अथ काव्यादर्शः परिच्छेद १ चतुर्मुखमुखाम्भोज वनहंसवधूर्मम । मानसे रमतां दीर्घं सर्वशुक्ला सरस्वती ॥ १.१ ॥ पूर्वशास्त्राणि संहृत्य प्रयोगानुपलक्ष्य च । यथासामर्थ्यमस्माभिः क्रियते काव्यलक्षणम् ॥ १.२ ॥ इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा । वाचामेव प्रसादेन लोकयात्रा प्रवर्तते ॥ १.३ ॥ इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥ १.४ ॥ आदिराजयशोबिम्बमादर्शं प्राप्य वाङ्मयम् । तेषामसंनिधानेऽपि न स्वयं पश्य नश्यति ॥ १.५ ॥ गौर्गौः कामदुघा सम्यक्प्रयुक्ता स्मर्यते बुधैः । दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति ॥ १.६ ॥ तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथं चन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् ॥ १.७ ॥ गुणदोषानशास्त्रज्ञः कथं विभजते नरः । किमन्धस्याधिकारोऽस्ति रूपभेदोपलब्धिषु ॥ १.८ ॥ अतः प्रजानां व्युत्पत्तिमभिसंधाय सूरयः । वाचां विचित्रमार्गाणां निबबन्धुः क्रियाविधिम् ॥ १.९ ॥ तैः शरीरं च काव्यानामलंकाराश्च दर्शिताः । शरीरं तावदिष्टार्थ व्यवच्छिन्ना पदावली ॥ १.१० ॥ पद्यं गद्यं च मिश्रं च तत्त्रिधैव व्यवस्थितम् । पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ॥ १.११ ॥ छन्दोविचित्यां सकलस्तत्प्रबन्धो निदर्शितः । सा विद्या नौस्विविक्षूणां गम्भीरं काव्यसागरम् ॥ १.१२ ॥ मुक्तकं कुलकं कोशः संघात इति तादृशः । सर्गबन्धांशरूपत्वादनुक्तः पद्यविस्तरः ॥ १.१३ ॥ सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् । आशीर्नमस्क्रिया वस्तु निर्देशो वापि तन्मुखम् ॥ १.१४ ॥ इतिहासकथोद्भूतमितरद्वा सदाश्रयम् । चतुर्वर्गफलायत्तं चतुरोदात्तनायकम् ॥ १.१५ ॥ नगरार्णवशैलर्तु चन्द्रार्कोदयवर्णनैः । उद्यानसलिलक्रीडा मधुपानरतोत्सवैः ॥ १.१६ ॥ विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः । मन्त्रदूतप्रयाणाजि नायकाभ्युदयैरपि ॥ १.१७ ॥ अलंकृतमसंक्षिप्तं रसभावनिरन्तरम् । सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसंधिभिः ॥ १.१८ ॥ सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जनम् । काव्यं कल्पोत्तरस्थायि जायते सदलंकृति ॥ १.१९ ॥ न्यूनमप्यत्र यैःकैश्चिदङ्गैः काव्यं न दुष्यति । यद्युपात्तेषु संपत्तिराराधयति तद्विदः ॥ १.२० ॥ गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम् । निराकरणमित्येष मार्गः प्रकृतिसुन्दरः ॥ १.२१ ॥ वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि । तज्जयान्नायकोत्कर्ष वर्णनं च धिनोति नः ॥ १.२२ ॥ अपादः पदसंतानो गद्यमाख्यायिका कथा । इति तस्य प्रभेदौ द्वौ तयोराख्यायिका किल ॥ १.२३ ॥ नायकेनैव वाच्यान्या नायकेनेतरेण वा । स्वगुणाविष्क्रिया दोषो नात्र भूतार्थशंसिनः ॥ १.२४ ॥ अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात् । अन्यो वक्ता स्वयं वेति कीदृग्वा भेदलक्षणम् ॥ १.२५ ॥ वक्त्रं चापरवक्त्रं च सोच्छ्वासत्वं च भेदकम् । चिह्नमाख्यायिकायाश्चेत्प्रसङ्गेन कथास्वपि ॥ १.२६ ॥ आर्यादिवत्प्रवेशः किं न वक्त्रापरवक्त्रयोः । भेदश्च दृष्टो लम्बादिरुच्छ्वासो वास्तु किं ततः ॥ १.२७ ॥ तत्कथाख्यायिकेत्येका जातिः संज्ञाद्वयाङ्किता । अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः ॥ १.२८ ॥ कन्याहरणसंग्राम विप्रलम्भोदयादयः । सर्गबन्धसमा एव नैते वैशेषिका गुणाः ॥ १.२९ ॥ कविभावकृतं चिह्नमन्यत्रापि न दुष्यति । मुखमिष्टार्थसंसिद्ध्यै किं हि न स्यात्कृतात्मनाम् ॥ १.३० ॥ मिश्राणि नाटकादीनि तेषामन्यत्र विस्तरः । गद्यपद्यमयी काचित्चम्पूरित्यभिधीयते ॥ १.३१ ॥ तदेतद्वाङ्मयं भूयः संस्कृतं प्राकृतं तथा । अपभ्रंशश्च मिश्रं चेत्याहुरार्याश्चतुर्विधम् ॥ १.३२ ॥ संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः । तद्भवस्तत्समो देशीत्यनेकः प्राकृतक्रमः ॥ १.३३ ॥ महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः । सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥ १.३४ ॥ शौरसेनी च गौडी च लाटी चान्या च तादृशी । याति प्राकृतमित्येवं व्यवहारेषु संनिधिम् ॥ १.३५ ॥ आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृताः । शास्त्रेषु संस्कृतादन्यदपभ्रंशतयोदितम् ॥ १.३६ ॥ संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादिकम् । ओसरादीन्यपभ्रंशो नाटकादि तु मिश्रकम् ॥ १.३७ ॥ कथापि सर्वभाषाभिः संस्कृतेन च बध्यते । भूतभाषामयीं प्राहुरद्भुतार्थां बृहत्कथाम् ॥ १.३८ ॥ लास्यच्छलितशम्यादि प्रेक्षार्थमितरत्पुनः । श्रव्यमेवेति सैषापि द्वयी गतिरुदाहृता ॥ १.३९ ॥ अस्त्यनेको गिरां मार्गः सूक्ष्मभेदः परस्परम् । तत्र वैदर्भगौडीयौ वर्ण्येते प्रस्फुटान्तरौ ॥ १.४० ॥ श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्वं ओजःकान्तिसमाधयः ॥ १.४१ ॥ इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः । एषां विपर्ययः प्रायो लक्ष्यते गौडवर्त्मनि ॥ १.४२ ॥ [श्लेष व्स्. शिथिल] श्लिष्टमस्पृष्टशैथिल्यमल्पप्राणाक्षरोत्तरम् । शिथिलं मालतीमाला लोलालिकलिला यथा ॥ १.४३ ॥ अनुप्रासधिया गौडैस्तदिष्टं बन्धगौरवात् । वैदर्भैर्मालतीदाम लङ्घितं भ्रमरैरिति ॥ १.४४ ॥ [प्रसाद व्स्. व्युत्पन्न] प्रसादवत्प्रसिद्धार्थमिन्दोरिन्दीवरद्युति । लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वचः ॥ १.४५ ॥ व्युत्पन्नमिति गौडीयैर्नातिरूढमपीष्यते । यथानत्यर्जुनाब्जन्म सदृक्षाङ्को बलक्षगुः ॥ १.४६ ॥ [समता व्स्. वैषम्य] समं बन्धेष्वविषमं ते मृदुस्फुटमध्यमाः । बन्धा मृदुस्फुटोन्मिश्र वर्णविन्यासयोनयः ॥ १.४७ ॥ कोकिलालापवाचालो मामेति मलयानिलः । उच्छलच्छीकराच्छाच्छ निर्झराम्भःकणोक्षितः ॥ १.४८ ॥ चन्दनप्रणयोद्गन्धिर्मन्दो मलयमारुतः । स्पर्धते रुद्धमद्धैर्यो वररामामुखानिलैः ॥ १.४९ ॥ इत्यनालोच्य वैषम्यमर्थालंकारडम्बरौ । अपेक्षमाणा ववृधे पौरस्त्या काव्यपद्धतिः ॥ १.५० ॥ [माधुर्य] मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः । येन माध्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥ १.५१ ॥ [(१.) अनुप्रास (शब्दालंकार) व्स्. वर्णावृत्ति] यया कयाचिच्छ्रुत्या यत्समानमनुभूयते । तद्रूपा हि पदासत्तिः सानुप्रासा रसावहा ॥ १.५२ ॥ एष राजा यदा लक्ष्मीं प्राप्तवान् ब्रह्मणप्रियः । ततः प्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत् ॥ १.५३ ॥ इतीदं नादृतं गौडैरनुप्रासस्तु तत्प्रियः । अनुप्रासादपि प्रायो वैदर्भैरिदमिष्यते ॥ १.५४ ॥ वर्णावृत्तिरनुप्रासः पादेषु च पदेषु च । पूर्वानुभवसंस्कार बोधिनी यद्यदूरता ॥ १.५५ ॥ चन्द्रे शरन्निशोत्तंसे कुन्दस्तवकविभ्रमे । इन्द्रनीलनिभं लक्ष्म संदधात्यनिलः श्रियम् ॥ १.५६ ॥ चारु चन्द्रमसं भीरु बिम्बं पश्यैतदम्बरे । मन्मनो मन्मथाक्रान्तं निर्दयं हन्तुमुद्यतम् ॥ १.५७ ॥ इत्यनुप्रासमिच्छन्ति नातिदूरान्तरश्रुतिम् । न तु रामामुखाम्भोज सदृशश्चन्द्रमा इति ॥ १.५८ ॥ स्मरः खरः खलः कान्तः कायः कोपश्च नः कृशः । च्युतो मानोऽधिको रागो मोहो जातोऽसवो गताः ॥ १.५९ ॥ इत्यादि बन्धपारुष्यं शैथिल्यं च निगच्छति । अतो नैवमनुप्रासं दाक्षिनात्याः प्रयुञ्जते ॥ १.६० ॥ [(२.) यमक (शब्दालंकार॑ व्w.)] आवृत्तिं वर्णसंघात गोचरां यमकं विदुः । तत्तु नैकान्तमधुरमतः पश्चाद्विधास्यते ॥ १.६१ ॥ [(३.) अग्राम्यता (अर्थालंकार) व्स्. ग्राम्यता] कामं सर्वोऽप्यलंकारो रसमर्थे निषञ्चति । तथाप्यग्राम्यतैवैतं भारं वहति भूयसा ॥ १.६२ ॥ कन्ये कामयमानं मां न त्वं कामयसे कथम् । इति ग्राम्योऽयमर्थात्मा वैरस्याय प्रकल्पते ॥ १.६३ ॥ कामं कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः । त्वयि निर्मत्सरो दिष्ट्येत्यग्राम्योऽर्थो रसावहः ॥ १.६४ ॥ शब्देऽपि ग्राम्यतास्त्येव सा सभ्येतरकीर्तनात् । यथा यकारादिपदं रत्युत्सवनिरूपणे ॥ १.६५ ॥ पदसंधानवृत्त्या वा वाक्यार्थत्वेन वा पुनः । दुष्प्रतीतिकरं ग्राम्यं यथा या भवतः प्रिया ॥ १.६६ ॥ खरं प्रहृत्य विश्रान्तः पुरुषो वीर्यवानिति । एवमादि न शंसन्ति मार्गयोरुभयोरपि ॥ १.६७ ॥ भगिनीभगवत्यादि सर्वत्रैवानुमन्यते । विभक्तमिति माधुर्यमुच्यते सुकुमारता ॥ १.६८ ॥ [सुकुमारता व्स्. दीप्त] अनिष्ठुराक्षरप्रायं सुकुमारमिहेष्यते । बन्धशैथिल्यदोषस्तु दर्शितः सर्वकोमले ॥ १.६९ ॥ मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः । कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥ १.७० ॥ इत्यनूर्जित एवार्थो नालंकारोऽपि तादृशः । सुकुमारतयैवैतदारोहति सतां मनः ॥ १.७१ ॥ दीप्तमित्यपरैर्भूम्ना कृच्छ्रोद्यमपि बध्यते । न्यक्षेण क्षयितः पक्षः क्षत्रियाणां क्षणादिति ॥ १.७२ ॥ [अर्थव्यक्ति व्स्. नेयत्व] अर्थव्यक्तिरनेयत्वमर्थस्य हरिणोद्धृता । भूः खुरक्षुण्णनागासृग्लोहितादुदधेरिति ॥ १.७३ ॥ मही महावराहेण लोहितादुद्धृतोदधेः । इतीयत्येव निर्दिष्टे नेयत्वमुरगासृजः ॥ १.७४ ॥ नेदृशं बहु मन्यते मार्गयोरुभयोरपि । न हि प्रतीतिः सुभगा शब्दन्यायविलङ्घिनी ॥ १.७५ ॥ [उदारत्वम्] उत्कर्षवान् गुणः कश्चिद्यस्मिन्नुक्ते प्रतीयते । तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः ॥ १.७६ ॥ अर्थिनां कृपणा दृष्टिस्त्वन्मुखे पतिता सकृत् । तदवस्था पुनर्देव नान्यस्य मुखमीक्षते ॥ १.७७ ॥ इति त्यागस्य वाक्येऽस्मिन्नुत्कर्षः साधु लक्ष्यते । अनेनैव पथान्यत्र समानन्यायमूह्यताम् ॥ १.७८ ॥ श्लाघ्यैर्विशेषणैर्युक्तमुदारं कैश्चिदिष्यते । यथा लीलाम्बुजक्रीडा सरोहेमाङ्गदादयः ॥ १.७९ ॥ [ओजस्] ओजः समासभूयस्त्वमेतद्गद्यस्य जीवितम् । पद्येऽप्यदाक्षिणात्यानामिदमेकं परायणम् ॥ १.८० ॥ तद्गुरूणां लघूनां च बाहुल्याल्पत्वमिश्रणैः । उच्चावचप्रकारं तद्दृश्यमाख्यायिकादिषु ॥ १.८१ ॥ अस्तमस्तकपर्यस्त समस्तार्कांशुसंस्तरा । पीनस्तनस्थिताताम्र कम्रवस्त्रेव वारुणी ॥ १.८२ ॥ इति पद्येऽपि पौरस्त्या बध्नन्त्योजस्विनीर्गिरः । अन्ये त्वनाकुलं हृद्यमिच्छन्त्योजो गिरां यथा ॥ १.८३ ॥ पयोधरतटोत्सङ्ग लग्नसंध्यातपांशुका । कस्य कामातुरं चेतो वारुणी न करिष्यति ॥ १.८४ ॥ [कान्ति व्स्. अत्युक्ति] कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमात् । तच्च वार्त्ताभिधानेषु वर्णनास्वपि दृश्यते ॥ १.८५ ॥ गृहाणि नाम तान्येव तपोराशिर्भवादृशः । संभावयति यान्येव पावनैः पादपांसुभिः ॥ १.८६ ॥ अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ १.८७ ॥ इति संभाव्यमेवैतद्विशेषाख्यानसंस्कृतम् । कान्तं भवति सर्वस्य लोकयात्रानुवर्तिनः ॥ १.८८ ॥ लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः । योऽर्थस्तेनाति तुष्यन्ति विदग्धा नेतरे जनाः ॥ १.८९ ॥ देवधिष्ण्यमिवाराध्यमद्यप्रभृति नो गृहम् । युष्मत्पादरजःपात धौतनिःशेषकिल्बिषम् ॥ १.९० ॥ अल्पं निर्मितमाकाशमनालोच्यैव वेधसा । इदमेवंविधं भावि भवत्याः स्तनझृम्भणम् ॥ १.९१ ॥ इदमत्युक्तिरित्युक्तमेतद्गौडोपलालितम् । प्रस्थानं प्राक्प्रणीतं तु सारमन्यस्य वर्त्मनः ॥ १.९२ ॥ [समाधि] अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना । सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥ १.९३ ॥ कुमुदानि निमीलानि कमलान्युन्मिषन्ति च । इति नेत्रक्रियाध्यासाल्लब्धा तद्वाचिनी श्रुतिः ॥ १.९४ ॥ निःष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥ १.९५ ॥ पद्मान्यर्कांशुनिःष्ठ्यूताः पीत्वा पावकविप्रुषः । भूयो वमन्तीव मुखैरुद्गीर्णारुणरेणुभिः ॥ १.९६ ॥ इति हृद्यमहृद्यं तु निःष्ठीवति वधूरिति । युगपन्नैकधर्माणामध्यासश्च स्मृतो यथा ॥ १.९७ ॥ गुरुगर्भभरक्लान्ताः स्तनन्त्यो मेघपङ्क्तयः । अचलाधित्यकोत्सङ्गमिमाः समधिशेरते ॥ १.९८ ॥ उत्सङ्गशयनं सख्याः स्तननं गौरवं क्लमः । इतीमे गर्भिणीधर्मा बहवोऽप्यत्र दर्शिताः ॥ १.९९ ॥ तदेतत्काव्यसर्वस्वं समाधिर्नाम यो गुणः । कविसार्थः समग्रोऽपि तमेकमनुगच्छति ॥ १.१०० ॥ इति मार्गद्वयं भिन्नं तत्स्वरूपनिरूपणात् । तद्भेदास्तु न शक्यन्ते वक्तुं प्रतिकवि स्थिताः ॥ १.१०१ ॥ इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । तथापि न तदाख्यातुं सरस्वत्यापि शक्यते ॥ १.१०२ ॥ नैसर्गिकी च प्रतिभा श्रुतं च बहु निर्मलम् । अमन्दश्चाभियोगोऽस्याः कारणं काव्यसंपदः ॥ १.१०३ ॥ न विद्यते यद्यपि पूर्ववासना गुणानुबन्धि प्रतिभानमद्भुतम् । श्रुतेन यत्नेन च वागुपासिता ध्रुवं करोत्येव कमप्यनुग्रहम् ॥ १.१०४ ॥ तदस्ततन्द्रैरनिशं सरस्वती श्रमादुपास्या खलु कीर्तिमीप्सुभिः । कृशे कवित्वेऽपि जनाः कृतश्रमाः विदग्धगोष्ठीषु विहर्तुमीशते ॥ १.१०५ ॥ ॥ इति काव्यादर्शे मार्गविभागो नाम प्रथमः परिच्छेदः ॥ परिच्छेद २ काव्यशोभाकरान् धर्मानलंकारान् प्रचक्षते । ते चाद्यापि विकल्प्यन्ते कस्तान् कार्त्स्न्येन वक्ष्यति ॥ २.१ ॥ किंतु बीजं विकल्पानां पूर्वाचार्यैः प्रदर्सितम् । तदेव प्रतिसंस्कर्तुमयमस्मत्परिश्रमः ॥ २.२ ॥ काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलंक्रियाः । साधारणमलंकार जातमन्यत्प्रदर्श्यते ॥ २.३ ॥ स्वभावाख्यानमुपमा रूपकं दीपकावृत्तिः । आक्षेपोऽर्थान्तरन्यासो व्यतिरेको विभावना ॥ २.४ ॥ समासातिशयोत्प्रेक्षा हेतुः सूक्ष्मो लवः क्रमः । प्रेयो रसवदूर्जस्वि पर्यायोक्तं समाहितम् ॥ २.५ ॥ उदात्तापह्नुतिश्लेष विशेषास्तुल्ययोगिता । विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने ॥ २.६ ॥ सहोक्तिः परिवृत्त्याशिः संकीर्णमथ भाविकम् । इति वाचामलंकारा दर्शिताः पूर्वसूरिभिः ॥ २.७ ॥ [स्वभावोक्ति (= स्वभावाख्यान = जाति)] नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतिर्यथा ॥ २.८ ॥ [स्वभावोक्ति जाति] तुण्डैराताम्रकुटिलैः पक्षैर्हरितकोमलैः । त्रिवर्णराजिभिः कण्ठैरेते मञ्जुगिरः शुकाः ॥ २.९ ॥ [ स्वभावोक्ति क्रिया] कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः । पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियाम् ॥ २.१० ॥ [ स्वभावोक्ति गुण] बध्नन्नङ्गेषु रोमाञ्चं कुर्वन्मनसि निर्वृतिम् । नेत्रे चामीलयन्नेष प्रियास्पर्शः प्रवर्तते ॥ २.११ ॥ [ स्वभावोक्ति द्रव्य] कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः । जटाभिः स्निग्धताम्राभिराविरासीद्वृषध्वजः ॥ २.१२ ॥ जातिक्रियागुणद्रव्य स्वभावाख्यानमीदृशम् । शास्त्रेष्वस्यैव साम्राज्यं काव्येष्वप्येतदीप्सितम् ॥ २.१३ ॥ [उपमा] यथा कथंचिद्सादृश्यं यत्रोद्भूतं प्रतीयते । उपमा नाम सा तस्याः प्रपञ्चोऽयं निदर्श्यते ॥ २.१४ ॥ [ धर्मोपमा] अम्भोरुहमिवाताम्रं मुग्धे करतलं तव । इति धर्मोपमा साक्षात्तुल्यधर्मप्रदर्शनात् ॥ २.१५ ॥ [ वस्तूपमा] राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव । इयं प्रतीयमानैक धर्मा वस्तूपमैव सा ॥ २.१६ ॥ [ विपर्यासोपमा] तवाननमिवोन्निद्रमरविन्दमभूदिति । सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते ॥ २.१७ ॥ [ अन्योऽन्योपमा] तवाननमिवाम्भोजमम्बोजमिव ते मुखम् । इत्यन्योऽन्योपमा सायमन्योऽन्योत्कर्षशंसिनी ॥ २.१८ ॥ [ नियमोपमा] त्वन्मुखं कमलेनैव तुल्यं नान्येन केनचित् । इत्यन्यसाम्यव्यावृत्तेरियं सा नियमोपमा ॥ २.१९ ॥ [ अनियमोपमा] पद्मं तावत्तवान्वेति मुखमन्यच्च तादृशम् । अस्ति चेदस्तु तत्कारीत्यसावनियमोपमा ॥ २.२० ॥ [ समुच्चयोपमा] समुच्चयोपमाप्यस्ति न कान्त्यैव मुखं तव । ह्लादनाख्येन चान्वेति कर्मणेन्दुमितीदृशी ॥ २.२१ ॥ [ अतिशयोपमा] त्वय्येव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः । इयत्येव भिदा नान्येत्यसावतिशयोपमा ॥ २.२२ ॥ [ उत्प्रेक्षितोपमा] मय्येवास्या मुखश्रीरित्यलमिन्दोर्विकत्थनैः । पद्मेऽपि सा यदस्त्येवेत्यसावुत्प्रेक्षितोपमा ॥ २.२३ ॥ [ अद्भुतोपमा] यदि किंचिद्भवेत्पद्मं सुभ्रु विभ्रान्तलोचनम् । तत्ते मुखश्रियं धत्तामित्यसावद्भुतोपमा ॥ २.२४ ॥ [ मोहोपमा] शशीत्युत्प्रेक्ष्य तन्वङ्गि त्वन्मुखं त्वन्मुखाशया । इन्दुमप्यनुधावामीत्येषा मोहोपमा स्मृता ॥ २.२५ ॥ [ संशयोपमा] किं पद्ममन्तर्भ्रान्तालि किं ते लोलेक्षणं मुखम् । मम दोलायते चित्तमितीयं संशयोपमा ॥ २.२६ ॥ [ निर्णयोपमा] न पद्मस्येन्दुनिग्राह्यस्येन्दुलज्जाकरी द्युतिः । अतस्त्वन्मुखमेवेदमित्यसौ निर्णयोपमा ॥ २.२७ ॥ [ श्लेषोपमा] शिशिरांशुप्रतिस्पर्धि श्रीमत्सुरभिगन्धि च । अम्भोजमिव ते वक्त्रमिति श्लेषोपमा स्मृता ॥ २.२८ ॥ [ समानोपमा] सरूपशब्दवाच्यत्वात्सा समानोपमा यथा । बालेवोद्यानमालेयं सा(१)ल()का(३)ननशोभिनी ॥ २.२९ ॥ [ निन्दोपमा] पद्मं बहुरजश्चन्द्रः क्षयी ताभ्यां तवाननम् । समानमपि सोत्सेकमिति निन्दोपमा स्मृता ॥ २.३० ॥ [ प्रशंसोपमा] ब्रह्मणोऽप्युद्भवः पद्मं चन्द्रः शंभुशिरोधृतः । तौ तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमोच्यते ॥ २.३१ ॥ [ आचिख्यासोपमा] चन्द्रेण त्वन्मुखं तुल्यमित्याचिख्यासु मे मनः । स गुणो वास्तु दोषो वेत्याचिख्यासोपमां विदुः ॥ २.३२ ॥ [ विरोधोपमा] शतपत्त्रं शरच्चन्द्रस्त्वदाननमिति त्रयम् । परस्परविरोधीति सा विरोधोपमा मता ॥ २.३३ ॥ [ प्रतिषेधोपमा] न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितुम् । कलङ्किनो जडस्येति प्रतिषेधोपमैव सा ॥ २.३४ ॥ [ चटूपमा] मृगेक्षणाङ्कं ते वक्त्रं मृगेणैवाङ्कितः शशी । तथापि सम एवासौ नोत्कर्षीति चटूपमा ॥ २.३५ ॥ [ तत्त्वाख्यानोपमा] न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे । इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा ॥ २.३६ ॥ [ असाधारणोपमा] चन्द्रारविन्दयोः कान्तिमतिक्रम्य मुखं तव । आत्मनैवाभवत्तुल्यमित्यसाधारणोपमा ॥ २.३७ ॥ [ अभूतोपमा] सर्वपद्मप्रभासारः समाहृत इव क्वचित् । त्वदाननं विभातीति तामभूतोपमां विदुः ॥ २.३८ ॥ [ असंभावितोपमा] चन्द्रबिम्बादिव विषं चन्दनादिव पावकः । परुषा वागितो वक्त्रादित्यसंभावितोपमा ॥ २.३९ ॥ [ बहूपमा] चन्दनोदकचन्द्रांशु चन्द्रकान्तादिशीतलः । स्पर्शस्तवेत्यतिशयं बोधयन्ती बहूपमा ॥ २.४० ॥ [ विक्रियोपमा] चन्द्रबिम्बादिवोत्कीर्णं पद्मगर्भादिवोद्धृतम् । तव तन्वङ्गि वदनमित्यसौ विक्रियोपमा ॥ २.४१ ॥ [ मालोपमा] पूष्ण्यातप इवाह्नीव पूषा व्योम्नीव वासरः । विक्रमस्त्वय्यधाल्लक्ष्मीमिति मालोपमा मता ॥ २.४२ ॥ [ वाक्यार्थोपमा॑ श्wएइ अर्तेन्] वाक्यार्थेणैव वाक्यार्थः कोऽपि यद्युपमीयते । एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा ॥ २.४३ ॥ [ (१.) वाक्यार्थोपमा मितेइनेमिव] त्वदाननमधीराक्षमाविर्दशनदीधिति । भ्रमद्भृङ्गमिवालक्ष्य केसरं भाति पङ्कजम् ॥ २.४४ ॥ [ (२.) वाक्यार्थोपमा मित्मेह्रेरेनिव] नलिन्या इव तन्वङ्ग्यास्तस्याः पद्ममिवाननम् । मया मधुव्रतेनेव पायं पायमरम्यत ॥ २.४५ ॥ [ प्रतिवस्तूपमा] वस्तु किंचिदुपन्यस्य न्यसनात्तत्सधर्मणः । साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा यथा ॥ २.४६ ॥ नैकोऽपि त्वादृशोऽद्यापि जायमानेषु राजसु । ननु द्वितीयो नास्त्येव पारिजातस्य पादपः ॥ २.४७ ॥ [ तुल्ययोगोपमा] अधिकेन समीकृत्य हीनमेकक्रियाविधौ । यद्ब्रुवन्ति स्मृता सेयं तुल्ययोगोपमा यथा ॥ २.४८ ॥ दिवो जागर्ति रक्षायै पुलोमारिर्भुवो भवान् । असुरास्तेन हन्यन्ते सावलेपास्त्वया नृपाः ॥ २.४९ ॥ [ हेतूपमा] कान्त्या चन्द्रमसं धाम्ना सूर्यं धैर्येण चार्णवम् । राजन्ननुकरोषीति सैषा हेतूपमा मता ॥ २.५० ॥ न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूषनायालं यत्रोद्वेगो न धीमताम् ॥ २.५१ ॥ स्त्रीव गच्छति षण्ढोऽयं वक्त्येषा स्त्री पुमानिव । प्राणा इव प्रियोऽयं मे विद्या धनमिवार्जितम् ॥ २.५२ ॥ भवानिव महीपाल देवराजो विराजते । अलमंशुमतः कक्षामारोढुं तेजसा नृपः ॥ २.५३ ॥ इत्येवमादौ सौभाग्यं न जहात्येव जातुचित् । अस्त्येव क्वचिदुद्वेगः प्रयोगे वाग्विदां यथा ॥ २.५४ ॥ हंसीव धवलश्चन्द्रः सरांसीवामलं नभः । भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत् ॥ २.५५ ॥ ईदृशं वर्ज्यते सद्भिः कारणं तत्र चिन्त्यताम् । गुणदोषविचाराय स्वयमेव मनीषिभिः ॥ २.५६ ॥ इववद्वायथाशब्दाः समाननिभसंनिभाः । तुल्यसंकाशनिकाश प्रकाशप्रतिरूपकाः ॥ २.५७ ॥ प्रतिपक्षप्रतिद्वंद्वि प्रत्यनीकविरोधिनः । सदृक्सदृशसंवादि सजातीयानुवादिनः ॥ २.५८ ॥ प्रतिबिम्बप्रतिच्छन्द सरूपसमसंमिताः । सलक्षणसदृक्षाभ सपक्षोपमितोपमाः ॥ २.५९ ॥ कल्पदेशीयदेश्यादिः प्रख्यप्रतिनिधी अपि । सवर्णतुलतौ शब्दौ ये चान्यूनार्थवादिनः ॥ २.६० ॥ समासश्च बहुव्रीहिः शशाङ्कवदनादिषु । स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ॥ २.६१ ॥ आक्रोशत्यवजानाति कदर्थयति निन्दति । विडम्बयति संधत्ते हसतीर्ष्यत्यसूयति ॥ २.६२ ॥ तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति । तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति ॥ २.६३ ॥ तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते । तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति ॥ २.६४ ॥ तस्य चानुकरोतीति शब्दाः सादृश्यमूचकाः । उपमायामिमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ॥ २.६५ ॥ [रूपक] [ समस्तरूपक] उपमैव तिरोभूत भेदा रूपकमुच्यते । यथा बाहुलता पाणि पद्मं चरणपल्लवः ॥ २.६६ ॥ [ असमस्तरूपक] अङ्गुल्यः पल्लवान्यासन् कुसुमानि नखार्चिषः । बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी ॥ २.६७ ॥ [ समस्तव्यस्तरूपक] इत्येतदसमस्ताख्यं समस्तं पूर्वरूपकम् । स्मितं मुखेन्दोर्ज्योत्स्नेति समस्तव्यस्तरूपकम् ॥ २.६८ ॥ [ सकलरूपक] ताम्राङ्गुलिदलश्रेणि नखदीधितिकेसरम् । ध्रियते मूर्ध्नि भूपालैर्भवच्चरणपङ्कजम् ॥ २.६९ ॥ अङ्गुल्यादौ दलादित्वं पादे चारोप्य पद्मताम् । तद्योग्यस्थानविन्यासादेतत्सकलरूपकम् ॥ २.७० ॥ [ अवयवरूपक] अकस्मादेव ते चण्डि स्फुरिताधरपल्लवम् । मुखं मुक्तारुचो धत्ते घर्माम्भःकणमञ्जरीः ॥ २.७१ ॥ मञ्जरीकृत्य घर्माम्भः पल्लवीकृत्य चाधरम् । नान्यथा कृतमत्रास्यमतोऽवयवरूपकम् ॥ २.७२ ॥ [ अवयविरूपकम्] वल्गितभ्रु गलद्घर्म जलमालोहितेक्षणम् । विवृणाति (!) मदावस्थामिदं वदनपङ्कजम् ॥ २.७३ ॥ अविकृत्य मुखाङ्गानि मुखमेवारविन्दताम् । आसीद्गमितमत्रेदमतोऽवयविरूपकम् ॥ २.७४ ॥ [ एकाङ्गरूपक] मदपाटलगण्डेन रक्तनेत्रोत्पलेन ते । मुखेन मुग्धः सोऽप्येष जनो रागमयः कृतः ॥ २.७५ ॥ एकाङ्गरूपकं चैतदेवं द्विप्रभृतीन्यपि । अङ्गानि रूपयन्त्यत्र योगायोगौ भिदाकरौ ॥ २.७६ ॥ [ युक्तरूपक] स्मितपुष्पोज्ज्वलं लोल नेत्रभृङ्गमिदं मुखम् । इति पुष्पद्विरेफाणां संगत्या युक्तरूपकम् ॥ २.७७ ॥ [ अयुक्तरूपक] इदमार्द्रस्मितज्योत्स्नं स्निग्धनेत्रोत्पलं मुखम् । इति ज्योत्स्नोत्पलायोगादयुक्तं नाम रूपकम् ॥ २.७८ ॥ [ विषमरूपक] रूपणादङ्गिनोऽङ्गानां रूपणारूपणाश्रयात् । रूपकं विषमं नाम ललितं जायते यथा ॥ २.७९ ॥ मदरक्तकपोलेन मन्मथस्त्वन्मुखेन्दुना । नर्तितभ्रूलतेनालं मर्दितुं भुवनत्रयम् ॥ २.८० ॥ [ सविशेषणरूपक] हरिपादः शिरोलग्न जह्नुकन्याजलांशुकः । जयत्यसुरनिःशङ्क सुरानन्दोत्सवध्वजः ॥ २.८१ ॥ विशेषणसमग्रस्य रूपं केतोर्यदीदृशम् । पादे तदर्पणादेतत्सविशेषणरूपकम् ॥ २.८२ ॥ [ विरुद्धरूपक] न मीलयति पद्मानि न नभोऽप्यवगाहते । त्वन्मुखेन्दुर्ममासूनां हरणायैव कल्पते ॥ २.८३ ॥ अक्रिया चन्द्रकार्याणामन्यकार्यस्य च क्रिया । अत्र संदर्श्यते यस्माद्विरुद्धं नाम रूपकम् ॥ २.८४ ॥ [ हेतुरूपक] गाम्भीर्येण समुद्रोऽसि गौरवेणासि पर्वतः । कामदत्वाच्च लोकानामसि त्वं कल्पपादपः ॥ २.८५ ॥ गाम्भीर्यप्रमुखैरत्र हेतुभिः सागरो गिरिः । कल्पद्रुमश्च क्रियते तदिदं हेतुरूपकम् ॥ २.८६ ॥ [ शिष्टरूपक] राजहंसोपभोगार्थं भ्रमरप्रार्थ्यसौरभम् । सखि वक्त्राम्बुजमिदं तवेति श्लिष्टरूपकम् ॥ २.८७ ॥ इष्टं साधर्म्यवैधर्म्य दर्शनाद्गौणमुख्ययोः । उपमाव्यतिरेकाख्यं रूपकद्वितयं यथा ॥ २.८८ ॥ [ उपमारूपक] अयमालोहितच्छायो मदने मुखचन्द्रमाः । संनद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति ॥ २.८९ ॥ [ व्यतिरेकरूपक] चन्द्रमाः पीयते देवैर्मया त्वन्मुखचन्द्रमाः । असमग्रोऽप्यसौ शश्वदयमापूर्णमण्डलः ॥ २.९० ॥ [ आक्षेपरूपक] मुखचन्द्रस्य चन्द्रत्वमित्थमन्योपतापिनः । न ते सुन्दरि संवादीत्येतदाक्षेपरूपकम् ॥ २.९१ ॥ [ समाधानरूपक] मुखेन्दुरपि ते चण्डि मां निर्दहति निर्दयम् । भाग्यदोषान्ममैवेति तत्समाधानरूपकम् ॥ २.९२ ॥ [ रूपकरूपक] मुखपङ्कजरङ्गेऽस्मिन् भ्रूलतानर्तकी तव । लीलानृत्यं करोतीति रम्यं रूपकरूपकम् ॥ २.९३ ॥ [ आपह्नवरूपक] नैतन्मुखमिदं पद्मं न नेत्रे भ्रमराविमौ । एतानि केसराण्येव नैता दन्तार्चिषस्तव ॥ २.९४ ॥ मुखादित्वं निवर्त्यैव पद्मादित्वेन रूपणात् । उद्भावितगुणोत्कर्षं तत्त्वापह्नवरूपकम् ॥ २.९५ ॥ न पर्यन्तो विकल्पानां रूपकोपमयोरतः । दिङ्मात्रं दर्शितं धीरैरनुक्तमनुमीयताम् ॥ २.९६ ॥ [दीपक] जातिक्रियागुणद्रव्य वाचिनैकत्र वर्तिना । सर्ववाक्योपकारश्चेत्तदाहुर्दीपकं यथा ॥ २.९७ ॥ [ आदिदीपक जाति] पवनो दक्षिणः पर्णं जीर्णं हरति वीरुधां । स एवावनताङ्गीनां मानभङ्गाय कल्पते ॥ २.९८ ॥ [ आदिदीपक क्रिया] चरन्ति चतुरम्भोधि वेलोद्यानेषु दन्तिनः । चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते ॥ २.९९ ॥ [ आदिदीपक गुण] श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपङ्क्तिभिः । भुवश्च सुकुमाराभिर्नवशाद्वलराजिभिः ॥ २.१०० ॥ [ आदिदीपक द्रव्य] विष्णुना विक्रमस्थेन दानवानां विभूतयः । क्वापि नीताः कुतोऽप्यासन्नानीता दैवतर्द्धयः ॥ २.१०१ ॥ इत्यादिदीपकान्युक्तान्येवं मध्यान्तयोरपि । वाक्ययोर्दर्शयिष्यामः कानि चित्तानि तद्यथा ॥ २.१०२ ॥ [ मध्यदीपक जाति] नृत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः । बध्नन्ति च पयोदेषु दृशो हर्षाश्रुगर्भिणीः ॥ २.१०३ ॥ [ मध्यदीपक क्रिया] मन्दो गन्धवहः क्षारो वह्निरिन्दुश्च जायते । चर्चाचन्दनपातश्च शस्त्रपातः प्रवासिनाम् ॥ २.१०४ ॥ [ अन्तदीपक द्रव्य (कोम्म्. जाति)] जलं जलधरोद्गीर्णं कुलं गृहशिखण्डिनाम् । चलं च तडितां दाम बलं कुसुमधन्वनः ॥ २.१०५ ॥ [ अन्तदीपक क्रिया] त्वया नीलोत्पलं कर्णे स्मरेणास्त्रं शरासने । मयापि मरणे चेतस्त्रयमेतत्समं कृतम् ॥ २.१०६ ॥ [ (आदिदीपक) मालादीपक] शुक्लः श्वेतार्चिषो वृद्ध्यै पक्षः पञ्चशरस्य सः । स च रागस्य रागोऽपि यूनां रत्युत्सवश्रियः ॥ २.१०७ ॥ इत्यादिदीपकत्वेऽपि पूर्वपूर्वव्यपेक्षिणी । वाक्यमाला प्रयुक्तेति तन्मालादीपकं मतम् ॥ २.१०८ ॥ [ विरुद्धार्थदीपक] अवलेपमनङ्गस्य वर्धयन्ति बलाहकाः । कर्शयन्ति तु घर्मस्य मारुतोद्धूतशीकराः ॥ २.१०९ ॥ अवलेपपदेनात्र बलाहकपदेन च । क्रिये विरुद्धे संयुक्ते तद्विरुद्धार्थं दीपकम् ॥ २.११० ॥ [ एकार्थदीपक] हरत्याभोगमाशानां गृह्णाति ज्योतिषां गणम् । आदत्ते चाद्य मे प्राणानसौ जलधरावली ॥ २.१११ ॥ अनेकशब्दोपादानात्क्रियैकैवात्र दीप्यते । यतो जलधरावल्या तस्मादेकार्थदीपकम् ॥ २.११२ ॥ [ श्लिष्टार्थदीपक] हृद्यगन्धवहास्तुङ्गास्तमालश्यामलत्विषः । दिवि भ्रमन्ति जीमूता भुवि चैते मतंगजाः ॥ २.११३ ॥ अत्र धर्मैरभिन्नानामभ्राणां दन्तिनां तथा । भ्रमणेनैव संबन्ध इति श्लिष्टार्थदीपकम् ॥ २.११४ ॥ अनेनैव प्रकारेण शेषाणामपि दीपके । विकल्पानामवगतिर्विधातव्या विचक्षणैः ॥ २.११५ ॥ [आवृत्ति] अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरेव च । दीपकस्थान एवेष्टमलंकारत्रयं यथा ॥ २.११६ ॥ [ अर्थावृत्ति] विकसन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः । उन्मीलन्ति च कन्दल्यो दलन्ति ककुभानि च ॥ २.११७ ॥ [ पदावृत्ति] उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम् । यूनां चोत्कण्ठयत्येव मानसं मकरध्वजः ॥ २.११८ ॥ [ उभयावृत्ति (अर्थ उ. पद)] जित्वा विश्वं भवानत्र विहरत्यवरोधनैः । विहरत्यप्सरोभिस्ते रिपुवर्गो दिवं गतः ॥ २.११९ ॥ [आक्षेप] प्रतिषेधोक्तिराक्षेपस्त्रैकाल्यापेक्षया त्रिधा । अथास्य पुनराक्षेप्य भेदानन्त्यादनन्तता ॥ २.१२० ॥ [ वृत्ताक्षेप] अनङ्गः पञ्चभिः पुष्पैर्विश्वं व्यजयतेषुभिः । इत्यसंभाव्यमथ वा विचित्रा वस्तुशक्तयः ॥ २.१२१ ॥ इत्यनङ्गजयायोग बुद्धिर्हेतुबलादिह । प्रवृत्तैव यदाक्षिप्ता वृत्ताक्षेपः स ईदृशः ॥ २.१२२ ॥ [ वर्तमानाक्षेप] कुतः कुवलयं कर्णे करोषि कलभाषिणि । किमपाङ्गमपर्याप्तमस्मिन् कर्मणि मन्यसे ॥ २.१२३ ॥ स वर्तमानाक्षेपोऽयं कुर्वत्येवासितोत्पल । कर्णे काचित्प्रियेणैवं चाटुकारेण रुध्यते ॥ २.१२४ ॥ [ भविष्यदाक्षेप] सत्यं ब्रवीमि न त्वं मां द्रष्टुं वल्लभ लप्स्यसे । अन्यचुम्बनसंक्रान्त लाक्षारक्तेन चक्षुषा ॥ २.१२५ ॥ सोऽयं भविष्यदाक्षेपः प्रागेवातिमनस्विनी । कदाचिदपराधोऽस्य भावीत्येवमरुन्द्धयत् ॥ २.१२६ ॥ [ धर्माक्षेप] तव तन्वङ्गि मिथ्यैव रूढमङ्गेषु मार्दवम् । यदि सत्यं मृदून्येव किमकाण्डे रुजन्ति माम् ॥ २.१२७ ॥ धर्माक्षेपोऽयमाक्षिप्तमङ्गनागात्रमार्दवम् । कामुकेन यदत्रैवं कर्मणा तद्विरोधिना ॥ २.१२८ ॥ [ धर्म्याक्षेप] सुन्दरी सा भवत्येवं विवेकः केन जायते । प्रभामात्रं हि तरलं दृश्यते न तदाश्रयः ॥ २.१२९ ॥ धर्म्याक्षेपोऽयमाक्षिप्तो धर्मी धर्मं प्रभाह्वयम् । अनुज्ञायैव यद्रूपमत्याश्चर्यं विवक्षता ॥ २.१३० ॥ [ कारणाक्षेप] चक्षुषी तव रज्येते स्फुरत्यधरपल्लवः । भ्रुवौ च भुग्ने न तथाप्यदुष्टस्यास्ति मे भयम् ॥ २.१३१ ॥ स एष कारणाक्षेपः प्रधानं कारणं भियः । स्वापराधो निषिद्धोऽत्र यत्प्रियेण पटीयसा ॥ २.१३२ ॥ [ कार्याक्षेप] दूरे प्रियतमः सोऽयमागतो जलदागमः । दृष्टाश्च फुल्ला निचुला न मृता चास्मि किं न्विदम् ॥ २.१३३ ॥ कार्याक्षेपः स कार्यस्य मरणस्य निवर्तनात् । तत्कारणमुपन्यस्य दारुणं जलदागमम् ॥ २.१३४ ॥ [ अनुज्ञाक्षेप] न चिरं मम तापाय तव यात्रा भविष्यति । यदि यास्यसि यातव्यमलमाशङ्कयात्र ते ॥ २.१३५ ॥ इत्यनुज्ञामुखेनैव कान्तस्याक्षिप्यते गतिः । मरणं सूचयन्त्यैव सोऽनुज्ञाक्षेप उच्यते ॥ २.१३६ ॥ [ प्रभुत्वाक्षेप] धनं च बहु लभ्यं ते सुखं क्षेमं च वर्त्मनि । न च मे प्राणसंदेहस्तथापि प्रिय मा स्म गाः ॥ २.१३७ ॥ इत्याचक्षाणया हेतून् प्रिययात्रानुबन्धिनः । प्रभुत्वेनैव रुद्धस्तत्प्रभुत्वाक्षेप उच्यते ॥ २.१३८ ॥ [ अनादराक्षेप] जीविताशा बलवती धनाशा दुर्बला मम । गच्छ वा तिष्ठ वा कान्त स्व१ अस्था तु निवेदिता ॥ २.१३९ ॥ असावनादराक्षेपो यदनादरवद्वचः । प्रियप्रणायं रुन्धत्या प्रयुक्तमिह रक्तया ॥ २.१४० ॥ [ आशीर्वचनाक्षेप] गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ २.१४१ ॥ इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना । स्वावस्थां सूचयन्त्यैव कान्तयात्रा निषिध्यते ॥ २.१४२ ॥ [ परुषाक्षेप] यदि सत्यैव यात्रा ते काप्यन्या मृग्यतां त्वया । अहमद्यैव रुद्धास्मि रन्ध्रापेक्षेण मृत्युना ॥ २.१४३ ॥ इत्येष परुषाक्षेपः परुषाक्षरपूर्वकम् । कान्तस्याक्षिप्यते यस्मात्प्रस्थानं प्रेमनिघ्नया ॥ २.१४४ ॥ [ साचिव्याक्षेप] ॥ २.१४५ ॥ ॥ २.१४६ ॥ ॥ २.१४७ ॥ ॥ २.१४८ ॥ ॥ २.१४९ ॥ ॥ २.१५० ॥ ॥ २.१५१ ॥ ॥ २.१५२ ॥ ॥ २.१५३ ॥ ॥ २.१५४ ॥ ॥ २.१५५ ॥ ॥ २.१५६ ॥ ॥ २.१५७ ॥ ॥ २.१५८ ॥ ॥ २.१५९ ॥ ॥ २.१६० ॥ ॥ २.१६१ ॥ ॥ २.१६२ ॥ ॥ २.१६३ ॥ ॥ २.१६४ ॥ ॥ २.१६५ ॥ ॥ २.१६६ ॥ ॥ २.१६७ ॥ ॥ २.१६८ ॥ ॥ २.१६९ ॥ ॥ २.१७० ॥ ॥ २.१७१ ॥ ॥ २.१७२ ॥ ॥ २.१७३ ॥ ॥ २.१७४ ॥ ॥ २.१७५ ॥ ॥ २.१७६ ॥ ॥ २.१७७ ॥ ॥ २.१७८ ॥ ॥ २.१७९ ॥ ॥ २.१८० ॥ ॥ २.१८१ ॥ ॥ २.१८२ ॥ ॥ २.१८३ ॥ ॥ २.१८४ ॥ ॥ २.१८५ ॥ ॥ २.१८६ ॥ ॥ २.१८७ ॥ ॥ २.१८८ ॥ ॥ २.१८९ ॥ ॥ २.१९० ॥ ॥ २.१९१ ॥ ॥ २.१९२ ॥ ॥ २.१९३ ॥ ॥ २.१९४ ॥ ॥ २.१९५ ॥ ॥ २.१९६ ॥ ॥ २.१९७ ॥ ॥ २.१९८ ॥ ॥ २.१९९ ॥ ॥ २.२०० ॥ ॥ २.२०१ ॥ ॥ २.२०२ ॥ ॥ २.२०३ ॥ ॥ २.२०४ ॥ ॥ २.२०५ ॥ ॥ २.२०६ ॥ ॥ २.२०७ ॥ ॥ २.२०८ ॥ ॥ २.२०९ ॥ ॥ २.२१० ॥ ॥ २.२११ ॥ ॥ २.२१२ ॥ ॥ २.२१३ ॥ ॥ २.२१४ ॥ ॥ २.२१५ ॥ ॥ २.२१६ ॥ ॥ २.२१७ ॥ ॥ २.२१८ ॥ ॥ २.२१९ ॥ ॥ २.२२० ॥ ॥ २.२२१ ॥ ॥ २.२२२ ॥ ॥ २.२२३ ॥ ॥ २.२२४ ॥ ॥ २.२२५ ॥ ॥ २.२२६ ॥ ॥ २.२२७ ॥ ॥ २.२२८ ॥ ॥ २.२२९ ॥ ॥ २.२३० ॥ ॥ २.२३१ ॥ ॥ २.२३२ ॥ ॥ २.२३३ ॥ ॥ २.२३४ ॥ ॥ २.२३५ ॥ ॥ २.२३६ ॥ ॥ २.२३७ ॥ ॥ २.२३८ ॥ ॥ २.२३९ ॥ ॥ २.२४० ॥ ॥ २.२४१ ॥ ॥ २.२४२ ॥ ॥ २.२४३ ॥ ॥ २.२४४ ॥ ॥ २.२४५ ॥ ॥ २.२४६ ॥ ॥ २.२४७ ॥ ॥ २.२४८ ॥ ॥ २.२४९ ॥ ॥ २.२५० ॥ ॥ २.२५१ ॥ ॥ २.२५२ ॥ ॥ २.२५३ ॥ ॥ २.२५४ ॥ ॥ २.२५५ ॥ ॥ २.२५६ ॥ ॥ २.२५७ ॥ ॥ २.२५८ ॥ ॥ २.२५९ ॥ ॥ २.२६० ॥ ॥ २.२६१ ॥ ॥ २.२६२ ॥ ॥ २.२६३ ॥ ॥ २.२६४ ॥ ॥ २.२६५ ॥ ॥ २.२६६ ॥ ॥ २.२६७ ॥ ॥ २.२६८ ॥ ॥ २.२६९ ॥ ॥ २.२७० ॥ ॥ २.२७१ ॥ ॥ २.२७२ ॥ ॥ २.२७३ ॥ ॥ २.२७४ ॥ ॥ २.२७५ ॥ ॥ २.२७६ ॥ ॥ २.२७७ ॥ ॥ २.२७८ ॥ ॥ २.२७९ ॥ ॥ २.२८० ॥ ॥ २.२८१ ॥ ॥ २.२८२ ॥ ॥ २.२८३ ॥ ॥ २.२८४ ॥ ॥ २.२८५ ॥ ॥ २.२८६ ॥ ॥ २.२८७ ॥ ॥ २.२८८ ॥ ॥ २.२८९ ॥ ॥ २.२९० ॥ ॥ २.२९१ ॥ ॥ २.२९२ ॥ ॥ २.२९३ ॥ ॥ २.२९४ ॥ ॥ २.२९५ ॥ ॥ २.२९६ ॥ ॥ २.२९७ ॥ ॥ २.२९८ ॥ ॥ २.२९९ ॥ ॥ २.३०० ॥ ॥ २.३०१ ॥ ॥ २.३०२ ॥ ॥ २.३०३ ॥ ॥ २.३०४ ॥ ॥ २.३०५ ॥ ॥ २.३०६ ॥ ॥ २.३०७ ॥ ॥ २.३०८ ॥ ॥ २.३०९ ॥ [श्लेष (= श्लिष्ट)] श्लिष्टमिष्टमनेकार्थमेकरूपान्वितं वचः । तदभिन्नपदं भिन्न पदप्रायमिति द्विधा ॥ २.३१० ॥ [ अभिन्नपदश्लेष] असावुदयमारूढः कान्तिमान् रक्तमण्डलः । राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥ २.३११ ॥ [ भिन्नपदश्लेष] दोषा(३)करेण संबध्नन्[न् । न्]अ[]क्षत्रपथवर्तिना । रज्ञा प्रदोषो मामित्थमप्रियं किं न बाधते ॥ २.३१२ ॥ उपमारूपकाक्षेप व्यतिरेकादिगोचराः । प्रागेव दर्शिताः श्लेषा दर्श्यन्ते केचनापरे ॥ २.३१३ ॥ अस्त्यभिन्नक्रियः कश्चिदविरुद्धक्रियोऽपरः । विरुद्धकर्मा चास्त्यन्यः श्लेषो नियमवानपि ॥ २.३१४ ॥ नियमाक्षेपरूपोक्तिरविरोधी विरोध्यपि । तेषां निदर्शनेष्वेव रूपमाविर्भविष्यति ॥ २.३१५ ॥ [ अभिन्नक्रियश्लेष] वक्राः स्वभावमधुराः शंसन्त्यो रागमुल्बणम् । दृशो दूत्यश्च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान् ॥ २.३१६ ॥ [ अविरुद्धक्रियश्लेष] मधुरा रागवर्धिन्यः कोमलाः कोकिलागिरः । आकर्ण्यन्ते मदकलाः श्लिष्यन्ते चासितेक्षणाः ॥ २.३१७ ॥ [ विरुद्धकर्मश्लेष] रागमादर्शयन्नेष वारुणीयोगवर्धितम् । तिरोभवति घर्मांशुरङ्गजस्तु विजृम्भते ॥ २.३१८ ॥ [ नियमवच्छ्लेष] निस्त्रिंशत्वमसावेव धनुष्येवास्य वक्रता । शरेष्वेव नरेन्द्रस्य मार्गणत्वं च वर्तते ॥ २.३१९ ॥ [ नियमाक्षेपरूपोक्तिश्लेष] पद्मानामेव दण्डेषु कण्टकस्त्वयि रक्षति । अथवा दृश्यते रागि मिथुनालिङ्गनेष्वपि ॥ २.३२० ॥ [ अविरोधिश्लेष] महीभृद्भूरिकटकस्तेजस्वी नियतोदयः । दक्षः प्रजापतिश्चासीत्स्वामी शक्तिधरश्च सः ॥ २.३२१ ॥ [ विरोधिश्लेष] अच्युतोऽप्यवृषच्छेदी राजाप्यविदितक्षयः । देवोऽप्यविबुधो जज्ञे शंकरोऽप्यभुजंगवान् ॥ २.३२२ ॥ [विशेषोक्ति] गुणजातिक्रियादीनां यत्र वैकल्यदर्शनम् । विशेषदर्शनायैव सा विशेषोक्तिरिष्यते ॥ २.३२३ ॥ [ विशेषोक्ति गुण] न कठोरं न वा तीक्ष्णमायुधं पुष्पधन्वनः । तथापि जितमेवासीदमुना भुवनत्रयम् ॥ २.३२४ ॥ [ विशेषोक्ति जाति] न देवकन्यका नापि गन्धर्वकुलसंभवा । तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम् ॥ २.३२५ ॥ [ विशेषोक्ति क्रिया] न बद्धा भ्रुकुटिर्नापि स्फुरितो दशनच्छदः । न च रक्ताभवद्दृष्टिर्जितं च द्विषतां बलम् ॥ २.३२६ ॥ [ विशेषोक्ति द्रव्य] न रथा न च मातंगा न हया न च पत्तयः । स्त्रीणामपाङ्गदृष्ट्यैव जीयते जगतां त्रयम् ॥ २.३२७ ॥ [ विशेषोक्ति हेतु] एकचक्रो रथो यन्ता विकलो विषमा हयाः । आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥ २.३२८ ॥ सैषा हेतुविशेषोक्तिस्तेजस्वीति विशेषणात् । अयं एव क्रमोऽन्येषां भेदानामपि कल्पते ॥ २.३२९ ॥ [तुल्ययोगिता] विवक्षितगुणोत्कृष्टैर्यत्समीकृत्य कस्यचित् । कीर्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता ॥ २.३३० ॥ यमः कुबेरो वरुणः सहस्राक्षो भवानपि । बिभृत्यनन्यविषयां लोकपाल इति श्रुतिम् ॥ २.३३१ ॥ संगतानि मृगाक्षीणां तडिद्विलसितानि च । क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम् ॥ २.३३२ ॥ [विरोधचक्र] विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् । विशेषदर्शनायैव स विरोधः स्मृतो यथा ॥ २.३३३ ॥ कूजितं राजहंसानां वर्धते मदमञ्जुलम् । क्षीयते च मयूराणां रुतमुत्क्रान्तसौष्ठवम् ॥ २.३३४ ॥ प्रावृषेण्यैर्जलधरैरम्बरं दुर्दिनायते । रागेण पुनराक्रान्तं जायते जगतां मनः ॥ २.३३५ ॥ तनुमध्यं पृथुश्रोणि रक्तौष्ठमसितेक्षणम् । नतनाभि वपुः स्त्रीणां कं न हन्त्युन्नतस्तनम् ॥ २.३३६ ॥ मृणालबाहु रम्भोरु पद्मोत्पलमुखेक्षणम् । अपि ते रूपमस्माकं तन्वि तापाय कल्पते ॥ २.३३७ ॥ उद्यानमारुतोद्धूताश्चूतचम्पकरेणवः । उदश्रयन्ति पान्थानामस्पृशन्तोऽपि लोचने ॥ २.३३८ ॥ कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी । याति विश्वसनीयत्वं कस्य ते कलभाषिणी ॥ २.३३९ ॥ इत्यनेकप्रकारोऽयमलंकारः प्रतीयते । [अप्रस्तुतप्रशंसा] अप्रस्तुतप्रशंसा स्यादप्रकान्तेषु या स्तुतिः ॥ २.३४० ॥ सुखं जीवन्ति हरिणा वनेष्वपरसेविनः । अर्थैरयत्नसुलभैर्जलदर्भाङ्कुरादिभिः ॥ २.३४१ ॥ सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते । राजानुवर्तनक्लेश निर्विण्णेन मनस्विना ॥ २.३४२ ॥ [व्याजस्तुति] यदि निन्दन्निव स्तौति व्याजस्तुतिरसौ स्तुता । दोषाभासा गुणा एव लभन्ते यत्र संनिधिम् ॥ २.३४३ ॥ तापसेनापि रामेण जितेयं भूतधारिणी । त्वया राज्ञापि सेवेयं जिता मा भून्मदस्तव ॥ २.३४४ ॥ पुंसः पुराणादाच्छिद्य श्रीस्त्वया परिभुज्यते । राजन्निक्ष्वाकुवंशस्य किमिदं तव युज्यते ॥ २.३४५ ॥ भुजङ्गभोगसंसक्ता कलत्रं तव मेदिनी । अहंकारः परां कोटिमारोहति कुतस्तव ॥ २.३४६ ॥ इति श्लेषानुविद्धानामन्येषां चोपलक्ष्यतां । व्याजस्तुतिप्रकाराणामपर्यन्तः प्रविस्तरः ॥ २.३४७ ॥ [निदर्शन] अर्थान्तरप्रवृत्तेन किंचित्तत्सदृशं फलम् । सदसद्वा निदर्श्येत यदि तत्स्यान्निदर्शनम् ॥ ¡fह् ॥ उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् । विभावयितुमृद्धीनां फलं सुहृदनुग्रहम् ॥ २.३४९ ॥ याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवम् । सद्यो राजविरुद्धानां सूचयन्ति दुरन्तताम् ॥ २.३५० ॥ [सहोक्ति] सहोक्तिः सहभावस्य कथनं गुणकर्मणाम् । अर्थानां यो विनिमयः परिवृत्तिस्तु सा यथा ॥ २.३५१ ॥ सह दीर्घा मम श्वासैरिमाः संप्रति रात्रयः । पाण्डुराश्च ममैवाङ्गैः सह ताश्चन्द्रभूषणाः ॥ २.३५२ ॥ वर्धते सग पान्थानां मूर्छया चूतमञ्जरी । पतन्ति च समं तेषामसुभिर्मलयानिलाः ॥ २.३५३ ॥ कोकिलालापसुभगाः सुगन्धिवनवायवः । यान्ति सार्धं जनानन्दैर्वृद्धिं सुरभिवासराः ॥ २.३५४ ॥ इत्युदाहृतयो दत्ताः सहोक्तेरत्र काश्चन । [परिवृत्ति] क्रियते परिवृत्तेश्च किंचिद्रूपनिरूपणम् ॥ २.३५५ ॥ शस्त्रप्रहारं ददता भुजेन तव भूभुजाम् । चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरम् ॥ २.३५६ ॥ [आशीस्] आशीर्नामाभिलषिते वस्तुन्याशंसनं यथा । पातु वः परमं ज्योतिरवाङ्मनसगोचरम् ॥ २.३५७ ॥ [संसृष्टि] अनन्वयससंदेहावुपमास्वेव दर्शितौ । उपमारूपकं चापि रूपकेष्वेव दर्शितम् ॥ २.३५८ ॥ उत्प्रेक्षाभेद एवासावुत्प्रेक्षावयवोऽपि च । नानालंकारसंसृष्टिः संसृष्टिस्तु निगद्यते ॥ २.३५९ ॥ अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता । इत्यलंकारसंसृष्टेर्लक्षणीया द्वयी गतिः ॥ २.३६० ॥ आक्षिपन्त्यरविन्दानि तव मुग्धे मुखश्रियम् । कोशदण्डसमग्राणां किमेषामस्ति दुष्करम् ॥ २.३६१ ॥ (लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥ व् व् ॥) श्लेषः सर्वासु पुष्णाति प्रियो वक्रोक्तिषु श्रियम् । भिन्नं द्विधा स्वभावोक्तिर्वक्रोक्तिश्चेति वाङ्मयम् ॥ २.३६३ ॥ [भाविक] भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् । भावः कवेरभिप्रायः काव्येष्वासिद्धि यः स्थितः ॥ २.३६४ ॥ परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम् । विशेषणानां व्यर्थानामक्रिया स्थानवर्णना ॥ २.३६५ ॥ व्यक्तिरुक्तिक्रमबलाद्गम्भीरस्यापि वस्तुनः । भावायत्तमिदं सर्वमिति तद्भाविकं विदुः ॥ २.३६६ ॥ यच्च संध्यङ्गवृत्त्यङ्ग लक्षणाद्यागमान्तरे । व्यावर्णितमिदं चेष्टमलंकारतयैव नः ॥ २.३६७ ॥ पन्था स एष विवृतः परिमाणवृत्त्या संक्षिप्य विस्तरमनन्तमलंक्रियाणां । वाचामतीत्य विषयं परिवर्तमानानभ्यास एव विवरीतुमलं विशेषान् ॥ २.३६८ ॥ ॥ इत्याचार्यदण्डिनः कृतौ काव्यादर्शेऽर्थालंकारविभागो नाम द्वितीयः परिच्छेदः ॥