प्रणम्य सार्वं सर्वज्ञं मनोवाक्कायकर्मभिः । काव्यालंकार इत्येष यथाबुद्धि विधास्यते ॥ १.१ ॥ धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । प्रीतिं करोति कीर्तिं च साधुकाव्यनिबन्धनम् ॥ १.२ ॥ अधनस्येव दातृत्वं क्लीबस्येवास्त्रकौशलम् । अज्ञस्येव प्रगल्भत्वमकवेः शास्त्रवेदनम् ॥ १.३ ॥ विनयेन विना का श्रीः का निशा शशिना विना । रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥ १.४ ॥ गुरूपदेशादध्येतुं शास्त्रं जडधियोऽप्यलम् । काव्यं तु जायते जातु कस्यचित्प्रतिभावतः ॥ १.५ ॥ उपेयुषामपि दिवं सन्निबन्धविधायिनाम् । आस्त एव निरातङ्कं कान्तं काव्यमयं वपुः ॥ १.६ ॥ रुणद्धि रोदसी चास्य यावत्कीर्तिरनश्वरी । तावत्किलायमध्यास्ते सुकृती वैबुधं पदम् ॥ १.७ ॥ अतोऽभिवाञ्छता कीर्तिं स्थेयसीमाभुवः स्थितेः । यत्नो विदितवेद्येन विधेयः काव्यलक्षणः ॥ १.८ ॥ शब्दश्छन्दोऽभिधानार्था इतिहासाश्रयाः कथाः । लोको युक्तिः कलाश्चेति मन्तव्याः काव्यहेतवः ॥ १.९ ॥ शब्दाभिधेये विज्ञाय कृत्वा तद्विदुपासनम् । विलोक्यान्यनिबन्धांश्च कार्यः काव्यक्रियादरः ॥ १.१० ॥ सर्वथा पदमप्येकं न निगाद्यमवद्यवत् । विलक्ष्मणा हि काव्येन दुःसुतेनेव निन्द्यते ॥ १.११ ॥ नाकवित्वमधर्माय व्याधये दण्डनाय वा । कुकवित्वं पुनः साक्षान्मृतिमाहुर्मनीषिणः ॥ १.१२ ॥ रूपकादिरलंकारस्तस्यान्यैर्बहुधोदितः । न कान्तमपि निर्भूषं विभाति वनितामुखम् ॥ १.१३ ॥ रूपकादिमलंकारं बाह्यमाचक्षते परे । सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम् ॥ १.१४ ॥ तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी । शब्दाभिधेयालंकार भेदादिष्टं द्वयं तु नः ॥ १.१५ ॥ शब्दार्थौ सहितौ काव्यं गद्यं पद्यं च तद्द्विधा । संस्कृतं प्राकृतं चान्यदपभ्रंश इति त्रिधा ॥ १.१६ ॥ वृत्तदेवादिचरित शंसि चोत्पाद्यवस्तु च । कलाशास्त्राश्रयं चेति चतुर्धा भिद्यते पुनः ॥ १.१७ ॥ सर्गबन्धोऽभिनेयार्थं तथैवाख्यायिकाकथे । अनिबद्धं च काव्यादि तत्पुनः पञ्चधोच्यते ॥ १.१८ ॥ सर्गबन्धो महाकाव्यं महतां च महच्च यत् । अग्राम्यशब्दमर्थ्यं च सालंकारं सदाश्रयम् ॥ १.१९ ॥ मन्त्रदूतप्रयाणाजि नायकाभ्युदयैश्च यत् । पञ्चभिः सन्धिभिर्युक्तं नातिव्याख्येयमृद्धिमत् ॥ १.२० ॥ चतुर्वर्गाभिधानेऽपि भूयसार्थोपदेशकृत् । युक्तं लोकस्वभावेन रसैश्च सकलैः पृथक् ॥ १.२१ ॥ नायकं प्रागुपन्यस्य वंशवीर्यश्रुतादिभिः । न तस्यैव वधं ब्रूयादन्योत्कर्षाभिधित्सया ॥ १.२२ ॥ यदि काव्यशरीरस्य न स व्यापितयेष्यते । न चाभ्युदयभाक्तस्य मुधादौ ग्रहणस्तवौ ॥ १.२३ ॥ नाटकं द्विपदीशम्या रासकस्कन्धकादि यत् । उक्तं तदभिनेयार्थमुक्तोऽन्यैस्तस्य विस्तरः ॥ १.२४ ॥ संस्कृतानाकुलश्रव्य शब्दार्थपदवृत्तिना । गद्येन युक्तोदात्तार्था सोच्छ्वासाख्यायिका मता ॥ १.२५ ॥ वृत्तमाख्यायते तस्यां नायकेन स्वचेष्टितम् । वक्त्रं चापरवक्त्रं च काले भाव्यार्थशंसि च ॥ १.२६ ॥ कवेरभिप्रायकृतैः कथनैः कैश्चिदङ्किता । कन्याहरणसंग्राम विप्रलम्भोदयान्विता ॥ १.२७ ॥ न वक्त्रापरवक्त्राभ्यां युक्ता नोच्छासवत्यपि । संस्कृतासंस्कृता चेष्टा कथापभ्रंशभाक्तथा ॥ १.२८ ॥ अन्यैः स्वचरितं तस्यां नायकेन तु नोच्यते । स्वगुणाविष्कृतिं कुर्यादभिजातः कथं जनः ॥ १.२९ ॥ अनिबद्धं पुनर्गाथा श्लोकमात्रादि तत्पुनः । युक्तं वक्रस्वभावोक्त्या सर्वमेवैतदिष्यते ॥ १.३० ॥ वैदर्भमन्यदस्तीति मन्यन्ते सुधियोऽपरे । तदेव च किल ज्यायः सदर्थमपि नापरम् ॥ १.३१ ॥ गौडीयमिदमेतत्तु वैदर्भमिति किं पृथक् । गतानुगतिकन्यायान्नानाख्येयममेधसाम् ॥ १.३२ ॥ ननु चाश्मकवंशादि वैदर्भमिति कथ्यते । कामं तथास्तु प्रायेण संज्ञेच्छातो विधीयते ॥ १.३३ ॥ अपुष्टार्थमवक्त्रोक्ति प्रसन्नमृजु कोमलम् । भिन्नं गेयमिवेदं तु केवलं श्रुतिपेशलम् ॥ १.३४ ॥ अलंकारवदग्राम्यमर्थ्यं न्याय्यमनाकुलम् । गौडीयमपि साधीयो वैदर्भमिति नान्यथा ॥ १.३५ ॥ न नितान्तादिमात्रेण जायते चारुता गिराम् । वक्राभिधेयशब्दोक्तिरिष्टा वाचामलंकृतिः ॥ १.३६ ॥ [षट्काव्यदोषाः] नेयार्थं क्लिष्टमन्यार्थमवाचकमयुक्तिमत् । गूढशब्दाभिधानं च कवयो न प्रयुञ्जते ॥ १.३७ ॥ नेयार्थं नीयते युक्तो यस्यार्थः कृतिभिर्बलात् । शब्दन्यायानुपारूढः कथंचित्स्वाभिसन्धिना ॥ १.३८ ॥ मायेव भद्रेति यथा सा चासाध्वी प्रकल्पना । वेणुदाकेरिति च तां नयन्ति वचनाद्विना ॥ १.३९ ॥ क्लिष्टं व्यवहितं विद्यादन्यार्थं विगमे यथा । विजह्रुस्तस्य ताः शोकं क्रीडायां विकृतं च तत् ॥ १.४० ॥ हिमापहामित्रधरैर्व्याप्तं व्योमेत्यवाचकम् । साक्षादरूढं वाच्येऽर्थे नाभिधानं प्रतीयते ॥ १.४१ ॥ अयुक्तिमद्यथा दूता जलभृन्मारुतेन्दवः । तथा भ्रमरहारीत चक्रवाकशुकादयः ॥ १.४२ ॥ अवाचोऽव्यक्तवाचश्च दूरदेशविचारिणः । कथं दूत्यं प्रपद्येरन्निति युक्त्या न युज्यते ॥ १.४३ ॥ यदि चोत्कण्ठया यत्तदुन्मत्त इव भाषते । तथा भवतु भूम्नेदं सुमेधोभिः प्रयुज्यते ॥ १.४४ ॥ गूढशब्दाभिधानं च न प्रयोज्यं कथंचन । सुधियामपि नैवेदमुपकाराय कल्पते ॥ १.४५ ॥ असितर्तितुगद्रिच्छित्स्वःक्षितां पतिरद्विदृक् । अमिद्भिः शुभ्रदृग्दृष्टैर्द्विषो जेघ्नीयिषीष्ट वः ॥ १.४६ ॥ असितर्तिभुगद्रिक्षित्स्वः कितां पतिरद्विदृक् । अमीभिः [अपरे चत्वारो दोषाः] श्रुतिदुष्टार्थदुष्टे च कल्पनादुष्टमित्यपि । श्रुतिकष्टं तथैवाहुर्वाचं दोषं चतुर्विधम् ॥ १.४७ ॥ विड्वर्चोविष्ठितक्लिन्नच्छिन्नवान्तप्रवृत्तयः । प्रचारधर्षितोद्गार विसर्गहदयन्त्रिताः ॥ १.४८ ॥ हिरण्यरेताः सम्बाधः पेलवोपस्थिताण्डजाः । वाक्काटवादयश्चेति श्रुतिदुष्टा मता गिरः ॥ १.४९ ॥ अर्थदुष्टं पुनर्ज्ञेयं यत्रोक्ते जायते मतिः । असभ्यवस्तुविषया शब्दैस्तद्वाचिभिर्यथा ॥ १.५० ॥ हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । पतनं जायतेऽवश्यं कृच्छ्रेण पुनरुन्नतिः ॥ १.५१ ॥ पदद्वयस्य सन्धाने यदनिष्टं प्रकल्पते । तदाहुः कल्पनादुष्टं स शौर्याभरणो यथा ॥ १.५२ ॥ यथा.अजिह्लददित्यादि श्रुतिकष्टं च तद्विदुः । न तदिच्छन्ति कृतिनो गण्डमप्यपरे किल ॥ १.५३ ॥ सन्निवेशविशेषात्तु दुरुक्तमपि शोभते । नीलं पलाशमाबद्धमन्तराले स्रजामिव ॥ १.५४ ॥ किंचिदाश्रयसौन्दर्याद्धत्ते शोभामसाध्वपि । कान्ताविलोचनन्यस्तं मलीमसमिवाञ्जनम् ॥ १.५५ ॥ आपाण्डुगण्डमेतत्ते वदनं वनजेक्षणे । संगमात्पाण्डुशब्दस्य गण्डः साधु यथोदितम् ॥ १.५६ ॥ अनयान्यदपि ज्ञेयं दिशा युक्तमसाध्वपि । यथा विक्लिन्नगण्डानां करिणां मदवारिभिः ॥ १.५७ ॥ मदक्लिन्नकपोलानां द्विरदानां चतुःशती । यथा तद्वदसाधीयः साधीयश्च प्रयोजयेत् ॥ १.५८ ॥ एतद्ग्राह्यं सुरभि कुसुमं ग्राम्यमेतन्निधेयं धत्ते शोभां विरचितमिदं स्थानमस्यैतदस्य । मालाकारो रचयति यथा साधु विज्ञाय मालां योज्यं काव्येष्ववहितधिया तद्वदेवाभिधानम् ॥ १.५९ ॥ इति भामहालङ्कारे प्रथमः परिच्छेदः ।ध्याय द्वितीयः परिच्छेदः माधुर्यमभिवाञ्छन्तः प्रसादं च सुमेधसः । समासवन्ति भूयांसि न पदानि प्रयुञ्जते ॥ २.१ ॥ केचिदोजोऽभिधित्सन्तः समस्यन्ति बहून्यपि । यथा मन्दारकुसुम रेणुपिञ्जरितालका ॥ २.२ ॥ श्रव्यं नातिसमस्तार्थं काव्यं मधुरमिष्यते । आविद्वदङ्गनाबाल प्रतीतार्थं प्रसादवत् ॥ २.३ ॥ अनुप्रासः सयमको रूपकं दीपकोपमे । इति वाचामलंकाराः पञ्चैवान्यैरुदाहृताः ॥ २.४ ॥ सरूपवर्णविन्यासमनुप्रासं प्रचक्षते । किं तया चिन्तया कान्ते नितान्तेति यथोदितम् ॥ २.५ ॥ ग्राम्यानुप्रासमन्यत्तु मन्यन्ते सुधियोऽपरे । स लोलमालानीलालि कुलाकुलगलो बलः ॥ २.६ ॥ नानार्थवन्तोऽनुप्रासा न चाप्यसदृशाक्षराः । युक्त्यानया मध्यमया जायन्ते चारवो गिरः ॥ २.७ ॥ लाटीयमप्यनुप्रासमिहेच्छन्त्यपरे यथा । दृष्टिं दृष्टिसुखां धेहि चन्द्रश्चन्द्रमुखोदितः ॥ २.८ ॥ आदिमध्यान्तयमकं पादाभ्यासं तथावली । समस्तपादयमकमित्येतत्पञ्चधोच्यते ॥ २.९ ॥ सन्दष्टकसमुद्गादेरत्रैवान्तर्गतिर्मता । आदौ मध्यान्तयोर्वा स्यादिति पञ्चैव तद्यथा ॥ २.१० ॥ साधुना साधुना तेन राजता राजता भृता । सहितं सहितं कर्तुं संगतं संगतं जनम् ॥ २.११ ॥ साधुः संसाराद्बिभ्यदस्मादसारात्कृत्वा क्लेशान्तं याति वर्त्म प्रशान्तम् । जातिं व्याधीनां दुर्दमानामधीनां वाञ्छञ्ज्यायस्त्वं छिन्धि मुक्तानयस्त्वम् ॥ २.१२ ॥ न ते धिर्धीर भोगेषु रमणीयेषु संगता । मुनीनपि हरन्त्येते रमणी येषु संगता ॥ २.१३ ॥ [पादाभ्यास] सितासिताक्षीं सुपयोधराधरां सुसंमदां व्यक्तमदां ललामदाम् । घनाघना नीलघना घनालकां प्रियामिमामुत्सुकयन्ति यन्ति च ॥ २.१४ ॥ [आवली] अमी नृपा दत्तसमग्रशासनाः कदाचिदप्यप्रतिबद्धशासनाः । कृतागसां मार्गभिदां च शासनाः पितृक्रमाध्यासिततादृशासनाः ॥ २.१५ ॥ [समस्तपादयमकम्] अनन्तरैकान्तरयोरेवं पादान्तयोरपि । कृत्स्नं च सर्वपादेषु दुष्करं साधु तादृशम् ॥ २.१६ ॥ तुल्यश्रुतीनां भिन्नानामभिधेयैः परस्परम् । वर्णानां यः पुनर्वादो यमकं तन्निगद्यते ॥ २.१७ ॥ प्रतीतशब्दमोजस्वि सुश्लिष्टपदसन्धि च । प्रसादि स्वभिधानं च यमकं कृतिनां मतम् ॥ २.१८ ॥ नानाधात्वर्थगम्भीरा यमकव्यपदेशिनी । प्रहेलिका सा ह्युदिता रामशर्माच्युतोत्तरे ॥ २.१९ ॥ काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत् । उत्सवः सुधियामेव हन्त दुर्मेधसो हताः ॥ २.२० ॥ उपमानेन यत्तत्त्वमुपमेयस्य रूप्यते । गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ॥ २.२१ ॥ समस्तवस्तुविषयमेकदेशविवर्ति च । द्विधा रूपकमुद्दिष्टमेतत्तच्चोच्यते यथा ॥ २.२२ ॥ शीकराम्भोमदसृजस्तुङ्गा जलददन्तिनः । निर्यान्तो मदयन्तीमे शक्रकार्मुकवारणाः ॥ २.२३ ॥ तडिद्वलयकक्ष्याणां बलाकामालभारिणाम् । पयोमुचां ध्वनिर्धीरो दुनोति मम तां प्रियाम् ॥ २.२४ ॥ आदिमध्यान्तविषयं त्रिधा दीपकमिष्यते । एकस्यैव त्र्यवस्थत्वादिति तद्भिद्यते त्रिधा ॥ २.२५ ॥ अमूनि कुर्वतेऽन्वर्थामस्याख्यामर्थदीपनात् । त्रिभिर्निदर्शनैश्चेदं त्रिधा निर्दिश्यते यथा ॥ २.२६ ॥ मदो जनयति प्रीतिं सानङ्गं मानभङ्गुरम् । स प्रियासंगमोत्कण्ठां सासह्यां मनसः शुचम् ॥ २.२७ ॥ मालिनीरंशुकभृतः स्त्रियोऽलंकुरुते मधुः । हारीतशुकवाचश्च भूधराणामुपत्यकाः ॥ २.२८ ॥ चीरीमवतीररण्यानीः सरितः शुष्यदम्भसः । प्रवासिनां च चेतांसि शुचिरन्तं निनीषति ॥ २.२९ ॥ विरुद्धेनोपमानेन देशकालक्रियादिभिः । उपमेयस्य यत्साम्यं गुणलेशेन सोपमा ॥ २.३० ॥ यथेवशब्दौ सादृश्यमाहतुर्व्यतिरेकिणोः । दूर्वाकाण्डमिव श्यामं तन्वी श्यामालता यथा ॥ २.३१ ॥ विना यथेवशब्दाभ्यां समासाभिहिता परा । यथा कमलपत्राक्षी शशाङ्कवदनेति च ॥ २.३२ ॥ वतिनापि क्रियासाम्यं तद्वदेवाभिधीयते । द्विजातिवदधीतेऽसौ गुरुवच्चानुशास्ति नः ॥ २.३३ ॥ समानवस्तुन्यासेन प्रतिवस्तूपमोच्यते । यथेवानभिधानेऽपि गुणसाम्यप्रतीतितः ॥ २.३४ ॥ साधुसाधारणत्वादिर्गुणोऽत्र व्यतिरिच्यते । स साम्यमापादयति विरोधेऽपि तयोर्यथा ॥ २.३५ ॥ कियन्तः सन्ति गुणिनः साधुसाधारणश्रियः । स्वादुपाकफलानम्राः कियन्तो वाध्वशाखिनः ॥ २.३६ ॥ यदुक्तं त्रिप्रकारत्वं तस्याः कैश्चिन्महात्मभिः । निन्दाप्रशंसाचिख्यासा भेदादत्राभिधीयते ॥ २.३७ ॥ सामान्यगुणनिर्देशात्त्रयमप्युदितं ननु । मालोपमादिः सर्वोऽपि न ज्यायान् विस्तरो मुधा ॥ २.३८ ॥ हीनतासम्भवो लिङ्ग वचोभेदो विपर्ययः । उपमानाधिकत्वं च तेनासदृशतापि च ॥ २.३९ ॥ त एत उपमादोषाः सप्त मेधाविनोदिताः । सोदाहरणलक्ष्माणो वर्ण्यन्तेऽत्र च ते पृथक् ॥ २.४० ॥ स मारुताकम्पितपीतवासा बिभ्रत्सलीलं शशिभासमब्जम् । यदुप्रवीरः प्रगृहीतशार्ङ्गः सेन्द्रायुधो मेघ इवाबभासे ॥ २.४१ ॥ शक्रचापग्रहादत्र दर्शितं किल कार्मुकम् । वासःशङ्खानुपादानाद्धीनमित्यभिधीयते ॥ २.४२ ॥ सर्वं सर्वेण सारूप्यं नास्ति भावस्य कस्यचित् । यथोपपत्ति कृतिभिरुपमासु प्रयुज्यते ॥ २.४३ ॥ अखण्डमण्डलः क्वेन्दुः क्व कान्ताननमद्युति । यत्किंचित्कान्तिसामान्याच्छशिनैवोपमीयते ॥ २.४४ ॥ किं च काव्यानि नेयानि लक्षणेन महात्मनाम् । दृष्टं वा सर्वसारूप्यं राजमित्रे यथोदितम् ॥ २.४५ ॥ सूर्यांशसंमीलितलोचनेषु दीनेषु पद्मानिलनिर्मदेषु । साध्व्यः स्वगेहेष्विव भर्तृहीनाः केका विनेशुः शिखिनां मुखेषु ॥ २.४६ ॥ निष्पेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः । जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोऽर्कात् ॥ २.४७ ॥ शाकवर्धनस्य कथं पातोऽम्बुधाराणां ज्वलन्तीनां विवस्वतः । असम्भवादयं युक्त्या तेनासम्भव उच्यते ॥ २.४८ ॥ तत्रासम्भविनार्थेन कः कुर्यादुपमां कृती । को नाम वह्निनौपम्यं कुर्वीत शशलक्ष्मणः ॥ २.४९ ॥ यस्यातिशयवानर्थः कथं सोऽसम्भवो मतः । इष्टं चातिशयार्थत्वमुपमोत्प्रेक्षयोर्यथा ॥ २.५० ॥ पुञ्जीभूतमिव ध्वान्तमेष भाति मतङ्गजः । सरः शरत्प्रसन्नाम्भो नभःखण्डमिवोज्झितम् ॥ २.५१ ॥ अथ लिङ्गवचोभेदावुच्येते सविपर्ययौ । हीनाधिकत्वात्स द्वेधा त्रयमप्युच्यते यथा ॥ २.५२ ॥ अविगाह्योऽसि नारीणामनन्यमनसामपि । विषमोपलभिन्नोर्मिरापगेवोत्तितीर्षतः ॥ २.५३ ॥ क्वचिदग्रे प्रसरता क्वचिदापत्य निघ्नता । शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥ २.५४ ॥ अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान् ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥ २.५५ ॥ ननूपमीयते पाणिः कमलेन विकासिना । अधरो विद्रुमच्छेद भासा बिम्बफलेन च ॥ २.५६ ॥ उच्यते काममस्तीदं किं तु स्त्रीपुंसयोरयम् । विधिर्नाभिमतोऽन्यैस्तु त्रयाणामपि नेष्यते ॥ २.५७ ॥ स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः । शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥ २.५८ ॥ रामशर्मणः शशिनो ग्रहणादेतदाधिक्यं किल न ह्ययम् । निर्दिष्ट उपमेयेऽर्थे वाच्यो वा जलजोऽत्र तु ॥ २.५९ ॥ न सर्वसारूप्यमिति विस्तरेणोदितो विधिः । अभिप्रायात्कवेर्नात्र विधेया जलजे मतिः ॥ २.६० ॥ आधिक्यमुपमानानां न्याय्यं नाधिकता भवेत् । गोक्षीरकुन्दहलिनां विशुद्ध्या सदृशं यशः ॥ २.६१ ॥ एकेनैवोपमानेन ननु सादृश्यमुच्यते । उक्तार्थस्य प्रयोगो हि गुरुमर्थं न पुष्यति ॥ २.६२ ॥ वनेऽथ तस्मिन्वनितानुयायिनः प्रवृत्तदानार्द्रकटा मतङ्गजाः । विचित्रबर्हाभरणाश्च बर्हिणो बभुर्दिवीवामलविग्रहा ग्रहाः ॥ २.६३ ॥ ग्रहैरपि गजादीनां यदि सादृश्यमुच्यते । तथापि तेषां तैरस्ति कान्तिर्वाप्युग्रतापि वा ॥ २.६४ ॥ इत्युक्त उपमाभेदो वक्ष्यते चापरः पुनः । उपमादेरलंकाराद्विशेषोऽन्योऽभिधीयते ॥ २.६५ ॥ [अपरे षडलंकाराः] आक्षेपोऽर्थान्तरन्यासो व्यतिरेको विभावना । समासातिशयोक्ती च षडलंकृतयोऽपराः ॥ २.६६ ॥ वक्ष्यमाणोक्तविषयस्तत्राक्षेपो द्विधा मतः । एकरूपतया शेषा निर्देक्ष्यन्ते यथाक्रमम् ॥ २.६७ ॥ प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया । आक्षेप इति तं सन्तः शंसन्ति द्विविधं यथा ॥ २.६८ ॥ अहं त्वां यदि नेक्षेय क्षणमप्युत्सुका ततः । इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण ते ॥ २.६९ ॥ [वक्ष्यमाणविषय आक्षेप] स्वविक्रमाक्रान्तभुवश्चित्रं यन्न तवोद्धतिः । को वा हेतुरलं सिन्धोर्विकारकरणं प्रति ॥ २.७० ॥ उपन्यसनमन्यस्य यदर्थस्योदितादृते । ज्ञेयः सोऽर्थान्तरन्यासः पूर्वार्थानुगतो यथा ॥ २.७१ ॥ परानीकानि भीमानि विविक्षोर्न तव व्यथा । साधु वासाधु वागामि पुंसामात्मैव शंसति ॥ २.७२ ॥ हिशब्देनापि हेत्वर्थ प्रथनादुक्तसिद्धये । अयमर्थान्तरन्यासः सुतरां व्यज्यते यथा ॥ २.७३ ॥ वहन्ति गिरयो मेघानभ्युपेतान् गुरूनपि । गरीयानेव हि गुरून् बिभर्ति प्रणयागतान् ॥ २.७४ ॥ उपमानवतोऽर्थस्य यद्विशेषनिदर्शनम् । व्यतिरेकं तमिच्छन्ति विशेषापादनाद्यथा ॥ २.७५ ॥ सितासिते पक्ष्मवती नेत्रे ते ताम्रराजिनी । एकान्तशुभ्रश्यामे तु पुण्डरीकासितोत्पले ॥ २.७६ ॥ क्रियायाः प्रतिषेधे या तत्फलस्य विभावना । ज्ञेया विभावनैवासौ समाधौ सुलभे सति ॥ २.७७ ॥ अपीतमत्ताः शिखिनो दिशोऽनुत्कण्ठिताकुलाः । नीपोऽविलिप्तसुरभिरभ्रष्टकलुषं जलम् ॥ २.७८ ॥ यत्रोक्ते गम्यतेऽन्योऽर्थस्तत्समानविशेषणः । सा समासोक्तिरुद्दिष्टा संक्षिप्तार्थतया यथा ॥ २.७९ ॥ संक्षिप्तार्थतया यथा] ।ेद्ं।ेद्B॑ संक्षिप्तार्था यथा तथा ।स्कन्धवानृजुरव्यालः स्थिरोऽनेकमहाफलः । जातस्तरुरयं चोच्चैः पातितश्च नभस्वता ॥ २.८० ॥ निमित्ततो वचो यत्तु लोकातिक्रान्तगोचरम् । मन्यन्तेऽतिशयोक्तिं तामलङ्कारतया यथा ॥ २.८१ ॥ स्वपुष्पच्छविहारिण्या चन्द्रभासा तिरोहिताः । अन्वमीयन्त भृङ्गालि वाचा सप्तच्छदद्रुमाः ॥ २.८२ ॥ अपां यदि त्वक्छिथिला च्युता स्यात्फणिनामिव । तदा शुक्लांशुकानि स्युरङ्गेष्वम्भसि योषिताम् ॥ २.८३ ॥ इत्येवमादिरुदिता गुणातिशययोगतः । सर्वैवातिशयोक्तिस्तु तर्कयेत्तां यथागमम् ॥ २.८४ ॥ सैष सर्वैव वक्रोक्तिरनयार्थो विभाव्यते । यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ॥ २.८५ ॥ हेतुश्च सूक्ष्मो लेशोऽथ नालंकारतया मतः । समुदायाभिधानस्य वक्रोक्त्यनभिधानतः ॥ २.८६ ॥ गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः । इत्येवमादि किं काव्यं वार्तामेनां प्रचक्षते ॥ २.८७ ॥ यथासंख्यमथोत्प्रेक्षामलङ्कारद्वयं विदुः । संख्यानमिति मेधाविनोत्प्रेक्षाभिहिता क्वचित् ॥ २.८८ ॥ भूयसामुपदिष्टानामर्थानामसधर्मणाम् । क्रमशो योऽनुनिर्देशो यथासंख्यं तदुच्यते ॥ २.८९ ॥ पद्मेन्दुभृङ्गमातङ्ग पुंस्कोकिलकलापिनः । वक्त्रकान्तीक्षणगति वाणीवालैस्त्वया जिताः ॥ २.९० ॥ अविवक्षितसामान्या किंचिच्चोपमया सह । अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता ॥ २.९१ ॥ किंशुकव्यपदेशेन तरुमारुह्य सर्वतः । दग्धादग्धमरण्यान्याः पश्यतीव विभावसुः ॥ २.९२ ॥ स्वभावोक्तिरलङ्कार इति केचित्प्रचक्षते । अर्थस्य तदवस्थत्वं स्वभावोऽभिहितो यथा ॥ २.९३ ॥ आक्रोशन्नाह्वयन्नन्यानाधावन्मण्डलै रुदन् । गा वारयति दण्डेन डिम्भः सस्यावतारणीः ॥ २.९४ ॥ समासेनोदितमिदं धीखेदायैव विस्तरः । असंगृहीतमप्यन्यदभ्यूह्यमनया दिशा ॥ २.९५ ॥ स्वयं कृतैरेव निदर्शनैरियं मया प्रकॢप्ता खलु वागलङ्कृतिः । अतः परं चारुरनेकधापरो गिरामलङ्कारविधिर्विधास्यते ॥ २.९६ ॥ इति भामहालङ्कारे द्वितीयः परिच्छेदः ।ध्याय तृतीयः परिच्छेदः प्रेयो रसवदूर्जस्वि पर्यायोक्तं समाहितम् । द्विप्रकारमुदात्तं च भेदैः श्लिष्टमपि त्रिभिः ॥ ३.१ ॥ अपह्नुतिं विशेषोक्तं विरोधं तुल्ययोगिताम् । अप्रस्तुतप्रशंसां च व्याजस्तुतिनिदर्शने ॥ ३.२ ॥ उपमारूपकं चान्यदुपमेयोपमामपि । सहोक्तिपरिवृत्ती च ससंदेहमनन्वयम् ॥ ३.३ ॥ उत्प्रेक्षावयवं चान्ये संसृष्टिमपि चापरे । भाविकत्वं च निजगुरलंकारं सुमेधसः ॥ ३.४ ॥ प्रेयो गृहागतं कृष्णमवादीद्विदुरो यथा । अद्य या मम गोविन्द जाता त्वयि गृहागते । कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ॥ ३.५ ॥ रसवद्दर्शितस्पष्ट शृङ्गारादिरसं यथा । देवी समागमद्धर्म मस्करिण्यतिरोहिता ॥ ३.६ ॥ ऊर्जस्वि कर्णेन यथा पार्थाय पुनरागतः । द्विः सन्दधाति किं कर्णः शल्येत्यहिरपाकृतः ॥ ३.७ ॥ पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते । उवाच रत्नाहरणे चैद्यं शार्ङ्गधनुर्यथा ॥ ३.८ ॥ गृहेष्वध्वसु वा नान्नं भुञ्ज्महे यदधीतिनः । न भुञ्जते द्विजास्तच्च रसदाननिवृत्तये ॥ ३.९ ॥ समाहितं राजमित्रे यथा क्षत्रिययोषिताम् । रामप्रसत्त्यै यान्तीनां पुरोऽदृश्यत नारदः ॥ ३.१० ॥ उदात्तं शक्तिमान् रामो गुरुवाक्यानुरोधकः । विहायोपनतं राज्यं यथा वनमुपागतम् ॥ ३.११ ॥ एतदेवापरेऽन्येन व्याख्यानेनान्यथा विदुः । नानारत्नादियुक्तं यत्तत्किलोदात्तमुच्यते ॥ ३.१२ ॥ चाणक्यो नक्तमुपयान्नन्दक्रीडागृहं यथा । शशिकान्तोपलच्छन्नं विवेद पयसां कणैः ॥ ३.१३ ॥ उपमानेन यत्तत्त्वमुपमेयस्य साध्यते । गुणक्रियाभ्यां नाम्ना च श्लिष्टं तदभिधीयते ॥ ३.१४ ॥ लक्षणं रूपकेऽपीदं लक्ष्यते काममत्र तु । इष्टः प्रयोगो युगपदुपमानोपमेययोः ॥ ३.१५ ॥ शीकराम्भोमदसृजस्तुङ्गा जलददन्तिनः । इत्यत्र मेघकरिणां निर्देशः क्रियते समम् ॥ ३.१६ ॥ श्लेषादेवार्थवचसोरस्य च क्रियते भिदा । तत्सहोक्त्युपमाहेतु निर्देशात्त्रिविधं यथा ॥ ३.१७ ॥ छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः । मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥ ३.१८ ॥ उन्नता लोकदयिता महान्तः प्राज्यवर्षिणः । शमयन्ति क्षितेस्तापं सुराजानो घना इव ॥ ३.१९ ॥ रत्नवत्त्वादगाधत्वात्स्वमर्यादाविलङ्घनात् । बहुसत्त्वाश्रयत्वाच्च सदृशस्त्वमुदन्वता ॥ ३.२० ॥ अपह्नुतिरभीष्टा च किंचिदन्तर्गतोपमा । भूतार्थापह्नवादस्याः क्रियते चाभिधा यथा ॥ ३.२१ ॥ नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः । अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥ ३.२२ ॥ एकदेशस्य विगमे या गुणान्तरसंस्थितिः । विशेषप्रथनायासौ विशेषोक्तिर्मता यथा ॥ ३.२३ ॥ स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शम्भुना न हृतं बलम् ॥ ३.२४ ॥ गुणस्य वा क्रियाया वा विरुद्धान्यक्रियाभिधा । या विशेषाभिधानाय विरोधं तं विदुर्बुधाः ॥ ३.२५ ॥ उपान्तरूढोपवनच्छायाशीतापि धूरसौ । विदूरदेशानपि वः सन्तापयति विद्विषः ॥ ३.२६ ॥ न्यूनस्यापि विशिष्टेन गुणसाम्यविवक्षया । तुल्यकार्यक्रियायोगादित्युक्ता तुल्ययोगिता ॥ ३.२७ ॥ शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः । यदलङ्घितमर्यादाश्चलन्तीं बिभृथ क्षितिम् ॥ ३.२८ ॥ अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः । अप्रस्तुतप्रशंसेति सा चैवं कथ्यते यथा ॥ ३.२९ ॥ प्रीणितप्रणयि स्वादु काले परिणतं बहु । विना पुरुषकारेण फलं पश्यत शाखिनाम् ॥ ३.३० ॥ दूराधिकगुणस्तोत्र व्यपदेशेन तुल्यताम् । किंचिद्विधित्सोर्या निन्दा व्याजस्तुतिरसौ यथा ॥ ३.३१ ॥ रामः सप्ताभिनत्सालान् गिरिं क्रौञ्चं भृगूत्तमः । शतांशेनापि भवता किं तयोः सदृशं कृतम् ॥ ३.३२ ॥ क्रिययैव विशिष्टस्य तदर्थस्योपदर्शनात् । ज्ञेया निदर्शना नाम यथेववतिभिर्विना ॥ ३.३३ ॥ अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति । उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥ ३.३४ ॥ उपमानेन तद्भावमुपमेयस्य साधयन् । यां वदत्युपमामेतदुपमारूपकं यथा ॥ ३.३५ ॥ समग्रगगनायाम मानदण्डो रथाङ्गिनः । पादो जयति सिद्धस्त्री मुखेन्दुनवदर्पणः ॥ ३.३६ ॥ उपमानोपमेयत्वं यत्र पर्यायतो भवेत् । उपमेयोपमां नाम ब्रुवते तां यथोदितम् ॥ ३.३७ ॥ सुगन्धि नयनानन्दि मदिरामदपाटलम् । अम्भोजमिव वक्त्रं ते त्वदास्यमिव पङ्कजम् ॥ ३.३८ ॥ तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रये । पदेनैकेन कथ्यते सहोक्तिः सा मता यथा ॥ ३.३९ ॥ हिमपाताविलदिशो गाढालिङ्गनहेतवः । वृद्धिमायान्ति यामिन्यः कामिनां प्रीतिभिः सह ॥ ३.४० ॥ विशिष्टस्य यदादानमन्यापोहेन वस्तुनः । अर्थान्तरन्यासवती परिवृत्तिरसौ यथा ॥ ३.४१ ॥ प्रदाय वित्तमर्थिभ्यः स यशोधनमाअदित । सतां विश्वजनीनानामिदमस्खलितं व्रतम् ॥ ३.४२ ॥ उपमानेन तत्त्वं च भेदं च वदतः पुनः । ससन्देहं वचः स्तुत्यै ससन्देहं विदुर्यथा ॥ ३.४३ ॥ किमयं शशी न स दिवा विराजते कुसुमायुधो न धनुरस्य कौसुमम् । इति विस्मयाद्विमृशतोऽपि मे मतिस्त्वयि वीक्षते न लभतेऽर्थनिश्चयम् ॥ ३.४४ ॥ यत्र तेनैव तस्य स्यादुपमानोपमेयता । असादृश्यविवक्षातस्तमित्याहुरनन्वयम् ॥ ३.४५ ॥ ताम्बूलरागवलयं स्फुरद्दशनदीधिति । इन्दीवराभनयनं तवेव वदनं तव ॥ ३.४६ ॥ श्लिष्टस्यार्थेन संयुक्तः किंचिदुत्प्रेक्षयान्वितः । रूपकार्थेन च पुनरुत्प्रेक्षावयवो यथा ॥ ३.४७ ॥ तुल्योदयावसानत्वाद्गतेऽस्तं प्रति भास्वति । वासाय वासरः क्लान्तो विशतीव तमोगृहम् ॥ ३.४८ ॥ वरा विभूषा संसृष्टिर्बह्वलङ्कारयोगतः । रचिता रत्नमालेव सा चैवमुदिता यथा ॥ ३.४९ ॥ गाम्भीर्यलावण्यवतोर्युवयोः प्राज्यरत्नयोः । सुखसेव्यो जनानां त्वं दुष्टग्राहोऽम्भसां पतिः ॥ ३.५० ॥ अनलङ्कृतकान्तं ते वदनं वनजद्युति । निशाकृतः प्रकृत्यैव चारोः का वास्त्यलङ्कृतिः ॥ ३.५१ ॥ अन्येषामपि कर्तव्या संसृष्टिरनया दिशा । कियदुद्घट्टितज्ञेभ्यः शक्यं कथयितुं मया ॥ ३.५२ ॥ भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् । प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः ॥ ३.५३ ॥ चित्रोदात्ताद्भुतार्थत्वं कथायाः स्वभिनीतता । शब्दानाकुलता चेति तस्य हेतून् प्रचक्षते ॥ ३.५४ ॥ आशीरपि च केषांचिदलङ्कारतया मता । सौहृदय्याविरोधोक्तौ प्रयोगोऽस्याश्च तद्यथा ॥ ३.५५ ॥ अस्मिञ्जहीहि सुहृदि प्रणयाभ्यसूयामाश्लिष्य गाढममुमानतमादरेण । विन्ध्यं महानिव घनः समयेऽभिवर्षन्नानन्दजैर्नयनवारिभिरुक्षतु त्वाम् ॥ ३.५६ ॥ मदान्धमातङ्गविभिन्नसाला हतप्रवीरा द्रुतभीतपौराः । त्वत्तेजसा दग्धसमस्तशोभा द्विषां पुरः पश्यतु राजलोकः ॥ ३.५७ ॥ गिरामलङ्कारविधिः सविस्तरः स्वयं विनिश्चित्य धिया मयोदितः । अनेन वागर्थविदामलङ्कृता विभाति नारीव विदग्धमण्डना ॥ ३.५८ ॥ इति भामहालङ्कारे तृतीयः परिच्छेदः ।ध्याय चतुर्थः परिच्छेदः अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम् । शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धि च ॥ ४.१ ॥ देशकालकलालोक न्यायागमविरोधि च । प्रतिज्ञाहेतुदृष्टान्त हीनं दुष्टं च नेष्यते ॥ ४.२ ॥ अपार्थमित्यपेतार्थं स चार्थः पदवाक्ययोः । अर्थवान् वर्णसंघातः सुप्तिङन्तं पदं पुनः ॥ ४.३ ॥ पदानामेव संघातः सापेक्षाणां परस्परम् । निराकाङ्क्षं च तद्वाक्यमेकवस्तुनिबन्धनम् ॥ ४.४ ॥ क्रमवृत्तिषु वर्णेषु संघातादि न युज्यते । बुद्धौ तु सम्भवत्येतदन्यत्वेऽपि प्रतिक्षणम् ॥ ४.५ ॥ धीरन्त्यशब्दविषया वृत्तवर्णाहितस्मृतिः । वाक्यमित्याहुरपरे न शब्दाः क्षणनश्वराः ॥ ४.६ ॥ अत्रापि बहु वक्तव्यं जायते तत्तु नोदितम् । गुरुभिः किं विवादेन यथाप्रकृतमुच्यते ॥ ४.७ ॥ समुदायार्थशून्यं यत्तदपार्थकमिष्यते । दाडिमानि दशापूपाः षडित्यादि यथोदितम् ॥ ४.८ ॥ विरुद्धार्थं मतं व्यर्थं विरुद्धं तूपदिश्यते । पूर्वापरार्थव्याघातात्विपर्ययकरं यथा ॥ ४.९ ॥ सखि मानं प्रिये धेहि लघुतामस्य मा गमः । भर्तुश्छन्दानुवर्त्तिन्यः प्रेम घ्नन्ति न हि स्त्रियः ॥ ४.१० ॥ उपासितगुरुत्वात्त्वं विजितेन्द्रयशत्रुषु । श्रेयसो विनयाधानमधुनातिष्ठ केवलम् ॥ ४.११ ॥ यदभिन्नार्थमन्योन्यं तदेकार्थं प्रचक्षते । पुनरुक्तमिदं प्राहुरन्ये शब्दार्थभेदतः ॥ ४.१२ ॥ न शब्दपुनरुक्तं तु स्थौल्यादत्रोपवर्ण्यते । कथमाक्षिप्तचित्तः सन्नुक्तमेवाभिधास्यते ॥ ४.१३ ॥ भयशोकाभ्यसूयासु हर्षविस्मययोरपि । यथाह गच्छ गच्छेति पुनरुक्तं न तद्विदुः ॥ ४.१४ ॥ अत्रार्थपुनरुक्तं यत्तदेवैकार्थमिष्यते । उक्तस्य पुनराख्याने कार्यासम्भवतो यथा ॥ ४.१५ ॥ तामुत्कमनसं नूनं करोति ध्वनिरम्भसाम् । सौधेषु घनमुक्तानां प्रणालीमुखपातिनाम् ॥ ४.१६ ॥ श्रुतेः सामान्यधर्माणां विशेषस्यानुदाहृतेः । अप्रतिष्ठं यदत्रेति तज्ज्ञानं संशयं विदुः ॥ ४.१७ ॥ ससंशयमिति प्राहुस्ततस्तज्जननं वचः । इष्टं निश्चितये वाक्यं न दोलायेत तद्यथा ॥ ४.१८ ॥ व्यालवन्तो दुरारोहा रत्नवन्तः फलान्विताः । विषमा भूभृतस्तेभ्यो भयमाशु प्रमादिनाम् ॥ ४.१९ ॥ यथोपदेशं क्रमशो निर्देशोऽत्र क्रमो मतः । तदपेतं विपर्यासादित्याख्यातमपक्रमम् ॥ ४.२० ॥ विदधानौ किरीटेन्दू श्यामाभ्रहिमसच्छवी । रथाङ्गशूले बिभ्राणौ पातां वः शम्भुशार्ङ्गिणौ ॥ ४.२१ ॥ सूत्रकृत्पादकारेष्ट प्रयोगाद्योऽन्यथा भवेत् । तमाप्तश्रावकासिद्धेः शब्दहीनं विदुर्यथा ॥ ४.२२ ॥ स्फुरत्तडिद्वलयिनो वितताम्भोगरीयसः । तेजस्तिरयतः सौरं घनान् पश्य दिवोऽभितः ॥ ४.२३ ॥ यतिश्छन्दोऽधिरूढानां शब्दानां या विचारणा । तदपेतं यतिभ्रष्टमिति निर्दिश्यते यथा ॥ ४.२४ ॥ विद्युत्वन्तस्तमालासितवपुष इमे वारिवाहा ध्वनन्ति ॥ ४.२५* ॥* गुरोर्लघोश्च वर्णस्य योऽस्थाने रचनाविधिः । तन्न्यूनाधिकता वापि भिन्नवृत्तमिदं यथा ॥ ४.२५ ॥ भ्रमति भ्रमरमाला काननेषून्मदासौ ।* विरहितरमणीकोऽर्हस्यद्य गन्तुम् ॥ ४.२६ ॥* कान्ते इन्दुशिरोरत्ने आदधाने उदंशुनी । पातां वः शम्भुशर्वाण्याविति प्राहुर्विसन्ध्यदः ॥ ४.२७ ॥ या देशे द्रव्यसम्भूतिरपि वा नोपदिश्यते । तत्तद्विरोधि विज्ञेयं स्वभावात्तद्यथोच्यते ॥ ४.२८ ॥ मलये कन्दरोपान्त रूढकालागुरुद्रुमे । सुगन्धिकुसुमानम्रा राजन्ते देवदारवः ॥ ४.२९ ॥ षण्णामृतूनां भेदेन कालः षोढेव भिद्यते । तद्विरोधकृदित्याहुर्विपर्यासादिदं यथा ॥ ४.३० ॥ उदूढशिशिरासारान् प्रावृषेण्यान्नभस्वतः । फुल्लाः सुरभयन्तीमे चूताः काननशोभिनः ॥ ४.३१ ॥ कला सङ्कलना प्रज्ञा शिल्पान्यस्याश्च गोचरः । विपर्यस्तं तथैवाहुस्तद्विरोधकरं यथा ॥ ४.३२ ॥ ऋषभात्पञ्चमस्तस्मात्सषड्जं धैवतं स्मृतम् । अयं हि मध्यमग्रामो मध्यमे पीडितर्षभः ॥ ४.३३ ॥ इति साधारितं मोहादन्यथैवावगच्छति । अन्यस्वपि कलास्वेवमभिधेया विरोधिता ॥ ४.३४ ॥ स्थास्नुजङ्गमभेदेन लोकं तत्त्वविदो विदुः । स च तद्व्यवहारोऽत्र तद्विरोधकरं यथा ॥ ४.३५ ॥ तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी ॥ ४.३६ ॥ धावतां सैन्यवाहानां फेनवारि मुखाच्च्युतम् । चकार जानुदध्नापान् प्रतिदिङ्मुखमध्वनः ॥ ४.३७ ॥ न्यायः शास्त्रं त्रिवर्गोक्तिर्दण्डनीतिं च तां विदुः । अतो न्यायविरोधीष्टमपेतं यत्तया यथा ॥ ४.३८ ॥ विजिगीषुमुपन्यस्य वत्सेशं वृद्धदर्शनम् । तस्यैव कृतिनः पश्चादभ्यधाच्चारशून्यताम् ॥ ४.३९ ॥ अन्तर्योधशताकीर्णं सालङ्कायननेतृकम् । तथाविधं गजच्छद्म नाज्ञासीत्स स्वभूगतम् ॥ ४.४० ॥ यदि वोपेक्षितं तस्य सचिवैः स्वार्थसिद्धये । अहो नु मन्दिमा तेषां भक्तिर्वा नास्ति भर्तरि ॥ ४.४१ ॥ शरा दृढधनुर्मुक्ता मन्युमद्भिररातिभिः । मर्माणि परिहृत्यास्य पतिष्यन्तीति कानुमा ॥ ४.४२ ॥ हतोऽनेन मम भ्राता मम पुत्रः पिता मम । मातुलो भागिनेयश्च रुषा संरब्धचेतसः ॥ ४.४३ ॥ अस्यन्तो विविधान्याजावायुधान्यपराधिनम् । एकाकिनमरण्यान्यां न हन्युर्बहवः कथम् ॥ ४.४४ ॥ नमोऽस्तु तेभ्यो विद्वद्भ्यो येऽभिप्रायं कवेरिमम् । शास्त्रलोकावपास्यैवं नयन्ति नयवेदिनः ॥ ४.४५ ॥ सचेतसो वनेभस्य चर्मणा निर्मितस्य च । विशेषं वेद बालोऽपि कष्टं किं नु कथं नु तत् ॥ ४.४६ ॥ आगमो धर्मशास्त्राणि लोकसीमा च तत्कृता । तद्विरोधि तदाचार व्यतिक्रमणतो यथा ॥ ४.४७ ॥ भूभृतां पीतसोमानां न्याय्ये वर्त्मनि तिष्ठताम् । अलंकरिष्णुना वंशं गुरौ सति जिगीषुणा ॥ ४.४८ ॥ अभार्योढेन संस्कारमन्तरेण द्विजन्मना । नरवाहनदत्तेन वेश्यावान्निशि पीडितः ॥ ४.४९ ॥ न दूषणायामुदाहृतो विधिर्न चाभिमानेन किमु प्रतीतये । कृतात्मनां तत्त्वदृशां च मादृशो जनोऽभिसन्धिं क इवावभोत्स्यते ॥ ४.५० ॥ इति भामहालङ्कारे चतुर्थः परिच्छेदः ।ध्याय पञ्चमः परिच्छेदः अथ प्रतिज्ञाहेत्वादि हीनं दुष्टं च वर्ण्यते । समासेन यथान्यायं तन्मात्रार्थप्रतीतये ॥ ५.१ ॥ प्रायेण दुर्बोधतया शास्त्राद्बिभत्यमेधसः । तदुपच्छन्दनायैष हेतुन्यायलवोच्चयः ॥ ५.२ ॥ स्वादुकाव्यरसोन्मिश्रं शास्त्रमप्युपयुञ्जते । प्रथमालीढमधवः पिबन्ति कटु भेषजम् ॥ ५.३ ॥ न स शब्दो न तद्वाच्यं न स न्यायो न सा कला । जायते यन्न काव्याङ्गमहो भारो महान् कवेः ॥ ५.४ ॥ सत्त्वादयः प्रमाणाभ्यां प्रत्यक्षमनुमा च ते । असाधारणसामान्य विषयत्वं तयोः किल ॥ ५.५ ॥ प्रत्यक्षं कल्पनापोढं ततोऽर्थादिति केचन । कल्पनां नामजात्यादि योजनां प्रतिजानते ॥ ५.६ ॥ समारोपः किलैतावान् सदर्थालम्बनं च तत् । जात्याद्यपोहे वृत्तिः क्व क्व विशेषः कुतश्च सः ॥ ५.७ ॥ तदपोहेषु च तथा सिद्धा सा बुद्धिगोचरा । अवस्तुकं चेद्वितथं प्रत्यक्षं तत्त्ववृत्ति हि ॥ ५.८ ॥ ग्राह्यग्राहकभेदेन विज्ञानांशो मतो यदि । विज्ञानमात्रसादृश्याद्विशेषोऽस्य विकल्पना ॥ ५.९ ॥ अर्थादेवेति रूपादेस्तत एवेति नान्यतः । अन्यथा घटविज्ञानमन्येन व्यपदिश्यते ॥ ५.१० ॥ त्रिरूपाल्लिङ्गतो ज्ञानमनुमानं च केचन । तद्विदो नान्तरीयार्थ दर्शनं चापरे विदुः ॥ ५.११ ॥ विवादास्पदधर्मेण धर्मी कृतविशेषणः । पक्षस्तस्य च निर्देशः प्रतिज्ञेत्यभिधीयते ॥ ५.१२ ॥ तदर्थहेतुसिद्धान्त सर्वागमविरोधिनी । प्रसिद्धधर्मा प्रत्यक्ष बाधिनी चेति दुष्यति ॥ ५.१३ ॥ तयैव हि तदर्थस्य विरोधकरणं यथा । यतिर्मम पिता बाल्यात्सूनुर्यस्याहमौरसः ॥ ५.१४ ॥ अस्त्यात्मा प्रकृतिर्वेति ज्ञेया हेत्वपवादिनी । धर्मिणोऽस्याप्रसिद्धत्वात्तद्धर्मोऽपि न सेत्स्यति ॥ ५.१५ ॥ शाश्वतोऽशाश्वतो वेति प्रसिद्धे धर्मिणि ध्वनौ । जायते भेदविषयो विवादो वादिनोर्मिथः ॥ ५.१६ ॥ स्वसिद्धान्तविरोधित्वाद्विज्ञेया तद्विरोधिनी । कणभक्षो यथा शब्दमाचक्षीताविनश्वरम् ॥ ५.१७ ॥ सर्वशास्त्रविरुद्धत्वात्सर्वागमविरोधिनी । यथा शुचिस्तनुस्त्रीणि प्रमाणानि न सन्ति वा ॥ ५.१८ ॥ आकुमारमसन्दिग्ध धर्माहितविशेषणा । प्रसिद्धधर्मेति मता श्रोत्रग्राह्यो ध्वनिर्यथा ॥ ५.१९ ॥ प्रत्यक्षबाधिनी तेन प्रमाणेनैव बाध्यते । यथा शीतोऽनलो नास्ति रूपमुष्णः क्षपाकरः ॥ ५.२० ॥ सन् द्वयोः सदृशे सिद्धो व्यावृत्तस्तद्विपक्षतः । हेतुस्त्रिलक्षणो ज्ञेयो हेत्वाभासो विपर्ययात् ॥ ५.२१ ॥ सन् द्वयोरिति यः सिद्धः स्वपक्षपरपक्षयोः । अभिन्नलक्षणः पक्षः फलभेदादयं द्विधा ॥ ५.२२ ॥ परपक्षानुपादाने तद्वृत्तेश्चानुदाहृतौ । कथमन्यतरासिद्ध हेत्वाभासव्यवस्थितिः ॥ ५.२३ ॥ साध्यधर्मानुगमतः सदृशस्तत्र यश्च सन् । अन्योऽप्यसावेक इव सामान्यादुपचर्यते ॥ ५.२४ ॥ विपक्षस्तद्विसदृशो व्यावृत्तस्तत्र यो ह्यसन् । इति द्वयैकानुगति व्यावृत्ती लक्ष्मसाधुता ॥ ५.२५ ॥ साध्यसाधनधर्माभ्यां सिद्धो दृष्टान्त उच्यते । तद्विपर्ययतो वापि तदाभस्तदवृत्तितः ॥ ५.२६ ॥ साध्येन लिङ्गानुगतिस्तदभावे च नास्तिता । ख्याप्यते येन दृष्टान्तः स किलान्यैर्द्विधोच्यते ॥ ५.२७ ॥ दूषणं न्यूनताद्युक्तिर्न्यूनं हेत्वादिनाथ वा । तन्मूलत्वात्कथायाश्च न्यूनं नेष्टं प्रतिज्ञया ॥ ५.२८ ॥ जातयो दूषणाभासास्ताः साधर्म्यसमादयः । तासां प्रपञ्चो बहुधा भूयस्त्वादिह नोदितः ॥ ५.२९ ॥ अपरं वक्ष्यते न्याय लक्षणं काव्यसंश्रयम् । इदं तु शास्त्रगर्भेषु काव्येष्वभिहितं यथा ॥ ५.३० ॥ अथ नित्याविनाभावि दृष्टं जगति कारणम् । कारणं चेन्न तन्नित्यं नित्यं चेत्कारणं न तत् ॥ ५.३१ ॥ लक्ष्म प्रयोगदोषाणां भेदेनानेन वर्त्मना । सन्धादिसाधनासिद्ध्यै शास्त्रेषूदितमन्यथा ॥ ५.३२ ॥ तज्ज्ञैः काव्यप्रयोगेषु तत्प्रादुष्कृतमन्यथा । तत्र लोकाश्रयं काव्यमागमास्तत्त्वदर्शिनः ॥ ५.३३ ॥ असिसंकाशमाकाशं शब्दो दूरानुपात्ययम् । सदैव वारि सिन्धूनामहो स्थेमा महार्चिषः ॥ ५.३४ ॥ रूपादीनां यथा द्रव्यमाश्रयो नश्यतीति च । इष्टकार्याभ्युपगमं प्रतिज्ञां प्रतिजानते ॥ ५.३५ ॥ धर्मार्थकामकोपानां संश्रयात्सा चतुर्विधा । जरामेष बिभर्मीति प्रतिज्ञाय पितुर्यथा । तथैव पुरुणाभारि सा स्याद्धर्मनिबन्धनी ॥ ५.३६ ॥ उपलप्स्ये स्वयं सीतामिति भर्तृनिदेशतः । हनुमता प्रतिज्ञाय सा ज्ञातेत्यर्थसंश्रया ॥ ५.३७ ॥ आहरिष्याम्यमूमद्य महासेनात्मजामिति । कृत्वा प्रतिज्ञां वत्सेन हृतेति मदनाश्रया ॥ ५.३८ ॥ भ्रातुर्भ्रातृव्यमुन्मथ्य पास्याम्यस्यासृगाहवे । प्रतिज्ञाय यथा भीमस्तच्चकारावशो रुषा ॥ ५.३९ ॥ कार्योऽन्यत्र प्रतिज्ञायाः प्रयोगो न कथं चन । परित्यागश्च कर्तव्यो नासां चतसृणामपि ॥ ५.४० ॥ प्रायोपवेशाय यथा प्रतिज्ञाय सुयोधनः । राज्याय पुनरुत्तस्थाविति धर्मविरोधिनी ॥ ५.४१ ॥ आहूतो न निवर्तेऽहं द्यूतायेति युधिष्ठिरः । कृत्वा सन्धां शकुनिना दिदेवेत्यर्थबाधिनी ॥ ५.४२ ॥ अद्यारभ्य निवत्स्यामि मुनिवद्वचनादिति । पितुः प्रियाय यां भीष्मश्चक्रे सा कामबाधिनी ॥ ५.४३ ॥ अत्याजयद्यथा रामः सर्वक्षत्रवधाश्रयाम् । जामदग्न्यं युधा जित्वा सा ज्ञेया कोपबाधिनी ॥ ५.४४ ॥ अथाभ्युपगमप्राप्तिः सन्धाभ्युपगमाद्विना । अनुक्तमपि यत्रार्थादभ्युपैति यथोच्यते ॥ ५.४५ ॥ किमिन्द्रियद्विषा ज्ञेयं को निराक्रियतेऽरिभिः । को वा गत्वरमर्थिभ्यो न यच्छति धनं लघु ॥ ५.४६ ॥ किमित्ययं तु यः क्षेपः सौकर्यं दर्शयत्यसौ । हेतुस्त्रिलक्ष्मैव मतः काव्येष्वपि सुमेधसाम् ॥ ५.४७ ॥ अन्वयव्यतिरेकौ हि केवलावर्थसिद्धये । यथाभितो वनाभोगमेतदस्ति महत्सरः । कूजनात्कुररीणां च कमलानां च सौरभात् ॥ ५.४८ ॥ अन्यधर्मोऽपि तत्सिद्धिं सम्बन्धेन करोत्ययम् । धूमादभ्रंकषात्साग्नेः प्रदेशस्यानुमामिव ॥ ५.४९ ॥ अपृथक्कृतसाध्योऽपि हेतुश्चात्र प्रतीयते । अन्वयव्यतिरेकाभ्यां विनैवार्थगतिर्यथा ॥ ५.५० ॥ दीप्रदीपा निशा जज्ञे व्यपवृत्तदिवाकरा । हेतुः प्रदीप्रदीपत्वमपवृत्तौ रवेरिह ॥ ५.५१ ॥ तस्यापि सुधियामिष्टा दोषाः प्रागुदितास्त्रयः । अज्ञानसंशयज्ञान विपर्ययकृतो यथा ॥ ५.५२ ॥ काशा हरन्ति हृदयममी कुसुमसौरभात् । अपामभ्यर्णवर्तित्वादेते ज्ञेयाः शरारयः ॥ ५.५३ ॥ असौ शुक्लान्तनेत्रत्वाच्चकोर इति गृह्यताम् । तुल्यजातावदृष्टत्वात्साधयतचकोरताम् ॥ ५.५४ ॥ उक्तस्यार्थस्य दृष्टान्तः प्रतिबिम्बनिदर्शनम् । ननूपमानुमैवास्तु न हेत्वनभिधानतः ॥ ५.५५ ॥ साध्यसाधनयोरुक्तिरुक्तादन्यत्र नेष्यते । मुखं पद्ममिवेत्यत्र किं साध्यं किं च साधनम् ॥ ५.५६ ॥ इति प्रयोगस्य यथा कलावपि भवानिह । श्रेयान् वृद्धानुशिष्टत्वात्पूर्वे कृतयुगे यथा ॥ ५.५७ ॥ यत्र दृष्टान्तमात्रेण व्यज्येते साध्यसाधने । तमाहुः शुद्धदृष्टान्तं तन्मात्राविष्कृतेर्यथा ॥ ५.५८ ॥ भरतस्त्वं दिलीपस्त्वं त्वमेवैलः पुरूरवाः । त्वमेव वीर प्रद्युम्नस्त्वमेव नरवाहनः ॥ ५.५९ ॥ कथमेकपदेनैव व्यजेरन्नस्य ते गुणाः । इति प्रयुञ्जते सन्तः केचिद्विस्तरभीरवः ॥ ५.६० ॥ पदमेकं वरं साधु नार्वाचीननिबन्धनम् । वैपरीत्याद्विपर्यासं कीर्तेरपि करोति तत् ॥ ५.६१ ॥ अहृद्यमसुनिर्भेदं रसवत्त्वेऽप्यपेशलम् । काव्यं कपित्थमामं यत्केषांचित्तादृशं यथा ॥ ५.६२ ॥ प्रजाजनश्रेष्ठवरिष्ठभूभृच्छिरोर्चितांघ्रेः पृथुकीर्तिधिष्ण्य । अहिघ्नपद्मस्य जलारिधाम्नस्तवैव नान्यस्य सुतस्य वृत्तम् ॥ ५.६३ ॥ अंशुमद्भिश्च मणिभिः फलनिम्नैश्च शाखिभिः । फुल्लैश्च कुसुमैरन्ये वाचोऽलंकुर्वते यथा ॥ ५.६४ ॥ शुभमरकतपद्मरागचित्रे सफलसपल्लवभूरिचारुवृक्षे । बहुकुसुमविभूषिते स तस्थौ सुरमुनिसिद्धयुते सुमेरुपृष्ठे ॥ ५.६५ ॥ तदेभिरङ्गैर्भूष्यन्ते भूषणोपवनस्रजः । वाचां वक्रार्थशब्दोक्तिरलंकाराय कल्पते ॥ ५.६६ ॥ विरुद्धपदमस्वर्थं बहुपूरणमाकुलम् । कुर्वन्ति काव्यमपरे व्यायताभीप्सया यथा ॥ ५.६७ ॥ एलातक्कोलनागस्फुटबकुललताचन्दनस्पन्दनाढ्यो मुक्ताकर्पूरचक्रागरुकमनशिलास्थासकव्याप्ततीरः । शङ्खव्राताकुलोऽन्तस्तिमिमकरकुलाकीर्णवीचीप्रतानो दध्रे यस्याम्बुराशिः शशिकुमुदसुधाक्षीरशुद्धां सुकीर्तिम् ॥ ५.६८ ॥ इति निगदितास्तास्ता वाचामलङ्कृतयो मया बहुविधकृतीर्दृष्ट्वान्येषां स्वयं परितर्क्य च । प्रथितवचसः सन्तोऽभिज्ञाः प्रमाणमिहापरे गुरुतरधियामस्वाराधं मनोऽकृतबुद्धिभिः ॥ ५.६९ ॥ इति भामहालंकारे पञ्चमः परिच्छेदः ।ध्याय षष्ठः परिच्छेदः सूत्राम्भसं पदावर्तं पारायणरसातलम् । धातूणादिगणग्राहं ध्यानग्रहबृहत्प्लवम् ॥ ६.१ ॥ धीरैरालोकितप्रान्तममेधोभिरसूयितम् । सदोपभुक्तं सर्वाभिरन्यविद्याकरेणुभिः ॥ ६.२ ॥ नापारयित्वा दुर्गाधममुं व्याकरणार्णवम् । शब्दरत्नं स्वयंगम्यमलं कर्तुमयं जनम् ॥ ६.३ ॥ तस्य चाधिगमे यत्नः कार्यं काव्यं विधित्सता । परप्रत्ययतो यत्तु क्रियते तेन का रतिः ॥ ६.४ ॥ नान्यप्रत्ययशब्दा वागाविभाति मुदे सताम् । परेण घृतमुक्तेव सरसा कुसुमावली ॥ ६.५ ॥ मुख्यस्तावदयं न्यायो यत्स्वशक्त्या प्रवर्तते । अन्यसारस्वता नाम सन्त्यन्योक्तानुवादिनः ॥ ६.६ ॥ प्रतीतिरर्थेषु यतस्तं शब्दं ब्रुवतेऽपरे । धूमभासोरपि प्राप्ता शब्दताग्न्यनुमां प्रति ॥ ६.७ ॥ नन्वकारादिवर्णानां समुदायोऽभिधेयवान् । अर्थप्रतीतये गीतः शब्द इत्यभिधीयते ॥ ६.८ ॥ प्रत्येकमसमर्थानां समुदायोऽर्थवान् कथम् । वर्णानां क्रमवृत्तित्वान्न्याया नापि च संहतिः ॥ ६.९ ॥ न चापि समुदायिभ्यः समुदायोऽतिरिच्यते । दारुभित्तिभुवोऽतीत्य किमन्यत्सद्म कल्प्यते ॥ ६.१० ॥ तस्मात्कूटस्थ इत्येषा शाब्दी वः कल्पना वृथा । प्रत्यक्षमनुमानं वा यत्र तत्परमार्थतः ॥ ६.११ ॥ शपथैरपि चादेयं वचो न स्फोटवादिनाम् । नमःकुसुममस्तीति श्रद्दध्यात्कः सचेतनः ॥ ६.१२ ॥ इत्यन्त ईदृशा वर्णा ईदृगर्थाभिधायिनः । व्यवहाराय लोकस्य प्रागित्थं समयः कृतः ॥ ६.१३ ॥ स कूटस्थोऽनपायी च नादादन्यश्च कथ्यते । मन्दाः साङ्केतिकानर्थान्मन्यन्ते पारमार्थिकान् ॥ ६.१४ ॥ विनश्वरोऽस्तु नित्यो वा सम्बन्धोऽर्थेन वा सता । नमोऽस्तु तेभ्यो विद्वद्भ्यः प्रमाणं येऽस्य निश्चितौ ॥ ६.१५ ॥ अन्यापोहेन शब्दोऽर्थमाहेत्यन्ये प्रचक्षते । अन्यापोहश्च नामान्य पदार्थापाकृतिः किल ॥ ६.१६ ॥ यदि गौरित्ययं शब्दः कृतार्थोऽन्यनिराकृतौ । जनको गवि गोबुद्धेर्मृग्यतामपरो ध्वनिः ॥ ६.१७ ॥ अर्थज्ञानफलाः शब्दा न चैकस्य फलद्वयम् । अपवादविधिज्ञाने फले चैकस्य वः कथम् ॥ ६.१८ ॥ पुरा गौरिति विज्ञानं गोशब्दश्रवणाद्भवेत् । येनागोप्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः ॥ ६.१९ ॥ वर्णभेदादिदं भिन्नं वर्णाः स्वांशविकल्पतः । के शब्दाः किं च तद्वाच्यमित्यहो वर्त्म दुस्तरम् ॥ ६.२० ॥ द्रव्यक्रियाजातिगुण भेदात्ते च चतुर्विधाः । यदृच्छाशब्दमप्यन्ये डित्थादिं प्रतिजानते ॥ ६.२१ ॥ नानाभाषाविषयिणामपर्यन्तार्थवर्तिनाम् । इयत्ता केन वामीषां विशेषादवधार्यते ॥ ६.२२ ॥ वक्रवाचां कवीनां ये प्रयोगं प्रति साधवः । प्रयोक्तुं ये न युक्ताश्च तद्विवेकोऽयमुच्यते ॥ ६.२३ ॥ नाप्रयुक्तं प्रयुञ्जीत चेतःसम्मोहकारिणम् । तुल्यार्थत्वेऽपि हि ब्रूयात्को हन्तिं गतिवाचिनम् ॥ ६.२४ ॥ श्रौत्रादिं न तु दुर्बोधं न दुष्टादिमपेशलम् । ग्राम्यं न पिण्डीशूरादिं न डित्थादिमपार्थकम् ॥ ६.२५ ॥ नाप्रतीतान्यथार्थत्वं धात्वनेकार्थतावशात् । न लेशज्ञापकाकृष्टं स हन्ति ध्याति वा यथा ॥ ६.२६ ॥ न शिष्टैरुक्तमित्येव न तन्त्रान्तरसाधितम् । छन्दोवदिति चोत्सर्गान्न चापि च्छान्दसं वदेत् ॥ ६.२७ ॥ क्रमागतं श्रुतिसुखं शब्दमर्थ्यमुदीरयेत् । अतिशेते ह्यलंकारमन्यं व्यञ्जनचारुता ॥ ६.२८ ॥ सिद्धो यश्चोपसंख्यानादिष्ट्या यश्चोपपादितः । तमाद्रियेत प्रायेण न तु योगविभागजम् ॥ ६.२९ ॥ इयं चन्द्रमुखी कन्या प्रकृत्यैव मनोहरा । अस्यां सुवर्णालंकारः पुष्णाति नितरां श्रियम् ॥ ६.३० ॥ वृद्धिपक्षं प्रयुञ्जीत संक्रमेऽपि मृजेर्यथा । मार्जन्त्यधररागं ते पतन्तो बाष्पबिन्दवः ॥ ६.३१ ॥ सरूपशेषं तु पुमान् स्त्रिया यत्र च शिष्यते । यथाह वरुणाविन्द्रौ भवौ शर्वौ मृडाविति ॥ ६.३२ ॥ यथा पटयतीत्यादि णिच्प्रातिपदिकात्ततः । णाविष्ठवदितीष्ट्या च तथा क्रशयतीत्यपि ॥ ६.३३ ॥ प्रयुञ्जीताव्ययीभावमदन्तं नाप्यपञ्चमी । तृतीयासप्तमीपक्षे नालुग्विषयमानयेत् ॥ ६.३४ ॥ तिष्ठद्गुप्रभृतौ वाच्यौ नक्तंदिवसगोचरौ । यथा विद्वानधीतेऽसौ तिष्ठद्गु च वहद्गु च ॥ ६.३५ ॥ शिष्टप्रयोगमात्रेण न्यासकारमतेन वा । तृचा समस्तषष्ठीकं न कथंचिदुदाहरेत् ॥ ६.३६ ॥ सूत्रज्ञापकमात्रेण वृत्रहन्ता यथोदितः । अकेन च न कुर्वीत वृत्तिं तद्गमको यथा ॥ ६.३७ ॥ पञ्चराजीति च यथा प्रयुञ्जीत द्विगुं स्त्रियाम् । नपुंसकं तत्पुरुषं पुरुहूतसभं यथा ॥ ६.३८ ॥ सर्वेभ्यश्च भृशादिभ्यो वदेल्लुप्तहलं यथा । प्रियोन्मनायते सा ते किं शठाभिमनायसे ॥ ६.३९ ॥ तृतीयैकवचः षष्ठ्यामामन्तं च वदेत्क्विपि । यथोदितं बलभिदा सुरुचां विद्युतामिव ॥ ६.४० ॥ असन्तमपि यद्वाक्यं तत्तथैव प्रयोजयेत् । यथोच्यतेऽम्भसा भासा यशसामम्भसामिति ॥ ६.४१ ॥ पुंसि स्त्रियां च क्वस्वन्तमिच्छन्त्यच्छान्दसं किल । उपेयुषामपि दिवं यथा न व्येति चारुता ॥ ६.४२ ॥ इभकुम्भनिभे बाला दधुषी कञ्चुकं स्तने । रतिखेदपरिश्रान्ता जहार हृदयं नृणाम् ॥ ६.४३ ॥ शबलादिभ्योऽतितरां भाति णिज्विहितो यथा । बलाकाः पश्य सुश्रेणि घनाञ्छबलयन्त्यमूः ॥ ६.४४ ॥ शिशिरासारकणिका सदृशः सेतुगन्धवाट् । त्वां वीजयति सुश्रेणि रतिखेदालसेक्षणाम् ॥ ६.४५ ॥ एवं णिचः प्रयोगस्तु सर्वत्रालंकृतिः परा । लिङ्गत्रयोपपन्नं च ताच्छील्यविषयं णिनिम् ॥ ६.४६ ॥ तस्य हारी स्तनाभोगो वदनं हारि सुन्दरम् । हारिणी तनुरत्यन्तं कियन्न हरते मनः ॥ ६.४७ ॥ ताच्छील्यादिषु चेष्यन्ते सर्व एव तृनादयः । विशेषेण च तत्रेष्टा युच्कुरज्वरजिष्णुचः ॥ ६.४८ ॥ क्तिन्नन्तं च प्रयुञ्जीत संगतिः संहतिर्यथा । शाकारौ जागुरिष्टौ च जागर्या जागरा यथा ॥ ६.४९ ॥ उपासनेति च युचं नित्यमासेः प्रयोजयेत् । ल्युटं च कर्तृविषयं देवनो रमणो यथा ॥ ६.५० ॥ अणन्तादपि ङीबिष्टो लक्ष्मीः पौरन्दरी यथा । अञ्महारजनाल्लाक्षा रोचनाभ्यां तथा च ठक् ॥ ६.५१ ॥ ड्मतुबिष्टं च कुमुदाद्यथेयं भूः कुमुद्वती । ठक्चापि तेन जयतीत्याक्षिकः शास्त्रिको यथा ॥ ६.५२ ॥ हितप्रकरणे णं च सर्वशब्दात्प्रयुञ्जते । ततश्छमिष्ट्या च यथा सार्वः सर्वीय इत्यपि ॥ ६.५३ ॥ वदेदिमनिजन्तं च पटिमा लघिमा यथा । विशेषेणेयसुन्निष्टो ज्यायानाप कनीयसीम् ॥ ६.५४ ॥ द्वयसज्दघ्नचाविष्टौ प्रमाणविषयौ यथा । जानुदघ्नी सरिन्नारी नितम्बद्वयसं सरः ॥ ६.५५ ॥ मतुप्प्रकरणे ज्योत्स्ना तमिस्राशृङ्गिणादयः । इनच्च फलबर्हाभ्यां फलिनो बर्हिणो यथा ॥ ६.५६ ॥ इनिः प्रयुक्तः प्रायेण तथा ठंश्च मनीषिभिः । तत्रापि मेखालामाला मायानां सुतरां मतौ ॥ ६.५७ ॥ अभ्यस्ताज्झेरदादेशे दधतीत्यादयोऽपि च । रोदिति स्वपितीत्यादि सहेटा सार्वधातुकम् ॥ ६.५८ ॥ अभ्यस्तेषु प्रयोक्तव्यमदन्तं घुभृञोः शतुः । असौ दधदलंकारं स्रजं बिभ्रच्च शोभते ॥ ६.५९ ॥ [न तवर्गं शकारेण क्वचित्सं]योगिनं वदेत् । यथैतच्छ्याममाभाति वनं वनजलोचने ॥ ६.६० ॥ नैकत्रैकारभूयस्तं गतो यातो हतो यथा । सावर्ण्यवज्झयो हस्य ब्रूयान्नान्यत्र पद्धतेः ॥ ६.६१ ॥ सालातुरीयमतमेतदनुक्रमेण को वक्ष्यतीति विरतोऽहमतो विचारात् । शब्दार्णवस्य यदि कश्चिदुपैति पारं भीमाम्भसश्च जलधेरिति विस्मयोऽसौ ॥ ६.६२ ॥ विद्यानां सततमपाश्रयोऽपरासां तासूक्तान्न च विरुणद्धि कांश्चिदर्थान् । श्रद्धेयं जगति मतं हि पाणिनीयं माध्यस्थ्याद्भवति न कस्यचित्प्रमाणम् ॥ ६.६३ ॥ अवलोक्य मतानि सत्कवीनामवगम्य स्वधिया च काव्यलक्ष्म । सुजनावमयाय भामहेन ग्रथितं रक्रिलगोमिसूनुनेदम् ॥ ६.६४ ॥ इति श्रीभामहालङ्कारे षष्ठः परिच्छेदः षष्ट्या शरीरं निर्णीतं शतषष्ट्या त्वलङ्कृतिः । पञ्चाशता दोषदृष्टिः सप्तत्या न्यायनिर्णयः ॥ ६.६५ ॥ षष्ट्या शब्दस्य शुद्धिः स्यादित्येवं वस्तुपञ्चकम् । उक्तं षड्भिः परिच्छेदैर्भामहेन क्रमेण वः ॥ ६.६६ ॥