्कितश्रियं शक्नुमो न नयनैर्निरीक्षितुम् ॥ ऽ इति राघवानन्दैरुदाहृतं तदसमञ्जसम् । अत्रोदाहरणवत्सर्वथा न यात्विति तथाविधापराधकाले नायिकाया निषेधाभासस्य मूढानामपि बुद्ध्यनारोहात् । ********** टीका सम्पूर्णा ********** विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते । उक्तानुक्तनिमित्तत्वाद्द्विधा सा परिकीर्तिता ॥ १०.६६ ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) विभावनालङ्कारमाह---विभावनेति । हेतुं हेत्वाभासम् । कार्योत्पत्तिस्तदीयकारणविशेषादिवाच्यम् । उक्तानुक्तेतिनिमित्तं कार्योत्पत्तेः । व्याचष्टे---विना कारणमिति । लोचना (लो, ळ) अस्य चाक्षेपस्य विरोधाश्रयत्वेन तदनन्तरं विरोधमूलालङ्कारप्रदर्शनं प्रक्रियते---विभावनेति । उच्यते चमत्कारप्रतिपत्तये कविना निबध्यते यस्य कस्यचित्कारणस्याभावं दर्शयित्वेत्यर्थः । एवमन्येषु एवंविधस्थलेषु सूत्रार्था नेयाः । तत्त्वतः सर्वथाकारणाभावे कार्योत्पत्तेरविद्यमानत्वात् । उक्तेति । सा विभावना उक्तनिमित्ता अनुक्तनिमित्ता चेत्यर्थः । ********** टीका सम्पूर्णा ********** विना कारणमुपनिबध्यमानोऽपि कार्योदयः किञ्चिदन्यत्कारणमपेक्ष्यैव भवितुं युक्तः । तच्च कारणान्तरं क्वचिदुक्तं क्वचिदनुक्तमिति द्विधा । यथा-- "अनायासकृशं मध्यमशङ्कतरले दृशौ । अभूषणमनोहारि वपुर्वयसि सुभ्रुवः" ॥ ************* टीका ************* विज्ञप्रिया (वि, व) अनायासेति । मध्यो मध्यभागः । अशङ्के शङ्कयैव तारतम्यौचित्यात् । ********** टीका सम्पूर्णा ********** अत्र वयोरूपनिमित्तमुक्तम् । अत्रैव "वपुर्भाति मृगीदृशः" इति पाठेऽनुक्तम् सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा । लोचना (लो, ए) फलाभावः शब्देनोपनिबद्ध इत्यादि पूर्ववत् । ********** टीका सम्पूर्णा ********** तथेत्युक्तानुक्तनिमित्तत्वात् । तत्रोक्तनिमित्ता यथा-- "धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः । प्रभवोऽप्यप्रमत्तास्ते महामहिमशालिनः" ॥ ************* टीका ************* विज्ञप्रिया (वि, श) विशेषोक्त्यलङ्कारमाह--सति हेताविति । उक्ते सीत्यर्थः, फलाभावोऽप्युक्त इत्यर्थः । धनिनोऽपीति । ते वर्णनीया राजानः । एतदेव विशदयति---विनेति । इयञ्च कारणाभावेन परतन्त्रतया कार्येत्पत्तेर्विशिष्टतया भावनादन्वर्था विभावना । ********** टीका सम्पूर्णा ********** अत्र महामहिमशालित्वं निमित्तमुक्तम् । अत्रैव चतुर्थपादे "कियन्तः सन्ति भूतले" इति पाठे त्वनुक्तम् । अचिन्त्यनिमित्तत्वं चानुक्तनिमित्तस्यैव भेद इति पृथङ्नोक्तम् । यथा-- "स एकस्त्री४णि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शम्भुना न हृतं बलम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) अचिन्त्यनिमित्तरूपस्य प्रभेदान्तरं काव्यप्रकाशकृतोच्यते । तच्चानुक्तनिमित्तरूपमेवेति पृथक्नोच्यते इत्याह----अचिन्त्येति । अचिन्त्यनिमित्तोदाहरणं तदुक्तं दर्शयति---यथा स एक इति । त्रीणि जगन्तीत्यन्वयः । ********** टीका सम्पूर्णा ********** अत्र तनुहरणेनापि बलाहरणे निमित्तमचिन्त्यम् । इह च कार्याभावः कार्यविरुद्धसद्भावमुखेनापि निबद्ध्यते । विभावनायामपि कारणाभावः कारणविरुद्धसद्भावमुखेन । एवञ्च "यः कौमारहरः" इत्यादेरुकण्ठाकारणविरुद्धस्य निबन्धनाद्विभावना । "यः कौमार-" इत्यादेः कारणस्य च कार्यविरुद्धाया उत्कण्ठाया निबन्धनाद्विशेषोक्तिः, एवं चात्र विभावनाविशेषोक्त्योः सङ्करः । शुद्धोदाहरणं तु मृग्यम् । ************* टीका ************* विज्ञप्रिया (वि, स) उत्कण्ठाकारणविरुद्धस्येति । उत्कण्ठाकारणं हि तादृशपत्याद्यसन्निधानं, तद्विरुद्धस्य तादृशपत्यादिसन्निधानस्येत्यर्थः । कारणस्य च कार्यविरुद्धाया इति । तादृशकारणस्य यत्कार्यमनुत्कण्ठा । तद्विरुद्धाया इत्यर्थः । शुद्धोदाहरणं मृग्यमिति । शुद्धोदाहरणद्वयन्तु विभावनाविशेषोक्त्योरनायासकृशमित्यादिकं,ऽ धनिनोऽपि निरुन्मादाऽ इत्यादिकमेव चास्ति । तयोस्तथात्वमेव मृग्यमित्यर्थः । तथाहि---अनायासकृशमित्यादौ शङ्काविरुद्धाया अशङ्काया, भूषणविरुद्धस्यऽभूषणत्वस्य च प्रतीतावपि न विशेषोक्तिः प्रतीयते । न हि तारल्याभावरूपस्य फलाभावस्य मनोहारित्वाभावरूपस्य फलाभावस्य च प्रतीत्या विशेषोक्तिः स्यात् । तथा धनिनोऽपीत्यादावधनित्वाविरुद्धस्य धनित्वस्य प्रतीतावपि न विभावनाप्रतीतिः, नहि अधनित्वादेः फलान्यनुन्मादादीनि येनाधनित्वविरुद्धधनित्वप्रतीतावपि तादृशफलाभावप्रतीत्या विभावना स्यात् । लोचना (लो, ऐ) इह च कार्याभाव इत्यादिग्रन्थः प्रथमपरिच्छेद एव विशदीकृतः । सङ्कर एकस्योपग्रहन्यायदोषाभावादनिश्चय इति प्रकारः । शब्दोदाहरणं विशेषोक्तेः कार्यविरुद्धसद्भावमुखेन, नतु "स एकस्त्रीणि" इत्यादिवत्कार्यविरुद्धमुखेन विभावनायाश्च कारणविरुद्धसद्भावमुखेन शुद्धोदाहरणं तु अन्यान्यसाङ्कर्याभावयुक्तम् । यद्यथा--- "कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे" ॥ अत्र दाहकार्यंतया शक्तेरभावोऽशक्तिविरुद्धशक्तिसद्भावमुखेन उपनिबद्ध इति विशेषोक्तिः सुफुटा । एवं विभावनादयोऽपि ********** टीका सम्पूर्णा ********** जातिश्चतुर्भिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः ॥ १०.६७ ॥ क्रिया क्रियाद्रव्याभ्यां यद्द्रव्यं द्रव्येण वा मिथः । विरुद्धमिव भासेत विरोधोऽसौ दशाकृतिः ॥ १०.६८ ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) दशविधं विरोधाभासालङ्कारमाह--जीतिरित्यादि । जात्यादौ जातिगुणक्रियाद्रव्यैर्मिथो विरुद्धैरिति यथालिङ्गमन्वयः । गुणश्च जातिक्रियाभिन्नं धर्ममात्रं बोध्यम् । गुणादिभिस्त्रिभिरिति । तस्य जात्या सह विरोधस्तु जातेर्गुणेन सह विरोधरूप एवेति पूर्वगणनाप्रविष्टत्वान्नोक्तः । एवमुत्तरद्वयेऽपि । द्वव्यं त्वेकव्यक्तिकं बोध्यम् । लोचना (लो, ओ) चतुर्भिः जातिगुणक्रियाद्रव्यैः विरुद्धमिव भासेत, पर्यवसाने तु आविरोध एव अन्यथा दोषावहत्वादित्यर्थः । गुणस्य जात्या सह जातेर्गुणेन सह विरोध एवेति गुणविरुद्धस्य त्रैविध्यमेव । एवमेव क्रियाविरुद्धस्य चैक्यविध्यमेवेतिः--शाकृतिर्दशप्रकारो विरोधः । ********** टीका सम्पूर्णा ********** क्रमेण यथा-- "तव विरहे मलयमरुद्दवानलः शशिरुचोऽपि सोष्माणः । हृदयमलिरुतमपि भिन्ते नलिनीदलमपि निदाघरविरस्याः" ॥ ************* टीका ************* विज्ञप्रिया (वि, क) तत्र जातेश्चतुर्भिश्च सह विरोधमेकश्लोके एव दर्शयति---तव विरह इति । तव विरहेऽस्या इति मलयपवनादौ सर्वत्रान्वयः । अत्र दवदहनत्वमलयपवनत्वजात्यौर्विरोधः । न चात्र रूपकम्, दाहकत्वशीतलत्वधर्मव्याप्ययोर्जात्योर्विरोधस्यैव पुरः स्फूर्त्तिकत्वात् । शशिरुचोऽपीत्यत्र शशिरुचित्वजातेश्च सोष्मत्वगुणविरोधः । हृदयमित्यत्रालिरुतत्वजातेर्भेदेन क्रियया विरोधः । नलिनीदलमपीत्यत्र नलिनीदलत्वजातेर्निदाघरविणा द्रव्येण सह तादात्म्येन विरोधः । अत्रापि विरुद्धधर्मव्याप्यत्वाद्विरोधस्यैव पुरः स्फूर्त्तिकत्वादपिकारेण विरोधबोधनाच्च न रूपकम् । रवेरुष्मत्वव्याप्यता तु तादात्म्येन । रवीणां द्वादशत्वेऽपि नात्र जातिविरोधः, निदाघीयविशेषणादृतुषट्कप्रवर्त्तकरवेरेवात्र रविपदार्थत्वात्तस्यैकत्वादेव । ********** टीका सम्पूर्णा ********** "सन्ततमुसलासङ्गाद्वहुतरगृहकर्मघटनया नृपते ! । द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) गुणस्य गुणविरोधमाह---सन्ततेति । हे नृप ! ते पूर्वं सन्ततेत्यादिना कठिना द्विजपत्नीनां करा भवन्ति सरोजसुकुमाराः । त्वया सम्पद्दानेन दासीभि कर्मकरणात्करसौकुमार्यम् । अत्र कठिनत्वसौकुमार्यगुणयोर्विरोधः । ********** टीका सम्पूर्णा ********** "अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव" ॥ ************* टीका ************* विज्ञप्रिया (वि, ग) गुणस्य क्रियाविरोधमाह---अजस्येति । ईश्वरं प्रति देवानां स्तुतिरयम् । अजस्येत्यत्र जन्माभावगुणजन्मग्रहणक्रिययोर्विरोधः । एवं निरीहत्वनिद्रारूपस्वापगुणयोरपि शत्रुहननजागरणक्रियाभ्याम् । ********** टीका सम्पूर्णा ********** "वल्लभोत्सङ्गसङ्गेन विना हरिणचक्षुषः । राकाविभावरीजानिर्विषज्वालाकुलोऽभवत्" ॥ ************* टीका ************* विज्ञप्रिया (वि, घ) गुणस्य द्रव्यविरोधमाह---वल्लभोत्सङ्गसङ्गेनेति । तद्विना विरहिण्या इत्यर्थः । राकाविभावरीजानिः पूर्णचन्द्रः । अत्र चन्द्रो द्रव्यमेकव्यक्तिकरत्वात् । तस्य तादात्म्येन विषज्वालाकुलत्वगुणविरोधः । ********** टीका सम्पूर्णा ********** नयनयुगासेचनकं मानसवृत्तयापि दुष्प्रापम् । रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे ॥ ************* टीका ************* विज्ञप्रिया (वि, ङ) क्रियायाः क्रियाविरोधमाह---नयनयुगेति । आसेचनकं सेकेन तापनाशकममृतेन सेचनकं वा । दुष्प्रापमन्यस्त्रीभिः । अत्र मदनादिक्रिययोर्विरोधः । लोचना (लो, औ) "तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्ऽ अमरः । मदिरो मत्तचकोरः । ********** टीका सम्पूर्णा ********** "त्वद्वाजि" इत्यादि । "वल्लभोत्सङ्गऽ--इत्यादिश्लोके चतुर्थपादे "मध्यन्दिनदिनाधिपः" इति पाठे द्रव्ययोर्विरोधः । ************* टीका ************* विज्ञप्रिया (वि, च) क्रियाया द्रव्यविरोधमाह--त्वद्वाजिरजीति । अत्र हरो द्रव्यं, तादात्म्येन तस्य नञर्थविशिष्टधारणक्रियाविरोधः । वस्तुतस्तु नेदमुदाहरणमुचितं गङ्गां दधतोऽस्य धारणक्रियाभाररूपगुणस्यैव विरुद्धत्वात् । किन्तु "मोक्ष्यते शिरसो गङ्गां भुरिभारकरीं हरऽ इत्येवं पाठविशिष्टमेवेदमुदाहरणं बोध्यम् । मध्यन्दिनदिनाधिप इति पाठे इति । चन्द्रसूर्ययोर्विरुद्धशीतोष्णगुणवत्त्वेन विरोधस्य पुरः स्फुर्त्तिकत्वादत्रापि न रूपकम् । दिनादिपश्चैक एव सूर्यो नापरे एकादेशा इति न जातिविरोधः । ********** टीका सम्पूर्णा ********** अत्र "तव विरह-" इत्यादौ पवनादीनां बहुव्यक्तिवाचकत्वाज्जातिशब्दानां दवानलोष्महृदयभेदनसूर्यैर्जातिगुणक्रियाद्रव्यरूपैरन्योन्यं विरोधो मुखत आभासते, विरहहेतुकत्वात्समाधानम् । ************* टीका ************* विज्ञप्रिया (वि, छ) अत्र प्रथमश्लोके जातेश्चतुर्भिः सह विरोधं ग्राहयति--अत्र तव विरह इत्यादाविति । पवनादीनामित्यादिपदात्शशिरुच्यलिरुतनलिनीदलपदपरिग्रहः । एषां सर्वेषां बहुव्यक्तिवाचकत्वादित्यर्थः । मुखतः--आपाततः । तेषां यथोक्तजात्याविरोधं दर्शयति---विरहहेतुकत्वादिति । समाधानमविरोधः । विरोधहेतुकत्वं विरोधं व्यक्त्योरेव । तेद्धतुत्वं तद्व्यक्त्यारोपमात्रम् । नतु विरुद्धयोर्वास्तवमैकाधिकरणयमित्यर्थः । एव मित्यादिकं स्पष्टम् । ********** टीका सम्पूर्णा ********** "अजस्य-" इत्यादावजत्वादिगुणस्य जन्मप्रहणादिक्रियया विरोधः, भगवतः प्रभावस्यातिशायित्वात्तु समाधानम् । "त्वद्वाजि-" इत्यादौ "हरोऽपि शिरसा गङ्गां न धत्ते" इति विरोधः, "त्वद्वाजि-" इत्यादिकविप्रौढोक्त्या तु समाधानम् । स्पष्टमन्यत् । विभावनायां कारणाभावेनोपनिबध्यमानत्वात्कार्यमेव बाध्यत्वेन प्रतीयते, विशोषोक्तौ च कार्याभावेन कारणमेव॑ इह त्वन्योन्यं द्वयोरपि बाध्यत्वमिति भेदः । ************* टीका ************* विज्ञप्रिया (वि, ज) विभावनाविशेषोक्त्योरपि कारणाभावे कार्यसत्त्वयोः कार्याभावकारणसत्त्वयोश्च विरुद्धत्वेन भासमानत्वाद्विरोधाभासत्वप्रसक्तौ तत एनं विशेषयितुमाह---विभावनायामिति । कारणाभावेन सहोपनिबध्यमानत्वादित्यर्थः । विशेषोक्ताविति कारणमात्रसामग्री, तस्या एव फलभावकाले बाध्यत्वप्रतीतेः । विशेषोक्त्युदाहरणेषु यद्यत्कारणं निर्दिष्टं तस्यैव सामग्रीत्वेनाध्यासे एवं वैचित्र्यात् । अन्यथा कारणान्तराभावप्रयुक्ते फलाभावे किम वैचित्र्यम् ॥ लोचना (लो, अ) कारणाभावे इत्यनन्तरं बलवदित्यर्थः । एवमन्यत्र । ********** टीका सम्पूर्णा ********** कार्यकारणयोर्भिन्नदेशतायामसङ्गतिः । ************* टीका ************* विज्ञप्रिया (वि, झ) असङ्ग्त्यलङ्कारमाह---कार्यकारणयोरिति । उत्पात्तकाले समानदेशतया प्रतीतिनियतयोरित्यर्तः । तेनान्यदा भिन्नदेशयोर्दण्डघटयोः सर्वदैव भिन्नदेशयोः कार्ययोश्च भिन्नदेशत्वेऽपि नायमलङ्कारः । ********** टीका सम्पूर्णा ********** यथा-- "सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातरा सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम्" ॥ अस्याश्चापवादकत्वादेकदेशस्थयोर्विरोधे विरोधालङ्कारः । ************* टीका ************* विज्ञप्रिया (वि, ञ) सा बालेति । द्रस्थां प्रियां स्मृत्वा विरहे दुर्बलस्योक्तिरियम् । बाला बाल्यधर्ममृदुत्ववती तत्कार्यं तस्या एव वचोऽप्रागल्भ्यं तच्चास्माकं विरहदौर्बल्यात् । वस्तुतो बालात्वेऽपि पीनस्तनकथनानुपपत्तेः । सा स्त्रीति कातर्यस्य स्त्रीधर्मत्वात् । गमनाशक्तिरपि दैर्बल्यात् । विरोधालङ्कारबोधकतामस्या आह---अस्या इति । विरोधालङ्कारो भिन्नैकदेशता नियमेनानुक्तत्वादुत्सर्गः । अस्याश्च भिन्नदेशतानियमेनोक्तत्वेनापवादत्वादेतद्विषयपरिहारेणैकदेशस्थयोरवे विरोध इत्यर्थः । लोचना (लो, आ) भिन्नदेशस्थत्वमाप्ततायां यद्देशमेव कारणं तद्देशमेव कार्यमित्येवमेव नियमः । एकदेशस्थयोरेव नतु भिन्नदेशस्थयो अपवादविधेर्बलीयस्त्वादितिभावः । ********** टीका सम्पूर्णा ********** गुणौ क्रिये वा चेत्स्यातां विरुद्धे हेतुकार्ययोः ॥ १०.६९ ॥ यद्वरब्धस्य वैफल्यनर्थस्य च सम्भवः । विरूपयोः संघटना या च तद्विषमं मतम् ॥ १०.७० ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) चतुर्विधं विषमालङ्कारमाह---गुणौ क्रिये वेति । हुतुकार्ययोर्गुणौ क्रिये वा यद्यदि विरुद्धे परस्परविपरीते स्यातां तदा एतौ द्वे च विषमे । तृतीयमाह--यदारब्धस्येति । वैफल्यमुद्देश्यफलाभावः॑ प्रत्युतानर्थस्योत्पत्तिरित्यर्थः । चतुर्थं विषममाह--विरूपयोरिति । विरूपत्वेन परस्परसम्बन्धायोग्यत्वेनोक्तयोर्यः सम्बन्धः प्रतीयत इत्यर्थः । एतच्च क्कद्वयप्रयोगे बोध्यम् । लोचना (लो, इ) विरूपयोरन्यरूपयोः स घटनायोगः । ********** टीका सम्पूर्णा ********** क्रमेण यथा-- "सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा । तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभारणं प्रसूते" ॥ अत्र कारणरूपासिलतायाः "कारणगुणा हि कार्यगुणमारभन्ते" इति स्थतेर्विरुद्धा शुक्लयशस उत्पत्तिः । ************* टीका ************* विज्ञप्रिया (वि, ठ) तत्र कार्यकारणयोर्गुणविरोधमाह---सद्य इति । तमालवन्नीला कृपाणलेखा लेखाकारः कृपाणो खड्गो रणे रणे यस्य राज्ञः करस्पर्शमवाप्य शरदिन्दुवत्पाण्डु यशः सद्यः प्रसूते इदं चित्रम् । त्रिलोकेति यशोविशेषणम् । अत्र कारणासिलताकार्ययशसो नीलत्वापाण्डुत्वे विपरीते इत्याह---अत्रेति । गुणस्य विरुद्धा इत्यन्वयः । शुक्लयशस उत्पत्तिरिति । उत्पद्यमानयशः शुक्लमिति पर्यवसित्तार्थः । ननु विरुद्धत्वे किं वैचित्र्यमित्यत आह--कारणगुणा इति । स्थितेरिति नियमादित्यर्थः । तथा च विरुद्धयोर्विरोधप्रदर्शनं वैचित्र्यमित्यर्थः । यद्यप्ययं नियमः समावायिकारणकार्ययोरेव तथापि तद्दर्शनात्कविना अन्यत्रापि तन्नयममध्यास्येदं वर्णितम् । ********** टीका सम्पूर्णा ********** "आनन्दममन्दमिमं कुवलयदललोचने ! ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे" ॥ अत्रानन्दजनकस्त्रीरूपकारणात्तापजनकविरहोत्पत्तिः । ************* टीका ************* विज्ञप्रिया (वि, ड) कारणकार्ययोर्विरोधमाह---आनन्दममन्दमिति । कुवलयेत्यादिकं सम्बोधनम् । अत्रेति । तापजनकविरहोत्पत्तिः स्वोत्पाद्यविरहजन्यतापिक्रियोत्पत्तिरिति पर्यवसितार्थः । तथा च स्त्रीतज्जन्यविरहयोः कारणकार्ययोरानन्ददानतापक्रिये च विरुद्धे इत्यर्थः । एतज्जन्यस्यतक्त्रियासमानक्रियाया एव वैचित्र्यं समभाव्य वर्णितम् । ********** टीका सम्पूर्णा ********** "अयं रत्नाकरोऽम्भोधिरित्यसेवि धनाशया । धनं दूरेऽस्तु वदनमपूरि क्षारवारिभैः" ॥ ************* टीका ************* विज्ञप्रिया (वि ढ) आरब्धकार्यवैफल्यानर्थोत्पत्तिद्वयमुदाहरति---अयमिति । अयमम्भोधिः रत्नाकर इति कृत्वा मया धानाशया असेवि सेवितः । धनं दूरेऽस्तु प्राप्त्यविषयोऽस्तु । क्षारवारिभिस्तु वदनमपूरि इत्यर्थः । ********** टीका सम्पूर्णा ********** अत्र केवलं काङ्क्षितधनलाभो नाभूत्, प्रत्यत क्षारवारिभिर्वदनपूरणम् । "क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता । नियतं प्रतिकूलवतिनो बत धातुश्चरितं सुदुः सहम्" ॥ अत्र वनराज्यश्रियोर्विरूपयोः संघटना । इदं मम । ************* टीका ************* विज्ञप्रिया (वि, ण) विरूपयोर्घटनामाह---क्व वनमिति । रामं शोचन्त्याः कौशल्याया उक्तिरियम् । तरुवल्कलमेव भूषणं यत्र तादृशां वनं क्व नृपेत्यादिकं क्क । परस्परासम्बन्धायोग्यतया क्कद्वयेनोक्तयोरनयोरेकत्र रामे घटना । एवं "क्व सूर्यप्रभवऽ इत्यादावपि बोध्यम् । ********** टीका सम्पूर्णा ********** यथा वा-- "विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा" ॥ ************* टीका ************* विज्ञप्रिया (वि, त) क्कद्वयाभावेऽप्याह---विपुलेनेति । सागरशयस्य विष्णोर्विपुलेन कुक्षिणा उदरेण युगक्षयकाले भुवनानि पपिरे । स पुनर्विष्णुः श्रीकृष्णः एकतमया पुरस्त्रिया कर्त्र्या मदविभ्रमेणासकलया एकदेशरूपया एकया दृशा पपे इत्यर्थः । अत्र भुवनपानसमर्थकुक्षिमत एकस्त्रीकटाक्षेण पेयत्वयोगो विरुद्ध इत्यर्थः । काव्यप्रकाशकृन्मते तुक्कद्वयेन विनैवात्र विरुद्धतयाप्रतीतेः केनाप्यनुक्ततया नेदं चतुर्थविषमालङ्कारोदाहरणम् । अतः कारणकार्ययोः क्रियाविरोधरूपद्वितीयविषमोदाहरणतयैवायं श्लोकस्तेन दर्शितः । कुक्षिस्तु अवयवः कारणम् । कुक्षिमानवयवी श्रीकृष्णस्तु कार्यम् । तयोर्भुवनपानस्त्रीकटाक्षपेयत्वक्रिये विरुद्धे ॥ लोचना (लो, ई) तदिति । विषमालङ्कारणामेषां सूत्रोक्तप्रकारणामुपलक्षणतया सम्बन्धिनोरननुरूपतया तक्ष्यानुसारेणान्येऽपि प्रकारा उदाहर्तव्या इत्यर्थः । तत्र दिड्यात्रमुदाहृत्य दर्शयति-विपुलेनेति । असकलया असमग्रपातिन्या । ********** टीका सम्पूर्णा ********** समं स्यादानुरूप्येण श्लाघा योग्यस्य वस्तुनः । ************* टीका ************* विज्ञप्रिया (वि, थ) समसंज्ञकमलङ्कारमाह---सममिति । योग्ययोः परस्परोचितयोः वस्तुनोरानुरूप्येणौचित्येन या श्लाघा सा समनामालङ्कार इत्यर्थः । लोचना (लो, उ) अत्रावयवावयविनोर्वैषम्यम् । क्वचित्सजातीययोः--- "असितमेकसुराशितमप्यभू- न्न पुनरेष पुनर्विषदं विषम् । अपि निपीय सुरैर्जनितक्षयं स्वयमुदेति पुनर्नवमार्णवम्" ॥ अत्र व्यतिरेकयोगेऽपि द्वयोः सङ्करो, नतु विषमालङ्काराभावः । ********** टीका सम्पूर्णा ********** यथा-- शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा । इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विबव्रुः" ॥ ************* टीका ************* विज्ञप्रिया (वि, द) शशिनमित्यादि । अजे इन्दुमत्या स्वयंवृते पौराणां श्लोघोक्तिरियम् । रसगुणयोर्योगेन प्रीतिर्येषां तादृशाः पौरा इत्येकवाक्यमेकस्य जनस्य प्राथमिकं वाक्यं विवव्रुः । तदर्थकशब्दान्तरैर्विवृतवन्त इत्यर्थः । शशिनमित्याद्येकस्य वाक्यम् । शशिजलनिधित्वेन अजः । कौमुदीजह्नुकन्यात्वेनेन्दुमती । पृथक्सिद्धस्यैव प्राप्तिः । कौमुदी तु शशिनो न पृथक्सिद्धा, अतः पृथक्सिद्धसम्पादनाय्मेघमुक्तत्वविशेषणम् । मेघेन पृथक्कृतायास्तदपगमे प्राप्तिरित्यर्थः । लोचना (लो, ऊ) विषमाद्वैपरीत्येन समस्य लक्षणम् । वस्तुनोर्दर्शनीययोः । जह्नुकन्या गङ्गा । ********** टीका सम्पूर्णा ********** विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् ॥ १०.७१ ॥ यथा-- "प्रणमत्युन्नतिहेतोर्जोवितहेतोर्विमुञ्चति प्राणान् । दुः खीयति सुखहेतोः को मूढः सेवकादन्यः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ध) प्रणमतीति । प्रणामो हि नम्रीभावः स उन्नतिविपरीतः । प्राणान विमुञ्चति, युद्धे इति शेषः । यद्यपि प्राणविमोको न जीवितस्य हेतुस्तथापि प्राणविमोकक्रियापरमत्र विमुञ्चतिपदम् । दुः खीयति दुः खमिच्चति, दुः खजनकक्रियाप्रवृत्तत्वात् । लोचना (लो, ऋ) इष्टफलस्य प्रकृतोदाहरणादौ उन्नत्यादेः प्राप्त्यर्थं तद्विरुद्धस्य प्रणामादेः करणं विचित्रालङ्कारबीजफलम् । ********** टीका सम्पूर्णा ********** आश्रयाश्रयिणोरेकस्याधिक्येऽधिकमुच्यते । लोचना (लो, ॠ) आधिक्यं क्वचिदाश्रयाश्रयिणोर्महत्त्वमिति द्विविधोऽधिकाख्यालङ्कारः इत्यर्थः । यत्पुनः कैश्चिदुक्तं वस्तुतः तनुत्वेऽपि यदेकस्याधिक्यं तदधिकमुच्यते इति तन्न । "द्यौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र क्वचित्क्वाप्यत्रैव धराधराधरजला धारावलिर्वर्त्तते । स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेवंविधैर्- दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम्" ॥ इत्यादावव्याप्तेः । अत्र हि नभसो न तनुत्वम् । अस्य चालङ्कारस्याश्रयाश्रयिरूपविलक्षणाश्रयतयापवादत्वेन विषमालङ्कारबाधकता । ********** टीका सम्पूर्णा ********** आश्रयाधिक्ये यथा-- "किमधिकमस्य ब्रूमो महिमानं वारिघेर्हरिर्यत्र । अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि" ॥ ************* टीका ************* विज्ञप्रिया (वि, न) अधिकसंज्ञकमलङ्कारमाह--आश्रयेति । आधिक्यमधिकतया वर्णनमित्यर्थः । किमधिकमिति । भुवनानि कुक्षौ निक्षिप्य हरिर्यत्राज्ञात एव शेते । जलनिधेः किञ्चिदवच्छेदेनैव शयनाज्जलनिधिद्रष्टृभिरज्ञात एव शेत इत्यर्थः । अस्य जलनिधेर्महिमानं किमाधिकं वदाम इत्यर्थः । अत्र कुक्षिनिक्षिप्तभुवनस्यापि हरेस्तु किञ्चिदवच्छेदेनैव शयनादाश्रयस्य जलनिधेराधिक्यं वर्णितम् । ********** टीका सम्पूर्णा ********** आश्रिताधिक्ये यथा-- "युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः" ॥ ************* टीका ************* विज्ञप्रिया (वि, प) आश्रिताधिक्यवर्णनमाह---युगान्तेति । नारदागमने श्रीकृष्णस्य हर्षाधिक्यवर्णनमिदम् । युगान्तकाले प्रतिसंहृताः स्वकुक्षौ प्रवेशिता आत्मानः प्राणिनो येन तादृशस्य कैटभद्विषो विष्णोर्यस्यां तनौ जगन्ति सविकाशमयन्त्रणमासत तत्र तस्यां तनौ तपोधनस्य नारदस्याभ्यागमसम्भवा भुदो न ममुः न स्थातुमवकाशं लेभिरे इत्यर्थः । तनुभेदेऽपि विष्णुतनुत्वेनैकत्वाध्यासादेकत्वं बोध्यम् । अत्राश्रितानां मुदामधिकत्वम् । ********** टीका सम्पूर्णा ********** अन्योन्यमुभयोरेकक्रियायाः कारणं मिथः ॥ १०.७२ ॥ "त्वया सा शोभते तन्वी तया त्वमपि शोभसे । रजन्या शोभते चन्द्रश्चन्द्रेणापि निशीथिनी" ॥ ************* टीका ************* विज्ञप्रिया (वि, फ) अन्योन्यसंज्ञकमलङ्कारमाह--अन्योन्यमिति । एका क्रिया एकजातीया क्रिया । उभयोर्मिथः करणमित्यर्थः । त्वया सेति । परार्द्धं दृष्टान्तालङ्कारेऽपि । ********** टीका सम्पूर्णा ********** यदाधेयमनाधारमेकं चानेकगोचरम् । किञ्चित्प्रकुर्वतः कार्यमशक्यस्येतरस्य वा ॥ १०.७३ ॥ कार्यस्य करणं दैवाद्विशेषस्त्रिविधस्ततः । ************* टीका ************* विज्ञप्रिया (वि, ब) त्रिविधं विशेषालङ्कारमाह---यदाधेयमिति । यादिति त्रिष्वन्वितम् । अनाधारमाधारं विना स्थितं वर्णितमित्यर्थः । अनेकगोचरमित्यत्र एकदेति शेषः, क्रमिकस्थितौ तु पर्यायालङ्कारस्य वक्ष्यमाणत्वात् । किञ्चित्प्रकुर्वतः कर्त्तुर्दैवादितरस्याशक्यस्य कार्यस्य करणं वा यदित्यर्थः । ********** टीका सम्पूर्णा ********** क्रमेण यथा-- "दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः" ॥ ************* टीका ************* विज्ञप्रिया (वि, भ) दिवमिति । दिवमुपयातानामपि येषां कवीनामनल्पगुणगणा गिरः जगन्ति रमयन्ति ते कवयः कथमिह न वन्द्या इत्यर्थः । अत्र कर्त्तृतासम्बन्धेनाधारणां कवीनामसत्त्वेऽपि तदाधेयानां गिरां स्थितिः । ********** टीका सम्पूर्णा ********** "कानने सरिदुद्देशे गिरीणामपि कन्दरे । पश्यन्त्यन्तकसङ्काशं त्वामेकं रिपवः पुरः" ॥ ************* टीका ************* विज्ञप्रिया (वि, म) कानन इति । काननादौ पलायिता रिपवस्त्वामेकं तत्रतत्रैवान्तकसंकाशं पश्यन्तीत्यर्थः । अत्र दर्शनस्य न क्रमविवक्षा । ********** टीका सम्पूर्णा ********** "गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, य) गृहिणीति । मृतामिन्दुमतीं शोचतोऽजस्योक्तिरियम् । त्वां हरता करुणाविमुखेन मृत्युना मम किं न हृतं वद । किं किं हृतमित्यत्राह--गृहिणीत्यादि । ललिते कामकलाविधौ मिथो रहसि प्रियशिष्येत्यन्वयः । अत्रेन्दुमतीहर्त्तुर्मृत्योर्गृहिण्यादिहरणरूपस्य कार्यस्य दैवात्करणं वर्णितम् । ********** टीका सम्पूर्णा ********** व्याघातः स तु केनापि वस्तु येन यथाकृतम् ॥ १०.७४ ॥ तेनैव चेदुपायेन कुरुतेऽन्यस्तदन्यथा । यथा--"दृशा दग्धं मनसिजम्-" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, र) व्याघातालङ्कारमाह---व्याघात इति । केनापि कर्त्रा यद्वस्तु येनोपायेन यथाकृतं तेनैवोपायेनान्यश्चेत्तदन्यथा कुरुते तदा तदन्यथाकरणं स व्याघात इत्यर्थः । "दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरुपाक्षस्य जयिनीस्ताः स्तुनो वामलोचनाः" ॥ इत्युदाहरणम् । दृशा हरस्या याः कटाक्षरूपया दृशा जीवयन्तीत्यर्थः । नारीकटाक्षेण कामोद्दीपनात् । न केवलं क्रियया जयः, किन्तु रूपेणपीत्याह---विरूपाक्षस्येति । जेतव्यस्याक्षिवैरूप्यम् । जेत्रीणामक्षिषु मनोज्ञत्वरूपं वामत्वमित्येव तत्रापि जय इति भावः । अत्र येन दृगुपायेन दाहस्तेनैव दृगुपायेन जीवनरूपं दाहान्यथाकरणं स्त्रीभिः । ********** टीका सम्पूर्णा ********** सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि ॥ १०.७५ ॥ व्याघात इत्येव । ************* टीका ************* विज्ञप्रिया (वि, ल) अन्यविधं व्याघातलङ्कारमाह---सौकर्येण चेति । चकारो व्याघातान्तरसमुच्चये । अन्योक्तकार्यस्य विरुद्धं कार्यमन्येन यदि तदुक्तकारणस्य सौकर्येण विशिष्टं क्रियते प्रतिपाद्यते इत्यर्थः । चकारेण व्याघातमनुवर्त्तयति--व्याघात इत्येवेति । ********** टीका सम्पूर्णा ********** "इहैव त्वं तिष्ठ द्रुतमहमहोभिः कतिपयैः समागन्ता कान्ते ! मृदुरसि न चायाससहना । मृदुत्वं मे हेतुः सुभग ! भवता गन्तुमधिकं न मृद्वी सोढा यद्विरहकृतमायासमसमम्" ॥ अत्र नायकेन नायिकाया मृदुत्वं सहगमनाभावहेतुत्वेनोक्तम् । नायिकया च प्रत्युत सहगमने ततोऽपि सौकर्येण हेतुतयोपन्यस्तम् । ************* टीका ************* विज्ञप्रिया (वि, व) इहैवेति । विदेशं जिगमिषुणा पत्या सह जिगमिषुं पत्नीं प्रति नायकस्योक्तिः पूर्वार्द्धम् । त्वमिहैव तिष्ठ न मया सह गच्छ । अहं कतिपयैरहोभिर्द्रुतं समागन्ता समागमिष्यामि, भविष्यदर्थे तृन् । यतो मृदुरसि । नच गमनायासहनासीत्यर्थः । पत्न्या उक्तिः परार्द्धं---हे सुभग ! भवता सह गन्तुं सहगमने एव मम मृदुत्वं हेतुः । यद्यस्मान्मृद्वी असमं विरहायासं न सोढा न सहिष्यते । अत्रापि तृन् । अत्र नायकोक्तकार्यस्य नायिकाया विरुद्धप्रतिपादनं ग्राहयति---अत्रेति । सहागमनहेतुत्वेनेति । स्थितिहेतुः सहगमनहेतुत्वेनेत्यर्थः । सौकर्येणेति । सहगमनमेव स्थितिहेतुत्वेनोक्तस्य मृदुत्वस्य सुकरं, स्थितिस्तु मृदुत्वस्य दुष्करेत्यर्थः । स्थितौ मदत्वेन विरहासहत्वजननात् । लोचना (लो, ळ) इह तु किञ्चिन्निष्पादयितुं सम्भाव्यमानस्य कारणस्य तद्विरुद्धनिष्पादकत्वेन समर्थनम् । इहैव त्वमित्युदाहरणे नहि मृदुत्वस्य नायकसहगमनस्य कार्यत्वं प्रतीयते किन्तु सहगमनस्य निर्वाहः । विषमालङ्कारे तु "अयं रत्नाकरऽ इत्यादौ धनलाभरूपकार्यानुत्पत्तिः, अनर्थस्य चोत्पत्तिरिति भावः । एवं विरोधमूलालङ्कारान्निर्णोय शृङ्वलाबन्धेन विचित्रता अलङ्कारा लक्ष्यन्ते । ********** टीका सम्पूर्णा ********** परं परं प्रति यदा पूर्वपूर्वस्य हेतुता । तदा कारणमाला स्यात्-- लोचना (लो, ए) परमिति । कारणमालाख्यमलङ्करणम् । ********** टीका सम्पूर्णा ********** यथा-- "श्रुतं कृतधियां सङ्गाज्जायते विनयः श्रुतात् । लोकानुरागो विनयान्न किं लोकानुरागतः" ॥ --तन्मालादीपकं पुनः ॥ १०.७६ ॥ धर्मिणामेकधर्मेण सम्बन्धो यद्यथोत्तरम् । लोचना (लो, ऐ) यथोत्तरमुत्तरोत्तरं गुणावहत्वेनेत्यर्थः । ********** टीका सम्पूर्णा ********** यथा-- "त्वयि सङ्गरसम्प्राप्ते धनुषासादिताः शराः । शरैररिशिरस्तेन भूस्तया त्वं त्वया यशः" ॥ अत्रासादनक्रिया धर्मः । ************* टीका ************* विज्ञप्रिया (वि, श) कारणमालालङ्कारमाह---परंपरमिति । सोदाहरणं स्पष्टम् । मालादीपकालङ्कारमाह---तन्मालेति । इदमपि सोदाहरणं स्पष्टम् । एकावल्यलङ्कारमाह--पूर्वं पूर्वमिति । पूर्वत्र पूर्वत्र यद्विशेषणं तस्य तस्य विशेषणतया यदि परं परं स्थाप्यते, अपोस्यते वा तद्विशेषणाभावप्रतियोगितया निर्दिश्यते वेत्यर्थः । तेन पूर्वं पूर्वं विशेषणं यद्युत्तरोत्तरस्य उत्तरोत्तराभावस्य वा विशेष्यं भवतीत्यर्थः । ********** टीका सम्पूर्णा ********** पूर्वं पूर्वं प्रति विशेषणत्वेन परं परम् ॥ १०.७७ ॥ स्थाप्यतेऽपोह्यते वा चेत्स्यात्तदैकावली द्विधा । ************* टीका ************* विज्ञप्रिया (वि, ष) [मिस्सिन्गिन् प्रिन्तेदेदितिओन्] ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्-- "सरो विकसिताम्भोजमम्भोजं भृङ्गसङ्गतम् । भृङ्गा यत्र ससङ्गीताः सङ्गीतं सस्मरोदयम्" ॥ "न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् ॥ न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः" ॥ ************* टीका ************* विज्ञप्रिया (वि, स) सरो विकसितेति । अत्र सरोजराजे यानि विकसिताम्भोजादीनि तदेकदेशानामम्भोजादीनां विशेषणानि परंपरणि । अपोहे तु आह---न तज्जलमिति । सुचारुपङ्कजं यत्रेति बहुव्रीहिः । एवमलीनेत्यादावपि । अत्र जलविशेषणीभूतानामभ्रावानां प्रतियोगितया सुचारुपङ्कजत्वादीनि निर्दिष्टानि । लोचना (लो, ओ) अम्भोजं सरसो, भृङ्गा अम्भोजस्य॑ संगीतानि भृङ्गाणां विशेषणत्वेन । न तज्जलमित्यादौ जलस्य सुचारुपङ्कजं निषेधत्वेन निबद्धम् । एवमन्यत्र । ********** टीका सम्पूर्णा ********** क्वचिद्विशेष्यमपि यथोत्तरं विशेषणतया स्थापितमपोहितं च दृश्यते । यथा-- "वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वापीषु । कमलेषु पतन्त्यलयः करोति सङ्गीतमलिषु पदम्" ॥ एवमपोहनेऽपि । ************* टीका ************* विज्ञप्रिया (वि, ह) अनयोः पूर्वपूर्वोक्तविशेषणानां परत्र परत्र विशेषणे विशेष्यतापोहश्च दर्शित इत्याह---क्वचिद्विशेष्यमपीति । वाप्यो भवन्तीति । अत्रापि शरदीति बोध्यम् । करोतीति । सङ्गीतं कर्तृ, अलिषु पदं सुसम्बन्धरूपतया व्यवसायं करोतीत्यर्थः । अत्र विमलत्वादौ विशेष्यभूता वाप्यादयः स्फुटत्कमलादौ भेदेन विशेषणानि । एवमपोहनेपीति । यथा---"न ता वाप्यः स्फुटन्ति यासु पद्मानि सम्प्रति । नच पद्मान्यन्यत्र न यत्र चालयोऽपतन् ॥ "(?) इत्यादिके तद्वोध्यम् । ********** टीका सम्पूर्णा ********** उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते ॥ १०.७८ ॥ लोचना (लो, औ) सारो नामालङ्कारः । ********** टीका सम्पूर्णा ********** यथा-- "राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, क) सारालङ्कारमाह---उत्तरोत्तरमिति । राज्ये सारमिति । नपुंसकलिङ्गस्य सारपदस्य जहदजहल्लिङ्गद्वयमपीत्यतोत्राजहल्लिङ्गता । तत्किं त्रिभुवनसारा बालाऽराधिता भवतेत्यत्र तु जहल्लिङ्गता । वराङ्गनानङ्गेति---अनङ्गसर्वस्वभूता वराङ्गनेत्यर्थः । नन्वत्र राज्ये इत्यादौ यद्यधिकरणसप्तमी तदा राजाद्यपेक्षया सारत्वाप्रतीत्या निष्प्रयोजकसारत्वानुपपत्तिः । राज्यवसुधयोः सौधतल्पयोस्तल्पवराङ्गनयोश्च सामान्यविशेषभावाभावेन निर्धारणानुपपत्तिः, पुरुषेषु क्षत्रियः शूर इत्यादिषु सामान्यविशेषभावसत्त्वे एव निर्धारणात् । उच्यते---राज्ये राजत्वविषये यद्यद्वस्तु तेषु वसुधा सारम् । वसुधायां यद्यद्वस्तु तेषु पुरं सारमित्यादिरीत्या यद्यद्वस्तु तेषिवत्यध्याहारेण निर्धारणात्तेषु इत्यत्र निर्धारणसप्तमी । राज्ये इत्यत्र विषयसप्तमी, वसुधायामित्यादिष्वधिकरणसप्तमी । ********** टीका सम्पूर्णा ********** यथासंख्यमूद्देश उद्दिष्टानां क्रमेण यत् । ************* टीका ************* विज्ञप्रिया (वि, ख) यथासंख्यालङ्कारमाह---यथासंख्यमिति । प्रथमोद्दिष्टानां यः प्रथमद्वितीयादिक्रमस्तेन क्रमेण तदन्वितानामनु पश्चादुद्देश इत्यर्थः । लोचना (लो, अ) सम्प्रति वाक्यन्यायाश्रता अलङ्कारा उच्यन्ते । यथासंख्यनामालङ्करणम् । अनूद्देशः अनु पश्चात्निर्देशः । उद्दिष्टानामुन्मीलनादिक्रियाणां वञ्जुलादिभिः क्रमेण सम्बन्धः । ********** टीका सम्पूर्णा ********** यथा-- "उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु क्रीडाकाननमाविशन्ति वलयक्वाणैः समुत्नासय । इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठेषु साङ्केतिक- व्याहाराः सुभग ! त्वदीयविरहे तस्याः सखीनां मिथः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ग) उन्मीलन्तीति । नायके नायिकाविरहकालीनान् तत्सखीनां साङ्केतिकव्यवहारान् कथयन्त्याः कस्याश्चिदुक्तिरियम् । हे सुभग ! त्वदीयविरहे तस्याः सखीनां तत्तत्क्रियया वञ्जुलादित्रये सङ्केतिता मिथः इत्थं वायवहारा इत्यर्थः । कीदृशा व्यवहारा इत्यत्राह । उन्मीलन्तीति । विकशन्तीत्यर्थः । इयमेकस्याः सख्याः प्रथमोक्तवञ्जुलपुष्पकर्तृके उन्मीलने सङ्केतिता प्राथमिकी उक्तिः । अपरसख्याश्च नखैरित्यादिका प्राथमिकी प्रत्युक्तिः । वहतीति द्वितीयोक्तदक्षिणानिलकर्तृके वहने सङ्केतिता इयं सख्या द्वितीयोक्तिः । अपरसख्याश्च चेलाञ्चलेनेत्यादि द्वितीया प्रत्युक्तिः । क्रीडेत्यादिका अपरसख्या तृतीयप्रत्युक्तिः । इत्थं प्रथमादिक्रमेणोक्तानां पश्चात्तत्क्रमेणैव तदन्वितानामुद्देशः । ********** टीका सम्पूर्णा ********** क्वचिदेकमनेकस्मिन्ननेकं चैकगं क्रमात् ॥ १०.७९ ॥ भवति क्रियते वा चेत्तदा पर्याय इष्यते । ************* टीका ************* विज्ञप्रिया (वि, घ) पर्यायालङ्कारमाह--क्वचिदेकमिति । क्वचित्श्लोके एकमनेकस्मिन् क्रमात्भवेत्कारणक्रमात्क्रियते वा चेत्तथा अनेकमेकगमेकगमि वा क्रमात्भवति क्रियते वा चेत्तदा पर्याय इष्यते इत्यर्तः । ********** टीका सम्पूर्णा ********** क्रमेण यथा-- "स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे क्रमेण नाभिं प्रथमोदबिन्धवः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ङ) तत्रैकस्या अनेकत्र भवनमाह---स्थिता इति । तपस्यन्त्याः पार्वत्याः अङ्गेषु नवमेघजलपतनक्रमवर्णनमिदम् । प्रथमोदबिन्दवः क्रमेण तस्या नाभिं प्रपेदिरे । तत्क्रमयमाह---स्थिता इति । पक्ष्मणां निबिडत्वेन तत्र क्षणं स्थिताः ततस्ते ताडिताधारः । अधरस्य कोमलत्वेन जलबिन्दुभिरपि ताडनम् । पयोधरोत्सेधः । कृद्विहितभावत्वेनोच्छूनौ पयोधरौ । तयोः कठिनत्वेन तत्र निपातेन ततः चूर्णिताः । तत्र वलीषु स्खलिताः तासामुच्चनीचत्वान्नाभेर्गभीरत्वेन ततो नान्यत्र गमनम् । अत्र स्वयंभवनम् । लोचना (लो, आ) स्थिताः क्षणमित्यादावेके प्रथमोदबिन्दवोऽवोऽनेकेषु पक्ष्मादिषु क्रमेणाभवन् । एवं विलासिन्यो वृकादयश्चानेकविधा अरिपुरे । ********** टीका सम्पूर्णा ********** "विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः । वृककाकशिवास्तत्र धावन्त्यरिपुरे तव" ॥ ************* टीका ************* विज्ञप्रिया (वि, च) अनेकेषामेकत्र भवनं त्वाह---विचरन्तीति । यत्र तवारिपुर इत्यन्वयः । अत्र विलासिनी वृकादीमेकत्रारिपुरे भवनम् । ********** टीका सम्पूर्णा ********** "विसृष्टरागादधारान्निवर्तितः स्तनाङ्गरागादरुणाच्च कन्दुकात् । कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः" ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) एकस्यानेकत्र परेण क्रियमाणत्वामाह---विसृष्टेति । पार्वत्यास्तपस्यारम्भवर्णनमिदम् । तया करोऽक्षसूत्रे प्रणयीकृतः, व्यापृतः । कुशाङ्कुरेत्यादि विशिष्टश्च कृत इत्यर्थः । तथा चात्र विधेयद्वयम् । चार्थस्तु गम्यः कीदृशः--अधरान्निवर्तितः । यतो विसृष्टरागादधरे रागदानार्थमेव प्रागधरे करदानाद्कन्दुकक्रीडाभावाच्च ततो निवर्तनम् । स्तनाङ्गेत्यादिविशेषणं च स्वरूपकथनमात्रम् । स्तनेऽङ्गरागोपीदानीं च न दीयते इत्येतत्सूचनार्थं वा । अत्र तयोः क्रियमाणत्वम् । लोचना (लो, इ) विसृष्टेत्यादावेकः करोऽधरादौ । ********** टीका सम्पूर्णा ********** "ययोरारोपितस्तारो हारस्तेऽरिवधूजनैः" ॥ निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुविन्दवः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) अनेकस्यैकत्र क्रियमाणत्वमाह---ययोरिति । अत्र हाराश्रुबिन्दूनामनेकेषामेकत्र स्तने अरिवधूभिः । लोचना (लो, ई) ययोरित्यादौ हारोऽश्रुबिन्दवश्च पयोधरे कृताः । ********** टीका सम्पूर्णा ********** एषु च क्वचिदाधारः संहतरूपोऽसंहतरूपश्च । क्वचिदाधेयमपि । लोचना (लो, उ) संहतरूपो मिलितस्वरूपः । तद्विपरीत एकाकीभूतः । ********** टीका सम्पूर्णा ********** यथा-- "स्थिताः क्षणम्-" इत्यत्रोदबिन्दवः पक्ष्मादावसंहतरूप आधारे क्रमेणाभवन् । "विचरन्ति-" इत्यत्राधेयभूता वृकादयः संहतरूपारिपुरे क्रमेणाभवन् । एवमन्यत् । ************* टीका ************* विज्ञप्रिया (वि, झ) एष्वाधाराऽधेयानां संहतत्वासंहतत्वे सम्भवतस्तद्भेदाभेदो न विवक्षितः इत्यभिप्रायेण तद्दर्शयति---एष्विति । संहतरूपो मिलितानेकरूपोऽसंहतरूपोऽमिलितप्रत्येकरूपः । क्वचित्क्वचिदाधेयस्यापि एवं द्वैरूप्यमित्याह---क्वचिदाधेयमपीति । अत्राधारस्यासंहतत्वं दर्शयति---यथा स्थिताः क्षणमित्यत्रेति । अत्राधेयानामुदबिन्दूनां तु संहतत्वरूपत्वं नात्र विशेषकम् । येषामनेकत्वघटितोयमलङ्कारस्तेषामेव संहतत्वासंहतत्वायोर्विशेषकत्वाद्बिन्दूनां त्वनेकाश्रयेषु एकस्यैव घटितत्वात् । आधाराणां संहतत्वं यथा "स्वयंवरे सामिलितेषु राजसु क्रमेण चक्षुर्निदधे पतिंवरा" इति । आधेयानामसंहतत्वं तु । "पूर्वं पूर्वं यदा त्याक्षीन्नृपकन्या पतिंवरा । परः परस्तदा तस्यां विशेषादाकुलो नृपः" ॥ इत्यत्र बोध्यम् । एकत्राधारेऽनेकेषामाधेयानां संहतत्वं दर्शयति---विचरन्तीति । वृकादयाः संहतरूपा इति बहुवचनेन मिलनबोधनात्क्रमस्तु विलासिनीचरणापेक्षया । एवमन्यत्रेति । ययोरारोपति इत्यत्रापि अश्रुबिन्दवोऽनेकसंहतरूपाः । ********** टीका सम्पूर्णा ********** अत्र चैकस्यानेकत्र क्रमेणैव वृत्तेविशेषालङ्काराद्भेदः । विनिमयाभावात्परिवृत्तेः । ************* टीका ************* विज्ञप्रिया (वि, ञ) ननु क्वचिदेकमनेकस्मिन्नित्युक्तरूपस्य पर्यायस्यैकं चानेकगोचरमित्युक्तरूपाद्विशेषालङ्कारात्को विशेष इत्यत आह--अत्र चेति । क्रमयुगपदवृत्तिभ्यां द्वयोर्भेद इत्यर्तः । वक्ष्यमाणपरिवृत्त्यलङ्कारतो विशेषमाह---विनिमयाभावाच्चेति । परस्परधर्मस्य परस्परेण ग्रहणरूपो विनिमयः परिवृत्तावेव । अत्र त्वनेकाश्रयगतमेवैकं, नतु तादृशाश्रयधर्मसामान्येन ग्रहणमित्यर्तः । ********** टीका सम्पूर्णा ********** परिवृत्तिविंनिमयः समन्यूनाधिकैर्भवेत् ॥ १०.८० ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) परिवृत्त्यलङ्कारमाह---परिवृत्तिरिति । समाभ्यां न्यूनाधिकाभ्यां च विनिमय इत्यर्थः । न्यूनाधिकविनिमयश्च न्यूनं दत्त्वाधिकग्रहणमधिकं दत्त्वा न्यूनग्रहणमिति द्विधा । ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्-- "दत्त्वा कटाक्षमेणाक्षी जग्रह हृदयं मम । मया तु हृदयं दत्त्वा गृहीतो मदनज्वरः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) तत्र समाभ्यामधिकं दत्त्वा न्यूनग्रहणाच्च विनिमये एकमुदाहरणमाह---दत्त्वा कटाक्षमिति । स्पष्टम् । ********** टीका सम्पूर्णा ********** अत्र प्रथमेर्ऽधे समेन, द्वितीयेर्ऽधे न्यूनेन । "तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यतेऽधुना । येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) न्यूनं दत्त्वा अधिकग्रहणमाह---तस्य चेति । रामस्योक्तिरियम् । प्रवयसोऽतिवृद्धस्य । शोच्यते । नैव क्रिमपि शोचनीयम् । येन जर्जरस्य जराजीर्णस्य कलेवरस्य शरीरस्य व्ययादिन्दुकिरणोज्ज्वलं चन्द्रकिरणवत्शुभ्रं यशः क्रीतम् । अत्र जर्जरस्य शरीरस्य दानेन उज्ज्वलस्य यशासः क्रयः । अतोत्र आधिक्यम् । ********** टीका सम्पूर्णा ********** अत्रादिक्येन । प्रश्नादप्रश्नतो वापि कथिताद्वस्तुनो भवेत् । तादृगन्यव्यपोहश्चेच्छाब्द आर्थोऽथवा तदा ॥ १०.८१ ॥ परिसंख्या-- ************* टीका ************* विज्ञप्रिया (वि, ढ) चतुर्विधं परिसंख्यालङ्कारमाह---प्रश्रादप्रश्रतो वापीति । प्रश्रवशात्तदभावाद्वा कथितं यद्यद्प्रष्टव्यस्य विशेषणस्य विशेष्यभूतं वस्तु परेण कथितात्तस्माधेतोः कथितसदृशस्यान्यस्य प्रष्टव्यविशेषणान्वयव्यवच्छेदः शाब्द आर्थो वा प्रतीयते चेत्तदा सव्यवच्छेदः परिसंख्यालङ्कार इत्यर्थः । ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्-- "किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः । किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम्" ॥ अत्र व्यवच्छेद्यं रत्नादि शाब्दम् । ************* टीका ************* विज्ञप्रिया (वि, ण) अत्र प्रश्रपूर्वकथिताच्छाब्दं व्यवच्छेदमाहुः---किं भूषणमिति । अत्र लोके किं सुदृढं भूषणमिति प्रश्रः, यश इत्युत्तरम् । न रत्नमिति । उपादेयत्वेन यशः सदृशस्यान्यस्य सत्नस्य प्रष्टव्यविशेषणभूतभूषणत्वान्वयव्यवच्छेदः । एवं सर्वत्र बोध्यम् । आर्यैर्वशिष्टादिभिश्चरितमाचरितं किं वस्तु कार्यमिति प्रश्रः । सुकृतमित्युत्तरम् । तदीयचाण्डालीगमनरूपदोषस्य तदा चरणीयत्वेन सुकृतसदृशस्य व्यवच्छेदो न दोष इति शाब्दः । एवमुत्तरत्र अप्रतिहतं चक्षुः किं, धिषणा बुद्धिः, न नेत्रम् । जानातीति त्वदपर इति पाठे प्रत्युत्तरपरितुष्टस्य प्रष्टुरुत्तरकर्तृजनप्रशंसावाक्यमिदम् । तदपर इति पाठे धिषणापर इत्यर्थः । अत्र व्यवच्छेद्यमिति । व्यवच्छेद इत्यर्थः । सूत्रे व्यवच्छेदस्यैव शाब्दतया उक्तत्वान्नतु व्यवच्छेद्यस्य । एवमुत्तरत्रापि । ********** टीका सम्पूर्णा ********** "किमाराध्यं सदा पुण्यं कश्च सेव्यः सदागमः । को ध्येयो भगवान् विष्णुः किं काम्यं परमं पदम्" ॥ अत्र व्यवच्छेद्यं पापाद्यार्थम् । अनयोः प्रश्नपूर्वकत्वम् । ************* टीका ************* विज्ञप्रिया (वि, त) अन्यव्यपोहस्यार्थत्वं दर्शयति---किमाराध्यमिति । यद्यपि आराध्यत्वमाराधनाविषयत्वमाराधना च देवताप्रीतिहेतुः क्रिया तथापि आराध्यत्वमत्र पुरुषप्रवृत्तिविषयत्वमित्यर्थः । तेन आराध्यमुपार्जनीयं पुण्यमिति उत्तरस्य नान्यदिति व्यवच्छेदः । सदागमः सतामागमः सत्सङ्गः, परमपदं मुक्तिः । ********** टीका सम्पूर्णा ********** अप्रश्नपूर्वकत्वे यथा-- "भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे । चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) अप्रश्नपूर्वकत्वे व्यवच्छेदस्य शाब्दत्वे आह---भक्तिर्भव इति युवतिरूपे कामास्त्रे । भक्तिरित्यादौ सर्वत्र प्रायो महतां परिदृश्यत इत्यास्यान्वयः । ********** टीका सम्पूर्णा ********** "बलमार्तभयोपशान्तये विदुषां संमतये बहु श्रुतम् । वसु तस्य न केवलं विभोर्गुणवत्तापि परप्रयोजनम्" ॥ श्लेषमूलत्वे चास्य वैचित्र्यविशेषो यथा-- "यस्मिंश्च राजनि "जितजगति पालयति महीं चित्रकर्मसु वर्णसङ्करश्चापेषु गुणच्छेदः-" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, द) अप्रश्रपूर्वकत्वे व्यवच्छेदस्यार्थत्वं दर्शयति---बलमिति । बलं विक्रमः आर्तानां पीडितानां भयनाशाय, सम्मतये प्रीतये इत्यर्थः, श्रुतं विद्या । अतो न केवलं तस्य राज्ञो वसु धनमेव परप्रयोजनम्, परप्रयोजनस्यार्थिदारिद्र्यनाशरूपस्य जनकमपितु बलादिगुणवत्तापि तथेत्यर्तः । प्रयोजनजनके प्रयोजनपदमायुर्घृतमितिवत्सारोपलाक्षणिकम् । अत्र न स्वार्थमिति व्यपोहप्रतीतिः । चित्रकर्मसु इत्यादि । अनयोर्वर्णगुणपदश्लेषः न ब्राह्मणआदिषु न प्रजासु इति व्यपोहप्रतीतिः । ********** टीका सम्पूर्णा ********** --उत्तरं प्रश्नस्योत्तरादुन्नयो यदि । यच्चासकृदसंभाव्यं सत्यपि प्रश्न उत्तरम् ॥ १०.८२ ॥ ************* टीका ************* विज्ञप्रिया (वि, ध) द्विविधोत्तरालङ्कारमाह---उत्तरमिति । उन्नय उन्नयनं व्यञ्जना । यच्छेति । असकृदित्यस्योभयत्रान्वयः । सत्यप्यसकृत्प्रश्रेऽसम्भाव्यं विलक्षणत्वेन सहसा अप्रतीयमानमसकृदुत्तरमित्यर्थः । लोचना (लो, ऊ) उत्तरमुत्तराख्यमलङ्करणम् । असकृदित्यनेन प्रश्रपूर्वस्यासम्भवोत्तरस्य सकृद्निर्देशे न चारुत्वम् । ********** टीका सम्पूर्णा ********** यथा मम-- "वीभितुं न क्षमा श्वश्रूः स्वामी दूरतरं गतः । अहमेकाकिनी बाला तवेह वसतिः कुतः" ॥ ************* टीका ************* विज्ञप्रिया (वि, न) वीक्षितुमिति । स्वयं दूत्या उक्तिरियम् । वाच्यार्थे श्वश्र्वाः वीक्षणासामर्थ्यप्रदर्शनं तव रन्धनभोजनस्थलेऽपि गमनासम्भावनाप्रदर्शनार्थम् । अत्र निषेधाभावादाक्षेपालङ्कारोऽपि बोध्यः । ********** टीका सम्पूर्णा ********** अनेन पथिकस्य वसतियाचनं प्रतीयते । "का विसमा देव्यगई किं लद्धव्वं जणो गुणग्गाही । किं सोक्खं सुकलत्तं किं दुग्गोज्झं खलो लोओ" ॥ ************* टीका ************* विज्ञप्रिया (वि, प) द्वितीयमुत्तरमाह---विषमेति । "का विषमा दैवगतिः किं लब्धव्यं जनो गुणग्राही । कि सौख्यं, सुकलत्रं, कि दुर्ग्राह्यं खलो लोकः ॥ "इति सं दृ । दैवगत्यादिवैषम्यादीनां वैलक्षण्येन सहसार्थतोऽप्रतीयमानत्वात्तत्रैव प्रतीतिविश्रान्तेरिति भावः । लोचना (लो, ऋ) केति । "का विषमा दैवगतिः किं लब्धव्यं जनो गुणग्राही । कि सौख्यं सुकलत्रं किं दुर्ग्रह्यं खलो लोकः" ॥ ********** टीका सम्पूर्णा ********** अत्रान्यव्यपोहे तात्पर्याभावात्परिसंख्यातो भेदः । न चेदमनुमानम्, साध्यसाधनयोर्द्वयोनिर्देश एव तस्याङ्गीकारात् । न च काव्यलिङ्गम्, उत्तरस्य प्रश्नं प्रत्यजनकत्वात् । ************* टीका ************* विज्ञप्रिया (वि, फ) प्रश्नं प्रत्यजनकत्वादिति । इदं च ज्ञापकहेतीः काव्यलिङ्गत्वाभावत्वकथनं प्रागेवार्थान्तरन्यासविचारे स्मर्तव्यम् । परं प्रश्नज्ञापकत्वे उत्तरालङ्कारेण बाधनान्न तत्र काव्यलिङ्गत्वावकाशः । लोचना (लो, ॠ) अन्यव्यपोहे तात्पर्य्याभावात्, किन्तु पूर्वजनाभिसम्बन्धस्य दैवगत्यादेर्विषमत्वस्य ख्यपनमात्रस्य परिगतत्वादित्यर्थः । एवमुत्तरालङ्कारस्य विषयप्रकारस्यालङ्कारान्तरविवेकलाघवात्पश्चाद्भिनत्ति---नचेति । ********** टीका सम्पूर्णा ********** दण्डापूपिकयान्यार्थागमोर्ऽथापत्तिरष्यते । ************* टीका ************* विज्ञप्रिया (वि, ब) अर्थापत्त्यलङ्कारमाह--दण्डापूपिकयेति दण्डापूपिका न्यायविशेषः । तञ्च स्वयमेव दर्शयिष्यति । तन्न्यायेनान्यार्थस्तानुक्तापरार्थस्यागमो व्यञ्जनेत्यर्थः । तन्न्यायश्च शब्दश्लेषाल्लभ्यो बोध्यः । अन्यथा समासोक्त्यप्रस्तुतप्रशं सादावपि तत्प्रसक्तेः । ********** टीका सम्पूर्णा ********** "मूषिकेण दण्डो भक्षित" इत्यनेन तत्सहचरितमपूपभक्षणमर्थादायातं भवतीति नियतसमानन्यायादर्थान्तरमापततीत्येष न्यायो दण्डापूपिका । ************* टीका ************* विज्ञप्रिया (वि, भ) तन्न्यायं दर्शयति---मूषिकेणेति । दण्डोऽत्र तत्तत्स्थलीतोऽपूकध्याकर्षणदण्डः । अपूपः पिष्टकम् । तद्दण्डभक्षणं तत्पिष्टकगन्धात् । तथा तत्सहचरितपिष्टकभक्षणमावश्यकमतो मूषिकेण दण्डो भक्षित इत्यनेनार्थात्केनाप्युक्तेनेति शेषः । इति नियतसमानेति । इति यत्नियतं तस्य समानन्यायादर्थान्तरमुक्तभिन्नोर्थ आपतति प्रतीयत इत्यर्थः । तन्न्यायलभ्यत्वे द्वैविध्यं दर्शयतिक्वचिदिति । लोचना (लो, ळ) कन् प्रत्ययेन दण्डापूपवत्दण्डापूपिका, तथाविधन्यायोपि दण्डापूपिका । येन केन विधिना च वस्त्वन्तरस्यागमोर्ऽथादापतनं सिद्धिरिति यावत् । एतदेव दर्शयति---मृषिकेणेति । अर्थादापतति । तथाहि येन खलु मूषिकेणापूपसहचरितो दण्डो भक्षितस्तेन कथमपूपः परित्यक्त इति तथेहापि बोद्धव्यम् । तस्मात्यत्र प्रतिसदृशन्यायादर्थान्तरानुगमस्तत्रायमलङ्कार इत्यर्थः । ********** टीका सम्पूर्णा ********** अत्र च क्वचित्प्राकरणिकादर्थादप्राकरणिकस्यार्थस्यापतनं क्वचिदप्राकरणिकार्थत्प्राकरणिकार्थस्येति द्वौ भेदौ । क्रमेणोदाहरणम्-- "हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः" ॥ ************* टीका ************* विज्ञप्रिया (वि, म) तत्र प्राकरणिकादप्राकरणिकार्थस्य तन्न्यायगम्यत्वं दर्शयतिहारोयमिति । लुठतीति । स्तनमण्डलावज्ञाधीनाङ्गपरावृत्तिरूपगतिविशेषेण तिष्ठतीत्यर्थः । इयमवस्थावज्ञास्थितिरूपा । के वयमिति । स्मराकिङ्कराणामियमवस्था । स्मरकिङ्कराणामस्माकमित्येवं ज्ञेयत्वात्सुतरां लुठनमित्यर्थः । अत्रालङ्काराधीनसौन्दर्यवर्णनस्य प्रक्रान्तत्वान्मुक्ताः प्राकरणिक्यः । अत्र के वयमित्यनेन तन्न्यायलाभः । लोचना (लो, ए) मुक्ता मौक्तिकानि प्राप्तनिः श्रेयसश्च । एवं मुक्तानां नारीणां स्तनमणअडललुठनेन पूर्वन्यायात्स्मरकिङ्कराणामपीत्यर्थः । ********** टीका सम्पूर्णा ********** "विललाप स बाष्पगद्रदं सहजामप्यपहाय धीरताम् । अतितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिणाम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, य) अप्राकरणिकात्प्राकरणिकार्थलाभमाह---विललापेति । स राजा अजः सहजां स्वाभाविकीम्, अत्रायोऽप्राकरणिकम् । ततः प्राकरणिकाजस्य भार्दवलाभः । कैव कथेत्यादिशब्दाच्च तन्न्यायलाभः । ********** टीका सम्पूर्णा ********** अत्र च समानन्यायस्य श्लेषमूलत्वे वैचित्र्यविशेषो यथोदाहृते-"हारोऽयम्-" इत्यादौ न चेदमनुमानम्, समानन्यायस्य सम्बन्धरूपत्वाभावात् । ************* टीका ************* विज्ञप्रिया (वि, र) श्लेषमूलत्वे इति । हारोयमित्यादौ मुक्तापदं स्मरस्याकिङ्गरमुक्तरूपेर्ऽथे मौक्तिके च श्लिष्टम् । लुठतीति पदं च सावज्ञस्थितिरूपे आलिङ्गने चार्थे श्लिष्टम् । विललापेत्यादौ च तप्तपदमग्निसंयोगे विरहदुः खे च श्लिष्टम् । मार्दवपदं च कोमलत्वे कातरत्वे चश्लिष्टम् । यथा हारोयमित्यादिपदाद्विललापेत्यादिश्लोकस्यापि परिग्रहः । नचेदमिति । हारोयमित्यत्र स्तनसङ्गिहारलुठनेन स्तनसङ्गिकामुकलुठनस्य विललापेत्यादौ चाभितापेन मार्दवस्यानुमेयत्वप्रसक्तेः । समानन्यायस्येति । दण्डापूपिकान्यायस्येत्यर्थः । सम्बन्धरूपत्वाभावात्व्याप्तिरूपसम्बन्धरूपत्वाभावात् । यद्यपि स्तनसङ्गित्वलल्लुठनयोरमितप्तत्वमार्दवयोश्च व्याप्तिरस्ति, तथा न्यायस्य पुरः स्फूर्तिकत्वात्साध्यहेतुभावेन निर्देशाभावाच्च नानुमानमित्याभिप्रायः । लोचना (लो, ऐ) सम्बन्धोऽविनाभावः । नचेयं शास्त्रीयार्थापत्तिः । तस्य हि पीनो देवदत्तो दिवा न भुङ्क्ते पीनत्वभोजनादिकयोरविनाभाव इति भावः । ********** टीका सम्पूर्णा ********** विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयु(य) तः ॥ १०.८३ ॥ ************* टीका ************* विज्ञप्रिया (वि, ल) विकल्पालङ्कारमाह--विकल्प इति । कोटिद्वये समानत्वं तुल्यबलता । चातुरी चालङ्कारान्तरघटितरूपा । अत एव अस्याः सर्गविधौ इत्यत्र चन्द्रमदनयोः प्रजापतित्वविकल्पेऽप्यलङ्कारान्तराघटितत्वान्न विकल्पालङ्कारः । ********** टीका सम्पूर्णा ********** यथा-- "नमयन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियन्तामाज्ञा मौर्व्यो वा" । अत्र शिरसां धनुषां च नमनयोः सन्धिविग्रहोपलक्षणत्वात्सन्धिविग्रहयोश्चैकदा कर्तुमशक्यत्वाद्विरोधः, स चैकपक्षाश्रयणपर्यवसानः । तुल्यबलत्वं चात्र धनुः शिरोनमनयोर्दूयोरपि स्पर्धया सम्भाव्यमानत्वात् । चातुर्यं चात्रौपम्यगर्भत्वेन । एवं "कर्णपूरीक्रियन्ताम्" इत्यत्रापि ************* टीका ************* विज्ञप्रिया (वि, व) नमयन्त्वित्यादिकं न श्लोकः, किन्तु जेतृनृपतेर्जेतव्यनृपतिषु जिज्ञासावाक्यमात्रमिदम् । प्रणिपातार्थं ते राजानः शिरांसि वा नमयन्तु युद्धार्थं धनुर्वा नमयन्तु इत्यर्थः । तथा च भमाज्ञा चाकर्णपूरीक्रियतां कर्णं पूरयित्वा श्रूयतां युद्धार्थं मौर्वो वाकर्णपर्यन्तं नीयतामित्यर्थः । अत्र विरोधं ग्राहयितुमाह---अत्र धनुषामिति । सन्धिविग्रहोपलक्षणत्वात्तद्वोधकत्वादित्थं विरोधं दर्शयित्वा अत्रेच्छाविकल्पत्वं दर्शयति--स चेति । इच्छाया एकपक्षग्रहणे पर्याप्तेः । तुल्यबलत्वे एव इच्छाविकल्पसम्भवात् । तुल्यबलत्वं चात्रेति । द्वयोरिति । द्वयोः सकाशादित्यर्थः । तद्द्वयहेतुकयोः चात्महितकारित्वेन द्वयोस्तुल्यबलत्वम् । चातुरीयुतत्वं दर्शयति---चातुर्यं चेति । औपम्यमुपमा । शिरो धनुषोर्नमनसादृश्यादाज्ञामौर्व्योश्च कर्णपूरीकरणसादृश्यादुपम् । इदमुपलक्षणं द्वयोरेकक्रियान्वयेन तुल्ययोग्यता बोध्या । लोचना (लो, ओ) तुल्यबलयोरेकस्मिन् कार्ये नियोजितुमर्हयोः, विरोधः एकदा निर्वाहयितुमशक्यत्वात् । स एककक्षाश्रयणपर्यवसानादविरोध एव । ********** टीका सम्पूर्णा ********** एवं-- "युष्माकं कुरुतां भवातिशमनं नेत्रे तनुर्वा हरेः" । अत्र श्लेषावष्टम्भेन चारुत्वम् । लोचना (लो, औ) श्लेषश्च कुरुतामित्यत्र द्विवचनैकवचनयोरेकरूपत्वात् । अत्र नेत्रवर्ष्मणोर्द्वयोरपि चार्तिशमने समर्थत्वात् । ********** टीका सम्पूर्णा ********** "दीयतामजितं वित्तं देवाय ब्राह्मणाय वा" । ************* टीका ************* विज्ञप्रिया (वि, श) चातुरीयुतस्य व्यावृत्तिं दर्शयति---दीयतामिति । अत्र विरोधप्रसक्तिरनवधानमूलिकैवेति मन्यामहे---एकदैव देवब्राह्मणेभ्यो वित्तदानसम्भवेन विरोधाभावात् । दवायोवेत्यादिनियमगर्भत्वेन एकव्यक्तिकवित्ताभिप्रायेण वा विरोधो दर्शित इति वा । ********** टीका सम्पूर्णा ********** इत्यत्र चातुर्याभावान्नायमलङ्कारः । समुच्चयोऽयमेकस्मिन् सति कार्यस्य साधके । खलेकपोतिकान्यायात्तत्करः स्यात्परोऽपि चेत् ॥ १०.८४ ॥ गुणौ क्रिये वा युगपत्स्यातां यद्वा गुणक्रिये । ************* टीका ************* विज्ञप्रिया (वि, ष) चतुर्विदं समुच्चयालङ्कारमाह---समुच्चयोयमिति । धान्यमर्दनखले कपोतानामेकदापतनं तन्न्यायस्यन्न्यायादित्यर्थः । अन्यद्भेदत्रयमाह---गुणआविति । गुणद्वयं वा क्रियाद्वयं वा गुणक्रियाद्वयं वा यदि युगपद्वर्णितं स्यादित्यर्तः । लोचना (लो, अ) समुच्चय इति । तृतीयपादेन समाधेर्व्यवच्छेदः । तच्च वृत्तावेव सुव्यक्तम् । तत्करः तस्य कार्यस्य साधकः । ********** टीका सम्पूर्णा ********** यथा मम-- "हंहो धीरसमिर ! हन्त जननं ते चन्दनक्ष्माभृतो दाक्षिण्यं जगदुत्तरं परिचयो गोदावरीवारिभिः । प्रत्यङ्गं दहसीति मे त्वमपि चेदुद्दामदावाग्निव- न्मत्तोयं मलिनात्मको वनचरः किं वक्ष्यते कोकिलः" ॥ ************* टीका ************* विज्ञप्रिया (वि, स) हंहो धीरेति . मन्दस्यैव धैर्यवत्त्वेनाकार्यनिवृत्तिरूपेण सम्बोधनम् । चन्दनेति । चन्दनसम्बन्धात्सुगन्धेरेव महाजनजन्यत्वेन सम्बोधनम् । दाक्षिण्यमिति । दक्षिणदिग्भवस्यैव जगद्विलक्षणविचक्षणत्वमुक्तम् । परिचय इति । जलसम्बन्धे शीतलस्यैव पुण्यनदीसम्बन्धेन महत्त्वमुक्तम् । ईदृशस्त्वमिति विरहे मे मम प्रत्यङ्गं दावाग्निवद्दहसि चेत्तदा मत्त उन्मत्तो मलिनात्मकः कुष्णवर्ण एव कुटिलस्वभावः । वनचरत्वेन च लोकव्यवहारानभिज्ञः कोकिलः किं वक्ष्यते ? स सुतरां धक्ष्यतीत्यर्थः । लोचना (लो, आ) धीरः वंशेन विधिना पाण्डित्यच्च, क्ष्माभृत्पर्वतः भूधरणक्षमः कश्चित्महापुरुषः । दाक्षिण्यं दक्षिणा दिक्जन्मसरलता च । मलिनात्मकः श्यामः कुटिलाशयश्च । हेतूनां धीरत्वादीनां सन्तः शोभनाः । ********** टीका सम्पूर्णा ********** अत्र दाहे एकस्मिंश्चन्दनक्ष्माभृज्जन्मरूपे कारणे सत्यपि दाक्षिण्यादीनां हेत्वन्तराणामुपादानम् । अत्र सर्वेषामपि हेतूनां शोभनत्वात्सद्योगः । अत्रैव चतुर्थपादे मत्तादीनामशोभनानां योगादसद्योगः । ************* टीका ************* विज्ञप्रिया (वि, ह) अत्रेति । अदाहकत्वे इत्येव पाठः । दाहकत्वे इति प्रामादिक एव पाठः । चन्दनक्षमेत्यादीनामदाहकहेतुत्वं श्लोकव्याख्यायामेव व्याख्यातम् । चतुर्थपाद इति । दाहं प्रति हेतूनां मत्तत्वादीनामित्यर्थः । सत्त्वासत्त्वे उपादेयत्वानुपादेयत्वे । ********** टीका सम्पूर्णा ********** सदसद्योगो यथा-- "शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभूर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गनगतः खलो मनसि सप्त शल्यानि मे" ॥ ************* टीका ************* विज्ञप्रिया (वि, क) शशीति । एते सप्त धूसरत्वविशिष्टशय्यादयः सप्त मनसि शल्यानीत्यर्थः । अनौचित्यदर्शनेन शल्यवद्दुः खदायित्वात् । तेष्वनौचित्यं दर्शयति---शशीति । उज्ज्वलमूर्तेस्तस्य दिवसधूसरत्वमनुचितम् । एवं गलितयौवनायाः कामवत्त्वं कामिन्या गलितयौवनत्वं वा अनुचितम् । एवं सरसो वारिजशून्यत्वम् । शोभनाकृतेर्मूर्खस्याक्षरेण विद्यया शून्यत्वम् । प्रभोर्धनपरायणत्वं, धनपरायण जनस्य प्रभुत्वं वा । सज्जनस्य सततदुर्गतत्वं सततदुर्गतस्य सज्जनत्वं वा, नृपाङ्गण गतस्य खलत्वं, खलस्य नृपाङागणगतत्वं वा अनुचितामित्यर्थः । अत्र शोच्यानां विधेयानां सदसत्त्ववशात्सदसद्योगः । तत्र दैवाधानदोषेण शोच्यस्य सत्त्वं स्वाधीनदोषेण शोच्यस्यासत्त्वम् । तत्र शशिनो धूसरत्वं, कामिन्या गलितयौवनत्वस्य विधेयत्वपक्षे गलितयौवनात्वं, सरसो वारिजशून्यत्वं, स्वाकृतेरनक्षरमूर्खत्वं, सज्जनस्य दुर्गतत्वं तदैव दोषात्शोच्यत्वेन शोभनम् । गलितयौवनायां कामवत्त्वस्य विधेयत्वपक्षे विधेयस्य तस्य प्रभोर्धनपरायणस्य धनपरायणे प्रभुत्वस्य वा, विधेयस्य खले नृपाङ्गणगतत्वस्य नृपाङ्गणगते खलत्वस्य वा बिधेयस्य स्वाधीनदोषेण शोच्यत्वाद शोभनत्वमिति विधेयानामेव सदसत्त्वम् । ********** टीका सम्पूर्णा ********** इह केचिदाहुः--"शशिप्रभृतीनां शोभनत्वं खलस्याशोभनत्वं चेति सदसद्योगः" इति अन्ये तु--"शशिप्रभृतीनां स्वतः शोभनत्वं धूसरत्वादीनां त्वशोभनत्वमिति सदसद्योगः" । अत्र हि शशिप्रभृतिषु धूसरत्वादेरत्यन्तचितत्वमिति विच्छित्तिविशेषस्यैव चमत्कारविधायित्वम् । "मनसि सप्तशल्यानि मे" इति सप्तानामपि शल्यत्वेनोपसंहारश्च । "नृपाङ्गनगतः खल" इति तु क्रमभेदाद्दुष्टत्वमावहति सर्वत्र विशेष्यस्यैव शोभनत्वेन प्रक्रमादिति । इह च खलेकपोतवत्सर्वेषां कारणानां साहित्येनावतारः । समाध्यलङ्कारे त्वेककार्यं प्रति साधके समग्रेऽप्यन्यस्य काकतालीयन्यायेनापतनमिति भेदः । ************* टीका ************* विज्ञप्रिया (वि, ख) पूर्वोक्तश्लोकेपि विधेयानामेव तथात्वाद्भिन्नाभिप्राय ग्रन्थकृन्मनसि कृत्वापरोक्तं सदसद्योगं दर्शयति---इह केचिदिति । एतन्मते उद्देश्यानां विशेष्याणामेव सदसत्त्वम् । मतान्तरमाह---अन्ये त्विति । एतन्मते उद्देश्यविधेययोर्विशेष्यविशेषणयोः सदसतोर्योगः । तेषां मते तथात्वमेव विच्छित्तिविशेषाच्चमत्कारस्तदृर्शयति---अत्रहीति । उद्देश्ये सत्त्वासत्त्वाभ्यां तु तेषां मतेन चमत्कार इत्यर्थः । तेषां सदसत्त्वे एव तावदलङ्कारः । प्रत्युत प्रथमपक्षे तादृशनिर्देशः क्रमभङ्गमावतीत्यर्थः । (वि, ख) तदेव ग्राहयति---सर्वत्रेति । शसी धूसर इत्याद्युद्देश्यविधेयार्थकसर्ववाक्ये इत्यर्थः, अयं च दोषः, खले नृपाङ्गणगत्वस्य विधेयता गतत्वस्य विधेयतापक्ष एव नृपाङ्गणगतदे खलत्वस्य विधयता पक्षेतूद्देश्यः शोभन एवेति नैष दोष इति बोध्यम् । एककारणादेव सुकरे कार्ये दैवात्कारणान्तराऽगमनरूपात्समाध्यलङ्कारादस्य भेदमाह---इह च खलेति । एकस्यैवेति । कार्यं प्रति एकस्यैव समग्रे साधकत्वेऽसमग्रकारणवृत्तिर्न साधकत्वे इत्यर्थः । लोचना (लो, इ) द्वितीयपक्षे सुगतिं दर्शयति । विशेष्यस्य शशिकामिनीप्रभृतेः सूत्रस्य तृतीयपादं विशदयति--इह चेति । काकतालीनन्यायेनेति । ********** टीका सम्पूर्णा ********** "अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् । मुखमानतं च सखि ते ज्वलितश्चास्यान्तरे स्मरज्वलनः" ॥ अत्राद्येर्ऽथे गुणयोर्यौगपद्यम्, द्वितीये क्रिययोः । ************* टीका ************* विज्ञप्रिया (वि, ग) गुणयोः क्रिययोश्च योगपद्यरूपं समुच्चयमाह---अरुणे चेति । अत्र चकारौ यौगपद्यबोधकौ । तौ च ययोरुत्तरभूतौ तयोर्यौगपद्यबोधकौ इत्यत आहअत्राद्ये इति । ********** टीका सम्पूर्णा ********** उभयोर्यौगपद्ये यथा-- "कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चश्रुः । पतितं च महीपतीन्द्र ! तेषां वपुषि प्रस्फुटमापदां कटाक्षैः" ॥ ************* टीका ************* विज्ञप्रिया (वि, घ) कलुषं चेति । अहितेषु विपक्षेषु, महीपतीन्द्रेति सम्बोधनम् । अत्र पूर्वार्धे गुणोत्तरं चकारः, पारर्धे तु क्रियात्तरमित्यनयोर्यौगपद्यम् । धुनोति चेति । एकाधिकरणे रणस्थलरूपे । व्यधिकरण्येप्येष दृश्यते इति काव्यप्रकाशकृत्, यथा--- "कृपाणपाणिश्च भवान् रणक्षितौ । रसाधुवादाश्च सुराः सुरालये" ॥ इत्यत्र रणक्षिति सुरालयरूपाधिकरणभेदः । ********** टीका सम्पूर्णा ********** "धुनोति चासिं तनुते च कीर्तिम्" । इत्यादावेकाधिकरणेऽप्येष दृश्यते । न चात्र दीपकम्, एते हि गुणक्रियायौगपद्ये समुच्चयप्रकारा नियमेन कार्यकारणकालनियमविपर्ययरूपातिशयोक्तिमूलाः, दीपकस्य चातिशयोक्तिमूलत्वाभावः । ************* टीका ************* विज्ञप्रिया (वि, ङ) "धुनोति चासिऽ मित्युदाहरणे एकस्मिन् कर्तृकारकेऽनेकक्रियासम्बन्धादनेकक्रियास्वेककारकरूपदीपकप्रसाक्तिमाशङ्क्य निषिध्यति---न चात्रेति । एते गुणाक्रियायौगपद्ये ये समुच्चयप्रकारास्ते कार्यकारणयोर्यः पौर्वापर्य्यरूपः कालनियमः तद्विपर्य्ययरूपातिशयोक्तिमूला इत्यर्थः । दर्शितोदाहरणेषु सर्वत्रैव गुणयोः क्रिययोर्वा कार्यकारणभावसत्त्वेपि यौगपद्योक्तेः । दीपके तु तथात्वं नास्तीत्याह---दीपकस्येति । इदमुपलक्षणम्---तत्र यौगपद्यस्याप्यविवक्षणं भेदकमिति बोध्यम् । तथा चेत्तद्द्वयाभावे सतीति विशेषणं देयमित्यभिप्रायः । ********** टीका सम्पूर्णा ********** समाधिः सुकरे कार्ये दैवाद्वस्त्वन्तरागमात् ॥ १०.८५ ॥ यथा-- "मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, च) समाध्यलङ्कारमाह---समाधिरिति । एककारणेनैव सुकरे कार्ये दैवात्कारणरूपवस्त्वन्तरोपस्थितेरित्यर्थः । मानमस्या इति । घटगर्जितस्योद्दीपकत्वेन मानभङ्गे तदपि कारणान्तरं दैवादुपस्थितमित्यर्थः । ********** टीका सम्पूर्णा ********** प्रत्यनीकमशक्तेन प्रतीकारे रिपोर्यदि । तदीयस्य तिरस्कारस्तस्यैवोत्कर्षसाधकः ॥ १०.८६ ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) प्रत्यनीकालङ्कारमाह--प्रत्यनीकमिति । रिपोः प्रतीकारे प्रत्यपकारेऽशक्तेन केनापि यदि तत्सम्बन्धिनोऽन्यस्य तिरस्कारः तस्यैव रिपोरेवोत्कर्षतासाधकः, उत्कर्षपर्य्यवसायक इत्यर्थः । लोचना (लो, ई) एवं वाक्यन्यायाश्रयिणोऽलङ्कारान् दर्शयित्वा, लोकन्यायाश्रयिणो दर्शयति---प्रत्यनीकमिति । अनेकं सैन्यं, तच्चात्र स्वसामान्यस्य सम्बन्धिमात्रस्योपलक्षकम् । तेनाभियोज्यतया प्रतिनिधिभूतोर्थो रिपोः सम्बन्धी वर्ण्यते इति प्रत्यनीकं नामालङ्करणम् । तदीयस्य रिपुसम्बन्धिनः । ********** टीका सम्पूर्णा ********** तस्यैवेति रिपोरेव । यथा मम-- "मध्येन तनुमध्या मे मध्यं जितवतीत्ययम् । इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभो हरिः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ज) मध्येनेति । रिपुकुम्भभेदनार्थं सिंहस्य भावना पूर्वार्धम् । अत्र मध्येन स्वमध्यजयात्नायिका सिंहस्य रिपुः, तत्कुचसादृश्यात्करिकुम्भौ तदीयौ । लोचना (लो, उ) इभकुम्भयोरत्र नायिकासम्बन्धिता । स्वसम्बन्धः कुचकुम्भसम्बन्धः सादृश्यसम्बन्धादिदं च क्वचिदनुकूलस्य वाञ्छिताचरणेपि सम्भवति । यथा विरह विधुरापि सततं भवतः श्वासानुहारिणी पतति इत्यादौ । ********** टीका सम्पूर्णा ********** प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् । निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ॥ १०.८७ ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) द्विविधं प्रतीपालङ्कारमाह---प्रसिद्धस्येति । प्रसिद्धस्योपमानस्य उपमेयत्वकल्पनं वा निष्फलत्वकथनं वेति द्विविधं प्रतीपमित्यर्थः । ********** टीका सम्पूर्णा ********** क्रमेण यथा-- "यत्त्वन्नेत्रसमानकान्तिसलिले मग्नं तदिन्दीवरम्" । इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, ञ) यत्त्वन्नैत्र इत्यादि । सादृश्यास्य प्रतियोगि उपमानम् । अत्र च त्वन्नेत्रस्य समानकान्तिरित्युक्त्या नेत्रकान्तेरिन्दीवरकान्तिसादृश्यप्रतियोगित्वेन निर्द्देशात्त्वन्नेत्रकान्तिरुपमानम् । इन्दीवरकान्तेश्चोपमानत्वेन प्रसिद्धाया उपमेयत्वकल्पनम् । ********** टीका सम्पूर्णा ********** "तद्वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद्द्युतिः॑ तच्चक्षुर्यदि हारितं कुवलयैस्तच्चेत्स्मितं का सुधा ? । धिक्कन्दर्पधनुर्भ्रुवौ यदि च ते किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः" ॥ अत्र वक्त्रादिभिरेव चन्द्रादीनां शोभातिवहनात्तेषां निष्फलत्वम् । ************* टीका ************* विज्ञप्रिया (वि, ट) उपमानस्य वैफल्यमुदाहरति--तद्वक्त्रं यदीति । तद्वक्त्रादिसत्त्वे शशिकथादीनां मुद्रितत्वादिकं वैफल्यं पर्यवसितं बोध्यम् । हा इति शोचामीत्यर्थः । हारितं पराजयः प्राप्त इत्यर्थः । तच्चेदिति । तस्याः तत्स्मितं चेदित्यर्थः । का निकृष्टा । इत्थमुक्त्वा उपसंहरति---कि वा बह्निति । वेधसः सर्गक्रमः सृष्टिक्रमः पुनरुक्तवस्तुविमुखः, पुनरुक्तं यत्सादृशवस्त्वन्तरकल्पनं तद्विमुखः । तत्र वैफल्यरूपदोषदर्शनविमुख इत्यर्थः । विमुखपदस्यैवेदृशार्थपरत्वं बोध्यम् । ********** टीका सम्पूर्णा ********** उक्त्वा चात्यन्तमुत्कर्षमत्युत्कृष्टस्य वस्तुनः । कल्पितेऽप्युपमानत्वे प्रतीपं केचिदूचिरे ॥ १०.८८ ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) क्वचिदुपमानस्योपमानत्वकल्पनेपि काव्यप्रकाशकृदुक्तमिमलङ्कारं लक्षयति---उक्त्वा चात्यन्तमिति । अत्युत्कृष्टस्य वस्तुनोऽत्यन्तमुत्कर्षमुक्त्वापि उपमानत्वेऽपि कल्पिते निर्दिष्ट इत्यर्थः । सच निर्देशः समभिव्याहारविशयवशात्तन्निन्दापर्यवसायको बोध्यः । अन्यथोपमानस्योपमानत्वेन निर्देशेनानुगुणस्यैव प्रतीत्या प्रतीपत्वस्यैवासम्भवात् । अतिसुन्दरश्चन्द्र इव मुखमित्युपमायामतिव्याप्तेश्च । ********** टीका सम्पूर्णा ********** यथा-- "अहमेव गुरुः सुदारुणानामिति हालाहल ! तात ! मा स्म दृप्यः । ननु सन्ति भवादृशानि भुवनेऽस्मिन् वचनानि दुर्जनानाम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) अहमेवेति । हे हालाहल, हे तात, अहमेव सुदारुणानां गुरुः प्रधानम् । इत्येवं दृप्यो मा स्म, एवं दर्पं मा कुरु इत्यर्थः । कुत इत्यत्राह---नन्विति । ननु भो अस्मिन् भुवने दुर्जनानां भूयो बहूनि वचनानि अपि भवादृशानि भवत्तुल्यानि सन्तीत्यर्थः । भूय इति सान्तक्रियाविशेषणम् । तद्भूयस्त्वेन वचनानामेव भूयस्त्वं बोध्यम् । ********** टीका सम्पूर्णा ********** अत्र प्रथमपादेनोत्कर्षातिशय उक्तः । तदनुक्तौ तु नायमलङ्कारः । यथा-- "ब्रह्मेव ब्राह्मणो वदति" इत्यादि । ************* टीका ************* विज्ञप्रिया (वि, ढ) अत्र भवदिव दृश्यन्ते यानीत्यनेन हलाहलस्योपमानत्वेनैव निर्देशः । दर्पनिषेधसमभिव्याहाराच्च तन्निन्दापर्यवसायकः । अत्रोक्तमत्यन्तमुक्तर्षं घटयति---प्रथमपादेनेति । सुदारुणान्तरापेक्षया तेन गुरुत्वकथनात्तद्विशेषणफलमाह---तदनुक्ताविति । नायमलङ्कारः, किन्तु उपमा एवेत्यर्थः । तद्दर्शयति--यथा ब्रह्मेति । ब्रह्मा यथा वेदं वदति तथा ब्राह्मणा इत्यर्थः । यद्यपि वेदस्यातिवक्ता ब्रह्मैवेति ब्राह्मणस्यात्यन्तोत्कर्षकथनेप्युपमैव नायमलङ्कारस्तथापि प्रतीपघटनार्थं समभिव्याहरविशेषादुपमानस्य निन्दापर्य्यवसायकत्वं निर्देशस्य विशेषणं दत्तमित्यतस्तद्वारणमिति प्रागेवोक्तं बोध्यम् । ********** टीका सम्पूर्णा ********** मीलितं वस्तुनो गुप्तिः केनचित्तुल्यलक्ष्मणा । अत्र समानलक्षणं वस्तु क्वचिदागन्तुकम् । ************* टीका ************* विज्ञप्रिया (वि, ण) मीलितालङ्कारमाह । मीलितमिति । गुप्तिराच्छादनम् । तुल्यलक्ष्मणा तुल्यचिह्नेन । आगन्तुकमतदीयं, सहजं तद्वृत्ति । ********** टीका सम्पूर्णा ********** क्रमेण यथा-- "लक्ष्मीवक्षोजकस्तूरीलक्ष्म वक्षः स्थले हरेः । ग्रस्तं नालक्षि भारत्या भासा नीलोत्पलाभया" ॥ ************* टीका ************* विज्ञप्रिया (वि, त) लक्ष्मीवक्षोजेति । हरेर्वक्षः स्थले लक्ष्मीस्तनकस्तूरीचिह्नं भारत्या नालक्षि, यतो नीलोत्पलभिया हरेरेव भासा ग्रस्तमाच्छादितमित्यर्थः । ********** टीका सम्पूर्णा ********** अत्र भगवतः श्यामा कान्तिः सहजा । "सदैव शोणोपलकुण्डलस्य यस्यां मयूखैररुणीकृतानि । कोपोपरक्तान्यपि कामिनीनां मुखानि शङ्कां विदधुर्न यूनाम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) आगन्तुकलक्ष्मणा त्वाह---सदैवेति । शोण उपलो मणिः खचितो यत्र तादृशकुण्डलस्य मयूखैः सदैवारुणीकृतानि यस्यां पुरि कामिनीनां कोपोपरक्तान्यपि मुखानि यूनां कोपशङ्कां न विदधुरित्यर्थः । ********** टीका सम्पूर्णा ********** अत्र माणिक्यकुण्डलस्यारुणिमा मेखे आगन्तुकः । सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः ॥ १०.८९ ॥ ************* टीका ************* विज्ञप्रिया (वि, द) सामान्यमिति । अन्यतातात्म्यमन्यभेदाग्रहो यदि वर्णित इत्यर्थः । रूपकभ्रान्तिमतोस्तु अभेदाग्रहादेवाहार्या वेति ततो भेदः । अत एवोदाहरणे व्याख्यास्यति---भेदाग्रह इति । ********** टीका सम्पूर्णा ********** यथा-- "मल्लिकाचितधम्मिल्लाश्चारुचन्दनचचिताः । अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसारिकाः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ध) मल्लिकेति । अविभाव्या ज्योत्स्नातोऽगृहीतभेदा । ********** टीका सम्पूर्णा ********** मीलिते उत्कृष्टगुणेन निकृश्टगुणस्य तिरोधानम्, इह तूभयोस्तुल्यगुणतया भेदाग्रहः । तद्गुणः स्वगुणत्यगादत्युत्कृष्टगुणग्रहः । यथा-- "जगाद वदनच्छद्मपद्मपर्यन्तपातिनः । नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः" ॥ ************* टीका ************* विज्ञप्रिया (वि, न) तद्रुणालङ्कारमाह--तद्रुण इति । अत्युत्कृष्टस्य गुणस्य ग्रहो गुणवहणंम् । जगादेति । बलभद्रवदनच्छद्मनो वदनव्याजस्य पद्मस्य पर्यन्तपातिनो मुधुलिहो भ्रमरानुदंशूनामुद्रतांशूनां दशानानां दन्तानामंशुभिः श्वैत्यं नयन् जगादेत्यर्थः । अत्र भ्रमराणां स्वगुणत्यागः श्वैत्यप्रापणादित्यर्थः । ********** टीका सम्पूर्णा ********** मीलिते प्रकृतस्य वस्तुनो वस्त्वन्तरेणाच्छादनम्, इह तु वस्त्वन्तरगुणेनाक्रान्तता प्रतीयत इति भेदः । ************* टीका ************* विज्ञप्रिया (वि, प) मीलितालङ्कारादस्य विशेषमाह---मीलिते इति । प्रकृतस्य वस्तुन इति । प्रकृतस्य यद्वस्तुनो गुणस्वरूपं तस्याच्छादनमग्रह इत्यर्थः । आक्रान्तता स्वाश्रयीकरणम् । ********** टीका सम्पूर्णा ********** तद्रूपाननुहारस्तु हेतौ सत्यष्यतद्गुणः ॥ १०.९० ॥ ************* टीका ************* विज्ञप्रिया (वि, फ) अतद्रुणालङ्कारमाह---तद्रूपेति । अवनुहारोऽग्रहणम् । हेतो ग्रहणहेतौ । ********** टीका सम्पूर्णा ********** यथा-- "हन्त ! सान्द्रेण रागेण भृतेऽपि हृदये मम । गुणगौर ! निषण्णोऽपि कथं नाम न रज्यसि" ॥ ************* टीका ************* विज्ञप्रिया (वि, ब) हन्त सान्द्रेति । अननुरक्तं नायकं प्रति अनुरक्ताया नायिकाया उत्किरियम् । गुणगौरिति । गुणेन गौर इति, गुणो गौरो यस्येति समासेन च सम्बोधनम् । हृदये निषण्णोऽपीत्यन्वयः । रागपदरज्यसिपदे रक्तिमानुरागयोः श्लिष्टे । अत्र रागभृतिहृदये निषण्णत्वं रक्तहेतुः । ********** टीका सम्पूर्णा ********** यथा वा-- "गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस ! तव सैव शुभ्रता चीयते न च न चापचीयते" ॥ पूर्वत्रातिरक्तहृदयसंपर्कात्प्राप्तवदपि गुणगौरशब्दवाच्यस्य नायकस्य रक्तत्वं न निष्पिन्नम्, उत्तरत्राप्रस्तुतप्रशंसायां विद्यमानायामपि गङ्गायमुनापेक्षया प्रकृतस्य हंसस्य गङ्गायमुनयोः संपर्केऽपि न तद्रूपता । अत्र च गुणाग्रहणरूपविच्छित्तिविशेषाश्रयाद्विशेषोक्तेर्भेदः, वर्णान्तरोत्पत्त्यभावाच्च विषमात् । ************* टीका ************* विज्ञप्रिया (वि, भ) उदाहृतश्लोकद्वयेपि एतद्गुणाग्रहणमुदाहरणद्वयवैलक्ष्यण्यं चाहपूर्वत्रेति । अतिरिक्तहृदयं रागभृतत्वेनातिरिक्तगुणं हृदयं प्राप्तवत्प्राप्तप्रायं रक्तत्वं न निष्पन्नम्, नायकस्योत्यर्थः । इत्थमत्र प्रकृतेन नायकस्य प्रकृतस्य हृदयस्य गुणाग्रहणं दर्शयित्वा प्रकृततोऽप्रकृतगुणग्रहणरूपफलाभावमुत्तरश्लोके दर्शयति---उत्तरत्रेति । यद्यपि राजहंसोप्यप्रकृतस्तथापि सम्बोध्यत्वेनाऽपेक्षिकं तस्य प्रकृतत्वं दर्शयन्नाह---अप्रस्तुतप्रशंसायामिति । सति हेतौ फलाभावरूपाया विशेषोक्तेरस्य भेदमाह--अत्र चेति । विशेषोक्तौसामान्यत एव फलाभावः इह तु गुणग्रहणरूपफलाभावरूपो भङ्गिविशेष इति भेद इत्यर्थः । ननु कार्यस्य कारणविरोधिगुणवशात्कार्यस्य कारणगुणाग्रहणं विषमालङ्कारेप्यस्ति चेद्यद्यपि दर्शितोदाहरणद्वये कार्यकारणभावसत्त्वात्तादृशस्यातद्रुणस्य विषमालङ्कारत्वाविशेष इत्याह---वर्णान्तरेति । विषमालङ्कारे कारणविरोधिगुणान्तरोत्पत्तिरिति भेद इत्यर्थः । ********** टीका सम्पूर्णा ********** संलक्षितस्तु सूक्ष्मोर्ऽथ आकारेणेङ्गितेन वा । कयापि सूच्यते भह्ग्या यत्र सूक्ष्मं तदुच्यते ॥ १०.९१ ॥ ************* टीका ************* विज्ञप्रिया (वि, म) सूक्ष्मालङ्कारमाह---संलक्षित इति । भङ्ग्या प्रकारविशेषेण सूच्यत इत्यर्थः । आकारः संस्थानम्, इङ्गितं क्रिया इत्यर्थः । ********** टीका सम्पूर्णा ********** सूक्ष्मः स्थूलमतिभिरसंलक्ष्यः । अत्राकारेण यथा-- "वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख" ॥ अत्र कयाचित्कुङ्कुमभेदेन संलक्षितं कस्याश्चित्पुरुषायितं पाणौ पुरुषचिह्नखड्गलेखालिखनेन सूचितम् । ************* टीका ************* विज्ञप्रिया (वि, य) वक्त्रस्यन्दि इति । काचिद्वयस्या सखी कस्याश्चिन्नायिकायाः कण्ठे वक्त्रस्यन्दिभिः स्वेदबिन्दुप्रवाहैः भिन्नं द्विधाकृतं कुङ्कुमं दृष्ट्वा तस्याः नायिकायाः पुस्त्वं रतौ पुरुषायितत्वं व्यञ्जयन्ती स्मित्वा हसित्वा तस्याः पाणौ खड्गलेखां लिलेखेत्यर्थः । अत्रेति । संलक्षितमिति । प्रकृतरतौ स्वेदस्य पृष्ठगामित्वेन संलक्षणम् । ********** टीका सम्पूर्णा ********** इङ्गितेन यथा-- सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रापिताकूतं लीलापद्मं निमीलितम् ॥ अत्र विटस्य भ्रूविक्षेपादिना लक्षितः सङ्केतकालाभिप्रायो रजनीकालभाविना पद्मनिमीलनेन प्रकाशितः । ************* टीका ************* विज्ञप्रिया (वि, र) संकेतकालेति । विटं धूर्तमुपनायकं तद्जिज्ञासार्थं संकेतकालमनसं ज्ञात्वा विदग्धया नायिकया हसता नेत्रार्पिताकूतं यथा स्यात्तथा लीलापद्मं निमीलितमित्यर्थः । कालाभिप्रायः कालजिज्ञासा भ्रूविक्षेपश्चाशाब्दोपि योग्यताबललभ्यमिङ्गितम् । ********** टीका सम्पूर्णा ********** व्याजोक्तिर्गोपनं व्याजादुद्भिन्नस्यापि वस्तुनः । ************* टीका ************* विज्ञप्रिया (वि, ल) व्याजोक्त्यलङ्कारमाह---व्याजेति । उद्भिन्नस्य व्यक्तीभूतस्य व्याजात्कपटेन । ********** टीका सम्पूर्णा ********** यथा-- "शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस- द्रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः । आः शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं शैलान्तः पुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः" ॥ ************* टीका ************* विज्ञप्रिया (वि, व) शैलेन्द्रेति । शिवो वोऽवतात् । कीदृशः । शैलेन्द्रेण प्रतिपाद्यमानाया उत्सृज्यमानाया गिरिजाया हस्तस्य उपगूढने उपगूहनेन स्वर्शेण उल्लसद्धिः रोमाञ्चादिभिः रोमाञ्चवेपथुस्वेदैः विसंष्ठुलस्य व्यस्तस्य अखिलवैवाहिकविधेः व्यासङ्गस्य व्यापारस्य भङ्गेनाकुलः सनाः आश्चर्थं तुहिनसम्बन्धिनोऽचलस्य करयोः शैत्यमित्यूचिवान् सन् शैलान्तः पुरेण तद्रतस्त्रीभिः गौर्य्यादिमातृमण्डलेन स्वीयगणैश्च सस्मितं दृष्टः । ********** टीका सम्पूर्णा ********** नेयं प्रथमापह्नतिः, आपह्नवकारिणो विषयस्यानभिधानात् । द्वितीयापह्नुतेर्भेदश्च तत्प्रस्तावे दशितः । ************* टीका ************* विज्ञप्रिया (वि, श) प्रथमोक्तापह्नुतितोऽस्य भेदमाह---नेयमिति । अपह्नवकारिण इति । प्रकृतापह्नवकारी यो विषयो वस्तु स्थाप्यमानमप्रकृतं वस्तु, तस्यानभिधानादित्यर्थः । इदमुपलक्षणम्, अपह्नवार्थपदस्य नञादेरप्यनभिधानादिति बोद्धव्यम्, अपह्नव हेतोः श्वेतस्याभिधानाद्रोमाञ्चादेस्त्वनापह्नुतत्वादेव । द्वितीयापह्नुतेरिति । "गोपनीयं कमप्यर्थं द्योतयित्वा कथञ्चन । यदि श्लेषेणान्यथा वान्यथयेत्साप्यपह्नुतिः"इत्युक्तलक्षणात्"काले वारिधराणाम्" इत्युदाहरणाद्द्वितीयापह्नवादित्यर्थः । तत्प्रस्तावे दर्शित इति । गोपनीयार्थस्य मोपनकृता प्रथममभिहितत्वाच्च व्याजोक्तेरिति लिखनेन दर्शित इत्यर्थः । इह तु गोपनीयार्थस्य रोमाञ्चादेः शिवेन प्रथममनभिधानात् । ********** टीका सम्पूर्णा ********** स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनम् ॥ १०.९२ ॥ दुरूहयोः कविमात्रवेद्ययोः अर्थस्य डिम्भादेः स्वयोस्तदेकाश्रययोश्चेष्टास्वरूपयोः । ************* टीका ************* विज्ञप्रिया (वि, ष) स्वभावोक्त्यलङ्कारमाह---स्वभावोक्तिरिति । दुरूहार्थेत्यस्यात्यन्तदुरूहस्यार्थस्येति नार्थः । किन्त्वर्थस्य दुरूहा क्रिया इत्येवमन्वयः । अर्थश्च डिम्भादिरित्येवमेव व्याचष्टे---दुरूहयोरिति । दुरूहयोः स्वयोरित्यन्वयः । दुरूहपदार्थमाह---कविमात्रेति । कविभिन्नावेद्ययोरित्यर्थः । अर्थपदं डिम्भादिपरतया व्याचष्टे---अर्थस्येति । डिम्भः शिशुः । आदिपदादप्रकृष्टज्ञानमात्रपरिग्रहः । तदे काश्रययोस्तन्मात्रनिष्ठयोः । ********** टीका सम्पूर्णा ********** यथा मम-- "लाङ्गूलेनाभिहत्य क्षितितलमसकृद्दारयन्नग्रपद्भ्या- मात्मन्येवावलीय द्रुतमथ गगनं प्रोत्पतन् विक्रमेण । स्फूर्जद्धुङ्कारधोषः प्रतिदिशमखिलान् द्रावयन्नेष जन्तून कोपाविष्टः प्रविष्टः प्रतिवनमरुणोच्छूनचक्षूस्तरक्षुः" ॥ ************* टीका ************* विज्ञप्रिया (वि, स) लाङ्गूलेनेति । अरुणे उच्छूने स्फारिते चक्षुषी यस्या तादृशः एष तरक्षुः व्याघ्रः प्रतिबलं प्रतिपक्षसमूहं प्रविष्टः । कीदृशः क्षितितलमसकृद्लाङ्गूलेनाभिहत्य अग्रपद्भ्यां दाहयन् विलिखन् । अथानन्तरं आत्मन्येवावलीय कुञ्चिताङ्गो भूत्वा द्रुतं गगनं विक्रमेण च प्रोत्पतन् तथा स्फूर्जता विस्फुरता फूत्कारेण घोरः तथास्विलान् जन्तून् प्रतिदिशं द्रावयन् तथा कोपाविष्टोऽरुणोत्फुल्लचक्षुश्च । अत्रारुणेत्यादे रूपस्य क्रियाणां च वर्णनम् । ********** टीका सम्पूर्णा ********** अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः । यत्प्रत्यक्षायमाणत्वं तद्भाविकमुदाहृतम् ॥ १०.९३ ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) भाविकालङ्कारमाह---अद्भुतस्येति । अथेतिवेत्यर्थः । भूतस्य भविष्यतो वा अद्भुतस्य पदार्थस्य यत्प्रत्यक्षायमाणत्वं प्रत्यक्षेण दृश्यमानत्वं वर्णितं तदित्यर्थः । ********** टीका सम्पूर्णा ********** यथा-- "मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः । येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ" ॥ ************* टीका ************* विज्ञप्रिया (वि, क) मुनिरिति । एकचलुके पीयमानसमुद्ररूपे गण्डुषे मत्स्यकच्छपावीश्वारावतारौ भूतभाविनौ योगबलेन दृष्टौ । एतदर्थमेव योगीन्द्रपदोपदानम् । ********** टीका सम्पूर्णा ********** यथा वा-- "आसीदञ्जनमत्रेति पश्यामि तव लोचने । भाविभूषणसम्भारां साक्षात्कुर्वे तवाकृतिम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ख) आसीदिति । यौवनेऽञ्जनाभावेऽपि अञ्जनशोभासत्त्वादासीदिति । भूषणेन भविष्यन्त्याः शोभाया तद्विनापि दर्शनाद्भाविभूषणेति । ********** टीका सम्पूर्णा ********** न चायं प्रसादाख्यो गुणः, भूतभाविनोः प्रत्यक्षायमाणत्वे तस्याहेतुत्वात् । ************* टीका ************* विज्ञप्रिया (वि, ग) ननु भूतभाविनोः प्रत्यक्षायोग्ययोरपि प्रत्यक्षायमाणत्वं शीघ्रप्रतीतिविषयत्वात् । तथाचेदृशार्थस्य विषयत्वेन शब्दबोधितोपि सोर्थो विशद एव । तथा चार्थवैमल्यं प्रसादो यः परोक्तः प्रसादगुणः स एवायं तद्भिन्नवैचित्र्यविशेषाभावाद्भाविकनामालङ्कारो नास्तीत्याशङ्कते---न चायमिति । समाधत्ते---भूतभाविनोरिति । तयोः प्रत्यक्षायमाणत्वे ग्राह्ये तस्य प्रत्यक्षायमाणत्वस्याहेतुकत्वादहेतुकत्वस्फुरणादित्यर्थः । तथा चाहेतुकत्वस्फुरणवैशिष्ट्यरूपवैचित्र्यमेव भाविकालङ्कार इत्युक्तम् । ********** टीका सम्पूर्णा ********** न चाद्भुतो रसः, विस्मयं प्रत्यस्य हेतुत्वात् । ************* टीका ************* विज्ञप्रिया (वि, घ) नन्वहेतुकत्वेन हेत्वनुसन्धानं विस्मय एव, तथा चाद्भुतरस एवायमित्याशङ्कते---नचाद्भुत इति । समाधत्ते---विस्मयं प्रतीति । अहेतुकत्वज्ञानविशिष्टं भाविभूतवस्तुप्रत्यक्षायमाणत्वमेवायमलङ्कारः । तस्य विस्मयं प्रति हेतुत्वादेव, नतु विस्मयरूपत्वादित्यर्थः । तथा नचात्र रसोऽद्भुतोलङ्कारस्तु भाविकमिति भावः । ********** टीका सम्पूर्णा ********** न चातिशयोक्तिरलङ्कारः, अध्यवसायाभावात् । न च भ्रान्तिमान्, भूतभाविनोर्भूतभावितयैव प्रकाशनात् । ************* टीका ************* विज्ञप्रिया (वि, ङ) नायिकायाः रूपातिशयप्रतीत्या उक्तचतुर्विधातिशयोक्तितोऽतिरिक्तप्रकारातिशयोक्तिरेवेयं स्यादित्याशङ्कते---नचातिशयेति । समाधत्ते---अध्यवसायेति । सर्वविधातिशयोक्तय एवाध्यवसायघटिताः । अत्र तदभावात्तद्रूपातिशयबोधमात्रेण तदीयप्रकारान्तरकल्पनानौचित्यादिति भावः । भूते भाविनि रूपे भूतभावित्वेन ज्ञापनात्भ्रान्तिमत्त्वमाशङ्कते--न च भ्रान्तीति । समाधत्ते---भूतेति । प्रकृतस्यान्यतादात्म्यभ्रम एव भ्रान्तिमान्न चात्राभूतभाविपदार्थाः प्रकृतास्तत्र भूतभाविताविभ्रमः । किन्तु भूतभाविपदार्थं प्रकृत्य तत्रैव तथात्वप्रकाशनादित्यर्थः । रूपविशेषवन्नायिकामात्रधर्मयोरत्र नयनाकृत्योर्वर्णितत्वात् । ********** टीका सम्पूर्णा ********** न च स्वभावोक्तिः, तस्य लौकिकवस्तुगतसूक्ष्मधर्मस्वभावस्यैव यथावद्वर्णनं स्वरूपम्॑ अस्य तु वस्तुनः प्रत्यक्षायमाणस्वरूपो विच्छित्तिविशेषोऽस्तीति । यदि पुनर्वस्तुनः क्वचित्स्वभावोक्तावप्यस्या विच्छित्तेः सम्भवस्तदोभयोः सङ्करः । ************* टीका ************* विज्ञप्रिया (वि, च) स्वभावोक्तिमाशङ्कते---नचेति । समाधत्ते---तस्या इति । लौकिकं वस्तु डिम्भव्याघ्रादि तद्गतस्य सूक्ष्मधर्मात्मकस्वभावस्य कविभिन्नजनावेद्यतन्मात्रवृत्तिधर्मरूपस्य तत्र यथा वर्णितं तस्य स्वरूपमित्यर्थः । अत्र नूतनतेत्याह---अस्यत्विति । तदपेक्षया अत्रविलक्षणभङ्गिरस्तीत्यर्थः । ननु "अस्फुटाक्षरवागासीदेष बालो विलोक्यते । दरदन्ताङ्कुरश्रीकहासो भावी च दृश्यते" ॥ इत्यत्र डिम्भमात्रक्रियादेर्भाविभूतस्य कोऽलङ्कारः स्यादिति मनसिकृत्य समाधत्ते--यदि पुनरिति । संकरः स्वातन्त्र्येणैकत्र स्थितिरूपः । ********** टीका सम्पूर्णा ********** "अनातपत्त्रोऽप्ययमत्र लक्ष्यते सितातपत्त्रैरिव सर्वतो वतः । अचामरोऽप्येष सदैव वीज्यते विलासबालव्यजनेन कोऽप्ययम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, छ) यत्र भूतभाविवस्तुनोर्न प्रत्यक्षायमाणत्वं किन्तु तद्वस्तुन एव प्रत्यक्षायमाणत्वं वर्णित तत्र नायमलङ्कार इत्युदाहृत्य दर्शयति---अनातपत्रोऽपीति । आतपत्ररहितोप्ययं राजा सर्वदिक्षु सितातपत्रैः सर्वतो वेष्टित इव लक्ष्यते, विलासहेतुकव्यजनेन वीज्यमान इव लक्ष्यते इति पूर्वतोऽनुषङ्गः, शीतलाङ्कत्वात । ********** टीका सम्पूर्णा ********** अत्र प्रत्यक्षायमाणस्यैव वर्णनान्नायमलङ्कारः, वर्णनावशेन प्रत्यक्षायमाणत्वस्यैव स्वरूपत्वात् । यत्पुनरप्रत्यक्षायमाणस्यापि वर्णने प्रत्यक्षायमाणत्वं तत्रायमलङ्कारो भवितुं युक्तः, यथोदाहृते "आसीदञ्जनम्ऽ--इत्यादौ । ************* टीका ************* विज्ञप्रिया (वि, ज) अत्रेति । प्रत्यक्षायमाणस्यैवेत्यत्रातत्रवृतत्वस्य वीज्यमानत्वस्य चेत्यर्थः । एवकाराद्भूतभाविवियवच्छेदान्नतु भूतभाविपदार्थस्य प्रत्यक्षायमाणत्वमित्यर्थः । अत्र श्लोके तथात्वाभावं विशदयित्वा दर्शयति---वर्णनावशेनेति । अत्र स्वरूपत्वात्, एतत्श्लोकार्थस्वरूपत्वात्, ननु भूतभाविपदार्थस्य प्रत्यक्षायमाणत्वमित्यर्थः । भाविकालङ्कारे तु भूतभावित्वघटनावशाद्विशेषान्तरमप्यस्तीत्याह---यत्र पुनरिति । प्रत्यक्षायमाणत्वं पर्यवस्यतीत्यर्थः । अनातपत्रोपीत्यत्र तु तेजाविशेषाच्छत्रत्वाद्यारोपोऽनुमानमेवेति भेदैत्यर्थः । तथा चात्र विरोधालङ्कार एव इति बोध्यम् । ********** टीका सम्पूर्णा ********** लोकातिशयसंपत्तिवर्णनोदात्तमुच्यते । यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत् ॥ १०.९४ ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) उदात्तालङ्कारं द्विविधमाह--लोकेति । यद्वेति । महतां चरितं वा प्रस्तुतस्याङ्गं प्रकर्षकं यदा भवेदित्यर्थः । ********** टीका सम्पूर्णा ********** क्रमेणोदाहरणम्-- "अधः कृताम्भोधरमण्डलानां यस्यां शशाङ्कोपलकुट्टीमानाम् । ज्योत्स्नानिपातात्क्षरक्षतां पयोभिः केलीवनं वृद्धिमुरीकरोति" ॥ ************* टीका ************* विज्ञप्रिया (वि, ञ) अधः कृतेति । यस्या पुरि अधः कृतमम्भोधराणां मेघानां मण्डलं यैस्तादृस्मानां चन्द्रज्योत्स्नानिपातात्क्षरतां शशाङ्कोपलकुट्टिमानां चन्द्रकान्तमणियमगृहाणां पयोभिः केलीवनं वृद्धिमुररीकरोति प्राप्रोतीत्यर्थः । जलसेकेन विर्धितमित्यर्थः । अधः कृतेत्यादिक॰ं कुट्टिमविशेषणम् । मण्डलायामिति क्वचित्पाठः । कुट्टिमैरधः करणमेव पुर्या अधः करणं बोध्यम् । अतैतादृशकुट्टिमवतो नृपस्य लोकातिशयसम्पत्तिवर्णना । ********** टीका सम्पूर्णा ********** "नाभिप्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा । अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान् पुरुषोऽधिशते" ॥ ************* टीका ************* विज्ञप्रिया (वि, ट) नाभिप्ररूढेति । युगान्तोचितयोगानिद्रः, युगान्ते उचिता योगनिद्रा यस्य साः पुरुषो विष्णुर्लोकान् संहृत्य अमुं समुद्रमधिशेते । कीदृशः, प्रथमेव धात्रा आदिब्रह्मणा संस्तूयमानः । धात्रा कीदृशेन नाभिप्ररूढाम्बुरुहासनेन---नाभिस्थेन अतिस्फुटपद्यस्थितेन, अत्र नयनरविण आसनासङ्कोचनम् । लोकसंहारात्सूर्याभावेऽपि नयनरविण पद्मविकाश इति भावः । अत्र वर्णनीयोऽम्भोधिः प्रकृस्तस्य प्रकर्षकमीदृशं ब्रह्म स्तूयमानेदृशविष्णुशयनरूपं तच्चरितम् । ********** टीका सम्पूर्णा ********** रसभावौ तदाभासौ भावस्य प्रशमस्तथा । गुणीभूतत्वमायान्ति यदालङ्कृतयस्तदा ॥ १०.९५ ॥ रसवत्प्रेय ऊर्जस्वि समाहितमिति क्रमात् । ************* टीका ************* विज्ञप्रिया (वि, ठ) इदानीं रसाद्यलङ्कारमाह---रसभावाविति । रसस्याङ्गत्वे रसवान् । भावस्याङ्गत्वे प्रेयान् । आभासयोरङ्गत्वे ओजस्वी । भावप्रशमस्याङ्गत्वे समाहितमिति क्रमः । ********** टीका सम्पूर्णा ********** तदाभासौ रसाभासो भावाभासश्च । तत्र रसयोगाद्रसवदलङ्कारो यथा-- "अयं स रसनोत्कर्षो-" इत्यादि । अत्र शृङ्गारः करुणस्याङ्गम् । एवमन्यत्रापि । प्रकृष्टप्रियत्वात्प्रेयः । यथा मम-- "आमीलितालसविवतिततारकाक्षीं मत्कण्ठबन्धनदरश्लथबाहुवल्लीम् । प्रस्वेदवारिकणिकाचितघण्डबिम्बां संस्मृत्य तामनिशमेति न शान्तिमन्तः" ॥ ************* टीका ************* विज्ञप्रिया (वि, ड) प्रियशब्दात्प्रकर्षार्थे इयसुन्प्रत्ययेन साधितस्य प्रेयः शब्दार्थमाह । प्रकृष्टप्रियत्वादिति । तत्र भावस्य रसाङ्गत्वे प्रेयोऽलङ्कारमुदाहरति---आमीलितेति । नायिकाया रत्युत्तरावस्थआं स्मृत्वा चिन्तयतो विरहिण उक्तिरियम् । तां रत्युत्तरावस्थां प्रियां संस्मृत्य तिष्ठतो ममान्तर्मानसमनिशमेव न शान्तिमेति । कौदृशावस्थां रतिप्रशमादामीलिति अलसाद्विवर्तिता च तारका यत्र तत्तादृशमक्षि यस्याः तादृशीम् । मत्कण्ठबन्धने दरश्लथा चाल्पशिथिला बाहुवल्ली यस्याः तादृशी, प्रखेदवारिकणिकया आचितगण्डबिम्बां च । ********** टीका सम्पूर्णा ********** अत्र संभोगशृङ्गारः स्मरणाख्यभावस्याङ्गम् । स च विप्रलम्भस्य । ************* टीका ************* विज्ञप्रिया (वि, ढ) अत्रेति । अत्र स्मरणस्य वाच्यत्वेन गुणीभऊतव्यङ्ग्याभावेऽपि गुणीभूतवाच्यस्याप्यलङ्कारत्वमिभिप्रेत्यदमुक्तम् । वस्तुतस्तु स्मरणपदमत्र स्मरणव्यङ्गयचिन्तापरम् । स्मरणस्य वाच्यत्वेन तस्य विप्रम्भाङ्गतोक्त्यनुपपत्तेः । व्यङ्ग्यत्वे सत्येवापराङ्गतद्वादपराङ्गस्येव चालङ्कारत्वस्य काव्यप्रकाशकृदादिसर्वालङ्कारिकसम्मतत्वात् । तथाच सम्भोगश्च शृङ्गारचिन्ताया अङ्गमित्यर्थः । सम्भोगकालावस्थायाः चिन्तितत्वात् । अत्रांशे रसवदलङ्कार एव । सचेति । सच चिन्ताख्यो व्यभिचारिभावो विप्रलम्भस्याङ्गमित्यर्थः । चिन्तया विप्रलम्भाधिक्यात् । अत्र प्रयोलङ्कारः । ********** टीका सम्पूर्णा ********** ऊर्जो बलम्, अनौचित्यप्रवृत्तौ तदत्रास्तीत्यूर्जस्वि । यथा-- ************* टीका ************* विज्ञप्रिया (वि, ण) ऊर्जस्विपदार्थं व्याकुर्वाणस्तमुदाहर्तुमाह---ऊर्जो बलमिति । क्वचिदनौचित्याप्रवृत्तौ तदस्तीत्याह---अनौचित्येति । तेन बलात्कारं विना परोढाप्रवृत्तौ तदभाविपि संज्ञाशब्दस्यास्य प्रायिकी व्युत्पत्तिर्दर्शिता । अत्र बलात्कार एव उदाहरति--वनेऽखिलेति । ********** टीका सम्पूर्णा ********** "वनेऽखिलकलासक्ताः परिहृत्य निजस्त्रियः । त्वद्वैरिवनितावृन्दे पुलिन्दाः कुर्वते रतिम्" ॥ अत्र शृङ्गाराभासो राजविषयकरतिभावस्याङ्गम् । एवं भावाभासोऽपि । ************* टीका ************* विज्ञप्रिया (वि, त) वने त्वद्वैरिवनितादवृन्दे पुलिन्दा निजस्त्रियः परिहत्य रतिं कुर्वते । निजस्त्रीपरिहारे बीजमाह---अखिलेति । आसामखिलकामकलोवेत्तृत्वात्तदासक्ता इत्यर्थः । अत्रेति । वैरिस्त्रीविडम्बनेन राज्ञः प्रकर्षात्तत एव तद्विषयभावप्रकर्षाच्चेत्यर्थः । एवं भावाभासेपीति यथा--- "किं ब्रूमस्ते महाराज माहात्म्यमन्यदुर्लभम् । स्तुवन्ति शत्रवस्त्वां हि कुड्मलीकृतपाणयः" ॥ इति अत्र शत्रुस्तुत्या तदीयरतिभावाभासो राजविषयरतिभावस्याङ्गम् । ********** टीका सम्पूर्णा ********** समाहितं परिहारः । यथा-- "अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः । ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात्" ॥ ************* टीका ************* विज्ञप्रिया (वि, थ) परिहार इति---प्रथमोत्पन्नभावस्य परिहारस्त्यागो नाशपर्यवसन्नः । अविरलेति । मदो गर्वः तद्दर्शने तेषामविरलेत्यादिकं हेतुः । तवेक्षणे तवदर्शने सति क्षणात्स मदः क्वापि गतो न दृष्ट इत्यर्थः । ********** टीका सम्पूर्णा ********** अत्र मदाख्यभावस्य प्रशमो राजविषयरतिभावस्याङ्गम् । ************* टीका ************* विज्ञप्रिया (वि, द) अत्र मदाख्यस्येति । यद्यपि तत्प्रशमोपगतपदस्य लक्ष्यार्थेन मदस्य चात्यन्ताभावेन तत्प्रशमस्य लक्षणीयता तथापि गुणीभूतव्याङ्ग्यस्यैव गुणीभूतस्य लक्ष्यार्थस्याप्यलङ्कारत्वमभिप्रेत्येदमुक्तम् । वस्तुतस्तु अपराङ्गभूतव्यङ्ग्यस्यैव रसवदलङ्कारत्वं काव्यप्रकाशकृदादिसकलालङ्कारिकसम्मतं न गुणीभूतलक्ष्यार्थस्य । तदा अत्रैव श्लोके कवेरतिरूपो भावस्तस्यैव तन्मदनाशान्नाशो व्यङ्ग्यः । स एवात्र समाहितालङ्कारो बोध्यः । ********** टीका सम्पूर्णा ********** भावस्य चोदये संधौ मिश्रत्वे त तदाख्यकाः ॥ १०.९६ ॥ ************* टीका ************* विज्ञप्रिया (वि, ध) भावोदयादयस्तु गुणीभूताः स्वखनामान एवालङ्कारा इत्याह---भावस्य चोदये इति । मिश्रत्वे भावशबलत्वे । बलवद्भिरुत्तरोत्तरभावैः सह पूर्वपूर्वभावस्यैकपद्यस्थितिरूपमिश्रणात् । ********** टीका सम्पूर्णा ********** तदाख्यका भावोदयभावसंधिभावशबलनामानोऽलङ्काराः । क्रमेणोदाहरणम्- "मधुपानप्रवृत्तास्ते सुहृद्भिः सह वैरिणः । श्रुत्वा कुतोऽपि त्वन्नम लेभिरे विषमां दशाम्" ॥ अत्र त्रासोदयो राजविषयरतिभावस्याङ्गम् । ************* टीका ************* विज्ञप्रिया (वि, न) तत्रापराङ्गाभवोदयमुदाहरति---मधुपानेति । अत्रेति । प्रथमज्ञातस्य क्षासस्य श्लोकमध्ये उदयप्रतीत्य उदयः सराजविषयभावप्रकर्षकमङ्गम् । ********** टीका सम्पूर्णा ********** "जन्मान्तरीणरमणस्याङ्गसङ्गसमुत्सुका । सलज्जा चान्तिके सख्याः पातु नः पार्वती सदा" ॥ अत्रौत्सुक्यलज्जयोश्च संधिर्देवताविषयरतिभावस्याङ्गम् । ************* टीका ************* विज्ञप्रिया (वि, प) अपराङ्गभावसन्धिमुदाहरति---जन्मान्तरीणेति । अत्रेति । औत्सुक्यलज्जयोरलङ्कारत्वमत्रोदाहृतम् । "असौढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वा दिश्यात्कपटवटुवेशापनयेन त्वराशौथिल्याभायां युगपदभियुक्तः स्मरहरः" ॥ इति काव्यप्रकाशकृद्दत्तोदाहरणे आवेगहर्षयोर्व्यङ्गययोरपि सन्धिरलङ्कारः । ********** टीका सम्पूर्णा ********** "पश्येत्कश्चिच्चल चपल ! रे ! का त्वारहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि । इत्थं पृथ्वीपरिवृढ ! भवद्विद्विषोऽरण्यवृत्तेः कन्या कञ्चित्फलकिसलयान्याददानाभिधत्ते" ॥ अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानां शबलता राजविषयरतिभावस्याङ्गम् । ************* टीका ************* विज्ञप्रिया (वि, फ) अपराङ्गभावशबलत्वमुदाहरति---पश्येत्कश्चिदिति । हे पृथ्वीपरिवृढ ! अरण्यपरिवृत्तेर्भवद्विद्विषः भक्षणार्थं फलकिशलयानि आददाना कञ्चिदर्थादाकृष्टकामा इत्थमभिधत्ते । कीदृशमभिधत्ते इत्यत्राह---पश्येदित्यादि । अत्र पश्योदित्यत्र शङ्का व्यङ्ग्या । चल चपल रे इत्यत्र धृतिः । कुमारीत्यव कुमारीत्वस्मरणात्कार्यत्वस्मृतिः, का त्वरेत्याश्वासना । हस्तालम्बमित्यत्र ममेदमकायमेवेत्यवधारणरूपा मतिरेव विबोधः । क्कासीत्यत्र क्क त्वं यासीत्यर्थः । अत्र तद्रमननिवर्तने औत्सुक्यं व्यङ्ग्यम् । अत्र दैन्यविरोधमात्रयोर्न बाध्यबाधकता । अन्येषु तु पूर्वं पूर्वं प्रत्युत्तरोत्तरस्य बाधकत्वेन बलवत्तया शबलता । राजविषयरतिभावस्याङ्गमिति राजप्रक्रान्तत्वात्तदरिकन्याया एवं भावात् । ********** टीका सम्पूर्णा ********** इह केचिदाहुः--"वाच्यवाचकरूपालङ्करणमुखेन रसाद्युपकारका एवालङ्काराः, रसादयस्तु वाच्यवाचकाभ्यामुपकार्या एवेति न तेषामङ्कारता भवितुं युक्ता" इति । अन्ये तु --"रसाद्युपकारमात्रेणेहालङ्कृतिव्युपदेशो भाक्तश्चिरन्तनप्रसिद्ध्याङ्गीकार्य एव" इति । ************* टीका ************* विज्ञप्रिया (वि, ब) वाच्यवाचकरूपेति । वाच्यवाचकयोरूपमर्थशब्दस्वरूपं, तयोरलङ्कारणं शोभनम्, उपमानुप्रासादयः । तन्मुखेन तद्द्वारेणेत्यर्थः । रसादयस्त्विति । अपराङ्गभूता रसादय इत्यर्थः । अपराङ्गानां रसादीनामलङ्कारत्वं स्वीकुर्वतामन्येषां तु मतमाह---अन्ये त्विति । वाच्यवाचकशोभनद्वारा मुख्यरसस्योपकारकत्वप्रयोजकमिति न नियमः । किन्तु मुख्यरसोपकारकत्वेमव तथात्वप्रयोजकम् । किन्त्वर्थशब्दालङ्कारकत्वेन व्यवहारवशात्तयोरलङ्कारेष्वेवालङ्कारपदं शक्तम् । अपराङ्गरसादौ त्वलङ्कारपदं भाक्तमित्यर्थः, भाक्तं लाक्षणिकम् । ********** टीका सम्पूर्णा ********** अपरे च--"रसाद्युपकारमात्रेणालङ्कारत्वं मुख्यतो रूपकादौ तु वाच्याद्युपधानम्, अजगलस्तनन्यानेन" इति । ************* टीका ************* विज्ञप्रिया (वि, भ) अपराङ्गरसादावपि अलङ्कारपदं शक्तमेव न भाक्तमिति वदतां मतमाह--अपरे चेति । रसाद्युपकारकतामात्रेणेत्यनेनोपमादीनामिवापराङ्गरसादीनामपि मुख्यतो मुख्यभावेनैवालङ्कारकत्वं न भाक्तालङ्कारपदार्थत्वेनेत्युक्तम् । तथा चोभयत्रैवालङ्कारपदं शक्तमित्यर्थः । ननु सर्वेषामेवालङ्कारपदवाच्यत्वे रूपकादावेवालङ्कारव्यवहारः कथमित्यत्राह--रूपकादाविति । वाच्याद्युपधानं वाच्यतादर्शनमजागतस्तनपानमिव निष्प्रयोजनमित्यर्थः । ********** टीका सम्पूर्णा ********** अभियुक्तास्तु--"स्वव्यञ्जकवाच्यवाचकाद्युपकृतैरङ्गभूतैः रसादिभिरङ्गिनो रसादेर्वाच्यवाचकोपस्कारद्वारेणोपकुर्वद्भिरलङ्कृतिव्यपदेशो लभ्यते । ************* टीका ************* विज्ञप्रिया (वि, म) अभियुक्तास्त्विति । एतन्मतेऽपि द्वयोरप्यलङ्कारपदवाच्यत्वमेव । किन्तु पूर्वमते रसाद्युपकारकद्वारता तत्रापेक्षणीया । एतन्मते तु उपमादेरिवाङ्गभूतरसोदेरपि शब्दार्थोमयोपकारकद्वारैव रसोपकारकतयालङ्कारपदवाच्यतेति विशेषः । तदाह--स्वव्यञ्जकेति । स्वस्याङ्गभूतरसादेर्व्यञ्जकौ वाच्यवाचकौ ताभ्यामुपकृतैरङ्गभूतरसादिभिर्वाच्यवाचकोपस्कारकद्वारेणेककुर्वद्भिरर्थादङ्गिनं रसमुपकुर्वद्भिरलङ्कृतिव्यपदेशो लभ्यत इत्यर्थः । अङ्गभूतरसादीनां शब्दार्थभ्यामुपकारो व्यञ्जनावशादेव तैः शब्दार्थयोरुपकारस्तद्व्यङ्ग्यत्ववैशिष्ट्येनेति परस्परमुपकारो दर्शितः । ********** टीका सम्पूर्णा ********** समासोक्तौ तु नायिकादिव्यवहारमात्रस्यैवालङ्कृतिता, न त्वास्वादस्य, तस्योक्तरीतिविरहात्" इति मन्यन्ते । अत एव ध्वनिकारेणोक्तम्-- ************* टीका ************* विज्ञप्रिया (वि, य) समासोक्तौ तु यो नायकनायिकाव्यवहारो व्यङ्ग्यस्तस्य रसाद्युपकारनिरपेक्षमेवालङ्कारत्वामित्याह---समासोक्ताविति । इदमुपलक्षणमप्रस्तुतप्रशंसायामपीदृशत्वं बोध्यम् । अत एवेति । अङ्गभूतरसादेरप्यलङ्कारपदवाच्यत्वादेवेत्यर्थः । ********** टीका सम्पूर्णा ********** "प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः" ॥ ************* टीका ************* विज्ञप्रिया (वि, र) प्रधाने इति । यत्र काव्ये प्रधाने अङ्गिनि अन्यत्र रसादिरूपे रसादयोऽङ्गमित्यर्थः । अङ्गत्वैक्याश्रितमेकवचनम् । स्मिन् काव्ये रसादिरलङ्कारोऽलङ्कारपदवाच्य इति मे मतिरित्यर्थः । ********** टीका सम्पूर्णा ********** यदि च रसाद्युपकारमात्रेणालङ्कृतित्वं तदा वाचकदिष्वपि तथा प्रसज्येत । एवं च यच्च कैश्चिदुक्तम्--"रसादीनामङ्गित्वे रसवदाद्यलङ्कारः, अङ्गत्वे तु द्वितीयोदात्तालङ्कारः" इति तदपि परास्तम् । ************* टीका ************* विज्ञप्रिया (वि, ल) ननु कटककुण्डलादेरलङ्कारत्वमङ्गप्रकर्षकत्वेनैव, अत उक्तन्यायादङ्गरसादेरुपमादेर्वालङ्कारत्वामस्तु । समासोक्तेस्त्वङ्गिरसादिप्रकर्षकत्वाभावान्नालङ्कारत्वमित्यत आह--यदीति । क्वचिदङ्गिप्रकर्षकत्वेन समासोक्तौ तु स्वतो वैचित्र्येणैवालङ्कारत्वं, नतु अङ्गिप्रकर्षकत्वं तल्लक्षणम् । तथात्वे अतिव्याप्तिः स्यादित्यर्थः । केचित्तु अङ्गिरसस्यैव रसवदलङ्कारादित्वमङ्गभूतरसादेस्तु "यद्व्यङ्गयं प्रस्तुतस्याङ्गं महतां चरितं भवेऽ दित्यनेनोक्तं द्वितीयोदात्तालङ्कारत्वमेवाहुः । एवं ध्वनिकारोक्तसम्वादेन अस्मद्दर्शितोदाहरणेऽव्याप्तेश्च तत्परास्तमित्याह । "आमीलितालसविवर्तिततारकाक्षी" इत्यत्र यः स्मरणाख्यभावो विप्रलम्भाङ्गत्वेनोक्तस्तस्य कस्यापि महतश्चरितत्वाभावेनोदात्तालङ्कारत्वस्य तत्राव्याप्तेः । ********** टीका सम्पूर्णा ********** यद्येत एवालङ्काराः परस्परविमिश्रिताः । तदा पृथगलङ्कारौ संसृष्टिः सङ्करस्तथा ॥ १०.९७ ॥ ************* टीका ************* विज्ञप्रिया (वि, व) इदानीमनेकालङ्कारणामेकपदस्थितिरूपमिश्रणे क्वचित्संसृष्टिनामा क्वचिच्च सङ्करनामा पृथगलङ्कारो भवतीत्याह--यद्येत एवेति । पृथगलङ्कारावपीत्यर्थः । तेन मूलभूतालङ्कारव्यवच्छेदस्तथा च समासोक्तौ यदौपम्यगर्भत्वाद्यनेकालङ्कारगर्भत्वमुक्तं, यच्चान्यत्राप्यलङ्कारान्तरोत्थापितत्वे तदलङ्कारस्य शोभाधिक्यमुक्तं, तत्र सङ्करसम्भवेऽपि न समासोक्त्याद्यलङ्कारत्वव्याहतिरिति बोध्यम् । ********** टीका सम्पूर्णा ********** यथा लौकिकालङ्काराणामपि परस्परमिश्रणे पृथक्चारुत्वेन पृथगलङ्कारत्वं तथोक्तरूपाणां काव्यालङ्काराणामपि परस्परमिश्रत्वे संसृष्टिसङ्काराख्यौ पृथगलङ्कारौ । तत्र-- "मिथोऽनपेक्षमेतेषां स्थितिः संसृष्टिरुच्यते । एतेषां शब्दार्थालङ्काराणाम् । यथा-- "देवः पायादपायान्नः स्मेरेन्दीवरलोचनः । संसारध्वान्तविध्वंसहंसः कंसनिसूदनः" ॥ अत्र पायादपायादिति यमकम्, संसारेत्यादौ चानुप्रास इति शब्दालङ्कारयोः संसृष्टिः । द्वितीये पादे उपमा, द्वितीयार्धे च रूपकमित्यर्थालङ्कारयोः संसृष्टिः । एवमुभयोः स्थितत्वाच्छब्दार्थालङ्कारसंसृष्टिः । ************* टीका ************* विज्ञप्रिया (वि, श) तत्र संसृष्टिलक्षणमाह---मिथोऽनपेक्षयैतेषमिति । देवः पायादित्यादि स्पष्टोर्ऽथः । हंसः सूर्यः । अत्र शब्दालङ्कारयोः संसृष्टिमादौ दर्शयति---अत्र पायादिति । संसारेत्यादावनुप्रास इति । ध्वान्तविध्वंसहंसेत्यत्रेत्यर्थः । अत्रैवार्थालङ्कारयोरपि संसृष्टिमाह--द्वितीयपाद इति । लोचने स्मेरेन्दीवरोपमा । द्वितीयार्ध इति । कंसनिषूदने सूर्यरूपकम् । तत्साधकं च संसारो ध्वान्तरूपकमिति परम्परितरूपकमित्यर्थः । एवं च संसृष्टिद्वयमित्याह--उभयोरपीति । संसृष्टिश्चेति । चकारस्य स्थितत्वाच्चेत्येवमन्वयः । तत्संसृष्टिद्वयस्यापि परस्परसंसृष्टिमित्याह---एवं चेति । ********** टीका सम्पूर्णा ********** अङ्गाङ्गित्वेऽलङ्कृतीनां तद्वदेकाश्रयस्थितौ । संदिग्धत्वे च भवति सङ्करस्त्रिविधः पुनः ॥ १०.९८ ॥ ************* टीका ************* विज्ञप्रिया (वि, ष) सङ्करश्च त्रिविधो भवतीत्याह---अङ्गाङ्गित्वे इति अलड्कृतीनामङ्गाङ्गित्वे एवविधः । अपरविधमाह--तद्वदिति---एकाश्रये एकवाक्ये वा अलङ्कृतीनां स्थितावित्यर्थः । अपरविधमाह---संदिग्धत्वे चेति । अलङ्कारद्वयस्य सन्देहे कोटिद्वयत्वे इत्यर्थः । ********** टीका सम्पूर्णा ********** अङ्गाङ्गिभावो यथा-- ************* टीका ************* विज्ञप्रिया (वि, स) अङ्गाङ्गिभावो यथेति । यद्यप्यङ्गाङ्गिभावो जन्यजनकभावः प्रकृष्यप्रकर्षकभावो ज्ञाप्यज्ञापकभावश्चेति त्रिविधस्तथापि ज्ञाप्यज्ञापकभावरूपमेवोदाहरति । ********** टीका सम्पूर्णा ********** "आकृष्टिवेगविगलद्भुजगेन्द्रभोग- निर्मोकपट्टपरिवेष्टनायाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले" ॥ ************* टीका ************* विज्ञप्रिया (वि, ह) आकृष्टवेगेति---मन्दरपर्वतवर्णनमिदम् । यस्य मन्दरपर्वतस्य गदमूलेऽधोभागरूपमूले एव श्लेषण चरणस्य मूले प्रान्ते मन्दाकिनी अचेष्टत सेवारूपां चेष्टामकरोदित्यर्तः । किमर्थमित्यत्रात्प्रेक्षते---अम्बुराशेर्मन्यव्यथाव्युपशमार्थमिवेति । मम पत्युरम्बुराशेर॰मन्थजन्याया व्यथाया आशु शीघ्रं व्युपशमाय इत्येव तदर्थमिवेत्यर्थः । मन्थतो निवृत्तस्य तेनैव पूर्वं जनिता मन्थव्यथा आशु नंक्ष्यतीत्येवंरूपा प्रार्थना । ननु मन्दाकिनी मन्थनात्पूर्वमपि मन्दरस्य पादमूले वर्तते । इदानीं किंविधया चेष्टया सेवते इत्यत्राह---आकृष्टवेगेति । भावक्तान्तत्वादाकर्षणवेगेन विगलन् यो रज्जुभूतस्य भुजगेन्द्रस्य वासुकेर्भोगात्कायान्निर्मोकश्चर्मकञ्चुकं तद्रूपस्य पट्टस्य वस्त्रविशेषस्य परिवेष्टनया उद्वेष्टनप्रकारेणेत्यर्थः । नेदं चर्मकञ्चुकपदवेष्टनं, किन्तु मन्दाकिन्येव परितः पादमूलं सेवर्॰थं वेष्टितवतीत्यर्थः । ********** टीका सम्पूर्णा ********** अत्र निर्मोकपट्टापह्नवेन मन्दाकिन्या आरोप इत्यपह्नुतिः । सा च मन्दा किन्या वस्तुवृत्तेन यत्पादमूलवेष्टनं तच्चरणमूलवेष्टनमिति श्लेषमुत्थापयतीति तस्याङ्गम् । श्लेषञ्च पादमूलवेष्टनमेव चरणमूलवेष्टदमित्यतिशयोक्तरेङ्गम्, अतिशयोक्तिश्च "मन्थव्यथाव्युपशमार्थमिव" इत्युत्प्रेक्षाया अङ्गम् । उत्प्रेक्षा चाम्बुराशिमन्दाकिन्योर्नायकनायिकाव्यवहारं गमयतीति समासोक्तेरङ्गम् । ************* टीका ************* विज्ञप्रिया (वि, क) तत्र प्रथमाहपह्नुतिं दर्शयति---निर्मोकेति । सा चेति । सा अपह्नुतिः वस्तुवृत्तेन गङ्गावस्तुस्वभावेन । वस्तुतस्तु वेष्टनस्वभावत्वात्तस्या इत्यर्थः । श्लेषमुत्थापयतीति । श्लेषे ज्ञापयतीत्यर्थः । निर्मोके गङ्गारोपाभावे चरणार्थकश्लेषाप्रतीतेरित्यर्थः । सच श्लेषातिशयोक्तेरङ्गमित्याह---श्लेषश्चेति । अतिशयोक्तिं दर्शयति---पादमूलवेष्टनमेव सेवनमितीति भेदेप्यभेदारोपरूपातिशयोक्तिरियम् । नतु रूपकं रूपकाधिकरणस्य सेवनस्यानिर्दिष्टत्वाच्चरणार्थकपादश्लेषादेव सेवाबोधात् । श्लेषस्तज्ज्ञापक इत्यर्थः । अतिशयोक्तिरपि वाच्योत्प्रेक्षाया अङ्गभित्याहअतिशयोक्तिरपीति । इयं तु प्रकर्षकमङ्गं सेवाज्ञानं विना मन्थव्यथोपशमनार्थतायाः वेष्टनमात्रस्यासम्भवेनात्प्रेक्षायास्तथा प्रकर्षणआत् । नतु ज्ञापकमङ्गम् । इवशब्दादेव तस्याः प्रतीतेः, नापि जनकमङ्गमुत्कटकोटिसंशयात्मिकाया उत्प्रेक्षायाः सेवाज्ञानेन अजननत् । उत्प्रेक्षापि समासोक्तेर्ज्ञापकमङ्गमित्याह---उत्प्रेक्षा चेति । समुद्रगङ्गयोर्नायकनायिकाव्यवहारज्ञानस्य मन्थव्यथेपशामार्थतोत्प्रेक्षां विनाचेतनयोरसम्भवात् । ********** टीका सम्पूर्णा ********** यथा वा-- "अनुरागवती संध्यां दिवसस्तत्पुरः सरः । अहो ! दैवगतिश्चित्रा तथापि न समागमः" ॥ अत्र समासोक्तिविशेषोक्तेरङ्गम् । ************* टीका ************* विज्ञप्रिया (वि, ख) अनेकालङ्कारणमङ्गाङ्गिभावमुक्त्वालङ्कारयोस्तथात्वमाह---यथा वेति । सायंसन्ध्यावर्णनमिदम् । अनु दिवसस्य पश्चाद्रागवती रक्तिमवती सन्ध्या, दिवसश्च तस्याः पुरः सरः पूर्ववर्तो । अहो आश्चर्यम् । चित्रा विलक्षणा दैवगतिर्यतस्तथापि न समागमः । पुरः पश्चाद्भावेन स्थितयोरेकदा मिलरूपस्य समागमस्यैव दृष्टत्वात् । दिवससन्ध्ययोस्तु नैकदा मिलनम् ॑ सन्ध्याकाले दिवसाभावात् । अत्र समासोक्तिरिति । अत्र रागवन्नायिकापुरः सरनायकयोर्दैवात्समागमरहितयोर्वृत्तान्तप्रतीतिरूपा समासोक्तिः । पूर्वपश्चाद्भावस्थितिरूपस्य समागमहेतोः सत्त्वेपि समागमरूपफलस्याभावरूपाया विशेषोक्तेर्ज्ञापकहेतुरित्यर्थः । नायकनायिकासमागमाभावप्रतीतेर्नायके वृत्तान्तप्रतीतिं विनासम्भवात् । जनकरूपाङ्गोदाहरणं तु न दर्शितम् । त्तु यथा-- "पुलिन्दास्ते रिपुस्त्रीणां वने हारं हरन्ति नो । बिम्बोष्ठकान्त्या शोणं तं गुञ्जमालां हि मन्यते ॥ "अत्र हारेण बिम्बोष्ठकान्तेर्ग्रहणात्तद्गुणोऽलङ्कारः । तेन च गुञ्जाहारभ्रान्तिजननाद्भ्रान्तिमांस्तद्गुणस्य प्रकर्षकमङ्गम् । ********** टीका सम्पूर्णा ********** संदेहसङ्करो यथा-- "इदमाभाति गगने भिन्दानं सन्ततं तमः । अमन्दनयनान्दकरं मण्डलमैन्दवम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ग) बहूनामलङ्काराणां सन्देहसङ्करमाह--इदमाभातीति । इदमैन्दवमण्डलं गगने आभाति । कीदृशं सन्ततं विस्तृतं तमः अन्धाकारमज्ञानं च भिन्दानममन्दनयनानन्दकरं च । ********** टीका सम्पूर्णा ********** अत्र किं मुखस्य चन्द्रतयाध्वसानादतिशयोक्तिः, उत इदमिति मुखं निर्दिश्य चन्द्रत्वारोपाद्रूपकम्, अथवा इदमिति मुखस्य चन्द्रमण्डलस्य च द्वयोरपि प्रकृतयोरेकधर्माभिसंबन्धात्तुल्ययोगिता, आहोस्विच्चन्द्रस्याप्रकृतत्वाद्दीपकम्, किं वा विशेषणसाम्यादप्रस्तुतस्य मुखस्य गम्यत्वात्समासोक्तिः, यद्वाप्रस्तुतचन्द्रवर्णनया प्रस्तुतस्य मुखस्यावगतिरित्यप्रस्तुतप्रशंसा, यद्वा मन्मथोद्दीपनः कालः स्वकार्यभूतचन्द्रवर्णनामुखेन वणित इति पर्यायोक्तिरिति बहूनामलङ्कराणां संदेहात्संदेहसङ्करः । ************* टीका ************* विज्ञप्रिया (वि, घ) अत्रालङ्काराणां संशयकोटितां दर्शयति--अत्रेति . इदं गगने ऐन्दवं मण्डलमर्थान्नायिकायामाभातीत्यर्थः । एवं चारोपाधिकरणस्य मुखस्यानिर्देशादतिशयोक्तिरित्यर्थः । मुखस्येदं पदेन निर्देशे तु रूपकमित्याह उतेति । तुल्ययोगितां दर्शयत्यथवेति । तथां च इदं निर्दिश्यमानं मुखं गगने ऐन्दवं मण्डलं चाभातीत्यर्तः । द्वयोरपि प्रकृतयोरिति । उभयस्यैव दीप्यमानत्ववर्णनेऽपि क्रमसत्त्वे इत्यर्थः । मुखस्यैव प्रक्रान्तत्वे तदुपमानतयैव चन्द्रनिर्देशे तु तस्याप्रकृतत्वात्प्रकृताप्रकृतयोरेकधर्मान्वयरूपं दीपकमित्यर्थः । समासोक्तिं दर्शयति---किंवेति । चन्द्रवर्णनस्यैव प्रक्रान्तत्वेऽप्रस्तुतप्रशंसेत्याह यद्वेति । कार्यभूतेति । चन्द्रोदयस्य सन्ध्याकालकार्यत्वात् । ********** टीका सम्पूर्णा ********** यथा वा--"मुखचन्द्रं पश्यामि" इत्यत्र किं मुखं चन्द्र इव इत्युपमा ? उत चन्द्र एवेति रूपकमिति संदेहः । साधकबाधकयोर्द्वयोरेकतरस्य सद्भावे न पुनः संदेहः । यथा-- "मुखचन्द्रं चुम्बति" इत्यत्र चुम्बनं मुखस्यानुकूलमित्युपमायाः साधकम् । चन्द्रस्य तु प्रतिकूलमिति रूपकस्य बाधकम् । "मुखचन्द्रः प्रकाशते" इत्यत्र प्रकाशाख्यो धर्मो रूपकस्य साधको मुखे उपचरितत्वेन संभवतीति नोपमाबाधकः । ************* टीका ************* विज्ञप्रिया (वि ङ) अलङ्कारद्वयसन्देहं दर्शयति---यथा वेति । मुखचन्द्रं चुम्बतीति मुखस्यानुकूलं चन्द्रतुल्यमुख एव साक्षादन्वितमित्यर्थः । नतु मुखात्मके चन्द्रे सम्भोगचुम्बनासम्भवात् । चन्द्रस्या तु प्रतिकूलमिति । मुखनिष्ठस्य चुम्बनस्य मुखाभिन्नत्वेन गृहीतचन्द्रेऽपि परस्परस्यासम्भवात् । प्रकाशाख्य इति । तिभिरनाशाख्य इत्यर्थः । सच धर्मश्चन्द्रे एव साक्षास्तीत्यतो विशेष्यत्वेन प्रतीयमाने चन्द्रे साक्षादन्वितत्वाद्रूपकस्य साधक इत्यर्थः । उपमायास्तु न बाधक इत्यत आहमुखे उपचरितत्वेनेति । चन्द्रतुल्यमुखेऽपि चन्द्रधर्मप्रकाशनारोपसम्भवादित्यर्थः । ********** टीका सम्पूर्णा ********** "राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्" । अत्र योषित आलिङ्गनं नायकस्य सादृश्ये नोचितमिति लक्ष्म्यालिङ्गनस्य राजन्यासंभवादुपमाबाधकम्, नारायणे संभवाद्रूपकम् । ************* टीका ************* विज्ञप्रिया (वि, च) रूपकसाधकमाह---राजनारायणमिति । लक्ष्मीरत्र नारायणस्य पत्नी नतु सम्पत् । अत आह--योषित इति । नारायणे च सम्भवाद्रूपकमिति । रूपके नारायणस्यैव विशेष्यत्वात्तत्रैवालिङ्गनान्वयात् । ********** टीका सम्पूर्णा ********** एवम्-- "वदनाम्बुजमेणाक्ष्या भाति चञ्चललोचनम्" । अत्र वदने लोचनस्य सम्भवादुपमायाः साधकता, अम्बुजे चासंभवाद्रूपकस्य बाधकता । ************* टीका ************* विज्ञप्रिया (वि, छ) उपमायाः साधकमाह--वदनाम्बुजमिति । चञ्चलं लोचनं यत्रेति विग्रहेण चञ्चललोचनवत्त्वस्याम्बुजतुल्ये वदने एव सम्भवादुपमायाः साधकतेत्याह--अत्रेति । ********** टीका सम्पूर्णा ********** एवं--"सुन्दरं वदनाम्बुजम्" इत्यादौ साधारणधर्मप्रयोगे "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इति वचनादुपमासमासो न संभवतीत्युपमाया बाधकः । एवं चात्र मयूरव्यंसकादित्वाद्रूपकसमास एव । ************* टीका ************* विज्ञप्रिया (वि, ज) एवमनुशासनेनापि यत्रोपमासमासो निषिद्धस्तत्राप नोपमत्याहएवमिति । सुन्दरं वदनाम्बुजमित्यादौ साधारणधर्मप्रयोगे उपमासमासो न सम्भवतीत्यत्र उपमाया बाधक इत्यन्वयः । स च धर्मोत्र सुन्दरत्वम्, तस्य उपमाबाधकताग्राहकपाणिन्यनुशासनं दर्शयति---उपमितमिति । अनेन पाणिनिसूत्रेण साधारणधर्माप्रयोग एव पुरुषव्याघ्राद्युपमासमासः । एवं बोधनात्साधारणधर्मप्रयोग एव तत्समासो निषिद्धः । अत्रहीति वचनात्सुन्दरं वहनाम्बुजमिति प्रयोगे उपमासमासे सति न सम्भवतीत्यतः सुन्दरत्वरूपसाधारणधर्माप्रयोगे उपमाया बोध इत्यर्थः । ननु "मयूरैव पुरुषो व्यंसको विगतभुजमूलऽ इत्याद्यार्थे व्यंसकत्वादिभावाद्यत्रोपमानस्य पूर्वनिर्देशस्तत्रैव मयूरव्यंसकदित्वमुपमानस्य परनिर्देशे तु नेत्यर्थः । ********** टीका सम्पूर्णा ********** एकाश्रयानुप्रवेशो यथा मम-- "कटाक्षेणापीषत्क्षणमपि निरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति पिहिताशेषविषयः । सरोमाञ्चोदञ्चत्कुचकलशनिभिन्नवसयः परीरम्भारम्भः क इव भविताम्भोरुहदृशः" ॥ ************* टीका ************* विज्ञप्रिया (वि, झ) एकाश्रयस्थितिरूपाणामलङ्कारणां सङ्करमाह---कटाक्षेणेति । एकाश्रयश्च क्वचिदेकं वाक्यं क्वचिदेकं पदम् । नचैकवाक्यस्थत्वे संसृष्टिरेवेति वाच्यम्, अङ्गाङ्गिभावे अतथात्वात् । नच तदा अङ्गाङ्गिभावसङ्कर इति वाच्यम् । तदाप्येकाश्रयानुप्रवेशानपायात् । कटाक्षेणेति । सा नायिका क्षणमर्थान्मामीषदल्पं यदि निरीक्षेत तदा पिहिताशेषविषयः सान्द्र आनन्दः स्फुरति । तदा तस्या अम्बुजाक्ष्याः परीरम्भारम्भः क इव भविता, कटाक्षेणैव कृतार्थोऽहं तत्परिरम्भं नोपेक्ष इत्यर्थः । यद्वा कटाक्षपातनतोऽधिकतरः परिरम्भारम्भः कैव भविता, अनिर्वचनीय एव भविता इत्यर्थः । कीदृशः परिरम्भारम्भः । सरोमाञ्चाभ्यामत एवोदञ्चद्भ्यां कुचकलशाभ्यां निर्भिन्नं परिभ्रष्टं वसनं यत्र तादृशः । ********** टीका सम्पूर्णा ********** अत्र कटाक्षेणापीषत्क्षणमपीत्यत्रच्छेकानुप्रासस्य निरीक्षेतेत्यत्र क्षकारमादाय वृत्त्यनुप्रासस्यचैकाश्रयेऽनुप्रवेशः । एवं चात्रैवानुप्रसार्थापत्त्यलङ्कारयोः । ************* टीका ************* विज्ञप्रिया (वि, ञ) अत्र वाक्यारूपैकाश्रयसत्त्वं द्विविधानुप्रासयोर्दर्शयति---अत्रेति छेकातुप्रासोऽनेकस्य व्यञ्जनस्य स्वरूपतः साम्ये सति तच्छेकानुप्रासोक्तत्वात् । संयुक्तानेवर्णस्य तु आनुपूर्व्यसम्भवात्तादृशेऽनेकस्य क्षकारमात्रस्य सकृच्छेकानुप्रास इत्यर्थः । तादृशस्यैव क्षकारान्तरसाहित्यादनेकधात्वे वृत्त्यनुप्रास इत्याह---निरीक्षेतित्यत्रेति । अनेकस्यासकृत्त्वे वृत्त्यनुप्रसस्योक्तत्वात् । एकाश्रयानुप्रवेश एकवाक्यप्रवेशः । एवं च क्षकारद्वयघटितच्छेकानुप्रासेन क्षकारान्तरसाहित्यवशाद्वृत्त्यनुप्रासजननादङ्गाङ्गिभावसङ्करोऽप्यत्रास्तीत्यतः समासैकपदारूपाश्रयेऽसङ्कीर्णमुदाहरति---आपाततस्तत्रैवानुप्रासार्थापत्त्यलङ्कारयोरेकाश्रयानुप्रवेशं दर्शयति---एवं चात्रैवेति । कटाक्षपातेनापि सान्द्रन्दस्फुरणाद्दण्डापूपिकया सिद्धे स्तनपरिरम्भेऽनिर्वचनीयानन्द इत्येवमर्थापत्त्यलङ्कार इत्यर्थः । ********** टीका सम्पूर्णा ********** यथा वा-- "संसारध्वान्तविध्वंस--" इत्यत्र रूपकानुप्रासयोः । यथा वा--"कुरबकारवकारणतां ययुः" इत्यत्र रबका रवका इत्येकं बकारवकार इत्येकमिति यमकयोः । ************* टीका ************* विज्ञप्रिया (वि, ट) समास एकपदेऽङ्गाङ्गिभावसङ्कररहितमेकाश्रयानुप्रवेशसङ्करमाह--यथा वेति । रूपकानुप्रासयोरिति । कंसनिषूदने सूर्यतारोपणआत् । कुरुबका इत्यादि । अत्र एकवाक्यगतं यमकद्वयम् । नचात्र पूर्वयमकेनोत्तरयमकनिर्वाहादनुग्राह्यानुग्राहकतासङ्करोपीति वाच्यम् । कारणतामित्येतदीयरेफपर्यन्तस्योत्तरयमकस्य पूर्वयमकेनापि निर्वाह्यात्वात् । एवं "कलकलोलकलोलदृशेऽ त्यत्रापि लकलो लकलो कलोल कलोल इति यमकद्वयम् । ********** टीका सम्पूर्णा ********** यथा वा-- "अहिणअपओअरसिएसु पहिअसामाहएसु दिअहेसु । रहसपसारिअगीआणं णच्चिजं मोरविन्दाणम्" ॥ ************* टीका ************* विज्ञप्रिया (वि, ठ) उपमारूपकयोरप्येकाश्रयानुप्रवेशं दर्शयति---अहिणअ इति । "अभिनवपयोदरसिकेषु पथिकसामाजिकेषु दिवसेषु । महति प्रसारितगीतानर्तितकं मयूरवृन्दानाम् ॥ "इति संस्कृतम् । प्रसारितं गीतं यत्रेति तादृशं मयूरवृन्दानामानर्तितकं नृत्ययुक्तविशेषणकेषु दिवसेषु महति पूज्यं भवति शोभते इत्यर्थः । मह पूजायामिति धातुः । नृत्योचितं दिवसविशेषणमाह---अभिनवेति । अभिनवपयोद एव रसिका रसवन्त एक नृत्यदर्शनार्थं रसवन्तो यत्र तादृशेषु । तथा पथिकाः सामाजिका इव नृत्यादिदिदृक्षिसमाजप्रधानानीव यत्र तादृशेषु । अत्र रसिकसामाजिकानां समाजप्रधानतुल्यानां च तृत्यदर्शिनामाश्रयत्वेन दिवसानां नृत्यसत्तारूपकं व्यङ्ग्यमवधेयम् । ********** टीका सम्पूर्णा ********** अत्र "पहिअसामाइएसु" इत्येकाश्रये पथिकशयामायितेत्युपमा, पथिकसामाजिकेष्वितिरूपकं प्रविष्टमिति । ************* टीका ************* विज्ञप्रिया (वि, ड) अत्रोपमारूपकयोरेकाश्रयानुप्रवेशं दर्शयति---अत्रेति । पथिकाश्यामायिता यत्रेत्युपमेत्यर्थः । पथिकमासाजिकेषु इत्यत्रैव दिवसेषु व्यङ्ग्यरूपकं दर्शयति । पथिकाः सामाजिका येषु इति । सामाजिका एव येष्वित्यर्थः । प्रविष्टमिति---व्यङ्ग्यसत्तारूपकमित्यर्थः । ********** टीका सम्पूर्णा ********** श्रीचन्द्रशेखरमहाकविचन्द्रसूनु- श्रीविश्वनाथकविराजकृतं प्रबन्धम् । साहित्यदर्पणममुं सुधियो विलोक्य साहित्यतत्त्वमखिलं सुखमेव वित्त ॥ १०.९९ ॥ ************* टीका ************* विज्ञप्रिया (वि, ढ) श्रीचन्द्रेति । अत्र मुधिय इति सम्बोधनम् । क्वचित्कव्य इति पाठः । हे सुधियः, श्रीचन्द्रेत्यादिकृतममुं साहित्यदर्पणं पुस्तकं विलोक्य अखिलं साहित्यतत्त्वं सुखमेव सुखविशिष्टमेव यथा स्यात्तथा वित्त जानीतेत्यर्थः । लोचना (लो, ऊ) श्रीचन्द्रशेखरेति । महाकविचन्द्रेत्यत्र चन्द्रशब्दः श्रेष्ठार्थः । विश्वनाथनामा कविराजः यस्येमां प्रशस्तिमाचक्षते विचक्षणाः । "आः किं कम्पमुरीकरोषि वसुधे धूरर्दिते वा भव- द्रोविन्देन तु नन्दमन्दिरकृतक्रीडावतारेण ते । विख्यातः कविराजिराज इति यः श्रीविश्वनाथः कृती तस्याकर्ण्य गिरः शिरांसि भुजगाधीशो धुनीतेऽधुना" ॥ तेन कृतं साहित्यदर्पणाख्यं ग्रन्थमवलोक्येति सम्बन्धः । ********** टीका सम्पूर्णा ********** यावत्प्रसन्नेन्दुनिभानना श्रीर्नारायणस्याङ्गमलङ्करोति । तावन्मनः संमदयन् कवीनामेष प्रबन्धः प्रथितोऽस्तु लोके ॥ १०.१०० ॥ ************* टीका ************* विज्ञप्रिया (वि, ण) यावदिति । प्रसन्नेन्दुनिभानना श्रीर्यावन्नारायणस्याङ्गमलङ्करोति, तावत्कवीनां मनः सम्मदयन्नयं प्रबन्धो लोके प्रथितोस्तु इत्यर्थः । लोचना (लो, ऋ) सम्प्रति ग्रन्थस्य समाप्तौ स्वाभीष्टपूर्वकं शुभाशंसनं करोति--- यावदिति । सम्मदयन् सम्यक्प्रीणयन्--- आस्तामनन्तकृतिना कृत एष धीरे- णासाद्य तातशरणाम्बुरुहप्रसादम् । आचन्द्रमातरणिकोविदवृन्दवन्द्यः साहित्यदर्पणविवेकवचः प्रपञ्चः ॥ ********** टीका सम्पूर्णा ********** इत्यालङ्कारिकचक्रवर्तिसान्धिविग्रहिकमहापात्रश्रीविश्वनाथकविराजकृते साहित्यदर्पणे दशमः परिच्छेदः । ************* टीका ************* विज्ञप्रिया (वि, त) इतीत्यादि । अखिलभाषैव विलासिनी नायिका तस्याः भुजङ्गः कामुकस्तदनुशीलकत्वात् । इति महेश्वरतर्कालङ्कारविरचितायां साहित्यदर्पणटीकायां दशमपरिच्छेदविवरणं सुश्लिष्टसंस्कृतवशेन सुखाधिरोहा वैषम्यदुस्तरतरङ्गविभेददक्षा । साहित्यदर्पणमहार्णवमुत्तरीतुं टीकेयमस्तितरणिर्न बिभीत धीराः ॥ १ ॥ दर्पणे प्रतिबिम्बन्ते पदार्था इति नाद्भुतम् । चित्रं ममैतद्व्याख्याने दर्पणः प्रतिबिम्बिते ॥ २ ॥ अवधानकृतामोदा टीकेयं नावधीर्यताम् । धीराः कषायताम्बूले स्वाद्यन्ते हि क्रमाद्रसाः ॥ ********** टीका सम्पूर्णा **********