श्रीसिंहभूपालविरचितो रसार्णवसुधाकरः (१) प्रथमो विलासः रञ्जकोल्लासः शृङ्गारवीरसौहार्दं मौग्ध्यवैयात्यसौरभम् । लास्यताण्डवसौजन्यं दाम्पत्यं तद्भजामहे ॥१.१॥ वीणाङ्कितकरां वन्दे वानीमेणीदृशं सदा । सदानन्दमयीं देवीं सरोजासनवल्लभाम् ॥१.२॥ अस्ति किञ्चित्परं वस्तु परमानन्दकन्दलम् । कमलाकुचकाठिन्यकुतूहलिभुजान्तरम् ॥१.३॥ तस्य पादाम्बुजाज्जातो वर्णो विगतकल्मषः । यस्य सोदरतां प्राप्तं भगीरथतपःफलम् ॥१.४॥ तत्र रेचर्लवंशाब्धिशरद्राकासुधाकरः । कलानिधिरुदारश्रीरासीद्दाचयनायकः ॥१.५॥ यस्यासिधारामार्गेण दुर्गेणापि रणाङ्गणे । पाण्ड्यराजगजानीकाज्जयलक्ष्मीरुपागता ॥१.६॥ अङ्गनारायणे यस्मिन् भवति श्रीरतिस्थिरा । भूरभूत्करिणी वश्या दुष्टराजगजाङ्कुशे ॥१.७॥ तस्य भार्या महाभाग्या विष्णोः श्रीरिव विश्रुता । पोचमाम्बा गुणोदारा जाता तामरसान्वयात् ॥१.८॥ तयोरभूवन् क्षितिकल्पवृक्षाः पुत्रास्त्रयस्त्रासितवैरिवीराः । सिंहप्रभुर्वेन्नमनायकश्च वीराग्रणी रेचमहीपतिश्च ॥१.९॥ कलावेकपदो धर्मो यैरेभिश्चरणैरिव । सम्पूर्णपदतां प्राप्य नाकाङ्क्षति कृतं युगम् ॥१.१०॥ तत्र सिंहमहीपाले पालयत्यखिलां महीम् । नमतामुन्नतिश्चित्रं राज्ञामनमतां नतिः ॥१.११॥ कृष्णैलेश्वरसंनिधौ कृतमहासम्भारमेलेश्वरे वीतापायमनेकशो विदधता ब्रह्मप्रतिष्ठापनम् । आनृण्य समपादि येन विभुना तत्तद्गुणैरात्मनो निर्माणातिशयप्रयासगरिमव्यासङ्गिनि ब्रह्मणि ॥१.१२॥ कृतान्तजिह्वाकुटिलां कृपाणीं दृष्ट्वा यदीयां त्रसतामरीणाम् । स्वेदोदयश्चेतसि संचितानां मानोष्मणामातनुते प्रशान्तिम् ॥१.१३॥ श्रीमान् रेचमहीपतिः सुचरितो यस्यानुजन्मा स्फुटं प्राप्तो वीरगुरुप्रथां पृथुतरां वीरस्य मुद्राकरीम् । लब्ध्वा लब्धकठारिरायविरुदं राहुत्तरायाङ्कितं पुत्रं नागयनायकं वसुमतीवीरैकचूडामणिम् ॥१.१४॥ सोऽ यं सिंहमहीपालो वसुदेव इति स्फुटम् । अनन्तमाधवौ यस्य तनूजौ लोकरक्षकौ ॥१.१५॥ तत्रानुजो माधवनायकेन्द्रो दिगन्तरालप्रथितप्रतापः । यस्याभवन् वंशकरा नरेन्द्रास् तनूभवा वेदगिरीन्द्रमुख्याः ॥१.१६॥ तस्याग्रजन्मा भुवि राजदोषैर् अप्रोतभावादनपोतसंज्ञाम् । ख्यातां दधाति स्म यथार्थभूताम् अनन्तसज्ञां च महीधरत्वम् ॥१.१७॥ सोदर्यो बलभद्रमूर्तिरनिशं देवी प्रिया रुक्मिणी प्रद्युम्नस्तनयोऽ प्पौत्रनिवहो यस्यानिरुद्धादयः । सोऽ यं श्रीपतिरन्नपोतनृपतिः किं चाननाम्भोरुहे धत्ते चारुसुदर्शनश्रियमसौ सत्वात्महस्ताम्बुजे ॥१.१८॥ बहुसोमसुतं कृत्वा भूलोकं यत्र रक्षति । एकसोमसुतं रक्षन् स्वर्लोकं लज्जते हरिः ॥१.१९॥ सोमकुलपरशुरांे भुजबलभीमेऽ रिगायगोबाले । यत्र च जाग्रति शासति जगतां जागर्ति नित्यकल्याणम् ॥१.२०॥ हेमाद्रिदानैर्धरणीसुराणां हेमाचलं हस्तगतं विधाय । यश्चारुसोपानपथेन चक्रे श्रीपर्वतं सर्वजनाङ्घ्रिगम्यम् ॥१.२१॥ यो नैकवीरोद्दलनोऽ प्यसङ्ख्य सङ्ख्योऽ प्यभग्नात्मगतिक्रमोऽ पि । अजातिसाङ्कर्यभवोऽ पि चित्रं दधाति सोमान्वयभार्गवाङ्कम् ॥१.२२॥ धावं धावं रिपुनृपतयो युद्धरङ्गापविद्धाः खड्गे खड्गे फलितवपुषं यं पुरस्ताद्विलोक्य । प्रत्यावृत्ता अपि तत इतो वीक्षमाणा यदीयं संमन्यन्ते स्फुटमवितथं खड्गनारायणाङ्कम् ॥१.२३॥ अन्नमाम्बेति विख्याता तस्यासीद्धरणीपतेः । देवी शिवा शिवस्येव राजमौलेर्महोज्ज्वला ॥१.२४॥ शत्रुघ्नं श्रुतकीर्तिर्या सुभद्रा यशसार्जुनम् । आनन्दयति भर्तारं श्यामा राजानमुज्ज्वलम् ॥१.२५॥ तयोरभूतां पुत्रौ द्वावाद्यो वेदगिरीश्वरः । द्वितीयस्त्वद्वितीयोऽ सौ यशसा सिंहभूपतिः ॥१.२६॥ अथ श्रीसिंहभूपालो दीर्घायुर्वसुधामिमाम् । निजांसपीठे निर्व्याजं कुरुते सुप्रतिष्ठिताम् ॥१.२७॥ अहीनज्याबन्धः कनकरुचिरं कार्मुकवरं बलिध्वंसी बाणः परपुरमनेकं च विषयः । इति प्रायो लोकोत्तरसमरसंनाहविधिना महेशोऽ यं सिंहक्षितिप इति यं जल्पति जनः ॥१.२८॥ यत्र च रणसंनहिनि तृणचरणं निजपुराच्च निःसरणम् । वनचरणं तच्चरणक परिचरणं वा विरोधिनां शरणम् ॥१.२९॥ सतां प्रीतिं कुर्वन् कुवलयविकासं विरचयन् कलाः कान्ताः पुष्णन् दधदपि च जैवातृककथाम् । नितान्तं यो राजा प्रकटयति मित्रोदयमहो तथा चक्रानन्दानपि च कमलोल्लाससुषमाम् ॥१.३०॥ तल्लब्धानि घनाघनैरतितरां वारां पृषन्त्यम्बुधौ स्वात्यामेव हि शुक्तिकासु दधते मुक्तानि मुक्तात्मताम् । यद्दानोदकविप्रुषस्तु सुधियां हस्ते पतन्त्योऽ भवन् माणिक्यानि महाम्बराणि बहुशो धामानि हेमानि च ॥१.३१॥ नयनमयं गुणमगुणं पदमपदं निजमवेत्य रिपुभूपाः । यस्य च नयगुणविदुषो विनमन्ति पदारविन्दपीठान्तम् ॥१.३२॥ प्राणानां परिरक्षणाय बहुशो वृत्तिं मदीयां गतास् त्वत्सामन्तमहीभुजः करुणया ते रक्षणीया इति । कर्णे वर्णयितुं नितान्तसुहृदो कर्णान्तविश्रान्तयोर् मन्ये यस्य दृगन्तयोः परिसरं सा कामधेनुः श्रिता ॥१.३३॥ युष्माभिः प्रतिगण्डभैरवरणे प्राणाः कथं रक्षिता इत्यन्तःपुरपृच्छया यदरिषु प्राप्तेषु लज्जावशम् । शंसन्त्युत्तरमाननव्यतिकरव्यापारपारङ्गता गण्डान्दोलितकर्णकुण्डलहरिन्माणिक्यवर्णाङ्कुराः ॥१.३४॥ मन्दारपारिजातक चन्दनसन्तानकल्पमणिसदृशैः । अनपोतदाचवल्लभ वेदगिरिस्वामिमाददामयसंज्ञैः ॥१.३५॥ आत्मभवैरतिविभवैर् अनितरजनसुलभदानमुदितैर्भुवि यः । रत्नाकर इव राजति राजकरारचितसुकमलोल्लासः ॥१.३६॥ यस्याढ्यः प्रथमः कुमारतिलकः श्रीअन्नपोतो गुणैर् एकस्याग्रजमात्मरूपविभवे चापे द्वयोरग्रजम् । आरूढे त्रितयाग्रजं विजयते दुर्वारदोर्विक्रमे सत्योक्तौ चतुरग्रजं वितरणे किं चापि पञ्चाग्रजम् ॥१.३७॥ युद्धे यस्य कुमारदाचयविभोः खड्गाग्रधाराजले मज्जन्ति प्रतिपक्षभूमिपतयः शौर्योष्मसन्तापिताः । चित्रं तत्प्रमदाः प्रनष्टतिलका व्याकीर्णनीलालकाः प्रभ्रश्यत्कुचकुङ्कुमाः परिगलन्नेत्रान्तकालाञ्जनाः ॥१.३८॥ परिपोषिणि यस्य पुत्ररत्ने दयिते वल्लभरायपूर्णचन्द्रे । समुदेति सतां प्रभावशेषः कमलानामभिवर्धनं तु चित्रम् ॥१.३९॥ एतैरन्यैश्च तनयैः सोऽ यं सिंहमहीपतिः । षड्भिः प्रतिष्ठामयते स्वामीवाङ्गैः सुसङ्गतैः ॥१.४०॥ राजा स राजाचलनामधेयाम् अध्यास्त वंशक्रमराजधानीम् । सतां च रक्षामसतां च शिक्षां न्यायानुरोधादनुसन्दधानज्ञाः ॥१.४१॥ विन्ध्यश्रीशैलमध्यक्ष्मामण्डलं पालयन् सुतैः । वंशप्रवर्तकैरर्थान् भुङ्क्ते भोगपुरन्दरः ॥१.४२॥ तस्मिन् शासति सिंहभूमिरमणे क्ष्मामन्नपोतात्मजे काठिन्यं कुचमण्डले तरलता नेत्राञ्चले सुभ्रुवाम् । वैषम्यं त्रिवलीषु मन्दपदता लीलालसायां गतौ कौटिल्यं चिकुरेषु किं च कृशता मध्ये परं बध्यते ॥१.४३॥ सोऽ हं कल्याणरूपस्य वर्णोत्कर्षैककारणम् । विद्वत्प्रसादनाहेतोर्वक्ष्ये नाट्यस्य लक्षणम् ॥१.४४॥ पुरा पुरन्दराद्यास्ते प्रणम्य चतुराननम् । कृताञ्जलिपुटा भूत्वा पप्रच्छुः सर्ववेदिनम् ॥१.४५॥ भगवन् श्रोतुमिच्छामः श्राव्यं दृश्यं मनोहरम् । धर्म्यं यशस्यमर्थ्यं च सर्वशिल्पप्रदर्शनम् ॥१.४६॥ परं पञ्चममाम्नायं सर्ववर्णाधिकारिकम् । इति पृष्टः स तैर्ब्रह्मा सर्ववेदाननुस्मरन् ॥१.४७॥ तेभ्यश्च सारमादाय नाट्यवेदमथासृजत् । अध्याप्य भरताचार्यं प्रजापतिरभाषत ॥१.४८॥ सह पुत्रैरिमं वेदं प्रयोगेण प्रकाशय । इति तेन नियुक्तस्तु भरतः सह सूनुभिः ॥१.४९॥ प्रायोजयत्सुधर्मायामिन्द्रस्याग्रेऽ प्सरोगणैः । सर्वलोकोपकाराय नाट्यशास्त्रं च निर्ममे ॥१.५०॥ तथा तदनुसारेण शाण्डिल्यः कोहलोऽ पि च । दत्तिलश्च मतङ्गश्च ये चान्ये तत्तनूद्भवाः ॥१.५१॥ ग्रन्थान्नानाविधांश्चक्रुः प्रख्यातास्ते महीतले । तेषामतिगभीरत्वाद्विप्रकीर्णक्रमत्वतः ॥१.५२॥ सम्प्रदायस्य विच्छेदात्तद्विदां विरलत्वतः । प्रायो विरलसञ्चारा नाट्यपद्धतिरस्फुटा ॥१.५३॥ तस्मादस्मत्प्रयत्नोऽ यं तत्प्रकाशनलक्षणः । सारैकग्राहिणां चित्तमानन्दयति धीमताम् ॥१.५४॥ नेदानीन्तनदीपिका किमु तमःसङ्हातमुन्मूलयेज् ज्योत्स्ना किं न चकोरपारणकृते तत्कालसंशोभिनी । बालः किं कमलाकरान् दिनमणिर्नोल्लासयेदञ्जसा तत्सम्प्रत्यपि मादृशामपि वचः स्यादेव सम्प्रीतये ॥१.५५॥ स्वच्छस्वादुरसाधारो वस्तुच्छायामनोहरः । सेव्यः सुवर्णनिधिवन्नाट्यमार्गः सनायकः ॥१.५६॥ सात्त्विकाद्यैरभिनयैः प्रेक्षकाणां यतो भवेत् । नटे नायकतादात्म्यबुद्धिस्तन्नाट्यमुच्यते ॥१.५७॥ रसोत्कर्षो हि नाट्यस्य प्राणास्तत्स निरूप्यते । विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ॥१.५८॥ आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः । तत्र ज्ञेयो विभावस्तु रसज्ञापनकारणम् ॥१.५९॥ बुधैर्ज्ञेयोऽ यमालम्ब उद्दीपन इति द्विधा । आधारविषयत्वाभ्यां नायको नायिकापि च ॥१.६०॥ आलम्बनं मतं तत्र नायको गुणवान् पुमान् । तद्गुणास्तु महाभाग्यमौदार्यं स्थैर्यदक्षते ॥१.६१॥ औज्ज्वल्यं धार्मिकत्वं च कुलीनत्वं च वाग्मिता । कृतज्ञत्वं नयज्ञत्वं शुचिता मानशालिता ॥१.६२॥ तेजस्विता कलावत्त्वं प्रजारञ्जकतादयः । एते साधारणाः प्रोक्ताः नायकस्य गुणा बुधैः ॥१.६३॥ सर्वातिशायिराज्यत्वं महाभाग्यमुदाहृतम् । यद्विश्राणनशीलत्वं तदौदार्यं बुधा विदुः ॥१.६४॥ व्यापारं फलपर्यन्तं स्थैर्य्माहुर्मनीषिणः । दुष्करे क्षिप्रकारित्वं दक्षतां परिचक्षते ॥१.६५॥ औज्ज्वल्यं नयनानन्दकारित्वं कथ्यते बुधैः । धर्मप्रवणचित्तत्वं धार्मिकत्वमितीर्यते ॥१.६६॥ कुले महति सम्भूतिः कुलीनत्वमुदाहृतम् । वाग्मिता तु बुधैरुक्ता समयोचितभाषिता ॥१.६७॥ कृतानामुपकाराणामभ्ज्ञत्वं कृतज्ञता । सामाद्युपायचातुर्यं नयज्ञत्वमुदाहृतम् ॥१.६८॥ अन्तःकरणशुद्धिर्या शुचिता सा प्रकीर्तिता । अकार्पण्यसहिष्णुत्वं कथिता मानशालिता ॥१.६९॥ तेजस्वित्वमवज्ञादेरसहिष्णुत्वमुच्यते । कलावत्त्वं निगदितं सर्वविद्यासु कौशलम् ॥१.७०॥ रञ्जकत्वं तु सकलचित्ताह्लादनकारिता । उक्तैर्गुणैश्च सकलैर्युक्तः स्यादुत्तमो नेता ॥१.७१॥ मध्यः कतिपयहीनो बहुगुणहीनोऽ धमो नाम । नेता चतुर्विधोऽ सौ धीरोदात्तश्च धीरललितश्च ॥१.७२॥ धीरप्रशान्तनामा ततश्च धीरोद्धतः ख्यातः । दयावानतिगम्भीरो विनीतः सत्त्वसारवान् ॥१.७३॥ दृढव्रतस्तितिक्षावानात्मश्लाघापराङ्मुखः । निगूढाहङ्कृतिर्धीरैर्धीरोदात्त उदाहृतः ॥१.७४॥ दयातिशयशालित्वं दयावत्त्वमुदाहृतम् । गाम्भीर्यमविकारः स्यात्सत्यपि क्षोभकारणे ॥१.७५॥ निश्चिन्तो धीरललितस्तरुणो वनितावशः । शमप्रकृतिकः क्लेशसहिष्णुश्च विवेचकः ॥१.७६॥ ललितादिगुणोपेतो विप्रो वा सचिवो वणिक् । धीरशान्तश्चारुदत्तमाधवादिरुदाहृतः ॥१.७७॥ मात्सर्यवानहङ्कारी मायावी रोषणश्चलः । विकत्थनो भार्गवादिर्धीरोद्धत उदाहृतः ॥१.७८॥ एते च नायकाः सर्वरससाधारणाः स्मृताः । शृङ्गारापेक्षया तेषां त्रैविध्यं कथ्यते बुधैः ॥१.७९॥ पतिश्चोपपतिश्चैव वैशिकश्चेति भेदतः । पतिस्तु विधिना पाणिग्राहकः कथ्यते बुधैः ॥१.८०॥ चतुर्धा सोऽ पि कथितो वृत्त्या काव्यविचक्षणैः । अनुकूलः शठो धृष्टो दक्षिणश्चेति भेदतः ॥१.८१॥ अनुकूलस्त्वेकजानिः शठो गूढापराधकृत् । धृष्टो व्यक्तान्ययुवतीभोगलक्ष्मापि निर्भयः ॥१.८२॥ नायिकास्वप्यनेकासु तुल्यो दक्षिण उच्यते । लङ्घिताचारया यस्तु विनापि विधिना स्त्रिया ॥१.८३॥ सङ्केतं नीयते प्रोक्तो बुधैरुपपतिस्तु सः । दाक्षिण्यमानुकूल्यं च धार्ष्ट्यं चानियतत्वतः ॥१.८४॥ नोचितान्यस्य शाठ्यं स्यादन्यचित्तत्वसम्भवात् । रूपवान् शीलसम्पन्नः शास्त्रज्ञः प्रियदर्शनः ॥१.८५॥ कुलीनो मतिमान् शूरो रम्यवेषयुतो युवा । अदीनः सुरभिस्त्यागी सहनः प्रियभाषणः ॥१.८६॥ शङ्कविहीनो मानी च देशकालविभागवित् । दाक्ष्यचातुर्यमाधुर्यसौभाग्यादिभिरन्वितः ॥१.८७॥ वेश्योपभोगरसिको यो भवेत्स तु वैशिकः । कलकण्ठादिको लक्ष्यो भाणादावेव वैशिकः ॥१.८८॥ स त्रिधा कथ्यते ज्येष्ठमध्यनीचविभेदतः । अथ शृङ्गारनेतॄणां साहाय्यकरणोचिताः ॥१.८९॥ निरूप्यन्ते पीठमर्दविटचेटविदूषकाः । नायकानुचरो भक्तः किञ्चिदूनश्च तद्गुणैः ॥१.९०॥ पीठमर्द इति ख्यातः कुपितस्त्रीप्रसादकः । कामतन्त्रकलावेदी विट इत्यभिधीयते ॥१.९१॥ सन्धानकुशलश्चेटः कलहंसादिको मतः । विकृताङ्गवचोवेषैर्हास्यकारी विदूषकः ॥१.९२॥ देशकालज्ञता भाषामाधुर्यं च विदग्धता । प्रोत्साहने कुशलता यथोक्तकथनं तथा ॥१.९३॥ निगूढमन्त्रतेत्याद्याः सहायानां गुणा मताः । नेतृसाधारणगुणैरुपेता नायिका मता ॥१.९४॥ स्वकीया परकीया च सामान्या चेति सा त्रिधा । सम्पत्काले विपत्काले या न मुञ्चति वल्लभम् ॥१.९५॥ शीलार्जवगुणोपेता सा स्वकीया कथिता बुधैः । सा च स्वीया त्रिधा मुग्धा मध्या प्रौढेति कथ्यते ॥१.९६॥ मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि । यतते रतचेष्टायां गूढं लज्जामनोहरम् ॥१.९७॥ कृतापराधे दयिते वीक्षते रुदती सती । अप्रियं वा प्रियं वापि न किञ्चिदपि भाषते ॥१.९८॥ समानलज्जामदना प्रोद्यत्तारुण्यशालिनी । मध्या कामयते कान्तं मोहान्तसुरतक्षमा ॥१.९९॥ मध्या त्रिधा मानवृत्तेर्धीराधीरोभयात्मिका । धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम् ॥१.१००॥ अधीरा परुषैर्वाक्यैः खेदयेद्वल्लभं रुषा । धीराधीर तु वक्रोक्त्या सबाष्पं वदति प्रियम् ॥१.१०१॥ सम्पूर्णयौवनोन्मत्ता प्रगल्भा रूढमन्मथा । दयिताङ्गे विलीनेव यतते रतिकेलिषु ॥१.१०२॥ रतप्रारम्भमात्रेऽ पि गच्छत्यानन्दमूर्च्छताम् । मानवृत्तेः प्रगल्भापि त्रिधा धीरादिभेदतः ॥१.१०३॥ उदास्ते सुरते धीरा सावहित्था च सादरा । सन्तर्ज्य निष्ठुरं रोषादधीरा ताडयेत्प्रियम् ॥१.१०४॥ धीराधीरगुणोपेता धीराधीरेति कथ्यते । द्वेधा ज्येष्ठा कनिष्ठेति मध्या प्रौढापि तादृशी ॥१.१०५॥ धीराधीरादिभेदेन मध्याप्रौढे त्रिधा त्रिधा । ज्येष्ठाकनिष्ट्ःाभेदेन ताः प्रत्येकं द्विधा द्विधा ॥१.१०६॥ मुग्धा त्वेकविधा चैवं सा त्रयोदशधोदिता । अन्यापि द्विविधा कन्या परोढा चेति भेदतः ॥१.१०७॥ तत्र कन्या त्वनूढा स्यात्सलज्जा पितृपालिता । सखीकेलिषु विस्रब्धा प्रायो मुग्धागुणान्विता ॥१.१०८॥ प्रधानमप्रधानं वा नाटकादावियं भवेत् । मालतीमाधवे लक्ष्ये मालतीमदयन्तिके ॥१.१०९॥ परोढा तु परेणोढाप्यन्यसम्भोगलालसा । लक्ष्या क्षुद्रप्रबन्धे सा सप्तशत्यादिके बुधैः ॥१.११०॥ साधारणस्त्री गणिका कलाप्रागल्भ्यधार्ष्ट्ययुक् । एषा स्याद्द्विविधा रक्ता विरक्ता चेति भेदतः ॥१.१११॥ तत्र रक्ता तु वर्ण्या स्यादप्राधान्येन नाटके । अग्निमित्रस्य विज्ञेया यथा राज्ञ इरावती ॥१.११२॥ प्रधानमप्रधानं वा नाटकेतररूपके । सा चेद्दिव्या नाटके तु प्राधान्येनैव वर्ण्यते ॥१.११३॥ विरक्ता तु प्रहसनप्रभृतिष्वेव वर्ण्यते । तस्या धौर्यप्रभृतयो गुआष्तदुपयोगिनः ॥१.११४॥ छन्नकामान् रतार्थाज्ञान् बालपाषण्डषण्डकान् । रक्तेव रञ्जयेदिभ्यान्निःस्वान्मात्रा विवासयेत् ॥१.११५॥ अत्र केचिदाहुः गणिकाया नानुरागो गुणवत्यपि नायके । रसाभासप्रसङ्गः स्यादरक्तायाश्च वर्णने ॥ अतश्च नाटकादौ तु वर्ण्या सा न भवेदिति । तथा चाहुः [शृ.ति. १.६२,६४} सामान्या वनिता वेश्या सा द्रव्यं परमिच्छता । गुणहीने च न द्वेषो नानुरागो गुणिन्यपि । शृङ्गाराभास एतासु न शृङ्गारः कदाचन ॥िति॥ तन्मतं नानुमनुते धीमान् श्रीसिंहभूपतिः ॥१.११६॥ भावानुबन्धाभावे च नायिकात्वपराहतेः । तस्याः प्रकरणादौ च नायिकात्वविधानतः ॥१.११७॥ अनायिकावर्णने तु रसाभासप्रसङ्गतः । तथा प्रकरणादीनामरसाश्रयतागतेः ॥१.११८॥ रसाश्रयं तु दशधेत्यादिशास्त्रविरोधतः । तस्मात्साधारणस्त्रीणां गुणशालिनि नायके ॥१.११९॥ भावानुबन्धः स्यादेव रुद्रटस्यापि भाषणात् । उदात्तादिभिदां केचित्सर्वासामपि मन्वते ॥१.१२०॥ तास्तु प्रायेण दृश्यन्ते सर्वत्र व्यवहारतः । प्रथमं प्रोषितपतिका वास्कसज्जा ततश्च विरहोत्का ॥१.१२१॥ अथ खण्डिता मता स्यात्कलहान्तरिताभिसारिका चैव । कथिता च विप्रलब्धा स्वाधीनपतिस्तथा चान्या ॥१.१२२॥ शृङ्गारकृतावस्थाभेदात्ताश्चाष्टधा भिन्नाः । दूरदेशं गते कान्ते भवेत्प्रोषितभर्तृका ॥१.१२३॥ अस्यास्तु जागरः कार्श्यं निमित्तादिविलोकनम् । मालिन्यमनवस्थानं प्रायः शय्यानिवेषणम् ॥१.१२४॥ जाड्यचिन्ताप्रभृतयो विक्रियाः कथिता बुधैः । भरतादयैरभिदधे स्त्रीणां वारस्तु वासकः ॥१.१२५॥ स्ववासकवशात्कान्ते समेष्यति गृहान्तरम् । सज्जीकरोति चात्मानं या सा वासकसज्जिका ॥१.१२६॥ अस्यास्तु चेष्टाः सम्पर्कमनोरथविचिन्तनम् । सखीविनोदो हृल्लेखो मुहुर्दूतिनिरीक्षणम् ॥१.१२७॥ प्रियाभिगमनमार्गाभिवीक्षणप्रमुखा मताः । अनागसि प्रियतमे चिरयत्युत्सुका तु या ॥१.१२८॥ विरहोत्कण्ठिता भाववेदिभिः सा समीरिता । अस्यास्तु चेष्टा हृत्तापो वेपथुश्चाङ्गसादनम् ॥१.१२९॥ अरतिर्बाष्पमोक्षश्च स्वावस्थाकथनादयः । उल्लङ्घ्य समयं यस्याः प्रेयानन्योपभोगवान् ॥१.१३०॥ भोगलक्ष्माञ्चितः प्रातरागच्छेत्सा हि खण्डिता । अस्यास्तु चिन्ता निःश्वासस्तूष्णींभावोऽ श्रुमोचनम् ॥१.१३१॥ खेदभ्रान्त्यस्फुटालापा इत्याद्या विक्रिया मताः । या सखीनां पुरः पादपतितं वल्लभं रुषा ॥१.१३२॥ निरस्य पश्चात्तपति कलहान्तरिता हि सा । अस्यास्तु भ्रान्तिसंलापौ मोहो निःश्वसितं ज्वरः ॥१.१३३॥ मुहुः प्रलाप इत्याद्या इष्टाश्चेष्टा मनीषिभिः । मदनानलसन्तप्ता याभिसारयति प्रियम् ॥१.१३४॥ ज्योत्स्नातामस्विनी यानयोग्याम्बरविभूषणा । स्वयं वाभिसरेद्या तु सा भवेदभिसारिका ॥१.१३५॥ अस्याः सन्तापचिन्ताद्या विक्रियास्तु यथोचितम् । कान्ताभिसरणए स्वीया लज्जानाशादिशङ्कया ॥१.१३६॥ व्याघ्रहुङ्कारसन्त्रस्तमृगशावविलोचना । नील्यादिरक्तवसनरचिताङ्गावगुण्ठना ॥१.१३७॥ स्वाङ्गे विलीनावयवा निःशब्दं पादचारिणी । सुस्निग्धैकसखीमात्रयुक्ता याति समुत्सुका ॥१.१३८॥ मृषा प्रिये तु निद्राणे पार्श्वे तिष्ठति निश्चला । गर्वातिरेकनिभृता शीतैः स्रग्दामचन्दनैः ॥१.१३९॥ भावज्ञा बोधयत्येनं तद्भावावेक्षणोत्सुका । स्वीयावत्कन्यका ज्ञेया कान्ताभिसरणक्रमे ॥१.१४०॥ वेश्याभिसारिका त्वेति हृष्टा वैशिकनायकम् । आविर्भूतस्मितमुखी मदघूर्णितलोचना ॥१.१४१॥ अनुलिप्ताखिलाङ्गी च विचित्राभरणान्विता । स्नेहाङ्कुरितरोमाञ्चस्फुटीभूतमनोभवा ॥१.१४२॥ संवेष्टिता परिजनैर्भोगोपकरणान्वितैः । रशनारावमाधुर्यदीपितानङ्गवैभवा ॥१.१४३॥ चरणाम्बुजसंलग्नमणिमञ्जीरमञ्जुला । एषा च मृदुसंस्पर्शैः केशकण्डूयनादिभिः ॥१.१४४॥ प्रबोधयति तद्बोधे प्रणयात्कुपितेक्षणा । बाहुविक्षेपलुलितस्रस्तधम्मिल्लमल्लिका ॥१.१४५॥ चलितभ्रूविकारादिविलासललितेक्षणा । मैरेयाविरतास्वादमदस्खलितजल्पिता ॥१.१४६॥ प्रेष्याभियाति दयितं चेटीभिः सह गर्विता । प्रियं कङ्कणनिक्वाणमञ्जुव्यजनवीजनैः ॥१.१४७॥ विबोध्य निर्भर्त्सयति नासाभङ्गपुरःसरम् । कृत्वा सङ्केतमप्राप्ते दैवाद्व्यथिता तु या ॥१.१४८॥ विप्रलब्धेति सा प्रोक्ता बुधैरस्यास्तु विक्रिया । निर्वेदचिन्ताखेदाश्रुमूर्च्छानिःश्वसनादयः ॥१.१४९॥ स्वायत्तासन्नपतिका हृष्टा स्वाधीनवल्लभा । अस्यास्तु चेष्टाः कथिताः स्मरपूजामहोत्सवः ॥१.१५०॥ वनकेलिजलक्रीडाकुसुमापचयादयः । उत्तमा मध्यमा नीचेत्येवं सर्वाः स्त्रियस्त्रिधा ॥१.१५१॥ अभिजातैर्भोगतृप्तैर्गुणिभिर्या च काम्यते । गृह्णाति कारणे कोपमनुनीता प्रसीदति ॥१.१५२॥ विदधत्यप्रियं पत्यौ स्वयमाचरति प्रियम् । वल्लभे सापराधेऽ पि तूष्णीं तिष्ठति सोत्तमा ॥१.१५३॥ पुंसः स्वयं कामयते काम्यते या च तैर्वधूः । सक्रोधे क्रुध्यति मुहुः सानृतेऽ नृतवादिनी ॥१.१५४॥ सापकारेऽ पकर्त्री स्यात्स्निग्धे स्निह्यति वल्लभे । एवमादिगुणोपेता मध्यमा सा प्रकीर्तिता ॥१.१५५॥ अकस्मात्कुप्यति रुषं प्रार्थितापि न मुञ्चति । सुरूपं वा कुरूपं वा गुणवन्तमथागुणम् ॥१.१५६॥ स्थविरं तरुणं वापि या वा कामयते मुहुः । ईर्ष्याकोपविवादेषु नियता साधमा स्मृता ॥१.१५७॥ स्वीया त्रयोदशविधा विविधा च वराङ्गना । वैशिकैवं षोडशधा ताश्चावस्थाभिरष्टभिः ॥१.१५८॥ एकैकमष्टधा तासामुत्तमादिप्रभेदतः । त्रैविध्यमेवं सचतुरशीतिस्त्रिशती भवेत् ॥१.१५९॥ अवस्थात्रयमेवेति केचिदाहुः परस्त्रियाः । आसां दूत्यः सखी चेटी लिङ्गिनी प्रतिवेशिनी ॥१.१६०॥ धात्रेयी शिल्पकारी च कुमारी कथिनी तथा । कारुर्विप्रश्निका चेति नेतृमित्रगुणान्विताः ॥१.१६१॥ उद्दीपनं चतुर्धा स्यादालम्बनसमाश्रयम् । गुणचेष्टालङ्कृतयस्तटस्थाश्चेति भेदतः ॥१.१६२॥ यौवनं रूपलावण्ये सौन्दर्यमभिरूपता । मार्दवं सौकुमार्यं चेत्यालम्बनगता गुणाः ॥१.१६३॥ सर्वासामपि नारीणां यौवनं तु चतुर्विधम् । प्रतियौवनमेतासां चेष्टितानि पृथक्पृथक् ॥१.१६४॥ ईषच्चपलनेत्रान्तं स्मरस्मेरमुखाम्बुजम् । सगर्वजरजोगण्डमसमग्रारुणाधरम् ॥१.१६५॥ लावण्योद्भेदरम्याङ्गं विलसद्भावसौरभम् । उन्मीलिताङ्कुरकुचमस्फुटाङ्गकसन्धिकम् ॥१.१६६॥ प्रथमं यौवनं तत्र वर्तमाना मृगेक्षणा । अपेक्षते मृदुस्पर्शं सहते नोद्धतां रतिम् ॥१.१६७॥ सखीकेलिरता स्वाङ्गसंस्कारकलितादरा । न कोपहर्षौ भजते सपत्नीदर्शनादिषु ॥१.१६८॥ नातिरज्यति कान्तस्य सङ्गमे किं तु लज्जते । स्तनौ पीनौ तनुर्मध्यः पाणिपादस्य रक्तिमा ॥१.१६९॥ ऊरू करिकराकारावङ्गं व्यक्ताङ्गसन्धिकम् । नितम्बो विपुलो नाभिर्गभीरा जघनं घनम् ॥१.१७०॥ व्यक्ता रोमावली स्नैग्ध्यमङ्गकेशरदाक्षिषु । द्वितीययौवने तेन कलिता वामलोचना ॥१.१७१॥ सखीषु स्वाशयज्ञासु स्निग्धा प्रायेण मानिनी । न प्रसीदत्यनुनये सपत्नीष्वभ्यसूयिनी ॥१.१७२॥ नापराधान् विषहते प्रणयेर्ष्याकषायिता । रतिकेलिष्वनिभृता चेष्टते गर्विता रहः ॥१.१७३॥ अस्निग्धता नयनयोर्गण्डयोर्म्लानकान्तिता । विच्छायता खरस्पर्शोऽ प्यङ्गानां श्लथता मनाक् ॥१.१७४॥ अधरे मसृणो रागस्तृतीये यौवने भवेत् । तत्र स्त्रीणामियं चेष्टा रतितन्त्रविदग्धता ॥१.१७५॥ वल्लभस्यापरित्यागस्तदाकर्षणकौशलम् । अनादरोऽ पराधेषु सपत्नीष्वप्यमत्सरः ॥१.१७६॥ जर्जरत्वं स्तनश्रोणिगण्डोरुजघनादिषु । निर्मांसता च भवति चतुर्थे यौवने स्त्रियाः ॥१.१७७॥ तत्र चेष्टा रतिविधावनुत्साहोऽ समर्थता । सपत्नीष्वानुकूल्यं च कान्तेनाविरहस्थितिः ॥१.१७८॥ तत्र शृङ्गारयोग्यत्वं सरसाह्लादकारणम् । आद्यद्वितीययोरेव न तृतीयचतुर्थयोः ॥१.१७९॥ अङ्गान्यभूषितान्येव प्रक्षेपाद्यैर्विभूषणैः । येन भूषितवद्भाति तद्रूपमिति कथ्यते ॥१.१८०॥ मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते ॥१.१८१॥ अङ्गप्रत्यान्गकानां यः सन्निवेशो यथोचितम् । सुस्लिष्टसन्धिबन्धः स्यात्तत्सौन्दर्यमितीर्यते ॥१.१८२॥ यदात्मीयगुणोत्कर्षैर्वस्त्वन्यन्निकटस्थितम् । सारूप्यं नयति प्राज्ञैराभिरूप्यं तदुच्यते ॥१.१८३॥ स्पृष्टं यत्राङ्गमस्पृष्टमिव स्यान्मार्दवं हि तत् । या स्पर्शासहताङ्गेषु कोमलस्यापि वस्तुनः ॥१.१८४॥ तत्सौकुमार्यं त्रेधा स्यान्मुख्यमध्याधमक्रमात् । अङ्गं पुष्पादिसंस्पर्शासहं येन तदुत्तमम् ॥१.१८५॥ न सहेत करस्पर्शं येनाङ्गं मध्यमं हि तत् । येनाङ्गमातपादीनामसहं तदिहाधमम् ॥१.१८६॥ चतुर्धालङ्कृतिर्वासोभूषामाल्यानुलेपनैः । तटस्थाश्चन्द्रिका धारागृहचन्द्रोदयावपि ॥१.१८७॥ कोकिलालापमाकन्दमन्दमारुतषट्पदाः । लतामण्डपभूगेहदीर्घिकाजलदारवाः ॥१.१८८॥ प्रासादगर्भसङ्गीतक्रीडाद्रिसरिदादयः । एवमूह्या यथा कालमुपभोगोपयोगिनः ॥१.१८९॥ [आलम्बनगताश्चेष्टा अनुभावा विवक्षिताः ।] भावं मनोगतं साक्षात्स्वहेतुं व्यञ्जयन्ति ये । तेऽ नुभावा इति ख्याता भ्रूक्षेपस्मितादयः ॥१.१९०॥ ते चतुर्धा चित्तगात्रवाग्बुद्ध्यारम्भसम्भवाः । तत्र च भावो हावो हेला शोभा कान्तिदीप्ती च ॥१.१९१॥ प्रागल्भ्यं माधुर्यं धैर्यौदार्यं च चित्तजा भावाः । निर्विकारस्य चित्तस्य भावः स्यादादिविक्रिया ॥१.१९२॥ ग्रीवारेचकसंयुक्तो भ्रूनेत्रादिविलासकृत् । भाव ईषत्प्रकाशो यः स हाव इति कथ्यते ॥१.१९३॥ नानाविकारैः सुव्यक्तः शृङ्गाराकृतिसूचकैः । हाव एव भवेद्धेला ललिताभिनयात्मिका ॥१.१९४॥ सा शोभा रूपभोगाद्यैर्यत्स्यादङ्गविभूषणम् । शोभैव कान्तिराख्याता मन्मथाप्यायनोज्ज्वला ॥१.१९५॥ कान्तिरेव वयोभोगदेशकालगुणादिभिः ॥ उद्दीपितातिविस्तारं याता चेद्दीप्तिरुच्यते ॥१.१९६॥ निःशङ्कत्वं प्रयोगेषु प्रागल्भ्यं परिकीर्त्यते । माधुर्यं नाम चेष्टानां सर्वावस्थासु मार्दवम् ॥१.१९७॥ स्थिरा चित्तोन्नतिर्या तु तद्धैर्यमिति संज्ञितम् । औदार्यं विनयं प्राहुः सर्वावस्थानुगं बुधाः ॥१.१९८॥ लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् । मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ॥१.१९९॥ विहृतं चेति विज्ञेया योषितां दश गात्रजाः । प्रियानुकरणं यत्तु मधुरालापपूर्वकैः ॥१.२००॥ चेष्टितैर्गतिभिर्वा स्यात्सा लीलेति निगद्यते । प्रियसम्प्राप्तिसमये भ्रूनेत्राननकर्मणाम् ॥१.२०१॥ तात्कालिको विशेषो यः स विलास इतीरितः । आकल्पकल्पनाल्पापि विच्छित्तिरतिकान्तिकृत् ॥१.२०२॥ प्रियागमनवेलायां मदनावेशसम्भ्रमात् । विभ्रमोऽ ङ्गदहारादिभूषास्थानविपर्ययः ॥१.२०३॥ शोकरोषाश्रुहर्षादेः सङ्करः किलकिञ्चितम् । स्वाभिलाषप्रकटं मोट्टायितमितीरितम् ॥१.२०४॥ केशाधरादिग्रहणे मोदमानेऽ पि मानसे । दुःखितेव बहिः कुप्येद्यत्र कुट्टमितं हि तत् ॥१.२०५॥ इष्टेऽ प्यनादरो गर्वान्मानाद्बिब्बोक ईरितः । विन्यासभङ्गिरङ्गानां भ्रूविलासमनोहराः ॥१.२०६॥ सुकुमारा भवेद्यत्र ललितं तदुदीरितम् । ईर्ष्यया मानलज्जाभ्यां न दत्तं योग्यमुत्तरम् ॥१.२०७॥ क्रियया व्यज्यते यत्र विहृतं तदुदीरितम् । इत्थं श्रीसिंहभूपेन सत्त्वालङ्कारशालिना ॥१.२०८॥ कथिताः सत्त्वजाः स्त्रीणामलङ्कारास्तु विंशतिः । सत्त्वाद्दशैव भावाद्या जाता लीलादयस्तु न ॥१.२०९॥ अतो हि विंशतिर्भावाः सात्त्विका इति नोचितम् । युज्यते सात्त्विकत्वं च भावादिसहचारिणः ॥१.२१०॥ लीलादिदशकस्यापि छत्रिन्यायबलात्स्फुटम् । भोजेन क्रीडितं केलिरित्यन्यौ गात्रजौ स्मृतौ ॥१.२११॥ अतो विंशतिरित्यत्र सङ्ख्येयं नोपपद्यते । अत्रोच्यते भावतत्त्ववेदिना सिंहभूभुजा ॥१.२१२॥ आद्यः प्रागेव भावादिसमुत्पत्तेश्च शैशवे । कन्याविनोदमात्रत्वादनुभावेषु नेष्यते ॥१.२१३॥ प्रेमविस्रम्भमात्रत्वान्नान्यस्याप्यनुभावता । अतो विंशतिरित्येषा सङ्ख्या सङ्ख्यावतां मता ॥१.२१४॥ शोभा विलासो माधुर्यं धैर्यं गाम्भीर्यमेव च । ललितौदार्यतेजांसि सत्त्वभेदास्तु पौरुषाः ॥१.२१५॥ नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता । यत्र प्रकटतां यान्ति सा शोभेति प्रकीर्तिता ॥१.२१६॥ वृषभस्येव गम्भीरा गतिर्धीरं च दर्शनम् । सस्मितं च वचो यत्र स विलास इतीरितः ॥१.२१७॥ तन्माधुर्यं यत्र चेष्टादृष्ट्यादेः स्पृहणीयता । शृङ्गारप्रचुरा चेष्टा यत्र तल्ललितं भवेत् ॥१.२१८॥ अत्र गाम्भीर्यधैर्ये द्वे चित्तजे गात्रजाः परे । एके साधारणानेतान्मेनिरे चित्तगात्रयोः ॥१.२१९॥ आलापश्च विलापश्च संलापश्च प्रलापकः । अनुलापापलापौ च सन्देशश्चातिदेशकः ॥१.२२०॥ निर्देशश्चोपदेशश्चापदेशो व्यपदेशकः । एवं द्वादशधा प्रोक्ता कीर्तिता वागारम्भा विचक्षणैः ॥१.२२१॥ तत्रालापः प्रियोक्तिः स्याद्विलापो दुःखजं वचः । उक्तिप्रत्युक्तिमद्वाक्यं संलाप इति कीर्तितम् ॥१.२२२॥ व्यर्थालापः प्रलापः स्यादनुलापो मुहुर्वचः । अपलापस्तु पूर्वोक्तस्यान्यथा योजनं भवेत् ॥१.२२३॥ सन्देशस्तु प्रोषितस्य स्ववार्ताप्रेषणं भवेत् । सोऽ तिदेशो मदुक्तानि तदुक्तानीति यद्वचः ॥१.२२४॥ निर्देशस्तु भवेत्सोऽ यमहमित्यादिभाषणम् । यत्र शिक्षार्थवचनमुपदेशः स उच्यते ॥१.२२५॥ अन्यार्थकथनं यत्र सोऽ पदेश इतीरितः । व्याजेनात्माभिलाषोक्तिर्यत्रायं व्यपदेशकः ॥१.२२६॥ बुद्ध्यारम्भास्तथा प्रोक्ता रीतिवृत्तिप्रवृत्तयः । रीतिः स्यात्पदविन्यासभङ्गी सा तु त्रिधा मता ॥१.२२७॥ कोमला कठिना मिश्रा चेति स्यात्तत्र कोमला । द्वितीयतुर्यवर्णैर्या स्वल्पैर्वर्गेषु निर्मिता ॥१.२२८॥ अल्पप्राणाक्षरप्राया दशप्राणसमन्विता । समासरहिता स्वल्पैः समासैर्वा विभूषिता ॥१.२२९॥ विदर्भजनहृद्यत्वात्सा वैदर्भीति कथ्यते । श्लेषः प्रसादः समता माधुर्यं सुकुमारता ॥१.२३०॥ अर्थव्यक्तिरुदारत्वमोजः कान्तिसमाधयः । एते वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ॥१.२३१॥ केवलाल्पप्राणवर्णपदसन्दर्भलक्षणम् । शैथिल्यं यत्र न स्पृष्टं स श्लेषः समुदाहृतः ॥१.२३२॥ प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते । बन्धवैषम्यराहित्यं समता पदगुम्फने ॥१.२३३॥ बन्धो मृदुः स्फुटो मिश्र इति त्रेधा स निगद्यते । तन्माधुर्यं भवेद्यत्र शब्देऽ र्थे च स्फुटो रसः ॥१.२३४॥ यदनिष्ठुरवर्णत्वं सौकुमार्यं तदुच्यते । श्रूयमाणस्य वाक्यस्य विना शब्दान्तरस्पृहाम् ॥१.२३५॥ अर्थावगमकत्वं यदर्थव्यक्तिरियं मता । उक्ते वाक्ये गुणोत्कर्षप्रतिभानमुदारता ॥१.२३६॥ समासबहुलत्वं यत्तदोजः इति गीयते । लोकस्थितिमनुल्लङ्घ्य हृद्यार्थप्रतिपादनम् ॥१.२३७॥ कान्तिः स्याद्द्विविधा ख्याता वार्तायां वर्णनासु च । समाधिः सोऽ न्यधर्माणां यदन्यत्राधिरोपणम् ॥१.२३८॥ अतिदीर्घसमासयुता बहुलैर्वर्णैर्युता महाप्राणैः । कठिना सा गौडीयेत्युक्ता तद्देशबुधमनोज्ञत्वात् ॥१.२३९॥ यत्रोभयगुणग्रामसंनिवेशस्तुलाधृतः । सा मिश्रा सैव पाञ्चालीत्युक्ता तद्देशजप्रिया ॥१.२४०॥ आन्ध्री लाटी च सौराष्ट्रीत्यादयो मिश्ररीतयः । सन्ति तत्तद्देशविद्वत्प्रियमिश्रणभेदतः ॥१.२४१॥ त एव पदसङ्घातास्ता एवार्थविभूतयः । तथापि नव्यं भवति काव्यं ग्रथनकौशलात् ॥१.२४२॥ तासां ग्रन्थगडुत्वेन लक्षणं नोच्यते मया । भोजादिग्रन्थबन्धेषु तदाकाङ्क्षिभिरीक्ष्यताम् ॥१.२४३॥ भारती सात्वती चैव कैशिक्यारभटीति च । चतस्रो वृत्तयस्तासामुत्पत्तिर्वक्ष्यते स्फुटम् ॥१.२४४॥ जगत्येकार्णवे जाते भगवानव्ययः पुमान् । भोगिभोगमधिष्ठाय योगनिद्रापरोऽ भवत् ॥१.२४५॥ तदा वीर्यमदोन्मत्तौ दैत्येन्द्रौ मधुकैटभौ । तरसा देवदेवेशमागतौ रणकाङ्क्षिणौ ॥१.२४६॥ विविधैः परुषैर्वाक्यैरधिक्षेपविधायिनौ । मुष्टिजानुप्रहारैश्च योधयामासतुर्हरिम् ॥१.२४७॥ तन्नाभिकमलोत्पन्नः प्रजापतिरभाषत । किमेतद्भारतीवृत्तिरधुनापि प्रवर्तते ॥१.२४८॥ तदिमौ नय दुर्धर्षौ निधनं त्वरया विभो । इति तस्य वचः श्रुत्वा निजगाद जनार्दनः ॥१.२४९॥ इदं काव्यक्रियाहेतोर्भारती निर्मिता ध्रुवम् । भाषणाद्वाक्यबाहुल्याद्भारतीयं भविष्यति ॥१.२५०॥ अधुनैव निहन्म्येतावित्याभाष्य वचो हरिः । निर्मलैर्निर्विकारैश्च साङ्गहारैर्मनोहरैः ॥१.२५१॥ अङ्गैस्तौ योधयामास दैत्येन्द्रौ युद्धशालिनौ । भूमिस्थानकसंयोगैः पदक्षेपैस्तथा हरेः ॥१.२५२॥ भूमेस्तदाभवद्भारस्तद्वशादपि भारती । वल्गितैः शार्ङ्गिणस्तत्र दीप्तैः सम्भ्रमवर्जितैः ॥१.२५३॥ सत्त्वाधिकैर्बाहुदण्डैः सात्वत्वी वृत्तिरुद्गता । विचित्रैरङ्गहारैश्च हेलया स तदा हरिः ॥१.२५४॥ यत्तौ बबन्ध केशेषु जाता सा कैशिकी ततः । ससंरम्भैः सवेगैश्च चित्रचारीसमुत्थितैः ॥१.२५५॥ नियुद्धकरणैर्जाता चित्रैरारभटी ततः । यस्माच्चित्रैरङ्गहारैः कृतं दानवमर्दनम् ॥१.२५६॥ तस्मादब्जभुवा लोके नियुद्धसमयः कृतः । यः शस्त्रास्त्रादिमोक्षेषु न्यायः स पारिभाषितः ॥१.२५७॥ नाट्यकाव्यक्रियायोगे रसभावसमाश्रितः । स एव समयो धात्रा वृत्तिरित्येव संज्ञितः ॥१.२५८॥ हरिणा तेन यद्वस्तु वलिगितैर्यादृशं कृतम् । तद्वदेव कृता वृत्तिर्धात्रा तस्याङ्गसम्भवा ॥१.२५९॥ ऋग्वेदाच्च यजुर्वेदात्सामवेदादथर्वणः । भारत्याद्या क्रमाज्जाता इत्यन्ये तु प्रचक्षते ॥१.२६०॥ प्रयुक्तत्वेन भरतैर्भारतीति निगद्यते । प्रस्तावनोपयोगित्वात्साङ्गं तत्रैव लक्ष्यते ॥१.२६१॥ सात्त्विकेन गुणेनातित्यागशौर्यादिना युता । हर्षप्रधाना सन्त्यक्तशोकभावा च या भवेत् ॥१.२६२॥ सात्वती नाम सा वृत्तिः प्रोक्ता लक्षणकोविदैः । अङ्गान्यस्यास्तु चत्वारि संलापोत्तापकावपि ॥१.२६३॥ सङ्घात्यः परिवर्तश्चेत्येषां लक्षणमुच्यते । ईर्ष्याक्रोधादिभिर्भावै रसैर्वीराद्भुतादिभिः ॥१.२६४॥ परस्परं गभीरोक्तिः संलाप इति शब्द्यते । प्रेरणं यत्परस्यादौ युद्धायोत्थापकस्तु सः ॥१.२६५॥ मन्त्रशक्त्यार्थशक्त्या वा दैवशक्त्याथ पौरुषात् । सङ्घस्य भेदनं यत्तु सङ्घात्यः स उदाहृतः ॥१.२६६॥ पूर्वोद्युक्तस्य कार्यस्य परित्यागेन यद्भवेत् । कार्यान्तरस्वीकरणं ज्ञेयः स परिवर्तकः ॥१.२६७॥ नृत्यगीतविलासादिमृदुशृङ्गारचेष्टितैः । समन्विता भवेद्वृत्तिः कैशिकी श्लक्ष्णभूषणा ॥१.२६८॥ अङ्गान्यस्यास्तु चत्वारि नर्म तत्पूर्वका इमे । स्फञ्जस्फोटौ च गर्भश्च तेषां लक्षणमुच्यते ॥१.२६९॥ शृङ्गाररसभूयिष्ठः प्रियचित्तानुरञ्जकः । अग्राम्यः परिहासस्तु नर्म स्यात्तत्त्रिधा मतम् ॥१.२७०॥ शृङ्गारहास्यजं शुद्धहास्यजं भयहास्यजम् । शृङ्गारहास्यजं नर्म त्रिविधं परिकीर्तितम् ॥१.२७१॥ सम्भोगेच्छाप्रकटनादनुरागनिवेशनात् । तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् ॥१.२७२॥ सम्भोगेच्छाप्रकटनं त्रिधा वाग्वेषचेष्टितैः । अनुरागप्रकाशोऽ पि भोगेच्छानर्मवत्त्रिधा ॥१.२७३॥ प्रियापराधनिर्भेदोऽ प्युक्तस्त्रेधा तथा बुधैः । शुद्धहास्यजमप्युक्तं तद्वदेव त्रिधा बुधैः ॥१.२७४॥ हास्याद्भयेन जनिताज्जनितं भयहास्यजम् । तद्द्विधा मुखमङ्गं तु तद्द्वयं पूर्ववत्त्रिधा ॥१.२७५॥ अग्राम्यनर्मनिर्माणवेदिना सिंहभूभुजा । नर्माष्टादशधा भिन्नमेव स्फुटमुदाहृतम् ॥१.२७६॥ नर्मस्फञ्जः सुखोद्योगो भयान्तो नवसङ्गमे । नर्मस्फोटस्तु भावांशैः सूचितोऽ ल्परसो भवेत् ॥१.२७७॥ अन्यैस्त्वकाण्डे सम्भोगविच्छेद इति गीयते । नेतुर्वा नायिकाया वा व्यापारः स्वार्थसिद्धये ॥१.२७८॥ प्रच्छादनपरो यस्तु नर्मगर्भः स कीर्तितः । पूर्वस्थितो विपद्येत नायको यत्र चापरस्तिष्ठेत् ॥१.२७९॥ तमपीह नर्मगर्भं प्रवदति भरतो हि नाट्यवेदगुरुः । मायेन्द्रजालप्रचुरां चित्रयुद्धक्रियामयीम् ॥१.२८०॥ छेद्यैर्भेद्यैः प्लुतैर्युक्तां वृत्तिमारभटीं विदुः । अङ्गान्यस्यास्तु चत्वारि सङ्क्षिप्तिरवपातनम् ॥१.२८१॥ वस्तूत्थापनसम्फेटाविति पूर्वे बभाषिरे । सङ्क्षिप्तवस्तुविषया या मायाशिल्पयोजिता ॥१.२८२॥ सा सङ्क्षिप्तिरिति प्रोक्ता भरतेन महात्मना । वदन्त्यन्ये तु तां नेतुरवस्थान्तरसङ्गतिम् ॥१.२८३॥ परिवर्तकभेदत्वात्तदुपेक्षामहे वयम् । विभ्रान्तिरवपातः स्यात्प्रवेशद्रवविद्रवैः ॥१.२८४॥ तद्वस्तूत्थापनं यत्तु वस्तु मायोपकल्पितम् । सम्फेटस्तु समाघातः क्रुद्धसंरब्धयोर्द्वयोः ॥१.२८५॥ आसां च मध्ये वृत्तीनां शब्दवृत्तिस्तु भारती । तिस्रोऽ र्थवृत्तयः शेषास्तच्चतस्रो हि वृत्तयः ॥१.२८६॥ अन्ये तु मिश्रणादासां मिश्रां वृत्तिं च पञ्चमीम् । अशेषरससामान्यां मन्यन्ते लक्षयन्ति च ॥१.२८७॥ कैशिकी स्यात्तु शृङ्गारे रसे वीरे तु सात्वती । रदुरबीभत्सयोर्वृत्तिर्नियतारभटी पुनः ॥१.२८८॥ शृङ्गारादिषु सर्वेषु रसेष्विष्टैव भारती । केचित्तु तमिमं श्लोकं भारतीयं नियामकम् ॥१.२८९॥ प्रायिकाभिप्रायतया व्याचक्षाणा विचक्षणाः । आसां रसेषु वृत्तीनां नियमं नानुमन्वते ॥१.२९०॥ विचारसुन्दरो नैष मार्गः स्यादित्युदास्महे । कैशिकीवृत्तिभेदानां नर्मादीनां प्रकल्पनम् ॥१.२९१॥ यत्र करुणमाश्रित्य रसाभासत्वकारणम् । रसाभासप्रकरणे वक्ष्यते तदिदं स्फुटम् ॥१.२९२॥ तत्तन्न्यायप्रवीणेन न्यायमार्गानुवर्तिना । दर्शितं सिंहभूपेन स्पष्टं वृत्तिचतुष्टयम् ॥१.२९३॥ तत्तद्देशोचिता भाषा क्रिया वेषा प्रवृत्तयः । तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः ॥१.२९४॥ तत्र भाषा सप्तविधा प्राच्यावन्त्या च मागधी । बाह्लीका दाक्षिणात्या च शौरसेनी च मालवी ॥१.२९५॥ सप्तधा स्याद्विभाषादि शबरद्रमिलान्ध्रजाः । शकाराभीरचण्डालवनेचरभवा इति ॥१.२९६॥ भाषाविभाषाः सन्त्यन्यास्तत्तद्देशजनोचिताः । तासामनुपयोगित्वान्नात्र लक्षणमुच्यते ॥१.२९७॥ तत्तद्देशोचिता वेषाः क्रियाश्चातिस्फुटान्तराह् । अन्येषां सुखदुःखादिभावेषु कृतभावनम् ॥१.२९८॥ आनुकूल्येन यच्चित्तं भावकानां प्रवर्तते । सत्त्वं तदिति विज्ञेयं प्राज्ञैः सत्त्वोद्भवानिमान् ॥१.२९९॥ सात्त्विका इति जानन्ति भरतादिमहर्षयः । सर्वेषामपि भावानां यैः स्वसत्त्वं हि भाव्यते ॥१.३००॥ ते भावा भावतत्त्वज्ञैः सात्त्विका समुदीरिताः । ते स्तम्भस्वेदरोमाञ्चाः स्वरभेदश्च वेपथुः ॥१.३०१॥ वैवर्ण्यमश्रुप्रलयावित्यष्टौ परिकीर्तिताः । स्तम्भो हर्षभयामर्षविषादाद्भुतसम्भवः ॥१.३०२॥ अनुभावा भवन्त्येते स्तम्भस्य मुनिसंमताः । संज्ञाविरहितत्वं च शून्यता निष्प्रकम्पता ॥१.३०३॥ निदाघहर्षव्यायामश्रमक्रोधभयादिभिः । स्वेदः सञ्जायते तत्र त्वनुभावा भवन्त्यमी ॥१.३०४॥ स्वेदापनयवातेच्छाव्यजनग्रहणादयः । रोमाञ्चो विस्मयोत्साहहर्षाद्यैस्तत्र विक्रियाः ॥१.३०५॥ रोमोद्गमोल्लुकसनगात्रसंस्पर्शनादयः । वैस्वर्यं सुखदुःखाद्यैस्तत्र स्युर्गद्गदादयः ॥१.३०६॥ वेपथुर्हर्षसन्त्रासजराक्रोधादिभिर्भवेत् । तत्रानुभावाः स्फुरणगात्रकम्पादयो मताः ॥१.३०७॥ विषादातपरोषाद्यैर्वैवर्ण्यमुपजायते । मुखवर्णपरावृत्तिकार्श्याद्यास्तत्र विक्रियाः ॥१.३०८॥ विषादरोषसन्तोषाधूमाद्यैरश्रु तत्क्रियाः । बाष्पबिन्दुपरिक्षेपनेत्रसंमार्जनादयः ॥१.३०९॥ प्रलयो दुःखधाताद्यैश्चेष्टा तत्र विसंज्ञता । सर्वेऽ पि सत्त्वमूलत्वाद्भावा यद्यपि सात्त्विकाः ॥१.३१०॥ तथाप्यमीषां सत्त्वैकमूलत्वात्सात्त्विकप्रथा । अनुभावाश्च कथ्यन्ते भावसंसूचनादमी ॥१.३११॥ एवं द्वैरूप्यमेतेषां कथितं भावकोविदैः । अनुभावैकनिधिना सुखानुभवशालिना । श्रीसिंहभूभुजा साङ्गमनुभावा निरूपिताः ॥१.३१२॥ अस्मत्कल्पलतादलानि गिलति त्वत्कामगौर्वार्यतां मच्चिन्तामणिवेदिभिः परिणमेद्दूरान्नयोच्चैर्गजम् । इत्यारूढवितर्दिकाः प्रतिपथं जल्पन्ति भूदेवताः सिंहक्ष्माभुजि कल्पवृक्षसुरभीहस्त्यादिदानोद्यते ॥१.३१३॥ रक्षायां राक्षसारिं प्रबलविमतविद्रावणे वीरभद्रं कारुण्ये रामभद्रं भुजबलविभवारोहणे रौहिणेयम् । पाञ्चालं चञ्चलाक्षीपरिचरणविधौ पूर्णचन्द्रं प्रसादे कन्दर्परूपदर्पे तुलयति नितरां सिंहभूपालचन्द्रः ॥१.३१४॥ इति श्रीमदान्ध्रमण्डलाधीश्वरप्रतिगण्डभैरवश्रीमदनपोतनरेन्द्रनन्दनभुजबलभीमश्रीसिंहभूपालविरचिते रसार्णवसुधाकरनाम्नि नाट्यालङ्कारशास्त्रे रञ्जकोल्लासो नाम प्रथमो विलासः ॥२.१॥ ओ)०(ओ ः (२) द्वितीयो विलासः रसिकोल्लासः कल्याणदायि भवतां भवेद्भव्यगुणाकरम् । कमलाकुचकालेयव्यञ्जितोरःस्थलं महः ॥३.१॥ चिदचित्क्षेमकारिण्यै नमः श्रीपर्णजादिभिः । वन्द्यायै वार्धिनन्दिन्यै कराग्रस्थपयोरुहे ॥२.२॥ व्यभी इत्युपसर्गौ द्वौ विशेषाभिमुखत्वयोः । विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति ॥२.३॥ वागङ्गसत्त्वसूच्या ज्ञेयास्ते व्यभिचारिणः । तं चारयन्ति भावस्य गतिं सञ्चारिणोऽ पि ॥२.४॥ उन्मज्जन्तो निमज्जन्तः स्थायिन्यमृतवारिधौ । ऊर्मिवद्वर्धयन्त्येनं यान्ति तद्रूपतां च ते ॥२.५॥ निर्वेदोऽ थ विषादो दैन्यं ग्लानिश्रमौ च मदगर्वौ । शङ्कात्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥२.६॥ मोहो मृतिरालस्यं जाड्यं व्रीडावहित्था च । स्मृतिरथ वितर्कचिन्तामतिधृतयो हर्ष उत्सुकत्वं च ॥२.७॥ औग्र्यमर्षासूयाश्चापल्यं चैव निद्रा च । सुप्तिर्बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥२.८॥ तत्त्वज्ञानाच्च दौर्गत्यावापदो विप्रयोगतः । ईर्ष्यादेरपि संजातं निर्वेदः स्वावमाननम् [*१] ॥२.९॥ प्रारब्धकार्यानिर्वाहादिष्टानवाप्तेर्विपत्तितः । अपराधपरिज्ञानादनुतापस्तु यो भवेत् ॥२.१०॥ विषादः स त्रिधा ज्येष्ठमध्यमाधमसंश्रयात् । सहायान्वेषणोपायचिन्ताद्या उत्तमे मताः ॥२.११॥ अनुत्साहश्च वैचित्त्यमित्याद्या मध्यमे मताः । अधमस्यानुभावाः स्युर्वैचित्र्यमवलोकनम् ॥२.१२॥ रोदनश्वासितध्यानमुखशोषादयोऽ पि च । हृत्तापदुर्गतत्वाद्यैरनौद्धत्यं हि दीनता ॥२.१३॥ तत्रानुभावा मालिन्यगात्रस्तम्भादयो मताः । आधिव्याधिजरातृष्णाव्यायामसुरतादिभिः ॥२.१४॥ निष्प्राणता ग्लानिरत्र क्षामाङ्गवचनक्रियाः । कम्पानुत्साहवैवर्ण्यनयनभ्रमणादयः ॥२.१५॥ श्रमो मानसखेदः स्यादध्वनृत्यरतादोभिः । अङ्गमर्दननिःश्वासौ पादसंवाहनं तथा ॥२.१६॥ जृम्भणं मन्दयानं च मुखनेत्रविघूर्णनम् । सीत्कृतिश्चेति विज्ञेया अनुभावाः श्रमोद्भवाः ॥२.१७॥ मदस्त्वानन्दसंमोहसम्भेदो मदिराकृतः । स त्रिधा तरुणो मध्योऽ पकृष्टश्चेति भेदतः ॥२.१८॥ दृष्टिः स्मेरा मुखे रागः सस्मिताकुलितं वचः । ललिताविद्धगत्याद्याश्चेष्टाः स्युस्तरुणे मदे ॥२.१९॥ मध्यमे तु मदे वाचि स्खलनं घूर्णनं दृशोः । गमने वक्त्रता बाह्वोर्विक्षेपस्रस्ततादयः ॥२.२०॥ अपकृष्टे तु चेष्टाः स्युर्गतिभङ्गो विसंज्ञता । निष्ठीवनं मुहुः श्वासो हिक्का छर्द्यादयो मताः ॥२.२१॥ तरुणस्तूत्तमादीनां मध्यमो मध्यनीचयोः । अपकृष्टस्तु नीचानां तत्तन्मदविवर्धने ॥२.२२॥ उत्तमप्रकृतिः शेते मध्यो हसति गायति । अधमप्रकृतिर्ग्राम्यं परुषं वक्ति रोदिति ॥२.२३॥ ऐश्वर्यादिकृतः कैश्चित्मानो मद इतीरितः । वक्ष्यमाणस्य गर्वस्य भेद एवेत्युदास्महे ॥२.२४॥ ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि । इष्टलाभादिनान्येषामवज्ञा गर्व ईरितः ॥२.२५॥ अनुभावा भवन्त्यत्र गुर्वाज्ञाद्याज्ञाव्यतिक्रमः । अनुत्तरप्रअदानं च वैमुख्यं भाषणेऽ पि च ॥२.२६॥ विभ्रमापह्नुती वाक्यपारुष्यमनवेक्षणम् । अवेक्षणं निजाङ्गानामङ्गभङ्गादयोऽ पि च ॥२.२७॥ शङ्का चौर्यापराधाद्यैः स्वानिष्टोत्प्रेक्षणं मतम् । तत्र चेष्टामुहुः पार्श्वदर्शनं मुखशोषणम् ॥२.२८॥ अवकुण्ठनवैवर्ण्यकण्ठसादादयोऽ पि च । शङ्का द्विद्येयमात्मोत्था परोत्था चेति भेदतः ॥२.२९॥ स्वाकार्यजनिता स्वोत्था प्रायो व्यङ्ग्येयमिङ्गितैः । इङ्गितानि तु पक्ष्मभ्रूतारकादृष्टिविक्रियाः ॥२.३०॥ परोत्था तु निजस्यैव परस्याकार्यतो भवेत् । प्रायेणाकारचेष्टाभ्यां तामिमामनुभावयेत् ॥२.३१॥ आकारः सात्त्विकश्चेष्टा त्वङ्गप्रत्यङ्गजाः क्रियाः । त्रासस्तु चित्तचाञ्चल्यं विद्युत्क्रव्यादगर्जितैः ॥२.३२॥ तथा भूतभुजङ्गाद्यैर्विज्ञेयास्तत्र विक्रियाः । उत्कम्पगात्रसङ्कोचरोमाञ्चस्तम्भगद्गदाः ॥२.३३॥ मुहुर्निमेषविभ्रान्तिपार्श्वस्थालम्बनादयः । चित्तस्य सम्भ्रमो यः स्यादावेगोऽ यं स चाष्टधा ॥२.३४॥ उत्पातवातवर्षाग्निमत्तकुञ्जरदर्शनात् । प्रियाप्रियश्रुतेश्चापि शत्रवव्यसनादपि ॥२.३५॥ तत्रौत्पातस्तु शैलादिकम्पकेतूदयादयः । तज्जाः सर्वाङ्गविस्रंसो वैमुख्यमपसर्पणम् ॥२.३६॥ विषादमुखवैवर्ण्यविस्मयाद्यास्तु विक्रियाः । त्वरयागमनं वस्त्रग्रहणं चावकुण्ठनम् ॥२.३७॥ नेत्रावमार्जनाद्याश्च वातावेगभवाः क्रियाः । छत्रग्रहोऽ ङ्गसङ्कोचो बाहुस्वस्तिकधावने ॥२.३८॥ उष्णाश्रयणमित्याद्या वर्षावेगभवाः क्रियाः । अग्न्यावेगःभवाश्चेष्टा वीजनं चाङ्गधूननम् ॥२.३९॥ व्यत्यस्तपदविक्षेपनेत्रसङ्कोचनादयः । आवेगे कुञ्जरोद्भूते सत्वरं चापसर्पणम् ॥२.४०॥ विलोकनं मुहुः पश्चात्त्रासकम्पादयो मताः । प्रियश्रवणजे ह्यस्मिनभुत्थानोपगूहने ॥२.४१॥ प्रीतिदानं प्रियं वाक्यं रोमहर्षादयोऽ पि च । अप्रियश्रुतिजेऽ प्यस्मिन् विलापह्परिवर्तनम् ॥२.४२॥ आक्रन्दितं च पतनं परितो भ्रमणादयः । चेष्टाः स्युः शात्रवावेगे वर्मशस्त्रादिधारणम् ॥२.४३॥ रथवाजिगजारोहसहसापक्रमादयः । एते स्युरुत्तमादीनामनुभावा यथोचितम् ॥२.४४॥ उन्मादश्चित्तविभ्रान्तिर्वियोगादिष्टनाशतः । वियोगजे तु चेष्टाः स्युर्धावनं परिदेवनम् ॥२.४५॥ असम्बद्धप्रलपनं शयणं सहसोत्थितिः । अचेतनैः सहालापो निर्निमित्तस्मितादयः ॥२.४६॥ इष्टनाशकृते त्वस्मिन् भस्मादिपरिलेपनम् । नृत्यगीतादिरचना तृणनिर्माल्यधारणम् ॥२.४७॥ चीवरावरणादीनि प्रागुक्ताश्चापि विक्रियाः । धातुवैषम्यदोषेण भूतावेशादिना कृतः ॥२.४८॥ चित्तक्षोभस्त्वपस्मारस्तत्र चेष्टाः प्रकम्पनम् । धावनं पतनं स्तम्भो भ्रमणं नेत्रविक्रियाः ॥२.४९॥ स्वोष्ठदंशभुजास्फोटलालाफेनादयोऽ पि च । दोषवैषम्यजस्त्वेष व्याधिरेवेत्युदास्महे ॥२.५०॥ दोषोद्रेकवियोगाद्यैर्स्याद्व्याधिरत्र तु । गात्रस्तम्भः श्लथाङ्गत्वं कूजनं मुखकूणनम् ॥२.५१॥ स्रस्ताङ्गताक्षिविक्षेपनिःश्वासाद्यास्तु विक्रियाः । सशीतो दाहयुक्तः स द्विविधः परिकीर्तितः [*२] ॥२.५२॥ हनुसञ्चालनं बाष्पः सर्वाङ्गोत्कम्पकूजने । जानुकुञ्चनरोमाञ्चमुखशोषादयोऽ पि च ॥२.५३॥ दाहज्वरे तु चेष्टाः स्युः शीतमाल्यादिकाङ्क्षणम् । पाणिपादपरिक्षेपमुखशोषादयोऽ पि च ॥२.५४॥ आपद्भीतिवियोगाद्यैर्मोहश्चित्तस्य मूढता । विक्रियास्तत्र विज्ञेया इन्द्रियाणां च शून्यता ॥२.५५॥ निश्चेष्टताङ्गभ्रमणपतनाघूर्णनादयः । वायोर्धनञ्जयाख्यस्य विप्रयोगो य आत्मना ॥२.५६॥ शरीरावच्छेदवता मरणं नाम तद्भवेत् । एतच्च द्विविधं प्रोक्तं व्याधिजं चाभिघातजम् ॥२.५७॥ आद्यं त्वसाध्यहृच्छूलविषूच्यादिसमुद्भवम् । अमी तत्रानुभावाः स्युरव्यक्ताक्षरभाषणम् ॥२.५८॥ विवर्णगात्रता मन्दश्वासादि स्तम्भमीलने । हिक्का परिजनापेक्षानिश्चेष्टेन्द्रियतादयः ॥२.५९॥ द्वितीयं घातपतनदोहोद्बन्धविषादिजम् । तत्र घातादिजे भूमिपतनक्रन्दनादयः ॥२.६०॥ विषं तु वत्सनाभाद्यमष्टौ वेगास्तदुद्भवाः । कार्ष्ण्यं कम्पो दाहो हिक्का फेनश्च कन्धरभङ्गः ॥२.६१॥ जडता मृतिरिति कथिता क्रमशः प्रथमाद्या वेगजाश्चेष्टाः । स्वभावश्रमसौहित्यगर्भनिर्भरतादिभिः ॥२.६२॥ कृच्छ्रात्क्रियोन्मुखत्वं यत्तदालस्यमिह क्रियाः । अङ्गभङ्गः क्रियाद्वेषो जृम्भणाक्षिविमर्दने ॥२.६३॥ शय्यासनैकप्रियता तन्द्रीनिद्रादयोऽ पि च । जाड्यमप्रतिपत्तिः स्यादिष्टानिष्ठार्थयोः श्रुतेः ॥२.६४॥ दृष्टेर्वा विरहादेश्च क्रियास्तत्रानिमेषता । अश्रुतिः पारवश्यं च तूष्णीम्भावादयोऽ पि च ॥२.६५॥ अकार्यकरणावज्ञास्तुतिनूतनसङ्गमैः । प्रतीकाराक्रियाद्यैश्च व्रीडत्वनतिधृष्टता ॥२.६६॥ तत्र चेष्टा निगूढोक्तिराधोमुख्यविचिन्तने । अनिर्गमो बहिः क्वापि दूरादेवावगुण्ठनम् ॥२.६७॥ नखानां कृन्तनं भूमिलेखनं चैवमादयः । अवहित्थाकारगुप्तिर्जैह्म्यप्राभवनीतिभिः ॥२.६८॥ लज्जासाध्वसदाक्षिण्यप्रागल्भ्यापजयादिभिः । अन्यथाकथनं मिथ्याधैर्यमन्यत्र वीक्षणम् ॥२.६९॥ कथाभङ्गादयोऽ प्यस्यामनुभावा भवन्त्यमी । स्वास्थ्यचिन्तादृढाभ्याससदृशालोकनादिभिः ॥२.७०॥ स्मृतिः पूर्वानुभूतार्थप्रतीतिस्तत्र विक्रियाः । कम्पनोद्वहने मूर्ध्नो भ्रूविक्षेपादयोऽ पि च ॥२.७१॥ ऊहो वितर्कः सन्देहविमर्षप्रत्ययादिभिः । जनितो निर्णयान्तः स्यादसत्यः सत्य एव वा ॥२.७२॥ तत्रानुभावाः स्युरमी भ्रूशिरः क्सेपणादयः । इष्टवस्त्वपरिप्राप्तेरैश्वर्यभ्रंशनादिभिः ॥२.७३॥ चिन्ता ध्यानात्मिका तस्यामनुभावा भवन्त्यमी । कार्श्याधोमुख्यसन्तापनिःश्वासोच्छ्र्वसनादयः ॥२.७४॥ नानाशास्त्रारथमथनादर्थनिर्धारणं मतिः । तत्र चेष्टास्तु कर्तव्यकरणं संशयछिदा ॥२.७५॥ शिष्योपदेशभ्रूक्षेपावूहापोहादयोऽ पि च । ज्ञानविज्ञानगुर्वादिभक्तिनानार्थसिद्धिभिः ॥२.७६॥ लज्जादिभिश्च चित्तस्य नैस्पृह्यं धृतिरुच्यते । अत्रानुभावा विज्ञेयाः प्राप्तार्थानुभवस्तथा ॥२.७७॥ अप्राप्तातीतनष्टार्थानभिसङ्क्षोभणादयः । मनोरथस्य लाभेन सिद्ध्या योग्यस्य वस्तुनः ॥२.७८॥ मित्रसङ्गमदेवादिप्रसादादेश्च कल्पितः । मनःप्रसादो हर्षः स्यादत्र नेत्रास्यफुल्लता ॥२.७९॥ प्रियाभाषणमाश्लेषः पुलकानां प्ररोहणम् । स्वेदोद्गमश्च हस्तेन हस्तसम्पीडनादयः ॥२.८०॥ कालाक्षमत्वमौत्सुक्यमिष्टवस्तुवियोगतः । तद्दर्शनाद्रम्यवस्तुदिदृक्षादेश्च तत्क्रियाः ॥२.८१॥ त्वरानवस्थितिः शय्यास्थितिरुत्तानचिन्तने । शरीरगौरवं निद्रातन्द्रानिःश्वसितादयः ॥२.८२॥ अपराधावमानाभ्यां चौर्याआभिग्रहणादिभिः । असत्प्रलापनाद्यैश्च कृतं चण्डत्वमुग्रता ॥२.८३॥ क्रियास्तत्रास्यनयनरागो बन्धनताडने । शिरसः कम्पनं खेदवधनिर्भर्त्सनादयः ॥२.८४॥ अधिक्षेपावमानाद्यैः क्रोधोऽ मर्ष इतीर्यते । तत्र स्वेदशिरःकम्पावाधोमुख्यविचिन्तने ॥२.८५॥ उपायान्वेषणोत्साहव्यवसादयः क्रियाः । परसौभाग्यसम्पत्तिविद्याशौर्यादिहेतुभिः ॥२.८६॥ गुणेऽ पि दोषारोपः स्यादसूया तत्र विक्रियाः । मुखापवर्तनं गर्हा भ्रूभेदानादरादयः ॥२.८७॥ रागद्वेषादिभिश्चित्तलाघवं चापलं भवेत् । चेष्टास्तत्राविचारेण परिरम्भावलम्बने ॥२.८८॥ निष्कासनोक्तिपारुष्ये ताडनाज्ञापनादयः । मदस्वभावव्यायामनिश्चिन्तत्वश्रमादिभिः ॥२.८९॥ मनोनिमीलनं निद्रा चेष्टास्तत्रास्यगौरवम् । आघूर्णमाननेत्रत्वमङ्गानां परिमर्दनम् ॥२.९०॥ निःश्वासोच्छ्वासने सन्नगात्रत्वं नेत्रमीलनम् । शरीरस्य च सङ्कोचो जाड्यं चेत्येवमादयः ॥२.९१॥ उद्रेक एव निद्रायाः सुप्तिः स्यात्तत्र विक्रियाः । इन्द्रियोपरतिर्नेत्रमीलनं स्रस्तगात्रता ॥२.९२॥ उत्स्वप्नायितनैश्चल्यश्वासोच्छ्वासादयोऽ पि च । स्वप्नस्पर्शननिध्वाननिद्रासम्पूर्णतादिभिः ॥२.९३॥ प्रबोधश्चेतनावाप्तिश्चेष्टास्तत्राक्षिमर्दनम् । शय्याया मोक्षणं बाहुविक्षेपोऽ ङ्गुलिमोटनम् ॥२.९४॥ शिरःकण्डूयनं चाङ्गवलनं चैवमादयः । उत्तमाधममध्येषु सात्त्विका व्यभिचारिणः ॥२.९५॥ विभावैरनुभावैश्च वर्णनीया यथोचितम् । उद्वेगस्नेहदम्भेर्ष्याप्रमुखाश्चित्तवृत्तयः ॥२.९६॥ उक्तेष्वन्तर्भवन्तीति न पृथक्त्वेन दर्शिताः । विभावाश्चानुभावाश्च ते भवन्ति परस्परम् ॥२.९७॥ कार्यकारणभावस्तु ज्ञेयः प्रायेण लोकतः । स्वातन्त्र्यात्पारतन्त्र्याच्च ते द्विधा व्यभिचारिणः ॥२.९८॥ परपोषकतां प्राप्ताः परतन्त्रा इतीरिताः । तदभावे स्वतन्त्राः स्युर्भावा इति च ते स्मृताः ॥२.९९॥ आभासता भवेदेषामनौचित्यप्रवर्तिताम् । असत्यत्वादयोग्यत्वादनौचित्यं द्विधा भवेत् ॥२.१००॥ असत्यत्वकृतं तत्स्यादचेतनगतं तु यत् । अयोग्यत्वकृतं प्रोक्तं नीचतिर्यङ्नराश्रयम् ॥२.१०१॥ उत्पत्तिसन्धिशावल्यशान्तयो व्यभिचारिणाम् । दशाश्चतस्रस्तत्र उत्पत्तिर्भावसम्भवः ॥२.१०२॥ सरूपमसरूपं वा भिन्नकारणकल्पितम् । भावद्वयं मिलति चेत्स सन्धिरिति गीयते ॥२.१०३॥ अत्यारूढस्य भावस्य विलयः शान्तिरुच्यते । शवलत्वं तु भावानां संमर्दः स्यात्परस्परम् ॥२.१०४॥ दिगन्तरालसञ्चारकीर्तिना सिंहभूभुजा । एवं सञ्चारिणः सर्वे सप्रपञ्चं निरूपिताः ॥२.१०५॥ सजातीयैर्विजातीयैर्भावैर्ये त्वतिरस्कृताः । क्ष्राब्धिवन्नयन्त्यन्यान् स्वात्मत्वं स्थायिनो हि ते ॥२.१०६॥ भरतेन च ते कथिता रतिहासोत्साहविस्मयक्रोधाः । शोकोऽ थ जुगुप्सा भयमित्यष्टौ लक्ष्म वक्ष्यते तेषाम् ॥२.१०७॥ यूनोरन्योन्यविषया स्थायिनीच्छा रतिर्भवेत् । निसर्गेणाभियोगेन संसर्गेणाभिमानतः ॥२.१०८॥ उपमाध्यात्मविषयैरेषा स्यात्तत्र विक्रियाः । कटाक्षपातभ्रूक्षेपप्रियवागादयो मताः ॥२.१०९॥ भोजस्तु सम्प्रयोगेण रतिमन्यामुदाहरत् । सम्प्रयोगस्य शब्दादिष्वन्तर्भावान्न तन्मतम् ॥२.११०॥ अङ्कुरपल्लवकलिकाप्रस्पुनफलभोगभागियं क्रमशः । प्रेमा मानः प्रणयः स्नेहो रागोऽ नुरागश्च ॥२.१११॥ स प्रेमा भेदरहितं यूनोर्यद्भावबन्धनम् । यत्तु प्रेमानुबन्धेन स्वातन्त्र्याद्धृदयङ्गमम् ॥२.११२॥ बह्नाति भावकौटिल्यं सोऽ यं मान इतीर्यते । बाह्यान्तरोपचारैर्यत्प्रेममानोपकल्पितैः ॥२.११३॥ बध्नाति भावविश्रम्भं सोऽ यं प्रणय उच्यते । विश्रम्भे परमां काष्ठामारूढे दर्शनादिभिः ॥२.११४॥ यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते । स त्रेधा कथ्यते प्रौढमध्यमन्दविभेदतः ॥२.११५॥ प्रवासादिभिरज्ञातचित्तवृत्तौ प्रिये जने । इतरक्लेशकारी यः स प्रौढः स्नेह उच्यते ॥२.११६॥ इतरानुभवापेक्षां सहते यः स मध्यमः । द्वयोरेकस्य मानादौ तदन्यस्य करोति यः ॥२.११७॥ नैवोपेक्षां न चापेक्षां स स्नेहो मन्द उच्यते । दुःखमप्यधिकं चित्ते सुखत्वेनैव रज्यते ॥२.११८॥ येन स्नेहप्रकर्षेण स राग इति गीयते । कुसुम्भनीलीमञ्जिष्ठरागभेदेन स त्रिधा ॥२.११९॥ कुसुम्भरागः स ज्ञेयो यश्चित्ते रज्यति क्षणात् । अतिप्रकाशमानोऽ पि क्षणादेव विनश्यति ॥२.१२०॥ नीलीरागस्तु यः सक्तो नापैति न च दीप्यते । अचिरेणैव संसक्तश्चिरादपि न नश्यति ॥२.१२१॥ अतीव शोभते योऽ सौ माञ्जिष्ठो राग उच्यते । राग एव स्वयं वेद्यदशाप्राप्त्या प्रकाशितः ॥२.१२२॥ यावदाश्रयवृत्तिश्चेदनुराग इतीरितः । अन्ये प्रीतिं रतेर्भेद्मामनन्ति न तन्मतम् ॥२.१२३॥ असम्प्रयोगविषया सेयं हर्षान्न भिद्यते । भाषणाकृतिवेषाणं क्रियायाश्च विकारतः ॥२.१२४॥ लौल्यादेश्च परस्थानामेषामनुकृतेरपि । विकारश्चेतसो हासस्तत्र चेष्टाः समीरिताः ॥२.१२५॥ दृष्टेर्विकारो नामौष्ठकपोलस्पन्दनादयः । शक्तिर्धरियसहायाद्यैः फलश्लाघ्येषु कर्मसु ॥२.१२६॥ सत्वरा मानसी वृत्तिरुत्साहस्तत्र विक्रियाः । कालाद्यवेक्षणं धैर्यं वागारम्भादयोऽ पि च ॥२.१२७॥ सहजाहार्यभेदेन स द्विधा परिभाष्यते । लोकोत्तरपदार्थानां तत्पूर्वलोकनादिभिः ॥२.१२८॥ विस्तारश्चेतसो यस्तु विस्मयः स निगद्यते । क्रियास्तत्राक्षिविस्तारसाधूक्तिपुलकादयः ॥२.१२९॥ वधावज्ञादिभिश्चित्तज्वलनं क्रोध ईरितः । एष त्रिधा भवेत्कोर्धकोपरोषप्रभेदतः ॥२.१३०॥ वधच्छेदादिपर्यन्तः क्रोधः क्रूरजनाश्रयः । अभ्यर्थनावधिः प्रायः कोपो वीरजनाश्रयः ॥२.१३१॥ शत्रुभृत्यसुहृत्पूज्याश्चत्वारो विषयास्तयोः । मुहुर्दष्टोष्ठता भुग्नभ्रुकुटीदन्तघट्टनम् ॥२.१३२॥ हस्तनिष्पीडनं गात्रकम्पः शस्त्रप्रतीक्षणम् । स्वभुजावेक्षणं कण्ठगर्जाद्याः शात्रवक्रुधि ॥२.१३३॥ भृत्यक्रोधे तु चेष्टाः स्युस्तर्जनं मूर्धधननम् । निर्भर्त्सनं च बहुधा मुहुर्निर्वर्णनादयः ॥२.१३४॥ मित्रक्रोधे विकाराः स्युर्नेत्रान्तःपतदश्रुता । तूष्णीं ध्यानं च नैश्चल्यं श्वसितानि मुहुर्मुहुः ॥२.१३५॥ मौनं विनम्रमुखता भुग्नदृष्ट्यादयोऽ पि च । पूज्यक्रोधे तु चेष्टाः स्युः स्वनिन्दा नम्रवक्त्रता ॥२.१३६॥ अनुत्तरप्रदानाङ्गस्वेदगद्गदिकादयः । शत्रुक्रोधे तु चेष्टाः स्युर्भावगर्भितभाषणम् ॥२.१३७॥ भ्रूभेदनिटिलस्वेदकटाक्षआरुणिमादयः । भृत्यादिकोपत्रितये तत्तत्क्रोधादिताः क्रियाः ॥२.१३८॥ मिथः स्त्रीपुंसयोरेव रोषह्स्त्रीगोचरः पुनः । प्रत्ययावधिरत्र स्युर्विकाराः कुटिलेक्षणम् ॥२.१३९॥ अधरस्फुरणापाङ्गरागनिःश्वसितादयः । द्वेधा निगदितः स्त्रीणां रोषः पुरुषगोचरः ॥२.१४०॥ सपत्नीहेतुराद्यः स्यादन्यः स्यादन्यहेतुकः । सपत्नीहेतुको रोषो विप्रलम्भे प्रपञ्च्यते ॥२.१४१॥ अन्यहेतुकृते त्वत्र क्रियाः पुरुषरोषवत् । बन्धुव्यापत्तिदौर्गत्यधननाशादिभिः कृतः ॥२.१४२॥ चित्तक्लेशभरः शोकस्तत्र चेष्टा विवर्णता । बाष्पोद्गमो मुखे शोषः स्तम्भनिःश्वसितादयः ॥२.१४३॥ उत्तमानमयं प्रौढो विभावैरन्यसंश्रितैः । आत्मस्थैरतिरूढोऽ पि प्रायः शौर्येण शाम्यति ॥२.१४४॥ तत्र चेष्टा गुणाख्याननिगूढरुदितादयः । स्यादेष मृतिपर्यन्तः स्वपरस्थैस्तु मध्यमे ॥२.१४५॥ अनतिव्यक्तरुदितप्रमुखास्तत्र विक्रियाः । हेतुभिः स्वगतैरेव प्रायः स्त्रीनीचयोरयम् ॥२.१४६॥ मरणव्यवसायान्तस्तत्र भूपरिवेष्टनम् । उरस्ताडननिर्भेदपातोच्चै रोदनादयः ॥२.१४७॥ अहृद्यानां पदार्थानां दर्शनश्रवणादिभिः । सङ्कोचनं यन्मनसह्सा जुगुप्सात्र विक्रियाः ॥२.१४८॥ नासापिधानं त्वरिता गतिरास्यविकूणनम् । सर्वाङ्गधूननं कुत्सा मुहुर्निष्ठीवनादयः ॥२.१४९॥ घृणा शुद्धा जुगुप्सान्या दशरूपे निरूपिता । सा हेयश्रवणोत्पन्नजुगुप्साया न भिद्यते ॥२.१५०॥ भयं तु मन्तुना घोरदर्शनश्रवणादिभिः । चित्तस्यातीव चाञ्चल्यं तत्प्रायो नीचमध्ययोः ॥२.१५१॥ उत्तमस्य तु जायेत कारणैरतिलौकिकैः । भये तु चेष्टा वैवर्ण्यं स्तब्धत्वं गात्रकम्पनम् ॥२.१५२॥ पलायनं परावृत्य वीक्षणं स्वात्मगोपनम् । आस्यशोषणमुत्क्रोशशरणान्वेषणादयः ॥२.१५३॥ हेतुजादितरे प्रोक्ते भये सोढलसूनुना । कृत्रिमं तूत्तमगतं गुर्वादीन् प्रत्यवास्तवम् ॥२.१५४॥ विभीषिकोत्थं बालादेर्वित्रासितकमित्युभे । तत्रान्त्यमन्तर्भूतं स्याद्घोरश्रवणजे भये ॥२.१५५॥ भिक्षुभल्लूकचोरादिसूचनाकल्पितत्वतः । आद्यं तु युक्तिकाक्ष्यायां भयकक्ष्यां न गाहते ॥