पुनरुक्तवदाभासं छेकानुप्रास एव च । अनुप्रासस्त्रिधा लाटानुप्रासो रूपकं चतुः ॥ १.१ ॥ उपमा दीपकं चैव प्रतिवस्तूपमा तथा । इत्येत एवालङ्कारा वाचां कैश्चिदुदाहृताः ॥ १.२ ॥ पुनरुक्ताभासमभिन्नवस्त्विवोद्भासि भिन्नरूपपदम् । छेकानुप्रासस्तु द्वयोर्द्वयोः सुसदृशोक्तिकृतौ ॥ १.३ ॥ शषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता । परषा नाम वृत्तिः स्याथ्लह्वह्याद्यैश्च संयुता ॥ १.४ ॥ सरूपसंयोगयुतां मूर्ध्निवर्गान्त्ययोगिभिः । स्पर्शैर्युतां च मन्यन्ते उपनागरिकां बुधाः ॥ १.५ ॥ शेषैर्वणैर्यथायोगं कथितां कोमलाख्यया । ग्राम्यं वृर्त्ति प्रशंसन्ति काव्येष्वादृतबुद्धयः ॥ १.६ ॥ सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु । पृथक्पृथगनुप्रासमुशन्ति कवयः सदा ॥ १.७ ॥ स्वरूपार्थाविशेषेऽपि पुनरुक्तिः फलान्तरात् । शब्दानां वा पदानां वा लाटानुप्रास इष्यते ॥ १.८ ॥ स पदद्वितयस्थित्या द्वयोरेकस्य पूर्ववत् । तदन्यस्य स्वतन्त्रत्वाद्द्वयोर्वैकपदाश्रयात् ॥ १.९ ॥ स्वतन्त्रपदरूपेण द्वयोर्वापि प्रयोगतः । भिद्यतेऽनेकधा भेदैः पादाभ्यासक्रमेण च ॥ १.१० ॥ श्रुत्या संबन्धविरहाद्यत्पदेन पदान्तरम् । गुणवृत्ति प्रधानेन युज्यते रूपकं तु तत् ॥ १.११ ॥ बन्धस्तस्य यतः श्रुत्या श्रुत्यर्थाभ्यां च तेन तत् । समस्तवस्तुविषयमेकदेशविवर्ति च ॥ १.१२ ॥ समस्तवस्तुविषयं मालारूपकमुच्यते । यद्वैकदेशवृत्ति स्यात्पररूपेण रूपणात् ॥ १.१३ ॥ आदिमध्यान्तविषयाः प्राधान्येतरयोगिनः । अन्तर्गतोपमाधर्मा यत्र तद्दीपकं विदुः ॥ १.१४ ॥ यच्चेतोहारिसाधर्म्यमुपमानोपमेययोः । मिथो विभिन्नकालादिशब्दयोरुपमा तु तत् ॥ १.१५ ॥ यथेवशब्दयोगेन सा श्रुत्यान्वयमर्हति । सदृशादिपदाश्लेषादन्यथेत्युदिता द्विधा ॥ १.१६ ॥ संक्षेपाभिहिताप्येषा साम्यवाचकविचुयतैः । साम्योपमेयतद्वाचिवियोगाच्च निबध्यते ॥ १.१७ ॥ उपमानोपमेयोक्तौ साम्यतद्वाचिविच्यवात् । क्वचित्समासे तद्वाचिविरहेण क्वचिच्च सा ॥ १.१८ ॥ तथोपमानादाचारक्यच्प्रत्ययबलोक्तितः । क्वचित्सा कर्तुराचारे क्यङा सा च क्विपा क्वचित् ॥ १.१९ ॥ उपमाने कर्मणि वा कर्तरि वा यो णमुल्कषादगतः । तद्वाच्या सा वतिना च कर्म सामान्यवचनेन ॥ १.२० ॥ षष्ठीसप्तम्यन्ताच्च यो वतिर्नामतस्तदभिधये । कल्पत्प्रभृतिभिरन्यैश्च तद्धितैः सा निबध्यते कविभिः ॥ १.२१ ॥ उपमानसंनिधाने साम्यवाच्युच्यते बुधैर्यत्र । उपमेयस्य च कविभिः सा प्रतिवस्तूपमा गदिता ॥ १.२२ ॥ प्राकरणिकेतरत्वस्थित्यैकश्चोपमेयतां लभते । उपमानत्वं चापर इत्युपमावाचिशून्यत्वम् ॥ १.२३ ॥ आक्षेपोर्ऽथान्तरन्यासो व्यतिरेको विभावना । समासातिशयोक्ती चेत्यलङ्कारान्परे विदुः ॥ २.१ ॥ प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया । आक्षेप इति तं सन्तः शंसन्ति कवयः सदा ॥ २.२ ॥ वक्ष्यमाणोक्तविषयः स च द्विविध इष्यते । निषेधेनेव तद्बन्धो विधेयस्य च कीर्तितः ॥ २.३ ॥ समर्थकस्य पूर्वं यद्वचोऽन्यस्य च पृष्ठतः । विपर्ययेण वा यत्स्याद्धिशब्दोक्त्यान्यथापि वा ॥ २.४ ॥ ज्ञेयः सोर्ऽथान्तरनयासः प्रकृतार्थसमर्थनात् । अप्रस्तुतपरशंसाया दृष्टान्ताच्च पृथक्स्थितः ॥ २.५ ॥ विशेषोपादानं यत्स्यादुपमानोपमेययोः । निमित्तादृष्टिदृष्टिभ्यां व्यतिरेको द्विधी तु सः ॥ २.६ ॥ यो वैधर्म्येण दृष्टान्तो यथेवादिसमन्वितः । व्यतिरेकोऽत्र सोऽपीष्टो विशेषापादनान्वयात् ॥ २.७ ॥ श्लिष्टोक्तियोग्यशब्दस्य पृथक्पृथगुदाहृतौ । विशेषापादनं यत्स्याद्य्वतरेकः स च स्मृतः ॥ २.८ ॥ क्रियायाः प्रतिषेधे या तत्फलस्य विभावना । ज्ञेया विभावनैवासौ समाधौ सुलभे सति ॥ २.९ ॥ प्रकृतार्थेन वाक्येन तत्समानैर्विशेषणैः । अप्रस्तुतार्थकथनं समासोक्तिरुदाहृता ॥ २.१० ॥ निमित्ततो यत्तु वयो लोकातिक्रान्तगोचरम् । मन्यन्तेऽतशयोक्तिं तामलंकारतया बुधाः ॥ २.११ ॥ भेदेऽनन्यत्वमन्यत्र नानात्वं यत्र बध्यते । तथा संभाव्यमानार्थनिबन्धेऽतिशयोक्तिगीः ॥ २.१२ ॥ कार्यकारणयोर्यत्र पौर्वापर्यविपर्ययात् । आशुभावं समालम्ब्य बध्यते सोऽपि पूर्ववत् ॥ २.१३ ॥ यथासंख्यमथोत्प्रेक्षां स्वभावोक्तिं तथैव च । अपरे त्रीनलङ्कारान् गिरामाहुरलङ्कृतौ ॥ ३.१ ॥ भूयसामुपदिष्टानामर्थानामसधर्मणाम् । क्रमशो योऽनुनिर्देशो यथासंख्यं तदुच्यते ॥ ३.२ ॥ साम्यरूपाविवक्षायां वाच्येवाद्यात्मभिः पदैः । अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता ॥ ३.३ ॥ लोकातिक्रान्तविषया भावाभावाभिमानतः । संभावनेयमुत्प्रेक्षा वाच्येवादिभिरुच्यते ॥ ३.४ ॥ क्रियायां संप्रवृत्तस्य हेवाकानां निबन्धनम् । कस्यचिन्मृगडिम्भादेः स्वभावोक्तिरुदाहृता ॥ ३.५ ॥ प्रेयोरसवदूर्जसव पर्यायोक्तं समाहितम् । द्विधोदात्तं तथा श्लिष्टमलङ्कारान्परे विदुः ॥ ४.१ ॥ रत्यादिकानां भावानामनुभावादिसूचनैः । यत्काव्यं बध्यते सद्भिस्तत्प्रेयस्वदुदाहृतम् ॥ ४.२ ॥ रसवद्दर्शितस्पष्टशृङ्गारादिरसादयम् । स्वशब्दस्थायिसंचारिविभावाभिनयास्पदम् ॥ ४.३ ॥ शृङ्गारहास्यकरणरौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ ४.४ ॥ अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् । भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते ॥ ४.५ ॥ पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते । वाच्यवाचकवृत्तिभ्यां शून्येनावगमात्मना ॥ ४.६ ॥ रसभावतदाभासवृत्तेः प्रशमबन्धनम् । अन्यानुभावनिःशून्यरूपं यत्तत्समाहितम् ॥ ४.७ ॥ उदात्तमृद्धिमद्वस्तु चरितं च महात्मनाम् । उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम् ॥ ४.८ ॥ एकप्रयत्नोच्चार्याणां तच्छायां चैव बिभ्रताम् । स्वरितादिगुणैर्भिन्नैर्बन्धः श्लिष्टमिहोच्यते ॥ ४.