अथ श्रीविष्णुमहापुराणं विष्णुचित्त्यात्मप्रकाशाख्यश्रीधरीय व्याख्याद्वयोपेतं प्रारभ्यते श्रीमते रामानुजाय नमः नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीव्यासं ततो जयमुदीरयेत् ॥ १,१.० ॥ श्रीसूत उवाच ओं पराशरं मुनिवरं कृतपौर्वाह्निकक्रियम् । मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥ १,१.१ ॥ त्वत्तो हि वेदाध्ययनमधीतमखिलं गुरो । धर्मशास्त्राणि सर्वाणि तथाङ्गानि यथाक्रमम् ॥ १,१.२ ॥ त्वाप्रसादान्मुनिश्रेष्ट मामन्ये नाकृतश्रमम् । वक्ष्यन्ति सर्वशास्त्रेषु प्रयशो येपि विद्विषः ॥ १,१.३ ॥ सोहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् । बभूव भूयश्च यथा महाभाग भविष्यति ॥ १,१.४ ॥ यन्मयं च जगद्ब्रह्मन्यतश्चौतच्चराचरम् । लीनमासीद्यथा यत्र लयमेष्यति यत्र च ॥ १,१.५ ॥ यत्प्रमाणानि भूतानि देवादीनां च संभवम् । समुद्रपर्वतानां च संस्थानं च यथा भुवः ॥ १,१.६ ॥ सूर्यादीनां च संस्थानं प्रमाणं मुनिसत्तम । देवादीनां तथा वंशान्मनून्मन्वन्तराणिच ॥ १,१.७ ॥ कल्पान् कल्पविभागांश्च चातुर्युगविकल्पितान् । कल्पान्तस्य स्वरूपं च युगधर्मांश्च कृत्स्नशः ॥ १,१.८ ॥ देवर्षिपार्थिवानां च चरितं यन्महामुने । वेदशाखाप्रणयनं यथावव्द्यासकर्तृकम् ॥ १,१.९ ॥ धर्मांश्च ब्रह्मणादीनां तथा चाश्रमवासिनाम् । श्रेतुमिच्छाम्यहं सर्वं त्वत्तो वासिष्ठनन्दन ॥ १,१.१० ॥ ब्रह्मन्प्रसादप्रवणं कुरुष्व मयि मानसम् । येनाहमेतज्जानीयां त्वत्प्रसादान्महामुने ॥ १,१.११ ॥ श्रीपराशर उवाच साधु मैत्रेय धर्मज्ञ स्मारितोस्मि पुरातनम् । पितुः पिता मे भगवान् वसिष्ठो यदुवाच ह ॥ १,१.१२ ॥ विश्वामित्रपुयुक्तेन रक्षसा भक्षितः पुरा । श्रुतस्तातस्ततः क्रोधे मैत्रेयाभून्ममातुलः ॥ १,१.१३ ॥ ततोऽहं रक्षसां सत्रं विनाशाय समारभम् । भस्मी भूताश्च शतशस्तस्मिन्सत्रे निशाचराः ॥ १,१.१४ ॥ ततः संक्षीयमाणेषु तेषु रक्षस्वशेषतः । मामुवाच महाभागो वसिष्ठी मत्पितामहः ॥ १,१.१५ ॥ अलमत्यन्तकोपेन तात मन्युमिमं जहि । राक्षसा नापराध्यन्ति पितुस्ते विहितं हि तत् ॥ १,१.१६ ॥ मूढानामेव भवति क्रोधो ज्ञानवतां कुतः । हन्यते तात कः केन यतः स्वकृतभुक्पुमान् ॥ १,१.१७ ॥ सञ्चिचस्यापि महता वत्स क्लेशेन मानवैः । यशसस्तपसश्चैव क्रोधो नाशकरः परः ॥ १,१.१८ ॥ स्वर्गापवर्गव्यासेधकारणं परमर्षयः । वर्जयन्ति सदा क्रोधं तात मा तद्वशो भवः ॥ १,१.१९ ॥ अलं निशाचरैर्धग्धैर्दीनैरनपकारिभिः । सत्रं ते विरमत्वेतत्क्षमासारा हि साधवः ॥ १,१.२० ॥ एवं तातेन तेनाहमनुनीतो महात्मना । उपसंहृतवान्सत्रं सद्यस्तद्वाक्यगौरवात् ॥ १,१.२१ ॥ ततः प्रीतः स भगवान्वसिष्ठो मुनिसत्तमः । संप्राप्तश्च तदा तत्र पुलस्त्यो ब्रह्मणः सुतः ॥ १,१.२२ ॥ पितामहेन दत्तर्घ्यः कृतासनपरिग्रहः । मामुवाच महाभागो मैत्रेय पुलहाग्रजः ॥ १,१.२३ ॥ पुलास्त्य उवाच वैरे महति यद्वाक्याद्गुरोरद्याश्रिता क्षमा । त्वया तस्मात्समस्तानि भवाञ्शास्त्राणि वेत्स्यति ॥ १,१.२४ ॥ संततेर्न ममोच्छेदः क्रुद्धेनापि यतः कृतः । त्वया तस्मान्महाभाग ददाम्यन्यं महावरम् ॥ १,१.२५ ॥ पुराणसंहिताकर्त भवान्वत्स भविष्यति । देवतापारमार्थ्यं च यथावद्वेत्स्यते भवान् ॥ १,१.२६ ॥ प्रवृत्ते च निवृत्ते च कर्मण्यस्तमला मतिः । मत्प्रसादादसंदिग्धा तव वत्स भविष्यति ॥ १,१.२७ ॥ ततश्च प्राह भगवान्वसिष्ठो मे पितामहः । पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति ॥ १,१.२८ ॥ इति पूर्वं वसिष्ठेन पुलस्त्येन च धीमता । यदुक्तं तत्स्मृतिं याति त्वत्प्रश्रादखिलं मम ॥ १,१.२९ ॥ सोऽहं वदाम्यशेषं ते मैत्रेय परिपृच्छते । पुरामसंहितां सम्यक्तां निबोध यथातथम् ॥ १,१.३० ॥ विष्णोः सकाशादुद्भुतं जतत्तत्रैव च स्थितम् । स्थितिसंयमकर्तासौ जगतोस्य जगच्च सः ॥ १,१.३१ ॥ इति श्रिविष्णुपुराणे प्रथमेऽंशे प्रथमोऽध्यायः (१) _____________________________________________________________ श्रीपराशर उवाच अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ १,२.१ ॥ नमो हिरण्यगर्भाय हरये शङ्कराय च । वासुदेवाय ताराय सर्वस्थित्यन्तकारिणे ॥ १,२.२ ॥ एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे ॥ १,२.३ ॥ सर्गस्थितिविनाशानां जगतो यो जगन्मयः । मूलभूतो नसम्तस्मै विष्णवे परमात्मने ॥ १,२.४ ॥ आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् । प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ १,२.५ ॥ ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रन्तिदर्शनतः स्थितम् ॥ १,२.६ ॥ विष्णु ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् । प्रणम्य जगतामीशमजमक्षयमव्ययम् ॥ १,२.७ ॥ कथयामि यथापूर्वं दक्षाद्यैर्मुनिसत्तमैः । पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः ॥ १,२.८ ॥ तैश्चोक्तं पुरुकुत्साय भूभुजे नर्मदातटे । सारस्वताय तेनापि मह्यं सारस्वतेन च ॥ १,२.९ ॥ परः पराणां परमः परमात्मात्मसंस्थितः । रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥ १,२.१० ॥ अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः । वर्जितः शक्यते वक्तुं यः सदास्तीति केवलम् ॥ १,२.११ ॥ सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥ १,२.१२ ॥ तद्ब्रह्म परमं नित्यमजमक्षयमव्ययम् । एकस्वरूपं तु सदा हेयाभावाच्च निर्मलम् ॥ १,२.१३ ॥ तदेव सर्वमेवैतद्व्यक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥ १,२.१४ ॥ परस्य ब्रह्मणो रूपं पुरूषः प्रथमं द्विज । व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथापरम् ॥ १,२.१५ ॥ प्रधानपूरुषव्यक्तकालानां परमं हि यत् । पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम् ॥ १,२.१६ ॥ प्रधानपूरुषव्यक्तकालास्तु प्रविभागशः । रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः ॥ १,२.१७ ॥ व्यक्तं विष्णुस्तथव्यक्तं पुरूषः काल एव च । क्रीडतो बालकस्येव चेष्टां तस्य निशामय ॥ १,२.१८ ॥ अव्यक्तं कारणं यत्तत्प्रधानमृषिसत्तमैः । प्रोच्यते प्रकृतिः सीक्ष्मा नित्यं सदसदात्मकम् ॥ १,२.१९ ॥ अक्षय्यं नान्यदाधारममेयमजरं ध्रुवम् । शब्दस्पर्शविहीनं तद्रूपादिभिरसंहितम् ॥ १,२.२० ॥ त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् । तेनाग्रे सर्वमेवासीव्द्याप्तं वै प्रलयादनु ॥ १,२.२१ ॥ वेदवादविदो विद्वन्नियता ब्रह्मवादिनः । पठन्ति चैतमेवार्थं प्रधानप्रतिपादकम् ॥ १,२.२२ ॥ नाहो न रात्रिर्न नभो न भूमिर्नासीत्तमोज्योतिरभूच्च नान्यत् । श्रोत्रादिबुद्ध्यानुपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् ॥ १,२.२३ ॥ विष्णोः स्वरूपात्परतोदिते द्वे रूपे प्रधानं पुरूषश्च विप्र । तस्यैव तेऽन्येन धृते वियुक्ते रूपातरं तद्द्विज कालसंज्ञम् ॥ १,२.२४ ॥ प्रकृतौ संस्थितं व्यक्तमतीतप्रलये तु यत् । तस्मात्प्राकृतसंज्ञोयमुच्यते प्रतिसंचरः ॥ १,२.२५ ॥ अनादिर्भगवान्कालो नान्तोस्त द्विज विद्यते । अव्युच्छिन्नस्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥ १,२.२६ ॥ गुणसाम्ये ततस्तस्मिन्पृथक्पुंसि व्यवस्थिते । कालस्वरूपं तद्विष्णोर्मैत्रेय परिवर्तते ॥ १,२.२७ ॥ ततस्तु तत्परं ब्रह्म परमात्मा जगन्मयः । सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः ॥ १,२.२८ ॥ प्रधानपुरूषौ चापि प्रविश्यात्मेच्छया हरिः । क्षोभयामास संप्राप्ते सर्गकाले व्ययाव्ययौ ॥ १,२.२९ ॥ यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वात्तथासौ परमेश्वरः ॥ १,२.३० ॥ स एव क्षोभको ब्रह्मन् क्षोभ्यश्च पुरूषोत्तमः । स संकोचविकासाभ्यां प्रधानत्वेपि च स्थितः ॥ १,२.३१ ॥ विकासाणुस्वरूपैश्च ब्रह्मरूपादिभिस्तथा । व्यक्तस्वरूपश्च तथा विष्णुः सर्वेश्वरेश्वरः ॥ १,२.३२ ॥ गुणसाम्यात्ततस्तस्मात्क्षेत्रज्ञाधिष्ठितान्मुने । गुणव्यञ्जनसंभूतिः सर्गकाले द्विजोत्तम ॥ १,२.३३ ॥ प्रधानतत्त्वमुद्भूतं महान्तं तत्समावृणोत् । सात्त्विको राजसश्चैव तामसश्च त्रिधा महान् ॥ १,२.३४ ॥ प्रधानतत्त्वेन समं त्वचा बीज मिवावृतम् । वैकारेकस्तैजसश्च भूतादिश्चैव तामसः ॥ १,२.३५ ॥ त्रिविधोयमहङ्कारो महत्तत्त्वादजायत । भीतेन्द्रियाणां हेतुःस त्रिगुणत्वान्महामुने । यथा प्रधानेन महान्महता स तथा वृतः ॥ १,२.३६ ॥ भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः । ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥ १,२.३७ ॥ शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् । अकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ॥ १,२.३८ ॥ बलवानभवद्वायुस्तस्य स्पर्शो मुणो मतः । आकाशं शब्दमात्रं तु स्वर्शमात्रं समावृणोत् ॥ १,२.३९ ॥ ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥ १,२.४० ॥ स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् । ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ॥ १,२.४१ ॥ सम्भवन्ति ततोंभांसि रसाधाराणि तानि च । रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत् ॥ १,२.४२ ॥ विकुर्वाणानि चाम्भांसि गन्धमात्रं सस र्जिरे । संघातो जायते तस्मात्तस्य गन्धो गुणो मतः ॥ १,२.४३ ॥ तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता ॥ १,२.४४ ॥ तन्मात्रण्यविशेषाणि अविशेषास्ततो हि ते ॥ १,२.४५ ॥ न शान्ता नापि धोरास्ते न मूढाश्चाविशेषिणः । भूततन्मात्रसर्गोयमहङ्कारात्तु तामसात् ॥ १,२.४६ ॥ तेजसानीन्द्रियाण्याहुर्देवा वैकारिका दश । एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥ १,२.४७ ॥ त्वक्चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पञ्च मम् । शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि वै द्विज ॥ १,२.४८ ॥ पायूपस्थौ करौ पादौ वाक्च मैत्रेय पञ्चमी । विसर्गशिल्पगत्युक्ति कर्म तेषां च कथ्यते ॥ १,२.४९ ॥ आकाशवायुतेजांसि सलिलं पृथिवी तथा । शब्दादिभिर्गुणैर्ब्रह्मन्संयुक्तान्युत्तरोत्तरै ॥ १,२.५० ॥ शान्ता घोराश्च मूढाश्च विशेषस्तेन ते स्मृताः ॥ १,२.५१ ॥ नानाविर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य सृत्स्त्रशः ॥ १,२.५२ ॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । एकसंघातलक्ष्याश्च संप्राप्यैक्यमशेषतः ॥ १,२.५३ ॥ पुरुषाधिष्ठितत्वाच्च प्रधानानुग्रहेण च । महदाद्य विशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ १,२.५४ ॥ तत्क्रमेण विवृद्धं सज्जलबुद्बुदवत्समम् । भूतेभ्योण्डं महाबुद्धे महत्तदुदकेशयम् । प्रकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम् ॥ १,२.५५ ॥ तत्राव्यक्तस्वरूपोऽसौ व्यक्तरूपो जगत्पतिः । विष्णुर्ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः ॥ १,२.५६ ॥ मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः । गर्भोदकं समुद्राश्च तस्यासन्सुमहात्मनः ॥ १,२.५७ ॥ साद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसंग्रहः । तस्मिन्नण्डेऽभवद्विप्र सदेवासुरमानुषाः ॥ १,२.५८ ॥ वारिवह्न्यनिलाकाशैस्ततो भूतादिना बहिः । वृतं दशगुणैरण्डं भूतादिर्महता तथा ॥ १,२.५९ ॥ अव्यक्तेनावृतो ब्रह्मंस्तै सर्वैः सहितो महान् । एभिरावरणैरण्डं सप्तभिः प्रकृतैर्वृतम् । नालिकेरफलस्यान्तर्बाजं बाह्यदलैरिव ॥ १,२.६० ॥ जुषन् रजो गुणं तत्र स्वयं विश्वेश्वरो हरिः । ब्रह्माभूत्वास्य जगतो विसृष्टौ संप्रवर्तते ॥ १,२.६१ ॥ सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना । सत्त्वभृद्भगवान्विष्णुरप्रमेयपराक्रमः ॥ १,२.६२ ॥ तमोद्रेकी च कल्पान्ते रुद्ररूपी जर्नादनः । मैत्रेयाखिलभूतानि भक्षयत्यतिदारूणः ॥ १,२.६३ ॥ भक्षयित्वा च भूतानि जगत्येकाणवीकृते । नागपर्यङ्कशयने शेते च परमेश्वरः ॥ १,२.६४ ॥ प्रबुद्धश्च पुनः सृष्टिं करोति ब्रह्मरूपधृक् ॥ १,२.६५ ॥ सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । स संज्ञां याति भगवानेक एव जनार्दनः ॥ १,२.६६ ॥ स्त्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च । उपसंह्रियते चान्ते संहर्ता च स्वयं प्रभुः ॥ १,२.६७ ॥ पृथिव्यापस्तथा तेजो वायुराकाश एव च । सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज्जगत् ॥ १,२.६८ ॥ स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः । सर्गादिकं तु तस्यैव भूतस्थमुपकारकम् ॥ १,२.६९ ॥ स एव सृज्यः स च सर्गकर्ता स एव पात्यत्ति च पाल्यते च । ब्रह्माद्यवस्थाभिरशेषमूर्तिर्विष्णुर्वरिष्ठो वरदो वरेण्यः ॥ १,२.७० ॥ इति श्रीविष्णुपुराणे प्रथमेऽंशें द्वितीयोऽध्यायः (२) _____________________________________________________________ मैत्रेय उवाच निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणोभ्युपगम्यते ॥ १,३.१ ॥ श्रीपराशार उवाच शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तस्तु सर्गाद्या भावशक्तयः । भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥ १,३.२ ॥ तन्निबोध यथा सर्गे भगवान्संप्रवर्तते । नारायणाख्यो भगवान्ब्रह्मा लोकपितामाहः ॥ १,३.३ ॥ उत्पन्नः प्रोच्यते विद्वन्नित्यमेवोपचारतः ॥ १,३.४ ॥ निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् । तत्पराख्यं तदर्द्ध च परार्धमभिधियते ॥ १,३.५ ॥ कालस्वरूपं विष्णोश्च यन्मयोक्तं तवानघ । तेन तस्य निबोधे त्वं परिमाणोपपादनम् ॥ १,३.६ ॥ अन्येषां चैव जन्तूनां चराणामचराश्च ये । भूभूभृत्सागरादीनामशेषाणां च सत्तम ॥ १,३.७ ॥ काष्ठा पञ्चदशाख्याता निमेषा मुनिसत्तम । काष्ठात्रिंशत्कला त्रिंशत्कला मौहूर्तिको विधिः ॥ १,३.८ ॥ तावत्संख्यैरहोरात्रं मुहूर्तैर्मानुषं स्मृतम् । अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥ १,३.९ ॥ तैः षड्भिरयनं वर्षं द्वेऽयने दक्षिणोत्तरे । अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ॥ १,३.१० ॥ दिव्यैर्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितम् । चतुर्युगं द्वादशभिस्तद्विभागं निबोद मे ॥ १,३.११ ॥ चत्वारित्रीणि द्वे चैकं कृतादिषु यथाक्रमम् । द्विव्याब्दानां सहस्राणि युगोष्वाहुः पुराविदः ॥ १,३.१२ ॥ तत्प्रमाणैः शतैः संध्या पूर्वा तत्राभिधीयते । सन्ध्यांशश्चैव तत्तुल्यो युगस्यानन्तरो हि सः ॥ १,३.१३ ॥ सन्ध्यासंध्यांशयोरन्तर्यः कालो मुनिसत्तम । युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञितः ॥ १,३.१४ ॥ कृतं त्रेता द्वापरश्च कलिश्चैव चतुर्युगम् । प्रोच्यते तत्सहस्रं व ब्रह्मणां दिवसं मुने ॥ १,३.१५ ॥ ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश । भवन्ति परिणामं च तेषां कालकृतं शृणु ॥ १,३.१६ ॥ सप्तर्षयः सुराः शक्त्रो मनुस्तत्सूनवो नृपाः । एककाले हि सृज्यन्ते संह्नियन्ते च पूर्ववत् ॥ १,३.१७ ॥ चतुर्युगाणां संख्याता साधिका ह्येकसप्ततिः । मन्वन्तरं मनोः कालः सुरादीनां च सत्तम ॥ १,३.१८ ॥ अष्टौ शत सहस्राणि दिव्यया संख्यया स्मृतम् । द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु ॥ १,३.१९ ॥ त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया द्विज । सप्तषष्टिस्तथान्यानि नियुतानि महामुने ॥ १,३.२० ॥ विंशतिस्तु सहस्राणि कालोयमधिकं विना । मन्वन्तरस्य संख्येयं मानुषैर्वत्सरैर्द्विज ॥ १,३.२१ ॥ चतुर्दशगुणो ह्येष कालो ब्रह्ममहः स्मृतम् । ब्रह्मो नैमित्तिको नाम तस्यान्ते प्रतिसञ्चरः ॥ १,३.२२ ॥ तदा हि दह्यते सर्व त्रैलोक्यं भूर्भुवादिकम् । जनं प्रयान्ति तापार्ता महर्लोकनिवासिनः ॥ १,३.२३ ॥ एकार्णवे तु त्रैतोक्ये ब्रह्मा नारायणात्मकः । भोगिशय्यां गतः शेते त्रैलोक्यग्रासबृंहितः ॥ १,३.२४ ॥ जनस्थैर्योगिभिर्देवश्चित्यमानोब्जसम्भवः । तत्प्रमाणां हि तांरात्रिं तदन्ते सृजते पुनः ॥ १,३.२५ ॥ एवं तु ब्रह्मणो वर्षमेवं वर्षशतं च यत् । शतं हिं तस्य वर्षाणां परमायुर्महात्मनः ॥ १,३.२६ ॥ एकमस्य व्यतीतं तु परार्धं ब्रह्मणोऽनघ । तस्यान्तेभून्महाकल्पः पाद्म इत्यभिविश्रुतः ॥ १,३.२७ ॥ द्वितीयस्य परार्धस्य वर्तमानस्य वै द्विज । वाराह इति कल्पोयः प्रथमः परिकीर्तितः ॥ १,३.२८ ॥ इति श्रीविष्णुपुराणे प्रथमेऽंशे तृतीयोऽध्यायः (३) _____________________________________________________________ श्रीमैत्रेय उवाच ब्रह्मनारायणाख्योऽसै कल्पादौ भगवान्यथा । ससर्ज सर्वभूतानि तदाचक्ष्व महामुने ॥ १,४.१ ॥ श्रीपराशर उवाच प्रजाः ससर्ज भगवान्ब्रह्मा नारायणात्मकः । प्रजापतिपतिर्देवो यथा तन्मे निशामय ॥ १,४.२ ॥ अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः । सत्त्वोद्रिक्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत ॥ १,४.३ ॥ नारायणः परोऽचिन्त्यः परेषामपि स प्रभुः । ब्रह्मस्वरूपी भगवाननादिः सर्वसम्भवः ॥ १,४.४ ॥ इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ॥ १,४.५ ॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ १,४.६ ॥ तोयान्तःस्थां महीं ज्ञात्वा जगत्येकार्णवीकृते । अनुमानात्तदुद्धारं कर्तुकामः प्रजापतिः ॥ १,४.७ ॥ अकरोत्स्वतनूमन्यां कल्पादिषु यथा पुरा । सत्स्यकूर्मादिकां तद्वद्वाराहं वरुरास्थितः ॥ १,४.८ ॥ वेदयज्ञमयं रूपमशेषजगतः स्थितौ । स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः ॥ १,४.९ ॥ जनलोकगतैः सिद्धैः सनकाद्यैरभिष्टुतः । प्रविवेश तदा तोयमात्माधारो धराधरः ॥ १,४.१० ॥ निरीक्ष्य तं तदा देवी पातालातलमागतम् । तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुन्धरा ॥ १,४.११ ॥ श्रीपृथिव्युवाच नमस्ते पुण्डरीकाक्ष शङ्खचक्रगदाधर । मामुद्धरास्मादद्य त्वं त्वत्तोऽहं पूर्वसुत्थिता ॥ १,४.१२ ॥ त्वयाहमुद्धृता पूर्वं त्वन्मयाहं जनार्दन । तथान्यानि च भूतानि गगनादिन्यशेषतः ॥ १,४.१३ ॥ नमस्ते पर मात्मात्मन्पुरुषात्मन्नमोस्तु ते । प्रधानव्यक्तभूताय कालभूताय ते नमः ॥ १,४.१४ ॥ त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् । सर्गादिषु प्रभो ब्रह्मविष्णुरुद्रात्मरूपधृक् ॥ १,४.१५ ॥ सम्भक्षयित्वा सकलं जगत्येकार्णवीकृते । शेषे त्वमेव गोविन्द चिन्त्यमानो मनीषिभिः ॥ १,४.१६ ॥ भवतो यत्परं तत्त्वं तन्न जानाति कश्चन । अवतारेषु यद्रूपं तदर्चन्ति दिवौकसः ॥ १,४.१७ ॥ त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः । वासुदेवमनाराध्य को मोक्षं समवाप्स्यति ॥ १,४.१८ ॥ यत्किञ्चिन्मनसा ग्राह्यं यद्ग्रह्यं चक्षुरादिभिः । बुद्ध्या च यत्परिच्छेद्यं तद्रूपमखिलं तव ॥ १,४.१९ ॥ त्वन्मयाहं त्वदाधारा त्वत्सृष्टा त्वत्समाश्रया । माधवीमिति लोकोयमभिधत्ते ततो हि माम् ॥ १,४.२० ॥ जयाखिलज्ञानमय जय स्थूलमयाव्यय । जयानन्त जयाव्यक्त जय व्यक्तमय प्रभो ॥ १,४.२१ ॥ परापरात्मन्विश्वात्मञ्जय यज्ञ पतेऽनघ । त्वं यज्ञस्त्वं पषट्कारस्त्वमोङ्कारस्त्वमग्नयः ॥ १,४.२२ ॥ त्वं वेदास्त्वं तदङ्गानि त्वं यज्ञपुरुषो हरे । सूर्यादयो ग्रहास्तारा नक्षत्राण्य खितं जगत् ॥ १,४.२३ ॥ मूर्तामूर्तमदृश्यं च दृश्यं च पूरुषोत्तम । यच्चोक्तं यच्च नैवोक्तं मयात्र परमेश्वर । तत्सर्वं त्वं नमस्तुभ्यं भूयोभूयो नमोनमः ॥ १,४.२४ ॥ श्रीपराशर उवाच एवं संस्तूयमानस्तु पृथिव्या धरणीधरः । सामस्वरध्वनिः श्रीमाञ्जगर्ज परिघर्घरम् ॥ १,४.२५ ॥ ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः । रसातलादुत्पलपत्रसन्निभः समुत्थितो नील इवाचलो महान् ॥ १,४.२६ ॥ उत्तिष्ठता तेन मुखानिलाहतं तत्संभवाम्भो जनलोकसंश्रयान् । प्रक्षालयामास हि तान्महाद्युतीन् सनान्दनादीनपकल्मषान्मुनीन् ॥ १,४.२७ ॥ प्रयानिति तोयानि खुराग्रविक्षतरसातलेऽधः कृतशब्दसन्तति । श्वसानिलास्ताझ परितः प्रयान्ति सिद्धा जने ये नियता वसन्ति ॥ १,४.२८ ॥ उत्तिष्ठतस्तस्य जलार्द्रकुक्षेर्महावराहस्य महीं विगृह्य । विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयः स्तुवन्ति ॥ १,४.२९ ॥ त तुष्टुवुस्तोषपरीतचेतसो लोके जने ये निवसन्ति योगिनः । सनन्दनाद्या ह्यतिनम्रकन्धरा धराधरं धीरतरोद्धतेक्षणम् ॥ १,४.३० ॥ जयेश्वराणां परमेश केशव प्रभो गदाशङ्खधरासिचक्रधृक् । प्रसूतिनाशस्थिहेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम् ॥ १,४.३१ ॥ पादेषु देदास्तव यूपदंष्ट्रा दन्तेषु जज्ञाश्चितयश्च वक्त्रे । हुताशजिह्वोसि तनुरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव ॥ १,४.३२ ॥ विलोचने रात्र्यहनी महात्मन्सर्वाश्रयं ब्रह्मपरं शिरस्ते । सूक्तान्यशेषाणि सटाकलापो घ्राणं समस्तानि हवींषि देव ॥ १,४.३३ ॥ मुक्तुण्डसामस्वरधीरनादप्राग्वंशकाया खिलसत्रसन्धे । पूर्तेष्टधर्मश्रवणोसि देव सनातनात्मन्भगवन्प्रसीद ॥ १,४.३४ ॥ पदक्रमाक्रान्तभुवं भवन्तमादिस्थितं चाक्षरविश्वमूर्ते । विश्वस्य विद्मः परमेश्वरोऽसि प्रसीद नाथोसि परावरस्त ॥ १,४.३५ ॥ दंष्ट्राग्रविन्यस्तमशेषमेतद्भुमण्डलं नाथ विभाव्यते ते । विगाहतः पद्मवनं विलगानं सरोजिनीपत्रमिवोढपङ्कम् ॥ १,४.३६ ॥ द्यावापृथिव्योरतुलप्रभाव यदन्तरं तद्वपुषा तवैव । व्याप्तं जगव्द्याप्तिसमर्थदीप्ते हिताय विश्वस्य विभो भव त्वम् ॥ १,४.३७ ॥ परमार्थस्त्वमेवैको नान्योस्ति जगतः पते । तवैष महिमा येन व्याप्तमेतच्चराचरम् ॥ १,४.३८ ॥ यदेतद्दृश्यते मूर्तमेतज्ज्ञानात्मनस्तव । भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपमयोगिनः ॥ १,४.३९ ॥ ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे ॥ १,४.४० ॥ येतु ज्ञानविदः सुद्धचेतसस्तेऽखिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर ॥ १,४.४१ ॥ प्रसीद सर्व सर्वात्मन्भवाय जगतामिमाम् । उद्धरोर्वीममेयात्मञ्छन्नो देह्यब्जलोचन ॥ १,४.४२ ॥ सत्त्वोद्रिक्तोऽसि भगवन् गोविन्द पृथिवीमिमाम् । समुद्धर भवायेश शन्नो देह्यब्जलोचन ॥ १,४.४३ ॥ सर्गप्रवृत्तिर्भवतो जगतामुपकारिणि । भवत्वेषा नमस्तेऽस्तु शन्नो देह्यब्जलोचन ॥ १,४.४४ ॥ श्रीपारशर उवाच एवं संस्तूयमानस्तु परमात्मा महीधरः । उज्जहार क्षितिं क्षिप्रं न्यस्तवांश्च महाम्भसि ॥ १,४.४५ ॥ तस्योपरि जलौघस्य सहती नौरिव स्थिता । विततत्त्वात्तु देहस्य न मही याति संप्लावम् ॥ १,४.४६ ॥ ततः क्षितिं समां कृत्वा पृथिव्यां सोचिनोद्गिरीन् । यथाविभागं भगवाननादिः परमेश्वरः ॥ १,४.४७ ॥ प्राक्सर्गदग्धानखिलान् पर्वतान् पृथिवीतले । अमोघेन प्रभावेण ससर्जामोघवाञ्छितः ॥ १,४.४८ ॥ भूविभागं ततः कृत्वा सप्तद्वीपान्यथातथम् । भूराद्यांश्चतुरो लोकान्पूर्ववत्समकल्पयत् ॥ १,४.४९ ॥ ब्रह्मरूपधरो देवस्ततोऽसौ रजसा वृतः । चकार सृष्टिं भगवांश्चतुर्वक्रधरो हरिः ॥ १,४.५० ॥ निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥ १,४.५१ ॥ निमित्तमात्रं मुक्त्वैवं नान्यत्किञ्चिदपेक्षते । नीयते तपतां श्रेष्ट स्वशक्त्या वस्तु वस्तुताम् ॥ १,४.५२ ॥ इति श्रीविष्णुपुराणे प्रथमेऽंशे पृथिव्युद्धारश्चतुर्थोऽध्यायः (४) _____________________________________________________________ श्रीमैत्रेय उवाच यथा ससर्ज देवोऽसौ देवर्षिपितृदान वान् । मनुष्यतिर्यग्वृक्षादीन्भूव्योमसलिलौकसः ॥ १,५.१ ॥ यद्गुणं यत्स्वभावं च यद्रूपं च जगद्द्विज । सर्गादौ सृष्टवान्ब्रह्मा तन्ममाचक्ष्व कृत्स्त्रशः ॥ १,५.२ ॥ श्रीपराशर उवाच मैत्रेय कथयाम्येतच्छृषुष्व सुसमाहितः । यथा ससर्ज देवोसौ देवादीनखिलान्विभुः ॥ १,५.३ ॥ सृष्टिं चिन्तय तस्तस्य कल्पादिषु यथा पुरा । अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ॥ १,५.४ ॥ तमोमोहो महामोहस्तामिस्त्रो ह्यन्धसंज्ञितः । अविद्य पञ्चपर्वैषा प्रागुर्भूता महात्मनः ॥ १,५.५ ॥ पञ्चधावस्थितः सर्गो ध्यायतो प्रतिबोधवान् । बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः ॥ १,५.६ ॥ मुख्या नगा यतः प्रोक्ता मुख्यसर्गस्ततस्त्वयम् ॥ १,५.७ ॥ तं दृष्वासाधकं सर्गममन्यदपरं पुनः ॥ १,५.८ ॥ तस्याभिध्यायतः सर्गस्तिर्यक्स्त्रोतोभ्यवर्तत । यस्मात्तिर्यक्प्रवृत्तिस्य तिर्यक्स्त्रोतास्ततः स्मृतः ॥ १,५.९ ॥ पश्वादयस्ते विख्याता स्तमःप्राया ह्यवेदिनः । उत्पथग्राहिणश्चैव तेऽज्ञाने ज्ञानमानिनः ॥ १,५.१० ॥ अहङ्कृता अहंमाना अष्टाविंशद्वधात्मकाः । अतः प्रकाशास्ते सर्वे आवृताश्च परस्परम् ॥ १,५.११ ॥ तमप्यसाधकं मत्वा ध्यायतोन्यस्ततोऽभवत् । ऊर्ध्वस्त्रेतास्तृतीयस्तु सात्त्विकोर्ध्वमवर्तत ॥ १,५.१२ ॥ ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः । प्रकाशा बहिरन्तश्च ऊर्ध्वस्त्रोतोद्भवाः स्मृताः ॥ १,५.१३ ॥ तुष्टात्मानस्तृतीयस्तु देवसर्गस्तु स स्मृतः । तस्मिन्सर्गेभवत्प्रीतिर्निष्पन्ने ब्रह्मणस्त दा ॥ १,५.१४ ॥ ततोन्यं स तदा दध्यौ साधकं सर्गमुत्तमम् । असाधकांस्तु ताञ्ज्ञात्वाः मुख्यसर्गादिसम्भवान् ॥ १,५.१५ ॥ तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः । प्रादुर्बभूव चाव्यक्तादर्वास्त्रेतास्तु साधकः ॥ १,५.१६ ॥ यस्मादर्वाग्व्यवर्तन्त ततोर्वाक्स्त्रोतसस्तु ते । ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः ॥ १,५.१७ ॥ तस्मात्ते दुःखबहुला भूयोभूयश्च कारिणः । प्रकाशा बहिरन्तश्च मनुष्याः साधकास्तु ते ॥ १,५.१८ ॥ इत्येते कथिताः सर्गाः षडत्र मुनिसत्तम । प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ॥ १,५.१९ ॥ तन्मात्राणां द्वितीयश्च भूतसर्गो हि स स्मृतः । वैकारिकस्तृतीयस्तु सर्ग एन्द्रियकः स्मतः ॥ १,५.२० ॥ इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः । मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥ १,५.२१ ॥ तिर्यक्स्त्रोतास्तु यः प्रोक्तस्तैर्यग्योन्यः स उच्यते । तदूर्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु संस्मृतः ॥ १,५.२२ ॥ ततोर्ऽवाक्स्त्रोतसां सर्गः सप्तमः स तु मानुषः ॥ १,५.२३ ॥ अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः । पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः ॥ १,५.२४ ॥ प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः । इत्येते वै समाख्याता नव सर्गाः प्रजापतेः ॥ १,५.२५ ॥ प्राकृता वैकृताश्चैव जगतो मूलहेतवः । सृजतो जगदीशस्य किमन्यञ्छ्रोतुमिच्छसि ॥ १,५.२६ ॥ श्रीमैत्रेय उवाच संक्षेपात्कथितः सर्गे देवादीनां मुने त्वया । विस्तराच्छ्रोतुमिच्छमि त्वत्तो मुनिवरोत्तम ॥ १,५.२७ ॥ श्रीपराशर उवाच कर्मभिर्भाविताः पूर्वैः कुशलाः कुशलैस्तु ताः । ख्यात्या तया ह्यनिर्मुक्ताः संहारे ह्युपसंहृताः ॥ १,५.२८ ॥ स्थावरान्ताः सुराद्यास्तु प्रजा ब्रह्मश्चतुर्विधाः । ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास्तु ताः ॥ १,५.२९ ॥ ततो देवासुरपितॄन्मनुष्यांश्च चतुष्टयम् । सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ॥ १,५.३० ॥ युक्तात्मनस्तमोमात्रा ह्युद्रिक्ताभूत्प्रजापतेः । सिसृक्षोर्जघनात्पूर्वमसुरा जज्ञिरे ततः ॥ १,५.३१ ॥ उत्ससर्ज ततस्तां तु तमोमात्रात्मिकां तनुम् । सा तु व्यक्ता तनुस्तेन मैत्रेयाभूद्विभावरी ॥ १,५.३२ ॥ सिसृक्षुरन्यदेहस्थः प्रीतिमाप ततः सुराः । सत्त्वोद्रिक्ताः समुद्भुता मुखतो ब्रह्मणो द्विजः ॥ १,५.३३ ॥ त्यक्ता सापि तनुस्तेन सत्त्वप्रायमभूद्दिनम् । ततो हि बलिनो रात्रावसुरा देवता दिवा ॥ १,५.३४ ॥ सत्त्वमात्रात्मिकामेव ततोन्यां जगृहे तनुम् । पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे ॥ १,५.३५ ॥ उत्ससर्ज ततस्तां तु पितॄन्सृष्ट्वापि स प्रभुः । सा चोत्सृष्टाभवत्संध्या दिन नक्तान्तरस्थिता ॥ १,५.३६ ॥ रजोमात्रात्मिकामन्यां जगृहे स तनुं ततः । रजोमात्रोत्कटा जाता मनुष्या द्विजसत्तम ॥ १,५.३७ ॥ तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः । ज्योत्स्त्रा समभवत्सापि प्राक्सन्ध्या याभिधीयते ॥ १,५.३८ ॥ ज्योत्स्त्रागमे तु बलिनो मनुष्याः पितरस्तथा । मैत्रेय संध्यासमये तस्मादेते भवन्ति वै ॥ १,५.३९ ॥ ज्योत्स्ना रात्र्यहनि संध्या चत्वार्यतानि वै प्रभोः । ब्रह्मणस्तु शरीराणि त्रिगुणोपाश्रयाणि तु ॥ १,५.४० ॥ रजोमात्रात्मिकामेव ततोन्यां जगृहे तनुम् । ततः क्षुद्ब्रह्मणो जाता जज्ञे कामस्तया ततः ॥ १,५.४१ ॥ क्षुत्क्षामानन्धकारेथ सोसृजद्भगवांस्ततः । वुरूपाः श्मश्रुला जातास्तेभ्यधावं स्ततः प्रभुम् ॥ १,५.४२ ॥ मैवं भो रक्ष्यतामेष यैरुक्तं राक्षसास्तु ते । ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु जक्षणात् ॥ १,५.४३ ॥ अप्रियेण तु तान्दृष्ट्वा केशाः शीर्यन्तवेधसः । हीनाश्च शिरसो भूयः समारोहन्त तच्छिरः ॥ १,५.४४ ॥ सर्पणात्तेऽभवन् सर्पा हीनत्वादहयः स्मृताः । ततः क्रुद्धो जगत्स्त्रष्टा क्रोधात्मानो विनिर्ममे । वर्णेन कपिशेनोग्रभूतास्ते पिशिताशनाः ॥ १,५.४५ ॥ ध्यायतोङ्गात्समुत्पन्ना गन्धर्वास्तस्य तत्क्षणात् । पिबन्तो जज्ञिरे वाचं गन्धर्वास्तेन ते द्विज ॥ १,५.४६ ॥ एतानि सृष्ट्वा भगवान्ब्रह्म तच्छक्तिचोदितः । ततः स्वच्छन्दतोन्यानि वयांसि वयसोऽसृजत् ॥ १,५.४७ ॥ अपयो वक्षसश्चक्रे मुखतोजाः स सृषृवान् । सृशृवानुदराद्गाश्च पार्श्वभ्यां च प्रजापतिः ॥ १,५.४८ ॥ पद्भ्यां चाश्वान्समातङ्गान्रासभान्गवयान्मृगान् । उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्याश्च जातयः ॥ १,५.४९ ॥ ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जत्रिरे । त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ द्विजोत्तम । सृष्ट्वापश्चौषधीः सम्यग्युयोजस तदाध्वरे ॥ १,५.५० ॥ गौरजः पुरुषो मेषश्चाश्वाश्वतरगर्दभाः । एतान्ग्राम्यान्पशूनाहुरारण्यांश्च निबोध मे ॥ १,५.५१ ॥ श्वापदा द्विखुरा हस्ती वानराः पक्षिपञ्चमाः । औदकाः पशवः षष्ठा सप्तमास्तु सरीसृपाः ॥ १,५.५२ ॥ गायत्रं च ऋचश्चैव त्रिवृत्सोमं रथन्तरम् । अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ १,५.५३ ॥ यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा । बृहत्साम तथोक्थं च दक्षिणादसृजन्मु खात् ॥ १,५.५४ ॥ सामानि जगतीछन्दः स्तोमं सप्तदशं तथा । वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥ १,५.५५ ॥ एकविंशमथर्वाणमाप्तोर्यामाणमेव च । अनुष्टुभं च वैराजमुत्तरादसृजन्मुखात् ॥ १,५.५६ ॥ उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे । देवासुरपितॄन् सृष्ट्वा मनुष्यांश्च प्रजापतिः ॥ १,५.५७ ॥ ततः पुनः ससर्जादौ संकल्पस्य पितामहः । यक्षान् पिशाचान्गन्धर्वान् तथैवाप्सरसां गणान् ॥ १,५.५८ ॥ नरकिन्नररक्षांसि वयः पशुमृगोरगान् । अव्ययं च व्ययं चैव यदिदं स्थाणुजङ्गमम् ॥ १,५.५९ ॥ तत्ससर्ज तदा ब्रह्म भगवानादिकृत्प्रभुः । तेषां ये यानि कर्माणि प्रक्सृष्ट्यां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनःपुनः ॥ १,५.६० ॥ हिस्त्राहिंस्त्रे मृदुक्रूरे धर्मधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ १,५.६१ ॥ इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः । नानात्वं विनियोगं च धातैवं व्यसृजत्स्वयम् ॥ १,५.६२ ॥ नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥ १,५.६३ ॥ ऋषीणां नामधेयानि यथा वेदश्रुतानि वै । तथा नियोगयोग्यानि ह्यन्येषामपि सोऽकरोत् ॥ १,५.६४ ॥ यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्य ये । दृस्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ १,५.६५ ॥ करोत्येवंविधां सृष्टिं कल्पादौ स पुनः पुनः । सिसृक्षाशक्तियुक्तोसौ सृज्यशक्तिप्रचोदितः ॥ १,५.६६ ॥ इति श्रीविष्णुपुराणे प्रथमेऽंशे पञ्चमोऽध्यायः (५) _____________________________________________________________ श्रीमैत्रेय उवाच अर्वाक्स्त्रोतास्तु कथितो भवता यस्तु मानुषः । ब्रह्मन्विस्तरतो ब्रूहि ब्रह्म तमसृजद्यथा ॥ १,६.१ ॥ यथा च वर्णानसृजद्यद्गुणां श्च प्रजापतिः । यच्च तेषां स्मृतं कर्म विप्रादीनां तदुच्यताम् ॥ १,६.२ ॥ श्रीपराशर उवाच सत्याभिध्यायिनः पूर्वं सिसृक्षेर्ब्रह्मणो जगत् । अजायन्त द्विजश्रेष्ठ सत्त्वोद्रिक्ता मुखात्प्रजाः ॥ १,६.३ ॥ वक्षमो रजसोद्रिक्तास्तथा वै ब्रह्मणोऽभवन् । रजसा तमसा चैव समुद्रिक्तास्तथोरुतः ॥ १,६.४ ॥ पद्भ्यामन्याः प्रजा ब्रह्मा ससर्ज द्विजसत्तम । तमःप्रधानास्ताः सर्वश्चातुर्वर्ण्यमिदं ततः ॥ १,६.५ ॥ ब्रह्मणाः क्षत्रिया वेश्याः शूद्राश्च द्विजसत्तम । पादोरुवक्षस्थलतो मुखतश्च समुद्गताः ॥ १,६.६ ॥ यज्ञनिष्पत्तये सर्वमेतद्ब्रह्या चकार वै । चातुर्वर्ण्यं महाभाग यज्ञसाधनमुत्तमम् ॥ १,६.७ ॥ यज्ञैराप्यायिता देवा वृष्ट्युत्सर्गेण वै प्रजाः । आप्याययन्ते धर्मज्ञ यज्ञाः कल्याणहेतवः ॥ १,६.८ ॥ निष्पाद्यन्ते नरैस्तैस्तु स्वधर्माभिरतैः सदा । विशुद्धाचरणैपेतैः सद्भिः सन्मार्गगामिभिः ॥ १,६.९ ॥ स्वर्गापवर्गौ मानुष्यात्प्राप्नुवन्ति नरा मुने । यच्चाभिरुचितं स्थानं तद्यान्ति मनुजा द्विज ॥ १,६.१० ॥ प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्वर्ण्यव्यवस्थि ताः । सम्यक्छ्रद्धाः समाचारप्रवणा मुनिसत्तम ॥ १,६.११ ॥ यथेच्छावासनिरताः सर्वबाधाविवर्जिताः । शुद्धान्तः करणाः शुद्धाः कर्मानुष्ठा ननिर्मलाः ॥ १,६.१२ ॥ शुद्धे च तासां मनसि शुद्धेन्तःसंस्थिते हरौ । सुद्धज्ञानं प्रपश्यन्ति बिल्वाख्यं येन तत्पदम् ॥ १,६.१३ ॥ ततः कालात्म को योऽसौ स चांशः कथितो हरेः । स पातयत्यघं घोरमल्पमल्पाल्पसारवत् ॥ १,६.१४ ॥ अधर्मबीजमुद्भुतं तमोलोभसमुद्भवम् । प्रजासु तासु मैत्रेय रागादिकमसाधकम् ॥ १,६.१५ ॥ ततः सा सहजा सिद्धस्तासां नातीव जायते । रसोल्लासादयश्चान्याः सिद्धयोष्टौ भवन्ति याः ॥ १,६.१६ ॥ तासु क्षीणास्वशेषासु वर्धमाने च पातके । द्वन्द्वाभिभवदुःखार्तास्ता भवन्ति ततः प्रजाः ॥ १,६.१७ ॥ ततो दुर्गाणि ताश्चक्रुर्धान्वं पार्वतमौदकम् । कृत्रिमं च तथा दुर्गं पुरखर्वटकादिकम् ॥ १,६.१८ ॥ गृहीणि च यथान्यायं तेषु चकुः पुरादिषु । शीतातपादिबाधानां प्रशमाय महामते ॥ १,६.१९ ॥ प्रतीकारमिमं कत्वा शीतादेस्ताः प्रजाः पुनः । वार्तोपायं ततश्चक्रुर्हस्तसिद्धिं च कर्मजाम् ॥ १,६.२० ॥ व्रीहयश्च यवाश्चैव गोधूमाश्चणवस्तिलाः । प्रियङ्गवो ह्युदा राश्च कोरदूषाः सतीनकाः ॥ १,६.२१ ॥ माषा मुद्गा मसूराश्च निष्पावाः सकुलात्थकाः । आढक्यश्चणकाश्चैव शणाः सप्तदश स्मृताः ॥ १,६.२२ ॥ इत्येता ओषधीनां तु ग्राम्यानां जातयो मुने । ओषध्यो यज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश ॥ १,६.२३ ॥ व्रीहयःसयवा माषा गोधूमाश्चाणव स्तिलाः । प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलत्थकाः ॥ १,६.२४ ॥ श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः । तथा वेणुयवाः प्रोक्तस्तथा मर्कटका मुने ॥ १,६.२५ ॥ ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश । यज्ञनिष्पत्तये यज्ञस्तथासां हेतुरुत्तमः ॥ १,६.२६ ॥ एताश्च सह यज्ञेन प्रजानां कारणं परम् । परावरविदः प्राज्ञास्ततो यज्ञान्वितन्वेत ॥ १,६.२७ ॥ अहन्यहन्यनुष्ठानं यज्ञानां मुनिसत्तम । उपकारकरं पुंसां क्रियमाणा घशान्तिदम् ॥ १,६.२८ ॥ येषां तु कालसृषोऽसौ पापबन्दुर्महामुने । चेतःसु ववृधे चक्रुस्ते न यज्ञेषु मानसम् ॥ १,६.२९ ॥ वेदवादांस्तथा वेदान्यज्ञ कर्मादिकं च यत् । तत्सर्वं निन्दयामासुर्यज्ञव्यासेधकारिणः ॥ १,६.३० ॥ प्रवृत्तिमार्गव्युच्छित्तिकारिणो वेदनिन्दकाः । दुरात्मानो दुराचारा बभूवुः कुटिलाशयाः ॥ १,६.३१ ॥ संसिद्धायां तु वार्तायां प्रजाः सृष्ट्वा प्रजापतिः । सर्यादां स्थापयामास यथास्थानं यथागुणम् ॥ १,६.३२ ॥ वर्णा नामाश्रमाणां च धर्मधर्मभृतां वर । लोकांश्च सर्ववर्णानां सम्यग्धर्मानुपालिनाम् ॥ १,६.३३ ॥ प्रजापत्यं ब्रह्मणानां स्मृतं स्थानं क्रियावताम् । स्थानमैन्द्रं क्षत्रियाणां संग्रमेष्वनिवर्तताम् ॥ १,६.३४ ॥ वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तिनाम् । गान्धर्वं शूद्रजातीनां.परिचर्यानुवर्तिनाम् ॥ १,६.३५ ॥ अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् । स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ १,६.३६ ॥ सप्तर्षिणां तु यत्स्थानं स्मृतं तद्वै वनौकसाम् । प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मसंज्ञितम् ॥ १,६.३७ ॥ योगिनाममृतं स्थानं स्वात्मसंतोषकारिणाम् ॥ १,६.३८ ॥ एकान्तिनः सदा ब्रह्मध्यायिनो योगिनश्च ये । तेषां तु परमं स्थानं यत्तत्पश्यन्ति सूरयः ॥ १,६.३९ ॥ गत्वागत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥ १,६.४० ॥ तामिस्त्रमन्धतामिस्त्रं महारौरवरौरवौ । असिपत्रवनं घोरं कालसूत्रमवीचिकम् ॥ १,६.४१ ॥ विनिन्दकानां वेदस्य यज्ञव्याघातकारिणाम् । स्थानमेतत्समाख्यातं स्वधर्मत्यागिनश्च ये ॥ १,६.४२ ॥ इति श्रीविष्णुरुराणे प्रथमेऽंशे षष्ठोऽध्यायः (६) _____________________________________________________________ श्रीपराशर उवाच ततोभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः । तच्छरीरसमुत्पन्नैः कार्यैस्तैः करणैः सह । क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस्य स्यः धीमतः ॥ १,७.१ ॥ ते सर्वे समावर्तन्त ये मया प्रागुदाहताः । देवाद्याः स्थावरान्ताश्च त्रैगुण्यविषये स्थिताः ॥ १,७.२ ॥ एवंभूतानि सृष्टानि चराणि स्थावराणि च ॥ १,७.३ ॥ यदास्य ताः प्रजाः सर्वा न व्यवर्धन्त धीमतः । अथान्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत् ॥ १,७.४ ॥ भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसं तथा । मरीचिं दभमत्रिं च वसिष्ठं चैव मानसान् ॥ १,७.५ ॥ नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ १,७.६ ॥ ख्यातिं भूतिं च संभूतिं क्षमां प्रीतिं तथैव च । सन्नतिं च तथैवोर्जमनसूयां तथैव च ॥ १,७.७ ॥ प्रसूतिं च ततः सृष्ट्वा ददौ तेषां महात्मनाम् । पत्न्यो भवध्व मित्युक्त्वा तेषामेव तु दत्तवान् ॥ १,७.८ ॥ सनन्दनादयो ये च पूर्वसृष्टास्तु वेधसा । न ते लोकेष्वसज्जन्त निरपेक्षाः प्रजासु ते ॥ १,७.९ ॥ सर्वे तेऽभ्या गतज्ञाना वीतरागा विमत्सराः । तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनाः ॥ १,७.१० ॥ ब्रह्मणोभून्महान् क्रोधस्त्रैलोक्यदहनक्षमः । तस्य क्रोधात्स मुद्भूतज्वालामालातिदीपितम् । ब्रह्मणोभूत्तदा सर्वं त्रैलोक्यमखिलं मुने ॥ १,७.११ ॥ भ्रकुटीकुटिलात्तस्य ललाटात्क्रोधदीपितात् । समुत्पन्न स्तदा रुद्रो मध्याह्नार्कसमप्रभः ॥ १,७.१२ ॥ अर्धनारीनरवपुः प्रचण्डोऽतिशरीरवान् । विभजात्मानमित्युक्त्वा तं ब्रह्मान्तर्दधे ततः ॥ १,७.१३ ॥ तथोक्तोसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाकरोत् । विभेदपुरुषत्वं च दशधा चैकधा पुनः ॥ १,७.१४ ॥ सौम्यासौम्योस्तदाशान्ताशान्तैः स्त्रीत्वं च स प्रभुः । विभेद बहुधा देवाः स्वरूपैरसितैः सितैः ॥ १,७.१५ ॥ ततो ब्रह्मात्मसंभूतं पूर्वं स्वायंभुवं प्रभु । आत्मानमेव कृत वान्प्रजापाल्ये मनुं द्विज ॥ १,७.१६ ॥ शतरूपां च तां नारीं तपोनिर्धूतकल्पषाम् । स्वायंभुवो मनुर्देवः पत्नीत्वे जगृहे प्रभुः ॥ १,७.१७ ॥ तस्मात्तु पुरुषाद्देवी शतरूपा व्यजायत । प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञितम् ॥ १,७.१८ ॥ कन्याद्वयं च धर्मज्ञ रूपौदार्यगुणान्वितम् । ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा ॥ १,७.१९ ॥ प्रजापतिः स जग्राह तयोर्जज्ञे सदक्षिणः । पुत्रो यज्ञे महाभाग दम्पत्योर्मिथुनं ततः ॥ १,७.२० ॥ यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे । यामा इति समाख्याता देवाः स्वायंभुवे मनौ ॥ १,७.२१ ॥ प्रसूत्यां च तथा दक्षश्चतस्त्रो विंशतिस्तथा । ससर्ज कन्यास्तासां च सम्यङ्नामानि मे शृणु ॥ १,७.२२ ॥ श्रद्धा लक्ष्मीर्धृतिस्तुष्टिर्मेधा पुष्टिस्तथा क्रिया । बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ १,७.२३ ॥ पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः । ताभ्यः शिष्टयवीयस्य एकादश सुलोचनाः ॥ १,७.२४ ॥ ख्यातिः सत्यथ संभूतिः स्मृतिः पीतिः क्षमा तथा । सन्ततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ १,७.२५ ॥ भृतुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः । पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ॥ १,७.२६ ॥ अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम । ख्यात्याद्य जगृहुः कन्या मुनयो मुनि सत्तम ॥ १,७.२७ ॥ श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम् । सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत ॥ १,७.२८ ॥ मेधा श्रुतं क्रिया दण्डं नयं विनयमेव च ॥ १,७.२९ ॥ बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् । व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयता ॥ १,७.३० ॥ सुखं सिद्धिर्यशः कीर्तिरित्येते धर्मसूनवः । कामाद्रतिः सुतं हर्षं धर्मपौत्रमसूयत ॥ १,७.३१ ॥ हिंसा भार्या त्वधर्मस्य ततो जज्ञे तथानृतम् । कन्या च निकृतिस्ताभ्यां माया जज्ञे च वेदना ॥ १,७.३२ ॥ माया च वेदना चैव मिथुनं त्विदमेतयोः । तयोर्जज्ञेथ वै माया मृत्युं भूतापहारिणम् ॥ १,७.३३ ॥ वेदना स्वसूतं चापि दुःखं जज्ञेऽथ रौरवात् । मृत्योर्व्याधिजराशोकतृष्णक्रोधाश्च जज्ञिरे ॥ १,७.३४ ॥ दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः । नैषां पुत्रोस्ति वै भार्या ते सर्वे ह्यूर्ध्वरेतसः ॥ १,७.३५ ॥ रौद्राण्येतानिरूपाणि विष्णोर्मुनिवरात्मज । नित्यप्रलयहेतुत्वं जगतोस्य प्रयान्ति वै ॥ १,७.३६ ॥ दक्षो मरीचिरत्रिश्च भृग्वाद्याश्च प्रजेश्वराः । जगत्यत्र महाभाग नित्यसर्गस्य हेतवः ॥ १,७.३७ ॥ मनवो मनुपुत्राश्च भूपा वीर्यधराश्च ये । सन्मार्गनिरताः शूरास्ते सर्वे स्थितिकारिणः ॥ १,७.३८ ॥ श्रीमैत्रेय उवाच येयं नित्या स्थितिर्ब्रह्मन्नित्यसर्गस्तथेरितः । नित्याभावश्च तेषां वै स्वरूपं मम कथ्यताम् ॥ १,७.३९ ॥ श्रीपराशर उवाच सर्गस्थितिविनाशांश्च भगवान्मधुसूदनः । तैस्तै रूपैरचिन्त्यात्मा करोत्यव्याहतो विभुः ॥ १,७.४० ॥ नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको द्विज । नित्यश्च सर्वभूतानां प्रलयोऽयं चतुर्विधः ॥ १,७.४१ ॥ ब्रह्मो नैमित्तिकस्तत्र च्छेतेयं जगतीपतिः । प्रयाति प्राकृतं चैव ब्रह्मण्डं प्रकृतौ लयम् ॥ १,७.४२ ॥ ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि । नित्यः सदैव भूतानां यो विनाशो दिवानिशम् ॥ १,७.४३ ॥ प्रसूतिः प्रकृतेर्या तु सा सृष्टिः प्राकृता स्मृता । दैनन्दिनी तथा प्रोक्ता नान्तरप्रलयादनु ॥ १,७.४४ ॥ भूतान्यनुदिने यत्र जायन्ते मुनिसत्तम । नित्यसर्गो हि स प्रोक्तः पुराणार्थविचक्षणैः ॥ १,७.४५ ॥ एवं सर्वशरीरेषु भगवान्भूतभावनः । संस्थितः कुरुते विष्णुरुत्पत्तिस्थितिसंयमान् ॥ १,७.४६ ॥ सृष्टि स्थितिविनाशानां शक्तयः सर्वदेहिषु । वैष्णव्यः परिवर्तन्ते मैत्रेयाहर्निशं समाः ॥ १,७.४७ ॥ गुणत्रयमयं ह्यतद्ब्रह्यन् शक्तित्रयं महत् । योऽतियाति सा यात्येव परं नावर्तते पुनः ॥ १,७.४८ ॥ इति श्रीविष्णुपुराणे प्रथमेऽंशे सप्तमोऽध्यायः (७) _____________________________________________________________ श्रीपारशर उवाच कथितस्तामसः सर्गो ब्रह्मणस्ते महामुने । रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ १,८.१ ॥ कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः । प्रादुरासीत्प्रभोरङ्के कुमारो नीललोहितः ॥ १,८.२ ॥ रुरोद सुस्वरं सोथ प्राद्रवद्दि जसत्तम । किं त्वं रोदिषि तं ब्रह्म रुदन्तं प्रत्युवाच ह ॥ १,८.३ ॥ नाम देहीति तं सोऽथ प्रत्युवाच प्रजापतिः । रुद्रस्त्वं देवनाम्नासि मारो दीर्धैर्यमावह । एवमुक्तः पुनः सोऽथ सप्तकृत्वो रुरोद वै ॥ १,८.४ ॥ ततोन्यानि ददौ तस्मै सप्त नामानि वै प्रभुः । स्थानानि चैषामष्टानां पत्नीः पुत्रांश्च स प्रभुः ॥ १,८.५ ॥ भवं शर्वमथेशानं तथा पशुपतिं द्विज । भीममुग्रं महादेवमुवाच स पितामहः ॥ १,८.६ ॥ चक्रे नामान्यथैतानि स्थानान्येषां चकार सः । सूर्यो जलं मही वायुर्वह्निराकाशमेव च । दीक्षितो ब्रह्मणः सोम इत्येतास्तनवः क्रमात् ॥ १,८.७ ॥ सुवर्चला तथैवोषा विकेशी चापरा शिवा । स्वाहा दिशस्तथा दीक्षा रोहिणी च यथाक्रमम् ॥ १,८.८ ॥ सूर्यादीनां द्विजश्रेष्ठ रुद्राद्यैर्नामभिः सह । पत्न्यः स्मृता महाभाग तदपत्यानि मे शृणु ॥ १,८.९ ॥ एषां सूतिप्रसूतिभ्यामिदमापूरितं जगत् ॥ १,८.१० ॥ शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः । स्कन्दः सर्गोऽथ सन्तानो बुधश्चानुक्रमात्सुताः ॥ १,८.११ ॥ एवंप्रकारो रुद्रोऽसौ सतीं भार्यामनिन्दिताम् । उपयेमे दुहितरं रक्षस्यैव प्रजापतेः ॥ १,८.१२ ॥ दक्षकोपाच्च तत्याज स सती स्वकलेवरम् । हिमवद्दुहित साभून्मेनायां द्विजसत्तम ॥ १,८.१३ ॥ उपयेमे पुनश्चोमामनन्यां भगवान्हरः ॥ १,८.१४ ॥ देवौ धातृविधातारौ भृगोः ख्यातिरसूयत । श्रियं च देवदेवस्य पत्नी नारायणस्य या ॥ १,८.१५ ॥ श्रीमैत्रेय उवाच क्षीराब्धौ श्रीः समुत्पन्ना श्रूयतेऽमृतमन्थने । भृगोः ख्यात्यां समुत्पन्नेत्येतदाह कथं भवात् ॥ १,८.१६ ॥ श्रीपराशर उवाच नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनि । यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥ १,८.१७ ॥ अर्थो विष्णुरियं वाणी नीतिरेषा नयो हरिः । बोधो विष्णुरियं बुद्धिर्धर्मोऽसौ सत्क्रिया त्वियम् ॥ १,८.१८ ॥ स्त्रष्टा विष्णुरियं सृष्टिः श्रीर्भूमिर्भूधरो हरिः । सन्तोषो भगवाल्लङ्क्ष्मीस्तुष्टिर्मैत्रेय शाश्वती ॥ १,८.१९ ॥ इच्छा श्रीर्भगवान्कामो यज्ञोऽसौ दक्षिणा त्वियम् । आज्याहुतिरसौ देवी पुरोडाशो जनार्दनः ॥ १,८.२० ॥ पत्नीशाला मुने लक्ष्मीः प्राग्वंशौ मधुसूदनः । चितिर्लक्ष्मीर्हरिर्यूप इध्मा श्रीर्भगवान्कुशः ॥ १,८.२१ ॥ सामास्वरूपी भगवानुद्गीतिः कमलालया । स्वाहा लक्ष्मीर्जगन्नाथो वासुदेवो हुता शनः ॥ १,८.२२ ॥ शङ्करो भगवाञ्छौरिर्गौरीलक्ष्मीर्द्विजोत्तम । मैत्रेय केशवः सूर्यस्तत्प्रभा कमलालया ॥ १,८.२३ ॥ विष्णुः पितृगणः पद्मा स्वधा शाश्वतपुष्टिदा । द्यौः श्रीः सर्वात्मको विष्णुरवकाशोतिविस्तरः ॥ १,८.२४ ॥ शशाङ्कः श्रीधरः कान्तिः श्रीस्तथैवानपायिनी । धृतिर्लक्ष्मीर्जगच्चेष्टा वायुः सर्वत्रगो हरिः ॥ १,८.२५ ॥ जलधिर्द्विजगोविन्दस्तद्वेला श्रीर्महामुने । लक्ष्मीस्वरूपमिन्द्राणी देवेन्द्रो मधुसूदनः ॥ १,८.२६ ॥ यमश्चक्रधरः साक्षाद्धूमोर्णा कमलालया । ऋद्धिः श्रीः श्रीधरो देवः स्वयमेव धनेश्वरः ॥ १,८.२७ ॥ गौरी लक्ष्मीमंहाबागा केशवो वरुणः स्वयम् । श्रीर्देवसेना विप्रेन्द्र देवसेनापतिर्हरिः ॥ १,८.२८ ॥ अवष्टंभो गदापाणिः शक्तिर्लक्ष्मीर्द्विजोत्तम । काष्ठा लक्ष्मीर्निमेषोऽसौ मुहूर्तोऽसौ कला त्वियम् ॥ १,८.२९ ॥ ज्योत्स्ना लक्ष्मीः प्रदीपोऽसौ सर्वः सर्वेश्वरो हरिः । लताभूता जगन्माता श्रीर्विष्णुर्द्रुमसंज्ञितः ॥ १,८.३० ॥ विभावरी श्रीर्दिवसो देवचक्रगदाधरः । वरप्रदो वरो विष्णुर्वधूः पद्मवनाल या ॥ १,८.३१ ॥ नदस्वरूपी भगवाञ्छ्रीर्नदीरूपसंस्थिता । ध्वजश्च पुण्डरीकाक्षः पताका कमलालया ॥ १,८.३२ ॥ तृष्णा लक्ष्मीर्जगन्नाथो लोभो नारायणः परः । रती रागश्च मैत्रेय लक्ष्मीर्गोविन्द एव च ॥ १,८.३३ ॥ किं चातिबहुनोक्तेन संक्षेपेणेदमुच्यते ॥ १,८.३४ ॥ देवतिर्यङ्मनुष्यादौ पुन्नामा भगवान्हरिः । स्त्रीनाम्नी श्रीश्च विज्ञेया नानयोर्विद्यते परम् ॥ १,८.३५ ॥ इति श्रीविष्णुपुराणे प्रथमेऽंशे अष्टमोऽध्यायः (८) _____________________________________________________________ श्रीपराशर उवाच इदं च शृणु मैत्रेय यत्पृष्टोहमिह त्वया । श्रीसम्बन्धं मायाप्येतच्छ्रुतमासीन्मरीचितः ॥ १,९.१ ॥ दुर्वासाः शङ्करस्यांशश्चार पृथिविमिमाम । स ददर्श स्रजं दिव्यामृषिर्विद्याधरीकरे ॥ १,९.२ ॥ संतानकानामखिलं यस्या गन्धेन वासितम् । अतिसेव्यमभूद्ब्रह्यन् तद्वनं वनचारिणाम् ॥ १,९.३ ॥ उन्मत्तव्रतधृग्विप्रस्तां दृष्ट्वा शोभनां स्रजम् । तां ययाचे वरारोहां विद्याधरवधूं ततः ॥ १,९.४ ॥ याचिता तेन तन्वङ्गी मालां विद्याधराङ्गना । ददौ तस्मै विशालाक्षी सादरं प्रणिपत्य तम् ॥ १,९.५ ॥ तामादायात्मनो मूर्ध्नि स्रजमुन्मत्तरूपधृक् । कृत्वा स विप्रो मैत्रेय परिबभ्राम मेदिनीम् ॥ १,९.६ ॥ स ददर्श तमायान्तमुन्मत्तैरावते स्थितम् । त्रैलोक्याधिपतिं देवं सह देवैः शचीपतिम् ॥ १,९.७ ॥ तामात्मनः स शिरसः स्रजमुन्मत्त षट्पदाम् । आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः ॥ १,९.८ ॥ गृहीत्वामरराजेन स्रगैरावतमूर्धनि । न्यस्ता रराज कैलासशिखरे जाह्नवी यथा ॥ १,९.९ ॥ मदान्धकारिताक्षोसौ गन्धाकृष्टेन वारणः । करेणाघ्राय चिक्षेप तां स्रजं धरणीतले ॥ १,९.१० ॥ ततश्चुक्रोध भगवान्दुर्वासा मुनि सत्तमः । मैत्रेय देवराजानं क्रुद्धश्चैतदुवाच ह ॥ १,९.११ ॥ दुर्वासा उवाच ऐश्वर्यमददुष्टात्मन्नतिस्तब्धोसि वासव । श्रियो धाम स्रजं यस्त्वं मद्दत्तां नाभिनन्दसि ॥ १,९.१२ ॥ प्रसाद इति नोक्तं ते प्रणिपातपुरः सरम् । हर्षोत्फुल्लकपोलेन न चापि शिरसा धृता ॥ १,९.१३ ॥ मया दत्तामि मां मालं यस्मान्न बहु मन्यसे । त्रैलोक्यश्रीरतो मूढ विनाशमुपयास्यति ॥ १,९.१४ ॥ मां मन्यसे त्वं मदृशं नूनं शक्रतरद्विजैः । अतोवमा नमस्मासु मानिना भवता कृतम् ॥ १,९.१५ ॥ मद्दत्त भवता यस्मात्क्षिप्ता माला महीतले । तस्मात्प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति ॥ १,९.१६ ॥ यस्य संजातकोपस्य भयमेति चराचरम् । तं त्वं मामतिगर्वेण देवराजवमन्यसे ॥ १,९.१७ ॥ श्रीपराशर उवाच महेन्द्रो वारणस्कन्धादवतीर्य त्वरान्वितः । प्रसादयामास मुनिं दुर्वाससमकल्मषम् ॥ १,९.१८ ॥ प्रसाद्यमानः स तदा प्रणिपातपुरःसरम् । इत्युवाच सहस्राक्षं दुर्वासा मुनिसत्तम ॥ १,९.१९ ॥ दुर्वासा उवाच नाहं कृपालुहृदयो न चमां भजते क्षमा । अन्ये ते मुनयः शक्र दुर्वाससमवेहि माम ॥ १,९.२० ॥ गौतमादिभिरन्यैस्त्वं गर्वमारोपितो मुधा । अक्षान्तिसारसर्वस्वं दुर्वाससमवेहि माम् ॥ १,९.२१ ॥ वसिष्ठाद्यैर्दयासारैः स्तोत्रं कुर्वद्भिरुच्चकैः । गर्वं गतो सि येनैवं मामप्यद्यावमन्यसे ॥ १,९.२२ ॥ ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम् । निरीक्ष्य कस्त्रिभुवने मम यो न गतो भयम् ॥ १,९.२३ ॥ नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रतो । विडंबनामिमां भूयः करोष्यनुनयात्मिकाम् ॥ १,९.२४ ॥ श्रीपराशर उवाच इत्युक्त्वा प्रययै विप्रो देवराजोपि तं पुनः । आरुह्यैरावतं ब्रह्मन् प्रययावमरावतीम् ॥ १,९.२५ ॥ ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम् । मैत्रेयासीदपध्वस्तं संक्षा णौषधिवीरुधम् ॥ १,९.२६ ॥ न यज्ञाः समवर्तन्ते न तपस्यन्ति तापसाः । न च दानादिधर्मेणु मनश्चक्रे तदा जनः ॥ १,९.२७ ॥ निःसत्त्वाः सकला लोका लोभाद्युपहतेन्द्रियाः । स्वल्पेपि हि बभूवुस्ते साभिलाषा द्विजोत्तम ॥ १,९.२८ ॥ यतः सत्त्वं ततो लक्ष्मीः सत्त्वं भूत्यनुसारि च । निःश्रीकाणां कुतः सत्त्वं विना तेन गुणाः कुतः ॥ १,९.२९ ॥ बलशौर्याद्यभावश्च पुरुषाणां गुणैर्विना । लवनायः समस्तस्य बलशौर्यविवर्जितः ॥ १,९.३० ॥ भवत्यपध्वस्तमतिर्लघितः प्रथितः पुमान् । एवमत्यन्तनिःश्रीके त्रैलोक्ये सत्त्ववर्जिते ॥ १,९.३१ ॥ दवान् प्रति बलोद्योगं चक्रुर्दैतेयदानवाः ॥ १,९.३२ ॥ लोभाभिभूता निःश्रीका दैत्याः सत्त्वविवर्जिताः । श्रिपाविहीनैर्निःसत्त्वैर्देवैश्चक्रुस्ततो रणम् ॥ १,९.३३ ॥ विजितास्त्रिदशा दैत्यैरिन्द्राद्याः शरणं ययुः । पितामहं महाभागं हुताशनपुरोगमाः ॥ १,९.३४ ॥ यथावत्कथितो देवैर्ब्रह्मा प्राह ततः सुरान् । परावरेशं शरणं व्रजध्वमसुरार्दनम् ॥ १,९.३५ ॥ उत्पत्तिस्थितिनाशानामहेतुं हेतुमीश्वरम् । प्रजा पतिपतिं विष्णुमनन्तमपराजितम् ॥ १,९.३६ ॥ प्रधानपुंसोरजयोः कारणं कार्यभूतयोः । प्रणतार्तिहरं विष्णुं स वः श्रेयो विधास्यति ॥ १,९.३७ ॥ श्रीपराशर उवाच एवमुक्त्वा सुरान्सर्वान् ब्रह्मा लोकपितामहः । क्षीरोदस्योत्तरं तीरं तैरेव सहितो ययौ ॥ १,९.३८ ॥ स गत्वा त्रिदशैः सर्वैः समवेतः पितामहः । तुष्टाव वाग्भिरिष्टाभिः परावरपतिं हरिम् ॥ १,९.३९ ॥ ब्रह्मोवाच नमामि सर्वं सर्वेशमनन्तमजमव्ययम् । लोकधाम धराधारमप्रकाशमभेदिनम् ॥ १,९.४० ॥ नारायणमणीयांसमशेषणामणीयसाम् । समस्तानां गरिष्ठं च भूरादीनां गरीयसाम् ॥ १,९.४१ ॥ यत्र सर्वं यतः सर्वमुत्पन्नं मत्पुरःसरम् । सर्वभूतश्च यो देवः पराणामपि यः परः ॥ १,९.४२ ॥ परः परस्मात्पुरुषात्परमात्मस्वरूपधृक् । योगिभिश्चिन्त्यते योऽसौ सुक्तिहेतोर्मुमुक्षुभिः ॥ १,९.४३ ॥ सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । स शुद्धः सर्वशुद्धेभ्यः पुमानाद्यः प्रसीदतु ॥ १,९.४४ ॥ कला काष्ठा मुहूर्तादिकालासूत्रस्य गोचरे । यस्य शक्तिर्न शुद्धस्य स नो विष्णुः प्रसीदतु ॥ १,९.४५ ॥ प्रोच्यते परमेशो हि यः शुद्धोऽप्युपचारतः । प्रसीदतु स नो विष्णुरात्मा यः सर्वदेहिनाम् ॥ १,९.४६ ॥ यः कारणं च कार्यं च कारणस्यापि कारणम् । कार्य स्यापि च यः कार्यं प्रसीदतु स नो हरिः ॥ १,९.४७ ॥ कार्यकार्यस्य यत्कार्यं तत्कार्यस्यापि यः स्वयम् । तत्कार्यकार्यभूतो यस्ततश्च प्रणतास्म तम् ॥ १,९.४८ ॥ कारणं कारणस्यापि तस्य कारणकारणम् । तत्कारणानां हेतुं तं प्रणता स्म परेश्वरम् ॥ १,९.४९ ॥ भोक्तारं भोग्यभूतं च स्रष्टारं सृज्यमेव च । कार्यकर्तृस्वरूपं तं प्रणता स्म परं पदम् ॥ १,९.५० ॥ विशुद्धबोधवन्नित्यमजमक्षयमव्ययम् । अव्यक्तमविकारं यत्तद्विष्णोः परमं पदम् ॥ १,९.५१ ॥ न स्थुलं न च सूक्ष्मं यन्न विशेषणगोचरम् । तत्पदं परमं विष्णोः प्रणमाम सदामलम् ॥ १,९.५२ ॥ यस्या युतायुतांशांशे विश्वशक्तिरियं स्थिता । परब्रह्मस्वरूपं यत्प्रणमामस्तमव्ययम् ॥ १,९.५३ ॥ यद्योगिनः सदोद्युक्ताः पुण्यपापक्षयेक्षयम् । पश्यन्ति प्रणवे चिन्त्यं तद्विष्णोः परमं पदम् ॥ १,९.५४ ॥ यन्न देवा न मुनयो न चाहं न च शङ्करः । जानन्ति परमेश स्य तद्विष्णोः परमं पदम् ॥ १,९.५५ ॥ शक्तयो यस्य देवस्य ब्रह्मविष्णुशिवात्मिकाः । भवन्त्यभूतपूर्वस्य तद्विष्णोः परमं पदम् ॥ १,९.५६ ॥ सर्वेश सर्वभूतात्मन्सर्व सर्वाश्रयाच्युत । प्रसीद विष्णो भक्तानां व्रज नो दृष्टिगोचरम् ॥ १,९.५७ ॥ श्रीपराशर उवाच इत्युदीरितमाकर्ण्य ब्रह्मणस्त्रिदशास्ततः । प्रणम्योचुः प्रसीदेति व्रज नो दृष्टि गोचरम् ॥ १,९.५८ ॥ यन्नायं भगवान् ब्रह्म जानाति परमं पदम् । तन्नताः स्मजगद्धाम तव सर्वगताच्युत ॥ १,९.५९ ॥ इत्यन्ते वचसस्तेषां देवानां ब्रह्मणस्त था । ऊचुर्देवर्षयःसर्व बृहस्पतिपुरोगमाः ॥ १,९.६० ॥ अद्यो यज्ञः पुमानीड्यः पूर्वेषां यश्च पूर्वजः । तन्नताः स्म जगत्स्त्रष्टुः स्रष्टारम विशेषणम् ॥ १,९.६१ ॥ भगवन्भूतभव्येश यज्ञमूर्तिधराव्यय । प्रसीद प्रणतानां त्वं सर्वेषां देहि दर्शनम् ॥ १,९.६२ ॥ एष ब्रह्म सहास्माभिः सह रुद्रैस्त्रिलोचनः । सर्वादित्यैः समं पूषा पावकोऽयं सहाग्निभः ॥ १,९.६३ ॥ अश्विनौ वसवश्चेमे सर्वे चैते मरुद्गणाः । साध्या विश्वे तथा देवा देवेन्द्रश्चायमीश्वरः ॥ १,९.६४ ॥ प्रणामप्रवणा नाथ दैत्यसैन्यैः पराजिताः । शरणं त्वामनुप्राप्ताः समस्ता देवतागणाः ॥ १,९.६५ ॥ श्रीपराशर उवाच एवं संस्तूयमानस्तु भगवाञ्छंखचक्रधृक् । जगाम दर्शनं तेषां मैत्रेय परमे श्वरः ॥ १,९.६६ ॥ तं दृष्ट्वा ते तदा देवाः शङ्खचक्रगदाधरम् । अपूर्वरूपसंस्थानं तेजसां राशिमूर्जितम् ॥ १,९.६७ ॥ प्रणम्य प्रणताः सर्वे संक्षोभ स्तिमितेक्षणाः । तुष्टुवुः पुण्डरीकाक्षं पितामहपुरोगमाः ॥ १,९.६८ ॥ देवा ऊचुः । नमोनमो विशेषस्त्वं त्वं ब्रह्म त्वं पिनाकधृक् । इन्द्रस्त्वम ग्निः पवनो वरुणः सविता यमः ॥ १,९.६९ ॥ वसवो मरुतः साध्या विश्वेदेवगणा भवान् । योऽयं तवाग्रतो देव समीपं देवतागणः । स त्वमेव जगत्स्त्रष्टा यतः सर्वगतो भवान् ॥ १,९.७० ॥ त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः प्रजापतिः । विद्या वेद्यं च सर्वात्मंस्त्वन्मयं चाखिलं जगत् ॥ १,९.७१ ॥ त्वमार्ताः शरणं विष्णो प्रयाता दैत्यनिर्जिताः । वयं प्रसीद सर्वात्मंस्तेजसाप्याययस्व नः ॥ १,९.७२ ॥ तावदार्तिस्तथा वाञ्छा ताव न्मोहस्तथा मुखम् । यावन्न याति शरणं त्वामशेषाघनाशनम् ॥ १,९.७३ ॥ त्वं प्रसादं प्रसन्नत्मन् प्रपन्नानां कुरुष्व नः । तेजसां नाथ सर्वेषां स्वशक्त्याप्यायनं कुरु ॥ १,९.७४ ॥ श्रीपराशर उवाच एवं संस्तूयमानस्तु प्रणतैरमरैर्हरिः । प्रसन्नदृश्टिर्भगवानिदमाह स विश्वकृत् ॥ १,९.७५ ॥ तेजसो भवतां देवाः करिष्याम्युपबृंहणम् । वदाम्यहं यत्क्रियतां भवद्भिस्तदिदं सुराः ॥ १,९.७६ ॥ आनीय सहिता दैत्यैः क्षीराब्धौ सरलौ षधीः । प्रक्षिप्यात्रमृतार्थं ताः सकला दैत्यदानवैः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् ॥ १,९.७७ ॥ मथ्यताममृते देवाः सहाये मय्यवस्थिते ॥ १,९.७८ ॥ सामपूर्वं च दैतेयास्तत्र साहाय्यकर्मणि । सामान्यफलभोक्तारो यूयं वाच्या भविष्यथ ॥ १,९.७९ ॥ मथ्यमाने च तत्राब्धौ यत्समुत्पत्स्यतेऽमृतम् । तत्पानाद्बलिनो यूयममराश्च भविष्यथ ॥ १,९.८० ॥ तथा चाहं करिष्यामि ते यथा त्रिदशद्विषः । न प्राप्स्यन्त्यमृतं देवाः केवलं क्लेशभागिनः ॥ १,९.८१ ॥ श्रीपराशर उवाच इत्युक्ता देवदेवेन सर्व एव तदा सुराः । सन्धानमसूरैः कृत्वा यत्नवन्तोऽमृतेऽभवन् ॥ १,९.८२ ॥ नानौषधीः समानीय देवदैतेयदानवाः । क्षिप्त्वा क्षीराब्धिपयसि शर दभ्रामलत्विषि ॥ १,९.८३ ॥ मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् । ततो मथितुमारब्धा मैत्रेय तरसामृतम् ॥ १,९.८४ ॥ विबुधाः सहिताः सर्वे यतः पुच्छं ततः कृताः । कृष्णेन वासुकेर्दैत्याः पूर्वकाये निवेशिताः ॥ १,९.८५ ॥ ते तस्य मुखनिश्वासवह्नितापहतत्विषः । निस्तेजसोऽसुराः सर्वे बभूवुरमितौजसः ॥ १,९.८६ ॥ तेनैव मुखनिश्वासवायुनास्तबलाहकैः । पुच्छप्रदेशे वर्षद्भिस्तदा चाप्यायिताः सुराः ॥ १,९.८७ ॥ क्षीरो दमध्ये भगवान्कूर्मरूपी स्वयं हरिः । मन्थनाद्रेरधिष्ठानं भ्रमतोऽभून्महामुने ॥ १,९.८८ ॥ रूपेणान्येन देवानां मध्ये चक्रगदाधरः । चकर्ष नाग राजानं दैत्यमध्येऽपरेण च ॥ १,९.८९ ॥ उपर्याक्रान्तवाञ्शैलं बृहद्रूपेण केशवः । तथापरेण मैत्रेय यन्न दृष्टं सुरासुरैः ॥ १,९.९० ॥ तेजसा नागरा जानं तथाप्यायितवान्हरिः । अन्येन तेजसा देवानुपबृंहितवान्प्रभुः ॥ १,९.९१ ॥ मथ्यमाने ततस्तस्मिन्क्षिराब्धो देवदानवैः । हविर्धामाभवत्पूर्वं सुरभिः सुरपूजीता ॥ १,९.९२ ॥ जग्मुर्मुदं ततो देवा दानवाश्च महामुने । व्याक्षिप्तचेतसश्चैव बभूवुस्तिमितेक्षणाः ॥ १,९.९३ ॥ किमेतदितिसिद्धानां दिवि चिन्तयतां ततः । बभूव वारुणी देवी मदाघूर्णितलोचना ॥ १,९.९४ ॥ कृतावर्तात्ततस्तस्मात्क्षीरोदाद्वासयञ्जगत् । गन्धेन पारीजातोभूद्देवस्त्रीनन्दनस्तरुः ॥ १,९.९५ ॥ रूपौदार्यगुणोपेतस्तथा चाप्सरसां गणः । क्षीरोदधेः समुत्पन्नो मैत्रेय परमाद्भुतः ॥ १,९.९६ ॥ ततः शीतांशुरभवज्जगृहे तं महेश्वरः । जगृहुश्च विषं नागाः क्षीरोदाब्धिसमुत्थितम् ॥ १,९.९७ ॥ ततो धन्वन्तरिर्देवः श्वेताम्बरधरस्वयम् । बिभ्रत्कमण्डलुं पूर्णममृतस्य समुत्थितः ॥ १,९.९८ ॥ ततः स्वस्थमनस्कास्ते सर्वे दैतैयदानवाः । बभूवुर्मुदिताः सर्वे मैत्रेय मुनिभिः सह ॥ १,९.९९ ॥ ततः स्फुरत्कान्तिमती विकासिकमले स्थिता । श्रीर्देवी पयसस्तस्मादुद्भूता धृतपङ्कजा ॥ १,९.१०० ॥ तां तुष्टुवुर्मुदा युक्ताः श्रीसूक्तेन महर्षयः ॥ १,९.१०१ ॥ विश्वावसुमुखास्तस्या गन्धर्वाः पुरतो जगुः । घृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः ॥ १,९.१०२ ॥ गङ्गाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे । दिग्गजा हेमपात्रस्थमादाय विमलं जलम् । स्त्रापयाञ्चक्रिरे देवीं सर्वलोकमहेश्वरीम् ॥ १,९.१०३ ॥ क्षीरोदो रूपधृक्तस्यै मालामम्लानपङ्कजाम् । ददौ विभूषणान्यङ्गे विश्वकर्मा चकार ह ॥ १,९.१०४ ॥ दिव्यमाल्याम्बरधरास्त्राता भूषणभूषिता । पश्यतां सर्वदेवानां ययौ वक्षस्थलं हरेः ॥ १,९.१०५ ॥ तया विलोकिता देवा हरिवक्षस्थलस्थया । लक्ष्म्या मैत्रेय सहसा परां निर्वृतिमागताः ॥ १,९.१०६ ॥ उद्वेगं परमं जग्मुर्दैत्या विष्णुपराङ्मुखाः । त्यक्ता लक्ष्म्या महाभाग विप्रचित्तिरुरोगमाः ॥ १,९.१०७ ॥ ततस्ते जगृहुर्दैत्या धन्वन्तरिकरस्थितम् । कमण्डलुं महावीर्या यत्राऽस्तेऽमृतमुत्तमम् ॥ १,९.१०८ ॥ मायया मोहयित्वा तान्विष्णुः स्त्रीरूपसंस्थितः । दानवेभ्यस्तदादाय देवेभ्यः प्रददौ प्रभुः ॥ १,९.१०९ ॥ ततः पपुः सुरगुणाः शक्राद्यास्तत्तदामृतम् । उद्यतायुधनिस्त्रंशा दैत्यास्तांश्च समाभ्ययुः ॥ १,९.११० ॥ पीतेऽमृते च बलिभिर्देवैर्दैत्यचमूस्तदा । वध्यमाना दिशो भेजे पातालं च विवेश वै ॥ १,९.१११ ॥ ततो देवा मुदा युक्ताः शङ्खचक्रगदाभृतम् । प्रणिपत्य यथापूर्वमाशासत्तत्त्रिविष्टपम् ॥ १,९.११२ ॥ ततः प्रसन्नभाः सूर्यः प्रययौ स्वेन वर्त्मना । ज्योतींषि च यथामार्गं प्रययुर्मुनिसत्तम ॥ १,९.११३ ॥ जज्वाल भगवांश्चोच्चैश्चारुदीप्तिर्विभावसुः । धर्मे च सर्वभूतानां तदा मतिरजायत ॥ १,९.११४ ॥ त्रैलोक्यं च श्रिया जुष्टं बभूव द्विजसत्तम । शक्रश्च त्रिदशश्रेष्ठः पुनः श्रीमा नजायत ॥ १,९.११५ ॥ सिंहासनगतः शक्रःसंप्राप्य त्रिदिवं पुनः । देवराज्ये स्तितो देवीं तुष्टावाब्जकरां ततः ॥ १,९.११६ ॥ इन्द्र उवाच नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् । श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षस्थलस्थिताम् ॥ १,९.११७ ॥ पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् । वन्दे पद्मसुखीं देवीं पद्मनाभप्रियामहम् ॥ १,९.११८ ॥ त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी । सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ १,९.११९ ॥ यज्ञविद्या महाविद्य गुह्यविद्य च शोभने । आत्मविद्या च देवि त्वं विसुक्तिफलदायिनी ॥ १,९.१२० ॥ आन्वीक्षिकीत्रयीवार्त दण्डनीतिस्त्वमेव च । सैम्यासौम्यैर्जगद्रूपैस्त्वयैत्तद्देवि पूरितम् ॥ १,९.१२१ ॥ का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ॥ १,९.१२२ ॥ त्वाया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥ १,९.१२३ ॥ दाराः पुत्रास्तथागारसुहृद्धान्यधनादिकम् । भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्तृणाम् ॥ १,९.१२४ ॥ शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम् । देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ १,९.१२५ ॥ त्वं माता सर्वलोकानां देवदेवो हरिः पिता । त्वयैतद्विष्णुना चाम्ब जगव्द्याप्तं चराचरम् ॥ १,९.१२६ ॥ मा नः कोशं तथा गोष्ठं मा गृहं मा परिच्छदम् । मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥ १,९.१२७ ॥ मा पुत्रान्मा सुहृर्द्वग मा पशुन्मा विभूषणम् । त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलालये ॥ १,९.१२८ ॥ सत्त्वेन सत्यशौचाभ्यां तथा शीलदिभिर्गुणैः । त्यज्यन्ते ते नराः सद्यः संत्यक्ता ये त्वायामले ॥ १,९.१२९ ॥ त्वया विलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः । कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥ १,९.१३० ॥ सर्श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् । स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥ १,९.१३१ ॥ सद्यो वैगुण्यमायान्ति शीलाद्यः सकला गुणाः । पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥ १,९.१३२ ॥ न ते वर्णयितुं शक्ता गुणाञ्चिह्वापि बेधसः । प्रसीद देवि पद्माक्षि मास्मांस्त्याक्षीः कदाटन ॥ १,९.१३३ ॥ श्रीपरशर उवाच एवं श्रीः संस्तुता सम्यक्प्राह देवी शतक्रतुम् । शृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥ १,९.१३४ ॥ श्रीरुवाच परितुष्टास्मि देवेशे स्तोत्रेणानेन ते हरे । वरं वृणीष्व यस्त्विष्टो वर दाहं तवागता ॥ १,९.१३५ ॥ इन्द्र उवाच वरदा यदि मे देवि वारर्हे यदि वाप्यहम् । त्रैलोक्यं न त्वया त्याज्यमेष मेस्तु वरः परः ॥ १,९.१३६ ॥ स्तोत्रेण यस्तथैतेन त्वां स्तोष्यत्यब्धिसम्भवे । स त्वया न परीत्याज्यो द्वितीयोस्तु वरो मम ॥ १,९.१३७ ॥ श्रीरुवाच त्रैलोक्यं त्रिद शश्रेष्ठ न सन्त्यक्ष्यामि वासव । दत्तो वरो मयायन्ते स्तौत्राराधनतुष्टया ॥ १,९.१३८ ॥ यश्च सायं तथा प्रातः स्तोत्रेणानेन मानवः । मां स्तोष्यति न तस्याहं भविष्यामि पराङ्मुखी ॥ १,९.१३९ ॥ श्रीपराशर उवाच एवं ददौ वरं देवी देवराजाय वै पुरा । मैत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता ॥ १,९.१४० ॥ भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वमुदधेः पुनः । देवदानवयत्नेन प्रसूतामृतमन्थने ॥ १,९.१४१ ॥ एवं यदा जगत्स्वामी देवदेवो जनार्दनः । अवतारं करोत्येषा तदा श्रीस्तत्महायिनि ॥ १,९.१४२ ॥ पुनश्च पद्मादुत्पन्ना आदित्योभूद्यदा हरिः । यदा तु भार्गवो रामस्तदाभूद्धरणी त्वियम् ॥ १,९.१४३ ॥ राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येषु चावतारेषु विष्णोरेषानपायिनि ॥ १,९.१४४ ॥ देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी । विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ॥ १,९.१४५ ॥ यश्चैतच्छृणुयाज्जन्म लक्ष्म्या यश्च पठेन्नरः । श्रियो न विच्युतिस्तस्य गृहे यावत्कुलत्रयम् ॥ १,९.१४६ ॥ पठ्यते येषु चैवेयं गृहेषु श्रीस्तुतिर्मुने । अलक्ष्मीः कलहाधारा न ते ष्वास्ते कदाचन ॥ १,९.१४७ ॥ एतते कथितं ब्रह्मन्यन्मां त्वं परिपृच्छसि । क्षीराब्धो श्रीर्यथा जाता पूर्वं भृगुसुता सती ॥ १,९.१४८ ॥ इति सकल विभूत्यवाप्तिहेतुः स्तुतिरियमिन्द्रमुखोद्गता हि लक्ष्म्याः । अनुदिनमिह पठ्यते नृभिर्यैर्वसति न तेषु कदाचिदप्यलक्ष्मीः ॥ १,९.१४९ ॥ इति श्रीविष्णुपुराणे प्रथमेऽंशे नवमोऽध्यायः (९) _____________________________________________________________ श्रीमैत्रेय उवाच कथितं मे त्वाया सर्वं यत्पृष्टोसि मया मुने । भृगुसर्गात्प्रभृत्येष सर्गो मे कथ्यतां पुनः ॥ १,१०.१ ॥ श्रीपराशर उवाच भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहः । तथा धातृविधातारौ ख्यात्यां जातौ सुतौ भृगोः ॥ १,१०.२ ॥ आयतिर्नियतिश्चैव मेरोः कन्ये महात्मनः । भार्ये धातृविधात्रोस्ते तयोर्जातौ सुतावुभौ ॥ १,१०.३ ॥ प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः । ततो वेदशिरा जज्ञे प्राणस्यापि सुतं शृणु ॥ १,१०.४ ॥ प्राणस्य द्युतिमान्पुत्रो राजवांश्च ततोऽभवत् । ततो वंशो महाभाग विस्तरं भार्गवो गतः ॥ १,१०.५ ॥ पत्नी मरीचेः संभूतिः पौर्णमासमसूयता । विरजाः पर्वतश्चैव तस्य पुत्रो महात्मनः ॥ १,१०.६ ॥ वंशसंकीर्तने पुत्रान्वदिष्येहं ततो द्विज । स्मृतिश्चाङ्गीरसः पत्नी प्रसूता कन्यकास्तथा । सिनीवाली कुहूश्चैव राका चानुमती तथा ॥ १,१०.७ ॥ अनसूया तथैवात्रेर्जज्ञे निष्कल्मषान्सुतान् । सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥ १,१०.८ ॥ प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोऽभवत् । पूर्वजन्मनि योऽगस्त्यः स्मृतः स्वायंभुवेन्तरे ॥ १,१०.९ ॥ कर्दमश्चार्वरीवांश्च सहिष्णुश्च सुतास्त्रयः । क्षमा तु सुषवे भार्या पुलहस्य प्रजापतेः ॥ १,१०.१० ॥ क्रतोश्च संततिर्भार्या वालखिल्यानसूयत । षष्टिपुत्रसहस्राणि मुनीनामूर्ध्वरेतसाम् । अङ्गुष्ठपर्वमात्राणां ज्वलद्भास्करतेजसाम् ॥ १,१०.११ ॥ ऊर्जायां तु वसिष्ठस्य सप्ताजायन्त वै सुताः ॥ १,१०.१२ ॥ रजो गोत्रोर्ध्वबाहुश्च सवनश्चानघस्तथा । सुतपाः शुक्र इत्येते सर्वे सप्तर्षयोऽमलाः ॥ १,१०.१३ ॥ योऽसावग्न्यभिमानी स्यात्ब्रह्मणस्तनयोऽग्रजः । तस्मात्स्वाहा सुतांल्लेभे त्रीनुदारौजसो द्विज ॥ १,१०.१४ ॥ पावकं पवमानं तु शुचिं चापि जलाशिनम् ॥ १,१०.१५ ॥ तेषां तु सन्ततावन्ये चत्वारिंशच्च पञ्च च । कथ्यन्ते वह्नयश्चैते पितापुत्रत्रयं च यत् ॥ १,१०.१६ ॥ एवमेकोनपञ्चशद्वह्नयः परिकीर्तिताः ॥ १,१०.१७ ॥ पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया द्विज । आग्निष्वात्त बर्हिषदोऽनग्नयः साग्नयश्च ये ॥ १,१०.१८ ॥ तेभ्यः स्वधा सुते जज्ञे मेनां वै धारीणीं तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यावप्युभे द्विज ॥ १,१०.१९ ॥ उत्तमज्ञानसंपन्ने सर्वैः समुदिर्तैर्गुणैः ॥ १,१०.२० ॥ इत्येषा दक्षकन्यानां कथिता सत्यसंततिः । श्रद्धावान्संस्मरन्नेतामनपत्यो न जायते ॥ १,१०.२१ ॥ इति श्रीविष्णुपुराणे प्रथमेऽंशे दशमोऽध्यायः (१०) _____________________________________________________________ श्रीपराशर उवाच प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु । द्वौ पुत्रौ तु महावीर्यौ धर्मज्ञौ कथितौ तव ॥ १,११.१ ॥ तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः । अभीष्टायामभूद्ब्रह्यन्पितुरत्यन्तवल्लभः ॥ १,११.२ ॥ सुनीतिर्नाम या राज्ञस्तस्यासीन्महिषी द्विज । स नाति प्रीतिमांस्तस्यामभूद्यस्या ध्रुवः सुतः ॥ १,११.३ ॥ राजासनस्थितस्याङ्कं पितुर्भ्रतरमाश्रितम् । दृष्ट्वोत्तमं ध्रुव श्चक्रे तमारोढुं मनोरथम् ॥ १,११.४ ॥ प्रत्यक्षं भूपतिस्तस्याः सुरुच्या नाभ्यनन्दत । प्रणयेनागतं पुत्रमुत्संगारोहणोत्सुकम् ॥ १,११.५ ॥ सपत्नी तनयं दृष्ट्वा तमङ्कारोहणोत्सुकम् । स्वपुत्रं च तथारूढं सुरुचिर्वाक्यमब्रवीत् ॥ १,११.६ ॥ क्रियते किं वृथा वत्स महानेष मनोरथः । अन्यस्त्रीगर्भजातेन ह्यसंभूय ममोदरे ॥ १,११.७ ॥ उत्तमोत्तममप्राप्यमविवेको हि वाञ्छसि । सत्यं सुतस्त्वमप्यस्य किं तु न त्वं मया धृतः ॥ १,११.८ ॥ एतद्राजासनं सर्व भूभृत्संश्रयकेतनम् । योग्यं ममैव पुत्रस्य किमात्मा क्लिश्यतेत्वया ॥ १,११.९ ॥ उच्चैर्मनोरथस्तेयं मत्पुत्रस्येव किं वृथा । सुनीत्यामात्मनो जन्म किं त्वया नावगम्यते ॥ १,११.१० ॥ श्रीपराशर वाच उत्सृज्य पितरं बालस्तच्छ्रुत्वा मातृभाषितम् । जगाम कुपितो मातुर्निजाया द्विजमन्दिरम् ॥ १,११.११ ॥ तं दृष्ट्वा कुपितं पुत्रमीषत्प्रस्फुरिताधरम् । सुनीतिरङ्कमारोप्य मैत्रेयेदमभाषत ॥ १,११.१२ ॥ वत्स कः कोपहेतुस्ते कश्च त्वां नाभि नन्दति । कोवजानाति पितरं वत्स यस्तेपराध्यति ॥ १,११.१३ ॥ श्रीपराशर वाच इत्युक्तः सकलं मात्रे कथयामास तद्यथा । सुरुचिः प्राह भूपालप्रत्यक्षमतगर्विता ॥ १,११.१४ ॥ विनिश्वस्येति कथिते तस्मिन्पुत्रेण दुर्मनाः । श्वसक्षामेक्षणा दीना सुनीतिर्वाक्यमब्रवीत् ॥ १,११.१५ ॥ सुनीतिरुवाच सुरुचिः सत्यमाहेदं मन्दभाग्योसिःपुत्रक । न हि पुण्यवतां वत्स सपत्नैरेव मुच्यते ॥ १,११.१६ ॥ नोद्वेगस्तात कर्तव्यः कृतं यद्भवता पुरा । तत्कोपहर्तु शक्नोति दातुं कश्चाकृतं त्वया ॥ १,११.१७ ॥ तत्त्वया नात्र कर्तव्यं दुःखं तद्वाक्यसम्भवम् ॥ १,११.१८ ॥ राजासनं राजच्छत्रं वराश्चावरवारणाः । यस्य पुण्यानि तस्यैते मत्वैतच्छांम्य पुत्रक ॥ १,११.१९ ॥ अन्यजन्मकृतैः पुण्यैः सुरुच्या सुरुचिर्नृपः । भार्येति प्रोच्यते चान्यां मद्विधा पुण्यवर्जिता ॥ १,११.२० ॥ पुण्योपचयसंपन्नस्तस्याः पुत्रस्तथोत्तमः । मम पुत्रस्तथा जातः स्वल्पपुण्यो ध्रुवो भवान् ॥ १,११.२१ ॥ तथापि दुःखं न भवान् कर्तुमर्हसि पुत्रक । यस्य यावत्स तेनैव स्वेन तुष्यति मानवः ॥ १,११.२२ ॥ यदि ते दुःखमत्यर्थं सुरुच्या वचसाभवत् । तत्पुण्योपचये यत्नं कुरु सर्वफलप्रदे ॥ १,११.२३ ॥ सुशीलो भव धर्मात्मा मैत्रः प्राणिहिते रतः । निम्नं यथापः प्रवणाः पात्रमायान्ति सम्पदः ॥ १,११.२४ ॥ ध्रुव उवाच अम्ब यत्त्वमिदं प्रात्थ प्रशमाय वचो मम । नैतद्दुर्वाचसा भिन्ने हृदये मम तिष्ठति ॥ १,११.२५ ॥ सोऽहं तथा यतिष्यामि यथा सर्वोत्तमोत्तमम् । स्थानं प्राप्स्याम्यशोषाणां जगतामभि पूजितम् ॥ १,११.२६ ॥ सुरुचिर्दयिता राज्ञस्तस्या जातोस्मि नोदरात् । प्रभावं पश्य मेंब त्वं वृद्धस्यापि तवोदरे ॥ १,११.२७ ॥ उत्तमः स मम भ्राता यो गर्भेण धृतस्तया । स राजासनमाप्नोतु पित्रा दत्तं तथास्तु तत् ॥ १,११.२८ ॥ नान्यदत्तमभीप्स्यामि स्तानमम्ब स्वकर्मणा । इच्छामि तदहं स्थानं यत्र प्राप पिता मम ॥ १,११.२९ ॥ श्रीपराशर उवाच निर्जगाम गृहान्मातुरित्युक्त्वा मातरं ध्रुवः । पुराच्च निर्गम्य ततस्तद्बाह्योपवनं ययो ॥ १,११.३० ॥ स ददर्श मुनींस्तत्र सप्तपूर्वागतान्ध्रुवः । कुष्माजिनोत्तरीयेषु विष्टरेषु समास्थितान् ॥ १,११.३१ ॥ स राजपुत्रस्तान्सर्वान्प्रणिपत्याभ्य भाषत । प्रश्रयावनतः सम्यगभिवादनपूर्वकम् ॥ १,११.३२ ॥ ध्रुव उवाच उत्तानपादतनयं मां निबोधत सत्तमाः । जातं सुनीत्यां निर्वेदाद्युष्माकं प्राप्तमन्तिकम् ॥ १,११.३३ ॥ ऋषय ऊचुः चतुःपञ्चा ब्दसंभूतो बालस्त्वं तृपनन्दन । निर्वेदकारणं किञ्चित्तव नाद्यापि वर्तते ॥ १,११.३४ ॥ न चिन्त्यं भवतः किञ्चिद्ध्रयते भूपतिः पिता । न चैवैष्ट वियोगादि तव पश्याम बालक ॥ १,११.३५ ॥ शरीरे न च ते व्याधिरस्माभिरुपलक्ष्यते । निर्वेदः किन्निमित्तस्ते कथ्यतां यदि विद्यते ॥ १,११.३६ ॥ श्रीपराशर उवाच ततः स कथयामास सुरुच्या यदुदाहृतम् । तन्निशम्य ततः प्रोचुर्मुनयस्ते परस्परम् ॥ १,११.३७ ॥ अहो क्षात्रं परं तेजो बालस्यापि यदक्षमा । सपत्न्या मातुरुक्तं यद्धृदयान्नापसर्पति ॥ १,११.३८ ॥ भोभोः क्षत्रियदायादः निर्वेदाद्यत्त्वायाधुना । कर्तुं व्यवसितं तन्नः कथ्यतां यदि रोचते ॥ १,११.३९ ॥ यच्च कार्यं तवास्माभिः साहाय्यममितद्युते । तदुच्यतां विवक्षुस्त्वमस्माभिरुपलक्ष्यसे ॥ १,११.४० ॥ ध्रुव उवाच नाह मर्थमभीप्सामि न राज्यं द्विजसत्तमाः । तत्स्थानमेकमिच्छामि भुक्तं नान्येन यत्पुरा ॥ १,११.४१ ॥ एतन्मे क्रियतां सम्यक्कथ्यतां प्राप्यते यथा । स्थानमग्र्यं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः ॥ १,११.४२ ॥ मरीचिरुवाच अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज । न हि संप्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम् ॥ १,११.४३ ॥ अत्रिरुवाच परः पराणां पुरुषो यस्य तुष्टो जनार्दनः । संप्राप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम् ॥ १,११.४४ ॥ अङ्गिरा उवाच यस्यान्तः सर्वमेवेदमच्युतस्याव्ययात्मनः । तमाराधय गोविन्दं स्थानमग्र्यं यदीच्छसि ॥ १,११.४५ ॥ पुलस्त्य उवाच परं ब्रह्म परं धाम योऽसौ ब्रह्म तथा परम् । तमाराध्य हरिं याति मुक्तिमप्यति दुर्लभाम् ॥ १,११.४६ ॥ पुलह उवाच ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् । प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत ॥ १,११.४७ ॥ क्रतुरुवाच यो यज्ञपुरुषो यज्ञो योगेशः परमः पुमान् । तस्मिंस्तुष्टे यदप्राप्यं किन्तदस्ति जनार्दने ॥ १,११.४८ ॥ वसिष्ठ उवाच प्राप्नोष्याराधिते विष्णौ मनसा यद्यदिच्छति । त्रेलोक्यान्तर्गतं स्थानं किमु वत्सोत्तमोत्तमम् ॥ १,११.४९ ॥ ध्रुव उवाच आराध्यः कथितो देवो भवद्भिः प्रणतस्य मे । मया तत्परीतोषाय यज्जप्तव्यं तदुच्यताम् ॥ १,११.५० ॥ यथा चाराधनं तस्य मया कार्यं महात्मनः । प्रसादसुमुखास्तन्मे कथयन्तु महर्षयः ॥ १,११.५१ ॥ ऋषय ऊचुः राजपुत्र यथा विष्णोराराधनपरैर्नरैः । कार्यमाराधनं तन्नो यथावच्छ्रोतुमर्हसि ॥ १,११.५२ ॥ बाह्यार्थादखिलाच्चित्तं त्याजयेत्प्रथमं नरः । तस्मिन्नेव जगद्धाम्नि ततः कुर्वित निश्चलम् ॥ १,११.५३ ॥ एवमेकाग्रचित्तेन तन्मयेन धृतात्मना । जप्तव्यं यन्नि बोधैतत्तन्रः पार्थिवनन्दन ॥ १,११.५४ ॥ हिरण्यगर्भपुरुषप्रधानव्यक्तरूपिणे । ओं नमो वासुदेवाय शुद्धज्ञानस्वरूपिमे ॥ १,११.५५ ॥ एतज्जजाप भगवान् जप्यं स्वायंभुवो मनुः । पितामहस्तव पुरा तस्य तुष्टो जनार्दनः ॥ १,११.५६ ॥ ददो यथाभिलषितां सिद्धिं त्रैलोक्यदुर्लभाम् । तथा त्वमपि गोविन्दं तोषयैतत्सदा जपन् ॥ १,११.५७ ॥ इति श्रीविष्णुपुराणे प्रथमेंश एकादशोऽध्यायः (११) _____________________________________________________________ श्रीपराशर उवाच निशम्यैतदशेषेण मैत्रेय नृपते सुतः । निर्जगाम वनात्तस्मात्प्रणिपत्य स तानृषीन् ॥ १,१२.१ ॥ कृतकृत्यमिवात्मानं मन्यमानस्ततो द्विज । मधुसंज्ञं महापुण्यं जगाम यमुनातटम् ॥ १,१२.२ ॥ पुनश्च मधुसंज्ञेन दैत्येनाधिष्ठितं यतः । ततो मधुवनं नाम्ना ख्यातमत्र महीतले ॥ १,१२.३ ॥ हत्वा च लवणं रक्षो मधुपुत्रं महाबलम् । शत्रुघ्नो मधुरां नाम पुरीं यत्र चकार वै ॥ १,१२.४ ॥ यत्र वै देवदेवस्य सान्निध्यं हरिमेधसः । सर्वपापहरे तस्मिंस्तपस्तीर्थे चकार सः ॥ १,१२.५ ॥ मरीचिमुख्यैर्मुनिभिर्यथोद्दिष्टमभूत्तथा । आत्मन्यशेपदेवेशं स्थितं विष्णुममन्यत ॥ १,१२.६ ॥ अनन्यचेतसस्तस्य ध्यायतो भगवान्हरिः । सर्वभूतगतो विप्र सर्वभावगतोऽभवत् ॥ १,१२.७ ॥ मनस्यवस्थिते तस्मिन्विष्णौ मैत्रेय योगिनः । न शशाक धरा भारमुद्वोढुं भूतधारिणी ॥ १,१२.८ ॥ वामपादस्थिते तस्मिन्ननामार्धेन मेदिनी । द्वितीयं च ननामार्धं क्षितेर्दक्षिणतः स्थिते ॥ १,१२.९ ॥ पादांसुष्ठेन संपीड्य यथा स वसुधां स्थितः । तदा समस्ता वसुधा चचाल सह पर्वतैः ॥ १,१२.१० ॥ नद्यो नदाः समुद्राश्च संक्षोभं परमं ययुः । तत्क्षोभादमराः क्षोभं परं जग्मुर्महामुने ॥ १,१२.११ ॥ यामा नाम तदा देवा मैत्रेय परमाकुलाः । इन्द्रेण सह संमन्त्र्य ध्यानभङ्गं प्रचक्रमुः ॥ १,१२.१२ ॥ कूष्माण्डा विविधै रूपैर्महेन्द्रेण महामुने । समाधिभङ्गमत्यन्तमारब्धाः कर्तुमातुराः ॥ १,१२.१३ ॥ सुनीतिर्नाम तन्माता सास्त्रा तत्पुरतः स्थिता । पुत्रेति करुणां वाचमाह मायामयी तदा ॥ १,१२.१४ ॥ पुत्रकास्मान्निवर्तस्व शरीरात्ययदारुणात् । निर्बन्धतो मया लब्धो बहुभिस्त्वं मनोरथै ॥ १,१२.१५ ॥ दीनामेकां परित्यक्तुमनाथां न त्वमर्हसि । सपत्नीवचनाद्वत्स अगतेस्त्वं गतिर्मम ॥ १,१२.१६ ॥ क्व च त्वं पञ्चवर्षीयः क्वचैतद्दारूणं तपः । निवर्ततां मनः कष्टान्निर्बन्धात्फलवर्जितात् ॥ १,१२.१७ ॥ कालः क्रीडनकानान्ते तदन्तेऽध्ययनस्य ते । ततः समस्तभोगानां तदन्ते चेष्यते तपः ॥ १,१२.१८ ॥ कालः क्रीडनकानां यस्तव बालस्य पुत्रक । तस्मिंस्त्वमिच्छसि तपः किं नाशायात्मनो रतः ॥ १,१२.१९ ॥ मत्प्रीतिः परमो धर्मो वयोवस्थाक्रियाक्रमम् । अनुवर्तस्व मा मोहान्निवर्तास्मादधर्मतः ॥ १,१२.२० ॥ परित्यजति वत्साध्य यध्येतन्न भवांस्तपः । त्यक्ष्याम्यहमिह प्राणांस्ततो वै पश्यतस्तव ॥ १,१२.२१ ॥ श्रीपराशर उवाच तां प्रलापवतीमेवं बाष्पाकुलविलोचनाम् । समाहितमना विष्णौ पश्यन्नपि न दृष्टवान् ॥ १,१२.२२ ॥ वत्स वत्स सुघोराणि रक्षांस्येतानि भीषणे । वनेऽभ्युद्यतशस्त्राणीः समायान्त्यपगम्यताम् ॥ १,१२.२३ ॥ इत्युक्त्वा प्रययौ साथ रक्षांस्याविर्बभुस्ततः । अभ्युद्यतोग्रशस्त्राणि ज्वालामालाकुलैर्मुखैः ॥ १,१२.२४ ॥ ततो नादानतीवोग्रन्राजपुत्रस्य ते पुरः । मुमुचुर्दीप्तशस्त्राणि भ्रामयन्तो निशाचराः ॥ १,१२.२५ ॥ शिवाश्च शतशो नेदुः सज्वालाः कवलैर्मुखैः । त्रासाय तस्य बालस्य योगयुक्तस्य सर्वदा ॥ १,१२.२६ ॥ हन्यतां दन्यतामेष छिद्यतां छिद्यतामयम् । भक्ष्यतां भक्ष्यतां चाय मित्युचुस्ते निशाचराः ॥ १,१२.२७ ॥ ततो नानाविधान्नादान् सिंहोष्ट्रमकराननाः । त्रासाय राजपुत्रस्य नेदुस्ते रजनीचराः ॥ १,१२.२८ ॥ रक्षांसि तानि ते नादाः शिवास्तान्यायुधानि च । गोविन्दासक्तचित्तस्य ययुर्नन्द्रियगोचरम् ॥ १,१२.२९ ॥ एकाग्रचेताः सततं विष्णुमेवात्मसंश्रयम् । दृष्टवान् पृथिवीनाथपुत्रो नान्यं कथञ्चन ॥ १,१२.३० ॥ ततः सर्वासु मायासु विलीनासु पुनः सुराः । संक्षोभं परमं जग्मुस्तत्पराभवशङ्किताः ॥ १,१२.३१ ॥ ते समेत्य जगद्योनिमनादिनिधनं हरिम् । शरण्यं शरणं यातास्तपसा तस्य तापिताः ॥ १,१२.३२ ॥ देवा ऊचुः देवदेव जगन्नाथ परेश पुरुषोत्तम । ध्रुवस्य तपसा तप्तास्त्वां वयं शरणं गताः ॥ १,१२.३३ ॥ दिने दिने कलालेशैः शशाङ्क पूर्यते यथा । तथायं तपसा देव प्रयात्यृद्धिमहर्निंशम् ॥ १,१२.३४ ॥ औतानपादितपसा वयमित्थं जनार्दन । भीतास्त्वां शरणं यातास्तपसस्तं निवर्तय ॥ १,१२.३५ ॥ नविद्मः किं स शक्रत्वं सूर्यत्वं किमभीप्सति । वित्तपाम्बुपसोमानां साभिलाषः पदेषु किम् ॥ १,१२.३६ ॥ तदस्माकं प्रसीदेश हृदयाच्छल्यमुद्धर । उत्तानपादतनयं तपसः सन्निवर्तय ॥ १,१२.३७ ॥ श्रीभगवानुवाच नेन्द्रत्वं न च सूर्यत्वं नैवाम्बुपधनेशताम् । प्रार्थयत्येष यं कामं तं करोम्यखिलं सुरा ॥ १,१२.३८ ॥ यात देवा यथाकाम स्वस्थानं विगतज्वराः । निवर्तयाम्यहं बालं तपस्यासक्तमानसम् ॥ १,१२.३९ ॥ श्रीपराशर उवाच इत्युक्ता देवदेवेन प्रणम्य त्रिदशास्ततः । प्रययुः स्वानि धिष्ण्यानि शतक्रतुपुरोगमाः ॥ १,१२.४० ॥ भगवानपि सर्वात्मा तन्मयत्वेन तोषितः । गत्वा ध्रुवमुवाचेदं चतुर्भुजवपुर्हरिः ॥ १,१२.४१ ॥ श्रीभगवानुवाच औत्तानपादे भद्रं ते तपसा परितोषितः । वरदोहमनुप्राप्तो वरं वरय सुव्रत ॥ १,१२.४२ ॥ ब्राह्यार्थनिरपेक्षं ते मयि चित्तं यदा हितम् । तुष्टोहं भवतस्तेन तद्वृणीष्व वरं परम् ॥ १,१२.४३ ॥ पराशर उवाच श्रुत्वेत्थं गदितं तस्य देवदेवस्य बालकः । उन्मीलिताक्षो ददृशे ध्यानदृष्टं हरिं पुरः ॥ १,१२.४४ ॥ शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् । किरीटिनं समालोक्य जगाम शिरसा महीम् ॥ १,१२.४५ ॥ रोमाञ्चिताङ्गः सहसा साध्वसं परमं गतः । स्तवाय देवदेवस्य स चक्रे मानसं ध्रुवः ॥ १,१२.४६ ॥ किं वदामि स्तुतावस्य केनोक्तेनास्य संस्तुतिः । इत्याकुल मतिर्देवं तमेव शरणं ययौ ॥ १,१२.४७ ॥ ध्रुव उवाच भगवन्यदि मे तोषं तपसा परमं गतः । स्तोतुं तदहमिच्छामि वरमेनं प्रयच्छ मे ॥ १,१२.४८ ॥ (ब्रह्माद्यौर्यस्य वेदज्ञैर्ज्ञायते यस्य नो गतिः । तं त्वां कथमहं देव स्तोतुं शक्रोमि बालकः । त्वद्भक्तिप्रवणं ह्येतत्परमेश्वर मे मनः । स्तोतुं प्रवृत्तं त्वत्पादौ तत्र प्रज्ञां प्रयच्च मे) श्रीपराशर उवाच शङ्खप्रान्तेन गोविन्दस्तं पस्पर्श कृताञ्जलिम् । उत्तानपादतनयं द्विजवर्य जगत्पतिः ॥ १,१२.४९ ॥ अथ प्रसन्नवदनः स क्षणान्नृपनन्दनः । तुष्टाव प्रणतो भूत्वा भूतधातारमच्युतम् ॥ १,१२.५० ॥ ध्रुव उवाच भूमिरापोनलो वायुः खं मनो बुद्धिरेव च । भूतादिरादि प्रकृतिर्यस्य रूपं नतोस्मि तम् ॥ १,१२.५१ ॥ शुद्धः सूक्ष्मोखिलव्यापी प्रधानात्परतः पुमान् । यस्य रूपं नमस्तस्मै पुरुषाय गुणात्मने ॥ १,१२.५२ ॥ भूतादीनां समस्तानां गन्धादीनां च शाश्वतः । बुध्यादीनां प्रधानस्य पुरुषस्य च यः परः ॥ १,१२.५३ ॥ तं ब्रह्मभूतमात्मानमशेषजगतः पतिम् । प्रपद्ये शरणं शुद्धं त्वद्रूपं परमेश्वर ॥ १,१२.५४ ॥ बृहत्त्वाद्बृंहणत्वाच्च यद्रूपं ब्रह्मसंज्ञितम् । तस्मै नमस्ते सर्वात्मन्योगिचिन्त्याविकारिणे ॥ १,१२.५५ ॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सर्वव्यापी भुवः स्पर्शादत्यतिष्ठद्दशाङ्गुलम् ॥ १,१२.५६ ॥ यद्भूतं यच्च वै भव्यं पुरूषोत्तम तद्भवान् । त्वत्तौ विराट्स्वराट्सम्राट्त्वत्तश्चप्यधिपूरुषः ॥ १,१२.५७ ॥ अत्यरिच्यत सोधश्च तिर्यगूर्ध्वं च वै भुवः । त्वत्तो विश्वमिदं जातं त्वत्तौ भूतं भविष्यति ॥ १,१२.५८ ॥ त्वद्रूपधारिणश्चान्तः सर्वभूतमिदं जगत् । त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधा ॥ १,१२.५९ ॥ त्वत्तो ऋचोथ सामानि त्वत्तश्छन्दांसि जज्ञिरे । त्वत्तो यजूंष्यजायन्त त्वत्तोश्वाश्चैकतो दतः ॥ १,१२.६० ॥ गावस्त्वत्तः समुद्भूतास्त्व त्तोजा अवयो मृगाः । त्वमन्मुखाद्ब्राह्मणा बाह्वोस्त्वत्तो क्षत्रमजायत ॥ १,१२.६१ ॥ वैश्वास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः । आक्ष्णोः सूर्योऽनिलः प्राणाच्चन्द्रमा मनसस्तव ॥ १,१२.६२ ॥ प्राणोन्तः मुषिराज्जातो मुखादग्निरजायत । नाभितो गगनं द्यौश्च शिरसः समवर्तत ॥ १,१२.६३ ॥ दिशः श्रोत्रात्क्षितिः पद्भ्यां त्वत्तः सर्वमभूदिदिम् ॥ १,१२.६४ ॥ न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः । संयमे विस्वमखिलं बीजभूते तथात्वायि ॥ १,१२.६५ ॥ बीजादङ्कुरसम्भूते न्यग्रोधस्तु समुत्थितः । विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत् ॥ १,१२.६६ ॥ यथा हि कदली नान्या त्वक्पत्रादपि दृस्यते । एवं विश्वस्य नान्यस्त्वं त्वस्थयीश्वर दृश्येत ॥ १,१२.६७ ॥ ह्लादिनी संधिनी संवित्त्वय्येका सर्वसंस्थितौ । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ १,१२.६८ ॥ पृथग्भूतैकभूताय भूतभूताय ते नमः । प्रभूतभूतभूताय तुभ्यं भूतात्मने नमः ॥ १,१२.६९ ॥ व्यक्तं प्रधानपुरुषौ विराट्सम्राट्स्वराट्तथा । विभाव्यतेन्तःकरणे पुरुषेष्वक्षयो भवान् ॥ १,१२.७० ॥ सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक् । सर्वं त्वत्तस्ततश्च त्वं नमः सर्वात्मनेऽस्तु ते ॥ १,१२.७१ ॥ सर्वात्मकोसि सर्वेश सर्वभूतस्थितो यतः । कथयामि ततः किं ते सर्वं वेत्सि हृति स्थितम् ॥ १,१२.७२ ॥ सर्वात्मन्सर्वभूतेश सर्वसत्त्वसमुद्भव । सर्वभूतो भवान्वेत्ति सर्वसत्त्वमनोरथम् ॥ १,१२.७३ ॥ यो मे मनोरथो नाथ सफलः स त्वया कृतः । तपश्च तप्तं सफलं यद्दृष्टोऽसि जगत्पते ॥ १,१२.७४ ॥ श्रीभगवानुवाच तपसस्तत्फलं यद्दृष्टोऽहं त्वया ध्रुव । मदृर्शनं हि विफलं राजपुत्र न जायते ॥ १,१२.७५ ॥ वरं वरय तस्मात्त्वं यथाभिमतमात्मनः । सर्वं संपद्यते पुंसां मयि दृष्टिपथं गते ॥ १,१२.७६ ॥ ध्रुव उवाच भगवन्भूतभव्येश सर्वस्यास्ते भवान् हृदि । किमज्ञातं तव ब्रह्मन्मनसा यन्मयेक्षितम् ॥ १,१२.७७ ॥ तथापि तुभ्यं देवेश कथयिष्यामि यन्मया । प्रार्थ्यते दुर्विनीतेन हृदयेनातिदुर्लभम् ॥ १,१२.७८ ॥ किं वा सर्वजगत्स्त्रष्टः प्रसन्ने त्वयि दुर्लभम् । त्वत्प्रसादफलं भुङ्क्ते त्रैलोक्यं मघ वानपि ॥ १,१२.७९ ॥ नैतद्राजासनं योग्यमजातस्य ममोदरात् । इति गर्वदवोचन्मां सपत्नीमातुरुच्चकैः ॥ १,१२.८० ॥ आधारभूतं जगतः सर्वेषामुत्तमोत्तमम् । प्रार्थयामि प्रभो स्थानं त्वत्प्रसादादतोव्ययम् ॥ १,१२.८१ ॥ श्रीभगवानुवाच यत्त्वया प्रार्थ्यते स्थानमेतत्प्राप्स्यति वै भवान् । त्वयाहं तोषितः पूर्वमन्यजन्मनि वालक ॥ १,१२.८२ ॥ त्वमासीर्ब्रह्मणः पूर्वं मय्येकाग्रमतिः सदा । मातापित्रोश्च शुश्रषुर्निजधर्मानुपालकः ॥ १,१२.८३ ॥ कालेन गच्छता मित्रं राजपुत्रस्तवाभवत् । योवनेखिलभोगाढ्यो दर्शनीयोज्ज्वलाकृतिः ॥ १,१२.८४ ॥ तत्सङ्गात्तस्य तामृद्धिमवलोक्यादिदुर्लभाम् । भवेयं राजपुत्रोहमिति वाञ्छा त्वया कृता ॥ १,१२.८५ ॥ ततो यथाभिलषिता प्राप्ता ते राजपुत्रता । उत्तानपादस्य गृहे जातोसि ध्रुव दुर्लभे ॥ १,१२.८६ ॥ अन्येषां दुर्लभं स्थानं कुले स्वायम्भुवस्य यत् ॥ १,१२.८७ ॥ तस्यैतदपरं बाल येनाहं परितोषितः । मामाराध्य नरो मुक्तिमवाप्नोत्यविलम्बिताम् ॥ १,१२.८८ ॥ मय्यर्पितमना बाल किमु स्वर्गादिकं पदम् ॥ १,१२.८९ ॥ त्रैलोक्यादधिके स्थाने सर्वताराग्रहाश्रयः । भविष्यति न संदेहो मत्प्रसादाद्भावन्ध्रुव ॥ १,१२.९० ॥ सूर्यात्सोमात्तथा भौमात्सोमपुत्राद्बृहस्पतेः । सितार्कतनयादीनां सर्वर्क्षाणां तथा ध्रुवः ॥ १,१२.९१ ॥ सप्तर्षिणामशेषाणां ये च वैमानिकाः सुराः । सर्वेषामुपरि स्थानं तव दत्तं मया ध्रुव ॥ १,१२.९२ ॥ केचिच्चतुर्युगं यावत्केचिन्मन्वन्तरं सुराः । तिष्ठन्ति भवतो दत्ता मया वै कल्पसंस्थितिः ॥ १,१२.९३ ॥ सुनीतिरपि ते माता त्वदासन्नातिनिर्मला । विमाने तारका भूत्वा तावत्कालं निवत्स्यति ॥ १,१२.९४ ॥ ये च त्वां मानवाः प्रातः सायं च सुसमाहि ताः । कीर्तयिष्यन्ति तेषां च महत्पुण्यं भविष्यति ॥ १,१२.९५ ॥ श्रीपराशर उवाच एवं पूर्वं जगन्नाथाद्देवदेवाज्जनार्दनात् । वरं प्राप्य ध्रुवः स्थान मध्यास्ते स महामते ॥ १,१२.९६ ॥ स्वयं शुश्रूषणाद्धर्म्यान्मातापित्रोश्च वै तथा । द्धादशाक्षरमाहत्म्यात्तपसश्च प्रभावतः ॥ १,१२.९७ ॥ तस्याभिमानमृद्धिं च महिमानं निरिक्ष्य हि । देवासुराणामाचार्यः श्लोकमत्रोशना जगौ ॥ १,१२.९८ ॥ अहोस्य तपसो वीर्यमहोस्य तपसः फलम् । यदेनं पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ १,१२.९९ ॥ ध्रुवस्य जननी चेयं सुनीतिर्नाम सूनृता । अस्याश्च महिमानं कः शक्तो वर्णयितुं भुवि ॥ १,१२.१०० ॥ त्रैलोक्यश्रयतां प्राप्तं परं स्थानं स्तिरायति । स्थानं प्राप्ता परं धृत्वा या कुक्षिविवरे ध्रुवम् ॥ १,१२.१०१ ॥ यश्चैतत्कीर्तयेन्नित्यं ध्रुवस्यारोहणं दिवि । सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ १,१२.१०२ ॥ स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि । सर्वकल्याणसंयुक्तो दीर्घकालं स जीवति ॥ १,१२.१०३ ॥ इति श्रीविष्णुपुराणे प्रथमेऽंशे द्वादशोऽध्यायः (१२) _____________________________________________________________ श्रीपराशर उवाच ध्रुवाच्छिष्टिं च भव्यं च भव्याच्छम्भुर्व्यजायत । शिष्टोराधत्त सुच्छाया पञ्चपुत्रानकल्मषान् ॥ १,१३.१ ॥ रिपुं रिपुञ्जयं विप्रं वृकलं वृकतेजसम् । रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ॥ १,१३.२ ॥ अजीजनत्पुष्करिण्यां वारुण्यां चाक्षुषो मनुम् । प्रजापतेरात्मजायां वीरणस्य महात्मनः ॥ १,१३.३ ॥ मनोरजायन्त दश नड्वलायां महौजसः । कन्यायां तपतां श्रेष्ठ वैराजस्य प्रजापतेः ॥ १,१३.४ ॥ कुरुः पुरुः शत द्युम्नस्तपस्वी सत्यवाञ्छुचिः । अग्निष्टोमोतिरात्रश्च सुद्युम्नश्चेति ते नव । अभिमन्युश्च दशमो नड्वलायां महौजसः ॥ १,१३.५ ॥ कुरोरजनयत्पुत्रान् षडाग्नोयी महाप्रभान् । अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं शिबिम् ॥ १,१३.६ ॥ अङ्गात्सुनीथापत्यं वै वेनमेकमजायत । प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम् ॥ १,१३.७ ॥ वेनस्य पाणौ मथिते सम्बभूव महामुने । वैन्यो नाम महीपालो यः पृथुः परिकीर्तितः ॥ १,१३.८ ॥ येन दुग्धा मही पूर्वं प्रजानां हितकारणात् ॥ १,१३.९ ॥ मैत्रेय उवाच किमर्थं मथितः पाणिर्वेनस्य परमर्षिभिः । यत्र जज्ञे महावीर्यः स पृथृर्मुनिसत्तम ॥ १,१३.१० ॥ श्रीपराशर उवाच सुनीथा नाम या कन्या कृत्यो प्रथमतोऽभवत् । अङ्गस्य भार्या सा दत्ता तस्यां वेनो व्यजायत ॥ १,१३.११ ॥ स मातामहदोषेण तेन मृत्योः सुतात्मजः । निसर्गादेष मैत्रेय दुष्ट एव व्यजायत ॥ १,१३.१२ ॥ अभिषिक्तो यदा राज्ये स वेनः परमर्षिभिः । घोष यामास स तदा पृथिव्यां पृथिवीपतिः ॥ १,१३.१३ ॥ न यष्टव्यं न दातव्यं न होतव्यं कथञ्चन । भोक्ता यज्ञस्य कस्त्वन्योऽह्यहं यज्ञपतिः प्रभुः ॥ १,१३.१४ ॥ ततस्तमृषयः पूर्व संपूज्यं पृथिवीपतिम् । ऊचुः सामाकलं वाक्यं मैत्रेय समपस्थिताः ॥ १,१३.१५ ॥ ऋषय ऊचुः भोभो राजन् शृणुष्व त्वं यद्वदाम महीपते । राज्यं देहोपकाराय प्रजानां च हितं परम् ॥ १,१३.१६ ॥ दीर्घसत्रेण देवेशं सर्वयज्ञेश्वरं हरिम् । पूजयिष्याम भद्रं ते तस्यांशस्ते भविष्यति ॥ १,१३.१७ ॥ यज्ञेन यज्ञपुरुषो विष्णुः संप्रीणिते नृप । अस्माभिर्भवतः कामान्सर्वानेव प्रदास्यति ॥ १,१३.१८ ॥ यज्ञैर्यज्ञेश्वरो येषां राष्ट्रे संपूज्यते हरिः । तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम् ॥ १,१३.१९ ॥ वेन उवाच मत्तः कोऽभ्यधिकोन्योस्ति कश्चाराध्यो ममापरः । कोयं हरिरिति ख्यातो यो वो यज्ञश्वरो मतः ॥ १,१३.२० ॥ ब्रह्मा जनार्दनः शम्भुरिन्द्रो वायुर्यमो रविः । हुतभुग्वरुणो धाता पूषा भूमिर्निंशाकरः ॥ १,१३.२१ ॥ एते चान्ये च ये देवाः शापानुग्रहकारिणः । नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः ॥ १,१३.२२ ॥ एवं ज्ञास्वा मयाज्ञप्तं यद्यथा क्रियतां तथा । न दातव्यं न यष्टव्यं न होतव्यं च भो द्विजाः ॥ १,१३.२३ ॥ भर्तृशुश्रूषणं धर्मो यथा स्त्रीणां परो मतः । ममाज्ञापालनं धर्मो भवतां च तथा द्विजाः ॥ १,१३.२४ ॥ ऋषय ऊचुः देह्यनुज्ञां महाराज मा धर्मो यातु संक्षयम् । हविषां परिणामोऽयं यदेतदखिलं जगत् ॥ १,१३.२५ ॥ श्रीपराशर उवाच इति विज्ञाप्यमानोऽपि स वेनः परमर्षिभिः । यदा ददाति नानुज्ञं प्रोक्तः प्रोक्तः पुनः पुनः ॥ १,१३.२६ ॥ ततस्ते मुनयः सर्वे कोपामर्षसमन्विताः । हन्यतां हन्यतां पाप इत्यूचुस्ते परस्परम् ॥ १,१३.२७ ॥ यो यज्ञपुरुषं विष्णुमनादिनिधनं प्रभुम् । विनिन्दत्यधमाचारो न स योग्यो भुवः पतिः ॥ १,१३.२८ ॥ इत्युक्त्वा मन्त्रपूतैस्तैः कुशैर्मुनिगणानृपम् । निजघ्नुर्निहतं पुर्वं भगवन्निन्दनादिना ॥ १,१३.२९ ॥ ततश्च मुनयो रेणुं ददृशुः सर्वतो द्विज । किमेतदिति चासन्नात्पप्रच्छुस्ते जनास्तदा ॥ १,१३.३० ॥ आख्यातं च जनैस्तेषां चोरीभूतैरराजके । राष्ट्रे तु लोकैरारब्धं परस्वादानमातुरैः ॥ १,१३.३१ ॥ तेषामुदीर्णवेगानां चोराणां मुनिसत्तमाः । सुमहद्दृश्यते रेणुः परवित्तापहारिणाम् ॥ १,१३.३२ ॥ ततः संमन्त्र्य ते सर्वे सुनयस्तस्य भूभृतः । ममन्थुरूरुं पुत्रार्थमनपत्यस्य यत्नतः ॥ १,१३.३३ ॥ मथ्यमानात्समुत्तस्थौ तस्योरोः पुरुषः किल । दग्धस्थूणाप्रतीकाशः खल्वाटास्योतिह्रस्वकः ॥ १,१३.३४ ॥ किं करोमीति तान्सर्वान्स विप्रानाह चातुरः । निषीदेति तमूचुस्ते निषादस्तेन सोऽभवत् ॥ १,१३.३५ ॥ ततस्तत्संभवा जाता विन्ध्यशैलनिवासिनः । निषादा मुनिशार्दूल पापकर्मोपलक्षणाः ॥ १,१३.३६ ॥ तेन द्वारेण तत्पापं निष्क्रान्तं तस्य भूपतेः । निषादास्ते ततो जाता वेनकल्मषनाशनाः ॥ १,१३.३७ ॥ तस्यैव दक्षिणं हस्तं ममन्थुस्ते ततो द्विजाः ॥ १,१३.३८ ॥ मथ्यमाने च तत्राभूत्पृथुर्वैन्यः प्रतापवान् । दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥ १,१३.३९ ॥ आद्यमाजगवं नाम खात्पपात ततो धनुः । शराश्च दिव्या नभसः कवचं च पपात ह ॥ १,१३.४० ॥ तस्मिन् जाते तु भूतानि संप्रहृष्टानि सर्वशः ॥ १,१३.४१ ॥ सत्पुत्रेणैव जातेन वेनोपि त्रिदिवं ययो । पुन्नाम्नो नरकात्त्रातः सुतेन सुमहात्मना ॥ १,१३.४२ ॥ तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः । तोयानि चाभिषेकार्थं सर्वाण्येवोपतस्थिरे ॥ १,१३.४३ ॥ पितामहश्च भगवान्देवैराङ्गिरसैः सह । स्थावराणि च भूतानि जङ्गमानि च सर्वशः । समागम्य तदा वैन्यमभ्यसिञ्चन्नराधिपम् ॥ १,१३.४४ ॥ हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः । विष्णोरंशं षृथुं मत्वा परितोषं परं ययै ॥ १,१३.४५ ॥ विष्णुचक्र करे चिह्नं सर्वेषां चक्रवर्तिनाम् । भवत्यव्याहतो यस्य प्रभावस्त्रिदशेरपि ॥ १,१३.४६ ॥ महता राजराज्येन पृथुर्वैन्यः प्रतापवान् । सोभिषिक्तो महातेजा विधिवद्धर्मकोविदै ॥ १,१३.४७ ॥ पित्रा पराजितास्तस्य प्रजास्तेनानुरञ्चिताः । अनुरागात्ततस्तस्य नाम राजेत्यजायत ॥ १,१३.४८ ॥ आपस्तस्तंभिरे चास्य समुद्रमभियास्यतः । पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥ १,१३.४९ ॥ अकृष्टपच्या पृथिवी सिद्धन्त्यन्नानि चिन्तया । सर्वकामदुघा गावः पुटके पुटके मधु ॥ १,१३.५० ॥ तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे । सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥ १,१३.५१ ॥ तस्मिन्नेव महायज्ञेजज्ञे प्राज्ञेऽथ मागधः । प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ ॥ १,१३.५२ ॥ स्तूयतामेष नृपतिः पृथुर्वैन्यः प्रतापवान् । कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चापरम् ॥ १,१३.५३ ॥ ततस्तावूचतुर्विप्रान्सर्वानेव कृताञ्जली । अद्य जातस्य नो कर्म ज्ञायतेस्य महीपतेः ॥ १,१३.५४ ॥ गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः । स्तोत्रं किमाश्रयं त्वस्य कार्यमस्माभिरुच्यताम् ॥ १,१३.५५ ॥ कृषय ऊचुः करिष्यत्येष यत्कर्म चक्रवर्ति महाबलः । गुणा भविष्या ये चास्य तैरयं स्तूयतां नृपः ॥ १,१३.५६ ॥ श्रीपराशर उवाच ततः स नृपतिस्तोषं तच्छ्रत्वा परमं ययौ । सद्गुणैः श्लाघ्यतामेति तस्माच्छ्लाघ्या गुणा मम ॥ १,१३.५७ ॥ तस्माद्यदद्य स्तोत्रेण गुणनिर्वर्णनं त्विमौ । करिष्येते करिष्यामि तदेवाहं समाहितः ॥ १,१३.५८ ॥ यदिमौ वर्जनीयं च किञ्चिदत्र वदिष्यतः । तदहं वर्जयिष्यामीत्येवं चक्रे मतिं नृपः ॥ १,१३.५९ ॥ अथ तौ चक्रतुः स्तोत्रं पृथोर्वैन्यस्य धीमतः । भविष्यैः कर्मभिः सम्यक्सुस्वरौ सूतमागधौ ॥ १,१३.६० ॥ सत्यवाग्दानशीलोयं सत्यसन्धो नरेश्वरः । ह्रीमान्मैत्रः क्षमाशीलो विक्रान्तो दुष्टशानः ॥ १,१३.६१ ॥ धर्मज्ञश्च कृतज्ञश्च दयावान् प्रियभाषकः । मान्यान्मानयिता यज्वा ब्रह्मण्यः साधुसंमतः ॥ १,१३.६२ ॥ समः शत्रौ च मित्रे च व्यवहारस्थितौ नृपः ॥ १,१३.६३ ॥ सूतेनोक्तान् गुणानित्थं स तदा मागधेन च । चकार हृदि तादृक्च कर्मणा कृतवानसौ ॥ १,१३.६४ ॥ ततस्तु पृथिवीपालः पालयन्पृथिवीमिमाम् । इयाज विविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥ १,१३.६५ ॥ तं प्रजाः पृथिवीनाथमुपतस्थुः क्षुधार्दिताः । ओषधीषु प्रणष्टासु तस्मिन्काले ह्यराजके । तमूचुस्ते नताः पृष्टास्तत्रागमनकारणम् ॥ १,१३.६६ ॥ प्रजा ऊचुः अराजके नृपश्रष्ठ धरित्र्या सकलौषधीः । ग्रस्तास्ततः क्षयं यान्ति प्रजाः सर्वाः प्रजेश्वर ॥ १,१३.६७ ॥ त्वन्नो वृत्तिप्रदो धात्रा प्रजापालो निरूपितः । देहि नः क्षुत्परीता नां प्रजानां जीवनौषधीः ॥ १,१३.६८ ॥ श्रीपराशर उवाच ततस्तु नपतिर्दिव्यमादायजगवं धनुः । शरांश्च दिव्यान्कुपितः सोन्वधावद्वसुन्धराम् ॥ १,१३.६९ ॥ ततो ननाश त्वरीता गौर्भूत्वा च वसुन्धरा । सा लोकान्ब्रह्मलोकादीन्संत्रासादगमन्मही ॥ १,१३.७० ॥ यत्र यत्र ययौ देवी सा तदा भूतधारिणी । तत्र तत्र तु सा वैन्यं ददृशेऽभ्युद्यतायुधम् ॥ १,१३.७१ ॥ ततस्तं प्राह वसुधा पृथुं राजपराक्रमम् । प्रवेपमाना तद्बाणपरित्राणपरायणा ॥ १,१३.७२ ॥ पृथिव्युवाच स्त्रीवधे त्वं महापापं किं नरेन्द्र न पश्यसि । येन मां हन्तुमत्यर्थं प्रकरोषि नृपोद्यमम् ॥ १,१३.७३ ॥ पृथुरुवाच एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि । बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥ १,१३.७४ ॥ पृथुव्युवाच प्रजानामुपकाराय यदि मां त्वं हनिष्यसि । आधारः कः प्रजानां ते नृपश्रेष्ठ भविष्यति ॥ १,१३.७५ ॥ पृथुरुवाच त्वां हत्वा वसुधे बाणैर्मच्छासनपराङ्मुखीम् । आत्म योगबलेनेमा धारयिष्याम्यहं प्रजाः ॥ १,१३.७६ ॥ श्रीपराशर उवाच ततः वसुधा तं भूयः तं भूयः प्राह पार्थिवम् । प्रवेपिताङ्गी परमं साध्वसं समुपागता ॥ १,१३.७७ ॥ पृथिव्युवाच उपायतः समारब्धाः सर्वे सिद्ध्यन्त्युपक्रमाः । तस्माद्वदाम्युपायं ते तं कुरुष्व यदीच्छसि ॥ १,१३.७८ ॥ समस्ता या मया जीर्णा नरनाथ महौषधीः । यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः ॥ १,१३.७९ ॥ तस्मात्प्रजाहितार्थाय मम धर्मभृतां वर । तं तु वत्सं कुरुष्व त्वं क्षरेयं येन वत्सला ॥ १,१३.८० ॥ समां च कुरु सर्वत्र येन क्षीरं समन्ततः । वरौषधीबीजभूतं बीजं सर्वत्र भावये ॥ १,१३.८१ ॥ श्रीपराशर उवाच तत उत्सारयामास शैलान् शतसहस्रशः । धनुष्कोट्या पदा वैन्यस्तेन शौला विवर्धिताः ॥ १,१३.८२ ॥ न हि पूर्वविसर्गे वै विषमे पृथिवीतले । प्रवीभागः पुराणां वा ग्रामाणां वा पुराभवात् ॥ १,१३.८३ ॥ न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः । वैन्यात्प्रभृति मैत्रेय सर्वस्यैतस्य सम्भवः ॥ १,१३.८४ ॥ यत्रयत्र समं त्वस्य भूमेरासीद्द्द्वजोत्तम । तत्रतत्र प्रजाः सर्वा निवासं समरोचयन्त् ॥ १,१३.८५ ॥ आहारः फलमूलानि प्रजानामभवत्तदा । कृच्छ्रेण महता सोऽपि प्रणष्टास्वैषदीषु वै ॥ १,१३.८६ ॥ स कल्पयित्वा वत्सं तु मनुं स्वायंभुवं प्रभुम् । स्वपाणौ पृतिवीनाथो दुदोह पृथिवीं पृथुः । सस्याजातानि सर्वाणि प्रजानां हितकाम्यया ॥ १,१३.८७ ॥ तेनान्नेन प्रजास्तात वर्तन्तेद्यापि नित्यशः ॥ १,१३.८८ ॥ प्राणप्रदाता स पृथुर्यस्माद्भुमेरभीत्पिता । ततस्तु पृथिवीसंज्ञामवापाखिलाधारिणी ॥ १,१३.८९ ॥ ततश्च देवैर्मुनिभिर्दैत्यै रक्षोभिरद्रिभिः । गन्धर्वैरुरगैर्यक्षैः पितृभिस्तरुभिस्तथा ॥ १,१३.९० ॥ तत्तत्पात्रमुपादाय तत्तद्दुग्धं मुने पयः । वत्सदो ग्धृविशेषाश्च तेषां तद्योनयोऽभवन् ॥ १,१३.९१ ॥ सैषा धत्री विधात्री च धारिणी पोषणी तथा । सर्वस्य तु ततः पृथ्वी विष्णुपादतलोद्भावा ॥ १,१३.९२ ॥ एवं प्रभावःस पृथुः पुत्रो वैन्यस्य वीर्यवान् । जज्ञे महीपतिः पूर्वो राजाभूज्जनरञ्जनात् ॥ १,१३.९३ ॥ य इदं जन्म वैन्यस्य पृथोः संकीर्तरेन्नरः । न तस्य दुष्कृतं किञ्चित्फलदायि प्रजायते ॥ १,१३.९४ ॥ दुःस्वप्नोपशमं नॄणां शृण्वतामेतदुत्तमम् । पृथोर्जन्म प्रभावश्च करोति सततं नृणाम् ॥ १,१३.९५ ॥ इति श्रीविष्णुपुराणे प्रथमेऽंशे त्रयोदशोध्यायः (१३) _____________________________________________________________ श्रीपराशर उवाच पृतोः पुत्रो तु धर्मज्ञो जज्ञातेन्तर्धिवादिनौ । शिखण्डिनी हविर्धानमन्तर्धानाव्द्यजायत ॥ १,१४.१ ॥ हविर्धानात्षडाग्नोयी धिषणाजयत्सुताना । प्राचीनबर्हिषं शुक्रं गयं कृष्णं वृजाजिनौ ॥ १,१४.२ ॥ प्रचीनबर्हिर्भगवान्महानासीत्प्रजापतिः । हविर्धानान्महाभाग येन संवर्धिताः प्रजाः ॥ १,१४.३ ॥ प्राचीनाग्राः कुशास्तस्य पृथिव्यां विश्रुता मुने । प्राचीनवर्हिरभवत्ख्यातो भुवि महाबलः ॥ १,१४.४ ॥ समुद्रतनयायां तु कृतदारो महीपतिः । महतस्तमसः पारे सवर्णायां महामते ॥ १,१४.५ ॥ सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः । सर्वे प्राचेतसो नाम धनुर्वेदस्य पारगाः ॥ १,१४.६ ॥ अपृथग्धर्मचरणास्ते तप्यन्त महत्तपः । दशवर्षसहस्राणि समुद्रसलिलेशयः ॥ १,१४.७ ॥ श्रीमैत्रेय उवाच यदर्थं ते महात्मानस्तपस्तेपुर्महामुने । प्राचेतसः समुद्राम्भस्येतदाख्यातुमर्हसि ॥ १,१४.८ ॥ श्रीपराशर उवाच पित्रा प्रचेतसः प्रोक्ताः प्रजार्थममितात्मना । प्रजापतिनियुक्तेन बहुमानपुरःसरम् ॥ १,१४.९ ॥ प्राचीनबर्हिरुवाच ब्रह्मणा देवदेवेन समादिष्टोस्म्यहं सुताः । प्रजाः संवर्धनीयास्ते मया चोक्तं तथेति तत् ॥ १,१४.१० ॥ तन्मम प्रीतये पुत्राः प्रजावृद्धिमतन्द्रिताः । कुरुध्वं माननीया वः सम्यगाज्ञा प्रजापतेः ॥ १,१४.११ ॥ श्रीपराशर उवाच ततस्ते तत्पितुः श्रुत्वा वचनं नृपनन्दनाः । तथेत्युक्त्वा च तं भूयः पप्रच्छुः पितरं मुने ॥ १,१४.१२ ॥ प्रचेतस ऊचुः येन तात प्रजावृद्धौ समर्था कर्मणा वयम् । भवेम तत्समस्तं नः कर्म व्याख्यातुमर्हसि ॥ १,१४.१३ ॥ पितोवाच आराध्य वरदं विष्णुमिष्टप्राप्तिमसंशयम् । समेति नान्यथा मर्त्यः किम न्यत्कथयामि वः ॥ १,१४.१४ ॥ तस्मात्प्रजा विवृद्ध्यर्थं सर्वभूतप्रभुं हरिम् । आराधयत गोविन्दं यदि सिद्धिमभीप्सथः ॥ १,१४.१५ ॥ धर्ममर्थं च कामं च मोक्षं चान्विच्छतां सदा । आराधनीयो भगवाननादिपुरुषोत्तमः ॥ १,१४.१६ ॥ यस्मिन्नाराधिते सर्गं चकारादौ प्रजापतिः । तमाराध्याच्युतं वृद्धिः प्रजानां वो भविष्यति ॥ १,१४.१७ ॥ श्रीपराशर उवाच इत्येवमुक्तास्ते पित्रा पुत्राः प्राचेतसो दश । मग्नाः पयोधिसलिले तपस्तेषुः समाहिताः ॥ १,१४.१८ ॥ दशवर्षसहस्राणि न्यस्तचित्ता जगत्पतौ । नारायणे मुनिश्रेष्ठ सर्वलोकपरायणे ॥ १,१४.१९ ॥ तत्रैवावस्थिता देवमेकाग्रमनसो हरिम् । तुष्टुवुर्यःस्तुतः कामान् स्तोतुरिष्टान्प्रयच्छति ॥ १,१४.२० ॥ श्रीमैत्रेय उवाच स्तवं प्रचेतसो विष्णोः समुद्राम्भसि संस्थिताः । चक्रुस्तन्मे मुनिश्रेष्ठ सुपुण्यं वक्तुमर्हसि ॥ १,१४.२१ ॥ श्रीपराशर उवाच शृणु मैत्रेय गोविन्दं यथापूर्वं प्रचेतसः । तुष्टुवुस्तन्मयीभूताः समुद्रसलिलेशयाः ॥ १,१४.२२ ॥ प्रचेतस ऊचुः नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती । तमाद्यन्तमशेषस्य जगतः परमं प्रभुम् ॥ १,१४.२३ ॥ ज्योतिराद्यमनौपम्यमण्वनन्तमपारवत् । योनिभूतमशेषस्य स्थावरस्य चरस्य च ॥ १,१४.२४ ॥ यस्याहः प्रथमं रूपमरूपस्य तथा निशा । संध्या च परमेशस्य तस्मै कालात्मने नमः ॥ १,१४.२५ ॥ बुज्यतेऽनुदिनं देवैः पितृभिश्च सुधात्मकः । बीजभूतं समस्तस्य तस्मै सोमात्मनेन मः ॥ १,१४.२६ ॥ यस्तमास्यत्ति तीव्रात्मा प्रभाभिर्भासयन्नभः । घर्मशीताम्भसा योनिस्तस्मै सूर्यत्मने नमः ॥ १,१४.२७ ॥ काठिन्यवान् यो बिभर्ति जगदेतदशेषतः । शब्दादिसंश्रयो व्यापी तस्मै भूम्यात्मने नमः ॥ १,१४.२८ ॥ यद्योनिभूतं जगतो वीजं यत्सर्वदेहिनाम् । तत्तोयरूपमीशस्य नमामो हरिमेधसः ॥ १,१४.२९ ॥ यो मुखं सर्वदेवानां हव्यभुक्कव्यभुक्तथा । पितॄणां च नमस्तस्मै विष्णवे पावकात्मने ॥ १,१४.३० ॥ पञ्चधावस्थितो देहे यश्चेष्टां कुरुतेऽनिशम् । आकाशयोनिर्भगवांस्तस्मै वाय्वात्मने नमः ॥ १,१४.३१ ॥ अवकाशमशेषाणां भूतानां यः प्रयच्छति । अनन्तमूर्तिमाञ्धुद्धस्तस्मै व्योमात्मने नमः ॥ १,१४.३२ ॥ समस्तोन्द्रियसर्गस्य यः सदा स्थानमुत्तमम् । तस्मै शब्दादिरूपाय नमः कृष्णाय वेधसे ॥ १,१४.३३ ॥ गृह्णाति विषयान्नित्यमिन्द्रियात्माक्षराक्षरः । यस्तस्मै ज्ञानमूलाय नतास्म हरिमेधसे ॥ १,१४.३४ ॥ हृहीतानिन्द्रियैरर्थानात्मने यः प्रयच्छति । अन्तःकरणरूपाय तस्मै विश्वत्मने नमः ॥ १,१४.३५ ॥ यस्मिन्ननन्ते सकलं विश्वं यस्मात्तथोद्गतम् । लयस्थानं च यस्तस्मै नमः प्रकृतिधर्मिणे ॥ १,१४.३६ ॥ शुद्धः संल्लक्ष्यते भ्रान्त्या गुणवानिव योऽगुणः । तमात्मरूपिणं देव नतास्म पुरुषोत्तमम् ॥ १,१४.३७ ॥ अविकारमजं शुद्धं निर्गुणं यन्निरजनम् । नताःस्मतत्परं ब्रह्म विष्णोर्यत्परमं पदम् ॥ १,१४.३८ ॥ अदीर्घह्रस्वमस्थूलण्वनमश्यामलोहितम् । अस्नेहच्छायमतनुमसक्तमशरीरीणम् ॥ १,१४.३९ ॥ अनाकाशमसंस्पर्शमगन्धमरसं च यत् । अचक्षुश्रोत्रमचलमवाक्पाणिममानिसम् ॥ १,१४.४० ॥ अनामगोमत्रसुखमतेजस्कमहेतुकम् । अभयं भ्रान्तिरहितम निद्रमजरामरम् ॥ १,१४.४१ ॥ अरजोशब्दममृतमप्लुतं यदसंवृतम् । पूर्वापरेण वै यस्मिस्तद्विष्णोः परमं पदम् ॥ १,१४.४२ ॥ परमेशत्वगुणवत्सर्वभूतम संशयम् । नतास्म तत्पदं विष्णोर्जिह्वादृग्गोचरं न यत् ॥ १,१४.४३ ॥ श्रीपराशर उवाच एवं प्रचेतसो विष्णुं स्तुवन्तस्तत्समाधयः । दशवर्षसहस्राणि तपश्चेरुर्महार्णवे ॥ १,१४.४४ ॥ ततः प्रसन्नो भगवांस्तेषामन्तर्जले हरिः । ददौ दर्शनमुन्निद्रनीलोत्पलदलच्छविः ॥ १,१४.४५ ॥ पतत्रि राजमारूढमवलोक्य प्रचेतसः । प्रणिपेतुः शिरोभिस्तं भक्तिभारावनामितैः ॥ १,१४.४६ ॥ ततस्तानाह भगवान्व्रयतामीप्सतो वरः । प्रसाद सुमुखोहं वो वरदः समुपस्थितः ॥ १,१४.४७ ॥ ततस्तमूचुर्वरदं प्रणिपत्य प्रचेतसः । यथा पित्रा समादिष्टं प्रजानां वृद्धिकारणम् ॥ १,१४.४८ ॥ स चापि देवस्तं दत्त्वा यथभिलषितं वरम् । अन्तर्धानं जगामाशु ते च निश्चक्रमुर्जलात् ॥ १,१४.४९ ॥ इति श्रीविष्णुपुराणे प्रथमेऽंशे प्रचेतास्तवो नाम चतुर्दशोऽध्यायः (१४) _____________________________________________________________ श्रीपराशर उवाच तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः । अरक्ष्यमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥ १,१५.१ ॥ नाशकन्मरुतो वातुं वृतं खमभवद्द्रुमैः । दशवर्षसहस्राणि न शकुश्चेष्टितुं प्रजाः ॥ १,१५.२ ॥ तान्दृष्ट्वा जलनिष्क्रान्ताः सर्वे क्रुद्धाः प्रचेतसः । मुखेभ्यो वायुमग्निं च तेऽसृजन् जातमन्यवः ॥ १,१५.३ ॥ उन्मूलानथ तान्वृक्षान्कृत्वा वायुरशोषयत् । तानग्निरदहद्घोरस्तत्राभूद्द्रुमसंक्षयः ॥ १,१५.४ ॥ द्रुमक्षयमथो दृष्ट्वा किञ्चिच्छिष्टेषु शाखिषु । उपगम्याब्रवीदेतान्राजा सोमः प्रजापतीन् ॥ १,१५.५ ॥ कोपं यच्छत राजानः शृणुध्वञ्च वचो मम । सन्धानं वः करिष्यामि सह क्षितिरुहैरहम् ॥ १,१५.६ ॥ रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी । भविष्यज्जानता पूर्वं मया गोभिर्विवर्धिता ॥ १,१५.७ ॥ मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता । भार्या वोऽस्तु महाभागा ध्रुवं वंशविवर्धिनी ॥ १,१५.८ ॥ युष्माकं तेज सोर्धेन मम चार्धेन तेजसः । अस्यामुत्पत्स्यते विद्वान्दक्षोनाम प्रजापतिः ॥ १,१५.९ ॥ मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै । तेजसाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ १,१५.१० ॥ कण्डुर्नाम मुनिः पूर्वमासीद्वेदविदां वरः । मुरम्ये गोमतीतीरे म तेपे परमं तपः ॥ १,१५.११ ॥ तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः । प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता ॥ १,१५.१२ ॥ क्षोभितः स तया सार्धं वर्षाणामधिकं शतम् । अतिष्ठन्मन्दरद्रोण्यां विषयासक्तमानसः ॥ १,१५.१३ ॥ तं सा प्राह महाभाग गन्तुमिच्छाम्यहं दिवम् । प्रसादसुमुखो ब्रह्मन्ननुज्ञां दातुमर्हसि ॥ १,१५.१४ ॥ तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः । दिनानि कतिचिद्भद्रे स्थीयतामित्यभाषत ॥ १,१५.१५ ॥ एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः । बुभुजे विषयांस्तन्वी तेन साकं महात्मना ॥ १,१५.१६ ॥ अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् । उक्तस्तथेति स पुनः स्थीयतामित्यभाषत ॥ १,१५.१७ ॥ पुनर्गते वर्षशते साधिक सा शुभानना । यामीत्याह दिवं ब्रह्मन्प्रणयस्मितशोभनम् ॥ १,१५.१८ ॥ उक्तस्तयैवं स मुनिरुपगुह्यायते क्षणाम् । इहास्यतां क्षणं सुभु चिरकालं गमिष्यसि ॥ १,१५.१९ ॥ सा क्रीडमाना सुश्रोणी सह तेनर्षिणा पुनः । शतद्वयं किञ्चिदूनं वर्षणामन्वतिष्ठत ॥ १,१५.२० ॥ गमनाय महाभाग देवराजनिवेशनम् । प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥ १,१५.२१ ॥ तस्य शापभयाद्भीता दाक्षिण्येन च दक्षिणा । प्रोक्ता प्रणयभङ्गर्तिवेदिनी न जहौ मुनिम् ॥ १,१५.२२ ॥ तया च रमतस्तस्य परमर्षेरहर्निशम् । नवंनवमभूत्प्रम मन्मथाविष्टचेतसः ॥ १,१५.२३ ॥ एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः । निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥ १,१५.२४ ॥ इत्युक्तः स तया प्राह परिवृत्तमहः शुभे । सन्ध्योपास्तिं करिष्यामि क्रियालोपोन्यथा भवेत् ॥ १,१५.२५ ॥ ततः प्रहस्य सुददी तं सा प्राह महामुनिम् । किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव ॥ १,१५.२६ ॥ बहूनां विप्र वर्षाणां परिवृत्तम हस्तव । गतमेतन्न कुरुते विस्मयं कस्य कथ्यताम् ॥ १,१५.२७ ॥ मुनिरुवाच प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् । मया दृष्टासि तन्वङ्गि प्रविष्टासि ममाश्रमम् ॥ १,१५.२८ ॥ इयं च वर्तते सन्ध्या परिणाममहर्गतम् । उपहासः किमर्थोयं सद्भावः कथ्यतां मम ॥ १,१५.२९ ॥ प्रम्लोचोवाच प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन्न तन्मृषा । नन्वस्य तस्य कालस्य गतान्यब्दशतानि ते ॥ १,१५.३० ॥ सोम उवाच ततः स साध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् । कथ्यतां भीरु कः कालस्त्वया मे रमतः सह ॥ १,१५.३१ ॥ प्रम्लोचोवाच सप्तोत्तराम्यतीतानि नववर्षशतानि ते । मासाश्च षट्तथैवान्यत्समतीतं दिनत्रयम् ॥ १,१५.३२ ॥ ऋषिरुवाच सत्यं भीरु वदस्येतत्परिहासोऽथवा शुभे । दिनमेकमहं मन्येत्वया सार्धमिहासितम् ॥ १,१५.३३ ॥ प्रम्लोचोवाच वदिष्याम्यनृतं ब्रह्मन्कथमत्र तवान्तिके । विशेषेणाद्य भवता पृष्टा मार्गानुवर्तिना ॥ १,१५.३४ ॥ सोम उवाच निशम्य तद्वचः सत्यं स मुनिर्नृपनन्दनाः । धिक्धिक्मामित्यतीवेत्थं निनिन्दात्मानमात्मना ॥ १,१५.३५ ॥ मुनिरुवाच तपांसि मम नष्टनि हतं ब्रह्मविदां धनम् । हतो विवेकः केनापि योषिन्मोहाय निर्मिताः ॥ १,१५.३६ ॥ ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे । मतिरेषा हृता येन धिक्तं कामं महाग्रहम् ॥ १,१५.३७ ॥ व्रतानि वेदवेद्याप्तिकाराणान्यखिलानि च । नरकग्राममर्गेण सङ्गेनापहृतानि मे ॥ १,१५.३८ ॥ विनिन्द्येत्थं स धर्मज्ञः स्वयमात्मानमात्मना । तामप्सरसमासीनामिदं वचनमब्रवीत् ॥ १,१५.३९ ॥ गच्छ पापे यथाकामं यत्कार्यं तत्कृतं त्वया । देवराजस्य मत्क्षोभं कुर्वन्त्या भावचेष्टितैः ॥ १,१५.४० ॥ न त्वां करोण्यहं भस्म क्रोधतीव्रेण वह्निना । सतां सप्तपदं मैत्रुमुषि तोहं त्वया सह ॥ १,१५.४१ ॥ अथ वा तव को दोषः किं वा कुप्याम्यहं तव । ममैव दोषो नितरां येनाहमजितेन्द्रियः ॥ १,१५.४२ ॥ यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः । त्वया धिक्तां महामोहमञ्जृषां सुजुगुप्सिताम् ॥ १,१५.४३ ॥ सोम उवाच यावदित्थं स विप्रर्षिस्तां ब्रवीति समुध्यमाम् । तावद्गलत्स्वेदजला साबभूवातिवेपथुः ॥ १,१५.४४ ॥ प्रवेपमानां सततं खिन्नगात्रलतां सतीम् । गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥ १,१५.४५ ॥ सा तु निर्भर्त्सिता तेन विनाष्क्रम्य तदाश्रमात् । आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥ १,१५.४६ ॥ निर्मार्जमाना गात्राणि गलत्स्वेदजलानि वै । वृक्षाद्धृक्षं ययौ बला तदग्ररुणपल्लवैः ॥ १,१५.४७ ॥ ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः । निर्जगाम स रोमाञ्चस्वेदरूपी तदङ्गतः ॥ १,१५.४८ ॥ तं वृक्षा जगृहुर्गर्भमेकं चक्रे तु मारुतः । मया चाप्यायितो गोभिः स तदा ववधे शनैः ॥ १,१५.४९ ॥ वृक्षाग्रगर्भसम्भूता मारिषाख्या वरानना । तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम् ॥ १,१५.५० ॥ कण्डोरपत्यमेवं सा वृक्षेभ्यश्च समुद्गता । ममापत्यं तथा वायोः प्रम्लोचातनया च सा ॥ १,१५.५१ ॥ स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः । पुरुषोत्तमाख्यं मैत्रेय विष्णोरायतनं ययौ ॥ १,१५.५२ ॥ तत्रैकाग्रमतिर्भूत्वा चकाराराधनं हरेः । ब्रह्मपारमयं कुर्वञ्जपमेकाग्रमानसः । ऊर्ध्वबाहुर्महायोगी स्थित्वासौ भूपनन्दनाः ॥ १,१५.५३ ॥ प्रचेतस ऊचुः ब्रह्मपारं मुने श्रोतुमिच्छामः परमं स्तवम् । जपता कण्डुना देवो येनाराध्यत केशवः ॥ १,१५.५४ ॥ सोम उवाच पारं परं विष्णुरपारपारः परः परेभ्यः पामारथरूपी । सब्रह्पारः परपारभूतः परः पराणामपि पारपारः ॥ १,१५.५५ ॥ स कारणं कारणतस्ततोपि तस्यापि हेतुः । कार्येषु चैवं सह कर्मकर्तृरूपैरशेषैरवतीह सर्वम् ॥ १,१५.५६ ॥ ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिरच्युतोऽसौ । ब्रह्माव्ययं नित्यमजं स विष्णुरपक्षयाद्यैरखिलैरसङ्गि ॥ १,१५.५७ ॥ ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः । तथा रागादयो दोषः प्रयान्तु प्रशमं मम ॥ १,१५.५८ ॥ सोम उवाच एतद्ब्रह्म पराख्यं वै संस्तवं परमं जपन् । अवाप परमांसिद्धिं स तमाराध्य केशवम् ॥ १,१५.५९ ॥ इमं स्तवं यः पठति शृणुयाद्वापिनित्यशः । स कामदेषैरशिलैर्मुक्तः प्राप्रोति वाञ्छितम् ॥ १,१५.५९।१ ॥ इयं च मारीषा पूर्वमासीद्य तां ब्रवीमि वः । कार्यगौरवमेतस्याः कथने फलदायि वः ॥ १,१५.६० ॥ अपुत्रा प्रागियं विष्णुं मृते भर्तरि सत्तमाः । भीपपत्नी महाभागा तोषयामास भक्तितः ॥ १,१५.६१ ॥ आराधितस्तया विष्णुः प्राह प्रत्यक्षतां गतः । वरं वृणीष्वेति शुभे सा च प्राहात्मवाञ्छितम् ॥ १,१५.६२ ॥ भगवन्बालवैधव्याद्वृथाजन्माहमीदृशी । मन्दभाग्या समुद्भुता विफला च जगत्पते ॥ १,१५.६३ ॥ भवन्तु पतयः श्लाघ्या मम जन्मनि जन्मनि । त्वत्प्रसादात्तथा पुत्रः प्रजापतिसमोस्तु मे ॥ १,१५.६४ ॥ कुलं शीलं वयः सत्यं दाक्षिण्यं क्षिप्रकारिता । अविसंवादिता सत्त्वं वृद्धसेवा कृतज्ञता ॥ १,१५.६५ ॥ रूपसम्पत्समायुक्ता सर्वस्य प्रियदर्शना । अयोनिजा च जायेयं त्वन्प्रसादादाधेक्षज ॥ १,१५.६६ ॥ सोम उवाच तयैवमुक्तो देवेशो हृषीकेश उवाच ताम् । प्रणामनम्रामुत्थाप्य वरदः परमेश्वरः ॥ १,१५.६७ ॥ देव उवाच भविष्यन्ति महावीर्या एकस्मिन्नेव जन्मनि । प्रख्यातोदारकर्णाणो भवत्याः पतयो दश ॥ १,१५.६८ ॥ पुत्रञ्च सुमहावीर्यं महाबलपराक्रमम् । प्रजापतिगुणैर्युक्तं त्वमवाप्स्यसि शोभने ॥ १,१५.६९ ॥ वंशानां तस्य कर्तृत्वं जगत्यस्मिन्भविष्यति । त्रैलोक्यमखिला सूतिस्तस्य चापूरयिष्यति ॥ १,१५.७० ॥ त्वं चाप्ययोनिजा साध्वी रूपौदार्यगुणान्विता । मनः प्रीतिकरी नॄणां मत्प्रसादाद्भविष्यसि ॥ १,१५.७१ ॥ इत्युक्त्वान्तर्दधे देवस्तां विशालविलोचनाम् । सा चेयं मारिषा जाता युष्मत्पत्नी नृपात्मजाः ॥ १,१५.७२ ॥ श्रीपराशर उवाच ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः । संहृत्य कोपं वृक्षेभ्यः पत्नीधर्मोण मारीषाम् ॥ १,१५.७३ ॥ दशभ्यस्तु प्रचेतोभ्यो मारीषायां प्रजापतिः । जज्ञे दक्षो महाभागो यः पूर्वं ब्रह्मणोऽभवत् ॥ १,१५.७४ ॥ स तु दक्षो महाभागःसृष्ट्यर्थं सुमहामते । पुत्रानुत्पादयामास प्रजासृष्ट्यर्थमात्मनः ॥ १,१५.७५ ॥ अवरांश्च वरांश्चैव द्विपदोथ चतुष्पदान् । आदेशं ब्रह्मणः कुर्वन् सृष्ट्यर्थं समुपस्थितः ॥ १,१५.७६ ॥ स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः । ददौ स दश धर्माय कश्यपाय त्रयोदश । कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ १,१५.७७ ॥ तासु देवास्तथा दैत्या नागा गावस्तथा खगाः । गन्धर्वाप्सरसश्चैव दानवाद्याश्च जज्ञिरे ॥ १,१५.७८ ॥ ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः । संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषामभवन् प्रजाः । तपोविशेषैः सिद्धानां तदात्यन्ततपस्विनाम् ॥ १,१५.७९ ॥ श्रीमैत्रेय उवाच अङ्गुष्ठाद्दक्षिणाद्दक्षः पूर्वं जातो मया श्रुतः । कथं प्राचेतसो भूयः समुत्पन्नो महामुने ॥ १,१५.८० ॥ एष मे संशयो ब्रह्मन्सुमहान्हृदि वर्तते । यद्दैहित्रश्च सोमस्य पुनः श्वशुरतां गतः ॥ १,१५.८१ ॥ श्रीराशर उवाच उत्पत्तिश्च निरोधश्च नित्यो भूतेषु सर्वाद । ऋषयोत्र न सुह्यन्ति ये चान्ये दिव्यचक्षुषः ॥ १,१५.८२ ॥ युगेयुगे भवन्त्येते दक्षाद्या मुनिसत्तम । पुनश्चैवं निरुद्ध्यन्ते विद्वांस्तत्र न मुह्यति ॥ १,१५.८३ ॥ कानिष्ठ्यं ज्यैष्ठ्यमप्येषां पूर्वं नाभूद्द्द्विजोत्तम । तप एव गरीयोभूत्प्रभा वश्चैव कारणम् ॥ १,१५.८४ ॥ मैत्रेय उवाच देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उत्पत्तिं विस्तरेणेह मम ब्रह्मन्प्रकीर्तय ॥ १,१५.८५ ॥ श्रीपराशर उवाच प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा । यथा ससर्ज भूतानि तथा शृणु महामुने ॥ १,१५.८६ ॥ मानसान्येव भूतानि पूर्वं दक्षोऽसृजत्तदा । देवानृषीन्सगन्धर्वानसुरान्पन्नगांस्तथा ॥ १,१५.८७ ॥ यदास्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः । ततः संचिन्त्य स पुनः सृष्टिहेतोः प्रजापतिः ॥ १,१५.८८ ॥ मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः । असक्नीमावहत्कन्यां वीरणस्य प्रजापतेः । सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ॥ १,१५.८९ ॥ अथ पुत्रसहस्राणै वैरुण्यां पञ्च वीर्यवान् । असिक्न्यां जनयामास सर्गहेतोः प्रजापतिः ॥ १,१५.९० ॥ तान्दृष्ट्वा नारदो विप्र संविवर्धयिषून्प्रजाः । संगम्य प्रियसंवादो देवर्षिरिदमब्रवीत् ॥ १,१५.९१ ॥ हे हर्यश्वा महावीर्याः प्रजा यूयं करिष्यथ । ईदृशो दृश्यते यत्नो भवतां श्रूयतामीदम् ॥ १,१५.९२ ॥ बालिश बत यूयं वै नास्या जानीत वै भुवः । अन्तरूर्ध्वमधश्चैव कथं सृक्ष्यथ वै प्रजाः ॥ १,१५.९३ ॥ ऊर्ध्वं तिर्यगधश्चैव यदाप्रतिहता गतिः । तदा कस्माद्भुवो नान्तं सर्वे द्रक्ष्यथ बालिशाः ॥ १,१५.९४ ॥ ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम् । अद्यापि नो निवर्तन्ते समुद्रेभ्य इवापगाः ॥ १,१५.९५ ॥ हर्य श्वेष्वथ नष्टोषु दक्षः प्राचेतसः पुनः । वैरुण्यामथ पुत्राणां सहस्रमसृजत्प्रभुः ॥ १,१५.९६ ॥ विवर्धयिषवस्ते तु शबलाश्वाः प्रजाः पुनः । पूर्वोक्तं वचनं ब्रह्मन्नारदेनैव नोदिताः ॥ १,१५.९७ ॥ अन्योन्यमूचुस्ते सर्वे सम्यगाह महामुनिः । भ्रतॄणां पदवी चैव गन्तव्या नात्र संशयः ॥ १,१५.९८ ॥ ज्ञात्वा प्रमाणं पृथ्व्याश्च प्रजाःसृज्यामहे ततः ॥ १,१५.९९ ॥ तेपि तेनैव मार्गेण प्रयाताः सर्वतोमुखम् । अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः । ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विज । प्रयातो नश्यति तथा तन्न कार्यं विजानता ॥ १,१५.१०० ॥ तां श्चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः । क्रोधं चक्रे महाभागो नारदं स शशाप च ॥ १,१५.१०१ ॥ सर्गकामस्ततो विद्वान्स मैत्रेय प्रजापतिः । षष्टिं तक्षोऽसृजत्कन्या वैरुण्यामिति नः श्रुतम् ॥ १,१५.१०२ ॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशति सोमाय चतस्त्रोऽरिष्टनेमिने ॥ १,१५.१०३ ॥ द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा । द्वेकृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ १,१५.१०४ ॥ अरुन्धती वसुर्जामिर्लङ्घा भानुमरुत्वती । संकल्पा च मुहूर्ता च साध्या विश्वा च तादृशी । धर्मपत्न्यो दशत्वेतास्तास्वपत्यानि मे शृणु । विश्वेदेवास्तु विश्वायाः साध्या साध्यानजायत । मरुत्वत्यां सरुत्वन्तो वसोश्च वसवः स्मृता ॥ १,१५.१०५ ॥ भानोस्तु भानवः पुत्रा मुहूर्तायां मुहूर्तजाः ॥ १,१५.१०६ ॥ लङ्घायाश्चैव घोषोथ नागवीथी तु जामिता ॥ १,१५.१०७ ॥ पृथिवीविषयं सर्वमरुन्धत्याम जायत । संकल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि ॥ १,१५.१०८ ॥ ये त्वनेकवसुप्राणदेवा ज्योतिः पुरोगमाः । वसवोष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥ १,१५.१०९ ॥ आपो ध्रुवश्च सोमश्च धर्मश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥ १,१५.११० ॥ आपस्य पुत्रो वैतण्डः श्रमः शान्तोऽध्वनिस्तथा । ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ १,१५.१११ ॥ सोमस्य भगवान्वर्चो वर्चस्वी येन जायते ॥ १,१५.११२ ॥ धर्मस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । मनोहरायां शिशिरः प्राणोथ रवणस्तथा ॥ १,१५.११३ ॥ अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥ १,१५.११४ ॥ अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत । तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः ॥ १,१५.११५ ॥ अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः ॥ १,१५.११६ ॥ प्रत्यूषस्य विदुः पुत्रं ऋषि नाम्नाथ देवलम् । द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ १,१५.११७ ॥ बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्कृत्स्नमसक्ता विचरत्युत । प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु ॥ १,१५.११८ ॥ विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः । कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ॥ १,१५.११९ ॥ भूषणानां च सर्वेषां कर्ताशिल्पवतां वरः । यः सर्वैषां विमानानि देवतानां चकार ह । मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ १,१५.१२० ॥ अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् । त्वष्टुश्चाप्यात्मजः पुत्रो विश्वरूपो महातपाः ॥ १,१५.१२१ ॥ हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः । वृषाकपिश्च शम्भुश्च कपर्दीरैवतः स्मृतः ॥ १,१५.१२२ ॥ मृगव्याधश्च शर्वश्च कपाली च महामुने । एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ १,१५.१२३ ॥ शतं त्वेकं समाख्यातं रुद्राणाममितौजसाम् । काश्यपस्य तु भार्या यास्तासां नामानि मे शृणु । अदितिर्दितिर्दनुश्चैवारिष्टा च सुरसा खसा ॥ १,१५.१२४ ॥ सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा । कद्रुर्मुनिश्च धर्मज्ञ तदपत्यानि मे शृणु ॥ १,१५.१२५ ॥ पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः । तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेन्तरे ॥ १,१५.१२६ ॥ उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः । समवायीकृताः सर्वे समागम्य परस्परम् ॥ १,१५.१२७ ॥ आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै । मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भवेदिति ॥ १,१५.१२८ ॥ एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । मारीचात्कश्यपाज्जाता अदित्या दक्षकन्यया ॥ १,१५.१२९ ॥ तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि । अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ १,१५.१३० ॥ विवस्वान्सविता चैव मित्रो वरुण एव च । अंशुर्भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ १,१५.१३१ ॥ चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिताः सुराः । वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥ १,१५.१३२ ॥ सप्तविंशति याः प्रोक्ताः सोमपत्न्योथ सुव्रताः । सर्वा नक्षत्रयोगिन्यस्तन्नाम्नश्चैव ताः स्मृताः । तासामपत्यान्यभवन्दीप्तान्यमिततेजसाम् ॥ १,१५.१३३ ॥ अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ १,१५.१३४ ॥ बहुपुत्रस्य विदुषश्चतस्त्रोविद्युतः स्मृताः ॥ १,१५.१३५ ॥ प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ॥ १,१५.१३६ ॥ कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः स्मृताः ॥ १,१५.१३७ ॥ एते युगसहस्रान्ते जायन्ते पुनरेव हि । सर्वे देवगणास्तात त्रयस्त्रिंशत्तु छन्दजाः । तेषामपीह सततं निरोधोत्पत्तिरुच्यते ॥ १,१५.१३८ ॥ यथा सूर्यस्य मैत्रेय उदयास्तमनाविह । एवं देवनिकायास्ते सम्भवन्ति युगेयुगे ॥ १,१५.१३९ ॥ दित्या पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् । हिरण्यकशिपुश्चैव हिरण्याक्षश्च दुर्जयः ॥ १,१५.१४० ॥ सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ॥ १,१५.१४१ ॥ हिरण्यकशिपोः पुत्राश्चात्वारः प्रथितौजसः । अनुह्लादश्च ह्लादश्च प्रह्लादश्चैव बुद्धिमान् । संह्लादश्च महावीर्या दैत्यवंशविवर्धनाः ॥ १,१५.१४२ ॥ तेषां मध्ये महाभाग सर्वत्र समदृग्वाशी । प्रह्लादः परमां भक्तिं च उवाच जनार्दने ॥ १,१५.१४३ ॥ दैत्येन्द्रदीपितो वह्निः सर्वाङ्गोपचितो द्विज । न ददाह च यं विप्र वासुदेव हृदि स्थिते ॥ १,१५.१४४ ॥ महार्णवान्तः सलिले स्थितस्य चलतो मही । चचाल चलता यस्य पाशबद्धस्य धीमतः ॥ १,१५.१४५ ॥ न भिन्नं विविधैः शस्त्रैर्यस्य दैत्येन्द्रपातितैः । शरीरमद्रिकठिनं सर्वत्राच्युतचेतसः ॥ १,१५.१४६ ॥ विषानलोज्ज्वलमुखा यस्य दैत्यप्रचोदिताः । नान्ताय सर्पपतयो बभूवुरुरुतेजसः ॥ १,१५.१४७ ॥ शैलैराक्रान्तदेहोपि यः स्मरन्पुरुषोत्तमम् । तत्याज नात्मनः प्राणान् विष्णुस्मरणदंशितः ॥ १,१५.१४८ ॥ पतन्तमुच्चादवनिर्यमुपेत्य महामतिम् । दधार दैत्यपतिना क्षिप्तं स्वर्गनिवासिना ॥ १,१५.१४९ ॥ यस्य सशोषको वायुर्देहे दैत्येन्द्रयोजितः । अवाप संक्षयं सद्यश्चित्तस्थे मधुसूदने ॥ १,१५.१५० ॥ विषाणभङ्गमुन्मत्ता मदहानिं च दिग्गजाः । यस्य वक्षःस्थले प्राप्ता दैत्येन्द्रपरिणामिताः ॥ १,१५.१५१ ॥ यस्य चोत्पादिता कृत्या दैत्यराजपुरोहितैः । बभूव नान्ताय पुरा गोविन्दासक्तचेतसः ॥ १,१५.१५२ ॥ शम्बरस्य च मायानां सहस्रमतिमायिनः । यस्मिन्प्रयुक्तं चक्रेण कृष्णस्य वितथिकृतम् ॥ १,१५.१५३ ॥ दैत्येन्द्रसूदोपहृतं यस्य हालाहलं विषम् । जरयामास मतिमानविकारममत्सरी ॥ १,१५.१५४ ॥ समचेता जगत्यस्मिन्यः सर्वेष्वेव जन्तुषु । यथात्मनि तथान्येषां परं मैत्रगुणान्वितः ॥ १,१५.१५५ ॥ धर्मात्मा सत्यशौर्यादिगुणानामाकरः परः । उपमानमशेषाणां साधूनां यः सदाभवत् ॥ १,१५.१५६ ॥ इतिश्रीविष्णुपुराणे प्रथमेऽंशे पञ्चदशोऽध्यायः (१५) _____________________________________________________________ श्रीमैत्रेय उवाच कथितो भवता वंशो मानवानां महात्मनाम् । कारणं चास्य जगतो विष्णुरेव सनातनः ॥ १,१६.१ ॥ यत्त्वेतद्भगवानाह प्रह्लादं दैत्यसत्तमम् । ददाह नाग्निर्नास्त्रैश्च क्षुण्णस्तत्याज जीवितम् ॥ १,१६.२ ॥ जगाम वसुधा क्षोभं यत्राब्धिसलिले स्थिते । पाशौर्बद्धे विचलति विक्षिप्ताङ्गैः समाहता ॥ १,१६.३ ॥ शैलैराक्रान्तदेहोपि न ममार च यः पुरा । त्वाय चातीव माहात्म्यं कथितं यस्य धीमतः ॥ १,१६.४ ॥ तस्य प्रभावमतुलं विष्णोर्भक्तिमतो मुने । श्रोतुमिच्छामि यस्यैतच्चरितं दीप्ततेजसः ॥ १,१६.५ ॥ किंनिमित्तमसौ शस्त्रैर्विक्षिप्तो दितिजेमुन । किमर्थं चाब्धिसलिले विक्षिप्तो धर्मतत्परः ॥ १,१६.६ ॥ आक्रान्तः पर्वतैः कस्माद्दष्टश्चैव महोरगैः । क्षिप्तः किमद्रिशिखराक्तिं वा पावकसञ्चये ॥ १,१६.७ ॥ दिग्दन्तिनां दन्तभूमिं स च कस्मान्निरूपितः । सशोषकोनिलश्चास्य प्रयुक्तः किं महासुरैः ॥ १,१६.८ ॥ कृत्यां च दैत्यगुरवो युयुजुस्तत्र किं मुने । शम्बरश्चापि मायानां सहस्रं किं प्रयुक्तावान् ॥ १,१६.९ ॥ हालाहलं विषमहो दैत्यसूदैर्महात्मनः । कस्माद्दत्तं विनाशाय यज्जीर्णं तेन धीमता ॥ १,१६.१० ॥ एतत्सर्वं महाभाग प्रह्लादस्य महात्मनः । चरितं श्रोतुमिच्छामि महामाहात्म्यसूचकम् ॥ १,१६.११ ॥ न हि कौतूहलं तत्र यद्दैत्यौर्निहतो हि सः । अनन्यमनसो विष्णो कः समर्थो निपातने ॥ १,१६.१२ ॥ तस्मिन्धर्मपरेनित्यं केशवाराधनोद्यते । स्ववंशप्रभवैर्दैत्यैः कृतो द्वेषोतिदुप्करः ॥ १,१६.१३ ॥ धर्मात्मनि महाभागो विष्णुभक्ते विमत्सरे । दैतयैः प्रहृतं कस्मात्तन्ममाख्यातुमर्हसि ॥ १,१६.१४ ॥ प्रहरन्ति महात्मानो विपक्षा अपि नेद्दशे । गुणैः समन्विते साधौ किं पुनर्यः स्वपक्षजः ॥ १,१६.१५ ॥ तदेतत्कथ्यतां सर्वं विस्तरान्मुनिपुङ्गव । दैत्येश्वरस्य चारितं श्रोतुमिच्छाम्यशेषतः ॥ १,१६.१६ ॥ इति श्रीविष्णुपुराणे प्रथमेऽंशे षोडशोऽध्यायः (१६) _____________________________________________________________ श्रीपराशर उवाच मैत्रेय क्षूयतां सम्यक्चरितं तस्य धीमतः । प्रह्लादस्य सदोदारचरितस्य महात्मनः ॥ १,१७.१ ॥ दितेः पुत्रो महावीर्यो हिरण्यकशिपुः पुरा । त्रैलोक्यं वशमानिन्ये ब्रह्मणो वरदर्पितः ॥ १,१७.२ ॥ इन्द्रत्वमकरोद्दैत्यः स चासीत्सविता स्वयम् । वायुरग्निरपां नाथः सोमश्चाभून्महासुरः ॥ १,१७.३ ॥ धनानामधिपः सोऽभूत्स एवासीत्स्वयं यमः । यज्ञभागानशेषांस्तु स स्वयं बुभुजेऽसुरः ॥ १,१७.४ ॥ देवाः स्वर्गं परित्यज्य तर्त्रासान्मुनिसत्तम । विचेरुरवनौ सर्वे बिभ्राणा मानुषीं तनुम् ॥ १,१७.५ ॥ जित्वा त्रिभुवनं सर्वं त्रैलोक्यैश्वर्यदर्पितः । उपगीयमानो गन्धर्वैर्बुभुजे विषयान्प्रियान् ॥ १,१७.६ ॥ पानासक्तं महात्मानं हिरण्यकशिपुं तदा । उपासांचक्रिरे सर्वे सिद्धगन्धर्वपन्नगाः ॥ १,१७.७ ॥ अवादयन् जगुश्चान्ये जयशब्दं तथापरे । दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदान्विताः ॥ १,१७.८ ॥ तत्र प्रनृत्तप्सरसि स्फाटिकाभ्रमयेऽसुरः । पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे ॥ १,१७.९ ॥ तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः । पपाठ बालपाठ्यानि गुरुगेहङ्गतोर्ऽभकः ॥ १,१७.१० ॥ एकदा तु स धर्मात्मा जगाम गुरुणा सह । पानासक्तस्य पुरतः पुतुर्दैत्यपतेस्तदा ॥ १,१७.११ ॥ पादप्रणामावनतं तमुत्थाप्य पिता सुतम् । हिरण्यकशिपुः प्राह प्रह्लादममितौजसम् ॥ १,१७.१२ ॥ हिरण्यकशिपुरुवाच पठ्यतां भवता वत्स सारभूतं सुभाषितम् । कालेनैतावता यत्ते सदोद्योक्तेन शिक्षितम् ॥ १,१७.१३ ॥ प्रह्लाद उवाच श्रूयतां तात वक्ष्यामि सारभूतं तवाज्ञया । समाहितमना भूत्वा यन्मे चेतस्यवस्थितम् ॥ १,१७.१४ ॥ अनादिमध्यान्तमजमवृद्धिक्षयमच्युतम् । प्रणतोस्म्यन्तमन्तानं सर्वकारणकारणम् ॥ १,१७.१५ ॥ श्रीपराशर उवाच एतन्निशम्य दैत्येन्द्रः सकोपो रक्तलोचनः । विलोक्य तद्गुरुं प्राह स्फुरिताधरपल्लवः ॥ १,१७.१६ ॥ हिरण्यकशिपुरुवाच ब्रह्मबन्धो किमेतत्ते विपक्षस्तुतिसंहितम् । असारं ग्राहितो बालो मामवज्ञाय दुर्मते ॥ १,१७.१७ ॥ गुरुरुवाच दैत्येश्वर न कोपस्य वशमागन्तुमर्हसि । ममोपदेशजनितंनायं वदति ते सुतः ॥ १,१७.१८ ॥ हिरण्यकशिपुरुवाच अनुशिष्टोसि केनेदृग्वत्स ब्रह्लाद कथ्यताम् । मयोपदिष्टं नेत्येष प्रब्रवीति गुरुस्तव ॥ १,१७.१९ ॥ प्रह्लाद उवाच शास्ता विष्णुरशेषस्य जगतो यो हृदि स्थितः । तमृते परमात्मानं तात कः केन शास्यते ॥ १,१७.२० ॥ हिरण्यकशिपुरुवाच कोयं विष्णुः सुदुर्बुद्धे यं ब्रवीषि पुनः पुनः । जगतामीश्वरस्येह पुरतः प्रसभ मम ॥ १,१७.२१ ॥ प्रह्लाद उवाच न शब्दगोचरे यस्य योगिध्येयं परं पदम् । यतो यश्च स्वयं विश्वं स विष्णुः परमेश्वरः ॥ १,१७.२२ ॥ हिरण्यकशिपुरुवाच परमेश्वरसंज्ञोज्ञ किमन्यो मय्यवस्थिते । तथापि मर्तुकामस्त्वं प्रब्रवीषि पुनः पुनः ॥ १,१७.२३ ॥ प्रह्लाद उवाच न केवलं तात मम प्रजानां स ब्रह्मभूतो भवतश्च विष्णुः । धाता विधाता परमेश्वरश्च प्रकीद कोपं कुरुषे किमर्थम् ॥ १,१७.२४ ॥ हिरण्यकशिपुरुवाच प्रविष्टः कोऽस्य हृदये दुर्बुद्धेरतिपापकृत् । येनेदृशान्यसाधूनि वदत्याविष्टमानसः ॥ १,१७.२५ ॥ प्रह्लाद उवाच न केवलं मद्धृदयं स विष्णुराक्रम्य ललोकानखिलानवस्थितः । स मां त्वदान्दीश्च पितःसमस्तान्समस्तचेष्टासु युनक्ति सर्वगः ॥ १,१७.२६ ॥ हिरण्यकिशिपुरुवाच निष्कास्यतामयं पापः शास्यतां च गुरोर्गृहे । योजितो दुर्मतिः केन विपक्षविषयस्तुतौ ॥ १,१७.२७ ॥ श्रीपारशर उवाच इत्युक्तोऽसौ तदा दैत्यैर्नीतो गुरुगृहं पुनः । जग्राह विद्यमनिशं गुरुशुश्रूषणोद्यतः ॥ १,१७.२८ ॥ कालोतीतेति महति प्रह्लादमसुरेश्वरः । समाहूयाब्रवीद्राथा काचित्पुत्रक गीयताम् ॥ १,१७.२९ ॥ प्रह्लाद उवाच यतः प्रधानपुरुषौ यतश्चैतच्चराचरम् । कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु ॥ १,१७.३० ॥ हिरण्यकशिपुरुवाच दुरात्मा वध्यतामेष नानेनार्थोस्ति जीवता । स्वपक्षहानिकर्तृत्वाद्यः कुलाङ्गारतां गतः ॥ १,१७.३१ ॥ श्रीपराशर उवाच इत्याज्ञप्तास्ततस्तेन प्रगृहीतमहायुधाः । उद्यतास्तस्य नाशाय दैत्याः शतसहस्रशः ॥ १,१७.३२ ॥ प्रह्लाद उवाच विष्णुः शस्त्रेषु युष्मासु मयि चासौ व्यवस्थितः । दैतेयास्तेन सत्येन माक्रमन्त्वायुधानि मे ॥ १,१७.३३ ॥ श्रीपराशर उवाच ततस्तैः शतशो दैत्यैः शस्त्रोघैराहतोपि सन् । नावाच वेदनामल्पामभूच्चैव पुनर्नवः ॥ १,१७.३४ ॥ हिरण्यकशिपुरुवाच दुर्बुद्धे विनिवर्तस्व वैरिपक्षस्तवाहतः । अभयं ते प्रयच्छामि मातिमूढमतिर्भव ॥ १,१७.३५ ॥ प्रह्लाद उवाच भयं भयानामपहारिण स्थिते मनस्यनन्ते मम कुत्र तिष्ठति । यस्मिन्स्मृते जन्मजरान्तकादिभयानि सर्वाम्यपयान्ति तात ॥ १,१७.३६ ॥ हिरण्यकशिपुरुवाच भोभोः सर्पाः दुराचारमेनमत्यन्तदुर्मतिम् । विषज्वालाकुलैर्वक्रैः सद्यो नयतः संक्षयम् ॥ १,१७.३७ ॥ श्रीपराशर उवाच इत्युक्तास्ते ततः सर्पाः कुहकास्तक्षकादयः । अदशन्त समस्तेषु गात्रेष्वतिविषोल्बणाः ॥ १,१७.३८ ॥ स त्वासक्तमतिः कृष्णे दश्यमानो महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसुस्थितः ॥ १,१७.३९ ॥ सर्पा ऊचुः दंष्ट्रा विशीर्णा मण्यः स्फुटन्ति फणेषु तापो हृदयेषु कंपः । नास्य त्वचः स्वल्पमपीह भिन्नं प्रसाधि दैत्येश्वर कार्यमन्यत ॥ १,१७.४० ॥ हिरण्यकशिपुरुपाच हे दिग्गाजाः संकटदन्तमिश्र घ्नतैनमस्मद्रिपुपक्षभिन्नम् । तज्जा विनाशाय भवन्ति तस्य यथारणेः प्रज्वलितो हुताशः ॥ १,१७.४१ ॥ श्रीपराशर उवाच ततः स दिग्गजैर्बालो भूभृच्छिखरसन्निभैः । पातितो धरणीपृष्ठे विषाणैर्वावपीडितः ॥ १,१७.४२ ॥ स्मरतस्तस्य गोविन्दमिभदन्ताः सहस्रशः । शीर्णा वक्षस्थलं प्राप्य स प्राह पितरं ततः ॥ १,१७.४३ ॥ दन्ता गजानां कुलिशाग्रनिष्ठुराझ शीर्णा यदेतेन बलं ममैतत् । महाविपत्तापविनाशनोऽयं जनार्दनानुस्मरणानुभावः ॥ १,१७.४४ ॥ हिरण्यकशिपुरुवाच ज्वाल्यतामसुरा बह्निरपसर्पत दिग्गजाः । वायो समेधयाग्निं त्वं दह्यतामेष पापकृत् ॥ १,१७.४५ ॥ श्रीपराशर उवाच महाकाष्ठचयस्थं तमसुरेन्द्रसुतं ततः । प्रज्वाल्य दानवा वह्निं ददहुः स्वामिनोदिताः ॥ १,१७.४६ ॥ प्रह्लाद उवाच तातैष वह्निः पवनेरितोपि न मां दहत्यत्र समन्ततोहम् । पश्यामि पद्मास्तरणास्तृतानि शीतानि सर्वाणि दिशां मुखानि ॥ १,१७.४७ ॥ श्रीपराशर उवाच अथ दैत्येश्वरं प्रोचुर्भार्गवस्यात्मजा द्वाजाः । पुरोहिता महात्मानः साम्ना संस्तूय वाग्मिनः ॥ १,१७.४८ ॥ पुरोहिता ऊचुः राजन्नियम्यतां कोपो बालेपि तनये निजे । कोपो देवनिकायेषु तेषु ते शपलो यतः ॥ १,१७.४९ ॥ (ततः पुरोहितैरुक्तो हिरण्यकशिपुः स्वकैः) तथातथैनं बालं ते शासितारो वयं नृपः । यथा विपभनाशाय विनीतस्ते भविष्यति ॥ १,१७.५० ॥ बालत्वं सर्वदोषाणां दैत्यराजास्पदं यतः । ततोत्र कोपमत्यर्थं योक्तुमर्हसि नार्भके ॥ १,१७.५१ ॥ न त्यक्ष्यति हरेः पक्षमस्माकं वचनाद्यदि । ततः कृत्यां वधायास्य करिष्यामोऽनिवर्तिनीम् ॥ १,१७.५२ ॥ श्रीपराशर उवाच एवमभ्यर्थितस्तैस्तु दैत्यराजः पुरोहितैः । दैत्यैर्निष्कासयामास पुत्रं पावकसंचयात् ॥ १,१७.५३ ॥ ततो गुरुगृहे वालः स वसन्बालदानवान् । अध्यापयामास मुहुरुपदेशान्तरे गुरोः ॥ १,१७.५४ ॥ प्रह्लाद उवाच श्रूयतां परमार्थो मे दैतेया दितिजात्मजाः । न चान्यथैतन्मन्तव्यं नात्र लोभादिकारणम् ॥ १,१७.५५ ॥ जन्म बाल्यं ततः सर्वो जन्तुः प्राप्नोति यौवनम् । अव्याहतैव भवति ततोनुदिवसं जराः ॥ १,१७.५६ ॥ ततश्च सृत्युमभ्येति जन्तुर्दैत्येश्वरात्मजाः । प्रत्यक्षं दृस्यते चैतदस्माकं भवतां तथा ॥ १,१७.५७ ॥ मृतस्य च पुनर्जन्म भवत्येतच्च नान्यथा । आगमोऽयं तथा यच्च नोपादानं विनोद्भवः ॥ १,१७.५८ ॥ गर्भवासादि यावत्तु पुनर्जन्मोपपादनम् । सह स्तावस्थकं तावद्दुःखमेवावगम्यताम् ॥ १,१७.५९ ॥ क्षुत्तृष्णोपशमं तद्वच्छीताद्युपशमं मुखम् । मन्यते बालबुद्धित्वाद्दुःखमेव हि तत्पुनः ॥ १,१७.६० ॥ अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् । भ्रान्तिज्ञानावृताक्षाणां दुःखमेव सुखायते ॥ १,१७.६१ ॥ क्व शरीरमशेषाणां श्लेष्मादीनां महाचयः । क्व कान्तिशोभासौन्दर्यरमणीयादयो गुणाः ॥ १,१७.६२ ॥ मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ । देहे चेत्प्रीतिमान्मूढो भविता नरकेप्यसौ ॥ १,१७.६३ ॥ अग्नोः शीतेन तोयस्य तृषा भक्तस्य च क्षुधा । क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥ १,१७.६४ ॥ करोति हे दैत्यसुता यावन्मात्रं परिग्रहम् । तावन्मात्रं स एवास्य दुःखं चेतसि यच्छति ॥ १,१७.६५ ॥ यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् । तावन्तोस्य निखन्यन्ते हृदये शोकशङ्कवः ॥ १,१७.६६ ॥ यद्यद्गृहे तन्मनसि यत्र तत्रावतिष्ठतः । नाशदाहोपकरणं तस्य तत्रैव तिष्ठति ॥ १,१७.६७ ॥ जन्मन्यत्र महद्दुःखं म्रियमाणस्य चापि तत् । यातनासु यमस्योग्रं गर्भसंक्रमणेषु च ॥ १,१७.६८ ॥ गर्भेषु सुखलोशोपि भवद्भिरनुमीयते । यदि तत्कथ्यतामेवं सर्वं दुःखमयं जगत् ॥ १,१७.६९ ॥ तदेवमतिदुखानामास्पदेत्र भवार्मवे । भवतां कथ्यते सत्यं विष्णुरेकः परायणः ॥ १,१७.७० ॥ मा जानीत वयं बाला देही देहेषु शाश्वतः । जरायौवनजन्माद्य धर्मा देहस्य नात्मनः ॥ १,१७.७१ ॥ बालोहं तावदिच्छातो यतिष्ये श्रेयसे युवा । युवाहं वार्धके प्राप्ते करिष्याम्यत्मनो हितम् ॥ १,१७.७२ ॥ वृद्धोऽहं मम कार्याणि समस्तानि न गोचरे । किं करिष्यामि मन्दात्मा समर्थेन न यत्कृतम् ॥ १,१७.७३ ॥ एवं दुराशया क्षिप्तमानसः पुरुषः सदा । श्रेयसोऽभिमुखं याति न कादाचित्पिपासितः ॥ १,१७.७४ ॥ बाल्ये क्रिडनकासक्ता योवने विषयोन्मुखाः । अज्ञा नयन्त्यशक्त्या च वार्धकं समुपस्थितम् ॥ १,१७.७५ ॥ तस्माद्बाल्ये विवेकात्मा यतेत श्रेयसे सदा । बाल्ययौवनवृद्वाद्यैर्देहभावैरसंयुतः ॥ १,१७.७६ ॥ तदेतद्वो मयाख्यातं यदि जानीत नानृतम् । तदस्मत्प्रीतये विष्णुः स्मर्यतां बन्धमुक्तिदः ॥ १,१७.७७ ॥ प्रयासः स्मरणे कोस्य स्मृतो यच्छति शोभनम् । पापक्षयश्च भवति स्मरतां तमहर्निशम् ॥ १,१७.७८ ॥ सर्वभूतस्थिते तस्मिन्मतिर्मैत्री दिवानिशम् । भवतां जायतामेवं सर्वक्लेशान्प्रहास्यथ ॥ १,१७.७९ ॥ तापत्रयेणाभिहतं यदेतदखिलं जगत् । तदा शोच्येषु भूतेषु द्वेषं प्राज्ञः करोति कः ॥ १,१७.८० ॥ अथ भद्राणि भूतानि हीनशक्तिरहं परम् । मुदं तदापि कुर्वित हानिर्द्वेषफलं यतः ॥ १,१७.८१ ॥ बद्धवैराणि भूतानि द्वेषं कुर्वन्ति चेत्ततः । सुशोच्यान्यतिमोहेन व्याप्तानीति मनीषिणाम् ॥ १,१७.८२ ॥ एते भिन्नदृसां दैत्या विकल्पाः कथिता मया । कृत्वाभ्युपगमं तत्र संभेपः श्रूयतां मम ॥ १,१७.८३ ॥ विस्तारः सर्वभूतस्य विष्णोः सर्वमिदं जगत् । द्रष्टव्यमात्मवत्तस्मादभेदेन विचक्षणैः ॥ १,१७.८४ ॥ समुत्सृज्यासुरं भावं तस्माद्ययं यथा वयम् । तथा यत्नं करिष्यामो यथा प्राप्स्याम निर्वृतिम् ॥ १,१७.८५ ॥ या नाग्निना न चार्केण नेन्दुना न च वायुना । पजन्यवरुणाभ्यां वा न सिद्धेर्न च साक्षसैः ॥ १,१७.८६ ॥ न यक्षैर्न च दैत्येन्द्रैर्नोरगैर्न च किन्नरैः । न मनुष्यैर्न पशुभिर्दोषैर्नैवात्मसम्भवैः ॥ १,१७.८७ ॥ ज्वाराक्षिरोगातीसारप्लीहगुल्मादिकैस्तथा । द्वेषोर्ष्यामत्सराद्यौर्वा रागलोभादिभिः क्षयम् ॥ १,१७.८८ ॥ न चान्यैर्नीयते कैश्चिन्नित्या यात्यन्तनिर्मला । तामाप्नोत्यमलेन्यस्य केशवे हृदयं नरः ॥ १,१७.८९ ॥ असारसंसारविवर्तनेषु मा यात तोषं प्रसभं ब्रवीमि । सर्वत्र दैत्याःसमतामुपैत समत्वमाराधनमच्युतस्य ॥ १,१७.९० ॥ तस्मिन्प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते । समाश्रिताद्ब्रह्यतरोरनन्तान्निः संशयं प्राप्स्तथ वै महत्फलम् ॥ १,१७.९१ ॥ इति श्रीविष्णुपुराणे प्रथमेऽंशे प्रह्लादानुचरितं नाम सप्तदशोध्यायः (१७) _____________________________________________________________ श्रीपारशर उवाच तस्यैतां दानवाश्चेष्टां दृष्ट्वा दैत्यपतेर्भयात् । आचचख्युः स चोवाच सूदानाहूय सत्वरः ॥ १,१८.१ ॥ हिरण्यकशिपुरुवाच हे सूदाःमम पुत्रोसावन्योषामपि दुर्मतिः । कुमार्गदेशिको दुष्टो हन्यतामविलम्बितम् ॥ १,१८.२ ॥ हालाहलं विषं तस्य सर्वभक्षेषु दीयताम् । अविज्ञातमसौ पापो हन्यतां मा विचार्यताम् ॥ १,१८.३ ॥ श्रीपराशर उवाच ते तथैव ततश्चक्रुः प्रह्लादाय महात्मने । विषदानं यथाज्ञाप्तं पित्रा तस्य महात्मनः ॥ १,१८.४ ॥ हालाहलं विषं घोरमनन्तोच्चारणेन सः । अभिमन्त्र्य सहान्नेन मैत्रेय बुभुजे तदा ॥ १,१८.५ ॥ अविकारं स तद्भुक्त्वा प्रह्लादः स्वस्थमानसः । अनन्तख्यातिनिर्विर्यजरयामास तद्विषम् ॥ १,१८.६ ॥ ततः सूदा भयत्रस्ता जीर्णं दृष्ट्वा महद्विषम् । दैत्येश्वरमुपागम्य प्रणिपत्येदमब्रुवन् ॥ १,१८.७ ॥ सूदा ऊचुः दैत्यराज विषं दत्तमस्माभिरतिभीषणम् । जीर्णं तेन सहान्नेन प्रह्लाहेन सुतेन ते ॥ १,१८.८ ॥ हिरण्यकशिपुरुवाच त्वर्यतां त्वर्यतां हे हे सद्यो दैत्यपुरोहिताः । कृत्यां तस्यविनाशाय उत्पादयत मा चिरम् ॥ १,१८.९ ॥ श्रीपराशर उवाच सकाशमागम्य ततः प्रह्लादस्य पुरोहिताः । सामपूर्वमथोचुस्ते प्रह्लादं विनयान्वितम् ॥ १,१८.१० ॥ पुरोहिता ऊचुः जातस्त्रैलोक्यविख्यात आयुष्मन्ब्रह्मणः कुले । दैत्यराजस्य तनयो हिरण्यकशिपोर्भवात् ॥ १,१८.११ ॥ किन्देवैः किमनन्तेन किमन्येन तवाश्रयः । पिता ते सर्वलोकानां त्वं तथैव भविष्यसि ॥ १,१८.१२ ॥ तस्मात्परित्यजैनां त्वं विपक्षस्तवसंहिताम् । श्लाघ्यः पिता समस्तानां गुरूणां परमो गुरुः ॥ १,१८.१३ ॥ प्रह्लाद उवाच एवमेतन्महाभागाः श्लाघ्यमेतन्महाकुलम् । मरिचेः सकलेप्यस्मिन् त्रैलोक्ये ना न्याथा वदेत् ॥ १,१८.१४ ॥ पिता च मम सर्वास्मिञ्जगत्युक्तृष्टचेष्टितः । एतदप्यवगच्छामि सत्यमत्रापि नानृतम् ॥ १,१८.१५ ॥ गुरूणामपि सर्वेषां पिता परमको गुरुः । यदुक्तं भ्रान्तिस्तत्रापि स्वल्पापि हि न विद्यते ॥ १,१८.१६ ॥ पिता गुरुर्न सन्देहः पूजनीयः पूयत्नतः । तत्रापि नापराध्यामीत्येवं मनसि से स्थितम् ॥ १,१८.१७ ॥ यत्त्वेतत्किमनन्तेनेत्युक्तं युष्माभिरिदृसम् । को ब्रवीति यथान्याय्यं किं तु नैतद्वचोर्थवत् ॥ १,१८.१८ ॥ इत्युक्त्वा सोऽभवन्मौनी तेषां गोरवयन्त्रितः । प्रहस्य च पुनः प्राह किमनन्तेन साध्विति ॥ १,१८.१९ ॥ साधु भोः किमनन्तेन साधु भो गुरुवो मम । श्रूयतां यदनन्तेन यदि खेदं न यास्यथ ॥ १,१८.२० ॥ धर्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः । चतुष्टयमिदं यस्मात्तस्माक्तिं किमिदं वच ॥ १,१८.२१ ॥ मरीचिमिश्रैर्दक्षाद्यैस्तथैवान्यैरनन्ततः । धर्म प्राप्तस्तथा चान्यैरर्थः कामस्तथापरैः ॥ १,१८.२२ ॥ तन्तत्त्ववेदिनो भूत्वा ज्ञानध्यानसमाधिभिः । अवापुर्मुक्तिमपरे पुरुषा ध्वस्तबन्धनाः ॥ १,१८.२३ ॥ सम्पदैश्वर्यमाहात्म्यज्ञानसंततिकर्मणाम् । विमुक्तेश्चैकतो लभ्यं मूलमाराधनं हरेः ॥ १,१८.२४ ॥ यतो धर्मार्थकामाख्यं मुक्तिश्चपि फलं द्विजाः । तेनापि किङ्किमित्येवमनन्तेन किमुच्यते ॥ १,१८.२५ ॥ किं चापि बहुनोक्तेन भवन्तो गुरवो मम । वदन्तु साधु वासाधु विवेकोऽस्माकमल्पकः ॥ १,१८.२६ ॥ बहुनात्र किमुक्तेन स एव जगतः पतिः । स कर्ता च विकर्ता च संहर्ता च हृदि स्थितः ॥ १,१८.२७ ॥ स भोक्ता भोज्यमप्येवं स एव जगदीश्वरः । भवद्भिरेतत्क्षन्तव्यं बाल्यादुक्तं तु यन्मया ॥ १,१८.२८ ॥ पुरोहिता ऊचुः दह्यमानस्त्वमस्माभिरग्निना बाल रक्षितः । भूयो न वक्ष्यसीत्येवं नैव ज्ञातोस्यबुद्धिमान् ॥ १,१८.२९ ॥ यदास्मद्वचनान्मोहग्राहं न त्यक्षते भवान् । ततः कृत्यां विनाशाय तव सृक्ष्याम दुर्मते ॥ १,१८.३० ॥ प्रह्लाद उवाच कः केन हन्यते जन्तुर्जन्तुः कः केन रक्ष्यते । हन्ति रक्षति चैवात्मा ह्यसत्साधु समाचरन् ॥ १,१८.३१ ॥ कर्मणा जायते सर्वं कर्मैव गतिसाधनम् । तस्मात्सर्वप्रयत्नेन साधु कर्म समाचरेत् ॥ १,१८.३२ ॥ श्रीपराशर उवाच इत्युक्तास्तेन ते क्रुद्धा दैत्यराजपुरोहिताः । कृत्यामुत्पादयामासुर्ज्वालामालोज्ज्वलाकृतिम् ॥ १,१८.३३ ॥ अतिभीमा समागम्य पादन्यासक्षतक्षितिः । शुलेन साधु संक्रुद्धा तं जघानाशु वक्षसि ॥ १,१८.३४ ॥ तत्तस्य हृदयं प्राप्य शूलं बालस्य दीप्तिमत् । जगाम खण्डितं भूमौ तत्रापि शतधा गतम् ॥ १,१८.३५ ॥ यत्रानपायी भगवान् हृद्यास्ते हरिरिश्वरः । भङ्गो भवति वज्रस्य तत्र शूलस्य का कथा ॥ १,१८.३६ ॥ आपापे तत्र पापैश्च पातिता दैत्यायाजकैः । तानेव सा जघानाशु कृत्या नाशं जगाम च ॥ १,१८.३७ ॥ कृत्यया दह्यमानांस्तन्विलोक्य स महामतिः । त्राहि कृष्णेत्यनन्तेति वदन्नभ्यवपद्यत ॥ १,१८.३८ ॥ प्रह्लाद उवाच सर्वव्यापिन् जगद्रूप जगत्स्त्रष्टर्जनार्दन । पाहि विप्रानिमानस्माद्दुः सहान्मन्त्रपावकात् ॥ १,१८.३९ ॥ यथा सर्वेषु भूतेषु सर्वव्यापी जगद्गुरुः । विष्णुरेव तथा सर्वे जीवन्त्वेते पुरोहिताः ॥ १,१८.४० ॥ यथा सर्वगतं विष्णुं मन्यमानोनपायिनम् । चिन्तयाम्यरिपक्षेपि जीवन्त्वेते पुरोहिताः ॥ १,१८.४१ ॥ ये हन्तुमागता दत्तं योर्विषं यैर्हुताशनः । यैर्दिग्गजैरहं क्षुण्णो दष्टः सर्पैश्च यैरपि ॥ १,१८.४२ ॥ तेष्वहं मित्रभावेन समः पापोस्मि न क्वचित् । यथा तेनाद्य सत्येन जीवन्त्वसुरयाजकाः ॥ १,१८.४३ ॥ श्रीपराशर उवाच इत्युक्तास्तेन ते सर्वे संस्पृष्टाश्च निरामयाः । समुत्तस्थुर्द्विजा भूयस्तमूचुः प्रश्रयान्वितम् ॥ १,१८.४४ ॥ पुरोहिता ऊचुः दीर्घायुरप्रतिहतो बलवीर्यसमन्वितः । पुत्रपौत्रधनश्वैर्यैर्युक्तो वत्स भवोत्तमः ॥ १,१८.४५ ॥ श्रीपराशर उवाच इत्युक्त्वा तं ततो गत्वा यथावृत्तं पुरोहिताः । दैत्यराजाय सकलमाचचख्युर्महामुने ॥ १,१८.४६ ॥ इति श्रीविष्णुपुराणे प्रथमेऽंशे प्रह्लादचारितेऽष्टादशोऽध्यायः (१८) _____________________________________________________________ श्रीपराशर उवाच हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम् । आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम् ॥ १,१९.१ ॥ हिरण्यकशिपुरुवाच प्रह्लाद सुप्रभावोसि किमेतत्ते विचेष्टितम् । एतन्मन्त्रादिजनितमुताहो सहजं तव ॥ १,१९.२ ॥ श्रीपराशर उवचा एवं पृष्टस्तदा पित्रा प्रह्लादोऽसुरबालकः । प्रणिपत्य पितुः पादाविदं वचनमब्रवीत् ॥ १,१९.३ ॥ न मन्त्रादिकृतं तात न च नैसर्गिको मम । प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि ॥ १,१९.४ ॥ अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा । तस्य पापागमस्तात हेत्व भावान्न विद्यते ॥ १,१९.५ ॥ कर्मणा मनसा वाच परिपीडां करोति यः । तद्वीजं जन्म फलति प्रभूतं तस्य चाशुभम् ॥ १,१९.६ ॥ सोऽहं न पाप मिच्छामि न करोमि वदामि वा । चिन्तयन्सर्वभूतस्थमात्मन्यपि च केशवम् ॥ १,१९.७ ॥ शारीरं मानसं दुःखं दैवं भूतभवं तथा । सर्वत्र शुभचित्तस्य तस्य मे जायेत कुतः ॥ १,१९.८ ॥ एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी । कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम् ॥ १,१९.९ ॥ श्रीपराशर उवाच इति श्रुत्वा स दैत्येन्द्रः प्रासादशिखरे स्थितः । क्रोधान्धकारितमुखः प्राह दैतेयकिङ्करान् ॥ १,१९.१० ॥ हिरण्यकशिपुरुवाच दुरात्मा क्षिप्यतामस्मात्प्रासादाच्छतयोजनात् । गिरिपृष्ठे पतत्वस्मिन् शिलाभिन्नाङ्गसंहतिः ॥ १,१९.११ ॥ ततस्तं चिक्षुपुः सर्वे बालं दैतेयदानवाः । पपात सोऽप्यधः क्षिप्तो हृदयेनोद्वहह्नरिम् ॥ १,१९.१२ ॥ पतमानं जगद्धात्री जगद्धातरि केशवे । भक्तियुक्तं दधारैनमुपसंगम्यमैजिनी ॥ १,१९.१३ ॥ ततो विलोक्य तं स्वस्थमविशिर्णस्थिपञ्जरम् । हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम् ॥ १,१९.१४ ॥ हिरण्यकशिपुरुवाच नास्माभिः शक्यते हन्तुमसौ दुर्बुद्धिबालकः । मायां वेत्ति भवांस्तस्मान्माययैनं निषूदय ॥ १,१९.१५ ॥ शम्बर उवाच सूदयाम्येव दैत्यैन्द्र पश्य मायाबलं मम । सहस्रमत्र मायानां पश्य कोटिशतं तथा ॥ १,१९.१६ ॥ श्रीपराशर उवाच ततः स ससृजे मायां प्रह्लादे शम्बरोऽसुरः । विनाशमिच्छन्दुर्बुद्धिः सर्वत्र समदर्शिनि ॥ १,१९.१७ ॥ समाहितमतिर्भूत्वा शम्बरेपि विमत्सरः । मैत्रेय सोऽपि प्रह्लादः सस्मार मधुसूदनम् ॥ १,१९.१८ ॥ श्रीपराशर उवाच ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम् । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् ॥ १,१९.१९ ॥ तेन मायामहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहमेकैकं चारिशोधितम् ॥ १,१९.२० ॥ संशोषकं तथा वायुं दैत्येन्द्रस्त्विदमब्रवीत् । शीग्रमेष ममादेशाद्दुरात्मा नीयतां क्षयम् ॥ १,१९.२१ ॥ तथेत्युक्त्वा तु सोऽप्येनं विवेश पवनो लघु । शीतोतिरुक्षः शोषाय तद्देहस्यातिदुः सहः ॥ १,१९.२२ ॥ तेनाविष्टमथात्मानं स बुद्ध दत्यबालकः । हृदयेन महात्मानं दधार धरणीधरम् ॥ १,१९.२३ ॥ हृदयस्थस्ततस्तस्य तं वायुमति भीषणम् । पपौ जनार्धनः क्रुद्धः स ययौ पवनः क्षयम् ॥ १,१९.२४ ॥ क्षीणासु सर्वमायासु पवने च क्षयं गते । जगाम सोऽपि भवनं कुरोरेव महामतिः ॥ १,१९.२५ ॥ अहन्यहन्यथाचार्यो नीतिं राज्यफलप्रदाम् । ग्राहयामास तं बालं राज्ञामुसनसा कृताम् ॥ १,१९.२६ ॥ गृहीतनीतिशास्त्रं तं विनीतं च यदा गुरुः । मेने तदैनं तत्पित्रे कथयामास शिक्षितम् ॥ १,१९.२७ ॥ आचार्य उवाच गृहीतनीतिशास्त्रस्ते पुत्रो दैत्यपते कृतः । प्रह्लादस्तत्त्वतो वेत्ति भार्गवेण यदीरितम् ॥ १,१९.२८ ॥ हिरण्यकशिपुरुवाच मित्रेषु वर्तेत कथमरिवर्गेषु भूपतिः । प्रह्लाद त्रिषु लोकेषु मध्यस्थेषु कथं चरेत् ॥ १,१९.२९ ॥ कथं मन्त्रि ष्वमात्येषु बाह्योष्वाभ्यन्तरेषु च । चारेषु पौरवर्गेषु शङ्कितेष्वितरेषु च ॥ १,१९.३० ॥ कृत्याकृत्यविधानञ्च दुर्गाटविकसाधनम् । प्रह्लाद कथ्यतां सम्यक्तथा कण्टकशोधनम् ॥ १,१९.३१ ॥ एतच्चान्यच्च सकलमधीतं भवता यथा । तथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम् ॥ १,१९.३२ ॥ श्रीपराशर उवाच प्रणिपत्य पितुः पादौ तदा प्रश्रयभूषणः । प्रह्लादः प्राह दैत्येन्द्रं कृताञ्जलिपुटस्तथा ॥ १,१९.३३ ॥ प्रह्लाद उवाच ममो पदिष्टं सकलं गुरुमा नात्र संशयः । गृहीतन्तु मया किन्तु न सदेतन्मतंमम ॥ १,१९.३४ ॥ साम चोपप्रदानं च भेददण्डौ तथापरौ । उपायाः कथिताः सर्वे मित्रादिनां च साधने ॥ १,१९.३५ ॥ परमात्मनि गोविन्दे मित्रादींस्तात मा क्रुद्धः । साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ॥ १,१९.३६ ॥ सर्वभूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दै मित्रादींस्तात मा क्रुद्धः । साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ॥ १,१९.३६ ॥ सर्वबूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥ १,१९.३७ ॥ त्वाय्यस्ति भगवान् विष्णुर्मयि चान्यत्र चास्ति सः । यतस्ततोयं मित्रं मे शत्रुश्चेति पृथक्तुतः ॥ १,१९.३८ ॥ तदेभिरलमत्यर्थं दुष्टारम्भोक्तिविस्तरैः । अविद्यान्तर्गतैर्यत्नः कर्तव्यस्तात शोभेने ॥ १,१९.३९ ॥ विद्याबुद्धिरविद्यायामज्ञानान्तात जायते । बालोऽग्निं किं न खद्योतमसुरेश्वर मन्यते ॥ १,१९.४० ॥ तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ १,१९.४१ ॥ तदेतदवगम्याहमसारं सारमुत्तमम् । निशामय महाभाग प्रणिपत्य ब्रवीमि ते ॥ १,१९.४२ ॥ न चिन्तयति को राज्यं को धनं नाभिवाञ्छति । तथापि भाव्यमेवैतदुभयं प्राप्यते नरैः ॥ १,१९.४३ ॥ सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः । तथापि पुंसां भग्यानि नोद्यमा भूतिहेतवः ॥ १,१९.४४ ॥ जडानामविवेकानामशूराणमपि प्रभो । भाग्यभोज्यानि राज्यानि सन्त्यनीतिमतामपि ॥ १,१९.४५ ॥ तस्माद्यतेत पुण्येषु य इच्छेन्महतीं श्रियम् । यतितव्यं समत्वे च निर्वाणमपि चेच्छता ॥ १,१९.४६ ॥ देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः । रूपमेतदनन्तस्य विष्णोर्भिन्नमिव स्थितम् ॥ १,१९.४७ ॥ एतद्विजानता सर्वं जगत्स्थावरजङ्गमम् । द्रष्टव्यमात्मवद्विष्णुर्यतोऽयं विश्वरूपधृक् ॥ १,१९.४८ ॥ एवं ज्ञाते स भगवाननादिः परमेश्वरः । प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने क्लेशसंक्षयः ॥ १,१९.४९ ॥ श्रीपराशर उवाच एतच्छ्रुत्वा तु कोपेन समुत्थाय वरासनात् । हिरण्यकशिपुः पुत्रं पदा वक्षस्यताडयत् ॥ १,१९.५० ॥ उवाच च स कोपेन सामर्षः प्रज्यलन्निव । निष्पिष्य पाणिना पिणिं हन्तुकामो जगद्यथा ॥ १,१९.५१ ॥ हिरण्यकशिपुरुवाच हे विप्रचित्ते हे राहो हे बलैष महार्णवे । नागापाशैर्दढैर्बद्धा क्षिप्यतां मा विलंब्यताम् ॥ १,१९.५२ ॥ अन्यथा सकला लोकास्तथा दैतेयदानवाः । अनुयास्यन्ति मूढस्य मतमस्य दुरात्मनः ॥ १,१९.५३ ॥ बहुशो वारि तोस्माभिरयं पापस्तथाप्यरेः । स्तुतिं करोति दुष्टानां वध एवोपकारकः ॥ १,१९.५४ ॥ पराशर उवाच ततस्ते सत्वरा दैत्या बद्धा तं नागबन्धनैः । भर्तुराज्ञां पुरस्कृत्य चिक्षिपुः सलिलार्णवे ॥ १,१९.५५ ॥ ततश्चचाल चलता प्रह्लादेन महार्णवः । उद्वेलोभूत्परं क्षोभमुपेत्य च सम न्ततः ॥ १,१९.५६ ॥ भुर्लोकमखिलं दृष्ट्वा प्लाव्यमानं महाम्भसा । हिरण्यकशिपुर्दैत्यानिदमाह माहमते ॥ १,१९.५७ ॥ हिरण्यकशिपुरुवाच दैतेयाः सकलैः शैलैरत्रैव वरुणालये । निश्छिद्रैः सर्वशः सर्वैश्चीयतामेष दुर्मतिः ॥ १,१९.५८ ॥ नाग्निर्दहति नैवायं शस्त्रैश्छिन्नो न चोरगैः । क्षयं नीतो न वातेन न विषेण न कृत्यया ॥ १,१९.५९ ॥ न मायाभिर्न चैवोच्चत्पातितो न च दिग्गजैः । बालोतिदुष्टचित्तोयं नानेनार्थोस्ति जीवता ॥ १,१९.६० ॥ तदेष तोयमध्ये तु समाक्रान्तो महीधरैः । तिष्ठत्वब्दसहस्रान्तं प्राणान्हास्यति दुर्मतिः ॥ १,१९.६१ ॥ ततो दैत्यादानवाश्च पर्वतैस्तं महोदधौ । आक्रम्य चयनं चक्रुर्योजनानि सहस्रशः ॥ १,१९.६२ ॥ स चितः पर्वतेरन्तः समुद्रस्य महामतिः । तुष्टावाह्निक वेलायामेकाग्रमतिरच्युतम् ॥ १,१९.६३ ॥ प्रह्ला उवाच नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम । नमस्ते सर्वलोकात्मन्नमस्ते तिग्मचक्रिणे ॥ १,१९.६४ ॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ॥ १,१९.६५ ॥ ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः । रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥ १,१९.६६ ॥ देवा यक्षाः सुराः सिद्धा नागा गन्धर्वकिन्नराः । पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा ॥ १,१९.६७ ॥ पक्षिणस्थावराश्चैव पिपीलिकसरीसृपाः । भूम्यापोग्निर्नभोवायुः शब्दः स्पर्शस्तथा रसः ॥ १,१९.६८ ॥ रूपं गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः । एतेषां परमार्थश्च सर्वमेतत्त्वमच्युत ॥ १,१९.६९ ॥ विद्याविद्ये भवान्सत्यमसत्यं त्वं विषामृते । प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान् ॥ १,१९.७० ॥ समस्तकर्मभोक्ता च कर्मोपकरणानि च । त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत् ॥ १,१९.७१ ॥ मय्यन्यत्र तथान्येषु भूतेषु भुवनेषु च । तवैवाव्याप्तिरैश्वर्यगुणसंसूचिकी प्रभो ॥ १,१९.७२ ॥ त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च याजकाः । हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक् ॥ १,१९.७३ ॥ रूपं महत्ते स्थितमत्र विश्वं ततश्च सूक्ष्मं जगदेतदीश । रूपामि सर्वाणि च भूतभेदास्तेष्वन्तरात्माख्यमतीव सूक्ष्मम् ॥ १,१९.७४ ॥ तस्माच्च सूक्ष्मादिविशेषणानामगोचरे यत्परमात्मरूपम् । किमप्यचिन्त्यं तव रूपमस्ति तस्मै नमस्ते पुरुषोत्तमाय ॥ १,१९.७५ ॥ सर्वभूतेषु सर्वात्मन्या शक्तिरपरा तव । गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर ॥ १,१९.७६ ॥ यातीतगोचरा वाचां मनासां चाविशेषणा । ज्ञानिज्ञानपरिच्छेद्य तां वन्दे स्वेश्वरीं पराम् ॥ १,१९.७७ ॥ ओं नमो वासुदेवाय तस्मै भगवते सदा । व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोखिलस्य यः ॥ १,१९.७८ ॥ नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने । नाम रूपं न यस्यैको योस्तित्वेनोपलभ्यते ॥ १,१९.७९ ॥ यस्यावताररूपामि समर्चन्ति दिवौकसः । अपश्यन्तः परं रूपं नमस्तस्मै महात्मने ॥ १,१९.८० ॥ योन्तस्तिष्ठन्नशोषस्य पश्यतीशः शुभाशुभम् । तं सर्वसाक्षिणं विश्वं नमस्ये परमेश्वरम् ॥ १,१९.८१ ॥ नमोस्तु विष्णवे तस्मै यस्या भिन्नमिदं जगत् । ध्येयः स जगतामाद्यः स प्रसीदतु मेऽव्ययः ॥ १,१९.८२ ॥ यत्रोतमेतत्प्रोतं च विश्वमक्षरमव्ययम् । आधारभूतः सर्वस्य स प्रसीदतु मे हरिः ॥ १,१९.८३ ॥ ओं नमो विष्णवे तस्मै नमस्तस्मै पुनः पुनः । यत्र सर्वं यतः सर्वं यः सर्वं सर्वसंश्रयः ॥ १,१९.८४ ॥ सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तः सर्वमहं सर्वं मयि सर्वं सनातने ॥ १,१९.८५ ॥ अहमेवाक्षयो नित्यः परमात्मात्मसंश्रयः । ब्रह्मसंज्ञोऽहमेवाग्रे तथान्ते च परः पुमान् ॥ १,१९.८६ ॥ इति श्रीविष्णुपुराणे प्रथमेंश एकोनविंशतितमोऽध्यायः (१९) _____________________________________________________________ श्रीपराशर उवाच एवं संचिन्तयन्विष्णुमभेदेनात्मनो द्विज । तन्मयत्वमवाप्यग्र्य मेने चात्मानमच्युतम् ॥ १,२०.१ ॥ विसस्मार तथात्मानं नान्यत्किञ्चिदजानत । अहमेवाव्ययोऽनन्तः परमात्मेत्यचिन्तयत् ॥ १,२०.२ ॥ तस्य तद्भावनायोगात्क्षीणपापस्य वै क्रमात् । शुद्धेन्तःकरणे विष्णुस्तस्थौ ज्ञानमयोच्युतः ॥ १,२०.३ ॥ योगप्रभावात्प्रह्लादे जाते विष्णुमयेऽसुरे । चलत्युरगबन्धैस्तैर्मैत्रेय त्रुटितं क्षणात् ॥ १,२०.४ ॥ भ्रन्तग्राहगमः सोर्मिर्ययौ क्षोभं महार्णवः । चचाल च मही सर्वा सशैलवनकानना ॥ १,२०.५ ॥ स च तं शैलसंघातं दैत्यैर्न्यस्तमथोपरि । उत्क्षिप्य तस्मात्सलिलान्निश्चक्राम महामतिः ॥ १,२०.६ ॥ दृष्ट्वा च स जगद्भू६ ओ गगनाद्युपलक्षणम् । प्रह्लादोस्मीति सस्मार पुनरात्मानमात्मनि ॥ १,२०.७ ॥ तुष्टाव च पुनर्धामाननादिं पुरुषोत्तमम् । एकाग्रमतिरव्यग्रो यतवाक्वायमानसः ॥ १,२०.८ ॥ प्रह्लाद उवाच ओंनमः परमार्थाय स्थूल सूक्ष्मक्षराक्षर । व्यक्ताव्यक्तकलातीत सकलेश निचञ्जन ॥ १,२०.९ ॥ गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थित । मूर्तामूर्तमहामूर्ते सूक्ष्ममूर्ते स्फुटास्फुट ॥ १,२०.१० ॥ करालसौम्यरूपात्मन्विद्याविद्यामयाच्युत । सदसद्रूपसद्भाव सदसद्भावभावन ॥ १,२०.११ ॥ नित्यानित्यप्रपञ्चात्मन्निष्प्रपञ्चामलाश्रित । एकानेक नमस्तुभ्यं वासुदेवादिकारण ॥ १,२०.१२ ॥ यः स्थूलसूक्ष्मः प्रकटः प्रकाशो यः सर्वभूतो न च सर्वभूतः । विश्वं यतश्चैतदविश्वहेतो नमोस्तु तस्मै पुरुषोत्तमाय ॥ १,२०.१३ ॥ पराशर उवाच तस्य तच्चेतसो देवः स्तुतिमित्थं प्रकृर्वतः । आविर्बभूव भगवान् पीताम्बरधरो हरिः ॥ १,२०.१४ ॥ ससम्भ्रमस्तमालोक्य समुत्थायाकुलाक्षरम् । नमोस्तु विष्णवेत्येतव्द्याजहारास कृद्द्विज ॥ १,२०.१५ ॥ प्रह्लाद उवाच देव प्रपन्नार्तिहर प्रसादं कुरु केशव । अवलोकनदानेन भूयो मां पावयाच्युत ॥ १,२०.१६ ॥ श्रीभगवानुवाच कुर्वतस्ते प्रसन्नोहं भक्तिमव्यभिचारिणीम् । यथाभिलषितो मत्तः प्रह्लाद व्रीयतां वरः ॥ १,२०.१७ ॥ प्रह्लाद उवाच नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युताभक्तिरच्युतास्तु सदा त्वयि ॥ १,२०.१८ ॥ या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥ १,२०.१९ ॥ श्रीभगवानुवाच मयि भक्तिस्तवास्त्येव भूयोऽप्येवं भविष्यति । वरस्तु मत्तः प्रह्लाद व्रीयतां यस्तवेप्सितः ॥ १,२०.२० ॥ प्रह्लाद उवाच मयि द्वेषानुबन्धोभूत्संस्तुतावुद्यते तव । मत्पितुस्तत्कृतं पापं देव तस्य प्रमश्यतु ॥ १,२०.२१ ॥ शस्त्राणि पातितान्यङ्गे क्षिप्तो यच्चाग्निसंहतौ । दंशितश्चोरगैर्दत्तं यद्विषं मम भोजने ॥ १,२०.२२ ॥ बद्धा समुद्रे यत्क्षिप्तो यच्चितोऽस्मि शिलोच्चयैः । अन्यानि चाप्यसाधूनि यानि पित्रा कृताति मे ॥ १,२०.२३ ॥ त्वयि भक्तिमतो द्वेषादघं तत्संभवं च यत् । त्वत्प्रसादात्प्रभो सद्यस्तेन मुच्यतु मे पिता ॥ १,२०.२४ ॥ श्रीभगवानुवाच प्रह्लाद सर्वमेतत्ते मत्प्रसादाद्भाविष्यति । अन्यच्च ते वरं दघ्नि व्रीयतामसुरात्मज ॥ १,२०.२५ ॥ प्रहलाद उवाच कृतकृत्योस्मि भगवन्वरे णानेन यत्त्वयि । भवित्री त्वत्प्रसादेन भक्तिरव्यभिचारिणी ॥ १,२०.२६ ॥ धर्मार्थकामैः किं तस्य मुक्तिस्तस्य करे स्तिता । समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि ॥ १,२०.२७ ॥ श्रीभगवानुवाच यथा ते निश्चलं चेतो मयि भक्तिसमन्वितम् । तथा त्वं मत्प्रसादेन निर्वाणम्परमाप्स्यसि ॥ १,२०.२८ ॥ श्रीपराशर उवाच इत्युक्त्वान्तर्दधे विष्णुस्तस्य मैत्रेय पश्यतः । स चापि पुनरागम्य ववन्दे चरणौ पितुः ॥ १,२०.२९ ॥ तं पिता मूर्ध्न्युपाघ्राय परिष्वज्य च पीडितम् । जीवसीत्याह वत्सेति बाष्पार्द्रनयनोद्विज ॥ १,२०.३० ॥ प्रीतिमांश्चाभवत्तस्मिन्ननुतापी महासुरः । गुरुपित्रोश्चकारैवं शुश्रूषां सोऽपि धर्मतम् ॥ १,२०.३१ ॥ पितर्युपरतिं नीते नरसिंह स्वरूपिणा । विष्णुना सोऽपि दैत्यानां मैत्रेयाभूत्पतिस्ततः ॥ १,२०.३२ ॥ ततो राज्यद्युतिं प्राप्य कर्मशुद्धिकरीं द्वीज । पुत्रपौत्रांश्च सुबहूनवाप्यैश्वर्यमेव च ॥ १,२०.३३ ॥ क्षीणाधिकारः स यदा पुण्यपापविविर्जितः । तदा स भगवद्ध्यानात्परं नीर्वाणमाप्पवान् ॥ १,२०.३४ ॥ एवं प्रभावो दैत्योऽसौ मैत्रेयासीन्महामतिः । प्रह्लादो भगवद्भक्तो यं त्वं मामनुपृच्छसि ॥ १,२०.३५ ॥ यस्त्वेतच्चारीतं तस्य प्रह्लादस्य महात्मनः । शृणोति तस्य पापानि सद्यो गच्छन्ति संक्षयम् ॥ १,२०.३६ ॥ अहोरात्रकृतं पापं प्रह्लादचरितं नरः । शृण्वन् पठंश्च मैत्रेय व्यपोहति न संशयः ॥ १,२०.३७ ॥ पौर्ममास्याममावास्यामष्टम्यामथ वा पठन् । द्वादश्यां तदाप्रन्तोति गोप्रदानफलं द्विज ॥ १,२०.३८ ॥ प्रह्लादं सकलापत्सु यथा रक्षितवान्हरिः । तथा रक्षति यस्तस्य शृणोति चरितं सदा ॥ १,२०.३९ ॥ इति श्रीविष्णुपुराणे प्रथमेंशोध्यायः (२०) _____________________________________________________________ प्रह्लादपुत्र आयुष्माञ्छिबिर्बाष्कल एव च । विरोचनस्तु प्राह्लदिर्बलिर्जज्ञे विरोचनात् ॥ १,२१.१ ॥ बलेः पुत्रशतं त्वसीद्बाणज्येष्ठं महामुने । हिरण्याक्षसुताश्चासन्सर्व एव महा बला ॥ १,२१.२ ॥ झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा । महानाभो महाबाहुः कालनाभस्तथापरः ॥ १,२१.३ ॥ अभवन्दनुपूत्राश्च द्विमूर्ध शंबरस्तथा । अयोमुखः शङ्कुशिराः कपिलः शङ्करस्तथा ॥ १,२१.४ ॥ एकचक्रो महाबाहुस्तारकश्च महाबलः । स्वर्भानुर्वृषपर्वा च पुलोम च महाबलः ॥ १,२१.५ ॥ एते दनोः सुताः ख्याता विप्रचित्तिश्च विर्यवान् ॥ १,२१.६ ॥ स्वर्भानोस्तु प्रभा कन्या शर्मिष्ठा वार्षपर्वणी । उपदानी हयशिरः प्रख्याता वरकन्यकाः ॥ १,२१.७ ॥ वैश्वानरसुते चोभे पुलोमा कालका तथा । उभे सुते महाभागे मारीचेस्तु परिग्रहः ॥ १,२१.८ ॥ ताभ्या पुत्रसहस्राणि षष्टिर्दानवसत्तमाः । पौलोमाः कालके याश्च मारीचतनयाः स्मृताः ॥ १,२१.९ ॥ ततोऽपरे महावीर्या दारुणा स्त्वतिनिर्घृणा । सिंहिकायामथोत्पन्ना विप्रचित्ते सुतास्तथा ॥ १,२१.१० ॥ त्र्यंशः शल्यश्च बलवान्नभश्चैव महाबलः । वातापी नमुचिश्चैव इल्वलः खसृमस्तथा ॥ १,२१.११ ॥ आन्धको नरकश्चैव कालनाभस्तथैव च । स्वर्भानुश्च महावीर्यो वक्त्रयोधी महासुरः ॥ १,२१.१२ ॥ एते वै दानवाः श्रेष्ठा दनुवंशविवर्धनाः । एतेषां पुत्रपौत्रश्च शतशोऽथ सहस्रशः ॥ १,२१.१३ ॥ प्रह्लादस्य तु दैत्यस्य निवात कवचाः कुले । समुत्पन्नाः सुमहता तपसा भावितात्मनः ॥ १,२१.१४ ॥ षट्सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्तिताः । शुकी श्येनी च भासी च सुग्रीवी शुचिगृद्ध्रका ॥ १,२१.१५ ॥ शुकी शुकानजनयदुलूकप्रत्युलूकिकान् । श्येनी श्येनांस्तथा भासी भासान्गृर्ध्यांश्च गृद्ध्र्यपि ॥ १,२१.१६ ॥ शुच्यौ दकान्पक्षिगणान्सुग्रीवी तु व्यजायत । अश्वानुष्ट्रान्गर्दभां श्च ताम्रावंशः प्रकीर्तितः ॥ १,२१.१७ ॥ विनतायास्तु द्वौ पुत्रौ विरतौ गरुडारुणौ । सुपर्णः पततां श्रेष्ठो दारुणः पन्नगाशनः ॥ १,२१.१८ ॥ सुरसायां सहस्रं तु सर्पाणाममितौजसाम् । अनेकशिरसां ब्रह्मन् खेचरामां महात्मनाम् ॥ १,२१.१९ ॥ कान्द्रवेयास्तु बलिनः सहस्रममितौजसः । सुपर्णवशागा ब्रह्मन् जज्ञिरे नैकमस्तकाः ॥ १,२१.२० ॥ तेषां प्रधानभूतास्तु शेषवासुकितक्षकाः । शङ्खश्वेतो महापद्मः कम्बलाश्वतरौ तथा ॥ १,२१.२१ ॥ एलापुत्रस्तथा नागः कर्कोटकधनञ्जयौ । एते चान्ये च बहवो दन्दशुका विषोल्बणा ॥ १,२१.२२ ॥ गणं क्रोधवशं विद्धि तस्याः सर्वे च दंष्ट्रिणः । स्थलजाः पक्षिणोब्जाश्च दारुणाः पिशिताशनाः ॥ १,२१.२३ ॥ क्रोधात्तु पिशाचांश्च जनयामास महाबलान् । गास्तु वै जनयामास सुराभीर्महिषीस्तथा । इरावृक्षलतावल्लीस्तृमजतीश्च सर्वशः ॥ १,२१.२४ ॥ स्वसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा । आरीष्टा तु महासत्त्वान् गन्धर्वान्समजीजनत् ॥ १,२१.२५ ॥ एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः । तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ १,२१.२६ ॥ एष मन्वन्तरे सर्गो ब्रह्मन्स्वारोचिषेस्मृतः ॥ १,२१.२७ ॥ वैवस्वते च महति वारुणे वितते कृतौ । जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ॥ १,२१.२८ ॥ पूर्वं यत्र तु सप्तर्षिनुत्पन्नान्सप्तमानसान् । पुत्रत्वे कल्पयामास स्वयमेव पितामहः । गन्धर्वभोगिदेवानां दानवानां च सत्तम ॥ १,२१.२९ ॥ दितिर्विनष्टपुत्रा वै तोषयामास काश्यपम् । तया चाराधितः सम्यक्काश्यपस्तपतां परः ॥ १,२१.३० ॥ वरेण च्छन्दयामास सा च वव्रे ततो वरम् । पुत्रमिन्द्रवधार्थाय समर्थम मितौजसम् ॥ १,२१.३१ ॥ स च तस्मै वरं प्रादाद्भार्यायै मुनिसत्तमः । दत्त्वा च वरमत्युग्रं कश्यपस्तामुवाच ह ॥ १,२१.३२ ॥ शक्रं पुत्रो निहन्ता ते यदि गर्भं शरच्छतम् । समाहितातिप्रयता शौचिनी धारयिष्यसि ॥ १,२१.३३ ॥ इत्येवसुक्त्वा तां देवीं संगतः कश्यपो मुनिः । दधार सा च तं गर्भं सम्यक्छोचसमन्विता ॥ १,२१.३४ ॥ गर्भमात्मवधार्थाय ज्ञात्वा तं मघवानपि । शुश्रूषुस्तामथागच्छद्विनयादमराधिपः ॥ १,२१.३५ ॥ तस्या श्चैवान्तरप्रेप्सुरतिष्ठत्पाकशासनः । ऊने वर्षशते चास्या ददर्शान्तरमात्मना ॥ १,२१.३६ ॥ अकृत्वा पादयोः शौचं दितिः शयनमाविशत् । निद्रां चाहारयामास तस्याः कुक्षिं प्रविश्य सः ॥ १,२१.३७ ॥ वज्रपाणिर्महागर्भं चिच्छेदाथ स सप्तधा । सम्पीड्यमानो पज्रेण स रुरोदादिदारुणम् ॥ १,२१.३८ ॥ मा रोदीरिति तं शक्रः पुनःपुनरभाषत । सोऽभवत्सप्तधा गर्भस्तमिद्रः कुपितः पुनः ॥ १,२१.३९ ॥ एकैकं सप्तधा चक्रे वज्रेणारिविदारिणा । मरुतो नाम देवास्ते बभूवुरतिवेगिनः ॥ १,२१.४० ॥ यदुक्तं वै भगवता तेनैव मरुतोऽभवन् । देवा एकोनपछ्चाशत्सहाया वज्रपाणिनः ॥ १,२१.४१ ॥ इति श्रिविष्णुपुरामे प्रथमैंश एकविंशोध्यायः (२१) _____________________________________________________________ श्रीपराशर उवाच यदाभिषिक्तः स पृथुः पूर्वं राज्ये महर्षिभिः । ततः क्रमेण राज्यानि ददौ लोकपितामहः ॥ १,२२.१ ॥ नक्षत्रग्रहविप्राणां वीरुधां चाप्यशेषतः । सोमं राज्ये दधद्ब्रह्म यज्ञानां तपसामपि ॥ १,२२.२ ॥ राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा । आदित्यानां पतिं विष्णुं वसूनामथ पावकम् ॥ १,२२.३ ॥ प्रजापतीनां दक्षं तु वासवं मरुतामपि । दैत्यानां दानवानां च प्रह्लादमधिपं ददौ ॥ १,२२.४ ॥ पितॄणां धर्मराजानं यमं राज्येऽभ्यषेचयत् । ऐरावतं गर्जेद्राणामशोषाणां पतिं ददौ ॥ १,२२.५ ॥ पतत्रिणां तु गुरुडं देवानामपि वासवम् । उच्चैःश्रवसमश्वानां वृषभं तु गवामपि ॥ १,२२.६ ॥ मृगाणां चैव सर्वेषां राज्ये सिंहं ददौ प्रभुः । शेषं तु दन्दशूकानामकरोत्पतिमव्ययः ॥ १,२२.७ ॥ हिमालयं स्थावरणां मुनीनां कपिलं मुनिम् । नखिनां देष्ट्रिणां चैव मृगाणां व्याघ्रमीश्वरम् ॥ १,२२.८ ॥ वनस्पतीनां राजानेः प्लक्षमैवाब्यषेचयत् । एवमेवान्यजातीनां प्राधान्येनाकरोत्प्रभून् ॥ १,२२.९ ॥ एवं विभज्य राज्यानि दिशां पालाननन्तरम् । प्रजापतिपतिर्ब्रह्मा स्थापयामास सर्वतः ॥ १,२२.१० ॥ पूर्वस्यां दिशि राजानं वैराजस्य प्रजापतेः । दिशापालं सुधन्वानं सुतं वै सोऽभ्यषेचयत् ॥ १,२२.११ ॥ दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः । पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ॥ १,२२.१२ ॥ पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् । केतुमन्तं महात्मानं राजानं सोऽभ्यषैचयत् ॥ १,२२.१३ ॥ तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः । उदीच्यां दिशि दुर्धर्षं राजानमभ्यषेचयत् ॥ १,२२.१४ ॥ तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । यथाप्रदेशमद्यापि धर्मतः परिपाल्यते ॥ १,२२.१५ ॥ एते सर्वे प्रवृत्तस्य स्थितौ विष्णोर्महात्मनः । विभूतिभूता राजानो ये चान्ये मुनिसत्तम ॥ १,२२.१६ ॥ ये भविष्यन्ति ये भूताः सर्वे भूतेश्वरा द्विज । ते सर्वे सर्वभूतस्य विष्णोरंशा द्विजोत्तम ॥ १,२२.१७ ॥ ये तु देवाधिपतयो ये च दैत्याधिपास्तथा । दानवानां च ये नाथा ये नाथाः पिशिताशिनाम् ॥ १,२२.१८ ॥ पशुनां ये च पतयः पतयो ये च पक्षिणाम् । मनुष्याणां च सर्पाणां नागानामधिपाश्च ये ॥ १,२२.१९ ॥ वृक्षाणां पर्वतानां च ग्रहाणां चापि येऽधिपाः । अतीता वर्तमानाश्च ये भविष्यन्ति चापरे । ते सर्वे सर्वभूतस्य विष्णोरंशसमुद्भावाः ॥ १,२२.२० ॥ न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् । स्थितं स्थितौ महाप्राज्ञ भवत्यन्यस्य कस्यचित् ॥ १,२२.२१ ॥ सृजत्येष जगत्सृष्टौ स्थितौ पाति सनातनः । हन्ति चैवान्तकत्वेन रजःसत्त्वादिसंश्रयः ॥ १,२२.२२ ॥ चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ । प्रलयं च करोत्यन्ते चतुर्भेदो जनार्दनः ॥ १,२२.२३ ॥ एकेनांशेन ब्रह्मसौ भवत्यव्यक्तमूर्तिमान् । मरीचिमिश्राः पतयः प्रजानाञ्चान्यभागशः ॥ १,२२.२४ ॥ कालस्तृतीयस्तस्यांशः सर्वभूतानि चापरः । इत्थं चतुर्धा संसृष्टौ वर्ततेसौ रजोगुणः ॥ १,२२.२५ ॥ एकांशेनास्थितो विष्णुः करोति प्रतिपालनम् । मन्वादिरूपश्चान्येन कालरूपोऽपरोण च ॥ १,२२.२६ ॥ सर्वभूतेषु चान्येन संश्थितः कुरुते स्थितिम् । सत्त्वं गुणं समाश्रित्य जगतः पुरुषोत्तमः ॥ १,२२.२७ ॥ आश्रित्य तमसो वृत्तिमन्तकाले तथा पुनः । रुद्रस्वरूपो भगवानेकांशेन भवत्यजः ॥ १,२२.२८ ॥ अग्न्यन्तकादिरूपेण भागेनान्येन वर्तते । कालस्वरूपो भागो यःसर्वभूतानि चापरः ॥ १,२२.२९ ॥ विनाशं कुर्वतस्तस्य चतुर्धैवं महात्मनः । विभागकल्पना ब्रह्मन् कथ्यते सार्वकालिकी ॥ १,२२.३० ॥ ब्रह्म दक्षादयः कालस्तथै वाखिलजन्तवः । विभूतयो हरेरेता जगतः सृष्टिहेतवः ॥ १,२२.३१ ॥ विष्णुर्मन्वादयः कालः सर्वभूतानि च द्विज । स्थितेर्निमित्तभूतस्य विष्णोरेता विभूतयः ॥ १,२२.३२ ॥ रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः । चतुर्धा प्रलायायैता जनार्दनविभूतयः ॥ १,२२.३३ ॥ जगदादौ तथा मध्ये सृष्टिराप्रलया द्विज । धात्रा मरीचिमिश्रैश्च क्रियते जन्तुभिस्तथा ॥ १,२२.३४ ॥ ब्रह्म सृजत्यादिकाले मरीचिप्रमुखास्ततः । उत्पादयन्त्यपत्यानि जन्तवश्च प्रतिक्षणम् ॥ १,२२.३५ ॥ कालेन न विना ब्रह्म सृष्टिनिष्पादको द्विज । न प्रजापतयः सर्वे न चैवाखिलजन्तवः ॥ १,२२.३६ ॥ एवमेव विभागोयं स्तितावप्युपदिश्यति । चतुर्दा तस्य देवस्य मैत्रेय प्रलये तथा ॥ १,२२.३७ ॥ यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज । तस्य सृज्यस्य सम्भूतो तत्सर्वं वै हरेस्तनुः ॥ १,२२.३८ ॥ हन्ति यावच्च यत्किञ्चित्सत्त्वं स्थावरजङ्गमम् । जनार्दनस्य तद्रौद्रं मैत्रेयान्तकरं वतुः ॥ १,२२.३९ ॥ एवमेष जगत्स्त्रष्टा जगत्पाता तथा जगत् । जगद्भक्षयिता देवः समस्तस्य जनार्दनः ॥ १,२२.४० ॥ सृष्ठिस्थित्यन्तकालेषु त्रिधैवं संप्रवर्तते । गुणप्रवृत्या परमं पदं तस्यागुणं महत् ॥ १,२२.४१ ॥ तच्च ज्ञानमयं व्यापि स्वासंवेद्यमनौपमम् । चतुष्प्रकारं तदपि स्वरूपं परमात्मनः ॥ १,२२.४२ ॥ श्रीमैत्रेय उवाच चतुःप्रकारतां तस्य ब्रह्मभूतस्य हे मुने । ममाचक्ष्व यथान्यायं यदुक्तं परमं पदम् ॥ १,२२.४३ ॥ श्रीपरासर उवाच मैत्रेय कारणं प्रोक्तं साधनं सर्ववस्तुषु । साध्यं च वस्त्वभिमतं यत्साधयितुमात्मनः ॥ १,२२.४४ ॥ योगिनो मुक्तिकामस्य प्राणायामादिसाधनम् । साध्यं च परमं ब्रह्म पुनर्नवर्ततेयतः ॥ १,२२.४५ ॥ साधनालम्बनं ज्ञानं मुक्तये योगिनां हि यत् । स भेदः प्रथमस्तस्य ब्रह्मभूतस्य वै मुने ॥ १,२२.४६ ॥ युञ्जतः क्लेशमुक्त्यर्थं साध्यं यद्ब्रह्म योगिनः । तदालम्बनविज्ञानं द्वितीयोऽंशो महामुने ॥ १,२२.४७ ॥ उभयोस्त्वविभागेन साध्यसाधनयोर्हि यत् । विज्ञानमद्वैतमयं तद्भागोन्यो मयोदितः ॥ १,२२.४८ ॥ ज्ञानत्रयस्य वै तस्य विशेषो यो महामुने । तन्निराकरणद्वारा दर्शितात्मस्वरूपवत् ॥ १,२२.४९ ॥ निर्व्यापारमनाख्येयं व्याप्तिमात्रमनूपमम् । आत्मसम्बोधविषयं सत्तामात्रमलक्षणम् ॥ १,२२.५० ॥ प्रशान्तमभयं शुद्धं दुर्विभाव्यमसंश्रयम् । विष्णोर्ज्ञानमयस्योक्तं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ १,२२.५१ ॥ तत्र ज्ञाननिरोधेन योगिनो यान्ति ये लयम् । संसारकर्षणोप्तौ ते यान्ति निर्बीजतां द्विजा ॥ १,२२.५२ ॥ एवंप्रकारममलं नित्यं व्यापकमक्षयम् । समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥ १,२२.५३ ॥ तद्ब्रह्म परमं योगी यतो नावर्तते पुनः । श्रयत्यपुण्योपरमे क्षीणक्लेशेऽतिनिर्मले ॥ १,२२.५४ ॥ द्वे रूपे ब्रह्मणस्तस्य मूर्त चामूर्तमेव च । क्षराक्षरास्वरूपे ते सर्वभूतेष्ववस्थिते ॥ १,२२.५५ ॥ अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् । एकदेशस्थितस्याग्नेर्ज्योत्स्त्रा विस्तारिणि यथा । परस्य ब्रह्मणः शक्तिस्तथोदमखिलं जगत् ॥ १,२२.५६ ॥ तत्राप्यासन्नदूरत्वाद्बहुत्वस्वल्पतामयः । ज्योत्स्नाभेदोस्ति तच्छक्तेस्तद्वन्मैत्रेय विद्यते ॥ १,२२.५७ ॥ ब३ मविष्णुशिवा ब्रह्मन्प्रधाना ब्रह्मशक्तयः । ततश्च देवा मैत्रेय न्यूना दक्षादयस्ततः ॥ १,२२.५८ ॥ ततो मनुष्याः पशवौ मृगपक्षिसरीसृपाः । न्यूनान्यूनतराश्चैव वृक्षगुल्मादयस्तथा ॥ १,२२.५९ ॥ तदेतदक्षरं नित्यं जगन्मुनिवराखितम् । आविर्भावतिरोभावजन्मनाशविकल्पवत् ॥ १,२२.६० ॥ सर्वशक्ति मयो विष्णुः स्वरूपं ब्रह्मणः परम् । मूर्तं यद्योगिभिः पुर्वं योगारम्भेषु चिन्त्यते ॥ १,२२.६१ ॥ सालम्बनो महायोगः सबीजो यत्रसंस्थितः । मनस्यव्याहते सम्यग्युञ्जतां जायते मुने ॥ १,२२.६२ ॥ स परः परशक्तीनां ब्रह्मणः समनन्तरम् । मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥ १,२२.६३ ॥ यत्र सर्वमिदं प्रोतमोतं चैवाखितं जगत् । ततो जगज्जगत्यस्मिन्स जगच्चखिलं मुने ॥ १,२२.६४ ॥ क्षराक्षरमयो विष्णुर्बिभर्त्यखिलमीश्वरः । पुरुषाव्याकृतमयं भूषणास्त्रस्वरूपवत् ॥ १,२२.६५ ॥ श्रीमैत्रेय उवाच भूषणास्त्रस्वरूपस्थं यच्चैतदखिलं जगत् । बिभर्ति भगवन्विष्णु स्तन्ममाख्यातुमर्हसि ॥ १,२२.६६ ॥ श्रीपराशर उवाच नमस्कृत्वाप्रमेयाय विष्णवे प्रभविष्णवे । कथयामि यथाख्यातं वसिष्ठेन ममा भवत् ॥ १,२२.६७ ॥ आत्मानमस्य जगतो निर्लेपमगुणामलम् । बिभर्ति कौस्तुभमणिस्वरूपं भगवान्हरिः ॥ १,२२.६८ ॥ श्रीवत्ससंस्थानधर मनन्ते न समाश्रितम् । प्रधानं बुद्धिरप्यास्ते गदरूपेण माधवे ॥ १,२२.६९ ॥ भूतादिमिन्द्रियादिं च द्विधाहङ्कारमीश्वरः । बिभर्ति शंखरूपेण शार्ङ्गरूपेण च स्थितम् ॥ १,२२.७० ॥ चलत्स्वरूपमत्यन्तं जवेनान्तारितानिलम् । चक्रस्वरूपं च मनो धत्ते विष्णुकरे स्थितम् ॥ १,२२.७१ ॥ पञ्चरूपा तु या माला वैजयन्ती गदाभृतः । सा भूतहेतुसंघाता भूतमाला च वै द्विज ॥ १,२२.७२ ॥ यानीन्द्रियाण्यशेषाणि बुद्धिकर्मात्मकानि वै । शररूपाण्यशेषाणि तानि धत्ते जनार्दनः ॥ १,२२.७३ ॥ बिभर्ति यच्चासिरत्नमच्युतोत्यन्तनिर्मलम् । विद्यामय तु तज्ज्ञानमविद्याकोशसंस्थितम् ॥ १,२२.७४ ॥ इत्थं पुमान्प्रधानं च बुद्ध्यहङ्कारमेव च । भूतानि च हृषीकेशे मनः सर्वेन्द्रियाणि च । विद्याविद्ये च मैत्रेय सर्वमेतत्समाश्रितम् ॥ १,२२.७५ ॥ अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितः । बिभार्ति मायारूपोसौ श्रेयसे प्राणिनां हरिः ॥ १,२२.७६ ॥ सविकारं प्रधानं च पुमांश्चैवाखिलं जगत् । बिभर्ति पुण्डहीकाक्षस्तदेवं परमेश्वरः ॥ १,२२.७७ ॥ या विद्या या तथाविद्या यत्सद्यच्चासदव्ययम् । तत्सर्वं सर्वभूतेशे मैत्रेय मधुसूदने ॥ १,२२.७८ ॥ कलाकाष्ठानिमेषादिदिनर्त्वयनहायनैः । कालस्वरूपो भगवानपापो हरिरव्ययः ॥ १,२२.७९ ॥ भूर्लोकोथ भुवर्लोकः स्वर्लोको मुनिसत्तम । महर्जनस्तपः सत्यं सप्त लोका इमे विभुः ॥ १,२२.८० ॥ लोकात्ममूर्तिः सर्वेषां पूर्वेषामपि पूर्वजः । आधारः सर्वविद्यानां स्वयमेव हरिः स्थितः ॥ १,२२.८१ ॥ देवमानुषपश्वादिश्वरूपैर्बहुभिः स्थितः । ततः सर्वेश्वरोऽनन्तो भूतमूर्तिरमूर्तिमान् ॥ १,२२.८२ ॥ ऋचो यजूंषि सामानि तथैवाथर्वाणानि वै । इतिहासोपवेदाश्च वेदान्तेषु तथोक्तयः ॥ १,२२.८३ ॥ वेदाङ्गानि समस्तानि मन्वादिगदितानि च । शास्त्राण्यशेषाण्याख्यानान्यनुवाकाश्च ये क्वचित् ॥ १,२२.८४ ॥ काव्यालापाश्च ये केचिद्रीतकान्यखिलानि च । शब्दमूर्तिधरस्यैतद्वपुर्विष्णोर्महात्मनः ॥ १,२२.८५ ॥ यानि मूर्तान्यमूर्तानि यान्यत्रान्यत्र वा क्वचित् । सन्ति वै वस्तुजातानि तानि सर्वाणि तद्वपुः ॥ १,२२.८६ ॥ अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् । ईदृङ्मनो यस्य न तस्यट भूयो भवोद्भावा द्वन्द्वगदा भवन्ति ॥ १,२२.८७ ॥ इत्यैष तेंशः प्रथमः पुराणस्यास्य वै द्विज । यथावत्कथितो यस्मिन्धृते पापैः प्रमुच्यते ॥ १,२२.८८ ॥ कार्त्तिक्यां पुष्करस्नाने द्वादशाब्देन यत्फलम् । तदस्य श्रवणात्सव मैत्रेयाप्नोति मानवः ॥ १,२२.८९ ॥ देवर्षिपितृगन्धर्वयक्षादिनां च सम्भवम् । भवन्ति शृण्वतः पुंसो देवाद्य वरदा मुने ॥ १,२२.९० ॥ इति श्रिविष्णुमहापुराणे प्रथमेऽंशे द्वाविंशोऽध्यायः इति श्रीपराशरमुनिविरचिते श्रिविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे प्रथमांशः समाप्तः । _____________________________________________________________ अथ श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्यश्रीधरीय व्याख्याद्वयोपेते द्वितीयोंशः प्रारभ्यते श्रीमते रामानुजाय नमः मैत्रेय उवाच भगवन्सम्यगाख्यातं ममैतदखिलं त्वाया । जगतः सर्गसम्बन्धि यत्पृष्टोसि गुरो मया ॥ २,१.१ ॥ योयमंशो जगत्सृष्टिसम्बन्धो गदितस्त्वया । तत्राहं श्रोतुमिच्छामि भूयोपि मुनिसत्तम ॥ २,१.२ ॥ प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ । तयोरुत्तानपादस्य ध्रुवः पुत्रस्त्वयोदितः ॥ २,१.३ ॥ प्रियव्रतस्य नैवोक्ता भवता द्विज सन्ततिः । तामहं श्रोतुमिच्छामि प्रसन्नो वक्तुमर्हसि ॥ २,१.४ ॥ श्रीपराशर उवाच कर्दमस्यात्मजां कन्यामुपयेमे प्रयिव्रतः । सम्राट्कुक्षि च तत्कन्ये दशपुत्रस्तथापरे ॥ २,१.५ ॥ महाप्रज्ञा महावीर्या विनीता दयिताः पितुः । प्रियव्रतसुताः ख्यातास्तेषां नामानि मे शृणु ॥ २,१.६ ॥ आग्नीध्रश्चाग्निबाहुश्च वपुष्मान्द्युतिमांस्तथा । मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च ॥ २,१.७ ॥ ज्योतिष्मान्दशमस्तेषां सत्यनामा सुतोऽभवत् । प्रियव्रतस्य पुत्रास्ते प्रख्याता बलवीर्यतः ॥ २,१.८ ॥ मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः । जातिस्मारा महाभागान राज्याय मनो दधुः ॥ २,१.९ ॥ निर्मलाः सर्वकालन्तु समस्तार्थेषु वै मुने । चक्रुः क्रियां यथान्यायमफलाकाक्षिणो हि ते ॥ २,१.१० ॥ प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम । सप्तद्वीपानि मैत्रेय विभज्य सुमहात्मनाम् ॥ २,१.११ ॥ जम्बूद्वीपे महाभाग सोग्नीध्राय ददौ पिता । मेधातिथेस्तथा प्रादात्प्लक्षद्वीपं तथापरम् ॥ २,१.१२ ॥ शाल्मले च वपुष्मन्तं नरेन्द्रमभिषिक्तवान् । ज्योतिष्मन्तं कुशद्वीपे राजानं कृतावान्प्रभुः ॥ २,१.१३ ॥ द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् । शाकद्वीपेश्वरं चापि भव्यं चक्रे प्रियव्रतः ॥ २,१.१४ ॥ पुष्कराधिपतिं चक्रे सवनं चापि स प्रभुः । जम्बूद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ॥ २,१.१५ ॥ तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव । नाभिः किंपुरुषश्चैव हरिवर्ष इलावृतः ॥ २,१.१६ ॥ रम्यो हिरण्वान्षष्ठश्च कुरुभद्राश्व एव च । केतुमालस्तथैवान्यः साधुचेष्टोऽभवन्तृपः ॥ २,१.१७ ॥ जन्बूद्वीपवि भागांश्च तेषां विप्र निशामय । पित्रा दत्तं हिमाह्वं तु वर्षं नाभेस्तु दक्षिणम् ॥ २,१.१८ ॥ हेमकूटं तथा वर्षं ददौ किंपुरुषाय सः । तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान् ॥ २,१.१९ ॥ इलावृताय प्रददौ मेरुर्यत्र तु मध्यमः । नीलाचलाश्रितं वर्ष रम्याय प्रददौ पिता ॥ २,१.२० ॥ श्वेतं यदुत्तरं तस्मात्पित्रा दत्तं हिरण्वते ॥ २,१.२१ ॥ यदुत्तरं शृङ्गवतो वर्ष तत्कुरवे ददौ । मेरोः पुर्वेण यद्वर्ष भद्राश्वाय प्रदत्तवान् ॥ २,१.२२ ॥ गन्धमाधनवर्ष तु केतुमालाय दत्तवान् । इत्येतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः ॥ २,१.२३ ॥ वर्षेष्वेतेषु तान्पुत्रानभिषिच्य स भूमिपः । सालाग्रामं महापुण्यं मैत्रेय तपसे ययौ ॥ २,१.२४ ॥ यनि किंपुरुषादीति वर्षाव्यष्टौ महामुने । तेषां स्वाभाविकि सिद्धिः सुखप्राया ह्ययत्नतः ॥ २,१.२५ ॥ विपर्ययो न तेष्वस्ति जरामृत्युभयं न च । धर्मधमौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥ २,१.२६ ॥ न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टसु सर्वदा । हिमाह्वयं तु वै वर्षं नाबेरासीन्महात्मनः । तस्यर्षभोऽभवत्पुत्रो मेरुदेव्यां महाद्युतिः ॥ २,१.२७ ॥ ऋषभाद्भारतो जज्ञे ज्येष्ठः पुत्रशतस्य सः । कृत्वा राज्यं स्वधर्मेण तथैष्ट्वा विविधान्मखान् ॥ २,१.२८ ॥ अभिषिच्य सुतं वीरं भरतं पृथिवीपतिः । तपसे स महाभागः पुलहस्याश्रमं ययौ ॥ २,१.२९ ॥ वानप्रस्थविधानेन तत्रापि कृतनिश्चयः । तपस्तेपे यथान्यायमियाज स महीपतिः ॥ २,१.३० ॥ तपसा कर्षितोत्यर्थं कृशो धमनिसन्ततः । नग्नो वीटां मुखे कृत्वा वीराध्वानं ततो गतः ॥ २,१.३१ ॥ ततश्च भारतं वर्षमेतल्लोकेषु गीयते । भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ॥ २,१.३२ ॥ सुमतीर्भरतस्याभूत्पुत्रः परमधार्मिकः । कृत्वा सम्यग्ददौ तस्मै राज्यमिष्टमखं पिता ॥ २,१.३३ ॥ पुत्रसंक्रामित श्रीस्तु भरतः स महीपतिः । योगाभ्यासरतः प्राणान्सालग्रामेऽयजन्मुने ॥ २,१.३४ ॥ अजायत च विप्रोसौ योगीनां प्रवरे कुले । मैत्रेय तस्य चरितं कथयिष्यामि ते पुनः ॥ २,१.३५ ॥ मुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत । परमेष्ठी ततस्तस्मात्प्रतिहारस्तदन्वयः ॥ २,१.३६ ॥ प्रतिहर्तेति विख्यात उत्पन्नस्तस्य चात्मजः । भवस्तस्मादथोद्गीथः प्रास्तविस्तत्सुतो विभुः ॥ २,१.३७ ॥ पृथुस्ततस्ततो नक्तो नक्तस्यापि गयः सुतः । नरो गयस्य नतयस्तत्पुत्रोभूद्विराट्ततः ॥ २,१.३८ ॥ तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत । महान्तस्तत्सुतश्चाभून्मनस्युस्तस्य चात्मजः ॥ २,१.३९ ॥ त्पष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत्सुतः । शतजिद्रजसस्तस्य जज्ञे पुत्रशन्त मुने ॥ २,१.४० ॥ विष्वग्ज्योतिप्रधानास्ते यैरिमा वर्धिताः प्रजाः । तैरिदं भारतं वर्षं नवभेदमलङ्कृतम् ॥ २,१.४१ ॥ तेषां वंशप्रसूतैश्च भुक्तेयं भारती पुरा । कृतत्रेतादिसर्गेण युगाख्यामेकसप्ततिम् ॥ २,१.४२ ॥ एष स्वायंभुवः सर्गौ येनेदं पूरितं जगत् । वाराहे तु मुने कल्पे पूर्वमन्वन्तराधिपः ॥ २,१.४३ ॥ इति श्रीविष्णुपुराणे द्वितीयेऽंशे प्रथमोऽध्यायः (१) _____________________________________________________________ श्रीमैत्रेय उवाच कथितो भवता ब्रह्मन्सर्गः स्वायम्भुवश्च मे । श्रोतुमिच्छाम्यहं त्वत्तः सकलं मण्डलं भुवः ॥ २,२.१ ॥ यावन्तः सागर द्वीपास्तथा वर्षाणि पर्वताः । वनानि सतितः पुर्यो देवादीनां तथा मुने ॥ २,२.२ ॥ यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् । संस्थानमस्य च मुने यथाबद्वक्तुमर्हसि ॥ २,२.३ ॥ श्रीपराशर उवाच मैत्रेय श्रूयतामेतत्संक्षेपाद्गदतो मम । नास्य वर्षशतेनापि वक्तुं शक्यो हि विस्तरः ॥ २,२.४ ॥ जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो द्विज । कुशः क्रैञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ २,२.५ ॥ एते द्वीपाः समुद्रैस्तु सप्तसप्तभिरावृताः । लवणेक्षुसुरासर्पिर्दधिगुग्धजलैः समम् ॥ २,२.६ ॥ प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्रि विस्तृत । मूले षोडशसाहस्रो विस्तारस्तस्य सर्वशः ॥ २,२.९ ॥ भूपद्मस्यास्य शैलोसौ कर्णिकाकारसंस्थितः ॥ २,२.१० ॥ हिमावान्हेमकूटश्च विषधश्चस्य दक्षिणे । नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ॥ २,२.११ ॥ लक्षप्रमाणो द्वौ मध्यौ दशहीनास्तथापरे । सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ २,२.१२ ॥ भारतं प्रथमं वर्षं ततः किपुरुषं स्मृतम् । हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विज ॥ २,२.१३ ॥ रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् । उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ २,२.१४ ॥ नवसाहस्रमैकैकमेतेषां द्विजसत्तम । इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥ २,२.१५ ॥ मेरोश्चतुर्दिशं तत्तु नवसाहस्रविस्तृतम् । इलावृतं महाभाग चत्वारश्चात्र पर्वताः ॥ २,२.१६ ॥ विष्कंभारचिता मेरोर्योजनायुतमुच्छ्रितः । नवैः सरोभिश्च समं दिक्ष्वेते केशवाचलाः ॥ २,२.१७ ॥ पुर्वेण मन्दरो नाम दक्षिणे गन्धमादनः । विप्ललः पश्चिमे पार्श्वे मुपार्श्वश्चोत्तर स्मृतः ॥ २,२.१८ ॥ कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च । एकादशशतायामाः पादपा गिरिकेतवः ॥ २,२.१९ ॥ जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महामुने । महागजप्रमामानि जम्ब्वास्तस्याः फलनि वै । पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ २,२.२० ॥ रसेन तेषां प्रख्याता तत्र जाम्बूनदीति वै । सरित्प्रवर्तते चापि पीयते तन्निवासिभिः ॥ २,२.२१ ॥ न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । तत्पानात्स्वच्छमनासांजनानां तत्र जायते ॥ २,२.२२ ॥ तीरमृत्तद्रसं प्राप्य सुखवायुविशोषिता । जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ २,२.२३ ॥ भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्यमिलावृतः ॥ २,२.२४ ॥ वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् । वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥ २,२.२५ ॥ अरुणोदं महाभद्रमसितोदं समानसम् । सरांस्योतानि चत्वारि देवभोग्यानि सर्वदा ॥ २,२.२६ ॥ शीताम्भश्च कुमुन्दश्च कुररी माल्यवांस्तथा । वैकङ्कप्रसुखा मेरोः पूर्वतः केसराचलाः ॥ २,२.२७ ॥ त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । निषदाद्या दक्षिणतस्तस्य केसरपर्वतः ॥ २,२.२८ ॥ शिखिवासाः सवैडूर्यः कपिलो गन्धमादनः । जारुधिप्रमुखास्तद्वत्पश्चिमे केसराचलाः ॥ २,२.२९ ॥ मेरोरनन्तराङ्गेषु जठरादिष्ववस्थिताः । शंशकूटोथ ऋषभो हंसो नागस्तथा परः । कालञ्जनाद्याश्च तथा उत्तरे केसराचलाः ॥ २,२.३० ॥ चतुर्दशसहस्राणि योजनानां महापुरी । मेरोरुपरि मैत्रेय ब्रह्मणः प्रथिता दिवि ॥ २,२.३१ ॥ तस्याःसमन्ततश्चाष्टौ दिशासु विदिशासु च । इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः ॥ २,२.३२ ॥ विष्णुपादविनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् । समन्ताद्ब्रह्यणः पुर्यां गङ्ग पतति वै दिवः ॥ २,२.३३ ॥ सा तत्र पतिता दिक्षु चतुर्धा प्रतिपद्यते । सीता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात् ॥ २,२.३४ ॥ पूर्वेण शैलाच्छीता तु शैलं यात्यन्तरीक्षगा । ततश्च पूर्ववर्षैण भद्राश्वैनैति सार्णवम् ॥ २,२.३५ ॥ तथैवालकनन्दापि दक्षिणेनैत्य भारतम् । प्रयाति सागरं भूत्वा सप्तभेदा महामुने ॥ २,२.३६ ॥ चक्षुश्चं पश्चिमगिरीनतीत्य सकलांस्ततः । पश्चिमं केतुमालाख्य वर्षं गत्वैति सागरम् ॥ २,२.३७ ॥ भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् । अतीत्योत्तरमम्भोधिं समभ्येति महामुने ॥ २,२.३८ ॥ आनीलनिषधायामौ माल्यवद्गन्धमादनौ । तयोर्मध्यगतो मेरूः कर्णिकाकारसंस्थितः ॥ २,२.३९ ॥ भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा । पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ॥ २,२.४० ॥ जठरो हेमकूटश्च मर्यादापर्वतावुभौ । तौ दक्षिमोत्तरायामावानीलनिषधायतौ ॥ २,२.४१ ॥ गन्धमादनकैलासौ पूर्ववच्चायतावुभौ । आशीति योजनायामावर्णवान्तव्यवस्थितौ ॥ २,२.४२ ॥ निषधः परियात्रश्च मर्यादापर्वतावुभौ । मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ ॥ २,२.४३ ॥ त्रिशृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्वतौ । पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ २,२.४४ ॥ इत्येते मुनिवर्योक्ता मर्यादापर्वतास्तव । जठराद्याः स्थिता मेरोस्तेषां द्वौद्वौ चतुर्दिशम् ॥ २,२.४५ ॥ मेरो श्चतुर्दिशं येतु प्रोक्ताः केसरपर्वताः । शीतान्ताद्या मुने तेषामतीव हि मनोरमाः । शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः ॥ २,२.४६ ॥ सुरम्याणि तथा तासु काननानि पुराणि च । लक्ष्मीविष्ण्वग्निसूर्यादिदेवानां मुनि सत्तम । तास्वायतनवर्याणि जुष्टानि वरकिन्नरैः ॥ २,२.४७ ॥ गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः । क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निसम् ॥ २,२.४८ ॥ भौमा ह्येते स्मृताः स्वर्गा धर्मिणामालया मुने । नैतुषु पापकर्माणो यान्ति जन्मशतैरपि ॥ २,२.४९ ॥ भद्राश्वे भगवान्विष्णुरास्ते हयशिरा द्विज । वराजः केतुमाले तु भारते कूर्मरूपधृक् ॥ २,२.५० ॥ मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते जनार्दनः । विश्वरूपेण सर्वत्र सर्वः सर्वत्रगो हरिः ॥ २,२.५१ ॥ सर्वस्याधारभूतोसौ मैत्रेयास्तेखिलात्मकः ॥ २,२.५२ ॥ यानिं किंपुरुषादिनि वर्षाण्यष्टौ महामुने । न तेषु शौको नायासो नोद्वेगः क्षुद्भयादिकम् ॥ २,२.५३ ॥ स्वस्थाः प्रजा निरातङ्काःसर्वदुःखविवर्जिताः । दश द्वादशवर्षाणां सहस्राणि स्थिरायुषः ॥ २,२.५४ ॥ न तेषु वर्षते देवो भौमान्यम्भांसि तेषु वै । कृतत्रेतादिकं नैव तेषु स्थानेषु कल्पना ॥ २,२.५५ ॥ सर्वेष्वेतेषु वर्षेषु सप्तसप्तकुलाचलाः । नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तम ॥ २,२.५६ ॥ इति श्रिविष्णुमहापुराणे द्वितीयेऽंशे द्वितीयोऽध्यायः (२) _____________________________________________________________ श्रीपराशर उवाच उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥ २,३.१ ॥ नवयोजनसाहस्रो विस्तारोस्य महामुने । कर्मभूमिरियं स्वर्गमपवर्गं च गच्छताम् ॥ २,३.२ ॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च पारीयात्रश्च सप्तात्र कुलपर्वताः ॥ २,३.३ ॥ अतः संप्राप्यते स्वर्गो सुक्तिमस्मात्प्रयान्ति वै । तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा मुने ॥ २,३.४ ॥ इतः स्वर्गश्च मोक्षश्च मध्यं चान्तश्च गम्यते । न ख्लवन्यत्र मर्त्यानां कर्मभूमौ विधीयते ॥ २,३.५ ॥ भारतस्यास्य वर्षस्य नवभादान्नशामय । इद्रद्वीपः कसेरुश्च ताम्रपर्णां गभस्तिमान् ॥ २,३.६ ॥ नागद्वीपस्तथा साम्यो गन्धर्वस्त्वथ चारुणः । अयं तु नवमस्तषां द्वीपः सागारसंवृतः ॥ २,३.७ ॥ योजनानां सहस्रं तु द्वीपोयं दक्षिणोत्तरात् । पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥ २,३.८ ॥ ब्राह्मणाः क्षत्रिया वैश्या मध्ये शब्द्राश्च भागशः । इज्यायुधवणिज्याद्यैर्वर्तयन्तो व्यवस्थिताः ॥ २,३.९ ॥ शतद्रूचन्द्रभागाद्या हिमयत्पादनिर्गताः । वेदस्मृतिमुखाद्याश्च पारीयात्रोद्भवा मुने ॥ २,३.१० ॥ नर्मदा मुरसाद्याश्च नद्यो विन्ध्याद्रिनिर्गताः । तापीपयोष्णीनिर्विन्ध्या प्रसूखा ऋक्षसंभवाः ॥ २,३.११ ॥ गोदावरी भीमरथी कृष्णवेण्यादिकास्तथा । सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥ २,३.१२ ॥ कृतमाला ताम्रपर्णिप्रसुखा मलयोद्भवाः । त्रिसामा चर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥ २,३.१३ ॥ ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः । आसां नद्य उपानद्यः सन्त्यन्याश्च सहस्रशः ॥ २,३.१४ ॥ तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः । पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥ २,३.१५ ॥ पुण्ड्राः कलिङ्गा मगधा दक्षिणाद्याश्च सर्वशः । तथापरान्ताः सौराष्ट्राः शूराभीरास्तथार्बुदाः ॥ २,३.१६ ॥ कारूषा मालबाश्चैव पारियात्र निवासिनः । सौवीराः सैन्धवा हूणाः साल्वाः कोसलवासिनाः ॥ २,३.१७ ॥ माद्रारामास्तथाम्बष्ठा पारसीकादयस्तथा । आसां पिबन्ति सलिलं वसन्ति सहिताः सदा । समीपतो महाभाग हृष्टपुष्टजनाकुलाः ॥ २,३.१८ ॥ चत्वारि भारते वर्षे युगान्यत्र महामुने । कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् ॥ २,३.१९ ॥ तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्वनः । दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ २,३.२० ॥ पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते । यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ २,३.२१ ॥ अत्रापि भारतं श्रेष्ठं जन्बूद्वीपे महामुने । यतो हि कर्मभूरेषा ह्यतोन्या भोगभूमयः ॥ २,३.२२ ॥ अत्र जन्मसहस्राणां सहस्रैरपि सत्तम । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसंचयात् ॥ २,३.२३ ॥ गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारत भूमिभागे । स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥ २,३.२४ ॥ कर्माण्यसंकल्पिततत्फलानि संन्यस्य विष्णो परमात्म्भूते । अवाप्य तां कर्ममहीमनन्ते तस्मिल्लयं ये त्वमलाः प्रयान्ति ॥ २,३.२५ ॥ जानीम नैतत्क्व वयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् । प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीनाः ॥ २,३.२६ ॥ नववर्षं तु मैत्रेय जम्बुद्वीपमिदं मया । लक्षयोजनविस्तारं संक्षेपात्कथितं तव ॥ २,३.२७ ॥ जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः । मैत्रेय वलयाकारः स्थितः क्षारोदधिर्बहिः ॥ २,३.२८ ॥ इति श्रिविष्णुमहापुराणे द्वितीयेऽंशे तृतीयोध्यायः (३) _____________________________________________________________ श्रीपराशर उवाच क्षारोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः । संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥ २,४.१ ॥ जम्बूद्वीपस्य विस्तारः शतसाहस्रसंमितः । स एवं द्विगुणो ब्रह्मन् प्लक्षद्वीप उदाहृतः ॥ २,४.२ ॥ सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै । ज्येष्ठ शान्तहयो नाम शिशिरस्तदनन्तरः ॥ २,४.३ ॥ सुखोदयस्तथानन्दः शिवः क्षेमक एव च । ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ २,४.४ ॥ पूर्वं शान्तहयं वर्षं शिशिरं च सुखं तथा । आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥ २,४.५ ॥ मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः । सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम ॥ २,४.६ ॥ गोमदेश्चैव चन्द्रश्च नारदौ दुन्दुभिस्तथा । सोमकः मुमनाश्चैव वैभ्राजश्चैव सप्तमः ॥ २,४.७ ॥ वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः । वसंति देवगन्धर्वसहिताः सततं प्रजाः ॥ २,४.८ ॥ तेषु पुण्या जनपदाश्चिराच्च म्रियते जनः । नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥ २,४.९ ॥ तेषां नद्यस्तु सप्तैव वर्षाणां च समुद्रगाः । नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥ २,४.१० ॥ अनुतप्ता शिखी चैव विपाशा त्रिदिवाक्लमः । अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ २,४.११ ॥ एते शैलास्तथा नद्यः प्रधानाः कथितास्तव । क्षुद्रशैलास्तथा नद्यस्तत्र सन्ति सहस्रशः । ताः पिबन्दि सदाहृष्टा नदीर्जनपदास्तुते ॥ २,४.१२ ॥ अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी द्विज । न त्वेवास्ति युगावस्था तेषु स्तानेषु सप्तसु ॥ २,४.१३ ॥ त्रेतायुगसमः कालः सर्वदैव महामते । प्लक्षद्वीपादिषु ब्रह्मञ्शाकद्वीपान्तिकेषु वै ॥ २,४.१४ ॥ पञ्च वर्षसहस्राणि जना जीवन्त्यनामयाः । धर्मः पञ्चस्वथैतेषु वर्णाश्रमविभागशः ॥ २,४.१५ ॥ वर्णाश्च तत्र चत्वारस्तान्निबोध वदामि ते ॥ २,४.१६ ॥ आर्यकाः कुरारश्चैव विदिश्या भाविनश्चे ते । विप्रक्षत्रिवैश्यास्ते शूद्राश्च मुनिसत्तम ॥ २,४.१७ ॥ ज्मबूवृक्षप्रमाणस्तु तन्मध्ये सुमहांस्तरुः । प्लक्षस्तन्नामसंज्ञोयं प्लक्षद्वीपो द्विजोत्तम ॥ २,४.१८ ॥ इज्यते तत्र भगवांस्तैर्वर्णैरार्यकादिभिः । सीमरूपि जगत्स्त्रष्टा सर्वः सर्वेश्वरो हरिः ॥ २,४.१९ ॥ प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः । तथैवेक्षुरमोदेन परिवेषानुकारिणा ॥ २,४.२० ॥ इत्येवं तव मैत्रेय प्लक्षद्वीप उदाहृतः । संक्षेपेण मया भूयः शाल्मलं मे निसामय ॥ २,४.२१ ॥ शाल्ममस्येश्वरोःवीरो वपुष्मांस्तत्सुताञ्छृणु । तेषां तु नामसंज्ञानि सप्तवर्षाणि तानि वै ॥ २,४.२२ ॥ श्वेतोथ हरितश्चैव जीमूतो रोहितस्तथा । वैद्युतो मानसश्चैव सुप्रभश्च महामुने ॥ २,४.२३ ॥ शाल्मलेन समुद्रोसौ द्वीपेनेक्षुरसोदकः । विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः ॥ २,४.२४ ॥ तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः । वर्षाभिव्यञ्जका ये तु तथा सप्त च निम्नगाः ॥ २,४.२५ ॥ कुमुदश्चेन्नतश्चैव तृतीयश्च बलाहकः । द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥ २,४.२६ ॥ कङ्कस्तुपञ्चमः षष्ठी महिषः सप्तमस्तथा । ककुद्मान्पर्वतवरः सरिन्नामानि मे शृणु ॥ २,४.२७ ॥ योनितोयो वितृष्णा च चन्द्रा मुक्ता विमोचनी । निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥ २,४.२८ ॥ श्वेतञ्च हरितं चैव वैद्युतं मानसं तथा । जीमूतं रोहितं चैव सुप्रभं चापि शोभनम् । सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि वै ॥ २,४.२९ ॥ शाल्मले ये तु वर्णाश्च वसन्त्येते महामुने । कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक्पृथक् ॥ २,४.३० ॥ ब्रह्मणाः क्षत्रया वैश्याः शुद्राश्चैव यजन्तितम् । भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् । वायुभूतं मखश्रेष्ठैर्यज्वनो यज्ञसंस्थितिम् ॥ २,४.३१ ॥ देवानामत्र सान्नध्यमतीव सुमनोहरे । शाल्मलिः सुमहान्वृक्षो नाम्ना निर्वृतिकारकः ॥ २,४.३२ ॥ एष द्वीपः समुद्रेण सुरोदेन समावृतः । विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः ॥ २,४.३३ ॥ सुरोदकः परिवृतः कुशद्वीपेन सर्वतः । शाल्मलस्य तु विस्तराद्द्विगुणेन समन्ततः ॥ २,४.३४ ॥ ज्योतिष्मतः कुशद्वीपे सप्त पुत्राञ्छृणुष्व तान् ॥ २,४.३५ ॥ उद्भिदो वेणुमांश्चैव वेरथो लम्बनो धृतिः । प्रभाकरोतिकपिलस्तन्नामा वर्षपद्धतिः ॥ २,४.३६ ॥ तस्मिन्वसन्ति मनुजाः सह दैते यदानवैः । तथैव देवगन्धर्वयक्षकिंपुरुषादयः ॥ २,४.३७ ॥ वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः । दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने ॥ २,४.३८ ॥ ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ २,४.३९ ॥ यथोस्ककर्मकर्तृत्वात्स्वाधिकारोक्षयाय ते । तत्रैव तं कुशद्वीपे ब्रह्मरूपं जनार्दनम् । यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् ॥ २,४.४० ॥ विद्रुमो हेमशैलश्च द्यतिमान् पुष्पवांस्तथा । कुशशयो हरिश्चैव सप्तमो मन्दराचलः ॥ २,४.४१ ॥ वर्षाचलास्तु सप्तैते तत्र द्वीपे महामुने । नद्यश्च सप्त तासां तु शृणु नामान्यनुक्रमात् ॥ २,४.४२ ॥ धूतपापा शिवा चैव पवित्रा संमतिस्तथा । विद्युदम्भा मही चान्या सर्वपाप हरास्त्विमाः ॥ २,४.४३ ॥ अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः । कुशद्वीपे गुशस्तम्बः संज्ञया तस्य तत्स्मृतम् ॥ २,४.४४ ॥ तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः । घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः ॥ २,४.४५ ॥ क्रौञ्चद्वीपो महाभाग श्रुयताञ्चापरो महान् । कुशद्वीपस्य विस्तारा द्द्विगुणो यस्य विस्तरः ॥ २,४.४६ ॥ क्रौञ्चद्वीपे द्युतिमतः पुत्रास्तस्य महात्मनः । तन्नामानि च वर्षाणि तेषां चक्रे महीपतिः ॥ २,४.४७ ॥ कुशलो मल्लगश्चोष्णः पीवरोथान्धकारकः । मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता मुने ॥ २,४.४८ ॥ तत्रापि देवगन्धर्वसेविताः सुमनोहराः । वर्षाचला महाबुद्धे तेषां नामानि मे शृणु ॥ २,४.४९ ॥ क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः । चतुर्थो रत्नशैलश्च स्वाहिनी हयसन्निभः ॥ २,४.५० ॥ दिवावृत्पञ्चमश्चात्र तथान्यः पुण्डरीकवान् । दुन्दुभिश्च महाशैलो द्विगुणास्त परस्परम् । द्वीपाद्वीपेषु ये शैला यथा द्वीपानि ते तथा ॥ २,४.५१ ॥ वर्षेष्वेतेषु रम्येषु तथा शैलवरेषु च । निवसंति निरातङ्काः सह देवगणैः प्रजाः ॥ २,४.५२ ॥ पुष्कराः पुष्कला धन्यास्तितिख्याश्च महामुने । ब्रह्मणाः क्षत्रिया वैश्याः शुद्राश्चानुक्रमोदिताः ॥ २,४.५३ ॥ नदीर्मैत्रेय ते तत्र याः पिबन्ति शृणुष्व ताः । सप्तप्रधानाः शतशस्तत्रान्याः क्षुद्रनिम्नगाः ॥ २,४.५४ ॥ गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा । क्षान्तिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः ॥ २,४.५५ ॥ तत्रापि विष्णुर्भगवान्पुष्काराद्यैर्जानार्दनः । यागौ रुद्रस्वरूपश्च इज्यते यज्ञसन्निधौ ॥ २,४.५६ ॥ क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन च । आवृतः सर्वतः क्रौञ्च द्वीपतुल्येन मानतः ॥ २,४.५७ ॥ दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः । क्रौञ्चद्वीपस्य विस्ताराद्द्विगुणेन महामुने ॥ २,४.५८ ॥ शाकद्वीपेश्वरस्यापि भव्यस्य मुमहात्मनः । सप्तैव तनयास्तषां ददौ वर्षाणि सप्त सः ॥ २,४.५९ ॥ जलदश्च कुमारश्च मुकुमारो मरीचकः । कुसुमोदश्च मौदाकिः सप्तमश्च महाद्रुमः ॥ २,४.६० ॥ तत्संज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् । तत्रापि पर्वताः स्पत वर्षविच्छेदकारिणः ॥ २,४.६१ ॥ पूर्वस्तत्रोदयगिरिर्जलाधारस्तथापरः । तथा रैवतकः श्यामस्तथैवास्तगिरिर्द्विज । आम्बिकेयस्तथा रम्यः केसरी पर्वतोत्तमः ॥ २,४.६२ ॥ शाकस्तत्र महावृक्षः सिद्धगन्धर्वसेवितः । यत्रत्यवातसंस्पार्शादाह्लादो जायते परः ॥ २,४.६३ ॥ तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । नद्यश्चात्र महापुण्याः सर्वपापभयापहाः ॥ २,४.६४ ॥ सुकुमारी कुमारी च नलिनी धेनुका च या । इक्षुश्च वेणुका चैव गभस्ती सप्तमी तथा ॥ २,४.६५ ॥ अन्याश्च शतशस्तत्र क्षुद्रनद्यो महामुने । महीधरास्तथा सन्ति शतशोथ सहस्रशः ॥ २,४.६६ ॥ ताः पिबन्ति मुदायुक्ता जलदादिषु ये स्थिताः । वर्षषु ते जनपदाः स्वर्गादभ्येत्य मेदिनीम् ॥ २,४.६७ ॥ धर्महानिर्न तेष्वस्ति न संघर्षः परस्परम् । मर्यादाव्युत्क्रमो नापि तेषु देशेषु सप्तसु ॥ २,४.६८ ॥ वङ्गाश्च मागधाश्चैव मानसा मन्दगास्तथा । वङ्गा ब्रह्मणभूयिष्ठा मागधाः क्षत्रियास्तथा । वैश्यास्तु मानसास्तेषां शूद्रस्तेषां तु मन्दगाः ॥ २,४.६९ ॥ शाकद्वीपे तु तैर्विष्णुः सूर्यरूपधरो मुनें । यथोक्तौरिज्यते सम्यक्कर्मभिर्नियतात्मभिः ॥ २,४.७० ॥ शाकद्वीपस्तु मैत्रेय क्षिरोदेन समावृतः । शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः ॥ २,४.७१ ॥ क्षिराब्धिः सर्वतो ब्रह्मन्पुष्कराख्येन वेष्टितः । द्वीपेन शाकद्वीपात्तु द्वीगुणेन समन्ततः ॥ २,४.७२ ॥ पुष्करे सवनस्यापि महावीरोऽभवत्सुतः । धातुकिश्च तयोस्तत्र द्वे वर्षे नामचिह्निते । महावीरं तथैवान्यद्धातुकीखण्डसंज्ञितम् ॥ २,४.७३ ॥ एकश्चत्र महाभाग प्रख्यातो वर्षपर्वतः । मानासोत्तरसंज्ञो वै मध्यतो वलयाकृतिः ॥ २,४.७४ ॥ योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः । तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥ २,४.७५ ॥ पुष्करद्वीपवलयं मध्येन विभजन्निव । स्थितोसौ तेन विछिन्नं जातं तद्वर्षकद्वयम् ॥ २,४.७६ ॥ वलयाकारमेकैकं तयोर्वर्षं तथा गिरिः ॥ २,४.७७ ॥ दशवर्षसहस्राणि तत्र जीवन्ति मानवाः । विरामया विशोकाश्च रागद्वेषादिवर्जिताः ॥ २,४.७८ ॥ अधमोत्तमौ न तेष्वास्तां न वध्यवधकौ द्विज । नेर्ष्यासूया भयं द्वेषो दोषो लोभादिको न च ॥ २,४.७९ ॥ महापीतंबहिर्वर्षं धातकीखण्डमन्ततः । मानसोत्तरशौलस्य देवदैत्यादिसेवितम् ॥ २,४.८० ॥ सत्यानृतेन तत्रास्तां द्वीपे पुष्करसंज्ञिते । न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते ॥ २,४.८१ ॥ तुल्यपेषास्तु मनुजा देवास्तत्रैकरूपिणः ॥ २,४.८२ ॥ वर्णाश्रमाचारहीनं धर्माचरणवर्जितम् । त्रयीवार्तादण्डनीतिशुश्रूषारहितञ्च यत् ॥ २,४.८३ ॥ वर्षद्वयं तु मैत्रेय भौमः स्वर्गोयमुत्तमः । सर्वर्तुसुखदः कालो जरारोगादिवर्जितः । धातकीखण्डसंज्ञेऽथ महावीरे च वै मुने ॥ २,४.८४ ॥ न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् । तस्मिन्नवसति ब्रह्मा पूज्यमानः सुरासुरैः ॥ २,४.८५ ॥ स्वादूदकेनोदधिना पुष्करः परिवेष्टितः । समेन पुष्करस्यैव विस्तारान्मण्डलं तथा ॥ २,४.८६ ॥ एवं द्वीपाः समुद्रैश्च सप्तसप्तभिरावृताः । द्वीपश्चैव समुद्रश्च समानो द्विगुणौ परौ ॥ २,४.८७ ॥ पयांसि सर्वदा सर्वसमुद्रेषु समानि वै । न्यूनातिरिक्तता तेषां कदाचिन्नैव जायते ॥ २,४.८८ ॥ स्थालीस्थमग्नीसंयोगादुद्रेकिसलिले यथ । तथेन्दुवृद्धौ सलिलमंभोधौ मुनिसत्तम ॥ २,४.८९ ॥ अन्यूनानतिरिक्ताश्च वर्धन्त्यापो ह्रसंति च । उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ॥ २,४.९० ॥ दशोत्तराणि पञ्चैव ह्यङ्गुलानां शतानि वै । अपां वृद्धिक्षणो दृष्टौ सामुद्रीणां महामुने ॥ २,४.९१ ॥ भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् । षड्रसं भुञ्जते विप्र प्रजाः सर्वाः सदैव हि ॥ २,४.९२ ॥ स्वादूदकस्य परितो दृस्यते लोकसंस्थितिः । द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता ॥ २,४.९३ ॥ लोकालोकस्ततः शैलो जोजनायुतविस्तृतः । उच्छ्रायेणापि तावन्ति सहस्राण्यचलो हि सः ॥ २,४.९४ ॥ ततस्तमः समावृत्य तं शौलं सर्वतः स्थितम् । तमश्चाण्डकटाहेन समन्तात्परिवेष्टितम् ॥ २,४.९५ ॥ पञ्चशत्कोटिविस्तारा सेयमुर्व महामुने । सहैवाण्डकटाहेन सद्वीपाब्धिमहीधरा ॥ २,४.९६ ॥ सेयं धात्री विधात्री च सर्वभूतगुणाधिका । आधारभू६ आ सर्वेषां मैत्रेय जगतामिति ॥ २,४.९७ ॥ इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे चतुर्थोऽध्यायः (४) _____________________________________________________________ श्रीपराशर उवाच विस्तार एष कथितः पृथिव्या भवतो मया । सप्ततिस्तु सहस्राणि द्विजोच्छ्रायोपि कथ्यते ॥ २,५.१ ॥ दशसाहस्रमेकैकं पातालं मुनिसत्तम । अतलं वितलं चैव नितलं च गभस्तिमत् । महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम् ॥ २,५.२ ॥ शुक्लाकृष्णारुणाः पीताः शर्कराः शैलकाञ्चनाः । भूमयो यत्र मैत्रेय परग्रासादमण्डिताः ॥ २,५.३ ॥ तेषु दानवदैतेया यक्षाश्च शतशस्तथा । निवसन्ति महानागजा तयश्च महामुने ॥ २,५.४ ॥ स्वर्लोकादपि रम्याणि पातालानीति नारदः । प्राह स्वर्गसदं मध्ये पातालाभ्यागतो दिवि ॥ २,५.५ ॥ आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः । नागाभरणभूषासु पातालं केन तत्समम् ॥ २,५.६ ॥ दैत्यदानवकन्याभिरितश्चैतश्च शोभिते । पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते ॥ २,५.७ ॥ दिवार्करश्मयो यत्र प्रभां तन्वन्ति नातपम् । शशिरश्मिर्न शीताय निशि द्योताय केवलम् ॥ २,५.८ ॥ भक्ष्यभोज्यमहापानमुदितैरपि भोगिभिः । यत्र न ज्ञायते कालो गतोपि दनुजादिभिः ॥ २,५.९ ॥ वनानि नद्यो रम्याणि सरांसि कमलाकराः । पुंस्कोकिलाभिलापाश्च मनोज्ञान्यम्बराणि च ॥ २,५.१० ॥ भूषणान्यतिशुभ्राणि गन्धाढ्यं चानुलेपनम् । वीणावेणुमृदङ्गानां स्वनैरपूरितानि च ॥ २,५.११ ॥ एतान्यन्यानि चोदारभग्यभोग्यानि तानवैः । दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः ॥ २,५.१२ ॥ पातालानामधश्चास्ते विष्णोर्या तामसी तनुः । शेषख्या यद्रुणान्वक्तुं न शक्ता दैत्यदानवाः ॥ २,५.१३ ॥ योनन्तः पाठ्यते सिद्धैर्दैवो देवर्षिपूजितः । स सहस्रशिरा व्यक्तस्वस्तिकामलभूषणः ॥ २,५.१४ ॥ फणामणिसहस्रेण यः स विद्योतयन्दिशः । सर्वान्करोति निर्विर्यान् हिताय जगतोऽसुरान् ॥ २,५.१५ ॥ मदाघूर्णितनेत्रोसौ यः सदैवैककुम्डलः । किरिटी स्रग्धरो भाति साग्निः श्वेत इवाचलः ॥ २,५.१६ ॥ नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः । साभ्रगङ्गाप्रवाहोसौ कैलासाद्रिरिवापरः ॥ २,५.१७ ॥ लाङ्गलासक्तहस्ताग्रो बिभ्रन्मुसलमुतमम् । उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया ॥ २,५.१८ ॥ कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः । संकर्षणात्मको रूद्रो निष्क्रम्यात्ति जगत्त्रयम् ॥ २,५.१९ ॥ स बिभ्रच्छेखरीभूतमशेषं क्षितिमण्डलम् । आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः ॥ २,५.२० ॥ तस्य वीर्यं प्रभावश्च स्वरूपं रूपमेव च । न हि वर्णयितुं शक्यं ज्ञातुं च त्रिदशैरपि ॥ २,५.२१ ॥ यस्यैषा सकला पृथ्वी फणामणिशिखारूणा । आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति ॥ २,५.२२ ॥ यदा विजृम्भतेनन्तो मदाघूर्णितलोचनः । तदा चलति भूरेषा साब्धितोया सकानना ॥ २,५.२३ ॥ गन्धर्वाप्सरसः सिद्धाः किन्नरोरगचारणाः । नान्तं गुणानां गच्छन्ति तेनानन्तोयमव्ययः ॥ २,५.२४ ॥ यस्य नागवधूहस्तैर्लंबितं हरि चन्दनम् । मुहुः श्वासानिलापास्तं याति दिक्क्षोदवासताम् ॥ २,५.२५ ॥ यमाराध्य पूराणर्षिर्गर्गो ज्योतींषि तत्त्वतः । ज्ञातवान्सकलं चैव निमित्तपठितं फलम् ॥ २,५.२६ ॥ तेनेयं नागवर्येण शिरसा विधृता मही । बिभर्ति मालां लोकानां सदेवासुरमानुषाम् ॥ २,५.२७ ॥ इति श्रीविष्णुमहाहुराणे द्वितीरयेऽंशे पञ्चमोऽध्याय (५) _____________________________________________________________ पराशर उवाच ततश्च नरका विप्र भुवोधः सलिलस्य च । पापिनो येषु पात्यन्ते ताञ्छृणुष्वमहामुने ॥ २,६.१ ॥ रौरवः सूकरो रोधस्तालो विशसनस्तथा । महाज्वालस्तप्तकुम्भो लवणेथ विलोहितः ॥ २,६.२ ॥ रूधिराम्भो वैतरणिः क्रिमिशः क्रिमिभोजनः । असिपत्रवनं कृष्णो लालाभक्षश्च दारुणः ॥ २,६.३ ॥ तथा पूयवहः पापो वह्निज्वालो ह्यधः शिराः । संदंशः कालसूत्रश्च तमश्चावीचिरेव च ॥ २,६.४ ॥ श्वभोजनोथाप्रतिष्ठश्चाप्रचिश्च तथा परः । इत्येवमादयश्चान्ये नरका भृशदारूणाः ॥ २,६.५ ॥ यमस्य विषये घोराः शस्त्राग्निभयदायिनः । पतन्ति येषु पुरुषाः पापकर्मरतास्तु ये ॥ २,६.६ ॥ कूटसाक्षी तथासम्यक्पक्षपातेन यो वदेत् । यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ॥ २,६.७ ॥ भ्रूणहा पुरहन्ता च गौघ्नश्च मुनिसत्तम । यान्ति ते नरकं रोधं यश्चोच्छ्वासनिरोधकः ॥ २,६.८ ॥ सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूकरे । प्रयान्ति नरके यश्च तैः संसर्गमुपैति वै ॥ २,६.९ ॥ राजन्यवैश्यहन्ता च तथैव गुरुतल्पगः । तप्तकुण्डेस्वसृगामी हन्ति राजभटांश्च यः ॥ २,६.१० ॥ साध्वीविक्रयकृद्बन्धपालः केसरिविक्रयी । तप्तलोहे पतन्त्येते यश्च च भक्तं परित्यजेत् ॥ २,६.११ ॥ स्नुषां सुतां चापि गत्वा महाज्वाले निपात्यते । अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥ २,६.१२ ॥ वेददूषयितायश्च वेदविक्रयकश्च यः । अगम्यगामी यश्च स्यात्ते यान्ति लवणं द्विज ॥ २,६.१३ ॥ चोरो विलोहे पतति मर्यादादूषकस्तथा ॥ २,६.१४ ॥ देवद्विजपितृद्वेष्टा रत्नद्वषयिता च यः । स याति क्रिमिभक्षे वै क्रिमिशे च दुरिष्टकृत् ॥ २,६.१५ ॥ पितृदेवातिथींस्त्यक्त्वा पर्यश्नाति नराधमः । लालाभक्षे स यात्युग्रे शरकर्ता च वेधके ॥ २,६.१६ ॥ करोति कर्णनो यश्च यश्च खङ्गादिकृन्नरः । प्रयान्त्येते विशसने नरके भृशदरुणे ॥ २,६.१७ ॥ असत्प्रतिगृहीता तु नरके यात्यधोमुखे । अयाज्ययाजकश्चैव तथा नक्षत्रसूचकः ॥ २,६.१८ ॥ वेगी पूयवहे चैको याति मष्टान्नभुङ्गरः ॥ २,६.१९ ॥ लाक्षामासरसानां च तिलानां लवणस्य च । विक्रेता ब्रह्मणो याति तमेव नरकं द्विज ॥ २,६.२० ॥ मार्जारकुक्कुटच्छाग श्ववराहविहङ्गमान् । पोषयन्नरकं याति तमेव द्विजसत्तम ॥ २,६.२१ ॥ रङ्गोपजीवी कैवर्तः कुम्डाशी गरदस्तथा । सूची माहिषकश्चैव पर्वकारी च यो द्विजः ॥ २,६.२२ ॥ अगारदाही मित्रघ्नः शाकुनिर्ग्रमयाजकः । रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ २,६.२३ ॥ मखहा ग्रामहन्ता च याति वैतरणीं नरः ॥ २,६.२४ ॥ रेतः पातादिकर्तारो मर्यादाभेदिनो हि ये । ते कृष्णे यान्त्यशौचाश्च कुहकाजीविनश्च ये ॥ २,६.२५ ॥ असिपत्रवनं याति वनच्छेदी वृथैव यः । औरभ्रिको मृगव्याधो वह्निज्वाले पतन्ति वै ॥ २,६.२६ ॥ यान्त्येते द्विज तत्रैव ये चापाकेषु वह्निदाः ॥ २,६.२७ ॥ व्रतानां लोपको यश्चस्वाश्रमाद्विच्युतश्च यः । सन्दंशयातनामध्ये पततस्तावुभावपि ॥ २,६.२८ ॥ दिवा स्वप्ने च स्कन्दन्ते ये नरा ब्रह्मचारिणः । पुत्रैरध्यापिता ये च ते पतन्ति श्वभोजने ॥ २,६.२९ ॥ एते चान्ये च नरकाः शतशोथ सहस्रशः । येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ २,६.३० ॥ यथैव पापान्येतानि तथान्यानि सहस्रशः । भुज्यन्ते तानि पुरुषैर्नरकान्तरगोचरैः ॥ २,६.३१ ॥ वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः । कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ २,६.३२ ॥ अधः शिरोभिदृश्यन्ते नारकैर्दिवि देवताः । देवाश्चाधोमुखान्सर्वानधः पश्यन्ति नारकान् ॥ २,६.३३ ॥ स्थावराः क्रिमयोब्जाश्च पक्षिणः पशवो नराः । धार्मिकास्त्रिदशास्तद्धन्मोक्षिणश्च यथाक्रमम् ॥ २,६.३४ ॥ सहस्रभागप्रथमा द्वितीयानुक्रमास्तथा । सर्वे ह्येते महाभागा यावन्मुक्तिसमाश्रयाः ॥ २,६.३५ ॥ यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः । पापकृद्याति नरकं प्रायाश्चित्तपराङ्मुखः ॥ २,६.३६ ॥ पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा । तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥ २,६.३७ ॥ पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः । प्रायश्चित्तानि मैत्रेय जगुः स्वायंभुवादयः ॥ २,६.३८ ॥ प्रायश्चित्तान्यशेषाणि तपःकर्मत्मकानि वै । यानि तेषाणशेषाणां कृष्णानुस्मरणम्परम् ॥ २,६.३९ ॥ कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ २,६.४० ॥ प्रातर्निशि तथा सन्ध्यामध्याह्नादिषु संस्मरन् । नारायणमवाप्नोति सद्यः पापक्षयन्नरः । विष्णुसंस्मरणात्क्षीणसमस्तक्लेशसञ्चयः । मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विघ्नोनुमीयते ॥ २,६.४२ ॥ वासुदेवे मनो यस्यजपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥ २,६.४३ ॥ क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ २,६.४४ ॥ तस्मादहर्निशं विष्णु संस्मरन्पुरुषो मुने । न याति नरकं मर्त्यः संक्षीणाखिलपातकः ॥ २,६.४५ ॥ मनः प्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः । नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ॥ २,६.४६ ॥ वस्त्वेकमेव दुःखाय सुखायेष्र्यागमाय च । कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥ २,६.४७ ॥ तदेव प्रीतये भूत्वा पुनर्दुःखा य जायते । तदेव कोपाय यतः प्रसादाय च जायते ॥ २,६.४८ ॥ तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् । मनसः परिमामोयं सुखदुःखादिलक्षमः ॥ २,६.४९ ॥ ज्ञानमेव परं ब्रह्म ज्ञानं बन्धाय चेष्यते । ज्ञानत्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ॥ २,६.५० ॥ विद्याविद्येति मैत्रेय ज्ञानमेवोपधारय ॥ २,६.५१ ॥ एवमेतन्मयाख्यातं भवतो मण्डलं भुवः । पातालानि च सर्वाणि तथाव नरका द्विज ॥ २,६.५२ ॥ समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्नगाः । संक्षेपात्सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ २,६.५३ ॥ इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे षष्ठोऽध्यायः (६) _____________________________________________________________ मैत्रेय उवाच कथितं भूतलं ब्रह्मन्भमैतदखिलं त्वया । भुवर्लोकादिकांल्लोकाञ्छ्रोतुमिच्छाम्यहं मुने ॥ २,७.१ ॥ तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा । समाचक्ष्व महाभाग तन्मह्यं परिपृच्छते ॥ २,७.२ ॥ श्रीपराशर उवाच रविचन्द्रमसोर्यावन्मयूखैरवभास्यते । ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥ २,७.३ ॥ यावत्प्रमाणा पृथिवी विस्तारपरिमण्डलात् । नभस्तावन्प्रमाणं वै व्यासमण्डलतो द्विज ॥ २,७.४ ॥ भूमेर्यो जनलक्षे तु सौरं मैत्रेय मण्डलम् । लक्षाद्दिवाकरस्यापि मण्डलं शशिनः स्थितम् ॥ २,७.५ ॥ पूर्णो शतसहस्रे तु योजनानां निशाकरात् । नक्षत्रमण्डलं कृत्स्त्रमुपरिष्टात्प्रकाशते ॥ २,७.६ ॥ द्वे लक्षे चोत्तरे ब्रह्मन् बुधो नक्षत्रमण्डलात् । तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥ २,७.७ ॥ अङ्गरकोपि शुक्रस्य तत्प्रमाणे व्यवस्थितः । लक्षद्वये तु भौमस्य स्थितो देवपुरोहितः ॥ २,७.८ ॥ सौरिर्बृहस्पतेश्चोर्ध्वं द्विलक्षे समवस्थितः । सप्तर्षिमण्डलं तस्माल्लक्षमेकं द्विजोत्तमा ॥ २,७.९ ॥ ऋषिभ्यस्तु सहस्राणां शतादूर्ध्वं व्यवस्थितः । मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥ २,७.१० ॥ त्रैलोक्यमेतत्कथितमुत्सेधेन महामुने । इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥ २,७.११ ॥ ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनाः । एकयोजनकोटिस्तु यत्र ते कल्पवासिनः ॥ २,७.१२ ॥ द्वे कोटी तु जनो लोको यत्र ते ब्रह्मणः सुताः । सनन्दनाद्याः प्रथिता मैत्रेयामलचेतसः ॥ २,७.१३ ॥ चतुर्गणोत्तरे चोर्ध्वं जनलोकात्तपः स्थितः । वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः ॥ २,७.१४ ॥ षड्गुणेनतपोलोकान्सत्यलोको विराजते । अपुनर्मारका यत्र ब्रह्मलोको हि संस्मृतः ॥ २,७.१५ ॥ पादगम्यन्तु यत्किञ्चिद्वस्त्वस्ति पृथिवीमयम् । स भूर्लोकः समाख्यातो विस्तरोऽस्य मयोदितः ॥ २,७.१६ ॥ भूमिमूर्यान्तरं यच्च सिद्धादिमुनिसेवितम् । भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तम ॥ २,७.१७ ॥ ध्रुवसूर्यान्तरं यच्च नियुतानि चतुर्दश । स्वर्लोकः सोऽपि गदितो लोकसंस्थानचिन्तकैः ॥ २,७.१८ ॥ त्रैलोक्यमतत्कृतकं मैत्रेय परिपठ्यते । जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥ २,७.१९ ॥ कृतकाकृतयोर्मध्ये महर्लोक इति स्मृतः । शुन्यो भवति कल्पान्ते योत्यन्तं न विनश्यति ॥ २,७.२० ॥ एते सप्त मया लोका मैत्रेय कथितास्तव । पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥ २,७.२१ ॥ एतदण्डकटाहेन तिर्यक्चोध्वमधस्तथा । कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥ २,७.२२ ॥ दशोत्तरेण पयसा मैत्रेयाण्डं च तद्वृतम् । सर्वोम्बुपरिधानोसौ वह्निना वेष्टितो बहिः ॥ २,७.२३ ॥ वह्निश्च वायुना वायुर्मैत्रेय नभसा वृतः । भूतादिना नभः सोऽपि महता परिवेष्टितः । देशोत्तराम्यशेषाणि मैत्रेयैतानि सप्त वै ॥ २,७.२४ ॥ महान्तं च समावृत्य प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते ॥ २,७.२५ ॥ तदनन्तमसंख्यातप्रमाणं चापि वै यतः । हेतुभूतमशेषस्य प्रकृतिः सा परा मुने ॥ २,७.२६ ॥ अण्डानां तु सहस्राणां सहस्राण्ययुतानि च । ईदृशानां तथा तत्र कोटिकोटिशतानि च ॥ २,७.२७ ॥ हारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि । प्रधानेऽवस्थितो व्यापी चेतनात्मात्मवेदनः ॥ २,७.२८ ॥ प्रधानं च पुमांश्चैव सर्वभूतात्मभूतया । विष्णुशक्त्या महाबुद्धे वृतौ संश्रयधर्मिणौ ॥ २,७.२९ ॥ तयोः सैव पृथग्भावकारणं संश्रयस्य च । क्षोभकारणभूता च सर्गकाले महामते ॥ २,७.३० ॥ यथा सक्तं जले वातो बिभर्ति कणिकाशतम् । शक्तिः सापि तथा विष्णोः प्रधानपुरुषात्मकम् ॥ २,७.३१ ॥ यथा च पादयौर्मूलस्कन्धशाखादिसंयुतः । आदिबीजात्प्रभवति बीजान्यन्यानि वै ततः ॥ २,७.३२ ॥ प्रभावन्तिततस्तेभ्यः सम्भवन्त्यपरे द्रुमाः । तेपि तल्लक्षणद्रव्यकारणानुगता मुने ॥ २,७.३३ ॥ एवमव्याकृतात्पूर्वं जायन्ते महदादयः । विशंषान्ता स्ततस्तेभ्यः संभवन्त्यसुरादयः । तेभ्यश्च पुत्रास्तेषां च पुत्राणामपरे सुताः ॥ २,७.३४ ॥ बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः । भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा ॥ २,७.३५ ॥ सन्निधानाद्यथाकाशकालाद्याः कारणं तरोः । तथैवापरिणामेव विश्वस्य भगवान्हरिः ॥ २,७.३६ ॥ व्रीहिबीजे यथा मूलं नालं पत्राङ्कुरौ तथा । काण्डकोषस्तु पुष्पं च क्षीरं तद्वच्च तण्जुलाः ॥ २,७.३७ ॥ तुषाः कणाश्च सन्तो वै यान्त्याविर्भावमात्मनः । प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तम ॥ २,७.३८ ॥ तथा कर्मस्वनेकेषु देवाद्याः समवस्थिताः । विष्णुशक्तिं समासाद्य प्ररोहमुपयान्ति वै ॥ २,७.३९ ॥ स च विष्णुः परं ब्रह्म यतः सर्वमिदं जगत् । जगच्च यो यत्र चेदं यस्मिंश्च लयमेष्यति ॥ २,७.४० ॥ तद्ब्रह्म तत्परं धाम सदसत्परमं पदम् । यस्य सर्वमभेदेन यतश्चैतच्चराचरम् ॥ २,७.४१ ॥ स एव मूल प्रकृतिर्व्यक्तरूपी जगच्च सः । तस्मिन्नेव लयं सर्वं याति तत्र च तिष्ठति ॥ २,७.४२ ॥ कत्ता क्रियाणां स च इज्यते क्रतुः स एवतत्कर्मफलं च तस्य । स्त्रुगादियत्साधनमप्यशेषं हरेर्न किञ्चिव्द्यतिरिक्तमस्ति ॥ २,७.४३ ॥ इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे सप्तमोऽध्यायः (७) _____________________________________________________________ प्राशर उवाच व्याख्यातमैतद्ब्रह्मण्डसंस्थानं तव सुव्रत । ततः प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मै ॥ २,८.१ ॥ योजनानां सहस्राणि भास्करस्य रथो नव । ईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ॥ २,८.२ ॥ सार्धकोटिस्तथा सप्त नियुतान्यधिकानि वै । योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥ २,८.३ ॥ त्रिनाभिमति पञ्चारे षण्णेमिन्यत्रयात्मके । संवत्सरमये कृत्स्त्रं कालचक्रं प्रतिष्ठितम् ॥ २,८.४ ॥ हयाश्च सप्तच्छदांसि तेषां नामानि मे शृणु । गायत्री च बृहत्युष्णिग्जगती त्रिष्टुभेव च । अनुष्टुप्पङ्क्तिरित्युक्ता छन्दांसि हरयो रवेः ॥ २,८.५ ॥ चत्वारिंशत्सहस्राणि द्वितीयोऽक्षो विवस्वतः । पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते ॥ २,८.६ ॥ आक्षप्रमाणमुभयोः प्रमाणं तद्युगार्धयो । ह्रस्वोक्षस्तद्युगार्धेन ध्रुवाधारो रथस्य वै । द्वितीयेक्षे तु तच्चक्रं सस्थितं मानसाचले ॥ २,८.७ ॥ मानसोत्तरशैलस्य पूर्वतो वासवी पुरी । दक्षिणे तु यम स्यान्याप्रतीच्यां वरुणस्य च । उत्तरेण च सोमस्य तासां नामानि मे शृणु ॥ २,८.८ ॥ वस्वौकसारा शक्रस्य याम्या संयमनी तथा । पुरी सुखाजलेशस्य सोमस्य च विभावरी ॥ २,८.९ ॥ काष्ठां गतो दक्षिणतः क्षिप्तेषुरिव सर्पति । मैत्रेय भगवान्भानुर्ज्योतिषां चक्रसंयुतः ॥ २,८.१० ॥ अहोरात्रव्यवस्थानकारणं भगवान्रविः । देवयानः परः पन्था योगिनां क्लेशसंक्षये ॥ २,८.११ ॥ दिवसस्य वरिर्मध्ये सर्वाकालं व्यवस्थितः । सर्वद्वीपेषु मैत्रेय निशार्धस्य च सन्मुखः ॥ २,८.१२ ॥ उदयास्तमने चैव सर्वकालं तु संमुखे । विदिशासु त्वशेषासु तथा ब्रह्मन् दिशासु च ॥ २,८.१३ ॥ यैर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥ २,८.१४ ॥ नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ २,८.१५ ॥ शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुरत्रयम् । विकोणौ द्वौ विकोणस्थस्त्रीन् कोणान्द्वे पुरे तथा ॥ २,८.१६ ॥ उदितो वर्धमानाभिरामध्याह्नात्तपन्रविः । ततः परं ह्रसन्तीभिर्गोभिरस्तं नियच्छति ॥ २,८.१७ ॥ उदयास्तमनाभ्यां च स्मृते पूर्वापरे दिशौ । यावत्पुरस्तात्तपति तावत्पृष्ठे च पार्श्वयोः ॥ २,८.१८ ॥ ऋतेऽमरगिरेर्मेरोरुपरि ब्रह्मणः सभाम् । येये मरीचयोर्कस्य प्रयान्ति ब्रह्मणः सभाम् । तेते निरस्तास्तद्भासा प्रतीपमुपयान्ति वै ॥ २,८.१९ ॥ तस्माद्दिश्युत्तरस्यां वै दिवारात्रिः सदैव हि । सर्वेषां द्वीपवर्षाणां सेरुरुत्तरतो यतः ॥ २,८.२० ॥ प्रभा विवस्वतो रात्रावस्तं गच्छति भास्करे । विशत्यग्निमतो रात्रौ वह्निर्दूरात्प्रकाशते ॥ २,८.२१ ॥ वह्नोः प्रभा तथा भानुर्दिनेष्वाविशति द्विज । अतीव वह्निसंयोगादतः सूर्यः प्रकाशते ॥ २,८.२२ ॥ तेजसी भास्कराग्नेये प्रकाशोष्णस्वरूपिणी । परस्परानुप्रवेशादाप्यायेते दिवानिशम् ॥ २,८.२३ ॥ दक्षिणोत्तरभूम्यर्ध समुत्तिष्ठति भास्करे । आहोरात्रं विशत्यम्भस्तमः प्राकाश्यशीलवत् ॥ २,८.२४ ॥ आताम्रा हि भवत्यापो दिवानक्तप्रवेशनात् । दिनं विशति चैवांभो भास्करेस्तमुपेयुषि । तस्माच्छुक्ला भवन्त्यापो नक्तमह्नः प्रवेशनात् ॥ २,८.२५ ॥ एवं पुष्करमध्येन यदा याति दिवाकरः । त्रिंशद्भागस्तु मेदिन्यास्तदा मौहूर्तिकी गतिः ॥ २,८.२६ ॥ कुलालचक्रपर्यन्ते भ्रमन्नेष दिवाकरः । करोत्यहस्तथा रात्रिं विमुञ्चन्मेदिनीं द्विजः ॥ २,८.२७ ॥ अयनस्योत्तरस्यादौ मकरं याति भास्करः । ततः कुम्भं च मीनं च राशे राश्यन्तरं द्विज ॥ २,८.२८ ॥ त्रिष्वेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम् । प्रयाति सविता कुर्वन्नहोरात्रं ततः समम् ॥ २,८.२९ ॥ ततो रात्रिः क्षयं याति वर्धतेऽनुदिनं दिनम् ॥ २,८.३० ॥ ततश्च मिथुनस्यान्ते परां काष्ठामुपागतः । राशिं कर्कटकं प्राप्य कुरुते दक्षिणायनम् ॥ २,८.३१ ॥ कुलालचक्रपर्यन्तो यथाशीघ्रं प्रवर्तते । दक्षिणप्रक्रमे सूर्यस्तथा शीघ्रं प्रवर्तते ॥ २,८.३२ ॥ अतिवेगितया कालं वायुवेगबलाच्चरन् । तस्मात्प्रकष्टां भूमिं तु कालेनाल्पेन गच्छति ॥ २,८.३३ ॥ सूर्यो द्वादशभिः शैघ्र्यान्मुहूर्ते दक्षिणायने । त्रयोदशार्धमृक्षाणामह्ना तु चरति द्विज । मुहूर्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥ २,८.३४ ॥ कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति । तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥ २,८.३५ ॥ तस्माद्दीर्घेण कालेन भूमिमल्पां तु गच्चति । अष्टादशसुहूर्तं यदुत्तरायणपश्चिमम् ॥ २,८.३६ ॥ अहर्भवति तच्चापि चरते मन्दविक्रमः ॥ २,८.३७ ॥ त्रयोदशार्धमह्ना तु ऋक्षाणां चरते रविः । मुहूर्तैस्तावदृक्षाणि रात्रौ द्वादशभिश्चरन् ॥ २,८.३८ ॥ अतो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा । मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ॥ २,८.३९ ॥ कुलालचक्रनाभिस्तु यथा तत्रैववर्तते । ध्रुवस्तथा हि मैत्रेय तत्रैव परिवर्तते ॥ २,८.४० ॥ उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तु । दिवा नक्तं च सूर्यस्य मन्दा शीघ्राच वै गतिः ॥ २,८.४१ ॥ मन्दाह्नि यस्मिन्नयने शीघ्रा नक्तं तदा गतिः । शीघ्रा निशि यदा चास्य तदा मन्दा दिवा गतिः ॥ २,८.४२ ॥ एक प्रमाणमेवैष मार्गं याति दिवाकरः । अहोरात्रेण यो भुङ्क्ते समस्ता राशयो द्विज ॥ २,८.४३ ॥ षडेव राशीन् यो भुङ्क्ते रात्रावन्यांश्च षड्दिवा ॥ २,८.४४ ॥ राशिप्रमाणजनिता दीर्घह्रस्वात्मता दिने । तथा निशायां राशीनां प्रमाणैर्लघुदीर्घता ॥ २,८.४५ ॥ दिनादेर्दिर्घह्रस्वत्वं तद्भोगेनैव जायते । उत्तरे प्रक्रमे शीघ्रा निशि मन्दा गतिर्दिवा ॥ २,८.४६ ॥ दक्षिणे त्वयने चैव विपरीतां विवस्वतः ॥ २,८.४७ ॥ उषा रात्रिः समाख्याताव्युष्टिश्चाप्युच्यते दिनम् । प्रोच्यते च तथा संध्या उषाव्युष्ट्योर्यदन्तरम् ॥ २,८.४८ ॥ संध्याकाले च संप्राप्ते रौद्रे परमदारुणे । मन्देहा राक्षसा घोराः सूर्यमिच्छिन्ति खादितुम् ॥ २,८.४९ ॥ प्रजापतिकृतः शापस्तेषां मैत्रेय रक्षसाम् । अक्षयत्वं शरीराणां मरणं च दिने दिने ॥ २,८.५० ॥ ततः सूर्यस्य तैर्युद्धं भवत्यत्यन्तदारुणम् । ततो द्विजोत्तमा स्तोयं संक्षिपन्ति महामुने ॥ २,८.५१ ॥ ओङ्कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम् । तेन दह्यन्ति ते पापा वज्रीभूतेन वारिणा ॥ २,८.५२ ॥ अग्निहोत्रे हूयते या समन्त्रा प्रथमाहुतिः । सूर्योज्योतिः सहस्रांशु समा दीप्यति भास्करः ॥ २,८.५३ ॥ ओङ्कारो भगवान्विष्णुस्त्रिधामा वचसां पतिः । तदुच्चारणतस्ते तु विनाशं यान्ति राक्षसाः ॥ २,८.५४ ॥ वैष्णुवोंशः परः सूर्यो योन्तर्ज्योतिरसंप्लवम् । अभियायक ओङ्कारस्तस्य तत्प्रेरकं परम् ॥ २,८.५५ ॥ तेन संप्रेरितं ज्योतिरोंकारेणाथ दीप्तिमत् । दहत्यशेषरक्षांसि मन्देहाख्यान्यघानि वै ॥ २,८.५६ ॥ तस्मान्नोल्लङ्घनं कार्यं संध्योपासनकर्मणः । स हन्ति सूर्यं सन्ध्याया नोपास्तिं कुरुते तु यः ॥ २,८.५७ ॥ ततः प्रयाति भगवान्ब्राह्मणैरभिरक्षितः । वालखिल्यादिभिश्चैव जगतः पालनोद्यतः ॥ २,८.५८ ॥ काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत्कलां च । त्रिंशत्कलश्चैव भवेन्मुहूर्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥ २,८.५९ ॥ ह्रासवृद्धी त्वहर्भागोर्दिवसानां यथाक्रमम् । सन्ध्यामुहूर्तमात्रा वै ह्रासवृद्धौ समा स्मृता ॥ २,८.६० ॥ रेखाप्रभृत्यथादित्ये त्रिमुहूर्तगते रवौ । प्रातः स्मृतस्ततः कालो भागश्चाह्नः स पञ्चमः ॥ २,८.६१ ॥ तस्मात्प्रातस्तनात्कालात्त्रमुहूर्तस्तु सङ्गवः । मध्याह्नस्त्रिमुहूर्तस्तु तस्मात्कालात्तु सङ्गवात् ॥ २,८.६२ ॥ तस्मान्माध्याह्निकात्कालादपराह्न इति स्मृतः । त्रय एव मुहूर्तास्तु कालभागः स्मृतो बुधैः ॥ २,८.६३ ॥ आपराह्ने व्यतीते तु कालः सायाह्न एव च । दशपञ्च मुहूर्तं वै मुहूर्तास्त्रय एव च ॥ २,८.६४ ॥ दशपञ्च मुहूर्तं वै अहर्वैषुवतं स्मृतम् ॥ २,८.६५ ॥ वर्धते ह्रसेत चैवाप्ययने दक्षिणोत्तरे । अहस्तु ग्रसते रात्रिं रात्रिर्ग्रसति वासरम् ॥ २,८.६६ ॥ शरद्वसन्तयोर्मध्ये विषुवं तु विभाव्यते । तुलामेषगते भानौ समरात्रिदिनं तु तत् ॥ २,८.६७ ॥ कर्कटावस्थिते भानौ दक्षिणायनमुच्यते । उत्तरायणमप्युक्तं मकरस्थे दिवाकरे ॥ २,८.६८ ॥ त्रिंशन्मुहूर्तं कथितमहोरात्रं तु यन्मया । तानिपञ्चदश ब्रह्मन् पक्ष इत्यभिधीयते ॥ २,८.६९ ॥ मासः पक्षद्वयेनोक्तो द्वौ मासौ चार्कजावृतुः । ऋतुत्रयं चाप्ययनं द्वेऽयने वर्षसंज्ञिते ॥ २,८.७० ॥ संवत्सरादयः पञ्च चतुर्मासविकल्पिताः । निश्चयः सर्वकाल्सय युगमित्यभिधीयते ॥ २,८.७१ ॥ संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः । इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः । वत्सरः पञ्चमश्चात्र कालोयं युगसंज्ञितः ॥ २,८.७२ ॥ यः श्वेतस्योत्तरः शैलः शृङ्गवानिति विश्रुतः । त्रीणि तस्य तु शृङ्गाणि मैरयं शृङ्गवान् स्मृतः ॥ २,८.७३ ॥ दक्षिणं चोत्तरं चैव मध्यं वैषुवतं तथा । शरद्वसंतयोर्मध्ये तद्भानुः प्रतिपद्यते । मेषादौ च तुलादौ च मैत्रेय विषुवं स्मृतम् ॥ २,८.७४ ॥ तदा तुल्यमहोरात्रं करोति तिमिरापहः । दशपञ्च मुहूर्तं वै तदेतदुभयं स्मृतम् ॥ २,८.७५ ॥ प्रथमे कृत्तिकाभागे यदा भास्वांस्तदा शशी । विशाखानां चतुर्थेऽंशे मुने तिष्ठत्यसंशयम् ॥ २,८.७६ ॥ विशाखानां यदा सूर्यश्चरत्यंशं तृतीयकम् । तदा चन्द्रं विजानीयात्कृत्तिकाशिरसि स्थितम् ॥ २,८.७७ ॥ तदैव विषुवाख्योऽयं कालः पुण्योऽभिधीयते । तदा दानादि देयानि देवेभ्यः प्रयतात्मभिः ॥ २,८.७८ ॥ ब्रह्मणेभ्यः पितृभ्यश्च मुखमेतत्तु दानाजम् । दत्तदानस्तु विषुवे कृतकृत्योभिजायते ॥ २,८.७९ ॥ अहोरात्रार्धमासा तु कलाः काष्ठाः क्षणास्तथा । पौर्णमासी तथा ज्ञेया अमावास्या तथैव च । सिनीवाली कुहूश्चैव एका चानुमतिस्तथा ॥ २,८.८० ॥ तपस्तपस्यै मधुमाधवौ च शुक्रः शुचिश्चायनमुत्तरं स्यात् । नभोनभस्यौ च इषस्तथोर्जःसहः सहस्याविति दक्षिणं तत् ॥ २,८.८१ ॥ लोका लोकश्च यः शैलः प्रागुक्तो भवतो मया । लोकपालास्तु चत्वारस्तत्र तिष्ठन्ति सुव्रताः ॥ २,८.८२ ॥ सुधामा शङ्खपाच्चैव कर्दमस्यात्मजौ द्विज । हिरण्यरोमा चैवान्यश्चतुर्थः केकुमानपि ॥ २,८.८३ ॥ निर्धन्द्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाः । लोकपालाः स्थिता ह्येते लोका लोके चतुर्दिशम् ॥ २,८.८४ ॥ उत्तरं पदगस्त्यस्य अजवीथ्याश्च दक्षिणम् । पितृयानः स वै पन्था वैश्वानरपथाद्बाहिः ॥ २,८.८५ ॥ तत्रासते महात्मान ऋषयो येऽग्निहोत्रिणः । भूतारंभकृतं ब्रह्म शंसन्तो ऋत्विगुद्यताः । प्रारभन्ते तु ये लोकास्तेषां पन्थाः स दक्षिणः ॥ २,८.८६ ॥ चलितं ते पुनर्ब्रह्म स्थापयन्ति युगेयुगे । सन्तत्या तपसा चैव मर्यादाभिः श्रुतेन च ॥ २,८.८७ ॥ जायमानास्तु पूर्वे च पश्चिमानां गृहेषु वै । पश्चिमाश्चैव पूर्वेषां जायन्ते विधनेष्विह ॥ २,८.८८ ॥ एवमावर्तमानास्ते तिष्ठन्ति नियतव्रताः । सवितुर्दक्षिणं मार्गं श्रिता ह्यचन्द्रतारकम् ॥ २,८.८९ ॥ नागावीथ्युत्तरं यच्च सप्तर्षिभ्यश्च दक्षिणम् । उत्तरः सवितुः पन्था देवयानश्च स स्मृतः ॥ २,८.९० ॥ तत्र ते वासिनः सिद्धाविमला ब्रह्मचारिणः । सन्ततिं ते जुगुप्संति तस्मान्मृत्युर्जितश्च तैः ॥ २,८.९१ ॥ अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेत साम् । उदक्पन्थनमर्यम्णः स्थिता ह्याभूतसंप्लवम् ॥ २,८.९२ ॥ ते सेप्रयोगाल्लोभस्य मैथुनस्य च वर्जनात् । इच्छाद्वेषाप्रवृत्त्या च भूतारम्भवि वर्जनात् ॥ २,८.९३ ॥ पुनश्च कामासंयोगाच्छब्दादेर्देषदर्शनात् । इत्येभिः कारणैः शुद्धास्तेमृतत्वं हि भेजिरे ॥ २,८.९४ ॥ आभूतसंप्लवं स्थानममृतत्वं विभाव्यते । त्रैलोक्यस्थितिकालोयमपुनर्मार उच्यते ॥ २,८.९५ ॥ ब्रह्महत्याश्वमेधाभ्यां पापपुण्यकृतो विधिः । आभूतसंप्लवान्तन्तु फलमुक्तं तयोर्द्विज ॥ २,८.९६ ॥ यावन्मात्रे प्रदेशे तु मैत्रेयावस्थितो ध्रुवः । क्षयमायाति तावत्तु भूमेराभूतसंप्लवात् ॥ २,८.९७ ॥ ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः । एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भासुरम् ॥ २,८.९८ ॥ निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम् । स्थानं तत्परमं विप्र पुण्यपापपरिक्षये ॥ २,८.९९ ॥ अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवः । यत्र गत्वा न शोचन्ति तद्विष्णोः परपं पदम् ॥ २,८.१०० ॥ धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः । तत्सार्ष्ट्योत्पन्नयोगर्धिस्तद्विष्णोः परमंपदम् ॥ २,८.१०१ ॥ यत्रोतमेतत्प्रोतं च यद्भूतं सचराचरम् । भव्यं य विश्वं मैत्रेय तद्विष्णोः परमं पदम् ॥ २,८.१०२ ॥ दिवीव चक्षुराततंयोगिनां तन्मयात्मनाम् । विवेकज्ञानदृष्टं च तद्विष्णोः परमं पदम् ॥ २,८.१०३ ॥ यस्मिन्प्रतिष्ठितो भास्वान्मेढीभूतः स्वयं ध्रुवः । ध्रुवे च सर्वज्योतींषि ज्योतिष्वम्भोमुचो द्विज ॥ २,८.१०४ ॥ मेघेषु संगता वृष्टिर्वृष्टेः सृष्टेश्च पोषणम् । आप्यायनं च सर्वेषां देवादीनां महामुने ॥ २,८.१०५ ॥ ततश्चाज्याहुतिद्वारा पोषितास्ते हविर्भुजः । वृष्टेः कारणतां यान्ति भूतानां स्थितये पुनः ॥ २,८.१०६ ॥ एवमेतत्पदं विष्णोस्तृतीयममलात्मकम् । आधारभूतं लोकानां त्रयाणां वृष्टिकारणम् ॥ २,८.१०७ ॥ ततः प्रभवति ब्रह्मन् सर्वपापहरा सरित् । गङ्गा देवाङ्गनाङ्गानामनुलेपनपिञ्जरा ॥ २,८.१०८ ॥ वामपादाम्बुजाङ्गुष्ठनखस्त्रोतोविनिर्गताम् । विष्णोर्बिभार्ति यां भक्त्या शिरसाहर्निशं ध्रुवः ॥ २,८.१०९ ॥ ततः सप्तर्षयो यस्याः प्राणायामपरा यणाः । तिष्ठन्ति वीचिमालाभिरुह्यमानजटाजले ॥ २,८.११० ॥ वार्योघैः संततैर्यस्याः प्लावितं शशिमण्डलम् । भूयोधिकतरां कान्तिं वहत्येतदुह क्षये ॥ २,८.१११ ॥ मेरुपृष्टे पतत्युच्चैर्निष्क्रान्ता शशिमण्डलात् । जगतः पावनार्थाय प्रयाति च चतुर्दिशम् ॥ २,८.११२ ॥ सीती चालकनन्दा च चक्षुर्भद्रा च संस्थिता । एकैव या चतुर्भेदा दिग्भेदगतिलक्षणा ॥ २,८.११३ ॥ भेदं चालकनन्दाख्यं यस्याः शर्वोपि दक्षिणाम् । दधार शिरसा प्रीत्य वर्षाणामधिकं शतम् ॥ २,८.११४ ॥ शम्भोर्जटाकलापाच्च विनिष्क्रान्ताश्थिशर्कराः । प्लावयित्वा दिवं निन्ये या पापान्सगरात्मजान् ॥ २,८.११५ ॥ स्त्रातस्य सलिले यस्याः सद्यः पापं प्रणश्यति । अपूर्वपुण्यप्राप्तिश्च सद्यो मैत्रेय जायते ॥ २,८.११६ ॥ दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धयान्वितैः । समाशतं प्रयच्छन्ति तृप्तिं मैत्रेय दुर्लभाम् ॥ २,८.११७ ॥ यस्यामिष्ट्वा महायज्ञैर्यज्ञेशं पुरुषोत्तमम् । द्विजभूपाः परां सिद्धिमवापुर्दिवि चेह च ॥ २,८.११८ ॥ स्नानाद्विधूतपापाश्च यज्जलैर्यतयस्तथा । केशबासक्तमनसः प्राप्ता निर्वाणमुत्तमम् ॥ २,८.११९ ॥ श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता । या पावयति भूतानि कीर्तिता च दिवेदिने ॥ २,८.१२० ॥ गगागङ्गेति यैर्नामयोजनाना शतष्वपि । स्थितैरुच्चारितं हन्ति पापं जन्मत्रयार्जितम् ॥ २,८.१२१ ॥ यतः सा पावनायालं त्रयाणां जगतामपि । समुद्भूता परं तत्तु तृतीयं भगवत्पदम् ॥ २,८.१२२ ॥ इति श्रीविष्णुमहापुराणे द्वितीयेऽंशेऽष्टमोऽध्यायः (८) _____________________________________________________________ श्रीपारशर उवाच तारामयं भगवतः शिशुमाराकृति प्रभोः । दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥ २,९.१ ॥ सैष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् । भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २,९.२ ॥ सूर्याचन्द्रमसौ तारा नक्षत्रामि ग्रहैः सह । वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥ २,९.३ ॥ शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि । नारायणोऽयनं धाम्नां तस्याधारः स्वयं हृदि ॥ २,९.४ ॥ उत्तानपादपुत्रस्तु तमाराध्य जगत्पतिम् । स तारा शिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ २,९.५ ॥ आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः । ध्रुवस्य शिशुमारस्तु ध्रुवे भानुर्व्यवस्थितः ॥ २,९.६ ॥ तदाधारं जगच्चेदं सदेवासुरमानुषम् ॥ २,९.७ ॥ येन विप्रविधानेन तन्ममैकमनाः शृणु । विवस्वानष्टभिर्मासैरादायापो रसात्मिकाः । वर्षत्यम्बुततश्चान्नमन्नादप्यखिलं जगत् ॥ २,९.८ ॥ विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जतम् । सोमं पुष्मात्यथेन्दुश्च वायुनाडीमयैर्दिवि । नालैर्विक्षिपतेऽभ्रेषु धूमाग्न्यनिलमूर्तिषु ॥ २,९.९ ॥ न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः । अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः । संस्कारं कांलजनितं मैत्रेयासाद्य निर्मलाः ॥ २,९.१० ॥ सरित्समुद्रभोमास्तु तथापः प्राणिसम्भवाः । चतुष्प्रकारा भगवानादत्ते सविता मुने ॥ २,९.११ ॥ आकाशगङ्गासलिलं तथादायगभस्तिमान् । अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ २,९.१२ ॥ तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तम । न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम् ॥ २,९.१३ ॥ दृष्टसूर्यं हि यद्वारि पतत्यभ्रैर्विना दिवः । आकाशगङ्गासलिलं तद्गोभिः क्षिप्यते रवेः ॥ २,९.१४ ॥ कृत्तिकादिषु ऋक्षेषु विषमेषु च यद्दिवः । दृष्टार्कपतितं ज्ञेयं तद्गाङ्गं दिग्गजोज्झितम् ॥ २,९.१५ ॥ युग्मर्क्षेषु च यत्तोयं पतत्यर्कोज्झितं दिवः । तत्सूर्यरश्मिभिः सर्वं समादाय निरस्यते ॥ २,९.१६ ॥ उभयं पुण्यमत्यर्थं नृणां पापभयापहम् । आकाशगङ्गासलिलं दिव्यं स्नानं महामुने ॥ २,९.१७ ॥ यत्तु मैघैः समुत्सृष्टं वारि तत्प्राणिनां द्विज । पुष्णात्यौषधयः सर्वा जीवनायामृतं हि तत् ॥ २,९.१८ ॥ तेन वृद्धिं परां नीतः सकलश्चौषधीगणः । साधकः फलपाकन्तः प्रजानां द्विज जायते ॥ २,९.१९ ॥ तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः । कुर्वन्त्यहरहस्तैश्च देवानाप्याययन्तिते ॥ २,९.२० ॥ एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः । सर्वे देवनिकायाश्च सर्वे भूतगणाश्च ये ॥ २,९.२१ ॥ वृष्ट्या धृतमिदं सर्वमन्नं निष्पाद्यते यया । सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम ॥ २,९.२२ ॥ आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तम । ध्रुवस्य शिशुपारोऽसौ सोऽपि नारायणात्मकः ॥ २,९.२३ ॥ हृदि नारायणस्तस्य शिशुमारस्यं संस्थितः । बिभर्ता सर्वभूतानामादिभूतः सनातनः ॥ २,९.२४ ॥ इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे नवमोऽध्यायः (९) _____________________________________________________________ श्रीपराशर उवाच त्र्यशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः । आरोहणावरोहाभ्यां भानोरब्देन या गतिः ॥ २,१०.१ ॥ स रथोधिष्ठितो देवैरादित्यै ऋषिभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ २,१०.२ ॥ धाता क्रतुस्थला चैव पुलस्त्यो बासुकिस्तथा । रथभृद्ग्रामणीर्हेतिस्तुम्बुरुश्चैव सप्तमः ॥ २,१०.३ ॥ एते वसन्ति वै चैत्रे मधुमासे सदैव हि । मैत्रेय स्यन्दने भानोः सप्तमासाधिकारिणः ॥ २,१०.४ ॥ अर्यमा पुलहश्चैव रथौजाः पुञ्चिकस्थला । प्रहेतिः कच्छवीरश्व नारदश्च रथे रवेः ॥ २,१०.५ ॥ माधवे निवसन्त्येते शुचिसंज्ञे निबोध मे ॥ २,१०.६ ॥ मित्रोत्रिस्तक्षको रक्षः पौरुषेयोथ मेनका । हाहा रथस्वनश्चैव मैत्रेयैते वसन्ति वै ॥ २,१०.७ ॥ वरुणो वसिष्ठो रम्भा च सहजन्या हुहूरथः । रथचित्रस्तथा शुक्रे वसन्त्याषाढसंज्ञके ॥ २,१०.८ ॥ इन्द्रो विश्वावसुः स्रोता एलापुत्रस्तथाङ्गिराः । प्रम्लोचा च न भस्येते सप्तिश्चार्के वसन्ति वै ॥ २,१०.९ ॥ विवस्वानुग्रसेनश्च भृगुरापूरणस्तथा । अनुम्लोचा शङ्खपालो व्याघ्रो भाद्रपदे तथा ॥ २,१०.१० ॥ पूषा च सुरुचिर्वातो गौतमोथ धनञ्जयः । सुषेणोऽन्यो घृताची च वसन्त्याश्वयुजे रवौ ॥ २,१०.११ ॥ विश्वावसुर्भरद्वाजः पर्जन्यैरावतौ तथा । विश्वाची सेनजिच्चापि कार्त्तिके च वसन्ति वै ॥ २,१०.१२ ॥ अंशः काश्यपतार्क्ष्यास्तु महापद्मस्तथोर्वशी । चित्रसेनस्तथा विद्युन्मार्गशीर्षेधिकारिणः ॥ २,१०.१३ ॥ क्रतुर्भगस्ततोर्णायुः स्फूर्जः कार्कोटकस्तथा । अरिष्टनेमिश्चैवान्या पूर्वाचित्तिर्वराप्सराः ॥ २,१०.१४ ॥ पौषमासे वसन्त्येते सप्तभास्करमणाले । लोकप्रकाशनार्थाय विग्रवर्याधिकारिणः ॥ २,१०.१५ ॥ त्वष्टाथ जमदग्निश्च कम्बलोभ तिलोत्तमा । ब्रह्मोपेतोथ ऋतजिद्धृतराष्ट्रोथ सप्तमः ॥ २,१०.१६ ॥ माघमासे वसन्त्त्येते सप्त मैत्रेय भास्करे । श्रूयतां चापरे सूर्ये फाल्गुनेनिवसन्ति यो ॥ २,१०.१७ ॥ विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् । विश्वामित्रस्तथा रक्षो यज्ञोपेतो महामुने ॥ २,१०.१८ ॥ मासेष्वेतेषु मैत्रेय वसन्त्येते तु सप्तकाः । सवितुर्मण्डले ब्रह्मन्विष्णुसक्त्युपबृंहिताः ॥ २,१०.१९ ॥ स्तुवन्ति मुनयः सूर्यं गन्धर्वैर्गीयते पुरः । नृत्यन्त्यप्सरसो यान्ति सूर्यस्यानुनिशाचराः ॥ २,१०.२० ॥ वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः ॥ २,१०.२१ ॥ वालखित्यास्तथैवैनं परिवार्य समासते ॥ २,१०.२२ ॥ सोयं सप्तगणः सूर्यमण्डले मुनिसत्तम । हिमोष्णवारिवृष्टीनां हेतुः स्वसमयं गतः ॥ २,१०.२३ ॥ इति क्षिविष्णुमहापुराणे द्वितीयेऽंशे दशमोऽध्यायः (१०) _____________________________________________________________ मैत्रेय उवाच यदेतद्भगवानाह गणः सप्तविधो रवेः । मण्डले हिमतापादेः कारणं तन्मया श्रुतम् ॥ २,११.१ ॥ व्यापारश्चापिकथितो गन्धर्वोरगरक्षसाम् । ऋषीणां वालखिल्यानां तथैवाप्सरसां गुरो ॥ २,११.२ ॥ यक्षाणां च रथे भानोर्विष्णुशक्तिधृतात्मनाम् । किं चादित्यस्य यत्कर्म तन्नात्रोक्तं त्वया मुने ॥ २,११.३ ॥ यदि सप्तगणो वारि हिममुष्णं च वर्षति । तत्किमत्र रवेर्येन वृष्टिः सूर्यादितीर्यते ॥ २,११.४ ॥ विवस्वानुदितो मध्ये यात्यस्तमिति किं जनः । ब्रवीत्येतत्समं कर्म यदि सप्तगणस्य तत् ॥ २,११.५ ॥ पराशर उवाच मैत्रेयश्रूयतामेतद्यद्भवान्परिपृच्चति । यथा सप्तगणोप्येकः प्राधान्येनाधिको रविः ॥ २,११.६ ॥ सर्वशक्तिः परा विष्णो ऋग्यजुःसामसंज्ञिता । सैषात्रयी तपत्यंहो जगतश्च हिनस्ति या ॥ २,११.७ ॥ सैष विष्णुः स्थितः स्थित्यां जगतः पालनोद्यतः । ऋग्यजुः सामभूतोन्तः सवितुर्द्विजतिष्ठति ॥ २,११.८ ॥ मासिमासि रविर्योयस्तत्र तत्र हि सा परा । त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै ॥ २,११.९ ॥ ऋचस्तुवन्तिः पूर्वाह्ने मध्याह्नेथ यजूंषि वै । बृहद्रथन्तरादीनि सामान्यह्नः क्षये रविम् ॥ २,११.१० ॥ अङ्गमेषा त्रयी विष्णो ऋग्यजुः सामसंज्ञिता । विष्णुशक्तिरवस्थानं सदादित्ये करोति सा ॥ २,११.११ ॥ न केवलं रवेः शक्तिर्वैष्णवी सा त्रयीमयी । ब्रह्माथ पुरुषो रुद्रस्त्रयमेतत्त्रयीमयम् ॥ २,११.१२ ॥ सर्गादौ ऋङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्मयः । रुद्रः साममयोन्ताय तस्मात्तस्याशुचिर्थ्वनिः ॥ २,११.१३ ॥ एवं सा सात्त्विकी शक्तिर्वैष्णवी या त्रयीमयी । आत्मसप्तगणस्थं तं भास्वन्तमधितिष्ठति ॥ २,११.१४ ॥ तया चाधिष्ठितः सोऽपि जाज्वलीति स्वरश्मिभिः । तमः समस्तजगतां नाशंनयति चाखिलम् ॥ २,११.१५ ॥ स्तुवन्ति चैनं मुनयो गन्धर्वैर्गीयते पुरः । नृत्यन्त्योऽप्सरसो यान्ति तस्य चानु निशाचराः ॥ २,११.१६ ॥ वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः । वालखिल्यास्तथैवैनं परिवार्य समासते ॥ २,११.१७ ॥ नोदेता नास्तमेता च कदाचिच्छक्तिरूपधृक् । विष्णुर्विष्णोः पृथक्तस्य गणाःसप्तविधोऽप्ययम् ॥ २,११.१८ ॥ स्तम्भस्थदर्पणस्येव योऽयमासन्नतां गतः । छायादर्शनसंयोगं स तं प्राप्नोत्यथात्मनः ॥ २,११.१९ ॥ एवं सा वैष्णवी शक्तिर्नैवापैति ततो द्विज । मासानुमासं भास्वन्तमध्यास्ते तत्र संस्थितम् ॥ २,११.२० ॥ पितृदेवमनुष्यादीन्स सदाप्याययन्प्रभुः । परिवर्तत्यहोरात्रकारणं सविता द्वज ॥ २,११.२१ ॥ सूर्यरश्मिसुषुम्णायस्तर्पितस्तेन चन्द्रमाः । कृष्णपक्षेमरैः शश्वत्पीयते वै सुधामयः ॥ २,११.२२ ॥ पीतं तं द्विकलं सोमं कृष्णपक्षक्षये द्विज । पिबन्ति पतरस्तेषां भास्करात्तर्पमं तथा ॥ २,११.२३ ॥ आदत्ते रश्मिभिर्यंतु क्षितिसंस्थं रसं रविः । तमुत्सृजति भूतानां पुष्ट्यर्थं सस्यवृद्धये ॥ २,११.२४ ॥ तेन प्रीणात्यशेषाणि भूतानि भगवान्रविः । पितृदेवमनुष्यादीनेवमाप्याययत्यसौ ॥ २,११.२५ ॥ पक्षतृप्तिं तु देवानां पितॄणां चैव मासिकीम् । शश्वत्तृप्तिं च मर्त्यानां मैत्रेयार्कः प्रयच्छति ॥ २,११.२६ ॥ इति श्रीविष्णुमहापुराणे द्वितीयेंश एकादशोऽध्यायः (११) _____________________________________________________________ श्रीपराशर उवाच रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दशतेन चरत्यसौ ॥ २,१२.१ ॥ वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिना । ह्रासवृद्धिक्रमस्तस्य रश्मीनां सवितुर्यथा ॥ २,१२.२ ॥ अर्कस्येव हि तस्याश्वाः सकृद्युक्ता वहन्ति ते । कल्पमेकं मुनिश्रेष्ठ वारीगर्भसमुद्भवाः ॥ २,१२.३ ॥ क्षीणं पीतं सुरैः सोममाप्याययति दीप्तिमान् । मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः ॥ २,१२.४ ॥ क्रमेण येन पीतोऽसौ देवैस्तेन निशाकरम् । आप्याययत्यनुदिनं भास्करो वारितस्करः ॥ २,१२.५ ॥ संभृतं चार्धमासेन तत्सोमस्थं सुधामृतम् । पिबन्दि देवा मैत्रेय सुधाहारा यतोऽमराः ॥ २,१२.६ ॥ त्रयास्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । त्रयस्त्रिंशत्तथा देवाः पिबन्ति क्षणदाकरम् ॥ २,१२.७ ॥ कलाद्वयाविशिष्टस्तु प्रविष्टः सूर्यमण्डलम् । अमाख्यारश्मौ वसति अमावास्या ततः स्मृता ॥ २,१२.८ ॥ अप्सु तस्मिन्नहोरात्रे पूर्वं विशति चन्द्रमाः । ततो वीरुत्सु वसति प्रयात्यर्कं ततः क्रमात् ॥ २,१२.९ ॥ छिनत्ति विरुधो यस्तु वीरुत्संस्थे निशाकरे । पत्रं वा पातयत्येकं ब्रह्महत्यां स विन्दति ॥ २,१२.१० ॥ सोमं पञ्चदशे भागे किञ्चिच्छिष्टे कलात्मके । अपाराह्ने पितृगणाजघन्यं पर्युपासते ॥ २,१२.११ ॥ पिबन्ति द्विकलाकारं शिष्टा तस्य कला तु या । सुधामृतमयी पुण्या तामिन्दोः पितरो मुने ॥ २,१२.१२ ॥ निःसृतन्तदमावास्यां गभस्तिभ्यः सुधामृतम् । मासं तृप्तिमवाप्याग्र्यां पितरः सन्ति निर्वृताः । सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा ॥ २,१२.१३ ॥ एवं देवान् सिते पक्षे कृष्णपक्षे तथा पितॄन् । वीरुधश्चामृतमयैः शीतैरप्परमाणुभिः ॥ २,१२.१४ ॥ वीरुधौषधिनिष्पत्त्या मनुष्यपशुकीटकान् । आप्याययति शीतांशुः प्राकाश्याह्लादनेन तु ॥ २,१२.१५ ॥ वाय्वग्निद्रव्यसंभूतो रथश्चन्द्रसुतस्य च । पिशङ्गैस्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः ॥ २,१२.१६ ॥ सवरूथः सानुकर्षो युक्तो भूसंभवैर्हयैः । सोपासंगपताकस्तु शुक्रस्यापि रथो महान् ॥ २,१२.१७ ॥ अष्टाश्वः काञ्चनः श्रीमान्भौमस्यापि रथो महान् । पद्मरागारुणैरश्वैः संयुक्तो वह्निसम्भवैः ॥ २,१२.१८ ॥ अष्टाभिः पाण्डुरैर्युक्तो वाजिभिः काञ्चनोरथः । तस्मिंस्तिष्ठति वर्षान्ते राशौराशौ वृहस्पतिः ॥ २,१२.१९ ॥ आकाशसम्भवैरश्वैः शबलैः स्यन्दनं युतम् । तमारुह्य शनैर्याति मन्दगामीशनैश्चरः ॥ २,१२.२० ॥ स्वर्भानोस्तुरगा ह्यष्टौ भृङ्गाभा धूसरं रथम् । सकृद्युक्तास्तु मैत्रेय वहन्त्यविरतं सदा ॥ २,१२.२१ ॥ आदित्यान्निःसृतो राहुः सोमं गच्छति पर्वसु । आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ॥ २,१२.२२ ॥ तथा केतुरथस्याश्वा अप्यष्टौ वातरंहसः । पलालधूमवर्णाभा लाक्षारसनिभारुणाः ॥ २,१२.२३ ॥ एते मया ग्रहाणां वै तवाख्याता रथा नव । सर्वे ध्रुवे महाभाग प्रबद्धा वायुरश्मिभिः ॥ २,१२.२४ ॥ ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्यशेषतः । भ्रमन्त्युचितचारेण मैत्रेयानिलरश्मिभिः ॥ २,१२.२५ ॥ यावान्त्यश्चैव तारास्ता तावन्तो वातरश्मयः । सर्वे ध्रुवे निबद्धास्ते भ्रमन्तो भ्रामयन्ति तम् ॥ २,१२.२६ ॥ तैलपीडा यथा चक्रं भ्रमन्तो भ्रामयन्ति वै । तथा भ्रमन्ति ज्योतींषि वातविद्धानि सर्वशः ॥ २,१२.२७ ॥ अलातचक्रवद्यान्ति वातचक्रेरितानि तु । यस्मज्योतींषि वहति प्रवहस्तेन स स्मृतः ॥ २,१२.२८ ॥ शिशुमारस्तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति । सन्निवेशं च तस्यापि शृणुष्व मुनिसत्तम ॥ २,१२.२९ ॥ यदह्ना कुरुते पापं तं दृष्ट्वा निशि मुच्यते । यावन्त्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि । तावन्त्येव तु वर्षाणि जीवत्यभ्यधिकानिच ॥ २,१२.३० ॥ उत्तानपादस्तस्याधो विज्ञेयो ह्युत्तरो हनुः । यज्ञोऽधरश्च विज्ञेयो धर्मो मूर्धानमाश्रितः ॥ २,१२.३१ ॥ हृदि नारायणश्चास्ते अश्विनौ पूर्वपादयोः । वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी ॥ २,१२.३२ ॥ शिश्रः संवत्सरस्तस्य मित्रोऽपानं समाश्रितः ॥ २,१२.३३ ॥ पुच्छेग्निश्च महेन्द्रश्च कस्यपोथ ततो ध्रुवः । तारका शिशुमारस्य नास्तमेति चतुष्टयम् ॥ २,१२.३४ ॥ इत्येष सन्निवेशोऽयं पृथिव्या ज्योतिषां तथा । द्वीपानामुदधीनां च पर्वतानां च कीर्तितः ॥ २,१२.३५ ॥ वर्षाणां च नदीनां च ये च तेषु वसन्ति वै । तेषां स्वरूपमाख्यातं संक्षेपः श्रुयतां पुनः ॥ २,१२.३६ ॥ यदम्बु वैष्णवः कायस्ततो विप्र वसुन्धरा । पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता ॥ २,१२.३७ ॥ ज्योतीषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च । नद्यः समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ॥ २,१२.३८ ॥ ज्ञानस्वरूपो भगवान्यतोसा वशेषमूर्तिर्न तु वस्तुभूतः । ततो हि शैलब्धिधरादिभेदाञ्जानीहि विज्ञानविजृम्भितानि ॥ २,१२.३९ ॥ यदा तु शुद्धं निजरूपि सर्वं कर्मक्षये ज्ञानमपास्तदोषम् । तदा हि संकल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः ॥ २,१२.४० ॥ वस्त्वस्ति किं कुत्राचिदादिमध्यपर्यन्तहीनं सततैकरूपम् । यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम् ॥ २,१२.४१ ॥ मही घटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततोऽणुः । जनैः स्वकर्मस्तिमितात्मनिश्चयैरालक्ष्यते ब्रूहि किमत्र वस्तु ॥ २,१२.४२ ॥ ज्ञानं विशुद्धं विमलं विशो कमशेषलोभादिनिरस्तसङ्गम् । एकं सदैकं परमः स वासुदेवो न यतोऽन्यदस्ति ॥ २,१२.४४ ॥ सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमस्तयत्यमन्यत् । एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते ॥ २,१२.४५ ॥ यज्ञः पशुर्वह्निरशेषऋत्विक्सोमः सुराः स्वर्गमयश्च कामः । इत्यादिकर्माश्रितमार्गदृष्टं भूरादिभोगाश्च फलानि तेषाम् ॥ २,१२.४६ ॥ यच्चैतद्भुवनगतं मया तवोक्तं सर्वत्र व्रजति हि तत्र कर्मवश्यः । ज्ञात्वैवं ध्रुवमचलं सदैकरूपं तत्कुर्याद्विशति हि येन वासुदेवम् ॥ २,१२.४७ ॥ इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे द्वादशोऽध्यायः (१२) _____________________________________________________________ मैत्रेय उवाच भगवन्सम्यगाख्यातं यत्पृष्टोसि मया किल । भूसमुद्रादिसरितां संस्थानं ग्रहसं स्थितिः ॥ २,१३.१ ॥ विष्ण्वाधारं यथा चैतत्त्रैलोक्यं समवस्थितम् । परमार्थस्तु ते प्रोक्तो यथाज्ञानं प्रधानतः ॥ २,१३.२ ॥ यत्त्वेतद्भगवानाह भरतस्य महीपतेः । श्रोतुमिच्छमि चरितं तन्ममाख्यातुमर्हसि ॥ २,१३.३ ॥ भरतः स महीपालः सालग्रामेऽवसत्किल । योगयुक्तः समाधाय वासुदेवे सदा मनः ॥ २,१३.४ ॥ पुण्येदेशप्रभावेन ध्यायतश्च सदा हरिम् । कथं तु नाभवन्मुक्तिर्यदभूत्स द्विजः पुनः ॥ २,१३.५ ॥ विप्रत्वे च कृतं तेन यद्भूयः सुमहात्मना । भरतेन मुनिश्रेष्ठ तत्सर्वं वक्तुमर्हसि ॥ २,१३.६ ॥ श्रीपराशर उवाच सालग्रामे महाभागो भगवन्न्यस्तमानसः । स उवास चिरं कालं मैत्रेय पृतिवीपतिः ॥ २,१३.७ ॥ अहिंसादिष्वशेषेषु गुणेषु गुणिनां वरः । अवाप परमां काष्ठां मनसश्चापि संयमे ॥ २,१३.८ ॥ यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कृष्ण विष्णो हृषीकेश वासुदेव नमोस्तु ते ॥ २,१३.९ ॥ इति राजाह भरतो हरेर्नामानि केवलम् । नान्यज्जगाद मैत्रेय किञ्चित्स्वप्रान्तरेपि च । एतत्पदन्तदर्थं च विना नान्यदचिन्तयत् ॥ २,१३.१० ॥ समित्पुष्पकुशादानं चक्रे देवक्रियाकृते । नान्यानि चक्रे कर्माणि निःसङ्गो योगतापसः ॥ २,१३.११ ॥ जगाम सोभिषेकार्थमेकदा तु महानदीम् । सस्नौ तत्र तदा चक्रे स्नानस्यानन्तरक्रियाः ॥ २,१३.१२ ॥ अथाजगाम तत्तीरं जलं पातुं पिपासिता । आसन्नप्रसवा ब्रह्मन्नेकैव हरिणी वनात् ॥ २,१३.१३ ॥ ततः समभवत्तत्र पीतप्राये जले तथा । सिंहस्य नादः सुमहान्सर्वप्राणिभयङ्करः ॥ २,१३.१४ ॥ ततः सा सहसा त्रासादाप्लुता निम्नगातटम् । अत्युच्चारोहणेनास्या नद्यां गर्भः पपात ह ॥ २,१३.१५ ॥ तमूह्यमानं वेगेन वीचिमालापरिप्लुतम् । जग्राह स नृपो गर्भात्पतितं मृगपोतकम् ॥ २,१३.१६ ॥ गर्भप्रच्युतिदोषेण प्रोत्तुङ्गाक्रमणेन च । मैत्रेय सापि हरिणी पपात च ममार च ॥ २,१३.१७ ॥ हरिणीं तां विलोक्याथ विपन्नां तृपतापसः । मृगपोतं समादाय निजमाश्रममागतः ॥ २,१३.१८ ॥ चकारानुदिनं चासौ मृगपोतस्य वै नृपः । पोषणं पुष्यमाणश्च स तेन ववृधे मुने ॥ २,१३.१९ ॥ चचाराश्रमपर्यन्ते तृणानि गहनेषु सः । द्वरं गत्वा च शार्दुलत्रासादभ्याययौ पुनः ॥ २,१३.२० ॥ प्रातर्गत्वातिदूरं च सायमायात्यथाश्रमम् । पुनश्च भरतस्यभूदाश्रमस्योटजाजिरे ॥ २,१३.२१ ॥ तस्य तस्मिन्मृगे दूरसमीपपरिवर्तिनि । आसीच्चेतः समासक्तं न ययावन्यतो द्विज ॥ २,१३.२२ ॥ विमुक्तराज्यतनयः प्रोज्झिताशेषबान्धवः । ममत्वं स चकारोच्चैस्तस्मिन्हरिणबालके ॥ २,१३.२३ ॥ किं वृकैर्भक्षितो व्यघ्रैः किं सिंहेन निपातितः । चिरायमाणे निष्क्रान्ते तस्यासीदिति मानसम् ॥ २,१३.२४ ॥ एषा वसुमती तस्य खुराग्रक्षतकर्बुरा ॥ २,१३.२५ ॥ प्रीतये मम जातोसौ क्व ममैणकबालकः । विषामाग्रोण मद्बाहुं कण्डूयनपरो हि सः । क्षेमेणाभ्यागतोरण्यादपि मां सुखयिष्यति ॥ २,१३.२६ ॥ एते लूनशिखास्तस्य दशनैरचिरोद्गतैः । कुशाः काशा विराजन्ते बटवः सामागा इव ॥ २,१३.२७ ॥ इत्थं चिरगते तस्मिन्स चक्रे मानसं मुनिः । प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे ॥ २,१३.२८ ॥ समाधिभङ्गस्तस्यासीत्तन्मयत्वादृतात्मनः । सन्त्यक्तराज्यभोगर्धिस्वजनस्यापि भूपतेः ॥ २,१३.२९ ॥ चपलं चपले तस्मिन्दूरगं दूरगामिनि । मृगपोतेऽभवच्चित्तं स्तैर्यवत्तस्य भूपतेः ॥ २,१३.३० ॥ कालेन गच्छता सोऽथ कालं चक्रे महीपतिः । पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः ॥ २,१३.३१ ॥ मृगमेव तदाद्राक्षीत्त्यजन्प्राणानसावपि । तन्मयत्वेन मैत्रेय नान्यत्किञ्चिदचिन्तयत् ॥ २,१३.३२ ॥ ततश्च तत्कालकृतां भावनां प्राप्य तादृशीम् । जम्बूमार्गे महारण्ये जातो जातिस्मरोमृगः ॥ २,१३.३३ ॥ जातिस्मरत्वदुद्विग्नः संसारस्य द्विजोत्तम । विहाय मातरं भूयः सालग्राममुपाययो ॥ २,१३.३४ ॥ शुष्कैस्तृणैस्तथा पर्णैः स कुर्वन्नात्मपोषणम् । मृगत्वहेतुभूतस्य कर्मणो निष्कृतिं ययौ ॥ २,१३.३५ ॥ तत्र चोत्सृष्टदेहोऽसौ जज्ञे जातिस्मरो द्विजः । सदाचारवतांशुद्धे योगिनां प्रवरे कुले ॥ २,१३.३६ ॥ सर्वविज्ञानसंपन्नः सर्वशास्त्रर्थतत्त्ववित् । अपश्यत्य च मैत्रेय आत्मानं प्रकृतेः परम् ॥ २,१३.३७ ॥ आत्मनोऽधिगतज्ञानो देवादीनि महामुने । सर्वभूतान्यभेदेन स ददर्श तदात्मनः ॥ २,१३.३८ ॥ न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतिम् । न ददर्श च कर्माणि शास्त्राणि जगृहे न च ॥ २,१३.३९ ॥ उक्तोपि बहुशः किञ्चिज्जडवाक्यमभाषत । तदप्यसंस्कारगुणं ग्राम्यवाक्योक्तिसंश्रितम् ॥ २,१३.४० ॥ अपध्वस्तवपुः सोऽपि मलिनाम्बरग्द्विजः । क्लिन्नदन्तान्तरः सर्वैः परिभूतः स नागरैः ॥ २,१३.४१ ॥ संमाननापरां हानिं योगर्धः कुरुते यतः । जनेनावमतो योगी योगसिद्धं च विन्दति ॥ २,१३.४२ ॥ तस्माच्चरेत वै योगी सतां धर्ममदूषयन् । जना यथा वमन्येरन्गच्छेयुर्नैव सङ्गतिम् ॥ २,१३.४३ ॥ हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः । आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने ॥ २,१३.४४ ॥ भुक्ते कुल्माषवाट्यादिशाकं वन्यं फलं कणान् । यद्यदाप्नोति सुबहु तदत्ते कालसंयमम् ॥ २,१३.४५ ॥ पितर्युपरते सोऽथ भ्रातृभ्रातृव्यबान्धवैः । कारितः क्षेत्रकर्मादिकदन्नाहारपोषितः ॥ २,१३.४६ ॥ समाक्षपीनावयवो जडकारी च कर्मणि । सर्वलोकोपकरणं बभूवाहारचेतनः ॥ २,१३.४७ ॥ तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम् । क्षत्तासौवीरराजस्य काल्यै पशुमकल्पयत् ॥ २,१३.४८ ॥ रात्रौ तं समलङ्कृत्य वैशसस्य विधानतः । अधिष्ठितं महाकाली ज्ञात्वा योगेश्वरं तथा ॥ २,१३.४९ ॥ ततः खङ्गं समादाय निशितं निशि सा तथा । क्षत्तारं क्रूरकर्माणमच्छिनत्कण्ठमूलतः । स्वपार्षदयुता देवी पपौ रुधिरमुल्बणम् ॥ २,१३.५० ॥ ततःसौवीरराजस्य प्रयातस्य महात्मनः । विष्टकर्ताथ मन्येत विष्टियोग्योयमित्यपि ॥ २,१३.५१ ॥ तं तादृशं महात्मानं भस्मच्छन्नमिवानलम् । क्षत्ता सौवीरराजस्य विष्टियोग्यममन्यत ॥ २,१३.५२ ॥ स राजा शिबिकारूढो गन्तुं कृतमतिर्द्विज । बभूवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम् ॥ २,१३.५३ ॥ श्रेयः किमत्र संसारे दुःखप्राये नृणामिति । प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् ॥ २,१३.५४ ॥ उवाह शिबिकां तस्य क्षत्तुर्वचनचोदितः । नृणां विष्टिगृहीतानामन्येषां सोऽपि मध्यगः ॥ २,१३.५५ ॥ गृहीतो विष्टिना विप्रः सर्वज्ञानैकभाजनम् । जातिस्मरोसौ पपास्य क्षयकाम उवाह ताम् ॥ २,१३.५६ ॥ ययौ जडमतिः सोथ मृगमात्रावलोकनम् । कुर्वन्मतिमतां श्रष्ठस्तदन्ये त्वरितं ययुः ॥ २,१३.५७ ॥ विलोक्य नृपतिः सोथ विषमां शिबिकागतिम् । किमेतदित्याह समं गम्यतां शिबिकावहाः ॥ २,१३.५८ ॥ पुनस्तथैव शिबिकं विलोक्य विषमां हि सः । नृपः किमेतदित्याह भवद्भिर्गम्यतेन्यथा ॥ २,१३.५९ ॥ भूपतेर्वदतस्तस्य श्रुत्वेत्थंबहुशो वचः । शिबिकावाहकाः प्रोजुरयं यातीत्यसत्वरम् ॥ २,१३.६० ॥ राजोवाच किं श्रिन्तोस्यल्पमध्वानं त्वयोढा शिबिका मम । किमाया ससहो न त्वं पीवानसि निरीक्ष्यसे ॥ २,१३.६१ ॥ ब्राह्मण उवाच नाहं पीवा न चैवोढा शिबिका भवतो मया । न श्रान्तोस्मि न चायासो सोढव्योस्ति महीपते ॥ २,१३.६२ ॥ राजोवाच प्रत्यक्षं दृश्यसे पीवानद्यापि शिबिका त्वयि । श्रमश्च भारोद्वहने भवत्येव हि देहिनाम् ॥ २,१३.६३ ॥ ब्रह्मण उवाच प्रत्यक्षं भवता भूप यद्दृष्टं मम तद्वद । बलवानबलश्चेति वाच्यं पश्चाद्विशेषणम् ॥ २,१३.६४ ॥ त्वयोढा शिबिका चेति त्वय्यद्यापि च संस्थिता । मिथ्यैतदत्र तु भवाञ्छृणोतु वचनं मम ॥ २,१३.६५ ॥ भूमौ पादयुगं त्वास्ते जङ्घे पादद्वये स्थिते । ऊर्वोर्जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ॥ २,१३.६६ ॥ वक्षस्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ । स्कन्धाश्रितेयं शिबिका मम भारोत्र किं कृतः ॥ २,१३.६७ ॥ शिबिकायां स्थितं चेदं वपुस्त्वदुपलक्षितम् । तत्र त्वमहमप्यत्र प्रोज्यते चेदमन्यथा ॥ २,१३.६८ ॥ अहं त्वं च तथान्ये च भूतैरुह्याम पर्थिव । गुणप्रवाहपतितो भूतवर्गौपि यात्ययम् ॥ २,१३.६९ ॥ कर्मवश्या गुणश्चैते सत्त्वाद्याः पृथिवीपते । अविद्यासंचितं कर्म तच्चासेषेषु जन्तुषु ॥ २,१३.७० ॥ आत्मा शुद्धोक्षरः शान्तो निर्गुणः प्रकृतेः परः । प्रवृद्ध्यपचयौ नास्य एकस्याखिलजन्तुषु ॥ २,१३.७१ ॥ यदा नोपचयस्तस्य न चैवापचयो नृप । तदा पीवानसीतीत्थं कया युक्त्या त्वयेरितम् ॥ २,१३.७२ ॥ भूपादजङ्घाकट्यूरुजठरादिषु संस्थिते । शिबिकेयं यथा स्कन्धे तथा भारः समस्त्वया ॥ २,१३.७३ ॥ तथान्यैर्जन्तुभिर्भूप शिबिकोढा न केवलम् । शैलद्रुमगृहोत्थोपि पृथिवी संभवोपि वा ॥ २,१३.७४ ॥ यदा पुंसः सृथग्भावः प्राकृतैः कारणेर्नृप । सोढव्यस्तु तदायासः कथं वा नृपते मया ॥ २,१३.७५ ॥ यद्द्रव्या शिबिका चेयं तद्द्रव्यो भूतसंग्रहः । भवतो मेऽकिलस्यास्य ममत्वेनोपबृंहितः ॥ २,१३.७६ ॥ श्रीपारशर उवाच एवमुक्त्वाभवन्मौनी स वहञ्छिबिकां द्विज । सोऽपि राजावतीर्योव्यां तत्पादौ जगृहे त्वरन् ॥ २,१३.७७ ॥ राजोवाच भोभोविसृज्य शिबिकां प्रसादं कुरु मे द्विजः । कथ्यतां को भवानत्र जाल्मरूपधरः स्थितः ॥ २,१३.७८ ॥ यो भवान्यन्निमित्तं वा यदागमनकारणम् । तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया ॥ २,१३.७९ ॥ ब्रह्मण उवाच श्रूयतां सोहमित्येतद्वक्तुं भूप न शक्यते । उपभोगनिमित्तं च सर्वत्रागमनक्रिया ॥ २,१३.८० ॥ सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ । धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देहादिमृच्छति ॥ २,१३.८१ ॥ सर्वस्यैव हि भूपाल जन्तोः सर्वत्र कारणम् । धर्माधर्मौ यतः कस्मात्कारणं पृच्छते त्वया ॥ २,१३.८२ ॥ राजोवाच धर्माधर्मौ न सन्देहःसर्वकार्येषु कारणम् । उपभोगनिमित्तं च देहाद्देहान्तरागमः ॥ २,१३.८३ ॥ यस्त्वेतद्भवता प्रोक्तं सोहमित्येतदात्मनः । वक्तुं न सक्यते श्रोतुं तन्ममेच्छा प्रवर्तते ॥ २,१३.८४ ॥ योस्ति सोहमिति ब्रह्मन्कथं वक्तुं न शक्यते । आत्मन्येष न दोषाय शब्दोहमिति यो द्विज ॥ २,१३.८५ ॥ ब्राह्मण उवाच शब्दोहमिति दोषाय नात्मन्येष तथैव तत् । अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ॥ २,१३.८६ ॥ जिह्वा ब्रवीत्यहमिति दन्तोष्ठौ तालुके नृप । एतेनाहं यतः सर्वे वाङ्निष्पादनहेतवः ॥ २,१३.८७ ॥ किं हेतुभिर्वदत्येषा वागेवाहमिति स्वयम् । अतः पीवानसीत्येतद्वक्तुमित्थं न युज्यते ॥ २,१३.८८ ॥ पिण्डः पृथग्यतः पुंसः शिरः पाण्यादिलक्षणः । ततोहमिति कुत्रैतां संज्ञां राजन्करोम्यहम् ॥ २,१३.८९ ॥ यद्यन्योस्ति परः कोपि मत्तः पार्थिवसत्तम । तदैषोहमयं चान्यो वक्तुमेवमपीष्यते ॥ २,१३.९० ॥ यदा समस्तदेहेषु पुमानेको व्यवस्थितः । तदा हि को भवान्सोहमित्येतद्विफलं वचः ॥ २,१३.९१ ॥ त्वं राजा शिबिका चेयमिमे वाहाः पुरः सराः । अयं च भवतो लोको न सदेतन्नृपोच्यते ॥ २,१३.९२ ॥ वृक्षाद्दारु ततश्चेयं शिबिका त्वदधिष्ठिता । किं वृक्षसंज्ञा वास्याः स्याद्दारुसंज्ञाथ वा नृप ॥ २,१३.९३ ॥ वृक्षारूढो महाराजो नायं वदति ते जनः । न च दारुणि सर्वस्त्वां ब्रवीतिशिबिकागतम् ॥ २,१३.९४ ॥ शिबिकादारुसंघातो रचनास्थितिसंस्थितः । अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिबिका त्वया ॥ २,१३.९५ ॥ एवं छत्रशलाकानां पृथग्भावे विमृश्यताम् । क्व यातं छत्रमित्येतन्न्यायस्त्वयि तथा मयि ॥ २,१३.९६ ॥ पुमांस्त्रीगौरजो वाजी कुञ्जरो विहगस्तरुः । देहेषुलोकसंज्ञेयं विज्ञेया कर्महेतुषु ॥ २,१३.९७ ॥ पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्मयोनयः ॥ २,१३.९८ ॥ वस्तु राजेति यल्लोके यच्च राजभटात्मकम् । तथान्यच्च नृपेत्थं तन्न सत्संकल्पनामयम् ॥ २,१३.९९ ॥ यत्तु कालान्तेरेणापि नान्यां संज्ञामुपैति वै । परिणामादिसंभूतां तद्वस्तु नृप तच्च किम् ॥ २,१३.१०० ॥ त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपो रिपुः । पत्न्याः पतिः पिता सूनोः किं त्वं भूपवदाम्यहम् ॥ २,१३.१०१ ॥ त्वं किमेतच्छिरः किं नु ग्रीवा तव तथोदरम् । किमु पादादिकं त्वं वा तवैतत्किं महीपते ॥ २,१३.१०२ ॥ समस्तावयवेभ्यस्त्वं पृथग्भूय व्यवस्थितः । कोऽहमित्यत्र निपुणो भूत्वा चिन्तय पर्थिव ॥ २,१३.१०३ ॥ एवं व्यवस्थिते तत्त्वे मयाहमिति भाषितुम् । पृथक्करणनिष्पाद्यं शक्यते नृपते कथम् ॥ २,१३.१०४ ॥ इति श्रीविष्णुमहापुराणे द्वितीयेंसे त्रयोदशोऽध्यायः (१३) _____________________________________________________________ श्रीपराशर उवाच निशम्य तस्येति वचः परमार्थसमन्वितम् । प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ॥ २,१४.१ ॥ राजोवाच भगवन्यत्त्वया प्रोक्तं परमार्थमयं वचः । श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः ॥ २,१४.२ ॥ एतद्विवेकविज्ञानं यदशेषेषु जन्तुषु । भवता दर्शितं विप्रतत्परं प्रकृतेर्महत् ॥ २,१४.३ ॥ नाहं वहामि शिबिकां शिविका न मयि स्थिता । शरीरमन्यदस्मत्तौ योनेयं शिबिका धृता ॥ २,१४.४ ॥ गुणप्रवृत्त्या भूतानां प्रवृत्तिः कर्मचोदिता । प्रवर्तन्ते गुणा ह्येते किं ममेति त्वयोदितम् ॥ २,१४.५ ॥ एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते । मनो विह्वलतामेति परमार्थार्थितां गतम् ॥ २,१४.६ ॥ पूर्वमेव महाभागं कपिलर्षिमहं द्विज । प्रष्टुमभ्युद्यतो गत्वा श्रेयः किं त्वत्र शंस मे ॥ २,१४.७ ॥ तदन्तरे च भवता यदेत द्वाक्यमीरितम् । तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥ २,१४.८ ॥ कपिलर्षिर्बागवतः सर्वभूतस्य वै द्विज । विष्णोरंशो जगन्मोहनाशायोर्वीमुपागतः ॥ २,१४.९ ॥ स एव भगवान्नूनमस्माकं हितकाम्यया । प्रत्यक्षतामत्र गतो यथैतद्भावतोच्यते ॥ २,१४.१० ॥ तन्मह्यं प्रणताय त्वं यच्छ्रेयः परमं द्विजः । तद्वदाखिल विज्ञानजलवीच्युदधिर्भवान् ॥ २,१४.११ ॥ ब्राह्मण उवाच भूप पृच्छसि किं श्रेयः परमार्थं नु पृच्छसि । श्रेयांस्यपरमार्थानि अशेषाणि च भूपते ॥ २,१४.१२ ॥ देवताराधनं कृत्वा धनसम्पदमिच्छति । पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ॥ २,१४.१३ ॥ कर्म यज्ञात्मकं श्रेयः फलं तत्प्राप्तिलक्षणम् । श्रेयः प्रधानं च फले तदेवानभिसंहिते ॥ २,१४.१४ ॥ आत्मा ध्येयः सदा भुप योगयुक्तैस्तथा परम् । श्रेयस्तस्यैव संयोगः श्रेयो यः परमात्मनः ॥ २,१४.१५ ॥ श्रेयांस्येवमनेकानि शतशोय सहस्रसः । सन्त्यत्र परमार्थस्तु न त्वेते श्रूयतां च मे ॥ २,१४.१६ ॥ धर्माय त्यज्यते किन्तु परमार्थो धनं यदि । व्ययश्च क्रियते कस्मात्कामप्राप्त्युपलक्षणः ॥ २,१४.१७ ॥ पुत्रश्चेत्परमार्थः स्यात्सोऽप्यन्यस्य नरेश्वर । परमार्थभूतः सोन्यस्य परमार्थो हि तत्पिता ॥ २,१४.१८ ॥ एवं न परमार्थोस्ति जगत्यस्मिञ्चराचरे । परमार्थो हि कार्याणि कारणानामशेषतः ॥ २,१४.१९ ॥ राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि । परमार्था भवन्त्यत्र न भवन्ति च वै ततः ॥ २,१४.२० ॥ ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव । परमार्थभूतं तत्रापि श्रुयतां गदतो मम ॥ २,१४.२१ ॥ यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया । तत्कारणानुगमनाज्ज्ञायते नृप मृण्मयम् ॥ २,१४.२२ ॥ एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः । निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥ २,१४.२३ ॥ अनाशो परमार्थश्च प्राज्ञौरभ्युपगम्यते । तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ॥ २,१४.२४ ॥ तदेवाफलदं कर्म परमार्थो मतस्तव । मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ॥ २,१४.२५ ॥ ध्यानं चैवात्मनो भूपु परमार्थार्थशब्दितम् । भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ॥ २,१४.२६ ॥ परमात्मात्मनोर्योगः परमार्थ इतीष्यते । मिथ्यैतदन्यद्रव्यं हि नैति तद्द्रव्यतां यतः ॥ २,१४.२७ ॥ तस्माच्छ्रेयांस्यशेषाणि नृवैतानि न संशयः । परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ॥ २,१४.२८ ॥ एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः । जन्मवृद्ध्यादिरहित आत्मा सर्वगतोव्ययः ॥ २,१४.२९ ॥ परज्ञानमयो सद्भिर्नामजात्यादिभिर्विभुः । न योगवान्न युक्तोभून्नैव पार्थिव योक्ष्यते ॥ २,१४.३० ॥ तस्यात्मपरदेहेषु सतोप्येकमयं हि यत् । विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यर्शिनः ॥ २,१४.३१ ॥ वेणुरन्ध्रप्रभेदेन भेदः षङ्जादिसंज्ञितः । अभेदव्यापिनोवायोस्तथास्य परमात्मनः ॥ २,१४.३२ ॥ एकस्वरूपभेदश्च ब्राह्मकर्मावृतिप्रजः । देवादिभेदेऽपध्वस्तें नास्त्येवावरणे हि सः ॥ २,१४.३३ ॥ इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे चतुर्दशोऽध्यायः (१४) श्रीपराशर उवाच _____________________________________________________________ श्रीपराशर उवाच इत्युक्ते मौनिनं भूयश्चिन्तयानं महीपतिम् । प्रत्युवाचाथ विप्रोसावद्वैतान्तर्गतां कथाम् ॥ २,१५.१ ॥ ब्राह्मण उवाच श्रूयतां नृपशार्दूल यद्गीतमृभुणा पुरा । अवबोधं जनयता निदाघस्य महात्मनः ॥ २,१५.२ ॥ ऋभुनामाभवत्पुत्रो ब्रह्मणः परमेष्ठिनः । विज्ञाततत्त्वसद्भावो निसर्गादेव भूपते ॥ २,१५.३ ॥ तस्य शिष्यो निदाघोभूत्पुलस्त्यतनयः पुरा । प्रादादशेषविज्ञानं स तस्मै परया मुदा ॥ २,१५.४ ॥ अपाप्तज्ञानतन्त्रस्य न तस्याद्वैतवासना । स ऋभुस्तर्कयामास निदाघस्य नरेश्वर ॥ २,१५.५ ॥ देविकायास्तटे वीरनगरं नाम वै पुरम् । समृद्दमतिरम्यं च पुलस्त्येन विवेशित्म ॥ २,१५.६ ॥ रम्योपवनपर्यन्ते स तस्मिन्पार्थिवोत्तम । निदाघो नाम योगज्ञ ऋभुशिष्योऽवसत्पुरा ॥ २,१५.७ ॥ दिव्ये वर्षसहस्रे तु समतीतेस्य तत्पुरम् । जगाम स ऋभुः शिष्यं निदाघमवलोककः ॥ २,१५.८ ॥ स तस्य वैश्वदेवान्ते द्वारालोकनगोचरे । स्थितस्तेन गृहीतार्घ्यो निजवेश्म प्रवेशितः ॥ २,१५.९ ॥ प्रक्षालिताङ्घ्रिपाणिं च कृता सनपरिग्रह्म । उवाच स द्विजाश्रेष्ठो भुज्यतामिति सादरम् ॥ २,१५.१० ॥ ऋभुरुवाच भो विप्रवर्य भोक्तव्यं यदन्नं भवतो गुहे । तत्कथ्यतां कदन्नेषु न प्रीतिः सततं मम ॥ २,१५.११ ॥ निदाघ उवाच सक्तुयावकवाट्यानामपूपानां च मे गृहे । यद्रोचते द्विजश्रेष्ठ तत्त्वं भुक्ष्व यथेच्छया ॥ २,१५.१२ ॥ ऋभुरुवाच कदन्नानि द्विजौतानि मृष्टमन्नं प्रयच्छ मे । संयावपायसादीनि द्रप्सफाणितवन्ति च ॥ २,१५.१३ ॥ निदाघ उवाच हेहे शालिनि मद्गेहे यत्किञ्चिदतिशोभनम् । भक्ष्योपसाधनं मृष्टं तेनास्यान्नं प्रसाधय ॥ २,१५.१४ ॥ ब्राह्मण उवाच इत्युक्ता तेन सा पत्नीमृष्टमन्नं द्विजस्य यत् । प्रसादितवती तद्वै भर्तुर्वचनगौरवात् ॥ २,१५.१५ ॥ तं भुक्तवन्तमिच्छातो मृष्टमन्नं महामुनिम् । निदाधः प्राह भूपाल प्रश्रयावनतः स्थितः ॥ २,१५.१६ ॥ निदाघ उवाच अपिते परमा तृप्तिरुत्पन्ना तुष्टिरेव च । अपि ते मानसंस्वस्थमाहारेण कृतं द्विज ॥ २,१५.१७ ॥ क्वनिवासो भवान्विप्र क्व च गन्तुंसमुद्यतः । आगम्यते च भवता यतस्तच्च द्विजोच्यताम् ॥ २,१५.१८ ॥ ऋमुरुवाच क्षुद्यस्य तस्य भुक्तेन्ने तृप्तिर्ब्राह्मण जायते । न मे क्षुन्नाभवत्तृप्तिः कस्मान्मां परिपृच्छसि ॥ २,१५.१९ ॥ वह्निना पार्थिवे धातौ क्षपिते क्षुत्समुद्भवः । भवत्यम्भसि च क्षीणे नृणां तृडपि जायते ॥ २,१५.२० ॥ क्षुत्तुष्णे देहधर्माख्ये न ममैते यतो द्विज । ततः क्षुत्सम्भवाभावात्तृप्तिरस्त्येव मे सदा ॥ २,१५.२१ ॥ मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज । चेतसो यस्य तत्पृच्छ पुमानेभिर्न युज्यते ॥ २,१५.२२ ॥ क्व निवासस्तवेत्युक्तं क्व गन्तासि च यत्त्वाया । कुताश्चागम्यते तत्र त्रितयेपि निबोध मेः ॥ २,१५.२३ ॥ पुमान्सर्वगतो व्यापी आकाशवदयं यतः । कुतः कुत्र क्व गन्तासीत्ये तदप्यर्थवत्कथम् ॥ २,१५.२४ ॥ सोऽहं गन्ता न चागन्ता नैकदेशनिकेतनः । त्वं चान्ये च न च त्वं च नान्ये नैवाहमप्यहम् ॥ २,१५.२५ ॥ मृष्टं न मृष्टमप्येषा जिज्ञासा मे कृता तव । किं वक्ष्यसीति तत्रापि श्रूयतां द्विजसत्तम ॥ २,१५.२६ ॥ किमस्वाद्वथ वा मृष्टं भुञ्जतोस्ति द्विजोत्तम । मृष्टमेव यथा मृष्टं तदेवोद्वेगकारकम् ॥ २,१५.२७ ॥ अमृष्टं जायते मृष्टं मृष्टादुद्विजते जनः । आदिमध्यावसानेषु किमन्नं रुचिकारकम् ॥ २,१५.२८ ॥ मृण्मयं हि गृहं यद्वन्मृदा लिप्तं स्थिरं भवेत् । पर्थिवोयं तथा देहः पार्थिवैः परमाणुभिः ॥ २,१५.२९ ॥ यवगोधूममुद्गादि घृतं तैलं पयो दधि । गुडंफलादीनि तथा पार्थिवाः परमाणवः ॥ २,१५.३० ॥ तदेतद्भवता ज्ञात्वा मृष्टामृष्टविचारि यत् । तन्मनःसमतालम्बि कार्यं साम्यं हि मुक्तये ॥ २,१५.३१ ॥ ब्राह्मण उवाच इत्याकर्ण्य वचस्तस्य परमार्थश्रितं नृप । प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीत् ॥ २,१५.३२ ॥ प्रसीद मद्धितार्थाय कथ्यतां यत्त्वमागतः । नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्वीज ॥ २,१५.३३ ॥ ऋभुरुवाच ऋमुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज । इहाग तोहं यास्यामि परमार्थस्तवोदितः ॥ २,१५.३४ ॥ एवमेकमिदं विद्धि न भेदि सकलं जगत् । वासुदेवाभिधेयस्य स्वरूपं परमात्मनः ॥ २,१५.३५ ॥ ब्राह्मण उवाच तथत्युक्त्वा निदाघेन प्रणिपातपुरःसरम् । पूजतः परया भक्त्या इच्छातः प्रययावृभुः ॥ २,१५.३६ ॥ इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे पञ्चदशोऽध्यायः (१५) _____________________________________________________________ ब्राह्मण उवाच ऋभुर्वर्षसहस्रे तु समतीते नरेश्वर । निदाघज्ञानदानाय तदेव नगरं ययौ ॥ २,१६.१ ॥ नगरस्य बहिः सोथ निदाघं ददृशे मुनिः । महीबलपरीवारे पुरं विशति पार्थिवे ॥ २,१६.२ ॥ दूरे स्थितं महाभागं नजसंमर्दवर्जकम् । क्षुत्क्षामकण्ठमायान्तमरण्यात्ससमित्कुशम् ॥ २,१६.३ ॥ दृष्ट्वा निदाघं स ऋभुरुपगम्याभिवाद्य च । उवाच कस्मादेकान्ते स्थीयते भवता द्विज ॥ २,१६.४ ॥ निदाघ उवाच भो विप्र जनसंमर्दे महानेष नरेश्वरः । प्रविविक्षुः पुरं रम्यं तेनात्र स्थीयते मया ॥ २,१६.५ ॥ ऋभुरुवाच नराधिपोत्र कतमः कतमश्चेतरोजनः । कथ्यतां मे द्विज श्रेष्ठ त्वमभिज्ञो मतो मम ॥ २,१६.६ ॥ निदाघ उवाच योयं गजेन्द्रमुन्मत्तमद्रिशृङ्गसमुच्छ्रितम् । अधिरूढो नरेद्रोऽयं परिलो कस्तथेतरः ॥ २,१६.७ ॥ ऋभुरुवाच एतौ हि गजराजानौ युगपद्दर्शितौ मम । भवता न विशेषेण पृथक्चिह्नोपलक्षणौ ॥ २,१६.८ ॥ तत्कथ्यतां महाभाग विशेषो भवतानयोः । ज्ञातुमिच्छाम्यहं कोत्र गजः को वा नराधिपः ॥ २,१६.९ ॥ निदाघ उवाच गजो योयमथो ब्रह्मन्नुपर्यस्यैष भूपतिः । वाह्यवा हकसम्बन्धं को न जानानि वै द्विज ॥ २,१६.१० ॥ ऋभुरुवाच जानाम्यहं यथा ब्रह्यंस्तथा मामवबोधय । अधःशब्दनिगद्यं हि किं चोर्ध्वमभिधियते ॥ २,१६.११ ॥ ब्राह्मण उवाच इत्युक्तः सहसारुह्य निदाघः प्राह तमृभुम् । श्रूयतां कथयाम्येष यन्मां त्वं परिपृच्छसि ॥ २,१६.१२ ॥ उपर्यहं यथा राजा त्वमधः कुञ्जरो यथा । अवबोधाय ते ब्रह्मन्दृष्टान्तो दर्शितो मया ॥ २,१६.१३ ॥ ऋभुरुवाच त्वं राजेन द्विजश्रेष्ठ स्थितोहं गजवद्यदि । तदेतत्त्वं समाचक्ष्व कतमस्त्वमहं तथा ॥ २,१६.१४ ॥ ब्राह्मम उवाच इत्युक्तः सत्वरं तस्य प्रगृह्य चरमाबुभौ । निदाघस्त्वाह भगवानाचार्यस्त्वमृभुर्ध्रुवम् ॥ २,१६.१५ ॥ नान्यस्याद्वैतसंस्कारसंस्कृतं मानसं तथा । यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम् ॥ २,१६.१६ ॥ ऋबुरुवाच तवोपदेशदानाय पूर्वशुश्रुषणादृतः । गुरुस्नेहादृभुर्नाम निदाघ समुपागतः ॥ २,१६.१७ ॥ तदेतदुपदिष्टं ते संक्षेपेण महामते । परमार्थसारभूतं यदद्वैतमशेषतः ॥ २,१६.१८ ॥ ब्राह्म उवाच एवमुक्त्वा ययौ विद्वान्निदाघं स ऋभुर्गुरुः । निदाघोप्युपदेशेन तेनाद्वैतपरोभवत् ॥ २,१६.१९ ॥ सर्वभूतान्यभेदेन ददृशे स तदात्मनः । यथा ब्रह्मपरो मुक्तिमवाप परमां द्विजः ॥ २,१६.२० ॥ तथा त्वमपि धर्मज्ञ तुल्योत्मरीपुबान्धवः । भव सर्गगतं जानन्नत्मानमवनीपते ॥ २,१६.२१ ॥ सितनीला दिभेदेन यथैकं दृश्यते नभः । भ्रान्तदृष्टिभिरात्मापि तथैकः सन्पृथक्पृथक् ॥ २,१६.२२ ॥ एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोन्यत् । सोऽहं स च त्वं च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ॥ २,१६.२३ ॥ श्रीपराशर उवाच इतीरितस्तेन स राजवर्स्तत्याज भेदं परमार्थदृष्टिः । स चापि जातिस्मरणाप्तबोधस्तत्रैव जन्मन्यपवर्गमाप ॥ २,१६.२४ ॥ इति भरतनरेन्द्रसारवृत्तं कथयति यश्च शृणोति भक्तियुक्तः । स विमलमतिरेति नात्म मोहं भवति च संसरणेणु मुक्तियोग्यः ॥ २,१६.२५ ॥ इति श्रीविष्णुमदृद्विदृषोडशोऽध्यायः (१६) इति श्रिविष्णुमहापुराणे द्वितीयोंशः समाप्तः _____________________________________________________________ अथ श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्यश्रीधरीय व्याख्याद्वयोपेते तृतीयोंशः प्रारभ्यते श्रीमते रामानुजाय नमः मैत्रेय उवाच कथिता गुरूणासम्यग्भूसमुद्रादिसंस्थितिः । सूर्यादिनां च संस्थानं ज्योतिषां चातिविस्तरात् ॥ ३,१.१ ॥ देवादीनां तथा सृष्टिरृषीणां चापि वर्णिता । चातुर्वर्ण्यस्य चोत्पत्तिस्तिर्यग्योनिगतस्य च ॥ ३,१.२ ॥ ध्रुवप्रह्लादचरितं विस्तराच्च त्वयोदितम् । मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात् ॥ ३,१.३ ॥ मन्वन्तराधिपांश्चैव शक३ एवपुरोगमान् । भवता कथितानेताञ्छ्रोतुमिच्छाम्यहं गुरो ॥ ३,१.४ ॥ श्रीपराशर उवाच अतीतानागतानीह यानि मन्वन्तराणि वै । तान्यहं भवतः सम्यक्लथयामि यथा क्रमम् ॥ ३,१.५ ॥ स्वायंभुवो मनुः पूर्वं परः स्वारोचिषस्तथा । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ३,१.६ ॥ षडेते मनवोतीताःसांप्रतं तु रवेःसुतः । वैवस्वतेयं यस्त्वेतत्मप्तमं वर्ततेन्तरम् ॥ ३,१.७ ॥ स्वायंभुवं तु कथितं कल्पादावन्तरं मया । देवाः सप्तर्षयश्चैव यथावत्कथिता मया ॥ ३,१.८ ॥ अत ऊर्ध्वं प्रवक्ष्यामि मनोःस्वारोचिषस्य तु । मन्वन्तराधिपान्सम्यग्देवर्षिंस्तत्सुतांस्तथा ॥ ३,१.९ ॥ पारावताः सतुषिता देवाः स्वारोचिषेऽन्तरे । विपश्चत्तत्र देवेन्द्रो मैत्रेयासीन्महाबलः ॥ ३,१.१० ॥ ऊर्जस्तंभस्तथा प्राणोवातोर्थ पृषभस्तथा । निरयश्च परीवांश्च तत्र सप्तर्षयोऽभवन् ॥ ३,१.११ ॥ चैत्रकिंपुरुषाद्याश्च सुताःस्वारोचिषस्य तु । द्वितीयमेतद्व्याख्यातमन्तरं शृणु चोत्तमम् ॥ ३,१.१२ ॥ तृतीयेप्यन्तरे ब्रह्मन्नुत्तमो नाम यो मनुः । सुशान्तिर्नाम देवेन्द्रो मैत्रेयासीत्सुताञ्छृणु ॥ ३,१.१३ ॥ सुधामानस्तथा सत्या जपाश्चाथ प्रतर्दनाः । वशवर्तिश्च पञ्चैते गणा द्वादशकाःस्मृताः ॥ ३,१.१४ ॥ वसिष्ठतनया ह्योते सप्त सप्तर्षयोभवन् । अजः परशुदीप्ताद्यास्तथोत्तममनोःसुताः ॥ ३,१.१५ ॥ तामसस्यान्तरे देवाःसुपारा हरयस्तथा । सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥ ३,१.१६ ॥ शिविरिन्द्रस्तथा चासीच्छतयज्ञोपलक्षमः । सप्तर्ष यश्च ये तेषां तेषां नामानि मे शृणु ॥ ३,१.१७ ॥ ज्योतिर्धामा पुथुः कात्यश्चैत्रोग्निर्धनकस्तथा । पीवरश्चर्षयो ह्येते सप्त तत्रापि चान्तरे ॥ ३,१.१८ ॥ नरः ख्यातिः केतुरूपो जानुजङ्घादयस्तथा । पुत्रास्तु तामसस्यासन्नाजानःसुमहाबलाः ॥ ३,१.१९ ॥ पञ्चमे वापि मैत्रेय रैवतो नाम नामतः । मनुर्विभुश्च तत्रेन्द्रो देवांश्चात्रान्तरे शृणु ॥ ३,१.२० ॥ अमिताभा भूतरया वैकुण्ठाःसुसमेधसः । एते देवगणास्तत्र चतुर्दश चतुर्दश ॥ ३,१.२१ ॥ हिरण्यरोमा वेदाश्रिरूर्ध्वबाहुस्तथावरः । वेदबाहुःसुधामा च पर्जन्यश्च महामुनिः । एते सप्तर्षयो विप्र तत्रासन्रैवतेन्तरे ॥ ३,१.२२ ॥ बलबन्धुश्च संभाव्यःसत्यकाद्याश्च तत्सुताः । नरेन्द्राश्च महावीर्या बभूवुर्मुनिसत्तम ॥ ३,१.२३ ॥ स्वारोचिषश्चौत्तमश्च तामसो रैवतस्तथा । प्रियव्रतान्वया ह्येते चत्वारो मनवःस्मृताः ॥ ३,१.२४ ॥ विष्णुमाराध्य तपसा स राजर्षिः प्रियव्रतः । मन्वन्तराधिपानेताल्लंब्धवानात्मवंशजान् ॥ ३,१.२५ ॥ षष्ठे मन्वंरते चासीच्चाक्षुषाख्यस्तथा मनुः । मनोजवस्तथैवेन्द्रो देवानपि निबोध मे ॥ ३,१.२६ ॥ आप्याः प्रसूता भव्याश्च पृथुकाश्चा दिवौकसः । महानुभावा लखाश्च पञ्चैते ह्यष्टका गणाः ॥ ३,१.२७ ॥ सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः । अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥ ३,१.२८ ॥ ऊरुः पूरुः शतध्युम्नप्रमुखाः सुमहाबलाः । चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन् ॥ ३,१.२९ ॥ विवस्वतःसुतो विप्र श्राद्धदेवो महाद्युतिः । मनुःसंवर्तते धीमान् सांप्रतं सप्तमेन्तरे ॥ ३,१.३० ॥ आदित्यवसुरुद्राद्या देवाश्चात्र महामुने । पुरन्दरस्तथैवात्र मैत्रेय त्रिदशेश्वरः ॥ ३,१.३१ ॥ वशिष्ठः काश्यपोथात्रिर्जमदग्निःसगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३,१.३२ ॥ इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तश्च विख्यातो नाभागोरिष्ट एव च ॥ ३,१.३३ ॥ करूषश्च पृषध्रश्च सुमहांल्लोकविश्रुतः । मनोर्वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः ॥ ३,१.३४ ॥ विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता । मन्वन्तरेष्वशेषेषु देवत्वेनाधितिष्ठति ॥ ३,१.३५ ॥ अंशेन तस्या जज्ञेऽसौ यज्ञःस्वायंभुवेन्तरे । आकूत्यां मानसो देव उत्पन्नः प्रथमेन्तरे ॥ ३,१.३६ ॥ ततः पुनः स वै देवः प्राप्ते स्वारोचिषेन्तरे । तुषितायां समुत्पन्नो ह्याजिषस्तुषितैः सह ॥ ३,१.३७ ॥ औत्तमप्यन्तरे देवस्तुषितस्तु पुनःस वै । सत्यायामभवत्सत्यः सत्यैः सह सुरोत्तमैः ॥ ३,१.३८ ॥ तामसस्यान्तरे चैव संप्राप्तो पुनरेव हि । हर्यायां हरिभिः सार्ध हरिरेव बभूव ह ॥ ३,१.३९ ॥ रैवतेप्यन्तरे देवःसंभूत्यां मानसो हरिः । संभूतो रैवतैः सार्ध देवैर्देववरो हरिः ॥ ३,१.४० ॥ चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः । विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह ॥ ३,१.४१ ॥ मन्वन्तरेत्र संप्राप्ते तथा वैवस्वतेद्विज । वामनः काश्यपाद्विष्णुरदित्यां संबभूव ह ॥ ३,१.४२ ॥ त्रिभिः क्रमैरिमांल्लोकाञ्जित्वा येन महात्मना । पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम् ॥ ३,१.४३ ॥ इत्येतास्तनवस्तस्य सप्तमन्वन्तरेषु वै । सप्तस्वेवाभवन्विप्र याभिः संवर्धिताः प्रजाः ॥ ३,१.४४ ॥ यस्माद्विष्टमिदं विश्वं यस्य शक्त्या महात्मनः । तस्मात्स प्रोच्यते विष्णुर्विशोर्धातोः प्रवेशनात् ॥ ३,१.४५ ॥ सर्वे च देवा मनवःसमस्ताःसप्तर्षयो ये मनुसूनवश्च । इन्द्रश्चयोऽयं त्रिदशेशभूतो विष्णोरशोषास्तु विभूतयस्ताः ॥ ३,१.४६ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे प्रथमोऽध्यायः (१) _____________________________________________________________ मैत्रेय उवाच प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै । भविष्याण्यपि विप्रर्ष ममाख्यातुं त्वमर्हसि ॥ ३,२.१ ॥ श्रीपराशर उवाच सूर्यस्य पत्नी संज्ञाभूत्तनया विश्वकर्मणः । मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥ ३,२.२ ॥ असहन्ती तु सा भर्तुस्तेजश्छायां युयोज वै । भर्तृशुश्रूषणेऽरण्यंस्वयं च तपसे ययौ ॥ ३,२.३ ॥ संज्ञेयमित्यथार्कश्च छायायामात्मजत्रयम् । शनैश्चरं मनुं चान्यं तपतीं चाप्यजाजनत् ॥ ३,२.४ ॥ छायासंज्ञा ददौ शापं यमाय कुपिता यदा । तदान्येयमसौ बुद्धिरित्यासीद्यमसूर्ययोः ॥ ३,२.५ ॥ ततो विवस्वानाख्यातां तयैवारण्यसंस्थिताम् । समाधिदृष्ट्याददृशे तामश्वां तपसि स्थिताम् ॥ ३,२.६ ॥ वाजिरूपधरः सोथ तस्यां देवावथाश्विनौ । जनयामास रेवन्तं रेतसोंते च भास्करः ॥ ३,२.७ ॥ आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान् रविः । तेजसः शमनं चास्य विश्वकर्मा चकार ह ॥ ३,२.८ ॥ भ्रममारोप्य सूर्यं तु तस्य तेजोनिशातनम् । कृतवानष्टमं भागं स व्यशातयदव्ययम् ॥ ३,२.९ ॥ यत्तस्माद्वैष्णवं तेजस्शातितं विश्वकर्मणा । जाज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम ॥ ३,२.१० ॥ त्वष्टैव तेजसा तेन विष्णोश्चक्रमकल्पयत् । त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च ॥ ३,२.११ ॥ शक्तिं गुहस्य देवानामन्येषां च यदायुधम् । तत्सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत् ॥ ३,२.१२ ॥ छायासंज्ञासुतो योसौ द्वितीयः कथितो मनुः । पूर्वजस्यासवर्णोसौ सावर्णिस्तेन कथ्यते ॥ ३,२.१३ ॥ तस्य मन्वन्तरं ह्योतत्सावर्णिकमथाष्टमम् । तच्छृणुष्व महाभाग भविष्यत्कथयामि ते ॥ ३,२.१४ ॥ सावर्णिस्तु मनुर्योसौ मैत्रेय भविता ततः । सुतपाश्चामिताभाश्च मुख्याश्चापि तथा सुराः ॥ ३,२.१५ ॥ तेषां गणाश्च देवानामेकैको विंशकः स्मृतः । सप्तर्षिनपि वक्ष्यामि भविष्यान्मुनिसत्तम ॥ ३,२.१६ ॥ दीप्तिमान् गालवो रामः कृपो द्रोणिस्तथा परः । मत्पुत्रश्च तथा व्यास ऋष्यशृङ्गश्च सप्तमः ॥ ३,२.१७ ॥ विष्णु प्रसादादनघः पातालान्तरगोचरः । विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥ ३,२.१८ ॥ विरजाश्चोर्वरीवांश्च निर्मोकाद्यास्तथापरे । सावर्णेस्तु मनोः पुत्रा भविष्यन्ति नरेश्वराः ॥ ३,२.१९ ॥ नवमो दक्षसावर्णिर्भविष्यति मुने मनुः ॥ ३,२.२० ॥ पारा मरीचिगर्भाश्च सुधर्माणस्तथा त्रिधा । भविष्यन्ति तथा देवा ह्योकैको द्वादशो गणः ॥ ३,२.२१ ॥ तेषामिद्रो महावीर्यो भविष्यत्यद्भुतो द्विज ॥ ३,२.२२ ॥ सवनो द्युतिमान् भव्यो वसुर्मेधातिथिस्तथा । ज्योतिष्मान् सप्तमः सत्यस्तत्रैते च महर्षयः ॥ ३,२.२३ ॥ धृतकेतुर्दीप्तिकेतुः पञ्चहस्तनिरामयौ । पृथुश्रवाद्याश्च तथा दक्षमावर्णिकात्मजाः ॥ ३,२.२४ ॥ दसमो ब्रह्मसावर्मिर्भविष्यति मुने मनुः । सूधामानो विशुद्धाश्च शतसंख्यास्तथा सुराः ॥ ३,२.२५ ॥ तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः । सप्तर्षयो भविष्यन्ति ये तथा ताञ्छृणुष्व ह ॥ ३,२.२६ ॥ हविष्मान्सुकृतःसत्यस्तपोमूर्तिस्तथापरः । नाभागोऽप्रतिमौजाश्चसत्यकेतुस्तथैव च ॥ ३,२.२७ ॥ सुक्षेत्रश्चोत्तमौजाश्चभूरिषेणादयो दश । ब्रह्मसावर्णिपुत्रास्तु रक्षिष्यन्ति वसुंधराम् ॥ ३,२.२८ ॥ एकादशश्च भविता धर्मसावर्णिको मनुः ॥ ३,२.२९ ॥ विहङ्गमाः कामागमा निर्वाणा ऋषयस्तथा । गणास्त्वेते तदा मुख्या देवानां च भविष्यताम् । ऐकैकस्त्रिंशकस्तेषां गणश्चेन्द्रश्च वै पृषा ॥ ३,२.३० ॥ निः स्वरश्चाग्नितेजाश्च वपुष्मान्घणिरारुणिः । हविष्माननघश्चैव भाव्याः सप्तर्षयस्तथा ॥ ३,२.३१ ॥ सर्वत्रगस्शुधर्मा च देवानीकादयस्तथा । भविष्यन्ति मनोस्तस्य तनयाः पृतिविश्वराः ॥ ३,२.३२ ॥ रुद्रपुत्रस्तु सावर्णिर्भविता द्वादशो मनुः । ऋकुधामा च तत्रेद्रो भविता शृणु मे सुरान् ॥ ३,२.३३ ॥ हरिता रोहिता देवास्तथा मुमनसो द्विज । सुकर्माणः सुरापाश्च दशकाः पञ्च वै गणाः ॥ ३,२.३४ ॥ तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः । तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः । सप्तर्षयस्त्विमे तस्य पुत्रानपि निबोध मे ॥ ३,२.३५ ॥ देववानुपदेवश्च देवश्रेष्ठादयस्तथा । मनोस्तस्य महावीर्या भविष्यन्ति महानृपाः ॥ ३,२.३६ ॥ त्रयोदशो रुचिर्नामा भविष्यति मुने मनः ॥ ३,२.३७ ॥ सुत्रामाणः सुकर्माणः सुधर्माणस्तथामराः । त्रयस्त्रिंशद्विभेदास्त देवानां यत्र वै गणाः ॥ ३,२.३८ ॥ दिवस्पतिर्महावीर्यस्तेषामिन्द्रोभिविष्यति ॥ ३,२.३९ ॥ निर्मोहस्तत्त्वदर्शि च निष्प्रकंप्यो निरुत्सुकः । धृतिमानव्ययश्चान्यःसप्तमःसुतपा मुनिः । सप्तर्षयस्त्वमी तस्य पुत्रानपि निबोधे मे ॥ ३,२.४० ॥ चित्रसेनविचित्राद्या भविष्यन्ति महीक्षिकः ॥ ३,२.४१ ॥ भौमश्चतुर्दशश्चात्र मैत्रेय भविता मनः । शुचिरिन्द्रः सुरगणस्तत्र पञ्च शृणुष्व तान् ॥ ३,२.४२ ॥ चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजिकास्तथा । वाचवृद्धश्च वै देवाःसप्तर्षीनपि मे शृणु ॥ ३,२.४३ ॥ अग्निबाहुः शुचिः शुक्रो मागधोग्नीध्र एव च । युक्तस्तथा जितश्चान्यो मनुपुत्रानतः शृणु ॥ ३,२.४४ ॥ ऊरुगंभीरबुद्ध्याद्या मनोस्तस्य सुता नृपाः । कथिता मुनिशार्दुल पालयिष्यन्ति ये महीम् ॥ ३,२.४५ ॥ चतुर्युगान्ते वेदानां जायते किल विप्लवः । प्रवर्तयन्ति तानेत्य भुवं सप्तर्षयो दिवः ॥ ३,२.४६ ॥ कृतेकृते स्मृतेर्विप्र प्रणेता जायते मनुः । देवा यज्ञभुजस्ते तु यावन्मन्वन्तरं तु तत् ॥ ३,२.४७ ॥ भवन्ति ये मनोः पुत्रा यावन्मन्वंरतं तु तैः । तदन्वयोद्भवैश्चैव तावद्भूः परीपाल्यते ॥ ३,२.४८ ॥ मनुःसप्तर्षयो देवा भूपालाश्च मनोः सुताः । मन्वन्तरे भवन्त्येते शक्रश्चैवाधिकारिमः ॥ ३,२.४९ ॥ चतुर्दशभिरेतैस्तु गतैर्मन्वन्तरैर्द्विज । सहस्रयुगपर्यतः कल्पो निःशेष उच्यते ॥ ३,२.५० ॥ तावत्प्रमाणा च निशा ततो भवति सत्तम । ब्रह्मरूपधरः शेते शेषाहावंबुसंप्लवे ॥ ३,२.५१ ॥ त्रैलोक्यमखिलं ग्रस्त्वा भगवानादिकृद्विभुः । स्वमायासंस्तितो विप्र सर्वभूतो जनार्दनः ॥ ३,२.५२ ॥ ततः प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः । सृष्टिं करोत्यव्ययात्मा कल्पेकल्पे रजोगुमः ॥ ३,२.५३ ॥ मनवो भूभुजःसेंद्रा देवाःसप्तर्षयस्तथा । सात्त्विकोंशः स्थितिकरो जगतो द्विजसत्तम ॥ ३,२.५४ ॥ चदुर्युगोप्यसौ विष्णुः स्थितिव्यापारलक्षमः । युगव्यवस्थां कुरुते तथा मैत्रेय तच्छृणु ॥ ३,२.५५ ॥ कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् । ददाति सर्वभूतात्मा सर्वभूतहिते रतः ॥ ३,२.५६ ॥ चक्रवर्तिस्वरूपेण त्रेतायामपि स प्रभूः । दुष्टानां निग्रह कुर्वन्परिपाति जगत्त्रयम् ॥ ३,२.५७ ॥ वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः । करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥ ३,२.५८ ॥ वेदांस्तु द्वापरे व्यस्य कलेरन्ते पुनर्हरिः । कल्किस्वरूपी दुर्वृत्तन्मार्गे स्थापयति प्रभुः ॥ ३,२.५९ ॥ एवमेतज्जगत्सर्वं शश्वत्पाति करोति च । हन्ति चान्तेष्वनन्तात्मा नास्त्यस्मव्द्यतिरेकि यत् ॥ ३,२.६० ॥ भूतं भव्यं भविष्यं च सर्वभूतान्महात्मनः । तदत्रान्यत्र वा विप्र सद्भावः कथितस्तव ॥ ३,२.६१ ॥ मन्वन्तराण्यशेषाणि कथितानि मया तवा । मन्वन्तराधिपांश्चैव किमन्यत्कथयामि ते ॥ ३,२.६२ ॥ इति श्रिविष्णुमहापुराणे तृतीयांशे द्वितीयोऽध्यायः (२) _____________________________________________________________ मैत्रेय उवाच ज्ञातमेतन्मया त्वत्तो यथा सर्वमिदं जगत् । विष्णुर्विष्णो विष्णुतश्च न परं विद्यते ततः ॥ ३,३.१ ॥ एतत्तु श्रोतुमिच्छामि व्यस्ता वेदा महात्मना । वेदव्यासस्वरूपेण यथा तेन युगेयुगे ॥ ३,३.२ ॥ यस्मिन्यस्मिन्युगे व्यासो यो य आसीन्महामुने । तन्तमाचक्ष्व भगवञ्छाशाभेदांश्च मे वद ॥ ३,३.३ ॥ श्रीपराशर उवाच वेदद्रुमस्य मैत्रेय शाखाभेदाःसहस्रशः । न शक्तो विस्तराद्वक्तुं सेक्षेपेण शृणुष्व तम् ॥ ३,३.४ ॥ द्वापरेद्वापरे विष्णुर्व्यासरूपी महामुने । वेदमेकं सुबहुधा कुरुते जगतो हितः ॥ ३,३.५ ॥ वीर्यं तेजो बलं चाल्पं मनुष्याणामवेक्ष्य च । हिताय सर्वभूतानां वेदभेदान्करोति सः ॥ ३,३.६ ॥ ययासौ कुरुते तन्वा वेदमेकं पृथक्प्रभुः । वेदव्यासाभिधाना तु सा च मूर्तिर्मध्रुद्विषः ॥ ३,३.७ ॥ यस्मिन्मन्वंरते व्यासा येये स्युस्तान्निबोध मे । यथा च भेदः शाखानां व्यासेन क्रियते मुने ॥ ३,३.८ ॥ अष्टविंशतिकृत्वो वै वेदो व्यस्तो सहर्षिभिः । वैवस्वतेन्तरे तस्मिन्द्वापरेषु पुनः पुनः ॥ ३,३.९ ॥ वेदव्यासा व्यतीता ये ह्यष्टर्विशति सत्तम । चतुर्धा यैः कृतो वेदो द्वापरेषु पुनः पुनः ॥ ३,३.१० ॥ द्वापरे प्रथमे व्यस्तःस्वयं वेदः स्वयंभुवा । द्वितीये द्वापरे चैव वेदव्यासः प्रजापति ॥ ३,३.११ ॥ तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः । सविता पञ्चमे व्यासः षष्ठे मृत्युः स्मृतः प्रभुः ॥ ३,३.१२ ॥ सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे स्मृतः । सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥ ३,३.१३ ॥ एकादशे तु त्रिशिखो भरद्वाजस्ततः परः । त्रयोदशे चान्तरिक्षो वर्णी चापि चतुर्दशे ॥ ३,३.१४ ॥ त्रय्यारुणः पञ्चदशे षोडशे तु धनञ्जयः । क्रतुञ्जयः सप्तदशे तदूर्ध्वं च जयःस्मृतः ॥ ३,३.१५ ॥ ततो व्यासो भरद्वाजो भरद्वाजाच्च गौतमः । गौतमादुत्तरो व्यासो हर्यात्मा योभिधीयते ॥ ३,३.१६ ॥ अथ हर्यात्मनोन्ते च स्मृतो वाजश्रवामुनिः । सोमशुष्कायणस्तस्मात्तृणबिन्दुरिति स्मृतः ॥ ३,३.१७ ॥ ऋक्षोभूद्भार्गवस्तस्माद्वाल्मीकिर्योभिधीयते । तस्मादस्मत्पिता शक्तिर्व्यासस्तस्मादहं मुने ॥ ३,३.१८ ॥ जातुकर्णोभवन्मत्तः कृष्णद्वैपायनस्ततः । अष्टविंशतिरित्येते वेदव्यासाः पुरातनाः ॥ ३,३.१९ ॥ एको वेदश्चतुर्धा तु तैः कृतो द्वापरादिषु ॥ ३,३.२० ॥ भविष्ये द्वापरे चापि द्रौणिर्व्यासो भविष्यति । व्यतीते मम पुत्रेस्मिन् कृष्णद्वैपायने मुने ॥ ३,३.२१ ॥ ध्रुवमेकाक्षरं ब्रह्म ओमित्येव व्यवस्थितम् । बृहत्वाद्बृंहणत्वाच्च तद्ब्रह्योत्यभिधीयते ॥ ३,३.२२ ॥ प्रणवावस्थितं नित्यं भूर्भुवःस्वरितीर्यते । ऋग्यजुःसामाथर्वाणो यत्तस्मै ब्रह्मणे नमः ॥ ३,३.२३ ॥ जगतः प्रलयोत्पत्त्योर्यत्तत्कारणसंज्ञितम् । महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः ॥ ३,३.२४ ॥ अगाधापारमक्षय्यं जगत्संमोहनालयम् । स्वप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् ॥ ३,३.२५ ॥ संख्यज्ञानवतां निष्ठा गतिः शमदमात्मनाम् । यत्तदव्यक्तममृतं प्रवृत्तिर्ब्रह्म शाश्वतम् ॥ ३,३.२६ ॥ प्रधानमात्मयोनिश्च गुहासंस्थं च शब्द्यते । अविभागं तथा शुक्रमक्षयं बहुधात्मकम् ॥ ३,३.२७ ॥ परमब्रह्मणे तस्मै नित्यमेव नमोनमः । यद्रूपं वासुदेवस्य परमात्मस्वरूपिणः ॥ ३,३.२८ ॥ एतद्ब्रह्म त्रिधा भेदमभेदमपि स प्रभुः । सर्वभेदेष्वभेदोसौभिद्यते भिन्नबुद्धिभिः ॥ ३,३.२९ ॥ स ऋङ्मयःसाममयः सर्वात्मा स यजुर्मयः । ऋग्यजुःसामसारात्मा स एवात्मा शरीरिणाम् ॥ ३,३.३० ॥ स भिद्यते वेदमयःस्ववेदं करोति भेदैर्बहुभिः सशाखम् । शाखाप्रणेता स समस्तशाखाज्ञानस्वरूपो भगवानसंगः ॥ ३,३.३१ ॥ इति क्षिविष्णुमहापुराणे तृतीयांशे तृतीयोऽध्यायः (३) _____________________________________________________________ श्रीपराशर उवाच आद्यो वेदश्चतुष्पादः कृतः साहस्रसंमितः । ततो दशगुमः कृत्स्नो यज्ञोयं सर्वकामधुक् ॥ ३,४.१ ॥ ततोत्र मत्सुतो व्यासो अष्टविंशतिमेन्तरे । वेदमेकं चतुष्पादं चतुर्धा व्यभजत्प्रभुः ॥ ३,४.२ ॥ यथा च तेन वै व्यस्ता वेदब्यासेन धीमता । वेदास्तथा समस्तैस्तैर्व्यस्ता व्यस्तैस्तथा मया ॥ ३,४.३ ॥ तदनेनैव वेदानां शाखाभेदान्द्विजोत्तम । चतुर्युगेषु पठितान्समस्तेष्ववधारय ॥ ३,४.४ ॥ कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यो भुवि मैत्रेय महाभारतकृद्भवेत् ॥ ३,४.५ ॥ तेन व्यस्ता यथा वेदा मत्पुत्रेण महात्मना । द्वापरे ह्यत्र मैत्रेय तस्मिञ्शृणु यथातथम् ॥ ३,४.६ ॥ ब्रह्मणा चोदितो व्यासो वेदान्व्यस्तुं प्रचक्रमे । अथ शिष्यान्प्रजग्राह चतुरो वेदपारगान् ॥ ३,४.७ ॥ ऋग्वेदपाठकं पैलं जग्राह स महामुनिः । वैशंपायननामानं यजुर्वेदस्य चाग्रहीत् ॥ ३,४.८ ॥ जैमिनिं सामवेदस्य तथैवाथर्ववेदवित् । सुमन्तुस्तस्य शिष्योभूद्वेदव्यासस्य धीमतः ॥ ३,४.९ ॥ रोमहर्षणनामानं महाबुद्धिं महामुनिः । सूतं जग्राह शिष्यं स इतिहासपुराणयोः ॥ ३,४.१० ॥ एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् । चातुर्हेत्रमभूत्तस्मिंस्तेन यज्ञमथाकरोत् ॥ ३,४.११ ॥ आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथा मुनिः । औद्गात्रं सामाभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥ ३,४.१२ ॥ ततःस ऋच उद्धृत्य ऋग्वेदं कृतवान्मुनिः । यजृंषि च यजुर्वेदं सामवेदं च सामाभः ॥ ३,४.१३ ॥ राज्ञां चाथर्ववेदेन सर्वकर्माणि च प्रभुः । कारयामास मैत्रेय ब्रह्मत्वं च यथास्थिति ॥ ३,४.१४ ॥ सोयमेको यथा वेदस्तरुस्तेन पृथक्कृतः । चतुर्धाथ ततो जातं वेदपादपकाननम् ॥ ३,४.१५ ॥ बिभेद प्रथमं विप्र पैलो ऋग्वेदपादपम् । इन्द्रप्रमितये प्रादाद्बाष्कलाय च संहिते ॥ ३,४.१६ ॥ चतुर्धा स विभेदाथ बाष्कलोपि च संहिताम् । बोधादिभ्यो ददौ ताश्च शिष्येभ्यः समहामुनिः ॥ ३,४.१७ ॥ बोध्याग्निमाढकौ तदूद्याज्ञवल्क्यपराशरौ । प्रतिशाखास्तु शाखायास्तस्यास्ते जगृहुर्मुने ॥ ३,४.१८ ॥ इन्द्रप्रमितिरेकां तु संहितां स्वसूतं ततः । माण्डुकेयं महात्मानं मैत्रेयाध्यापयत्तदा ॥ ३,४.१९ ॥ तस्य शिष्यप्रशिष्येभ्यः पुत्रशिष्यक्रमाद्ययौ ॥ ३,४.२० ॥ वेदमित्रस्तु शाकल्यः संहितां तामधीतवान् । चकार संहिताः पञ्च शिष्येभ्यः प्रददौ च ताः ॥ ३,४.२१ ॥ तस्य शिष्यास्तु ये पञ्च तेषां नामानि मे शृणु । मुद्गलो गोमखश्चैव वात्स्यः शालीय एव च । शरीरः पञ्चमश्चासीन्मैत्रेय सुमहामतिः ॥ ३,४.२२ ॥ संहितात्रितयं चक्रे शाकपूर्णस्तथेतरः । निरुक्तमकरोत्तदूच्चतुर्थं मुनिसत्तम ॥ ३,४.२३ ॥ क्रैञ्चो वैतालिकस्तद्वद्बलाकश्च महामुनिः । निरुक्तश्च चतुर्थोभूद्वेदवेदाङ्गपारगः ॥ ३,४.२४ ॥ इत्येताः प्रतिशाखाभ्यो ह्यनुशाखा द्विजोत्तम । बाष्कलश्चापरास्तिस्त्रःसंहिताः कृतवान्द्विज । शिष्यः कालायनिर्गार्ग्यस्तृतीयश्च कथाजपः ॥ ३,४.२५ ॥ इत्येता बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः ॥ ३,४.२६ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशेचतुर्थोऽध्यायः (४) _____________________________________________________________ श्रीपराशर उवाच यजुर्वेतदरोस्शाखाःसप्तविंशन्महामुनिः । वैशंपायननामासो व्यासशिष्यश्चकार वै ॥ ३,५.१ ॥ शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेप्यनुक्रमात् ॥ ३,५.२ ॥ याज्ञवल्क्यस्तु तत्राभूद्बाह्यरातसुतो द्विज । शिष्यः परमधर्मज्ञो गुरुवृत्तिपरःसदा ॥ ३,५.३ ॥ ऋषिर्योद्य महामेरोः समाजे नागमिष्यति । तस्य वै सप्तरात्रात्तु ब्रह्महत्त्या भविष्यति ॥ ३,५.४ ॥ पूर्वमेवं मुनिगणैः समयो यः कृतो द्विज । वैशंपायन एकस्तु तं व्यतिक्रान्तवांस्तदा ॥ ३,५.५ ॥ स्वस्त्रीयं बालकं सोथ पदा स्पृष्टमताडयत् ॥ ३,५.६ ॥ शिष्यानाह स भोः शिष्या ब्रह्महत्त्यापहं व्रतम् । चरध्वं मत्कृते सर्वे न विचार्यमिदं तथा ॥ ३,५.७ ॥ अथाह याज्ञवल्क्यस्तु किमेभिर्भगवन् द्विजैः । क्लेशितैरल्पतेजोभिश्चारिष्येहमिदं व्रतम् ॥ ३,५.८ ॥ ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामुनिम् । मुच्यतां यत्त्वयाधीतं मत्तो विप्रावमानक ॥ ३,५.९ ॥ निस्तेजसो वदस्येनान्यत्त्वं ब्राह्मणंपुङ्गवान् । तेन शिष्येण नार्थोस्ति ममाज्ञाभङ्गकारिणा ॥ ३,५.१० ॥ याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते मयोदितम् । ममाप्यलं त्वयाधीतं यन्मया तदिदं द्विज ॥ ३,५.११ ॥ श्रीपराशर उवाच इत्युक्तो रुधिराक्तानि सरूपाणि यजूंषिसः । छर्दयित्वा ददौ तस्मै ययौ स स्वेच्छया मुनि ॥ ३,५.१२ ॥ यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज । जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः ॥ ३,५.१३ ॥ ब्रह्महत्त्याव्रतं चीर्णं गुरुणा चोदितैस्तु तैः । चाक्रुराध्वर्यवं ते तु चरणान्मुनिसत्तम ॥ ३,५.१४ ॥ याज्ञवल्क्योपि मैत्रेय प्राणायामपरायणः । तृष्टाव प्रयतःसूर्यं यजूंष्यभिलषंस्ततः ॥ ३,५.१५ ॥ याज्ञवल्क्य उवाच नमः सवित्रे द्वाराय मुक्तेरमिततेजसे । ऋग्यजुःसामभूताय त्रयीधाम्ने च ते नमः ॥ ३,५.१६ ॥ नमोग्नीषोमभूताय जगतः कारणात्मने । भास्कराय परं तेजःसौषुम्णरुचिबिभ्रते ॥ ३,५.१७ ॥ कलाकाष्ठानिमेषादिकालज्ञानात्मरूपिणे । ध्येयाय विष्णुरूपाय परमाक्षररूपिणे ॥ ३,५.१८ ॥ बिभर्ति यःसुरगणानाप्यायेन्दुं स्वरश्मिभिः । स्वधामृतेन च पितॄंस्तस्मै तृप्त्यात्मने नमः ॥ ३,५.१९ ॥ हिमांबुघर्मवृष्टीनां कर्ता भर्ता च यः प्रभुः । तस्मै त्रिकालरूपाय नमःसूर्यायवेधसे ॥ ३,५.२० ॥ अपहन्ति तभो यश्च जगतोस्य जगत्पतिः । तस्य धामधरो देवो नमस्तस्मै विवस्वते ॥ ३,५.२१ ॥ सत्कर्मयोग्यो न जनो नैवापः शुद्धिकारणम् । यस्मिन्ननुदिते तस्मै नमो देवाय भास्वते ॥ ३,५.२२ ॥ स्पृष्टो यदंशुभिर्लोकः क्रियायोग्यो हि जायते । पवित्रकारणात्माय तस्मै शुद्धात्मने नमः ॥ ३,५.२३ ॥ नमः सवित्रे सूर्याय भास्कराय विवस्वते । आदित्यायादिभूताय देवादीनां नमो नमः ॥ ३,५.२४ ॥ हिरण्मयं रथं यस्य केतवोमृतवाजिनः । वहन्ति भुवनालोकचक्षुषं तं नमाम्यहम् ॥ ३,५.२५ ॥ श्रीपराशर उवाच इत्येवमादिभिस्तेन स्तूयमानःस वै रविः । वाजिरूपधरः प्राह व्रीयतामिति वाञ्छितम् ॥ ३,५.२६ ॥ याज्ञवल्क्यस्तदा प्राह प्रणिपत्य दिवाकरम् । यजूंषि तानि मे देहि यानि संति न मे गुरौ ॥ ३,५.२७ ॥ श्रीपराशर उवाच एवमुक्तो ददौ तस्मै यजूंषि भगवान्रविः । अयातयामसंज्ञानि यानि वेत्ति न तद्गुरुः ॥ ३,५.२८ ॥ यजूंषि यैरधीतानि तानि विप्रैर्धिजोत्तम । वाजिनस्ते समाख्याताः सूर्योप्यश्वोभवद्यतः ॥ ३,५.२९ ॥ शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् । काण्वाद्याःसुमहाभागा याज्ञवल्क्याः प्रकीर्तिताः ॥ ३,५.३० ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे पञ्चमोऽध्यायः (५) _____________________________________________________________ श्रीपराशर उवाच सामवेदतरोः शाखा व्यासशिष्यस्य जौमिनिः । क्रमेण येन मैत्रेय विभेदशृणु तन्मम ॥ ३,६.१ ॥ सुसंतुस्तस्य पुत्रोभूत्सूत्वानश्चाभवत्सुतः । अधीतवन्तौ चैकैकां संहितां तौ माहमती ॥ ३,६.२ ॥ सहस्रसंहिताभेदं सुकर्मातत्सुतस्ततः । चकार तं च तच्छिष्यौ जगृहाते महाव्रतौ ॥ ३,६.३ ॥ हिरण्यनाभः कौसल्यः पौष्पिंजिश्च द्विजोत्तम । उदीच्याःसामगाः शिष्यास्तस्य पञ्चशतं स्मृताः ॥ ३,६.४ ॥ हिरण्यनाभात्तावत्यःसंहिता यैर्द्विजोत्तमैः । गृहीतास्तेपि चोच्यन्ते पण्डितैः प्राच्यसामगाः ॥ ३,६.५ ॥ लोकाक्षिर्नैधमिश्चैव कक्षिवांल्लाङ्गलिस्तथा । पौष्पिजिशिष्यास्तद्भेदैः संहिता बहुलीकृताः ॥ ३,६.६ ॥ हिरण्यनाभशिष्यस्तु चतुर्विशतिसंहिताः । प्रोवाच कृतनामासौ शिष्येभ्यश्च महामुनिः ॥ ३,६.७ ॥ तैश्चापि सामवेदोऽसौ शाखाभिर्बहुलीकृतः । अथर्वणामथो वक्ष्ये संहितानां समुच्चयम् । अथर्ववेदं स मुनिःसुसंतुरमितद्युतिः ॥ ३,६.८ ॥ शिष्यमध्यापयामास कबन्धं सोऽपि तं द्विधा । कृत्वा तुदेवदर्साय तथा पथ्याय दत्तवान् ॥ ३,६.९ ॥ देवदर्शस्य शिष्यास्तु मेधोब्रह्मबलिस्तथा । शौल्कायनिः पिप्पलादस्तथान्यो द्विजसत्तम ॥ ३,६.१० ॥ पथ्यस्यापि त्रयः शिष्याः कृता यैर्द्विज संहिताः । जाबालिः कुमुदादिश्च तृतीयः शौनको द्विज ॥ ३,६.११ ॥ शौनकस्तु द्विधा कृत्वा ददावेकां तु बभ्रवे । द्वितीयां संहितां प्रादात्सैन्धवाय य संज्ञिने ॥ ३,६.१२ ॥ सैन्धवान्मुजिकेशश्च द्वेधभिन्नास्त्रिधा पुनः । नक्षत्रकल्पो वेदानां संहितानां तथैव च ॥ ३,६.१३ ॥ चतुर्थःस्यादाङ्गिरसः शान्तिकल्पश्चपञ्चमः । श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः ॥ ३,६.१४ ॥ आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः । पुराणसंहितां चक्रेपुराणार्थविशारदः ॥ ३,६.१५ ॥ प्रख्यातो व्यासशिष्योभूत्सूतो वै रोमहर्षणः । पुरामसंहितां तस्मै ददौ व्यासो महामतिः ॥ ३,६.१६ ॥ सुमतिश्चाग्निवर्चाश्च मित्रायुःशांसपायनः । अकृतव्रणसावर्णिष्पट्शिष्यास्तस्य चाभवन् ॥ ३,६.१७ ॥ काश्यपः संहिताकर्ता सावर्णिः शांसपायनः । रोमहर्षाणिकाचान्या तिसॄणां मूलसंहिता ॥ ३,६.१८ ॥ चतुष्टयेन भेदेन संहितानामिदं मुने ॥ ३,६.१९ ॥ आद्यं सर्वपुराणानां पुराणं ब्राह्ममुच्यते । अष्टादशपुराणानि पुराणज्ञाः प्रचक्षते ॥ ३,६.२० ॥ ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम् ॥ ३,६.२१ ॥ आग्नेयमष्टमं चैव भविष्यन्नवमं स्मृतम् । दशमं ब्रह्मवैवर्तं लैङ्गमेकादशं स्मृतम् ॥ ३,६.२२ ॥ वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् । चतुर्दशंवामनं च कौर्मं पञ्चदशं तथा । मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् । महापुराणान्येतानि ह्यष्टादश महामुने ॥ ३,६.२३ ॥ तथा चोप पुराणानि मुनिभिः कथितानि च । सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । सर्वेष्वेतेषु कथ्यन्ते वंशानुचारीतं च यत् ॥ ३,६.२४ ॥ यदेतत्तव मैत्रेय पुराणं कथ्यते मया । एतद्वैष्णवसंज्ञं वै पाद्मस्यसमनन्तरम् ॥ ३,६.२५ ॥ सर्गे च प्रतिसर्गे च वंशमन्वन्तरादिषु । कथ्यते भगवान् विष्णुरशेषेष्विव सत्तम ॥ ३,६.२६ ॥ अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ ३,६.२७ ॥ आयुर्वेदोधनुर्वेदो गान्धर्वश्चैव ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्य ह्यष्टादशैव ताः ॥ ३,६.२८ ॥ ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः । राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रयः ॥ ३,६.२९ ॥ इति शाखाःसमाख्यातः शाखाभेदास्तथैव च । कर्तारश्चैव शाखानां भेदहेतुस्तथोदितः ॥ ३,६.३० ॥ सर्वमन्वन्तरेष्वेवं शाखाभेदाःसमाः स्मृताः ॥ ३,६.३१ ॥ प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे द्विज ॥ ३,६.३२ ॥ एतत्ते कथितं सर्वं यत्पृष्टोहमिहत्वया । मैत्रेय वेदसंबन्धः किमन्यत्कथयामि ते ॥ ३,६.३३ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशेःष्ठोध्यायः (६) _____________________________________________________________ मैत्रेय उवाच यथा वत्कथितं सर्वं यत्पृष्टोसिं मया गुरो । श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे ॥ ३,७.१ ॥ सप्तद्वीपानि पातालविधयश्च महामुने । स्पतलोकाश्च येन्तस्था ब्रह्माण्डस्यास्य सर्वतः ॥ ३,७.२ ॥ स्थूलैः सूक्ष्मैस्तथा सूक्ष्मसूक्ष्मासूक्ष्मतरैः स्मृता । स्थूलात्स्थूलतरैश्चैव सर्वं प्राणिभिरावृतम् ॥ ३,७.३ ॥ अङ्गुलस्याष्टभागोपि न सोस्ति मुनिसत्तम । वसंति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥ ३,७.४ ॥ सर्वे चैते वशं यान्ति यमस्य भगवन् किल । आयुषोन्ते तथा यान्ति यातनास्तत्प्रचोदिताः ॥ ३,७.५ ॥ यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु । जन्तवः परिवर्तन्ते शास्त्राणामेष निर्णयः ॥ ३,७.६ ॥ सोहमिच्छामि तच्छ्रोतुं यमस्य वशवर्तिनः । न भवन्तिनरा येन तत्कर्म कथयस्व मे ॥ ३,७.७ ॥ श्रीपराशर उवाच अयमेव मुने प्रश्रो नकुलेन महात्मना । पृष्टः पितामहः प्राह भीष्मो यत्तच्छृणुष्व मे ॥ ३,७.८ ॥ भीष्ण उवाच पुरा ममागतो वत्स सखा कालिङ्गको द्विजः । स मामुवाच प्रष्टो वै मया जातिस्मरो मुनिः ॥ ३,७.९ ॥ तेनाख्यातमिदं सर्वमित्थं चैतद्भविष्यति । तथा च तदभूद्वत्स यथोक्तं तेन धीमता ॥ ३,७.१० ॥ स पृष्टश्च मया भूयः श्रद्दधानेन वै द्विजः । यद्यदाह न तद्दृष्टमन्यथा हि मया क्वचित् ॥ ३,७.११ ॥ एकदा तु मया पृष्टमेतद्यद्भवतोदितम् । प्राह कालिङ्गको विप्रःस्मृत्वा तस्य मुनेर्वचः ॥ ३,७.१२ ॥ जातिस्मरेण कथितो रहस्यः परमो मम । यमकिङ्करयोर्योभूत्संवादस्तं ब्रवीमि ते ॥ ३,७.१३ ॥ कालिङ्ग उवाच स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रपन्नान्प्रभुरहमन्यनृणामवैष्णवानाम् ॥ ३,७.१४ ॥ अहममरवरार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः । हरिगुरुवशगोस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः ॥ ३,७.१५ ॥ कण्ट कमुकुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकम् । सुरपशुमनुजादिकल्पनाभिर्हरिर् अखिलाभिरुदीर्यते तथैकः ॥ ३,७.१६ ॥ क्षितितलपरमाणवोनिलान्ते पुनरुपयान्ति यथैकतां धरित्र्याः । सुरपशुमनुजादयस्तथान्ते गुणकलषेण सनातनेन तेन ॥ ३,७.१७ ॥ हरिममरवरार्चिताङ्घ्रिपद्मंप्रणमति यः परमार्थतो हि मर्त्यः । तमपगतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥ ३,७.१८ ॥ इति यमवचनं निशम्य पाशी यम पुरुषस्तमुवाच धर्मराजम् । कथय मम विभो समस्तधातुर्भवति हरेः खलु यादृशोस्य भक्तः ॥ ३,७.१९ ॥ यम उवाच न चलति निजवर्मधर्मतो यःसममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किञ्चिदुच्छैः स्थितमनसं तमवेहि विष्णुभक्तम् ॥ ३,७.२० ॥ कलिकलुपमलेन यस्य नाऽत्मा विमलमतेमलिनीकृतस्तमेनम् । मनसि कृतजनार्दनं मनष्यं सततमवेहि हरेरतीव भक्तम् ॥ ३,७.२१ ॥ कनकमपि रहस्यवेक्ष्य बुद्ध्या तृणमिव यःसमवैति वै परस्वम् । भवति च भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभक्तम् ॥ ३,७.२२ ॥ स्फटिकगिरिशिलामलः क्व विष्णुर्मनसि नृणां क्व च मत्सरादिदोषः । न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिजः प्रतापः ॥ ३,७.२३ ॥ विमलमतिरमत्सरः प्रशान्तः शुचिचरितोखिलसत्त्वमित्रभूतः । प्रियहितवचनोऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः ॥ ३,७.२४ ॥ वसति हृदिसनातने च तस्मिन्भवति पुमाञ्जगतोस्य सौम्यरूपः । क्षितिरसमतिरम्यमात्मनोन्तः कथयति चारुतयैव सालपोतः ॥ ३,७.२५ ॥ यमनियमविधूत कल्पषाणामनुदिनमच्युतसक्तमानसानाम् । अपगतमदमानमत्सराणां त्यज भट दूरतरेण मानवानाम् ॥ ३,७.२६ ॥ हृदि यदि भगवाननादिरास्ते हरिररिशङ्खगदाधरोव्यात्मा । तदघविघातकर्तृभिन्नं भवति कथं सति चान्धकारमर्के ॥ ३,७.२७ ॥ हरति परधनं निहन्ति जन्तून्वदति तथा नृतनिष्टुराणि यश्च । अशुभजनितदुरमदस्य पुंसः कलुषमतेर्हृदि तस्य नास्त्यनन्तः ॥ ३,७.२८ ॥ न सहति परसंपदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः । नयजति न ददाति यश्च संतं मनसि न तस्य जनार्दनोऽधमस्य ॥ ३,७.२९ ॥ परमसुहृदिबान्धवे कलत्रे मुततनयापितृमातृभृत्यवर्गे । शठमतिरुपयाति योर्थतृष्णां तमधमचेष्टमवेहि नास्य भक्तम् ॥ ३,७.३० ॥ अशुभमतिरसत्प्रवृत्ति सक्तःसततमनार्यकुशीलसंगमत्तः । अनुदिनकृतपापबन्धयुक्तः परुषपशुर्न हि वासुदेवभक्तः ॥ ३,७.३१ ॥ सकलमिदमहं च वासुदेवः परमपुमान्परमेश्वरःस एकः । इति मतिरचलाभवत्यनन्ते हृदयगते व्रजतान्विहाय दूरात् ॥ ३,७.३२ ॥ कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे । भवशरणमितिरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ॥ ३,७.३३ ॥ वसति मनसि यस्य सोव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते । तव गतिरथ वा ममास्ति चक्रप्रतिहतवीर्यबलस्य सोन्यलोक्यः ॥ ३,७.३४ ॥ कालिङ्ग उवाच इति निजभटशासनाय देवो रवित नयस्य किलाह धर्मराजः । मम कथितमिदं च तेन तुभ्यं कुरुवर सम्यगिदं मयापि चोक्तम् ॥ ३,७.३५ ॥ श्रीभीष्म उवाच नकुलैतन्ममाख्यातं पूर्वं तेन द्विजन्मना । कलिङ्गदेशादेश्येत्य प्रीतेन सुमहात्मना ॥ ३,७.३६ ॥ मयाप्येतद्यथान्यायं सम्यग्वत्स तवोदितम् । यथा विष्णुमृतेनान्यत्त्राणां संसारसागरे ॥ ३,७.३७ ॥ किङ्कराः पाशदण्डाश्च न यमो न च यातनाः । समर्थास्तस्य यस्यात्मा केशवालंबनःसदा ॥ ३,७.३८ ॥ श्रीपराशर उवाच एतन्मुने समाख्यातं गीतं वैवस्वतेन यत् । त्वत्प्रश्नानुगतं सम्यक्किमन्यच्छ्रोतुमिच्छसि ॥ ३,७.३९ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे सप्तमोऽध्यायः (७) _____________________________________________________________ मैत्रेय उवाच भगवन्भगवान्देवः संसारविजिगीषुभिः । समाख्याहि जगन्नाथो विष्णुराराध्यते यथा ॥ ३,८.१ ॥ आराधिताच्च गोविन्दादाराधनपरैर्नरैः । यत्प्राप्यते फलं श्रोतुं तच्चेच्छामि महामुने ॥ ३,८.२ ॥ श्रीपराशर उवाच यत्पृच्छति भवानेतत्सगरेण महात्मना । और्वः प्राह यथा पृष्टस्तन्मे निगदतः शृणु ॥ ३,८.३ ॥ सगरः प्रणिपत्त्यैनमौर्वं पप्रच्छभार्गवम् । विष्णोराराधनोपायसंबन्धं मुनिसत्तम ॥ ३,८.४ ॥ फलं चाराधिते विष्णो यत्पुंसामभिजायते । स चाह पृष्टो यत्नेन तस्मै तन्मेखिलं शृणु ॥ ३,८.५ ॥ और्व उवाच भौमं मनोरथं स्वर्गं स्वर्गे रम्यं च यत्पदम् । प्राप्नोत्याराधिते विष्णौ निर्वाणमपि चोत्तमम् ॥ ३,८.६ ॥ यद्यदिच्छति यावच्च फलमाराधितेऽच्युते । तत्तदाप्नोति राजेन्द्र भूरि स्वल्पमथापि वा ॥ ३,८.७ ॥ यत्तु पृच्छसि भूपाल कथामाराध्यते हरिः । तदहं सकलं तुभ्यं कथयामि निबोध मे ॥ ३,८.८ ॥ वर्णाश्रमाचारवता पुरुषेणपरः पुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ ३,८.९ ॥ यजन्यज्ञान्यजत्येनं जपन्त्येनं जपन्नृप । निघ्नन्नन्यान्हिनस्त्येनं सर्वभूतो यतो हरिः ॥ ३,८.१० ॥ तस्मात्सदाचारवता पुरुषेण जनार्दनः । आराध्यस्तु स्ववर्णोक्तधर्मानुष्ठानकारिमा ॥ ३,८.११ ॥ ब्राह्मणः क्षत्रियो वैश्यः शुद्रश्च पृथिवीपते । स्वधर्मतत्परो विष्णुमाराधयति नान्यथा ॥ ३,८.१२ ॥ परापवादं पैशुन्यमनृतं च न भाषते । अन्योद्वेगकरं वापि तोष्यते तेनकेशवः ॥ ३,८.१३ ॥ परदारपरद्रव्यपरहिंसासु यो रतिम् । न करोति पुमान्भूप तोष्यते तेन केशवः ॥ ३,८.१४ ॥ न ताडयति नो हन्ति प्राणिनो न च हिंसकः । यो मनुष्यो मनुष्येन्द्र तोष्यते तेन केशवः ॥ ३,८.१५ ॥ देवाद्विजगुरूणां च शुश्रूषासु सदोद्यतः । तोष्यते तेन गोविन्दः पुरुषेणनरेश्वर ॥ ३,८.१६ ॥ यथात्मनि च पुत्रे च सर्वभूतेषु यत्तथा । हितकामो हरिस्तेन सर्वदा तोष्यते सुखम् ॥ ३,८.१७ ॥ यस्य रागादिदोषेण न दुष्टं नृप मानसम् । विशुद्धचेतसा विष्णुस्तोष्यते तेन सर्वदा ॥ ३,८.१८ ॥ वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता मुनिसत्तम । तेषु तिष्ठन्नरो विष्णुमादुष्टं नृप मानसम् ॥ ३,८.१९ ॥ सगर उवाच तदहं श्रोतुमिच्छमि वर्णधर्मानशेषतः । तथैवाश्रमधर्मंश्च द्विजवर्य ब्रवीहि तान् ॥ ३,८.२० ॥ और्व उवाच ब्राह्मणक्षत्रियविशां शुद्राणां च यथाकमम् । त्वमेकाग्रमतिर्भूत्वा शृणु धर्मान्मयोदितान् ॥ ३,८.२१ ॥ दानं दद्याद्यजेद्देवान् यज्ञिः स्वाध्यायतत्परः । नित्योदकी भवेद्विप्रः कुर्याच्चाग्निपरिग्रहम् ॥ ३,८.२२ ॥ वृत्त्यर्थं याजयेच्चान्यानन्यानध्यापयेत्तथा । कुर्यात्प्रतिग्रहादानंशुक्लार्थान्न्यायतो द्विजः ॥ ३,८.२३ ॥ सर्वभूतहितं कुर्यान्नाहितं कस्याचिद्द्विजः । मैत्री समस्तभूतेषु ब्राह्मणस्योत्तमं धनम् ॥ ३,८.२४ ॥ ग्राव्णिरत्ने च पारक्ये समबुद्धिर्भवेद्द्विजः । ऋतावभिगमः पत्न्यां शस्तते चास्य पार्थिव ॥ ३,८.२५ ॥ दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्रियोपि वा । यजेच्च विविधैर्यज्ञैरधीयीत च पार्थिवः ॥ ३,८.२६ ॥ शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका । तत्रापि प्रथमः कल्पः पृथिवीपरिपारनम् ॥ ३,८.२७ ॥ धरित्रीपालनेनैव कृतकृत्या नराधिपाः । भवन्ति तृपतेरंशा यतो यज्ञादिकर्मणाम् ॥ ३,८.२८ ॥ दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् । प्राप्नोत्यभिमतांल्लोकान्वर्णसंस्थां करोति यः ॥ ३,८.२९ ॥ पाशुपाल्यं च वाणिज्यं कृषिं च मनुजेश्वर । वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ ३,८.३० ॥ तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते । नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥ ३,८.३१ ॥ द्विजातिसंश्रितं कर्म तादर्थ्यं तेन पोषणम् । क्रयविक्रयजैर्वापि धनैः कारूद्भवेन वा ॥ ३,८.३२ ॥ शुद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया । अमन्त्रयज्ञो ह्यस्तेयं तत्संगो विप्ररक्षणम् ॥ ३,८.३३ ॥ दानं च दद्याच्छूद्रोपि पाकयज्ञैर्यजेत च । पित्र्यादिकं च तत्सर्वं शुद्रः कुर्वीत तेन वै ॥ ३,८.३४ ॥ भृत्यादिभरणार्थाय सर्वेषां च परिग्रहः । ऋतुकालेभिगमनं स्वदारेषु महीपते ॥ ३,८.३५ ॥ दया समस्तभूतेषु तितिक्षा नातिमानिता । सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥ ३,८.३६ ॥ मैत्र्यस्पृहा तथा तद्वदकार्पण्यंनरेश्वर । अनुसूया च सामान्यवर्णानां कथिता गुणाः ॥ ३,८.३७ ॥ आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः । गुणांस्तथावद्धर्मांश्च विप्रादीनामिमाञ्छृणु ॥ ३,८.३८ ॥ क्षात्त्रं कर्म द्विजस्योक्तं वैश्यं कर्म तथा पदि । राजन्यस्य च वैश्योक्तं शूद्रकर्म न चैतयोः ॥ ३,८.३९ ॥ सामर्थ्ये सति तत्त्याज्यमुभाभ्यामपि पार्थिव । तदेवापदि कर्तव्यं न कुर्यात्कर्मसंकरम् ॥ ३,८.४० ॥ इत्येते कथिता राजन्वर्णधर्मा मया तव । धर्मानाश्रमिणां सम्यग्ब्रुवतो मे निशामय ॥ ३,८.४१ ॥ इति श्रिविष्णुमहापुराणे तृतीयांशेऽष्टमोध्यायः (७) _____________________________________________________________ और्व उवाच बालः कृतोपनयनो वेदाहरणतत्परः । गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः ॥ ३,९.१ ॥ शौचा चारव्रतं तत्र कार्यं शुश्रूषणं गुरोः । व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना ॥ ३,९.२ ॥ उभे संध्ये रविं भूप तथैवाग्निं समाहितः । उपतिष्ठेत्तदा कुर्याद्गुरोरप्यभिवादनम् ॥ ३,९.३ ॥ स्थिते तिष्ठेद्वाजेद्याते नीचैरासीत चासति । शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं न संचरेत् ॥ ३,९.४ ॥ तेनै वोक्तं पठेद्वेदं नान्यचित्तः पुरःस्थितः । अनुज्ञातश्च भिक्षान्नमश्नीयाद्गुरुणा ततः ॥ ३,९.५ ॥ अवगाहेदपः पूर्वमाचार्येणावगाहितः । समिज्जलादिकं चास्य काल्यं काल्यमुपानयेत् ॥ ३,९.६ ॥ गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य च । गार्हस्थ्यमाविशेत्प्राज्ञो निष्पन्नगुरुणिष्कृतिः ॥ ३,९.७ ॥ विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा । गृहस्थकार्यमखिलं कुर्याद्भूपाल शक्तितः ॥ ३,९.८ ॥ निवापेन पितॄनर्चन् यज्ञैर्देवांस्तथातिथीन् । अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ॥ ३,९.९ ॥ भूतानि बलिभिश्चैव वात्सल्येनाखिलं जगत् । प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान् ॥ ३,९.१० ॥ बिक्षाभुजश्च ये केचित्परिव्रड्ब्रह्मचारिणः । तेप्यत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परम् ॥ ३,९.११ ॥ वेदाहरणकार्याय तीर्थस्नानाय च प्रभो । अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥ ३,९.१२ ॥ अनिकेता ह्यनाहारा यत्र सायङ्गृहाश्च ये । तेषां गृहस्थः सर्वेषां प्रतिष्ठा योनिरेव च ॥ ३,९.१३ ॥ तेषां स्वागतदानादिवक्तव्यं मधुरं नृप । गृहागतानां दद्याच्च शयनासनभोजनम् ॥ ३,९.१४ ॥ अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ ३,९.१५ ॥ अवज्ञानमहङ्कारो दंभश्चैव गृह सतः । परितापोपघातौ च पारुष्यं च न शस्यते ॥ ३,९.१६ ॥ यस्तु सम्यक्करोत्येवं गृहस्थः परमं विधिम् । सर्वबन्धविनिर्मुक्तो लोकानाप्नोत्यनुत्तमान् ॥ ३,९.१७ ॥ वयःपरीणतो राजन्कृतकृत्यो गृहाश्रमी । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥ ३,९.१८ ॥ पर्णमूलफलाहारः केशश्मश्रुजटाधरः । भूमिशायी भवेत्तत्र मुनिःसर्वातिथिर्नृप ॥ ३,९.१९ ॥ चर्मकाशकुशैः कुर्यात्परिधानोत्तरीयके । तद्वत्त्रिषवणं स्नानं शस्तमस्य नरेश्वरः ॥ ३,९.२० ॥ देवताभ्यर्चनं होमःसर्वाभ्यागतपूजनम् । भिक्षाबलिप्रदानं च शस्तमस्य नरेश्वर ॥ ३,९.२१ ॥ वन्यस्त्रेहेन गात्राणामभ्यङ्गश्चास्य शस्यते । तपश्च तस्य राजेन्द्र शीतोष्णादिसहिष्णुता ॥ ३,९.२२ ॥ यस्त्वेतां नियतश्चर्यां वानप्रस्थश्चरेन्मुनिः । स दहत्यग्निवद्दोषाञ्जयेल्लोकांश्च शाश्वतान् ॥ ३,९.२३ ॥ चतुर्थश्चाश्रमो भिक्षोः प्रोज्यते यो मनीषिभिः । तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि ॥ ३,९.२४ ॥ पुत्रद्रव्यकलत्रेषु त्यक्तस्त्रेहो नराधिप । चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः ॥ ३,९.२५ ॥ त्रैवर्गिकांस्त्यजेत्सर्वानारंभानवनीपते । मित्रादिषु समो मैत्रःसमस्तेष्वेव जन्तुषु ॥ ३,९.२६ ॥ जरायुजाण्डजादीनां वाड्मनःकायकर्मभिः । युक्तः कुर्वीत न द्रोहं सर्वसंगांश्चवर्जयेत् ॥ ३,९.२७ ॥ एकारात्रस्थितिर्ग्रामे पञ्चरात्रस्थितिः पुरे । तथा तिष्ठेद्यथाप्रीतिर्द्वेषो वा नास्य जायते ॥ ३,९.२८ ॥ प्राणयात्रानिमित्तं च व्यङ्गारे भुक्तवज्जने । काले प्रशस्तवर्णानां भिक्षार्थं पर्यटेद्गृहान् ॥ ३,९.२९ ॥ कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये । तांस्तु सर्वान्परित्यज्यपरिव्राण्निर्ममो भवेत् ॥ ३,९.३० ॥ अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः । तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥ ३,९.३१ ॥ कृत्वाग्निहोत्रंस्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति । विप्रस्तु भैक्ष्योपहितैर्हविर्भिश्चिताग्निकानां व्रहति स्म लोकान् ॥ ३,९.३२ ॥ मोक्षोश्रमं यश्चरते यथोक्तं शुचिःसुखं कल्पितबुद्धियुक्तः । अनिन्धनं ज्योतिरिव प्रशान्तःस ब्रह्मलोकं श्रयते द्विजातिः ॥ ३,९.३३ ॥ इतिश्रीविष्णुमहापुराणे तृतीयांशे नवमोऽध्यायः (९) _____________________________________________________________ सगर उवाच कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास्तथा । पुंसः क्रियामहं श्रोतुमिच्छामि द्विजसत्तम ॥ ३,१०.१ ॥ नित्यनैमित्तिकाः काम्याः क्रियाः पुंसामशेषतः । समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्यसि मे मतः ॥ ३,१०.२ ॥ और्व उवाच यदेतदुक्तं भवता नित्यनैमित्तिकाश्रयम् । तदहं कथयिष्यांमि शृणुष्वैकमना मम ॥ ३,१०.३ ॥ जातस्य जातकर्मादिक्रियाकाण्डमशेषतः । पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम् ॥ ३,१०.४ ॥ युग्मांस्तु प्राड्मुखान्विप्रान्भोजयेन्मनुभेश्वर । यथा तृप्तिस्तथा कुर्याद्दैवं पित्र्यं द्विजन्मनाम् ॥ ३,१०.५ ॥ दध्ना युक्तैः सबदरैर्मिश्रान् पिडान्मुदा युतः । नान्दीमुखेभ्यस्तीर्थेन दद्याद्दैवेन पार्थिव ॥ ३,१०.६ ॥ प्राजापत्येन वा सर्वमुपचारं प्रदक्षिणम् । कुर्वीत तत्तथाशेषवृद्धिकालेषु भूपते ॥ ३,१०.७ ॥ ततश्च नाम कुर्वीत पितैव दशमेहनि । देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम् ॥ ३,१०.८ ॥ शर्मेति ब्राह्यणस्योक्तं वर्मेति क्षत्रसंश्रयम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशुद्रयोः ॥ ३,१०.९ ॥ नार्थहीनं न चाशस्तं नापशब्दयुतं तथा । नामङ्गल्यं जुगुप्साकं नाम कुर्यात्समाक्षरम् ॥ ३,१०.१० ॥ नातिदीर्घंनातिह्रस्वं नातिगुर्वक्षरान्वितम् । सुखोच्चार्यं तु तन्नाम कुर्याद्यत्प्रणवाक्षरम् ॥ ३,१०.११ ॥ ततोऽनन्तरसंस्कारसंस्कृतो गुरुवेश्मनि । यथोक्तविधिमाश्रित्य कुर्याद्विद्यापरिग्रहम् ॥ ३,१०.१२ ॥ गृहीतविद्यो गुरवे दत्त्वा च गुरुदक्षिणाम् । गार्हस्थ्यमिच्छन्भूपाल कुर्याद्दारपरिग्रहम् ॥ ३,१०.१३ ॥ ब्रह्मचर्येण वा कालं कुर्यात्संकल्पपूर्वकम् । गुगोः शुश्रुषणं कुर्यात्तत्पुत्रादेरथापि वा ॥ ३,१०.१४ ॥ वैखानसो वापि भवेत्परिव्राडथ वेच्छया । पूर्वसंकल्पितं यादृक्तादृक्कुर्यान्नराधिप ॥ ३,१०.१५ ॥ वर्षैरेकगुणां भार्यामुद्वहेत्त्रिगुमःस्वयम् । नाति केशामकेशां वा नातिकृष्णां न पिङ्गलाम् ॥ ३,१०.१६ ॥ निसर्गतोधिकाङ्गां वा न्यूनाङ्गामपि नोद्वहेत् । नाविशुद्धां सरोमां वाकुलजां वापि रोगिणीम् ॥ ३,१०.१७ ॥ न दुष्टां दुष्टवाक्यां वा व्यङ्गिनीं पुतृमातृतः । न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम् ॥ ३,१०.१८ ॥ न घर्वरस्वरां क्षामां तथा काकस्वरां न च । नानिबन्धेक्षणां तद्वद्वृत्ताक्षीं नोद्वहेद्बुधः ॥ ३,१०.१९ ॥ यस्याश्च रोमशे जङ्घे गुल्फौ यस्यास्तथोन्नतौ । गण्डयोः कूपरौ यस्या हसंत्यास्तां न चोद्वहेत् ॥ ३,१०.२० ॥ नातिरूक्षच्छविं पाडुकरजामरुणेक्षणाम् । आपीन हस्तपादां च नकन्यामुद्वहेद्बुधः ॥ ३,१०.२१ ॥ न वामनां नातिदीर्घां नोद्वहेत्संहतभ्रुवम् । न चाति च्छिद्रदशनां न करालमुखीं नरः ॥ ३,१०.२२ ॥ पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम् । गृहस्थश्चोद्वहेत्कन्यां न्यायेन विधिना नृप ॥ ३,१०.२३ ॥ ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धर्वराक्षयौ चान्यौ पैशाचश्चाष्टमो मतः ॥ ३,१०.२४ ॥ एतेषां यस्य यो धर्मो वर्मस्योक्तो महर्षिभिः । कुर्वीत दारग्रहणं तेनान्यं परिवर्जयेत् ॥ ३,१०.२५ ॥ सधर्मचारिणीं प्राप्य गार्हस्थ्यं सहितस्तया । समुद्वहेद्ददात्येतत्सम्यगूढं महाफलम् ॥ ३,१०.२६ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे दशमोऽध्यायः (१०) _____________________________________________________________ सगर उवाच गृहस्थस्य सदाचारं श्रोतुमिच्छाम्यहं मुने । लोकादस्मात्परस्माच्च यमातिष्ठन्न हीयते ॥ ३,११.१ ॥ और्व उवाच श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् । सदाचारवता पुंसा जितौ लोकावुभावपि ॥ ३,११.२ ॥ साधवः क्षीणदेषास्तु सच्चब्दः साधुवाचकः । तेषामाचरणं यस्तु सदाचारःस उच्यते ॥ ३,११.३ ॥ सप्तर्षयोथ मनवः प्रजानां पतयस्तथा । सदाचारस्य वक्तारः कर्तारश्च महीपते ॥ ३,११.४ ॥ ब्राह्मो मुहूर्ते चोत्थाय मनसा मतिमात्रृप । प्रबुद्धश्चिन्तयेद्धर्ममर्थं चाप्यविरोधिनम् ॥ ३,११.५ ॥ अपीडया तयोः काममुभयोरपि चिन्तयेत् । दृष्टादृष्टविनाशाय त्रिवर्गे समदर्शिना ॥ ३,११.६ ॥ परित्यजेदर्थकामौ धर्मपीडाकरौ नृप । धर्ममप्यसुखोदर्कं लोकविद्वेष्टमेव च ॥ ३,११.७ ॥ ततः काल्यं समुत्थाय कुर्यान्मूत्रं नरेश्वर ॥ ३,११.८ ॥ नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः । द्वरादावसथान्मूत्र पुरीषं च विसर्जयेत् ॥ ३,११.९ ॥ पादावनेजनोच्छिष्टे प्रक्षिपेन्न गृहाङ्गणे ॥ ३,११.१० ॥ आत्मच्छायां तरुच्छायां गोसूर्याग्न्यनिलांस्तथा । गुरुद्विजादींस्तु बुधो नाधिमेहेत्कदाचन ॥ ३,११.११ ॥ न कृष्टे सस्यमध्ये वा गौव्रजे जनसंसदि । न वर्त्मनि न नद्यादितीर्थेषु पुरुषर्षभ ॥ ३,११.१२ ॥ नाप्सु नैवांभसस्तीरे श्मशाने न समाचरेत् । उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम् ॥ ३,११.१३ ॥ उदङ्मुखो दिवामूत्रं विपरीतमुखो निशि । कुर्वितानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव ॥ ३,११.१४ ॥ तृणैरास्तीर्य वसुधां वस्त्रप्रावृतमस्तकः । तिष्ठेन्नातिचिरं तत्र नैव किञ्चिदुदीरयेत् ॥ ३,११.१५ ॥ वल्मीकमूषिकोद्भूतां मृदं नान्तर्जलां तथा । शौचावशिष्टां गेहाच्चनादद्याल्लेपसंभवाम् ॥ ३,११.१६ ॥ अणुप्राण्युपपन्नां च हलोत्खातां च पार्थिव । परित्यजेन्मृदो ह्येताःसकलाः शौचकर्मणि ॥ ३,११.१७ ॥ एका लिङ्गे गुदे तिस्त्रो दस वामकरे नृप । हस्तद्वये च स्पत स्युर्मृदः शौचोपपादिकाः ॥ ३,११.१८ ॥ अच्छेनागन्धलेपेन जलेनाबुद्बुदेन च । आचामेच्चमृदंभूयस्तथा दद्यात्समाहितः ॥ ३,११.१९ ॥ निष्पादिताङ्घ्रिशौचस्तु पादावभ्युक्ष्य तैः पुनः । त्रिः पिबेत्सलिलं तेन तथा द्विः परिमार्जयेत् ॥ ३,११.२० ॥ शिर्षण्यानि ततः खानि मूर्धानं च समालभेत् । बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥ ३,११.२१ ॥ स्वाचान्तस्तु ततः कुर्यात्पुमान्केशप्रसाधनम् । आदर्शाञ्जनमाङ्गल्यं दूर्वाद्यालंभनानि च ॥ ३,११.२२ ॥ ततःस्ववर्णधर्मेण वृत्त्यर्थं च धनार्जनम् । कुर्वीत श्रद्धासंपन्नो यजेच्च पृथिवीपते ॥ ३,११.२३ ॥ सोमसंस्था हविःसंस्थाः पाकसंस्थास्तु संस्थिताः । धने यतो मनुष्याणां यतेतातो धनार्जने ॥ ३,११.२४ ॥ नदीनदतटाकेषु देवखातजलेषु च । नित्यक्रियार्थं स्नायीत गीरिप्रस्त्रवणेषु च ॥ ३,११.२५ ॥ कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि । गृहेषूद्धृततोयेन ह्यथवा भुव्यसंभवे ॥ ३,११.२६ ॥ शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् । तेषामेव हि तीर्थेनकुर्वीत सुसमाहितः ॥ ३,११.२७ ॥ त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत् । ऋषीणां च यथान्यायं सकृच्चापि प्रजापतेः ॥ ३,११.२८ ॥ पितॄणां प्रीणनार्थाय तदपः पृतिवीपते । पितामहेभ्यश्च तथा प्रीमयेत्प्रपितामहान् ॥ ३,११.२९ ॥ मातामहाय तत्पित्रे तत्पित्रे च समाहितः । दद्यात्पैत्रेणतीर्थेन काम्यं चान्यच्छृणुष्व मे ॥ ३,११.३० ॥ मात्रे स्वमात्रे तन्मात्रे गुरुपत्न्यै तथा नृप । गुरूणां मातुलानां च स्निग्धमित्राय भूभूजे ॥ ३,११.३१ ॥ इदं चापि जपेदंबु दद्यादात्मेच्छयानृप । उपकाराय भूतानां कृतदेवादितर्पणम् ॥ ३,११.३२ ॥ देवासुरास्तथा यक्षा नागगन्धर्वराक्षसाः । पिशाचा गुह्यकाःसिद्धाः कूष्माडाः पशवः खगाः ॥ ३,११.३३ ॥ जलेचरा भूलेचरा भूनिलया वाय्वाहाराश्च जतवः । तृप्तिमेतेन यान्त्याशु मद्दत्तेनांबुनाखिलाः ॥ ३,११.३४ ॥ नरकेषु समस्तेषु यातनासु च संस्थिताः । तेषामाप्यायनायौतद्दीयते सलिलं मया ॥ ३,११.३५ ॥ ये बान्धवाबान्धवा ये येन्यजन्मनि बान्धवाः । ते तृप्तिमखिला यान्तु ये चास्मत्तोभिवाञ्छति ॥ ३,११.३६ ॥ यत्र क्वचनसंस्थानां क्षुत्तृष्णोपहतात्मनाम् । इदमाप्यायनायास्तु मया दत्तं तिलोदकम् ॥ ३,११.३७ ॥ काम्योदकप्रदानं ते मयैतत्कथितं नृप । यद्दत्त्वा प्रीणयत्येतन्मनुष्यःसकलं जगत् । जगदाप्यायनोद्भूतं पुण्यमाप्नोति चानध ॥ ३,११.३८ ॥ दत्त्वा काम्योदकं सम्यगेतेभ्यः श्राद्धयान्वितः । आचम्य च ततो दद्यात्सूर्याय सलिलाञ्जलिम् ॥ ३,११.३९ ॥ नमो विवस्वते ब्रह्मभास्वते विष्णुतेजसे । जगत्सवित्रे शुचये सवित्रे कर्मसाक्षिणे ॥ ३,११.४० ॥ ततो गृहार्ऽचनं कुर्यादभीष्टसुरपूजनम् । जलाभिषेकैः पुष्पैश्च धूपाद्यैश्च निवेदनम् ॥ ३,११.४१ ॥ अपूर्वमाग्निहोन्त्र च कुर्यात्प्राग्ब्रह्मणे नृप ॥ ३,११.४२ ॥ प्रजापतिं समुद्दिश्य दद्यादाहुतिमादरात् । गृहेभ्यः काश्य पायाथ ततोनुमतये क्रमात् ॥ ३,११.४३ ॥ तच्छेषं मणिके पृथ्वीर्पजन्येभ्यः क्षिपेत्ततः । द्वारे धातुर्विधातुश्च मध्ये च ब्रह्मणे क्षिपेत् ॥ ३,११.४४ ॥ गृहस्य पुरषब्याघ्र दिग्देवानपि मे शृणु ॥ ३,११.४५ ॥ इन्द्राय धर्मराजाय वरुणाय तथेन्दवे । प्राच्यादिषु बुधो दद्याद्धुतशेषात्मकं बलिम् ॥ ३,११.४६ ॥ प्रागुत्तरे च दिग्भागे धन्वन्तारिबलिं बुधः । निर्वपैद्वैश्वदेवं च कर्म कुर्यादतः परम् ॥ ३,११.४७ ॥ वायव्यां वायवे दिक्षु समस्तासु यथादिशम् । ब्रह्मणे चान्तारीक्षाय भानवे च क्षिपेद्बलिम् ॥ ३,११.४८ ॥ विश्वेदवान्विश्वभूतानष्टौ विश्वपतीन्पितॄन् । यक्षाणां च समुद्दिश्य बलिं दद्यान्नरेश्वर ॥ ३,११.४९ ॥ ततोन्यदन्नमादाय भूमि भागे शुचौ बुधः । दद्यादशेषभूतेभ्यः स्वेच्चया सुसमाहितः ॥ ३,११.५० ॥ देवा मनुष्याः पशवो वयांसि सिद्धाःसयक्षोरगदैत्यसंघाः । प्रतोः पिशाचास्तरवःस मस्ता ये चान्नमिच्छन्ति मयात्र दत्तम् ॥ ३,११.५१ ॥ पिपीलिकाः कीटपतङ्गकाद्या बुभुक्षिताः कर्मनिबन्धबद्धाः । प्रयान्ति ते तृप्तिमिदं मयान्नन्तेभ्यो विसृष्टं सुखिनो भवन्तु ॥ ३,११.५२ ॥ येषां न माता न पिता न बन्धुर्नैवान्नसिद्धिर्न नथान्नमस्ति । तत्तृप्येऽन्नं भुवि दत्तमेव ते यान्तु तृप्तिं मुदिता भवन्तु ॥ ३,११.५३ ॥ भूतानि सर्वाणि तथान्नमेतदहं च विष्णुर्न यतोन्यदस्ति । तस्मादहं भूतनिकायभूतमन्नं प्रयच्छामि भवाय तेषाम् ॥ ३,११.५४ ॥ चतुर्दशो भूतगणो य एष तत्र स्थिता येऽखिलभूतसंघाः । तृप्त्यर्थमन्नं हि मया निसृष्टं तेषामिदं ते मुदिता भवन्तु ॥ ३,११.५५ ॥ इत्युच्चार्य नरो दद्यादन्नं श्रद्धासमन्वितः । भुवि सर्वोपकाराय गृही सर्वाश्रयो यतः ॥ ३,११.५६ ॥ श्वचण्डालविहङ्गानां भुवि दद्यान्नरेश्वर । ये चान्ये पतिताः केचिदपुत्राः संतिमानवाः ॥ ३,११.५७ ॥ ततो गोदोहमात्रं वै कालं तिष्ठेद्गृहाङ्गणे । अतिथिग्रहणार्थाय तदूर्ध्वं तु तथैच्छाया ॥ ३,११.५८ ॥ अतिथिं तत्र संप्राप्तं पूजयेत्स्वागदादिना । तथासनप्रदानेन पादप्रक्षालनेन च ॥ ३,११.५९ ॥ श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च । गच्छतश्चानुयानेन प्रीतिमुत्पादयेद्गृही ॥ ३,११.६० ॥ अज्ञातकुलनामानमन्यदेशादुपागतम् । पूजयेदतिथिं सम्यङ्नैकग्रामनिवासिनम् ॥ ३,११.६१ ॥ अकिञ्चनमसंबन्धमज्ञातकुलशीलिनम् । असंपूज्यातिथिं भुक्त्वा भोक्तुकामं व्रजत्यधः ॥ ३,११.६२ ॥ स्वाध्यायगोत्राचरणमपृष्ट्वा च तथा कुलम् । हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही ॥ ३,११.६३ ॥ पित्रर्थं चापरं विप्रमेकमप्याशयेन्नृप । तद्देश्यं विदिताचारसंभूतिं पाञ्चयज्ञिकम् ॥ ३,११.६४ ॥ अन्नाग्रञ्च समुद्धृत्य हन्तकारोपकल्पितम् । निर्वापभूतं भूपाल श्रोत्रियायोपपादयेत् ॥ ३,११.६५ ॥ दद्याच्च भिक्षात्रितयं परिव्राड्ब्रह्मचारीणाम् । इच्छया च बुधो दद्याद्विभवे सत्यवारितम् ॥ ३,११.६६ ॥ इत्येतेतिथयः प्रोक्ता प्रागुक्ता भिक्षवश्च ये । चतुरः पूजायित्वैतान्नृप पापात्प्रमुच्यते ॥ ३,११.६७ ॥ अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ ३,११.६८ ॥ धाता प्रजापतिः शक्रो वह्निर्वसुगणोर्ऽयया । प्रविश्यातिथिमेते वै भुञ्जन्तेन्नं नरेश्वर ॥ ३,११.६९ ॥ तस्मादतिथिपूजायां यतेत सततंनरः । स केवलमघं भुङ्क्ते यो भुङ्क्ते ह्यतिथिं विना ॥ ३,११.७० ॥ ततः स्ववासिनीं दुःखीं गुर्विणीं वृद्धबालकान् । भोजयेत्संस्कृतान्नेन प्रथमं चरमं गृही ॥ ३,११.७१ ॥ अभुक्तवत्सु चैतेषु भुञ्जन्भुङ्क्ते स दुष्कृतम् । मृतश्च गत्वा नरकं श्लोष्मभुग्जायते नरः ॥ ३,११.७२ ॥ अस्त्राताशी मलं भुक्ते ह्यजपी पूयशोणितम् । असंस्कृतान्नभुङ्मूत्रं बालादिप्रथमं शकृत् ॥ ३,११.७३ ॥ अहोमी च कृमीन्भुङ्क्ते अदत्त्वा विषमाश्नुते ॥ ३,११.७४ ॥ तस्माच्छृणुष्व राजन्द्र यथा भुञ्जीत वै गृही । भुञ्जतश्च यथा पुंसः पापबन्धो न जायते ॥ ३,११.७५ ॥ इह चारोग्यविपुलं बलबुद्धिस्तथा नृप । भवत्यरिष्टशान्तिश्च वैरिपक्षाभिचारिणः ॥ ३,११.७६ ॥ स्नातो तथावत्कृत्वा च देवर्षिपितृतर्पणम् । प्रशस्तरत्नपाणिस्तु भुञ्जीत प्रयतो गृही ॥ ३,११.७७ ॥ कृते जपे हुते वह्नौ शुद्धवस्त्रधरो नृप । दत्त्वातिथिभ्यो विप्रेभ्यो गुरुभ्यः संश्रिताय च । पुम्यगन्धश्सस्तमाल्यधारी चैव नरेश्वर ॥ ३,११.७८ ॥ नैकवस्त्रधरो नार्द्रपाणिपादो महीपते । वुशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः ॥ ३,११.७९ ॥ प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः । अन्नं प्रशस्तं पथ्यं च प्रोक्षितं प्रोक्षणोदकैः ॥ ३,११.८० ॥ न कुत्सिताहृतं नैव जुगुप्सापदसंस्कृतम् । दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस्तथा गृही ॥ ३,११.८१ ॥ प्रशस्तशुद्धपात्रे तु भुञ्जीताकुपितो द्विजः ॥ ३,११.८२ ॥ नासंदिसंस्थिते पात्रे नादेशे च नरेश्वर । नाकाले नातिसंकीर्णे दत्त्वाग्रं च नरोग्नये ॥ ३,११.८३ ॥ मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप । अन्यत्र फलमूलेभ्यः शुष्कशाखादिकात्तथा ॥ ३,११.८४ ॥ तद्वद्धारीतकेभ्यश्च गुडभक्ष्येभ्य एव च । भुञ्जीतोद्धृतसाराणि न कदापि नरेश्वर ॥ ३,११.८५ ॥ न शेषं पुरुषोश्नीय्यादन्यत्र जगतीपते । मध्वंबुदधिसर्पिभ्यः सक्तुभ्यश्च विवेकवान् ॥ ३,११.८६ ॥ अश्नीयात्तन्मयो भूत्वा पुर्वं तु मधुरं रसम् । लबणाम्लो तथा मध्ये कटुतिक्तादिकांस्ततः ॥ ३,११.८७ ॥ प्राग्द्रवं पुरुषोश्नीयान्मध्ये कठिनभोजनः । अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति ॥ ३,११.८८ ॥ अनिन्द्यं भक्षयेदित्थं वाग्यतोन्नमकुत्सयन् । पञ्चग्रासं महामौनं प्राणाद्याप्यायनं हि तत् ॥ ३,११.८९ ॥ भुक्त्वा सम्यगथाचम्य प्राङ्मुखोदङ्मुखोऽपि वा । यथावत्पुनराचामेत्पाणी प्रक्षाल्य मूलतः ॥ ३,११.९० ॥ स्वस्थः प्रशान्तचित्तस्तु कृतासनपरिग्रहः । अभीष्टदेवतानां तु कुर्वीत स्मरणं नरः ॥ ३,११.९१ ॥ अग्निराप्याययेद्धातुं पार्थिवं पवनेरितः । दत्तावकाशंनभसा जरयत्यस्तु मे सुखम् ॥ ३,११.९२ ॥ अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च । भवत्येतत्परीणतं ममास्त्यव्याहतं सुखम् ॥ ३,११.९३ ॥ प्रामापानसमानानामुदानव्यानयोस्तथा । अन्नं पुष्टिकरं चास्तु ममाप्यव्याहतं सुखम् ॥ ३,११.९४ ॥ अगस्तिरग्निर्वडवानलश्च भुक्तं मयान्नं जरयत्वशेषम् । सुखं च मे त्परिणामसंभवं यच्छन्त्वरोगं मम चास्तु देहे ॥ ३,११.९५ ॥ विष्णुःसमस्तेन्द्रियदेहदेही वृथा न भूतो भगवान्यथैकः । सत्येन तेनात्तमशेषमन्नमारोग्यतां मे परिणाममेतु ॥ ३,११.९६ ॥ विष्णुरत्ता तथैवान्नं परिमामश्च वै तथा । सत्येन तेन मद्भुक्तं जीर्यत्यन्नमिदं तथा ॥ ३,११.९७ ॥ इत्युच्चार्य स्वहस्तेन परिमृज्य तथोदरम् । अनायासप३ आयीनि कुर्यात्कर्मण्यतन्द्रितः ॥ ३,११.९८ ॥ सच्छास्त्रादिविनोदेन सन्मार्गादविरोधिना । दिनं नयेत्ततःसंध्यामुपतिष्ठेत्समाहितः ॥ ३,११.९९ ॥ दिनान्तसंध्यां सूर्येण पूर्वामृक्षैर्युतां बुधः । उपतिष्ठेध्यथान्याय्यं सम्यगाचम्य पार्थिव ॥ ३,११.१०० ॥ सर्येणाभ्युदितो यश्च त्यक्तः सूर्येण वा स्वपन् । अन्यत्रातुरभावात्तु प्रायश्चित्ती भवेन्नरः ॥ ३,११.१०२ ॥ तस्मादनुदिते सूर्ये समुत्थाय महीपते । उपतिष्ठेन्नरःसंध्यामस्वपंश्च दिनान्तजाम् ॥ ३,११.१०३ ॥ उपतिष्ठन्ति वै संध्यां ये न पूर्वं न पश्चिमाम् । व्रजन्ति ते दुरात्मानस्तमिस्त्रं नरकं नृप ॥ ३,११.१०४ ॥ पुनः पाकमुपादाय सायमप्यवनीपते । वैश्वदेवनिमित्तं वै पत्न्या सार्धं बलिं हरेत् ॥ ३,११.१०५ ॥ तत्रापि श्वपचादिब्यस्तथैवान्नविसर्जनम् ॥ ३,११.१०६ ॥ अतिथिं चागतं तत्र स्वशक्त्या पूजयेद्बुधः । पादशौचासनप्रह्वस्वागतोक्त्या च पूजनम् । ततश्चान्नप्रदानेन शयनेन च पर्थिव ॥ ३,११.१०७ ॥ दिवातिथौ तु विमुखे गते यत्पातकं नृप । तदेवाष्टगुणंपुंसःसूर्योढे विमुखे गते ॥ ३,११.१०८ ॥ तस्मात्स्वशक्त्या राजेन्द्र सूर्योढमतिथिं नरः । पूजयेत्पूजिते तस्मिन्पूजिताःसर्वदेवता ॥ ३,११.१०९ ॥ अन्नशाकांबुदानेन स्वशक्त्या पूजयेत्पुमान् । शयनप्रस्तरमहीप्रदानैरथवापि तम् ॥ ३,११.११० ॥ सृतपादादिशौचस्तु भुक्त्वा सायं ततो गुही । गच्छेच्छय्यामंस्फुटितामपि दारुमयीं नृप ॥ ३,११.१११ ॥ नाविशालं न वै भुग्नां नासमां मलिनां न च । नच जन्तुमयींशय्यामधितिष्ठेदनास्तृताम् ॥ ३,११.११२ ॥ प्राच्यां दिशि शिरः शस्तं याम्यायामथ वा नृप । सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ॥ ३,११.११३ ॥ ऋतावुपगमः शस्तःस्वपत्न्यामवनीपते । पुन्नामर्क्षे शुभे काले ज्येष्ठायुग्मासु रात्रिषु ॥ ३,११.११४ ॥ नाद्युनां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम् । नानिष्टां न प्रकुपितां न त्रस्तां न च गार्भिणीम् ॥ ३,११.११५ ॥ नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् । क्षुत्क्षामां नातिभुक्तां वा स्वयं चैभिर्गुर्णैर्युतः ॥ ३,११.११६ ॥ स्नातःस्रग्गन्धधृक्प्रीतो नाध्मातः क्षुधितोपि वा । सकामःसानुरागश्च व्यवायं पुरुषो व्रजेत् ॥ ३,११.११७ ॥ चतुर्दश्यष्टमी चैव तथा माचाथ पूर्णिमा । पर्वाण्येतानि राजन्द्र रवीसंक्रान्तिरेव च ॥ ३,११.११८ ॥ तैलस्त्रीमाससंभोगी सर्वैंष्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥ ३,११.११९ ॥ अशेषपर्वस्वेतेषु तस्मात्संयमिभिर्बुधैः । भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर्नरैः ॥ ३,११.१२० ॥ नान्ययोनावयोनौ वा नोपयुक्तौषधस्तथा । द्विजदेवगुरूणां च व्यवायी नाश्रमे भवेत् ॥ ३,११.१२१ ॥ चैत्यचत्वरतीरेषु नैव गोष्ठे चतुष्पथे । नैव श्मशानोपवने सलिलेषु महीपते ॥ ३,११.१२२ ॥ प्रोक्तपर्वस्वशेषेषु नैव भूपाल संध्ययोः । गच्छेव्द्यवायं मनसा न मूत्रोच्चारपीडितः ॥ ३,११.१२३ ॥ पर्वस्वभिगमोनिन्द्यो दिवा पापप्रदो नृप । भुवि रोगावहो नॄणामप्रशस्तो जलाशये ॥ ३,११.१२४ ॥ परदारान्न गच्छेत मनसापि पथञ्चन । किमु वाचास्थिबन्धोपि नास्ति तेषु व्यवायिनाम् ॥ ३,११.१२५ ॥ मृतो नरकमभ्येति हीयते त्रापि चायुषः । परदाररतिः पुंसामिह चामुत्र भीतिदा ॥ ३,११.१२६ ॥ इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् । यथोक्तदोषहीनेषु सकामेष्वनृतावपि ॥ ३,११.१२७ ॥ इति श्रीविष्णुमहापुराणे तृतीयांश एकादशोऽध्यायः (११) _____________________________________________________________ और्व उवाच देवगोब्राह्मणान्त्सिद्धान्वृद्धाचार्यं स्तथार्चयेत् । द्विकालं च नमेत्संध्यामग्नीनुपचरेत्तथा ॥ ३,१२.१ ॥ सदानुपहते वस्त्रे प्रशस्ताश्च महोषधीः । गारुडानि च रत्नानि बिभृयात्प्रयतो नरः ॥ ३,१२.२ ॥ प्रस्निग्धामलकेशश्च सुगन्धश्चारुवेषधृक् । सिताः सुमनसो हृद्या विभृयाच्च नरः सदा ॥ ३,१२.३ ॥ किञ्चित्परस्वं न हरेन्नल्पमप्यप्रियं वदेत् । प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ॥ ३,१२.४ ॥ नान्यस्त्रियं तथा वैरं रोचयेत्पुरुषर्षभ । न दुष्टं यानमारोहेत्कूलच्छायां न संश्रयेत् ॥ ३,१२.५ ॥ विद्विष्टपतितोन्मत्तबहुवैरादिकीटकैः । वर्धकीबन्धकीभर्तुः क्षुद्रानृतकथैः सह ॥ ३,१२.६ ॥ तथातिव्ययशीलैश्च परिवादरतैः शठैः । बुधो मैत्रीं न कुर्वात नैकः पन्थानमाश्रयेत् ॥ ३,१२.७ ॥ नावगाहेज्जलोघस्य वेगमग्रे नपेश्वर । प्रदीप्तंवेश्म न विशेन्नारोहेच्छिखरं तरोः ॥ ३,१२.८ ॥ न कुर्याद्दन्तसंघर्षं कुष्णियाच्च न नासिकाम् । नासंवृतमुखो जृंभेच्छ्वासकासो विसर्जयेत् ॥ ३,१२.९ ॥ नोच्चैर्हसेत्स शब्दं च न मुञ्चेत्पवनं बुधः । नखान्न खादयेच्छिन्द्यान्न तृमं न महीं लिखेत् ॥ ३,१२.१० ॥ न श्मश्रु भक्षयेल्लोष्टं न मृद्रीयाद्विचक्षणः । ज्योतींष्यमेध्यशस्तानि नाभिवीक्षेत च प्रभो ॥ ३,१२.११ ॥ नग्नां परस्त्रियं चैव सूर्यं चास्तमयोदये । न हुङ्कुर्याच्छवं गन्धं शवागन्धोहि सोमज ॥ ३,१२.१२ ॥ चतुष्पथं चैत्यतरुं श्मशानोपवनानि च । दुष्टस्त्रीसन्निकर्षं च वर्जयेन्नशि सर्वदा ॥ ३,१२.१३ ॥ पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद्बुधः । नैकः शून्याटवीं गच्छेत्तथा शून्यगृहे वसेत् ॥ ३,१२.१४ ॥ केशास्थिकण्टकामेध्यबलिभस्मतुषांस्तथा । स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत् ॥ ३,१२.१५ ॥ नानार्यानाश्रयेत्काश्चिन्न जिह्यं रोचयेद्बुधः । उपसर्पेन्न वै व्यालं चिरं तिष्ठेन्न वोत्थितः ॥ ३,१२.१६ ॥ अतीव जागरस्वप्ने तद्वत्स्थानासने बुधः । न सेवेत तथा शय्यां व्यायामं च नरेश्वर ॥ ३,१२.१७ ॥ दंष्ट्रिणः शृङ्गिणश्चैव प्राज्ञो दूरेण वर्जयेत् । अवश्यायं च राजेन्द्र पुरोवातातपौ तथा ॥ ३,१२.१८ ॥ न स्नायान्न स्वपेन्नग्नो न चैवोपस्पृशेद्बुधः । मुक्तकेशश्च नाचामेद्देवाद्यर्चां च वर्जयेत् ॥ ३,१२.१९ ॥ होमदेवार्चनाद्यासु क्रियास्वाचमने तथा । नैकवस्त्रः प्रवर्तेत द्विजपादावनेजने ॥ ३,१२.२० ॥ नासमञ्जसशीलैस्तु सहासीत कथञ्चन । सद्बुत्तसन्निकर्षो हि क्षणार्धमपि शस्यते ॥ ३,१२.२१ ॥ विरोधं नोत्तमैर्गच्छेन्नाधमैश्च सदा बुधः । विवाहश्च विवादश्च तुल्यशीलैर्नृपेष्यते ॥ ३,१२.२२ ॥ नारभेत कलं प्राज्ञः शुष्कवैरं च वर्जयेत् । अप्यल्पहानिःसोढव्या वैरेणार्थागमन्त्यजेत् ॥ ३,१२.२३ ॥ स्नातो नाङ्गानि संमार्जेत्स्नानशाट्या न पाणिना । न च निर्धूतयेत्केशान्नाचामेच्चैव चोत्थितः ॥ ३,१२.२४ ॥ पादेन नाक्रमेत्पादं न पूज्याबिमुखं नयेत् । नोच्चासनं गुरोरग्रे भजेताविनयान्वितः ॥ ३,१२.२५ ॥ अपसव्यं न गच्छेच्च देवागारचतुष्पथान् । माङ्गल्यपूज्यांश्च तथा विपरीतान्न दक्षिणम् ॥ ३,१२.२६ ॥ सोमार्काग्न्यंबुवायूनां पूज्यानां च न संमुखम् । कुर्यान्निष्ठीवविण्मुत्रसमुत्सर्गं च पण्डितः ॥ ३,१२.२७ ॥ तिष्ठन्न मूत्रयेत्तद्वत्पथिष्वपि न मूत्रयेत् । श्लेष्मविण्मूत्ररक्तानि सर्वदैव न लङ्घयेत् ॥ ३,१२.२८ ॥ श्लेष्मशिङ्घाणिकोत्सर्गौ नान्नकाले प्रशस्यते । बलिमङ्गलजप्यादौ न होमे न महाजने ॥ ३,१२.२९ ॥ योपितो नावमन्येत न चासां विश्वसेद्बुधः । न चैवेर्ष्या भवेत्तासु न धिक्कुर्यात्कदाचन ॥ ३,१२.३० ॥ मङ्गल्यपूर्वरत्नाज्यपूज्याननभिवाद्य च । न निष्क्रमेद्गृहात्प्राज्ञःसदाचारपरो नरः ॥ ३,१२.३१ ॥ चतुष्पथान्नमस्कुर्यात्काले होमपरो भवेत् । दीनानभ्युद्धरेत्साधूनुपासीत बहुश्रुतान् ॥ ३,१२.३२ ॥ देवर्षिपूजकःसम्यक्पितृपिण्डोजकप्रदः । सत्कर्ता चातिथीनां यः स लोकानुत्तमान्व्रजेत् ॥ ३,१२.३३ ॥ हितं मितं प्रियं काले वश्यात्मा योभिभाषते । स याति लोकानाह्लादहेतुभूतान्नृपाक्षयान् ॥ ३,१२.३४ ॥ धीमान्ह्रीपान्क्षमायुक्तो ह्यास्तिको विनयान्वितः । विद्याभिजनवृद्धानां याति लोकाननुत्तमान् ॥ ३,१२.३५ ॥ अकालगार्जितादौ च पर्वस्वाशौचकादिषु । अनध्यायं बुधः कुर्यादुपरागादिके तथा ॥ ३,१२.३६ ॥ समं नयति यः क्रुद्वान्सर्वबन्धुरमत्सरी । भीताश्वासनकृत्साधुःस्वर्गस्तस्याल्पकं फलम् ॥ ३,१२.३७ ॥ वर्षातपादिषु च्छत्री दण्डी रात्र्यटवीषु च । शरीरत्राणकामो वै सोपानत्कःसदा व्रजेत् ॥ ३,१२.३८ ॥ नोर्ध्वं न तिर्यग्दूरं वा न पश्यन्पर्यटेद्बुधः । युगमात्रं महीष्टष्ठं नरो गच्छेद्विलोकयन् ॥ ३,१२.३९ ॥ दोषहेतूनशेषांश्च वश्यात्मा यो निरस्यति । तस्य धर्मार्थकामानां हानिर्नाल्पापि जायते ॥ ३,१२.४० ॥ सदाचाररतः प्राज्ञो विद्याविनयशिक्षितः । पापेप्यपापः परुषे ह्यभिधत्ते प्रियाणि यः । मैत्रीद्रवान्तः करणस्तस्य मुक्तिः करे स्थिता ॥ ३,१२.४१ ॥ ये कामक्रोधलोभानां वीतरागा न गोचरे । सदाचारस्थितास्तेषामनुभावैर्धृता मही ॥ ३,१२.४२ ॥ तस्मात्सत्यं वदेत्प्राज्ञो यत्परप्रीतिकारणम् । सत्यं यत्परदुःखाय तदा मौनपरो भवेत् ॥ ३,१२.४३ ॥ प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् । श्रेयस्तत्र हितं वाच्यं यद्यप्यत्यन्तमप्रियम् ॥ ३,१२.४४ ॥ प्राणीनामुपकाराय यथैवेह परत्र च । कर्मणा मनसा वाचा तदेव मतीमान्वदेत् ॥ ३,१२.४४ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे द्वादशोऽध्यायः (१२) _____________________________________________________________ और्व उवाच सचैलस्य पितुः स्नानं जाते पुत्रे विधीयते । जातकर्म तदा कुर्याच्छ्राद्धमभ्युदये च यत् ॥ ३,१३.१ ॥ युग्मान्देवांश्च वित्र्यांश्च सम्यक्सव्यक्रमाद्द्विजान् । पूजायेद्भोजयेच्चैव तन्मना नान्यमानसः ॥ ३,१३.२ ॥ दध्यक्षतैः सबदरैः प्राङ्मुखोदङ्मुखोऽपि वा । देवतीर्थेन वै पिण्डान्दद्यात्कायेन वा नृप ॥ ३,१३.३ ॥ नान्दीमुखः पितृगणस्तेन श्राद्धेन पार्थिव । प्रीयते तत्तु कर्तव्यं पुरुषैः सर्ववृद्धिषु ॥ ३,१३.४ ॥ कन्यापुत्रविवाहेषु प्रवेशेषु च वेश्मनः । नामकर्मणि बालानां चूडाकर्मादिके तथा ॥ ३,१३.५ ॥ सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणं पूजयेत्प्रयतो गृही ॥ ३,१३.६ ॥ पितृपूजाक्रमः प्रोक्तो वृद्धावेष सनातनः । श्रूयतामवनीपाल प्रेत कर्म क्रियाविधिः ॥ ३,१३.७ ॥ प्रेतदेहं शभैः स्नानैः स्नापितं स्रग्विभूषितम् । दग्ध्वा ग्रामाद्बहिः स्नात्वा सचैलःसलिलाशये ॥ ३,१३.८ ॥ यत्र तत्र स्थितायैतदमुकायेति वादिनः । दक्षिणाभिमुखा दद्युर्बान्धवाःसलिलाञ्जलीन् ॥ ३,१३.९ ॥ प्रविष्टाश्च समं गोभिर्ग्रामं नक्षत्रदर्शने । कटकर्म ततः कुर्याद्भूमौ प्रस्तरशायिनः ॥ ३,१३.१० ॥ दातव्योनदिनं पिडः प्रेताय भुवि पार्थिव । दिवा च भक्तं भोक्तव्यममांसं मनुजर्षभ ॥ ३,१३.११ ॥ दिनानि तानि चेच्छातः कर्तव्य विप्रभोजनम् । प्रेता यान्ति तथा तृप्तिं बन्धुवर्गेण भुञ्जता ॥ ३,१३.१२ ॥ प्रथमेह्नि तृतीये च सप्तमे नवमे तथा । वस्त्रत्यागबहिःस्नाने कृत्वा दद्यात्तिलोदकम् ॥ ३,१३.१३ ॥ चतुर्थेह्निच कर्तव्यं तस्यास्थिचयनं नृप । तदूर्ध्वमङ्गसंस्पर्शःसपिण्डानामपीष्यते ॥ ३,१३.१४ ॥ योग्याःसर्वक्रियाणां तु समनसलिलास्तथा । अनुलेपनपुष्पादिभोगादन्यत्र पार्थिव ॥ ३,१३.१५ ॥ शय्यासनोपभोगश्च सपिण्डानामपीष्यते । भस्मास्थिचयनादूर्ध्वं संयोगो न तु योषिताम् ॥ ३,१३.१६ ॥ बाले देशान्तरस्थे च पतिते च मुनौ मृते । सद्यः शौचं तथेच्छातो जलाग्न्युद्बन्धनादिषु ॥ ३,१३.१७ ॥ मृतबन्धोर्दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ॥ ३,१३.१८ ॥ विप्रस्यैतद्द्वादशाहं राजन्यस्याप्यशौचकम् । अर्धमासं तु वैश्यस्य मासं शूद्रस्य शुद्धये ॥ ३,१३.१९ ॥ अयुजो भोजयेत्कामं द्विजानन्ते ततो दिने । दद्याद्दर्भषु पिण्डं च प्रेतायोच्छिष्टसन्निधौ ॥ ३,१३.२० ॥ वार्यायुधप्रतोदास्तु दण्डश्च द्विजभोजनात् । स्प्रष्टव्योनन्तरं वर्णैः शुद्धेरते ततः क्रमात् ॥ ३,१३.२१ ॥ ततःसर्वणधर्मा ये विप्रादिनासुदाहृताः । तान्कुर्वीत पुमाञ्जीवेन्निजधर्मार्जनैस्तथा ॥ ३,१३.२२ ॥ मृताहति च कर्तव्यमेकोद्दिष्टमतः परम् । आह्वानादिक्रिया दैवनियोगरहितेन यत् ॥ ३,१३.२३ ॥ एकोर्ध्यस्तत्र दातव्यस्तथैवैकपवित्रकम् । प्रेताय पिण्डो दातव्यो भुक्तवत्सु द्विजातिषु ॥ ३,१३.२४ ॥ प्रश्नश्च तत्राभिरतिर्यजमानद्विजन्मनाम् । अक्षय्यममुकस्येति वक्तव्यं विरतौ तथा ॥ ३,१३.२५ ॥ एकोद्दिष्टमयो धर्म इत्थमावत्सरात्स्मृतः । सपिण्डीकरणं तस्मिन्काले राजेन्द्र चत्छृणु ॥ ३,१३.२६ ॥ एकोद्दिष्टविधानेन कार्यं तदपि पार्थिव । संवत्सरेथ षष्ठे वा मासे वा द्वादशेह्नि तत् ॥ ३,१३.२७ ॥ तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् ॥ ३,१३.२८ ॥ पात्रं प्रेतस्य तत्रैकं पैत्रं पात्रत्रयं तथा । सेचयेत्पितृपात्रेषु प्रेतपात्रं ततस्त्रिषु ॥ ३,१३.२९ ॥ ततः पितृत्वमापन्ने तस्मिन्प्रेते महीपते । श्राद्धधर्मैरशषस्तु तत्पूर्वानर्चयेत्पितॄन् ॥ ३,१३.३० ॥ पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसंततिः । सपिण्ड संततिर्वापि क्रियार्हे नृप जायते ॥ ३,१३.३१ ॥ तेषामभावे सवैषां समानोदकसततिः । मातृपक्षमपिण्डेन संबन्धा ये जलेन वा ॥ ३,१३.३२ ॥ कुलद्वयेपि चोच्छिन्ने स्त्रीभिः कार्याः क्रिया नृप । पितृमातृसपिण्डैस्तु समानसलिलैस्तथा ॥ ३,१३.३३ ॥ संघातान्तर्गतैर्वापि कार्याः प्रेतस्य च क्रियाः । उत्सन्नबन्धुरिक्थाद्वा कारयेदवनीपतिः ॥ ३,१३.३४ ॥ पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः । त्रिःप्रकाराः क्रियाःसर्वास्तासांभेदं शृणुष्व मे ॥ ३,१३.३५ ॥ आदाहाद्यादशाहाश्च स्पर्शाद्यन्तास्तु याः क्रियाः । ताः पूर्वा मध्यमा मासि मास्येकोद्दिष्टसंज्ञिताः ॥ ३,१३.३६ ॥ प्रेते पितृत्वमापन्ने सपिण्डिकरणादनु । क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः ॥ ३,१३.३७ ॥ पितृमातृसपिण्डैस्तु समानासलिलैस्तथा । संघातान्तर्गतैर्वापि राज्ञा तद्धनहारिणा ॥ ३,१३.३८ ॥ पूर्वाः क्रियाश्च कर्तव्याः पुत्राद्यैरेव चोत्तराः । दौहित्रैर्वा नृपश्रेष्ठ कार्यास्तत्तनयैस्तथा ॥ ३,१३.३९ ॥ मृताहनि च कर्तव्यास्त्रीणामप्युत्तराः क्रिया । प्रतिसंवत्सरं राजन्नेकोद्दिष्टविधानतः ॥ ३,१३.४० ॥ तस्मादुत्तरसंज्ञायाः क्रियास्ताः शृणु पार्थिव । य थायथा च कर्तव्या विधिना येन चानघ ॥ ३,१३.४१ ॥ इति श्रिविष्णुमहापुराणे तृतीयांशे त्रयोदशोध्यायः (१३) _____________________________________________________________ और्व उवाच ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् । विश्वेदेवान्पितृगणान्वयांसि मनुजान्पशुन् ॥ ३,१४.१ ॥ सरीसृपानृषिगणान्यच्चान्यद्भूत संज्ञितम् । श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् ॥ ३,१४.२ ॥ मासिमास्यसिते पक्षे पञ्चदश्यां नरेश्वर । दथाष्टकासु कुर्वीत काम्यान्कालाञ्छृणुष्व मे ॥ ३,१४.३ ॥ श्राद्धार्हमागतं द्रव्यं विशिष्टमथ वा द्विजम् । श्राद्धं कुर्वीत विज्ञाय व्यतीपातेऽयते तथा ॥ ३,१४.४ ॥ विषुवे चापि संप्राप्ते ग्रहणे शशि सूर्ययोः । समस्तेष्वेव भूपाल राशिष्वर्के च गच्छति ॥ ३,१४.५ ॥ नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने । इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा ॥ ३,१४.६ ॥ अमावास्या यदा मैत्रविशाखास्वातियोगिनी । श्रीद्धैः पितृगणस्तृप्तिं तथाप्नोत्यष्टवार्षिकीम् ॥ ३,१४.७ ॥ अमवास्या यदा पुष्ये रौद्रेथर्क्षे पुनर्वसौ । द्वादशाब्दं तदा तृप्तिं प्रयान्ति पिरतोर्चिताः ॥ ३,१४.८ ॥ वासवाजैकपादर्क्षे पितणां तृप्तिमिच्छताम् । वारुणे वाप्यमावास्या देवानामपि दुर्लभा ॥ ३,१४.९ ॥ नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते । तदा हि तृप्तिदं श्राद्धं पितॄणां शृणु चापरम् ॥ ३,१४.१० ॥ गीतं सनत्कुमारेण यथैलान महात्मने । पृच्छते पितृभक्ताय प्रश्रयावनाताय च ॥ ३,१४.११ ॥ सनत्कुमार उवाच वैशाखमासस्य च या तृतीया नवम्यसौ कर्तिकशुक्लपक्षे । नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥ ३,१४.१२ ॥ एता युगाद्याः कथिताः पुराणेष्वनन्तपुण्यास्तिथ यश्चतस्त्रः । उपप्लवे चन्द्रमसो रवेश्च त्रिष्वष्टकास्वप्ययनद्वये च ॥ ३,१४.१३ ॥ पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः । श्राद्धं कृते तेन समासहस्रं रहस्यमेतत्पितरो वदन्ति ॥ ३,१४.१४ ॥ माघेऽसिति पञ्चदशी कदाचिदुपैति योगं यदि वारुणेन । ऋक्षेण कालःस परः पितॄणां न ह्यल्पपुण्यैर्नृप लभ्यतेसौ ॥ ३,१४.१५ ॥ काले धनिष्ठा यदि नाम तस्मिन्भवेत्तु भूपाल तदा पितृभ्यः । दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः ॥ ३,१४.१६ ॥ तत्रैव चेद्भाद्रपदानुपूर्वाः काले यथावत्क्रियते पितृभ्यः । श्राद्धं परां तृप्तिमुपैति तेन युगं सहस्रं पितरःस्वपन्ति ॥ ३,१४.१७ ॥ गङ्गां शतद्रूं यमुनां विपाशां सरस्वतीं नैमिशगोमतीं वा । तत्रावगाह्यर्चनमादरेण कृत्वा पितॄणां दुरितानि हन्ति ॥ ३,१४.१८ ॥ गायन्ति चैतत्पितरः कदानु हर्षादमी तृप्तिमवाप्य भूयः । माघासितान्ते शुभतीर्थतोयैर्यास्याम तृप्तिं तनयादिदत्तैः ॥ ३,१४.१९ ॥ चित्तं च वित्तं च नृणां विशुद्धं शस्तं च कालः कथितो विधिश्च । पात्रं यथोक्तं परमा च भक्तिर्नृणां प्रयच्छन्त्यभिवाञ्छितानि ॥ ३,१४.२० ॥ पितृगीतान्ततैवात्र श्लोकांस्तञ्छृणु पार्थिव । श्रुत्वा तथैव भवता भाव्यं तत्रादृतात्मना ॥ ३,१४.२१ ॥ अपि धन्यः कुले जायादस्माकं मतिमान्नरः । अकुर्वन्वित्तशाठ्यं यः पिण्डान्नो निर्वपिष्यति ॥ ३,१४.२२ ॥ रत्नं वस्त्रं महायानं सर्वभोगादिकंवसु । विभवे सति विप्रेभ्यो योस्मानुद्दिश्य दास्यति ॥ ३,१४.२३ ॥ अन्नेन वा यथाशक्त्या कालेस्मिन्भक्तिनम्रधीः । भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः ॥ ३,१४.२४ ॥ असमर्थोन्नदानस्य धान्यमामं स्वशक्तितः । प्रदास्यति द्विजाग्रेभ्यः स्वल्पाल्पां वापि दक्षिणाम् ॥ ३,१४.२५ ॥ तत्राप्यसामर्थ्ययुतः कराग्राग्रस्थितांस्तिलान् । प्रणम्य द्विजमुख्याय कस्मैचिद्भूप दास्यति ॥ ३,१४.२६ ॥ तिलैः सप्ताष्टभिर्वापि समवेतं जलाञ्जलिम् । भक्तिनम्रः समुद्दिश्य भुव्यस्माकं प्रदास्यति ॥ ३,१४.२७ ॥ यतः कुताश्चित्संप्राप्य गोभ्यो वापि गवाह्निकम् । अभावे प्रीणयन्नस्माञ्च्छ्रद्धायुक्तः प्रदास्यति ॥ ३,१४.२८ ॥ सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः । सूर्यादिलोकपालानामिदमुच्चेर्वदिष्यति ॥ ३,१४.२९ ॥ न मेऽस्ति वित्तं न धनं च नान्यच्छ्राद्धोपयोग्यं स्वपितॄन्नतोस्मि । तृप्यन्तु भक्तया पितरो मयैतौ कृतौ भुजौ वर्त्मनि मारुतस्य ॥ ३,१४.३० ॥ और्व उवाच इत्येतत्पितृभिर्गीतं भावाभावप्रयोजनम् । यः करोति कृतं तेन श्राद्धं भवति पार्थिव ॥ ३,१४.३१ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे चतुर्दशोऽध्यायः (१४) _____________________________________________________________ औरेव उवाच ब्राह्मणान्भोजयेच्छ्रद्धे यद्गुणांस्तान्निभोध मे ॥ ३,१५.१ ॥ त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्मःषजङ्गवित् । वेदविच्छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः ॥ ३,१५.२ ॥ ऋत्विक्स्वस्त्रेयदौहित्रजामातृश्वशुरास्तथा । मातुलोथ तपोनिष्ठः पञ्चाग्न्यभिरतस्तथा । शिष्याःसंबन्धिनश्चैव मातापितृरतश्च यः ॥ ३,१५.३ ॥ एतान्नियोजयेच्छ्राद्धे पूर्वोक्तान्प्रथमे नृप । ब्राह्मणान् पितृतुष्ट्यर्थमनुकल्पेष्वनन्तरान् ॥ ३,१५.४ ॥ मित्रध्रुक्कुनखी क्लीबः श्यावदन्तस्तथा द्विजः । कन्या दूषयितावह्निवेदोज्झःसोमविक्रयी ॥ ३,१५.५ ॥ अभिशस्तस्तथा स्तेनः पुशुनो ग्रामयाजकः । भृतकाध्यापकस्तद्वद्भृतकाध्यापितश्च यः ॥ ३,१५.६ ॥ परपूर्वापतिश्चैव मातापित्रोस्तथोज्झकः । वृषलीसूतिपोष्टा च वृषलीपतिरेव च ॥ ३,१५.७ ॥ तथा देवलकश्चैव श्राद्धे नार्हति केतनम् ॥ ३,१५.८ ॥ प्रथमेह्नि बुधः शस्ताञ्छ्रोत्रियादीन्निमन्त्रयेत् । कथयेच्च तथैवैषां नियोगान्पितृदैविकान् ॥ ३,१५.९ ॥ ततः क्रोधव्यवायादीनायासं तैर्धिजैः सह । यजमानो न कुर्वीत दोषस्तत्र महानयम् ॥ ३,१५.१० ॥ श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च । व्यवायी रेतसो गर्ते मज्जयत्यात्मनः पितॄन् ॥ ३,१५.११ ॥ तस्मात्प्रथममत्रोक्तं द्विजाग्र्याणां निमन्त्रणम् । अनिमन्त्र्य द्विजानेवमागतान्भो जयेद्यतीन् ॥ ३,१५.१२ ॥ पादशौचादिना गेहमागतान्पूजयेद्द्धिजान् ॥ ३,१५.१३ ॥ पवित्रपाणिराचान्तानासनेषूपवेशयेत् । पितॄणामयुजो युग्मान्देवाना मिच्छया द्विजान् ॥ ३,१५.१४ ॥ देवानामेकमेकं वा पितॄणां च नियोजयेत् ॥ ३,१५.१५ ॥ तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् । कुर्वीत भक्तीसंपन्नस्तत्र वा वैश्वदैविकम् ॥ ३,१५.१६ ॥ प्राङ्मुखान्भोजयेद्विप्रान्देवानामुभयात्मकान् । पितॄन् पितामहानां च भोजयेच्चाप्युदङ्मुखान् ॥ ३,१५.१७ ॥ पृथक्तयोः केचिदाहुः श्राद्धस्य करणं नृप । एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः ॥ ३,१५.१८ ॥ विष्टरार्थं कुशं दत्त्वा संपूज्यार्घ्यं विधानतः । कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया ॥ ३,१५.१९ ॥ यवांबुना च देवानां दद्यादर्घ्यं विधानवित् । स्रग्गन्धधूपदीपांश्च तेभ्यो दद्याद्यथाविधि ॥ ३,१५.२० ॥ पितॄणामपसव्यं तत्सर्वमेवोपकल्पयेत् । अनुज्ञां च ततः प्राप्य दत्त्वा दर्भन्द्विधाकृतान् ॥ ३,१५.२१ ॥ मन्त्रपूर्वं पितॄणां तु कुर्याच्चावाहनं बुधः । तिलांबुना चापसव्य दद्यादर्घ्यादिकं नृप ॥ ३,१५.२२ ॥ काले तत्रातिथिं प्राप्तमन्नकामं नृपाध्वगम् । ब्रह्मणैरभ्यनुज्ञातः कामं तमपि भोजयेत् ॥ ३,१५.२३ ॥ योगिनो विविधै रूपैर्नरामामुपकारीणः । भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिमः ॥ ३,१५.२४ ॥ तस्मादभ्यर्चयेत्प्राप्तं श्राद्धकालेऽतिथिं बुधः । श्राद्धक्रियाफलं हॄन्ति नरेद्रापूजितोऽतिथिः ॥ ३,१५.२५ ॥ जुहुयाद्व्यञ्जनक्षारवर्जमन्नं ततोऽनले । अनुज्ञातो द्विजैस्तैस्तु त्रिकृत्वः पुरुषर्षभ ॥ ३,१५.२६ ॥ अग्नये कव्यवाहाय स्वधेत्यादौ नृपाहुतिः । सोमाय वै पितृमते दातव्या तदनन्तरम् ॥ ३,१५.२७ ॥ वैवस्वताय चैवान्या तृतीया दीयते ततः । हुतावशिष्टमल्पान्नं विप्रपात्रेषु निर्वेपेत् ॥ ३,१५.२८ ॥ ततोन्नं मृष्टमत्यर्थमभीष्टमतिसंस्कृतम् । दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम् ॥ ३,१५.२९ ॥ भोक्तव्यं तैश्च तच्चित्तैर्मौनिभिः सुमुखैः सुखम् । अक्रुद्व्यता चात्वरता देयं तेनापि भक्तितः ॥ ३,१५.३० ॥ रक्षोघ्रमन्त्रपठनं भूमेरास्तरणं तिलैः । कृत्वाध्येयाःस्वपितरस्त एव द्विजसत्तमाः ॥ ३,१५.३१ ॥ पिता पितामहश्चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः ॥ ३,१५.३२ ॥ पिता पितामहश्चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्वद्य होमाप्यायितमूर्तयः ॥ ३,१५.३३ ॥ पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयातु पिण्डेन मया दत्तेन भूतले ॥ ३,१५.३४ ॥ पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु मे भक्त्या मयैतत्समुदाहृतम् ॥ ३,१५.३५ ॥ मातामहस्तृप्तिमुपैतु तस्य तथा पिता तस्य पिता ततोऽन्यः । विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः ॥ ३,१५.३६ ॥ यज्ञेश्वरो हव्यसमस्तकव्यो भोक्ताव्ययात्मा हरिरीश्वरोऽत्र । तत्संनिधानादपयान्तु सद्यो रक्षांस्यशेषण्यसुराश्च सर्वे ॥ ३,१५.३७ ॥ तृप्तेष्वेतेषु विकिरेदन्नं विप्रेषु भूतले । दद्यादाचमनार्थाय तेभ्यो वारी सकृत्सकृत् ॥ ३,१५.३८ ॥ सुतृप्तैस्तैरनुज्ञातःसर्वेणान्नेन भूतले । सतिलोन ततः पिण्डान्सम्यग्दद्यात्समाहितः ॥ ३,१५.३९ ॥ पिरृतीर्थेन सलिलं तथैव सलिलाञ्जलिम् । मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत् ॥ ३,१५.४० ॥ दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजितम् । स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ ॥ ३,१५.४१ ॥ पितामहाय चैवान्यं तत्पित्रे च तथापरम् । दर्भमूले लेपभुजः प्रीणयेल्लेपघर्षणैः ॥ ३,१५.४२ ॥ पिण्डैर्मातामहांस्तद्वद्गन्धमाल्यादिसंयुतैः । पूजायित्वा द्विजाग्र्याणां दद्याच्चाचमनं ततः ॥ ३,१५.४३ ॥ पितृभ्यः प्रथमं भक्त्यातन्मनस्कोनरेश्वर । सुस्वधेत्याशिषा युक्तां दद्याच्छक्त्या च दक्षिणाम् ॥ ३,१५.४४ ॥ दत्त्वा च दक्षिणां तेभ्यो वाचयेद्वैश्वदेविकान् । प्रीयन्तामिहये विश्वेदेवास्तेन इतीरयेत् ॥ ३,१५.४५ ॥ तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तथासिषः । पश्चाद्विसर्जयेद्देवान्पूर्वं पै३ र्यान्महीपते ॥ ३,१५.४६ ॥ मातामहानामप्येवं सह देवैः क्रमः स्मृतः । भोजयेच्च स्वशक्त्या च दाने तद्वद्विसर्जने ॥ ३,१५.४७ ॥ आपादशौचनात्पूर्वं कुर्याद्देवद्विजन्मसु । विसर्जनं तु प्रथमं पैत्रं मातामहेषु वै ॥ ३,१५.४८ ॥ विसर्जयेत्प्रीतिवचःसंमान्याभ्यर्थितास्ततः । निवर्तेताभ्यनुज्ञात आद्वारं ताननुव्रजेत् ॥ ३,१५.४९ ॥ ततस्तु वैश्वदेवाख्यं कुर्यान्नित्यक्रियं बुधः । भुञ्जीयाच्च समं पूज्य भृत्यबन्धुभिरात्मनः ॥ ३,१५.५० ॥ एवं श्राद्धं बुधः कुर्यात्पैत्र्यं मातामहं तथा । श्राद्धैराप्यायिता दद्युःसर्वान्कामन्पितामहाः ॥ ३,१५.५१ ॥ त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । रजतस्य कथा दानं तथा संकीर्तनादिकम् ॥ ३,१५.५२ ॥ जर्ज्यानि कुर्वता श्राद्धं क्रोधोध्वगमनं त्वारा । भोक्तुरप्यत्र राजेन्द्र त्रयमेतन्न शस्यते ॥ ३,१५.५३ ॥ विश्वेदेवाःसपितरस्तथा मातामहा नृप । कुलं चाप्यायते पुंसां सर्वं श्राद्धं प्रकुर्वताम् ॥ ३,१५.५४ ॥ सोमाधारः पितृगणो योगाधारश्च चन्द्रमाः । श्राद्धे योगिनियोगस्तु तस्माद्भुपालशस्यते ॥ ३,१५.५५ ॥ सहस्रस्यापि विप्राणां योगी चेत्पुरतःस्थितः । सर्वान् भोक्तॄंस्तारयति यजमानं तथा नृप ॥ ३,१५.५६ ॥ इति श्रीविष्णुमहापुराणे तृतीयांसे पञ्चदशोऽध्यायः (१५) _____________________________________________________________ और्व उवाच हविष्यमत्स्यमासैस्तु शशस्य नकुलस्य च । सोकरच्छाकलैणेयरौरवैर्गवयेन च ॥ ३,१६.१ ॥ औरभ्रगव्यैश्च तथा मासवृद्ध्या पितामहाः । प्रयान्ति तृप्तिं मांसैस्तु नित्यं वार्ध्रोणसामिषैः ॥ ३,१६.२ ॥ खड्गमांसमतीवात्र कालशाकं तथा मधु । शस्तानि कर्मण्यत्यन्ततृप्तिदानि नरेश्वर ॥ ३,१६.३ ॥ गयामुपेत्य यः श्राद्धं करोति पृथिवीपते । सफलं तस्य तज्जन्म जायते पितृतीष्टिदम् ॥ ३,१६.४ ॥ प्रशान्तिकाःसमीवाराः श्यामाका द्विविधास्तथा । वन्यैषधीप्रधानास्तु श्राद्धार्हाः पुरुषर्षभ ॥ ३,१६.५ ॥ यवाः प्रियङ्गवो मुद्गा गोधूमा व्रीहयस्तिलाः । निष्पावाः कोविदाराश्च सर्षपाश्चात्र सोभनाः ॥ ३,१६.६ ॥ अकृताग्रयणं यच्च धान्यजातं नरेश्वर । राजमाषानणुंश्चैव मसूरांश्च विसर्जयेत् ॥ ३,१६.७ ॥ अलाबुं गृञ्जनं चैव पलाण्डुं पिण्डमूलकम् । गान्धारककरंवादिलवाणान्यौषराणि च ॥ ३,१६.८ ॥ आरक्ताश्चैव निर्यासाः प्रत्यक्षलवणानि च । वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते ॥ ३,१६.९ ॥ नक्ताहृतमनुच्छिन्नं तृप्यते न च यत्र गौः । दुर्घधिफेनिलं चांबु श्राद्धयोग्यं न पार्थिव ॥ ३,१६.१० ॥ क्षिरमेकसफानां यदौष्ट्रमाविकमेव च । मार्गं च माहिषं चैव वर्जयेच्छ्राद्धकमेणि ॥ ३,१६.११ ॥ षण्डापविद्धचण्डालपापिपाषण्डरोगिभिः । कृकवाकुश्वाननग्नवानरग्रामसूकरैः ॥ ३,१६.१२ ॥ उदक्यासूतिकाशौचमृतहारैश्च वीक्षिते । श्राद्धे सुरा न पितरो भुञ्जन्ते पुरुषर्षभ ॥ ३,१६.१३ ॥ तस्मात्परीश्रिते कुर्याच्छ्राद्धं श्रद्धासमन्वितः । उर्व्यां च तिलविक्षेपाद्यातुधानान्निवारयेत् ॥ ३,१६.१४ ॥ नखादिना चोपपन्नं केशकीटादिभिर्नृप । न चैवाभिषवैर्मिश्रमन्नं पर्युषितं तथा ॥ ३,१६.१५ ॥ श्रद्धासमन्वितैर्दत्तं पितृभ्यो नामगोत्रतः । यदाहारास्तु ते जातास्तदाहारत्वमेति तत् ॥ ३,१६.१६ ॥ श्रूयते चापि पितृर्भिगीता गाथा महीपते । इक्ष्वाकोर्मनुपुत्रस्य कलापोपवने पुरा ॥ ३,१६.१७ ॥ अपि नस्ते भविष्यन्ति कुले सन्मार्गशीलिनः । गयामुपेत्य ये पिण्डान्दास्यन्त्यस्माकमादरात् ॥ ३,१६.१८ ॥ अपि नःस कुले जायाद्यो नो दद्यात्त्रयोदशीम् । पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च ॥ ३,१६.१९ ॥ गौरीं वाप्युद्वहेत्कन्यां नीलं वा वृषमुत्सृजेत् । यजेत वाश्वमेधेन विधिवद्दक्षिणावता ॥ ३,१६.२० ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे पोडशोऽध्यायः (१६) _____________________________________________________________ श्रीपराशर उवाच इत्याह भगवानौर्वःसगराय महात्मने । सदाचारं पुरा सम्यङ्मैत्रेय परिपृच्छते ॥ ३,१७.१ ॥ मयाप्येतदशेषेण तथितं भवतो द्विज । समुल्लङ्घ्य सदाचारं कश्चिन्नाप्नोति शोभनम् ॥ ३,१७.२ ॥ श्रीमैत्रेय उवाच षण्डापविद्धप्रमुखा विदिता भगवन्मया । उदक्याद्याश्च मे सम्यङ्नग्नमिच्छामि वेदितुम् ॥ ३,१७.३ ॥ कोनग्नः किं समाचारो नग्नसंज्ञां नरो लभेत् । नग्नस्वरूपमिच्छामि यथावत्कथितं त्वाय । श्रोतुं धर्मभृतां श्रेष्ठ न ह्यस्त्यविदितं तव ॥ ३,१७.४ ॥ श्रीपराशर उवाच ऋग्यजुःसामसंज्ञेयं त्रयी वर्णावृत्तिर्द्विज । एतामुज्झति यो मोहात्स नग्नः पातकी द्वजः ॥ ३,१७.५ ॥ त्रयी समस्तवर्णानां द्विजसंवारणं यतः । नग्नो भवत्युज्झितायां यतस्तस्यां न संशयः ॥ ३,१७.६ ॥ इदं च श्रुयतामन्यद्यद्भीष्माय महात्मने । कथयामास धर्मज्ञो वसिष्ठोऽस्मत्पितामहः ॥ ३,१७.७ ॥ मयापि तस्य गदतः श्रुतमेतन्महात्मनः । नग्नसंबन्धि मैत्रेय यत्पृष्टोहमिह त्वाया ॥ ३,१७.८ ॥ देवासुरमभूद्युद्धं द्विव्यमब्दशतं पुरा । तस्मिन्परजिता देवा दैत्यैर्ह्रादपुरोगमैः ॥ ३,१७.९ ॥ क्षीरोदस्योत्तरं कूलं गत्वा तप्यन्त वै तपः । विष्णोराराधनार्थाय जगुश्चेमं स्तवं तदा ॥ ३,१७.१० ॥ देवा ऊचुः आराधनाय लोकानां विष्णोरीशस्य यां गिरम् । वक्ष्यामो भगवानद्य तया विष्णुः प्रसीदतु ॥ ३,१७.११ ॥ यतो भूतान्यशेषाणि प्रसूतानि महात्मनः । यस्मिश्च लयमेष्यन्ति कस्तं स्तोतुमिहेश्वरः ॥ ३,१७.१२ ॥ तथाप्यरातिविध्वंसध्वस्तवीर्या भयार्थिनः । त्वां स्तोष्यामस्तवोक्तीनां याथार्थ्यं नैव गोचरे ॥ ३,१७.१३ ॥ त्वमुर्वी सलिलं वह्निर्वायुराकाशमेव च । समस्तमन्तःकरणं प्रधानं तत्परः पुमान् ॥ ३,१७.१४ ॥ एकं तवैतद्भूतात्मन्मूर्तमूर्तमयं वपुः । आब्रह्मस्तंबपर्यन्तं स्थानकालविभेदवत् ॥ ३,१७.१५ ॥ तत्रैशं तव यत्पूर्वं त्वन्नाभिकमलोद्भवम् । रूपं विश्वोपकाराय तस्मै ब्रह्मात्मने नमः ॥ ३,१७.१६ ॥ शक्रार्करुद्रवस्वश्विमरुत्सोमादिभेदवत् । वयमेकं स्वरूपं ते तस्मै देवात्मने नमः ॥ ३,१७.१७ ॥ दंभप्रायमसंबोधि तितिश्रादमवर्जितम् । यद्रूपं तव गोविन्द तस्मै दैत्यात्मने नमः ॥ ३,१७.१८ ॥ नातिज्ञानवहा यस्मिन्नाड्यस्तिमिततेजसि । शब्दादिलोभि यस्तस्मै तुभ्यं यत्रात्मने नमः ॥ ३,१७.१९ ॥ क्रौर्यं मायामयं घोरं यच्च रूपं तवासितम् । निशाचरात्मने तस्मै नमस्ते पुरुषोत्तम ॥ ३,१७.२० ॥ स्वर्गस्थधर्मिसद्धर्मफलोपकरणं तव । धर्माख्यं च तथा रूपं नमस्तस्मै जनार्दन ॥ ३,१७.२१ ॥ हर्षप्रायमसंसर्गि गतिमद्गमनादिषु । सिद्धाख्यं तव यद्रूपं तस्मै सिद्धात्मने नमः ॥ ३,१७.२२ ॥ अतितिक्षायनं क्रूरमुपभोगसहं हरे । द्विजीह्वन्तव यद्रूपं तस्मै नागात्मने नमः ॥ ३,१७.२३ ॥ अवबोधि च यच्छान्तमदोषमपकल्पषम् । ऋषिरूपात्मने तस्मै विश्वरूपाय ते नमः ॥ ३,१७.२४ ॥ भक्षयत्यथ कल्पान्ते भूतानि यदवारितम् । त्वद्रूपं पुण्ढरीकाक्ष तस्मै कालात्मने नमः ॥ ३,१७.२५ ॥ संभक्ष्य सर्वभूतानि देवादीन्यविशेषतः । नृत्यत्यन्ते च यद्रूपं तस्मै रुद्रात्मने नमः ॥ ३,१७.२६ ॥ प्रवृत्त्या रजसो यच्च कर्मणां करणात्मकम् । जनर्दन नमस्तस्मै त्वद्रूपाय नरात्मने ॥ ३,१७.२७ ॥ अष्टाविशद्वधोपेतं यद्रूपं तामसं तव । उन्मार्गगामि सर्वात्मंस्तस्मै वश्यात्मने नमः ॥ ३,१७.२८ ॥ यज्ञाङ्गभूतं यद्रूपं जगतः स्थितिसाधनम् । वृक्षादिभेदैः षड्भेदि तस्मै मुक्यात्मने नमः ॥ ३,१७.२९ ॥ तिर्यङ्मनुष्यदेवादिव्योमशब्दादिकं च यत् । रूपं तवादेः सर्वस्य तस्मै सर्वात्मने नमः ॥ ३,१७.३० ॥ प्रधानबुद्ध्यादिमयादशेषाद्यदन्यदस्मात्परमं परात्मन् । रूपं तवाद्यं यदनन्यतुल्यं तस्मै नमः कारणकारणाय ॥ ३,१७.३१ ॥ शुक्लादिदीर्घादिघनादिहीनमगोचरं यच्च विशेषणानाम् । सुद्धातिशुद्धं परमर्षिदृश्यं रूपाय तस्मै भगवन्नताः स्मः ॥ ३,१७.३२ ॥ यन्नः शरीरेषु यदन्यदेहेष्वशेषवस्तुष्वजमक्षयं यत् । तस्माच्च नान्यव्द्यतिरिक्तमस्ति ब्रह्मस्वरूपाय नताः स्म तस्मै ॥ ३,१७.३३ ॥ सकलमिदमजस्य यस्य रूपं परमपदात्मवतःसनातनस्य । तमनिधनसशेषबीजभूतं प्रभुममलं प्रणताःस्म वासुदेवम् ॥ ३,१७.३४ ॥ श्रीपराशर उवाच स्तोत्रस्य चावसाने ते ददृशुः परमेश्वरम् । शङ्खचक्रगदापाणिं गरुडस्थं सुरा हरिम् ॥ ३,१७.३५ ॥ तमुचुःसकला देवाः प्रणिपातपुरःसुरम् । प्रसीद नाथ दैत्येभ्यस्त्राहि नः शरणार्थिनः ॥ ३,१७.३६ ॥ त्रेलोक्ययज्ञभागाश्च दैत्यैर्ह्लादपुरोगमैः । हृता नो ब्रह्मणोप्ययाज्ञामुल्लङ्घ्य परम्श्वर ॥ ३,१७.३७ ॥ यद्यप्यशेषभू तस्य वयं ते च तावंशजाः । तथाप्यविद्याभेदेन भिन्नं पश्यामहे जगत् ॥ ३,१७.३८ ॥ स्ववर्णधर्माभिरता वेदमार्गानुसारिणः । न शक्यास्तेरयो हन्तुमस्माभिस्तपसावृताः ॥ ३,१७.३९ ॥ तमुपायमशेषात्मन्नस्माकं दातुमर्हसि । येन तानसुरान्हन्तुं भवेम भगवन्क्षमाः ॥ ३,१७.४० ॥ श्रीपराशर उवाच इत्युक्तो भगवांस्तेभ्यो मायामोहं शरीरतः । समुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमान् ॥ ३,१७.४१ ॥ मायामोहोयमखिलान्दैत्यां स्तान्मोहयिष्यति । ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः ॥ ३,१७.४२ ॥ स्थितौ स्थितस्य मे वध्या यावन्त्रः परिपन्थिनः । ब्रह्मणो ह्यधिकारस्य देवा दैत्यादिकाः सुराः ॥ ३,१७.४३ ॥ तद्गच्छत नभीः कार्या मायामोहोयमग्रतः । गच्छन्नद्योपकाराय भवतां भविता सुराः ॥ ३,१७.४४ ॥ श्रीपराशर उवाच इत्युक्ताः प्रणिपत्यैनं ययुर्देवा यथागतम् । मायामोहोऽपि तैः सार्ध ययौ यत्र महासुराः ॥ ३,१७.४५ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे सप्तदशोऽध्यायः (१७) _____________________________________________________________ श्रीपारशर उवाच तपस्यभिरतान् सोऽथ मायामोहो महासुरान् । मैत्रेय ददृशे गत्वानर्मदातीरसंश्रितान् ॥ ३,१८.१ ॥ ततो दिगंबरो मुण्डो बर्हिपिच्छधरो द्विज । मायामोहोऽसुरान् श्लक्ष्णमिदं वचनमब्रवीत् ॥ ३,१८.२ ॥ मायामोह उवाच हे दैत्यपतयो ब्रूत यदर्थ तप्यते तपः । ऐहिकार्थश्च पारत्र्यं तपसः फलमिच्चथ ॥ ३,१८.३ ॥ असुरा ऊचुः पारत्र्यफललाभाय तपश्चर्या महामते । अस्माभिरियमारब्धा किं वा तेऽत्र विवक्षितम् ॥ ३,१८.४ ॥ मायामोह उवाच कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ । अर्हध्वं धर्ममेतं च सर्वे यूयं महाबलाः ॥ ३,१८.५ ॥ धर्मो विमुक्तेरर्हेयं नैतस्मादपरो वरः । अत्रैव संस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ ॥ ३,१८.६ ॥ अर्हध्वं धर्ममेतं च सर्वे यूयं महाबलाः ॥ ३,१८.७ ॥ श्रीपराशर उवाच एवंप्रकारैर्बहुभिर्युक्तिदर्शनचर्चितैः । मायामोहेन ते दैत्या वेदमार्गादपा कृताः ॥ ३,१८.८ ॥ धर्मायैतदधर्माय सदेतन्न सदित्यपि । विमुक्तये त्विदं नैतद्विमुक्तिं संप्रयच्छति ॥ ३,१८.९ ॥ परमार्थोयमत्यर्थं परमार्थो न चाप्ययम् । कार्यमेतदकार्यं च नैतदेवं स्फुटं त्विदम् ॥ ३,१८.१० ॥ दिग्वाससामयं धर्मो धर्मोयं बहुवाससाम् ॥ ३,१८.११ ॥ इत्यनेकान्तवादं च मायामोहेन नैकधा । तेन दर्शयता दैत्याःस्वधर्मं त्याजिता द्विज ॥ ३,१८.१२ ॥ अर्हतैतं महाधर्मं मायामोहेन ते यतः । प्रोक्तास्तमाश्रिता धर्ममर्हतास्तेन तेऽभवन् ॥ ३,१८.१३ ॥ त्रयीधर्मसमुत्सर्गं मायामोहेन तेऽसुराः । कारीतास्तन्मया ह्यासंस्ततोन्ये तत्प्रचोदिताः ॥ ३,१८.१४ ॥ तैरप्यन्ये परे तैश्च तैरप्यन्ये परे च तैः । अल्पैरहोभिः संत्यक्ता तैर्दैत्यैः प्रायशस्त्रयी ॥ ३,१८.१५ ॥ पुनश्च रक्तांबरधृङ्मायामोहो जितेन्द्रियः । अन्यानाहासुरान् गत्वामृद्धल्पमधुराक्षरम् ॥ ३,१८.१६ ॥ स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थमथासुराः । तदलं पशुघातादिदुष्चधर्मैर्निबोधत ॥ ३,१८.१७ ॥ विज्ञानमयमेवैतदशेषमवगच्छत । बुध्यध्वं मे वचः सम्यग्बुधैरेवमिहोदितम् ॥ ३,१८.१८ ॥ जगदेतदनाधारं भ्रान्तिज्ञानार्थतत्परम् । रागादिदुष्टमत्यर्थं भ्राम्यते भवसंकटे ॥ ३,१८.१९ ॥ एवं बुध्यत बुध्यध्वं बुध्यतैवमितीरयन् । मायामोहः स दैत्येयान्धर्ममत्याञ्जयन्निजम् ॥ ३,१८.२० ॥ नानाप्रकारवचनं स तेषां युक्तियोजनम् । तथातथा त्रयीधर्मं तत्यजुस्ते यथायथा ॥ ३,१८.२१ ॥ तेप्यन्येषां तथैवोचुरन्यैरन्ये तथोदिता । मैत्रेय तत्यजुर्धर्मं वेदेस्मृत्युदितं परम् ॥ ३,१८.२२ ॥ अन्यानप्यन्यपाषण्डप्रकारैर्बहुबिर्द्विज । दैतेयान्मोहयामास मायामोहोदिमोहकृत् ॥ ३,१८.२३ ॥ स्वल्पेनैव हि कालेन मायामोहेन तेऽसुराः । मोहितास्तत्यजुःसर्वां त्रयीमार्गाश्रितां कथाम् ॥ ३,१८.२४ ॥ केचिद्विनिन्दां वेदानां देवानामपरे द्विज । यज्ञकर्मकलापस्य तथान्ते च द्विजन्मनाम् ॥ ३,१८.२५ ॥ नैनद्युक्तिसहं वाक्यं हिंसाधर्माय चेष्यते । हवींष्यनलदघ्धानि फलायेत्यर्थकोदितम् ॥ ३,१८.२६ ॥ यज्ञैरनेकैर्देवत्वमवाप्येन्द्रेण भुज्यते । शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक्पशु ॥ ३,१८.२७ ॥ निहतस्य पशोर्जज्ञे स्वर्गप्राप्तिर्यदीष्यते । स्वपिता यजमानेन किन्नु तस्मान्न हन्यते ॥ ३,१८.२८ ॥ तृप्तये जायते पुंसो भुक्तमन्येन चेत्ततः । कुर्याच्छ्राद्धं श्रमायान्नं न वहेयुः प्रवासिनः ॥ ३,१८.२९ ॥ जनश्रद्धेयमित्येतदवगम्य ततोत्र वः । उपेक्षा श्रेयसे वाक्यं रोचतां यन्मयेरितम् ॥ ३,१८.३० ॥ न ह्यप्तवादा नभसो निपतन्ति महीं सुराः । युक्तिमद्वचनं ग्राह्यं मयान्यैश्च भवद्विधैः ॥ ३,१८.३१ ॥ श्रीपराशर उवाच मयामोहेन ते दैत्याः प्रकारैर्बहुभिस्तथा । वृथापिता यथा नैषां त्रयी कश्चिदरोचयत् ॥ ३,१८.३२ ॥ इत्थमुन्मार्गयातेषु तेषु दैत्येषु तेऽमराः । उद्योगं परमं कृत्वा युद्धाय समुपस्थिताः ॥ ३,१८.३३ ॥ ततो दैवासुरं युद्धं पुनरेवाभवद्द्विज । हताश्चतेऽसुरा दैवैः सन्मार्गपरिपन्थिनः ॥ ३,१८.३४ ॥ स्वधर्मकवचं तेषामभूद्यत्प्रथमं द्विज । तेन रक्षाभवत्पूर्वं नेशुर्नष्टे च तत्र ते ॥ ३,१८.३५ ॥ ततो मैत्रेय तन्मार्गवर्तिनो येभवञ्जनाः । नग्नास्ते तैर्यतस्त्यक्त त्रयीसंवरणं तथा । कृताश्च तेऽसुरा देवैर्नाना वेदविनिन्दकाः ॥ ३,१८.३६ ॥ ब्रह्मचारीगृहस्थश्च वानप्रस्थस्तथाश्रमी । परिव्राड्वा चतुर्थोत्र पञ्चमो नोपपद्यते ॥ ३,१८.३७ ॥ वस्तु संत्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राट्चापि मैत्रेय स नग्नः पापकृन्नरः ॥ ३,१८.३८ ॥ नित्यानां कर्मणां विप्र यस्य हानिरहर्निशम् । अकुर्वन्विहितं कर्म शक्तः पतति तद्दिने ॥ ३,१८.३९ ॥ प्रायश्चित्तेन महाता शुद्धिमाप्नोत्यनापदि । पक्षं नित्यक्रियाहानेः कर्ता मैत्रेय मानवः ॥ ३,१८.४० ॥ संवत्सरं क्रियाहानिर्यस्य पुंसोभिजायते । तस्यावलोकनात्सूर्यो निरीक्ष्यःसाधुभिः सदा ॥ ३,१८.४१ ॥ स्पृष्टे स्नानं सचेलस्य शुद्धेर्हेतुर्महामते । पुंसो भवति तस्योक्ता न शुद्धिः पापकर्मणः ॥ ३,१८.४२ ॥ देवर्षिपितृभीतानि यस्य विप्रस्य वेश्मनि । प्रयान्त्यनर्चितान्यत्र लोके तस्मान्न पापकृत् ॥ ३,१८.४३ ॥ संभाषणानुप्रश्नादि सहास्यां चैव कुर्वतः । जायते तुल्यता तस्य तेनैव द्विज वत्सरात् ॥ ३,१८.४४ ॥ देवादिनिस्वासहतं शरीरं यस्य वेश्म च । न तेन संकरं कुर्याद्गृहासनपरिच्छदैः ॥ ३,१८.४५ ॥ अथ भुक्तं गृहे तस्य करोत्यास्यां तथासने । शेते चाप्येकशयने स सद्यस्तत्समो भवेत् ॥ ३,१८.४६ ॥ देवतापितृभूतानि तथानभ्यर्च्य योऽतिथीन् । भुक्ते स पातकं भुङ्क्ते निष्कृतिस्तस्य नेष्यते ॥ ३,१८.४७ ॥ ब्राह्मणाद्यास्तु ये वर्णाःस्वधर्मादन्यतोमुखाः । यान्ति ते नग्नसंज्ञां तु हीनकर्मस्ववस्थितः ॥ ३,१८.४८ ॥ चतुर्णां यत्र वर्णानां मैत्रेयात्यन्तसंकरः । तत्रास्या साधुवृत्तिनामुपघाताय जायते ॥ ३,१८.४९ ॥ अनभ्यर्च्य ऋषीन्देवान्पितृभूतातिथीस्तथा । यो भुङ्क्ते तस्य संल्लापात्पतन्तिनरके नराः ॥ ३,१८.५० ॥ तस्मादेतान्नरो नग्नांस्त्रयीसंत्यागदूषितान् । सर्वदा वर्जयेत्प्राज्ञ आलापस्पर्शनादिषु ॥ ३,१८.५१ ॥ श्रद्धावद्भिः कृतं यत्ना द्देवान्पितृपितामहान् । न प्रीणयति तच्छ्राद्धं यद्येभिरवलोकितम् ॥ ३,१८.५२ ॥ श्रूयते च पुराख्यातो राजा शतधनुर्भुवि । पत्नी च शैव्यातस्याभूदतिधर्मपरायणा ॥ ३,१८.५३ ॥ पतिव्रता महाभागा सत्यशौचदयान्विता । सर्वलक्षणसंपन्ना विनयेन यनेन च ॥ ३,१८.५४ ॥ स तु राजा तया सार्धं देवदेवं जनार्दनम् । आराधयामास विभुं परमेण समाधिना ॥ ३,१८.५५ ॥ होमैर्जपैस्तथा दानैरुपवासैश्च भक्तितः । पुजाभिश्चानुदिवसं तन्मना नान्यमानसः ॥ ३,१८.५६ ॥ एकदा तु समं स्नातौ तौ तु भार्यापती जले । भागीरथ्याःसमुत्तीर्णौ कार्त्तिक्यां समुपोषितौ । पाषण्डिनमपश्येतामायान्तं संमुखं द्विज ॥ ३,१८.५७ ॥ चापाचार्यस्य तस्यासौ सखा राज्ञो महात्मनः । अतस्तद्गौरवात्तेन सखाभावमथाकरोत् ॥ ३,१८.५८ ॥ न तु सा वाग्यता देवी तस्य पत्नी पतिव्रता । उपोषितास्मीति रविं तस्मिन्दृष्टे ददर्श च ॥ ३,१८.५९ ॥ समागम्य यथान्यायं दंपती तौ यथाविधि । विष्णोः पूजादिकं सर्वं कृतंवतौ द्विजोत्तम ॥ ३,१८.६० ॥ कालेन गच्छता राजा ममारासौ सपत्नजित् । अन्वारुरोह तं देवी चितास्थं भूपतिं पतिम् ॥ ३,१८.६१ ॥ स तु तेनापचारेण श्वा जज्ञे वसुधाधिपः । उपोषितेन पाषण्डसंल्लापो यत्कृतोऽभवत् ॥ ३,१८.६२ ॥ सा तु जाति स्मरा जज्ञे काशीराजसुता शुभा । सर्वविज्ञानसंपूर्णा सर्वलक्षणपूजिता ॥ ३,१८.६३ ॥ तां पिता दातुकामोभूद्वराय विनिवारितः । तयैव तन्व्या विरतो विवाहारंभतो नृपः ॥ ३,१८.६४ ॥ ततःसा दिव्यया दृष्ट्या दृष्ट्वा श्वानं निजं पतिम् । विदिशाख्यं पुरं गत्वा तदवस्थं ददर्श तम् ॥ ३,१८.६५ ॥ तं दृष्ट्वैव महाभागं श्वभूतं तु पतिं तदा । ददौ तस्मै वराहारं सत्कारप्रवणं शुभा ॥ ३,१८.६६ ॥ भुञ्जन् दत्तं तया सोऽन्नमतिमृष्टमभीप्सितम् । स्वजाति ललितं कुर्वन्बहु चाटु चकार वै ॥ ३,१८.६७ ॥ अतीव व्रीडिता बला कुर्वता चाटु तेन सा । प्रणामपूर्वमाहेदं दयितं तं कुयोनिजम् ॥ ३,१८.६८ ॥ स्मर्यतां तन्महाराज दाक्षिण्यललितं त्वया । येन श्वयोनिमापन्नो मम चाटुकरो भवान् ॥ ३,१८.६९ ॥ पाषण्डिनं समाभाष्य तीर्थस्नानादनन्तरम् । प्राप्तोसि कुत्सितां योनिं किन्न स्मरसि तत्प्रभो ॥ ३,१८.७० ॥ श्रीपराशर उवाच तयैवं स्मारीति तस्मिन्पूर्वजातिकृते तदा । दध्यौ चिरमथा वार निर्वेदमतिदुर्लभम् ॥ ३,१८.७१ ॥ निर्विण्णचित्तःस ततो निर्गम्य नगराद्वहिः । मरुत्प्रपतनं कृत्वा सार्गाली योनिमागतः ॥ ३,१८.७२ ॥ सापि द्वितीये संप्राप्ते वीक्ष्य दिव्येन चक्षुषा । ज्ञात्वा सृगालं तं द्रष्टुं ययौ कोलाहलं गिरिम् ॥ ३,१८.७३ ॥ तत्रापि दृष्ट्वा तं प्राह सार्गालीं योनिमागतम् । भर्तारमपि चार्वङ्गी तनया पृथिवीक्षितः ॥ ३,१८.७४ ॥ अपि स्मरसि राजेन्द्र श्वयोनिस्थस्य यन्मया । प्रोक्तं ते पूर्वचरितं पाषण्डालापसंश्रयम् ॥ ३,१८.७५ ॥ पुनस्त योक्तं स ज्ञात्वा सत्यं सत्यवतां वरः । कानने स निराहारस्तत्याज स्वं कलेवरम् ॥ ३,१८.७६ ॥ बूयस्ततो वृको जज्ञे गत्वा तं निर्जने वने । स्मारयामास भर्तारं पूर्ववृत्तमनिन्दिता ॥ ३,१८.७७ ॥ न त्वं वृको महाभाग राजा शतधनुर्भवान् । श्वा भूत्वा त्वं सृगालोऽभूर्वृकत्वं सांप्रतं गतः ॥ ३,१८.७८ ॥ स्मारितेन यथा व्यक्तस्तेनात्मा गृध्रतां गतः । अपापा सा पुनश्चैनं बोधयामास भामिति ॥ ३,१८.७९ ॥ नरेद्र स्मर्यतामात्मा ह्यलं ते गृध्रचेष्टया । पाषण्डालापजातोऽयं दोषो यद्गृध्रतां गतः ॥ ३,१८.८० ॥ ततः काकत्वमापन्नं समनन्तरजन्मनि । उवाच तन्वी भर्तारमुपलभ्यात्मयोगतः ॥ ३,१८.८१ ॥ अशेषभूभृतः पूर्वं वश्या यस्मै बलिं ददुः । स त्वं काकत्वमापन्नो जातोद्य बलिभुक्प्रभो ॥ ३,१८.८२ ॥ एवमेव बकत्वेपि स्मारितः स पुरातनम् । तत्त्याज भूपतिः प्राणान्मयूरत्वमवाप च ॥ ३,१८.८३ ॥ मयूरत्वे ततःसा वै चकारानुगतिं शुभा । दत्तैः प्रतिक्षणं भोज्यैर्बाला तज्जतिभोजनैः ॥ ३,१८.८४ ॥ ततस्तु जनको राजा वाजिमेधं महाक्रतुम् । चकार तस्यावभृथे स्नापयामास तं तदा ॥ ३,१८.८५ ॥ सस्नौ स्वयं च तन्वङ्गी स्मारयामास चापि तम् । यथासौ श्वसृगालादियोनिं जग्राह पार्थिवः ॥ ३,१८.८६ ॥ स्मृतजन्मक्रमःसोथ तत्त्याज स्वकलेवरम् । जज्ञे स जनकस्यैव पुत्रोसौ सुमहात्मनः ॥ ३,१८.८७ ॥ ततःसा पितरं तन्वी विवाहार्थमचोदयत् । स चापि कार यामास तस्या राजा स्वयंवरम् ॥ ३,१८.८८ ॥ स्वयंवरे कृते सा तं संप्राप्तं पतिमात्मनः । वरयामास भूयोऽपि भर्तृभावेन भामिनी ॥ ३,१८.८९ ॥ बुभुजे च तया सार्धं संभोगान्नृपनन्दनः । पितर्युपरते राज्यं विदेहेषु चकार सः ॥ ३,१८.९० ॥ इयाज जज्ञान्सुबहून्ददौ दानानि चार्थिनाम् । पुत्रानुत्पादयामास युयुधे च सहारिभिः ॥ ३,१८.९१ ॥ राज्यं भुक्त्वा यथान्यायं पालयित्वा वसुंधराम् । तत्त्याज स प्रियान्प्राणान्संग्रामे धर्मतोनृपः ॥ ३,१८.९२ ॥ ततश्चितास्थं तं भूयो भर्तारं सा शुभेक्षणा । अन्वारुरोह विधिवद्यथापूर्वं मुदान्विता ॥ ३,१८.९३ ॥ ततोऽवाप तया सार्धं राजपुत्र्या स पार्थिवः । ऐन्द्रानतीत्य वै लोकांल्लोकान्प्राप तदाक्षयान् ॥ ३,१८.९४ ॥ स्वर्गाक्षयत्वमतुलं दांपत्यमतिदुर्लभम् । प्राप्तं पुण्यफलं प्राप्य संशुद्धिं तां द्विजोत्तम ॥ ३,१८.९५ ॥ एष पाषण्टसंभाषाद्दोषः प्रोक्तो मया द्विज । तथाश्वमेधावभृथस्नानमाहात्म्यमेव च ॥ ३,१८.९६ ॥ तस्मात्पाषण्डिभिः पापैरालापस्पर्शनं त्यजेत् । विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः ॥ ३,१८.९७ ॥ क्रियाहानिर्गृहे यस्य मासमेकं प्रजायते । तस्यावलोकनात्सूर्यं पश्येत मतिमान्नरः ॥ ३,१८.९८ ॥ किं पुनर्यैस्तु संत्यक्ता त्रयी सर्ंवात्मना द्विज । पाषण्डभोजिभिः पापौर्वेदवादविरोधिभिः ॥ ३,१८.९९ ॥ सहालापस्तु संसर्गः सहास्या चातिपापिनी । पाषण्डिभिर्दुराचारैस्तस्मात्तां परिवर्जयेत् ॥ ३,१८.१०० ॥ पाषण्डिनो विकर्मस्थान्बैडालव्रतिकाञ्छठान् । हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥ ३,१८.१०१ ॥ द्वरतस्तैस्तु संपर्कस्त्याज्यश्चाप्यतिपापिभिः । पाषण्डिभिर्दुराजारैस्तस्मात्तान् परिवर्जयेत् ॥ ३,१८.१०२ ॥ एते नग्नास्तवाख्याता दृष्टा श्राद्धो पघातकाः । येषां संभाषणात्पुंसां दिनपुण्यं प्रणश्यति ॥ ३,१८.१०३ ॥ एते पाषण्डिनः पापा न ह्येतानालपेद्बुधः । पुण्यं नश्यति संभाषादेतेषां तद्दिनोद्भवम् ॥ ३,१८.१०४ ॥ पुंसां जटाधरणमैण्ड्यवतां वृथैव मोघाशिनामखिलशौचनिराकृतानाम् । तोयप्रदानपितृपिण्डबहिष्कृतानां संभाषणादपि नरा नरकं प्रयान्ति ॥ ३,१८.१०५ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशेऽष्टादशोऽध्यायः (१८) श्रीविष्णुमहापुराणे तृतीयांशःसमाप्तः इति श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते तृतीयांशः समाप्तः । _____________________________________________________________ अथ श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते चतुर्थंशः प्रारभ्यते । श्रीमते रामानुजाय नामः मैत्रेय उवाच भगवन्यन्नरैः कार्यं साधुकर्मण्यवस्थितैः । तन्मह्यं गुरुणाख्यातं नित्यनैमित्तिकात्मकम् ॥ ४,१.१ ॥ वर्मधर्मास्तथाख्याता धर्मा ये चाश्रमेषु च । श्रोतुमिच्छाम्यहं वंशं राज्ञां तद्ब्रूहि मे गुरो ॥ ४,१.२ ॥ श्रीपराशर वाच मैत्रेय श्रूयतामयमनेकयज्शुरवीरधीरभूपालालङ्कृतो ब्रह्मादिर्मानवो वंशः ॥ ४,१.३ ॥ तदस्य वंशस्यनुपूर्वीमशेषवंशपापप्रणाशनाय मैत्रेयैतां कथं शृणु ॥ ४,१.४ ॥ तद्यथा सकलजगतामादिरनादिभूतःस ऋग्यजुःसामादिमयो भगवान् विष्णुस्तस्य ब्रह्मणो मर्तं रूपं हिरण्यगर्भो ब्रह्माण्डभूतो ब्रह्मा भगवान् प्राग्बभूव ॥ ४,१.५ ॥ ब्रह्मणश्च दक्षिणाङ्गुष्ठजन्मा दक्षप्रजापतिः दक्षस्याप्यदितिरदितेर्विवस्वान् विवस्वतो मनुः ॥ ४,१.६ ॥ मनोरिक्ष्वाकुनृगधृष्टशर्यातिनरिष्यन्तप्रांशुनाभगदिष्टकरूषपृषध्राख्या दश पुत्रा बभूवुः ॥ ४,१.७ ॥ इष्ठटिं च मित्रावरुणयोर्मनुः पुत्रकामश्चकार ॥ ४,१.८ ॥ तत्र तावदह्नुते होतुरपचारादिला नाम कन्या बभूव ॥ ४,१.९ ॥ सैव च मित्रावरुणयोः प्रसादात्सुद्युम्नो नाम मनोः पुत्रो मैत्रेय आसीत् ॥ ४,१.१० ॥ पुनश्चेश्वरकोपात्स्त्री सती सा तु सोममूनोर्बुधस्याश्रमसमीपे बभ्राम ॥ ४,१.११ ॥ सानुरागाच्च तस्यां बुधः पुरूरवसमात्मजमुत्पादयामास ॥ ४,१.१२ ॥ जातेपि तस्मिन्नमिततेजोभिः परमर्षिभिरिष्टिमय ऋङ्मयो यजुर्मयःसाममयोथर्वणमयःसर्ववेदमयो मनोमयो ज्ञानमयो न किञ्चिन्मयोन्नमयो भगवान् यज्ञपुरुषस्वरूपी सुद्युम्नस्य पुंस्त्वमभिलषद्भिर्यथाव दिष्टस्तत्प्रसादादिला पुनरपु सुद्युम्नोऽभवत् ॥ ४,१.१३ ॥ तस्याप्युतकलगयविनतास्त्रयः पुत्रा बभूवुः ॥ ४,१.१४ ॥ सुद्युम्नस्तु स्त्रीपूर्वकत्वाद्राज्यभागं न लेभे ॥ ४,१.१५ ॥ तत्पित्रा तु वसिष्ठवचनात्प्रतिष्ठान नाम नगरं सुद्युम्नाय दत्तं तच्चासौ पुरूरवसे प्रादात् ॥ ४,१.१६ ॥ तदन्वयाश्चक्षत्रियाःसर्वै दिक्ष्वभवन् । पृषध्रस्तु मनुपुत्रो गुरुगोवधाच्छूद्रत्वमगमत् ॥ ४,१.१७ ॥ मनोः पुत्रः करूषः करूषात्कारूषाः क्षत्रिया महाबलपराक्रमबभूवः ॥ ४,१.१८ ॥ दिष्टपुत्रस्तु नाभागो वैश्यतामगमत्तस्माद्बलन्धनः पुत्रोभवत् ॥ ४,१.१९ ॥ बलन्धनाद्वत्सप्रीतिरुदारकीर्तिः ॥ ४,१.२० ॥ वत्सप्रीतेः प्रांशुरभवत् ॥ ४,१.२१ ॥ प्रजापतिश्च प्रांशोरेकोऽभवत् ॥ ४,१.२२ ॥ ततश्च खनित्रः ॥ ४,१.२३ ॥ तस्माच्चक्षुषः ॥ ४,१.२४ ॥ चक्षुषाच्चतिबलपराक्रमोविंशुरभवत् ॥ ४,१.२५ ॥ ततो विविंशकः ॥ ४,१.२६ ॥ तस्माच्च खनिनेत्रः ॥ ४,१.२७ ॥ ततश्चातिविभूतिः ॥ ४,१.२८ ॥ अतिविभूतेरतिबलपराक्रमः करन्धमः पुत्रोभवत् ॥ ४,१.२९ ॥ तस्मादप्यविक्षित् ॥ ४,१.३० ॥ अविक्षितोप्यतिबलपराक्रमः पुत्रो मरुत्तो नामाभवत् । यस्येमावद्यापि श्लोकौ गीयेत् ॥ ४,१.३१ ॥ मरुत्तस्य यथा यज्ञस्तथा कस्याभवद्भुवि । सर्वं हिरण्मयं यस्य यज्ञवस्त्वतिशोभनम् ॥ ४,१.३२ ॥ अमाद्यदिद्रःसोमेन दक्षिणाभिर्द्विजातयः । मरुतः परिवेष्टारःसदस्याश्च दिवौकसः ॥ ४,१.३३ ॥ स मरुत्तश्चक्रवर्ति नरिष्यन्तनामानं पुत्रमवाप ॥ ४,१.३४ ॥ तस्माच्च दमः ॥ ४,१.३५ ॥ दमस्य पुत्रो राजवर्धनो जज्ञे ॥ ४,१.३६ ॥ राजवर्धनात्सुवृद्धिः ॥ ४,१.३७ ॥ सुवृद्धेः केवलः ॥ ४,१.३८ ॥ केवलात्सुधृतिरभूत् ॥ ४,१.३९ ॥ ततश्च नरः ॥ ४,१.४० ॥ तस्माच्चन्द्रः ॥ ४,१.४१ ॥ ततः केवलोभूत् ॥ ४,१.४२ ॥ ततः केवलोभूत् ॥ ४,१.४३ ॥ बन्धुमतो गृवेगवान् ॥ ४,१.४४ ॥ वेगवतो बुधः ॥ ४,१.४५ ॥ ततश्च तृणबिन्दुः ॥ ४,१.४६ ॥ तस्याप्येका कन्या इलविलानाम ॥ ४,१.४७ ॥ ततश्चालंबुसानाम वराप्सरास्तृटणबिन्दुं भेजे ॥ ४,१.४८ ॥ तस्यामप्यस्य विशालो जज्ञे यः पुरीं विशालं निर्ममे ॥ ४,१.४९ ॥ हेमचन्द्रश्च विशालस्य पुत्रोभवत् ॥ ४,१.५० ॥ ततश्चन्द्रः ॥ ४,१.५१ ॥ तत्तनयो धूम्राक्षः ॥ ४,१.५२ ॥ तस्यापि सृंजयोऽभूत् ॥ ४,१.५३ ॥ सृंजयात्सहदेवः ॥ ४,१.५४ ॥ ततश्च कृशाश्वो नाम पुत्रोभवत् ॥ ४,१.५५ ॥ सोमदत्तः कृशाश्वाज्जज्ञे योश्वमेधानां शतमाजहार ॥ ४,१.५६ ॥ तत्पुत्रो जनमेजयः ॥ ४,१.५७ ॥ जनमेजयात्सुमतिः ॥ ४,१.५८ ॥ एते वैशालिका भूभृतः ॥ ४,१.५९ ॥ श्लोकोप्यत्र गीयते ॥ ४,१.६० ॥ तृणबिन्दोः प्रसादेन सर्वे वैशालिका नृपाः । दीर्घायुषो महात्मानो वीर्यवन्तोतिधर्मिकाः ॥ ४,१.६१ ॥ शर्यातेः कन्या सुकन्यानामाभवत्यामुपयेमेच्यवन् ॥ ४,१.६२ ॥ आनर्तनामा परमधार्मिकः शर्यातिपुत्रोभवत् ॥ ४,१.६३ ॥ आनर्तस्यापि रेवतनामा पुत्रो जज्ञे योऽसावानर्त्तविषयं बुभुजे पुरीं च कुशस्थलीमध्युवास ॥ ४,१.६४ ॥ रेवतास्यापि रैवतः पुत्रः ककुद्मिनामा धर्मात्मा भ्रातृशतस्य ज्योष्ठोऽभवत् ॥ ४,१.६५ ॥ तस्य रेवतीनामकन्याभवत् ॥ ४,१.६६ ॥ स तामादाय कस्योयमर्हतीति भगवन्तमब्जयोनिं प्रष्टुं ब्रह्मलोकं जगाम् ॥ ४,१.६७ ॥ तावच्च ब्रह्मणोन्तिके हाहाहूहूसंज्ञाभ्यां गन्धर्वाभ्यामतितानं नाम दिव्यं गान्धर्वमगीयत ॥ ४,१.६८ ॥ तच्च त्रिमार्गपरिवृत्तैरनेकयुगपरिवृत्तिं तिष्ठन्नपि रैवतः शृण्वन्मुहूर्त्तमिव मेने ॥ ४,१.६९ ॥ गीतावसाने चज भगवन्तमब्जयोनिं प्रणम्य रैवतः कन्यायोग्यं वरमपृच्छत् ॥ ४,१.७० ॥ ततश्चासौ भगवानकथयत्कथय योभिमतस्ते वर इति ॥ ४,१.७१ ॥ पुनश्च प्रणम्य भगवते तस्मै यथाभिमतानात्मनःस वरान् कथयामास । क एषां भगवतोभिमत इति यस्मै कन्यामिमां प्रयच्छामीति ॥ ४,१.७२ ॥ ततः किञ्चिदवनतशिराःसस्मितं भगवानब्जयोनिह ॥ ४,१.७३ ॥ य एते भवतोभिमता नैतेषां सांप्रतं पुत्रपौत्रापत्यापत्यसंततिरस्त्यवनीतले ॥ ४,१.७४ ॥ बहूनि तवात्रैव गान्धर्वं शृण्वतश्चतुर्यगान्यतीतानि ॥ ४,१.७५ ॥ य एते भवतोभिमता महीतलेष्टाविंशतितममनोश्चतुर्युगमतीतप्रायञ्च वर्तते ॥ ४,१.७६ ॥ आसन्नो हि कलिः ॥ ४,१.७७ ॥ अन्यस्मै कन्यारत्नमिदं भवतैकाकिनाभिमताय देयम् ॥ ४,१.७८ ॥ भवतोपि पुत्रमित्त्रकलत्रमन्त्रिभृत्यबन्धुबलकोशादयःसमस्ताः कालेनैतेनात्यन्तमतीताः ॥ ४,१.७९ ॥ ततः पुनरप्युत्पन्नसाध्वसो राजा भगवन्तं प्रणम्य पप्रच्छ ॥ ४,१.८० ॥ भगवन्नेवमवस्थिते म येयं कस्मै देयेति ॥ ४,१.८१ ॥ ततःस भगवान् किञ्चिदवनम्रकन्धरः कृताञ्जलिर्भूत्वा सर्वलोकगुरुरंभोजयोनिराह ॥ ४,१.८२ ॥ ब्रह्मोवाच न ह्यादिमध्यान्तमजस्य यस्य विद्मो वयं सर्वमयस्य धातुः । न च स्वरूपं न परं स्वभावं न चैव सारं परमेश्वरस्य ॥ ४,१.८३ ॥ कलामुहूर्त्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः । अज्मनाशस्य सदैकमुर्त्तेरनामरूपस्य सनातनस्य ॥ ४,१.८४ ॥ यस्य प्रसादादहमच्युतस्य मूर्तिः प्रजासृष्टिकरोऽन्तकारी । क्रोधाच्च रुद्रः स्थितिहेतुभूतो यस्माच्मध्ये पुरुषः परस्मात् ॥ ४,१.८५ ॥ तद्रूपमास्थाय सृजत्यजो यः स्थितौ च योऽसौ पुरुषस्वरूपी । रुद्रस्वरूपेण च योत्ति विश्वं धत्ते तथानन्तवपुःसमस्तम् ॥ ४,१.८६ ॥ पाकाय योग्नित्वमुपैति लोकान्बिभर्त्ति पृथ्वीवपुख्यायात्मा । शक्रादिरूपी परिपाति विश्वमर्केन्दुरूपश्च तमो हिनस्ति ॥ ४,१.८७ ॥ करोति चेष्टाः श्वसनस्वरूपी लोकस्य तृप्तिं च जलान्नरूपी । ददाति विश्वस्थितिसंस्थितस्तु सर्वावकाशं च नभःस्वरूपी ॥ ४,१.८८ ॥ यःसृज्यते सर्गकृदात्मनैव यः पाल्यते पालयिता च देवः । विश्वत्मकःसंहृयतेन्तकारी पृथक्त्रयस्यास्य च योव्ययात्मा ॥ ४,१.८९ ॥ यस्मिञ्जगद्यो जगदेतदाद्यो यं चाश्रितोस्मिञ्जगति स्वयंभूः । स सर्वभूतप्रभवो धरित्र्यां स्वांशेन पुष्णुर्नृप तेऽवतीर्णः ॥ ४,१.९० ॥ कुशस्थली या तव भूप रम्या पुरी पुराभूदमरावतीव । सा द्वारका संप्रति तत्र चास्ते स केशवांशो बलदेवनामा ॥ ४,१.९१ ॥ तस्मै त्वमेनां तनयां नरेद्र प्रायच्छ मायामनुजाय जायाम् । श्लोघ्यो वेरेसौ तनया तवेयं स्त्रीरत्नभूता सदृशो हि योगः ॥ ४,१.९२ ॥ श्रीपराशर उवाच इतीरितोसौ कमलोद्भवेन भुवं समासाद्य पतिः प्रजानाम् । ददर्श ह्रस्वान् पुरुषान् विरूपानल्पौजसःस्वल्पविवेकविर्यान् ॥ ४,१.९३ ॥ कुशस्थलों तां च पुवरीमुपेत्य दृष्ट्वान्यरूपां प्रददौ स कन्याम् । सीरायुधाय स्फटिकाचलाभवक्षस्थलायातुलधीर्नरेद्रः ॥ ४,१.९४ ॥ उच्चप्रमाणामिति तामवेक्ष्य स्वलाङ्गलाग्रेण च तालकेतुः । विनम्रयामास ततश्च सापि बभूव सद्यो वनिता यथान्या ॥ ४,१.९५ ॥ तां रेवतींरैवतभूपकन्यां सीरायुधोऽसौ विधिनोपयेमे । दत्त्वाथ स नृपो जगाम हेमालयं वै तपसे धृतात्मा ॥ ४,१.९६ ॥ इति श्रीविष्णुमहापुराणे चतुर्थाशे प्रथमोध्यायः (१) _____________________________________________________________ श्रीपराशर उवाच यावच्च ब्रह्मलोकात्स ककुद्मी रैवतो नाभ्येति तावत्पुण्यजनसंज्ञा राक्षसास्तामस्य पुरीं कुशस्थलीं नजघ्नुः ॥ ४,२.१ ॥ तच्चास्य भ्रातृशतं पुण्यजनत्रासाद्दिशो भेजे ॥ ४,२.२ ॥ तदन्वयाश्चक्षत्रियाःसर्वदिक्ष्वभवन् ॥ ४,२.३ ॥ वृष्टस्यापि वार्ष्टकं क्षत्रमभवत् ॥ ४,२.४ ॥ नाभागस्यात्मजो नाभागसंत्रोभवत् ॥ ४,२.५ ॥ तस्याप्यंबरीषः ॥ ४,२.६ ॥ अंबरीषस्यापि विरूपोभवत् ॥ ४,२.७ ॥ विरूपात्पृषदश्वो जज्ञे ॥ ४,२.८ ॥ ततश्च रथीतरः ॥ ४,२.९ ॥ आत्रायं श्लोकः एते क्षत्रप्रसूता वै पुनश्चाङ्गिरसाः स्मृता । रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः ॥ ४,२.१० ॥ क्षुतवतश्च मनोरिक्ष्वाकुः पुत्रो जज्ञे घ्राणतः ॥ ४,२.११ ॥ तस्य पुत्रशतप्रधाना विकुक्षिनिमिदण्डाख्यास्त्रयः पुत्रा बभूवुः ॥ ४,२.१२ ॥ पञ्चाशत्पुत्राः उत्तराथरक्षितारो बभूवुः ॥ ४,२.१३ ॥ चत्वारिंशदष्टौ च दक्षिणापथभूपालाः ॥ ४,२.१४ ॥ स चेक्ष्वाकुरष्टकायाः श्राद्धमुत्पाद्य श्राद्धार्हं मांसमानयेति विकुक्षिमाज्ञापयामास ॥ ४,२.१५ ॥ स तथे ति गृहीताज्ञो विधृतशारासनो वनमभ्येत्यानेकशो मृगान् हत्वा श्रान्तोतिक्षुत्परीतो विकुक्षिरेकं शशमभक्षयत् । शेषं च मांसमानीय पित्रेनिवेदयामास ॥ ४,२.१६ ॥ इक्ष्वाकुकुलाचार्यो वशिष्ठस्तत्प्रोक्षणाय चोदितः प्राह । अलमनेनामेध्येनामिषेण दुरात्मना तव पुत्रेणैतन्मांसमुपहतं यतोऽनेन शशो भक्षितः ॥ ४,२.१७ ॥ ततश्चासौ विकुक्षिर्गुरूणैवमुक्तः शशादसंज्ञामवाप पित्रा च परित्यक्तः ॥ ४,२.१८ ॥ पितर्युपरते चासावखिलामेतां पृथ्वीं धर्मतः शाशास ॥ ४,२.१९ ॥ शशादस्य तस्य पुरञ्जयोनाम पुत्रोभवत् ॥ ४,२.२० ॥ तस्येदं चान्यत् ॥ ४,२.२१ ॥ पुरा हि त्रेतायां देवासुरयुद्धमतिभीषणमभवत् ॥ ४,२.२२ ॥ तत्र चातिबलिभिरसुरैरमराः पराजितास्ते भगवन्तं विष्णुमाराधयाञ्चक्रुः ॥ ४,२.२३ ॥ प्रसन्नश्च देवानामनादिनिधनोखिलजमत्परायणो नारायणः प्राह ॥ ४,२.२४ ॥ ज्ञातमेतन्मया युष्माभिर्यदभिलषितं तदर्थमिदं श्रूयताम् ॥ ४,२.२५ ॥ पुरञ्जयो नाम राजर्षेः शशादस्य तनयः क्षत्रियवरो यस्तस्य शरीरेहमंशेन स्वयमेवावतीर्य तानशेषनसुरान्निहनिष्यामि तद्भवद्भिः पुरञ्जयोऽसुरवधार्थमुद्योगं कार्यतामिति ॥ ४,२.२६ ॥ एतच्च श्रुत्वा प्रणम्य भगवन्तं विष्णुममराः पुरञ्जयसकाशमाजग्मुरूचुश्चैनम् ॥ ४,२.२७ ॥ भोभोः क्षत्रियवर्यास्माभिरभ्यर्थितेन भवतास्माकमरातिवधोद्यतानां कर्तव्यं साहाय्यमिच्छामः तद्भवतास्माकमभ्यागतानां प्रणयभङ्गो न कार्य इत्युक्तः पुंरजयः प्राह ॥ ४,२.२८ ॥ त्रैलोक्यनाथो योयं युष्माकमिद्रः शतक्रतुरस्य यद्यहं स्कन्धाधिरूढो युष्माकमरातिभःसह योत्स्ये तदहं भवतां सहायः स्याम् ॥ ४,२.२९ ॥ इत्याकर्ण्य समस्तदेवैरिन्द्रेण च बाढमित्येवं समन्विच्छितम् ॥ ४,२.३० ॥ ततश्च शतक्रतोर्वृषरूपधारीमः ककुदि स्थितोऽतिरोषसमन्वितो भगवतश्चरागुरोरच्युतस्य तेजसाप्यायितो देवासुरसंग्रामे समस्तानेवासुरान्निजघान ॥ ४,२.३१ ॥ यतश्च वृषभककुदि स्थितेन राज्ञा दैतेयबलं निषूदितमतश्चासौ ककुत्स्थसंज्ञामवाप ॥ ४,२.३२ ॥ ककुत्स्थस्याप्यनेनाः पुत्रोऽभवत् ॥ ४,२.३३ ॥ पुथुनेनसः ॥ ४,२.३४ ॥ पुथोर्विष्टराश्वः ॥ ४,२.३५ ॥ तस्यापि चान्द्रो युवनाश्वः ॥ ४,२.३६ ॥ चान्द्रस्य तस्य युवनाश्वस्य शावस्तः यः पुरीं शावस्तीं निवेशयामास ॥ ४,२.३७ ॥ शावस्तस्य वृहदश्वः ॥ ४,२.३८ ॥ तस्यापि कुवालायाश्वः ॥ ४,२.३९ ॥ योसावुदकस्य महर्षेरपकारिणं दुन्दुनामानमसुरं वैष्णवेन तेजसाप्यायितः पुत्रसहस्रैरेकविंशद्भिः परिवृतो जवान दुन्दुमारसंज्ञामवाप ॥ ४,२.४० ॥ तस्य च तनयास्प्तमस्ता एव दुन्दुमुखनिस्वासाग्निना विप्लुष्टा विनेशुः ॥ ४,२.४१ ॥ दृढाश्वचन्द्राश्वकपिलाश्वाश्च त्रयः केवलं शेषिताः ॥ ४,२.४२ ॥ वृढाश्वाद्धर्यश्वः ॥ ४,२.४३ ॥ तस्माच्च निकुंभः ॥ ४,२.४४ ॥ निकुंभस्यामिताश्वः ॥ ४,२.४५ ॥ ततश्च कृशाश्वः ॥ ४,२.४६ ॥ तस्माच्च प्रसेनजित् ॥ ४,२.४७ ॥ प्रसेनजितो युवनाश्वोभवत् ॥ ४,२.४८ ॥ तस्य चापुत्रस्यातिनिर्वेदामुनीनामाश्रममण्डले निवसतो दयालुभिर्मुनिभिरपत्योत्पादनायेष्टः कृता ॥ ४,२.४९ ॥ तस्यां च मध्यारात्रौ निवृत्तायां मन्त्रपूतजलपूर्णं कलशं वेदिमध्ये निवेस्य ते मुनयः सुषुपुः ॥ ४,२.५० ॥ सुप्तेषु तेषु अतीव तृट्परीतःस भूपालस्तमाश्रमं विवेश ॥ ४,२.५१ ॥ तानृषीन्नैवोत्थापयामास ॥ ४,२.५२ ॥ तच्च कलशमपरिमेयमाहत्मयमन्त्रपूतं पपौ ॥ ४,२.५३ ॥ प्रबुद्धाश्च ऋषयः पप्रछुः केनैतं मन्त्रपूतं वारि पीतम् ॥ ४,२.५४ ॥ अत्र हि राज्ञो युवनास्वस्य पत्नी महाबलपराक्रमं पुत्रं जनयिष्यति । इत्याकर्ण्य स राजा अजानता मया पीतमित्याह ॥ ४,२.५५ ॥ गर्भश्च युवनाश्वस्योदरे अभवत्क्रमेण च ववृधे ॥ ४,२.५६ ॥ प्राप्तसमयश्च दक्षिणाङ्गुष्ठेन कुक्षिमवनिपतेर्निर्भिद्य निश्चक्राम ॥ ४,२.५७ ॥ स चासौ राजा ममार ॥ ४,२.५८ ॥ जातो नामैष कं धास्यतीति ते मुनयः प्रोचुः ॥ ४,२.५९ ॥ अथागत्य देवराजोब्रजीत्मामयं धास्यतीति ॥ ४,२.६० ॥ ततो माधातृनामा सोभवत् । वक्रे चास्य प्रदेशिनी न्यस्ता देवेन्द्रेण न्यस्तातां पपौ ॥ ४,२.६१ ॥ तां चामृतस्त्राविणीमास्वाद्याह्नैव स व्यवर्धत ॥ ४,२.६२ ॥ ततस्तु मान्धाता चक्रवर्ती सप्तद्वीपां महीं वुभुजे ॥ ४,२.६३ ॥ तत्रायं श्वोकः ॥ ४,२.६४ ॥ यावत्सूर्य उदेत्यस्तं यावच्च प्रतितिष्ठति । सर्वं तद्यौवनाश्वस्य मान्धातुपः क्षेत्रमुच्यते ॥ ४,२.६५ ॥ मान्धाता शतबिन्दोर्दुहितरं बुन्दुमतीमुपयेम् ॥ ४,२.६६ ॥ पुरुकुत्समंबरीषं मुचुकुन्दं च तस्यां पुत्रत्रयमुत्पादयामास ॥ ४,२.६७ ॥ पञ्चाशद्दुहितरस्तस्यामेव तस्य नृपतेर्बभूवुः ॥ ४,२.६८ ॥ एकस्मिन्नन्तरे बहूवृचश्चज सौभरिर्नाम महर्षिरन्तर्जले द्वादशाब्दं कालमुवास ॥ ४,२.६९ ॥तत्र चान्तर्जले संमदो नामातिबबहु प्रजोतिमात्रप्रमाणो मीनाधिपतिरासीत् ॥ ७० ॥ तस्य च पुत्रपौत्रदौहित्राः पृष्ठतोऽग्रतः पार्श्वयोः पक्षपुच्छशिरसां चोपरि भ्रमन्तस्तेनैव सदाहर्निशमतिनिर्वृत्ता रेमिरे ॥ ४,२.७१ ॥ स चापत्यस्पर्शोपचीयमानप्रहर्षप्रकर्षो बहुप्रकारं तस्य ऋषेः पश्यतस्तैरात्मजपुत्रपौत्रदौहित्रादिभिः सहानुदिनं सुरां रेमे ॥ ४,२.७२ ॥ अथान्तर्जलावस्थितःसौभरिरेकाग्रतःसमाधिमपहायानुदिनं तस्य सत्स्यस्यात्मजपुत्रपौत्रदौहित्रा दिभिः सहातिरमणीयतामवेक्ष्याचिन्तयत् ॥ ४,२.७३ ॥ अहो धन्योयमीदृशमनभिमतं योन्यन्तरमवाप्यैभिरात्मजपुत्रपौत्रदौहित्रादिभिः सह रममाणोदीवास्माकं स्पृहामुत्पादयति ॥ ४,२.७४ ॥ वयमप्येवं पुत्रादिभिः सह ललितं रमिष्याम इत्येवमभिकाङ्क्षन् स तस्मादन्तर्जलान्निष्क्रम्य संतानाय निवेष्टुकामः कन्यार्थं मान्धातारं राजानमगच्छत् ॥ ४,२.७५ ॥ आगमनश्रवणसमनन्तरं चोत्थाय तेन राज्ञा सम्यगर्घ्यादिना संपूजितः कृतासनपरिग्रहः सौभरिरुवाच राजानम् ॥ ४,२.७६ ॥ अन्येपि संत्येव नृपाः पृथिव्यां मान्धातरेषां प्रयच्छ मे मा प्रणयं विभाङ्क्षिः । न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयान्ति ॥ ४,२.७७ ॥ अन्येपि संत्येव नृपाः पृतिव्यां मान्धातरेषां तनयाः प्रसूताः । किं त्वर्थिनामर्थितदानदीक्षाकृतव्रतश्लाघ्यमिदं कुलं ते ॥ ४,२.७८ ॥ शतार्धसंख्या स्तव संति कन्यास्तासां ममैकां नृपते प्रयच्छ । यत्प्रार्थनाभङ्गभयाद्बिभेमि तस्मादहं राजवरादिदुःखात् ॥ ४,२.७९ ॥ श्रीपराशर उवाच इति ऋषिवचनमाकर्ण्य स राजा जरार्जरितदेहमृषिमालोक्य प्रत्याख्यानकातरस्तस्माच्चच शापभीतो बिभ्यत्किञ्चिदधोमुखश्चिरं दध्यौ च ॥ ४,२.८० ॥ सौभरिरुवाच नरेद्रकस्मात्सुमुपैषि चीन्तामह्यमुक्तं न मयात्र किञ्चित् । यावश्यदेया तनया तयैव कृतार्थता नो यदि किं न लब्धा ॥ ४,२.८१ ॥ श्रीपराशर उवाच अथ तस्य भगवतः शापभीतःसप्रश्रयस्तमुवाचासौ राजा ॥ ४,२.८२ ॥ राजोवाच भगवनस्मत्कुलस्थितिरियं य एव कन्याभिरुचितोऽभिजवान्वरस्तस्मै कन्या प्रदीयते भगवद्याच्ञा चास्मन्मनोरथानामप्यतिगोचजरवर्तिनी कथमप्येषा संजाता तदेवमुपस्थिते न विद्मः किं कुर्म इत्येतन्मयाचिन्त्यत इत्यभिहिते च तेन भूभुजा मुनिरचिन्तयत् ॥ ४,२.८३ ॥ अयमन्योऽस्मत्प्रत्याख्यानोपायो वृद्धोयमनभिमतः स्त्रीणां किमत कन्याकानामित्यमुना संचिन्त्यैतदभिहितमेवमस्तु तथा करिष्यामीति संचिन्त्य मान्धातारमुवाच ॥ ४,२.८४ ॥ यद्येवं तदादिश्यतामस्माकं प्रवेशाय । कंन्यान्तःपुरं वर्षवरो यदि कन्यैव काचिन्मामभिलषति तदाहं दारसंग्रहं करिष्यामि अन्यथा चेत्तदलमस्माकमेतेनातीतकालारंभणेनेत्युक्त्वा विरराम ॥ ४,२.८५ ॥ ततश्च मान्धात्रा मुनिशापशं कितेन कन्यान्तःपुरवर्षधरःसमाज्ञप्तः ॥ ४,२.८६ ॥ तेन सह कन्यान्तःपुरं प्रविशान्नेव भगवानखिलसिद्धगन्धर्वेभ्योतिशयेन कमनीयं रूपमकरोत् ॥ ४,२.८७ ॥ प्रवेश्य च तमृषिमन्तःपुरे वर्षधरस्ताः कन्याः प्राह ॥ ४,२.८८ ॥ भवतीनां जनयिता महाराजःसमाज्ञापयति ॥ ४,२.८९ ॥ अयमस्मान् ब्रह्मर्षिः कन्यार्थं समभ्यागतः ॥ ४,२.९० ॥ मया चास्य प्रतिज्ञातं यद्यस्मत्कन्या या काचिद्भगवन्तं वरयति तत्कन्याच्छन्दे नाहं परिपंषथानं करिष्यामीत्याकर्म्य सर्वा एव ताः कन्याः सानुरागाः सप्रमदाः केणव इव मृगयूथपतिं तमृषिमहमहमिकया वरयांबभूवुरूचुश्च ॥ ४,२.९१ ॥ अलं भगिन्योहमिमं वृणोमि वृणोम्यहं नैष तवानुरूपः । ममैष भर्ता विधिनैव सृष्टःसृष्टाहमस्योपशमं प्रयाहि ॥ ४,२.९२ ॥ वृतो मयायं प्रथमं मयायं गृहं विशन्नेव विहन्यसे किम् । मया मयोतिक्षितिपात्मजानां तदर्थमत्यर्थकलिर्बभूव ॥ ४,२.९३ ॥ यदा मुनिस्ताभिरतीवहार्दाद्धृतःस कन्याभिरनिन्द्यकीर्तिः । तदा स कन्याधिकृतो नृपाय यथावजाचष्ट विनम्रमूर्तिः ॥ ४,२.९४ ॥ श्रीपराशर उवाच तदवगमात्किङ्किभेतत्कथधमेतत्किं किं करोमि किं मयाभिहितमित्याकुलमतिरनिच्छन्नपि कथमपि राजानुमेने ॥ ४,२.९५ ॥ कृतानुरूपविवाहश्च महर्षिःसकला एव ताः कन्याःस्वमाश्रममनयत् ॥ ४,२.९६ ॥ तत्र चासेषशिल्पकल्पप्रणेतारं धातारमिवान्यं विश्वकर्माणमाहूय सकलकन्यानामेकैकस्याः प्रोत्फुल्लपङ्कजाः कूजत्कलहंसकारण्डवादिविहङ्गमाभिरामजलाशयाःसोपधानाः । सावकासाःसाधुशय्यापरिच्छदाः प्रासादाः क्रियन्तामित्यादिदेश ॥ ४,२.९७ ॥ तच्च तथैवानुष्ठितमशेषशिल्पविसेषाचार्यस्त्वष्टा दर्शितवान् ॥ ४,२.९८ ॥ ततः परमर्षिणा सौभरिणाज्ञप्तस्तेषु गृहेष्वनिवार्यानन्दकुन्दमहानिधिरासांचक्रे ॥ ४,२.९९ ॥ ततोऽनवलतेन भक्ष्यभोज्यलेह्याद्युपभोगौरागतानुगतभृत्यादीनहर्निशमशेषगृहेषु ताः क्षितिशदुहिरतो भोजयामामुः ॥ ४,२.१०० ॥ एकदातु दुहितृस्नेहाकृष्टहृदयःस महीपतिरतिदुःखितास्ता उत सुखिता वा इति विचिन्त्य तस्य महर्षेराश्रमसमीपमुपेत्य स्फुरदंशुमालाललामां स्फटिकमयप्रासादमालामतिरम्योपवनजलाशयां ददर्श ॥ ४,२.१०१ ॥ प्रविश्य चैकं प्रासादमात्मजां परिष्वज्य कृतासनपरिग्रहः प्रवृद्धस्नेहनयनांबुगर्भनयनोब्रवीत् ॥ ४,२.१०२ ॥ अप्यत्र वत्से भवत्याःसुखमुन किञ्चिदमुखमपि ते महर्षिःस्नेहवानुत न स्मर्यतेस्मद्गुहवास इत्युक्ता तं तनया पितरमाह ॥ ४,२.१०३ ॥ तातातिरमणीयः प्रासादोत्रातिमनोज्ञमुपवनमेते कलवाक्यविहङ्गमाभिरुताः प्रोत्फुल्लपद्माकरजलाशयाः मनोनुरूलभक्ष्यभोज्यानुलेपनवस्त्रभूषणादिभोगो मृदूनि शयनासनानि सर्वसंपत्समेतं मे गार्हस्थ्यम् ॥ ४,२.१०४ ॥ तथापि केन वा जन्मभूमिर्न स्मर्यते ॥ ४,२.१०५ ॥ त्वत्प्रसादादिदमशेषमतिशोभनम् ॥ ४,२.१०६ ॥ किं त्वेकं ममैतद्दुःखकारणं यदस्मद्गृहान्महर्षिरयंमद्भर्ता न विष्क्रामति ममैव केवलमतिप्रीत्या समीपपरिवर्तिनीनामन्यासामस्मद्भगिनीनाम् ॥ ४,२.१०७ ॥ एवं च मम सोदर्योतिदुःखिता इत्येवमतिदुःखकारणमित्युक्तस्तया द्वितीयं प्रासादमुपेत्य स्वतनयां परिष्वज्योपिष्टस्तथैव वृष्टवान् ॥ ४,२.१०८ ॥ तयापि च सर्वमेतत्तत्प्रासादाद्युपभोगसुखं भृशमाख्यातं ममैव केवलमतिप्रीत्या पार्श्वपरिवर्तिनीनामन्यासामस्मद्भगिनीनामित्येवमादिश्रुत्वा समस्तप्रासादेषु राजा प्रविवेश तनयां तनयां तथैवावृच्छत् ॥ ४,२.१०९ ॥ सर्वाभिश्च ताभिस्तथैवाभिहितः परितोषविस्मयनिर्भवविवशहृदयो भगवन्तं सौभरिकेकान्तावस्थितमुपेत्य कृतपृजोब्रवीत् ॥ ४,२.११० ॥ दृष्टस्ते भगवन् सुमहानेष सिद्धिप्रभावो नैवंविधमन्यस्य कस्यचिदस्माभिर्विभूतिभिर्विलासितमुपलक्षितं यदेतद्भगवतस्तपसः फलमित्यभिपूज्य तमृषिं तत्रैव तेन ऋषिवर्येण चसह किञ्चित्कालमभिमतोपभोगान् बुभुजे स्वपुरं च जगाम् ॥ ४,२.१११ ॥ कालेन गच्छता तस्य तासु राजतनयासु पुत्रशतं सार्धमभवत् ॥ ४,२.११२ ॥ अनुदिनानुरूढस्नेहप्रसाश्च स तत्रातीवममताकृष्टहृदयोऽभवत् ॥ ४,२.११३ ॥ अप्येतेऽस्मत्पुत्राः कलभाषिणः पभ्द्यां गच्छेयुः अप्येते यौवनिनो भवेयुः अपि कृतदारानेतान् पश्येयमप्येषां पुत्रा भवेयुः अप्येतत्पुत्रान्पुत्रसमन्वितान्पस्यामीत्यादिमनोरथाननुदिनं कालसंपत्तिप्रवृद्धानुपेक्ष्यैतच्चिन्तयामास ॥ ४,२.११४ ॥ अहो मे मोहस्यातिविस्तारः ॥ ४,२.११५ ॥ मनोरथानां न समाप्तिरस्ति वर्षायुतेनाप्यथ वापि लक्षैः । पूर्णेषुपूर्णेषु मनोरथानामुत्पत्तयःसंति पुनर्नवानाम् ॥ ४,२.११६ ॥ पद्भ्यां गता यौवनिनश्च जाता दारैश्च संयोगमिताः प्रसूताः । दृष्टाः सुतास्तत्तनयप्रसूतिन्द्रष्टुं पुनर्वाञ्च्छति मेंऽतरात्मा ॥ ४,२.११७ ॥ द्रक्ष्यामि तेषामिति चेत्प्रसूतिं मनोरथो मे भविता ततोन्यः । पुर्णोपि तत्राप्यपरस्य जन्म निवर्यते केन मनोरथस्य ॥ ४,२.११८ ॥ आमृत्युतो नैव मनोरथानामन्तोस्ति विज्ञातमिदं मयाद्य । मनोर्थासक्तिपरस्य चित्तं न जायते वै परमार्थसंगि ॥ ४,२.११९ ॥ स मे समाधिर्जलवासमित्रमत्स्यस्य संगात्स हसैव नष्टः । परिग्रहःसंगकृतो मयायं परिग्रहोत्था च ममातिलिप्सा ॥ ४,२.१२० ॥ दुःखं यदैवैकशरीरजन्म शतार्धसंख्याकमिदं प्रसूतम् । परिग्रहेण क्षितिपात्मजानां सुतैरनेकैर्बहुलीकृतं तत ॥ ४,२.१२१ ॥ मुतात्मजैस्तत्तनयैश्च भूयो भूयश्च तेषां परिग्रहेण । विस्तारमेष्यत्यदिदुःखहेतुः परिग्रहो वै ममताभिधानः ॥ ४,२.१२२ ॥ चीर्णं तपो यत्तु जलाश्रयेण तस्यार्धिरेषा तपसोंतरायः । मत्स्यस्य संगादभवच्च यो मे सुतादिरागो मुषितोस्मि नेन ॥ ४,२.१२३ ॥ निःसंगता मुक्तिपदं यतीनां संगादशेषाः प्रभवन्ति दोषाः । आरूढयोगो विनिपात्यतेधःसंगेन योगी किमुताल्पबुद्धिः ॥ ४,२.१२४ ॥ अहं चरिष्यामि तदात्मनोर्थे परिप्रहग्राहगृहीतबुद्धिः । यदा हि भूयः परिहिनदोषो जनस्य दुःखैर्भविता न दुःखी ॥ ४,२.१२५ ॥ सर्वस्य धातारम चिन्त्यरूपमणोरणीयांसमतिप्रमाणम् । सितासितं चेश्वरमीश्वराणामाराधयिष्ये तपसैव विष्णुम् ॥ ४,२.१२६ ॥ तस्मिन्नशेषौजसि सर्वरूपण्यव्यक्तविस्पष्टतनावनन्ते । ममाचलं चित्तमपेतदोषं सदास्तु विष्णावमवाय भूयः ॥ ४,२.१२७ ॥ समस्तभूतादमलादनन्तात्सर्वेश्वरादन्यदनादिमध्यात् । यस्मान्न किञ्चित्तमहं गुरूणां परं गुरुं संश्रयमेमि विष्णुमा ॥ ४,२.१२८ ॥ श्रीपराशर उवाच इत्यात्मानिमात्मनैवाबिदायासौ सौभरिरपहाय पुत्रगृहासनपरिग्रहादिकमशेषमर्थजातं सकलभार्यासमन्वितों वनं प्रविवेश ॥ ४,२.१२९ ॥ तत्राप्यनुदिनं वैखानसनिष्पाद्यमशेषक्रियाकलापं निष्पाद्य क्षपितसकलपापः परिपक्वमनोवृत्तिरात्मन्यग्नीन्समारोप्य भिक्षुरभवत् ॥ ४,२.१०३ ॥ भगवत्यासज्याखिलं कर्मकलापं हित्वानं तमजमनादिनिधनमविकारमरणादिधर्ममवाप परमनन्तं परवतत्मच्युतं पदम् ॥ ४,२.१३१ ॥ इत्येतन्मान्धातृदुहितृसंबन्धादाख्यातम् ॥ ४,२.१३२ ॥ यश्चैतत्सौभरिचरितमनुस्मरति पठति पाठयति शृणोति श्रावयति धरत्यवधारयति लिखति लेखयति शिक्षयत्यध्यापयत्युपदिशति वा तस्य षट्जन्मानि दुःसंततिरसद्धर्मो वाड्मनसोरसन्मार्गाचरणसशेषहेतुषु वा ममत्वं न भवति ॥ ४,२.१३३ ॥ इति श्रिविष्णुमहापुराणे चतुर्थाशे द्वितीयोऽध्यायः (२) _____________________________________________________________ अतश्च माधातुः पुत्रसंततिरभिधीयते ॥ ४,३.१ ॥ अंबरीषस्य मान्धातृतनयस्य युवनाश्वः पुत्रोऽभूत् ॥ ४,३.२ ॥ तस्माद्धारीतः यतोङ्गिरसो हारीता ॥ ४,३.३ ॥ रसातले मौनेया नाम गन्धर्वा बभूवुःषट्कोटिसंख्यातास्तैरशेषाणि नागकुलान्यपहृतप्रधानरत्नाधिपत्यान्यक्रियन्त ॥ ४,३.४ ॥ तैश्च गन्धर्ववीर्यावबूतैरुरगेश्वरैः स्तूयमानो भगवानशेषदेवेश आस्ते तच्छ्रवणोन्मीलिलोन्निद्रपुण्डरीकनयनो जलशयनो निद्रावसानप्रवृद्धः प्रणिपत्याभिहितः । भगवन्नस्माकमेतेभ्यो गन्धर्वेभ्यो भयमुत्पन्नं कथमुपशममेष्यतीति ॥ ४,३.५ ॥ आह च भगवाननादिनिधनपुरुषोत्तमो योसौ यौवनाश्वस्य मान्धातुः पुरुकुत्सनामा पुत्रस्तमहामनुप्रविश्य तानशेषान् दुष्टगन्धर्वानुपशमं नयिष्यामीति ॥ ४,३.६ ॥ तदाकर्ण्य भगवते जलशायिने कृतप्रणामाः पुनर्नागलोकमागताः पन्नगाधिपतयो नर्मदाञ्च पुरुकुत्सानयनाय चोदयामासुः ॥ ४,३.७ ॥ सा चैनं रसातलं नीतवती ॥ ४,३.८ ॥ रसातलगतश्चासौ यभगवत्तेजसाप्यायितात्मवीर्यःसकलगन्धर्वान्निजघान ॥ ४,३.९ ॥ पुनश्च स्वपुरमाजगाम ॥ ४,३.१० ॥ सकलपन्नगाधिपतयश्च नर्मदायै वरं ददुः । यत्तेनुस्मरणसमवेतं नामग्रहणं करिष्यति न तस्य सर्पविषभयं भविष्यतीति ॥ ४,३.११ ॥ अत्र च श्लोकः ॥ ४,३.१२ ॥ नर्मदायै नमः प्रातर्नर्मदायै नमो निशि । नमोस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः ॥ ४,३.१३ ॥ इत्युच्चार्याहर्निशमन्धकारप्रवेशे वा सर्पैर्न दश्यते न चापि कृतानुस्मरणभुजो विषमपि भुक्तमुपघाताय भवति ॥ ४,३.१४ ॥ पुरुकुत्साय संततिविच्छेदो न भविष्यतीत्युरगपतयो परं ददुः ॥ ४,३.१५ ॥ पुरुकुत्सो नर्मदायां त्रसद्दस्युमजीजनत् ॥ ४,३.१६ ॥ त्रसद्दस्युतःसंभूतोऽनरण्यः यं रावणोदिग्विजये जघान् ॥ ४,३.१७ ॥ अनरण्यस्य पृषटश्वः पृषदश्वस्य हर्यश्वः पुत्रोऽभवत् ॥ ४,३.१८ ॥ तस्य च हस्तः पुत्रोऽभवत् ॥ ४,३.१९ ॥ ततश्च सुमनास्तस्यापि त्रिधन्वा त्रिधन्वनस्त्रय्यारुणिः ॥ ४,३.२० ॥ त्रय्यारुणेःसत्यव्रतः योऽसौ त्रिशङ्कुसंज्ञामवाप ॥ ४,३.२१ ॥ स चण्डालतामुपगतश्च ॥ ४,३.२२ ॥ द्वादशवर्षिक्यामनावृष्ट्यां विश्वामित्रकलत्रापत्यपोषणार्थं चण्डालप्रतिग्रहरणाय च जाह्नवीतीरन्यग्रोधे मृगमांसमनुदिनं बबन्ध ॥ ४,३.२३ ॥ स तु परितुष्टेन विश्वामित्रेण सशरीरःस्वर्गमारोपितः ॥ ४,३.२४ ॥ त्रिशङ्कोर्हरिश्चन्द्रस्तस्माच्च रोहिताश्वस्ततश्च हरितो हरितस्य चञ्चुश्चञ्चोर्विजयवसुदेवौ रुरुको विजयाद्रुकस्य वृकः ॥ ४,३.२५ ॥ ततो वृकस्य बाहुः योऽसौ हैहयतालजङ्घादिभिः पराजितोन्तर्वत्न्या महिष्या सह वनं प्रविवेश ॥ ४,३.२६ ॥ तस्याश्चा सपत्न्या गर्भस्तंभनाय गरो दत्तः ॥ ४,३.२७ ॥ तेनास्य गर्भःसप्तवर्षाणि जठर एव तस्थौ ॥ ४,३.२८ ॥ स च बाहुर्वृद्धभावादौर्वाश्रमममीपे ममार ॥ ४,३.२९ ॥ सा तस्य भार्या चितां कृत्वा तमारोप्यानुपरणकृतनिश्चयाभूत् ॥ ४,३.३० ॥ अथैतामतीतानागतवर्तमानकालत्रयवेदी भगवानौर्वचःस्वाश्रमान्निर्गत्याब्रवीत् ॥ ४,३.३१ ॥ अलमलमनेनासद्ग्राहेणाखिलभूमं डलपतिरतिवीर्यपराक्रमो नैकयज्ञकृदरातिपक्षक्षयकर्ता तवोदरे चक्रवर्ती तिष्ठति ॥ ४,३.३२ ॥ नैवमतिसाहसाध्यवसायिनी भवती तेन त्युक्ता सा तस्मादनुमरणनिर्बन्धाद्विरराम ॥ ४,३.३३ ॥ तेनैव च भगवता स्वाश्रममानीता ॥ ४,३.३४ ॥ तत्र कतिवयदिनाभ्यन्तरे च सहैव तेन गरेणातितेजस्वी बालको जज्ञे ॥ ४,३.३५ ॥ तस्यौर्वो जातकर्मादिक्रिया निष्पाद्य सगर इति नाम चकार ॥ ४,३.३६ ॥ कृतोपनयनं चैनमौर्वो वेदशास्त्राण्यस्त्रं चाग्नेयं भार्गवाख्यमध्यापयामास ॥ ४,३.३७ ॥ुत्पन्नबुद्धिश्च मातरमब्रवीत् ॥ ३८ ॥ अंब कथयात्र वयं क्व तातोस्माकमित्ये वमादिपृच्छन्तं माता सर्वमेवावोचत् ॥ ४,३.३९ ॥ ततश्च पितृराज्यपहरणादमर्षितो हैहयतालजङ्घादिवधाय प्रतिज्ञामकरोत् ॥ ४,३.४० ॥ प्रायशश्च हैहयतालजङ्घाञ्जघान ॥ ४,३.४१ ॥ शकयवनकांभो० अपारदपप्लवाः हन्यमानास्तत्कुलगुरुं वसिष्ठं शरणं जग्मुः ॥ ४,३.४२ ॥ अथैनान्वसिष्ठो जीवनमृतकान् कृत्वा सगरमाह ॥ ४,३.४३ ॥ वत्सालमेभिर्जीवन्मृतकैरनुमृतैः ॥ ४,३.४४ ॥ एते च मयैव त्वत्प्रतिज्ञापारिपालनाय निजधर्मद्विजसंगपरित्यागं कारिताः ॥ ४,३.४५ ॥ तथेति तद्गुरुवचनभिनन्द्य तेषां वेषान्यत्वमकारयत् ॥ ४,३.४६ ॥ यवनान्मुण्डितशिरसोर्धमुण्डिताञ्च्छकान् प्रलंबकेशान् पारदान् पप्लवाञ्श्मश्रुधरान्निःस्वाध्यायवषट्कारानेतानन्यांश्च क्षत्रियांश्चकार ॥ ४,३.४७ ॥ एते चात्मधर्मपरित्यागाद्बाह्यणैः परित्यक्ता म्लेच्छतां ययुः ॥ ४,३.४८ ॥ सगरोपि स्मधिष्ठानमागम्य अस्खलितचक्रःसप्तद्वीपवतीमिमामुर्वीं प्रशशास ॥ ४,३.४९ ॥ इति श्रीविष्णुमहापुराणेचतुर्थांशे तृतीयोऽध्यायः (३) _____________________________________________________________ श्रीपराशर उवाच काश्यपदुहिता मुमतिर्विदर्भराजतनया केशिनी च द्वे भार्ये सगरस्यास्ताम् ॥ ४,४.१ ॥ ताभ्यां चापत्यार्थमौर्वः परमेण समाधिनाराधितो वरमदात् ॥ ४,४.२ ॥ एका वंशकरमेकं पुत्रमपरा षष्टिं पुत्रसहस्राणां जनयिष्यतीति यस्या यदभिमतं तदिच्छया गृह्यतामित्युक्ते केशिन्येकं वरयामास ॥ ४,४.३ ॥ सुमतिः पुत्रसहस्राणि षष्टिं वव्रे ॥ ४,४.४ ॥ तथेत्युक्ते अल्पैरहोभिः केशिनी पुत्रमेकमसमञ्जसनामानं वंशकरमसूत ॥ ४,४.५ ॥ काश्यपतनयायास्तु सुमत्याः षष्टिं पुत्रसहस्राण्यभवन् ॥ ४,४.६ ॥ तस्मादसमञ्जसादंशुमान्नाम कुमारो जज्ञे ॥ ४,४.७ ॥ स त्वससंजसो बालो बाल्यादेवासद्वृत्तोभूत् ॥ ४,४.८ ॥ पिता चास्याचिन्तयदयमतीतबाल्यः सुबुद्धिमान् भविष्यतीति ॥ ४,४.९ ॥ अथ तत्रापि च वयस्यतीते असच्चारीतमेनं पिता तत्याज ॥ ४,४.१० ॥ तान्यपि षष्टिः पुत्रसहस्राण्यसमञ्जसचारितमेवानुचक्रुः ॥ ४,४.११ ॥ ततश्चाससमजसचरितानुकारिभिः सागरैरपध्वस्तयज्ञैः सन्मार्गे जगति देवाःसकलविद्यामयमसंस्पृष्टमशेषदोषैर्भगवतः पुरुषोत्तमस्यांशभूत कपिलं प्रणम्य तदर्थमूचुः ॥ ४,४.१२ ॥ भगवन्नेभिः सगरतनयैरसमञ्जसचरितमनुगम्यते ॥ ४,४.१३ ॥ कथमेभिर् असद्वृत्तमनुसरद्भिर्जगद्भविष्यतीति ॥ ४,४.१४ ॥ अत्यार्त जगत्परित्राणाय च भगवतोत्र शरीरग्रहणमित्याकर्ण्य भगवानाहाल्पैरेव दिनैर्विनङ्क्ष्यन्तीति ॥ ४,४.१५ ॥ अत्रान्तरे च सगरो हयमेधमारभत ॥ ४,४.१६ ॥ तस्य च पुत्रैरधिष्ठितमस्याश्वं कोप्यपहृत्य भुवो बिलं प्रविवेश ॥ ४,४.१७ ॥ ततस्तत्तनयाश्चाश्वखुरगतिनिर्वन्धेनावनीमेकैको योजनं चख्नुः ॥ ४,४.१८ ॥ पाताले चाश्वं परिभ्रमन्तं तमवनीपतितनयास्ते ददृशुः ॥ ४,४.१९ ॥ नातिदूरेऽवस्थितं च भगवन्तमपघने शरत्कालेर्कमिव तेजोभिरवनतमूर्धमधश्चाशेषदिशश्चोद्भासयमानं हयहर्तारं कपिलर्षिमपश्यन् ॥ ४,४.२० ॥ ततश्चोद्यतायुधा दुरात्मानोऽयमस्मदपकारी यज्ञविध्नकारी हन्यतां हयहर्ता हन्यतामीत्यवोच्न्नभ्यधावंश्च ॥ ४,४.२१ ॥ ततस्तेनापि भगवता किञ्चिदीषत्परिवर्तितलोचनेनावलोकिताःस्वशरीरसमुत्थेनाग्निनादह्यमाना विनेशुः ॥ ४,४.२२ ॥ सगरोप्यवगम्याश्वानुसारि तत्पुत्रबलमशेषं परमर्षिणा कपिलेन तेजसा दग्धं ततोंशुमन्तमसमञ्जसपुत्रमश्वानयनाययुयोज ॥ ४,४.२३ ॥ स तु सगरकतयखातमार्गेण कपिलमुपगम्य भक्तिनम्रस्तदा तृष्टाव ॥ ४,४.२४ ॥ अथैनं भगवानाह ॥ ४,४.२५ ॥ गच्छैनं पितामहायाश्वं प्रापय वरं वृणीष्व च पुत्रक पौत्राश्च चते स्वर्गाद्गङ्गां भुवमानेष्यन्त इति ॥ ४,४.२६ ॥ अथांशुमानपि स्वर्यातानां ब्रह्मदण्डहतानामस्मत्पितॄणामस्वर्गयोग्यानां स्वर्गप्राप्तिकरं वरमस्माकं प्रयच्छेति प्रत्याह ॥ ४,४.२७ ॥ तदाकर्ण्य तं च भगवानाह उक्तमेवैतन्मयाद्य पौत्रस्ते त्रिदिवाद्गङ्गांभुवमानयिष्यतीति ॥ ४,४.२८ ॥ तदंभसा च संस्पृष्टेष्वस्थिभस्मासु एते च स्वर्गमारोक्ष्यन्ति ॥ ४,४.२९ ॥ भगवद्विष्णुपादाङ्गुष्ठनिर्गतस्य हि जलस्यैतन्माहात्म्यम् ॥ ४,४.३० ॥ यन्न केवलमभिसंधिपूर्वकं स्नानाद्युपभोगेषूपकारकमनभिसांधितमप्यस्यां प्रेतप्राणस्यास्थिचर्मस्नायुकेशाद्युपस्पृष्टं शरीरजमपि पतितं सद्यः शरीरिणं स्वर्गं नयतीत्युक्तः प्रणम्य भवगतेऽश्वमादाय पितामहायज्ञमाजगाम् ॥ ४,४.३१ ॥ सगरोप्यश्वमासाद्य तं यज्ञं समापयामास ॥ ४,४.३२ ॥ सागरं चात्मजप्रीत्या पुत्रत्वे कल्पितवान् ॥ ४,४.३३ ॥ तस्यांशुमतो दिलीपः पुत्रोभवत् ॥ ४,४.३४ ॥ दिलीपस्य भगीरथः योऽसौ गङ्गां स्वर्गादिहानीय भगीरथीसंज्ञां चकार ॥ ४,४.३५ ॥ भगीरथात्सुहोत्रःसुहोत्राच्छुतः तस्यापि नाभागः ततोंबरीषः तत्पुत्रःसिंधुद्वीपः सिंधुद्वीपादयुतायुः ॥ ४,४.३६ ॥ तत्पुत्रश्च ऋतुपर्णः योऽसौ नलसहायोक्षहृदयज्ञोभूत् ॥ ४,४.३७ ॥ ऋतुपर्णपुत्रःसर्वकामः ॥ ४,४.३८ ॥ तत्तनयःसुदासः ॥ ४,४.३९ ॥ सुदासात्सौदासो मित्र सहनामा ॥ ४,४.४० ॥ स चाटव्यां मृगयार्थो पर्यटन् व्याग्रद्वयमपश्यत् ॥ ४,४.४१ ॥ ताभ्यां तद्वनमपमृगं कृतं मत्वैकं तयोर्बाणेन जघान ॥ ४,४.४२ ॥ म्रियमाणश्चासावतिभीषणाकृतिरतिकरालवदनो राक्षसोऽभूत् ॥ ४,४.४३ ॥ द्वितीयोपि प्रतिक्रियां ते करिष्यामीत्युक्त्वान्तर्धानं जगाम ॥ ४,४.४४ ॥ कालेन गच्छता सौदासो यज्ञमयजत् ॥ ४,४.४५ ॥ परिनिष्ठितयज्ञे आचार्ये वसिष्ठे निष्क्रान्ते तद्रक्षो वसिष्ठरूपमास्थाय यज्ञावसाने मम नरमांसभोजनं देयमिति तत्संस्क्रियतां क्षणादागमिष्यामीत्युक्त्वा निष्क्रान्तः ॥ ४,४.४६ ॥ भूयश्च सूदवेषं कृत्वा राजाज्ञया मानुषं मांसं संस्कृत्य राज्ञे न्यवेदयत् ॥ ४,४.४७ ॥सावपि हिरण्यपात्रे मांसमादाय वसिष्ठागमनप्रतीक्षकोऽभवत् ॥ ४८ ॥ आगताय वसिष्ठाय निवेदितवान् ॥ ४,४.४९ ॥ स चाप्यचिन्तयदहोस्य राज्ञो दौःशील्यं येनैतन्मांसमस्माकं प्रयच्छति किमेतद्द्रव्यजातमिति ध्यानपरोभवत् ॥ ४,४.५० ॥ अपश्यच्च तन्मांसंमानुषम् ॥ ४,४.५१ ॥ अतः क्रोधकलुषीकृतचेता राजनि सापमुत्ससर्ज ॥ ४,४.५२ ॥ यस्मादभोज्यमेतदस्मद्विधानां तपस्विनामवगच्छन्नपि वान्मह्यं ददाति तस्मात्तवैवात्र लोलुपता भविष्यतीति ॥ ४,४.५३ ॥ अनन्तरं च तेनापि भगवतैवाभिहितोस्मीत्युक्ते किं मयाभहितमिति मुनिः पुनरपि समाधौ तस्थौ ॥ ४,४.५४ ॥ समाधिविज्ञानविगतार्थश्चानुग्रहं तस्मै चकार नात्यन्तिकमेतद्द्वादशाब्दं तव भोजनं भविष्यतीति ॥ ४,४.५५ ॥ असावपि प्रतिगृह्योदकाञ्जलिं मुनिशापप्रदानायोद्यतो भगवन्नयमस्मद्गुरुर्नार्हस्येनं कुलदेवताभूतमाचार्यं शप्तुमिति मदयन्त्या स्वपत्न्या प्रसादितःसस्यांबुदरक्षणार्थं तच्छापांवु नोर्व्यां न चाकासे चिक्षेप किं तु तेनैव स्वपदौ सिषेच ॥ ४,४.५६ ॥ तेन च क्वोधाश्रितेनां चबुना दग्धच्छायौ तत्पादौ कल्माषतामुपगतौ ततःस कल्माषपादसंज्ञामवाप ॥ ४,४.५७ ॥ वसिष्ठशापाच्च षष्ठेषष्ठे काले राक्षसस्वभावमेत्या टव्यां पर्यटन्ननेकशो मानुषानभक्षयत् ॥ ४,४.५८ ॥ एकदा तु कञ्चिन्मुनिमृतुकाले भार्यासंगतं ददर्श ॥ ४,४.५९ ॥ तयोश्च तमतिभीषणं राक्षसस्वरूपमवलोक्य त्रासाद्दंपत्योः प्रधावितयोर्ब्रह्मणं जग्रह ॥ ४,४.६० ॥ ततःसा ब्रह्मणी बहुशस्तमभियाचितवती ॥ ४,४.६१ ॥ प्रसीदेक्ष्वाकुकुलतिलकभूतस्त्वं महाराजो मियत्रसहो न राक्षसः ॥ ४,४.६२ ॥ नार्हसि स्त्रीधर्मसुखाभिज्ञो मय्यकृतार्थायामस्मद्भर्तारं हन्तुमित्येवं बहुप्रकारं विलपन्त्यां व्याघ्रः पशुमिवारण्येऽभिमतं तं ब्राह्मणमभक्षयत् ॥ ४,४.६३ ॥ ततश्चातिकोपसमन्विता ब्राह्मणी तं राजानं शशाप ॥ ४,४.६४ ॥ यस्मादेवं मय्यतृषप्तायां त्वयायं मत्पतिर्भक्षितः तस्मात्त्वमपि कामोपभोगप्रवृत्तोन्तं प्राप्स्यसीति ॥ ४,४.६५ ॥ शप्त्वा चैव साग्निं प्रविवेश ॥ ४,४.६६ ॥ ततस्तस्य द्वादशाब्दपर्यये विमुक्तशापस्य स्त्रीविषयाभिलाषिणो मदयन्ती तं स्मारयामास ॥ ४,४.६७ ॥ ततः परमसौ स्त्रीभोगं तत्याज ॥ ४,४.६८ ॥ वसिष्ठश्चापुत्रेण राज्ञा पुत्रार्थमभ्यर्थितो मदयन्त्यां गर्भाधानं चकार ॥ ४,४.६९ ॥ यदा च सप्तवर्षाण्यसौ गर्भेण जज्ञे ततस्तं गर्भमश्मना सा देवी जघान ॥ ४,४.७० ॥ पुत्रश्चाजायत ॥ ४,४.७१ ॥ तस्य चाश्मक इत्येव नामाभवत् ॥ ४,४.७२ ॥ अश्मस्य मूलको नाम पुत्रोऽभवत् ॥ ४,४.७३ ॥ योसौ निःक्षत्रे क्ष्मातलेस्मिन् क्रियमाणे स्त्रीभिर्विवस्त्रभिः परिवार्य रक्षितः ततस्तं नारीकवचमुदाहरन्ति ॥ ४,४.७४ ॥ मूलकाद्दशरथस्तस्मादिलिविलस्ततश्च विश्वसहः ॥ ४,४.७५ ॥ तस्माच्च खट्वाङ्गः योसौ देवासुरसंग्रामे देवैरभ्यर्थितोऽसुराञ्जघान ॥ ४,४.७६ ॥ स्वर्गे च कृतप्रियैर्देवैर्वरग्रहणाय चोदितः प्राह ॥ ४,४.७७ ॥ यद्यवश्यं वरो ग्राह्यः तन्ममायुः कथ्यतामिति ॥ ४,४.७८ ॥ अनन्तरं च तैरुक्तं मुहूर्तमेकं प्रमाणं तवायुरित्युक्तोथाःस्वलितगतिना विमानेन लघिमादिगुणो मर्त्यलोकमागम्येदमाह ॥ ४,४.७९ ॥ यथा न ब्राह्मणेभ्यः सकाशादात्मापि मे प्रियतरः न च स्व धर्मोल्लङ्घनं मया कदटचिदप्यनुष्ठितं न च सकलदेवमानुषपशुपक्षिवृक्षादिकेष्वच्युतव्यतिरेकवती दृष्टिर्ममाभूत्तथा तमेवं मुनिजनानुस्मृतं भगवन्तमस्खलितगतिः प्रापयेयमित्यशेषदेवगुरौ भगवत्यनिर्देश्यवपुषि सत्तामात्रात्मन्यात्मानं परमात्मनि वासुदेवाख्ये युयोज तत्रैव च लयमवाप ॥ ४,४.८० ॥ अत्रापि श्रूयते श्लोको गीतःसप्तर्षिभिः पुरा । खट्वाङ्गेन समो नान्यः कश्चिदुर्व्यां भविष्यति ॥ ४,४.८१ ॥ येन स्वर्गादिहागम्य मुहूर्तं प्राप्य जीवितम् । त्रयोतिसंधिता लोका बुद्ध्या सत्येन चैव हि ॥ ४,४.८२ ॥ खट्वाङ्गाद्दीर्घबाहुः पुत्रोऽभवत् ॥ ४,४.८३ ॥ ततो रघुरभवत् ॥ ४,४.८४ ॥ तस्मादप्यजः ॥ ४,४.८५ ॥ अजाद्दशरथः ॥ ४,४.८६ ॥ तस्यापि भगवानब्जनाभो जगतः स्थित्यर्थमात्मांशेन रामलक्ष्मणभरतशत्रुघ्नरूपेण चतुर्धा पुत्रत्वमायासीत् ॥ ४,४.८७ ॥ रामोपि बाल एव विश्वमित्रयागरक्षणाय गच्छंस्ताटकां जघान ॥ ४,४.८८ ॥ यज्ञे च मारीचमिषुवाताहतं समुद्रे चिक्षेप ॥ ४,४.८९ ॥ सुबाहुप्रमुखांश्च क्षयमनयत् ॥ ४,४.९० ॥ दर्शनमात्रेणाहल्यामपापां चकार ॥ ४,४.९१ ॥ जनकगृहे च माहेश्वरं चापमनायासेन बभञ्ज ॥ ४,४.९२ ॥ सीतामयोनिजां जनकराजतनयां वीर्यशुल्कां लेभे ॥ ४,४.९३ ॥ सकलक्षत्रियक्षयकारिणमशेषहैहयकुलधूमकेतुभूतं च परशुराममपास्तवीर्यबलावलेपं चकार ॥ ४,४.९४ ॥ पितृवचनाच्चागणितराज्याभिलाषो भ्रातृभार्यासमेतो वनं प्रविवेश ॥ ४,४.९५ ॥ विराधखरदूषणादीन् कबन्धवालिनौ च निजघान ॥ ४,४.९६ ॥ बद्धा चांभोनिधिमशेषराक्षसकुलक्षयं कृत्वा दशाननापहृतां भार्यं तद्वधादपहृतकलङ्कामप्यनलप्रवेशशुद्धामशेषदेवसङ्घैः स्तूयमानशीलां जनकराजकन्यामयोध्यामानिन्ये ॥ ४,४.९७ ॥ ततश्चाभिषेकमङ्गलं मैत्रेय वर्षशतेनापि वक्तुं न शक्यते संक्षेपेण श्रूयताम् ॥ ४,४.९८ ॥ लक्ष्मणभरतशत्रुघ्नविभीषणसुग्रीवाङ्गदजाम्बवद्धनुमत्प्रभृतिभिः समुत्फुल्लवदनैश्छत्रचामरादियुतैः सेव्यमानो दशरथिर्ब्रह्मेन्द्राग्निजरृतिवरुणवायुकुबेरेशानप्रभृतिभिः सर्वामरैर्वसिष्ठवामदेववाल्मीकिमार्कण्डेयविश्वामित्रभरद्वाजागस्तयप्रभृतिभिर्मुनिवरैः ऋग्यजुसामाथर्वैः संस्तूयमानो नृत्यगीतवाद्याद्यखिललोकमङ्गलवाद्यौर्वीणावेशुमृदङ्गभेरीपटहशङ्खकाहलगोमुखप्रभृतिभिः सुनादैः समस्तभूभटतां मध्ये सकललोकरक्षार्थं यथोचितमभिषिक्तो दाशरथिः कोसलेन्द्रो रघुकुलतिलको जानकीप्रियो भ्रातृत्रयप्रियःसिंहासनगत एकादसाब्दसहस्रं राज्यमकरोत् ॥ ४,४.९९ ॥ भरतोपि गन्धर्वविषयसाधनाय गच्छन् संग्रामे गन्धर्वकोटीस्तिस्त्रो जघान ॥ ४,४.१०० ॥ शत्रुघ्नेनाप्यमितबलपराक्रमो मधुपुत्रो लवणो नाम राभसो निहातो मथुरा च निवेशिता ॥ ४,४.१०१ ॥ इत्येवमाद्यतिबलपराक्रमविक्रमणेरदितुष्टसंहारिणोशेषस्य जगतो निष्पादितस्थितयो रामलक्षमण भरतशत्रुघ्नाः पुनरपि दिवमारूढाः ॥ ४,४.१०२ ॥ येऽपि तेषु भगवदंशेष्वनुरागिणः कोसलनगरजानपदास्तेपि तन्मनसस्तत्सालोक्यता मवापुः ॥ ४,४.१०३ ॥ अतिदुष्टसंहारिणो रामस्य कुशलवो द्वौ पुत्रौ लक्ष्मणस्याङ्गदचन्द्रकेतू तक्षपुष्कलौ भरतस्य सुबाहुशुरसेनौ शत्रुघ्नस्य ॥ ४,४.१०४ ॥ कुशस्यातिथिरतिथेरपि निषधः पुत्रोऽभूत् ॥ ४,४.१०५ ॥ निषधस्याप्यनलस्तस्मादपि नभः नभसः पुण्डरीकस्तत्तनयः क्षेमधन्वा तस्य च देवानीकस्तस्याप्यहीनकोऽहीनकस्यापि रुरुस्तस्य च पारियात्रकः पारियात्राद्देवलो देवलाद्वच्चलः तस्याप्युत्कः उत्काच्च वज्रनाभस्त स्माच्छङ्खणस्तमाद्युषितास्वस्ततश्च विश्वसहो जज्ञे ॥ ४,४.१०६ ॥ तस्माद्धिरण्यनाभः यो महायोगीस्वराज्जैमिनेः शष्याद्याज्ञवःक्याद्योगमवाय ॥ ४,४.१०७ ॥ हिरण्यनाभस्य पुत्रः पुष्यस्तस्माद्ध्रुवसंधिस्ततःसुदर्शनस्तस्मादग्निवर्मस्ततः शीघ्रगस्तस्मादपि मरुः पुत्रोऽभवत् ॥ ४,४.१०८ ॥ योसौ योगमास्थायाद्यापि कलापग्राममश्रित्य तिष्ठति ॥ ४,४.१०९ ॥ आगामियुगे सूर्यशक्षत्रव्रत आवर्तयिता भविष्यति ॥ ४,४.११० ॥ तस्यात्मजः प्रशुश्रुकस्तस्यपि सुसंधिस्ततश्चाप्यमर्षस्तस्य च सहस्वांस्ततश्च विश्वभवः ॥ ४,४.१११ ॥ तस्य बृहद्बलः योर्जुनतनयेनाभिमन्युनाभारतयुद्धे क्षयमनीयत ॥ ४,४.११२ ॥ एते इक्ष्वाकुभूपालाः प्राधान्येन मयेरिताः । एतेषां चरितं शृण्वन् सर्वपापैः प्रमुच्यते ॥ ४,४.११३ ॥ इति श्रीविष्णुमहापुराणे चतुर्थंशे चतुरथोऽध्यायः (४) _____________________________________________________________ श्रीपराशर उवाच इक्ष्वाकुतिनयो योसौ निमिर्नाम्ना सहस्रं वत्सरं सत्रमारेभे ॥ ४,५.१ ॥ वसिष्ठिं च होतारं वरयामास ॥ ४,५.२ ॥ तमाह वसिष्ठोहमिन्द्रेण पञ्चवर्षशतयागार्थं प्रथमं वृतः ॥ ४,५.३ ॥ तदनन्तरं प्रतिपाल्यतामागतस्तवापि ऋत्विक्भविष्यमीत्युक्ते स पृथिवीपतिर्न किञ्चिदुक्तवान् ॥ ४,५.४ ॥ वसिष्ठोप्यनेन समन्विच्छितमित्यमारपतेर्यागमकरोत् ॥ ४,५.५ ॥ सोऽपि तत्काल एवान्यैर्गौतमादिभिर्यागमकरोत् ॥ ४,५.६ ॥ समाप्ते चामरपतेर्यागे त्वरया वसिष्ठोनिमियज्ञं करिष्यामीत्याजगाम् ॥ ४,५.७ ॥ तत्कर्मकर्तृत्वं च गौतमस्य दृष्ट्वा स्वपते तस्मै राज्ञे मां प्रत्याख्यायैव तदनेन गौतमाय कर्मान्तरं समर्पितं यस्मात्तस्मादयं विदेहो भविष्यतीति शापं ददौ ॥ ४,५.८ ॥ प्रबुद्धश्चासाववनिपतिरपि प्रह ॥ ४,५.९ ॥ यस्मान्मामसंभाष्याज्ञानत एव शयानस्य शापोत्सर्गमसौ दुष्टगुरुश्चकार तस्मात्तस्यापि देहः पतिष्यतीति शापं दत्त्वा देहमत्यजत् ॥ ४,५.१० ॥ तच्छापाच्च मित्रावरुणयोस्तेजसि वसिष्ठस्य चेतः प्रविष्टम् ॥ ४,५.११ ॥ रुशीदर्शनादुद्भुतबीजप्रपातयोस्तयोःसकाशाद्वसिष्ठो देहमपरं लेभे ॥ ४,५.१२ ॥ निमेरपि तच्छरीरमतिमनोहरगन्धतैलादिभिरुपसंस्क्रियमाणं नैव क्लेदादिकं दोषमवाप सद्यो मृत इव तस्थौ ॥ ४,५.१३ ॥ यज्ञसमाप्तौ भागग्रहणाय देवानागतानृत्विज ऊचुः । यजमानाय वरो दीयतामिति ॥ ४,५.१४ ॥ देवैश्च छन्दितोसौ निमिराह ॥ ४,५.१५ ॥ भगवन्तोखिलससारदुःखहन्तारः ॥ ४,५.१६ ॥ न ह्येतादृगन्यद्दुःखमस्ति यच्छरीरात्मनोर्वियोगे भवति ॥ ४,५.१७ ॥ तदहमिच्छामि सकललोकलोचनेषु वस्तुं न पुनः शरीरग्रहणं कर्तुमित्येवमुक्तैर्देवैरसावशेषभूतानां नेत्रेष्ववतारितः ॥ ४,५.१८ ॥ ततो भूतान्युन्मेषनिमेषं चक्रुः ॥ ४,५.१९ ॥ अपुत्रस्य च तस्य भूभुजः शरीरमराजकभीरवो मुनयोऽरण्या ममन्थुः ॥ ४,५.२० ॥ तत्र च कुमारो जज्ञे ॥ ४,५.२१ ॥ जननाज्जनकसंज्ञां चावाप ॥ ४,५.२२ ॥ अभूद्विदेहोस्य पितेति वैदेहः मथनान्मिथिरिति ॥ ४,५.२३ ॥ तस्योदावसुः पुत्रोऽभवत् ॥ ४,५.२४ ॥ उदावसोर्नदिवर्धनस्ततःसुकेतुः तस्माद्देवरातस्ततश्च बृहदुक्थः तस्य चे महावीर्यस्तस्यापि सुधृति ॥ ४,५.२५ ॥ ततश्चधृष्टकेतुरजायत ॥ ४,५.२६ ॥ धृष्टकेतोर्हर्यश्वस्तस्य च मनुः मनोः पतिकः तस्मात्कृतरथस्तस्य देवमीढः तस्य च विबुधः विबुधस्य महाधृतिस्ततश्च कृतरातः ततो महारोमा तस्य स्वर्णरोमा तत्पुत्रो ह्रस्वरोणा ह्रस्वरोम्णःसीरध्वजोऽभवत् ॥ ४,५.२७ ॥ तस्य पुत्रर्थं यजनभुवं कृषतः सीरे सीता दुहिता समुत्पन्ना ॥ ४,५.२८ ॥ सीरध्वजस्य भ्राता संकाश्यधिपतिः कुशध्वजनामासीत् ॥ ४,५.२९ ॥ सीरध्वजस्यापत्यं भानुमान् भानुमतः शतद्युम्नः तस्य तु शुचिः तस्माच्चोर्जनामा पुत्रो जज्ञे ॥ ४,५.३० ॥ तस्यापि शतध्वजः ततः कृतिः कृतेरञ्जनः तत्पुत्रः कुरुजित्ततोऽरिष्टनेमिः तस्माच्छुतायुः श्रुतायुषः सुपार्श्वाः तस्मात्सृंजयः ततः क्षेमावी क्षेमाविनोऽनेनाः तस्माद्भौमरथः तस्य सत्यरथः तस्मादुपगुः उपगोरुपगुप्तः तत्पुत्रः स्वागतस्तस्य च स्वानन्दः तस्माच्च सुवर्चाः तस्य सुपार्श्वः तस्यापिसुभाषः सुश्रुतः तस्मासुश्रुताज्जयः तस्य पुत्रो विजयः विजयस्य ऋतः ऋतात्सुनयः सुनयाद्वीतहव्यः तस्माद्धूतिः धृतेर्वबहुलास्वः तस्य पुत्रः कृतिः ॥ ४,५.३१ ॥ कृतौ संतिष्ठत्ययं जनकवंशः ॥ ४,५.३२ ॥ इत्येते मैथिलाः ॥ ४,५.३३ ॥ प्रायेणैते आत्मविद्याश्रयिणो भूपाला भवन्ति ॥ ४,५.३४ ॥ इति श्रीविष्णुमहापुराणे चतुर्थांसे पञ्चमोऽध्यायः (५) _____________________________________________________________ मैत्रेय उवाच सूर्यस्य वंश्या भगवन्कथिता भवता मम । सोमस्याप्यखिलान्वश्याञ्छ्रोतुमिच्छामि पार्थिवान् ॥ ४,६.१ ॥ कीर्त्यते स्थिरकीर्तीनां येषामद्यापि संततिः । प्रसादसुमुखस्तान्मे ब्रह्मन्नाख्यातुमर्हसि ॥ ४,६.२ ॥ श्रीपराशर उवाच श्रूयतां मुनिशार्दूल वंशः प्रतिथतेजसः । सोमस्यानुक्रमात्ख्याता यत्रोर्वीपतयोऽभवन् ॥ ४,६.३ ॥ अयं हि वंशोतिबलपराक्रमद्युतिशीलचेष्टवद्भिरतिगुणान्वितैर्नहुषययातिकार्तवीर्यार्जुनादिभिर्भूपालैरलङ्कृतः तमहं कथयामि श्रूयताम् ॥ ४,६.४ ॥ अखिलजगत्स्त्रष्टुर्भगवतो नारायणस्य नाभिकलोजसमुद्भवाब्जयोनेर्ब्रह्मणः पुत्रोऽत्रिः ॥ ४,६.५ ॥ अत्रेःसोमः ॥ ४,६.६ ॥ तं च भगवानब्जयोनिः अशेषौषधीद्विजनक्षत्राणामाधिपत्येऽभ्यषेचयत् ॥ ४,६.७ ॥ स च राजसूयमकरोत् ॥ ४,६.८ ॥ तत्प्रभावादत्युत्कृष्टाधिपत्याधिष्ठातृत्वाच्चैनं मद आविवेश ॥ ४,६.९ ॥ मदावलेपाच्च सकलदेवगुरोर्बृस्पतेस्तारां नाम पत्नीं जहार ॥ ४,६.१० ॥ बहुशश्च बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानसकलैश्च देवर्षिभिर्याचमानोऽपि न मुमोच ॥ ४,६.११ ॥ तस्य चन्द्रस्य च बृहस्पतेर्द्वषादुशाना पार्ष्णिग्राहोभूत् ॥ ४,६.१२ ॥ अङ्गीरसश्च सकाशादुपलब्धविद्यो भगवान्रुद्रो बृहस्पतेः सहाय्यमकरोत् ॥ ४,६.१३ ॥ यतश्चोशना ततो जंभकुंभाद्याः समस्ता एव दैत्यदानवनिकाया महान्तमुद्यमं चक्रुः ॥ ४,६.१४ ॥ बृहस्पतेरपि सकलदेवसैन्ययुतः सहायः शक्रोऽऽभवत् ॥ ४,६.१५ ॥ एवं च तयोरतीवोग्रसंग्रामस्तारानिमित्तस्तारकामयो नामाभूत् ॥ ४,६.१६ ॥ ततश्च समस्तशस्त्रण्यमुरेषु रुद्रपुरोगमा देवा देवेषु चाशेष्दानवा मुमुचुः ॥ ४,६.१७ ॥ेवं देवासुराहवसंक्षोभक्षुब्धदृदयमशेषमेव जगद्ब्रह्मणं शरणं जगाम् ॥ १८ ॥ ततश्च भगवानब्जयोनिरप्युशनसं संकरमसुरान्देवांश्च निवार्य बृहस्पतये तारामदापयत् ॥ ४,६.१९ ॥ तां चान्तःप्रसवामवलोक्य बृहस्पतिरप्याह ॥ ४,६.२० ॥ नैष मम क्षेत्रे भवत्यान्यस्य सुतो धार्यःसमुत्सृजैनमलमलमतिधाष्टर्येनेति ॥ ४,६.२१ ॥ स च तेनैवमुक्तातिपतिव्रता भर्तृवचनानन्तरं तमिषीकास्तंबे गर्भमुत्ससर्ज ॥ ४,६.२२ ॥ स चोत्सृष्टमात्र एवातितेजसा देवानां तेजांस्याचिक्षेप ॥ ४,६.२३ ॥ बृहस्पतिमिन्दुं च तस्य कुमारस्यातिचारुतया साभलाषौ दृष्ट्वा देविःसमुत्पन्नसंदेहास्तारां पप्रच्छुः ॥ ४,६.२४ ॥ सत्यं कथयास्माकमिति सुभगे सोमस्याथ वा बृहस्पतेरयं पुत्र इति ॥ ४,६.२५ ॥ एवं तैरुक्ता सा तारा ह्रिया किञ्चिन्नोवाच ॥ ४,६.२६ ॥ बहुशोप्यभिहिता यदासौ देवेभ्यो नाच्चक्षे ततःस कुमारस्तां शप्तुमुद्यतः प्राह ॥ ४,६.२७ ॥ दुष्टेंब कस्मान्मम तातं नाख्यासि ॥ ४,६.२८ ॥ अद्यैव ते व्यलीकलज्जावत्यास्तथा शास्तिमहं करोमि ॥ ४,६.२९ ॥ यथा च नैवमद्याप्यतिमन्थरवचनाभविष्यसीति ॥ ४,६.३० ॥ अथाह भगवान् पितामहः तं कुमारं सन्निवार्य स्वयमपृच्छत्तां ताराम् ॥ ४,६.३१ ॥ वत्से कस्यायमात्मजः सोमस्य वा बृहस्पतेर्वा इत्युक्ता लज्जमानाह सोमस्येति ॥ ४,६.३२ ॥ ततः प्रस्फुरदुच्ध्वासितामलकपोलकान्तिर्भगवानुडुपतिः कुमारमालिङ्ग्य साधु साधु वत्स प्राज्ञोसीतिबुध इति तस्य च नाम चक्रे ॥ ४,६.३३ ॥ तदाख्यातमेवैतत्स च यथेलायामात्मजं पुरूरवममुत्पादयामास ॥ ४,६.३४ ॥ पुरूरवास्त्वतिदानशीलोऽतियज्वातितेजस्वी यं सत्यवादिनमतिरूपस्वितं मनस्विनं मित्रावरुणशापान्मानुषे लोके मया वस्तव्यमिति कृतमतिरुर्वशी ददर्श ॥ ४,६.३५ ॥ दृष्टमात्रे च तस्मिन्नपहाय मानमशेषमपास्य स्वर्गसुखाभिलाषं तन्मनस्का भूत्वा तमेवोपतस्थे ॥ ४,६.३६ ॥ सोऽपि च तामतिशयितसकललोकस्त्रीकान्तिसौकुमार्यलावण्यगतिविलासहासादिगुमामवलोक्य तदायत्तचित्तवृत्तिर्बभूव ॥ ४,६.३७ ॥ उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तस मस्तान्यप्रयोजनमभूत् ॥ ४,६.३८ ॥ राजा तु प्रागल्भ्यात्तामाह ॥ ४,६.३९ ॥ सुभ्रु त्वामहमभिकामोऽस्मि प्रसीदानुरागमुद्वहेत्युक्ता लज्जावखण्डितमुर्वशी तं प्राह ॥ ४,६.४० ॥ भवत्वेवं यदि मे समयपरिपालनं भवान् करोतीत्याख्याते पुनपि तामाह ॥ ४,६.४१ ॥ आख्याहि मे समयमिति ॥ ४,६.४२ ॥ अथ पृष्टा पुनरप्यब्रवीत् ॥ ४,६.४३ ॥ शयनसमीपे ममोरणकद्वयं पुत्रभूतं नापनेयम् ॥ ४,६.४४ ॥ भवांश्च मया न नग्नोद्रष्टव्यः ॥ ४,६.४५ ॥ घृतमात्रं च ममाहार इति ॥ ४,६.४६ ॥ एवमेवेति भूपातिरप्याह ॥ ४,६.४७ ॥ तया सह स चावनिपतिरलाकयां चैत्ररथादिवनेष्वमलपद्मखण्डेषु मानसादिसरःस्वतिरमणीयेषु रममाण एकषष्टिवर्षाण्यनुदिनप्रवर्दधमानप्रमोदोऽनयत् ॥ ४,६.४८ ॥ उर्वशी च तदुपभोगात्प्रतिदिनप्रवर्धमानानु रागा अमरलोकवासेऽपि न स्पृहां चकार ॥ ४,६.४९ ॥ विना चोर्वश्या सुरलोकोऽप्सरसां सिद्धगन्धर्वाणां च नातिरमणीयोऽभवत् ॥ ४,६.५० ॥ ततश्चोर्वशी पुरूरवसोःसमयविद्विश्वासुर्गन्धर्वसमवेतो निशि शयनाभ्याशादेकमुरणकं जहार ॥ ४,६.५१ ॥ तस्याकाशे नीयमानस्योर्वशी शब्दमशृणोत् ॥ ४,६.५२ ॥ एवमुवाच च ममानाथायाः पुत्रः केनापह्रियते कं शरणमुपयामीति ॥ ४,६.५३ ॥ तदाकर्ण्य राजा मां देवी वीक्ष्यतीति न ययौ ॥ ४,६.५४ ॥ अथान्यमप्युरणकमादाय गन्धर्वा ययुः ॥ ४,६.५५ ॥ तस्याप्यपह्रियमाणस्याकर्ण्य शब्दमाकाशे पुनरप्यनाथास्म्यहमभर्तृका कापुरुषा श्रयेत्यार्तराविणी बभूव ॥ ४,६.५६ ॥ राजाप्यमर्षवशादन्धकारमेतदिति खड्गमादाय दुष्टदुष्ट हतोसीति व्याहरन्नभ्यधावत् ॥ ४,६.५७ ॥ तावच्च गन्धर्वै रप्यतीवोज्ज्वला विद्युज्जनिता ॥ ४,६.५८ ॥ तत्प्रभया चोर्वशी राजानमपगतांबरं दृष्ट्वापवृत्तसमया तत्क्षणादेवापक्रान्ता ॥ ४,६.५९ ॥ परित्यज्य तावप्युरणकौ गन्दर्वाःसुरलोकमुपगताः ॥ ४,६.६० ॥ राजापि च तौ मेषावादायातिहृष्टमनाः स्वशयनमायातो नोर्वशीं ददर्श ॥ ४,६.६१ ॥ तां चापश्यन् व्यपगतांबर एवोन्मत्तरूपो बभ्राम ॥ ४,६.६२ ॥ कुरुक्षेत्रे चांभोजसरस्यन्याभिश्चतसृभिरप्सरोभिः समवेतामुर्वशीं ददर्श ॥ ४,६.६३ ॥ ततश्चोन्मत्तरूपो जाये हे तिष्ठ मनसि धोरे तिष्ठ वचसि कपटिके तिष्ठेत्येवमनेकप्रकारं सूक्तमवोचत् ॥ ४,६.६४ ॥ आह चोर्वशी ॥ ४,६.६५ ॥ महाराजालमनेनाविवेकचेष्टितेन ॥ ४,६.६६ ॥ अन्तर्वत्न्यहमब्दान्ते भवतात्रागन्तव्यं कुमारस्ते भबिष्यति एकां च निशामहं त्वया सह वत्स्यामीत्युक्तः प्रहृष्टःस्वपुरं जगाम ॥ ४,६.६७ ॥ तासां चाप्सरसामूर्वशी कथयामास ॥ ४,६.६८ ॥ अयं स पुरुषोत्कृष्टो येनाहमेतावन्तं कालमनुरागाकृष्टमानसा सहोषितेति ॥ ४,६.६९ ॥ एवमुक्तास्ताश्चाप्सरस ऊचुः ॥ ४,६.७० ॥ साधुसाध्वस्य रूपमप्यनेन सहास्माकमपि सर्वकालमास्या भवेदिति ॥ ४,६.७१ ॥ अब्दे च पूर्णे स राजा तत्राजगाम ॥ ४,६.७२ ॥ कुमारं चायुषमस्मै चोर्वशी ददौ ॥ ४,६.७३ ॥ दत्त्वा चैकां निशां तेन राज्ञा सहोषित्वा पञ्च पुत्रोत्पत्तये गर्भमवाप ॥ ४,६.७४ ॥ उवाच चैनं राजानमस्मत्प्रीत्या महाराजाय सर्व एव गन्धर्वा वरदाःसंवृत्ताः व्रियतां च वर इति ॥ ४,६.७५ ॥ आह च राजा ॥ ४,६.७६ ॥ विजितसकलारातिरविहतेन्द्रियसामर्थ्यो बन्धुमानमितबलकोशोऽस्मि नान्यदस्माकमुर्वशीसालोक्यात्प्राप्तव्यमस्तितदहमनया सहोर्वश्या कालं नेतुमभिलषामीत्युक्ते गन्धर्वा राज्ञेऽग्निस्थालीं ददुः ॥ ४,६.७७ ॥ ऊचुश्चैनमग्निमाम्नायानुसारी भूत्वा त्रिधा कृत्वेर्वशी सलोकतामनोरथमुद्दिश्य सम्यग्यजेथाः ततोऽवस्यमभिलषितमवाप्स्यतीत्युक्तस्तामग्निस्तालीमादाय जगाम ॥ ४,६.७८ ॥ अन्तरटव्यामचितयतहो मेऽतीव मुढता किमहमकरवम् ॥ ४,६.७९ ॥ वह्निस्थाली मयैषानीता नोर्वशीति ॥ ४,६.८० ॥ अथैनामटव्यामेवाग्निस्थालीं तत्याज स्वपुरं च जगाम् ॥ ४,६.८१ ॥ व्यतीतेर्ऽद्धरात्रे विनिद्रश्चाचिन्तयत् ॥ ४,६.८२ ॥ ममोर्वशीसालोक्यप्राप्तयर्थमग्निस्थाली गन्धर्वैर्दत्ता सा च मयाटव्यां परित्यक्ता ॥ ४,६.८३ ॥ तदहं तत्र तदाहरणाय यास्यामीत्युत्थाय तत्राप्युपगतो नाग्निस्थालीमपश्यत् ॥ ४,६.८४ ॥ शमीगर्भं चाश्वात्थमग्निस्थालीस्थाने दृष्ट्वाचिन्तयत् ॥ ४,६.८५ ॥ मयात्राग्निस्थाली निक्षिप्ता सा चाश्वत्थः शमीगर्भोऽभूत् ॥ ४,६.८६ ॥ तदेनमेवाहमग्निरूपमादाय स्वपुरमभिगम्यारणीं कृत्वा तदुत्पन्नाग्नेरुपास्तिं करिष्यामीति ॥ ४,६.८७ ॥ एवमेव स्वपुरमभिगम्यारणिं चकार ॥ ४,६.८८ ॥ तत्प्रमाणं चाङ्गुलैः कुर्वन् गायत्रीमपठत् ॥ ४,६.८९ ॥ पठतश्चाक्षरसंख्यान्येवाङ्गुलान्यरण्यभवत् ॥ ४,६.९० ॥ तत्राग्निं निर्मथ्याग्नित्रयमाम्नायानुसारी भूत्वा जुहाव ॥ ४,६.९१ ॥ उर्वशीसालोक्यं फलमभिसंधितवान् ॥ ४,६.९२ ॥ तेनैव चाग्निविधिना बहुविधान् यज्ञानिष्ट्वा गान्धर्वलोकान वाप्योर्वश्या सहावियोगमवाप ॥ ४,६.९३ ॥ एकोऽग्निरादावभवतेकेन त्वत्र मन्वन्तरे त्रेधा प्रवर्तिताः ॥ ४,६.९४ ॥ इति श्रिविष्णुमहापुराणे चतुर्थांशे षष्ठोऽध्यायः (६) _____________________________________________________________ श्रीपराशर उवाच तस्याप्यायुर्धीमानमावसुर्वनिश्वावसुःश्रुतायुः शयुरयुतायुरितिसंज्ञाः षट्पुत्रा अभवन् ॥ ४,७.१ ॥ तथामावसोर्भीमनामा पुत्रोऽभवत् ॥ ४,७.२ ॥ भीमस्य काञ्चनः काञ्चनात्सुहोत्रः तस्यापि जह्नुः ॥ ४,७.३ ॥ योऽसौ यज्ञवाटमखिलं गङ्गांभसा प्लावितमवलोक्य क्रोधसंरक्तलोचनो भगवन्तं यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्याखिलमेव गङ्गामपिबत् ॥ ४,७.४ ॥ अथैनं देवर्षयः प्रसादयामासुः ॥ ४,७.५ ॥ दुहितृत्वे चास्य गङ्गामनयन् ॥ ४,७.६ ॥ जह्नोश्च सुमन्दुर्नाम पुत्रोऽभवत् ॥ ४,७.७ ॥ तस्याप्यजकस्ततो बलाकाश्वस्तस्मात्कुशस्तस्यापि कुशांबुकुशनाभाधूर्तरजसो वसुश्चेति चत्वारः पुत्रा बभूवुः ॥ ४,७.८ ॥ तेषां कुशांबः शक्रतुल्यो मुत्रो भवेदितितपश्चकार ॥ ४,७.९ ॥ तं चोग्रतपसमवलोक्य मा भवत्वनयोऽमत्तुल्यो वीर्य इत्यात्मनैवास्येन्द्रः पुत्रत्वमगच्छत् ॥ ४,७.१० ॥ स गाधिर्नाम पुत्रः कौशिकोऽभवत् ॥ ४,७.११ ॥ गाधिश्च सत्यवतीं कन्यामजनयत् ॥ ४,७.१२ ॥ तां च भार्गवः ऋचीको वव्रे ॥ ४,७.१३ ॥ गाधिरप्यतिरोषणायातिवृद्धाय ब्राह्मणाय दातुमनिच्छन्नेकतः श्यामकर्मानामिन्दुवर्चसामनिलरंहसामश्वानां सहस्रं कन्याशुल्कमयाचत ॥ ४,७.१४ ॥ तेनाप्यृषिणा वरुमसकाशादु पलभ्याश्वतीर्थोत्पन्नं तादृशमश्वसहस्रं दत्तम् ॥ ४,७.१५ ॥ ततस्तामृचीकः कन्यामुपयेमे ॥ ४,७.१६ ॥ ऋचीकश्च तस्याश्चरुमपत्यार्तं चकार ॥ ४,७.१७ ॥ तत्प्रसादितश्च तन्मात्रे क्षत्रवरपुत्रोत्पत्तये चरमपरं साधयामास ॥ ४,७.१८ ॥ एष चरुर्भवत्या अयमपरश्चरुस्त्वन्मात्रा सम्य गुपयोज्य इत्युक्त्वा वनं जगाम ॥ ४,७.१९ ॥ उपयोगकाले चतां माता सत्यवतीमाह ॥ ४,७.२० ॥ पुत्रि सर्व एवात्मपुत्रमतिगुणमभिलषति नात्मजायाभ्रातृगुणेष्वतीवादृतो भवतीति ॥ ४,७.२१ ॥ तोर्हसि ममात्मीयं चरुं मदीयं चरुमात्मनोपयोक्तुम् ॥ ४,७.२२ ॥ मत्पुत्रेण हि सकलभूमण्डलपरिपालनं कार्यं कियद्वा ब्राह्मणस्य बलवीर्यसंपदेत्युक्ता सा स्वचरुं मात्रे दत्तवती ॥ ४,७.२३ ॥ अथ वनादागत्य सत्यवतीमृषिरपश्यत् ॥ ४,७.२४ ॥ आह चैनामतिपापे किमिदमकार्यं भवत्या कृतमतिरौद्रंम ते वपुर्लक्ष्यते ॥ ४,७.२५ ॥ नीनं त्वाया त्वन्मातृसात्कृतश्चारुरूपयुक्तो न युक्तामेतत् ॥ ४,७.२६ ॥ मया हि तत्र चरौ सकलैश्वर्यवीर्यसौर्यबलसंपदारोपिता त्वदीयचरावप्यखिलशान्तिज्ञानतितिक्षादिब्राह्ममगुणसंपत् ॥ ४,७.२७ ॥ तच्च विपरीतं कुर्वन्त्यास्तवातिरौद्रास्त्रधारणपालननिष्ठः क्षत्रियाचारः पुत्रो भविष्यति तस्याश्चोपशमरुचिर्ब्राह्मणाचार इत्याकर्ण्यैव सा तस्य पादौ जग्राह ॥ ४,७.२८ ॥ प्रणिपत्य चैनमाह ॥ ४,७.२९ ॥ भगवन्मयैतदज्ञानादनुष्ठितं प्रसादं मे कुरु मैवंविधः पुत्रो भवतु काममेवंविधः पौत्रो भवत्वित्युक्ते मुनिरप्याह ॥ ४,७.३० ॥ एवमस्त्विति ॥ ४,७.३१ ॥ अनन्तरं च सा जमदग्निमजीजनत् ॥ ४,७.३२ ॥ तन्माता च विश्वामित्रं जनयामास ॥ ४,७.३३ ॥ सत्यवत्यपि कौशिकी नाम नद्यभवत् ॥ ४,७.३४ ॥ जमदग्निरिक्ष्वाकुवंशोद्भवस्य रेणोस्तनयां रेणुकामुपयेमे ॥ ४,७.३५ ॥ तस्यां चाशेषक्षत्रहन्तारं परशुरामसंज्ञं भगवतःसकललोकगुरोर्नारायणस्यांशं जमदग्निरजीजनत् ॥ ४,७.३६ ॥ विश्वामीत्रपुत्रस्तु भार्गव एव शुनःशेपो दैवैर्दत्तः ततश्च देवरातनामाभवत् ॥ ४,७.३७ ॥ ततश्चान्ये मधुश्छन्दोधनञ्जयकृतदेवाष्टककच्छपहरिराख्या विश्वामित्रपुत्रा बभूवुः ॥ ४,७.३८ ॥ तेषां च बहूनि कौशिकगोत्राणि ऋष्यन्तरेषु विवाह्यान्यभवत् ॥ ४,७.३९ ॥ इति श्रीविष्णुमहापुराणे चतुर्थंशे सप्तमोऽध्यायः (७) _____________________________________________________________ श्रीपराशर उवाच पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोर्दुहितरमुपयेमे ॥ ४,८.१ ॥ तस्यां च पञ्च पुत्रानुत्पादयामास ॥ ४,८.२ ॥ नहुषक्षत्रवृद्धरंभरजिसंज्ञास्तथैवानेनाः पञ्चमः पुत्रोऽभूत् ॥ ४,८.३ ॥ क्षत्रवृद्धात्सुहोत्रः पुत्रोऽभवत् ॥ ४,८.४ ॥ काश्यपकाशगृत्समदास्त्रयस्तस्य पुत्रा बभूवुः ॥ ४,८.५ ॥ गृत्समदस्य शोनकश्चातुर्वर्म्यप्रवर्तयिताभूत् ॥ ४,८.६ ॥ काश्यस्य काशेयः काशीराजः तस्माद्राष्ट्रः राष्ट्रस्य दीर्घतपाः पुत्रोऽभवत् ॥ ४,८.७ ॥ धन्वन्तरिस्तु दीर्घतपसः पुत्रोऽभवत् ॥ ४,८.८ ॥ स हि संसिद्धकार्यकरमःसकलसंभूतिष्वशेषज्ञानविदा भगवता नारायणेन चातीत संभूतौ तस्मै वरो दत्तः ॥ ४,८.९ ॥ काशीराजगोत्रेऽवतीर्य त्वमष्टधा सम्यगायुर्वेदं करिष्यसि यज्ञभागभुग्भविष्यसीति ॥ ४,८.१० ॥ तस्य च धन्वन्तरेः पत्रः केतुमान् केतुमतो भीमरथः तस्यापि दिवोदासः तस्यापि प्रतर्दनः ॥ ४,८.११ ॥ स च भद्रश्रेण्यवंशविनाशनादशेषशत्रवोनेनजिता इति शत्रुजिदभवत् ॥ ४,८.१२ ॥ तेन च प्रीतिमतात्मपुत्रो वत्सवत्सेत्यभिहितो वत्सोऽभवत् ॥ ४,८.१३ ॥ सत्यपरतया ऋतध्वजसंज्ञामवाप ॥ ४,८.१४ ॥ ततश्च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः ॥ ४,८.१५ ॥ तस्यच च वत्सस्य पुत्रोऽलर्कनामाभवत्यस्यायमद्यापिश्लोको गीयते ॥ ४,८.१६ ॥ षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा ॥ ४,८.१७ ॥ तस्याप्यलर्कस्य सन्नतिनामाभवदात्मज ॥ ४,८.१८ ॥ सन्नतेः सुनीथः तस्यापि सुकेतुः तस्माच्च धर्मकेतुर्जज्ञे ॥ ४,८.१९ ॥ ततश्च सत्यकेतुः तस्माद्विभुः तत्तयःसुविभुः ततश्च सुकुमारस्तस्यापि दृष्टकेतुः ततश्च वीतिहोत्रः तस्माद्भार्गः भार्गस्य भार्गभूमिः ततश्चातुर्वर्ण्यंप्रवृत्तिरित्येते काश्यपभूभृतः कथिताः ॥ ४,८.२० ॥ रजेस्तु संततिः श्रुयताम् ॥ ४,८.२१ ॥ इति श्रीविष्णुमाहापुराणे चतुर्थांशेऽष्टमोऽध्याय (८) _____________________________________________________________ श्रीपराशर उवाच रजोस्तु पञ्च पुत्रशतान्यतुलबलपराक्रमसारामायसन् ॥ ४,९.१ ॥ देवासुरसंग्रामारंभे च परस्परवधेप्सवो देवाश्चासुराश्च ब्रह्मणामुपेत्य पप्रच्छुः ॥ ४,९.२ ॥ भगवन्नस्माकमत्र विरोधे कतमः पक्षो जेता भविष्यतीति ॥ ४,९.३ ॥ अथाह भगवान् ॥ ४,९.४ ॥ येषामर्थे रजिरात्मात्तायुधो योत्स्यति तत्पक्षोजेतेति ॥ ४,९.५ ॥ अथ दैत्यैरुपेत्य रजिरात्मसाहाय्यदानायाभ्यर्थितः प्राह ॥ ४,९.६ ॥ योत्स्योऽहं भवतामर्थे यद्यहममरजयाद्भवतामिन्द्रो भविष्यामीत्याकर्ण्यैतत्तैरभिहितम् ॥ ४,९.७ ॥ न वयमन्यथा वदिष्यामोऽन्यथा करिष्यामोऽस्माकमिन्द्रः प्रह्लादस्तदर्थमेवायमुद्यम इत्युक्त्वा गतेष्वसुरेषु देवैरप्यसाववनिपतिरेवमेवोक्तस्तेनापि च तथैवोक्ते देवैरिन्द्रस्त्वं भविष्यसीति समन्विच्छितम् ॥ ४,९.८ ॥ रजिनापि देवसैन्यसहायेनानेकैर्महास्त्रैस्तदशेषमहासुरबलं निषूदितम् ॥ ४,९.९ ॥ अथ जितारिपक्षश्च देवेन्द्रो रजिचरमयुगलमात्मनः शिरसा निपीड्याह ॥ ४,९.१० ॥ भयत्राणादन्नदानाद्भवानस्मत्पितासेषलोकानामुत्तमोत्तमो भवान् यस्याहं पुत्रस्त्रिलोकेन्द्रः ॥ ४,९.११ ॥ स चापि राजा प्रहस्याह ॥ ४,९.१२ ॥ एवमस्त्वेवमस्त्वनतिक्रमणीयाहि वैरिक्षादप्यनेकविधचाटुवाक्यगार्भा प्रणतिरित्युक्त्वा स्वपुरं जगाम ॥ ४,९.१३ ॥ शतक्रतुरपीन्द्रत्वं चकार ॥ ४,९.१४ ॥ स्वर्याते तु रजौ नारदर्षिचोदिता रजिपुत्राः शतक्रतुमात्मपितृपुत्रं समाचाराद्राज्यं याचितवन्तः ॥ ४,९.१५ ॥ अप्रदानेन च विजित्येन्द्रमतिबलिनः स्वयमिन्द्रत्वं चक्रुः ॥ ४,९.१६ ॥ ततश्च बहुतिथे काले ह्यतीते बृहस्पतिमेकान्ते दृष्ट्वा अपहृतत्रैलोक्ययज्ञभागः शतक्रतुरुवाच ॥ ४,९.१७ ॥ बदरीफलमात्रमप्यर्हसि ममाप्यायनाय पुरोडाशखण्डं दातुमित्युक्तो बृहस्पतिरुवाच ॥ ४,९.१८ ॥ यद्येवन्त्वयाहं पूर्वमेव चोदितःस्यां तन्मया त्वदर्थं किमकर्तव्यमत्यिल्पैरेवाहोभिस्त्वां निजं पदं प्रपयिष्यामीत्यभिधाय तेषामनुदिनमाभिचारकं बुद्धिमोहाय शक्रस्य तेजोभिवृद्धये जुहाव ॥ ४,९.१९ ॥ ते चापि तेन बुद्धिमोहेनाभिभूयमाना ब्रह्मद्विषो धर्मत्यागिनो वेदवादपराङ्मुखाबभुवूः ॥ ४,९.२० ॥ ततस्तानपेतधर्माचारनिन्द्रो जघान ॥ ४,९.२१ ॥ पुरोहिताप्यायिततेजाश्च शक्रो दिवमाक्रमत् ॥ ४,९.२२ ॥ एतदिन्द्रस्य स्वपदच्यवनादारोहणं श्रुत्वा पुरुषः स्वपदभ्रंशं दौरात्मयं च नाप्नोति ॥ ४,९.२३ ॥ रंभस्त्वपत्त्योऽभवत् ॥ ४,९.२४ ॥ क्षत्रवृद्धसुतः प्रतिक्षत्रोऽभवत् ॥ ४,९.२५ ॥ तत्पुत्रः संजयः तस्यापि जयः तस्यापि विजयः तस्माच्च जज्ञे कृतः ॥ ४,९.२६ ॥ तस्य च हर्यधनः हर्यधनसुतःसहदेवः तस्माददीनस्तस्य जयत्सेय जयत्सेनः ततश्च संकृतिः तत्पुत्रः क्षत्रधर्मा इत्येते क्षत्रवृद्धस्य वंश्याः ॥ ४,९.२७ ॥ ततो नहुषवंशं प्रवक्ष्यामि ॥ ४,९.२८ ॥ इति श्रीविष्णुमाहापुराणे चतुर्थांशे नवमोऽध्यायः (९) _____________________________________________________________ श्रीपराशर उवाच यतिययातिसंयात्यायातिवियातिकृतिसंज्ञा नहुषस्य षट्पुत्रा महाबलपराक्रमा बभूवुः ॥ ४,१०.१ ॥ यतिस्तु राज्यं नैच्छत् ॥ ४,१०.२ ॥ ययातिस्तु भूभृदभवत् ॥ ४,१०.३ ॥ उशनसश्च दुहितरं देवयानीं वार्षपर्वणीं शर्मिष्ठामुपयेमे ॥ ४,१०.४ ॥ अत्रानुवंशश्लोको भवति ॥ ४,१०.५ ॥ यदुं च दुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ ४,१०.६ ॥ काव्यशापाच्च कालेनैव ययातिर्जरामवाप ॥ ४,१०.७ ॥ प्रसन्नशुक्रवचनाच्च स्वजरां संक्रामयितुं ज्येष्ठं पुत्रं यदुमुवाच ॥ ४,१०.८ ॥ वत्स त्वन्मातामहशापादियमकालेनैव जरा ममोपस्थिता तामहं तस्यै वानुग्रहाद्भवतःसंचारयामि ॥ ४,१०.९ ॥ एकं वर्षसहस्रमतृप्तोऽस्मि विषयेषु त्वद्वयसा विषयानहं भोक्तुमिच्छमि ॥ ४,१०.१० ॥ नात्र भवता प्रत्याख्यानं कर्तव्यमित्युक्तःस यदुर्नैच्छत्तां जरामादातुम् ॥ ४,१०.११ ॥ तं च पिता शशाप त्वत्प्रसूतिर्न राज्यार्हा भविष्यतीति ॥ ४,१०.१२ ॥ अनन्तरं च दुर्वसुं द्रुह्यमनुं च पृतिवीपतिर्जराग्रहणार्थं स्वयौवनप्रदानाय चाभ्यर्थयामास ॥ ४,१०.१३ ॥ तैरप्येकैकेन प्रत्याख्यातस्ताञ्छशाप ॥ ४,१०.१४ ॥ अथ शर्मिष्ठातनयमशेषकनीयांसं पुरुं तथैवाह ॥ ४,१०.१५ ॥ स चातिप्रवणमतिः सबहुमानं पितरं प्रणम्य महाप्रसादोयमस्माकमित्युदारमभिधायजरां जग्राह ॥ ४,१०.१६ ॥ स्वकीयं च यौवनं स्वपित्रे ददौ ॥ ४,१०.१७ ॥ सोऽपि पौरवं यौवनमासाद्य धर्माविरोधेन यथाकामं यथाकालोपपन्नं यथोत्साहं विषयांश्चचार ॥ ४,१०.१८ ॥ सम्यक्च प्रजापालनमकरोत् ॥ ४,१०.१९ ॥ विश्वाच्या देवयान्या च सहोपभोगं भुक्त्वा कामानामन्तं प्राप्स्यामीत्यनुदिनं तन्मनस्को बभूव ॥ ४,१०.२० ॥ अनुदिनं चोपभोगतः कामानतिरम्यान्मेने ॥ ४,१०.२१ ॥ ततश्चैनमगायत ॥ ४,१०.२२ ॥ श्लो न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ ४,१०.२३ ॥ यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । एकस्यापि न पर्याप्तं तस्मात्तृष्णां परित्यजेत् ॥ ४,१०.२४ ॥ यदा न कुरुते भावं सर्वभूतेषु पापकम् । समदृष्टोस्तदा पुंसः सर्वाःसुखमया दिशः ॥ ४,१०.२५ ॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । तां तृष्णां संत्यजेत्प्राज्ञःसुखेनैवाभिपूर्यते ॥ ४,१०.२६ ॥ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । धनाशा जीविताशा च जीर्यतोऽपि न जीर्यतः ॥ ४,१०.२७ ॥ पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः । तथा प्यनुदिनं तृष्णा मम देषूपजायते ॥ ४,१०.२८ ॥ तस्मादेतामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् । निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह ॥ ४,१०.२९ ॥ श्रीपराशर उवाच पुरोःसकाशादादाय जरां दत्त्वा च योवनम् । राज्येभिषिच्च पूरुं च प्रययौ तपसे वनम् ॥ ४,१०.३० ॥ दिशिदक्षिणपूर्वस्यां दुर्वसुं च समादिशत् । प्रतीच्यां च तथा द्रुह्युं दक्षिणायां ततो यदुम् ॥ ४,१०.३१ ॥ उदीच्यां च तथैवानुं कृत्वा मण्डलिनो नृपान् । सर्वपृथ्वीपतिं पुरुं सोभिषिच्य वनं ययौ ॥ ४,१०.३२ ॥ इति श्रीविष्णुमहापुराणे चतुर्थांशे दशमोऽध्यायः (१०) _____________________________________________________________ श्रीपराशर उवाच अतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि ॥ ४,११.१ ॥ यत्राशेषलोकनिवासो मनुष्यसिद्धगन्धर्वयक्षराक्षसगुह्यककिंपुरुषाप्सरोरगविहगदैत्यदानवादित्यरुद्रवस्वश्विमरुद्देवर्षिभिर्मुमुक्षुभिर्धर्मार्थकाममोक्षार्थिभिश्च तत्तत्फललाभाय सदाभिष्टुतोऽपरिच्छेद्यमाहात्म्यांशेन भगवाननादिनिधनो विष्णुरवततार ॥ ४,११.२ ॥ अत्र श्लोकः ॥ ४,११.३ ॥ यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते । यत्रावतीर्णं कृष्णाख्यंपरं ब्रह्मनराकृति ॥ ४,११.४ ॥ सहस्रजित्क्रोष्टुनलनहुषसंज्ञाश्चात्वारो यदुपुत्रा वभुवुः ॥ ४,११.५ ॥ सहस्रजित्पुः शतजित् ॥ ४,११.६ ॥ तस्य हैहयहेहयवेणुहयास्त्रयः पुत्रा बभूवुः ॥ ४,११.७ ॥ हैहयपुत्रो धर्मः तस्यापि धर्मनेत्रः ततः कुन्तिः कुन्तेः सहजित् ॥ ४,११.८ ॥ तत्तनयो महिष्मान् योऽसौ माहिष्मतों पुरीं निर्वापयामास ॥ ४,११.९ ॥ तस्माद्भद्रश्रेण्यस्ततो दुर्दमस्तस्माद्धनकः धनकस्य कृतवीर्यकृताग्निकृतधर्मकृतौजसश्चत्वारः पुत्रा बभूवुः ॥ ४,११.१० ॥ कृतवीर्यादर्जुःसप्तद्वीपाधिपतिर्बाहुसहस्रो जज्ञे ॥ ४,११.११ ॥ योऽसौ भगवदंशमत्रिकुलप्रसूतं दत्तात्रेयाख्यमाराध्य बाहुसहस्रमधर्मसेवानिवारणं स्वधर्मसेवित्वं रणे पृथिवीजयं धर्मतश्चानुपालनमारातिभ्योऽपराजयमखिलजगत्प्रख्यातपुरुषाच्च मृत्युमित्येतान्वरानभिलषितवांल्लेभे च ॥ ४,११.१२ ॥ तेनेयमशेषद्वीपवती पृथिवी सम्यक्परीपालिता ॥ ४,११.१३ ॥ दशयज्ञसहस्राण्यसावयजत् ॥ ४,११.१४ ॥ तस्य च श्लोकोऽद्यापि गीयते ॥ ४,११.१५ ॥ न नूनं कार्तवीर्यस्य गातिं यास्यन्ति पार्थिवाः । यज्ञैर्दानैस्तपोभिर्वा प्रश्रयेण श्रुतेन च ॥ ४,११.१६ ॥ अनष्टद्रव्यता च तस्य राज्येऽभवत् ॥ ४,११.१७ ॥ एवं च पञ्चाशीतिवर्षसहस्रण्यव्याहतेरोग्यश्रीबलपराक्रमो राज्यमकरोत् ॥ ४,११.१८ ॥ माहिष्मत्यां दिग्विजयाभ्यागतो स्थापितः ॥ ४,११.१९ ॥ यश्च पञ्चाशीतिवर्शसहस्रोपलक्षणकालावसाने भगवन्नारायणांशेन परशुरामेणोपसंहृतः ॥ ४,११.२० ॥ तस्य च पुत्रशतप्रधानाः पञ्चपुत्रा बभूवुः शुरशूरसेनवृषसेनमधुजयध्वजसंज्ञाः ॥ ४,११.२१ ॥जयध्वजात्तालजङ्घः पुत्रोभवत् ॥ २२ ॥ तालजङ्घस्य तालजङ्घाख्यं पुत्रशतमासीत् ॥ ४,११.२३ ॥ एषां ज्येष्ठे वीतिहोत्रस्तथान्यो भरतः ॥ ४,११.२४ ॥ भरताद्वृषः ॥ ४,११.२५ ॥ वषस्य पुत्रो मधुरभवत् ॥ ४,११.२६ ॥ तस्यापि वृष्णिप्रमुखंपुत्रशतमासीत् ॥ ४,११.२७ ॥ यतो वृष्णिसंज्ञामेतद्गोत्रमवाप ॥ ४,११.२८ ॥ मधुसंज्ञाहेतुश्च मधुरभवत् ॥ ४,११.२९ ॥ यादवाश्च यदुनामोपलक्षणादिति ॥ ४,११.३० ॥ इति श्रीविष्णुमहापुराणे चतुर्थांश एकादशोऽध्यायः (११) _____________________________________________________________ श्रीपराशर उवाच क्रोष्टोस्तु यदुपुत्रस्यात्मजो ध्वजिनीवान् ॥ ४,१२.१ ॥ ततश्च स्वातिः ततो रुशङ्कुः रुशङ्कोश्चित्ररथः ॥ ४,१२.२ ॥ तत्तनयः शशिबिन्दुः चतुर्दशमहारत्नेशश्चक्रवर्त्यभवत् ॥ ४,१२.३ ॥ तस्य च शतसहस्रं पत्नी नामभवत् ॥ ४,१२.४ ॥ दशलक्षसंख्याश्च पुत्राः ॥ ४,१२.५ ॥ तेषां च पृथुश्रवाः पृथुकर्मा पृथुकीर्तिः पृथुयशाः पृथुजयः पृथुदानः षट्पुत्राः प्रधानाः ॥ ४,१२.६ ॥ पृथुश्रवसश्च पुत्रः पृथुतमः ॥ ४,१२.७ ॥ तस्मादुशना यो वाजिमेधानां शतमाजहार ॥ ४,१२.८ ॥ तस्य च शितपुर्नाम पुत्रोऽभवत् ॥ ४,१२.९ ॥ तस्यापि रुक्मकवचस्ततः परवृत् ॥ ४,१२.१० ॥ तस्य परावृतो रुक्मेषुपृथुज्यामघवलितहरितसंज्ञास्तस्य पञ्चात्मजा बभूवुः ॥ ४,१२.११ ॥ तस्माद्यापि ज्यामघस्य श्लोको गीयते ॥ ४,१२.१२ ॥ भार्यावश्यास्तु ये केचिद्भविष्यन्त्यथ वा मृताः । तेषां तु ज्यामघः श्रेष्ठः शैव्यापतिरभून्नृपः ॥ ४,१२.१३ ॥ अपुत्रा तस्य सा पत्नी शैव्या नाम तथाप्यसौ । अपत्यकामोऽपि भयान्नान्यां भार्यामविन्दत ॥ ४,१२.१४ ॥ स त्वेकदा प्रभूतरथतुरगगजसंमर्दातिदारुणे महाहवे युद्ध्यमानःच सकलमेवारिचक्रमजयत् ॥ ४,१२.१५ ॥ तच्चारिचक्रमपास्तपुत्रकलत्रबन्धुबलकोशं स्वमधिष्ठानं परित्यज्य दिशः प्रतिविद्रुतम् ॥ ४,१२.१६ ॥ तस्मिंश्च विद्रुतेतित्रासलोलायतलोचनयुगलं त्राहित्राहि मां तातांब भ्रतरित्याकुलविलापविधुरं स राजकन्यारत्नमद्राक्षीत् ॥ ४,१२.१७ ॥ तद्दर्शनाच्च तस्यामनुरागनुगतान्तरात्मा स नृपोऽचिन्तयत् ॥ ४,१२.१८ ॥ साध्विदं ममापत्यरहितस्य वन्ध्याभर्तुः सांप्रतं विधिनापत्यकारणं कन्यारत्नमुपपादितम् ॥ ४,१२.१९ ॥ तदेतत्समुद्वहामीति ॥ ४,१२.२० ॥ अथ वैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि ॥ ४,१२.२१ ॥ तयैव देव्याशैव्ययाहमनुज्ञातःसमुद्वहामीति ॥ ४,१२.२२ ॥ अथैनां रथमारोप्य स्वनगरमगच्छत् ॥ ४,१२.२३ ॥ विजयिनं च राजानमशेषपौरभृत्वयरिजनामात्यसमेता शैव्या द्रष्टुमधिष्ठनद्वारमागता ॥ ४,१२.२४ ॥ सा चावलोक्य राज्ञः सव्यपार्शववर्त्तिनीं कन्यामीषदुद्भूतामर्षस्फुरदधरपल्लवा राजानमवोचत् ॥ ४,१२.२५ ॥ अतिचपलचित्तात्र स्यन्दने केयमारोपितेति ॥ ४,१२.२६ ॥ असावप्यनालोचितोत्तरवचनोतिभयात्तामाह स्नुषा ममेयमिति ॥ ४,१२.२७ ॥ अथैनं शैव्योवाच ॥ ४,१२.२८ ॥ नाहं प्रसूता पुत्रेण नान्या पत्न्यभवत्तव । स्नुषासंबन्धता ह्योषा कतमेन सुतेन ते ॥ ४,१२.२९ ॥ श्रीपराशर उवाच इत्यात्मेर्ष्याकोपकलुषितवचनमुषितविवेको भयाद्दुरुक्तापरिहारार्थमिदमवनीपतिराह ॥ ४,१२.३० ॥ यस्ते जनिष्यत्यात्मजस्तस्येयमनागतस्यैव भार्या निरूपितेत्याकर्ण्योद्भूतमृदुहासा तथेत्याह ॥ ४,१२.३१ ॥ प्रविवेश च राज्ञा सहाधिष्ठानम् ॥ ४,१२.३२ ॥ अनन्तरं चातिशुद्धलग्नहोरांशकावयवोक्तकृतपुत्रजन्मलाभगुणाद्वयसः परिणाममुपगतापि शैव्या स्वल्पैरेवाहोभिर्गर्भमवाप ॥ ४,१२.३३ ॥ कालेन च कुमारमजीजनत् ॥ ४,१२.३४ ॥ तस्य च विदर्भ इति पिता नाम चक्रे ॥ ४,१२.३५ ॥ स च तां स्नुषामुपयेमे ॥ ४,१२.३६ ॥ तस्यां चासौक्रथकैशिकसंज्ञौ पुत्रावजनयत् ॥ ४,१२.३७ ॥ पुनश्च तृतीयं रोमपादसंज्ञं पुत्रमजीजनद्यो नारदादवाप्तज्ञानवान्भविष्यतीति ॥ ४,१२.३८ ॥ रोमपादाद्बभ्रुः बभ्रोर्धृतिर्ः धृतेः कैशिकः कैशिकस्यापि चेदिः पुत्रोऽभवत्यस्य संततौ चैद्या भूपालाः ॥ ४,१२.३९ ॥ क्रथस्य स्नषापुत्रस्यकुन्तिरभवत् ॥ ४,१२.४० ॥ कुन्तेर्धृष्टिः धृष्टेर्निधृतिः निधृतेर्दशार्हस्ततश्च व्योमः तस्यापि जीमूतः ततश्च विकृतिः ततश्च भीभरथः तस्मान्नवरथः तस्यापि दशरथः ततश्च शकुनिः तत्तनयः करंभिः करंभेर्देवरातोऽभवत् ॥ ४,१२.४१ ॥ तस्माद्देवक्षत्रः तस्यापि मधुः मधोः कुमारवंशः कुमारवंशादनुः अनोः पुरुमित्रः पृथिवीपतिरभवत् ॥ ४,१२.४२ ॥ ततश्चांशुस्तस्माच्च सत्वतः ॥ ४,१२.४३ ॥ सत्वतादेते सात्वताः ॥ ४,१२.४४ ॥ इत्येतां ज्यामघस्य संततिं सम्यक्छ्रद्धासमन्वितः श्रुत्वा पुमान्मैत्रेय स्वपापैः प्रमुच्यते ॥ ४,१२.४५ ॥ इति श्रीविष्णुमाहापुराणे चतुर्थांशे द्वादशोऽध्यायः (१२) _____________________________________________________________ श्रीपराशर उवाच भजनभजमानदिव्यान्धकदेवावृधमहाभोजवृष्णिसंज्ञाःसत्वतस्य पुत्रा बभूवुः ॥ ४,१३.१ ॥ भजमानस्य निमिकृकणवृष्मयस्तथान्ये द्वैमात्राः शतजित्सहस्रजिदयुतजित्संज्ञास्त्रयः ॥ ४,१३.२ ॥ देवावृधस्यापि बभ्रुः पुत्रोऽभवत् ॥ ४,१३.३ ॥ तयो श्चायं श्लोको गीयते ॥ ४,१३.४ ॥ यथैव शृणुमो दू६ आत्संपश्यामस्तथान्तिकात् । बभ्रुः श्रोष्ठो मनुष्याणां देवैर्देवावृधःसमः ॥ ४,१३.५ ॥ पुरुषाः षट्च षष्टिश्च सहस्राणि तथाष्ट ये । तेऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ॥ ४,१३.६ ॥ महाभोजस्त्वतिधर्मात्मा तस्यान्वये भोजाः मृत्ति कावरपुरनिवासिनो मार्तिकावरा बभूवुः ॥ ४,१३.७ ॥ वृष्णे सुमित्रो युधाजिच्च पुत्रावभूताम् ॥ ४,१३.८ ॥ ततश्चानमित्रः तथानमित्रान्निघ्नः ॥ ४,१३.९ ॥ निघ्नस्य प्रसेन सत्राजितौ ॥ ४,१३.१० ॥ तस्य च सत्राजितो भगवानादित्यः सखाभवत् ॥ ४,१३.११ ॥ एकदा त्वंभोनिधितीरसंश्रयः सूर्यं सत्राजित्तुष्टाव तन्मनस्कतया च भास्वानभिष्टूयमानोऽग्रतस्तस्थौ ॥ ४,१३.१२ ॥ ततस्त्वस्पष्टमूर्तिरं चैनमानोक्य सत्राजित्सूर्यमाह ॥ ४,१३.१३ ॥ यथैव व्योम्नि बह्निपिण्डोपमन्त्वामहमपश्यं तथैवाद्याग्रतो गतमप्यत्र भगवता किञ्चिन्न प्रसादीकृतं विशेषमुपलक्षयामीत्येवमुक्ते भगवता सूर्येण निजकण्ठादुन्मुच्य स्यमन्तकं नाम महामणिवरमवतार्यैकान्ते न्यस्तम् ॥ ४,१३.१४ ॥ ततस्तमाताम्रोज्ज्वलं ह्रस्ववपुषमीषदापिङ्गलनयनमादित्यमद्राक्षीत् ॥ ४,१३.१५ ॥ कृतप्रणिपातस्तवादिकं च सत्राजितमाह भगवानादित्यःसहस्रदीधितिः वरमस्मत्तोभिमतं वृणीष्वेति ॥ ४,१३.१६ ॥ स च तदेव मणिरत्नमयाचत ॥ ४,१३.१७ ॥ स चापि तस्मै तद्दत्त्वा दीधितिपतिर्वियति स्वधिष्म्यमारुरोह ॥ ४,१३.१८ ॥ सत्राजितोऽप्यमलमणिरत्नसनाथकण्ठतया सूर्य इव तेजोभिरशेषदिगन्तराण्युद्भासयन् द्वारकां विवेश ॥ ४,१३.१९ ॥ द्वारकावासी जनस्तु तमायान्तमवेक्ष्य भगवन्तमादिपुरुषं पुरुषोत्तममवनिभारावतरणायांशेन मानुषरूपधारिमं प्रणिपत्याह ॥ ४,१३.२० ॥ भगवन् भवन्तं द्रष्ट्रं नूनमयमादित्य आयातीत्युक्तो भगवानुवाच ॥ ४,१३.२१ ॥ भगवान्नायमादित्यः सत्राजितोऽयमादित्यदत्तस्यमन्तकाख्यं महामणिरत्नं बिभ्रदत्रोपयाति ॥ ४,१३.२२ ॥ तदेनं विस्त्रब्धाः पश्यतेत्युक्तास्ते तथैव ददृशुः ॥ ४,१३.२३ ॥ स च तं स्यमन्तकमणिमात्मनिवेशने चक्रे ॥ ४,१३.२४ ॥ प्रतिदिनं तन्मणिरत्नमष्टौ कनकभारान्स्त्रवति ॥ ४,१३.२५ ॥ तत्प्रभावाच्च सकलस्यैव राष्ट्रस्योपसर्गानावृष्टिव्यालाग्नितो यद्दुर्भिक्षादिभयं न भवति ॥ ४,१३.२६ ॥ अच्युतोऽपि तद्दिव्यं रत्नमुग्रसेनस्य भूपतेर्योग्यमेतदिति लिप्सां चक्रे ॥ ४,१३.२७ ॥गोत्रभेदभयाच्छक्तोपि न जहार ॥ २८ ॥ सत्राजिदप्यच्युतो मामेतद्याचयिष्यतीत्यवगम्य रत्नलोभाद्भ्रात्रे प्रसेनाय तद्रत्नमदात् ॥ ४,१३.२९ ॥ तच्च शुचिना ध्रियमाणमशेषमेव सुवर्णस्त्रवादिकं गुणजातमुत्पादयति अन्यथा धारयन्तमेव हन्तीत्यजानन्नसावपि प्रसेनस्तेन कण्ठसक्तेन स्यमन्तकेनाश्वमारुह्याटव्यां मृगयामगच्छत् ॥ ४,१३.३० ॥ तत्र च सिंहाद्वधमवाप ॥ ४,१३.३१ ॥ साश्वं च तं निहत्य सिंहोप्यमलमणिरत्नमास्याग्रेणादांय गन्तुमभ्युद्यतः ऋक्षाधिपतिना जांबवता दृष्टो घातितश्च ॥ ४,१३.३२ ॥ जांबवानप्यमलमणिरत्नमादाय स्वबिलं प्रविवेश ॥ ४,१३.३३ ॥ सुकुमारसंज्ञाय बालकाय च क्रीडनकमकरोत् ॥ ४,१३.३४ ॥ अनागच्छति तस्मिन्प्रसेने कृष्णो मणिरत्नमभिलषितवान्स च प्राप्तनान्नूनमेतदस्य कर्मेत्यखिल एव यदुलोकः परस्परं कर्माकर्ण्याकथयत् ॥ ४,१३.३५ ॥ विदितलोकापवादवृत्तान्तश्च भगवान् सर्वयदुसैन्यपरिवारपरिवृतः प्रसेनाश्वपदवीमनुससार ॥ ४,१३.३६ ॥ ददर्श चाश्वसमवेतं प्रसेनं सिंहेन विनिहतम् ॥ ४,१३.३७ ॥ अखिलजनमध्ये सिंहपददर्शनकृतपरिशुद्धः सिंहपदमनुससार ॥ ४,१३.३८ ॥ ऋक्षपतिनिहतं च सिंहमप्यल्पे भूमिभागे दृष्ट्वा ततश्चतद्रत्नगौरवादृक्षस्यापि पदान्यनुययौ ॥ ४,१३.३९ ॥ गिरितटे च सकलमेव तद्यदुसैन्यमवस्थाप्य तत्पदानुसारी ऋक्षबिलं प्रविवेश ॥ ४,१३.४० ॥ अन्तः प्रविष्टश्च धात्र्याः सुकुमारकमुल्लालयन्त्या वाणीं शुश्राव ॥ ४,१३.४१ ॥ सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः । सुकुमारकमा रोदीस्तव ह्येष स्यमन्तकः ॥ ४,१३.४२ ॥ इत्याकर्ण्योपलब्धस्यमन्तकोन्तःप्रविष्टः कुमारक्रीडनकीकृतं च धात्र्या हस्ते तेजोभिर्जाज्वचल्यमानंस्यमन्तकं ददर्श ॥ ४,१३.४३ ॥ तं च स्यमन्तकाभिलषितचक्षुषमपूर्वपुरुषमागतं समवेक्ष्य धात्री त्राहित्राहीति व्याजहार ॥ ४,१३.४४ ॥ तदार्तरवश्रवणानन्तरं चामर्षूर्णहृदयः स जांबवानाजगाम ॥ ४,१३.४५ ॥ तयोश्च परस्परमुद्धतामर्षयोर्युद्धमकविंशतिदिनान्यभवत् ॥ ४,१३.४६ ॥ ते च यदुसैनिकास्तत्र मप्ताष्टादिनानि तन्निष्क्रान्तिमुदिक्षमाणास्तस्थुः ॥ ४,१३.४७ ॥ अनिष्क्रमणे च मधुरिपुरसाववश्यमत्र बिलेऽत्यन्तं नाशमवाप्तो भविष्यत्यन्यथा तस्य जीवतः कथमेतावन्ति दिनानि शत्रुजये व्याक्षेपो भविष्यतीति कृताध्यवसाया द्वारकामागम्य हतः कृष्ण इति कथयामासुः ॥ ४,१३.४८ ॥ तद्वान्धवाश्च तत्कालोचितमखिलमुत्तरक्रियाकलापं चक्रुः ॥ ४,१३.४९ ॥ ततश्चास्य युद्ध्यमानस्यातिश्रद्धादत्तविशिष्टोपपात्रयुक्तान्नतोयादिना श्रीकृष्णस्य बलप्राणपुष्टचिरभूत् ॥ ४,१३.५० ॥ इतरस्यानुदिनमतिगुरुपुरुषभेद्यमानस्य अतिनिष्ठुरप्रहारपातपीजिताखिलावयवस्य निराहारतया बलहानिरभूत् ॥ ४,१३.५१ ॥ निर्जितश्च भगवता जांबवानप्रणिपत्य व्याजहार ॥ ४,१३.५२ ॥ सुरासुरगन्धर्वयक्षराक्षलसादिभिरप्यखिलैर्भवान्न जेतुं शक्यः किमुतावनिगोचरैरल्पवीर्यैर्नरेर्नरावयवभूतैश्च तिर्यग्योन्यनुसृतिभिः किं पुनरस्मद्विधैरवश्यं भवतास्मत्स्वामिना रामेणेन नारायणस्य सकलजगत्परायणस्यांशेन भगवता भवितव्यमित्युक्तस्तस्मै भगवानखिलावनिभारावतरणार्थमवतरणमाचचक्षे ॥ ४,१३.५३ ॥ प्रीत्यभिव्यञ्जितकरतलस्पर्शनेन चैनमपगतयुद्धखेदं चकार ॥ ४,१३.५४ ॥ स च प्रणिपत्य पुनरप्येनं प्रसाद्य जांबवतीं नाम कन्यां गृहागतायार्घ्यभूतां ग्राहयामास ॥ ४,१३.५५ ॥ स्यमन्तकमणिरत्नमपि प्रणिपत्य तस्मै प्रददौ ॥ ४,१३.५६ ॥ अच्युतोप्यतिप्रणतात्तस्मादग्राह्यमपि तन्मणिरत्नमात्मसंशोधनायजग्राह ॥ ४,१३.५७ ॥ सह जांबवत्या स द्वारकामाजगाम ॥ ४,१३.५८ ॥ भगवदागमनोद्भूतहर्षोत्कर्षस्य द्वारकावासिजनस्य कृष्णवलोकनात्तत्क्षणमेवातिपरिणतवयसोऽपि नवयौवनमिवाभवत् ॥ ४,१३.५९ ॥ दिष्ट्यादिष्ट्येति सकलयादवाः स्त्रियश्च सभाजयामासुः ॥ ४,१३.६० ॥ भगवानपि यथानुभूतमशेषंयादवसमाजे यथावदाच्चक्षे ॥ ४,१३.६१ ॥ स्यमन्तकं च सत्राजिताय दत्त्वा मिथ्याभिशस्तिपरिशुद्धिमवाप ॥ ४,१३.६२ ॥ जांबवतीं चान्तःपुरं निवेशयामास ॥ ४,१३.६३ ॥ सत्राजितोपि मयास्याभूतमलिनमारोपितमिति जातसंत्रासात्स्वसुतां सत्यभामां भगवते भार्यार्थं ददौ ॥ ४,१३.६४ ॥ तां चाक्रूरकृतवर्मशतधन्वप्रमुखा यादवाः प्राग्वरयाम्बभूवुः ॥ ४,१३.६५ ॥ ततस्तत्प्रदानादवज्ञातमेवात्मानं मन्यमानाः सत्राजिते वैरानुबन्धं चक्रुः ॥ ४,१३.६६ ॥ अक्रूरकृतवर्मप्रमुखाश्च शतधन्वानमूचुः ॥ ४,१३.६७ ॥ अयमतीव दुरात्मा सत्राजितो योऽस्माभिर्भवता च प्रार्थितोऽप्यात्मजामस्मान् भवन्तं चाविगणय्य कृष्णाय दत्तवान् ॥ ४,१३.६८ ॥ तदलमनेन जीवता घातयित्वैनं तन्महारत्नं स्यमन्तकाख्यं त्वया किं न गृह्यते वयमभ्युपपत्स्यामो यद्यच्युतस्तवोपरि वैरानुबन्धं करिष्यतीत्येवमुक्तस्तथेत्यसावप्याह ॥ ४,१३.६९ ॥ जतुगृहदग्धानां पाण्डुतनयानां विदितपरमार्थोऽपि भगवान् दुर्योधनप्रयत्नशौथिल्यकरणार्थ पार्थानुकूल्यकरणाय वारणावतं गतः ॥ ४,१३.७० ॥ गते च तस्मिन् सुप्तमेव सत्राजितं शतधन्वा जघान मणिरत्नं चाददात् ॥ ४,१३.७१ ॥ पितृवधामर्षपूर्णा च सत्यभामा शीघ्रं स्यन्दनमारूढा वारणावतं गत्वा भगवतेऽहं प्रतिपादितेत्यक्षान्तिमता शतधन्वनास्मत्पिता व्यापादितः तच्च स्यंमन्तकमणिरत्नमपहृतं यस्यावभासनेनापहृततिमिरं त्रैलोक्यं भविष्यति ॥ ४,१३.७२ ॥ तदीयं त्वदीयापहासना तदालोच्य यदत्र युक्तं तत्क्रियतामिति कृष्णमाह ॥ ४,१३.७३ ॥ तया चैवमुक्ताः परीतुष्टान्तः करणोऽपि कृष्णः सत्यभामाममर्षताम्रनयनः प्राह ॥ ४,१३.७४ ॥ सत्ये ममैवैषापहासना नाहमेतां तस्य दुरात्मनःसहिष्ये ॥ ४,१३.७५ ॥ न ह्यनुल्लङ्घ्य परपादपं तत्कृतनीडाश्रयिणो विहङ्गमा वध्यन्ते तदलममुनास्मत्पुरतः सौकप्रोरितवाक्यपरिकरेणेत्युक्त्वा द्वारकामभ्येत्यै कान्ते बलदेवं वासुदेवः प्राह ॥ ४,१३.७६ ॥ मृगयागतं प्रसेनमटव्यां मृगपतिर्जघान ॥ ४,१३.७७ ॥ सत्राजितोऽप्यधुना शतधन्वना निधनं प्रापितः ॥ ४,१३.७८ ॥ तदुभयविनाशात्तन्मणिरत्नमावाभ्यां सामान्यं भविष्यति ॥ ४,१३.७९ ॥ तदुत्तिष्ठारुह्यतां रथः शतधन्वनिधनायोद्यमं कुर्वित्यभिहितस्तथेति समन्विच्छितवान् ॥ ४,१३.८० ॥ कृतोद्यमौ च तावुभावुपलभ्य शतधन्वा कृतवर्माणमुपेत्य पार्ष्णिपूरमकर्मनिमित्तमचोदयत् ॥ ४,१३.८१ ॥ आह चैनं कृतवर्मा ॥ ४,१३.८२ ॥ नाहं बलदेववासुदेवाभ्यां सह विरोधायालमित्युक्तश्चाक्रूरमचोदयत् ॥ ४,१३.८३ ॥ असावप्याह ॥ ४,१३.८४ ॥ न हि कश्चिद्भगवता पादप्रहारपरिकंपितजगत्त्रयेण सुररिषुवनितावैधव्यकारिणा प्रबलरिपुचक्राप्रतिहतचक्रेण चक्रिणा मदमुदितनयनावलोकनाखिलनिशातनेनातिगुरुवैरिवारणापकर्षणाविकृतमहिमोरुसीरेण सीरिणा च सह सकलजगद्वन्द्यानाममरवराणामपि योद्धुं समर्थः ॥ ४,१३.८५ ॥ किमुताहं तदन्यः शरणमभिलष्यतामित्युक्तः शतधनुराह ॥ ४,१३.८६ ॥ यद्यस्मत्परित्राणासमर्थं भवानात्मनमधिगच्छति तदयमस्मत्तस्तावन्मणिः संगृह्य रक्ष्यतामिति ॥ ४,१३.८७ ॥ एकमुक्तः सोऽप्याह ॥ ४,१३.८८ ॥ यद्यन्त्ययामप्यवस्थायां न कस्मैचिद्भवान् कथयिष्यति तदहमेतं ग्रहीष्यामीति ॥ ४,१३.८९ ॥ तथेत्युक्ते चाक्रूरस्तन्मणिरत्नं जग्राह ॥ ४,१३.९० ॥ शतधनुरप्य तुलवेगां शतयोजनवाहिनींवडवामारुह्यपक्रान्तः ॥ ४,१३.९१ ॥ शैव्यसुग्रीवम्घपुष्पबलाहकाश्वचतुष्टययुक्तरथस्थितौ बलदेववासुदेवै तमनुप्रयातौ ॥ ४,१३.९२ ॥ सा च वडवा शतयोजनप्रमाणमार्गमतीता पुनरपि वाह्यमाना मिथिलावनोद्देशे प्राणानुत्ससर्ज ॥ ४,१३.९३ ॥ शतधनुरपि तां परित्यज्य पदातिरेवाद्रवत् ॥ ४,१३.९४ ॥ कृष्णोपि बलभद्रमाह ॥ ४,१३.९५ ॥ तावदत्र स्यन्दने भवता स्थेयमहमेनमधमाचारं पदातिरेव पदातिमनुगम्य यावद्धातयामि अत्र हि भूभागे दृष्टदोषाःसभया अतो नैतेश्वा भवतेमं भूमिभागमुल्लङ्घनीयाः ॥ ४,१३.९६ ॥ तथेत्युक्त्व बलदेवो रथ एव तस्थौ ॥ ४,१३.९७ ॥ कृष्णोपि द्विक्रोशमात्रं भूमिभागमनुसृत्य दूरस्थितस्यैव चक्रं क्षिप्त्वा शतधनुषः शिरश्चिच्छेद ॥ ४,१३.९८ ॥ तच्छरीरांबरादिषु च बहुप्रकारमन्विच्छन्नपि स्यमन्तकमणिं नावाप पदा तदोपगम्य बलभद्रमाह ॥ ४,१३.९९ ॥ वृथैवास्माभिः शतधनुर्घातितः न प्राप्तमशिलजगत्सारभूतं तन्महारत्नं स्यमन्तकाख्यमित्याकर्ण्योद्भूतकोपो बलदेवो वासुदेवमाह ॥ ४,१३.१०० ॥ धिक्त्वां यस्त्वमेवमर्थलिप्सुरेतच्च ते भ्रातृत्वान्मया क्षान्तं तदयं पन्थाःस्वेच्छया गम्यतां न मे द्वारकया न त्वया न चाशेषबन्धुभिः कार्यमलमलमेभिर्ममाग्रतोऽलीकशपथैरित्याक्षिप्य तत्कथां कथञ्चित्प्रसाद्यमानोपि न तस्थौ ॥ ४,१३.१०१ ॥ स विदेहपुरीं प्रविवेश ॥ ४,१३.१०२ ॥ जनकराजश्चार्घ्यपूर्वकमेनं गृहं प्रवेशयामास ॥ ४,१३.१०३ ॥ स तत्रैव च तस्थौ ॥ ४,१३.१०४ ॥ वासुदेवोऽपि द्वारकामाजगाम ॥ ४,१३.१०५ ॥ यावच्च जनकराजगृहे बलभद्रोऽवतस्थे तावद्धार्तराष्ट्रो दुर्योधनस्तत्सकाशाद्गदाशिक्षामशिक्षयत् ॥ ४,१३.१०६ ॥ वर्षत्रयान्ते च बभ्रूग्रसेनप्रभृतिभिर्यादवैर्न तद्रत्नं कृष्णेनापहृतमिति कृतावगतिभिर्विदेहनगरीं गत्वा बलदेवःसंप्रत्याय्य द्वारकामानीतः ॥ ४,१३.१०७ ॥ अक्रूरोप्युत्तममणिसमुद्भुतसुवर्णेन भगवद्ध्यानपरोऽनवरतं यज्ञानियाज ॥ ४,१३.१०८ ॥ सवनगतौ हि क्षत्रियवैश्यौ निघ्नन्ब्रह्याहा भवतीत्येवंप्रकारं दीक्षाकवचं प्रविष्टड एव तस्थौ ॥ ४,१३.१०९ ॥ द्विषष्टिवर्षाण्येव तन्मणिप्रभावात्तत्रोपसर्गदुर्भिक्षमारिकामरणादिकं नाभूत् ॥ ४,१३.११० ॥ अथाक्रूरपक्षीयैर्भोजैः शत्रुघ्ने सात्वतस्य प्रपौत्रे व्यापादिते भोजैः सहाक्रूरो द्वारकामपहायापक्रान्तः ॥ ४,१३.१११ ॥ तदपक्रान्तिदिनादारभ्य तत्रोपसर्गदुर्भिक्षव्यालानावृष्टिमारिकाद्युपद्रवा बभूवुः ॥ ४,१३.११२ ॥ अथ यादवा बलभद्रोग्रसेनसमवेता मन्त्रममन्त्रयन् ॥ ४,१३.११३ ॥ भगवानुरगारिकेतनः किमिदमेकदैव प्रचुरोपद्रवागमनमेतदालोच्यतामित्युक्तेन्धकनामा यदुवृद्धः प्राह ॥ ४,१३.११४ ॥ अस्याक्रूरस्य पितृश्वफल्को यत्र यत्राभूत्तत्रतत्र दुर्भिक्षमारिकानावृष्ट्यादिकं नाभूत् ॥ ४,१३.११५ ॥ काशीराजस्य विषये त्वनावृष्ट्या च श्वफल्को नीतः ततश्च तत्क्षणाद्देवो ववर्ष ॥ ४,१३.११६ ॥ काशीराजपत्न्याश्च गर्भे कन्यारत्नं पूर्वमासीत् ॥ ४,१३.११७ ॥ सा च कन्या पूर्णेपि प्रसूतिकाले नैव निश्चक्राम ॥ ४,१३.११८ ॥ एवं च तस्य गर्भस्य द्वादशवर्शण्यनिष्क्रामतो ययुः ॥ ४,१३.११९ ॥ काशीराजश्च तामात्मजां गर्भस्थामाह ॥ ४,१३.१२० ॥ पुत्रि कस्मान्न जायसे निष्क्रम्य तामास्यं ते द्रष्टुमिच्छामि एतां च मातरं किमितिचिरं क्लेशयिष्यसीत्युक्ता गर्भस्थैव व्याजहार ॥ ४,१३.१२१ ॥ तात यद्येकैकां गां दिनेदिने ब्राह्मणाय प्रयच्छसि तदहमन्यैस्त्रिभिर्वर्षैरस्माद्गर्भात्ततोऽवश्यं निष्क्रमिष्यामीत्येद्वचनमाकर्ण्य राजा दिनेदिने ब्राह्मणाय गां प्रादात् ॥ ४,१३.१२२ ॥ सापि तावता कालेन जाता ॥ ४,१३.१२३ ॥ ततस्तस्याः पिता गान्दिनीति नाम चकार ॥ ४,१३.१२४ ॥ तां च गान्दिनीं कन्यां श्फलकायोपकारिणे गृहमागतायार्घ्य भूतां प्रादात् ॥ ४,१३.१२५ ॥ तस्यामयमक्रूरः श्वफलकाज्जज्ञे ॥ ४,१३.१२६ ॥ तस्यैवङ्गुणमिथुनादुत्पत्तिः ॥ ४,१३.१२७ ॥ तत्कथमस्मिन्नपक्रान्ते अत्र दुर्भिक्षमारिकाद्युपद्रवा न भविष्यन्ति ॥ ४,१३.१२८ ॥ तदयमात्रानीयतामलमतिगुणवत्यपराधान्वेषणेनेति यदुवृद्धस्यान्धकस्यैतद्वचनमाकर्म्य केशवोग्रसेनबलभद्रपुरोगमैर्यदुभिः कृतापराधतितिक्षुभिरभयं दत्त्वा श्वफलकपुत्रःश्वपुमानीतः ॥ ४,१३.१२९ ॥ तत्र चागतमात्र एव तस्य स्यमन्तकमणेः प्रभावादनावृष्टिमारिकादुर्भिक्षव्यालाद्युपद्रवोपशमा बभूवुः ॥ ४,१३.१३० ॥ कृष्णश्चिन्तयामास ॥ ४,१३.१३१ ॥ स्वल्पमेतत्कारणं यदयं गान्दिन्यां श्वफलकेनाक्रूरो जनितः ॥ ४,१३.१३२ ॥ सुमहांश्चायमनावृष्टिदुर्भिक्षमारिकाद्युपद्रवाप्रतिषेधकारी प्रभावः ॥ ४,१३.१३३ ॥ तन्नृन मस्य सराशे स महामणिः स्यमन्तकाख्यस्तिष्ठति ॥ ४,१३.१३४ ॥ तस्य ह्योवंविधाः प्रभावाः श्रुयन्ते ॥ ४,१३.१३५ ॥ अयमपि च यज्ञादनन्तरमन्यत्क्रत्वन्तरं तस्यानन्तरमन्यद्यज्ञान्तरं चाजस्त्रमविच्छिन्नं यजतीति ॥ ४,१३.१३६ ॥ अनल्पोपादानं चास्यासंशयमत्रऽसौ मणिवरस्तिष्ठितीति कृताध्यवसायोऽन्यत्प्रयोजनमुद्दिश्य सकलयादवसमाजमात्मगृह एवाचीकरत् ॥ ४,१३.१३७ ॥ तत्र चोपविष्टोष्वखिलेषु यदुषु पूर्वं प्रयोजनमुपन्यस्य पर्यवसिते च तस्मिन् प्रसंगान्तरपरिहासकथामक्रूरेण कृत्वा जनार्दनस्तमक्रूरमाह ॥ ४,१३.१३८ ॥ दानपते जानीम एव वय यथा शतधन्वना तदिदमखिलजगत्सारभूतं स्यमन्तकं रत्नं भवतः तदशेषराष्ट्रोपकरकं भवत्सकाशे तिष्ठति तिष्ठतु सर्व एव वयं तत्प्रभावफलभुजः किं त्वेष बलभद्रोऽस्मानाशङ्कितवांश्तदस्मत्प्रीतये दर्शयस्वेत्यभिदाय जोषं स्थिते भगवति वासुदेवे सरत्नःसोचिन्तयत् ॥ ४,१३.१३९ ॥ किमत्रानुष्ठेयमन्यथा चेद्ब्रवीम्यहं तत्केवलांबरतिरोधानमन्विष्यन्तो रत्नमेते द्रक्ष्यन्ति अतिविरोधो न क्षम इति संचिन्त्य तमखिलजगत्कारणभूतं नारायणमाहक्रूरः ॥ ४,१३.१४० ॥ भगवन्ममैतत्स्यमन्तकरत्नं सतधनुषा समर्पितमपगते च तस्मिन्नद्य श्वः परश्वो वा भगवान् याचयिष्यतीति कृतमतिरतिकृच्छ्रेणैतावन्तं कालमधारयम् ॥ ४,१३.१४१ ॥ तस्य च धारणशेक्लेनाहमशेषोपभोगेष्वसंगिमानसो न वेद्भिस्वसुखकलामपि ॥ ४,१३.१४२ ॥ एतावन्मात्रमप्यशेषराष्ट्रोपकारी धारयितुं न शक्नोति भवान्मन्यत इत्यात्मना न चोदितवान् ॥ ४,१३.१४३ ॥ तदीदं स्यमन्तकरत्नं गृह्यतामिच्छया यस्याभिमतं तस्य समर्प्यताम् ॥ ४,१३.१४४ ॥ ततः स्वोदरवस्त्रनिगोपितमतिसघुकनकसमुद्गकगतं प्रकटीकृतवान् ॥ ४,१३.१४५ ॥ ततश्च निष्क्राम्य स्यमन्तकमणिं तस्मिन्यदुकुलसमाजे मुमोच ॥ ४,१३.१४६ ॥ मुक्तमात्रे च तस्मिन्नतिकान्त्या तदखिलमास्थानमुद्योतितम् ॥ ४,१३.१४७ ॥ अथाहाक्रुरः स एष मणिः शतधन्वनास्माकं समर्पितः यस्यायं स एनं गृह्णातु इति ॥ ४,१३.१४८ ॥ तमालोक्यसर्वयादवानां साधुसाध्विति विस्मितमनसां वाचोऽश्रूयन्त ॥ ४,१३.१४९ ॥ तमालोक्यातीव बलभद्रो ममायमच्युतेनैव सामान्यःसमन्विच्छित इति कृतस्पृहोऽभूत् ॥ ४,१३.१५० ॥ ममैवायं पितृधनमित्यतीव च सत्यभामापि स्पृहयाञ्चकार ॥ ४,१३.१५१ ॥ बलसत्यावलोकनात्कृष्णोप्यात्मानं गोचक्रान्तरावस्थितमिवमेने ॥ ४,१३.१५२ ॥ सकलयादवसमक्षं चाक्रूरमाह ॥ ४,१३.१५३ ॥ एतद्धि मणिरत्नमात्मसंसोधनाय एतेषां यदूनां मया दर्शितमेतच्च मम बलभद्रस्य च सामान्यं पितृधनं चैतत्सत्यभामाया नान्यस्यैतत् ॥ ४,१३.१५४ ॥ एतच्च सर्वकालं शुचिना ब्रह्मचर्यादिगुणवता ध्रियमाममशेषराष्ट्रस्योपकारकमशुचिना ध्रयमाणमाधारमेव हन्ति ॥ ४,१३.१५५ ॥ अतोहमस्य षोडशस्त्रीसहस्रपरिग्रहादसमर्थो धारणे कथमेतत्सत्यबामा स्वीकरोति ॥ ४,१३.१५६ ॥ आर्बलभद्रेणापि मदिरापानाद्यशेषोपभोगपरित्यागः कर्यः ॥ ४,१३.१५७ ॥ तदलं यदुलोकोयं बलभद्रः अहं च सत्या च त्वां दानपते प्रार्थयामः ॥ ४,१३.१५८ ॥ तद्भवानेव धारयितुं समर्थः ॥ ४,१३.१५९ ॥ त्वद्धृतं चास्य राष्ट्रस्योपकारकं तद्भवानशेषराष्ट्रनिमित्तमेतत्पूर्ववद्धारयत्वन्यन्न वक्तव्यमित्युक्तो दानपतिस्तथेत्याह जग्राह च तन्महारत्नम् ॥ ४,१३.१६० ॥ ततःप्रभृत्यक्रूरः प्रकटेनैव तेनातिजाज्ज्वल्यम्नेनात्मकण्ठावसक्तेनादित्य इवांशुमाली चचार ॥ ४,१३.१६१ ॥ इत्येतद्भगवतो मिथ्याभिशस्तिक्षालनं यः स्मरति न तस्य कदाचिदल्पापि मिथ्याभिशस्तिर्भवति अव्याहताशिलेन्द्रियश्चाखिलपापमोक्षमवाप्नोति ॥ ४,१३.१६२ ॥ इति श्रीविष्णुमहापुराणे चतुर्थांशे त्रयोदशोऽध्यायः (१३) _____________________________________________________________ श्रीपराशर उवाच अनमित्रस्य पुत्रः शिनिर्नामाभवत् ॥ ४,१४.१ ॥ तस्यापि सत्यकः सत्यकात्सात्यकिर्युयुधानापरनामा ॥ ४,१४.२ ॥ तस्मादपि संजयः तत्पुत्रश्च कुणिः कुणेर्युगन्धरः ॥ ४,१४.३ ॥ इत्येते शैनेयाः ॥ ४,१४.४ ॥ अनमित्रस्यान्वये वृष्णिः तस्मात्श्चफल्कः तत्प्रभावः काथेन एव ॥ ४,१४.५ ॥ श्वफल्कस्यान्यः कनीयांश्चित्रकोनाम भ्राता ॥ ४,१४.६ ॥ श्वफल्कादक्रूरो गान्दिन्यामभवत् ॥ ४,१४.७ ॥ तथोपमद्गः ॥ ४,१४.८ ॥ उपमद्गोर्मृदामृदविश्वारिमेजयगिरिक्षत्रोपक्षत्रशतघ्नारिमर्दनधर्मदृग्दृष्टधर्मगन्धमोजवाहप्रतिवाहाख्याः पुत्राःसुताराख्या कन्या च ॥ ४,१४.९ ॥ देववानुपदेवश्चाक्रूरपुत्रौ ॥ ४,१४.१० ॥ पृथुविवृथुप्रमुखाश्चित्रकस्य पुत्रा बहवो बभूवुः ॥ ४,१४.११ ॥ कुकुरभजमानशुचिकंबलबर्हिषाख्यास्तथान्धकस्य चत्वारः पुत्राः ॥ ४,१४.१२ ॥ कुकुराद्धृष्टः तस्माच्च कपोतरोमा ततश्च विलोमा तस्मादपि तुंबुरसखोऽभवदनुसंज्ञश्च ॥ ४,१४.१३ ॥ अनोरानकदुन्दभिः ततश्चा भिजितभिजितः पुनर्वसुः ॥ ४,१४.१४ ॥ तस्याप्याहुकः आहुकी च कन्या ॥ ४,१४.१५ ॥ आहुकस्य देवकोग्रसेनौ द्वौ पुत्रौ ॥ ४,१४.१६ ॥ देववानुपदेवः सहदेवो देवरक्षिता च देवकस्य चत्वारः पुत्राः ॥ ४,१४.१७ ॥ तेषां वृकदेवोपदेवा देवरक्षिता श्रीदेवा शान्तिदेवा सहदेवा देवकी च सप्तभगिन्यः ॥ ४,१४.१८ ॥ ताश्च सर्वा वसुदेव उपयेमे ॥ ४,१४.१९ ॥ उग्रसेनस्यापि कंसन्यग्रोधसुनामानकाह्वशङ्कुसुभूमिराष्ट्रपालयुद्धतुष्टिसुतुष्टिंमत्संज्ञाः पुत्रा बभूवुः ॥ ४,१४.२० ॥ कंसाकंसवतीसुतनूराष्ट्रपलिकाह्वाश्चोग्रसेनस्य तनूजाः कन्याः ॥ ४,१४.२१ ॥ भजमानाच्च विदूरथः पुत्रोऽभवत् ॥ ४,१४.२२ ॥ विदूरथाच्छूरः शुराच्छमी शमिनः प्रतिक्षत्रः तस्मात्स्वयंभोजः ततश्च हृदिकः ॥ ४,१४.२३ ॥ तस्यापि कृतवर्मशतधनुर्दवार्हदेवगर्भाद्याः पुत्रा बभूवुः ॥ ४,१४.२४ ॥ देवगर्भस्यापि शुरः ॥ ४,१४.२५ ॥ शुरस्यापि मारीषा नाम पत्न्यभवत् ॥ ४,१४.२६ ॥ तस्यां चासौ दशपुत्रानजनयद्वसुदेवरूर्वान् ॥ ४,१४.२७ ॥ वसुदेवस्य जातमात्रस्यैव तद्गृहे भगवदंशावतारमव्याहतदृष्ट्या पश्यद्भिर्देवैर्दिव्यानकदुन्दुभयो वादिताः ॥ ४,१४.२८ ॥ ततश्चसावानकदुन्दुभिसंज्ञामवाप ॥ ४,१४.२९ ॥ तस्य च देवभागदेवश्रवाष्टकककुच्चक्रवत्सधारकसृंजयश्यामशमिकगञ्जूषसंज्ञा नव भ्रतरोऽभवन् ॥ ४,१४.३० ॥ पृथा श्रुतदेवा श्रुत कीर्तिः श्रुतश्रवा राजाधिदेवी च वसुदेदादीनां पञ्च भगिन्योऽभवन् ॥ ४,१४.३१ ॥ शुरस्य कुन्तिर्नाम सखाभवत् ॥ ४,१४.३२ ॥ तस्मै चापुत्राय पृथामात्मजां विधिना शुरो दत्तवान् ॥ ४,१४.३३ ॥ तां च पाण्डुरुवाह ॥ ४,१४.३४ ॥ तस्यां च धर्मानिलेन्द्रैर्युधिष्ठरभीमसेनार्जुनाख्यास्त्रयः पुत्राःसमुत्पादिताः ॥ ४,१४.३५ ॥ पूर्वमेवानूढायाश्च भगवता भास्वता कानीनः कर्णो नाम पुत्रोऽजन्यत ॥ ४,१४.३६ ॥ तस्याश्च सपत्नी माद्री नामाभूत् ॥ ४,१४.३७ ॥ तस्यां च नासत्यदस्त्राभ्यां नकुलसहदेवौ पाण्डोः पुत्रौ जनितौ ॥ ४,१४.३८ ॥ श्रुतदेवां तु वृद्धधर्मा नाम कारूश उवयेमे ॥ ४,१४.३९ ॥ तस्याञ्च च दन्तवक्रो नाम महासुरो जज्ञे ॥ ४,१४.४० ॥ श्रुतकीर्तिमपि केकयराजा उपयेमे ॥ ४,१४.४१ ॥ तस्यां च संतर्दनादयः कैकेयाः पञ्च पुत्रा बभूवुः ॥ ४,१४.४२ ॥ राजाधिदेव्यमावन्त्यौ विन्दानुविन्दौ जज्ञाते ॥ ४,१४.४३ ॥ श्रुतश्रवसमपि चेदिराजो दमघोषनामोपयेमे ॥ ४,१४.४४ ॥ तस्यां च शिशुपालमुत्पादयामास ॥ ४,१४.४५ ॥ स वा पूर्वमप्युदारविक्रमो दैत्यानामादिपुरुषो हिरण्यकशिपुरभवत् ॥ ४,१४.४६ ॥ यश्च भगवता सकललोकगुरुणा नारसिंहेन घातितः ॥ ४,१४.४७ ॥ पुनरपि अक्षयवीर्यशौर्यसंपत्पराक्रमगुणःसमाक्रान्तसकलत्रैलोकेश्वरप्रभावो दशाननो नामाभूत् ॥ ४,१४.४८ ॥ बहुकालोपभुक्तभगवत्सकाशावाप्तशरीरपातोद्भवपुण्यफलो भगवता राघवरूपिणा सोऽपि निधनमुपपादितः ॥ ४,१४.४९ ॥ पुनश्चेदिराजस्य दमघोषस्यात्मजः शिशु पालनामाभवत् ॥ ४,१४.५० ॥ शिशुपालत्वेपि भगवतो भूभारावतारणायावतीर्णांशस्य पुण्डरीकनयनाख्यस्योपरि द्वेषानुबन्धमतितराञ्चकार ॥ ४,१४.५१ ॥ भगवता च स निधनमुपानीतस्तत्रैव परमात्मभूते मनस एकाग्रतया सायुज्यमवाप ॥ ४,१४.५२ ॥ भगवान् यदि प्रसन्नो यथाभिलषितं ददाति तथा अग्रसन्नोपि निघ्नन् दिव्यमनुपमं स्थानं प्रयच्छति ॥ ४,१४.५३ ॥ इति श्रिविष्णुमहापुराणे चतुर्थांशे चतुर्दशोऽध्यायः (१४) _____________________________________________________________ मैत्रेय उवाच हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना । अवाप निहतो भोगानप्राप्यानमरैरपि ॥ ४,१५.१ ॥ न लयं तत्र तेनैव निहतः स कथं पुनः । संप्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥ ४,१५.२ ॥ एतदिच्छाम्यहं श्रोतुं सर्वधर्मभृत्तां वर । कौतूहलपरेणैतत्पृष्टो मे वक्तुमर्हसि ॥ ४,१५.३ ॥ श्रीपराशर उवाच दैत्येश्वरस्य वधायाशिललोकोत्पत्तिस्थितिविनाशकारिणा पूर्वं तनुग्रहणं कुर्वता नृसिंह रूपमाविष्कृतम् ॥ ४,१५.४ ॥ तत्र च हिरण्यकशिपोर्विष्णुरयमित्येतन्न मनस्यभूत् ॥ ४,१५.५ ॥ निरतिशयपुण्यसमुद्भूतमेतत्सत्त्वाजातमिति ॥ ४,१५.६ ॥ रजोद्रेकप्रेरितैकाग्रमतिस्तद्भावनायोगात्ततोवाप्तवधहैतुकीं निरतिशयामेवाखिलत्रैलोक्यकारीणीं दशाननत्वे भोगसंपदमवाप ॥ ४,१५.७ ॥ न तु स तस्मिन्ननादिनिधने परब्रह्मभूते भगवत्यनालंबिनि कृते मनसस्तल्लयमवाप ॥ ४,१५.८ ॥ एवं दशाननत्वेप्यनङ्गपराधीनतया जानकीसमासक्तचेतसा भगवता दाशरथि रूपधारिणा हतस्य तद्रूपदर्शनमेवासीत्नायमच्युत इत्यासक्तिर्विपद्यतोन्तःकरणे मानुषबुद्धिरेव केवलमस्याभूत् ॥ ४,१५.९ ॥ पुनरप्यच्युतविनिपातमात्रफलमखिलभूमण्डलश्लाघ्यचेदिराजकुले जन्म अव्याहतैश्वर्यं शिशुपालत्वेप्यवाप ॥ ४,१५.१० ॥ तत्र त्वखिलानामेव स भगवन्नाम्नां त्वङ्कारकारणमभवत् ॥ ४,१५.११ ॥ ततश्च तत्कालकृतानां तेषामशेषणामेवाच्युतनाम्नामनवरतमनेकजन्मसु वर्धितविद्वेषानुबन्धिचित्तो विनिन्दनसंतर्जनादिषूच्चारणमकरोत् ॥ ४,१५.१२ ॥ तच्च रूपमुत्फुल्लपद्मदलामलाक्षिमत्युज्ज्वलपीतवस्त्रधार्यमलकिरिटकेयूरहारकटकादिशोभितमुदारचतुर्बाहुशङ्खचक्रगदाधरमतिप्ररूढवैरानुभावादटनभोजनस्नानासनशयनादिष्वशेषावस्थान्तरेषु नान्यत्रोपययावस्य चेतसः ॥ ४,१५.१३ ॥ ततस्तमेवाक्रोशेषूच्चारयंस्तमेव हृदयेन धारयन्नात्मवधाय यावद्भगवद्धस्तचक्रांशुमालोज्ज्वालमक्षयतेजःस्वरूपं ब्रह्मभूतमपगतद्वेषादिदोषं भगवन्तमद्राक्षीत् ॥ ४,१५.१४ ॥ तावच्च भगवच्चक्रेणाशु व्यापादितस्तत्स्मरणदग्धाखिलाघसंचयो भगवतान्तमुपनीतस्ततस्मिन्नेव लयमुपययौ ॥ ४,१५.१५ ॥ एतत्तवाखिलंमयाभिहितम् ॥ ४,१५.१६ ॥ अयं हि भगवान् कीर्तितश्च संस्मृतश्च द्वेषानुबन्धेनापि अखिलमुरासुरादिर्दुल्लभं फलं प्रयच्छति किमुत सम्यग्भक्तिमत्मिति ॥ ४,१५.१७ ॥ वसुदेवस्य त्वानकदुन्दुभेः पौरवीरोहिणीमदिराभद्रादेवकीप्रमुखा बह्व्यः पत्न्योऽभवन् ॥ ४,१५.१८ ॥ बलभद्रशठसारणदुर्मदादीन्पुत्रार्त्नोहिण्यानकदुन्दुभिरुत्पादयामास ॥ ४,१५.१९ ॥ बलदेवोपि रेवत्यां विशठोल्मुकौ पुत्रावजनयत् ॥ ४,१५.२० ॥ सार्ष्टिमार्ष्टिशिशुसत्यसत्यधृतिप्रमुखाः सारणात्मजाः ॥ ४,१५.२१ ॥ भद्राश्वभद्रबाहुदुर्दमभूताद्याः रोहिण्याः कुलजाः ॥ ४,१५.२२ ॥ नन्दोपनन्दकृतकाद्य मदिरायास्तनयाः ॥ ४,१५.२३ ॥ भद्रायाश्चोपनिधिगदाद्याः ॥ ४,१५.२४ ॥ वैशाल्यां च कौशिकमेकमेवाजनयत् ॥ ४,१५.२५ ॥ आनकदुन्दुभेर्दवक्यामपि कीर्तिमत्सुषेणोदायुभद्रसेनऋजदासभद्रदेवाख्याः षट्पुत्रा जज्ञिरे ॥ ४,१५.२६ ॥ तांश्च सर्वानेव कंसोघातितवान् ॥ ४,१५.२७ ॥ अनन्तरं च सप्तमं गर्भमर्धरात्रे भगवत्प्रहितायोगनिद्रा रोहिण्या जठरमाकृष्य नीतवती ॥ ४,१५.२८ ॥ कर्षणाच्चासावपि संकर्षणाख्यामगमत् ॥ ४,१५.२९ ॥ ततश्च सकलजगन्महातरुमूलभूतोभूतभविष्यदादिसकलमुरासुरमुनिजनमनसामप्यगोचरोऽब्जभवप्रमुखैरनलमुखैः प्रणम्यावनिभारहरणाय प्रसादितो भगवाननादिमध्यनिधनोदेवकीगर्भमवततार वासुदेवः ॥ ४,१५.३० ॥ तत्प्रसादविवद्धमानोरुमहिमा च योगनिद्रा नन्दगोपपत्न्या यशोदाया गर्भमधितिष्ठितवती ॥ ४,१५.३१ ॥ सुप्रसन्नादित्यचन्द्रादिग्रहमव्यालादिभयं स्वस्थमानसमखिलमेवैतज्जगदपास्ताधर्ममभवत्त्स्मिश्च पुण्डरीकनयने जायमाने ॥ ४,१५.३२ ॥ जातेन च तेनाखिलमेवैतत्सन्मार्गवर्ति जगदक्रियत ॥ ४,१५.३३ ॥ भगवतोप्यत्र मर्त्यलोकेऽवतीर्णस्य षोडशसहस्राण्येकोत्तरशताधिकानि भार्याणाम भवन् ॥ ४,१५.३४ ॥ तासां च रुक्मिणी सत्यभामा जांबवती चारुहासिनीप्रमुखा ह्यष्टौ पत्न्यः प्रधाना बभूचवुः ॥ ४,१५.३५ ॥ तासु चाष्टावयुतानिलक्षं च पुत्राणां भगवानखिलमूर्तिरनादिमानजनयत् ॥ ४,१५.३६ ॥ तेषां च प्रद्युम्नचारुदेष्ण्यसांबादयः त्रयोदश प्रधानाः ॥ ४,१५.३७ ॥ प्रद्युम्नोपि रुक्मिणस्तनयां रुक्मवतीं नामोपयेमे ॥ ४,१५.३८ ॥ तस्यामनिरुद्धो जज्ञे ॥ ४,१५.३९ ॥ अनिरुद्धोऽपि रुक्मिणा एव पौत्रीं सुभद्रां नामो पयेमे ॥ ४,१५.४० ॥ तस्यामस्य वज्रो जज्ञे ॥ ४,१५.४१ ॥ वज्रस्य प्रतिबाहुः तस्यापि सुचारुः ॥ ४,१५.४२ ॥ एवमनेकशतसहस्६ उषसंख्यस्य यदुकुलस्य पुत्रसंख्या वर्षशतैरपि वक्तुं न शक्यते ॥ ४,१५.४३ ॥ यतो हि श्लोकाविमावत्र चरितार्थौ ॥ ४,१५.४४ ॥ तिस्त्रः कोट्यःसहस्राणामष्टाशीति शतानि च । कुमाराणां कृहाचार्याश्चापयोगेषु ये रताः ॥ ४,१५.४५ ॥ संख्यानं यादवानां कः करिष्यति महात्मनाम् । यत्रायुतानामयुतलक्षेणास्ते सदाहुकः ॥ ४,१५.४६ ॥ देवासुरे हता ये तु दैतेयाःसुमहाबलाः । उत्पन्नास्ते मनुष्येषु प्रमाणे च प्रभुत्वे च व्यवस्थितः । निदेशस्थायिनस्तस्य ववृधुःसर्वयादवाः ॥ ४,१५.४९ ॥ इति प्रसूतिं वृष्णीनां यश्र्शृणोति नरः सदा । स सर्वैः पातकैर्मुक्तो विष्णुलोकं प्रपद्यते ॥ ४,१५.५० ॥ इति श्रीविष्णुमहापुराणे चतुर्थांशे पञ्चदशोऽध्यायः (१५) _____________________________________________________________ श्रीपराशर उवाच इत्येष समासतस्ते यदोर्वंशः कथितः ॥ ४,१६.१ ॥ अथ दुर्वसोर्वशमवधारय ॥ ४,१६.२ ॥ दुर्वसोर्वह्निरात्मजः बह्नेर्भार्गः भार्गाद्भानुः ततश्च त्रयीसानुः तस्माच्च करन्दमः तस्यापि मरुत्तः ॥ ४,१६.३ ॥ सोनपत्योभवत् ॥ ४,१६.४ ॥ ततश्च पौरवं दुष्यन्तं पुत्रमकल्पयत् ॥ ४,१६.५ ॥ एवं ययातिशापात्तद्वंशः पौरवमेव वंशं समाश्रितवान् ॥ ४,१६.६ ॥ इति श्रीविष्णुमहापुरामे चुतुर्थांशे षोडशोऽध्यायः (१६) _____________________________________________________________ श्रीपराशर उवाच द्रुह्योस्तु तनयो बभ्रुः ॥ ४,१७.१ ॥ बभ्रोःसेतुः ॥ ४,१७.२ ॥ सेतुपुत्र आरब्धनामा ॥ ४,१७.३ ॥ आरब्धस्यात्मजो गान्धारः गान्धारस्य धर्मः धर्मात्घृतः घृतात्दुर्दमः ततः प्रचेताः ॥ ४,१७.४ ॥ प्रचेतसः पुत्रः शतधर्मः बहुलानां म्लेछानामुदीच्यानामाधिपत्यमकरोत् ॥ ४,१७.५ ॥ इति विष्णुमहापुराणे चतुर्थांशे सप्तदशोऽध्यायः (१७) _____________________________________________________________ श्रीपराशर उवाच ययालेश्चातुर्थपुत्रस्यानोःसभानलचक्षुः परमेषुसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ४,१८.१ ॥सभानलपुत्रः कालानलः ॥ २ ॥ कालानलात्सृंजयः ॥ ४,१८.३ ॥ सृंजयात्पुरञ्जयः ॥ ४,१८.४ ॥ पुरञ्जयाज्जनमेजयः ॥ ४,१८.५ ॥ तस्मान्महाशालः ॥ ४,१८.६ ॥ तस्माच्च महामनाः ॥ ४,१८.७ ॥ तस्मादुशीनरतितीक्षू द्वौ पुत्रावुत्पन्नौ ॥ ४,१८.८ ॥ उशीनरस्यापि शिबिनृगनवकृमि वर्माख्याः पञ्च पुत्रा बभूवुः ॥ ४,१८.९ ॥ पृषदर्भसुवीरकेकयमद्रकाश्चत्वारशिशबिपुत्राः ॥ ४,१८.१० ॥ तितीक्षोरपि रुशद्रथः पुत्रोऽभूत् ॥ ४,१८.११ ॥ तस्यापि हेमः हेमस्यापि सुतपाः सुतपसश्च बलिः ॥ ४,१८.१२ ॥ यस्य क्षेत्रे दीर्घतमसांगवङ्गकलिङ्गसुह्यपैण्ड्राख्यं वालेयं क्षत्रमजन्यत ॥ ४,१८.१३ ॥ तन्नामसंतसतिसंज्ञाश्च पञ्चविषयाः बभूवुः ॥ ४,१८.१४ ॥ अङ्गादनपानस्ततो दिविरथस्तस्माद्धर्मरथः ॥ ४,१८.१५ ॥ ततश्चित्ररथः रोमपादसंज्ञः ॥ ४,१८.१६ ॥ यस्य दशरथो मित्रं जज्ञे ॥ ४,१८.१७ ॥ यस्याजपुत्रो दशरथः शान्तां नाम कन्यामनपत्यस्यदुहितृत्वे युयोज ॥ ४,१८.१८ ॥ रोमपादाच्चतुरङ्गः तस्मात्पृथुलाक्षः ॥ ४,१८.१९ ॥ ततश्चंपः यश्चंपां निवेशायामास ॥ ४,१८.२० ॥ चंपस्य हर्यङ्गो नामात्मजोऽभूत् ॥ ४,१८.२१ ॥ हर्यङ्गाद्भद्ररथः भद्ररथाद्बृहद्रथः बृहद्रथाद्बृहत्कर्मा बृहत्कर्मणश्च वृहद्भानुस्तस्माच्च बृहन्मनाः बृहन्मनसो जयद्रथः ॥ ४,१८.२२ ॥ जयद्रथो ब्रहमक्षत्रान्तरालसंभूत्यां पत्न्यां विजयं नाम पुत्रमजीजनत् ॥ ४,१८.२३ ॥ विजयश्च धृतिं पुत्रमवाप ॥ ४,१८.२४ ॥ तस्यापि धृतव्रतः पुत्रोऽभूत् ॥ ४,१८.२५ ॥ धृतव्रतात्सत्यकर्मा ॥ ४,१८.२६ ॥ सत्यकर्मणस्त्वतिरथः ॥ ४,१८.२७ ॥ यो गङ्गाङ्गतो मञ्जूषागतं पृथापविद्धं कर्णं पुत्रमवाप ॥ ४,१८.२८ ॥ कर्णाद्वृषसेनः इत्येतदन्ता अङ्गवंश्याः ॥ ४,१८.२९ ॥ अतश्च पुरुवंशं श्रोतुमर्हसि ॥ ४,१८.३० ॥ इति श्रीविष्णुमहापुराणे चतुर्थांशेऽष्टादशोऽध्यायः (१८) _____________________________________________________________ श्रीपराशर उवाच पूरोर्जनमेजयस्तस्यापि प्रचिन्वान् प्रचिन्वतः प्रवीरः प्रवीरान्मनस्युर्मनस्योश्चाभयदः तस्यापि सुद्युःसुद्योर्बहुगतः तस्यापि संयातिःसंयातेरहंयातिः ततो रौद्राश्वः ॥ ४,१९.१ ॥ ऋतेषुकक्षेषुस्थण्डिलेषुकृतेषुजलेषुधर्मेधृतेषुस्थलेषुसन्नतेषुनामानो रौद्राश्वस्य दश पुत्रा बभूवुः ॥ ४,१९.२ ॥ ऋतेषोरन्तिनारः पुत्रोऽभूत् ॥ ४,१९.३ ॥ सुमतिमप्रतिरथं ध्रुवं चाप्यन्तिनारः पुत्रानवाप ॥ ४,१९.४ ॥ अप्रतिरषस्य कण्वः पुत्रोऽभूत् ॥ ४,१९.५ ॥ तस्यापि मेधातिथिः ॥ ४,१९.६ ॥ यतः कण्वायना द्विजा बभूवुः ॥ ४,१९.७ ॥ अप्रतिरथस्यापरः पुत्रोऽभूदैलीनः ॥ ४,१९.८ ॥ एलीनस्य दुष्यन्ताद्याश्चत्वारः पुत्रा बभूवुः ॥ ४,१९.९ ॥ दुष्यन्ताच्चक्रवर्ती भरतोऽभूत् ॥ ४,१९.१० ॥ यन्नामहेतुर्देवैः श्लेको गीयते ॥ ४,१९.११ ॥ माता भस्त्र पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुष्यन्तमावमंस्थाः शकुन्तलाम् ॥ ४,१९.१२ ॥ रेतोधाः पुत्रो नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ ४,१९.१३ ॥ भरतस्य पत्नित्रये नव पुत्रा बभूवुः ॥ ४,१९.१४ ॥ नैते ममानुरूपा इत्यभिहितास्तन्मातरः परित्यागभयात्तत्पुत्राञ्जघ्नुः ॥ ४,१९.१५ ॥ ततोस्य वितथे पुत्रजन्मनि पुत्रार्थिनो मरुत्सोमयाजिनो दीर्घतमसः पार्ष्ण्यपास्तद्वृहस्पतिवीर्यादुतथ्यपत्न्यां ममतायां समुत्पन्नो भरद्वाजाख्यः पुत्रो मरुद्भिर्दत्तः ॥ ४,१९.१६ ॥ तस्यापि नामनिर्वचनश्लोकः पठ्यते ॥ ४,१९.१७ ॥ मूढे भर द्वाजमिमं भरद्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥ ४,१९.१७ ॥ भरद्वाजःस तस्य वितथे पुत्रजन्मनि मरुद्भिर्दत्तः ततो वितथसंज्ञामवाप ॥ ४,१९.१९ ॥ वितथस्यापि मन्युः पुत्रोऽभवत् ॥ ४,१९.२० ॥ बृहत्क्षत्रमहावीर्यनगरगर्गा अभवन्मन्युपुत्राः ॥ ४,१९.२१ ॥ नगरस्य संकृतिःसंकृतेर्गुरुप्रीतिरन्तिदेवौ ॥ ४,१९.२२ ॥ गर्गाच्छिनिः ततश्च गार्ग्याः शैन्याः क्षत्रोपेता द्विजातयो बभूवु ॥ ४,१९.२३ ॥ महावीर्याच्च दुरुक्षयो नाम पुत्रोऽभवत् ॥ ४,१९.२४ ॥ तस्य त्रय्यारुणिः पुष्करिणः कपिश्च पुत्रक्षयमभूत् ॥ ४,१९.२५ ॥ तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम् ॥ ४,१९.२६ ॥ बृहत्क्ष६ य सुहोत्रः ॥ ४,१९.२७ ॥ सुहोत्रद्धस्ती य इदं हस्तिनपुरमावासयामास ॥ ४,१९.२८ ॥ अजमीढद्विजमीढास्त्रयो ॥ ४,१९.२९ ॥ अजमीढात्कण्वः ॥ ४,१९.३० ॥ कण्वान्मेधातिथिः ॥ ४,१९.३१ ॥ यतः कण्वायना द्विजाः ॥ ४,१९.३२ ॥ अजमीढस्यान्यः पुत्रो बृहदिषुः ॥ ४,१९.३३ ॥ बृहदिषोर्बृहद्धनुर्बृहद्धनुषश्च बृहत्कर्मा ततश्च जयद्रथस्तस्मादपिविश्वजित् ॥ ४,१९.३४ ॥ ततश्च सेनजित् ॥ ४,१९.३५ ॥ रुचिराश्वकाश्यदृढहनुवत्सनुसंज्ञाःसेनजितः पुत्राः ॥ ४,१९.३६ ॥ रुचिराश्वपुत्रः पृथुसेनः पृथुसेनात्पारः ॥ ४,१९.३७ ॥ पारान्नीलः ॥ ४,१९.३८ ॥ तस्यैकशतं पुत्राणाम् ॥ ४,१९.३९ ॥ तेषां प्रधानः कांपिल्याधिपतिःसमरः ॥ ४,१९.४० ॥ समरस्यापि पारसुपारसदश्वास्त्रयःच पुत्राः ॥ ४,१९.४१ ॥ सुपारात्पृथुः पृथोःसुकृतेर्विभ्राजः ॥ ४,१९.४२ ॥ तस्माच्चाणुहः ॥ ४,१९.४३ ॥ यः शुकदुहितरङ्कीर्ति नामोपयेमे ॥ ४,१९.४४ ॥ अणुहाद्ब्रह्यदत्तः ॥ ४,१९.४५ ॥ ततश्च विष्वक्सेनस्तस्मादुदक्सेनः ॥ ४,१९.४६ ॥ भल्लाभस्तस्य चात्मजः ॥ ४,१९.४७ ॥ द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः ॥ ४,१९.४८ ॥ तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश्च दृढनेमिस्तस्माच्च सुपार्श्वस्ततःसुमतिस्ततश्च सन्नतिमान् ॥ ४,१९.४९ ॥ सन्नतिमतः कृतः पुत्रोऽभूत् ॥ ४,१९.५० ॥ यं हिरण्यनाभो योगमध्यापयामास ॥ ४,१९.५१ ॥ यश्चतुर्विंशतिप्राच्यसामागानां संहिताश्चकार ॥ ४,१९.५२ ॥ कृताच्चोग्रायुधः ॥ ४,१९.५३ ॥ येन प्राचुर्येण नीपक्षयः कृतः ॥ ४,१९.५४ ॥ उग्रायुघात्क्षेम्यः क्षेम्यात्सुधीरस्तस्माद्रिपुञ्जयः तस्माच्च बहुरथैत्येते पौरवाः ॥ ४,१९.५५ ॥ अजमीढस्य नलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्रोऽभवत् ॥ ४,१९.५६ ॥ तस्मादपि शान्तिः शान्तेःसुशान्तिःसुशान्तेः पुरञ्जयः तस्माच्च ऋक्षः ॥ ४,१९.५७ ॥ ततश्च हर्यश्वः ॥ ४,१९.५८ ॥ तस्मान्मुद्गलसृंजयबृहदिषुयवीनरकांपिल्यसंज्ञाः पञ्चानामैव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पाञ्चालाः ॥ ४,१९.५९ ॥ मुद्रलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः ॥ ४,१९.६० ॥ मुद्गलाद्धर्यश्वः ॥ ४,१९.६१ ॥ हर्यश्वाद्दिवोदासोऽहल्या च मिथुनमभूत् ॥ ४,१९.६२ ॥ शरद्वतश्चाहल्यायां शतानन्दोऽभवत् ॥ ४,१९.६३ ॥ शतानन्दात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे ॥ ४,१९.६४ ॥ सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तंबे पपात ॥ ४,१९.६५ ॥ तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत् ॥ ४,१९.६६ ॥ तौ च मृगयामुपयातः शन्तनुर्दृष्ट्वा कृपया जग्राह ॥ ४,१९.६७ ॥ ततः कुन्या चाश्वत्थाम्नो जननी कृपी द्रोणाचार्यस्य पत्न्य भवत् ॥ ४,१९.६८ ॥ दिवोदासस्य पुत्रो मित्रायुः ॥ ४,१९.६९ ॥ मित्रायोश्चयवनो नाम राजा ॥ ४,१९.७० ॥ च्यवनात्सुदासः सुदासात्सौदासः सौदासात्सहदेवस्तस्यापि सोमकः ॥ ४,१९.७१ ॥ सोमकाज्जन्तुः पुत्रशतज्येष्ठोऽभवत् ॥ ४,१९.७२ ॥ तेषां यवीयान् पृषतः पृषताद्द्रुपदस्तस्माच्च धृष्टद्युम्नस्ततोधृष्टकेतुः ॥ ४,१९.७३ ॥जमीढस्यान्यो ऋक्षनामा पुत्रोऽभवत् ॥ ७४ ॥ तस्य संवरणः ॥ ४,१९.७५ ॥ संवरणात्सुरः ॥ ४,१९.७६ ॥ य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार ॥ ४,१९.७७ ॥ सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः बभूवुः ॥ ४,१९.७८ ॥ सुधनुषः पुत्रःसुहो६ तस्माच्च्यवनः च्यवनात्कृतकः ॥ ४,१९.७९ ॥ ततश्चोपरिचरो वसुः ॥ ४,१९.८० ॥ बृहद्रथप्रत्यग्रकुशांबकुचेलमात्स्यप्रमुखाः वसोः पुत्राःसप्ताजायन्त ॥ ४,१९.८१ ॥ वृहद्रथात्कुशाग्रः कुशाग्राद्वृषभः वृषभात्पुष्पवान् तस्मात्सत्यहितः तस्मात्सुधन्वा तस्य च जतुः ॥ ४,१९.८२ ॥ बृंहद्रथाच्चान्यः शकलद्वयजन्मा जरया संधितो जरासंधनामा ॥ ४,१९.८३ ॥ तस्मात्सहदेवःसहदेवात्सोमपस्ततश्च श्रुतिश्रवाः ॥ ४,१९.८४ ॥ इत्येते मया मागधा भूपालाः कथिताः ॥ ४,१९.८५ ॥ इति श्रीविष्णुमहापुराणे चतुर्थांश एकोनविंशोऽध्यायः (१९) _____________________________________________________________ श्रीपराशर उवाच परीक्षितश्च जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चात्वारः पुत्राः ॥ ४,२०.१ ॥ जह्नोस्तु सुरथोनामात्मजो बभूव ॥ ४,२०.२ ॥ तस्यापि विदूरथः ॥ ४,२०.३ ॥ तस्मात्सार्वभोमःसार्वभौमाज्जयत्सेनस्तस्मादाराधितस्ततश्चायुतायुरयुतायोरक्रोधनः ॥ ४,२०.४ ॥ तस्माद्देवातिथिः ॥ ४,२०.५ ॥ ततश्च ऋक्षोऽन्योभवत् ॥ ४,२०.६ ॥ ऋक्षाद्भीमसेनस्ततश्च दिलीपः ॥ ४,२०.७ ॥ दिलीपात्प्रतीपः ॥ ४,२०.८ ॥ तस्यापि देवापिशन्तनुबाह्लीकसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ४,२०.९ ॥ देवापिर्बाल एवारण्यं विवेश ॥ ४,२०.१० ॥ शन्तनुस्तु महीपालोऽभूत् ॥ ४,२०.११ ॥ अयं च तस्य श्लोकः पृथिव्यां गीयते ॥ ४,२०.१२ ॥ यंयं कराभ्यां स्पृशति वीर्णं यौवनमेति सः । शान्तिं चाप्नोति येनाग्र्यां कर्मणा तेन शन्तनुः ॥ ४,२०.१३ ॥ तस्य च शन्तनो हाष्ट्रे द्वादशवर्षाणि देवो न ववर्ष ॥ ४,२०.१४ ॥ ततश्चाशेषराष्ट्रविनाशमवेक्ष्यासौ राजा ब्राह्मणानपृच्छत्कस्मादस्माकं राष्ट्रे देवो न वर्षति को ममापराध इति ॥ ४,२०.१५ ॥ ततश्च तमूचुर्ब्राह्मणाः ॥ ४,२०.१६ ॥ अग्रजस्य ते हीयमवनिस्त्वया संभुज्यते अतः परिवेत्ता त्वमित्युक्तःस राजा पुनस्तानपृच्छत् ॥ ४,२०.१७ ॥ किं मयात्र विधेयमिति ॥ ४,२०.१८ ॥ ततस्ते पुनरप्यूचुः ॥ ४,२०.१९ ॥ यावद्देवापिर्न पतनादिभिर्देषैरभिभूयते तावदेतत्तस्यार्हं राज्यम् ॥ ४,२०.२० ॥ तदलमेतेन तु तस्मैदीयतामित्युक्ते तस्यं मन्त्रिप्रवरेणाश्मराविणा तत्रारण्ये तपस्विनो वेदवादविरोधवक्तारः प्रयुक्ताः ॥ ४,२०.२१ ॥ तैरस्याप्यतिऋजुमतेर्महीपतिपुत्रस्य बुद्धिर्वेदवादविरोधमार्गानुसारिण्यक्रियत ॥ ४,२०.२२ ॥ राजा च शन्तनुर्द्विजवचनोत्पन्नपरिदेवनशोकस्तान् ब्राह्मणानग्रतः कृत्वाग्रजस्य प्रदानायारण्यं जगाम ॥ ४,२०.२३ ॥ तदाश्रममुपगताश्च तमवनतमवनीपतिपुत्रं देवापिमुपतस्थुः ॥ ४,२०.२४ ॥ ते ब्राह्मणा वेदवादानुबन्धीनि वचांसि राज्यमग्रजेन कर्तव्यमित्यर्थवन्ति तमूचुः ॥ ४,२०.२५ ॥ असावपि देवापिर्वेदवादविरोधयुक्तिदूषितमनेकप्रकारं तानाह ॥ ४,२०.२६ ॥ ततस्ते ब्राह्मणाः शन्तनुमूचुः ॥ ४,२०.२७ ॥ आगच्छ हे राजन्नलमत्रातिनिर्बधेन प्रशान्त एवासावना वृष्टिदोषः पतितोयमनादिकालमभिहितवेदवचनदूषणोच्चरणात् ॥ ४,२०.२८ ॥ पतिते चाग्रजे नैव ते परिवेतृत्वं भवतीत्युक्तः शन्तनुःस्वपुरमागम्य राज्यमकरोत् ॥ ४,२०.२९ ॥ वेदवादविरोधवचनोच्चारणदूषिते च तस्मिन्देवापौ तिष्ठत्यपि ज्येष्ठभ्रातर्यखिलसस्यनिष्पत्तये ववर्ष भगवान्पर्जन्यः ॥ ४,२०.३० ॥ बाह्लीकात्सोमदत्तः पुत्रोऽभूत् ॥ ४,२०.३१ ॥ सोमदत्तस्यापि भूरिभूरिश्रवशल्यसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ४,२०.३२ ॥ शन्तनोरप्यमरनद्यां जाह्नव्यामुदारकीर्तिरशेषशास्त्रर्थविद्भीष्मः पुत्रोऽभूत् ॥ ४,२०.३३ ॥ सत्यवत्यां च चित्राङ्गदविचित्रवीर्यौ द्वौ पुत्रावुत्पादयामास शन्तनुः ॥ ४,२०.३४ ॥ चित्राङ्गदस्तु बाल एव चित्राङ्गदेनैव गन्धर्वोणाहवे निहतः ॥ ४,२०.३५ ॥ विचित्रवीर्योऽपि काशीराजतनये अंबांवालिके उपयेमे ॥ ४,२०.३६ ॥ तदुपभोगातिखेदाच्च यक्ष्मणा गृहीतः स पञ्चत्वमगमत् ॥ ४,२०.३७ ॥ सत्यवतीनियोगाच्च मत्पुत्रः कृष्णद्वैपायनो मातुर्वचनमनतिक्रमणीयमिति कृत्वा विचित्रवीर्यक्षेत्रे धृतराष्ट्रपाण्डुतत्प्रहितभुजिष्यायां विदुरं चोत्पादयामास ॥ ४,२०.३८ ॥ धतराष्ट्रोपि गान्धार्यां दुर्योधनदुः शासनप्रधानं पुत्रशतमुत्पादयामास ॥ ४,२०.३९ ॥ पाण्ढोरप्यरण्ये मृगयायामृषिशापोपहतप्रजाजननसामर्थ्यस्य धर्मवायुशक्रैर्युधिष्ठिरभीमसेनार्जुनाः कुन्त्यां नकुलसहदेवौ चाश्विभ्यां माद्रयां पञ्चपुत्राःसमुत्पादिताः ॥ ४,२०.४० ॥ तेषां च द्रौपद्यां पञ्चैव बभूवुः ॥ ४,२०.४१ ॥ युधिष्ठिरात्प्रतिविन्ध्यः भीमसेनाच्छुतसेनः श्रुतकीर्तिरर्जुनाच्छुतानीको नकुलाच्छुतकर्मा सहदेवात् ॥ ४,२०.४२ ॥ काशी च भीमसेनादेव सर्वगं सुतमवाप ॥ ४,२०.४३ ॥ यौधेयी युधिष्छिराद्देवकं पुत्रमवाप ॥ ४,२०.४४ ॥ हिडिंबा घटोत्कचं भीमसेनात्पुत्रं लेभे ॥ ४,२०.४५ ॥ काशी च भीमसेनादेव सर्वगं सुतमवाप ॥ ४,२०.४६ ॥ सहदेवाच्च विजयी कुहोत्रं पुत्रमवाप ॥ ४,२०.४७ ॥ रेणुमत्यां च नकुलोपि निरमित्रमजीजनत् ॥ ४,२०.४८ ॥ अर्जुनस्याप्युलूप्यां नागकन्यायामिरावान्नाम पुत्रोऽभवत् ॥ ४,२०.४९ ॥ मणीपुरपतिपुत्र्यां पुत्रिकाधर्मेण बब्रुवाहनं नाम पुत्रमर्जुनोऽजनयत् ॥ ४,२०.५० ॥ सुभद्रायां चार्भकत्वेपि योसावतिबलपराक्रमःसमस्तारातिरथजेता सोऽभिमन्युरजायत ॥ ४,२०.५१ ॥ अभिमन्योरुत्तरायां परिक्षीणेषु कुरुष्वश्वत्थामप्रयुक्तब्रह्मस्त्रेण गर्भ एव भस्मीकृतो भगवतःसकलसुरासुरवन्दितचरणयुगलस्यात्मेच्छया कारममानुषरूपधारीणोनुभावात्पुनर्जीवितमवाप्य परीक्षिज्जज्ञे ॥ ४,२०.५२ ॥ योऽयं सांप्रतमेदद्भूमण्डलमखण्डितायतिधर्मेण पालयतीति ॥ ४,२०.५३ ॥ इति श्रीविष्णुमहापुराणे चतुर्थांशे विंशोऽध्यायः (२० ) _____________________________________________________________ श्रीपराशर उवाच अतः परं भविष्यानहं भूपालान्कीर्तयिष्यामि ॥ ४,२१.१ ॥ योऽयं सांप्रतमवनीपतिः परीक्षित्तस्यापि जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चत्वारः पुत्रा भविष्यन्ति ॥ ४,२१.२ ॥ जनमेजयस्यापि शतानीको भविष्यति ॥ ४,२१.३ ॥ योऽसौ याज्ञवल्क्याद्वेदमधीत्य कृपादस्त्राम्यवाप्य विषमविषयविरक्तचित्तवृत्तिश्च शौनकोपदेशादात्मज्ञानप्रवीणः परं निर्वाणमवाप्स्यति ॥ ४,२१.४ ॥ शतानीकादश्वमेधदत्तो भविता ॥ ४,२१.५ ॥ तस्मादप्यचधिसीमकृष्णः ॥ ४,२१.६ ॥ अधिसीमकृष्णान्निचक्नुः ॥ ४,२१.७ ॥ यो गङ्गयापहृते हस्तिनपुरे कौशांब्यां निवत्स्यति ॥ ४,२१.८ ॥ तस्या प्युष्मः पुत्रो भविता ॥ ४,२१.९ ॥ उष्णाद्विचित्ररथः ॥ ४,२१.१० ॥ ततः शुचिरथः ॥ ४,२१.११ ॥ तस्माद्वृष्णिमांस्ततःसुषेणस्तस्यापि सुनीथःसुनीथान्नृपचक्षुस्तस्मादपि सुखिबलस्तस्य च पारिप्लवस्ततश्च सुनयस्तस्यापि मेधावी ॥ ४,२१.१२ ॥ मेधाविनो रिपुञ्जयस्ततोर्वस्तस्माच्च तिग्मस्तस्माद्बृहद्रथः बृहद्रथाद्वसुदासः ॥ ४,२१.१३ ॥ ततोऽपरः शतनीकः ॥ ४,२१.१४ ॥ तस्माच्चोदयन उदयनाद्विहीनरस्ततश्चदण्डपाणिस्ततो निमित्तः ॥ ४,२१.१५ ॥ तस्माच्च क्षेमकः ॥ ४,२१.१६ ॥ अत्रायं श्लोकः ॥ ४,२१.१७ ॥ ब्रह्मक्षत्रस्य यो यो निर्वंशो देवर्षिसत्कृतः । क्षेमकं प्राप्य राजानं संस्थानं प्राप्यते कलौ ॥ ४,२१.१८ ॥ इति श्रीविष्णुमहापुराणे चतुर्थांश एवविंशोऽध्यायः (२१) _____________________________________________________________ श्रीपराशर उवाच अतश्चेक्ष्वाकवो भविष्याः पार्थिवाः कथ्यन्ते ॥ ४,२२.१ ॥ बृहद्बलस्य पुत्रो बृहत्क्षणः ॥ ४,२२.२ ॥ तस्मादुरुक्षयस्तस्माच्च वत्सव्यूहस्ततश्च प्रतिव्योमस्तस्मादपि दिवारकः ॥ ४,२२.३ ॥ तस्मात्सहदेवः सहदेवाद्बृहदश्वस्तत्सूनुर्भानुरथस्तस्य चज प्रतीताश्वस्तस्यापि सुप्रतीकस्ततश्च मरुदेवस्ततः सुनक्षत्रस्तमात्किन्नरः ॥ ४,२२.४ ॥ किन्नरादन्तरिक्षस्तस्मात्सुपर्णस्ततश्चामित्रजित् ॥ ४,२२.५ ॥ ततश्च बृहद्भाजस्तस्यापि धर्मी धर्मीणः कृतञ्जयः ॥ ४,२२.६ ॥ कृतञ्जयाद्रणञ्जयः ॥ ४,२२.७ ॥ रणञ्जयात्संजयस्तस्माच्छाक्यश्छाक्याच्छुद्धोदनस्तस्माद्राहुलस्ततः प्रसेनजित् ॥ ४,२२.८ ॥ ततश्च क्षुद्रकस्ततश्चज कुण्डकस्तस्मादपि सुरथः ॥ ४,२२.९ ॥ तत्पुत्रश्च सुमित्रः ॥ ४,२२.१० ॥ इत्येते चेक्ष्वाकवो बृहद्बलान्वयाः ॥ ४,२२.११ ॥ अत्रानुवंशश्लोकः ॥ ४,२२.१२ ॥ इक्ष्वाकूणामयं वंशःसुमित्रान्तो भविष्यति । यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ ४,२२.१३ ॥ इति श्रीमहाविष्णुपुराणे चुतुर्थांशे द्वाविंशोऽध्यायः (२२) _____________________________________________________________ श्रीपराशर उवाच मागधानां बार्हद्रथानां भाविनामनुक्रमं कथयिष्यामि ॥ ४,२३.१ ॥ अत्र हि वंशे महाबलपराक्रमा जरांसंधप्रधाना बभूवुः ॥ ४,२३.२ ॥ जरासंधस्य पुत्रः सहदेवः ॥ ४,२३.३ ॥ सहदेवात्सोमापिस्तस्यानुश्रुतश्रवास्तस्याप्ययुतायुस्ततश्च निरमित्रस्तत्तनयःसुनेत्रस्तस्मादपि बृहत्कर्मा ॥ ४,२३.४ ॥ ततश्च सेनजित्ततश्च श्रुतञ्जयस्ततो विप्रस्तस्य च पुत्रः शुचिनामा भविष्यति ॥ ४,२३.५ ॥ तस्यापि क्षेम्यस्ततश्च सुव्रतःसुव्रताद्धर्मस्ततःसुश्रवा ॥ ४,२३.६ ॥ ततो दृढसेनः ॥ ४,२३.७ ॥ तस्मात्सुबलः ॥ ४,२३.८ ॥ सुबलात्सुनीतो भविता ॥ ४,२३.९ ॥ ततःसत्यजित् ॥ ४,२३.१० ॥ तस्माद्विश्वजित् ॥ ४,२३.११ ॥ तस्यापि रिपुञ्जयः ॥ ४,२३.१२ ॥ इत्येते बार्हद्रथा भूपतयो वर्षसहस्रमेकं भविष्यन्ति ॥ ४,२३.१३ ॥ इति श्रीविष्णुमहापुराणे चतुर्थांशे त्रयोविंशोऽध्यायः (२३) _____________________________________________________________ श्रीपराशर उवाच योऽयं रिपुञ्जयो नाम बार्हद्रथोन्त्यः तस्यामात्यो मुनिको नाम भविष्यति ॥ ४,२४.१ ॥ स चैनं स्वामिनं हत्वा स्वुपुत्रं प्रद्योतनामानमभिषेक्ष्यति ॥ ४,२४.२ ॥ तस्यापि बलाकनामा पुत्रो भविता ॥ ४,२४.३ ॥ ततश्च विशाखुयूपः ॥ ४,२४.४ ॥ तत्पुत्रो जनकः ॥ ४,२४.५ ॥ तस्य च नन्दिवर्धनः ॥ ४,२४.६ ॥ ततो नन्दी ॥ ४,२४.७ ॥ इत्येतेष्टित्रिंशदुत्तरमष्टशतं पञ्च प्रद्योताः पृथिवीं भोक्ष्यन्ति ॥ ४,२४.८ ॥ ततश्च शिशुनाभः ॥ ४,२४.९ ॥ तत्पुत्रः काकवर्णो भविता ॥ ४,२४.१० ॥ तस्य च पुत्रः क्षेमधर्मा ॥ ४,२४.११ ॥ तस्यापि क्षतौजाः ॥ ४,२४.१२ ॥ तत्पुत्रो विधिसारः ॥ ४,२४.१३ ॥ ततश्चाजातशत्रुः ॥ ४,२४.१४ ॥ तस्मादर्भकः ॥ ४,२४.१५ ॥ तस्माच्चोदयनः ॥ ४,२४.१६ ॥ तस्मादपिनन्दिवर्धनः ॥ ४,२४.१७ ॥ ततो महानन्दी ॥ ४,२४.१८ ॥ इत्येते शैशनाभा भूपालास्त्रीणि वर्षशतानि द्विषष्ट्यधिकानि भविष्यन्ति ॥ ४,२४.१९ ॥ महानन्दि नस्ततः शूद्रगर्भोद्भवोतिलुब्धोतिबलो महापद्मनामा नन्दः परशुराम इवारपोऽखिलक्षत्रान्तकरी भविष्यति ॥ ४,२४.२० ॥ ततः प्रभृति शुद्रा भूपाला भविष्यन्ति ॥ ४,२४.२१ ॥ स चैकच्छत्रामनुल्लङ्घितशासनो महापद्मः पृथिवीं भोक्ष्यते ॥ ४,२४.२२ ॥ तस्याप्यष्टौ सुताःसुमाल्याद्य भवितारः ॥ ४,२४.२३ ॥ तस्य महापद्मस्यानुपृथिवीं भोक्ष्यन्ति ॥ ४,२४.२४ ॥ महापद्मपुत्राश्चकं वर्षशतमवनीपतयो भविष्यन्ति ॥ ४,२४.२५ ॥ ततश्च नवचैतान्नन्दान् कौटिल्यो ब्राह्मणःसमुद्धरिष्यति ॥ ४,२४.२६ ॥ तेषामभावे मौर्व्याः पृथिवीं भोक्ष्यन्ति ॥ ४,२४.२७ ॥ कौटिल्य एव चन्द्रगुप्तसुत्पन्नं राज्येऽभिषेक्ष्यति ॥ ४,२४.२८ ॥ तस्यापि पुत्रो बिन्दुसारो भविष्यति ॥ ४,२४.२९ ॥ तस्याप्यशोकवर्धनस्ततःसुयशास्ततश्च दशरथस्ततश्च संयुतस्ततः शलिशुकस्तस्मात्सोमशर्मा तस्यापि सोमशर्ममः शतधन्वा ॥ ४,२४.३० ॥ तस्यानुबृहद्रथनामा भविता ॥ ४,२४.३१ ॥ एवमेते मौर्या दश भूप तयो भविष्यन्ति अब्दशतं सप्तत्रिंशदुत्तरम् ॥ ४,२४.३२ ॥ तेषामन्ते पृथिवीं दश शुङ्गा भोक्ष्यन्ति ॥ ४,२४.३३ ॥ पुषयमीत्रःसेनापतिःस्वामिनं हत्वा राज्यं करिष्यति तस्यात्मजोऽग्निमित्रः ॥ ४,२४.३४ ॥ तस्मात्सुज्योष्ठस्ततो वसुमित्रस्तस्मादप्युदङ्कस्ततः पुलिन्दकस्ततो घोषवसुस्कस्मादपि बज्रमित्रस्ततो भगवतः ॥ ४,२४.३५ ॥ तस्माद्देवभूतिः ॥ ४,२४.३६ ॥ इत्येते शुङ्गा द्वादशोत्तरं वर्षशतं पृथिवीं भोक्ष्यन्ति ॥ ४,२४.३७ ॥ ततः कण्वानेषाभूर्यास्यति ॥ ४,२४.३८ ॥ देवभूतिं तु शुङ्गराजानं व्यसनिनं तस्यैवामात्यः कण्वो वसुदेवनामा तं निहत्य स्वयमवनीं भोक्ष्यति ॥ ४,२४.३९ ॥ तस्य पुत्रो भूमित्रस्तस्यापि नारायणः ॥ ४,२४.४० ॥ नारायणात्मजःसुशर्मा ॥ ४,२४.४१ ॥ एते काम्वायनाश्चत्वारः पञ्चचत्वारीशदूर्षाणि भूपतयो भविष्यन्ति ॥ ४,२४.४२ ॥ सुशर्माणं तु काण्वं तद्भूत्यो बलिपुच्छकनामा हत्वान्द्रजातीयो वसुधां भोक्ष्यति ॥ ४,२४.४३ ॥ ततश्च कृष्णनामा तद्भ्राता पृथिवीपतिर्भविष्यति ॥ ४,२४.४४ ॥ तस्यापि पुत्रः शान्तकर्णिस्तस्यापि पूर्मोत्संगस्तत्पुत्रः शतकर्मिस्तस्माच्च लम्बोदरस्तस्माच्च पिलकस्ततो मेघस्वाति स्ततः पटुमान् ॥ ४,२४.४५ ॥ ततश्चारिष्टकर्मा ततो हालाहलः ॥ ४,२४.४६ ॥ हालाहलात्पललकस्ततः पुलिन्दसेनस्ततः सुंदरस्ततःसातकर्णिः शिवस्वातिस्ततश्च गोमतिपुत्रस्तत्पुत्रोऽलिमान् ॥ ४,२४.४७ ॥ तस्यापि शान्तकर्णिस्ततः शिविश्रितस्तश्च शिवस्कन्धस्तस्मादपि यज्ञश्रीस्ततो द्विय५ तस्माच्चन्द्रश्रीः ॥ ४,२४.४८ ॥ तस्मात्पुलोमापिहि ॥ ४,२४.४९ ॥ एवमेवे त्रिंशच्चत्वार्यब्दशतानि षट्पञ्चाशदधिकानि पृथिवीं भोक्ष्यन्ति ॥ ४,२४.५० ॥ आन्ध्रभृत्यास्तप्ताभीरप्रभृतयो दशगर्दभिनश्च भूभुजो भविष्यन्ति ॥ ४,२४.५१ ॥ ततःषोडश भूपतयो भवितारः ॥ ४,२४.५२ ॥ ततश्चाष्टौ यवनाश्चतुर्दश तुरुष्कारा मुण्डाश्च ६ ओदश येकादश मौना एते वै पृथुवीपतयः पृथिवर्षशातानि नवत्यधिकानि भोक्ष्यन्ति ॥ ४,२४.५३ ॥ ततश्च मौना एकादश भूपतयोऽब्दशातानि त्रीणि पृथिवीं भोभ्यन्ति ॥ ४,२४.५४ ॥ तेषूत्सन्नोषु कैंकिला यवना बूपतयो भविष्यन्त्यमूर्धाभिषिक्ताः ॥ ४,२४.५५ ॥ तेषामपत्यं विन्ध्यशक्तिस्ततः पुंरजयस्तस्माद्रामचन्द्रस्तस्मार्मवर्मा ततो वङ्गस्ततोभून्नन्दनस्ततःसुनन्दी तद्भाता नन्दीयशाः शुक्रः प्रवीर एते वर्षशतं षड्वर्षाणि भूपतयो विष्यन्ति ॥ ४,२४.५६ ॥ ततस्तत्पुत्रास्त्रयोदशौते बाह्लिकाश्च त्रयः ॥ ४,२४.५७ ॥ ततः पुष्पमित्राः पटुमियत्रास्त्रयोदसैकलाश्च सप्तान्ध्राः ॥ ४,२४.५८ ॥ ततश्च कोसलायां तु नव चैव भूपतयो भविष्यन्ति ॥ ४,२४.५९ ॥ नैषधास्तु त एव ॥ ४,२४.६० ॥ मगधायां तु विश्वस्फटिक संज्ञोऽन्यान्वर्णान्करिष्यति ॥ ४,२४.६१ ॥ कैवर्तबटुपुलिन्दब्राह्मणान्राज्ये स्थपयिष्यति ॥ ४,२४.६२ ॥ उत्साद्याखिलक्षत्रजातिं नव नागाः पद्मवत्यां नाम पुर्यामनुगङ्गाप्रयागं गया द्गुप्तांश्च मागधा भोक्ष्यन्ति ॥ ४,२४.६३ ॥ कोशलान्ध्रपुण्ड्रताम्रलिप्तसमतटपुरीं च देवरक्षितो रक्षिता ॥ ४,२४.६४ ॥ कलिङ्गमाहिषमहेन्द्रभौमान् गुहा भोक्ष्यन्ति ॥ ४,२४.६५ ॥ नैषनैमिषककालकोशकाञ्जनपदान्मणिधान्यकवंशा भोक्ष्यन्ति ॥ ४,२४.६६ ॥ त्रैराज्यमुषिकजनपदान्कनकाह्वयचो भोक्ष्यति ॥ ४,२४.६७ ॥ सौराष्ट्रावन्त्यशुद्राभीरान्नर्मदामरुभूविषयांश्च व्रात्यद्विजाभीरशूद्राद्या भोक्ष्यन्ति ॥ ४,२४.६८ ॥ सिंधुतटदाविकोर्वीचन्द्र भागाकाश्मीरविषयांश्चव्रात्याधर्मरुचयः स्त्रीबालगोवधकर्तारः परस्वादानरुचयोल्पसारास्तमिस्त्रप्राया उदितास्तमितप्राया अल्पायुषो महेच्छा ह्यल्पधर्मा लुब्धाश्च भविष्यन्ति ॥ ४,२४.६९ ॥ एते च तुल्यकालाःसर्वे पृथिव्यां भूभुजो भविष्यन्ति ॥ ४,२४.७० ॥ अल्पप्रसादा बृहत्कोपाःसार्वकाल मनृताधर्मरुचयः स्त्रीबालगोवधकर्तारः परस्वादानरुचयोल्पसारास्तमिस्त्रप्राया उदितास्तमितप्राया अल्पायुषो महेच्छा ह्यल्पधर्मा लुब्धाश्च भविष्यन्ति ॥ ४,२४.७१ ॥ तैश्च विमिश्रा नजपदास्तच्छीलानुवर्तिनो राजाश्रयशुष्मिणो म्लेच्छाचाराश्च विपर्ययेण वर्तमानाः प्रजाः क्षपयिष्यन्ति ॥ ४,२४.७२ ॥ ततश्चानुदिनमल्पाल्पह्रासव्यवच्छेदाद्धर्मार्थयोर्जगतःसंक्षयो भविष्यति ॥ ४,२४.७३ ॥ ततश्चार्थ एवाभिजनहेतुः ॥ ४,२४.७४ ॥ बलमेवाशेषधर्महेतुः ॥ ४,२४.७५ ॥ अभिरुचिरेव दांपत्यसंबन्धहेतुः ॥ ४,२४.७६ ॥ स्त्रीत्वमेवोपभोगहेतुः ॥ ४,२४.७७ ॥ अनृतमेव व्यवहारजयहेतुः ॥ ४,२४.७८ ॥ उन्नतांबुतैव पृथिवीहेतु ॥ ४,२४.७९ ॥ ब्रह्मसूत्रमेव विप्रत्वहेतुः ॥ ४,२४.८० ॥ रत्नधातुतैव श्लाघ्यताहेतुः ॥ ४,२४.८१ ॥ लिङ्गधाराणमेवाश्रमहेतुः ॥ ४,२४.८२ ॥ अन्यायमेव वृत्तिहेतुः ॥ ४,२४.८३ ॥ दौर्बल्यमेवावृत्तिहेतुः ॥ ४,२४.८४ ॥ अभयप्रगल्भोच्चारणमेव पाण्डित्यहेतुः ॥ ४,२४.८५ ॥ अनाढ्यतैव साधुत्वहेतुः ॥ ४,२४.८६ ॥ स्त्रानमेव प्रसाधनहेतुः ॥ ४,२४.८७ ॥ दानमेव धर्महेतुः ॥ ४,२४.८८ ॥ स्वीकरणमेव विवाहहेतुः ॥ ४,२४.८९ ॥ सद्वेषधार्येव पात्रम् ॥ ४,२४.९० ॥ दूरायतननोदकमेव तीर्थहेतुः ॥ ४,२४.९१ ॥ कपटवेषधारणमेव महत्त्वहेतुः ॥ ४,२४.९२ ॥ इत्येवमनेकदोषोत्तरे तु भूमण्डले सर्वावर्णेष्वेव योयो बलवान्सस भूपतिर्भविष्यति ॥ ४,२४.९३ ॥ एवं चातिलुब्धकराजासहाः शोलानामन्तरद्रोणीः प्रजाःसंश्रयिष्यन्ति ॥ ४,२४.९४ ॥ मधुशाकमूलफलपत्रपुष्पाद्याहाराश्च भविष्यन्ति ॥ ४,२४.९५ ॥ तरुवल्कलपर्णचीरप्रावरणाश्चातिबहुप्रजाः शीतवातातपवर्षसहाश्च भविष्यन्ति ॥ ४,२४.९६ ॥ न च कश्चित्त्रयोविंशतिवर्षाणि जीविष्यति अनवरतं चात्र कलियुगे भयमायात्यखिल एवैष जनः ॥ ४,२४.९७ ॥ श्रौतस्मार्ते च धर्मे विप्लवमत्यन्तमुपगते क्षीणप्राये च कलावशेषजगत्स्त्रष्टुश्चराचरगुरोरादिमध्यान्तरहितस्य ब्रह्ममयस्यात्मरूपिणो भगवतो वासुदेवस्यांशः शंबलग्रामप्रधानब्राह्मणस्य विष्णुयशसो गहेष्टगुणर्धिसमन्वितः कल्किरूपीजगत्यत्रावतीर्य सकलम्लेच्छदस्युदुष्टाचरमचेतसामशेषाणामपरिच्छिन्नशक्तिमाहात्म्यः क्षयं करिष्यति स्वधर्मेषु चा खिलमेव संस्थापयिष्यति ॥ ४,२४.९८ ॥ अनन्तरं चाशेषकलेरवसाने निशावसाने विबुद्धानामिव तेषामेव जनपदानाममलस्फटितदलशुद्धा मतयो भविष्यन्ति ॥ ४,२४.९९ ॥ तेषां च बीजभूतानामशेषमनुष्याणां परिणतानामपि तत्कालकृतापत्यप्रसूतिर्भविष्यति ॥ ४,२४.१०० ॥ तानि च तदपत्यानि कृतयुगानुसारीण्येव भविष्यन्ति ॥ ४,२४.१०१ ॥ अत्रोच्यते यथा चन्द्रश्च सूर्यश्च तथा तिष्यो बृहस्पतिः । एकराशौ समेष्यन्ति तदा भवति वै कृतम् ॥ ४,२४.१०२ ॥ अतीता वर्तमानाश्च तथैवानागताश्च ये । एते वंशेषु भूपालाः कथिता मुनिसत्तम ॥ ४,२४.१०३ ॥ यावत्परीक्षितो जन्म यावन्नन्दाभिषेचनम् । एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरम् ॥ ४,२४.१०४ ॥ सप्तर्षीणां तु यौ पूर्वौ दृश्येते ह्युदितौ दिवि । तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि ॥ ४,२४.१०५ ॥ तेन सप्तर्षयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् । ते तु पारीक्षिते काले मघास्वासन्द्विजोत्तम ॥ ४,२४.१०६ ॥ तदा प्रवृत्तश्च कलिर्द्वादशाब्दशतात्मकः ॥ ४,२४.१०७ ॥ यदैव भगवान्विष्णोरंशो यातो दिवं द्विज । वसुदेवकुलोद्भूतस्तदैवात्रागतः कलिः ॥ ४,२४.१०८ ॥ यावत्सपादपद्माभ्यां पस्पर्शेमां वसुंधराम् । तावत्पुथ्वीपरिष्वङ्गे समर्थो नाभवत्कलिः ॥ ४,२४.१०९ ॥ गते सनातनस्यांशे विष्णोस्तत्र भुवो दिवम् । तत्याज सानुजो राज्यं धर्म पुत्रो युधिष्ठिरः ॥ ४,२४.११० ॥ विपरीतानि दृष्ट्वा च निमित्तानि हि पाण्डवः । याते कृष्णे चकाराथ सोऽभिषेकं परीक्षितः ॥ ४,२४.१११ ॥ प्रयास्यन्ति यदा चैते पूर्वाषाढां महर्षयः । तदा नन्दात्प्रभृत्येष गतिवृद्धिं गमिष्यति ॥ ४,२४.११२ ॥ यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदा हनि । प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे ॥ ४,२४.११३ ॥ त्रीणि लक्षाणि वर्षाणां द्विज मानुष्यसंख्यया । षष्टिश्चैव सहस्राणि भविष्यत्येष वै कलिः ॥ ४,२४.११४ ॥ शातानि तानि दिव्यानां सप्त पञ्च च संख्यया । निःशेषेण गते तस्मिन्भविष्यति पुनः कृतम् ॥ ४,२४.११५ ॥ ब्राह्मणाः क्षित्त्रिया वैश्याः शुद्राश्च द्विजसत्तम । युगेयुगे महात्मानः समतीताःसहस्रशः ॥ ४,२४.११६ ॥ बहुत्वान्नामधेयानां परिसंख्या कुलेकुले । पौनरुक्त्याद्धि साम्याच्च न मया परिकीर्तिता ॥ ४,२४.११७ ॥ देवापिः पोरवो राजा पुरुश्चेक्षाकुवंशजः । महायोगबलोपेतौ कलापग्रमसंश्रितौ ॥ ४,२४.११८ ॥ कृते युगे त्विहागम्य क्षत्रप्रावर्तकौ हि तौ । भविष्यतो मनोर्वशबीजभूतौ व्यवस्थितौ ॥ ४,२४.११९ ॥ एतेन क्रमयोगेन मनुपुत्रौर्वसुंधरा । कृतत्रेताद्वापराणि युगानि त्रीणि भुज्यते ॥ ४,२४.१२० ॥ कलौ ते बीजभूता वै केचित्तिष्ठन्ति वै मुने । यथैव देवापिपुरू सांप्रतं समधिष्ठितौ ॥ ४,२४.१२१ ॥ एष तूद्देशतो वंशस्तवोक्तो भूभुजां मया । निखिलो गदितुं शक्यो नैष वर्षशतैरपि ॥ ४,२४.१२२ ॥ एते चान्ये च भूपाला यैरत्र क्षितिमण्डले । कृतं ममत्वं मोहान्धैर्नित्यं हेयकलेवरे ॥ ४,२४.१२३ ॥ कथं ममेयमचला मत्पुत्रस्य कथं मही । मद्वंशस्येतिचिन्तार्ता जग्मुरन्तमिमे नृपाः ॥ ४,२४.१२४ ॥ तेभ्यः पूर्वतराश्चान्ये तेभ्यस्तेभ्यस्तथा परे । भविष्याश्चैव यास्यन्ति तेषामन्ये च येऽप्यनु ॥ ४,२४.१२५ ॥ विलोक्यात्मजयोद्योगं यात्राव्यग्रान्नराधिपान् । पुष्पप्रहासैः शरदि हसंतीव वसुंधरा ॥ ४,२४.१२६ ॥ मैत्रेय पृथिवीगीताञ्छ्लोकांश्चात्र निबोध मे । यानाह धर्मध्वजिने नजकायासितो मुनिः ॥ ४,२४.१२७ ॥ पृथिव्युवाच कथमेष नरेद्राणां मोहो बुद्धिमतामपि । येन केन सधर्माणोप्यतिविश्वस्तचेतसः ॥ ४,२४.१२८ ॥ पूर्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः । ततो भृत्यांश्च पौरांश्च जिगीषन्ते तथा रिपून् ॥ ४,२४.१२९ ॥ क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् । इत्यासक्तधियो मृत्युं न पश्यन्त्यविद्वरगम् ॥ ४,२४.१३० ॥ समुद्रावरणं याति भूमण्डलमथो वशम् । कियदात्मजयस्यैतन्मुक्तिरात्मजयेफलम् ॥ ४,२४.१३१ ॥ उत्सृज्य पूर्वजा याता यां नादाय गतः पिता । तां मामतीव मूढत्वाज्जेतुमिच्छन्ति पार्थिवाः ॥ ४,२४.१३२ ॥ मत्कृते पितृ पुत्राणां भ्रातॄणां चापि विग्रहः । जायतेत्यन्तमोहेन ममत्वादृतचेतसाम् ॥ ४,२४.१३३ ॥ पृथ्वी ममेयं सकला ममैषा मदन्वयस्यापि च शाश्वतीयम् । योयो मृतेऽन्यत्र बभूव राजा कुबुद्धिरा सीदिति तस्यतस्य ॥ ४,२४.१३४ ॥ दृष्ट्वा ममत्वादृतचित्तमेकं विहाय मां मृत्युवशं व्रजन्तम् । तस्यानुयस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवं करोति ॥ ४,२४.१३५ ॥ पृथ्वी ममैषाऽशु परित्यजैनां वदन्ति ये दूतमुखैः स्वशत्रून् । नराधिपास्तेषु ममातिहासः पुनश्च मूढेषु दयाभ्युपैति ॥ ४,२४.१३६ ॥ श्रीपराशर उवाच इत्येते धरणीगीतः श्लोका मैत्रेय यैः श्रुताः । ममत्वं विलयं याति तपत्यर्के यथा हिमम् ॥ ४,२४.१३७ ॥ इत्येष कथितः सम्यङ्मनोर्वशो मया तव । यत्र स्थितिप्रवृत्तस्य विष्णोरंशांशका नृपाः ॥ ४,२४.१३८ ॥ शृणोति य इमं भक्त्या मनोर्वशमनुक्रमात् । तस्य पापमशेषं वै प्रणश्यत्यमलात्मनः ॥ ४,२४.१३९ ॥ धनधान्यर्धिमतुलां प्राप्नोत्यव्याहतेन्द्रियः । श्रुत्वैवमखिलं वंशं प्रशस्तं शशीसूर्ययोः ॥ ४,२४.१४० ॥ इक्ष्वाकुजह्नुमान्धातृसगराविक्षितान्रघून् । ययातिनहुषाद्यांश्च ज्ञात्वा निष्ठामुपागतान् ॥ ४,२४.१४१ ॥ महाबलान्महावीर्याननन्तधनसंचयान् । कृतान्कालेन बलिना कथाशेषान्नराधिपान् ॥ ४,२४.१४२ ॥ श्रुत्वा न पुत्रदारादौ गृहक्षेत्रादिके तथा । द्रव्यादौ वा कृतप्रज्ञो ममत्वं कुरुते नरः ॥ ४,२४.१४३ ॥ तप्तं तपो यैः पुरुषप्रवीरैरुद्वाहुभिर्वर्षगणाननेकान् । इष्ट्वा सुयज्ञैर्बलिनोतिवीर्याः कृतानुकालेन कथावशेषाः ॥ ४,२४.१४४ ॥ पृथुःसमस्तान्विचचार लोकानव्याहतो योविजितारिचक्रः । स कालवाताभिहतः प्रणष्टः क्षिप्तं यथा शाल्मलितूलमग्नौ ॥ ४,२४.१४५ ॥ यः कार्तवीर्यो बुभुजे समस्तान्द्वीपान्समाक्रम्यहतारिचक्रः । कथाप्रसंगेष्वभिधीयमानःस एव संकल्पविकल्पहेतुः ॥ ४,२४.१४६ ॥ दशाननाविक्षतराघवाणामैश्वर्यमुद्भासितदिङ्मुखानाम् । भस्मापि शिष्टं न कथं क्षणेन भ्रूभङ्गपातेन धिगन्तकस्य ॥ ४,२४.१४७ ॥ कथाशरीरत्वमवाप यद्वै मान्धातृनामा भुवि चक्रवर्ती । श्रुत्वापि तत्कोहि करोति साधुर्ममत्वमान्मन्यपि मन्दचेताः ॥ ४,२४.१४८ ॥ भगीरथाद्याःसगरं ककुत्स्थो दशननो राघवलक्ष्मणौ च । युधिष्ठिराद्याश्च बभूवुरेते सत्यं न मिथ्या क्व नु ते न विद्मः ॥ ४,२४.१४९ ॥ ये सांप्रतं ये च नृपा भविष्याः प्रोक्ता मया विप्रवरोग्रवीयाः । एते तथान्ये च तथाभिधेयाः सर्वे भविष्यन्ति यथैव पूर्वे ॥ ४,२४.१५० ॥ एत द्विदित्वा न नरेण कार्यं ममत्वमात्मन्यपि पण्डितेन । तिष्ठन्तु तावत्तनयात्मजायाः क्षेत्रादयो ये च शरीरिणोऽन्ये ॥ ४,२४.१५१ ॥ इति श्रीविष्णुमाहपुराणे चतुर्थांशे चतुर्विंशोध्यायः (२४) श्रीविष्णुमाहपुराणे चतुथासः समाप्तः इति श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते चतुर्थोशः समाप्तः । _____________________________________________________________ अत श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते पञ्चमाशः प्रारभ्यते श्रीमते रामानुजाय नमः मैत्रेय उवाच नृपाणां कथितःसर्वो भवता वंशविस्तरः । वंशानुचरितं चैव यथावदनुवर्णितम् । अंशावतारो ब्रह्मर्षे योऽयं यदुकुलोद्भवः । विष्णोस्तं विस्तरेणाहं श्रोतुमिच्छामि तत्त्वतः ॥ ५,१.२ ॥ चकार यानि कर्माणि भगवान् पुरुषोत्तमः । अंशांशेनावतीर्योर्व्यां तत्र तानि मुने वद ॥ ५,१.३ ॥ श्रीपारशर उवाच मैत्रेय श्रूयतामेतद्यत्पृष्टोऽहमिह त्वया । विष्णोरंशांशसंभूतिचरितं जगतो हितम् ॥ ५,१.४ ॥ देवकस्य सुतां पूर्वं वसुदेवो महामुने । उपयेमे महाभागां देवकीं देवतोपमाम् ॥ ५,१.५ ॥ कंसस्तयोर्वररथं चोदयामास सारथिः । वसुदेवस्य देवक्या संयोगे भोजनन्दनः ॥ ५,१.६ ॥ आथान्तरिक्षे वागुच्चैः कंसमाभाष्य सादरम् । मेघगंभीरनिर्घोषं समाभाष्येदमब्रवीत् ॥ ५,१.७ ॥ यामेतां वहसे मूढ सह भर्त्रा रथे स्थिताम् । अस्यास्तवाष्टमो गर्भः प्राणानपहरिष्यति ॥ ५,१.८ ॥ श्रीपराशर उवाच इत्याकर्ण्यं समुत्पाट्य खड्गं कंसो महाबलः । देवकीं हन्तुमारब्धो वसुदेवोऽब्रवीदिदम् ॥ ५,१.९ ॥ न हन्तव्या महाभाग देवकी भवतानघ । समर्पयिष्ये सकलान्गर्भानस्योदरोद्भवान् ॥ ५,१.१० ॥ श्रीपराशर उवाच तथेत्याह ततः कंसो वसुदेवं द्विजोत्तम । न घातयामास च तां देवकींसत्यगौरवात् ॥ ५,१.११ ॥ एतस्मिन्नेवकाले तु भूरिभारावपीडिता । जगाम धरणी मेरौ समाजं त्रिदिवौकसाम् ॥ ५,१.१२ ॥ स ब्रह्मकान्सुरान्सर्वान्प्रणिपत्याथ मेदिनि । कथयामास तत्सर्वं खेदात्करुणभाषिणी ॥ ५,१.१३ ॥ भूमिरुवाच अग्निःसुवर्णस्य गुरुर्गवां सूर्यः परो गुरुः । ममाप्यखिललो कानां कुरुर्नारायणो गरुः ॥ ५,१.१४ ॥ प्रजापतिपतिर्ब्रह्म पूर्वेषामपि पूर्वजः । कलाकाष्ठानिमेषात्मा कालश्चाव्यक्तमूर्तिमान् ॥ ५,१.१५ ॥ तदंशभूतःसर्वैषां समूहो वःसुरोत्तमाः ॥ ५,१.१६ ॥ आदित्या सरुतःसाध्या रुद्रा वस्वश्विवह्नयः । पितरो ये च लोकानां स्रष्टारोऽत्रिपुरोगमाः ॥ ५,१.१७ ॥ एते तस्याप्रमेयस्य विष्णो रूपं महात्मनः ॥ ५,१.१८ ॥ यक्षराक्षसदैतेयपिशाचोरगदानवाः । गन्धर्वाप्सरसश्चैवरूपं विष्णोर्महात्मनः ॥ ५,१.१९ ॥ ग्रहर्क्षतारकाचित्रगगनाग्निजलानिलाः । अहं च विषयाश्चैव सर्व विष्णुमयं जगत् ॥ ५,१.२० ॥ तथा चानेकरूपस्य यस्य रूपाण्य हर्निशम् । बाध्यबाधकतां यान्ति कल्लोला इव सागरे ॥ ५,१.२१ ॥ तत्सांप्रतममी दैत्याः कालनेमिपुरोगमाः । मर्त्यलोकं समाक्रम्य बाधन्तेऽहर्निशं प्रजाः ॥ ५,१.२२ ॥ कालनेमिर्हतो योऽसौ विष्णुना प्रभविष्णुना । उग्रसेनसुतः कंसःसंभूतःस महासुरः ॥ ५,१.२३ ॥ आरिष्टो धेनुकः केशी प्रलंबो नरकस्तथा । सुंदोऽसुरस्तथात्युग्रो बाणश्चापि बलेःसुतः ॥ ५,१.२४ ॥ तथान्ये च महावीर्या नृपाणां भवनेषु ये । समुत्पन्ना दुरात्मानस्तान्न संख्यातुमुत्सहे ॥ ५,१.२५ ॥ अक्षोहिण्योत्र बहुला दिव्यमूर्तिधराःसुराः । महाबलानां दृप्तानां दैत्येन्द्रणां ममोपरि ॥ ५,१.२६ ॥ तद्भूरिभार पीडार्ता न शक्नोम्यमरेश्वराः । बिभर्तुमात्मानमहमिति विज्ञापयामि वः ॥ ५,१.२७ ॥ क्रियतां तन्महाभागा मम भारावतारणम् । यथा रसातलं नाहं गच्छेयमतिविह्वला ॥ ५,१.२८ ॥ इत्याकर्ण्य धरावाक्यमशेषैस्त्रिदशेश्वरैः । भुवो भारावतारार्थं ब्रह्मा प्राह प्रचोदितः ॥ ५,१.२९ ॥ ब्रह्मोवाच यथाह वसुधा सर्वं सत्यमेव दिवौकसः । अहं भवो भवन्तश्च सर्वे नारायणात्मकाः ॥ ५,१.३० ॥ विभूतयश्च यास्तस्य तासामेव परस्परम् । आधिक्यन्यू६ अताबाध्यबाधकत्वेन वर्तते ॥ ५,१.३१ ॥ तदागच्छत गच्छामः क्षीराब्धेस्तटमुत्तमम् । तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥ ५,१.३२ ॥ सर्वथैव जगत्यर्थे स सर्वात्मा जगन्मयः । सत्त्वांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥ ५,१.३३ ॥ श्रीपराशर उवाच इत्युक्त्वा प्रययो तत्र सह देवैः पितामहः । समाहितमनाश्चैवं तुष्टाव गरुडध्वजम् ॥ ५,१.३४ ॥ ब्रह्मोवाच द्वे विद्ये त्वमनाम्नायपरा चैवापरा तथा । त एव भवतो रूपे मूर्तामूर्तात्मिके प्रभो ॥ ५,१.३५ ॥ द्वे ब्रह्मणी त्वणीयोतिस्थूलात्मन्सर्व सर्ववित् । शब्दब्रह्मपरं चैव ब्रह्म ब्रह्ममयस्य यत् ॥ ५,१.३६ ॥ ऋग्वेदस्त्वं यजुर्वेदःसामवेदस्त्वथर्वणः । शिक्षाकल्पो निरुक्तं च च्छन्दो ज्योतिषमेव च ॥ ५,१.३७ ॥ इतिहासपुराणे च तथा व्याकरणं प्रभो । मीमांसा न्यायशास्त्रं च धर्मशास्त्राण्यधोक्षज ॥ ५,१.३८ ॥ आत्माऽत्मदेहगुणवद्विचाराचारि यद्वच । तदप्याद्यपते नान्यदध्यात्मात्मस्वरूपवत् ॥ ५,१.३९ ॥ त्वमव्यक्तमनिर्देश्यमचिन्त्यानामवर्मवत् । अपाणिपादरूपं च शुद्धं नित्यं परात्परम् ॥ ५,१.४० ॥ शृणोष्यकर्णः परिपश्यसि त्वमचक्षुरूपो बहुरूपरूपः । अपादहस्तो जवनो ग्रहीता त्वं वेत्सि सर्वं च सर्ववेद्यः ॥ ५,१.४१ ॥ अणोरणीयां समसत्स्वरूपं त्वां पश्यतो ज्ञाननिवृत्तिरग्र्या । धीरस्य धीरस्य बिभर्ति नान्यद्वरेण्यरूपात्परतः परात्मन् ॥ ५,१.४२ ॥ त्वं विश्वनाभिर्भुवनस्य गोप्ता सर्वाणि भूतानि तवान्तराणि । यद्भूतभव्यं यदणोरणीयः पुमांस्त्वमेकः प्रकृतेः परस्तात् ॥ ५,१.४३ ॥ एकश्चतुर्धा भगवान्हुताशो वर्चोविभूतं जगतो ददासि । त्वं विश्वतश्चक्षुरनन्तमूर्ते त्रेधा पदं त्वं निदधासि धातः ॥ ५,१.४४ ॥ यथाग्निरेको बहुधा समिध्यते विकारभेदैरविकाररूपः । तथा भवान्सर्वगतैकरूपी रूपाण्यशेषाण्यनुपुष्यतीश ॥ ५,१.४५ ॥ एकं तवाग्र्यं परमं पदं यत्पश्यन्ति त्वां सूरयो ज्ञानदृश्यम् । त्वत्तो नान्यत्किञ्चिदस्ति स्वरूपं यद्वा भूतं यच्च भव्यं परात्मन् ॥ ५,१.४६ ॥ व्यक्ताव्यक्तस्वरूपस्त्वं समष्टिव्यष्टिरूपवान् । सर्वज्ञःसर्वनित्सर्वशक्तिज्ञानबलर्धिमान् ॥ ५,१.४७ ॥ अन्यूनश्चाप्यवृद्धिश्च स्वाधीनो नादिमान्वशी । क्लमतन्द्री भयक्रोधकामादिभिरसंयुतः ॥ ५,१.४८ ॥ निरवद्यः परः प्राप्तेर्निरधिष्ठोऽक्षरः क्रमः । सर्वेश्वरः पराधारो धाम्नां धामात्मकोऽक्षयः ॥ ५,१.४९ ॥ सकलावरणानीतनिरालंबनभावन । महाविभूतिसंस्थान नमस्ते पुरुषोत्तम ॥ ५,१.५० ॥ नाकारणात्कारणाद्वा कारणाकारणान्न च । शरीरग्रहणं वापि धर्मत्राणाय केवलम् ॥ ५,१.५१ ॥ श्रीपराशर उवाच इत्येवं संस्तवं श्रुत्वा मनसा भगवानजः । ब्रह्माणमाह प्रीतेन विश्वरूपं प्रकाशयन् ॥ ५,१.५२ ॥ श्रीभगवानुवाच भोभो ब्रह्मंस्त्वया मत्तःसह देवैर्यदिष्यते । तदुच्यतामशेषं च सिद्धमेवावधार्यताम् ॥ ५,१.५३ ॥ श्रीपराशर उवाच ततो ब्रह्मा हरेर्दिव्य विश्विरूपमवेक्ष्य तत् । तुष्टाव भूयो देवेषु साध्वसावनतात्मसु ॥ ५,१.५४ ॥ ब्रह्मोवाच नमो नमस्तेस्तु सहस्रकृत्वःसहस्रबाहो बहुवक्त्रपाद । नमोनमस्ते जगतः प्रवृत्तिविनाशसंस्थानकराप्रमेय ॥ ५,१.५५ ॥ सूक्ष्मातिसूक्ष्मातिबृहत्प्रमाम गरीयसामप्यतिगौरवात्मन् । प्रधानबुद्धीन्द्रियवत्प्रधानमूलात्परात्मन्भगवन्प्रसीद ॥ ५,१.५६ ॥ एषा मही देव महीप्रसूतैर्महासुरैः पीडितशैलबन्धा । परायणं त्वां जगतामुपैति भारावतारार्थमपारसार ॥ ५,१.५७ ॥ एते वयं वृत्ररिपुस्तथायं नासत्यदस्त्रौ वरुणस्तथैव । इमे च रुद्रा वसवःससूर्याःसमीरणाग्निप्रसुखास्तथान्ये ॥ ५,१.५८ ॥ सुराःसमस्ताःसुरनाथकार्यमेभिर्मया यच्च तदीश सर्वाम् । आज्ञापयाज्ञां परिपालयन्तस्तवैव तिष्ठाम सदास्तदोषाः ॥ ५,१.५९ ॥ श्रीपराशर उवाच एवं संस्तूयमानस्तु भगवान्परमेश्वरः । उज्जहारात्मनः केशौ सितकृष्णौ महामुने ॥ ५,१.६० ॥ उवाच च सुरानेतौ मत्केशौ वसुधातले । अवतीर्य भुवो भारक्लेशहानिं करिष्यतः ॥ ५,१.६१ ॥ सुराश्च सकलाःस्वांशैरवतीर्य महीतले । कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर्महासुरैः ॥ ५,१.६२ ॥ ततः क्षयमशेषास्ते दैतेया धरमीतले । प्रयास्यन्ति न संदेहो मद्दृपातविचूर्णिताः ॥ ५,१.६३ ॥ वसुदेवस्य या पत्नी देवकी देवतोपमा । तत्रायमष्टमो गर्भो मत्केशो भविता सुराः ॥ ५,१.६४ ॥ अवतीर्य च तत्रायं कंसं घातयिता भुवि । कालनेमीं समुद्भूतमित्युक्त्वान्तर्दधे हरिः ॥ ५,१.६५ ॥ अदृश्याय ततस्तस्मै प्रणिपत्य महामुने । मेरुपृष्ठं सुरा जग्मुरवतेरुश्च भूतले ॥ ५,१.६६ ॥ कंसाय चाष्टमो गर्भो देवक्या धरणीधरः । भविष्यतीत्याच चक्षे भगवान्नारदो मुनिः ॥ ५,१.६७ ॥ कंसोऽपि तदुपश्रुत्य नारदात्कुपितस्ततः । देवकीं वसुदेवं च गृहे गुप्तावधारयत् ॥ ५,१.६८ ॥ वसुदेवेन कंसाय तेनैवोक्तं यथा पुरा । तथैव वसुदेवोऽपि पुत्रमर्पितवान् द्विज ॥ ५,१.६९ ॥ हिरण्यकशिपोः पुत्राःषड्गर्भा इति विश्रुताः । विष्णुप्रयुक्ता स्तान्निद्राक्रमाद्गर्भानयोजयत् ॥ ५,१.७० ॥ योगनिद्रा महामाया वैष्णवी मोहितं यया । अविद्यया जगत्सर्वं तामाह भगवान्हरिः ॥ ५,१.७१ ॥ श्रीभगवानुवाच निद्रे गच्छ ममादेशात्पातालातलसंश्रयान् । एकैकत्वेन षड्गर्भान्देवकीजठरं नय ॥ ५,१.७२ ॥ हतेषु तेषु कंसेन शेषाख्योंशस्ततो मम । अंशांशोनादरे तस्याःसप्तमः संभविष्यति ॥ ५,१.७३ ॥ गोकुले वसुदेवस्य भार्यान्या रोहिणी स्थिता । तस्याःस संभूतिसमं देवि नेयस्त्वयोदरम् ॥ ५,१.७४ ॥ सप्तमो भोजरा जस्य भयाद्रोधोपरोधतः । देवक्याः पितितो गर्भ इति लोको वदिष्यति ॥ ५,१.७५ ॥ गर्भसंकर्षणात्सोऽथ लोके संकर्षणेति वै । संज्ञामवाप्स्यते वीरः श्वेताद्रिशिखरोपमः ॥ ५,१.७६ ॥ ततोऽहं संभविष्यामि देवकीजठरे शुभे । भर्गं त्वया यशोदाया गन्तव्यमविलंबितम् ॥ ५,१.७७ ॥ प्रावृट्काले च नभसि कृष्णाष्टम्यामहं निशि । उत्पत्स्यामि नवम्यां तु प्रसूतिं त्वमवाप्स्यसि ॥ ५,१.७८ ॥ यशोदाशयने मां तु देवक्यास्त्वामनिन्दिते । मच्छक्तिप्रोरितमतिर्वसुदेवो नयिष्यति ॥ ५,१.७९ ॥ कंसश्च त्वामुपादाय देवि शैलशिलातले । प्रक्षेप्स्यत्यन्तारिक्षे च संस्थानं त्वमवाप्स्यसि ॥ ५,१.८० ॥ ततस्त्वां शतदृक्छक्रः प्रणम्य मम गौरवात् । प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥ ५,१.८१ ॥ त्वं च शुंभनिशुंभादीन्हत्वा दैत्यान्सहस्रशः । स्थानैरनेकैः पृथिवीमशेषां मण्डयिष्यसि ॥ ५,१.८२ ॥ त्वं भूतिः सन्नतिः क्षान्तिः कान्तिर्द्यौः पृथिवी धृतिः । लज्जापुष्टी रुषा या तु काचिदन्या त्वमेव सा ॥ ५,१.८३ ॥ ये त्वामार्येति दुर्गेति वेदगर्भांबिकेति च । भद्रेति भद्रकालीति क्षेमदा भग्यदेति च ॥ ५,१.८४ ॥ प्रातश्चैवापराह्ने च स्तोष्यन्त्यानम्रमूर्तयः । तेषां हि प्रार्थितं सर्वं मत्प्रसादाद्भविष्यति ॥ ५,१.८५ ॥ सुरामांसोपहरैश्च भक्ष्यभोज्यैश्च पूजिता । नॄणामशेषसामांस्त्वं प्रसन्ना संप्रदास्यसि ॥ ५,१.८६ ॥ ते सर्वे सर्वदा भद्रे मत्प्रसादादसंशयम् । असंदिग्धा भविष्यन्ति गच्छ देवि यथोदितम् । इति विष्णुमहापुराणे पञ्चमांशे प्रथमोऽध्यायः (१) _____________________________________________________________ श्रीपराशर उवाच यथोक्तं सा जगद्धात्रा देवदेवेन वै तथा । षड्गर्भगर्बविन्यासं चक्रे चान्यस्य कर्षणम् ॥ ५,२.१ ॥ सप्तमे रोहिणीं गर्भे प्राप्ते गर्भं ततो हरिः । लोकत्र योपकाराय देवक्याः प्रविवेश ह ॥ ५,२.२ ॥ योगनिद्रा यशोदायास्तस्मिन्नेव तथा दिने । संभूता जठरे तद्वद्यथोक्तं परमेष्ठिना ॥ ५,२.३ ॥ ततो ग्रहगणःसम्यक्प्रचचार दिवि द्विज । विष्णोरंशे भुवं याते ऋतवश्चाबभुः शुभाः ॥ ५,२.४ ॥ न सेहे देवकीं द्रष्टं कश्तिदप्यतितेजसा । जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः ॥ ५,२.५ ॥ अदृष्टाः पुरुषैः स्त्रीभिर्देवकीं देवतागणाः । बिभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम् ॥ ५,२.६ ॥ देवता ऊचुः प्रकृतिस्त्वं परा सूक्ष्मा ब्रह्मगर्भाभवत्पुरा । ततो वाणी जगद्धातुर्वेदगर्भासि शोभने ॥ ५,२.७ ॥ सृज्यस्वरूपगर्भासि सृष्टिभूता सनातने । बीजभूता तु सर्वस्य यज्ञभूता भवस्त्रयी ॥ ५,२.८ ॥ फलगर्भा त्वमेवेज्या वह्निगर्भा तथारणिः । अदितिर्देवगर्भा त्वं दैत्यगर्भा तथा दितिः ॥ ५,२.९ ॥ ज्योत्स्ना वासरगर्भा त्वं ज्ञानगर्भासि सन्नतिः । नयगर्भा परा नीतिर्लज्जा त्वं प्रश्रयोद्वहा ॥ ५,२.१० ॥ कामगर्भा तथेच्छा त्वं तुष्टिः संतोषगर्भिणी । मेधा च बोधगर्भसि धैर्यगर्भोद्वहा धृतिः ॥ ५,२.११ ॥ ग्रहर्क्षतारकागर्भा द्यौरस्याखिलहैतुकी । एता विभूतयो देवि तथान्याश्च सहस्रशः ॥ ५,२.१२ ॥ तथा संख्या जगद्धात्री सांप्रतं जठरे तव । समुद्राद्रिनदीद्वीपवनपत्तनभूषणा । ग्रामखर्वटखेटाढ्या समस्ता पृतिवी शुभे ॥ ५,२.१३ ॥ समस्तवह्नयोंऽभांसि सकलाश्च समीरणाः । महोरगास्तथा यक्षा राक्षसाः प्रेतगुद्यकाः ॥ ५,२.१४ ॥ ग्रहर्क्षतारकाचित्रविमानशतसंकुतम् । अवकाशमशेषस्य यद्ददाति नभस्थलम् ॥ ५,२.१५ ॥ भूलोकश्च भुवर्लोकःस्वर्लोकोऽथ महर्जनः । तपश्च ब्रह्मलोकश्च ब्रह्माण्डमखिलं शुभे ॥ ५,२.१६ ॥ तदन्तरे स्थिता देवा दैत्यगन्धर्वचारणाः । महोरगास्तथा यक्षा राक्षसाः प्रेतगुह्यकाः ॥ ५,२.१७ ॥ मनुष्याः पशवश्चान्ये ये च जीवा यशस्विनि । तैरन्तस्थैरनन्तोऽसौ सर्वगः सर्वभावनः ॥ ५,२.१८ ॥ रूपकर्मस्वरूपाणि न परिच्छेदगोचरे । यस्याखिलप्रमाणानि स विष्णुर्गर्भगस्तव ॥ ५,२.१९ ॥ त्वं स्वाहा त्वं स्वधा विद्या स्वधा त्वं ज्योतिरंबरे । त्वं सर्वलोकरक्षार्थमवतीर्णा महीतले ॥ ५,२.२० ॥ प्रसीद देवि सर्वस्य जगतः शं शुभे कुरु । प्रीत्या तं धारयेशानं धृतं येनाखिलं जगत् ॥ ५,२.२१ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वितीयोऽध्यायः (२) _____________________________________________________________ श्रीपराशर उवाच एवं संस्तूयमाना सा देवैर्देवमधारयत् । गर्भेण पुण्डरीकाक्षं जगतस्त्राणकारणम् ॥ ५,३.१ ॥ ततोऽखिलजगत्पद्मबोधायाच्युतभानुना । देवकीपूर्वसंध्यायामाविर्भूतं महात्मना ॥ ५,३.२ ॥ तज्जन्मदिनमत्यर्थमाह्लाद्यमलदिङ्मुखम् । बभूव कर्वलोकस्य कौमुदी शशिनो यथा ॥ ५,३.३ ॥ संतःसंतोषमधकं प्रशमं चञ्जमारुताः । प्रसादं निम्नगा याता जायमाने जनार्दने ॥ ५,३.४ ॥ सिंधवो निजशब्देन वाद्यं चक्रुर्मनोहरम् । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ५,३.५ ॥ ससृजुः पुष्पवर्षाणि देवा भुव्यन्तरिक्षगाः । जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने ॥ ५,३.६ ॥ मदं जगुर्जुर्जलदाः पुष्पवृष्टिमुचो द्विज । अर्धरात्रेऽखिलाधारे जायमाने जनार्दने ॥ ५,३.७ ॥ फुल्लेन्दीवरपत्राभं चतुर्बाहुमुदीक्ष्य तम् । श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ॥ ५,३.८ ॥ अभिष्ट्रय च तं वाग्भिः प्रसन्नाभिर्महामतिः । विज्ञापयामास तदा कंसाद्भीतो द्विजोत्तम ॥ ५,३.९ ॥ वसुदेव उवाच जातोसि देवदेवेश शङ्खचक्रगदाधरम् । दिव्यरूपमिदं देव प्रसादेनोपसंहर ॥ ५,३.१० ॥ अद्यैव देव कंसोयं कुरुते मम घातनम् । अवतीर्म इति ज्ञात्वा त्वमस्मिन्मममन्दिरे ॥ ५,३.११ ॥ देवक्युवाच योऽनन्तरूपोऽखिलविश्वरूपो गर्भेपि लोकान्वपुषा बिभर्ति । प्रसीतदामेष स देवदेवो यो माययाविष्कृतबालरूपः ॥ ५,३.१२ ॥ उपसंहर सर्वात्मन्रूपमेतच्चतुर्भुजम् । जानातु मावतारं ते कंसोयं दितिजन्मजः ॥ ५,३.१३ ॥ श्रीभगवानुवाच स्तुतोऽहं य त्त्वया पूर्वं पुत्रार्थिन्या तदद्य ते । सफलं देवि संजातं जातोऽहं यत्तवोदरात् ॥ ५,३.१४ ॥ श्रीपराशर उवाच इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तम । वसुदेवोपि तं रात्रावादाय प्रययौ बहिः ॥ ५,३.१५ ॥ मोहिताश्चाभवेस्तत्र रक्षिणो योगनिद्रया । मथुराद्वारपालाश्च व्रजत्यानकदुन्दुभौ ॥ ५,३.१६ ॥ वर्षतां जलदानां च तोयमात्युल्बणं निशि । संवृत्यानुययौ शेषः फणैरानकदुन्दुभिम् ॥ ५,३.१७ ॥ यमुनां चातिगंभीरां नानावर्तशताकुलाम् । वसुदेवो वहन्विष्णुं जानुमात्रवहां ययौ ॥ ५,३.१८ ॥ कंसस्य करदानाय तत्रैवाब्यागतास्तटे । नन्दादीन्गोपवुद्धांश्च यमुनाया ददर्श सः ॥ ५,३.१९ ॥ तस्मिन्काले यशोदापि मोहिता योगनिद्रया । तामेव कन्यां मैत्रेय प्रसूता मोहिते जने ॥ ५,३.२० ॥ वसुदेवोपि विन्यस्य बालमादाय दारिकाम् । यशोदाशयनात्तूर्णमाजगामामितद्युतिः ॥ ५,३.२१ ॥ ददृशे च प्रबुद्धा सा यशोदा जातमात्मजम् । नीलोत्पलदलश्यामं ततोत्यर्थं मुदं ययौ ॥ ५,३.२२ ॥ आदाय वसुदेवोऽपि दारिकां निजमन्दिरे । देवकीशयने न्यस्य यथापूर्वमतिष्ठत ॥ ५,३.२३ ॥ ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः । कंसायावेदयामासुर्देवकीप्रसवन्द्विज ॥ ५,३.२४ ॥ कंसस्तूर्णमुपेत्यैनां ततो जग्रह बालिकाम् । मुञ्चमुञ्चेति देवक्या सन्नकण्ठ्या निवारितः ॥ ५,३.२५ ॥ चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थिता । अवाप रूपं सुमहत्सायुधाष्टमहाभुजम् ॥ ५,३.२६ ॥ प्रजहास तथैवोच्चैः कंसं च रुषिताब्रवीत् । किं मया क्षिप्तया कंस जाता यस्त्वां वधिष्यति ॥ ५,३.२७ ॥ सर्वस्वभूतो देवानामासीन्मृत्युः पुरा स ते । तदेतत्संप्रधार्याशु क्रियतां हितमात्मनः ॥ ५,३.२८ ॥ इत्युक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा । पश्यतो भोजराजस्य स्तुता सिद्धैर्विहायसा ॥ ५,३.२९ ॥ इति श्रिविष्णुमहापुराणे पञ्चमांशे तृतीयोऽध्यायः (३) _____________________________________________________________ श्रीपराशर उवाच कंसस्ततोद्विग्नमनाः प्राह सर्वान्महासुरान् । प्रलंबकेशिप्रमुखानाहूयासुरपुङ्गवान् ॥ ५,४.१ ॥ कंस उवाच हे प्रलंब महाबाहो केशिन् धेनुक पूतने । अरिष्टाद्यास्तथैवान्ये श्रूयतां वचनं मम ॥ ५,४.२ ॥ मां हन्तुममरैर्यत्नः कृतः किल दुरात्मभिः । मद्वीर्यतापितान्वीरो न त्वेतान्गणयाम्यहम् ॥ ५,४.३ ॥ किमिन्द्रेणाल्पवीर्येण किं हरेणैकचारिणा । हरिणा वापि किं साध्यं छिद्रेष्वसुरघातिना ॥ ५,४.४ ॥ किमादित्यैः किं वसुभिरल्पवीर्यैः किमग्निभिः । किंवान्यैरमरैः सर्वैर्मद्बाहुबलनिर्जितैः ॥ ५,४.५ ॥ किं न दृष्टोमरपतिर्मया संयुगमेत्य सः । पृष्ठेनैव वहन्बाणानपगच्छन्नवक्षसा ॥ ५,४.६ ॥ मद्राष्ट्रे वारिता वृष्टिर्यदा शक्रेण किं तदा । मद्बाणभिन्नैर्जलदैरापो मुक्तायथेप्सिताः ॥ ५,४.७ ॥ किमुर्व्यामवनीपाला मद्बाहुबलभीरवः । ते सर्वे सन्नतिं याता जरासंधमृते गुरम् ॥ ५,४.८ ॥ अमरेषु ममावज्ञा जायते दैत्यपुङ्गवाः । हास्यं मे जायते वीरास्तेषु यत्नपरेष्वपि ॥ ५,४.९ ॥ तथापि खलु दुष्टानां तेषामप्यधिकं मया । अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम् ॥ ५,४.१० ॥ तद्ये यशस्विनः केचित्पृथिव्यां ये च यज्वनः । कार्यो देवापकाराय तेषां सर्वात्मना वधः ॥ ५,४.११ ॥ उत्पन्नश्चापि मे मृत्युर्भूतपूर्वःस वै किल । इत्येतद्दारिका प्राह देवकीगर्भसंभवा ॥ ५,४.१२ ॥ तस्माद्बालेषु च परो यत्नः कार्यो महीतले । यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः ॥ ५,४.१३ ॥ इत्याज्ञाप्यासुरान्कसः प्रविश्याशु गृहं ततः । मुमोच वसुदेवं च देवकीं च निरोदतः ॥ ५,४.१४ ॥ कंस उवाच युवयोर्घातिता गर्भा वृथैवैते मयाधुना । कोप्यन्य एव नाशाय मम गर्भःसमुद्यतः ॥ ५,४.१५ ॥ तदलं परितापेन नुनं तद्भाविनो हि ते । अर्भका युवयोर्देषाच्चायुषो यद्वियोजिताः ॥ ५,४.१६ ॥ श्रीपराशर उवाच इत्याश्वास्य विमुक्त्वा च कंसस्तौ परिशङ्कितः । अन्तर्गृहं द्विजश्रेष्ठ प्रविवेश ततः स्वकम् ॥ ५,४.१७ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्थोऽध्यायः (४) _____________________________________________________________ श्रीपराशर उवाच विमुक्तो वसुदेवोऽपि नन्दस्य शकटं गतः । प्रहृष्टं दृष्टवान्नन्दं पुत्रो जातो ममेति वै ॥ ५,५.१ ॥ वसुदेवोपि तं प्राह दिष्ट्यादिष्ट्येति सादरम् । वार्धकेऽपि समुत्पन्नस्तनयोऽयं तवाधुना ॥ ५,५.२ ॥ दत्तो हि वार्षिकःसर्वो भवद्भिर्नृपतेः करः । यदर्थमागतास्तस्मान्नात्र स्थेयं महाधनैः ॥ ५,५.३ ॥ यदर्थमागताः कार्यं तन्निष्पन्नं किमस्यते । भवद्भिर्गम्यतां नन्द तच्छीघ्रं निजगोकुलम् ॥ ५,५.४ ॥ ममापि बालकस्तत्र रोहिणी प्रभवो हि यः । स रक्षणीयो भवता यथायं तनयो निजः ॥ ५,५.५ ॥ इत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः । शकटारोपितैर्भाडैः करं दत्त्वा महाबलाः ॥ ५,५.६ ॥ वसतां गोकुले तेषां पूतना बालघातिनी । सुप्तं कृष्णमुपादाय रात्रौ तस्मै स्तनं ददौ ॥ ५,५.७ ॥ यस्मै यस्मै स्तनं रात्रौ पूतना संप्रयच्छति । तस्यतस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥ ५,५.८ ॥ कृष्णस्तु तत्स्तनं गाढं कराभ्यामतिपीडितम् । गृहीत्वा प्राणसहितं पपौक्रोधसमन्वितः ॥ ५,५.९ ॥ सातिमुक्तमहारावा विच्छिन्नस्त्रायुबन्धना । पपात पूतना भूमौ म्रियमाणातिभीषणा ॥ ५,५.१० ॥ तन्नादश्रुतिसंत्रस्ताः प्रवुद्धास्ते व्रजौकसः । ददृशुः पूतनोत्संगे कृष्णं तां च निपातिताम् ॥ ५,५.११ ॥ आदाय कृष्णं संत्रस्ता यशोदापि द्विजोत्तम । गोपुच्छभ्रामणेनाथ बालदोषमपाकरोत् ॥ ५,५.१२ ॥ गोकरीषमुपादाय नन्दगोपोपि मस्तके । कृष्णस्य प्रददो रक्षां कुर्वश्चैतदुदीरयन् ॥ ५,५.१३ ॥ नन्दगोप उवाच रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः । यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥ ५,५.१४ ॥ येन दंष्ट्राग्रविधृता धारयत्यवनिर्जगत् । वराहरूपधृग्देवःस त्वां रक्षतु केशवः ॥ ५,५.१५ ॥ नखाङ्कुरविनिर्भिन्नवैरिवक्षस्थलो विभुः । नृसिंहरूपी सर्वत्र रक्षतु त्वां जनार्दनः ॥ ५,५.१६ ॥ वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् । त्रिविक्रमः क्रमाक्रान्तत्रैलोक्यः स्फुरदायुधः ॥ ५,५.१७ ॥ शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः । गुह्यं च जठरं विष्णुर्जघे पादौ जनार्दनः ॥ ५,५.१८ ॥ मुखं बाहू प्रबाहू च मनः सर्वेद्रियाणि च । रक्षत्वव्याहतैश्वर्यस्तव नारायणोऽव्ययः ॥ ५,५.१९ ॥ शार्ङ्गचक्रगदापाणेः शङ्खनादहताः क्षयम् । गच्छन्तु प्रेतकूष्माण्डराक्षसा ये तवाहिताः ॥ ५,५.२० ॥ त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः । हृषीकेशोंऽबरे भूमौ रक्षतु त्वां महीधरः ॥ ५,५.२१ ॥ श्रीपराशर उवाच एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः । शायितः शकटस्याधो बालपर्यङ्किकातले ॥ ५,५.२२ ॥ ते च गोपा महद्दृष्ट्वा पूतनायाः कलेवरम् । मृतायाः परमं त्रासं विस्मयं च तदा ययुः ॥ ५,५.२३ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चमोऽध्यायः (५) _____________________________________________________________ श्रीपराशर उवाच कदाचिच्छकटस्याधः शयानो मधुसूदनः । चिक्षेप चरणावूर्ध्वं स्तन्यार्थी प्ररुरोद ह ॥ ५,६.१ ॥ तस्य पादप्रहारेण शकटं परिवर्तितम् । विध्वस्तकुंभभाण्डं तद्विपरीतं पपात वै ॥ ५,६.२ ॥ ततो हाहाकृतः सर्वो गोपरोपीजनो द्विज । आजगामाथ ददृशे बालमुतानशायिनम् ॥ ५,६.३ ॥ गोपाः केनेति केनेदं शकटं परिवर्तितम् । तत्रैव बालकाः प्रोचुर्बालेनानेन पातितम् ॥ ५,६.४ ॥ रुदता दृष्टमस्माभिः पादविक्षेपपातितम् । शकटं परिवृत्तं वै नैतदन्यस्य चेष्टितम् ॥ ५,६.५ ॥ ततः पुनरतीवासन्गोपा विस्मयचेतसः । नन्दगोपोपि जग्राह बालमत्यन्तविस्मितः ॥ ५,६.६ ॥ यशोदा शकटारूढभग्नभाण्डकपालिका । शकटं चार्चयामास दधिपुष्पफलाक्षतैः ॥ ५,६.७ ॥ गर्गश्च गोकुले तत्र वसुदेवप्रचोदितः । प्रच्छन्न एव गोपानां संस्कारान करोत्तयोः ॥ ५,६.८ ॥ ज्येष्ठं च राममित्याह कृष्णं चैव तथावरम् । गर्गो मतिमतां श्रेष्ठो नाम कुर्वन्महामतिः ॥ ५,६.९ ॥ स्वल्पेनैव तु कालेन रङ्गिणौ तौ तदा व्रहे । घृष्टजानुकरौ विप्र बभूवतुरुभावपि ॥ ५,६.१० ॥ करीषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः । न निवारयितुं सेहे यशोदा तौ न रोहिणी ॥ ५,६.११ ॥ गोवाटमध्ये क्रीडन्तौ वत्सवाटं गतौ पुनः । तदहर्जातगोवत्सपुच्छाकर्षणतत्परौ ॥ ५,६.१२ ॥ यदा यशोदा तौ बालावेकस्थानचरावुभौ । शशाक नो वारयितुं क्रीडन्तावतिचञ्चलौ ॥ ५,६.१३ ॥ दाम्ना मध्ये ततो बद्धा बबन्ध तमुलूखले । कृष्णमक्लिष्टकर्माणमाह चेदममर्षिता ॥ ५,६.१४ ॥ यदि शक्नोषि गच्छ त्वमतिचञ्चलचेष्टित । इत्युक्त्वाथ निजं कर्म सा चकार कुटुंबिनी ॥ ५,६.१५ ॥ व्याग्रायामथ तस्यां स कर्षमाम उलूखलम् । यमलार्जुनमध्येन जगाम कमलेक्षणः ॥ ५,६.१६ ॥ कर्षता वृक्षयोर्मध्ये तिर्यग्गतमुलूखलम् । भग्नावुत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ ॥ ५,६.१७ ॥ ततः कटकटशब्दसमाकर्मनतत्परः । आजगाम व्रजजनो ददर्श च महाद्रुमौ ॥ ५,६.१८ ॥ नवोद्गताल्पदन्तांशुसितहासं च बालकम् । तयोर्मध्यगतं दाम्ना बद्धं गाढं तथोदरे ॥ ५,६.१९ ॥ ततश्च तामोदरतां स ययौ दामबन्धनात् ॥ ५,६.२० ॥ गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः । मन्त्रयामासुरुद्विग्ना महोत्पातातिभीरवः ॥ ५,६.२१ ॥ स्थानेनेह न नः कार्यं व्रजामोन्यन्महावनम् । उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः ॥ ५,६.२२ ॥ पूतनाया विनाशश्च शकटस्य विपर्ययः । विना वातादिदोषेण द्रुमयोः पतनन्तथा ॥ ५,६.२३ ॥ वृन्दावनमितःस्थानात्तस्माद्गच्छाम मा चिरम् । यावद्भौममहोत्पातदोषो नाभिभवेव्द्रजम् ॥ ५,६.२४ ॥ इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः । ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलंबथ ॥ ५,६.२५ ॥ ततः क्षणेन प्रययुः शकटैर्गोधनैस्तथा । यूथशो वत्सपालाश्च कालयन्तो व्रजौकसः ॥ ५,६.२६ ॥ द्रव्यावयवनिर्धूतं क्षणमात्रेण तत्तथा । काकभाससमाकीर्णं व्रजस्थानमभूद्दूज ॥ ५,६.२७ ॥ वृन्दावनं भगवता कृष्णेना क्लिष्टकर्मणा । शुभेन मनसा ध्यातं गवं सिद्धिमभीप्सता ॥ ५,६.२८ ॥ ततस्तत्रातिरूक्षेऽपि घर्मकाले द्विजोत्तम । प्रावृट्काल इवोद्भूतं नवशष्पं समन्ततः ॥ ५,६.२९ ॥ स समावासितः सर्वो व्रजो वृन्दावने ततः । शकटावाटपर्यन्तश्चन्द्रार्धाकारसंस्थितः ॥ ५,६.३० ॥ वत्सपालौ च संवृत्तौ रामदामोदरौ ततः । एक स्थनस्थितौ गोष्ठे चेरतुर्बाललीलया ॥ ५,६.३१ ॥ बर्हिपत्रकृतापीडौ वन्यपुष्पावतंसकौ । गोपवेणुकृतातोद्यपत्रवाद्यकृतस्वनौ ॥ ५,६.३२ ॥ काकपक्षधरौ बालौ कुमाराविव पावकी । हसंतौ च रमन्तौ च चेरतुः स्म महावनम् ॥ ५,६.३३ ॥ क्वचिद्वहन्तावन्योन्यं क्रीडमानौ तथा परैः । गोपपुत्रैः समं वत्सांश्चारयन्तौ विचेरतुः ॥ ५,६.३४ ॥ कालेन गच्छता तौ तु सप्तवर्षौ महाव्रजे । सर्वस्य जगतः पालौ वत्सपालौ बभूवतुः ॥ ५,६.३५ ॥ प्रावृट्कालस्ततोतीव मेघौघस्थगितांबरः । बभूव वारिधाराभिरैक्यं कुर्वन्दिशामिव ॥ ५,६.३६ ॥ प्ररूढनवशष्पाढ्या शक्रगोपाचिता मही । तथा मारकतीवासीत्पद्मरागविभूषिता ॥ ५,६.३७ ॥ ऊहुरुन्मार्गवाहीनि निम्नगांभांसि सर्वतः । मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवामिव ॥ ५,६.३८ ॥ न रेजेन्तरितश्चन्द्रो निर्मलो मलिनैर्घनैः । सद्वादिवादो मूर्खणां प्रगल्भाभिरिवोक्तिभिः ॥ ५,६.३९ ॥ निर्गुणेनापि चापेन शक्रस्य गगने पदम् । अवाप्यताविवेकस्य नृपस्यैव परिग्रहे ॥ ५,६.४० ॥ मेघपृष्ठे बलाकानां रराज विमला ततिः । दुर्वत्ते वृत्तचेष्टेव कुलीनस्यातिशौभना ॥ ५,६.४१ ॥ न ब बन्धांबरे स्थैर्यं विद्युदत्यन्तचञ्चला । मैत्रीव प्रवरे पुंसि दुर्जनेन प्रयोजिता ॥ ५,६.४२ ॥ मार्गा बभूवुरस्पष्टास्तृणशष्पचयावृताः । अर्थान्तरमनुप्राप्ताः प्रजडानामिवोक्तयः ॥ ५,६.४३ ॥ उन्मत्तशिखिसारङ्गे तस्मिन्काले महावने । कृष्णरामौ मुदायुक्तौ गोपालैश्चेरतुः सह ॥ ५,६.४४ ॥ क्विचिद्गोभिः समं रम्यं गोयतानरतावुभौ । चेरतुः क्वचिदत्यर्थं शीतवृक्षतलाश्रितौ ॥ ५,६.४५ ॥ क्वचित्कदंबस्रक्चित्रौ मयूरस्रग्विराजितौ । विलिप्तौ क्वचिदासातां विविधैर्गिरिधातुभिः ॥ ५,६.४६ ॥ पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरैषिणौ । क्वचिद्गर्जति जीमूते हाहाकाररवाकुलौ ॥ ५,६.४७ ॥ गायतामन्य गोपानां प्रशंसापरमौ क्वचित् । मयूरकेकानुगतौ गोपवेणुप्रवादकौ ॥ ५,६.४८ ॥ इति नानाविधैर्भावैरुत्तमप्रीतिसंयुतौ । क्रीडन्तौ तौ वने तस्मिञ्चेरतुस्तुष्टमानसौ ॥ ५,६.४९ ॥ विकाले च समं गोभिर्गोपवृन्दसमन्वितौ । विहृत्याथ यथायोगं व्रजमेत्य महाबलौ ॥ ५,६.५० ॥ गोपैः समानैः सहितौ क्रीडन्तावमराविव । एवं तावूषतुस्तत्र रामकृष्णौ महाद्युती ॥ ५,६.५१ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे षष्ठोध्यायः (६) _____________________________________________________________ श्रीपराशर उवाच एकदा तु विना रामं कृष्णो वृन्दावनं ययौ । विचचार वृतो गोपैर्वन्यपुष्पस्रगुज्ज्वलः ॥ ५,७.१ ॥ स जगामाथ कालिन्दीं लोल कल्लोलशालिनीम् । तीरसंलग्नफेनौघैर्हसन्तीमिव सर्वतः ॥ ५,७.२ ॥ तस्याश्चतिमहाभीमं विषाग्निश्रितवारिणम् । ह्रदं कालीयनागस्य ददर्शतिविभीषणम् ॥ ५,७.३ ॥ विषाग्निना प्रसरता दग्धतीरंमहीरुहम् । वाताहतांबुविक्षेपस्पर्शदग्धविहङ्गमम् ॥ ५,७.४ ॥ तमतीव महा रौद्रं मृत्युवक्रमिवापरम् । विलोक्य चिन्तयामास भगवान्मधुसूदनः ॥ ५,७.५ ॥ अस्मिन्वसति दुष्टात्मा कालीयोऽसौ विषायुधः । यो मया निर्जितस्त्यक्त्वा दुष्टो गच्छेत्पयोनिधिम् ॥ ५,७.६ ॥ तेनेयं दूषिता सर्वा यमुना सागरङ्गमा । न नरैगोधनैश्चापि तृषार्तैरुपभुज्यते ॥ ५,७.७ ॥ तदस्य नागराजस्य कर्तव्यो निग्रहो मया । निस्त्रासास्तु सुखं येन चरेयुर्व्रजवासिनः ॥ ५,७.८ ॥ एतदर्थं तु लोकेस्मिन्नवतारः कृतो मया । यदेषामुत्पथस्थानां कार्या शान्तिर्दुरात्मनाम् ॥ ५,७.९ ॥ तदेतं नातिदूरस्थं कदंबमुरुशाखिनम् । अदिरुद्य पतिष्यामि ह्रदेऽस्मिन्ननिलाशिनः ॥ ५,७.१० ॥ श्रीपराशर उवाच इत्थं विचिन्त्य बद्धा च गाढं परिकरं ततः । निपपात ह्रदे तत्र नागराजस्य वेगतः ॥ ५,७.११ ॥ तेनातिपतता तत्र क्षोभितःस महाह्रदः । अत्यर्थं दूरजातांस्तु समसिंचन्महीरुहान् ॥ ५,७.१२ ॥ ते हि दुष्टविषज्वालातप्तांबुपवनोक्षिताः । जज्वलुः पादापाःसद्यो ज्वालाव्याप्तदिगन्तराः ॥ ५,७.१३ ॥ आस्फोटयामास तदा कृष्णो नागह्रने भुजम् । तच्छब्दश्रवणाच्चाशु नागराजोऽभ्युपागमत् ॥ ५,७.१४ ॥ आताम्रनयनः कोपाद्विषज्वालाकुलैर्मुखैः । वृतो महाविषैश्चान्यैरुरगैरनिलाशनैः ॥ ५,७.१५ ॥ नागपत्न्यश्च शतशो हारिहारोपशोभिताः । प्रकंपिततनुक्षेपचलत्कुन्तसकान्तयः ॥ ५,७.१६ ॥ ततः प्रवेष्टितःसर्पैः स कृष्णे भोगबन्धनैः । ददंशुस्तेऽपि तं कृष्णं विषज्वालाकुलैर्मुखैः ॥ ५,७.१७ ॥ तं तत्र पतितं दृष्ट्वा सर्पभोगौर्निपीडितम् । गोपा व्रजमुपागम्य चुक्रुशुः शोकलालसाः ॥ ५,७.१८ ॥ गोपा ऊचुः एष मोहं गतः कृष्णो मग्नौ वै कालियह्रदे । भक्ष्यते नागराजेन तमागच्छत पश्यत ॥ ५,७.१९ ॥ तच्छुत्वा तत्र ते गोपा वज्रपा तोपमं वचः । गोप्यश्च त्वरीता जग्मुर्यशोदाप्रमुखा ह्रदम् ॥ ५,७.२० ॥ हाहा क्वासाविति जनो गोपीनामतिविह्वलः । यशोदया समं भ्रान्तो द्रुतप्रस्खलितं ययौ ॥ ५,७.२१ ॥ नन्दगोपश्च गोपाश्च रामश्चाद्भुतविक्रमः । त्वरितं यमुनां जग्मुः कृष्णदर्शनलालासाः ॥ ५,७.२२ ॥ ददृशुश्चापि ते तत्र सर्पराजवशङ्गतम् । निष्प्रयत्नीकृतं कृष्णं सर्पभोगविवेष्टितम् ॥ ५,७.२३ ॥ नन्दगोपोपि निश्चेष्टो न्यस्य पुत्रमुखे दृशम् । यशोदा च महाभागा बभूव मुनिसत्तम ॥ ५,७.२४ ॥ गोप्यस्त्वन्या रुदन्त्यश्च ददृशुः शोककातराः । प्रोचुश्च केशवं प्रीत्या भयकातर्यगद्गदम् ॥ ५,७.२५ ॥ गोप्य ऊचुः सर्वा यशोदया सार्ध विशामोत्र महाह्रदम् । सर्पराजस्य नो गन्तुमस्माभिर्युज्यते व्रजम् ॥ ५,७.२६ ॥ दिवसः सो विना सूर्यं विना चन्द्रेण का निशा । विना वृषेण का गावो विना कृष्णेन को व्रजः ॥ ५,७.२७ ॥ विनाकृता न यास्यामः कृष्णेनानेन गोकुलम् । अरम्यं नातिसेव्यं च वारिहीनं यथा सरः ॥ ५,७.२८ ॥ यत्र नेन्दीवरश्यामकायकान्तिरयं हरिः । तेनापि पातुर्वासेन रतिरस्तीति विस्मयः ॥ ५,७.२९ ॥ उत्फुल्लपङ्कजदलस्पष्टकान्तिविलोचनम् । अपश्यन्तो हरिं दीनाः कथं गोष्ठे भविष्यथ ॥ ५,७.३० ॥ अत्यन्त मधुरालापहृताशेषमनोरथम् । न विना पुण्डरीकाक्षं यास्यामो नन्दगोकुलम् ॥ ५,७.३१ ॥ भोगेनाविष्टितस्यापि सर्पराजस्य पश्यत । स्मितशोभिमुखं गोप्यः कृष्णस्यास्मद्विलोकने ॥ ५,७.३२ ॥ श्रीपराशर उवाच इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः । गोपांश्च त्रासविधुरान्वि लोक्य स्तिमितेक्षणान् ॥ ५,७.३३ ॥ नन्दं च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने । मूर्छाकुलां यशोदं च कृष्णमाहात्मसंज्ञया ॥ ५,७.३४ ॥ किमिदं देवदेवेश भावोऽयं मानुषस्त्वया । व्यज्यतेत्यन्तमात्मानं किमनन्तं न वोत्सि यत् ॥ ५,७.३५ ॥ त्वमेव जगतो नाभिरराणामिव संश्रयः । कर्तापहर्ता पाता च त्रौलोक्यं त्वं त्रयीमयः ॥ ५,७.३६ ॥ सेन्द्रै रुद्राग्निवसुभिरादित्यैर्मरुदश्विभिः । चिन्त्यसे त्वमचिन्त्यात्मन् समस्तैश्चैव योगिभिः ॥ ५,७.३७ ॥ जगत्यर्थं जगन्नाथ भारावतरणेच्छया । अवतीर्णोऽसि मर्त्येषु तवांशश्चाहमग्रजः ॥ ५,७.३८ ॥ मनुष्यलीलां भगवन् भजता भवता सुराः । विडम्बयन्तस्त्वल्लीलां सर्व एव सहा सते ॥ ५,७.३९ ॥ अवतार्य भवान्पूर्वं गोकुले तु सुराङ्गनाः । क्रीडार्थमात्मनः पश्चादवर्तीर्णोऽसि शाश्वत ॥ ५,७.४० ॥ अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः । गोप्यश्च सीदतः कस्मादेतान्बन्धूनुपेक्षसे ॥ ५,७.४१ ॥ दर्शितो मानुषो भावो दर्शितं बालचापलम् । तदयं दम्यतां कृष्ण दुष्टत्मा दशनायुधः ॥ ५,७.४२ ॥ श्रीपराशर उवाच इति संस्मारितः कृष्णः स्मितभिन्नोष्ठसंपुटः । आस्फोट्य मोचयामास स्वदेहं भोगिबन्धनात् ॥ ५,७.४३ ॥ आनम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं शिरः । आरुह्याभुग्नशिरसः प्रणनर्तोरुविक्रमः ॥ ५,७.४४ ॥ प्राणाः फणेऽभवंश्चास्य कृष्णस्याङ्घ्रिनिकुट्टनैः । यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः ॥ ५,७.४५ ॥ मूर्छामुपाययौ भ्रान्त्या नागः कृष्णस्य रेचकैः । दण्डपातनिपातेन ववाम रुधिरं बहु ॥ ५,७.४६ ॥ तं विभिग्रशिरोग्रीवमास्येभ्यस्मुतशोणितम् । विलोक्य करुणं जग्मुस्तत्पत्न्यो मधुसूदनम् ॥ ५,७.४७ ॥ नागपत्न्य ऊचुः ज्ञातोऽसि देवदेवेश सर्वज्ञस्त्वमनुत्तमः । परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः ॥ ५,७.४८ ॥ न समर्थाः सुराःस्तोतुं यमनन्यभवं विभुम् । स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ॥ ५,७.४९ ॥ यस्याखिलमहीर्व्योमजलाग्निपवनात्मकम् । ब्रह्माण्डमल्पकाल्पांशः स्तोष्यामस्तं कथं वयम् ॥ ५,७.५० ॥ यमतो न विदुर्नित्यं यत्स्वरूपं हि योगिनः । परमार्थमणोरल्पं स्थूलात्स्थूलं नताः स्म तम् ॥ ५,७.५१ ॥ न यस्य जन्मने धाता यस्य चान्ताय नान्तकः । स्थितिकर्ता न चान्योस्ति यस्य तस्मै नमःसदा ॥ ५,७.५२ ॥ कोपः स्वल्पोऽपि ते नास्ति स्थितिपालनमेव ते । कारणं कालिय स्यास्य दमने श्रुयतां वचः ॥ ५,७.५३ ॥ स्त्रियोनुकंप्याःसाधूनां मूढा दीनाश्च जन्तवः । यतस्ततोस्य दीनस्य क्षम्यतां क्षमतांवर ॥ ५,७.५४ ॥ समस्त जगदावारो भवानल्पबलः फणी । त्वत्पादपीडितो जह्यान्मुहूर्तार्धन जीवितम् ॥ ५,७.५५ ॥ क्व पन्नगोऽ ल्पवीर्योऽयं क्व भवान्भुवनाश्रयः । प्रीतिद्वेषौ समोत्कृष्टगोचरौ भवतोऽव्यय ॥ ५,७.५६ ॥ ततः कुरु जगत्स्वामिन्प्रसादमवसीदतः । प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम् ॥ ५,७.५७ ॥ भुवनेश जगन्नाथ महापुरुषपूर्वज । प्राणांस्त्यजति नागोऽयं भर्तृभिक्षां प्रयच्छ नः ॥ ५,७.५८ ॥ वेदान्तवेद्य देवेश दुष्टदैत्यनिबर्हम । प्राणांस्त्यजति नागोऽयं भर्तभिक्षा प्रदीयताम् ॥ ५,७.५९ ॥ श्रीपराशर उवाच इत्युक्ते ताभिराश्वस्य क्लान्तदेहोपि पन्नगः । प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ ५,७.६० ॥ कालिय उवाच तवाष्टगुणमैश्वर्यं नाथ स्वाभाविकं परम् । निरस्तातिशयं यस्य तस्य स्तोष्यामि कित्र्वहम् ॥ ५,७.६१ ॥ त्वं परस्त्वं परस्याद्यः परं त्वत्तः परात्मक । परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किन्न्वहम् ॥ ५,७.६२ ॥ यस्माद्बह्माच रुद्रश्च चन्द्रेद्रमरुदश्विनः । वसवश्च सहादित्यैस्तस्य स्तोष्यामि कित्र्वहम् ॥ ५,७.६३ ॥ एकावयवसूक्ष्मांशो यस्यैतदखिलं जगत् । कल्पनावयवस्यांशस्तस्य स्तोष्यामि कित्र्वहम् ॥ ५,७.६४ ॥ सदसद्रूपिणो यस्य ब्रह्माद्यास्त्रिदशेश्वराः । परमार्थं न जानन्ति तस्य स्तोष्यामि कित्र्वहम् ॥ ५,७.६५ ॥ ब्रह्माद्यौरर्चिते यस्तु गन्धपुष्पानुलेपनैः । नन्दनादिसमुद्भूतैः सोर्च्यते वा कथं मया ॥ ५,७.६६ ॥ यस्यावताररूपाणि देवराजःसदार्चति । न वेत्ति परमं रूपं सोर्ऽच्यते वा कथं मया ॥ ५,७.६७ ॥ विषयेभ्यः समावृत्त्य सर्वाक्षाणि च योगिनः । यमर्चयन्ति ध्यानेन सोर्ऽच्यते वा कथं मया ॥ ५,७.६८ ॥ हृदि संकल्प्य यद्रूपं ध्यानेनार्चन्ति योगिनः । भावपुष्पादिना नाथः सोर्च्यते वा कथं मया ॥ ५,७.६९ ॥ सोऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च । सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ॥ ५,७.७० ॥ सर्पजातिरियं क्रुरा यस्यां जातोस्मि केशव । तत्स्वभावोऽयमत्रास्ति नापराधो ममाच्युत ॥ ५,७.७१ ॥ सृज्यते भवता सर्वं तथा संह्रीयते जगत् । जातिरूपस्वभावाश्च सृज्यन्ते सृजता त्वया ॥ ५,७.७२ ॥ यथाहं भवता सृष्टो जात्या रूपेण चेश्वर । स्वभावेन च साधुत्वं तथेदं चेष्टितं मया ॥ ५,७.७३ ॥ यद्यन्यथा प्रवर्तेयं देवदेव ततो मयि । न्यायो दण्डनिपातो वै तवैववचनं यथा ॥ ५,७.७४ ॥ तथाप्यज्ञे जगत्स्वामिन्दण्डं पातितवान्मयि । स श्लाघ्योऽयं परो दण्डस्त्वत्तो मे नान्यतो वरः ॥ ५,७.७५ ॥ हतवीर्यो हतविषो दमितोऽहं त्वयाच्युत । जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ ५,७.७६ ॥ श्रीभगवानुवाच नात्र स्थेयन्त्वया सर्प कदाचिद्यमुनाजले । सपुत्रपरिवारस्त्वं समुद्रसलिलं व्रज ॥ ५,७.७७ ॥ मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे । गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ॥ ५,७.७८ ॥ श्रीपराशर उवाच इत्युक्त्वा सर्पराजं तं मुमोच भगवान्हरिः । प्रणम्य सोऽपि कृष्णाय जगाम पयसां निधिम् ॥ ५,७.७९ ॥ पश्यतां सर्वभूतानां सभृत्यसुतबान्धवः । समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ॥ ५,७.८० ॥ गते सर्पे परिष्वज्य मृतं पुनरिवागतम् । गोपा मूर्धनि हार्देन सिषिचुर्नेत्रजैर्जलैः ॥ ५,७.८१ ॥ कृष्णामाक्लिष्टकर्माणमन्ये विस्मितचेतसः । तुष्टुवुर्मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ॥ ५,७.८२ ॥ गीयमानः स गोपीभिश्चारितैः साधुचेष्टितैः । संस्तूयमानो गोपैश्च कृष्णो व्रजमुपागमत् ॥ ५,७.८३ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तमोऽध्यायः (७) _____________________________________________________________ श्रीपराशर उवाच गाः पालयन्तौ च पुनः सहितौ बलकेशवौ । भ्रममाणौ वने तस्मिन्रम्यं तालवनं गतौ ॥ ५,८.१ ॥ तत्तु तालवनं दिव्यं धेनुको नाम दानवः । मृगमांसकृताहारः सदाध्यास्ते खराकृतिः ॥ ५,८.२ ॥ तत्तु तालवनं पक्वफलसंपत्समन्वितम् । दृष्ट्वा स्पृहान्विता गोपा फलादानेऽब्रुवन्वचः ॥ ५,८.३ ॥ गोपा ऊचुः हे राम हे कृष्ण सदा धेनुकेनैष रक्ष्यते । भूप्रदेशो यतस्तस्मात्पक्वानीमानि संति वै ॥ ५,८.४ ॥ फलानि पश्य तालानां गन्धामोदितदिंशि वै । वयमेतान्यभीप्सामः पात्यन्तां यदि रोचते ॥ ५,८.५ ॥ श्रीपराशर उवाच इति गोपकुमाराणां श्रुत्वा संकर्षणो वचः । एतत्कर्तव्यमित्युक्त्वा पातयामास तानि वै । कृष्णश्च पातयामास भुवितानि फलानि वै ॥ ५,८.६ ॥ फलानां पततां शब्दमाकर्ण्य सुदुरासदः । आजगाम स दुष्टात्मा कोपाद्दैतेयगर्दभः ॥ ५,८.७ ॥ पद्भ्यामुभाभ्यां स तदा पश्चिमाभ्यां बलं बली । जघानोरसि ताभ्यां च स च तेनाभ्यगृह्यत ॥ ५,८.८ ॥ गृहीत्वा भ्रामयामास सोंऽबरे गतजीवितम् । तस्मिन्नेव स चिक्षेप वेगेन तृणराजनि ॥ ५,८.९ ॥ ततः फलान्यनेकानि तालाग्रान्निपतन्खरः । पृथिव्यां पातयामास महावातो घनानिव ॥ ५,८.१० ॥ अन्या नथ सजातीयानागतान्दैत्यगर्दभान् । कृष्णश्चिक्षेप तालाग्रे बलभद्रश्च लीलया ॥ ५,८.११ ॥ क्षणेनालङ्कृता पृथ्वी पक्वैस्तलफलैस्तदा । दैत्य गर्दभदेहैश्च मैत्रेय शुशुभेऽधिकम् ॥ ५,८.१२ ॥ ततो गावो निराबाधास्तस्मिंस्तलवने द्विज । नवशष्वं सुखं चेरुर्यन्न भुक्तमभूत्पुरा ॥ ५,८.१३ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशेऽष्टमोऽध्यायः (८) _____________________________________________________________ श्रीपराशर उवाच तस्मिन्रासभदैतेये सानुगे विनिपातिते । सौम्यं तद्गोपगोपीनां रम्यं तालवनं बभौ ॥ ५,९.१ ॥ ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ । हत्वा धेनुकदैतेयं भाण्डीरवटमागतौ ॥ ५,९.२ ॥ क्ष्वेलमानौ प्रगायन्तौ विचिन्वन्तौ च पादपान् । चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः ॥ ५,९.३ ॥ निर्योगपाशस्कन्धौ तौ वनमालाविभूषितौ । शुशुभाते महात्मानौ बलाशृङ्गाविवर्षभौ ॥ ५,९.४ ॥ सुवर्णाञ्जनचूर्णाभ्यां तौ तदा रूषितांबरौ । महेन्द्रायुधसंयुक्तौ श्वेतकृष्णाविवांबुदौ ॥ ५,९.५ ॥ चेरतुर्लौकसिद्धाभिः क्रीडाभिरितरेतरम् । समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ ५,९.६ ॥ मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् । तज्जातिगुणयुक्ताभिः क्रिडाभिश्चेरतुर्वनम् ॥ ५,९.७ ॥ ततस्त्वान्दोलिकाभिश्च नियुद्धैश्च महाबलौ । व्यायामं चक्रतुस्तत्र क्षेपणीयैस्तथाश्मभिः ॥ ५,९.८ ॥ तल्लिप्सुरसुरस्तत्र ह्युभयो रममाणयोः । आजगाम प्रलंबाख्यो गोपवेषतिरोहितः ॥ ५,९.९ ॥ सोऽवगाहत निःशङ्कस्तेषां मध्यममानुषः । मानुषं वपुरास्थाय प्रलंबो दानवोत्तमः ॥ ५,९.१० ॥ तयोशिछ्द्रान्तरप्रेप्सुरविषह्यममन्यत । कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ ५,९.११ ॥ हरिणाक्रीडनं नाम बालक्रीडनकं ततः । प्रकुर्वन्तो हि ते सर्वे द्वौद्वौ युगपदुत्थितौ ॥ ५,९.१२ ॥ श्रीदाम्ना सह गोविन्दः प्रलंबेन तथा बलः । गोपालौरपरैश्चान्ये गोपालाः पुप्लुवुस्ततः ॥ ५,९.१३ ॥ श्रीदामानं ततः कृष्णः प्रलंबं रोहिणीसुतः । जितवान्कृष्णपक्षीयैर्गोपैरन्ये पराजिताः ॥ ५,९.१४ ॥ ते वाहयन्तस्त्वन्योन्यं भाण्डीरं वटमेत्य वै । पुनर्निववृतुःसर्वे येये तत्र परिजिताः ॥ ५,९.१५ ॥ संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्यदानवः । नभःस्थलं जगामाशु सचन्द्र इव वारिदः ॥ ५,९.१६ ॥ असहन्रौहिणेयस्य स भारं दानवोत्तमः । ववृधे स महाकायः प्रावृषीव बलाहकः ॥ ५,९.१७ ॥ संकर्षणस्तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् । स्रग्दामलंबाभरणं मकुटाटोपमस्तकम् ॥ ५,९.१८ ॥ रौद्रं शकटचक्राक्षं पादन्यास चलत्क्षितिम् । अभीतमनसा तेन रक्षसा रोहिणीसुतः । ह्रियमामस्ततः कृष्णमिदं वचनमब्रवीत् ॥ ५,९.१९ ॥ कृष्णाकृष्ण ह्रियाम्येष पर्वतोदग्रमूर्तिना । केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ ५,९.२० ॥ यदत्र सांप्रतं कार्यं मया मधुनिषूदन । तत्कथ्यतां प्रयात्येष दुरात्मातित्वरान्वितः ॥ ५,९.२१ ॥ श्रीपराशर उवाच तमाह रामं गोविन्दःस्मितभिन्नोष्ठसंपुटः । महात्मा रौहिणेयस्य बलवीर्यप्रमामावित् ॥ ५,९.२२ ॥ श्रीकृष्ण उवाच किमयं मानुषो भावो व्यक्तमेवावलंब्यते । सर्वात्मन् सर्वगुह्यानां गुह्यगुह्यात्मना त्वया ॥ ५,९.२३ ॥ स्मराशेषजगद्बीजकारणं कारणाग्रज । आत्मानमेकं तद्वच्च जगत्येकार्णवे च यत् ॥ ५,९.२४ ॥ किं न वेत्सि यथाहं च त्वं चैकं कारणं भुवः । भारावतारणार्थाय मर्त्यलोकमुपागतौ ॥ ५,९.२५ ॥ नभशिश्रस्तेंबुवहाश्च केशाः पादौ क्षितिर्वत्र्क्रमनन्तवह्नि । सोमो मनस्ते श्वसितं समीरणो दिशश्चतस्रोऽव्यय बाहवस्ते ॥ ५,९.२६ ॥ सहस्रबत्र्क्रो भगवान्महात्मा सहस्रहस्ताङ्घ्रिशरीरभेदः । सहस्रपद्मोद्भवयोनिराद्यःसहस्रशस्त्वां मुनयो गृणन्ति ॥ ५,९.२७ ॥ दिव्यं हि रूपं तव वेत्ति नान्यो देवैरशेषैरवताररूपम् । तदर्च्यते वेत्सि न किं यदन्ते त्वय्येव विश्वं लयमभ्युपैति ॥ ५,९.२८ ॥ त्वया धृतेयं धरणी बिभर्ति चराचरं विश्वमनन्तमूर्ते । कृतादिभेदैरज कालरूपो निमेषपूर्वो जगदेतदत्सि ॥ ५,९.२९ ॥ अत्तं यथा वडाववह्निनांबु हिमस्वरूपं परिगृह्य कास्तम् । हिमाचले भानुमतोंशुसंगाज्जलत्वमभ्येति पुनस्तदेव ॥ ५,९.३० ॥ एवं त्वया संहरणेऽत्तमेतज्जगत्समस्तं त्वदधीनकं पुनः । तवैव सर्गाय समुद्यतस्य जगत्त्वमभ्येत्यसुकल्पमीश ॥ ५,९.३१ ॥ भवानहं च विश्वात्मन्नेकमेव च कारणम् । जगतोस्य जगत्यर्थे भेदेनावां व्यवस्थितौ ॥ ५,९.३२ ॥ तत्स्मर्यताममेयात्मस्त्वयात्मा जहि दानवम् । मानुष्यमेवावलंब्य बन्धूनां क्रियतां हितम् ॥ ५,९.३३ ॥ श्री पराशर उवाच इति संस्मारितो विप्र कृष्णेन सुमहात्मना । विहस्य पीडयामास प्रलंबं बलवान्बलः ॥ ५,९.३४ ॥ मुष्टिना सोहनन्मूर्ध्नि कोपसंरक्तलोचनः । तेन चास्य प्रहारेण बहिर्याते विलोचने ॥ ५,९.३५ ॥ स निष्कासितमस्तिष्को मुखाच्छोणितमुद्वमन् । निपपात महीपृष्ठे दत्य वर्यो ममार च ॥ ५,९.३६ ॥ प्रलंबं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा । प्रहृष्टास्तुष्टुवुर्गौपाःसाधुसाध्विति चाब्रुवन् ॥ ५,९.३७ ॥ संस्तूयमानो गोपैस्तु रामो दैत्ये निपातिते । प्रलंबं सह कृष्णेन पुनर्गोकुलमाययौ ॥ ५,९.३८ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे नवमोऽध्यायः (९) _____________________________________________________________ श्रीपराशर उवाच तयोर्विहरतोरेवं रामकेशवयोर्व्रजे । प्रावृड्व्यतीता विकसत्सरोजा चाभवच्छरत् ॥ ५,१०.१ ॥ अवापुस्तापमत्यर्थं शफर्यः पल्वलोदके । पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही ॥ ५,१०.२ ॥ मयुरा मौनमातस्थुः परित्यक्तमदा वने । असारतां परिज्ञाय संसारस्येव योगिनः ॥ ५,१०.३ ॥ उत्सृज्य जलसर्वस्वं विमलाःसितमूर्तयः । तत्यजुश्चांबरं मेघा गृहं विज्ञानिनो यथा ॥ ५,१०.४ ॥ शरत्सूर्यांशुतप्तानि ययुः शोषं सरांसि च । बह्वालंबममत्वेन हृदयानीव देहिनाम् ॥ ५,१०.५ ॥ कुमुदैः शरदंभांसि योग्यतालक्षणं ययुः । अवबोधैर्मनांसीव समत्वममलात्मनाम् ॥ ५,१०.६ ॥ तारकाविमले व्योम्नि रराजाखण्डमण्डलः । चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा ॥ ५,१०.७ ॥ शनकैः शनकैस्तीरं तत्यजुश्च जलाशयाः । ममत्वं क्षेत्रपुत्रादिरूढमुच्चैर्यथा बुधाः ॥ ५,१०.८ ॥ पूर्वं त्यक्तैः सरोंभोभिर्हंसा योगं पुनर्ययुः । क्लेशैः कुयोगिनो शेषैरन्तरायहता इव ॥ ५,१०.९ ॥ निभृतो भवदत्यर्थं समुद्रःस्तिमितोदकः । क्रमावाप्तमहायोगो विश्चलात्मा यथा यतिः ॥ ५,१०.१० ॥ सर्वत्रातिप्रसन्नानि सलिलानि तथाभवन् । ज्ञाते सर्वगते विष्णौ मनांसीव सुमेधसाम् ॥ ५,१०.११ ॥ बभूव निर्मलं व्योम शरदा ध्वस्ततोयदम् । योगाग्निदग्धक्लेशौघं योगिनामिव मानसम् ॥ ५,१०.१२ ॥ सूर्यांशुजनितं तापं नित्ये तारापतिः शमम् । अहंमानोद्भवं दुःखं विवेकः सुमहानिव ॥ ५,१०.१३ ॥ नभसोब्दं भुवः पङ्कं कालुष्यं चांभसः शरत् । इन्द्रियाणीन्द्रियार्थेभ्यः प्रत्याहार इवाहरत् ॥ ५,१०.१४ ॥ प्राणायाम इवांभोभिः सरसां कृतपूरकैः । अभ्यस्यतेऽनुदिवसं रेचकाकुंभकादिभिः ॥ ५,१०.१५ ॥ विमलांबरनक्षत्रे काले चाभ्यागते व्रजे । ददर्शेद्रो महारंभायोद्यतांस्तान्व्रजौकसः ॥ ५,१०.१६ ॥ कृष्णस्तानुत्सुकान्दृष्ट्वा गोपानुत्सवलालसान् । कौतूहलादिदं वाक्यं प्राह वृद्धान्महामतिः ॥ ५,१०.१७ ॥ कोऽयं शक्रमहो नाम येन वो हर्ष आगतः । प्राह तं नन्दगोपश्च पृच्छन्तमतिसादरम् ॥ ५,१०.१८ ॥ नन्दगोप उवाच मेघानां पयसां चेशो देवराजः शतक्रतुः । तेन संचोदिता मेघा वर्षत्यंहुमयं रसम् ॥ ५,१०.१९ ॥ तद्वृष्टिजनितं सस्यं वयमन्ये च देहिनः । वर्तयामोपयुञ्जानास्तर्पयामश्च देवताः ॥ ५,१०.२० ॥ क्षीरवत्य इमा गावो वत्सवत्यश्च निर्वृताः । तेन संवर्धितैः सस्यैस्तुष्टाः पुष्टाः भवन्ति वै ॥ ५,१०.२१ ॥ नासस्या नातृणा भूमिर्न बुभुक्षार्दितो जनः । दृश्यते यत्र दृस्यन्ते वृष्टिमन्तो बलाहकाः ॥ ५,१०.२२ ॥ भौममे तत्पयो दुग्धं गोभिः सूर्यस्य वारिदैः । पर्जन्यःसर्वलोकस्योद्भवाय भुवि वर्षति ॥ ५,१०.२३ ॥ तस्मात्प्रावृषि राजानःसर्वे शक्रं मुदा युताः । मखैः सुरेशमर्चन्ति वयमन्ये च मानवाः ॥ ५,१०.२४ ॥ श्रीपराशर उवाच नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने । रोषाय त्रिदशेन्द्रस्य प्राहदामोदरस्तदा ॥ ५,१०.२५ ॥ न वयं कृषिकर्तारो वाणिज्याजीविनो न च । गावोस्मद्दैवतं तात वयं वनचरा यतः ॥ ५,१०.२६ ॥ आन्विक्षिकी त्रयी वार्ता दण्डनितिस्तथा परा । विद्या चतुष्टयं चैतद्वार्तमात्रं शृणुष्व मे ॥ ५,१०.२७ ॥ कृषिर्वणिज्या तद्वच्च तृतीयं पशुपालनम् । विद्या ह्येका महाभाग वार्ता वृत्तित्रयाश्रया ॥ ५,१०.२८ ॥ कर्षकाणां कृषिर्वृत्तिः पण्यं विपणीजीविनाम् । अस्माकं गौः परावृत्तिर्वार्ताभेदैरियं त्रिभिः ॥ ५,१०.२९ ॥ विद्यया यो यया युक्तस्तस्य सा दैवतं महत् । सैव पूज्यार्च नीया च सैव तस्योपकारिका ॥ ५,१०.३० ॥ यो यस्य फलमश्रन्वै पूजयत्यपरं नरः । इह च प्रेत्य चैवासौ न तदाप्नोति शोभनम् ॥ ५,१०.३१ ॥ कृष्यान्ता प्रथिता सीमा मीमान्तं च पुनर्वनम् । वनान्ता गिरयःसर्वे ते चास्माकं परा गतिः ॥ ५,१०.३२ ॥ न द्वारबन्धावरणा न गृहक्षेत्रिणस्तथा । सुखिनस्त्वखिले लोके यथा वै चक्रचारिणः ॥ ५,१०.३३ ॥ श्रूयन्ते गिरयश्चैव वनेस्मिन्कामरूपिणः । तत्तद्रूपं समास्थाय रमन्ते स्वेषु सानुषु ॥ ५,१०.३४ ॥ यदा चैते प्रबाध्यन्ते तेषां ये काननौकसः । तदा सिंहादिरूपैस्तान्घातयन्ति महीधराः ॥ ५,१०.३५ ॥ गिरीयज्ञस्त्वयं तस्माद्गोयज्ञश्च प्रवर्त्यताम् । किमस्माकं महेन्द्रेण गावः शैलाश्च देवताः ॥ ५,१०.३६ ॥ मन्त्रयज्ञपरा विप्राःसीरयज्ञाश्च कर्षकाः । गिरिगोयज्ञशीलाश्च वयमद्रिवनाश्रयाः ॥ ५,१०.३७ ॥ तस्माद्गोवर्धनः शैलो भवद्भिर्विविधार्हणैः । अर्च्यतां पूज्यतां मेध्यान्पशुन्हत्वा विधानतः ॥ ५,१०.३८ ॥ सर्वघोषस्य संदोहो गृह्यतां मा विचार्यताम् । भोज्यन्तां तेन वै विप्रास्तथा ये चाभिवाञ्छकाः ॥ ५,१०.३९ ॥ तत्रार्चिते कृते होमे भोजितेषु द्विजातिषु । शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः ॥ ५,१०.४० ॥ एतन्मम मतं गोपाःसंप्रीत्या क्रियते यदि । ततः कृता भवेत्प्रीतिर्गवामद्रेस्तथा मम ॥ ५,१०.४१ ॥ श्रीपराशर उवाच इति तस्य वचः श्रुत्वा वन्दाद्यास्ते व्रजौकसः । प्रीत्युत्फुल्लमुखा गोपाःसाधुसाध्वित्यथाब्रुवन् ॥ ५,१०.४२ ॥ शोभनं ते मतं वत्स यदेतद्भवतोदितम् । तत्करिष्यामहे सर्वं गिरियज्ञः प्रवर्त्यताम् ॥ ५,१०.४३ ॥ तथा च कृतवन्तस्ते गिरियज्ञ व्रजौकसः । दधिपायसमांसाद्यैर्ददुः शैलबलिं ततः ॥ ५,१०.४४ ॥ द्विजांश्च भोजयामासुस्शातशौऽथ सहस्रशः ॥ ५,१०.४५ ॥ गावः शैलं ततश्चकुरर्चितास्ताः प्रदक्षिणम् । वृषभाश्चातिनर्दन्तःसतोया जलदा इव ॥ ५,१०.४६ ॥ गिरिमूर्धनि कृष्णोऽपि शैलोहमिति मूर्तिमान् । बुभुजेन्नं बहुतरं गोपवर्याहृतं द्विज ॥ ५,१०.४७ ॥ स्वेनैव कृष्णो रूपेण गोपैः सह गिरेः शिरः । अधिरुह्यार्चयामास द्वितीयामात्मनस्तनुम् ॥ ५,१०.४८ ॥ अन्तर्धानं गते तस्मिन्गोपा लब्ध्वा ततो वरान् । कृत्वा गिरीमखं गोष्ठं निजमब्याययुः पुनः ॥ ५,१०.४९ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे दशमोऽध्यायः (१०) _____________________________________________________________ श्रीपराशर उवाच मखे प्रतिहते शक्रो मैत्रेयातिरुषान्वितः । संवर्तकं नाम गणं तोयदानामथाब्रत्रीत् ॥ ५,११.१ ॥ भोभो मेधा निशम्यैतद्वचनं गदतो मम । आज्ञानन्तरमेवाशु क्रियतामविचारितम् ॥ ५,११.२ ॥ नन्दगोपःसुदुर्बुद्धिर्गोपैरन्यैः सहायवान् । कृष्णाश्रयं बलाध्मातो मखभङ्गमचीकरत् ॥ ५,११.३ ॥ आजीवो याः परस्तेषां गावस्तस्य च कारणम् । तागावो वृष्टिपातेन पीड्यन्तां वचनान्मम ॥ ५,११.४ ॥ अहमप्यद्रिशृङ्गाभं तुङ्गमारुह्य वारणम् । साहाय्यं वः करिष्यामि वाय्वम्बूत्सर्गयोजितम् ॥ ५,११.५ ॥ श्रीपराशर उवाच इत्याज्ञप्तास्ततस्तेन मुमुचुस्ते बलाहकाः । वातवर्षं महाभीममभावाय गवां द्विज ॥ ५,११.६ ॥ ततः क्षणेन पृथिवी ककुभोंबरमेव च । एकं धारामहासारपूरेणनाभवन्मुने ॥ ५,११.७ ॥ विद्युल्लताकषाघातत्रस्तैरिव घनैर्घनम् । नादापूरितदिक्चक्रैर्धारासारमपात्यत ॥ ५,११.८ ॥ अन्धकारीकृते लोके वर्षद्भिरनिशं घनैः । अधश्चोर्ध्वं च तिर्यक्च जगदाप्यमिवाभवत् ॥ ५,११.९ ॥ गावस्तु तेन पतता वर्षवातेन वागिना । धूताः प्राणाञ्जहुः सन्नत्रिकसक्थिसिरोधराः ॥ ५,११.१० ॥ क्रोडेन वत्सानाक्रम्य तस्थुरन्या महामुने । गावो विवत्साश्च कृता वारिपूरेण चापराः ॥ ५,११.११ ॥ वत्साश्च दीनवदना वातकंपितकन्धराः । त्राहित्राहीत्यल्पसब्दाः कृष्णमूचुरिवातुराः ॥ ५,११.१२ ॥ ततस्तद्गोकुलं सर्वं गोगोपीगोपसंकुलम् । अतीवार्तं हरिर्दष्ट्वा मैत्रेयाचिन्तयत्तदा ॥ ५,११.१३ ॥ एतत्कृतं महेन्द्रेण सखभङ्गविरोधिना । तदेतदखिलं गोष्ठं त्रातव्यमधुना माय ॥ ५,११.१४ ॥ इममद्रिमहं धैर्यादुत्पाट्योरुशिखाघनम् । धारयिष्यामि गोष्ठस्य पृथुच्छत्रमिवोपरि ॥ ५,११.१५ ॥ श्रीपराशर उवाच इति कृत्वामतिं कृष्णो गोवर्धनमहीधरम् । उत्पाट्यैककरेणेव धारयामास लीलया ॥ ५,११.१६ ॥ गोपांश्चह हसञ्छौरिःसमुत्पाटितभूधरः । विशध्वमत्रत्वरिताः कृतं वर्षनिवारणम् ॥ ५,११.१७ ॥ सुनिवातेषु देशेषु यथा जोषमिहास्यताम् । प्रविश्यतां न भेतव्यं गिरीपाताच्च निर्भयैः ॥ ५,११.१८ ॥ इत्युक्तास्तेन ते गोपा विविशुर्गोधनैः सह । शकटारोपितैर्भाडैर्गोप्यश्चासारपीडिताः ॥ ५,११.१९ ॥ कृष्णोपि तं दधारैव शैलमत्यन्तनिश्चलम् । व्रजौकवासिभिर्हर्षविस्मिताक्षैर्निरिक्षितः ॥ ५,११.२० ॥ गोपगोपीजनैर्हृष्टैः प्रीतिविस्तारितेक्षणैः । संस्तूयमानचरितः कृष्णः शैलमधारयत् ॥ ५,११.२१ ॥ सप्तरात्रं महामेधा ववर्षुर्नन्दगोकुले । इन्द्रेण चोदिता विप्र गोपानां नाशकारिणा ॥ ५,११.२२ ॥ ततो धृते महाशैले परित्राते च गोकुले । मिथ्याप्रतिज्ञो बलभिद्वारयामास तान्घनान् ॥ ५,११.२३ ॥ व्यभ्रे नभसि देवेन्द्रे वितथात्मवचस्यथ । निष्क्रम्य गोकुलं हृष्टं स्वस्थानं पुनरागमत् ॥ ५,११.२४ ॥ मुमोच कृष्णोपि तदा गोवर्धनमहाचलम् । स्वस्थाने विस्मितमुखैर्दृष्टस्तैस्तु व्रजौकसैः ॥ ५,११.२५ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांश एकादशोऽध्यायः (११) _____________________________________________________________ श्रीपराशर उवाच धृते गोवर्धने शैले परित्राते च गोकुले । रोजयामास कृष्णस्यदर्शनं पाकशासनः ॥ ५,१२.१ ॥ सोऽधिरुह्य महानागमैरावतममित्रजित् । गोवर्धनगिरौ कृष्णं ददर्श त्रिदशेश्वरः ॥ ५,१२.२ ॥ चारयन्तं महावीर्यं गास्तु गोपवपुर्धरम् । कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ॥ ५,१२.३ ॥ गरुडं च ददर्शोच्चैरन्तर्धानगतं द्विज । कृतच्छायं हरेर्मूर्ध्नि पक्षाभ्यां पक्षिपुङ्गवम् ॥ ५,१२.४ ॥ अवरुह्य स नागेन्द्रादेकान्ते मधुसूदनम् । शक्रःसस्मितमाहेदं प्रीतिविस्तारितेक्षणः ॥ ५,१२.५ ॥ इन्द्र उवाच कृष्णकृष्ण शृणुष्वेदं यदर्थ महामागतः । त्वत्समीपं महाबाहो नैतच्चिन्त्यं त्वायान्यथा ॥ ५,१२.६ ॥ भारावतारणार्थाय पृथिव्याः पृथिवीतले । अवतीर्णोऽखिलाधार त्वमेव परमेश्वर ॥ ५,१२.७ ॥ मखभङ्गविरोधेन मया गोकुलानाशकाः । समादिष्टा महामेघास्तैश्चेदं कदनं कृतम् ॥ ५,१२.८ ॥ त्रातास्ताश्च त्वाया गावःसमुत्पाट्य महीधरम् । तेनाहं तोषितो वीरकर्मणात्यद्भुतेन ते ॥ ५,१२.९ ॥ साधिनं कृष्ण देवानामहं मन्ये प्रयोजनम् । त्वयायमद्रिप्रवरः करेणैकेनयद्धृतः ॥ ५,१२.१० ॥ गोभिश्च चोदितः कृष्ण त्वत्सकाशमिहागतः । त्वया त्राताभिरत्यर्थं युष्मत्सत्कारकारणात् ॥ ५,१२.११ ॥ स त्वां कृष्णाभिषेक्ष्यामि गावं वाक्यप्रचोदितः । उपेन्द्रत्वे गवमिद्रो गोविन्दस्त्वं भविष्यसि ॥ ५,१२.१२ ॥ श्रीपराशर उवाच अथोपवाह्यादादाय घण्टामैरावताद्गजात् । अभिषेकं तया चक्रे पवित्रजलपूर्णया ॥ ५,१२.१३ ॥ क्रियमाणेऽभिषेके तु गावः कृष्णस्य तत्क्षणात् । प्रस्नवोद्भूतदुग्धार्द्रां सद्यश्चक्रुर्वसुन्धराम् ॥ ५,१२.१४ ॥ अभिषिच्य गवां वाक्यादुपेन्द्रं वै जनार्दनम् । प्रीत्या सप्रश्रयं वाक्यं पुनराह शचीपतिः ॥ ५,१२.१५ ॥ गवामेतत्कृतं वाक्यं तथान्यदपि मे शृणु । यद्बवीमि महाभाग भारावतरणेच्छया ॥ ५,१२.१६ ॥ ममांशः पुरुषव्याघ्र पृथिव्यां पृथिवीधर । अवतीर्णोर्ऽजुनोनाम संरक्ष्यो भवता सदा ॥ ५,१२.१७ ॥ भारावतरणे साह्यं स ते वीरः करिष्यति । संरक्षणीयो भवता यथात्मा मधुसूदन ॥ ५,१२.१८ ॥ श्रीभगवानुवाच जानामि भारते वंशे जातं पार्थं तवांशतः । तमहं पालयिष्यामि यावत्स्थास्यमि भूतले ॥ ५,१२.१९ ॥ यावन्महीतले शक्र स्थास्याम्यहमरिन्दम । न तावदर्जुनं कश्चिद्देवेन्द्र युधि जेष्यति ॥ ५,१२.२० ॥ कंसो नाम महाबाहुर्दैत्योऽरिष्टस्तथासुरः । केशी कुवलयापीडो नरकाद्यास्तथा परे ॥ ५,१२.२१ ॥ हतेषु तेषु देवेन्द्र भविष्यति महाहवः । तत्र विद्धि सहस्राक्ष भारावतरणं कृतम् ॥ ५,१२.२२ ॥ स त्वं गच्छ न संतापं पुत्रार्थे कर्तुमर्हसि । नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति ॥ ५,१२.२३ ॥ अर्जुनार्थे त्वहं सर्वान्युधिष्ठिरपुरोगमान् । निवृत्ते भारते युद्धे कुन्त्यै दास्याम्यविक्षताम् ॥ ५,१२.२४ ॥ श्रीपराशर उवाच इत्युक्तः संपरिष्वज्य देवाराजो जनार्दनम् । आरुह्यौरावतं नागं पुनरेव दिवं ययौ ॥ ५,१२.२५ ॥ कृष्णो हि सहितो गोभिर्गोपालैश्च पुनर्व्रजम् । आजगामाथ गोपीनां दृष्टिपूतेन वर्त्मना ॥ ५,१२.२६ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वादशोऽध्यायः (१२) _____________________________________________________________ श्रीपराशर उवाच गते शक्रे तु गोपालाः कृष्णमक्लिष्टकारिणम् । ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम् ॥ ५,१३.१ ॥ वयमस्मान्महाभाग भगवन्महतो भयात् । गावश्च भवता त्राता गिरिधारणकर्मणा ॥ ५,१३.२ ॥ बालक्रीडेयमतुला गोपालत्वं जुगुप्सितम् । दिव्यं च भवतः कर्म किमेतत्तात कथ्यताम् ॥ ५,१३.३ ॥ कालीयो दमितस्तोये धेनुको विनिपातितः । धृतो गोवर्धनश्चायं शङ्कितानि मनांसि नः ॥ ५,१३.४ ॥ सत्यं सत्यं हरेः पादौ शपामोऽमित विक्रम । यथावद्वीर्यमालोक्य न त्वां मन्यामहे नरम् ॥ ५,१३.५ ॥ प्रीतिःसस्त्रीकुमारस्य व्रजस्य त्वयि केशव । कर्म चेदमशक्यं यत्समस्तैस्त्रिदशेरपि ॥ ५,१३.६ ॥ बालत्वं चातिवीर्यत्वं जन्म चास्मासु शोभनम् । चिन्त्यमानममेयात्मञ्छङ्कां कृष्ण प्रयच्छति ॥ ५,१३.७ ॥ देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा । किमस्माकं विचारेण बान्धवोऽसि नमोस्तु ते ॥ ५,१३.८ ॥ श्रीपराशर उवाच क्षणं भूत्वा त्वसौ तूष्णीं किञ्चित्प्रणयकोपवान् । इत्येवमुक्तस्तैर्गोपैः कृष्णोऽप्याह महामतिः ॥ ५,१३.९ ॥ श्रीभगवानुवाच मत्संबन्धेन वो गोपा यदि लज्जा न जायते । श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम् ॥ ५,१३.१० ॥ यदि वोऽस्ति मयि प्रीतिः श्लाघ्योऽहं भवतां यदि । तदात्मबन्धुसदृशी बुद्धिर्वः क्रियातां मयि ॥ ५,१३.११ ॥ नाहं देवो न गान्धर्वो न यक्षो न च दानवः । अहं वो बान्धवो जातो नैतच्चिन्त्यमितोऽन्यथा ॥ ५,१३.१२ ॥ श्रीपराशर उवाच इति श्रुत्वा हरेर्वाक्यं बद्धमौनास्ततो वनम् । ययुर्गोपा महाभाग तस्मन्प्रणयकोपिनि ॥ ५,१३.१३ ॥ कृष्णस्तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम् । तदा कुमुदिनीं फुल्लामामोदितदिगन्तराम् ॥ ५,१३.१४ ॥ वनराजीं तथा कूजन्द्भृङ्गमालामनोहराम् । विलोक्य सह गोपीभिर्मनश्चक्रे रतिं प्रति ॥ ५,१३.१५ ॥ विना रामेण मधुरमतीव वनिताप्रियम् । जगौ कलपदं शौरिस्तारमन्द्रकृतक्रमम् ॥ ५,१३.१६ ॥ रम्यं गीतध्वनिं श्रुत्वा संत्यज्यावसथांस्तदा । आजग्मुस्त्वरिता गोप्यो यत्रास्ते मधुसूदनः ॥ ५,१३.१७ ॥ शनैः शनैर्जगौ गोपी काचित्तस्य लयानुगम् । दत्तावधाना काचिच्च तमेव मनसास्मरत् ॥ ५,१३.१८ ॥ काचित्कृष्णेतिकृष्णेति प्रोक्त्वा लज्जामुपाययौ । ययौ च काचित्प्रेमान्धा तत्पार्श्वमविलंबितम् ॥ ५,१३.१९ ॥ काचिच्चावसथस्यान्ते स्थित्वा दृष्ट्वा बहिर्गुरुम् । तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना ॥ ५,१३.२० ॥ तच्चित्तविमलाह्लादक्षीणपुण्यचया तथा । तदप्राप्तिमहादुःखविलीनाशेषपातका ॥ ५,१३.२१ ॥ चिन्तयती जगत्सूतिं परब्रह्मस्वरूपिणम् । निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥ ५,१३.२२ ॥ गोपीपरिवृतो रात्रिं शरच्चन्द्रमनोरमाम् । मानयामास गोविन्दो रासारंभरसोत्सुकः ॥ ५,१३.२३ ॥ गोप्यश्च वृन्दशः कृष्णचेष्टास्वायत्तमूर्तयः । अन्यदेशं गते कृष्णे चेरुर्वृन्दावनान्तरम् ॥ ५,१३.२४ ॥ कृष्णे निबद्धहृदया इदमूचुः परस्परम् ॥ ५,१३.२५ ॥ कृष्णोऽहमेष ललितं व्रजाम्यालोक्यतां गतिः । अन्या ब्रवीन्ति कृष्णस्य मम गीतिर्निशम्यताम् ॥ ५,१३.२६ ॥ दुष्टकालिय तिष्ठात्र कृष्णोहमिति चापरा । बाहुमास्फोट्य कृष्णस्य लीलया सर्वमाददे ॥ ५,१३.२७ ॥ अन्या ब्रवीति भो गोपा निःशङ्कैः स्थीयतामिति । अलं वृष्टिभयेनात्र धृतो गोवर्धनो मया ॥ ५,१३.२८ ॥ धेनुकोऽयं मयाक्षिप्तो विचरन्तु यथेच्छया । गावो ब्रवीति चैवान्या कृष्णलीलानुसारिणी ॥ ५,१३.२९ ॥ एवं नानाप्रकारासु कृष्णचेष्ट सु तास्तदा । गोप्यो व्यग्राःसमं चेरू रम्यं वृन्दावनान्तरम् ॥ ५,१३.३० ॥ विलोक्यैका भुवं प्राह गोपी गोपवराङ्गना । पुलकाञ्चितसर्वाङ्गी विकासिनयनोत्पला ॥ ५,१३.३१ ॥ ध्वजबज्राङ्कुशाब्जाङ्करेखावन्त्यालि पश्यत । पदान्येतानि कृष्णस्य लीलाललितगामिनः ॥ ५,१३.३२ ॥ कापि तेन समायाता कृतपुण्या मदालसा । पदानि तस्याश्चैतानि घनान्यल्पतनूनि च ॥ ५,१३.३३ ॥ पुष्पापचयमत्रोच्चैश्चक्रे दामोदरे ध्रुवम् । येनाग्राक्रान्तमात्राणि पदान्यत्र महात्मनः ॥ ५,१३.३४ ॥ अत्रोपविश्य वै तेन काचित्पुष्पैरलङ्कृता । अन्यजन्मनि सर्वात्मा विष्णुरभ्यर्चितस्तया ॥ ५,१३.३५ ॥ पुष्पबन्धनसंमानकृतमानामपास्य ताम् । नन्दगोपसुतो यातो मार्गेणानेन पश्यत ॥ ५,१३.३६ ॥ अनुयातैनमत्रान्या नितंबभरमन्थरा । या गन्तव्ये द्रुतं याति निम्नपादाग्रसंस्थितिः ॥ ५,१३.३७ ॥ हस्तन्यस्ताग्रहस्तेयं तेन याति तथा सखी । अनायत्तपदन्यासा लक्ष्यते पदपद्धतिः ॥ ५,१३.३८ ॥ हस्तसंस्पर्शमात्रेण धूर्तेनैषा विमानिता । नैराश्यान्मन्दगामिन्या निवृत्तं लक्ष्यते पदम् ॥ ५,१३.३९ ॥ नूनमुक्ता त्वरामीति पुनरेष्यामितेन्तिकम् । तेन कृष्णेन येनैषा त्वरिता पदपद्धतिः ॥ ५,१३.४० ॥ प्रविष्टो गहनं कृष्णः पदमत्र न लक्ष्यते । निवर्तध्वं शशाङ्कस्य नैतद्दी धितिगोचरे ॥ ५,१३.४१ ॥ निवृत्तास्तास्तदा गोप्यो निराशाः कृष्णदर्शने । यमुनातीरमासाद्य जगुस्तच्चरितं तथा ॥ ५,१३.४२ ॥ ततो ददृशुरायान्तं विकासिमुखपङ्कजम् । गोप्यस्त्रैलोक्यगोप्तारं कृष्णमक्लिष्टचेष्टितम् ॥ ५,१३.४३ ॥ काचिदालोक्य गोविन्दमायान्तमतिहर्षिता । कृष्णाकृष्णेति कृष्णेति प्राह नान्यदुदीरयत् ॥ ५,१३.४४ ॥ काचिद्भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् । विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ॥ ५,१३.४५ ॥ काचिदालोक्य गोविन्दं निमीलितविलोचना । तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ ॥ ५,१३.४६ ॥ ततः काञ्चित्प्रियालापैः काञ्चिद्भ्रूभङ्गवीक्षितैः । निन्येऽनुनयमन्यां च करस्पर्शेन माधवः ॥ ५,१३.४७ ॥ ताभिः प्रसन्नचित्ताभिर्गोपीभिः सह सादरम् । ररास रासगोष्ठीभिरुदारचरितो हरिः ॥ ५,१३.४८ ॥ रासमण्डलबन्धोपि कृष्णपार्श्वमनुज्झता । गोपीजनेन नैवाभूदेकस्थानस्थिरात्मना ॥ ५,१३.४९ ॥ हस्तेन गृह्य चैकैकां गोपीनां रासमण्डले । चकार तत्करस्पर्शनिमीलितदृशं हरिः ॥ ५,१३.५० ॥ ततः प्रववृते रासश्चलद्वलयनिस्वनः । अनुयातशरत्काव्यगोयगीतिरनुक्रमात् ॥ ५,१३.५१ ॥ कृष्णः शरच्चन्द्रमसं कौमुदीं कुमुदाकरम् । जगौ गोपीजनस्त्वेक कृष्णनाम पुनःपुनः ॥ ५,१३.५२ ॥ परिवृत्तिश्रमेणैका चलद्वलयलापिनीम् । ददौ बाहुलतां स्कन्धे गोपी मधुनिघातिनः ॥ ५,१३.५३ ॥ काचित्प्रविलसद्बाहुं परिरभ्य चुचुंब तम् । गोपीगीतस्तुतिव्याजान्निपुणा मधुसूदनम् ॥ ५,१३.५४ ॥ गोपीकपोलसंश्लेषमभिगम्य हरेर्भुजौ । पुलकोद्गमसस्याय स्वेदांबुघनतां गतौ ॥ ५,१३.५५ ॥ रासगेयं जगौ कृष्णो यावत्तारतरध्वनिः । साधु कृष्णेति कृष्णेति तावत्ता द्विगुणं जगुः ॥ ५,१३.५६ ॥ गतेनुगमनं चक्रुर्वलनं संमुखं ययुः । प्रतिलोमानुलोमाभ्यां भेजुर्गौपाङ्गना हरिम् ॥ ५,१३.५७ ॥ स तथा सह गोपीभी ररास मधुरूदनः । यथाब्दकोटिप्रतिमः श्रणस्तेन विनाभवत् ॥ ५,१३.५८ ॥ ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृभिस्तथा । कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ॥ ५,१३.५९ ॥ सोऽपि कैशोरकवयो मानयन्मधुसूदनः । रेमे ताभिरमेयात्मा क्षपासुक्षपिताहितः ॥ ५,१३.६० ॥ तद्भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः । आत्मस्वरूपरूपोऽसौ व्यापी वायुरिव स्थितः ॥ ५,१३.६१ ॥ यथा समस्तभूतेषु नभोग्निः पृथिवी जलम् । वायुश्चात्मा तथैवासौ व्याप्य सर्वमवस्थितः ॥ ५,१३.६२ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे त्रयोदशोध्यायः (१३) _____________________________________________________________ श्रीपराशर वाच प्रदोषाग्रो कदाचित्तु रासासक्ते जनार्दने । त्रासयन्समदो गौष्ठमरिष्टसमुपागमत् ॥ ५,१४.१ ॥ स तोयतोयदच्छायस्तीक्ष्णशृङ्गोर्कलोचनः । खुराग्रपातैरत्यर्थं दारयन्धारणीतलम् ॥ ५,१४.२ ॥ लेलिहानःसनिष्पेषं जिह्वयोष्ठौ पुनःपुनः । संरंभाविद्धलाङ्गूलः कठिनस्कन्धबन्धनः ॥ ५,१४.३ ॥ उदग्रककुदाभोगप्रमाणो दुरतिक्रमः । विण्मू६ रलिप्तपृष्ठाङ्गो गवमुद्वेगकारकः ॥ ५,१४.४ ॥ प्रलंबकण्ठोऽतिमुखस्तरुखाताङ्किताननः । पातयन्स गावं गर्भन्दैत्यो वृषभरूपधृक् ॥ ५,१४.५ ॥ सूदयंस्तापसानुग्रो वनानटति यःसदा ॥ ५,१४.६ ॥ ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः । गोपा गोपस्त्रियश्चैव कृष्णकृष्णेति चुक्रुशुः ॥ ५,१४.७ ॥ सिंहनादं ततश्चक्रे तलशब्दं च केशवः । तच्छब्द श्रवणाच्चासौ दामोदरमुपाययौ ॥ ५,१४.८ ॥ अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः । अभ्यधावत दुष्टात्मा कृष्णं वृषभदानवः ॥ ५,१४.९ ॥ आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलः । न चचाल तदास्थानादवज्ञास्मितलीलया ॥ ५,१४.१० ॥ आसन्नं चैव जग्राह ग्राहवन्मधुसूदनः । जघान जानुना कुक्षौ विषाणग्रहणाचलम् ॥ ५,१४.११ ॥ तस्य दर्पबलं भङ्क्त्वा गृहीतस्य विषाणयोः । अपीडयदरिष्टस्य कण्ठं क्लिन्नमिवांबरम् ॥ ५,१४.१२ ॥ उत्पाट्य शृङ्गमेकं तु तेनैवाताडयत्ततः । ममार स महादैत्यौ मुखाच्छोणितमुद्वमन् ॥ ५,१४.१३ ॥ तुष्टुवुर्निहते तस्मिन् दैत्ये गोपा जनार्दनम् । जंभे हते सहस्राक्षं पुरा देवगणा यथा ॥ ५,१४.१४ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्दशोध्यायः (१४) _____________________________________________________________ श्रीपराशर उवाच ककुद्मति हतेऽरिष्टे धेनुके विनिपातिते । प्रलंबे निधनं नीते धृते गोवर्धनाचले ॥ ५,१५.१ ॥ दमिते कालिये नागे भग्नेतुङ्गद्रुमद्वये । हतायां पूतनायां च शकटे परिवर्तिते ॥ ५,१५.२ ॥ कंसाय नारदः प्राह यथावृत्तमनुक्रमात् । यशोदादेवकीगर्बपरिवृत्तद्यशेषतः ॥ ५,१५.३ ॥ श्रुत्वा तत्सकलं कंसो नारदाद्देवदर्शनात् । वसुदेवं प्रति तदा कोपं चक्रे सुदुर्मतिः ॥ ५,१५.४ ॥ सोतिकोपादुपालभ्य सर्वयादवसंसदि । जगर्ज यादवांश्चैव कार्यं चैतदचिन्तयत् ॥ ५,१५.५ ॥ यावन्न बलमारूढौ रामकृष्णौ सुबालकौ । तावदेव मया वध्यावसाध्यौ रूढयौवनौ ॥ ५,१५.६ ॥ चाणूरोत्र महावीर्यो मुष्टिकश्च महाबलः । एताभ्यां मल्लयुद्धेन मारयिष्याम दुर्मती ॥ ५,१५.७ ॥ धनुर्महमहायोगव्याजेनानीय तौ व्रजात् । तथा तथा यतिष्यामि यास्येते संक्षयं यथा ॥ ५,१५.८ ॥ श्वफल्पतनयं शूरमक्रूरं यदुपुङ्गवम् । तयोरानयनार्थाय प्रेषयिष्यामि गोकुलम् ॥ ५,१५.९ ॥ वृन्दा वनचरं घोरमादेक्ष्यामि च केशिनम् । तत्रैवासावतिबलस्तावुभौ घातयिष्यति ॥ ५,१५.१० ॥ गजः कुवलायापीडो मत्सकाशमिहागतौ । घातयिष्यति वा गोषौ वसुदेवसुतावुभौ ॥ ५,१५.११ ॥ श्रीपराशर उवाच इत्यालोच्य स दुष्टात्मा कंसो रामजनार्दनौ । हन्तुं कृतमर्तिवीरावक्रूरं वाक्यमवृब्रवीत् ॥ ५,१५.१२ ॥ कंस उवाच भो भो दानपते वाक्यं क्रियतां प्रीतये मम । इतः स्यन्दनमारुह्य गम्यतां नन्दगोकुलम् ॥ ५,१५.१३ ॥ वसुदेवसुतौ तत्र विष्णोरंशसमुद्भवौ । नाशाय किल संभूतौ मम दुष्टौ प्रवर्धतः ॥ ५,१५.१४ ॥ धनुर्महो ममाप्यत्र चतुर्दश्यां भविष्यति । आनेयौ भवता गत्वा मल्लयुद्धाय तत्र तौ ॥ ५,१५.१५ ॥ चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम । ताभ्यां सहानयोर्युद्धं सर्वलोकोऽत्र पश्यतु ॥ ५,१५.१६ ॥ गजः कुवलयापीडो महामात्रप्रचोदितः । स वा हनिष्यते पापौ वसुदेवात्मजौ शिशु ॥ ५,१५.१७ ॥ तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् । हनिष्ये पितरं चैनमुग्रसेनं सुदुर्मतिम् ॥ ५,१५.१८ ॥ ततःसमस्तगोपानां गोधनान्यखिलान्यहम् । वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् ॥ ५,१५.१९ ॥ त्वामृते यादवाश्चैते द्विषो दानपते मम । एतेषां च वधायाहं यतिष्येऽनुक्रमात्ततः ॥ ५,१५.२० ॥ तदा निष्कण्टकं सर्वं राज्यमेतदयादवम् । प्रसाधिष्ये त्वया तस्मान्मत्प्रीत्यै वीर गम्यताम् ॥ ५,१५.२१ ॥ यथा च माहिषं सर्पिर्दधिचाप्युपहार्य वै । गोपाःसमानयन्त्वाशु तथा वाच्यास्त्वया च ते ॥ ५,१५.२२ ॥ श्रीपराशर उवाच इत्याज्ञप्तस्तदाक्रूरोमहाभागवतो द्वज । प्रीतिमानभवत्कृष्णं श्वोद्रक्ष्यामीति सत्वरः ॥ ५,१५.२३ ॥ तथेत्यक्त्वा च राजानं रथमारुह्य शोभनम् । निश्चक्राम ततः पुर्या मथुराया मधुप्रियः ॥ ५,१५.२४ ॥ इति श्रीविष्णुमहापुराणे पञ्चमासे पञ्चदशोऽध्यायः (१५) _____________________________________________________________ श्रीपराशर उवाच केशी चापि बलोदग्रः कंसदूतः प्रचोदितः । कृष्णस्य निधनाकाङ्क्षी वृन्दावनमुपागमत् ॥ ५,१६.१ ॥ स खुरक्षतभूपृष्ठःसटाक्षेपधुतांबुदः । द्रुतविक्रान्तचन्द्रार्कमार्गो गोपानुपाद्रवत् ॥ ५,१६.२ ॥ तस्य देषितशब्देन गोपाला दैत्यवाजिनः । गोप्यश्च भयसंविग्ना गोविन्दं शरणं ययुः ॥ ५,१६.३ ॥ त्राहित्राहिति गोविन्दःश्रुत्वातेषां ततो वचः । सतोयजलदध्वानगंभीरमिदमुक्तवान् ॥ ५,१६.४ ॥ अलं त्रासेन गोपालाः केशिनः किं भयातुरैः । भविद्भिर्गोपजाती यैर्वीरवीर्यं विलोप्यते ॥ ५,१६.५ ॥ किमनोनाल्पसारेण हषिताटोपकारिणा । दैतेयबलवाह्येन वल्गता दुष्टवाजिना ॥ ५,१६.६ ॥ एह्येहि दुष्ट कृष्णोऽहं पूष्णस्त्विव पिनाकधृत् । पातयिष्यामि दशनान्वदनादखिलांस्तव ॥ ५,१६.७ ॥ इत्युक्त्वास्फोट्य गोविन्दः केशिनःसंमुखं ययौ । विवृतास्यश्च सोऽप्येनं दैतेयाश्व उपाद्रवत् ॥ ५,१६.८ ॥ बाहुमाभोगितं कृत्वा मखे तस्य जनार्दनः । प्रवेशयामास तदा केशिनो दुष्टवाजिनः ॥ ५,१६.९ ॥ केशिनो वदनं तेन विशता कृष्णबाहुना । शातिता दशनाः पेतुः सिताब्ब्रावयवा इव ॥ ५,१६.१० ॥ कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विज । विनाशाय यथा व्याधिरासंभूतेरुपेक्षितः ॥ ५,१६.११ ॥ विपाटितोष्ठो बहुलं सफेनं रुधिरं वमन् । सोक्षिणी विवृते चक्रे विशिष्टे मुक्तबन्धने ॥ ५,१६.१२ ॥ जधान धरणीं पादैः शकृन्मूत्रं समुत्सृजन् । स्वेदार्द्रगात्रस्शान्तश्च निर्यत्नःसोऽभवत्तदा ॥ ५,१६.१३ ॥ व्यादितास्यमहांरन्ध्रःसोऽसुरः कृष्णबाहुना । निपातितो द्विधा भूमौ वैद्युतेन यथा द्रुमः ॥ ५,१६.१४ ॥ द्विपादे पृष्ठपुच्छार्ध श्रवणैकाक्षिनासिके । केशिनस्ते द्विधा भूते शकले द्वे विरेजतुः ॥ ५,१६.१५ ॥ हत्वा तु केशिनं कृष्णो गोपालैर्मुदितैर्वृतः । अनायस्ततनुःस्वस्थो हसंस्तत्रैव तस्थिवान् ॥ ५,१६.१६ ॥ ततो गोप्यश्च गोपाश्च हते केशिनि विस्मिताः । तुष्टुवुः पुण्डरीकाक्षमनुरागमनोरमम् ॥ ५,१६.१७ ॥ अथाहान्तर्हितो विप्र नारदो जलदे स्थितः । केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः ॥ ५,१६.१८ ॥ साधुसाधु जगन्नाथ लीलयैव यदच्युत । निहतोऽयं त्वया केशी क्लेशदस्त्रिदिवौकासाम् ॥ ५,१६.१९ ॥ युद्धोत्सुकोहमत्यर्थं नरवाजिमहाहवम् । अभूतपूर्वमन्यत्र द्रष्टुं स्वर्गादिहागतः ॥ ५,१६.२० ॥ कर्माण्यऽत्रावतारे ते कृतानि मधुसूदन । यानि तैर्विस्मितं चेतस्तोषमेतेन मे गतम् ॥ ५,१६.२१ ॥ तुरङ्गस्यास्य शक्रोपि कृष्ण देवाश्च बिभ्यति । धुतकेसारजालस्य ह्रेषतोऽभ्रावलोकिनः ॥ ५,१६.२२ ॥ यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन । तस्मात्केशवनाम्ना त्वं लोके ख्यातो भविष्यसि ॥ ५,१६.२३ ॥ स्वस्त्यस्तु ते गमिष्यामि कंसयुद्धेऽधुना पुनः । परश्वोऽह समेष्यामि त्वया केशिनिषूदन ॥ ५,१६.२४ ॥ उग्रसेनसुते कंसे सानुगे विनिपातिते । भारावतारकर्ता त्वं पृथिव्या पृथिवीधर ॥ ५,१६.२५ ॥ तत्रानेक प्रकाराणि युद्धानि पृथिवीक्षिताम् । द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन ॥ ५,१६.२६ ॥ सोऽहं यास्यामि गोविन्द देवकार्यं महत्कृतम् । त्वयैव विदितं सर्वं स्वस्ति तेऽस्तु व्रजाम्यहम् ॥ ५,१६.२७ ॥ नारदे तु गते कृष्णः सह गोपैः सभाजितः । विवेश गोकुलं गोपीनेत्रपानैकभाजनम् ॥ ५,१६.२८ ॥ इति श्रीविष्णुमाहपुराणे पञ्चमांशे षोटशोऽध्यायः (१६) _____________________________________________________________ श्रीपराशर उवाच अक्रूरोऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना । कृष्णसंदर्शनाकाङ्क्षी प्रययौ नन्दगोकुलम् ॥ ५,१७.१ ॥ चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया । योऽहमंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥ ५,१७.२ ॥ अद्य मे सफलं जन्म सुप्रभाताभवन्निशा । यदुन्निद्राभपत्राक्षं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ ५,१७.३ ॥ पापं हरति यत्पुंसां स्मृतं संकल्पनामयम् । तत्पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ ५,१७.४ ॥ विनिर्जग्मुर्यतो वेदा वेदाङ्गान्यखिलानि च । द्रक्ष्यामि तत्परं धाम धाम्रां भगवतो मुखम् ॥ ५,१७.५ ॥ यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः । इज्यते योऽखिलाधारस्तं द्रक्ष्यामि जगत्पतिम् ॥ ५,१७.६ ॥ इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् । अवाप तमनन्तादिमहं द्रक्ष्यामि केशवम् ॥ ५,१७.७ ॥ न ब्रह्म नेन्द्ररुद्राश्विवस्वादित्यमरुद्गणाः । यस्य स्वरूपं जानन्ति प्रत्यक्षं याति मे हरिः ॥ ५,१७.८ ॥ सर्वात्मा सर्ववित्सर्वः सर्वभूतेष्ववस्थितः । योह्यऽचिन्त्योऽव्ययो व्यापी स वक्ष्यति मया सह ॥ ५,१७.९ ॥ मत्स्य कूर्मवराहाश्वसिंहरूपादिभिः स्थितिम् । चकार जगतो योऽजः जगतो योऽजः सोऽद्य मां प्रलपिष्यति ॥ ५,१७.१० ॥ सांप्रतं च जगत्स्वामी कार्यमात्महृदि स्थितम् । कर्तुं मनुष्यतां प्राप्तःस्वेच्छादेहधृदव्ययः ॥ ५,१७.११ ॥ योनन्तः पृथिवीं धत्ते शेखरस्थितिसंस्थिताम् । सोऽवतीर्णो जगत्यर्थे माम क्रूरेति वक्ष्यति ॥ ५,१७.१२ ॥ पितृपुत्रसुहृद्भ्रातृमातृबन्धुमयीमिमाम् । यन्मायां नालमुत्तर्तुं जगत्तस्मै नमोनमः ॥ ५,१७.१३ ॥ तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते । योगमायाममेयाय तस्मै विद्यात्मने नमः ॥ ५,१७.१४ ॥ यज्वभिर्यज्ञपुरुषो वासुदेवश्च सात्त्वतैः । वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोस्मि तम् ॥ ५,१७.१५ ॥ यथा यत्र जगद्धाम्नि धातर्येतत्प्रतिष्ठितम् । सदसत्तेन सत्येन मय्यसौ यातु सौम्याताम् ॥ ५,१७.१६ ॥ स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ ५,१७.१७ ॥ श्रीपराशर उवाच इत्थं संचिन्तयन्विष्णुं भक्तिनम्रात्ममानसः । अक्रूरो गोकुलं प्राप्तः किञ्चित्सूर्ये विराजति ॥ ५,१७.१८ ॥ स ददर्श तदा कृष्णमादावादोहने गवाम् । वत्समध्यागतं फुल्लनी लोत्पलदलच्छविम् ॥ ५,१७.१९ ॥ प्रफुल्लपद्मपत्राक्षं श्रीवत्सांकितवक्षसम् । प्रलंबबाहुमायामतुङ्गोरस्थलमुन्नसम् ॥ ५,१७.२० ॥ सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् । जुङ्गरक्तनखं पद्य्भां धरण्यां सुप्रतिःषितम् ॥ ५,१७.२१ ॥ बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् । सेंदुनीलाचलाभं तं सितांभोजावतंसकम् ॥ ५,१७.२२ ॥ हंसकुन्देन्दुधवलं नीलांबरधरं द्विज । तस्यानु बलभद्रं च ददर्श यदुनन्दनम् ॥ ५,१७.२३ ॥ प्रांशुमुत्तुङ्गबाह्वंसं विकासि मुखपङ्कजम् । मेघमालापरिवृतं कैलासाद्रिमिवापरम् ॥ ५,१७.२४ ॥ तौ दृष्ट्वा विकसद्वक्त्रसरोजः स महामतिः । पुलकाञ्चितसर्वाङ्गस्तदाक्रूरोऽजगद्धातरि भवन्मुने ॥ ५,१७.२५ ॥ तदेतत्परमं धाम तदेतत्परमं पदम् । भगवद्वासुदेवांशो द्विधा योऽयं व्यवस्थितः ॥ ५,१७.२६ ॥ साफल्यमक्ष्णोर्युगमेतदत्र दृष्टे जगद्धातरि यातमुच्चैः । अप्यङ्गमेतद्भगवत्प्रसादात्तदङ्गसंगे फलवन्मम स्यात् ॥ ५,१७.२७ ॥ अप्येष पृष्ठे मम हस्तपद्मं करिष्यति श्रीमदनन्तमूर्तिः । यस्याङ्गुलिस्पर्शहताखिलाघैरवाप्यते सिद्धिरपास्तदोषा ॥ ५,१७.२८ ॥ येनाग्निविद्युद्रविरश्मिमालाकरालमत्युग्रमपेत चक्त्रम् । चक्रं घ्नता दैत्यपतेर्हृतानि दैत्याङ्गनानां नयनाञ्जनानि ॥ ५,१७.२९ ॥ यत्रांबु विन्यस्य बलिर्मनोज्ञानवाप भोगान्वसुधातवलस्थः । तथामरत्वं त्रिदशाधिपत्वं मन्वन्तरं पूर्णमपेतशत्रुम् ॥ ५,१७.३० ॥ अप्येष मां कंसपरिग्रहेण दोषास्पदीभूतमदोषदुष्टम् । कर्तामानोपहतं धिगस्तु तज्जन्म यत्साधुबहिष्कृतस्य ॥ ५,१७.३१ ॥ ज्ञानात्मकस्यामलसत्त्वराशेरपेतदोषस्य सदा स्फुटस्य । किं वा जगत्यत्र समस्तपुंसामज्ञातमस्यास्ति हृदि स्थितस्य ॥ ५,१७.३२ ॥ तस्मादहं भक्तिविनम्रचेता व्रजामि सर्वेश्वमीश्वराणाम् । अंशावतारं पुरुषोत्तमस्य ह्यनादिमध्यान्तमजस्य विष्णोः ॥ ५,१७.३३ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तशोऽध्यायः (१७) _____________________________________________________________ श्रीपराशर उवाच चिन्तयन्नितिगोविन्दमुपगम्य स यादवः । अक्रुरोस्मीति चरणौ ननाम शिरसा हरेः ॥ ५,१८.१ ॥ सोऽप्येनं ध्वजवज्राब्जकृतचिह्नेन पाणिना । संस्पृश्याकृष्य च प्रीत्य सुगाढं परिषस्वजे ॥ ५,१८.२ ॥ कृतसंवन्दनौ तेन यथावद्बलकेशवौ । ततः प्रवीष्टौ संहृष्टौ तमादायात्ममन्दिरम् ॥ ५,१८.३ ॥ सह ताभ्यां तदाक्रूरः कृतसंवन्दनादिकः । भुक्तभोज्यो यथान्याय्यमाचचक्षे ततस्तयोः ॥ ५,१८.४ ॥ यथा निर्भत्सितस्तेन कंसेनानकदुन्दुभिः । यथा च देवकी देवी दानवेन दुरात्मना ॥ ५,१८.५ ॥ उग्रसेने यथा कंसःस दुरात्मा च वर्तते । यं चैवार्थं समुद्दिश्य कंसेन तु विसर्जितः ॥ ५,१८.६ ॥ तत्सर्वं विस्तराच्छुत्वा भगवान्देवकीसुतः । उवाचाखिलमप्येतज्ज्ञातं दानपते मया ॥ ५,१८.७ ॥ करिष्ये तन्माहभाग यदत्रौपयिकं मतम् । विचिन्त्यं नान्यथैतत्ते विद्धि कंसं हतं मया ॥ ५,१८.८ ॥ अहं रामश्च मथुरां श्वो यास्यावःसह त्वया । गोपवृद्धाश्च यास्यन्ति ह्यादायोपायनं बहु ॥ ५,१८.९ ॥ निशेयं नीयतां वीर न चिन्तां कर्तुमर्हसि । त्रिरात्राभ्यन्तरे कंसं निहनष्यामि सानुगम् ॥ ५,१८.१० ॥ श्रीपराशर उवाच समादिश्य ततो गोपानक्रूरोऽपि च केशवः । सुष्वाप बलभद्रश्च नन्दगोपगृहे ततः ॥ ५,१८.११ ॥ ततः प्रभाते विमले कृष्णरामौ महाद्युती । अक्रूरेण समं गन्तुमुद्यतौ मथुरां पुरीम् ॥ ५,१८.१२ ॥ दृष्ट्वा गोपीजनःसास्रः श्लथद्वलयबाहुकः । निशश्वसातिदुःखार्तः प्राह परस्परम् ॥ ५,१८.१३ ॥ मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति । नगरस्त्रीकलालापमधु श्रोत्रेण पास्यति ॥ ५,१८.१४ ॥ विलासिवाक्यपानेषु नागरीणां कृतास्पदम् । चित्तमस्य कथं भूयो ग्राम्यगोपीषु यास्यति ॥ ५,१८.१५ ॥ सारं समस्तगोष्ठस्य विधिना हरता हरिम् । प्रहृतं गोपयोषित्सु निर्घृणेन दुरात्मना ॥ ५,१८.१६ ॥ भावर्गभस्मितं वाक्यं विलासललिता गतिः । नागरीणामतीवैतत्कटाक्षेक्षितमेव च ॥ ५,१८.१७ ॥ ग्राम्यो हरिरयं तासां विलासनिगडैर्युतः । भवतीनांपुनः पार्श्वं कया युक्त्या समेष्यति ॥ ५,१८.१८ ॥ एषैष रथमारुह्य मथुरां याति केशवः । क्रूरेणाक्रूरकेणात्र निर्घृणेन प्रतारितः ॥ ५,१८.१९ ॥ किं न वेत्ति नृशंसोयमनुरागपरं जनम् । येनैवमक्ष्णोराह्लादं नयत्यन्यत्र नो हरिम् ॥ ५,१८.२० ॥ एष रामेण सहितः प्रयात्यत्यन्तनिर्घृणः । रथमारुह्य गोविन्दस्त्वर्यतामस्य वारणे ॥ ५,१८.२१ ॥ गुरूणामग्रतो वक्तुं विं ब्रवीथ न नः क्षमम् । गुरवःकिं करिष्यन्ति दग्धानां विरहाग्निना ॥ ५,१८.२२ ॥ नदङ्गोपमिखा गोपा गन्तुमेते समुद्यताः । नोद्यमं कुरुते कश्चिद्गोविन्दविनिवर्तने ॥ ५,१८.२३ ॥ सुप्रभाताद्य रजनी मथुरावासयोषिताम् । पास्यन्त्यच्युतवक्त्राब्जं यासां नेत्रालिपङ्क्तयः ॥ ५,१८.२४ ॥ धन्यास्ते पथि ये कृष्णमितो यान्त्यनिवारिताः । उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ॥ ५,१८.२५ ॥ मथुरानगरीपौरनयनानां महोत्सवः । गोविन्दावयवैर्दृष्टैरतीवाद्य भविष्यति ॥ ५,१८.२६ ॥ को नु स्वप्रःसभाग्याभिर्दृष्टस्ताभिरधोक्षजम् । विस्तारिकां तिनयना या द्रक्ष्यन्त्यनिवारिताः ॥ ५,१८.२७ ॥ अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् । उत्कृत्तान्यत्र नेत्राणि विधिना करुणात्मना ॥ ५,१८.२८ ॥ अनुरागेण शैथिल्यमस्मासु व्रजिते हरौः । शैथिल्यमुपयान्त्याशु करेषु वलयान्यपि ॥ ५,१८.२९ ॥ अक्रूरः क्रूरहृदयः शीव्रं प्रेरयते हयान् । एव मार्तासु योषित्सु कृपा कस्य न जायते ॥ ५,१८.३० ॥ एष कृष्णरथस्योच्चैश्चक्ररेणुर्निरीक्ष्यताम् । दूरीभूतो हरिर्येन सोऽपि रेणुर्नलक्ष्यते ॥ ५,१८.३१ ॥ श्रीपराशर उवाच इत्येवमतिहार्देन गोपीजननिरीक्षितः । तत्याज व्रजभूभागं सह रामेण केशवः ॥ ५,१८.३२ ॥ गच्छन्तो जवनाश्वेन रथेन यमुनातटम् । प्रप्तमध्याह्नसमये रामाक्रूरजनार्दनाः ॥ ५,१८.३३ ॥ अथाह कुष्ममक्रूरो भवद्य्भां तावदास्यताम् । यावत्करोमि कालिन्द्या आह्निकार्हणमंभसि ॥ ५,१८.३४ ॥ श्रीपराशर उवाच तथेत्युक्तस्ततस्नातःस्वाचान्तःस महामतिः । दध्यौ ब्रह्म परं विप्र ग्रविष्टो यमुनाजले ॥ ५,१८.३५ ॥ फणासहस्रमालाढ्यं बलभद्रं ददर्श सः । कुन्दमालाङ्गमुन्निद्रपद्मपत्रायतेक्षणम् ॥ ५,१८.३६ ॥ वृतं वासुकिरंभाद्यैर्महद्भिः पवना शिभिः । संस्तूयमानमुद्गन्धिवनमालाविभूषितम् ॥ ५,१८.३७ ॥ दधानमसिते वस्त्रे चारुरूपावतंसकम् । चारुकुण्डलिनं भान्तमन्तर्जलतले स्थितम् ॥ ५,१८.३८ ॥ तस्योत्संगे घनश्याममाताम्रायतलोचनम् । चतुर्बाहुमुदाराङ्गं चक्राद्यायुधभूषणम् ॥ ५,१८.३९ ॥ पीते वसानं वसने चित्रमाल्योपशोभितम् । शक्रचापतडिन्मालाविचित्रमिव तोयदम् ॥ ५,१८.४० ॥ श्रीवत्सवक्षसं चारु स्फुरन्मकरकुण्डलम् । ददर्श कृष्णमक्लिष्टं पुण्डरीकावतंसकम् ॥ ५,१८.४१ ॥ सनन्दनाद्यैर्मुनिभिः सद्धयोगैरकल्मषैः । संचिन्त्यमानं तत्रस्थैर्नासाग्रन्यस्तलोचनैः ॥ ५,१८.४२ ॥ बलकृष्णौ तथाक्रूरः प्रत्यभिज्ञाय विस्मितः । अचिन्तयद्रथाच्छीघ्रं कथमत्रागताविति ॥ ५,१८.४३ ॥ विवक्षोस्तंभयामास वाचं तस्य जनार्दनः । ततो निष्क्रम्य सलिलाद्रथमभ्यागतः पुनः ॥ ५,१८.४४ ॥ ददर्श तत्र चैवोभौ रथस्योपरि निष्ठितौ । रामकृष्णौ यथापूर्वं मनुष्यवपुषान्वितौ ॥ ५,१८.४५ ॥ निमग्नश्च पुनस्तोये ददर्श च तथैव तौ । संस्तूयमानौ गन्धर्वैर्मुनिसिद्धमहोरगैः ॥ ५,१८.४६ ॥ ततो विज्ञातसद्भावःस तु दानपतिस्तदा । तुष्टाव सर्व विज्ञानमयमच्युतमीश्वरम् ॥ ५,१८.४७ ॥ अक्रूर उवाच सन्मात्ररूपिणेतिन्त्यमहिम्रे परमात्मने । व्यापिने नैकरूपैकस्वरूपाय नमो नमः ॥ ५,१८.४८ ॥ सर्वरूपाय तेऽचिन्त्यहविर्भूताय ते नमः । नमो विज्ञानपाराय पराय प्रकृतेः प्रभोः ॥ ५,१८.४९ ॥ भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् । आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥ ५,१८.५० ॥ प्रसीद सर्व सर्वात्म्न क्षराक्षरमयेश्वर । ब्रह्मविष्णुशिवाख्याभिः कल्पनाभिरुदीरितः ॥ ५,१८.५१ ॥ अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन । अनाख्येन भिधानं त्वां नतोस्मि परमेश्वर ॥ ५,१८.५२ ॥ न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः । तद्ब्रह्म परमं नित्यमविकारि भवानजः ॥ ५,१८.५३ ॥ न कल्पनामृतेर्थस्य सर्वस्याधिगमो यतः । ततः कृष्णच्युतानन्तविष्णुसंज्ञाभिरिड्यते ॥ ५,१८.५४ ॥ सर्वार्थस्त्वमज विकल्पनाभिरेतैर्वाद्यैर्भवति हि यैरनन्तविश्वम् । विश्वात्मा त्वमिति विकारहीनमेतत्सर्वस्मिन्न हि भवतोस्ति किञ्चिदन्यत् ॥ ५,१८.५५ ॥ त्वं ब्रह्मा पशुपतिर्यमा विधाता धाता त्वं त्रिदशपतिःसमीरणोऽग्निः । तोयेशो धनपतिंरतकस्त्वमेको भिन्नार्थैर्जगदभिपासिशक्तिभेदैः ॥ ५,१८.५६ ॥ विश्वं भवान्सृजति सूर्यगभस्तिरूपो विश्वेश ते गुणमयोयमतः प्रपञ्चः । रूपं परं सदिति वाचकमक्षरं यज्ज्ञानात्मने सदसते प्रणतोऽस्मि तस्मै ॥ ५,१८.५७ ॥ ओं नमो वासुदेवाय नमःसंकर्षणाय च । प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥ ५,१८.५८ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशेऽष्टाशोऽध्यायः (१८) _____________________________________________________________ श्रीपराशर उवाच एवमन्तर्जले विष्णुमभिष्टूय स यादवः । अर्चयामास सर्वेशं धूपपुष्पैर्मनोमयैः ॥ ५,१९.१ ॥ परित्यक्तान्यविषयो मनस्तत्र निवेश्य सः । ब्रह्मभूते चिरं स्थित्वा विरराम समाधिनः ॥ ५,१९.२ ॥ कृतकृत्यमिवात्मानं मन्यमामौ महामतिः । आजगाम रथं भूयो निर्गम्य यमुनांभसः ॥ ५,१९.३ ॥ ददर्श रामकृष्णौ च यथापुर्वमवस्थितौ । विस्मिताक्षस्तदाक्रूरस्तं च कृष्णोऽभ्यभाषत ॥ ५,१९.४ ॥ श्रीकृष्ण उवाच नूनं ते दृष्टमाश्चर्यमक्रूर यमुनाजले । विस्मयोत्फुल्लनयनो भवान्संलक्ष्यते यतः ॥ ५,१९.५ ॥ अक्रूर उवाच अन्तर्जले यदाश्चर्यं दृष्टं तत्र मयाच्युत । तदत्रापि हि पश्यामि मूर्तिमत्पुरतः स्थितम् ॥ ५,१९.६ ॥ जगदेतन्महाश्चर्यरूपं यस्य महात्मनः । तेनाश्चर्यपरेणाहं भवता कृष्ण संगतः ॥ ५,१९.७ ॥ तत्किमेतेन मथुरां यास्यामो मधुसूदन । बिभेमि कंसाद्धिग्जन्म परिपिण्डोपजीविनाम् ॥ ५,१९.८ ॥ इत्युक्त्वा चोदयामास स हयान् वातरंहसः । संप्राप्तश्चापि सायाह्ने सोऽक्रूरो मथुरां पुरीम् ॥ ५,१९.९ ॥ विलोक्य मथुरां कृष्णं रामं चाह स यादवः । पद्य्भां यातं महावीरौ रथेनैको विशाम्यहम् ॥ ५,१९.१० ॥ गन्तव्यं वसुदेवस्य नो भवद्य्भां तथा गृहम् । युवयोर्हि कृते वृद्धःस कंसेन निरस्यते ॥ ५,१९.११ ॥ श्रीपराशर उवाच इत्युक्त्वा प्रविवेशाथ सोऽक्रूरो मथुरां पुरीम् । प्रविष्टौ रामकृष्णौ च राजमार्गमुपागतौ ॥ ५,१९.१२ ॥ स्त्रीभिर्नरैश्च सानन्दं लोतनैरभिवीक्षितौ । जग्मतुर्लीलया वीरौ मत्तौ बालगजाविव ॥ ५,१९.१३ ॥ भ्रममाणौ ततो दृष्ट्वा रजकं रङ्गकारकम् । अयोचेतां सूरूपाणि वासांसि रुचिराणि तौ ॥ ५,१९.१४ ॥ कंसस्य रजकः सोऽथ प्रसादारूढविस्मयः । बहून्याक्षेपवाक्यानि प्राहोच्चै रामकेशवौ ॥ ५,१९.१५ ॥ ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः । पातयामास रोषेण रजकस्य शिरो भुवि ॥ ५,१९.१६ ॥ हत्वाऽदाय च वस्त्राणि पीतनीलांबरौ ततः । कृष्णरामौ मुदा युक्तौ मालाकारगृहं गतौ ॥ ५,१९.१७ ॥ विकासिनेत्रयुगलो मालाकारोतिविस्मितः । एतौ कस्य सुतौ यातौ मैत्रेयाचिन्तयत्तदा ॥ ५,१९.१८ ॥ पीतनीलांबरधरौ तौ दृष्ट्वातिमनोहरौ । स तर्कयामास तदा भुवं देवावुपागतौ ॥ ५,१९.१९ ॥ विकासिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः । भिवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ॥ ५,१९.२० ॥ प्रसादपरमौ नाथौ मम गेहमुपागतौ । धन्योऽहमर्चयिष्यामीत्याह तौ माल्यजीवनः ॥ ५,१९.२१ ॥ ततः प्रहृष्टवदनस्तयोः पुष्पणि कामतः । चारूण्येतान्यथैतानि प्रददौ स प्रलोभयन् ॥ ५,१९.२२ ॥ पुनःपुनः प्रणम्योभौ मालाकारो नरोत्तमौ । ददौ पुष्पाणि चारूणि गन्धवन्त्यमलानि च ॥ ५,१९.२३ ॥ मालाकाराय कृष्णो पि प्रसन्नः प्रददौ वरान् । श्रीस्त्वां मत्संश्रया भद्र न कदाचित्त्यजिष्यति ॥ ५,१९.२४ ॥ बलहानिर्न ते सौम्य धनहानिरथापि वा । यावद्दिनानि तावच्च न नशिष्यति संततिः ॥ ५,१९.२५ ॥ भुक्त्वा च विपुलान्भोगांस्त्वमन्ते मत्प्रसादतः । ममानुस्मरणं प्राप्यदिव्यं लोकमवाप्स्यसि ॥ ५,१९.२६ ॥ धर्मे मनश्च ते भद्र सार्वकालं भविष्यति । युष्मत्संततिजातानां धीर्घमायुर्भविष्यति ॥ ५,१९.२७ ॥ नोपसर्गादिकं दोषं युष्मत्संततिसंभवः । अवाप्स्यति महाभागा यावत्सूर्यो भविष्यति ॥ ५,१९.२८ ॥ श्रीपराशर उवाच अत्युक्त्वा तद्गृहात्कृष्णो बलदेवसहायवान् । निर्जगाम मुनिश्रेष्ठ मालाकारेण पूजितः ॥ ५,१९.२९ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांश एकोनविशोध्यायः (१९) _____________________________________________________________ श्रीपराशर उवाच राजमार्गे ततः कृष्णःसानुलेपनभाजनाम् । ददर्श कुब्जामायान्तीं नवयोवनगोचराम् ॥ ५,२०.१ ॥ तामाह ललितं कृष्णः कस्येदमनुलेपनम् । भवत्या नीयते सत्यं वदेन्दीवरलोचने ॥ ५,२०.२ ॥ सकामेनेव सा प्रोक्ता सानुरागा हरिं प्रति । प्राह सा ललितं कुब्जा तद्दर्शनबलात्कृता ॥ ५,२०.३ ॥ कान्त कस्मान्न जानासि कंसेन विनियोजिताम् । नैकवक्रेति विख्यातामनुलेपनकर्मणि ॥ ५,२०.४ ॥ नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् । भवाम्यहमतीवास्य प्रसादधनभाजनम् ॥ ५,२०.५ ॥ श्रीकृष्ण उवाच सुगन्धमेतद्राजार्हं रुचिरं रुचिरानने । आवयोर्गात्र सदृशं दीयतामनुलेपनम् ॥ ५,२०.६ ॥ श्रीपराशर उवाच श्रुत्वैतदाह सा कुब्जा गृह्यतामिति सादरम् । अनुलेपनं च प्रददौ गात्रयोग्यमथोभयोः ॥ ५,२०.७ ॥ भक्तिच्छेदानुलिप्ताङ्गौ ततस्तौ पुरुषर्षभौ । सेंद्रचापौ व्यराजेतां सितकृष्णाविवांबुदौ ॥ ५,२०.८ ॥ ततस्तां चुबुके शौरिरुल्लापन विधानवित् । उत्पाट्य तोलयामास व्द्यङ्गुलेनाग्रपाणिना ॥ ५,२०.९ ॥ चकर्ष पद्य्भां च तदा ऋजुत्वं केशवोऽनयत् । ततःसा ऋजुतां प्राप्तायोषितमभवद्वरा ॥ ५,२०.१० ॥ विलासलिलितं प्राह प्रेमगर्भभरालसम् । वस्त्रे प्रगृह्य गोविन्दं मम गेहं व्रजेति वै ॥ ५,२०.११ ॥ एवमुक्तस्तया शौरी रामस्यालोक्य चाननम् । प्रहस्य कुब्जां तामाह नैकवक्रामनिन्दिताम् ॥ ५,२०.१२ ॥ आयास्ये भवतीगेहमिति तां प्रहसन्हरिः । विससर्ज जहासोच्चै रामस्यालोक्य चाननम् ॥ ५,२०.१३ ॥ भक्तिभेदानुनिप्ताङ्गौ नीलपीतांबरौ तु तौ । धनुःशालां ततो यातौ चित्रमाल्योपसोभितौ ॥ ५,२०.१४ ॥ आयागं तद्धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः । आख्याते सहसा कृष्णो गृहीत्वा पूरयद्धनुः ॥ ५,२०.१५ ॥ ततः पूरयता तेन भज्यमानं बलाद्धनुः । चकार सुमहच्छब्दं मथुरा येन पूरिता ॥ ५,२०.१६ ॥ अनुयुक्तौ ततस्तौ तु भग्रे धनुषि रक्षिभिः । रक्षिसैन्यं निहत्योभौ निष्क्रान्तौ कार्मुकालयात् ॥ ५,२०.१७ ॥ अक्रूरागमवृत्तान्तमुपलभ्य महद्धनुः । भग्नं श्रुत्वा च कंसोऽपि प्राह चाणूरमुष्टिकौ ॥ ५,२०.१८ ॥ कंस उवाच गोपालदारकौ प्राप्तौ भवद्य्भां तु ममाग्रतः । मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ दि तौ ॥ ५,२०.१९ ॥ नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्यहम् । दास्याम्यभिमतान्कामान्नान्यथैतौ महाबलौ ॥ ५,२०.२० ॥ न्यायतोन्यायतो वापि भवद्य्भां तौ ममाहितौ । हन्ताव्यौ तद्वधाद्राज्यं सामान्यं वां भविष्यति ॥ ५,२०.२१ ॥ इत्यादिश्य स तौ मल्लौ ततश्चाहूय हस्तिपम् । प्रोवाचोच्चैस्त्वया मल्लसमाजद्वारि कुञ्जरः ॥ ५,२०.२२ ॥ स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ । घातनीयौ नियुद्धाय रङ्गद्वारमुपागतौ ॥ ५,२०.२३ ॥ तमप्याज्ञाप्य दृष्ट्वा च सर्वान्मञ्चानुपाकृतान् । आसन्नमरणः कंसः सूर्योदयमुदैक्षत ॥ ५,२०.२४ ॥ ततः समस्तमञ्चेषु नागरःस तदा जनः । राजमञ्चेषु चारूढाःसह भृत्यैर्नराधिपाः ॥ ५,२०.२५ ॥ मल्लप्राश्रिकवर्गश्च रङ्गमध्यसमीपगः । कृतः कंसेन कंसोऽपि तुङ्गमञ्चे व्यवस्थितः ॥ ५,२०.२६ ॥ अन्तःपुराणां मञ्चाश्च तथान्ये परिकल्पिताः । अन्ये च वारमुख्यानामन्ये नागरयोषिताम् ॥ ५,२०.२७ ॥ नन्दगोपादयो गोपा मञ्चेष्वन्येष्ववस्थिताः । अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ ॥ ५,२०.२८ ॥ नागरीयोषितां मध्ये देवकीपुत्रगर्धिनी । अन्तकालेऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता ॥ ५,२०.२९ ॥ वाद्यमानेषु तुर्येषु चाणूरे चातिवल्गति । हाहाकारपरे लोके ह्यास्फोटयति मुष्टिके ॥ ५,२०.३० ॥ ईषद्धसंतौ तौ वीरौ बलभद्रजनार्दनौ । गोपवेषधारौ वालौ रङ्गद्वारमुपागतौ ॥ ५,२०.३१ ॥ ततः कुवलयापीडो महामात्रप्रचोदितः । अभ्यधावत वेगेन हन्तुं गोपकुमारकौ ॥ ५,२०.३२ ॥ हाहाकारो महाञ्जज्ञे रङ्गमध्ये द्विजोत्तम । बलदेवोऽनुजं दृष्ट्वा वचनं चेदमब्रवीत् ॥ ५,२०.३३ ॥ हन्तव्यो हि महाभाग नागोऽयं शत्रुचोदितः ॥ ५,२०.३४ ॥ इत्युक्तःसोऽग्रजेनाथ बलदेवेन वै द्विज । सिंहनादं ततश्चक्रे माधवः परवीरहा ॥ ५,२०.३५ ॥ करेण करमकृष्य तस्य केशिनिषूदनः । भ्रमयामास तं शैरिरैरावतसमं बले ॥ ५,२०.३६ ॥ ईशोपि सर्वजगतां बाललीलानुसारतः । क्रीडित्वा सुचिरं कृष्णः कदिरन्तपदान्तरे ॥ ५,२०.३७ ॥ उत्पाट्य वामदन्तं तु दक्षिणेनैव पाणिना । ताडयामास यन्तारं तस्यासीच्छतधा शिरः ॥ ५,२०.३८ ॥ दक्षिण दन्तमुत्पाट्य बलभद्रोऽपि तत्क्षणात् । स रोषस्तेन पार्श्वस्थान् गजपालानपोथयत् ॥ ५,२०.३९ ॥ ततस्तूत्प्लुत्य वेगेन रौहिणेयो महाबलः । जघान वामपादेन मस्तके हस्तिनं रुषा ॥ ५,२०.४० ॥ स पपात हतस्तेन बलभद्रेण लीलया । सहस्राक्षेण वज्रेण ताडितः पर्वतो यथा ॥ ५,२०.४१ ॥ हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् । मदासृगनुलिप्ताङ्गौ हस्तिदन्तवरायुधौ ॥ ५,२०.४२ ॥ मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ । प्रविष्टौ सुमहारङ्गं बलभद्रजनार्दनौ ॥ ५,२०.४३ ॥ हाहाकारो महाञ्जज्ञे महारङ्गे त्वनन्तरम् । कृष्णोऽयं बलभद्भोयमिति लोकस्य विस्मयः ॥ ५,२०.४४ ॥ सोऽयं येन हता घोरा पूतना बालघातिनी । क्षिप्तं तु शकटं येन भग्नौ तु यमलार्जुनौ ॥ ५,२०.४५ ॥ सोयं यः कालियं नागं ममर्दारुह्य वालकः । धृतो गोवर्धनो येन सप्तरात्रं महागिरिः ॥ ५,२०.४६ ॥ अरिष्टो धेनुकः केशी लीलयैव महात्मना । निहता येन दुर्वृत्ता दृश्यतामेष सोऽच्युतः ॥ ५,२०.४७ ॥ अयं चास्य महाबाहुर्बलभद्रोऽग्रतोऽग्रजः । प्रयाति लीलया योषिन्मनोनयननन्दनः ॥ ५,२०.४८ ॥ अयं स कथ्यते प्राज्ञैः पुराणार्थविशारदैः । गोपालो यादवं वंशं मग्नमभ्यद्धरिष्यति ॥ ५,२०.४९ ॥ अयं हि सर्वलोकस्य विष्णोरखिलजन्मनः । अवतीर्णो महीमंशो नूनं भारहरो भुवः ॥ ५,२०.५० ॥ इत्येवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् । उरस्तताप देवक्याः स्नेहस्नुतपयोधरम् ॥ ५,२०.५१ ॥ महोत्सवमिवासाद्य पुत्राननविलोकनात् । युववे वसुदेवोऽभूद्विहायाभ्यागतां जराम् ॥ ५,२०.५२ ॥ विस्तारिताक्षियुगलो राजान्तःपुरयोषिताम् । नागारस्त्रीसमूहश्च द्रष्टुं न विरराम तम् ॥ ५,२०.५३ ॥ सख्यः पश्यत कृष्णस्य मुखमत्यरुणेक्षणम् । गजयुद्धकृतायासस्वेदांबुकणिकचितम् ॥ ५,२०.५४ ॥ विकासिशरदंभोजमपश्यामजलोक्षितम् । परिभूयं स्थितं जन्म सफलं क्रियतां दृशः ॥ ५,२०.५५ ॥ श्रीवत्सांकं महद्धाम बालस्यैतद्विलोक्यताम् । विपक्षक्षपणं वक्षो भुजयुग्यं च भामीनि ॥ ५,२०.५६ ॥ किं न पश्यसि दुग्धेन्दुमृणालधवलाकृतिम् । बलभद्रमिमं नीलपरिधानमुपगतम् ॥ ५,२०.५७ ॥ वल्गतामुष्टिकेनैव चाणूरेण तथा सखि । क्रीडतोबलभद्रस्य हरेर्हास्यं विलोक्यताम् ॥ ५,२०.५८ ॥ सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः । समुपैति न संत्यत्र किं वृद्धा मुक्तकारिमः ॥ ५,२०.५९ ॥ क्व यौवनोन्मुखीभूतमुकुमारतनुर्हरिः । क्व वज्रकठिनाभोगशरीरोऽयं महासुरः ॥ ५,२०.६० ॥ इमौ सुललितैरङ्गैर्वर्तेते नवयौवनौ । दैतेयमल्लाश्चाणूरप्रमुखास्त्वतिदारुणाः ॥ ५,२०.६१ ॥ नियुद्धप्राश्निकानां तु महानेष व्यतिक्रमः । यद्बालबलिनोर्युद्धं मध्यस्थैः समुपेक्ष्यते ॥ ५,२०.६२ ॥ श्रीपारशर उवाच इत्थं पुरस्त्रीलोकस्व वदतश्चालयन्भुवम् । ववल्ग बद्धकक्ष्योन्तर्जनस्य भगवान्हरिः ॥ ५,२०.६३ ॥ बलभद्रोऽपि चास्फोट्य ववल्गललितं तथा । पदेपदे तथा भूमिर्यन्न शीर्णा तदद्भुतम् ॥ ५,२०.६४ ॥ चाणूरेण ततः कृष्णो ययुधेऽमितविक्रमः । नियुद्धकुशलो दैत्यौ बलभद्रेण मुष्टिकः ॥ ५,२०.६५ ॥ सन्निपातावधूतैस्तु चाणूरेण समं हरिः । प्रक्षेपणैर्मुष्टिभिश्च कीलवज्रनिपातनैः ॥ ५,२०.६६ ॥ पादोद्धूतैः प्रमृष्टैश्च तयोर्युद्धमभून्महत् ॥ ५,२०.६७ ॥ अशस्त्रमतिघोरं तत्तयोर्युद्धं सुदारुणम् । बलप्राणविनिष्पाद्यं समाजोत्सवसन्निधौ ॥ ५,२०.६८ ॥ यावद्यावच्च चाणूरो युयुधे हरिणा सह । प्रामहानिमवापाग्र्यां तावत्तवल्लवाल्लवम् ॥ ५,२०.६९ ॥ कृष्णोपि युयुधे तेन लीलयैव जगन्मयः । खेदाच्चालयता कोपान्निजकेसरशेखरम् ॥ ५,२०.७० ॥ बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः । वारयामास तूर्याणि कंसः कोपपरायणः ॥ ५,२०.७१ ॥ मृदङ्गादिषु तूर्येषु प्रतिषिद्धेषु तत्क्षणात् । खे संगतान्यवाद्यन्त देवतूर्याण्यनेकशः ॥ ५,२०.७२ ॥ जय गोविन्द चाणूरं जहि केशव दानवम् । अन्तर्धानगता देवास्तमूचुरतिहर्षिताः ॥ ५,२०.७३ ॥ चाणूरेण चिरं कालं पीडित्वा मधुसूदनः । उत्पाट्य भ्रमयामास तद्वधाय कृतो द्यमः ॥ ५,२०.७४ ॥ भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित् । भूभावात्फोटयामास गगने गतजीवितम् ॥ ५,२०.७५ ॥ भूमावास्फोटितस्तेनचाणूरः शतधाभवत् । रक्तस्रावमहापङ्कां चकार च तदा भवम् ॥ ५,२०.७६ ॥ बलदेवोऽपि तत्कालं मुष्टिकेन महाबलः । ययुधे दैत्यमल्लेन चाणूरेण यथा हरिः ॥ ५,२०.७७ ॥ सोऽप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना । पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् ॥ ५,२०.७८ ॥ कृष्ण स्तोशलकं भूयो मल्लराजं महाबलम् । वाममुष्टिप्रहारेण पातयामास भूतले ॥ ५,२०.७९ ॥ चाणूरे नहते मल्ले मुष्टेके विनिपातिते । नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः ॥ ५,२०.८० ॥ ववल्गतुस्ततो रङ्गे कृष्णसंकर्षणावुभौ । समानवयसो गोपान्बलादाकृष्यहर्षितौ ॥ ५,२०.८१ ॥ कंसोऽपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान्नरान् । गोपावेतौ समाजौघान्निष्क्राम्येतां बलादितः ॥ ५,२०.८२ ॥ नन्दोऽपि गृह्यतां पापो निर्गलैरायसैरिह । अवृद्धार्हैम दण्डेन वसुदेवोऽपि बध्यताम् ॥ ५,२०.८३ ॥ वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुराः । गावो निगृह्य तामेषां यच्चास्ति वसु किञ्चन ॥ ५,२०.८४ ॥ एवमाज्ञापयानं तु प्रहस्य मधुसूदनः । उत्प्लुत्यारुह्य तं मञ्चं कंसं जग्राह वेगतः ॥ ५,२०.८५ ॥ केशेष्वा कृष्य विगलत्किरीटमवनीतले । सं कंसं पातयामास तस्योपरि पपात च ॥ ५,२०.८६ ॥ अशेषजगदाधारगुरुणा पततोपरि । कृष्णेन त्याजितः प्राणानुग्रसेनात्मजो नृपः ॥ ५,२०.८७ ॥ मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः । चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः ॥ ५,२०.८८ ॥ गौरवेमातिपतता परिघातेन कृष्यता । कृता कंसस्य देहेन वेगेनेव महांभसः ॥ ५,२०.८९ ॥ कंसे गृहीते कृष्णेन तद्भ्राताभ्यागतो रुषा । सुनामा बल भद्रेण लीलयैव निपातितः ॥ ५,२०.९० ॥ ततो हाहाकृतं सर्वमासीत्तद्रङ्गमण्डलम् । अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् ॥ ५,२०.९१ ॥ कृष्णेऽपि वसुदेवस्य पादौ जग्राह सत्वरः । देवक्याश्च महाबाहुर्बलदेवसहायवान् ॥ ५,२०.९२ ॥ उत्थाप्य वसुदेवस्तं देवकी च जनार्दनम् । स्मृतजन्मोक्तवचनौ तावे व प्रणतौ स्थितौ ॥ ५,२०.९३ ॥ श्रीवसुदेव उवाच प्रसीद सीदतां दत्तो देवानां यो वरः प्रभो । तथावयोः प्रसादेन कृतोद्धारःस केशव ॥ ५,२०.९४ ॥ आराधितो यद्भगवानवतीर्णो गृहे मम । दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ॥ ५,२०.९५ ॥ त्वमन्तः सर्वभूतानां सर्वभूतमयस्थितः । प्रवर्तेते समस्तात्मंस्त्वत्तो भूतभविष्यति ॥ ५,२०.९६ ॥ यज्ञैस्त्वमिज्यसेऽचिन्त्य सर्वदेवमयाच्युत । त्वमेव यज्ञो यष्टा च यज्वनां परमेश्वरः ॥ ५,२०.९७ ॥ समुद्भवःसमस्तस्य जगतस्त्वं जनार्दन ॥ ५,२०.९८ ॥ सापह्नवं मम मनो यदेतत्त्वयि जायते । देवक्याश्चात्मजप्रीत्या तदत्यन्तविडंबना ॥ ५,२०.९९ ॥ त्वं कर्ता सर्वभूतानामनादिनिधनो भवान् । त्वं मनुष्यस्य कस्यैषा जिह्वा पुत्रेते वक्ष्यति ॥ ५,२०.१०० ॥ जगदेतज्जगन्नाथ संभूतमखिलं यतः । कया युक्त्या विना मायां सोऽस्मत्तः संभविष्यति ॥ ५,२०.१०१ ॥ यस्मिन्प्रतिष्ठितं सर्वं जगत्स्थावरजङ्गमम् । स कोष्ठोत्संगशयने मानुषो जाय ते कथम् ॥ ५,२०.१०२ ॥ स त्वं प्रसीद परम्श्वर पाहि विश्वमंशावतारकरणैर्न ममासि पुत्रः । आब्रह्यपादपमिदं जगदेतदीश त्वत्तो विमोहयसि किं पुरुषोत्तमास्मान् ॥ ५,२०.१०३ ॥ मायाविमोहितदृशा तनयो ममेति कंसाद्भायं कृतमपास्तभयोऽतितीव्रम् । नितोऽसि गोकुलमरातिभया कुलेन वृद्धिं गतोऽसि मम नास्ति ममत्वमीश ॥ ५,२०.१०४ ॥ कर्माणि रुद्रमरुदश्विशतक्रतूनां साध्यानि यस्य न भवन्ति निरीक्षितानि । त्वं विष्णुरीश जगतामुपकारहेतोः प्राप्तोसि नः परिगतो विगतो हि मोहः ॥ ५,२०.१०५ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे विंशोध्यायः (२०) _____________________________________________________________ श्रीपराशर उवाच तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् । देवकी वसुदेवौ कुदृष्ट्वा मायां पुनर्हरिः । मोहाय यदुचक्रस्य विततान स वैष्णवीम् ॥ ५,२१.१ ॥ उवाच चांब हे तात चिरादुत्कण्ठितेन मे । भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च ॥ ५,२१.२ ॥ कुर्वतां याति यः कालो मातापित्रोरपूजनम् । तत्खण्डमायुषो व्यर्थमसाधूनां हि जायते ॥ ५,२१.३ ॥ गुरुदेवद्विजातीनां मातापित्रोश्च पूजनम् । कुर्वतां सफलः कालो देहिनां तात जायते ॥ ५,२१.४ ॥ तत्क्षन्तव्यमिदं सर्वमतिक्रमकृतं पितः । कंसवीर्यप्रतापाभ्यामावयोः परवश्ययोः ॥ ५,२१.५ ॥ श्रीपराशर उवाच इत्युक्त्वाथ प्रणम्योभौ यदुवृद्धाननुक्रमात् । यथावदभिपूज्याथ चक्रतुः पौरमाननम् ॥ ५,२१.६ ॥ कंसपत्न्यस्ततः कंसं परिवार्य हतं भुवि । विलेपुर्मातरश्चास्य दुःखशोकपरिप्लुताः ॥ ५,२१.७ ॥ बहुप्रकारमस्वस्थाः पश्चात्तापातुरो हरिः । ताःसमाश्वासयामास स्वयमस्राविलेक्षमः ॥ ५,२१.८ ॥ उग्रसेनं ततो बन्धामुमोच मधुसूदनः । अभ्यसिंचत्तदैवैनं निजराज्ये हतात्मजम् ॥ ५,२१.९ ॥ राज्योभिषिक्तः कृष्णेन यदुसिंहःसुतस्य सः । चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः ॥ ५,२१.१० ॥ कृतौर्धदैहिकं चैनं सिंहासनगतं हरिः । उवाचाज्ञापय विभो यत्कार्यमविशङ्कितः ॥ ५,२१.११ ॥ ययातिशापाद्वंशोयमराज्यार्हेपि सांप्रतम् । मयि भृत्ये स्थिते देवनाज्ञापयतु किं नृपैः ॥ ५,२१.१२ ॥ श्रीपराशर उवाच इत्युक्त्वा सोऽस्मरद्वायुमाजगाम च तत्क्षणात् । उवाच चैनं भगवान्केशवः कार्यमानुषः ॥ ५,२१.१३ ॥ गच्छेदं ब्रूहि वायो त्वमलं गर्वोण वासव । दीयतामुग्रसेनाय सुधर्मा भवता सभा ॥ ५,२१.१४ ॥ कृष्णो ब्रवीति राजार्हमेतद्रत्नमनुत्तमम् । सूधर्माख्यसभायुक्तमस्यां यदुभिरासितुम् ॥ ५,२१.१५ ॥ श्रीपराशर उवाच इत्युक्तः पवनो गत्वा सर्वमाह शचीपतिम् । ददौ सोऽपि सुधर्माख्यां सभां वायोः पुरन्दरः ॥ ५,२१.१६ ॥ वायुना चाहृतां दिव्यां सभां ते यदुपुङ्गवाः । बुभुजुःसर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः ॥ ५,२१.१७ ॥ विदिताखिलविज्ञानौ सर्वज्ञानमयावपि । शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ सदूत्तमौ ॥ ५,२१.१८ ॥ ततःसांदीपनिं काश्यमवन्तीपुरवासिनम् । विद्यार्थं जग्मतुर्बालौ कृतोपनयनक्रमौ ॥ ५,२१.१९ ॥ वेदाभ्यासकृतप्रीति संकर्षणजनार्दनौ । तस्य शिष्यत्वमभ्येत्य गुरुवृत्तिपुरौ हि तौ । दर्शयाञ्चक्रतुर्वीरा वाचारमखिले जने ॥ ५,२१.२० ॥ सरहस्यं धनुर्वेदं ससंग्रहमधीयताम् । अहोरात्रचतुःषष्ट्या तदद्भुतमभूद्द्वूज ॥ ५,२१.२१ ॥ सांदीपनिरसंभाव्यं तयोः कर्मातिमानुषम् । विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥ ५,२१.२२ ॥ सांगांश्च चतुरो वेदान्सर्वशास्त्राणि चैव हि । अस्त्रग्राममशेषं च प्रोक्तमात्रमवाप्य तौ ॥ ५,२१.२३ ॥ ऊचुतुर्व्रियतां या ते दातव्या गुरुदक्षिमा ॥ ५,२१.२४ ॥ सोऽप्यतीन्द्रियमालोक्य तयोः कर्म महामति । अयाचत सृतं पुत्रं प्रभासे लवणार्णवे ॥ ५,२१.२५ ॥ गृहीतास्त्रौ ततस्तौ तु सार्घ्यहस्तो महोदधिः । उवाच न मया पुत्रो हृतःसांदीपनेरिति ॥ ५,२१.२६ ॥ दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् । जग्राह योस्ति सलिले ममैवा सुरसूदन ॥ ५,२१.२७ ॥ श्रीपराशर उवाच इत्युक्त्वोन्तर्जलं गत्वा हत्वा पञ्चजनं च तम् । कष्णो जग्राह तस्यास्थिप्रभवं शङ्खमुत्तमम् ॥ ५,२१.२८ ॥ यस्य नादेन दैत्यानां बलहानिरजायत । देवानां ववृधे तेजो यात्यधर्मश्च संक्षयम् ॥ ५,२१.२९ ॥ तं पाञ्चजन्यमापूर्य गत्वा यमपुरं हरिः । बलदेवश्च बलवाञ्जित्वा वैवस्वतं यमम् ॥ ५,२१.३० ॥ तं बालं यातनासंस्थ यथापूर्वशरीरिणम् । पित्रे प्रदत्तवान्कृष्णो बलश्च बलिनां वरः ॥ ५,२१.३१ ॥ मथुरां च पुनः प्राप्ताबुग्रसेनेन पालिताम् । प्रहृष्टपुरुषस्त्रीकामुभौ रामजनार्दनौ ॥ ५,२१.३२ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांश एवविंशोध्यायः (२१) _____________________________________________________________ श्रीपराशर उवाच जरासंधमुते कस उपयेमे महाबलः । अस्तिं प्राप्तिं च मैत्रेय चयोर्भर्तृहणं हरिम् ॥ ५,२२.१ ॥ महा बलपरीवारो मगधाधिपतिर्बली । हन्तुमभ्याययौ कोपाज्जरासंधःसयादवम् ॥ ५,२२.२ ॥ उपेत्य मथुरां सोऽथ रुरोध मगधेश्वरः । अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर्वृतः ॥ ५,२२.३ ॥ निष्क्रम्याल्पपरीवारावुभौ रामजनार्दनौ । युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥ ५,२२.४ ॥ ततो रामश्च कृष्णश्च मतिं चक्रतुरञ्जसा । आयुधानां पुराणानामादाने मुनिसत्तम ॥ ५,२२.५ ॥ अनन्तरं हरेः शार्ङ्गं तूणी चाक्षयसायकौ । आकाशादागतौ विप्र तथा कौमोदकी गदा ॥ ५,२२.६ ॥ हलं च बलभद्रस्य गगनादागतं महत् । मनसोऽभिमतं विप्र सानन्दं मुसलं तथा ॥ ५,२२.७ ॥ ततो युद्धे पराजित्य ससैन्यं सगधाधिपम् । पुरीं विविशतुर्वीरावुभौ रामजनार्दनौ ॥ ५,२२.८ ॥ जिते तस्मिन्सुदुर्वृत्ते जरासंधे महा मुने । जीवमाने गते कृष्णस्तेनामन्यत नाजितम् ॥ ५,२२.९ ॥ पुनरप्याजगामाथ जरासंधो बलान्वितः । जितश्च रामकृष्णाभ्यामपक्रान्तो द्विजोत्तम ॥ ५,२२.१० ॥ दश चाष्टौ च संग्रमानेवमत्यन्तदुर्मदः । यदुभिर्मागधो राजा चक्रे कृष्णपुरोगमैः ॥ ५,२२.११ ॥ सर्वेष्वेतेषु युद्धेषु यादवैः स पराजितः । अपक्राञ्चो जरासंधःस्वल्पसैन्यैर्बलाधिकः ॥ ५,२२.१२ ॥ न तद्बलं यादवानां विजितं यदनेकशः । तत्तु संनिधिमाहात्म्यं विष्णोरंशस्य चक्रिणः ॥ ५,२२.१३ ॥ मनुष्यधर्मशीलस्य लीला सा जगतीपतेः । अस्त्राण्यनेकरूपाणि यदरातिषु मुञ्चति ॥ ५,२२.१४ ॥ मनसैव जगत्सृष्टिं संहारं च करोति यः । तस्यापिपक्षक्षपणे कियानुद्यमविस्तरः ॥ ५,२२.१५ ॥ तथापि यो मनुष्याणां धर्मस्तमनुवर्तते । कुर्वन्बलवता संधिं हीनैर्युद्धं करोत्यसौ ॥ ५,२२.१६ ॥ साम चोपप्रदानं च तथा भेदं च दर्शयन् । करोति दण्डपातं च क्वचिदेव पलायनम् ॥ ५,२२.१७ ॥ मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते । लीला जगत्पतेस्तस्य च्छन्दतः परिवर्तते ॥ ५,२२.१८ ॥ इति श्रीविष्णुमहापुराणे पञ्चमाशे द्वाविंशोऽध्यायः (२२) _____________________________________________________________ श्रीपराशर उवाच गार्ग्यं गोष्ठ्यां द्विजं श्यालःषण्ड इत्युक्तवान्द्विज । यदूनां सन्निधौ सर्वे जहसुर्यादवास्तदा ॥ ५,२३.१ ॥ ततः कोपपरीतात्मा दक्षिणापथमेत्य सः । सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम् ॥ ५,२३.२ ॥ आराधयन्महादेवं लोहचूर्णमभक्षयत् । ददौ वरं च तुष्टोऽस्मै वर्षे तु द्वादशे हरः ॥ ५,२३.३ ॥ संतोषयामास च तं यवनेशो ह्यनात्मजः । तद्योषित्संगमाच्चास्य पुत्रोऽभूदलिसन्निभः ॥ ५,२३.४ ॥ तं कालयवनं नाम राये स्वे यवनेश्वरः । अभिषिच्य वनं यातो वज्रग्रकठिनोरसम् ॥ ५,२३.५ ॥ स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् । अपृच्छन्नारदस्तस्मै कथयामास यादवान् ॥ ५,२३.६ ॥ म्लेच्छकोटिसहस्राणां सहस्रैः सोऽभिसंवृतः । गजाश्वरथसंपन्नैश्चकार परमोद्यमम् ॥ ५,२३.७ ॥ प्रययौ स व्यवच्छिन्नं छिन्नयानो दिनेदिने । यादवान्प्रति सामर्षो मैत्रेय मथुरां पुरीम् ॥ ५,२३.८ ॥ कृष्णोऽपि चिन्तयामास क्षपितं यादवं बलम् । यवनेन रणे गम्यं मागधस्य भविष्यति ॥ ५,२३.९ ॥ मागधस्य बलं क्षीणं स कालयवनो बली । हन्तैतदेवमायातं यदूनां व्यसनं द्विधा ॥ ५,२३.१० ॥ तस्माद्दुर्गं करिष्यामि यदूनामरिदुर्जयम् । स्त्रियोऽपि यत्र युद्धेयुः किं पुनर्वृष्णिपुङ्गवाः ॥ ५,२३.११ ॥ मयि मत्ते प्रमत्ते वा सुप्ते प्रवसितेऽपि वा । यादवाभिभवं दुष्टा मा कुर्वंस्त्वरयोधिकाः ॥ ५,२३.१२ ॥ इति संचिन्त्य गोविन्दो योजनानां महोदधिम् । ययाचे द्वादशपुरीं द्वारकां तत्र निर्ममे ॥ ५,२३.१३ ॥ महोद्यानां महावप्रां तटाकशतशोभिताम् । प्रासादगृहसंबाधामिन्द्रस्येवामरावतीम् ॥ ५,२३.१४ ॥ मथुरावासिनं लोकं तत्रानीय जनार्दनः । आसन्ने कालयवने मथुरां च स्वयं ययौ ॥ ५,२३.१५ ॥ बहिरावासिते सैन्ये मथुराया निरायुधः । निर्जगाम च गोविन्दो ददर्श यवनश्च तम् ॥ ५,२३.१६ ॥ स ज्ञात्वा वासुदेवं तं बाहुप्रहरणं नृपः । अनुयातो महायोगी चेतोभिः प्राप्यते न यः ॥ ५,२३.१७ ॥ तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम् । यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥ ५,२३.१८ ॥ सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नृपम् । पादेन ताडयामास मत्वा कृष्णं सुदुर्मतिः ॥ ५,२३.१९ ॥ उत्थाय मुचुकुन्दोऽपि ददर्श यवनं नृपः ॥ ५,२३.२० ॥ दृष्टमात्रश्च तेनासौ जज्वाल यवनोग्निना । तत्क्रोधजेन मैत्रेय भस्मीभूतश्च तत्क्षणात् ॥ ५,२३.२१ ॥ स हि देवासुरे युद्धे गतो हत्वा महासुरान् । निद्रार्तःसुमहाकालं निद्रां वव्रे वरं सुरान् ॥ ५,२३.२२ ॥ प्रोक्तश्च देवैः संसुप्तं यस्त्वामुत्थापयिष्यति । देहजेनाग्निना सद्यःस तु भस्मीभविष्यति ॥ ५,२३.२३ ॥ एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् । कस्त्वमित्याह सोऽप्याह जातोहं शशिनः कुले । वसुदेवस्य तनयो यदोर्वंशसमुद्बवः ॥ ५,२३.२४ ॥ मुचुकुन्दोऽपि तत्रासौ वृद्धगर्ग्यावचोऽस्मरत् ॥ ५,२३.२५ ॥ संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् । प्राह ज्ञातो भवान् विष्णोरंशस्त्वं परमेश्वर ॥ ५,२३.२६ ॥ पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे । द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति ॥ ५,२३.२७ ॥ स त्वं प्राप्तो न संदेहो मर्त्यानामुपकारकृत् ॥ ५,२३.२८ ॥ तथाहि सुमहत्तेजो नालं सोढुमहं तव । तथाहि सजलांभोदनादधीरतरं तव । वाक्यं नमति चैवोर्वी युष्मत्पादप्रपीडिता ॥ ५,२३.२९ ॥ देवासुरमहायुद्धे दैत्यसैन्यमहाभटाः । न सेहुर्मम ते जस्ते त्वत्तेजो न सहाम्यहम् ॥ ५,२३.३० ॥ संसारपतितस्यैको जन्तोस्त्वं शरणं परम् । प्रसीद त्वं प्रपन्नार्तिहर नाशय मेऽशुभम् ॥ ५,२३.३१ ॥ त्वं पयो निधयः शैलसरितस्त्वं वनानि च । मेदिनी गगनं वायुरापोग्निस्त्वं तथा मनः ॥ ५,२३.३२ ॥ बुद्धिरव्याकृतप्राणाः प्राणेशस्त्वं तथा पुमान् । पुंसः परतरं यच्च व्याप्य जन्म विकारवत् ॥ ५,२३.३३ ॥ शब्दादिहीनमजरममेयं क्षयवर्जितम् । अवृद्धिनाशं तद्ब्रह्म त्वमाद्यन्तविवर्जितम् ॥ ५,२३.३४ ॥ त्वत्तोऽमराःसपितरो यक्षगन्धर्वकिन्नराः । सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ॥ ५,२३.३५ ॥ सरीसृपा मृगाःसर्वे त्वत्तःसर्वे महीरुहाः । यच्च भूतं भविष्यं च किञ्चिदत्र चराचरम् ॥ ५,२३.३६ ॥ मूर्तामूर्तं तथा चापि स्थूलं सूक्ष्मतरं तथा । तत्सर्वं त्वं जगत्कर्ता नास्ति किञ्चित्त्वा या विना ॥ ५,२३.३७ ॥ मया संसारचक्रेऽस्मिन्भ्रमता भगवंस्तदा । तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्विचित् ॥ ५,२३.३८ ॥ दुःखान्येव सुखानीति मृगतृष्णाजलाशयाः । मया नाथ गृहीतानि तानि तापाय मेऽभवन् ॥ ५,२३.३९ ॥ राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाः । भार्या भृत्य जनो ये च शब्दाद्य विषयाः प्रभो ॥ ५,२३.४० ॥ सुखबुद्ध्या मया सर्वं गृहीतमिदमव्ययम् । परिणामे तदेवेश तापात्मकमभून्मम ॥ ५,२३.४१ ॥ देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हि । मत्तःसाहाय्यकामोभूच्छाश्वती कुत्र निर्वृतिः ॥ ५,२३.४२ ॥ त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् । शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥ ५,२३.४३ ॥ त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् । अवाप्य तापान्पश्यन्ति प्रेतराजमनन्तरम् ॥ ५,२३.४४ ॥ ततो निजक्रियासूतिनरकेष्वतिदारुणम् । प्राप्नुवन्ति नरा दुःखमस्वरूपविदस्तव ॥ ५,२३.४५ ॥ अहमत्यन्तविषयी मोहितस्तव मायया । ममत्वगर्वगर्तान्तर्भ्रमामि परमेश्वर ॥ ५,२३.४६ ॥ सोऽहं त्वां शरणमपारमप्रमेयं संप्राप्तः परमपदं यतो न किञ्चित् । संसारभ्रमपरितापतप्तचेतानिर्वाणे परिणतधाम्नि साभिलाषः ॥ ५,२३.४७ ॥ इति श्रीविष्णुमहापुराणेच पञ्चमांशे त्रयोविंशोऽध्यायः (२३) _____________________________________________________________ श्रीपराशर उवाच इत्थंस्तुतस्तदा तेन मुचुकुन्देन धीमता । प्राहेशः सर्वभूतानामनादिनिधनो हरिः ॥ ५,२४.१ ॥ श्रीभगवानुवाच यथाभिवाञ्छितान्दिव्यान्गच्छलोकान्नराधिप । अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥ ५,२४.२ ॥ भुक्त्वा दिव्यन्महा भोगान्भविष्यसि महाकुले । जातिस्मरो मत्प्रसादात्ततोमोक्षमवाप्स्यसि ॥ ५,२४.३ ॥ श्रीपराशर उवाच इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः । गुहामुखाद्विनिष्क्रान्ततःस ददर्शाल्पकान्नरान् ॥ ५,२४.४ ॥ ततः कलियुगं मत्वा प्राप्तं तप्तुं नृपस्तपः । नरनारायणस्थानं प्रययौ गन्धमादनम् ॥ ५,२४.५ ॥ कृष्णोपि घातयित्वारिमुपायेन हि तद्वलम् । जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥ ५,२४.६ ॥ आनीय चोग्रसेनाय द्वारवत्वां न्यवेदयत् । पराभिभवनिः शङ्कं बभूव च यदोः कुलम् ॥ ५,२४.७ ॥ बलदेवोऽपि मैत्रेय प्रशान्ताखिलविग्रहः । ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥ ५,२४.८ ॥ ततो गोपाश्च गोप्यश्च यथा पूर्वममित्रजित् । तथैवाभ्यवदत्प्रम्णा बहुमानपुरःसरम् ॥ ५,२४.९ ॥ स कैश्चित्संपरिष्वक्तः कांश्चिच्च परिषस्वजे । हास्यं चक्रे समं कैश्चिद्गोपैर्गोपीजनैस्तथा ॥ ५,२४.१० ॥ प्रियाण्यनेकान्यवदन् गोपास्तत्र हलायुधम् । गोप्यश्च प्रेमकुपिताः प्रोचुःसेर्ष्यमथापराः ॥ ५,२४.११ ॥ गोप्यः पप्रच्छुरपरा नागरीजनवल्लभम् । कच्चिदास्ते सुखं कृष्णश्चलप्रेमलवात्मकः ॥ ५,२४.१२ ॥ अस्मच्चेष्टामपहसन्न कच्चित्पुरयोषिताम् । सौभाग्यमान मधिकं करोति क्षणसौहृदः ॥ ५,२४.१३ ॥ कच्चित्स्मरति नः कृष्णो गीतानुगमनं कलम् । अप्यसौ मातरं द्रष्टु सकृदप्यागमिष्यति ॥ ५,२४.१४ ॥ अथ वा किं तदालापैः क्रियन्तामपराः कथाः । यस्यास्मभिर्विना तेन विनास्माकं भविष्यति ॥ ५,२४.१५ ॥ पिता माता तथा भ्राता भर्ता बन्धुजनश्च किम् । संत्यक्तस्तत्कृतेस्माभिरकृतज्ञध्वजो हि सः ॥ ५,२४.१६ ॥ तथापि कच्चिदालापमिहागमनसंश्रयम् । करोति कृष्णो वक्तव्यं भवता राम नानृतम् ॥ ५,२४.१७ ॥ दामोदरोऽसौ गोविन्दः पुरस्त्रीसक्तमानसः । अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः ॥ ५,२४.१८ ॥ आमन्त्रितश्च कृष्णेति पुनर्दामोदरेति च । जहसुःसस्वरं गोप्यो हरिणा हृतचेतसः ॥ ५,२४.१९ ॥ संदेशैः साममधुरैः प्रेमगर्भैरगर्वितैः । रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥ ५,२४.२० ॥ गोपैश्च पूर्ववद्रामः परिहासमनोहराः । कथाश्चकार रेमे च सह तैर्व्रजभूमिषु ॥ ५,२४.२१ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्विंशोध्यायः (२४) _____________________________________________________________ श्रीपराशर उवाच वने विचरतस्तस्य सह गोपैर्महात्मनः । मानुषच्छद्मरूपस्य शेषस्य धरणीधृतः ॥ ५,२५.१ ॥ निष्पादितो रुकार्यस्य कार्योणोर्वीप्रचारिणः । उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥ ५,२५.२ ॥ अभीष्टा सर्वदा यस्य मदिरे त्वं महौजसः । अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ ५,२५.३ ॥ इत्युक्ता वारुणी तेन सन्निधानमथाकरेत् । वृन्दावनसमुत्पन्नकदं बतरुकोटरे ॥ ५,२५.४ ॥ विचरन् बलदेवोऽपि मदिरागन्धमुत्तमम् । आघ्राय मदिरातर्षमवापाथ वराननः ॥ ५,२५.५ ॥ ततः कदंबात्सहसामद्यधारां स लाङ्गली । पतन्तीं वीक्ष्य मैत्रेय प्रययौ परमां मुदम् ॥ ५,२५.६ ॥ पपौ च गोपगोपीभिः समुपेतो मुदान्वितः । प्रगीयमानो ललीतं गीतवाद्यविशारदैः ॥ ५,२५.७ ॥ स मत्तोत्यन्तघर्मांभःकणिकामौक्तिकोज्ज्वलः । आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः ॥ ५,२५.८ ॥ तस्य वाचं नदी सा तु मत्तोक्तामवमत्य वै । नाजगाम ततः क्त्रुद्धो हलं जग्राह लाङ्गली ॥ ५,२५.९ ॥ गृहीत्वा तां हलान्तेन चकर्ष मदविह्वलः । पापे नायासि नायासि गम्यतामिच्छयान्यतः ॥ ५,२५.१० ॥ साकृष्टा सहसा तेन मार्गं संत्यज्य निम्रगा । यत्रास्ते बलभद्रोऽसौ प्लावयामास तद्वनम् ॥ ५,२५.११ ॥ शोरीरिणी तदाभ्येत्य त्रासविह्वललोचना । प्रसीदेत्यब्रवीद्रामं मुञ्च मां मुसलायुध ॥ ५,२५.१२ ॥ ततस्तस्याः सुवचनमाकर्ण्य स हला युधः । सोऽब्रवीदवजानासि मम शौर्यबले नदि । सोऽहं त्वां हलपातेन नयिष्यामि सहस्रधा ॥ ५,२५.१३ ॥ श्रीपराशर उवाच इत्युक्तयाति संत्रासात्तया नद्य प्रसादितः । भूभागे प्लाविते तस्मिन्मुमोच यमुनां बलः ॥ ५,२५.१४ ॥ ततः स्नातस्य वै कान्तिरजायत महात्मनः ॥ ५,२५.१५ ॥ अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् । वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् । समुद्राभे तथा वस्त्रे नीले लक्ष्मीरयच्छत ॥ ५,२५.१६ ॥ कृतावतंसः स तदा चारुकुंडलभूषितः । नीलांबरधरःस्रग्वी शुशुभे कान्तिसंयुतः ॥ ५,२५.१७ ॥ इत्थं विभूषितो रेमे तत्र रामस्तथा व्रजे । मासद्वयेन यातश्च स पुनर्द्वारकां पुरीम् ॥ ५,२५.१८ ॥ रेवतीं नाम तनयां रैवतस्य महीपतेः । उपयेमे बलस्तस्यां जज्ञाते निशितोल्मुकौ ॥ ५,२५.१९ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चविंशोध्यायः (२५) _____________________________________________________________ श्रीपराशर उवाच भीष्मकः कुण्डिने राजा विदर्भविषयेऽभवत् । रुक्मीतस्यभवत्पुत्रो रुक्मिणी च वरानना ॥ ५,२६.१ ॥ रुक्मिणीं चकमे कृष्णःसा च तं चारुहीसिनि । न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥ ५,२६.२ ॥ ददौ च शिशुपालाय जरासन्धप्रचोदितः । भीष्मको रुक्मिणा सार्ध रुक्मिणीमुरुविक्रमः ॥ ५,२६.३ ॥ विवाहार्यं ततः सर्वे जरासंधमुखा नृपाः । भीष्मकस्य पुरं जग्मुः शिशुपालप्रियैषिणः ॥ ५,२६.४ ॥ कृष्णोऽपि बलभद्राद्यैर्यदुभिः परिवारितः । प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूभृतः ॥ ५,२६.५ ॥ श्वो भाविनि विवाहे तु तां कन्यां हृतवान्हरिः । विपक्षभारमासज्य रामादिष्वथ बन्धुषु ॥ ५,२६.६ ॥ ततश्च पैण्ड्रकश्र्श्रीमान्दन्तवक्रो विदूरथः । शिशुपालजरासंधशाल्वाद्याश्च महीभृतः ॥ ५,२६.७ ॥ कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् । निर्जिताश्च समागम्य रामाद्योर्यदुपुङ्गवैः ॥ ५,२६.८ ॥ कुण्डिनं न प्रवेक्ष्यामि ह्यहत्वा युधि केशवम् । कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमनुद्रुतः ॥ ५,२६.९ ॥ हत्वा बलं सनागाश्वं पत्तिस्यन्दनसंकुलम् । निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥ ५,२६.१० ॥ निर्जित्य रुक्मिणं सम्यगुपयेमे च रुक्मिणीम् । राक्षसेन विवाहेन संप्राप्तां मधुसुदनः ॥ ५,२६.११ ॥ तस्यां जज्ञे च प्रद्युम्नो मदनांशःसवीर्यवान् । जहार शंबरो यं वै यो जघान च शंबरम् ॥ ५,२६.१२ ॥ इति श्रिविष्णुमहापुराणे पञ्चमांशे षड्विशोध्यायः (२६) _____________________________________________________________ श्रीमैत्रेय उवाच संबरेणहृतो वीरः प्रद्युम्नः स कथं मुने । शंबरः स महावीर्यः प्रद्युम्नेन कथं हतः ॥ ५,२७.१ ॥ यस्तेनापहृतः पूर्वं स कथं विजघान तम् । एतद्विस्तरतः श्रोतुमिच्छामि सरलं गुरो ॥ ५,२७.२ ॥ श्रीपराशर उवाच षष्ठेह्नि जातमात्रं तु प्रद्युम्नं सूतिकागृहात् । ममैष हन्तेति मुने हृतवान्कालशंबरः ॥ ५,२७.३ ॥ हृत्वा चिक्षेप चैवैनं ग्राहोग्रे लवणार्णवे । कल्लोलजनितावर्ते सुघोरे मकारालये ॥ ५,२७.४ ॥ पातितं तत्र चैवैको मत्स्यो जग्राह बालकम् । न ममार च तस्यापि जठराग्निप्रदीपितः ॥ ५,२७.५ ॥ मत्स्यबन्धैश्च मत्स्योऽसौ मत्स्यैरन्यैः सह द्वज । घातितोऽसूरवर्याय शंबराय निवेदितः ॥ ५,२७.६ ॥ तस्य माया वती नाम पत्नी सर्वगृहेश्वरी । कारयामास सूदानामाधिपत्यमनिन्दिता ॥ ५,२७.७ ॥ दारिते मत्स्यजठरे सा ददर्शातिशोभनम् । कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम् ॥ ५,२७.८ ॥ कोऽयं कथमयं मत्स्यजठरे प्रविवेशितः । इत्येवं कौनुपाविष्टां नन्वीं प्राहाथ नारदः ॥ ५,२७.९ ॥ अयं समस्तजगतः स्थितिसंहारकारिणः । शंबरेण हृतो विष्णोस्तनयः सूतिकागृहात् ॥ ५,२७.१० ॥ क्षिप्तःसमुद्रे मत्स्येन निगीर्णस्ते गृहं गतः । नररत्नमिदं सुभ्रु विस्रब्धा परिपालय ॥ ५,२७.११ ॥ श्रीपराशर उवाच नारदेनैवमुक्ता सा पालयामास तं शिशुम् । बाल्यादेवातिरागेणरूपातिशयमोहिता ॥ ५,२७.१२ ॥ स यदा यौवनाभोगभूषितोऽभून्महामते । साभिलाषा तदा सापि बभूव गजगामिनि ॥ ५,२७.१३ ॥ मायावती ददौ तस्मै मायाः सर्वा महामुने । प्रद्युम्नायानुरागान्धा तत्र्यस्तहृदयेक्षणा ॥ ५,२७.१४ ॥ प्रसाज्जन्तीं तु तां प्राह स कार्ष्णिः कमलेभणाम् । मातृत्वमपहायाद्य किमेवं वर्तसेऽन्यथा ॥ ५,२७.१५ ॥ सा तस्मै कथयामासन पुत्रस्त्वं ममेति वै । तनयं त्वामयं विष्णोर्हृतवान्कालशंबरः ॥ ५,२७.१६ ॥ क्षिप्तः समुद्रे मत्स्यस्य संप्राप्तो जठरान्मया । सा हि रोदितिते माता कान्ताद्याप्यतिवत्सला ॥ ५,२७.१७ ॥ श्रीपराशर उवाच इत्युक्तः शंबरं युद्धे प्रद्युम्नः स समाह्वयत् । क्रोधाकुलीकृतमना युयुधे च महा बलः ॥ ५,२७.१८ ॥ हत्वा सैन्यमशेषं तु तस्य दैत्यस्य यादवः । सप्तमाया व्यतिक्रम्य मायां प्रयुयुजेऽष्टमीम् ॥ ५,२७.१९ ॥ तया जघान तं दैत्यं मायया कालशंबरम् । उत्पत्त्य च तया सार्धमाजगाम पितुः पुरम् ॥ ५,२७.२० ॥ अन्तःपुरे निपतितं मायावत्या समन्वितम् । तं दृष्ट्वा कृष्ण संकल्पा बभूवुः कृष्णयोषितः ॥ ५,२७.२१ ॥ रुक्मिणी साभवत्प्रेम्णा सास्रदृष्टिरनिन्दिता । धन्याया खल्वयं पुत्रो वर्तते नवयौवने ॥ ५,२७.२२ ॥ अस्मिन्वयसि पुत्रो मे प्रद्युम्नो यदि जीवति । सभाग्या जननी वत्स सा त्वाया का विभीषिता ॥ ५,२७.२३ ॥ अथ वा यादृसः स्नेहो मम यादृग्वपुस्तव । हरेरपत्यं सुव्यक्तं भवान्वत्स भविष्यति ॥ ५,२७.२४ ॥ श्रीपराशर उवाच एतस्मिन्नन्तरे प्राप्तःसह कृष्णेन नारदः । अन्तःपुरचरां देवीं रुक्मिणीं प्राह हर्षयन् ॥ ५,२७.२५ ॥ एष ते तनयः सुभ्रु हत्वा शंबरमागतः । हृतो येनाभवद्बालो भवत्याःसूतिकागृहात् ॥ ५,२७.२६ ॥ इयं मायावती भार्या तनयस्यास्य ते सती । शंबरस्य न भार्येयं श्रूयतामत्र कारणम् ॥ ५,२७.२७ ॥ मन्मथे तु गते नाशं तदुद्भवपरयणा । शंबरं मोहयामास मायारूपेण रूपिणी ॥ ५,२७.२८ ॥ विहाराद्युपभोगेषु रूपं मायामयं शुभम् । दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥ ५,२७.२९ ॥ कामोऽवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः । विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभने ॥ ५,२७.३० ॥ ततो हर्षसमाविष्टौ रुक्मिणी केशवौतदा । नगरी च समस्ता सा साधुसाध्वित्यभाषत ॥ ५,२७.३१ ॥ चिरं नष्टेन पुत्रेण संगतां प्रेक्ष्य रुक्मिणीम् । अवाप विस्मयं सर्वो द्वारवत्यां तदा जनः ॥ ५,२७.३२ ॥ इति श्रीविष्णुमहापुराणे पञ्चसांशे स्पतविंशोध्यायः (२७) _____________________________________________________________ श्रीपराशर उवाच चारुदेष्णं सुदेष्णं च चारुदेहं च वीर्यवान् । सुषेणं चारुगुप्तं च भद्रचारुं तथा परम् ॥ ५,२८.१ ॥ चारुविन्दं सुचारुं च चारुं चबलिनां वरम् । रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा ॥ ५,२८.२ ॥ अन्याश्च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः । कालिदी मित्रविन्दा च सत्या चाग्नजिती तथा ॥ ५,२८.३ ॥ देवी जाम्बवती चापि रोहिणी कामरूपिणी । मद्रराजसुता चान्या सुशीला शीलमण्डना ॥ ५,२८.४ ॥ सत्राजिती सत्यभामा लक्ष्मणा चारुहासिनी । षोडशासन् सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥ ५,२८.५ ॥ प्रद्युम्नऽपि महावीर्यो रुक्मिणस्तनयां शुभाम् । स्वयंबरे तां जग्राह सा च तं तनयं हरेः ॥ ५,२८.६ ॥ तस्यामस्याभक्तपुत्रो महाबलपराक्रमः । अनिरुद्धो रणे रुद्धवीर्योदधिररिन्दमः ॥ ५,२८.७ ॥ तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः । दौहित्राय ददौ रक्मी तां स्पर्धन्नपि चक्रिणा ॥ ५,२८.८ ॥ तस्या विवाहे रामाद्या यादवा हरिणा सह । कल्याणार्थं ततःसर्वे ये चान्ये भूभृतस्तथा । रुक्मिणी नगरं जग्मुर्नाम्ना भोजकटं द्विज ॥ ५,२८.९ ॥ विवाहे तत्र निर्वृत्ते प्रद्युम्नस्य महात्मनः । कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥ ५,२८.१० ॥ अनक्षज्ञो हली द्युते तथास्य व्यसनं महत् । तज्जयामो बलं कस्माद्द्युतेनैनं महाबलम् ॥ ५,२८.११ ॥ श्रीपराशर उवाच तथेति तानाह नृपान्रुक्मी बलमदान्वितः । सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥ ५,२८.१२ ॥ सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः । द्वितीयेऽपिपणे चान्यत्सहस्रं रुक्मिणा जितः ॥ ५,२८.१३ ॥ ततो दशसहस्राणि निष्काणां पणमाददे । बलभद्रोऽजयत्तानि रुक्मी द्युतविदां वरः ॥ ५,२८.१४ ॥ ततो जहास स्वनवत्कलिङ्गाधिपतिर्धिज । दन्तान् विदर्शयन्मूढो रुक्मी चाह मदोद्धतः ॥ ५,२८.१५ ॥ अविद्योऽयं मया द्यूते बलभद्रः पराजितः । भुधैवाक्षावलेपान्धो योऽवमेनेऽक्षकोविदान् ॥ ५,२८.१६ ॥ दृष्ट्वा कलिङ्गराजानं प्रकाशदशनाननम् । रिक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥ ५,२८.१७ ॥ ततः कोपपरीतात्मा निष्ककोटिं समाददे । ग्लहं जग्राह रुक्मी च तदर्थेक्षानपातयत् ॥ ५,२८.१८ ॥ अजयद्बलदेवस्तं प्राहोच्चैर्विजितं मया । मयेति रुक्मी प्राहोच्चैरलीकोक्तेरलं बल ॥ ५,२८.१९ ॥ त्वयोक्तोऽयं ग्लहःसत्यं न मयैषोनुमोदितः । एवं त्वया चेद्विजितं विजितं न मया कथम् ॥ ५,२८.२० ॥ श्रीपराशर उवाच अथान्तरिक्षे वागुच्चेः प्राह गंभीरनादिनी । बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥ ५,२८.२१ ॥ जितं बलेन धर्मेण रुक्मिणा भाषितं मृषा । अनुक्त्वापि वचः किञ्चित्कृत भवति कर्मणा ॥ ५,२८.२२ ॥ ततो बलः समुत्थाय कोपसंरक्कलोचनः । जघानाष्टपदेनैव रिक्मिणं स महाबलः ॥ ५,२८.२३ ॥ कलिङ्गराजं चादाय विस्फुरन्तं बलाद्बलः । बभञ्ज दन्तान्कुपितो यैः प्रकाशैर्जहास सः ॥ ५,२८.२४ ॥ आकृष्य च महास्तंभं जातरूपमयं बलः । जघान तान्ये तत्पक्षे भूभृतः कुपितो भृशम् ॥ ५,२८.२५ ॥ ततो हाहाकृतं सर्वं पलायन परं द्विज । तद्राजमण्डलं भीतं बभूव कुपिते बले ॥ ५,२८.२६ ॥ बलेन निहतं दृष्ट्वा रुक्मिणं मधुसूदनः । नोवाच किञ्चिन्मैत्रेय रुक्मिणी बलयोर्भयात् ॥ ५,२८.२७ ॥ ततोनिरुद्धमादाय कृतदारं द्विजोत्तम । द्वारकामाजगामाथ यदुचक्रं च केशवः ॥ ५,२८.२८ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशेऽष्टाविंशोध्यायः (२८) _____________________________________________________________ श्रीपराशर उवाच द्वारवत्यां स्थिते कृष्णे शक्रस्त्रिभुवनेश्वरः । आजगामाथ मैत्रेय मत्तैरावतपृष्ठगः ॥ ५,२९.१ ॥ प्रविश्य द्वारकां सोऽथ समेत्य हरिणा ततः । कथयामास दैत्यस्य नरकस्य विचोष्टितम् ॥ ५,२९.२ ॥ त्वयानाथेन देवानां मनष्यत्वेपि तिष्ठता । प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥ ५,२९.३ ॥ तपस्विव्यमनार्थाय सोरिष्टो धेनुकस्तथा । प्रवृत्तो यस्तथा केशीते सर्वे निहतास्त्वया ॥ ५,२९.४ ॥ कंसः कुवलयापीडः पूतना बालघातिनी । नाशं नीतास्त्वया सर्वे येऽन्ये जगदुपद्रवाः ॥ ५,२९.५ ॥ युष्मद्दोर्दडसंभूतिपरित्राते जगत्त्रये । यज्वयज्ञांशसंप्राप्त्या तृप्तिं यान्ति दिवौकसः ॥ ५,२९.६ ॥ सोऽहं सांप्रतमायातो यन्निमित्तं जनार्दन । तच्छुत्वा तत्प्रतीकारप्रयत्नं कर्तुमर्हसि ॥ ५,२९.७ ॥ भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः । करोति सर्वभूतानामुपघातमरिन्दम ॥ ५,२९.८ ॥ देवसिद्दसुरादीनां नृपाणां च नजार्दन । हृत्वा तु सोऽसुरः कन्या रुरुधे निजमन्दिरे ॥ ५,२९.९ ॥ छत्रं यत्सलिलस्रावि तज्जहार प्रचेतसः । मदंरस्य तथा शृङ्गं हृतवान्मणिपर्वतम् ॥ ५,२९.१० ॥ अमृतस्त्राविणी दिव्ये मन्मातुः कृष्णकुञ्जले । जहार सोऽसुरो दित्या वाञ्छत्यैरावतं गजम् ॥ ५,२९.११ ॥ दुर्नीतमेतद्गोविन्दमया तस्य निवेदितम् । यदत्र प्रतिकर्तव्यं तत्स्वयं परिमृश्यताम् ॥ ५,२९.१२ ॥ श्रीपराशस उवाच इतिश्रुत्वा स्मितं कृत्वा भगवान्देवकीसुतः । गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥ ५,२९.१३ ॥ संचिन्त्यागतमारुह्य गरुडं गगनेचरम् । सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥ ५,२९.१४ ॥ आरुह्यौरावतं नागं शक्रोऽपि त्रिदिवं ययौ । ततौ जगाम कृष्णश्च पश्यतां द्वारकौकसाम् ॥ ५,२९.१५ ॥ प्राग्ज्योतिषपुरस्यापि समन्ताच्छतयोजनम् । आचिता मौरवैः पाशैः क्षुरान्तैर्भूर्द्विजोत्तम ॥ ५,२९.१६ ॥ ताञ्चिच्छेद हरिः पाशान्क्षिप्त्वा चक्रं सुदर्शनम् । ततो मुरःसमुत्तस्थौ तं जघान च केशवः ॥ ५,२९.१७ ॥ मुरस्य तनयान्सप्त सहस्रांस्तांस्ततो हरिः । चक्रधाराग्निनिर्दग्धांश्चकार शलभानिव ॥ ५,२९.१८ ॥ हत्वासुरं हयग्रीवं तथा पञ्चजनं द्विज । प्राग्ज्योतिषपुरं धीमांस्त्वारावान्समुपाद्रवत् ॥ ५,२९.१९ ॥ नरकेणास्य तत्राभून्महासैन्येन संयुगम् । कृष्णस्य यत्र गोविन्दो यत्र गोविन्दो जघ्ने दैत्यान्सहस्रशः ॥ ५,२९.२० ॥ शस्त्रास्त्रवर्षं मुञ्चन्तं तं भौमं नरकं बली । क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥ ५,२९.२१ ॥ हते तु नरके भूमिर्गृहीत्वादितिकुण्डले । उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ॥ ५,२९.२२ ॥ पृथ्व्युवाच यदाहमुद्धृता नाथ त्वया सूकरमूर्तिना । त्वत्स्पर्शसंभवः पुत्रस्तदायं मय्यजायत ॥ ५,२९.२३ ॥ सोऽयं त्वयैव दत्तो मे त्वयैब विनिपातितः । गृहाम कुण्डले चेमे पालयास्य च संततिम् ॥ ५,२९.२४ ॥ भारावतरणार्थाय ममैव भगवानिमम् । अंशेन लोकमायातः प्रसादसुमुखः प्रभो ॥ ५,२९.२५ ॥ त्वं कर्ता च विकर्ता च संहर्ता प्रभवोऽप्ययः । जगतान्त्वं जगद्रूपःस्तूयतेऽच्युत किं तव ॥ ५,२९.२६ ॥ व्याप्तिव्याप्यं क्रियाकर्ता कार्यं च भगवान्यथा । सर्वभूतात्मभूतस्य स्तूयते तव किं तथा ॥ ५,२९.२७ ॥ परमात्मा च भूतात्मा त्वमात्मा चाप्ययो भवान् । यथातथा स्तुतिर्नाथ किमर्थं ते प्रवर्तते ॥ ५,२९.२८ ॥ प्रसीद सर्वभूतात्मन्नरकेण तु यत्कृतम् । तत्क्षम्यतामदोषाय त्वत्सुतस्त्वन्निपातितः ॥ ५,२९.२९ ॥ श्रीपराशर उवाच तथेति चोक्त्वा धरणीं भगवान् भूतभावनः । रत्नानि नरकावासाज्जग्राह मुनिसत्तम ॥ ५,२९.३० ॥ कन्यापुरे स कन्यानां षोडःशातुलविक्रमः । शताधिकानि ददृशे सहस्राणि महामुने ॥ ५,२९.३१ ॥ चतुर्दंष्ट्रान्गजांश्चाग्र्यान् षट्सहस्रांश्च दृष्टवान् । कांभोजानां तथाश्वानां नियुतान्येकविंशतिम् ॥ ५,२९.३२ ॥ ताः कन्यास्तांस्तथा नागांस्तानश्वान् द्वारकां पुरीम् । प्रापयामास गोविन्दःसद्यो नरककिङ्करैः ॥ ५,२९.३३ ॥ ददृशे वारुणं च्छत्रं तथैव मणिपर्वतम् । आरोपयामास हरिर्गरुडेपतगेश्वरे ॥ ५,२९.३४ ॥ आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् । अदित्याः कुण्डले दानुं जगाम त्रिदशालयम् ॥ ५,२९.३५ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांश एकोनत्रिन्ध्यायः (२९) _____________________________________________________________ श्रीपराशर उवाच गरुडो वारुणं छत्रं तथैव मणिपर्वतम् । सभार्यं च हृषीकेशं लीलयैव वहन्ययौ ॥ ५,३०.१ ॥ ततः शखमुपाध्मासीत्स्वर्गद्वारगतो हरिः । उपतस्थुस्तथा देवाःसार्घ्यहस्ता जनर्जनम् ॥ ५,३०.२ ॥ स देवैरर्चितः कृष्णो देवमातुर्निवेशनम् । सिताभ्रशिखराकारं प्रविश्य ददृशेऽदितिम् ॥ ५,३०.३ ॥ स तां प्रणम्य शक्रेण सह ते कुण्डलोत्तमे । ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥ ५,३०.४ ॥ ततः प्रीताजगन्माता धातारं जगतां हरिम् । तुष्टवादितिरव्यग्रा कृत्वा तत्प्रवणं मनः ॥ ५,३०.५ ॥ अदितिरुवाच नमस्ते पुण्डरीकाक्ष भक्तानामभयङ्कर । सनातनात्मन् सर्वात्मन् भूतात्मन् भूतभावन ॥ ५,३०.६ ॥ प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक । त्रिगुणातीत निर्द्वद्व शुद्धसत्त्व हृदि स्थित ॥ ५,३०.७ ॥ सितदीर्घादिनिः शेषकल्पनापरिवर्जित । जन्मादिभिरसंस्पृष्ट स्वप्नादिपरिवर्जित ॥ ५,३०.८ ॥ संध्यारात्रिरहो भूमिर्गगनं वायुरंबु च । हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाच्युत ॥ ५,३०.९ ॥ सर्गस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् । ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वर ॥ ५,३०.१० ॥ देवा दैत्यास्तथा यक्षा राक्षसाः सिद्धपन्नगाः । कूष्माण्डाश्च पिसाचाश्च गन्धर्वा मनुजास्तथा ॥ ५,३०.११ ॥ पशवश्च मृगाश्चैव पतङ्गाश्च सरीसृपाः । वृक्षगुल्मलताबह्व्यःसमस्तास्तृणजातयः ॥ ५,३०.१२ ॥ स्थूला मध्यास्तथा सूक्ष्माःसूक्ष्मात्सूक्ष्मतराश्च ये । देहभेदा भवान् सर्वे ये केचित्पुर्गलाश्रयाः ॥ ५,३०.१३ ॥ माया तवेयमज्ञातपरमार्थातिमोहिनी । अनात्मन्यात्मविज्ञानं यया मूढो निरुद्ध्यते ॥ ५,३०.१४ ॥ अस्वे स्वमिति भावोत्र यत्पुंसामुपजायते । अहं ममेति भावो यत्प्रायेणैवाभिजायते । संसारमातुर्मायायास्तवैतन्नाथ चेष्टितम् ॥ ५,३०.१५ ॥ यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् । ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ॥ ५,३०.१६ ॥ ब्रह्माद्याःसकला देवा मनुष्याः पशवस्तथा । विष्णुमाया महावर्तमोहान्धतमसावृताः ॥ ५,३०.१७ ॥ आराध्य त्वामभीप्संते कामानात्मभवक्षयम् । यदेते पुरुषा माया सैवेयं भगवंस्तव ॥ ५,३०.१८ ॥ मया त्वं पुत्रकामिन्या वैरिपक्षजयाय च । आराधितो न मोक्षाय मायाविलसितं हि तत् ॥ ५,३०.१९ ॥ कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमादपि । जायते यदपुण्यानां सोपराधः स्वदोषजः ॥ ५,३०.२० ॥ तत्प्रसीदाखिलजगन्मायामोहकराव्यय । अज्ञानं ज्ञानसद्भावभूतं भूतेश नाशय ॥ ५,३०.२१ ॥ नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः । नन्दहस्ताय ते विष्णो शङ्खहस्ताय ते नमः ॥ ५,३०.२२ ॥ एतत्पश्यामि ते रूपं स्थूलचिह्नोपलक्षितम् । न जानामि परं यत्ते प्रसीद परमेश्वर ॥ ५,३०.२३ ॥ श्रीपराशर उवाच अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् । माता देवि त्वमस्माकं प्रसीद वरदा भव ॥ ५,३०.२४ ॥ अदिदिरुवाच एवमस्तु यथेच्छा ते त्वमशेषैः सुरासुरैः । अजेयः पुरुषव्याघ्र सर्त्यलोके भविष्यसि ॥ ५,३०.२५ ॥ श्रीपराशर उवाच ततः कृष्णस्य पत्नी च शक्रेण सहितादितिम् । सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥ ५,३०.२६ ॥ अदितिरुवाच मत्प३ आदान्न ते सुभ्रु जरा वैरूप्यमेव वा । भविष्यत्यनवद्याङ्गि सुस्थिरं नवयौवनम् ॥ ५,३०.२७ ॥ श्रीपराशर उवाच अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् । यथावत्पूजयामास बहुमानपुरःसरम् ॥ ५,३०.२८ ॥ शची च सत्यभामायै पारिजातस्य पुष्पकम् । न ददौ मानुषीं मत्वा स्वयं पुष्पैरलङ्कृता ॥ ५,३०.२९ ॥ ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् । दवोद्यानानि हृद्यानि नन्दनादीनि सत्तम ॥ ५,३०.३० ॥ ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् । नित्याह्लादकरं ताम्रबालपल्लवशोभितम् ॥ ५,३०.३१ ॥ मथ्यमानेऽमृते जातं जातरूपोपमत्वचम् । पारिजातं जगन्नाथः केशवः केशिसूदनः ॥ ५,३०.३२ ॥ तुतोष परमप्रीत्या तरुराजमनुत्तमम् । तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तम । कस्मान्न द्वारकामेष नीयते कृष्ण पादपः ॥ ५,३०.३३ ॥ यदि चेत्त्वद्वचः सत्यं त्वमत्यर्थं प्रियेति मे । मद्गेहनिष्कुटार्थाय तदयं नीयतां तरुः ॥ ५,३०.३४ ॥ न मे जांबवती तादृगभीष्टा न च रुक्मिणी । सत्ये यथा त्वमित्युक्तं त्वया कृष्णासकृत्प्रियम् ॥ ५,३०.३५ ॥ सत्यं तद्यदि गोविन्द नोपचारकृतं मम । तदस्तु पारिजातोऽयं मम गेहविभूषणम् ॥ ५,३०.३६ ॥ बिभ्रती पारिजातस्य केशपक्षेण मञ्जरीम् । सपत्नीनामहं मध्ये शोभेयमिति कामये ॥ ५,३०.३७ ॥ श्रीपराशर उवाच इत्युक्तःस प्रहस्यैनां पारिजातं गरुत्मति । आरोपयामास हरिस्तमूचुर्वनरक्षिणः ॥ ५,३०.३८ ॥ भो शची देवराजस्य महिषी तत्परीग्रहम् । पारिजातं न गोविन्द हर्तुमर्हसि पादपम् ॥ ५,३०.३९ ॥ उत्पन्नो देवराजाय दत्तःसोऽपि ददौ पुनः । महिष्यै सुमहाभाग देव्यै शच्यै कुरूहलात् ॥ ५,३०.४० ॥ शचीविभूषणार्थाय देवैरमृतमन्थने । उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥ ५,३०.४१ ॥ देवराजो मुखप्रेक्षी यस्यास्तस्याः परिग्रहम् । मैढ्यात्प्रार्थयसे क्षेमी गृहीत्वैनं हि को व्रजेत् ॥ ५,३०.४२ ॥ अवश्यमस्य देवेन्द्रो निष्कृतिं कृष्ण यास्यति । वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः ॥ ५,३०.४३ ॥ तदलं सकलैर्देवैर्विग्रहेण तवाच्युत । विपाककटु यत्कर्म तन्न शंसंति पण्डिताः ॥ ५,३०.४४ ॥ श्रीपराशर उवाच इत्युक्ते तैरुवाचैतान् सत्यभामातिकोपिनी । का शची पारिजातस्य को वा शक्रःसुराधिपः ॥ ५,३०.४५ ॥ सामान्यःसर्वलोकस्य यद्येषोऽमृतमन्थने । समुत्पन्नस्तरुः कस्मादोको गृह्णाति वासवः ॥ ५,३०.४६ ॥ यथा सुरा यथैवेन्दुर्यथा श्रीर्वनरक्षिणः । सामान्यःसर्वलोकस्य पारिजातस्तथा द्रुमः ॥ ५,३०.४७ ॥ भर्तृ बहुमहागर्वाद्रुणद्ध्येनमथो शची । तत्कथ्यतामलं क्षान्त्या सत्वा हारयति द्रुमम् ॥ ५,३०.४८ ॥ कथ्यतां च द्रुतं गत्वा पौलोम्या वचनं मम । सत्यभामा वदत्येतदितिगर्वोद्धताक्षरम् ॥ ५,३०.४९ ॥ यदि त्वं दयिता भर्तुर्यदि वश्यः पतिस्तव । मद्भर्तुर्हरतो वृक्षं तत्कारय निवारणम् ॥ ५,३०.५० ॥ जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् । पारिजातं तथाप्येनं मानुषी हारयामि ते ॥ ५,३०.५१ ॥ श्रीपराशर उवाच इत्युक्ता रक्षिणो गत्वा शच्याः प्रोचुर्यथोदितम् । श्रुत्वा चोत्साहयामास शची चक्रं सुराधिपम् ॥ ५,३०.५२ ॥ ततःसमस्तदेवानां सैन्यैः परिवृतो हरिम् । प्रययौ पारिजातार्थमिन्द्रोयोद्धुं द्विजोत्तम ॥ ५,३०.५३ ॥ ततः परिघनिस्त्रिंशगदाशूलवरायुधाः । बभूवुस्त्रिदसाःसज्जाः शक्रे वज्रकरे स्थिते ॥ ५,३०.५४ ॥ ततो निरिक्ष्य गोविन्दो नागराजोपरि स्थितम् । शक्रं देवपरिवारं युद्धाय समुपस्थितम् ॥ ५,३०.५५ ॥ चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् । मुमोच शरसंघातान् सहस्रायुतशः शितान् ॥ ५,३०.५६ ॥ ततो दिशो नभश्चैव दृष्ट्वा शरशतैश्चितम् । मुमुचुस्त्रिदशाःसर्वे ह्यस्त्रशस्त्राम्यनेकशः ॥ ५,३०.५७ ॥ एकैकमस्त्रं शस्त्रं च दैवैर्मुक्तं सहस्रशः । चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥ ५,३०.५८ ॥ पाशं सलिलराजस्य समाकृष्यीरगात्पुनः । चकार खण्डशश्चञ्च्वा बालपन्नगदेहवत् ॥ ५,३०.५९ ॥ यमेन प्रहितं दण्डं गदाविक्षेपखण्डितम् । पृथिव्यां पातयामास भगवान् देवकीसुतः ॥ ५,३०.६० ॥ शिबिकां च धनेशस्य चक्रेण तिलशो विभुः । चकार शौरिरर्कं च दृषृदृष्टहतौजसम् ॥ ५,३०.६१ ॥ नीतोऽग्निः शीततां बाणैर्द्राविता वसवो दिशः । चक्रविच्छिन्नशुलाग्रा रुद्रा भुवि निपातिताः ॥ ५,३०.६२ ॥ साध्या विश्वेऽथ मरुतो गन्धर्वाश्चैव सा यकैः । शार्ङ्गिणा प्रेरितैरस्ता व्योम्नि शाल्मलितूलवत् ॥ ५,३०.६३ ॥ गरुत्मानपि तुण्डेन पक्षाभ्यां च नखाङ्कुरैः । भक्षयंस्ताडयन् देवान् दारयंश्च चचार वै ॥ ५,३०.६४ ॥ ततः शतसहस्रेण देवेन्द्रमधुसूदनौ । परस्परं ववर्षाते धाराभिरिव तोयदौ ॥ ५,३०.६५ ॥ ऐरावतेन गरुडो युयुधे तत्र संकुले । देवैः समस्तैर्युयुधे शक्रेण च जनार्दनः ॥ ५,३०.६६ ॥ भिन्नेष्वशेषबाणेषु शस्त्रेष्वस्त्रेषु च त्वरन् । जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम् ॥ ५,३०.६७ ॥ ततो हाहाकृतं सर्वं त्रैलोक्यं द्विजसत्तम । वज्रचक्रकरौ दृष्ट्वा देवाराजजनार्दनौ ॥ ५,३०.६८ ॥ क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान्हरिः । न मुमोच तदा चक्रं शक्रं तिष्ठेति चाब्रवीत् ॥ ५,३०.६९ ॥ प्रणष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् । सत्यभामाब्रवीद्वीरं पलायनपरायणम् ॥ ५,३०.७० ॥ त्रैलोक्येश न ते युक्तं शचीभर्तुः पलायनम् । पारिजातस्रगाभोगा त्वामुपस्थास्यते शची ॥ ५,३०.७१ ॥ कीदृशं देवराज्यं ते पारिजातिस्रगुज्ज्वलाम् । अपक्येतो यथापूर्वं ग्रणयाभ्यागतां शचीम् ॥ ५,३०.७२ ॥ अलं शक्र प्रयासेन न व्रीडां गन्तुमर्हसि । नीयतां पारिजातोयं देवाःसंतु गतव्यथाः ॥ ५,३०.७३ ॥ परिगर्वावलेपेन बहुमानपुरःसरम् । न ददर्श गृहं यातामुपचारेण मां शची ॥ ५,३०.७४ ॥ स्त्रीत्वादगुरुचित्ताहं स्वभर्तृश्लाघनापरा । ततः कृतवती शक्र भवता सह विग्रहम् ॥ ५,३०.७५ ॥ तदल पारीजातेन परस्वेन हृतेन मे । रूपेण गर्विता सा तु भर्त्रा का स्त्री न गर्विता ॥ ५,३०.७६ ॥ श्रीपराशर उवाच इत्युक्तो वै निववृते देवराजस्तया द्विज । प्राह चैनामलं चण्डि सख्युः खे दोक्तिविस्तरैः ॥ ५,३०.७७ ॥ इन्द्र उवाच न चापि सर्गसंहारस्थितिकर्ताखिलस्य यः । जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥ ५,३०.७८ ॥ यस्माज्जगत्सकलमेतदनादिमध्याद्यस्मिन्यतश्च न भविष्यति सर्वभूतात् । तेनोद्भवप्रलयपालनकारणेन व्रीडा कथं भवति देवि निराकृतस्य ॥ ५,३०.७९ ॥ सकलभुवनसूतिर्मूर्तिरल्पाल्पसूक्ष्माविदितसकलबैद्यैर्ज्ञायते यस्य नान्यैः । तमजमकृतमीशं शाश्वतं स्वेच्छयैनं जगदुपकृतिमर्त्यं को विजेतुं समर्थः ॥ ५,३०.८० ॥ इति श्रीपिष्णुमहापुराणे पञ्चमांसे त्रिंशोध्यायः (३०) _____________________________________________________________ श्रीपराशर उवाच संस्तुतो भगवानित्थं देवराजेन केशवः । प्रहस्य भावगंभीरमुवाचेन्द्रं द्विजोत्तम ॥ ५,३१.१ ॥ श्रीकृष्ण उवाच देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते । क्षन्तव्यं भवतैवेदमपराधं कृतं मम ॥ ५,३१.२ ॥ पारिजाततरुश्चायं नीयतामुचितास्पदम् । गृहीतोयं मया शक्र सत्यावचनकारणात् ॥ ५,३१.३ ॥ वज्रं चेदं गृहाम त्वं यदत्र प्रहितं त्वया । तबैवैतत्प्रहरणं शक्र वैरिविदारणम् ॥ ५,३१.४ ॥ इन्द्र उवाच विमोहयसि मामीश मर्त्योऽहमिति किं वदन् । जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम् ॥ ५,३१.५ ॥ योऽसि सोऽसि जगत्त्रणप्रवृत्तौ नाथ संस्थितः । जगतः शल्यनिष्कर्षं करोष्यमुरसूदन ॥ ५,३१.६ ॥ नीयतां पारीजातोऽयं कृष्ण द्वारवतींपुरीम् । मर्त्यलोके त्वया त्यक्ते नायं संस्थास्यते भुवि ॥ ५,३१.७ ॥ देवदेव जगन्नाथ कृष्ण विष्णो महाभुज । शङ्खचक्रगदापाणे क्षमस्वैतद्व्यतिक्रमम् ॥ ५,३१.८ ॥ श्रीपराशर उवाच तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः । प्रसक्तैः सिद्धगन्धर्वैः स्तूयमानः सुरर्षिभिः ॥ ५,३१.९ ॥ ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः । हर्षमुत्पादयामास द्वारकावासिनां द्वज ॥ ५,३१.१० ॥ अवतीर्याथ गरुडात्सत्यभामा सहायवान् । निष्कुटे स्थापयामास पारिजातं महातरुम् ॥ ५,३१.११ ॥ यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् । वास्यते यस्य पुष्पोत्थगन्धेनोर्वी त्रियोजनम् ॥ ५,३१.१२ ॥ ततस्ते यादवाःसर्वे देहवन्धानमानुषान् । ददृशुः पादपे तस्मिन् कुर्वन्तो मखदर्शनम् ॥ ५,३१.१३ ॥ किङ्करैः समुपानीतं हस्त्यश्वादि ततो धनम् । विभज्य प्रददौ कृष्णो बान्धवानां महामतिः ॥ ५,३१.१४ ॥ कन्याश्च कृष्णे जग्राह नरकस्य परिग्रहान् ॥ ५,३१.१५ ॥ ततः काले शुभे प्राप्ते उपयेमे जनार्दनः । ताः कन्या नरकेणासन्सर्वतो याःसमाहृताः ॥ ५,३१.१६ ॥ एकस्मिन्नेव गोविन्दः काले तासां महामुने । जग्राह विधिवत्वाणीन्पृथग्गेहेषु धर्मतः ॥ ५,३१.१७ ॥ षोडशस्त्रीसहस्राणि शतमेकं ततोधिकम् । तावन्ति चक्रेरूपाणि भगवान्मधुसूदनः ॥ ५,३१.१८ ॥ एकैकमेव ताः कन्या मेनिरे मधुसूदनः । ममैव पाणिग्रहणं मैत्रेय कृतवानिति ॥ ५,३१.१९ ॥ निशासुच जगत्स्रष्टा तासां गेहेषु केशवः । उवास विप्र सर्वासां विश्वरूपधरो हरिः ॥ ५,३१.२० ॥ इति श्रीविष्णुमहापुराणे पञ्चमांश एकत्रिंशोऽध्यायः (३१) _____________________________________________________________ श्रीपराशर उवाच प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां क्वथितास्तव । भानुभौमेरिकाद्यंश्च सत्यभामा व्यजायत ॥ ५,३२.१ ॥ दीप्तिमत्ताम्रपक्षाद्य रोहिण्यां कथिता हरेः । बभूवुर्जाम्बवत्यां च सांबाद्या बाहुशालिनः ॥ ५,३२.२ ॥ तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः । संग्रामजित्प्रधानास्तु शैब्यायां च हरेःसुताः ॥ ५,३२.३ ॥ वृकाद्याश्च सुता माद्र्यां गात्रवत्प्रमुखान् सुतान् । अवाप लक्ष्माणा पुत्रान्कालिन्द्याश्च श्रुतादयः ॥ ५,३२.४ ॥ अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः । अष्टायुतानि पुत्राणां सहस्राणी शतं तथा ॥ ५,३२.५ ॥ प्रद्युम्नः प्रथमस्तेषां सर्वेषां रुक्मिणीसुतः । प्रद्युम्नादनिरुद्धोऽभूद्वज्रस्तस्मादजायत ॥ ५,३२.६ ॥ अनिरुद्धो रणेऽरुद्धो बलेः पौत्रीं महाबलः । उषांबाणस्य तनयामुपयेमे द्विजोत्तम ॥ ५,३२.७ ॥ यत्र युद्धमभूद्धोरं हरिशङ्करयोर्महत् । छिन्नं सहस्रं बाहूनां यत्र बाणस्य चाक्रिणा ॥ ५,३२.८ ॥ मैत्रेय उवाच कथं युद्दमभूद्ब्रह्यन्नुषार्थे हरकृष्णयोः । कथं क्षयं च बाणस्य बाहूनां कृतवान्हरिः ॥ ५,३२.९ ॥ एतत्सर्वं महाभाग ममाख्यातुं त्वमर्हसि । महत्कौतूहलं जातं कथां श्रोतुमिमां हरेः ॥ ५,३२.१० ॥ श्रीपराशर उवाच उषा बाणसुता विप्र पार्वतीं सह शंभुना । क्रीडन्तीमुपलक्ष्योच्चैः स्पृहां चक्रे तदाश्रयाम् ॥ ५,३२.११ ॥ ततःसकलचित्तज्ञा गौरी तामाह भामिनीम् । अलमत्यर्थतापेन भर्त्रा त्वमपि रंस्यसे ॥ ५,३२.१२ ॥ इत्युक्ता सा तया चक्रे कदेति मतिमात्मनः । को वा भर्ता ममेत्याह पुनस्तामाह पार्वती ॥ ५,३२.१३ ॥ पार्वत्युवाच वैशाखशुक्लद्वादश्यां स्वप्ने योभिभवं तव । करिष्यति स ते भर्ता राजपुत्रि भविष्यति ॥ ५,३२.१४ ॥ श्रीपराशर उवाच तस्यां तिथाबुषास्वप्ने यथा देव्या समीरितम् । तथैवा भिभवं चक्रे कश्चिद्रागं च तत्र सा ॥ ५,३२.१५ ॥ ततः प्रबुद्धा पुरुषमपश्यन्ती समुत्मुका । क्व गतेसीति निर्लज्जा मैत्रेयोक्तवती सखिम् ॥ ५,३२.१६ ॥ बाणस्य मन्त्री कुंभाण्डं चित्ररेखा च तत्सुता । तस्याःसख्यभवत्सा च प्राह कोयं त्वयोच्यते ॥ ५,३२.१७ ॥ यदा लज्जाकुला नास्यै कथयामास सा सखी । तदा विश्वासमानीय सर्वमेवाभ्यवादयत् ॥ ५,३२.१८ ॥ विदितार्थां तु तामाह पुनश्चोषा यथोदितम् । देव्या तथैव तत्प्राप्तौ यो ह्युपायः कुरुष्व तम् ॥ ५,३२.१९ ॥ चित्रलेखोवाच दुर्विज्ञेयमिदं वक्तुं प्राप्तुं वापि न सक्यते । तथापि किञ्चत्कर्तव्यमुपकारं प्रिये तव ॥ ५,३२.२० ॥ सप्ताष्टदिनपर्यन्तं तावत्कालः प्रतीक्ष्यताम् । इत्युक्त्वाभ्यन्तरं गत्वा उपायं तमथाकरोत् ॥ ५,३२.२१ ॥ श्रीपराशर उवाच ततः पदे सुरान्दैत्यन्गन्धर्वांश्च प्रधानतः । मनुष्यांश्च विलिख्यास्यै चित्रलेखा व्यदर्शयत् ॥ ५,३२.२२ ॥ अपास्य सा तु गन्धर्वांस्तथोरगसुरासुरान् । मनुष्येषु ददौ दृष्टिं तेष्वप्यन्धकवृष्णिषु ॥ ५,३२.२३ ॥ कृष्णरामौ विलोक्यासीत्सुभ्रूर्लज्जाजडेव सा । प्रद्युम्नदर्शने व्रीडेदृष्टिं निन्येन्यतो द्विज ॥ ५,३२.२४ ॥ दृष्टमात्रे ततः कान्ते प्रद्युम्नतनये द्विज । दृष्टत्यर्थविलासिन्या लज्जा क्वापि निराकृता ॥ ५,३२.२५ ॥ सोयंसोयमितीत्युक्ते तया सा योगगामिनी । चित्रलेखाब्रजीदेनामुषां बाणसुरां तदा ॥ ५,३२.२६ ॥ चित्रलेखोवाच अयं कृष्णस्य पौत्रस्ते भर्ता देव्या प्रसादितः । अनिरुद्ध इति ख्यातः प्रख्यातः प्रियदर्शनः ॥ ५,३२.२७ ॥ प्राप्नोषि यदि भर्तारमिमं प्राप्तं त्वयाखिलम् । दुष्प्रवेशा पुरी पूर्वं द्वारका कृष्णपालिता ॥ ५,३२.२८ ॥ तथापि यत्नाद्भर्तारमानयिष्यामि ते सखि । रहस्यमेतद्वक्तव्यं न कस्यचिदपि त्वया ॥ ५,३२.२९ ॥ अचिरादागमिष्यामि सहस्व विरहं मम । ययौ द्वारवतीं चोषां समाश्वास्य ततः सखीम् ॥ ५,३२.३० ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वात्रिंशोऽध्यायः (३२) _____________________________________________________________ श्रीपराशर उवाच बाणोपि प्रणिपत्याग्रे मैत्रेयाह त्रिलोचनम् । देव बाहुसहस्रेण निर्विण्णोस्म्याहवं विना ॥ ५,३३.१ ॥ कच्चिन्ममैषां बाहूनां साफल्यजनको रणः । भविष्यति विना युद्धं भाराय मम किं भुजैः ॥ ५,३३.२ ॥ श्रीशङ्कर उवाच मयूरध्वजभङ्गस्ते यदा बाणा भविष्यति । पिशिताशिजनानन्दं प्रप्स्यसे त्वं तदा रणम् ॥ ५,३३.३ ॥ श्रीपराशर उवाच ततः प्रणम्य वरदं शंभुमभ्यागतो गृहम् । सभग्नं ध्वजमालोक्य हृष्टो हर्षं पुनर्ययौ ॥ ५,३३.४ ॥ एतस्मिन्नेव काले तु योगविद्याबलेन तम् । अनिरुद्धमथानिन्ये चित्रलेखा वराप्सराः ॥ ५,३३.५ ॥ कन्यान्तःपुरमभ्येत्य रममाणं सहोषया । विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपते ॥ ५,३३.६ ॥ व्यादिष्टं किङ्कराणां तु सैन्यं तेन महात्मना । जघान परिघं घोरमादाय परवीरहा ॥ ५,३३.७ ॥ हतेषु तेषु बाणोपि रथस्थस्तद्वधोद्यतः । युध्यमानो यथाशक्ति यदुवीरेण निर्जितः ॥ ५,३३.८ ॥ मायया युयुधे तेन स तदा मन्त्रिचोदितः । ततस्तं पन्नगास्त्रेण बबन्ध यदुनन्दनम् ॥ ५,३३.९ ॥ द्वारवत्यां क्व यातोऽसावनिरुद्धेति जल्पताम् । यदूनामाचचक्षे तं बद्धं बाणेन नारदः ॥ ५,३३.१० ॥ तं शोशितपुरं नीतं श्रुत्वा विद्याविदग्धया । योषिता प्रत्ययं जग्मुर्यादवा नामरैरिति ॥ ५,३३.११ ॥ ततो गरुडमारुह्य स्मृतमात्रागतं हरिः । बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥ ५,३३.१२ ॥ पुरप्रवेशे प्रमथैर्युद्धमासीन्महात्मनः । ययौ बाणपुराभ्याशं नीत्वा तान्संक्षयं हरिः ॥ ५,३३.१३ ॥ ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान् । बाणरक्षार्थमभ्येत्य युयुधे शार्ङ्गधन्वना ॥ ५,३३.१४ ॥ तद्भस्मस्पर्शसंभूततापः कृष्णाङ्गसंगमात् । अवाप बलदेवोपि श्रममामीलितेक्षणः ॥ ५,३३.१५ ॥ ततःस युद्ध्यमानस्तु सह देवेन शार्ङ्गिणा । वैष्णवेन ज्वरेणाशु कृष्णदेहान्निराकृतः ॥ ५,३३.१६ ॥ नारायणभुजाघातपारिपीजनविह्वलम् । तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः ॥ ५,३३.१७ ॥ ततश्च क्षान्तमेवेति प्रोक्त्वा तं वैष्णवं ज्वरम् । आत्मन्येवलयं निन्ये भगवान्मधुसूदनः ॥ ५,३३.१८ ॥ ज्वर उवाच मम त्वाय समं युद्धं ये स्मरीष्यन्ति मानवाः । विज्वरास्ते भविष्यन्ती त्युक्त्वा चैनं ययौ ज्वरः ॥ ५,३३.१९ ॥ ततोग्नीन्भगवान्पञ्च जित्वा नीत्वा तथा क्षयम् । दानवानां बलं कृष्णश्चूर्णयामास लीलया ॥ ५,३३.२० ॥ ततःसमस्तसैन्येन दैतेयानां बलेःसुतः । युयुधे शङ्करश्चैव कार्त्तिकेयश्च शौरिणा ॥ ५,३३.२१ ॥ हरिशङ्करयोर्युद्धमतीवासीत्सुदारुणम् । चुक्षुभुःस कला लोकाः शस्त्रास्त्रांशुप्रतापितिः ॥ ५,३३.२२ ॥ प्रलयोयमशेषस्य जगतो नूनमागतः । मेनिरे त्रिदशास्तत्र वर्तमाने महारणे ॥ ५,३३.२३ ॥ जृंभ कास्त्रेण गोविन्दो जृंभयामास शङ्करम् । ततः प्रणेमुर्दैतेयाः प्रमथाश्च समन्ततः ॥ ५,३३.२४ ॥ जृंभाभिभूतस्यु हरो रथोपस्थ उपाविशत् । न शशाक ततो योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥ ५,३३.२५ ॥ गरुजक्षतवाहश्च प्रद्युम्नास्त्रेण पीडितः । कृष्णहुङ्कारनिर्धूतशक्तिश्चापययौ गुहः ॥ ५,३३.२६ ॥ जृंभिते शङ्करे नष्टे दैत्यसैन्ये गुहे जिते । नीते प्रमथसैन्ये च संक्षयं शार्ङ्गधन्वना ॥ ५,३३.२७ ॥ नन्दिना संगृहीताश्वमधिरूढो महारथम् । बाणस्तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह ॥ ५,३३.२८ ॥ बलभद्रो महावीर्यो बाणसैन्यमनेकधा । विव्याध बाणैः प्रभ्रश्य धर्मतश्चापलायत ॥ ५,३३.२९ ॥ आकृष्य लाङ्गलाग्रेण मुकलेनाशु ताडितम् । बलं बलेन ददृशे बाणो बाणैश्च चक्रिणा ॥ ५,३३.३० ॥ ततः कृष्णेन बाणस्य युद्धमासीत्सुदारुणम् ॥ ५,३३.३१ ॥ समस्यतोरिषून्दीप्तान्कायत्राणविभेदिनः । कृष्णश्चिच्छेद बाणैस्तान् बाणेन प्रहिताञ्छितान् । विव्याध केशवं बाणो बाणं विव्याध चक्रधृक् ॥ ५,३३.३२ ॥ मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषया । परस्परक्षतिकरौ लाघवादनिशं द्विज ॥ ५,३३.३३ ॥ भिद्यमानेष्वशेषेषु शरेष्वस्त्रे च सीदति । प्राचुर्येण ततो बाणं हन्तुं चक्रे हरिर्मनः ॥ ५,३३.३४ ॥ ततोर्कशतसंघाततेजसा सदृशद्युति । जग्राह दैत्यचक्रारिर्हरिश्चक्रं सुदर्शनम् ॥ ५,३३.३५ ॥ मुञ्चतो बाणनाशाय ततश्चक्रं मधुद्विषः । नग्ना दैतेयविद्याभूत्कोटरी पुरतो हरेः ॥ ५,३३.३६ ॥ तामग्रतो हरिर्दृष्ट्वा मीलिताक्षःसुदर्शनम् । मुमोच बाणमुद्दिश्य च्छेत्तुं बाहुवनं रिपोः ॥ ५,३३.३७ ॥ क्रमेण तत्तु बाहूनां बाणस्याच्युतचोदितम् । छेदं चक्रेऽसुरापास्तशस्त्रौ घक्षपणादृतम् ॥ ५,३३.३८ ॥ छिन्ने बाहुवने तत्तु करस्थं मधुसूतनः । मुमुक्षुर्बाणनाशाय विज्ञातस्त्रिपुरद्विषा ॥ ५,३३.३९ ॥ समुपेत्याह गोविन्दं सामपूर्वमुमापतिः । विलोक्य बामं दादडच्छेदासृक्स्राववर्षिणम् ॥ ५,३३.४० ॥ शङ्कर उवाच कृष्णकृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् । परेशं परमात्मानमनादिनिधनं हरिम् ॥ ५,३३.४१ ॥ देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका । लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा ॥ ५,३३.४२ ॥ तत्प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो । तत्त्वाय नानृतं कार्यं यन्मया व्याहृतं वचः ॥ ५,३३.४३ ॥ अस्मत्संश्रयदृप्तोयं नापराधी तवाव्यय । मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम् ॥ ५,३३.४४ ॥ श्रीपराशर उवाच इत्युक्तः प्राह गोविदः शुलपाणिमुमापतिम् । प्रसन्नपदनो भूत्वा गतामर्षोऽसुरं प्रति ॥ ५,३३.४५ ॥ श्रीभगवानुवाच युष्मद्दत्तवरो बाणो जीवतामेष शङ्कर । त्वद्वाक्यगौरवादेतन्मया चक्रं निवर्तितम् ॥ ५,३३.४६ ॥ त्वया यदभयं दत्तं तद्दत्तमखिलं मया । मत्तोऽविभिन्नमात्मानं द्रष्टुमर्हसि शङ्कर ॥ ५,३३.४७ ॥ योहं स त्वं जगच्चेदं सदेवासुरमानुषम् । मत्तो नान्यदशेषं यत्तत्त्वञ्ज्ञातुमिहार्हसि ॥ ५,३३.४८ ॥ अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः । वदन्ति भेदं पश्यन्ति चावयोरन्तरं हर ॥ ५,३३.४९ ॥ प्रसन्नोऽहं गमिष्यामि त्वं गच्छ वृषभध्वज ॥ ५,३३.५० ॥ श्रीपराशर उवाच इत्युक्त्वा प्रययौ कृष्णः प्राद्युम्निर्यत्र तिष्ठति । तद्बन्धफणिनो नेशुर्गरुडानिलपोथिताः ॥ ५,३३.५१ ॥ ततोऽनिरुद्धमारोप्य सपत्नीकं गरुत्मति । आजग्मुर्द्वारकां रामकार्ष्णिदामोदराः पुरीम् ॥ ५,३३.५२ ॥ पुत्रपौत्रैः परिवृतस्तत्र रेमे जनार्दनः । देवीभिः सततं विप्र भूभारतरमेच्छया ॥ ५,३३.५३ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे त्रयस्त्रिंशोऽध्यायः (३३) _____________________________________________________________ मैत्रेय उवाच चक्रे कर्म महच्छौरिर्बीभ्रणो मानुषीं तनुम् । जिगाय शक्रं शर्वं च सर्वान्देवांश्च लीलया ॥ ५,३४.१ ॥ यच्चान्यदकरोत्कर्म दिव्यचेष्टविघातकृत् । तत्कथ्यतां महाभाग परं कौतूहलं हि मे ॥ ५,३४.२ ॥ श्रीपराशर उवाच गदतो मम विप्रर्षे श्रूयतामिदमादरात् । नरावतारे कृष्णेन दग्धा वाराणसी यथा ॥ ५,३४.३ ॥ पैण्ड्रको वासुदेवस्तु वासुदेवोऽभवद्भुवि । अवतीर्मस्त्वमित्युक्तो जनैरज्ञानमोहितैः ॥ ५,३४.४ ॥ स मेने वासुदेवोहमवतीर्णो महीतले । नष्टस्मृतिस्ततःसर्वं विष्णुचिह्नमचीकरत् ॥ ५,३४.५ ॥ दूतं च प्रेषयामास कृष्णाय सुमहात्मने । त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम चात्मनः ॥ ५,३४.६ ॥ वासुदेवात्मकं मूढ त्यक्त्वा सर्वमशेषतः । आत्मनो जीवितार्थाय ततो मे प्रणति व्रज ॥ ५,३४.७ ॥ इत्युक्तःसंप्रहस्यैनं दूतं प्राहजनार्दनः । निजचिह्नमहं चक्रं समुत्सृक्ष्ये त्वयीति वै ॥ ५,३४.८ ॥ वाच्यश्च पैण्ड्रको गत्वा त्वया दूत वचो मम । ज्ञातस्त्वद्वाक्यसद्भावो यत्कार्यं तद्विधीयताम् ॥ ५,३४.९ ॥ गृहीतचिह्नवेषोहमागमिष्यामि ते पुरम् । उत्स्रक्ष्यामि च तच्चक्रं निजचिह्नमसंशयम् ॥ ५,३४.१० ॥ आज्ञापूर्वं च यदिदमागच्छेति त्वयोदितम् । संपादयिष्ये श्वस्तुभ्यं समागम्याविलंबितम् ॥ ५,३४.११ ॥ शरणं ते समभ्येत्य कर्तास्मि नृपते तथा । यथा त्वत्तो भयं भूयो न मे किञ्चिद्भविष्यति ॥ ५,३४.१२ ॥ श्रीपराशर उवाच इत्युक्तेपगते दूते संस्मृत्याभ्यागतं हरिः । गरुत्मन्तमथारुह्य त्वरितस्तत्पुरं ययौ ॥ ५,३४.१३ ॥ ततस्तु केशवोद्योगं श्रुत्वा काशीपतिस्तदा । सर्वसैन्यपरिवारः पार्ष्णिग्राह उपाययौ ॥ ५,३४.१४ ॥ ततो बलेन महता काशीराजबलेन च । पैण्ड्रको वासुदेवोऽसौ केशवाभिमुखो ययौ ॥ ५,३४.१५ ॥ तं ददर्श हरिर्दूरादुदारस्यन्दने स्थितम् । चक्रहस्तं गदाशार्ङ्गबाहुं पाणिगतांबुजम् ॥ ५,३४.१६ ॥ स्रग्धरं पीतवसनं सुपर्मरचितध्वजम् । वक्षस्थले कृतं चास्य श्रीवत्सं ददृशे हरिः ॥ ५,३४.१७ ॥ किरीटकुण्डलधरं नानारत्नोपशोभितम् । तं दृष्ट्वा भावगंभीरं जहास गरुडध्वजः ॥ ५,३४.१८ ॥ युयुधे च बलेनास्य हस्त्यश्वबलिना द्विज । निस्त्रिंशासिगदाशूलशक्तिकार्मुकशालिना ॥ ५,३४.१९ ॥ क्षणेन शार्ङ्गनिर्मुक्तैः शरैररिविदारणैः । गदाचक्रनिपातैश्च सूदयामास तद्बलम् ॥ ५,३४.२० ॥ काशीराजबलं चैवं क्षयं नीत्वा जनार्दनः । उवाच पैण्ड्रकं मूढमात्मचिह्नोपलक्षितम् ॥ ५,३४.२१ ॥ श्रीभगवानुवाच पैण्ड्रकोक्तं त्वया यत्तुदूतवक्त्रेण मां प्रति । समुत्सृजेति चिह्नानि तत्ते संपादयाम्यहम् ॥ ५,३४.२२ ॥ चक्रमेतत्समुत्सृष्टं गदेयं ते विसर्जिता । गरुत्मानेष चोत्सृष्टःसमारोहतु ते ध्वजम् ॥ ५,३४.२३ ॥ श्रीपराशर उवाच इत्युच्चार्य विमुक्तेन चक्रेणासौ विदारितः । पातितो गदया भग्नो ध्वजश्चास्य गरुत्मता ॥ ५,३४.२४ ॥ ततो हाहाकृते लोके काशीपुर्यधिपो बली । युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ॥ ५,३४.२५ ॥ ततः शार्ङ्गधनुर्मुक्तैश्छित्त्वा तस्य शिरः शरैः । काशीपुर्यां स चिक्षेप कुर्वंल्लोकस्य विस्मयम् ॥ ५,३४.२६ ॥ हत्वा त पौड्रकं शौरि काशीराजं च सानुगम् । पुनर्द्वारवतीं प्राप्तो रेमे स्वर्गगतो यता ॥ ५,३४.२७ ॥ तच्छिरः पतितं तत्रदृष्ट्वा काशीपतेः पुरे । जनः किमेतदित्याह च्छिन्नं केनेति विस्मितः ॥ ५,३४.२८ ॥ ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस्ततः । पुरोहितेन सहितस्तोषयामास शङ्करम् ॥ ५,३४.२९ ॥ अविमुक्ते महाक्षेत्रे तोषितस्तेन शङ्करः । वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ॥ ५,३४.३० ॥ स वव्रे भगवन्कृत्या पितृहन्तुर्वधाय मे । समुतिष्ठतु कृष्णस्य त्वत्प्रसादान्महेश्वर ॥ ५,३४.३१ ॥ श्रीपराशर उवाच एवं भविष्यतीत्युक्ते दक्षिणाग्नेरनन्तरम् । महाकृत्या समुत्तस्थौ तस्यैवाग्नेर्विनाशनी ॥ ५,३४.३२ ॥ ततो ज्वालाकरालास्या ज्वलत्केशकपालिका । कृष्णकृष्णेति कुपिता कृत्या द्वारवरीं ययौ ॥ ५,३४.३३ ॥ तामवेक्ष्य जनस्त्रासाद्विचलल्लोचनो मुने । ययौ शरण्यं जगतां शरणं मधुसूदनम् ॥ ५,३४.३४ ॥ काशीराजसुतेनेयमाराध्य वृषभध्वजम् । उत्पादिता महाकृत्येत्यवगम्याथ चक्रिणा ॥ ५,३४.३५ ॥ जहिकृत्यामिमामुग्रां वह्निज्वालाजटालकाम् । चक्रमुत्सृष्टमक्षेषु क्रीडासक्तेन लीलया ॥ ५,३४.३६ ॥ तदग्निमालाजटिलज्वालोद्गारातिभीषणाम् । कृत्यामनुजगामाशु विष्णुचक्रं सुदर्शनम् ॥ ५,३४.३७ ॥ चक्रप्रतापनिर्दग्धा कृत्या माहेश्वरी तदा । ननाश वेगिनी वेगात्तदप्यनुजगाम ताम् ॥ ५,३४.३८ ॥ कृत्या वाराणसीमेव प्रविवेश त्वरान्विता । विष्णुचक्रप्रतिहतप्रभावा मुनिसत्तम ॥ ५,३४.३९ ॥ ततः काशीबलं भूरि प्रमथानां तथा बलम् । समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ ॥ ५,३४.४० ॥ शस्त्रास्त्रमोक्षचतुरं दग्ध्वा तद्बलमोजसा । कृत्या गर्भमशेषां तां तदा वाराणसींपुरीम् ॥ ५,३४.४१ ॥ सभूभृद्भृत्यपौरां तु साश्वमातङ्गमानवाम् । अशेषगोष्ठकोशां तां दुर्निरिक्ष्यां सुरैरपि ॥ ५,३४.४२ ॥ ज्वालापरिष्कृताशेषगृहप्राकारचत्वराम् । ददाह तद्धरेश्चक्रं सकलामेव तां पुरीम् ॥ ५,३४.४३ ॥ अक्षीणामर्षमत्युग्रं साध्यसाधनसस्पृहम् । तच्चक्रं प्रस्फुरद्दीप्ति विष्णोरभ्याययौ करम् ॥ ५,३४.४४ ॥ इति श्रीविष्णुमहापुराणे पञ्जमांशे चतुस्त्रिंशोऽध्यायः (३४) _____________________________________________________________ मैत्रेय उवाच भूय एवाहमिच्छामि बलभद्रस्य धीमतः । श्रोतुं पराक्रमं ब्रह्मन् तन्ममाख्यातुमर्हसि ॥ ५,३५.१ ॥ यमुनाकर्षणादीनि श्रुतानि भगवन्मया । तत्कथ्यतां महाभाग यदन्यत्कृतवान्बलः ॥ ५,३५.२ ॥ श्रीपराशर उवाच मैत्रेय श्रुयतां कर्म यद्रामेणाभवत्कृतम् । अनन्ते नाप्रमेयेन शेषेण धरणीधृता ॥ ५,३५.३ ॥ सुयोधनस्य तनयां स्वयंवरकृतक्षणाम् । बलादादत्तवान्वीरः सांबो जांबवतीसुतः ॥ ५,३५.४ ॥ ततः क्रुद्धामहावीर्याः कर्णदुर्योधनादयः । भीष्मद्रोणादयश्चैनं बबन्धुर्युधि निर्जितम् ॥ ५,३५.५ ॥ तच्छुत्वा यादवाःसर्वे क्रोधं दुर्योधनादिषु । मैत्रेय चक्रुः कृष्णश्च तान्निहन्तुं महोद्यमम् ॥ ५,३५.६ ॥ तान्निवार्य बलः प्राह मदलोलकलाक्षरम् । मोक्ष्यन्ति ते मद्वचनाद्यास्याम्येको हि कौरवान् ॥ ५,३५.७ ॥ श्रीपराशर उवाच बलदेवस्ततो दृष्ट्वा नगरं नागसाह्वयम् । बाह्योपवनमध्येऽभून्न विवेश च तत्पुरम् ॥ ५,३५.८ ॥ बलमागतमाज्ञाय भूपा दुर्योधनादयः । गामर्घ्यमुदकं चैव रामाय प्रत्यवेदयन् ॥ ५,३५.९ ॥ गृहीत्वा विधिवत्सर्वं ततस्तानाह कौरवान् । आज्ञापयत्युग्रसेनःसांबमाशु विमुञ्चत ॥ ५,३५.१० ॥ ततस्तद्वचनं श्रुत्वा भीष्मद्रोणादयो नृपाः । कर्मदुर्योधनाद्याश्च चुक्षुभुर्द्विजसत्तम ॥ ५,३५.११ ॥ ऊचुश्च कुपिताःसर्वे बाह्लिकाद्याश्च कौरवाः । अराज्यार्हं यदोर्वशमवेक्ष्य मुसलायुध ॥ ५,३५.१२ ॥ भोभोः किमेतद्भवता बलभद्रेरितं वचः । आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥ ५,३५.१३ ॥ उग्रसेनोऽपि यद्याज्ञां कौरवाणां प्रदास्यति । तदलं पाण्डुरैश्छत्रैर्नृपयोग्यैर्विडंबनैः ॥ ५,३५.१४ ॥ तद्गच्छ बल मा वा त्वं सांबमन्यायचेष्टितम् । विमोक्ष्यामो न भवतश्चोग्रसेनस्य शासनात् ॥ ५,३५.१५ ॥ प्रणतिर्या कृतास्माकं मान्यानां कुकुरान्धकैः । न नाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः ॥ ५,३५.१६ ॥ गर्वमारोपिता यूयं समानासनभोजनैः । को दोषो भवतां नीतिर्यत्प्रीत्या नावलोकिता ॥ ५,३५.१७ ॥ अस्माभिरर्घो भवतो योयं बल निवेदितः । प्रेम्णैतन्नैतदस्माकं कुलाद्युष्मत्कुलोचितम् ॥ ५,३५.१८ ॥ श्रीपराशर उवाच इत्युक्त्वा कुरवः सांबं मुञ्चामो न हरेःसुतम् । कृतैतनिश्चयस्तूर्णं विविशुर्गजसाह्वयम् ॥ ५,३५.१९ ॥ मत्तः कोपेन चाघूर्मस्ततोधिक्षेपजन्मना । उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥ ५,३५.२० ॥ ततो विदारिता पृथ्वी पार्ष्णिघातान्महात्मनः । आस्फोटयामास तदा दिशः शब्देन पूरयन् ॥ ५,३५.२१ ॥ उवाच चातिताम्राक्षो भृकुटीकुटिलाननः ॥ ५,३५.२२ ॥ अह मदावलेपोयमसाराणां दुरात्मनाम् । कौरवाणां महीपत्वमस्माकं किल कालजम् । उग्रसेनस्य येनाज्ञां मन्यन्तेऽद्यपि लङ्घनम् ॥ ५,३५.२३ ॥ उग्रसेनः समध्यास्ते सुधार्मा न शचीपतिः । धिङ्मानुषशतोच्छिष्टे तुष्टिरेषां नृपासने ॥ ५,३५.२४ ॥ पारिजाततरोः पुष्पमञ्जरीर्वनिताजनः । बिभर्ति यस्य भत्यानां सोऽप्येषां न महीपतिः ॥ ५,३५.२५ ॥ समस्तभूभृतां नाथ उग्रसेनः स तिष्ठतु । अद्य निष्कौरवामुर्वी कृत्वा यास्यामि तत्पुरीम् ॥ ५,३५.२६ ॥ कर्णं दुर्योधनं द्रोणमद्य भीष्मं सबाह्लिकम् । दुःशसनादीन्भूरिं च भूरिश्रवसमेव च ॥ ५,३५.२७ ॥ सोमदत्तं शलं चैव भीमार्जुनयुधिष्ठिरान् । यमौ च कौरवांश्चान्यान्हत्वा साश्वरथद्विपान् ॥ ५,३५.२८ ॥ वीरमादाय तं सांबं सपत्नीकं ततः पुरीम् । द्वारकामुग्रसेनादीन्गत्वा द्रक्ष्यामि बान्धवान् ॥ ५,३५.२९ ॥ अथ वा कौरवावासं समस्तैः कुरुभिः सह । भागीरथ्यां क्षिपाम्याशु नगरं नागसाह्वयम् ॥ ५,३५.३० ॥ श्रीपराशर उवाच इत्युक्त्वा मदरक्ताक्षः कर्षणाधोमुखं हलम् । प्राकारवप्रदुर्गस्य चकर्ष मुसलायुधः ॥ ५,३५.३१ ॥ आघूर्णितं तत्सहसा ततो वै हास्तिनं पुरम् । दृष्ट्वा संक्षुब्धहृदयाश्चुक्षुभुःसर्वकौरवाः ॥ ५,३५.३२ ॥ रामराम महाबाहो क्षम्यतां क्षम्यतां त्वया । उपसंह्रियतां कोपः प्रसीद मुसलायुध ॥ ५,३५.३३ ॥ एष सांबःसपत्नीकस्तवनिर्यातितो बलात् । अविज्ञातप्रभावाणां क्ष्मयतामपराधिनाम् ॥ ५,३५.३४ ॥ श्रीपराशर उवाच ततो निर्यातयामासुःसांबं पत्नीसमन्वितम् । निष्क्रम्य स्वपुरात्तूर्णं कौरवा मुनिपुङ्गव ॥ ५,३५.३५ ॥ भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् । क्षान्तमेव मयेत्याह बलो बलवतां वरः ॥ ५,३५.३६ ॥ अद्याप्याघूर्णिताकारं लक्ष्यते तत्पुरं द्विज । एष प्रभावो रामस्य बलशौर्योपलक्षणः ॥ ५,३५.३७ ॥ ततस्तु कौरवाःसांबं संपूज्य बलि ना सह । प्रेषयामासुरुद्वाहधनभार्यासमन्वितम् ॥ ५,३५.३८ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चत्रिंशोऽध्यायः (३५) _____________________________________________________________ श्रीपराशर उवाच मैत्रेयैतद्बलं तस्य बलस्य बलशालिनः । कृतं यदन्यत्तेनाभूत्तदपि श्रूयतां त्वया ॥ ५,३६.१ ॥ नरकस्यासुरेद्रस्य देवपक्षविरोधिनः । सखाभवन्महावीर्यो द्विविदो वानरर्षभः ॥ ५,३६.२ ॥ वैरानुबन्धं बलवान्स चकार सुरान्प्रति । नरकं हतवान्कृष्णो देवराजेन चोदितः ॥ ५,३६.३ ॥ करिष्ये सर्वदेवानां तस्मादेतत्प्रतीक्रियाम् । यज्ञविध्वंसनं कुर्वन्मर्त्यलोकक्षयं तथा ॥ ५,३६.४ ॥ ततो विध्वंसयामास यज्ञानज्ञानमोहितः । बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम् ॥ ५,३६.५ ॥ ददाह सवनान्देशान्पुरग्रमान्तराणि च । क्वचिच्च पर्वताक्षेपेर्ग्रमादीन्समचूर्णयत् ॥ ५,३६.६ ॥ शैलानुत्पाट्य तोयेषु मुमोचांबुनिधौ तथा । पुनश्चार्मवमध्यस्थः क्षोभयामास सागरम् ॥ ५,३६.७ ॥ तेन विक्षोभितश्चाब्धिरुद्वेलो द्विज जायते । प्लावयंस्तीरजान्ग्रमान्पुरादीनतिवेगवान् ॥ ५,३६.८ ॥ कामरूपी महारूपी कृत्वा सस्यान्यशेषतः । लुठन्भ्रमणसंमर्दैः संचूर्मयति वानरः ॥ ५,३६.९ ॥ तेन विप्रकृतं सर्वं जगदेतद्दुरात्मना । निःस्वाध्यायवषट्कारं मैत्रेयासीत्सुदुःखितम् ॥ ५,३६.१० ॥ एकदारैवतोद्याने पपौ पानं हला युधः । रेवती च महाभागा तथैवान्या वरस्त्रियः ॥ ५,३६.११ ॥ उद्गीयमानो विलसल्ललनामौलिमध्यगः । रेमे यदुकुलश्रेष्ठः कुबेर इव नन्दने ॥ ५,३६.१२ ॥ ततःस वानरोऽभ्येत्य गृहीत्वा सीरिणो हलम् । मुसलं च चकारास्य संमुखं च विडंबनम् ॥ ५,३६.१३ ॥ तथैव योषितां तासां जहासाभिमुखं कपिः । पानपूर्माश्च करकाञ्चिक्षेपाहत्य वै तदा ॥ ५,३६.१४ ॥ ततः कोपपरीतात्मा भर्त्सयामास तं हली । तथापि तमवज्ञाय चक्रेकिलकिलध्वनिम् ॥ ५,३६.१५ ॥ ततः स्मयित्वा स बलो जग्राह मुसलं रुषा । सोऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः ॥ ५,३६.१६ ॥ चिक्षेप स च तां क्षिप्तां मुसलेन सहस्रधा । विभेद यादवश्रेष्ठःसा पपात महीतले ॥ ५,३६.१७ ॥ अथ तन्मुसलं चासौ समुल्लङ्घ्य प्लवङ्गमः । वेगेनागत्य रोषेण करेणोरस्यताडयत् ॥ ५,३६.१८ ॥ ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः । पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः ॥ ५,३६.१९ ॥ पतता तच्छरीरेण गिरेः शृगमशीर्यत । मैत्रेय शतधा वज्रिवज्रेमेव विदारितम् ॥ ५,३६.२० ॥ पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः । प्रशशंसुस्ततोऽभ्येत्य साध्वेतत्ते महत्कृतम् ॥ ५,३६.२१ ॥ अनेन दुष्टकपिना दैत्यपक्षोपकारिणा । जगन्निराकृतं वीर दिष्ट्या स क्षयमागतः ॥ ५,३६.२२ ॥ इत्युक्त्वा दिवमाजग्मुर्देवा हृष्टःसगुह्यकाः ॥ ५,३६.२३ ॥ श्रीपराशर उवाच एवंविधान्यनेकानि बलदेवस्य धीमतः । कर्माण्यपरिमेयानिशेषस्य धरणीभृतः ॥ ५,३६.२४ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे षट्त्रिंशोध्यायः (३६) _____________________________________________________________ श्रीपराशर उवाच एवं दैत्यवधं कृष्णे बलदेव सहायवान् । चक्रे दुष्टक्षितीशानां तथैव जगतः कृते ॥ ५,३७.१ ॥ क्षितेश्च भारं भगवान्फाल्गुनेन समन्वितः । अवतारयामास विभुःसमस्ताक्षोहिणीवधात् ॥ ५,३७.२ ॥ कृत्वा भारावतरमं भुवो हत्वाखिलान्नृपान् । शापव्याजेन विप्राणामुपसंहृतवान्कुलम् ॥ ५,३७.३ ॥ उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मनः । सांशो विष्णुमयं स्थानं प्रविवेश मुने निजम् ॥ ५,३७.४ ॥ मैत्रेय उवाच स विप्रशापव्याजेन संजह्रेस्वकुलं कथम् । कथं च मानुषं देहमुत्ससर्जजनार्दनः ॥ ५,३७.५ ॥ श्रीपराशर उवाच विश्वमित्रस्तथाकण्वो नारदश्चमहामुनिः । पिण्डारके महारीर्थे दृष्ट्वा यदुकुमारकैः ॥ ५,३७.६ ॥ ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः । सांबं जांबवतीपुत्रं भूषयित्वा स्त्रियं यथा ॥ ५,३७.७ ॥ प्रश्रितास्तान्मुनीनूचुः प्रणिपातपुरःसरम् । इयं स्त्री पुत्रकामा वै ब्रूत किं जनयिष्यति ॥ ५,३७.८ ॥ श्रीपराशर उवाच दिव्यज्ञानोपपन्नास्ते विप्रलब्धाः कुमारकैः । मुनयः कुपिताः प्रोचुर्मुसलं जनयिष्यति ॥ ५,३७.९ ॥ सर्वयादवसंहारकारणं भुवनोत्तरम् । येनाखिलकुलोत्सादौ यादवानां भविष्यति ॥ ५,३७.१० ॥ इत्युक्तास्ते कुमारास्तु आचचक्षुर्यथातथम् । उग्रसेनाय मुसलं जज्ञे सांबस्य चोदरात् ॥ ५,३७.११ ॥ तदुग्रसेनो मुसलमयश्चूर्णमकारयत् । जज्ञे तदेरकायूर्णं प्रक्षिप्तं तैर्महोदधौ ॥ ५,३७.१२ ॥ मुसलस्याथ लोहस्य पूर्णितस्य तु यादवैः । खण्डं चूर्णितशेषं तु ततो यत्तोमराकृति ॥ ५,३७.१३ ॥ तदप्यंबुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः । घातितस्योदरात्तस्य लुब्धो जग्रह तज्जाराः ॥ ५,३७.१४ ॥ विज्ञातपरमार्थोपि भगवान्मधुसूदनः । नैच्छत्तदन्यथा कर्तुं विधिना यत्समीहितम् ॥ ५,३७.१५ ॥ देवैश्च प्रहितो वायुः प्रणिपत्त्याह केशवम् । रजस्येवमहं दूतः प्रहितो भगवन्सुरैः ॥ ५,३७.१६ ॥ वस्वश्विमरुदादित्यरुद्रसाध्यादिभिः सह । विज्ञापयति शक्रस्त्वां तदिदं श्रूयतां विभो ॥ ५,३७.१७ ॥ भारावतरणार्थाय वर्षाणामधिकं शतम् । भगवानवतीर्णोत्र त्रिदशेःसह चोदितः ॥ ५,३७.१८ ॥ दुर्वृत्ता निहता दैत्या भुवो भारोऽवतारितः । त्वया मनाथास्त्रिदशा भवन्तु त्रिदिवे सदा ॥ ५,३७.१९ ॥ तदतीतं जगन्नाथ वर्षाणामधिकं शतम् । इदानीं गम्यतां स्वर्गो भवता यदि रोचते ॥ ५,३७.२० ॥ देवैर्विज्ञाप्यते देव तथात्रैव रतिस्तव । तत्स्थीयतां यथाकालमास्थेयमनुजीविभिः ॥ ५,३७.२१ ॥ श्रीभगवानुवाच यत्त्वमात्थाखिलं दूत वेद्म्येतदहमप्युत । प्रारब्ध एव हि मया यादवानांपरिक्षयः ॥ ५,३७.२२ ॥ भुवो नाद्यापि भारोऽयं यादवैरनिबर्हितैः । अवतार्य करोम्येतत्सप्तरात्रेण सत्वरः ॥ ५,३७.२३ ॥ यथा गृहीतमंभोधेर्दत्त्वाहं द्वारकाभुवम् । यादवानुपसंहृत्य यास्यामि त्रिदशालयम् ॥ ५,३७.२४ ॥ मनुष्यदेहमुत्सृज्य संकर्षमसहायवान् । प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथामरैः ॥ ५,३७.२५ ॥ जरासंधादयो येऽन्ये निहता भारहेतवः । क्षितेस्तेभ्यः कुमारोऽपि यदूनां नापचीयते ॥ ५,३७.२६ ॥ तदेतं सुमहाभारमवतार्य क्षितेरहम् । यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान् ॥ ५,३७.२७ ॥ श्रीपराशर उवाच इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम् । मैत्रेय दिव्यया गत्या देवराजान्तिकं ययौ ॥ ५,३७.२८ ॥ भगवानप्यथोत्पातान्दिव्यभौमान्तरिक्षजान् । ददर्श द्वारकापुर्यां विनाशाय दिवानिशम् ॥ ५,३७.२९ ॥ तान्दृष्ट्वा यादवानाह पश्यध्वमतिदारुणान् । महोत्पाताञ्छमायैषां प्रभासं याम मा चिरम् ॥ ५,३७.३० ॥ श्रीपराशर उवाच एवमुक्ते तु कृष्णेन यादवप्रवारस्ततः । महाभागवतः प्राह प्रणिपत्योद्धवो हरिम् ॥ ५,३७.३१ ॥ भगवन्यन्मया कार्यं तदाज्ञापय सांप्रतम् । मन्ये कुलमिदं सर्वं भगवान्संहरिष्यति ॥ ५,३७.३२ ॥ नाशायास्य निमित्तानि कुलस्याच्युत लक्षये ॥ ५,३७.३३ ॥ श्रीभगवानुवाच गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया । यद्बदर्याश्रमं पुण्यं गन्धमादनपर्वते । नरनारायणस्थाने तत्पवित्रं महीतले ॥ ५,३७.३४ ॥ मन्मना मत्प्रसादेन तत्र सिद्धिमवाप्स्यसि । अहं स्वर्गं गमिष्यामि ह्युपसंहृत्य वैकुलम् ॥ ५,३७.३५ ॥ द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति । मद्वेश्म चैकं मुक्त्वातु भयान्मत्तो जलाशये । तत्र सन्निहितश्चाहं भक्तानां हितकाम्यया ॥ ५,३७.३६ ॥ श्रीपराशर उवाच इत्युक्तः प्रणिपत्यैनं जगामाशु तपेवनम् । नरनारायणस्थानं केशवेनानुमोदितः ॥ ५,३७.३७ ॥ ततस्ते यादवाःसर्वे रथानारुह्य शीघ्रगान् । प्रभासं प्रययुःसार्धं कृष्णरामादिभिर्द्विज ॥ ५,३७.३८ ॥ प्रभासं समनुप्राप्ताः कुकुरान्धकवृष्णयः । चक्रुस्तत्र महापानं वासुदेवेन चोदिताः ॥ ५,३७.३९ ॥ पिबतां तत्र चैतेषां संघर्षेण परस्परम् । अतिवादेन्धनो जज्ञे कलहाग्निः क्षयावहः ॥ ५,३७.४० ॥ मैत्रेय उवाच स्वंस्वं वै भुञ्जतां तेषां कलहः किंनिमित्तकः । संघर्षो वा द्विजश्रेष्ठ तन्ममाख्यातुमर्हसि ॥ ५,३७.४१ ॥ श्रीपराशर उवाच मृष्टं मदीयमन्नं ते न मृष्टमिति जल्पताम् । मृष्टामृष्टकथा जज्ञे संघर्षकलहौ ततः ॥ ५,३७.४२ ॥ ततश्चान्योन्यमभ्येत्य क्रिधसंरक्तलोचनाः । जघ्नुः परस्परं ते तु शस्त्रैर्दैवबलात्कृताः ॥ ५,३७.४३ ॥ क्षीणशस्त्राश्च जगृहुः प्रत्यासन्नामथैरकाम् ॥ ५,३७.४४ ॥ एरका तु गृहीता वै वज्रभूतेव लक्ष्यते । तया परस्परं जघ्नुःसंप्रहारे सुदारुणे ॥ ५,३७.४५ ॥ प्रद्युम्नसांबप्रमुखाः कृतवर्माथ सात्यकिः । अनिरुद्धादयश्चान्ये पृथुर्विपृथुरेव च ॥ ५,३७.४६ ॥ चारुवर्मा चारुकश्च तथाक्रूरादयो द्विज । एरकारूपिभिर्वज्रैस्ते निजघ्नुः परस्परम् ॥ ५,३७.४७ ॥ निवारयामास हरिर्यादवांस्ते च केशवम् । सहायं मेनिरेरीणां प्राप्तं जघ्नुः परस्परम् ॥ ५,३७.४८ ॥ कृष्णोऽपि कुपितस्तेषामेरकामुष्टिमाददे । वधाय सोऽपि मुसलं मुष्टर्लौहमभूत्तदा ॥ ५,३७.४९ ॥ जघान तेन निःशेषान्यादवानाततायिनः । जघ्नुस्ते सहसाभ्येत्य तथान्येपि परस्परम् ॥ ५,३७.५० ॥ ततश्चार्णवमध्येन जैत्रोऽसौ चक्रिणो रथः । पश्यतो दारुकस्याथ प्रायादश्वैर्धृतो द्विज ॥ ५,३७.५१ ॥ चक्रं गदा तथा शार्ङ्ग तूणीशङ्खोसिरेव च । प्रदक्षिणं हरिं कृत्वा जग्मुरादित्यवर्त्मना ॥ ५,३७.५२ ॥ क्षणेन नाभवत्कश्चिद्यादवानामघातितः । ऋते कृष्णं महात्मानं दारुकं च महामुने ॥ ५,३७.५३ ॥ चङ्क्रम्यमाणौ तौ रामं वृक्षमूले कृतासनम् । ददृशाते मुखाच्चास्य निष्क्रामन्तं महोरगम् ॥ ५,३७.५४ ॥ निष्क्रम्य स मखात्तस्य महाभोगो भुजङ्गमः । प्रययावर्णवं सिद्धैः पुज्यमानस्तथोरगैः ॥ ५,३७.५५ ॥ ततोर्घ्यमादाय तदा जलधिःसंमुखं ययौ । प्रविवेश ततस्तोयं पूजितः पन्नगोत्तमैः ॥ ५,३७.५६ ॥ दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः । इदं सर्वं समाचक्ष्व वसुदेवोग्रसेनयोः ॥ ५,३७.५७ ॥ निर्याणं बलभद्रस्य यादवानां तथा क्षयम् । योगो स्थित्वाहमप्येतत्परित्यक्ष्ये कलेवरम् ॥ ५,३७.५८ ॥ वाच्यश्च द्वारकावासी जनः सर्वस्तथाहुकः । यथोमां नगरीं सर्वां समुद्रः प्लावयिष्यति ॥ ५,३७.५९ ॥ तस्माद्भवद्भिः सर्वैस्तु प्रतीक्ष्यो ह्यर्जुनागमः । न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे ॥ ५,३७.६० ॥ तेनैव सह गन्तव्यां यत्र याति स कौरवः ॥ ५,३७.६१ ॥ गत्वा च ब्रूहि कैन्तेयमर्जुनं वचनान्मम । पालनीयस्त्वया शक्त्या जनोऽयं मत्परिग्रहः ॥ ५,३७.६२ ॥ त्वमर्जुनेन सहितो द्वारवत्यां तथा जनम् । गृहीत्वा यादि वज्रश्च यदुराजो भविष्यति ॥ ५,३७.६३ ॥ श्रीपराशर उवाच इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः । प्रदक्षिणं च बहुशः कृत्वा प्रायाद्यथोदितम् ॥ ५,३७.६४ ॥ स च गत्वा तदाचष्ट द्वारकायां तथार्ऽजुनम् । आनिनाय महाबुद्धिर्वज्रं चक्रे तथा नृपम् ॥ ५,३७.६५ ॥ भगवानपि गोविन्दो वासुदेवात्मकं परम् । ब्रह्मात्मनि समारोप्य सर्वभूतेष्वधारयत् । निष्प्रपञ्चे महाभाग संयोज्यात्मानमात्मनि । तुर्यावस्थसलीलं च शेतेस्म पुरुषोत्तमः ॥ ५,३७.६६ ॥ संमानयन्द्विजवचो दुर्वासा यदुवाच ह । योगयुक्तोऽभवत्पादं कृत्वा जानुनि सत्तम ॥ ५,३७.६७ ॥ आययौ स जरानाम तदा तत्र स लुब्धकः । मुसलावशेषलोहैकसायकन्यस्ततोमरः ॥ ५,३७.६८ ॥ स तत्पादं मृगाकरमवेक्ष्यारादविस्थितः । तले विव्याध तेनैव तोमरेण द्विजोत्तम ॥ ५,३७.६९ ॥ ततश्च ददृशे तत्र चदुर्बाहुधरं नरम् । प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः ॥ ५,३७.७० ॥ अजानता कृतमिदं मया हरिणशङ्कया । क्षम्यतां मम पापेन दग्धं मां त्रातुमर्हसि ॥ ५,३७.७१ ॥ श्रीपराशर उवाच ततस्तं भगवानाह न तेस्तु भयमण्वपि । गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गं सुरास्पदम् ॥ ५,३७.७२ ॥ श्रीपराशर उवाच विमानमागतं सद्यस्तद्वाक्यसमनन्तरम् । आरुह्य प्रययौ स्वर्गं लुब्धकस्तत्प्रसादतः ॥ ५,३७.७३ ॥ गते तस्मिन्सभगवान्संयोज्यात्मानमात्मनि । ब्रह्मभूतेऽव्ययेचिन्त्ये वासुदेवमयेऽमले ॥ ५,३७.७४ ॥ अजन्मन्यमरे विष्णवाप्रमेयेऽखिलात्मनि । तत्याज मानुषं देहमतीत्य त्रिविधां गतिम् ॥ ५,३७.७५ ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तत्रिंशोध्यायः (३७) _____________________________________________________________ श्रीपराशर उवाच अर्जुनोपि तदान्वीक्ष्य रामकृष्णकलेवरे । संस्कारं लंभयामास तथान्येषामनुक्रमात् ॥ ५,३८.१ ॥ अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याः । उपगुह्य हरेर्देह विविशुस्ता हुताशनम् ॥ ५,३८.२ ॥ रेवती चापि रामस्य देहमाश्लिष्य सत्तमा । विवेश ज्वलितं वाह्निं तत्संगाह्लादशीतलम् ॥ ५,३८.३ ॥ उग्रसेनस्तु तच्छुत्वा तथैवानकदुन्दुभिः । देवकी रोहिणी चैव विविशुर्जातवेदसम् ॥ ५,३८.४ ॥ ततोर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि । निश्चक्राम जनं सर्वे गृहीत्वा वज्रमेव च ॥ ५,३८.५ ॥ द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः । वज्रं जनं च कौतेयः पालयञ्छनकैर्ययौ ॥ ५,३८.६ ॥ सभा सुधर्मा कृष्णेन कर्त्यलोके समुज्झिते । स्वर्गं जगाम मैत्रेय पारिजातश्च पादपः ॥ ५,३८.७ ॥ यस्मिन्दिने हरिर्यातो दिवं संत्यज्य मेदिनीम् । तस्मिन्नेवावतीर्णोऽयं कालकायो बली कलिः ॥ ५,३८.८ ॥ प्लावयामास तां शून्यां द्वारकां च महोदधिः । वासुदेवगृहं त्वेकं न प्लावयति सागरः ॥ ५,३८.९ ॥ नातिक्रान्तुमलं ब्रह्मंस्तदद्यापि महोदधिः । नित्यं सन्निहितस्तत्र भगवान्केशवो यतः ॥ ५,३८.१० ॥ तदतीव महापुण्यं सर्वपातकनाशनम् । विष्णुश्रियान्वितं स्थानं दृष्ट्वा पामाद्विमुच्यते ॥ ५,३८.११ ॥ पार्थः पञ्चनदे देशे बहुधान्यधनान्विते । चकार वासं सर्वस्य जनस्य मुनिसत्तमः ॥ ५,३८.१२ ॥ ततो लोभःसमभवत्पार्थेनैकेन धन्विना । दृष्ट्वास्त्रियो नीयमाना दस्यूनां निहतेश्वराः ॥ ५,३८.१३ ॥ ततस्ते पापकमाणो लोभोपहृतचेतसः । आभीरा मन्त्रयामासुःसमेत्यान्यन्तदुर्मदाः ॥ ५,३८.१४ ॥ अयमेकोर्ऽजुनो धन्वी स्त्रीजनं निहतेश्वरम् । नयत्यस्मानतिक्रम्य धिगेतद्भवतां बलम् ॥ ५,३८.१५ ॥ हत्वा गर्वसमारूढो भीष्मद्रोमजयद्रथान् । कर्णादींश्च न जानाति बलं ग्रामनिवासिनाम् ॥ ५,३८.१६ ॥ यष्टिहस्तानवेक्ष्यास्मान्धनुष्पाणिःस दुर्मतिः । सर्वानेवावजानाति किं वो बाहुभिरुन्नतैः ॥ ५,३८.१७ ॥ ततो यष्टिप्रहरणादस्यवो लोष्टधारिणः । सहस्रशोभ्यधावन्त तं जनं निहतेश्वरम् ॥ ५,३८.१८ ॥ ततो निर्भर्त्स्य कौतेयः प्राहाभीरान्हसन्निव । निवर्तध्वमधर्मज्ञा यदि न स्थ मुमूर्षवः ॥ ५,३८.१९ ॥ अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम् । स्त्रीधनं चैव मैत्रेय विष्वक्सेन पिरग्रहम् ॥ ५,३८.२० ॥ ततोर्जुनो धनुर्दिव्यं गाण्डीवमजरं युधि । आरोपयितुमारेभे न शशाक च वीर्यवान् ॥ ५,३८.२१ ॥ चकार सज्यं कृच्छ्राच्चतच्चाभूच्छिथिलं पुनः । न सस्मार ततोस्त्राणि चिन्तयन्नपि पाण्डवः ॥ ५,३८.२२ ॥ शरान्मुमोच चैतेषु पार्था वैरिष्वमर्षितः । त्वग्भेदं दे परं चक्रुरस्ता गाण्डीवधन्विना ॥ ५,३८.२३ ॥ वह्निना येऽक्षया दत्ताः शरास्तेपि क्षयं ययुः । युद्ध्यतःसह गोपालैरर्जुनस्य भवक्षये ॥ ५,३८.२४ ॥ अचिन्तयच्च कैन्तेयः कृष्णस्यैव हि तद्बलम् । यन्मया शरसंघातैः सकला भूभृतो हताः ॥ ५,३८.२५ ॥ मिषतः पाण्डुपुत्रस्य ततस्ताः प्रमदोत्तमाः । आभीरैरपकृष्यन्त कामं चान्याः प्रदुद्रुवुः ॥ ५,३८.२६ ॥ ततः शरेषु क्षीणेषु धनुष्कोट्या धनञ्जयः । जघान दस्यूंस्ते चास्य प्रहाराञ्जहसुर्मुने ॥ ५,३८.२७ ॥ प्रेक्षतस्तस्य पार्थस्य पुष्ण्यन्धकवरस्त्रियः । जग्मुरादाय ते म्लेच्छाः समस्ता मुनिसत्तम ॥ ५,३८.२८ ॥ ततःसुदुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन् । अहो भगवतानेन मुष्टोस्मीति रुरोद वै ॥ ५,३८.२९ ॥ तद्धनुस्तानि शस्त्राणि स रथस्ते च वाजिनः । सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा ॥ ५,३८.३० ॥ अहोतिबलबद्दैवं विना तेन महात्मना । यदसामर्थ्ययुक्तेपि निचवर्गे जयप्रदम् ॥ ५,३८.३१ ॥ तौ बाहू स च मे मुष्टिः स्थानं तत्सोस्मि चार्जुनः । पुण्येनैव विना तेन गतं सर्वमसारताम् ॥ ५,३८.३२ ॥ ममार्जुनत्वं भीमस्य भीमत्वं तत्कृते ध्रुवम् । विना तेन यदा भीरैर्जितोहं रथिनां वरः ॥ ५,३८.३३ ॥ श्रीपराशर उवाच इत्थं वदन्ययौ जिष्मुरिद्रप्रस्थं पुरोत्तमम् । चकार तत्र राजानं वज्रं यादवनन्दनम् ॥ ५,३८.३४ ॥ स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम् । तमुपेत्य महाभागं विनयेनाब्यवादयत् ॥ ५,३८.३५ ॥ तं वन्दमानं चरणाववलोक्य मुनिश्चिरम् । उवाच वाक्यं विच्छायः कथमद्य त्वमीदृशः ॥ ५,३८.३६ ॥ अवीरजोनुगमनं ब्रह्महत्या कृताथ वा । दृढाशाभङ्गदुःखीव भ्रष्टच्छायोऽसि सांप्रतम् ॥ ५,३८.३७ ॥ सांतानिकादयो वाते याचमाना निराकृताः । अगम्यस्त्रीरतिर्वा त्वं येनासि विगतप्रभः ॥ ५,३८.३८ ॥ भुङ्तेऽप्रदायविप्रेभ्यो मृष्टमेकोथ वा भवान् । किं वा कृपणवित्तानि हृतानि भवतार्ऽजुन ॥ ५,३८.३९ ॥ कचिन्नु शुर्पवातस्य गोचरत्वं गतोर्ऽजुन । दुष्टचक्षुर्हतो वासि निःश्रीकः कथमन्यथा ॥ ५,३८.४० ॥ स्पृष्टो नखांभसा वाथ घटवार्युक्षितोपि वा । केन त्वं वासि विच्छायो न्यूनैर्वा युधि नीजातः ॥ ५,३८.४१ ॥ श्रीपराशरौवाच ततः पार्थो विनिश्वास्य श्रूयतां भगवन्निति । प्रोक्त्वा यथावदाचष्टे व्यासायात्मपराभवम् ॥ ५,३८.४२ ॥ अर्जुन उवाच यद्बलं यच्च मत्तेजो यद्वीर्यं यः पराक्रमः । या श्रीश्छाया च नः सोस्मान्परित्यज्य हरिर्गतः ॥ ५,३८.४३ ॥ ईश्वरेणापि महता स्मितपूर्वाभिभाषिणा । हीना वयं मुने तेन जातास्तृणमया इव ॥ ५,३८.४४ ॥ अस्त्राणां सायकानां च गाण्डीवस्य तथा मम । सारता याभवन्मूर्तिःस गतः पुरुषोत्तमः ॥ ५,३८.४५ ॥ यस्यावलोकनादस्माञ्छ्रीर्जयः संपदुन्नतिः । न तत्याज स गोविन्दस्त्यक्त्वास्मान्भगवान्गतः ॥ ५,३८.४६ ॥ भीष्मद्रोणाङ्गराजाद्या स्तथा दुर्योधनादयः । यत्प्रभावेन निर्दग्धाः स कृष्णस्त्यक्तवान्भुवम् ॥ ५,३८.४७ ॥ निर्यौवना गतश्रीका नष्टच्छायेव मेदिनी । विभाति तात नैकोहं विरहे तस्य चक्रिणः ॥ ५,३८.४८ ॥ यस्य प्रभावाद्भीष्माद्यैर्मय्यग्नौ शलभायतम् । विना तेनाद्य कृष्णेन गोपालौरस्मि निर्जितः ॥ ५,३८.४९ ॥ गाण्डीवस्त्रिषु लोकेषु ख्यातिं यदनुभावतः । गतस्तेन विनाऽभीरलगुडैः स तिरस्कृतः ॥ ५,३८.५० ॥ स्त्रीसहस्राण्यनेकानि मन्नाथानि महामुने । यततो मम नीतानि दस्युभिर्लगुडायुधैः ॥ ५,३८.५१ ॥ आनीयमानमाभीरैः कृष्ण कृष्णावरोधनम् । हृतं यष्टिप्रहरणैः परिभूय बलं मम ॥ ५,३८.५२ ॥ निःश्रीकता न मे चित्रं यज्जीवामि तदद्भुतम् । नीचावमानपङ्काङ्की निर्लज्जोस्मि पितामह ॥ ५,३८.५३ ॥ व्यास उवाच अलं ते व्रीडया पार्थ न त्वं शोचितुमर्हसि । अवेहि सर्वभूतेषु कालस्य गतिरीदृशी ॥ ५,३८.५४ ॥ कालो भवाय भूतानामभवाय च पाण्डव । कालमूलमिदं ज्ञात्वा भव स्थैर्यपरोऽर्जुन ॥ ५,३८.५५ ॥ नद्यः समुद्रा गिरयःसकला च वसुंधरा । देवा मनुष्याः पशवस्तरवश्च सरीसृपाः ॥ ५,३८.५६ ॥ सृष्टाः कालेन कालेन पुनर्यास्यन्ति संक्षयम् । कालात्मकमिदं सर्वं ज्ञात्वा शममवाप्नुहि ॥ ५,३८.५७ ॥ कालस्वरूपी भगवान्कृष्णः कमललोचनः । यच्चात्थ कृष्णमाहात्म्यं तत्तथैव धनञ्जय ॥ ५,३८.५८ ॥ भारावतारकार्यार्थमवतीर्णस्य मेदिनीम् । भाराक्रान्ता धरा याता देवानां समितिं पुरा ॥ ५,३८.५९ ॥ तदर्थमवतीर्णोऽसौ कालरूपी जनार्दनः । तच्च निष्पादिनं कार्यमशेषा भूभुजो हताः ॥ ५,३८.६० ॥ वष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम् । न किञ्चिदन्यत्कर्तव्यं तस्य भूमितले प्रभोः ॥ ५,३८.६१ ॥ अतो गतःस भगवान्कतकृत्यो यथेच्छया । सृष्टिं सर्गे करोत्येष देवदेवः स्थितौ स्थितिम् । अन्तेन्ताय समर्थोयं सांप्रतं वै यथा गतः ॥ ५,३८.६२ ॥ तस्मात्यार्थ न संतापस्त्वया कार्यः पराभवे । भवन्ति भावाः कालेषु पुरुषाणां यतः स्तुतिः ॥ ५,३८.६३ ॥ त्वयैकेन हता भीष्मद्रोणकर्मादयो रणे । तेषामर्जुन कालोत्थः किं न्यूनाभिभवो न सः ॥ ५,३८.६४ ॥ विष्णोस्तस्य प्रभावेण यथा तेषां पराभवः । कृतस्तथैव भवतो दस्युभ्यः स पराभवः ॥ ५,३८.६५ ॥ स देवेशः शरीराणि समाविश्य जगत्स्थितिम् । करोति सर्वभूतानां नाशमन्ते जगत्पतिः ॥ ५,३८.६६ ॥ भगोदये ते कैन्तेय सहायोऽभूज्जनार्दनः । तथान्ते तद्विपक्षास्ते केशवेन विनाशिताः ॥ ५,३८.६७ ॥ कः श्रद्दद्ध्यात्सगाङ्गोयान्हन्यास्त्वं कौरवानिति । आभीरेभ्यश्च भवतः कः श्रद्दध्यात्पराभवम् ॥ ५,३८.६८ ॥ पार्थैतत्सर्वभूतस्य हरेर्लीलाविचोष्टितम् । त्वया यत्कौरावा ध्वस्ता यदाभीरैर्भवाञ्जितः ॥ ५,३८.६९ ॥ गृहीता दस्युभिर्याश्च भवाञ्छोचति ताःस्त्रियः । एतस्याहं यथावृत्तं कथयामि तवार्जुन ॥ ५,३८.७० ॥ अष्टावकः पुरा विप्रो जलवासरतोऽभवत् । बहून्वर्षगणान्पार्थ गृणन्ब्रह्म सनातनम् ॥ ५,३८.७१ ॥ जितेष्वसुरसंघषु मेरुपृष्ठे महोत्सवः । बभूव तत्र गच्छन्त्यो ददृशुस्तं सुरस्त्रियः ॥ ५,३८.७२ ॥ रंभातिलोत्तमाद्यास्तु शतशोऽथ सहस्रशः । तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव ॥ ५,३८.७३ ॥ आकण्ठमग्नं सलिले जटाभारवहं मुनिम् । विनयावनताश्चैनं प्रणेमुस्तोत्रतत्पराः ॥ ५,३८.७४ ॥ यथायथा प्रसन्नोऽसौ तुष्टुवुस्तं तथातथा । सर्वास्ताः कौरवश्रेष्ठ तं वरिष्ठं द्विजन्मनाम् ॥ ५,३८.७५ ॥ अष्टावक्र उवाच प्रसन्नोऽहं महाभागा भवतीनां यदिष्यते । मत्तस्तद्व्रयतां सर्वं प्रदास्याम्यतिदुर्लभम् ॥ ५,३८.७६ ॥ रंभातिलोत्तमाद्यास्तं वैदिक्योप्सरसोब्रुवन् । प्रसन्ने त्वय्यपर्याप्तं किमस्माकमिति द्विज ॥ ५,३८.७७ ॥ इतरास्त्वब्रुवन्विप्र प्रसन्नो भगवान्यदि । तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तम ॥ ५,३८.७८ ॥ व्यास उवाच एवं भविष्यतीत्युक्त्वा ह्युत्ततार जलान्मुनिः । तमुत्तीर्णं च दृदृशुर्विरूपं वक्रमष्टधा ॥ ५,३८.७९ ॥ तं दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत् । ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन ॥ ५,३८.८० ॥ यस्माद्विकृतरूपं मां मत्वा हीसा वमानना । भवतीभिः कृता तस्मादेतं शापं ददामि वः ॥ ५,३८.८१ ॥ मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम् । मच्छापोपहताःसर्वा दस्युहस्तं गमिष्यथ ॥ ५,३८.८२ ॥ व्यास उवाच इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः । पुनःसुरेद्रलोकं वै प्राह भूयो गमिष्यथ ॥ ५,३८.८३ ॥ एवं तस्य मुनेः शापादष्टावक्रस्य चक्रिणम् । भर्तारं प्राप्य ता याता दस्युहस्तं सुराङ्गनाः ॥ ५,३८.८४ ॥ तत्त्वाय नात्र कर्तव्यः शोकोऽल्पोपि हि पाण्डव । तेनैवाखिलनाथेन सर्वं तदुपसंहृतम् ॥ ५,३८.८५ ॥ भवतां चोपसंहार आसन्नस्तेन पाण्डव । बलं लेजस्तथा वीर्यं माहात्म्यं चोपसंहृतम् ॥ ५,३८.८६ ॥ जातस्य नियतो मृत्युः पतनं च तथोन्नतेः । विप्रयोगावमानस्तु संयोगः संचये क्षयः ॥ ५,३८.८७ ॥ विज्ञाय न बुधाः शोकं न हर्षमुपयान्ति ये । तेषामेवेतरे चेष्टां शिक्षन्तःसंति तादृशाः ॥ ५,३८.८८ ॥ तस्मात्त्वया नरश्रेष्ठ ज्ञात्वैतद्भ्रातृभिः सह । परित्यज्याखिलं तन्त्रं गन्तव्यं तपसे वनम् ॥ ५,३८.८९ ॥ तद्रच्छ धर्मराजाय निवेद्यौतद्वचो मम । परश्वो भ्रातृभिः सार्ध यथा यासि तथा कुरु ॥ ५,३८.९० ॥ इत्युक्तोभ्येत्य पार्थाभ्यां यमाभ्यां च सहार्जुनः । दृष्टं चैवानुभूतं च सर्वमाख्यातवांस्तथा ॥ ५,३८.९१ ॥ व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनमुखेरितम् । राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम् ॥ ५,३८.९२ ॥ इत्येतत्तव मैत्रेय विस्तरेण मयोदितम् । जातस्य यद्यदोर्वशे वासुदेवस्य चेष्टितम् ॥ ५,३८.९३ ॥ यश्चैतच्चरितं तस्य कृष्णस्य शृमुयात्सदा । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ५,३८.९४ ॥ इति श्रीविष्णुमहापुराणे पञ्चमाशेऽष्टत्रिंशोऽध्यायः (३८) इति श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते पञ्च मांशः समाप्तः । _____________________________________________________________ अथ श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्यश्रीधरीय व्याख्याद्वयोपेते षष्ठांशः प्रारभ्यते । श्रीमते रामानुजाय नमः मैत्रेय उवाच व्याख्याता भवता सर्गवंशमन्वन्तरस्थितिः । वंशानुचरितं चैव विस्तरेण महामुने ॥ ६,१.१ ॥ श्रोतुमिच्छाम्यहं त्वत्तो यथावदुपसंहृतिम् । महाप्रलयसंज्ञां च कल्पान्ते च महामुने ॥ ६,१.२ ॥ श्रीपराशर उवाच मैत्रेय श्रूयतां मत्तो यथावदुपसंहृतिः । कल्पान्ते प्राकृते चैव प्रलयो जायते यथा ॥ ६,१.३ ॥ अहोरात्रं पितॄणां तु मासोऽब्दस्त्रिदिवौकसाम् । चतुर्युगमहस्रे तु ब्रह्मणो वै द्विजोत्तम ॥ ६,१.४ ॥ कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । दिव्यैर्वर्षसहस्रैस्तु तद्द्वादशभिरुच्यते ॥ ६,१.५ ॥ चतुर्युगाण्यशेषाणि सदृशानि स्वरूपतः । आद्यं कृतयुगं मुक्त्वा मैत्रेयान्त्यं तथा कलिम् ॥ ६,१.६ ॥ आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यथा । क्रियते चोपसंहारस्तथांऽते च कलौ युगे ॥ ६,१.७ ॥ मैत्रेय उवाच कलेःस्वरूपं भगवन्विस्तराद्वक्तुमर्हसि । धर्मश्चतुष्पाद्भगवान् यस्मिन् विप्लवमृच्छति ॥ ६,१.८ ॥ श्रीपराशर उवाच कलेःस्वरूपं मैत्रेय यद्भवाञ्छ्रोतु मिच्छति । तन्निबोध समासेन वर्तते यन्महामुने ॥ ६,१.९ ॥ वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् । न सामऋग्यजुर्धर्मविनिष्पादनहैतुकी ॥ ६,१.१० ॥ विवाहा न कलौ धर्म्या न शिष्यगुरुसंस्थितिः । न दांपत्यक्रमो नैव वह्निदेवात्मकः क्रमः ॥ ६,१.११ ॥ यत्र कुत्र कुले जातो बली सर्वेश्वरः कलौ । सर्वेभ्य एव वर्णेभ्यो योग्यः कन्यावरोधने ॥ ६,१.१२ ॥ येन केन च योगेन द्विजातिर्दीक्षितः कलौ । यैव सैव च मैत्रेय प्रायश्चित्तं कलौ क्रिया ॥ ६,१.१३ ॥ सर्वमेव कलौ शास्त्रं यस्य यद्वजनं द्विज । देवता च कलौ सर्वा सर्वःसर्वस्य चाश्रमः ॥ ६,१.१४ ॥ उपवासस्तथाऽयासौ वित्तोत्सर्गस्तपः कलौ । धर्मो यथाभिरुचितैरनुष्ठनैरनुष्ठितः ॥ ६,१.१५ ॥ वित्तेन भविता पुंसां स्वल्पेनाढ्यमदः कलौ । स्त्रीणां रूपमदश्चैवं केशैरेव भविष्यति ॥ ६,१.१६ ॥ मुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते । कलौ स्त्रियो भविष्यन्ति तदा केशैरलङ्कृताः ॥ ६,१.१७ ॥ परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः । भर्ता भविष्यति कलौ वित्तवानेव योषिताम् ॥ ६,१.१८ ॥ यो वै ददाति बहुलं स्वं स स्वामी सदा नृणाम् । स्वामित्वहेतुःसंबन्धो न चाभिजनता तथा ॥ ६,१.१९ ॥ गृहान्ता द्रव्य्संघाता द्रव्यान्ता च तथा मतिः । अर्थाश्चात्मोपभोग्यान्ता भविष्यन्ति कलौ युगे ॥ ६,१.२० ॥ स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः । अन्यायादाप्तवित्तेषु पुरुषाः स्पृहयालबः ॥ ६,१.२१ ॥ अभ्यर्थितापि सुहृदा स्वार्थमेव निरीक्ष्यते । पणार्धार्धाद्धमात्रेऽपि करिष्यन्ति तथा स्पृहाम् ॥ ६,१.२२ ॥ समानपौरुषं चेतो भुवि विप्रेषु वै कलौ । क्षीरप्रदानसंबन्धि भावि गोषु च गौरवम् ॥ ६,१.२३ ॥ अनावृष्टिभयप्रायाः प्रजाः क्षुद्भयकातराः । भविष्यन्ति तदा सर्वे गगनासक्तदृष्टयः ॥ ६,१.२४ ॥ कन्दमूलफलाहारास्तापसा इव मानवाः । आत्मानं घातयिष्यन्ति ह्यनावृष्ट्यादिदुःखिताः ॥ ६,१.२५ ॥ दुर्भिक्षमेव सततं तथा क्लेशमनीश्वराः । प्राप्स्यन्ति व्याहतसुखप्रमोदा मानवाः कलौ ॥ ६,१.२६ ॥ अस्नानभोजिनो नाग्निदेवतातिथिपूजंनम् । करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥ ६,१.२७ ॥ लोलुपा ह्रस्वदेहाश्च बह्वन्नादनतत्पराः । बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ॥ ६,१.२८ ॥ उभाभ्यामपि पाणिभ्यां शिरःकण्डूयनं स्त्रियः । कुर्वन्त्यो गुरुभर्तॄणामाज्ञां भर्त्स्यन्त्यनादराः ॥ ६,१.२९ ॥ स्वपोषणपराः क्षुद्रा देहसंस्कारवर्जिताः । परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ॥ ६,१.३० ॥ दुःशीला दुष्टशीलेषु कुर्वन्त्यःसततं स्पृहाम् । असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥ ६,१.३१ ॥ वेदादानं करिष्यन्ति बटवश्चाकृतव्रताः । गृहस्थाश्च न होष्यन्ति न दास्यन्त्युचितान्यपि ॥ ६,१.३२ ॥ वानप्रस्था भविष्यन्ति ग्राम्याहारपरिग्रहाः । भिक्षवश्चापि मित्रादिस्नेहसंबन्धयन्त्रणाः ॥ ६,१.३३ ॥ अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः । हारिणो जनवित्तानां संप्राप्ते तु कलौ युगे ॥ ६,१.३४ ॥ योयोऽश्वरथनागाढ्यःस स राजा भविष्यति । यश्च यश्चाबलः सर्वः स स भृत्यः कलौ युगे ॥ ६,१.३५ ॥ वैश्याः कृषिवणिज्यादि संत्यज्य निजकर्म यत् । शूद्रवृत्त्या प्रवर्त्स्यन्ति कारुकर्मोपजीविनः ॥ ६,१.३६ ॥ भैक्षव्रतपराः शूद्रा प्रव्रज्यालिङ्गिनोऽधमाः । पाषण्डसंश्रयां वृत्तिमाश्रयिष्यन्ति सत्कृताः ॥ ६,१.३७ ॥ दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः । गोधूमान्नयवान्नाढ्यान्देशान्यास्यन्ति दुःखिताः ॥ ६,१.३८ ॥ वेदमार्गे प्रलीने च पाषण्डाढ्ये ततो जने । अधर्मवृद्ध्या लोकानामल्पमायुर्भविष्यति ॥ ६,१.३९ ॥ अशास्त्रविहितं घोरं तप्यमानेषु वै तपः । नरेषु नृपदोषेण बाल्ये मृत्युर्भविष्यति ॥ ६,१.४० ॥ भविता योषितां सूतिः पञ्चषट्मप्तवार्षिकी । नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ॥ ६,१.४१ ॥ पलितोद्भवश्च भविता तथा द्वादशवार्षिकः । नातिजीवति वै कश्चित्कलौ वर्षाणि विंशतिः ॥ ६,१.४२ ॥ अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तःकरणाः कलौ । यतस्ततो विनङ्क्ष्यन्ति कालेनाल्पेन मानवाः ॥ ६,१.४३ ॥ यदायादा हि मैत्रेय हानिर्धर्मस्य लक्ष्यते । तदातदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ ६,१.४४ ॥ यदायदा हि पांषडवृद्धिर्मैत्रेय लक्ष्यते । तदातदा कलेर्वृद्धिरनुमेया महात्मभिः ॥ ६,१.४५ ॥ यदायदा सतां हीनिर्वेदमार्गानुसारिणाम् । तदातदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ ६,१.४६ ॥ प्रारंभाश्चावसीदन्ति यदा धर्मभृतां नृणाम् । तदानुमेयं प्राधान्यं कलेर्मैत्रेय पण्डितैः ॥ ६,१.४७ ॥ यदायाद न यज्ञानामीश्वरः पुरुषोत्तमः । इज्यते पुरुषैर्यज्ञैस्तदा ज्ञेयं कलेर्बलम् ॥ ६,१.४८ ॥ न प्रीतिर्वेदवादेषु पाषण्डेषु यदा रतिः । कलेर्वृद्धिस्तदा प्राज्ञैरनुमेया विचक्षणैः ॥ ६,१.४९ ॥ कलौ जगत्पतिं विष्णुंसर्वस्रष्टारमीश्वरम् । नार्चयिष्यन्ति मैत्रेय पाषण्डोपहता जनाः ॥ ६,१.५० ॥ किं देवैः किं द्विजैर्वेदैः किं शौचे नांबुजन्मना । इत्येवं विप्रवक्ष्यन्ति पाषण्डोपहता जनाः ॥ ६,१.५१ ॥ स्वल्पांबुवृष्टिः पर्जन्यः सस्यं स्वल्पफलं तथा । फलं तथाल्पसारं च विप्र प्राप्ते कलौ युगे ॥ ६,१.५२ ॥ शाणीप्रायाणि वस्त्राणि शमीप्राया महीरुहाः । शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ॥ ६,१.५३ ॥ अणुप्रायाणि धान्यानि चाज्यप्रायं तथा पयः । भविष्यति कलौ प्राप्ते ह्यौशीरं चानुलेपनम् ॥ ६,१.५४ ॥ श्वश्रूश्वशुरभूयिष्ठा गुरवश्च नृणां कलौ । श्यालाद्य हारिभार्याश्च सृहृदो मुनिसत्तम ॥ ६,१.५५ ॥ कस्य माता पिता कस्य यथा कर्मानुगः पुमान् । इति चोदाहरिष्यन्ति श्वशुरानुगतानराः ॥ ६,१.५६ ॥ वाङ्मनःकायगैर्दोषैरभिभूताः पुनः पुनः । नराः पापान्यनुदिनं करिष्यन्त्यल्पमेधसः ॥ ६,१.५७ ॥ निःसत्त्वानामशौचानां निह्रीकाणां तथा नृणाम् । यद्यद्दुःखाय तत्सर्वं कलिकाले भविष्यति ॥ ६,१.५८ ॥ निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते । तदा प्रविरलो धर्मः क्वचिल्लोके निवत्स्यति ॥ ६,१.५९ ॥ तत्राल्पेनैव यत्नेन पुण्यस्कन्धमनुत्तमम् । करोतियः कृतयुगे क्रियते तपसा हि सः ॥ ६,१.६० ॥ इति श्रीविष्णुमहापुराणे षष्ठांशे प्रथमोऽध्यायः _____________________________________________________________ श्रीपराशर उवाच व्यासश्चाह महाबुद्धिर्यदत्रैव हि वस्तुनि । तच्छ्रूयतां महाभागा गदतो मम तत्त्वतः ॥ ६,२.१ ॥ कस्मिन्कालेऽल्पको धर्मो ददानि सुमहत्फलम् । मुनीनां पुण्यवादोऽभूत्कैश्चासौ क्रियते सुखम् ॥ ६,२.२ ॥ संदेहनिर्णयार्थाय वेदव्यासं महामुनिम् । ययुस्ते संशयं प्रष्टुं मैत्रेय मुनिपुङ्गवाः ॥ ६,२.३ ॥ दृदृशुस्ते मुनिं तत्र जाह्नवीसलिले द्विज । वेदव्यासं महाभागमर्धस्नातं सुतं मम ॥ ६,२.४ ॥ स्नानावसानं ते तस्य प्रतीक्षन्तो महर्षयः । तस्थुस्तीरे महानद्यास्तरुषण्डमुपाश्रिताः ॥ ६,२.५ ॥ मग्नोऽथ जाह्नवीतोयादुत्थायाह सुतो मम । शुद्रःसाधुः कलिःसाधुरित्येवं शृण्वतां वचः । तेषां मुनीनां भूयश्च ममज्ज स नदीजले ॥ ६,२.६ ॥ साधुसाध्विति चोत्थाय शूद्र धन्योसि चाब्रवीत् ॥ ६,२.७ ॥ निमग्नश्च समुत्थाय पुनः प्राह महामुनिः । योषितः साधु धन्यास्तास्ताब्यो धन्यतरोस्तिकः ॥ ६,२.८ ॥ ततः स्नात्वा यथान्यायमाचान्तं च कृतक्रियम् । उपतस्थुर्महाभागं मुनयस्ते सुतं मम ॥ ६,२.९ ॥ कृतसंवन्दनांश्चाह कृतासनपरिग्रहान् । किमर्थ मागता यूयमिति सत्यवतीसुतः ॥ ६,२.१० ॥ श्रीपराशर उवाच तमूचुःसंशयं प्रष्टं भवन्तं वयमागताः । अलं तेनास्तु तावन्नः कथ्यतामपरं त्वया ॥ ६,२.११ ॥ कलिःसाध्विति यत्प्रोक्तं शूद्रः साध्विति योषितः । यदाह भगवान्त्साधु धन्याश्चेति पुनः पुनाः ॥ ६,२.१२ ॥ तत्सर्वं श्रोतुमिच्छामो न चेद्गुह्यं महामुने । तत्कथ्यतां ततो हृत्स्थं पृच्छामस्त्वां प्रयोजनम् ॥ ६,२.१३ ॥ श्रीपराश उवाच इत्युक्तो मुनिभिर्व्यासः प्रहस्येदमथाब्रवीत् । श्रूयतां भो मुनिश्रेष्ठा यदुक्तं साधुसाध्विति ॥ ६,२.१४ ॥ व्यास उवाच यत्कृते दशभिर्वर्षैस्त्रेतायां हायनेन तत् । द्वापरे तच्च मासेन ह्यहोरात्रेण तत्कलौ ॥ ६,२.१५ ॥ तपसो ब्रह्मचर्यस्य जपादेश्च फलं द्विजाः । प्राप्नोति पुरषस्तेन कलिःसाध्विति भाषितम् ॥ ६,२.१६ ॥ ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरेर्ऽचयन् । यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥ ६,२.१७ ॥ धर्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ । अल्पायासेन धर्मज्ञास्तेन तुष्टोस्म्यहं कलेः ॥ ६,२.१८ ॥ व्रतचर्यापरैर्ग्राह्या वेदाः पूर्वं द्विजातिभिः । ततःस धर्मसंप्राप्तैर्यष्टव्यं विधिवद्धनैः ॥ ६,२.१९ ॥ वृथा कथा वृथा भोज्यं वृथेज्या च द्विजन्मनाम् । पतनाय ततो भाव्यं तैस्तु संयमिभिः सदा ॥ ६,२.२० ॥ असम्यक्करणे दोषस्तेषां सर्वेषु वस्तुषु । भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः ॥ ६,२.२१ ॥ पारतन्त्र्यं समस्तेषु तेषां कार्येषु वै यतः । जयन्ति ते निजांल्लोकान्क्लेशेन महताद्विजाः ॥ ६,२.२२ ॥ द्विजशुश्रूषयैवैष पाकयज्ञाधिकारवान् । निजाञ्जयति वै लोकाञ्छूद्रो धन्यतरस्ततः ॥ ६,२.२३ ॥ भक्ष्याभक्ष्येषु नास्यास्ति पेयापेयेषु वै यतः । नियमो मुनिशार्दूलास्तेनासौ साध्वितीरितः ॥ ६,२.२४ ॥ स्वधर्मस्याविरोधेन नरैर्लब्धं धनं सदा । प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि ॥ ६,२.२५ ॥ तस्यार्जने महाक्लेशः पालने च द्विजोत्तमाः । तथासद्विनियोगेन विज्ञातं गहनं नृणाम् ॥ ६,२.२६ ॥ एवमन्यैस्तथा क्लेशैः पुरुषा द्विजसत्तमाः । निजाञ्जयन्ति वै लोकान्प्राजापत्यादिकान्क्रमात् ॥ ६,२.२७ ॥ योषिच्छुश्रूषणाद्भर्तुः कर्मणा मनसा गिरा । तद्धिता शुभमाप्नोति तत्सालोक्यं यतो द्विजाः ॥ ६,२.२८ ॥ नातिक्लेशेन महता तानेव पुरुषो यथा । तृतीयं व्याहृतं तेन मया साध्विति योषितः ॥ ६,२.२९ ॥ एतद्वः कथितं विप्रायन्निमित्तमिहागतः । तत्पृच्छतः यथाकामं सव बक्ष्यामि वः स्फुटम् ॥ ६,२.३० ॥ ऋषयस्ते ततः प्रोचुर्यत्प्रष्टव्यं महामुने । अस्मिन्नेव च तत्प्रश्ने यथावत्कथितं त्वया ॥ ६,२.३१ ॥ श्रीपराशर उवाच ततः प्रहस्य तानाह कृष्णद्वैपायनोमुनिः । विस्मयोत्फुल्लनयनांस्तापसांस्तानुपागतान् ॥ ६,२.३२ ॥ मयैष भवतां प्रश्रो ज्ञातो दिव्येन चक्षुषा । ततोहं वः प्रसंगेन साधुसाध्विति भाषितम् ॥ ६,२.३३ ॥ स्वल्पेन हि प्रत्यनेनधर्मःसिध्यति वै कलौ । नरैरात्मगुणांभोभिः क्षलिताखिलकिल्बिषैः ॥ ६,२.३४ ॥ शुद्रैश्च द्विजशुश्रूषातत्परैर्द्विजसत्तमाः । तथा स्त्रीभिरनाया सात्पतिशुश्रूषयैव हि ॥ ६,२.३५ ॥ ततस्त्रितयमप्येतन्मम धन्यतरं मतम् । धर्मसंपादने क्लेशो द्विजातीनां कृतादिषु ॥ ६,२.३६ ॥ भवद्भिर्यदभिप्रेतं तदेतत्कथितं मया । अपृष्टेनापि धर्मज्ञाः किमन्यत्क्रियतां द्विजाः ॥ ६,२.३७ ॥ श्रीपराशर उवाच ततःसंपूज्य ते व्यासं प्रशशंसुः पुनः पुनः । यथागतन्द्विजा जग्मुर्व्यासोक्तिकृतनिश्चयाः ॥ ६,२.३८ ॥ भवतोऽपि महाभाग रहस्यं कथितं मया । अत्यन्तदुष्टस्य कलेरयमेको महान्मुणः ॥ ६,२.३९ ॥ यच्चाहं भवता पृष्टो जगतामुपसंहृतिम् । प्राकृतामन्तरालां च तामप्येष वदामि ते ॥ ६,२.४० ॥ इति श्रीविष्णुमाहपुराणे षष्ठांशे द्वितीयोऽध्यायः (२) _____________________________________________________________ श्रीपराशर उवाच सर्वेषामेव भूतानां त्रिविधः प्रतिसंचरः । नैमित्तिकः प्राकृतिकः तथैवात्यन्तिको लयः ॥ ६,३.१ ॥ ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसंचरः । आत्यन्तिकस्तु मोक्षाख्यः प्राकृतो द्विपरार्धकः ॥ ६,३.२ ॥ मैत्रेय उवाच परार्धसंख्यां भगवन्ममाचक्ष्व यया तु सः । द्विगुणीकृतया ज्ञेयः प्राकृतः प्रतिसंचरः ॥ ६,३.३ ॥ श्रीपराशर उवाच स्थानात्स्थानं दशगुणमेकस्माद्रण्यते द्विज । ततोष्टादशमे भागे परार्धमभिधीयते ॥ ६,३.४ ॥ परार्धद्विगुणं यत्तु प्राकृतःस लयो द्विज । तदाव्यक्तेखिलं व्यक्तं स्वहेतौ लयमेति वै ॥ ६,३.५ ॥ निमेषो मानुषो योऽसौ मात्रामात्राप्रमाणतः । तैः पञ्चदशभिः काष्ठा त्रिंशत्काष्ठ कला स्मृता ॥ ६,३.६ ॥ नाडिका तु प्रमाणेन सा कला दश पञ्च च ॥ ६,३.७ ॥ उन्मानेनांभसःसा तु पलान्यर्धत्रयोदश । मागधेन तु मानेन जलप्रस्थस्तु स स्मृतः । हेममाषैः कृतच्छिद्रचतुर्भिश्चातुरङ्गुलैः ॥ ६,३.८ ॥ नाडिकाभ्यामथ द्वाभ्यां मुहूर्तो द्विजसत्तम । अहोरात्रं मुहुर्तास्तु त्रिंशन्मासो दिनैस्तथा ॥ ६,३.९ ॥ मासैर्द्वादशभिर्वर्षमहोरात्रं तुतद्दिवि । त्रिभिर्वर्षशतैर्वर्षं षष्ट्या चैवासुरद्विषाम् ॥ ६,३.१० ॥ तैस्तु द्वादशसाहस्त्रैश्चतुर्युगमुदाहृतम् । चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् ॥ ६,३.११ ॥ स कल्पस्तत्र मनवश्चतुर्दश महामुने । तदन्ते चैव मैत्रेय ब्राह्मो नेमित्तिको लयः ॥ ६,३.१२ ॥ तस्य स्वरूपमत्युग्रं मैत्रेय गदतो मम । शृणुष्व प्राकृतं भूयस्तव वक्ष्याम्यहं लयम् ॥ ६,३.१३ ॥ चतुर्युगसहस्रान्ते क्षीणप्राये महीतले । अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ॥ ६,३.१४ ॥ ततो यान्यल्पसाराणि तानि सत्त्वान्यशेषतः । क्षयं यान्ति मुनिश्रेष्ठ पार्थिवान्यनुपीजनात् ॥ ६,३.१५ ॥ ततः सभगवान्विष्णु रुद्ररूपधरोऽव्ययः । क्षयाय यतते कर्तुमात्मस्थाःसकलाः प्रजाः ॥ ६,३.१६ ॥ ततः स भगवान् विष्णुर्भानोः सप्तसु रश्मिषु । स्थितः पिबत्यशेषाणि जलानि मुनिसप्तम ॥ ६,३.१७ ॥ पीत्वांभांसि समस्तानि प्राणिभूमिगतान्यपि । शोषं नयति मैत्रेय समस्तं पृथिवीतलम् ॥ ६,३.१८ ॥ समुद्रान्सारितः शैलनदीप्रस्रवणानि च । पातालेषु च यत्तोयं तत्सर्वं नयति क्षयम् ॥ ६,३.१९ ॥ ततस्तस्यानुभावेन तोयाहारोपबृंहिताः । त एव रश्मयःसप्त जायन्ते सप्त भास्कराः ॥ ६,३.२० ॥ अधश्चोर्ध्वं च ते दीप्ता स्ततःसप्त दिवाकराः । दहन्त्यशषं त्रैलोक्यं सपातालतलं द्विज ॥ ६,३.२१ ॥ दह्यमानं तु तैर्दीप्तैस्त्रैलोक्यं द्विज भास्करैः । साद्रिनद्यर्णवाभोगं निस्नेहमभिजायते ॥ ६,३.२२ ॥ ततो निर्दग्धवृक्षांबुत्रैलोक्यमाखितं द्विज । भवत्येषा च वसुधा कूर्मपृष्ठोपमाकृतिः ॥ ६,३.२३ ॥ ततः कालाग्निरुद्रोऽसौ भूत्वा सर्वहरोऽनलः । शेषाहिश्वाससंभूतः पातालानि दहत्यधः ॥ ६,३.२४ ॥ पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् । भूमिमभ्येत्य सकलं बभस्ति वसुधातलम् ॥ ६,३.२५ ॥ भुवर्लोकं ततःसर्वं स्वर्लोकं च सुदारुणः । ज्वालामालामहावर्तस्तत्रैव परिवर्तते ॥ ६,३.२६ ॥ अंबरीषमिवाभाति त्रैलोक्यमखिलं तदा । ज्वालावर्तपरिवारमुपक्षीणचराचरम् ॥ ६,३.२७ ॥ ततस्तापपरीतास्तु लोकद्वयनिवासिनः । कृताधिकारागच्छन्ति महर्लोकं महामुने ॥ ६,३.२८ ॥ तस्मादपि महातापतप्ता लोकात्ततः परम् । गञ्च्छन्ति जनलोकं ते दशावृत्त्या परैषिणः ॥ ६,३.२९ ॥ ततो दग्ध्वा जगत्सर्वं रुद्ररूपीजनार्दनः । मुखनिश्वासजान्मेघान्करोति मुनिसत्तम ॥ ६,३.३० ॥ ततो गजकुलप्रख्यास्तडित्वन्तोऽतिनादिनः । उत्तिष्ठन्ति तथा व्योम्निघोराःसंवर्तका घनाः ॥ ६,३.३१ ॥ केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः । धूम्रवर्णा घनाः केचित्केचित्पीताः पयो धराः ॥ ६,३.३२ ॥ केचिद्रासभवर्णाभा लाक्षारसनिभास्तथा । केचिद्वैडूर्यसंकाशा इन्द्रनीलनिभाः क्वचित् ॥ ६,३.३३ ॥ शङ्खकुन्दनिभाश्चान्ये जात्यं जननिभाः परे । इन्द्रगोपनिभाः केचित्ततः शखिनिभास्तथा ॥ ६,३.३४ ॥ मनःशिलाभाः केचिद्वै हरितालनिभाः परे । चाषपत्रनिभाः केचिदुत्तिष्ठन्ते महाघनाः ॥ ६,३.३५ ॥ केचित्पुरवराकाराः केचित्पर्वतसन्निभाः । कूटागारनिभाश्चान्ये केचित्स्थलनिबा घनाः ॥ ६,३.३६ ॥ महारावा महाकायाः पूरयन्ति नभःस्थलम् । वर्षन्तस्ते महासारास्तमग्निमतिभैरवम् । शमयन्त्यखिलं विप्र त्रैलोक्यान्तरधिष्ठितम् ॥ ६,३.३७ ॥ नष्टे चाग्नौ च सततं वर्षमाणा ह्यहर्निशम् । प्लावयन्ति जगत्सर्वमंभोबिर्मुनिसत्तम ॥ ६,३.३८ ॥ धाराभिरतिमात्राभिः प्लावयित्वाखिलां भुवम् । भुवर्लोकं तथेवोर्धू प्लावयन्ति हि ते द्विज ॥ ६,३.३९ ॥ अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे । वर्षति ते महामेघा वर्षाणामधिकं शतम् ॥ ६,३.४० ॥ एवं भवति कल्पान्ते समस्तं मुनिसत्तम । वासुदेवस्य माहात्म्यान्नित्यस्य परमात्मनः ॥ ६,३.४१ ॥ इति श्रीविष्णुमहापुराणे षष्ठांशे तृतीयोऽध्यायः (३) _____________________________________________________________ श्रीपराशर उवाच सप्तर्शिस्थानामाक्रम्य स्थितेंभसि महामुने । एकार्णवं भवत्येतत्त्रैलोक्यमखिलं ततः ॥ ६,४.१ ॥ मुखनिश्वासजो विष्णोर्वायुस्ताञ्जलदांस्ततः । नाशयन्वाति मैत्रेय वर्षाणामपरं शतम् ॥ ६,४.२ ॥ सर्वभूतमयोऽचिन्त्यो भगवान्भूतभावनः । अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः ॥ ६,४.३ ॥ एकार्णवे ततस्तस्मिञ्छेषशय्यागतः प्रभुः । ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः ॥ ६,४.४ ॥ जनलोकगतैः सिद्धैः समकाद्यैरभिष्टुतः । ब्रह्मलोकगतैश्चैव चिन्त्यमानो मुमुक्षुभिः ॥ ६,४.५ ॥ आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः । आत्मानं वासुदेवाख्यं चिन्तयन्मधुसूदनः ॥ ६,४.६ ॥ एष नैमित्तिको नाम मैत्रेयः प्रतिसंचरः । निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः ॥ ६,४.७ ॥ यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत् । निमीलत्येतदखिलं मायाशय्यां गतेऽच्युते ॥ ६,४.८ ॥ पद्मयोनेर्दिनं यत्तु चतुर्युगसहस्रवत् । एकार्णवीकृते लोके तावती रात्रिरिष्यते ॥ ६,४.९ ॥ ततः प्रबुद्धो रात्र्यन्ते पुनःसृष्टिं करोत्यजः । ब्रह्मस्वरूपधृग्विष्णुर्यथा ते कथितं पुरा ॥ ६,४.१० ॥ इत्येष कल्पसंहारोऽवान्तरप्रलयो द्विज । नैमित्तिकस्ते कथितः प्राकृतः शृण्वतः परम् ॥ ६,४.११ ॥ अनावृष्ट्यादिसंपर्कात्कृते संक्षालने मुने । समस्तेष्वेव लोकेषु पातालेष्वखिलेषु च ॥ ६,४.१२ ॥ महदादेर्विकारस्य विशेषान्तस्य संक्षये । कृष्णेच्छाकारिते तस्मिन्प्रवृत्ते प्रतिसंचरे ॥ ६,४.१३ ॥ आपो ग्रसंति वै पूर्वं भूमेर्गन्धात्मकं गुणम् । आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥ ६,४.१४ ॥ प्रणष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिका । आपस्तदा प्रवृद्धास्तु वेगवत्यो महास्वनाः ॥ ६,४.१५ ॥ सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च । सलिलेनोर्मिमालेन आलोकान्तात्समन्ततः ॥ ६,४.१६ ॥ अपामपि गुणो यस्तु ज्योतिषा पीयते तु सः । नश्यन्त्यापस्ततस्ताश्च रसतन्मात्रसंक्षयात् ॥ ६,४.१७ ॥ ततश्चापो हृतरसाज्योतिषं प्राप्नुवन्ति वै । अग्नावस्थे तु सलिले तेजसा सर्वतो वृते ॥ ६,४.१८ ॥ स चाग्निः सर्वतो व्याप्य चादत्ते तज्जलं तथा । सर्वमापूर्यतेर्चिर्भिस्तदा जगदिदं शनैः ॥ ६,४.१९ ॥ अर्चिर्भिः संवृते तस्मिंस्तिर्यगूर्ध्वमधस्तदा । ज्योतिषोऽपि परं रूपं वायुरत्ति प्रभाकरम् ॥ ६,४.२० ॥ प्रलीने च ततस्तस्मिन्वायुभूतेऽखिलात्मनि । प्रनष्टे रूपतन्मात्रे हृतरूपो विभावसुः ॥ ६,४.२१ ॥ प्रशाम्यति तदाज्योतिर्वायुर्देधूयते महान् । निरा लोके तथा लोके वाय्ववस्थे च तेजसि ॥ ६,४.२२ ॥ ततस्तु मूलमासाद्य वायुःसंभवमात्मनः । ऊर्ध्वं चाधश्च तिर्यक्च दोधवीति दिशो दश ॥ ६,४.२३ ॥ वायोरपि गुणं स्पर्शमाकाशो ग्रसते ततः । प्रशाम्यति ततो वायुः खं तु तिष्ठत्यनावृतम् ॥ ६,४.२४ ॥ अरूपरसमस्पर्शमगन्धं न च मूर्तिमत् । सर्वमापूरयच्चैव सुमहात्तत्प्रकाशते ॥ ६,४.२५ ॥ भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै । अबिमानात्मको ह्येष भूतादिस्तामसःस्मृतः ॥ ६,४.२७ ॥ भीतादिं ग्रसते चापि महान्वे बुद्धिलक्षणः ॥ ६,४.२८ ॥ उर्वी महंश्च जगतः प्रतिन्तर्बाह्यतस्तथा ॥ ६,४.२९ ॥ एवं सप्त महाबुद्धे क्रमात्प्रकृतयःस्मृताः । प्रत्याहारे तु ताःसर्वाः प्रविशन्ति परस्परम् ॥ ६,४.३० ॥ येनेदमावृतं सर्वमण्डमप्सु प्रलीयते । सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ॥ ६,४.३१ ॥ उदकावरणं यत्तु ज्योतिषा पीयते तु तम् । ज्योतिर्वायौ लयं याति यात्याकाशे समीरमः ॥ ६,४.३२ ॥ आकाशं चैव भूतादिर्ग्रसते तं तथा महान् । महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विज ॥ ६,४.३३ ॥ गुमसाम्यमनुद्रिक्तमन्यूनं च महामुने । प्रोच्यते प्रकतिर्हेतुः प्रधानङ्कारणं परम् ॥ ६,४.३४ ॥ इत्येषा प्रकृतिःसर्वा व्यक्ताव्यक्तस्वरूपिणी । व्यक्तस्वरूपमव्यक्ते तस्मान्मैत्रेय लीयते ॥ ६,४.३५ ॥ एकः शुद्धोऽक्षरो नित्यःसर्वव्यापी तथा पुमान् । सोऽप्यंशःसर्वभूतस्य मैत्रेय परमात्मनः ॥ ६,४.३६ ॥ न संति यत्र सर्वेशे नामजात्यादिकल्पनाः । सत्तामात्रत्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ॥ ६,४.३७ ॥ तद्ब्रह्म परमं धाम परमात्मा स चेश्वरः । स विष्णुःसर्वमेवेदं यतो नावर्तते यतिः ॥ ६,४.३८ ॥ प्रकृतिर्या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लियते परमात्मनि ॥ ६,४.३९ ॥ परमात्मा च सर्वेषामाधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥ ६,४.४० ॥ प्रवृत्तं च निवृत्तं च द्विविधङ्कर्म वैदिकम् । ताभ्यामुभाभ्यां पुरुषैः सर्वमूर्तिःस इज्यते ॥ ६,४.४१ ॥ ऋग्यजुःसामभिर्मार्गैः प्रवृत्तेरिज्यते ह्यसौ । यज्ञेश्वरो यज्ञपुमान्पुरुषैः पुरुषोत्तमः ॥ ६,४.४२ ॥ ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स चेज्यते । निवृत्ते योगिभिर्मार्गे विष्णुर्मुक्तिफलप्रदः ॥ ६,४.४३ ॥ ह्रस्वदीर्घप्लुतैर्यत्तु किञ्चिद्वस्त्वभिधीयते । यच्च वाचामविषयं तत्सर्वं विष्णुरव्ययः ॥ ६,४.४४ ॥ व्यक्तःस एव चाव्यक्तःस एव पुरुषोत्तमः । परमात्मा च विश्वात्मा विश्वरूपधरोहरिः ॥ ६,४.४५ ॥ व्यक्ताव्यक्तात्मिका तस्मिन्प्रकृतिःसंप्रलीयते । पुरुषश्चापि मैत्रेय व्यापिन्यव्याहतात्मनि ॥ ६,४.४६ ॥ द्विपरार्धात्मकः कालः कथितो यो मया तव । तदहस्तस्य मैत्रेय विष्णोरीशस्य कथ्यते ॥ ६,४.४७ ॥ व्यक्ते च प्रकृतौ लीने प्रकृत्यां पुरुषे तथा । तत्र स्थिते निशा चास्य तत्प्रमाणा महामुने ॥ ६,४.४८ ॥ नैवाहस्तस्य न निशा नित्यस्य परमात्मनः । उपचारस्तथाप्येष तस्येशस्य द्विजोच्यते ॥ ६,४.४९ ॥ इत्येष तव मैत्रेय कथितः प्राकृतो लयः । आत्यन्तिकमथो ब्रह्मन्निबोध प्रतिसंचरम् ॥ ६,४.५० ॥ इति श्रीविष्णुमहापुराणे षष्ठांशे चतुर्थोऽध्यायः (४) _____________________________________________________________ श्रीपराशर उवाच आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः । उत्पन्नज्ञानवैराग्यं प्राप्नोत्यात्यन्तिकं लयम् ॥ ६,५.१ ॥ आध्यात्मिकोपि द्विविधः शरीरो मानसस्तथा । शरीरो बहुभिर्भेदैर्भिद्यते श्रुयतां च सः ॥ ६,५.२ ॥ शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शः श्वययुश्वासच्छर्द्यादिभिरनेकधा ॥ ६,५.३ ॥ तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञितैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥ ६,५.४ ॥ कामक्रोधभयद्वेषलोभमोहविषादजः । शोकासूयावमानेर्ष्यामात्सर्यादिमयस्तथा ॥ ६,५.५ ॥ मानसोऽपि द्विजश्रेष्ठ तापो भवति नैकधा । इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ ६,५.६ ॥ मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः । सरीसृपाद्यैश्च नृणां जायते चाधिभौतिकः ॥ ६,५.७ ॥ शीतवा तोष्णवार्षाबुबैद्युतादिसमुद्भवः । तापो द्विजवरश्रेष्ठैः कथ्यते चाधिदैविकः ॥ ६,५.८ ॥ गर्भजन्मजराज्ञानमृत्युनारकजं तथा । दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तम ॥ ६,५.९ ॥ सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते । उल्वसंवेष्टितो भुग्नपृष्ठग्रीवास्थिसंहतिः ॥ ६,५.१० ॥ अत्यम्लकटुतीक्ष्मोष्णलवणैर्मातृभोजनैः । अत्यन्ततापैरत्यर्थं वर्धमानातिवेदनः ॥ ६,५.११ ॥ प्रसारणाकुञ्चनादौ नाङ्गानां प्रभुरात्मनः । शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः ॥ ६,५.१२ ॥ निरुच्छ्वासः सचैतन्यः स्मरञ्जन्मशतान्यथ । आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः ॥ ६,५.१३ ॥ जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः । प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ ६,५.१४ ॥ अधोमुखो वै क्रियते प्रबलैः सूतिमारुतैः । क्लेशान्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः ॥ ६,५.१५ ॥ मुर्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना । विज्ञानभ्रंशमाप्नोति जातश्च मुनिसत्तम ॥ ६,५.१६ ॥ कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः । पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा ॥ ६,५.१७ ॥ कण्डूयनेऽपि चाशक्तः परिवर्तेप्यनीश्वरः । स्नानपानादिकाहारमप्याप्नोति परेच्छया ॥ ६,५.१८ ॥ अशुचिप्रस्तरे सुप्तः कीटद्रंशादिभिस्तथा । भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥ ६,५.१९ ॥ जन्मदुःखान्यनेकानि जन्मनोनन्तरिणी च । बालभावे यदा प्नोति ह्याधिभौतादिकानि च ॥ ६,५.२० ॥ अज्ञानतमसाच्छन्नो मूढान्तःकरणो नरः । न जानाति कुतः कोहं क्वाहं गन्ता किमात्मनः ॥ ६,५.२१ ॥ केनबन्धेन बद्धोहं कारणं किमकारणम् । किं कार्यं किमकार्यं वा किं वाच्यं किं च नोच्यते ॥ ६,५.२२ ॥ को धर्मः कश्च वाधर्मः कस्मिन्वर्तेऽथ वा कथम् । किं कर्तव्यमकर्तव्यं किं वा किङ्गुणदोषवत् ॥ ६,५.२३ ॥ एवं पशुसमैर्मुढैरज्ञानप्रभवं महत् । अवाप्यते नरैर्दुःखं शिश्रोदरपरायणैः ॥ ६,५.२४ ॥ अज्ञानं तामसो भावः कार्यारंभप्रवृत्तयः । अज्ञानिनां प्रवर्तन्ते कर्मलोपास्ततो द्विज ॥ ६,५.२५ ॥ नरकं कर्मणां लोपात्फलमाहुर्मनीषिणः । तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ ६,५.२६ ॥ जराजर्जरदेहश्च शिथिलावयवः पुमान् । विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ ६,५.२७ ॥ दूरप्रनष्टनयनो व्योमान्तर्गततारकः । नासाविवलनिर्यातलोमपुञ्जश्चलद्वपुः ॥ ६,५.२८ ॥ प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः । उत्सन्नजठराग्नित्वादल्पाहारोऽप्लचेष्टितः ॥ ६,५.२९ ॥ कृच्छ्राच्चङ्क्रमणोत्थानशयनासनचेष्टितः । मन्दीभवच्छ्रोत्रनेत्रःस्रवल्लालाविलाननः ॥ ६,५.३० ॥ अनायत्तैः समस्तैश्च करणेर्मरणोन्मुखः । तत्क्षणेप्यनुभूतानामस्मर्तऽखिलवस्तुनाम् ॥ ६,५.३१ ॥ सकृदुच्चारिते वाक्ये समुद्भूत महाश्रमः । श्वासकाशसमुद्भूतमहायासप्रजागरः ॥ ६,५.३२ ॥ अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी । भृत्यात्मपुत्रदाराणामवामानास्पदी कृतः ॥ ६,५.३३ ॥ प्रक्षीणाखिलशौचश्च विहाराहारसस्पृहः । हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥ ६,५.३४ ॥ अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् । संस्मरन्यौवने दीर्घं निश्वसत्यभितापितः ॥ ६,५.३५ ॥ एवमादीनि दुःखानि जरायामनुबूय वै । मरणे यानि दुःखानि प्राप्नोति शृणुतान्यपि ॥ ६,५.३६ ॥ श्लथद्ग्रीवाङ्घ्रिहस्तेऽथ व्याप्तो वेपथुना भृशम् । मुहुर्ग्लानिः परवशो मुहुर्ज्ञानलवान्वितः ॥ ६,५.३७ ॥ हिरण्यधान्यतनयभार्याभृत्यगृहादिषु । एते कथं भविष्यन्तीत्यतीव ममताकुलः ॥ ६,५.३८ ॥ मर्मभिद्भिर्भहारोगैः क्रकचैरिव दारुणैः । शरैरिवान्तकस्योग्रैश्छद्यमानासुबन्धनः ॥ ६,५.३९ ॥ परिवर्तितताराक्षो हस्तपादं मुहुः क्षिपन् । संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ॥ ६,५.४० ॥ निरुद्धकण्ठो दोषौघैरुदानश्वसापीडितः । तापेन महता व्याप्तस्तृषा चार्तस्तथा क्षुधा ॥ ६,५.४१ ॥ क्लेशादुत्क्रान्तिमाप्नोति यमकिङ्करपीडितः । ततश्च यातनादेहं क्लेशेन प्रतिपद्यते ॥ ६,५.४२ ॥ एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् । शृणुष्व नरके यानि प्राप्यन्ते पुरुषैर्मृतैः ॥ ६,५.४३ ॥ याम्यकिङ्करपाशादिग्रहणं दण्डताडनम् । यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ॥ ६,५.४४ ॥ करंभवालुकावह्नियन्त्रशस्त्रासिभीषणे । प्रत्येकं नरकेयाश्च यातना द्विज दुःसहाः ॥ ६,५.४५ ॥ क्रकचैः पाट्यमानानां मूषायां चापि दह्यताम् । कुठारैः कृत्यमानानां भूमौ चापि निखन्यताम् ॥ ६,५.४६ ॥ शूलेष्वारोप्यमाणानं व्याघ्रवक्त्रे प्रवेश्यताम् । गृध्रैः संभक्ष्यमाणानां द्वीपिभिश्चोपभूज्यताम् ॥ ६,५.४७ ॥ क्वाथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे । उच्चान्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ ६,५.४८ ॥ नरके यानि दुःखानि पापहेतूद्भवानि वै । प्राप्यन्ते नारकैर्विप्र तेषां संख्या न विद्यते ॥ ६,५.४९ ॥ न केवलं द्विजश्रेष्ठ नरके दुःखपद्धतिः । स्वगंपि पातभीतस्त क्षयिष्णोर्नास्ति निर्वृतिः ॥ ६,५.५० ॥ पुनश्च गर्भे भवति जायते च पुनः पुनः । गर्भे विलीयते भूयो जायमानोऽस्तमेति वै ॥ ६,५.५१ ॥ जातमात्रश्च म्रियते बालभावेऽथ यौवने । मध्यमं वा वयः प्राप्य वार्धके वाथ वा मृतिः ॥ ६,५.५२ ॥ यावज्जीवति तावच्च दुःखैर्नानाविधैः प्लुतः । तं तु कारणपक्ष्मौघैरास्ते कार्पासबीजवत् ॥ ६,५.५३ ॥ द्रव्यनाशे तथोत्पत्तौ पालने च सदा नृणाम् । भवन्त्यनेकदुःखानि तथैवेष्टविपत्तिषु ॥ ६,५.५४ ॥ यद्यत्प्रीतिकरं पुंसां वस्तु मैत्रेय जायते । तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ॥ ६,५.५५ ॥ कलत्रपुत्रमित्रार्थगृहक्षेत्रधनादिकैः । क्रियते न तथा भूरि सुखं पुंसां यथा सुखम् ॥ ६,५.५६ ॥ इति संसारदुःखार्कतापतापितचेतसाम् । विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् ॥ ६,५.५७ ॥ तदस्य त्रिविधस्तऽपि दुःखजातस्य वै मम । गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ॥ ६,५.५८ ॥ निरस्तातिशयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ ६,५.५९ ॥ तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः । तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने ॥ ६,५.६० ॥ आगमोत्थं विवेकाच्च द्विधा ज्ञानं तदुच्यते । शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥ ६,५.६१ ॥ अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् । यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे विवेकजम् ॥ ६,५.६२ ॥ मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम । तदेतच्छ्रूयतामत्र संबन्धे गदतो मम ॥ ६,५.६३ ॥ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ६,५.६४ ॥ द्वे वै विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः । परया त्वक्षरप्राप्तिरृग्वेदादिमयापरा ॥ ६,५.६५ ॥ यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् । अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम् ॥ ६,५.६६ ॥ विभु सर्वगतं नित्यं भूतयोनिरकारणम् । व्याप्य व्याप्तं यतः सर्वं यद्वै पश्यन्ति सूरयः ॥ ६,५.६७ ॥ तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकांक्षिभिः । श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ ६,५.६८ ॥ तदेव भगवद्वाच्यं स्वरूपं परमात्मनः । वाचको भगवच्छब्दस्तस्याद्यस्वाक्षयात्मनः ॥ ६,५.६९ ॥ एवं निगदितार्थस्त तत्तत्त्वं तस्य तत्त्वतः । ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम् ॥ ६,५.७० ॥ अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विज । पूजायां भगवच्छब्दः क्रियते ह्युपचारतः ॥ ६,५.७१ ॥ शुद्धे महाविभूत्वाख्ये परे ब्रह्मणि शब्दिते । मैत्रेय भगवच्छब्दःसर्वकारणकारणे ॥ ६,५.७२ ॥ संभर्तेति तथा भर्ता भकारोर्थद्वयान्वितः । नेता गमयता स्रष्टा गकारार्थस्तथा मुने ॥ ६,५.७३ ॥ ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ ६,५.७४ ॥ वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि । स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ ६,५.७५ ॥ एवमेष महाञ्छब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ ६,५.७६ ॥ तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण त्वन्यत्र ह्युपचारतः ॥ ६,५.७७ ॥ उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामाविद्यां च स वाच्यो भगवानिति ॥ ६,५.७८ ॥ ज्ञानशक्तिबलैश्वयवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्याति विना हेयैर्गुणादिभिः ॥ ६,५.७९ ॥ सर्वाणि तत्र भूतानि वसांति परमात्मनि । भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ॥ ६,५.८० ॥ खाण्डिक्यजनकायाह पृष्टः केशिध्वजः पुरा । नाभव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ॥ ६,५.८१ ॥ भूतेषु वसते सोंऽतर्वसंत्यत्र च तानि यत् । धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ ६,५.८२ ॥ स सर्वभूतप्रकृतिं विकारान्गुणादिदोशांश्च मुने व्यतीतः । अतीतसर्वावरणोखिलात्मा तेनास्तृतं यद्भुवनान्तराले ॥ ६,५.८३ ॥ समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशावृतभूतवर्गः । इच्छागृहीताभिमतोरुदेहःसंसाधिताशेषजगद्वितो यः ॥ ६,५.८४ ॥ तेजोबलैश्वर्यमहावबोध सुवीर्यशक्त्यादिगुणैकराशिः । परः पराणां सकला न यत्र क्लेशादयःसंति परावरेशे ॥ ६,५.८५ ॥ स ईश्वरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपः । सर्वेश्वरःसर्वदृक्सर्वविच्च समस्तशक्तिः परमेश्वराख्यः ॥ ६,५.८६ ॥ संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् । संदृश्यते वाप्यवगम्यते वा तज्ज्ञानमज्ञानमतोन्यदुक्तम् ॥ ६,५.८७ ॥ इति श्रीविष्णुमहापुराणे षष्ठांशे पञ्चमोऽध्यायः (५) _____________________________________________________________ श्रीपराशर उवाच स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः । तत्प्राप्तिकारणं ब्रह्म तदेतदिति पठ्यते ॥ ६,६.१ ॥ स्वाध्यायाध्योगमासीत योगात्स्वाध्यायमावसेत् । स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥ ६,६.२ ॥ तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथा परम् । न मां स चक्षुषा द्रष्टुं ब्रह्मभूतःस शक्यते ॥ ६,६.३ ॥ मैत्रेय उवाच भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद । ज्ञाते यत्राखिलाधारं पश्येयं परमेश्वरम् ॥ ६,६.४ ॥ श्रीपराशर उवाच यथा केशिध्वजः प्राह खाण्डिक्याय महात्मने । नजकाय पुरा योग तमहं कथयामि ते ॥ ६,६.५ ॥ मैत्रेय उवाच खाण्डिक्य कोऽभवद्ब्रह्मन्को वा केशिध्वजः कृती । कथं तयोश्च संवादो योगसंबन्धकारणात् ॥ ६,६.६ ॥ श्रीपराशर उवाच धर्मध्वजो वै जनक स्तस्य पुत्रोऽमितध्वजः । कृतध्वजश्च नाम्नासीत्सदाध्यात्मरतिर्नृपः ॥ ६,६.७ ॥ कृतध्वजस्य पुत्रोऽभूत्ख्यातः केशिध्वजो नृपः । पुत्रोमितध्वजस्यापि खाण्डिक्यजनकोऽभवत् ॥ ६,६.८ ॥ कर्ममार्गेण खाण्डिक्यः पृतिव्यामभवत्पतिः । केशिध्वजोऽप्यतीवासीदात्मविद्याविशारदः ॥ ६,६.९ ॥ तावुभावपि चैवास्तां विजिगीषू परस्परम् । केशिध्यजेन खाण्डिक्यःस्वराज्यादवरोपितः ॥ ६,६.१० ॥ पुरोधसा मन्त्रिभिश्च समवेतोऽल्पसाधनः । राज्यान्निराकृतःसोऽथ दुर्गारण्यचरोऽभवत् ॥ ६,६.११ ॥ इयाह सोऽपि सुबहून्यज्ञाञ्ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्त्तु मृत्युमविद्यया ॥ ६,६.१२ ॥ एकदा वर्त्तमानस्य यागो योगविदां वर । घर्मधेनुं जघानोग्रः शार्दुलो विजने वने ॥ ६,६.१३ ॥ ततो राजा हतां श्रुत्वा धनुं व्याघ्रेण चर्त्विजः । प्रायश्चितं स पप्रच्छ किमत्रेति विधीयताम् ॥ ६,६.१४ ॥ तेप्यूचुर्न वयं विद्म कशेरुः पृच्छतामिति । कशेरुरपि तेनोक्तस्तथैव प्राह भार्गवम् ॥ ६,६.१५ ॥ शुनकं पृच्छ राजैन्द्र नाहं वेद्मि स वेत्स्यति । स गत्वा कमपृच्छच्च सोऽप्याह शृणु यन्मुने ॥ ६,६.१६ ॥ न केशरुर्न चैवाहं न चैकःसांप्रतं भुवि । वेत्त्येक एव त्वच्छत्रुः खाण्डिक्यो यो जितस्त्वया ॥ ६,६.१७ ॥ स चाह तं व्रजाम्येष प्रष्टुमात्मरीपुं मुने । प्राप्त एव महायज्ञो यदि मां स हनिष्यति ॥ ६,६.१८ ॥ प्रायश्चित्तमशेषेण स चेत्पृष्टो वदिष्यति । ततश्चाविकलो योगो मुनिश्रेष्ठ भविष्यति ॥ ६,६.१९ ॥ श्रीपराशर उवाच इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः । वनं जगाम यत्रास्ते स खाण्डिक्यो महामतिः ॥ ६,६.२० ॥ तमापतन्तमालोक्य खाण्डिक्यो रिपुमात्मनः । प्रोवाच क्रोधताम्राक्षःसमारोपितकार्मुकः ॥ ६,६.२१ ॥ खाण्डिक्य उवाच कृष्णाजिनं त्वं कवचमाबध्यास्मान्हनिष्यसि । कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति ॥ ६,६.२२ ॥ मृगाणां वद पृष्ठेषु मूढ कृष्णाजिनं न किम् । येषां मया त्वाय चोग्राः प्रहिताः शितसायकाः ॥ ६,६.२३ ॥ स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे । आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः ॥ ६,६.२४ ॥ केशिध्वज उवाच खाण्डिक्य संशयं प्रष्टुं भवन्तमहामागतः । न त्वां हन्तुं विचार्यैतत्कोपं बाणं विमुञ्च वा ॥ ६,६.२५ ॥ श्रीपराशर उवाच ततःस मन्त्रिभिः सार्धमेकान्ते सपुरोहितः । मन्त्रयामास खाण्डिक्यःसर्वैरेव महामतिः ॥ ६,६.२६ ॥ तमूचुर्मत्रिणो वध्यो रिपुरेष वशं गतः । हतेऽस्मिन् पृथिवी सर्वा तव वश्या भविष्यति ॥ ६,६.२७ ॥ खाण्डिक्यश्चाह तान्सर्वानेवमेतन्न संशयः । हतेस्मिन्पृतिवी सर्वा मम वश्या भविष्यति ॥ ६,६.२८ ॥ परलोकजयस्तस्य पृथिवी सकला मम । न हन्मि चेल्लोकजयो मम तस्य वसुंधरा ॥ ६,६.२९ ॥ नाहं मन्ये लोकजयादधिका स्याद्वसुंधरा । परलोकजयोऽनन्तःस्वल्पकालो महीजयः ॥ ६,६.३० ॥ तस्मान्नैनं हनिष्यामि यत्पृच्छति वदामि तत् ॥ ६,६.३१ ॥ श्रीपराशर उवाच ततस्तमब्युपेत्याह खाण्डिक्यजनको रिपुम् । प्रष्टव्यं यत्त्वाय सर्वं तत्पृच्छस्व वदाम्यहम् ॥ ६,६.३२ ॥ श्रीपराशर उवाच ततः सर्वं यथावृत्तं घर्मधेनुवधं द्विज । कथांयत्वा स पप्रच्छ प्रायश्तित्तं हि तद्गतम् ॥ ६,६.३३ ॥ स चाचष्ट यथान्यायं द्विज केशिध्वजाय तत् । प्रायश्चित्तमशेषेण यद्धै तत्र विधीयते ॥ ६,६.३४ ॥ विदितार्थःस तेनैव ह्यनुज्ञातो महात्मना । यागभूमिमुपागम्य चक्रे सर्वाः क्रियाः क्रमात् ॥ ६,६.३५ ॥ क्रमेण विधिवद्यागं नीत्वा सोऽवभृथाप्लुतः । कृतकृत्यस्ततो भूत्वा चिन्तयामास पार्थिवः ॥ ६,६.३६ ॥ पूजिताश्च द्विजाःसर्वे सदस्या मानिता मया । तथैवार्थिजनोऽप्यर्थैर्योऽर्जितोऽभिमतैर्मया ॥ ६,६.३७ ॥ यथार्हमस्य लोकस्य मया सर्वं विचेष्टितम् । अनिष्पन्नक्रियं चेतस्तथापि मम किं यथा ॥ ६,६.३८ ॥ इत्थं संचिन्तयन्नैव सस्मार स महीपतिः । खाण्डिक्याय न दत्तेति मया वै गुरुदक्षिणा ॥ ६,६.३९ ॥ स जगाम तदा भूयो रथमारुह्य पार्थिवः । मैत्रेय दुर्गगहनं खाण्डिक्यो यत्र संस्थितः ॥ ६,६.४० ॥ खाण्डिक्योऽपि पुनर्दृष्ट्वा तमायान्तं धृतायुधम् । तस्थौ हन्तुं कृतमतिस्तमाह स पुनर्नृपः ॥ ६,६.४१ ॥ भो नाहं तेऽपराधाय प्राप्तः खाण्डिक्य मा क्रुद्धाः । गुरोर्निक्रयदानाय मामवेहि त्वमागतम् ॥ ६,६.४२ ॥ निष्पादितो मया यागः सम्यक्त्वदुपदेशतः । सोऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् ॥ ६,६.४३ ॥ श्रीपराशर उवाच भूयस्य मन्त्रिभिः सार्धं मन्त्रयामास पार्थिवः । गुरुनिष्क्रयकामोऽयं किं मया प्रार्थ्यतामिति ॥ ६,६.४४ ॥ तमूचुर्मत्रिणो राज्यमशंषं प्रार्थ्यतामयम् । शत्रिभिः प्रार्थ्यते राज्यमना यासितसैनिकैः ॥ ६,६.४५ ॥ प्रहस्य तानाह नृपःस खाण्डिक्यो महामतिः । स्वल्पकालं महीपाल्यं मादृशैः प्रार्थ्यते कथम् ॥ ६,६.४६ ॥ एवमेतद्भवन्तोऽत्र ह्यर्थसाधनमन्त्रिणः । परमार्थः कथं कोऽत्र यूयं नात्र विचक्षणाः ॥ ६,६.४७ ॥ श्रीपराशर उवाच इत्युक्त्वा समुपेत्यैनं स तु केशिध्वजं नृपः । उवाच किमवश्यं त्वं ददासि गुरुदक्षिणाम् ॥ ६,६.४८ ॥ बाढमित्येव तेनोक्तः खाण्डिक्यस्तमथाब्रवीत् । भवानद्यात्म विज्ञानपरमार्थविचक्षणः ॥ ६,६.४९ ॥ यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः । तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय ॥ ६,६.५० ॥ इति श्रीविष्णुमहापुराणे षष्ठांशे षष्ठोध्यायः (६) _____________________________________________________________ केशिध्वज उवाच न प्रार्थितं त्वया कस्मादस्मद्राज्यमकण्टकम् । राज्यलाभाद्विना नान्यत्क्षत्रियाणा मतिप्रियम् ॥ ६,७.१ ॥ खाण्डिक्य उवाच केशिध्वज निबोध त्वं मया न प्रार्थितं यतः । राज्यमेतदशेषं ते यत्र गृध्नन्त्यपण्डिताः ॥ ६,७.२ ॥ क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् । वधश्च धर्मयुद्धेन स्वराज्यपरिपन्थिनाम् ॥ ६,७.३ ॥ तत्राशक्तस्य मे दोषो नैवास्त्यपहृते त्वया । बन्धायैव भवत्येषा ह्यविद्याप्यक्रमोज्झिता ॥ ६,७.४ ॥ अल्पोपभोगलिप्सार्थमियं राज्यस्पृहा मम । अन्येषां दोषज सैव धर्मं वै नानुरुध्यते ॥ ६,७.५ ॥ न याच्ञा क्षत्रबन्धूनां धर्मयैतत्सतां मतम् । अतो न याचितं राज्यमविद्यान्तर्गतं तव ॥ ६,७.६ ॥ राज्ये गृध्नन्त्यविद्वांसो ममत्वाहृतचेतसः । अहंमानमहापानमदमत्ता न मादृशाः ॥ ६,७.७ ॥ श्रीपराशर उवाच प्रहृष्टःसाध्विति ततः प्राह केशिध्वजो नृपः । खाण्डिक्यजनकं प्रीत्या श्रूयतां वचनं मम ॥ ६,७.८ ॥ केशिध्वज उवाच अहं ह्यविद्यया कृत्युं तर्तुकामः करोमि वै । राज्यं यागांश्च विविधान्योगैः पुण्यक्षयं तथा ॥ ६,७.९ ॥ तदिदं ते मनो दिष्ट्या विवेकैश्वर्यतां गतम् । तच्छ्रूयतामविद्यायाःस्वरूपं कुलनन्दन ॥ ६,७.१० ॥ अनात्मन्यात्मबुद्धिर्या चास्वे स्वमिति या मतिः । संसारतरुसंभूतिबीजमेतद्द्विधा स्थितम् ॥ ६,७.११ ॥ पञ्चभूतात्मके देहे देही मोहतमोवृतः । अहं ममैतदित्युच्चैः कुरुते कुमतिर्मतिम् ॥ ६,७.१२ ॥ आकाशवाय्वग्निजलपृथिवीभ्यः पृथक्स्थिते । आत्मन्यात्ममयं भावं कः करोति कलेवरे ॥ ६,७.१३ ॥ कलेवरोपभोग्यंहि गृहक्षेत्रादिकं च कः । अदेहे ह्यात्मनि प्राज्ञे ममेदमिति मन्यते ॥ ६,७.१४ ॥ इत्थं च पुत्त्रपौत्त्रेषु तद्देहोत्पादितेषु कः । करोति पण्डितःस्वाम्यमनात्मनि कलेवरे ॥ ६,७.१५ ॥ सर्वं देहोपभोगाय कुरुते कर्म मानवः । देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परम् ॥ ६,७.१६ ॥ मृण्मयं हि यथा गेहं लिप्यते वै मृदंभसा । पार्थिवोऽयं तथा देहो मृदंब्वालेपनस्थितः ॥ ६,७.१७ ॥ पञ्जभूतत्मकैर्भोगोः पञ्चभूतात्मकं वपुः । आप्यायते यदि ततः पुंसो भोगोऽत्र किं कृतः ॥ ६,७.१८ ॥ अनेकजन्मसाहस्रीं संसारपदवीं व्रजन् । मोहश्रमं प्रयातोऽसौ वासनरेमुकुण्ठितः ॥ ६,७.१९ ॥ प्रक्षाल्यते यदा सोस्य रेणुज्ञानोष्णवारिणा । तदा संसारपान्थस्य याति मोहश्रमः शमम् ॥ ६,७.२० ॥ मोहश्रमे शमं याते स्वस्थान्तःकरणः पुमान् । अनन्यातिशयाबाधं परं निर्वाणमृच्छति ॥ ६,७.२१ ॥ निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः । दुःखाज्ञानमया धर्माः प्रकृतेस्ते तु नात्मनः ॥ ६,७.२२ ॥ जलस्य नाग्निसंसर्गस्थालीसंगात्तथापि हि । शब्दोद्रेकादिकान्धर्मांस्तत्करोति यथा नृप ॥ ६,७.२३ ॥ तथात्मा प्रकृतेःसंगादहंमानादिदूषितः । भजते प्राकृतान् धर्मानन्यस्तेभ्यो हि सोऽव्ययः ॥ ६,७.२४ ॥ तदेतत्कथितं बीजमविद्याया मया तव । क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ॥ ६,७.२५ ॥ खाण्डिक्य उवाच तं ब्रवीहि महाभाग योगं योगविदुत्तम । विज्ञातयोगशास्त्रार्थस्त्वमस्यां निमिसंततौ ॥ ६,७.२६ ॥ केशिध्वज उवाच योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम । यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥ ६,७.२७ ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासंगि मुक्त्यै निर्विषयं मनः ॥ ६,७.२८ ॥ विषयेभ्यः समाहृत्य विज्ञानात्मामनो मुनिः । चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् ॥ ६,७.२९ ॥ आत्मभावं नयत्येनं तद्बह्य ध्यायिनं मुनिम् । विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा ॥ ६,७.३० ॥ आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । तस्य ब्रह्मणि संयोगो योग इत्यभिधीयते ॥ ६,७.३१ ॥ एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणः । यस्य योगःस वै योगी मुमुक्षुरभिधीयते ॥ ६,७.३२ ॥ योगयुक्प्रथमं योगी युञ्जानो ह्यभिधीयते । विनिष्पन्नसमाधिस्तु परं ब्रह्मोपलब्धिमान् ॥ ६,७.३३ ॥ यद्यन्तरायदोषेण दूष्यते चास्य मानसम् । जन्मान्तरैरभ्यसतो मुक्तिः पुर्वस्य जायते ॥ ६,७.३४ ॥ विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ॥ ६,७.३५ ॥ ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् । सेवेत योगी निष्कामो योग्यतां स्वमनो नयन् ॥ ६,७.३६ ॥ स्वाध्यायशौचसंतोषतपांसि नियतात्मवान् । कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणंमनः ॥ ६,७.३७ ॥ एते यमाःसनियमाः पञ्च पञ्च च कीर्तिताः । विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ॥ ६,७.३८ ॥ एकं भद्रासनादीनां समास्थाय गुणैर्युतः । यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः ॥ ६,७.३९ ॥ प्राणाख्यमनिलं वश्यमभ्यासात्कुरुते तु यत् । प्राणायामःसविज्ञेयःसबीजोऽबीज एव च ॥ ६,७.४० ॥ परस्परेणाभिभवं प्राणापानौ यथानिलौ । कुरुतःसद्विधानेन तृतीयःसंयमात्तयोः ॥ ६,७.४१ ॥ तस्य चालंबनवतः स्थूलरूपं द्विजोत्तम । आलंबनमनन्तस्य योगिनोऽभ्यसतः स्मृतम् ॥ ६,७.४२ ॥ शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ॥ ६,७.४३ ॥ वश्यता परमा तेन जायतेति चलात्मनाम् । इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ ६,७.४४ ॥ प्राणयामेन पवने प्रत्याहारेण चेन्द्रिये । वशीकृते ततः कुर्यात्स्थितं चेतः शुभाश्रये ॥ ६,७.४५ ॥ खाडिक्य उवाच कथ्यतां मे महाभागा चेतसो यः शुभाश्रयः । यदाधारमशेषं तद्धन्ति दोषमलोद्भवम् ॥ ६,७.४६ ॥ केशिध्वाज उवाच आश्रयश्चेतसो ब्रह्म द्विधा तच्चस्वभावतः । भूप मूर्तममूर्तं च परं चापरमेव च ॥ ६,७.४७ ॥ त्रिविधा भावना भूप विश्वमेतन्निबोधताम् । ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥ ६,७.४८ ॥ कर्मभावात्मिका ह्येकाब्रह्मभावात्मिका परा । उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥ ६,७.४९ ॥ सनन्दनादयो ये तु ब्रह्मभावनया युताः । कर्मभावनया चान्ये देवाद्याः स्थावरावराः ॥ ६,७.५० ॥ हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा । बोधाधिकारयुक्तेषु विद्यते भावभावना ॥ ६,७.५१ ॥ अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु । विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृणाम् ॥ ६,७.५२ ॥ प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ ६,७.५३ ॥ तच्च विष्णोः परं रूपमरूपाख्यमनुत्तमम् । विश्वस्वरूपवैरूप्यलक्षणं परमात्मनः ॥ ६,७.५४ ॥ न तद्योगयुजा शक्यं नृप चिन्तयितुंयतः । ततःस्थूलं हरे रूपं चिन्तयेद्विश्वगोचरम् ॥ ६,७.५५ ॥ हिरण्यगर्भो भगवान्वासुदेवः प्रजापतिः । मरुतो वसवो रुद्रा भास्करास्तारका ग्रहाः ॥ ६,७.५६ ॥ गन्धर्वयक्षदैत्याद्यःसकला देवयोनयः । मनुष्याः पशवः शैलाःसमुद्राःसरितो द्रुमाः ॥ ६,७.५७ ॥ भूप भूतान्यशेषाणि भूतानां ये च हेतवः । प्रधानादिविशेषान्तं चेतनाचेतनात्मकम् ॥ ६,७.५८ ॥ एकपादं द्विपादं च बहुपादमपादकम् । मूर्तमेतद्धरे रूपं भावनात्रितयात्मकम् ॥ ६,७.५९ ॥ एतत्सर्वमिदं विश्वं जगदेतच्चराचरम् । परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम् ॥ ६,७.६० ॥ विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा । अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ ६,७.६१ ॥ यया क्षेत्रज्ञशक्तिःसा वेष्टिता नृपसर्वगा । संसारतापानखिलानवाप्रोत्यतिसंततान् ॥ ६,७.६२ ॥ तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता । सर्वभूतेषु भूपाल तारतम्येनलक्ष्यते ॥ ६,७.६३ ॥ अप्राणवत्सुस्वल्पा सा स्थावरेषु ततोऽधिका । सरीसृपेषु तेभ्योपि ह्यतिशक्त्या पतत्त्रिषु ॥ ६,७.६४ ॥ पातत्त्रिंभ्यो मृगास्तेभ्यस्तच्छक्त्या पशवोऽधिकाः । पशुभ्यो मनुजाश्चातिशक्त्या पुंसः प्रभाविताः ॥ ६,७.६५ ॥ तेभ्योपि नागगन्धर्वयक्षाद्या देवता नृप ॥ ६,७.६६ ॥ शक्रःसमस्तदेवेभ्यस्ततश्चातिप्रजापतिः । हिरण्यगर्भोऽपि ततः पुंसः शक्त्युपलक्षितः ॥ ६,७.६७ ॥ एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव । यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ॥ ६,७.६८ ॥ द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते । अमूर्तं ब्रह्मणो रूपं यत्सदित्यु च्यते बुधैः ॥ ६,७.६९ ॥ समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ॥ ६,७.७० ॥ समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया ॥ ६,७.७१ ॥ जगतामुपकाराय न सा कर्मनिमित्तजा । चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ॥ ६,७.७२ ॥ तद्रूपं विश्वरूपस्य तस्य योगयुजा नृप । चिन्त्यमात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम् ॥ ६,७.७३ ॥ यथाग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ ६,७.७४ ॥ तस्मात्समस्तशक्तीनामाधारे तत्र चेतसः । कुर्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ॥ ६,७.७५ ॥ शुभाश्रयस्य चित्तस्य सर्वगस्याचलात्मनः । त्रिभावभाघनातीतो मुक्तये योगिनो नृप ॥ ६,७.७६ ॥ अन्ये तु पुरुषव्याघ्र चेतसो ये व्यापाश्रयाः । अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ॥ ६,७.७७ ॥ मूर्तं भगवतो रूपं सर्वापाश्रयनिस्पृहम् । एषा वै धारण प्रोक्ता यच्चित्तं तत्र धार्यते ॥ ६,७.७८ ॥ यच्च मूर्तं हरे रूपं यादृक्चिन्त्यं नराधिप । तच्छ्रूयतामनाधारा धारमा नोपपद्यते ॥ ६,७.७९ ॥ प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम् । सुकपोलं सुविस्तीर्णललाटफलकोज्ज्वलम् ॥ ६,७.८० ॥ समकर्णान्तविन्यस्तचारुकुण्डलभूषणम् । कंबुग्रीवं सुवीस्तीर्णश्रीवत्सांकितवक्षसम् ॥ ६,७.८१ ॥ वलित्रिभङ्गिना मग्ननाभिना ह्युदरेण च । प्रलंबाष्टभुजं विष्णुमथवापि चतुर्भुजम् ॥ ६,७.८२ ॥ समस्थितोरुजङ्घं च सुस्थिताङ्घ्रिवरांबुजम् । चिन्तयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम् ॥ ६,७.८३ ॥ किरीटहारकेयूरकटकादिविभूषितम् ॥ ६,७.८४ ॥ शार्ङ्गशङ्खगदाखड्गचक्राक्षवलयान्वितम् । वरदाभयहस्तं च मुद्रिकारत्नभूषितम् ॥ ६,७.८५ ॥ चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् । तावद्यावदृढीभूता तत्रैव नृप धारणा ॥ ६,७.८६ ॥ व्रजतस्तिष्ठतोन्यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चित्तत्सिद्धां मन्येत तां तदा ॥ ६,७.८७ ॥ ततः शङ्खगदाचक्रशर्ङ्गीदिरहितं बुधः । चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥ ६,७.८८ ॥ सा यदा धारणा तद्वदवस्थानवती ततः । किरिटकेयूरमुखैर्भूषणै रहितं स्मरेत् ॥ ६,७.८९ ॥ तदेकावयवं देवं चेतसा हि पुनर्बुधः । कुर्यात्ततोऽवयविनि प्रणिधानपरो भवेत् ॥ ६,७.९० ॥ तद्रूपप्रत्यया चैका संततिश्चान्यनिःस्पृहा । तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ॥ ६,७.९१ ॥ तस्यैव कल्पनाहीनं स्वरूपग्रहणं हियत् । मनसा ध्याननिष्पाद्यं समाधिःसोऽभिधीयते ॥ ६,७.९२ ॥ विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव । प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ॥ ६,७.९३ ॥ क्षेत्रज्ञः करणी ज्ञानं करणं तस्य तेन तत् । निष्पाद्य मुक्तिकार्यं वै कृतकृत्यं निवर्तते ॥ ६,७.९४ ॥ तद्भावभावमापन्नस्ततोऽसौ परमात्मना । भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ ६,७.९५ ॥ विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदम संतं कः करीष्यति ॥ ६,७.९६ ॥ इत्युक्तस्ते मया योगः खाण्डिक्य परिपृच्छतः । संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ॥ ६,७.९७ ॥ खाण्डिक्य उवाच कथिते योगसद्भावे सर्वमेव कृतं मम । तवोपदेशेनाशेषो नष्टश्चित्तमलो यतः ॥ ६,७.९८ ॥ ममेति यन्मया चोक्तमसदेतन्न चान्यथा । नरेद्र गदितुं शक्यमपि विज्ञेयवेदिभिः ॥ ६,७.९९ ॥ अहं ममेत्यविद्येयं व्यवहारस्तथानयोः । परमार्थस्त्वसंलापो गोचरे वचसां न यः ॥ ६,७.१०० ॥ तद्गच्छ श्रेयसे सर्वं ममैतद्भवता कृतम् । यद्विमुक्तिप्रदो योगः प्रोक्तः केशिध्वजाव्ययः ॥ ६,७.१०१ ॥ श्रीपराशर उवाच यथार्हं पूजया तेन खाण्डिक्येन स पूजितः । आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः ॥ ६,७.१०२ ॥ खाण्डिक्योऽपि सुतं कृत्वा राजानं योगसिद्दये । वनं जगाम गोविन्दे विनिवेशितमानसः ॥ ६,७.१०३ ॥ तत्रैकान्तमतिर्भूत्वा यमादिगुणसंयुतः । विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् ॥ ६,७.१०४ ॥ केशिध्वजो विमुक्त्यर्थं स्वकर्मक्षपणोन्मुखः । बुभुजे विषयान्कर्म चक्रे चानभिसंहितम् ॥ ६,७.१०५ ॥ अकल्याणोपभोगैश्च क्षीणपापोऽमलस्तथा । अवाप सिद्धिमत्यन्तां तापक्षयफलां द्विज ॥ ६,७.१०६ ॥ इति श्रीविष्णुमहापुराणे षष्ठांशे सप्तमोऽध्यायः (७) _____________________________________________________________ श्रीपराशर उवाच इत्येष कथितःसम्यक्तृतीयः प्रतिसंचरः । आत्यन्तिको विमुक्तिर्या लयो ब्रह्मणि शाश्वते ॥ ६,८.१ ॥ सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । वंशानुचरितं चैव भवतो गदितं मया ॥ ६,८.२ ॥ पुरामं बैष्णवं चैतत्सर्वकिल्बिषनाशनम् । विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥ ६,८.३ ॥ तुभ्यं यथावन्मैत्रेय प्रोक्तं शुश्रुषवेऽव्ययम् । यदन्यदपि वक्तव्यं तृत्पृच्छाद्य वदामि ते ॥ ६,८.४ ॥ मैत्रेय उवाच भगवन्कथितं सर्वं यत्पृष्टोसि मया मुने । श्रुतं चैतन्मया भक्त्या नान्यत्प्रष्टव्यमस्ति मे ॥ ६,८.५ ॥ विच्छिन्नाःसर्वसंदेहा वैमल्यं मनसः कृतम् । त्वत्प्रसादान्मया ज्ञाता उत्पत्तिस्थितिसंक्षयाः ॥ ६,८.६ ॥ ज्ञातश्च त्रिविधो राशिः शक्तिश्च त्रिविधा गुरो । विज्ञाता सा च कार्त्स्न्येन त्रिविधा भावभावना ॥ ६,८.७ ॥ त्वत्प्रसादान्मया ज्ञातं ज्ञेयमन्यैरलं द्विज । यदेतदखिलं विष्णोर्जगन्न व्यतिरिच्यते ॥ ६,८.८ ॥ कृतार्थोहमसंदेहस्त्वत्प्रसादान्महामुने । वर्णधर्मादयो धर्मा विदिता यदशेषतः ॥ ६,८.९ ॥ प्रवृत्तं च निवृत्तं च ज्ञानं कर्ममयाखिलम् । प्रसीद विप्रप्रवर नान्यत्प्रष्टव्यमस्ति मे ॥ ६,८.१० ॥ यदस्य कथनायासैर्योऽर्जितोऽसि मया गुरो । तत्क्षम्यतां विशेषोस्ति न सतां पुत्रशिष्ययोः ॥ ६,८.११ ॥ श्रीपराशर उवाच एतत्ते यन्मयाख्यातं पुराणं वेदसंमतम् । श्रुतेऽस्मिन्सर्वदोषोत्थः पापराशिः प्रणश्यति ॥ ६,८.१२ ॥ सर्गश्च प्रतिसर्गश्च वंशमन्वन्तरामि च । वंशानुचरितं कृत्स्नं मयात्र तव कीर्तितम् ॥ ६,८.१३ ॥ अत्र देवास्तथा दैत्या गन्धर्वोरगराक्षसाः । यक्षविद्याधराःसिद्धाः कथ्यन्तेऽप्सरसस्तथा ॥ ६,८.१४ ॥ मुनयो भावितात्मानः कथ्यन्ते तपसान्विताः । चातुर्वण्यं तथा पुंसा विशिष्टचरितानिच ॥ ६,८.१५ ॥ पुण्याः प्रदेशा मेदिन्याः पुण्या नद्योऽथ सागराः । पर्वताश्च महापुण्याश्चरितानि च धीमताम् ॥ ६,८.१६ ॥ वर्णधर्मादयो धर्मावेदशास्त्राणि कृत्स्नशः । येषां संस्मरमात्सद्यःसर्वपापैः प्रमुच्यते ॥ ६,८.१७ ॥ उत्पत्तिस्थितिनाशानां हेतुर्यो जगतोऽव्ययः । स सर्वभूतःसर्वात्मा कथ्यते भगवान्हरिः ॥ ६,८.१८ ॥ अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान्विमनच्ये सद्यःसिंहत्रस्तैर्मृगैरिव ॥ ६,८.१९ ॥ यन्नामकीर्तनं भक्त्या विलायनमनुत्तमम् । मैत्रेयासेषपापानां धातूनामिव पावकः ॥ ६,८.२० ॥ कलिकल्मषमत्युग्रं नरकार्त्तिप्रदं नृणाम् । प्रयाति विलयं सद्यःसकृद्यत्र च संस्मृते ॥ ६,८.२१ ॥ हिरण्यगर्भदेवेन्द्ररुद्रादित्याश्विवायुभिः । पावकैर्वसुभिः साध्यैर्विश्वेदेवादिभिः सुरैः ॥ ६,८.२२ ॥ यक्षरक्षोरगैः सिद्धैर्दैत्यगन्धर्वदानवैः । अप्सरोभिस्तथा तारानक्षत्रैः सकलैर्ग्रहैः ॥ ६,८.२३ ॥ सप्तर्षिभिस्तथा धिष्ण्यैर्धिष्ण्याधिपतिभिस्तथा । ब्रह्मणाद्यैर्मनुष्यैश्च तथैव पशुभिर्मृगैः ॥ ६,८.२४ ॥ सरीसृपैर्विहङ्गैश्च पलाशाद्यैर्महीरुहैः । वनाग्निसागरसरित्पातालैः ससुराग्निभिः ॥ ६,८.२५ ॥ शब्दादिभिश्चसहितं ब्रह्माण्डमखिलं द्विज । मेरोरिवाणुर्यस्यैतद्यन्मयं च द्विजोत्तम ॥ ६,८.२६ ॥ स सर्वः सर्ववित्सर्वस्वरूपो रूपवर्जितः । भगवान्कीर्तितो विष्णुरत्र पापप्रणाशनः ॥ ६,८.२७ ॥ यदश्वमेधावभृथे स्नातः प्राप्नोति वै फलम् । मानवस्तदवाप्नोति श्रुत्वैतन्मुनिसत्तम ॥ ६,८.२८ ॥ प्रयागे पुष्करेचैव कुरुक्षेत्रे तथार्ऽणवे । कृतोपवासः प्राप्नोति तदस्य श्रवणान्नरः ॥ ६,८.२९ ॥ यदग्निहोत्रे सुहुते वर्षेणाप्नोति मानवः । महापुण्यफलं विप्र तदस्य श्रवणात्सकृत् ॥ ६,८.३० ॥ यज्ज्येष्ठसुक्लद्वादश्यां स्नात्वा वै यमुनाजले । मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ॥ ६,८.३१ ॥ तदाप्नोत्यखिलं सम्यगध्यायं यः शृणोति वै । पुराणस्यास्य विप्रर्ष केशवार्पितमानसः ॥ ६,८.३२ ॥ यमुनासलिलस्नातः पुरुषो मुनिसत्तम । ज्येष्ठामूले सिते पक्षे द्वादश्यां समुपोषितः ॥ ६,८.३३ ॥ समभ्यर्च्याच्युतं सम्यङ्मथुरायां समादितः । अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥ ६,८.३४ ॥ आलोक्यर्धिमथान्येषामुन्नीतानां स्ववंशजैः । एतत्किलोचुरप्येषां पितरः सपितामहाः ॥ ६,८.३५ ॥ कच्चिदस्मत्कुले जातः कालिन्दीसलिलाप्लुतः । अर्तयिष्यति गोविन्दं मथुरायामुपोषितः ॥ ६,८.३६ ॥ ज्योष्ठामूले सिते पक्षे केनैवं वयमप्युत । परामृद्धिमवाप्स्यामस्तारिताःस्वकुलोद्भवैः ॥ ६,८.३७ ॥ ज्येष्ठामूले सिते पक्षे समभ्यर्च्य जनार्दनम् । धन्यानां कुलजः पिण्डान्यमुनायां प्रदास्यति ॥ ६,८.३८ ॥ तस्मिन्काले समभ्यर्च्य तत्र कृष्णं समाहितः । दत्त्वा पिण्डं पितृभ्यश्च यमुनासलिलाप्लुतः ॥ ६,८.३९ ॥ यदाप्नोति नरः पुण्यं तारयन्स्वपितामहान् । श्रुत्वाध्यायं तदाप्नोति पुराणस्यास्य शक्तितः ॥ ६,८.४० ॥ एतत्संसारभीरूणां परित्राणमनुत्तमम् । श्राव्याणां परमं श्राव्यं पवित्राणामनुत्तमम् ॥ ६,८.४१ ॥ दुःस्वप्ननाशनं नॄणां सर्वदुष्टनिबर्हणम् । मङ्गलं मङ्गलानां च पुत्रसंपत्प्रदायकम् ॥ ६,८.४२ ॥ इदमार्षं पुरा प्राह ऋभवे कमलोद्भवः । ऋभुः प्रियव्रतायाह स च भागुरयेऽबवीत् ॥ ६,८.४३ ॥ भागुरिस्तंभमित्राय दधीचाय स चोक्तवान् । सारस्वताय तेनोक्तं भृगुःसारस्वतेन च ॥ ६,८.४४ ॥ भृगुणा पुरुकुत्साय नर्मदायै स चोक्तवान् । नर्मदा धृतराष्ट्रायनागायापूरणाय च ॥ ६,८.४५ ॥ ताभ्यां च नागराजाय प्रोक्तं वासुकये द्विज । वासुकिः प्राह वत्साय वत्सश्चाश्वतराय वै ॥ ६,८.४६ ॥ कंबलाय च तेनोक्तमेलापुत्राय तेन वै ॥ ६,८.४७ ॥ पातालं समनुप्राप्तः ततो वेदशिरा मुनिः । प्राप्तवानेतदखिलं स च प्रमतये ददौ ॥ ६,८.४८ ॥ दत्तं प्रमतिना चैतज्जातुकर्णाय धीमते । जातुकर्णेन चैवोक्तमन्येषां पुण्यकर्मणाम् ॥ ६,८.४९ ॥ पुलस्त्यवरदानेन ममाप्येतत्स्मृतिं गतम् । मयापि तूभ्यं मैत्रेय यथावत्कथितं त्बिदम् ॥ ६,८.५० ॥ त्वमप्येतच्छिनीकाय कलेरन्ते वदिष्यसि ॥ ६,८.५१ ॥ इत्येतत्परमं गुह्यं कलिकल्मषनाशनम् । यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ६,८.५२ ॥ समस्ततीर्थस्नानानि समस्तामरसंस्तुतिः । कृता तेन भवेदेतद्यः शृणोतिदिनेदिते ॥ ६,८.५३ ॥ कपिलादानजनितं पुम्यमत्यन्तदुर्लभम् । श्रुत्वैतस्य दशाध्यायानवाप्नोति न संशयः ॥ ६,८.५४ ॥ यस्त्वेतत्सकलं शृणोतिपुरुषः कृत्वा मनस्यच्युतं सर्वं सर्वमयं समस्तजगतामाधारमात्माश्रयम् । ज्ञानज्ञेयमनादिमन्तरहितं सर्वामराणां हितं स प्राप्नोति न संशयोस्त्यविकलं यद्वाजिमेधे फलम् ॥ ६,८.५५ ॥ यत्रादौ भगवांश्चराचरगुरुर्मध्ये तथान्ते च स ब्रह्मज्ञानमयोऽच्युतोऽखिलजगन्मध्यान्तसर्गप्रभुः । ततसर्वं पुरुषः पवित्रममलं शृण्वन्पठन्वाचयन्प्राप्नोत्यस्ति न तत्फलं त्रिभुवनेष्वेकान्तसिद्धिर्हरिः ॥ ६,८.५६ ॥ यस्मिन्न्यस्तमनिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः । मुक्तिं चेतसि यःस्थितो मलधियां पुंसां ददात्यव्ययः किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ ६,८.५७ ॥ यज्ञैर्यज्ञविदो यजन्ति सततं यज्ञेश्वरं कर्मिणो यं वै ब्रह्ममयं परावरमयं ध्यायन्ति च ज्ञानिनः । यं संचित्य न जायते न म्रियते नो वर्धते हीयते नैवासन्न च सद्भवत्यति ततः किं वा हरेः श्रूयताम् ॥ ६,८.५८ ॥ कव्यं यः पुतृरूपधृग्विधिहुतं हव्यं च भुक्तं विभुर्देवत्वे भगवाननादिनिधनःसावहास्वधासंज्ञिते । यस्मिन्ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां विष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिः ॥ ६,८.५९ ॥ नान्तोस्ति यस्य न च यस्य समुद्भवोऽस्ति वृद्धिर्न यस्य परिणामविवर्जितस्य । नापक्षयं च समुपैत्यविकारि वस्तु यस्तं नतोस्मि पुरुषोत्ममीशमीड्यम् ॥ ६,८.६० ॥ तस्यैव योनु गुमभुग्बहुधैक एव सुद्धोप्यशुद्ध इव भाति हि मूर्तिभेदैः । ज्ञानान्वितःसकलसत्त्वविभूतिकर्ता तस्मै नमोस्तु पुरुषाय सदाव्ययाय ॥ ६,८.६१ ॥ ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो भोगप्रदानपटवे त्रिगुणात्मकाय । अव्याकृताय भवबावनकारणाय वन्दे स्वरूपभवनाय सदाजराय ॥ ६,८.६२ ॥ व्योमानिलाग्निजलभूरचनामयाय शब्दादिभोग्यविषयोपनयक्षमाय । पुंसःसमस्तकरणैरुपकारकाय व्यक्ताय सूक्ष्मबृहदात्मवते नतोस्मि ॥ ६,८.६३ ॥ इति विविधमजस्य यस्य रूपं प्रकृतिपरात्ममयं सनातनस्य । प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां सिद्धिम् ॥ ६,८.६४ ॥ इति श्रीविष्णुमहापुराणे षष्ठांशेऽष्टमोऽध्यायः (८) समाप्तोऽयं षष्ठांशः इति श्रीविष्णुमहापुराणं समाप्तम्