२.१५६॥ गुर्वादिसंनिधौ यस्मान्नीचैः स्थित्यादिसूचितम् । भावो विनय एव स्यादथ स्यान्नाटके यदि ॥२.१५७॥ अवहित्थतया तस्य भयत्वं दूरतो गतम् । अतो हेतुजमेवैकं भयं स्यादिति निश्चयः ॥२.१५८॥ भोजेनोक्ताः स्थायिनोऽ न्ये गर्वः स्नेहो धृतिर्मतिः । स्थास्नुरेवोद्धतप्रेयः शान्तोदात्तरसेष्वपि ॥२.१५९॥ तत्र स्नेहो रतेर्भेदस्त्रिधा चेच्छात्मतत्कृतः । अन्ये पोषासहिष्णुत्वान्नैव स्थायिपदोचिताः ॥२.१६०॥ तदष्टावेव विज्ञेयाः स्थायिनो मुनिसंमताः । स्थायिनोऽ ष्टौ त्रयस्त्रिंशच्चारिणोऽ ष्टौ च सात्त्विकाः ॥२.१६१॥ एवमेकोनपञ्चाशद्भावाः स्युर्मिलिता इमे । एवं हि स्थायिनो भावान् सिंहभूपतिरभ्यधात् ॥२.१६२॥ अथैषां रसरूपत्वमुच्यते सिंहभूभुजा । विद्वन्मानसहंसेन रसभावविवेकिना ॥२.१६३॥ एते च स्थायिनः स्वैः स्वैर्विभावैर्व्यभिचारिभिः । सात्त्विकैश्चानुभावैश्च नटाभिनययोगतः ॥२.१६४॥ साक्षात्कारमिवानीताः प्रापिताः स्वादुरूपताम् । सामाजिकानां मनसि प्रयान्ति रसरूपताम् ॥२.१६५॥ दध्यादिव्यञ्जनद्रव्यैश्चिञ्चादिभिरथौषधैः । गुडादिमधुरद्रव्यैर्यथायोगं समन्वितैः ॥२.१६६॥ यद्वत्पाकविशेषेण षाडवाख्यो रसः परः । निष्पद्यते विभावाद्यैः प्रयोगेण तथा रसः ॥२.१६७॥ सोऽ यमानन्दसम्भेदो भावकैरनुभूयते । अष्टधा स च शृङ्गारहास्यवीराद्भुता अपि ॥२.१६८॥ रौद्रः करुणबीभत्सौ भयानक इतीरितः । एषूत्तरस्तु पूर्वस्मात्सम्भूतो विषमात्समः ॥२.१६९॥ बहुवक्तव्यताहेतोः सकलाह्लादनादपि । रसेषु तत्र शृङ्गारः प्रथमं लक्ष्यते स्फुटम् ॥२.१७०॥ विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । नीता सदस्यरस्यत्वं रतिः शृङ्गार उच्यते ॥२.१७१॥ स विप्रलम्भः सम्भोग इति द्वेधा निगद्यते । अयुक्तयोस्तरुणयोर्योऽ नुरागः परस्परम् ॥२.१७२॥ अभीष्टालिङ्गनादीनामनवाप्तौ प्रकृष्यते । स विप्रलम्भो विज्ञेयः स चतुर्धा निगद्यते ॥२.१७३॥ पूर्वानुरागमानौ च प्रवासकरुणाविति । यत्प्रेम सङ्गमात्पूर्वं दर्शनश्रवणादिभिः ॥२.१७४॥ पूर्वानुरागः स ज्ञेयः श्रवणं तद्गुणश्रुतिः । प्रत्यक्षचित्रस्वप्नादौ दर्शनं दर्शनं मतम् ॥२.१७५॥ यतः पूर्वानुरागोऽ यं सङ्कल्पात्मा प्रवर्तते । सोऽ यं पूर्वानुरागाख्यो विप्रलम्भ इतीरितः ॥२.१७६॥ पारतन्त्र्यादयं द्वेधा दैवमानुषकल्पनात् । तत्र सञ्चारिणो ग्लानिः शङ्कासूये श्रमो भयम् ॥२.१७७॥ निर्वेदौत्सुक्यदैन्यानि चिन्तानिद्रे प्रबोधता । विषादो जडतोन्मादो मोहो मरणमेव च ॥२.१७८॥ एतस्मिन्नभिलाषादि मरणान्तमनेकधा । तत्तत्सञ्चारिभावानामुत्कटत्वाद्दशा भवेत् ॥२.१७९॥ तथापि प्राक्तनैरस्या दशावस्थाः समासतः । प्रोक्तास्तदनुरोधेन तासां लक्षणमुच्यते ॥२.१८०॥ अभिलाषश्चिन्तानुस्मृतिगुणसङ्कीर्तनोद्वेगाः । सविलापा उन्मादव्याधी जडता मृतिश्च ताः क्रमशः ॥२.१८१॥ सङ्गमोपायरचितप्रारब्धव्यवसायतः । सङ्कल्पेच्छासमुद्भूतिरभिलाषोऽ त्र विक्रियाः ॥२.१८२॥ प्रवेशनिर्गमौ तूष्णीं तद्दृष्टिपथगामिनौ । रागप्रकाशनपराश्चेष्टाः स्वात्मप्रसाधनम् ॥२.१८३॥ व्याजोक्तयश्च विजने स्थितिरित्येवमादयः । केनोपायेन संसिद्धिः कदा तस्य समागमः ॥२.१८४॥ दूतीमुखेन किं वाच्यमित्याद्यूहस्तु चिन्तनम् । अत्र नीव्यादिसंस्पर्शः शय्यायां परिवर्तनम् ॥२.१८५॥ सबाष्पाकेकरा दृष्टिर्मुद्रिकादिविवर्तनम् । निर्लक्ष्यवीक्षणं चैवमाद्या विकृतयो मताः ॥२.१८६॥ अर्थानामनुभूतानां देशकालानुवर्तिनाम् । सान्तत्येन परामर्शो मानसः स्यादनुस्मृतिः ॥२.१८७॥ तत्रानुभावा निःश्वासो ध्याणं कृत्यविहस्तता । शय्यासनादिविद्वेष इत्याद्याः स्मरकल्पिताः ॥२.१८८॥ सौन्दर्यादिगुणश्लाघा गुणकीर्तनमत्र तु । रोमाञ्चो गद्गदा वाणी भावमन्थरवीक्षणम् ॥२.१८९॥ तत्सङ्गचिन्तनं सख्या गण्डस्वेदादयोऽ पि च । मनसः कम्प उद्वेगः कथितस्तत्र विक्रियाः ॥२.१९०॥ चिन्ता सन्तापनिःश्वासौ द्वेषः शय्यासनादिषु । स्तम्भचिन्ताश्रुवैवर्ण्यदीनत्वादय ईरिताः ॥२.१९१॥ इह मे दृक्पथं प्रापदिहातिष्ठदिहास्त च । इहालपदिहावात्सीदिहैव न्यवृतत्तथा ॥२.१९२॥ इत्यादिवाक्यविन्यासो विलाप इति कीर्तितः । तत्र चेष्टास्तु कुत्रापि गमनं क्वचिदीक्षणम् ॥२.१९३॥ क्वचित्क्वचिदवस्थानं क्वचिच्च भ्रमणादयः । सर्वावस्थासु सर्वत्र तन्मनस्कतया सदा ॥२.१९४॥ अतस्मिंस्तदिति भ्रान्तिरुन्मादो विरहोद्भवः । तत्र चेष्टास्तु विज्ञेया द्वेषः स्वेष्टेऽ पि वस्तुनि ॥२.१९५॥ दीर्घं मुहुश्च निःश्वासो निर्निमेषतया स्थितिः । निर्निमित्तस्मितध्यानगानमौनादयोऽ पि च ॥२.१९६॥ अभीष्टसङ्गमाभावाद्व्याधिः सन्तापलक्षणः । अत्र सन्तापनिःश्वासौ शीतवस्तुनिषेवणम् ॥२.१९७॥ जीवितोपेक्षणं मोहो मुमूर्षा धृतिवर्जनम् । यत्र क्वचिच्च पतनं स्रस्ताक्षत्वादयोऽ पि च ॥२.१९८॥ इदमिष्टमनिष्टं तदिति वेत्ति न किञ्चन । नोत्तरं भाषते प्रश्ने नेक्षते न शृणोति च ॥२.१९९॥ यत्र ध्यायति निःसंज्ञं जडता सा प्रकीर्तिता । अत्र स्पर्शानभिज्ञत्वं वैवर्ण्यं शिथिलाङ्गता ॥२.२००॥ अकाण्डहुङ्कृतिः स्तम्भो निःश्वासकृशतादयः । तैस्तैः कृतैः प्रतीकारैर्यदि न स्यात्समागमः ॥२.२०१॥ ततः स्यान्मरणोद्योगह्कामाग्नेस्तत्र विक्रियाः । लीलाशुकचकोरादिन्यासः स्निग्धसखीकरे ॥२.२०२॥ कलकण्ठकलालापश्रुतिर्मन्दानिलादरः । ज्योत्स्नाप्रवेशमाकन्दमञ्जरीवीक्षणादयः ॥२.२०३॥ मुहुःकृतो मेति नेति प्रतिषेधार्थवीप्सया । ईप्सितालिङ्गनादीनां निरोधो मान उच्यते ॥२.२०४॥ सोऽ यं सहेतुनिर्हेतुभेदाद्द्वेधात्र हेतुजः । ईर्ष्यया सम्भवेदीर्ष्या त्वन्यासङ्गिनि वल्लभे ॥२.२०५॥ असहिष्णुत्वमेव स्याद्दृष्टेरनुमितेः श्रुतेः । ईर्ष्यामाने तु निर्वेदावहित्थग्लानिदीनताः ॥२.२०६॥ चिन्ताचापल्यजडतामोहाद्या व्यभिचारिणः । भोगाङ्कगोत्रस्खलनोत्स्वप्नैरनुमितिस्त्रिधा ॥२.२०७॥ श्रुतिः प्रियापराधस्य श्रुतिराप्तसखीमुखात् । कारणाभाससम्भूतो निर्हेतुः स्याद्द्वयोरपि ॥२.२०८॥ अवहित्थादयस्तत्र विज्ञेया व्यभिचारिणः । निर्हेतुकः स्वयं शाम्येत्स्वयं ग्राहस्मितादिभिः ॥२.२०९॥ हेतुजस्तु शमं याति यथायोग्यं प्रकल्पितैः । साम्ना भेदेन दानेन नत्युपेक्षारसान्तरैः ॥२.२१०॥ तत्र प्रियोक्तिकथनं यत्तु तत्साम गीयते । सख्यादिभिरुपालम्भप्रयोगो भेद उच्यते ॥२.२११॥ व्याजेन भूषणादीनां प्रदानं दानमुच्यते । नतिः पादप्रणामः स्यात्तूष्णीं स्थितिरुपेक्षणम् ॥२.२१२॥ आकस्मिकभयादीनां कल्पना स्यद्रसान्तरम् । यादृच्छिकं बुद्धिपूर्वमिति द्वेधा निगद्यते ॥२.२१३॥ अनुकूलेन दैवेन कृतं यादृच्छिकं भवेत् । प्रत्युत्पन्नधिया पुंसा कल्पितं बुद्धिपूर्वकम् ॥२.२१४॥ पूर्वसङ्गतयोर्यूनोर्भवेद्देशान्तरादिभिः । चरणव्यवधानं यत्स प्रवास इतीर्यते ॥२.२१५॥ तज्जन्यो विप्रलम्भोऽ पि प्रवासत्वेन संमतः । हर्षगर्वमदव्रीडा वर्जयित्वा समीरिताः ॥२.२१६॥ शृङ्गारयोग्याः सर्वेऽ पि प्रवासव्यभिचारिणः । कार्यतः सम्भ्रमाच्छापात्स त्रिधा तत्र कार्यजः ॥२.२१७॥ बुद्धिपूर्वतया यूनोः संविधानव्यपेक्षया । वृत्तो वर्तिष्यमाणश्च वर्तमान इति त्रिधा ॥२.२१८॥ आवेगः सम्भ्रमः सोऽ पि नैको दिव्यादिभेदतः । शापो वैरूप्यताद्रूप्यप्रवृत्तेर्द्विविधो भवेत् ॥२.२१९॥ प्रवासः शापवैरूप्यादहल्यागौतमादिषु । द्वयोरेकस्य मरणे पुनरुज्जीवनावधौ ॥२.२२०॥ विरहः करुणोऽ न्यस्य सङ्गमाशानुवर्तनात् । करुणभ्रमकारित्वात्सोऽ यं करुण उच्यते ॥२.२२१॥ सञ्चारिणोऽ नुभावाश्च करुणेऽ पि प्रवासवत् । स्पर्शनालिङ्गनादीनामानुकूल्यान्निषेवणम् ॥२.२२२॥ घटते यत्र यूनोर्यत्स सम्भोगश्चतुर्विधः । सङ्क्षिप्तः सङ्कीर्णः सम्पन्नतरः समृद्धिमानिति ते ॥२.२२३॥ पूर्वानुरागमानप्रवासकरुणानुसम्भवाः क्रमतः । युवानौ यत्र संक्षिप्तान् साध्वसव्रीडितादिभिः ॥२.२२४॥ उपचारान्निषेवेते स संक्षिप्त इतीरितः । सङ्कीर्णस्तु पराधीन व्यलीकमरणादिभिः ॥२.२२५॥ सङ्कीर्यमाणः सम्भोगः किञ्चित्पुष्पेषुपेशलः । भयव्यलीकस्मरणाद्यभावात्प्राप्तवैभवः ॥२.२२६॥ प्रोषितागतयोर्यूनोर्भोगः सम्पन्न ईरितः । पुनरुज्जीवने भोगसमृद्धिः कियती भवेत् ॥२.२२७॥ शिवाभ्यामेव विज्ञेयमित्ययं हि समृद्धिमान् । विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः ॥२.२२८॥ हासः सदस्यरस्यत्वं नीतो हास्य इतीर्यते । तत्रालस्यग्लानिनिद्राव्याध्याद्या व्यभिचारिणः ॥२.२२९॥ एष द्वेधा भवेदात्मपरस्थितिविभागतः । आत्मस्थस्तु यदा स्वस्य विकारैर्हसति स्वयम् ॥२.२३०॥ परस्थस्तु परप्राप्तैरेतैर्हसति चेत्परम् । प्रकृतिवशात्स च षोढा स्मितहसिते विहसितावहसिते च ॥२.२३१॥ अपहसितातिहसितके ज्येष्ठादीनां क्रमाद्द्वे द्वे । स्मितं चालक्ष्यदशनं दृक्कपोलविकाशकृत् ॥२.२३२॥ तदेव लक्ष्यदशनशिखरं हसितं भवेत् । तदेव कुञ्चितापाङ्गगण्डं मधुरनिःस्वनम् ॥२.२३३॥ कालोचितं सानुरागमुक्तं विहसितं भवेत् । फुल्लनासापुटं यत्स्यान्निकुञ्चितशिरोऽ ंसकम् ॥२.२३४॥ जिह्मावलोकनयनं तच्चावहसितं मतम् । कम्पिताङ्गं साश्रुनेत्रं तच्चापहसितं भवेत् ॥२.२३५॥ करोपगूढपार्श्वं यदुद्धतायतनिःस्वनम् । बाष्पाकुलाक्षयुगलं तच्चातिहसितं भवेत् ॥२.२३६॥ विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः । नीतः सदस्यरस्यत्वमुत्साहो वीर उच्यते ॥२.२३७॥ एष त्रिधा समासेन दानयुद्धदयोद्भवाः । दानवीरो धृतिर्हर्षो मत्याद्या व्यभिचारिणः ॥२.२३८॥ स्मितपूर्वाभिभाषित्वं स्मितपूर्वं च वीक्षितम् । प्रसादे बहुदातृत्वं तद्वद्वाचानुमोदितम् ॥२.२३९॥ गुणागुणविचाराद्यास्त्वनुभावाः समीरिताः । युद्धवीरे हर्षगर्वामर्षादया व्यभिचारिणा ॥२.२४०॥ असाहाय्येऽ पि युद्धेच्छा समरादपलायनम् । भीताभयप्रदानाद्या विकारास्तत्र कीर्तिताः ॥२.२४१॥ दयावीरे धृतिमतिप्रमुखा व्यभिचारिणः । स्वार्थप्राणव्ययेनापि विपन्नत्राणशीलता ॥२.२४२॥ आश्वासनोक्तयः स्थैर्यमित्याद्यास्तत्र विक्रियाः । विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः ॥२.२४३॥ नीतः सदस्यरस्यत्वं विस्मयोऽ द्भुततां व्रजेत् । अत्र धृत्यावेगजाड्यहर्षाद्या व्यभिचारिणः ॥२.२४४॥ चेष्टास्तु नेत्रविस्तारस्वेदाश्रुपुलकादयः । विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः ॥२.२४५॥ क्रोधः सदस्यरस्यत्वं नीतो रौद्र इतीर्यते । आवेगगर्वौग्र्यामर्षमोहाद्या व्यभिचारिणः ॥२.२४६॥ प्रस्वेदभ्रुकुटीनेत्ररागाद्यास्तत्र विक्रियाः । विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः ॥२.२४७॥ नीतः सदस्यरस्यत्वं शोकः करुण उच्यते । अत्राष्टौ सात्त्विका जाड्यनिर्वेदग्लानिदीनताः ॥२.२४८॥ आलस्यापस्मृतिव्याधिमोहाद्या व्यभिचारिणः । विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः ॥२.२४९॥ जुगुप्सा पोषमापन्ना बीभत्सत्वेन रस्यते । अत्र ग्लानिश्रमोन्मादमोहापस्मारदीनताः ॥२.२५०॥ विषादचापलावेगजाड्याद्या व्यभिचारिणः । स्वेदरोमाञ्चनामाग्रच्छादनाद्याश्च विक्रियाः ॥२.२५१॥ विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः । भयं सदस्यरस्यत्वं नीतं प्रोक्तं भयानकः ॥२.२५२॥ तत्र सन्त्रासमरणचापलावेगदीनताः । विषादमोहापस्मारशङ्काद्या व्यभिचारिणः ॥२.२५३॥ विक्रियास्त्वास्यशोषाद्याः सात्त्विकाश्चाश्रुवर्जिताः । केचित्समानबलयो रसयोः सङ्करं विदुः ॥२.२५४॥ न परीक्षाक्षममिदं मतं प्रेक्षावतां भवेत् । तुष्यत्वे पूर्व आस्वादः कतरस्येत्यनिश्चयात् ॥२.२५५॥ स्पर्धापरत्वादुभयोरनास्वादप्रसङ्गतः । तयोरन्यतरस्यैव प्रायेणास्वादनादपि ॥२.२५६॥ युगपद्रसनीयत्वं नोभयोरुपपद्यते । एषामङ्गाङ्गिभावेन सङ्करो मम संमतः ॥२.२५७॥ [*१] अनोथेर्रेअदिन्गिन् सोमे मनुस्च्रिप्त्सनुभावस्तु नैष्फल्यमतिर्निर्वेद उच्यते । अत्र चिन्ताश्रुनिःश्वसवैवर्ण्योच्छ्वासदीनता ॥ [*२] थे fओल्लोwइन्घल्f करिक इस्fओउन्दिनोन्ल्योने एदितिओन् (शीतज्वरे तु चेष्टाः स्युः सन्तापश्चाङ्गसादनम् ।) तथा च भारतीये भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव वा । सर्वेषां समवेतानां रूपं यस्य भवेद्बहु ॥ स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥िति॥ तुलाधृतत्वमनयोर्न स्यात्प्रकरणादिना । कवितात्पर्यविश्रान्तेरेकत्रैवावलोकनात् ॥२.२५८॥ उभौ शृङ्गारबीभत्सावुभौ वीरभयानकौ । रौद्राद्भुतावुभौ हास्यकरुणौ प्रकृतिद्विषौ ॥२.२५९॥ स्वभाववैरिणोरङ्गाङ्गिभावेनापि मिश्रणम् । विवेकिभ्यो न स्वदते गन्धगन्धकयोरिव ॥२.२६०॥ विरोधिनोऽ पि सांनिध्यादतिरस्कारलक्षणम् । पोषणं प्रकृतस्येति चेदङ्गत्वं न तावता ॥२.२६१॥ यत्किञ्चिदुपकारित्वादङ्गस्याङ्गित्वमङ्गिनि । न तत्संनिधिमात्रेण चर्वणानुपकारतः ॥२.२६२॥ अन्यथा पानकाद्येषु शर्करादेरिवापतेत् । अन्तरा पतितस्यापि तृणादेरुपकारिता ॥२.२६३॥ तच्चर्वणाभिमाने स्यात्सतृणाभ्यवहारिता । भृत्योर्नायकस्येव निसर्गद्वेषिणोरपि ॥२.२६४॥ अङ्गयोरङ्गिनो वृद्धौ भवेदेकत्र सङ्गतिः । अङ्गेनाङ्गी रसः स्वेच्छावृत्तिवर्धितसम्पदा ॥२.२६५॥ अमात्येनाविनीतेन स्वामीवाभासतां व्रजेत् ॥२.२६६॥ हरिश्चन्द्रो रक्षाकरणरुचिसत्येषु वचसां विलासे वागीशो महति नियमे नीतिनिगमे । विजेता गाङ्गेयं जनभरणसंमोहनकला व्रतेषु श्रीसिंहक्षितिपतिरुदारो विहरते ॥२.२६७॥ नित्य श्रीयन्नपोतक्षितिपतिजनुषः सिंहभूपालमौलेः सौन्दर्यं सुन्दरीणां हरिणविजयिनां वागुरा लोचनानाम् । दानं मन्दारचिन्तामणिसुरसुरभीगर्वनिर्वापणाङ्कं विज्ञानं सर्वविद्यानिधिबुधपरिषच्छेमुषीभाग्यरेखा ॥२.२६८॥ इति श्रीमदान्ध्रमण्डलाधीश्वरप्रतिगण्डभैरवश्रीमदनपोतनरेन्द्रनन्दनभुजबलभीमश्रीसिंहभूपालविरचिते रसार्णवसुधाकरनाम्नि नाट्यालङ्कारशास्त्रे रसिकोल्लासो नाम द्वितीयो विलासः ॥३.२॥ ः (३) तृतीयो विलासः भावकोल्लासः स क्षेमदायी कमलानुकूलः कठोरपारावतकण्ठनीलः । कृपानिधिर्भव्यगुणाभिरामः परः पुमान् रजमहीध्रवासी ॥१॥ तदीदृशरसाधारं नाट्यं रूपकमित्यपि । नटस्यातिप्रवीणस्य कर्मत्वान्नाट्यमुच्यते ॥२॥ यथा मुखादौ पद्मादेरारोपे रूपकप्रथा । तथैव नायकारोपो नटे रूपकमुच्यते ॥३.३॥ तच्च नाट्यं दशविधं वाक्यार्थाभिनयात्मकम् । तथा च भारतीये नाटकं सप्रकरणमङ्को व्यायोक्ग एव च । भाणः समवकारश्च वीथी प्रहसनं डिमः ॥ ईहामृगश्च विज्ञेयो दशधा नाट्यलक्षणम् । (१८.२३) रसेतिवृत्तनेतारस्तत्तद्रूपकभेदकाः ॥३.४॥ लक्षितौ रसनेतारावितिवृत्तं तु कथ्यते । इतिवृत्तकथावस्तुशब्दाः पर्यायवाचिनः ॥३.५॥ इतिवृत्तं प्रबन्धस्य शरीरं त्रिविधं हि तत् । ख्यातं कल्प्यं च सङ्कीर्णं ख्यातं रामकथादिकम् ॥३.६॥ कविबुद्धिकृतं कल्प्यं मालतीमाधवादिकम् । सङ्कीर्णमुभयायत्तं लवराघवचेष्टितम् ॥३.७॥ लक्ष्येष्वेतत्तु बहुधा दिव्यमर्त्यादिभेदतः । तच्चेतिवृत्तं विद्वद्भिः पञ्चधा परिकीर्तितम् ॥३.८॥ बीजं बिन्दुः पताका च प्रकरी कार्यमित्यपि । यत्तु स्वल्पमुपक्षिप्तं बहुधा विस्तृतिं गतम् ॥३.९॥ कार्यस्य कारणं प्राज्ञैस्तद्बीजमिति कथ्यते । उप्तं बीजं तरोर्यद्वदङ्कुरादिप्रभेदतः ॥३.१०॥ फलाय कल्पते तद्वन्नायकादिविभेदतः । फलायैतद्भवेद्यस्माद्बीजमित्यभिधीयते ॥३.११॥ फले प्रधाने बीजस्य प्रसङ्गोक्तैः फलान्तरैः । विच्छिन्ने यदविच्छेदकारणं बिन्दुरुच्यते ॥३.१२॥ जलबिन्दुर्यथा सिञ्चंस्तरुमूलं फलाय हि । तथैवायमुपक्षिप्तो बिन्दुरित्यभिधीयते ॥३.१३॥ यत्प्रधानोपकरणप्रसङ्गात्स्वार्थमृच्छति । सा स्यात्पताका सुग्रीवमकरन्दादिवृत्तवत् ॥३.१४॥ यत्केवलं परार्थस्य साधकं च प्रदेशभाक् । प्रकरी सा समुद्दिष्टा नववृन्दादिवृत्तवत् ॥३.१५॥ अङ्गस्य च प्रधानस्य भाव्यवस्थस्य सूचकम् । यदागन्तुकभावेन पताकास्थानकं हि तत् ॥३.१६॥ एतद्द्विधा तुल्यसंविधानं तुल्यविशेषणम् । तत्राद्यं त्रिप्रकारं स्याद्द्वितीयं त्वेकमेव हि ॥३.१७॥ एवं चतुर्विधं ज्ञेयं पताकास्थानकं बुधैः । तथा च भरतः सहसैवार्थसम्पत्तिर्गुणवत्युपचारतः । पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥िति॥(१९.३१) तथा च वचः सातिशयं श्लिष्टं काव्यबन्धसमाश्रयम् । पताकास्थानकमिदं द्वितीयं परिकीर्तितम् ॥िति॥(१९.३२) तथा च अर्थोपक्षेपणं यत्र लीनं सविनयं भवेत् । श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते ॥(१९.३३) तथा च द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः । उपन्याससुयुक्तश्च तच्चतुर्थमुदाहृतम् ॥(१९.३४) इति ॥ वस्तुनस्तु समस्तस्य धर्मकामार्थलक्षणम् ॥३.१८॥ फलं कार्यमिति शुद्धं मिश्रं वा कल्पयेत्सुधीः । प्रधानमङ्गमिति च तद्वस्तु द्विविधं पुनः ॥३.१९॥ प्रधानं नेतृचरितं प्रधानफलबन्धि च । काव्ये व्यापि प्रधानं तद्यथा रामादिचेष्टितम् ॥३.२०॥ नायकार्थकृदङ्गं स्यान्नायकेतरचेष्टितम् । नित्यं पताका प्रकरी चाङ्गं बीजादयः क्वचित् ॥३.२१॥ बीजत्वाद्बीजमादौ स्यात्फलत्वात्कार्यमन्ततः । तयोः सन्धानहेतुत्वान्मध्ये बिन्दुं प्रकल्पयेत् ॥३.२२॥ यथायोगं पताकायाः प्रकर्याश्च नियोजनम् । कार्यस्य पञ्चधावस्था नायकादिक्रियावशात् ॥३.२३॥ आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः । तत्र मुख्यफलोद्योगमात्रमारम्भ इष्यते ॥३.२४॥ यत्नस्तु तत्फलप्राप्त्यामौत्सुक्येन तु वर्तनम् । प्राप्त्याशा तु महार्थस्य सिद्धिसद्भावभावना[*३] ॥३.२५॥ नियताप्तिरविघ्नेन कार्यसंसिद्धिनिश्चयः । समग्रेष्टफलावाप्तिर्नायकस्य फलागमः ॥३.२६॥ एकैकस्यास्त्ववस्थायाः प्रकृत्या चैकयैकया । योगः सन्धिरिति ज्ञेयो नाट्यविद्याविशारदैः ॥३.२७॥ एकैकस्यास्त्ववस्थायाः प्रकृत्या चैकयैकया । योगः सन्धिरिति ज्ञेयो नाट्यविद्याविशारदैः ॥२७॥ पताकायास्त्ववस्थानं क्वचिदस्ति न वा क्वचित् । पताकाविरहे बीजं बिन्दुं वा कल्पयेत्सुधीः ॥३.२८॥ मुख्यप्रयोजनवशात्कथाङ्गानां समन्वये । अवान्तरार्थसम्बन्धः सन्धिः सन्धानरूपतः ॥३.२९॥ मुखप्रतिमुखे गर्भविमर्शावुपसंहृतिः । पञ्चैते सन्धयः तेषु यत्र बीजसमुद्भवः ॥३.३०॥ नानाविधानामर्थानां रसानामपि कारणम् । तन्मुखं तत्र चाङ्गानि बीजारम्भानुरोधतः ॥३.३१॥ उपक्षेपः परिकरः परिन्यासो विलोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥३.३२॥ उद्भेदभेदौ करणमिति द्वादश योजयेत् । उपक्षेपस्तु बीजस्य सूचना कथ्यते बुधैः ॥३.३३॥ परिक्रिया तु बीजस्य बहुलीकरणं मतम् । बीजनिष्पत्तिकथनं परिन्यास इतीर्यते ॥३.३४॥ नायकादिगुणानां यद्वर्णनं तद्विलोभनम् । सम्यक्प्रयोजनानां हि निर्णयो युक्तिरिष्यते ॥३.३५॥ प्राज्ञैः सुखस्य सम्प्राप्तिः प्राप्तिरित्यभिधीयते । बीजस्य पुनराधानं समाधानमिहोच्यते ॥३.३६॥ सुखदुःखकरं यत्तु तद्विधानं बुधा विदुः । श्लाघ्यैश्चित्तचमत्कारो गुणाद्यैः परिभावना ॥३.३७॥ उद्घातनं यद्बीजस्य स उद्भेदः प्रकीर्तितः । बीजस्योत्तेजनं भेदो यद्वा सङ्घातभेदनम् ॥३.३८॥ प्रस्तुतार्थसमारम्भं करणं परिचक्षते । बीजप्रकाशनं यत्र दृश्यादृश्यतया भवेत् ॥३.३९॥ तत्स्यात्प्रतिमुखं बिन्दोः प्रयत्नस्यानुरोधतः । इह त्रयोदशाङ्गानि प्रयोज्यानि मनीषिभिः ॥३.४०॥ विलासपरिसर्पौ च विधुतं शमनर्मणी । नर्मद्युतिः प्रगमनं निरोधः पर्युपासनम् ॥३.४१॥ पुष्पं वज्रमुपन्यासो वर्णसङ्ग्रहनं तथा । विलासः सङ्गमार्थस्तु व्यापारः परिकीर्तितः ॥३.४२॥ पूर्वदृष्टस्य बीजस्य त्वङ्कच्छेदादिना तथा । नष्टस्यानुस्मृतिः शश्वत्परिसर्प इति स्मृतः ॥३.४३॥ नायकादेरीप्सितानामर्थानामनवाप्तितः । अरतिर्यद्भवेद्तद्धि विद्वद्भिर्विधुतं मतम् ॥३.४४॥ अथवानुनयोत्कर्षं विधुतं स्यान्निराकृतिः । अरतेः शमनं तज्ज्ञाः शममाहुर्मनीषिणः ॥३.४५॥ परिहासप्रधानं यद्वचनं नर्म तद्विदुः । कोपस्यापह्नवार्थं यद्धास्यं नर्मद्युतिर्मता ॥३.४६॥ तत्तु प्रगमनं यत्स्यादुत्तरोत्तरभाषणम् । यत्र व्यसनमायाति निरोधः स निगद्यते ॥३.४७॥ रुष्टस्यानुनयो यः स्यात्पर्युपासनमीरितम् । सविशेषाभिधानं यत्पुष्पं तदिति संज्ञितम् ॥३.४८॥ वज्रं तदिति विज्ञेयं साक्षान्निष्ठुरभाषणम् । युक्तिभिः सहितो योऽ र्थः उपन्यासः स इष्यते ॥३.४९॥ सर्ववर्णोपगमनं वर्णसंहार उच्यते । दृष्टादृष्टस्य बीजस्य गर्भस्त्वन्वेषणं मुहुः ॥३.५०॥ अत्राप्याचापताकानुरोधादङ्गानि कल्पयेत् । अभूताहरणं मार्गो रूपोदाहरणे क्रमः ॥३.५१॥ सङ्ग्रहश्चानुमानं च तोटकाधिबले तथा । उद्वेगः सम्भ्रमाक्सेपौ द्वादशैषां तु लक्षणम् ॥३.५२॥ अभूताहरणं तत्स्याद्वाक्यं यत्कपटाश्रयम् । मार्गस्तत्त्वार्थकथनं रूपं सन्देहकृद्वचः ॥३.५३॥ सोत्कर्षवचनं यत्तु तदुदाहरणं मतम् । भावज्ञानं क्रमो यद्वा चिन्त्यमानार्थसङ्गतिः ॥३.५४॥ सङ्ग्रहः सामदानार्थसंयोगः परिकीर्तितः । अर्थस्याभ्यूहनं लिङ्गादनुमानं प्रचक्षते ॥३.५५॥ संरम्भं तु वचनं सङ्गिरन्ते हि तोटकम् । बुधैरधिबलं प्रोक्तं कपटेनातिवञ्चनम् ॥३.५६॥ शत्रुवैरादिसम्भूतं भयमुद्वेग उच्यते । शत्रुव्याघ्रादिसम्भूतौ शङ्कात्रासौ च सम्भ्रमः ॥३.५७॥ गर्भबीजसमाक्षेपमाक्षेपं परिचक्षते । यत्र प्रलोभनक्रोधव्यसनाद्यैर्विमृश्यते ॥३.५८॥ बीजार्थो गर्भनिर्भिन्नः स विमर्श इतीर्यते । प्रकरीनियताप्त्यानुगुण्यादत्राङ्गकल्पनम् ॥३.५९॥ अपवादोऽ थ सम्फेटो विद्रवद्रवशक्तयः । द्युतिप्रसङ्गौ छलनव्यवसायौ निरोधनम् ॥३.६०॥ प्ररोचना विचलनमादानं स्युस्त्रयोदश । तत्रापवादो दोषाणां प्रख्यापनमितीर्यते ॥३.६१॥ दोषसङ्ग्रथितं वाक्यं सम्फेटं सम्प्रचक्षते । विरोधवधदाहादिर्विद्रवः परिकीर्तितः ॥३.६२॥ गुरुव्यतिक्रमं प्राह द्रवं तु भरतो मुनिः । उत्पन्नस्य विरोधस्य शमनं शक्तिरिष्यते ॥३.६३॥ द्युतिर्नाम समुद्दिष्टा तर्जनोद्वेजने बुधैः । प्रस्तुतार्थस्य कथनं प्रसङ्गः परिकीर्तितः ॥३.६४॥ प्रसङ्गं कथयन्त्यन्ये गुरूणां परिकीर्तनम् । अवमानादिकरणं कार्यार्थे छलनं विदुः ॥३.६५॥ व्यवसायः स्वसामर्थ्यप्रख्यापनमितीर्यते । विरोधनं निरोधोक्तिः संरब्धानां परस्परम् ॥३.६६॥ सिद्धवद्भाविनोऽ र्थस्य सूचना स्यात्प्ररोचना । आत्मश्लाघा विचलनमादानं कार्यसङ्ग्रहः ॥३.६७॥ मुखसन्ध्यादयो यत्र विकीर्णा बीजसंयुताः । महत्प्रयोजनं यान्ति तन्निर्वहणमुच्यते ॥३.६८॥ सन्धिविरोधौ ग्रथनं निर्णयः परिभाषणे प्रसादश्च । आनन्दसमयकृतयो भाषोपगूहने तद्वत् ॥३.६९॥ अथ पूर्वभावसयुजावुपसंहारप्रशस्ती च । इति निर्वहणस्याङ्गान्याहुरमीषां तु लक्षणं वक्ष्ये ॥३.७०॥ बीजोपगमनं सन्धिः कार्यान्वेषणं विरोधः स्यात् । ग्रथनं तदुपेक्षेपः स्यादनुभूतस्य निर्णयः कथनम् ॥३.७१॥ परिभाषा त्वन्योन्यं जल्पनमथवा परिवादः । शुश्रूषादिप्राप्तं प्रसादमाहुः प्रसन्नत्वम् ॥३.७२॥ अभिलषितार्थसमागममानन्दं प्राहुराचार्याः । समयो दुःखसङ्क्षयः कृतिरपि लब्धार्थसुस्थिरीकरणम् ॥३.७३॥ मानाद्याप्तिश्च भाषणमुपगूहनमद्भुतप्राप्तिः । दृष्टक्रमकार्यस्य स्याद्दृष्टिः पूर्वभावस्तु ॥३.७४॥ धर्मार्थाद्युपगमनादुपसंहारः कृतार्थताकथनम् । भरतैश्चराचराणामाशीराशंसनं प्रशस्तिः स्यात् ॥३.७५॥ रसभावानुरोधेन प्रयोजनमपेक्ष्य च । साफल्यं कार्यमङ्गानामित्याचार्याः प्रचक्षते ॥३.७६॥ केषांचिदेषामङ्गानां विकल्पं केचिदूचिरे । मुखादिसन्धिष्वङ्गानां क्रमोऽ यं न विवक्षितः ॥३.७७॥ क्रमस्यानादृतत्वेन भरतादिभिरादिमैः । लक्ष्येषु व्युत्क्रमेणापि कथनेन विचक्षणैः ॥३.७८॥ चतुःषष्ठिकलामर्मवेदिना सिंहभूभुजा । लक्षिता च चतुःषष्ठिर्बालरामायणे स्फुटम् ॥३.७९॥ मुखादिसन्धिष्वङ्गानामशैथिल्यप्रतीतये । सन्ध्यन्तराणि योज्यानि तत्र तत्रैकविंशतिः ॥३.८०॥ आचार्यान्तरसंमत्या चमत्कारोदयादपि । वक्ष्ये लक्षणमेतेषामुदाहृतिमपि स्फुटम् ॥३.८१॥ सामदाने भेददण्डौ प्रत्युत्पन्नमतिर्वधः । गोत्रस्खलितमोजश्च धीः क्रोधः साहसं भयम् ॥३.८२॥ माया च संवृतिर्भ्रान्तिर्दूत्यं हेत्ववधारणम् । स्वप्नलेखौ मदश्चित्रमित्येतान्येकविंशतिः ॥३.८३॥ तत्र साम प्रियं वाक्यं स्वानुवृत्तिप्रकाशनम् । दानमात्मप्रतिनिधिर्भूषणादिसमर्पणम् ॥३.८४॥ भेदस्तु कपटालापैः सुहृदां भेदकल्पनम् । दण्डस्त्वविनयादीनां दृष्ट्या श्रुत्याथ तर्जनम् ॥३.८५॥ तात्कालिकी च प्रतिभा प्रत्युत्पन्नमतिर्स्मृता । वधस्तु जीवितद्रोहक्रिया स्यादाततायिनः ॥३.८६॥ तद्गोत्रस्खलितं यत्तु नामव्यत्ययभाषणम् । ओजस्तु वागुपन्यासो निजशक्तिप्रकाशकः ॥३.८७॥ इष्टार्थसिद्धिपर्यन्ता चिन्ता धीरिति कथ्यते । क्रोधस्तु चेतसो दीप्तिरपराधादिदर्शनात् ॥३.८८॥ स्वजीवितनिराकाङ्क्षो व्यापारः साहसं भवेत् । भयं त्वाकस्मिकत्रासः माया कैतवकल्पना ॥३.८९॥ संवृत्तिः स्वयमुक्तस्य स्वयं प्रच्छादनं भवेत् । भ्रान्तिर्विपर्ययज्ञानं प्रसङ्गस्य ह्यनिश्चयात् ॥३.९०॥ दूत्यं तु सहकारित्वं दुर्घटे कार्यवस्तुनि । निश्चयो हेतुनार्थस्य मतं हेत्ववधारणम् ॥३.९१॥ स्वप्नो निद्रान्तरे मन्त्रभेदकृद्वचनं मतम् । विवक्षितार्थकलिता पत्रिका लेख ईरितः ॥३.९२॥ मदस्तु मद्यजः चित्रं चाकार्स्य विलेखनम् । भागकल्पनयाङ्गानां मुखप्रमुखसन्धिषु ॥३.९३॥ प्रत्येकं नियतत्वेन योज्या तत्रैव कल्पना । सन्ध्यन्तराणां विज्ञेयः प्रयोगस्त्वविभागतः ॥३.९४॥ तथैव दर्शनादेषामनैयत्येन सन्धिषु । तदेषामविचारेण कथितो दशरूपके ॥३.९५॥ सन्ध्यन्तराणामङ्गेषु नान्तर्भावो मतो मम । सामाद्युपायदक्षेण सन्ध्यादिगुणशोभिता ॥३.९६॥ निर्व्यूढं सिंहभूपेन सन्ध्यन्तरनिरूपणम् । एवमङ्गैरुपाङ्गैश्च सुश्लिष्टं रूपकश्रियः ॥३.९७॥ शरीरं वस्त्वलङ्कुर्यात्षट्त्रिंशद्भूषणैः स्फुटम् । भूषणाक्षरसङ्घातौ हेतुः प्राप्तिरुदाहृतिः ॥३.९८॥ शोभा संशयदृष्टान्तावभिप्रायो निदर्शनम् । सिद्धिप्रसिद्धी दाक्षिण्यमर्थापत्तिर्विशेषणम् ॥३.९९॥ पदोच्चयस्तुल्यतर्को विचारस्तद्विपर्ययः । गुणातिपातोऽ तिशयो निरुक्तं गुणकीर्तनम् ॥३.१००॥ गर्हणानुनयो भ्रंशो लेशक्षोभौ मनोरथः । अनुक्तिसिद्धिः सारूप्यं माला मधुरभाषणम् ॥३.१०१॥ पृच्छोपदिष्टदृष्टानि षट्त्रिंशद्भूषणानि हि । गुणालङ्कारबहुलं भाषणं भूषणं मतम् ॥३.१०२॥ वाक्यमक्षरसङ्घातो भिन्नार्थं श्लिष्टवर्णकम् । स हेतुरिति निर्दिष्टो यत्साध्यार्थप्रसाधकः ॥३.१०३॥ एकदेशपरिज्ञानात्प्राप्तिः शेषाभियोजनम् । वाक्यं यद्गूढतुल्यार्थं तदुदाहरणं मतम् ॥३.१०४॥ शोभा स्वभावप्राकट्यं यूनोरन्योन्यमुच्यते । अनिश्चयान्तं यद्वाक्यं संशयः स निगद्यते ॥३.१०५॥ स्वपक्षे दर्शनं हेतोर्दृष्टान्तः साध्यसिद्धये । अभिप्रायस्त्वभूतार्थो हृद्यः साम्येन कल्पितः ॥३.१०६॥ अभिप्रायं परे प्राहुर्ममतां हृद्यवस्तुनि । यथार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ॥३.१०७॥ परोपेक्षाव्युदासार्थं तन्निदर्शनमुच्यते । अतर्कितोपपन्नः स्यात्सिद्धिरिष्टार्थसङ्गमः ॥३.१०८॥ प्रसिद्धिर्लोकविख्यातैर्वाक्यैरर्थप्रसाधनम् । चित्तानुवर्तनं यत्र तद्दाक्षिण्यमितीरितम् ॥३.१०९॥ उक्तार्थानुपपत्त्याऽन्यो यस्मिन्नर्थः प्रकल्प्यते । वाक्यमाधुर्यसंयुक्ता सार्थापत्तिरुदाहृता ॥३.११०॥ सिद्धान् बहून् प्रधानार्थानुक्त्वा यत्र प्रयुज्यते । विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥३.१११॥ बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः । उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥३.११२॥ रूपकैरुपमाभिर्वा तुल्यार्थाभिः प्रयोजितः । अप्रत्यक्षार्थसंस्पर्शस्तुल्यतर्क इतीरितः ॥३.११३॥ विचारस्त्वेकसाध्यस्य बहुसाधनवर्णनम् । विचारस्यान्यथाभावो विज्ञेयस्तद्विपर्ययः ॥३.११४॥ [*३] सिद्धसद्भावना मता. गुणातिपातो व्यत्यस्तगुणाख्यानमुदाहृतम् । बहून् गुणान् कीर्तयित्वा सामान्येन च संश्रयान् ॥३.११५॥ विशेषः कीर्त्यते यत्र ज्ञेयः सोऽ तिशयो बुधैः । निरुक्तिर्निरवद्योक्तिर्नामान्यर्थप्रसिद्धये ॥३.११६॥ लोके गुणातिरिकानां बहूनां यत्र नामभिः । एकोऽ पि शब्द्यते तत्तु विज्ञेयं गुणकीर्तनम् ॥३.११७॥ यत्र सङ्कीर्तयन् दोषान् गुणमर्थेन दर्शयेत् । गुणान् वा कीर्तयन् दोषान् दर्शयेद्गर्हणं तु तत् ॥३.११८॥ अभ्यर्थनापरं वाक्यं विज्ञेयोऽ नुनयो बुधैः । पतनं प्रकृतादर्थादन्यस्मिन् भ्रंश ईरितः ॥३.११९॥ लेशः स्यादिङ्गितज्ञानकृद्विशेषणवद्वचः । क्षोभस्त्वन्यगते हेतावन्यस्मिन् कार्यकल्पनम् ॥३.१२०॥ मनोरथस्तु व्याजेन विवक्षितनिवेदनम् । प्रस्तावनैव शेषोऽ र्थो यत्रानुक्तोऽ पि गृह्यते ॥३.१२१॥ अनुक्तसिद्धिरेषा स्यादित्याह भरतो मुनिः[*४] । दृष्टश्रुतानुभूतार्थकथनादिसमुद्भवम् ॥३.१२२॥ सादृश्यं यत्र सङ्क्षोभात्तत्सारूप्यं निरूप्यते । ईप्सितार्थप्रसिद्ध्यर्थं कथ्यन्ते यत्र सूरिभिः ॥३.१२३॥ प्रयोजनान्यनेकानि सा मालेत्यभिधीयते । यत्प्रसन्नेन सारूप्यं यत्र पूजयितुं वचः ॥३.१२४॥ स्तुतिप्रकाशनं तत्तु स्मृतं मधुरभाषणम् । प्रश्नेनैवोत्तरं यत्र सा पृच्छा परिकीर्तिता ॥३.१२५॥ प्रतिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते । विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते ॥३.१२६॥ यथादेशं यथाकालं यथारूपं च वर्ण्यते । यत्प्रत्यक्षं परोक्षं वा तद्दृष्टं दृष्टवन्मतम् ॥३.१२७॥ [*४] नाट्१६.१६९ = प्रस्तावेनैव शेषोऽ र्थः कृत्स्नो यन्न प्रतीयते । वचनेन विनानुक्तसिद्धिः सा परिकीर्तिता ॥ श्रीसिंहभूपेन कवीश्वराणां विश्राणितानेकविभूषणेन । षट्त्रिंशदुक्तानि हि भूषणानि सलक्ष्मलक्ष्याणि मुनेर्मतेन ॥३.१२८॥ साक्षदेवोपदेशेन प्रायो धर्मसमन्वयात् । अङ्गाङ्गिभावसम्पन्नसमस्तरससंश्रयात् ॥३.१२९॥ प्रकृत्यवस्थासन्ध्यादिसम्पत्त्युपनिबन्धनात् । आहुः प्रकरणादीनां नाटकं प्रकृतिं बुधाः ॥३.१३०॥ अतिदेशबलप्रापतनाटकाङ्गोपजीवनात् । अन्यानि रूपकाणि स्युर्विकारा नाटकं प्रति ॥३.१३१॥ अतो हि लक्षणं पूर्वं नाटकस्याभिधीयते । दिव्येन वा मानुषेण धीरोदात्तेन संयुतम् ॥३.१३२॥ शृङ्गारवीरान्यतरप्रधानरससंश्रयम् । ख्यातेति वृत्तसम्बद्धं सन्धिपञ्चकसंयुतम् ॥३.१३३॥ प्रकृत्यवस्थासन्ध्यङ्गसन्ध्यन्तरविभूषणैः । पताकास्थानकैर्वृत्तितदङ्गैश्च प्रवृत्तिभिः ॥३.१३४॥ विष्कम्भकादिभिर्युक्तं नाटकं तत्त्रिवर्गदम् । तदेतन्नाटकारम्भप्रकारो वक्ष्यते मया ॥३.१३५॥ विधेर्यथैव सङ्कल्पो मुखतां प्रतिपद्यते । प्रधानस्य प्रबन्धस्य तथा प्रस्तावना स्मृता ॥३.१३६॥ अर्थस्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते । प्रस्तावनायास्तु मुखे नान्दी कार्या शुभावहा ॥३.१३७॥ आशीर्नमस्क्रियावस्तुनिर्देशान्यतमा स्मृता । चन्द्रनामाङ्किता प्रायो मङ्गलार्थपदोज्ज्वला ॥३.१३८॥ अष्टाभिर्दशभिश्चेष्टा सेयं द्वादशभिः पदैः । समैर्वा विषमैर्वापि प्रयोज्येत्यपरे जगुः ॥३.१३९॥ नान्द्यन्ते तु प्रविष्टेन सूत्रधारेण धीमता । प्रसाधनाय रङ्गस्य वृत्तिर्योज्या हि भारती ॥३.१४०॥ अङ्गान्यस्याश्च चत्वारि भरतेनावभाषिरे । प्ररोचनामुखे चैव वीथीप्रहसने इति ॥३.१४१॥ वीथी प्रहसनं स्वस्वप्रसङ्गे वक्ष्यते स्फुटम् । प्ररोचना तु सा प्रोक्ता प्रकृतार्थप्रशंसया ॥३.१४२॥ सदस्यचित्तवृत्तीनां संमुखीकरणं च यत् । प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया ॥३.१४३॥ अचेतनौ देशकालौ कालो मधुशरन्मुखः । देशस्तु देवताराजतीर्थस्थानादिरुच्यते ॥३.१४४॥ तदद्य कालनाथस्य यात्रेत्यादिषु लक्ष्यताम् । चेतनास्तु कथानाथकविसभ्यनटाः स्मृताः ॥३.१४५॥ कथानाथास्तु धर्मार्थरसमोक्षोपयोगिनः । धर्मोपयोगिनस्तत्र युधिष्ठिरनलादयः ॥३.१४६॥ अर्थोपयोगिनो रुद्रनरसिंहनृपादयः । रसोपयोगिनो विद्याधरवत्सेश्वरादयः ॥३.१४७॥ मोक्षोपयोगिनो रामवासुदेवादयो मताः । एके त्वभेदमिच्छन्ति धर्ममोक्षोपयोगिनोः ॥३.१४८॥ कवयस्तु प्रबन्धारस्ते भवेयुश्चतुर्विधाः । उदात्त उद्धतः प्रौढो विनीत इति भेदतः ॥३.१४९॥ अन्तर्गूढाभिमानोक्तिरुदात्त इति गीयते । परापवादात्स्वोत्कर्षवादी तूद्धत उच्यते ॥३.१५०॥ यथोचितनिजोत्कर्षवादी प्रौढ इतीरितः । युक्त्या निजोत्कर्षवादी प्रौढ इत्यपरैः स्मृतः ॥३.१५१॥ विनीतो विनयोत्कर्षात्स्वापकर्षप्रकाशकः । सभ्यास्तु विबुधैर्ज्ञेया ये दिदृक्षानिव्ता जनाः ॥३.१५२॥ तेऽ पि द्विधा प्रार्थनीयाः प्रार्थकिति च स्फुटम् । इदं प्रयोक्ष्ये युष्माभिरनुज्ञा दीयतामिति ॥३.१५३॥ सम्प्रार्थ्याः सूत्रधारेण प्रार्थनीया इति स्मृताः । त्वया प्रयोगः क्रियतामित्युत्कण्ठितचेतसः ॥३.१५४॥ ये सूत्रिणं प्रार्थयन्ते ते सभ्याः प्रार्थकाः स्मृताह् । रङ्गोपजीविनः प्रोक्ता नटास्तेऽ पि त्रिधा स्मृताः ॥३.१५५॥ वादका गायकाश्चैव नर्तकाश्चेति कोविदैः । वीणावेणुमृदङ्गादिवादका वादकाः स्मृताः ॥३.१५६॥ आलापनध्रुवागीतगायका गायका मताः । नानाप्रकाराभिनयकर्तारो नर्तकाः स्मृताः ॥३.१५७॥ विस्तरादुत सङ्क्षेपात्प्रयुञ्जीत प्ररोचनाम् । एवं प्ररोचयन् सभ्यान् सूत्री कुर्यादथामुखम् ॥३.१५८॥ सूत्रधारो नटीं ब्रूते स्वकार्यं प्रति युक्तितः । प्रस्तुताक्षेपचित्रोक्त्या यत्तदामुखमीरितम् ॥३.१५९॥ त्रीण्यामुखाङ्गान्युच्यन्ते कथोद्घातः प्रवर्तकः । प्रयोगातिशयश्चेति तेषां लक्षणमुच्यते ॥३.१६०॥ सूत्रिणो वाक्यमर्थं वा स्वेतिवृत्तसमं यदा । स्वीकृत्य प्रविशेत्पात्रं कथोद्घातो द्विधा मतः ॥३.१६१॥ आक्षिप्तं कालसाम्येन प्रवृत्तिः स्यात्प्रवर्तकम् । एषोऽ यमित्युपक्षेपात्सूत्रधारप्रयोगतः ॥३.१६२॥ प्रयोगसूचनं यत्र प्रयोगातिशयो हि सः । प्रस्तावनास्थापनेति द्विधा स्यादिदमामुखम् ॥३.१६३॥ विदूषकनटीपारिपार्श्विकैः सह संलापन् । स्तोकवीथ्यङ्गसहितान्यामुखाङ्गानि सूत्रभृत् ॥३.१६४॥ योजयेद्यत्र नाट्यज्ञैरेषा प्रस्तावना स्मृता । सर्वामुखाङ्गवीथ्यङ्गसमेतैर्वाक्यविस्तरैः ॥३.१६५॥ सूत्रधारो यत्र नटीविदूषकनटादिभिः । संलपन प्रस्तुतं चार्थमाक्षिपेत्स्थापना हि सा ॥३.१६६॥ शृङ्गारप्रचुरे नाट्ये योग्यः स्यादामुखक्रमः । रत्नावल्य्दिके प्रायो लक्ष्यतां कोविदैरयम् ॥३.१६७॥ वीराद्भुतादि प्राये तु प्रायः प्रस्तावनोचिता । अनर्घराघवाद्येषु प्रायशो वीक्ष्यतामियम् ॥३.१६८॥ हास्यबीभत्सरौद्रादिप्राये तु स्थापना मता । वीरभद्रविजृम्भादौ सा प्रायेण समीक्ष्यताम् ॥३.१६९॥ कथितान्यामुखाङ्गानि वीथ्यङ्गानि प्रचक्ष्महे । आमुखेऽ पि च वीथ्यां च साधारण्येऽ पि संमतः ॥३.१७०॥ वीथ्यङ्गसंप्रथा तेषां वीथ्यामावश्यकत्वतः । उद्घात्यकावलगितप्रपञ्चत्रिगते छलम् ॥३.१७१॥ वाक्केल्यधिबले गण्डमवस्यन्दितनालिके । असत्प्रलापव्याहारौ मृदवं च त्रयोदश ॥३.१७२॥ तत्रोद्घात्यकमन्योन्यालापमाला द्विधा हि तत् । गूढारथपदपर्यायक्रमात्प्रश्नोत्तरक्रमात् ॥३.१७३॥ द्विधावलगितं प्रोक्तमर्थावलगनात्मकम् । अन्यप्रसङ्गादन्यस्य संसिद्धिः प्रकृतस्य व ॥३.१७४॥ प्रपञ्चस्तु मिथः स्तोत्रमसद्भूतं च हास्यकृत् । श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं भवेत् ॥३.१७५॥ प्रोक्तं छलं ससोत्प्रासैः प्रियाभासैर्विलोभनम् । साकाङ्क्षस्यैव वाक्यस्य वाक्केलिः स्यात्समाप्तितः ॥३.१७६॥ स्पर्धयान्योन्यसामर्थ्यव्यक्तिस्त्वधिबलं भवेत् । गण्डं प्रस्तुतसम्बन्धि भिन्नार्थं सहसोदितम् ॥३.१७७॥ पूर्वोक्तस्यान्यथा व्याख्या यत्रावस्यन्दितं हि तत् । प्रहेलिका निगूढार्था हास्यार्थं नालिका स्मृता ॥३.१७८॥ अन्तर्लापा बहिर्लापेत्येषा द्वेधा समीरिता । असम्बद्धकथालापोऽ सत्प्रलाप इतीरितः ॥३.१७९॥ अन्यार्थं वचनं हास्यकरं व्याहार उच्यते । दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत् ॥३.१८०॥ एवमामुखमायोज्य सूत्रधारे सहानुगे । निष्क्रान्तेऽ थत्तदाक्षिप्तैः पात्रैर्वस्तु प्रपञ्चयेत् ॥३.१८१॥ वस्तु सर्वं द्विधा सूच्यमसूच्यमिति भेदतः । रसहीनं भवेदत्र वस्तु तत्सूच्यमुच्यते ॥३.१८२॥ यद्वस्तु नीरसं तत्तु सूचयेत्सूचकास्त्वमी । विष्कम्भचूलिकाङ्कास्याङ्कावतारप्रवेशकाः ॥३.१८३॥ तत्र विष्कम्भो भूतभाविवस्त्वंशसूचकः । अमुख्यपात्ररचितः सङ्क्षेपैकप्रयोजनः ॥३.१८४॥ स शुद्धो मिश्र इत्युक्तो मिश्रः स्यान्नीचमध्यमैः । सोऽ यं चेटीनटाचार्यसंलापपरिकल्पितः ॥३.१८५॥ मालविकाग्निमित्रस्य प्रथमाङ्के निरूप्यताम् । शुद्धः केवलमध्योऽ यमेकानेककृतो द्विधा ॥३.१८६॥ रत्नावल्यामेकशुद्धः प्राप्तयौगन्धरायणः । अनेकशुद्धो विष्कम्भः षष्ठाङ्केऽ नर्घराघवे ॥३.१८७॥ निरूप्यतां सम्प्रयुक्तो माल्यवच्छुकसारणैः । वन्दिमागधसूताद्यैः प्रतिसीरान्तरस्थितैः ॥३.१८८॥ अर्थोपक्षेपणं यत्तु क्रियते सा हि चूलिका । सा द्विधा चूलिका खण्डचूलिका चेति भेदतः ॥३.१८९॥ पात्रैर्यवनिकान्तःस्थैः केवलं या तु निर्मिता । आदावङ्कस्य मध्ये वा चूलिका नाम सा स्मृता ॥३.१९०॥ प्रवेशनिर्गमाभावादियमङ्काद्बहिर्गता । रङ्गनेपथसंस्थायिपात्रसंलापविस्तरैः ॥३.१९१॥ आदौ केवलमङ्कस्य कल्पिता खण्डचूलिका । प्रवेशनिर्गमाप्राप्तेरियमङ्काद्बहिर्गता ॥३.१९२॥ एनां विष्कम्भमेवान्ये प्राहुर्नैतन्मतं मम । अप्रविष्टस्य संलापो विष्कम्भे न हि युज्यते ॥३.१९३॥ तद्विष्कम्भशिरस्कत्वान्मतेयं खण्डचूलिका । पूर्वाङ्कान्ते सम्प्रविष्टैः पात्रैर्भाव्यङ्कवस्तुनः ॥३.१९४॥ सूचनं तदविच्छित्यै यत्तदङ्कास्यमीरितम् । यथा हि वीरचरिते द्वितीयाङ्कावसानके ॥३.१९५॥ प्रविष्टेन सुमन्त्रेण सूचितं रामविग्रहे । वसिष्ठविश्वामित्रादिसमाभाषणलक्षणम् ॥३.१९६॥ वस्तूत्तराङ्के पूर्वार्थाविच्छेदेनैव कल्पितम् । अङ्कावतारः पात्राणां पूर्वकार्यानुवर्तिनाम् ॥३.१९७॥ अविभागेन सर्वेषां भाविन्यङ्के प्रवेशनम् । द्वितीयाङ्के मालविकाग्निमित्रे स निरूप्यताम् ॥३.१९८॥ पात्रेणाङ्कप्रविष्टेन केवलं सूचितत्वतः । भवेदङ्कादबाह्यत्वमङ्कास्याङ्कावतारयोः ॥३.१९९॥ यन्नीचैः केवलं पात्रैर्भाविभूतार्थसूचनम् । अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥३.२००॥ सोऽ यं चेटिद्वयालापसंविधानोपकल्पितः । मालतीमाधवे प्राज्ञैर्द्वितीयाङ्के निरूप्यताम् ॥३.२०१॥ असूच्यं तु शुभोदात्तरसभावनिरन्तरम् । प्रारम्भे यद्यसूच्यं स्यादङ्कमेवात्र कल्पयेत् ॥३.२०२॥ रसालङ्कारवस्तूनामुपलालनकाङ्क्षिणाम् । जनन्यङ्कवदाधारभूतत्वादङ्क उच्यते ॥३.२०३॥ अङ्कस्तु पञ्चषैर्द्वित्रैरङ्गिनोऽ ङ्गस्य वस्तुनः । रसस्य वा समालम्बभूतैः पात्रैर्मनोहरः ॥३.२०४॥ संविधानविशेषः स्यात्तत्रासूच्यं प्रपञ्चयेत् । असूच्यं तद्द्विधा दृश्यं श्राव्यं चाद्यं तु दर्शयेत् ॥३.२०५॥ द्वेधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः । स्वगतं स्वैकविज्ञेयं प्रकाशं तद्द्विधा भवेत् ॥३.२०६॥ सर्वप्रकाशं नियतप्रकाशं चेति भेदतः । सर्वप्रकाशं सर्वेषां स्थितानां श्रवणोचितम् ॥३.२०७॥ द्वितीयं तु स्थितेष्वप्येष्वेकस्य श्रवणोचितम् । द्विधा विभाव्यतेऽ न्यच्च जनान्तमपवारितम् ॥३.२०८॥ त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् । अन्येनामन्त्रणं यत्स्यात्तज्जनान्तिकमुच्यते ॥३.२०९॥ रहस्यं कथ्यतेऽ न्यस्य परावृत्यापवारितम् । इत्थं श्राव्यं च दृश्यं च प्रयुज्य सुसमाहितैः ॥३.२१०॥ पात्रैर्निष्क्रमणं कार्यमङ्कान्ते सममेव हि । अङ्कच्छेदश्च कर्तव्यः कालावस्थानुरोधतः ॥३.२११॥ दिनार्धदिनयोर्योग्यमङ्के वस्तु प्रवर्तयेत् । अङ्कप्रसङ्गाद्गर्भाङ्कलक्षणं वक्ष्यते मया ॥३.२१२॥ रसनायकवस्तूनां महोत्कर्षाय कोविदैः । अङ्कस्य मध्ये योऽ ङ्कः स्यादसौ गर्भाङ्क ईरितः ॥३.२१३॥ वस्तुसूचकनान्दीको दिङ्मात्रमुखसङ्गतः । अर्थोपक्षेपकैर्हीनश्चूलिकापरिवर्जितैः ॥३.२१४॥ अनेष्यद्वस्तुविषयः पात्रैश्त्रिचतुरैर्युतः । नातिप्रपञ्चेतिवृत्तः स्वाधाराङ्काङ्गशोभितः ॥३.२१५॥ प्रस्तुतार्थानुबन्धी च पात्रनिष्क्रमणावधिः । प्रथमाङ्के न कर्तव्यः सोऽ यं काव्यविशारदैः ॥३.२१६॥ सोऽ यमुत्तररामे तु रसोत्कर्षाय कथ्यताम् । नेतुरुत्कर्षको ज्ञेयो बालरामायणे त्वयम् ॥३.२१७॥ अमोघराघवे सोऽ यं वस्तूत्कर्षैककारणम् । नाटकेऽ ङ्का न कर्तव्याः पञ्चन्यूना दशाधिकाः ॥३.२१८॥ तदीदृशगुणोपेतं नाटकं भुक्तिमुक्तिदम् । तथा च भरतः धर्मार्थसाधनं नाट्यं सर्वदुःखापनोदकृत् । आसेवध्वं तदृषयस्तस्योत्थानं तु नाटकम् ॥िति॥ नाटकस्य तु पूर्णादिभेदाः केचन कल्पिताः ॥३.२१९॥ तेषां नातीव रम्यत्वादपरीक्षाक्षमत्वतः । मुनिनानादृतत्वाच्च तानुद्देष्टुमुदास्महे ॥३.२२०॥ अथ प्रकरणम् यत्रेतिवृत्तमुत्पाद्यं धीरशान्तश्च नायकः । रसः प्रधानं शृङ्गारः शेषं नाटकवद्भवेत् ॥३.२२१॥ तद्धि प्रकरणं शुद्धं धूर्तं मिश्रं च तत्त्रिधा । कुलस्त्रीनायकं शुद्धं मालतीमाधवादिकम् ॥३.२२२॥ गणिकानायिकं धूर्तं कामदत्ताह्वयादिकम् । कितवध्य्पुतकारादिव्यापारं त्वत्र कल्पयेत् ॥३.२२३॥ मिश्रं तत्कुलजावेश्ये कल्पिते यत्र नायिके । धूर्तशुद्धक्रमोपेतं तन्मृच्छकटिकादिकम् ॥३.२२४॥ नाटिका त्वनयोर्भेदो न पृथग्रूपकं भवेत् । प्रख्यातं नृपतेर्वृत्तं नाटकादाहृतं यतः ॥३.२२५॥ बुद्धिकल्पितवस्तुत्वं तथा प्रकरणादपि । विमर्शसन्धिराहित्यं भेदकं चेन्न तन्मतम् ॥३.२२६॥ रत्नावल्यादिके लक्ष्ये तत्सन्धेरपि दर्शनात् । स्त्रीप्रायचतुरङ्कादिभेदकं चेन्न तन्मतम् ॥३.२२७॥ एकद्वित्र्यङ्कपात्रादिभेदेनानन्तता यतः । देवीवशात्सङ्गमेन भेदश्चेत्तन्न युज्यते । मालविकाग्निमित्रादौ नाटिकात्वप्रसङ्गतः ॥३.२२८॥ प्रकरणिकानाटिकयोरनुसरणीया हि नाटिकासरणिः । अत एव भरतमुनिना नाट्यं दशधा निरूपितं पूर्वम् ॥३.२२९॥ ख्यातेन वा कल्पितेन वस्तुना प्राकृतैर्नरैः । अन्वितः कैशिकीहीनः सात्त्वत्यारभटीमृदुः ॥३.२३०॥ स्त्रीणां विलापव्यापारैरुपेतः करुणाश्रयः । नानासङ्ग्रामसंनाहप्रहारमरणोत्कटः ॥३.२३१॥ मुखनिर्वाहवान् यः स्यादेकद्वित्र्यङ्क इच्छया । उत्सृष्टिकाङ्कः स ज्ञेयः सविष्कम्भप्रवेशकः ॥३.२३२॥ अस्मिन्नमङ्गलप्राये कुर्यान्मङ्गलमन्ततः । प्रयोज्यस्य वधः कार्यः पुनरुज्जीवनावधिः ॥३.२३३॥ उज्जीवनादप्यधिकं मनोरथफलोऽ पि वा । विज्ञेयमस्य लक्ष्यं तु करुणाकन्दलादिकम् ॥३.२३४॥ खातेतिवृत्तसम्पन्नो निःसहायकनायकः । युक्तो दशावरैह्ख्यातैरुद्धतैः प्रतिनायकैः ॥३.२३५॥ विमर्शगर्भरहितो भारत्यारभटीस्फुटः । हास्यशृङ्गाररहित एकाङ्को रौद्रसंश्रयः ॥३.२३६॥ एकवासरवृत्तान्तः प्राप्तविष्कम्भचूलिकः । अस्त्रीनिमित्तसमरो व्यायोगः कथितो बुधैः ॥३.२३७॥ विज्ञेयमस्य लक्ष्यं तु धनञ्जयजयादिकम् । स्वस्य वान्यस्य वा वृत्तं विटेन निपुणोक्तिना ॥३.२३८॥ शौर्यसौभाग्यसंस्तुत्या वीरशृङ्गारसूचकम् । बुद्धिकल्पितमेकाङ्कं मुखनिर्वहणान्वितम् ॥३.२३९॥ वर्ण्यते भारतीवृत्त्या यत्र तं भाणमीरते । एकपात्रप्रयोज्येऽ स्मिन् कुर्यादाकाशभाषितम् ॥३.२४०॥ अन्येनानुक्तमप्यन्यो वचः श्रुत्वेव यद्वदेत् । इति किं भणसीत्येतद्भवेदाकाशभाषितम् ॥३.२४१॥ लास्याङ्गानि दशैतस्मिन् संयोज्यान्यत्र तानि तु । गेयपदं स्थितपाठ्यमासीनं पुष्पगन्धिका ॥३.२४२॥ प्रच्छेदकस्त्रिमूढं च सैन्धवाख्यं द्विमूढकम् । उत्तमोत्तमकं चान्यदुक्तप्रत्युक्तमेव च ॥३.२४३॥ वीणादिवादनेनैव सहितं यत्र भाव्यते । ललितं नायिकागीतं तद्गेयपदमुच्यते ॥३.२४४॥ चञ्चत्पुटादिना वाक्याभिनयो नायिकाकृतः । भूमिचारीप्रचारेण स्थितपाठ्यं तदुच्यते ॥३.२४५॥ भ्रूनेत्रपाणिचरणविलासाभिनयान्वितम् । योज्यमासीनया पाठ्यमासीनं तदुदाहृतम् ॥३.२४६॥ नानाविधेन वाद्येन नानाताललयान्वितम् । लास्यं प्रयुज्यते यत्र सा ज्ञेया पुष्पगन्धिका ॥३.२४७॥ अन्यासङ्गमशङ्किन्या नायकस्यातिरोषया । प्रेमच्छेदप्रकटनं लास्यं प्रच्छेदकं विदुः ॥३.२४८॥ अनिष्ठुरश्लक्ष्णपदं समवृत्तैरलङ्कृतम् । नाट्यं पुरुषभावाढ्यं त्रिमूढकमुदाहृतम् ॥३.२४९॥ देशभाषाविशेषेण चलद्वलयशृङ्खलम् । लास्यं प्रयुज्यते यत्र तत्सैन्धवमिति स्मृतम् ॥३.२५०॥ चारीभिर्ललिताभिश्च चित्रार्थाभिनयान्वितम् । स्पष्टभावरसोपेतं लास्यं यत्तद्द्विमूढकम् ॥३.२५१॥ अपरिज्ञातपार्श्वस्थं गेयभावविभूषितम् । लास्यं सोत्कण्ठवाक्यं तदुत्तमोत्तमकं भवेत् ॥३.२५२॥ कोपप्रसादजनितं साधिक्षेपपदाश्रयम् । वाक्यं तदुक्तप्रत्युक्तं यूनोः प्रश्नोत्तरात्मकम् ॥३.२५३॥ शृङ्गारमञ्जरीमुख्यमस्योदाहरणं मतम् । लास्याङ्गदशकं तत्र लक्ष्यं लक्ष्यविचक्षणैः ॥३.२५४॥ प्रख्यातेनेतिवृत्तेन नायकैरपि तद्विधैः । पृथक्प्रयोजनासक्तैर्मिलितैर्देवदानवैः ॥३.२५५॥ युक्तं द्वादशभिर्वीरप्रधानं कैशिकीमृदु । त्र्यङ्कं विमर्शहीनं च कपटत्रयसंयुतम् ॥३.२५६॥ त्रिविद्रवं त्रिशृङ्गारं विद्यात्समवकारकम् । मोहात्मको भ्रमः प्रोक्तः कपटस्त्रिविधस्त्वयम् ॥३.२५७॥ सत्त्वजः शत्रुजो दैवजनितश्चेति सत्त्वजः । क्रूरप्राणिसमुत्पन्नः शत्रुजस्तु रणादिजः ॥३.२५८॥ वात्यावर्षादिसम्भूतो दैवजः कपटः स्मृतः । उदाहरणमेतेषामावेगे लक्ष्यतां बुधैः ॥३.२५९॥ जीवग्राहोऽ पि मोहो वा कपटाद्विद्रवस्ततः । कपटत्रयसम्भूतेरयं च त्रिविधो मतः ॥३.२६०॥ धर्मार्थकामसम्बद्धस्त्रिधा शृङ्गार ईरितः । व्रतादिजनितः कामो धर्मशृङ्गार ईरितः ॥३.२६१॥ पार्वतीशिवसम्भोगस्तदुदाहरणं मतम् । यत्र कामेन सम्बद्धैरर्थैरर्थानुबन्धिभिः ॥३.२६२॥ भुज्यमानैः सुखप्राप्तिरर्थशृङ्गार ईरितः । सार्वभौमफलप्राप्तिहेतुना वत्सभूपतेः ॥३.२६३॥ रत्नावल्या समं भोगो विज्ञेया तदुदाहृतिः । दुरादरसुरापानपरदारादिकेलिजः ॥३.२६४॥ तत्तदास्वादललितः कामशृङ्गार ईरितः । तदुदाहरणं प्रायो दृश्यं प्रसनादिषु ॥३.२६५॥ शृङ्गारत्रितयं तत्र नात्र बिन्दुप्रवेशकौ । मुखप्रतिमुखे सन्धी वस्तु द्वादशनाडिकम् ॥३.२६६॥ प्रथमे कल्पयेदङ्के नाडिका घटिकाद्वयम् । मुखादिसन्धित्रयवांश्चतुर्नाडिकवस्तुकः ॥३.२६७॥ द्वितीयाङ्कस्तृतीयस्तु द्विनाडिककथाश्रयः । निर्विमर्शचतुःसन्धिरेवमङ्कास्त्रयः स्मृताः ॥३.२६८॥ वीथीप्रहसनाङ्गानि कुर्यादत्र समासतः । प्रस्तावनायाः प्रस्तावे प्रोक्तो वीथ्यङ्गविस्तरः ॥३.२६९॥ दश प्रहसनाङ्गानि तत्प्रसङ्गे प्रचक्ष्महे । उदाहरणमेतस्य पयोधिमथनादिकम् ॥३.२७०॥ सूच्यप्रधानशृङ्गारा मुखनिर्वहणान्विता । एकयोज्या द्वियोज्या वा कैशिकीवृत्तिनिर्मिता ॥३.२७१॥ वीथ्यङ्गसहितैकाङ्का वीथीति कथिता बुधैः । अस्यां प्रायेण लास्याङ्गदशकं योजयेन्न वा ॥३.२७२॥ सामान्या परकीया वा नायिकात्रानुरागिणी । वीथ्यङ्गप्रायवृत्तित्वान्नोचिता कुलपालिका ॥३.२७३॥ लक्ष्यमस्यास्तु विज्ञेयं माधवीवीथिकादिकम् । वस्तुसन्ध्यङ्कलास्याङ्गवृत्तयो यत्र भाणवत् ॥३.२७४॥ रसो हास्यः प्रधानं स्यादेतत्प्रहसनं मतम् । विशेषेण दशाङ्गानि कल्पयेदत्र तानि तु ॥३.२७५॥ अवगलितावस्कन्दौ व्यवहारो विप्रलम्भ उपपत्तिः । भयमनृतं विभ्रान्तिर्गद्गदवाक्च प्रलापश्च ॥३.२७६॥ पूर्वमात्मगृहीतस्य समाचारस्य मोहतः । दूषणं त्यजनं चात्र द्विधावगलितं मतम् ॥३.२७७॥ अवस्कन्दस्त्वनेकेषामयोग्यस्यैकवस्तुनः । सम्बन्धाभासकथनात्स्वस्वयोग्यत्वयोजना ॥३.२७८॥ व्यवहारस्तु संवादो द्वित्राणां हास्यकारणम् । विप्रलम्भो वञ्चना स्याद्भूतावेशादिकैतवात् ॥३.२७९॥ उपपत्तिस्तु सा प्रोक्ता यत्प्रसिद्धस्य वस्तुनः । लोकप्रसिद्धया युक्त्या साधनं हास्यहेतुना ॥३.२८०॥ स्मृतं भयं तु नगरशोधकादिकृतो दरः । अनृतं तु भवेद्वाक्यमसभ्यस्तुतिगुम्फितम् ॥३.२८१॥ तदेवानृतमित्याहुरपरे स्वमतस्तुतेः । वस्तुसाम्यकृतो मोहो विभ्रान्तिरिति गीयते ॥३.२८२॥ असत्यरुदितोन्मिश्रं वाक्यं गद्गदवाग्भवेत् । प्रलापः स्यादयोग्यस्य योग्यत्वेनानुमोदनम् ॥३.२८३॥ शुद्धं कीर्णं वैकृतं च तच्च प्रहसनं त्रिधा । शुद्धं श्रोत्रियशाखादेर्वेषभाषादिसंयुतम् ॥३.२८४॥ चेटचेटीजनव्याप्तं तल्लक्ष्यं तु निरूप्यताम् । आनन्दकोशप्रमुखं तथा भगवदज्जुकम् ॥३.२८५॥ कीर्णं तु सर्वैर्वीथ्यङ्गैः सङ्कीर्णं धूर्तसङ्कुलम् । तस्योदाहरणं ज्ञेयं बृहत्सौभद्रकादिकम् ॥३.२८६॥ यच्चेदं कामुकादीनां वेषभाषादिसङ्गतैः । षण्डतापसवृद्धाद्यैर्युतं तद्वैकृतं भवेत् ॥३.२८७॥ कलिकेलिप्रहसनप्रमुखं तदुदाहृतम् । ख्यातेतिवृत्तं निर्हास्यशृङ्गारं रौद्रमुद्रितम् ॥३.२८८॥ सात्त्वतीवृत्तिविरलं भारत्यारभटीस्फुटम् । नायकैरुद्धतैर्देवयक्षराक्षसपन्नगैः ॥३.२८९॥ गन्धर्वभूतवेतालसिद्धविद्याधरादिभिः । समन्वितं षोडशभिर्न्यायमार्गणनायकम् ॥३.२९०॥ चतुर्भिराङ्कैरन्वीतं निर्विमर्शकसन्धिभिः । निर्घातोल्कोपरागादिघोरक्रूराजिसम्भ्रमम् ॥३.२९१॥ सप्रवेशकविष्कम्भचूलिकं हि डिमं विदुः । अस्योदाहरणं ज्ञेयं वीरभद्रविजृम्भितम् ॥३.२९२॥ यत्रेतिवृत्तं मिश्रं स्यात्सविष्कम्भप्रवेशकम् । चत्वारोऽ ङ्का निर्विमर्शगर्भाः स्युः सन्धयस्त्रयः ॥३.२९३॥ धीरोद्धत्तश्च प्रख्यातो दिव्यो मर्त्योऽ पि नायकः । दिव्यस्त्रियमनिच्छन्तीं कन्यां वाहर्तुमुद्यतः ॥३.२९४॥ स्त्रीनिमित्ताजिसंरम्भः पञ्चषाः प्रतिनायकाः । रसा निर्भयबीभत्सा वृत्तयः कैशिकीं विना ॥३.२९५॥ स्वल्पस्तस्याः प्रवेशो वा सोऽ यमीहामृगो मतः । व्याजान्निवारयेदत्र सङ्ग्रामं भीषणक्रमम् ॥३.२९६॥ तस्योदाहरणं ज्ञेयं प्राज्ञैर्मायाकुरङ्गिका । इत्थं श्रीसिंहभूपेन सर्वलक्षणशालिना ॥३.२९७॥ सर्वलक्षणसम्पूर्णो लक्षितो रूपकक्रमः । अथ रूपकनिर्माणपरिज्ञानोपयोगिनी ॥३.२९८॥ श्रीसिंहधरणीशेन परिभाषा निरूप्यते । परिभाषात्र मर्यादा पूर्वाचार्योपकल्पिता ॥३.२९९॥ सा हि नौरतिगम्भीरं विविक्षोर्नाट्यसागरम् । एषा च भाषानिर्देशनामभिस्त्रिविधा मता ॥३.३००॥ तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः । चतुर्दश विभाषाः स्युः प्राच्याद्या वाक्यवृत्तयः ॥३.३०१॥ आसां संस्कारराहित्याद्विनियोगो न कथ्यते । उत्तमादिषु तद्देशव्यवहारात्प्रतीयताम् ॥३.३०२॥ भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः । कौमारपाणिनीयादिसंस्कृता संस्कृता मता ॥३.३०३॥ इयं तु देवतादीनां मुनीनां नायकस्य च । लिङ्गिनां च विटादीन्मनीचानां प्रयुज्यते ॥३.३०४॥ प्रकृतेः संस्कृतायास्तु विकृतिः प्राकृती मता ॥३.३०५॥ षड्विधा सा प्राकृतं च शौरसेनी च मागधी । पैशाची चूलिका पैशाच्यपभ्रंश इति क्रमात् ॥३.३०६॥ अत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् । क्वचिच्च देवी गणिका मन्त्रिजा चेति योषिताम् ॥३.३०७॥ योगिन्यप्सरसोः शिल्पकारिण्या अपि संस्कृतम् । ये नीचाः कर्मणा जात्या तेषां प्राकृतमुच्यते ॥३.३०८॥ छद्मलिङ्गवतां तद्वज्जैनानामिति केचन । अधमे मध्यमे चापि शौरसेनी प्रयुज्यते ॥३.३०९॥ धीवराद्यतिनीचेषु मागधी च नियुज्यते । रक्षःपिशाचनीचेषु पैशाचीद्वितयं भवेत् ॥३.३१०॥ अपभ्रंशस्तु चण्डालयवनादिषु युज्यते । नाटकादावपभ्रंशविन्यासस्यासहिष्णवः ॥३.३११॥ अन्ये चण्डालकादीनां मागध्यादीन् प्रयुञ्जते । सर्वेषां कारणवशात्कार्यो भाषाव्यतिक्रमः ॥३.३१२॥ माहात्म्यस्य परिभ्रंशं मदस्यातिशयं तथा । प्रच्छादनं च विभ्रान्तिं यथालिखितवाचनम् ॥३.३१३॥ कदाचिदनुवादं च कारणानि प्रचक्षते । साक्षादनामग्राह्याणां जनानां प्रतिसंज्ञया ॥३.३१४॥ आह्वानभङ्गी नाट्यज्ञैर्निर्देश इति गीयते । स त्रिधा पूज्यसदृशकनिष्ठविषयत्वतः ॥३.३१५॥ पूज्यास्तु देवो मुनयो लिङ्गिनस्तत्समास्त्रियः । बहुश्रुताश्च भगवच्छब्दवाच्या भवन्ति हि ॥३.३१६॥ आर्येति ब्राह्मणो वाच्यो वृद्धस्तातेति भाष्यते । उपाध्यायेति चाचार्यो गणिका त्वज्जुकाख्यया ॥३.३१७॥ महाराजेति भूपालो विद्वान् भाव इतीर्यते । छन्दतो नामभिर्वाच्या ब्राह्मणैस्तु नराधिपाः ॥३.३१८॥ देवेति नृपतिर्वाच्यो भृत्यैः प्रकृतिभिस्तथा । सार्वभौमः परिजनैर्भट्टभट्टारकेति च ॥३.३१९॥ वाच्यो राजेति मुनिभिरपत्यप्रत्ययेन वा । विदूषकेण तु प्रायः सखे राजन्नितीच्छया ॥३.३२०॥ ब्राह्मणैः सचिवो वाच्यो ह्यमात्य सचिवेति च । शैषाइरार्येत्यथायुष्मनिति सारथिना रथी ॥३.३२१॥ तपस्विसाधुशब्दाभ्यां प्रशान्तः परिभाष्यते । स्वामीति युवराजस्तु कुमारो भर्तृदारकः ॥३.३२२॥ आवुत्तेति स्वसुर्भर्ता स्यालेति पृतनापतिः । भट्टिनी स्वामिनी देवी तथा भट्टारिकेति च ॥३.३२३॥ परिचारजनैर्वाच्या योषितो राजवल्लभाः । राज्ञा तु महिषी वाच्या देवीत्यन्याः प्रिया इति ॥३.३२४॥ सर्वेण पत्नी त्वार्येति पितुर्नाम्ना सुतस्य वा । तातपादा इति पिता माताम्बेति सुतेन तु ॥३.३२५॥ ज्येष्ठास्त्वार्या इति भ्रात्रा तथा स्युर्मातुलादयः । सदृशः सदृशो वाच्यो वयस्येत्याह्वयेन वा ॥३.३२६॥ हलेति सख्या तु सखी कथनीया सखीति वा । सुतशिष्यकनीयांसो वाच्या गुरुजनेन हि ॥३.३२७॥ वत्सपुत्रकदीर्घायुस्तातजातेति संज्ञया । अन्यः कनीयानार्येण जनेन परिभाष्यते ॥३.३२८॥ शिल्पाधिकारनामभ्यां भद्र भद्रमुखेति । वाच्ये नीचातिनीचे तु हण्डे हञ्जे इति क्रमात् ॥३.३२९॥ भर्त्रा वाच्याः स्वस्वनाम्ना भृत्याः शिल्पोचितेन वा । एवमादि प्रकारेण योज्या निर्देशयोजना ॥३.३३०॥ लोकशास्त्राविरोधेन विज्ञेया काव्यकोविदैः । अनुक्तनाम्नः प्रख्याते कञ्चुकिप्रभृतेरपि ॥३.३३१॥ इतिवृत्ते कल्पिते तु नायकादेरपि स्फुटम् । रसवस्तूपयोगीनि कविर्नामानि कल्पयेत् ॥३.३३२॥ विनयन्धरबाभ्रव्यजयन्धरजयादिकम् । कार्यं कञ्चुकिनां नाम प्रायो विश्वाससूचकम् ॥३.३३३॥ लतालङ्कारपुष्पादिवस्तूनां ललितात्मनाम् । नामभिर्गुणसिद्धैर्चेटीनां नाम कल्पयेत् ॥३.३३४॥ करभः कलहंसश्चेत्यादि नामानुजीविनाम् । कर्पूरचण्डकाम्पिल्येत्यादिकं नाम वन्दिनाम् ॥३.३३५॥ सुबुद्धिवसुभूत्यादिमन्त्रिणां नाम कल्पयेत् । देवरातः सोमरात इति नाम पुरोधसः ॥३.३३६॥ श्रीवत्सो गौतमः कौत्सो गार्ग्यो मौद्गल्य इत्यपि । वसन्तकः कापिलेय इत्याख्येयो विदूषकः ॥३.३३७॥ प्रतापवीरविजयमानविक्रमसाहसैः । वसन्तभूषणोत्तंसशेखराङ्कपदोत्तरैः ॥३.३३८॥ धीरोत्तराणां नेतॄणां नाम कुर्वीत कोविदः । चन्द्रापीडः कामपाल इत्याद्यं ललितात्मनाम् ॥३.३३९॥ उग्रवर्मा चण्डसेन इत्याद्युद्धतचेतसाम् । दत्तसेनान्तनामानि वैश्यानां कल्पयेत्सुधीः ॥३.३४०॥ कर्पूरमञ्जरी चन्द्रलेखा रागतरङ्गिका । पद्मावतीति प्रायेण नाम्ना वाच्या हि नायिका ॥३.३४१॥ देव्यस्तु धारिणीलक्ष्मीवसुमत्यादिनामभिः । भोगवती कान्तिमती कमला कामवल्लरी ॥३.३४२॥ इरावती हंसपदीत्यादिनाम्ना तु भोगिनी । विप्रक्षत्रविशः शर्मवर्मदत्तान्तनामभिः ॥३.३४३॥ शिखण्डाङ्गदचूडान्तनाम्ना विद्याधराधिपाः । कुण्डलानन्दघण्टान्तनाम्ना कापालिका जनाः ॥३.३४४॥ योगसुन्दरिका वंशप्रभा विकटमुद्रिका । शङ्खकेयूरिकेत्यादिनाम्ना कापालिकस्त्रियः ॥३.३४५॥ आनन्दिनी सिद्धिमती श्रीमती सर्वमङ्गला । यशोवती पुत्रवतीत्यादिनाम्ना सुवासिनी ॥३.३४६॥ इत्यादि सर्वमालोच्य लक्षणं कृतबुद्धिना । कविना कल्पितं काव्यमाचन्द्रार्कं प्रकाशते ॥३.३४७॥ लक्ष्यलक्षणनिर्माणविज्ञानकृतबुद्धिभिः । परीक्ष्यतामयं ग्रन्थो विमत्सरमनीषया ॥३.३४८॥ भरतागमपारीणः श्रीमान् सिंहमहीपतिः । रसिकः कृतवानेवं रसार्णवसुधाकरम् ॥३.३४९॥ संरम्भादनपोतसिंहनृपतेर्धाटीसमाटीकने निःसाणेषु धणं धणं धणमिति ध्वानानुसन्धायिषु । मोदन्ते हि रणं रणं रणमिति प्रौढास्तदीया भटा भ्रान्तिं यान्ति तृणं तृणं तृणमिति प्रत्यर्थिपृथ्वीभुजः ॥३.३५०॥ मत्वा धात्रा तुलायां लघुरिति धरणीं सिंहभूपालचन्द्रे सृष्टे तत्रातिगुर्व्यां तदुपनिधितया स्थाप्यमानैः क्रमेण । चिन्तारत्नौघकल्पद्रुमततिसुरभीमण्डलैः पूरितान्ताप्य् ऊर्ध्वं नीता लघिम्ना तदरिकुलशतैः पूर्यतेऽ द्यापि सा द्यौः ॥३.३५१॥ इति श्रीमदान्ध्रमण्डलाधीश्वरप्रतिगण्डभैरवश्रीमदनपोतनरेन्द्रनन्दनभुजबलभीमश्रीसिंहभूपालविरचिते रसार्णवसुधाकरनाम्नि नाट्यालङ्कारशास्त्रे भावकोल्लासो नाम तृतीयो विलासः ॥३॥ समाप्तश्चायं रसार्णवसुधाकरः श्रीतोयशैलवसतिः स तमालनीलो जीयाद्धरिर्मुनिचकोरसुशारदेन्दुः । लक्ष्मीस्तनस्तवककुङ्कुमकर्दमश्री संलिप्तनिर्मलविशालभुजान्तरालः ॥ मलयगिरिनिवासी मारुतो यच्छताङ्गस् तरुणशिशिररश्मिर्यत्सुहृत्पुण्यकीर्तिः । चरति चिरमनङ्गः क्वापि करि अप्यदृश्यः स जयतु रसिकौघैर्वन्दितः पञ्चबाणः ॥ अशेषाणां द्विजनुषामाशीर्वादपरम्परा । तरङ्गयतु कल्याणं कवीनां चायुरायतम् ॥  