प्रस्तावना । अस्मिन्भरतखण्डे खल्वद्यावधि बहवः संस्कृतग्रन्थाः संशोध्य मुद्रणद्वारा प्राकाश्यं नीतास्तत्र तत्र पण्डितप्रकाण्डैः । तथापि कतिचन प्राजीनाः प्रबन्धाः प्रकाशनार्हा अपि पुस्तककोशेष्वेव निलीना वर्तन्ते । तेषामन्यतमोऽयं काव्यालङ्कारसंग्रहाख्यः प्रबन्धो योऽद्य महता प्रयत्नेन सहृदयहृदयवनोदाय प्रकाश्यते । अस्य काव्यालङ्कारसङ्ग्रहग्रन्थस्य प्रणेता उद्भटभट्टः । उद्भटभट्टस्य भट्टोद्भटौद्भटाचार्यः इत्यापि नामोल्लेखो ग्रन्थान्तरेषु दृश्यते । उद्भटभट्ट कश्मीरेषु जयापीडः भूपस्य सभापतिरासीदिति कल्हणवरचतराजतरङ्गिणीग्रन्थादवगम्यते । जयापीडनृपतिराज्यकालस्तु ख्रिस्त ७७९ वर्षमारभ्य ८१३ वर्षपर्यन्तमासीदिति ज्ञायते । अतस्तत्सभापतेरुद्भटभट्टस्यापि जीवितसमयः स एवेति विदुषां निर्णयः । उद्भटाचार्येण कुमारसंभवाख्यं काव्यं तथा भामहकृतालङ्कारग्रन्थस्य विवरणं च विरचितमासीदिति ज्ञायते । अत्र प्रमाणं तु अस्यां लघुवृत्तौ "अनेन ग्रन्थकृता खोपरचितकुमारसंभवैकदेशोऽत्र उदाहरणत्वेनोपन्यस्तः"पृ० १५ इति "विशेषोक्तलक्षणे च भामहविवरणे भट्टोद्भटेन एकदेशश्बद एवं व्याख्यातः"पृ० १३ इति च प्रतीहारेन्दुराजस्योक्तिः । काव्यालङ्कारसारलघुवृत्तेः प्रणेता श्रीप्रतहारेन्दुराजस्तु कोङ्कणदेशवास्तव्यः कश्मीरेषु मीमांसाख्याकरणतर्कसाहित्यशास्त्रपारंगतभट्टश्रीमुकुलादधीतशास्त्रश्चेति अस्या लघुवृत्तेः प्रारम्भोपसंहारयोः स्थिताभ्यां निम्नलिखितपद्याभ्यां स्फुटं भवति । "विद्वदग्र्यान्मुकुलकादधिगम्य विविच्यते । प्रतीहारेन्दुराजेन काव्यालङ्कारसंग्रहः ॥ " "मीमांसासारमेघात्पदजलधिविधोस्तर्कमाणिक्यकोशात् साहित्यश्रीमुरारेर्बुधकुसुममधोः शौरिपादब्जभृङ्गात् । श्रुत्वा सौजन्यसिन्धोर्द्वजवरमुकुलात्कीर्तिवल्ल्यालवालात् काव्यालङ्कारसारे लघुववृतिमधात्कौङ्कणः श्रीन्दुराजः ॥ "इति प्रतीहारेन्दुराजस्य जीवितकालस्तु निश्चित्य वक्तुं न शक्यते । तथाप्ययं भट्टोद्भस्य पश्चाद्बभूवेति व्यक्तमेव । अनेन लघुवृत्तौ भामहवामनौद्भटैत्यादि प्राचीनालङ्कारिकाणामेवोल्लेखः कृतः नतु महिमभट्टआनन्दवर्धनकाव्यप्रकाशकाराद्यभिनवालङ्कारिकाणाम् । अतोऽयं खिस्तवर्षस्य नवमदशमशतकयोर्मध्ये बभूवेति तर्क्यते । अस्य ग्रन्थस्यादर्शपुस्तकमेकमेव पुण्यपत्तनस्थाराजकीयपुस्तकालयाधिकारिभिः प्रोफेसर विनायक सखाराम घाटे इत्येतै संस्करणार्थे दत्वनृगृहीतोऽस्मीति कृतज्ञतया स्मरामि तेषामुपकृतिम् । कारवारपुरे विद्वदनुचरः श्रावण शु १२ शके १८३७ मङ्गेशशर्मा. _______________________________________________________________________________ श्रीः । श्रीमदुद्भटभट्टप्रणीतः काव्यालङ्कारसंग्रहः । प्रथमो वर्गः श्रीमत्प्रतीहारेन्दुराजविरचितया काव्यालङ्कारसारलघुवृत्त्या समेतः । यल्लक्ष्म्या हसितैः सितैर्धवलितं नर्मोक्तिलीलाजुषः शौरेः स्फीतगभस्तिकौस्तुभरुचा यच्च क्वचित्पाटलम् । अन्यत्र च्छुरितं यदम्बररच हेमप्रभादीप्रया तद्वक्षोऽक्षतशक्रचापशबलव्योमाभमव्याज्जगत् ॥ १ ॥ महिषितवपुषि सुरद्विषि दर्शितभयमभयदं द्युसद्मभ्यः । नन्दितसुरेन्द्रवन्दितमङ्घ्रियुगं गौरि तव वन्दे ॥ २ ॥ विद्वदग्र्यान्मुकुलकादघिगम्य विवच्यते । प्रतीहारेन्दुराजेन काव्यालङ्कारसंग्रहः ॥ ३ ॥ पुनरुक्तवदाभासं छेकानुप्रास एव च । अनुप्रासस्त्रिधा लाटानुप्रासो रूपकं चतुः ॥ १.१ ॥ उपमा दीपकं चैव प्रतिवस्तूपमा तथा । इत्येत एवालङ्कारा वाचां कैश्चिदुदाहृताः ॥ १.२ ॥ अत्रालङ्कारा अष्टावुद्दिष्टाः । तत्रादौ चत्वारः शब्दालङ्कारा निरूपिताः । रूपकादीनां तु चतुर्णामत्र अर्थालङ्कारता । अत्रानुप्रासे रूपके यथाक्रमं त्रिधेति चतुरिति वचनं विप्रतिपत्तिनिरासार्थम् । भामहो हि ग्राम्योपनागरकावृत्तभेदेन द्विप्रकारमेवानुप्रासं व्याख्यातवान् । तथा रूपकस्य ये चत्वारो भेदा वक्ष्यन्ते तन्मध्यादाद्यमेव भेदद्वितयं प्रादर्शयत् । अतः स्वाभिमतभेदोपदर्शनद्वारेण एवंविधविप्रतिपत्तिनिरासार्थमुद्देशावस्थायामेवानुप्रासस्त्रिधेति रूपकं चतुरिति चोक्तम् । रूपकं चतुरित्यत्र रूपकत्वेन सह एकस्मिन्नर्थे वर्तमाना सत्ता रूपकेदेष्वावर्तमाना प्रतीयते । अतः प्रतीयमाना यासौ रूपकत्वैकार्थसमवेता सत्तात्मिका भवनक्रिया तदभ्यावृत्तावयं "द्वित्रिचतुर्भ्यः सुच्"(पा. अ. ५.४.१८) इति सुच्प्रत्ययः । रूपकं चतुर्षु भेदेषु चतुरो वारान् भेदात्मना भवतीत्यर्थः । तत्र पुनरुक्तवदाभासं प्रोच्यते पुनरुक्ताभासमभिन्नवस्त्विवोद्भासि भिन्नरूपपदम् । अभिन्नं वस्तु यस्मिन्नुद्भासते तदभिन्नवस्तु । भिन्नं रूपं ययोः पदयोस्ते भिन्नरूपे । अभिन्नवस्त्विव अभीक्ष्णमुद्भासेते भिन्नरूपे पदे यस्मिंस्तदभिन्नवस्त्विवोद्भासिभिन्नरूपपदम् । एवमयं बहुव्रीहिद्वितयगर्भः पञ्चपदोबहुव्रीहिः । तत्रैकोऽभिन्नवस्त्विति बहुव्रीहिः । अपरस्तु भिन्नरूप इति । तद्गर्भश्चायं बहुव्रीहिरभिन्नवस्त्विवोद्भासिभिन्नरूपपदमिति । अनेन च यत्र भिन्नरूपे पदे एकार्थवदाभासेते तत्पुनरुक्ताभासं काव्यमलङ्कार्यं निर्दिष्टम् । यद्यपि । पुनरुक्तवदाभासमित्युद्देशे वतिः प्रयुक्तस्तथापि तस्येह गम्यमानार्थत्वादप्रयोगः । उद्देशे त्वेवमनभिधानमभिधावैचित्र्यप्रदर्शनार्थम् । काचित्खलु गम्यमानार्थन्वयेन अभिधा प्रवर्तते, काचित्त्वभिधीयमानार्थन्वयेन । तत्रोद्देशे वत्यभिधीयमानसादृश्यान्वयेन अभिधा उपदर्शिता । इह त्वर्थसामर्थ्यवसेयसादृश्यान्वयेन । तदेवमर्थसामर्थ्यावसेयेन वत्यर्थेनान्वितं पुनरुक्ताभासमत्र काव्यमलङ्कार्यं यत्काव्यं तद्धर्मत्वेन पुनरुक्तवदाभासमानयोः पदयोरलङ्कारत्वमुक्तं न तु स्वतन्त्रतया । फलं चैवमभिधानस्य पुनरुक्तवदाभासमानपदसमन्वयस्य अलङ्कारताख्यापनम् । अलङ्कारस्य खल्वलङ्कार्यपरतन्त्रतया निरूपणे क्रियमाणे सुष्ठु स्वरूपं निरूपितं भवति । स्वात्मन्यवस्थितस्य तस्यानलङ्कारत्वात् । समुद्गकस्थितहारकेयूरपारिहार्याद्यलङ्कारवत् । अतः पुनरुक्तवदाभासत्वुस्यालङ्करताख्यापनाय काव्यपरतन्त्रतया निर्देशो युक्त एव । तस्योदाहरणम् तदाप्रभृति निःसङ्गी नागकुञ्जरकृत्तिभृत् । शितिकण्ठः कालगलत्सतीशोकानलव्यथः ॥ १.*१ ॥ तदाप्रभृति सतीवियोगादारभ्य स देवः शितिकण्ठो निःसङ्गः सन् दिवसानतवाहितवानिति वक्ष्यमाणे श्लोके वाक्यार्थपरिसमाप्तिः । कृत्तिश्चर्म । कालवशेन निवर्तमाना (या) सती (तस्याः) वियोगेन जनितो यः शोकवह्निस्तदुद्भवा पीडा यस्य स तथोक्तः । अत्र नागकुञ्जरशब्दौ शितिकण्ठकालगलशब्दौ च पुनरुक्तवदाभासेते । तथाहि । नागकुञ्चरशब्दयोरुपक्तमावस्थायां गजवाचित्वेन एकार्थत्वं प्रतिभाति । पदार्थन्वयपर्यालोचनया तु तद्बाध्यते । नागशब्दः खल्वत्र हस्तिवाची । कुञ्चरशब्दस्तु तत्प्रशंसावगतहेतुः । एवं शितिकण्ठकालगलशब्दयोरपि वलीविशेषावच्छिन्नशरीरावयवभेदोपेतार्थाभिधायित्वात्पौनरुक्त्यं संभाव्यमानं कालगलदिति तकारावधिपर्यालोचनया चापसार्यते । तेनात्र पुनरुक्ताभासत्वम् । ननु छेकानुप्रासलक्षणादनन्तरं पुनरुक्तवदाभासोदाहरणं पठ्यते । तत्कथं पुनरुक्तवदाभासलक्षणव्याख्यानसमय एव तस्योपन्यासः कृतः । उच्यते । उदाहरणप्रदर्शनमन्तरेण लक्षणार्थस्य दुरधिगमत्वादिहैव तदुपन्यस्तमित्यदोषः । एवमुत्तरत्रापि प्रमेयशब्दानुसारेण ग्रन्थपाठक्रमविपर्यासेन व्याख्यायां नासूयितव्यम् । पाठक्रमादार्थक्रमस्य बलीयस्त्वात् । छेकानुप्रासः छेकानुप्रासस्तु द्वयोर्द्वयोः सुसदृशोक्तिकृतौ ॥ १.३ ॥ द्वयोर्द्वयोरज्झल्समुदाययोः सुष्ठु सदृशे उच्चारणे क्रियमाणे सति छेकानुप्रासो भवति । तथाविधा समुदायास्तत्रालङ्कारतां प्रतिपद्यन्ते । द्वयोर्द्वयोरिति स्वार्थेऽवधार्यमाणे अनेकस्मिन्निति द्विर्वचनं स्वार्थग्रहणेन वीप्साया निरस्तत्वात्न यावन्तोऽत्र द्विकाः संभवन्ति तेषां सर्वेषामेव सुसदृशत्वं कार्यं, किं तर्हि कतिपयानामेव । वीप्सा हि साकल्ये सति भवति । सा चात्र स्वार्थशब्देन निरस्ता । अवधार्यमाणग्रहणाच्च द्वयोर्द्वयोरेवात्र समुदाययोः सदृशत्वं, नतु त्रयाणां त्रयाणामिति द्रष्टव्यम् । अनेकस्मिन्निति वचनाच्च असकृदेवंविधरूपोपनिबन्धे सति छेकानुप्रासता न तु सकृदिति मन्तव्यम् । परस्परमेकरूपान्विता रसाद्यभिव्यक्त्यनुगुणत्वेन लब्धोत्कर्षा वर्णास्तत्समुदाया वा शोभातिशयहेतुत्वेन काव्ये क्षिष्यमाणा अनुप्रासशब्देनान्वर्थेनाभिधीयन्ते । छेकशब्देन कुलायाभिरतानां पक्षिणामभिधानम् । तदुक्तम्"छेकान् गृहेष्वभिरतानुशन्ति मृगपक्षिणः"इति । तेषां च कुलायाभिरतत्वादन्येन केनचिदनायास्यमानानामनेनानुप्रासेन सदृशी मधुरा वागुच्चरति । अतोऽयमनुप्रासश्छेकैर्व्यपदिश्यते छेकानुप्रास इति । अथवा छेका विदग्धाः । तद्वल्लभत्वादस्य छेकानुप्रासता । तस्योदाहरणम् स देवो दिवसान्निन्ये तस्मिञ्शैलेन्द्रकन्दरे । गरिष्ठगोष्ठीप्रथमैः प्रमथैः पर्युपासितः ॥ १.*२ ॥ कन्दरो गुहा । गरिष्ठा गुरुतमाः । ऽप्रियस्थिरऽ(पा.अ.६.४.१५७) इतीष्ठनि गुरुशब्दस्य गरादेशः । गोष्ठी विदग्धानामासनबन्धः । प्रथमैः प्रधानैः । प्रमथैर्गणैः । पर्युपासितः सेवितः । अत्र सदेवदिवसशब्दौ इन्द्रकन्दरशब्दौ गरिष्ठगोष्ठीशब्दौ प्रथमप्रमथशब्दौ परिउपासशब्दौ च द्वौ द्वौ अज्झल्समुदायौ सुसदृशावृच्चारितौ तेन छेकानुप्रासता । क्वचित्तुऽनिन्ये तस्मिन्ऽइत्यत्रऽनिन्येऽन्यस्मिन्ऽइति पाठः । तदा चैतदप्युदाहरणेऽन्तर्भवतीति । अनुप्रासः । स च त्रिविधो वृत्तिसंश्रयात् । यद्वक्ष्यति "सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु । पृथक्पृथगनुप्रासमुशन्ति कवयः सदा"इति । अस्यार्थः त्रिष्वेतेषु यथायोगं रसाद्यभिव्यक्त्यनुगुणेषु वर्णव्यवहारेषुयः सरूपाणां व्यञ्जनानां पृथक्पृथगुपनिबन्धस्तमनुप्रासं कवयः सदेच्छन्तीति । अतस्तास्तावद्वृत्त्यो रसाद्यभिव्यक्त्यनुगुणवर्णव्यवहारात्मिकाः प्रथममभिधीयन्ते । ताश्च तिस्रः, परुषोपनागरिकाग्राम्यत्वभेदात् । तत्र परुषा शषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता । परषा नाम वृत्तिः स्याथ्लह्वह्याद्यैश्च संयुता ॥ १.४ ॥ शकारषकारादियुक्तौ वर्णव्यवहारः परुषाख्या वृत्तिः । रेफोपलक्षिताः संयोगाः क्रर्कादयो रेफसंयोगाः । टकारोपलक्षितो वर्गष्टवर्गः टठडढणेति । अस्यां वृत्तौ योऽनुप्रासः स परुषानुप्रासः । तस्योदाहरणम् तत्र तोयाशयाशेषव्याकोशितकुशेशया । चकाशे शालिकिंशारुकपिशाशामुखा शरत् ॥ १.*३ ॥ तोयाशयेषु अशेषं साकल्येन व्याकोशितानि विकासितानि कुशेशयानि पद्मानि यया इति समासः । तथा शालीनां धान्यानां किंशारुभिः शूकैः कपिशानि पिञ्जराणि आशामुखानि दिगवकाशा यस्यामिति समासः । अयं च शकारस्य सारूप्येणोपनिबन्धात्परुषानुप्रासः । अपनागरिका सरूपसंयोगयुतां मूर्ध्निवर्गान्त्ययोगिभिः । स्पर्शैर्युतां च मन्यन्ते उपनागरिकां बुधाः ॥ १.५ ॥ सरूपाणां वर्णानां ये संयोगाः क्कप्पच्च इत्यादयस्तैर्युक्ता । तथा वर्गान्त्यैर्ङञणनमैः ङ्कञ्चण्टन्तम्पैत्यादिरूपतया उपरि ये युक्ताः कादयो मकारान्ताः स्पर्शास्तैर्युक्ता उपनागरिका वृत्तिः । एषा खलु नागरिकया वैदग्धीजुषा वनितया उपमीयते तत उपनागरिका । नागरिकया उपमिता उपनागरिकेति । "अवादयः ऋष्टाद्यर्थे तृतीयया"इति समासः । तस्यामुपनागरिकानुप्रासः । तस्योदाहरणं च सान्द्रारविन्दवृन्दोत्थमकरन्दाम्बुबिन्दुभिः । स्यन्दिभिः सुन्दरस्पन्दं नन्दितेन्दिन्दिरा क्वचित् ॥ १.*४ ॥ अत्र दकाराख्यः स्पर्शो नकारेणोपरि व्यवस्थितेन युक्तः सारूप्येणोपनिबद्धः । सान्द्रा घना अरविन्दवृन्दोत्था मकरन्दाम्बुबिन्दव इति संबन्धः । सुन्दरस्पन्दं स्पन्दिभिरिति सामान्यभूतः स्पन्दः सुन्दरस्पन्दमिति विशिष्टेन स्पन्देन विशेषितो रैपोषं पुष्णातीतिवत् । सुन्दरः स्पन्दोयस्मिन्निति हि सामान्यभूते स्पन्दने अन्यपदार्थे सुन्दरताविशिष्टं स्पन्दनं वृत्तिपदार्थभूतम् । इन्दिन्दिरा भ्रमराः ॥ ग्राम्या शेषैर्वणैर्यथायोगं कथितां कोमलाख्यया । ग्राम्यं वृर्त्ति प्रशंसन्ति काव्येष्वादृतबुद्धयः ॥ १.६ ॥ परुषोपनागरिकोपयुक्तवर्णावशिष्टैर्वर्णैर्लकारादिभिरुपनिबध्यमाना ग्राम्या । तस्या एव च अपरं नामधेयं कोमलेति । कोमलाख्यया कथितामिति संबन्धः । तस्यां चानुप्रासो ग्राम्यानुप्रासः । तस्योदाहरणम् केलिलोलालिमालानां कलैः कोलाहलैः क्वचित् । कुर्वती काननारूढश्रीनूपुररवभ्रमम् ॥ १.*५ ॥ केलिलोलाः क्रीडालम्पटाः । कलैर्मधुरैः । भ्रमो भ्रान्तिर्विपर्ययप्रत्ययः । अत्र लकारककाररेफाः सारूप्येणोपनिबद्धाः । एवमेतास्तिस्रो वृत्तयो व्याख्याताः । तासु च रसाद्यभिव्यक्त्यानुगुण्येन पृथक्पृथगनुप्रासो निबध्यते तदाह सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु । पृथक्पृथगनुप्रासमुशन्ति कवयः सदा ॥ १.७ ॥ अयं श्लोकः सोदाहरणो वृत्तिस्वरूपनिरूपणप्रसङ्गेन व्याख्यातः । लाटानुप्रासः स्वरूपार्थाविशेषेऽपि पुनरुक्तिः फलान्तरात् । शब्दानां वा पदानां वा लाटानुप्रास इष्यते ॥ १.८ ॥ स पदद्वितयस्थित्या द्वयोरेकस्य पूर्ववत् । तदन्यस्य स्वतन्त्रत्वाद्द्वयोर्वैकपदाश्रयात् ॥ १.९ ॥ स्वतन्त्रपदरूपेण द्वयोर्वापि प्रयोगतः । भिद्यतेऽनेकधा भेदैः पादाभ्यासक्रमेण च ॥ १.१० ॥ शब्दानामनुपलभ्यमानसुप्तिङां तथा पदानामुपलभ्यमानसुप्तिङां, उभयेषां च शब्दपदानां स्वरूपस्य वर्णात्मनः अभिधेयस्य च निरन्तरशब्दव्यापारगोचरीकृतस्य वाच्यस्यार्थस्याभेदेऽपि फलान्तरात्तात्पर्यभेदात्पुनरुक्तिः सा लाटदेशनिवासिजनवल्लभत्वाल्लाटानुप्रासोऽभिधीयते । स च प्रथमं तावत्र्रिप्रकारः । द्वयोः स्वतन्त्रयोर्द्वयोः परतन्त्रयोः स्वतन्त्रपरतन्त्रयोश्च भावात् । तत्र यस्यावद्द्वयोः स्वतन्त्रयोः स द्विप्रकारः । एकैकस्मिन् पदे पदसमुदायात्मके च पादे भावात् । तदुक्तम् "स्वतन्त्रपदरूपेम द्वयोर्वापि प्रयोगतः । भिद्यतेऽनेकधा भेदैः पादाभ्यासक्रमेण च ॥ "इति । अत्र हि स्वतन्त्रपदात्मकत्वेन द्वयोः प्रयोगादेकैकपदाश्रयो लाटानुप्रासोऽभिहितः । तस्योदाहरणम् काशाः काशा इवोद्भान्ति सरांसीव सरांसि च । चेतांस्याचिक्षिपुर्यूनां निम्नगा इव निम्नगाः ॥ १.*६ ॥ आचिक्षिपुरपत्दृतवन्तः । अत्र काशादयः शब्दा अपरैः काशादिभिः शब्दै एकरूपा एकाभिधेयाश्च । तात्पर्यभेदेन तु तेषां पुनरुक्तिः । तथा ह्यत्र एकेषां काशादिशब्दानां जातिभेदोपरक्तद्रव्यपरतया प्रयोगः । अपरेषां तु अनन्वयालङ्कारच्छायया उपमानान्तरव्यावृत्तिपरतया । अत्र च स्वातन्त्र्यं पदानां, काशादीनामुपलभ्यमानसुप्तिङ्रूपत्वात् । एकैकरूपतया चावृत्तेरुपनिबन्धः । पदसमुदायात्मकस्य तु पादस्य स्वरूपार्थाविशेषे तात्पर्यभेदेन पुनरुक्तौ पादाभ्यासपरिपाट्या स्वतन्त्रपदाश्रयो लाटानुप्रासो भवति । पादाभ्यासक्रमेण चेति क्रमग्रहणेन सकृद्द्विस्त्रिश्च पादाभ्यासे ये भेदाः संभवन्ति तत्स्वीकारेण पादाभ्यासे लाटानुप्रासस्य प्रवृत्तिः सूचिता । तस्योदाहरणम् स्त्रियो महति भर्तृभ्य आगस्यपि न चुक्रुधुः । भर्तारोऽपि सति स्त्रीभ्य आगस्यपि न चुक्रुधुः ॥ १.*७ ॥ महत्यप्यागसीति संबन्धः । तथा च सत्यप्यागसीति भर्तृभ्य इति स्त्रीभ्य इति चऽक्रुध द्रुहेऽति संप्रदानता । अत्र एकत्र पादे नायकगतापराधविषयत्वेन स्त्रीकर्तृकः क्रोधाभावः प्रतिपादितः । अपरत्र तु नायिकानां यो भर्तृप्रणयातिक्रमात्मकोऽपराधस्तद्विषयो नायककर्तृकः क्रोधाभावोभिहितः । अतस्तात्पर्यभेदः स्वरूपार्थाविशेषश्च । पदसमुदायात्मकस्य च पादस्याभ्यासः । एवमयं स्वतन्त्रपदाश्रयो लाटानुप्रासो द्विविधोऽभिहितः । एकैकपदाश्रयः पदसमुदायाश्रयश्च स्वतन्त्रपदाश्रयो लाटानुप्रासः । द्वयोरनुपलभ्यमानसुप्तिडोः परतन्त्रयोः शब्दयोर्यो लाटानुप्रासस्तस्यापि द्वैविध्यं, पदद्वितयाश्रयत्वेन एकपदाधारत्वेन च । तदुक्तम् ऽस पदद्वितयस्थित्या द्वयोःऽइति । सोऽनेकधा भेदैर्भिद्यते इति संबन्धः । तथा द्वयोर्वैकपदाश्रयादिति । पूर्वस्योदाहरणम् क्वचिटुत्फुल्लकमला कमलभ्रान्तषट्पदा । षट्पदक्वाममुखरा मुखरस्फारसारसा ॥ १.*८ ॥ सारसाः लक्ष्मणाख्याः पक्षिविशेषाः । अत्र कमलषट्पदमुखरशब्दानां स्वरूपार्थभेदेऽपि तात्पर्यभेदेन पुनरुक्तिः पदद्वितयाश्रयित्वं च । तात्पर्यभेदश्चात्र कमलषट्पदशब्दयोः कारकशक्तिभेदात् । तथाहि । पूर्वः कमलशब्दोऽत्र विकासक्रियाकर्तृत्वपरतयोपात्तः, उत्तरस्तु भ्रमणक्रियाकर्तृभूतषट्पदाधारत्वेन । तथा पूर्वः षट्पदशब्दो भ्रमणक्रियां प्रति कर्तृत्वेनोपवर्णितः, उत्तरस्तु क्वाणक्रियासंबन्धित्वेन । मुखरशब्दौ तु विशेषणभूतं सशब्दत्वं भिन्नार्थनिष्ठतयावगमयतः । तथाहि । पूर्वेण मुखरशब्देन शरन्निष्ठं मौखर्यमवगम्यते, अपरेण तु सारसनिष्ठम् । एवमयं पदद्वितयपरतन्त्रशब्दद्वयाश्रयो लाटानुप्रासोऽभिहितः । एकपदाश्रयशब्दद्वितयवर्ति तु "द्वयोर्वैकपदाश्रयात्" इत्युक्तः । तस्योदाहरणम् जितान्यपुष्टकिञ्जल्ककिञ्जल्कश्रेणिशोभितम् । लेभेऽवतंसतां नारीमुखेन्दुष्वसितोत्पलम् ॥ १.*९ ॥ अत्र नारीमुखेष्विति वदनानां चन्द्रेणोपमितत्वादसितोत्पलस्य शशकरूपता ध्वन्यते । किञ्जल्कशब्दयोश्चात्र स्वरूपार्थाभेद एकपदाश्रयत्वं तात्पर्यभेदश्च । एकस्य जीयमानतया उपादानात्, अपरस्य जयनक्रियाकर्तृभूतायासौ श्रेणिस्तत्संबन्धित्वेन । एवमयं परतन्त्रयोः शब्दयोर्लाटानुप्रासो द्विविधो निरूपितः । स्वतन्त्रपरतन्त्रयोस्तु यत्रैकस्य शब्दस्य पदान्तरानुप्रवेशः, अपरस्य तु स्वातन्त्र्येण पदरूपतयावस्थानं तत्र भवति । तदुक्तम्ऽएकस्य पूर्ववत्तदन्यस्य स्वतन्त्रत्वात्ऽइति । एकस्य पूर्ववत्पदान्तराश्रयेणावस्थानादित्यर्थः । तस्योदाहरणम् पद्मिनीं पद्मिनीगाढस्पृहयागत्य मानसात् । अन्तर्दन्तुरयामासुर्हंसा हंसकुलालयात् ॥ १.*१० ॥ मानसात्सरोविशेषात् । दन्तुरयामासुः महत्त्वाच्छुक्लत्वाच्च उन्नतदन्ता इव चक्रुः । अत्र स्वरूपार्थाफभेदेऽपि पद्मिनीशब्दयोर्हंसशब्दयोश्च तात्पर्यबेदात्पुनरुक्तिः । एकस्य पदान्तरानुप्रवेशः, अपरस्य च स्पृहाविषयप्रतिपादनार्थत्वात् । तथा एकस्य हंसशब्दस्य दन्तुरणक्रियाकर्तृभूतार्थाभिधायित्वात्, अपरस्य तु कुलसंबन्धित्वात् । एवमयं पञ्चविधो लाटानुप्रासः प्रतिपादितः । स्वतन्त्रपरतन्त्राणां तस्य प्रत्येकं द्विभेदत्वात्स्वतन्त्रपर तन्त्रयोश्च समुदितयोरेकप्रकारत्वात् ॥ रूपकम् श्रुत्या संबन्धविरहाद्यत्पदेन पदान्तरम् । गुणवृत्ति प्रधानेन युज्यते रूपकं तु तत् ॥ १.११ ॥ बन्धस्तस्य यतः श्रुत्या श्रुत्यर्थाभ्यां च तेन तत् । समस्तवस्तुविषयमेकदेशविवर्ति च ॥ १.१२ ॥ समस्तवस्तुविषयं मालारूपकमुच्यते । यद्वैकदेशवृत्ति स्यात्पररूपेण रूपणात् ॥ १.१३ ॥ पदान्तरस्य गुणवृत्तेरपरेण पदेन योगे रूपकं भवति । नन्वेवं सति नीलमुत्पलमित्यत्रापि नीलशब्दस्य गुणवृत्तेरुत्पलशब्देन योगे रूपकताप्रसङ्ग इत्याशङ्क्योक्तंश्रुत्या संबन्धविरहादिति । श्रुतिर्निरन्तरार्थनिष्ठः शब्दव्यापारः । तया श्रुत्या अनुपपद्यमानपदान्तरसंबन्धं सत्पदान्तरं गुणवृत्ति यत्रापरेण पदेन युज्यते तत्र रूपकता । यथा ज्योत्स्नाम्बुनेन्दुकुम्भेन ताराकुसुमशारितम् । क्रमशो रात्रिकन्याभिर्व्योमोद्यानमसिच्यत ॥ १.*११ ॥ इति । अत्राम्बुशब्दो निरन्तरार्थनिष्ठशब्दव्यापारगोचरीकृते उदकत्वे वर्तमानो ज्योत्स्नाशब्देन सामानाधिकरण्यं नानुभवति । अम्बुत्वज्योत्स्नात्वयोरेकार्थसमवायाभावात् । अतोऽम्बुगताः शौक्ल्याह्लादकत्वप्रसरणशीलत्वादयो ये गुणास्तत्सदृशज्योत्स्नागतगुणवृत्तिः सन्नम्बुशब्दो ज्योत्स्नायां वर्तते । तेनाम्बुशब्दस्य श्रुत्या निरन्तरार्थनिष्ठेन अभिधाव्यापारेण यः पदान्तरेण ज्योत्स्नाशब्देन संबन्धस्तच्छून्यत्वाद्गुणवृत्तिता । अतोऽत्र रूपकता । नचैवं नीलमुत्पलमित्यादौ श्रुत्या संबन्धविरहाद्गुणवृत्तित्वं, किंतर्हि स्वत एवेति न रूपकताप्रसङ्गः । ननु विरुद्धार्थाभिधायिनोः समानाधिकरणयोः शब्दयोर्निरन्तरार्थनिष्ठेन अभिधाव्यापारेण अनुपप्द्यमानान्योन्यसमन्वयत्वाद्यद्येकस्य लक्षणया गुणवृत्तित्वमभिधीयते, एवं सति पर्यायेणात्र गुणवृत्तित्वं प्राप्नोति । नियमकरणाभावात् । ततश्च यथाम्बुशब्दस्य ज्योत्स्नाशब्दसामानाधिकरण्याद्गुणवृत्तित्वमुक्तं, तद्वज्ज्योत्स्नाशब्दस्यापि अम्बुशब्दसामानाधिकरण्याद्गुणवृत्तित्वं कथं न स्यादित्याशङ्क्योक्तं प्रधानेनेति । प्रधानार्थानुरोधेन उपसर्जनस्य लक्षणया गुणवृत्तित्वमुपपन्नम् । प्रधानवशवर्तित्वाद्गुणानामित्यभिप्रायः । अतश्च प्राकरणिकार्थाभिधायित्वात्प्रधानार्थविषयो यो ज्योत्स्नाशब्दः तदनुरोधेन अम्बुशब्दस्य अप्राकरणिकार्थत्वादप्रधानार्थस्य गुणवृत्तित्वमुपपन्नमिति न पर्यायेण ज्योत्स्नाम्बुशब्दयोः परस्परानुरोधेन गुणवृत्तित्पप्रसङ्गः । ननु च ज्योत्स्नाम्बुनेत्यत्र अम्बुनः प्राधान्यं ज्योत्स्नायाश्च गुणभावः । तथा हि । एतस्मिञ्श्लोके तद्भावाध्यवसानेन सेकावच्छादितरूपतया सेकात्मकत्वेन यासौ व्योम्नो व्याप्तिरसिच्यतेति प्रतिपादिता, तया स्वसाधनभूतं यत्तदम्भोऽपेक्षितं तदत्र ज्योत्स्नया विशिष्यते ज्योत्स्नैवाम्ब्विति । यदत्र सेकसाधनत्वेनाम्बु अपेक्षितं तज्ज्योत्स्नैवेत्यर्थः । उक्तं च "उपसर्जनोपमेयं कृत्वा तु समासमेतयोरुभयोः । यच्च प्रयुच्यते तद्रूपकमन्यत्समासोक्तम्"इति । एतयोरुभयोरिति । उपमानोपमेययोरित्यर्थः । तत्कथमिदमुक्तं ज्योत्स्नापदस्य प्राधान्यात्तद्वशेनाम्बुशब्दस्य गुणवृत्तित्वं कल्प्यते इति । उच्यते । अत्र खलु द्वेऽवस्थे विद्येते । एका तावज्ज्योत्स्नाया अम्बूकरणावस्था । अपरा तु अम्बुत्वमापादिताया ज्योत्स्नायाः सेकसंबन्धरूपा । तत्र यदा तावज्ज्योत्स्ना अम्बुरूपत्वमापद्यते तदा प्राकरणिकत्वात्ज्योत्स्ना प्रधानम् । अम्बु च तद्विपर्ययाद्गुणः । तदानीं चाम्बुशब्दो ज्योत्स्नाशब्दानुरोधेनाम्बुगतशौक्ल्यादिगुणसदृशगुणयोगाल्लक्षणया ज्योत्स्नायां वृत्तिमनुभवति । तदा च तस्य प्रधानार्थानुरोधाद्गुणवृत्तित्वेन रूपकत्वमुक्तम् । यदा त्वसौ अम्बुशब्द आपादिताम्बुभावज्योत्स्नाभिधायी सन् सेकक्रियया समन्वयमापद्यमानो यदेतदत्र सेकसाधनत्वेनाम्बु उपयुज्यते तज्ज्योत्स्नैवेति ज्योत्स्नया विशिष्यते तदा तस्य न रूपकावस्था । पूर्वावस्थायामेवानुभूतगुणवृत्तित्वात् । अतस्तस्यामवस्थायामसौ अतिशयोक्तिच्छायां भजते । पूर्वावस्थापेक्षयात्वेतद्रूपकमुक्तम् । प्रधानानुरोधेन तत्र गुणेषु वर्तमानत्वात् । रूपकत्वं चात्राध्यारोप्यमाणगतेन रूपेण अध्यारोपविषयस्य वस्तुनो रूपवतः क्रियमाणत्वादन्वर्थं द्रष्टव्यम् । अत्र चोपमानवर्तिनो ये गुणास्तत्सदृशगुणदर्शनादुपमेय उपमानगतयोः शब्दरूपयोरारोपः । तत्र त्रयो दर्शनभेदाः । केचिदत्र शब्दारोपपूर्वकमर्थारोपं ब्रुवते, अपरे त्वर्थारोपपूर्वकं शब्दारोपम् । अन्यैस्तु शब्दारोपार्थारोपयोर्यौगपद्यमभिधीयते । अयमेव च पक्षो युक्त इव दृश्यते । तदाहुः "शब्दोपचारात्तद्रूपं रूपके कैश्चिदुच्यते । ताद्रूप्यारोपतश्चान्यैः शब्दारोपोऽत्र कथ्यते ॥ उपमानगुणैस्तुल्यानुपमेयगतान् गुणान् । पश्यतां तु सकृद्भाति तत्र तच्छब्दरूपता ॥ इति । तत्रेति । उपमेये इत्यर्थः । तच्छब्दरूपतेति । उपमानशब्दारोप उपमानरूपारोपश्च । तस्य च रूपकस्य द्विप्रकारता । स्वकण्ठेन सकलरूपणाभिधानादेकः प्रकारः । तदुक्त्म्"बन्धस्तस्य यतः श्रुत्या तेन तत्समस्तवस्तुविषयम्"इति । श्रुतिर्निरन्तरार्थनिष्ठोऽभिधाव्यापारस्तस्योदाहरणंऽज्योत्स्नाम्बुनाऽइत्याद्युक्तम् । शारितं शबलितम् । अत्र हि सर्वेषामेव रूप्यत्वेनोपात्तानां ज्योत्स्नेन्दुतारारात्रिव्योम्नां यथाक्रममम्बुकुम्भकुसुमकन्योद्यानानि रूपकत्वेन स्वकण्ठेनोपात्तानि, न त्वर्थाक्षिप्तं कस्यचिद्रूपणम् । तेन श्रुत्यैवात्र रूपणा । अतः समस्तवस्तुविषयत्वम् । समग्राणि ह्यत्र रूप्यत्वेनाभिमतानि वस्तूनि स्वकण्ठेनोपात्तस्य रूपकस्य विषयः । अयमसावेकः प्रकारः । यत्र तु किंचित्स्वकण्ठेन किंचिच्चार्थाद्रषणं भवति, तत्र श्रुत्यर्थाभ्यां रूपणादपरः प्रकारो भवति । तत्र चैकदेशविवर्तित्वम्, एकदेशविशेषेण स्वकण्ठोक्त्या वर्तनात् । तदुक्तंऽयतश्च श्रुत्यर्थाभ्यां तस्य बन्धस्तेन तदेकदेशविवर्ति चऽइति । तस्योदाहरणम् उत्पतद्भिः पतद्भिश्च पिच्छालीबालशालिभिः । राजहंसैरवीज्यन्त शरदैव सरोनृपाः ॥ १.*१२ ॥ पिच्छाल्यः पक्षपङ्क्तयः । राजहंसा रक्तचञ्चुपादा हंसाः । अवीज्यन्तेति । वीजिर्धातुष्वपठितोऽपि शिष्ठप्रयोगात्मिलिखचिक्लविक्षपिवद्धा तुतया द्रष्टव्यः । अत्र द्वे रूपणे स्वकण्ठेनाभिहिते पिच्छालीबालशालिभिरिति सरोनृपा इति च । तथा हि एकत्र पिच्छाल्यो बालरूपत्वेन रूपिताः, अपरत्र तु सरांसि नृपरूपत्वेन । राजहंसानां चामररूपत्वेन रूपणा अर्थाक्षिप्ता, शरदश्च प्रकृताया नायिकात्वेन । शरन्नायिकया कर्तृभूतया राजहंसचामरैः पिच्छालीबालशालिभिः सरोनृपा वीज्यन्ते स्मेति ह्यत्र वाक्यार्थः । एवमेतौ रूपकस्य समस्तवस्तुविषयैकदेशविवर्तिलक्षणौ द्वौ प्रकारावुक्तौ । यदि वा मालारूपकस्य समस्तवस्तुविषयता तत्र ह्येकस्मिन् रूप्ये समुच्चयेन अस्यन्ते क्षिप्यन्ते बहूनि रूपकाणि । तदुक्तं ऽसमस्तवस्तुविषयं मालारूपकमुच्यते । ऽयद्वेति प्रकारान्तरोपक्षेपार्थः । तस्योदाहरणम् वनान्तदेवतावेण्यः पान्थस्त्रीकालशृङ्खलाः । मारप्रवीरासिलता भृङ्गमालाश्चकासिरे ॥ १.*१३ ॥ वनान्ता वनैकदेशः । वेण्यः केशपाशाः । कालशृङ्खला अन्तकप्रयुक्ता आकर्षणशृङ्खलाः । मारप्रवीरा मन्मथसंबन्धिनो भटाः । अत्र भृङ्गमालानामेव केवलानां रूप्यत्वेनोपात्तानां तिस्रो रूपणाः कृताः वनान्तदेवतावेण्य इत्येवमादिना । तेनात्र समस्तवस्तुविषयता, एकस्मिन् रूप्ये समुच्चयेन बहूनां रूपणानां क्षिप्तत्वात् एकदेशविवर्ति तु पररूपेण रूपणाद्भवति । तदुक्तंऽएकदेशवृत्ति स्यात्पररूपेम रूपणात्ऽइति । तस्योदाहरणम् । आसारधाराविशिखैर्नभोभागप्रभासिभिः । प्रसाध्यते स्म धवलैराशाराज्यं बलाहकैः ॥ १.*१४ ॥ आसारो वेगवद्वर्षम् । विशिखाः शराः । अत्र प्रसाध्यत इत्ययं शब्दः श्लेषच्छायया द्वयोरर्थयोर्वर्तते भूषणे उपार्जने च । तत्र भूषणं प्रकृतम् । शरत्समयो ह्यत्र प्रस्तुतः । तत्र च शुक्लैर्बलाहकैर्दिशो भूष्यन्ते । यदुपार्जनं तदप्रकृतत्वादत्र परमन्यत् । तस्य च परस्याप्रकृतस्य उपार्जनस्य यत्तद्रूपं कारककदम्बकं येन तद्रूपवत्क्त्रयते नृपविशिखराज्यसंग्रामभूम्यात्मकं तेनात्र यथाक्रमं बलाहकासारधारादिङभोभागानां रूप्यत्वेनाभिमतानां रूपणा विहिता । तेनात्रैकदेशवृत्तित्वम् । एकदेशवृत्तीत्यत्र हि एकदा अन्दा ईशः प्रभविष्णुर्यो वाक्यार्थस्तद्वृत्तत्वं रूपकस्याभिमतम् । विशेषोक्तिलक्षणे च भामहविवरणे भट्टोद्भटेन एकदेशशब्द एवं व्याख्यातो यथोहास्माभिर्निरूपितः तत्र विशेषोक्तिलक्षणम् "एकदेशस्य विगमे या गुणान्तरसंस्तुति । विशेषप्रथनायासौ विशेषोक्तिर्मता यथा"इति । तेनात्र विशेषोक्तिलक्षणवदेकदेशशब्देन अन्यदा प्रभविष्णुर्वाक्यार्थ उच्यते, अन्यत्र च अन्यदा प्रभविष्णूपार्जनम् । अप्रकृतं हि तत्श्लेषवशेनात्र नीतं, तेनात्रैकदेशवृत्तिता ॥ दीपकम् आदिमध्यान्तविषयाः प्राधान्येतरयोगिनः । अन्तर्गतोपमाधर्मा यत्र तद्दीपकं विदुः ॥ १.१४ ॥ यत्रान्तर्गतोर्ऽथसामर्थ्यावसेयत्वादुपमानोपमेयभावो येषां तथाविधानां धर्मणामुपनिबन्धस्तत्र काव्यदीपकं भवति । तथाविधकाव्यविषयत्वाच्च दीपकस्य तत्काव्यं दीपकमित्युपचारात्सामानाधिकरण्यम् । अत्र च धर्माणामेकवारमुपनिबन्धो द्रष्टव्यः । असकृदुपादाने हि तेषां प्रतिवस्तूपमां वक्ष्यति । अत एव चैकदेशवर्तिनामपि तेषां धर्माणां यौ द्वौ उपमानोपमेयभावेन अवस्थितौ वाक्यार्थौ बहबो वा तथाविधास्तदुद्दीपनहेतुत्वाद्दीपकता । यावच्च तेषां धर्माणामुपमानोपमेयभावसमन्वयेनात्रोपनिबन्धस्तावद्बलात्प्राधान्येतरयोगित्वमापतति । उपमेयस्य । प्राकरणिकतया प्राधान्यादुपमानस्य च तादर्थ्येन गुणभावात् । एवं च प्राधान्येतरयोगिन इत्ययमत्रानुवादः । प्राप्तार्थत्वात् । प्राधान्यं च इतरच्चाप्राधान्यम् । ताभ्यां योगः संबन्धो विद्यते येषां ते तथोक्ताः । अस्य च दीपकस्य त्रैविध्यम्, तेषां धर्माणामादिमध्यान्तवाक्यविषयत्वेनोपनिबन्धात् । तदुक्तम्ऽआदिमध्यान्तविषयाःऽइति । तत्रादिदीपकस्योदाहरणम् संजहार शरत्कालः कदम्बकुसुमश्रियः । प्रेयोवियोगिनीनां च निःशेषसुखसम्पदः ॥ १.*१५ ॥ अत्र संहरणात्मा धर्मः कदम्बकुसुमशोभाकर्मकत्वेन विरहिणीसुखसम्पत्कर्मकत्वेन च उपनिबध्यमानोऽन्तर्गतोपमः । शरत्समयस्योपवर्ण्यमानतया कदम्बकुसुमश्रीसंहरस्य प्राकरणिकार्थनिष्ठत्वादिव्रहिणीसुखसंपत्संहारस्य चाप्राकरणिकार्थविषयत्वात् । तेनात्रान्तर्गतोपमत्वम्, यथा प्रेयोवियोगिनीनां निःशेषाः सुखसम्पदः संजहार तथा कदम्बकुसुमश्रियोऽपीति । शरत्कालशब्दस्य चात्र शरत्समयः श्लेषच्छायया अन्तकानुरञ्चितो वाच्यः । संहारस्यान्तककर्मत्वात् । अत्र च प्रथम एव वाक्ये संजहारेत्यस्योपनिबद्धस्य द्वितीयवाक्ये अनुषङ्गच्छायया उपजीव्यमानत्वादादिदीपकत्वम् । मध्यदीपकस्योदाहरणम् विदेशवसतिर्यातपतकाजनदर्शनम् । दुःखाय केवलमभूच्छरच्चासौ प्रवासिनाम् ॥ १.*१६ ॥ यातपतिकाः प्रोषितभर्तृकाः । शरदः प्राकरणिकत्वाद्विदेशवसतियातपतिकाजनदर्शनयोश्चाप्राकरणिकत्वादत्रान्तर्गतोपमता । अत्र च यातपतिकाजनदर्शनं दुःखाय केवलमभूदिति मध्यमे वाक्ये प्रवासिदुः खैकहेतुत्वलक्षणो धर्म उपात्तः सन्नाद्यन्ताभ्यां वाक्याभ्यां पूर्ववदुपजीव्यते । तेन मध्यदीपकता । अन्तदीपकस्योदाहरणम् तदानीं स्फीतलावण्यचन्द्रिकाभरनिर्भरः । कान्ताननेन्दुरिन्दुश्च कसय नानन्दकोऽभवत् ॥ १.*१७ ॥ तदानीं शरत्समये । अत्र इन्दुः प्राकरणिकः शरत्समयस्य उपवर्ण्यमानत्वात् । कान्ताननेन्दुस्त्वप्राकरणिकः । अन्ते च सर्वसुखहेतुत्वमुपनिबद्धं सत्पूर्वत्र उपजीव्यते । तेनात्रान्तदीपकता । एवमेतद्दीपकं लक्षितमुदाहृतं च ॥ ननु उपमायाऽउपमा दीपकं चऽइति पूर्वमद्दिष्टत्वात्यथोद्देशलक्षणमिति न्यायात्त्स्या एव पूर्वं लक्षणं कर्तव्यम्, पश्चात्तु दीपकस्य । तत्कथमादौ दीपकं लक्षितमिति वक्तव्यम् । उच्यते । अनेन ग्रंथकृता स्वोपरचितकुमारसंभवैकदेशोऽत्र उदाहरणत्वेनोपन्यस्तः । तक्ष पूर्वं दीपकस्योदाहरणानि । तदनुसन्धानाविच्छेदायात्र उद्देशक्रमः । परित्यक्तः । उद्देशस्तु तथा न कृतो वृत्तभङ्गभयात् । एवमुत्तरत्रापि लक्षणेषु उद्देशक्रमाननुसारणसमाधिर्वाच्यः ॥ उपमा यच्चेतोहारिसाधर्म्यमुपमानोपमेययोः । मिथो विभिन्नकालादिशब्दयोरुपमा तु तत् ॥ १.१५ ॥ यथेवशब्दयोगेन सा श्रुत्यान्वयमर्हति । सदृशादिपदाश्लेषादन्यथेत्युदिता द्विधा ॥ १.१६ ॥ संक्षेपाभिहिताप्येषा साम्यवाचकविचुयतैः । साम्योपमेयतद्वाचिवियोगाच्च निबध्यते ॥ १.१७ ॥ उपमानोपमेयोक्तौ साम्यतद्वाचिविच्यवात् । क्वचित्समासे तद्वाचिविरहेण क्वचिच्च सा ॥ १.१८ ॥ तथोपमानादाचारक्यच्प्रत्ययबलोक्तितः । क्वचित्सा कर्तुराचारे क्यङा सा च क्विपा क्वचित् ॥ १.१९ ॥ उपमाने कर्मणि वा कर्तरि वा यो णमुल्कषादगतः । तद्वाच्या सा वतिना च कर्म सामान्यवचनेन ॥ १.२० ॥ षष्ठीसप्तम्यन्ताच्च यो वतिर्नामतस्तदभिधये । कल्पत्प्रभृतिभिरन्यैश्च तद्धितैः सा निबध्यते कविभिः ॥ १.२१ ॥ सादृश्यसंबन्धित्वेनोपादीयते यत्प्राकरणिकं तदुपमेयम् । न खलु प्राकरणिकस्यापि सादृश्यसंबन्धित्वेन अनुपादीयमानस्योपमेयता, यथा राज्ञः पुरुषमानयेत्यत्र पुरुषस्य । पुरुषो ह्यत्रानीयमानत्वेन चोद्यमानत्वात्सत्यपि प्राकरणिकत्वे सादृस्यसंबन्धित्वेनानुपादीयमानत्वान्नोपमेयः । सत्यपि च सादृश्यसंबन्धित्वेनोपादाने यस्य प्राकरणिकत्वं नास्ति तस्योपमानत्वं, न तूपमेयत्वमिति प्राकरणिकमित्युक्तम् । तदेवं सादृश्यसंबन्धित्वेनोपादीयमानं यत्प्राकरणिकं तदुपमेयम् । तद्ध्युपमानेन सादृश्यप्रतिपादनद्वारेण समीपे क्षिप्यते तस्मादुपमेयम् । अप्राकरणिकं तु तथाविधमेवोपमानम् । तयोरुपमानोपमेययोर्यत्साधर्म्यं समानो धर्मः तेन धर्मेण संबन्धो यः सा उपमानोपमेययोः सादृश्यद्वारेण साभीप्यपरिच्छेदहेतुत्वादुपमा । तस्याश्चालङ्काराधिकाराच्चेतोहारित्वं लब्धमेव । काव्यशोभावहानां धर्माणां गुणव्यतिरिक्तत्वे सत्यलङ्कारत्वात् । गुणाः खलु काव्यशोभाहेतवो धर्माः । ते च माधुर्यौजःप्रसादलक्षणाः येषां तु गुणोपजनितशोभे काव्ये शोभातिशयहेतुत्वं तेऽलङ्काराः । यदवोचद्भट्टवामनः ऽकाव्यशोभायाः कर्तारो धर्मा गुणाः । तदतिशयहेतवस्त्वलङ्काराः"इति तेनालङकारत्वादेवोपमायाश्चेतोहारित्वं लब्धम् । अतश्चेतोहारीत्यनुवादः । प्राप्तार्थत्वात् । उपमानोपमेयभावश्च नात्यन्तं साधर्म्येण उपादाने सति भवति गौरिवायं गौरिति । अत उक्तं मिथोविभिन्नकालादिशब्दयोरिति । कालादयोऽत्र शब्दप्रवृत्तिनिमित्तभूता विवक्षिताः । केषांचित्खलु शब्दानां स्वार्थे प्रवर्तमानानां कालः प्रवृत्तिनिमित्तम्, यथा वसन्तादीनाम । केषांचित्त दिक्, यथा प्राच्यादीनाम् । केषांचिज्जातिर्यथा गवादीनाम् । शुक्लप्रभृतीनां तु गुणः । गच्छत्यादीनां क्रिया । राजपुरुषादीनां स्वस्वामिभावादिः संबन्धः । एवमन्यदप्यनुसर्तव्यम् । मिथः परस्परं विभिन्नाः कालादयः प्रवृत्तिनिमित्तभूता ययोः शब्दयोस्तथाविधौ शब्दौ वाचकौ ययोरुपमानोपमेययोरिति बहुव्रीहिगर्भो बहुव्रीहिः । गौरिवायं गौरित्यभिधाने तु न प्रवृत्तिनिमित्तभेदः । गोत्वस्यैवैकस्य प्रवृत्तिनिमित्तत्वात् । तेन एवंविध उपमानोपमेयभावो न भवति । ऽउपमा तु तत्ऽइत्यत्र वाक्ये तुशब्दोऽलङ्कारान्तरे व्यतिरेके । उपमा पुनरेवंप्रकारेत्यर्थः । एषा चोपमा द्विधा, पूर्णा लुप्ता च । पूर्णा यत्र चतुष्टयमुपादीयते उपमानमुपमेयं तयोश्च साधारणो धर्मः सौन्दर्यादिरूपमानोपमेयभावस्य द्योतक इवादिः । साच पूर्णा त्रिविधा, वाक्यसमासतद्धितावसेयत्वात् । तत्र वाक्यावसेयायाः श्रौतत्वार्थत्वभेदेन द्वैविध्यम् । अव्ययावसेया श्रौती । अव्ययं हि लुप्तविभक्तिकत्वेन उपमानोपमेययोरेकतरत्राप्यविश्रान्तत्वादुभयोरप्युपमानोपमेययोरुपमितिक्रियाविषयतया यथायोगं कर्मकरणभावात्मकं संबन्धमवद्योतयति । अतस्तत्र श्रौती उपमा । तदुक्तम् ऽयथेवशब्दयोगेन श्रुत्यान्वयमर्हतिऽ इति । यथेवशब्दौ चात्रोपलक्षणम् । अव्ययान्तरादपि वाशब्दादेः तेन रूपेण उपमानोपमेयभावस्यावगतेः । यथा तां जानीयाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ तत्र यथाशब्दयोगे तस्या उदाहरणम् क्षणं कामज्वरोत्थित्यै भूयः संतापवृद्धये । वियोगिनामभूच्चान्द्री चन्द्रिका चन्दनं यथा ॥ १.*१८ ॥ अत्र चान्द्री चन्द्रिका उपमेया । चन्दनमुपमानम् । कामज्वरोत्थितिहेतुत्वं संतापवृद्धिनिबन्धनत्वं चानवस्थितं साधारणो धर्मः । यथाशब्दश्चाव्ययत्वेन लुप्तविभक्तिकत्वादुपमानोपमेययोरेकतरस्मिन्नर्थे विश्रान्तः श्रौतेन रूपेणोभयाधारमुपमानोपमेयभावमवद्योतयति । तेनेयं संपूर्णा श्रौती च । एवमिवशब्दयोगेऽप्युदाहरणं योज्यम् । नेत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरःश्रियः । तरुण्य इव भान्ति स्म चक्रवाकैः स्तनैरिव ॥ १.*१९ ॥ एवमियमव्ययोपदर्शिता श्रौती संपूर्णा वाक्योपमोक्ता । या तूपमा सदृशादिभिः पदैः श्लिष्टा तस्यां न श्रौतेन रूपेण उभयानुयायितया उपमानोपमेयभावोऽवगम्यते । अपि त्वर्थात् । सदृशादीनां पदानामुपमानोपमेययोरेकत्रैव विश्रान्तेः । अन्यत्र च तद्गतसादृश्यपर्यालोचनया तत्संबन्धित्वावगतेः । तेनासौ आर्थी । तदुक्तंऽसदृशादिपदाश्लेषादन्यथाऽइति । अन्यथेति । अश्रौतेन रूपेणेत्यर्थः । तस्या उदाहरणम् प्रबोधाद्धवलं रात्रौ किञ्जल्कालीनषट्पदम् । पूर्णेन्दुबिम्बप्रतिममासीत्कुमुदकाननम् ॥ १.*२० ॥ अत्र कुमुदकाननं विकसितं किञ्जल्कालीनषट्पदत्वविशिष्टमुपमेयम्, पूर्णेन्दुबिम्बमुपमानम्, धवलत्वं साधारणो धर्मः । प्रतिमाशब्द उपमानोपमेयभावावगतिहेतुः । स च उपमाने विश्रान्तः । तथाहि । पूर्णोन्दुबिम्बं प्रतिमा प्रतिबिम्बं सदृशमस्येति बहूव्रीहिरत्र क्रियते । तेन प्रतिमाशब्द उपमाने विश्रान्तः । तेन चोपमाने विश्रान्तेनापि अर्थादुपमेयस्य सादृश्यमवगम्यते । सादृश्यस्योभयाधिष्ठानत्वात् । यदापि च पूर्णेन्दुबिम्बेन प्रतिममिति तृतीयातत्पुरुषस्तदाप्युपमेये खकण्ठेनाभिहितं सादृश्यम् । उपमाने च तस्यार्थात्प्रतिपत्तिः । अतो बहुव्रीहौ उपमानगतसादृश्यपर्यालोचनया उपमेयत्वमवगम्यते । तत्पुरुषे तु उपमेयवर्तिसादृश्यविचारेण उममानस्योपमानत्वावगतिरित्यार्थोऽत्रोपमानोपमेयभावः । अत्र च उपमेयवर्तिकिञ्जल्कालीनषट्पदत्वाभिधानसामर्थ्यादपरमपि साधर्म्यमनभिहितमसितोदरत्वलक्षणमाक्षिप्तम् । यथा पूर्णेन्दुबिम्बं शशलाञ्छनत्वादसितोदरमेवं कुमुदकाननमपि किञ्जल्कालीनषट्पदत्वादिति । अतोऽसितोदरत्वलक्षणं धर्ममपेक्ष्य लुप्तैकदेशत्वाल्लुप्तापीयमुपमा । ऽनेत्रैरिवोत्पलैःऽइत्यादौ तु यद्यपि नेत्रोत्पलादीनां समानधर्मा दीर्घत्वनीलत्वादयः स्वशब्देन नोपात्तास्तथापि भान्तित्यभिधीयमानार्थे तेषामनुप्रवेशात्संपूर्णत्वमेवोपमायाः, चतुष्टयोपलम्भात् । नेत्रादीनि ह्यत्रोपमानानि । उत्पलादीन्युपमेयानि । भानं दीर्घत्वनीलत्वादिविशेषणपर्यन्तं साधारणो धर्मः । इवशब्दश्च उपमानोपमेयभावावगतहेतुः । तेनेयमुपमासंपूर्णैव प्रबोधाद्धवलिमितीयं त्वसितोदरत्वापेक्षया लुप्तत्वेनाप्युक्ता । समासोपमा चैषा पूर्णेन्दुबिम्बप्रतिममिति समासस्य विहितत्वात् । यदा त्वत्र वाक्योपमा विवक्षिता भवति तदैतदेवोदाहरणं तदुदाहरणार्थत्वेन अखण्डेनेन्दुना तुल्यमासीत्सुमुदकाननम् ॥ १.*२१ ॥ इत्येवं परिणमयितव्यम् ॥ एवमेषा संपूर्णा वाक्यावगम्या द्विविधोपमा प्रतीपादिता श्रौती आर्थी च । समासावगम्या त्वार्थत्वेन एकप्रकारैवोक्ता ॥ या तु तद्धितावसेया संपूर्णा तस्या अपि द्वैविध्यं श्रौतत्वार्थत्वभेदेन । तत्र तस्येवेत्यनेन हि यो वतिर्विधीयते तस्य इवार्थे विधीयमानत्वादिवशब्दवच्छ्रौतेन रूपेण उभयानुयायितया उपमानोपमेयभावावगतिनिबन्धनत्वम् । यः पुनस्तेन तुल्यमिति तुल्यार्थो वतिर्विधीयते ततो ब्राह्मणेन तुल्यमधीते ब्राह्मणवदधीते क्षत्रिय इत्युपमेये यत्तदध्ययनक्रियाद्वारेण विश्रान्तं तुल्यत्वं तत्पर्यालोचनया अर्थादुपमानस्योपमानत्वमवगम्यते । तेनार्थस्तत्र उपमानोपमेयभावः । तदुक्तम् ऽवतिना च कर्मसामान्यवचनेन । षष्ठीसप्तमयन्ताच्च यो वतिर्नामतस्तदभिधेयेऽइति । कर्मसामान्यवचनो वतिःऽतेन तुल्यं क्रिया चेद्वतिःऽ (पा. अ. ५. १. ११५.) इति क्रियातुल्यत्वेऽभिधानात् । तेन चाभिधीयते उपमा । वाच्येति पूर्वोपक्रान्तमत्रानुषज्यते । षष्ठ्यन्तात्सप्तम्यन्ताच्च नामतो नाम्नः प्रातीपदिकादिति संबन्धः ॥ तत्र पूर्वस्या उदाहरणम् अपि सा सुमुखी तिष्ठेद्दृष्टेः पथि कथंचन । अप्रार्थितोपसंपन्ना पतितानभ्रवृष्टिवत् ॥ १.*२२ ॥ अप्रार्थितोपसंपन्ना दृष्टेः पथि कथंचन पतिता तिष्ठेदिति संबन्धः । अत्रानभ्रवृष्टिरूपमानम्, सुमुखी उपमेया । अप्रार्थितोपसंपन्नत्वे सति दृष्टिगोचरपतितत्वेनावस्थानं साधारणो धर्मः । वतिश्च क्रियातुल्यत्वे विधीयमान उपमेये क्रियाद्वारेण शब्देन वृत्तेन विश्रान्तः संस्तुल्यत्वपर्यालोचनयोपमानस्योपमानत्वमवगमयति । ततोऽत्रार्थादुपमानोपमेयभावः प्रतीयते । तेनेयं संपूर्णां आर्थीच तद्धितावसेया । द्वितीयस्या उदाहरणम् किं स्युरुत्कलिका मद्वत्तस्या अपि निरर्गलाः । अकाण्डोड्डामरानङ्गहतकेन समर्थिताः ॥ १.*२३ ॥ अकाण्डोड्डामरोऽनवसरे उद्भटः । प्रचण्ड इति पाठान्तरम् । उत्कलिकाः उत्कण्ठाः । अत्रास्मदर्थ उपमानम् । तच्छब्दार्थ उपमेयः । मन्मथेन समर्पिता यास्ता निरर्गलाः उत्कलिकास्तत्कर्तृकं भवनं साधारणो धर्मः । वतिश्चेवार्थे विधीयमानत्वादिवशब्दवदुपमानोपमेययोरेकतरत्राप्यविश्रान्तः श्रौतेन रूपेणोपमानोपमेयभावमेव द्योतयति । तेनेयं संपूर्णा श्रौती च तद्धितावसेया । अत्र तु तस्या अपीति पाठे षष्ठ्यन्ताद्वतर्विधेयः । यदा तु तस्यामपीति पाठस्तदा सप्तम्यन्तात् । यदुक्तम्ऽउपमाने यः संशयः स उपमेयाद्य्वावर्ततऽइति । एवमेषा वाक्यसमासतद्धितावसेया संपूर्णा त्रिविधोपमा प्रतिपादिता । तत्र च वाक्यतद्धितावसेययोरुपमयोः प्रत्येकं श्रौतत्वार्थत्वभेदेन द्वैविध्यमुक्तम् । समासावसेयायास्त्वार्थत्वमेव । अतः पञ्चप्रकारैषा संपूर्णा । या तु लुप्तैकदेशत्वाल्लुप्तोपमा सा संक्षेपोपमा । तस्याश्च पञ्चविधत्वं वाक्यासमाससुब्धातुकृत्तद्धितावसेयत्वात् । तत्र वाक्ये या संक्षेपोपमा सा पूर्वमुदाहृताऽअखण्डेनेन्दुना तुल्यमितिऽ । अत्र ह्यसितोदरत्वस्य अनुपात्तत्वात्साधारणधर्मानुपादानाल्लुप्तैकदेशत्वमपि विद्यते । समासावसेया पुनः संक्षेपोपमा त्रिविधा । एकद्वित्रिलोपे भावात् । एकलोपे द्विविधा, साधारणधर्मवाचिन इवादेर्वानुपादानात् । तदुक्तंऽसाम्यवाचकविच्युतेऽरिति । ऽतद्वाचिविरहेणेऽति च । साम्यवाचकः साधारणधर्मवाची । (साधारणधर्मः) सौन्दर्यादिः । तद्वाची उपमानोपमेयभाववाची च इवादिः । अत्र च सर्वत्र प्रकरणेऽसंक्षेपाभिहिताप्येषाऽइति,ऽक्वचित्, समासऽइति,ऽनिबध्यतऽइति च त्रयं प्रत्येकं यथोपयोगमनुषज्यते । तत्र साम्यवाचिवियोगेन समासे या संक्षेपोपमा तस्याः पूर्वमेवोदाहरणमुक्तंऽपूर्णेन्दुबिम्बप्रतिममिऽति । अत्र ह्यसितोदरत्वमर्थसामर्थ्यावसेयत्वाच्छबेदेन नोपात्तम् ॥ इवादिवियोगे तु तस्या उदाहरणम् इति काले कलोल्लापिकादम्बकुलसङ्कुले । त्रिदशाधीशशार्दूलः पश्चात्तापेन धूर्जटिः ॥ १.*२४ ॥ तां शशिच्छायवदनां नीलोत्पलदलेक्षणाम् । सरोजकर्णिकागौरीं गौरीं प्रति मनो दधौ ॥ १.*२५ ॥ कादम्बाः पक्षिभेदाः । सरोजकर्णिकागौरीं गौरीमित्यत्र सरोजकर्णिका उपमानं, गौरी उपमेया, गौरत्वं साधारणो धर्मः । तच्चत्रयं स्वकण्ठेनोपात्तम् । इवाद्यर्थस्तु उपमानस्य साधारणधर्मवाचिना सह "उपमानानि सामान्यवचनैः" (पा. अ. २ । १ । ५५) इति यः समासस्तत्सामर्थ्यदवगम्यते । तेनेयमिवादिशब्दलोपाल्लुप्तैकदेशा । एवमेकलोपे सति द्विविधा समासोपमोक्ता । द्वितयलोपे त्वेकप्रकारा भवति, साधारणधर्मवाचिन इवादेश्च युगपदप्रयोगात् । तदुक्तंऽउपमानोपमेयोक्तौ साम्यतद्वाचिविच्यवात्ऽ । अत्र साम्यशब्देन साम्यवाची शब्दो लक्ष्यते । साम्यविच्यवाच्चोपमाया असंभवात् । तस्या उदाहरणंऽत्रिदशाधीशशार्दूलऽइति, नीलोत्पलदलेक्षणम्ऽइति च । ऽत्रिदशाधीशशार्दूलःऽइत्यत्र च त्रिदशाधिश उपमेयः, शार्दूल उपमानम् । तच्च द्वयं स्वकण्ठेनोपात्तम् । इवाद्यर्थः साधारणश्च धर्मस्तेजस्वित्वादिः सामर्थ्यादवसीयते । ऽनीलोत्पलदलेक्षणाम्ऽइत्यत्र तु नीलोत्पलपलाशानामुपमानत्वं, ईक्षणयोरुपमेयता । एतयोश्च स्वकण्ठेनो पादानम् । नीलत्वदीर्घत्वादिसाधारणो धर्म इवाद्यर्थश्च उपमानोपमेयभावात्मकः स्वशब्देन अनुपात्तोऽपि समासवशेनार्थसामर्थ्यादवसीयते । ऽत्रिदशाधीशशार्दूलऽइत्यस्मात्तुऽनीलोत्पलदलेक्षणामिऽत्यस्य बहुव्रीहित्वकृतो विशेषः । तत्र हि "उपमितं व्याघ्रादिभिः"इति तत्पुरुषो विहितः । एवमेषा साधारणधर्मवाचिन इवादेश्चाप्रयोगात्द्वितयलोपे समासे संक्षेपोपमोक्ता । त्रितयलोपे तु साधारणधर्मवाचिन उपमेयाभिधायिन उपमानोपमेयभाववाचिनश्च इवादेर्युगपदप्रयोगात्समासवर्त्तिनी संक्षेपोपमा भवति । तदुक्तं "साम्योपमेयतद्वाचिवियोगाच्च"इति । अत्रापि पूर्ववत्साम्योपमेयशब्दाभ्यां तद्वाची शब्दौ लक्ष्यते । तस्या उदाहरणं "शशिच्छायवदनामि"ति । अत्र हि शशिच्छायातुल्या छाया यस्य तथाविधं वदनं यस्या इति बहुव्रीहिगर्मे बहुव्रीहौ शशिकान्तिरुपमानं, वदनकान्तिरूपमेया । तयोश्च साधारणो धर्म आह्लादकत्वादिस्तुल्यत्वं चेति चतुष्टयमवगम्यते । शब्दस्पृष्टं तूपमानमेव शशिच्छायेति । तदितरस्योपमेयादेस्त्रितयस्य समाससामर्थ्येनार्थावसेयत्वात् । एवमेषा त्रितयलोपे समासवर्तिनी संक्षेपोपमा उदाहृता । तेदवमत्र चतुःप्रकारा लुप्ता समासोपमा प्रतिपादिता । एकलोपे द्वे, द्वितयलोपे एका, त्रितयलोपे चैकेति । सुब्धातुप्रत्ययावसेया पुनरुपमा त्रिविधा क्यच्क्यङ्क्विपू प्रत्ययावसेयत्वात् । क्यच्प्रत्ययावसेयापि त्रिविधा कर्मोपमानकत्वादधिकरणोपमानकत्वाच्च । तदुक्तं "तथोपमानादाचारे क्यच्प्रत्ययबलोक्तितः"इति । यथा समासे संक्षेपाभिहिता उपमा समाससमर्थ्यादवगम्यमाना निबध्यते तथा कस्मिंश्चिद्विषये उपमानात्कर्मणः अधिकरणाद्वा आचारार्थे यथाक्रमं सौत्र औपसंख्यानिकश्च यः क्यच्प्रत्ययस्तद्बलेन यासौ भणितिस्तत्सामर्थ्यादप्यवसीयमाना निबध्यते । तस्या उदाहरणं स दुःस्थीयन् कृतार्थोऽपि निःशेषैश्वर्यसंपदा । निकामकमनीयेऽपि नरकीयति कानने ॥ १.*२६ ॥ निःशेषैश्वर्यसंपदा कृतार्थोऽपीति संबन्धः । अत्र दुःस्थमिवात्मानमाचरन्निति दुःस्थः कश्चिद्दारिद्षाद्युपप्लुत उपमानं, भगवदात्मा उपमेयः, आचाराख्यः साधारणो धर्मः क्यच्प्रत्ययोपात्तः । अत्र चोपमानसाधारणधर्मयोः शब्दस्पृष्टत्वम् । उपमेयस्य उपमानोपमेयभावस्य च सामर्थ्यादवगतिः । तेनेयं द्वितयस्य गम्यमानार्थत्वाद्द्वितयलोपे सति सुब्धातूपमा । एवमियं कर्मोपमानिका सुब्धातूपमा उदाहृता । अधिकरणोपमानिका तुऽनरकीयति काननेऽइति । अत्र नरक उपमानम्, काननमुपमेयम्, क्यच्प्रत्ययोपात्त्स्त्वाचारः साधारणो धर्मः । इवादयस्तु क्यच्प्रत्ययसामर्थेनोपमानोपमेयभावस्यावसेयत्वादप्रयुक्ताः । तेनेयं एकलोपे सति सुब्धातुपमा । एवमेषा क्यच्प्रत्ययावगम्या द्विविधा संक्षेपोपमोक्त । क्यङ्प्रत्ययसामर्थ्यावगम्या तु कर्त्रपमानिका संक्षेपोपमा भवति । तदाह"कर्तुराचारे क्यङा से"ति, "तथे"ति, "उपमानादाचार"इति । क्वचिदिति च पूर्वोक्तस्यात्रानुषङ्गः । कर्तुरुपमानादुत्तरेंणाचारविषयेण क्यङा सा संक्षेपोपमा क्वचिन्निबध्यत इत्यर्थः । तस्या उदाहरणम् कृशानुवज्जगत्त्स्य पश्यतस्तां प्रियां विना । खद्योतायितुमारब्धं तत्त्वज्ञानमहामहः ॥ १.*२७ ॥ खद्योतो ज्योतिर्मालिका । अत्र खद्योतायितुमित्यादौ खद्योत उपमानम् । तत्त्वज्ञानं पदार्थखरूपयाथातथ्यपरिच्छेदः, तदात्मकं यत्तन्महदुत्कृष्टं महस्तेजस्तदुपमेयम् । क्यङ्कप्रत्ययोपात्तश्चाचारः साधारणो धर्मः । क्यङ्प्रत्ययसामर्थ्यावसेयत्वाच्चात्रेवादेरप्रयोगः । तेनेयमेकलोपेन सुब्धातूपमोपनिबद्धा । क्वचित्विषये कर्त्रुपमानिका सा संक्षेपोपमा क्विपा निबध्यते । स च क्विप्"सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः"इत्यनेन विधीयते । तदुक्तं "सा क्विपा क्वचिदि"ति । अत्रापि तथेति, उपमानादाचार इति, कर्तुरिति च त्रयमनुषज्यते । तस्या उदाहरणम् "कृशानुवज्जगदिऽजगदुपमेयम्, आचारश्च साधारणो धर्मः क्विप्सामर्थ्यदवगम्यते । अत्र चोपमानोपमेययोः शब्दोपात्तत्वादिवादीनामाचारस्य च अर्थसामार्थ्यवसेयत्वात्तद्द्वितयलोपः । न खल्वश्रूयमाणस्य क्विपोर्ऽथाभिधायिता वक्तुं शक्या । एवमेषा सुब्धात्ववसेया त्रिविधा संक्षेपोपमा प्रतिपादिता । क्यच्क्यङ्क्विप्परत्ययावसेयत्वात् । क्यच्प्रत्ययसामर्थ्यावसेया तु द्विविधा । कर्माधिकरणोपमानकत्वात् । क्यप्प्रत्ययावसेया त्वेकप्रकारा । क्विप्प्रत्ययावसेयाप्येकप्रकारैव भवति । तदेवमेषा चतुर्विधा सुब्धातुप्रत्ययावसेया संक्षेपोपमोक्ता । कृत्प्रत्ययसामर्थ्यावसेया संक्षेपोपमा द्विविधा, कर्मोपमानिका कर्त्रुपमानिका च । तदुक्तंऽउपमाने कर्मणि वा कर्तरि वा यो णमुल्कषादिगतस्तद्वाच्या सेऽति । कषादिगतः कषाद्यनुप्रयोगक इत्यर्थः । कर्मोपमानिकायास्तस्या उदाहरणम् तस्येतरमनोदाहमदहत्प्रज्वलन्मनः । उमां प्रति तपःशक्त्याकृष्टबुद्धेः स्मरानलः ॥ १.*२८ ॥ अत्र इतरस्य प्राकृतस्य संबन्धि मन उपमानं, भगवन्मन उपमेयं, दह्यमानत्वं साधारणो धर्मः । तच्च त्रयं शब्दस्पृष्टम् । उपमानोपमेयभावस्त्वत्र णमुल्सामर्थ्यादिवादीनामप्रयोगेऽपि गम्यते । तेनेयमेकलोपे संक्षेपोपमा कर्मोपमानिका कृत्प्रत्ययावसेया । कर्त्रुपमानिकायास्तु तस्या उदाहरणम् स दग्धविग्रहेणापि वीर्यमात्रस्थितात्मना । स्पृष्टः कामेन सामान्यप्राणिचिन्तमचिन्तयत् ॥ १.*२९ ॥ विग्रहः शरीरम् । अत्र सामान्यभूतः प्राणी गुणातिशयशून्य उपप्रानं, तच्छब्दनिर्दिष्टश्च भगवानुपमेयः, चिन्तयितृत्वं साधारणो धर्मो, णमुल्सामर्थ्याच्च इवादेरप्रयोगेऽप्युपमानोपमेयभावावसायः । तेनेयमेकलोपे सति कर्त्रुपमानिका संक्षेपोपमा कृत्प्रत्ययावसेया । एवमेषा कृत्प्रत्ययावसेया संक्षेपोपमा द्विविधा प्रतिपादता । या तु तद्धितसामर्थ्यावसेया वतिशब्दादवगम्यते, सा संपूर्णत्वात्पूर्वमुक्ता । अन्या त्वसंपूर्णा कल्पबादेः तद्धित्स्य प्रयोगादवसीयते । तदुक्तंऽकल्पप्प्रभृतिभिरन्यैश्च तद्धितैः सा निबध्यते कविभिःऽइति । प्रभृतिशब्देनात्रऽइवे प्रतिकृतौऽइत्यादिविहितानां कनादीनां परिग्रहः । तस्या उदाहरणम् चण्डालकल्पे कन्दर्पप्लुष्टा मयि तिरोहिते । संजातातुलनैराश्या किं सा शोकान्मृता भवेत् ॥ १.*३० ॥ अत्र चण्डाल उपमानं, मयीत्यस्मदर्थ उपमेयः, कल्पप्प्रत्ययेन च सादृश्यमुपात्त्म् । प्रकृत्यर्थसदृशेर्ऽथे भगवत्कात्यायनदृशा कल्पबादीनां विधानात्क्रौर्यादिस्तु धर्मः स्वशब्दानुपात्तोऽपि सामर्थ्यादत्रावसीयते । तेनेयमेकलोपे सति तद्धितावगम्या संक्षेपोपमा । एवमश्वक इत्यत्रापि द्रष्टव्यम् । इवार्थोपलक्षिते सदृशे कनो विधानात् । आयःशूलिक इत्यादौ तु त्रितयलोपेन तद्धितसामर्थादुपमावसायः । तथाहि, अत्रायःशूलेनान्विच्छतीति विगृह्य "अयःशूलदण्डाजिनाभ्या"मिति ठग्वधीयते । अत्र चायःशूलमुपमानं, अर्थान्वेषणोपायः कश्चिदुपमेयः तीक्ष्णत्वादिः साधारणो धर्मः उपमानोपमेयभावश्चेति चतुष्टयमवगम्यते । तन्मध्यात्स्वशब्दस्पुष्टमुपमानमयःशूलेनेति । शिष्टशब्दस्य तु त्रितयस्यात्रार्थसामर्थ्यादवगतिः । ननु चात्रोपमानेनायःशूलेनार्थान्वेषणोपायस्योपमेयस्य तद्भावाध्यवसानेनापादिताभेदस्य प्रतीयमानत्वादतिशयोक्तिरियं न तूपमा । तत्कथमेतदुपमानोदाहरणम् । उच्यते । यथाऽशशिच्छायवदनाम्ऽइत्यत्र सत्यपि शशिच्छायाप्रच्छादितरूपत्वे वदनच्छायायाः कथञ्चिद्भेदप्रतिपत्तिपुरः सरीकारेणोपमाभेदत्वमुपन्यस्तं तथात्रापि भविष्यतीत्यदोषः । तेनायःशूलिक इत्यत्र त्रितयलोपे सति तद्धितावसेया संक्षेपोपमा भवति एव्श्वा मुमूर्षति कूलं पिपतिपतीत्यादावपि यदि मरणपतनाद्यानुगुण्यस्य उपमेयभूतस्य तद्भावाध्यवसानात्सन्वाच्यया इच्छयोपमानभूतया समापादिताभेदस्य प्रतीयमानस्य भेदावगतिनिबन्धनं किञ्चिद्विद्यते तदोपमाभेदत्वं वाच्यम् । अन्यथा त्वतिशयोक्तिभेदतास्यावसेया । यदाह सन्विधौ भगवान्कात्यायनः"आशङ्कायामचेतनेषूपसंख्यानम्""न वा तुल्यकारणात्वादिच्छाया हि प्रवृत्तित उपलब्धिरि"ति, "उपमानाद्वा सिद्धमिति" च । अत्र हिऽन वा तुल्यकारणत्वादिऽत्यादिना तद्भावध्यवसानं सूचितम् । ऽउपमानाद्वा सिद्धमिऽति तूपमानोपमेयभावः प्रतिपादितः । इयं च घातोः सनो विधानात्तदन्तस्य च धातुत्वात्सुब्धातूपमावत्धातुधातूपमावसेया । एवं वर्तमानसामीप्यादावप्युपमाभेदत्वमतिशयोक्तिभेदत्वं वा यथाप्रतीति योज्यम् । चूर्णिकारस्य त्वेवमादौ तद्भावाध्यवसानसमाश्रयेम नातिशयोक्तिभेदत्वमेवेष्टम् । यदाह"न तिङन्तेनोपमानमस्ती"ति । अत एव दण्डिना "लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता"इत्यादेर्गर्भीकृतातिशयोत्प्रेक्षाबेदत्वमेव महता प्रपञ्चेनाभ्यधायि । तेन कदा देवदत्त ग्रामं गमिष्यसि, एष गच्छामीत्यादावपि वर्तमानसामीप्ये वर्तमानरूपतया भविष्यत्कालस्याध्यवसानादतिशयोक्तिभेदत्वमेव वाच्यम् । एवमन्यत्राप्यूह्यम् । एवमेषा वाक्यसमाससुब्धातुकृत्तद्धितावसेया संक्षेपो पमा पञ्चविधा प्रतिपादिता । संपूर्णा तु वाक्यासमासतद्धितभेदेन त्रिविधा पूर्वमुक्ता । आसामेव चावान्तरभेदा अन्ये निर्दिष्टाः । तथाहि, संपूर्णयोर्वाक्यतद्धितोपमयोः श्रौतत्वार्थत्वभेदेन प्रत्येकं द्वैविध्यमुक्तम् । संक्षेपोपमायाश्च समासोपमाया एकद्वयत्रयलोपेन चतुर्बिधत्वम् । एकलोपस्य हि तत्र द्वैविध्यमुक्तम्, इवादेः साधारणधर्मवाचिनश्च लोपत्सब्धातूपमायाश्चतुर्विधत्वम्, क्यच्क्यङ्क्विप्प्रत्यायावसेयत्वात् । क्यच्प्रत्यायावसेया हि कर्माधकरणोपमानकत्वेन द्विविधोक्ता । कृत्प्रत्यायावसेयायाश्च कर्तृकर्मोपमानकत्वेन द्विविधत्वम् । तदेवमेषा सप्तदशविधा ग्रन्थकृता उपमा प्रतिपादिता । तदाहुः कृत्तद्वितसमासेभ्यः सुब्धातोरथ वाक्यतः । पूर्णा लुप्तैकदेशा च गम्यते द्विविधोपमा ॥ एकद्वयत्रयाणां च लोपात्स्याल्लोपिनी त्रीधा । पूर्वौ भेदौ द्विधा चात्र तृतीयस्त्वेकरूपकः ॥ इति पूर्वौ भेदौ द्विधा चात्रेति साधारणधर्मवाचिलोपाच्चैकलोपस्य द्वैविध्यम् । द्वितयलोपोऽपि साधारणधर्मवाचीवादिवियोगात्तथा उपमेयवाचीवादिवियोगाद्द्विविधः । एषा चोपमा विचित्रभेदत्वे सत्यपि यत्रैव चेतोहारित्वमस्ति तत्रैवालङ्कारतां प्रतिपद्यते न सर्वत्रेत्युक्तम् ॥ प्रतिवस्तूपमा उपमानसंनिधाने साम्यवाच्युच्यते बुधैर्यत्र । उपमेयस्य च कविभिः सा प्रतिवस्तूपमा गदिता ॥ १.२२ ॥ यत्रोपमानोपमेययोः संनिधाने साम्यवाचिनः पदस्यासकृदुपादानं क्रियते सा परतिवस्तूपमा । ननु यदि साम्यवाचिनः पदस्य तत्रासकृदुपादानं क्रियते ततोऽनेकवाक्यत्वमापतति । न चानेकस्मिन् वाक्ये इवादीनि प्रयुज्यन्ते, एकवाक्यनिष्ठतया तेषामभिधासामर्थ्यावसितत्वात् । अतश्चेवादीनामप्रयोगे कथं तत्रोपमानोपमेयभावावसाय इत्यासङ्क्याह प्राकरणिकेतरत्वस्थित्यैकश्चोपमेयतां लभते । उपमानत्वं चापर इत्युपमावाचिशून्यत्वम् ॥ १.२३ ॥ नानावाक्यत्वादिवादीनामप्रयोगेऽपि प्राकरणिकत्वाप्राकरणिकत्वपर्यालोचनया अर्थसामर्थ्यादत्रोपमानोपमेयभावोऽवसीयत इत्यर्थः । तदाहुः इवादेरप्रतीतापि शब्दसंस्कारतः क्वचित् । उपमा लक्ष्यतेऽन्यत्र केवलार्थनिबन्धना ॥ इति इह प्रकारत्रयेण उपमायाः प्रतिपत्तिः । क्वचिदवादिशब्दसामर्थ्यादुपमा वाच्यभूता प्रतीयते, यथा चन्द्र इव मुखमस्या इत्यादौ । क्वचित्तु तत्तद्विशिष्टसंस्कारसहायाच्छब्दात्स्वार्थाभिधानमुखेन लक्ष्यमाणायास्तस्याः प्रतिपत्तिः, यथा शस्त्रीश्यामेति । अत्र हि समासनिबन्धनैकपद्यादिसंस्कारसहिताभ्यां शस्त्रीश्यामाशब्दाभ्यां स्वार्थाभिधानव्यवधानेन लक्ष्यमाणोपमा गम्यते । क्वचित्तूपमानोपमेयनिबन्धनशब्दसंस्काराभावेऽपि केवलादेवार्थसामर्थ्यात्तस्याः प्रतिपत्तिः, यथा रूपकदीपकप्रतिवस्तूपमादिष्वित्यर्थः । अतश्चास्यां प्रतिवस्तूपमायां केवलेनैवार्थसामर्थ्येनोपमानोपमेयत्वमवगम्यते इत्यदोषः । तस्या उदाहरणम् विरलास्तादृशो लोके शीलसौन्दर्यसंपदः । निशाः कियत्यो वर्षेऽपि याखिन्दिः पूर्णमण्डलः ॥ १.*३१ ॥ विरलाः स्वल्पाः । तादृशः पार्वतीवर्त्तिन्यो याः शीलसौन्दर्यसंपदः तत्सदृस्यः । शीलं सुस्वभावता । सौन्दर्यं लावण्यम् । अत्र संवत्सरमध्यवर्तिन्योऽखण्डशशिबिम्बा रात्रयो द्वादश उपमानम् । शीलसौन्दर्ययोः संभाराः सकललोकोत्कृष्टाः कतिपयजनजुष उपमेयाः । साधारणश्च धर्मो विरलत्वम् । तच्चोपमानसंनिधाने कियत्य इत्युपात्तम् । उपमेयसंनिधाने तु विरला इति । इवाद्यनुपादानेऽपि च प्राकरणिकत्वाप्राकरणिकत्वपर्यालोचनयात्रोपमानोपमेयभावावसायः । तेनेयं वस्तुनि वस्तुनि साधारणोपनिबन्धात्प्रतिवस्तूपमा ॥ इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ प्रथमो वर्गः ॥ _______________________________________________________________________________ २ अथ द्वितीयो वर्गः । आक्षेपोर्ऽथान्तरन्यासो व्यतिरेको विभावना । समासातिशयोक्ती चेत्यलङ्कारान्परे विदुः ॥ २.१ ॥ ऽसमासातिशयोक्ती चेऽत्यत्र समासातिशययशब्दयोरुक्तिशब्दः प्रत्येकमभिसंबध्यते । आक्षेपः । प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया । आक्षेप इति तं सन्तः शंसन्ति कवयः सदा ॥ २.२ ॥ इह काचिद्वक्रभणितिस्तथाविधा संभवति यस्यां विधित्सितोर्ऽथो निषेधव्याजेन संस्क्रियते, न तु निषिध्यते । तत्र विधित्सितस्यार्थस्य यः प्रतिषेधः क्रियते स प्रतिषेध इव भवति, न तु प्रतिषेध एव । अवान्तरवाक्यार्थत्वेन तत्र वाक्यस्यापर्यवसानात् । अवान्तरवाक्यार्थता च तत्र निषेधस्य विधित्सितार्थविरोधाद्भवति । तत्र हि विधित्सितोर्ऽथः पूर्वोपक्रान्तत्वेन स्थेम्नावतिष्ठमानः स्वविरूद्धत्वेन निषेधं निषेधतात्पर्यात्प्रच्याव्यस्वगतविसेषाभिधानायावान्तरवाक्यार्थीकरोति । अतोऽनन्तरोक्तेन प्रकारेणेष्टस्यार्थस्य विशेषमभिधातुं यत्र निषेध इव न तु निषेध एव, असाविष्टार्थनिराकरणस्य लेशेन संभवदाक्षेपसंज्ञकोऽलङ्कारः सत्कविभिरभिधीयते । सन्तः कवय इति संबन्धः । तस्य भेदद्वितयोपदर्शनायाह वक्ष्यमाणोक्तविषयः स च द्विविध इष्यते । वक्ष्यमाणमुक्तं चेष्टमाश्रित्य निषेधाभिधानादाक्षेपो द्विविध इत्यर्थः । ननुऽप्रतिषेध इवेष्टस्यऽइत्याक्षेपलक्षणमुक्तम् । इष्टत्वं चेच्छाकर्मता । यस्य च वस्तुन इच्छाकर्मता तस्य नावश्यमुक्तिक्रियां प्रति कर्मत्वं भवति । इष्यमाणं हि कदाचिदुच्यते कदाचिन्न । अतश्चेष्टस्योक्तिकर्मतामाश्रित्य यदेतदाक्षेपस्य वक्ष्यमाणोक्तविषयतया द्वैविध्यमुक्तं तन्न संगच्छते इत्याशङ्क्याह निषेधेनेव तद्बन्धो विधेयस्य च कीर्तितः ॥ २.३ ॥ विधेयस्य विधातुं ज्ञापयितुमभिमतस्य यो निषेध इव तेनायं वक्ष्यमाणोक्तविषय आक्षेपो निबध्यते । एतदुक्तं भवतिविधानकर्मताद्वारेणैवात्र इष्टत्वमवसीयते । निबन्धनान्तराभावात् । विधानकर्मता च विधानात्मिकाया उक्तेः कर्मता । साच द्विविधा, आर्थी शाब्दी च । यत्र स्वशब्दव्यापारमन्तरेणापि शब्दान्तरव्यापारसहायनिषेधमुखेनैव विधित्सितोर्ऽथोऽवगम्यते तत्रार्थी । तत्र च वक्ष्यमाणविषय आक्षेपः । यत्र तु विधिमुखेनैव वक्तुमिष्टस्यार्थस्योपादानं क्रियते तत्र शाब्दी । तत्र चोक्तविषयता आक्षेपस्य । एवं चानन्तरोदितय नीत्या शाब्देनार्थेन च विधिना यदंवसितमिष्टं तस्योक्तिक्रियाकर्मत्वसंभवादुक्तिक्रियायाः कर्मभूतो योर्ऽथस्तदाश्रयं वक्ष्यमाणविषयत्वमुक्तविषयत्वं चाक्षेपस्य निबध्यते । तत्र वक्ष्यमाणविषयस्याक्षेपस्योदाहरणम् अहो स्मरस्य माहात्म्यं यद्रुद्रेऽपि दशेदृशी । इयदास्तां समुद्राम्भः कुम्भैर्माने तु के वयम् ॥ २.*१ ॥ अहो इति विस्मये । अत्र मन्मथमाहात्म्यं तदवस्थाविशेषसंस्पर्शेन प्रतिपादयितुमिष्टम् । तच्च तस्य तथाप्रतिपादनमियदास्तामित्यादिना निषिद्धम् । निषेधश्चात्राभिधेयत्वविरोधात् । अभिधेयत्वेन च विरोधं वक्ति । आनन्त्येन तस्य तथाविधस्य वक्तुमशक्यत्वात् । रुद्रेऽपि नाम ईदृशी दशेति हि सामान्यरूपत्वेन मन्मथमाहात्म्यं प्रतिपादितं न तु विशेषरूपतया । अतो वक्तुमिष्टानां स्मरमाहात्म्यावस्थाविशेषाणामयमानन्त्येनाभिधाननिषेध इव नतु निषेध एव । विवक्षितार्थविरोधेनावान्तरवाक्यार्थत्वात् । तथाहि, अत्र समुद्राम्भसः कुम्भैर्मातुमशक्यत्वं यदस्मदर्थकर्तृकमभिहितं तत्सादृश्येनानन्त्यविशिष्टत्वेनोत्कर्षयितुमिष्टानां मन्मथमाहात्म्यावस्थाविशेषाणां पूर्वं प्रतिपिपादयिषितत्वेन लब्धप्रतिष्ठानां वाक्यार्थत्वम् । अतश्च तदभिधाननिषेधस्य तद्विरोधादत्रावान्तरवाक्यार्थता । न चावान्तरवाक्यार्थो वाक्यविश्रान्तिस्थानतया वक्तुं शक्यः । न खलु रक्तः पटो भवतीत्यत्र रक्तत्वावच्छिन्नपटभवनपरत्वाद्वाक्यस्य पटभवनपर्यवसानमात्रत्वं सुभणम् । अतोऽत्रापि निषेधस्यावान्तरवाक्यार्थत्वेन वाक्यविश्रान्तिस्थानत्वाभावान्निषेधरूपत्वमिव न तु निषेधरूपता । स च निषेधोऽत्रावान्तरवाक्यत्वात्प्रधानवाक्यार्थानुगुण्येन प्रवर्तमानः खकण्ठेनाभिधानं मन्मथमाहात्म्यावस्थविशेषाणां निषेधति, न पुनरर्थसामर्थ्यावसेयमपि । अतश्च समुद्राम्भसः कुम्भैर्प्तातुमशक्यत्वमस्मदर्थकर्तृकं स्वकण्ठेनाभिहितं यत्तत्सादृश्येनावसिते संविज्ञानपदशून्ये स्मरमाहात्म्यावस्थाविशेषाणामानन्त्यलक्षणे विशेषे वाक्यस्य पर्यवसानं तेनायमिष्टमर्थं प्रतिषेधव्याजेन विशेषेऽवस्थापयति तस्मादाक्षेपः । अत्र चऽअहो स्मरस्य माहात्म्यं यद्रुद्रेऽपि दशेदृशीऽइत्येतच्छब्दव्यापारसहायेनऽइयदास्ताम्ऽइति निषेधेनैव स्वकण्ठेनानुपात्तानामपि मन्मथमाहात्म्यावस्थाविशेषाणां वक्ष्यमाणतया सूचनम् । तेषां च तथा सूचितानां निषेधव्याजेन संविज्ञानपदशून्यानन्त्यभेदप्रतिपादनम् । अतो वक्ष्यमाणविषयता आक्षेपस्य । उक्तविषयस्य तु तस्योदाहरणम् इति चिन्तयतस्तस्य चित्रं चिन्तावधिर्न यत् । क्व वा कामविकल्पानामन्तः कालस्य चेक्षितः ॥ २.*२ ॥ अत्र चित्रत्वस्योक्तस्योक्तिः क्व वेति प्रसिद्धत्वादाक्षिप्यते । पूर्वत्र खलु विरुद्धत्वमाक्षेपनिबन्धनमुक्तम्, इह तु प्रसिद्धत्वम् । द्वाभ्यामेव च प्रकाराभ्यामाक्षेपो भवति विरुद्धत्वेन प्रसिद्धत्वेन च । उक्तंच"वस्तु प्रसिद्धमिति यद्विरुद्धमिति वास्य वचनमाक्षिप्य । अन्यत्तथात्वसिद्य्धै यत्र ब्रूयात्स आक्षेपः"इति । प्रसिद्धत्वं चात्र समर्थयितुं कालसादृश्यसमुक्तम् । यथा कालस्यान्तो नेक्ष्यते तद्वत्कामविकल्पानाम् । अतो नैवात्र चत्रत्वम् । अन्यत्राप्यस्य रूपस्य परिदृष्टत्वादिति । कालतुल्यतया चात्र कामविकल्पानामानन्त्यात्मको विसेषः संविज्ञानपदशून्योऽभिधित्सितः । तस्य च चित्रतया सामान्येन पूर्वमुपक्रान्तस्याधुना निषेधवशेन संविज्ञानपदशून्येन विवक्षितेन रूपेण वाक्यार्थींभूतत्वान्निषेधस्य पूर्ववदवान्तरवाक्यार्थता । तेन क्ववेत्ययं निषेध इव नतु निषेध एव । तेनात्रोक्त विषयता आक्षेपस्य । तदाहुः शब्दस्पृष्टेऽथवाप्यार्थे वक्तुमिष्टे निषिद्धता । तदङ्गं तद्विरोधेन यत्राक्षेपो भवेदसौ ॥ इति । शब्देन स्पृश्यते (स्पृष्टे?) वक्तुमिष्टे उक्तविषये आक्षेपे । वक्ष्यमाणविषये तु विवक्षितस्य आर्थता । शब्दान्तरव्यापारसहायनिषेधमुखेन तस्योपस्थाप्यमानत्वात् । यश्चात्रोभयत्रापि निषेधः क्रियते स विवक्षितार्थविरोधात्स्वतात्पर्यं त्यक्त्वा विवक्षितमेवार्थं संकुर्वंस्तदङ्गतां प्रतिपद्यते । अतोऽत्र द्विविध आक्षेपो भवतीत्यर्थः । अर्थान्तरन्यासः । समर्थकस्य पूर्वं यद्वचोऽन्यस्य च पृष्ठतः । विपर्ययेण वा यत्स्याद्धिशब्दोक्त्यान्यथापि वा ॥ २.४ ॥ ज्ञेयः सोर्ऽथान्तरनयासः यत्र समर्थ्यसमर्थकभावः सोर्ऽथान्तरन्यासः । तत्र हि समर्थकस्य समर्थकतावगतिहेतुं व्याप्तिं पक्षधर्मत्वं चानुपन्यस्यार्थान्तरस्येवोपन्यासः क्रियते । व्याप्तिपक्षधर्मत्वयोः स्वशब्देनानुपात्तयोरपि गर्भीकृतत्वात् । अतोऽसावर्थान्तरन्यासः । स च चतुर्विधः । तत्र समर्थके पूर्वमभिहिते समर्थ्यस्य यत्र पश्चादभिधानं तत्र द्वौ प्रकारौ भवतः । हिशब्दाभिव्यक्तत्वं समर्थ्यसमर्थकभावस्यैवकः प्रकारः । तदुक्तं "समर्थकस्य पूर्वं यद्वचोऽन्यस्य च पृष्ठतः" । इति, "हिशब्दोक्त्ये"ति च । तस्योदाहरणम् तन्नास्ति यन्न कुरुते लोको ह्युत्पन्नकार्यिकः । एष शर्वोऽपि भगवान् बटूभूय स्म वर्तते ॥ २.*३ ॥ बटूभूय अचिरकृतोपनयनत्वमापद्य । अत्र शर्वस्य सर्वलोकातिशायिनो बटूभावेन वृत्तिमनुपपद्यमानतयाशङ्क्य तत्समर्थनाय समर्थकं पूर्वमेवोपन्यस्तं "तन्नास्ति यन्न कुरुते"इति । अत्यन्तकार्यिकत्वादनुचितमपि रूपमनुभूतवान् । शर्वस्तदन्यैवंविधपुरुषवदिति । अत्र च हिशब्देनाभिव्यक्तः समर्थ्यसमर्थकभावः । यत्र पूर्वेणैव क्रमेण समर्थ्यसमर्थकयोरुपन्यासे हिशब्दश्चार्थसामर्थ्यवसेयार्थत्वान्न प्रयुज्यते तत्र द्वितीयोर्ऽथान्तरन्यासभेदो भवति । तदुक्तं "अन्यथापि च"इति । हिशब्दोक्तिमन्तरेणापीत्यर्थः । तस्योदाहरण् प्रच्छन्ना शस्यते वृत्तिः स्त्रीणां भावपरीक्षणे । प्रतस्थे धूर्जटिरतस्तनुं स्वीकृत्य बाटवीम् ॥ २.*४ ॥ भावः आशयः । बाटवीं ब्रह्मचारिसंबन्धिनीम् । अत्र धूर्जटेर्बटुवेषालम्बनेन प्रच्छन्ना शस्यते वृत्तिः"इत्यादिना । योषिदाशयपरीक्षणप्रवृत्तत्वाद्धूर्जटिः प्रच्छन्नां वृत्तिमाश्रितवानिति । हिशब्दश्चात्रातःशब्दसामर्थ्येन यस्मादित्यस्यार्थस्यावगतत्वान्नोपात्तः । एवमेतौ समर्थकपूर्वोपन्यासावर्थान्तरन्यासौ द्वावेवोक्तौ । यत्रापि चैतद्विपर्ययेण सामर्थ्यस्य पूर्वमुपन्यासः पश्चात्समर्थकस्य, तत्रापि समर्थ्यसमर्थकभावे हिशब्दावगतेर्ऽथाक्षिप्ते च सति द्वैविध्यम् । तदुक्तंऽविपर्ययेण वा यत्स्याद्धिशब्दोक्त्यान्यथापि वाऽइति । पूर्वस्योदाहरणम् हरोऽथ ध्यानमातस्थौ संस्थाप्यात्मानमात्मना । विसंवदेद्धि प्रत्यक्षं निर्ध्यातं ध्यानतो न तु ॥ २.*५ ॥ अत्र हरस्य व्यवहिताद्यर्थविषयत्वेनाप्रतिहतबाह्येन्द्रियवृत्तित्वात्सति बाह्येन्द्रियजन्यप्रत्यक्षसंभवे ध्यानाश्रयणमयुक्तत्वेन संभाव्यं तत्समर्थनायोक्तंऽविसंवदेद्धि प्रत्यक्षम्ऽइत्यादि । अत्यन्ताविसंवादकोपलब्ध्युपायार्थित्वाद्य्धानमास्थितवान् हर इति । हिशब्दानभिव्यक्ते तु समर्थ्यसमर्थकभावे यत्र समर्थ्यस्य पूर्वमुपन्यासस्तत्रोदाहरणम् अपश्यच्चातिकष्टानि तप्यमानां तपांस्युमाम् । असंभाव्यपतीच्छानां कन्यानां का परा गतिः ॥ २.*६ ॥ बहूनामभिमतवरप्राप्त्युपायानां प्रार्थनादीनां संभवे कस्माद्भगवती तपसा शरीरमायासितवतीत्याशङ्क्य तत्समर्थनायाभिहितंऽअसंभाव्यपतीच्छनाम्ऽइति । दुःप्रापभर्त्रभिलाषित्वात्तपः समाश्रितवती । तपांसि भगवतीं खेदयन्ति । तानि पुनः सा तथाविधान्युपार्जयति । अतस्तपस्तप्यते तपस्तपःकर्मकस्यैवेति कर्तुः कर्मवद्भावः । एवमेव चतुर्विधोर्ऽथान्तरन्यासोऽभिहितः । ननु यदि समर्थ्यसमर्थकभावे सत्यर्थान्तरन्यासो भवति । एवंसत्यप्रस्तुतप्रशंसादृष्टान्तयोरपि समर्थ्यसमर्थकभावसद्भावादर्थान्तरन्यासताप्रसङ्गः । तथाहि । "प्रीणितप्रणयि स्वादु काले परिणतं( च यत्) विना पुरुषकारेम फलं पश्यत शाखिनाम्"इत्यास्यामप्रस्तुतप्रंशसायां विशेषात्सामान्यस्य प्रतिपत्तिर्यथा सेचनादिकं पुरुषव्यापारमन्तरेण वनशाखिनां विविधगुणोपेतस्य फलस्य प्रसूतिर्दैवप्रधाना एवमेतत्सर्वं जगति दैवप्रधानमिति । अत्र च समर्थ्यसमर्थकभावो विद्यते । सर्वं जगच्चेष्टितं दैवप्रधानं पुरुषकारान्वयव्यतिरेकाननुविधायित्वाद्वनशाखिफलवदिति । ततश्च तत्राप्यर्थान्तरन्यासत्वप्रसङ्गादलक्ष्यव्याप्तिर्लक्षणदोषः । दृष्टान्तेऽपि च (समर्थ्य) समर्थकभावो विद्यते । तथाहि "त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् । आलोके हि सितांशोर्विकसति कुमुदं कुमुद्वत्याः" ॥ इत्यत्र यथा चन्द्रगुणपक्षपातित्वेन कुमुदिन्याश्चन्द्रालोके कुमुदं विकसति, तद्वद्गुणपक्षपातित्वात्त्स्यास्त्वद्दर्शने मनो मन्मथाग्निप्रज्वलितमुपशाम्यतीति समर्थ्यसमर्थकभावोऽवगम्यते । तेन दृष्टान्तेऽप्यर्थान्तरन्यासताप्रसङ्ग इत्याशङ्क्याह प्रकृतार्थसमर्थनात् । अप्रस्तुतपरशंसाया दृष्टान्ताच्च पृथक्स्थितः ॥ २.५ ॥ सत्यमप्रस्तुतप्रशंसायां दृष्टान्ते च समर्थ्यसमर्थकभावोऽवगाम्यते । न तु तत्रार्थान्तरन्यासवत्समर्थ्यसमर्थकभावस्य संभवः । अर्थान्तरन्यासे हि सर्थ्यस्य यथायोगं पूर्वोत्तरकालभावित्वेन स्वकण्ठेनोपात्त्सय समर्थनम्, अप्रस्तुतप्रशंसायां त्पप्रकृतसामर्थ्येन प्रकृतमाक्षिप्यते, न तु स्वकण्ठेनोपादीयते, यथा पूर्वोपवर्णिते उदाहरणे । तत्र हि वनशाखिनां फलदर्शनेनाप्रकृतेन दैवप्रधानेन समग्रजगद्गोचरं दैवप्राधान्यं प्रकृतमाक्षिप्यते, न तु तस्यार्थान्तरन्यासवत्स्वकण्ठेनोपादानम् । अतश्च तत्र सत्यपि समर्थ्यसमर्थकभावे शब्दोपक्रान्तप्रकृतार्थनिष्ठत्वाभावान्नार्थान्तरन्यासत्वम् । दृष्टान्तेऽपिच द्वयोरपि समर्थ्यसमर्थकयोः स्वकण्ठेनोपात्तत्वात्सत्यपि स्वकण्ठोपात्तप्रकृतार्थनिष्ठत्वे दृष्टान्तस्य समर्थ्यसमर्थकभावपुरःसरीकारेण प्रवर्तमानत्वान्न भवत्यर्यान्तरन्यासत्वम् । न खलु तस्य समर्थ्यसमर्थकभावपुरःसरकारेण प्रवृत्तिः । बिम्बप्रतिबिम्बभावमात्रस्य शब्दस्पृष्टत्वात् । अर्थाद्धि तत्र समर्थ्यसमर्थकभावावसायः । अर्थान्तरन्यासे तु समर्थ्यसमर्थकभावेनैवोपक्रमः । तेन यत्र समर्थ्यसमर्थकभावोपक्रममर्थान्तरोपादानं तत्रार्थान्तरन्यासत्वाद्दृष्टान्तस्यार्थान्तरन्यासताप्रसङ्गो न भवति । तदिदमुक्तंऽप्रकृतार्थसमर्थनादिऽति । अत्र प्रकृतशब्दः स्वकण्ठोपात्तप्रकृतार्थनिष्ठो द्रष्टव्यः । समर्थनं चात्रोपक्रमावस्थावर्त्त्युपात्तम् ॥ व्यतिरेकः विशेषोपादानं यत्स्यादुपमानोपमेययोः । निमित्तादृष्टिदृष्टिभ्यां व्यतिरेको द्विधी तु सः ॥ २.६ ॥ उपमानोपमेययोः परस्परं यत्र विशेषः ख्याप्यते स व्यतिरेकः । तत्र ह्युपमानादुपमेयस्योपमेयादुपमानस्य वा केनचिद्विशेषेणातिरेक आधिक्यं तस्माद्य्वतिरेकः । स च द्विविधः । तत्र विशेषख्यापननिमित्तस्यार्थसामर्थ्यादाक्षेपादेकः प्रकारः । अपरस्तु तस्य स्वशब्देन प्रतिपादनात् । तदुक्तंऽनिमित्तादृष्टिदृष्टिभ्यां द्विधाऽइति । एतावपि च भेदौ प्रत्येकं द्विविधौ । क्वचिद्धि अर्थसामार्थ्यात्प्रतीयमाने उपमानोपमेयभावे पूर्वोक्तेन प्रकारद्वयेन व्यतिरेकः ख्याप्यते, क्वचित्तु इवादिभिरुपातैः । तत्रार्थसामर्थ्येन यत्रोपमानोपमेयभावोऽवगम्यते तत्र पूर्वस्मिन्प्रकारद्वये पूर्वभेदस्योदाहरणम् सा गौरीशिखरं गत्वा ददर्शोमां तपःकृशाम् । राहुपीतप्रभस्येन्दोर्जयन्तीं दूरतस्तनुम् ॥ २.*७ ॥ राहुणा पीता द्रवद्रव्यस्योदकादेः स्वगलबिलान्तर्भावनं यत्तद्वदात्माभ्यन्तरीकृता प्रभा यस्य स तथोक्तः । अत्र राहुणा पीता द्रवद्रव्यस्योदकादेः स्वगलबिलान्तर्भावनं यत्तद्वदात्माभ्यन्तरीकृता प्रभा यस्य त तथोक्तः । अत्र राहुपीतप्रभत्वविशिष्टस्येन्दोस्तनुरुपमानं, तपःकृशा पार्वत्युपमेया, अनयोः साधारणो धर्मः स्वभावतः सौन्दर्ये सति निमित्तवशाद्विच्छायत्वम् । तच्च स्वकण्ठेनानुपात्तमपि पदार्थस्वरूपपर्यालोचनया लभ्यते । एवमिवाद्यभावेऽप्युपमानोपमेयभावस्यात्र सामर्थ्यात्प्रतिपत्तिर्जयन्तीमिति च उपमानादुपमेयस्य विशेषः ख्यापितः । तस्य च विशेषस्य ख्याप्यमानस्य निमित्तमत्र न स्वकण्ठेनोपात्तं, अर्थसामर्थ्यात्तु तदवगम्यते । राहुरिन्दुप्रभापाने तथा न समर्थः यथा तपःसातिशयत्वात्पार्वत्याः क्षामत्वे इति राहुतोऽपि तपःसातिशयत्वमुपमानादुपमेयस्य विशेषनिमित्तमत्रावगम्यते । एवमयमनुपात्तनिमित्तो व्यतिरेकः । उपात्तनिमित्तस्तु पद्मं च निशि निःश्रीकं दिवाचन्द्रं च निष्प्रभम् । स्फुरच्छायेन सततं मुखेनाधः प्रकुर्वतीम् ॥ २.*८ ॥ मुखमुपमेयम् । पद्ममिन्दुश्चोपमानम् । तच्चात्र द्वयं स्वकण्ठस्पृष्टम् । तयोस्तु साधारणो धर्मः कान्तिमत्तादिरुपमानोपमेयभावश्चेत्यतदुभयं सामर्थ्यादवगम्यते । न खल्वत्र वक्ष्यमाणव्यतिरेकवदुपमानोपमेयभावस्य द्योतका इवादय उपात्ताः । अधःप्रकुर्वतीमिति चोपमानादुपमेयस्य विशेषः ख्यापितः । तत्र च निमित्तमुपात्तमुपमानोपमेयोभयाधारत्वेन । उपमानयोस्तावत्पद्मचन्द्रयोर्निशि दिवा च यथाक्रमं निःश्रीकत्वनिष्प्रभत्वे, उपमेये तु रात्रिन्दिवं स्फुरच्छायता । अतो विशेषे निमित्तदर्शनेनायं व्यतिरेकः । तदेवं यत्रेवादिनोपमानोपमेयभावो नावद्योतितस्तत्र द्विविधो व्यतिरेको दर्शितः । इवाद्युपाते तूपमानोपमेयभावे यो व्यतिरेकस्तमाह यो वैधर्म्येण दृष्टान्तो यथेवादिसमन्वितः । व्यतिरेकोऽत्र सोऽपीष्टो विशेषापादनान्वयात् ॥ २.७ ॥ ऽयो वैधर्म्येण दृष्टान्तऽइतिऽविशेषापादनान्वयादऽति च व्यतिरेकलक्षणं योजितम् । वैधर्म्यं ह्युपमेयधर्मस्योपमाने विगमः । यथेवादिसमन्वित इत्यनेन यथेवाद्यवद्योतितत्वमुपमानोपमेयभावस्याह । तस्योदाहरणम् शीर्णपर्णाम्बुवाताशकष्टेऽपि तपसि स्थिताम् । समुद्वहन्तीं नापूर्वं गर्वमन्यतपस्विवत् ॥ २.*९ ॥ शीर्णपर्णाम्बुवातानामाशो भक्षणम् । अत्रान्यतपस्विन उपमानं, भगवत्युपमेया, साधारणश्च धर्मः कष्टे तपस्यवस्थितत्वाच्चेतसः सोल्लासता । वतिश्चात्र गर्वोद्वहननिबन्धनं यत्तच्चेतसः सोल्लासत्वं तन्निबन्धनमुपमानोपमेयभावमवगमयति । गर्वं न समुद्वहन्तीमित्युपमानादुपमेयस्य विशेषः पिरतिपादितः । अन्ये किल तपस्विनः सातिशयतपोवशात्समुल्लसितचित्ताः सन्तो गर्वं समुद्वहन्ति, भगवती त्वत्यन्तमुपशान्तचित्तत्वान्न तथा । एवं चात्र गर्वोपक्रमावस्थापेक्षमुपमानोपमेययोः सादृश्यं, तदनिर्वाहात्तूपमानादुपमेयस्य व्यतिरेकः । अनिर्वाहे च निमित्तमत्र स्वकण्ठेनानुपात्तमप्यर्थसामर्थ्यादवगम्यते अत्यन्तोपशान्तचित्तत्वं नाम । एवमयं निमित्तादर्शने बत्युपात्तोपमानोपमेयभावो व्यतिरेक उदाहृतः । निमित्तोपादाने तु तस्योदाहरणमुन्नेयम् । एवमेते चत्वारो व्यतिरेकाः प्रतिपादिताः । निमित्तदर्शनादर्शनाभ्यां यौ व्यतरेकौ तयोः प्रत्येकमुपमानोपमेयभावस्य इवाद्युपादानानुपादानाभ्यां द्विभेदत्वात् । एषामपि चतुर्णां व्यतिरेकाणां श्लिष्टोक्तियोग्यशब्दोपादाने सति पुनरपरे पूर्वोपक्रान्तेनैव रूपेण चत्वारो भेदा भवन्ति । तदाह श्लिष्टोक्तियोग्यशब्दस्य पृथक्पृथगुदाहृतौ । विशेषापादनं यत्स्याद्य्वतरेकः स च स्मृतः ॥ २.८ ॥ ऽएकप्रयत्नोच्चार्याणामिऽत्यादिवक्ष्यमाणलक्षणं श्लिष्टम् । श्लिष्टालङ्कारसमुचितं यदुच्चारणं तत्समुचितस्य शब्दस्य यदा तन्त्रेण सदृशशब्दान्तरोपादानहेतुतया वा प्रयोगो न क्रियते अपि तु पृथक्पृथगुच्चारणं, तदा विशेषापादने सति व्यतरेको भवति । तस्योदाहरणम् या शैशिरी श्रीस्तपसा मासेनैकेन विश्रुता । तपसा तां सुदीर्घेण दूराद्विदधतीमधः ॥ २.*१० ॥ अत्र शिशिरशोभा उपमानं, भगवती उपमेया, तयोश्च साधारणो धर्मस्तपोयुक्तत्वं नाम । एकत्र तपा माघो मासः, अपरत्र त्वभ्युदयहेतुः कृच्छ्राचरणम् । इवादयश्चात्रानुपात्ता अपि सामर्थ्यादवगम्यन्ते । व्यतिरेकस्तु दूराद्विदधतीमध इति । तस्य च निमित्तं मासैक्यं दीर्धत्वं च तपसोः । तच्च यथाक्रममुपमानोपमेयगतत्वेनोपात्तम् । तत्र च वत्यादिना अनुपात्ते उपमानोपमेयभावे निमित्तदर्शनेन व्यतिरेक उदाहृतः । एवमनया दिशाअन्यदपि श्लिष्टोक्तियोग्यशब्दनिबन्धे सति व्यतरेकस्य पूर्वोक्तनयेन भेदत्रयमुदाहार्यम् ॥ विभावना क्रियायाः प्रतिषेधे या तत्फलस्य विभावना । ज्ञेया विभावनैवासौ समाधौ सुलभे सति ॥ २.९ ॥ इह यत्किंचिज्ज्ञायते तत्सर्वं क्रियाफलम् । क्रियामुखेन कारणेभ्यः कार्योत्पत्तेः प्रातीतिकेन रूपेण परिदृश्यमानत्वात्सर्वेषां फलभूतानां क्रियैवाव्यवहतं कारणं यत्र च क्रिया प्रतिषिध्यते अथ च क्रियाफलस्योत्पत्तिरुपदिश्यते तत्र विभावनाख्योऽलंकारः । कारणविगमे किलकार्यस्य तत्रोत्पत्तिरुपवर्ण्यते । अतो विरुद्धाभासा भावना उत्पादना, तेन विभावना । नन्वेवं सति व्यर्थदोषत्वप्रसङ्गःऽविरुद्धार्थं मतं व्यर्थम्ऽइति अत आहसमाधौ सुलभे सतीति । समाधिः परिहारः । यत्र विरोधस्य सुलभः परहार इत्यर्थः । तस्या उदाहरणम् अङ्गलेखामकाश्मीरसमालम्भनपिञ्चराम् । अनलक्तकताम्राभामोष्ठमुद्रां च बिभ्रतीम् ॥ २.*११ ॥ अङ्गलेखा शरीरयष्टिः । कारमीरं कुङ्कुमम् । येयं पीतच्छायता शरीरस्य सा नायिकानां कुङ्कुमसमालम्भनलक्षणक्रियाकार्या प्रार्यण परिदृश्यते, भगवत्यास्तु शरीरे पीतच्छायत्वं न कुङ्कुमसमालम्भनेनोत्पादितम् । अतः कुङ्कुमसमालम्भनलक्षणायाः क्रियाया विगमे फलस्य पीतच्छायत्वस्यात्रोपदेशः । परिहारश्चात्र स्वाभाविकतया तच्छायत्वमिति । तेनेयं विभावना । अनलक्तकताम्राक्षामित्यत्रालक्तककारणिकाया रागक्रियाया निषेधे तत्फलस्य लौहित्यस्य उत्पत्तिः स्वाभाविकी निर्दिष्टा । अतो विभावना । अत्र च कुङ्कुमादिसंपाद्येन पिञ्चरत्वादिना उपमानभूतेन स्वाभाविकस्य पिञ्जरत्वादेरुपमेयभूतस्याभेदाध्यवसायोऽतिशयोक्त्या द्रष्टव्यः ॥ समासोक्तिः प्रकृतार्थेन वाक्येन तत्समानैर्विशेषणैः । अप्रस्तुतार्थकथनं समासोक्तिरुदाहृता ॥ २.१० ॥ यत्र प्रस्तुतार्थनिष्ठं वाक्यं तत्समानैर्विशेषणैस्तेनाप्रकृतेनार्थेन तुल्यानि यानि विशेषणानि तद्द्वारेण सादृश्यवशादप्रस्तुतमर्थमुपमानभूतं कथयति, सा संक्षेपेणोपमानोपमेयलक्षणार्थद्वतयाभिधानात्समासोक्तिः । तस्या उदाहरणम् दन्तप्रभासुमनसं पाणिपल्लवशोभिनीम् । तन्वीं वनगतां लीनजटाषट्चरणावलिम् ॥ २.*१२ ॥ अत्र दन्तप्रभापाणिजटा भगवतीविशेषणभूता यथाक्रमं लतागतसुमनःपल्लवषट्चरणरूपेण आरोपेण व्या(प्ताः) (?) तद्भावमापद्यन्ते । तनुत्वं तु भगवतीलतयोः साधारणो धर्मः । वनशब्देन च रूपकप्रतिभोत्पत्तिहेतुना श्लेषेण भगवतीतपश्चर्याधारभूतमुदकं लताधारेण काननेन रूप्यते । अत एतान्यत्र प्रकृताया भगवत्या अप्रकृतया लतया समानानि विशेषणानि । तत्सामर्थ्येन च प्रकृतया भगवत्या उपमेयभूतया लता उपमानत्वेनाक्षिप्यते । तेनेयं समासोक्तिः । अतिशयोक्तिः निमित्ततो यत्तु वयो लोकातिक्रान्तगोचरम् । मन्यन्तेऽतशयोक्तिं तामलंकारतया बुधाः ॥ २.११ ॥ भेदेऽनन्यत्वमन्यत्र नानात्वं यत्र बध्यते । तथा संभाव्यमानार्थनिबन्धेऽतिशयोक्तिगीः ॥ २.१२ ॥ कार्यकारणयोर्यत्र पौर्वापर्यविपर्ययात् । आशुभावं समालम्ब्य बध्यते सोऽपि पूर्ववत् ॥ २.१३ ॥ यद्वचनं किंचित्कारणमाश्रित्य लोकातिक्रान्तगोचरमुपनिबध्यते सातिशयोक्तिः । तस्याश्च चत्वारो भेदाः यत्र भेदे अन्यत्वे अनन्यत्वमैक्यं स एकः । अन्यत्राभेदे ऐक्ये नानात्वं भेदो यत्र स द्वितीयः । तथा बहिरविद्यमानस्यार्थस्य संभावनामात्रेणोपनिबन्धे तृतयः । कार्यकारणयोस्तु कार्यस्य शीघ्रमेवोत्पादात्पौर्वापर्यविपर्ययेण चतुर्थो भेदः । तत्राद्यसय भेदस्योदाहरणम् तपस्तेजःस्फुरितया निजलावण्यसंपदा । कृशामप्यकृशामेव दृश्यमानामसंशयम् ॥ २.*१३ ॥ अत्र यासावकार्श्यावस्था भगवत्याः पूर्वमभूत्ततो भिन्नमपि तपोजनितं कार्श्यं तदभेदेनोपनिबद्धमकृशामेवेति । तत्र च निमित्तं तपस्तेजसा सविशेषत्वमापादितः सौन्दर्यसंभारः । अतो निमित्तवशेन लोकातिक्रान्तो गोचरोऽस्य वाक्यस्य । तेनेयमतशयोक्तिः । द्वितीयस्य तु भेदस्योदाहरणम् अचिन्तयच्च भगवानहो नु रमणीयता । तपसास्याः कृतान्यत्वं कौमाराद्येन लक्ष्यते ॥ २.*१४ ॥ अत्र भगवती कुमारीभावेऽपि वर्तमाना तदुत्तरकालभाविनी यासौयौवनावस्था तद्युक्तत्वेनोपनिबद्धा कौमारादन्यत्वमिति । निमित्तं चात्र तपोजनिता रमणीयता । तेनायमभेदे भेदोपनिबन्धः । तृतीयस्य पुनर्भेदस्योदाहरणम् पतेद्यदि शशिद्योतच्छटा पद्मे विकाशिनि । मुक्ताफलाक्षमालायाः करेऽस्याः स्यात्तदोपमा ॥ २.*१५ ॥ शशिद्योतच्छटा चन्द्रप्रकाशप्रकारः । अस्याः करे मुक्ताफलाक्षमालायास्तदा उपमा स्यादिति संबन्धः । अत्र रजनिकरकरसंपर्के सति कमलस्य संकोचावलोकनाद्विकाशित्वं बहिरसंभवदपि कविप्रजापतिना प्रतिभोपजनितेन स्वव्यापारेण संभवद्रूपतया प्रदर्शितम् । अतोऽत्र संभाव्यमानार्थनिबन्धः । तस्य च लोकातिक्रान्तगोचरस्यार्थस्य संभावनाया निमित्तं भगवतीकराधारतया मुक्ताफलाक्षमालावलोकनम् । तथाहिअयं तावल्लोकातिक्रान्तोऽपरिदृष्टपूर्वोऽस्माभिः गौरीकरमुक्ताफलाक्षमालयोराधाराधेयभावोऽवलोकितः । तत्सजातीयस्य पद्मस्य विकाशिनश्चन्द्रकराणां च यद्याधाराधेयभावः स्यात्तदात्रोपमानोपमेयभावो भवेदिति संभावना प्रवृत्ता । अतोऽत्र सजातीयपदार्थदर्शनाद्बहरसंभवदपि वस्तु संभवद्रूपतयोपवर्ण्यते । एकस्मिन् खलु पदार्थे परिदृष्टे अन्यस्मिन्ननवलोकितेऽपि तत्सजातीयसंभावना प्रवर्तते । यथा दाक्षिणात्यस्यैकस्मिन्नुष्ट्रे परिदृष्टे सत्यपरिदृष्टोष्ट्रान्तरसंभावना । अतोऽत्र संभावना सनिमित्ता । अनेन च प्रकारेणात्रोपमानाभावः प्रकृतस्य वस्तुनः प्रदर्श्यते नास्त्यन्यत्किंचिदस्योपमानमिति । अत एव संभाव्यमानतयार्थस्योपनिबद्धस्य निराचिकीर्षया यदिशब्दः प्रयुक्तः । यदिशब्देन ह्यत्राशङ्का द्योत्यते । आशङ्का चानिश्चितसद्भावे वस्तुनि भवति । यच्चानिश्चितसद्भावं कविवेधसा संभवद्रूपतयोपदर्शितं वस्तु तस्य पुराणप्रजापतिनिर्मितपदार्थविषयाया तद्विरुद्धया लोकप्रतीत्या यान्निराक्रियमाणत्वं तावन्निरुपमत्वं प्रतीयते । एवमयं तृतीयो भेदः । चतुर्थस्तु मन्ये च निपतन्त्यस्याः कटाक्षा दिक्षु पृष्ठतः । प्रायेणाग्रे तु गच्छन्ति स्मरबाणपरम्पराः ॥ २.*१६ ॥ अत्र दिक्षु कटाक्षपातः कारणम् । स्मरबाणपरम्परागमनं तु कार्यम् । कार्यकारणयोस्तु कारणस्य नैसर्गिकं प्राग्भावित्वं कार्यस्य तु पश्चाद्भावित्वम् । इह तु विपर्ययः । कार्यस्य प्राग्भावेनोपनिबन्धनात् । पश्चाद्भावितत्वेन च कारणस्य कटाक्षा दिक्षु पृष्ठतः पश्चात्पतन्ति अग्रे स्मरबाणपरम्परा गच्छन्तीति अत्र निमित्तं (अनु) कार्यस्य शीघ्रमेवोत्पादः । तेनेदं निमित्ततो लोकातिक्रान्तगोचरं वचनम् । अतोऽतशयोक्तिः ॥ इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ द्वितीयो वर्गः ॥ _______________________________________________________________________________ ३ अथ तृतीयो वर्गः । यथासंख्यमथोत्प्रेक्षां स्वभावोक्तिं तथैव च । अपरे त्रीनलङ्कारान् गिरामाहुरलङ्कृतौ ॥ ३.१ ॥ यथासंख्यम् भूयसामुपदिष्टानामर्थानामसधर्मणाम् । क्रमशो योऽनुनिर्देशो यथासंख्यं तदुच्यते ॥ ३.२ ॥ पूर्वमुद्दिष्टानामर्थानां यदा क्रमेणार्थान्तराण्यनुनिर्दिश्यन्ते तदा यथासंख्याख्योऽलङ्कारः । तत्र हि संख्योपलक्षितक्रमानतिक्रमेण शब्देनानुपात्तोऽपि पदार्थानामन्वयः समाश्रीयते । अतो यथाक्रमं पदार्थानामन्वयध्वननादेतस्यालङ्कारस्य यथासंख्यता । स चालङ्कारो बहूनामल्पशोऽप्युपनिबध्यमानो यतः शोभाबद्धो भवति अतो भूयसामित्युक्तम् । द्वयोर्हि तस्योपनिबध्यमानस्य यावच्चतुर्गुणत्वादिरूपतयोपनिबन्धो न कृतः तावच्छोभोपेतत्वं न भवति । भूयसां पुनरर्थानां तद्यथासंख्यमल्पेनैव प्रयासेनरम्यं भवति । तत्र हि तस्य द्विगुणस्य त्रिगुणस्य वोपनिबन्धे शोभातिशयो जायते । तदुक्तम् तद्द्विगुणं त्रिगुणं वा बहुषूद्दिष्टेषु जायते रम्यम् । यत्तेषु पथैव ततो द्वयोस्तु बहूशो निबध्नीयात् ॥ इति । ननु "मृणालहंसे"त्यादावुपवर्णयिष्यमाणे उदाहरणे मृणालादिभ्य उपमानेभ्यो बाह्वादीनामुपमेयानां विशेषख्यापनाद्य्वतिरेकालङ्कारेण सहृदयहृदयाण्यावर्ज्यन्ते, न तु यथासंख्येन । तत्कथं यथासंख्यमलङ्कार इत्याशङ्क्योक्तम्"असधर्मणामिति" । यत्रापि हि साधर्म्यभावादुपमानोपमेयभावाभावेन व्यतिरेकादेरुपनिबन्धाभावस्तत्राप्ययं शोभातिशयमावहतीत्यर्थः । यथा कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं नः । जलनिधिगिरिपद्मस्था हरिहरचतुरानना ददतु ॥ इति । अत्र हि हरिप्रभृतीनां त्रयाणामुद्दिष्टानां कज्जलरुक्त्वसुपर्णवाहनत्वजलनिधिस्थत्वादयो धर्माः क्रमेणानुनिर्दिष्टाः । न च तत्र परस्परसाधर्म्यं विद्यते । अथ च क्रमपर्यालोचनया अर्थानामानुरूप्येण समन्वयप्रतीतेः शोभातिशयो विद्यते । तेनास्य साधर्म्याद्यभावेऽपि पृथगलङ्कारताप्रतिलम्भाद्यत्र साधर्म्यादि विद्यते तत्राप्यलङ्कारत्वं दुर्निवारम् । अतो "मृणालहंसे"त्यादिके उदाहरणे यथासंख्यमङ्गभूतं व्यतिरेकालङ्कारस्य द्रष्टव्यम् । तेनायमङ्गाङ्गिभावे सङ्करः । यद्वक्ष्यति "परस्परोपकारेण यत्रालङ्कृतयः स्थिताः । स्वातन्त्र्येणात्मलाभं नो लभन्ते सोऽप सङ्करः" ॥ इति । अतो यथासंख्यं पृथगलङ्कारत्वेनोपदेष्टव्यम् । तस्योदाहरणम् मृणालहंसपद्मानि बाहुचङ्क्रमणाननैः । निर्जयन्त्यानया व्यक्तं नलिन्यः सकला जिताः ॥ ३.*१ ॥ अत्र बाहुचङ्क्रमणाननानामुद्दिष्टानां यथाक्रमं मृणालहंसपद्मान्यनुनिर्दिष्टानि । तद्वशेन च शब्दानुपात्तस्यापि तदन्वयस्य गर्भीकृतत्वेन वक्रभणितिसद्भावाद्यथासंख्यमलङ्कारः ॥ उत्प्रेक्षा साम्यरूपाविवक्षायां वाच्येवाद्यात्मभिः पदैः । अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता ॥ ३.३ ॥ यत्रेवादिपदनिबन्धः साम्यस्य च रूपं न विवक्ष्यते तत्रोत्प्रेक्षाख्योऽलङ्कारः । नन्वेवं सत्यसंभवो नाम लक्षणदोषः प्राप्तः । द्योत्यस्योपमानोपमेयभावस्याभावे सति इवादीनामप्रयोगप्रसङ्गादित्याशङ्क्योक्तं "अतद्गुणक्रियायोगादि"ति । द्रव्यधर्मः सिद्धो गुणः । साध्यस्वभावस्तु क्रिया । इदं खलु विश्वं स्वतन्त्रपरतन्त्रपदार्थात्मकत्वाद्द्वविधम् । यश्च स्वतन्त्रः पदार्थः स धर्मीत्यभिधीयते । तच्च इदं तदिति सर्वनामप्रत्यवमर्शयोग्यत्वाद्द्रव्यम् । परतन्त्रस्य पदार्थस्य धर्मरूपता । तस्य च द्वैविध्यम् । सिद्धसाध्यताभेदात् । तत्र यः सिद्धो धर्मः स गुणः । यस्तु साध्यः सा क्रिया । एतावन्तश्च लौकिकाः पदार्थाः । सामान्यादीनामत्रैव प्रतीतिकेन रूपेणान्तर्भूतत्वात् । अत्र असौप्रकृतो योर्ऽथस्तस्य ये क्रियागुणा अनन्तरोक्तलक्षणास्तद्योगात्साम्यरूपाविवक्षायामपि इवादिशब्दप्रवृत्तिरवरद्धा । यत्र किलोपमानोपमेयभावेन साम्यं तत्रोपमानसादृश्यादुपमानवर्तिनां क्रियागुणानां उपमेयप्रतीतिर्भवति । उत्प्रेक्षायामपि च योऽसावसः अप्रकृतस्तस्य ये क्रियागुणास्ते तस्मिन्नप्रकृते वस्तुन्युपमानतयानुल्लिङ्गितेऽपि प्रकृते वस्तुन्यासज्यन्ते । तेनातद्गुणक्रयायोगादस्या इवादिवाच्यत्वम् । अत एवान्यधर्माणां स्वधर्मिभूताद्वस्तुन उत्कलितानां रसभावद्यभिव्यक्तयनुगुणतयावस्त्वन्तराध्यस्तत्वेन लब्धप्रकर्षाणामीक्षणादियमुत्प्रेक्षा । नन्वेवमपि सुतरामसंभवः । न हि वस्त्वन्तरधर्मा वस्त्वन्तरे समासक्तुं शक्या इत्याशङ्क्योक्तमतिशयान्वितेति । पुराणप्रजापतिवहितरूपवपर्यासेन कविवेधसा पदार्थस्य गुणातिशयविवक्षया रूपान्तरमप्यासक्तुं शक्यत इत्यर्थः । इयं चोत्प्रेक्षा बहिरसंभवतः पदार्थस्य संभवद्रूपतयोपवर्णनाल्लोकातिक्रान्तविषया संभावना । तस्याश्च द्वैविध्यम्, भावस्याभावस्य च बहिरसंभवत उपवर्ण्यमानत्वात् । तदाह लोकातिक्रान्तविषया भावाभावाभिमानतः । संभावनेयमुत्प्रेक्षा येयं लोकातिक्रान्तविषया संभावना उत्प्रेक्षा सा भावस्याभावस्य चाभिमानात्द्वैविध्यं भजत इत्यर्थः । नन्विवाद्युपनिबन्धे सति यद्युत्प्रेक्षा भवतत्युच्यते । एवं सति "चन्दनासक्तभुजगनिश्वासानिलमूर्च्छितः । मूर्च्छयत्येष पथिकान्मधौ मलयमारुतः" ॥ इत्येवमादाविवादेरप्रयोगादुतप्रेक्षात्वाभावप्रसङ्ग इत्याशङ्क्याह वाच्येवादिभिरुच्यते ॥ ३.४ ॥ द्विविधा खलूत्प्रेक्षा । काचिदिवादिप्रयोगे सति भवति, काचित्त्वप्रयुज्यमानेष्वपीवादीष्वर्थसामर्थ्यादगम्यमानेषु । तत्र या वाच्या स्वकण्ठेनेवादिभिर्वक्तव्या सा इवादीभिरुच्यते । या त्वर्थसामर्थ्यक्षिप्तैरिवादिभिरवगम्ते तत्रेवादीनामप्रयोगः । ऽचन्दनासक्तभुजगऽइत्यादौ च मलयमारुतस्य यदेतन्मन्मथाविर्भावनिबन्धनत्वात्पथिकमूर्च्छाहेतुत्वं तत्र भुजगनिश्वासमूर्च्छितत्वे कारणत्वेनोत्प्रेक्ष्यमाणे इवाद्यर्थोर्ऽथसामर्थ्यादवगम्यते । तेनेवादीनामप्रयोगः । इवादिशब्दसामर्थ्यावसेयायामेवोत्प्रेक्षायामिवादीनां प्रयोगात् । तत्र भावाभिमानेनोत्प्रेक्षायां तस्या गुणयोगाध्यासेन प्रवृत्ताया उदाहरणम् अस्याः सदार्कबिम्बस्थदृष्टिपीतातपैर्जपैः । श्यामिकाङ्केन पतितं मुखे चन्द्रभ्रमादिव ॥ ३.*२ ॥ अस्या मुखे जपैर्हेतुभूतैः श्यामिकाङ्केन पतितमिति संबन्धः । अत्र जपासक्ता भगवती अर्कमवलोकयतीति तस्याः शशाङ्कसदृसे मुखे श्यामिका संजाता । तच्चात्र तस्याः श्यमिकाया जन्म अतिशयोक्त्या पातरूपतया प्रतिपादितं पतितमिति । सा चात्र श्यामिक शशिलाञ्छनेन शशेन तुल्या । अतस्तस्याः शशिलाञ्छनशशतुल्यत्वादुपसर्जनोपमेयंरूपकं श्यामिकैवाङ्क इत्युपनिबद्धम् । तस्य चाङ्कस्य श्यामिकोपरक्तस्य भगवतीवदननिपाते कारणत्वेनेन्दुभ्रान्तिरुत्प्रेक्षिता । यदेतच्छशिनो लाञ्छनं श्यामिकारूपं तद्भगवतीवदन इन्दुभ्रान्त्येव निपतितमिति । इन्दुभ्रान्तिश्च गुणः । सिद्धरूपत्वे सति द्रव्यधर्मत्वात् । एवं चात्र शशसदृशी श्यामिका चैतन्यशून्यत्वेन भगवतीवदनमिन्दुभ्रान्त्या न गोचरीकरोति । अथ च तस्याः शशभावमापादिताया इन्दुभ्रमलक्षणेन चेतनधर्मेण संबन्धो निबद्धः । तेनात्र तस्य वस्त्वन्तरस्य चेतनस्य योऽसौ गुणो भ्रमलक्षणस्तद्योगादिवादेः प्रवृत्तिः । इन्दुभ्रमश्च भावरूपो गुणः शशीकृतश्यमिकाकर्तृकतया कविनिबद्धेन वक्त्रा भगवताभिमानेनाध्यवसितः । तेनेयमतद्गुणयोगेन भावाभिमानेन उत्प्रेक्षा । एवं क्रियायोगाध्यासाद्भावाभिमानेन योत्प्रेक्षा तस्यामुदाहार्यम् । अभावविषयायाः पुनः क्रियाध्यासेन प्रवृत्तायास्तस्या उदाहरणम् कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ॥ ३.*३ ॥ अत्र कपोलफलकयोस्तपोवशात्क्षामत्वमापन्नयोः परस्परादर्शनमभावरूपं साध्यत्वात्क्रियारूपक्षामतायां कारणतयोत्प्रेक्षितम् । तेनेयमतक्त्रियायोगादभावाभिमानेनोत्प्रेक्षा । एवमतद्गुणयोगादभावाभिमानेन या उत्प्रेक्षा तस्यामुदाहार्यम् । स्वभावोक्तिः क्रियायां संप्रवृत्तस्य हेवाकानां निबन्धनम् । कस्यचिन्मृगडिम्भादेः स्वभावोक्तिरुदाहृता ॥ ३.५ ॥ भृगबालादेः स्वसमुचिते व्यापारे प्रवृत्तस्य ये हेवाकाः स्वजात्यानुरूप्येणाभिनिवेशविशेषास्तदुपनिबन्धः स्वभावोक्तिः । तस्याश्चालङ्कारत्वमसाधारणपदार्थस्वरूपध्वननात् । तस्या उदाहरणम् क्षणं नंष्ट्वार्धवलितः शृङ्गेणाग्रे क्षणं नुदन् । लोलीकरोति प्रणयादिमामेष मृगार्भकः ॥ ३.*४ ॥ नंष्ट्वंति । ऽजान्तनशां विभाषाऽइत्यनुनासिकलोपस्य विकल्पितत्वादप्रवृत्तिः । अत्र मृगपोतकस्य मातरमिव वत्सलां भगवतीं प्रणयनिर्भरेण चेरसा व्याकुलीकुर्वतः स्वभावो निबद्धः क्षणमपरिदृश्यमानत्वमर्धकायेन परिवृत्तिः शृङ्गेण च नोदनमित्येवमात्मा ॥ इति श्रीमहाप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुविवृत्तौ तृतीयो वर्गः ॥ _______________________________________________________________________________ ४ अथ चतुर्थो वर्गः । प्रेयोरसवदूर्जसव पर्यायोक्तं समाहितम् । द्विधोदात्तं तथा श्लिष्टमलङ्कारान्परे विदुः ॥ ४.१ ॥ प्रेयोरसवदिति समुदायान्मतुप् । श्लिष्टमिति । तथा उदात्तवद्द्वविधं श्लिष्टमित्यर्थः । विप्रतिपत्तिनिरासार्थं चात्र श्लिष्टस्य द्वैविध्यमुक्तम् । भामहो हि "तत्सहोक्त्युपमाहेतुनिर्देशात्र्रिविधं यथा"इति श्लिष्टस्य त्रैविध्यमाह । अतो विप्रतिपत्तिनिरासाय तथेत्युक्तम् । उदात्ते तु द्विधेत्ययमनुवादो दृष्टान्तत्वार्थः । यथा उदात्तस्य द्वैविध्यं प्रमाणोपपन्नत्वादङ्गीकृतं तथा श्लिष्टस्यापि तदङ्गीकर्तव्यमित्यर्थः ॥ प्रेयस्वत्तावत् रत्यादिकानां भावानामनुभावादिसूचनैः । यत्काव्यं बध्यते सद्भिस्तत्प्रेयस्वदुदाहृतम् ॥ ४.२ ॥ रत्यादयो भावास्त्रिविधाः स्थायिनो व्यभिचारिणः सात्विकाश्च । तत्र"रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयसमाः स्थायिभावाः प्रकीर्तिताः ॥ निर्वेदगलानिशङ्काख्यास्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ व्रीडा चपलत हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव । च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः ॥ स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः" ॥ एतेषां पञ्चाशत्संख्यानां भावानां सूचकाश्चत्वारोऽनुभावादयः । ते चानुभावो विभावो व्यभिचारी स्वशब्दश्च । तत्रानुभावश्चतुर्विधः । आङ्गिको वाचिकः सात्त्विक आहार्यश्च । आङ्गिको हस्ताभिनयादिः । वाचिकः काक्वादिप्रयोगः । सात्विकः स्तम्भादिः । आहार्यस्तु प्रतिशीर्षकञ्चुकादिः । एवमयमनुभावश्चतुःसंख्यः कार्यत्वात्कारणभूतान्मभावान् गमयति ॥ विभावस्तु द्विविधः । आलम्बनोद्दीपनरूपत्वात् । तत्रालम्वनविभावो यदाश्रयेण रत्यादीनामुदयः, यथा रामादेः सीतादिः । उद्दीपनविभावस्तु यद्वशेन रत्यादीनां भावानामतिशयेन दीप्तता भवति, यथा ऋतुमाल्यानुलेपनादिः । एवमेष द्विविधो विभावो रत्यादीनां कारणभूतः । स च कारणत्वात्कार्यभूतान् रत्यादीन् गमयति यथातिबहलनीलजलदोदयो वृष्टिम् । यथा हि कार्यस्य सुविवेचितस्य कारणं प्रत्यव्यभिचारिता एवं कारणस्यापि सुविवेचितस्य कार्यं प्रत्यव्यभिचारिता व्यवहारे बाहुल्येन दृश्यते । अतो विभावः कारणत्वात्रत्यादीन्कार्यभूतान् गमयति । व्यभिचारी तु रत्यादिकानां स्थायिनां भावानामवस्थाविशेषरूपो निर्वेदादिः । स च सहचारित्वात्स्थायिनां भावानामवस्थाविशेषरूपो निर्वेदादिः । स च सहचारित्वात्स्थायिनो भावान्प्रतपादयति रथस्यैकमिव चक्रं चक्रान्तरम् । स्वशब्दस्तु रत्यादिः । स च वाचकत्वाद्भावान् गमयति । रत्यादीनां च शब्दानां यद्यप्यनुभावैकगोचरस्वलक्षणस्वभावरत्याद्यवगतिनिबन्धनत्वं नोपलभ्यते, तथाप्यंशेन रत्याद्यवगतिनिबन्धनत्वमनुभावादिवद्विद्यत एव । यथा खल्वनुभावादयो न स्वलक्षणतया भावानवगमयन्ति अपितु सामान्यरूपतया तद्वत्स्वशब्दा अपीत्यास्ताम् । एवमेते भावानामवगतिहेतवश्चात्वारः । यदुक्तं भट्टोद्भटेन "चतूरूपा भावा"इति । तदेषां रत्यादिकानां भावानां पञ्चाशत्संख्यानां यान्यनुभावादिभिश्चतुःसंख्यैः समस्तत्वेन व्यस्तत्वेन च यथायोगं सूचनानि स्वलक्षणस्वरूपाणां सामान्यावस्थापादितानां प्रतिपादनानि तैः काव्यमुपनिबध्यमानं प्रेयस्वत् । प्रेयःशब्दवाच्येन प्रियतरेण रत्यालम्बनेन विभावनेन रतिरुपलक्ष्यते । तया च साहचर्याद्रत्यादयो भावाः पञ्चाशदवगम्यन्ते । एवं च भावकाव्यस्य प्रेयस्वदिति लक्षणया व्यपदेशः । अत्र च भावानामलङ्कारता, काव्यमलङ्कार्यम् । तस्योदाहरणम् इयं च सुतवात्सल्यान्निर्विशेषा स्पृहावती । उल्लापयितुमारब्धा कृत्वेमं क्रोड आत्मनः ॥ ४.*१ ॥ आत्मनः क्रोडे कृत्वेति संबन्धः । अत्रात्मनो वक्षसि निधानमाङ्गीकोऽभिनयः, उल्लापनं सान्त्वनं वाचिकः । इममिति इदंशब्देन परामृष्टो यो मृगार्भकः स आलम्बनविभावः । वात्सल्योन्मीलितश्चौत्सुक्यात्मा व्यभिचारीभावः । सुतवाल्लभ्यनिर्विशेषत्वेन हि स्पृहाया रतेरौत्सुक्यभेदाभिसंबन्धः प्रतीयते । स्वशब्दस्तु स्पृहेति । एवमयं रत्यात्मको भावो वात्सल्यस्वभावश्चतुर्भिरनुभावादिभिरत्रावगमितः । अन्येष्वपि भावेष्वेवमुदाहार्यम् । रसवत् रसवद्दर्शितस्पष्टशृङ्गारादिरसादयम् । स्वशब्दस्थायिसंचारिविभावाभिनयास्पदम् ॥ ४.३ ॥ शृङ्गारहास्यकरणरौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ ४.४ ॥ एते च शृङ्गारादयो नव यथायोगं चतुर्वर्गप्राप्त्युपायतया तदितरपरिहारनिबन्धनतय च रत्यादीनां स्थायिनां नवानां भावानां यः परिपोषस्तदात्मकाः । अतस्तथाविधेन रूपेणास्वाद्यत्वादास्वादभेदनिबन्धनेन तान्त्रिकेण रसशब्देनाभिधीयन्ते । निर्वेदादौ तु तथाविधस्यास्वाद्यस्याभावात्प्रवृत्तिनिमित्तभेदनिबन्धनस्य तान्त्रिकस्य रसशब्दस्याप्रवृत्तिः । आस्वाद्यत्वमात्रविवक्षया तु तत्रापि मधुराम्लादिवद्रसशब्दप्रवृत्तिरविरुद्धा । यदुक्तं शृङ्गारादीन् रसाननुक्रम्य"रसनाद्रसत्वमेषां मधुरादीनामिवोक्तमाचार्यैः । निर्वेदादिष्वपि तत्प्रकाममस्तीति तेऽपि रसाः"इति ॥ तदाहुः चतुर्वर्गेतरौ प्राप्य परिहार्यौ क्रमाद्यतः । चैतन्यभेदादस्वाद्यात्स रसस्तादृशो मतः ॥ इति स इति । चैतन्यभेद इत्यर्थः । तादृश इत्यनेन आस्वादविशेषनिबन्धनत्वं शृङ्गरादिषु तान्त्रिकस्य रसशब्दस्योक्तम् । एषां च शृङ्गारादीनां नवानां रसानां स्वशब्दादिभिः पञ्चभिरवगतिर्भवति । यदुक्तं भट्टोद्भटेन"पञ्चरूपा रसा"इति । तत्र स्वशब्दाः शृङ्गारादेर्वाचकाः शृङ्गारादयः शब्दाः । स्थायिनो रसानामुपादानकारणप्रख्या रत्यादयो नव भावाः । संचारिणस्तु निर्वेदादयो रसानामवस्थाविशेषरूपाः । विभावास्तु तेषां निमित्तकारणभूता योषिदादयः ऋतुमाल्यानुलेपनादयश्च । आङ्गिकादयस्तु चत्वारो रसानां कार्यभूता अभिनयाः । एतेषां च स्वशब्दादीनां पञ्चानां समस्तव्यस्ततया आस्पदत्वाद्येन काव्येन स्फुटरूपतया शृङ्गारादिरसाविर्भावो दर्श्यते तत्काव्यं रसवत् । रसाः खलु तस्यालङ्काराः । तस्योदाहरणम् इति भावयतस्तस्य समस्तान्पार्वतीगुणान् । संभृतानल्पसंकल्पः कन्दर्पः प्रबलोऽभवत् ॥ ४.*२ ॥ स्विद्यतापि स गात्रेण बभार पुलकोत्करम् । कदम्बकलिकाकोशकेसरप्रकरोपमम् ॥ ४.*३ ॥ क्षणमौत्सुक्यगर्भिण्या चिन्तानिश्चलया क्षणम् । क्षणं प्रमोदालसया दृशास्यास्यमभूष्यत ॥ ४.*४ ॥ कदम्बकलिकाकोशः कदम्बकलिकाभ्यन्तरम् । अत्र भगवत आभिलाषिकविप्रलम्भशृङ्गारो निबद्धः । तस्य स्वशब्दःऽकन्दर्पः प्रबलऽइति । स्थायी तत्रैव स्वशब्देनोन्मीलितः कन्दर्प इति । रतिपरिपोषात्मको हि शृङ्गारो रसः । रतिश्च यूनां मन्मथात्मिका । अतो रतिविशेषस्य वाचकत्वात्कन्दर्पशब्दः स्थायिनोऽत्र स्वशब्दः । संचारिणश्चौत्सुक्यचिन्ताहर्षाः स्वशब्देनोन्मीलिताः. स्वेदरोमाञ्चौ च सात्विकौ स्वशब्दोपात्तौ । तयोरपि च संचारित्वम् । सात्विकानां स्थायिभावावस्थाविशेषत्वेन निर्वेदादिवत्संचारित्वात् । विभावस्तुऽइति भावयतस्तस्यऽइति निर्दिष्टः । भगवती हि तत्तद्गुणोपेतत्वेन विभाव्यमाना विभावः । अभिनयस्त्वत्रापाङ्गाभिनयो निर्दिष्टोऽदृशाऽइति । अतोऽत्राभिलाषिकः शृङ्गाररसः स्वशब्दादिभिः पञ्चभिरभिव्यज्यते । एवमन्येऽपि रसा उदाहार्याः । रसानां भावानां च काव्यशोभातिशयहेतुत्वात्किं काव्यालङ्कारत्वमुत काव्यजीवितत्वमिति न तावद्विचार्यते ग्रन्थगौरवभयात् । रसभावस्वरूपं चात्र न विवेचितमप्रकृतत्वाद्बहुवक्तव्यत्वाच्च ॥ ऊर्जस्वि अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् । भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते ॥ ४.५ ॥ क्वचित्खलु रसभावानां शास्त्रसंविदविरुद्धेन रूपेणोपनिबन्धः क्रियते, क्वचित्तु तद्विरुद्धेन । तत्र यत्र शास्त्रसंविदविरुद्धेन रूपेण तेषामुपनिबन्धस्तत्र प्रेयोऽलङ्कारो रसवदलङ्कारश्चाभिहितः । यत्र तु तद्विरुद्धत्वं तन्मूलकलोकव्यवहारविरुद्धत्वं च तद्विषयाणां रसभावनामुपनिबन्धे सत्यूर्जस्विकाव्यं भवति । तत्र हि रागद्वेषमोहकारणका अनौचित्येन रसभावा उपनिबध्यन्ते । अत एव तत्र स्वकल्पनापरिकल्पितत्वेन ऊर्जसो बलस्य विद्यामानत्वादूर्जखिव्यपदेशः । ऽज्योत्स्नातमिस्रेऽत्यत्र उर्जस्विशब्दः (पा. अ. ५ । २ । ११४) ॥ तस्योदाहरणम् । तथा कामोऽस्य ववृधे यथा हिमगिरेः सुताम् । संग्रहीतुं प्रववृते हठेनोपास्य सत्यथम् ॥ ४.*५ ॥ अत्र सकललोकातिशायिनो भगवतोऽकृतविवाहकमारीविषयतया हठसंग्रहः शास्त्रसंविद्विरुद्धः प्रवृद्धरागकारणकु उपनिबद्धः । तेन ऊर्जस्तिता । तत्र कामो ववृधे इत्ययं शृङ्गारस्य स्वशब्दः । तस्य रतिपरिपोषात्मकत्वेन कामवृद्धिस्वभावत्वात्कामशब्दस्त्वेतदन्तर्गतः । शृङ्गारस्य यासौ स्थायिभूता रतिस्तस्याः स्वशब्दः हिमगिरेः सुतामित्यालम्बनविभावः । हठेनेत्यनेनावेगलक्षणो व्यभिचारीभावः प्रतिपादितः । अपास्य सत्पथमिति तु मोगः, संग्रहीतुं प्रवृत्त इति आङ्गकोऽनुभावः । एवमयमत्र पञ्चभिः स्वशब्दादिभिरुर्जस्विलक्षणः शृङ्गारः सूचितः । एवमन्येष्वपि रसभावेषूर्जस्वि उदाहार्यम् । पर्यायोक्तम् पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते । वाच्यवाचकवृत्तिभ्यां शून्येनावगमात्मना ॥ ४.६ ॥ वाचकस्याभिधायकस्य स्वशब्दस्य वृत्तिर्व्यापारो वाच्यार्थप्रत्यायनम् । वाच्यस्य त्वभिधेयस्य व्यापारो वाच्यान्तरेण सहाकाङ्क्षासंनिधियोग्यतामाहात्म्यात्संसर्गगमनम् । एवंविधश्च यो वाच्यवाचकयोर्व्यापारस्तमन्तरेणापि प्रकारान्तरेणार्थसामर्थ्यात्मनावगमस्वभावेन यदवगम्यते तत्पर्यायेण स्वकण्ठानभिहितमपि सान्तरेण शब्दव्यापारेणावगम्यमानत्वात्पर्यायोक्तं वस्तु । तेन च स्वसंश्लेषवशेन काव्यार्थोऽलङ्कियते । तस्योदाहरणम् येन लम्बालकः सास्रः करघातारुणस्तनः । अकारि भग्नवलयो गजासुरवधूजनः ॥ ४.*६ ॥ सोऽप येन कृतः प्लुष्टदेहेनाप्येवमाकुलः । नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥ ४.*७ ॥ अत्र लम्बालकत्वादयः कार्यरूपत्वात्कारणभूतं गजासुरवधं वाच्यवाचकव्यापारास्पृष्टमपि गमयन्ति । तेन च तथाविधया विच्छित्त्या अवगम्यमानेनार्थेन ते लम्बालकत्वादयोर्ऽथा अलङ्कियन्ते । तस्मात्पर्यायोक्तमलङ्कारः ॥ समाहितम् रसभावतदाभासवृत्तेः प्रशमबन्धनम् । अन्यानुभावनिःशून्यरूपं यत्तत्समाहितम् ॥ ४.७ ॥ इह रसभावानां शास्त्रसमयाविरुद्धेन तद्विरुद्धेन च रूपेण द्वैविध्यमुक्तम् । तत्र ये शास्त्रसमयाविरुद्धा रसभावाः ते रसभावशब्देनात्र विवक्षिताः । तद्विरुद्धास्तु तदाभासाः । तेषां रसभावानां तदाभासानां च या वृत्तिः स्वाश्रयसंबन्धात्मिका तस्याः प्रशमे निबध्यमाने समाहितालङ्कारो भवति । तत्र हि तेषां रसभावानां समाधानं समाधिः परिहारो भवति । समाहितमिति भावे क्तः । ननु यदि तस्मिन्काव्ये रसादीनां वृत्तिः परिह्नियते, एवं सति पूर्वरसादिनिवृत्त्या रसाद्यन्तरोपनिबन्धाद्रसवदाद्यलङ्कारानुप्रवेशः प्रसक्त इत्याशङ्क्योक्तंन्यानुभावनिःशून्यरूपमिति । अन्यस्य रसाद्यन्तरस्य येऽनुभावादयः तैर्निःशेषेण शून्यं रूपं यस्य तत्तथोक्तम् । यत्र पूर्वेषां रसादीनां वासनाया दार्ढ्येन तेषूपशान्तेष्वपि रसाद्यन्तराणां न स्वरूपमाविर्भवति, आविर्भवदपि वा कार्यवशेन केनचित्तिरोधीयते, तत्र समाहितालङ्कारो भवति । तस्योदाहरणम् अथ कान्तां दृशं दृष्ट्वा विभ्रमाच्च भ्रमं भ्रूवोः । प्रसन्नं मुखरागं च रोमाञ्चस्वेदसंकुलम् ॥ ४.*८ ॥ स्मरज्वरप्रदीप्तानि सर्वाङ्गानि समादधत् । उपासर्पद्गिरिसुतां गिरिशः स्वस्तिपूर्वकम् ॥ ४.*९ ॥ समादधन्निजे रूपेऽवस्थापयन् । समादधदित्यभ्यस्तत्वान्नुमोऽप्रवृत्तिः । अत्र भगवता शृङ्गारस्य येऽनुभावाः कान्तदृष्ट्यादयस्तेषामवहित्थेन आकारप्रच्छादनात्मकेन भावेन तिरोधानं विहितम् । यदुक्तंस्वस्तिपूर्वकमिति । अनेन ह्याकारतिरोधानमुपदर्शितम् । उदात्तम् उदात्तमृद्धिमद्वस्तु चरितं च महात्मनाम् । उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम् ॥ ४.८ ॥ ऋद्धिः सुवर्णादिधनसंपत्तिः । तद्युक्तं वस्तूदात्तम् । तेन च काव्यार्थोऽलंक्रियते । तस्योदाहरणम् उवाच च यतः क्रोडे वेणुकुञ्जरजन्मभिः । मुक्ताफलैरलङ्कारः शबरीणामपीच्छया ॥ ४.*१० ॥ पृष्ट्येन्द्रनीलवैडूर्यपद्मरागमयैर्वियत् । शिरोभिरुल्लिस्वद्यत्र शिखरं गन्धमादनम् ॥ ४.*११ ॥ उत्तरोपत्यका यस्य प्रधानस्वर्णभूमयः । महान्मरकतोर्विन्ध्रः पादोपान्तं च संश्रितः ॥ ४.*१२ ॥ बभूव यस्य पातालपातिन्यां संक्षये क्षितौ । पतनं न तया सार्धमायामस्तु प्रकट्यभूत् ॥ ४.*१३ ॥ यस्य एवंविधरूपता हिमार्द्रेर्भवती सुतेति संबन्धः । क्रोडः सूकरः । पुष्ट्यो मणिविशेषः । गन्धमादनं पर्वतविशेषः । उपत्यकाः पर्वताधारवर्तिनो भूमिभागाः । प्रधानं स्वर्णं कार्तस्वरादि । अर्विन्ध्रः पर्वतः । संक्षयः कल्पान्तः । भूमेरधोगमनाद्भूम्याश्लिष्टस्य प्रदेशस्य भूमिविविक्तत्वाद्धिमवतः कल्पान्ते आयामः प्रकटीभूतः । अत्र रत्नादिसंभारो निबद्धः । तेनेदमुदात्तम् । तस्य चालङ्कारत्वं लोकातिशायिरत्नादिकार्यध्वननात् । एवमेतदृद्धिमद्वस्तुनिबन्धनेनैकमुदात्तमुक्तम् । न केवलमृद्धिमद्वस्तूदात्तं यावदर्थप्राप्तावनर्थपरिहारे चोद्यतानां विपुलाशयानां चेष्टितमपि, तदुक्तम् चरितं च महात्मनामिति । न च विपुलाशयचेष्टिते उपनिबध्यमाने तस्य शृङ्गारादिरसप्रतिपत्तिहेतुत्वाद्रसवदलङ्कारानुप्रवेशोऽत्र सुभणः । विपुलाशयचेष्टतस्यात्र वस्त्वन्तरोपलक्षणत्वेनावान्तरवाक्यार्थीभूतत्वात् । न खल्पत्र महापुरुषचेष्टितं वाक्यतात्पर्यगोचरतामनुभवति । अरथान्तरोपलक्षणपरत्वात् । यत्र च रसास्तात्प्रयेणाव गम्यन्ते तत्र तेषां वाक्यविश्रान्तिस्थानत्वेन चतुर्वर्गतदितरप्राप्तिपरिहारोपायभूतस्थायिभावपरिपोषात्मनास्वाद्यमानत्वाद्रसवदलङ्कारो भवति । तेन कुतोऽत्र रसवदलङ्कारगन्धोऽपि । तदुक्तमुपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतमिति । तस्योदाहरणम् तस्यादिक्रोडपीनांसनिघर्षेऽपि पुनः पुनः । निष्कम्पसय स्थितवतो हिमार्द्रर्भवती सुता ॥ ४.*१४ ॥ अत्र हिमवतः स्थैर्ये वाक्यार्थीभूते भगवतो वराहवपुषस्त्रैलोक्योद्धरणोद्युक्तस्य चेष्टितं वीररसप्रतिपत्तिहेतुभूतमवान्तरवाक्यार्थत्वादुपलक्षणीभूतम् । आदिक्रोड आदिवराहः । एवं रसान्तरेष्वप्युपलक्षणीभूतेषूदाहार्यम् ॥ श्लिष्टम् एकप्रयत्नोच्चार्याणां तच्छायां चैव बिभ्रताम् । स्वरितादिगुणैर्भिन्नैर्बन्धः श्लिष्टमिहोच्यते ॥ ४.९ ॥ अलङ्कारान्तरगतां प्रतिभां जनयत्पदैः । द्विविधैरर्थशब्दोक्तिविशिष्टं तत्प्रतीयताम् ॥ ४.१० ॥ इह खलु शब्दानामनेकार्थानां युगपदनेकार्थविवक्षायां द्वयी गतिः अर्थभेदेन तावच्छब्दा भिद्यन्ते इति भट्टोद्भटस्य सिद्धान्तः । तत्रार्थभेदेन भिद्यमानाः शब्दाः केचित्तन्त्रेण प्रयोक्तुं शक्याः केचिन्न । येषां हलस्वरस्थानप्रयत्नादीनां साम्यं ते तन्त्रेण प्रयोक्तुं शक्यन्ते । यत्र तु हलामेकत्वानेकत्वरूपत्वात्स्वराणां चोदात्तत्वानुदात्तत्वादिना स्थानानां चौष्ठ्यदन्त्यौष्ठत्वादिना प्रयत्नानां च लघुत्वालघुत्वादिना भेदस्तेषां तन्त्रेण प्रयोगः कर्तुमशक्यः । साधारणरूपत्वात्तन्त्रस्य । तदुक्तम् ऽसाधारणं भवेत्तन्त्रम्ऽइति । एवं चावस्थिते ये तन्त्रेणोच्चारयितुं शक्यन्ते ते एकप्रयत्नोच्चार्याः । तद्बन्दे सत्यर्थश्लेषो भवति । तदुक्तम् एकप्रयत्नोच्चार्याणामिति । तथा ये तेषामेवैकप्रयत्नोच्चार्याणां शब्दानां छायां सादृश्यं बिभ्रति तदुपनिबन्धे च शब्दश्लिष्टम् । शब्दान्तरे उच्चार्यमाणे सादृश्यवशेनानुच्चारितस्यापि शब्दान्तरस्य श्लिष्टत्वात् । तदुक्तम्तच्छायां चैव बिभ्रताम् । स्वरितादिगुणैर्भिन्नैर्बन्धः श्लिष्टमिति । तथाशब्दोक्तिविशिष्टं तत्प्रतीयतामिति । एतच्च श्लिष्टं द्विविधमप्युपमाद्यलङ्कारप्रतिभोत्पादनद्वारेणालङ्कारतां प्रतिपद्यते । अतोऽनेनानवकाशत्वात्स्वविषयेऽलङ्कारान्तराण्यपोद्यन्ते, तेषां विषयान्तरे सावकाशत्वात् । तदुक्तम् अलङ्कारान्तरगतां प्रतिभां जनयत्पदैः । द्विविधैरिति । अलङ्कारान्तराणामत्र प्रतिभामात्रं न तु पदबन्ध इत्यर्थः । तदेवं शब्दश्लिष्टमर्थश्लिष्टं च लक्षितम् । तस्योदाहरणम् स्वयं च पल्लवाताम्रभास्वत्करविराजिनी । प्रभातसन्ध्येवास्वापफललुब्धेहितप्रदा ॥ ४.*१५ ॥ इन्दुकान्तमुखी स्निग्धमहानीलशिरोरुहा । मुक्ताश्रीस्त्रीजगद्रत्नं पद्मरागाङ्घ्रिपल्लवा ॥ ४.*१६ ॥ अपारिजातवार्तापि नन्दनश्रीर्भुवि स्थिता । अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका ॥ ४.*१७ ॥ न केवलं त्वं हिमाद्रेरेवंविधस्य सुता यावत्स्वयं चैवंप्रकारेति च शब्दः । अत्र भगवती किसलयवदाताम्रौ भास्वन्तौ दीप्तिमन्तौ यौ करौ हस्तौ ताभ्यां विराजते । प्रभातसन्ध्या तु पल्लववदाताम्रैर्भास्वत आदित्यस्य करैर्मयूखैर्विराजते । अत्र चोभयत्रापि हलादनां साम्यम् । अतस्तन्त्रेणोच्चारणसंभवादयमर्थश्लेषः । अस्वापफललुब्धे हितप्रदेत्यत्र तु भगवतीपक्षे अस्वापं सुखेनाप्तुं यन्न शक्यते फलं तत्र ये लुब्धास्तेभ्य ईहितमीप्सितं प्रददातीत्यर्थः । प्रभातसन्ध्यापक्षे तु स्वापस्य निद्रानुभवस्य यत्फलं श्रमनिवृत्तिलक्षणं तत्र यो न लुब्धः सन्ध्योपासनप्रवृत्तत्वात्तद्विषयं हितमदृष्टं समर्पयतीत्येवंविधेत्यर्थः । अत्र च पूर्वस्मिन्पक्षे ऐकपद्यात्(पा. अ. ६ । २ । १४४) थाथादिस्वरेणान्तोदात्तत्वम् । उत्तरत्र पुनरस्वापफललुब्धे इति हितप्रदेति च अनयोर्भिन्नपदत्वान्नानास्वरत्वम् । अस्वापफललुब्ध इत्यस्य "तत्पुरुषे तुल्यार्थेति"(पा. अ. ६ । २ । २) पूर्वपदप्रकृतिस्वरेणाद्युतात्तत्वात् । हितप्रदेत्यस्य तु (पा. अ. ६ । २ । १४४) यथादिस्वरेणान्तोदात्तत्वात् । तेनात्र स्वरभेदः । अस्वापेति अकारस्य फललुब्धे इति च एकारस्य उभयोः पक्षयोर्यथायोगं लाघवालाघवाभ्यां प्रयत्नभेदोऽपि । अतस्तन्त्रेणोच्चारयितुमशक्यता । एकस्मिंस्त्वत्र शब्दे समुच्चरिते शब्दान्तरस्य तत्सादृश्यात्प्रतिपत्तिः । अतोऽयं शब्दश्लेषः । एतयोश्च द्वयोरप्यर्थश्लेषशब्दश्लेषयोरुपमाप्रतिभोत्पत्तिहेतुत्वम् । प्रभातसन्ध्या ह्यत्रोपमानम् । भगवती उपमेया । इवशब्दश्चोपमानोपमेयभावं द्योतयति । शब्दव्यतिरेकेण तु साधारणो धर्मोर्ऽथाधिकरणोऽत्र न विद्यते । तेन नेयमुपमा अपितु श्लेष उपमाप्रतिभोत्पत्तिहेतुः । इन्दुकान्तमुखीत्यत्र भगवती चन्द्रवत्सुन्दरं मुखं यस्याः सा तथाविधा । तथा स्निग्धदीर्घकृष्णकेशी । मुक्ता परित्यक्ता अश्रीरशोभा यया सा तथाविधा । त्रैलोक्योत्कृष्टा च । तथा पद्मवत्कमलवत्रागो लौहित्यं ययोस्तथाविधौ पादपल्लवौ यस्यासतद्रूपा । यदा त्वसौ भगवती रूपकप्रतिभोत्पत्तिनिबन्धनेन श्लेषेण त्रैलोक्योदरवर्तिमाणिक्यसंभाररूपतया रूप्यते तदा प्रकृतोर्ऽथश्चन्द्रकान्तेन्द्रनीलमौक्तिकशोभापद्मरागैरवच्छादितरूपतया प्रतीयते, साक्षादेवंविधरत्नमयावयवयोगित्वात्त्रिभुवनोदरान्तर्गतरत्नसमृद्धिरूपेति । अत्र च मुक्ताश्रीरित्यत्र स्वरभेदो विद्यते । बहुव्रीहिपक्षे"बहुव्रीहौ प्रकृत्येति"पूर्वपदप्रकृतिस्वरत्वात् । तत्पुरुषे तु समासान्तोदात्तत्वात् । शिष्टानां तु शब्दानां स्वरभेदो नास्ति । प्रयत्नगुरुत्वागुरुत्वे तु त्रिजगद्रत्नशब्दव्यतिरिक्तेषु तत्तद्वर्णविषयतया विद्येते । तेन तत्र शब्दश्लेषता । त्रिजगद्रत्नशब्दस्य तूभयत्रापि कस्यचिद्विशेषस्याविद्यमानत्वादर्थश्लेषत्वम् । अपारिजातवार्तापीत्यत्र भगवत्यजातशत्रुत्वादपगतशत्रुसमूहवार्ता तदीया च शोभा सर्वस्य चित्तमावर्जयतीत्यतो नन्दना श्रीर्यस्यास्तथाविधा । उदकमध्यवर्तितया च योऽसौ अप्सु उदके प्रतबिम्बित इन्दुस्तद्वत्सुन्दरी । नित्यं च गलल्लावण्यप्रवाहा । यदा त्वसौ भगवती नन्दनश्रीशब्दस्य देवोद्यानशोभालक्षणार्थान्तराभिधायत्वाद्रूपकप्रितिभोत्पत्तिनिबन्धनेन श्लेषेणैतद्भावमापद्यते तदा तत्समाश्रयत्वेन अपारिजातवार्तापीत्यादिपदपर्यालोचनया विरोधप्रतिभाहेतोरपरस्यापि श्लेषस्याविर्भावो भवति । न खलु देवोद्यानशोभा अविद्यमानपारिजाताख्यवृक्षविशेषवृत्तान्ता भवति । न चासौ भूमौ तिष्ठति । अबिन्दुसुन्दरीत्यत्र तु बिन्दुभिर्यस्याः सौन्दर्यं नास्ति तस्याः कथं लावण्यबिन्दवः प्रसरेयुरिति विरोधप्रतपत्तिहेतुः श्लेषः । अपारिजातवार्तापीत्यत्राप्यपगता अरिजातवार्तेति बहुव्रीहौ प्रकृत्येति पूर्वपदप्रकृतिस्वरत्वम् । तत्पुरुषपक्षेत्वन्तोदात्तत्वम् । अबिन्दुसुन्दरीत्यत्र अबिन्दुवत्सन्दरीत्युपमानत्वा "तत्पुरुषे तुल्यार्थो"त्यबिन्दुशब्दस्य प्रकृतिस्वरः । तस्य च सप्तम्यन्तपूर्वपदत्वादनेनैव सूत्रेण प्रकृतिस्वरेणाद्युदात्तत्वम् । अबिन्दुसुन्दरीत्यत्र त्वव्ययत्वान्नञः पूर्वपदप्रकृतिस्वरत्वेन तदेव । तेनात्र स्वरभेदस्याभावः । प्रयत्नभेदकृतात्तु चकारवैचित्र्याच्छब्दश्लेषता ॥ इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ चतुर्थो वर्गः ॥ _______________________________________________________________________________ ५ अथ पञ्चमो वर्गः । अपह्नुतिं विशेषोक्तिं विरोधं तुल्ययोगिताम् । अप्रस्तुतप्रशंसा च व्याजस्तुतिविदर्शने ॥ ५.१ ॥ उपमेयोपमां चैव सहोक्तिं संकरं तथा । परिवृत्तिं च जगदुरलङ्कारान्परे गिराम् ॥ ५.२ ॥ अपह्नुतिः अपह्नुतिरभीष्टा च किञ्चिदन्तर्गतोपमा । भूतार्थापह्नवेनास्या निबन्धः क्रियते बुधैः ॥ ५.३ ॥ यत्र भूतं विद्यमानमुपमेयलक्षणमर्थमपह्नुत्योपमानरूपारोपेणोपमानोपमेयभावो.......................... तिरलङ्कारः । अत्र च प्राकरणिकस्य विद्यमानस्यार्थस्य ...............................यद्विद्यमानोऽस्फुटेन रूपेणोपमानोपमेयभावश्चकास्तीत्युक्तम् किञ्चिदन्तर्गतोपमेति । तस्या उदहरणम् एतद्धि न तपः सत्यमिदं हालाहलं विषम् । विशेषतः शशिकलाकोमलानां भवादृशाम् ॥ ५.*१ ॥ अत्र प्राकरणिकस्य तपसः स्वरूपमपह्नुत्य हालाहलविषविशेषरूपताध्यारोपेण तत्सादृश्यमवगमितम् । तच्चात्र हालाहलविषसादृश्यमुपमेयस्यापह्नुतत्वान्न स्फुटरूपम् । हालाहलाख्यो विषभेदो यः शीघ्रं व्यापादयति । विशेषोक्तिः यत्सामग्र्येऽपि शक्तीनां फलानुत्पत्तिबन्धनम् । विशेषस्याभिधित्सातस्तद्वशेषोक्तिरुच्यते ॥ ५.४ ॥ शक्तीनां कारकाणां सामग्र्येऽपि अविकलत्वे यः क्रियाफलस्य किञ्चिद्विशेषमवगमयितुमनुत्पत्तेरुपनिबन्धः सा विशेषोक्तिः । तस्याश्च द्वौभेदौ । क्वचित्खलु कारणसामग्र्येऽपि यत्कार्यं नोत्पद्यते तस्यानुत्पत्तौ स्वकण्ठेन निमित्तमुपादीयते, क्वचित्त्वर्थसामर्थ्यादवगम्यते तदाह दर्शितेन निमित्तेन निमित्तादर्शनेन च । तस्या बन्धो द्विधा लक्ष्ये दृश्यते ललितात्मकः ॥ ५.५ ॥ अदर्शनमनुपादानम् । तत्र द्वितीयस्य भेदस्योदाहरणम् महर्द्धिनि गृहे जन्म रूपं स्मरसुहृद्वयः । तथापि न सुखप्राप्तिः कस्य चित्रीयते न धीः ॥ ५.*२ ॥ अत्र धनसंभारयोगः सुरूपत्वं यौवनं चेति यान्येतानि सुखप्राप्तौ कारणान्यविकलानि तत्सद्भावेऽपि क्रियाफलभूतायाः सुखप्राप्तेरनुत्पत्तिरुपनिबद्धा । पूर्वोक्तानां सुखहेतूनां विस्मयविभावनात्मकविशेषख्यापनाय । अत्र च निमित्तं खकण्ठेनानुपात्तमप्यर्थसामर्थ्यादवगम्यते । विधिवैधुर्यादिरूपशब्दोऽत्र शरीरस्य रूपमात्राव्यभिचारित्वाद्रूपप्रकर्षतात्पर्येणोपात्तः । स्मरसुहृद्वयो यौवनम् । यौवने हि मन्मथाभिमुखीभवति । आद्यभेदोदाहरणं तु इत्थं विसंष्ठुलं दृष्ट्वा तावकीनं विचेष्टितम् । नोदेति किमपि प्रष्टु सत्वरस्यापि मे वचः ॥ ५.*३ ॥ अत्र प्रश्नत्वरालक्षणकारणसद्भावेऽपि प्रश्नवचसोऽनुत्पत्तिरुपनिबद्धा । तया च प्रश्नवचनकारणस्य विस्मयविभावनाख्यो विशेषोऽवगम्यते । अत्र च निमित्तं भगवतीगतिविसंष्ठुलचेष्टितदर्शनं स्वकण्ठेनोपात्तम् ॥ विरोधः गुणस्य वा क्रियाया वा विरुद्धान्यक्रियावचः । यद्विशेषाभिधानाय विरोधं तं प्रचक्षते ॥ ५.६ ॥ यत्र कविना गुणस्य वा क्रियाया वा अथवा द्विर्वाशब्दस्योपात्तत्वात्द्रव्यस्य विरुद्धोऽन्यः पदार्थः सजातीयो विजातीयो वा वचसा स्वप्रतिभाप्रसूतेन वर्णनिकात्मना क्रियते कञ्चिद्विशेषमवगमयितुं स विरोधाख्योऽलङ्कारः । गुणक्रियाद्रव्याणामुत्प्रेक्षालङ्कारलक्षणव्याख्यानसमये स्वूरूपमुक्तम् । क्रिया कारणमुत्पादनं, त्त्प्रधानं वचः क्रियावचः । कविप्रतिभया खलु पुराणप्रजापतिनिर्मितशुष्कपरुषपदार्थविलक्षणाः सरसाः पदार्थाः अभिनवा एव निर्मीयन्ते । अतः क्रियावच इत्युक्तम् । तस्योदाहरणम् यद्वा मां किं करोम्येष वाचालयति विस्मयः । भवत्याः क्वायमाकारः क्वेदं तपसि पाटवम् ॥ ५.*४ ॥ अत्र यदेतत्पूर्वमुपक्रान्तं वचो मे नोदेतीति तस्याक्षेपो यद्वेतिकृतः । किंवा करोमि विस्मयवाचालितः सन् ब्रवीमि भवत्याः क्वते । एष विस्मयो मां वाचालयतीति संबन्धः । अत्राकृतेः सुकुमारायाः पाटवस्य च कठिनकायसाध्यस्य विरोधो भगवतीनिष्ठत्वेनोपनिबद्धः । तेन च विस्मयविभावनाख्यो विशेषोऽत्र ख्याप्यते । अयं चासिद्धस्वभावधर्मनिष्ठत्वाद्गुणविरोधः । एवं साध्यस्वभावधर्मनिष्ठेऽपि क्रियाविरोधे उदाहार्यम् । तथा द्रव्यविरोधे गुणक्रियाविरोधे गुणद्रव्यविरोधे क्रियाद्रव्यविरोधे च ॥ तुल्ययोगिता उपमानोपमेयोक्तिशून्यैरप्रस्तुतैर्वचः । साम्याभिधायि प्रस्तावभाग्भिर्वा तुल्ययोगिता ॥ ५.७ ॥ अप्रस्तुतानामेव वा यत्र साम्यमभिधीयते सा तुल्ययोगिता । अत एव प्राकरणिकाप्राकरणिकोभयार्थनिष्ठत्वाभावात्तत्रोपमानोपमेयोक्तिशून्यत्वं प्रस्तावभाग्भिः प्रस्तुतैः साम्याभिधायि वच इति संबन्धः । तस्याः पूर्वभेदस्योदाहरणम् त्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कठोरता ॥ ५.*५ ॥ त्वच्छरीरसौकुमार्यदर्शिनः कस्येव चेतसि मालत्यादीनां काठिन्यं न भासत इत्यर्थः । अत्र मालत्यादीनामप्राकरणिकानामेवार्थानां कठोरत्वलक्षणं साम्यमुपनिबद्धम् । द्रष्टुरिति तृन् । तद्योगे च त्वदङ्गमार्दवमिति "न लोकाव्ययनिष्ठेऽति षष्ठीनिषेधः । द्वितीयभेदस्योदाहरणम् योगपट्टो जटाजालं तारवीत्वङ्मृगाजिनम् । उचितानि तवाङ्गस्य यद्यमूनि तदुच्यताम् ॥ ५.*६ ॥ अत्र प्राकरणिकानमपि योगपट्टादीनां भगवतीशरीरे संस्पर्शनौचित्यलक्षणः समानो धर्मो निबद्धः । तारवीत्वक्वल्कलम् । अङ्गस्य शरीरस्य । अप्रस्तुतप्रशंसा अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः । अप्रस्तुतप्रशंसेयं प्रस्तुतार्थनुबन्धिनी ॥ ५.८ ॥ अधिकारादुपवर्णनावसरादपगतस्य प्राकरणिकादपरस्य वस्तुनो यत्रोपनिबन्धः सा अप्रस्तुतप्रशंसा । न चैवमपि तस्या उन्मत्तप्रलापप्रख्यता, यतः सा केनचित्स्वाजन्येन प्रस्तुतमर्थमनुबध्नति । तदुक्तम्प्रस्तुतार्थानुबन्धिनीति । तस्या उदाहरणम् यान्ति स्वदेहेषु जरामसंप्राप्तोपभोक्तृकाः । फलपुष्पर्द्धिभाजोऽपि दुर्गदेशवनश्रियः ॥ ५.*७ ॥ अत्र कृच्छ्रेण गन्तुं शक्यते यस्मिन्देशे तद्गतकाननानां शोभा अप्राकरणिक्य एव स्वदेहजर्जरतयोपवर्णिताः । ताभिश्च सादृश्यं स्वाजन्येन भगवतीचेष्टितमुपमेयभूतं एवंविधरूपतयावगम्यते । दुर्गेति "सुदुरोरधिकरण"इति डप्रत्ययः ॥ व्याजस्तुतिः शब्दशक्तिस्वभावेन यत्र निन्देव गम्यते । वस्तुतस्तु स्तुतिश्चेष्टा व्याजस्तुतिरसौ मता ॥ ५.९ ॥ यत्र शब्दानामभिधायकानां या शक्तिरर्थप्रत्यायनौत्सुक्यं तस्या यः स्वभावो नियतार्थनिष्ठत्वात्मकस्तेन निन्दा गम्यते इव नत्वसौ निन्दैव । पदार्थपर्यालोचनसामर्थ्योत्थायां स्तुतौ वाक्यार्थीभूतायामवान्तरवाक्यार्थत्वात् । अत एवाह वस्तुतस्तु स्तुतिश्चेष्टेति । वस्तुत इत्यर्थसामर्थ्यादित्यर्थः । तत्र व्याजस्तुतिर्नामालङ्कारो भवति । निन्दाव्याजेन हि सा स्तुतिः । अतो व्याजस्तुतिः । तस्या उदाहरणम् धिगनन्योपमामेतां तावकीं रूपसंपदम् । त्रैलोक्येऽप्यनुरूपो यद्वरस्तव न लभ्यते ॥ ५.*८ ॥ अत्र यदेतद्धिग्वादोपहतत्वं रूपसंपदः साक्षाच्छब्दव्यापारेण स्पृष्टं न तत्स्वात्मपर्यवसितं, अर्थसामर्थ्योत्थलोकोत्तरभगवतीरूपोत्कर्षप्रतिपादनपर्यवसितत्वात् । अतस्तस्यावान्तरवाक्यार्थता । तेनेयं व्याजस्तुतिः । निन्दाव्याजेन रूपोत्कर्षस्य स्तूयमानत्वात् । धिगनन्योपमामि "त्युभसर्वतसोः कार्ये"ति द्वितीया ॥ विदर्शना अभवन्वस्तुसंबन्धो भवन्वा यत्र कल्पयेत् । उपमानोपमेयत्वं कथ्यते सा विदर्शना ॥ ५.१० ॥ यत्र पदार्थानां संबन्धः स्वयमनुपपद्यमानः सन्नुपमानोपमेयभावे पर्यवस्यति अथवा उपमानोपमेयभावकल्पनया स्वात्मानमुपपादयति तत्र विदर्शना, विशिष्टस्यार्थस्य उपमानोपमेयभावात्मकस्योपदर्शनात् । तस्या उदाहरणम् विनोचितेन पत्या च रूपवत्यपि कामिनी । विधुवन्ध्यविभावर्याः प्रबिभर्ति विशोभताम् ॥ ५.*९ ॥ विधुश्चन्द्रः । विभावरी रात्रिः । अत्र रजनिकररहितविभावरीविशोभत्वस्य यदेतत्कर्मत्वं तत्कामिनीकर्तृकायां भरणक्रियायां न समन्वयं गच्छति । न ह्यन्यस्य संबन्धिनीं विशोभामन्यो बिभर्ति । अतः पदार्थसमन्वयस्यात्रानुपपत्तिः । उपमानोपमेयभावस्त्वत्र वाक्यार्थविश्रान्तिस्थानं कृष्णरात्रिवद्विशोभतां बिभर्तिति । एवमेतद्भवति वस्त्वसंबन्धे उपमानोपमेयभावकल्पनायामुदाहरणम् । यत्र तु पदार्थसमन्क्य उपमानोपमेयभावकल्पनया स्वात्मानमुपपादयति तस्य विदर्शनाभेदस्योदाहरणमुद्भटपुस्तके न दृश्यते । तस्य तु भामहोदतमिदमुदाहरणम् अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति । उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥ इति तत्र प्रथमोदयसमयविजृम्भमाणस्वकान्तिरहितसय भास्वतो यदेतदस्तमयौन्मुख्यं तदुपेतस्य श्रीमतः प्रयोज्यकर्तॄन् प्रति पातावसानोदयकर्मकेऽवबोधे तत्समर्थाचरणलक्षणं हेतुकर्तृत्वमुपनिबद्धम् । तथाविधं खलु भास्वन्तं पश्यन्तः श्रीमन्तो बुध्यन्ते भास्वत इव सर्वस्योदयः पातावसान इति । तांश्चासौ तथावबुध्यमानान् स्वावस्थोपदर्शनेन प्रयुङ्क्ते यथा ममायमुदयः पातावसानस्तथा भवतामपीति । अत्र च प्रेषणाध्येषणयोरभावात्तत्समर्थाचरणलक्षण एव प्रयोजकव्यापारः कारीषोऽध्यापयति भिक्षा वासयतीति यथा । तेन च प्रयोज्यप्रयोजकभावेन स्वात्मानमुपपादयितुमुपमानोपमेयभाव आक्षिप्तः हे श्रीमन्तो यथा ममायमुदयः पतनाय तद्वद्भवतामपीति यूयं बुध्यध्वमिति । तेनात्र प्रयोज्यप्रयोजकभावलक्षणेन पदार्थसमन्वयेन स्वात्मोपपादनायोपमानोपमेयभावस्याक्षेपात्द्वितीयो विदर्शनाया भेदः ॥ संकरः स च चतुर्विधः संदेहशब्दार्थवर्त्यलङ्कारैकशब्दाभिधानानुग्राह्यानुग्राहकभेदेन । तत्र संदेहसंकरस्तावत् अनेकालङ्क्रियोल्लेखे समं तद्वृत्त्यसंभवे । एकस्य च ग्रहे न्यायदोषाभावे च संकरः ॥ ५.११ ॥ अनेकस्यालङ्कारस्योल्लेखे चेतस्युपारोहे संदेहसंकरो भवति, न त्वेकशब्दाभिधानसंकरादावपि अनेकालङ्कारोल्लेखः संभवति । यथा मुरारिनिर्गता नूनं नरकप्रतिपन्थिनी । तवापि मूर्घ्नि गङ्गेव चक्रधारा पतिष्यति ॥ अत्र ह्युपमानोपमेयभावस्तत्प्रतिभाहेतुश्च श्लेषोऽनेकालङ्कार उल्लिख्यते । उपमानोपमेयभावे तावत् गङ्गोपमानम् । चक्रधारा उपमेया । मुरारिनिर्गतत्वं साधारणो धर्मः । श्लेषस्त्वत्र नरकप्रतिपन्थिशब्दादात्मानं लभते । एकत्र हि नरको दानवः । अपरत्र त्ववीच्यादिः । एतौ च द्वावलङ्कारावेकस्मिन्निवशब्देऽनुप्रविशतः । न ह्युपमानोपमेयभावस्तत्प्रतिभाहेतुर्वा श्लेषः समासाद्यभावे इवशब्दादिमन्तरेण स्वरूपं प्रतिलभते । तेनात्र द्वावलङ्कारा वेकस्मिन्वाचके इव शब्देऽनुप्रविषौ । यदि चानेकालङ्कारोल्लेखे सति संदेहसंकरस्तत एवमादावप्यनेकालङ्कारोल्लेखस्य संभवात्संदेहसंकरप्रसङ्ग इत्याशङ्क्योक्तम्समं तद्वृत्त्यसंभव इति । तस्यानेकस्यालङ्कारस्य समं युगपद्यदि वृत्तिर्व्यापारोऽलङ्कार्यालङ्करणात्मको न संभवतीत्यर्थः । पूर्वोक्ते तूदाहरणे मुरारिनिर्गतेति साधारणधर्मोपादानान्नरकप्रतिपन्थिनीति च श्लेषपदोपदर्शनान्नानेकस्यालङ्कारस्य युगपद्वृत्तेरसंभवः । तेन तत्र न संदेहसंकरता । ननु यद्यनेकालङ्कारोल्लेके युगपद्वृत्त्यसंभवे च संदेहसंकरत्वम् । एव सति यत्र प्रतिभामात्रेणानेकस्मिन्नलङ्कारे उल्लिख्यमाने यस्य साधकं प्रमाणमस्ति स उपादीयते । यस्य तु बाधकं प्रमाणं विद्यते स त्यज्यते । तत्राष्यनेकालङ्कारोल्लेखस्य समं तद्वृत्त्यसंभवस्य च संभवात्संदेहसंकरत्वं प्रसज्जतीत्याशङ्क्योक्तमेकस्य च ग्रहे न्यायदोषाभावे चेति । न्यायः साधकं प्रमाणम् । दोषो बाधकं प्रमाणम् । यत्रानेकालङ्कारोल्लेखे युगपद्वृत्त्यसंभवे च एकतरस्य ग्रहणे साधकबाधके प्रमाणे समस्तव्यस्ततया न विद्येते तत्र संदेहसंकरः । तेन नानिष्टप्रसङ्गः । तथाहियत्र साधकबाधके प्रमाणे सामस्त्येन विद्यते तत्र यस्य साधकं प्रमाणमस्ति तस्योपादानाद्बाधकस्य प्रमाणोपेतस्य च त्यागादेकस्य ग्रहणं भवति । यत्रापि साधकबाधकप्रमाणयोर्वैयस्त्येनान्यतरस्य विद्यमानता तत्रापि प्रतिभोल्लिख्यमानानेकालङ्कारमध्यात्साधकप्रमाणोपेतस्योपादानात्प्रमाणशून्यस्य चोपेक्ष्यत्वात्, तथा बाधकप्रमाणोपेतस्य परित्यागात्त्दितरस्य च पूर्वोल्लिखितस्य पारिशेष्येणोपादानादेकस्य ग्रहो भवति । यत्र तु साधकबाधकप्रमाणाभावस्तत्र संदेह एव । एवमयं संदेहसंकरो लक्षितः । तस्योदाहरणम् यद्यप्यत्यन्तमुचितो वरेन्दुस्ते न लभ्यते । तथापि वच्मि कुत्रापि क्रियतामादरो नरे ॥ ५.*१० ॥ अत्र वरेन्दुरिति वर एव इन्दुः, वर इन्दुरिवेति रूपकसमासोपमयोर्द्वयोरलङ्कारयोरुल्लेखः । न च तस्यानेकस्यालङ्कारस्य युगपद्वृत्तिः संभवति । एकालङ्कारसंश्रयेणैवालङ्कारस्य कृतकृत्यात्वात् । न चात्र द्वयोर्मध्यादेकतरस्य ग्रहणाय साधकबाधकप्रमाणयोगः. साधकं हि प्रमाणं विद्यमानं विधिमुखेनालङ्कारं ज्ञापयेत् । तथा बाधकमपि प्रहातव्यालङ्कारनिषेधमुखेनोपादेयमलङ्कारं पूर्वोल्लिखितं पारिशेष्यादुपादेयतया प्रतिपादयति । अत्र तु द्वयोः साधकबाधकप्रमाणयोरभावात्संदेहः । तेन संकरोऽलङ्कारः । शब्दार्थवर्त्यलङ्कारस्तु शब्दार्थवर्त्यलङ्कारा वाक्य एकत्र भासिनः । संकरो वा यत्रैकस्मिन्वाक्ये शब्दवर्तिनोर्ऽथवर्तिनश्चालङ्काराः संसर्गमुपयान्ति स शब्दार्थालङ्कारः । तस्योदाहरणम् इत्थं स्थितिर्वरार्था चेन्मा कृथा व्यर्थमर्थिताम् । रूपेण ते युवा सर्वः पादबद्धो हि किङ्करः ॥ ५.*११ ॥ वरार्था भर्त्रर्था । किङ्करो दासः । अत्र थकारोपनिबद्धोऽनुप्रासात्मकः शब्दालङ्कारः । अर्थालङ्कारश्चार्थान्तरन्यासो विद्यते । तथाहिअत्र माकृथा व्यर्थमर्थितामित्युपादित्सितेर्ऽथेऽर्थित्वस्याकरणं यदुपनिबद्धं तदनुपपद्यमानतया संभाव्य तत्समर्थनायोक्तंऽरूपेण ते युवा सर्वः पादबद्धो हि किङ्करऽइति । यो गुणोत्कर्षशाली स नार्थयते, अपित्वर्थ्यते यथा रत्नादि । त्वं च रूपवत्त्वाद्गुणोत्कर्षशालिनी । तस्मादुपादित्सितेर्ऽथे तवार्थित्वमयुक्तमिति । तेनायं शब्दार्थवर्त्यलङ्कारसंकरः ॥ एकशब्दाभिधानसंकरस्तु । एकवाक्यांशप्रवेशाद्वाभिधीयते ॥ ५.१२ ॥ एकस्मिन्वाक्यांशे वाक्यैकदेशे यत्रानेकस्यालङ्कारस्यानुप्रवेशः स एकशब्दाभिधानसंकरः । तस्योदाहरणम् मैवमेवास्स्व सच्छायवर्णिका चारुकर्णिका । अम्भोजिनी चित्रस्था दृष्टिमात्रसुखप्रदा ॥ ५.*१२ ॥ अत्रोपमालङ्कार उपमाप्रतिभोत्पत्तिहेतुभूतश्च श्लेष इत्येतौ द्वावलङ्कारावेकस्मिन्वाक्यांशे इवशब्देऽनुप्रविष्टौ । तथाहिअम्भोजिनी उपमानम्, गौरी उपमेया, दृष्टिमात्रसुखप्रदत्वं साधारणो धर्मः इत्युपमा । सच्छायवर्णिका चारुकर्णिकेति श्लेषः । अम्भोजिन्यां हि वर्णा राजवर्तादयः गौर्यां तु गौरत्वम् । अम्भोजिन्यां कर्णिका कमलमध्वर्त्तिबीजकोशः । गौर्यां तु चारू कर्णौ । कपूचात्र समासान्तः । तेनायं श्लेषः । एतौ च द्वावलङ्कारा वेकस्मिन्वाक्यांशे इवशब्देऽनुप्रविष्टौ । तेनायमेकशब्दाभिधानसंकरः ॥ अनुग्राह्यानुग्राहकसंकरस्तु परस्परोपकारेण यत्रालङ्कृतयः स्थिताः । स्वातन्त्र्येणात्मलाभं नो लभन्ते सोऽपि संकरः ॥ ५.१३ ॥ यत्रोभयोरुपमानोपमेययोः परस्परमुपमानोपमेयभावस्तत्रोपमेयोपमा । उपमेयेनोपमानस्योपमानात् । ननु च प्राकरणिकं साम्याभिधानसंबन्धि उपमेयम् । अप्राकरणिकं उपमानम् । यदि चात्रोपमेयस्योपमानत्वमभिधीयते, एवं सति तस्य प्राकरणिकत्वं व्याहन्यते इत्याशङ्क्योक्तम्पक्षान्तरहानिगामिति । नात्रोपमानोपमेयभावे तात्पर्यं किन्तु एतदेव द्वयमेवंविधं विद्यते, न त्वन्यदेतयोः सदृशं वस्त्वन्तरं विद्यते इति । अतश्च एतत्पक्षद्वितयव्यतिरिक्तस्य पक्षान्तरस्यात्र हानेर्विवक्षितत्वात्परस्परमुपमानोपमेयभावो न दुष्यतीति तस्य पक्षान्तरहानौ प्रतपाद्यायामवान्तरवाक्यार्थत्वेनावस्थानात्, वरं विषं भक्षय मा चारस्य गृहे भुङ्क्थाः इतिवत् । अत्र हि विषभक्षणं न विधीयते । दुर्जनगृहे भोजनपरिवर्जनतात्पर्यात् । एवमिहाप्युपमानोपमेयभावस्याविवक्षापक्षान्तरहानौ तात्पर्यात् । तस्या उदाहरणम् हरेणेव स्मरव्याधस्त्वयानङ्गीकृतोऽपि सन् । त्वद्वपुः क्षणमप्येष धार्ष्ट्यादिव न मुञ्चति ॥ ५.*१३ ॥ अत्र धार्ष्ट्यादि न मुञ्चतीति यासावुत्प्रेक्षा सा हरेणेव स्मरव्याधस्त्वयानङ्गीकृतोऽपि सन्नित्युपमाप्रतिभोत्पत्तिहेतुश्लेषवशेन स्वरूपं प्रतिलभते । अनङ्गीकृतो हि अनङ्गत्वमशरीरत्वमापादितः अनूरीकृतश्च । यश्चानूरीकृतः क्षणमपि न मुञ्चति तत्र धार्ष्ट्यं हेतुतयोत्प्रेक्षितुं शक्यते । तेन श्लेषवशेनात्रोत्प्रेक्सा आसादितस्वभावा । अतोयमनुग्राह्यानुग्राहकसंकरः । एवमयं चतुर्विधः संकरो नानालंकारगतविकल्पव्यवस्थासमुच्चयाङ्गाङ्गिभावसमाश्रयणेनाभिहितः । तत्रानेकालंकारविकल्पात्संदेहसंकरः । निभिन्नाधारत्वेन शब्दार्थवर्तिनोलंकारयोरवस्थानाद्व्यवस्थासमाश्रयः शब्दार्थवर्त्यलंकारसंकरः । एकशब्दाभिधानसंकरे तु समुच्चयेनानेकोलंकार एकस्मिन्वाक्यांशे इवादावनुप्रविशति । अनुग्राह्यानुग्राहकसंकरे त्वनकस्यालंकारस्याङ्गाङ्गिभावः । अतो विकल्पव्यवस्थासमुच्चयाङ्गाङ्गिभावसंश्रया एते चत्वारः संकरभेदाः । उपमेयोपमा अन्योन्यमेव यत्र स्यादुपमानोपमेयता । उपमेयोपमामाहुस्तां पक्षान्तरहानिगाम् ॥ ५.१४ ॥ यत्रोभयोरुपमानोपमेययोः परस्परमुपमानोपमेयभावस्तत्रोपमेयोपमा । उपमेयेनोपमानस्योपमानात् । ननु च प्राकरणिकं साम्याभिधानसंबन्धि उपमेयमप्रकरणिकमुपमानम् । यदि चात्रोपमेयस्योपमानत्वमभिधीयते एवं सति तस्य प्राकरणिकत्वं व्याहन्यते इत्याशङ्क्योक्तम् पक्षान्तरहानिगामिति । नात्रोपमानोपमेयभावे तात्पर्यं किंतु एतदेव द्वयमेवंविधं विद्यते न त्वन्यदेतयोः सदृशं वस्त्वन्तरं विद्यत इति । अतश्च एतत्पक्षद्वितयव्यतिरिक्तस्य पक्षान्तरस्यात्र हानेर्विवक्षितत्वात्परस्परमुपमानोपमेयभावो न दुष्यतीति । तस्य पक्षान्तरहानौ प्रतिपाद्यायामवान्तरवाक्यार्थत्वेनावस्थानात् वरं विषं भक्षय मा चास्य गृहे भुक्त्वा इतिवत् । अत्र हि विषभक्षणं न विधीयते दुर्जनगृहे भोजनपरिवर्जनतात्पर्यात् । एवमिहाप्युपमानोपमेयभावस्याविवक्षा पक्षान्तरहानौ तात्पर्यात् । शिरांसि पङ्कजानीव वेगोत्पातयतो द्विषाम् । आजौ करोपमं चक्रं यस्य चक्रोपमः करः ॥ ५.*१४ ॥ अत्र यस्येत्युपात्त्स्य त्वत्कृते सोऽपि वैकुण्ठ इत्यत्र तच्छब्दसमन्वयेना काङ्क्षाविच्छेदो भविष्यते । उत्तरेष्वपि च श्लेकेषु तेनैव यच्छब्दार्थो निराकाङ्क्षी कार्यः । अत्र करचक्रयोः परस्परमुपमानोपमेयभावः । साधारणश्चात्र धर्मः अतित्वरितत्वेन शत्रुशिरोऽवकर्तनम् । एष चात्रोपमानोपमेयभावः उपमानान्तराभावे पर्यवसितः । यदि परमेतयोरेव परस्परमुपमानोपमेयभावः स्यादन्यत्वे तयोरुपमानं नास्तीति ॥ सहोक्तिः तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रिते । पदेनैकेन कथ्येते सा सहोक्तिर्मता सताम् ॥ ५.१५ ॥ यत्र वस्तुद्वयसमवेते द्वे क्रिये पदेनैकेन तन्त्रवृत्त्या कथ्येते तत्र सहोक्तिर्नामालङ्कारो भवति । ननुऽसंजहार शरत्कालःऽइत्यादावपि दीपके पदेनैकेन वस्तुद्वयसमवेते द्वे क्रिये कथ्येते । अतश्च तत्रापि सहोक्तित्वं प्राप्नोतीति आसङ्क्योक्तम्तुल्यकाले इति । यत्र सहादिना पदेन तुल्यकालतामवगम्य वस्तुद्वितयसमाश्रिते द्वे क्रिये कथ्येते तत्र सहोक्तित्वम् । न चैवं दीपक इति नातिव्याप्तिः । सहादिना च शब्देन युगपत्कालतायामवद्योत्यमानायां द्वय गतिः । कदाचित्खलु ययोः क्रिययोस्तुल्यकालता ते क्रिये तुल्यकक्षतया स्वाश्रयविश्रान्तत्वेनाभिधीयेते, यता देवदत्त्यज्ञदत्तौ सह भुञ्जाते इति कदाचित्त्वेकाश्रयविश्रान्तायां क्रियायामभिहितायां सहाद्यर्थपर्यालोचनासामर्थ्यादपरस्याश्रयस्य क्रियासंबन्धोऽवगम्यते, यथा देवदत्तो यज्ञदत्तेन सह भूङ्क्त इति । तत्रेह द्वितीया गतिराश्रीयते । शाब्देन रूपेणैकत्र क्रियासंबन्धस्य प्रतीतस्यापरत्रार्थेन रूपेणोन्नीयमानत्वेन वक्रभणिते सद्भावात् । एवंविधस्य यत्रैव शोभातिशयविधायित्वं तत्रैव सहोक्तेरलङ्कारता न सर्वत्रेति द्रष्टव्यम् । तस्या उदाहरणम् द्युजनो मृत्युना सार्धं यस्याजौ तारकामये । चक्रे चक्राभिधानेन प्रैष्येणाप्तमनोरथः ॥ ५.*१५ ॥ यस्य प्रैष्येण इति संबन्धः । अत्र मृत्योर्द्युजनस्य च मनोरथावाप्तिकरणलक्षणे द्वे क्रिये पदेनैकेनोक्ते चक्रेऽवाप्तमनोरथ इति । यद्यप्यवाप्तमनोरथ इति चक्र इति च सुप्तिडन्तत्वभेदेन पदद्वित्वं तथापि क्रियापदद्वितयोपादानव्यावृत्तेर्ववक्षितत्वात्पदेनैकेनेति न विरुध्यते । अथवा चक्रे इति करोति क्रिया सामान्यभूता विशेषमन्तरेणापर्यवस्यन्ती मनोरथावाप्तिलक्षणं विशेषं गर्भीकरोति । अतश्चात्र सत्यप्यनेकपदत्वे एकपदीभाव इव प्रकाशते । तेन एकेन पदेनेत्युक्तम् । सार्धं शब्दश्चात्र तुल्यकालतामवद्योतयति । यस्य प्रैष्येणाज्ञाकारिणा चक्रसंज्ञकेन कर्तृभूतेन मृत्युना सार्धमपृथक्कालतया द्युजन आप्तमनोरथः कृत इति । अनेकलोककवलीकरणान्मृत्योर्मनोरथावाप्तिः, द्युजनस्य च शत्रुविनाशात् ॥ परिवृत्तिः समन्यूनविशेष्टैस्तु कस्यचित्परिवर्तनम् । अर्थानर्थस्वभावं यत्परिवृत्तिरभाणि सा ॥ ५.१६ ॥ कस्यचिद्वस्तुनो वस्त्वन्तरेण परिवर्तनं परिवृत्तिः । सा च त्रिविधा । परिवर्तनकारकाणां परिवर्तनीयेन सह समत्वान्न्यूनत्वादधिकत्वाच्च । तदिदमुक्तम्समन्यूनविशिष्टैरिति । तत्र यस्याः समोर्ऽथः परिवर्त्यते तस्या अनर्थस्वभावता । अर्थशब्देन हि उपादेयोऽप्थोऽभिधीयतेर्,ऽथ्यतेऽसाविति कृत्वा । यत्र च साम्यं तभार्थनीयत्वं नास्ति । तेनार्थ्यत्वाभावानुगमात्तत्रानर्थत्वमभिधीयते । अतस्तत्रानर्थस्वभावं परिवर्तनम् । यत्राप च निकृष्टपरिग्रहेणोत्कृष्टपरित्यागः क्रियते, तत्राप्यनर्थस्वभावता । उपादेयविपरीतस्योपादानात् । अर्थप्रतिपक्षो ह्यत्रानर्थः । अधर्मानृतवत् । यता ह्यधर्मानृतशब्दाभ्यां नोत्तरपदार्थ्राभावमात्रमभिधीयते, नाप्युत्तरपदार्थतुल्योर्ऽथः, किं तर्हि एतत्प्रतिपक्षस्यैवाभिधानं, एवमिहाप्यनर्थशब्देन अर्थप्रतिपक्षस्यैवाभिधनम् । यथा अनर्थो वैरिणामापतित इत्येवमादौ । तेन यत्रोत्कृष्टेन निकृष्टः परिगृह्यते तत्र दुःखहेतुत्वादरह्थप्रतिपक्षत्वेनानर्थखभावता । यत्र तु निकृष्टेनोत्कृष्टः परिगृह्यते तत्रोत्कृष्टस्य सुखहेतुत्वेनोपादेयत्वादर्थस्वभावता । तदिदमुक्तमर्थानर्थस्वभावमिति । तत्र समपरिवृत्तेरुदाहरणम् उरो दत्वामरारीणां येन युद्धेष्वगृह्यत । हिरण्याक्षवधाद्येषु यशः साकं जयश्रिया ॥ ५.*१६ ॥ अत्र उरोदानेन उत्साहो लक्ष्यते यश्चात्र लक्ष्यमाणास्यार्थस्योत्साहस्योपायतया प्रतीयते । अभिधेयोर्ऽथो वक्षसो दानं नाम यो हि यत्र वक्ष उद्यमयति स तत्रोत्सहत इति तत्प्रतिभावच्छादितस्योतसाहस्य प्रतितिः तदपेक्षया समेन समस्य परिवर्तनम् । उरोयशसोः समत्वात् । न्यूनपरिवृत्तेस्तूदाहरणम् नेत्रोरगबलभ्राम्यन्मन्दराद्रिशिरश्च्युतैः । रत्नैरापूर्य दुग्धार्ब्धि यः समादत्त कौस्तुभम् ॥ ५.*१७ ॥ नेत्रभूत उरगो वासुकिः । अत्रकौस्तुभस्योत्कृष्टस्य निकृष्टरत्नपरत्यागेन ग्रहणान्निकृष्टेनोत्कृष्टस्य परिवर्तनम् । विशेष्टपरिवृत्तेस्तूदाहरणम् यो बलौ व्याप्तभूसीम्न मखेन द्यां जिगीषति । अभयं स्वर्गसद्मभ्यो दत्वा जग्राह खर्वतम् ॥ ५.*१८ ॥ भूसीमा पृथिव्या अवधिः । मखो यज्ञः । अत्र अभयेनोत्कृष्टेन निकृष्टस्य खर्वत्वस्य ह्रस्वत्वस्य परिवर्तनं अभिधेयापेक्षया पूर्वतरोदाहरणवत्प्रतिभाति । तात्पर्यार्थापेक्षया तु नेयं परिवृत्तिः । चत्तद्देवेभ्यः अभयं प्रतिज्ञातं तदुपायभूताया वामनवेषेण स्वर्वतायाः परिगृहीतत्वात् । इति माहश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलधुवृत्तौ पञ्चमो वर्गः ॥ _______________________________________________________________________________ ६ अथ षष्ठो वर्गः । अनन्वयं ससंदेहं संसृष्टिं भाविकं तथा । काव्यदृष्टान्तहेतू चेत्यलङ्कारान्परे विदुः ॥ ६.१ ॥ अत्र इतिशब्दस्य वक्ष्यमाणं यदनन्वयादिलक्षणं तदुपक्षेपार्थत्वेन प्रयोगान्नानन्वयादिस्वरूपपरामर्शार्थत्वम् । इत्येवं वक्ष्यमाणलक्षणकत्वेनानन्वयादीनलङ्कारान्विदुरित्यर्थः । इत्येवं वक्ष्यमाणलक्षणकत्वेनानन्वयादीनलङ्कारान्विदुरित्यर्थः । अतो वेदनक्रियाकर्मत्वादनन्वयमित्यादौ द्वितीया । काव्यदृष्टान्तहेतू चेत्यत्र दृष्टान्तहेतुशब्दाभ्यां काव्यशब्दः प्रत्येकमभिसंबध्यते । दृष्टान्तशब्दस्य चात्र पूर्वनिपातोऽभ्यर्हितत्वात् । अभ्यर्हितत्वं दृष्टान्तस्य दृष्टान्तप्रतिबिम्बितव्याप्तिमुखेन हेतोः प्रायेण गमकता संप्रत्ययात् । ससंदेहः उपमानेन तत्त्वं च भेदं च वदतः पुनः । ससंदेहं वचः स्तुत्यै ससंदेहं वदुर्बुधाः ॥ ६.२ ॥ उपमानभेदपूर्वं भेदमभिदधतः कवेः कविनिबद्धस्य वा वक्तुर्वच इति संबन्धः । संदेहोपेतवचनव्याजेन उपमानेन तत्त्वं तद्भावमभेदमुपमेयस्याभिधायोत्तरकालं यदा तस्मादुपमानात्तस्योपमेयस्य भेदोऽभिधीयते तदा ससंदेहोऽलङ्कारः । ननु उपमानेन सह पूर्वमभेदेऽभिहिते सति पुनर्यदि तस्माद्धेदस्याभिधानं क्रियते । एवं सति गजस्नानं प्राप्नोतीत्याशङ्क्योक्तम्स्तुत्यै इति । स्तुत्यर्थत्वेन एवंविधा अभिधा समाश्रीयत इत्यर्थः । तस्योदाहरणम् हस्ते किमस्य निःशेषदेत्यहृद्दलनोद्भवम् । यशःसंचय एष स्यात्पिण्डीभावोऽस्य किंकृतः ॥ ६.*१ ॥ नाभिपद्मस्पृहायातः किं हंसो नैष चञ्चलः । इति यस्याभितः शङ्खमशङ्किष्टार्जवो जनः ॥ ६.*२ ॥ आर्जवो मूर्खः । ऋजुत्वयोगात् । अत्र शङ्ख उपमेयः । यशःसंचयो हंसश्चोपमानम् । तयोश्च पूर्वमभेदसंदेहव्याजेनाभिहितः किमेष यशःसंचयः स्यादिति, तथा किं हंस इति पुनश्चात्रोपमानादुपमेयस्य भेदो वर्णितः । यशःसंचयात्तावद्भेदोपवर्णनं पिण्डीभावोऽस्य किंकृत इत । यशःसंचयः खलु प्रसरणशीलः । अस्य तु तद्विरुद्धः पिण्डीभावो दृश्यते । तेन नायं यशःसंचय इति । हंसात्तु भेदाभिधानं नैव चञ्चल इति । हंसस्य ह चञ्चलत्वं नाम धर्मः । इहच तन्नोपलभ्यते, तस्मान्नैव हंस इति । एवं विधस्य चात्राभिधानस्य फलं स्तुतिः, यशःसंचयो भगवता स्वहस्तवर्ती कृत इति, तथासंभाव्यमानहंसागमनं त्रिभुवनोत्पत्तिनिबन्धनं यत्तन्नाभिनलिनं तद्वान् भगवानिति ॥ ससंदेहस्य भेदान्तरमाह अलङ्कारान्तरच्छायां यत्कृत्वा धीषु बन्धनम् । असंदेहेऽपि संदेहरूपं संदेहनाम तत् ॥ ६.३ ॥ छाया शोभा । यत्र संदेहाभावेऽपि संदेहस्योपनिबन्धे सति न पूर्ववदुपमानादुपमेयस्य भेद उपनिबध्यते किंतर्ह्यभेद एव संशयच्छायया । तथाविधस्य चोपनिबन्धस्य फलमलङ्कारान्तरोपजनिता सौन्दर्यप्रतिपत्तिः । यदाहधीष्वलङ्कारान्तरच्छायां कृत्वा इति । तत्रापि संदेहालङ्कारः । तस्योदाहरणम् नीलाब्दः किमयं मेरौ धूमोऽथ प्रलयानले । इति यः शङ्क्यते श्यामः पक्षीन्द्रेर्कत्विषि स्थितः ॥ ६.*३ ॥ अत्र मेरोरुपरिवर्ती नीलो बलाहकः कल्पान्तवह्न्याश्चयश्च धूमः इत्येतदुभयमुपमानम् । गरुडारूढस्तु भगवान् कृष्णवपुरुपमेयः । तेन च उपमानद्वयेन संदेहव्याजेन भगवानापादिताभेद उपनिबद्धः किमयमेवंविधः अथैवंविधः इति । ताभ्यां चोपमानाभ्यामुपमेयस्य पूर्ववद्भेदनिबन्धनं नात्र किंचिदभिहितम् । फलं चैवमभिधानस्योपमालङ्कारध्वननम् । एवंविधोपमानद्वितयसदृशो भगवान्वैनतेयारूढ इति । अनन्वयः यत्र तनैव तस्य स्यादुपमानोपमेयता । असादृश्यविवक्षातस्तमित्याहुरनन्वयम् ॥ ६.४ ॥ यत्र तेनैव न तु वस्त्वन्तरेण तस्यैव वस्त्वन्तरस्योपमानोपमेयभावो भवेत्तत्र वस्त्वन्तरानुगमाभावादनन्वयाख्योऽलङ्कारः । ननु च सादृश्यसंबन्धे सति प्राकरणिकमुपमेयमप्राकरणिकं तूपमानमित्युपमानोपमेययोर्लक्षितत्वात्कथमेकस्यैवोपमितिक्रियायां कर्मत्वं करणत्वं च संभवतीत्याशङ्क्योक्तमसादृश्यविवक्षात इति । नात्रोमपानोपमेयभावे तात्पर्यं किन्तूपमेयोपमावदुपमानान्तरव्यावृत्तावित्यर्थः । इतिशब्देऽत्र वक्ष्यमाणोदाहरणोपक्षेपार्थत्वादनन्वयशब्देन नाभिसंबध्यते । तेन अनन्वयमिति द्वितीया । तस्योदाहरणम् यस्य वाणी स्ववाणीव स्वक्रियेव क्रियामला । रूपं स्वमिव रूपं च लोकलोचनलोभनम् ॥ ६.*४ ॥ अत्र वाणीक्रियारूपाणां त्रयाणामनुपमतया लोकोत्तरत्वं प्रतिपादयितुमात्मनैवोपमानोपमेयभावो निबद्धः । संसृष्टिः अलङ्कृतीनां बह्वीनां द्वयोर्वापि समाश्रयः । एकत्र निरपेक्षाणां मिथः संसृष्टिरुच्यते ॥ ६.५ ॥ बहूनामलङ्काराणां परस्परनिरपेक्षाणां द्वयोर्वा तथाविधयोरेकत्र शब्द एव अर्थ एव वा उपनिबन्धे सति संसृष्टिरलङ्कारः । यत्र तु परस्परसापेक्षत्वं तत्र सन्देहैकशब्दाभिधानानुग्राह्यानुग्राहकसङ्करास्त्रयः पूर्वमभिहिताः । यत्र च शब्दार्थलक्षणाश्रयद्वितयनिष्ठतया अनेकालङ्कारोपनिबन्धस्तत्रापि शब्दार्थवर्त्यनेकालङ्कारसंकर उक्तः । एतद्वैलक्षण्येन तु संसृष्टिः । तस्या उदाहरणम् त्वत्कृते सोऽप वैकुण्ठः शशीवोषसि चन्द्रकाम् । अप्यधारां सुधावृर्ष्टि मन्ये त्यजति तां श्रियम् ॥ ६.*५ ॥ तदुत्तिष्ठातिधन्येन केनापि कमलेक्षणे । वरेण सह तारुण्यं निर्विशन्ती गृहे वस ॥ ६.*६ ॥ निर्विशन्ती उपभुञ्जाना । अत्र शशी उषसि चन्द्रिकामिव वैकुण्ठः त्वत्कृते श्रियं त्यजति इत्युपमा । अधारां सुधावृष्टिमिति रूपकम् । तथा ह्यत्र लक्ष्म्याः सर्वे पीयूषवृष्टेः संबन्धिनो धर्मा विद्यन्ते केवलं धारासंबन्धो नास्तीत्युपमानगतैकगुणनिवृत्तिद्वारिका शिष्टोपमानगतसकलगुणाभ्यनुज्ञारूपारोपणावगम्यते, यथा अयं पुरुषः अकरो हस्तीति । तदेतस्मिन् श्लोके उपमाया रूपकस्य च द्वयोरलङ्कारयोः संसृष्टिः । तयोः केवलाभिधेयाश्रयत्वात्परस्परनिरपेक्षत्वाच्च । ऽतदुत्तिष्ठऽइत्येतच्छ्लोकापेक्षया तुऽकमलेक्षणेऽइति समासोपमात्मकमुपमाभेदमाश्रित्य पूर्वोक्तालङ्कारद्वयसंकलनया बहूना मलङ्काराणां संसृष्ट्युदाहरणदिक्प्रदर्शनं द्रष्टव्यम् ॥ भाविकम् प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः । अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम् ॥ ६.६ ॥ सांप्रतिकेन प्रध्वंसाभावेनोपलक्ष्यमाणाः पदार्थाः भूताः, यथा इदानीं युधिष्ठिरादयः । ये तु साप्रतिकेन प्रागभावेन उपलक्ष्यन्ते ते भाविनः, यथा इदानीं भगवदवतारः कल्की भविष्णुयशाः । एवमनन्तरोपलक्षिताः भूता भाविनश्च येर्ऽथास्ते सांप्रतिकप्रध्वंसाभावप्रागभावविविक्ततया वर्तमानायमानाः प्रत्यक्षा इव यत्र दृश्यन्ते तद्भाविकं नामालङ्कारो भवेत् । अत्र हेतुर्वाचामनाकुलता अर्थानां चात्यद्भुतत्वम् । तदुक्तम्वाचामनाकुल्येनेति । अत्यद्भुता इति च । तत्र वाचामनाकुलता व्यस्तसंबन्धरहितलोकप्रसिद्धशब्दोपनिबन्धाज्झगित्यर्थप्रतीतिकारिता । तस्यां हि सत्यां कवेः संबन्धी यो भावः आश्रयः शृङ्गारादिरससंवलितचतुर्वर्गोपायभूतविशिष्टार्थोल्लेखी स कविनैव सहृदयैः श्रोतृभिः स्वाभिप्रायेऽभेदेन तत्तत्काव्यप्रतिबिम्बितरूपतया साक्षात्क्रियते । श्रोतृणामपि हि तथाविधस्वच्छशब्दानुभवद्रावितान्तरात्मनां सहृदयानां स्वाभिप्रायप्रतिमुद्रा तत्र संक्रामति । अतः कवेर्योऽसावभिप्रायस्तद्गोचरीकृता भूता भाविनोऽपि पदार्थस्तत्र सहृदयैः श्रोतृभिः स्वाभिप्रायाभेदेन प्रत्यक्षा इव दृश्यन्ते । यथा चात्र शब्दगतमनाकुलत्वमनन्तरोक्तेन प्रकारेण हेतुस्तथार्थगतमपि चित्रोदात्तार्थोपनिबन्धहेतुकमत्यद्भुतत्वं द्रष्टव्यम् । तदुक्तं भाविकमुपक्रम्य भामहेन"चित्रोदात्ताद्भुतार्थत्वं कथायां स्वभिनीतता । शब्दानाकुलता चेति तस्य हेतून् प्रचक्षते"इति ॥ स्वभिनीततेत्यभिनयादिद्वारेण शृङ्गारादिरससंवलितत्वं चतुर्वर्गोपायस्योक्तम् । तदेवमेवंविधहेतुनिबन्धनं कविश्रोतृभावद्वितयसंमीलनात्मकं भाविकं द्रष्टव्यम् । अत एव चात्र कविसंबन्धिनो भावस्य श्रोतृभावाभेदाध्यवसितस्य पुरःस्फुरद्रूपस्य विद्यमानत्वाद्भाविकव्यपदेशः भावोऽस्मिन् विद्यते इति भाविकम् । तदाहुः"रसोल्लासी कवेरात्मा स्वच्छे शब्दार्थदर्पणो । माधुर्यौजोयुतप्रौढे प्रतिविन्द्य प्रकाशते । संपीतस्वच्छशब्दार्थद्राविताभ्यन्तरस्ततः । श्रोता तत्साम्यतः पुष्टिं चतुर्वर्गे परां व्रजेत्"इति । स्वच्छ इति प्रसादगुणोऽभिहितः । प्रौढ चतुर्वर्गे परां व्रजेत्"इति । स्वच्छ इति प्रसादगुणोऽभिहितः । प्रौढ इति तु सालङ्कारता । संपीतौ सम्यगास्वादितौ । तत्साम्यत इति स्वभिप्रायाभेदेन कविगतस्याभिप्रायस्याध्यवसानादित्यर्थः । तस्योदाहरणम् करोषि पीडां प्रीतिं च निरञ्जनविलोचना । मूर्त्यानया समुद्वीक्ष्य नानाभरणशोभया ॥ ६.*७ ॥ अत्राभरणोचितमूर्तित्वेऽपि निरञ्जनविलोचनत्वोपलक्षितादाभरणत्यागात्पीडा । सहजसौन्दर्यनिर्भरत्वेन तु आभरणसंपाद्यायाः शोभायाः परिदृश्यमानत्वात्प्रीतिः । तेनात्र सांप्रतिकप्रध्वंसाभावोपलक्षितत्वाद्भूषणसंबन्धो व्यतितोऽप्यद्भुतो योऽसौ वपुःप्रकर्षस्तद्वशेन प्रत्यत्र इव कविनोपनिबद्धः । तथैव चासौ सहृदयानां चमत्कारमावहति । संततमुत्कृष्टतया वैचित्र्येण ईक्षणीया आभरणशोभा यस्यामिति बहुव्रीहिः । काव्येहेतुः श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा । हेतुतां प्रतिपद्ये काव्यलिङ्गं तदुच्यते ॥ ६.७ ॥ यत्र एकं वस्तु श्रुतं सद्वस्त्वन्तरं स्मारयति अनुभावयति वा तत्र काव्यलिङ्गं नामालङ्कारः । पक्षधर्मत्वान्वयव्यतिरेकानुसरणगर्भतया यथा तार्किकप्रसिद्धा हेतवो लोकप्रसिद्धवस्तुविषयत्वेनोपनिबध्यमाना वैरस्यमावहन्ति न तथा काव्येहेतुः अतिशयेन सर्वेषां जनानां योसौ हृदयसंवादीसरसः पदार्थस्तन्निष्ठतया उपनिबध्यमानत्वात् । अतः काव्यलिङ्गमिति काव्यग्रहणमुपात्तम् । न खलु तच्छास्त्रलिङ्गं किं तर्हि काव्यलिङ्गमिति काव्यग्रहणेन प्रतिपाद्यते । ननु काव्यग्रहणेन कथं काव्यस्य सरसपदार्थनिष्ठतोपदर्श्यते । काव्यस्य सरसत्वात् । काव्यं खलु गुणसंस्कृतशब्दार्थशरीरत्वात्सरसमेव भवति, न तु नीरसम् । तथाहिगुणाः काव्यस्य माधुर्यौजःप्रसादलक्षणाः । तत्र माधुर्यमाह्लादकत्वम्, ओजो गाढता, प्रसादस्त्वव्यवधानेन रसाभिव्यक्त्यनुगुणता । तदेतेषां त्रयाणां गुणानां मध्यात्प्रसादस्य प्राधान्यम् । माधुर्यौजसोस्तु तत्तद्रसाभिव्यक्त्यानुगुण्येन तारतम्येनावस्थितयोः प्रसाद एव सोपयोगता । एवं च तत्र तद्रसानुगुण्येन माधुर्यौजोभ्यां तारतम्येनावस्थिताभ्यां उपकृतो योऽसौ प्रसादात्मा रसानामव्यवधानेन प्रतीतिहेतुर्गुणस्तदुपेतशब्दार्थशरीरत्वेन काव्यस्यावस्थानात्सरसतैव भवति, न तु नीरसता । यद्येवमिदानीं गुणैरेव कृतकृत्यत्वात्काव्यस्यालङ्काराणां तत्र निरुपयोगता प्राप्नोति । नैवं गुणाहितशोभे काव्ये अलङ्काराणां शोभातशयविधायित्वाल्लौकिकालङ्कारवत् । यथाहि लौकिकानामलङ्काराणां गुणसंस्कृते युवतिवपुषि निबध्यमानानामलङ्कारता एवं काव्यालङ्काराणामपि द्रष्टव्यम् । ननु निर्गुणेऽपि काव्ये अलङ्काराणां गुणवच्छोभाविधायित्वं कस्मान्नेष्यते । अपरदृष्टत्वात् । न खलु निर्गुणे काव्ये निबध्यमानानामलङ्काराणां जरद्योषिदलङ्कारवच्छोभाविधायित्वं दृश्यते । तथाहि जरद्योषित्यलङ्कारां निबध्यमाना न तस्याः शोभां हीयते । तथाहिजरद्योषित्यलङ्कारा निबध्यमाना न तस्याः शोभां कुर्वन्ति, प्रत्युत तस्यां निबध्यमानानां तेषामात्मीयमेव सौभाग्यं हीयते । तथा काव्यालङ्काराणामपि निर्गुणे काव्ये निबध्यमानानां काव्यशोभाहेतुत्वाभावः स्वशोभाहानिश्च भवति । यदवोचद्भट्टवामनः"युवतेरिव रूपमङ्ग काव्यं स्वदते शुद्धगुणं तदप्यतीव । विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः ॥ यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः । अपि जनदयतानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते ॥ "इति । अङ्गशब्द इष्टामन्त्रणे । शुद्धगुणत्वात्स्वदमानं सदलङ्कारविकल्पकल्पनाभिर्विहितपरिचयमतिशयेन स्वदते इति संबन्धः । अत एवालङ्काराणआमनित्यता । गुणरहितं हि काव्यमकाव्यमेव भवति, न त्वलङ्काररहितम् । अलङ्काराणां गुणोरहितं हि काव्यमकाव्यमेव भवति, न तवलङ्काररहितम् । अलङ्काराणां गुणोपजनितशोभे काव्ये शोभातिशयविधायित्वात् । तदुक्तम् "काव्यशोभायाः कर्तारो धर्मा गुणाः । तदतिशयहेतवस्त्वलङ्काराः । पूर्वे नित्याः । "इति । पूर्वे इति गुणा इत्यर्थः । लक्ष्ये च अलङ्काररहितमपि केवलगुणसंस्क्रियमाणशब्दार्थशरीरं काव्यं दृश्यते, यथा अमरुकस्य कवेरनिबद्धशृङ्गाररसस्यन्दी श्लोकः"कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजप्रकल्पतमश्रुतम् । असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं ततः ॥ "इति । न खल्वत्रार्थलङ्कारः कश्चित्परिदृश्यते । अथ माधुर्यौजोभ्यां परिबृंहतस्य प्रसादस्य विद्यमानत्वात्काव्यरूपता । ननु चात्रापि ईर्ष्याविप्रलम्भविरहविप्रलम्भशृङ्गाराभ्यां स्वतिरोधानेनोपकृतः संभोगशृङ्गारो नायिकानिष्ठो निबद्धस्तद्योगाच्च रसवत्त्वमलं भविष्यति । तथाहिऽकथमपि कृतप्रत्यापत्तौ प्रियेऽइत्यत्र भागे विरहविप्रलम्भपूर्वकः प्रियतमचित्तसांमुख्यात्मा संभोगशृङ्गारः सूचितः । स्स्वलितोत्तर इति तु संजातगोत्रस्खलितत्वात्प्रेयसो नायिकाया ईर्ष्याविप्रलम्भशृंगारो निबद्धः । पुनश्च विरहकृशयेत्यादिभिस्त्रिभिः पादैरवहित्थेन भावेन नायिकाधारमीर्ष्या विप्रलम्भशृङ्गारं प्रच्छाद्य संभोगशृङ्गारेण चित्तोल्लाससूचितेन वाक्यार्थसमाप्तिः कृता । तथा हिविरहकृशेत्यादिना पादेन नायिकागतो मन्युरवच्छाद्योपदर्शितः । असहनसखीत्यादिना तु गोत्रस्खलितस्य सखीश्रोत्रप्राप्तिं विरहविप्रलम्भकारणत्वेनाशङ्क्य दृष्टिपरावृत्त्या सखीजनशून्ये गृहे परिदृष्टे यत्तन्नयकया समुल्लसितं तदुपनिबन्धात्संभोगशृङ्गारेण वाक्यार्थो निर्वाहितः । तदेवमत्र संभोगस्य वप्रलम्भवाधेन लब्धपदबन्धस्योपनिबन्धाद्रसवत्त्वमलङ्कारः । तत्कथमत्र निरलङ्कारतोक्ता । उच्यते । न खलु काव्यस्य रसानां वालङ्कार्यालङ्कारभावः, किन्तु आत्मशरीरभावः । रसा हि कावयस्यात्मत्वेन अवस्थिताः, शब्दार्थौ च शरीररूपतया । यथा ह्यात्माधिष्ठितं शरीरं जीवतीति व्यपदिश्यते तथा रसाधिष्ठितस्य काव्यस्य जीवद्रूपतया व्यपदेशः क्रियते । तस्माद्रसानां काव्यशरीरभूतशब्दार्थविषयतयात्मत्वेनावस्थानं, नत्वलङ्कारतया । रसाभिव्यक्तिश्च यथायोगं माधुर्यौजोभ्यां तारतम्येनावस्थिताभ्यामुपबृंहितो योऽसौ प्रसादात्मा गुणस्तेन क्रियते । अतोऽत्र विप्रलम्भशृङ्गारोपकृतस्य संभोगशृङ्गारस्य सगुणकाव्यात्मत्वेनावस्थानं, न तु काव्यं प्रति अलङ्कारतयेति युक्तमिदमुक्तं निरलङ्कारमपि काव्यं सगुणं दृश्यते इति । एवं रसान्तरेषु भावेषु रसभावाभासेषु तत्प्रशमेषु च वाच्यम् । तदाहुः"रसाद्यधिष्ठितं काव्यं जीवद्रूपतया यतः । कथ्यते तद्रसादीनां काव्यात्मत्वं व्यवस्थितम् ॥ "इति । यत्तु रसादीनां पूर्वमलङ्कारत्वमुक्तं तदेवंविधभेदाविवक्षया । तदेवं गुणसंस्कृतशब्दार्थशरीरत्वात्सरसमेव काव्यम् । यद्येवं गुणशून्यत्वान्नीरसे व्याकरणादौ भरतादौ च काव्यव्यपदेशो न प्राप्तः । ततश्च "वृत्तदेवादिचरितशंसि चोत्पीद्यवस्तु च । कलाशास्त्राश्रयं चेति चतुर्धा भिद्यते पुनः ॥ "इति भामहोदितं विरुध्यते, अत्र हि कलाश्रयशब्देन भरताद्यभिहितम् । शास्त्राश्रयशब्देन च व्याकरणादि । अतो वक्तव्यमेतत्कथं तत्र काव्यव्यपदेशः इति । उच्यते । मुख्यया तावद्वृत्त्या गुणसंस्कृतशब्दार्थशरीरमेव काव्यम् । गुणरहितशब्दार्थशरीरे तु क्वायमात्रे काव्यशब्दस्य काव्यसादृश्यादुपचारात्प्रयोगो भविष्यति । उक्तं च"काव्यशब्दोऽयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोर्वर्ते, भक्त्या तु शब्दार्थमात्रवचनोऽत्र गृह्ते"इति । भक्त्येति उपचारेणेत्यर्थः । तदेवं गुणसंस्कृतशब्दार्थशरीरत्वात्काव्यस्य सरसत्वमिति । तद्विशिष्टं काव्यलिङ्गं सरसपदार्थनिष्ठमेव भवतिष न तु नीरसवस्तुमात्रनिष्ठं शास्त्रलिङ्गवदित्युपपन्नम् । तार्किकाणां च हेतुव्यापारे द्वैविध्यम् । केचित्खलु तार्कका व्याप्तिग्रहणकाले यदनुभूतं व्यापकं वह्न्यादिवस्तु धूमादेर्व्याप्यस्य तत्स्मरणमात्रे धूमादिहेतुदर्शनप्रबुद्धसंस्काराणां पुरुषाणां हेतुव्यापारं मन्यन्ते । अपरे तु वह्न्यादीनां पर्वतादिधर्मविशेषसंबन्धस्य पूर्वमगृहीतस्य धूमादिहेतुव्यापारसामर्थ्येन इदानीमेव अवसेयत्वाल्लिङ्गसामर्थ्याल्लिङ्ग्यनुभवस्यैव उत्पत्तिमाहुः । तदिदमुक्तं स्मृतेरनुभवस्य वेति । तस्योदाहरणम् छायेयं तव शोषाङ्गकान्तेः किञ्चिदनुज्ज्वला । विभूषाघटनोद्देशान्दर्शयन्ती दुनोति माम् ॥ ६.*८ ॥ अत्र विभूषणविन्यासास्पदभूता ये कण्ठादयस्तदवशिष्टानामङ्गानां यासौ कान्तिः दीप्तिः तस्या अनुज्ज्वला मलिना यासौ छाया शोभा सा लिङ्गं, तत्सामर्थ्याच्च भूषाविन्यासप्रदेशानां भूषणसंबन्धोऽतीतोऽनुमीयते । तेन तत्काव्यलिङ्गम् ॥ काव्यदृष्टान्तः इष्टस्यार्थस्य विस्पष्टप्रतिबिम्बनिदर्शनम् । यथेवादिपदैः सून्यं बुधैर्दृष्टान्त उच्यते ॥ ६.८ ॥ इष्टस्य प्राकरणिकतया प्रतिपादयितुमभिमतस्यार्थस्य यत्र विस्पष्टतया प्रतिबिम्बं सदृश वस्तु निदर्श्यते तत्र काव्यदृष्टान्तो नामालङ्कारः । ननु "कोपादेकतराघातनिपतन्मत्तदन्तिनः । हरेर्हरिणयुद्धेषु कियान्व्याक्षेपविस्तरः"इत्येवमादावपि अप्रस्तुतप्रशंसायामिष्टार्थप्रतिबिम्बनिदर्शनं विद्यते । तथाहिअत्र रामदेवस्य मारीचवधे व्यापारो निरायासो हरिणहननोद्योगिकसरिकिशोरप्रतिबिम्बितत्वेन निदर्शितः । अतोऽत्रापि दृष्टान्तताप्रसङ्गः । नैतत् । यत एतदर्थमेव विस्पष्टग्रहणमुपात्तम् । अत्र हि प्रतिबम्बादेव बिम्बस्योन्नयनाद्विस्पष्टरूपतया इष्टस्यार्थस्य प्रतिबिम्बनिदर्शनं नास्ति । यत्र तु इष्टमर्थं स्वकण्ठेनोपादाय तस्य प्रतिबिम्बमुपदर्श्यते तत्र दृष्टान्तत्वम् । अतो नातव्याप्तिः । उपमादावप्येत्वंविधस्य रूपस्य संभव इति तन्निराकरणार्थमुक्तम्यथेवादिपदैः शून्यमिति । आदिग्रहणेनात्र साधारणधर्मस्यापि परिग्रहः । तस्योदाहरणम् किञ्चात्र बहुनोक्तेन व्रज भर्तारमाप्नुहि । उदन्वन्तमनासाद्य महानद्यः किमासते ॥ ६.*९ ॥ अत्र भगवतीकर्तृकाया वरप्राप्तेर्महानदीकर्तृका उदन्वत्प्रार्विस्पष्टतया प्रतिबिम्बत्वेनोपनिबद्धा । अतो दृष्टान्तः । एवमेतेऽष्टकषट्कत्रिकसप्तकैकादशकषट्कैः षङ्भिर्वर्गैरेकचत्वारिंशदलङ्काराः प्रतिपादिताः । ननु यत्र काव्ये सहृदयहृदयाह्लादिनः प्रधानभूतस्य स्वशब्व्यापारास्पृष्टत्वेन प्रतीयमानैकरूपस्यार्थस्य सद्भवस्तत्र तथाविधार्थाभिव्यक्तिहेतुः काव्यजीवतभूतः कैश्चत्सहृदयैर्ध्वनिर्नाम व्यञ्जकत्वभेदात्मा काव्यधर्मोऽभिहितः । स कस्मादिह नोपदिष्टः । उच्यते । एष्वेवालङ्कारेष्वन्तर्भावात् । तथाहिप्रतीयमानैकरूपस्य वस्तुत्रैविध्यं तैरुक्तं वस्तुमात्रालङ्काररसादिभेदेन । तत्र वस्तुमात्रं तावत्प्रतीयते यथा चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ॥ इति । अत्र हि राहुवधूरतोत्सवस्य या चुम्बनमात्रेशेषता तत्कर्मका चक्राभिघातप्रसभाज्ञाकरणिका चकारेति करणलक्षणा क्रियाभिधीयते । सा चैवंविधा कार्यभूतत्वात्कारणमन्तरेणानुपपद्यमाना तथाविधवैरस्यकारि राहुशिरश्छेदलक्षणं कारणं नालङ्काररूपं, नापि रसादिरूपं, अपि तु वस्तुमात्ररूपं कल्पयति । अतोऽत्र वस्तुमात्रस्यैवंविधस्य शब्दव्यापारास्पृष्टस्य प्रतीयमानता, तद्विषयस्य च काव्यधर्मस्य ध्वननाभिधानस्य वाच्यवाचकव्यापारशून्यावगमनस्वभावत्वात्पर्यायोक्तालङ्कारस्पर्शित्वं, तदुक्तम् "पर्यायोक्तं यदन्येन"इत्यादि । ननु पर्यायोक्तशब्देन प्रकारान्तरेण उच्यमान्त्वात्प्रतीयमानं वस्तु अभिधीयते । तच्चेह प्रतीयमानं प्रधानत्वादलङ्कार्यतया वक्तुं युक्तम्, न त्वलङ्कृतिकारणतया । अतः कथं तस्यालङ्कारव्यपदेशः । उच्यते । प्रधानमपि गुणानां सौन्दर्यहेतुत्वादलङ्कृतौ साधनत्वं भजति । दृश्यते हि लोके व्यपदेशः स्वाम्यलङ्करणका भृत्या इति । अतोऽत्रापि प्रतीयमानस्य सत्यपि प्रधानत्वे स्वगुणभूतवाच्यसौन्दर्यसाधकतमत्वादलङ्कारव्यपदेशो न विरुध्यते । यदि वा भगवद्वासुदेववर्तितया योऽसौ वीररसोऽवगम्यते तदपेक्षया तस्य मुख्ययैव वृत्त्या गुणभूतत्वादलङ्कारता । एवमुत्तरत्रापि यथासंभवं योज्यम् । "स्निग्धस्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव" ॥ इत्येवमादावपि रामादीनां शब्दानामसाधारणरूपतया राज्यभ्रंशवनवाससीताहरणपितृमरणादयो दुःखैकहेतवः स्वार्थसहचारिणो वस्तुमात्ररूपा व्यङ्ग्यधर्मास्तत्परिणतरूपतया स्वार्थस्य प्रतीतिस्तद्वेतुभूतत्वात्पर्यायोक्तालङ्कारसंस्पर्शितैव । न खलु पदे पर्यायोक्तेन भवितव्यमितीयं राज्ञामाज्ञा सूत्रकारवचनं वा । लक्षणयोगाद्वि विभक्तरूपतावस्थाप्यते । अत्र च पर्यायोक्तलक्षणं विद्यते । वाच्यवाचकव्यापारशून्यस्यावगमनात्मनः प्रकारस्य सद्भावात् । तेन कथं पर्यायोक्तता न स्यात् । एवमन्यत्रापि वस्तुमात्रे प्रतीयमाने पर्यायोक्तता वाच्या । तस्मान्न वस्तुमात्रे प्रतीयमाने तदभिव्यक्तिहेतुः काव्यधर्मो ध्वनिर्नामार्थान्तरम् ॥ अलङ्काराणां तु यद्यपि "लावण्यकान्तिपरिपूरितदिङ्भुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः" ॥ इत्यादौ प्रतीयमानैकरूपता, तथाप्यनन्तरोक्तलक्षणेष्वलङ्कारेषु अनुप्रवेशो भविष्यति पर्यायोक्ते वा । तथा ह्यत्र श्लोके मुख्यस्य लावण्यकान्तिपरिपूरितदिङ्भुखस्य विकसितहासज्योत्स्नस्य संबोधनसामर्थ्यावसिततरलायताक्षित्वस्य च संनिधानाज्जलनिधेः क्षोभमुपपत्तिमत्त्वेन संभाव्य तद्भावो जाड्यसमूहावच्छादितस्वभावत्वादभिहितः । तथाविधार्थपर्यालोचनया चात्र मुखस्य चन्द्रेण रूपणा प्रतीयते । चन्द्रसंनिधानाज्जलनिधेः क्षोभस्योत्पाददर्शनात् । न च यस्यालङ्कारस्य प्रतीयमानरूपता तस्येहालङ्कारत्वं केनचिन्निवारितमिति प्रतीयमानरूपतया रूपकाख्योऽलङ्कारो भविष्यति । अथवा पर्यायोक्त्या रूपकस्यात्रावसतत्वात्पर्ययोक्तमलङ्कारः । "सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्" ॥ इत्यादौ तु शूरादिभिः सह सुवर्णपुष्पपृथिवीकर्मकस्य चयनस्यानुपपद्यमानान्वयत्वात्सादृश्यस्यान्वयेनोपमेयभूतस्य बहुलाभत्वस्य तत्सदृशस्य या लक्षणा तद्द्वारेण गर्भीकृतोपमानोपमेयभावा असंभवद्वाच्यार्था निदर्शना द्रष्टव्या । यदुक्तम्"अभवन्वस्तुसंबन्ध"इत्यादि । भट्टवामनेन चात्र वक्तोक्तिव्यवहारः प्रवर्तितः । यदवोचत्"सादृश्याल्लक्षणा वक्तोक्तिरि"ति । "सर्वैकशरणमक्षयमधीशमीशं धियां हरिं कृष्णम् । चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरम्" ॥ इत्यादावपि श्लेषः । तथा ह्यत्र सर्वैकशरणमक्षयमित्यादीनां शब्दानामर्थभेदेन भिन्नत्वे सति यथायोगमेकप्रयत्नोच्चार्याणामेकप्रतयत्नोच्चार्यशब्दसदृशानां वोच्चारणम् । अतो विरोधालङ्कारप्रतिभोत्पत्तिहेतुरत्र श्लेषः । यदुक्तम्"एकप्रयत्नोच्चार्याणाम्"इत्यादि । एवमलङ्कारान्तरेष्वपि प्रतीयमानेषु वाच्यम् । तेनालङ्कारनिष्ठस्यापि अभिव्यञ्जकत्वस्योक्तेष्वलङ्कारेष्वन्तर्भावादव्याप्त्यभावः । रसभावतदाभासतत्प्रशमानां तु प्रतीयमानतायामुदाहरणम् "याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया निर्ध्यातं परिवर्तनं पुनरपि प्रारब्धुमङ्गीकृतम् । भूयस्ततप्रकृतं कृतं च शिथिलक्षिप्तैकदोर्लेखया तन्वङ्ग्या न तु पारितः स्तनभरः ऋष्टुं प्रियस्योरसः" ॥ इति । तथा हिअत्र गोत्रस्खलितस्य श्रुतिपथप्राप्तेरीर्ष्याविप्रलम्भशृङ्गारो नायिकायाः संमुखीभूतोऽपि संभोगशृङ्गारेण स्वहेतुसामग्र्यप्रतिलब्धप्रकर्षेण तिरोधाय प्रदर्शितः । निर्ध्यातं परिवर्तनमित्यादिना हि यथाक्रममीर्ष्याविप्रलम्भशृङ्गारानुभावस्य परिवर्तनस्य दर्शनप्रार्थनाध्यवसायानुष्ठानात्मिकाश्चतस्रोऽवस्थाः संभोगशृङ्गारमन्थरीकृतस्वस्वभावत्वेनोपवर्णिताः । पुनश्च संभोगशृङ्गारेण वाक्यार्थो निर्वाहितोऽन तु पारितःऽइत्यादिना । अतोऽत्र संभोगशृङ्गारस्येर्ष्याविप्रलम्भशृङ्गारतिरोधानहेतोः प्रतीयमानता । तत्र च पूर्वं रसवत्त्वलक्षणोऽलङ्कारः प्रतिपादितोऽरसवद्दर्शितऽइत्यादिना । एवं रसान्तरेष्वपि वाच्यम् । यत्रापि भावस्तथा रसभावाभासा रसभावतदाभासप्रशमाश्च प्रतीयमानास्तत्रापि यथाक्रमं प्रेयस्वदूर्जस्वित्समाहितलक्षणालङ्कारयोगो वाच्यः । एवमेतत्प्रधानभूतेषु रसादिषूक्तम् । गुणभूतेष्वपि च रसेषूदात्तालङ्कारः प्रतिपादितःऽचरितं च महात्मनाम्ऽइत्यादिना । अतश्च रसादिष्वभिव्यञ्जकत्वस्य नार्थान्तरता । एवं च त्रिविधेऽपि प्रतीयमानेर्ऽथे यच्छष्ठानां व्यञ्जकत्वमनन्तरोपवर्णितेषूदाहरणेषु षटूप्रकारतयोपदर्शितं तस्योक्तेष्वेवालङ्कारेष्वन्तर्भावाद्य्वाप्तिः । षट्प्रकारता चात्र त्रिविधप्रतीयमानार्थनिष्ठस्यापि व्यञ्जकत्वस्य वाच्यस्य विवक्षितत्वाविवक्षितत्वाभ्यामुक्त । तथा हिद्विविधं व्यञ्जकत्वं, वाचकशक्त्याश्रयं वाच्यशक्त्याश्रयं च । तत्र वाचकशक्त्याश्रयमलङ्काराणामेव व्यङ्ग्यत्वादेकप्रकारम् । तत्र ह्यलङ्कारा एव व्यज्यन्ते, न तु वस्तुमात्रं नापरसादयः, यदुक्तम् "आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते । यस्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः" ॥ इति । वाच्यशक्त्याश्रयं तु रसादिवस्तुमात्रालङ्काराभिव्यक्तिहेतुत्वात्र्रिविधम् । तत्र यत्तावद्वाचकशक्त्या श्रयं व्यङ्ग्यभूतालङ्कारैकनियतं शब्दशक्तिमूलानुरणनरूपव्यङ्गयतया सहृदयैर्व्यञ्जकत्वामुक्तं "सर्वैकशरणमक्षयम्"इत्यादौ, तत्र शब्दशक्त्या ये प्रतीयन्ते विरोधादयोऽलङ्कारास्तत्संस्कृतस्वभावं वाच्यमवगम्येते । अतश्चत्र वाच्यस्य विवक्षैव । यत्तु वाच्यशक्त्याश्रयं "याते गोत्रविपर्यये श्रुतिपथम्"इत्यादावसंलक्ष्यक्रमरसादिव्यङ्ग्यनिष्ठं व्यञ्जकत्वमुक्तं तत्रापि वाच्यस्य विवक्षितत्वमेव । वाच्यभूतानुभावादिविवक्षयैव व्यङ्ग्यरसादिप्रतीतेरुत्पादात् । तदेवं वाचकशक्त्याश्रयव्यङ्ग्यभूतालङकारैकनियते वाच्यशक्त्याश्रये चासंलक्ष्यक्रमरसादिव्यङ्ग्यनिष्ठे व्यञ्जकत्वे वाच्यस्य विवक्षितत्वमेव । वस्तुमात्रालङ्कारविषयस्य तु वाच्यशक्त्याश्रयस्य व्यञ्जकत्वस्य प्रत्येकं वाच्यस्य विवक्षितत्वाविवक्षितत्वाभ्यां द्वैविध्यम् । तथाहिऽचक्राभिघातप्रसभाज्ञयेऽत्यादौ वस्तुविषये व्यञ्जकत्वे वाच्यस्य विवक्षितत्वं कार्यविवक्षापूर्वकत्वेन कारणप्रतीतिप्रसवात् । ऽस्निग्धश्यामलकान्तीऽत्यादौ तु रामादिशब्दानामर्थान्तरसंक्रमितवाच्यानां वाच्यमविवक्षितम् । व्यङ्ग्यधर्मान्तरपरिणतत्वात् । एव वस्तुमात्रविषये व्यञ्जकत्वे वाच्यस्य विवक्षाविवक्षे,ऽलङ्कारविषयेऽपि वाच्यशक्त्याश्रये व्यञ्जकत्वे । ऽलावण्यकान्तीऽत्यादौ एकस्मिन्मन्ये इत्येतस्मिन्शब्दे यो विशेषोक्त्युत्प्रेक्षयोरनुप्रवेशस्तद्वशेन समासादितस्वभावो योऽसावेकशब्दाभिधानसंकरस्तत्प्रतभोत्पत्तिहेतुश्लेषप्रौढीकृतं वाच्यं विवक्षितम् । तन्मूलकत्वेन रूपकप्रतीतेरुत्पादात् । "सुवर्णपुष्पां पृथिवीऽमित्यादौ तु वाच्यस्याविवक्षा । उपमेयस्य बहुलाभत्वस्य तत्सदृशस्य या लक्षणा तस्या अत्यन्ततिरस्कृतवाच्यमूलत्वात् । यदि त्वत्र न तिडन्तेनोपमानमस्तीति दृष्ट्यात तद्भावाध्यवसानात्सुवर्णपुष्पपृथिवीचयनलक्षणोपमानावच्छादितरूपत्वेन शूरादिविषयस्य बहूलाभत्वस्योपमेयस्य प्रौढोक्त्या प्रतिपत्तिः, ततोऽत्र प्रौढोक्तिमात्रनिष्पन्नशरीरस्य वाच्यस्यार्थस्य प्राधान्या "द्भेदेऽनन्यत्वमि"त्येवमात्मकतयोपवर्णितमतिशयोक्तिभेदत्वं वाच्यम् । व्यङ्ग्या ह्युपमा तदानीमत्र गुणीभवति । एवमलङ्कारनिष्ठस्यापि व्यञ्जकत्वस्य वाच्यविवक्षितत्वाविवक्षितत्वाभ्यां द्वैविध्यम् । यत्र चाविवक्षा वाच्यस्य वस्तुनिष्ठेऽलङ्कारनिष्ठे वा व्यञ्जकत्वे तत्र व्यङ्ग्यरसादेर्झगित्यवगम्यमानत्वादसंलक्ष्यक्रमता द्रष्टव्या । यदुक्तं भट्टवामनेन"लक्षणायां हि झगित्यर्थप्रतिपत्तक्षमत्वं रहस्यमाचक्षते"इति । अत एव च सहृदयैर्यत्र वाच्यस्य विवक्षितत्वं तत्रैव वस्त्वलङ्कारयोः प्रतीयमानयोर्वाच्येन सह क्रमव्यवहारः प्रवर्तितोर्ऽथशक्तिमूलानुरणनरूपव्यङ्ग्यो ध्वनिरित्युक्तं, न तु वाच्यविवक्षायामपि । यत्र च वाच्यस्याववक्षा पूर्वमुक्ता "रामोऽस्मीऽतिऽसुवर्णपुष्पाऽमिति च तत्र वयमधिकारोपेतप्रस्तुतार्थानुबन्धिवस्तूपनिबन्धादप्रस्तुतप्रशंसाभेदत्वमेव न्याय्यं मन्यामहे । यदुक्तंऽअधिकारादपेतस्येऽत्यादि । यत्तु पूर्वपर्यायोक्तभेदत्वंऽस्निग्धश्यामलकान्तीऽत्यादौ रामादीनां शब्दानामभिहितं तदुपक्रममात्ररूपतया द्रष्टव्यम् । विवक्षितवाच्यस्य पर्यायोक्तभेदत्वात् । यत्र खलु वाच्यविवक्षापूर्वकत्वेन अर्थान्तरं प्रतीयतेऽचक्राभिघातेऽत्यादावुदाहरणचतुष्टये तत्र पर्यायोक्तभेदता । पर्यायोक्तलक्षणस्याप्रस्तुतप्रशंसालक्षणविचारवशेन तद्य्वतिरिक्तविषयावगाहित्वात् । यत्र त्वविवक्षिते वाच्येर्ऽथान्तरसय प्रतीतिस्तत्राप्रस्तुतप्रशंसा । अतश्च पर्यायोक्ताप्रस्तुतप्रशंसयोरेव यथाक्रमं विवक्षिताविवक्षितवाच्ययोः सर्वध्वनिभेदसामान्यभूतयोर्ध्वनिभेदयोरन्तर्गतिर्वाच्या । ऽसुवर्णपुष्पां पृथिवीम्ऽइत्यादौ तु विदर्शनाभेदत्वं यत्पूर्वमुक्तं तदधिकारोपेतप्रस्तुतार्थानुबन्धिवस्तूपनिबन्धात्मत्वेनासंभवद्वाच्याया विदर्शनाया अप्रस्तुतप्रशंसाभेदत्वादुपपद्यत एव । एतच्च विद्वद्भिर्विचार्य गृहीतव्यं न त्ववमृश्यैवासूयितव्यमित्यलमतिवचालतया । तदेवं वाचकशक्तमूलेऽलङ्कारैकनियते वाच्यशक्तिमूले च रसादिविषये व्यञ्जकत्वे वाच्यस्य विवक्षितत्वैकरूपत्वम् । वस्त्वलङ्कारविषये तु वाच्यशक्तिमूले व्यञ्जकत्वे प्रत्येकं वाच्यस्य विवक्षितत्वाविवक्षितत्वाभ्यां द्विभेदता । अतस्तत्समाश्रयणेन त्रिविधप्रतीयमानार्थनिष्ठस्यापि व्यञ्जकत्वस्य षट्प्रकारता भवति । एतेषां च षण्णां भेदानां मध्याद्द्वयोर्भेदयोर्वाच्यस्याविवक्षोक्ता । चतुर्षु विवक्षितत्वम् । यत्र च विवक्षितत्वं तत्र वाच्यस्य स्वतःसंभवित्वात्प्रौढोक्तिमात्रनिष्पादितशरीरत्वाच्च द्वैविध्यम् । अतस्तत्र तस्याष्टौ भेदा भवन्ति । एते चाष्टौ भेदा वाच्यस्य यत्राविवक्षा तद्विषयाभ्यां पूर्वोदिताभ्यां द्वाभ्यां भे दाभ्यां संकलिताः सन्तो दश संपद्यन्ते । एत एव तु पदवाक्यप्रकाश्यतया द्वैगुण्यं भजमाना विंशतिर्भव्ति । वर्णसंघटनाप्रबन्धाधारस्य व्यञ्जकत्वस्य कृत्तद्धितादिगतसय च पदवाक्यानुप्रवेशेनैवाविर्भावात् । पदप्रकाश्यत्वे यथाऽरामोऽस्मीतिऽ । ऽचक्राभिधातेऽत्यादौ तु वाक्यप्रकाश्यता । यथा च प्रधानभूते व्यङ्ग्ये एषा व्यञ्जकता र्विशतिविधा भवति, तथा गुणीभूतेऽपि यथासंभवं योज्येति । तदाहुः विवक्ष्यमविवक्ष्यं च वस्त्वलङ्कारगोचरे । वाच्यं ध्वनौ विवक्ष्यं तु शब्दशक्तिरसास्यदे ॥ भेदषट्के चतुर्धा यद्वाच्यमुक्तं विवक्षितम् । स्वतःसंभवि वा तत्स्यादथ वा प्रौढिनिर्मितम् ॥ दश भेदा ध्वनेरेते विंशतिः पदवाक्यतः । प्रधानबद्भुणीभूते व्यङ्ग्ये प्रायेण ते तथा ॥ इति । वस्त्वलङ्कारवाच्ये ध्वनौ प्रत्येकं वाच्यं विवक्ष्यमविवक्ष्यं चेति संबन्धः । विवक्ष्यमिति विवक्षार्हमित्यर्थः । शब्दशक्तिरसास्पद इति वाच्यकशक्तसमाश्रयं रसादिव्यङ्ग्यनिष्ठं च व्यञ्जकत्वमुक्तम् । तद्विशिष्टशक्तिं व्यञ्जकभूतां रसादींश्च व्यङ्ग्यभूतानास्पदीकरोति । एवमेतद्य्वञ्जकत्वं पर्यायोक्तादिष्वन्तर्भावितम् । एतच्चेह बहुवक्तव्यत्वान्न वैतत्येन प्रपञ्चितम् । कुशाग्रीयबुद्धीनां हि दिङ्भात्र एवोपदर्शिते सति बुद्धिवल्ली प्रतानशतैर्नानादिग्वयापित्वेन विस्तारमासादयतीति ॥ मीमांसासारमेघात्पदजलधिविधोस्तर्कमाणिक्यकोशात् साहित्यश्रीमुरारेर्बुधकुसुममधोः शौरिपादाब्जभृङ्गात् । श्रुत्वा सौजन्यसिन्धोर्द्विजवरमुकुलत्कीर्तिवल्ल्यालवालात् काव्यालङ्कारसारे लघुविवृतिमधात्कौङ्कणः श्रीन्दुराजः ॥ इति महाश्रीप्रतीहारेन्दुराजविरचितयामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ षष्टो वर्गः ॥