९ ॥ अलङ्कारान्तरगतां प्रतिभां जनयत्पदैः । द्विविधैरर्थशब्दोक्तिविशिष्टं तत्प्रतीयताम् ॥ ४.१० ॥ अपह्नुतिं विशेषोक्तिं विरोधं तुल्ययोगिताम् । अप्रस्तुतप्रशंसा च व्याजस्तुतिविदर्शने ॥ ५.१ ॥ उपमेयोपमां चैव सहोक्तिं संकरं तथा । परिवृत्तिं च जगदुरलङ्कारान्परे गिराम् ॥ ५.२ ॥ अपह्नुतिरभीष्टा च किञ्चिदन्तर्गतोपमा । भूतार्थापह्नवेनास्या निबन्धः क्रियते बुधैः ॥ ५.३ ॥ यत्सामग्र्येऽपि शक्तीनां फलानुत्पत्तिबन्धनम् । विशेषस्याभिधित्सातस्तद्वशेषोक्तिरुच्यते ॥ ५.४ ॥ दर्शितेन निमित्तेन निमित्तादर्शनेन च । तस्या बन्धो द्विधा लक्ष्ये दृश्यते ललितात्मकः ॥ ५.५ ॥ गुणस्य वा क्रियाया वा विरुद्धान्यक्रियावचः । यद्विशेषाभिधानाय विरोधं तं प्रचक्षते ॥ ५.६ ॥ उपमानोपमेयोक्तिशून्यैरप्रस्तुतैर्वचः । साम्याभिधायि प्रस्तावभाग्भिर्वा तुल्ययोगिता ॥ ५.७ ॥ अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः । अप्रस्तुतप्रशंसेयं प्रस्तुतार्थनुबन्धिनी ॥ ५.८ ॥ शब्दशक्तिस्वभावेन यत्र निन्देव गम्यते । वस्तुतस्तु स्तुतिश्चेष्टा व्याजस्तुतिरसौ मता ॥ ५.९ ॥ अभवन्वस्तुसंबन्धो भवन्वा यत्र कल्पयेत् । उपमानोपमेयत्वं कथ्यते सा विदर्शना ॥ ५.१० ॥ अनेकालङ्क्रियोल्लेखे समं तद्वृत्त्यसंभवे । एकस्य च ग्रहे न्यायदोषाभावे च संकरः ॥ ५.११ ॥ शब्दार्थवर्त्यलङ्कारा वाक्य एकत्र भासिनः । संकरो वा एकवाक्यांशप्रवेशाद्वाभिधीयते ॥ ५.१२ ॥ परस्परोपकारेण यत्रालङ्कृतयः स्थिताः । स्वातन्त्र्येणात्मलाभं नो लभन्ते सोऽपि संकरः ॥ ५.१३ ॥ अन्योन्यमेव यत्र स्यादुपमानोपमेयता । उपमेयोपमामाहुस्तां पक्षान्तरहानिगाम् ॥ ५.१४ ॥ तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रिते । पदेनैकेन कथ्येते सा सहोक्तिर्मता सताम् ॥ ५.१५ ॥ समन्यूनविशेष्टैस्तु कस्यचित्परिवर्तनम् । अर्थानर्थस्वभावं यत्परिवृत्तिरभाणि सा ॥ ५.१६ ॥ अनन्वयं ससंदेहं संसृष्टिं भाविकं तथा । काव्यदृष्टान्तहेतू चेत्यलङ्कारान्परे विदुः ॥ ६.१ ॥ उपमानेन तत्त्वं च भेदं च वदतः पुनः । ससंदेहं वचः स्तुत्यै ससंदेहं वदुर्बुधाः ॥ ६.२ ॥ अलङ्कारान्तरच्छायां यत्कृत्वा धीषु बन्धनम् । असंदेहेऽपि संदेहरूपं संदेहनाम तत् ॥ ६.३ ॥ यत्र तनैव तस्य स्यादुपमानोपमेयता । असादृश्यविवक्षातस्तमित्याहुरनन्वयम् ॥ ६.४ ॥ अलङ्कृतीनां बह्वीनां द्वयोर्वापि समाश्रयः । एकत्र निरपेक्षाणां मिथः संसृष्टिरुच्यते ॥ ६.५ ॥ प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः । अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम् ॥ ६.६ ॥ श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा । हेतुतां प्रतिपद्ये काव्यलिङ्गं तदुच्यते ॥ ६.७ ॥ इष्टस्यार्थस्य विस्पष्टप्रतिबिम्बनिदर्शनम् । यथेवादिपदैः सून्यं बुधैर्दृष्टान्त उच्यते ॥ ६.८ ॥