रसार्णवसुधाकरः थे रसार्णवसुधाकर ओf सिंहभूपाल. च्रितिचल्ल्येदितेद्wइथिन्त्रोदुच्तिओनन्द्नोतेस्ब्य्त्. वेन्कतछर्य. मद्रसद्यर्लिब्रर्यन्द्रेसेअर्छ्चेन्त्रे, १९७९. श्रीसिंहभूपालविरचितो रसार्णवसुधाकरः (१) प्रथमो विलासः रञ्जकोल्लासः शृङ्गारवीरसौहार्दं मौग्ध्यवैयात्यसौरभम् । लास्यताण्डवसौजन्यं दाम्पत्यं तद्भजामहे ॥१.१॥ वीणाङ्कितकरां वन्दे वानीमेणीदृशं सदा । सदानन्दमयीं देवीं सरोजासनवल्लभाम् ॥१.२॥ अस्ति किञ्चित्परं वस्तु परमानन्दकन्दलम् । कमलाकुचकाठिन्यकुतूहलिभुजान्तरम् ॥१.३॥ तस्य पादाम्बुजाज्जातो वर्णो विगतकल्मषः । यस्य सोदरतां प्राप्तं भगीरथतपःफलम् ॥१.४॥ तत्र रेचर्लवंशाब्धिशरद्राकासुधाकरः । कलानिधिरुदारश्रीरासीद्दाचयनायकः ॥१.५॥ यस्यासिधारामार्गेण दुर्गेणापि रणाङ्गणे । पाण्ड्यराजगजानीकाज्जयलक्ष्मीरुपागता ॥१.६॥ अङ्गनारायणे यस्मिन् भवति श्रीरतिस्थिरा । भूरभूत्करिणी वश्या दुष्टराजगजाङ्कुशे ॥१.७॥ तस्य भार्या महाभाग्या विष्णोः श्रीरिव विश्रुता । पोचमाम्बा गुणोदारा जाता तामरसान्वयात् ॥१.८॥ तयोरभूवन् क्षितिकल्पवृक्षाः पुत्रास्त्रयस्त्रासितवैरिवीराः । सिंहप्रभुर्वेन्नमनायकश्च वीराग्रणी रेचमहीपतिश्च ॥१.९॥ कलावेकपदो धर्मो यैरेभिश्चरणैरिव । सम्पूर्णपदतां प्राप्य नाकाङ्क्षति कृतं युगम् ॥१.१०॥ तत्र सिंहमहीपाले पालयत्यखिलां महीम् । नमतामुन्नतिश्चित्रं राज्ञामनमतां नतिः ॥१.११॥ कृष्णैलेश्वरसंनिधौ कृतमहासम्भारमेलेश्वरे वीतापायमनेकशो विदधता ब्रह्मप्रतिष्ठापनम् । आनृण्य समपादि येन विभुना तत्तद्गुणैरात्मनो निर्माणातिशयप्रयासगरिमव्यासङ्गिनि ब्रह्मणि ॥१.१२॥ कृतान्तजिह्वाकुटिलां कृपाणीं दृष्ट्वा यदीयां त्रसतामरीणाम् । स्वेदोदयश्चेतसि संचितानां मानोष्मणामातनुते प्रशान्तिम् ॥१.१३॥ श्रीमान् रेचमहीपतिः सुचरितो यस्यानुजन्मा स्फुटं प्राप्तो वीरगुरुप्रथां पृथुतरां वीरस्य मुद्राकरीम् । लब्ध्वा लब्धकठारिरायविरुदं राहुत्तरायाङ्कितं पुत्रं नागयनायकं वसुमतीवीरैकचूडामणिम् ॥१.१४॥ सोऽ यं सिंहमहीपालो वसुदेव इति स्फुटम् । अनन्तमाधवौ यस्य तनूजौ लोकरक्षकौ ॥१.१५॥ तत्रानुजो माधवनायकेन्द्रो दिगन्तरालप्रथितप्रतापः । यस्याभवन् वंशकरा नरेन्द्रास् तनूभवा वेदगिरीन्द्रमुख्याः ॥१.१६॥ तस्याग्रजन्मा भुवि राजदोषैर् अप्रोतभावादनपोतसंज्ञाम् । ख्यातां दधाति स्म यथार्थभूताम् अनन्तसज्ञां च महीधरत्वम् ॥१.१७॥ सोदर्यो बलभद्रमूर्तिरनिशं देवी प्रिया रुक्मिणी प्रद्युम्नस्तनयोऽ प्पौत्रनिवहो यस्यानिरुद्धादयः । सोऽ यं श्रीपतिरन्नपोतनृपतिः किं चाननाम्भोरुहे धत्ते चारुसुदर्शनश्रियमसौ सत्वात्महस्ताम्बुजे ॥१.१८॥ बहुसोमसुतं कृत्वा भूलोकं यत्र रक्षति । एकसोमसुतं रक्षन् स्वर्लोकं लज्जते हरिः ॥१.१९॥ सोमकुलपरशुरांे भुजबलभीमेऽ रिगायगोबाले । यत्र च जाग्रति शासति जगतां जागर्ति नित्यकल्याणम् ॥१.२०॥ हेमाद्रिदानैर्धरणीसुराणां हेमाचलं हस्तगतं विधाय । यश्चारुसोपानपथेन चक्रे श्रीपर्वतं सर्वजनाङ्घ्रिगम्यम् ॥१.२१॥ यो नैकवीरोद्दलनोऽ प्यसङ्ख्य सङ्ख्योऽ प्यभग्नात्मगतिक्रमोऽ पि । अजातिसाङ्कर्यभवोऽ पि चित्रं दधाति सोमान्वयभार्गवाङ्कम् ॥१.२२॥ धावं धावं रिपुनृपतयो युद्धरङ्गापविद्धाः खड्गे खड्गे फलितवपुषं यं पुरस्ताद्विलोक्य । प्रत्यावृत्ता अपि तत इतो वीक्षमाणा यदीयं संमन्यन्ते स्फुटमवितथं खड्गनारायणाङ्कम् ॥१.२३॥ अन्नमाम्बेति विख्याता तस्यासीद्धरणीपतेः । देवी शिवा शिवस्येव राजमौलेर्महोज्ज्वला ॥१.२४॥ शत्रुघ्नं श्रुतकीर्तिर्या सुभद्रा यशसार्जुनम् । आनन्दयति भर्तारं श्यामा राजानमुज्ज्वलम् ॥१.२५॥ तयोरभूतां पुत्रौ द्वावाद्यो वेदगिरीश्वरः । द्वितीयस्त्वद्वितीयोऽ सौ यशसा सिंहभूपतिः ॥१.२६॥ अथ श्रीसिंहभूपालो दीर्घायुर्वसुधामिमाम् । निजांसपीठे निर्व्याजं कुरुते सुप्रतिष्ठिताम् ॥१.२७॥ अहीनज्याबन्धः कनकरुचिरं कार्मुकवरं बलिध्वंसी बाणः परपुरमनेकं च विषयः । इति प्रायो लोकोत्तरसमरसंनाहविधिना महेशोऽ यं सिंहक्षितिप इति यं जल्पति जनः ॥१.२८॥ यत्र च रणसंनहिनि तृणचरणं निजपुराच्च निःसरणम् । वनचरणं तच्चरणक परिचरणं वा विरोधिनां शरणम् ॥१.२९॥ सतां प्रीतिं कुर्वन् कुवलयविकासं विरचयन् कलाः कान्ताः पुष्णन् दधदपि च जैवातृककथाम् । नितान्तं यो राजा प्रकटयति मित्रोदयमहो तथा चक्रानन्दानपि च कमलोल्लाससुषमाम् ॥१.३०॥ तल्लब्धानि घनाघनैरतितरां वारां पृषन्त्यम्बुधौ स्वात्यामेव हि शुक्तिकासु दधते मुक्तानि मुक्तात्मताम् । यद्दानोदकविप्रुषस्तु सुधियां हस्ते पतन्त्योऽ भवन् माणिक्यानि महाम्बराणि बहुशो धामानि हेमानि च ॥१.३१॥ नयनमयं गुणमगुणं पदमपदं निजमवेत्य रिपुभूपाः । यस्य च नयगुणविदुषो विनमन्ति पदारविन्दपीठान्तम् ॥१.३२॥ प्राणानां परिरक्षणाय बहुशो वृत्तिं मदीयां गतास् त्वत्सामन्तमहीभुजः करुणया ते रक्षणीया इति । कर्णे वर्णयितुं नितान्तसुहृदो कर्णान्तविश्रान्तयोर् मन्ये यस्य दृगन्तयोः परिसरं सा कामधेनुः श्रिता ॥१.३३॥ युष्माभिः प्रतिगण्डभैरवरणे प्राणाः कथं रक्षिता इत्यन्तःपुरपृच्छया यदरिषु प्राप्तेषु लज्जावशम् । शंसन्त्युत्तरमाननव्यतिकरव्यापारपारङ्गता गण्डान्दोलितकर्णकुण्डलहरिन्माणिक्यवर्णाङ्कुराः ॥१.३४॥ मन्दारपारिजातक चन्दनसन्तानकल्पमणिसदृशैः । अनपोतदाचवल्लभ वेदगिरिस्वामिमाददामयसंज्ञैः ॥१.३५॥ आत्मभवैरतिविभवैर् अनितरजनसुलभदानमुदितैर्भुवि यः । रत्नाकर इव राजति राजकरारचितसुकमलोल्लासः ॥१.३६॥ यस्याढ्यः प्रथमः कुमारतिलकः श्रीअन्नपोतो गुणैर् एकस्याग्रजमात्मरूपविभवे चापे द्वयोरग्रजम् । आरूढे त्रितयाग्रजं विजयते दुर्वारदोर्विक्रमे सत्योक्तौ चतुरग्रजं वितरणे किं चापि पञ्चाग्रजम् ॥१.३७॥ युद्धे यस्य कुमारदाचयविभोः खड्गाग्रधाराजले मज्जन्ति प्रतिपक्षभूमिपतयः शौर्योष्मसन्तापिताः । चित्रं तत्प्रमदाः प्रनष्टतिलका व्याकीर्णनीलालकाः प्रभ्रश्यत्कुचकुङ्कुमाः परिगलन्नेत्रान्तकालाञ्जनाः ॥१.३८॥ परिपोषिणि यस्य पुत्ररत्ने दयिते वल्लभरायपूर्णचन्द्रे । समुदेति सतां प्रभावशेषः कमलानामभिवर्धनं तु चित्रम् ॥१.३९॥ एतैरन्यैश्च तनयैः सोऽ यं सिंहमहीपतिः । षड्भिः प्रतिष्ठामयते स्वामीवाङ्गैः सुसङ्गतैः ॥१.४०॥ राजा स राजाचलनामधेयाम् अध्यास्त वंशक्रमराजधानीम् । सतां च रक्षामसतां च शिक्षां न्यायानुरोधादनुसन्दधानज्ञाः ॥१.४१॥ विन्ध्यश्रीशैलमध्यक्ष्मामण्डलं पालयन् सुतैः । वंशप्रवर्तकैरर्थान् भुङ्क्ते भोगपुरन्दरः ॥१.४२॥ तस्मिन् शासति सिंहभूमिरमणे क्ष्मामन्नपोतात्मजे काठिन्यं कुचमण्डले तरलता नेत्राञ्चले सुभ्रुवाम् । वैषम्यं त्रिवलीषु मन्दपदता लीलालसायां गतौ कौटिल्यं चिकुरेषु किं च कृशता मध्ये परं बध्यते ॥१.४३॥ सोऽ हं कल्याणरूपस्य वर्णोत्कर्षैककारणम् । विद्वत्प्रसादनाहेतोर्वक्ष्ये नाट्यस्य लक्षणम् ॥१.४४॥ पुरा पुरन्दराद्यास्ते प्रणम्य चतुराननम् । कृताञ्जलिपुटा भूत्वा पप्रच्छुः सर्ववेदिनम् ॥१.४५॥ भगवन् श्रोतुमिच्छामः श्राव्यं दृश्यं मनोहरम् । धर्म्यं यशस्यमर्थ्यं च सर्वशिल्पप्रदर्शनम् ॥१.४६॥ परं पञ्चममाम्नायं सर्ववर्णाधिकारिकम् । इति पृष्टः स तैर्ब्रह्मा सर्ववेदाननुस्मरन् ॥१.४७॥ तेभ्यश्च सारमादाय नाट्यवेदमथासृजत् । अध्याप्य भरताचार्यं प्रजापतिरभाषत ॥१.४८॥ सह पुत्रैरिमं वेदं प्रयोगेण प्रकाशय । इति तेन नियुक्तस्तु भरतः सह सूनुभिः ॥१.४९॥ प्रायोजयत्सुधर्मायामिन्द्रस्याग्रेऽ प्सरोगणैः । सर्वलोकोपकाराय नाट्यशास्त्रं च निर्ममे ॥१.५०॥ तथा तदनुसारेण शाण्डिल्यः कोहलोऽ पि च । दत्तिलश्च मतङ्गश्च ये चान्ये तत्तनूद्भवाः ॥१.५१॥ ग्रन्थान्नानाविधांश्चक्रुः प्रख्यातास्ते महीतले । तेषामतिगभीरत्वाद्विप्रकीर्णक्रमत्वतः ॥१.५२॥ सम्प्रदायस्य विच्छेदात्तद्विदां विरलत्वतः । प्रायो विरलसञ्चारा नाट्यपद्धतिरस्फुटा ॥१.५३॥ तस्मादस्मत्प्रयत्नोऽ यं तत्प्रकाशनलक्षणः । सारैकग्राहिणां चित्तमानन्दयति धीमताम् ॥१.५४॥ नेदानीन्तनदीपिका किमु तमःसङ्हातमुन्मूलयेज् ज्योत्स्ना किं न चकोरपारणकृते तत्कालसंशोभिनी । बालः किं कमलाकरान् दिनमणिर्नोल्लासयेदञ्जसा तत्सम्प्रत्यपि मादृशामपि वचः स्यादेव सम्प्रीतये ॥१.५५॥ स्वच्छस्वादुरसाधारो वस्तुच्छायामनोहरः । सेव्यः सुवर्णनिधिवन्नाट्यमार्गः सनायकः ॥१.५६॥ सात्त्विकाद्यैरभिनयैः प्रेक्षकाणां यतो भवेत् । नटे नायकतादात्म्यबुद्धिस्तन्नाट्यमुच्यते ॥१.५७॥ रसोत्कर्षो हि नाट्यस्य प्राणास्तत्स निरूप्यते । विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ॥१.५८॥ आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः । तत्र ज्ञेयो विभावस्तु रसज्ञापनकारणम् ॥१.५९॥ बुधैर्ज्ञेयोऽ यमालम्ब उद्दीपन इति द्विधा । आधारविषयत्वाभ्यां नायको नायिकापि च ॥१.६०॥ आलम्बनं मतं तत्र नायको गुणवान् पुमान् । तद्गुणास्तु महाभाग्यमौदार्यं स्थैर्यदक्षते ॥१.६१॥ औज्ज्वल्यं धार्मिकत्वं च कुलीनत्वं च वाग्मिता । कृतज्ञत्वं नयज्ञत्वं शुचिता मानशालिता ॥१.६२॥ तेजस्विता कलावत्त्वं प्रजारञ्जकतादयः । एते साधारणाः प्रोक्ताः नायकस्य गुणा बुधैः ॥१.६३॥ सर्वातिशायिराज्यत्वं महाभाग्यमुदाहृतम् । यद्विश्राणनशीलत्वं तदौदार्यं बुधा विदुः ॥१.६४॥ व्यापारं फलपर्यन्तं स्थैर्य्माहुर्मनीषिणः । दुष्करे क्षिप्रकारित्वं दक्षतां परिचक्षते ॥१.६५॥ औज्ज्वल्यं नयनानन्दकारित्वं कथ्यते बुधैः । धर्मप्रवणचित्तत्वं धार्मिकत्वमितीर्यते ॥१.६६॥ कुले महति सम्भूतिः कुलीनत्वमुदाहृतम् । वाग्मिता तु बुधैरुक्ता समयोचितभाषिता ॥१.६७॥ कृतानामुपकाराणामभ्ज्ञत्वं कृतज्ञता । सामाद्युपायचातुर्यं नयज्ञत्वमुदाहृतम् ॥१.६८॥ अन्तःकरणशुद्धिर्या शुचिता सा प्रकीर्तिता । अकार्पण्यसहिष्णुत्वं कथिता मानशालिता ॥१.६९॥ तेजस्वित्वमवज्ञादेरसहिष्णुत्वमुच्यते । कलावत्त्वं निगदितं सर्वविद्यासु कौशलम् ॥१.७०॥ रञ्जकत्वं तु सकलचित्ताह्लादनकारिता । उक्तैर्गुणैश्च सकलैर्युक्तः स्यादुत्तमो नेता ॥१.७१॥ मध्यः कतिपयहीनो बहुगुणहीनोऽ धमो नाम । नेता चतुर्विधोऽ सौ धीरोदात्तश्च धीरललितश्च ॥१.७२॥ धीरप्रशान्तनामा ततश्च धीरोद्धतः ख्यातः । दयावानतिगम्भीरो विनीतः सत्त्वसारवान् ॥१.७३॥ दृढव्रतस्तितिक्षावानात्मश्लाघापराङ्मुखः । निगूढाहङ्कृतिर्धीरैर्धीरोदात्त उदाहृतः ॥१.७४॥ दयातिशयशालित्वं दयावत्त्वमुदाहृतम् । गाम्भीर्यमविकारः स्यात्सत्यपि क्षोभकारणे ॥१.७५॥ निश्चिन्तो धीरललितस्तरुणो वनितावशः । शमप्रकृतिकः क्लेशसहिष्णुश्च विवेचकः ॥१.७६॥ ललितादिगुणोपेतो विप्रो वा सचिवो वणिक् । धीरशान्तश्चारुदत्तमाधवादिरुदाहृतः ॥१.७७॥ मात्सर्यवानहङ्कारी मायावी रोषणश्चलः । विकत्थनो भार्गवादिर्धीरोद्धत उदाहृतः ॥१.७८॥ एते च नायकाः सर्वरससाधारणाः स्मृताः । शृङ्गारापेक्षया तेषां त्रैविध्यं कथ्यते बुधैः ॥१.७९॥ पतिश्चोपपतिश्चैव वैशिकश्चेति भेदतः । पतिस्तु विधिना पाणिग्राहकः कथ्यते बुधैः ॥१.८०॥ चतुर्धा सोऽ पि कथितो वृत्त्या काव्यविचक्षणैः । अनुकूलः शठो धृष्टो दक्षिणश्चेति भेदतः ॥१.८१॥ अनुकूलस्त्वेकजानिः शठो गूढापराधकृत् । धृष्टो व्यक्तान्ययुवतीभोगलक्ष्मापि निर्भयः ॥१.८२॥ नायिकास्वप्यनेकासु तुल्यो दक्षिण उच्यते । लङ्घिताचारया यस्तु विनापि विधिना स्त्रिया ॥१.८३॥ सङ्केतं नीयते प्रोक्तो बुधैरुपपतिस्तु सः । दाक्षिण्यमानुकूल्यं च धार्ष्ट्यं चानियतत्वतः ॥१.८४॥ नोचितान्यस्य शाठ्यं स्यादन्यचित्तत्वसम्भवात् । रूपवान् शीलसम्पन्नः शास्त्रज्ञः प्रियदर्शनः ॥१.८५॥ कुलीनो मतिमान् शूरो रम्यवेषयुतो युवा । अदीनः सुरभिस्त्यागी सहनः प्रियभाषणः ॥१.८६॥ शङ्कविहीनो मानी च देशकालविभागवित् । दाक्ष्यचातुर्यमाधुर्यसौभाग्यादिभिरन्वितः ॥१.८७॥ वेश्योपभोगरसिको यो भवेत्स तु वैशिकः । कलकण्ठादिको लक्ष्यो भाणादावेव वैशिकः ॥१.८८॥ स त्रिधा कथ्यते ज्येष्ठमध्यनीचविभेदतः । अथ शृङ्गारनेतॄणां साहाय्यकरणोचिताः ॥१.८९॥ निरूप्यन्ते पीठमर्दविटचेटविदूषकाः । नायकानुचरो भक्तः किञ्चिदूनश्च तद्गुणैः ॥१.९०॥ पीठमर्द इति ख्यातः कुपितस्त्रीप्रसादकः । कामतन्त्रकलावेदी विट इत्यभिधीयते ॥१.९१॥ सन्धानकुशलश्चेटः कलहंसादिको मतः । विकृताङ्गवचोवेषैर्हास्यकारी विदूषकः ॥१.९२॥ देशकालज्ञता भाषामाधुर्यं च विदग्धता । प्रोत्साहने कुशलता यथोक्तकथनं तथा ॥१.९३॥ निगूढमन्त्रतेत्याद्याः सहायानां गुणा मताः । नेतृसाधारणगुणैरुपेता नायिका मता ॥१.९४॥ स्वकीया परकीया च सामान्या चेति सा त्रिधा । सम्पत्काले विपत्काले या न मुञ्चति वल्लभम् ॥१.९५॥ शीलार्जवगुणोपेता सा स्वकीया कथिता बुधैः । सा च स्वीया त्रिधा मुग्धा मध्या प्रौढेति कथ्यते ॥१.९६॥ मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि । यतते रतचेष्टायां गूढं लज्जामनोहरम् ॥१.९७॥ कृतापराधे दयिते वीक्षते रुदती सती । अप्रियं वा प्रियं वापि न किञ्चिदपि भाषते ॥१.९८॥ समानलज्जामदना प्रोद्यत्तारुण्यशालिनी । मध्या कामयते कान्तं मोहान्तसुरतक्षमा ॥१.९९॥ मध्या त्रिधा मानवृत्तेर्धीराधीरोभयात्मिका । धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम् ॥१.१००॥ अधीरा परुषैर्वाक्यैः खेदयेद्वल्लभं रुषा । धीराधीर तु वक्रोक्त्या सबाष्पं वदति प्रियम् ॥१.१०१॥ सम्पूर्णयौवनोन्मत्ता प्रगल्भा रूढमन्मथा । दयिताङ्गे विलीनेव यतते रतिकेलिषु ॥१.१०२॥ रतप्रारम्भमात्रेऽ पि गच्छत्यानन्दमूर्च्छताम् । मानवृत्तेः प्रगल्भापि त्रिधा धीरादिभेदतः ॥१.१०३॥ उदास्ते सुरते धीरा सावहित्था च सादरा । सन्तर्ज्य निष्ठुरं रोषादधीरा ताडयेत्प्रियम् ॥१.१०४॥ धीराधीरगुणोपेता धीराधीरेति कथ्यते । द्वेधा ज्येष्ठा कनिष्ठेति मध्या प्रौढापि तादृशी ॥१.१०५॥ धीराधीरादिभेदेन मध्याप्रौढे त्रिधा त्रिधा । ज्येष्ठाकनिष्ट्ःाभेदेन ताः प्रत्येकं द्विधा द्विधा ॥१.१०६॥ मुग्धा त्वेकविधा चैवं सा त्रयोदशधोदिता । अन्यापि द्विविधा कन्या परोढा चेति भेदतः ॥१.१०७॥ तत्र कन्या त्वनूढा स्यात्सलज्जा पितृपालिता । सखीकेलिषु विस्रब्धा प्रायो मुग्धागुणान्विता ॥१.१०८॥ प्रधानमप्रधानं वा नाटकादावियं भवेत् । मालतीमाधवे लक्ष्ये मालतीमदयन्तिके ॥१.१०९॥ परोढा तु परेणोढाप्यन्यसम्भोगलालसा । लक्ष्या क्षुद्रप्रबन्धे सा सप्तशत्यादिके बुधैः ॥१.११०॥ साधारणस्त्री गणिका कलाप्रागल्भ्यधार्ष्ट्ययुक् । एषा स्याद्द्विविधा रक्ता विरक्ता चेति भेदतः ॥१.१११॥ तत्र रक्ता तु वर्ण्या स्यादप्राधान्येन नाटके । अग्निमित्रस्य विज्ञेया यथा राज्ञ इरावती ॥१.११२॥ प्रधानमप्रधानं वा नाटकेतररूपके । सा चेद्दिव्या नाटके तु प्राधान्येनैव वर्ण्यते ॥१.११३॥ विरक्ता तु प्रहसनप्रभृतिष्वेव वर्ण्यते । तस्या धौर्यप्रभृतयो गुआष्तदुपयोगिनः ॥१.११४॥ छन्नकामान् रतार्थाज्ञान् बालपाषण्डषण्डकान् । रक्तेव रञ्जयेदिभ्यान्निःस्वान्मात्रा विवासयेत् ॥१.११५॥ अत्र केचिदाहुः गणिकाया नानुरागो गुणवत्यपि नायके । रसाभासप्रसङ्गः स्यादरक्तायाश्च वर्णने ॥ अतश्च नाटकादौ तु वर्ण्या सा न भवेदिति । तथा चाहुः [शृ.ति. १.६२,६४} सामान्या वनिता वेश्या सा द्रव्यं परमिच्छता । गुणहीने च न द्वेषो नानुरागो गुणिन्यपि । शृङ्गाराभास एतासु न शृङ्गारः कदाचन ॥िति॥ तन्मतं नानुमनुते धीमान् श्रीसिंहभूपतिः ॥१.११६॥ भावानुबन्धाभावे च नायिकात्वपराहतेः । तस्याः प्रकरणादौ च नायिकात्वविधानतः ॥१.११७॥ अनायिकावर्णने तु रसाभासप्रसङ्गतः । तथा प्रकरणादीनामरसाश्रयतागतेः ॥१.११८॥ रसाश्रयं तु दशधेत्यादिशास्त्रविरोधतः । तस्मात्साधारणस्त्रीणां गुणशालिनि नायके ॥१.११९॥ भावानुबन्धः स्यादेव रुद्रटस्यापि भाषणात् । उदात्तादिभिदां केचित्सर्वासामपि मन्वते ॥१.१२०॥ तास्तु प्रायेण दृश्यन्ते सर्वत्र व्यवहारतः । प्रथमं प्रोषितपतिका वास्कसज्जा ततश्च विरहोत्का ॥१.१२१॥ अथ खण्डिता मता स्यात्कलहान्तरिताभिसारिका चैव । कथिता च विप्रलब्धा स्वाधीनपतिस्तथा चान्या ॥१.१२२॥ शृङ्गारकृतावस्थाभेदात्ताश्चाष्टधा भिन्नाः । दूरदेशं गते कान्ते भवेत्प्रोषितभर्तृका ॥१.१२३॥ अस्यास्तु जागरः कार्श्यं निमित्तादिविलोकनम् । मालिन्यमनवस्थानं प्रायः शय्यानिवेषणम् ॥१.१२४॥ जाड्यचिन्ताप्रभृतयो विक्रियाः कथिता बुधैः । भरतादयैरभिदधे स्त्रीणां वारस्तु वासकः ॥१.१२५॥ स्ववासकवशात्कान्ते समेष्यति गृहान्तरम् । सज्जीकरोति चात्मानं या सा वासकसज्जिका ॥१.१२६॥ अस्यास्तु चेष्टाः सम्पर्कमनोरथविचिन्तनम् । सखीविनोदो हृल्लेखो मुहुर्दूतिनिरीक्षणम् ॥१.१२७॥ प्रियाभिगमनमार्गाभिवीक्षणप्रमुखा मताः । अनागसि प्रियतमे चिरयत्युत्सुका तु या ॥१.१२८॥ विरहोत्कण्ठिता भाववेदिभिः सा समीरिता । अस्यास्तु चेष्टा हृत्तापो वेपथुश्चाङ्गसादनम् ॥१.१२९॥ अरतिर्बाष्पमोक्षश्च स्वावस्थाकथनादयः । उल्लङ्घ्य समयं यस्याः प्रेयानन्योपभोगवान् ॥१.१३०॥ भोगलक्ष्माञ्चितः प्रातरागच्छेत्सा हि खण्डिता । अस्यास्तु चिन्ता निःश्वासस्तूष्णींभावोऽ श्रुमोचनम् ॥१.१३१॥ खेदभ्रान्त्यस्फुटालापा इत्याद्या विक्रिया मताः । या सखीनां पुरः पादपतितं वल्लभं रुषा ॥१.१३२॥ निरस्य पश्चात्तपति कलहान्तरिता हि सा । अस्यास्तु भ्रान्तिसंलापौ मोहो निःश्वसितं ज्वरः ॥१.१३३॥ मुहुः प्रलाप इत्याद्या इष्टाश्चेष्टा मनीषिभिः । मदनानलसन्तप्ता याभिसारयति प्रियम् ॥१.१३४॥ ज्योत्स्नातामस्विनी यानयोग्याम्बरविभूषणा । स्वयं वाभिसरेद्या तु सा भवेदभिसारिका ॥१.१३५॥ अस्याः सन्तापचिन्ताद्या विक्रियास्तु यथोचितम् । कान्ताभिसरणए स्वीया लज्जानाशादिशङ्कया ॥१.१३६॥ व्याघ्रहुङ्कारसन्त्रस्तमृगशावविलोचना । नील्यादिरक्तवसनरचिताङ्गावगुण्ठना ॥१.१३७॥ स्वाङ्गे विलीनावयवा निःशब्दं पादचारिणी । सुस्निग्धैकसखीमात्रयुक्ता याति समुत्सुका ॥१.१३८॥ मृषा प्रिये तु निद्राणे पार्श्वे तिष्ठति निश्चला । गर्वातिरेकनिभृता शीतैः स्रग्दामचन्दनैः ॥१.१३९॥ भावज्ञा बोधयत्येनं तद्भावावेक्षणोत्सुका । स्वीयावत्कन्यका ज्ञेया कान्ताभिसरणक्रमे ॥१.१४०॥ वेश्याभिसारिका त्वेति हृष्टा वैशिकनायकम् । आविर्भूतस्मितमुखी मदघूर्णितलोचना ॥१.१४१॥ अनुलिप्ताखिलाङ्गी च विचित्राभरणान्विता । स्नेहाङ्कुरितरोमाञ्चस्फुटीभूतमनोभवा ॥१.१४२॥ संवेष्टिता परिजनैर्भोगोपकरणान्वितैः । रशनारावमाधुर्यदीपितानङ्गवैभवा ॥१.१४३॥ चरणाम्बुजसंलग्नमणिमञ्जीरमञ्जुला । एषा च मृदुसंस्पर्शैः केशकण्डूयनादिभिः ॥१.१४४॥ प्रबोधयति तद्बोधे प्रणयात्कुपितेक्षणा । बाहुविक्षेपलुलितस्रस्तधम्मिल्लमल्लिका ॥१.१४५॥ चलितभ्रूविकारादिविलासललितेक्षणा । मैरेयाविरतास्वादमदस्खलितजल्पिता ॥१.१४६॥ प्रेष्याभियाति दयितं चेटीभिः सह गर्विता । प्रियं कङ्कणनिक्वाणमञ्जुव्यजनवीजनैः ॥१.१४७॥ विबोध्य निर्भर्त्सयति नासाभङ्गपुरःसरम् । कृत्वा सङ्केतमप्राप्ते दैवाद्व्यथिता तु या ॥१.१४८॥ विप्रलब्धेति सा प्रोक्ता बुधैरस्यास्तु विक्रिया । निर्वेदचिन्ताखेदाश्रुमूर्च्छानिःश्वसनादयः ॥१.१४९॥ स्वायत्तासन्नपतिका हृष्टा स्वाधीनवल्लभा । अस्यास्तु चेष्टाः कथिताः स्मरपूजामहोत्सवः ॥१.१५०॥ वनकेलिजलक्रीडाकुसुमापचयादयः । उत्तमा मध्यमा नीचेत्येवं सर्वाः स्त्रियस्त्रिधा ॥१.१५१॥ अभिजातैर्भोगतृप्तैर्गुणिभिर्या च काम्यते । गृह्णाति कारणे कोपमनुनीता प्रसीदति ॥१.१५२॥ विदधत्यप्रियं पत्यौ स्वयमाचरति प्रियम् । वल्लभे सापराधेऽ पि तूष्णीं तिष्ठति सोत्तमा ॥१.१५३॥ पुंसः स्वयं कामयते काम्यते या च तैर्वधूः । सक्रोधे क्रुध्यति मुहुः सानृतेऽ नृतवादिनी ॥१.१५४॥ सापकारेऽ पकर्त्री स्यात्स्निग्धे स्निह्यति वल्लभे । एवमादिगुणोपेता मध्यमा सा प्रकीर्तिता ॥१.१५५॥ अकस्मात्कुप्यति रुषं प्रार्थितापि न मुञ्चति । सुरूपं वा कुरूपं वा गुणवन्तमथागुणम् ॥१.१५६॥ स्थविरं तरुणं वापि या वा कामयते मुहुः । ईर्ष्याकोपविवादेषु नियता साधमा स्मृता ॥१.१५७॥ स्वीया त्रयोदशविधा विविधा च वराङ्गना । वैशिकैवं षोडशधा ताश्चावस्थाभिरष्टभिः ॥१.१५८॥ एकैकमष्टधा तासामुत्तमादिप्रभेदतः । त्रैविध्यमेवं सचतुरशीतिस्त्रिशती भवेत् ॥१.१५९॥ अवस्थात्रयमेवेति केचिदाहुः परस्त्रियाः । आसां दूत्यः सखी चेटी लिङ्गिनी प्रतिवेशिनी ॥१.१६०॥ धात्रेयी शिल्पकारी च कुमारी कथिनी तथा । कारुर्विप्रश्निका चेति नेतृमित्रगुणान्विताः ॥१.१६१॥ उद्दीपनं चतुर्धा स्यादालम्बनसमाश्रयम् । गुणचेष्टालङ्कृतयस्तटस्थाश्चेति भेदतः ॥१.१६२॥ यौवनं रूपलावण्ये सौन्दर्यमभिरूपता । मार्दवं सौकुमार्यं चेत्यालम्बनगता गुणाः ॥१.१६३॥ सर्वासामपि नारीणां यौवनं तु चतुर्विधम् । प्रतियौवनमेतासां चेष्टितानि पृथक्पृथक् ॥१.१६४॥ ईषच्चपलनेत्रान्तं स्मरस्मेरमुखाम्बुजम् । सगर्वजरजोगण्डमसमग्रारुणाधरम् ॥१.१६५॥ लावण्योद्भेदरम्याङ्गं विलसद्भावसौरभम् । उन्मीलिताङ्कुरकुचमस्फुटाङ्गकसन्धिकम् ॥१.१६६॥ प्रथमं यौवनं तत्र वर्तमाना मृगेक्षणा । अपेक्षते मृदुस्पर्शं सहते नोद्धतां रतिम् ॥१.१६७॥ सखीकेलिरता स्वाङ्गसंस्कारकलितादरा । न कोपहर्षौ भजते सपत्नीदर्शनादिषु ॥१.१६८॥ नातिरज्यति कान्तस्य सङ्गमे किं तु लज्जते । स्तनौ पीनौ तनुर्मध्यः पाणिपादस्य रक्तिमा ॥१.१६९॥ ऊरू करिकराकारावङ्गं व्यक्ताङ्गसन्धिकम् । नितम्बो विपुलो नाभिर्गभीरा जघनं घनम् ॥१.१७०॥ व्यक्ता रोमावली स्नैग्ध्यमङ्गकेशरदाक्षिषु । द्वितीययौवने तेन कलिता वामलोचना ॥१.१७१॥ सखीषु स्वाशयज्ञासु स्निग्धा प्रायेण मानिनी । न प्रसीदत्यनुनये सपत्नीष्वभ्यसूयिनी ॥१.१७२॥ नापराधान् विषहते प्रणयेर्ष्याकषायिता । रतिकेलिष्वनिभृता चेष्टते गर्विता रहः ॥१.१७३॥ अस्निग्धता नयनयोर्गण्डयोर्म्लानकान्तिता । विच्छायता खरस्पर्शोऽ प्यङ्गानां श्लथता मनाक् ॥१.१७४॥ अधरे मसृणो रागस्तृतीये यौवने भवेत् । तत्र स्त्रीणामियं चेष्टा रतितन्त्रविदग्धता ॥१.१७५॥ वल्लभस्यापरित्यागस्तदाकर्षणकौशलम् । अनादरोऽ पराधेषु सपत्नीष्वप्यमत्सरः ॥१.१७६॥ जर्जरत्वं स्तनश्रोणिगण्डोरुजघनादिषु । निर्मांसता च भवति चतुर्थे यौवने स्त्रियाः ॥१.१७७॥ तत्र चेष्टा रतिविधावनुत्साहोऽ समर्थता । सपत्नीष्वानुकूल्यं च कान्तेनाविरहस्थितिः ॥१.१७८॥ तत्र शृङ्गारयोग्यत्वं सरसाह्लादकारणम् । आद्यद्वितीययोरेव न तृतीयचतुर्थयोः ॥१.१७९॥ अङ्गान्यभूषितान्येव प्रक्षेपाद्यैर्विभूषणैः । येन भूषितवद्भाति तद्रूपमिति कथ्यते ॥१.१८०॥ मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते ॥१.१८१॥ अङ्गप्रत्यान्गकानां यः सन्निवेशो यथोचितम् । सुस्लिष्टसन्धिबन्धः स्यात्तत्सौन्दर्यमितीर्यते ॥१.१८२॥ यदात्मीयगुणोत्कर्षैर्वस्त्वन्यन्निकटस्थितम् । सारूप्यं नयति प्राज्ञैराभिरूप्यं तदुच्यते ॥१.१८३॥ स्पृष्टं यत्राङ्गमस्पृष्टमिव स्यान्मार्दवं हि तत् । या स्पर्शासहताङ्गेषु कोमलस्यापि वस्तुनः ॥१.१८४॥ तत्सौकुमार्यं त्रेधा स्यान्मुख्यमध्याधमक्रमात् । अङ्गं पुष्पादिसंस्पर्शासहं येन तदुत्तमम् ॥१.१८५॥ न सहेत करस्पर्शं येनाङ्गं मध्यमं हि तत् । येनाङ्गमातपादीनामसहं तदिहाधमम् ॥१.१८६॥ चतुर्धालङ्कृतिर्वासोभूषामाल्यानुलेपनैः । तटस्थाश्चन्द्रिका धारागृहचन्द्रोदयावपि ॥१.१८७॥ कोकिलालापमाकन्दमन्दमारुतषट्पदाः । लतामण्डपभूगेहदीर्घिकाजलदारवाः ॥१.१८८॥ प्रासादगर्भसङ्गीतक्रीडाद्रिसरिदादयः । एवमूह्या यथा कालमुपभोगोपयोगिनः ॥१.१८९॥ [आलम्बनगताश्चेष्टा अनुभावा विवक्षिताः ।] भावं मनोगतं साक्षात्स्वहेतुं व्यञ्जयन्ति ये । तेऽ नुभावा इति ख्याता भ्रूक्षेपस्मितादयः ॥१.१९०॥ ते चतुर्धा चित्तगात्रवाग्बुद्ध्यारम्भसम्भवाः । तत्र च भावो हावो हेला शोभा कान्तिदीप्ती च ॥१.१९१॥ प्रागल्भ्यं माधुर्यं धैर्यौदार्यं च चित्तजा भावाः । निर्विकारस्य चित्तस्य भावः स्यादादिविक्रिया ॥१.१९२॥ ग्रीवारेचकसंयुक्तो भ्रूनेत्रादिविलासकृत् । भाव ईषत्प्रकाशो यः स हाव इति कथ्यते ॥१.१९३॥ नानाविकारैः सुव्यक्तः शृङ्गाराकृतिसूचकैः । हाव एव भवेद्धेला ललिताभिनयात्मिका ॥१.१९४॥ सा शोभा रूपभोगाद्यैर्यत्स्यादङ्गविभूषणम् । शोभैव कान्तिराख्याता मन्मथाप्यायनोज्ज्वला ॥१.१९५॥ कान्तिरेव वयोभोगदेशकालगुणादिभिः ॥ उद्दीपितातिविस्तारं याता चेद्दीप्तिरुच्यते ॥१.१९६॥ निःशङ्कत्वं प्रयोगेषु प्रागल्भ्यं परिकीर्त्यते । माधुर्यं नाम चेष्टानां सर्वावस्थासु मार्दवम् ॥१.१९७॥ स्थिरा चित्तोन्नतिर्या तु तद्धैर्यमिति संज्ञितम् । औदार्यं विनयं प्राहुः सर्वावस्थानुगं बुधाः ॥१.१९८॥ लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् । मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ॥१.१९९॥ विहृतं चेति विज्ञेया योषितां दश गात्रजाः । प्रियानुकरणं यत्तु मधुरालापपूर्वकैः ॥१.२००॥ चेष्टितैर्गतिभिर्वा स्यात्सा लीलेति निगद्यते । प्रियसम्प्राप्तिसमये भ्रूनेत्राननकर्मणाम् ॥१.२०१॥ तात्कालिको विशेषो यः स विलास इतीरितः । आकल्पकल्पनाल्पापि विच्छित्तिरतिकान्तिकृत् ॥१.२०२॥ प्रियागमनवेलायां मदनावेशसम्भ्रमात् । विभ्रमोऽ ङ्गदहारादिभूषास्थानविपर्ययः ॥१.२०३॥ शोकरोषाश्रुहर्षादेः सङ्करः किलकिञ्चितम् । स्वाभिलाषप्रकटं मोट्टायितमितीरितम् ॥१.२०४॥ केशाधरादिग्रहणे मोदमानेऽ पि मानसे । दुःखितेव बहिः कुप्येद्यत्र कुट्टमितं हि तत् ॥१.२०५॥ इष्टेऽ प्यनादरो गर्वान्मानाद्बिब्बोक ईरितः । विन्यासभङ्गिरङ्गानां भ्रूविलासमनोहराः ॥१.२०६॥ सुकुमारा भवेद्यत्र ललितं तदुदीरितम् । ईर्ष्यया मानलज्जाभ्यां न दत्तं योग्यमुत्तरम् ॥१.२०७॥ क्रियया व्यज्यते यत्र विहृतं तदुदीरितम् । इत्थं श्रीसिंहभूपेन सत्त्वालङ्कारशालिना ॥१.२०८॥ कथिताः सत्त्वजाः स्त्रीणामलङ्कारास्तु विंशतिः । सत्त्वाद्दशैव भावाद्या जाता लीलादयस्तु न ॥१.२०९॥ अतो हि विंशतिर्भावाः सात्त्विका इति नोचितम् । युज्यते सात्त्विकत्वं च भावादिसहचारिणः ॥१.२१०॥ लीलादिदशकस्यापि छत्रिन्यायबलात्स्फुटम् । भोजेन क्रीडितं केलिरित्यन्यौ गात्रजौ स्मृतौ ॥१.२११॥ अतो विंशतिरित्यत्र सङ्ख्येयं नोपपद्यते । अत्रोच्यते भावतत्त्ववेदिना सिंहभूभुजा ॥१.२१२॥ आद्यः प्रागेव भावादिसमुत्पत्तेश्च शैशवे । कन्याविनोदमात्रत्वादनुभावेषु नेष्यते ॥१.२१३॥ प्रेमविस्रम्भमात्रत्वान्नान्यस्याप्यनुभावता । अतो विंशतिरित्येषा सङ्ख्या सङ्ख्यावतां मता ॥१.२१४॥ शोभा विलासो माधुर्यं धैर्यं गाम्भीर्यमेव च । ललितौदार्यतेजांसि सत्त्वभेदास्तु पौरुषाः ॥१.२१५॥ नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता । यत्र प्रकटतां यान्ति सा शोभेति प्रकीर्तिता ॥१.२१६॥ वृषभस्येव गम्भीरा गतिर्धीरं च दर्शनम् । सस्मितं च वचो यत्र स विलास इतीरितः ॥१.२१७॥ तन्माधुर्यं यत्र चेष्टादृष्ट्यादेः स्पृहणीयता । शृङ्गारप्रचुरा चेष्टा यत्र तल्ललितं भवेत् ॥१.२१८॥ अत्र गाम्भीर्यधैर्ये द्वे चित्तजे गात्रजाः परे । एके साधारणानेतान्मेनिरे चित्तगात्रयोः ॥१.२१९॥ आलापश्च विलापश्च संलापश्च प्रलापकः । अनुलापापलापौ च सन्देशश्चातिदेशकः ॥१.२२०॥ निर्देशश्चोपदेशश्चापदेशो व्यपदेशकः । एवं द्वादशधा प्रोक्ता कीर्तिता वागारम्भा विचक्षणैः ॥१.२२१॥ तत्रालापः प्रियोक्तिः स्याद्विलापो दुःखजं वचः । उक्तिप्रत्युक्तिमद्वाक्यं संलाप इति कीर्तितम् ॥१.२२२॥ व्यर्थालापः प्रलापः स्यादनुलापो मुहुर्वचः । अपलापस्तु पूर्वोक्तस्यान्यथा योजनं भवेत् ॥१.२२३॥ सन्देशस्तु प्रोषितस्य स्ववार्ताप्रेषणं भवेत् । सोऽ तिदेशो मदुक्तानि तदुक्तानीति यद्वचः ॥१.२२४॥ निर्देशस्तु भवेत्सोऽ यमहमित्यादिभाषणम् । यत्र शिक्षार्थवचनमुपदेशः स उच्यते ॥१.२२५॥ अन्यार्थकथनं यत्र सोऽ पदेश इतीरितः । व्याजेनात्माभिलाषोक्तिर्यत्रायं व्यपदेशकः ॥१.२२६॥ बुद्ध्यारम्भास्तथा प्रोक्ता रीतिवृत्तिप्रवृत्तयः । रीतिः स्यात्पदविन्यासभङ्गी सा तु त्रिधा मता ॥१.२२७॥ कोमला कठिना मिश्रा चेति स्यात्तत्र कोमला । द्वितीयतुर्यवर्णैर्या स्वल्पैर्वर्गेषु निर्मिता ॥१.२२८॥ अल्पप्राणाक्षरप्राया दशप्राणसमन्विता । समासरहिता स्वल्पैः समासैर्वा विभूषिता ॥१.२२९॥ विदर्भजनहृद्यत्वात्सा वैदर्भीति कथ्यते । श्लेषः प्रसादः समता माधुर्यं सुकुमारता ॥१.२३०॥ अर्थव्यक्तिरुदारत्वमोजः कान्तिसमाधयः । एते वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ॥१.२३१॥ केवलाल्पप्राणवर्णपदसन्दर्भलक्षणम् । शैथिल्यं यत्र न स्पृष्टं स श्लेषः समुदाहृतः ॥१.२३२॥ प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते । बन्धवैषम्यराहित्यं समता पदगुम्फने ॥१.२३३॥ बन्धो मृदुः स्फुटो मिश्र इति त्रेधा स निगद्यते । तन्माधुर्यं भवेद्यत्र शब्देऽ र्थे च स्फुटो रसः ॥१.२३४॥ यदनिष्ठुरवर्णत्वं सौकुमार्यं तदुच्यते । श्रूयमाणस्य वाक्यस्य विना शब्दान्तरस्पृहाम् ॥१.२३५॥ अर्थावगमकत्वं यदर्थव्यक्तिरियं मता । उक्ते वाक्ये गुणोत्कर्षप्रतिभानमुदारता ॥१.२३६॥ समासबहुलत्वं यत्तदोजः इति गीयते । लोकस्थितिमनुल्लङ्घ्य हृद्यार्थप्रतिपादनम् ॥१.२३७॥ कान्तिः स्याद्द्विविधा ख्याता वार्तायां वर्णनासु च । समाधिः सोऽ न्यधर्माणां यदन्यत्राधिरोपणम् ॥१.२३८॥ अतिदीर्घसमासयुता बहुलैर्वर्णैर्युता महाप्राणैः । कठिना सा गौडीयेत्युक्ता तद्देशबुधमनोज्ञत्वात् ॥१.२३९॥ यत्रोभयगुणग्रामसंनिवेशस्तुलाधृतः । सा मिश्रा सैव पाञ्चालीत्युक्ता तद्देशजप्रिया ॥१.२४०॥ आन्ध्री लाटी च सौराष्ट्रीत्यादयो मिश्ररीतयः । सन्ति तत्तद्देशविद्वत्प्रियमिश्रणभेदतः ॥१.२४१॥ त एव पदसङ्घातास्ता एवार्थविभूतयः । तथापि नव्यं भवति काव्यं ग्रथनकौशलात् ॥१.२४२॥ तासां ग्रन्थगडुत्वेन लक्षणं नोच्यते मया । भोजादिग्रन्थबन्धेषु तदाकाङ्क्षिभिरीक्ष्यताम् ॥१.२४३॥ भारती सात्वती चैव कैशिक्यारभटीति च । चतस्रो वृत्तयस्तासामुत्पत्तिर्वक्ष्यते स्फुटम् ॥१.२४४॥ जगत्येकार्णवे जाते भगवानव्ययः पुमान् । भोगिभोगमधिष्ठाय योगनिद्रापरोऽ भवत् ॥१.२४५॥ तदा वीर्यमदोन्मत्तौ दैत्येन्द्रौ मधुकैटभौ । तरसा देवदेवेशमागतौ रणकाङ्क्षिणौ ॥१.२४६॥ विविधैः परुषैर्वाक्यैरधिक्षेपविधायिनौ । मुष्टिजानुप्रहारैश्च योधयामासतुर्हरिम् ॥१.२४७॥ तन्नाभिकमलोत्पन्नः प्रजापतिरभाषत । किमेतद्भारतीवृत्तिरधुनापि प्रवर्तते ॥१.२४८॥ तदिमौ नय दुर्धर्षौ निधनं त्वरया विभो । इति तस्य वचः श्रुत्वा निजगाद जनार्दनः ॥१.२४९॥ इदं काव्यक्रियाहेतोर्भारती निर्मिता ध्रुवम् । भाषणाद्वाक्यबाहुल्याद्भारतीयं भविष्यति ॥१.२५०॥ अधुनैव निहन्म्येतावित्याभाष्य वचो हरिः । निर्मलैर्निर्विकारैश्च साङ्गहारैर्मनोहरैः ॥१.२५१॥ अङ्गैस्तौ योधयामास दैत्येन्द्रौ युद्धशालिनौ । भूमिस्थानकसंयोगैः पदक्षेपैस्तथा हरेः ॥१.२५२॥ भूमेस्तदाभवद्भारस्तद्वशादपि भारती । वल्गितैः शार्ङ्गिणस्तत्र दीप्तैः सम्भ्रमवर्जितैः ॥१.२५३॥ सत्त्वाधिकैर्बाहुदण्डैः सात्वत्वी वृत्तिरुद्गता । विचित्रैरङ्गहारैश्च हेलया स तदा हरिः ॥१.२५४॥ यत्तौ बबन्ध केशेषु जाता सा कैशिकी ततः । ससंरम्भैः सवेगैश्च चित्रचारीसमुत्थितैः ॥१.२५५॥ नियुद्धकरणैर्जाता चित्रैरारभटी ततः । यस्माच्चित्रैरङ्गहारैः कृतं दानवमर्दनम् ॥१.२५६॥ तस्मादब्जभुवा लोके नियुद्धसमयः कृतः । यः शस्त्रास्त्रादिमोक्षेषु न्यायः स पारिभाषितः ॥१.२५७॥ नाट्यकाव्यक्रियायोगे रसभावसमाश्रितः । स एव समयो धात्रा वृत्तिरित्येव संज्ञितः ॥१.२५८॥ हरिणा तेन यद्वस्तु वलिगितैर्यादृशं कृतम् । तद्वदेव कृता वृत्तिर्धात्रा तस्याङ्गसम्भवा ॥१.२५९॥ ऋग्वेदाच्च यजुर्वेदात्सामवेदादथर्वणः । भारत्याद्या क्रमाज्जाता इत्यन्ये तु प्रचक्षते ॥१.२६०॥ प्रयुक्तत्वेन भरतैर्भारतीति निगद्यते । प्रस्तावनोपयोगित्वात्साङ्गं तत्रैव लक्ष्यते ॥१.२६१॥ सात्त्विकेन गुणेनातित्यागशौर्यादिना युता । हर्षप्रधाना सन्त्यक्तशोकभावा च या भवेत् ॥१.२६२॥ सात्वती नाम सा वृत्तिः प्रोक्ता लक्षणकोविदैः । अङ्गान्यस्यास्तु चत्वारि संलापोत्तापकावपि ॥१.२६३॥ सङ्घात्यः परिवर्तश्चेत्येषां लक्षणमुच्यते । ईर्ष्याक्रोधादिभिर्भावै रसैर्वीराद्भुतादिभिः ॥१.२६४॥ परस्परं गभीरोक्तिः संलाप इति शब्द्यते । प्रेरणं यत्परस्यादौ युद्धायोत्थापकस्तु सः ॥१.२६५॥ मन्त्रशक्त्यार्थशक्त्या वा दैवशक्त्याथ पौरुषात् । सङ्घस्य भेदनं यत्तु सङ्घात्यः स उदाहृतः ॥१.२६६॥ पूर्वोद्युक्तस्य कार्यस्य परित्यागेन यद्भवेत् । कार्यान्तरस्वीकरणं ज्ञेयः स परिवर्तकः ॥१.२६७॥ नृत्यगीतविलासादिमृदुशृङ्गारचेष्टितैः । समन्विता भवेद्वृत्तिः कैशिकी श्लक्ष्णभूषणा ॥१.२६८॥ अङ्गान्यस्यास्तु चत्वारि नर्म तत्पूर्वका इमे । स्फञ्जस्फोटौ च गर्भश्च तेषां लक्षणमुच्यते ॥१.२६९॥ शृङ्गाररसभूयिष्ठः प्रियचित्तानुरञ्जकः । अग्राम्यः परिहासस्तु नर्म स्यात्तत्त्रिधा मतम् ॥१.२७०॥ शृङ्गारहास्यजं शुद्धहास्यजं भयहास्यजम् । शृङ्गारहास्यजं नर्म त्रिविधं परिकीर्तितम् ॥१.२७१॥ सम्भोगेच्छाप्रकटनादनुरागनिवेशनात् । तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् ॥१.२७२॥ सम्भोगेच्छाप्रकटनं त्रिधा वाग्वेषचेष्टितैः । अनुरागप्रकाशोऽ पि भोगेच्छानर्मवत्त्रिधा ॥१.२७३॥ प्रियापराधनिर्भेदोऽ प्युक्तस्त्रेधा तथा बुधैः । शुद्धहास्यजमप्युक्तं तद्वदेव त्रिधा बुधैः ॥१.२७४॥ हास्याद्भयेन जनिताज्जनितं भयहास्यजम् । तद्द्विधा मुखमङ्गं तु तद्द्वयं पूर्ववत्त्रिधा ॥१.२७५॥ अग्राम्यनर्मनिर्माणवेदिना सिंहभूभुजा । नर्माष्टादशधा भिन्नमेव स्फुटमुदाहृतम् ॥१.२७६॥ नर्मस्फञ्जः सुखोद्योगो भयान्तो नवसङ्गमे । नर्मस्फोटस्तु भावांशैः सूचितोऽ ल्परसो भवेत् ॥१.२७७॥ अन्यैस्त्वकाण्डे सम्भोगविच्छेद इति गीयते । नेतुर्वा नायिकाया वा व्यापारः स्वार्थसिद्धये ॥१.२७८॥ प्रच्छादनपरो यस्तु नर्मगर्भः स कीर्तितः । पूर्वस्थितो विपद्येत नायको यत्र चापरस्तिष्ठेत् ॥१.२७९॥ तमपीह नर्मगर्भं प्रवदति भरतो हि नाट्यवेदगुरुः । मायेन्द्रजालप्रचुरां चित्रयुद्धक्रियामयीम् ॥१.२८०॥ छेद्यैर्भेद्यैः प्लुतैर्युक्तां वृत्तिमारभटीं विदुः । अङ्गान्यस्यास्तु चत्वारि सङ्क्षिप्तिरवपातनम् ॥१.२८१॥ वस्तूत्थापनसम्फेटाविति पूर्वे बभाषिरे । सङ्क्षिप्तवस्तुविषया या मायाशिल्पयोजिता ॥१.२८२॥ सा सङ्क्षिप्तिरिति प्रोक्ता भरतेन महात्मना । वदन्त्यन्ये तु तां नेतुरवस्थान्तरसङ्गतिम् ॥१.२८३॥ परिवर्तकभेदत्वात्तदुपेक्षामहे वयम् । विभ्रान्तिरवपातः स्यात्प्रवेशद्रवविद्रवैः ॥१.२८४॥ तद्वस्तूत्थापनं यत्तु वस्तु मायोपकल्पितम् । सम्फेटस्तु समाघातः क्रुद्धसंरब्धयोर्द्वयोः ॥१.२८५॥ आसां च मध्ये वृत्तीनां शब्दवृत्तिस्तु भारती । तिस्रोऽ र्थवृत्तयः शेषास्तच्चतस्रो हि वृत्तयः ॥१.२८६॥ अन्ये तु मिश्रणादासां मिश्रां वृत्तिं च पञ्चमीम् । अशेषरससामान्यां मन्यन्ते लक्षयन्ति च ॥१.२८७॥ कैशिकी स्यात्तु शृङ्गारे रसे वीरे तु सात्वती । रदुरबीभत्सयोर्वृत्तिर्नियतारभटी पुनः ॥१.२८८॥ शृङ्गारादिषु सर्वेषु रसेष्विष्टैव भारती । केचित्तु तमिमं श्लोकं भारतीयं नियामकम् ॥१.२८९॥ प्रायिकाभिप्रायतया व्याचक्षाणा विचक्षणाः । आसां रसेषु वृत्तीनां नियमं नानुमन्वते ॥१.२९०॥ विचारसुन्दरो नैष मार्गः स्यादित्युदास्महे । कैशिकीवृत्तिभेदानां नर्मादीनां प्रकल्पनम् ॥१.२९१॥ यत्र करुणमाश्रित्य रसाभासत्वकारणम् । रसाभासप्रकरणे वक्ष्यते तदिदं स्फुटम् ॥१.२९२॥ तत्तन्न्यायप्रवीणेन न्यायमार्गानुवर्तिना । दर्शितं सिंहभूपेन स्पष्टं वृत्तिचतुष्टयम् ॥१.२९३॥ तत्तद्देशोचिता भाषा क्रिया वेषा प्रवृत्तयः । तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः ॥१.२९४॥ तत्र भाषा सप्तविधा प्राच्यावन्त्या च मागधी । बाह्लीका दाक्षिणात्या च शौरसेनी च मालवी ॥१.२९५॥ सप्तधा स्याद्विभाषादि शबरद्रमिलान्ध्रजाः । शकाराभीरचण्डालवनेचरभवा इति ॥१.२९६॥ भाषाविभाषाः सन्त्यन्यास्तत्तद्देशजनोचिताः । तासामनुपयोगित्वान्नात्र लक्षणमुच्यते ॥१.२९७॥ तत्तद्देशोचिता वेषाः क्रियाश्चातिस्फुटान्तराह् । अन्येषां सुखदुःखादिभावेषु कृतभावनम् ॥१.२९८॥ आनुकूल्येन यच्चित्तं भावकानां प्रवर्तते । सत्त्वं तदिति विज्ञेयं प्राज्ञैः सत्त्वोद्भवानिमान् ॥१.२९९॥ सात्त्विका इति जानन्ति भरतादिमहर्षयः । सर्वेषामपि भावानां यैः स्वसत्त्वं हि भाव्यते ॥१.३००॥ ते भावा भावतत्त्वज्ञैः सात्त्विका समुदीरिताः । ते स्तम्भस्वेदरोमाञ्चाः स्वरभेदश्च वेपथुः ॥१.३०१॥ वैवर्ण्यमश्रुप्रलयावित्यष्टौ परिकीर्तिताः । स्तम्भो हर्षभयामर्षविषादाद्भुतसम्भवः ॥१.३०२॥ अनुभावा भवन्त्येते स्तम्भस्य मुनिसंमताः । संज्ञाविरहितत्वं च शून्यता निष्प्रकम्पता ॥१.३०३॥ निदाघहर्षव्यायामश्रमक्रोधभयादिभिः । स्वेदः सञ्जायते तत्र त्वनुभावा भवन्त्यमी ॥१.३०४॥ स्वेदापनयवातेच्छाव्यजनग्रहणादयः । रोमाञ्चो विस्मयोत्साहहर्षाद्यैस्तत्र विक्रियाः ॥१.३०५॥ रोमोद्गमोल्लुकसनगात्रसंस्पर्शनादयः । वैस्वर्यं सुखदुःखाद्यैस्तत्र स्युर्गद्गदादयः ॥१.३०६॥ वेपथुर्हर्षसन्त्रासजराक्रोधादिभिर्भवेत् । तत्रानुभावाः स्फुरणगात्रकम्पादयो मताः ॥१.३०७॥ विषादातपरोषाद्यैर्वैवर्ण्यमुपजायते । मुखवर्णपरावृत्तिकार्श्याद्यास्तत्र विक्रियाः ॥१.३०८॥ विषादरोषसन्तोषाधूमाद्यैरश्रु तत्क्रियाः । बाष्पबिन्दुपरिक्षेपनेत्रसंमार्जनादयः ॥१.३०९॥ प्रलयो दुःखधाताद्यैश्चेष्टा तत्र विसंज्ञता । सर्वेऽ पि सत्त्वमूलत्वाद्भावा यद्यपि सात्त्विकाः ॥१.३१०॥ तथाप्यमीषां सत्त्वैकमूलत्वात्सात्त्विकप्रथा । अनुभावाश्च कथ्यन्ते भावसंसूचनादमी ॥१.३११॥ एवं द्वैरूप्यमेतेषां कथितं भावकोविदैः । अनुभावैकनिधिना सुखानुभवशालिना । श्रीसिंहभूभुजा साङ्गमनुभावा निरूपिताः ॥१.३१२॥ अस्मत्कल्पलतादलानि गिलति त्वत्कामगौर्वार्यतां मच्चिन्तामणिवेदिभिः परिणमेद्दूरान्नयोच्चैर्गजम् । इत्यारूढवितर्दिकाः प्रतिपथं जल्पन्ति भूदेवताः सिंहक्ष्माभुजि कल्पवृक्षसुरभीहस्त्यादिदानोद्यते ॥१.३१३॥ रक्षायां राक्षसारिं प्रबलविमतविद्रावणे वीरभद्रं कारुण्ये रामभद्रं भुजबलविभवारोहणे रौहिणेयम् । पाञ्चालं चञ्चलाक्षीपरिचरणविधौ पूर्णचन्द्रं प्रसादे कन्दर्परूपदर्पे तुलयति नितरां सिंहभूपालचन्द्रः ॥१.३१४॥ इति श्रीमदान्ध्रमण्डलाधीश्वरप्रतिगण्डभैरवश्रीमदनपोतनरेन्द्रनन्दनभुजबलभीमश्रीसिंहभूपालविरचिते रसार्णवसुधाकरनाम्नि नाट्यालङ्कारशास्त्रे रञ्जकोल्लासो नाम प्रथमो विलासः ॥२.१॥ ओ)०(ओ ः (२) द्वितीयो विलासः रसिकोल्लासः कल्याणदायि भवतां भवेद्भव्यगुणाकरम् । कमलाकुचकालेयव्यञ्जितोरःस्थलं महः ॥३.१॥ चिदचित्क्षेमकारिण्यै नमः श्रीपर्णजादिभिः । वन्द्यायै वार्धिनन्दिन्यै कराग्रस्थपयोरुहे ॥२.२॥ व्यभी इत्युपसर्गौ द्वौ विशेषाभिमुखत्वयोः । विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति ॥२.३॥ वागङ्गसत्त्वसूच्या ज्ञेयास्ते व्यभिचारिणः । तं चारयन्ति भावस्य गतिं सञ्चारिणोऽ पि ॥२.४॥ उन्मज्जन्तो निमज्जन्तः स्थायिन्यमृतवारिधौ । ऊर्मिवद्वर्धयन्त्येनं यान्ति तद्रूपतां च ते ॥२.५॥ निर्वेदोऽ थ विषादो दैन्यं ग्लानिश्रमौ च मदगर्वौ । शङ्कात्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥२.६॥ मोहो मृतिरालस्यं जाड्यं व्रीडावहित्था च । स्मृतिरथ वितर्कचिन्तामतिधृतयो हर्ष उत्सुकत्वं च ॥२.७॥ औग्र्यमर्षासूयाश्चापल्यं चैव निद्रा च । सुप्तिर्बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥२.८॥ तत्त्वज्ञानाच्च दौर्गत्यावापदो विप्रयोगतः । ईर्ष्यादेरपि संजातं निर्वेदः स्वावमाननम् [*१] ॥२.९॥ प्रारब्धकार्यानिर्वाहादिष्टानवाप्तेर्विपत्तितः । अपराधपरिज्ञानादनुतापस्तु यो भवेत् ॥२.१०॥ विषादः स त्रिधा ज्येष्ठमध्यमाधमसंश्रयात् । सहायान्वेषणोपायचिन्ताद्या उत्तमे मताः ॥२.११॥ अनुत्साहश्च वैचित्त्यमित्याद्या मध्यमे मताः । अधमस्यानुभावाः स्युर्वैचित्र्यमवलोकनम् ॥२.१२॥ रोदनश्वासितध्यानमुखशोषादयोऽ पि च । हृत्तापदुर्गतत्वाद्यैरनौद्धत्यं हि दीनता ॥२.१३॥ तत्रानुभावा मालिन्यगात्रस्तम्भादयो मताः । आधिव्याधिजरातृष्णाव्यायामसुरतादिभिः ॥२.१४॥ निष्प्राणता ग्लानिरत्र क्षामाङ्गवचनक्रियाः । कम्पानुत्साहवैवर्ण्यनयनभ्रमणादयः ॥२.१५॥ श्रमो मानसखेदः स्यादध्वनृत्यरतादोभिः । अङ्गमर्दननिःश्वासौ पादसंवाहनं तथा ॥२.१६॥ जृम्भणं मन्दयानं च मुखनेत्रविघूर्णनम् । सीत्कृतिश्चेति विज्ञेया अनुभावाः श्रमोद्भवाः ॥२.१७॥ मदस्त्वानन्दसंमोहसम्भेदो मदिराकृतः । स त्रिधा तरुणो मध्योऽ पकृष्टश्चेति भेदतः ॥२.१८॥ दृष्टिः स्मेरा मुखे रागः सस्मिताकुलितं वचः । ललिताविद्धगत्याद्याश्चेष्टाः स्युस्तरुणे मदे ॥२.१९॥ मध्यमे तु मदे वाचि स्खलनं घूर्णनं दृशोः । गमने वक्त्रता बाह्वोर्विक्षेपस्रस्ततादयः ॥२.२०॥ अपकृष्टे तु चेष्टाः स्युर्गतिभङ्गो विसंज्ञता । निष्ठीवनं मुहुः श्वासो हिक्का छर्द्यादयो मताः ॥२.२१॥ तरुणस्तूत्तमादीनां मध्यमो मध्यनीचयोः । अपकृष्टस्तु नीचानां तत्तन्मदविवर्धने ॥२.२२॥ उत्तमप्रकृतिः शेते मध्यो हसति गायति । अधमप्रकृतिर्ग्राम्यं परुषं वक्ति रोदिति ॥२.२३॥ ऐश्वर्यादिकृतः कैश्चित्मानो मद इतीरितः । वक्ष्यमाणस्य गर्वस्य भेद एवेत्युदास्महे ॥२.२४॥ ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि । इष्टलाभादिनान्येषामवज्ञा गर्व ईरितः ॥२.२५॥ अनुभावा भवन्त्यत्र गुर्वाज्ञाद्याज्ञाव्यतिक्रमः । अनुत्तरप्रअदानं च वैमुख्यं भाषणेऽ पि च ॥२.२६॥ विभ्रमापह्नुती वाक्यपारुष्यमनवेक्षणम् । अवेक्षणं निजाङ्गानामङ्गभङ्गादयोऽ पि च ॥२.२७॥ शङ्का चौर्यापराधाद्यैः स्वानिष्टोत्प्रेक्षणं मतम् । तत्र चेष्टामुहुः पार्श्वदर्शनं मुखशोषणम् ॥२.२८॥ अवकुण्ठनवैवर्ण्यकण्ठसादादयोऽ पि च । शङ्का द्विद्येयमात्मोत्था परोत्था चेति भेदतः ॥२.२९॥ स्वाकार्यजनिता स्वोत्था प्रायो व्यङ्ग्येयमिङ्गितैः । इङ्गितानि तु पक्ष्मभ्रूतारकादृष्टिविक्रियाः ॥२.३०॥ परोत्था तु निजस्यैव परस्याकार्यतो भवेत् । प्रायेणाकारचेष्टाभ्यां तामिमामनुभावयेत् ॥२.३१॥ आकारः सात्त्विकश्चेष्टा त्वङ्गप्रत्यङ्गजाः क्रियाः । त्रासस्तु चित्तचाञ्चल्यं विद्युत्क्रव्यादगर्जितैः ॥२.३२॥ तथा भूतभुजङ्गाद्यैर्विज्ञेयास्तत्र विक्रियाः । उत्कम्पगात्रसङ्कोचरोमाञ्चस्तम्भगद्गदाः ॥२.३३॥ मुहुर्निमेषविभ्रान्तिपार्श्वस्थालम्बनादयः । चित्तस्य सम्भ्रमो यः स्यादावेगोऽ यं स चाष्टधा ॥२.३४॥ उत्पातवातवर्षाग्निमत्तकुञ्जरदर्शनात् । प्रियाप्रियश्रुतेश्चापि शत्रवव्यसनादपि ॥२.३५॥ तत्रौत्पातस्तु शैलादिकम्पकेतूदयादयः । तज्जाः सर्वाङ्गविस्रंसो वैमुख्यमपसर्पणम् ॥२.३६॥ विषादमुखवैवर्ण्यविस्मयाद्यास्तु विक्रियाः । त्वरयागमनं वस्त्रग्रहणं चावकुण्ठनम् ॥२.३७॥ नेत्रावमार्जनाद्याश्च वातावेगभवाः क्रियाः । छत्रग्रहोऽ ङ्गसङ्कोचो बाहुस्वस्तिकधावने ॥२.३८॥ उष्णाश्रयणमित्याद्या वर्षावेगभवाः क्रियाः । अग्न्यावेगःभवाश्चेष्टा वीजनं चाङ्गधूननम् ॥२.३९॥ व्यत्यस्तपदविक्षेपनेत्रसङ्कोचनादयः । आवेगे कुञ्जरोद्भूते सत्वरं चापसर्पणम् ॥२.४०॥ विलोकनं मुहुः पश्चात्त्रासकम्पादयो मताः । प्रियश्रवणजे ह्यस्मिनभुत्थानोपगूहने ॥२.४१॥ प्रीतिदानं प्रियं वाक्यं रोमहर्षादयोऽ पि च । अप्रियश्रुतिजेऽ प्यस्मिन् विलापह्परिवर्तनम् ॥२.४२॥ आक्रन्दितं च पतनं परितो भ्रमणादयः । चेष्टाः स्युः शात्रवावेगे वर्मशस्त्रादिधारणम् ॥२.४३॥ रथवाजिगजारोहसहसापक्रमादयः । एते स्युरुत्तमादीनामनुभावा यथोचितम् ॥२.४४॥ उन्मादश्चित्तविभ्रान्तिर्वियोगादिष्टनाशतः । वियोगजे तु चेष्टाः स्युर्धावनं परिदेवनम् ॥२.४५॥ असम्बद्धप्रलपनं शयणं सहसोत्थितिः । अचेतनैः सहालापो निर्निमित्तस्मितादयः ॥२.४६॥ इष्टनाशकृते त्वस्मिन् भस्मादिपरिलेपनम् । नृत्यगीतादिरचना तृणनिर्माल्यधारणम् ॥२.४७॥ चीवरावरणादीनि प्रागुक्ताश्चापि विक्रियाः । धातुवैषम्यदोषेण भूतावेशादिना कृतः ॥२.४८॥ चित्तक्षोभस्त्वपस्मारस्तत्र चेष्टाः प्रकम्पनम् । धावनं पतनं स्तम्भो भ्रमणं नेत्रविक्रियाः ॥२.४९॥ स्वोष्ठदंशभुजास्फोटलालाफेनादयोऽ पि च । दोषवैषम्यजस्त्वेष व्याधिरेवेत्युदास्महे ॥२.५०॥ दोषोद्रेकवियोगाद्यैर्स्याद्व्याधिरत्र तु । गात्रस्तम्भः श्लथाङ्गत्वं कूजनं मुखकूणनम् ॥२.५१॥ स्रस्ताङ्गताक्षिविक्षेपनिःश्वासाद्यास्तु विक्रियाः । सशीतो दाहयुक्तः स द्विविधः परिकीर्तितः [*२] ॥२.५२॥ हनुसञ्चालनं बाष्पः सर्वाङ्गोत्कम्पकूजने । जानुकुञ्चनरोमाञ्चमुखशोषादयोऽ पि च ॥२.५३॥ दाहज्वरे तु चेष्टाः स्युः शीतमाल्यादिकाङ्क्षणम् । पाणिपादपरिक्षेपमुखशोषादयोऽ पि च ॥२.५४॥ आपद्भीतिवियोगाद्यैर्मोहश्चित्तस्य मूढता । विक्रियास्तत्र विज्ञेया इन्द्रियाणां च शून्यता ॥२.५५॥ निश्चेष्टताङ्गभ्रमणपतनाघूर्णनादयः । वायोर्धनञ्जयाख्यस्य विप्रयोगो य आत्मना ॥२.५६॥ शरीरावच्छेदवता मरणं नाम तद्भवेत् । एतच्च द्विविधं प्रोक्तं व्याधिजं चाभिघातजम् ॥२.५७॥ आद्यं त्वसाध्यहृच्छूलविषूच्यादिसमुद्भवम् । अमी तत्रानुभावाः स्युरव्यक्ताक्षरभाषणम् ॥२.५८॥ विवर्णगात्रता मन्दश्वासादि स्तम्भमीलने । हिक्का परिजनापेक्षानिश्चेष्टेन्द्रियतादयः ॥२.५९॥ द्वितीयं घातपतनदोहोद्बन्धविषादिजम् । तत्र घातादिजे भूमिपतनक्रन्दनादयः ॥२.६०॥ विषं तु वत्सनाभाद्यमष्टौ वेगास्तदुद्भवाः । कार्ष्ण्यं कम्पो दाहो हिक्का फेनश्च कन्धरभङ्गः ॥२.६१॥ जडता मृतिरिति कथिता क्रमशः प्रथमाद्या वेगजाश्चेष्टाः । स्वभावश्रमसौहित्यगर्भनिर्भरतादिभिः ॥२.६२॥ कृच्छ्रात्क्रियोन्मुखत्वं यत्तदालस्यमिह क्रियाः । अङ्गभङ्गः क्रियाद्वेषो जृम्भणाक्षिविमर्दने ॥२.६३॥ शय्यासनैकप्रियता तन्द्रीनिद्रादयोऽ पि च । जाड्यमप्रतिपत्तिः स्यादिष्टानिष्ठार्थयोः श्रुतेः ॥२.६४॥ दृष्टेर्वा विरहादेश्च क्रियास्तत्रानिमेषता । अश्रुतिः पारवश्यं च तूष्णीम्भावादयोऽ पि च ॥२.६५॥ अकार्यकरणावज्ञास्तुतिनूतनसङ्गमैः । प्रतीकाराक्रियाद्यैश्च व्रीडत्वनतिधृष्टता ॥२.६६॥ तत्र चेष्टा निगूढोक्तिराधोमुख्यविचिन्तने । अनिर्गमो बहिः क्वापि दूरादेवावगुण्ठनम् ॥२.६७॥ नखानां कृन्तनं भूमिलेखनं चैवमादयः । अवहित्थाकारगुप्तिर्जैह्म्यप्राभवनीतिभिः ॥२.६८॥ लज्जासाध्वसदाक्षिण्यप्रागल्भ्यापजयादिभिः । अन्यथाकथनं मिथ्याधैर्यमन्यत्र वीक्षणम् ॥२.६९॥ कथाभङ्गादयोऽ प्यस्यामनुभावा भवन्त्यमी । स्वास्थ्यचिन्तादृढाभ्याससदृशालोकनादिभिः ॥२.७०॥ स्मृतिः पूर्वानुभूतार्थप्रतीतिस्तत्र विक्रियाः । कम्पनोद्वहने मूर्ध्नो भ्रूविक्षेपादयोऽ पि च ॥२.७१॥ ऊहो वितर्कः सन्देहविमर्षप्रत्ययादिभिः । जनितो निर्णयान्तः स्यादसत्यः सत्य एव वा ॥२.७२॥ तत्रानुभावाः स्युरमी भ्रूशिरः क्सेपणादयः । इष्टवस्त्वपरिप्राप्तेरैश्वर्यभ्रंशनादिभिः ॥२.७३॥ चिन्ता ध्यानात्मिका तस्यामनुभावा भवन्त्यमी । कार्श्याधोमुख्यसन्तापनिःश्वासोच्छ्र्वसनादयः ॥२.७४॥ नानाशास्त्रारथमथनादर्थनिर्धारणं मतिः । तत्र चेष्टास्तु कर्तव्यकरणं संशयछिदा ॥२.७५॥ शिष्योपदेशभ्रूक्षेपावूहापोहादयोऽ पि च । ज्ञानविज्ञानगुर्वादिभक्तिनानार्थसिद्धिभिः ॥२.७६॥ लज्जादिभिश्च चित्तस्य नैस्पृह्यं धृतिरुच्यते । अत्रानुभावा विज्ञेयाः प्राप्तार्थानुभवस्तथा ॥२.७७॥ अप्राप्तातीतनष्टार्थानभिसङ्क्षोभणादयः । मनोरथस्य लाभेन सिद्ध्या योग्यस्य वस्तुनः ॥२.७८॥ मित्रसङ्गमदेवादिप्रसादादेश्च कल्पितः । मनःप्रसादो हर्षः स्यादत्र नेत्रास्यफुल्लता ॥२.७९॥ प्रियाभाषणमाश्लेषः पुलकानां प्ररोहणम् । स्वेदोद्गमश्च हस्तेन हस्तसम्पीडनादयः ॥२.८०॥ कालाक्षमत्वमौत्सुक्यमिष्टवस्तुवियोगतः । तद्दर्शनाद्रम्यवस्तुदिदृक्षादेश्च तत्क्रियाः ॥२.८१॥ त्वरानवस्थितिः शय्यास्थितिरुत्तानचिन्तने । शरीरगौरवं निद्रातन्द्रानिःश्वसितादयः ॥२.८२॥ अपराधावमानाभ्यां चौर्याआभिग्रहणादिभिः । असत्प्रलापनाद्यैश्च कृतं चण्डत्वमुग्रता ॥२.८३॥ क्रियास्तत्रास्यनयनरागो बन्धनताडने । शिरसः कम्पनं खेदवधनिर्भर्त्सनादयः ॥२.८४॥ अधिक्षेपावमानाद्यैः क्रोधोऽ मर्ष इतीर्यते । तत्र स्वेदशिरःकम्पावाधोमुख्यविचिन्तने ॥२.८५॥ उपायान्वेषणोत्साहव्यवसादयः क्रियाः । परसौभाग्यसम्पत्तिविद्याशौर्यादिहेतुभिः ॥२.८६॥ गुणेऽ पि दोषारोपः स्यादसूया तत्र विक्रियाः । मुखापवर्तनं गर्हा भ्रूभेदानादरादयः ॥२.८७॥ रागद्वेषादिभिश्चित्तलाघवं चापलं भवेत् । चेष्टास्तत्राविचारेण परिरम्भावलम्बने ॥२.८८॥ निष्कासनोक्तिपारुष्ये ताडनाज्ञापनादयः । मदस्वभावव्यायामनिश्चिन्तत्वश्रमादिभिः ॥२.८९॥ मनोनिमीलनं निद्रा चेष्टास्तत्रास्यगौरवम् । आघूर्णमाननेत्रत्वमङ्गानां परिमर्दनम् ॥२.९०॥ निःश्वासोच्छ्वासने सन्नगात्रत्वं नेत्रमीलनम् । शरीरस्य च सङ्कोचो जाड्यं चेत्येवमादयः ॥२.९१॥ उद्रेक एव निद्रायाः सुप्तिः स्यात्तत्र विक्रियाः । इन्द्रियोपरतिर्नेत्रमीलनं स्रस्तगात्रता ॥२.९२॥ उत्स्वप्नायितनैश्चल्यश्वासोच्छ्वासादयोऽ पि च । स्वप्नस्पर्शननिध्वाननिद्रासम्पूर्णतादिभिः ॥२.९३॥ प्रबोधश्चेतनावाप्तिश्चेष्टास्तत्राक्षिमर्दनम् । शय्याया मोक्षणं बाहुविक्षेपोऽ ङ्गुलिमोटनम् ॥२.९४॥ शिरःकण्डूयनं चाङ्गवलनं चैवमादयः । उत्तमाधममध्येषु सात्त्विका व्यभिचारिणः ॥२.९५॥ विभावैरनुभावैश्च वर्णनीया यथोचितम् । उद्वेगस्नेहदम्भेर्ष्याप्रमुखाश्चित्तवृत्तयः ॥२.९६॥ उक्तेष्वन्तर्भवन्तीति न पृथक्त्वेन दर्शिताः । विभावाश्चानुभावाश्च ते भवन्ति परस्परम् ॥२.९७॥ कार्यकारणभावस्तु ज्ञेयः प्रायेण लोकतः । स्वातन्त्र्यात्पारतन्त्र्याच्च ते द्विधा व्यभिचारिणः ॥२.९८॥ परपोषकतां प्राप्ताः परतन्त्रा इतीरिताः । तदभावे स्वतन्त्राः स्युर्भावा इति च ते स्मृताः ॥२.९९॥ आभासता भवेदेषामनौचित्यप्रवर्तिताम् । असत्यत्वादयोग्यत्वादनौचित्यं द्विधा भवेत् ॥२.१००॥ असत्यत्वकृतं तत्स्यादचेतनगतं तु यत् । अयोग्यत्वकृतं प्रोक्तं नीचतिर्यङ्नराश्रयम् ॥२.१०१॥ उत्पत्तिसन्धिशावल्यशान्तयो व्यभिचारिणाम् । दशाश्चतस्रस्तत्र उत्पत्तिर्भावसम्भवः ॥२.१०२॥ सरूपमसरूपं वा भिन्नकारणकल्पितम् । भावद्वयं मिलति चेत्स सन्धिरिति गीयते ॥२.१०३॥ अत्यारूढस्य भावस्य विलयः शान्तिरुच्यते । शवलत्वं तु भावानां संमर्दः स्यात्परस्परम् ॥२.१०४॥ दिगन्तरालसञ्चारकीर्तिना सिंहभूभुजा । एवं सञ्चारिणः सर्वे सप्रपञ्चं निरूपिताः ॥२.१०५॥ सजातीयैर्विजातीयैर्भावैर्ये त्वतिरस्कृताः । क्ष्राब्धिवन्नयन्त्यन्यान् स्वात्मत्वं स्थायिनो हि ते ॥२.१०६॥ भरतेन च ते कथिता रतिहासोत्साहविस्मयक्रोधाः । शोकोऽ थ जुगुप्सा भयमित्यष्टौ लक्ष्म वक्ष्यते तेषाम् ॥२.१०७॥ यूनोरन्योन्यविषया स्थायिनीच्छा रतिर्भवेत् । निसर्गेणाभियोगेन संसर्गेणाभिमानतः ॥२.१०८॥ उपमाध्यात्मविषयैरेषा स्यात्तत्र विक्रियाः । कटाक्षपातभ्रूक्षेपप्रियवागादयो मताः ॥२.१०९॥ भोजस्तु सम्प्रयोगेण रतिमन्यामुदाहरत् । सम्प्रयोगस्य शब्दादिष्वन्तर्भावान्न तन्मतम् ॥२.११०॥ अङ्कुरपल्लवकलिकाप्रस्पुनफलभोगभागियं क्रमशः । प्रेमा मानः प्रणयः स्नेहो रागोऽ नुरागश्च ॥२.१११॥ स प्रेमा भेदरहितं यूनोर्यद्भावबन्धनम् । यत्तु प्रेमानुबन्धेन स्वातन्त्र्याद्धृदयङ्गमम् ॥२.११२॥ बह्नाति भावकौटिल्यं सोऽ यं मान इतीर्यते । बाह्यान्तरोपचारैर्यत्प्रेममानोपकल्पितैः ॥२.११३॥ बध्नाति भावविश्रम्भं सोऽ यं प्रणय उच्यते । विश्रम्भे परमां काष्ठामारूढे दर्शनादिभिः ॥२.११४॥ यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते । स त्रेधा कथ्यते प्रौढमध्यमन्दविभेदतः ॥२.११५॥ प्रवासादिभिरज्ञातचित्तवृत्तौ प्रिये जने । इतरक्लेशकारी यः स प्रौढः स्नेह उच्यते ॥२.११६॥ इतरानुभवापेक्षां सहते यः स मध्यमः । द्वयोरेकस्य मानादौ तदन्यस्य करोति यः ॥२.११७॥ नैवोपेक्षां न चापेक्षां स स्नेहो मन्द उच्यते । दुःखमप्यधिकं चित्ते सुखत्वेनैव रज्यते ॥२.११८॥ येन स्नेहप्रकर्षेण स राग इति गीयते । कुसुम्भनीलीमञ्जिष्ठरागभेदेन स त्रिधा ॥२.११९॥ कुसुम्भरागः स ज्ञेयो यश्चित्ते रज्यति क्षणात् । अतिप्रकाशमानोऽ पि क्षणादेव विनश्यति ॥२.१२०॥ नीलीरागस्तु यः सक्तो नापैति न च दीप्यते । अचिरेणैव संसक्तश्चिरादपि न नश्यति ॥२.१२१॥ अतीव शोभते योऽ सौ माञ्जिष्ठो राग उच्यते । राग एव स्वयं वेद्यदशाप्राप्त्या प्रकाशितः ॥२.१२२॥ यावदाश्रयवृत्तिश्चेदनुराग इतीरितः । अन्ये प्रीतिं रतेर्भेद्मामनन्ति न तन्मतम् ॥२.१२३॥ असम्प्रयोगविषया सेयं हर्षान्न भिद्यते । भाषणाकृतिवेषाणं क्रियायाश्च विकारतः ॥२.१२४॥ लौल्यादेश्च परस्थानामेषामनुकृतेरपि । विकारश्चेतसो हासस्तत्र चेष्टाः समीरिताः ॥२.१२५॥ दृष्टेर्विकारो नामौष्ठकपोलस्पन्दनादयः । शक्तिर्धरियसहायाद्यैः फलश्लाघ्येषु कर्मसु ॥२.१२६॥ सत्वरा मानसी वृत्तिरुत्साहस्तत्र विक्रियाः । कालाद्यवेक्षणं धैर्यं वागारम्भादयोऽ पि च ॥२.१२७॥ सहजाहार्यभेदेन स द्विधा परिभाष्यते । लोकोत्तरपदार्थानां तत्पूर्वलोकनादिभिः ॥२.१२८॥ विस्तारश्चेतसो यस्तु विस्मयः स निगद्यते । क्रियास्तत्राक्षिविस्तारसाधूक्तिपुलकादयः ॥२.१२९॥ वधावज्ञादिभिश्चित्तज्वलनं क्रोध ईरितः । एष त्रिधा भवेत्कोर्धकोपरोषप्रभेदतः ॥२.१३०॥ वधच्छेदादिपर्यन्तः क्रोधः क्रूरजनाश्रयः । अभ्यर्थनावधिः प्रायः कोपो वीरजनाश्रयः ॥२.१३१॥ शत्रुभृत्यसुहृत्पूज्याश्चत्वारो विषयास्तयोः । मुहुर्दष्टोष्ठता भुग्नभ्रुकुटीदन्तघट्टनम् ॥२.१३२॥ हस्तनिष्पीडनं गात्रकम्पः शस्त्रप्रतीक्षणम् । स्वभुजावेक्षणं कण्ठगर्जाद्याः शात्रवक्रुधि ॥२.१३३॥ भृत्यक्रोधे तु चेष्टाः स्युस्तर्जनं मूर्धधननम् । निर्भर्त्सनं च बहुधा मुहुर्निर्वर्णनादयः ॥२.१३४॥ मित्रक्रोधे विकाराः स्युर्नेत्रान्तःपतदश्रुता । तूष्णीं ध्यानं च नैश्चल्यं श्वसितानि मुहुर्मुहुः ॥२.१३५॥ मौनं विनम्रमुखता भुग्नदृष्ट्यादयोऽ पि च । पूज्यक्रोधे तु चेष्टाः स्युः स्वनिन्दा नम्रवक्त्रता ॥२.१३६॥ अनुत्तरप्रदानाङ्गस्वेदगद्गदिकादयः । शत्रुक्रोधे तु चेष्टाः स्युर्भावगर्भितभाषणम् ॥२.१३७॥ भ्रूभेदनिटिलस्वेदकटाक्षआरुणिमादयः । भृत्यादिकोपत्रितये तत्तत्क्रोधादिताः क्रियाः ॥२.१३८॥ मिथः स्त्रीपुंसयोरेव रोषह्स्त्रीगोचरः पुनः । प्रत्ययावधिरत्र स्युर्विकाराः कुटिलेक्षणम् ॥२.१३९॥ अधरस्फुरणापाङ्गरागनिःश्वसितादयः । द्वेधा निगदितः स्त्रीणां रोषः पुरुषगोचरः ॥२.१४०॥ सपत्नीहेतुराद्यः स्यादन्यः स्यादन्यहेतुकः । सपत्नीहेतुको रोषो विप्रलम्भे प्रपञ्च्यते ॥२.१४१॥ अन्यहेतुकृते त्वत्र क्रियाः पुरुषरोषवत् । बन्धुव्यापत्तिदौर्गत्यधननाशादिभिः कृतः ॥२.१४२॥ चित्तक्लेशभरः शोकस्तत्र चेष्टा विवर्णता । बाष्पोद्गमो मुखे शोषः स्तम्भनिःश्वसितादयः ॥२.१४३॥ उत्तमानमयं प्रौढो विभावैरन्यसंश्रितैः । आत्मस्थैरतिरूढोऽ पि प्रायः शौर्येण शाम्यति ॥२.१४४॥ तत्र चेष्टा गुणाख्याननिगूढरुदितादयः । स्यादेष मृतिपर्यन्तः स्वपरस्थैस्तु मध्यमे ॥२.१४५॥ अनतिव्यक्तरुदितप्रमुखास्तत्र विक्रियाः । हेतुभिः स्वगतैरेव प्रायः स्त्रीनीचयोरयम् ॥२.१४६॥ मरणव्यवसायान्तस्तत्र भूपरिवेष्टनम् । उरस्ताडननिर्भेदपातोच्चै रोदनादयः ॥२.१४७॥ अहृद्यानां पदार्थानां दर्शनश्रवणादिभिः । सङ्कोचनं यन्मनसह्सा जुगुप्सात्र विक्रियाः ॥२.१४८॥ नासापिधानं त्वरिता गतिरास्यविकूणनम् । सर्वाङ्गधूननं कुत्सा मुहुर्निष्ठीवनादयः ॥२.१४९॥ घृणा शुद्धा जुगुप्सान्या दशरूपे निरूपिता । सा हेयश्रवणोत्पन्नजुगुप्साया न भिद्यते ॥२.१५०॥ भयं तु मन्तुना घोरदर्शनश्रवणादिभिः । चित्तस्यातीव चाञ्चल्यं तत्प्रायो नीचमध्ययोः ॥२.१५१॥ उत्तमस्य तु जायेत कारणैरतिलौकिकैः । भये तु चेष्टा वैवर्ण्यं स्तब्धत्वं गात्रकम्पनम् ॥२.१५२॥ पलायनं परावृत्य वीक्षणं स्वात्मगोपनम् । आस्यशोषणमुत्क्रोशशरणान्वेषणादयः ॥२.१५३॥ हेतुजादितरे प्रोक्ते भये सोढलसूनुना । कृत्रिमं तूत्तमगतं गुर्वादीन् प्रत्यवास्तवम् ॥२.१५४॥ विभीषिकोत्थं बालादेर्वित्रासितकमित्युभे । तत्रान्त्यमन्तर्भूतं स्याद्घोरश्रवणजे भये ॥