प्रथमो विलासः चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता प्रथमो विलासः वाग्देवी वदने मम स्फुरतु या ध्वन्यात्मनोल्लासिनी वर्णव्यक्तिमुपागता च तदनु स्थानप्रयत्नादिभिः । भावानां पदसंज्ञया विदधती त्रेधा समुल्लेखनान्यानन्दाननुसंदधाति विदुषां प्राप्ता महावाक्यताम् ॥ १.१ ॥ रम्योच्कयर्थतनूज्ज्वला रसमयप्राणा गुणोल्लासिनी चेतोरज्जकरीतिवृत्तिकलिता पाकं वयो बिभ्रती । नानालङ्करणोज्ज्वला रसवती सर्वत्र निर्देषतां शय्यामञ्चति कामिनीव कविता कस्यापि पुण्यात्मनः ॥ १.२ ॥ कृतिरभिमतकृतिचतुरा यदि चतुरोदात्तनायकगुणोदारा । इति लज्ञणकृतिरत्नं रचये श्रीसिङ्गनृपगुणोदाहरणम् ॥ १.३ ॥ लोके राघवपाण्डवाद्भुतकथागन्धानुसंधायिनौ तौ ग्रन्थाविब तन्मुनिप्रणिहितौ श्रीसिङ्गभूपाश्रयः । यायादादरणीयतां कृतधियां ग्रन्थोऽयमस्मत्कृतो नाहं यद्यपि तादृशोऽस्म्ययमसौ राजा हि तादृग्गुणः ॥ १.४ ॥ नृणां विधौ च नाथे च शिक्षा काव्यप्रयोजनम् । शिक्ष च सचमत्कारं बोधिता स्थिरतां भजेत् ॥ १.५ ॥ चमत्कारस्तु विदुषामानन्दपरिवाहकृत् । गुणं रीतिं रसं वृत्तिं पाकं शय्यामलङ्कृतीम् ॥ १.६ ॥ सप्तैतानि चमत्कारकारणं ब्रुवते बुधाः । गुणादीनां वाक्यशोभाकृतौ साधर्म्ययोगतः ॥ १.७ ॥ एकाङ्गतैव काव्यस्य कथिता कुब्जकादिभिः । गुणभूषारसान्यत्र त्रीण्यङ्गान्याह भोजराट् ॥ १.८ ॥ सप्ताङ्गसङ्गतं काव्यं साम्राज्यमिव भासते । लक्ष्यते तदितं साङ्गं मया कृतधियां मुदे ॥ १.९ ॥ अत्रालङ्करणे भवन्तु सुधियः स्निग्धा इति प्रार्थना व्यर्था यद्भरतादिभक्तिषु मतिर्येषां तलस्पर्शिनी । ते सारज्ञतयैव बिभ्रति मुदं ये संशयेनास्फुटा- स्ते सन्देहनिवृत्तये हृदि धैयं कर्तुं यतन्ते स्वयम् ॥ १.१० ॥ वागर्थौ सचमत्कारौ काव्यं काव्यविदो विदुः । वाक्छब्द इति पर्यायौ वाग्भिरर्थः शिवः स्मृतः ॥ १.११ ॥ सा वाक त्रेधा स्मृता वर्णाः पदं वाक्यमिति क्रमात् । अकारादिहकारान्ता वर्णाः स्युर्मातृकाह्वयाः ॥ १.१२ ॥ अल्पप्राणा महाप्राणा इति ते द्देविधा मताः । बुधास्तत्र महाप्राणानाहुरूष्मचतुष्टयम् ॥ १.१३ ॥ वर्गेषु समवर्णाश्व सवर्णं केचिदीरते । अल्पप्राणास्तु शेषाःस्युः शसावपि परैः स्मृतौ ॥ १.१४ ॥ उभयो तेऽपि कथिता स्निग्धा रूक्षा इति द्बिधा । अल्पप्राणाः सजाती यैर्युक्ताः स्निग्धा इति स्मृताः ॥ १.१५ ॥ स्वै रन्यैर्वा महाप्राणा युक्ता रूक्षाः परैः पुनः । अल्पप्राणाश्व कथिता रूक्षा यरलवैर्युताः ॥ १.१६ ॥ सानुस्वारतया स्नैग्ध्यं यान्ति रूक्षा अपि क्वचित् । भेदो ज्ञेयस्तस्य संख्यावन्द्यवन्ध्यादिके बुधैः ॥ १.१७ ॥ यथोचितमिमे वर्णा रसादेरुपयोगिनः । न्यस्ता काव्यमुखे वर्णास्तत्त द्दैवतमूर्तयः ॥ १.१८ ॥ कर्तुः कारयितुः श्रौतुः कल्पयन्ति शुभाशुभे । अकारः प्रीतिदायी स्यान्निषेधे तु विपर्ययः ॥ १.१९ ॥ त्र्प्राकारो हर्षदः सौऽपि कोधार्त्यादिषु नोचितः । इकारादिचतुप्कं तु कुर्यात्तुष्टिमनोरथौ ॥ १.२० ॥ ऋकारादीनि चत्वारि संततिस्तम्भहेतवः । एकाराद्याश्व चत्वारः कामवाङ्मोक्षभूतिदाः ॥ १.२१ ॥ लक्ष्मीकरः कवर्गः स्याच्चकारः कीर्तिनाशनः । छजकारौ रौगहरौ झजौ तु मरणप्रदौ ॥ १.२२ ॥ टठकारौ खेदकरौ डः शुभो ढस्त्वकान्तिकृत् । वस्तुलाभकरो णस्तु तकारो विघ्ननाशनः ॥ १.२३ ॥ थकरो युद्धकारी स्याद्दधकारौ धृतिप्रदौ । नकारस्तापकृत्कश्विदनिषेधे शुभः स्मृतः ॥ १.२४ ॥ रक्षादायी पकारः स्यात्फकारः साध्वसप्रदः । आरोग्यकृद्बकारः स्याद्भकारः स्मृतिभाग्यकृत् ॥ १.२५ ॥ मकारः क्षोभकृद्यस्तु श्रीदो रेफस्तु दाहकृत । लो जाड्यकृद्वकारस्तु वागारोग्यायुषां खनिः ॥ १.२६ ॥ ऊष्माणः सुखभेदश्रीनिर्वाणनिधयः क्रमात् । क्षं विना क्रूरसंयुक्तः सौम्यस्त्याज्यो विषान्नवत् ॥ १.२७ ॥ श्लेषस्तु कुभयोः श्रेयान् श्रीविश्राणनयोरिव । गुरुः पुनर्लघुश्चेति वर्णाः पुनरमी द्विधा ॥ १.२८ ॥ अनुस्वारविसर्गान्ता दीर्घा युक्तपराः प्लुताः । गुरवो लघवस्त्वन्ये स्मृतास्ते तु त्रयो गणाः ॥ १.२९ ॥ मयरसतजभनसंज्ञा गणाः प्रसूता परस्तु पूर्वस्मात् । जन्योऽत्र जनकनिकटे सुतवद्वितनोति नाशुभं कर्म ॥ १.३० ॥ सर्वमूलं तु मगणं प्राप्य सर्वगणः शुभः । पूर्वाचार्योदितं तेषां लक्ष्म दैवं फलं ब्रुवे ॥ १.३१ ॥ क्षेमं सर्वगुरुर्दत्ते मगणो भूमिदैवतः । करोत्यर्थानादिलघुर्यगणो वारिदैवतः ॥ १.३२ ॥ भीतिदायी मध्यलधू रगणो वह्निदैवतः । कुरुतेऽन्त्यगुरुर्नाशं सगणो वायुदैवतः ॥ १.३३ ॥ ईशत्वमन्तिमहघुस्तगणो व्योमदैवतः । रुजाकरो मध्यगुरुर्जगणो भानुदैवतः ॥ १.३४ ॥ आदिगुरुः सौख्यदायी भगणश्वन्द्रदैवतः । धनङ्करः सर्वलघुर्नगणो यज्ञदैवतः ॥ १.३५ ॥ अष्टौ जातिष्वमी प्रोक्ता मात्रायां तु त्रयः स्मृताः ॥ १.३६ ॥ गण इहतु लघुचतुष्कं द्वे वा गुरुणी लघुद्वयं चैकगुरु । सर्वलधोः सर्वगुरोरेकगुरोरपिच पूर्ववद्दैवफलै ॥ १.३७ ॥ शुभं काव्यमुखे न्यस्यैद्गणं वर्ण च नासुभम् ॥ १.३८ ॥ अस्त्युत्तरस्यां वागर्थौ कश्वित्कान्तेत्युदाहृतिः । कालिदासत्रये ज्ञेया शुभयोर्गणवर्णयोः ॥ १.३९ ॥ श्रियः कुरूणामित्यत्र श्रियः पतिरितीह च । वेष्टुं जगणदोषस्य कृते श्रीश्रीपतिस्मृतिः ॥ १.४० ॥ यद्वा तगणसान्निध्यात्तज्जन्यो जगणः शुभः । इदं कविभ्य ङत्यत्र पुनर्मगणयोगतः ॥ १.४१ ॥ मङ्गलार्थेऽभिधाने वा देवनामाङ्कनेऽपि वा । गणो न दूप्यो वर्णश्व देवताधिष्टिताश्मवत् ॥ १.४२ ॥ चतुर्मुखमुखे त्यादौ चवर्णो जगणोऽपि च । ब्रह्मनामाङ्कितत्वेन कव्यादावपि शोभनौ ॥ १.४३ ॥ शृङ्गारवीरसौहार्दमित्यत्र तु कृतेर्मुखे । ऋवर्णगः शकारोऽपि मङ्गलार्थो विशिष्यते ॥ १.४४ ॥ प्रशस्तेः पात्रनित्यादौ प्रकर्षस्याभिधानतः । पकारो रेफयुक्तोऽपि स्फुटं काव्यमुखे शुभः ॥ १.४५ ॥ मुखे प्राक्तनकाव्यस्य प्रामाण्यमनुबध्नतः । दुष्टे वर्णे गणे धीमान् कुर्यादेवं विचारणाम् ॥ १.४६ ॥ प्राचां प्रायेण गंभीरा वाचः तदधुनातनैः । तदुदाहृतिमात्रेण लङ्घ्या लक्षणसंस्थितिः ॥ १.४७ ॥ नियमोऽयं वर्तमाननायकस्तुतिगोचरः । न भूतपुर्वविषय इति केचन मन्वते ॥ १.४८ ॥ तच्चिन्त्यमथवा त्याज्यं दाक्षिण्येन किमीदृशा । प्रबन्धेऽपि पुराभूत निवृच्यन्त निबन्धने ॥ १.४९ ॥ कर्तुः कारयितुः श्रोतुः फलकाङ्क्षाप्रवृत्तितः । निर्देषस्यैव काव्यस्य पोत्पादनशक्तितः ॥ १.५० ॥ मर्यादाया अभावेन यथेच्छोक्तिप्रसङ्गतः । पक्षे दोषश्रुतेश्वैव नैवत्प्रज्ञावतां मतम् ॥ १.५१ ॥ एकस्मिन्नपि नष्टं स्याद्दृष्टे दोषे व्रतायुतम् । दोषस्यैतादृशी शक्तिः सहजा किं नु कुर्महे ॥ १.५२ ॥ तस्मात्सर्वप्रयत्नेन धर्मार्थाद्यभिलाषिणा । कविना दोषलेशोऽपि त्याज्य एवेति निश्चयः ॥ १.५३ ॥ गुणस्तु श्रुतिमाधुर्यं वर्णदोषो विपर्ययः ॥ १.५४ ॥ इति वर्णविवेकः ॥ विभक्त्यन्तं पतं तच्च वाचकं लक्षकं द्विधा । व्यञ्जकञ्चापरं प्रोक्तं ध्वनिप्रस्थानवेदिभिः ॥ १.५५ ॥ यथासङ्केतमर्थस्य बोधकं वाचकं मतम् । यौगिकं रूढमित्येतद्द्विधा स्यात्तत्र यौगिकम् ॥ १.५६ ॥ यत्प्रकाशयति स्वार्थमङ्गव्युत्पच्यपेक्षया ॥ १.५७ ॥ यथा चन्द्रे चन्दनसरसे राज्ञि श्रीसिङ्गनामधेये च । चरितार्थानि जनानां रूपग्राहीणि करणानि ॥ १.*१ ॥ अत्र चन्द्रचन्दनसरसादिशब्दानामाङ्लादयतीत्यादिव्युत्पत्तिपुरस्सरमेवार्थबोधकत्वमिति यौगिकत्वम् । रूढं पुनश्चावयवव्युत्पत्तिनिरपेक्षकम् ॥ १.५८ ॥ यथा दानेन कर्णो दयया दिलीपो नयेन काव्यो विनयेन रामः । यदि प्रसिद्धिं दधताममीभिः श्रीसिङ्गभूपो निखिलैः प्रसिद्धः ॥ १.*२ ॥ अत्र कर्णादीनां शब्दानामवयवव्युत्पत्तिमन्तरेणाप्यर्थबोधकत्वाद्रूढत्वम् । सङ्केतितार्थबाधेन तत्सम्बन्धिनि वस्तुनि । व्यापृतं लक्षकं तच्च द्विधा रूढेः प्रयोजनात् ॥ १.५९ ॥ तत्र रूढं लक्षकं यथा श्रीसिङ्गक्षितिपाल पालनकलानिष्णात सेवावतां संशिक्षाकुशलप्रतीतमनसां प्राप्तौ प्रवीणश्रियाम् । त्वत्पाददयमर्चयन्त्यरिनृपाः कोटीरकोटीगतैर्माणिक्यैर्नवशक्रगोपसुषमाहंकारसंकोचकैः ॥ १.*३ ॥ अत्र निष्णातकुशलप्रवीणशक्रगोपशब्दानां नितरां स्नातः, कुशान् लाति, प्रकृष्टा वीणास्य, शक्रं गोपायतीति मुख्यार्थानमविवक्षया चातुर्येन्द्रगोपकीटलक्षणाया रूढिरेव मूलम्, नान्यत्सहृदया ह्लादकारणं किंचिदिति रूढलक्षकत्वम् । सप्रयोजनलक्षकं यथा श्रीसिङ्गभूप समये समये भवन्तमास्थानमण्टपगतं जनरञ्जनाय । कल्याणहेमकलशैः सममातपत्रैरान्दोलिकाः सपदि सेवितुमापतन्ति ॥ १.*४ ॥ अत्राचेतनानां हेमकलशाङ्कितछत्राणामान्दोलिकानाञ्च सेवार्थमागमनमसंभावितमिति छत्राधाराः पुरुषाः, आन्दोलिकाधेया राजानो विद्वांसो वा संलक्ष्यन्ते । अनेन चास्थानमण्टपाङ्गणे छत्रान्तोलिकानामतिबाहुल्यं प्रयोजनतया विवक्षितम् । तेन च नायकमाश्रितानामान्दोलिकाद्यवधयो विभूतय इति च । तदिदं प्रयोजनलभकम् । अमुख्यया मुख्यया वा वृच्यार्थे प्रतिपादिते । उत्कर्षाय यदन्यार्थद्योतकं व्यञ्जकं हि तत् ॥ १.६० ॥ यथा अहो साहित्यसौभाग्यं श्रीसिङ्गधरणीपतेः । श्लाघायै यस्य सन्नद्धा वाचो विश्वेश्वरस्य मे ॥ १.*५ ॥ अत्र सरससाहित्यचातुरीविश्रामभूमिरहमिति विशिष्टोऽस्मदर्थोर्ऽथान्तरसंक्रमितेन ममेति पदेन लक्ष्यते । अनेन साहित्यसहजसैरभं विना नान्यस्मै चमत्कारकारितेति व्यज्यते । संनद्धा इति पदेनात्यन्ततिरस्कृतवाच्ये (न?) तत्परतया ग्रथिता इति लक्ष्यते । अत्रानेन च नायकसाहित्यस्य सर्वसाजात्यातिशायित्वं द्योत्यत इति पदव्यञ्जकमेतत् ॥ मुख्यया यथा सिङ्गप्रभुरलंकारी लङ्कारी रावणः पुनः । वर्णान्तरत्वमुभयोः श्रूयते सर्वसंमतम् ॥ १.*६ ॥ वर्णेनाक्षरेणान्तरं भेदो ययोस्तच्वमिति मुख्यया वृच्या वाच्ये प्रतिष्ठिते वर्णां वैश्यजातिरन्तरं नायकरघुनायकयोरिति परस्परव्यतिरेकारङ्कारो वर्णान्तरमिति पदेन व्यज्यत इति पदव्यञ्जकमेतत् ॥ यथा वा कृतायस्तम्भनिर्भेदो भक्तप्रह्लादपोषकः । श्रीपतिर्नरसिंहोऽयं राजते राजशेखरः ॥ १.*७ ॥ कृतो रचित अयस्तम्भस्य शुभावहविधिजाड्यस्य निर्भेदो निवारणं येन सः कृतायस्तम्भनिर्भेदः । दैवानुकूल्यसंपादनचतुर इत्यर्थः । भक्तप्रङ्लादपोषकः सेवकसन्तोषवर्धनः राजशेखरो भूपालमौलिः नरसिंहः श्रीसिङ्गभूपालो राजत इत्यसिद्धया प्राकरणिकेर्ऽथे प्रतिपादिते येऽयं कृतलोहस्तम्भभेदनस्य प्रह्लादाभिधानभक्तपोषकस्य चन्द्रकलाधारिणो भगवतः श्रीनृसिंहस्य प्रतीतिस्तया शब्दशक्तिमूलया नायककण्ठीरवकपटकण्ठीरवयोरुपमालङ्कारध्वनिरनुसन्धीयत इति व्यञ्जकमिदम् । अथ पददोषाः पदं दुष्टमपभ्रष्टमप्रयुक्तं निरर्थकम् । विरुद्धार्थमपुष्टार्थमप्रतीतमनिश्चयम् ॥ १.६१ ॥ क्लिष्टं देश्यं सनेयार्थं प्रतिहस्तमवाचकम् । जुगुप्सितमकल्याणं व्रीडाकरमितीरितम् ॥ १.६२ ॥ तत्राशिष्टमपभ्रष्टं यथा वाग्देव्याः प्रभविष्यता प्रभवता गाढं प्रभुतेन च श्रेयःपाकभरेण सिङ्गनृपते भावज्ञचूढामणिम् । त्वां जेतारमजीजनत्प्रसविता सर्गस्य नोचेदियं सत्ये वा विफलायुषां कृतधियां शापे न जीवेत विम् ॥ १.*८ ॥ अत्र जीवेतेत्यात्मनेपदित्वमनुशासनविरुद्धम् । तेन जीवेत्कथमिति साधीयान् पाठः ॥ तदप्यनुकृतौ गुणः ॥ १.६३ ॥ राजा संस्कृतवादिषु प्रणयवानित्याशया गुण्भितं तद्भृत्यत्र भवामहे पदरजैरेधेम मौलिस्थितैः ॥ इत्थं पण्डितमानिनां क्षितिभुजां दुस्संस्कुतं वाचिनां तैः साकं सुपदीकरोति कृपया श्रीसिङ्गनारायणः ॥ १.*९ ॥ अत्र भृत्यत्नेत्यसर्वनाम्नो भृत्यशब्दात्त्रल्प्रत्ययः, भवामहे इत्यात्मनेपदं पदरजैरित्यकारान्तत्वमेधेमेत्येधतेः परस्मैपदित्वं चापभ्रंशाः । तथाप्यव्युत्पन्नजनवचनानुकरणान्न दोषः । अप्रयुक्तं शिष्टमपि कविभिर्यदनादृतम् ॥ १.६४ ॥ यथा पद्मास्त्यक्ता महीपालस मुखलोतुपया श्रिया । न चेदेषामलक्ष्मीकैः कुमुदैर्न सहासिका ॥ १.*१० ॥ अत्र "वा पुंसि पद्मं नलिनंऽ इत्यनुशासनेऽपि कविभिः पुंलिङ्गे प्रायेण न प्रयुज्यत इति पद्मा इत्यप्रयुक्तमिदम् । पद्मं त्यक्तमिति प्रथमार्धे, न चेदस्य गतश्रीकैरिति द्वितीयार्घे च पाठो रमणीयः ॥ गुणात्वमिष्यते तञ्ज्ञेरस्यापि यमकादिषु ॥ १.६५ ॥ यथा या पङ्क्तिर्ब्राह्नणेन्द्राणामाशास्ते सर्वदैवताः । श्री सिङ्गभूप दधतामाशास्ते सर्वदैवताः ॥ १.*११ ॥ अत्र दैवतशब्दस्य पुंलिङ्गे कविभिरनादृतस्यापि हेयत्वादावृत्तियमके प्रयोगो न दुष्टः । पादपूरणमात्रं यदविशेषकरं च यत् । तन्निरर्थकमित्युक्तं पदोपस्कारवेदिभिः ॥ १.६६ ॥ यथा कमला कमलापायशङ्किनी शिशिरादिषु । अध्यास्ते सर्ववन्द्या वै मुखं श्री सिङ्गभूपतेः ॥ १.*१२ ॥ अत्र वै इति पादपूरणमात्रमा । क्षियः सर्ववन्द्येति विशेषणं सशङ्कायामध्यासनक्रियायां विशेषं नोपपादयतीति तद्द्वयं निरर्थकम् । "अध्यास्ते सर्वदा रम्यम्ऽ इति द्वितीयार्घपाठो रमणीयः । आहुरस्यापि सार्थत्वं यमकादिषु सूरयः ॥ १.६७ ॥ यथा या प्रङ्क्तिर्ब्राह्नणेन्द्राणामाशास्त इति पूर्वोदाहृतम् । अत्र निरर्थकत्वादेवकारस्य पादपूरणमात्रत्वेऽपि यमकनिर्वाहकत्वादेव सार्थत्वम् । विरुद्धार्थत्वम् । विरुद्धार्थ हि तद्यत्र विरुद्धार्थः प्रतीयते ॥ १.६८ ॥ इन्द्राणीनथभोगोऽयं गुह्यकेशनिभः श्रिया । राजते पाण्ड्यभूपालो गोपालसमवैभवः ॥ १.*१३ ॥ पुरातनकविप्रोक्तः सोऽपि दोषाय नो भवेत् ॥ १.६९ ॥ यथा धनुषि जनकपुत्रीनायकप्रौडिभाजा विदलितनिजधर्मैः सिङ्गभूपालकेन । वपुषि कृतजौभिश्वर्मचेलैर्जटालै- रधिगतमरिभूपैरम्बिकानाथसाम्यम् ॥ १.*१४ ॥ अत्र जनकपुत्रीनायको रघुराम इति विवक्षायामपि पितृसुतापतिरिति यद्यपि विरुद्धार्थः॑ अम्बिकानाथ इत्यत्र च पार्वतीपतिरिति विवक्षायां जननीपतिरिति प्रतीयते तथापि न विरोधः । ननु-विरुद्धार्थप्रतीतिसाधारण्ये अम्बिकानाथादीनां गुणत्वं, इन्द्राणीनाथादीनां दोषत्वमितिकथं व्यवस्थेति चेत्॑ उच्यते-प्रायिकप्रयोगरूपेण शिष्टानां परिग्रहेणैव । कैपुनरत्र सिष्टाः? यत्र प्रथमं मार्गमुपदिशन्ति तत्र त एव सिष्टा इति स्थितिररोचकिनः । पुरातनाः कवीन्द्रा एव शिष्टाः न पुनः सतृणाभ्यवहारिणः । अतः "दिनकरकुलरत्नं जानकीचानिरेषःऽ इति॑ "तदितिजनकपुत्री शिक्षिता चऽ इति॑ "जनकतनयास्नानपुण्योदकेषुऽ इति॑ "पायाद्वः सोऽम्बिकारमणःऽ इति॑ "अम्बिकानितम्बविम्बस्पर्शलम्पटकराम्बुजाऽ इति॑ "तामपाययत पानमम्बिकाम्ऽ इति च महाकविभिरङ्गीकृता गुणप्रयोगाः । जनकपुत्रीनायकाम्बिकारमणादीनां गुणत्वं स्वकपोलकल्पितानां पुनरिन्द्रणीनाथादीनामारूढेरसुन्दरत्वमिति सोऽयं सरससाहित्यतीर्थकरसंमतो घण्टापथः ॥ यत्तुच्छार्थमतिस्थूलं तदपुष्टार्थमुच्यते ॥ १.६९(अ) ॥ यथा ईशानगरिमैश्वर्यप्रतीपैश्वर्ययोग्यताम् । भजन्ते रिपुभूपालास्तव श्री सिङ्गभूपते ॥ १.*१५ ॥ अत्र लाघवयोग्यतामिति वक्तव्ये गरिमैश्वर्थप्रतीपैश्वर्यमिति शब्दगौरवम् ॥ उत्कर्षादिविवक्षायामस्यापि गुणता व्कचित् ॥ १.७० ॥ यथा नायकस्यैव वंशाबलल्याम् तस्य पादाम्बुजाज्जातो वर्णो विगतकल्मषः । यस्य सोदरतां प्राप्तं भगीरथतपःफलम् ॥ १.*१६ ॥ अत्र गङ्गेत्यर्थे कनीयसि भगीरथतपःफलमिति पदाधिक्यम् । तथापि तस्य सगरकुतपाबनक्रियासूचकत्वेन गङ्गाशब्दादत्युत्कर्षापादकत्वमिति गुणत्वम् । वेदशास्त्रैकविख्यातमप्रतीतमिहोच्यते ॥ १.७१ ॥ यथा श्रीसिङ्गधरणीपाल भवतः स्फ्येन भूयते । मित्रश्रीराममनुना गर्ववृद्धिकिता द्विषाम् ॥ १.*१७ ॥ अत्र स्फ्यस्य खड्गाकारवस्तुवाचकत्वं वेद एव॑ मनोर्मन्त्रवाचकत्वमागम एव॑ वृद्धिनिरासकत्वं शब्दशास्त्र एव प्रसिद्धमिति तदप्रतीतम् ॥ तद्विद्याक्रमनिर्वाहप्रवृत्तौ तदिदं गुणः ॥ १.७२ ॥ यथा ईडापिङ्गलयोः पिधाय वदनं बद्ध्वा त्रिश्टङ्गाटिकां सौषुम्नोपरि संक्रमय्य सरुतः षड्ग्रन्थिगन्धच्छिदः । प्रात्यग्ज्योतिषरोचिषा प्रसरता संद्राव्य चांद्रींकलां तन्निष्ठ्यूतपरामृतैः परिचितो योगी चिरं जीवति ॥ १.*१८ ॥ अत्र ईडापिङ्गलादीनां योगशास्त्रमात्रप्रसिद्धत्वादप्रतीतत्वेऽप्यभ्यासयोगप्रकारस्य सर्वतो निर्वाहाद्गुणत्वम् । अनिश्वितं तद्यत्र स्यादनुत्कर्षाय संशयः ॥ १.७३ ॥ यथा श्रीसिङ्गभूपपादाब्जसेवाहेवाकगर्वितः । सामन्तराजसन्तानो धात्रीभोगाय कल्पकृत् ॥ १.*१९ ॥ अत्रोपमाता धात्री धरित्री वा धात्रीति संशयप्रतीतेरिदमनिश्चितम् । भूमिभोगायेति पाठो रमणीयः । इदं प्रकरणादिभ्यो विशेषावगमेपि च । उत्कर्षे वाविरोघे च दोषकक्ष्यां न गाहते ॥ १.७४ ॥ यथा रेचर्लान्वयमौलिमण्डनमणे श्रीसिङ्गभूपालक त्वत्खड्गस्य घनद्युतेः स महिमा लोके कथं वर्ण्यते । यस्मिन् कम्पितमात्र एव समितिक्षोणीभृतां मण्डलं सान्तत्येन विमानवर्तनकथामाप्नोति मित्रैस्समम् ॥ १.*२० ॥ अत्र घनद्युतेरित्यस्य घना सान्द्रा द्युतिरस्येति, घनस्य मेघस्येव द्युतिरस्येति वा संशयेऽप्यविरोधान्न दुष्टत्वम् । विमानवर्त नकथामित्यत्र विगताभिमानवर्तनस्य वा व्योमयानवर्तनस्य वेति संशयेप्यत्यन्तोत्कर्षान्न दोषः । क्षोणीभृतामित्यत्र राज्ञां गिरीणां वेतिसंशये नायकखड्गवर्णनप्रकरणात्प्रतिराजलक्षणविशेषावगमान्न दोषः । एवं संयोगविप्रयोगादिभिरपि विशेषावगमे द्रष्टव्यम् ॥ दूरदूरो भवेद्यस्मादर्थः क्लिष्टं तदुच्यते ॥ १.७५ ॥ यथा वाराशिमित्रजनकप्रभवासहाय- केयूरवेतनकयानविलोचनानाम् । श्रीसिङ्गभूवर विरोधिनृपाङ्गनानां वन्यस्थली समभवन्निजराजधानी ॥ १.*२१ ॥ अत्र वारासिमित्रं मैनाकः, तस्य जन्को हिमवान्, तत्प्रभवा पार्वती, तत्सहायो महेश्वरः, तत्केयूराणि सर्पाः, तेषां वेतनकं जीवनकारणं वायुः, तस्य यानं वाहनं मृगः तस्य लोचने इव लोचने यासां ताः, इत्यतिव्यवहितार्थत्वात्क्लिष्टमिदम् ॥ प्रक्रमस्य च निर्वाहे महतां हैन्यसूचने । प्रयुक्तस्य व्कचित्काव्ये क्लिष्टस्य गुणथा भवेत् ॥ १.७६ ॥ प्रक्रमनिर्वाहे यथा-- श्रीसिङ्गनृपो विभवे धनुषि नये वपुषि रञ्जने जिष्णुम् । तत्पुत्रं तन्मित्रं तत्पुत्रं जयति तन्मित्रम् ॥ १.*२२ ॥ विभवे जिणुं देवेन्द्रं, धनुषि तत्पुत्रं देवेन्द्रपुत्रमर्जुनं, नये देवेन्द्रपुत्रमित्रं वासुदेवं, वपुषि देवेन्द्रपुत्रमित्रपुत्रं प्रद्युम्नं, रञ्जने देवेन्द्रपुत्रमित्रमित्रपुत्रमित्रं चन्द्रमिति व्यवधानाद दुर्वितर्कप्रत्ययमपि तच्छब्दप्रक्रमनिर्वाहाद्गुणत्वम् ॥ महापुरुषहैन्यसूचने यथा श्रीभर्तुरायतसुवर्णकराकृतेर्यदंशास्तदायतसुवर्णकरा द्विषस्ते । श्री सिङ्गभूप नगरार्गलदीर्गबाहो तच्वेऽप्यनायतसुवर्णकरोऽसि चित्रम् ॥ १.*२३ ॥ अत्र आयतो दीर्घभूतः सुवर्णः सुकारो यस्येति आयतसुवर्णः तादृशः करशब्दो यस्य सः आयतसुवर्णकरः सूकर इत्यर्थः । आयतसुवर्णकराकृतिः सूकराकृतिरिति विष्णोस्तिर्यक्त्वकथनभयेन वक्त्रा दूरार्थप्रत्ययः शब्दः प्रयुक्त इति गुणत्वम् । हठार्थप्रतीत्या च यथा शंभोः स्थिता भूषणपेटिकायां श्रियः सपत्नीमभितः स्फुरन्ती । विष्णोः पदं मध्यममाविशन्ती विराजते सिङ्गनृपालकीर्तिः ॥ १.*२४ ॥ अत्र शंभुभूषणपेटिका पातालम्, श्रीसपत्नी भूमिः, मध्यमविष्णुपदमाकाशमिति नातिदुर्बोधत्वादक्लेशकरमिति गुणत्वम् । देशप्रसिद्धं व्युत्पत्तिरहितं देश्यमुच्यते ॥ १.७७ ॥ यथा पेकापरीतकमनीयनितम्बबिम्बा हालामदद्बिगुणपाटलगण्जेरखा । श्रीसिङ्गभूप भवतो मृगयाविहारे का वानुयाति यवनी परिचारिकेव ॥ १.*२५ ॥ अत्र पेका परिधानभस्त्रा, हला मदिरा, इमे देश्ये । ननु भस्त्रा पेटिकयोस्साम्यात्पेटिका मध्यलोपिनी । पेका हला च हलिनः प्रिया देश्या न हीति चेत् ॥ १.७८ ॥ कन्दादुट्टीकत इति कन्दाट्टादेरदेश्यत् । इत्थं निरुक्तनिर्वाहा दमर्यादा प्रशस्यते ॥ १.७९ ॥ तदिदं मार्गसंक्षोभप्रज्ञाकण्डूतिरुज्झ्याम् । अङ्कोपालम्बनामादौ न देश्यं दूषणं भवेत् ॥ १.८० ॥ अङ्को बिरुदम् । तत्र यथा चलमर्तिगण्डबिरुदो जयति प्रतिगण्डभैरवो राजा । सौमकुलपरशुरामः पाण्डयविभालोऽप्यगायि गोपालः ॥ १.*२६ ॥ अत्र चलमर्तिगण्डादीनां देश्यत्वे बिरुदत्वाद्गुणत्वम् ॥ उपारम्भे यथा किं दारुणा कोंकरवंकरेण किं वाससा चींगिरिमांगिरेण । श्रीसिङ्गभूपारविलोकनाय वैदुष्यमेकं सुधियां सहायः ॥ १.*२७ ॥ अत्र कोङ्करवंकरेणेति दूषणं पदं देश्यम् । तादृशेन दारुणा आन्दोलिकयेत्यर्थः । नानावर्णविचित्रे चींगिरिमांगिरेणेति पदं देश्यम् । तादृशेन वाससा किं पट्टांशुकेनेत्यर्थः । अत्र कश्चिदान्दोलिकापट्टांबराद्याडय्बर मतिव्ययेन सम्पाद्य नानादिगन्तेषु राजास्थानानि विगाह्य तद्व्ययमात्रमप्यलभमातः ऋणाधिकतया क्लिस्यन्नाढम्बरं विनापि नायकमालोक्य तत्करुणाकटाक्षसमग्रीभूत नानावैबवस्सन कस्मैचिदाडम्बररहितेन भवता कथं सम्पदीदृशी सम्पादितेति पृच्छेते जनाय केवलं व्ययकारिणान्दोलिकापट्टपटादिबाह्याडम्बरविह्म्बनापुरःसरमुत्तरं वदति । तदत्र कोंकरवंकरादेरुपालम्बनत्वात्देश्यत्वेऽ पि सुन्दरत्वम् ॥ नाम्नि यथा नायकस्यैव वंशावल्याम् -- तयोरभूवन् क्षितिकल्पवृक्षाः पुत्रास्त्रयस्त्रासिरवैरिवीराः । सिङ्गप्रभुर्वेन्नमनायकश्व वीराग्रणी रेचमहीपतिश्व ॥ १.*२८ ॥ अत्र सिङ्गम, वेन्नम, रेचय शब्दानामव्युत्पत्तिमच्वाद्देश्यत्वेऽपि नामपदत्वाददुष्टपदत्वम् ॥ आत्मना क्ल्टप्तसंकल्पं नेयार्थमिति गीयते ॥ १.८१ ॥ यथा व्यत्यस्तपात्ररहिता मेदिनीपालशात्रवाः । लीयन्ते हन्त कान्तारे व्यावृत्तपिकसङ्कुले ॥ १.*२९ ॥ अत्र पात्रशब्दो वर्णप्रातिलोम्येन त्रपां वदति । तथैव व्यावृत्तः पिकः कपिरिति स्वसङ्केतितत्वान्नेयत्वम् ॥ प्रहेलिकादौ प्रास्तदभ्यनुज्ञायते बुधैः ॥ १.८२ ॥ यथा योगिनां भोगिनां किं स्यादिष्टमेतन्न वेत्ति यः । विपरीतो हरस्तेन न ज्ञातो मेदिनीपते ॥ १.*३० ॥ अत्र योगिनां भोगिनाञ्च किं प्रियमिति प्रश्ने रह इत्युत्तरे वक्तव्ये विपरीतो हर इत्युक्तम् । तस्य स्वसङ्केतितत्वेऽपि प्रहेलिकात्वाददुष्टत्वम् ॥ स्वपर्यायपदज्ञानसाधनं प्रतिहस्तकम् ॥ १.८३ ॥ यथा श्यामदंष्ट्राकरालेन करवालेन खण्डिताः । त्वया श्रीसिङ्गभूपाल कर्पूरेण विरोधिनः ॥ १.*३१ ॥ अत्र श्यामसब्दः स्वपर्यायकालशब्दं ज्ञापयति । तेन यमः । कर्पूरशब्दश्व स्वपर्यायं घनसारं ज्ञापयति । तेन अधिसार इति लभ्यते । ततः श्यामकर्पूरश्ब्दयोः स्वपर्यायकालघनसारशभ्दमात्रज्ञापकत्वात्प्रतिहस्तत्वम् ॥ गूढलेखादिषु प्रायो नैतच्चारूत्वमुज्झति ॥ १.८४ ॥ यथा हरिद्रायां राहुप्रसरपिहितेच्छापरिषदि प्रयुक्तालङ्कृत्यै वियुतगरुतां दुर्गकुजरीम् । वयं सार्कान्वीताः प्रहर इति सेनापतिकृता- नमात्येभ्यो लेखान् प्रथयति च सिङ्गक्षितिपतिः ॥ १.*३२ ॥ अत्र हरिद्रा निशा रात्रिरिति यावत् । राहुस्तमः ध्वान्तमिति यावत् । इच्छा आशा दिक् । प्रयुक्तालङ्कृतिरिति प्रहारः । वियुतगरुतां विपक्षाणाम् । कुजरीं नगरीम् । सार्का सेना चमूः । प्रहरः यामः गच्छामः । एवं हरिद्रादीनां स्वपर्यायमात्रबोधकत्वेन प्रतिहस्तत्वेऽपि सेनापतिभिरभियाति दुर्गोच्छित्तये गतैः तदालोचितकार्य वयं सेनान्विताः तिमिरपिहितदशदिशि निशायां प्रहाराय विपक्षाणां दुर्गनगरीं याम इत्येवं लक्षणं मन्त्रभेदभयाद्गूढलेखमुखेन राज्ञि प्रेषितमिति न दुष्टत्वम् ॥ असमर्थं योगमात्रप्रयुक्तत्वादवाचकम् ॥ १.८५ ॥ यथा मेदिनीरमणास्थानप्राङ्गणे वारवासिनः । वाजिनो मञ्जुवाशन्ते शिञ्जनते सत्तकुञ्जराः ॥ १.*३३ ॥ अत्र तिरश्वां रुतं वासितम् । भूषणशब्दः सिञिजितमिति मर्यादायां "वाश्ट शब्दकुत्सायाम्ऽ, "शिज अव्यक्ते शब्देऽ इति च योगमात्रेण प्रयुक्तौ वाशितशिञ्जितशब्दौ हेषाबृंहितयोरवाचकौ । अस्यापि गुणता ग्राह्या तच्छास्रस्वीकृतादिषु ॥ १.८६ ॥ यथा श्री सिङ्गभूमिरमणे भरितप्रतापे नान्ये स्फुरन्ति रणसीमनि राजलोकाः । किं वा स्फुरन्ति रटितस्पृशि पाञ्चजन्ये लीलानुकारि तरुणीजनकूजितानि ॥ १.*३४ ॥ अत्र कामिनीनां रतान्तरेषु कामसास्त्रकारैः हंसतित्तिरिलावकादिरुतविकाराम्नानात्पक्षिणो रुतादन्यत्रावाचकस्यापि कूजितस्य समर्थत्वम् ॥ चित्तं जुगुप्सते यस्मात्तज्जुगुप्सितकं त्रिधा । हेयार्थं हेयार्थान्तरं हेयार्थस्मृतिहेतुकम् ॥ १.८७ ॥ हेयार्थं यथा निस्संस्कारमुखा दृशान्ततदरीनिर्यन्महादूषिका पूत्युद्गार भरानुभूतिसयुजा दीक्षामिषात्मारया । हेयादन्तरदन्तनैष्ठिकतया सीदन्ति दुर्गाङ्गणे कल्याणक्षितिपप्रतीप सरणी संचारिणो वैरिणः ॥ १.*३५ ॥ अत्र दूषिकापूत्यादीनां साक्षाज्जुगुप्सार्थत्वेन हेयार्थत्वम् ॥ हेयार्थान्तरत्वं यथा -- करोपलालितविशामासान्तागूढवर्चसाम् । द्विषामकालराहुस्ते खड्गः कल्याणभूपते ॥ १.*३६ ॥ अत्र विड्गूढवर्चश्शब्दयोः प्रजातेजोलक्षणार्थंवन्मलार्थस्यापि वाचकत्वेन जुगुप्सार्थान्तरत्वम् ॥ हेयस्मृतिहेतुकं यथा -- पूयन्ते पृतनोद्धूतरजोरञ्जितविग्रहाः । कल्याणखड्गधारायां मज्जनेन विरोधिनः ॥ १.*३७ ॥ अत्र पूयन्ते मज्जनेनेत्यनयोर्वर्णसारूप्य ब्रमेण पूयमज्जार्थे सर्णेजपत्वाज्जुगुप्सार्थस्मारकत्वम् । एषां ग्राह्यो गुणीभावः व्कजिदङ्गीकृतादिषु ॥ १.८८ ॥ यथा पल्लवकोमलपाणितलानामुन्नतमांसलवक्षसिजानाम् । मानसमुत्तममानवतीनां रक्ततरं त्वयि सिङ्गनृपाल ॥ १.*३८ ॥ अत्र मांसरक्तकोमलशब्दानां जुगुप्सार्थतदर्थान्तरतत्सूचकत्वे जुगुप्सितत्वेऽपि महाकविभिरङ्गीकृतत्वाद्गुणत्वम् ॥ अमङ्गलार्थं यथा -- श्रीसिङ्गभूपालजयप्रयाणसन्नाहनिस्साणधणंक्रियाभिः । सद्यः परिस्फोटितसंधिवन्धाः परिम्रियन्ते परिपन्थिभूपाः ॥ १.*३९ ॥ अत्र परिम्रियन्त इति साक्षादमङ्गलम् । "निद्रान्ति दीर्घं परिपन्थिभूपाःऽ इति पाठो रमणीयः । अमङ्गलार्थान्तरं यथा -- श्रीसिङ्गभूपालचमूसमूहसन्नाहसन्नाहवसंभ्रमाणाम् । संतिष्ठमानैः पूरतो रिपूणां कृतान्निबोधैः स्वविकत्थनानि ॥ १.*४० ॥ अत्र सन्तिष्ठमानैरित्यनेन सम्यक्स्थितिरिव मरणमपि प्रतीयते । उत्तिष्ठमानैरिति पाठो रमणीयः । अमङ्गलस्मरणहेतुर्यथा कात्यायनसुतोद्देशबलिरक्षितकुक्षयः । भवन्ति मेदिनीनाधमनमन्तो नरेश्वराः ॥ १.*४१ ॥ अत्र कुक्षय इति पदेऽन्त्यवर्णद्वयेना मङ्गलार्थस्मरणम् । एषां गुप्तादिषु प्रायो गुणभावोऽपि गण्यते ॥ १.८९ ॥ यो निर्यस्य द्रुहिणचरणो जन्मभूम्यां नृपाणां ब्रह्माण्डेशे भगवति परं केशवे भक्तिभाजाम् । कृत्याकृत्यस्फुरणहरणे रक्षिते येन शोऽयं शत्रुछेदव्यसनकुशलो भाति रेचर्लवंश्यः ॥ १.*४२ ॥ अत्रोच्छेदस्य साक्षादमङ्गलार्थत्वेऽपि शत्रुपदेन गुप्तत्वाद्गुणत्वम् । कृत्येत्यस्यामङ्गलाथत्वेऽपि कृत्याकृत्ये कार्याकार्ये इति साहचर्येण गुप्तत्वम् । केशव इत्यस्यान्त्यवर्णद्वयेनामङ्गलार्थस्मरणहेतुत्वेऽपि भगवन्माहात्म्येन गुप्तत्वम् । केशव इत्यस्यान्त्यवर्णद्वयेनामङ्गलार्थस्मरणहेतुत्वेऽपि भगवन्माहात्म्येन गुप्तत्वमित्यमीषां गुप्तत्वम् । व्रीडाकरमसभ्यं सयात्पूर्ववत्तदपि त्रिधा ॥ १.९० ॥ वंशास्सहस्रं सन्त्वन्ये शिश्नोदरपरायणाः । एको रेचर्लवंशोऽयं साधुरक्षापरायणः ॥ १.*४३ ॥ अत्र शिपूर्वश्नं साक्षादसभ्यार्थम् । निजोदरेति पाठो रमणीयः । असभ्यार्थान्तरं यथा सिङ्गभूवरवरूधिनीधुनी रंहसा दलितमूलभक्तयः । यान्ति केऽपि यमपालितां द्विषो गुह्यकेशकलितां दिशां परे ॥ १.*४४ ॥ अत्र गुह्यकेशशब्दः कुबेरमिवकुत्सितकेशार्थमपि व्यनक्तीत्यस्यासभ्यार्थान्तरत्वम् । यक्षराजकलितामिति पाठो रमणीयः । असभ्यत्वस्मारकं यथा श्रीसिङ्गभूपालपदारविन्दसेवाप्रसादीकृतराज्यभोगाः । क्रीडन्ति सामन्तनृपा वनान्ते शेफालिकाचञ्चलचञ्चरीके ॥ १.*४५ ॥ अत्र शेफालिकापदस्य प्रथमवर्णंयुगलस्यासभ्यार्थस्मृतिहेतुत्वम् । "वासन्तिकाचञ्चलऽ इति पाठो रमणीयः । अमीषाञ्च गुणीभावो लक्षितादिषु लक्ष्यते ॥ १.९१ ॥ यथा योनिर्यंस्य द्रुहिणचरण इति पूर्वस्मिन्नुदाहरणे । योनिरित्यसभ्यार्थत्वेऽपि योनिरिव योनिरिति गौणवृच्या न दुष्टत्वम् । जन्मभूमिभगवच्छब्दयोरसभ्यार्थान्तरत्वेऽपि लोकसंवीतत्वाद्गुणत्वम् । ब्रह्माण्डेत्यस्य चोत्तरवर्णंद्वयेनासभ्यार्थस्मृतिहेतुत्वेऽप्यण्डमिवाण्डमिति गौणवृच्या गुप्तत्वाद्गुणत्वम् ॥ न वाच्यमेषां सर्वेषां हेयार्थत्वादिसाम्यतः । गुणत्वमगुणत्वं वा केवलं तर्ककर्कशैः ॥ १.९२ ॥ एकस्यैव परान्यत्वमाप्तवान् गुणमानयोः । सचमत्कार साहित्यब्रह्यसाक्षात्क्रियोचितैः ॥ १.९३ ॥ अनुज्ञातं बुधैः कैश्वित्कुमारीकमलादिकम् । नैवं श्रविष्ठा संस्थानशिपूर्वश्नादिकं पुरा ॥ १.९४ ॥ यैः कैश्वित्प्राक्तनी सीमा न लङ्घ्या कोविदैरपि । तदुक्तेनैव मार्गेण गुणदोषान् परामृशन् ॥ १.९५ ॥ काव्यं कल्पान्तरस्थायि कल्पयेदनुपप्लवम् ॥ १.९६ ॥ श्रीः इति सरससाहित्यचातुरीधुरीणश्रीविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालसुधासारशीतलायां चमत्कारचन्द्रिकायां वर्णपदविवेको नाम प्रथमो विलासः ॥ ______________________________________________________________________________ द्वितीयो विलासः चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता द्वितीयो विलासः अथ वाक्यम् समन्वितपदं वाक्यं लक्षकं व्यञ्जकञ्च तत् ॥ २.१ ॥ लक्षकवाक्यं यथा उच्चैराश्रितवत्सलोयममृषाभाषीति यद्गीयसे श्रीसिङ्गक्षितिनायकैतदधुना निव्यूढेमेतच्वया । मद्भाग्यानि पचेलिमानि नितरामेवं सपत्नीजने- ष्वारूढास्मि चिराय तावककृपासंभावनाया पदम् ॥ २.*१ ॥ अत्र मानवत्याः कृतापराधे दयिते चाटुवाक्यस्यासंबद्धत्वाद्विप्रलम्भकोऽसीत्यादि वाच्यविरुद्धोर्ऽथो लक्ष्यते । व्यञ्जकवाक्यं यथा क्षोणीभृतां शिशिरकल्पितपादकान्त- श्श्यामोपलालनकरो नयनप्रियाङ्गः । राजाचले सुमहसा मुदयानुकूले राजा विराजति सतामुपरञ्जनाय ॥ २.*२ ॥ अत्र शब्दशक्तिमूलो नायकतारकानायकयोरुपमारूपोऽनुरणनध्वनिः सर्वेणैववाक्येन प्रतीयत इति व्यञ्जकमिदम् । अथ वाक्यदोषाः अपप्रयुक्तं दुस्सन्धि व्युत्कमं पुनरुक्तिमत् । दुरन्वयञ्च वाक्याङ्गसङ्कीर्णं वाक्यगर्भितम् ॥ २.२ ॥ द्वे भिन्नीलिङ्गवचने द्वे च न्यूनादिकोपमे । विकलं केवलञ्चेति दुष्टं वाक्यमिहोच्यते ॥ २.३ ॥ अपप्रयुक्तं पदयोर्योगे यत्रापशद्बनम् ॥ २.४ ॥ यथा राजान्यो हि धनान्यलं जनपदान विष्पीड्यतान्यन्वहं पण्यस्त्रीविटचेटपात्रठनटस्तोमाय संयच्छते । श्रीसिङ्गक्षितिपालकः पुनरयं न्यायक्रमैरर्जितान्युर्वीदेवजनाय वेदविदुषे वित्तानि दत्तेतराम् ॥ २.*३ ॥ अत्र स्तोमायेत्यत्राशिष्टस्य व्यवहारत्वाच्चतुर्थ्यर्थे तृतीयया भवितव्यम् । तथापि चतुर्थीकृतिरिति सोऽयमपप्रयोगो वाक्यदोषः ॥ अस्यापि गुणतामाहुः विवक्षावशतः क्वचित् । निसर्गसुन्दरत्वेन गुणदेषविवेचकाः ॥ २.५ ॥ यथा अस्मत्कल्पलतादलानि गिलति त्वत्कामगौर्वार्यतां मच्चिन्तामणिवेदिभिः परिणमेद्दूरान्नयोच्चैर्गजम् । इत्यारूढवितर्दिकाः प्रतिपतं जल्पन्ति भूदेवताः सिङ्गक्ष्माभुजि कल्पवृक्षसुरभीहस्त्यादिदानोद्यते ॥ २.*४ ॥ अत्र कामगवीति वक्तव्ये कामगौरिति यदुक्तं तदिदं "गोरतद्धितलुकिऽ इति टप्रत्ययस्य समासान्तविधिरनित्य इत्यनित्यत्वादर्थप्रसादविवक्षया नापप्रयुक्तम् । तथा च महाकविप्रयोगः तीर्थकरक्रमोत्तंसनामनि महाकाव्ये --- शुभ्राभ्रङ्कषशेखरेषु विदुषां वासेशु वाग्भासिनां भव्यत्वत्करुणा कटाक्षकणिकास्पर्शेन दर्शेश्वर । कालं वैजननं विना फलवती स्तल्पन्ति कल्पद्रुमाः पङ्क्तिः कामगवाञ्च निर्भरतरं प्रस्नोति वत्सान् विना ॥ २.*५ ॥ इति तथा चाहुः आचार्याः "इत्यादिशाश्त्रमाहात्म्यदर्शनालसचेतसाम् । अपभाषणवद्धाति न तु सौभाग्यमुज्झति" ॥ २.६ ॥ इति । अश्लिष्टकष्टाश्लीलादिसन्दि दुस्सन्धि गीयते ॥ २.७ ॥ अश्लिष्टकष्ट सन्धिनी यथा कल्याणस्य इनेन्दुतुल्यमहसो अव्याजशौर्यश्रियो विद्विड्ढ्रीभरढोग्ध्र सिद्युतियुजो धृत्या अतन्व्या उरोः । श्रोत्रे ऊर्जितकुण्डले उरुरुचिं आद्यां कविप्रक्रियां नाश्राव्यां सहतः सुसन्धिललिते दुस्सन्धिसम्बन्धिनीम् ॥ २.*६ ॥ अत्र संहिता विवक्षितेति प्रथमपादे पदानामश्लिष्टसन्धित्वाद्दुःसन्धित्वम् । विद्विड्ढ्रीभरेत्यादि पदे श्रुतिकटुरूपकष्ट सन्धित्वाद्दुःसन्धित्वम् । धृत्या अतन्व्या उरोरित्यत्र लुप्तविसर्गप्रायकष्टसन्धित्वाद्दुःसन्धित्वम् । तृतीयपादे प्रगृह्यप्रायकष्टसन्धित्वाद्दुःसन्धित्वम् ॥ अश्लीलसन्धि यथा पश्य प्रिये भव्यनृपालख्ङ्गधारानिपाताच्चकितान्तरेण । सरोमया सीत्कृतसिन्धुपूरं विगाढमार्तस्य कुतो विवेकः ॥ २.*७ ॥ चित्रे सकृत्प्रगृह्यादावाद्ययोर्गुणभूमिका ॥ २.८ ॥ यथा विधत्ते श्रीसिङ्गक्षितिपकमलर्धेर्निधिरसौ समुद्रस्ते बाहुश्वकितचकितक्ष्माभृदवनः । मदान्धद्वे षिस्त्रीकुचकलशकाश्मीरमकरी- निरासव्यासक्तिं शिव शिव चरित्राणि महताम् ॥ २.*८ ॥ अत्र कमलर्धेरित्यस्य कष्टसन्धित्वेऽपि कमलायाः कमलस्य च ऋद्धेरिति श्लेषनिवहिफलत्वात्सकृदेवेति गुणत्वम् । सकृदेव प्रगृह्यो यथा प्रज्ञापि तव सूक्ष्मार्थग्राहिणी लोचने इव । श्रीसिङ्गभूपधाटीव कीर्ती राजातिलङ्घिनी ॥ २.*९ ॥ अत्र लोचने इवेति कष्टसन्धित्वेऽपि प्रगृह्यत्वात्सकृदेवेति गुणत्वम् । सन्ध्यश्लीलस्य सर्वत्र दुर्जनस्येव वर्जनम् । अस्यापि च गृणीभावे न ग्राह्यं नग्नदर्शनम् ॥ २.९ ॥ यथा योग्यं प्रयोज्यस्य शब्दस्यार्थस्य वा क्रमः । विपर्यस्तो भवेद्यत्र व्युत्क्रमं तन्निगद्यते ॥ २.१० ॥ यथा श्रीसिङ्गभूपाल बलप्रभावे भीमौ यथा दर्पककीचकारी । आदेशनिवहिविधौ गुरूणां यथा राघवभार्गवौ त्वम् ॥ २.*१० ॥ अत्र बले प्रभावे चेति सामान्यधर्मपरिगणनाक्रमवशादुपमानयोरपि तद्धर्मिणोः क्रमेणोक्तिरेव युक्तेति कीचकदर्पकारीति वक्तव्ये व्युत्कमेण भणनाच्छब्दव्युत्कममिदम् । अत्रैव राघवादपि भार्गवस्याभ्यर्हितत्वाद्भार्गवराघवाविति वक्तव्ये तदतिक्रम्य निर्देशादर्थव्युत्क्रममिदम । उभयत्रापि कीचकदर्पकारी भार्गवराघवाविति च पाठो रमणीयः । निर्विशेषविवक्षायां दुःशङ्काव्यपनोदने । उक्तिशंकोचसौकर्येऽ प्यस्यापि समुपास्यता ॥ २.११ ॥ निर्विशेषविवक्षायां यथा घटामः स्वीयं वा पुरततिमनर्घ्यानपि मणी-नखर्वामुवीं वाविसृज गतिरन्या न महता । त्वया ग्राह्यं सिङ्गक्षितिभुजि न वैरं प्रियतं प्रियाणामस्माकं वचनमुचितं मास्म परिभूः ॥ २.*११ ॥ अत्र पुरदेशगजाश्वरत्नानामभ्यर्हितत्वात्पूर्वपूर्वं निर्देशः । अथवा न विसर्जनक्रियासम्बन्धादनभ्यर्हितानां पूर्वपूर्वमुद्देशः कर्तव्यः । एवं सत्युक्तप्रकारेणातिक्रमेऽपि प्राणेश्वर सकलमपि धनं स्वामिने समर्प्य प्राणा रक्षणीयाः । कृतमभ्यहितानभ्यर्हितविवेकेनेति विवक्षया शत्रुकान्ताभिरूक्तत्वाद्दुष्टत्वम् । दुःशङ्कापरिहारे यथा नायकस्यैव वंशावल्याम् यस्याद्यो विदितः कुमारतिलकः श्रीयन्नवोतो गुणैरेकस्याग्रजमात्मरूपविभवे चापे द्वयोरग्रजम् । आरूढे त्रितयाग्रजं विजयते दुर्वारदोर्विक्रमे सत्योक्तौ चतुरग्रजं वितरणे किञ्चापि पञ्चाग्रजम् ॥ २.*१२ ॥ अत्र कर्णादीनामभ्यर्हितत्वात्पञ्चानामग्रजं त्रयाणामग्रजं द्वयोहग्रजमेकस्याग्रजमिति वक्तव्येऽपि संख्यापचयसूचिताप्रशस्तिप्रतीतिपरिहाराय संख्योपचयत्वारोपेणो त्तरोत्तराभिवृद्धिद्योतनादपक्रपेऽपि क्रमादतिसुन्दर इति गुणत्वम् । उक्तिसंकोचसौकर्ये यथा रामाः श्रीकिङ्गभूपाल चत्वारोंऽशा हरेः स्फुजम् । समौ तत्र महोदात्तौ विषमौ तु महोद्धतौ ॥ २.*१३ ॥ अत्र कृतत्रेताद्वापरकलियुगेषु भार्गवो राघवो यादव इति त्रयो रामाः श्रीसिङ्गभूपालश्चेति चत्वारो लोकरक्षापेक्षया श्रीविष्णोरंशा इत्युक्ताः । तेषु चतुर्षु प्रथम उद्धतो द्वितीय उदात्तः तृतीयश्चोद्धतश्वतुर्थ उदात्त इति वक्तव्ये पठितप्रकारेण व्युत्क्रमेऽपि समाविति द्वितीयचतुर्थयोर्दशरथान्नवोतसंभूतयो रंशयोः, विषमाविति रेणुकारोहिणीगर्भसंभूतयोः प्रथमतृतीययोरंशयोश्व धीरोदात्तधीरोद्धतत्वगुणसाम्यसंबन्धानुसन्धायिना संक्षोपोक्तिसौकर्येऽपि चारुता समुन्मीलतीति गुणत्वम् । पदं पदार्थस्वाभिन्ने यत्र तत्पुनरुक्तिमत् ॥ २.१२ ॥ हास्तिकमास्तिकसेव्य तवेदं दुर्जनतर्जन सिङ्घनृपाल । तर्जितगर्जितडम्बरमास्ते शम्बरडम्बरमेति मदाम्बु ॥ २.*१४ ॥ अत्र डमबरयोरेकरूपत्वात्पदपुनरुक्तिः । भावोत्कर्षविवक्षादावस्याप्यादरणीयता ॥ २.१३ ॥ यथा दयोदधे त्वं नः पाहि पाहि नः करुणांबुधे । पोष्या वयं न विद्वेष्याः सिङ्गभूपाल पालय ॥ २.*१५ ॥ अत्र करुणांबुधे दयोदधे इत्यर्थपुनरुक्तिः । पाहि नः पाहि न इति शब्दपुनरुक्तिः । तदुभयमपि शतृसंबन्धिका विग्रहकारिगतदैन्यातिशयविवक्षायां न दुष्यति किन्तु स्वार्थातिशयं पुष्यतीति गुणत्वम् । दूरतान्वययोग्यानां यत्र स्यात्तद्दुरन्वयम् ॥ २.१४ ॥ यथा श्रीसिङ्गक्षितिपालसङ्गरतलेष्वङ्गानि दृष्ट्वा द्विषामातङ्केन समन्ततः किलकिलारावेण वैतालिकाः । कान्ताः खण्डविख्ण्डतां परिगतान्युच्चण्डखड्गाहतेः घोराः कङ्ककुलाकुलेषु चकिताश्विन्वन्ति मिन्वन्ति च ॥ २.*१६ ॥ अत्र कङ्ककुलाकुलेषु सङ्गरेष्वित्यनयोरातङ्केन चकिता इत्यनयोः किलकिलारावेण घोरा इत्यनयोर्वैतालिका दुष्ट्वेत्यनयोरतिप्रत्यासत्तिकाङ्क्षिणोः दूरदूरा विघटना दृश्यते । सेयमन्वयावसरे सरसमानसं दुःखाकरोतीति दुरन्वयं दुष्टम् । गुणकक्ष्यापरिक्षेपः व्कचिदस्यापि दृश्यते ॥ २.१५ ॥ यथा दोग्धारः पालयां केचित्गोपालास्वक्रिरे गवाम् । सा परं सिङ्गभूपेन चरितार्था वसुन्धरा ॥ २.*१७ ॥ अत्र पालयाञ्चक्रिरे इति वक्तव्ये पालयां केचिद्गोपालाश्वक्रिरे इति दूरान्वय्त्वेऽपि व्यवहितमपीच्छन्ति केचिदिति विशेषाव्युत्वादनाद्गुणत्वम् । स्मृतं वाक्याङ्गसङ्कीर्णमन्यवाक्याङ्गसङ्गतम् ॥ २.१६ ॥ यथा खड्गानापृछ्य निर्यान्ति वधूराकृष्ट धुन्वते । दिवं मुञ्चन्ति यान्ति क्ष्मां सिङ्गभूपालविद्विषः ॥ २.*१८ ॥ अत्र वधूरापृच्छ्य निर्यान्ति खड्गानाकृष्य धुन्वते क्ष्मां मुञ्चन्ति दिवं यान्ति इति वक्तव्ये वाक्ययोः परस्परपदसङ्करः कृत इति वाक्याङ्गसङिकीर्णमिदम् । वाक्यं वाक्यादिके तच्च गुणीभावेन भाव्यते ॥ २.१७ ॥ यथा वाचामीश सुरेश दैवतगुरो त्वामप्यजैषीत्किल प्रज्ञायामनवोतसिङ्गनृपतिः सच्वे तदैरावतम् । दाने कल्पतरून् जिता वयममी तत्सांप्रतं सांप्रतं भोगे स्वामिनि निर्जिते त्वयि यथा राजा तथा हि प्रजाः ॥ २.*१९ ॥ अत्र वाचामीश दैवतगुरो त्वामप्यजैषीदित्येकं वाक्यम् । सुरेश वयं जिता इत्यपररं प्रतिवाक्यम् । तयोरंशभूतसम्बुद्धिपदसङ्करेऽपि वाक्योपवाक्यत्वान्न दोषः । तद्वाक्यगर्भित यस्य गर्भे वाक्यान्तरस्थितिः ॥ २.१८ ॥ यथा कृतान्तदंष्ट्राक्रूराय खड्गाय तव भूपते । का हि शङ्का मदान्धानां तिष्ठन्ति शत्रुभूवराः ॥ २.*२० ॥ अत्र नायक तव खड्गाय शत्रुभूपास्तिष्ठन्तीति वाक्यस्य गर्भे का हि शङ्का मदान्धानामिति वक्यान्तरमविकलं स्थितमिति तदिदं वाक्थगभितम् । इदं सहृदयाह्लादि स्वावस्थासूचनादिषु ॥ २.१९ ॥ यथा सख्यश्वन्द्रमुखो निषिञ्च चरणे मन्दाकिने चन्दनं पद्माक्षः सखि पद्मकी मधुकरौ पद्मेन निर्वापय । स्मेरश्रीर्नय शारिकां चतुरिकां दूरं दुरालापिनीं श्रीसिङ्गे हृदयङ्गमो मम परः किं जल्पितैः कल्पितैः ॥ २.*२१ ॥ अत्र हे सख्यः चन्द्रमुखः पद्माक्षः स्मेरश्रीः नायको मे हृदयङ्गमो नायक इति वाक्यस्य निषिञ्च चरणावित्यादिना सखि पद्मके ममेत्यादिना नय शारिकामित्यादिना । वाक्यत्रयेण प्रतिपादितं गर्भितत्वेऽपि नायिकायाः नायकगुण सङ्कीर्तनक्रमसमारूढसंतापोद्वेगादिलक्षणकामावस्थातिशयसूचकत्वेन सहृदयहृदयाह्लादनाद्गुणत्वम् । यत्रोपमा भिन्नलिङ्गा भिन्नलिङ्गं तदीरितम् । तद्भिन्नवचनं यत्र विबिन्नवचनोपमा ॥ २.२० ॥ यथा शास्त्रादेव सिता प्रज्ञा हंसीव विशदं यशः । तव सिङ्गमहीपाल शशीव रूचिरा तनूः ॥ २.*२२ ॥ अत्रोपमानोपमेययोः भिन्नवचनत्वं भिन्नलिङ्गत्वं च स्पष्टम् । गुणीभवेव्द्दयमिदं यत्रोद्वेगो न धीमताम् ॥ २.२१ ॥ यथा प्रज्ञापि तवसूक्ष्मार्थदर्शिनी लोचने इव । श्रीसिङ्गभूपधाटीव कीर्ती राजाति लङ्घिनी ॥ २.*२३ ॥ अत्र लोचने इव प्रज्ञा इत्युपमानोपमेययोर्लिङ्गवचनभेदेऽपि सूक्ष्मार्थग्राहिणीति विशेषावचनश्लेषवैचित्र्य कृतिसामर्थ्येन सहृदयानामुद्वेगो न भवतीति गुणत्वम् । यत्र न्यूनत्वमाधिक्यमुपमानविशेषणैः । लक्ष्येते ते क्रमेणैव ज्ञेये न्यूनाधिकोपमे ॥ २.२२ ॥ न्यूनोपमं यथा निभाति सिङ्गक्षितिपस्य मौलिः छत्रेण चामीकरकुम्भकेन । मानोन्नतं श्टङ्गमिवोदयाद्रेः सम्पूर्णबिम्बेन सुधाकरेण ॥ २.*२४ ॥ अत्र चामीकरकलशोपमानस्य कस्यचिदपि धर्मस्य सुधाकरविशेषणत्वेनानुकृतत्वान्न्यूनोपममिदम् । अधिकोपमं यथा सिंहासने राजति सिङ्गभूपो भुजान्तरे चञ्चलतारहारः । नवप्रवालोज्ज्वलदीर्घगुच्छस्तटे सूमेरोरिव कल्पवृक्षः ॥ २.*२५ ॥ अत्रोपमेयपद्मरागेष्वनुक्तेषु तदुपमानस्य नवप्रवालस्या धिक्यादधिकोपमानम् । प्रसिद्धेरनुमानाच्च गुणतामनयोर्विदुः ॥ २.२३ ॥ न्यूनोपमगुणीभावो यथा भुजगाकम्पितोत्तालकरालकरवालया । भासते सिङ्गभूपालो भद्रश्रीरिव शाखया ॥ २.*२६ ॥ अत्र करवालोपमानस्य कृष्णाहेरनुपादानान्न्यूनोपमत्वेऽपि वसन्ति चन्दने कृष्णसर्पा इति रूढेरनतिक्लेशेन तत्प्रतीतिरिति न दुष्टत्वम् । अधिकोपमस्य यथा हरावलीविलसिता विलसद्दुकूला वाराङ्गनाः क्षितिपतेर्वशयन्ति चेतः । ज्योत्स्नाविसारविशदा विकचोत्पलाभा राकानिशा इव विराजितलोलताराः ॥ २.*२७ ॥ अत्र नीलोत्पलग्रहणादधिकोपमत्वेऽपि वारविलासिनीकटाक्षविक्षेपयोरविनाभावविज्ञानपरिणतान्तःकरणानामुपमानो द्धाटनानुमानादनति प्रयासेन कुवलयोपमेयानां कटाक्षविक्षेपाणां प्रतीतिरिति गुणत्वम् । छन्दोयतिक्रियाद्यैस्तु विकलं विकलं विदुः ॥ २.२४ ॥ तत्र छन्दोविकलं यथा अव्यादव्याजचसौभाग्यवामभागौ महेश्वरः । कलाविदां वरेण्यं तु सिङ्गभूपालशेखरम् ॥ २.*२८ ॥ अत्र तृतीयाक्षरविकलत्वाच्छन्दोविकलमिदम् । अन्यत्रसंस्कटतादस्य गुणताल्पापि गण्यते ॥ २.२५ ॥ यथा सिरिसिंगभूमि विहुणो जस भरगंगप्पवाह मज्झम्मि । परिण्हौण समद्धं तेल्लोक्कं होइ परिसुद्धम् ॥ २.*२९ ॥ अत्र तृतीयपादे द्वितीयवर्णस्य संयोगपूर्वत्वाद्गुरुत्वेन छन्दोवैकल्येऽपि प्राकृतादिषु संयुक्तवर्णानां ह्वाण्वाकारल्पकारदीनां तीव्रप्रयत्नोच्चारणेन पूर्वलघुत्वं कैश्चिदिष्टमिति गुणत्वम् । यतिविकलं यथा नित्यं तोयधिमणिमेखलां धरित्रीं श्रीसिङ्गक्षितिभुजी रक्षितं प्रवृत्ते । विद्वेष्टान् भजति वनिपतावनीपान्मित्राणि स्फुटमवनिपतावनीपात् ॥ २.*३० ॥ अत्र तृतीयस्थाने यतौ कर्तव्यायां प्रथमपादे तथा न कृतमिति यतिविकलमिदम् । स्वरसन्ध्यनुभावेन गुणीभूतमिदं मतम् ॥ २.२६ ॥ यथा श्रीसिङ्गक्षितिपाल तावकचमूधाटीभयाटीकितानाकारैरपि शाबरैरपि हितान् घोराङ्गमे फक्कणे । आत्मीयैव हि पश्यतां पिशुनयत्याबालगोपालकं भूपालान् कुलिशातपत्रकरशीचिह्ना पदानां ततिः ॥ २.*३१ ॥ अत्र द्वादशस्थाने कर्तव्यायां यतौ दृतीयपादे तथा न कृतमिति वैकल्येऽपि स्वरसन्धिनिमित्तत्वान्न दोषः । क्रियाविकलं यथा चतुरङ्गरिपुप्यूहनिबर्हणपटीयसा । भूपाल तव खड्गेन विपदो मानगर्विताः ॥ २.*३२ ॥ अत्र नामशेषक्रियान्त इति न विद्यते । तेन क्रियाविकलमिदम् । एवं कारकादिविकलमप्यूह्यम् । इदमस्त्यादिसापेक्षं समर्थं वा गुणीभवेत् ॥ २.२७ ॥ यथा रामाः श्रीसिङ्गभूपश्व चत्वारोंशा हरेः स्फुटम् । समौ तत्र महोदात्तौ विषमौ तु महोद्धतौ ॥ २.*३३ ॥ अत्र प्रथमार्थे भवन्तीत्यपेक्षायां तदन्तर्भावेन वैकल्येऽपि यत्रान्य क्रियापदं नास्ति तत्रासिर्भवतिर्हि प्रथमपुरुषे प्रयुज्यत इत्यनुशासनाद्गुणत्वम् । द्वीतीयार्धे क्रियाभावेप्युदात्तादि गुणसंबन्धद्योतकनिष्ठान्तत्वेन निराकाङ्भत्वात्समर्थकत्वमिति गुणत्वम् । केवलं त्वनभिव्यक्तचमत्करणकारणम् ॥ २.२८ ॥ यथा आन्दोलिकाया मासीनमायान्तं राजवर्त्मनि । स्त्रियः पश्यन्ति राजानं पुरः पश्चात्परिच्छदम् ॥ २.*३४ ॥ अत्र गुणादीनां चमत्कारकारणानामस्फुटत्वेन प्रतीतेः जातिमात्रवत्तिष्ठतीति केवलमिदम् । तत्केवलं छान्दसानामासीरादौ गुणीभवेत् ॥ २.२९ ॥ यथा सर्वे ग्रहाः सनभत्रास्तव श्रीसिङ्गभूपते । भवन्त्वेकादसस्थानफलदा वरदास्सदा ॥ २.*३५ ॥ यथा च अमी वेदिं परितः क्लुप्तदिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः । अवघ्नन्तो दुरितं हव्यगन्धैर्- वैतानास्त्वां वह्नयः पालयन्तु ॥ २.*३६ ॥ इत्यादावस्फुटचमत्कारहेतुत्वेन केवलत्वेऽपि शुद्धश्रोत्रियस्य कण्वमहर्षेराशीर्वाक्यत्वाद्ग्राह्यत्वम् । इति वाक्यदोषगुणविचारः श्रीः इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकवीन्द्रचन्द्र प्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासारशीतलायां चमत्कारचन्द्रिकायां द्वितीयो विलासः ॥ ______________________________________________________________________________ तृतीयो विलासः चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्र विरचिता तृतीयो विलासः अर्थो वाच्यश्व लक्ष्यश्व व्यङ्गयोऽपि च विविच्यते । अभिधावृत्तिगम्योर्ऽथो जात्यादिर्वाच्य ईरितः ॥ ३.१ ॥ यथा दानेन कर्णो दयया दिलीपो नयेन काव्यो विनयेन रामः । यदि प्रसिद्धिं ददताममीभिः श्रीसिङ्गभूपो निखिलैः प्रसिद्धः ॥ ३.*१ ॥ अत्र सर्वेषां पदानां जात्यादिवाचकत्वादर्थस्य वाच्यत्वं प्रतीयते । लक्षणावृत्तिगम्यार्थो लक्ष्य इत्यभिधीयते ॥ ३.२ ॥ लक्ष्यार्थस्तु चतुर्धा वाच्यार्थानन्वयेन तत्रैव । समवेतः संयुक्तः सम्बन्धी सदृश ङत्युक्तः ॥ ३.३ ॥ तत्र समवेतो लक्ष्यार्थो यथा राजन्यके प्रतिभटं प्रतिजन्यरङ्गे रुद्रं प्रकाशयति ते सरवालरेखा । श्रीसिङ्गभूपचकिते शरणागतेऽस्मिन् पद्मेक्षणं विवृणुते हि कटाक्षरेखा ॥ ३.*२ ॥ अत्र रुद्रशब्दो मुख्यार्थे स्खलद्गतिः । तेन रुद्रेणाविनाभूतस्य शतृसंहरणसामर्य्थस्य लक्षणया विवक्षितत्वात्समवेतलक्ष्यार्थत्वम् । नानादिगन्तजयिनं स्वपुरप्रवेशे क्षीसिङ्गभूपमनुभावितराजशब्दम् । सौधाङ्गणानि परितो जयशब्दपूर्व- माचारलाजकुसुमाञ्जलिमुत्किरन्ति ॥ ३.*३ ॥ अत्र सौधाङ्गणानामचेतनानां पुष्पाञ्जलिपरिक्षेपासंभवात्पुरे च सौधबाहुल्यविवक्षया तत्सङ्गताः पौराङ्गनाः लक्ष्यन्त इति संयुक्तलक्ष्यार्थत्वम् । विरोध्यविरोधकभावादिरमुख्यः सम्बन्धः । तद्वान् सम्बन्धी यथा श्रीसिङ्गक्षितिपालकः प्रयतते यद्यत्समाटीकितुं तत्तत्पूरयितुं चिरेण नियतिर्बद्धव्रता तिष्ठति । अस्मासु प्रतिकूलता तु जहती भूयाः कृतार्थोद्यमाः जायेथा श्विरजीवनी प्रवसता मस्माकमालिर्गिरा ॥ ३.*४ ॥ अत्र नियत्या भिन्नानां रिपुभूपतीनां वनं प्रति चिरजीविनी भूया इत्याशीराशंसासङ्गतेरभावात्तद्द्विरूद्धः शापरुपार्थो लक्ष्यते । आदिशब्दादवयवावयविभावसंबन्धादिर्यथा ग्रीष्मो निःश्वसितेषु लोचनयुगे वर्षाश्शरद्गण्ड्योर्हेमन्तस्स्वसखीमुखेषु शिशिरोऽप्यालेपने वस्तुनि । चैत्रस्तल्पविकल्पनासु वसति श्रीसिङ्गपृथ्वीपते त्वां संसेवितुमागतेषु धरणीपालेषु तद्योषिताम् ॥ ३.*५ ॥ अत्रावयविभूतर्तुप्रक्रमभङ्गरूपानुपपत्तेः तत्परिहाराय चैत्र इति पूर्वावयवेनावयवी वसन्तो लक्ष्यते । सादश्याल्लक्ष्यार्थो यथा नायकस्यैव कान्ते कृतागसि पुरः परिवर्तमाने सख्यं सरोजशशिनोः सहसा बभूव । रूक्षाक्षरं सुदृशि वक्तुमपारयन्त्यामिन्दीवरद्वयमवाप तुषारधाराम् ॥ ३.*६ ॥ अत्र सरोजादीनां मुख्यार्थानन्वयेन तत्सदृशः करतलादिलक्षणार्थः सादृश्यनिबन्धनया लक्षणया लक्ष्यते । शब्देनार्थेन वा लक्ष्यो व्यञ्जनासहचारिणा । व्यङ्ग्यार्थो वस्त्वलङ्काररसभावादिलक्षणः ॥ ३.४ ॥ अत्राद्यो यथा लीलालोकनलोलुपं मृगकुलं गन्ता गुहान्तानिमां- स्तत्क्प्यग्रसनव्रतीह भविता द्वीपी रुषीद्दीपितः । याता तन्मृगया रतेवनमिदं श्रीसिङ्गभूपो रयादित्यादिर्भय मादिशन्त्यरिनृपाः स्त्रीणामनीभाव्रतम् ॥ ३.*७ ॥ अत्र परिलीनशत्रुभूवरा गिरिगुहानायकेन नाक्रान्ता इति यत्तदिदं दुर्गंबुद्ध्या न भवति किन्तु पलायिता नानुयातवध्या इति मनीषयेति वस्तु व्यज्यते । द्वितीयो यथा पृथ्वीं श्रीसिङ्गभूपे वहति फणवतामीशितारं प्रमोदा- दाकल्पं केलितल्पं कलयितुमनसोरदिपुंसो निरोधे । भूमौ भारप्रसङ्गात्पुनरपि पतिता केलितल्पापदेशा- दाकल्पत्वैकयोग्यं भुजग इति पदं गायते ख्यातपूर्वम् ॥ ३.*८ ॥ अत्र नायकस्य सर्वेषु राजसु सेवकेषु रणाभावादलब्धनवकपालस्य कपालिनो जीर्णकपालमालिकास्थाने भूभारवियुक्तं शेषाहिं निवेशयितुकामस्य वेत्युत्प्रेक्षालह्कारो व्यज्यते । किञ्च नायकेनैव जगत्त्राणबार निर्वहणादाश्वस्तस्य नारायणस्य निद्रामाकाङ्क्षत इवेति च तेनैव प्रतीयते । रसरूपस्तृतीयो यथा श्रीसिङ्गक्षितिनायकस्य रिपवो धाटीक्षतेराकुलाः शुष्यत्तालुपुटं स्खलत्पदतलं व्यालोकयन्तो दिशः । धावित्वा कथमप्युपेत्य तमसा गाढोपगूढां गुहामन्विष्यन्ति तदन्तरेऽपि करसंस्पर्शेन गर्तान्तरम् ॥ ३.*९ ॥ अत्र नायकविरोधिसमाश्रयो भयानको रसो निजविबावादिभिरसंलक्ष्यक्रमतया व्यज्यते । भावरूपश्चतुर्थो यथा नायकस्यैव शृङ्गारवीरसौहार्दं मौग्ध्यवैयात्यसौहृदम् । लास्यताण्डवसौजन्यं दाम्पत्यं तद्भजामहे ॥ ३.*१० ॥ अत्र मौग्द्येत्यादौ विरुद्धगणघटनया लास्येत्यादौ विरुद्धक्रियाघटनया दाम्पत्यमित्यत्र विरुद्धजातिघटनया वाचिन्त्यैश्वर्यप्रतिपादकोर्ऽधनारीश्वरलक्षणाभिमतदैवतगैचरो वक्तुर्भक्तिभावो व्यज्यते । एवमन्येप्यादिशब्दग्राह्या रसभावादिरूपा व्यङ्यार्थास्तत्रतत्रोदाहरणे द्रष्टव्याः । अथार्थदोषाः । अपार्थं व्यर्थमेकर्थं ससंशयमपक्रमम् । परुषं विरसं भिन्नमतिमात्रमनुज्ज्वलम् ॥ ३.५ ॥ नीचाधिकासदृक्षोपमानान्यप्रथितोपमम् । अश्लीलं च विरुद्धं च दोषाः काव्यार्थगोचराः ॥ ३.६ ॥ अत्रापार्थमित्यादौ भावप्रधाननिर्देशान्नपुंसकत्वमवगन्तव्यम् । समुदायार्थशून्यं यत्तदपार्थमितीरितम् ॥ ३.७ ॥ यथा चैत्ये शंभोर्वदनदशके वीक्ष्य दीर्घं कराग्रं मत्वा दुर्गं लवणधनुषे कामदेवाय हुं फट् । इत्याराध्य प्रणवमुखरे प्राञ्जलौ पारशीके तुष्टा लक्ष्मीर्वितरति शुभं सिङ्गभूपालकाय ॥ ३.*११ ॥ अत्र परस्परासङ्गतत्वात्समुदायार्थशून्यता स्पष्टैव । व्याकुलोन्मत्तवाक्यादौ तद्गुणीभूय भूषयेत् ॥ ३.८ ॥ व्याकुलभावे यथा को वा जेष्यति सोमवंशतिलकानस्मान् रणप्राङ्गणे हन्तास्मासु पराङ्मुखो हतविधिः किं दुर्गमध्यास्महे । अस्मत्पूर्वनृपानयं निहतवान् दीर्घान् धिगस्मद्भुजान् किं वाक्यैरनवोतसिङ्गनृपतेः सेवैव कृत्यं पदम् ॥ ३.*१२ ॥ अत्र वाक्यार्थनां परस्परासङ्गतत्वेऽपि नायकजैत्रयात्रासमाकर्णनव्याकुलानां प्रत्यथिभूपानां नानाभावशाबल्यसूचकत्वाद्गुणत्वम् । उन्मत्तभावे यथा औत्सुक्यादनवोतसिङ्गनृपतेराकारमालिख्य सा निर्वर्ण्यायमसौ मम प्रिय इति प्रेमाभियोगभ्रमात् । आशूत्थाय ततोपसृत्य तरसा किंचिद्विवृत्तानना सासूयं सदरस्मितं सचरस्मितं सचकितं साकाङ्क्षमालौकते ॥ ३.*१३ ॥ अत्र चित्रमुद्दिश्याशूत्थानापसरणदृष्टिविकारादीनामर्थानामसङ्गतत्वेन समुदायत्वशून्यत्वेऽपि रागोत्कर्षप्रतिपादकसमस्तकामावस्थासूचकत्वाद्गुमत्वम् । व्यर्थमाहुर्गतार्थ यद्यच्च स्यादप्रयोजनम् ॥ ३.९ ॥ यथा नेत्राभ्यामवलोक्य सिङ्गनृपतिं द्वाभ्यां रणे विद्विषः सव्यूहैरभियान्ति सप्रतिभटानालोक्य गर्वोद्धतान् । दोष्णा स्वेन निजं कृपाणमवते तत्खड्गधारां गतास्ते स्वःस्त्रीकुचकुम्भयोर्मृगमदं लुम्पन्ति लुम्पन्ति च ॥ ३.*१४ ॥ अत्रावलोक्येत्यनेनैव नेत्राभ्यामिति, नेत्राभ्यामित्यनेनैव द्वाभ्यामिति दोष्णा कृपाणमवत इत्यनेनैव, स्वेन निजमिति चार्थसामर्थ्यादेवावगतेः नेत्रादीनां गतार्थत्वम् । सुरस्त्रीमृगमदलेपनक्रीडयैव रिपूणां कथाशेषत्वावगतेः स्वःस्त्रीति शब्दश्लेषसामर्थ्यलब्धनिजस्त्रीकुचकुम्भमृगमदलेपनक्रियाया अप्रयोजनत्वाद्व्यर्थत्वम् । इदं गुणपतं याति निशेषश्चेद्विवक्ष्यते ॥ ३.१० ॥ यथा अलोलैराश्वर्यादविचलितलज्जापरिमलैः प्रमोदादुद्वेलैश्चकितहरिणीवीक्षणसखैः । अमन्दैरौत्सुक्यात्प्रणयलहरीमर्मपिशुनैरपाङगैस्सिङ्गक्ष्मारमणमबला वीक्षितवती ॥ ३.*१५ ॥ अत्र नायकमबला वीक्षितवतीत्यनेनैवानन्यसिद्धेनावगतस्यापाङगैरित्यस्य गतार्थत्वेऽपि निष्पन्दत्वलज्जापरिमलादिविशेषविवक्षयोपात्तत्वाददोषः । अप्रयोजनस्य यथा सङ्कल्पैरनवोतसिङ्गनृपतौ संरूढमूलाङ्कुरै- राक्रान्ता तनुतां गता स्मरशरैश्शातेव शातोदरी । अस्मन्नूलमिदं तनुत्वमिति किं लज्जालसै लोचने प्राप्ते पक्ष्मपुटावृतिं रतिपतेस्तत्केतनं जृम्भताम् ॥ ३.*१६ ॥ अत्र मीनविजृम्भणकथनस्य प्रकृतावस्थानुपयोगित्वेनाप्रयोजकत्वेऽपि लोके प्रायेण परिभूतानां पराभवितुरापदं विना विजृम्भणं न संभवतीति लोचनयोरपुनरुन्मीलनसूचनेन नवमावस्थायाः पराकाष्ठा प्रतीयत इति गुणत्वम् । उक्ताभिन्नार्थमेकार्थं यथा संरक्षितां वेतनमाननाभ्यां करोति सेनां विनिहत्य शत्रून् । कल्याणभूपो विनिहत्य शत्रून् बलानि संरक्षति वेतनाद्यः ॥ ३.*१७ ॥ अत्र पूर्वोत्तरार्धयोरपृथगभिप्रायत्वादेकार्थम् । रसोद्रेके त्वयं गुणः ॥ ३.११ ॥ यथा कुमारश्रीसिङ्गे जलधिरशनां शासति महीममर्यादाध्वस्ताः पतनपरिणाहप्रतिभुवः । अधर्मा निर्मूला नरकपरिपाकप्रणिधयो विनष्टा दुश्चेष्टाः कलिकलुषवेशीपरिधयः ॥ ३.*१८ ॥ अत्र द्वितीयादिषु पादेषु भिन्नार्थत्वाभावेऽपि केनचिदधर्मगन्धोऽप्यस्मद्देशे न विद्यत इति त्रिर्वाचा धर्मप्रतिष्ठापकस्वामिपक्षपातातिशयोपक्षिप्तं सोद्रेकेण चेतसाभिहितत्वाद्गुणत्वम् । सन्देहदायकार्थं यत्ससंशयमितीरितम् ॥ ३.१२ ॥ यथा श्रीसिङ्गभूपधाटीषु विद्विषो हीनसाधनाः । सालश्रेणिमुपाश्रित्य कुर्वते जीवतं तृणम् ॥ ३.*१९ ॥ अत्र हीनसाधना विद्विषः सालश्रेणिं प्राकारपङ्क्तिमाश्रित्य जीवनं प्राणान् तृणं कुर्वते तृणाय मन्यन्त इत्यर्थः । अथवा सालश्रेणिं वाटिकामाश्रित्य हीनसाधनाः तृणं जीवनं प्राणधारणं कुर्वत इति च नासत्प्रतिपक्षत्वमसत्प्रतिपक्षत्वं वेऽति संशयप्रतीतेः ससंशयमिदम् । उत्कर्षादिविवक्षायामस्यापि गुणगौरवम् ॥ ३.१३ ॥ यथा कोकिलस्पर्धिसल्लापा मृगवैरिविलोचनाः । वामाः श्यामा वशीकर्तुं नेशते सिङ्गभूपतिम् ॥ ३.*२० ॥ अत्र कोकिलस्पर्धिनः कोकिलस्वरवत्कलमधुरास्सल्लापा यासां ताः । मृगवैरीणि मृगलोचनतुल्यानि लोचनानि यासां ताः । वामाः रम्याः श्यामा युवतयो नायकं वशीकर्तुं नेशते न शक्ता इत्यनेन स्त्रीव्यसनमस्य नास्तीति । उत कोकिलस्पर्धिनां काकानां सल्लाप इव सल्लापा यासां ताःनामाः वक्राः श्यामाः कालाङ्ग्यः एनं वशीकर्तुं नेशत इत्यनेनानुत्तमासु काकस्वराढ्यासु स्त्रीषु न रमन्त इति कामशास्त्रपरिज्ञानमस्तीति वा सन्देहे उभयथापि नायकोत्कर्षप्रतीतिरिति गुणत्वम् । पौर्वापर्यविपर्यासो यत्र स्यात्तदपक्रमम् ॥ ३.१४ ॥ यथा घोराजिरङ्गे प्रतिपक्षभूपाः श्रीकिङ्गभूपालवसुं विलोक्य । कुर्वन्ति मौहूर्तिकसार्वभौमैः प्रयाणहोरापरिशोधनानि ॥ ३.*२१ ॥ अत्र पूर्वं पुरान्निर्गत्य प्रतिपक्षभूपैः पश्वादतिक्रान्तप्रयाणलग्नपरिशोधनं क्रियत इत्यपक्रमत्वम् । चित्रहेत्वादिषु प्रायो गुणतामस्य मन्वते ॥ ३.१५ ॥ यथा पश्चान्मुञ्चति ते चित्तं क्षमां श्रीसिङ्गभूपते । पुरस्तादेव मुञ्चन्ति पौरस्त्या भूभुजः क्षमाः ॥ ३.*२२ ॥ अत्र पूर्वभाविनो नायकचित्ते तितिक्षामोक्षणस्य हेतोः, हेतुमतः पश्वाद्भाविनः प्रतिराजनिजदेशमोक्षणस्य च पौर्वापर्यविपर्यसादपक्रमत्वेऽपि नायकतितिक्षामोक्षणस्य देशमोक्षणलक्षणप्रतिराजसाध्वसोद्दीपनप्रकाशनपरत्वाददोषः । प्रत्यक्षनिष्ठुरार्थं यत्परुषं तन्निगद्यते ॥ ३.१६ ॥ यथा गणडग्रावतले निपातयत वा गर्तान्तरे दत्त वा व्याघ्राणां पुरतः परिक्षिपत वा व्याक्रोशतो बालकान् । हन्तामी परितो वनं मृगयतः क्ष्मापालचूडामणेः वर्तन्ते भवतीभिरद्य हिवयं सर्वेऽपि दह्यामहे ॥ ३.*२३ ॥ अत्र नायकचमूधाटीभयेन गिरिगुहासु लीनानां कुलीनकुटुम्बिनीरुद्दिश्य बालकरोदननिवारणाभिप्रायमात्राण्यपि प्रत्यक्षे रूक्षार्थान्यक्षराणि गदितानीति परुषत्वम् । हितोपदेशातिक्रान्तस्मरणादौ च तद्गुणः ॥ ३.१७ ॥ हितोपदेशे यथा अस्मद्वक्षसिजद्वयात्किमु सुखं स्वर्दन्ति कुम्भद्वयं पीयूषं किमु सारमस्मदधरादस्मादपस्मारितम् । कोऽयं वो जनितेति साहसरसान् श्रीवीरसिङ्घप्रभो संरम्भादपसारयन्त्यरिनृपान् प्रौढाः प्रतीतोक्तिभिः ॥ ३.*२४ ॥ अत्र मारणशूचनाभिप्रायेण परुषत्वेऽपि मरणपर्यवसायी बलवता नायकेन विरोधः परिहरणीय इति हितोपदेशत्वाद्गुणत्वम् । अतिक्रान्तस्मरणे यथा यन्मुक्तोऽयमजिह्विका प्रियसखा त्वत्खड्गधारामुखाद्यो दृष्टो न च तैः किरातहतकैर्दुर्गोपहारोद्यतैः । तच्वन्मङ्गल सूत्रवैभव मिति प्रस्तौति सिङ्गप्रभोर्धाटीसंभ्रमनष्टदुष्टपतिका ञ्चैकां स्त्रियं बन्धुता ॥ ३.*२५ ॥ अत्र प्रथमार्धे परुषत्वेऽपि संभावितातिक्रान्तानुवादमात्रपरत्वाद्गुणत्वम् । विरसं विरसार्थस्स्यादनौचित्यकलङ्कतः ॥ ३.१८ ॥ यथा श्रुत्वा सिङ्गक्षितिपतिरणारम्भगम्भीरघोषान् शुष्यत्तालु प्रतिनृपतयस्स्तब्धजङ्घं पतन्तः । संमुह्यन्ते श्रुतिषु मरुतां शैलकान्तारदेशे निर्यान्तीषु श्रुतिपुजसुखं वैणवीभ्यो वपाभ्यः ॥ ३.*२६ ॥ अत्र धाटीभयेन पलायमानानां मनसः कीचकरन्ध्रसमीरणश्रवणसुखानुसन्धानमनुचितमिति विरसत्वम् । अप्रधानस्य विज्ञेयो गुणीभावोऽस्य कोविदैः ॥ ३.१९ ॥ यथा कस्तूर्या तत्कपोल द्वयभुवि मकरी निर्मितौ प्रस्तुतायां निर्मित्सूनां स्ववक्षस्यतिपरिचयाच्वत्प्रशस्तेरुपांशु । वीर श्रीसिङ्गभूप त्वदहितकुभुजां राज्यलक्ष्मीसपत्नी- मानव्याजेन लज्जां सपदि विदधते स्वावरोधाः प्रगल्भाः ॥ ३.*२७ ॥ अत्र प्रतिनायकगता नायकबिरुदविलेखननिमित्तया जनिता स्वावरोधसान्निध्यादिभिरुद्दीपिता लज्जानुमितैः निर्वेददैन्यविषादादिभिरभिव्यक्ता निर्वेददैन्यविषादादिभिरुपचिता तदनु तदनुमितैरेव मानसिककुत्सादिभिरभिव्यक्ता निजजीवितजुगुप्सा च स्वावरोधविषया तत्प्रागल्भूयादिभिरुद्दीपिता मकरिकातपत्रनिर्माणदिभिरभिव्यक्ता तदनुमितैः हर्षादिभिरुपचिता रतिश्व निर्भरमेकत्र संनिवेशित इत्यनौचित्येन विरसत्वेऽपि तयोर्नायकबिरुदविलेशनहेतुतया नायककृपाकटाक्षप्रसाद सम्पन्नतया च न संभाव्यमानयोश्शरणागतरक्षणलक्षणनायकगतपरोपकारत्वेना प्राधान्याददुष्टत्वम् ॥ प्रक्रान्तभङ्ग्यनिर्वाहो भिन्नमाहुर्मनीषिणः ॥ ३.२० ॥ यथा गौडीपानमदालसाः परिगलद्धम्मिल्लमल्लीस्रजः सव्याजस्खलितोक्तयो मदवतीसीमन्तरत्नश्रियः । तारुण्योदधिशीकरा स्मरकलासाम्राज्यसिद्धिक्रियाः श्रीसिङ्गक्षितिपाल तावकगुणान् गायन्ति गौडाङ्गनाः ॥ ३.*२८ ॥ अत्र मत्तजात्युपक्रमस्य मदवतीत्यादिगुणवर्णनेनानिर्वाहाद्गुणत्वम् । अस्यापि गुणता क्वापि यदि छाया न हीयते ॥ ३.२१ ॥ यथा ग्रीष्मो निःश्वसितेषु लोचनयुगे वर्षाः शरद्गण्डयोरिति पूर्वोदाहृतेषु ऋतुष्वेकवचनप्रक्रमस्य वर्षा इति बहुवचनोपादानाद्भिन्नत्वेऽपि भूम्न्येव वर्षा इत्यनुशासनाद्बहुवचनश्रुतेरप्यर्थैक्यस्यात्याज्यत्वादेकवचनछाया न हीयत इति गुणत्वम् । यदश्रद्धेयमत्युक्तमतिमात्रं तदुच्यते ॥ ३.२२ ॥ यथा श्रीसिङ्गभूपाल तवाहितानां निःश्वासवेगा गिरिकाननानि । कुर्वन्ति निर्दग्धनिकुञ्जपुञ्जं पर्यस्तगण्डोपलमण्डलानि ॥ ३.*२९ ॥ अत्र पराभवभारादत्युष्णानामतिबहुलानामपि रिपुनृपाल निःश्वासवेगानामाभोगो तथाविधदाहकक्षेपकत्वयोरश्रद्धेयत्वमित्यतिमात्रत्वम् । अस्यापि गुणतां केचिद्यथापूर्वं समर्थने । वदन्त्यन्ये तु सरसा लोकस्थित्यनुरोधतः ॥ ३.२३ ॥ आद्यं यथा श्रीसिङ्गक्षितिपाल तावकचमूधाटीषु वाजिछटा रिंखोद्धूतरजोभिरम्बुनिधयो विश्वेऽपि गाधीकृताः । चञ्चत्केतुपटान्तवान्तपवनैर्भूयोप्यगाधीकृताः भद्रे भेन्द्रमदाम्बुना पुनरमी पूर्वाधिकं पूरिताः ॥ ३.*३० ॥ अत्र सेनावाजिरजसा समुद्राणां शोषण स्थलीकरणादिरतिमात्रत्वेऽपि पुनरपिवारिपूरकल्पनया वस्तुस्थितेरविरोधाद्गाढमार्गानुवर्तिनां विदग्धानामतिगुणत्वम् । द्वितीयं यथा यात्रेयं कुलदेवतासु किमुतोद्वाहक्रमो भूभुजामाचारा नु सखीति वा प्रतिपतं वध्वा विवाहोत्सवे । धाटीसंश्रवणा त्पलायनवतां श्रीसिङ्गभूपद्विषां राज्ञां मर्मनिकृन्तने पटुतरा तन्मण्डलाग्रादपि ॥ ३.*३१ ॥ अत्र वाचां खड्गादपि हृदयमर्मभेदकथना दतिमात्रत्वेऽपि तादृशानां तादृशानि वचनानि वज्रादपि हृदयमर्माणि भिन्दन्ति । किमुत खड्गादिरिति लोकस्थितेरनुवर्तनाद्विदर्भमार्गानुसारिणां दाक्षिणात्यानामतिगुणत्वम् । नातिस्फुटचमत्कारमनुज्ज्वलमितीरितम् ॥ ३.२४ ॥ यथा क्रोडान् खनन्ति विपिने भक्षयन्ति मृगान् कुशान् । निद्रान्ति पादपछाये कल्याणनृपविद्विषः ॥ ३.*३२ ॥ अत्र विद्विषां नगरेषु भयव्याकुलतया कदाचिदपि निद्रा चक्षुः नोपैति भ्रष्टराज्यास्तु कान्तारे वन्यजन्तुवत्विस्रब्धा निद्रान्तीति विवक्षितस्यापि चमत्कारस्यातिक्लेशेन प्रतीते रस्फुटालङ्कारत्वाच्चानुज्ज्वलत्वम् । विदग्धहृदयाः व्कापि तस्यापि गुणतां विदुः ॥ ३.२५ ॥ यथा "सर्वे ग्रहा सनक्षत्रा" इत्यादि पूर्वोदाहृतम् । अत्र जात्याद्यर्थालङ्कारविरहेणानुज्ज्वलत्वेऽपि शुद्धश्रोत्रियाशीर्वादानुकरणत्वाद्गुणत्वम् । स्पष्टं नीचोपमानादि६ अं नाम्नैव लक्षितम् ॥ ३.२६ ॥ नीचाधिकोपमाने यथा श्रीसिङ्गभूप भवदीयकृपाणरेखामालोक्य पक्तिमकुशाग्रनिशातधाराम् । लीनाः प्रविश्य विपिनं प्रदरान्तरालं नारायणोदरदरीमिव वैरिभूपाः ॥ ३.*३३ ॥ अत्र खड्गधारां प्रति कुशधारायामतिनिशातत्वे नीचत्वादतिनीचोपमानत्वं विपिनप्रदरं प्रति वैपुल्येन नारायणोदरस्यात्याधिक्यादधिकोपमानत्वम् । असदृक्षोपमानत्वं यथा मण्डलीकृतकोदण्डो रणे कल्याणभूपतिः । करकम्पितकल्हारो मीनाह्क इव राजते ॥ ३.*३४ ॥ अत्र कोदण्डसौगन्धिकयोः साम्यगन्धस्याबावादसदृक्षोपमानत्वम् । आद्ययोस्तु गुणीभावः कदापि कविकौशलात् ॥ ३.२७ ॥ यथा परिपन्थिनि सिङ्गनृपो धनकणिकां कनकगिरिरिवादत्ते । पात्रे तिष्ठति पुरतः तृणकणवच्यजति कनकानि ॥ ३.*३५ ॥ अत्र कनकगिरितृणकणयोरत्यधिकनीचयोरुपमानत्वेऽपि नायकस्यार्थधर्मार्जनाप्रमादावति शयविवक्षायां न दुष्यतः । असदृक्षोपमानस्य व्यतिरेकोपमादिषु । यथा अविवेकी न सुरभिवत्चिन्तामणिरिव न याति काठिन्यम् । श्रीसिङ्गभूपतिलकः शिव शिव भूलोकभाग्यसौभाग्यम् ॥ ३.*३६ ॥ अत्रोपमानोपमेययोर्वैषम्येऽपि व्यतिरेकोपमानत्वाद्गुणत्वम् । अप्रसिद्धोपमानं तु भवेदप्रथितोपमम् ॥ ३.२८ ॥ यथा हन्त सौगन्धिककराः स्फुटकोकनदांघ्रयः । श्रीकिङ्गभूपधाटीभिः जर्जरा घूर्जरस्त्रियः ॥ ३.*३७ ॥ अत्र सौगन्धिककोकनदयोः कान्ताकरचरणोपमानत्वेन कविप्रयोगेषु न प्रसिद्धिरिति दुष्टत्वम् । अस्यापि गुणता व्कापि तरङ्गितचमत्कृतेः ॥ ३.२९ ॥ यथा श्रीसिङ्गभूपाल भवत्प्रयुक्तनाराचपङ्क्त्या परितः पतन्त्या । अराजि वीराहित राजकण्ठे सुराङ्गनासंवरणस्रजेव ॥ ३.*३८ ॥ अत्र नाराजपङिक्तस्वयंवरणस्रजोरुपमेयोपमानभावाप्रसिद्धावपि सुराङ्गानां भोग हेतुत्वसाम्याच्छमत्कारातिस्य इति गुणत्वम् । अश्लीलं तद्विनिर्दिष्टं यदश्लीलप्रतीतिकृत् ॥ ३.३० ॥ यथा उद्दीपिताः प्रहारेण भूपाल तव शात्रवाः । रन्ध्रे प्रहर्तुमौद्धत्यादुन्नमन्ति नमन्ति च ॥ ३.*३९ ॥ अत्र प्रहारोद्दीपनं रन्ध्रप्रहाराय नमनोन्नमने च शिश्नेऽपि विद्येते इति तत्प्रतीतेरश्लीलत्वम् । अस्यापि गुणता ज्ञेया कवीन्द्रस्वीकृतादिषु ॥ ३.३१ ॥ यथा जित्वा तत्परिरंभण प्रकृतिकं द्यूते सखीनां पुरः शार्यारोपणसूचिते पणविधौ श्रीसिङ्गभूमीभुजा । मन्दस्मेरकपोलकान्तिलहरीसंक्रान्तवक्त्रेक्षणा सास्विन्नाङ्गुलि शारिकापरिकरं सज्जीकरोति प्रिया ॥ ३.*४० ॥ अत्र शारिकास्त्र्युपरि शारिकारोपणेन पुम्भावकेलिरूपस्याश्लीलस्य प्रतीतेरश्लीलत्वेऽपि कविभिरेवंविधस्यास्लीलस्याङ्गीकाराद्गुणत्वम् । कुत्र कविभिरेवमुररीकृतमिति चेत्तर्हि साधु सर्वतो निदर्शयामः । तथा हि तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ ॥ ३.*४१ ॥ --इति रघुवंशे क्लिष्टचन्द्रमदयैः कचग्रहैरुत्पथाहितनखं समत्सरम् । तस्यतच्छिथिलमेकलागुणं पार्वतीरतमभूदतृप्तये ॥ ३.*४२ ॥ --इति कुमारसंभवे मुखप्रधानै रविलंबपूर्वैः कण्ठग्रहैः क्षिप्रनिपीडिताङ्गैः । करप्रचारैः शिथिलोपरोधैर्लब्धैः प्रियाया मुमुदे मुकुन्दः ॥ ३.*४३ ॥ --इति कन्दर्पसंभवे प्रोतया गलितनीवि निरस्यन्नुत्तरीयमवलम्बितकाञ्चि । मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः ॥ ३.*४४ ॥ --इति भारबिकाव्ये आशुलङ्घितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या । रक्तवैणिकहताधरतन्त्रि मण्डलक्वणिंतचारु चुकूजे ॥ ३.*४५ ॥ --इति माघकाव्ये एवमन्यत्रापि विज्ञेयम् । देशकाले कलालोकन्यायागमविरोधि यत् । साहित्यप्राणसारज्ञैः तद्विरुद्धमितीरितम् ॥ ३.३२ ॥ तत्र देशोऽन्ध्रो महाराष्ट्रादिःकालो नक्तंदिवर्तंवः । गीतिनीतिप्रभृतयः कालाः कामार्थसंश्रयाः ॥ ३.३३ ॥ चराचराणां भूतानां प्रवृत्तिर्लोक उच्यते । न्यायस्तु हेतुविद्यार्यादागमो धर्मसंहिता ॥ ३.३४ ॥ देशादिविरुद्धानि यथा राधे मासि दिवानिशं मृगमदव्यालेपिनो मालती शय्यायां यमुनातरङ्गपवनस्पर्शोत्सुकैर्वत्सलैः । धात्रीनायकसेवनाय मिलिता भूमीश्वरा मानिनो राजाद्रौ मणिहारसौरभमयैः क्रीढन्ति बन्दीजनैः ॥ ३.*४६ ॥ अत्रान्ध्रदेशे यमुनेति देशनिरोधः । राधेमासि मालतीशय्येति कालविरोधः । हाराणां सौरभमिति लोकविरोधः । एते प्रत्यक्षविरोधाः । मानिनः सोवा मिलिता इति स्ववचनविरोधः । बन्दिजना वत्सला इत्यौचित्यविरोधः । अन्यसेवकानामहर्निशं क्रीडेति युक्तिविरोधः । एते अनुमानविरोधाः । बन्दीकृतैः परपरिग्रहैः क्रीडन्तीति कर्मसंहिताविरोधः । बन्दीष्वन्यासक्तेः व्यसनमपकृतस्त्रीषु विश्वासश्चेत्यर्थागमविरोधः । ग्रीष्मे दिवानिशं क्रीडनं पक्षाद्वर्षनिदाघयोरित्यायुर्वेदविरोधः । ग्रीष्मे कस्तूरिकाविलेपनं भोगशास्त्रविरोधः । अत्रागमान्तर्भूतानामपि कलाशास्त्राणां पृथगभिधानं तद्ज्ञानस्य साहित्ये प्राधान्यज्ञापनार्थम् । महोत्पातानुभावादि विवक्षायामिदं गुणः ॥ ३.३५ ॥ उत्पातविवक्षायां यथा उद्दण्डप्रतिगण्डभेरवविभो स्मेरे कटाक्षे रुषा जाते कोकनदच्छविप्रतिभटे राष्ट्रेषु विद्वेषिणाम् । माकन्दाश्शरति प्रभूतकलिकाः पद्मं कुकूलोदरे पाषाणाः प्रहसन्ति हन्त दधते सन्ध्यासु निद्रा द्विजाः ॥ ३.*४७ ॥ अत्र शरदि माकन्दप्रसूनानीति कालविरोधः । कुकूलोदरे पद्ममिति युक्तिविरोधः पाषाणाः प्रहसन्तीति लोकविरोधः । तदेषां दुष्टत्वेऽपि नायककोपजनिष्यमाणपराष्ट्रविपत्तिसूचकतुर्निमित्तविवक्षया गुणत्वम् । अनुभावविवभायां यथा कस्तूरीमृगयूधसेविततलैः कर्पूरपालीद्रुमैरारामानभिरामतामुपगतानालोक्य राजाचले । विस्मेरा हृदि पञ्चवर्णकशुकादाकर्ण्य कर्णोत्सवं श्रीसिङ्गक्षितिपालविक्रमकलां नन्दन्त्यपूर्वे जनाः ॥ ३.*४८ ॥ अत्रान्ध्रदेशे कस्तूरीमृगकर्पूरद्रुमादिसद्धाव इति देशविरुद्धत्वेऽपि नानाद्वीपाधीशसकाशादुपायनग्रहणसमर्थनायकप्रभाववर्णनविवक्षया गुणत्वम् । शब्दार्थरूपं तदितं काव्यं शब्दार्थकोविदैः । त्रैविध्येन चमत्कारि चमत्कारितरं यथा ॥ ३.३६ ॥ चमत्कारितमं चेति प्रविविच्य निदर्शितम् । शब्दचारुत्वतात्पर्ये चमत्कारीति कथ्यते ॥ ३.३७ ॥ यथा कमलमुकुलपालीकल्पितापानकोती कलमधुकरमालाकाकलीकल्पनादेः । सरसि सरसतीरे सारसारापसारे विहरति भरितौघे राजशैलाधिराजः ॥ ३.*४९ ॥ अत्रानुप्रासनिर्वहणमात्रे कविप्रयत्नस्य विश्रान्तेः शब्दमात्रचारुत्वादिदं काव्यं चमत्कारीत्युच्यते । वाच्यचारुत्वतात्पर्ये चमत्कारितरं मतम् ॥ ३.३८ ॥ यथा श्रीसिङ्गक्षितिपाल तावकचमूधाटीभयाटीकितानाकारैरपि शाबरैरपिहितान् घोराङ्गणे फक्कणे । आत्मीयैव हि पश्यतां पिशुनयत्याबालगौपालकं भूपालात्कुलिशातपत्र कलशीचिह्ना पदानां ततिः ॥ ३.*५० ॥ अत्र कैतवकिरातानां प्रतिनायकानां कुलिसादिराजलक्षणलक्षितपदावलीपरिज्ञानेन यदिमे राजान इत्यभ्यूहनं सोऽयमनुमानामङ्कारः । तत्रैव कविप्रयत्नस्य विश्रान्तिरिति वाचकाक्षरमुल्लङ्घ्य वाच्यचारुत्वतात्पर्यादितं चमत्कारितरमित्युच्यते । व्यङ्ग्यर्य चगुणीभावे तदेवाहुर्मनीषिणः । इहोपसर्जनीभूतमष्टधा व्यङ्ग्यमुच्यते ॥ ३.३९ ॥ तथा चाहुः अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् । सन्दिग्धतुल्यप्राधान्ये काव्काक्षिप्त मसुन्दरम् ॥ ३.४० ॥ इति ॥ अगूढव्यङ्ग्यं यथा कस्तूरीमृगयूथसेविततलैः कर्पूरपालीद्रुमैरारामानभिरामतामुपगतानालोक्य राजाचले । विस्मेरा हृदि पञ्चवर्णकशुकादाकर्ण्य कर्णोत्सवं श्रीसिङ्गक्षितिपालविक्रमकलां नन्दन्त्यपूर्वे जनाः ॥ ३.*५१ ॥ अत्र विक्रमकलामित्यर्थशक्तिमूलस्य नानाद्वीपाधिपप्रहितस्योपायनविशेषरूपस्य व्यङ्ग्यस्योपर्येव प्रभावादिदमगूढं व्यङ्ग्यं नाम चमत्कारितरं काव्यम् । अपराङ्गव्यङ्ग्यं यथा चूतालोकभिया निमीलितदृशो रञ्जन्ति भागान्तरं बन्धूनां च कुहूभिया श्रुतिरुधो नाकर्णयन्त्यो गिरः । पान्धैर्भूतभिया पलायनपरैर्नावेदिताध्वक्रमाः खिद्यन्ति त्वदरिस्त्रियो वनभुवि श्रीसिङ्गपृथ्वीपते ॥ ३.*५२ ॥ अत्र शत्रुस्त्रीविप्रलम्भस्य करुणाङ्गत्वम् । वाच्यसिद्ध्यङ्गं यथा षढ्भिः षोढशभिः पूर्वैर्गौरेका महिषी कृता । सैव श्रीसिङ्गभूपालकुञ्जरेण विशीकृता ॥ ३.*५३ ॥ अत्र वशेति गजकान्तालक्षणं व्यङ्ग्यं भूपालकुञ्जरेणेत्यत्रोपमारूपकसन्देहे रूपकसिद्धिमुपपादयतीति वाच्यसिद्ध्यङ्गमिदम् । अस्फुटं यथा चित्रं श्रीसिङ्गभूपालो विमथ्य रिपुवाहिनीम् । विकिरत्यमृतं सर्वश्रवणानन्दकारणम् ॥ ३.*५४ ॥ अत्र मन्दरः समुद्रं विमथ्य केषांचिदेव रसनानन्दकारण ममृतमुत्पादयामास । नायकस्तु वाहिनीं विमथ्य सर्वलोकश्रवणानन्दकारणं कीर्तिरूपममृतं दिक्षुपूरयतीति मन्दरान्नायकस्याधिक्यप्रतिपादनात्प्रतीयमानस्य व्यतिरेकस्य नातिस्फुटत्वम् । सन्दिग्धव्यङ्ग्यं यथा श्रीसिङ्गभूपपृतनाधिकृतैः निषण्णैरास्थानसौधमणितोरणवेतिकासु । आलोकनेन हरिदागतराज राजिर्- दृष्टा कपोलतलकन्दलितस्मितेन ॥ ३.*५५ ॥ अत्र नानादिगन्तागतराजकगोचरं सेनापतीनां सस्मितानलोकनं संभावनाभिप्रायेण वा रणेषु प्रभूततदीयकातरदशास्मरणेन वेति सन्देहः । तुल्यप्राधान्यव्यङ्ग्यं यथा तव श्रीसिङ्गभूपाल प्रतापतपनोदयः । सातपत्रान्महीपालान् सन्तापयति सन्ततम् ॥ ३.*५६ ॥ अत्र सातपत्रान् शत्रून् प्रतापतपनः सन्तापयतीति वाच्यस्य निरातपत्रान्नः सन्तापयतीति व्यङ्ग्यस्य च प्राधान्यं सममेव प्रतीयते । काक्वाक्षिप्तं यथा भद्रेभादशनभतक्षितिधरग्रावश्रियोऽग्रे स्थिताः राजिर्वा जवनिर्जितार्कहयता विभ्राजिनां वाजिनाम् । उद्दण्डप्रतिगण्डभैरवविभुं प्राणेश शुद्धाङ्गणे हन्ताद्यापि दिदृक्षसे न सुहृदः प्राणा न चाहं हिताः ॥ ३.*५७ ॥ अत्र प्रतिनायकमुद्दिश्य तद्देवीवाक्ये गन्धगजा वाजिनो वा तवाग्रे न स्थिता प्राणास्व प्रिया एवाहं च तव हितैवेति व्यङ्ग्यं प्रतीयमानमपि कुञ्जरादयोऽग्रे स्थिता वा इत्यादि काकुसहकारिणा वाचकशब्देनैवाक्षिप्यत इत्युपसर्जनीभूतत्वम् । असुन्दरं यथा धात्रीमतिक्रम्य परिस्फुरन्ती भुजङ्गलोकानभितश्वरन्ती । श्रीसिङ्गभूपाल तव प्रभावात्श्लाघ्या हि कीर्तिः सुमनोगृहेषु ॥ ३.*५८ ॥ अत्र कीर्तेः धूर्तस्त्रिया साम्यं शब्दशक्तिप्रतीतमपि वाच्यादनतिशायीति न सुन्दरम् । प्रत्येयार्थस्य चारुत्वे चमत्कारितमं मतम् ॥ ४० ॥ यथा सिङ्गप्रभुरलङ्कारी लङ्कारी राघवः पुनः । वर्णान्तरत्वमुभयोः श्रूयते सर्वसम्मतम् ॥ ३.*५९ ॥ अत्र वर्णेनाक्षरेणान्तरं भेदो ययोस्तच्वमिति वाच्ये प्रतिष्ठिते वर्णो वैश्यजातिरन्तरं नायकरघुनायकयोरिति परस्परव्यतिरेकालह्कारो व्यङ्ग्यः । तस्यैव कवितात्पर्यविश्रान्तिधामत्वाच्चारुत्वमिति चमत्कारितमत्वम् । यथा वा कृतायस्तम्भनिर्भेदो भक्तप्रह्लादपोषकः । श्रीपतिनंरसिंहोऽयं राजते राजशेखरः ॥ ३.*६० ॥ अत्र शब्दशक्तिमूलो नायकवैकुण्ठकण्ठीरवयोरुपमालङ्कारो व्यज्यते । अनेन च क्षणादिव नायको निखिलविरोधिविदारणक्रियापरिणति समर्थनिर्वक्रपराक्रम इति विधिरुपं वस्तु व्यज्यते । एतेन च नायकेन सह विरोधो न करणीय इति निषेधरूपं वस्तु, अमुना च नायकप्रतिभटीभूता महीपाला निर्बुद्धय इत्युत्प्रेक्षा व्यज्यते । अनया च नायकविरोधिनो नरनायका दैवपराहता इत्युत्प्रेक्षापरा व्यज्यते । एवं प्रतिशत्रुप्रतिभाविशेषप्रत्ययार्थपरंपरासमुन्मेषसंपन्नतया बाढमचिन्त्यमहिमविश्रान्तिधामतां नीतं तदिदं चमत्कारितममित्युच्यते । अत्र भेदप्रपञ्चो ध्वनिलोचनादिग्रन्थेषु द्रष्टव्यः । गद्यं पद्यं च मिश्रं चेत्येतत्सर्वं त्रिधा स्मृतम् । अपादः पदसन्दर्भो गद्यं हृद्यं मनीषिणाम् ॥ ३.४१ ॥ कीर्तिरत्ननिषद्यायां गद्ये कस्यापि पाटवम् । गद्यबन्धमयं काव्यं श्रीहर्षचरितादिकम् ॥ ३.४२ ॥ चतुष्पादान्वितं पद्यं चादिर्मात्रेति तद्द्विधा । छन्दोविचितिकोशेषु तयोर्ज्ञेयस्तु विस्तरः ॥ ३.४३ ॥ पद्यबन्धमयं काव्यं क्षुद्राक्षुद्रतया द्विधा ॥ ३.४४ ॥ क्षुद्रं मुक्तककाव्यं तद्भामहाद्यैः प्रपञ्चितम् । अक्षुद्रं सर्गबन्धादि प्रशस्तोदात्तवस्तुकम् ॥ ३.४५ ॥ सदेशकालपात्रादि वर्णनासम्पदुज्ज्वलम् । त्रिवर्गफलदं काव्यं रघुवंशादिकं मतम् ॥ ३.४६ ॥ गद्यपद्यमयं मिश्रं प्रेक्ष्यं श्राव्यमिति द्दिधा । प्रेक्ष्यं द्विधा रूपकाख्यमुपरूपकमित्यपि ॥ ३.४७ ॥ रूपकं दशधा प्रोक्तं नाटकादिविभेदतः । महाप्रबन्धसाम्राज्यमाधिकर्तुमिदं क्षमम् ॥ ३.४८ ॥ सिङ्गभूपालरचिते रसार्णवसुधाकरे । अस्य प्रपञ्चो विज्ञेयः के तथा वक्तुमीशते ॥ ३.४९ ॥ उपरुपकमाख्यातं तद्धि श्रीगदितादिकम् । भावप्रकाशिकाद्येषु तल्लक्षणमवेक्ष्यते ॥ ३.५० ॥ श्राव्यं च कथितं चम्पूरुपचम्पूरिति द्विधा । चम्पूप्रबन्धस्तत्र स्यात्कान्ताष्टादशवर्णनः ॥ ३.५१ ॥ स प्रबन्ध इति श्लाघ्यो भोजरामायणादिकः । उपम्पूप्रबन्धानामियत्ता केन गद्यते ॥ ३.५२ ॥ अत्रापि कविसामर्थ्याद्र्बाषातालादिमिश्रणैः । कलिकोत्कलिकादीनां परिनायासविकल्पनैः ॥ ३.५३ ॥ रसभावादिभेदेन संपद्यन्ते तथोचितम् । तथापि प्रभुवन्द्यादिहर्षणारभटीस्पृशाम् ॥ ३.५४ ॥ वक्ष्ये च चतुर्भद्रादीनां केषांचिदिह लक्षणम् ॥ ३.५५ ॥ पद्यानन्तरबद्धानां गद्यानां हि यथारुचि । अवैषम्यादियत्ताया नियमो भद्रमुच्यते ॥ ३.५६ ॥ चत्वारि यत्र तानि स्युस्तच्चतुर्भद्रमीरितम् ॥ ३.५७ ॥ भद्रं च सतालमतालं मिश्रं चेति त्रिविधम् । यत्र (पद्यानन्तरं त्रिचतुर) पद्यान्ततन्त्री चतुरमात्रादि नियमे केवलकलिकोत्कलिकानिबन्धः तत्सतालभद्रम् । तदिदमुदाहरणादिषु । यत्र पद्यानन्तरं गद्यानि कलिकाश्व तन्मिश्रभद्रम् । तदिदं चतुर्भद्रादिविषयम् । चतुर्भद्रनिबन्धनाप्रकारस्तु यत्किञ्चिदारभटीवृत्तियोग्यमाशीर्वादभूषितं संबुद्धिविभक्तिसंभक्तनायकनामाङ्कितं पद्यमादौ निबध्नीयात् । ततो देव धीर शूरेत्यादि पदोपक्रमाणि गद्यान्यन्तानुप्रासवन्ति समसंख्यया वक्तव्यानि । पश्वाद्गद्यसंख्यातिक्रमेण द्वयोर्द्वयोराद्यन्तानुप्राससुन्दरमाकलनीयाः कलिका इतीदं समुच्चित्य भद्रमित्यभिधीयते । एवं चतुर्णां भद्राणां निबन्धे चतुर्भद्रः । एवमष्टभद्रादयोऽपि तस्यैवा वृत्तितो भवन्तीति न पृथगुच्यन्ते । द्विभद्रमपि चेच्छन्ति भाषा नैकविधा यदि । ख्यातं हि रक्तं कल्याणं योगस्संस्कृतदेश्ययोः ॥ ३.५८ ॥ एवं भाषाद्वयीयोगे योग्यं नाम प्रकल्पयेत् ॥ ३.५९ ॥ तदेव ननाबिरुदैरङ्कितं बिरुदावलिः । तत्तत्समयक्रर्तव्यसूचनादिफला तु सा ॥ ३.६० ॥ वर्णनीयगुणोत्कर्षवती भोगावली मता । प्रतिभद्रं समुन्निद्रदिगन्तविजयश्रमम् ॥ ३.६१ ॥ तच्चतुर्भद्रमाख्यातं कोविदैर्विजयावली । यत्सतालभद्रं स्यात्तदुदाहरणं मतम् ॥ ३.६२ ॥ जयत्युपक्रमोद्भासि मालिन्याख्यादिपद्यके । विभक्तयः क्रमादत्र सप्त संबुद्धिरष्टमी ॥ ३.६३ ॥ प्रतिभद्रं च पद्यान्ते कल्पयेत्कलिकाष्टकम् । ततः सप्तदशा व्यस्ताः कलिकार्धसमातृकाः ॥ ३.६४ ॥ तत्तद्विभक्त्याभासान्ताः कुर्यादुत्कलिकास्तथा । आद्यन्तानुप्रासभक्तिः कल्पनीया द्वयोर्द्वयोः ॥ ३.६५ ॥ विभक्त्याभासनियमा लध्वन्तात्तालिकेन च । गदेत्सर्वविभक्त्यन्ते पद्यं सार्थविभक्तिकम् ॥ ३.६६ ॥ आशीर्वादसमायुक्तमित्युदाहरणक्रमः । क्रमाद्भाषाष्टकं यत्र सोदाहरणमातृकाः ॥ ३.६७ ॥ निजपूर्वपदान्तस्य द्वित्राद्यक्षरसन्ततिः । उत्तरस्य पदस्यादि यस्मिन्नव्यवधानतः ॥ ३.६८ ॥ तदेतद्भद्रसन्धानाच्चक्रवच्चक्रवालकम् । पद्यानन्तरिता गद्यपङ्क्तिराद्यन्तपद्यका ॥ ३.६९ ॥ इदं प्रोक्तपदैरन्यैः पर्यायो गद्यप्द्ययोः । पूर्वोत्तरानुसंधानं सर्वसाधारणं मतम् ॥ ३.७० ॥ अन्ते क्षुद्रप्रबन्धानामार्ययानुष्टुभापि च । नामप्रकाशे यत्कर्तुर्नायकस्य कृतेरपि ॥ ३.७१ ॥ संबुद्धिरेका सर्वत्र हित्वोदाहणं मता । इत्थमन्यदपि ज्ञेयमेतज्जातिसमुद्भवम् ॥ ३.७२ ॥ द्विपतीप्रमुखानां तु क्षुद्रेष्वन्तर्गतिर्मता । येषां लक्ष्यं बुधैरूह्यं वयं विस्तरभीरवः ॥ ३.७३ ॥ इति श्री सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासारशीतलायां चमत्कारचन्द्रिकाया मर्थगुणदोषप्रबन्धविशेषविवेको नाम तृतीयो विलासः ॥ ______________________________________________________________________________ चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता चतुर्थो विलासः । रूपादय इवाङ्गस्य स्वरूपोत्कर्षहेतवः । काव्यस्यैतान्विजानन्ति गुणान् गुणविवेकिनः ॥ ४.१ ॥ श्लेषप्रसादौ समता माधुरी सुकुमारता । अर्थव्यक्तिरुदारत्वमोजः कान्तिरुदात्तता ॥ ४.२ ॥ प्रेयान् समाधिरौर्जिंत्यं सौम्यं गाम्भीर्यविस्तरौ । संक्षेपः शब्दसंस्कारो भाविकत्वं च सम्मितः ॥ ४.३ ॥ गत्युक्तिरीतयः काव्ये ते त्रायोविंशतिर्मताः । तत्र श्लेषः मसृणश्लिष्टपदता श्लेष इत्यभिधीयते ॥ ४.४ ॥ यथा अव्याजसुन्दरमनिन्दितसच्वसार- माजानुवाहुमरविन्ददलायताक्षम् । श्रीसिङ्गभूपमवलोकयतां जनाना- मानन्दितानि नयनानि सुधाम्बुनेव ॥ ४.*१ ॥ अत्र भिन्नानामपि पदानामेकपदवत्पाठसमये प्रतिभानं श्लेषः । द्रागर्थावगतिर्यत्र स प्रसादो निगद्यते ॥ ४.५ ॥ यथा सौगन्धिके च घनसारिणि चन्दने च बिम्बाधरे च सुदृशां वदने च तासाम् । श्रीसिङ्गभूपरचिते च गिरां कदम्बें को वा न नन्दति जनो जगदेकसारे ॥ ४.*२ ॥ अत्र पादानां समकालमेवार्थसमर्पकत्वात्प्रसादः । मृदुस्फुटविमिश्राणां वर्णानां बन्धक्ल्टप्तिषु । आमूलचूडं निर्वाहः समता धीमतां मता ॥ ४.६ ॥ अत्र स्फटवर्णनिर्वाहो यथा युद्धेषु प्रतिपक्षलक्षतुरगप्रध्वंसनोत्तंसिते त्वत्कौक्षेयकशिक्षितैरपि परं सिङ्गक्षमारक्षक । सप्ताश्वे प्रतिभेदमात्रमरिभिः प्रायेण संधार्यते कष्टं क्लिष्टधियां गुरोरपि वृथा सर्वैव विद्या भवेत् ॥ ४.*३ ॥ अत्र पादचतुष्टयेऽपि घोषपराक्षरप्रायत्वनिर्वहणात्स्फुटवर्णा समता । मिश्रवर्णबन्धनिर्वाहो यथा आक्षेपोक्तिविधायिनां क्षितिभुजामात्मावरोधान्तिके युद्धाग्रे तु निरीक्ष्य साध्वसवतां त्वां खड्गनारायण । रूक्षोदग्र तृणाङ्कुरग्रसनता जिह्वाग्रविच्छेदनं दण्डोऽभूदत एव ते हि भवता स्वे स्वे पदे स्थापिताः ॥ ४.*४ ॥ अत्र पादचतुष्टयेऽपि नातिवर्णमृदुप्रायता नातिरूक्षाक्षरप्रायता चेति मिश्रबन्धसमता । अग्रन्थिला पृधग्भूतिः पतानां माधुरी मता ॥ ४.७ ॥ यथा चम्मं पोम्मोत्त उत्तं .... .... .... .... .... .... .... .... .... .... .... .... .... .... । बोम्मो कापूण सोम्मं त्विहुवण रअणं कण्णअं कित्ति सण्णं द्विहा उंतिए णाहं कुण इव रौणं मंगलं सिंगभूवम् ॥ ४.*५ ॥ अत्र पाठसमय एव पदविभागः प्रतिभातीति माधुर्यम् । संयुक्ताक्षरसच्वेऽपि श्रव्यत्वं सुकुमारता ॥ ४.८ ॥ यथा युष्माभिः प्रतिगण्डभैरवरणे प्राणाः कथं रक्षिता इत्यन्तः पुरपृच्छया यदरिषु प्राप्तेषु चाज्ञावशम् । शंसत्युन्नतमान्स व्यतिकरव्यापारपारङ्गता गण्डान्दोलितकर्णकुण्डलहरिन्माणिक्य वर्णाङ्कुराः ॥ ४.*६ ॥ अत्र संयुक्ताक्षरप्रायत्वे श्रुतेरकटुत्वात्सौकुमार्यम् । अद्याहारानपेक्षत्व मर्थव्यक्तिरितीरिता ॥ ४.९ ॥ यथा नमन्ति सिङ्गभूपालं राजानो नीतिकोविदाः । निजराज्यप्रतिष्ठायै शरणागतवत्सलम् ॥ ४.*७ ॥ अत्र वाक्यस्य संपूर्णता स्पष्टैव । विकटाक्षरता बन्धे प्राज्ञैरौदार्य मीर्यते ॥ ४.१० ॥ यथा गर्जद्घूर्जरगर्वपर्वतभिदे नेपालभूपालक-ध्वान्तध्वान्तविरोधिने कटुरटत्सौराष्ट्रराष्ट्रद्रुहे । दृप्यत्केरलमौलिमोटनकृते श्रीसिङ्गपृथ्वींपते भूयासुर्भुवनाभयव्रतभृते श्रेयांसि भूयांसि ते ॥ ४.*८ ॥ अत्र विकटाक्षरतया नृत्यद्भिरिव पदैर्या बन्धरचना तदौदार्यम् । ओजस्समास्बाहुल्यमेतद्द्वेधा निगद्यते । समासानामदीर्घाणां प्राचुर्यात्प्रथमं भवेत् ॥ ४.११ ॥ इदं कोमलमार्गानुसारिणां प्राणसंमितम् । समासस्यातिदीर्घत्वाद्द्वितीयं गौडसम्मतम् ॥ ४.१२ ॥ अत्राल्पसमासप्राचुर्यं यथा नायकस्यैव आकीर्णघर्मजलमाकुलकेशपाशमामीलिताक्षियुगमादृतपारवश्यम् । आनन्दकन्दलितमस्तमितान्यभावमाशास्महे किमपि चेष्टितमायताक्ष्याः ॥ ४.*९ ॥ यथा च सङ्गीतक्रमचङ्क्रमप्रियसखी शृङ्गारसंजीवनी सौजन्यद्रुमसारणी चतुरतासाम्राज्यसिंहासनम् । श्रीसिङ्गक्षितिपालशेखरमणेर्वैयात्यघण्टापथश्चाटुव्याहृतिवैखरी विजयते साहित्यशिल्पावधिः ॥ ४.*१० ॥ अत्र स्वल्पसमासत्वं (?) स्पष्टमेव --- --- --- दीर्घसमासत्वं यथा ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... । पिशाचाः सह सहचटैः हस्ततालानुकूलं (?) क्रीडन्ति क्रेंक्रियाभिः कहकहनिनदाडम्बरालम्बिनीभिः ॥ ४.*११ ॥ अत्र दीर्घसमासत्वं स्पष्टमेव । कान्तिश्छाया हि बन्धस्य कथिता बन्धकोविदैः ॥ ४.१३ ॥ यथा आकृष्टा मूर्ध्नि कृष्णा गहनमणिगता मैथिली पूर्वमूर्वोश्छन्ना पर्णैरपर्णा किल नलमहिषी कल्पिता शित्पिनीति । आस्तां तत्तद्दशायामपि दधति शुचं यावदाक्षेपरूपैराख्यातैः सिङ्गभूप त्वदरिमृगदृशां स्थैर्यवत्यो जरत्यः ॥ ४.*१२ ॥ यथा (वा) ललितरसविलाकव्यासविन्यासधन्यां प्रथयति मधुरार्थां भारतीं सिङ्गभूपे । गरनिगरणरूक्षैरक्षरैर्वावदूको विषधरकुलमूर्धा न स्फुटी यः स्फुटीति ॥ ४.*१३ ॥ अत्र बन्धस्यात्युज्ज्वलत्वं छाया सैव कान्तिः । श्लाग्यैर्विशेषणैर्योगं बुधा विदुरुदात्तताम् ॥ ४.१४ ॥ यथा आकल्पमाकल्पविशेषभाजा भुजेन रेखाकुलिशाङ्कितेन । श्रीसिङ्गभूपाल तवायतेन रक्षावती सागरमेखलेयम् ॥ ४.*१४ ॥ अत्र भुजविशेषणानां भाग्यविशेषप्रतिपादकत्वादतिश्लाघ्यत्वम् । प्रेयान् प्रियोक्तेर्विन्यासश्चाटुसाहित्यजीवितम् ॥ ४.१५ ॥ यथा सौभाग्यभाग्य युवतीजनचित्तचोर दाक्षिण्यगण्य धरणीतलपारिजात । शृङ्गारभाव करुणाकर सिङ्गभूप गां रक्ष रक्ष तव रक्षणमेव धर्मः ॥ ४.*१५ ॥ अत्र नायकं प्रति दूत्याः प्रियोक्तिः स्पष्टैव । समाधिरिह शब्दस्य वृत्तिस्स्यादौपचारिकी ॥ ४.१६ ॥ यथा अध्यास्ते फणिलोकपुङ्गवफणानिर्व्यूढपर्यङ्किकामाक्रामत्यनुवेलमब्धिरशना काञ्चीगुणाडम्बरम् । निंस्ते विस्मयधूतधूर्जटिजटाकूलंकषाहंक्रियां श्रीसिङ्गक्षितिपालकीर्तिमहिमासाकल्यकल्पोदयः ॥ ४.*१६ ॥ अत्राध्यासनाक्रमणचुम्बनानामुपचरितत्वं कीर्तेरचेतनत्वात् । यद्बन्धस्यातिगाढत्वं तदौर्जित्यमुदाहृतम् ॥ ४.१७ ॥ यथा करिपतिदृढकुम्भालम्बन्प्रक्रमां च .... .... घोरकोणः कृपाणः । तव रचयति धनुरध्वंसनं सिङ्गभूप प्रदनकदनगन्धप्रङ्वणब्वान् पिशाचान् ॥ ४.*१७ ॥ अत्र ह्रस्वाक्षराणां संयुक्तपूर्वतया गुरुत्वे यद्गाढत्वं तदौर्जित्यं नाम । अन्तस्संजल्पसामर्थ्यं शब्दानां सौक्ष्म्यमुच्यते ॥ ४.१८ ॥ यथा भूधातुं कर्तृभावादनुगतमनुना मानयत्यात्ममाने पर्याये संपदां स्यादभिपरिसहितं विद्विषां कर्मभावः । पुंलिङ्गे त्वन्मनोऽब्जं स्पृशति शिवपदं त्वद्गृहाली न पुंसि स्त्रीलिङ्गे शात्रवाणां निखिलमपि पुरं सिङ्गभूपालचन्द्र ॥ ४.*१८ ॥ अत्र नायकः सम्पदोऽनुभवतीति, द्विषः परिभवति, नायकस्य मानसं शिवो महादेवः स्पृशति, तद्विरोधिनगरं शिवा जम्बूकः स्पृशतीति पदानां भूधातुं कर्तुभावादित्यादिषु गर्भितत्वादन्तः संजल्पनशक्तिःप्रतीयत इति सौक्ष्म्यमिदम् । ध्वनिमत्ता तु गाम्भीर्यं यथा एकेनैव तुरङ्गमेण ककुभो व्याक्रम्य सौम्यक्रमा- नङ्गीकृत्य करान् कदाचिदगतः कांचित्तमोग्रस्तताम् । उल्लासाय सतामनन्तमुदयं धत्ते तथापि स्फुटं त्वं प्राज्ञैर्ननु सिङ्गभूपतिलक ज्ञातोऽसि भासां निधिः ॥ ४.*१९ ॥ अत्र सूर्यस्तु दिशस्तुरङ्गमैस्सप्तभिराक्रमति, तीव्रान् किरणानङ्गीकरोति, रहुग्रस्ततां गच्छति नक्षत्राणामनुल्लासाय सान्तमुदयं धत्त इति ध्वनिर्विद्यते । तस्माद्गम्भीरत्वम् । प्रपञ्चोक्तिस्तु विस्तरः ॥ ४.१९ ॥ पुण्यैः पूर्वमुपार्जितैस्तनुमतो जन्मास्तु सन्मानुषं जन्माप्यस्य तदान्ध्रदेशतिलके राजाचले संभवेत् । तत्राप्येष दधातु तां परिणतिं भाग्यस्य योग्यां तथा गत्वा नन्दति सिङ्गभूवर गिरं त्वत्कां चमत्कारिणीम् ॥ ४.*२० ॥ अत्र नायकस्य सन्निधौ सर्वदा स्थातुमिच्छामीति विवक्षितार्थस्यातिविवृत्य करणाद्विस्तरः । संक्षेपस्तु समस्योक्तिरनल्पस्यापि वस्तुनः ॥ ४.२० ॥ यथा षड्भिः षोडशभिर्भूपैगौरेका महिषी कृता । सैव श्रीसिङ्गभूपालकुञ्जरेण वशीकृता ॥ ४.*२१ ॥ अत्र षड्भिरित्यनेन "हरिश्चन्द्रो नलो राजा पुरुकुत्सः पुरूरवाः । सगरः कार्तवीर्यश्च षडेते चक्रवर्तिनः" ॥ इति श्लोकार्थस्य, षोडशभिः भूपैरित्यनेन, "गयोऽम्बरीषः शशिबिन्दुरङ्ग पृथुर्मरुत्तो भरतस्सुहोत्रः । रामो दिलीपः शिबिरन्तिदेवौ ययातिमान्धातृभगीरथाश्च" ॥ इति श्लोकार्थस्य च प्रपञ्चकथनप्रसिद्धस्यात्रातिसङ्कोचेन कथनाच्चमत्कारातिशयकारी संक्षेपो नाम गुणः अयम् --- "स मारुतसुतानीतमहौषधिधृतव्यथः" । इत्यादौ कविभिरङ्गीकृतो लक्षणीयः । सुपां तिङां च व्यत्पत्तिश्शब्दसंस्कार उच्यते ॥ ४.२१ ॥ यथा दिक्कूलङ्कषवैभवा घनपथव्याप्तिप्रियंभावुका श्रीसिङ्गक्षितिपालकीर्तिविभवाः शम्भोस्तुलालम्बिनः । गामध्यासितुमीशते प्रगुपते पर्याप्तमार्योत्सवान् कल्पान्ते तव कल्पितां विवृणुते धाम्रा महिम्रां श्रियम् ॥ ४.*२२ ॥ अत्र दिक्कूलंकषेति प्रियंभावुकेति गामध्यासितुमित्यादौ सुबन्तानामीशत इत्यादिषु तिङ्न्तानां च दिग्व्यापिनोऽन्तरिक्षव्यापिनो गवि तिष्ठन्त्यादिभि र्विशेषप्रतिभानाच्छब्दसंस्कार इत्युच्यते । हर्षादि भाववशतो वाग्वृत्तिर्भाविकं मतम् ॥ ४.२२ ॥ यथा विद्यादैवत तात तावकगुरो सर्वज्ञचूडामणे स्तोतव्योऽसि मनीषिणां त्वमथवा वन्द्यो जवाकैरलम् । इत्थं सिङ्गमहीपतिं गुरुजनोऽप्याभाषते तोषवान् तत्तत्पद्धतिधर्ममर्मणि परिच्छेदानि संवादिनम् ॥ ४.*२३ ॥ परिछेदसंभूतसंतोषवशेन प्रवृत्तत्वाद्भाविकत्वम् । तत्सम्मितत्वं शब्दार्थकूलाबधृतिरुच्यते ॥ ४.२३ ॥ यथा विक्रमे न क्रमे केचित्क्रमे केचिन्न विक्रमे । विक्रमे च क्रमे चायं दक्षः श्रीसिङ्गभूपतिः ॥ ४.*२४ ॥ अत्र यावदर्थपदत्वं सम्मितत्वम् । आरोहमवरोहञ्च स्वराणां गतिरीरिता ॥ ४.२४ ॥ यथा श्रीसिङ्गक्ष्मापाले क्षोणीं धारयति सारधौरेये । अकरणि मदयति फणिपतिहरिदिभकुलकुधर कपटकमठानाम् ॥ ४.*२५ ॥ पूर्वार्धे दीर्वतयास्वराणामारोहः । उत्तरार्धे ह्रस्वतयावरोहश्चेति गतिः । उक्तिर्विवक्षितस्या न्यभङ्ग्या भणनमुच्यते ॥ ४.२५ ॥ यथा तस्याः किं गुणजीवितस्य कुशलं राजन् सती जीवति प्रश्नस्तत्कुशलक्रमो हि कथितं सा जीवतीति स्फुटम् । भद्रे दूति पुनस्तदेव किमिदं मुग्धेव संभाषसे श्वासे तिष्ठति सा मृतेति गदितुं श्रीसिङ्ग किं युज्यते ॥ ४.*२६ ॥ अत्र तस्याः किं कुशलमिति नायकप्रश्ने दूत्या कुशलमकुशलं वेति प्रतिवक्तव्यजीवतीत्यादियुक्तिभङ्ग्या योऽयं त्वद्विरहे जीवितमात्रशेषेति सूचनाप्रकारस्सोऽयमुक्तिर्नाम गुणः । उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते ॥ ४.२६ ॥ एकं याचितमर्थिना द्बिगुणितं चित्ते त्वदीये पुनर्- वाक्ये तन्त्रिगुणं चतुर्गुणयुतं हस्ते ततस्त्वर्थिनः । पाणौ पञ्जगुणं प्रकल्पितमहो षाड्गुण्यदीक्षागुरो- रौदार्ये तव सिङ्गभूप नितरामाश्चर्यमाचार्यकम् ॥ ४.*२७ ॥ अर्त्रकादीनां षडन्तानां यथाक्रमं निर्वाहो रीतिः । इति गुणविवेकः । रीतिः पदानां घटना प्रोक्ता रीतिविशारदैः । रीङ्गतावित्यतो धातोरियं रीतिरितीर्यते ॥ ४.२७ ॥ असमासा समासेन मध्यमेव विभूषिता । अतिदीर्घसमासा चमिश्रा चेति चतुर्विधा ॥ ४.२८ ॥ असमासा यथा राजानः सन्तु लोके दिनरजनिकृतोरत्र वंशावतंसा विष्णोरैतिह्यसिद्धानभिदधति गुणान् कीर्तिगन्धाः प्रवन्धाः । अद्य क्षोणी कृतार्था नृपतिकुलगुरू चक्षुषी यस्य सौऽयं देवो रेचर्लवंशो विहरति भगवान् सिङ्गभूपालमूर्तिः ॥ ४.*२८ ॥ नन्वत्र समासः श्रूयते कथमसमासेति चेत्श्रूयताम् । अत्र नञा समासस्वरूपनिषेधो नाभिधीयते । किन्तु तस्य तीर्गत्वं द्राघीयस्त्वं च । यथा-अनुदरेयं कन्या॑ निस्सारः पुमान्॑ इति । तस्माद्द्वयोः त्रयाणां वा (न) पदानां समासे रीतेः सहृदयहृदयानामनुद्वेगदायिनामसमासत्वमेव । यथा च दृष्टमसमासमार्गानुसारिणां महाकवीनां प्रबन्धरत्नेषु । "तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी" ॥ ४.*२९ ॥ इत्यादि मेघसन्देशे "वरतनुकबरीविधायिना सुरभिनखेन नरेन्द्रपाणिना । अपचितकुसुमापि वल्लरीयं समजनि वृन्तनिलीनषट्पदा" ॥ ४.*३० ॥ इति कर्णामृते । "उत्फुल्लगण्डयुगमद्भुतमन्दहासमुद्वेलरागमुररीकृतकामतन्त्रम् । हस्तेन हस्तमवलम्ब्य कदा नु सेवे सल्लापरूपममृतं सरसीरुहाक्ष्याः ॥ ४.*३१ ॥ इति सिङ्गभूपालीये । "मुखप्रधानैरवलंबपूर्वैः कण्ठग्रहैर्विप्रतिपीडिताङ्गैः । नखप्रचारै श्शिथिलोपगूढैर्लब्धैः प्रियाया मुमुदे मुकुन्दः ॥ ४.*३२ ॥ इति कन्दर्पसंभवे । एवनम्येष्वपि वैदर्भमार्गानुसारिणां प्रबन्धेषु तत्र तत्र च तुन्नपदसमासस्यासमासत्वकीर्तनानुप्रवेशाकारोऽवगन्तव्यः । अपरञ्च न्यूनानामदशाधिकानां पदानां समासो मध्यमः तद्वती मध्यमसमासा यथा श्रीसिङ्गभूप भवदीयवचोविलास- धारासुधामधुरिमानुभवानुभावात् । आमीलिताञ्चलविलोचनयुग्मनिर्य- दानन्दबाष्णकणिकाः सुधियो भवन्ति ॥ ४.*३३ ॥ दशाधिकपदसमासातिदीर्घसमासा यथा श्रीसिङ्गक्षोणिपालप्रबलबलभरोद्धूतधूलीवितान- छन्नच्छायासहायद्युतिहरिदुदरस्कन्धबद्धान्धकारे । व्योम्नि व्यामप्रमेयस्तनयुवतिपरीरंभसंहभकेली- प्रत्यूहव्यूहशान्तिप्रमुदितमनसस्तं प्रशंसन्ति सिद्धाः ॥ ४.*३४ ॥ असमासादिरीतीना सहकारान्मिश्रा । असमासातिदीर्घसमासयोर्मिश्रणे यथा अवितुरकृतभङ्गं सिङ्गभूपालमौले- स्त्रिभूवनमपि शुद्धं कीर्तिकल्लोलिनीभिः । विषमविषमचक्षुर्जूटकोटीकुलुङ्ग- स्खलितफलितफेनस्वह्धुनीस्पर्धिनीभिः ॥ ४.*३५ ॥ अत्र प्रथमार्धेऽसमासोत्तरार्धेऽतिदीर्घसमासा । असमासामध्यमसमासयोर् यथा प्रतिनृपतिपुरन्ध्रीचारुपाटीरचर्चा- परिकरपरिचर्याद्रोहिणी खड्गधारा । जयति विजयलक्ष्म्या वेणिकाश्रेणिकान्ती रणभुवि तव बाहासङ्गिनी सिङ्गभूप ॥ ४.*३६ ॥ अत्र प्रथमार्धे मध्यमसमासोत्तरार्घेऽसमासा । अतिदीर्घमध्यमसमासयोर् यथा सिङ्गक्ष्मापाल युद्धे प्रतिभटरथिनीनाथकोटीरकोटी- स्फायल्लीलाकलाची भरितनववसाविस्रकीलालहालाम् । पायं पायं पिशाचाः सह सह चरीहस्ततालानुकूलं क्रीडन्ति क्रेंक्रियाभिः कहकहनिनदाडम्बरालम्बिनीभिः ॥ ४.*३७ ॥ अत्र प्रथमार्धेऽतिदीर्घसमासोत्तरार्धे मध्यमसमासा । एवमन्यदप्येतज्जातीयं द्रष्टव्यम् । इति रीतिविवेकः । या विकासे च विक्षेपे विक्षोभे विस्तरे तथा । (चेतसो वर्तयित्री स्यात्सा वृत्तिः सापि षड्विधा) ॥ ४.२९ ॥ कैशिक्यारभटी चैव भारती सात्वती तथा । मध्यमारभटी चैव तथा मध्यमकैशिकी ॥ ४.३० ॥ मृदू शृङ्गारकरुणौ स्वल्पौ हासायाद्भुतौ पुनः । उद्धतौ रौद्रबीभत्सौ किंचिद्वीरभयानकौ ॥ ४.३१ ॥ शब्दार्थयोर्मृदुत्वेन कैशिकीवृत्तिरिष्यते ॥ ४.३२ ॥ यथा अलोलैराश्चर्यादविरलितलज्जापरिमलैः प्रमोदादुद्वेलैश्चकितहरिणीप्रेक्षणसखैः । अमन्दैरौत्सुक्यात्प्रणयलहरीमर्मपिशुनै- रपाङ्गैस्सिङ्गक्ष्मारमणमबला वीक्षितवती ॥ ४.*३८ ॥ वृत्तिमारभटीमाहुः प्रौढत्वादर्थशब्दयोः ॥ ४.३३ ॥ यथा सावष्टम्भ सदम्भजम्भगिरिसद्व्यालम्भनोत्तम्भित प्रारम्भाद्भूतजम्भभेदिभिदुरत्विङ्गेन खड्गेन ते । श्रीसिङ्गक्षितिरक्षक प्रतिमृधं सिद्ध्येदरि क्ष्माभृतां सा रम्भाकुचकुम्भसम्भ्रमपरी रम्भादिसम्भावना ॥ ४.*३९ ॥ अत्र स्निग्धप्राणवर्णप्रायत्वं सन्दर्भस्य मृदुत्वम् । श्रुङ्गारत्वादर्थस्त मृदुत्वम् । अत्र रूक्षमहाप्राणवर्णप्रमायत्वेन संदर्भस्य गाढत्वम् । प्रतिभटध्वंसनरुपत्वादर्थस्यगाढत्वम् । मृद्वर्था प्रौढसंदर्भा भारतीवृत्तिरिष्यते ॥ ४.३४ ॥ यथा तज्जित्वा परिरम्भणप्रभृतिकं द्यूते सखीनां पुरः शार्यारोपणसूचिते पणविधौ श्रीशिङ्गपृथ्वीक्षिता । हासोत्फुल्लकपोलकान्तिलहरीसंक्रान्तवक्रेक्षणा सा स्विन्नाङ्गुलि शारिकापरिकरं सज्जीकरोति प्रिया ॥ ४.*४० ॥ अत्र शृङ्गारत्वादर्थस्य मृदुत्वम् । बन्धस्य महाप्रणरूक्षवर्णप्रायत्वं प्रौढत्वम् । प्रौढार्थमृदुसंदर्बा सात्वती वृत्तिरिष्यते ॥ ४.३५ ॥ यथा श्रीसिङ्गभूपकरवालहलारिमौलेर्- मुक्ताफलानि पतितान्यभितः स्फुरन्ति । कीलालमांसकलितासु रणस्थलीषु बीजाङ्कुराणि यशसामिव निर्मलानि ॥ ४.*४१ ॥ अत्र रिपुहिंसनरूपत्वा दर्थस्य प्रौढत्वम् । अल्पप्राणवर्णप्रायत्वात्संदर्भस्य मृदुत्वम् । मृद्वर्थ ईषत्प्रौढसंदर्भा मध्यमकैशिकी ॥ ४.३६ ॥ यथा त्वामाश्रितेष्ववसरोऽपि न हि क्रशिम्नां तच्चितमाश्रयति च त्वयि सा नतभ्रूः । आख्याति हन्त तनिमानमिति प्रसङ्गे कस्यायशो विमृश चेतसि सिङ्गभूप ॥ ४.*४२ ॥ अत्र विप्रलम्भत्वादर्थस्य मृदुत्वम् । बन्धस्य संयुक्तवर्णह्रस्वाक्षरप्रायत्वेनोर्जितत्वादीषद्गाढत्वम् । मद्यमारभटी प्रौढेऽप्यर्थे नातिमृदुक्रमा ॥ ४.३७ ॥ यथा संवर्तपावकशिखा किमु किं नु जिह्वा मृत्योरियं किमु युगान्तकृतान्तदंष्ट्रा । इत्यूह्यते समरसीमनिषेव्यदेशे श्रीसिङ्गभूपकरकम्पितखड्गरेखा ॥ ४.*४३ ॥ अत्र समरक्रियारूपत्वादर्थस्य प्रौढत्वम् । मिश्रवर्णारब्धत्वात्संदर्भस्य नातिमृदुत्वम् । इति वृत्तिविवेकः । पाकं वाचां परीपाकमाहुराखादमेदुरम् । सोऽयं मृदुः खरश्चेति समासेन द्विधा भवेत् ॥ ४.३८ ॥ अत्र मृदुपाको यथा किं कामेन किमिन्दुना सुरभिणा किं वा जयन्तेन वा मद्बाग्यादनवोतसिङ्गनृपते रूपं मया वीक्षितम् । धन्यास्तत्परिचर्ययैव सुदृशौ हन्तेति रोमाञ्चिता स्विद्यद्गण्डतलं सगद्गदपदं साख्याति सख्याः पुरः ॥ ४.*४४ ॥ अत्र द्राक्षापाक इवाक्लेशेन समास्वाददायी शब्दपरिणामो मृदुपाक इत्युच्यते । सोऽयं प्रायेण सहजसाहित्यरेखासमुल्लेखानां सरसकवीश्वराणामानन्दनिष्यन्दफले प्रबन्धेषु दृश्यते । तथा हि --- कालिदासस्य । "विवृण्वती शैलसुतापि भावमङ्गैऽ रित्यादि कुमारसंभवे ॥ ४.*४५ ॥ तथा च श्रीहर्षदेवस्य । "फुल्लो जणाणुरावो लज्जा गुरुई परप्पसो अव्वा । पिअसहि विसमं पेम्मं मरणं सरणं च चरम एत्तंऽ ॥ ४.*४६ ॥ तथा च ममैव चिक्षेप लक्ष्मीर्निटले नखाग्रैः प्रस्वेदवारातपमाक्षिपन्ती । जुगोप देवोऽपि स रोमहर्षं जवाब्धि वाताहतिकैतवेन ॥ ४.*४७ ॥ इति कन्दर्पसंभवे । एवमन्यत्रापि द्रष्टव्यम् । खरपाको यथा कल्याणेक्षण हेषया प्रकटितस्तम्भप्रतिष्ठाक्रमे मन्दाक्षच्छवि सुन्दरे ललितदृक्कोणक्रियातोरणे । भावोल्लासविलासके वरतनोरस्या मनोमण्टपे श्रीसिङ्गक्षितिपालमूर्तिरयते साम्राज्यसिंहासनम् ॥ ४.*४८ ॥ अत्र नारिकेलपाक इव विमर्शक्लेशेन विलंब्यास्वाददायी शब्दपरिणामः खरपाक इत्युच्यते । सोऽयमभ्यस्तकविभूमिकानां वक्रोक्तिवासनावासितान्तः करणानां विदग्धानां व्युत्पत्तिमात्रफलेषु लक्ष्यते । तथा हि मुरारेः तदात्वप्रोन्मीलन्म्रदिमरमणीयाः कठिनतां विचिन्त्य प्रत्यङ्गादिव तरुणभावेन नमितौ । स्तनौ संबिभ्राणाः क्षणविनयवैयात्यमसृण- स्मरोन्मेषाः केषामुपरि सरसानां युवतयः ॥ ४.*४९ ॥ तथा नैषधकारस्य सर्वाणि रोमाण्यपि बालभावाद्वरस्त्रियं वीक्षितुमुत्सुकानि । तस्यास्तथा कोरकिताङ्गयष्टेरुद्ग्रीविकादानमिवान्वभूवन् ॥ ४.*५० ॥ यथा तस्यैव साधु त्वया तर्कितमेतदेव स्वेनानलं यत्किल संश्रयिष्ये । विनामुना स्वात्मनि तु प्रहर्तुं मृषा गिरं त्वां नृपतौ न कर्तुम् ॥ ४.*५१ ॥ एवमन्यत्राप्यनुसंधेयम् । इति पाकविवेकः । शय्या पदानामन्योन्यमैत्री विनिमयासहा । स एवास्य पराकाष्ठा शय्या देशविभेदनः ॥ ४.३९ ॥ लोके प्रसिद्धमित्येषा प्राज्ञैः शय्येति कीर्तिता ॥ ४.४० ॥ संरंभादनवोतसिङ्गनृपतेर्घाटीसमाटीकने निःसाणेषु धणं धणं धणमिति ध्वानानुसन्धायिषु । मोदन्ते हि रणं रणं रणमिति प्रौढा स्तदीया भटाः भ्रान्तिं यान्ति तृणं तृणं तृणमिति प्रत्यर्थिपृथ्वीभुजः ॥ ४.*५२ ॥ यथा लीलालोकनलोलुपं मृगकुलं गन्ता गुहान्तानिमां- स्तत्क्रव्यग्रसन व्रतीह भविता द्वीपी रुषोद्दीपितः । याता तन्मृगयारतेर्वनमिदं श्रीसिङ्गभूपोदया- दित्यादिर्भयमादिशन्त्यरिनृपाः स्त्रीणामनीक्षाव्रतम् ॥ ४.*५३ ॥ अत्र पदानां पर्यायपदसद्भावेऽपि परिवृच्यसहिष्णुत्वादन्योन्यमैत्रीरूपा शय्या । अत्र रसस्य पृथक्प्रकरणे प्रपञ्चनविवक्षया व्युत्क्रम्य वृत्तिपाकशय्यानां स्वरूपं निरूपितम् । इति शय्याविवेकः । इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासार शीतलायां चमत्कारचन्द्रिकायां गुणविवेको नाम चतुर्थो विलासः ॥ ______________________________________________________________________________ पञ्चमो विलासः । चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचीता पञ्चमो विलासः । संविधानकचातुर्यात्साक्षादिव परिस्फुरन् । अलौकिकस्स चाखादो यस्स्यात्सोऽत्र रसो मतः ॥ ५.१ ॥ तदन्वयेन काव्यश्रीः कमनीयत्वमागता । आकल्पान्तरमाकल्पं कीर्तिं कल्पयते कविः ॥ ५.२ ॥ स वै रस इति श्रुत्या ब्रह्मणः समकक्ष्यया । प्रोक्तो रसस्खयं भाग्यात्कैश्चिदेवानुभूयते ॥ ५.३ ॥ शिवो रस इति प्रोक्तः सत्यं भावकसत्तमैः । न चेल्लोकोपकाराय कथमस्याष्टमूर्तिता ॥ ५.४ ॥ अष्टधा सच श्रुङ्गारहास्यौ वीराद्भुतौ स्थितौ । द्वन्द्वशा रौद्रकरुणौ तौ बीभत्सभयानकौ ॥ ५.५ ॥ मधुरः सर्वसंमत्या तिक्तादिषु रसेष्विव । हास्यादिषु स श्रुङ्गारो रससाम्राज्यमर्हति ॥ ५.६ ॥ तस्मिन् परिश्रमः कार्यः कवेश्चर्वितुमिच्छया । यस्यानुभवतो धीराः नात्मानमवजानते ॥ ५.७ ॥ काव्यं हि तन्मयं यत्र कवेरत्यन्तमाग्रहः । वासना मानसी वापि स्फुरतीति पुरा वचः ॥ ५.८ ॥ चिरं जीवतु वक्रोक्तिः स्वभावोक्तिश्च तिष्ठताम् । रसोक्तेरेव काव्यानि ग्राहीणीति (ग्राह्याणीति?) मतिर्मम ॥ ५.९ ॥ गुणाद्यैरपि वागर्थौ नीरसौ कोऽनुमोदते । परस्परानुरागेण रहिताविव दम्पती ॥ ५.१० ॥ अलं रसोक्तिरल्पापि काव्ये कल्पयितुं श्रियम् । वस्तु कर्पूरलेशोऽपि सुगन्धीकुरुते परम् ॥ ५.११ ॥ सत्तास्फुरत्तानुबन्धा निष्पत्तिः पुष्टि संकरौ । ह्रासाभासौ शमः शेष इत्युक्ता हि रसोक्तयः ॥ ५.१२ ॥ निजाश्रये समुन्मेषो विभावगुणसंपदा । रसस्य सत्ता रत्यादिस्थायीभावा रतिश्च सा ॥ ५.१३ ॥ आश्रयो विषयः, प्रोत्साहः सहकारीणि चेति त्रिरूपविभाव समग्रतया केवलया रसस्य स्वाश्रये यदुन्मेषमात्रं सेह सत्ता । सैव रत्यादीनां केवलानामाकारेणा वतिष्ठते । रत्यादयश्च -- रतिर्हासोत्साहविस्मयक्रोधशोकजुगुप्साभयानि क्रमोदितशृङ्गारादिरसाधिष्ठानभूमयो वासनाप्रवाहेणावतिष्ठमाना स्थायिन इत्युच्यन्ते । तत्र रतिरूपेण सत्ता यथा गुञ्जन्मञ्जुलचञ्चरीकमिथुने पुंस्कोकिलालापिनि प्रारब्धस्मर पादुकार्चनविधेर्माकन्दमूलाङ्गणे । श्यामाया मदुराधरे मृगदृशि व्यालोल नीलालके दूरादाननपङ्कजे क्षितिभुजा व्यापारिते लोचने ॥ ५.*१ ॥ अत्र केवलं विभावसामग्रीकथनेन नायकस्याभिलाषामत्रं प्रतीयत इति सेयं रसस्य सत्ता । एकस्यैवानुभावस्य प्राकट्यं साच्विकस्य वा । संस्कारपारिपाट्या चेत्स्फुरत्ता साभिधीयते ॥ ५.१४ ॥ अनुभावाः संक्षोपतो द्विविधाह्युक्ताः कायिका वाचिकाश्चेति । अनुभावत्वेऽपि स्तम्भप्रलयरोमा ञ्चस्वेदवैवर्ण्यवेपथुगद्गदिकाश्रुलक्षणानां साच्विकानां पृथगभिधानं विशेषद्योतनाय । रतिरूपेण रसस्य स्फुरत्ता यथा केयूररत्नमुपलालयता नृपेण यत्प्रार्थितं निजसखईचन सन्निधाने । श्यामापयोधरतटी परमादरेण तस्योत्तरं कृतवती पुलकप्ररोहान् ॥ ५.*२ ॥ अत्र नायके केयूरनायकरत्नप्रतिबिम्बतनायिकापयोधरलालनलक्षणनायिकानुभावेत्पादनरूपा रसस्य स्फुलत्ता । नायिकायां च पुलकलक्षणैकसाच्विकसम्पादकतया स्फुरत्तैव । यथा च स्पर्शोत्सवेन नृपतेः प्रमदाकुचाभ्यां रागाङ्कुरा इव धृताः पुलकप्ररोहाः । तत्सेचनार्थमिब तत्करपल्लवोऽपि प्रस्वेदवारिकणिकाः प्रकटीकरोति ॥ ५.*३ ॥ अत्र क्रमात्पुलकस्वेदलक्षणसाच्विकाभ्यां रसस्य स्फुरत्ता सूच्यते । उद्दीपनविभावाद्यैस्संस्कारेण पटीयसा । अत्रास्यैकानुभावस्य वर्तनं स्यान्मुहुर्मुहुः ॥ ५.१५ ॥ सकृद्वैषामनेकेषामेकसंचारिणोऽथवा । सोऽयं रसानुबन्धज्ञैरनुबन्ध इतीर्यते ॥ ५.१६ ॥ मुहुरेकानुभावानुवृत्तिलक्षणो यथा कर्पूरवासितवसन्तविनोदनान्ते यान्तीभि रात्मभवनानि विलासिनीभिः । आमन्त्रितो वलितकष्ठमनेकवारं श्रीसिङ्गभूपतिरपाङ्गविलोकनेन ॥ ५.*४ ॥ अत्र नायकगुणादिना वसन्तादिना च समुद्दीपिता विलासिनीनां रतिवासना मुहुर्मुहुर्वलितकष्ठकटाक्षलक्षणेन च शरीरारम्भानुभावेनानुबध्यत इति तथोक्त्तोऽयम् । अनेकानुभावसंबन्धलक्षणो यथा आरूढघर्मकणमाहतमन्दहासमाविर्भव त्पुलकमाचितकण्ठसादम् । अङ्गान्यनङ्गविवशानि विलासिनीनांम श्रीसिङ्गभूतलपतेरवलोंकनेन ॥ ५.*५ ॥ अत्र नायकगोचरा तदानीन्तनी पुरातनी वा विलासिनीनां रतिः नायकविलोकनादिभिरुद्दीपिता मन्दहासेन शरीरारंभेण स्वेदादिभिश्च साच्विकैः बहुभिरनुबध्यत इति तथोक्तः । सञ्चारिणो नाम विर्वेदविषाददैन्यग्लानिश्रममदगर्वशङ्कात्रासावेगोन्मादापस्मारव्याधि मोहमरणालस्यजडता व्रीडावहित्थास्मृतिवितर्कचिन्ताश्च मतिधृतिहर्षोत्सुकत्वोग्रतामर्षकृपासूयाचापल्यनिद्रासुप्तिबोधाश्चेति त्रयस्त्रिंशत् । एकसञ्चारिणानुबन्धो यथा वासन्तिकावलवेश्मनि माधवश्री- मञ्जीरशिञ्जितमधुव्रतकाकलीके । श्रीसिङ्गभूमिपतिसङ्गतिकाङ्क्षिणी सा हस्ताम्बुजे कृतवती निजगण्डपालिम् ॥ ५.*६ ॥ अत्र नायकगोचरा नायिकारतिवासना वासन्तिकादिभिरुद्दीपिता करतलकपोलविन्यासलक्षणशरीरारंभनिजानुभावानुमितेन चिन्तालक्षणेन व्यभिचारिणानु बध्यत इति सोऽयं तथोक्तः । केचिदेनां रसोक्तिमेकानुभाववदेकव्यभिचारिणो निबन्धे सम्बन्ध एक एवेति स्फुरत्तोक्तिमेवाचक्षते । वयं पुनएतस्यामुक्त्यां सानुभावेन व्यभिचारिणैकस्संबन्धः । व्यभिचारिणा स्थायिनो द्वितीय इति परंपरया संबन्धानुगतिसंभवादनुबन्धमामनाम । सञ्चारिभावबाहुल्येऽप्यमुमेव परे जगुः । स बक्ष्यमाणो निष्पत्तेर्भेद एवेति मे मतम् ॥ ५.१७ ॥ यथा काचित्कुरङ्गनयना नयनाभिरामा श्रीसिङ्गभूमिरमणं रमणी निरीक्ष्य । आलोकते प्रतिदिशं कुस्ते स्वनिन्दा- मालंबते करतलेन कपोलपातिम् ॥ ५.*७ ॥ अत्र परितो विलोकनेन शङ्का । स्वनिन्दोपालंभनेन लावण्यगतिर्निर्वेदः । कपोलकरतलसंसर्गेण चिन्ता च प्रतीयते । अत्रानुभावसंसर्गाभावेऽपि रतेरनुभावोत्पादेनानुबन्धदशायामिव संचारिभावबाहुल्यदशायां वासनावासन्तिकादिभिरुद्दीपिताया इव पाटवविशेषजन्यत्वाद्रसस्य चतुरश्रतयाप्रतिभानाच्च निवृत्तिरेवेयं नानुबन्धमात्रमिति सुलभम् । योगाद्विभावानुभावसाच्विकव्यभिचारिणाम् । चतुरश्रा रसश्रीर्या निष्पत्तिरिति गीयते ॥ ५.१८ ॥ यथा दृष्ट्वा सिङ्गविभुं गुणैकवसतिं काचित्कुरङ्गेक्षणा स्विन्नाङ्गी मधुरस्मिता पुलकवत्यारेचितभ्रूलता । धत्तेवेपथुमाकुलां कलयते साचीकरोत्याननं पाणिभ्यां विदधाति गण्डयुगलीमालिङ्गति स्वां सखीम् ॥ ५.*८ ॥ अत्र नायकगोचरा नायिकारतिस्तत्सान्निध्यादिना दीप्यमाना स्मितभ्रूलतारेचनलक्षणाभ्यां शरीरारंभानुभावाभ्यां स्वेदपुलकवेपथुलक्षणैस्सात्विकैराकुलीभावमुखसाचीकरणकपोलपिधानसखीसमालिङ्गनानुमितैः साध्वसलज्जावहित्थाचापललक्षणैः संचारिभावैः संस्कृतेतीयं रतिरूपेण रसस्य निष्पत्तिः । विषयाश्रयसंस्कारगुणप्रकृतिपाटवैः । दीपानातिशयाच्चास्य प्रकर्षः पुष्टिरिष्यते ॥ ५.१९ ॥ यथा अव्याजस्पृहणीयमञ्चति परां कान्तिं सखीनां पुरः श्रीसिङ्गक्षितिनायकेन सुतनोरङ्गं समालिङ्गतम् । स्वाज्ञानिर्वहणेन निर्वृतमनास्तत्कालमीलद्दृशे यस्मै पुष्पशरासनः स्वसुकृतैः कल्याणमाशंसते ॥ ५.*९ ॥ अत्र रूपयौवनविशेषशीलादिगुणसंपन्नां नायिकामुद्दिश्य समुत्पन्ना धीरललितप्रकृते राश्रयभूतस्य नायकस्य रतिः परिचयोपचितेन संस्कारपाटवेन परिबोध्यमाना स्वभावसुन्दरतदङ्ग सन्निवेशरामणीयकविभावनोद्दीपनातिशयेन दीप्यमाना सखीनां समक्षमन्यालिङ्गनलक्षणशरीरारंभानुभावानुमीयमानां लज्जात्यागलक्षणां सप्तमीं रसावस्थामध्यास्ते । किञ्च समग्रात्मगुण संपदा नायकमुद्दिश्य समुत्पन्ना स्थिरानुरागसरसप्रकृतेः नायिकाया रतिः परिचयानुकूल्याब्यामुत्कटेन वासना पाटवेन प्रबोध्यमाना प्रकृष्टप्रेमप्रियतमालिङ्गनदीपनातिशयेनोद्दीप्यमानां नयननिमीलनानुभावानुमीयमानां नवमीं प्रेमपुष्टिमवस्था मधितिष्ठतीति सेयं रसपुष्टिः ॥ प्रेमपुष्टेरे वावस्थादशकं सिङ्गभूपालीये (निदर्शकं)निदर्शितं हि ॥ ५.२० ॥ अभिलाषचिन्तनानुस्मृतिगुणसंकीर्तनोद्वेगाः । सविलासा उन्मादव्याधी जडता मृतिश्च दशधा ताः ॥ ५.२१ ॥ क्रमशो दर्शयति । ननु तत्र पूर्वानुरागाख्यविप्रलंभजन्यतया तदिदं दशादशकं (प्रदर्शकं) प्रदर्शितम् । अत्र तु संभोगेन कथं निरूप्यत इति चेदुच्यते । विप्रलंभे प्रायेण कविभिरेतदापोषितमित्यभिप्रायेण । न तु संभोगे तन्निषेधायेति वेदितव्यम् । समकालबलोत्पत्तिहेतौ भावान्तरे सति । यस्तेन तस्य संसर्गः स सङ्कर इतीरितः ॥ ५.२२ ॥ यथा दृष्टे दृष्टे सिङ्गभूपे तत्पूर्वागसि वल्लभे । आश्वर्यरोषस्नेहानां मज्जत्यूर्मिषु मानिमी ॥ ५.*१० ॥ अत्र विस्मयरोषस्नेहा यथोचितं तत्पूर्वापराधतया दृष्टतया वल्लभतया भक्तिजनितास्तत्तदाश्रितविशेषविभावनोद्दीप्यमानाः परमपरिपोषलक्षणकथास्वभाववाच्कशब्दप्रयोगशक्त्या यथोचितं सूचितैरनिमेषाधरस्फुरणनीवीबन्धविस्रंसनादिभिरनुभावैः स्तम्भवैवर्ण्यरोमाञ्चादिभिस्साच्विकैरनुवद्धा ऊर्मिपदद्योतितैर्वितर्तहर्षादिव्यभिचारिभि स्तरङ्गितास्तुल्यकालबलोत्पत्तिहेतुतया संकीर्णाश्च रससङ्करप्रतीतिमङ्कुरयन्तीति रससङ्करोक्तिरियम् । आरूढस्य परां काष्ठां येन केनापि हेतुना । रसस्यापचयो यस्य तं ह्रासं कवयो विदुः ॥ ५.२३ ॥ यथा श्वासो येन यया च भाषणविधौ व्यालोकने पक्ष्मणां व्यापारः परिरंभणे मलयजं प्रत्यूह इत्यूह्यते । तामापृच्छति राजशैलगतये पाण्ङ्यस्स तस्मै च सा सेवारीतिमुपादिशन्त्यनुसमाचारेण चक्रे नतिम् ॥ ५.*११ ॥ अत्र प्रतिविरोधिनां निःश्वासादीनां भाषणादिसंभोगप्रत्यूहत्वाभिमानलक्षणेन चित्तारम्भानुभावेन कृतप्रतीतेरुद्वेगलक्षणायाः पाण्ड्यतदवरोधयोः प्रेमपुष्टेरपचयो राज्यध्वंसवनवासादिपरिक्लेश हेतुको भवति । एकत्र नायकसेवार्थं राजगिरिगमनायामन्त्रणेन वागारम्भणेनान्यत्र सेवाप्रकारोपदेशसमाचारनतिभ्यां वाक्कायसंरंभानुभावाभ्यां प्रतीयत इति सेयं रसह्रासोक्तिः । आलम्बनस्यानौचित्याद्भवन्नपि परिस्फुलन् । रसवद्धासते किञ्चिदयमाभास ईरितः ॥ ५.२४ ॥ तत्र शृङ्गाराभासश्चतुर्धा ईरितः । एकत्र रागस्याभावादनेकत्र वैषम्येण संभवात्तिर्यगालंबनत्वान्म्लेच्छालंबनत्वाच्च । अत्र रागासंभवस्त्रिधा--प्रागभावात्, प्रध्वंसाभावादत्यन्ताभावाच्च । अत्र रागप्रागभावविषये नाभासता । दर्शनादिसामग्रीसंभवे रागोत्पत्तेः संभाव्यमानत्वादितरयोस्त्वाभासतैव । रागात्यन्ताभावे यथा व्यर्थत्वं गमिता कटाक्षसरणिः साकूतमन्दस्मिता व्यङ्ग्योक्तिर्वितथा वृथा विरचितस्तादृक्प्रणामाञ्जलिः । नेच्छत्यन्यपरिग्रहं किल वधूं रेचर्लवंशाग्रणीः सख्यस्त्वं च सुहुर्मुहुः स्मरत मां सोऽयं हि सत्यव्रतः ॥ ५.*१२ ॥ अत्र मुहुर्महुरात्मस्मरण प्रार्थनालक्षणां सखीजनामन्त्रणवागारंभानुभावानुमितां तनुत्यागोद्योगलक्षणां परां पुष्टिमधितिष्ठन् परकीयायाः नायिकाया अनुरागो विषयभूते नायकरत्ने परस्त्री विषयरागात्यन्ताभावादेकतः खण्डितोऽपि शृङ्गारमिवाभासयतीति सोऽयं रसाभासोक्तिः । एवमन्यदप्युदाहार्यम् । प्रबलोषूपजातेषु प्रतिकूलेषु हेतुषु । रसप्रभूतेरामूलं मीलनं शम ईरितः ॥ ५.२५ ॥ यथा सिङ्गक्षोणिभुजः कलिङ्गकुभुजे क्रुद्धस्य तस्मिन् क्षणे दत्तां तत्तनयामुपायनतया लोकोत्तमां पश्यतः । व्यावृत्ता धनुषः कटाक्षसरणिस्तद्भ्रूलतालोकिनी दृक्कोणं परिहृत्य रागमहिमा चिते परं चेष्टते ॥ ५.*१३ ॥ अत्र पूर्वमारूढोऽपि कलिङ्गनरपालगोचरो नायकस्य क्रोधो बलवता समुचितोपायनसमर्पणजनितप्रसादोपबृहितेन कलिङ्गराजकन्यकागोचरेण प्रेम्णा निरवशेषमुपशाम्यत इति सेयं रसशमोक्तिः । रसस्य वासनास्थैर्यादाश्यप्रकृतेरुत । प्रलीनस्यापि यो गन्धः स शेष इति गीयते ॥ ५.२६ ॥ यथा श्यामायाः कुचमण्डले न परयोर्णत्तेभकुम्भद्वये दृष्टिं रागतरङ्गितां विदधता श्रीसिङ्गभूमीभुजा । दाक्षिण्यव्रतभ्हगभीरुमनसा देवेन वामभ्रुवा- मन्यासामपि सा तथैव कृतिना नेत्रक्रिया नाप्यसौ ॥ ५.*१४ ॥ अत्र धीरललितप्रकृतेर्नायकस्य श्यामागोचरेण बलवता प्रेम्णा प्रलीनतामानीतस्यापि तदितरनायिकागोचरस्य प्रेम्णो विशेषः कटाक्षप्रदान दाक्षिण्येन प्रतिभातत इति सेयं रसशेषोक्तिः । एवं हास्यादिष्वपि रसेषु स्फुरत्तादि दशोक्तिप्रकाराः स्वयमनुसन्धेयाः । विशेषादाग्रहोऽस्माकमलह्कारप्रपञ्चने । ब्रूमस्तथापि संज्ञेपात्शृङ्गारादिनिरूपणम् ॥ ५.२७ ॥ अत्र शृङ्गारो नाम चतुरस्त्रीपुंसालंबनो मनोहरपदार्थोद्दीपनो ललितभ्रूलताविक्षेपकटाक्षमन्दस्मिताद्यनुभावो निखिलसाच्विकोत्सुकत्वोग्रता लस्यजुगुप्सावहित्थादिपरिशिष्ट सञ्चारिपुष्टो रतिस्थायीभावो विप्रलंभसंभोगभेदवान् विगलित वेद्यान्तरत्वलक्षणं चेतोविकासमधितिष्ठति । अत्र विप्रलंभो यथा चान्द्रीचन्दन मारुदैश्व नितरामाकम्पितस्वान्तया सङ्गत्यामनवोतसिङ्गवृपतेरारूढवाञ्छाश्रिया । निःश्वासग्लपिताधरं परिततस्संरुद्धवाष्पोदयं तन्व्या स्निग्धसखीजने विरचिता दीना दृशोर्वृत्तयः ॥ ५.*१५ ॥ अत्र नायकगोचरा कस्याश्विन्नायिकाया रतिरभीष्टालिङ्गनाद्यप्राप्तावपि प्रकृष्यमाणा चन्द्रचन्दनमारूतै श्वकारादनुक्तसमुच्चितैः पुंस्कोकिलालापिभि स्समुद्दीप्यमाना निःश्वासादिशरीरारंभानुभावै स्सूचिता बाष्पादिसाच्विकैः प्रकाशिता तनुत्वदीनदृष्ट्याद्यानुमितैः ग्लानिश्रमविषादावेगदैन्यादिसञ्जारिभिरभिपोषिता विगलितवेद्यान्तरतया भावकचेतसि विकासो पाधिका स्फुरन्ती शृङ्गाररसतामापद्यत इति सोऽयं तथोक्तः । संभोगशृङ्गारो यथा अव्याजस्पृहणीयमञ्चति परां कान्तिं सखीनां पुरः श्रीसिङ्गभितिनायकेन सुतनोरङ्गं समालिङ्गितम् । स्वाज्ञानिर्वहणेन निर्वृतमनास्तत्कालमीलद्दृशे यस्मै पुष्पशरासनः स्वसुकृतैः कल्याणमाशंसते ॥ ५.*१६ ॥ हास्यो नाम कुब्जवामनादिसमलम्बनस्तत्स्वरूपादिभावनोद्दीपनो नयनविस्तारगण्डमण्डल विकासस्वन्धनिकुञ्चनाद्यनुभावो बाष्पस्वेदादिसाच्विको हर्षावहित्थाधृतिप्रमुखसञ्जारीहास्यस्थायीभावः स्मितविहसितादि भेदवान् विकासोपाधिरेव विलसति । यथा स्त्रीपुंसौ गडुरावुपायनकृतौ द्वीपान्तराधीश्वरैरीक्षित्वा विकसत्कपोलमधिपो लीलाब्जमाजिघ्रति । राजाद्रेस्सचिवा हसन्ति विकसन्नेत्रं विभुग्वांसकं संपीड्यापहसन्ति पार्श्वयुगलीं बाष्पाविलाक्षं जनाः ॥ ५.*१७ ॥ अत्र कुब्जमिथुनविषयो नायकादिसमाश्रय हासः तदीयस्त्रीपुंसव्यापाराभासभावनोद्दीपितः कपोलविकासादिना शरीरारंभानुभावेन सूचितो लीलारविन्दसमाघ्राणाद्यनुमितेनावहित्थालक्षणसञ्चारिणा परिपुष्टो मनोविकासमधितिष्ठतीति सोऽयं हास्यः । वीरो नाम प्रकृष्टप्रकृतिनायकाश्रयो लोकोत्तरवस्तुविषयस्तादृशपुरावृत्तपुरुषकारानुबन्धासह सहजसच्वादिसमुद्दीपनविभावो मुखप्रसादवाहुस्फुरणकृपाणनिरीक्षणप्रमुखानुभावो रोमाञ्चवेपथुप्रभृतिसाच्विको हर्षासूयामर्षमतिधृतिप्रमुखसञ्चारिभावकल्पितश्रीरुत्साहस्थायीभावश्चेतसो विस्तारमधितिष्ठति । यथा रामस्य श्रुतसिन्धुबन्धनविधिः बाहू निजौ वीक्षते प्रीतिं नैति दिगन्तराजविजये द्वीपान्तराणां श्रुतेः । न श्लाघां बहुमन्यते वितरणे देवेष्वसंप्रार्थिषु श्रीसिङ्गक्षितिनाथमण्डनमणी रेचर्लवंशाग्रणीः ॥ ५.*१८ ॥ अत्र नायकोत्तमाश्रयो लोकोत्तरत्वप्राप्तिविषय उत्साहो रामभद्रापदान श्रवणादिनोद्दीपितो राजबाहुनिरीक्षणलक्षितरामभद्रविषयस्पर्धाविशेषात्जम्बूद्वीपराजविषयानादराच्च प्रकाशितेनाधिकस्पदां निवारयेति लक्षणवता शोभानाम्ना पौरुषसाच्विकेन द्वीपान्तरजयाशंसालक्षणेन चित्तारंभानुभावेन चाभिव्यक्तोऽसूयाधृतिमतिगर्वादिभिरुपचितो मनोविस्तारमधितिष्ठतीति सोऽयं युद्धवीरः । तथा च तत्रैव दानवीरोऽपि देवताकर्तृकार्थित्वाकाङक्षालक्षणेन चित्तारम्भानुभावेनाभिव्यक्तो देवतालभ्यवस्तुविशेषवितरणकण्डूलतालक्षणं परमोत्कर्षमारोहति । अद्भुतनामा लोकोत्तरदर्शनादिविभावो नयननैश्वल्यशिरोधूननछोटिकासाधुवादाद्यनुभावः पुलकादिसाच्विको हर्षचापल्य धृतिमतिप्रमुखसञ्चारिभावो विस्मयस्थायीबावश्वित्तविस्तारमेवाधितिष्ठति । यथा श्रुत्वा संसदि सिङ्गभूपचरितं दत्तं हविस्तदद्विजैरादातुं भुवमागतैः प्रतिगतैराख्यातमिन्द्रादिभिः । अन्योन्यं किल साधुसाध्विति कृतालापा दिलीपादयः प्रान्तस्फारविलोकिता पुलकिता मूर्धानमाधुन्वते ॥ ५.*१९ ॥ अत्र कलिकालोऽपि धर्णप्रतिष्ठापनादिनायकपुण्यचरितविषयो दिलीपादिपुरातनमहाराजसमाश्रयो विस्मयो महेन्द्रादिसमादरणोदाहरणाभ्यामुद्दीपितो नयनस्तैमित्या द्यनुभावानुमितः पुलकसाच्विकेन विशेषतः प्रकाशितः साधुवादशिरः कम्पानुमितैर्हर्षचापलादिभिरभिपुष्टश्वित्तविस्तारलक्षणमुपाधिमुपातिष्ठत इति सोऽयमद्भुतरसः । रौद्रो नाम क्रूरजनसमाश्रयो । अपराधिविषयः तदपकारस्मरणप्रमुकोद्दीपनो भ्रूभङ्गदन्तघट्टनरूक्षेक्षणाद्यनुभावः स्वेदवेपथुप्रमुखसाच्विकोऽमर्षाभ्यसूया चापलोग्रतादिसञ्चारिभावप्रपञ्चितः क्रोधस्थायीभावः चित्तविक्षोभलक्षणमुपाधिमनुसंधत्ते । यथा चक्षुर्विक्षेपलक्षस्फुरितपरिपतत्क्रोधर्वांह्नस्फुलिङ्गं भ्रूभङ्गोद्भेदभीमं कटु रटति रटद्दन्तदष्टा धरोष्ठम् । दुर्वाराखर्वगर्वज्वरभरघटित स्वेदमाधूतगात्रं भिन्ते श्रीसिङ्गभूपप्रतिभटपटलं निष्कृपस्ते कृपाणः ॥ ५.*२० ॥ अत्र प्रतिभटसमाश्रयो नायकगोचरः क्रोधस्थायी देशाक्रमणबन्धुवधबन्धनादिभिरुद्दीप्यमानो भ्रूभङ्गदन्तकर्षणौष्ठ संदंशनादिभिरभिलक्षितः स्वेदवेपथुभ्यां सात्त्विकाभ्यां प्रकाशमानस्तदुपलक्षितैरेव गर्वामर्षचापलोग्रतामर्षादिभिर्व्यभिचारिभिः पुष्टो भावकानां चेतसि विक्षोभलक्षणामानन्दलहरीमुन्मुद्रयन् रौद्र इत्याख्यायते । करुणो नाम विपन्नसुहृदादिविषयः तद्गुणस्मरणाद्युद्दीपनो विलापपतनाद्यनुभावो वैवर्ण्यस्तम्भाश्रुमुखसात्त्विको निर्वेदग्लानिविषाददैन्यावेगोन्मादादिसञ्चारी शोकस्थायीभावो मनोविक्षोभलक्षणमेवोपाधिमनुसन्धत्ते । यथा एतत्तद्वदनं किमेष सभुजः सेऽयं तवोरस्स्थली हा प्राणेश हलास्मि नास्मि दलिता गाढं खलु स्त्रीमनः । इत्यादीनि रणाङ्गणेषु गणशः श्रीसिङ्गभूपद्विष- द्देवीनां परिदेवितानि करुणां श्रण्वन्ति भूतान्यपि ॥ ५.*२१ ॥ अत्र नायकशत्रुकुलबालिकाश्रयो विपन्नवल्लभविषयः शोकस्थायी खण्डीकृतः ततस्ततो विपर्यस्ततदवयवप्रत्यभिज्ञादिभिरुद्दीप्यमानः तदेतदितिवागारम्भमव्यभिचरता निर्देशलक्षणेन हस्तारम्भानुभावेन सूचितः तदनुसरणपरिणतिरवश्यं भाविनाश्रुपातवैवर्ण्यादिना सात्त्विकसमुदयेन प्रकाशितः तत्तदुचितहाप्राणेशादिवागारम्भानुमितैर्दैन्यविषादनिर्वेदमतिभिःव्यभिचारिभिरादिपदद्योतित परिदेवितविशेषोपकल्पितैः ग्लानिश्रमशङ्गाचापलोन्मादादिभिरन्यैश्व परिपोषितो नीरसतया स्थाणुप्रायाणामपि भूतबेतालात्मकादीनाम प्यनुकम्पातिशयसम्पादकतया भावुकचेतसि विक्षोभपुष्टि मधितिष्ठन् करुण इत्याख्यायते । बीभत्सो नाम हेयवस्तुविषयः तद्दोषदर्शनादिभिरुद्दीपितो नासाग्रपिधानमुखकूणननेत्रसंकोचना द्यनुभावो वैवर्ण्यादिसात्त्विको निर्वेदावेगचापलव्रीडादिव्यभिचारी जुगुप्सास्थायीभावो विदग्धभावकचेतसि विक्षेपलक्षणामानन्दभूमिकामालंबते । यथा अंहश्शेषैरिव परिवृतो मक्षिकामण्डलीभिः पूयक्लिन्नं व्रणमभिमृशन् वाससः खण्डकेन । रथ्याप्रान्ते द्रुतमपसृतं संकुचन्नेत्रकोणं छन्नघ्राणं रचयति जनं दद्रुरोगी दरिद्रः ॥ ५.*२२ ॥ अत्र नायकशत्रुदद्रुरोगिविषया जनाश्रया जुगुप्सा व्रणामर्शना दिभिरुद्दीपिता नेत्रसंकोचनादिभिरभिव्यक्ता परापसरणानुमितैरावेगचापलादिभिःपोषिता भावक चेतसि विक्षेपलक्षणमुपाधिमादधाना बीभत्स इत्याख्यायते । भयानको नाम भीषणवस्तुविषयो मुखशोषतालुपुटलेहननीचैर्गमनाद्यनुभावो, अश्रुवर्जित सात्त्विको विषादशङ्कात्रासावेगदैन्यजडता ग्लानिश्रमचिन्तापस्मारादिसंचारिभावो भयस्थायीभावश्चित्तविक्षेपलक्षणामेव भूमिकामालम्बते । यथा श्रीसिङ्गक्षितिनायकस्य रिपवो धाटीश्रुतेराकुलाः शुष्यत्तालुपुटं स्खलत्पदतलं व्यालोकयन्तो दिशः । धावित्वा कथमप्युपेत्य तमसा गाढोपगूढां गुहामन्विष्यन्ति तदन्तरेऽपि करसंस्पर्शेन गर्तान्तरम् ॥ ५.*२३ ॥ अत्र क्रियाक्रूरनायकनासीरभटविषयः शत्रुसमाश्रयः स्थायीभावो धाटीश्रवणोद्दीपितो धावनगुहाप्रवेशगर्तान्तरान्वेषणादिभि रनुभावैरभिव्यक्तो व्याकुलत्वतालुशोषण पदस्खलनाद्यनुमितैरावेगशङ्कात्रासादिभिर्व्यभिचारिभिरभिपुष्टो भावकचेतसि विक्षेपलक्षणां भूमिकां बिभ्राणो भयानक इत्याख्यायते । सेयमखिलोऽपि रसपुरुषार्थो जननसाहस्रसंपादितसाहित्यदेवतापदारविन्दयुगलोपासनाजनितवासनाप्रौढपरिपाकभावनाविशेषसहकारिणां सहृदयानां मानसेन गोचरी कृतो येन केनचिदाकारेण भासते । ननु कोऽयमाकारो रसस्य येनायं भावकमानसैरनुभूयत इति चेत्स्वस्वानुभवैकवेदनीये तस्मिन्नाकारे कथमस्मादृशां वाचोव्यापार मात्मीयमापूरयेयुः । न हि क्षीरसागरमागलं पिबन्नपि तं माधुरीविशेषमिदंतया निर्देष्टुं ब्रह्मापि शक्नोति । किन्तु विगलितवेद्यान्तरत्वमिति वचनपरिपाटीं मनसि मुहुरावर्तयता भावनासिद्धिपर्यन्तं संतोष्टव्यमायुष्मता । ननु आकाशापूपिकान्यायादसौ रस इति स्फुटम् । आमीलितदृशां पुंसां सेयं भावक भूमिका ॥ ५.२८ ॥ मानाधीना मेयसिद्धिः सर्वसिद्धान्तसम्मता । असत्यो रसवादोऽयं रसवाद इतः परम् ॥ ५.२९ ॥ न प्रत्यक्षेण लक्ष्योऽयं नानुमानेन मान्यते । न चागमेन सुगमो नोपमानेन मानितः ॥ ५.३० ॥ समर्थितो नार्थापत्त्या नाभावेन च ........ । ................ संभाव्यो नैतिह्येन च लिह्यते ॥ ५.३१ ॥ इति चेदुच्यते स्वानुभूतिविलसनमेव रसस्य सद्भावे प्रमाममिति परमं रहस्यम् । तदेतदनुपदमेव प्रदर्शितम् । अन्या पुनरियं वागाडंबरविडंबना विविधचर्चाविनोदकंडूलधिषणाप्रकांडानां वादिनां मुदे विलिख्यते । तथाहि । ननु प्रत्यक्षी भवन्नसौ निर्विकल्पकेनावभासते सविकल्पकेन वा । नाद्यः । वस्तुस्वरूप मात्रावभासकस्वबावत्वान्निर्विकल्पकस्य रसस्य भुवि भावदिविशेषानुसंधानपूर्वकप्रतीतिस्वभावत्वात् । निर्विकल्पकपूर्वत्वात्सविकल्पकस्येति चेत्श्रूयताम् । सविकल्पकेनेति ब्रूमः । सविकल्पकस्य निर्विकल्पकपूर्वकत्वाभिधानमविजारितरमणीयमेव । निर्विशिष्टविषयानुल्लेखिनो ज्ञानस्यैवासंभवात् । तथा च शेषावतारविशेषस्य भगवतः पतञ्जलेरभिप्रायं प्रकटयता व्याहृतं हरियोगिना । न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ॥ ५.३२ ॥ इति अनुमानमपि सामान्यतो दृष्टं रसावभासकतयात्मनि बहुमानमाकल्यति । अमी सामाजिका रसानुभववन्तः । ये ये विवक्षितचेष्टाविशिष्टास्ते ते रसानुभववन्तः । यथा तत्त्वसाक्षात्कारानुभवितारः । तथा चेमे चेष्टाविशिष्टाः । तस्मात्रसानुभववन्त एवेति । न च दृष्टान्ते साधनवैकल्यमाशङ्कनीयम् । समाधिवेलायामानन्ते बाष्पादिव्यतिकरप्रसिद्धेः । तथा महिम्रस्तवे "मनः प्रत्यक्चित्ते सविधमवधायास्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गित दृशः । यदालोक्याह्लादह्रद इव निमज्ज्यामृतमये दधत्यन्तस्तत्त्वं कमपि यमिनस्तत्किल भवान्" ॥ ५.*२४ ॥ इति आगमाः पुन रनेकसिद्धान्तरहस्ये साक्षात्कारिणां यथादृष्टवादिनां पुराणकवीनामलङ्कारसंहिताः । तत्र च रस एव सर्वोत्तरतया प्रतिपाद्यते । गोसदृशो गवय इतिवत्तत्त्वसाक्षात्कारसदृशो रस इत्युपमानमपि रससद्भावायानुभावनादात्मसत्तासाफल्यमनुसंधत्ते । अर्थापत्तिरपि निरापत्तिकं समर्थयते रससद्भावम् । यथा दिवा न भुञ्जानस्य देवदत्तस्य पीनत्वानुपपत्त्या कल्पिता नक्तंभुक्तिः । एवं विभावानुभावादेरनुपपत्त्या रस इति । ननु रसाप्रतीतावपि स्वयमेव क्वचिदास्वाद्यतया स्वतन्द्राणां भावादीनां कानुपपत्तिरिति चेत्कदाचित्कोऽपि विभावादिषु स्वतन्त्रव्यवहार उपचारमात्रेण राजपुरुषेषु राजव्यवहारवदिति संभववस्तुसंख्याविषयतया रसमहाराजलक्ष्मीमनालक्षयन्निजदौर्भाग्यमाविर्भावयति । ऐतिह्यमपि निदर्शितप्रमाणसंवादिना बाह्यं, नैव रसनिरूपणे संबाधमवलम्बते । तदित्थमखिलप्रमाणसंसिद्धे रससुधानिष्यन्दे सुमनोभिरनुभूयमाने योग्यानुपलब्धिलक्षणमभावप्रमाणं रसावमानैक दुराग्रहाणां विपरीतसाक्षराणां मनसि वैदग्ध्याभावमेकोऽपि भासयति । तथा चोक्तमस्मदाचार्यैः काशीश्वरमिश्रैः रसमीमांसायाम् "रसलक्ष्मीमनादृत्य वागाडम्बर तोरणम् । पुण्ड्रेक्षो रसविद्वेषादृजीषानुभवो यथा" ॥ ५.३३ ॥ प्रमाणलक्षणादिक मन्यतोऽवगन्तव्यम् । कवयो लोकसिद्धान्तसिद्धार्थव्यवहारिणः । अत्रैव हि चमत्कारसाक्षात्का रैकसाक्षिणः ॥ ५.३४ ॥ अनुक्तानामिहान्येषां लक्ष्यलक्षणविस्तरः । सिङ्गभूपालरचिते रसार्णावसुधाकरे ॥ ५.३५ ॥ आदिद्वितीययोः साधु शीलनीया विलासयोः । अन्यत्रबद्धदृष्टित्वादस्माभिर्न प्रपञ्चितः ॥ ५.३६ ॥ न हि सर्वत्र सर्वेषां विशेषाणां प्रदर्शनम् । अतिविस्तरदोषेण ग्रन्थोच्छेदप्रसङ्गतः ॥ ५.३७ ॥ दिङ्मात्रमेव शास्त्रेषु धीमतामुपदिश्यते । खयमेवावभासन्ते विशेषाः परिशीलनात् ॥ ५.३८ ॥ इति सकलमपि कल्याणम् । इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासार शीतलायां चमत्कारचन्द्रिकाया- मलङ्कृतौ रसविवेको नाम पञ्चमो विलासः ॥ ______________________________________________________________________________ षष्ठो विलासः । चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता अलङ्कारविलासः । एकदेशगतास्सर्वं शरीरं कटकादिवत् । अलङ्कुर्वन्ति ये काव्यं तेऽलङ्कारतया मताः ॥ ६.१ ॥ त्रैविध्यं कथितं तेषां शब्दार्थोभयसंभयात् । अत्र शब्दगताः प्राज्ञैरेकादश समीरिताः ॥ ६.२ ॥ छाया मुद्रा युक्तिः श्लेषानुप्रासगुम्भनाश्चित्रम् । यमकं वाकोवाक्यं गूढं प्रश्नोत्तरं चेति ॥ ६.३ ॥ अन्योक्तीनामनुकृतिः छाया सेयमुदाहृता । त्रेधा नागरिकग्राम्यसामान्योक्त्यनुसारतः ॥ ६.४ ॥ तत्र नागरिकोक्तिछाया यथा सिक्तोऽपि सिङ्गभूपालकल्याणोक्तिसुधारसैः । यो न पल्लवितस्तस्मै जङ्गमस्थाणवे नमः ॥ ६.*१ ॥ अत्र जङ्गमस्थाणवे नम इति सोल्लुण्ठने नमःशब्दं वदतां विदग्धानामुक्तेरनुकृतिः छाया । ग्राम्योक्तिच्छाया यथा सखि सिङ्गनृपतिपदयुगशरणागतराजवेभवं पश्य । सुन्दरि किमिदं चित्रं राज्ञि भुजङ्गेऽपि काचवलयः किम् ॥ ६.*२ ॥ अत्र तुरीयपाद आश्रयविशेषेणाब्युदयविशेषं वदतां ग्राम्याणामुक्तेरनुकृतिः छाया । सामान्योक्तिच्छाया यथा कोऽयं वाञ्छितमर्थिनां वितनुते नन्वेष चिन्तामणिः सग्रावा किल किन्तु नैव हि पुमान् हासेन किं भूयसा । सोऽयं श्री अनवोतसिङ्गनृपतिः कस्मादिदं ज्ञायते रत्नोल्लासिनि कङ्ब्त्णे करतले किं दर्पणापेक्षया ॥ ६.*३ ॥ अत्र तुरीयपादे प्रत्यक्षसिद्धे वस्तुनि किमन्यापेक्षयेत्यस्मिन्नर्थे करकङ्कणदर्शने किमादर्शविम्बेनेति सर्वजनसाधारणोक्तेरनुकरणादियं सामान्योक्तिच्छाया । साभिप्रायस्य वाक्ये यद्वचसोऽभिनिवेशनम् । मुद्रां तां मुत्प्रदायित्वात्काव्यमुद्राविदो विदुः ॥ ६.५ ॥ सेयं द्वेधा बुधैरुक्ता पदेन वचनेन च ॥ ६.६ ॥ पदमुद्रा यथा अस्मत्कल्पलातादलानि गिलति त्वत्कामगौर्वार्यतां मच्चिन्तामणिवेदिभिः परिणमेद्दूरान्ननयोच्चैर्गजम् । इत्यारूढवितर्दिकाः प्रतिपदं जल्पन्ति भूदेवताः सिङ्गक्ष्माभुजि कल्पवृक्षसुरभीहस्त्यादिदानोद्यते ॥ ६.*४ ॥ अत्र कल्पलतादीनां देवतायोग्यत्वात्सद्ब्राह्नणा इत्यादिपदतोऽपि भूदेवता इति पदस्याभिजातत्वमितीयं पदमुद्रा । वचनमुद्रा यथा भो चिन्दामणिवेदिकापरिसरे सन्तानसन्तानक- च्छायायां सुरभीपयोधरपयोधाराभिराराधिताः । मा गर्वीयत देवता वयममी दृष्टाःस्म आविस्मितैः श्रीसिङ्गक्षितिनायकस्य करुणारङ्गैरपाङ्गैः स्फुटम् ॥ ६.*५ ॥ अत्र देवतासाम्यबहुवचनाभिप्रायणात्मनि वक्त्रा वयमिति बहुवचनं प्रयुक्तमितीयं वचनमुद्रा । आयुज्यमानस्य मिथः शब्दर्य प्रकृतोचितम् । योजना क्रियते यासौ युक्तिरित्युच्यते बुधैः ॥ ६.७ ॥ तत्रायुज्यमानपदयोजना यथा शम्भोस्स्थिता भूषणपेटिकायां श्रियः सपत्नीमभितः स्फुरन्ती । विष्णोः पदं मध्यममाविशन्ती विराजते सिङ्गनृपालकीर्तिः ॥ ६.*६ ॥ अत्र पातालमित्यादि प्रकृतार्थे शम्भुभूषणपेटिकादि पदानामक्लेशयोगपरंपरया योजना कृतेति पदयुक्तिरियम् । एवं वाक्यप्रकरणप्रबन्धविशेषाणामप्युदाहारणानि द्रष्टव्यानि । एकरूपेण वाक्येन द्वयोर्भणनमर्थयोः । तन्त्रेण यत्र हि श्लेषः सोऽयं नैकविधो मतः ॥ ६.८ ॥ प्रकृतिप्रत्ययपदविभक्तिवचनादिभिः ॥ ६.९ ॥ तत्र प्रकृतिश्लेषो यथा कल्याणदस्त्वदीयोयं नतः श्रीसिङ्गभूपते । अर्थसारविदां लोके विदुषां विद्विषामपि ॥ ६.*७ ॥ अत्र कल्याणद इत्यत्र ददातिददत्योः सारविदामित्यत्र वेत्तिविदन्त्योश्च प्रकृत्योः श्लेषः । करोति सिङ्गभूपाल करस्ते विदुषां मुदम् । कर्ता वैरिविपत्तीनां संपदं सुहृदां स्फुटम् ॥ ६.*८ ॥ तत्र कर्तेति पदे तृच्प्रत्ययतृन्प्रत्यययोः श्लेषः । वैरिविपत्तीनां कर्तेति तृच्प्रत्ययः । संपदंकर्तेति तृन्प्रत्ययः । अन्यथा कृद्योगषष्ठ्यावश्यंभावित्वात्तदुभयविभक्तिसंबंधाय प्रत्ययद्वयस्य विवक्षितत्वात्तथोक्तोऽयम् । पदश्लेषो यथा हरिश्चन्द्रो रक्षाकरणरुचिसत्येषु वचसां विलासे वागीशो महति नियमे नीतिनिगमे । विजेता गाङ्गेयं जनभरण संमोहनकला- व्रतेषु श्रीसिङ्गक्षितिपतिरुदारो विजयते ॥ ६.*९ ॥ अत्र हरिश्चन्द्र इति चक्रवर्तिवाचके पदे हरिश्चन्द्रश्चन्द्रश्चेति पदयोः वागीशः वागीशश्चेति पदयोः गाङ्गेय इति भीष्म इति वाचके पदे गाङ्गोयं चेति पदयोः श्लेषः, इत्ययं पदश्लेषः । विभक्तिश्लेषो द्विधा । सजातीयो विजातीय इति । तत्राद्यो यथा स्थितो विराजिराजीववासिन्या कौस्तुभेन च । वक्षःस्थलं दधानोऽव्याद्देवः श्रीसिङ्गभूपतिम् ॥ ६.*१० ॥ अत्र वीनां पक्षिणां राट्तस्मिन् विराजीति सप्तमी । लक्ष्मीकौस्तुभाभ्यां विराजी विराजनशीलमिति द्वितीया । तेद्वे सुब्विभक्त्ती विराजीति पदे श्लिष्टेइति सजातीयविभक्तिश्लेषोऽयम् । द्वितीयो यथा कीर्तिर्विशाला द्विषतामहारि व्यतानि तद्वामदृशां च वक्षः । अभेदि तद्दुर्गमपि व्यधायि श्रीसिङ्गभूपेन निजाप्तचित्तम् ॥ ६.*११ ॥ अत्र नायकेन द्विषतां कीर्तिरहारि हृता । तेनैव रिपुस्त्रीणां वक्षः अविद्यमानहारं व्यतानीत्यत्र अतीत्येकपदे लुङि प्रथमपुरुषश्च नपुंसककर्म च द्वितीया च तिङ्सुब्विभक्त्ती श्लिष्टे इति विजातीयविभक्तिश्लेषः । एवमभेदीत्यत्रापि विज्ञेयम् । वचनश्लेषो यथा आशानां प्रभवस्सीमा श्रियां सत्त्रभुजश्शुभाः । शौरिर्देवाश्च ददतां कल्याणं सिङ्गभूभुजे ॥ ६.*१२ ॥ अत्र शौरिः नारायणो नायकाय कल्याणं ददतां वितरतु । दद दाने इति धातोरात्मनेपदिनो लोटि प्रथमपुरुषैवकचनम् । कीदृशः शौरिः । आशानां नतजनमनोरथानां प्रभव उत्पत्तिस्थानं दातेत्यर्थथः श्रियां सौभाग्यविष्ये सीमा परमावधिः । सतस्त्रायत इति सत्त्रः । तादृशो भुजो बाहुरस्येति सत्त्रभुजः । शोभना भासो दीप्तयोऽस्येति शुभाः देवपक्षे तु देवाः । कल्याणं ददतां वितरन्तु । ददतामिति डुदाञ्दाने इति धातोरात्मनेपदिनो लोटि प्रथमपुरुषबहुवचनम् । किं भूताः देवाः? आशानां दिशां प्रभवो नाथाः, श्रियां संपदां सीमा अवधयः । सत्रे भुजत इति सत्रभुजः । शोभना भाः कान्तिः येषां ते शुबा इत्युक्तमार्गेण क्रियापदे विशेषणपतं एकवचनबहुवचने श्लिष्टे इत्ययं वचनश्लेषः । आदिशब्दाद्भाषाश्लेषः यथा मेलायनाय ते राज्यमस्तु गादनसिंगन । वीराय मनसा पोररामाकाजनकेतन ॥ ६.*१३ ॥ हे गादन ! गदयति पूर्वमभिभाषयतीति गादनः । तस्य संबुद्धिः पूर्वभिभाषिन्नित्यर्थः । तादृशाय ते राज्यम् । पौररामाकाटनकेतन पौररामाणां पोरस्त्रीणां काटनकेतन मत्स्यकेतन रामामदनेत्यर्थः । हे सिगन सिङ्गभूपाल । मनसा वीराय मेलायनाय । मा च इला च मेते लक्ष्मीभूम्यौ तयोरयनं मार्गः मेलायनं तस्मै मेलायनाय लक्ष्मीभूमिनिवासस्थानायेत्यर्थः । तादृशाय ते राज्यमिति प्रजापालनसामर्थ्यरूपकर्मास्तु सर्वोत्कर्षेण भूयादिति संस्कृतभाषा प्रतीयते । मेलायनायेत्यादिपदेषु भद्रमभवद्वे त्याद्यार्थवाचिषु तद्देशभाषाविदुषामान्ध्रभाषा च प्रतीयते । तदयं भाषाश्लेषः । एवं संस्कृतप्राकृतादिभाषाश्लेषास्तु तत्र तत्र महाकविप्रबन्धेषु चित्रतरेषु स्वयमनुसंधेयाः । अनुप्रासस्तु वर्णानामावृत्तिरविदूरगा । अव्यापको व्यापकश्चेत्ययं द्वेधा समासतः ॥ ६.१० ॥ अव्यापको यथा गौडीसङ्गीतभङ्गी रहसि विलसितं कोसलीकौशलानां नेपालीगण्डपाली मृगमदमकरीं कैरलीं पानकेलीम् । लाटीपाटीरचर्चां कुसुमविरचनां कुन्तलीकुन्तलानां सिङ्गक्ष्माकान्त भिन्ते तव विजयरमास्निघ्धवेणिः कृपाणिः ॥ ६.*१४ ॥ अत्रानुप्रासस्य प्रतिवाक्यं भिन्नरूपत्वादव्यापकानुप्रासोऽयम् । यथा च जयति जगदुदारो जाल्मवृत्तातिदूरः सुजनभजनशीलः स्तुत्यसत्यानुकूलः । अभिनवसुरधेनोरन्नवोतस्य सूनुः क्षितिनुतगुणसान्द्रः सिङ्गभूपालचन्द्रः ॥ ६.*१५ ॥ अत्र पदाद्यान्तानुप्रासस्य प्रतिपादं भिन्नरूपत्वम् । व्यापकानुप्रासो यथा-नायकस्यैव वंशावल्याम् यत्र चरणसन्नाहिनी तृणचरणं निजपुराच्च निस्सरणम् । वनचरणं तच्चरणकपरिचरणं वा विरोधिनां शरणम् ॥ ६.*१६ ॥ अत्र रेफणकारयुगलस्य सर्वत्रानुवृत्तत्वाद्य्वापकानुप्रासोऽयम् । एवं वृत्तिलाटानुप्रासातयो द्रष्टव्याः । शब्दस्य प्रकृते सम्यग्घटना गुंफना मता ॥ ६.११ ॥ अत्रशब्दो द्विविधः निरर्थकोऽन्यग्रथितश्चेति तत्राद्यास्य यथा श्रीसिङ्गक्षितिपालसङ्गरजयप्रस्थापकै स्तावकैर्धाटीदुंदुविनिस्स्वनैरभिनवव्यापारिणो वैरिणः । स्वच्छायामनुधाविनीं प्रतिभटानाशङ्क्य शङ्काकुलास्त्रायध्वं बे बे बे इति प्रतिपदं जल्पन्ति धावन्ति च ॥ ६.*१७ ॥ अत्र बे इत्यादि निरर्थकशब्दस्य प्रस्तुतानुगुण्येन ग्रथनादियं निरर्थकशब्दगुंफना । अन्यग्रथितशब्दगुंफना त्रिविधा । पादगुंफना पादद्वयगुंफना पादत्रयगुंफनां चेति । तत्राद्या यथा अर्थस्य पुरुषो दास इति वक्त व्यलज्जताम् । दासो हि पुरुषस्यार्थः पश्यतः सिङ्गभूपतिम् ॥ ६.*१८ ॥ अत्राद्योक्तस्य प्रथमस्य प्रस्तुतानुगुण्येन घटितत्वादियमन्यग्रथिता पादगुंफना । द्वितीया यथा युवा युगव्यायतबाहुरंसलः कवाटवक्षाः परिणद्धकंधरः । इतीदमन्यत्र कवित्वपद्धति- र्विगाहते सिङ्गनृपे तु सार्थताम् ॥ ६.*१९ ॥ अत्र कालिदासग्रथितस्य प्रथमार्धस्य प्रस्तुतानुगुण्यानुघटनादियं पादद्वयगुंफना । तृतीया यथा सजातीयैर्विजातीयैरतिरस्कृतमूर्तिमान् । यावद्रसं वर्तमानो राजते सिङ्गभूपतिः ॥ ६.*२० ॥ अत्र पूर्वालङ्कारशास्त्रकारग्र थितस्यापि पादत्रयस्य प्रथमार्धे सपक्षैर्विपक्षैश्चानतिक्रमणीयो यावद्रसं वर्तमान इति प्रस्तुतानुगुण्येन घटनादियं पादत्रयगुफना । चित्रं तु चक्रबन्धाद्यं न सर्वकविसम्मतम् । रसोल्लासविरोधित्वाच्चित्तक्लेशैककारणम् ॥ ६.१२ ॥ चक्रबन्धो यथा सक्षमाचक्रदिशाविलासिविभुना तिग्मांशुहारिश्रिया विश्रामक्षणविश्वरङ्गवियता कल्पं यशो ज्योतिषा । विद्वत्कान्तिमवाप यः प्रविशदाविर्भूतकृत्स्नागमां मांधाता स च तद्विशेषविदुषो याति त्विषा नोपमाम् ॥ ६.*२१ ॥ अत्र नेमिमारभ्य तृतीयस्मिन्नन्तरे चमत्कारज्योत्स्नेति कृतिनाम । सप्तमे विश्वपतिकविरिति तत्कर्तृनाम । नवमे नायकनाम च प्रकटीक्रियते । आदिशब्दात्पङबन्धादयः । अत्र पद्मबन्धो यथा सा च मा क्षपितभावराक्षसा साक्षरावगतपादमारसा । सारसा दयतु सिङ्गयं रसा सारयं गजवती क्षणा च सा ॥ ६.*२२ ॥ अत्र क्षपिताः भावेन राक्षसाः क्रूरजनाः यया सा क्षपितभावराक्षसा दरिद्रीकृतक्रूरजनेत्यर्थः । साक्षरावगतपादसारसा विद्वद्ध्यातपादपद्मा मा लक्ष्मीः रसासारं भूवि श्रेष्ठं वस्तु याति प्राप्नोति इति रसासारयः । तं सिङ्गयं सिङ्गभूपालं सारसादावासपद्मादयतु भजतु । तथा गजवती स्वाधारदिग्गजवतीत्यर्थः । सा क्षमा भूमिश्च । अन्यदेवं विधमनुसन्धेयम् । यमकं त्वविनाभूतखरव्यञ्जनसंहतेः । पुनःश्रुतिर्विभिन्नार्था तनमध्यान्तादिगं त्रिधा ॥ ६.१३ ॥ आदियमकं यथा नायकस्यैव सदया सदया बुद्धिरवतारवता मम । मधुरा मधुरानाथ भवता भवतादरम् ॥ ६.*२३ ॥ अत्र चतुर्णामपि पादानामादौ प्रधमाक्षरसहितं वर्णत्रितयमान्तरतमव्यव्थानेन पुनःश्रुतमिति सर्वपादादियमकमिदम् । एवमन्येपि द्विपादादियमकदलयोर्व्यवहिताव्यवहितभेदाः स्वयमवगन्तव्याः । मध्ययमकं यथा घनयशोनयशोभितसंगरोत्सुकतमः कतमः सहते रिपुः । भवदसिं वद सिङ्गमहीपते परमया रमया भरितद्युते ॥ ६.*२४ ॥ अत्र चतुर्ष्वपि पादेषु प्रथमाक्षरं विहाय मध्याक्षरयमकमान्तरमव्य वधानेन पुनःश्रुतमिति सर्वपादमध्ययमकमिदम् । एवमन्येऽपि पूर्वपदस्य भेदा निरूपणीयाः । अन्त्ययमकं यथा यशसा सौरभवन्तं सिङ्गमहीपाल मेरुधीर भवन्तम् । सुकृतीकृतवसुदेवः सततं पायाद्वितीर्णघनवसुदेवः ॥ ६.*२५ ॥ हे मेरुधीर सिङ्गमहीपाल यशसा सौरभवन्तं यशस्सुरभिं भवन्तं सुकृतीकृतवसुदेवः स्वजन्मना कृतार्थीकृतानकदुन्दुभिः देवः श्रीकृष्णः वितीर्णघनवसु यथा तथा पायादित्यन्त्याक्षर सहितमक्षरचतुष्टयं पादद्वये पुनःश्रुतमिति द्विपादान्तयमकमिदम् । एवमन्येऽपि भेदाः स्वयमूह्याः । अवान्तरभिदास्तस्य बहवस्सन्ति दुष्कराः । मृदुमार्गविरोधित्वादस्माभिर्न प्रपञ्चिताः ॥ ६.१४ ॥ उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यमितीरितम् ॥ ६.१५ ॥ यथा रम्भे किं सखि मेनके न सुलभाः कल्पद्रुमाणां स्रजः ते स्वर्गे न हि सन्ति कुत्र धरणीभागे कुतः कारणात् । दातुः श्रीअनवोतसिङ्गनृपतेस्तैर्दत्तहस्ताङ्गुलीर्ब्रह्मा निर्मितनानतो नु धनिकाः सर्वेऽपि धात्रीसुराः ॥ ६.*२६ ॥ अत्र रम्भामेनकयोरुक्तिप्रत्युक्तयः स्पष्टाः । क्रियाकारकसंभन्धगुप्तिमद्गूढमुच्यते ॥ ६.१६ ॥ तत्र क्रियागूढं यथा कृपाणखण्डितारातिमण्डलाधीशमण्डलः । श्रीसिङ्गधरणीपाल विभवेति समृद्धताम् ॥ ६.*२७ ॥ अत्र हे विभो समृद्धतामेहीति क्रियापदस्य विभव इति सप्तम्या गोपितत्वमिति गूढक्रियापदत्वात्क्रियागूढम् । यथा च कन्दर्पकल्पनाकारं श्रीसिङ्गधरणीभुजम् । पुरमार्गे पुरन्ध्रीणां निश्चलानयनाञ्चलाः ॥ ६.*२८ ॥ अत्रापुरिति क्रियापदं पुरन्ध्रीणामिति पदेन गोपितमिति क्रियागूढम् । कारकगूढं यथा श्रीसिङ्गभूपनासीरधाटीसाध्वससंभ्रमात् । क्व दरी क्व दरीत्यद्रेः कान्तारे रटति स्फुटम् ॥ ६.*२९ ॥ अत्र रटतिक्रियायाः कर्तृकारकभूता अरेः कान्ताः कान्तार इति सप्तम्या गोपितमिति कारकगूढेषु कर्तृगूढमिदम् । एवं कर्मगूढादयो द्रष्टव्याः । संबन्धपदगूढं यथा शरानपाङ्गश्री राजन्नाभिक्रमति केवलम् । भ्रूवल्लीललितैश्चापं त्वत्सेवा सुदृशामपि ॥ ६.*३० ॥ अत्र एः कामस्येति सम्बन्धपदं ललितैर्विलासैरिति तृतीया वा (तृतीयया?) गोपितमिति संबन्धगूढमिदम् । पष्ठयाः कारकत्वाभावात्सम्भन्धगूढस्यात्र पृथङ्निर्देशः । यत्रोत्तरर्य निर्मेदः प्रश्ने प्रश्नोत्तरं हि तत् । अन्तःप्रश्र्नं बहिःप्रश्र्नमुभयप्रश्र्नं चेति तत्त्रिधा ॥ ६.१७ ॥ कमदर्पयन्मनोभूः किं नरपतिवेश्म राजते निधिमत् । कामधुरा कथय सशे त्वयैव कथितं हि सिङ्गभूपाल ॥ ६.*३१ ॥ अत्र मनोभूः कमलोभयदिति प्रश्ने कं ब्रह्माणम् । नरपतिवेश्म किंमिति प्रश्ने किन्नरपतिवेश्म, कुबेरगृहमिति । मधुरा केति प्रश्ने कामधुरा कामभार इति चोत्तराणि प्रश्नावयस्यान्तर इतीदमन्तःप्रश्नम् । प्रत्याननं राजितगण्डमध्यं सुभीषणं भैरवमस्तकं किम् । त्वया नचेदुत्तरमप्रदत्तं राजन्न जानाति भवान् भवन्तम् ॥ ६.*३२ ॥ अत्र प्रतिगण्डभैरव इत्युत्तरस्य प्रश्नवाक्यान्तरे प्रतीयमानत्वादिदञ्चान्तः प्रश्नम् । बहिः प्रश्नं यथा कीदृग्बलं देवविभो शुचेश्च सम्बोधनं त्वद्रिपुमण्डलञ्च । श्रीसिङ्गभूपाल वदोत्तराणि पूर्वोक्तवर्णभयवृद्धियोगात् ॥ ६.*३३ ॥ अत्र इन्द्रबलं सफलि शुचिसंबुद्धिः पवित्रेति त्वद्विपुमण्डलं वित्रपं वित्रसदिति वा त्रीण्युत्तराणि प्रश्नाद्बहिरेव मृग्याणि । बहिः प्रश्नमिदम् । उभयप्रश्नं यथा योगिनां भोगिनां राजन् क इष्टस्तं न वेत्ति यः । विपरीतो हरस्तेन न ज्ञातो हि सहाम्बरः ॥ ६.*३४ ॥ अत्र रहोवास इत्युत्तरस्य पूर्वभागो रहश्शब्दो विपरीतहरशब्देन प्रश्नवाक्यस्यान्तः प्रतीयते । उत्तरावयवो वास इत्ययं बहिरेव मृग्यत इति बहिरन्तःप्रश्नोत्तरस्य स्थितत्वादिदमुभयप्रश्नम् । एवं निरूपितास्साधु शब्दालङ्कारजातयः । काव्यं विभूषयेदाभिः यथान्यैर्नापहास्यते ॥ ६.१८ ॥ इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां चमत्कारचन्द्रिकायां शब्दालङ्कारविवेको नाम षष्ठो विलासः ॥ ______________________________________________________________________________ सप्तमो विलासः । चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता सप्तमो विलासः । अलमर्थानलङ्कर्तुं ये तदाश्रयशोभिनः । ये तु जात्यादयः प्राज्ञैः तेर्ऽथालङ्कारसंज्ञया ॥ ७.१ ॥ जातिर्विभावना हेतुरहेतुस्सूक्ष्ममुत्तरम् । विरोधः सम्भवोऽन्योन्यं परिवृत्तिर्निदर्शना ॥ ७.२ ॥ भेदः समाहितं भ्रान्तिः वितर्को मीलितं स्मृतिः । भावोऽनुमानार्थापत्ती इति ते विंशतिर्मताः ॥ ७.३ ॥ तत्र जातिः नानावस्थासु सिद्धानि यानि रूपाणि वस्तुनः । साक्षाद्विदधती तानि जातिरित्यभिधीयते ॥ ७.४ ॥ सेयं द्विधा निसर्गतत्कारभेदात् । आद्या यथा असकृत्परिधूलवालधीन्मुहुराकम्पितबक्त्रकन्धरान् । रिपुभूभृदुपायनीकृतान् तुरगान् पश्यति सिङ्गभूपतिः ॥ ७.*१ ॥ अत्र तुरगाणामय ... ... ... ... ... ... । तात्कालिकी यथा पूर्वाङ्गं ललितं निधाय मृदुले सिंहासनोपाश्रये पश्यन् बाणमृजूकृतं सवयसा स्मेरैरपाङ्गेक्षणैः । कुर्वन् कर्णपुटीं सुधारसमयीं वाचं परीक्षावता- मास्थान्यामनवोतसिङ्गनृपतिः पुष्णाति नेत्रोत्सवम् ॥ ७.*२ ॥ अत्र राज्ञस्तात्कालिकस्वरूपावस्थानकथनात्तात्कालिकी जातिरियम् । प्रसिद्धहेतुव्यावृच्या यत्किञ्चित्कारणान्तरम् । विभाव्यते खभावो वा विज्ञेया सा विभावना ॥ ७.५ ॥ अत्र कारणान्तरसंभावना यथा तन्वन्न भारविनतिं फणिराजमूध्र्नां कुर्वन्न धौतशुचितां हरशाटिकानाम् । बध्रन्ननम्बर वितानमजाण्डभागे श्रीसिङ्गभूप तव भाति यशोविलासः ॥ ७.*३ ॥ अत्र विनतिशुचित्ववितानानां भारधावनांशुकानि हेतुतया प्रसिद्धानि तानि निर्वर्त्य यशसो धावल्यनैर्मल्यबाहुल्यान्यन्यानि कारणानि विभाव्यन्त इतीयं कारणान्तरविभावना । स्वभावविभावना यथा अनुल्लिखिततीक्ष्णाग्रा प्रज्ञा श्रीसिङ्गभूपते । अवासितसुगन्धईनि यशांसि तव सन्ततम् ॥ ७.*४ ॥ अत्र तीक्ष्णत्वसुगन्धित्वयोर्लोके उल्लेखनवासने प्रसिद्धभूते इति निर्वर्त्य प्रज्ञायशसोः स्वभावोऽपि विभाव्यत इतीयं स्वभावविभावना । क्रियायाः कारणं हेतुः मुख्यो गौण इति द्विधा । मुख्यहेतुर्द्विधा तत्र कारकज्ञापकक्रमात् ॥ ७.६ ॥ प्रवृत्तेश्च निवृत्तेश्च प्रयुक्तेश्च त्रिधादिमः ॥ ७.७ ॥ अत्र प्रवर्तकक्रियाविशिष्टकारकहेतुर्यथा पापक्रियापटलखण्डनपण्डितानि पुण्यक्रियापुनरुदीरणपूरणानि । संपादयन्ति सततं प्रमदं जनानां श्रीसिङ्गभूपचरितानि महाद्भुतानि ॥ ७.*५ ॥ अत्र नायकचरितान्येवं भूतानि प्रचानां प्रागसतः सन्तोषस्य प्रवर्तनक्रियायामाविष्टानीति क्रियाविष्टोऽयं प्रवर्तकः कारकहेतुः । स एवानाविष्टो यथा अवितुरकृतभङ्गुं सिङ्गभूपालमौलेस्त्रिभुवनमपि सिद्धं कीर्तिकल्लोलिनीभिः । विषमविषमचक्षुर्जूटकोटीरशृङ्ग- स्खलनवलितफेनस्वर्धुनीस्पधिनीभिः ॥ ७.*६ ॥ अत्र भुवनविशदभावे कीर्तावनाविष्टां हेतौ तृतीयां प्रयोजयति । न तु कर्तरीति क्रियानाविष्टोऽयं प्रवर्तकः कारकहेतुः । निवर्तकक्रियाविष्टः कारकहेतुर्यथा प्रध्वंसाय प्रभवतितरामुग्रसङ्ग्रामरङ्ग- प्रामोदाग्रे प्रतिभटचमूचक्र दुर्विक्रमाणाम् । सिङ्गक्षोणीपतिरभिवहन् घोरदंभोलिपाली- जृम्बारम्भप्रकटनधुरा बन्धुरां खड्गधाराम् ॥ ७.*७ ॥ अत्र करवालैकसहायस्य नायकस्य प्रतिभटविक्रमध्वंसनक्रियाकर्तृत्वेनावेशादाविष्टोऽयं निवर्तकः कारकहेतुः । स एवानाविष्टो तथा श्रीसिङ्गभूपकोदण्डादत्यारूढ गुणध्वनेः । भजन्ति निर्गुणीभावं वैरस्त्रीकण्ठभूमयः ॥ ७.*८ ॥ अत्र वैरिकुलपालिकाकण्ठसूत्रनिवर्तनक्रियामनाविशन्नायककोदण्डदण्डो हेतौ पञ्चमीं प्रयोजयतीति क्रियानाविष्टोऽयं निवर्तकः कारकहेतुः । क्रियाविष्टप्रयोजकहेतुः यथा कुमारे श्रीसिङ्गे जलधिरशनां शासति मही- ममर्यादाध्वस्ताः पतनपरिणाहप्रतिभुवः । अधर्मा निर्मूला नरकपरिपाकप्रणिधयो विनष्टा दुश्चेष्टाः कलि कलुषपेशीपरिधयः ॥ ७.*९ ॥ अत्र मर्यादाध्वंसादिषु क्रियासु सप्तमीवाच्यनैमित्तिकाधिकरणकारकभावेन नायकोऽयमाविशन् प्रयोजको भवतीति यथोक्तः । स एवानाविष्टो यथा श्रीसिङ्गक्षितिनाथपार्श्वमयतामज्ञातपूर्वं हि नः तत्सेवाभ्यसनं विधेयमिति ते प्रत्यर्थिपृथ्वीभूजः । वृद्धामात्यजनानुपांशु विनयात्सिंहासने स्थापितान् संबद्धाञ्जलयो भजन्ति महिता स्तोत्रैकचित्रोक्तयः ॥ ७.*१० ॥ अत्र नीचैरवस्थानाञ्जलिबन्धनस्तोत्रकरणादिरूपायां सेवाभ्यसनक्रियायामात्मन्येवात्मनः समावेशो न संभवतीति क्रियानाविष्टोऽयमिति शब्दाबिधेयप्रयोजको नाम कारकहेतुः । द्वितीया च तृतीया च चतुर्थई सप्तमी च यम् । क्रियानाविष्टमाचष्टे लक्षको ज्ञापकश्च सः ॥ ७.८ ॥ तत्र द्वितीयावाच्यो लक्षकहेतुर्यथा श्रीसिङ्गभूपतिं प्रति शीतकरकरवालखण्डितारातिम् । सङ्गरसीमनि विविधाः कातरचेष्टा भवन्ति विमतानाम् ॥ ७.*११ ॥ अत्र क्रियानाविष्टेनैव नायकेनन विमतानां भयजनककातरचेष्टा लभ्यन्ते विशेष्यन्त इति सोऽयं लक्षणहेतुः । प्रतिना योगे द्वितीयामुत्पादयतीति द्वितीयावाच्योऽयम् । तद्वत्तृतीयावाच्यो यथा साधारणाश्रययुजे युधि बन्धुतायां पश्यन्ति राजाचलराजधान्याम् । राजानमाज्ञासहजेन पौराः प्रफुल्लसौगन्धिकशेखरेण ॥ ७.*१२ ॥ अत्र सौगन्धिकशेखरं दर्शनक्रियायामनाविशदेव राजानं ज्ञापयतीतीत्थंभावलक्षणतृतीयया वाज्योऽयं ज्ञापकहेतुः । चतुर्थी वाच्यो यथा श्रीसिङ्गधरणीपालपादसेवा पराङ्मुखः । अकाण्डे शेमुषी राज्ञां राज्यभ्रंशाय वैरिणाम् ॥ ७.*१३ ॥ अत्रोत्पातभूतया राज्ञामकाण्डतो नायकसेवापराङ्मुखीभावबुद्ध्या तेषां राज्यभ्रंशो ज्ञाप्यते । तेनायमुत्पातेन ज्ञाप्यमान इति चतुर्थ्या वाच्यो ज्ञापकहेतुः । सप्तमीवाच्यो यथा मा भूत प्रतिराजकात्प्रतिमुखाः कीर्ति विहायाधुना प्राणेभ्यः क्व नुयात धूतमतयो भोः पश्यतास्मानिति । शासत्सु स्वपताकिनी रधिकृतेष्वारूढमन्दस्मितः श्रीसिङ्गक्षितिपो रिपूनभिमुखो बध्नाति दोस्सम्पदः ॥ ७.*१४ ॥ अत्र सेनाधिपतीनां बलानुशासनक्रियया नायकस्य प्रकाशनक्रिया लक्ष्यते । हेतुर्गौण इति प्रोक्तो गौणवृत्तिव्यपाश्रयात् । वैचित्रीकारणत्वेन चित्रहेतुश्च सत्कृतः ॥ ७.९ ॥ समकालो विपर्यस्तो युक्तायुक्तावसंगतः । इति तस्य समासेन पञ्च भेदाः प्रकीर्तिताः ॥ ७.१० ॥ तत्र कार्येणैव समुत्पन्नो हेतुः समकालः । यथा श्रीसिङ्गभूपः कविताभिषङ्गो रणाङ्गणे वीरगुरुर्निषङ्गात् । बाणान् समाकर्षति शातकोणान् प्राणैररीणां समकालमेव ॥ ७.*१५ ॥ अत्र कार्यपूर्वक्षण वर्ति कारणमित्येतदुल्लङ्ध्य कारणभूतस्य बाणाकर्षणस्य तत्कार्यभूतस्य विमतप्राणाकर्षणस्य च समकालमेवोत्पत्तिकथनात्समकालो नामायं गौणहेतुः । कार्यादनन्तरमुत्पन्नो हेतुर्विपर्यस्तः । यथा पश्चान्मुञ्चति ते शङ्गः कोशं श्रीसिङ्गभूपते । कोशं मुञ्चन्ति पौरस्त्याः पुरस्तादेव भूभुजः ॥ ७.*१६ ॥ अत्र पूर्वदिक्पार्थिवभाण्डागारत्यागलक्षणस्य कार्यस्योत्पत्तेरनन्तरत्वात्कारणभूतस्य नायकखड्गमोक्षस्योत्पत्तिकथनादियं विपर्यस्तो नाम चित्रहेतुः । युक्तकार्यकारी हेतुर्युक्तः । तद्विपरीतो हेनुरयुक्तः । तौ यथा कृपाणभोगी तव सिङ्गभूपते करोत्वरिप्राणसमीरपारणाम् । भवत्प्रतापातपवैभवात्कथं विरोधिनां शोकतमिस्रमेधते ॥ ७.*१७ ॥ अत्र प्रथमार्धे यत्सर्पाणामुचितं पवनपारणकार्यं तदेव कृतमित्ययं युक्तो नाम गौणहेतुः । उत्तरार्धे तेजसो यदुक्तं तमोवर्धनं तदेवकृतमित्यत्युक्तोऽयं गौणहेतुः । अधिकरणहेतुरसङ्गतः । यथा भूभारस्तव दक्ष बाहुशिखरे मूध्र्ना नताः पार्थिवाः प्रागल्भ्यं त्वयि सिङ्गभूवर परं वीतत्रपा वैरिणः । औन्नत्यं त्वयि गर्विताः प्रतिभट व्याप्तान्तरिक्षान्तराश्चित्रं कारणमेकतः परिगतः कार्योदयस्त्वन्यतः ॥ ७.*१८ ॥ अत्र नायकगतानां भूभरणादिकारणानां प्रतिनायकगतानां नम्रत्वादिकार्याणां वैयधिकरण्येनासंबद्धत्वादसङ्गतो नामायं गौणहेतुः । इति हेतुविकल्पानां दर्शिता गतिरीदृशी । अभावहेतवोऽप्येवं खयमूह्या विचक्षणैः ॥ ७.११ ॥ वस्तुस्वभावादन्येन हेतुना वा पराहतः । नोत्पादयति यः कार्यं सोऽहेतुरिति गीयते ॥ ७.१२ ॥ वस्तुस्वभावपराहतोऽहेतुर्यथा रूक्षाहंकृतयो न सन्ति ललिते भेदं गते न भ्रुवौ दृक्कोणोऽपि न रागमेति हसितं मन्दं च नान्तर्हितम् । दृष्ट्वापि प्रतिगर्जतां क्षितिभुजां संरंभगर्भक्रिया मूर्तिर्दारुणचेष्टयाप्यविकृता श्रीसिङ्गपृथ्वीपते ॥ ७.*१९ ॥ अत्रातिसंरंभप्रतिनायकचेष्टाविकरण समर्थस्यापि सतताकार्य (?) नायक मूर्तिस्वभावप्रभावपराहता हुंकारादिकालुष्यरूपं कार्यं नोत्पादयतीति सोऽयं तथोक्तः । द्वितीयो यथा दोस्सारं समरेषु सिङ्गनृपतेः प्रायेण जानन्नपि क्ष्मापालेषु भवादृशेष्वपि चिरात्तत्पादसंसेविषु । श्रुण्वन्नाप्तजनोद्धतां गिरमपि प्राणेश धीमान् भवान् तत्सेवां न चिकीर्षतीति यदिदं तहैव दुश्चेष्टितात् ॥ ७.*२० ॥ अत्र नायकदोस्सारज्ञानादिकारणानां प्रतिनायकगिरा लक्षणकार्यकरणसामर्थ्येऽपि भवितव्यतापराहतशक्तित्वकथनात्कारणान्तरपराहतोऽयमहेतुः । निरूढे साहित्ये सरसहृदयानन्दसदने वदान्ये श्रीसिङ्गक्षितिपतिलके तिष्ठति पुरः । कृतार्थः सर्वार्थे भवति भुवि यः कश्चन न चेल्ललाटे दुर्लंघा दुरितलिपिरस्यैव महती ॥ ७.*२१ ॥ अत्र विद्यापक्षपातव्रत नायकौदार्यस्य सकलार्थि कृतार्थीकरणसामर्थ्येऽपि यत्र कुत्र चित्कार्यस्यानुत्पादकत्वे तदर्थिलालाटिक दुर्लिपिपराहतत्वकथनादन्यपराहतोऽयमहेतुः । यस्तु कारणमालेति हेतुसन्तान उच्यते । पृथक्पृथगसामर्य्थात्सोऽप्यहेतुर्मतो मम ॥ ७.१३ ॥ यथा प्राज्ञैः प्राक्तनवासनापरिकरैर्विद्वज्जवोपासनं तेनापि प्रतिभा तथा मधुरया साहित्यसाक्षात्क्रिया । तत्प्रोढीरनवोतसिङ्गनृपतेस्स्मेराः कटाभक्रमाः ते लक्ष्मीरधिकां तथा कृतधियां सिद्ध्येत्त्रिवर्गोदयः ॥ ७.*२२ ॥ अत्र विद्वज्जनोपासनादीनामुत्तरोत्तरहेतुभूतानामपि त्रिवर्गोदये पूर्वपूर्वव्यपेक्षया समुचितनामेव कारणत्वमिति पृथक्पृथगसामर्थ्यात्कारणमालाप्यहेतुरेव । सूक्ष्मं विदग्धलक्ष्यार्थो द्विधाकारेङ्गितक्रमात् ॥ ७.१४ ॥ यथा केयूररत्नमुपलालयता नृपेण यत्प्रार्थितं निजसखीजनसन्निधाने । श्यामा पयोधरयुगे परमादरेण तस्योत्तरं कृतवती पुलकप्ररोहान् ॥ ७.*२३ ॥ अत्र केयूरनायकरत्नसंक्रान्तनायिकाप्रतिबिम्बपयोधरोपलालनकरणमिङ्गितम् । तेन नायकस्य मनोरथो विदग्धया नायिकया लक्ष्यते स्म । नायिकायाश्च रोमाञ्च आकारः । तेनाङ्गीकरणरूपा स्वाभिलषितचिकीर्षा नायिकाया विदग्धेन नायकेन ज्ञायत इतीदमुभयविधं सूक्षमम् । तदुत्तरं महोत्कर्षो योऽर्थानामुत्तरोत्तरम् ॥ ७.१५ ॥ यथा जम्बूद्वीपे लसति नितरामन्ध्रदेशो विशेषः श्रेयस्तस्मिन् भवति नगरं राजशैलाभिधानम् । तत्रोत्कर्षं कलयति सभा सिङ्गभूपालमौले- स्सारात्सारं वचनरचनं तत्र तस्यापि राज्ञः ॥ ७.*२४ ॥ अत्र आन्ध्रदेशादीनामुत्तरोत्तरक्रमेण सारत्वाभिधानादुत्तरमिदम् ॥ विरोधक्तु पदार्थानां परस्परमसंहतिः । असङ्गतप्रत्यनीकविषमाधीरभेदवान् ॥ ७.१६ ॥ सोऽयं द्विधा बुधैरुक्तरताच्विकाभास भेदतः । ताच्विकोऽपि द्विधा शुद्धो ग्रथितश्चेति गीयते ॥ ७.१७ ॥ अत्र शुद्धस्ताच्विकविरोधो यथा धनप्रदानं द्वविणार्जनं च साम्राज्यक्ष्मीर्भुवि भारती च । धीवृद्धसेवा नवयौवनं च श्रीसिङ्गभूपे विलसन्ति नित्यम् ॥ ७.*२५ ॥ अत्र धनप्रदानार्जनयोः तक्ष्मीसरस्वत्योः वृद्धसेवानवयौवनयोश्च विरोधस्ताच्विको विविक्तश्चेति यथोक्तः । ग्रथितस्ताच्विकविरोधो यथा किं निर्द्वेषकथस्य दैत्यहननं तत्रापि किं निद्रया निद्रालोरुरसि स्त्रिया किमथ सा निस्संभवा स्यात्कथम् । दैत्यारेरिति तत्पुराणसमये गोष्ठीषु विद्वज्जन- प्रौढोक्त्तीर्निशमय्य सिङ्गनृपतिः स्मेराननो जायते ॥ ७.*२६ ॥ अत्र विरोधस्योत्तरोत्तरग्रथनेन ग्रथितो नामायं तच्वविरोधः । यत्र श्लेषादिसामर्थ्यात्विरोधश्चावभासते । प्रतीतिमात्रचारुत्वमाभासोऽयं द्विधोच्यते ॥ ७.१८ ॥ शुद्धाभासविरोधो यथा ब्रूमहे सिङ्गभूपालं वयं सौजन्यपण्डितम् । कामं वदति वीरालिः तमसौजन्य पण्डितम् ॥ ७.*२७ ॥ अत्र राजन्यसौजन्ययोगरूपो विरोधः शब्दश्लोषमात्रेण प्रतीयते । तच्वतस्तु वीरपङ्क्तिरसौजन्यपण्डितं रणकुशलं वदतीति परिहारः । स एव ग्रथितो यथा । राज्ञस्ते गुरुता कथं बद गुरोः पद्मात्तता स्यात्कथं पद्मात्तस्य च जिष्णुता कथमहो जिष्णोः कथं सौम्यता । सौम्यस्य क्षितिनन्दनत्वमुचितं लोके कथं भूपतेः श्रीसिङ्गक्षितिनन्दन्त्वमपि तल्लक्ष्णीश्वरोल्लासितम् ॥ ७.*२८ ॥ अत्रोत्तरोत्तरसंकलनया ग्रथितस्य श्लेषमूलत्वादाभासत्वं स्पष्टमेव । किं भूपतित्वं कुतः श्रीसिङ्गक्षितिनन्दनस्य तदिदं लक्ष्मीश्वरोल्लासितमिति । जात्याद्यसङ्गतेर्भेदा बहवो ह्यनयोर्मताः ॥ ७.१९ ॥ तत्र जातेः जातिक्रियागुणद्रव्यैर्यथा श्रीसिङ्गभूपालमनोऽपि भूभृत्- पद्माकरोऽपि स्फुजपङ्कशेषः । ख्यातोऽसि भोगीजनवत्सलोऽपि भूमौ सुपर्वोऽपि च सार्वभौमः ॥ ७.*२९ ॥ अत्र प्रथमे पादे मेघपर्वतजात्योः द्वितीये पद्माकरपङ्कशोषणक्रिययोः तृतीये सर्वजातिवत्सलत्पगुणयोः चतुर्थे देवजातेः सार्वभौमनान्रो दिग्गजलक्षणस्य द्रव्यस्य चासंहतिरिति चत्वारो जातिविरोधाः । क्रियायाः क्रियागुणद्रव्यविरोधो यथा कविप्रीतिं कुर्वन् तिरयसि कविं नीतिनिगमे तव प्रज्ञा तीक्ष्णा रचयति न भेदं कृतधियाम् । कलानाथोऽपि त्वं त्यजसि ननु नभत्रपदवीं विचित्रं श्रीसिङ्गक्षितिवर चरित्रं तव परम् ॥ ७.*३० ॥ अत्र कविप्रीतिकरण कवितिरस्करणक्रिययोः प्रथमपादे द्वितीये तीक्ष्णत्वगुणभेदक्रिययोः तृतीये कलानाथनाम्नः चन्द्रलक्षणद्रव्यस्य नक्षत्रमार्गत्यजनेक्रियायाश्च सङ्गतिरिति त्रयः क्रियाविरोधाः । गुणस्य गुणद्रव्याभ्यां विरोधे द्वौ भेदौ । तत्र गुणयोर्विरोधो यथा श्री सिङ्गभूप नापि द्वयमदन मेकवृक्षयैकस्मिन् । दाक्षिण्यमुत्तरत्वं भवति तु निरृत्यपेक्षया भवति ॥ ७.*३१ ॥ अत्र दक्षिणत्वोत्तरत्वयोर्द्वयोर्गुणयोर्विरोधः । गुणद्रव्ययोर्यथा चित्रं श्री सिङ्गभूपाल तावकैरर्जुनैरपि । भूयते यशसां बृन्दैर्मित्रनन्दनवत्सलैः ॥ ७.*३२ ॥ अत्रार्जुनलक्षणद्रव्यस्य कर्ण वात्सल्यगुणस्य विरोधः । द्रव्यस्य द्रव्येण विरोधे एक एव भेदः । यथा राजाद्रिराजदातुव्यां (धान्यां?) मधुरायामपि सदा विशालायाम् । श्री सिङ्गनृपो धरणीं मांधातापि प्रशास्ति कृतवीर्यः ॥ ७.*३३ ॥ अत्र प्रथमार्धे मधुराया विशलानगरत्वं द्वितीये मांधातुः कृतवीर्यत्वमिति द्रव्यविरोधः । इत्याभासविरोधस्य दश भेदा निरूपिताः । एवं ताच्विक भेदास्तु खयमूह्या विचक्षणैः ॥ ७.२० ॥ विरोधभेदेष्वसङ्गतो यथा विराजते मध्यमलोकभाग्यं राजाचले कश्चन राजसिंहः । यत्प्रान्तदृप्ताप्तवतां विलीनो मादातिरेका रिपुमञ्जरीणाम् ॥ ७.*३४ ॥ अत्र सिंहान्तिकमाप्तानां कुञ्जराणां मदशोषो नसंगच्छत इत्यसंगतो नामायं विरोधभेदः । प्रत्यनीकं यथा श्रोतुं रंभारचनां निर्भरानन्दगर्भां (?) प्रासादेषु प्रतिदिशतटिनीं वीक्षितुं जालमार्गेः । चित्रं सिङ्गक्षितिप भवतः खड्गधारा निमग्ना निद्रामुद्रां निरवधिकथामाश्रयन्ति द्विषन्तः ॥ ७.*३५ ॥ अत्र वचनश्रवणनिरीक्षणार्थिनां निरवधिनिद्राश्रयणं प्रतिकूलत्वेनासङ्गतमिति प्रत्यनीकमपि विरोध एव । विषमं यथा दिशां दुकूलं हसितं जयश्रिया यशो विलासस्तव सिङ्गभूपते । स्वभावशुद्धोऽपि मुशे विरोधिनां करोति मालिन्यतरङ्गितां दिशाम् ॥ ७.*३६ ॥ अत्र धवलस्य यशसो विरोधिमुखेषु यदतिमालिन्यकरणं तस्य च यादृशोऽप्युपजायते तादृगेव तद्भवतीति प्रसिद्धिवैषम्यात्परस्परासङ्गतेरयं विषमं नाम विरोधः । अथवा दिङ्मुखेषु विशदीकरणं विरोधिमुखेषु मलिनीकरणञ्च समवर्तनप्रकारो न भवतीति वैषम्याद्विषं विरोधः । अधिकं यथा श्री सिङ्गक्षितिपो वहन्निशितधी राकर्णकृष्टं धनुः प्रत्यश्वं प्रतिकुञ्जरं प्रतिनरं मुञ्चन्नमोघान् शरान् । यावन्ति द्विषतां बलानि बलवत्याश्चर्यमेकोऽप्यसौ तावद्वा सममेव तैरभिमुखैरध्यक्षमालभ्यते ॥ ७.*३७ ॥ अत्रैकस्यापि नायकस्यानेकैरपि सैन्यै रनेकधा दृश्यमानत्वे नैकत्वसंख्याविरुद्धसंख्याधिक्यं प्रतीयत इत्यधिकं नाम विरोधभेदः । प्रभूतकारणालोकाद्यत्र संभाव्यते विधिः । निषेधो वा विशेषज्ञैस्स संभव इतीरितः ॥ ७.२१ ॥ अत्र विधिसंभवो यथा रैचर्लीयक्षितिवर भवद्घोर नासीरघोटी- कोटीक्षुण्णक्षितितलरजस्यावृताशावकाशे । स्यात्संभाव्यं तनुयवनिकाथन्नदीपोपमानं पर्यन्तोद्यत्परिवृढ शिखा पद्मरागोपलानाम ॥ ७.*३८ ॥ अत्रैवंविधे रजसि सामन्तशिखामणीनां तादृशी दशा संभाव्येति विधेस्संभाव्यमानत्वादयं विधिसंभवः । निषेधसंभवो यथा सोमोल्लासिनि पारशीकनृपतौ संधानुसंधायके कन्यारत्नसमर्पणाद्गजपतौ संबन्धगन्धस्पृशि । रैचर्लान्वयशार्ङिणं नरपतिं द्रष्टुं रणे साहसं संभाव्यं न हि गौतमीपरिसरक्षुद्रक्षमाभृद्गणे ॥ ७.*३९ ॥ एवंविधनायकसंरंभसहनसाहसं क्षुद्रक्षत्रियेषु न संभाव्यमिति निषेधान्निषेधसंभवः । अन्योन्यं प्रतीकारो यस्तदन्योन्यं मतं मम ॥ ७.२२ ॥ यथा निर्वातस्तंभितौर्व धरणिसुरकरस्पशंपूतैः सुशीलैस्त्वद्दानाम्बुप्रवाहैस्सहिमहिमनिधे सिङ्गभूपालमौले । भाण्डागारान्यनर्घैरनुदिनमवते पूरयत्यैष रत्नैरित्यन्योन्योपकारप्रसृमरविभवौ त्वं च वारां निधिश्च ॥ ७.*४० ॥ अत्र नायकनदीनायकयोर्दानाम्बुप्रवाहप्रशस्तरत्नसमुदायाभ्यामन्योन्योपकारकभावादन्योन्यमिदम् । एकता चूलिका भ्रान्तिरन्योन्यस्यैव भूमिकाः ॥ ७.२३ ॥ अत्रान्योन्यैकता यथा उद्दण्डीकृतपुण्डरीकपटलस्पष्टप्रकाशं यशः चञ्चच्चम्पकमित्ररुचिराकारः प्रतापश्च ते । प्रत्यथिक्षितिपालमन्दिरभुवि श्रीसिङ्गभूपोज्ज्वला- न्यन्योन्य द्युतिमेलनेन भवतर्ः सकीर्णवर्णा इव ॥ ७.*४१ ॥ अत्र कीर्तिप्रतापयोरन्योन्यं विकार्यविका रकभावात्प्रतीकारप्रतीतेरन्योन्यैक्यताप्यन्योन्य एव । अन्योन्यचूलिका यथा विद्याश्रिया राजति विद्यया श्रीः श्रीसिङ्गभूपो वचसा श्रिया च । नयोऽपि सत्त्वेन नयेन सत्त्वं नयेन सत्त्वेन यथा स एव ॥ ७.*४२ ॥ अत्र विद्याश्रियोर्विराजने परस्परमुपकार्योपकारकतया वर्तमानयोर्द्वयोर्नायकविराजमानक्रियाया अपकारकत्वं यत्सेयं चूलिकोपरि वर्धत इत्यन्योन्यचूलिकेयमन्योन्यभेद एव । अन्योन्यभ्रान्तिर्यथा लीयन्ते गहत्नान्तरेषु शनकैरान्मैक्षणाशङ्किनो भूपालान् भवदीय सैनिकधिया वीक्ष्याध्वगान् वैरिणः । तानालोक्य मलिम्लुचा इति धिया पार्श्वद्वयालोकिनः सन्नद्धास्त्वरितं प्रयान्ति पथिकाः श्री सिङ्गपृथ्वीपते ॥ ७.*४३ ॥ अत्र कान्तारसञ्चारिणां नायकविरोधिनां पथिकानां परस्परमुद्देश्योद्देशकताभावात्प्रतीकारप्रतीतेरन्योन्यभ्रान्तिरन्योन्यभेद एव । व्यत्ययो वस्तुनोन्यस्तु यो वा विनिमयो मिथः । परिवृत्तिरियं प्रोक्ता मुख्या गौणीति सा द्विधा ॥ ७.२४ ॥ व्यत्ययवती मुख्या यथा सुजनमयति लक्ष्णीर्दुर्जनानुज्झति श्रीः व्रजति लयमधर्मो वर्धते धर्ममार्गः । अवितरि मणिगर्भामच्युतस्यावतारे श्रितबुधपरिचर्ये सिङ्गभूपालवर्ये ॥ ७.*४४ ॥ अत्र नायकराज्ये सुजनदुर्जनयोर्लक्ष्मीपरिवृत्तिः । धर्माधर्मयोर्लयपरिवृत्तिश्च मुख्यत एव प्रतींयत इति व्यत्यवती मुख्या नाम परिवृत्तिरियम् । व्यत्ययवती गौणी यथा श्री सिङ्गभूपयशसा यद्पाकृतमिन्दुमालिन्यम् । भवति हि तदेव लक्ष्यं विमतक्षितिपालवदनकमलेषु ॥ ७.*४५ ॥ अत्र नायकयशसापाकृतस्य चन्द्रकलङ्कस्य विरोधिनरनाथवदनेषु लक्ष्यमाणत्वं तदिदमनुपपद्यमानतया न मुख्यमिति गौणीयं व्यत्ययवती परिवृत्तिः । मुख्या विनिमया यथा श्री सिङ्गक्षितिपालजैत्रपटहध्वानानु सन्धायिनो धावन्तो निजरूपगोपनकृते प्रत्यर्थिपृथ्वीभुजः । दत्त्वा व्याधकुलाय मण्डनभरं केयूरहारादिकं गुञ्जाबीजविभूषणानि विनयात्क्रीणन्ति हीनान्यपि ॥ ७.*४६ ॥ अत्र मणिगुञ्जाविभूषणयोर्विनिमययोः मुख्यतयैव संभवतीति विनिमयवतीयं मुख्या नाम परिवृत्तिः । सैव गौणी यथा वक्रेतराभिव्यवहारदक्षा श्री सिङ्गभूपाल तवासिधारा । प्रदाय कम्पं रिपुभूपतीनां सप्ताङ्गराज्यश्रियमाददति ॥ ७.*४७ ॥ अत्र नायकखड्गे रिपुभूपतींनां स्वकम्पप्रदानं तेभ्यः सप्ताङ्गराज्यश्रियामादानं च मुख्या वृत्त्या न संभवतीति गौणविनिमया नाम परिवृत्तिः । दृष्टान्तः प्रोक्तसिद्धयै यः सिद्धेर्ऽथे सा निदर्शना । पूर्वोत्तरसमत्वेन त्रिधेयं मन्यते बुधैः ॥ ७.२५ ॥ तत्र पूर्वा निदर्शना यथा परं कुर्वन्ति पारुष्यं दुर्जना राजवल्लभाः । श्री सिङ्गभूपखड्गोऽयं परमर्मैव कृन्तति ॥ ७.*४८ ॥ अत्र राजवल्लभक्रूरजनदृष्टान्तस्य पूर्वमुक्तत्वात्पूर्वा नाम निदर्शना । उत्तरा यथा श्री सिङ्गभूपचापं विदधाति विरोधिजीवद्रोहम् । नमतामपि वक्राणां परसन्तापाय राजकर्णासक्तिः ॥ ७.*४९ ॥ अत्र राजसमीपवर्तिकुटिलजनवृत्तान्तस्य पश्चादुक्तत्वादुत्तरेयं निदर्शना । समा यथा मेदिन्यां गगनाङ्गनाङ्गननतो मन्दाकिनीवेणिकां वेणीतो जलजातसंभवसभासौगन्धमारोहति । श्री सिङ्गक्षितिपालकीर्तिलतिका तत्संश्रयाणां नृणां शंसत्यद्भतमुत्तरोत्तरतया जातानुबन्धोदयाम् ॥ ७.*५० ॥ अत्र नायकपरिग्रहेणोत्तरोत्तरोदयवतः कीर्तिदृष्टान्तस्य नायकाश्रितजनोत्तरोत्तरौन्नत्यलक्षणदार्ष्टान्तिकस्य च शंसन्तीति वर्तमानलक्षणशत्र समकालमेवोक्तत्वादियं समा नाम निदर्शना । कथिते वा प्रतीते वा सादृश्ये वस्तुनोर्द्वयोः । भेदाभिधानं भेदस्स्याद्य्वतिरेकश्च संस्मृतः ॥ ७.२६ ॥ अत्र कथित सादृश्यस्वजातीयव्यतिरेको यथा श्री सिङ्गभूमिपतिना न तुलां प्रयान्ति विश्राणनक्रतुभुवोऽपि परे नरेन्द्राः । नन्दन्ति तेहि विदुषां कविताविलासैः सोऽयं प्रतिनन्दयति च प्रकामम् ॥ ७.*५१ ॥ अत्र नायकस्य सजातीयैः नरेन्द्रैस्सह वितरणे सादृश्यमभिधाय प्रतिप्रीणनहेतुभूतकविताविलासविशेषकथनादयं यथेक्तः । स एव प्रतीतसादृश्ये यथा श्री सिङ्गभूप भवदीयपरिग्रहेण धर्माय यद्बलवते कविरेष भीतः । क्रीतादिबन्धुमुषिता च ददाति भागौ तत्ते तुलां न दधते प्रथमे नरेन्द्राः ॥ ७.*५२ ॥ अत्र रकत्वेन (?) त्रेताद्वापरमहीनाथजातिसाम्ये प्रतीते नायकस्य तद्राज्यचोरितधमभावप्रत्यर्पणपारभूत परिपालनविशेषभेदकथनादयं प्रतीतसादृश्यसजातीयव्यतिरेकः । कथितसादृश्ये स्वव्यक्तिव्यतिरेको यथा श्री सिङ्गभूपाल भवान् दोषा भावे भवानिव । श्रियापुनस्त्वदन्यस्त्वं प्रत्यहं वङ्घमानया ॥ ७.*५३ ॥ अत्र नायकस्य दोषाभावे स्वेनैव तुल्यतामभिधाय प्रत्यहं वर्धमानया तुरगादिसंपदा स्वस्यैव स्वतो प्रतिदिनापेक्षया विशेषकथनादयं कथितसादृश्ये स्वव्यक्तिव्यतिरेकः । यदि प्रतीयमानसादृश्ये स्वव्यक्तिव्यतिरेकस्योदाहरणं संभवति चारुतां पुष्णाति वा तदपि निरूपणीयम् । कथितसादृश्थे एकव्यतिरेको यथा श्री सिङ्गधरणीपाल करुणावरुणालय । अनुदाता कथं तुल्यस्तव जीमूतवाहनः ॥ ७.*५४ ॥ अत्र करुणानिधित्वेन कथितसादृश्ययोर्नायकविद्याधरनायकयोरुत्तरत्रैव भेदकधर्मकथनादयं यथोक्तः । तत्रैवोभयव्यतिरेको यथा नायकस्यैव वंशावल्याम् सौदर्यो बलभद्रमूर्तिरनिशं देवी प्रिया रुक्मिणी प्रद्युम्रस्तनयोऽपि पौत्रनिवहो यस्यानिरुद्धादयः । सोयं श्रीपतिरन्नवोतनृपतिः किं त्वाननाम्भोरुहे धत्ते चारु सुदर्शनश्रियमसौ सर्वात्म हस्ताम्बुजे ॥ ७.*५५ ॥ अत्र बलभद्रसौदर्यत्वादिभिरभिहितसादृश्ययोः नायकरुस्मिणीनायकयोः सुदर्शनमुखत्वं, सुदर्शनकरत्वं चेदुभयगतभेदकधर्मकथनादयं कथितसादृश्य उभयव्यतिरेकः । प्रतीतसादृश्ये एकव्यतिरेको यथा मित्रममित्रं कुर्वन्नर्वाग द्विजराजकबलनव्यग्रः । राहुः कथमुपमानं श्रीसिङ्गनृपालखड्गधारायाः ॥ ७.*५६ ॥ अत्र विवणात्वेन (?) प्रतीतसाम्ययोः सैहिकेयककौक्षेयकयोः पूर्वत्रैव भेदकधर्मकथनादयं यथोक्तः । तत्रैवोभयव्यतिरेको यथा अशेषभोगाधिष्ठायी निस्तन्द्रस्सिङ्गभूपतिः । सशेषभोगाधिष्ठायी निद्रालुर्नीरजावरः ॥ ७.*५७ ॥ अत्र जगत्त्राणदीक्षितत्वेन प्रतीयमानसादृश्ययोः नारायणनायकयोरुभयगतभेदकधर्मकथनादयं प्रतीयमानसादृश्य उभयव्यतिरेकः । कथितसादृश्येन सदृशव्यतिरेको यथा राजाद्रिसुरराजाद्री सकल्याणौ सदाश्रयौ । अयं श्री सिङ्गभूपेन राजते न तु वज्रिणा ॥ ७.*५८ ॥ अत्र कथितसाम्ययोः शैलयोः प्रतीयमानसादृश्याभ्यामेव नायकत्रिदिवनायकाभ्यां भेदकथनादयं तथोक्तः । तत्रैव विसदृशव्यतिरेको यथा दिग्दन्तीनां सिङ्गमहीपतेश्च समुद्भवाल्लोकहिताय कामम् । मातङ्गतायामपि ते मदान्धा वंशोन्नतावप्ययमस्तगर्वः ॥ ७.*५९ ॥ अत्र लोकहितत्वेन दिक्कुञ्जराणां नायककुञ्जरस्य च साम्यमभिधाय सदृशाभ्योमेव मातङ्गत्ववंशोन्नतिभ्यां मदान्धत्वनिर्गर्वत्वाभ्यां च भेदकथनादयं कथितसादृश्यो विसदृशव्यतिरेकः । प्रतीतसादृश्ये सदृशव्यतिरेको यथा रत्वैरयत्नविमलैर्विभाति पयसां प्रभुः । अयं श्रीसिङ्गभूपालो गुणैनैर्मल्यमिश्रितैः ॥ ७.*६० ॥ अत्र गम्भीरत्वादिना प्रतीतसाम्ययोर्नायकनदीनायकयोः कथितसादृश्यै रेव रत्नैर्गुणैश्च भेदकथनादयं तथोक्तः । तत्रैव विसदृशव्यतिरेको यथा निद्रालौ श्रुतिवर्जिते विषमुखे वक्रां दधाने सतीं शेषे नूनमपायशङ्किहृदया स्थातुं समुद्वेगिनीम् । निस्तन्द्रे विशदश्रुतौ सुवदने वक्रेतराध्वक्रमे श्री सिङ्गक्षितिपालके वसुमती याति प्रतिष्ठा पराम् ॥ ७.*६१ ॥ अत्र विद्यापरिज्ञानमहीभरणादिनाप्रतीतसाम्ययोः शेषनायकविशेषयोर्विसदृशनिद्रालुनिस्तन्द्रत्वादिभेदक धर्मकथनादयं प्रतीयमानसादृश्ये विसदृशव्यतिरेकः । एवं हि व्यतिरेकस्य भेदाः केचिन्निदर्शिताः । अनेनैव पथान्योऽपि स्वयमूह्या विचक्षणैः ॥ ७.२७ ॥ किञ्चिदारभ्यमाणेन कार्यं तत्सहकारिणः । आकस्मिकस्य संप्राष्तेस्समाहितमितीहितम् ॥ ७.२८ ॥ दैविकं समाहितं यथा श्री सिङ्गक्षितिपालसैनिकभिया भूभृद्गुहागाहिनां कान्तारेषु चिकीषंता निजपदप्रस्तारसंमार्जनाम् । निर्व्यूढा सहकारिता विधिवशादस्माकमाकस्मिकैः कुल्याक्षासलितकन्दरा परिसरप्रारंभमंभोधरैः ॥ ७.*६२ ॥ अत्र पलायमानमार्गेषु निजपदपङ्क्तिमार्जनचिकीर्षूणां नायकविरोधिनामाकस्मिकवर्षेण तत्सुनिष्पन्नमिति दैविकं समाहितम् । अढैविकं यथा वर्षादिप्रथमप्रबोधसमयाचारेण पद्मालया- दाढासिघ्दनभेकुमनसो व्याजादनिद्रात्यजः । दैत्यारेरुपकारकारणतया जागर्ति जाग्रद्धिया श्री सिङ्गस्य विभो र्दिगन्तविजयप्रस्थानभेरीध्वनिः ॥ ७.*६३ ॥ अत्र निद्राव्याजेन लक्ष्मीगाढालिङ्गनस्य शैथिल्यं चिकीर्षता भगवता लव्धस्य पद्मालयातङ्कहेतुतया सहकारिणो नायकसन्नाहनिस्साणराणस्य पौरुषेयतया तदिदमदैविकं समाहितम् । भ्रान्तिर्विपर्ययज्ञानं संस्कारात्साम्यतोऽपि वा । आलम्बवत्यनालम्बवती चेत्यादि सा द्विधा ॥ ७.२९ ॥ आलम्बनवती यथा औत्सुक्यादनवोतसिङ्गनृपतेराकारमालिख्य सा निर्वर्ण्यायमसौ मम प्रिय इति प्रेमाभियोगभ्रमात् । आशुद्धाय ततोपसृत्य तरसा किञ्चिद्विवृत्तानना सानूनं सदरस्मितं सचकितं साकाङ्क्षमालोकते ॥ ७.*६४ ॥ अत्र नायकानुरक्तायाः कस्याश्चिन्नायकचित्रे अयं साक्षान्नायक इति प्रतीतेः सेयं सततनायकानुध्यानवासनाबलेन चित्रस्थ नायकाकारमालम्ब्य जायत इति संस्कारजा सालम्बा नामभ्रान्तिरियम् । निरालम्बा यथा प्राचण्ड्यं प्रतिगण्डभैरवविभोरलोक्य युद्धाङ्गणे दावन्तो गिरिकन्दरापरिसरं प्रत्यर्थिपृथ्वीभुजः । दोरुद्धूतकरालखड्गलतिकाव्यग्रं तमेवान्तिके प्रर्त्याद्र प्रतिपादपं प्रतिदिशं पश्यन्ति पर्याकुलाः ॥ ७.*६५ ॥ अत्र रणमुखे तादृशप्रचण्डिमानुसन्धायकं नायकं साक्षात्कृतवतां द्विषता मविगतेन वासनाबलेन नायकसादृश्यालम्बनं विनापि शैलादिषु या नयकादिप्रतीतिः सेयं निरालंबना नाम संस्कारतो भ्रान्तिः । द्वितीया च परिज्ञेया द्विप्रकारा मनीषिभिः । अतत्तवे तत्त्वरूपा च तत्त्वे चातत्त्वरूपिणी ॥ ७.३० ॥ आद्या यथा नर्तुं वाञ्छति धूर्जटिः फणधरास्तिष्ठन्ति पर्यन्ततः प्रत्युत्तिष्ठति जाह्नवी न सहते मानाग्रहं मानिनी । सेर्ष्यं पश्यति पार्वती कमलभूरालिङ्गितुं चेष्टते श्री सिङ्गक्षितिनाथकीर्तिमहिमन्याश्चर्यधुर्योदये ॥ ७.*६६ ॥ अत्र सदृशधावल्येन यत्प्रालेयशैलादिरूपे नायकयशसि तत्तद्रूपतया प्रतिभानं सेयमतत्त्वे तत्त्वरूपा भ्रान्तिः । द्वितीया यथा तृष्णाक्रान्ता जलमिति धिया संप्लवे भानुभासां धावं धावं धवलधवलं धान्विनीषु स्थलीषु । क्षामक्षामा रिपुनृपतयः सिङ्गभूपालधाट्यां सत्याकारानपि न पयसां विश्वसन्ति स्म कूपान् ॥ ७.*६७ ॥ अत्र बहुशो मृगतृष्णिकाप्रतारितानां नायकपरिपन्थिनां पारमार्थिकेष्वपि जलेषु न जलानीति या प्रतिपत्तिः सेयं तत्त्वेप्यतत्त्वरूपा भ्रान्तिः सादश्यजनिता भ्रान्तिः । भ्रान्तेः परंपरा भ्रान्तेःृ श्रुङ्खला इत्युभे इमे । भ्रान्तेः पृथगिति ज्ञानं भ्रान्तिरेवेति मे मतम् ॥ ७.३१ ॥ अत्र भ्रान्तिपरम्परा यथा शाखासु प्रसवाशया क्षितिरुहां कर्पूरखंडाशया पेटीकामुदरेषु मोहनविधेरन्ते दुक्लाशया । श्रीसिङ्गक्षितिनायकेन्द्र भवतो गृह्णन्ति सिद्धाङ्गनाः लोकालोकदरीपरीसहभुवामाकल्पकल्पं यशः ॥ ७.*६८ ॥ अत्र सिद्धाङ्गनानां बहुशो मालाक्रमेण नायकयशसि जायमाना प्रसवादिभ्रान्तिरेव ब्रान्तिपरंपरेत्युच्यते । भ्रान्तिशृङ्खला यथा ब्रह्मा हंसधियानुरज्यति नभोगङ्गाधिया ते खगाः क्षीरांभोधिधिया च सा तटवती ज्योत्स्नाधिया चाम्बुधिः । सा कान्तिः शरदिन्दुमण्डलधिया त्वत्कीर्तिमव्याहतां श्री सिङ्गक्षितिनाथ साधुजनतासंकल्पकल्पद्रुम ॥ ७.*६९ ॥ अत्र भ्रान्तीनामुत्तरोत्तरं शृङ्खलान्यायेंन संकलनादियं भ्रान्तिः शृङ्खला नाम भ्रान्तेरेव भेदः । ऊहा वितर्कः स द्वेधा निर्णयानिर्णयावधिः ॥ ७.३२ ॥ अत्र निर्णयान्तो यथा असौ किं कन्दर्पः किमयममरेशानतनयः किमेषः श्रीरामः किमयमलकानायकसुतः । सखि ज्ञातं सोऽयं युवतिनयनोत्पादकफलं निधानं भाग्यानां जयति खलु सिङ्गक्षितिपतिः ॥ ७.*७० ॥ अत्र कन्दर्पादिवितर्कानन्तरं सोऽयं नायक इति निर्णयकथनादयं तथोक्तः । अनिर्णयान्तो यथा संवर्तपावकशिखा किमि किन्नु जिह्वा मृत्योरियं किमु युगान्तकृतान्तदंष्ट्रा । इत्यूह्यते समरसीमनि वैरिसैन्यैः श्री सिङ्गभूपकरकम्पितखड्गरेखा ॥ ७.*७१ ॥ अत्र किमिदं किमिदमिति वितर्कयता विमतसैन्येन सेयं नायकखड्गधारेति निर्णयाकथनादयं तथोक्तः । वस्त्वन्तरेण स्थगनं वस्तुनो मीलितं मतम् ॥ ७.३३ ॥ यथा नित्यं श्रीअनवोतसिङ्गनृपतेरश्रान्तविश्राणन- श्लाघाश्लोककृता च दानरसिके नाकौकसां नायके । स्वर्धेनोर्वदने निसर्गनमनाल्लज्जानतिर्गोप्यते मन्दारस्य च बाष्प विन्दुपटलं श्च्योतन्मधूलीकणैः ॥ ७.*७२ ॥ अत्र नायकवितरणश्लाघयाः पराभूतयोः कामधेनुकल्पवृक्षयोर्जायमानलज्जानतिबाष्पपूराः स्वभावमुखावनतिपुष्परसाभ्यां स्थगितमिति मीलितमिदम् । तद्भेदास्साम्यपिहित तद्गुणातद्णावपि ॥ ७.३४ ॥ तत्र सामान्यं यथा रैचर्लीयकुलावतंस नृपते हंसाः प्रशंसानिधे श्लिष्टद्रव्यविवेकिनो विजहति प्रावीण्यगर्वं निजम् । वक्त्रान्ताद्गलितान्मृणालकबलान् कीलौ तव ब्राह्नणी प्राप्ताद्वैतकथान्मनागपि परिच्छेत्तुं चिरादक्षमाः ॥ ७.*७३ ॥ अत्र कीर्तिमृणालयोरेकत्वरूपं सामान्यमपि सदृशेन सदृशस्थगनमिति मीरितमेव । पिहितं यथा कस्याशिचित्कुच मण्डले नववयोमत्तेभकुम्भद्वये दृष्टिं रागतरङ्गितां विदधता श्रीसिङ्गभूमीभुजा । दाक्षिण्यव्रतभङ्गभीरुमनसा देवेन वामभ्रुवा- मन्यासामपि सा तथैव कृतिना नेत्रेन्द्रियेणार्पिता ॥ ७.*७४ ॥ अत्र प्रकटितस्नेहां प्रेयकीं पश्यतो नायकस्य यदन्यास्वपि तथाविधकटाक्षव्यापारिण स्वकीयभावक प्रख्याकछाकविहितं [भावप्रच्छादनं विहितं (?)] तदिदं पिहितमिति केचिदाचक्षते । तदपि सहजानु रागदृष्टिव्यापारस्य साधितानुरागदृष्टिव्यापारेण स्थगनमिति मीलितमेव । तद्गुणो यथा पत्रप्रायलताप्रतान कृता निकुञ्जैः पलशोत्तरे (?) स्वच्छासु स्फटिकस्थलीषु धवलक्षोणीरजोलेपनाः । शोणग्रावसु गैरिकेन्द्रदयुजो विद्वेषिणस्तत्क्षणात्लक्ष्यन्ते न हि सिङ्गभूपतिचमूनासीरधाटीभटैः ॥ ७.*७५ ॥ अत्र नायकद्वेषिणां निकुञ्जापुञ्जादिगुणसमा श्रयणेन स्थगितमिति तद्गुणमीलितमेव । सिङ्गक्ष्मापतिकीर्तिभिर्धवलिते लोकत्रये स्वप्रभोः कण्ठेन व्यतिकालकूटघटनाजीर्णेन हृष्टा गणाः । वर्णेऽपि प्रतिकूलतां विजहरी पत्युः प्रिया पार्वती पूर्णेन्दोरपि मुद्रिता जनतया रूढा कलङ्कप्रथा ॥ ७.*७६ ॥ अत्रातद्गुणानामपि कालकण्ठ.... ....यद्विकारा विष्करणं सोऽयमतद्गुण इति व्याचक्षते । तदस्मिन्मतेऽपि क्रियाकारणानामसामर्थ्यादहेत्वलङ्कार एव । सदृशादनुभूतार्थप्रतीतिः स्मरणं मतम् ॥ ७.३५ ॥ यथा संत्रासादुपविन्ध्यकाननबिलैः पर्यन्तनिर्यन्मधु- स्रोतस्का परिलोक्य गण्डदृषदो व्यामावकाशस्पृशः । उद्दण्डप्रतिगण्जभैरवहृताः प्रत्यर्थिभिः पार्थिवैः स्मर्यन्ते निजगन्धबन्धुरघटाः तृट्यत्कटग्रन्थयः ॥ ७.*७७ ॥ अत्र गण्डशैलदर्शनेन तत्सदृशानां नायकापहृतानां निजगजेन्द्राणां या स्मृतिस्सोऽयं स्मृत्यलङ्कारः । अभिप्रायानुकूल्येन प्रवृत्तिर्भाव ईरितः ॥ ७.३६ ॥ यथा श्रीसिङ्गक्षितिनायकेन विदुषा तत्तत्कलापद्धतेः लोकस्याङ्गान्यकृत्यसौष्ठवकलामङ्गोषु सन्धित्सता । यद्यत्संविहितं रहो वितनुते तत्तत्प्रतीपक्रमं, प्रज्ञाशीतवती विवेकचतुरा काचित्कुरङ्गेक्षणा ॥ ७.*७८ ॥ अत्र नायकस्य योऽयं सौष्ठवोपदेशप्रवृत्तिः तयोर्पटद्वयोरन्योन्यस्पर्शनसुखोपमेय प्रायादित्ययं भावालङ्कारः यथा च कल्याणशृङ्गपयसा परिषेक्तुकामा वक्षःस्थलं नववसन्तविहारकाले । अत्यानतेन शिरकेच्छति सिङ्गभूपे तन्मानिनी न विजराति जहाति बाष्पम् ॥ ७.*७९ ॥ अत्र वक्षसि सलिलसेकं नायकः शिरसि यत्समीहितवान्नायिकया तत्शृङ्गसलिलं न मुक्तं किन्तु बाष्पमिति यत्तदत्र नायकस्य हृदये काचिदन्या हृदयवल्लभआ वसतीति भावः । भावप्रतीपस्तु परैर्भाव एवेति दर्शितः । अन्यथाज्ञानरूपत्वाद्भ्रन्तिरेवेति मे मतिः ॥ ७.३७ ॥ यथा अत्रैवोदाहरणे यथा नायकस्यायमभिप्रायः । मम हृदये स्थितां त्वामेव त्वं किमिति सेक्तुमिच्छसि । यदि प्रिये मां सेक्तुमिच्छसि तर्हि शिरसि सिञ्चेति । तदापरस्या स्थितिशङ्कया न सेक्तव्योऽयमिति योऽयं नायिकायाः प्रतीप्तोत्कण्ठां बोधयतीत्यर्थापत्तिरियम् । एवंमितरप्रमाणसिद्धार्थानुपपत्तिहेतुकार्थापत्तिः स्वयमूहनीया । इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां श्री सिङ्गभूपालकीर्तिसुधासारशीतलायां चमत्कारचन्द्रिकायामलङ्कारविवेको नाम सप्तमोविलासः ॥ ______________________________________________________________________________ अष्टमो विलासः चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता अष्टमो विलासः उभयालङ्कारनिरूपणम् शब्देभ्यो य इवादिभ्य उपमादिः प्रतीयते । विशिष्टार्थः कवीनां ता उभयालङ्कृतयो मताः ॥ ८.१ ॥ उपमा रूपकं साम्यं संशयोक्तिरपह्नु नुतिः । समाध्युक्तिः समासोक्तिरुत्प्रेक्षाप्रस्तुतस्तुतिः ॥ ८.२ ॥ सतुल्ययोगितो लशः ससहोक्ति स्समुच्चयः । आक्षेपार्थान्तरन्यासौ सविशेषा परिष्कृतिः ॥ ८.३ ॥ दीपनक्रमपर्यायातिशयश्लेषभावनाः । संस्टष्टिरिति निर्दिष्टास्ताश्चतुर्विंशतिर्बुधैः ॥ ८.४ ॥ प्रसिद्धेरनुरोधेन सादृश्यं यत्र धर्मतः । प्रतीतं कथितं वा स्यादर्थयोरुपमा हि सा ॥ ८.५ ॥ पदवाक्यप्रपञ्चाख्यैर्भेदैस्त्रेधा भवेदियम् । पदोपमा द्विधा तत्र समासात्प्रत्ययादपि ॥ ८.६ ॥ तत्राद्या च चतुर्भेदा ज्ञेया सर्वसमास्गा । अन्तर्गतद्योतकार्था तुल्यधर्मार्थगर्भिता ॥ ८.७ ॥ अन्तर्भूतोभयार्था चेत्यासां लक्ष्यं प्रदर्श्यते ॥ ८.८ ॥ आशाकाशावकाशप्रसृमरयशसो भाग्यसौभाग्यराशेः रैचर्तेयान्वयेन्दो रघुपतिसदृशः कौमुदीकान्तकान्तेः । बाहौ शेषाहिदीर्घे जलजकरतले भाति विश्वंभरेयं क्रुध्यत्कालाहिदंष्ट्रां मुखविकटमुखीं खड्गरेखां दधाने ॥ ८.*१ ॥ अत्र क्रुधयदित्यादिपदे उपमानस्याहिदंष्ट्रामुखस्य तुल्यधर्मस्य विकटत्वस्य खड्गमुखस्योपमेयस्य चस्वस्वशब्दैरभिधानेन द्योतकार्थस्य प्रतिभानात्सर्वमुपमानोपमेयतुल्यधर्मद्योतकं समासे संभवतीति सर्वसमासा नामेयं पदोपमा । शेषाहिरिवदीर्घः शेषाहिदीर्घ इत्यत्र द्योतकार्थ उपमानानि सामान्यवचनैरिति समासेनोक्त इति सेयमन्तर्गतद्योतकार्था नाम समासपदोपमा । जलजमिव ताम्रं करतलं यस्यायं जलजकरतल इत्यत्रान्यपदार्थंसमास एवद्योतकतुल्य धयोरन्तर्मर्भूतत्वादियमन्तर्भूतोभयार्था नाम समासपदोपमा । चतुर्धा विद्यतेऽन्यापि प्रत्ययार्थप्रभेदता । प्रत्ययोऽप्युपमानोपमेयद्योतकतुल्यभाक् ॥ ८.९ ॥ तत्रोपमानार्थप्रत्यया यथा राज्ञा श्रीसिङ्गभूपालबाहुना बहुराहुणा । कल्पपादपकल्पेन पालिता ललितेन भूः ॥ ८.*२ ॥ अत्र यद्यपि राहुरिव राहुः कल्पपादप इव कल्पपादप इति चाभेदोपचारव्यावृत्त्या राहुकल्पशब्दयोरुपमानभाविनोरप्युपमेये बाहौ वृत्तिः । ताभ्यां च यद्यपि स्वार्थे एव बहुच्कल्पप्प्रत्ययौ भवतः तथापि यथा शूरादिभ्य उत्पद्यमानास्तरबादयः शौर्यस्यैवातिशयमवगमयन्ति न पुनःशौयश्रियस्य तद्वदिमावपि गुणभूतमेवोपमानार्थं ब्रुवाते इति सेयमुपमानार्थप्रत्यया नाम प्रत्ययोपमा । उपमेयार्थप्रत्ययो यथा कल्याणाचलकार्मुकोपम समित्संरंभजृम्भानिधे श्रीसिङ्गक्षितिनाथमण्डनमणे दुर्वारदाएंर्विक्रम् । पारावारबिराविणीषु विजयप्रस्थानभेरीषु ते काकक्रोशि कुरङ्गधावि च कुलं विद्वेषिणां जायते ॥ ८.*३ ॥ अत्र पारावारा इव रुदन्ति पारावारविराविण्य इत्यत्र कर्तर्युपमान इति सामानाधिकरण्येन कर्तव्ये च प्रत्यये उपमेयार्थप्रत्यया नाम पदोपमा । अनयैव भङ्गया काकक्रोशिकुरङ्गधावीत्यत्रापि द्रष्टव्यम् । द्योतकार्थप्रत्यया यथा कल्याणशैलवदुपाश्रितपारिजाते श्रीसिङ्गभूपतिलके कटकप्रदीपे । पुण्यक्रियाभिरनुवासरमेधमाना रेचर्लसन्ततिवदेति मही प्रतिष्ठाम् ॥ ८.*४ ॥ अत्र कल्याणशैलो मेरुः तद्वदित्यत्र तत्र तस्येवितीबार्थे वतिः । रेचर्लसन्ततिवदित्यत्र तु तेन तुल्यं क्रिया चेद्वतिंरिति द्योतकार्थ एव न पुनस्तुल्यक्रियार्थ इति द्योतकार्थप्रत्यया नाम पदोपमा । तुल्यधर्मार्थप्रत्यया यथा उद्दण्डप्रतिगण्ढभैरवविभो रज्यत्कटाक्षे रुषा गेहीयन्ति विरोधिनां गिरिगुहा स्तल्पायते शाद्वलम् । सौधीयन्ति तटे च ते कपिचमूचारं चरन्तो वने पश्यन्ति प्रभुदर्शमुग्रशबरानेणीसुतीयन्ति च ॥ ८.*५ ॥ अत्र गेहानीवाचरन्ति गेहीयन्तीत्यत्र क्यच्प्रत्यय उपमानादाचार इति क्रियाविशेषलक्षणे तुल्यधर्मार्थ एव समुत्पन्न इति सेयं तुल्यधर्मार्थप्रत्यया नाम पदोपमा । सैवाधिकरणक्यचा यथा अत्र सैध इव आचरति सौधीयन्तीत्यत्राधारक्यच्प्रत्ययोऽपि तुल्यधर्मार्थ एवेति सेयं तादृशी । सैव क्रियया यथा उद्दण्डप्रतिगण्जभैरव भवद्बाणा रणे विद्बिषां भेतालन्ति हलाहलन्ति दहनज्वालन्ति कालन्ति च । श्रीसिङ्गक्षितिपाल पालितगुण त्वत्कीर्तिविस्फूर्तयो नीहारन्ति हरन्ति निर्जरवराहारन्ति हारन्ति च ॥ ८.*६ ॥ अत्र भेतालन्तीत्यादिषु क्रियासु तदिवाचरतीत्याचारलक्षणतुल्यधर्मार्थे क्विबुप्तन्न इति सेयमपि तुल्यधर्मार्थप्रत्यया नाम पदोपमा । मिथः पदार्थयोस्साम्यात्तथा वाक्यार्थयोरपि । वाक्योपमा द्विधा ज्ञेया तत्राद्या द्विविधा मता ॥ ८.१० ॥ पूर्णा लुप्तेति पूर्णात्र चतुरङ्गसुसङ्गता ॥ ८.११ ॥ यथा यथा राकाचन्द्रे सकलजगदानन्दजनने सरोजे गौरे बा सुरभितदशाशापरिषदि । महारत्नोल्लासिन्युरसि दनुजारेरिव रुचिं परां धत्ते सिङ्गक्षितिप भवती श्रीरतितराम् ॥ ८.*७ ॥ अत्रोपमानोपमेयद्योतकतुत्यधर्मरूपैश्चतुर्भिरङ्गैः सङ्गतेरियं पदार्थसाम्यवती पूर्णा वाक्योपमा । लुप्ता तु त्रिविधा तुल्यद्योतकोभयलोपतः ॥ ८.१२ ॥ अत्र तुल्यधर्मलोपवती यथा श्रीसिङ्गधरणीपाल तव कीर्तिपरंपरा । स्पर्धते चन्द्रिकापूरैर्दृप्ता बलवदाश्रयात् ॥ ८.*८ ॥ अत्र तुल्यधर्मस्य धवलिमादेरनभिधानेऽपि प्रसिद्धिबलेनोपमानोपमेयभावस्य प्रतीतेरियं तुल्यधर्मवती वाक्योपमा । सैव द्योतकलोपवती यथा श्रीसिङ्गधरणीपाल रत्नसानुर्भवानपि । ज्योतिर्विराजत्कटकौ कल्याणाकारशोभिनौ ॥ ८.*९ ॥ अत्र इवादिद्योतकमन्तरेणापि रत्नसानुनायकरत्नयोरुपमानोपमेययोरितरेतरयोगिनैकशेषेण तद्विशेषणयोस्समुदायेनन च द्वयोः सादृश्यं प्रतीयत इतीयं द्योतकलोपवती नाम पदार्थसाम्यवती वाक्योपमा । नात्र श्लेषशङ्का । सिद्धसादृश्ययोः तन्त्रेणाभिधानं श्लेषः । सादृस्यं पुनरुपमानोपमेयभावविवक्षा । तेन श्लेषस्य द्योतकलोपोपमायाश्च विविक्तविषयता व्यक्त्तैव । उभयलोपवती यथा न कर्पूरा न नीहारा न च शारदचन्द्रिकाः । किन्तु स्फुरन्ति श्रीसिङ्गधरणीपालकीर्तः ॥ ८.*१० ॥ अत्र तुल्यधर्मद्योतकाभ्यां विनापि नायककीर्तिषु कर्पूरादिभ्रान्तिप्रत्याख्यानेनैव तदुपमानोपमेयभावप्रतीतेरियमुभयलोपवती नाम पदार्थसाम्यवती वाक्योपमा । केचिदेनां त्रिलोपवतीमपि मन्यनेते । उपमानोपमेययोरन्यतरकथने कस्य साधर्म्यमित्यसंमतमित्यस्माकम् । वाक्यार्थगामिन्युपमा चतुर्धैकेवशब्दिका । अनेकद्योतकेवादिशून्यावैधर्ग्यवत्यपि ॥ ८.१३ ॥ एकद्योतका यथा सिंहासने राजति सिङ्गभूपो वक्षस्थलान्दोलिततारहारः । आलम्बदीर्घस्तभकाभिराम- स्तटे सुमेरोरिव कल्पवृक्षः ॥ ८.*११ ॥ अत्र मेरुतट सिंहासनयोः कल्पवृक्षनायकयोस्तबकहारयोश्च परस्परमुपमानोपमेय भावविवक्षायां विशेषणविशेष्यभावकल्पनया द्वयोरेव वाक्यार्थयोः कल्पितत्वादेकेनैव द्योतकशब्देन तयोः परस्परमुपमानोपमेयभावोऽभिहित इति सेयमेकद्योतका नाम वाक्यार्थसाम्यवती वाक्योपमा । अनेकद्योतका यथा श्रीसिङ्गधरणीपालो भास्वानिव महोदयः । हन्ति ध्वान्तमिवारातिव्रातं व्योम्नीव सङ्गरे ॥ ८.*१२ ॥ अत्र वाक्यद्वयैकतापत्तिकामनया कर्तुः कर्मणोऽधिकरणाच्चोपमानात्पृथक्पृथग्द्योतकशब्दः कृत इति सेयमनेकद्योतका नाम वाक्यार्थसाम्यवती वाक्योपमा । द्योतकहीना यथा देवानां दिवि रक्षणाय मघवा जागर्ति दंभोलिना साधूनां भूवि सिङ्गभूपतिरयं खड्गेन शातास्रिणा । रत्नादौ प्रथमो मुदा विहरते रम्भादिभिर्वैभवा- द्राजाद्रावितरोऽपि रोपितयशाश्शुद्धान्तकान्ताजनैः ॥ ८.*१३ ॥ अत्र सुरनायकयोः स्वर्लोकभूलोकयोः देवभूदेवानां दम्भोलिकरवालयोश्च तुल्यैकश्रिया समावेशादिवादिद्योतकमन्तरेणापि वाक्यार्थानामुपमानोपमेयभावो गम्यत इत्ययं द्योतकशून्या नाम वाक्यार्थसाम्यवती वाक्योपमा । वैधर्म्यवती यथा अविवेकी न सुरभिवच्चिन्तामणिरिव न याति काठिन्यम् । श्रीसिङ्गभूपतिलको शिव शिव भूलोकसौभाग्यम् ॥ ८.*१४ ॥ अत्रोपमानोपमेयद्योतकेषु स्त्सु योयमविवेको नाम धर्मः सोऽयमुपमान एव कविना नियम्यत इतीयं वैधर्म्यवती नाम वाक्योपमा । यत्रोक्तिभङ्ग्या वाक्यार्थे सादृश्यमवगम्यते । वाक्यार्थयोर्विस्तरतः सा प्रपञ्चोपमा यथा ॥ ८.१४ ॥ सेयं द्वेधा हि रूपेण प्रकृताप्रकृतेति च । तयोः प्रकृतरूपार्याच्चतुर्धा सकलोपमा ॥ ८.१५ ॥ एकदेशोपमा चान्ये मालिका मेखलेति च ॥ ८.१६ ॥ तत्र सकलोपमा यथा मैनाकप्रमुखैरिव क्षितिधरैरुद्भ्रान्तदन्तावलैः कल्लोलैरिव घोटकैर्भटवरैर्मातङ्गनक्रैरिव । रैचर्लीयकुलेन्दुना स्वपतिना दैत्यारिणेव स्फुटं सेना सिन्धुरिव प्रयाति नितरां केनापि दुर्लङ्घताम् ॥ ८.*१५ ॥ अत्र सिन्धोः सेनायाश्च दुर्लङ्घतयाभिधीयमानसादृश्ययोरुपमानोपमेयभावविवक्षायां यथा मैनाकादिशैलानां मातङ्गादीनां समुद्रसेनाधर्माणां प्रतीतसादृश्यानां पृथक्पृथग्द्योतकशब्दयोगादतिविस्तरेणावयविनोरवयवानां च यथोचितं साकल्येन वाक्यार्थयोरौपम्ये भङ्गिः सेयं साकल्यवती नाम प्रकृतिरूपा प्रपञ्चोक्तिः । एकदेशवती यथा विलसति सिङ्गनृपालो नावकिसलयसंपुटैरिवाङ्गुलीभिः । कुसुमैरिव नखरुचिभि- र्विटपयुगलेनेव बाहुयुगलेन ॥ ८.*१६ ॥ अत्र कल्पवृक्षनायकयोरुपमानोपमेयभावे वक्तव्ये कल्पवृक्षलक्षणमुपमानं परित्यज्य तदेकदेशेन सहोपमेयैकदेशो बाहुयुगलाशंसावयवैः (किसलय) किसलयकुसुमैस्सह भुजयुगाङ्गान्यङ्गुल्यः नखरुचयश्च पृथक्पृथग्द्योतकशब्दप्रयोगाद्विस्तरेणोपमितानीतीयमेकदेशवती नाम प्रकृतरूपा प्रपञ्चोपमा । मालिका यथा कर्पूरैरिव कौमुदैरिव कुलैः काशैरिव स्वर्णदी-कल्लोलैरिव कैतकैरिव दलैः कादम्बयूथैरिव । श्रीगन्धैरिव शारदैरिव गनैः शीतांशुबिंबैरिव व्याप्तं सिङ्गनरेन्द्रकीर्तिविभवैः त्रैलोक्यमालोक्यते ॥ ८.*१७ ॥ अत्र नायककीर्तिरेकैकप्रकर्षप्रतीतये मालिकाप्रकारेण कर्पूरादिभिरुपमीयत इतीयं मालिका नाम प्रकृतरूपा प्रपञ्चोपमा । मेखला यथा प्रज्ञेव कीर्तिरमला तव सिङ्गभूप प्रज्ञापि खड्ग इव तीव्रतरा विभाति । खड्गः प्रताप इव शात्रवचित्तदाही प्रान्तान् दिशां भजति कीर्तिरिव प्रतापः ॥ ८.*१८ ॥ अत्राभिधीयमानसादृस्यानां प्रज्ञादीनां रशनान्यायेन संकलय्य सप्रपञ्चतया कथनात्सेयं मेखला नाम प्रकृतरूपा प्रपञ्चोपमा । उक्ता विकृत रूपेति यान्या सापि चतुर्विधा । विपर्यासोभयोत्पाद्यानन्वयाख्याभिरङ्किता ॥ ८.१७ ॥ तासु विपर्यासोपमा यथा कोणे कुत्रचिदासतां करिणिकि क्रोडादयः केचन प्राचीनास्तदुपाश्रयान्वयममी दोषान्न भाषामहे । केयूरं स्मरगस्मरस्य शयनं शौरेर्गिरां शासिता श्रीसिङ्गक्षितिनायकेन समतां शेषाहिरेवार्हति ॥ ८.*१९ ॥ अत्र प्रतीयमाने धरणीधौरेयत्वे शेषादीनामुपमानत्वं नायकस्योपमेयत्वमिति मर्वादायां वर्णनीयस्यातिशयं विवक्षता केनापि वक्ता विपर्यासादुपमानोपमेयभावः कल्पित इति सेयं विपर्यासोपमा नाम विकृतरूपा प्रपञ्चोपमा । उभयोपमा यथा श्रीसिङ्गभूपालक साधुरक्षा- मासधुशिक्षां च वितन्वतस्ते । अनीकिनीसिन्धुरिवानुरुन्धे दुर्लंघ्यतां सिन्धुरनीकिनीव ॥ ८.*२० ॥ अत्र वाहिनीनाथनायकवाहिन्योरन्योन्यमुपमानोपमेयभावविवक्षायामेकतरपक्षे प्रसिद्धिवैकृतमितीयमुभयोपमा नाम विकृतरूपा प्रपञ्चोपमा । उत्पाद्योपमानो यथा कालापां यदकल्पपादपमहाशाखा समालंबते श्रीसिङ्गक्षितिपालबाहुरनया तुल्यः कृपाणोज्ज्वलः । हेमाद्रेरुपरि स्थिते यदि विधौ पाश्चात्यगौरान्धता तच्छत्रं कृतशातकुम्भकलशं जातोपमानं भवेत् ॥ ८.*२१ ॥ अत्र कल्पपादपशाखायाः कालाहिसंकल्पमुत्पाद्यानया सकृपाणो नायकपाणिरुपमीयत इति सेयमुत्पाद्योपमा नाम विकृतरूपा प्रपञ्चोपमा । एवमुत्तरार्धेऽपि योजनीयम् । अनन्वयोपमा यथा श्रीसिङ्गभूपतिरिव भाति श्रीसिङ्गभूपतिः । अखर्वप्रत्यर्थिमदवारणवारणे ॥ ८.*२२ ॥ अत्रोपमानोपमेयभाव एकस्यैवानन्वित इतीयमनन्वया नाम विकृता प्रपञ्चोपमा । उपमेयतया यस्मिनुपचारप्रयोगतः । उपमानं विरुध्योत रूपकं तन्निरूपितम् ॥ ८.१८ ॥ प्राधान्यात्तदिदं त्रेधा शब्दार्थोभयसंभवात् । शब्दप्रधानं प्रकृतं विकृतं चेति तद्द्विधा ॥ ८.१९ ॥ आद्यन्तविकृतैश्शब्दैर्ग्रथितं तच्चतुर्विधम् । समस्तं व्यस्तमुभयं सविशेषणमित्यपि ॥ ८.२० ॥ तत्र समासवद्रूपकं यथा धारा सिङ्गमहीपालकरवालपयोमुचः । निर्वापयति वीराणां प्रतापदवपावकम् ॥ ८.*२३ ॥ अत्र सादृश्यादि विवक्षायामभेदोपचारेणोपमेयस्य करवालस्य पयोमुगिव पयोमुगिति पयोमुक्पयोदनिरूपणीयत्वे सामान्येवाद्य प्रयोगादुपमार्थस्तिरोभूतः समासश्च कृत इति तदिदं समस्तं नाम प्रकृतिशब्दप्रधानरूपकम् । व्यस्तं यथा श्रीसिङ्गक्षितिनायकस्य यशसां चन्द्रेण सान्द्रा रुचिः यत्प्राप्ता तपनं प्रतामपभितो लोके तदत्यद्भुतम् । एवं नातिचमत्कृतं तदनयोरत्यन्तमाश्लिष्यतोरापत्यातिथयो भवन्ति यदमी प्रत्यर्थिपृथ्वीभूजः ॥ ८.*२४ ॥ अत्र यशसो चन्द्रेण प्रतापं तपनमिति द्वयोरुपमानयोरुपमेयशब्दसामानाधिकरण्यादुपमानार्थस्तिरोहितः समासश्च कृत इति समस्तं नाम प्रकृतशब्दप्रधानंरूपकम् । समासासमासरूपमुभयं यथा श्रीसिङ्गभूपाल भवत्कृपाणो दंष्ट्रा भुजादण्डभुजङ्गमस्य । विरोधिराजन्यकमिन्दुबिम्बं हीनं यशश्चन्द्रिकमाविधत्ते ॥ ८.*२५ ॥ अत्र भुजाभुजङ्गमस्य समस्तत्वं दंष्ट्रेत्यसमस्तमिति तदिदमुभयं नाम प्रकृतिशब्दप्रधानं रूपकम् । सविशेषणं यथा अन्तंरुद्धान्तसञ्चारश्रीसिङ्गनृपमन्दरम् । भवति द्विषतां सैन्यं पीयूषमधनांभुधिः ॥ ८.*२६ ॥ अत्र नायकमन्दरक्षुभितविशेषणमिव विशिष्टैरेव वाहिनीनाथवैरिवाहिन्यो रूपणमिति सविशेषणं नामेदं प्रकृतिशब्दप्रधानरूपकम् । अत्र परम्परा यथा गुणकेतुदुकूलपट्टिका त्रिजगत्सौधसुधावलेपनम् । तव सिङ्गमहीपते यशः सुजनांभोनिधिपूर्वचन्द्रमाः ॥ ८.*२७ ॥ अत्र गुणानां केतुतया रूपणं प्रथमम् । तत्संबन्धितया दुकूलपट्टिका द्वितीयम् । तस्या यशसा तृतीयम् । इति सेयं परंपरा नाम विकृतशब्दप्रधानरूपकम् । तदिदं वैधर्म्येणापि संभवति । यथा विदन्त गिरि कुलिशधारा कलिमलददहन नवपयोधरधारा । विलसति कटाक्षरेखा तव सिङ्गक्षितिप कल्पवृक्षसुरेखा ॥ ८.*२८ ॥ एतदेव रुपकस्य रुपकहेतुतया रूपकहेदुरुपकमिति केचिदाचक्षते । तदपि नाम वैकृतमेव । मेखला यथा राज कुमार द्विरदैर्द्विरदं शिलाभिश्शिला शिखा सौधैः । सौधविमानैर्ललितैः कलिता राजाद्रिराजधानीयम् ॥ ८.*२९ ॥ अत्र राजकुमारद्विरदादीनां रूपकाणां रशना न्यायादुत्तरोत्तरसंकलन्या रूपितत्वादियं मेखला नाम विकृतशब्दप्रधानं रूपकम् । तदिदं शृङ्खलेति केचिदाचक्षते । तन्नामभेमात्रम् । मालिका यथा चूडारत्नं नृपषरिषदामर्थिनां पारिजातो रक्षालासः सुचरितवतां भाग्यराशेर्निधानम् । लीलारङ्गो वरतनुदृश्मर्(?) गला दुर्नयानां सिङ्गक्षोणीतलपतिरयं राजते राजशैले ॥ ८.*३० ॥ अत्र एकस्मिन्नव नायके मालिकाप्रकारेण रूपकाणां निरूपणादिदं मालिका नाम विकृतशब्द प्रधानं रुपकम् । रूपकरूपकं यथा कृपाणवत्र्लीभुजगो श्रीसिङ्गधरणीभुजः । अशेषं ग्नसते वैरिराजरत्नेन्दुमण्डलम् ॥ ८.*३१ ॥ अत्र वल्लीत्वेनारोपितस्य कृपाणस्य भुजगतया रूपणादिदं रूपकरूपकं नाम विकृतशब्दप्रधानरूपकम् । तदेतच्चतुष्टयमपि परंपरादिवैकृतेन निबद्धमिति विकृतमित्युच्यते । अर्थप्रधानं प्राधान्यादङ्गिनोऽङ्गस्य च द्विधा । चतुर्धाङ्गिप्रधानस्य रूपकाद्यैर्निरूपितम् ॥ ८.२१ ॥ सकलं विकलं युक्तमयुक्तमिति भेदतः ॥ ८.२२ ॥ तत्र सकलं यथा निष्यन्दमानसरसोक्तिमरन्दसारं विस्तारिलोचनपलाशविशेषरम्यम् । श्रीसिङ्गभूप भवदीयमुखारविन्द- मध्यास्यते कमलया परमादरेण ॥ ८.*३२ ॥ अत्र नायकमुखारविन्दावयविनोपमानोपमेयौ कथितसादृश्यैः सरसोक्तिमरन्दलोचनपलाशैः स्वावयवैस्सह यथाविवक्षितं साकल्येन रूपिताविति तद्योग्यवस्त्वाधारत्वकथनादस्यैव प्राधान्यमिति च तदिदं सकलं नामाङ्गिप्रधानमर्थप्रधानं रुपकम् । विकलं यथा श्रीसिङ्गभूपालमुकं स्मितज्योत्स्रामनोहरम् । भुज्यन्नाननुसंधत्ते विकसन्नयनोत्पलान् ॥ ८.*३३ ॥ अत्र स्मितज्योत्स्नयोरवयवयोः निरूपणं निरूप्यावयवेन पूर्णेन्दुलक्षणस्योपमानस्यानभिधानात्तदिदं विकलं नामाङ्गिप्रधानं रूपकम् । राजहंसोपसेव्येन राजकीर्तिबिसश्रिया । पद्माकरेण भवता भूयते सिङ्गभूपते ॥ ८.*३४ ॥ अत्रारोप्यमाणयोः परस्परसंगतेर्योग्यत्वादिदं युक्त्तं नामाङ्गिप्रघानं रूपकम् । अत्र यद्यपि पद्माकर इति गौणवृत्तिर्व्यपाश्रयत इति शद्ब एव विशेषणैरलङ्कियते तथापि पद्माया आकर इति श्लेषसामर्थ्येन मुख्यस्येव भवति शद्भार्थस्य प्राधान्यमवगम्यत इत्यर्थप्रधानमेवैतत् । अयुक्तं यथा कीर्त्यमृतं शुचि दधती धारागरलेन विदधती भीतिम् । श्रीसिङ्गभूप विलसति तावककरवालकालिन्दी ॥ ८.*३५ ॥ अत्रारोप्यमाणयोः सुधागरलयोः स्वभाव विरुद्धत्वेन परस्परसंगत्ययोगत्वादयुक्त्तं नामाङ्गिप्रधानं रुपकम् । भेदा अङ्गप्रधानस्य चतुरश्चतुरा विदुः । सहजाहार्यतद्योगतद्वैषम्यैरुपाधिभिः ॥ ८.२३ ॥ तत्र सहजाङ्गप्रधानं यथा आरूडस्तनमञ्जरीपरिकरा हासप्रसूनाचिता रागाञ्चत्सुकुमारबाहुलतिकास्ताम्राधराग्रछदाः । सामन्तक्षितिपैरुपायनतया सेवातुरैरर्पिताः श्रीसिङ्गक्षितिपालमादरमयं कुर्वन्ति कन्यालताः ॥ ८.*३६ ॥ अत्र कन्यापक्षे पयोधर मन्दस्मितभुजादरलक्षणानां लतापक्षे मञ्जरीप्रसूनद्विरेफपत्र्लवरूपाणां चावयवानां नायकोत्सुकीकरणे प्राधान्यमिति सहजाङ्गप्रधानरूपकमिदम् । आहार्यप्रधानं यथा आशाप्रान्तपचेलिमं प्रसरणप्रौढप्रतापातप- स्फायद्बान्धवपुणडरीकपरितोल्लासानुकूलोदयः । उद्दण्डप्रतिगण्डभैरवजनप्रस्थानदर्पात्ययो वैरिक्ष्मापति कीर्तिकेतकदलद्रोहाय संनह्यते ॥ ८.*३७ ॥ अत्र नायकविजययात्रापक्षे प्रतापबन्धुवैरिकीर्तिलक्षणानां शरत्पक्षे आतपपुण्डरीककेतकप्रसूनानां चावयवतया कल्पितत्वादाहार्याणां संनहने प्राधान्यमित्याहार्याङ्गप्रधानं रूपकमितीदमुभय प्राधान्यम् । तद्योगो यथा उद्दण्डप्रतिगण्डभैरवविभो खड्गप्रतापानलोद्धूतप्रौढकृपाणधूमपटलः क्रोधस्फुलिङ्गोत्कटः । दिक्कोटीपुटरूढवैशिखमुखज्वालज्वलत्प्रस्फुटं प्रत्यर्थिक्षितिनाथसैन्यगहनाद्गोछाय(?) संलक्ष्यते ॥ ८.*३८ ॥ अत्र नायकप्रतापपक्षे कृपाणक्रोधविशिखमुखलक्षणानामाहार्याणामनलपक्षे धूमस्फुलिङ्गशिखानां सहजानां चावयवानां रुपकाणां वैरिराजन्यक्षोभकरणे प्राधान्यमिति सहजाहार्याङ्गप्रधानं रूपकमिदम् । वैषम्यवाद्यथा श्रीसिङ्गक्षितिनाथबाहुभुजगे ताम्राङ्गगुलीपल्लवे गाढस्कन्धनिरूढमंजुमधुरे कल्यापणरेखोज्ज्वले । दूरप्रसृतदुष्टशिक्षकपुरामात्याभिषिक्त्तोद्धुरः स्कन्धावाससुखं चरस्थितिमती विश्वंभरा जृम्भते ॥ ८.*३९ ॥ अत्र भुजावयविनो भुजगतया रूपणे कृते तदवयवानामङ्गुलीनां पत्र्लवतारूपया रूपणया पदान्तराणां स्कन्धशुभरेखाणां रूपणं चेति सर्वतो वैषम्यात्ताम्राङ्गुत्र्यादीनां भाग्यद्वारा धरणीभरणस्थैर्ये प्राधान्याच्च तदिदं विषमाङ्गप्रधानं रूपकम् । द्विधा शभ्दार्थमुख्यस्स्यात्केवलं व्यतिरेकि च ॥ ८.२४ ॥ केवलं यथा कुर्वन् कुवलयोल्लासं श्यामारञ्जनलालसः । सुधाकरोऽपि श्रीसिङ्गभूपालेन्दुः प्रकाशताम् ॥ ८.*४० ॥ अत्र नायकावयविनः कुवलयस्य चन्द्रतया रूपणेन शब्दप्राधान्यमुक्तश्लिष्टविशेषण विशेषादर्थस्य प्राधान्यमिति केवला नामेदमुभयप्रधानं रूपकम् । व्यतिरेकिकं यथा अभङ्गो वाराशिः विगलितकलङ्को हिमरुचिर्विवेकी हेमाद्रिः कलितनिजमूर्ती रतिपतिः । अनिन्द्यो देवेन्द्रः कुटिलगतिहीनो भुजगराड्जनानां भाग्येन क्षितिमवति सिङ्गक्षितिपतिः ॥ ८.*४१ ॥ अत्र वाराशिप्रभृतीनामभङ्गादिविशेषणाङ्कुरितव्यतिरेकाणां नायकसामानाधिकरण्येन कथनादर्थत श्शब्दतः प्राधान्यमवधार्यत इति व्यतिरेकवन्नामोभयप्रधानं रूपकम् । इत्यष्टादशधा रूपं रूपकस्य निरूपितम् । सह्कीर्णं मिश्ररूपत्वात्सङ्करान्नातिरिच्यते ॥ ८.२५ ॥ विद्याधरस्य व्यस्तादि रूपकेष्वचमत्क्रियाम् । वदतो लक्ष्यनिर्माणकातर्यं मूलकारणम् ॥ ८.२६ ॥ उभयोरुक्तिचातुर्यादौपम्यं यत्र गम्यते । उपमारूपकान्यत्वे सा हि साम्यमहङ्किया ॥ ८.२७ ॥ सेयं प्रपञ्चदृप्टान्तप्रतिवस्तूक्तिभिस्त्रिधा । अविवादिः प्रपञ्चोक्तिः साम्योत्कर्षाप्रकर्ष भाक् ॥ ८.२८ ॥ अत्र साम्यवती प्रपञ्चोक्तिर्यथा ... ... ... ... फलैः प्रेक्षासूतैर्वचनपरिपाकं कृतधियाम् । स्वरं वीणाक्वाणैर्ललितमुपधा वारसुदृशां जिगीषा यात्रायां भरितदिशि सिङ्गक्षितिपतिः ॥ ८.*४२ ॥ अत्र कुलगिरि द्राक्षाफलविपञ्चीक्वाणानामुपमानानां मत्तेभसाहित्यगायिकास्वराणामुपमेयानां तुलाधृतवत्साम्यमितीत्यादिद्योतकमन्तरेणापि चतुरोक्तिभङ्ग्या प्रतीयत इति सेयं साम्यवती प्रकृतप्रपञ्चोक्तिर्नाम साम्यालङ्कारभङ्गः । सेयं विकृतापि संभवति । यथा मिमीते मत्तेभैः कुलगिरिकुलं तुङ्गशिखरं फलानि द्राक्षाणां वचनपरिपाकैः कृतधियाम् । विपञ्चीनिक्वाणं श्रुतिभिरुपधा वारसुदृसां जिगोषा यात्रायां भरितदिशि सिङ्गक्षितिपतिः ॥ ८.*४३ ॥ अत्र कुलशैलादीनामुपमेयत्वं मत्तेभानामुपमानत्वं च प्रसिद्धवैपरींत्येन कल्पितमिति सेयं विकृतप्रपञ्चोक्तिर्नाम साम्यभेदः । प्रकृतैवोत्कर्षेण यथा मा गर्वीयत मेदिनि सुमनसो रेचर्लवंशाग्रणीः श्रीसिङ्गक्षितिपालको वितरणैर्मुष्णाति तृष्णामिति । सन्त्येवंविधकर्मठास्सुरगवीकल्पद्रुचिन्तामणिश्रेणीसिद्धरसाजयो घनदयास्कन्धानुसंधायिनः ॥ ८.*४४ ॥ अत्र भोभो विश्वंभरामराः किमनेनैव वितरणशालिना नायकेन गर्वायध्वे । दिविषदां पुनरनेकसन्ततिकल्पवृक्षादयो दातार इत्युपमानोत्कर्षादियमुत्कर्षवती प्रपञ्चोक्तिर्नाम साम्यभक्तिः । सैवापकर्षेण यथा कुर्वन्मार्जितमम्बरे जलनिधौ संक्षालयन् घर्षयन् देहं मेरुशिलासु चन्द्रकि जवं नक्त्तं दिवं भ्राम्यसे । किं कृत्वा हृदि सिङ्गभूपतियशो राजासि किं भ्रूमहे सत्यं शक्यमपोहितुं नहि नहि स्वाभाविकी श्यामिका ॥ ८.*४५ ॥ अत्रोपमेयान्नायकयशोविलासादुपमानस्य चन्द्रस्यापकर्ष इत्यपकर्षवती नाम प्रपञ्चोक्तिः । अनयैव भङ्ग्या विकृतिरपि लक्षणीया । सद्धिर्द्येतकसद्भावे दृष्टान्तोक्तिरितीरिता । मिश्रितामिश्रितैस्सेयं क्रियाद्यैर्बहुधा भवेत् ॥ ८.२९ ॥ अत्र मिश्रक्रियया यथा निवर्तमानां विनिवर्तमानां कृतप्रसारां रचितप्रसाराम् । श्रीसिङ्गभूपालकटाक्षरेखां छायेव लक्ष्मीरनुभाति नित्यम् ॥ ८.*४६ ॥ अत्र केवलनिवर्तनादिक्रियायोगजनितं साम्यं वा दृष्टान्तपूर्वमिति सेयं केवलक्रियायोगवती दृष्टान्तोक्तिः । मिश्रक्रियायोगवती सैव यथा अत्रैव द्वितीयपादस्थाने कृतप्रसादां रचितप्रसादेतिपाठे निवर्तनक्रिया प्रसादगुणनिमित्तसाम्या मिश्रक्रियायोगवतीयं दृष्टान्तोक्तिः । एवं मिश्रामिश्रजातिगुणद्रव्ययोगनिमित्ता दृष्टान्तोक्तयो द्रष्टव्याः । ननु दृष्टान्तोक्त्तेः दृष्टान्तालङ्कारस्य वा को विशेषः । श्रूयताम् । लौकिकपरीक्षकाणां यस्मिन्नर्थे बृद्धिसाम्यं स दृष्टान्त इत्यर्थं प्रति न कश्चिद्भेदः । उक्तिभङ्गिमुद्दिश्य पुनरनेको विद्यते । यथा हि साध्यसिद्धिप्रयोजनो दृष्टान्तः । साधर्म्यंसिद्धिप्रयोजनादृष्टान्तोक्तिः । दृष्टान्ते द्योतकगन्धोऽपि नानुसन्धीयते । इह तु द्योतकप्रयोगस्याधिकार इत्याद्यत एवेयमुभयालङ्क्रिया । वस्तु किञ्चिदुपन्यस्य विन्यासात्तत्सलक्ष्मणः । साम्यं गम्यत इत्येषा प्रतिवस्तूक्तिरूच्यते ॥ ८.३० ॥ दृष्टान्तोक्तिप्रपञ्चोक्तिछायया सा द्विधा मता ॥ ८.३१ ॥ छायाप्रतिवस्तूक्तिर्यथा मत्तेभासुरभासुराजिनपटे स्फूर्जत्कटे धूर्जटे- राशङ्क्येत यतः कुतश्चन मृगे न्यक्कारढक्कारवः । यद्यन्यैरनवद्यपद्ययशसः श्रीसिङ्गभूशार्ङिणो भूपालैरभिलक्ष्यते रणमुखे भ्रूभङ्गभीमं मुखम् ॥ ८.*४७ ॥ अत्र दृष्टान्तरूपं वस्तु प्रथममुपन्यस्तम् । दार्ष्टान्तिकं प्रतिवस्तु पश्चादिति दृटान्तोक्तिछायावतीयं प्रतिवस्तूक्तिर्नाम साम्यभक्तिः । प्रपञ्चोक्तिछायावती यथा श्रीसिङ्गक्षितिपाश्रया यदि कथा मेरोर्न मे रोचते तद्वक्त्रस्य विलोकनं यदि वृथा चन्द्रस्य संदर्शनम् । तद्गोष्ठी यदि पृष्ठतो न विशते सा माधवी माधुरी तत्सेवा यदि सिद्धमेव सुधियामव्याजभव्यार्जनम् ॥ ८.*४८ ॥ अत्रोपमानापकर्षस्त्रिष्वर्थेषु चतुर्थे तु समत्वमिति प्रपञ्चोक्तिछायावती प्रतिवस्तूक्तिः । एवं सामान्यतः साम्यमलङ्कारो निरूपितः । विशेषस्तु विशेषज्ञैर्लक्ष्यतां लक्ष्यविस्तरे ॥ ८.३२ ॥ यत्र डोलायते चित्तमर्थयोरतिसाम्यतः । स्यादेकानेकविष्या संशयोक्तिर्मता हि सा ॥ ८.३३ ॥ स्यादेकविषयानेकं यत्रैकत्र विशह्क्यते । यत्रत्वैकमनेकत्र सानेकविषया स्मृता ॥ ८.३४ ॥ एकविषया यथा शाकाहारपरिग्रहो गिरिदरीष्वेकान्तचिन्ता रतिः शय्या स्थण्डिल एव भूतिधवला मूर्तिर्जटालं शिरः । अङ्गान्यस्थिमयानि हन्त सुतरां किं वा तपस्वी भवा- नुद्दण्डप्रतिगण्डभैरवविभोः किं वा विरोधी नृपः ॥ ८.*४९ ॥ अत्रैकस्मिन्नेव पुरुषलक्षणे वस्तुनि तपस्मित्वनायक विरोधित्वलक्षणयोर्वस्तुतोरभिधीयमानसामान्यप्रतीतेर्विशेषादर्शनादुभयगतविशेषस्मरणाच्च विमर्श इति ज्ञेयमेकयिषया नाम संशयोक्तिः । अनेकविषया यथा द्वौ नेत्रानन्दकन्दौ जगति कुवलयप्रीणने जागरूकौ सन्मार्गैकप्रदारप्रवणनिजमती पूर्यमाणौ कलाभिः । तत्कोवा सिङ्गपृथ्वीतिलकः कोनु राकामृगाङ्कः का ज्योत्स्ना का च कीर्तिश्चिरमति विमृशन्नैव नाजामि तत्त्वम् ॥ ८.*५० ॥ अत्राभिधीयमानसादृश्ययोर्नायकतारकानायकयोः प्रत्येकमुभयमा शङ्क्यत इति सेयम् । इयं प्रतीत साम्यापि संभवति यथा अत्रैव का ञ्चोत्स्ना का च कीर्तिरिति ज्योत्स्नाप्रतीत धावल्यादिसाम्ययोः प्रत्येकमुभयमाशङ्क्यत इति सेयं प्रतीत वर्णनसाम्यानेकविषया । एवमेकविषयापि लक्षणीया । ननु वितर्कसंशयालङ्कारयोः को विशेषः । श्रूयताम् । कोटिद्वयावलम्बिविमर्शः संशयः । न्यक्कृतैककोटिस्तु वितर्कः । किञ्चिन्निर्णयामन्नो वितर्कः । वितर्कासन्नः संशयः । तथा हि संदिहानो वितर्ककोटिमारुह्य तर्ककक्ष्यां परित्यज्य तत्त्वमेवाभिनिविशते । वस्तु किञ्चिदपह्नुत्य सदृशासदृशस्य वा । अन्यस्य वस्तुनो न्यासो यत्र सापङ्नुतिर्मता ॥ ८.३५ ॥ सदृशवस्तुन्यासवत्यपह्नुतिर्यथा नेयं शारदकौमुदी सखि यशः श्रीसिङ्गपृथ्वीपतेः नैतच्चञ्चलचञ्चरीकपटलं तद्द्वेषिणां दुर्यशः । नेदं कोकिलकूजितं मृगदृशां तत्कीर्तिसंगीतमि- त्यालापाननुसंदधाति सुदृशो दूरप्रियायाः सखि ॥ ८.*५१ ॥ अत्र सत्यरूपापि चन्द्रिकाचञ्चरीककोकिलकूजितानि वचनादपह्नुत्य प्रतीयमनसादृश्यानि नायककीर्तितत्परिपन्धिदुष्कीर्तिगायिकास्वरलक्षणान्यन्यानि वस्तून्युपन्यस्तानीति सेयं सादृश्यवत्यपह्नुतिः । असादृश्यवती यथा नेत्रं हन्त वतंसगुच्छरजसा बाष्पायते दूषितं गात्रं स्पृटमनेन मन्दमरुता रोमाञ्चमालंबते । नान्यत्कारणमित्युदीरितवती काचिद्धृदीच्छागते श्रीसिङ्गक्षितिपालके निजसखी मन्दस्मितैर्लज्जते ॥ ८.*५२ ॥ अत्र लज्जाशीलया (कया) चजिदानंदबाष्परोमाञ्चकारणं नायकविषयमनुरागमपह्नुत्य विसदृशविरागपवनलक्षणकारणोपन्यासः कल्पित इति सेयमसादृश्यवती नामापह्नुतिः । समाध्युक्तिर्मतोऽन्यस्मिन्नन्य धर्माधिरोपणम् ॥ ८.३६ ॥ अन्यस्यान्यधर्मस्य तदुभयस्य चेति व्युत्पत्त्या धर्मिणोरध्यासे धर्मस्याध्यासे धर्मधर्मिणोरध्यासे च त्रिविधः समाधिः । तत्र केवलधर्मिणोरध्यासे यथा पक्षाणां कुरुते स तत्क्षणमयं युत्पक्षरक्षामणिः दुर्गापाश्रयणं त्वभीरुमनसोर्नैवास्य संभाव्यते । इत्थं चिन्तयतामिव क्षितिजये श्रीसिङ्गपृथ्वीपते त्वय्यासन्नचरे कुलक्षितिभृतां लब्घोदया स्तब्धता ॥ ८.*५३ ॥ अत्र पक्षपरिरक्षणादि धर्मारोपमपहाय नायके तद्धर्मवतः पर्वतशासनस्यैवाध्यासादयं धर्मिसमाधिः । धर्मसमाधिर्यथा श्रीसिङ्गभूपाल तव प्रतापे जित्वा प्रदीप्ते तपनप्रतापम् । दिशां तटे कोरकितान्तरङ्गा निकाममालिङ्गितकीर्तिरेषा ॥ ८.*५४ ॥ अत्र नायकप्रतापनायककीर्ती दिक्तटेष्वचेतनासु यथाक्रमं भटप्रतिभटतत्सलक्षणधर्मे समारेपमपहाय जयपराजयहर्षालिङ्गनतरङ्गोल्लासरूपतद्धर्मा एव समारोपिता इति सेयं धर्मसमाधिः । तद्धर्मेण तद्धर्मिणां चाध्यासे यथा प्राक्संभूत भियाभिभूतरशनापृष्ठे कृताहं कितां दंष्ट्राग्रेण विकम्पिता परशतैराक्रम्य नीतांघ्रिणा । रक्त्तेः कर्दमितोज्झिता पितृगिरा नेतिकृष्णेति किं (?) रैचर्लीयकुलोद्भवेन भवता सेयं स्थिरा मन्यते ॥ ८.*५५ ॥ अत्र नायके नारायणस्य धर्मिणां तद्धर्धाणां मत्स्यादिबलभद्रान्तावतारकल्पितानां जल्धिसंक्षोभणा दिरशनासमारोपणादयमुभयसमाधिः । यत्रोपमाना त्कथितादुपमेयं प्रतीयते । अतिप्रसिद्धेस्तामाहुस्समासोक्तिं मनीषिणः ॥ ८.३७ ॥ श्लाघां गर्हामुपालंभं प्राप्तेयं त्रिविधा भवेत् ॥ ८.३८ ॥ श्लाघावती यथा उदन्या दैन्यनिर्विण्ण पथिकव्रणबन्धुना । प्राप्यते जन्मसाफल्यमधुना धन्विसिन्धुना ॥ ८.*५६ ॥ अत्र पथिकजनप्राणरक्षण मरुदेशसमाधिनोपमानेन प्रतीयमानया च पथिकजनरक्षणलक्षणसाधारणधर्मस्य कलिदोषकलुषीभूतराजलोकभूलोकैकपरायणस्य सिङ्गभूपालस्योक्तिसिद्धौ तच्छायैव श्लाघा प्रतीयत इति सेयं श्लाघावती समासोक्तिः । सैव गर्हावती यथा एका दैत्यगुरोरुभे मुरभिदस्तिस्रः पशूनां प्रभोरष्टौ द्वादश पद्मगर्भगुहयोर्लङ्कापतेर्विशतिः । अस्माकं तु दृशः सहस्रमिति मा गर्वीय वास्तोष्पते माक्रोधीतरागतिस्मरणतोक्त लज्जा नु ...... तेभवेत्(?) ॥ ८.*५७ ॥ अत्राहल्याभिसरणदोषनिमित्तसिद्धलोचन सहस्रेण तदाधिक्यादेव भार्गवादिविशिष्टजनतिरस्कारिणा दुश्च्यवनेनैवोपमानेन प्रतीयमानसामान्यस्यान्यायोपार्जितसमृद्धेः न्यायमार्गप्रवण सिङ्गभूपालादिप्रभुवर्गविभाषेण कस्य चिद्भूपालाधमस्योपमेयस्योक्तिसिद्धावुपमान द्वारेणैवोपमेयनिन्दा विवक्षितेति गर्हावतीयं समासोक्तिः । उपालंभवती यथा अपि मृदुलैरपि प्रवालैरपि कुसुमैरपि तिक्ततां विदित्वा । उपवससि सखे पलाशया किं परिणतवानपि तिक्त एव निम्बः ॥ ८.*५८ ॥ अत्र तिक्तता मूर्धाभिषिक्त्तेन निजेनैवोपमानेन प्रतीयमानसादृस्यस्यैव निष्कम्परसे गुणहीनस्य कस्यचिदवर्णनीयस्योक्तिसिद्धौ परिणतवानपि तिक्त एवेत्युपालंभोक्तिरुपमानजादुपमेयमवलंबत इतीयमुपालंभवती समासोक्तिः । अभिधीयमानसादृश्या श्लाघावती यथा धृतेराधारस्य स्फुटरटित शुद्धैः कृतमुदा सरस्वत्या नित्यं प्रकटितसुवह्णप्रसरया । सुधर्मातम्बानामिह सुमनसामेकवसते- स्सुवर्णाद्रेः क्षोणीभरणमुचितं नेतरगिरेः ॥ ८.*५९ ॥ अत्र सुवर्णगिरिणैवोपमानेन धृत्याधारत्वादिभिरभिधीयमानसादृश्यस्य सिङ्गभूपालस्योपमेयस्योक्तिसिद्धावुपमानमुखादिवोपमेयस्य श्लाघा प्रतीयत इति सेयं यथोक्ता । सैव गर्हावती यथा वाताहारतयेंद्रियार्थं विरतिस्संसूचिता सैकते सर्वाङ्गीणनिमज्जनात्प्रकटिता दुष्कर्मदूरीक्रिया । इत्थं विद्धमुपास्य तैर्थिकजन ग्रासादुदग्रात्मने मायामांसलशिंशुमार भवते दूरेण बद्धाञ्जलिः ॥ ८.*६० ॥ अत्र शिंशुमारेणोपमानेनाभिधीयमानसादृस्यस्य कस्यचिद्द्वारवर्तिनो दांभिकस्योपमेयस्योक्तिसिद्धादुपमानमुखादुपमेयस्य गर्हा प्रतीयत इति सेयमभिधीयमानसादृश्यगर्हावती समासोक्तिः । सैवोपालंभवती यथा वारांनिधेर्बुधमनोरथसिद्धिहेतोर्मर्यादया कृतरुचेर्बहुजीवनस्य । जातश्रियो हिमकरस्फुरणेद्धकान्तेर्जाड्यं न चेदिह तुलामुपयाति कोऽन्यः ॥ ८.*६१ ॥ अत्रांबुधेरेवोपमानस्योपालंभात्तदुपमेयस्याभिधीयमानसादृश्यस्य कस्यचिद्गुणवतोऽपि विलम्बकारिणे उपालंभः प्रतीयत इति सेयमभिधीयमानसादृश्योपालंभवती समासोक्तिः । अनेन श्लाघादिसंकरवत्यपि व्याख्याता । अत्र श्लाघागर्हणसंकरवती यथा वाराधाराः कति न सुवते दुर्यशोराशिहेतोरन्तर्जन्तुव्यतिकरवसालंबितान् क्षुद्रशंखान् । सोऽयं भूम्नामावाधरुदधिर्यत्र भाग्यावधीनां सौभाग्यानां जनिरुदितवान् दक्षिणावर्तशङ्खः ॥ ८.*६२ ॥ अत्र प्रथमार्धे क्षुद्रशङ्खसमुत्पत्तिस्थानजलाशयानामुपमानाकथनादेव तदुपमेयानां प्रतीयमानसादृस्यानां क्षुद्रक्षुद्रक्षत्रियोत्पत्तिस्थानानामन्यनरपालवंशानामुक्त्तेः सिद्धावुपमानद्वारेणैवोपमेय गर्हा प्रतीयते । उत्तरार्धे च दक्षिमणावर्तशङ्खजनकक्षीरसागरेणैवोपमानेन कथितसादृश्यस्य नायकाव तरमपरिणतभागधेयस्य रेचर्लवंशस्योक्तिसिद्धा वुपमानमुखेनैवोपमेयस्य श्लाघा प्रतीयते । तदियं गर्हाश्लाघासंकरवती समासोक्तिः । एवमन्ये भेदा लक्षणीयाः । एषां विकृता अपि संभवतन्ति । यथा कुर्वता सुमनोरक्षां गृहीतशतकोटिना । करेण पालयन् लोकान् भासते सिङ्गभूपतिः ॥ ८.*६३ ॥ अत्र वर्णनीयस्य नायकस्य समुचिताया मुपमेयतायां विपर्यासोपमान्यायेनोपमानीकृतस्य श्लाघाया विशेषेण बलाभिधीयमान सामान्यशतमन्योः प्रतीतश्लाघे प्रतीते इति सेयं विकृता कथितसामान्या समासोक्तिः । एवमदनीयानि(?) भेदान्तराण्यपि स्वयमवगन्तव्यानि । ननु उपमासमासोक्त्त्योः को विशेषः । श्रूयताम् । उपमेये उपमानारोपणं समाधिः उपमाने उपमेयधर्माध्यासः समासोक्तिः इति व्यक्त एवानयोर्भेदः । अन्यभावस्थितिः प्राप्ता यत्र द्रकव्यगुणक्रियाः । संभाव्यन्तेऽन्यथा प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥ ८.३९ ॥ शरूपफलहेतुत्वाद्भावाद्भावानुयायिनाम् । द्रव्यादीनां विकल्पेन भवेदियमनेकधा ॥ ८.४० ॥ तत्र द्रव्यस्वरूपोत्प्रेक्षा यथा नार्हस्थितिश्च सुरवेश्मनि सर्वदेति चित्ते विचिन्त्य पयसामधिपं विहाय । रेचर्लवंशमवतीर्ण इवाच्युतोऽयं श्रीसिङ्गभूपतिरिदं परिपाति विश्वम् ॥ ८.*६४ ॥ अत्र नायकस्य रेचर्लवंशानतीर्णलक्ष्मीनायकरूपेण संभावनमिति सेयं द्रव्यस्वरूपेत्प्रेक्षा । द्रव्यफलोत्प्रेक्षा यथा मन्ये द्वितीयभुजगान्वयपालनार्थ दिक्कामिनीगिरिपयोधरचुम्बनार्थम् । बृन्दारकोपनसीम्नि हिमाचलार्थं श्रीसिङ्गभूपतियशो विशति त्रिलोकम् ॥ ८.*६५ ॥ अत्र कीर्तेः त्रिलोकप्रवेशस्य प्रयोजनतया द्वितीयभुजगेश्वरादिद्रव्याणां कथनादियं तथोक्ता । हेतुभूतद्रव्योत्प्रेक्षा यथा आश्वस्तदिग्गजमनाकुलगोत्रशैल-मुन्मूर्धभोगिवरमुल्लसितादिकूर्मम् । श्रीसिङ्गभूमिपतिना रचितप्रतिष्ठा प्रीणांति भूमिरपरेण सुमेरूणेव ॥ ८.*६६ ॥ अत्र वसुमतीप्रतिष्ठाहेतुभूतनायकलक्षणद्रव्यस्यापरसुमेरुतया संभावनं कृतमिति द्रव्यहेतूत्प्रेक्षा । गुणस्वरूपोत्प्रेक्षा यथा तारूण्य पूर्णवपुषां तरलेक्षणानां भावानुबन्धगतयस्त्वयि सिङ्गभूप । कल्लोलिता इव कटाक्षविलासभङ्ग्यो मन्दस्मितैः कुसुमिता इवसापदेशैः ॥ ८.*६७ ॥ अत्र नायकविषयाणां तरुणीजनानुरागाणां कल्लोलितादिरूपेण संभावनं कृतमिति सेयं तथोक्ता । यथा च श्रीसिङ्घधरणीपाल तव साहित्यचातुरी । कवीन् कन्दलयत्यन्तरानन्द इव मूर्तिमान् ॥ ८.*६८ ॥ अत्र साहित्यचातुर्यस्य मूर्तिमदानन्दतया संभावनं कृतमिति सेयं तथोक्ता । गुणहेतूत्प्रेक्षा यथा राजमौलिकृतसंश्रये विधौ स्पर्धयेव तव कीर्तिनर्तकी । राजमौलिवपुरंशुवर्णिनी राजते जगति सिङ्गभूपते ॥ ८.*६९ ॥ अत्र स्पर्धाया गुणत्वं हेतुत्वं चेति सेयं तथोक्ता । गुणफलोत्प्रेक्षा यथा शेषानशेषभुजगानुदधीन् पयोधीन् सर्वान् गजान् सुरगजानखैलान्विधाय । श्रीसिङ्गभूपतियशो विशदं त्रिलोकं स्रष्टुः सभामनुनयार्थमिव प्रयाति ॥ ८.*७० ॥ अत्रानुनयस्य गुणत्वं फलत्वं चेति सेयं तथोक्ता । क्रियास्वरूपोत्प्रेक्षा यथा श्रीसिङ्गभूतलपतेः श्रितपारिजात- संज्ञाङ्कितस्य यशसा महता परीतः । कल्पद्रुमस्स्वजनिनिष्फलताविवेकाद्भूयोऽपि दुग्धजलधौ विनिमज्जतीव ॥ ८.*७१ ॥ अत्र कल्पवृक्षस्य नायककीर्त्या यदावरणं तत्पयोधिमज्जवरूपेण संभावितमिति सेयं तथोक्ता । क्रियाफलोत्प्रेक्षा यथा वीरक्षीरार्णवाम्बुग्रसनधगधगत्कारवद्वाडबाग्नि- ज्वालाजालाभिघातञ्यतिकरजनितामप्रकम्पानुकम्पा । अन्तस्संतापबाधां शमयितुमिव तां सिङ्गभूपालकीर्ति- ज्योत्स्ना कृत्स्रातिशीता प्रविशति कुहरं मन्दरीणां दरीणाम् ॥ ८.*७२ ॥ अत्र शमयितुमिवेति क्रियाफलत्वम् । क्रियाहेतूत्प्रेक्षा यथा श्रीसिङ्गशार्ङ्गधनुषातिवदान्यतायां स्पर्धापराधकरणादिव कोपितेन । आमूलवेल्लितलतावलयापदेशा- त्कल्पद्रुमा निगलिताः प्रभुणा प्रजानाम् ॥ ८.*७३ ॥ अत्रापराधकरणस्य क्रियात्वं हेतुत्वं चेति तथोक्ता । उपलक्षणमि त्येतत्सजातेरप्येवमेव द्रष्टव्यम् ॥ ८.४१ ॥ एवं प्रकाराः कतिचिदुत्प्रेक्षायां निरूपिताः । उत्तरे चतुरोक्तेषु लक्षणीया विचक्षणैः ॥ ८.४२ ॥ अप्रस्तुतप्रशंसा स्यादस्तोत्व्यस्य या स्तुतिः ॥ ८.४३ ॥ यथा धन्यास्ते गिरयो जयन्ति यदमी श्रीसिङ्गपृथ्वीपतेर्- यातव्या नहिभूभृतोऽप्यलमयं राजापि चन्द्रस्सखी । तत्र श्रीभरितान्यपि क्षितिरुहां बृन्दानि भाग्याधिका- न्युद्दण्डीकृतपुण्डरीकमहिमाप्येकं कृतार्थ सरः ॥ ८.*७४ ॥ अत्रापि जिगीषोर्नायकस्य यातव्यपक्षस्थितेर्मूर्धाभिषिक्त्तैरात्मनिन्दायां प्रस्तुतायामप्रस्तुतानां गिरिचन्द्रसरसां प्रशंसनं विहितमिति सेयमप्रस्तुतप्रशंसा । एकस्य स्तुति निन्दार्थं विपक्षितगुणोत्तरैः । यत्समीकृत्य कथनं सा मता तुल्ययोगिता ॥ ८.४४ ॥ तुल्ययोगिता यथा राधेयं रजनीकरं रतिपतिं रत्नाकरं राघवं रत्नं वैधरणीधरं रसनिधिं रन्तिं रसालं रविम् । रैचर्लीयकुलोद्वहं च सृजता लोकोपकारक्रिया- हेतोर्लोकपितामहेन करुणासर्वस्वमाविष्कृतम् ॥ ८.*७५ ॥ अत्र लोकोपकारपरायणत्वलब्धस्तुतीनां कर्णादीनां तुल्ययोगेन नायकस्तुतेर्विहितत्वादियं स्तुत्यर्था तुल्ययोगिता । निन्दार्था यथा मन्दादि धातुधमनाद्ग्रहणादहीना- मन्योपतापकरणात्प्रमदाधिकारात् । श्रीसिङ्गभूपरणणान्यनपाश्रयाच्च वाञ्छन्ति जीवितमहो विषमा मनुष्याः ॥ ८.*७६ ॥ अत्र केवलवधूपातानपरिणामत्वेन लभ्दगर्हाणां धातुवादादीनां तुल्यकक्ष्यानिक्षेपान्नायकेतरराजाश्रयणस्य साम्यं निन्दार्थं प्रतीयत इति सेयं तथोक्ता । दोषस्य यो गुणीभावो दोषीभावो गुणस्य यः । स लेशस्यात्ततो नान्या व्याजस्तुतिरितिस्मृता ॥ ८.४५ ॥ अत्र दोषस्य गुणीभावे यथा कूटोपायनिकुट्टितप्रतिभटक्ष्मापालमौलिव्रजा-दाकृष्टैः स्वसुहृत्करप्रणिहितैः शस्तोपधा वस्तुभिः । त्वामाराधयतां यशोधननिधे श्रीसिङ्गपृथ्वीपते साक्षात्सेवितुमिच्छतोऽवनिपतीन्मन्यस्व मान्योत्तमान् ॥ ८.*७७ ॥ अत्र येयमुपगौतमीतटं पर्यटतामाटविकमहीपतीनां कुटिलोपायपाटवस्तुतिः सेयमनुप्राणितराजमार्गप्रणयिनो नायकस्य मनसि दोषतया प्रतिभास्यत इत्यभिप्रायेण चतुरमतिभिरमात्यैः प्रमुखनैष्ठुर्यपरिजिहीर्षया कूटोपायप्रयोगरूपो दोषोऽपि नायकचरणसेनासाधनधनार्जनलक्षणगुणतया निरूपित इति सोऽयं दोषस्य गुणीभावो नाम लेशतः शनैरनन्यविदितमुच्यत इति लेशः । गुणस्य दोषीभावो यथा एताव्त्यपि विप्रिये प्रियसखि प्राणेषु का प्रार्थना किं वा तेन शठेन निर्दयहृदा रेचर्लवंशेन्दुना । यस्यागः परिमार्जनाय कृतिनामग्रेसरस्य स्फुटं साम्नां सारधुमाधुरे सहभुवां शिक्षेव नित्यव्रतम् ॥ ८.*७८ ॥ अत्र काचिदनतिधीरा नायका मानाग्रह परिग्रहानुगुणमर्थं सखीनायकाग्रतः प्रतिज्ञाय पदनिर्वाहमाशङ्कमाना सखीजनपरिहासपरिजिहीर्षया चाटुवादादिलक्षणमस्तोसं मानप्रत्यूहकारणं नायकगुणग्रामं दोषीभावेन समुपन्यस्यतीति सोऽयं गुणस्य दोषीभावो नाम लेशः । यथा च छायापहारे रचितेऽरविन्दैः श्रीसिङ्गभूपाल न मोदसे त्वम् । छायापहारेण सहादिराज- श्लोकापहारं कुरुषे किमेतत् ॥ ८.*७९ ॥ अत्र राजकीर्त्यपहारलक्षणस्य नायकगुणस्य शब्दशक्त्या चमत्काराय दोषतया कथनाद्व्याजस्तुतिरपि स एव । कारकाणां समावेशः सहान्यैर्यत्क्रियादिभिः । सा सहोक्तिरसादृश्यात्साहश्याच्च द्विधा भवेत् ॥ ८.४६ ॥ असादृश्यवती यथा साकं त्वत्कीर्तिविस्तारैः श्रीसिङ्गधरणीपते । दिगन्तराणि धावन्ति सामन्तनृपपङ्क्तयः ॥ ८.*८० ॥ अत्र शत्रुलक्षकत्वपदार्थो विसदृशैः नायक कीर्तिविस्तारैः कथिता प्रतीतसादृश्यैः सह देशान्तरधावनक्रियायां समाविष्ट इति सेयं तथोक्ता । सादृश्यवती यथा क्षोणीभृत्कटकोपरोधनपटुः व्यापारभव्योदया- माशापूरण कारणश्रियमिव प्राप्नोति कीर्तिश्रियम् । श्रीसिङ्गक्षितिपालमण्डनमणे रेचर्लवंशाग्रणी- रानन्दाननुसन्दधाति विदुषां द्रव्यैः स्वकाव्यैरिव ॥ ८.*८१ ॥ अत्र शब्दशक्त्याभिधीयमानसमानधर्मयोः लक्ष्मीकीर्त्योः सादृश्यप्रतीयमानस्पृहणीयत्वादिना धर्मयोः द्रव्यकाव्यायोश्व सादृस्यमिवेन द्योत्यते । सहार्थश्व वाक्यार्थसामर्थ्यन लभ्यते । न चात्रोपमानशह्का कार्या । उपमायामुपमेयस्यैव क्रियासमावेशः । उपमानस्योपमेयमुखेन साक्षात् । इह तु द्वयोस्समप्राधान्येन कर्मकरणभावादिविवक्षायां प्राप्त्यानन्दा नुसंधानादिक्रियासमावेश इति श्लेषोद्भावितोपमानछाया इतीयं सादृश्यवती समासोक्तिः । एवं विविक्तादि भेदेन कर्त्रादीनां प्रायोपमानानां भेदास्स्वयमुपगन्तव्याः । द्रव्यादीनामनेकेषां द्रव्यादौ विनिवेशनम् । समुच्चयस्स्यादन्येऽपि चार्थास्तस्यैव भक्तयः ॥ ८.४७ ॥ स तावच्चतुर्धा । द्विपदाश्रयो बहुपदाश्रय उभयवर्गाश्रयोऽनुभयाश्रयश्चेति । तत्र द्विपदाश्रयो द्विधा प्रतिपदद्योतक उत्तरपदद्योतकश्चेति । तत्राद्यो यथा लोकोत्तरं शुद्धिगुणं दधाना राजाधिकां कान्तिमुदञ्चयन्ती । श्रीसिङ्गभूपाल भुवि त्बदीया मूर्तिश्व कीर्तिश्व मुदं तनोति ॥ ८.*८२ ॥ अत्र मूर्तिः कीर्तिरिति द्वे वस्तुनी प्रतिपदं द्योतकेन चकारेण एकस्यां तनोतीति क्रियायां समुच्चित्य निवेशिते । तेन तनुत इति द्विवचनं चार्थे द्वन्द्वसमासश्व भवतीति सोऽयं क्रियायां द्रव्यसमुच्चयो नाम प्रतिपदद्योतको द्विपदाश्रयस्समुच्चयभेदः । स एवोत्तरपदाश्रयद्योतको यथा मदान्धव्यापारप्रकटितसदान्धःपरिकरः प्रति स्याद्व्यामिश्र स्फुटपटहझाङ्कारपटिमा । जिकीषा संरंभस्तव सपदि सिङ्गक्षितिपते विपक्षाणां लक्ष्णी चलयति समुत्कण्ठयति च ॥ ८.*८३ ॥ अत्र चलनोत्कण्ठालक्षणे द्वे वस्तुनी उत्तरपदवर्तिना द्योतकेनैकस्मिन्नेव विपक्षलक्ष्मीलक्षणे धर्मभूते द्वव्ये समुच्चयेनैककालमेव निवेशित इति सोऽयमुत्तरपदगतद्योतको नाम द्विपदाश्रयसमुच्चयभेदः । बहुपदाश्रयोऽपि पूर्वपद्द्विधा । तत्राद्यो यथा न्यायक्रमश्च भुजदण्डपराक्रमश्च कालज्ञता च करुणा च कृतज्ञता च । काव्यज्ञता च कविता च वदान्यता च त्वां सिङ्गभूप......प्रपरिष्करोति ॥ ८.*८४ ॥ अत्र न्ययपराक्रमादयः प्रतिपदाश्रयद्योतकेनैकस्यां परिष्करणक्रियायां समुच्चयेन निवेश्यन्ते । तेन परिष्कुर्वन्तीति बहुवचनं द्वन्द्वसमासश्च न भवितीति सोऽयं प्रतिपदगतद्योतकोनाम बहुपदाश्रयसमुच्चयभेदः । सोऽयं च कारणबाहुल्येन पुराणछायां स्मृतिपथमवतारय न्नातीव चमत्कारकारीत्यस्माकं मतम् । तथापि पुरातनगतानुगतिकाश्रद्धया समुदाहृतं तदिदं सरससाहित्यसिद्धान्तमर्मज्ञैस्तितितिक्षतव्यम् । द्वितीयो यथा अनन्तभोगाश्रयणं विभुत्वं चक्रप्रियत्त्वं घनसत्त्वता च । श्रीसिङ्गभूपे श्रितपारिजाते प्रत्यक्षनारायणतां व्यनक्ति ॥ ८.*८५ ॥ अत्रानन्तभोगाश्रयादीनि वस्तून्युत्तरपदवर्तिना चकारेण व्यनक्तीत्येकस्यां क्रियायां समुच्चीयन्ते न व्यञ्जयन्तीति बहुवचनं समासश्च न भवतीति सोऽयमुत्तरपदगतद्योतको नाम बहुपदाश्रयसमुच्चयभेदः । उभयवर्गाश्रयः पुनरुत्तरपदवर्तिद्योतक एव । यथा च श्रीसिङ्गभूपाल कवीश्वराणां पुण्यातिरेकादिदमाविरासीत् । काव्यं प्रशस्तं तव कगीर्तनं च सतां श्रियां सज्जनरञ्जनं च ॥ ८.*८६ ॥ अत्र काव्यं कीर्तनं चेति द्वे क्रिये । श्रीसद्भावः सज्जनानुरञ्जनञ्चेति द्वौ गुणौ । एवं बहून्यपि वस्तूनि द्वन्द्वश उत्तरपदवर्तिना द्योतकेनाविरासीदित्येकस्यां क्रियायां निवेश्यन्ते । तेन सन्तीति बहुवचनं द्वन्द्वसमासश्च न स्यादिति सोऽयमुभ्यवर्गाश्रयस्समुच्चयः । अनुभयाश्रयः पुनरविद्यमानद्योतकत्वादन्वाचयस्येवास्य विषयो दीपकेनाहृत इती नोदाह्रियते । इतरेतरयोगोऽपि द्विपदाश्रयादिभेदेन चतुर्विधः । तत्रोत्तरपदवर्तिद्योतको द्विपदाश्रय इतरेतरयोगो यथा श्रीसिङ्गभूपतिमणेर्द्युमणेश्च नित्यं पश्य द्वयोरुदयतोर्हि महोदयश्रीः । कल्याणदानरतयोश्शरणागताना- मारूढविष्णुपदसेवनया निकामम् ॥ ८.*८७ ॥ अत्र नायकप्रभानायकौ द्वे द्रव्ये पश्येत्येकस्मिन् गुणपदे यदितरेतरयोगेन निवेशिते तद्द्वयोरित्यत्र तद्विशेषणयोश्च द्विवचनविक्षायां समासश्च भवतीति सोऽयं तथोक्त इतरेतरयोगस्ससुच्चयभेद एव । एवमितरेतरयोगेऽपि द्योतकयोगा उदाहर्तव्याः । स एवानुभयाश्रयो यथा निष्पन्दमुग्धमवलोकितमस्तलज्जा चेष्टा कपोलतलकन्दलिता स्मितश्रीः । श्रीसिङ्गभूमिरमणे तरुणीजनानां भावस्थितिं पिशुनयन्ति सखीजनाय ॥ ८.*८८ ॥ अत्रावलोकितचेष्टास्मितमिति वस्त्वनितरेतरयोगेन तरुणीजनानुराग निवेदनक्रियायां निवेश्यत इति सोऽयमनुभयाश्रयेतरेतरयोगस्समुच्चय एव । समाहारोऽपि पूर्ववच्चतुर्विधः । तत्रानुभयाश्रयो यथा सौन्दर्यं मदने सुखं सुरपतौ भाग्यं निधीनां प्रभौ कारुण्यं रघुनायके चतुरिमा चाणूरमल्लद्विषि । धर्मो धर्मतनूभवे वितरणं विद्याधराधीश्वरे तत्सर्वं श्रितवत्सले विलसति श्रीसिङ्गभूमीश्वरे ॥ ८.*८९ ॥ अत्र सर्वं तदित्यनेन सौन्दर्यादीनां समुदाय एवानुसन्धीयते । तस्य च तिरोभूतावयवभेदत्वे समाहारः । स चेह तदित्येकवचनान्तेन नपुंसकेन च कथ्यते । न चेह क्वचिदपि चकारादिर्विद्यते । द्योतक इति सोऽयमुनभयाश्रयः समहारः समुच्चय एव । इतरे द्योतकवन्तः समाहाराः स्वयमूह्याः । अन्वाचयस्तु क्रियाविषय एव । तत्र द्योतकस्तूत्तरपदाश्रय एव । यथा उद्दण्डप्रतिगण्डभैरविभो संकल्पकल्पद्रुम श्रीसिङ्गक्षितिपालशेखर यशोविक्तारनिस्तारक । साधूनां परिरक्षणाय धरणीं जित्वा भजेथाः श्रियं पङ्क्तिञ्च प्रतियायिनां पुनरपि स्वे स्वे पदे स्थापिता ॥ ८.*९० ॥ अत्र भजेथा इति नायककर्तृकां श्रीकर्मकत्वेन क्रियामुपन्यस्य तत्कर्तृकमेव प्रतिपालनकर्मसंस्थापनक्रियां त्व न्वाचयेन निवेशितमिति सोऽयमन्वाचयोऽपि समुच्चयभेद एव । प्रतिषेधोक्रिराक्षेपो विधेर्वाथ निषेधतः ॥ ८.४८ ॥ विधिनाक्षेपो यथा कान्तारक्षितिवासखिन्नमनसा कान्त त्वया सेवितुं श्रीसिङ्गक्षितिनाथमन्ध्रनगरी गम्येति चेद्गम्यताम् । पन्थानः प्रभवन्तु ते शिवतमाः सीता (भूयात्?) प्रसन्नो नृपो (?) यं देशं प्रदधाति ते सुकृतधीस्तत्रैव जन्मास्तु मे ॥ ८.*९१ ॥ अत्र गम्यतामिति कथितस्य विधिवाक्यस्यैवानुकूलयैव जन्मान्तराशिषा मरणसूचनानिषेधः क्रियत इति सोऽयं विध्याक्षेपः । निषेधाक्षेपो यथा न हि वयं कवयः कवयस्तु ये नगरिगुणानसतोऽपि विवृण्वते । निगदितुं न हि सिङ्गवसुन्धराभुजि सन्तोऽपि गुणान्वयमीश्महे ॥ ८.*९२ ॥ अत्र नेश्महे इति निषेधेन कवित्वलक्षणस्यारोपितगुणवर्णनस्य निषेधः धर्मत इति सोऽयं विध्याक्षेपः (निषेधाक्षेपः?) । ज्ञेयस्सोर्ऽथान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन । तत्साध्नसमर्थस्य न्यासो वक्त्वन्यवस्तुनः ॥ ८.४९ ॥ यथा सिङ्गक्षोणीरमणसरणिं मानमुन्मानधीत्वं यद्यद्द्रव्यं करयसि परं प्रत्यहोपार्जनेन । तत्तत्पात्रे निहितमसकृद्विस्मरस्येव चित्ते कार्यस्यान्ते क इव हि भवेत्काङ्क्षणा यः प्रभूणाम् ॥ ८.*९३ ॥ अत्र नायकस्य पात्रदत्तधर्मद्रव्याननुशोचनलक्षणं वस्तु प्रस्तुत्य तत्साधनसमर्थंप्रभुस्वभावलक्षणं वस्त्वन्तरमुपन्यस्तमिति साहसं षङ्गुणं हि । अत्र कीर्तेः सप्तार्णवलङ्घनमुपन्यस्य तत्साधनसमर्थस्य षड्गुणस्त्रिसाहसवस्त्वन्तरस्योपन्यासादयं तथोक्तः । यत्र द्रव्यादिवैकल्यदर्शनं स्तुत्यवस्तुनः । विशेषप्रतिभानाय सा विशेषोक्तिरिष्यते ॥ ८.५० ॥ यथा न यानं प्रसुनं न च सुरभैगन्धि प्रहरणं न मौर्वी वाचाटी न च धनुरयत्नातिमधुरम् । तथापि श्रीसिङ्गक्षितिपतिरयं चञ्चलदृशां विधत्ते संमोहं मनसि नितरां मन्मथ इव ॥ ८.*९४ ॥ अत्र पुष्परथादिद्रव्यासंभवेऽपि नायकेन यदिदं मत्तकाशी चित्तसंमोहनकरणं तेन रूपादिशविशेषकारणं प्रतीयत इति सेयं प्रतीयमानहेतुर्विशेषोक्तिः । एवमभिधीयमानहेतुरपि द्रष्टव्या । उपस्कारः परिकरः क्रियादीनां विशेषणैः ॥ ८.५१ ॥ आश्वस्तमूलकच्छपमुल्लसितगिरीन्द्रमुत्सुकानन्तः । श्रीसिङ्गक्षितिनायकभुजदण्डापहति वसुमतीचक्रम् ॥ ८.*९५ ॥ अत्राश्वस्तेत्यादिविशेषणैर्मही वहनक्रियाया अनन्यसाधारणलक्षण उपस्कार इति सोऽयं क्रियापरिकरः । एवं कारकपरिकरादयोऽपि स्वयमुन्नेयाः । एकावली परिकरान्न बिन्नेति मतिर्मम ॥ ८.५२ ॥ यथा अवनेष्वरणे विभवे क्रमणे सुकृताव्धनि सिङ्गमहीपतिना । धरणी कुशलं गमिता हरिणा हरिणा हरिणा हरिणा हरिणा ॥ ८.*९६ ॥ अत्र हरिणा हरिणा इत्यादि शब्दैकावल्या विभिन्नार्थया नायकलक्षणं कर्तृकारकमुपस्क्रियत इति सोऽयं शब्दैकावली कारकपरिकरभेद एव । एवमर्थैकावल्युभयैकावल्यौ ट्रष्टव्यौ । क्रियाजातिगुणद्रव्यवाचिनैकत्रवर्तिना । वाक्यान्तरोपकारश्चेद्दीपकं तदुदाहृतम् ॥ ८.५३ ॥ अर्थावृत्तिपदावृत्तिसंपुजाद्यास्तु तद्भिदाः ॥ ८.५४ ॥ तत्र क्रियादीपकं यथा आरूढानि यशांसि तेत्रिभुवनं श्रीसिङ्गपृथ्वीपते गोत्रग्रावमहागुहाः क्षितिभुजां बृन्दानि मन्दौजसाम् । तल्लक्ष्मीललितानि लालितगिरां विद्वज्जनानां गृहान् तद्वाक्यानि च तावस्तुतिकथाश्लोक्यानि कर्णौ सताम् ॥ ८.*९७ ॥ अत्र क्रियावाचिना गूढानीतीवपदेन प्रथमपादादिवर्तिना सर्ववाक्यानि दीप्यन्त इति तदिदमादिदीपकम् । एवं मध्यान्त्यक्रियादीपकं जातिदीपकादयोऽपि भेदाः द्रष्टव्याः । दीपकभेधेष्वर्थावृत्तिः यथा क्रीडन्ति सर्पपतिकान्तिकुमुद्वतीभिः खेलन्ति दिक्करटिमौक्तिकतारकाभिः । दीव्यन्ति दिव्यवनितास्मितचन्द्रिकाभिः श्रीसिङ्गभूप तव कीर्तिविलासचन्द्राः ॥ ८.*९८ ॥ अत्र क्रीडार्थ एव पादादिक्रियास्वावर्तमानः सर्ववाक्यानि दीपयतीति सेयमर्थावृत्तिरपि दीपकमेव । पदावृत्तिर्यथा राजा रेचर्लवंश्योऽयं कुमुदं कुरुतेतराम् । समुदञ्चति राजापि कुमुदं सिन्धुसंभवः ॥ ८.*९९ ॥ तत्र प्रजासन्तोषः कैरवश्चेत्यर्थयोरावर्तमानं कुमुदमिति पदं द्वे वा दीपयति पदावृत्तिरपि दीपकमेव । आभ्यामेव तदुभयावृत्तिरपि व्याख्याता । यथात्रैव राजेत्यर्थः शब्दश्चावर्तमानवाक्यद्वयमुत्तेजयत इति सेयमुभयावृत्तिरपि दीपकमेव । त्रिचतुरपदावृत्तिरूपः संपुटो यथा कीर्तिः क्रीडति सिङ्गभूप तलपतेर्निर्यत्नरत्नाङ्कुरं पातालो फणिलोकपुङ्गवफणाप्रासादमासेदुषी । लक्ष्मीजन्मभुपोऽनुविद्धलहरीडोलासु वारांनिधेः स्वर्गे दिव्यवधूविलासहसितैर्गण्डस्थलीमण्डलैः ॥ ८.*१०० ॥ अत्र क्रियाकर्तृकसंबन्धपदानि प्रतिवाक्यामावृत्तानि संपुटतया दीपयन्तीति संपुटावृत्तिरपि दीपकमेव । एवं भेदान्तराणि यथासंभवमनुगन्तव्यानि । परिपाठ्या तु भणनं शब्दस्यार्थस्य वा क्रमः ॥ ८.५५ ॥ अत्र शब्दानां क्रमस्त्रिधा समस्तानामसमस्तानामुभयेषां चेति । तत्र समस्तशब्दक्रमो यथा प्रतापकान्तिसंशुद्धिभङ्ग्या श्रीसिङ्गभूपतेः । तुलां संदधते भानुहिमभानुकृशानवः ॥ ८.*१०१ ॥ अत्र समासपरिपतितानां गुणानाञ्च क्रमेण प्रत्येकं योजनमिति समस्तशब्दक्रमोऽयम् । असमस्तशब्दक्रमो यथा नमस्कारं पुरस्कारं तिरस्कारं करोत्ययम् । श्रीसिङ्गधरणीपालः पूर्वेषां विदुषां द्विषाम् ॥ ८.*१०२ ॥ अत्र पूर्वादीनां नमस्कारादीनां समासरहितादीनां यथाक्रममनन्वयो विवक्षित इति सोऽयमसमस्तशब्दक्रमः । समस्तासमस्तशब्दक्रमरुप उभयक्रमो यथा हरिश्वन्द्रो रक्षाकरणरुचिसत्येष्विति पूर्वोदाहृतम् ॥ अत्र प्रथमतृतीययोः पादयोः समस्तानां रक्षाकरणादीनाञ्च गुणानामसमक्तानां तद्गुणकतां हरिश्वन्द्रो गाङ्गैयमिति चोभयत्र पदश्लेषसामर्थ्यकथितानां हरिश्वन्द्रहरिश्वन्द्रानां गाङ्गेयगाङ्गेयानां च क्रमसमन्वयो न विवक्षित हति सोऽयमुभयक्रमः । वाक्यक्रमस्तु स्वयमुन्नेयः । अर्थक्रमो द्विविधः । देशतः कालतश्व । तत्राद्यो यथा श्रीसिङ्गक्षितिपाल तावकचमूधाटीवनाटीभव- द्वैरिस्त्रीषु हृताशुकासु शबरैस्त्वत्कीर्तिविस्फूर्तयः । पश्वार्धे परिधानतां हि दधते संव्यानतां वक्षसि प्रायो मूध्न्यवगुठनत्वमधरे...दसां वा स्तुमः ॥ ८.*१०३ ॥ अत्र वर्धमनायाः नायककोर्तेः प्रतिनायकशुद्धान्तकान्ताशरीरप्रदेशेषु क्रमसंक्रान्त्या योऽयं परिधानादौपम्यलाभः । एवं देशतोऽर्थक्रमः । कालतो यथा अपां शोषोद्धारा विपतनभिया हंसगिलना- त्तुषारैस्सीतार्ती विरहिजनशय्यादिकतया । विधित्वा सापायं जलरुहकुलं तद्विजहती स्थितिं धत्ते सिड्गक्षितिपतिरपाये त्वयि रमा ॥ ८.*१०४ ॥ अत्र जलशोषादीनां जलजापायहेतूनां ग्रीष्मादिवसन्तावधि कालक्रमेण भणनात्कालतोर्ऽथक्रमोऽयम् । मिषतो वाक्रप्रवृत्तिर्या स पर्याय इतीर्यते ॥ ८.५६ ॥ यथा हन्त क्रोशति शारिकानवरतं मृध्नाति लीलामृगः श्रान्ताः केलिचणौतिकार विकटैर्बाह्ये स्थिता वल्लकी । इत्यालापिनि निर्गते प्रियसखीवर्गे नवोढा प्रिया भूपालेन सखीजनानुसरणं स्पर्शेन विस्तारिता ॥ ८.*१०५ ॥ अत्र रहोभङ्गभीरुणा विदग्धसखीवर्गेणाक्रोशनाकर्णनादिमिषात्सुखेन निर्गमोपायोऽभिहित इति सोऽयं पर्यायः । एवं कार्यमिषतः कारणोक्ते रविवक्षादयोऽस्य भेदाः स्वयमुन्नेयाः । या विवक्षा विशेषस्य नात्युद्वेगप्रदायिनी । असावतिशयोक्तिस्स्यात्सर्वालङ्कारजीवितम् ॥ ८.५७ ॥ गुणक्रियागोचरेयं न जातिद्रव्यगामिनी । न हि द्रव्यस्य जातेर्वा साक्षादतिशयः व्कचित् ॥ ८.५८ ॥ तत्र गुणातिशयभेदेषु धैर्यातिशयो यथा रूक्षाहंकृतयो न सन्ति ललित भेदं गतेन भ्रुवौ दृक्कोणोऽपि न रागमेति हसितं मन्दं च नान्तर्हितम् । दृष्ट्वापि प्रतिगर्जतां क्षितिभुजां संरंभगर्भश्रिया मूर्तिर्दारुणचेष्टयाप्यविकृता श्रीसिङ्गपृष्वीपतेः ॥ ८.*१०६ ॥ अत्र महारणसंहंभे नायकस्य भ्रूभेदादिविकाराभावकथनाद्धैर्यविशेषो विवक्षित इति सेयं गुणातिशयोक्तिः । क्रियातिशयो यथा श्रीसिङ्गभूप भवतीयपरिग्रहेण धर्माय यद्बलवते कविरेष भीतः । त्रेतादिबन्धुमुषितौ तु दधाति भागौ तत्ते तुलां न दधते प्रथमे नरेन्द्राः ॥ ८.*१०७ ॥ अत्र नायकगतधर्मपरिपालनक्रियाविशेषो विवक्षित इति सेयं क्रियातिशयोक्रिः । श्लेषोऽनेकार्थकथनं पदेनैकेन संमतः ॥ ८.५९ ॥ यथा ख्यातान्महाशयतया कृतगोत्ररक्षा- नारूढभूपरिसरा प्रतिकूलवृत्तीन् । श्रीसिङ्गभूपतियसांसि निरूढसत्त्वा- नुल्लङ्घयन्ति विषमानपि वाहिनीशान् ॥ ८.*१०८ ॥ अत्र वाहिनीशपदेन समुद्रसामन्तराजलक्षणमर्थद्वयं तद्विशेषणे तु तदनुकूलार्थद्वयं च श्लिष्टमिति सोऽयं श्लेषालङ्कारः । उद्भेदा यत्र भावस्य बावना सेयमीरिता ॥ ८.६० ॥ यथा जातिप्रसूनपुटके स्वसखीकरेण श्रीसिङ्गभूपतिलकाय समर्पणीये । अर्धीकृतालककुचाफणि कह्कणेन मुद्रा कृता स्मरजिता लिखितेन तन्व्या ॥ ८.*१०९ ॥ अत्र विदग्धया कयापि कामिन्या प्रिययोग्यानां पुष्पाणां पुष्पशरपुष्पंधयगन्धवहाभिमर्शः शङ्क्यते सोऽयं भावःपुष्पंधयादिप्रतिभटतया रक्षाहेतुभिरलकफणिस्मरजित्पदैरुद्धिद्यते सूच्यत इति सेयं भावना । अलङ्कारप्रपञ्चस्य शब्दार्थोभयवर्तिनः । अन्योन्ययोगः संसृष्टिरिति प्राज्ञैरुदीर्यते ॥ ८.६१ ॥ अत्र केवलशब्दालङ्कारसङ्करः शब्दालङ्कारः । केवलार्थालङ्कारसङ्करोर्ऽथालङ्कारः । उभयालङ्कारसङ्कर उभयालङ्कारः । शब्दार्थालङ्कारयोः शब्दोभयालङ्कारयोरर्थोभयालङ्कारयोश्व सङ्कर उभयालङ्कार एव स्वार्थालङ्कारवशात्सङ्करस्योभयाश्रितत्वसिद्धेः संभाव्यमानत्वात् । केवलशब्दालङ्कारसङ्करो यथा साध्वसंमतिविध्वंसि कृत्वा सिङ्कनिषेवणम् । साध्वसं मतिविध्वंसि बूपै र्निजगृहस्थितैः ॥ ८.*११० ॥ अत्र साधूनामसंमतिमसंभावनां विन्दतोऽलभ्यमानान् सा ध्वंसयति नाशयतीति साध्वसंमतिविध्वसि दुर्जनतर्जनमित्यर्थः । तादृशं सिङ्गभूपालसेवनं कृत्वा निजगृहे स्वगृहे स्थितैर्भूपैर्मतिविध्वंसि साध्वसमिति योजना । अत्र निजगृहे निगृहीतमिति क्रियापदं निजगृह इति सप्तम्या गूढमिति क्रियागूढलक्षणो विषयपदावृत्तियमकलक्षणस्व शब्दालङ्कारौ संकीर्णाविति केवलशब्दालङ्कारसङ्करोऽयम् । केवलार्थालङ्कारसङ्करो यथा सिङ्गभूप विदधाति तावको धीरणोरसिरनंबुदाशनिः । कानने नगरवर्तिनो रिपून तत्पुरे विपिनवासिनो मृगान् ॥ ८.*१११ ॥ अत्रानंबृदाशनिरिति विभावना । उत्तरार्धे परिवृत्तिरिति द्वयो रर्थालङ्कारयोस्संकरः । केवलोभयालङ्कारसङ्करो यथा लक्ष्मीभिरिव देवीभिर्विनयैरिव सूरिभिः । नयैरिव महामात्यै स्सेव्यते सिङ्गभूपतिः ॥ ८.*११२ ॥ अत्रेवशब्देन सहार्थ इव संभावमार्थोऽपि द्योत्यत इति एकवाचकानुप्रवेशेन सहोक्तेरुत्प्रेक्षायाश्व सङ्करः । सब्दार्थालङ्कारसङ्करो यथा त्वया दीनारिणा राजन् कृता दीनारिणो मम । असमग्रामवृत्ता हे समग्रामवता महीम् ॥ ८.*११३ ॥ अत्र प्रथमार्धे दीनारिणा दीनारीति द्वितीयपादमध्ययमकस्योत्तरार्धे समग्रामवता कृतेति विरोधाभासस्य द्वयोस्संकरः । शब्दोभयालङ्कारसंकरो यथा ताराभिरिन्दुरिव याभिरुपास्यतेऽयं श्रीसिङ्गभूमिपतिरन्ध्रविलासिनीभिः । चित्रं जनस्य वलया वलया नितान्तं तासां सितायतदृशामुदरे करे च ॥ ८.*११४ ॥ अत्र उदरे वलयावलिरेखाः चित्रम् । अवलयनचलयन् करे वलयः कटकमवलयमिति कर्तृक्रियापदयोरेकवचनबहुवचने श्लिष्टे इति वचनश्लेषस्य ताराभिरिन्दुरिवेत्युपमायाश्व विवेको दृस्यत इति शब्दोभयालङ्कारसङ्करोऽयम् । यथा च माणिक्यैरिव गाणिक्यैः स्यन्दनैरिव चन्दनैः । सौजन्यैरिव राजन्यैर्मोदते सिङ्गभूपतिः ॥ ८.*११५ ॥ अत्रानुप्रासोपमोत्प्रेक्षाणां सङ्करः । अर्थोभयालङ्कारसङ्करो यथा सन्त्रासौद्विषतां...प्रतिदिशं त्वत्कीर्तिराधायते त्वत्कीतौ परिधावनं प्रतिपदं गायन्ति वैरिस्त्रियः । ग्लानिर्वैरिबहधूलतासु धरणी विश्राम्यति त्वद्भुजे विश्रामो भुवि सिङ्गभूपतिमणें निद्रांन्ति वैरिस्त्रियः ॥ ८.*११६ ॥ अत्रानागत चित्रहेत्वलङ्कारस्योपमायाश्व सङ्करः । शब्दार्थोभयालङ्कारसंकरो यथा श्रीसिड्गक्षोणिभर्त्रे दिशि दिशि सुमनोमानसोल्लास कर्त्रे सान्द्रामिन्द्रो विभूतिं शुचिरतिशुचितां धर्मराजोऽति धर्मम् । रक्षां रक्षोऽधिनाथः कुटिलविघटनोद्योगिचेतः प्रचेता वायुस्संपूर्णमायुर्धनमपि धनदश्शंङ्करः शं करोतु ॥ ८.*११७ ॥ अत्र दिशि दिशीति सुमोमानसेति शङ्करः शं कोत्विति रक्षां रक्षो इति वत्छेकानुप्रासस्य सान्द्रामिद्र इत्यादावनुप्रासस्य सुमनश्श्लेषः प्रतिशब्दोत्थापितेन दिक्पाल रूप...(मध्यम?) मलोकपालस्य चान्योन्यप्रतीकारलक्षणेनान्योन्यार्थालङ्कारेण पूर्वादिक्पालपरिपाटीकथनलक्षणेन क्रमनाम्नोभयालङ्कारेण सह संनिवेशः प्रकाशत इति सोऽयं त्रिविधालङ्कार ... ... ... ... लङ्कारसङ्करोऽनुसंधेयः । पृथक्प्रयत्ननिर्वर्त्या यद्यप्येते गुणादयः । सिध्येयुरेकयत्नेन काव्ये पुण्यवतः कवेः ॥ ८.६२ ॥ सङ्करोऽपि गुणादीनामलङ्कारतयोदितः । भोजादिभि ... ... ... धायिभिः ॥ ८.६३ ॥ तत्र गुणालङ्कारसङ्करो यथा विश्वेशकल्पितचमत्कृति ... ... ... सिङ्गयशसा सममाविरास्ताम् । आचन्द्रमातपनमाधरणीधरेन्द्र- मातारमागगनमागिरिजा -- -- -- ॥ ८.*११८ ॥ (प्रथ?) मार्धे सहोक्तिः । उत्तरार्धे शेषकीर्ति -- -- -- मेतेषां सङ्करः काव्यचमत्कारमकलङ्कमङ्कुरयति । एवं सङ्करान्तराणि यथासंभवं महाकविप्रबन्धेषु रसज्ञैरनुसन्धेयानि । एवं निदर्शितं संप्रदायादालोच्य लक्षणम् । कल्पनाकल्पितं काव्यमाचन्द्रार्कं प्रकाशते ॥ ८.६४ ॥ लक्ष्यलक्षणनिर्माणविज्ञानकृतबुद्धिभिः । परिक्ष्यतामयं ग्रन्थो .... .... षया ॥ ८.६५ ॥ इति सकलमपि कल्याणमिति सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासार शीतलायां चमत्कारचन्द्रिकायामष्टमो विलासः ॥ समाप्तोऽयं ग्रन्थः ॥