२.१५५॥ भिक्षुभल्लूकचोरादिसूचनाकल्पितत्वतः । आद्यं तु युक्तिकाक्ष्यायां भयकक्ष्यां न गाहते ॥२.१५६॥ गुर्वादिसंनिधौ यस्मान्नीचैः स्थित्यादिसूचितम् । भावो विनय एव स्यादथ स्यान्नाटके यदि ॥२.१५७॥ अवहित्थतया तस्य भयत्वं दूरतो गतम् । अतो हेतुजमेवैकं भयं स्यादिति निश्चयः ॥२.१५८॥ भोजेनोक्ताः स्थायिनोऽ न्ये गर्वः स्नेहो धृतिर्मतिः । स्थास्नुरेवोद्धतप्रेयः शान्तोदात्तरसेष्वपि ॥२.१५९॥ तत्र स्नेहो रतेर्भेदस्त्रिधा चेच्छात्मतत्कृतः । अन्ये पोषासहिष्णुत्वान्नैव स्थायिपदोचिताः ॥२.१६०॥ तदष्टावेव विज्ञेयाः स्थायिनो मुनिसंमताः । स्थायिनोऽ ष्टौ त्रयस्त्रिंशच्चारिणोऽ ष्टौ च सात्त्विकाः ॥२.१६१॥ एवमेकोनपञ्चाशद्भावाः स्युर्मिलिता इमे । एवं हि स्थायिनो भावान् सिंहभूपतिरभ्यधात् ॥२.१६२॥ अथैषां रसरूपत्वमुच्यते सिंहभूभुजा । विद्वन्मानसहंसेन रसभावविवेकिना ॥२.१६३॥ एते च स्थायिनः स्वैः स्वैर्विभावैर्व्यभिचारिभिः । सात्त्विकैश्चानुभावैश्च नटाभिनययोगतः ॥२.१६४॥ साक्षात्कारमिवानीताः प्रापिताः स्वादुरूपताम् । सामाजिकानां मनसि प्रयान्ति रसरूपताम् ॥२.१६५॥ दध्यादिव्यञ्जनद्रव्यैश्चिञ्चादिभिरथौषधैः । गुडादिमधुरद्रव्यैर्यथायोगं समन्वितैः ॥२.१६६॥ यद्वत्पाकविशेषेण षाडवाख्यो रसः परः । निष्पद्यते विभावाद्यैः प्रयोगेण तथा रसः ॥२.१६७॥ सोऽ यमानन्दसम्भेदो भावकैरनुभूयते । अष्टधा स च शृङ्गारहास्यवीराद्भुता अपि ॥२.१६८॥ रौद्रः करुणबीभत्सौ भयानक इतीरितः । एषूत्तरस्तु पूर्वस्मात्सम्भूतो विषमात्समः ॥२.१६९॥ बहुवक्तव्यताहेतोः सकलाह्लादनादपि । रसेषु तत्र शृङ्गारः प्रथमं लक्ष्यते स्फुटम् ॥२.१७०॥ विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । नीता सदस्यरस्यत्वं रतिः शृङ्गार उच्यते ॥२.१७१॥ स विप्रलम्भः सम्भोग इति द्वेधा निगद्यते । अयुक्तयोस्तरुणयोर्योऽ नुरागः परस्परम् ॥२.१७२॥ अभीष्टालिङ्गनादीनामनवाप्तौ प्रकृष्यते । स विप्रलम्भो विज्ञेयः स चतुर्धा निगद्यते ॥२.१७३॥ पूर्वानुरागमानौ च प्रवासकरुणाविति । यत्प्रेम सङ्गमात्पूर्वं दर्शनश्रवणादिभिः ॥२.१७४॥ पूर्वानुरागः स ज्ञेयः श्रवणं तद्गुणश्रुतिः । प्रत्यक्षचित्रस्वप्नादौ दर्शनं दर्शनं मतम् ॥२.१७५॥ यतः पूर्वानुरागोऽ यं सङ्कल्पात्मा प्रवर्तते । सोऽ यं पूर्वानुरागाख्यो विप्रलम्भ इतीरितः ॥२.१७६॥ पारतन्त्र्यादयं द्वेधा दैवमानुषकल्पनात् । तत्र सञ्चारिणो ग्लानिः शङ्कासूये श्रमो भयम् ॥२.१७७॥ निर्वेदौत्सुक्यदैन्यानि चिन्तानिद्रे प्रबोधता । विषादो जडतोन्मादो मोहो मरणमेव च ॥२.१७८॥ एतस्मिन्नभिलाषादि मरणान्तमनेकधा । तत्तत्सञ्चारिभावानामुत्कटत्वाद्दशा भवेत् ॥२.१७९॥ तथापि प्राक्तनैरस्या दशावस्थाः समासतः । प्रोक्तास्तदनुरोधेन तासां लक्षणमुच्यते ॥२.१८०॥ अभिलाषश्चिन्तानुस्मृतिगुणसङ्कीर्तनोद्वेगाः । सविलापा उन्मादव्याधी जडता मृतिश्च ताः क्रमशः ॥२.१८१॥ सङ्गमोपायरचितप्रारब्धव्यवसायतः । सङ्कल्पेच्छासमुद्भूतिरभिलाषोऽ त्र विक्रियाः ॥२.१८२॥ प्रवेशनिर्गमौ तूष्णीं तद्दृष्टिपथगामिनौ । रागप्रकाशनपराश्चेष्टाः स्वात्मप्रसाधनम् ॥२.१८३॥ व्याजोक्तयश्च विजने स्थितिरित्येवमादयः । केनोपायेन संसिद्धिः कदा तस्य समागमः ॥२.१८४॥ दूतीमुखेन किं वाच्यमित्याद्यूहस्तु चिन्तनम् । अत्र नीव्यादिसंस्पर्शः शय्यायां परिवर्तनम् ॥२.१८५॥ सबाष्पाकेकरा दृष्टिर्मुद्रिकादिविवर्तनम् । निर्लक्ष्यवीक्षणं चैवमाद्या विकृतयो मताः ॥२.१८६॥ अर्थानामनुभूतानां देशकालानुवर्तिनाम् । सान्तत्येन परामर्शो मानसः स्यादनुस्मृतिः ॥२.१८७॥ तत्रानुभावा निःश्वासो ध्याणं कृत्यविहस्तता । शय्यासनादिविद्वेष इत्याद्याः स्मरकल्पिताः ॥२.१८८॥ सौन्दर्यादिगुणश्लाघा गुणकीर्तनमत्र तु । रोमाञ्चो गद्गदा वाणी भावमन्थरवीक्षणम् ॥२.१८९॥ तत्सङ्गचिन्तनं सख्या गण्डस्वेदादयोऽ पि च । मनसः कम्प उद्वेगः कथितस्तत्र विक्रियाः ॥२.१९०॥ चिन्ता सन्तापनिःश्वासौ द्वेषः शय्यासनादिषु । स्तम्भचिन्ताश्रुवैवर्ण्यदीनत्वादय ईरिताः ॥२.१९१॥ इह मे दृक्पथं प्रापदिहातिष्ठदिहास्त च । इहालपदिहावात्सीदिहैव न्यवृतत्तथा ॥२.१९२॥ इत्यादिवाक्यविन्यासो विलाप इति कीर्तितः । तत्र चेष्टास्तु कुत्रापि गमनं क्वचिदीक्षणम् ॥२.१९३॥ क्वचित्क्वचिदवस्थानं क्वचिच्च भ्रमणादयः । सर्वावस्थासु सर्वत्र तन्मनस्कतया सदा ॥२.१९४॥ अतस्मिंस्तदिति भ्रान्तिरुन्मादो विरहोद्भवः । तत्र चेष्टास्तु विज्ञेया द्वेषः स्वेष्टेऽ पि वस्तुनि ॥२.१९५॥ दीर्घं मुहुश्च निःश्वासो निर्निमेषतया स्थितिः । निर्निमित्तस्मितध्यानगानमौनादयोऽ पि च ॥२.१९६॥ अभीष्टसङ्गमाभावाद्व्याधिः सन्तापलक्षणः । अत्र सन्तापनिःश्वासौ शीतवस्तुनिषेवणम् ॥२.१९७॥ जीवितोपेक्षणं मोहो मुमूर्षा धृतिवर्जनम् । यत्र क्वचिच्च पतनं स्रस्ताक्षत्वादयोऽ पि च ॥२.१९८॥ इदमिष्टमनिष्टं तदिति वेत्ति न किञ्चन । नोत्तरं भाषते प्रश्ने नेक्षते न शृणोति च ॥२.१९९॥ यत्र ध्यायति निःसंज्ञं जडता सा प्रकीर्तिता । अत्र स्पर्शानभिज्ञत्वं वैवर्ण्यं शिथिलाङ्गता ॥२.२००॥ अकाण्डहुङ्कृतिः स्तम्भो निःश्वासकृशतादयः । तैस्तैः कृतैः प्रतीकारैर्यदि न स्यात्समागमः ॥२.२०१॥ ततः स्यान्मरणोद्योगह्कामाग्नेस्तत्र विक्रियाः । लीलाशुकचकोरादिन्यासः स्निग्धसखीकरे ॥२.२०२॥ कलकण्ठकलालापश्रुतिर्मन्दानिलादरः । ज्योत्स्नाप्रवेशमाकन्दमञ्जरीवीक्षणादयः ॥२.२०३॥ मुहुःकृतो मेति नेति प्रतिषेधार्थवीप्सया । ईप्सितालिङ्गनादीनां निरोधो मान उच्यते ॥२.२०४॥ सोऽ यं सहेतुनिर्हेतुभेदाद्द्वेधात्र हेतुजः । ईर्ष्यया सम्भवेदीर्ष्या त्वन्यासङ्गिनि वल्लभे ॥२.२०५॥ असहिष्णुत्वमेव स्याद्दृष्टेरनुमितेः श्रुतेः । ईर्ष्यामाने तु निर्वेदावहित्थग्लानिदीनताः ॥२.२०६॥ चिन्ताचापल्यजडतामोहाद्या व्यभिचारिणः । भोगाङ्कगोत्रस्खलनोत्स्वप्नैरनुमितिस्त्रिधा ॥२.२०७॥ श्रुतिः प्रियापराधस्य श्रुतिराप्तसखीमुखात् । कारणाभाससम्भूतो निर्हेतुः स्याद्द्वयोरपि ॥२.२०८॥ अवहित्थादयस्तत्र विज्ञेया व्यभिचारिणः । निर्हेतुकः स्वयं शाम्येत्स्वयं ग्राहस्मितादिभिः ॥२.२०९॥ हेतुजस्तु शमं याति यथायोग्यं प्रकल्पितैः । साम्ना भेदेन दानेन नत्युपेक्षारसान्तरैः ॥२.२१०॥ तत्र प्रियोक्तिकथनं यत्तु तत्साम गीयते । सख्यादिभिरुपालम्भप्रयोगो भेद उच्यते ॥२.२११॥ व्याजेन भूषणादीनां प्रदानं दानमुच्यते । नतिः पादप्रणामः स्यात्तूष्णीं स्थितिरुपेक्षणम् ॥२.२१२॥ आकस्मिकभयादीनां कल्पना स्यद्रसान्तरम् । यादृच्छिकं बुद्धिपूर्वमिति द्वेधा निगद्यते ॥२.२१३॥ अनुकूलेन दैवेन कृतं यादृच्छिकं भवेत् । प्रत्युत्पन्नधिया पुंसा कल्पितं बुद्धिपूर्वकम् ॥२.२१४॥ पूर्वसङ्गतयोर्यूनोर्भवेद्देशान्तरादिभिः । चरणव्यवधानं यत्स प्रवास इतीर्यते ॥२.२१५॥ तज्जन्यो विप्रलम्भोऽ पि प्रवासत्वेन संमतः । हर्षगर्वमदव्रीडा वर्जयित्वा समीरिताः ॥२.२१६॥ शृङ्गारयोग्याः सर्वेऽ पि प्रवासव्यभिचारिणः । कार्यतः सम्भ्रमाच्छापात्स त्रिधा तत्र कार्यजः ॥२.२१७॥ बुद्धिपूर्वतया यूनोः संविधानव्यपेक्षया । वृत्तो वर्तिष्यमाणश्च वर्तमान इति त्रिधा ॥२.२१८॥ आवेगः सम्भ्रमः सोऽ पि नैको दिव्यादिभेदतः । शापो वैरूप्यताद्रूप्यप्रवृत्तेर्द्विविधो भवेत् ॥२.२१९॥ प्रवासः शापवैरूप्यादहल्यागौतमादिषु । द्वयोरेकस्य मरणे पुनरुज्जीवनावधौ ॥२.२२०॥ विरहः करुणोऽ न्यस्य सङ्गमाशानुवर्तनात् । करुणभ्रमकारित्वात्सोऽ यं करुण उच्यते ॥२.२२१॥ सञ्चारिणोऽ नुभावाश्च करुणेऽ पि प्रवासवत् । स्पर्शनालिङ्गनादीनामानुकूल्यान्निषेवणम् ॥२.२२२॥ घटते यत्र यूनोर्यत्स सम्भोगश्चतुर्विधः । सङ्क्षिप्तः सङ्कीर्णः सम्पन्नतरः समृद्धिमानिति ते ॥२.२२३॥ पूर्वानुरागमानप्रवासकरुणानुसम्भवाः क्रमतः । युवानौ यत्र संक्षिप्तान् साध्वसव्रीडितादिभिः ॥२.२२४॥ उपचारान्निषेवेते स संक्षिप्त इतीरितः । सङ्कीर्णस्तु पराधीन व्यलीकमरणादिभिः ॥२.२२५॥ सङ्कीर्यमाणः सम्भोगः किञ्चित्पुष्पेषुपेशलः । भयव्यलीकस्मरणाद्यभावात्प्राप्तवैभवः ॥२.२२६॥ प्रोषितागतयोर्यूनोर्भोगः सम्पन्न ईरितः । पुनरुज्जीवने भोगसमृद्धिः कियती भवेत् ॥२.२२७॥ शिवाभ्यामेव विज्ञेयमित्ययं हि समृद्धिमान् । विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः ॥२.२२८॥ हासः सदस्यरस्यत्वं नीतो हास्य इतीर्यते । तत्रालस्यग्लानिनिद्राव्याध्याद्या व्यभिचारिणः ॥२.२२९॥ एष द्वेधा भवेदात्मपरस्थितिविभागतः । आत्मस्थस्तु यदा स्वस्य विकारैर्हसति स्वयम् ॥२.२३०॥ परस्थस्तु परप्राप्तैरेतैर्हसति चेत्परम् । प्रकृतिवशात्स च षोढा स्मितहसिते विहसितावहसिते च ॥२.२३१॥ अपहसितातिहसितके ज्येष्ठादीनां क्रमाद्द्वे द्वे । स्मितं चालक्ष्यदशनं दृक्कपोलविकाशकृत् ॥२.२३२॥ तदेव लक्ष्यदशनशिखरं हसितं भवेत् । तदेव कुञ्चितापाङ्गगण्डं मधुरनिःस्वनम् ॥२.२३३॥ कालोचितं सानुरागमुक्तं विहसितं भवेत् । फुल्लनासापुटं यत्स्यान्निकुञ्चितशिरोऽ ंसकम् ॥२.२३४॥ जिह्मावलोकनयनं तच्चावहसितं मतम् । कम्पिताङ्गं साश्रुनेत्रं तच्चापहसितं भवेत् ॥२.२३५॥ करोपगूढपार्श्वं यदुद्धतायतनिःस्वनम् । बाष्पाकुलाक्षयुगलं तच्चातिहसितं भवेत् ॥२.२३६॥ विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः । नीतः सदस्यरस्यत्वमुत्साहो वीर उच्यते ॥२.२३७॥ एष त्रिधा समासेन दानयुद्धदयोद्भवाः । दानवीरो धृतिर्हर्षो मत्याद्या व्यभिचारिणः ॥२.२३८॥ स्मितपूर्वाभिभाषित्वं स्मितपूर्वं च वीक्षितम् । प्रसादे बहुदातृत्वं तद्वद्वाचानुमोदितम् ॥२.२३९॥ गुणागुणविचाराद्यास्त्वनुभावाः समीरिताः । युद्धवीरे हर्षगर्वामर्षादया व्यभिचारिणा ॥२.२४०॥ असाहाय्येऽ पि युद्धेच्छा समरादपलायनम् । भीताभयप्रदानाद्या विकारास्तत्र कीर्तिताः ॥२.२४१॥ दयावीरे धृतिमतिप्रमुखा व्यभिचारिणः । स्वार्थप्राणव्ययेनापि विपन्नत्राणशीलता ॥२.२४२॥ आश्वासनोक्तयः स्थैर्यमित्याद्यास्तत्र विक्रियाः । विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः ॥२.२४३॥ नीतः सदस्यरस्यत्वं विस्मयोऽ द्भुततां व्रजेत् । अत्र धृत्यावेगजाड्यहर्षाद्या व्यभिचारिणः ॥२.२४४॥ चेष्टास्तु नेत्रविस्तारस्वेदाश्रुपुलकादयः । विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः ॥२.२४५॥ क्रोधः सदस्यरस्यत्वं नीतो रौद्र इतीर्यते । आवेगगर्वौग्र्यामर्षमोहाद्या व्यभिचारिणः ॥२.२४६॥ प्रस्वेदभ्रुकुटीनेत्ररागाद्यास्तत्र विक्रियाः । विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः ॥२.२४७॥ नीतः सदस्यरस्यत्वं शोकः करुण उच्यते । अत्राष्टौ सात्त्विका जाड्यनिर्वेदग्लानिदीनताः ॥२.२४८॥ आलस्यापस्मृतिव्याधिमोहाद्या व्यभिचारिणः । विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः ॥२.२४९॥ जुगुप्सा पोषमापन्ना बीभत्सत्वेन रस्यते । अत्र ग्लानिश्रमोन्मादमोहापस्मारदीनताः ॥२.२५०॥ विषादचापलावेगजाड्याद्या व्यभिचारिणः । स्वेदरोमाञ्चनामाग्रच्छादनाद्याश्च विक्रियाः ॥२.२५१॥ विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः । भयं सदस्यरस्यत्वं नीतं प्रोक्तं भयानकः ॥२.२५२॥ तत्र सन्त्रासमरणचापलावेगदीनताः । विषादमोहापस्मारशङ्काद्या व्यभिचारिणः ॥२.२५३॥ विक्रियास्त्वास्यशोषाद्याः सात्त्विकाश्चाश्रुवर्जिताः । केचित्समानबलयो रसयोः सङ्करं विदुः ॥२.२५४॥ न परीक्षाक्षममिदं मतं प्रेक्षावतां भवेत् । तुष्यत्वे पूर्व आस्वादः कतरस्येत्यनिश्चयात् ॥२.२५५॥ स्पर्धापरत्वादुभयोरनास्वादप्रसङ्गतः । तयोरन्यतरस्यैव प्रायेणास्वादनादपि ॥२.२५६॥ युगपद्रसनीयत्वं नोभयोरुपपद्यते । एषामङ्गाङ्गिभावेन सङ्करो मम संमतः ॥२.२५७॥ [*१] अनोथेर्रेअदिन्गिन् सोमे मनुस्च्रिप्त्सनुभावस्तु नैष्फल्यमतिर्निर्वेद उच्यते । अत्र चिन्ताश्रुनिःश्वसवैवर्ण्योच्छ्वासदीनता ॥ [*२] थे fओल्लोwइन्घल्f करिक इस्fओउन्दिनोन्ल्योने एदितिओन् (शीतज्वरे तु चेष्टाः स्युः सन्तापश्चाङ्गसादनम् ।) तथा च भारतीये भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव वा । सर्वेषां समवेतानां रूपं यस्य भवेद्बहु ॥ स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥िति॥ तुलाधृतत्वमनयोर्न स्यात्प्रकरणादिना । कवितात्पर्यविश्रान्तेरेकत्रैवावलोकनात् ॥२.२५८॥ उभौ शृङ्गारबीभत्सावुभौ वीरभयानकौ । रौद्राद्भुतावुभौ हास्यकरुणौ प्रकृतिद्विषौ ॥२.२५९॥ स्वभाववैरिणोरङ्गाङ्गिभावेनापि मिश्रणम् । विवेकिभ्यो न स्वदते गन्धगन्धकयोरिव ॥२.२६०॥ विरोधिनोऽ पि सांनिध्यादतिरस्कारलक्षणम् । पोषणं प्रकृतस्येति चेदङ्गत्वं न तावता ॥२.२६१॥ यत्किञ्चिदुपकारित्वादङ्गस्याङ्गित्वमङ्गिनि । न तत्संनिधिमात्रेण चर्वणानुपकारतः ॥२.२६२॥ अन्यथा पानकाद्येषु शर्करादेरिवापतेत् । अन्तरा पतितस्यापि तृणादेरुपकारिता ॥२.२६३॥ तच्चर्वणाभिमाने स्यात्सतृणाभ्यवहारिता । भृत्योर्नायकस्येव निसर्गद्वेषिणोरपि ॥२.२६४॥ अङ्गयोरङ्गिनो वृद्धौ भवेदेकत्र सङ्गतिः । अङ्गेनाङ्गी रसः स्वेच्छावृत्तिवर्धितसम्पदा ॥२.२६५॥ अमात्येनाविनीतेन स्वामीवाभासतां व्रजेत् ॥२.२६६॥ हरिश्चन्द्रो रक्षाकरणरुचिसत्येषु वचसां विलासे वागीशो महति नियमे नीतिनिगमे । विजेता गाङ्गेयं जनभरणसंमोहनकला व्रतेषु श्रीसिंहक्षितिपतिरुदारो विहरते ॥२.२६७॥ नित्य श्रीयन्नपोतक्षितिपतिजनुषः सिंहभूपालमौलेः सौन्दर्यं सुन्दरीणां हरिणविजयिनां वागुरा लोचनानाम् । दानं मन्दारचिन्तामणिसुरसुरभीगर्वनिर्वापणाङ्कं विज्ञानं सर्वविद्यानिधिबुधपरिषच्छेमुषीभाग्यरेखा ॥२.२६८॥ इति श्रीमदान्ध्रमण्डलाधीश्वरप्रतिगण्डभैरवश्रीमदनपोतनरेन्द्रनन्दनभुजबलभीमश्रीसिंहभूपालविरचिते रसार्णवसुधाकरनाम्नि नाट्यालङ्कारशास्त्रे रसिकोल्लासो नाम द्वितीयो विलासः ॥३.२॥ ः (३) तृतीयो विलासः भावकोल्लासः स क्षेमदायी कमलानुकूलः कठोरपारावतकण्ठनीलः । कृपानिधिर्भव्यगुणाभिरामः परः पुमान् रजमहीध्रवासी ॥१॥ तदीदृशरसाधारं नाट्यं रूपकमित्यपि । नटस्यातिप्रवीणस्य कर्मत्वान्नाट्यमुच्यते ॥२॥ यथा मुखादौ पद्मादेरारोपे रूपकप्रथा । तथैव नायकारोपो नटे रूपकमुच्यते ॥३.३॥ तच्च नाट्यं दशविधं वाक्यार्थाभिनयात्मकम् । तथा च भारतीये नाटकं सप्रकरणमङ्को व्यायोक्ग एव च । भाणः समवकारश्च वीथी प्रहसनं डिमः ॥ ईहामृगश्च विज्ञेयो दशधा नाट्यलक्षणम् । (१८.२३) रसेतिवृत्तनेतारस्तत्तद्रूपकभेदकाः ॥३.४॥ लक्षितौ रसनेतारावितिवृत्तं तु कथ्यते । इतिवृत्तकथावस्तुशब्दाः पर्यायवाचिनः ॥३.५॥ इतिवृत्तं प्रबन्धस्य शरीरं त्रिविधं हि तत् । ख्यातं कल्प्यं च सङ्कीर्णं ख्यातं रामकथादिकम् ॥३.६॥ कविबुद्धिकृतं कल्प्यं मालतीमाधवादिकम् । सङ्कीर्णमुभयायत्तं लवराघवचेष्टितम् ॥३.७॥ लक्ष्येष्वेतत्तु बहुधा दिव्यमर्त्यादिभेदतः । तच्चेतिवृत्तं विद्वद्भिः पञ्चधा परिकीर्तितम् ॥३.८॥ बीजं बिन्दुः पताका च प्रकरी कार्यमित्यपि । यत्तु स्वल्पमुपक्षिप्तं बहुधा विस्तृतिं गतम् ॥३.९॥ कार्यस्य कारणं प्राज्ञैस्तद्बीजमिति कथ्यते । उप्तं बीजं तरोर्यद्वदङ्कुरादिप्रभेदतः ॥३.१०॥ फलाय कल्पते तद्वन्नायकादिविभेदतः । फलायैतद्भवेद्यस्माद्बीजमित्यभिधीयते ॥३.११॥ फले प्रधाने बीजस्य प्रसङ्गोक्तैः फलान्तरैः । विच्छिन्ने यदविच्छेदकारणं बिन्दुरुच्यते ॥३.१२॥ जलबिन्दुर्यथा सिञ्चंस्तरुमूलं फलाय हि । तथैवायमुपक्षिप्तो बिन्दुरित्यभिधीयते ॥३.१३॥ यत्प्रधानोपकरणप्रसङ्गात्स्वार्थमृच्छति । सा स्यात्पताका सुग्रीवमकरन्दादिवृत्तवत् ॥३.१४॥ यत्केवलं परार्थस्य साधकं च प्रदेशभाक् । प्रकरी सा समुद्दिष्टा नववृन्दादिवृत्तवत् ॥३.१५॥ अङ्गस्य च प्रधानस्य भाव्यवस्थस्य सूचकम् । यदागन्तुकभावेन पताकास्थानकं हि तत् ॥३.१६॥ एतद्द्विधा तुल्यसंविधानं तुल्यविशेषणम् । तत्राद्यं त्रिप्रकारं स्याद्द्वितीयं त्वेकमेव हि ॥३.१७॥ एवं चतुर्विधं ज्ञेयं पताकास्थानकं बुधैः । तथा च भरतः सहसैवार्थसम्पत्तिर्गुणवत्युपचारतः । पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥िति॥(१९.३१) तथा च वचः सातिशयं श्लिष्टं काव्यबन्धसमाश्रयम् । पताकास्थानकमिदं द्वितीयं परिकीर्तितम् ॥िति॥(१९.३२) तथा च अर्थोपक्षेपणं यत्र लीनं सविनयं भवेत् । श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते ॥(१९.३३) तथा च द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः । उपन्याससुयुक्तश्च तच्चतुर्थमुदाहृतम् ॥(१९.३४) इति ॥ वस्तुनस्तु समस्तस्य धर्मकामार्थलक्षणम् ॥३.१८॥ फलं कार्यमिति शुद्धं मिश्रं वा कल्पयेत्सुधीः । प्रधानमङ्गमिति च तद्वस्तु द्विविधं पुनः ॥३.१९॥ प्रधानं नेतृचरितं प्रधानफलबन्धि च । काव्ये व्यापि प्रधानं तद्यथा रामादिचेष्टितम् ॥३.२०॥ नायकार्थकृदङ्गं स्यान्नायकेतरचेष्टितम् । नित्यं पताका प्रकरी चाङ्गं बीजादयः क्वचित् ॥३.२१॥ बीजत्वाद्बीजमादौ स्यात्फलत्वात्कार्यमन्ततः । तयोः सन्धानहेतुत्वान्मध्ये बिन्दुं प्रकल्पयेत् ॥३.२२॥ यथायोगं पताकायाः प्रकर्याश्च नियोजनम् । कार्यस्य पञ्चधावस्था नायकादिक्रियावशात् ॥३.२३॥ आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः । तत्र मुख्यफलोद्योगमात्रमारम्भ इष्यते ॥३.२४॥ यत्नस्तु तत्फलप्राप्त्यामौत्सुक्येन तु वर्तनम् । प्राप्त्याशा तु महार्थस्य सिद्धिसद्भावभावना[*३] ॥३.२५॥ नियताप्तिरविघ्नेन कार्यसंसिद्धिनिश्चयः । समग्रेष्टफलावाप्तिर्नायकस्य फलागमः ॥३.२६॥ एकैकस्यास्त्ववस्थायाः प्रकृत्या चैकयैकया । योगः सन्धिरिति ज्ञेयो नाट्यविद्याविशारदैः ॥३.२७॥ एकैकस्यास्त्ववस्थायाः प्रकृत्या चैकयैकया । योगः सन्धिरिति ज्ञेयो नाट्यविद्याविशारदैः ॥२७॥ पताकायास्त्ववस्थानं क्वचिदस्ति न वा क्वचित् । पताकाविरहे बीजं बिन्दुं वा कल्पयेत्सुधीः ॥३.२८॥ मुख्यप्रयोजनवशात्कथाङ्गानां समन्वये । अवान्तरार्थसम्बन्धः सन्धिः सन्धानरूपतः ॥३.२९॥ मुखप्रतिमुखे गर्भविमर्शावुपसंहृतिः । पञ्चैते सन्धयः तेषु यत्र बीजसमुद्भवः ॥३.३०॥ नानाविधानामर्थानां रसानामपि कारणम् । तन्मुखं तत्र चाङ्गानि बीजारम्भानुरोधतः ॥३.३१॥ उपक्षेपः परिकरः परिन्यासो विलोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥३.३२॥ उद्भेदभेदौ करणमिति द्वादश योजयेत् । उपक्षेपस्तु बीजस्य सूचना कथ्यते बुधैः ॥३.३३॥ परिक्रिया तु बीजस्य बहुलीकरणं मतम् । बीजनिष्पत्तिकथनं परिन्यास इतीर्यते ॥३.३४॥ नायकादिगुणानां यद्वर्णनं तद्विलोभनम् । सम्यक्प्रयोजनानां हि निर्णयो युक्तिरिष्यते ॥३.३५॥ प्राज्ञैः सुखस्य सम्प्राप्तिः प्राप्तिरित्यभिधीयते । बीजस्य पुनराधानं समाधानमिहोच्यते ॥३.३६॥ सुखदुःखकरं यत्तु तद्विधानं बुधा विदुः । श्लाघ्यैश्चित्तचमत्कारो गुणाद्यैः परिभावना ॥३.३७॥ उद्घातनं यद्बीजस्य स उद्भेदः प्रकीर्तितः । बीजस्योत्तेजनं भेदो यद्वा सङ्घातभेदनम् ॥३.३८॥ प्रस्तुतार्थसमारम्भं करणं परिचक्षते । बीजप्रकाशनं यत्र दृश्यादृश्यतया भवेत् ॥३.३९॥ तत्स्यात्प्रतिमुखं बिन्दोः प्रयत्नस्यानुरोधतः । इह त्रयोदशाङ्गानि प्रयोज्यानि मनीषिभिः ॥३.४०॥ विलासपरिसर्पौ च विधुतं शमनर्मणी । नर्मद्युतिः प्रगमनं निरोधः पर्युपासनम् ॥३.४१॥ पुष्पं वज्रमुपन्यासो वर्णसङ्ग्रहनं तथा । विलासः सङ्गमार्थस्तु व्यापारः परिकीर्तितः ॥३.४२॥ पूर्वदृष्टस्य बीजस्य त्वङ्कच्छेदादिना तथा । नष्टस्यानुस्मृतिः शश्वत्परिसर्प इति स्मृतः ॥३.४३॥ नायकादेरीप्सितानामर्थानामनवाप्तितः । अरतिर्यद्भवेद्तद्धि विद्वद्भिर्विधुतं मतम् ॥३.४४॥ अथवानुनयोत्कर्षं विधुतं स्यान्निराकृतिः । अरतेः शमनं तज्ज्ञाः शममाहुर्मनीषिणः ॥३.४५॥ परिहासप्रधानं यद्वचनं नर्म तद्विदुः । कोपस्यापह्नवार्थं यद्धास्यं नर्मद्युतिर्मता ॥३.४६॥ तत्तु प्रगमनं यत्स्यादुत्तरोत्तरभाषणम् । यत्र व्यसनमायाति निरोधः स निगद्यते ॥३.४७॥ रुष्टस्यानुनयो यः स्यात्पर्युपासनमीरितम् । सविशेषाभिधानं यत्पुष्पं तदिति संज्ञितम् ॥३.४८॥ वज्रं तदिति विज्ञेयं साक्षान्निष्ठुरभाषणम् । युक्तिभिः सहितो योऽ र्थः उपन्यासः स इष्यते ॥३.४९॥ सर्ववर्णोपगमनं वर्णसंहार उच्यते । दृष्टादृष्टस्य बीजस्य गर्भस्त्वन्वेषणं मुहुः ॥३.५०॥ अत्राप्याचापताकानुरोधादङ्गानि कल्पयेत् । अभूताहरणं मार्गो रूपोदाहरणे क्रमः ॥३.५१॥ सङ्ग्रहश्चानुमानं च तोटकाधिबले तथा । उद्वेगः सम्भ्रमाक्सेपौ द्वादशैषां तु लक्षणम् ॥३.५२॥ अभूताहरणं तत्स्याद्वाक्यं यत्कपटाश्रयम् । मार्गस्तत्त्वार्थकथनं रूपं सन्देहकृद्वचः ॥३.५३॥ सोत्कर्षवचनं यत्तु तदुदाहरणं मतम् । भावज्ञानं क्रमो यद्वा चिन्त्यमानार्थसङ्गतिः ॥३.५४॥ सङ्ग्रहः सामदानार्थसंयोगः परिकीर्तितः । अर्थस्याभ्यूहनं लिङ्गादनुमानं प्रचक्षते ॥३.५५॥ संरम्भं तु वचनं सङ्गिरन्ते हि तोटकम् । बुधैरधिबलं प्रोक्तं कपटेनातिवञ्चनम् ॥३.५६॥ शत्रुवैरादिसम्भूतं भयमुद्वेग उच्यते । शत्रुव्याघ्रादिसम्भूतौ शङ्कात्रासौ च सम्भ्रमः ॥३.५७॥ गर्भबीजसमाक्षेपमाक्षेपं परिचक्षते । यत्र प्रलोभनक्रोधव्यसनाद्यैर्विमृश्यते ॥३.५८॥ बीजार्थो गर्भनिर्भिन्नः स विमर्श इतीर्यते । प्रकरीनियताप्त्यानुगुण्यादत्राङ्गकल्पनम् ॥३.५९॥ अपवादोऽ थ सम्फेटो विद्रवद्रवशक्तयः । द्युतिप्रसङ्गौ छलनव्यवसायौ निरोधनम् ॥३.६०॥ प्ररोचना विचलनमादानं स्युस्त्रयोदश । तत्रापवादो दोषाणां प्रख्यापनमितीर्यते ॥३.६१॥ दोषसङ्ग्रथितं वाक्यं सम्फेटं सम्प्रचक्षते । विरोधवधदाहादिर्विद्रवः परिकीर्तितः ॥३.६२॥ गुरुव्यतिक्रमं प्राह द्रवं तु भरतो मुनिः । उत्पन्नस्य विरोधस्य शमनं शक्तिरिष्यते ॥३.६३॥ द्युतिर्नाम समुद्दिष्टा तर्जनोद्वेजने बुधैः । प्रस्तुतार्थस्य कथनं प्रसङ्गः परिकीर्तितः ॥३.६४॥ प्रसङ्गं कथयन्त्यन्ये गुरूणां परिकीर्तनम् । अवमानादिकरणं कार्यार्थे छलनं विदुः ॥३.६५॥ व्यवसायः स्वसामर्थ्यप्रख्यापनमितीर्यते । विरोधनं निरोधोक्तिः संरब्धानां परस्परम् ॥३.६६॥ सिद्धवद्भाविनोऽ र्थस्य सूचना स्यात्प्ररोचना । आत्मश्लाघा विचलनमादानं कार्यसङ्ग्रहः ॥३.६७॥ मुखसन्ध्यादयो यत्र विकीर्णा बीजसंयुताः । महत्प्रयोजनं यान्ति तन्निर्वहणमुच्यते ॥३.६८॥ सन्धिविरोधौ ग्रथनं निर्णयः परिभाषणे प्रसादश्च । आनन्दसमयकृतयो भाषोपगूहने तद्वत् ॥३.६९॥ अथ पूर्वभावसयुजावुपसंहारप्रशस्ती च । इति निर्वहणस्याङ्गान्याहुरमीषां तु लक्षणं वक्ष्ये ॥३.७०॥ बीजोपगमनं सन्धिः कार्यान्वेषणं विरोधः स्यात् । ग्रथनं तदुपेक्षेपः स्यादनुभूतस्य निर्णयः कथनम् ॥३.७१॥ परिभाषा त्वन्योन्यं जल्पनमथवा परिवादः । शुश्रूषादिप्राप्तं प्रसादमाहुः प्रसन्नत्वम् ॥३.७२॥ अभिलषितार्थसमागममानन्दं प्राहुराचार्याः । समयो दुःखसङ्क्षयः कृतिरपि लब्धार्थसुस्थिरीकरणम् ॥३.७३॥ मानाद्याप्तिश्च भाषणमुपगूहनमद्भुतप्राप्तिः । दृष्टक्रमकार्यस्य स्याद्दृष्टिः पूर्वभावस्तु ॥३.७४॥ धर्मार्थाद्युपगमनादुपसंहारः कृतार्थताकथनम् । भरतैश्चराचराणामाशीराशंसनं प्रशस्तिः स्यात् ॥३.७५॥ रसभावानुरोधेन प्रयोजनमपेक्ष्य च । साफल्यं कार्यमङ्गानामित्याचार्याः प्रचक्षते ॥३.७६॥ केषांचिदेषामङ्गानां विकल्पं केचिदूचिरे । मुखादिसन्धिष्वङ्गानां क्रमोऽ यं न विवक्षितः ॥३.७७॥ क्रमस्यानादृतत्वेन भरतादिभिरादिमैः । लक्ष्येषु व्युत्क्रमेणापि कथनेन विचक्षणैः ॥३.७८॥ चतुःषष्ठिकलामर्मवेदिना सिंहभूभुजा । लक्षिता च चतुःषष्ठिर्बालरामायणे स्फुटम् ॥३.७९॥ मुखादिसन्धिष्वङ्गानामशैथिल्यप्रतीतये । सन्ध्यन्तराणि योज्यानि तत्र तत्रैकविंशतिः ॥३.८०॥ आचार्यान्तरसंमत्या चमत्कारोदयादपि । वक्ष्ये लक्षणमेतेषामुदाहृतिमपि स्फुटम् ॥३.८१॥ सामदाने भेददण्डौ प्रत्युत्पन्नमतिर्वधः । गोत्रस्खलितमोजश्च धीः क्रोधः साहसं भयम् ॥३.८२॥ माया च संवृतिर्भ्रान्तिर्दूत्यं हेत्ववधारणम् । स्वप्नलेखौ मदश्चित्रमित्येतान्येकविंशतिः ॥३.८३॥ तत्र साम प्रियं वाक्यं स्वानुवृत्तिप्रकाशनम् । दानमात्मप्रतिनिधिर्भूषणादिसमर्पणम् ॥३.८४॥ भेदस्तु कपटालापैः सुहृदां भेदकल्पनम् । दण्डस्त्वविनयादीनां दृष्ट्या श्रुत्याथ तर्जनम् ॥३.८५॥ तात्कालिकी च प्रतिभा प्रत्युत्पन्नमतिर्स्मृता । वधस्तु जीवितद्रोहक्रिया स्यादाततायिनः ॥३.८६॥ तद्गोत्रस्खलितं यत्तु नामव्यत्ययभाषणम् । ओजस्तु वागुपन्यासो निजशक्तिप्रकाशकः ॥३.८७॥ इष्टार्थसिद्धिपर्यन्ता चिन्ता धीरिति कथ्यते । क्रोधस्तु चेतसो दीप्तिरपराधादिदर्शनात् ॥३.८८॥ स्वजीवितनिराकाङ्क्षो व्यापारः साहसं भवेत् । भयं त्वाकस्मिकत्रासः माया कैतवकल्पना ॥३.८९॥ संवृत्तिः स्वयमुक्तस्य स्वयं प्रच्छादनं भवेत् । भ्रान्तिर्विपर्ययज्ञानं प्रसङ्गस्य ह्यनिश्चयात् ॥३.९०॥ दूत्यं तु सहकारित्वं दुर्घटे कार्यवस्तुनि । निश्चयो हेतुनार्थस्य मतं हेत्ववधारणम् ॥३.९१॥ स्वप्नो निद्रान्तरे मन्त्रभेदकृद्वचनं मतम् । विवक्षितार्थकलिता पत्रिका लेख ईरितः ॥३.९२॥ मदस्तु मद्यजः चित्रं चाकार्स्य विलेखनम् । भागकल्पनयाङ्गानां मुखप्रमुखसन्धिषु ॥३.९३॥ प्रत्येकं नियतत्वेन योज्या तत्रैव कल्पना । सन्ध्यन्तराणां विज्ञेयः प्रयोगस्त्वविभागतः ॥३.९४॥ तथैव दर्शनादेषामनैयत्येन सन्धिषु । तदेषामविचारेण कथितो दशरूपके ॥३.९५॥ सन्ध्यन्तराणामङ्गेषु नान्तर्भावो मतो मम । सामाद्युपायदक्षेण सन्ध्यादिगुणशोभिता ॥३.९६॥ निर्व्यूढं सिंहभूपेन सन्ध्यन्तरनिरूपणम् । एवमङ्गैरुपाङ्गैश्च सुश्लिष्टं रूपकश्रियः ॥३.९७॥ शरीरं वस्त्वलङ्कुर्यात्षट्त्रिंशद्भूषणैः स्फुटम् । भूषणाक्षरसङ्घातौ हेतुः प्राप्तिरुदाहृतिः ॥३.९८॥ शोभा संशयदृष्टान्तावभिप्रायो निदर्शनम् । सिद्धिप्रसिद्धी दाक्षिण्यमर्थापत्तिर्विशेषणम् ॥३.९९॥ पदोच्चयस्तुल्यतर्को विचारस्तद्विपर्ययः । गुणातिपातोऽ तिशयो निरुक्तं गुणकीर्तनम् ॥३.१००॥ गर्हणानुनयो भ्रंशो लेशक्षोभौ मनोरथः । अनुक्तिसिद्धिः सारूप्यं माला मधुरभाषणम् ॥३.१०१॥ पृच्छोपदिष्टदृष्टानि षट्त्रिंशद्भूषणानि हि । गुणालङ्कारबहुलं भाषणं भूषणं मतम् ॥३.१०२॥ वाक्यमक्षरसङ्घातो भिन्नार्थं श्लिष्टवर्णकम् । स हेतुरिति निर्दिष्टो यत्साध्यार्थप्रसाधकः ॥३.१०३॥ एकदेशपरिज्ञानात्प्राप्तिः शेषाभियोजनम् । वाक्यं यद्गूढतुल्यार्थं तदुदाहरणं मतम् ॥३.१०४॥ शोभा स्वभावप्राकट्यं यूनोरन्योन्यमुच्यते । अनिश्चयान्तं यद्वाक्यं संशयः स निगद्यते ॥३.१०५॥ स्वपक्षे दर्शनं हेतोर्दृष्टान्तः साध्यसिद्धये । अभिप्रायस्त्वभूतार्थो हृद्यः साम्येन कल्पितः ॥३.१०६॥ अभिप्रायं परे प्राहुर्ममतां हृद्यवस्तुनि । यथार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ॥३.१०७॥ परोपेक्षाव्युदासार्थं तन्निदर्शनमुच्यते । अतर्कितोपपन्नः स्यात्सिद्धिरिष्टार्थसङ्गमः ॥३.१०८॥ प्रसिद्धिर्लोकविख्यातैर्वाक्यैरर्थप्रसाधनम् । चित्तानुवर्तनं यत्र तद्दाक्षिण्यमितीरितम् ॥३.१०९॥ उक्तार्थानुपपत्त्याऽन्यो यस्मिन्नर्थः प्रकल्प्यते । वाक्यमाधुर्यसंयुक्ता सार्थापत्तिरुदाहृता ॥३.११०॥ सिद्धान् बहून् प्रधानार्थानुक्त्वा यत्र प्रयुज्यते । विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥३.१११॥ बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः । उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥३.११२॥ रूपकैरुपमाभिर्वा तुल्यार्थाभिः प्रयोजितः । अप्रत्यक्षार्थसंस्पर्शस्तुल्यतर्क इतीरितः ॥३.११३॥ विचारस्त्वेकसाध्यस्य बहुसाधनवर्णनम् । विचारस्यान्यथाभावो विज्ञेयस्तद्विपर्ययः ॥३.११४॥ [*३] सिद्धसद्भावना मता. गुणातिपातो व्यत्यस्तगुणाख्यानमुदाहृतम् । बहून् गुणान् कीर्तयित्वा सामान्येन च संश्रयान् ॥३.११५॥ विशेषः कीर्त्यते यत्र ज्ञेयः सोऽ तिशयो बुधैः । निरुक्तिर्निरवद्योक्तिर्नामान्यर्थप्रसिद्धये ॥३.११६॥ लोके गुणातिरिकानां बहूनां यत्र नामभिः । एकोऽ पि शब्द्यते तत्तु विज्ञेयं गुणकीर्तनम् ॥३.११७॥ यत्र सङ्कीर्तयन् दोषान् गुणमर्थेन दर्शयेत् । गुणान् वा कीर्तयन् दोषान् दर्शयेद्गर्हणं तु तत् ॥३.११८॥ अभ्यर्थनापरं वाक्यं विज्ञेयोऽ नुनयो बुधैः । पतनं प्रकृतादर्थादन्यस्मिन् भ्रंश ईरितः ॥३.११९॥ लेशः स्यादिङ्गितज्ञानकृद्विशेषणवद्वचः । क्षोभस्त्वन्यगते हेतावन्यस्मिन् कार्यकल्पनम् ॥३.१२०॥ मनोरथस्तु व्याजेन विवक्षितनिवेदनम् । प्रस्तावनैव शेषोऽ र्थो यत्रानुक्तोऽ पि गृह्यते ॥३.१२१॥ अनुक्तसिद्धिरेषा स्यादित्याह भरतो मुनिः[*४] । दृष्टश्रुतानुभूतार्थकथनादिसमुद्भवम् ॥३.१२२॥ सादृश्यं यत्र सङ्क्षोभात्तत्सारूप्यं निरूप्यते । ईप्सितार्थप्रसिद्ध्यर्थं कथ्यन्ते यत्र सूरिभिः ॥३.१२३॥ प्रयोजनान्यनेकानि सा मालेत्यभिधीयते । यत्प्रसन्नेन सारूप्यं यत्र पूजयितुं वचः ॥३.१२४॥ स्तुतिप्रकाशनं तत्तु स्मृतं मधुरभाषणम् । प्रश्नेनैवोत्तरं यत्र सा पृच्छा परिकीर्तिता ॥३.१२५॥ प्रतिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते । विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते ॥३.१२६॥ यथादेशं यथाकालं यथारूपं च वर्ण्यते । यत्प्रत्यक्षं परोक्षं वा तद्दृष्टं दृष्टवन्मतम् ॥३.१२७॥ [*४] नाट्१६.१६९ = प्रस्तावेनैव शेषोऽ र्थः कृत्स्नो यन्न प्रतीयते । वचनेन विनानुक्तसिद्धिः सा परिकीर्तिता ॥ श्रीसिंहभूपेन कवीश्वराणां विश्राणितानेकविभूषणेन । षट्त्रिंशदुक्तानि हि भूषणानि सलक्ष्मलक्ष्याणि मुनेर्मतेन ॥३.१२८॥ साक्षदेवोपदेशेन प्रायो धर्मसमन्वयात् । अङ्गाङ्गिभावसम्पन्नसमस्तरससंश्रयात् ॥३.१२९॥ प्रकृत्यवस्थासन्ध्यादिसम्पत्त्युपनिबन्धनात् । आहुः प्रकरणादीनां नाटकं प्रकृतिं बुधाः ॥३.१३०॥ अतिदेशबलप्रापतनाटकाङ्गोपजीवनात् । अन्यानि रूपकाणि स्युर्विकारा नाटकं प्रति ॥३.१३१॥ अतो हि लक्षणं पूर्वं नाटकस्याभिधीयते । दिव्येन वा मानुषेण धीरोदात्तेन संयुतम् ॥३.१३२॥ शृङ्गारवीरान्यतरप्रधानरससंश्रयम् । ख्यातेति वृत्तसम्बद्धं सन्धिपञ्चकसंयुतम् ॥३.१३३॥ प्रकृत्यवस्थासन्ध्यङ्गसन्ध्यन्तरविभूषणैः । पताकास्थानकैर्वृत्तितदङ्गैश्च प्रवृत्तिभिः ॥३.१३४॥ विष्कम्भकादिभिर्युक्तं नाटकं तत्त्रिवर्गदम् । तदेतन्नाटकारम्भप्रकारो वक्ष्यते मया ॥३.१३५॥ विधेर्यथैव सङ्कल्पो मुखतां प्रतिपद्यते । प्रधानस्य प्रबन्धस्य तथा प्रस्तावना स्मृता ॥३.१३६॥ अर्थस्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते । प्रस्तावनायास्तु मुखे नान्दी कार्या शुभावहा ॥३.१३७॥ आशीर्नमस्क्रियावस्तुनिर्देशान्यतमा स्मृता । चन्द्रनामाङ्किता प्रायो मङ्गलार्थपदोज्ज्वला ॥३.१३८॥ अष्टाभिर्दशभिश्चेष्टा सेयं द्वादशभिः पदैः । समैर्वा विषमैर्वापि प्रयोज्येत्यपरे जगुः ॥३.१३९॥ नान्द्यन्ते तु प्रविष्टेन सूत्रधारेण धीमता । प्रसाधनाय रङ्गस्य वृत्तिर्योज्या हि भारती ॥३.१४०॥ अङ्गान्यस्याश्च चत्वारि भरतेनावभाषिरे । प्ररोचनामुखे चैव वीथीप्रहसने इति ॥३.१४१॥ वीथी प्रहसनं स्वस्वप्रसङ्गे वक्ष्यते स्फुटम् । प्ररोचना तु सा प्रोक्ता प्रकृतार्थप्रशंसया ॥३.१४२॥ सदस्यचित्तवृत्तीनां संमुखीकरणं च यत् । प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया ॥३.१४३॥ अचेतनौ देशकालौ कालो मधुशरन्मुखः । देशस्तु देवताराजतीर्थस्थानादिरुच्यते ॥३.१४४॥ तदद्य कालनाथस्य यात्रेत्यादिषु लक्ष्यताम् । चेतनास्तु कथानाथकविसभ्यनटाः स्मृताः ॥३.१४५॥ कथानाथास्तु धर्मार्थरसमोक्षोपयोगिनः । धर्मोपयोगिनस्तत्र युधिष्ठिरनलादयः ॥३.१४६॥ अर्थोपयोगिनो रुद्रनरसिंहनृपादयः । रसोपयोगिनो विद्याधरवत्सेश्वरादयः ॥३.१४७॥ मोक्षोपयोगिनो रामवासुदेवादयो मताः । एके त्वभेदमिच्छन्ति धर्ममोक्षोपयोगिनोः ॥३.१४८॥ कवयस्तु प्रबन्धारस्ते भवेयुश्चतुर्विधाः । उदात्त उद्धतः प्रौढो विनीत इति भेदतः ॥३.१४९॥ अन्तर्गूढाभिमानोक्तिरुदात्त इति गीयते । परापवादात्स्वोत्कर्षवादी तूद्धत उच्यते ॥३.१५०॥ यथोचितनिजोत्कर्षवादी प्रौढ इतीरितः । युक्त्या निजोत्कर्षवादी प्रौढ इत्यपरैः स्मृतः ॥३.१५१॥ विनीतो विनयोत्कर्षात्स्वापकर्षप्रकाशकः । सभ्यास्तु विबुधैर्ज्ञेया ये दिदृक्षानिव्ता जनाः ॥३.१५२॥ तेऽ पि द्विधा प्रार्थनीयाः प्रार्थकिति च स्फुटम् । इदं प्रयोक्ष्ये युष्माभिरनुज्ञा दीयतामिति ॥३.१५३॥ सम्प्रार्थ्याः सूत्रधारेण प्रार्थनीया इति स्मृताः । त्वया प्रयोगः क्रियतामित्युत्कण्ठितचेतसः ॥३.१५४॥ ये सूत्रिणं प्रार्थयन्ते ते सभ्याः प्रार्थकाः स्मृताह् । रङ्गोपजीविनः प्रोक्ता नटास्तेऽ पि त्रिधा स्मृताः ॥३.१५५॥ वादका गायकाश्चैव नर्तकाश्चेति कोविदैः । वीणावेणुमृदङ्गादिवादका वादकाः स्मृताः ॥३.१५६॥ आलापनध्रुवागीतगायका गायका मताः । नानाप्रकाराभिनयकर्तारो नर्तकाः स्मृताः ॥३.१५७॥ विस्तरादुत सङ्क्षेपात्प्रयुञ्जीत प्ररोचनाम् । एवं प्ररोचयन् सभ्यान् सूत्री कुर्यादथामुखम् ॥३.१५८॥ सूत्रधारो नटीं ब्रूते स्वकार्यं प्रति युक्तितः । प्रस्तुताक्षेपचित्रोक्त्या यत्तदामुखमीरितम् ॥३.१५९॥ त्रीण्यामुखाङ्गान्युच्यन्ते कथोद्घातः प्रवर्तकः । प्रयोगातिशयश्चेति तेषां लक्षणमुच्यते ॥३.१६०॥ सूत्रिणो वाक्यमर्थं वा स्वेतिवृत्तसमं यदा । स्वीकृत्य प्रविशेत्पात्रं कथोद्घातो द्विधा मतः ॥३.१६१॥ आक्षिप्तं कालसाम्येन प्रवृत्तिः स्यात्प्रवर्तकम् । एषोऽ यमित्युपक्षेपात्सूत्रधारप्रयोगतः ॥३.१६२॥ प्रयोगसूचनं यत्र प्रयोगातिशयो हि सः । प्रस्तावनास्थापनेति द्विधा स्यादिदमामुखम् ॥३.१६३॥ विदूषकनटीपारिपार्श्विकैः सह संलापन् । स्तोकवीथ्यङ्गसहितान्यामुखाङ्गानि सूत्रभृत् ॥३.१६४॥ योजयेद्यत्र नाट्यज्ञैरेषा प्रस्तावना स्मृता । सर्वामुखाङ्गवीथ्यङ्गसमेतैर्वाक्यविस्तरैः ॥३.१६५॥ सूत्रधारो यत्र नटीविदूषकनटादिभिः । संलपन प्रस्तुतं चार्थमाक्षिपेत्स्थापना हि सा ॥३.१६६॥ शृङ्गारप्रचुरे नाट्ये योग्यः स्यादामुखक्रमः । रत्नावल्य्दिके प्रायो लक्ष्यतां कोविदैरयम् ॥३.१६७॥ वीराद्भुतादि प्राये तु प्रायः प्रस्तावनोचिता । अनर्घराघवाद्येषु प्रायशो वीक्ष्यतामियम् ॥३.१६८॥ हास्यबीभत्सरौद्रादिप्राये तु स्थापना मता । वीरभद्रविजृम्भादौ सा प्रायेण समीक्ष्यताम् ॥३.१६९॥ कथितान्यामुखाङ्गानि वीथ्यङ्गानि प्रचक्ष्महे । आमुखेऽ पि च वीथ्यां च साधारण्येऽ पि संमतः ॥३.१७०॥ वीथ्यङ्गसंप्रथा तेषां वीथ्यामावश्यकत्वतः । उद्घात्यकावलगितप्रपञ्चत्रिगते छलम् ॥३.१७१॥ वाक्केल्यधिबले गण्डमवस्यन्दितनालिके । असत्प्रलापव्याहारौ मृदवं च त्रयोदश ॥३.१७२॥ तत्रोद्घात्यकमन्योन्यालापमाला द्विधा हि तत् । गूढारथपदपर्यायक्रमात्प्रश्नोत्तरक्रमात् ॥३.१७३॥ द्विधावलगितं प्रोक्तमर्थावलगनात्मकम् । अन्यप्रसङ्गादन्यस्य संसिद्धिः प्रकृतस्य व ॥३.१७४॥ प्रपञ्चस्तु मिथः स्तोत्रमसद्भूतं च हास्यकृत् । श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं भवेत् ॥३.१७५॥ प्रोक्तं छलं ससोत्प्रासैः प्रियाभासैर्विलोभनम् । साकाङ्क्षस्यैव वाक्यस्य वाक्केलिः स्यात्समाप्तितः ॥३.१७६॥ स्पर्धयान्योन्यसामर्थ्यव्यक्तिस्त्वधिबलं भवेत् । गण्डं प्रस्तुतसम्बन्धि भिन्नार्थं सहसोदितम् ॥३.१७७॥ पूर्वोक्तस्यान्यथा व्याख्या यत्रावस्यन्दितं हि तत् । प्रहेलिका निगूढार्था हास्यार्थं नालिका स्मृता ॥३.१७८॥ अन्तर्लापा बहिर्लापेत्येषा द्वेधा समीरिता । असम्बद्धकथालापोऽ सत्प्रलाप इतीरितः ॥३.१७९॥ अन्यार्थं वचनं हास्यकरं व्याहार उच्यते । दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत् ॥३.१८०॥ एवमामुखमायोज्य सूत्रधारे सहानुगे । निष्क्रान्तेऽ थत्तदाक्षिप्तैः पात्रैर्वस्तु प्रपञ्चयेत् ॥३.१८१॥ वस्तु सर्वं द्विधा सूच्यमसूच्यमिति भेदतः । रसहीनं भवेदत्र वस्तु तत्सूच्यमुच्यते ॥३.१८२॥ यद्वस्तु नीरसं तत्तु सूचयेत्सूचकास्त्वमी । विष्कम्भचूलिकाङ्कास्याङ्कावतारप्रवेशकाः ॥३.१८३॥ तत्र विष्कम्भो भूतभाविवस्त्वंशसूचकः । अमुख्यपात्ररचितः सङ्क्षेपैकप्रयोजनः ॥३.१८४॥ स शुद्धो मिश्र इत्युक्तो मिश्रः स्यान्नीचमध्यमैः । सोऽ यं चेटीनटाचार्यसंलापपरिकल्पितः ॥३.१८५॥ मालविकाग्निमित्रस्य प्रथमाङ्के निरूप्यताम् । शुद्धः केवलमध्योऽ यमेकानेककृतो द्विधा ॥३.१८६॥ रत्नावल्यामेकशुद्धः प्राप्तयौगन्धरायणः । अनेकशुद्धो विष्कम्भः षष्ठाङ्केऽ नर्घराघवे ॥३.१८७॥ निरूप्यतां सम्प्रयुक्तो माल्यवच्छुकसारणैः । वन्दिमागधसूताद्यैः प्रतिसीरान्तरस्थितैः ॥३.१८८॥ अर्थोपक्षेपणं यत्तु क्रियते सा हि चूलिका । सा द्विधा चूलिका खण्डचूलिका चेति भेदतः ॥३.१८९॥ पात्रैर्यवनिकान्तःस्थैः केवलं या तु निर्मिता । आदावङ्कस्य मध्ये वा चूलिका नाम सा स्मृता ॥३.१९०॥ प्रवेशनिर्गमाभावादियमङ्काद्बहिर्गता । रङ्गनेपथसंस्थायिपात्रसंलापविस्तरैः ॥३.१९१॥ आदौ केवलमङ्कस्य कल्पिता खण्डचूलिका । प्रवेशनिर्गमाप्राप्तेरियमङ्काद्बहिर्गता ॥३.१९२॥ एनां विष्कम्भमेवान्ये प्राहुर्नैतन्मतं मम । अप्रविष्टस्य संलापो विष्कम्भे न हि युज्यते ॥३.१९३॥ तद्विष्कम्भशिरस्कत्वान्मतेयं खण्डचूलिका । पूर्वाङ्कान्ते सम्प्रविष्टैः पात्रैर्भाव्यङ्कवस्तुनः ॥३.१९४॥ सूचनं तदविच्छित्यै यत्तदङ्कास्यमीरितम् । यथा हि वीरचरिते द्वितीयाङ्कावसानके ॥३.१९५॥ प्रविष्टेन सुमन्त्रेण सूचितं रामविग्रहे । वसिष्ठविश्वामित्रादिसमाभाषणलक्षणम् ॥३.१९६॥ वस्तूत्तराङ्के पूर्वार्थाविच्छेदेनैव कल्पितम् । अङ्कावतारः पात्राणां पूर्वकार्यानुवर्तिनाम् ॥३.१९७॥ अविभागेन सर्वेषां भाविन्यङ्के प्रवेशनम् । द्वितीयाङ्के मालविकाग्निमित्रे स निरूप्यताम् ॥३.१९८॥ पात्रेणाङ्कप्रविष्टेन केवलं सूचितत्वतः । भवेदङ्कादबाह्यत्वमङ्कास्याङ्कावतारयोः ॥३.१९९॥ यन्नीचैः केवलं पात्रैर्भाविभूतार्थसूचनम् । अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥३.२००॥ सोऽ यं चेटिद्वयालापसंविधानोपकल्पितः । मालतीमाधवे प्राज्ञैर्द्वितीयाङ्के निरूप्यताम् ॥३.२०१॥ असूच्यं तु शुभोदात्तरसभावनिरन्तरम् । प्रारम्भे यद्यसूच्यं स्यादङ्कमेवात्र कल्पयेत् ॥३.२०२॥ रसालङ्कारवस्तूनामुपलालनकाङ्क्षिणाम् । जनन्यङ्कवदाधारभूतत्वादङ्क उच्यते ॥३.२०३॥ अङ्कस्तु पञ्चषैर्द्वित्रैरङ्गिनोऽ ङ्गस्य वस्तुनः । रसस्य वा समालम्बभूतैः पात्रैर्मनोहरः ॥३.२०४॥ संविधानविशेषः स्यात्तत्रासूच्यं प्रपञ्चयेत् । असूच्यं तद्द्विधा दृश्यं श्राव्यं चाद्यं तु दर्शयेत् ॥३.२०५॥ द्वेधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः । स्वगतं स्वैकविज्ञेयं प्रकाशं तद्द्विधा भवेत् ॥३.२०६॥ सर्वप्रकाशं नियतप्रकाशं चेति भेदतः । सर्वप्रकाशं सर्वेषां स्थितानां श्रवणोचितम् ॥३.२०७॥ द्वितीयं तु स्थितेष्वप्येष्वेकस्य श्रवणोचितम् । द्विधा विभाव्यतेऽ न्यच्च जनान्तमपवारितम् ॥३.२०८॥ त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् । अन्येनामन्त्रणं यत्स्यात्तज्जनान्तिकमुच्यते ॥३.२०९॥ रहस्यं कथ्यतेऽ न्यस्य परावृत्यापवारितम् । इत्थं श्राव्यं च दृश्यं च प्रयुज्य सुसमाहितैः ॥३.२१०॥ पात्रैर्निष्क्रमणं कार्यमङ्कान्ते सममेव हि । अङ्कच्छेदश्च कर्तव्यः कालावस्थानुरोधतः ॥३.२११॥ दिनार्धदिनयोर्योग्यमङ्के वस्तु प्रवर्तयेत् । अङ्कप्रसङ्गाद्गर्भाङ्कलक्षणं वक्ष्यते मया ॥३.२१२॥ रसनायकवस्तूनां महोत्कर्षाय कोविदैः । अङ्कस्य मध्ये योऽ ङ्कः स्यादसौ गर्भाङ्क ईरितः ॥३.२१३॥ वस्तुसूचकनान्दीको दिङ्मात्रमुखसङ्गतः । अर्थोपक्षेपकैर्हीनश्चूलिकापरिवर्जितैः ॥३.२१४॥ अनेष्यद्वस्तुविषयः पात्रैश्त्रिचतुरैर्युतः । नातिप्रपञ्चेतिवृत्तः स्वाधाराङ्काङ्गशोभितः ॥३.२१५॥ प्रस्तुतार्थानुबन्धी च पात्रनिष्क्रमणावधिः । प्रथमाङ्के न कर्तव्यः सोऽ यं काव्यविशारदैः ॥३.२१६॥ सोऽ यमुत्तररामे तु रसोत्कर्षाय कथ्यताम् । नेतुरुत्कर्षको ज्ञेयो बालरामायणे त्वयम् ॥३.२१७॥ अमोघराघवे सोऽ यं वस्तूत्कर्षैककारणम् । नाटकेऽ ङ्का न कर्तव्याः पञ्चन्यूना दशाधिकाः ॥३.२१८॥ तदीदृशगुणोपेतं नाटकं भुक्तिमुक्तिदम् । तथा च भरतः धर्मार्थसाधनं नाट्यं सर्वदुःखापनोदकृत् । आसेवध्वं तदृषयस्तस्योत्थानं तु नाटकम् ॥िति॥ नाटकस्य तु पूर्णादिभेदाः केचन कल्पिताः ॥३.२१९॥ तेषां नातीव रम्यत्वादपरीक्षाक्षमत्वतः । मुनिनानादृतत्वाच्च तानुद्देष्टुमुदास्महे ॥३.२२०॥ अथ प्रकरणम् यत्रेतिवृत्तमुत्पाद्यं धीरशान्तश्च नायकः । रसः प्रधानं शृङ्गारः शेषं नाटकवद्भवेत् ॥३.२२१॥ तद्धि प्रकरणं शुद्धं धूर्तं मिश्रं च तत्त्रिधा । कुलस्त्रीनायकं शुद्धं मालतीमाधवादिकम् ॥३.२२२॥ गणिकानायिकं धूर्तं कामदत्ताह्वयादिकम् । कितवध्य्पुतकारादिव्यापारं त्वत्र कल्पयेत् ॥३.२२३॥ मिश्रं तत्कुलजावेश्ये कल्पिते यत्र नायिके । धूर्तशुद्धक्रमोपेतं तन्मृच्छकटिकादिकम् ॥३.२२४॥ नाटिका त्वनयोर्भेदो न पृथग्रूपकं भवेत् । प्रख्यातं नृपतेर्वृत्तं नाटकादाहृतं यतः ॥३.२२५॥ बुद्धिकल्पितवस्तुत्वं तथा प्रकरणादपि । विमर्शसन्धिराहित्यं भेदकं चेन्न तन्मतम् ॥३.२२६॥ रत्नावल्यादिके लक्ष्ये तत्सन्धेरपि दर्शनात् । स्त्रीप्रायचतुरङ्कादिभेदकं चेन्न तन्मतम् ॥३.२२७॥ एकद्वित्र्यङ्कपात्रादिभेदेनानन्तता यतः । देवीवशात्सङ्गमेन भेदश्चेत्तन्न युज्यते । मालविकाग्निमित्रादौ नाटिकात्वप्रसङ्गतः ॥३.२२८॥ प्रकरणिकानाटिकयोरनुसरणीया हि नाटिकासरणिः । अत एव भरतमुनिना नाट्यं दशधा निरूपितं पूर्वम् ॥३.२२९॥ ख्यातेन वा कल्पितेन वस्तुना प्राकृतैर्नरैः । अन्वितः कैशिकीहीनः सात्त्वत्यारभटीमृदुः ॥३.२३०॥ स्त्रीणां विलापव्यापारैरुपेतः करुणाश्रयः । नानासङ्ग्रामसंनाहप्रहारमरणोत्कटः ॥३.२३१॥ मुखनिर्वाहवान् यः स्यादेकद्वित्र्यङ्क इच्छया । उत्सृष्टिकाङ्कः स ज्ञेयः सविष्कम्भप्रवेशकः ॥३.२३२॥ अस्मिन्नमङ्गलप्राये कुर्यान्मङ्गलमन्ततः । प्रयोज्यस्य वधः कार्यः पुनरुज्जीवनावधिः ॥३.२३३॥ उज्जीवनादप्यधिकं मनोरथफलोऽ पि वा । विज्ञेयमस्य लक्ष्यं तु करुणाकन्दलादिकम् ॥३.२३४॥ खातेतिवृत्तसम्पन्नो निःसहायकनायकः । युक्तो दशावरैह्ख्यातैरुद्धतैः प्रतिनायकैः ॥३.२३५॥ विमर्शगर्भरहितो भारत्यारभटीस्फुटः । हास्यशृङ्गाररहित एकाङ्को रौद्रसंश्रयः ॥३.२३६॥ एकवासरवृत्तान्तः प्राप्तविष्कम्भचूलिकः । अस्त्रीनिमित्तसमरो व्यायोगः कथितो बुधैः ॥३.२३७॥ विज्ञेयमस्य लक्ष्यं तु धनञ्जयजयादिकम् । स्वस्य वान्यस्य वा वृत्तं विटेन निपुणोक्तिना ॥३.२३८॥ शौर्यसौभाग्यसंस्तुत्या वीरशृङ्गारसूचकम् । बुद्धिकल्पितमेकाङ्कं मुखनिर्वहणान्वितम् ॥३.२३९॥ वर्ण्यते भारतीवृत्त्या यत्र तं भाणमीरते । एकपात्रप्रयोज्येऽ स्मिन् कुर्यादाकाशभाषितम् ॥३.२४०॥ अन्येनानुक्तमप्यन्यो वचः श्रुत्वेव यद्वदेत् । इति किं भणसीत्येतद्भवेदाकाशभाषितम् ॥३.२४१॥ लास्याङ्गानि दशैतस्मिन् संयोज्यान्यत्र तानि तु । गेयपदं स्थितपाठ्यमासीनं पुष्पगन्धिका ॥३.२४२॥ प्रच्छेदकस्त्रिमूढं च सैन्धवाख्यं द्विमूढकम् । उत्तमोत्तमकं चान्यदुक्तप्रत्युक्तमेव च ॥३.२४३॥ वीणादिवादनेनैव सहितं यत्र भाव्यते । ललितं नायिकागीतं तद्गेयपदमुच्यते ॥३.२४४॥ चञ्चत्पुटादिना वाक्याभिनयो नायिकाकृतः । भूमिचारीप्रचारेण स्थितपाठ्यं तदुच्यते ॥३.२४५॥ भ्रूनेत्रपाणिचरणविलासाभिनयान्वितम् । योज्यमासीनया पाठ्यमासीनं तदुदाहृतम् ॥३.२४६॥ नानाविधेन वाद्येन नानाताललयान्वितम् । लास्यं प्रयुज्यते यत्र सा ज्ञेया पुष्पगन्धिका ॥३.२४७॥ अन्यासङ्गमशङ्किन्या नायकस्यातिरोषया । प्रेमच्छेदप्रकटनं लास्यं प्रच्छेदकं विदुः ॥३.२४८॥ अनिष्ठुरश्लक्ष्णपदं समवृत्तैरलङ्कृतम् । नाट्यं पुरुषभावाढ्यं त्रिमूढकमुदाहृतम् ॥३.२४९॥ देशभाषाविशेषेण चलद्वलयशृङ्खलम् । लास्यं प्रयुज्यते यत्र तत्सैन्धवमिति स्मृतम् ॥३.२५०॥ चारीभिर्ललिताभिश्च चित्रार्थाभिनयान्वितम् । स्पष्टभावरसोपेतं लास्यं यत्तद्द्विमूढकम् ॥३.२५१॥ अपरिज्ञातपार्श्वस्थं गेयभावविभूषितम् । लास्यं सोत्कण्ठवाक्यं तदुत्तमोत्तमकं भवेत् ॥३.२५२॥ कोपप्रसादजनितं साधिक्षेपपदाश्रयम् । वाक्यं तदुक्तप्रत्युक्तं यूनोः प्रश्नोत्तरात्मकम् ॥३.२५३॥ शृङ्गारमञ्जरीमुख्यमस्योदाहरणं मतम् । लास्याङ्गदशकं तत्र लक्ष्यं लक्ष्यविचक्षणैः ॥३.२५४॥ प्रख्यातेनेतिवृत्तेन नायकैरपि तद्विधैः । पृथक्प्रयोजनासक्तैर्मिलितैर्देवदानवैः ॥३.२५५॥ युक्तं द्वादशभिर्वीरप्रधानं कैशिकीमृदु । त्र्यङ्कं विमर्शहीनं च कपटत्रयसंयुतम् ॥३.२५६॥ त्रिविद्रवं त्रिशृङ्गारं विद्यात्समवकारकम् । मोहात्मको भ्रमः प्रोक्तः कपटस्त्रिविधस्त्वयम् ॥३.२५७॥ सत्त्वजः शत्रुजो दैवजनितश्चेति सत्त्वजः । क्रूरप्राणिसमुत्पन्नः शत्रुजस्तु रणादिजः ॥३.२५८॥ वात्यावर्षादिसम्भूतो दैवजः कपटः स्मृतः । उदाहरणमेतेषामावेगे लक्ष्यतां बुधैः ॥३.२५९॥ जीवग्राहोऽ पि मोहो वा कपटाद्विद्रवस्ततः । कपटत्रयसम्भूतेरयं च त्रिविधो मतः ॥३.२६०॥ धर्मार्थकामसम्बद्धस्त्रिधा शृङ्गार ईरितः । व्रतादिजनितः कामो धर्मशृङ्गार ईरितः ॥३.२६१॥ पार्वतीशिवसम्भोगस्तदुदाहरणं मतम् । यत्र कामेन सम्बद्धैरर्थैरर्थानुबन्धिभिः ॥३.२६२॥ भुज्यमानैः सुखप्राप्तिरर्थशृङ्गार ईरितः । सार्वभौमफलप्राप्तिहेतुना वत्सभूपतेः ॥३.२६३॥ रत्नावल्या समं भोगो विज्ञेया तदुदाहृतिः । दुरादरसुरापानपरदारादिकेलिजः ॥३.२६४॥ तत्तदास्वादललितः कामशृङ्गार ईरितः । तदुदाहरणं प्रायो दृश्यं प्रसनादिषु ॥३.२६५॥ शृङ्गारत्रितयं तत्र नात्र बिन्दुप्रवेशकौ । मुखप्रतिमुखे सन्धी वस्तु द्वादशनाडिकम् ॥३.२६६॥ प्रथमे कल्पयेदङ्के नाडिका घटिकाद्वयम् । मुखादिसन्धित्रयवांश्चतुर्नाडिकवस्तुकः ॥३.२६७॥ द्वितीयाङ्कस्तृतीयस्तु द्विनाडिककथाश्रयः । निर्विमर्शचतुःसन्धिरेवमङ्कास्त्रयः स्मृताः ॥३.२६८॥ वीथीप्रहसनाङ्गानि कुर्यादत्र समासतः । प्रस्तावनायाः प्रस्तावे प्रोक्तो वीथ्यङ्गविस्तरः ॥३.२६९॥ दश प्रहसनाङ्गानि तत्प्रसङ्गे प्रचक्ष्महे । उदाहरणमेतस्य पयोधिमथनादिकम् ॥३.२७०॥ सूच्यप्रधानशृङ्गारा मुखनिर्वहणान्विता । एकयोज्या द्वियोज्या वा कैशिकीवृत्तिनिर्मिता ॥३.२७१॥ वीथ्यङ्गसहितैकाङ्का वीथीति कथिता बुधैः । अस्यां प्रायेण लास्याङ्गदशकं योजयेन्न वा ॥३.२७२॥ सामान्या परकीया वा नायिकात्रानुरागिणी । वीथ्यङ्गप्रायवृत्तित्वान्नोचिता कुलपालिका ॥३.२७३॥ लक्ष्यमस्यास्तु विज्ञेयं माधवीवीथिकादिकम् । वस्तुसन्ध्यङ्कलास्याङ्गवृत्तयो यत्र भाणवत् ॥३.२७४॥ रसो हास्यः प्रधानं स्यादेतत्प्रहसनं मतम् । विशेषेण दशाङ्गानि कल्पयेदत्र तानि तु ॥३.२७५॥ अवगलितावस्कन्दौ व्यवहारो विप्रलम्भ उपपत्तिः । भयमनृतं विभ्रान्तिर्गद्गदवाक्च प्रलापश्च ॥३.२७६॥ पूर्वमात्मगृहीतस्य समाचारस्य मोहतः । दूषणं त्यजनं चात्र द्विधावगलितं मतम् ॥३.२७७॥ अवस्कन्दस्त्वनेकेषामयोग्यस्यैकवस्तुनः । सम्बन्धाभासकथनात्स्वस्वयोग्यत्वयोजना ॥३.२७८॥ व्यवहारस्तु संवादो द्वित्राणां हास्यकारणम् । विप्रलम्भो वञ्चना स्याद्भूतावेशादिकैतवात् ॥३.२७९॥ उपपत्तिस्तु सा प्रोक्ता यत्प्रसिद्धस्य वस्तुनः । लोकप्रसिद्धया युक्त्या साधनं हास्यहेतुना ॥३.२८०॥ स्मृतं भयं तु नगरशोधकादिकृतो दरः । अनृतं तु भवेद्वाक्यमसभ्यस्तुतिगुम्फितम् ॥३.२८१॥ तदेवानृतमित्याहुरपरे स्वमतस्तुतेः । वस्तुसाम्यकृतो मोहो विभ्रान्तिरिति गीयते ॥३.२८२॥ असत्यरुदितोन्मिश्रं वाक्यं गद्गदवाग्भवेत् । प्रलापः स्यादयोग्यस्य योग्यत्वेनानुमोदनम् ॥३.२८३॥ शुद्धं कीर्णं वैकृतं च तच्च प्रहसनं त्रिधा । शुद्धं श्रोत्रियशाखादेर्वेषभाषादिसंयुतम् ॥३.२८४॥ चेटचेटीजनव्याप्तं तल्लक्ष्यं तु निरूप्यताम् । आनन्दकोशप्रमुखं तथा भगवदज्जुकम् ॥३.२८५॥ कीर्णं तु सर्वैर्वीथ्यङ्गैः सङ्कीर्णं धूर्तसङ्कुलम् । तस्योदाहरणं ज्ञेयं बृहत्सौभद्रकादिकम् ॥३.२८६॥ यच्चेदं कामुकादीनां वेषभाषादिसङ्गतैः । षण्डतापसवृद्धाद्यैर्युतं तद्वैकृतं भवेत् ॥३.२८७॥ कलिकेलिप्रहसनप्रमुखं तदुदाहृतम् । ख्यातेतिवृत्तं निर्हास्यशृङ्गारं रौद्रमुद्रितम् ॥३.२८८॥ सात्त्वतीवृत्तिविरलं भारत्यारभटीस्फुटम् । नायकैरुद्धतैर्देवयक्षराक्षसपन्नगैः ॥३.२८९॥ गन्धर्वभूतवेतालसिद्धविद्याधरादिभिः । समन्वितं षोडशभिर्न्यायमार्गणनायकम् ॥३.२९०॥ चतुर्भिराङ्कैरन्वीतं निर्विमर्शकसन्धिभिः । निर्घातोल्कोपरागादिघोरक्रूराजिसम्भ्रमम् ॥३.२९१॥ सप्रवेशकविष्कम्भचूलिकं हि डिमं विदुः । अस्योदाहरणं ज्ञेयं वीरभद्रविजृम्भितम् ॥३.२९२॥ यत्रेतिवृत्तं मिश्रं स्यात्सविष्कम्भप्रवेशकम् । चत्वारोऽ ङ्का निर्विमर्शगर्भाः स्युः सन्धयस्त्रयः ॥३.२९३॥ धीरोद्धत्तश्च प्रख्यातो दिव्यो मर्त्योऽ पि नायकः । दिव्यस्त्रियमनिच्छन्तीं कन्यां वाहर्तुमुद्यतः ॥३.२९४॥ स्त्रीनिमित्ताजिसंरम्भः पञ्चषाः प्रतिनायकाः । रसा निर्भयबीभत्सा वृत्तयः कैशिकीं विना ॥३.२९५॥ स्वल्पस्तस्याः प्रवेशो वा सोऽ यमीहामृगो मतः । व्याजान्निवारयेदत्र सङ्ग्रामं भीषणक्रमम् ॥३.२९६॥ तस्योदाहरणं ज्ञेयं प्राज्ञैर्मायाकुरङ्गिका । इत्थं श्रीसिंहभूपेन सर्वलक्षणशालिना ॥३.२९७॥ सर्वलक्षणसम्पूर्णो लक्षितो रूपकक्रमः । अथ रूपकनिर्माणपरिज्ञानोपयोगिनी ॥३.२९८॥ श्रीसिंहधरणीशेन परिभाषा निरूप्यते । परिभाषात्र मर्यादा पूर्वाचार्योपकल्पिता ॥३.२९९॥ सा हि नौरतिगम्भीरं विविक्षोर्नाट्यसागरम् । एषा च भाषानिर्देशनामभिस्त्रिविधा मता ॥३.३००॥ तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः । चतुर्दश विभाषाः स्युः प्राच्याद्या वाक्यवृत्तयः ॥३.३०१॥ आसां संस्कारराहित्याद्विनियोगो न कथ्यते । उत्तमादिषु तद्देशव्यवहारात्प्रतीयताम् ॥३.३०२॥ भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः । कौमारपाणिनीयादिसंस्कृता संस्कृता मता ॥३.३०३॥ इयं तु देवतादीनां मुनीनां नायकस्य च । लिङ्गिनां च विटादीन्मनीचानां प्रयुज्यते ॥३.३०४॥ प्रकृतेः संस्कृतायास्तु विकृतिः प्राकृती मता ॥३.३०५॥ षड्विधा सा प्राकृतं च शौरसेनी च मागधी । पैशाची चूलिका पैशाच्यपभ्रंश इति क्रमात् ॥३.३०६॥ अत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् । क्वचिच्च देवी गणिका मन्त्रिजा चेति योषिताम् ॥३.३०७॥ योगिन्यप्सरसोः शिल्पकारिण्या अपि संस्कृतम् । ये नीचाः कर्मणा जात्या तेषां प्राकृतमुच्यते ॥३.३०८॥ छद्मलिङ्गवतां तद्वज्जैनानामिति केचन । अधमे मध्यमे चापि शौरसेनी प्रयुज्यते ॥३.३०९॥ धीवराद्यतिनीचेषु मागधी च नियुज्यते । रक्षःपिशाचनीचेषु पैशाचीद्वितयं भवेत् ॥३.३१०॥ अपभ्रंशस्तु चण्डालयवनादिषु युज्यते । नाटकादावपभ्रंशविन्यासस्यासहिष्णवः ॥३.३११॥ अन्ये चण्डालकादीनां मागध्यादीन् प्रयुञ्जते । सर्वेषां कारणवशात्कार्यो भाषाव्यतिक्रमः ॥३.३१२॥ माहात्म्यस्य परिभ्रंशं मदस्यातिशयं तथा । प्रच्छादनं च विभ्रान्तिं यथालिखितवाचनम् ॥३.३१३॥ कदाचिदनुवादं च कारणानि प्रचक्षते । साक्षादनामग्राह्याणां जनानां प्रतिसंज्ञया ॥३.३१४॥ आह्वानभङ्गी नाट्यज्ञैर्निर्देश इति गीयते । स त्रिधा पूज्यसदृशकनिष्ठविषयत्वतः ॥३.३१५॥ पूज्यास्तु देवो मुनयो लिङ्गिनस्तत्समास्त्रियः । बहुश्रुताश्च भगवच्छब्दवाच्या भवन्ति हि ॥३.३१६॥ आर्येति ब्राह्मणो वाच्यो वृद्धस्तातेति भाष्यते । उपाध्यायेति चाचार्यो गणिका त्वज्जुकाख्यया ॥३.३१७॥ महाराजेति भूपालो विद्वान् भाव इतीर्यते । छन्दतो नामभिर्वाच्या ब्राह्मणैस्तु नराधिपाः ॥३.३१८॥ देवेति नृपतिर्वाच्यो भृत्यैः प्रकृतिभिस्तथा । सार्वभौमः परिजनैर्भट्टभट्टारकेति च ॥३.३१९॥ वाच्यो राजेति मुनिभिरपत्यप्रत्ययेन वा । विदूषकेण तु प्रायः सखे राजन्नितीच्छया ॥३.३२०॥ ब्राह्मणैः सचिवो वाच्यो ह्यमात्य सचिवेति च । शैषाइरार्येत्यथायुष्मनिति सारथिना रथी ॥३.३२१॥ तपस्विसाधुशब्दाभ्यां प्रशान्तः परिभाष्यते । स्वामीति युवराजस्तु कुमारो भर्तृदारकः ॥३.३२२॥ आवुत्तेति स्वसुर्भर्ता स्यालेति पृतनापतिः । भट्टिनी स्वामिनी देवी तथा भट्टारिकेति च ॥३.३२३॥ परिचारजनैर्वाच्या योषितो राजवल्लभाः । राज्ञा तु महिषी वाच्या देवीत्यन्याः प्रिया इति ॥३.३२४॥ सर्वेण पत्नी त्वार्येति पितुर्नाम्ना सुतस्य वा । तातपादा इति पिता माताम्बेति सुतेन तु ॥३.३२५॥ ज्येष्ठास्त्वार्या इति भ्रात्रा तथा स्युर्मातुलादयः । सदृशः सदृशो वाच्यो वयस्येत्याह्वयेन वा ॥३.३२६॥ हलेति सख्या तु सखी कथनीया सखीति वा । सुतशिष्यकनीयांसो वाच्या गुरुजनेन हि ॥३.३२७॥ वत्सपुत्रकदीर्घायुस्तातजातेति संज्ञया । अन्यः कनीयानार्येण जनेन परिभाष्यते ॥३.३२८॥ शिल्पाधिकारनामभ्यां भद्र भद्रमुखेति । वाच्ये नीचातिनीचे तु हण्डे हञ्जे इति क्रमात् ॥३.३२९॥ भर्त्रा वाच्याः स्वस्वनाम्ना भृत्याः शिल्पोचितेन वा । एवमादि प्रकारेण योज्या निर्देशयोजना ॥३.३३०॥ लोकशास्त्राविरोधेन विज्ञेया काव्यकोविदैः । अनुक्तनाम्नः प्रख्याते कञ्चुकिप्रभृतेरपि ॥३.३३१॥ इतिवृत्ते कल्पिते तु नायकादेरपि स्फुटम् । रसवस्तूपयोगीनि कविर्नामानि कल्पयेत् ॥३.३३२॥ विनयन्धरबाभ्रव्यजयन्धरजयादिकम् । कार्यं कञ्चुकिनां नाम प्रायो विश्वाससूचकम् ॥३.३३३॥ लतालङ्कारपुष्पादिवस्तूनां ललितात्मनाम् । नामभिर्गुणसिद्धैर्चेटीनां नाम कल्पयेत् ॥३.३३४॥ करभः कलहंसश्चेत्यादि नामानुजीविनाम् । कर्पूरचण्डकाम्पिल्येत्यादिकं नाम वन्दिनाम् ॥३.३३५॥ सुबुद्धिवसुभूत्यादिमन्त्रिणां नाम कल्पयेत् । देवरातः सोमरात इति नाम पुरोधसः ॥३.३३६॥ श्रीवत्सो गौतमः कौत्सो गार्ग्यो मौद्गल्य इत्यपि । वसन्तकः कापिलेय इत्याख्येयो विदूषकः ॥३.३३७॥ प्रतापवीरविजयमानविक्रमसाहसैः । वसन्तभूषणोत्तंसशेखराङ्कपदोत्तरैः ॥३.३३८॥ धीरोत्तराणां नेतॄणां नाम कुर्वीत कोविदः । चन्द्रापीडः कामपाल इत्याद्यं ललितात्मनाम् ॥३.३३९॥ उग्रवर्मा चण्डसेन इत्याद्युद्धतचेतसाम् । दत्तसेनान्तनामानि वैश्यानां कल्पयेत्सुधीः ॥३.३४०॥ कर्पूरमञ्जरी चन्द्रलेखा रागतरङ्गिका । पद्मावतीति प्रायेण नाम्ना वाच्या हि नायिका ॥३.३४१॥ देव्यस्तु धारिणीलक्ष्मीवसुमत्यादिनामभिः । भोगवती कान्तिमती कमला कामवल्लरी ॥३.३४२॥ इरावती हंसपदीत्यादिनाम्ना तु भोगिनी । विप्रक्षत्रविशः शर्मवर्मदत्तान्तनामभिः ॥३.३४३॥ शिखण्डाङ्गदचूडान्तनाम्ना विद्याधराधिपाः । कुण्डलानन्दघण्टान्तनाम्ना कापालिका जनाः ॥३.३४४॥ योगसुन्दरिका वंशप्रभा विकटमुद्रिका । शङ्खकेयूरिकेत्यादिनाम्ना कापालिकस्त्रियः ॥३.३४५॥ आनन्दिनी सिद्धिमती श्रीमती सर्वमङ्गला । यशोवती पुत्रवतीत्यादिनाम्ना सुवासिनी ॥३.३४६॥ इत्यादि सर्वमालोच्य लक्षणं कृतबुद्धिना । कविना कल्पितं काव्यमाचन्द्रार्कं प्रकाशते ॥३.३४७॥ लक्ष्यलक्षणनिर्माणविज्ञानकृतबुद्धिभिः । परीक्ष्यतामयं ग्रन्थो विमत्सरमनीषया ॥३.३४८॥ भरतागमपारीणः श्रीमान् सिंहमहीपतिः । रसिकः कृतवानेवं रसार्णवसुधाकरम् ॥३.३४९॥ संरम्भादनपोतसिंहनृपतेर्धाटीसमाटीकने निःसाणेषु धणं धणं धणमिति ध्वानानुसन्धायिषु । मोदन्ते हि रणं रणं रणमिति प्रौढास्तदीया भटा भ्रान्तिं यान्ति तृणं तृणं तृणमिति प्रत्यर्थिपृथ्वीभुजः ॥३.३५०॥ मत्वा धात्रा तुलायां लघुरिति धरणीं सिंहभूपालचन्द्रे सृष्टे तत्रातिगुर्व्यां तदुपनिधितया स्थाप्यमानैः क्रमेण । चिन्तारत्नौघकल्पद्रुमततिसुरभीमण्डलैः पूरितान्ताप्य् ऊर्ध्वं नीता लघिम्ना तदरिकुलशतैः पूर्यतेऽ द्यापि सा द्यौः ॥३.३५१॥ इति श्रीमदान्ध्रमण्डलाधीश्वरप्रतिगण्डभैरवश्रीमदनपोतनरेन्द्रनन्दनभुजबलभीमश्रीसिंहभूपालविरचिते रसार्णवसुधाकरनाम्नि नाट्यालङ्कारशास्त्रे भावकोल्लासो नाम तृतीयो विलासः ॥३॥ समाप्तश्चायं रसार्णवसुधाकरः श्रीतोयशैलवसतिः स तमालनीलो जीयाद्धरिर्मुनिचकोरसुशारदेन्दुः । लक्ष्मीस्तनस्तवककुङ्कुमकर्दमश्री संलिप्तनिर्मलविशालभुजान्तरालः ॥ मलयगिरिनिवासी मारुतो यच्छताङ्गस् तरुणशिशिररश्मिर्यत्सुहृत्पुण्यकीर्तिः । चरति चिरमनङ्गः क्वापि करि अप्यदृश्यः स जयतु रसिकौघैर्वन्दितः पञ्चबाणः ॥ अशेषाणां द्विजनुषामाशीर्वादपरम्परा । तरङ्गयतु कल्याणं कवीनां चायुरायतम् ॥