अध्याय १ श्रीगणेशाय नमः ॥ १.१ ॥ ओं नमः श्रीपुरुषोत्तमाय । ओं नमः श्रीनर्मदायै । ओं नमो हरिहरहिरण्यगर्भेभ्यो नमो व्यासवाल्मीकिशुकपराशरेभ्यो नमो गुरुगोब्राह्मणेभ्यः । ओं मज्जन्मातङ्गगण्डच्युतमदमदिरामोदमत्तालिमालं स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम् । सायं प्रातर्मुनीनां कुसुमचयसमाच्छन्नतीरस्थवृक्षं पायाद्वो नर्मदाम्भः करिमकरकराक्रान्तरहंस्तरंगम् ॥ १.२ ॥ उभयतटपुण्यतीर्था प्रक्षालितसकलललोकदुरितौघा । देवमुनिमनुजवन्द्या हरतु सदा नर्मदा दुरितम् ॥ १.३ ॥ नाशयतु दुरितमखिलं भूतं भव्यं भवच्च भुवि भविनाम् । सकलपवित्रि तव सुधा पुण्यजला नर्मदा भवति ॥ १.४ ॥ तटपुलिनं शिवदेवा यस्या यतयोऽपि कामयन्ते वा । मुनिनिवहविहितसेवा शिवाय मम जायतां रेवा ॥ १.५ ॥ नारायणं नमस्कृत्वा नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १.६ ॥ नैमिषे पुण्यनिलये नानाऋषिनिषेविते । शौनकः सत्रमासीनः सूत पप्रच्छ विस्तरात् ॥ १.७ ॥ मन्येऽहं धर्मनैपुण्यं त्वयि सूत सदार्चितम् । पुण्यामृतकथावक्ता व्याससशिष्यस्त्वमेव हि ॥ १.८ ॥ अतस्त्वां परिपृच्छामि धर्मतीर्थाश्रयं कवे । बहूनि सन्ति तीर्थानि बहुशो मे श्रुतानि च ॥ १.९ ॥ श्रुता दिव्यनदी ब्राह्मी तथा विष्णुनदी मया । तृतीया न मया क्वापि श्रुता रौद्री सरिद्वरा ॥ १.१० ॥ तां वेदगर्भां विख्यातां विबुधौघाभिवन्दिताम् । वद मे त्वं महाप्राज्ञ तीर्थपूगपरिष्कृताम् ॥ १.११ ॥ कं देशमाश्रिता रेवा कथं श्रीरुद्रसंभवा । तत्संश्रितानि तीर्थानि यानि तानि वदस्व मे ॥ १.१२ ॥ सूत उवाच - साधु पृष्टं कुलपते चरित्रं नर्मदाश्रितम् । चित्रं पवित्रं दोषघ्नं श्रुतमुक्तं च सत्तम ॥ १.१३ ॥ वेदोपवेदवेदाङ्गादीन्यभिव्यस्य पूरितः । अष्टादशपुराणानां वक्ता सत्यवतीसुतः ॥ १.१४ ॥ तं नमस्कृत्य वक्ष्यामि पुराणानि यथाक्रमम् । येषामभिव्याहरणादभिवृद्धिर्वृषायुषोः ॥ १.१५ ॥ श्रुतिः स्मृतिश्च विप्राणां चक्षुषी परिकीर्तिते । काणस्तत्रैकया हीनो द्वाभ्यामन्धः प्रकीर्तितः ॥ १.१६ ॥ श्रुतिस्मृतिपुराणानि विदुषां लोचनत्रयम् । यस्त्रिभिर्नयनैः पश्येत्सोऽंशो माहेश्वरो मतः ॥ १.१७ ॥ आत्मनो वेदविद्या च ईश्वरेण विनिर्मिता । शौनकीया च पौराणी धर्मशास्त्रात्मिका च या ॥ १.१८ ॥ तिस्रो विद्या इमा मुख्याः सर्वशास्त्रविनिर्णये । पुराणं पञ्चमो वेद इति ब्रह्मानुशासनम् ॥ १.१९ ॥ यो न वेद पुराणं हि न स वेदात्र किंचन । कतमः स हि धर्मोऽस्ति किं वा ज्ञानं तथाविधम् ॥ १.२० ॥ अन्यद्वा तत्किमत्राह पुराणे यन्न दृश्यते । वेदाः प्रतिष्ठिताः पूर्वं पुराणे नात्र संशयः ॥ १.२१ ॥ बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति । इतिहासपुराणैश्च कृतोऽयं निश्चयः पुरा ॥ १.२२ ॥ आत्मा पुराणं वेदानां पृथगंगानि तानि षट् । यच्च दृष्टं हि वेदेषु तद्दृष्टं स्मृतिभिः किल ॥ १.२३ ॥ उभाभ्यां यत्तु दृष्टं हि तत्पुराणेषु गीयते । पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणः स्मृतम् ॥ १.२४ ॥ अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः । पुराणमेकमेवासीदस्मिन् कल्पान्तरे मुने ॥ १.२५ ॥ त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् । स्मृत्वा जगाद च मुनीन्प्रति देवश्चतुर्मुखः ॥ १.२६ ॥ प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः । कालेनाग्रहणं दृष्ट्वा पुराणस्य ततो मुनिः ॥ १.२७ ॥ व्यासरूपं विभुः कृत्वा संहरेत्स युगे युगे । अष्टलक्षप्रमाणे तु द्वापरे द्वापरे सदा ॥ १.२८ ॥ तदष्टादशधा कृत्वा भूलोकेऽस्मिन् प्रभाष्यते । अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥ १.२९ ॥ तथात्र चतुर्लक्षं संक्षेपेण निवेशितम् । पुराणानि दशाष्टौ च साम्प्रतं तदिहोच्यते । नामतस्तानि वक्ष्यामि शृणु त्वमृषिसत्तम ॥ १.३० ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ १.३१ ॥ ब्राह्मं पुराणं तत्राद्यं संहितायां विभूषितम् । श्लोकानां दशसाहस्रं नानापुण्यकथायुतम् ॥ १.३२ ॥ पाद्मं च पञ्चपञ्चाशत्सहस्राणि निगद्यते । तृतीयं वैष्णवंनाम त्रयोविंशतिसंख्यया ॥ १.३३ ॥ चतुर्थं वायुना प्रोक्तं वायवीयमिति स्मृतम् । शिवभक्तिसमायोगाच्छैवं तच्चापराख्यया ॥ १.३४ ॥ चतुर्विंशतिसंख्यातं सहस्राणि तु शौनक । चतुर्भिः पर्वभिः प्रोक्तं भविष्यं पञ्चमं तथा ॥ १.३५ ॥ चतुर्दशसहस्राणि तथा पञ्च शतानि तत् । मार्कण्डं नवसाहस्रं षष्ठं तत्परिकीर्तितम् ॥ १.३६ ॥ आग्नेयं सप्तमं प्रोक्तं सहस्राणि तु षोडश । अष्टमं नारदीयं तु प्रोक्तं वै पञ्चविंशतिः ॥ १.३७ ॥ नवमं भगवन्नाम भागद्वयविभूषितम् । तदष्टादशसाहस्रं प्रोच्यते ग्रन्थसंख्यया ॥ १.३८ ॥ दशमं ब्रह्मवैवर्तं तावत्संख्यमिहोच्यते । लैङ्गमेकादशं ज्ञेयं तथैकादशसंख्यया ॥ १.३९ ॥ भागद्वयं विरचितं तल्लिङ्गमृषिपुंगव । चतुर्विंशतिसाहस्रं वाराहं द्वादशं विदुः ॥ १.४० ॥ विभक्तं सप्तभिः खण्डैः स्कान्दं भाग्यवतां वर । तदेकाशीतिसाहस्रं संख्यया वै निरूपितम् ॥ १.४१ ॥ ततस्तु वामनं नाम चतुर्दशतमं स्मृतम् । संख्यया दशसाहस्रं प्रोक्तं कुलपते पुरा ॥ १.४२ ॥ कौर्मं पञ्चदशं प्राहुर्भागद्वयविभूषितम् । दशसप्तसहस्राणि पुरा सांख्यपते कलौ ॥ १.४३ ॥ मात्स्यं मत्स्येन यत्प्रोक्तं मनवे षोडशं क्रमात् । तच्चतुर्दशसाहस्रं संख्यया वदतां वर ॥ १.४४ ॥ गारुडं सप्तदशमं स्मृतं चैकोनविंशतिः । अष्टादशं तु ब्रह्माण्डं भागद्वयविभूषितम् ॥ १.४५ ॥ तच्च द्वादशसाहस्रं शतमष्टसमन्वितम् । तथैवोपपुराणानि यानि चोक्तानि वेधसा ॥ १.४६ ॥ इदं ब्रह्मपुराणस्य सुलभं सौरमुत्तमम् । संहिताद्वयसंयुक्तं पुण्यं शिवकथाश्रयम् ॥ १.४७ ॥ आद्या सनत्कुमारोक्ता द्वितीया सूर्यभाषिता । सनत्कुमारनाम्ना हि तद्विख्यातं महामुने ॥ १.४८ ॥ द्वितीयं नारसिंहं च पुराणे पाद्मसंज्ञिते । शौकेयं हि तृतीयं तु पुराणे वैष्णवे मतम् ॥ १.४९ ॥ बार्हस्पत्यं चतुर्थं च वायव्यं संमतं सदा । दौर्वाससं पञ्चमं च स्मृतं भागवते सदा ॥ १.५० ॥ भविष्ये नारदोक्तं च सूरिभिः कथितं पुरा । कापिलं मानवं चैव तथैवोशनसेरितम् ॥ १.५१ ॥ ब्रह्माण्डं वारुणं चाथ कालिकाद्वयमेव च । माहेश्वरं तथा साम्बं सौरं सर्वार्थसंचयम् ॥ १.५२ ॥ पाराशरं भागवतं कौर्मं चाष्टादशं क्रमात् । एतान्युपपुराणानि मयोक्तानि यथाक्रमम् ॥ १.५३ ॥ पुराणसंहितामेतां यः पठेद्वा शृणोति च । सोऽनन्तपुण्यभागी स्यान्मृतो ब्रह्मपुरं व्रजेत् ॥ १.५४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुराणसंहितावर्णनां प्रथमोऽध्यायः ॥ ऋKV अध्याय २ सूत उवाच ॥ २.१ ॥ नर्मदायास्तु माहात्म्यं कृष्णद्वैपायनोऽब्रवीत् । तत्तेऽहं सम्प्रवक्ष्यामि यत्त्वया परिपृच्छितम् ॥ २.२ ॥ विस्तरं नर्मदायास्तु तीर्थानां मुनिसत्तम । कोऽन्यः शक्तोऽस्ति वै वक्तुमृते ब्रह्माणमीश्वरम् ॥ २.३ ॥ एतमेव पुरा प्रश्नं पृष्टवाञ्जनमेजयः । वैशंपायनसंज्ञं तु शिष्यं द्वैपायनस्य ह ॥ २.४ ॥ रेवातीर्थाश्रितं पुण्यं तत्ते वक्ष्यामि शौनक । पुरा पारीक्षितो राजा यज्ञादीक्षासु दीक्षितः ॥ २.५ ॥ संभृते तु हविर्द्रव्ये वर्तमानेषु कर्मसु । आसीनेषु द्विजाग्र्येषु हूयमाने हुताशने ॥ २.६ ॥ वर्तमानासु सर्वत्र तथा धर्मकथासु च । श्रूयमाणे तथा शब्दे जनैरुक्ते त्वहर्निशम् ॥ २.७ ॥ यज्ञभूमौ कुलपते दीयतां भुज्यतामिति । विविधांश्च विनोदान्वै कुर्वाणेषु विनोदिषु ॥ २.८ ॥ एवंविधे वर्तमाने यज्ञे स्वर्गसदःसमे । वैशंपायनमासीनं पप्रच्छ जनमेजयः ॥ २.९ ॥ जनमेजय उवाच - द्वैपायनप्रसादेन ज्ञानवानसि मे मतः । वैशंपायन तस्मात्त्वां पृच्छामि ऋषिसन्निधौ ॥ २.१० ॥ ब्रूहि मे त्वं पुरावृत्तं पित्ःणां तीर्थसेवनम् । चिरं नानाविधान्क्लेशान् प्राप्तास्त इति मे श्रुतम् ॥ २.११ ॥ कथं द्यूतजिताः पार्था मम पूर्वपितामहाः । आसमुद्रां महीं विप्र भ्रमन्तस्तीर्थलोभतः ॥ २.१२ ॥ केन ते सहितास्तात भूमिभागाननेकशः । चेरुः कथय तत्सर्वं सर्वज्ञोऽसि मतो मम ॥ २.१३ ॥ वैशंपायन उवाच ॥ २.१४ ॥ कथयिष्यामि भूनाथ यत्पृष्टं तु त्वयाऽनघ । नमस्कृत्य विरूपाक्षं वेदव्यासं महाकविम् ॥ २.१५ ॥ पितामहास्तु ते पञ्च पाण्डवाः सह कृष्णया । उषित्वा ब्राह्मणैः सार्धं काम्यके वन उत्तमे ॥ २.१६ ॥ प्रधानोद्दालके तत्र कश्यपोऽथ महामतिः । विभाण्डकश्च राजेन्द्र मुरुश्चैव महामुनिः ॥ २.१७ ॥ पुलस्त्यो लोमशश्चैव तथान्ये पुत्रपौत्रिणः । स्नात्वा निःशेषतीर्थेषु गतास्ते विन्ध्यपर्वतम् ॥ २.१८ ॥ ते च तत्राश्रमं पुण्यं सर्वैर्वृक्षैः समाकुलम् । चम्पकैः कर्णकारैश्च पुन्नागैर्नागकेसरैः ॥ २.१९ ॥ बकुलैः कोविदारैश्च दाडिमैरुपशोभितम् । पुष्पितैरर्जुनैश्चैव बिल्वपाटलकेतकैः ॥ २.२० ॥ कदम्बाम्रमधूकैश्च निम्बजम्बीरतिन्दुकैः । नालिकेरैः कपित्थैश्च खर्जूरपनसैस्तथा ॥ २.२१ ॥ नानाद्रुमलताकीर्णं नानावल्लीभिरावृतम् । सपुष्पं फलितं कान्तं वनं चैत्ररथं यथा ॥ २.२२ ॥ जलाश्रयैस्तु विपुलैः पद्मिनीखण्डमण्डितम् । सितोत्पलैश्च संछन्नं नीलपीतैः सितारुणैः ॥ २.२३ ॥ हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् । आडीकाकबलाकाभिः सेवितं कोकिलादिभिः ॥ २.२४ ॥ सिंहैर्व्याघ्रैर्वराहैश्च गजैश्चैव महोत्कटैः । महिषैश्च महाकायैः कुरङ्गैश्चित्रकैः शशैः ॥ २.२५ ॥ गण्डकैश्चैव खड्गैश्च गोमायुसुरभी युतम् । सारङ्गैर्मल्लकैश्चैव द्विपदैश्च चतुष्पदैः ॥ २.२६ ॥ तथाच कोकिलाकीर्णं मनःकान्तं सुशोभितम् । जीवंजीवकसंघैश्च नानापक्षिसमायुतम् ॥ २.२७ ॥ दुःखशोकविनिर्मुक्तं सत्त्वोत्कटमनोरमम् । क्षुत्तृषारहितं कान्तं सर्वव्याधिविवर्जितम् ॥ २.२८ ॥ सिंहीस्तनं पिबन्त्यत्र कुरंगाः स्नेहसंयुतम् । मार्जारमूषकौ चोभाववलेहत उन्मुखौ ॥ २.२९ ॥ पञ्चास्याः पोतकेभाश्च भोगिनस्तु कलापिनः । दृष्ट्वा तद्विपिनं रम्यं प्रविष्टाः पाण्डुनन्दनाः ॥ २.३० ॥ मार्कण्डं दृष्टवांस्तत्र तरुणादित्यसन्निभम् । ऋषिभिः सेव्यमानं तु नानाशास्त्रविशारदैः ॥ २.३१ ॥ कुलीनैः सत्त्वसम्पन्नैः शौचाचारसमन्वितैः । धीसंगतैः क्षमायुक्तैस्त्रिसंध्यं जपतत्परैः ॥ २.३२ ॥ ऋग्यजुःसामविहितैर्मन्त्रैर्होमपरायणैः । केचित्पञ्चाग्निमध्यस्थाः केचिदेकान्तसंस्थिताः ॥ २.३३ ॥ ऊर्ध्वबाहुनिरालम्बा आदित्यभ्रमणाः परे । सायंप्रातर्भुजश्चान्ये एकाहारास्तथा परे ॥ २.३४ ॥ द्वादशाहात्तथा चान्ये अन्ये मासार्धभोजनाः । दर्शे दर्शे तथा चान्ये अन्ये शैवालभोजनाः ॥ २.३५ ॥ पिण्याकमपरेऽभुजन् केचित्पालाशभोजनाः । अपरे नियताहारा वायुभक्ष्याम्बुभोजनाः ॥ २.३६ ॥ एवंभूतैस्तथा वृद्धैः सेव्यते मुनिपुंगवैः । ततो धर्मसुतः श्रीमानाश्रमं तं प्रविश्य सः ॥ २.३७ ॥ दृष्ट्वा मुनिवरं शान्तं ध्यायमानं परं पदम् । प्रादक्षिण्येन सहसा दण्डवत्पतितोऽग्रतः ॥ २.३८ ॥ भक्त्यानुपतितं दृष्ट्वा चिरादादाय लोचनम् । को भवानित्युवाचेदं धर्मं धीमानपृच्छत ॥ २.३९ ॥ तस्य तद्वचनं श्रुत्वा दारकस्तत्समीपगः । आहायं धर्मराजस्ते दर्शनार्थं समागतः ॥ २.४० ॥ तच्छ्रुत्वादारकेणोक्तं वचनं प्राह सादरः । एह्येहि वत्सवत्सेति किंचित्स्थानाच्चलन्मुनिः । तं तु स्नेहादुपाघ्राय आसने उपवेशयत् ॥ २.४१ ॥ उपविष्टे सभायां तु पूजां कृत्वा यथाविधि । वन्यैर्धान्यैः फलैर्मूलै रसैश्चैव पृथग्विधैः ॥ २.४२ ॥ पाण्डवा ब्राह्मणैः सार्द्धं यथायोग्यं प्रपूजिताः । मुहूर्तादथ विश्रम्य धर्मपुत्रो युधिष्ठिरः ॥ २.४३ ॥ पृच्छति स्म मुनिश्रेष्ठं कौतूहलसमन्वितः । भगवन्सर्वलोकानां दीर्घायुस्त्वं मतो मम ॥ २.४४ ॥ सप्तकल्पानशेषेण कथयस्व ममानघ । कल्पक्षयेऽपि लोकस्य स्थावरस्येतरस्य च ॥ २.४५ ॥ न विनष्टोऽसि विप्रेन्द्र कथं वा केन हेतुना । गङ्गाद्याः सरितः सर्वाः समुद्रान्ताश्च या मुने ॥ २.४६ ॥ तासां मध्ये स्थिताः काः स्वित्काश्चैव प्रलयं गताः । का नु पुण्यजला नित्यं कानु न क्षयमागता ॥ २.४७ ॥ एतत्कथय मे तात प्रसन्नेनान्तरात्मना । श्रोतुमिच्छाम्यशेषेण ऋषिभिः सह बान्धवैः ॥ २.४८ ॥ श्रीमार्कण्डेय उवाच - साधुसाधु महाप्राज्ञ धर्मपुत्र युधिष्ठिर । कथयामि यथा न्यायं यत्पृच्छसि ममानघ ॥ २.४९ ॥ सर्वपापहरं पुण्यं पुराणं रुद्रभाषितम् । यः शृणोति नरो भक्त्या तस्य पुण्यफलं शृणु ॥ २.५० ॥ अश्वमेध सहस्रेण वाजपेयशतेन च । तत्फलं समवाप्नोति राजन्नास्त्यत्र संशयः ॥ २.५१ ॥ ब्रह्मघ्नश्च सुरापी च स्तेयी गोघ्नश्च यो नरः । मुच्यते सर्वपापेभ्यो रुद्रस्य वचनं यथा ॥ २.५२ ॥ गङ्गा तु सरितां श्रेष्ठा तथा चैव सरस्वती । कावेरी देविका चैव सिन्धुः सालकुटी तथा ॥ २.५३ ॥ सरयूः शतरुद्रा च मही चर्मिलया सह । गोदावरी तथा पुण्या तथैव यमुना नदी ॥ २.५४ ॥ पयोष्णी च शतद्रुश्च तथा धर्मनदी शुभा । एताश्चान्याश्च सरितः सर्वपापहराः स्मृताः ॥ २.५५ ॥ किं तु ते कारणं तात वक्ष्यामि नृपसत्तम । समुद्राः सरितः सर्वाः कल्पे कल्पे क्षयं गताः ॥ २.५६ ॥ सप्तकल्पक्षये क्षीणे न मृता तेन नर्मदा । नर्मदैकैव राजेन्द्र परं तिष्ठेत्सरिद्वरा ॥ २.५७ ॥ तोयपूर्णा महाभाग मुनिसंघैरभिष्टुता । गंगाद्याः सरितश्चान्याः कल्पे कल्पे क्षयं गताः ॥ २.५८ ॥ एषा देवी पुरा दृष्टा तेन वक्ष्यामि तेऽनघ ॥ २.५९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवामाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥ ऋKV अध्याय ३ युधिष्ठिर उवाच - सप्तकल्पक्षया घोरास्त्वया दृष्टा महामुने । न चापीहास्ति भगवन्दीर्घायुरिह कश्चन ॥ ३.१ ॥ त्वया ह्येकार्णवे सुप्तः पद्मनाभः सुरारिहा । दृष्टः सहस्रचरणः सहस्रनयनोदरः ॥ ३.२ ॥ त्वं किलानुग्रहात्तस्य दह्यमाने चराचरे । न क्षयं समनुप्राप्तो वरदानान्महात्मनः ॥ ३.३ ॥ किं त्वयाश्चर्यभूतं हि दृष्टं च भ्रमतानघ । एतदाचक्ष्व भगवन्परं कौतूहलं हि मे ॥ ३.४ ॥ सम्प्राप्ते च महाघोरे युगस्यान्ते महाक्षये । अनावृष्टिहते लोके पुरा वर्षशताधिके ॥ ३.५ ॥ औषधीनां क्षये घोरे देवदानववर्जिते । निर्वीर्ये निर्वषट्कारे कलिना दूषिते भृशम् ॥ ३.६ ॥ सरित्सरस्तडागेषु पल्वलोपवनेषु च । संशुष्केषु तदा ब्रह्मन्निराकारे युगक्षये ॥ ३.७ ॥ जनं प्राप्ते महर्लोके ब्रह्मक्षत्रविशादयः । ऋषयश्च महात्मानो दिव्यतेजःसमन्विताः ॥ ३.८ ॥ स्थितानि कानि भूतानि गतान्येव महामुने । एतत्सर्वं महाभाग कथयस्व पृथक्पृथक् ॥ ३.९ ॥ भूतानि कानि विप्रेन्द्र कथं सिद्धिमवाप्नुयात् । ब्रह्मविष्ण्विन्द्ररुद्राणां काले प्राप्ते सुदारुणे ॥ ३.१० ॥ एवमुक्तस्ततः सोऽथ धर्मराजेन धीमता । मार्कण्डः प्रत्युवाचेदमृषिसंघैः समावृतः ॥ ३.११ ॥ श्रीमार्कण्डेय उवाच - शृण्वन्तु ऋषयः सर्वे त्वया सह नरेश्वर । महत्पुराणं पूर्वोक्तं शंभुना वायुदैवते ॥ ३.१२ ॥ वायोः सकाशात्स्कन्देन श्रुतमेतत्पुरातनम् । वसिष्ठः श्रुतवांस्तस्मात्पराशरस्ततः परम् ॥ ३.१३ ॥ तस्माच्च जातूकर्ण्येन तस्माच्चैव महर्षिभिः । एवं परम्पराप्रोक्तं शतसंख्यैर्द्विजोत्तमैः ॥ ३.१४ ॥ संहिता शतसाहस्री पुरोक्ता शंभुना किल । आलोड्य सर्वशास्त्राणि वदार्थं तत्त्वतः पुरा ॥ ३.१५ ॥ युगरूपेण सा पश्चाच्चतुर्धा विनियोजिता । मदप्रज्ञानुसारेण नराणां तु महर्षिभिः ॥ ३.१६ ॥ आराध्य पशुभर्तारं मया पूर्वं महेश्वरम् । पुराणं श्रुतमेतद्धि तत्ते वक्ष्याम्यशेषतः ॥ ३.१७ ॥ यच्छ्रुत्वा मुच्यते जन्तुः सर्वपापैर्नरेश्वर । मानसैः कर्मजैश्चैव सप्तजन्मसु संचितैः ॥ ३.१८ ॥ सप्तकल्पक्षया घोरा मया दृष्टाः पुनःपुनः । प्रसादाद्देवदेवस्य विष्णोश्च परमेष्ठिनः ॥ ३.१९ ॥ द्वादशादित्यनिर्दग्धे जगत्येकार्णवीकृते । श्रान्तोऽहं विभ्रमंस्तत्र तरन्बाहुभिरर्णवम् ॥ ३.२० ॥ अथाहं सलिले राजन्नादित्यसमरूपिणम् । पुरा पुरुषमद्राक्षमनादिनिधनं प्रभुम् ॥ ३.२१ ॥ शृङ्गं चैवाद्रिराजस्य भासयन्तं दिशो दश । द्वितीयोऽन्यो मनुर्दृष्टः पुत्रपौत्रसमन्वितः ॥ ३.२२ ॥ अगाधे भ्रमते सोऽपि तमोभूते महार्णवे । अविश्रमन्मुहूर्तं तु चक्रारूढ इव भ्रमन् ॥ ३.२३ ॥ अथाहं भयादुद्विग्नस्तरन्बाहुभिरर्णवम् । तत्रस्थोऽहं महामत्स्यमपश्यं मदसंयुतम् ॥ ३.२४ ॥ ततोऽब्रवीत्स मां दृष्ट्वा एह्येहीति च भारत । परं प्रधानः सर्वेषां मत्स्यरूपो महेश्वरः ॥ ३.२५ ॥ ततोऽहं त्वरया गत्वा तन्मुखे मनुजेश्वर । सुश्रान्तो विगतज्ञानः परं निर्वेदमागतः ॥ ३.२६ ॥ ततोऽद्राक्षं समुद्रान्ते महदावर्तसंकुलाम् । उद्यत्तरंगसलिलां फेनपुञ्जाट्टहासिनीम् ॥ ३.२७ ॥ नदीं कामगमां पुण्यां झषमीनसमाकुलाम् । नद्यास्तस्यास्तु मध्यस्था प्रमदा कामरूपिणी ॥ ३.२८ ॥ नीलोत्पलदलश्यामा महत्प्रक्षोभवाहिनी । दिव्यहाटकचित्राङ्गी कनकोज्ज्वलशोभिता ॥ ३.२९ ॥ द्वाभ्यां संगृह्य जानुभ्यां महत्पोतं व्यवस्थिता । तां मनुः प्रत्युवाचेदं का त्वं दिव्यवराङ्गने ॥ ३.३० ॥ तिष्ठसे केन कार्येण त्वमत्र सुरसुन्दरि । सुरासुरगणे नष्टे भ्रमसे लीलयार्णवे ॥ ३.३१ ॥ सरितः सागराः शैलाः क्षयं प्राप्ता ह्यनेकशः । त्वमेका तु कथं साध्वि तिष्ठसे कारणं महत् । श्रोतुमिच्छाम्यहं देवि कथयस्व ह्यशेषतः ॥ ३.३२ ॥ अबलोवाच - ईश्वराङ्गसमुद्भूता ह्यमृतानाम विश्रुता । सरित्पापहरा पुण्या मामाश्रित्य भयं कुतः ॥ ३.३३ ॥ साहं पोतमिमं तुभ्यं गृहीत्वा ह्यागता द्विज । न ह्यस्य पोतस्य क्षयो यत्र तिष्ठति शंकरः ॥ ३.३४ ॥ तस्यास्तद्वचनं श्रुत्वा विस्मयोत्फुल्ललोचनः । मनुना सह राजेन्द्र पोतारूढो ह्यहं तदा ॥ ३.३५ ॥ कृताञ्जलिपुटो भूत्वा प्रणम्य शिरसा विभुम् । व्यापिनं परमेशानमस्तौषमभयप्रदम् ॥ ३.३६ ॥ सद्योजाताय देवाय वामदेवाय वै नमः । भवे भवे नमस्तुभ्यं भक्तिगम्याय ते नमः ॥ ३.३७ ॥ भूर्भुवाय नमस्तुभ्यं रामज्येष्ठाय वै नमः । नमस्ते भद्रकालाय कलिरूपाय वै नमः ॥ ३.३८ ॥ अचिन्त्याव्यक्तरूपाय महादेवाय धामने । विद्महे देवदेवाय तन्नो रुद्र नमोनमः ॥ ३.३९ ॥ जगत्सृष्टिविनाशानां कारणाय नमोनमः । एवं स्तुतो महादेवः पूर्वं सृष्टया मयानघ ॥ ३.४० ॥ प्रसन्नो मावदत्पश्चाद्वरं वरय सुव्रत ॥ ३.४१ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये मार्कण्डेयधर्मराजसंवादे कल्पक्षये मार्कण्डेयकृतपोतार्धारोहणवृत्तान्तवर्णनंनाम तृतीयोऽध्यायः ॥ ऋKV अध्याय ४ श्रीमार्कण्डेय उवाच - ततोऽर्णवात्समुत्तीर्य त्रिकूटशिखरे स्थितम् । महाकनकवर्णाभे नानावर्णशिलाचिते ॥ ४.१ ॥ महाशृङ्गे समासीनं रुद्रकोटिसमन्वितम् । महादेवं महात्मानमीशानमजमव्ययम् ॥ ४.२ ॥ सर्वभूतमयं तात मनुना सह सुव्रत । भूयो ववन्दे चरणौ सर्वदेवनमस्कृतौ ॥ ४.३ ॥ तत्काले युगसाहस्रं सह रुद्रेण मानद । तस्मिन्नेकार्णवे घोरे स्थितोऽहं कुरुनंदन ॥ ४.४ ॥ युधिष्ठिर उवाच - एतच्छ्रुत्वा तु मे तात परं कौतूहलं हृदि । जातं तत्कथयस्वेति शृण्वतः सह बान्धवैः ॥ ४.५ ॥ का सा पद्मपलाशाक्षी तमोभूते महार्णवे । योगिवद्भ्रमते नित्यं रुद्रजां स्वां च याब्रवीत् ॥ ४.६ ॥ श्रीमार्कण्डेय उवाच - एतमेव मया प्रश्नं पुरा पृष्टो मनुः स्वयम् । तदेव तेऽद्य वक्ष्यामि अबलायाः समुद्भवम् ॥ ४.७ ॥ व्यतीतायां निशायां तु ब्रह्मणः परमेष्ठिनः । ततः प्रभाते विमले सृज्यमानेषु जन्तुषु ॥ ४.८ ॥ मनुं प्रणम्य शिरसा पृच्छाम्येतद्युधिष्ठिर । केयं पद्मपलाशाक्षी श्यामा चंद्रनिभानना ॥ ४.९ ॥ एकार्णवे भ्रमत्येका रुद्रजास्मीति वादिनी । सावित्री वेदमाता च ह्यथवा सा सरस्वती ॥ ४.१० ॥ मन्दाकिनी सरिच्छ्रेष्ठा लक्ष्मीर्वा किमथो उमा । कालरात्रिर्भवेत्साक्षात्प्रकृतिर्वा सुखोचिता ॥ ४.११ ॥ एतदाचक्ष्व भगवन्का सा ह्यमृतसंभवा । चरत्येकार्णवे घोरे प्रनष्टोरगराक्षसे ॥ ४.१२ ॥ मनुरुवाच - शृणु वत्स यथान्यायमस्या वक्ष्यामि संभवम् । यया रुद्रसमुद्भूता या चेयं वरवर्णिनी ॥ ४.१३ ॥ पुरा शिवः शान्ततनुश्चचार विपुलं तपः । हितार्थं सर्वलोकानामुमया सह शंकरः ॥ ४.१४ ॥ ऋक्षशैलं समारुह्य तपस्तेपे सुदारुणम् । अदृश्यः सर्वभूतानां सर्वभूतात्मको वशी ॥ ४.१५ ॥ तपतस्तस्य देवस्य स्वेदः समभवत्किल । तं गिरिं प्लावयामास स स्वेदो रुद्रसंभवः ॥ ४.१६ ॥ तस्मादासीत्समुद्भूता महापुण्या सरिद्वरा । या सा त्वयार्णवे दृष्टा पद्मपत्रायतेक्षणा ॥ ४.१७ ॥ स्त्रीरूपं समवस्थाय रुद्रमाराधयत्पुरा । आद्ये कृतयुगे तस्मिन्समानामयुतं नृप ॥ ४.१८ ॥ ततस्तुष्टो महादेव उमया सह शंकरः । ब्रूहि त्वं तु महाभागे यत्ते मनसि वर्तते ॥ ४.१९ ॥ सरिदुवाच - प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे । प्रसादात्तव देवेश अक्षयाहं भवे प्रभो ॥ ४.२० ॥ सरित्सु सागरेष्वेव पर्वतेषु क्षयिष्वपि । तव प्रसादाद्देवेश पुण्या क्षय्या भवे प्रभो ॥ ४.२१ ॥ पापोपपातकैर्युक्ता महापातकिनोऽपि ये । मुच्यन्ते सर्वपापेभ्यो भक्त्या स्नात्वा तु शंकर ॥ ४.२२ ॥ उत्तरे जाह्नवीदेशे महापातकनाशिनी । भवामि दक्षिणे मार्गे यद्येवं सुरपूजिता ॥ ४.२३ ॥ स्वर्गादागम्य गंगेति यथा ख्याता क्षितौ विभो । तथा दक्षिणगङ्गेति भवेयं त्रिदशेश्वर ॥ ४.२४ ॥ पृथिव्यां सर्वतीर्थेषु स्नात्वा यल्लभते फलम् । तत्फलं लभते मर्त्यो भक्त्या स्नात्वा महेश्वर ॥ ४.२५ ॥ ब्रह्महत्यादिकं पापं यदास्ते संचितं क्वचित् । मासमात्रेण तद्देव क्षयं यात्ववगाहनात् ॥ ४.२६ ॥ यत्फलं सर्ववेदेषु सर्वयज्ञेषु शंकर । अवगाहेन तत्सर्वं भवत्विति मतिर्मम ॥ ४.२७ ॥ सर्वदानोपवासेषु सर्वतीर्थावगाहने । तत्फलं मम तोयेन जायतामिति शंकर ॥ ४.२८ ॥ मम तीरे नरा ये तु अर्चयन्ति महेश्वरम् । ते गतास्तव लोकं स्युरेतदेव भवेच्छिव ॥ ४.२९ ॥ मम कूले महेशान उमया सह दैवतैः । वस नित्यं जगन्नाथ एष एव वरो मम ॥ ४.३० ॥ सुकर्मा वा विकर्मा वा शान्तो दान्तो जितेन्द्रियः । मृतो जन्तुर्मम जले गच्छतादमरावतीम् ॥ ४.३१ ॥ त्रिषु लोकेषु विख्याता महापातकनाशिनी । भवामि देवदेवेश प्रसन्नो यदि मन्यसे ॥ ४.३२ ॥ एतांश्चान्यान्वरान्दिव्यान्प्रार्थितो नृपसत्तम । नर्मदया ततः प्राह प्रसन्नो वृषवाहनः ॥ ४.३३ ॥ श्रीमहेश उवाच - एवं भवतु कल्याणि यत्त्वयोक्तमनिन्दिते । नान्या वरार्हा लोकेषु मुक्त्वा त्वां कमलेक्षणे ॥ ४.३४ ॥ यदैव मम देहात्त्वं समुद्भूता वरानने । तदैव सर्वपापानां मोचिनी त्वं न संशयः ॥ ४.३५ ॥ कल्पक्षयकरे काले काले घोरे विशेषतः । उत्तरं कूलमाश्रित्य निवसन्ति च ये नराः ॥ ४.३६ ॥ अपि कीटपतङ्गाश्च वृक्षगुल्मलतादयः । आ देहपतनाद्देवि तेऽपि यास्यन्ति सद्गतिम् ॥ ४.३७ ॥ दक्षिणं कूलमाश्रित्य ये द्विजा धर्मवत्सलाः । आ मृत्योर्निवसिष्यन्ति ते गताः पितृमन्दिरे ॥ ४.३८ ॥ अहं हि तव वाक्येन कस्मिंश्चित्कारणान्तरे । त्वत्तीरे निवसिष्यामि सदैव ह्युमया समम् ॥ ४.३९ ॥ एवं देवि महादेवि एवमेव न संशयः । ब्रह्मेन्द्रचन्द्रवरुणैः साध्यैश्च सह विष्णुना ॥ ४.४० ॥ उत्तरे देवि ते कूले वसिष्यन्ति ममाज्ञया । दक्षिणे पितृभिः सार्द्धं तथान्ये सुरसुन्दरि ॥ ४.४१ ॥ वसिष्यन्ति मया सार्द्धमेष ते वर उत्तमः । गच्छ गच्छ महाभागे मर्त्यान्पापाद्विमोचय ॥ ४.४२ ॥ सहिता ऋषिसंघैश्च तथा सिद्धसुरासुरैः । एवमुक्ता महादेव उमया सहितो विभुः ॥ ४.४३ ॥ वन्द्यमानोऽथ मनुना मया चादर्शनं गतः । तेन चैषा महापुण्या महापातकनाशिनी ॥ ४.४४ ॥ कथिता पृच्छ्यते या ते मा ते भवतु विस्मयः । एषा गंगा महापुण्या त्रिषु लोकेषु विश्रुता ॥ ४.४५ ॥ दशाभिः पञ्चभिः स्रोतैः प्लावयन्ती दिशो दश । शोणो महानदश्चैव नर्मदा सुरसा कृता ॥ ४.४६ ॥ मन्दाकिनी दशार्णा च चित्रकूटा तथैव च । तमसा विदिशा चैव करभा यमुना तथा ॥ ४.४७ ॥ चित्रोत्पला विपाशा च रञ्जना वालुवाहिनी । ऋक्षपादप्रसूतास्ताः सर्वा वै रुद्रसंभवाः ॥ ४.४८ ॥ सर्वपापहराः पुण्याः सर्वमंगलदाः शिवाः । इत्येतैर्नामभिर्दिव्यैः स्तूयते वेदपारगैः ॥ ४.४९ ॥ पुराणज्ञैर्महाभागैराज्यपैः सोमपैस्तथा । इत्येतत्सर्वमाख्यातं महाभाग्यं नरोत्तम ॥ ४.५० ॥ मनुनोक्तं पुरा मह्यममृतायाः समुद्भवम् । पुण्यं पवित्रमतुलं रुद्रोद्गीतमिदं शुभम् ॥ ४.५१ ॥ ये नराः कीर्तयिष्यन्ति भक्त्या शृण्वन्ति येऽपि च । प्रातरुत्थाय नामानि दश पञ्च च भारत ॥ ४.५२ ॥ ते नराः सकलं पुण्यं लभिष्यन्त्यवगाहजम् । विमानेनार्कवर्णेन घण्टाशतनिनादिना ॥ ४.५३ ॥ त्यक्त्वा मानुष्यकं भावं यास्यन्ति परमां गतिम् ॥ ४.५४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदापञ्चदशनामवर्णनं नाम चतुर्थोऽध्यायः ॥ ऋKV अध्याय ५ युधिष्ठिर उवाच - आश्चर्यमेतदखिलं कथितं भो द्विजोत्तम । विस्मयं परमापन्ना ऋषिसंघा मया सह ॥ ५.१ ॥ अहो भगवती पुण्या नर्मदेयमयोनिजा । रुद्रदेहाद्विनिष्क्रान्ता महापापक्षयंकरी ॥ ५.२ ॥ सप्तकल्पक्षये प्राप्ते त्वयेयं सह सुव्रत । न मृता च महाभागा किमतः पुण्यमुत्तमम् ॥ ५.३ ॥ के ते कल्पाः समुद्दिष्टाः सप्त कल्पक्षयंकराः । न मृता चेदियं देवी त्वं चैव ऋषिपुंगव ॥ ५.४ ॥ अपक्षिगणसंघाते जगत्येकार्णवीकृते । कीदृग्रूपः समभवन्महादेवो युगक्षये ॥ ५.५ ॥ कथं संहरते विश्वं कथं चास्ते महार्णवे । कथं च सृजते विश्वं कथं धारयते प्रजाः ॥ ५.६ ॥ कीदृग्रूपा भवेद्देवी सरिदेकार्णवीकृते । किमर्थं नर्मदा प्रोक्ता रेवती च कथं स्मृता ॥ ५.७ ॥ अञ्जनेति किमर्थं वा किमर्थं सुरसेति च । मन्दाकिनी किमर्थं च शोणश्चेति कथं भवेत् ॥ ५.८ ॥ त्रिकूटेति किमर्थं वा किमर्थं वालुवाहिनी । कोटिकोट्यो हि तीर्थानां प्रविष्टा या महार्णवम् ॥ ५.९ ॥ कियत्यः सरितां कोट्यो नर्मदां समुपासते । यज्ञोपवीतैरृषिभिर्देवताभिस्तथैव च ॥ ५.१० ॥ विभक्तेयं किमर्थं च श्रूयते मुनिसत्तम । वैष्णवीति पुराणज्ञैः किमर्थमिह चोच्यते ॥ ५.११ ॥ केषु स्थानेषु तीर्थेषु पूजनीया सरिद्वरा । तीर्थानि च पृथग्ब्रूहि यत्र संनिहितो हरः ॥ ५.१२ ॥ यत्प्रमाणा च सा देवी या रुद्रेण विनिर्मिता । कीदृशानि च कर्माणि रुद्रेण कथितानि ते ॥ ५.१३ ॥ कथं म्लेच्छसमाकीर्णो देशोऽयं द्विजसत्तम । एतदाचक्ष्व मां ब्रह्मन्मार्कण्डेय महामते ॥ ५.१४ ॥ श्रीमार्कण्डेय उवाच - शृण्वन्तु ऋषयः सर्वे त्वं च तात युधिष्ठिर । पुराणं नर्मदायां तु कथितं च त्रिशूलिना ॥ ५.१५ ॥ वायोः सकाशाच्च मया तेनापि च महेश्वरात् । अशक्यत्वान्मनुष्याणां संक्षिप्तमृषिभिः पुरा ॥ ५.१६ ॥ मायूरं प्रथमं तात कौर्म्यं च तदनन्तरम् । पुरं तथा कौशिकं च मात्स्यं द्विरदमेव च ॥ ५.१७ ॥ वाराहं यन्मया दृष्टं वैष्णवं चाष्टमं परम् । न्यग्रोधाख्यमतः चासीदाकाङ्क्षं पुनरुत्तमम् ॥ ५.१८ ॥ पद्मं च तामसं चैव संवर्तोद्वर्तमेव च । महाप्रलयमित्याहुः पुराणे वेदचिन्तकाः ॥ ५.१९ ॥ एतत्संक्षेपतः सर्वं संक्षिप्तं तैर्महात्मभिः । विभक्तं च चतुर्भागैर्ब्रह्माद्यैश्च महर्षिभिः ॥ ५.२० ॥ तदहं सम्प्रवक्ष्यामि पुराणार्थविशारद । सप्त कल्पा महाघोरा यैरियं न मृता सरित् ॥ ५.२१ ॥ आ जङ्गमं तमोभूतमप्रज्ञातमलक्षणम् । नष्टचन्द्रार्ककिरणमासीद्भूतविवर्जितम् ॥ ५.२२ ॥ तमसोऽतो महानाम्ना पुरुषः स जगद्गुरुः । चचार तस्मिन्नेकाकी व्यक्ताव्यक्तः सनातनः ॥ ५.२३ ॥ स चौंकारमयोऽतीतो गायत्रीमसृजद्द्विजः । स तया सार्द्धमीशानश्चिक्रीड पुरुषो विराट् ॥ ५.२४ ॥ स्वदेहादसृजद्विश्वं पञ्चभूतात्मसंज्ञितम् । क्रीडन्समसृजद्विश्वं पञ्चभूतात्मसंज्ञितम् ॥ ५.२५ ॥ क्रीडन् सृजद्विराट्संज्ञः सबीजं च हिरण्मयम् । तच्चाण्डमभवद्दिव्यं द्वादशादित्यसन्निभम् ॥ ५.२६ ॥ तद्भित्त्वा पुरुषो जज्ञे चतुर्वक्त्रः पितामहः । सोऽसृजद्विश्वमेवं तु सदेवासुरमानुषम् ॥ ५.२७ ॥ सतिर्यक्पशुपक्षीकं स्वेदाण्डजजरायुजम् । एतदण्डं पुराणेषु प्रथमं परिकीर्तितम् ॥ ५.२८ ॥ पूर्वकल्पे नृपश्रेष्ठ क्रीडन्त्या परमेष्ठिना । उमया सह रुद्रस्य क्रीडतश्चार्णवीकृतः ॥ ५.२९ ॥ हर्षाज्जज्ञे शुभा कन्या उमायाः स्वेदसंभवा । शर्वस्योरःस्थलाज्जज्ञे उमा कुचविमर्दनात् ॥ ५.३० ॥ स्वेदाद्विजज्ञे महती कन्या राजीवलोचना । द्वितीयः संभवो यस्या रुद्रदेहाद्युधिष्ठिर ॥ ५.३१ ॥ सा परिभ्रमते लोकान् सदेवासुरमानवान् । त्रैलोक्योन्मादजननी रूपेणऽप्रतिमा तदा ॥ ५.३२ ॥ तां दृष्ट्वा देवदैत्येन्द्रा मोहिता लभते कथम् । मृगयन्ति स्म तां कन्यामितश्चेतश्च भारत ॥ ५.३३ ॥ हावभावविलासैश्च मोहयत्यखिलं जगत् । भ्रमते दिव्यरूपा सा विद्युत्सौदामिनी यथा ॥ ५.३४ ॥ मेघमध्ये स्थिता भाभिः सर्वयोषिदनुत्तमा । ततो रुद्रं सुराः सर्वे दैत्याश्च सह दानवैः ॥ ५.३५ ॥ वरयन्ति स्म तां कन्यां कामेनाकुलिता भृशम् । ततोऽब्रवीन्महादेवो देवदानवयोर्द्वयोः ॥ ५.३६ ॥ बलेन तेजसा चैव ह्यधिको यो भविष्यति । स इमां प्राप्स्यते कन्यां नान्यथा वै सुरोत्तमाः ॥ ५.३७ ॥ ततो देवासुराः सर्वे कन्यां वै समुपागमन् । अहमेनां ग्रहीष्यामि अहमेनामिति ब्रुवन् ॥ ५.३८ ॥ पश्यतामेव सर्वेषां सा कन्यान्तरधीयत । पुनस्तां ददृशुः सर्वे योजनान्तरधिष्ठिताम् ॥ ५.३९ ॥ जग्मुस्ते त्वरिताः सर्वे यत्र सा समदृश्यत । त्रिभिश्चतुर्भिश्च तथा योजनैर्दशभिः पुनः ॥ ५.४० ॥ धिष्ठितां समपश्यंस्ते सर्वे मातंगगामिनीम् । योजनानां शतैर्भूयः सहस्रैश्चाप्यधिष्ठिताम् ॥ ५.४१ ॥ तथा शतसहस्रेण लघुत्वात्समदृश्यत । अग्रतः पृष्ठतश्चैव दिशासु विदिशासु च ॥ ५.४२ ॥ तां पश्यन्ति वरारोहामेकधा बहुधा पुनः । दिव्यवर्षसहस्रं तु भ्रामितास्ते तया पुरा ॥ ५.४३ ॥ न चावाप्ता तु सा कन्या महादेवाङ्गसंभवा । सहोमया ततो देवो जहासोच्चैः पुनःपुनः ॥ ५.४४ ॥ गणास्तालकसंपातैर्नृत्यन्ति च मुदान्विताः । अकस्माद्दृश्यते कन्या शंकरस्य समीपगा ॥ ५.४५ ॥ तां दृष्ट्वा विस्मयापन्ना देवा यान्ति पराङ्मुखाः । तस्याश्चक्रे ततो नाम स्वयमेव पिनाकधृक् ॥ ५.४६ ॥ नर्म चैभ्यो ददे यस्मात्तत्कृतैश्चेष्टितैः पृथक् । भविष्यसि वरारोहे सरिच्छ्रेष्ठा तु नर्मदा ॥ ५.४७ ॥ स्वरूपमास्थितो देवः प्राप हास्यं यतो भुवि । नर्मदा तेन चोक्तेयं सुशीतलजला शिवा ॥ ५.४८ ॥ सप्तकल्पक्षये जाते यदुक्तं शंभुना पुरा । न मृता तेन राजेन्द्र नर्मदा ख्यातिमागता ॥ ५.४९ ॥ ततस्तामददात्कन्यां शीलवतीं सुशोभनाम् । महार्णवाय देवेशः सर्वभूतपतिः प्रभुः ॥ ५.५० ॥ ततः सा ऋक्षशैलेन्द्रात्फेनपुञ्जाट्टहासिनी । विवेश नर्मदा देवी समुद्रं सरितां पतिम् ॥ ५.५१ ॥ एवं ब्राह्मे पुरा कल्पे समुद्भूतेयमीश्वरात् । मात्स्ये कल्पे मया दृष्टा समाख्याता मया शृणु ॥ ५.५२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पञ्चमोऽध्यायः ॥ ऋKV अध्याय ६ मार्कण्डेय उवाच - पुनर्युगान्ते सम्प्राप्ते तृतीये नृपसत्तम । दादशार्कवपुर्भूत्वा भगवान्नीललोहितः ॥ ६.१ ॥ सप्तद्वीपसमुद्रान्तां सशैलवनकाननाम् । निर्दग्धां तु महीं कृत्स्नां कालो भूत्वा महेश्वरः ॥ ६.२ ॥ ततो महाघनो भूत्वा प्लावयामास वारिणा । कृष्णं कृष्णवपुस्त्वेनां विद्युच्चन्द्रायुधाङ्किताम् ॥ ६.३ ॥ प्लावयित्वा जगत्सर्वं तस्मिन्नेकार्णवीकृते । सुष्वाप विमले तोये जगत्संक्षिप्य मायया ॥ ६.४ ॥ ततोऽहं भ्रममास्तु तमोभूते महार्णवे । दिव्यं वर्षसहस्रं तु वायुभूते महेश्वरे ॥ ६.५ ॥ ओंकृत्वा देवदेवेशं येनेदं गहनीकृतम् । ध्यायमानस्ततो देवं राजेन्द्र विमले जले ॥ ६.६ ॥ तस्मिन्महार्णवे घोरे नष्टे स्थावरजङ्गमे । मयूरं स्वर्णपत्राढ्यमपश्यंसहसा जले । विचित्रचन्द्रकोपेतं नीलकंठं सुलोचनम् ॥ ६.७ ॥ ततो मयूरः स महार्णवान्ते विक्षोभयित्वा हि महास्वेण । चचार देवस्त्रिशिखी शिखण्डी त्रैलोक्यगोप्ता स महानुभावः ॥ ६.८ ॥ शिवश्च रौद्रेण मयूररूपिणा विक्षोभ्यमाणे सलिलेऽपि तस्मिन् । सह भ्रमन्तीं च महार्णवान्ते सरिन्महौघां सुमहान्ददर्श ॥ ६.९ ॥ स तां महादेवमयूररूपो दृष्ट्वा भ्रमन्तीं सहसोर्मिजालैः । का त्वं शुभे शाश्वतदेहभूता क्षयं न यातासि महाक्षयान्ते ॥ ६.१० ॥ देवासुरगणे नष्टे सरित्सरमहार्णवे । का त्वं भ्रमसि पद्माक्षि क्व गतासि च न क्षयम् ॥ ६.११ ॥ नर्मदोवाच - तव प्रसादाद्देवेश मृत्युर्मम न विद्यते । सृज देव पुनर्विश्वं शर्वरी क्षयमागता ॥ ६.१२ ॥ एवमुक्तो महादेवो व्यधुनोत्पक्षपञ्जरम् । तावत्पञ्जरमध्यान्ते तस्य पक्षाद्विनिःसृताः ॥ ६.१३ ॥ तावन्तो देवदैत्येन्द्राः पक्षाभ्यां तस्य जज्ञिरे । तेषां मध्ये पुनः सा तु नर्मदा भ्रमते सरित् ॥ ६.१४ ॥ ततश्चान्यो महाशैलो दृश्यते भरतर्षभ । त्रिभिः कूटैः सुविस्तीर्णैः शृङ्गवानिव गोवृषः ॥ ६.१५ ॥ त्रिकूटस्तु इति ख्यातः सर्वरत्नैर्विभूषितः । ततस्तस्मात्त्रिकूटाच्च प्लावयन्ती महीं ययौ ॥ ६.१६ ॥ त्रिकूटी तेन विख्याता पित्ःणां त्रायणी परा । द्वितीयाच्च ततो गङ्गा विस्तीर्णा धरणीतले ॥ ६.१७ ॥ तृतीयं च ततः शृङ्गं सप्तधा खण्डशो गतम् । जम्बूद्वीपे तु संजाताः सप्त ते कुलपर्वताः ॥ ६.१८ ॥ चन्द्रनक्षत्रसहिता ग्रहग्रामनदीनदाः । अण्डजं स्वेदजं जातमुद्भिज्जं च जरायुजम् ॥ ६.१९ ॥ एवं जगदिदं सर्वं मयूरादभवत्पुरा । समस्तं नरशार्दूल महादेवसमुद्भवम् ॥ ६.२० ॥ ततो नदीः समुद्रांश्च संविभज्य पृथक्पृथक् । नर्मदामाह देवेशो गच्छ त्वं दक्षिणां दिशम् ॥ ६.२१ ॥ एवं सा दक्षिणा गंगा महापातकनाशिनी । उत्तरे जाह्नवी देशे पुण्या त्वं दक्षिणे शुभा ॥ ६.२२ ॥ यथा गंगा महापुण्या मम मस्तकसंभवा । तद्विशिष्टा महाभागे त्वं चैवेति न संशयः ॥ ६.२३ ॥ त्वया सह भविष्यामि एकेनांशेन सुव्रते । महापातकयुक्तानामौषधं त्वं भविष्यसि ॥ ६.२४ ॥ एवमुक्ता तु देवेन महापातकनाशिनी । दक्षिणं दिग्विभागं तु सा जगामाशु विक्रमा ॥ ६.२५ ॥ ऋक्षशैलेन्द्रमासाद्य चन्द्रमौलेरनुग्रहात् । वार्यौघैः प्रस्थिता यस्मान्महादेवप्रणोदिता ॥ ६.२६ ॥ महता चापि वेगेन यस्मादेषा समुच्छ्रिता । महती तेन सा प्रोक्ता महादेवान्महीपते ॥ ६.२७ ॥ तपतस्तस्य देवस्य शूलाग्राद्बिन्दवोऽपतन् । तेनैषा शोणसंज्ञा तु दश सप्त च ताः स्मृताः ॥ ६.२८ ॥ सर्वेषां नर्मदा पुण्या रुद्रदेहाद्विनिःसृता । सर्वाभ्यश्च सरिद्भ्यश्च वरदानान्महात्मनः ॥ ६.२९ ॥ शंकरानुप्रहाद्देवी महापातकनाशिनी । यस्मान्महार्णवे घोरे दृश्यते महती च सा ॥ ६.३० ॥ सुव्यक्ताङ्गी महाकाया महती तेन सा स्मृता । तस्माद्विक्षोभ्यमाणा हि दिग्गजैरम्बुदोपमैः ॥ ६.३१ ॥ कलुषत्वं नयत्येव रसेन सुरसा तथा । कृपां करोति सा यस्माल्लोकानामभयप्रदा ॥ ६.३२ ॥ संसारार्णवमग्नानां तेन चैषा कृपा स्मृता । पुरा कृतयुगे पुण्ये दिव्यमन्दारभूषिता ॥ ६.३३ ॥ कल्पवृक्षसमाकीर्णा रोहीतकसमाकुला । वहत्येषा च मन्देन तेन मन्दाकिनी स्मृता ॥ ६.३४ ॥ भित्त्वा महार्णवं क्षिप्रं यस्माल्लोकमिहागता । पूज्या सुरैश्च सिद्धैश्च तस्मादेषा महार्णवा ॥ ६.३५ ॥ विचित्रोत्पलसंघातैरृक्षद्विपसमाकुला ॥ ६.३६ ॥ भित्त्वा शैलं च विपुलं प्रयात्येवं महार्णवम् । भ्रामयन्ती दिशः सर्वा रवेण महता पुरा ॥ ६.३७ ॥ प्लावयन्ती विराजन्ती तेन रेवा इति स्मृता । भार्यापुत्रसुदुःखाढ्यान्नराञ्छापैः समावृतान् ॥ ६.३८ ॥ विपापान्कुरुते यस्माद्विपापा तेन सा स्मृता । विण्मूत्रनिचयां घोरां पांशुशोणितकर्दमाम् ॥ ६.३९ ॥ पाशैर्नित्यं तु सम्बाधां यस्मान्मोचयते भृशम् । विपाशेति च सा प्रोक्ता संसारार्णवतारिणी ॥ ६.४० ॥ नर्मदा विमलाम्भा च विमलेन्दुशुभानना । तमोभूते महाघोरे यस्मादेषा महाप्रभा ॥ ६.४१ ॥ विमला तेन सा प्रोक्ता विद्वद्भिर्नृपसत्तम । करैरिन्दुकरप्रख्यैः सूर्यरश्मिसमप्रभा ॥ ६.४२ ॥ क्षरन्ती मोदते विश्वं करभा तेन चोच्यते । यस्माद्रञ्जयते लोकान्दर्शनादेव भारत ॥ ६.४३ ॥ रञ्जनाद्रञ्जना प्रोक्ता धात्वर्थे राजसत्तम । तृणवीरुधगुल्माद्यास्तिर्यञ्चः पक्षिणस्तथा । तानुद्भूतान्नयेत्स्वर्गं तेनोक्ता वायुवाहिनी ॥ ६.४४ ॥ एवं यो वेत्ति नामानि निर्गमं च विशेषतः । स याति पापविर्मुक्तो रुद्रलोकं न संशयः ॥ ६.४५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये सहैतुकरेवानाममाहात्म्यवर्णने मयूरकल्पसमुद्भवो नाम षष्ठोऽध्यायः ॥ ऋKV अध्याय ७ श्रीमार्कण्डेय उवाच - पुनरेकार्णवे घोरे नष्टे स्थावरजंगमे । सलिलेनाप्लुते लोके निरालोके तमोद्भवे ॥ ७.१ ॥ ब्रह्मैको विचरंस्तत्र तमीभूते महार्णवे । दिव्यवर्षसहस्रं तु खद्योत इव रूपवान् ॥ ७.२ ॥ शेते योजनसाहस्रमप्रमेयमनुत्तमम् । द्वादशादित्यसंकाशं सहस्रचरणेक्षणम् ॥ ७.३ ॥ प्रसुप्तं चार्णवे घोरे ह्यपश्यत्कूर्मरूपिणम् । तं दृष्ट्वा विस्मयापन्नो ब्रह्मा बोधयते शनैः ॥ ७.४ ॥ स्तुतिभिर्मंगलैश्चैव वेदवेदांगसंभवैः । वाचस्पते विबुध्यस्व महाभूत नमोऽस्तु ते ॥ ७.५ ॥ तवोदरे जगत्सर्वं तिष्ठते परमेश्वर । तद्विमुञ्च महासत्त्व यत्पूर्वं संहृतं त्वया ॥ ७.६ ॥ व्यतीता रजनी ब्राह्मी दिनं समनुवर्तते । निरीक्ष्य सर्वलोकेश येन संभवते जगत् ॥ ७.७ ॥ स निशम्य वचस्तस्य उत्थितः परमेश्वरः । समुद्गिरन् स लोकांस्त्रीन् ग्रस्तान् कल्पक्षये तदा ॥ ७.८ ॥ देवदानवगन्धर्वाः सयक्षोरगराक्षसाः । सचन्द्रार्कग्रहाः सर्वे शरीरात्तस्य निर्गताः ॥ ७.९ ॥ ततो ह्येकार्णवं सर्वं विभज्य परमेश्वरः । विस्तीर्णोपलतोयौघां सरित्सरविवर्धिताम् ॥ ७.१० ॥ पश्यते मेदिनीं देवः सवृक्षौषधिपल्वलाम् । हिमवन्तं गिरिश्रेष्ठं श्वेतं पर्वतमुत्तमम् ॥ ७.११ ॥ शृङ्गवन्तं महाशैलं ये चान्ये कुलपर्वताः । जंबुद्वीपं कुशं क्रौञ्चं सगोमेदं सशाल्मलम् ॥ ७.१२ ॥ पुष्करान्ताश्च ये द्वीपा ये च सप्तमहार्णवाः । लोकालोकं महाशैलं सर्वं च पुरतः स्थितम् ॥ ७.१३ ॥ चतुःप्रकृतिसंयुक्तं जगत्स्थावरजंगमम् । युगान्ते तु विनिष्क्रान्तमपश्यत्स महेश्वरः ॥ ७.१४ ॥ विप्रकीर्णशिलाजालामपश्यत्स वसुंधराम् । कूर्मपृष्ठोपगां देवीं महार्णवगतां प्रभुः ॥ ७.१५ ॥ तस्मिन् विशीर्णशैलाग्रे सरित्सरोविवर्जिते । नानातरंगभिन्नोद आवर्तोद्वर्तसंकुले ॥ ७.१६ ॥ नानौषधिप्रज्वलिते नानोत्पलशिलातले । नानाविहंगसंघुष्टां मत्स्यकूर्मसमाकुलाम् ॥ ७.१७ ॥ दिव्यमायामयीं देवीमुत्कृष्टाम्बुदसन्निभाम् । नदीमपश्यद्देवेशो ह्यनौपम्यजलाशयाम् ॥ ७.१८ ॥ मध्ये तस्याम्बुदश्यामां पीनोरुजघनस्तनीम् । वस्त्रैरनुपमैर्दिव्यैर्नानाभरणभूषिताम् ॥ ७.१९ ॥ सनूपुररवोद्दामां हारकेयूरमण्डिताम् । तादृशीं नर्मदां देवीं स्वयं स्त्रीरूपधारिणीम् ॥ ७.२० ॥ योगमायामयैश्चित्रैर्भूषणैः स्वैर्विभूषिताम् । अव्यक्ताङ्गीं महाभागामपश्यत्स तु नर्मदाम् ॥ ७.२१ ॥ अर्धोद्यतभुजां बालां पद्मपत्रायतेक्षणाम् । स्तुवन्तीं देवदेवेशमुत्थितां तु जलात्तदा ॥ ७.२२ ॥ विस्मयाविष्टहृदयो ह्यहमुद्वीक्ष्य तां शुभाम् । स्नात्वा जले शुभे तस्याः स्तोतुमभ्युद्यतस्ततः ॥ ७.२३ ॥ अर्चयामास संहृष्टो मन्त्रैर्वेदांगसंभवैः । सृष्टं च तत्पुरा राजन्पश्येयं सचराचरम् ॥ ७.२४ ॥ सदेवासुरगन्धर्वं सपन्नगमहोरगम् । पश्याम्येषा महाभागा नैव याता क्षयं पुरा ॥ ७.२५ ॥ महादेवप्रसादाच्च तच्छरीरसमुद्भवा । भूयो भूयो मया दृष्टा कथिता ते नृपोत्तम ॥ ७.२६ ॥ प्रादुर्भावमिमं कौर्म्यं येऽधीयन्ते द्विजोत्तमाः । येऽपि शृण्वन्ति विद्वांसो मुच्यन्ते तेऽपि किल्बिषैः ॥ ७.२७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कूर्मकल्पसमुद्भवो नाम सप्तमोऽध्यायः ॥ ऋKV अध्याय ८ मार्कण्डेय उवाच - नष्टे लोके पुनश्चान्ये सलिलेन समावृते । महार्णवस्य मध्यस्थो बाहुभ्यामतरं जलम् ॥ ८.१ ॥ दिव्ये वर्षशते पूर्णे श्रान्तोऽहं नृपसत्तम । ध्यातुं समारभं देवं महदर्णवतारणम् ॥ ८.२ ॥ ध्यायमानस्ततः काले अपश्यं पक्षिणं परम् । हारकुन्देन्दुसंकाशं बकं गोक्षीरपाण्डुरम् ॥ ८.३ ॥ ततोऽहं विस्मयाविष्टस्तं बकं समुदीक्ष्य वै । अस्मिन्महार्णवे घोरे कुतोऽयं पक्षिसंभवः ॥ ८.४ ॥ तरन्बाहुभिरश्रान्तस्तं बकं प्रत्यभाषिषि । पाक्षरूपं समास्थाय कस्त्वमेकार्णवीकृते ॥ ८.५ ॥ भ्रमसे दिव्ययोगात्मन्मोहयन्निव मां प्रभो । एतत्कथय मे सर्वं योऽसि सोऽसि नमोऽस्तु ते ॥ ८.६ ॥ सोऽब्रवीन्मां महादेवो ब्रह्माहं विष्णुरेव च । जगत्सर्वं मया वत्स संहृतं किं न बुध्यसे ॥ ८.७ ॥ तव माता पिताहं वै विश्वस्य च महामुने । कारुण्यं मम संजातं दृष्ट्वा मग्नं महार्णवे ॥ ८.८ ॥ पक्षिरूपं समास्थाय अतोऽत्राहं समागतः । किमर्थमातुरो भूत्वा भ्रमसीत्थं महार्णवे ॥ ८.९ ॥ शीघ्रं प्रविश मत्पक्षौ येन विश्रमसे द्विज । एवमुक्तस्ततस्तेन देवेनाहं नरेश्वर ॥ ८.१० ॥ ततोऽहं तस्य पक्षान्ते प्रलीनस्तु भ्रमञ्जले । काले युगसाहस्रान्ते अश्रान्तोऽर्णवमध्यगः ॥ ८.११ ॥ ततः शृणोमि सहसा दिक्षु सर्वासु सुव्रत । किंचिन्नूपुरसंमिश्रमद्भुतं शब्दमुत्तमम् ॥ ८.१२ ॥ तदार्णवजलं सर्वं संक्षिप्तं सहसाभवत् । किमेतदिति संचिन्त्य दिशः समवलोकयम् ॥ ८.१३ ॥ दश कन्यास्ततो दिक्षु आगताश्च महार्णवे । वस्त्रालंकारसहिता दिग्भ्यो नूपुरभूषिताः ॥ ८.१४ ॥ काचिच्चन्द्रसमाभासा काचिदादित्यसप्रभा । काचिदंजनपुञ्जाभा काचिद्रक्तोत्पलप्रभा ॥ ८.१५ ॥ नानारूपधरा सौम्या नानाभरणभूषिता । अर्घ्यपाद्यादिभिर्माल्यैर्बकमभ्यर्च्य सुव्रताः ॥ ८.१६ ॥ ततस्तं पर्वताकारं गुह्यं पक्षिणमव्ययम् । प्रविवेश महाघोरं पर्वतो ह्यर्णवं स्वराट् ॥ ८.१७ ॥ योजनानां सहस्राणि तावन्त्येव शतानि च । त्रिंशद्योजनसाहस्रं यावद्भूमण्डलं त्विति ॥ ८.१८ ॥ ततो भूमण्डलं दिव्यं पञ्चरत्नसमाकुलम् । दिव्यस्फटिकसोपानं रुक्मस्तंभमनोरमम् ॥ ८.१९ ॥ योजनानां सहस्रं तु विस्तराद्द्विगुणायतम् । वापीकूपसमाकीर्णं प्रासादाट्टालकावृतम् ॥ ८.२० ॥ कल्पवृक्षसमाकीर्णं ध्वजषष्टिविभूषितम् । तस्मिन्पुरवरे रम्ये नानारत्नोपशोभितम् ॥ ८.२१ ॥ तथान्यच्च पुरं रम्यं पताकोज्ज्वलवेदिकम् । शतयोजनविस्तीर्णं तावद्द्विगुणमायतम् ॥ ८.२२ ॥ पुरमध्ये ततस्तस्मिन्नदी परमशोभना । महती पुण्यसलिला नानारत्नशिला तथा ॥ ८.२३ ॥ तस्यास्तीरे मया दृष्टं तडित्सूर्यसमप्रभम् । इन्द्रनीलमहानीलैश्चितं रत्नैः समन्ततः ॥ ८.२४ ॥ क्वचिद्वह्निसमाकारं क्वचिदिन्द्रायुधप्रभम् । क्वचिद्धूम्रं क्वचित्पीतं क्वचिद्रक्तं क्वचित्सितम् ॥ ८.२५ ॥ नानावर्णैः समायुक्तं लिङ्गमद्भुतदर्शनम् । ब्रह्मविष्ण्विन्द्रसाध्यैश्च समन्तात्परिवारितम् ॥ ८.२६ ॥ नन्दीश्वरगणाध्यक्षैश्चेन्द्रादित्यैश्च तद्वृतम् । पश्यामि लिङ्गमीशानं महालिङ्गं तमेव च ॥ ८.२७ ॥ परिवार्य ततस्तं तु प्रसुप्तान्देवदानवान् । निमीलिताक्षान्पश्यामि दिव्याभरणभूषितान् ॥ ८.२८ ॥ ततस्ताः पद्मपत्राक्ष्यो नार्यः परमसंमताः । नद्यास्तस्या जले स्नात्वा दिव्यपुष्पैर्मनोरमैः ॥ ८.२९ ॥ दत्त्वार्घपाद्यं विधिवल्लिंगस्य सह पक्षिणा । अर्चयन्तीर्वरारोहा दश ताः प्रमदोत्तमाः ॥ ८.३० ॥ ततस्त्वभ्यर्च्य तल्लिङ्गं तस्मिन्नेव पुरोत्तमे । सर्वा अदर्शनं जग्मुर्विद्युतोऽभ्रगणेष्विव ॥ ८.३१ ॥ न चासौ पक्षिराट्तस्मिन्न स्त्रियो न च देवताः । तदेवैकं स्थितं लिङ्गमर्चयन्विस्मयान्वितः ॥ ८.३२ ॥ ततोऽहं दुःखमूढात्मा रुद्रमायेति चिन्तयन् । ततः कन्याः समुत्तीर्य दिव्यांबरविभूषणाः ॥ ८.३३ ॥ भासयन्त्यो जगत्सर्वं विद्युतोऽभ्रगणानिव । पद्मैर्हिरण्मयैर्दिव्यैरर्चयित्वा शुभाननाः ॥ ८.३४ ॥ विविशुस्तज्जलं क्षिप्रं समंताद्वरभूषणाः । तस्मिन्पुरवरे चान्ये तामेवाहं पुनःपुनः ॥ ८.३५ ॥ पश्यामि ह्यमरां कन्यामर्चयन्तीं महेश्वरम् । ततोऽहं तां वरारोहामपृच्छं कमलेक्षणाम् ॥ ८.३६ ॥ का त्वमस्मिन्पुरे देवि वससे शिवमर्चती । ताश्चागताः स्त्रियः सर्वाः क्व गतास्ते गणेश्वराः ॥ ८.३७ ॥ नमोऽस्तु ते महाभागे ब्रूहि पुण्ये महेश्वरि । तव प्रसादाद्विज्ञातुमेतदिच्छामि सुव्रते । दयां कृत्वा महादेवि कथयस्व ममानघे ॥ ८.३८ ॥ श्र्युवाच - विस्मृताहं कथं विप्र दृष्ट्वा कल्पे पुरातने । मा तेऽभूत्स्मृतिविभ्रंशः सा चाहं कल्पवाहिनी ॥ ८.३९ ॥ नर्मदा नाम विख्याता रुद्रदेहाद्विनिःसृता । यास्ताः कन्यास्त्वया दृष्टा ह्यर्चयन्त्यो महेश्वरम् ॥ ८.४० ॥ याभिस्त्विह समानीतः पक्षिराजसमन्विताः । दिशस्ता विद्धि सर्वेशाः सर्वास्त्वं मुनिसत्तम ॥ ८.४१ ॥ तिर्यक्पक्षिस्वरूपेण महायोगी महेश्वरः । एभिः शिवपुराद्विप्र आनीतः स महेश्वरः ॥ ८.४२ ॥ सैष देवो महादेवो लिङ्गमूर्तिर्व्यवस्थितः । अर्च्यते ब्रह्मविष्ण्विन्द्रैः सुरासुरजगद्गुरुः ॥ ८.४३ ॥ लयमायाति यस्माद्धि जगत्सर्वं चराचरम् । तेन लिङ्गमिति प्रोक्तं पुराणज्ञैर्महर्षिभिः ॥ ८.४४ ॥ तेन देवगणाः सर्वे संक्षिप्ता मायया पुरा । प्रलीनाश्चैव लोकेश न दृश्यन्ते हि सांप्रतम् ॥ ८.४५ ॥ पुनर्दृश्या भविष्यन्ति सृजमानाः स्वयंभुवा । साहं लिङ्गार्चनपरा नर्मदा नाम नामतः ॥ ८.४६ ॥ कालं युगसहस्रस्य रुद्रस्य परिचारिका । अस्य प्रसादादमरस्तथा त्वं द्विजपुंगव ॥ ८.४७ ॥ सत्यार्जवदयायुक्तः सिद्धोऽसि त्वं शिवार्चनात् । एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत ॥ ८.४८ ॥ ताः स्त्रियः स च देवेशो बकरूपो महेश्वरः । तस्यास्तद्वचनं श्रुत्वा अवतीर्य महानदीम् ॥ ८.४९ ॥ स्नात्वा समर्चय त्वं हि विधिना मन्त्रपूर्वकम् । ततोऽहं सहसा तस्मात्समुत्तीर्य जलाशयात् ॥ ८.५० ॥ न च पश्यामि तल्लिङ्गं न च तां निम्नगां नृप । तदैव लोकाः संजाताः क्षितिश्चैव सकानना ॥ ८.५१ ॥ ऋक्षचन्द्रार्कविततं तदेव च नभस्तलम् । यथापूर्वमदृष्टं तु तथैव च पुनः कृतम् । नतोऽहं मनसा देवमपूजयं महेश्वरम् ॥ ८.५२ ॥ एवं बके पुरा कल्पे मया दृष्टेयमव्यया । नर्मदा मर्त्यलोकस्य महापातकनाशिनी ॥ ८.५३ ॥ तस्माद्धर्मपरैर्विप्रैः क्षत्रशूद्रविशादिभिः । सदा सेव्या महाभागा धर्मवृद्ध्यर्थकारिभिः ॥ ८.५४ ॥ येऽपि भक्तया सकृत्तोये नर्मदाया महेश्वरम् । स्नात्वा ते सर्वं पापं नाशयन्त्यसंशयम् ॥ ८.५५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये बककल्पसमुद्भवो नामाष्टमोऽध्यायः ॥ ऋKV अध्याय ९ श्रीमार्कण्डेय उवाच - पुनर्युगान्तं ते चान्यं सम्प्रवक्ष्यामि तच्छृणु । सूर्यैरादीपिते लोके जङ्गमे स्थावरे पुरा ॥ ९.१ ॥ सरित्सरःसमुद्रेषु क्षयं यातेषु सर्वशः । निर्मानुषवषट्कारे ह्यमर्यादगतिं गते ॥ ९.२ ॥ नानारूपैस्ततो मेधैः शक्रायुधविराजितैः । सर्वमापूरितं व्योम वार्यौघैः पूरिते तदा ॥ ९.३ ॥ ततस्त्वेकार्णवीभूते सर्वतः सलिलावृते । जगत्कृत्वोदरे सर्वं सुष्वाप भगवान्हरः ॥ ९.४ ॥ प्रकृतिं स्वामवष्टभ्य योगात्मा स प्रजापतिः । शेते युगसहस्रान्तं कालमाविश्य सार्णवम् ॥ ९.५ ॥ तत्र सुप्तं महात्मानं ब्रह्मलोकनिवासिनः । भृग्वादिऋषयः सर्वे ये चान्ये सनकादयः ॥ ९.६ ॥ पर्यङ्के विमले शुभ्रे नानास्तरणसंस्तृते । शयानं ददृशुर्देवं सपत्नीकं वृषध्वजम् ॥ ९.७ ॥ विश्वरूपा तु सा नारी विश्वरूपो महेश्वरः । गाढमालिङ्ग्य सुप्तस्तां ददृशे चाहमव्ययम् ॥ ९.८ ॥ पादमूले ततस्तस्य श्यामां तां पद्मलक्षणाम् । कन्यां पश्यामि सुश्रोणीं चरणौ तस्य मृद्गतीम् ॥ ९.९ ॥ विमलाम्बरसंवीतां व्यालयज्ञोपवीतिनीम् । श्यामां कमलपत्राक्षीं सर्वाभरणभूषिताम् ॥ ९.१० ॥ सकलं युगसाहस्रं नर्मदेयं विजानती । प्रसुप्तं देवदेवेशमुपास्ते वरवर्णिनी ॥ ९.११ ॥ हृतैर्वेदैश्चतुर्भिश्च ब्रह्माप्येवं महेश्वरः । भृग्वाद्यैर्मानसैः पुत्रैः स्तौति शङ्करमव्ययम् ॥ ९.१२ ॥ भक्त्या परमया राजंस्तत्र शम्भुमनामयम् । स्तुवन्तस्तत्र देवेशं मन्त्रैरीश्वरसम्भवैः ॥ ९.१३ ॥ प्रसुप्तं देवमीशानं बोधयन्समुपस्थितः । उत्तिष्ठ हर पिङ्गाक्ष महादेव महेश्वर ॥ ९.१४ ॥ मम वेदा हृताः सर्वे अतोऽहं स्तोतुमुद्यतः । वेदैर्व्याप्तं जगत्सर्वं दिव्यादिव्यं चराचरम् ॥ ९.१५ ॥ अतीतं वर्तमानं च स्मरामि च सृजाम्यहम् । तैर्विना चाहमेकस्तु मूकोऽधो जडवत्सदा ॥ ९.१६ ॥ गतिर्वीर्यं बलोत्साहौ तैर्विना न प्रजायते । तैर्विना देवदेवेश नाहं किंचित्स्मरामि वै ॥ ९.१७ ॥ तान्वेदान्देवदेवेश शीघ्रं मे दातुमर्हसि । जडान्धबधिरं सर्वं जगत्स्थावरजङ्गमम् ॥ ९.१८ ॥ स्थानादि दश चत्वारि न शोभन्ते सुरेश्वर । प्रणमाम्यल्पवीर्यत्वाद्वेदहीनः सुरेश्वर ॥ ९.१९ ॥ वेदेभ्यः सकलं जातं यत्किंचित्सचराचरम् । तावच्छोभन्ति शास्त्राणि समस्तानि जगद्गुरो ॥ ९.२० ॥ यावद्वेदनिधिरयं नोपतिष्ठेत्सनातनः । यथोदितेन सूर्येण तमो याति विनाशताम् ॥ ९.२१ ॥ एवं समस्तपापानि यान्ति वेदस्य धारणात् । वेदे रहसि यत्सूक्ष्मं यत्तद्ब्रह्म सनातनम् ॥ ९.२२ ॥ हृदिस्थं देव जानामि गतं तद्वेदगर्जनात् । वेदानुच्चरतो मेऽद्य तव शङ्कर चाग्रतः ॥ ९.२३ ॥ अकस्मात्ते गता वेदा न सृजेयं विभो भुवम् । तेऽपि सर्वे महादेव प्रविष्टाः सम्मुखार्णवम् ॥ ९.२४ ॥ ते याच्यमाना देवेश तिष्ठन्तु स्मरणे मम । दुहितेयं विशालाक्षी सर्वः सर्वं विजानते ॥ ९.२५ ॥ जायती युगसाहस्रं नान्या काचिद्भवेदृशी । ऋषिश्चायं महाभागो मार्कण्डो धीमतां वरः ॥ ९.२६ ॥ कल्पे कल्पे महादेव त्वामयं पर्युपासते । जगत्त्रयहितार्थाय चरते व्रतमुत्तमम् ॥ ९.२७ ॥ एवमुक्तस्तु देवेशो ब्रह्मणा परमेष्ठिना । उवाच श्लक्ष्णया वाचा नर्मदां सरितां वराम् ॥ ९.२८ ॥ कथयस्व महाभागे ब्रह्मणस्त्वं तु पृच्छतः । केन वेदा हृताः सर्वे वेधसो जगतीगुरोः ॥ ९.२९ ॥ एवमुक्ता तु रुद्रेण उवाच मृगलोचना । ब्रह्मणो जपतो वेदांस्त्वयि सुप्ते महेश्वर ॥ ९.३० ॥ भवतश्छिद्रमासाद्य घोरेऽस्मिन्सलिलावृते । पूर्वकल्पसमुद्भूतावसुरौ सुरदुर्जयौ ॥ ९.३१ ॥ श्रियावृत्तौ महादेव त्वया चोत्पादितौ पुरा । सुरासुरसुदुर्जेयौ दानवौ मधुकैटभौ ॥ ९.३२ ॥ तौ वायुभूतौ सूक्ष्मौ च पठतोऽस्मात्पितामहात् । तावाशु हृत्वा वेदांश्च प्रविष्टौ च महार्णवम् ॥ ९.३३ ॥ एतच्छ्रुत्वा महातेजा ह्यमृतायास्ततो वचः । सस्मार स च देवेशं शङ्खचक्रगदाधरम् ॥ ९.३४ ॥ स विवेश महाराज भूतलं ससुरोत्तमः । दानवान्तकरो देवः सर्वदैवतपूजितः ॥ ९.३५ ॥ मीनरूपधरो देवो लोडयामास चार्णम् । वेदांश्च ददृशे तत्र पाताले निहितान्प्रभुः ॥ ९.३६ ॥ तौ च दैत्यौ महावीर्यौ दृष्टवान्मधुसूदनः । महावेगौ महाबाहू सूदयामास तेजसा ॥ ९.३७ ॥ वेदांस्तत्रापि तोयस्थानानिनाय जगद्गुरुः । चतुर्वक्त्राय देवायाददाच्चक्रविभूषितः ॥ ९.३८ ॥ ततः प्रहृष्टो भगवान् वेदांल्लब्ध्वा पितामहः । जनयामास निखिलं जगद्भूयश्चराचरम् ॥ ९.३९ ॥ सा च देवी नदी पुण्या रुद्रस्य परिचारिका । पावनी सर्वभूतानां प्रोवाह सलिलं तदा ॥ ९.४० ॥ तस्यास्तीरे ततो देवा ऋषयश्च तपोधनाः । यजन्ति त्र्यम्बकं देवं प्रहृष्टेनान्तरात्मना ॥ ९.४१ ॥ एका मूर्तिर्महेशस्य कारणान्तरगता । त्रैगुण्या कुरुते कर्म ब्रह्मचक्रीशरूपतः ॥ ९.४२ ॥ एतेषां तु पृथग्भावं ये कुर्वन्ति सुमोहिताः । तेषां धर्मः कुतः सिद्धिर्जायते पापकर्मिणाम् ॥ ९.४३ ॥ एवमेता महानद्यस्तिस्रो रुद्रसमुद्भवाः । एका एव त्रिधा भूता गङ्गा रेवा सरस्वती ॥ ९.४४ ॥ गङ्गा तु वैष्णवी मूर्तिः सर्वपापप्रणाशिनी । रुद्रदेहसमुद्भूता नर्मदा चैवमेव तु ॥ ९.४५ ॥ ब्राह्मी सरस्वती मूर्तिस्त्रिषु लोकेषु विश्रुता । दिव्या कामगमा देवी वाग्विभूत्यै तु संस्थिता ॥ ९.४६ ॥ नर्मदा परमा काचिन्मर्त्यमूर्तिकला शिवा । दिव्या कामगमा देवी सर्वत्र सुरपूजिता ॥ ९.४७ ॥ व्यापिनी सर्वभूतानां सूक्ष्मात्सूक्ष्मतरा स्मृता । अक्षया ह्यमृता ह्येषा स्वर्गसोपानमुत्तमा ॥ ९.४८ ॥ सृष्टा रुद्रेण लोकानां संसारार्णवतारिणी ॥ ९.४९ ॥ सीरजलं येऽपि पिबन्ति लोके मुच्यन्ति ते पापविशेषसङ्घैः । व्रजन्ति संसारमनादिभावं त्यक्त्वा चिरं मोक्षपदं विशुद्धम् ॥ ९.५० ॥ यथा गङ्गा तथा रेवा तथा चैव सरस्वती । समं पुण्यफलं प्रोक्तं स्नानदर्शनचिन्तनैः ॥ ९.५१ ॥ वरदानान्महाभागा ह्यधिका चोच्यते बुधैः । कारुण्यान्तरभावेन न मृता समुपागता ॥ ९.५२ ॥ मुच्यन्ते दर्शनात्तेन पातकैः स्नानमङ्गलैः । नर्मदायां नृपश्रेष्ठ ये नमन्ति त्रिलोचनम् ॥ ९.५३ ॥ उमारुद्राङ्गसम्भूता येन चैषा महानदी । लोकान्प्रापयते स्वर्गं तेन पुण्यत्वमागता ॥ ९.५४ ॥ य एवमीशानवरस्य देहं विभज्य देवीमिह संशृणोति । स याति रुद्रं महतारवेण गन्धर्वयक्षैरिव गीयमानः ॥ ९.५५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदोत्पत्तितत्स्नानफलादिकथनं नाम नवमोऽध्यायः ॥ ऋKV अध्याय १० युधिष्ठिर उवाच - कस्मिन्कल्पे महाभागा नर्मदेयं द्विजोत्तम । विभक्ता ऋषिभिः सर्वैस्तपोयुक्तैर्महात्मभिः ॥ १०.१ ॥ एतद्विस्तरतः सर्वं ब्रूहि मे वदतां वर । कल्पान्ते यद्भवेत्कष्टं लोकानां तत्त्वमेव च ॥ १०.२ ॥ अतीते तु पुरा कल्पे यथेयं वर्ततेऽनघ । अस्यान्त्यस्य च कल्पस्य व्यवस्थां कथय प्रभो । एवमुक्तः सभामध्ये मार्कण्डो वाक्यमब्रवीत् ॥ १०.३ ॥ मार्कण्डेय उवाच - वक्ष्येऽहं श्रूयतां सर्वैः कथेयं पूर्वतः श्रुता ॥ १०.४ ॥ महत्कथेयं वैशिष्टी कल्पादस्मात्परं तु या । लोकक्षयकरो घोर आसीत्कालः सुदारुणः ॥ १०.५ ॥ तस्मिन्नपि महाघोरे यथेयं वा मृता सती । परितुष्टैर्विभक्ता च शृणुध्वं तां कथामिमाम् ॥ १०.६ ॥ युगान्ते समनुप्राप्ते पितामहदिनत्रये । मानसा ब्रह्मणः पुत्राः साक्षाद्ब्रह्मेव सत्तमाः ॥ १०.७ ॥ सनकाद्या महात्मानो ये च वैमानिका गणाः । यमेन्द्रवरुणाद्याश्च लोकपाला दिनत्रये ॥ १०.८ ॥ कालापेक्षास्तु तिष्ठन्ति लोकवृत्तान्ततत्पराः । ततः कल्पक्षये प्राप्ते तेषां ज्ञानमनुत्तमम् ॥ १०.९ ॥ सर्वेषां नश्यते चायुर्युगरूपानुसारतः । भूर्लोकं ते परित्यज्य अगमंश्च भुवं तदा ॥ १०.१० ॥ स्वर्लोकं च महश्चैव जनश्चैव तपस्तदा । आश्रयं सत्यलोकं च सर्वलोकमनुत्तमम् ॥ १०.११ ॥ कालं युगसहस्रान्तं पुत्रपौत्रसमन्विताः । सत्यलोके च तिष्ठन्ति यावत्संजायते जगत् ॥ १०.१२ ॥ ब्रह्मपुत्राश्च ये केचित्कल्पादौ न भवन्ति ह । त्रैलोक्यं ते परित्यज्य अनाधारं भवन्ति च ॥ १०.१३ ॥ तैः सार्धं ये तु ते विप्रा अन्ये चापि तपोधनाः । यक्षरक्षःपिशाचाश्च अन्ये वैमानिका गणाः ॥ १०.१४ ॥ ऋषयश्च महाभागा वर्णाश्चान्ये पृथग्विधाः । सीदन्ति भूम्यां सहिता ये चान्ये तलवासिनः ॥ १०.१५ ॥ अनावृष्टिरभूत्तत्र महती शतवार्षिकी । लोकक्षयकरी रौद्रा वृक्षवीरुद्विनाशिनी ॥ १०.१६ ॥ त्रैलोक्यसंक्षोभकरी सप्तार्णवविशोषणी । ततो लोकाः क्षुधाविष्टा भ्रमन्तीव दिशो दश ॥ १०.१७ ॥ कंदैर्मूलैः फलैर्वापि वर्तयन्ते सुदुःखिताः । सरितः सागराः कूपाः सेवन्ते पावनानि च ॥ १०.१८ ॥ तत्रापि सर्वे शुष्यन्ति सरिद्भिः सह सागराः । ततो यान्यल्पसाराणि सत्त्वानि पृथिवीतले ॥ १०.१९ ॥ तान्येवाग्रे प्रलीयन्ते भिन्नान्युरुजलेन वै । अथ संक्षीयमाणासु सरित्सु सह सागरैः ॥ १०.२० ॥ ऋषीणां षष्टिसाहस्रं कुरुक्षेत्रनिवासिनाम् । ये च वैखानसा विप्रा दन्तोलूखलिनस्तथा ॥ १०.२१ ॥ हिमाचलगुहागुह्ये ये वसन्ति तपोधनाः । सर्वे ते मामुपागम्य क्षुत्तृषार्तास्तपोधनाः ॥ १०.२२ ॥ ऊचुः प्राञ्जलयः सर्वे सीदयामो महामुने । सरित्सागरशैलान्तं जगत्संशुष्यते द्विज ॥ १०.२३ ॥ कुत्र यास्याम सहिता यावत्कालस्य पर्ययः । दीर्घायुरसि विप्रेन्द्र न मृतस्त्वं युगक्षये ॥ १०.२४ ॥ भूतं भव्यं भविष्यच्च सर्वं तव हृदि स्थितम् । तस्मात्त्वं वेत्सि सर्वं च कथयस्व महाव्रत ॥ १०.२५ ॥ कीदृक्कालं महाभाग क्षपिष्यामोऽथ सुव्रत । अनावृष्टिहतं सर्वं सीदते सचराचरम् ॥ १०.२६ ॥ परित्राहि महाभाग न यथा याम संक्षयम् । ततः संचिन्त्य मनसा त्वरन्विप्रानथाब्रवम् ॥ १०.२७ ॥ कुरुक्षेत्रं त्यजध्वं च पुत्रदारसमन्विताः । त्यक्त्वोदीचीं दिशं सर्वे यामो याम्यामनुत्तमाम् ॥ १०.२८ ॥ नगरग्रामघोषाढ्यां पुरपत्तनशोभिताम् । गच्छामो नर्मदातीरं बहुसिद्धनिषेवितम् ॥ १०.२९ ॥ रुद्राङ्गीं तां महापुण्यां सर्वपापप्रणाशिनीम् । पश्यामस्तां महाभागां न्यग्रोधावारसंकुलाम् ॥ १०.३० ॥ माहेश्वरैर्भागवतैः सांख्यैः सिद्धैः सुसेविताम् । अनावृष्टिभयाद्भीताः कूलयोरुभयोरपि ॥ १०.३१ ॥ आश्रमे ह्याश्रमान्दिव्यान्कारयामो जितव्रताः । एवमुक्तास्तु ते सर्वे समेतानुचरैः सह ॥ १०.३२ ॥ नर्मदातीरमासाद्य स्थिताः सर्वेऽकुतोभयाः । किंचित्पूर्वमनुस्मृत्य पुरा कल्पादिभिर्भयम् ॥ १०.३३ ॥ प्राप्तास्तु नर्मदातीरमादावेव कलौ युगे । ततो वर्षशतं पूर्णं दिव्यं रेवातटेऽवसन् ॥ १०.३४ ॥ षड्विंशच्च सहस्राणि वर्षाणां मानुषाणि च । तत्राश्चर्यं मया दृष्टमृषीणां वसतां नृप ॥ १०.३५ ॥ अनावृष्टिहते लोके संशुष्के स्थावरे चरे । भिन्ने युगादिकलने हाहाभूते विचेतने ॥ १०.३६ ॥ चातुर्वर्णे प्रलीने तु नष्टे होमबलिक्रमे । निःस्वाहे निर्वषट्कारे शौचाचारविवर्जिते ॥ १०.३७ ॥ इयमेका सरिच्छ्रेष्ठा ऋषिकोटिनिषेविता । नान्या काचित्त्रिलोकेऽपि रमणीया नरेश्वर ॥ १०.३८ ॥ यथेयं पुण्यसलिला इन्द्रस्येवामरावती । देवतायतनैः शुभ्रैराश्रमैश्च सुकल्पितैः ॥ १०.३९ ॥ शोभते नर्मदा देवी स्वर्गे मन्दाकिनी यथा । यावद्वृक्षा महाशैला यावत्सागरसंभवा ॥ १०.४० ॥ उभयोः कूलयोस्तावन्मण्डितायतनैः शुभैः । हूयद्भिरग्निहोत्रैश्च हविर्धूमसमाकुला ॥ १०.४१ ॥ बभूव नर्मदा देवी प्रावृट्काल इव शर्वरी । देवतायतनैर्नैकैः पूजासंस्कारशोभिता ॥ १०.४२ ॥ सरिद्भिर्भ्राजते श्रेष्ठा पुरी शाक्री च भास्करी । केचित्पञ्चाग्नितपसः केचिदप्यग्निहोत्रिणः ॥ १०.४३ ॥ केचिद्धूमकमश्नन्ति तपस्युग्रे व्यवस्थिताः । आत्मयज्ञरताः केचिदपरे भक्तिभागिनः ॥ १०.४४ ॥ वैष्णवज्ञानमासाद्य केचिच्छैवं व्रतं तथा । एकरात्रं द्विरात्रं च केचित्षष्ठाहभोजनाः ॥ १०.४५ ॥ चान्द्रायणविधानैश्च कृच्छ्रिणश्चातिकृच्छ्रिणः । एवंविधैस्तपोभिश्च नर्मदातीरशोभितैः ॥ १०.४६ ॥ यजद्भिः शंकरं देवं केशवं भाति नित्यदा । एकत्वे च पृथक्त्वे च यजतां च महेश्वरम् ॥ १०.४७ ॥ कलौ युगे महाघोरे प्राप्ताः सिद्धिमनुत्तमाम् । यस्य यस्य हि या भक्तिर्विज्ञानं यस्य यादृशम् ॥ १०.४८ ॥ यस्मिन्यस्मिंश्च देवे तु तांतामीशोऽददात्प्रभुः । स्वभावैकतया भक्त्या तामेत्यान्तः प्रलीयते ॥ १०.४९ ॥ संसारे परिवर्तन्ते ये पृथग्भाजिनो नराः । ये महावृक्षमीशानं त्यक्त्वा शाखावलम्बिनः ॥ १०.५० ॥ पुनरावर्तमानास्ते जायन्ते हि चतुर्युगे । देवान्ते स्थावरान्ते च संसारे चाभ्रमन्क्रमात् ॥ १०.५१ ॥ पुनर्जन्म पुनः स्वर्गे पुनर्घोरे च रौरवे । ये पुनर्देवमीशानं भवं भक्तिसुसंस्थिताः ॥ १०.५२ ॥ यजन्ति नर्मदातीरे न पुनस्ते भवन्ति च । आ देहपतनात्केचिदुपासन्तः परं गताः ॥ १०.५३ ॥ केचिद्द्वादशभिर्वर्षैः षड्भरन्ये तपोधनाः । त्रिभिः संवत्सरैः केचित्केचित्संवत्सरेण तु ॥ १०.५४ ॥ षड्भिर्मासैस्तु संसिद्धास्त्रिभिर्मासैस्तथापरे । मुनयो देवमाश्रित्य नर्मदां च यशस्विनीम् ॥ १०.५५ ॥ छित्त्वा संसारदोषांश्च अगमन्ब्रह्म शाश्वतम् । एवं कलियुगे घोरे शतशोऽथ सहस्रशः ॥ १०.५६ ॥ नर्मदातीरमाश्रित्य मुनयो रुद्रमाविशन् ॥ १०.५७ ॥ ये नर्मदातीरमुपेत्य विप्राः शैवे व्रते यत्नमुपप्रपन्नाः । त्रिकालमम्भः प्रविगाह्य भक्त्या देवं समभ्यर्च्य शिवं व्रजन्ति ॥ १०.५८ ॥ ध्यानार्चनैर्जाप्यमहाव्रतैश्च नारायणं वा सततं स्मरन्ति । ते धौतपाण्डुरपटा इव राजहंसाः संसारसागरजलस्य तरन्ति पारम् ॥ १०.५९ ॥ सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ १०.६० ॥ यो वा हरं पूजयते जितात्मा मासं च पक्षं च वसेन्नरेन्द्र । रेवां समाश्रित्य महानुभावः स देवदेवोऽथ भवेत्पिनाकी ॥ १०.६१ ॥ कीटाः पतंगाश्च पिपीलिकाश्च ये वै म्रियन्तेऽम्भसि नर्मदायाः । ते दिव्यरूपास्तु कुलप्रसूताः शतं समा धर्मपरा भवन्ति ॥ १०.६२ ॥ कालेन वृक्षाः प्रपतन्ति येऽपि महातरंगौघनिकृत्तमूलाः । ते नर्मदांभोभिरपास्तपापा देदीप्यमानास्त्रिदिवं प्रयान्ति ॥ १०.६३ ॥ अकामकामाश्च तथा सकामा रेवान्तमाश्रित्य म्रियन्ति तीरे । जडान्धमूकास्त्रिदिवं प्रयान्ति किमत्र विप्रा भवभावयुक्ताः ॥ १०.६४ ॥ मासोपवासैरपि शोषिताङ्गा न तां गतिं यान्ति विमुक्तदेहाः । म्रियन्ति रेवाजलपूतकायाः शिवार्चने केशवभावयुक्ताः ॥ १०.६५ ॥ नीवारश्यामाकयवेङ्गुदाद्यैरन्यैर्मुनीन्द्रा इह वर्तयन्ति । आप्रित्य कूलं त्रिदशानुगीतं ते नर्मदाया न विशन्ति मृत्युम् ॥ १०.६६ ॥ भ्रमन्ति ये तीरमुपेत्य देव्यास्त्रिकालदेवार्चनसत्यपूताः । विण्मूत्रचर्मास्थितिरोपधानाः कुक्षौ युवत्या न वसन्ति भूयः ॥ १०.६७ ॥ किं यज्ञदानैर्बहुभिश्च तेषां निषेवितैस्तीर्थवरैः समस्तैः । रेवातटं दक्षिणमुत्तरं वा सेवन्ति ते रुद्रचरानुपूर्वम् ॥ १०.६८ ॥ ते वञ्चिताः पङ्गुजडान्धभूता लोकेषु मर्त्याः पशुभिश्च तुल्याः । ये नाश्रिता रुद्रशरीरभूतां सोपानपङ्क्तिं त्रिदिवस्य रेवाम् ॥ १०.६९ ॥ युगं कलिं घोरमिमं य इच्छेद्द्रष्टुं कदाचिन्न पुनर्द्विजेन्द्रः । स नर्मदातीरमुपेत्य सर्वं सम्पूजयेत्सर्वविमुक्तसंगः ॥ १०.७० ॥ विघ्नैरनेकैरतियोज्यमाना ये तीरमुझन्ति न नर्मदायाः । ते चैव सर्वस्य हितार्थभूता वन्द्याश्च ते सर्वजनस्य मान्याः ॥ १०.७१ ॥ भृग्वत्रिगार्गेयवशिष्ठकङ्काः शतैः समेतैर्नियतास्त्वसंख्यैः । सिद्धिं परां ते हि जलप्लुताङ्गाः प्राप्तास्तु लोकान्मरुतां न चान्ये ॥ १०.७२ ॥ ज्ञानं महत्पुण्यतमं पवित्रं पठन्त्यदो नित्यविशुद्धसत्त्वाः । गतिं परां यान्ति महानुभावा रुद्रस्य वाक्यं हि यथा प्रमाणम् ॥ १०.७३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदास्नानफलश्रुतिकथनं नाम दशमोऽध्यायः ॥ ऋKV अध्याय ११ युधिष्ठिर उवाच - अहो महत्पुण्यतमा विशिष्टा क्षयं न याता इह या युगान्ते । तस्मात्सदा सेव्यतमा मुनीन्द्रैर्ध्यानार्चनस्नानपरायणैश्च ॥ ११.१ ॥ यामाश्रित्य गता मोक्षमृषयो धर्मवत्सलाः । ये त्वयोक्तास्तु नियमा ऋषीणां वेदनिर्मिताः ॥ ११.२ ॥ मोक्षावाप्तिर्भवेद्येषां नियमैश्च पृथग्विधैः । दशद्वादशभिर्वापि षड्भिरष्टाभिरेव वा ॥ ११.३ ॥ त्रिभिस्तथा चतुर्भिर्वा वर्षैर्मासैस्तथैव च । मुच्यन्ते कलिदोषैस्ते देवेशानसमर्चनात् ॥ ११.४ ॥ ब्रह्माणं वा सुरश्रेष्ठ केशवं वा जगद्गुरुम् । अर्चयन्पापमखिलं जहात्येव न संशयः ॥ ११.५ ॥ एतद्विस्तरतः सर्वं कथयस्व ममानघ । यस्मिन्संसारगहने निमग्नाः सर्वजन्तवः । ते कथं त्रिदिवं प्राप्ता इति मे संशयो वद ॥ ११.६ ॥ श्रीमार्कण्डेय उवाच - जन्मान्तरैरनेकैस्तु मानुष्यमुपलभ्यते । भक्तिरुत्पद्यते चात्र कथंचिदपि शङ्करे ॥ ११.७ ॥ तीर्थदानोपवासानां यज्ञैर्देवद्विजार्चनैः । अवाप्तिर्जायते पुंसां श्रद्धया परया नृप ॥ ११.८ ॥ तस्माच्छ्रद्धा प्रकर्तव्या मानवैर्धर्मवत्सलैः । ईशोऽपि श्रद्धया साध्यस्तेन श्रद्धा विशिष्यते ॥ ११.९ ॥ अन्यथा निष्फलं सर्वं श्रद्धाहीनं तु भारत । तस्मात्समाश्रयेद्भक्तिं रुद्रस्य परमेष्ठिनः ॥ ११.१० ॥ तेषांहि सफलं जन्म येषां भक्तिरचञ्चला । सा चैव त्रिविधा भक्तिः सात्त्विकी राजसी तथा ॥ ११.११ ॥ तामसी सर्वलोकस्य त्रिविधं च फलं लभेत् । ते कर्मफलसंयोगादावर्तन्ते पुनःपुनः ॥ ११.१२ ॥ जन्मान्तरशतैस्तेषां ज्ञानिनां देवयाजिनाम् । देवत्रये भवेद्भक्तिः क्षयात्पापस्य कर्मणः ॥ ११.१३ ॥ ईशानात्तु पुनर्मोक्षो जायते छिन्नसंशयः । ये पुनर्नर्मदातीरमाश्रित्य द्विजपुंगवाः ॥ ११.१४ ॥ त्रयीमार्गमसन्दिग्धास्ते यान्ति परमां गतिम् । एकाग्रमनसो ये तु शङ्करं शिवमव्ययम् ॥ ११.१५ ॥ अर्चयन्तीह निरताः क्षिप्रं सिध्यन्ति ते जनाः । कालेन महता सिद्धिर्जायतेऽन्यत्र देहिनाम् ॥ ११.१६ ॥ नर्मदायाः पुनस्तीरे क्षिप्रं सिद्धिरवाप्यते । षड्भिर्वर्षैस्तु सिध्यन्ति ये तु सांख्यविदो जनाः ॥ ११.१७ ॥ वैष्णवा ज्ञानसम्पन्नास्तेऽपि सिध्यन्ति चाग्रतः । सर्वयोगविदो ये च समुद्रमिव सिन्धवः ॥ ११.१८ ॥ एकीभवन्ति कल्पान्ते योगे माहेश्वरे गताः । सर्वेषामेव योगानां योगो माहेश्वरो वरः ॥ ११.१९ ॥ तमासाद्य विमुच्यन्ते येऽपि स्युः पापयोनयः । शिवमर्च्य नदीकूले जायन्ते ते न योनिषु ॥ ११.२० ॥ गतिरेषा दुरारोहा सर्वपापक्षयंकरी । मुच्यन्ते मङ्क्षु संसाराद्रेवामाश्रित्य जन्तवः ॥ ११.२१ ॥ तस्मात्स्नायी भवेन्नित्यं तथा भस्मविलेपनः । नर्मदातीरमासाद्य क्षिप्रं सिद्धिमवाप्नुयात् ॥ ११.२२ ॥ त्रिकालं पूजयेच्छान्तो यो नरो लिङ्गमादरात् । सर्वरोगविनिर्मुक्तः स याति परमां गतिम् ॥ ११.२३ ॥ षड्भिः सिध्यति मसैस्तु यद्यपि स्यात्स पापकृत् । ये पुनः शुद्धमनसो मासैः शुध्यन्ति ते त्रिभिः ॥ ११.२४ ॥ यथा दिनकरस्पृष्टं हिमं शैलाद्विशीर्यन्ते । तद्वद्विलीयते पापं स्पृष्टं भस्मकणैः शुभैः ॥ ११.२५ ॥ वैनतेयभयत्रस्ता यथा नश्यन्ति पन्नगाः । तद्वत्पापानि नश्यन्ति भस्मनाभ्युक्षितानि ह ॥ ११.२६ ॥ नर्मदातोयपूतेन भस्मनोद्धूलयन्ति ये । सद्यस्ते पापसङ्घाच्च मुच्यन्ते नात्र संशयः ॥ ११.२७ ॥ व्रतं पाशुपतं भक्तया यथोक्तं पालयन्ति ये । शूद्रान्नेन विहीनास्तु ते यान्ति परमां गतिम् ॥ ११.२८ ॥ अमृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् । वैश्यान्नमन्नमेव स्याच्छूद्रान्नं रुधिरं स्मृतम् ॥ ११.२९ ॥ शूद्रान्नरससंपुष्टा ये म्रियन्ते द्विजोत्तमाः । ते तपोज्ञानहीनास्तु काका गृध्रा भवन्ति ते ॥ ११.३० ॥ दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति । यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम् ॥ ११.३१ ॥ विशेषाद्यतिधर्मेण तपोलौल्यं समाश्रिताः । नरकं यान्त्यसन्दिग्धमित्येवं शङ्करोऽब्रवीत् ॥ ११.३२ ॥ ईदृग्रूपाश्च ये विप्राः पाशुपत्ये व्यवस्थिताः । ते महत्पापसंघातं दहन्त्येव न संशयः ॥ ११.३३ ॥ विडम्बेन च संयुक्ता लौलुप्येन च पीडिताः । असंग्राह्या इत्येवं श्रुतिनोदना ॥ ११.३४ ॥ मातापितृकृतैर्दोषैरन्ये केचित्स्वकर्मजैः । नष्टा ज्ञानावलेपेन अहङ्कारेणऽपरे ॥ ११.३५ ॥ शाङ्करे प्रस्थिता धर्मे ये स्मृत्यर्थबहिष्कृताः । क्लिश्यमानास्तु कलेन ते यान्ति परमां गतिम् ॥ ११.३६ ॥ अश्रद्दधानाः पुरुषा मूर्खा दम्भविवर्धिताः । न सिध्यन्ति दुरात्मानः कुदृष्टान्तार्थकीर्तनाः ॥ ११.३७ ॥ महाभाग्येऽपि तीर्थस्य शाङ्करं व्रतमास्थिताः । वियोनिं यान्त्यसन्दिग्धं लौलुप्येन समन्विताः ॥ ११.३८ ॥ न तीर्थैर्न च दानैश्च दुष्कृतं हि विलुप्यते । अज्ञानाच्च प्रमादाच्च कृतं पापं विनश्यति ॥ ११.३९ ॥ एवं ज्ञात्वा तु विधिना वर्तितव्यं द्विजातिभिः । परं ब्रह्म जपद्भिश्च वार्तितव्यं मुहुर्मुहुः ॥ ११.४० ॥ ऊर्ध्वरूपं विरूपाक्षं योऽधीते रुद्रमेव च । ईशानं पश्यते साक्षात्षण्मासात्सङ्गवर्जितः ॥ ११.४१ ॥ संहिताया दशावृत्तीर्यः करोति सुसंयतः । नर्मदातटमाश्रित्य स मुच्येत्सर्वपातकैः ॥ ११.४२ ॥ पुराणसंहितां वापि शैवीं वा वैष्णवीमपि । यः पठेन्नर्मदातीरे शिवाग्रे स शिवात्मकः ॥ ११.४३ ॥ आ भूतसंक्षयं यावत्स्वर्गलोके महीयते । संसाख्यसनं हातुं पुरा प्रोक्तं तु नन्दिना ॥ ११.४४ ॥ देवर्षिसिद्धगन्धर्वसमवाये शिवालये । नन्दिगीतामिमां राजञ्छृणुष्वैकमनाः शुभाम् ॥ ११.४५ ॥ स्वर्गमोक्षप्रदां पुण्यां संसारभयनाशिनीम् ॥ ११.४६ ॥ संसारगह्वरगुहां प्रविहातुमेतां चेदिच्छथ प्रतिपदं भवतापखिन्नाः । नानाविधैर्निजकृतैर्बहुकर्मपाशैर्बद्धाः सुखाय शृणुतैकहितं मयोक्तम् ॥ ११.४७ ॥ शक्र वक्रगतिं मा गा मा कृथा यम यातनाम् । चेतः प्रचेतः शमय लौलुप्यं त्यज वित्तप ॥ ११.४८ ॥ दीनानाथविशिष्टेभ्यो धनं सर्वं परित्यज । यदि संसारजलधेर्वीचीप्रेङ्खोल्लनातुरः ॥ ११.४९ ॥ जन्मोद्विग्नं मृतेस्त्रस्तं ग्रस्तं कामादिभिर्नरम् । स्रस्तं यो न यमादिभ्यः पिनाकी पाति पावनः ॥ ११.५० ॥ मा धेहि गर्वं कीनाश हास्यं यास्यसि पीडयन् । प्राणिनं सर्वशरणं तद्भावि शरणं तव ॥ ११.५१ ॥ कालः करालको बालः को मृत्युः को यमाधमः । शिवविष्णुपराणां हि नराणां किं भयं भवेत् ॥ ११.५२ ॥ भवभारार्तजन्तूनां रेवातीरनिवासिनाम् । भर्गश्च भगवांश्चैव भवभीतिविभेदनौ ॥ ११.५३ ॥ शिवं भज शिवं ध्याय शिवं स्तुहि शिवं यज । शिवं नम वराक त्वं ज्ञानं मोक्षं यदीच्छसि ॥ ११.५४ ॥ पठ पञ्चाननं शास्त्रं मन्त्रं पञ्चाक्षरं जप । धेहि पञ्चात्मकं तत्त्वं यज पञ्चाननं परम् ॥ ११.५५ ॥ किं तैः कर्मगणैः शोच्यैर्नानाभावविशेषितैः । यदि पञ्चाननः श्रीमान् सेव्यते सर्वथा शिवः ॥ ११.५६ ॥ किं संसारगजोन्मत्तबृंहितैर्निभृतैरपि । यदि पञ्चाननो देवो भावगन्धोपसेवितः ॥ ११.५७ ॥ रे मूढ किं विषादेन प्राप्य कर्मकदर्थनाम् । भवानीवल्लभं भीमं जप त्वं भयनाशनम् ॥ ११.५८ ॥ नर्मदातीरनिलयं दुःखौघविलयंकरम् । स्वर्गमोक्षप्रदं भर्गं भज मूढ सुरेश्वरम् ॥ ११.५९ ॥ विहाय रेवां सुरसिन्धुसेव्यां तत्तीरसंस्थं च हरं हरिं च । उन्मत्तवद्भावविवर्जितस्त्वं क्व यासि रे मूढ दिगन्तराणि ॥ ११.६० ॥ भज रेवाजलं पुण्यं यज रुद्रं सनातनम् । जप पञ्चाक्षरीं विद्यां व्रज स्थानं च वाञ्छितम् ॥ ११.६१ ॥ क्लेशयित्वा निजं कायमुपायैर्बहुभिस्तु किम् । भज रेवां शिवं प्राप्य सुखसाध्यं परं पदम् ॥ ११.६२ ॥ एवं कैलासमासाद्य नदीं स शिवसन्निधौ । जगौ यल्लोकपालानां तन्मयोक्तं तवाधुना ॥ ११.६३ ॥ मार्कण्डेय उवाच - स्नानदानपरो यस्तु नित्यं धर्ममनुव्रतः । नर्मदातीरमाश्रित्य मुच्यते सर्वपातकैः ॥ ११.६४ ॥ विधिहीनो जपेन्नित्यं वेदान्सर्वाञ्छतं समाः । मृत्युलाङ्गलजाप्येन समो योऽप्यधिको गुणैः ॥ ११.६५ ॥ बीजयोन्यविशुद्धस्तु यथा रुद्रं न विन्दति । तथा लाङ्गलमन्त्रोऽपि न तिष्ठति गतायुषि ॥ ११.६६ ॥ गायत्रीजपसंयुक्तः संयमी ह्यधिको गुणैः । अग्निमीडे इषेत्वो वा अग्न आयाहि नित्यदा ॥ ११.६७ ॥ शन्नो देवीति कूलस्थो जपेन्मुच्येत किल्बिषैः ॥ ११.६८ ॥ साङ्गोपाङ्गांस्तथा वेदाञ्जपन्नित्यं समाहितः । न तत्फलमवाप्नोति गायत्र्या संयमी यथा ॥ ११.६९ ॥ रुद्राध्यायं सकृज्जप्त्वा विप्रो वेदसमन्वितः । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ११.७० ॥ अन्यद्वै जप्यसंस्थानं सूक्तमारण्यकं तथा । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ११.७१ ॥ यत्किंचित्क्रियते जाप्यं यच्च दानं प्रदीयते । नर्मदाजलमाश्रित्य तत्सर्वं चाक्षयं भवेत् ॥ ११.७२ ॥ एवंविधैर्व्रतैर्नित्यं नर्मदां ये समाश्रिताः । ते मृता वैष्णवं यान्ति पदं वा शैवमव्ययम् ॥ ११.७३ ॥ सत्यलोकं नराः केचित्सूर्यलोकं तथापरे । अप्सरोगणसंवीता यावदाभूतसम्प्लवम् ॥ ११.७४ ॥ एवं वै वर्तमानेऽस्मिंल्लोके तु नृपपुंगव । ऋषीणां दशकोट्यस्तु कुरुक्षेत्रनिवासिनाम् ॥ ११.७५ ॥ मया सह महाभाग नर्मदातटमाश्रिताः । फलमूलकृताहारा अर्चयन्तः स्थिताः शिवम् ॥ ११.७६ ॥ तच्च वर्षशतं दिव्यं कालसंख्यानुमानतः । षड्विंशतिसहस्राणि तानि मानुषसंख्यया ॥ ११.७७ ॥ ततस्तस्यामतीतायां सन्ध्यायां नृपसत्तम । शेषं मानुष्यमेकं तु काले वर्षशतं स्थितम् ॥ ११.७८ ॥ ततोऽभवदनावृष्टिर्लोकक्षयकरी तदा । यया यातं जगत्सर्वं क्षयं भूयो हि दारुणम् ॥ ११.७९ ॥ ये पूर्वमिह संसिद्धा ऋषयो वेदपारगाः । तेषां प्रभावाद्भगवान् ववर्ष बलवृत्रहा ॥ ११.८० ॥ महती भूरिसलिला समन्ताद्वृष्टिराहिता । ततो वृष्ट्या तु तेषां वै वर्तनं समजायत ॥ ११.८१ ॥ पुनर्युगान्ते सम्प्राप्ते किंचिच्छेषे कलौ युगे । निःशेषमभवत्सर्वं शुष्कं स्थावरजङ्गमम् ॥ ११.८२ ॥ निर्वृक्षौषधगुल्मं च तृणवीरुद्विवर्जितम् । अनावृष्टिहतं सर्वं भूमण्डलमभूद्भृशम् ॥ ११.८३ ॥ ततस्ते ऋषयः सर्वे क्षुत्तृषार्ताः सहस्रशः । युगस्वभावमाविष्टा हीनसत्त्वा अभवन्नृप ॥ ११.८४ ॥ नष्टहोमस्वधाकारे युगान्ते समुपस्थिते । किं कार्यं क्व नु यास्यामः कोऽस्माकं शरणं भवेत् ॥ ११.८५ ॥ तानहं प्रत्युवाचेदं मा भैष्टेति पुनःपुनः । ईदृग्विधा मया दृष्टा बहवः कालपर्ययाः ॥ ११.८६ ॥ नर्मदातीरमाश्रित्य ते सर्वे गमिता मया । एषा हि शरणं देवी सम्प्राप्ते हि युगक्षये ॥ ११.८७ ॥ नान्या गतिरिहास्माकं विद्यते द्विजसत्तमाः । जनित्री सर्वभूतानां विशेषेण द्विजोत्तमाः ॥ ११.८८ ॥ पितामहा ये पितरो ये चान्ये प्रपितामहाः । ते समस्ता गताः स्वर्गं समाश्रित्य महानदीम् ॥ ११.८९ ॥ भृग्वाद्याः सप्त ये त्वासन्मम पूर्वपितामहाः । धौमृणी च महाभागा मम भार्या शुचिस्मिता । मनस्वती च या मता भार्गवोऽङ्गिरसस्तथा ॥ ११.९० ॥ पुलस्त्यः पुलहश्चैव वसिष्ठात्रेयकाश्यपाः । तथान्ये च महाभागा नियमव्रतचारिणः । अन्ये च शतसाहस्रा अत्र सिद्धिं समागताः ॥ ११.९१ ॥ तस्मादियं महाभागा न मोक्तव्या कदाचन । नान्या काचिन्नदी शक्ता लोकत्रयफलप्रदा ॥ ११.९२ ॥ द्वन्द्वैरनेकैर्बहुभिः क्षुत्तृषाद्यैर्महाभयैः । मुच्यन्ते ते नराः सद्यो नर्मदातीरवासिनः ॥ ११.९३ ॥ तस्मात्सर्वप्रयत्नेन सेवितव्या सरिद्वरा । वाञ्छद्भिः परमं श्रेय इह लोके परत्र च ॥ ११.९४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्यवर्णनं नाम एकादशोऽध्यायः ॥ ऋKV अध्याय १२ श्रीमार्कण्डेय उवाच - एतच्छ्रुत्वा वचो राजन्संहृष्टा ऋषयोऽभवन् । नर्मदां स्तोतुमारब्धाः कृताञ्जलिपुटा द्विजाः ॥ १२.१ ॥ नमोऽस्तु ते पुण्यजले नमो मकरगामिनि । नमस्ते पापमोचिन्यै नमो देवि वरानने ॥ १२.२ ॥ नमोऽस्तु ते पुण्यजलाश्रये शुभे विशुद्धसत्त्वं सुरसिद्धसेविते । नमोऽस्तु ते तीर्थगणैर्निषेविते नमोऽस्तु रुद्राङ्गसमुद्भवे वरे ॥ १२.३ ॥ नमोऽस्तु ते देवि समुद्रगामिनि नमोऽस्तु ते देवि वरप्रदे शिवे । नमोऽस्तु लोकद्वयसौख्यदायिनि ह्यनेकभूतौघसमाश्रितेऽनघे ॥ १२.४ ॥ सरिद्वरे पापहरे विचित्रिते गन्धर्वयक्षोरगसेविताङ्गे । सनातनि प्राणिगणानुकम्पिनि मोक्षप्रदे देवि विधेहि शं नः ॥ १२.५ ॥ महागजैर्घमहिषैर्वराहैः संसेविते देवि महोर्मिमाले । नताः स्म सर्वे वरदे सुखप्रदे विमोचयास्मान्पशुपाशबन्धात् ॥ १२.६ ॥ पापैरनेकैरशुभैर्विबद्धा भ्रमन्ति तावन्नरकेषु मर्त्याः । महानिलोद्भूततरङ्गभूतं यावत्तवाम्भो हि न संस्पृशन्ति ॥ १२.७ ॥ अनेकदुःखौघभयार्दितानां पापैरनेकैरभिवेष्टितानाम् । गतिस्त्वमम्भोजसमानवक्रे द्वन्द्वैरनेकैरपि संवृतानाम् ॥ १२.८ ॥ नद्यश्च पूता विमला भवन्ति त्वां देवि सम्प्राप्य न संशयोऽत्र । दुःखातुराणामभयं ददासि शिष्टैरनेकैरभिपूजितासि ॥ १२.९ ॥ स्पृष्टं करैश्चन्द्रमसो रवेश्च तदैव दद्यात्परमं पदं तु । यत्रोपलाः पुण्यजलाप्लुतास्ते शिवत्वमायान्ति किमत्र चित्रम् ॥ १२.१० ॥ भ्रमन्ति तावन्नरकेषु मर्त्या दुःखातुराः पापपरीतदेहाः । महानिलोद्भूततरङ्गभङ्गं यावत्तवाम्भो न हि संश्रयन्ति ॥ १२.११ ॥ म्लेच्छाः पुलिन्दास्त्वथ यातुधानाः पिबन्ति येऽम्भस्तव देवि पुण्यम् । मुक्ता भवन्तीह भयात्तु घोरान्निःसंशयं तेऽपि किमत्र चित्रम् ॥ १२.१२ ॥ सरांसि नद्यः क्षयमभ्युपेता घोरे युगेऽस्मिन् हि कलौ प्रदूषिते । त्वं भ्राजसे देवि जलौघपूर्णा दिवीव नक्षत्रपथे च गङ्गा ॥ १२.१३ ॥ तव प्रसादाद्वरदे वरिष्ठे कालं यथेमं परिपालयित्वा । यामोऽथ रुद्रं तव सुप्रसादाद्वयं तथा त्वं कुरु वै प्रसादम् ॥ १२.१४ ॥ गतिस्त्वमम्बेव पितेव पुत्रांस्त्वं पाहि नो यावदिमं युगान्तम् । कालं त्वनावृष्टिहतं सुघोरं यावत्तरामस्तव सुप्रसादात् ॥ १२.१५ ॥ पठन्ति ये स्तोत्रमिदं द्विजेन्द्राः शृण्वन्ति ये चापि नराः प्रशान्ताः । ते यान्ति रुद्रं वृषसंयुतेन यानेन दिव्याम्बरभूषिताश्च ॥ १२.१६ ॥ ये स्तोत्रमेतत्सततं पठन्ति स्नात्वा तु तोये खलु नर्मदायाः । अन्ते हि तेषां सरिदुत्तमेयं गतिं विशुद्धामचिराद्ददाति ॥ १२.१७ ॥ प्रातः समुत्थाय तथा शयानो यः कीर्तयेतानुदिनं स्तवं च । स मुक्तपापः सुविशुद्धदेहः समाश्रयं याति महेश्वरस्य ॥ १२.१८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये नर्मदास्तोत्रकथनं नाम द्वादशोऽध्यायः ॥ ऋKV अध्याय १३ श्रीमार्कण्डेय उवाच - एवं भगवती पुण्या स्तुता सा मुनिपुंगवैः । चिन्तयामास सर्वेषां दास्यामि वरमुत्तमम् ॥ १३.१ ॥ ततः प्रसुप्तांस्ताञ्ज्ञात्वा रात्रौ देवी जगाम ह । एकैकस्य ऋषेः स्वप्ने दर्शनं चारुहासिनी ॥ १३.२ ॥ ततोऽर्धरात्रे सम्प्राप्त उत्थिता जलमध्यतः । विमलाम्बरसंवीता दिव्यमालाविभूषिता ॥ १३.३ ॥ घृतातपत्रा सुश्रोणी पद्मरागविभूषिता । जगाद मा भैरिति तानेकैकं तु पृथक्पृथक् ॥ १३.४ ॥ वसध्वं मम पार्श्वे तु भयं त्यक्त्वा क्षुधादिजम् ॥ १३.५ ॥ एवमुक्त्वा तदा देवी स्वप्नान्ते तान्महामुनीन् । जगामादर्शनं पश्चात्प्रविश्य जलमात्मिकम् ॥ १३.६ ॥ ततः प्रभाते मुनयो मिथ ऊचुर्मुदन्विताः । तथा दृष्टा मया दृष्टा स्वप्ने देवी सुदर्शना ॥ १३.७ ॥ अभयं दत्तमस्माकं सिद्धिश्चाप्यचिरेण तु । प्रशस्तं दर्शनं तस्या नर्मदाया न संशयः ॥ १३.८ ॥ अथान्यदिवसे राजन्मत्स्यानां रूपमुत्तमम् । पश्यन्ति सपरीवाराः स्वकीयाश्रमसन्निधौ ॥ १३.९ ॥ तान्दृष्ट्वा विस्मयाविष्टा मत्स्यांस्तत्र महर्षयः । पूजयामासुरव्यग्रा हव्यकव्येन देवताः ॥ १३.१० ॥ तान्मत्स्यसङ्घान्सम्प्राप्य महादेव्याः प्रसादतः । सपुत्रदारभृत्यास्ते वर्तयन्ति पृथक्पृथक् ॥ १३.११ ॥ दिने दिने तथाप्येवमाश्रमेषु द्विजातयः । मत्स्यानां सञ्चयं दृष्ट्वा विस्मिताश्चाभवंस्तदा ॥ १३.१२ ॥ मृतांस्तांस्तु सुपुष्टाङ्गान् पाठीनांश्च विशेषतः । द्वारे द्वारे चाश्रमाणां तापसानां युधिष्ठिर ॥ १३.१३ ॥ हृष्टपुष्टास्तदा सर्वे नर्मदातीरवासिनः । ऋषयस्ते भयं सर्वे तत्यजुः क्षुत्तृषोद्भवम् ॥ १३.१४ ॥ ते जपन्तस्तपन्तश्च तिष्ठन्ति भरतर्षभ । अर्चयन्ति पित्ःन्देवान्नर्मदातटमाश्रिताः ॥ १३.१५ ॥ तैर्जपद्भिस्तपद्भिश्च सततं द्विजसत्तमैः । भ्राजते सा सरिच्छ्रेष्ठा ताराभिर्द्यौर्ग्रहैरिव ॥ १३.१६ ॥ तत्र तैर्बहुलैः शुभ्रैर्ब्राह्मणैर्वेदपरागैः । नर्मदा धर्मदा पूर्वं संविभक्ता यथाक्रमम् ॥ १३.१७ ॥ ऋषिभिर्दशकोटिभिर्नर्मदातीरवासिभिः । विभक्तेयं विभक्ताङ्गी नर्मदा शर्मदा नृणाम् ॥ १३.१८ ॥ यज्ञोपवीतैश्च शुभैरक्षसूत्रैश्च भारत । कूलद्वये महापुण्या नर्मदोदधिगामिनी ॥ १३.१९ ॥ पृथगायतनैः शुभ्रैर्लिङ्गैर्वालुकमृन्मयैः । भ्राजते या सरिच्छ्रेष्ठा नक्षत्रैरिव शर्वरी ॥ १३.२० ॥ एवं त ऋषयः सर्वे तर्पयन्तः सुरान्पित्ःन् । न्यवसन्नर्मदातीरे यावदाभूतसम्प्लवम् ॥ १३.२१ ॥ किंचिद्गते ततस्तस्मिन्घोरे वर्षशताधिके । अर्धरात्रे तदा कन्या जलादुत्तीर्य भारत ॥ १३.२२ ॥ विद्युत्पुंजसमाभासा व्यालयज्ञोपवीतिनी । त्रिशूलाग्रकरा सौम्या तानुवाच ऋषींस्तदा ॥ १३.२३ ॥ आगच्छध्वं मुनिगणा विशध्वं मामयोनिजाम् । समेताः पुत्रदारैश्च ततः सिद्धिमवाप्स्यथ ॥ १३.२४ ॥ यस्य यस्य हि या वाञ्छा तस्य तां तां ददाम्यहम् । विष्णुं ब्रह्माणमीशानमन्यं वा सुरमुत्तमम् ॥ १३.२५ ॥ तत्र सर्वान्नयिष्यामि प्रसन्ना वरदा ह्यहम् । प्राणायामपरा भूत्वा मां विशध्वं समाहिताः ॥ १३.२६ ॥ सह पुत्रैश्च दारैश्च त्यक्त्वाश्रमपदानि च । कालक्षेपो न कर्तव्यः प्रलयोऽयमुपस्थितः ॥ १३.२७ ॥ संहारः सर्वभूतानां कल्पदाहः सुदारुणः । एकाहमभवं पूर्वं महाघोरे जनक्षये ॥ १३.२८ ॥ शेषा नद्यः समुद्राश्च सर्व एव क्षयंगताः । वरदानान्महेशस्य तेनाहं न क्षयं गता ॥ १३.२९ ॥ अमृतः शाश्वतो देवः स्थाणुरीशः सनातनः । स पूजितः प्रार्थितो वा किं न दद्याद्द्विजोत्तमाः ॥ १३.३० ॥ एवमुक्त्वा ऋषीव्रेवा प्रविवेश जलं ततः । करात्तशूला सा देवी व्यालयज्ञोपवीतिनी ॥ १३.३१ ॥ ततस्ते तद्वचः श्रुत्वा विस्मयापन्नमानसाः । अभिवन्द्य च मां सर्वे क्षामयन्तः पुनः पुनः ॥ १३.३२ ॥ क्षम्यतां नो यदुक्तं हि वसतां तव संश्रये । गृहांस्त्यक्त्वा महाभागाः सशिष्याः सहबान्धवाः ॥ १३.३३ ॥ जप्त्वा चैकाक्षरं ब्रह्म हृदि ध्यात्वा महेश्वरम् । स्नात्वा च मन्त्रपूताभिरथ चाद्भिर्जितव्रताः ॥ १३.३४ ॥ विविशुर्नर्मदातोयं सपक्षा इव पर्वताः । द्योतयन्तो दिशः सर्वाः कुशहस्ताः सहाग्रयः ॥ १३.३५ ॥ गतेषु तेषु राजेन्द्र अहमेकः स्थितस्तदा । अमरेशं समासाद्य पूजयन्नर्मदां नदीम् ॥ १३.३६ ॥ अनुभूताः सप्तकल्पा मायूराद्या मया नृप । प्रसादाद्वेधसः सर्वे रेवया सह भारत ॥ १३.३७ ॥ जन्मतोऽद्य दिनं यावन्न जानेऽस्याः पुरास्थितिम् ॥ १३.३८ ॥ इयं हि शांकरी शक्तिः कला शम्भोरिलाह्वया । नर्मदा दुरितध्वंसकारिणी भवतारिणी ॥ १३.३९ ॥ यदाहमपि नाभूवं पुराकल्पेषु पाण्डव । चतुर्दशसु कल्पेषु तेष्वियं सुखसंस्थिता ॥ १३.४० ॥ चतुर्दश पुरा कल्पा न मृता येषु नर्मदा । तानहं सम्प्रवक्ष्यामि देवी प्राह यथा मम ॥ १३.४१ ॥ कापिलं प्रथमं विद्धि प्राजापत्यं द्वितीयकम् । ब्राह्मं सौम्यं च सावित्रं बार्हस्पत्यं प्रभासकम् ॥ १३.४२ ॥ माहेन्द्रमग्निकल्पं च जयन्तं मारुतं तथा । वैष्णवं बहुरूपं च ज्यौतिषं च चतुर्दशम् ॥ १३.४३ ॥ एते कल्पा मया ख्याता न मृता येषु नर्मदा । मायूरं पञ्चदशमं कौर्मं चैवात्र षोडशम् ॥ १३.४४ ॥ बकं मात्स्यं च पाद्मं च वटकल्पं च भारत । एकविंशतिमं चैतं वाराहं सांप्रतीनकम् ॥ १३.४५ ॥ इमे सप्त मया साकं रेवया परिशीलिताः । एकविंशतिकल्पास्तु नर्मदायाः शिवाङ्गतः ॥ १३.४६ ॥ संजाताया नृपश्रेष्ठ मया दृष्टा ह्यनेकशः । कथिता नृपतिश्रेष्ठ भूयः किं कथयामि ते ॥ १३.४७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्य एकविंशतिकल्पकथानकवर्णनं नाम त्रयोदशोऽध्यायः ॥ ऋKV अध्याय १४ युधिष्ठिर उवाच - ततस्त ऋषयः सर्वे महाभागास्तपोधनाः । गतास्तु परमं लोकं ततः किं जातमद्भुतम् ॥ १४.१ ॥ श्रीमार्कण्डेय उवाच - ततस्तेषु प्रयातेषु नर्मदातीरवासिषु । बभूव रौद्रसंहारः सर्वभूतक्षयंकरः ॥ १४.२ ॥ कैलासशिखरस्थं तु महादेवं सनातनम् । ब्रह्माद्याः प्रास्तुवन् देवमृग्यजुःसामभिः शिवम् ॥ १४.३ ॥ संहर त्वं जगद्देव सदेवासुरमानुषम् । प्राप्तो युगसहस्रान्तः कालः संहरणक्षमः ॥ १४.४ ॥ मद्रूपं तु समास्थाय त्वया चैतद्विनिर्मितम् । वैष्णवीं मूर्तिमास्थाय त्वयैतत्परिपालितम् ॥ १४.५ ॥ एका मूर्तिस्त्रिधा जाता ब्राह्मी शैवी च वैष्णवी । सृष्टिसंहाररक्षार्थं भवेदेवं महेश्वर ॥ १४.६ ॥ एतच्छ्रुत्वा वचस्तथ्यं विष्णोश्च परमेष्ठिनः । सगणः सपरीवारः सह ताभ्यां सहोमया ॥ १४.७ ॥ समलोकान्विभिद्येमान्भगवान्नीललोहितः । भूराद्यब्रह्मलोकान्तं भित्त्वाण्डं परतः परम् ॥ १४.८ ॥ शैवं पदमजं दिव्यमाविशत्सह तैर्विभुः । न तत्र वायुर्नाकाशं नाग्निस्तत्र न भूतलम् ॥ १४.९ ॥ यत्र संतिष्ठे देव उमया सह शङ्करः । न सूर्यो न ग्रहास्तत्र न ऋक्षाणि दिशस्तथा ॥ १४.१० ॥ न लोकपाला न सुखं न च दुःखं नृपोत्तम ॥ १४.११ ॥ ब्राह्मं पदं यत्कवयो वदन्ति शैवं पदं यत्कवयो वदन्ति । क्षेत्रज्ञमीशं प्रवदन्ति चान्ये सांख्याश्च गायन्ति किलादिमोक्षम् ॥ १४.१२ ॥ यद्ब्रह्म आद्यं प्रवदन्ति केचिद्यं सर्वमीशानमजं पुराणम् । तमेकरूपं तमनेकरूपमरूपमाद्यं परमव्ययाख्यम् ॥ १४.१३ ॥ अवर्णमप्यर्थमनामगोत्रं तुर्यं पदं यत्कवयो वदन्ति । ध्यानार्थविज्ञानमयं सुसूक्ष्ममात्मस्थमीशानवरं वरेण्यम् ॥ १४.१४ ॥ ततस्त्रयस्ते भगवन्तमीशं सम्प्राप्य संक्षिप्य भवन्त्यर्थकम् । पृथक्स्वरूपैस्तु पुनस्त एव जगत्समस्तं परिपालयन्ति ॥ १४.१५ ॥ संहारं सर्वभूतानां रुद्रत्वे कुरुते प्रभुः । विष्णुत्वे पालयेल्लोकान्ब्रह्मत्वे सृष्टिकारकः ॥ १४.१६ ॥ प्रकृत्या सह संयुक्तः कालो भूत्वा महेश्वरः । विश्वरूपा महाभागा तस्य पार्श्वे व्यवस्थिता ॥ १४.१७ ॥ यामाहुः प्रकृतिं तज्ज्ञाः पदार्थानां विचक्षणाः । पुरुषत्वे प्रकृतित्वे च कारणं परमेश्वरः ॥ १४.१८ ॥ तस्मादेतज्जगत्सर्वं चराचरम् । तस्मिन्नेव लयं याति युगान्ते समुपस्थिते ॥ १४.१९ ॥ भगलिङ्गाङ्कितं सर्वं व्याप्तं वै परमेष्ठिना । भगरूपो भवेद्विष्णुर्लिङ्गरूपो महेश्वरः ॥ १४.२० ॥ भाति सर्वेषु लोकेषु गीयते भूर्भुवादिषु । प्रविष्टः सर्वभूतेषु तेन विष्णुर्भगः स्मृतः ॥ १४.२१ ॥ विशनाद्विष्णुरित्युक्तः सर्वदेवमयो महान् । भासनाद्गमनाच्चैव भगसंज्ञा प्रकीर्तिता ॥ १४.२२ ॥ ब्रह्मादिस्तम्बपर्यन्तं यस्मिन्नेति लयं जगत् । एकभावं समापन्नं लिङ्गं तस्माद्विदुर्बुधाः ॥ १४.२३ ॥ महादेवस्ततो देवीमाह पार्श्वे स्थितां तदा । संहरस्व जगत्सर्वं मा विलम्बस्व शोभने ॥ १४.२४ ॥ त्यज सौम्यमिदं रूपं सितचन्द्रांशुनिर्मलम् । रुद्रं रूपं समास्थाय संहरस्व चराचरम् ॥ १४.२५ ॥ रौद्रैर्भूतगणैर्घोरैर्देवि त्वं परिवारिता । जीवलोकमिमं सर्वं भक्षयस्वाम्बुजेक्षणे ॥ १४.२६ ॥ ततोऽहं मर्दयिष्यामि प्लावयिष्ये तथा जगत् । कृत्वा चैकार्णवं भूयः सुखं स्वप्स्ये त्वया सह ॥ १४.२७ ॥ श्रीदेव्युवाच - नाहं देव जगच्चैतत्संहरामि महाद्युते । अम्बा भूत्वा विचेष्टं न भक्षयामि भृशातुरम् ॥ १४.२८ ॥ स्त्रीस्वभावेन कारुण्यं करोति हृदयं मम । कथं वै निर्दहिष्यामि जगदेतज्जगत्पते ॥ १४.२९ ॥ तस्मात्त्वं स्वयमेवेदं जगत्संहर शङ्कर । अथैवमुक्तस्तां देवीं धूर्जटिर्नीललोहितः ॥ १४.३० ॥ क्रुद्धो निर्भर्त्सयामास हुङ्कारेण महेश्वरीम् । ओं हुंफट्त्वं स इत्याह कोपाविष्टैरथेक्षणैः ॥ १४.३१ ॥ हुंकारिता विशालाक्षी पीनोरुजघनस्थला । तत्क्षणाच्चाभवद्रौद्रा कालरात्रीव भारत ॥ १४.३२ ॥ हुंकुर्वती महानादैर्नादयन्ती दिशो दश । व्यवर्धत महारौद्रा विद्युत्सौदामिनी यथा ॥ १४.३३ ॥ विद्युत्सम्पातदुष्प्रेक्ष्या विद्युत्संघातचञ्चला । विद्युज्ज्वालाकुला रौद्रा विद्युदग्निनिभेक्षणा ॥ १४.३४ ॥ मुक्तकेशी विशालाक्षी कृशग्रीवा कृशोदरी । व्याघ्रचर्माम्बरधरा व्यालयज्ञोपवीतिनी ॥ १४.३५ ॥ वृश्चिकैरग्निपुञ्जाभैर्गोनसैश्च विभूषिता । त्रैलोक्यं पूरयामास विस्तारेणोच्छ्रयेण च ॥ १४.३६ ॥ भासुराङ्गा तु संवृत्ता कृष्णसर्पैककुण्डला । चित्रदण्डोद्यतकरा व्याघ्रचर्मोपसेविता ॥ १४.३७ ॥ व्यवर्धत महारौद्रा जगत्संहारकारिणी । सृक्किणी लेलिहाना च क्रूरफूत्कारकारिणी ॥ १४.३८ ॥ व्यात्तास्या घुर्घुरारावा जगत्संक्षोभकारिणी । खेलद्भूतानुगा क्रूरा निःश्वासोच्छ्वासकारिणी ॥ १४.३९ ॥ जाताट्टअहासा दुर्नासा वह्निकुण्डसमेक्षणा । प्रोद्यत्किलकिलारावा ददाह सकलं जगत् ॥ १४.४० ॥ दह्यमानाः सुरास्तत्र पतन्ति धरणीतले । पतन्ति यक्षगन्धर्वाः सकिन्नरमहोरगाः ॥ १४.४१ ॥ पतन्ति भूतसङ्घाश्च हाहाहैहैविराविणः । बुम्बापातैः सनिर्घातैरुदितार्तस्वरैरपि ॥ १४.४२ ॥ व्याप्तमासीत्तदा विश्वं त्रैलोक्यं सचराचरम् । संपतद्भिः पतद्भिश्च ज्वलद्भूतगणैर्मही ॥ १४.४३ ॥ जातैश्चटचटाशब्दैः पतद्भिर्गिरिसानुभिः । तत्र रौद्रोत्सवे जाता रुद्रानन्दविवर्धिनी ॥ १४.४४ ॥ विहिंसमाना भूतानि चर्वमाणाचरानपि । तत्तद्गन्धमुपादाय शिवारावविराविणी ॥ १४.४५ ॥ गलच्छोणितधाराभिमुखा दिग्धकलेवरा । चण्डशीलाभवच्चण्डी जगत्संहारकर्मणि ॥ १४.४६ ॥ येऽपि प्राप्ता महर्लोकं भृग्वाद्याश्च महर्षयः । तेऽपि नश्यन्ति शतशो ब्रह्मक्षत्त्रविशादयः ॥ १४.४७ ॥ देवासुरा भयत्रस्ताः सयक्षोरगराक्षसाः । विशन्ति केऽपि पातालं लीयन्ते च गुहादिषु ॥ १४.४८ ॥ सा च देवी दिशः सर्वा व्याप्य मृत्युरिव स्थिता । युगक्षयकरे काले देवेन विनियोजिता ॥ १४.४९ ॥ एकापि नवधा जाता दशधा दशधा तथा । चतुःषष्टिस्वरूपा च शतरूपाट्टहासिनी ॥ १४.५० ॥ जज्ञे सहस्ररूपा च लक्षकोटितनुः शिवा । नानारूपायुधाकारा नानावादनचारिणी ॥ १४.५१ ॥ एवंरूपाऽभवद्देवी शिवस्यानुज्ञया नृप । दिक्षु सर्वासु गगने विकटायुधशीलिनः ॥ १४.५२ ॥ रुन्धन्तो नश्यमानांस्तान्गणा माहेश्वराः स्थिताः । विचरन्ति तया सार्द्धं शूलपट्टिशपाणयः ॥ १४.५३ ॥ ततो मातृगणाः केचिद्विनायकगणैः सह । व्यवर्धन्त महारौद्रा जगत्संहारकारिणः ॥ १४.५४ ॥ ततस्तस्या व्यवर्धन्त दंष्ट्राः कुन्देन्दुसन्निभाः । योजनानां सहस्राणि अयुतान्यर्बुदानि च ॥ १४.५५ ॥ दंष्ट्रावलिः कररुहाः क्रूरास्तीक्ष्णाश्च कर्कशाः । वियद्दिशो लिखन्त्येव सप्तद्वीपां वसुंधराम् ॥ १४.५६ ॥ तस्या दंष्ट्राभिसम्पातैश्चूर्णिता वनपर्वताः । शिलासंचयसंघाता विशीर्यते सहस्रशः ॥ १४.५७ ॥ हिमवान्हेमकूटश्च निषधो गन्धमादनः । माल्यवांश्चैव नीलश्च श्वेतश्चैव महागिरिः ॥ १४.५८ ॥ मेरुमध्यमिलापीठं सप्तद्वीपं च सार्णवम् । लोकालोकेन सहितं प्राकम्पत नृपोत्तम ॥ १४.५९ ॥ दंष्ट्राशनिविस्पृष्टाश्च विशीर्यन्ते महाद्रुमाः । उत्पातैश्च दिशो व्याप्ता घोररूपैः समन्ततः ॥ १४.६० ॥ तारा ग्रहगणाः सर्वे ये च वैमानिका गणाः । शिवासहस्रैराकीर्णा महामातृगणैस्तथा ॥ १४.६१ ॥ सा चचार जगत्कृत्स्नं युगान्ते समुपस्थिते । भ्रमद्भिश्च ब्रुवद्भिश्च क्रोशद्भिश्च समन्ततः ॥ १४.६२ ॥ प्रमथद्भिर्ज्वलद्भिश्च रौद्रैर्व्याप्ता दिशो दश । विस्तीर्णं शैलसङ्घातं विघूर्णितगिरिद्रुमम् ॥ १४.६३ ॥ प्रभिन्नगोपुरद्वारं केशशुष्कास्थिसंकुलम् । प्रदग्धग्रामनगरं भस्मपुंजाभिसंवृतम् ॥ १४.६४ ॥ चिताधूमाकुलं सर्वं त्रैलोक्यं सचराचरम् । हाहाकाराकुलं सर्वमहहस्वननिस्वनम् ॥ १४.६५ ॥ जगदेतदभूत्सर्वमशरण्यं निराश्रयम् ॥ १४.६६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कल्पानुकथने कालरात्रिकृतजगत्संहरणवर्णनं नाम चतुर्दशोऽध्यायः ॥ ऋKV अध्याय १५ श्रीमार्कण्डेय उवाच - ततो मातृसहस्रैश्च रौद्रैश्च परिवारिता । कालरात्रिर्जगत्सर्वं हरते दीप्तलोचना ॥ १५.१ ॥ ततस्ता मातरो घोरा ब्रह्मविष्णुशिवात्मिकाः । वाय्विन्द्रानलकौबेरा यमतोयेशशक्तयः ॥ १५.२ ॥ स्कन्दक्रोडनृसिंहानां विचरन्त्यो भयानकाः । चक्रशूलगदाखड्गवज्रशक्त्यृष्टिपट्टिशैः ॥ १५.३ ॥ खट्वाङ्गैरुल्मुकैर्दीप्तैर्व्यचरन्मातरः क्षये । उमासंनोदिता सर्वाः प्रधावन्त्यो दिशो दश ॥ १५.४ ॥ तासां चरणविक्षेपैर्हुङ्कारोद्गारनिस्वनैः । त्रैलोक्यमेतत्सकलं विप्रदग्धं समन्ततः ॥ १५.५ ॥ हाहारवाक्रन्दितनिस्वनैश्च प्रभिन्नरथ्यागृहगोपुरैश्च । बभूव घोरा धरणी समन्तात्कपालकोशाकुलकर्बुराङ्गी ॥ १५.६ ॥ यदेतच्छतसाहस्रं जम्बूद्वीपं निगद्यते । सर्वमेव तदुच्छन्नं समाधृष्य नृपोत्तम ॥ १५.७ ॥ जम्बुं शाकं कुशं क्रौञ्चं गोमेदं शाल्मलिस्तथा । पुष्करद्वीपसहिता ये च पर्वतवासिनः ॥ १५.८ ॥ ते ग्रस्ता मृत्युना सर्वे भूतैर्मातृगणैस्तथा । महासुरकपालैश्च मांसमेदोवसोत्कटैः ॥ १५.९ ॥ रुधिरोद्गारशोणाङ्गी महामाया सुभीषणा । पिबन्ती रुधिरं तत्र महामांसवसाप्रिया ॥ १५.१० ॥ कपालहस्ता विकटा भक्षयन्ती सुरासुरान् । नृत्यन्ती च हसन्ती च विपरीता महारवा ॥ १५.११ ॥ त्रैलोक्यसंत्रासकरी विद्युत्संस्फोटहासिनी । सप्तद्वीपसमुद्रान्तां भक्षयित्वा च मेदिनीम् ॥ १५.१२ ॥ ततः स्वस्थानमगमद्यत्र देवो महेश्वरः । नर्मदातीरमाश्रित्यावसन्मातृगणैः सह ॥ १५.१३ ॥ अमराणां कटे तुङ्गे नृत्यन्ती हसितानना । अमरा देवताः प्रोक्ताः शरीरं कटमुच्यते ॥ १५.१४ ॥ तैः कटैरावृतो यस्मात्पर्वतोऽयं नृपोत्तम । छिन्नभिन्नास्थिनिकरैर्वसामेदोऽस्रविप्लुतैः ॥ १५.१५ ॥ अमरंकट इत्येवं तेन प्रोक्तो मनीषिभिः । महापवित्रो लोकेषु शम्भुना स विनिर्मितः ॥ १५.१६ ॥ नित्यं संनिहितस्तत्र शङ्करो ह्युमया सह । ततोऽहं नियतस्तत्र तस्य पादाग्रसंस्थितः ॥ १५.१७ ॥ प्रह्वः प्रणतभावेन स्तौमि तं नीललोहितम् । ततस्तालकसम्पातैर्गणैर्मातृगणैः सह ॥ १५.१८ ॥ संप्रनृत्यति संहृष्टो मृत्युना सह शङ्करः । खट्वाङ्गैरुल्मुकैश्चैव पट्टिशैः परिघैस्तथा ॥ १५.१९ ॥ मांसमेदोवसाहस्ता हृष्टा नृत्यन्ति संघशः । वामना जटिला मुण्डा लम्बग्रीवोष्ठमूर्द्धजाः ॥ १५.२० ॥ महाशिश्नोदरभुजा नृत्यन्ति च हसन्ति च । विकृतैराननैर्घोरैरर्भुजोल्बणमुखादिभिः ॥ १५.२१ ॥ अमरं कण्टकं चक्रुः प्राप्ते कालविपर्यये । तेषां मध्ये महाघोरं जगत्सन्त्रासकारणम् ॥ १५.२२ ॥ मृत्युं पश्यामि नृत्यन्तं तडित्पिङ्गलमूर्द्धजम् । तस्य पार्श्वे स्थितां देवीं विमलाम्बरभूषिताम् ॥ १५.२३ ॥ कुण्डलोद्घुष्टगण्डां तां नागयज्ञोपवीतिनीम् । विचित्रैरुपहारैश्च पूजयन्तीं महेश्वरम् ॥ १५.२४ ॥ अपश्यं नर्मदां तत्र मातरं विश्ववन्दिताम् । नानातरङ्गां सावर्तां सुवेलार्णवसंनिभाम् ॥ १५.२५ ॥ महासरःसरित्पातैरदृश्यां दृश्यरूपिणीम् । वन्द्यमानां सुरैः सिद्धैर्मुनिसङ्घैश्च भारत ॥ १५.२६ ॥ एतस्मिन्नन्तरे घोरां सप्तसप्तकसंज्ञिताम् । महावीच्यौघफेनाढ्यां कुर्वन्तीं सजलं जगत् ॥ १५.२७ ॥ दृष्टवान्नर्मदां देवीं मृगकृष्णाम्बरां पुनः । सधूमाशनिनिर्ह्रादैर्वहन्तीं सप्तधा तदा ॥ १५.२८ ॥ इति संहारमतुलं दृष्टवान्राजसत्तम । नष्टचन्द्रार्ककिरणमभूदेतच्चराचरम् ॥ १५.२९ ॥ महोत्पातसमुद्भूतं नष्टनक्षत्रमण्डलम् । अलातचक्रवत्तूर्णमशेषं भ्रामयंस्ततः ॥ १५.३० ॥ विमानकोटिसंकीर्णः स किंनरमहोरगः । महावातः सनिर्घातो येनाकम्पच्चराचरम् ॥ १५.३१ ॥ रुद्रवक्त्रात्समुद्भूतः संवर्तो नाम विश्रुतः । वायुः संशोषयामास विततन् सप्तसागरान् ॥ १५.३२ ॥ उद्धूलिताङ्गः कपिलाक्षमूर्द्धजो जटाकलापैरवबद्धमूर्द्धजः । महारवो दीप्तविशालशूलधृक्स पातु युष्मांश्च दिने दिने हरः ॥ १५.३३ ॥ शूली धनुष्मान्कवची किरीटी श्मशानभस्मोक्षितसर्वगात्रः । कपालमालाकुलकण्ठनालो महाहिसूत्रैरवबद्धमौलिः ॥ १५.३४ ॥ स गोनसौघैः परिवेष्टिताङ्गो विषाग्निचन्द्रामरसिन्धुमौलिः । पिनाकखण्टूवाङ्गकरालपाणिः स कृत्तिवासा डमरुप्रणादः ॥ १५.३५ ॥ स सप्तलोकान्तरनिःसृतात्मा महभुजावेष्टितसर्वगात्रः । नेत्रेण सूर्योदयसन्निभेन प्रवालकाङ्कूरनिभोदरेण ॥ १५.३६ ॥ सन्ध्याभ्ररक्तोत्पलपद्मरागसिन्दूरविद्युत्प्रकरारुणेन । ततेन लिङ्गेन च लोचनेन चिक्रीडमानः स युगान्तकाले ॥ १५.३७ ॥ हिरण्मयेनैव समुत्सृजन् स दण्डेन यद्वद्भगवान् समेरुः । पादाग्रविक्षेपविशीर्णशैलः कुर्वञ्जगत्सोऽपि जगाम तत्र ॥ १५.३८ ॥ संहर्तुकामस्त्रिदिवं त्वशेषं प्रमुञ्चमानो विकृताट्टहासम् । जहार सर्वं त्रिदिवं महात्मा संक्षोभयन्वै जगदीश एकः ॥ १५.३९ ॥ तं देवमीशानमजं वरेण्यं दृष्ट्वा जगत्संहरणं महेशम् । सा कालरात्रिः सह मातृभिश्च गणाश्च सर्वे शिवमर्चयन्ति ॥ १५.४० ॥ नन्दी च भृङ्गी च गणादयश्च तं सर्वभूतं प्रणमन्ति देवम् । जागद्वरं सर्वजनस्य कारणं हरं स्मरारातिमहर्निशं ते ॥ १५.४१ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये सृष्टिसंहरणसंरम्भवर्णनं नाम पञ्चदशोऽध्यायः ॥ ऋKV अध्याय १६ श्रीमार्कण्डेय उवाच - समातृभिर्भूतगणश्च घोरैर्वृतः समन्तात्स ननर्त शूली । गजेन्द्रचर्मावरणे वसानः संहर्तुकामश्च जगत्समस्तम् ॥ १६.१ ॥ महेश्वरः सर्वसुरेश्वराणां मन्त्रैरनेकेखबद्धमाली । मेदोवसारक्तविचर्चिताङ्गस्त्रैलोक्यदाहे प्रणनर्त शम्भुः ॥ १६.२ ॥ स कालरात्र्या सहितो महात्मा काले त्रिलोकीं सकलां जहार । संवर्तकाख्यः सहभानुभावः शम्भुर्महात्मा जगतो वरिष्ठः ॥ १६.३ ॥ स विस्फुलिङ्गोत्करधूममिश्रं महोल्कवज्राशनिवाततुल्यम् । ततोऽट्टहासं प्रमुमोच घोरं विवृत्य वक्त्रं वडवामुखाभम् ॥ १६.४ ॥ सहस्रवज्राशनिसंनिभेन तेनाट्टहासेन हरोद्गतेन । आपूरितास्तत्र दिशो दशैव संक्षोभिताः सर्वमहार्णवाश्च ॥ १६.५ ॥ स ब्रह्मलोकं प्रजगाम शब्दो ब्रह्माण्डभाण्डं प्रचचाल सर्वम् । किमेतदित्याकुलचेतनास्ते वित्रस्तरूपा ऋषयो बभूवुः ॥ १६.६ ॥ प्रणम्य सर्वे सहसैव भीता ब्रह्माणमूचुः परमेश्वरेशम् । भीताश्च सर्वे ऋषयस्ततस्ते सुरासुरैश्चैव महोरगैश्च ॥ १६.७ ॥ विद्युत्प्रभाभासुरभीषणाङ्गः क एष चिक्रीडति भूतलस्थः । कालानलं गात्रमिदं दधानो यस्याट्टहासेन जगद्विमूढम् ॥ १६.८ ॥ वित्रस्तरूपं प्रबभौ क्षणेन संहर्तुमिच्छेत्किमयं त्रिलोकीम् । सार्धं त्वया सप्तभिरर्णकैश्च जनस्तपः सत्यमभिप्रयाति ॥ १६.९ ॥ संहर्तुकामो हि क एष देव एतत्समस्तं कथयाप्रमेय । न दृष्टमेतद्विषमं कदापि जानासि तत्त्वं परमो मतो नः ॥ १६.१० ॥ निशम्य तद्वाक्यमथाबभाषे ब्रह्मा समाश्वास्य सुरादिसङ्घान् ॥ १६.११ ॥ श्रीब्रह्मोवाच - स एष कालस्त्रिदिवं त्वशेषं संहर्तुकामो जगदक्षयात्मा । पूर्णे च शेते परिवत्सराणां भविष्यतीशानविभुर्न चित्रम् ॥ १६.१२ ॥ संवत्सरोऽयं परिवत्सरश्च उद्वत्सरो वत्सर एष देवः । दृष्टोऽप्यदृष्टः प्रहुतः प्रकाशी स्थूलश्च सूक्ष्मः परमाणुरेषः ॥ १६.१३ ॥ नातः परं किंचिदिहास्ति लोके परापरोऽयं प्रभुरात्मवादी । तुष्येत मे कालसमानरूप इत्येवमुक्त्वा भगवान्सुरेशः ॥ १६.१४ ॥ सनत्कुमारप्रमुखैः समेतः संतोषयामास ततो यतात्मा ॥ १६.१५ ॥ ब्रह्मोवाच - नमोऽस्तु सर्वाय सुशान्तमूर्ताये ह्यघोररूपाय नमोनमस्ते । सर्वात्मने सर्व नमोनमस्ते महात्मने भूतपते नमस्ते ॥ १६.१६ ॥ ओङ्कार हुङ्कारपरिष्कृताय स्वधावषट्कार नमोनमस्ते । गुणत्रयेशाय महेश्वराय ते त्रयीमयाय त्रिगुणात्मने नमः ॥ १६.१७ ॥ त्वं शङ्करत्वं हि महेश्वरोऽसि प्रधानमग्र्यं त्वमसि प्रविष्टः । त्वं विष्णुरीशः प्रपितामहश्च त्वं सप्तजिह्वस्त्वमनन्तजिह्वः ॥ १६.१८ ॥ स्रष्टासि सृष्टिश्च विभो त्वमेव विश्वस्य वेद्यं च परं निधानम् । आहुर्द्विजा वेदविदो वरेण्यं परात्परस्त्वं परतः परोऽसि ॥ १६.१९ ॥ सूक्ष्मातिसूक्ष्मं प्रवदन्ति यच्च वाचो निवर्तन्ति मनो यतश्च ॥ १६.२० ॥ श्रीमहादेव उवाच - त्वया स्तुतोऽहं विविधैश्च मन्त्रैः पुष्णामि शान्तिं तव पद्मयोने । ईक्षस्व मां लोकमिमं ज्वलन्तं वक्त्रैरनेकैः प्रसभं हरन्तम् ॥ १६.२१ ॥ एवमुक्त्वा स देवेशो देव्या सह जगत्पतिः । पितामहं समाश्वास्य तत्रैवान्तरधीयत ॥ १६.२२ ॥ इदं महत्पुण्यतमं वरिष्ठं स्तोत्रं निशम्येह गतिं लभन्ते । पापैरनेकैः परिवेष्टिता ये प्रयान्ति रुद्रं विमलैर्विमानैः ॥ १६.२३ ॥ भयं च तेषां न भवेत्कदाचित्पठन्ति ये तात इदं द्विजाग्र्याः । सङ्ग्रामचौराग्निवने तथाब्धौ तेषां शिवस्त्राति न संशयोऽत्र ॥ १६.२४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये ब्रह्मकृतशिवस्तुतिवर्णनं नाम षोडशोऽध्यायः ॥ ऋKV अध्याय १७ श्रीमार्कण्डेय उवाच - एवं संस्तूयमानस्तु ब्रह्माद्यैर्मुनिपुंगवैः । ब्रह्मलोकगतैस्तत्र संजहार जगत्प्रभुः ॥ १७.१ ॥ स तद्भीमं महारौद्रं दक्षिणं वक्त्रमव्ययम् । महादंष्ट्रोत्कटारावं पातालतलसंनिभम् ॥ १७.२ ॥ विद्युज्ज्वलनपिङ्गाक्षं भैरवं लोमहर्षणम् । महाजिह्वं महादंष्ट्रं महासर्पशिरोधरम् ॥ १७.३ ॥ महासुरशिरोमालं महाप्रलयकारणम् । ग्रसत्समुद्रनिहितवातवारिमयं हविः ॥ १७.४ ॥ वडवामुखसङ्काशं महादेवस्य तन्मुखम् । जिह्वाग्रेण जगत्सर्वं लेलिहानमपश्यत ॥ १७.५ ॥ योजनानां सहस्राणि सहस्राणां शतानि च । दिशो दश महाघोरा मांसमेदोवसोत्कटाः ॥ १७.६ ॥ तस्य दंष्ट्रा व्यवर्धत शतशोऽथ सहस्रशः । सासुरान्सुरगन्धर्वान् सयक्षोरगराक्षसान् ॥ १७.७ ॥ तस्य दंष्ट्राग्रसंलग्नान्स ददर्श पितामहः । दन्तयन्त्रान्तसंविष्टं विचूर्णितशिरोधरम् ॥ १७.८ ॥ जगत्पश्यामि राजेन्द्र विशन्तं व्यादिते मुखे । नानातरङ्गभङ्गाङ्गा महाफेनौघसंकुलाः । यथा नद्यो लयं यान्ति समुद्रं प्राप्य सस्वनाः ॥ १७.९ ॥ तथा ततं विश्वमिदं समस्तमनेकजीवार्णवदुर्विगाह्यम् । विवेश रुद्रस्य मुखं विशालं ज्वलत्तदुग्रं घननादघोरम् ॥ १७.१० ॥ ज्वालास्ततस्तस्य मुखात्सुघोराः सविस्फुलिङ्गा बहुलाः सधूमाः । अनेकरूपा ज्वलनप्रकाशाः प्रदीपयन्तीव दिशोऽखिलाश्च ॥ १७.११ ॥ ततो रविज्वालसहस्रमालि बभूव वक्त्रं चलजिह्वदंष्ट्रम् । महेश्वरस्याद्भुतरूपिणस्तदा स द्वादशात्मा प्रबभूव एकः ॥ १७.१२ ॥ ततस्ते द्वादशादित्या रुद्रवक्त्राद्विनिर्गताः । आश्रित्य दक्षिणामाशां निर्दहन्तो वसुंधराम् ॥ १७.१३ ॥ भौमं यज्जीवनं किंचिन्नानावृक्षतृणालयम् । शुष्कं पूर्वमनावृष्ट्या सकलाकुलभूतलम् ॥ १७.१४ ॥ तद्दीप्यमानं सहसा सूर्यैस्तै रुद्रसम्भवैः । धूमाकुलमभूत्सर्वं प्रणष्टग्रहतारकम् ॥ १७.१५ ॥ जज्वाल सहसा दीप्तं भूमण्डलमशेषतः । ज्वालामालाकुलं सर्वमभूदेतच्चराचरम् ॥ १७.१६ ॥ सप्तद्वीपसमुद्रेषु सरित्सु च सरस्सु च अग्निरत्ति जगत्सर्वमाज्याहुतिमिवाध्वरे ॥ १७.१७ ॥ विशालतेजसा दीप्ता महाज्वालासमाकुलाः । ददहुर्वै जगत्सर्वमादित्या रुद्रसम्भवाः ॥ १७.१८ ॥ आदित्यानां रश्मयश्च संस्पृष्टा वै परस्परम् । एवं ददाह भगवांस्त्रैलोक्यं सचराचरम् ॥ १७.१९ ॥ सप्तद्वीपप्रमाणस्तु सोऽग्निर्भूत्वा महेश्वरः । सप्तद्वीपसमुद्रान्तां निर्ददाह वसुंधराम् ॥ १७.२० ॥ सुमेरुमन्दरान्तां च निर्दहुर्वसुधां तदा । भित्त्वा तु सप्तपातालं नागलोकं ततोऽदहत् ॥ १७.२१ ॥ भूम्यधः सप्तपातालान्निर्दहंस्तारकैः सह । चचाराग्निः समन्तात्तु निर्दहन्वै युधिष्ठिर ॥ १७.२२ ॥ धम्यमान इवाङ्गारैर्लोहरात्रिरिव ज्वलन् । तथा तत्प्राज्वलत्सर्वं संवर्ताग्निप्रदीपितम् ॥ १७.२३ ॥ निर्वृक्षा निस्तृणा भूमिर्निर्निर्झरसरः सरित् । विशीर्णशैलशृङ्गौघा कूर्मपृष्ठोपमाभवत् ॥ १७.२४ ॥ ज्वालामालाकुलं कृत्वा जगत्सर्वं चिदामकम् । महारूपधरो रुद्रो व्यतिष्ठत महेश्वरः ॥ १७.२५ ॥ समातृगणभूयिष्ठा सयक्षोरगराक्षसा । ततो देवी महादेवं विवेश हरिलोचना ॥ १७.२६ ॥ निर्वाणं परमापन्ना शान्तेव शिखिनः शिखा । जगत्सर्वं हि निर्दग्धं त्रिभिर्लोकैः सहानघ ॥ १७.२७ ॥ रुद्रप्रसादान्मुक्त्वा मां नर्मदां चाप्ययोनिजाम् । युगानामयुतं देवो मया चाद्य बुभक्षणात् ॥ १७.२८ ॥ पुरा ह्याराधितः शूली तेनाहमजरामरः । अघमर्षणघोरं च वामदेवं च त्र्यम्बकम् ॥ १७.२९ ॥ ऋषभं त्रिसुपर्णं च दुर्गां सावित्रमेव च । बृहदारण्यकं चैव बृहत्साम तथोत्तरम् ॥ १७.३० ॥ रौद्रीं परमगायत्रीं शिवोपनिषदं तथा । यथा प्रतिरथं सूक्तं जप्त्वा मृत्युंजयं तथा ॥ १७.३१ ॥ सरित्सागरपर्यन्ता वसुधा भस्मसात्कृता । वर्जयित्वा महाभागां नर्मदाममृतोपमाम् ॥ १७.३२ ॥ महेन्द्रो मलयः सह्यो हेमकूटोऽथ माल्यवान् । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ १७.३३ ॥ द्वादशादित्यनिर्दग्धाः शैलाः शीर्णशिलाः पृथक् । भस्मीभूतास्तु दृश्यन्ते न नष्टा नर्मदा तदा ॥ १७.३४ ॥ हिमवान्हेमकूटश्च निषधो गन्धमादनः । माल्यवांश्च गिरिश्रेष्ठो नीलः श्वेतोऽथ शृङ्गवान् ॥ १७.३५ ॥ एते पर्वतरा जानो देवगन्धर्वसेविताः । युगान्ताग्निविनिर्दग्धाः सर्वे शीर्णमहाशिलाः ॥ १७.३६ ॥ एवं मया पुरा दृष्टो युगान्ते सर्वसंक्षयः । वर्जयित्वा महापुण्यां नर्मदां नृपसत्तम ॥ १७.३७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये द्वादशादित्यरूपेण जगत्संहरणवर्णनं नाम सप्तदशोऽध्यायः ॥ ऋKV अध्याय १८ श्रीमार्कण्डेय उवाच - निर्दग्धेऽस्मिंस्ततो लोके सूर्यैरीश्वरसम्भवैः । सप्तभिश्चार्णवैः शुष्कैर्द्वीपैः सप्तभिरेव च ॥ १८.१ ॥ ततो मुखात्तस्य घना महोल्बणा निश्चेरुरिन्द्रायुधतुल्यरूपाः । घोराः पयोदा जगदन्धकारं कुर्वन्त ईशानवरप्रयुक्ताः ॥ १८.२ ॥ नीलोत्पलाभाः क्वचिदंजनाभा गोक्षीरकुन्देन्दुनिभाश्च केचित् । मयूरचन्द्राकृतयस्तथाऽन्ये केचिद्विधूमानलसप्रभाश्च ॥ १८.३ ॥ केचिन्महापर्वतकल्परूपाः केचिन्महामीनकुलोपमाश्च । केचिद्गजेन्द्राकृतयः सुरूपाः केचिन्महाकूटनिभाः पयोदाः ॥ १८.४ ॥ चलत्तरङ्गोर्मिसमानरूपा महापुरोधाननिभाश्च केचित् । सगोपुराट्टालकसंनिकाशाः सविद्युदुल्काशनिमण्डितान्ताः ॥ १८.५ ॥ समावृताङ्गः स बभूव देवः संवर्तकोनाम गणः स रौद्रः । प्रवर्षमाणो जगदप्रमाणमेकार्णवं सर्वमिदं चकार ॥ १८.६ ॥ ततो महामेघविवर्धमानमीशानमिन्द्राशनिभिर्वृताङ्गम् । ददर्श नाहं भयविह्वलाङ्गो गङ्गाजलौघैश्च समावृताङ्गः ॥ १८.७ ॥ गजाः पुनश्चैव पुनः पिबन्तो जगत्समन्तात्परिदह्यमानम् । आपूरितं चैव जगत्समन्तात्सर्वैश्च तैर्जग्मुरदर्शनं च ते ॥ १८.८ ॥ महार्णवाः सप्त सरांसि द्वीपा नद्योऽथ सर्वा अथ भूर्भुवश्च । आपूर्यमाणाः सलिलौघजालैरेकार्णवं सर्वमिदं बभूव ॥ १८.९ ॥ न दृश्यते किंचिदहो चराचरं निरग्निचन्द्रार्कमयेऽपि लोके । प्रणष्टनक्षत्रतमोऽन्धकारे प्रशान्तवातास्तमितैकनीडेः ॥ १८.१० ॥ महाजलौघेऽस्य विशुद्धसत्त्वा स्तुतिर्मया भूप कृता तदानीम् । ततोऽहमित्येव विचिन्तयानः शरण्यमेकं क्व नु यामि शान्तम् ॥ १८.११ ॥ स्मरामि देवं हृदि चिन्तयित्वा प्रभुं शरण्यं जलसंनिविष्टः । नमामि देवं शरणं प्रपद्ये ध्यानं च तस्येति कृतं मया च ॥ १८.१२ ॥ ध्यात्वा ततोऽहं सलिलं ततार तस्य प्रसादादविमूढचेताः । ग्लानिः श्रमश्चैव मम प्रणष्टौ देव्याः प्रसादेन नरेन्द्रपुत्र ॥ १८.१३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्यवर्णनं नामाष्टादशोऽध्यायः ॥ ऋKV अध्याय १९ श्रीमार्कण्डेय उवाच - ततस्त्वेकार्णवे तस्मिन्मुमूर्षुरहमातुरः । काकूच्छ्वासस्तरंस्तोयं बाहुभ्यां नृपसत्तम ॥ १९.१ ॥ शृणोम्यर्णवमध्यस्थो निःशब्दस्तिमिते तदा । अम्भोरवमनौपम्यं दिशो दश विनादिनम् ॥ १९.२ ॥ हंसकुदेन्दुसंकाशां हारगोक्षीरपाण्डुराम् । नानारत्नविचित्राङ्गीं स्वर्णशृङ्गां मनोरमाम् ॥ १९.३ ॥ सुरैः प्रवालकमयैर्लाङ्गुलध्वजशोभिताम् । प्रलम्बघोणां नर्दन्तीं खुरैरर्णवगाहिनीम् ॥ १९.४ ॥ गां ददर्शाहमुद्विग्नो मामेवाभिमुखीं स्थिताम् । किंकिणीजालमुक्ताभिः स्वर्णघण्टासमावृताम् ॥ १९.५ ॥ तस्याश्चरणविक्षेपैः सर्वमेकार्णवं जलम् । विक्षिप्तफेनपुञ्जौघैर्नृत्यन्तीव समं ततः ॥ १९.६ ॥ ररास सलिलोत्क्षेपैः क्षोभयन्ती महार्णवम् । सा मामाह महाभाग श्लक्ष्णगम्भीरया गिरा ॥ १९.७ ॥ मा भैषीर्वत्स वत्सेति मृत्युस्तव न विद्यते । महादेवप्रसादेन न मृत्युस्ते ममापि च ॥ १९.८ ॥ ममाश्रयस्व लाङ्गूलं त्वामतस्तारयाम्यहम् । घोरादस्माद्भयाद्विप्र यावत्संप्लवते जगत् ॥ १९.९ ॥ क्षुत्तृषाप्रतिघातार्थं स्तनौ मे त्वं पिबस्व ह । पयोऽमृताश्रयं दिव्यं तत्पीत्वा निर्वृतो भव ॥ १९.१० ॥ तस्यास्तद्वचनं श्रुत्वा हर्षात्पीतो मया स्तनः । न क्षुत्तृषा पीतमात्रे स्तने मह्यं तदाभवत् ॥ १९.११ ॥ दिव्यं प्राणबलं जज्ञे समुद्रप्लवनक्षमम् । ततस्तां प्रत्युवाचेदं का त्वमेकार्णवीकृते ॥ १९.१२ ॥ भ्रमसे ब्रूहि तत्त्वेन विस्मयो मे महान्हृदि । भ्रमतोऽत्र ममार्तस्य मुमूर्षोः प्रहतस्य ॥ १९.१३ ॥ त्वं हि मे शरणं जाता भाग्यशेषेण सुव्रते ॥ १९.१४ ॥ गौरुवाच - किमहं विस्मृता तुभ्यं विश्वरूपा महेश्वरी । नर्मदा धर्मदा न्ःणां स्वर्गशर्मबलप्रदा ॥ १९.१५ ॥ दृष्ट्वा त्वां सीदमानं तु रुद्रेणाहं विसर्जिता । तं द्विजं तारयस्वार्ये मा प्राणांस्त्यजतां जले ॥ १९.१६ ॥ गोरूपेण विभोर्वाक्यात्त्वत्सकाशमिहागता । मा मृषावचनः शम्भुर्भवेदिति च सत्वरा ॥ १९.१७ ॥ एवमुक्तस्तयाहं तु इन्द्रायुधनिभं शुभम् । लाङ्गूलमव्ययं ज्ञात्वा भुजाभ्यामवलम्बितः ॥ १९.१८ ॥ ततोऽतरं तं जलधिं लाङ्गूलध्वजमाश्रितः । असौ देवो महादेव इति मां प्रत्यभाषत ॥ १९.१९ ॥ ततो युगसहस्रान्तमहं कालं तया सह । व्यचरं वै तमोभूते सर्वतः सलिलावृते ॥ १९.२० ॥ महार्णवे ततस्तस्मिन् भ्रमन्गोः पुच्छमाश्रितः । निर्वाते चान्धकारे च निरालोके निरामये ॥ १९.२१ ॥ अकस्मात्सलिले तस्मिन्नतसीपुष्पसन्निभम् । विभिन्नांजनसङ्काशमाकाशमिव निर्मलम् ॥ १९.२२ ॥ नीलोत्पलदलश्यामं पीतवाससमव्ययम् । किरीटेनार्कवर्णेन विद्युद्विद्योतकारिणा ॥ १९.२३ ॥ भ्राजमानेन शिरसा खमिवात्यन्तरूपिणम् । कुण्डलोद्धष्टगल्लं तु हारोद्द्योतितवक्षसम् ॥ १९.२४ ॥ जाम्बूनदमयैर्दिव्यैर्भूषणैरुपशोभितम् । नागोपधानशयनं सहस्रादित्यवर्चसम् ॥ १९.२५ ॥ अनेकबाहूरुधरं नैकवक्त्रं मनोरमम् । सुप्तमेकार्णवे वीरं सहस्राक्षशिरोधरम् ॥ १९.२६ ॥ जटाजूटेन महता स्फुरद्विद्युत्समार्चिषा । एकार्णवं जगत्सर्वं व्याप्य देवं व्यवस्थितम् ॥ १९.२७ ॥ ग्रसित्वा शङ्करः सर्वं सदेवासुरमानवम् । प्रपश्याम्यहमीशानं सुप्तमेकार्णवे प्रभुम् ॥ १९.२८ ॥ सर्वव्यापिनमव्यक्तमनन्तं विश्वतोमुखम् । तस्य पादतलाभ्याशे स्वर्णकेयूरमण्डिताम् ॥ १९.२९ ॥ विश्वरूपां महाभागां विश्वमायावधारिणीम् । श्रीमयीं ह्रीमयीं देवीं धीमयीं वाङ्मयीं शिवाम् ॥ १९.३० ॥ सिद्धिं कीर्तिं रतिं ब्राह्मीं कालरात्रिमयोनिजाम् । तामेवाहं तदात्यन्तमीश्वरान्तिकमास्थिताम् ॥ १९.३१ ॥ अद्राक्षं चन्द्रवदनां धृतिं सर्वेश्वरीमुमाम् ॥ १९.३२ ॥ शान्तं प्रसुप्तं नवहेमवर्णमुमासहायं भगवन्तमीशम् । तमोवृतं पुण्यतमं वीरष्ठं प्रदक्षिणीकृत्य नमस्करोमि ॥ १९.३३ ॥ ततः प्रसुप्तः सहसा विबुद्धो रात्रिक्षये देववरः स्वभावात् । विक्षोभयन् बाहुभिरर्णवाम्भो जगत्प्रणष्टं सलिले विमृश्य ॥ १९.३४ ॥ किं कार्यमित्येव विचिन्तयित्वा वाराहरूपोऽभवदद्भुताङ्गः । महाघनाम्भोधरतुल्यवर्चाः प्रलम्बमालाम्बरनिष्कमाली ॥ १९.३५ ॥ सशङ्खचक्रासिधरः किरीटी सवेदवेदाङ्गमयो महात्मा । त्रैलोक्यनिर्माणकरः पुराणो देवत्रयीरूपधरश्च कार्ये ॥ १९.३६ ॥ स एव रुद्रः स जगज्जहार सृष्ट्यर्थमीशः प्रपितामहोऽभूत् । संरक्षणार्थं जगतः स एव हरिः सुचक्रासिगदाब्जपाणिः ॥ १९.३७ ॥ तेषां विभागो न हि कर्तुमर्हो महात्मनामेकशरीरभाजाम् । मीमांसाहेत्वर्थविशेषतर्कैर्यस्तेषु कुर्यात्प्रविभेदमज्ञः ॥ १९.३८ ॥ स याति घोरं नरकं क्रमेण विभागकृद्द्वेषमतिर्दुरात्मा । या यस्य भक्तिः स तयैव नूनं देहं त्यजन् स्वं ह्यमृतत्वमेति ॥ १९.३९ ॥ संमोहयन्मूर्तिभिरत्र लोकं स्रष्टा च गोप्ता क्षयकृत्स देवः । तस्मान्न मोहात्मकमाविशेत द्वेषं न कुर्यात्प्रविभिन्नमूर्तिः ॥ १९.४० ॥ वाराहमीशानवरोऽप्यतोऽसौ रूपं समास्थाय जगद्विधाता । नष्टे त्रिलोकेऽर्णवतोयमग्ने विमार्गितोयौघमयेऽन्तरात्मा ॥ १९.४१ ॥ भित्त्वार्णवं तोयमथान्तरस्थं विवेश पातालतलं क्षणेन । जले निमग्नां धरणीं समस्तां समस्पृशत्पङ्कजपत्रनेत्राम् ॥ १९.४२ ॥ विशीर्णशैलोपलशृङ्गकूटां वसुंधरां तां प्रलये प्रलीनाम् । दंष्ट्रैकया विष्णुरतुल्यसाहसः समुद्दधार स्वयमेव देवः ॥ १९.४३ ॥ सा तस्य दंष्ट्राग्रविलम्बिताङ्गी कैलासशृङ्गाग्रगतेव ज्योत्स्ना । विभ्राजते साप्यसमानमूर्तिः शशाङ्कशृङ्गे च तडिद्विलग्ना ॥ १९.४४ ॥ तामुज्जहारार्णवतोयमग्नां करी निमग्नामिव हस्तिनीं हठात् । नावं विशीर्णामिव तोयमध्यादुदीर्णसत्त्वोऽनुपमप्रभावः ॥ १९.४५ ॥ स तां समुत्तार्य महाजलौघात्समुद्रमार्यो व्यभजत्समस्तम् । महार्णवेष्वेव महार्णवाम्भो निक्षेपयामास पुनर्नदीषु ॥ १९.४६ ॥ शीर्णांश्च शैलान्स चकार भूयो द्वीपान्समस्तांश्च तथार्णवांश्च । शैलोपलैर्ये विचिताः समन्ताच्छिलोच्चयांस्तान्स चकार कल्पे ॥ १९.४७ ॥ अनेकरूपं प्रविभज्य देहं चकार देवेन्द्रगणान्समस्तान् । मुखाच्च वह्निर्मनसश्च चन्द्रश्चक्षोश्च सूर्यः सहसा बभूव ॥ १९.४८ ॥ जज्ञेऽथ तस्येश्वरयोगमूर्तेः प्रध्यायमानस्य सुरेन्द्रसङ्घः । वेदाश्च यज्ञाश्च तथैव वर्णास्तथा हि सर्वौषधयो रसाश्च ॥ १९.४९ ॥ जगत्समस्तं मनसा बभूव यत्स्थावरं किंचिदिहाण्डजं वा । जरायुजं स्वेदजमुद्भिज्जं वा यत्किंचिदा कीटपिपीलकाद्यम् ॥ १९.५० ॥ ततो विजज्ञे मनसा क्षणेन अनेकरूपाः सहसा महेशा । चकार यन्मूर्तिभिरव्ययात्मा अष्टाभिराविश्य पुनः स तत्र ॥ १९.५१ ॥ लीलां चकाराथ समृद्धतेजा अतोऽत्र मे पश्यत एव विप्राः । तेषां मया दर्शनमेव सर्वं यावन्मुहूर्तात्समकारि भूप ॥ १९.५२ ॥ कृत्वा त्वशेषं किल लीलयैव स देवदेवो जगतां विधाता । सर्वत्रदृक्सर्वग एव देवो जगाम चादर्शनमादिकर्ता ॥ १९.५३ ॥ यत्तन्मुहूर्तादिह नामरूपं तावत्प्रपश्यामि जगत्तथैव । द्वीपैः समुद्रैरभिसंवृतं हि नक्षत्रतारादिविमानकीर्णम् ॥ १९.५४ ॥ वियत्पयोदग्रहचक्रचित्रं नानाविधैः प्राणिगणैर्वृतं च । तां वै न पश्यामि महानुभावां गोरूपिणीं सर्वसुरेश्वरीं च ॥ १९.५५ ॥ क्व सांप्रतं सेति विचिन्त्य राजन्विभ्रान्तचित्तस्त्वभवं तदैव । दिशो विभागानवलोकयानृते पुनस्तां कथमीश्वराङ्गीम् ॥ १९.५६ ॥ पश्यामि तामत्र पुनश्च शुभ्रां महाभ्रनीलां शुचिशुभ्रतोयाम् । वृक्षैरनेकैरुपशोभिताङ्गीं गजैस्तुरङ्गैर्विहगैर्वृतां च ॥ १९.५७ ॥ यथा पुरातीरमुपेत्य देव्याः समास्थितश्चाप्यमरकण्टके तु । तथैव पश्यामि सुखोपविष्ट आत्मानमव्यग्रमवाप्तसौख्यम् ॥ १९.५८ ॥ तथैव पुण्या मलतोयवाहां दृष्ट्वा पुनः कल्पपरिक्षयेऽपि । अम्बामिवार्यामनुकम्पमानामक्षीणतोयां विरुजां विशोकः ॥ १९.५९ ॥ एवं महत्पुण्यतमं च कल्पं पठन्ति शृण्वन्ति च ये द्विजेन्द्राः । महावराहस्य महेश्वरस्य दिने दिने ते विमला भवन्ति ॥ १९.६० ॥ अशुभशतसहस्रं ते विधूय प्रपन्नास्त्रिदिवममरजुष्टं सिद्धगन्धर्वयुक्तम् । विमलशशिनिभाभिः सर्व एवाप्सरोभिः सह विविधविलासैः स्वर्गसौख्यं लभन्ते ॥ १९.६१ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये वाराहकल्पवृत्तान्तवर्णनं नामैकोनविंशोऽध्यायः ॥ ऋKV अध्याय २० युधिष्ठिर उवाच - श्रुता मे विविधा धर्माः संहारास्त्वत्प्रसादतः । कृता देवेन सर्वेण ये च दृष्टास्त्वयानघ ॥ २०.१ ॥ साम्प्रतं श्रोतुमिच्छामि प्रभावं शार्ङ्गधन्वनः । त्वयानुभूतं विप्रेन्द्र तन्मे त्वं वक्तुमर्हसि ॥ २०.२ ॥ श्रीमार्कण्डेय उवाच - अतः परं प्रवक्ष्यामि प्रजासंहारलक्षणम् । यच्चिह्नं दृश्यते तत्र यथा कल्पो विधीयते ॥ २०.३ ॥ उल्कापाताः सनिर्घाता भूमिकम्पस्तथैव च । पतते पांशुवर्षं च निर्घोषश्चैव दारुणः ॥ २०.४ ॥ यक्षकिन्नरगन्धर्वाः पिशाचोरगराक्षसाः । सर्वे ते प्रलयं यान्ति युगान्ते समुपस्थिते ॥ २०.५ ॥ पर्वताः सागरा नद्यः सरांसि विविधानि च । वृक्षाः शेषं समायान्ति वल्लीजातं तृणानि च ॥ २०.६ ॥ एवं हि व्याकुलीभूते सर्वौषधिजलोज्झिते । काष्ठभूते तु संजाते त्रैलोक्ये सचराचरे ॥ २०.७ ॥ यावत्पश्यामि मध्याह्ने स्नानकाल उपस्थिते । त्रैलोक्यं ज्वलनाकारं दुर्निरीक्षं दुरासदम् ॥ २०.८ ॥ द्वौ सूर्यौ पूर्वतस्तात पश्चिमोत्तरयोस्तथा । तथैव दक्षिणे द्वौ च सूर्यौ दृष्टौ प्रतापिनौ ॥ २०.९ ॥ द्वौ सूर्यौ नागलोकस्थौ मध्ये द्वौ गगनस्य च । इत्येते द्वादशादित्यास्तपन्ते सर्वतो दिशम् ॥ २०.१० ॥ पृथिवीमदहन्सर्वां सशैलवनकाननाम् । नादग्धं दृश्यते किंचिदृते रेवां च मां तथा ॥ २०.११ ॥ पृथिव्यां दह्यमानायां हविर्गन्धश्च जायते । ततो मे शुष्यते गात्रं तृषाप्येवं दुरासदा ॥ २०.१२ ॥ न हि विन्दामि पानीयं शोषितं च दिवाकरैः । यावत्कमण्डलुं वीक्षे शुष्कं तत्रापि तज्जलम् ॥ २०.१३ ॥ ततोऽहं शोकसंतप्तो विशेषात्क्षुत्तृषार्दितः । उत्पपात क्षितेरूर्ध्वं पश्यमानो दिवं प्रति ॥ २०.१४ ॥ तावत्पश्यामि गगने गृहं शृङ्गारभूषितम् । ततस्तज्ज्ञातुकामोऽहं प्रस्थितो राजसत्तम ॥ २०.१५ ॥ प्राकारेण विचित्रेण कपाटार्गलभूषितम् । विचित्रशिखरोपेतं द्वारदेशमुपागतः ॥ २०.१६ ॥ षडशीतिसहस्राणि योजनानां समुच्छ्रये । तदर्धं तु पृथक्त्वेन काञ्चनं रत्नभूषितम् ॥ २०.१७ ॥ तत्र मध्ये परां शय्यां पश्यामि नृपसत्तम । शय्योपरि शयानं तु पुरुषं दिव्यमूर्धजम् ॥ २०.१८ ॥ विकुञ्चिताग्रकेशान्तं समस्तं योजनायतम् । मुकुटेन विचित्रेण दीप्तिकान्तेन शोभितम् ॥ २०.१९ ॥ श्यामं कमलपत्राभं सुप्रभं च सुनासिकम् । सिंहास्यमायतभुजं गल्लश्मश्रुवराङ्कितम् ॥ २०.२० ॥ त्रिवलीभङ्गसुभगं कर्णकुण्डलभूषितम् । विशालाभं सुपीनाङ्गं पार्श्वस्वावर्तभूषितम् ॥ २०.२१ ॥ शोभितं कटिभागेन विभक्तं जानुजङ्घयोः । पद्माङ्किततलं देवमाताम्रसुनखाङ्गुलिम् ॥ २०.२२ ॥ मेघनादसुगम्भीरं सर्वावयवसुन्दरम् । शय्यामध्यगतं देवमपश्यं पुरुषोत्तमम् ॥ २०.२३ ॥ शङ्खचक्रगदापाणिं शयानं दक्षिणेन तु । अक्षसूत्रोद्यतकरं सूर्यायुतसमप्रभम् ॥ २०.२४ ॥ तं दृष्ट्वा भक्तिमान्देवं स्तोतुकामो व्यवस्थितः । जयेश जय वागीश जय दिव्याङ्गभूषण ॥ २०.२५ ॥ जय देवपते श्रीमन्साक्षाद्ब्रह्म सनातन । तव लोकाः शरीरस्थास्त्वं गतिः परमेश्वर ॥ २०.२६ ॥ त्वदाधारा हि देवेश सर्वे लोका व्यवस्थिताः । त्वं श्रेष्ठः सर्वसत्त्वानां त्वं कर्ता धरणीधरः ॥ २०.२७ ॥ त्वं हौत्रमग्निहोत्राणां सूत्रमन्त्रस्त्वमेव च । गोकर्णं भद्रकर्णं च त्वं च माहेश्वरं पदम् ॥ २०.२८ ॥ त्वं कीर्तिः सर्वकीर्तीनां दैन्यपापप्रणाशिनी । त्वं नैमिषं कुरुक्षेत्रं त्वं च विष्णुपदं परम् ॥ २०.२९ ॥ त्वया तु लीलया देव पदाक्रान्ता च मेदिनी । त्वया बद्धो बलिर्देव त्वयेन्द्रस्य पदं कृतम् ॥ २०.३० ॥ त्वं कलिर्द्वापरं देव त्रेता कृतयुगं तथा । प्रलम्बदमनश्च त्वं स्रष्टा त्वं च विनाशकृत् ॥ २०.३१ ॥ त्वया वै धार्यते लोकास्त्वं कालः सर्वसंक्षयः । त्वया हि देव सृष्टास्ताः सर्वा वै देवयोनयः ॥ २०.३२ ॥ त्वं पन्थाः सर्वलोकानां त्वं च मोक्षः परा गतिः । ब्रह्मा त्वदुद्भवो देवो रजोरूपः सनातनः । रुद्रः क्रोधोद्भवोऽप्येवं त्वं च सत्त्वे व्यवस्थितः ॥ २०.३३ ॥ एतच्चराचरं देव क्रीडनार्थं त्वया कृतम् । एवं संतप्तदेहेन स्तुतो देवो मया प्रभुः ॥ २०.३४ ॥ भक्त्या परमया राजन्सर्वभूतपतिः प्रभुः । स्तुवन्वै तत्र पश्यामि वारिपूर्णांस्ततो घटान् ॥ २०.३५ ॥ ततो मया विस्मृता या तृषा सा वर्धिता पुनः । उपासर्पं ततस्तस्य पार्श्वं वै पुरुषस्य हि ॥ २०.३६ ॥ पानीयं पातुकामेन चिन्तितं च मया पुनः । नापश्यत हि मां चैष सुप्तोऽपि न च बुध्यते ॥ २०.३७ ॥ यस्तु पापेन संमूढः सुखं सुप्तं प्रबोधयेत् । जायते तस्य पापस्य ब्रह्महत्याफलं महत् ॥ २०.३८ ॥ एवं संचिन्त्यमाने तु द्वितीयो ह्यागतः पुमान् । नेक्षते जल्पते किंचिद्वामस्कन्धे मृगाजिनी ॥ २०.३९ ॥ जटी कमण्डलुधरो दण्डी मेखलया वृतः । भस्मोन्मृदितसर्वाङ्गो महातेजास्त्रिलोचनः ॥ २०.४० ॥ यावत्तं स्तोतुकामोऽहमपश्यं स्वच्छचक्षुषा । तावत्सर्वाङ्गसम्भूत्यामहत्या रूपसम्पदा ॥ २०.४१ ॥ अपश्यं संवृतां नारीं सर्वाभरणभूषिताम् । दृष्ट्वा तां पतितो भूमौ जयस्वेति ब्रुवंस्ततः ॥ २०.४२ ॥ जय रुद्राङ्गसम्भूते जयवाहिनि सनातनि । जय कौमारि माहेन्द्रि वैष्णवी वारुणी तथा ॥ २०.४३ ॥ जय कौबेरि सावित्रि जय धात्रि वरानने । तृष्णया तप्तदे हस्य रक्षां कुरु चराचरे ॥ २०.४४ ॥ श्रीदेव्युवाच - प्रसन्ना विप्रशार्दूल तव वाक्यैः सुशोभनैः । वर्तते मानसे यत्ते मया ज्ञातं द्विजोत्तम ॥ २०.४५ ॥ शृणु विप्र ममाप्यस्ति व्रतमेतत्सुदारुणम् । स्त्रीलघुत्वान्मयारब्धं दुष्करं मन्दमेधया ॥ २०.४६ ॥ यदि भावी च मे पुत्रो धर्मिष्ठो लोकविश्रुतः । विप्रस्य तु स्तनं दत्त्वा पश्चाद्दास्यामि बालके ॥ २०.४७ ॥ स मे पुत्रः समुत्पन्नो यथोक्तो मे महामुने । स्तनं पिब त्वं विप्रेन्द्र यदि जीवितुमिच्छसि ॥ २०.४८ ॥ श्रीमार्कण्डेय उवाच - अकार्यमेतद्विप्राणां यस्त्विमं पिबते स्तनम् । पुनश्चैवोपनयनं व्रतसिद्धिं न गच्छति ॥ २०.४९ ॥ ब्राह्मणत्वं त्रिभिर्लोकैर्दुर्लभं पद्मलोचने । संस्कारैः संस्कृतो विप्रो यैश्च जायेत तच्छृणु ॥ २०.५० ॥ प्रथमं चैव नारीषु संस्कारैर्बीजवापतम् । बीजप्रक्षेपणादेव बीजक्षेपः स उच्यते ॥ २०.५१ ॥ तदन्ते च महाभागे गर्भाधानं द्वितीयकम् । पुंसवनं तृतीयं तु सीमन्तं च चतुर्थकम् ॥ २०.५२ ॥ पञ्चमं जातकर्म स्यान्नाम वै षष्ठमुच्यते । निष्क्रामः सप्तमश्चैव ह्यन्नप्राशनमष्टमम् ॥ २०.५३ ॥ नवमं वै चूडकर्म दशमं मौञ्जिबन्धनम् । ऐषिकं दार्विकं चैव सौमिकं भौमिकं तथा ॥ २०.५४ ॥ पत्नीसंयोजनं चान्यद्दैवकर्म ततः परम् । मानुष्यं पितृकर्म स्याद्दशमाष्टासु शोभने ॥ २०.५५ ॥ भूतं भव्यं तथेष्टं च पार्वणं च ततः परम् ॥ २०.५६ ॥ श्राद्धं श्रावण्यामाग्रयणं च चैत्राश्वयुज्यां दशपौर्णमास्याम् । निरूढपशुसवनसौत्रामण्यग्निष्टोमात्यग्निष्टोमाः ॥ २०.५७ ॥ षोडषीवाजपेयातिरात्राप्तोर्यामोदशवाजपेयाः । सर्वभूतेषु क्षान्तिरनसूया शौचमङ्गलमकार्पण्यमस्पृहेति ॥ २०.५८ ॥ एभिरष्टचत्वारिंशद्भिः संस्कारैः संकृतो ब्राह्मणो भवति ॥ २०.५९ ॥ एवं ज्ञात्वा महाभागे न तु मां पातुमर्हसि । शिशुपेयं स्तनं भद्रे कथं वै मद्विधः पिबेत् ॥ २०.६० ॥ ममैतद्वचनं श्रुत्वा नारी वचनमब्रवीत् ॥ २०.६१ ॥ यदि त्वं न पिबेः स्तन्यं पयो बालो मरिष्यति । श्रूयते त्रिषु लोकेषु वेदेषु च स्मृतिष्वपि । मुच्यते सर्वपापेभ्यो भ्रूणहत्या न मुञ्चति ॥ २०.६२ ॥ भवित्री तव हत्या च महाभागवतः पुनः । जन्मानि च शतान्यष्टौ क्लिश्यते भ्रूणहत्यया ॥ २०.६३ ॥ मृतः शुनत्वं चाप्नोति वर्षाणां तु शतत्रयम् । ततस्तस्य क्षये जाते काकयोनिं व्रजेत्पुनः ॥ २०.६४ ॥ तत्रापि च शतान्यष्टौ क्लिश्यते पापकर्मणि । वराहो दश जन्मानि तदन्ते जायते कृमिः ॥ २०.६५ ॥ ततश्चारोहिणीं प्राप्य गोगजाश्वनृजन्मभाक् । श्रूयते श्रुतिशास्त्रेषु वेदेषु च परंतप ॥ २०.६६ ॥ सर्वपापाधिकं पापं बालहत्या द्विजोत्तम । बालहत्यायुतो विप्रः पच्यते नरके ध्रुवम् ॥ २०.६७ ॥ वर्षाणि च शतान्यष्टौ प्राप्नोति यमयातनाम् । तस्मादल्पतरो दोषः पिबतो मे स्तनं तव ॥ २०.६८ ॥ तथैवापिबतः पापं जायते बहुवर्षिकम् । क्षुधातृषाविरामस्ते पुण्यं च पिबतः स्तनम् ॥ २०.६९ ॥ अतो न चेतः संदिग्धं कर्तव्यमिह कर्हिचित् । एहि विप्र यथाकामं बालार्थे पिब मे स्तनम् ॥ २०.७० ॥ ततोऽहं वचनं श्रुत्वा स्तनं पातुं समुद्यतः । न च तृप्तिं विजानामि पिबतः स्तनमुत्तमम् ॥ २०.७१ ॥ त्रिंशद्वर्षसहस्राणि भारतैवं शतानि च । ततः प्रबुद्धोत्सङ्गेऽहं मायानिद्राविमोहितः ॥ २०.७२ ॥ निद्राविगतमोहोऽहं यावत्पश्यामि पाण्डव । तावत्सुप्तं न पश्यामि न च तं बालकं विभो ॥ २०.७३ ॥ चतुरस्तांश्च वै कुम्भान् पश्यामि तत्र भारत । न च पश्यामि तां देवीं गता वै कुत्रचिच्च ते ॥ २०.७४ ॥ एवं विमृश्यमानस्य चिन्तयानस्य तिष्ठतः । ईषद्धसितया वाचा देवी वचनमब्रवीत् ॥ २०.७५ ॥ श्रीदेव्युवाच - कृष्णः स पुरुषः सुप्तो द्वितीयोऽप्यागतो हरः । ये चत्वारश्च ते कुम्भाः समुद्रास्ते द्विजोत्तम ॥ २०.७६ ॥ यश्च बालस्त्वया दृष्टो ब्राह्मा लोकपितामहः । अहं च पृथिवी ज्ञेया सप्तद्वीपा सर्वता ॥ २०.७७ ॥ या गता त्वां परित्यज्य भूतले सुप्रतिष्ठिता । इमां च प्रेक्षसे विप्र नर्मदां सरितां वराम् ॥ २०.७८ ॥ सर्वसत्त्वोपकाराय बृहते पुण्यलक्षणा । रेवानदी तु विख्याता न मृता तेन नर्मदा ॥ २०.७९ ॥ एवं ज्ञात्वा शमं गच्छ स्वस्थो भव महामुने । इत्युक्त्वा मां तदा देवी तत्रैवान्तरधीयत ॥ २०.८० ॥ एवं हि शेते भगवान्सत्त्वस्थः प्रलये सदा । सत्त्वरूपो महादेवो यदाधारे जगत्स्थितम् ॥ २०.८१ ॥ एवं मयानुभूतं तु दृष्टमाश्चर्यमुत्तमम् । सर्वपापहरं पुण्यं कथितं ते नरोत्तम ॥ २०.८२ ॥ विष्णोश्चरितमित्युक्तं यत्त्वया परिपृच्छितम् । भूय एव महाबाहो किमन्यच्छ्रोतुमिच्छसि ॥ २०.८३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वाराहकल्पवृत्तान्तवर्णनं नाम विंशोऽध्यायः ॥ ऋKV अध्याय २१ युधिष्ठिर उवाच - श्रुतं मे विविधाश्चर्यं त्वत्प्रसादाद्द्विजोत्तम । भूयश्च श्रोतुमिच्छामि तन्मे कथय सुव्रत ॥ २१.१ ॥ कथमेषा नदी पुण्या सर्वनदीषु चोत्तमा । नर्मदा नाम विख्याता भूयो मे कथयानघ ॥ २१.२ ॥ श्रीमार्कण्डेय उवाच - नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी । तारयेत्सर्वभूतानि स्थावराणि चराणि च ॥ २१.३ ॥ नर्मदायास्तु माहात्म्यं यत्पूर्वेण मया श्रुतम् । तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ॥ २१.४ ॥ गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥ २१.५ ॥ त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् । सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ २१.६ ॥ कलिङ्गदेशात्पश्चार्धे पर्वतेऽमरकण्टके । पुण्या च त्रिषु लोकेषु रमणीया पदे पदे ॥ २१.७ ॥ तत्र देवाश्च गन्धर्वा ऋषयश्च तपोधनाः । तपस्तप्त्वा महाराज सिद्धिं परमिकां गताः ॥ २१.८ ॥ तत्र स्नात्वा नरो राजन्नियमस्थो जितेन्द्रियः । उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ २१.९ ॥ सिद्धिक्षेत्रं परं तात पर्वतो ह्यमरंकटः । सर्वदेवाश्रितो यस्मादृषिभिः परिसेवितः ॥ २१.१० ॥ सिद्धविद्याधरा भूतगन्धर्वाः स्थानमुत्तमम् । दृश्यादृश्याश्च राजेन्द्र सेवन्ते सिद्धिकाङ्क्षिणः ॥ २१.११ ॥ अहं च परमं स्थानं ततः प्रभृति संश्रितः । अत्र प्रणवरूपो वै स्थाने तिष्ठत्युमापतिः ॥ २१.१२ ॥ श्रीकण्ठः सगणः सर्वभूतसङ्घैर्निषेवितः । अस्माद्गिरिवराद्भूप वक्ष्ये तीर्थस्य विस्तरम् ॥ २१.१३ ॥ यानि सन्तीह तीर्थानि पुण्यानि नृपसत्तम । यानि यानीह तीर्थानि नर्मदायास्तटद्वये ॥ २१.१४ ॥ न तेषां विस्तरं वक्तुं शक्तो ब्रह्मापि भूपते । योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥ २१.१५ ॥ विस्तरेण तु राजेन्द्र अर्धयोजनमायता । षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥ २१.१६ ॥ पर्वतादुदधिं यावदुभे कूले न संशयः ॥ २१.१७ ॥ सप्तषष्टिसहस्राणि सप्तषष्टिशतानि च । सप्तषष्टिस्तथा कोट्यो वायुस्तीर्थानि चाब्रवीत् ॥ २१.१८ ॥ परं कृतयुगे तानि यान्ति प्रत्यक्षतां नृप । पश्यन्ति मानवाः सर्वे सततं धर्मबुद्धयः ॥ २१.१९ ॥ यथायथा कलिर्घोरो वर्तते दारुणो नृप । तथातथाल्पतां यान्ति हीनसत्त्वा यतो नराः ॥ २१.२० ॥ जालेश्वरादितीर्थानि पर्वतेऽस्मिन्नराधिप । पितृतृप्तिप्रदान्याहुः स्वर्गमोक्षप्रदानि च ॥ २१.२१ ॥ श्रेष्ठं दारुवनं तत्र चरुकासंगमः शुभः । उत्तरे नर्मदायास्तु चरुकेश्वरमुत्तमम् ॥ २१.२२ ॥ दारुकेश्वरतीर्थं च व्यतीपातेश्वरं तथा । पातालेश्वरतीर्थं च कोटियज्ञं तथैव च ॥ २१.२३ ॥ इति चैवोत्तरे कूले रेवाया नृपसत्तम । अमरेश्वरपार्श्वे च लिङ्गान्यष्टोत्तरं शतम् ॥ २१.२४ ॥ वरुणेश्वरमुख्यानि सर्वपापहराणि च ॥ २१.२५ ॥ मान्धातृपुरपार्श्वे च सिद्धेश्वरयमेश्वरौ । ओङ्कारात्पूर्वभागे च केदारं तीर्थमुत्तमम् ॥ २१.२६ ॥ तत्समीपे महाराज स्वर्गद्वारमघापहम् । नाम्ना ब्रह्मेश्वरं पुण्यं सप्तसारस्वतं पुरः ॥ २१.२७ ॥ रुद्राष्टकं च सावित्रं सोमतीर्थं तथैव च । एतानि दक्षिणे तीरे रेवाया भरतर्षभ ॥ २१.२८ ॥ अस्मिंस्तु पर्वते तात रुद्राणां कोटयः स्थिताः । स्नानैस्तुष्टिर्भवेत्तेषां गन्धमाल्यानुलेपनैः ॥ २१.२९ ॥ प्रीतास्तेऽपि भवन्त्यत्र रुद्रा राजन्न संशयः । जपेन पापसंशुद्धिर्ध्यानेनानन्त्यमश्नुते ॥ २१.३० ॥ दानेन भोगानाप्नोति इत्येवं शङ्करोऽब्रवीत् । पर्वतात्पश्चिमे देशे स्वयं देवो महेश्वरः । स्थितः प्रणवरूपोऽसौ जगदादिः सनातनः ॥ २१.३१ ॥ तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः । पितृकार्यं प्रकुर्वीत विधिदृष्टेन कर्मणा ॥ २१.३२ ॥ तिलोदकेन तत्रैव तर्पयेत्पितृदेवताः । आ सप्तमं कुलं तस्य स्वर्गे मोदति पाण्डव ॥ २१.३३ ॥ आत्मना सह भोगांश्च विविधान् लभते सुखी । षष्टिवर्षसहस्राणि क्रीडते सुरपूजितः ॥ २१.३४ ॥ मोदते सुचिरं कालं पितृपूजाफलधितः । ततः स्वर्गात्परिभ्रष्टो जायते विमले कुले ॥ २१.३५ ॥ धनवान्दानशीलश्च नीरोगो लोकपूजितः । पुनः स्मरति तत्तीर्थं गमनं कुरुते पुनः ॥ २१.३६ ॥ द्वितीये जन्मनि भवेद्ध्रदस्यानुचरोत्कटः । तथैव ब्रह्मचर्येण सोपवासो जितेन्द्रियः ॥ २१.३७ ॥ सर्वहिंसानिवृत्तस्तु लभते फलमुत्तमम् । एवं धर्मसमाचारो यस्तु प्राणान्परित्यजेत् ॥ २१.३८ ॥ तस्य पुण्यफलं यद्वै तन्निबोध नराधिप । शतं वर्षसहस्राणि स्वर्गे मोदति पाण्डव ॥ २१.३९ ॥ अप्सरोगणसंकीर्णे दिव्यशब्दानुनादिते । दिव्यगन्धानुलिप्ताङ्गो दिव्यालङ्कारभूषितः ॥ २१.४० ॥ क्रीडते दैवतैः सार्द्धं सिद्धगन्धर्वसंस्तुतः । ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् ॥ २१.४१ ॥ हस्त्यश्वरथयानैश्च धर्मज्ञः शास्त्रतत्परः । गृहे स्तम्भशताकीर्णे सौवर्णे रजतान्विते ॥ २१.४२ ॥ सप्ताष्टभूमिसुद्वारे दासीदाससमाकुले । मत्तमातङ्गनिःश्वासैर्वाजिहेषितनादितैः ॥ २१.४३ ॥ क्षुभ्यते तस्य तद्द्वारमिन्द्रस्य भुवनं यथा । राजराजेश्वरः श्रीमान्सर्वस्त्रीजनवल्लभः ॥ २१.४४ ॥ तस्मिन्गृहे वसित्वा तु क्रीडाभोगसमन्वितः । जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ॥ २१.४५ ॥ एवं तेषां भवेत्सर्वं ये मृता ह्यमरेश्वरे । अग्निप्रवेशं यः कुर्याद्भक्त्या ह्यमरकण्टके ॥ २१.४६ ॥ स मृतः स्वर्गमाप्नोति यास्यते परमां गतिम् । स्नानं दानं जपो होमः शुभं वा यदि वाशुभम् ॥ २१.४७ ॥ पुराणे श्रूयते राजन्सर्वं कोटिगुणं भवेत् । तस्यास्तीरे तु ये वृक्षाः पतिताः कालपर्यये ॥ २१.४८ ॥ नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम् । अनिवृत्तिका गतिस्तस्य पवनस्याम्बरे यथा ॥ २१.४९ ॥ पतनं कुरुते यस्तु तस्मिंस्तीर्थे नराधिप । कन्यास्त्रीणि सहस्राणि पाताले भोगभागिनः ॥ २१.५० ॥ तिष्ठन्ति भवने तस्य प्रेषणे प्रार्थयन्ति च । दिव्यभोगैः सुसम्पन्नः क्रीडते कालम् ॥ २१.५१ ॥ पृथिव्यां ह्यासमुद्रायां तादृशो नैव जायते । यादृशोऽयं नरश्रेष्ठ पर्वतोऽमरकण्टकः ॥ २१.५२ ॥ तत्र तीर्थं तु विज्ञेयं पर्वतस्यानु पश्चिमे । ह्रदो जालेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ २१.५३ ॥ तत्र पिण्डप्रदानेन सन्ध्योपासनकेन तु । पितरो द्वादशाब्दानि तर्पितास्तु भवन्ति वै ॥ २१.५४ ॥ दक्षिणे नर्मदातीरे कपिला तु महानदी । सरलार्जुनसंछन्ना खदिरैरुपशोभिता ॥ २१.५५ ॥ माधवीसल्लकीभिश्च वल्लीभिश्चाप्यलंकृता । श्वापदैर्गर्जमानैश्च गोमायुवानरादिभिः ॥ २१.५६ ॥ पक्षिजातिविशेषैश्च नित्यं प्रमुदिता नृप । साग्रं कोटिशतं तत्र ऋषीणामिति शुश्रुम ॥ २१.५७ ॥ तपस्तप्त्वा गतं मोक्षं येषां जन्म न चागमः । येन तत्र तपस्तप्तं कपिलेन महात्मना ॥ २१.५८ ॥ तत्र तच्चाभवत्तीर्थं पुण्यं सिद्धनिषेवितम् । येन सा कापिलैस्तात सेविता ऋषिभिः पुरा ॥ २१.५९ ॥ तेन सा कपिला नाम गीता पापक्षयंकरी । तत्र कोटिशतं साग्रं तीर्थानाममरेश्वरे ॥ २१.६० ॥ अहोरात्रोषितो भूत्वा मुच्यते सर्वकिल्बिषैः । दानं च विधिवद्दत्त्वा यथाशक्त्या द्विजोत्तमे ॥ २१.६१ ॥ ईश्वरानुग्रहात्सर्वं तत्र कोटिगुणं भवेत् । यस्मादनक्षरं रूपं प्रणवस्येह भारत ॥ २१.६२ ॥ शिवस्वरूपस्य ततः कृतमात्राक्षरं भवेत् । तिर्यञ्चः पशवश्चैव वृक्षा गुल्मलतादयः ॥ २१.६३ ॥ तेऽपि तत्र क्षयं याताः स्वर्गं यान्ति न संशयः । विशल्या तत्र या प्रोक्ता तत्रैव तु महानदी ॥ २१.६४ ॥ स्नात्वा दत्त्वा यथान्यायं तत्रापि सुकृती भवेत् । तत्र देवगणाः सर्वे सकिन्नरमहोरगाः ॥ २१.६५ ॥ यक्षराक्षसगन्धर्वा ऋषयश्च तपोधनाः । सर्वे समागतास्तां वै पश्यन्ति ह्यमरेश्वरे ॥ २१.६६ ॥ तैश्च सर्वैः समागम्य वन्दितौ तौ शुभौ कटौ । पुरा युगे महाघोरे सर्वलोकभयंकरे ॥ २१.६७ ॥ नर्मदायाः सुतस्तत्र सशल्यो विशलीकृतः । सर्वदेवैश्च ऋषिभिर्विशल्या तेन सा स्मृता ॥ २१.६८ ॥ युधिष्ठिर उवाच - उत्पन्ना तु कथं तात विशल्या कपिला कथम् । कथं वा नर्मदापुत्रः शल्ययुक्तोऽभवन्मुने ॥ २१.६९ ॥ आश्चर्यभूतं लोकस्य श्रोतुमिच्छामि सुव्रत ॥ २१.७० ॥ श्रीमार्कण्डेय उवाच - पुरा दाक्षायणी नाम सहिता शूलपाणिना । क्रीडित्वा नर्मदातोये परया च मुदा नृप ॥ २१.७१ ॥ जलादुत्तीर्य सहसा वस्त्रमन्यत्समाहरत् । देव्यास्तु स्नानवस्त्रं तत्पीडितं लीलया नृप ॥ २१.७२ ॥ सहितानुचरीभिस्तु इन्द्रायुधनिभं भृशम् । तस्मिन्निष्पीड्यमाने तु वारि यन्निःसृतं तदा ॥ २१.७३ ॥ तस्मादियं सरिज्जज्ञे कपिलाख्या महानदी । संयोगादङ्गरागस्य वस्त्रोद्यत्कपिलं जलम् ॥ २१.७४ ॥ गलितं तेन कपिला वर्णतो नामतोऽभवत् । तथा गन्धरसैर्युक्तं नानापुष्पैस्तु वासितम् ॥ २१.७५ ॥ नानावर्णारुणं शुभ्रं वस्त्राद्यद्वारि निःसृतम् । पीड्यमानं करैः शुभ्रैस्तैस्तु पल्लवकोमलैः ॥ २१.७६ ॥ कपिलं जलमिश्रैस्तु तस्मादेषा सरिद्वरा । कपिला चोच्यते तज्ज्ञैः पुराणार्थविशारदैः ॥ २१.७७ ॥ एषा वै वस्त्रसम्भूता नर्मदातोयसम्भवा । महापुण्यतमा ज्ञेया कपिला सरिदुत्तमा ॥ २१.७८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कपिलासरित्सम्भववर्णनं नामैकविंशोऽध्यायः ॥ ऋKV अध्याय २२ श्री मार्कण्डेय उवाच - अतः परं प्रवक्ष्यामि सा विशल्या ह्यभूद्यथा । आश्चर्यभूता लोकस्य सर्वपापक्षयंकरी ॥ २२.१ ॥ ब्रह्मणो मानसः पुत्रो मुख्यो ह्यग्निरजायत । मुख्यो वह्निरितिप्रोक्त ऋषिः परमधार्मिकः ॥ २२.२ ॥ तस्य स्वाहाभवत्पत्नी स्मृता दाक्षायणी तु सा । तस्यां मुख्या महाराज त्रयः पुत्रास्तदाऽभवन् ॥ २२.३ ॥ अग्निराहवनीयस्तु दक्षिणाग्निस्तथैव च । गार्हपत्यस्तृतीयस्तु त्रैलोक्यं यैश्च धार्यते ॥ २२.४ ॥ तथा वै गार्हपत्योऽग्निर्जज्ञे पुत्रद्वयं शुभम् । पद्मकः शङ्कुनामा च तावुभावग्निसत्तमौ ॥ २२.५ ॥ वसन्नग्निर्नदीतीरे समाश्रित्य महत्तपः । रुद्रमाराधयामास जितात्मा सुसमाहितः ॥ २२.६ ॥ दशवर्षसहस्राणि चचार विपुलं तपः । तमुवाच महादेवः प्रसन्नो वृषभध्वजः ॥ २२.७ ॥ भोभो ब्रूहि महाभाग यत्ते मनसि वर्तते । दाता ह्यहमसंदेहो यद्यपि स्यात्सुदुर्लभम् ॥ २२.८ ॥ अग्निरुवाच - नर्मदेयं महाभागा सरितो याश्च षोडश । भवन्तु मम पत्न्यस्तास्त्वत्प्रसादान्महेश्वर ॥ २२.९ ॥ तासु वै चिन्तितान् पुत्रानग्र्यानुत्पादयाम्यहम् । एष एव वरो देव दीयतां मे महेश्वर ॥ २२.१० ॥ ईश्वर उवाच - एतास्तु धिष्णिनाम्न्यो वै भविष्यन्ति सरिद्वराः । पत्न्यस्तव विशालाक्ष्यो वेदे ख्याता न संशयः ॥ २२.११ ॥ तासां पुत्रा भविष्यन्ति ह्यग्नयो येऽध्वरे स्मृताः । धिष्ण्यानाम सुविख्याता यावदाभूतसम्प्लवम् ॥ २२.१२ ॥ एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत । नर्मदा च सरिच्छ्रेष्ठा तस्य भार्या बभूव ह ॥ २२.१३ ॥ कावेरी कृष्णवेणी च रेवा च यमुना तथा । गोदावरी वितस्ता च चन्द्रभागा इरावती ॥ २२.१४ ॥ विपाशा कौशिकी चैव सरयूः शतरुद्रिका । शिप्रा सरस्वती चैव ह्रादिनी पावनी तथा ॥ २२.१५ ॥ एताः षोडशा नद्यो वै भार्यार्थं संव्यवस्थिताः । तदात्मानं विभज्याशु धिष्णीषु स महाद्युतिः ॥ २२.१६ ॥ व्यभिचारात्तु भर्तुर्वै नर्मदाद्यासु धिष्णिषु । उत्पन्नाः शुचयः पुत्राः सर्वे ते धिष्ण्यपाः स्मृताः ॥ २२.१७ ॥ तस्याश्च नर्मदायास्तु धिष्णीन्द्रो नाम विश्रुतः । बभूव पुत्रो बलवान्रूपेणाप्रतिमो नृप ॥ २२.१८ ॥ ततो देवासुरं युद्धमभवल्लोमहर्षणम् । मयतारकमित्येवं त्रिषु लोकेषु विश्रुतम् ॥ २२.१९ ॥ तत्र दैत्यैर्महाघोरैर्मयतारपुरोगमैः । ताडितास्ते सुरास्त्रस्ता विष्णुं वै शरणं ययुः ॥ २२.२० ॥ त्रायस्व नो हृषीकेशा घोरादस्मान्महाभयात् । दैत्यान्सर्वान्संहरस्व मयतारपुरोगमान् ॥ २२.२१ ॥ एवमुक्तः स भगवान्दिशो दश व्यलोकयत् । ततो भगवता दृष्टौ रणे पावकमारुतौ ॥ २२.२२ ॥ आहूतौ विष्णुना तौ तु सकाशं जग्मतुः क्षणात् । स्थितौ तौ प्रणतौ चाग्रे देवदेवस्य धीमतः ॥ २२.२३ ॥ ततो धिष्णिः पावकेन्द्रो देवेनोक्तो महात्मना । निर्दहेमान्महाघोरान्नार्मदेय महासुरान् ॥ २२.२४ ॥ अथैवमुकौ तौ देवौ रणे पावकमारुतौ । दैत्यान् ददहतुः सर्वान्मयतारपुरोगमान् ॥ २२.२५ ॥ दह्यमानास्तु ते सर्वे शस्त्रैरग्निं त्ववेष्टयन् । दिव्यैरग्न्यर्कसङ्काशैः शतशोऽथ सहस्रशः ॥ २२.२६ ॥ तांश्चाग्निः शस्त्रनिकरैर्निर्ददाह महासुरान् । ज्वालामालाकुलं सर्वं वायुना निर्मितं तदा ॥ २२.२७ ॥ दह्यमानास्ततो दैत्या अग्निज्वालासमावृताः । प्रविश्य पातालतलं जले लीनाः सहस्रशः ॥ २२.२८ ॥ ततः कुमारमग्निं तु नर्मदापुत्रमव्ययम् । पूजयित्वा सुराः सर्वे जग्मुस्ते त्रिदशालयम् ॥ २२.२९ ॥ सशल्यस्तु महातेजा रेवापुत्रो वृतोऽग्निभिः । नर्मदामागतः क्षिप्रं मातरं द्रष्टुमुत्सुकः ॥ २२.३० ॥ तं दृष्ट्वा पुत्रमायान्तं शस्त्रौघेण परिक्षतम् । नर्मदा पुण्यसलिला अभ्युत्थाय सुविस्मिता ॥ २२.३१ ॥ पर्यष्वजत बाहुभ्यां प्रस्नवापीडितस्तनी । सशल्यं पुत्रमादाय कापिलं ह्रदमाविशत् ॥ २२.३२ ॥ प्रविष्टमात्रे तु ह्रदे कापिले पापनाशिनि । सशल्यं तं विशल्यं च क्षणात्कृतवती तदा ॥ २२.३३ ॥ स विशल्योऽभवद्यस्मात्प्राप्य तस्याः शिवं जलम् । कपिला नामतस्तेन विशल्या चोच्यते बुधैः ॥ २२.३४ ॥ अन्येऽपि तत्र ये स्नाताः शुचयस्तु समाहिताः । पापशल्यैः प्रमुच्यन्ते मृता यान्ति सुरालयम् ॥ २२.३५ ॥ एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं पुरा त्वया । उत्पत्तिकारणं तात विशल्याया नरेश्वर ॥ २२.३६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये विशल्यासम्भवो नाम द्वाविंशोऽध्यायः ॥ ऋKV अध्याय २३ मार्कण्डेय उवाच - तत्रैव सङ्गमे राजन्भक्त्या परमया नृप । प्राणांस्त्यजन्ति ये मर्त्यास्ते यान्ति परमां गतिम् ॥ २३.१ ॥ संन्यस्तसर्वसंकल्पो यस्तु प्राणान्परित्यजेत् । अमरेश्वरमासाद्य स स्वर्गे नियतं वसेत् ॥ २३.२ ॥ शैलेन्द्रं यः समासाद्य आत्मानं मुञ्चते नरः । विमानेनार्कवर्णेन स गच्छेदमरावतीम् ॥ २३.३ ॥ नरं पतन्तमालोक्य नगादमरकण्टकात् । ब्रुवन्त्यप्सरसः सर्वा मम भर्ता भवेदिति ॥ २३.४ ॥ समं जलं धर्मविदो वदन्ति सारस्वतं गाङ्गमिति प्रबुद्धाः । तस्योपरिष्टात्प्रवदन्ति तज्ज्ञा रेवाजलं नात्र विचारणास्ति ॥ २३.५ ॥ अनेकविद्याधरकिन्नराद्यैरध्यासितं पुण्यतमाधिवासैः । रेवाजलं धारयतो हि मूर्ध्ना स्थानं सुरेन्द्राधिपतेः समीपे ॥ २३.६ ॥ नर्मदा सर्वदा सेव्या बहुनोक्तेन किं नृप । यदीच्छेन्न पुनर्द्रष्टुं घोरं संसारसागरम् ॥ २३.७ ॥ त्रयाणामपि लोकानां महती पावनी स्मृता । यत्र तत्र मृतस्यापि ध्रुवं गाणेश्वरी गतिः ॥ २३.८ ॥ अनेकयज्ञायतनैर्वृताङ्गी न ह्यत्र किंचिद्यदतीर्थमस्ति । तस्यास्तु तीरे भवता यदुक्तं तपस्विनो वाप्यतपस्विनो वा ॥ २३.९ ॥ म्रियन्ति ये पापकृतो मनुष्यास्ते स्वर्गमायान्ति यथाऽमरेन्द्राः ॥ २३.१० ॥ एवं तु कपिला चैव विशल्या राजसत्तम । ईश्वरेण पुरा सृष्टा लोकानां हितकाम्यया ॥ २३.११ ॥ तत्र स्नात्वा नरो राजन्सोपवासो जितेन्द्रियः । अश्वमेधस्य महतोऽसंशयं फलमाप्नुयात् ॥ २३.१२ ॥ अनाशकं च यः कुर्यात्तस्मिंस्तीर्थे नराधिप । सर्वपापविनिर्मुक्तो याति वै शिवमन्दिरम् ॥ २३.१३ ॥ पृथिव्यां सागरान्तायां स्नानदानेन यत्फलम् । विशल्यासङ्गमे स्नात्वा सकृत्तत्फलमश्नुते ॥ २३.१४ ॥ एवं पुण्या पवित्रा च कथिता तव भूपते । भूयो मां पृच्छसि च यत्तच्चैव कथयाम्यहम् ॥ २३.१५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विशल्यासङ्गममाहात्म्यवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ऋKV अध्याय २४ श्रीमार्कण्डेय उवाच - सङ्गमः करनर्मदयोः पुरे मान्धातृसंज्ञिते । गत्वा स्नात्वा तपयित्वा पित्ःन्विष्णुपुरं नयेत् ॥ २४.१ ॥ मर्दयित्वा करौ पूर्वं विष्णुर्दैत्यजिघांसया । चक्रं जग्राह तत्रैव स्वेदाज्जाता सरिद्वरा ॥ २४.२ ॥ संगता रेवया तत्र स्नात्वा पापैः प्रमुच्यते ॥ २४.३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये करनर्मदासङ्गममाहात्म्यवर्णनं नाम चतुर्विंशोऽध्यायः ॥ ऋKV अध्याय २५ श्रीमार्कण्डेय उवाच - ओंकारात्पूर्वभागे वै सङ्गमो लोकविश्रुतः । रेवया संगता यत्र नीलगङ्गा नृपोत्तम ॥ २५.१ ॥ तत्र स्नात्वा जपित्वा च कोऽर्थोऽलभ्यो भवेद्भुवि । षष्टिर्वर्षसहस्राणि नीलकण्ठपुरे वसेत् ॥ २५.२ ॥ तर्पयित्वा पित्ःञ्श्राद्धे तिलमिश्रैर्जलैरपि । उद्धरेदात्मना सार्धं पुरुषानेकविंशतिम् ॥ २५.३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नीलगङ्गायाः सङ्गममाहात्म्यवर्णनंनाम पञ्चविंशोऽध्यायः ॥ ऋKV अध्याय २६ युधिष्ठिर उवाच - जालेश्वरेऽपि यत्प्रोक्तं त्वया पूर्वं द्विजोत्तम । तत्कथं तु भवेत्पुण्यमृषिसिद्धनिषेवितम् ॥ २६.१ ॥ श्रीमार्कण्डेय उवाच - जालेश्वरात्परं तीर्थं न भूतं न भविष्यति । तस्योत्पत्तिं कथयतः शृणु त्वं पाण्डुनन्दन ॥ २६.२ ॥ पुरा ऋषिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः । तापिता असुरैः सर्वैः क्षयं नीता ह्यनेकशः ॥ २६.३ ॥ बाणासुरप्रभृतिभिर्जम्भशुम्भपुरोगमैः । वध्यमाना ह्यनेकैश्च ब्रह्माणं शरणं गताः ॥ २६.४ ॥ विमानैः पर्वताकारैर्हयैश्चैव गजोपमैः । स्यन्दनैर्नगराकारैः सिंहशार्दूलयोजितैः ॥ २६.५ ॥ कच्छपैर्मकरैश्चान्ये जग्मुरन्ये पदातयः । प्राप्य ते परमं स्थानमशक्यं यदधार्मिकैः ॥ २६.६ ॥ दृष्ट्वा पद्मोद्भवं देवं सर्वलोकस्य शङ्करम् । ते सर्वे तत्र गत्वा तु स्तुतिं चक्रुः समाहिताः ॥ २६.७ ॥ देवा ऊचुः । जयामेय जयाभेद जय सम्भूतिकारक । पद्मयोने सुरश्रेष्ठ त्वां वयं शरणं गताः ॥ २६.८ ॥ तच्छ्रुत्वा तु वचो देवो देवानां भावितात्मनाम् । मेघगम्भीरया वाचा प्रत्युवाच पितामहः ॥ २६.९ ॥ किं वो ह्यागमनं देवाः सर्वेषां च विवर्णता । केनावमानिताः सर्वे शीघ्रं कथयतामराः ॥ २६.१० ॥ देवा ऊचुः । बाणो नाम महावीर्यो दानवो बलदर्पितः । तेनास्माकं हृतं सर्वं धनरत्नैर्वियोजिताः ॥ २६.११ ॥ देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः । चिन्तयामास देवेशस्तस्य नाशाय या क्रिया ॥ २६.१२ ॥ अवध्यो दानवः पापः सर्वेषां वै दिवौकसाम् । मुक्त्वा तु शङ्करं देवं न मया न च विष्णुना ॥ २६.१३ ॥ तत्रैव सर्वे गच्छामो यत्र देवो महेश्वरः । स गतिश्चैव सर्वेषां विद्यतेऽन्यो न कश्चन ॥ २६.१४ ॥ एवमुक्त्वा सुरैः सर्वैर्ब्रह्मा वेदविदांवरः । ब्राह्मणैः सह विद्वद्भिरतो यत्र महेश्वरः ॥ २६.१५ ॥ स्तुतिभिश्च सुपुष्टाभिस्तुष्टाव परमेश्वरम् ॥ २६.१६ ॥ देवा ऊचुः । जय त्वं देवदेवेश जयोमार्धशरीरधृक् । वृषासन महाबाहो शशाङ्ककृतभूषण ॥ २६.१७ ॥ नमः शूलाग्रहस्ताय नमः खट्वाङ्गधारिणे । जय भूतपते देव दक्षयज्ञविनाशन ॥ २६.१८ ॥ पञ्चाक्षर नमो देव पञ्चभूतात्मविग्रह । पञ्चवक्त्रमयेशान वेदैस्त्वं तु प्रगीयसे ॥ २६.१९ ॥ सृष्टिपालनसंहारांस्त्वं सदा कुरुषे नमः । अष्टमूर्ते स्मरहर स्मर सत्यं यथा स्तुतः ॥ २६.२० ॥ पञ्चात्मिका तनुर्देव ब्राह्मणैस्ते प्रगीयते । सद्यो वामे तथाघोरे ईशो तत्पुरुषे तथा ॥ २६.२१ ॥ हेमजाले सुविस्तीर्णे हंसवत्कूजसे हर । एवं स्तुतो मुनिगणैर्ब्रह्माद्यैश्च सुरासुरैः ॥ २६.२२ ॥ प्रहृष्टः सुमना भूत्वा सुरसङ्घानुवाच ह ॥ २६.२३ ॥ ईश्वर उवाच - स्वागतं देवविप्राणां सुप्रभाताद्य शर्वरी । किं कुर्मो वदत क्षिप्रं कोऽन्यः सेव्यः सुरासुरैः ॥ २६.२४ ॥ किं दुःखं को नु सन्तापः कुतो वो भयमागतम् । कथयध्वं महाभागाः कारणं यन्मनोगतम् ॥ २६.२५ ॥ एवमुक्तास्तु रुद्रेण प्रत्यवोचन्सुरर्षभाः । स्वान्स्वान्देहान्दर्शयन्तो लज्जमाना अधोमुखाः ॥ २६.२६ ॥ अस्ति घोरो महावीर्यो दानवो बलदर्पितः । बाणो नामेति विख्यातो यस्य तत्त्रिपुरं महत् ॥ २६.२७ ॥ तेन वै सुतपस्तप्तं दशवर्षशतानि हि । तस्य तुष्टोऽभवद्ब्रह्मा नियमेन दमेन च ॥ २६.२८ ॥ पुराणि तान्यभेद्यानि ददौ कामगमानि वै । आयसं राजतं चैव सौवर्णं च तथापरम् ॥ २६.२९ ॥ त्रिपुरं ब्रह्मणा सृष्टं भ्रमत्तत्कामगामि च । तस्यैव तु बलोत्कृष्टास्त्रिपुरे दानवाः स्थिताः ॥ २६.३० ॥ त्रैलोक्यं सकलं देव पीडयन्ति महासुराः । दण्डपाशासिशस्त्राणि अविकारे विकुर्वते । त्रिपुरं दानवैर्जुष्टं भ्रमत्तच्चक्रसंनिभम् ॥ २६.३१ ॥ क्वचिद्दृश्यमदृश्यं वा मृगतृष्णैव लक्ष्यते ॥ २६.३२ ॥ यस्मिन्पतति तद्दिव्यं दृप्तस्य त्रिपुरं महत् । न तत्र ब्राह्मणा देवा गावो नैव तु जन्तवः ॥ २६.३३ ॥ न तत्र दृश्यते किंचित्पतेद्यत्र पुरत्रयम् । नद्यो ग्रामाश्च देशाश्च बहवो भस्मसात्कृताः ॥ २६.३४ ॥ सुवर्णं रजतं चैव मणिमौक्तिकमेव च । स्त्रीरत्नं शोभनं यच्च तत्सर्वं कर्षते बलात् ॥ २६.३५ ॥ न शस्त्रेण न चास्त्रेण न दिवा निशि वा हर । शक्यते देवसङ्घैश्च निहन्तुं स कथंचन ॥ २६.३६ ॥ तद्दहस्व महादेव त्वं हि नः परमा गतिः । एवं प्रसादं देवेश सर्वेषां कर्तुमर्हसि ॥ २६.३७ ॥ येन देवाश्च गन्धर्वा ऋषयश्च तपोधनाः । परां धृतिं समायान्ति तत्प्रभो कर्तुमर्हसि ॥ २६.३८ ॥ ईश्वर उवाच - एतत्सर्वं करिष्यामि मा विषादं गमिष्यथ । अचिरेणैव कालेन कुर्यां युष्मत्सुखावहम् ॥ २६.३९ ॥ आश्वासयित्वा तान्देवान्सर्वानिन्द्रपुरोगमान् । चिन्तयामास देवेशस्त्रिपुरस्य वधं प्रति ॥ २६.४० ॥ कथं केन प्रकारेण हन्तव्यं त्रिपुरं मया । तमेकं नारदं मुक्त्वा नान्योपायो विधीयते ॥ २६.४१ ॥ एवं संस्तभ्य चात्मानं ततो ध्यातः स नारदः । तत्क्षणादेव सम्प्राप्तो वायुभूतो महातपाः ॥ २६.४२ ॥ कमण्डलुधरो देवस्त्रिदण्डी ज्ञानकोविदः । योगपट्टाक्षसूत्रेण छत्रेणैव विराजितः ॥ २६.४३ ॥ जटाजूटाबद्धशिरा ज्वलनार्कसमप्रभः । त्रिधा प्रदक्षिणीकृत्य दण्डवत्पतितो भुवि ॥ २६.४४ ॥ कृताञ्जलिपुटो भूत्वा नारदो भगवान्मुनिः । स्तोत्रेण महता शर्वः स्तुतो भक्त्या महामनाः ॥ २६.४५ ॥ नारद उवाच - जय शम्भो विरूपाक्ष जय देव त्रिलोचन । जय शङ्कर ईशान रुद्रेश्वर नमोऽस्तु ते ॥ २६.४६ ॥ त्वं पतिस्त्वं जगत्कर्ता त्वमेव लयकृद्विभो । त्वमेव जगतां नाथो दुष्टातकनिषूदनः ॥ २६.४७ ॥ त्वं नः पाहि सुरेशान त्रयीमूर्ते सनातन । भवमूर्ते भवारे त्वं भजतामभयो भव ॥ २६.४८ ॥ भवभावविनाशार्थं भव त्वां शरणं भजे । किमर्थं चिन्तितो देव आज्ञा मे दीयतां प्रभो ॥ २६.४९ ॥ कस्य संक्षोभये चित्तं को वाद्य पततु क्षितौ । कमद्य कलहेनाहं योजये जयतांवर ॥ २६.५० ॥ नारदस्य वचः श्रुत्वा देवदेवो महेश्वरः । उत्फुल्लनयनो भूत्वा इदं वचनमब्रवीत् ॥ २६.५१ ॥ स्वागतं ते मुनिश्रेष्ठ सदैव कलहप्रिय । वीणावादनतत्त्वज्ञ ब्रह्मपुत्र सनातन ॥ २६.५२ ॥ गच्छ नारद शीघ्रं त्वं यत्र तत्त्रिपुरं महत् । बाणस्य दानवेन्द्रस्य सर्वलोकभयावहम् ॥ २६.५३ ॥ भर्तारो देवतातुल्याः स्त्रियस्तत्राप्सरःसमाः । तासां वै तेजसा चैव भ्रमते त्रिपुरं महत् ॥ २६.५४ ॥ न शक्यते कथं भेत्तुं सर्वोपायैर्द्विजोत्तम । गत्वा त्वं मोहय क्षिप्रं पृथग्धर्मैरनेकधा ॥ २६.५५ ॥ नारद उवाच - तव वाक्येन देवेश भेदयामि पुरोत्तमम् । अभेद्यं बहुधोपायैर्यत्तु देवैः सवासवैः ॥ २६.५६ ॥ एवमुक्त्वा गतो भूप शतयोजनमायतम् । बाणस्य तत्पुरश्रेष्ठमृद्धिवृद्धिसमायुतम् ॥ २६.५७ ॥ कृतकौतुकसम्बाधं नानाधातुविचित्रितम् । अनेकहर्म्यसंछन्नमनेकायतनोज्ज्वलम् ॥ २६.५८ ॥ द्वारतोरणसंयुक्तं कपाटार्गलभूषितम् । बहुयन्त्रसमोपेतं प्राकारपरिखोज्ज्वलम् ॥ २६.५९ ॥ वापीकृपतडागैश्च देवतायतनैर्युतम् । हंसकारण्डवाकीर्णं पद्मिनीखण्डमण्डितम् ॥ २६.६० ॥ अनेकवनशोभाढ्यं नानाविहगमण्डितम् । एवं गुणगणाकीर्णं बाणस्य पुरमुत्तमम् ॥ २६.६१ ॥ तस्य मध्ये महाकायं सप्तकक्षं सुशोभितम् । बाणस्य भवनं दिव्यं सर्वं काञ्चनभूषितम् ॥ २६.६२ ॥ मौक्तिकादामशोभाढ्यं वज्रवैडूर्यभूषितम् । रुक्मपट्टतलाकीर्णं रत्नभूम्या सुशोभितम् ॥ २६.६३ ॥ मत्तमातङ्गनिःश्वासैः स्यन्दनैः संकुलीकृतम् । हयहेषितशब्दैश्च नारीणां नूपुरस्वनैः ॥ २६.६४ ॥ खड्गतोमरहस्तैश्च वज्राङ्कुशशरायुधैः । रक्षितं घोररूपैश्च दानवैर्बलदर्पितैः ॥ २६.६५ ॥ एवं गुणगणाकीर्णं बाणस्य भवनोत्तमम् । कैलासशिखरप्रख्यं महेन्द्रभवनोपमम् ॥ २६.६६ ॥ नारदो गगने शीघ्रमगमत्पुरसंमुखः । द्वारदेशं समासाद्य क्षत्तारं वाक्यमब्रवीत् ॥ २६.६७ ॥ भोभोः क्षत्तर्महाबुद्धे राजकार्यविशारद । शीघ्रं बाणाय चाचक्ष्व नारदो द्वारि तिष्ठति ॥ २६.६८ ॥ स वन्दयित्वा चरणौ नारदस्य त्वरान्वितः । सभामध्यगतं बाणं विज्ञप्तुमुपचक्रमे ॥ २६.६९ ॥ वेपमानाङ्गयष्टिस्तु करेणापिहिताननः । शृण्वतां सर्वयोधानामिदं वचनमब्रवीत् ॥ २६.७० ॥ वन्दितो देवगन्धर्वैर्यक्षकिन्नरदानवैः । कलिप्रियो दुराराध्यो नारदो द्वारि तिष्ठति ॥ २६.७१ ॥ द्वारपालस्य तद्वाक्यं श्रुत्वा बाणस्त्वरान्वितः । द्वाःस्थमाह महादैत्यः सविस्मयमिदं तदा ॥ २६.७२ ॥ बाण उवाच - ब्रह्मपुत्रं सतेजस्कं दुःसहं दुरतिक्रमम् । प्रवेशय महाभागं किमर्थं वारितो बहिः ॥ २६.७३ ॥ श्रुत्वा प्रभोर्वचस्तस्य प्रावेशयदुदीरितम् । गत्वा वेगेन महता नारदं गृहमागतम् ॥ २६.७४ ॥ दृष्ट्वा देवर्षिमायान्तं नारदं सुरपूजितम् । साहसोत्थाय संहृष्टो ववन्दे चरणौ मुनेः ॥ २६.७५ ॥ ददौ चासनमर्घ्यं च पाद्यं पूजां यथाविधि । न्यवेदयच्च तद्राज्यमात्मानं बान्धवैः सह ॥ २६.७६ ॥ पप्रच्छ कुशलं चापि मुनिं बाणासुरः स्वयम् ॥ २६.७७ ॥ नारद उवाच - साधु साधु महाबाहो दनोर्वंशविवर्द्धन । कोऽन्यस्त्रिभुवने श्लाघ्यस्त्वां मुक्त्वा दनुपुंगव ॥ २६.७८ ॥ पूजितोऽहं दनुश्रेष्ठ धनरत्नैः सुशोभनैः । राज्येन चात्मना वापि ह्येवं कः पूजयेत्परः ॥ २६.७९ ॥ न मे कार्यं हि भोगेन भुङ्क्ष्व राज्यमनामयम् । त्वद्दर्शनोत्सुकः प्राप्तो दृष्ट्वा देवं महेश्वरम् ॥ २६.८० ॥ भ्रमते त्रिपुरं लोके स्त्रीसतीत्वान्मया श्रुतम् । तान्द्रष्टुकामः सम्प्राप्तस्त्वद्दारान्दानवेश्वर ॥ २६.८१ ॥ मन्यसे यदि मे शीघ्रं दर्शयस्व च माचिरम् । नारदस्य वचः श्रुत्वा कञ्चुकिं समुदीक्ष्य वै ॥ २६.८२ ॥ अन्तःपुरचरं वृद्धं दण्डपाणिं गुणान्वितम् । उवाच राजा हृष्टात्मा शब्देनापूरयन्दिशः ॥ २६.८३ ॥ नारदाय महादेवीं दर्शयस्वेह कञ्चुकिन् । अन्तःपुरचरैः सर्वैः समेतामविशङ्कितः ॥ २६.८४ ॥ नाथस्याज्ञां पुरस्कृत्य गृहीत्वा नारदं करे । प्रविश्याकथयद्देव्यै नारदोऽयं समागतः ॥ २६.८५ ॥ दृष्ट्वा देवी मुनिश्रेष्ठं कृत्वा पादाभिवन्दनम् । आसनं काञ्चनं शुभ्रमर्घ्यपाद्यादिकं ददौ ॥ २६.८६ ॥ तस्यै स भगवांस्तुष्टो ह्याशीर्वादमदात्परम् । नान्या देवि त्रिलोकेऽपि त्वत्समा दृश्यतेऽङ्गना ॥ २६.८७ ॥ पतिव्रता शुभाचारा सत्यशौचसमन्विता । यस्याः प्रभावात्त्रिपुरं भ्रमते चक्रवत्सदा ॥ २६.८८ ॥ तच्छ्रुत्वा वचनं देवी नारदस्य सुदान्वितम् । पर्यपृच्छदृषिं भक्त्या धर्मं धर्मभृतांवरा ॥ २६.८९ ॥ राज्ञ्युवाच - भगवन्मानुषे लोके देवास्तुष्यन्ति कैर्व्रतैः । कानि दानानि दीयन्ते येषां च स्यान्महत्फलम् ॥ २६.९० ॥ उपवासाश्च ये केचित्स्त्रीधर्मे कथिता बुधैः । यैः कृतैः स्वर्गमायान्ति सुकृतिन्यः स्त्रियो यथा ॥ २६.९१ ॥ यत्तत्सर्वं महाभाग कथयस्व यथातथम् । श्रोतुमिच्छाम्यहं सर्वं कथयस्वाविशङ्कितः ॥ २६.९२ ॥ नारद उवाच - साधु साधु महाभागे प्रश्नोऽयं वेदितस्त्वया । यं श्रुत्वा सर्वनारीणां धर्मवृद्धिस्तु जायते ॥ २६.९३ ॥ उपवासैश्च दानैश्च पतिपुत्रौ वशानुगौ । बान्धवैः पूज्यते नित्यं यैः कृतैः कथयामि ते ॥ २६.९४ ॥ दुर्भगा सुभगा यैस्तु सुभगा दुर्भगा भवेत् । पुत्रिणी पुत्ररहिता ह्यपुत्रा पुत्रिणी तथा ॥ २६.९५ ॥ भर्तारं लभते कन्या तथान्या भर्तृवर्जिता । कृताकृतैश्च जायन्ते तन्निबोधस्व सुन्दरि ॥ २६.९६ ॥ तिलधेनुं सुवर्णं च रूप्यं गा वाससी तथा । पानीयं भूमिदानं च गन्धधूपानुलेपनम् ॥ २६.९७ ॥ पादुकोपानहौ छत्रं पुण्यानि व्यञ्जनानि च । पादाभ्यङ्गं शिरोऽभ्यङ्गं स्नानं शय्यासनानि च ॥ २६.९८ ॥ एतानि ये प्रयच्छन्ति नोपसर्पन्ति ते यमम् । मधु माषं पयः सर्पिर्लवणं गुडमौषधम् ॥ २६.९९ ॥ पानीयं भूमिदानं च शालीनिक्षुरसांस्तथा । आरक्तवाससी श्लक्ष्णे दम्पत्योर्ललितादिने ॥ २६.१०० ॥ सौभाग्यं जायते चैव इह लोके परत्र च । ब्राह्मणे वृत्तसम्पन्ने सुरूपे च गुणान्विते ॥ २६.१०१ ॥ तिथौ यस्यामिदं देयं तत्ते राज्ञि वदाम्यहम् । प्रतिपत्सु च या नारी पूर्वाह्णे च शुचिव्रता ॥ २६.१०२ ॥ इन्धनं ब्राह्मणे दद्यात्प्रीयतां मे हुताशनः । तस्या जन्मानि षट्त्रिंशदङ्गप्रत्यङ्गसन्धिषु ॥ २६.१०३ ॥ न रजो नैव सन्तापो जायते राजवल्लभे । द्वितीयायां तु या नारी नवनीतमुदान्विता ॥ २६.१०४ ॥ ददाति द्विजमुख्याय सुकुमारतनुर्भवेत् । लवणं विप्रवर्याय तृतीयायां प्रयच्छति ॥ २६.१०५ ॥ गौरी मे प्रीयतां देवी तस्याः पुण्यफलं शृणु । कौमारिका पतिं प्राप्य तेन सार्द्धमुमा यथा ॥ २६.१०६ ॥ क्रीडत्यविधवा चापि लभते सा महद्यशः । नक्तं कृत्वा चतुर्थ्यां वै दद्याद्विप्राय मोदकान् ॥ २६.१०७ ॥ प्रीयतां मम देवेशो गणनाथो विनायकः । तस्यास्तेन फलेनाशु सर्वकर्मसु भामिनि ॥ २६.१०८ ॥ विघ्नं न जायते क्वापि एवमाह पितामहः । पञ्चमीं तु ततः प्राप्य ब्राह्मणे तिलदा तु या ॥ २६.१०९ ॥ सा भवेद्रूपसम्पन्ना यथा चैव तिलोत्तमा । षष्ठ्यां तु या मधूकस्य फलदा तु भवेत्सदा ॥ २६.११० ॥ उद्दिश्य चाग्निजं देवं ब्राह्मणे वेदपारगे । तस्याः पुत्रो यथा स्कन्दो देवसङ्घेषु चोत्तमः ॥ २६.१११ ॥ उत्पद्यते महाराजः सर्वलोकेषु पूजितः । सप्तम्यां या द्विजश्रेष्ठं सुवर्णेन प्रपूजयेत् ॥ २६.११२ ॥ उद्दिश्य जगतो नाथं देवदेवं दिवाकरम् । तस्य पुण्यफलं यद्वै कथितं द्विजसत्तमैः ॥ २६.११३ ॥ तत्ते राज्ञि प्रवक्ष्यामि शृणुष्वैकमनाः सति । दद्रूचित्रककुष्ठानि मण्डलानि विचर्चिका ॥ २६.११४ ॥ न भवन्तीह चाङ्गेषु पूर्वकर्मार्जितान्यपि । कृष्णां धेनुं तथाष्टम्यां या प्रयच्छति भामिनी ॥ २६.११५ ॥ ब्राह्मणे वृत्तसम्पन्ने प्रीयतां मे महेश्वरः । तस्या जन्मार्जितं पापं नश्यते विभवान्विता ॥ २६.११६ ॥ जायते नात्र सन्देहो यस्माद्दानमनुत्तमम् । गन्धधूपं तु या नारी भक्त्या विप्राय दापयेत् ॥ २६.११७ ॥ कात्यायनीं समुद्दिश्य नवम्यां शृणु यत्फलम् । तस्या भ्राता पिता पुत्रः पतिर्वा रणमुत्तमम् ॥ २६.११८ ॥ प्राप्यते नैव सीदन्ति तेन दानेन रक्षिताः । इक्षुदण्डरसं देवि दशम्यां या प्रयच्छति ॥ २६.११९ ॥ लोकपालान्समुद्दिश्य ब्राह्मणे व्यङ्गवर्जिते । तेन दानेन सा नित्यं सर्वलोकस्य वल्लभा ॥ २६.१२० ॥ जायते नात्र सन्देह इत्येवं शङ्करोऽब्रवीत् । एकादश्यामुपोष्याथ द्वादश्यामुदकप्रदा ॥ २६.१२१ ॥ नारायणं समुद्दिश्य ब्राह्मणे विष्णुतत्परे । सा सदा स्पर्शसम्भाषैर्द्रावयेद्भावयेज्जनम् ॥ २६.१२२ ॥ यस्माद्दानं महर्लोके ह्यनन्तमुदके भवेत् । पादाभ्यङ्गं शिरोऽभ्यङ्गं काममुद्दिश्य वै द्विजे ॥ २६.१२३ ॥ ददाति च त्रयोदश्यां भक्त्या परमयाङ्गना । यस्यां यस्यां मृता जायेद्भूयो योन्यां तु जन्मनि ॥ २६.१२४ ॥ तस्यां तस्यां तु सा भर्तुर्न वियुज्येत कर्हिचित् । तथाप्येवं चतुर्दश्यां दद्यात्पात्रमुपानहौ ॥ २६.१२५ ॥ ब्रह्मणे धर्ममुद्दिश्य तस्या लोका ह्यनामयाः । एवं च पक्षपक्षान्ते श्राद्धे तर्पेद्द्विजोत्तमान् ॥ २६.१२६ ॥ अव्युच्छिन्ना सदा राज्ञि सन्ततिर्जायते भुवि । एवं ते तिथिमाहात्म्यं दानयोगेन भाषितम् ॥ २६.१२७ ॥ तथा वनस्पतीनां तु आराधनविधिं शृणु । जम्बूं निम्बतरुं चैव तिन्दुकं मधुकं तथा ॥ २६.१२८ ॥ आम्रं चामलकं चैव शाल्मलिं वटपिप्पलौ । शमीबिल्वामलीवृक्षं कदलीं पाटलीं तथा ॥ २६.१२९ ॥ अन्यान्पुण्यतमान्वृक्षानुपेत्य स्वर्गमाप्नुयात् ॥ २६.१३० ॥ नारद उवाच - चैत्रे मासे तु या नारी कुर्याद्व्रतमनुत्तमम् । तस्य व्रतस्य चान्यानि कलां नार्हन्ति षोडशीम् ॥ २६.१३१ ॥ श्रुतेन येन सुभगे दुर्भगत्वं न पश्यति । यथा हिमं रविं प्राप्य विलयं याति भूतले ॥ २६.१३२ ॥ तथा दुःखं च दौर्भाग्यं व्रतादस्माद्विलीयते । मधुकाख्यां तु ललितामाराधयति येन वै ॥ २६.१३३ ॥ विधिं तं शृणु सुभगे कथ्यमानं सुखावहम् । चैत्रे शुक्लतृतीयायां सुस्नाता शुद्धमानसा ॥ २६.१३४ ॥ प्रतिमां मधुवृक्षस्य शाङ्करीमुमया सह । कारयित्वा द्विजवरैः प्रतिष्ठाप्य यथाविधि ॥ २६.१३५ ॥ सुगन्धिकुसुमैर्धूपैस्तथा कर्पूरकुङ्कुमैः । पूजयेद्विधिना देवं मन्त्रयुक्तेन भामिनी ॥ २६.१३६ ॥ पादौ नमः शिवायेति मेढ्रे वै मन्मथाय च । कालोदरायेत्युदरं नीलकंठाय कण्ठकम् ॥ २६.१३७ ॥ शिरः सर्वात्मने पूज्य उमां पश्चात्प्रपूजयेत् । क्षामोदरायैह्युदरं सुकण्ठायै च कण्ठकम् ॥ २६.१३८ ॥ शिरः सौभाग्यदायिन्यै पश्चादर्घ्यं प्रदापयेत् ॥ २६.१३९ ॥ नमस्ते देवदेवेश उमावर जगत्पते । अर्घ्येणानेन मे सर्वं दौर्भाग्यं नाशय प्रभो । इति अर्घ्यमन्त्रः ॥ २६.१४० ॥ अर्घ्यं दत्त्वा ततः पश्चात्करकं वारिपूरितम् । मधूकपात्रोपभृतं सहिरण्यं तु शक्तितः ॥ २६.१४१ ॥ करकं वारिसम्पूर्णं सौभाग्येन तु संयुतम् । दत्तं तु ललिते तुभ्यं सौभाग्यादिविवर्धनम् । इति करकदानमन्त्रः ॥ २६.१४२ ॥ मन्त्रेणानेन विप्राय दद्यात्करकमुत्तमम् । लवणं वर्जयेच्छुक्लां यावदन्यां तृतीयिकाम् ॥ २६.१४३ ॥ क्षमाप्य देवीं देवेशां नक्तमद्यात्स्वयं हविः । अनेन विधिना सार्धं मासि मासि ह्यपक्रमेत् ॥ २६.१४४ ॥ फाल्गुनस्य तृतीयायां शुक्लायां तु समाप्यते । वैशाखे लवणं देयं ज्येष्ठे चाज्यं प्रदीयते ॥ २६.१४५ ॥ आषाढे मासि निष्पावाः पयो देयं तु श्रावणे । मुद्गा देया नभस्ये तु शालिमाश्वयुजे तथा ॥ २६.१४६ ॥ कार्त्तिके शर्करापात्रं करकं रससंभृतम् । मार्गशीर्षे तु कार्पासं करकं घृतसंयुतम् ॥ २६.१४७ ॥ पौषे तु कुङ्कुमं देयं माघे पात्रं तिलैर्भृतम् । फाल्गुने मासि सम्प्राप्ते पात्रं मोदकसंभृतम् ॥ २६.१४८ ॥ पश्चात्तृतीयादेयं यत्तत्पूर्वस्यां विवर्जयेत् । विधानमासां सर्वासां सामान्यं मनसः प्रिये ॥ २६.१४९ ॥ प्रतिमां मधुवृक्षस्य तामेव प्रतिपूजयेत् । तस्मै सर्वं तु विप्राय आचार्याय प्रदीयते ॥ २६.१५० ॥ ततः संवत्सरस्यान्ते उद्यापनविधिं शृणु । मधुवृक्षं ततो गत्वा बहुसम्भारसंवृतः ॥ २६.१५१ ॥ निखनेत्प्रतिमां मध्ये माधूकीं मधुकस्य च । तत्रस्थं पूजयेत्सर्वमुमादेहार्द्धधारिणम् ॥ २६.१५२ ॥ पूजोपहारैर्विपुलैः कुङ्कुमेन पुनःपुनः । श्लक्ष्णाभिः पुष्पमालाभिः कौसुम्भैः केसरेण च ॥ २६.१५३ ॥ कौसुम्भे वाससी शुभ्रे अतसीपुष्पसन्निभे । परिधाप्य तां प्रतिमां दम्पती रविसंख्यया ॥ २६.१५४ ॥ उपानद्युगलैश्छत्रैः कण्ठसूत्रैः सकण्ठिकैः । कटकैरङ्गुलीयैश्च शयनीयैः शुभास्तृतैः ॥ २६.१५५ ॥ कुङ्कुमेन विलिप्ताङ्गौ बहुपुष्पैश्च पूजितौ । भोजयेद्विविधै रत्नैर्मधूकावासके स्थितौ ॥ २६.१५६ ॥ भुक्तोत्थितौ तु विश्राम्य शय्यासु च क्षमापयेत् । गुरुमूलं यतः सर्वं गुरुर्ज्ञेयो महेश्वरः ॥ २६.१५७ ॥ प्रीते गुरौ ततः सर्वं जगत्प्रीतं सुरासुरम् । यद्यदिष्टतमं लोके यत्किंचिद्दयितं गृहे ॥ २६.१५८ ॥ तत्सर्वं गुरवे देयमात्मनः श्रेय इच्छता । इदं तु धनिभिर्देयमन्यैर्देयं यथोच्यते ॥ २६.१५९ ॥ दाम्पत्यमेकं विधिवत्प्रतिपूज्य शुभव्रतैः । द्वितीयं गुरुदाम्पत्यं वित्तशाठ्यं विवर्जयेत् ॥ २६.१६० ॥ ततः क्षमापयेद्देवीं देवं च ब्राह्मणं गुरुम् । यथा त्वं देवि ललिते न वियुक्तासि शम्भुना ॥ २६.१६१ ॥ तथा मे पतिपुत्राणामवियोगः प्रदीयताम् । अनेन विधिना कृत्वा तृतीयां मधुसंज्ञिकाम् ॥ २६.१६२ ॥ इन्द्राणी चेन्द्रपत्नीत्वमवाप सुतमुत्तमम् । सौभाग्यं सर्वलोकेषु सर्वर्द्धिसुखमुत्तमम् ॥ २६.१६३ ॥ अनेन विधिना या तु कुमारी व्रतमाचरेत् । शोभनं पतिमाप्नोति यथेन्द्राण्या शतक्रतुः ॥ २६.१६४ ॥ दुर्भगा सुभगत्वं च सुभगा पुत्रिणी भवेत् । पुत्रिण्यक्षयमाप्नोति न शोकं पश्यति क्वचित् ॥ २६.१६५ ॥ अनेकजन्मजनितं दौर्भाग्यं नश्यति ध्रुवम् । मृता तु त्रिदिवं प्राप्य उमया सह मोदते ॥ २६.१६६ ॥ कल्पकोटिशतं साग्रं भुक्त्वा भोगान् यथेप्सितान् । पुनस्तु सम्भवे लोके पार्थिवं पतिमाप्नुयात् ॥ २६.१६७ ॥ सुभगा रूपसम्पन्ना पार्थिवं जनयेत्सुतम् ॥ २६.१६८ ॥ एतत्ते कथितं सर्वं व्रतानामुत्तमं व्रतम् । अन्यत्पृच्छस्व सुभगे वाञ्छितं यद्धृदि स्थितम् ॥ २६.१६९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये मधूकतृतीयाव्रतविधानमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥ ऋKV अध्याय २७ श्रीमार्कण्डेय उवाच - नारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत् । प्रसादं कुरु विप्रेन्द्र गृह्ण दानं यथेप्सितम् ॥ २७.१ ॥ सुवर्णमणिरत्नानि वस्त्राणि विविधानि च । तत्ते दारयामि विप्रेन्द्र यच्चान्यदपि दुर्लभम् ॥ २७.२ ॥ राज्ञ्यास्तु वचनं श्रुत्वा नारदो वाक्यमब्रवीत् । अन्येषां दीयतां भद्रे ये द्विजाः क्षीणवृत्तयः ॥ २७.३ ॥ वयं तु सर्वसम्पन्ना भक्तिग्राह्याः सदैव हि । इत्युक्ता सा तदा राज्ञी वेदवेदाङ्गपारगान् ॥ २७.४ ॥ आहूय ब्राह्मणान्निःस्वान्दातुं समुपचक्रमे । यत्किंचिन्नारदेनोक्तं दानसौभाग्यवर्धनम् ॥ २७.५ ॥ तेन दानेन मे नित्यं प्रीयेतां हरिशङ्करौ । ततो राज्ञी च सा प्राह नारदं मुनिपुंगवम् ॥ २७.६ ॥ राज्ञ्युवाच - दानं दत्तं त्वयोक्तं यद्भर्तृकर्मपरं हि तत् । आजन्मजन्म मे भर्ता भवेद्बाणो द्विजोत्तम ॥ २७.७ ॥ नान्यो हि दैवतं तात मुक्त्वा बाणं द्विजोत्तम । तेन सत्येन मे भर्ता जीवेच्च शरदां शतम् ॥ २७.८ ॥ नान्यो धर्मो भवेत्स्त्रीणां दैवतं हि पतिर्यथा । तथापि तव वाक्येन दानं दत्तं यथाविधि ॥ २७.९ ॥ स्वकं कर्म करिष्यामो भर्तारं प्रति मानद । ब्रह्मर्षे गच्छ चेदानीं त्वमाशीर्वादः प्रदीयताम् ॥ २७.१० ॥ तथेति तामनुज्ञाप्य नारदो नृपसत्तम । सर्वासां मानसं हृत्वा अन्यतः कृतमानसः ॥ २७.११ ॥ जगामादर्शनं विप्रः पूज्यमानस्तु खेचरैः । ततो गतमनस्कास्ता भर्तारं प्रति भारत ॥ २७.१२ ॥ विवर्णा निष्प्रभा जाता नारदेन विमोहिताः ॥ २७.१३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये त्रिपुरक्षोभणवर्णनं नाम सप्तविंशोऽध्यायः ॥ ऋKV अध्याय २८ मार्कण्डेय उवाच - एतस्मिन्नन्तरे रुद्रो नर्मदातटमास्थितः । क्रीडते ह्युमया सार्द्धं नारदस्तत्र चागतः ॥ २८.१ ॥ प्रणम्य देवदेवेशमुमया सह शङ्करम् । व्यज्ञापयत्तदा देवं यद्वृत्तं त्रिपुरे तदा ॥ २८.२ ॥ गतोऽहं स्वामिनिर्देशाद्यत्र तद्बाणमन्दिरम् । दृष्टा बाणं यथान्यायं गतो ह्यन्तःपुरं महत् ॥ २८.३ ॥ तत्र भार्यासहस्राणि दृष्ट्वा बाणस्य धीमतः । यथायोग्यं यथाकाममागतः क्षोभ्य तत्पुरम् ॥ २८.४ ॥ नारदस्य वचः श्रुत्वा साधु साध्विति पूजयन् । चिन्तयामास देवेशो भ्रमणं त्रिपुरस्य हि ॥ २८.५ ॥ करमुक्तं यथा चक्रं विष्णुना प्रभविष्णुना । महावेगं महायामं रक्षितं तेजसा मम ॥ २८.६ ॥ स च मे भक्तिनिरतो बाणो लोके च विश्रुतः । भारती च मया दत्ता ब्राह्मणानां विशेषतः ॥ २८.७ ॥ एवं स सुचिरं कालं देवदेवो महेश्वरः । चिन्तयित्वा सुनिर्वाणं कार्यं प्रति जनेश्वरः ॥ २८.८ ॥ ततोऽसौ मन्दरं ध्यात्वा चापे कृत्वा गुणे महीम् । विष्णुं सनातनं देवं बाणे ध्यात्वा त्रिलोचनः ॥ २८.९ ॥ फले हुताशनं देवं ज्वलन्तं सर्वतोमुखम् । सुपर्णं पुङ्खयोर्मध्ये जवे वायुं प्रकल्प्य च ॥ २८.१० ॥ रथं महीमयं कृत्वा धुरि तावश्विनावुभौ । अक्षे सुरेश्वरं देवमग्रकील्यां धनाधिपम् ॥ २८.११ ॥ यमं तु दक्षिणे पार्श्वे वामे कालं सुदारुणम् । आदित्यचन्द्रौ चक्रे तु गन्धर्वानारकादिषु ॥ २८.१२ ॥ यन्तारं च सुरज्येष्ठं वेदान्कृत्वा हयोत्तमान् । खलीनादिषु चाङ्गानि रश्मींश्छन्दांसि चाकरोत् ॥ २८.१३ ॥ कृत्वा प्रतोदमोंकारं मुखग्राह्यं महेश्वरः । धातारं चाग्रतः कृत्वा विधातारं च पृष्ठतः ॥ २८.१४ ॥ मारुतात्सर्वतो दिग्भ्य ऊर्ध्वयन्त्रे तथैव च । महोरगपिशाचांश्च सिद्धविद्याधरांस्तथा ॥ २८.१५ ॥ गणांश्च भूतसङ्घांश्च सर्वे सर्वाङ्गसंधिषु । युगमध्ये स्थितो मेरुर्युगस्याधो महागिरिः ॥ २८.१६ ॥ सर्पा यन्त्रस्थिता घोराः शम्ये वरुणनैरृतौ । गायत्री चैव सावित्री स्थिते ते रश्मिबन्धने ॥ २८.१७ ॥ सत्यं रथध्वजे शौचं दमं रक्षां समन्ततः । रथं देवमयं कृत्वा देवदेवो महेश्वरः ॥ २८.१८ ॥ संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । बद्धा परिकरं गाढं जटाजूटं नियम्य च ॥ २८.१९ ॥ सज्जं कृत्वा धनुर्दिव्यं योजयित्वा रथोत्तमम् । रथमध्ये स्थितो देवः शुशुभे च युधिष्ठिर ॥ २८.२० ॥ धनुषः शब्दनादेनाकम्पयच्च जगत्त्रयम् । स्थानं कृत्वा तु वैशाखं निभृतं संस्थितो हरः ॥ २८.२१ ॥ निरीक्ष्य सुचिरं कालं कोपसंरक्तलोचनः । ध्यात्वा तं परमं मन्त्रमात्मानं च निरुध्य सः ॥ २८.२२ ॥ मुमोच सहसा बाणं पुरस्य वधकाङ्क्षया । यदा त्रीणि समेतानि अन्तरिक्षस्थितानि तु ॥ २८.२३ ॥ ततः कालनिमेषार्धं दृष्ट्वैक्यं त्रिपुरस्य च । त्रिपर्वणा त्रिशल्येन ततस्तान्यवसादयत् ॥ २८.२४ ॥ ततो लोका भयत्रस्तास्त्रिपुरे भरतोत्तम । सर्वासुरविनाशाय कालरूपा भयावहाः ॥ २८.२५ ॥ अट्टहासान् प्रमुञ्चन्ति कष्टरूपा नरास्तदा । निमेषोन्मेषणं चैव कुर्वन्ति लिपिकर्मसु ॥ २८.२६ ॥ निष्पन्दनयना मर्त्याश्चित्रेष्वालिखिता इव । देवायतनगा देवा रटन्ति प्रहसन्ति च । स्वप्ने पश्यन्ति चात्मानं रक्ताम्बरविभूषितम् ॥ २८.२७ ॥ रक्तमाल्योत्तमाङ्गाश्च पतन्तः कार्दमे ह्रदे । पश्यन्ति नाम चात्मानं सतैलाभ्यङ्गमस्तकम् ॥ २८.२८ ॥ पश्यन्ति यानमारूढं रासभैश्च नृपोत्तम । संवर्तको महावायुर्युगान्तप्रतिमो महान् ॥ २८.२९ ॥ गृहानुन्मूलयामास वृक्षजातीननेकशः । भूमिकम्पाः सनिर्घाता उल्कापाताः सहस्रशः ॥ २८.३० ॥ रुधिरं वर्षते देवो मिश्रितं कर्करैर्बहु । अग्निकुण्डेषु विप्राणां हुतः सम्यग्घुताशनः ॥ २८.३१ ॥ ज्वलते धूमसंयुक्तो विस्फुलिङ्गकणैः सह । कुंजरा विमदा जातास्तुरगाः सत्त्ववर्जिताः ॥ २८.३२ ॥ अवादितानि वाद्यन्ते वादित्राणि सहस्रशः । ध्वजा ह्यकम्पिताः पेतुश्छत्राणि विविधानि च ॥ २८.३३ ॥ ज्वलति पादपास्तत्र पर्णानि च सभं ततः । सर्वं तद्व्याकुलीभूतं हाहाकारसमन्वितम् ॥ २८.३४ ॥ उद्यानानि विचित्राणि प्रबभञ्ज प्रभञ्जनः । तेन संप्रेरिताः सर्वे ज्वलन्ति विशिखाः शिखाः ॥ २८.३५ ॥ वृक्षगुल्मलतावल्ल्यो गृहाणि च समन्ततः । दिग्विभागैश्च सर्वैश्च प्रवृत्तो हव्यवाहनः ॥ २८.३६ ॥ सर्वं किंशुकपर्णाभं प्रज्वलच्चैव दृश्यते । गृहाद्गृहं तदा गन्तुं नैव धूमेन शक्यते ॥ २८.३७ ॥ हरकोपाग्निनिर्दग्धाः क्रन्दन्ते त्रिपुरे जनाः । प्रदीप्तं सर्वतो दिक्षु दह्यते त्रिपुरं परम् ॥ २८.३८ ॥ पतन्ति शिखराग्राणि विशीर्णानि सहस्रशः । पावको धूमसंपृक्तो दह्यमानः समन्ततः ॥ २८.३९ ॥ नृत्यन्वै व्याप्तदिग्देशः कान्तारेष्वभिधावति । देवागारेषु सर्वेषु गृहेष्वट्टालकेषु च ॥ २८.४० ॥ प्रवृत्तो हुतभुक्तत्र पुरे कालप्रचोदितः । ददाह लोकान्सर्वत्र हरकोपप्रकोपितः ॥ २८.४१ ॥ दहते त्रैपुरं लोकं बालवृद्धसमन्वितम् । सपुरं सगृहद्वारं सवाहनवनं नृप ॥ २८.४२ ॥ केचिद्भोजनसक्ताश्च पानासक्तास्तथापरे । अपरा नृत्यगीतेषु संसक्ता वारयोषितः ॥ २८.४३ ॥ अन्योन्यं च परिष्वज्य हुताशनशिखार्दिताः । दह्यमाना नृपश्रेष्ठ सर्वे गच्छन्त्यचेतनाः ॥ २८.४४ ॥ अथान्ये दानवास्तत्र दह्यन्तेऽग्निविमोहिताः । न शक्ताश्चान्यतो गन्तुं धूमेनाकुलिताननाः । हंसकारण्डवाकीर्णा नलिन्यो हेमपङ्कजाः ॥ २८.४५ ॥ दह्यन्ते विविधास्तत्र वाप्यः कूपाश्च भारत । दृश्यन्तेऽनलदग्धानि पुरोद्यानानि दीर्घिकाः । अम्लानैः पङ्कजैश्छन्ना विस्तीर्णावसुयोजनाः ॥ २८.४६ ॥ गिरिकूटनिभास्तत्र प्रासादा रत्नशोभिताः । दृश्यन्तेऽनलसंदग्धा विशीर्णा धरणीतले ॥ २८.४७ ॥ नरस्त्रीबालवृद्धेषु दह्यमानेषु सर्वतः । निर्दयं ज्वलते वह्निर्हाहाकारो महानभूत् । काचिच्च सुखसंसुप्ताप्रमत्तान्या नृपोत्तम ॥ २८.४८ ॥ क्रीडित्वा च सुविस्तीर्णशयनस्था वराङ्गना । काचित्सुप्ता विशालाक्षी हारावलिविभूषिता । धूमेनाकुलिता दीना न्यपतद्धव्यवाहने ॥ २८.४९ ॥ काचित्तस्मिन्पुरे दीप्ते पुत्रस्नेहानुलालसा । पुत्रमालिङ्गते गाढं दह्यते त्रिपुरेऽग्निना ॥ २८.५० ॥ काचित्कनकवर्णाभा इन्द्रनीलविभूषिता । भर्तारं पतितं दृष्ट्वा पतिता तस्य चोपरि ॥ २८.५१ ॥ काचिदादित्यवर्णाभा प्रसुप्ता तु प्रियोपरि । अग्निज्वालाहता गाढं कंठमालिङ्गते नृप ॥ २८.५२ ॥ मेधवर्णा परा नारी चलत्कनकमेखला । श्वेतवस्त्रोत्तरीया तु पपात धरणीतले ॥ २८.५३ ॥ काचित्कुन्देन्दुवर्णाभा नीलरत्नविभूषिता । शिरसा प्राञ्जलिर्भूत्वा विज्ञापयति पावकम् ॥ २८.५४ ॥ कस्याश्चिज्ज्वलते वस्त्रं केशाः कस्याश्च भारत । ज्वलज्ज्वलनसङ्काशैर्हेमभाण्डैस्त्रसंहित च ॥ २८.५५ ॥ काचित्प्रभूतदुःखार्ता विललाप वराङ्गना । भस्मीभूतं पतिं दृष्ट्वा क्रन्दन्ती कुररी यथा ॥ २८.५६ ॥ आलिङ्ग्य गाढं सहसा पतिता तस्य मूर्धनि । काचिच्च बहुदुःखार्ता व्यलपत्स्त्री स्ववेश्मनि ॥ २८.५७ ॥ भस्मसाच्च कृतं दृष्ट्वा क्रन्दते कुररी यथा । मातरं पितरं काचिद्दृष्ट्वा विगतचेतनम् ॥ २८.५८ ॥ वेपते पतिता भूमौ खेदिता वडवा यथा । इतश्चेतश्च काचिच्च दह्यमाना वराङ्गना ॥ २८.५९ ॥ नापश्यद्बालमुत्सङ्गे विपरीतमुखी स्थिता । कुम्भिलस्य गृहं दग्धं पतितं धरणीतले ॥ २८.६० ॥ कूष्माण्डस्य च धूम्रस्य कुहकस्य बकस्य च । विरूपनयनस्यापि विरूपाक्षस्य चैव हि ॥ २८.६१ ॥ शुम्भो डिम्भश्च रौद्रश्च प्रह्लादश्चासुरोत्तमः । दण्डपाणिर्विपाणिश्च सिंहवक्त्रस्तथानघ ॥ २८.६२ ॥ दुन्दुभश्चैव संह्रादो डिण्डिर्मुण्डिस्तथैव च । बाणभ्राता च बाणश्च क्रव्यादव्याघ्रवक्त्रकौ ॥ २८.६३ ॥ एवमन्येऽपि ये केचिद्दानवा बलदर्पिताः । तेषां गृहे तथा वह्निर्ज्वलते निर्दयो नृप । दह्यमानाः स्त्रियस्तात विलपन्ति गृहे गृहे ॥ २८.६४ ॥ करुणाक्षरवादिन्यो निराधारा गताः शिवम् । यदि वैरं सुरारेश्च पुरुषोपरिपावक ॥ २८.६५ ॥ स्त्रियः किमपराध्यन्ति गृहपञ्जरकोकिलाः । अनिर्दयो नृशंसस्त्वं कस्ते कोपः स्त्रियं प्रति ॥ २८.६६ ॥ किं त्वया न श्रुतं लोके अवध्याः सर्वथा स्त्रियः । किं तु तुभ्यं गुणो ह्यस्ति दहने पवनेरितः ॥ २८.६७ ॥ न कारुण्यं त्वया किंचिद्दाक्षिण्यं च स्त्रियं प्रति । दयां म्लेच्छा हि कुर्वन्ति वचनं वीक्ष्य योषिताम् ॥ २८.६८ ॥ म्लेच्छानामपि च म्लेच्छो दुर्निवार्यो ह्यचेतनः । एवं विलपमानानां स्त्रीणां तत्रैव भारत ॥ २८.६९ ॥ ज्वालाकलापबहुलः प्रज्वलत्येव पावकः । एवं दृष्ट्वा ततो बाणो दह्यमान उवाच ह ॥ २८.७० ॥ अवज्ञाय विनष्टोऽहं पापात्मा हरमञ्जसा । मया पापेन मूर्खेण ये लोका नाशिता ध्रुवम् ॥ २८.७१ ॥ गोब्राह्मणा हता नित्यमिह लोके परत्र च । नाशितान्यन्नपानानि मठारामाश्रमास्तथा ॥ २८.७२ ॥ ऋषीणामाश्रमाश्चैव देवारामा गणालयाः । तेन पापेन मे ध्वंसस्तपसश्च बलस्य च ॥ २८.७३ ॥ किं धनेन करिष्यामि राज्येणान्तःपुरेण च ॥ २८.७४ ॥ वरं शङ्करपादौ च शरणं यामि मूढधीः । न माता न पिता चैव न बन्धुर्नापरो जनः ॥ २८.७५ ॥ मुक्त्वा चैव महेशानं परमार्तिहरं परम् । आत्मना च कृतं पापमात्मनैव तु भुज्यते ॥ २८.७६ ॥ अहं पुनः समस्तैश्च दह्यामि सह साधुभिः । एवमुक्त्वा शिवं लिङ्गं कृत्वा तन्मस्तकोपरि ॥ २८.७७ ॥ निर्जगाम गृहाच्छीघ्रं पावकेनावगुण्ठितः । स खिन्नः स्विन्नगात्रस्तु प्रस्खलंस्तु मुहुर्मुहुः ॥ २८.७८ ॥ हरं गद्गदया वाचा स्तुवन्वै शरणं ययौ । त्वत्कोपानलनिर्दग्धो यदि वध्योऽस्मि शङ्कर ॥ २८.७९ ॥ त्वत्प्रसादान्महादेव मा मे लिङ्गं प्रणश्यतु । अर्चितं मे सुरश्रेष्ठ ध्यातं भक्त्या मया विभो ॥ २८.८० ॥ प्राणादिष्टतमं देव तस्माद्रक्षितुमर्हसि । यदि तेऽहमनुग्राह्यो वध्यो वा सुरसत्तम ॥ २८.८१ ॥ प्रतिजन्म महादेव त्वद्भक्तिरचलास्तु मे । पशुकीटपतङ्गेषु तिर्यग्योनिगतेषु च । स्वकर्मणा महादेव त्वद्भक्तिरचलास्तु मे ॥ २८.८२ ॥ एवमुक्त्वा महाभागो बाणो भक्तिमतां वरः । स्तोत्रेण देवदेवेशं छन्दयामास भारत ॥ २८.८३ ॥ बाण उवाच - शिव शङ्कर सर्वहराय नमो भवभीतभयार्तिहराय नमः । कुसुमायुधदेहविनाशंकर प्रमदाप्रियकामक देव नमः ॥ २८.८४ ॥ जय पार्वतीश परमार्थसार जय विरचितभीमभुजङ्गहार । जय निर्मलभस्मविलिप्तगात्र जय मन्त्रमूल जगदेकपात्र ॥ २८.८५ ॥ जय विषधरकपिलजटाकलाप जय भैरवविघृतपिनाकचाप । जय विषमनयनपरिमुक्तसङ्ग जय शङ्कर धृतगाङ्गतरङ्ग ॥ २८.८६ ॥ जय भीमरूप खट्वाङ्गहस्त शशिशेखर जय जगतां प्रशस्त । जय सुखरेश सुरलोकसार जय सर्वसकलनिर्दग्धसार ॥ २८.८७ ॥ जय कीर्तनीय जगतां पवित्र जय वृषाङ्क बहुविधचरित्र । जय विरचितनरकङ्कालमाल अघासुरदेहकङ्कालकाल ॥ २८.८८ ॥ जय नीलकंठ वरवृषभगमन जय सकललोकदुरितानुशमन । जय सिद्धसुरासुरविनतचरण जय रुद्र रौद्रभवजलधितरण ॥ २८.८९ ॥ जय गिरिश सुरेश्वरमाननीय जय सूक्ष्मरूप संचितनीय । जय दग्धत्रिपुर विश्वसत्त्व जय सकलशास्त्रपरमार्थतत्त्व ॥ २८.९० ॥ जय दुरवबोध संसारतार कलिकलुषमहार्णवघोरतार । जय सुरासुरदेवगणेश नमो हयवानरसिंहगजेन्द्रमुख ॥ २८.९१ ॥ अतिह्रस्वस्थूलसुदीर्घतम उपलब्धिर्न शक्यते ते ह्यमरैः । प्रणतोऽस्मि निरञ्जन ते चरणौ जय साम्ब सुलोचनकान्तिहर ॥ २८.९२ ॥ अप्राप्य त्वां किमत्यन्तमुच्छ्रयी न विनाशयेत् । अतिप्रमाथि च तदा तपो महत्सुदारुणम् ॥ २८.९३ ॥ न पुत्रबान्धवा दारा न समस्तः सुहृज्जनः । सङ्कटेऽभ्युपगच्छन्ति व्रजन्तमेकगामिनम् ॥ २८.९४ ॥ यदेव कर्म कैवल्यं कृतं तेन शुभाशुभम् । तदेव सार्थवत्तस्य भवत्यग्रे तु गच्छतः ॥ २८.९५ ॥ निर्धनस्यैव चरतो न भयं विद्यते क्वचित् । धनीभयैर्न मुच्येत धनं तस्मात्त्यजाम्यहम् ॥ २८.९६ ॥ लुब्धाः पापानि कुर्वन्ति शुद्धांशा नैव मानवाः । श्रुत्वा धर्मस्य सर्वस्वं श्रुत्वा चैवावधार्य तत् ॥ २८.९७ ॥ त्वं विष्णुस्त्वं जगन्नाथो ब्रह्मरूपः सनातनः । इन्द्रस्त्वं देवदेवेश सुरनाथ नमोऽस्तु ते ॥ २८.९८ ॥ त्वं क्षितिर्वरुणश्चैव पवनस्त्वं हुताशनः । त्वं दीक्षा यजमानश्च आकाशं सोम एव च ॥ २८.९९ ॥ त्वं सूर्यस्त्वं तु वित्तेशो यमस्त्वं गुरुरेव च । त्वया व्याप्तं जगत्सर्वं त्रैलोक्यं भास्वता यथा ॥ २८.१०० ॥ एतद्बाणकृतं स्तोत्रं श्रुत्वा देवो महेश्वरः । क्रोधं मुक्त्वा प्रसन्नात्मा तदा वचनमब्रवीत् ॥ २८.१०१ ॥ ईश्वर उवाच - न भेतव्यं न भेतव्यमद्यप्रभृति दानव । सौवर्णे भवने तिष्ठ मम पार्श्वेऽथवा पुनः ॥ २८.१०२ ॥ पुत्रपौत्रप्रपौत्रैश्च बान्धवैः सह भार्यया । अद्यप्रभृति वत्स त्वमवध्यः सर्वशत्रुषु ॥ २८.१०३ ॥ मार्कण्डेय उवाच - भूयस्तस्य वरो दत्तो देवदेवेन भारत । स्वर्गे मर्त्ये च पाताले पूजितः ससुरासुरैः ॥ २८.१०४ ॥ अक्षयश्चाव्ययश्चैव वस त्वं वै यथासुखम् । ततो निवारयामास रुद्रः सप्तशिखं तदा ॥ २८.१०५ ॥ तृतीयं रक्षितं तस्य पुरं देवेन शम्भुना । ज्वालामालाकुलं चान्यत्पतितं धरणीतले ॥ २८.१०६ ॥ अर्धेन प्रस्थितादूर्ध्वं तस्य ज्वाला दिवं गताः । हाहाकारो महांस्तत्र ऋषिसङ्घैरुदीरितः ॥ २८.१०७ ॥ दैवतैश्च महाभागैः सिद्धविद्याधरादिभिः । एकं तु पतितं तत्र श्रीशैले खण्डमुत्तरम् ॥ २८.१०८ ॥ द्वितीयं पतितं राजञ्छैले ह्यमरकण्टके । प्रज्वलत्पतितं तत्र तेन ज्वालेश्वरं स्मृतम् ॥ २८.१०९ ॥ दग्धे तु त्रिपुरे राजन्पतिते खण्ड उत्तमे । रुद्रो देवः स्थितस्तत्र ज्वालामालानिवारकः ॥ २८.११० ॥ हाहाकारपराणां तु ऋषीणां रक्षणाय च । स्वयं मूर्तिर्महेशानुमावृषभसंयुतः ॥ २८.१११ ॥ मनसापि स्मरेद्यस्तु भक्त्या ह्यमरकण्टकम् । चान्द्रायणाधिकं पुण्यं स लभेन्नात्र संशयः ॥ २८.११२ ॥ अतिपुण्यो गिरिश्रेष्ठो यस्माद्भरतसत्तम । अस्मान्नित्यं भवेद्राजन्सर्वपापक्षयंकरः ॥ २८.११३ ॥ नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः । नानागुल्मलताकीर्णो नानावल्लीभिरावृतः ॥ २८.११४ ॥ सिंहव्याघ्रसमाकीर्णो मृगयूथैरलंकृतः । श्वापदानां च घोषेण नित्यं प्रमुदितोऽभवत् ॥ २८.११५ ॥ ब्रह्मेन्द्रविष्णुप्रमुखैर्ह्यमरैश्च सहस्रशः । सेव्यते देवदेवेशः शङ्करस्तत्र पर्वते ॥ २८.११६ ॥ पतनं कुरुते योऽस्मिन्पर्वतेऽमरकण्टके । क्रीडते क्रमशो राजन्भुवनानि चतुर्दश ॥ २८.११७ ॥ ऐन्द्रं वाह्नं च कौबेरं वायव्यं याम्यमेव च । नैरृत्यं वारुणं चैव सौम्यं सौरं तथैव च ॥ २८.११८ ॥ ब्राह्मं च पदमक्लिष्टं वैष्णवं तदनन्तरम् । उमारुद्रं महाभाग ऐश्वरं तदनन्तरम् ॥ २८.११९ ॥ परं सदाशिवं शान्तं सूक्ष्मं ज्योतिरतीन्द्रियम् । तस्मिन्याति लयं धीरो विधिना नात्र संशयः ॥ २८.१२० ॥ युधिष्ठिर उवाच - कोऽप्यत्र विधिरुद्दिष्टः पतने ऋषिसत्तम । एतन्मे सर्वमाचक्ष्व संशयोऽस्ति महामुने ॥ २८.१२१ ॥ श्रीमार्कण्डेय उवाच - शृणुष्व कथयिष्यामि तं विधिं पाण्डुनन्दन । यत्कृत्वा प्रथमं कर्म निपतेत्तदनन्तरम् ॥ २८.१२२ ॥ कृत्वा कृच्छ्रत्रयं पूर्वं जप्त्वा लक्षं दशैव तु । शाकयावकभुक्चैव शुचिस्त्रिषवणो नृप ॥ २८.१२३ ॥ त्रिकालमर्चयेदीशं देवदेवं त्रिलोचनम् । दशांशेन तु राजेन्द्र होमं तत्रैव कारयेत् ॥ २८.१२४ ॥ लक्षवारं जपेद्देवं गन्धमाल्यैश्च पूजयेत् । रात्रौ स्वप्ने तदा पश्येद्विमानस्थं ततः क्षिपेत् ॥ २८.१२५ ॥ अनेनैव विधानेन आत्मानं यस्तु निक्षिपेत् । स्वर्गलोकमनुप्राप्य क्रीडते त्रिदशैः सह ॥ २८.१२६ ॥ त्रिंशद्वर्षसहस्राणि त्रिंशत्कोट्यस्तथैव च । मुक्त्वा मनोरमान्भोगांस्तदा गच्छेन्महीतलम् ॥ २८.१२७ ॥ पृथिवीमेकच्छत्रेण भुनक्ति लोकपूजितः । व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ २८.१२८ ॥ ज्वालेश्वरं तु तत्तीर्थं त्रिषु लोकेषु विश्रुतम् । तत्र ज्वाला नदी पार्थ प्रस्रुता शिवनिर्मिता ॥ २८.१२९ ॥ निर्वाप्य तद्बाणपुरं रेवया सह संगता । तत्र स्नात्वा महाराज विधिना मन्त्रसंयुतः ॥ २८.१३० ॥ तिलसंमिश्रतोयेन तर्पयेत्पितृदेवताः । पिण्डदानेन च पित्ःन् पैण्डरीकफलं लभेत् ॥ २८.१३१ ॥ अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ २८.१३२ ॥ अमराणां शतैश्चैव सेवितो ह्यमरेश्वरः । तथैव ऋषिसङ्घैश्च तेन पुण्यतमो महान् ॥ २८.१३३ ॥ समन्ताद्योजनं तीर्थं पुण्यं ह्यमरकण्टकम् । रुद्रकोटिसमोपेतं तेन तत्पुण्यमुत्तमम् ॥ २८.१३४ ॥ तस्य पर्वतराजस्य यः करोति प्रदक्षिणम् । प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः ॥ २८.१३५ ॥ वाचिकं मानसं चैव कायिकं त्रिविधं च यत् । नश्यते पातकं सर्वमित्येवं शङ्करोऽब्रवीत् ॥ २८.१३६ ॥ अमरेश्वरपार्श्वे च तीर्थं शक्रेश्वरं नृप । तपस्तप्त्वा पुरा तत्र शक्रेण स्थापितं किल ॥ २८.१३७ ॥ कुशावर्तं नाम तीर्थं ब्रह्मणा च कृतं शुभम् । ब्रह्मकुण्डमिति ख्यातं हंसतीर्थं तथा परम् ॥ २८.१३८ ॥ अम्बरीषस्य तीर्थं च महाकालेश्वरं तथा । कावेर्याः पूर्वभागे च तीर्थं वै मातृकेश्वरम् ॥ २८.१३९ ॥ एतानि दक्षिणे तीरे रेवाया भरतर्षभ । संसेवनस्नानदानैः पापसङ्घहराणि च ॥ २८.१४० ॥ भृगुतुङ्गे महाराज प्रसिद्धो भैरवः शिवः । तस्य याम्यविभागे च तीर्थं वै चपलेश्वरम् ॥ २८.१४१ ॥ एतौ स्थितौ दुःखहरौ रेवाया उत्तरे तटे । तावभ्यर्च्य तथा नत्वा सम्यग्यात्राफलं भवेत् । अदृष्टपूजितौ तौ हि नराणां विघ्नकारकौ ॥ २८.१४२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे त्रिपुरविध्वंसने ज्वालेश्वरतीर्थामरेश्वतीर्थमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः ॥ ऋKV अध्याय २९ युधिष्ठिर उवाच - कावेरीति च विख्याता त्रिषु लोकेषु सत्तम । माहात्म्यं श्रोतुमिच्छामि तस्या मार्कण्ड तत्त्वतः ॥ २९.१ ॥ कीदृशं दर्शनं तस्याः फलं स्पर्शेऽथवा विभो । स्नाने जाप्येऽथवा दान उपवासे तथा मुने ॥ २९.२ ॥ कथयस्व महाभाग कावेरीसङ्गमे फलम् । धर्मः श्रुतोऽथ दृष्टो वा कथितो वा कृतोऽपि वा ॥ २९.३ ॥ अनुमोदितो वा विप्रेन्द्र पुनातीति श्रुतं मया । यथा धर्मप्रसङ्गे तु मुने धर्मोऽपि जायते ॥ २९.४ ॥ स्वर्गश्च नरकश्चैव इत्येवं वैदिकी श्रुतिः ॥ २९.५ ॥ श्रीमार्कण्डेय उवाच - साधु साधु महाभाग यत्पृष्टोऽहं त्वयाधुना । शृणुष्वैकमना भूत्वा कावेरीफलमुत्तमम् ॥ २९.६ ॥ अस्ति यक्षो महासत्त्वः कुबेरोनाम विश्रुतः । सोऽपि तीर्थप्रभावेन राजन्यक्षाधिपोऽभवत् ॥ २९.७ ॥ तच्छृणुष्व विधानेन भक्त्या परमया नृप । सिद्धिं प्राप्तो महाभाग कावेरीसङ्गमेन तु ॥ २९.८ ॥ कावेर्या नर्मदायास्तु सङ्गमे लोकविश्रुते । तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः ॥ २९.९ ॥ विधिवन्नियमं कृत्वा शास्त्रयुक्त्या नरोत्तम । आराधयन्महादेवमेकचित्तः सनातनम् ॥ २९.१० ॥ एकाहारो वसन्मासं तथा षष्ठाह्नकालिकः । पक्षोपवासी न्यवसत्कंचित्कालं नृपोत्तम ॥ २९.११ ॥ मूलशाकफलैश्चान्यं कालं नयति बुद्धिमान् । किंचित्कालं वसंस्तत्र तीर्थे शैवालभोजनः ॥ २९.१२ ॥ पराकेणानयत्कालं कृच्छ्रेणापि च मानद । चान्द्रायणेन चाप्यन्यमन्यं वाय्वम्बुभोजनः ॥ २९.१३ ॥ एवं तत्र नरश्रेष्ठ कामरागविवर्जितः । स्थितो वर्षशतं साग्रं कर्षयन्स्वं तथा वपुः ॥ २९.१४ ॥ ततो वर्षशतस्यान्ते देवदेवो महेश्वरः । तुष्टस्तु परया भक्त्या तमुवाच हसन्निव ॥ २९.१५ ॥ भोभो यक्ष महासत्त्व वरं वरय सुव्रत । परितुष्टोऽस्मि ते भक्त्या तव दास्ये यथेप्सितम् ॥ २९.१६ ॥ यक्ष उवाच - यदि तुष्टोऽसि देवेश उमया सह शङ्कर । अद्यप्रभृति सर्वेषां यक्षाणामधिपो भवे ॥ २९.१७ ॥ अक्षयश्चाव्ययश्चैव तव भक्तिपुरःसरः । धर्मे मतिं च मे नित्यं ददस्व परमेश्वर ॥ २९.१८ ॥ ईश्वर उवाच - यत्त्वया प्रार्थितं सर्वं फलं धर्मस्य तत्तथा । इत्येवमुक्त्वा तं तत्र जगामादर्शनं हरः ॥ २९.१९ ॥ सोऽपि स्नात्वा विधानेन संतर्प्य पितृदेवताः । आमन्त्रयित्वा तत्तीर्थं कृतार्थश्च गृहं ययौ ॥ २९.२० ॥ पूजितस्तत्र यक्षैस्तु सोऽभिषिक्तो विधानतः । चकार विपुलं तत्र राज्यमीप्सितमुत्तमम् ॥ २९.२१ ॥ तत्र चान्ये सुराः सिद्धा यक्षगन्धर्वकिंनराः । गणाश्चाप्सरसां तत्र ऋषयश्च तथानघ ॥ २९.२२ ॥ कावेरीसङ्गमं तेन सर्वपापहरं विदुः । स्वर्गाणामपि सर्वेषां द्वारमेतद्युधिष्ठिर ॥ २९.२३ ॥ ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् । कावेरीसङ्गमे स्नात्वा यैर्दत्तं हि तिलोदकम् ॥ २९.२४ ॥ दश पूर्वे परे तात मातृतः पितृतस्तथा । पितरः पितामहास्तेन उद्धृता नरकार्णवात् ॥ २९.२५ ॥ तस्मात्सर्वप्रयत्नेन तत्र स्नायीत मानवः । अर्चयेदीश्वरं देवं यदीच्छेच्छाश्वतीं गतिम् ॥ २९.२६ ॥ कावेरीसङ्गमे राजन्स्नानदानार्चनं नरैः । कृतं भक्त्या नरश्रेष्ठ अश्वमेधाधिकं फलम् ॥ २९.२७ ॥ होमेन चाक्षयः स्वर्गो जपादायुर्विवर्धते । ध्यानतो नित्यमायाति पदं शिवकलात्मकम् ॥ २९.२८ ॥ अग्निप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नरेश्वर । अग्निलोके वसेत्तावद्यावदाभूतसम्प्लवम् ॥ २९.२९ ॥ अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । तस्य पुण्यफलं यद्वै तच्छृणुष्व नरोत्तम ॥ २९.३० ॥ गन्धर्वाप्सरःसंकीर्णे विमाने सूर्यसन्निभे । वीज्यमानो वरस्त्रीभिर्दैवतैः सह मोदते ॥ २९.३१ ॥ षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । क्रीडते रुद्रलोकस्थस्तदन्ते भुवि चागतः ॥ २९.३२ ॥ भोगवान्दानशीलश्च जायते पृथिवीपतिः । आधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ २९.३३ ॥ एवं गुणगणाकीर्णा कावेरी सा सरिन्नृप । त्रिषु लोकेषु विख्याता नर्मदासङ्गमे सदा ॥ २९.३४ ॥ जितवाक्कायचित्ताश्च ध्येयध्यानरतास्तथा । कावेरीसङ्गमे तात तेऽपि मोक्षमवाप्नुयुः ॥ २९.३५ ॥ शृणु तेऽन्यत्प्रवक्ष्यामि आश्चर्यं नृपसत्तम । त्रिषु लोकेषु का त्वन्या दृश्यते सरिता समा ॥ २९.३६ ॥ लब्धं यैर्नर्मदातोयं ये च कुर्युः प्रदक्षिणम् । ये पिबन्ति जलं तत्र ते पुण्या नात्र संशयः ॥ २९.३७ ॥ न तेषां सन्ततिच्छेदो दश जन्मानि पञ्च च । तेषां पापं विलीयेत हिमं सूर्योदये यथा ॥ २९.३८ ॥ गङ्गायमुनसङ्गे वै यत्फलं लभते नरः । तत्फलं लभते मर्त्यः कावेरीस्नानमाचरन् ॥ २९.३९ ॥ भौमे तु भूतजायोगे व्यतीपाते च संक्रमे । राहुसोमसमायोगे तदेवाष्टगुणं स्मृतम् ॥ २९.४० ॥ अशीतिश्च यवाः प्रोक्ता गङ्गायामुनसङ्गमे । कावेरीनर्मदायोगे तदेवाष्टगुणं स्मृतम् ॥ २९.४१ ॥ गङ्गा षष्टिसहस्रैस्तु क्षेत्रपालैः प्रपूज्यते । तदर्धैरन्यतीर्थानि रक्षन्ते नात्र संशयः ॥ २९.४२ ॥ अमरेश्वरे तु सरितां ये योगाः परिकीर्तिताः । ते त्वशीतिसहस्रैस्तु क्षेत्रपालैस्तु रक्षिताः ॥ २९.४३ ॥ तथामरेश्वरे याम्ये लिङ्गं वै चपलेश्वरम् । द्वितीयं चण्डहस्ताख्यं द्वे लिङ्गे तीर्थरक्षके ॥ २९.४४ ॥ शिवेन स्थापिते पूर्वं कावेर्याद्यभिरक्षके । लक्षेण रक्षिता देवी नर्मदा बहुकल्पगा ॥ २९.४५ ॥ धनुषां षष्ट्यभियुतैः पुरुषैरीशयोजितैः । ओं कारशतसाहस्रैः पर्वतश्चाभिरक्षितः ॥ २९.४६ ॥ अन्यदेशकृतं पापमस्मिन् क्षेत्रे विनश्यति । अस्मिंस्तीर्थे कृतं पापं वज्रलेपो भविष्यति ॥ २९.४७ ॥ एषा ते कथिता तात कावेरी सरितां वरा । रुद्रदेहसमुत्पन्ना तेन पुण्या सरिद्वरा ॥ २९.४८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कावेरीसङ्गममाहात्म्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ ऋKV अध्याय ३० श्रीमार्कण्डेय उवाच - नर्मदोत्तरकूले तु दारुतीर्थमनुत्तमम् । यत्र सिद्धो महाभाग तपस्तप्त्वा द्विजोत्तमः ॥ ३०.१ ॥ युधिष्ठिर उवाच - कोऽसौ द्विजवरश्रेष्ठः सिद्धस्तत्र महामुने । दारुकेति सुतः कस्य एतन्मे वक्तुमर्हसि ॥ ३०.२ ॥ श्रीमार्कण्डेय उवाच - भार्गवे विपुले वंशे धीमतो देवशार्मणः । दारुर्नाम महाभागो वेदवेदाङ्गपारगः ॥ ३०.३ ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो विधिक्रमात् । यतिधर्मविधानेन चचार विपुलतपः ॥ ३०.४ ॥ ध्यायन्वै स महादेवं निराहारो युधिष्ठिर । उवास तीर्थे तस्मिन् वै यावत्प्राणपरिक्षयम् ॥ ३०.५ ॥ तस्य नाम्ना तु तत्तीर्थं त्रिषु लोकेषु विश्रुतम् । तत्र स्नात्वा विधानेन अर्चयेत्पितृदेवताः ॥ ३०.६ ॥ सत्यवादी जितक्रोधः सर्वभूतहिते रतः । सर्वान्कामानवाप्नोति राजन्नत्रैव सवर्था ॥ ३०.७ ॥ यः कुर्यादुपवासं च सत्यशौचपरायणः सौत्रामणिफलं चास्य सम्भवत्यविचारितम् ॥ ३०.८ ॥ ऋग्वेदजापी ऋग्वेदी साम वा सामपारगः । यजुर्वेदी यजुर्जप्त्वा लभते फलमुत्तमम् ॥ ३०.९ ॥ प्राणांस्त्यजति यो मर्त्यस्तस्मिंस्तीर्थे विधानतः । अनिवर्तिका गतिस्तस्य इत्येवं शङ्करोऽब्रवीत् ॥ ३०.१० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दारुतीर्थमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥ ऋKV अध्याय ३१ श्रीमार्कण्डेय उवाच - ततो गच्छेच्च राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् । ब्रह्मावर्तमिति ख्यातं सर्वपापप्रणाशनम् ॥ ३१.१ ॥ तत्र संनिहितो ब्रह्मा नित्यसेवी युधिष्ठिर । ऊर्ध्वबाहुर्निरालम्बचकार भ्रमणं सदा ॥ ३१.२ ॥ एकाहारवशेऽतिष्ठद्द्वादशाब्दं महाव्रती । अत्र तीर्थे विधानेन चिन्तयन् वै महेश्वरम् ॥ ३१.३ ॥ तेन तत्पुण्यमाख्यातं ब्रह्मावर्तमिति प्रभो । तत्र स्नात्वा विधानेन तर्पयेत्पितृदेवताः ॥ ३१.४ ॥ अर्चयेद्देवमीशानं विष्णुं वा परमेश्वरम् । यत्फलं सर्वयज्ञानां विधिवद्दक्षिणावताम् ॥ ३१.५ ॥ तत्फलं समवाप्नोति तत्तीर्थस्य प्रभावतः । यस्मिंस्तीर्थे तु यो देवो दानवो वा द्विजोऽथ वा ॥ ३१.६ ॥ सिद्धस्तेनैव तन्नाम्ना ख्यातं लोके महच्च तत् । न जलं न स्थलं नाम क्षेत्रं वा ह्यूषराणि च ॥ ३१.७ ॥ पवित्रत्वं लभन्त्येते पौरुषेण विना नृणाम् । सामर्थ्यान्निश्चयाद्धैर्यात्सिध्यन्ति पुरुषा नृप ॥ ३१.८ ॥ प्रमादात्तस्य लोभेन पतन्ति नरके ध्रुवम् ॥ ३१.९ ॥ संनिरुध्येन्द्रियग्रामं यत्र यत्र वसेन्मुनिः । तत्र तत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥ ३१.१० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ब्रह्मावर्ततीर्थमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥ ऋKV अध्याय ३२ श्रीमार्कण्डेय उवाच - पत्त्रेश्वरं ततो गच्छेत्सर्वपापप्रणाशनम् । यत्र सिद्धो महाभागश्चित्रसेनसुतो बली ॥ ३२.१ ॥ युधिष्ठिर उवाच - कोऽसौ सिद्धस्तदा ब्रह्मंस्तस्मिंस्तीर्थे महातपाः । पुत्रः कस्य तु को हेतुरेतदिच्छामि वेदितुम् ॥ ३२.२ ॥ श्रीमार्कण्डेय उवाच - चित्रोनाम महातेजा इन्द्रस्य दयितः पुरा । तस्य पुत्रो नृपश्रेष्ठ पत्त्रेश्वर इति श्रुतः ॥ ३२.३ ॥ रूपवान् सुभगश्चैव सर्वशत्रुभयंकरः । इन्द्रस्य दयितोऽत्यर्थं जय इत्येव चापरः ॥ ३२.४ ॥ स कदाचित्सभामध्ये सर्वदेवसमागमे । मेनकानृत्यगीतेन मोहितः सुचिरं किल ॥ ३२.५ ॥ तिष्ठते गतमर्यादो गतप्राण इव क्षणात् । तावत्सुरपतिर्देवः शशापाथाजितेन्द्रियम् ॥ ३२.६ ॥ यस्मात्त्वं स्वर्गसंस्थोऽपि मर्त्यधर्ममुपेयिवान् । तस्मान्मर्त्ये चिरं कालं क्षपयिष्यस्यसंशयम् ॥ ३२.७ ॥ एवमुक्तः सुरेन्द्रेण चित्रसेनसुतो युवा । वेपमानः सुरश्रेष्ठः कृताञ्जलिरुवाच ह ॥ ३२.८ ॥ पत्त्रेश्वर उवाच - मया पापेन मूढेन अजितेन्द्रियचेतसा । प्राप्तं वै यत्फलं तस्य प्रसादं कर्तुमर्हसि ॥ ३२.९ ॥ शक्र उवाच - नर्मदातटमाश्रित्य द्वादशाब्दं जितेन्द्रियः । आराधय शिवं शान्तं पुनः प्राप्स्यसि सद्गतिम् ॥ ३२.१० ॥ सत्यशौचरतानां च धर्मिष्ठानां जितात्मनाम् । लोकोऽयं पापिनां नैव इति शास्त्रस्य निश्चयः ॥ ३२.११ ॥ एवमुक्ते महाराज सहस्राक्षेण धीमता । गन्धर्वतनयो धीमान्प्रणम्यागात्तु भूतलम् ॥ ३२.१२ ॥ रेवाया विमले तोये ब्रह्मावर्तसमीपतः । स्नात्वा जप्त्वा विधानेन अर्चयित्वा च शङ्करम् ॥ ३२.१३ ॥ वाय्वम्बुपिण्याकफलैश्च पुष्पैः पर्णैश्च मूलाशनयावकेन । तताप पञ्चाग्नितपोभिरुग्रैस्ततश्च तोषं समगात्स देवः ॥ ३२.१४ ॥ पिनाकपाणिं वरदं त्रिशूलिनमुमापतिं ह्यन्धकनाशनं च । चन्द्रार्धमौलिं गजकृत्तिवाससं दृष्ट्वा पपाताग्रगतं समीक्ष्य ॥ ३२.१५ ॥ ईश्वर उवाच - वरं वृणीष्व भद्रं ते वरदोऽहं तवानघ । यमिच्छसि ददाम्यद्य नात्र कार्या विचारणा ॥ ३२.१६ ॥ पत्त्रेश्वर उवाच - यदि तुष्टोऽसि देवेश यदि देयो वरो मम । अत्र त्वं सततं तीर्थे मम नाम्ना भव प्रभो ॥ ३२.१७ ॥ एतच्छ्रुत्वा महादेवो हर्षगद्गदया गिरा । तथेत्युक्त्वा ययौ हृष्ट उमया सह शङ्करः ॥ ३२.१८ ॥ सोऽपि तत्तीर्थमाप्लुत्य गते देवे दिवं प्रति । स्नात्वा जाप्यविधानेन तर्पयित्वा पित्ःन् पुनः ॥ ३२.१९ ॥ स्थापयामास देवेशं तस्मिंस्तीर्थे विधानतः । पत्त्रेश्वरं तु विख्यातं त्रिषु लोकेषु भारत ॥ ३२.२० ॥ इन्द्रलोकं गतः शापान्मुक्तः सोऽपि नरेश्वर । हृष्टः प्रमुदितो रम्यं जयशब्दादिमङ्गलैः ॥ ३२.२१ ॥ एष ते कथितः प्रश्नः पृष्टो यो वै युधिष्ठिर । तत्र स्नानेन चैकेन सर्वपापैः प्रमुच्यते ॥ ३२.२२ ॥ यस्त्वर्चयेन्महादेवं तस्मिंस्तीर्थे युधिष्ठिर । स्नात्वाभ्यर्च्य पित्ःन् देवान् सोऽश्वमेधफलं लभेत् ॥ ३२.२३ ॥ मृतो वर्षशतं साग्रं क्रीडित्वा च शिवे पुरे । राजा वा राजतुल्यो वा पश्चान्मर्त्येषु जायते ॥ ३२.२४ ॥ वेदवेदाङ्गतत्त्वज्ञो जीवेच्च शरदः शतम् । व्याधिशोकविनिर्मुक्तः पुनः स्मरति तज्जलम् ॥ ३२.२५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पत्रेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ऋKV अध्याय ३३ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र अग्नितीर्थमनुत्तमम् । यत्र संनिहितो ह्यग्निर्गतः कामेन मोहितः ॥ ३३.१ ॥ युधिष्ठिर उवाच - कथं देवो जगद्धाता कामेन कलुषीकृतः । कथं च नित्यदा वास एकस्थानेषु जायते ॥ ३३.२ ॥ एतत्त्वाश्चर्यमतुलं सर्वलोकेष्वनुत्तमम् । कथयस्व महाभाग परं कौतूहलं मम ॥ ३३.३ ॥ श्रीमार्कण्डेय उवाच - साधु साधु महाप्राज्ञ पृष्टः प्रश्नस्त्वयानव । कथयामि यथापूर्वं श्रुतमेतन्महेश्वरात् ॥ ३३.४ ॥ आसीत्कृतयुगे राजा नाम्ना दुर्योधनो महान् । हस्त्यश्वरथसम्पूर्णो मेदिनीपरिपालकः ॥ ३३.५ ॥ रूपयौवनसम्पन्नं दृष्ट्वा तं पृथिवीपतिम् । दिव्योपभोगसम्पन्नं प्रार्थयामास नर्मदा ॥ ३३.६ ॥ स तु तां चकमे कन्यां त्यक्त्वाऽन्यं प्रमदाजनम् । मुदा परमया युक्तो माहिष्मत्याः पतिर्नृप ॥ ३३.७ ॥ रमते स तया सार्द्धं काले वै नृपसत्तम । नर्मदा जनयामास कन्यां पद्मदलेक्षणाम् ॥ ३३.८ ॥ अङ्गप्रत्यङ्गसम्पन्ना यस्माल्लोकेषु विश्रुता । तस्यां पिता च माता च चक्रतुः प्रेमबन्धनम् ॥ ३३.९ ॥ कालेनातिसुदीर्घेण यौवनस्था वराङ्गना । प्रार्थ्यमानापि राजन्वै नात्मानं दातुमिच्छति ॥ ३३.१० ॥ ततोऽन्यदिवसे वह्निर्द्विजरूपो महातपाः । राजानं प्रार्थयामास रहो गत्वा शनैः शनैः ॥ ३३.११ ॥ भोभो रघुकुलश्रेष्ठ द्विजोऽहं मन्दसन्ततिः । दरिद्रो ह्यसहायश्च भार्यार्थे वरयामि ताम् ॥ ३३.१२ ॥ कन्या सुदर्शना नाम रूपेणाप्रतिमा भुवि । तां ददस्व महाभाग वर्धते तव मन्दिरे ॥ ३३.१३ ॥ ब्रह्मचर्येण निर्विण्ण एकाकी कामपीडितः । याचमानस्य मे तात प्रसादं कर्तुमर्हसि ॥ ३३.१४ ॥ राजोवाच - नाहं द्रव्यविहीनस्य असवर्णस्य कर्हिचित् । दास्यामि स्वां सुतां शुभ्रां गम्यतां द्विजपुंगव ॥ ३३.१५ ॥ एवमुक्तस्तदा वह्निः परां पीडामुपागतः । न किंचिदुक्त्वा राजानं तत्रैवान्तरधीयत ॥ ३३.१६ ॥ गते चादर्शनं विप्रे राजा मन्त्रिपुरोहितैः । मन्त्रयित्वाथ काले तु तुष्टो मखमुखे स्थितः ॥ ३३.१७ ॥ यजतश्च मखे भक्त्या ब्राह्मणैः सह भारत । ततश्चादर्शनं वह्निः सर्वेषां पश्यतामगात् ॥ ३३.१८ ॥ विप्रा दुर्मनसो भूत्वा गता राज्ञो हि मन्दिरम् । वह्निनाशं विमनसो राजानमिदमब्रुवन् ॥ ३३.१९ ॥ ब्राह्मणा ऊचुः । दुर्योधन महाराज श्रूयतां महदद्भुतम् । न श्रुतं न च दृष्टं वा कौतुकं नृपपुंगव ॥ ३३.२० ॥ अग्निकार्यप्रवृत्तानां सर्वेषां विधिवन्नृप । केनापि हेतुना वह्निर्दृश्यते न ज्वलत्युत ॥ ३३.२१ ॥ तच्छ्रुत्वा विप्रियं घोरं राजा विप्रमुखाच्च्युतम् । आसनात्पतितो भूमौ छिन्नमूल इव द्रुमः ॥ ३३.२२ ॥ आश्वस्य च मुहूर्तेन उन्मत्त इव संस्तदा । निरीक्ष्य च दिशः सर्वा इदं वचनमब्रवीत् ॥ ३३.२३ ॥ किमेतदाश्चर्यपरमिति भोभो द्विजोत्तमाः । कथ्यतां कारणं सर्वं शास्त्रदृष्ट्या विभाव्य च ॥ ३३.२४ ॥ मम वा दुष्कृतं किंचिदुताहो भवतामिह । येन नष्टोऽग्निशालायां हुतभुक्केन हेतुना ॥ ३३.२५ ॥ मन्त्रच्छिद्रमथान्यद्वा नैव किंचिददक्षिणम् । क्रियाहीनं कृतं वाथ केन वह्निर्न दृश्यते ॥ ३३.२६ ॥ अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्विजः । दातारं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः ॥ ३३.२७ ॥ ब्राह्मणा ऊचुः । न मन्त्रहीना हि वयं न च राजन्व्रतैस्तथा । द्रव्येण च न हीनस्त्वमन्यत्पापं विचिन्त्यताम् ॥ ३३.२८ ॥ राजोवाच - तथापि यूयं सहिता उपायं चिन्तयन्त्विति । येन श्रेयो भवेन्नित्यमिह लोके परत्र च ॥ ३३.२९ ॥ एवमुक्तास्ततः सर्वे ब्राह्मणाः कृतनिश्चयाः । निराहाराः स्थिताः शर्वे यत्र नष्टो हुताशनः ॥ ३३.३० ॥ ततः स्वप्ने महातेजा हुतभुग्ब्राह्मणांस्तदा । उवाच श्रूयतां सर्वैर्मम नाशस्य कारणम् ॥ ३३.३१ ॥ प्रार्थितोऽयं मया राजा सुतां दातुं न चेच्छति । तेन नष्टोऽग्निशरणादहं भो द्विजसत्तमाः ॥ ३३.३२ ॥ यदि मे स्वसुतां राजा ददाति परमार्चिताम् । तदास्य ज्वलमानोऽहं गृहे तिष्ठामि नान्यथा ॥ ३३.३३ ॥ तच्छ्रुत्वा वचनं विप्रा वैश्वानरमुखोद्गतम् । विस्मयोत्फुल्लनयना राजानमिदमब्रुवन् ॥ ३३.३४ ॥ भवतो मतमाज्ञाय सर्वे गत्वाग्निमन्दिरम् । निराहाराः स्थिता रात्रौ पश्यामो जातवेदसम् ॥ ३३.३५ ॥ तेनोक्ताः स्वसुतां चेत्तु राजा मे दातुमिच्छति । ततोऽस्य भूयोऽपि गृहे ज्वलेऽहं नान्यथा द्विजाः ॥ ३३.३६ ॥ एवं ज्ञात्वा महाराज स्वसुतां दातुमर्हसि ॥ ३३.३७ ॥ राजोवाच - भवतां तस्य वा कार्यं देवस्य वचनं हृदि । समयं कर्तुमिच्छामि कन्यादाने ह्यनुत्तमम् ॥ ३३.३८ ॥ मम संनिहितो नित्यं गृहे तिष्ठतु पावकः । ददामि रुचिरापाङ्गीं नान्यथा करवाणि वै ॥ ३३.३९ ॥ एवं ते ब्राह्मणाः श्रुत्वा तथाग्निं प्राप्य सत्वरम् । कथयित्वा विवाहेन योजयामासुराशु वै ॥ ३३.४० ॥ सुदर्शनाया लाभेन परितुष्टो हुताशनः । ज्वलते सन्निधौ नित्यं माहिष्मत्यां युधिष्ठिर ॥ ३३.४१ ॥ ततः प्रभृति तत्तीर्थमग्नितीर्थं प्रचक्षते । ये तत्र पक्षसन्धौ तु स्नानदानैस्तु भाविताः ॥ ३३.४२ ॥ तर्पयन्ति पित्ःन् देवांस्तेऽश्वमेधफलैर्युताः । सुवर्णं ये प्रयच्छन्ति तस्मिंस्तीर्थे नराधिप ॥ ३३.४३ ॥ पृथ्वीदानफलं तत्र जायते नात्र संशयः । अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ॥ ३३.४४ ॥ स मृतो ह्यग्निलोके तु क्रीडते सुरपूजितः । एष ते ह्यग्नितीर्थस्य सम्भवः कथितो मया ॥ ३३.४५ ॥ सर्वपापहरः पुण्यः श्रुतमात्रो नरोत्तम । धन्यः पापहरो नित्यमित्येवं शङ्करोऽब्रवीत् ॥ ३३.४६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽग्नितीर्थमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ऋKV अध्याय ३४ श्रीमार्कण्डेय उवाच - तत्रैव तु भवेदन्यदादित्यस्य महात्मनः । कीर्तयामि नरश्रेष्ठ यदि ते श्रवणे मतिः ॥ ३४.१ ॥ युधिष्ठिर उवाच - एतदाश्चर्यमतुलं श्रुत्वा तव मुखोद्गतम् । विस्मयाद्धृष्टरोमाहं जातोऽस्मि मुनिसत्तम ॥ ३४.२ ॥ सहस्रकिरणो देवो हर्ता कर्ता निरञ्जनः । अवतारेण लोकानामुद्धर्ता नर्मदातटे ॥ ३४.३ ॥ पुरुषाकारो भगवानुताहो तपसः फलात् । कस्य गोत्रे समुत्पन्नः कस्य देवोऽभवद्वशी ॥ ३४.४ ॥ श्रीमार्कण्डेय उवाच - कुलिकान्वयसम्भूतो ब्राह्मणो भक्तिमाञ्छुचिः । ईक्ष्यामीति रविं तत्र तीर्थे यात्राकृतोद्यमः ॥ ३४.५ ॥ योजनानां शतं साग्रं निराहारो गतोदकः । प्रस्थितो देवदेवेन स्वप्नान्ते वारितः किल ॥ ३४.६ ॥ भोभो मुने महासत्त्व अलं ते व्रतमीदृशम् । सर्वं व्याप्य स्थितं पश्य स्थावरं जङ्गमं च माम् ॥ ३४.७ ॥ तपाम्यहं ततो वर्षं निगृह्णाम्युत्सृजामि च । न भृतं चैव मृत्युं च यः पश्यति स पश्यति ॥ ३४.८ ॥ वरं वरय भद्रं त्वमात्मनो यस्तवेप्सितम् ॥ ३४.९ ॥ ब्राह्मण उवाच - यदि तुष्टोऽसि मे देव देयो यदि वरो मम । उत्तरे नर्मदाकूले सदा संनिहितो भव ॥ ३४.१० ॥ ये भक्त्या परया देव योजनानां शते स्थिताः । स्मरिष्यन्ति जितात्मानस्तेषां त्वं वरदो भव ॥ ३४.११ ॥ कुब्जान्धबधिरा मूका ये केचिद्विकलेन्द्रियाः । तव पादौ नमस्यन्ति तेषां त्वं वरदो भव ॥ ३४.१२ ॥ शीर्णघ्राणा गतधियो ह्यस्थिचर्मावशेषिताः । तेषां त्वं करुणां देव अचिरेण कुरुष्व ह ॥ ३४.१३ ॥ येऽपि त्वां नर्मदातोये स्नात्वा तत्र दिने दिने । अर्चयन्ति जगन्नाथ तेषां त्वं वरदो भव ॥ ३४.१४ ॥ प्रभाते ये स्तविष्यन्ति स्तवैर्वैदिकलौकिकैः । अभिप्रेतं वरं देव तेषां त्वं दद भोच्युत ॥ ३४.१५ ॥ तवाग्रे वपनं देव कारयन्ति नरा भुवि । स्वामिंस्तेषां वरो देय एष मे परमो वरः ॥ ३४.१६ ॥ एवमस्त्विति तं चोक्त्वा मुनिं करुणया पुनः । शतभागेन राजेन्द्र स्थित्वा चादर्शनं गतः ॥ ३४.१७ ॥ तत्र तीर्थे नरो भक्त्या गत्वा स्नानं समाचरेत् । तर्पयेत्पितृदेवांश्च सोऽग्निष्टोमफलं लभेत् ॥ ३४.१८ ॥ अग्निप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप । द्योतयन्वै दिशः सर्वा अग्निलोकं स गच्छति ॥ ३४.१९ ॥ यस्तत्तीर्थं समासाद्य त्यजतीह कलेवरम् । स गतो वारुणं लोकमित्येवं शङ्करोऽब्रवीत् ॥ ३४.२० ॥ तत्र तीर्थे तु यः कश्चित्संन्यासेन तनुं त्यजेत् । षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ॥ ३४.२१ ॥ अप्सरोगणसंकीर्णे दिव्यशब्दानुनादिते । उषित्वायाति मर्त्ये वै वेदवेदाङ्गविद्भवेत् ॥ ३४.२२ ॥ व्याधिशोकविनिर्मुक्तो धनकोटिपतिर्भवेत् । पुत्रदारसमोपेतो जीवेच्च शरदः शतम् ॥ ३४.२३ ॥ प्रातरुत्थाय यस्तत्र स्मरते भास्करं तदा । आजन्मजनितात्पापान्मुच्यते नात्र संशयः ॥ ३४.२४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ऋKV अध्याय ३५ युधिष्ठिर उवाच - जलमध्ये महादेवः केन तिष्ठति हेतुना । उत्तरं दक्षिणं कूलं वर्जयित्वा द्विजोत्तम ॥ ३५.१ ॥ श्रीमार्कण्डेय उवाच - एतदाख्यानमतुलं पुण्यं श्रुतिमुखावहम् । पुराणे यच्छ्रुतं तात तत्ते वक्ष्याम्यशेषतः ॥ ३५.२ ॥ त्रेतायुगे महाभाग रावणो देवकण्टकः । त्रैलोक्यविजयी रौद्रः सुरासुरभयंकरः ॥ ३५.३ ॥ देवदानवगन्धर्वैरृषिभिश्च तपोधनैः । अवध्योऽथ विमानेन यावत्पर्यटते महीम् ॥ ३५.४ ॥ तावद्धिन्ध्यगिरेर्मध्ये दानवो बलदर्पितः । मयो नामेति विख्यातो गुहावासी तपश्चरन् ॥ ३५.५ ॥ तस्य पार्श्वगतो रक्षो विनयादवनिं गतः । पूजितो दानसन्मानैरिदं वचनमब्रवीत् ॥ ३५.६ ॥ कस्येयं पद्मपत्राक्षी पूर्णचन्द्रनिभानना । किंनामधेया तपति तप उग्रं कथं विभो ॥ ३५.७ ॥ मय उवाच - दानवानां पतिः श्रेष्ठो मयोऽहं नाम नामतः । भार्या तेजोवती नाम तस्यास्तु तनया शुभा ॥ ३५.८ ॥ मन्दोदरीति विख्याता तपते भर्तृकारणात् । आराधयन्ती भर्तारमुमाया दयितं शुभम् ॥ ३५.९ ॥ तच्छ्रुत्वा वचनं तस्य रावणो मदमोहितः । प्रसृतः प्रणतो भूत्वा मयं वचनमब्रवीत् ॥ ३५.१० ॥ पौलस्त्यान्वयसंजातो देवदानवदर्पहा । प्रार्थयामि महाभाग सुतां त्वं दातुमर्हसि ॥ ३५.११ ॥ ज्ञात्वा पैतामहं वृत्तं मयेनापि महात्मना । रावणाय सुता दत्ता पूजयित्वा विधानतः ॥ ३५.१२ ॥ गृहीत्वा तां तदा रक्षोऽभ्यर्च्यमानो निशाचरैः । देवोद्याने विमानैश्च क्रीडते स तया सह ॥ ३५.१३ ॥ केनचित्त्वथ कालेन रावणो लोकरावणः । पुत्रं पुत्रवतां श्रेष्ठो जनयामास भारत ॥ ३५.१४ ॥ तेनैव जातमात्रेण रावो मुक्तो महात्मना । संवर्तकस्य मेघस्य तेन लोका जडीकृताः ॥ ३५.१५ ॥ श्रुत्वा तन्नर्दितं घोरं ब्रह्मा लोकपितामहः । नाम चक्रे तदा तस्य मेघनादो भविष्यति ॥ ३५.१६ ॥ एवंनामा कृतः सोऽपि परमं व्रतमास्थितः । तोषयामास देवेशमुमया सह शङ्करम् ॥ ३५.१७ ॥ व्रतैर्नियमदानैश्च होमजाप्यविधानतः । कृच्छ्रचान्द्रायणैर्नित्यं कृशं कुर्वन्कलेवरम् ॥ ३५.१८ ॥ एवमन्यद्दिने तात कैलासं धरणीधरम् । गत्वा लिङ्गद्वयं गृह्य प्रस्थितो दक्षिणामुखः ॥ ३५.१९ ॥ नर्मदातटमाश्रित्य स्नातुकामो महाबलः । निक्षिप्य पूजयन् देवं कृतजाप्यो नरेश्वर ॥ ३५.२० ॥ तत्रायतनावासेन स्नातो हुतहुताशनः । कृतकृत्यमिवात्मानं मानयित्वा निशाचरः ॥ ३५.२१ ॥ गन्तुकामः परं मार्गं लङ्कायां नृपसत्तम । एकमुद्धरतो लिङ्गं प्रणतः सव्यपाणिना ॥ ३५.२२ ॥ द्वितीयं तु द्वितीयेन भक्त्या पौलस्त्यनन्दनः । तावदेव महालिङ्गं पतितं नर्मदांभसि ॥ ३५.२३ ॥ याहि याहीति चेत्युक्त्वा जलमध्ये प्रतिष्ठितः । नमित्वा रावणिस्तस्य देवस्य परमेष्ठिनः ॥ ३५.२४ ॥ जगामाकाशमाविश्य पूज्यमानो निशाचरैः । तदा प्रभृति तत्तीर्थं मेघनादेति विश्रुतम् ॥ ३५.२५ ॥ पूर्वं तु गर्जनं नाम सर्वपापक्षयंकरम् । तस्मिंस्तीर्थे तु राजेन्द्र यस्तु स्नानं समाचरेत् ॥ ३५.२६ ॥ अहोरात्रोषितो भूत्वा अश्वमेधफलं लभेत् । पिण्डदानं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ॥ ३५.२७ ॥ यत्फलं सत्त्रयज्ञेन तद्भवेन्नात्र संशयः । तेन द्वादशवर्षाणि पितरः संप्रतर्पिताः ॥ ३५.२८ ॥ यस्तु भोजयते विप्रं षड्रसात्रेन भारत । अक्षयपुण्यमाप्नोति तत्र तीर्थे नरोत्तम ॥ ३५.२९ ॥ प्राणत्यागं तु यः कुर्याद्भावितो भावितात्मना । स वसेच्छाङ्करे लोके यावदा भूतसम्प्लवम् ॥ ३५.३० ॥ एषा ते नरशार्दूल गर्जनोत्पत्तिरुत्तमा । कथिता स्नेहबन्धेन सर्वपापक्षयकरी ॥ ३५.३१ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मेघनादतीर्थमाहात्म्यवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ऋKV अध्याय ३६ मार्कण्डेय उवाच - ततो गच्छेच्च राजेन्द्र दारुतीर्थमनुत्तमम् । दारुको यत्र संसिद्ध इन्द्रस्य दयितः पुरा ॥ ३६.१ ॥ युधिष्ठिर उवाच - दारुकेण कथं तात तपश्चीर्णं पुरानघ । विधानं श्रोतुमिच्छामि त्वत्सकाशाद्द्विजोत्तम ॥ ३६.२ ॥ श्रीमार्कण्डेय उवाच - हन्त ते कथयिष्यामि विचित्रं यत्पुरातनम् । वृत्तं स्वर्गसभामध्ये ऋषीणां भावितात्मनाम् ॥ ३६.३ ॥ सूतो वज्रधरस्येष्टो मातलिर्नाम नामतः । स पुत्रं शप्तवान्पूर्वं कस्मिंश्चित्कारणान्तरे ॥ ३६.४ ॥ शापाहतो वेपमान इन्द्रस्य चरणौ शुभौ । प्रपीड्य मूर्ध्ना देवेशं विज्ञापयति भारत ॥ ३६.५ ॥ तमुवाचाभिशप्तं चाप्यनाथं च सुरेश्वरः । कर्मणा केन शापस्य घोरस्यान्तो भविष्यति ॥ ३६.६ ॥ नर्मदातटमाश्रित्य तोषयन्वै महेश्वरम् । तिष्ठ यावद्युगस्यान्तं पुनर्जन्म ह्यवाप्स्यसि ॥ ३६.७ ॥ पुनर्भूत्वा तु पूतस्त्वं दारुको नाम विश्रुतः । संसेव्य परमं देवं शङ्खचक्रगदाधरम् ॥ ३६.८ ॥ मानुषं भावमापन्नस्ततः सिद्धिमवाप्स्यसि । एवमुक्तस्तु देवेन सहस्राक्षेण धीमता ॥ ३६.९ ॥ प्रणम्य शिरसा भूमिमागतोऽसौ ह्यचेतनः । नर्मदातटमाश्रित्य कर्षयन्निजविग्रहम् ॥ ३६.१० ॥ व्रतोपवाससंखिन्नो जपहोमरतः सदा । महादेवं महात्मानं वरदं शूलपाणिनम् ॥ ३६.११ ॥ भक्त्या तु परया राजन्यावदाभूतसम्प्लवम् । अंशावतरणाद्विष्णोः सूतो भूत्वा महामतिः ॥ ३६.१२ ॥ तोषयन् वै जगन्नाथं ततो यातो हि सद्गतिम् ॥ ३६.१३ ॥ एष तत्सम्भवस्तात दारुतीर्थस्य सुव्रत । कथितोऽयं मया पूर्वं यथा मे शङ्करोऽब्रवीत् ॥ ३६.१४ ॥ ततो युधिष्ठिरः श्रुत्वा विस्मयं परमं गतः । भ्रात्ःन् विलोकयामास हृष्टरोमा मुहुर्मुहुः ॥ ३६.१५ ॥ श्रीमार्कण्डेय उवाच - तस्मिंस्तीर्थे नरः स्नात्वा विधिपूर्वं नरेश्वर । उपास्य संध्यां देवेशमर्चयेद्यश्च शङ्करम् ॥ ३६.१६ ॥ वेदाभ्यासं तु तत्रैव यः करोति समाहितः । सोऽश्वमेधफलं राजंल्लभते नात्र संशयः ॥ ३६.१७ ॥ तस्मिंस्तीर्थे तु यो भक्त्या भोजयेद्ब्राह्मणाञ्छुचिः । स तु विप्रसहस्रस्य लभते फलमुत्तमम् ॥ ३६.१८ ॥ स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् । यत्कृतं शुद्धभावेन तत्सर्वं सफलं भवेत् ॥ ३६.१९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दारुकतीर्थमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ऋKV अध्याय ३७ श्रीमार्कण्डेय उवाच - ततो गच्छेत राजेन्द्र देवतीर्थमनुत्तमम् । येन देवास्त्रयस्त्रिंशत्स्नात्वा सिद्धिं परां गताः ॥ ३७.१ ॥ युधिष्ठिर उवाच - कथं तात सुराः सर्वे दानवैर्बलवत्तरैः । निर्जितास्तत्र तीर्थे च स्नात्वा सिद्धिं परां गताः ॥ ३७.२ ॥ मार्कण्डेय उवाच - पुरा दैत्यगणैरुग्रैर्युद्धेऽतिबलवत्तरैः । इन्द्रो देवगणैः सार्द्धं स्वराज्याच्च्यावितो नृप ॥ ३७.३ ॥ हस्त्यश्वरथयानौघैर्मर्दयित्वा वरूथिनीम् । विध्वस्ता भेजिरे मार्गं प्रहारैर्जर्जरीकृताः ॥ ३७.४ ॥ जम्भशुम्भैश्च कूष्माण्डकुहकादिभिः । वेपमानार्दिताः सर्वे ब्रह्माणमुपतस्थिरे ॥ ३७.५ ॥ प्रणम्य शिरसा देवं ब्रह्माणं परमेष्ठिनम् । तदा विज्ञापयामासुर्देवा वह्निपुरोगमाः ॥ ३७.६ ॥ पश्य पश्य महाभाग दानवैः शकलीकृताः । वियोजिताः पुत्रदारैस्त्वामेव शरणं गताः ॥ ३७.७ ॥ परित्रायस्व देवेश सर्वलोकपितामह । नान्या गतिः सुरेशान त्वां मुक्त्वा परमेश्वर ॥ ३७.८ ॥ ब्रह्मोवाच - दानवानां विघातार्थं नर्मदातटमास्थिताः । तपः कुरुध्वं स्वस्थाः स्थ तपो हि परमं बलम् ॥ ३७.९ ॥ नान्योपायो न वै मन्त्रो विद्यते न च मे क्रिया । विना रेवाजलं पुण्यं सर्वपापक्षयंकरम् ॥ ३७.१० ॥ दारिद्र्यव्याधिमरणबन्धनव्यसनानि च । एतानि चैव पापस्य फलानीति मतिर्मम ॥ ३७.११ ॥ एवं ज्ञात्वा ततश्चैव तपः कुरुत दुष्करम् । तथा चैव सुराः सर्वे देवा ह्यग्निपुरोगमाः ॥ ३७.१२ ॥ तच्छ्रुत्वा वचनं तथ्यं ब्रह्मणः परमेष्ठिनः । नर्मदामागताः सर्वे देवा ह्यग्निपुरोगमाः ॥ ३७.१३ ॥ चेरुर्वै तत्र विपुलं तपः सिद्धिमवाप्नुवन् । तदाप्रभृति तत्तीर्थं देवतीर्थमनुत्तमम् ॥ ३७.१४ ॥ गीयते त्रिषु लोकेषु सर्वपापक्षयंकरम् । तत्र गत्वा च यो मर्त्यो विधिना संयतेन्द्रियः ॥ ३७.१५ ॥ स्नानं समाचरेद्भक्त्या स लभेन्मौक्तिकं फलम् । यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप ॥ ३७.१६ ॥ स लभेन्मुख्यविप्राणां फलं साहस्रिकं नृप । तत्र देवशिला रम्या महापुण्यविवर्धिनी ॥ ३७.१७ ॥ संन्यासेन मृता ये तु तेषां स्यादक्षया गतिः । अग्निप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप ॥ ३७.१८ ॥ रुद्रलोके वसेत्तावद्यावदाभूतसंप्लवम् । एवं स्नानं जपो होमः स्वाध्यायो देवतार्चनम् ॥ ३७.१९ ॥ सुकृतं दुष्कृतं वाऽपि तत्र तीर्थेऽक्षयं भवेत् । एष ते विधिरुद्दिष्ट उत्पत्तिश्चैव भारत ॥ ३७.२० ॥ देवतीर्थस्य निखिला यथा वै शङ्कराच्छ्रुता । पठन्ति ये पापहरं सर्वदुःखविमोचनम् ॥ ३७.२१ ॥ देवतीर्थस्य चरितं देवलोकं व्रजन्ति ते ॥ ३७.२२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥ ऋKV अध्याय ३८ श्रीमार्कण्डेय उवाच - ततो गच्छेत राजेन्द्र गुहावासीति चोत्तमम् । यत्र सिद्धो महादेवो गुहावासी समार्बुदम् ॥ ३८.१ ॥ युधिष्ठिर उवाच - केन कार्येण भो तात महादेवो जगद्गुरुः । गुहायामनयत्कालं सुदीर्घं द्विजसत्तम ॥ ३८.२ ॥ एतद्विस्तरतः सर्वं कथयस्व ममानघ । श्रोतुमिच्छाम्यहं सर्वपरं कौतूहलं हि मे ॥ ३८.३ ॥ मार्कण्डेय उवाच - साधु प्रश्नो महाराज पृष्टो यो वै त्वयोत्तमः । पुराणे विस्तरो ह्यस्य न शक्यो हि मयाधुना ॥ ३८.४ ॥ कथितुं वृद्धभावत्वादतीतो बहुकालिकः । संक्षेपात्तेन ते तात कथयामि निबोध मे ॥ ३८.५ ॥ पुरा कृतयुगे राजन्नासीद्दारुवनं महत् । नानाद्रुमलताकीर्णं नानावल्ल्युपशोभितम् ॥ ३८.६ ॥ सिंहव्याघ्रवराहैश्च गजैः खड्गैर्निषेवितम् । बहुपक्षियुतं दिव्यं यथा चैत्ररथं वनम् ॥ ३८.७ ॥ तत्र केचिन्महाप्राज्ञा वसन्ति संशितव्रताः । वसन्ति परया भक्त्या चतुराश्रमभाविताः ॥ ३८.८ ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । स्वधर्मनिरताः सर्वे वाञ्छन्तः परमं पदम् ॥ ३८.९ ॥ तावद्वसन्तसमये कस्मिंश्चित्कारणान्तरे । विमानस्थो महादेवो गच्छन्वै ह्युमया सह ॥ ३८.१० ॥ ददर्श तोय आवासमृक्सामयजुर्नादितम् । अलक्ष्यागतनिर्गम्यं सर्वपापक्षयंकरम् ॥ ३८.११ ॥ तं दृष्ट्वा मुदिता देवी हर्षगङ्गदया गिरा । पप्रच्छ देवदेवेशं शशाङ्ककृतभूषणम् ॥ ३८.१२ ॥ देव्युवाच - कस्यायमाश्रमो देव वेदध्वनिनिनादितः । यं दृष्ट्वा क्षुत्पिपासाद्यैः श्रमैश्च परिहीयते ॥ ३८.१३ ॥ महेश्वर उवाच - किं त्वया न श्रुतं देवि महादारुवनं महत् । बहुविप्रजनो यत्र गृहधर्मेण वर्तते ॥ ३८.१४ ॥ अत्र यः स्त्रीजनः कश्चिद्भर्तृशुश्रूषणे रतः । नान्यो देवो न वै धर्मो ज्ञायते शैलनन्दिनि ॥ ३८.१५ ॥ एतच्छ्रुत्वा परं वाक्यं देवदेवेन भाषितम् । कौतूहलसमाविष्टा शङ्करं पुनरब्रवीत् ॥ ३८.१६ ॥ यत्त्वयोक्तं महादेव पतिधर्मरताः स्त्रियः । तासां त्वं मदनो भूत्वा चारित्रं क्षोभय प्रभो ॥ ३८.१७ ॥ ईश्वर उवाच - यत्त्वयोक्तं च वचनं न हि मे रोचते प्रिये । ब्राह्मणा हि महद्भूतं न चैषां विप्रियं चरेत् ॥ ३८.१८ ॥ मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः । चक्रात्क्रूरतरो मन्युस्तस्माद्विप्रं न कोपयेत् ॥ ३८.१९ ॥ न ते देवा न ते लोका न ते नगा न चासुराः । दृश्यन्ते त्रिषु लोकेषु ये तैर्दृष्टैर्न नाशिताः ॥ ३८.२० ॥ तेषां मोक्षस्तथा स्वर्गो भूमिर्मर्त्ये फलानि च । येषां तुष्टा महाभागा ब्राह्मणाः क्षितिदेवताः ॥ ३८.२१ ॥ एवं ज्ञात्वा महाभागे असद्ग्राहं परित्यज । तत्र लोके विरुद्धं वै कुप्यन्ते येन वै द्विजाः ॥ ३८.२२ ॥ देव्युवाच - नाहं ते दयिता देव नाहं ते वशवर्तिनी । अकृत्वाधश्व वै तासां मानं सुरसुपूजितम् ॥ ३८.२३ ॥ लोकलोके महादेव अशक्यं नास्ति ते प्रभो । क्रियतां मम चैवैकमेतत्कार्यं सुरोत्तम ॥ ३८.२४ ॥ एवमुक्तो महादेवो देव्या वाक्यहिते रतः । कृत्वा कापालिकं रूपं ययौ दारुवनं प्रति ॥ ३८.२५ ॥ महाहितजटाजूटं नियम्य शशिभूषणम् । कण्ठत्राणं परं कृत्वा धारयन् कर्णकुण्डले ॥ ३८.२६ ॥ व्याघ्रचर्मपरीधानो मेखलाहारभूषितः । नूपुरध्वनिनिघोषैः कम्पयन् वै वसुंधराम् ॥ ३८.२७ ॥ महानूर्द्ध्वजटामाली कृत्तिभस्मानुलेपनः । कृत्वा हस्ते कपालं तु ब्रह्मणश्च महात्मनः ॥ ३८.२८ ॥ महाडमरुघोषेण कम्पयन् वै वसुंधराम् । प्रभातसमये प्राप्तो महादारुवनं प्रति ॥ ३८.२९ ॥ तावत्पुण्यजनः सर्वपुष्पपत्रफलार्थिकः । निर्गतो बहुभिः सार्द्धं पवमानः समन्ततः ॥ ३८.३० ॥ तद्दृष्ट्वा महदाश्चर्यं रूपं देवस्य भारत । युवतीनां मनस्तासां कामेन कलुषीकृतम् ॥ ३८.३१ ॥ शोभनं पुरुषं दृष्ट्वा सर्वा अपि वराङ्गनाः । क्लेदभावं ततो जग्मुर्मुदा दारुवनस्त्रियः ॥ ३८.३२ ॥ विकारा बहवस्तासां देवं दृष्ट्वा महाद्भुतम् । संजाता विप्रपत्नीनां तदा तासु नरोत्तम ॥ ३८.३३ ॥ परिधानं न जानन्ति काश्चिद्दृष्ट्वा वराङ्गनाः । उत्तरीयं तथा चान्या महामोहसमन्विताः ॥ ३८.३४ ॥ केशभारपरिभ्रष्टा काचिदेवासनोत्थिता । दातुकामा तदा भैक्ष्यं चेष्टितुं नैव चाशकत् ॥ ३८.३५ ॥ काचिद्दृष्ट्वा महादेवं रूपयौवनगर्विता । उत्सङ्गे संस्थितं बालं विस्मृता पायितुं स्तनम् ॥ ३८.३६ ॥ कामबाणहता चान्या बाहुभ्यां पीड्य सुस्तनौ । निःश्वसन्ती तदा चोष्णं न किंचित्प्रतिजल्पति ॥ ३८.३७ ॥ एवं संक्षोभ्य तं सर्वं स्त्रीजनं परमेश्वरः । जगाम तत्र वै तासां क्षोभं कृत्वा महाद्भुतम् ॥ ३८.३८ ॥ तावत्ते ब्राह्मणाः सर्वे भ्रमित्वा काननं महत् । आगताः स्वगृहे दारान् ददृशुश्च हतौजसः ॥ ३८.३९ ॥ यासां पूर्वतरा भक्तिः पातिव्रत्ये पतीन्प्रति । चलितास्ता विदित्वाशु निर्जग्मुर्द्विजसत्तमाः ॥ ३८.४० ॥ संविदं परमां कृत्वा ज्ञात्वा देवं महेश्वरम् । क्षोभयित्वा मनस्तासां ततश्चादर्शनं गतम् ॥ ३८.४१ ॥ क्रोधाविष्टो द्विजः कश्चिद्दण्डमुद्यम्य धावति । कल्माषयष्टिमन्ये च तथान्ये दर्भमुष्टिकाम् ॥ ३८.४२ ॥ इतश्चेतश्च ते सर्वे भ्रमित्वा काननं नृप । एकीभूत्वा महात्मानो व्याजह्रुश्च रुषा गिरम् ॥ ३८.४३ ॥ यदिदं च हुतं किंचिद्गुरवस्तोषिता यदि । तेन सत्येन देवस्य लिङ्गं पततु चोत्तमम् ॥ ३८.४४ ॥ आश्रमादाश्रमं सर्वे न त्यजामो विधिक्रमात् । तेन सत्येन देवस्य लिङ्गं पततु भूतले ॥ ३८.४५ ॥ एवं सत्यप्रभावेन त्रिरुक्तेन द्विजन्मनाम् । शिवस्य पश्यतो लिङ्गं पतितं धरणीतले ॥ ३८.४६ ॥ हाहाकारो महानासील्लोकालोकेऽपि भारत । देवस्य पतिते लिङ्गे जगतश्च महाक्षये ॥ ३८.४७ ॥ पतमानस्य लिङ्गस्य शब्दोऽभूच्च सुदारुणः । उल्कापाता दिशां हाहा भूमिकम्पाश्च दारुणाः ॥ ३८.४८ ॥ पतन्ति पर्वताग्राणि शोषं यान्ति च सागराः । देवस्य पतिते लिङ्गे देवा विमनसोऽभवन् ॥ ३८.४९ ॥ समेत्य सहिताः सर्वे ब्रह्माणं परमेष्ठिनम् । कृताञ्जलिपुटाः सर्वे स्तुवन्ति विविधैः स्तवैः ॥ ३८.५० ॥ ततस्तुष्टो जगन्नाथश्चतुर्वदनपङ्कजः । आर्तान्प्राह सुरान्सर्वान्मा विषादं गमिष्यथ ॥ ३८.५१ ॥ ब्रह्मशापाभिभूतोऽसौ देवदेवस्त्रिलोचनः । तुष्टैस्तैस्तपसा युक्तैः पुनर्मोक्षं गमिष्यति ॥ ३८.५२ ॥ एतच्छ्रुत्वा ययुर्देवा यथागतमरिन्दम । भावयित्वा ततः सर्वे मुनयश्चैव भारत ॥ ३८.५३ ॥ विश्वामित्रवसिष्ठाद्या जाबालिरथ कश्यपः । समेत्य सहिताः सर्वे तमूचुस्त्रिपुरान्तकम् ॥ ३८.५४ ॥ ब्रह्मतेजो हि बलवद्द्विजानां हि सुरेश्वर । क्षान्तियुक्तस्तपस्तप्त्वा भविष्यसि गतक्लमः ॥ ३८.५५ ॥ यतः क्षोभादृषीणां च तदेवं लिङ्गमुत्तमम् । पतितं ते महादेव न तत्पूज्यं भविष्यति ॥ ३८.५६ ॥ न तच्छ्रेयोऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते । प्राप्नुवन्ति च यच्छ्रेयो मानवा लिङ्गपूजने ॥ ३८.५७ ॥ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । वचनेन तु विप्राणामेतत्पूज्यं भविष्यति ॥ ३८.५८ ॥ ब्रह्मविष्ण्विन्द्रचन्द्राणामेतत्पूज्यं भविष्यति । यत्फलं तव लिङ्गस्य इह लोके परत्र च ॥ ३८.५९ ॥ एवमुक्तो जगन्नाथः प्रणिपत्य द्विजोत्तमान् । मुदा परमया युक्तः कृताञ्जलिरभाषत ॥ ३८.६० ॥ ब्राह्मणा जङ्गमं तीर्थं निर्जलं सार्वकामिकम् । येषां वाक्योदकेनैव शुध्यन्ति मलिनो जनाः ॥ ३८.६१ ॥ न तत्क्षेत्रं न तत्तीर्थमूषरं पुष्कराणि च । ब्राह्मणे मन्युमुत्पाद्य यत्र गत्वा स शुध्यति ॥ ३८.६२ ॥ न तच्छास्त्रं यन्न विप्रप्रणीतं न तद्दानं यन्न विप्रप्रदेयम् । न तत्सौख्यं यन्नविप्रप्रसादान्न तद्दुःखं यन्न विप्रप्रकोपात् ॥ ३८.६३ ॥ पृथिव्यां यानि तीर्थानि गङ्गाद्याः सरितस्तथा । एकस्य विप्रवाक्यस्य कलां नार्हन्ति षोडशीम् ॥ ३८.६४ ॥ अभिनन्द्य द्विजान्सर्वाननुज्ञातो महर्षिभिः । ततोऽगमत्तदा देवो नर्मदातटमुत्तमम् ॥ ३८.६५ ॥ परमं व्रतमास्थाय गुहावासी समार्बुदम् । तपश्चचार भगवाञ्जपस्नानरतः सदा ॥ ३८.६६ ॥ समाप्ते नियमे तात स्थापयित्वा महेश्वरम् । वन्द्यमानः सुरैः सार्द्धं कैलासमगमत्प्रभुः ॥ ३८.६७ ॥ नर्मदायास्तटे तेन स्थापितः परमेश्वरः । तेनैव कारणेनासौ नर्मदेश्वर उच्यते ॥ ३८.६८ ॥ योऽर्चयेन्नर्मदेशानं यतिर्वै संजितेन्द्रियः । स्नात्वा चैव महादेवमश्वमेधफलं लभेत् ॥ ३८.६९ ॥ ददाति यः पितृभ्यस्तु तिलपुष्पकुशोदकम् । त्रिःसप्तपूर्वजास्तस्य स्वर्गे मोदन्ति पाण्डव ॥ ३८.७० ॥ यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप । पायसं घृतमिश्रं तु स लभेत्कोटिजं फलम् ॥ ३८.७१ ॥ सुवर्णं रजतं वापि ब्राह्मणेभ्यो युधिष्ठिर । ददाति तोयमध्यस्थः सोऽग्निष्टोमफलं लभेत् ॥ ३८.७२ ॥ अष्टम्यांवा चतुर्दश्यां निराहारो वसेत्तु यः । नर्मदेश्वरमासाद्य प्राप्नुयाज्जन्मनः फलम् ॥ ३८.७३ ॥ अग्निप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप । तस्य व्याधिभयं न स्यात्सप्तजन्मसु भारत ॥ ३८.७४ ॥ अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । अनिवर्तिका गतिस्तस्य रुद्रलोके भविष्यति ॥ ३८.७५ ॥ एष ते विधिरुद्दिष्टस्तस्योत्पत्तिर्नरोत्तम । पुराणे विहिता तात संज्ञा तस्य तु विस्तरात् ॥ ३८.७६ ॥ एतं कीर्तयते यस्तु नर्मदेश्वरसम्भवम् । भक्त्या शृणोति च नरः सोऽपि स्नानफलं लभेत् ॥ ३८.७७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ऋKV अध्याय ३९ श्रीमार्कण्डेय उवाच - ततो गच्छेच्च राजेन्द्र कपिलातीर्थमुत्तमम् । स्नानमात्रान्नरो भक्त्या मुच्यते सर्वकिल्बिषैः ॥ ३९.१ ॥ युधिष्ठिर उवाच - आश्चर्यभूतं लोकेषु कथितं द्विजसत्तम । नर्मदेश्वरमाहात्म्यं कापिलं कथयस्व मे ॥ ३९.२ ॥ यस्मिन् कालेऽथ सम्बन्धे उत्पन्नं तीर्थमुत्तमम् । सर्वपापहरं पुण्यं तीर्थं जातं कथं प्रभो ॥ ३९.३ ॥ मार्कण्डेय उवाच - शृणु वक्ष्येऽद्य ते राजन्कपिलातीर्थमुत्तमम् । येन ते विस्मयः सर्वः श्रुत्वा गच्छति भारत ॥ ३९.४ ॥ पुरा कृतयुगस्यादौ ब्रह्मा लोकपितामहः । उत्पादयित्वा सकलं भूतग्रामं चतुर्विधम् ॥ ३९.५ ॥ जपहोमपरो भक्त्या क्षणं ध्यात्वा च तिष्ठति । ज्वलमानात्तु कपिला तावत्कुण्डात्समुत्थिता ॥ ३९.६ ॥ अग्निज्वालोज्ज्वलैः शृङ्गैस्त्रिनेत्रा सुपयस्विनी । अग्निपूर्णा ह्यग्निमुखा अग्निघ्राणाग्निलोचना ॥ ३९.७ ॥ अग्निखुरा ह्यग्निपृष्ठा अग्निसर्वाङ्गसंस्थितिः । सर्वलक्षणसम्पूर्णा घण्टाललितनिःस्वना ॥ ३९.८ ॥ दृष्ट्वा तु तां महाभागां कपिलां कुण्डमध्यगाम् । ब्रह्मा लोकगुरुस्तात प्रणम्येदमुवाच ह ॥ ३९.९ ॥ नमस्ते कपिले पुण्ये सर्वलोकनमस्कृते । मङ्गल्ये मङ्गले देवि त्रिषु लोकेष्वनुपमे ॥ ३९.१० ॥ त्वं लक्ष्मीस्त्वं स्मृतिर्मेधा त्वं धृतिस्त्वं वरानने । उमादेवीति विख्याता त्वं सती नात्र संशयः ॥ ३९.११ ॥ वैष्णवी त्वं महादेवी ब्रह्माणी त्वं वरानने । कुमारी त्वं महाभागे भक्तिः श्रद्धा तथैव च ॥ ३९.१२ ॥ कालरात्रिस्तु भूतानां कुमारी परमेश्वरी । त्वं लवस्त्वं त्रुटिश्चैव मुहूर्तं लक्षमेव च ॥ ३९.१३ ॥ संवत्सरस्त्वं मासस्त्वं कालस्त्वं च क्षणस्तथा । नास्ति किंचित्त्वया हीनं त्रैलोक्ये सचराचरे ॥ ३९.१४ ॥ एवं स्तुता तु मानेन कपिला परमेष्ठिना । तमुवाच महाभागं प्रहृष्य पद्मसम्भवम् ॥ ३९.१५ ॥ प्रसन्ना तव वाक्येन देवदेव जगद्गुरो । किं करोमि प्रियं तेऽद्य ब्रूहि सर्वं पितामह ॥ ३९.१६ ॥ ब्रह्मोवाच - जगद्धिताय जनिता मया त्वं परमेश्वरि । स्वर्गान्मर्त्यं ततो याहि लोकानां हितकाम्यया ॥ ३९.१७ ॥ सर्वदेवमयी त्वं तु सर्वलोकमयी तथा । विधिना ये प्रदास्यन्ति तेषां वासस्त्रिविष्टपे ॥ ३९.१८ ॥ एवमुक्त्वा ततो देवी ब्रह्माणं परमेश्वरी । वन्द्यमाना सुरैः सिद्धैराजगाम धरातलम् ॥ ३९.१९ ॥ युधिष्ठिर उवाच - यदायातेह सा तात ब्राह्मणो वचनाच्छुभा । तदा देवाश्च लोकाश्च कथमङ्गेषु संस्थिताः ॥ ३९.२० ॥ कथं वा संस्थितागत्य कपिला सा द्विजोत्तम । तीर्थे वा ह्यूषरे क्षेत्र एतन्मे कथय द्विज ॥ ३९.२१ ॥ मार्कण्डेय उवाच - सा तदा ब्रह्मणा चोक्ता धात्रा लोकस्य भारत । ब्रह्मलोकाद्गता पुण्यां नर्मदां लोकपावनीम् ॥ ३९.२२ ॥ तपः कृत्वा सुविपुलं नर्मदातटमाश्रिता । चचार पृथिवीं सर्वां सशैलवनकाननाम् ॥ ३९.२३ ॥ तदाप्रभृति राजेन्द्र कपिलातीर्थमुत्तमम् । सर्वपापहरं ख्यातमृषिसङ्घैर्निषेवितम् ॥ ३९.२४ ॥ तत्तीर्थे विधिवत्स्नात्वा कपिलायाः प्रयच्छति । पृथ्वी तेन भवेद्दत्ता सशैलवनकानना ॥ ३९.२५ ॥ तां तु पश्यति यो भक्त्या दीयमानां द्विजोत्तमे । तस्य वर्षशतं पापं नश्यते नात्र संशयः ॥ ३९.२६ ॥ भूर्भुवः स्वर्महश्चैव जनः सत्यं तपस्तथा । ते तत्पृष्ठं समाश्रित्य स्थिता लोका नृपोत्तम ॥ ३९.२७ ॥ मुखे ह्यग्निः स्थितो देवो दन्तेषु च भुजङ्गमाः । धाता विधाता ह्योष्ठौ च जिह्वायां तु सरस्वती ॥ ३९.२८ ॥ सहस्रकिरणौ देवौ चन्द्रादित्यौ सुलोचनौ । नासिकामध्यगश्चैव मारुतो नृपसत्तम ॥ ३९.२९ ॥ ललाटे तु महादेवो ह्यश्विनौ कर्णसंस्थितौ । नरनारायणौ शृङ्गे शृङ्गमध्ये पितामहः ॥ ३९.३० ॥ कम्बलोऽधिगतस्तात पाशधृग्वरुणस्तथा । यमश्च भगवान्देव आश्रित्य चोदरं श्रितः ॥ ३९.३१ ॥ खुरेषु पन्नगाश्चैवं पुच्छाग्रे सूर्यरश्मयः । एवम्भूतां हि कपिलां सर्वदेवमयीं नृप ॥ ३९.३२ ॥ ये धारयन्ति च गृहे धन्यास्ते नात्र संशयः । प्रातरुत्थाय यस्तस्याः कुरुते तु प्रदक्षिणाम् ॥ ३९.३३ ॥ प्रदक्षिणा कृता तेन सशैलवनकानना । कपिलापञ्चगव्येन यः स्नापयति शङ्करम् ॥ ३९.३४ ॥ उपवासपरो यस्तु तस्मिंस्तीर्थे नराधिप । स्नात्वा ह्युक्तविधानेन तर्पयेत्पितृदेवताः ॥ ३९.३५ ॥ तस्य ते वंशजाः सर्वे दश पूर्वे दशापरे । तृप्ता रोहन्ति वै स्वर्गे ध्यायन्तोऽस्य मनोरथान् ॥ ३९.३६ ॥ एष ते विधिरुद्दिष्टः सम्भवो नृपसत्तम । तीर्थस्य च फलं पुण्यं किमन्यत्परिपृच्छसि ॥ ३९.३७ ॥ धन्यं यशस्यमायुष्यं सर्वदुःखघ्नमुत्तमम् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ३९.३८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये कपिलातीर्थमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ऋKV अध्याय ४० श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र करञ्जेश्वरमुत्तमम् । यत्र सिद्धो महाभागो दैत्यो लोकेषु विश्रुतः ॥ ४०.१ ॥ युधिष्ठिर उवाच - योऽसौ सिद्धो महाभाग तत्र तीर्थे महातपाः । कस्य पुत्रः कथं सिद्धः कस्मिन्काले वद द्विज ॥ ४०.२ ॥ मार्कण्डेय उवाच - पुरा कृतयुगे राजन्मानसो ब्रह्मणः सुतः । वेदवेदाङ्गतत्त्वज्ञो मरीचिर्नाम नामतः ॥ ४०.३ ॥ तस्यापि तपसो राशेः कालेन महतानघ । पुत्रोऽथ मानसो जातः साक्षाद्ब्रह्मेव चापरः ॥ ४०.४ ॥ क्षमा दमो दया दानं सत्यं शौचमथार्जवम् । मरीचेश्च गुणा ह्येते सन्ति तस्य च भारत ॥ ४०.५ ॥ एवं गुणगणाकीर्णं कश्यपं द्विजसत्तमम् । ज्ञात्वा प्रजापतिर्दक्षो भार्यार्थे स्वसुतां ददौ ॥ ४०.६ ॥ अदितिर्दितिर्दनुश्चैव तथाप्येवं दशापराः । यासां पुत्राश्च संजाताः पौत्राश्च भरतर्षभ ॥ ४०.७ ॥ अदितिर्जनयामास पुत्रानिन्द्रपुरोगमान् । जातास्तस्य महाबाहो कश्यपस्य प्रजापतेः ॥ ४०.८ ॥ यैस्तु लोकत्रयं व्याप्तं स्थावरं जङ्गमं महत् । तथान्यस्य महाभागो दनोः पुत्रो व्यजायत ॥ ४०.९ ॥ सर्वलक्षणसम्पन्नः करञ्जो नाम नामतः । बाल एव महाभाग चचार स महत्तपः ॥ ४०.१० ॥ नर्मदातटमाश्रित्य चातिघोरमनुत्तमम् । दिव्यं वर्षसहस्रं च कृच्छ्रचान्द्रायणं नृप ॥ ४०.११ ॥ शाकमूलफलाहारः स्नानहोमपरायणः । ततस्तुष्टो महादेव उमया सहितः किल ॥ ४०.१२ ॥ वरेण छन्दयामास त्रिपुरान्तकरः प्रभुः । भोः करञ्ज महासत्त्व परितुष्टोऽस्मि तेऽनघ ॥ ४०.१३ ॥ वरं वृणीष्व ते दद्मि ह्यमरत्वमृते मम ॥ ४०.१४ ॥ करञ्ज उवाच - यदि तुष्टो महादेव यदि देयो वरो मम । तर्हि पुत्राश्च पौत्राश्च सन्तु मे धर्मवत्सलाः ॥ ४०.१५ ॥ तथेत्युक्त्वा महादेव उमया सहितस्तदा । वृषारूढो गणैः सार्द्धं तत्रैवान्तरधीयत ॥ ४०.१६ ॥ गते चादर्शनं देवे सोऽपि दैत्यो मुदान्वितः । स्वनाम्नात्र महादेवं स्थापयित्वा ययौ गृहम् ॥ ४०.१७ ॥ तदाप्रभृति तत्तीर्थं सर्वतीर्थेष्वनुत्तमम् । स्नानमात्रानरस्तत्र मुच्यते सर्वपातकैः ॥ ४०.१८ ॥ तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः । सोऽग्निष्टोमस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥ ४०.१९ ॥ अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । अनिवर्त्या गतिस्तस्य रुद्रलोकं स गच्छति ॥ ४०.२० ॥ अथवाग्निजले प्राणान्यस्त्यजेद्धर्मनन्दन । अयुतद्वितयं वस्ते वर्षाणां शिवमन्दिरे ॥ ४०.२१ ॥ ततश्चैव क्षये जाते जायते विमले कुले । वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः ॥ ४०.२२ ॥ राजा वा राजतुल्यो वा जीवेच्च शरदः शतम् । पुत्रपौत्रसमोपेतः सर्वव्याधिविवर्जितः ॥ ४०.२३ ॥ एवं ते सर्वमाख्यातं पृष्टं यद्यत्त्वयानघ । तीर्थस्य तु फलं तस्य स्नानदानेषु भारत ॥ ४०.२४ ॥ एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् । पठतां शृण्वतां चैव तीर्थमाहात्म्यमुत्तमम् ॥ ४०.२५ ॥ यस्तु श्रावयते श्राद्धे पठेत्पितृपरायणः । अक्षयं जायते पुण्यमित्येवं शङ्करोऽब्रवीत् ॥ ४०.२६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये करञ्जेश्वरतीर्थमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः ॥ ऋKV अध्याय ४१ श्रीमार्कण्डेय उवाच - ततो गच्छेच्च राजेन्द्र कुण्डलेश्वरमुत्तमम् । यत्र सिद्धो महायक्षः कुण्डधारो नृपोत्तम ॥ ४१.१ ॥ तपः कृत्वा सुविपुलं सुरासुरभयंकरम् । पौलस्त्यमन्दिरे चैव चिक्रीड नृपसत्तम ॥ ४१.२ ॥ युधिष्ठिर उवाच - कस्मिन्युगे समुत्पन्नः कस्य पुत्रो महामतिः । तपस्तप्त्वा सुविपुलं तोषितो येन शङ्करः ॥ ४१.३ ॥ एतद्विस्तरतस्तात कथयस्व ममानघ । शृण्वतश्च न तृप्तिर्मे कथामृतमनुत्तमम् ॥ ४१.४ ॥ श्रीमार्कण्डेय उवाच - त्रेतायुगे ब्रह्मसमः पौलस्त्योनाम विश्रवाः । तपः कृत्वा सुविपुलं भरद्वाजसुतोद्भवः ॥ ४१.५ ॥ पुत्रं पौत्रगणैर्युक्तं पत्न्या भक्त्या सुतोषितः । धनदं जनयामास सर्वलक्षणलक्षितम् ॥ ४१.६ ॥ जातमात्रं तु तं ज्ञात्वा ब्रह्मा लोकपितामहः । चकार नाम सुप्रीत ऋषिदेवसमन्वितः ॥ ४१.७ ॥ यस्माद्विश्रवसो जातो मम पौत्रत्वमागतः । तस्माद्वैश्रवणो नाम तव दत्तं मयानघ ॥ ४१.८ ॥ तथा त्वं सर्वदेवानां धनगोप्ता भविष्यसि । चतुर्थो लोकपालानामक्षयश्चाव्ययो भुवि ॥ ४१.९ ॥ तस्य भार्या महाराज ईश्वरीति च विश्रुता । यक्षो यक्षाधिपः श्रेष्ठस्तस्य कुण्डोऽभवत्सुतः ॥ ४१.१० ॥ स च रूपं परं प्राप्य मातापित्रोरनुज्ञया । तपश्चचार विपुलं नर्मदातटमाश्रितः ॥ ४१.११ ॥ ग्रीष्मे पञ्चाग्निसंतप्तो वर्षासु स्थण्डिलेशयः । हेमन्ते जलमध्यस्थो वायुभक्षः शतं समाः ॥ ४१.१२ ॥ एवं वर्षशते पूर्णे एकाङ्गुष्ठेऽभवन्नृप । अस्थिभूतः परं तात ऊर्ध्वबाहुस्ततः परम् ॥ ४१.१३ ॥ अतपच्च घृतश्वासः कुण्डलो भरतर्षभ । चतुर्थे वर्षशतके तुतोष वृषवाहनः ॥ ४१.१४ ॥ वरं वृणीष्व भो वत्स यत्ते मनसि रोचते । ददामि ते न सन्देहस्तपसा तोषितो ह्यहम् ॥ ४१.१५ ॥ कुण्डल उवाच - यक्षाधिपप्रसादेन तस्यैवानुचरः पुरे । विचरामि यथाकाममवध्यः सर्वशत्रुषु ॥ ४१.१६ ॥ तथेत्युक्त्वा महादेवः सर्वलोकनमस्कृतः । जगामाकाशमाविश्य कैलासं धरणीधरम् ॥ ४१.१७ ॥ गते चादर्शनं देवे सोऽपि यक्षो मुदान्वितः । स्थापयामास देवेशं कुण्डलेश्वरमुत्तमम् ॥ ४१.१८ ॥ अलंकृत्वा जगन्नाथं पुष्पधूपानुलेपनैः । विमानैश्चामरैश्छत्रैस्तथा वै लिङ्गपूरणैः ॥ ४१.१९ ॥ तर्पयित्वा द्विजान्सम्यगन्नपानादिभूषणैः । प्रीणयित्वा महादेवं ततः स्वभवनं ययौ ॥ ४१.२० ॥ तदाप्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम् । उत्तमं परमं पुण्यं कुण्डलेश्वरनामतः ॥ ४१.२१ ॥ तत्र तीर्थे तु यः कश्चिदुपवासपरायणः । अर्चयेद्देवमीशानं सर्वपापैः प्रमुच्यते ॥ ४१.२२ ॥ सुवर्णं रजतं वापि मणिं मौक्तिकमेव च । दद्याद्भोज्यं ब्राह्मणेभ्यः स सुखी मोदते दिवि ॥ ४१.२३ ॥ तत्र तीर्थे तु यः स्नात्वा ऋग्यजुःसामगोऽपि वा । ऋचमेकां जपित्वा तु सकलं फलमश्नुते ॥ ४१.२४ ॥ गां प्रयच्छति विप्रेभ्यस्तत्फलं शृणु पाण्डव । यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ॥ ४१.२५ ॥ तावद्वर्षसहस्राणि स्वर्गलोके महीयते । स्वर्गे वासो भवेत्तस्य पुत्रपौत्रैः समन्वितः ॥ ४१.२६ ॥ तावन्ति वर्षाणि महानुभावः स्वर्गे वसेत्पुत्रपौत्रैश्च सार्द्धम् । तत्रान्नदो याति महेशलोकमसंख्यवर्षाणि न संशयोऽत्र ॥ ४१.२७ ॥ स वै सुखी मोदते स्वर्गलोके गन्धर्वसिद्धाप्सरःसम्प्रगीते । एवं तु ते धर्मसुत प्रभावस्तीर्थस्य सर्वः कथितश्च पार्थ ॥ ४१.२८ ॥ श्रुत्वा स्तुवन्मुच्यते सर्वपापैः पुनस्त्रिलोकीमिह तत्प्रभावात् ॥ ४१.२९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कुण्डलेश्वरतीर्थमाहात्म्यवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ऋKV अध्याय ४२ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र पिप्पलेश्वरमुत्तमम् । यत्र सिद्धो महायोगी पिप्पलादो महातपाः ॥ ४२.१ ॥ युधिष्ठिर उवाच - पिप्पलादस्य चरितं श्रोतुमिच्छाम्यहं विभो । माहात्म्यं तस्य तीर्थस्य यत्र सिद्धो महातपाः ॥ ४२.२ ॥ कस्य पुत्रो महाभाग किमर्थं कृतवांस्तपः । एतद्विस्तरतः सर्वं कथयस्व ममानघ ॥ ४२.३ ॥ मार्कण्डेय उवाच - मिथिलास्थो महाभागो वेदवेदाङ्गपारगः । याज्ञवल्क्यः पुरा तात चचार विपुलं तपः ॥ ४२.४ ॥ तापसी तस्य भगिनी याज्ञवल्क्यस्य धीमतः । सा सप्तमेऽपि वर्षे च वैधव्यं प्राप दैवतः ॥ ४२.५ ॥ पूर्वकर्मविपाकेन हीनाभूत्पितृमातृतः । नाभूत्तत्पतिपक्षेऽपि कोऽपीत्येकाकिनी स्थिता ॥ ४२.६ ॥ भूमौ भ्रमन्ती भ्रातुः सा समीपमगमच्छनैः । चचार च तपः सोऽपि परलोकसुखेप्सया ॥ ४२.७ ॥ चचार सापि तत्रस्था शुश्रूषन्ती महत्तपः । कस्मिंश्चित्समये साथ स्नाताहनि रजस्वला ॥ ४२.८ ॥ अन्तर्वासो धृतवती दृष्ट्वा कर्पटकं रहः । याज्ञवल्क्योऽपि तद्रात्रौ सुप्तो यत्र सुसंवृतः ॥ ४२.९ ॥ स्वप्नं दृष्ट्वात्यजच्छुक्रं कौपीने रक्तबिन्दुवत् । विराजितेन तपसा सिद्धं तदनलप्रभम् ॥ ४२.१० ॥ यावत्प्रबुद्धो विप्रोऽसौ वीक्ष्योच्छिष्टं तदंशुकम् । चिक्षेप दूरतोऽस्पृश्यं शौचं कृत्वा विधानतः ॥ ४२.११ ॥ निषिद्धं तु निशि स्नानमिति सुष्वाप स द्विजः । निशीथे सापि तद्वस्त्रं भगस्यावरणं व्यधात् ॥ ४२.१२ ॥ प्रातरन्वेषयामास मुनिर्वस्त्रमितस्ततः । ततः सा ब्राह्मणी प्राह किं अन्वेषयसे प्रभो । केन कार्यं तव तथा वदस्व मम तत्त्वतः ॥ ४२.१३ ॥ याज्ञवल्क्य उवाच - अपवित्रो मया भद्रे स्वप्नो दृष्टोऽद्य वै निशि । सक्लेदं तत्र मे वस्त्रं निक्षिप्तं तन्न दृश्यते ॥ ४२.१४ ॥ तच्छ्रुत्वा ब्राह्मणी वाक्यं भीतभीतावदन्नृप । तद्वस्त्रं तु मया विप्र स्नात्वा ह्यन्तः कृतं महत् ॥ ४२.१५ ॥ तस्यास्तद्वचनं श्रुत्वा हाहेत्युक्त्वा महामुनिः । निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥ ४२.१६ ॥ किमेतदिति सेत्युक्त्वा ह्याकाशमिव निर्मला । आश्वासयन्ती तं विप्रं प्रोवाच वचनं तदा ॥ ४२.१७ ॥ वदस्व कारणं तात गुह्याद्गुह्यतरं यदि । प्रतीकारोऽस्य येनैव विमृश्य क्रियते त्वरा ॥ ४२.१८ ॥ ततः स सुचिरं ध्यात्वा लब्धवाग्वै ततः क्षणम् । प्रोवाच साध्वसमना यत्तच्छृणु नरेश्वर ॥ ४२.१९ ॥ नात्र दोषोऽस्ति ते कश्चिन्मम चैव शुभव्रते । तवोदरे तु गर्भो यस्तत्र दैवं परायणम् ॥ ४२.२० ॥ तस्य तत्त्वेन रक्षा च त्वया कार्या सदैव हि । विनाशी नैव कर्तव्यो यावत्कालस्य पर्ययः ॥ ४२.२१ ॥ तथेति व्रीडिता साध्वी दूयमानेन चेतसा । अपालयच्च तं गर्भं यावत्पुत्रो ह्यजायत ॥ ४२.२२ ॥ जातमात्रं च तं गर्भं गृहीत्वा ब्राह्मणी च सा । अश्वत्थच्छायामाश्रित्य तमुत्सृज्य वचोऽब्रवीत् ॥ ४२.२३ ॥ यानि सत्त्वानि लोकेषु स्थावराणि चराणि च । तानि सर्वाणि रक्षन्तु त्यक्तं वै बालकं मया ॥ ४२.२४ ॥ एवमुक्त्वा गता सा तु ब्राह्मणी नृपसत्तम । तथागतः स तु शिशुस्तत्र स्थित्वा मुहूर्तकम् ॥ ४२.२५ ॥ पाणिपादौ विनिक्षिप्य निकुञ्च्य नयने शुभे । आस्यं तु विकृतं कृत्वा रुरोद विकृतैः स्वरैः ॥ ४२.२६ ॥ तेन शब्देन वित्रस्ताः स्थावरा जङ्गमाश्च ये । आकम्पिता महोत्पातैः सशैलवनकानना ॥ ४२.२७ ॥ ततो ज्ञात्वा महद्भूतं क्षुधाविष्टं द्विजर्षभम् । न जहाति नगश्छायां पानार्थाय ततः परम् । अपिबच्च सुतं तस्मादभृतं चैव भारत ॥ ४२.२८ ॥ एवं स वर्धितस्तत्र कुमारो निजचेतसि । चिन्तयामास विश्रब्धः किं मम ग्रहगोचरम् ॥ ४२.२९ ॥ ततः क्रूरसभाचारः क्रूरं दृष्ट्वा निरीक्षितः । पपात सहसा भूमौ शनैश्चारी शनैश्चरः ॥ ४२.३० ॥ उवाच च भयत्रस्तः कृताञ्जलिपुटस्तदा । किं मयापकृतं विप्र पिप्पलाद महामुने ॥ ४२.३१ ॥ चरन्वै गगनाद्येन पातितो धरणीतले । सौरिणा ह्येवमुक्तस्तु पिप्पलादो महामुनिः ॥ ४२.३२ ॥ क्रोधरूपोऽब्रवीद्वाक्यं तच्छृणुष्व नराधिप । पितृमातृविहीनस्य मम बालस्य दुर्मते । पीडां करोषि कस्मात्त्वं सौरे ब्रूहि ह्यशेषतः ॥ ४२.३३ ॥ शनैश्चर उवाच - क्रूरस्वभावः सहजो मम दृष्टिस्तथेदृशी । मुञ्चस्व मां तथा कर्ता यद्ब्रवीषि न संशयः ॥ ४२.३४ ॥ पिप्पलाद उवाच - अद्यप्रभृति बालानां वर्षादा षोडशाद्ग्रह । पीडा त्वया न कर्तव्या एष ते समयः कृतः ॥ ४२.३५ ॥ एवमस्त्विति चोक्त्वा स जगाम पुनरागतः । देवमार्गं शनैश्चारी प्रणम्य ऋषिसत्तमम् ॥ ४२.३६ ॥ गते चादर्शनं तत्र सोऽपि बालो महाग्रहः । विचिन्तयन्वै पितरं क्रोधेन कलुषीकृतः ॥ ४२.३७ ॥ आग्नेयीं धारणां ध्यात्वा जनयामास पावकम् । कृत्यामन्त्रैर्जुहावाग्नौ कृत्या वै संभवत्विति ॥ ४२.३८ ॥ तावज्झटिति सा कन्या ज्वालामालाविभूषिता । हुतभुक्सदृशाकारा किं करोमीति चाब्रवीत् ॥ ४२.३९ ॥ शोषयामि समुद्रान् किं चूर्णयामि च पर्वतान् । अवनिं वेष्टयामीति पातये किं नभस्तलम् ॥ ४२.४० ॥ कस्य मूर्ध्नि पतिष्यामि घातयामि च कं द्विज । शीघ्रमादिश्यतां कार्यं मा मे कालात्ययो भवेत् ॥ ४२.४१ ॥ तस्यास्तद्वचनं श्रुत्वा पिप्पलादो महातपाः । क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥ ४२.४२ ॥ महता क्रोधवेगेन मया त्वं चिन्तिता शुभे । पिता मे याज्ञवल्क्यश्च तस्य त्वं पत माचिरम् ॥ ४२.४३ ॥ एवमुक्त्वागमच्छीघ्रं स्फोटयन्ती नभस्तलम् । मिथिलास्थो महाप्राज्ञस्तपस्तेपे महामनाः ॥ ४२.४४ ॥ यावत्पश्यति दिग्भागं ज्वलनार्कसमप्रभम् । याज्ञवल्क्यो महातेजा महद्भूतमुपस्थितम् ॥ ४२.४५ ॥ तद्दृष्ट्वा सहसायान्तं भीतभीतो महामुनिः । अनुयुक्तोऽथ भूतेन जनकं नृपतिं ययौ ॥ ४२.४६ ॥ शरण्यं मामनुप्राप्तं विद्धि त्वं नृपसत्तम । महद्भूतभयाद्रक्ष यदि शक्नोषि पार्थिव ॥ ४२.४७ ॥ ब्रह्मतेजोभवं भूतमनिवार्यं दुरासदम् । न च शक्नोम्यहं त्रातुं राजा वचनमब्रवीत् ॥ ४२.४८ ॥ ततश्चान्यं नृपश्रेष्ठं शरणार्थी महातपाः । जगाम तेन मुक्तोऽसौ चेन्द्रस्य सदनं भयात् ॥ ४२.४९ ॥ देवराज नमस्तेऽस्तु महाभूतभयान्नृप । कम्पमानोऽब्रवीद्विप्रो रक्षस्वेति पुनःपुनः ॥ ४२.५० ॥ तस्य तद्वचनं श्रुत्वा देवराजोऽब्रवीदिदम् । न शक्नोमि परित्रातुं ब्रह्मकोपादहं मुने ॥ ४२.५१ ॥ ततः स ब्रह्मभवनं ब्राह्मणो ब्रह्मवित्तमः । जगाम विष्णुलोकं च तेनापीत्युक्त एव सः ॥ ४२.५२ ॥ ततः स मुनिरुद्विग्नो निराशो जीविते नृप । अनुगम्यमानो भूतेन अगच्छच्छङ्करालयम् ॥ ४२.५३ ॥ तस्य योगबलोपेतो महादेवस्य पाण्डव । नखमांसान्तरे गुप्तो यथा देवो न पश्यति ॥ ४२.५४ ॥ तदन्ते चागमद्भूतं ज्वलनार्कसमप्रभम् । मुञ्च मुञ्चेति पुरुषं देवदेवं महेश्वरम् ॥ ४२.५५ ॥ एवमुक्तो महादेवस्तेन भूतेन भारत । योगीन्द्रं दर्शयामास नखमांसान्तरे तदा ॥ ४२.५६ ॥ संस्थाप्य भूतं भूतेशः परमापद्गतं मुनिम् । उवाच मा भैस्त्वं विप्र निर्गच्छस्व महामुने ॥ ४२.५७ ॥ ततः सुसूक्ष्मदेहस्थं भूतं दृष्ट्वाब्रवीदिदम् । किमस्य त्वं महाभूत करिष्यसि वदस्व मे ॥ ४२.५८ ॥ कृत्योवाच - क्रोधाविष्टेन देवेश पिप्पलादेन चिन्तिता । अस्य देहं हनिष्यामि हिंसार्थं विद्धि मां प्रभो ॥ ४२.५९ ॥ एतच्छ्रुत्वा महादेवो भूतस्य वदनाच्च्युतम् । कटिस्थं याज्ञवल्क्यं च मन्त्रयामास मन्त्रवित् ॥ ४२.६० ॥ योगीश्वरेति विप्रस्य कृत्वा नाम युधिष्ठिर । विसर्जयित्वा देवेशस्तत्रैवान्तरधीयत ॥ ४२.६१ ॥ प्रेषयित्वा तु तं भूतं पिप्पलादोऽपि दुर्मनाः । पितृमातृसमुद्विग्नो नर्मदातटमाश्रितः ॥ ४२.६२ ॥ एकाङ्गुष्ठो निराहारो वर्षादा षोडशान्नृप । तोषयामास देवेशमुमया सह शङ्करम् ॥ ४२.६३ ॥ ततस्तत्तपसा तुष्टः शङ्करो वाक्यमब्रवीत् ॥ ४२.६४ ॥ ईश्वर उवाच - परितुष्टोऽस्मि ते विप्र तपसानेन सुव्रत । वरं वृणीष्व ते दद्मि मनसा चेप्सितं शुभम् ॥ ४२.६५ ॥ पिप्पलाद उवाच - यदि मे भगवांस्तुष्टो यदि देयो वरो मम । अत्र संनिहितो देव तीर्थे भव महेश्वर ॥ ४२.६६ ॥ एवमुक्तस्तथेत्युक्त्वा पिप्पलादं महामुनिम् । जगामादर्शनं देवो भूतसङ्घसमन्वितः ॥ ४२.६७ ॥ पिप्पलादो गते देवे स्नात्वा तत्र महाम्भसि । स्थापयित्वा महादेवं जगामोत्तरपर्वतम् ॥ ४२.६८ ॥ तत्र तीर्थे नरो भक्त्या स्नात्वा मन्त्रयुतं नृप । तर्पयित्वा पित्ःन् देवान् पूजयेच्च महेश्वरम् ॥ ४२.६९ ॥ अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् । मृतो रुद्रपुरं याति नात्र कार्या विचारणा ॥ ४२.७० ॥ अथ यो भोजयेद्विप्रान् पित्ःनुद्दिश्य भारत । तस्य ते द्वादशाब्दानि मोदन्ते दिवि तर्पिताः ॥ ४२.७१ ॥ संन्यासेन तु यः कश्चित्तत्र तीर्थे तनुं त्यजेत् । अनिवर्तिका गतिस्तस्य रुद्रलोकात्कदाचन ॥ ४२.७२ ॥ एतत्सर्वं समाख्यातं यत्पृष्ठे हि त्वयानघ । माहात्म्यं पिप्पलादस्य तीर्थस्योत्पत्तिरेव च ॥ ४२.७३ ॥ एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् । पठतां शृण्वतां चैव सर्वपापक्षयो भवेत् ॥ ४२.७४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये पिप्पलादतीर्थमाहात्म्यवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ऋKV अध्याय ४३ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र विमलेश्वरमुत्तमम् । तत्र देवशिला रम्या स्वयं देवैर्विनिर्मिता ॥ ४३.१ ॥ तत्र स्नात्वा तु यो भक्त्या ब्राह्मणान्पूजयेन्नृप । स्वल्पेनापि हि दानेन तस्य चान्तो न विद्यते ॥ ४३.२ ॥ युधिष्ठिर उवाच - कानि दानानि विप्रेन्द्र शस्तानि धरणीतले । यानि दत्त्वा नरो भक्त्या मुच्यते सर्वपातकैः ॥ ४३.३ ॥ श्रीमार्कण्डेय उवाच - सुवर्णं रजतं ताम्रं मणिमौक्तिकमेव च । भूमिदानं च गोदानं मोचयत्पशुभान्नरम् ॥ ४३.४ ॥ तत्र तीर्थे तु यः कश्चित्कुरुते प्राणसंक्षयम् । रुद्रलोके वसेत्तावद्यावदा भूतसम्प्लवम् ॥ ४३.५ ॥ ततः पुष्करिणीं गच्छेत्सर्वपापक्षयंकरीम् । तत्र स्नात्वार्चयेद्देवं तेजोराशिं दिवाकरम् ॥ ४३.६ ॥ ऋचमेकां जपेत्साम्नः सामवेदफलं लभेत् । यजुर्वेदस्य जपनादृग्वेदस्य तथैव च ॥ ४३.७ ॥ अक्षरं वा जपेन्मन्त्रं ध्यायमानो दिवाकरम् । आदित्यहृदयं जप्त्वा मुच्यते सर्वकिल्बिषैः ॥ ४३.८ ॥ तत्र तीर्थे तु यः स्नात्वा विधिना जपेद्द्विजान् । तस्य कोटिगुणं पुण्यं जायते नात्र संशयः ॥ ४३.९ ॥ अनाशकेनाग्निगत्या जले वा देहपातनात् । तस्मिंस्तीर्थे मृतो यस्तु स याति परमां गतिम् ॥ ४३.१० ॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा नृपसत्तम । विहितं कर्म कुर्वाणः स गच्छेत्परमां गतिम् ॥ ४३.११ ॥ युधिष्ठिर उवाच - व्याधिं सत्त्वक्षयं मोहं ज्ञात्वा वर्णा द्विजोत्तम । पापेभ्यो विप्रमुच्यन्ते केन तत्साधनं वद ॥ ४३.१२ ॥ श्रीमार्कण्डेय उवाच - तिलोदकी तिलस्नायी कामक्रोधविवर्जितः । ब्राह्मणोऽनशनैः प्राणांस्त्यजल्लभति सद्गतिम् ॥ ४३.१३ ॥ सङ्ग्रामे सद्गतिं तात क्षत्रियो निधने लभेत् । तदभावान्महाप्राज्ञ सेवमानो लभेदिति ॥ ४३.१४ ॥ व्याधिग्रहगृहीतो वा वृद्धो वा विकलेन्द्रियः । आत्मानं दाहयित्वाग्नौ विधिना सद्गतिं लभेत् ॥ ४३.१५ ॥ वैश्योऽपि हि त्यजन्प्राणानेवं वै शुभभाग्भवेत् । जले वा शुद्धभावेन त्यक्त्वा प्राणाञ्छिवो भवेत् ॥ ४३.१६ ॥ शूद्रोऽपि द्विजशुश्रूषुस्तोषयित्वा महेश्वरम् । विमुच्य नान्यथा पापः पतते नरके ध्रुवम् ॥ ४३.१७ ॥ अथवा प्रणवाशक्तो द्विजेभ्यो गुरवे तथा । पञ्चाग्नौ शोषयेद्देहमापृच्छ्य द्विजसत्तमान् ॥ ४३.१८ ॥ शान्तदान्तजितक्रोधाञ्छास्त्रयुक्तान् विचक्षणान् । तेषां चैवोपदेशेन करीषाग्निं प्रसाधयेत् ॥ ४३.१९ ॥ एवं वर्णा यथात्वेन मूढाहङ्कारमोहिताः । पतन्ति नरके घोरे यथान्धो गिरिगह्वरे ॥ ४३.२० ॥ ये शास्त्रविधिमुत्सृज्य वर्तन्ते कामचारतः । कृमियोनिं प्रपद्यन्ते तेषां पिण्डो न च क्रिया ॥ ४३.२१ ॥ श्रुतिस्मृत्युदितं धर्मं त्यक्त्वा यथेच्छाचारसेविनः । अष्टाविंशतिर्वै कोट्यो नरकाणां युधिष्ठिर ॥ ४३.२२ ॥ प्रत्येकं वा पतन्त्येते मग्ना नरकसागरे । दुर्लभं मानुषं जन्म बहुधर्मार्जितं नृप ॥ ४३.२३ ॥ तल्लब्ध्वा मदमात्सर्यं यो वै त्यजति मानवः । संनियम्य सदात्मानं ज्ञानचक्षुर्नरो हि सः ॥ ४३.२४ ॥ अज्ञानतिमिरान्धस्य ज्ञानांजनशलाकया ॥ ४३.२५ ॥ यस्य नोन्मीलितं चक्षुर्ज्ञेयो जात्यन्ध एव सः । एतत्ते कथितं सर्वं यत्पृष्टं नृपसत्तम ॥ ४३.२६ ॥ तथानिष्टतराणां हि रुद्रस्य वचनं यथा । नर्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता ॥ ४३.२७ ॥ तारयेत्सर्वभूतानि स्थावराणि चराणि च । सर्वदेवाधिदेवेन ईश्वरेण महात्मना ॥ ४३.२८ ॥ लोकानां च हितार्थाय महापुण्यावतारिता । मानसं वाचिकं पापं स्नानान्नश्यति कर्मजम् ॥ ४३.२९ ॥ रुद्रदेहाद्विनिष्क्रान्ता तेन पुण्यतमा हि सा । प्रातरुत्थाय यो नित्यं भूमिमाक्रम्य भक्तितः ॥ ४३.३० ॥ एतन्मन्त्रं जपेत्तात स्नानस्य लभते फलम् । नमः पुण्यजले देवि नमः सागरगामिनि ॥ ४३.३१ ॥ नमोऽस्तु पापनिर्मोचे नमो देवि वरानने ॥ ४३.३२ ॥ नमोऽस्तु ते ऋषिवरसङ्घसेविते नमोऽस्तु ते त्रिनयनदेहनिःसृते । नमोऽस्तु ते सुकृतवतां सदा वरे नमोऽस्तु ते सततपवित्रपावनि ॥ ४३.३३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विमलेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ऋKV अध्याय ४४ श्रीमार्कण्डेय उवाच - तीर्थानां परमं तीर्थं तच्छृणुष्व नराधिप । रेवाया दक्षिणे कूले निर्मितं शूलपाणिना ॥ ४४.१ ॥ मोक्षार्थं मानवेन्द्राणां निर्मितं नृपसत्तम । युधिष्ठिर उवाच - श्रुता मे विविधा धर्मास्तीर्थानि विविधानि च । दानधर्माः समस्ताश्च त्वत्प्रसादाद्द्विजोत्तम ॥ ४४.२ ॥ अन्यच्च श्रोतुमिच्छामि संसारश्छिद्यते यथा । पुनरागमनं नास्ति मोक्षप्राप्तिर्भवेद्यथा ॥ ४४.३ ॥ एतदाख्याहि मे सर्वं प्रसादाद्द्विजसत्तम ॥ ४४.४ ॥ मार्कण्डेय उवाच - शृणुष्वैकमना भूत्वा तीर्थात्तीर्थान्तरं महत् । श्रुते यस्य प्रभावे तु मुच्यते चाब्दिकादघात् ॥ ४४.५ ॥ वाचिकैर्मानसैर्वापि शारीरैश्च विशेषतः । कीर्तनात्तस्य तीर्थस्य मुच्यते सर्वपातकैः ॥ ४४.६ ॥ पञ्चक्रोशप्रमाणं तु तच्च तीर्थं महीपते । भुक्तिमुक्तिप्रदं दिव्यं प्राणिनां पापकर्मिणाम् ॥ ४४.७ ॥ रेवाया दक्षिणे कूले पर्वतो भृगुसंज्ञितः । तस्य मूर्ध्नि च तत्तीर्थं स्थापितं चैव शम्भुना ॥ ४४.८ ॥ शूलभेदेति विख्यातं त्रिषु लोकेषु भूपते । तत्र स्थिताश्च ये वृक्षास्तीर्थाच्चैव चतुर्दिशम् ॥ ४४.९ ॥ पतिता निलयं यान्ति रुद्रस्य नात्र संशयः । मृतास्तत्रैव ये केचिज्जन्तवो भुवि पक्षिणः ॥ ४४.१० ॥ ते यान्ति परमं लोकं तत्र तीर्थे न संशयः । पातालान्निःसृता गङ्गा भोगवतीतिसंज्ञिता ॥ ४४.११ ॥ निष्क्रान्ता शूलभेदाच्च सर्वपापक्षयंकरी । या सा गीर्वाणनाम्न्यन्या वहेत्पुण्या महानदी ॥ ४४.१२ ॥ पतिता कुण्डमध्ये तु यत्र भिन्नं त्रिशूलिना । शम्भुना च पुरा तात उत्पाद्य च सरस्वती ॥ ४४.१३ ॥ सा तत्र पतिता राजन् प्राचीनाघविमोचिनी । भास्वत्या त्रितयं यत्र शिला गीर्वाणसंज्ञिता ॥ ४४.१४ ॥ तत्र तीर्थे च तत्तीर्थं न भूतं न भविष्यति । केदारं च प्रयागं च कुरुक्षेत्रं गया तथा ॥ ४४.१५ ॥ अन्यानि च सुतीर्थानि कलां नार्हन्ति षोडशीम् । पञ्च स्थानानि तीर्थानि पृथग्भूतानि यानि च ॥ ४४.१६ ॥ वक्ष्यामि च समासेन एकैकं च पृथक्पृथक् । गया नाभ्यां यथा पुण्या चक्रतीर्थं च तत्समम् ॥ ४४.१७ ॥ धर्मारण्ये यथा कूपं शूलभेदं च तत्समम् । ब्रह्मयूपं यथा पुण्यं देवनद्यास्तथैव च ॥ ४४.१८ ॥ यथा गयाशिरः पुण्यं सुराणां च यथा शिला । यथा च पुष्करं स्थानं मार्कण्डह्रद एव च ॥ ४४.१९ ॥ दत्त्वा पिण्डोदकं तत्र पिण्डाणां च तथाक्षयम् । यस्तत्र कुरुते श्राद्धं तोयं पिबति नित्यशः । मुच्यते सर्वपापैस्तु उरगः कञ्चुकैरिव । अनिन्द्यान्पूजयेद्विप्रान् दम्भक्रोधविवर्जितान् ॥ ४४.२० ॥ त्रयोदशदिनं दानं त्रयोदशगुणं भवेत् । अभ्यर्चितं सुरं दृष्ट्वा गणनाथं गजाननम् ॥ ४४.२१ ॥ सर्वे विघ्ना विनश्यन्ति दृष्ट्वा कम्बलक्षेत्रपम् ॥ ४४.२२ ॥ पूजयेत्परया भक्त्या शूलपाणिं महेश्वरम् ॥ ४४.२३ ॥ देवस्य पूर्वभागे तु उमा पूज्या प्रयत्नतः । मार्कण्डेशं ततो भक्त्या पूजयेद्गुहवासिनम् ॥ ४४.२४ ॥ मुच्यन्ते पातकैः सर्वैरज्ञानज्ञानसंचितैः । गुहामध्ये प्रविष्टस्तु जपेत्सूक्तं तु त्र्यक्षरम् ॥ ४४.२५ ॥ नीलपर्वतजं पुण्यं षष्ठांशेन लभेत सः । त्रिनरास्तत्र तिष्ठन्ति सादित्यमरुतैः सह ॥ ४४.२६ ॥ सर्वदेवमयं स्थानं कोटिलिङ्गमनुत्तमम् । यथा नदीनदाः सर्वे सागरे यान्ति संक्षयम् ॥ ४४.२७ ॥ तथा पापानि नश्यन्ति शूलभेदस्य दर्शनात् । प्रत्यक्षो दृश्यतेऽद्यापि प्रत्ययो ह्यवनीपते ॥ ४४.२८ ॥ विस्फुलिङ्गा लिङ्गमध्ये स्पन्दन्ते स्नानयोगतः । द्वितीयः प्रत्ययस्तत्र तैलबिन्दुर्न सर्पति ॥ ४४.२९ ॥ एवं हि प्रत्ययस्तत्र शूलभेदप्रभावजः । यः स्मरेच्छूलभेदं तु त्रिकालं नित्यमेव च ॥ ४४.३० ॥ स पूतश्च भवेत्साक्षात्सबाह्याभ्यन्तरो नृप । न कस्यचिन्मया ख्यातं पृष्टोऽहं त्रिदशैरपि ॥ ४४.३१ ॥ गुह्याद्गुह्यतरं तीर्थं सदा गोप्यं कृतं मया । सर्वपापहरं पुण्यं सर्वदोषघ्नमुत्तमम् ॥ ४४.३२ ॥ सर्वतीर्थमयं तीर्थं शूलभेदं जनेश्वर । श्रुते यस्य प्रभावे तु मुच्यते सर्वपातकैः ॥ ४४.३३ ॥ शूलभेदं मया तात संक्षेपात्कथितं तव । यः शृणोति नरो भक्त्या मुच्यते सर्वपातकैः ॥ ४४.३४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदप्रशंसावर्णनं नाम चतुश्चत्वारिंशोऽध्यायः॥ ऋKV अध्याय ४५ श्रीमार्कण्डेय उवाच - एष एव पुरा प्रश्नः परिपृष्टो महेश्वरम् । राज्ञा चोत्तानपादेन ऋषिदेवसमागमे ॥ ४५.१ ॥ उत्तानपाद उवाच - इदं तीर्थं महापुण्यं सर्वदेवमयं परम् । गुह्याद्गुह्यतरं स्थानं न दृष्टं न श्रुतं हर ॥ ४५.२ ॥ शूलभेदं कथं जातं केनैवोत्पादितं पुरा । माहात्म्यं तस्य तीर्थस्य विस्तराच्छंस मे प्रभो ॥ ४५.३ ॥ ईश्वर उवाच - आसीत्पुरा महावीर्यो दानवो बलदर्पितः । मर्त्ये न तादृशः कश्चिद्विक्रमेण बलेन वा ॥ ४५.४ ॥ सूनुर्ब्रह्मसुतस्यायमन्धको नाम दुर्मदः । निजस्थाने वसन् पापः कुर्वन् राज्यमकण्टकम् ॥ ४५.५ ॥ हृष्टपुष्टो वसन्मर्त्ये स सुरैर्नाभिभूयते । भवनं तस्य पापस्य वह्नेरुपवनं यथा ॥ ४५.६ ॥ एतस्मिन्नन्धकः काले चिन्तयामास भारत । तोषयामि महादेवं येन सानुग्रहो भवेत् ॥ ४५.७ ॥ प्रार्थयामि वरं दिव्यं यो मे मनसि वर्तते । परं स निश्चयं कृत्वा सोऽन्धको निर्गतो गृहात् ॥ ४५.८ ॥ रेवातटं समासाद्य दानवस्तपसि स्थितः । उग्रं तपश्चचारासौ दारुणं लोमहर्षणम् ॥ ४५.९ ॥ दिव्यं वर्षसहस्रं स निराहारोऽभवत्ततः । द्वितीयं तु सहस्रं स न्यवसद्वारिभोजनः ॥ ४५.१० ॥ तृतीयं तु सहस्रं स धूमपानरतोऽभवत् । चतुर्थं वर्षसाहस्रं योगाभ्यासेन संस्थितः ॥ ४५.११ ॥ कोपीह नेदृश चक्रे तपः परमदारुणम् । अस्थिचर्मावशेषोऽसौ यावत्तिष्ठति भारत ॥ ४५.१२ ॥ तस्य मूर्ध्नि ततो राजन् धूमवार्त्तिर्विनिःसृता । देवलोकमतीत्यासौ कैलासं व्याप्य संस्थिता ॥ ४५.१३ ॥ तावद्देवसमीपस्था उमा वचनमब्रवीत् । कोऽस्त्ययं मानुषे लोके तपसोग्रेण संस्थितः ॥ ४५.१४ ॥ चतुर्वर्षसहस्राणि व्यतीयुः परमेश्वर । न केनापीदृशं तप्तं तपो दृष्टं श्रुतं तथा ॥ ४५.१५ ॥ अवज्ञां कुरुषे देव किमत्र नियमान्विते । सर्वस्य दत्से शीघ्रं त्वमल्पेन तपसा विभो ॥ ४५.१६ ॥ नाक्षक्रीडां करिष्येऽद्य त्वया सह महेश्वर । यावन्नोत्थाप्यते ह्येष दानवो भक्तवत्सल ॥ ४५.१७ ॥ ईश्वर उवाच - साधु साधु महादेवि सर्वलक्षणलक्षिते । अहं तं न विजानामि क्लिश्यन्तं दानवेश्वरम् ॥ ४५.१८ ॥ योगाभ्यासे स्थितो भद्रे ध्यायंस्तत्परमं पदम् । तत्रागच्छ मया सार्द्धं यत्र तप्यत्यसौ तपः ॥ ४५.१९ ॥ उमया सहितो देवो गतस्तत्र महेश्वरः । अस्थिचर्मावशेषस्तु दृष्टो देवेन शम्भुना ॥ ४५.२० ॥ प्रत्युवाच प्रसन्नोऽसौ देवदेवो महेश्वरः । भोभोः कष्टं कृतं भीमं दारुणं लोमहर्षणम् ॥ ४५.२१ ॥ ईदृशं च तपो घोरं कस्माद्वत्स त्वया कृतम् । वरं दास्याम्यहं वत्स यस्ते मनसि वर्तते ॥ ४५.२२ ॥ अन्धक उवाच - यदि तुष्टोऽसि मे देव वरदो यदि शङ्कर । सुरान् सर्वान् विजेष्यामि त्वत्प्रसादान्महेश्वर ॥ ४५.२३ ॥ ईश्वर उवाच - स्वप्नेऽपि त्रिदशाः सर्वे न योद्धव्याः कदाचन । असंभाव्यं न वक्तव्यं मनसो यन्न रोचते ॥ ४५.२४ ॥ अन्यं किमपि याचस्व यस्ते मनसि वर्तते । स्वर्गे वा यदि वा मर्त्ये पातालेषु च संस्थितान् ॥ ४५.२५ ॥ मर्त्येषु विविधान् भोगान् भोक्ष्यसि त्वं यथेप्सितान् । कुरु निष्कण्टकं राज्यं स्वर्गे देवपतिर्यथा ॥ ४५.२६ ॥ देवस्य वचनं श्रुत्वा सोऽन्धको विमनाः स्थितः । वृथा क्लेशश्च मे जातो न किंचित्साधितं मया ॥ ४५.२७ ॥ निश्वासं परमं मुक्त्वा निपपात धरातले । मूलच्छिन्नो यथा वृक्षो निरुच्छ्वासस्तदाभवत् ॥ ४५.२८ ॥ मूर्च्छापन्नं ततो दृष्ट्वा देवी वचनमब्रवीत् । यं कामं कामयत्येष तमस्मै देहि शङ्कर ॥ ४५.२९ ॥ भक्तानुपेक्षमाणस्य तवाकीर्तिर्भविष्यति ॥ ४५.३० ॥ ईश्वर उवाच - यदि दास्ये वरं देवि इच्छाभूतं कदाचन । ततो न मंस्यते विष्णुं न ब्रह्माणं न मामपि ॥ ४५.३१ ॥ उच्चत्वमाप्तो देवेशि अन्यानपि सुरासुरान् ॥ ४५.३२ ॥ देव्युवाच - कमप्युपायमाश्रित्य उत्थापय महेश्वर । विष्णुवर्जं सुरान्सर्वाञ्जयस्वेति वरं वद ॥ ४५.३३ ॥ ईश्वर उवाच - उपायः शोभनो देवि यो मे मनसि वर्तते । तमेवास्मै प्रदास्यामि यस्त्वया कथितो वरः ॥ ४५.३४ ॥ ततोऽमृतेन संसिक्तः स्वस्थोऽभूत्तत्क्षणादयम् । तथा पुनर्नवो जातः सर्वावयवशोभितः ॥ ४५.३५ ॥ शृणुष्वैकमना भूत्वा गृहाण वरमुत्तमम् । विष्णुवर्जं प्रदास्यामि यत्तवाभिमतं प्रियम् ॥ ४५.३६ ॥ सर्वं च सफलं तुभ्यं मा धर्मस्तेऽन्यथा भवेत् । ददामीति वरं तुभ्यं मन्यसे यदि चासुर ॥ ४५.३७ ॥ विष्णुवर्जं सुरान् सर्वाञ्जेष्यसि त्वं च मां विना ॥ ४५.३८ ॥ अन्धक उवाच - भवत्वेवमिति प्राह बलमास्थाय केवलम् । विष्णुवर्जं विजेष्येऽहं स्वबलेन महेश्वर ॥ ४५.३९ ॥ कृतार्थोऽहं हि संजात इत्युक्त्वा प्रणतिं गतः । गच्छ देवोमयासार्द्धं कैलासशिखरं वरम् ॥ ४५.४० ॥ वृषपुंगवमारुह्य देवोऽसावुमया सह । वरं दत्त्वा स तस्यैवं तत्रैवान्तरधीयत ॥ ४५.४१ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अन्धकवरप्रदानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ऋKV अध्याय ४६ श्रीमार्कण्डेय उवाच - स दानवो वरं लब्ध्वा जगाम स्वपुरं प्रति । ददर्श स्वपुरं राजञ्छोभितं चित्रचत्वरैः ॥ ४६.१ ॥ उद्यानैश्चैव विविधैः कदलीखण्डमण्डितैः । पनसैर्बकुलैश्चैवाम्रातैराम्रैश्च चम्पकैः ॥ ४६.२ ॥ अशोकैर्नालिकेरैश्च मातुलिङ्गैः सदाडिमैः । नानावृक्षैश्च शोभाढ्यं तडागैरुपशोभितम् ॥ ४६.३ ॥ देवतायतनैर्दिव्यैर्ध्वजमालासुशोभितैः । वेदाध्ययननिर्घोषैर्मङ्गलाद्यैर्विनादितम् ॥ ४६.४ ॥ प्राविशद्भवने दिव्ये काञ्चने रुक्ममालिनि । अपश्यत्स सुतान् भार्याममात्यान् दासभृत्यकान् ॥ ४६.५ ॥ ततो जयप्रदान् सर्वानितश्चेतश्च धावतः । हृच्छोभां च प्रकुर्वाणान् वै जयन्तीभिरुच्चकैः ॥ ४६.६ ॥ केचित्तोरणमाबध्य केचित्पुष्पाण्यवाकिरन् । मातुलिङ्गकराश्चान्ये धावन्ति ह्यन्धकं प्रति ॥ ४६.७ ॥ पुरे जनाश्च दृश्यन्ते भाजनैरन्नपूरितैः । पूर्णहस्ताः प्रदृश्यन्ते तत्रैव बहवो जनाः ॥ ४६.८ ॥ साक्षतैर्भाजनैस्तत्र शतसाहस्रयोषितः । मन्त्रान् पठन्ति विप्राश्च मङ्गलान्यपि योषितः ॥ ४६.९ ॥ अमात्याश्चैव भृत्याश्च गजांश्चाढौकयन्ति च । वर्धापयन्ति ते सर्वे ये केचित्पुरवासिनः ॥ ४६.१० ॥ हृष्टस्तुष्टोऽवसत्तत्र सचिवैः सह सोऽन्धकः । ददर्श स जगत्सर्वं तुरङ्गांश्च पदातिकान् ॥ ४६.११ ॥ तथैव विविधान् कोशांस्तत्र काञ्चनपूरितान् । महिषीर्गा वृषांश्चैवापश्यच्छत्राण्यनेकधा ॥ ४६.१२ ॥ स एवमन्धकस्तत्र कियन्तं कालमावसत् । हृष्टस्तुष्टो वसन्मर्त्ये स सुरैर्नाभ्यभूयत ॥ ४६.१३ ॥ वरं लब्धं तु तं ज्ञात्वा शङ्किताः स्वर्गवासिनः । एकीभूताश्च ते सर्वे वासवं शरणं गताः ॥ ४६.१४ ॥ शक्र उवाच - कथमागमनं वोऽत्र सर्वेषामपि नाकिनाम् । कस्माद्वो भयमुत्पन्नमागताः शरणं कथम् ॥ ४६.१५ ॥ ततस्ते ह्यमराः सर्वे शक्रमेतद्वचोऽब्रुवन् ॥ ४६.१६ ॥ देवा ऊचुः । सुरनाथान्धको नाम दैत्यः शम्भुवरोर्जितः । अजेयः सर्वदेवानां किं नु कार्यमतः परम् ॥ ४६.१७ ॥ तत्त्वं चिन्तय देवेश क उपायो विधीयताम् । इत्थं वदन्ति ते देवाः शक्राग्रे मन्त्रणोद्यताः ॥ ४६.१८ ॥ मन्त्रयन्ति च यावद्वै तावच्चारमुखेरितम् । ज्ञात्वा तत्र स देवौघं दानवो निर्गतो गृहात् ॥ ४६.१९ ॥ एकाकी स्यन्दनारूढ आयुर्धैबहुभिर्वृतः । दुर्गमं मेरुपृष्ठं स लीलयैव गतो नृप ॥ ४६.२० ॥ स्वर्णप्राकारसंयुक्तं शोभितं विविधाश्रमैः । दुर्गमं शत्रुवर्गस्य तदा पार्थिवसत्तम ॥ ४६.२१ ॥ प्रविवेशासुरस्तत्र लीलया स्वगृहे यथा । वृत्रहा भयमापन्नः स्वकीयं चासनं ददौ ॥ ४६.२२ ॥ उपविष्टोऽन्धकस्तत्र शक्रस्यैवासने शुभे । आस्थानं कलयामास सर्वतस्त्रिदशावृतम् ॥ ४६.२३ ॥ शक्र उवाच - किं तवागमनं चात्र किं कार्यं कथयस्व मे । यदस्मदीयं वित्तं हि तत्ते दास्यामि दानव ॥ ४६.२४ ॥ अन्धक उवाच - नाहं वै कामये कोशं न गजांश्च सुरेश्वर । स्वकीयं दर्शयस्वाद्य स्वर्गशृङ्गारभूषितम् ॥ ४६.२५ ॥ ऐरावतं महानागं तं चैवोच्चैःश्रवोहयम् । उर्वश्यादीनि रत्नानि मम दर्शय गोपते ॥ ४६.२६ ॥ पारिजातकपुष्पाणि वृक्षजातीननेकशः । वादित्राणि च सर्वाणि दर्शयस्व शचीपते ॥ ४६.२७ ॥ तस्य तद्वचनं श्रुत्वा शक्रश्चिन्तितवानिदम् । योऽमुं निहन्ति पाप्मानं न तं पश्यामि कर्हिचित् ॥ ४६.२८ ॥ नास्ति रक्षाप्रदः कश्चित्स्वर्गलोकस्य दुःखिनः । भयत्रस्तो ददावन्यद्वादित्राद्यप्सरोगणैः ॥ ४६.२९ ॥ रङ्गभूमावुपाविश्य कारयामास ताण्डवम् । उपविष्टाः सुराः सर्वे यममारुतकिन्नराः ॥ ४६.३० ॥ उर्वश्याद्या अप्सरसो गीतवादित्रयोगतः । ननृतुः पुरतस्तस्य सर्वा एकैकशो नृप ॥ ४६.३१ ॥ न व्यश्राम्यत तच्चित्तं दृष्ट्वा चाप्सरसस्तदा । शचीं प्रति मनस्तस्य सकाममभवन्नृप ॥ ४६.३२ ॥ गृहीत्वा शक्रभार्यां स प्रस्थितः स्वपुरं प्रति । ततः प्रववृते युद्धमन्धकस्य सुरैः सह ॥ ४६.३३ ॥ तेन देवगणाः सर्वे ध्वस्ताः पार्थिवसत्तम । संग्रामे विविधैः शस्त्रैश्चक्रवज्रादिभिर्घनैः ॥ ४६.३४ ॥ संतापिताः सुराः सर्वे क्षयं नीता ह्यनेकशः । सर्वेऽपि मरुतस्तेन भग्नाः संग्राममूर्धनि ॥ ४६.३५ ॥ यथा सिंहोगजान् सर्वान् विचित्य विचरेद्वनम् । तद्वदेकेन ते देवा जिताः सर्वे पराङ्मुखाः ॥ ४६.३६ ॥ बालोऽधिपो यथा ग्रामे स्वेच्छया पीडयेज्जनान् । स्वैरमाक्रम्य गृह्णाति कोशवासांसि चासकृत् ॥ ४६.३७ ॥ गतं न पश्यत्यात्मानं प्रजासंतापनेन च । गृहीत्वा शक्रभार्यां स गतो वै दानवोत्तमः ॥ ४६.३८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये शचीहरणवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ऋKV अध्याय ४७ श्रीमार्कण्डेय उवाच - गीर्वाणाश्च ततः सर्वे ब्रह्माणं शरणं गताः । गजैर्गिरिवराकारैर्हयैश्चैव गजोपमैः ॥ ४७.१ ॥ स्यन्दनैर्नगराकारैः सिंहशार्दूलयोजितैः । कच्छपैर्महिषैश्चान्यैर्मकरैश्च तथापरे ॥ ४७.२ ॥ ब्रह्मलोकमनुप्राप्ता देवाः शक्रपुरोगमाः । दृष्ट्वा पद्मोद्भवं देवं साष्टाङ्गं प्रणताः सुराः ॥ ४७.३ ॥ देवा ऊचुः । जय देव जगद्वन्द्य जय संसृतिकारक । पद्मयोने सुरश्रेष्ठ त्वामेव शरणं गताः ॥ ४७.४ ॥ सोद्वेगं भाषितं श्रुत्वा देवानां भावितात्मनाम् । मेघगम्भीरया वाचा देवराजमुवाच ह ॥ ४७.५ ॥ किमत्रागमनं देवाः सर्वेषां वै विवर्णता । केनापमानिताः सर्वे शीघ्रं मे कथ्यतां स्वयम् ॥ ४७.६ ॥ देवा ऊचुः । अन्धकाख्यो महादैत्यो बलवान् पद्मसम्भव । तेन देवगणाः सर्वे धनरत्नैर्वियोजिताः ॥ ४७.७ ॥ हत्वा देवगणांस्तावदसिचक्रपरद्द्विश्वधैः । गृहीत्वा शक्रभार्यां स दानवोऽपि गतो बलात् ॥ ४७.८ ॥ देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः । चिन्तयामास राजेन्द्र वधार्थं दानवस्य ह ॥ ४७.९ ॥ अवध्यो दानवः पापः सर्वेषां वो दिवौकसाम् । स त्राता सर्वजगतां नान्यो विद्येत कुत्रचित् ॥ ४७.१० ॥ एवमुक्ताः सुराः सर्वे ब्रह्मणा तदनन्तरम् । ब्रह्माणं ते पुरस्कृत्य गता यत्र स केशवः । तुष्टुवुर्विविधैः स्तोत्रैर्ब्रह्माद्याश्चक्रपाणिनम् ॥ ४७.११ ॥ देवा ऊचुः । जय त्वं देवदेवेश लक्ष्म्या वक्षःस्थलाश्रितः । असुरक्षय देवेश वयं ते शरणं गताः ॥ ४७.१२ ॥ स्तूयमानः सुरैः सर्वैर्ब्रह्माद्यैश्च जनार्दनः । सम्प्रहृष्टमना भूत्वा सुरसङ्घमुवाच ह ॥ ४७.१३ ॥ श्रीवासुदेव उवाच - स्वागतं देवविप्राणां सुप्रभाताद्य शर्वरी । किं कार्यं प्रोच्यतां क्षिप्रं कस्य रुष्टा दिवौकसः ॥ ४७.१४ ॥ किं दुःखं कश्च संतापः कुतो वा भयमागतम् । कथयन्तु महाभागाः कारणं यन्मनोगतम् ॥ ४७.१५ ॥ पराभवः कृतो येन सोऽद्य यातु यमालयम् । एवमुक्तास्तु कृष्णेन कथयामासुरस्य तत् ॥ ४७.१६ ॥ दर्शयन्तः स्वकान्देहान् लज्जमाना ह्यधोमुखाः । हृतराज्या ह्यन्धकेन कृता निस्तेजसः प्रभो ॥ ४७.१७ ॥ पितेव पुत्रं परिरक्ष देव जहीन्द्रशत्रुं सह पुत्रपौत्रैः । तथेति चोक्तः कमलासनेन सुरासुरैर्वन्दितपादपद्मः ॥ ४७.१८ ॥ शङ्खं चक्रं गदां चापं संगृह्य परमेश्वरः । उत्थितो भोगपर्यङ्काद्देवानां पुरतस्तदा ॥ ४७.१९ ॥ श्रीवासुदेव उवाच - पाताले यदि वा मर्त्ये नाके वा यदि तिष्ठति । तं हनिष्याम्यहं पापं येन संतापिताः सुराः ॥ ४७.२० ॥ स्वं स्थानं यान्तु गीर्वाणाः संतुष्टा भावितौजसः । विष्णोस्तद्वचनं श्रुत्वा ब्रह्माद्यास्ते सवासवाः ॥ ४७.२१ ॥ स्वयानैस्तु हरिं नत्वा हृदि तुष्टा दिवं ययुः ॥ ४७.२२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गीर्वाणस्वर्गमनवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ऋKV अध्याय ४८ उत्तानपाद उवाच - कस्मिन्स्थानेऽवसद्देव सोऽन्धको दैत्यपुंगवः । सर्वान्देवांश्च निर्जित्य कस्मिन्स्थाने समास्थितः ॥ ४८.१ ॥ श्रीमहेश उवाच - प्रविष्टो दानवो यत्र कथयामि नराधिप । पाताललोकमाश्रित्य कन्या विध्वंसते तु सः ॥ ४८.२ ॥ तत्र स्थितं तं विज्ञाय चापमादाय केशवः । व्यसृजद्बाणमाग्नेयं दह्यतामिति चिन्तयन् ॥ ४८.३ ॥ दह्यमानोऽग्निना सोऽपि वारुणास्त्रं स संदधे । वारुणास्त्रेण महता आग्नेयं शमितं तदा ॥ ४८.४ ॥ ततोऽसौ चिन्तयामास केन बाणो विसर्जितः । कस्यैषा पौरुषी शक्तिः को यास्यति यमालयम् ॥ ४८.५ ॥ ततोऽन्धको मृधे क्रुद्धो बाणमार्गेण निर्गतः । स दृष्ट्वा बाणमार्गेण चापहस्तं जनार्दनम् ॥ ४८.६ ॥ अन्धक उवाच - न शर्म लप्स्यसे ह्यद्य मया दृष्ट्याभिवीक्षितः । न शक्नोषि तथा गन्तुं नागः शार्दूलदर्शनात् ॥ ४८.७ ॥ आगच्छति यथा भक्ष्यं मार्जारस्य च मूषिकः । न शक्नोषि तथा यातुं संस्थितस्त्वं ममाग्रतः ॥ ४८.८ ॥ अहं त्वां प्रेषयिष्यामि यममार्गे सुदारुणे । अहमन्वेषयिष्यामि किल यास्यामि ते गृहम् ॥ ४८.९ ॥ उपनीतोऽसि कालेन सङ्ग्रामे मम केशव । ये त्वया निर्जिताः पूर्वं दानवा अप्यनेकशः ॥ ४८.१० ॥ न भवन्ति पुमांसस्ते स्त्रियस्ताश्चैव केशव । परं न शस्त्रसङ्ग्रामं करिष्यामि त्वया सह ॥ ४८.११ ॥ वदतो दानवेन्द्रस्य न चुकोप स केशवः । अयुध्यमानं तं दृष्ट्वा चिन्तयामास दानवः ॥ ४८.१२ ॥ द्वन्द्वयुद्धं करिष्यामि निश्चित्य युयुधे नृप । स कृष्णेन पदाक्षिप्तः पतितः पृथिवीतले ॥ ४८.१३ ॥ मुहूर्तात्स समाश्वस्य उत्थायेदं व्यचिन्तयत् । अशक्तो द्वन्द्वयुद्धाय ततः साम प्रयुक्तवान् । पाणिभ्यां सम्पुटं कृत्वा साष्टाङ्गं प्रणतः शुचिः ॥ ४८.१४ ॥ अन्धक उवाच - जय कृष्णाय हरये विष्णवे जिष्णवे नमः । हृषीकेश जगद्धात्रे अच्युताय महात्मने ॥ ४८.१५ ॥ नमः पङ्कजनाभाय नमः पङ्कजमालिने । जनार्दनाय श्रीशाय श्रीपते पीतवाससे ॥ ४८.१६ ॥ गोविन्दाय नमो नित्यं नमो जलधिशायिने । नमः करालवक्त्राय नरसिंहाय नादिने ॥ ४८.१७ ॥ शार्ङ्गिणे सितवर्णाय शङ्खचक्रगदाभृते । नमो वामनरूपाय यज्ञरूपाय ते नमः ॥ ४८.१८ ॥ नमो वराहरूपाय क्रान्तलोकत्रयाय च । व्याप्ताशेषदिगन्ताय केशवाय नमोनमः ॥ ४८.१९ ॥ वासुदेव नमस्तुभ्यं नमः कैटभनाशिने । लक्ष्म्यालय सुरश्रेष्ठ नमस्ते सुरनायक ॥ ४८.२० ॥ विष्णोर्देवाधिदेवस्य प्रमाणं येऽपि कुर्वते । प्रजापतेर्जगद्धातुस्तेषामपि नमाम्यहम् ॥ ४८.२१ ॥ समस्तभूतदेवस्य वासुदेवस्य धीमतः । प्रणामं ये प्रकुर्वन्ति तेषामपि नमाम्यहम् ॥ ४८.२२ ॥ तस्य यज्ञवराहस्य विष्णोरमिततेजसः । प्रणामं ये प्रकुर्वन्ति तेषामपि नमाम्यहम् ॥ ४८.२३ ॥ गुणानां हि निधानाय नमस्तेऽस्तु पुनःपुनः । कारुण्याम्बुनिधे देव सर्वभक्तिप्रियाय च ॥ ४८.२४ ॥ श्रीभगवानुवाच - तुष्टस्ते दानवेन्द्राहं वरं वृणु यथेप्सितम् । ददामि ते वरं नूनमपि त्रैलोक्यदुर्लभम् ॥ ४८.२५ ॥ अन्धक उवाच - यदि तुष्टोऽसि मे देव वरं दास्यसि चेप्सितम् । तदा ददस्व मे देव युद्धं परमशोभनम् । अवद्धस्तपूतो येनाहं लोकान्गन्तास्मि शोभनान् ॥ ४८.२६ ॥ श्रीभगवानुवाच - कथं ददामि ते युद्धं तोषितोऽहं त्वया पुनः । न त्वां तु प्रभवेत्कोपः कथं युध्यामि तेऽन्धक ॥ ४८.२७ ॥ यदि ते वर्तते बुद्धिर्युद्धं प्रति न संशयः । ततो गच्छस्व युद्धाय देवं प्रति महेश्वरम् ॥ ४८.२८ ॥ अन्धक उवाच - न तत्र सिध्यते कार्यं देवं प्रति महेश्वरम् ॥ ४८.२९ ॥ श्रीभगवानुवाच - पुत्र त्वं शिखरं गत्वा धूनयस्व बलेन च ॥ ४८.३० ॥ विधूते तत्र देवेशः कोपं कर्ता सुदारुणम् । कोपितः शङ्करो रौद्रं युद्धं दास्यति दानव ॥ ४८.३१ ॥ विष्णुवाक्यादसौ पापो गतो यत्र महेश्वरः । कैलासशिखरं प्राप्य धुनोति स्म मुहुर्मुहुः ॥ ४८.३२ ॥ धूनिते तत्र शिखरे कम्पितं भुवनत्रयम् । निपेतुः शिखराग्राणि कम्पमानान्यनेकशः ॥ ४८.३३ ॥ चत्वारः सागराः क्षिप्रमेकीभूता महीपते । निपेतुरुल्कापाताश्च पादपा अप्यनेकशः ॥ ४८.३४ ॥ उमया सहितो देवो विस्मयं परमं गतः । गाढमालिङ्ग्य गिरिजा देवं वचनमब्रवीत् ॥ ४८.३५ ॥ किमर्थं कम्पते शैलः किमर्थं कम्पते धरा । किमर्थं कम्पते नागो मर्त्यः पातालमेव च । किं वा युगक्षयो देव तन्ममाख्यातुमर्हसि ॥ ४८.३६ ॥ ईश्वर उवाच - कस्यैषा दुर्मतिर्जाता क्षिप्तः सर्पमुखे करः । ललाटे च कृतं वर्म स यास्यति यमालयम् ॥ ४८.३७ ॥ कैलासमाश्रितो येन सुप्तोऽहं येन बोधितः । तं वधिष्ये न सन्देहः सम्मुखो वा भवेद्यदि ॥ ४८.३८ ॥ चिन्तयामास देवेशो ह्यन्धकोऽयं न संशयः । उपायं चिन्तयामास येनासौ वध्यते क्षणात् ॥ ४८.३९ ॥ आगताश्च सुराः सर्वे ब्रह्माद्या वसुभिः सह । रथं देवमयं कृत्वा सर्वलक्षणसंयुतम् ॥ ४८.४० ॥ केचिद्देवाः स्थिताश्चक्रे केचित्तुण्डाग्रपार्श्वयोः । केचिन्नाभ्यां स्थिता देवाः केचिद्धुर्येषु संस्थिताः ॥ ४८.४१ ॥ धुरीषु निश्चलाः केचित्केचिद्यूपेषु संस्थिताः । केचित्स्यन्दनसंस्तम्भाः केचित्स्यन्दनवेष्टकाः ॥ ४८.४२ ॥ आमलसारकेऽन्येऽपि अन्येऽपि कलशे स्थिताः । रिपोर्भयंकरं दिव्यं ध्वजमालादिशोभितम् ॥ ४८.४३ ॥ रथं देवमयं कृत्वा तमारूढो जगद्गुरुः । निर्ययौ दानवो यत्र कोपाविष्टो महेश्वरः ॥ ४८.४४ ॥ तिष्ठ तिष्ठेत्युवाचाथ क्व प्रयास्यसि दुर्मते । शरासनं करे गृह्य शरांश्चिक्षेप दानवे ॥ ४८.४५ ॥ दानवेऽधिष्ठिते युद्धे शरैश्चिछेद सायकान् । शरासनेण तत्रैव अन्धकश्छादितस्तदा ॥ ४८.४६ ॥ न तत्र दृश्यते सूर्यो नाकाशं न च चन्द्रमाः । आग्नेयमस्त्रं व्यसृजद्दानवोऽपि शिवं प्रति ॥ ४८.४७ ॥ दह्यमानाः शराङ्गारैस्तत्रसुः सर्वदेवताः । रक्ष रक्ष महादेव दह्यमानांस्तु दानवात् ॥ ४८.४८ ॥ ततो देवाधिदेवोऽसौ वारुणास्त्रमयोऽजयत् । वारुणास्त्रेण निमिषादाग्नेयं नाशितं तदा ॥ ४८.४९ ॥ दानवेन तदा मुक्तं वायव्यास्त्रं रणाजिरे । वारुणं च गतं तात वायव्यास्त्रविनाशितम् ॥ ४८.५० ॥ देवो व्यसर्जयत्सार्पं क्रोधाविष्टेन चेतसा । मारुतं नाशितं बाणैः सर्पैस्तत्र न संशयः ॥ ४८.५१ ॥ दानवेन ततो मुक्तं गरुडास्त्रं च लीलया । गारुडास्त्रं च तद्दृष्ट्वा सार्पं नैव व्यदृश्यत ॥ ४८.५२ ॥ ततो देवाधिदेवेन नारसिंहं विसर्जितम् । नारसिंहास्त्रबाणेन गारुडास्त्रं प्रशामितम् ॥ ४८.५३ ॥ अस्त्रमस्त्रेण शम्येत न बाध्येत परस्परम् । महद्युद्धमभूत्तातसुरासुरभयंकरम् ॥ ४८.५४ ॥ चक्रनालीकनाराचैस्तोमरैः खड्गमुद्गरैः । वत्सदन्तैस्तथा भल्लैः कर्णिकारैश्च शोभनैः ॥ ४८.५५ ॥ एवं न शक्यते हन्तुं दानवो विविधायुधैः । तदा ज्वालाकरालाश्च खड्गनाराचतोमराः ॥ ४८.५६ ॥ वृषाङ्केन विमुक्तास्तु समरे दानवं प्रति । न संस्पृशन्ति शस्त्राणि गात्रं गौडवधूरिव ॥ ४८.५७ ॥ आयुधानि ततस्त्यक्त्वा बाहुयुद्धमुपस्थितौ । करं करेण संगृह्य प्रहरन्तौ स्वमुष्टिभिः । रणप्रयोगैर्युध्यन्तौ युयुधाते शिवान्धकौ ॥ ४८.५८ ॥ श्रीमार्कण्डेय उवाच - अन्धकं प्रति देवेशश्चिन्तयामास निग्रहम् । हनिष्यामि न सन्देहो दुष्टात्मानं न संशयः ॥ ४८.५९ ॥ स शिवेन यदा क्षिप्तः पतितः पृथिवीतले । ऊर्ध्वबाहुरधोवक्त्रो दानवो नृपसत्तम ॥ ४८.६० ॥ क्रोधाविष्टेन देवेशः सङ्ग्रामे देवशत्रुणा । कक्षयोः कुहरे क्षिप्त्वा बन्धेनाक्रम्य पीडितः ॥ ४८.६१ ॥ निस्पन्दश्चाभवद्देवो मूर्च्छायुक्तो महेश्वरः । मूर्च्छापन्नं तु तं ज्ञात्वा चिन्तयामास दानवः ॥ ४८.६२ ॥ हाहा कष्टं कृतं मेऽद्य दुष्कृतं पापकर्मणा । किं करोमि कथं कर्म कस्मिन्स्थाने तु मोचये ॥ ४८.६३ ॥ गृहीत्वा देवमुत्सङ्गे गतः कैलासपर्वतम् । शय्यायां शङ्करं न्यस्य निर्ययौ दैत्यराट्ततः ॥ ४८.६४ ॥ शय्यायां पतितो देवः प्रपेदे वेदनां ततः । तावद्ददर्श चात्मानं स्वकीयभवनस्थितम् ॥ ४८.६५ ॥ पराभवः कृतो मद्यं कथं तेन दुरात्मना । क्रोधवेगसमाविष्टो निर्ययौ दानवं प्रति ॥ ४८.६६ ॥ आयसीं लगुडीं गृह्य प्रभुर्भारसहस्रजाम् । दानवं च ततो दृष्ट्वा प्राक्षिपत्तस्य मूर्धनि ॥ ४८.६७ ॥ खड्गेन ताडयामास दानवः प्रहसन्रणे । देवेनाथस्मृतं चास्त्रं कौच्छेराख्यं महाहवे ॥ ४८.६८ ॥ दीप्यमानं समुत्सृज्य हृदये ताडितः क्षणात् । ततः स ताडितस्तेन रुधिरोद्गारमुद्वमन् ॥ ४८.६९ ॥ पतितोऽधोमुखो भूत्वा ततः शूलेन भेदितः । पुनश्च देवदेवेन शूलेन द्विदलीकृतः ॥ ४८.७० ॥ शूलाग्रेऽसौ स्थितः पापो भ्रान्तवांश्चक्रवत्तदा । ये ये भूम्यां पतन्ति स्म तत्कायाद्रक्तबिन्दवः ॥ ४८.७१ ॥ ते ते सर्वे समुत्तस्थुर्दानवाः शास्त्रपाणयः । व्याकुलस्तु ततो देवो दानवेन तरस्विना ॥ ४८.७२ ॥ देवेनाथ स्मृता दुर्गा चामुण्डा भीषणानना । आयाता भीषणाकारा नानायुधविराजिता ॥ ४८.७३ ॥ महादंष्ट्रा महाकाया पिङ्गाक्षी लम्बकर्णिका । आदेशो दीयतां देव को यास्यति यमालयम् ॥ ४८.७४ ॥ ईश्वर उवाच - पिबास्य रुधिरं भद्रे यथेष्टं दानवस्य च । निपतद्रुधिरं भूमौ दुर्गे गृह्णीष्व माचिरम् ॥ ४८.७५ ॥ निहन्मि दानवं यावत्साहाय्यं कुरु सुन्दरि । एवमुक्ता तु सा दुर्गा पपौ च रुधिरं ततः ॥ ४८.७६ ॥ निहता दानवाः सर्वे देवेशेन सहस्रशः । अन्धकोऽपि च तान् दृष्ट्वा दानवानवनिं गतान् । ततो वाग्भिः प्रतुष्टाव देवदेवं महेश्वरम् ॥ ४८.७७ ॥ अन्धक उवाच - जयस्व देवदेवेश उमार्धार्धाशरीरधृक् । नमस्ते देवदेवेश सर्वाय त्रिगुणात्मने ॥ ४८.७८ ॥ वृषभासनमारूढ शशाङ्ककृतशेखर । जय खट्वाङ्गहस्ताय गङ्गाधर नमोऽस्तु ते ॥ ४८.७९ ॥ नमो डमरुहस्ताय नमः कपालमालिने । स्मरदेहविनाशाय महेशाय नमोऽस्तु ते ॥ ४८.८० ॥ पूष्णो दन्तनिपाताय गणनाथाय ते नमः । जय स्वरूपदेहाय अरूपबहुरूपिणे ॥ ४८.८१ ॥ उत्तमाङ्गविनाशाय विरिञ्चेरपि शङ्कर । श्मशानवासिने नित्यं नित्यं भैरवरूपिणे ॥ ४८.८२ ॥ त्वं सर्वगोऽसि त्वं कर्ता त्वं हर्ता नान्य एव च । त्वं भूमिस्त्वं दिशश्चैव त्वं गुरुर्भार्गवस्तथा ॥ ४८.८३ ॥ सौरिस्त्वं देवदेवेश भूमिपुत्रस्तथैव च । ऋक्षग्रहादिकं सर्वं यद्दृश्यं तत्त्वमेव च ॥ ४८.८४ ॥ एवं स्तुतिं तदा कृत्वा देवं प्रति स दानवः । संहताभ्यां तु पाणिभ्यां प्रणनाम महेश्वरम् ॥ ४८.८५ ॥ ईश्वर उवाच - साधु साधु महासत्त्व वरं याचस्व दानव । दाताहं याचकस्त्वं हि ददामीह यथेप्सितम् ॥ ४८.८६ ॥ अन्धक उवाच - यदि तुष्टोऽसि देवेश यदि देयो वरो मम । तदात्मसदृशोऽहं ते कर्तव्यो नापरो वरः ॥ ४८.८७ ॥ भस्मी जटी त्रिनेत्री च त्रिशूली च चतुर्भुजः । व्याघ्रचर्मोत्तरीयश्च नागयज्ञोपवीतकः ॥ ४८.८८ ॥ एतदिच्छाम्यहं सर्वं यदि तुष्टो महेश्वर ॥ ४८.८९ ॥ ईश्वर उवाच - ददामि ते वरं ह्यद्य यस्त्वया याचितोऽनघ । गणेषु मे स्थितः पुत्र भृङ्गीशस्त्वं भविष्यसि ॥ ४८.९० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽन्धकवधतद्वरप्रदानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ऋKV अध्याय ४९ मार्कण्डेय उवाच - अन्धकं तु निहत्याथ देवदेवो महेश्वरः । उमया सहितो रुद्रः कैलासमगमन्नगम् ॥ ४९.१ ॥ आगताश्च ततो देवा ब्रह्माद्याश्च सवासवाः । हृष्टास्तुष्टाश्च ते सर्वे प्रणेमुः पार्वतीपतिम् ॥ ४९.२ ॥ ईश्वर उवाच - उपाविशन्तु ते सर्वे ये केचन समागताः । निहतो दानवो ह्येष गीर्वाणार्थे पितामह ॥ ४९.३ ॥ रक्तेन तस्य मे शूलं निर्मलं नैव जायते । शुभव्रततपोजप्यरतो ब्रह्मन्मया हतः ॥ ४९.४ ॥ कर्तुमिच्छाम्यहं सम्यक्तीर्थयानं चतुर्मुख । आगच्छन्तु मया सार्द्धं ये यूयमिह संगताः ॥ ४९.५ ॥ इत्युक्त्वा देवदेवेशः प्रभासं प्रतिनिर्ययौ । प्रभासाद्यानि तीर्थानि गङ्गासागरमध्यतः ॥ ४९.६ ॥ अवगाह्यापि सर्वाणि नैर्मल्यं नाभवन्नृप । नर्मदायां ततो गत्वा देवो देवैः समन्वितः ॥ ४९.७ ॥ उत्तरं दक्षिणं कूलमवागाहत्प्रियव्रतः । गतस्तु दक्षिणे कूले पर्वते भृगुसंज्ञितम् ॥ ४९.८ ॥ तत्र स्थित्वा महादेवो देवैः सह महीपते । भ्रान्त्वा भ्रान्त्वा चिरं श्रान्तो निर्विण्णो निषसाद ह ॥ ४९.९ ॥ मनोहारि यतः स्थानं सर्वेषां वै दिवौकसाम् । तीर्थं विशिष्टं तन्मत्वा स्थितो देवो महेश्वरः ॥ ४९.१० ॥ गिरिं विव्याध शूलेन भिन्नं तेन रसातलम् । निर्मलं चाभवच्छूलं न लेपो दृश्यते क्वचित् ॥ ४९.११ ॥ देवैराह्वानिता तत्र महापुण्या च भारती । पर्वतान्निःसृता तत्र महापुण्या सरस्वती ॥ ४९.१२ ॥ द्वितीयः सङ्गमस्तत्र यथा वेण्यां सितासितः । तत्र ब्रह्मा स्वयं देवो ब्रह्मेशं लिङ्गमुत्तमम् ॥ ४९.१३ ॥ संस्थापयामास पुण्यं सर्वदुःखघ्नमुत्तमम् । तस्य याम्ये दिशो भागे स्वयं देवो जनार्दनः ॥ ४९.१४ ॥ तिष्ठते च सदा तत्र विष्णुपादाग्रसंस्थिता । अम्भसो न भवेन्मार्गः कुण्डमध्यस्थितस्य च ॥ ४९.१५ ॥ शूलाग्रेण कृता रेखा ततस्तोयं वहेन्नृप । तत्तोयं च गतं तत्र यत्र रेवा महानदी ॥ ४९.१६ ॥ जललिङ्गं महापुण्यं चकतीर्थं नृपोत्तम । शूलभेदे च देवेशः स्नानं कुर्याद्यथाविधि ॥ ४९.१७ ॥ आत्मानं मन्यते शुद्धं न किंचित्कल्मषं कृतम् । तस्यैवोत्तरकाष्ठायां देवदेवो जगद्गुरुः ॥ ४९.१८ ॥ आत्मना देवदेवेशः शूलपाणिः प्रतिष्ठितः । सर्वतीर्थेषु तत्तीर्थं सर्वदेवमयं परम् ॥ ४९.१९ ॥ सर्वपापहरं पुण्यं सर्वदुःखघ्नमुत्तमम् । तत्र तीर्थे प्रतिष्ठाप्य देवदेवं जगद्गुरुः ॥ ४९.२० ॥ रक्षापालांस्ततो मुक्त्वा शतं साष्टविनायकान् । क्षेत्रपालाः शतं साष्टं तद्रक्षन्ति प्रयत्नतः ॥ ४९.२१ ॥ विघ्नास्तस्योपजायन्ते यस्तत्र स्थातुमिच्छति । केचित्कुटुम्बात्ततासु व्याग्राः केचित्कृषीषु च ॥ ४९.२२ ॥ केचित्सभां प्रकुर्वन्ति केचिद्द्रव्यार्जने रताः । परोक्षवादं कुर्वन्ति केऽपि हिंसारताः सदा ॥ ४९.२३ ॥ परदाररताः केचित्केचिद्वृत्तिविहिंसकाः । अन्ये केचिद्वदन्त्येवं कथं तीर्थेषु गम्यते ॥ ४९.२४ ॥ क्षुधया पीड्यते भार्या पुत्रभृत्यादयस्तदा । मोहजालेषु योज्यन्ते एवं देवगणैर्नराः ॥ ४९.२५ ॥ पापाचाराश्च ये मर्त्याः स्नानं तेषां न जायते । संरक्षन्ति च तत्तीर्थं देवभृत्यगणाः सदा ॥ ४९.२६ ॥ धन्याः पुण्याश्च ये मर्त्यास्तेषां स्नानं प्रजायते । सरस्वत्या भोगवत्या देवनद्या विशेषतः ॥ ४९.२७ ॥ अयं तु सङ्गमः पुण्यो यथा वेण्यां सितासितः । दृष्ट्वा तीर्थं तु ते सर्वे गीर्वाणा हृष्टचेतसः ॥ ४९.२८ ॥ देवस्य सन्निधौ भूत्वा वर्णयामासुरुत्तमम् । इदं तीर्थं तु देवेश गयातीर्थेन ते समम् ॥ ४९.२९ ॥ गुह्याद्गुह्यतमं तीर्थं न भूतं न भविष्यति । शूलपाणिः समभ्यर्च्य इन्द्राद्यैरप्सरोगणैः ॥ ४९.३० ॥ यक्षकिन्नरगन्धर्वैर्दिक्पालैर्लोकपैरपि । नृत्यगीतैस्तथा स्तोत्रैः सर्वैश्चापि सुरासुरैः ॥ ४९.३१ ॥ पूज्यमानो गणैः सर्वैः सिद्धैर्नागैर्महेश्वरः । देवेन भेदितं तत्र शूलाग्रेण नराधिप ॥ ४९.३२ ॥ त्रिधा यत्रेक्ष्यतेऽद्यापि ह्यावर्तः सुरपूरितः । कुण्डत्रयं नरव्याघ्र महत्कलकलान्वितम् ॥ ४९.३३ ॥ सर्वपापक्षयकरं सर्वदुःखघ्नमुत्तमम् । तत्र तीर्थे तु यः स्नाति उपवासपरायणः ॥ ४९.३४ ॥ दीक्षामन्त्रविहीनोऽपि मुच्यते चाब्दिकादघात् । ये पुनर्विधिवत्स्नान्ति मन्त्रैः पञ्चभिरेव च ॥ ४९.३५ ॥ वेदोक्तैः पञ्चभिर्मन्त्रैः सहिरण्यघटैः शुभैः । अक्षरैर्दशभिश्चैव षड्भिर्वा त्रिभिरेव वा ॥ ४९.३६ ॥ पृथग्भूतैर्द्विजातीनां तीर्थे कार्यं नराधिप । ब्रह्मक्षत्रविशां वापि स्त्रीशूद्राणां तथैव च ॥ ४९.३७ ॥ पुरुषाणां त्रयीं ध्यात्वा स्नानं कुर्याद्यथाविधि । दशाक्षरेण मन्त्रेण ये पिबन्ति जलं नराः ॥ ४९.३८ ॥ ते गच्छन्ति परं लोकं यत्र देवो महेश्वरः । केदारे च यथा पीतं रुद्रकुण्डे तथैव च ॥ ४९.३९ ॥ पञ्चरेफसमायुक्तं क्षकारं सुरपूजितम् । ओङ्कारेण समायुक्तमेतद्वेद्यं प्रकीर्तितम् ॥ ४९.४० ॥ यस्तत्र कुरुते स्नानं विधियुक्तो जितेन्द्रियः । तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः ॥ ४९.४१ ॥ कुलानां तारयेद्विंशं दशपूर्वान्दशापरान् । गयादिपञ्चस्थानेषु यः श्राद्धं कुरुते नरः ॥ ४९.४२ ॥ स तत्र फलमाप्नोति शूलभेदे न संशयः । यस्तत्र विधिना युक्तो दद्याद्दानानि भक्तितः ॥ ४९.४३ ॥ तुदक्षयं फलं तत्र सुकृतं दुष्कृतं तथा । गयाशिरो यथा पुण्यं पितृकार्येषु सर्वदा ॥ ४९.४४ ॥ शूलभेदं तथा पुण्यं स्नानदानादितर्पणैः । भक्त्या ददाति यस्तत्र काञ्चनं गां महीं तिलान् ॥ ४९.४५ ॥ आसनोपानहौ शय्यां वराश्वान् क्षत्रियस्तथा । वस्त्रयुग्मं च धान्यं च गृहं पूर्णं प्रयत्नतः ॥ ४९.४६ ॥ सयोक्त्रं लाङ्गलं दद्यात्कृष्टां चैव वसुंधराम् । दानान्येतानि यो दद्याद्ब्राह्मणे वेदपारगे ॥ ४९.४७ ॥ श्रोत्रिये कुलसम्पन्ने शुचिष्मति जितेन्द्रिये । श्रुताध्ययनसम्पन्ने दम्भहीने क्रियान्विते । त्रयोदशाहःस्वेकैकं त्रयोदशगुणं भवेत् ॥ ४९.४८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदोत्पत्तिमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ऋKV अध्याय ५० उत्तानपाद उवाच - द्विजाश्च कीदृशाः पूज्या अपूज्याः कीदृशाः स्मृताः । श्राद्धे वैवाहिके कार्ये दाने चैव विशेषतः ॥ ५०.१ ॥ यदि श्रद्धा भवेद्दैवयोगाच्छ्राद्धादिके विधौ । एतदाख्याहि मे देव कस्य दानं न दीयते ॥ ५०.२ ॥ ईश्वर उवाच - यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥ ५०.३ ॥ यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला । यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ॥ ५०.४ ॥ यथाऽनृणे बीजमुप्त्वा वप्ता न लभते फलम् । तथानृचे हविर्दत्त्वा न दाता लभते फलम् ॥ ५०.५ ॥ रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा । अवकीर्णी श्यावदन्तः सर्वाशी वृषलीपतिः ॥ ५०.६ ॥ मित्रध्रुक्पिशुनः सोमविक्रयी परनिन्दकः । पितृमातृगुरुत्यागी नित्यं ब्राह्मणनिन्दकः ॥ ५०.७ ॥ शूद्रान्नं मन्त्रसंयुक्तं यो विप्रो भक्षयेन्नृप । सोऽस्पृश्यः कर्मचाण्डालः स्पृष्ट्वा स्नानं समाचरेत् ॥ ५०.८ ॥ कुनखी वृषली स्तेयी वार्द्धुष्यः कुण्डगोलकौ । महादानरतो यश्च यश्चात्महनने रतः ॥ ५०.९ ॥ भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः । एते विप्राः सदा त्याज्याः परिभाव्य प्रयत्नतः ॥ ५०.१० ॥ प्रतिग्रहं गृहीत्वा तु वाणिज्यं यस्तु कारयेत् । तस्य दानं न दातव्यं वृथा भवति तस्य तत् ॥ ५०.११ ॥ श्रुताध्ययनसम्पन्ना ये द्विजा वृत्ततत्पराः । तेषां यद्दीयते दानं सर्वमक्षयतां व्रजेत् ॥ ५०.१२ ॥ दरिद्रान्भर भूपाल मा समृद्धान् कदाचन । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥ ५०.१३ ॥ उत्तानपाद उवाच - कीदृशोऽथ विधिस्तत्र तीर्थश्राद्धस्य का क्रिया । दानं च दीयते यद्वत्तन्ममाख्याहि शङ्कर ॥ ५०.१४ ॥ ईश्वर उवाच - श्राद्धं कृत्वा गृहे भक्त्या शुचिश्चापि जितेन्द्रियः । गुरुं प्रदक्षिणीकृत्य भोज्य सीमान्तके ततः ॥ ५०.१५ ॥ वाग्यतः प्रव्रजेत्तावद्यावत्सीमां न लङ्घयेत् । शूलभेदं ततो गत्वा स्नानं कुर्याद्यथाविधि ॥ ५०.१६ ॥ पञ्चस्थानेषु च श्राद्धं हव्यकव्यादिभिः क्रमात् । पिण्डदानं च यः कुर्यात्पायसैर्मधुसर्पिषा ॥ ५०.१७ ॥ पितरस्तस्य तृप्यन्ति द्वादशाब्दानि पञ्च च । अक्षतैर्बदरैर्बिल्वैर्गुदमधुसर्पिषा ॥ ५०.१८ ॥ सापि तत्फलमाप्नोति तीर्थेऽस्मिन्नात्र संशयः । उपानहौ च यो दद्याद्ब्राह्मणेभ्यः प्रयत्नतः ॥ ५०.१९ ॥ सोऽपि स्वर्गमवाप्नोति हयारूढो न संशयः । शय्यामश्वं च यो दद्याच्छत्त्रिकां वा विशेषतः ॥ ५०.२० ॥ गच्छेद्विमानमारूढः सोऽप्सरोवृन्दवेष्टितः । उत्तमं यो गृहं दद्यात्सप्तधान्यसमन्वितम् ॥ ५०.२१ ॥ स्वेच्छया मे वसेल्लोके काञ्चने भवने हि सः । तिलधेनुं च यो दद्यात्सवत्सां वस्त्रसंप्लुताम् ॥ ५०.२२ ॥ नाकपृष्ठे वसेत्तावद्यावदाभूतसम्प्लवम् । गृहे वा यदि वारण्ये तीर्थवर्त्मनि वा नृप ॥ ५०.२३ ॥ तोयमन्नं च यो दद्याद्यमलोकं स नेक्षते । सर्वदानानि दीयन्ते तेषां फलमवाप्यते ॥ ५०.२४ ॥ उदकं चात्र दानं च दद्यादभयमेव च । अन्नदानात्परं दानं न भूतं न भविष्यति ॥ ५०.२५ ॥ कन्यादानं तु यः कुर्याद्वृषं वा यः समुत्सृजेत् । तस्य वासो भवेत्तत्र यत्राहमिति नान्यथा ॥ ५०.२६ ॥ उत्तानपाद उवाच - कन्यादानं कथं स्वामिन् कर्तव्यं धार्मिकैः सदा । परिग्रहो यथा पोष्यः कन्योद्वाहस्तथैव च ॥ ५०.२७ ॥ अन्यत्पृच्छामि देवेश कस्य कन्या न दीयते । दातव्यं कुत्र तद्देव कस्मै दत्तमथाक्षयम् ॥ ५०.२८ ॥ उत्तमं मध्यमं वापि कनीयः स्यात्कथं विभो । राजसं तामसं वापि निःश्रेयसमथापि वा ॥ ५०.२९ ॥ ईश्वर उवाच - सर्वेषामेव दानानां कन्यादानं विशिष्यते । यो दद्यात्परया भक्त्याभिगम्य तनयां निजाम् ॥ ५०.३० ॥ कुलीनाय सुरूपाय गुणज्ञाय मनीषिणे । सुलग्ने सुमुहूर्ते च दद्यात्कन्यामलंकृताम् ॥ ५०.३१ ॥ अश्वान्ना गांश्च वासांसि योऽत्र दद्यात्स्वशक्तितः । तस्य वासो भवेत्तत्र पदं यत्र निरामयम् ॥ ५०.३२ ॥ येनात्र दुहिता दत्ता प्राणेभ्योऽपि गरीयसी । तेन सर्वमिदं दत्तं त्रैलोक्यं सचराचरम् ॥ ५०.३३ ॥ यः कन्यार्थं ततो लब्ध्वा भिक्षते चैव तद्धनम् । स भवेत्कर्मचण्डालः काष्ठकीलो भवेन्मृतः ॥ ५०.३४ ॥ गृहेऽपि तस्य योऽश्नीयाज्जिह्वालौल्यात्कथंचन । चान्द्रायणेन शुध्येत तप्तकृच्छ्रेण वा पुनः ॥ ५०.३५ ॥ उत्तानपाद उवाच - वित्तं न विद्यते यस्य कन्यैवास्ति च यद्गृहे । कथं चोद्वाहनं तस्य न याञ्चां कुरुते यदि ॥ ५०.३६ ॥ ईश्वर उवाच - अवितेनैव कर्तव्यं कन्योद्वहनकं नृप । कन्यानाम समुच्चार्य न दोषाय कदाचन ॥ ५०.३७ ॥ अभिगम्योत्तमं दानं यच्च दानमयाचितम् । भविष्यति युगस्यान्तस्तस्यान्तो नैव विद्यते ॥ ५०.३८ ॥ अभिगम्योत्तमं दानं स्मृतमाहूय मध्यमम् । याच्यमानं कनीयः स्याद्देहि देहीति चाधमम् ॥ ५०.३९ ॥ यथैवाश्माश्मनाबद्धो निक्षिप्तो वारिमध्यतः । द्वावेतौ निधनं यातस्तद्वदन्नमपात्रके ॥ ५०.४० ॥ असमर्थे ततो दानं न प्रदेयं कदाचन । दातारं नयतेऽधस्तादात्मानं च विशेषतः ॥ ५०.४१ ॥ समर्थस्तारयेद्द्वौ तु काष्ठं शुष्कं यथा जले । यथा नौश्च तथा विद्वान्प्रापयेदपरं तटम् ॥ ५०.४२ ॥ आहिताग्निश्च गृह्णाति यः शूद्राणां प्रतिग्रहम् । इह जन्मनि शूद्रोऽसौ मृतः श्वा चोपजायते ॥ ५०.४३ ॥ वृथा क्लेशश्च जायेत ब्राह्मणे ह्यग्निहोत्रिणि । असत्प्रतिग्रहं कुर्वन्गुप्तं नीचस्य गर्हितम् ॥ ५०.४४ ॥ अभोज्यः स भवेन्मर्त्यो दह्यते कारिषाग्निना । कटकारो भवेत्पश्चात्सप्त जन्म न संशयः ॥ ५०.४५ ॥ लज्जादाक्षिण्यलोभाच्च यद्दानं चोपरोधजम् । भृत्येभ्यश्च तु यद्दानं तद्वृथा निष्फलं भवेत् ॥ ५०.४६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये पात्रापात्रपरीक्षादानादिनियमवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ऋKV अध्याय ५१ उत्तानपाद उवाच - काले तत्क्रियते कस्मिञ्छ्राद्धं दानं तथेश्वर । यात्रा तत्र प्रकर्तव्या तिथौ यस्यां वदाशु तत् ॥ ५१.१ ॥ ईश्वर उवाच - पितृतीर्थं यथा पुण्यं सर्वकामिकमुत्तमम् । इदं तीर्थं तथा पुण्यं स्नानदानादितर्पणैः ॥ ५१.२ ॥ विशेषेण तु कुर्वीत श्राद्धं सर्वयुगादिषु । मन्वन्तरादयो वत्स श्रूयन्तां च चतुर्दश ॥ ५१.३ ॥ अश्वयुक्छुक्लनवमी द्वादशी कार्त्तिकस्य च । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ ५१.४ ॥ आषाढस्यैव दशमी माघस्यैव तु सप्तमी । श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा ॥ ५१.५ ॥ फाल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता । कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी तथा ॥ ५१.६ ॥ मन्वन्तरादयश्चैते अनन्तफलदाः स्मृताः । अयने चोत्तरे राजन्दक्षिणे श्राद्धमाचरेत् ॥ ५१.७ ॥ कार्त्तिकी च तथा माघी वैशाखस्य तृतीयिका । पौर्णमासी च चैत्रस्य ज्येष्ठस्य च विशेषतः ॥ ५१.८ ॥ अष्टकासु च संक्रान्तौ व्यतीपाते तथैव च । श्राद्धकाला इमे सर्वे दत्तमेष्वक्षयं स्मृतम् ॥ ५१.९ ॥ मधुमासे सिते पक्ष एकादश्यामुपोषितः । निशि जागरणं कुर्याद्विष्णुपादसमीपतः ॥ ५१.१० ॥ धूपदीपादिनैवेद्यैः स्रङ्मालागुरुचन्दनैः । अर्चां कुर्वन्ति ये विष्णोः पठेयुः प्राक्तनीं कथाम् ॥ ५१.११ ॥ ऋग्यजुःसाममन्त्रोक्तं सूक्तं जपति यो द्विजः । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ५१.१२ ॥ प्रातः श्राद्धं प्रकुर्वीत द्विजान् सम्पूज्य यत्नतः । दानं दद्याद्यथाशक्ति गोहिरण्याम्बरादिकम् ॥ ५१.१३ ॥ पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् । श्राद्धदस्तु व्रजेत्तत्र यत्र देवो जनार्दनः ॥ ५१.१४ ॥ त्रयोदश्यां ततो गच्छेद्गुहावासिनि लिङ्गके । दृष्ट्वा मार्कण्डमीशानं मुच्यते सर्वपातकैः ॥ ५१.१५ ॥ उत्तानपाद उवाच - गुहामध्ये महादेव लिङ्गं परमशोभितम् । येन प्रतिष्ठितं देव तन्ममाख्यातुमर्हसि ॥ ५१.१६ ॥ ईश्वर उवाच - त्रिषु लोकेषु विख्यातो मार्कण्डेयो मुनीश्वरः । दिव्यं वर्षसहस्रं स तपस्तेपे सुदारुणम् ॥ ५१.१७ ॥ गुहामध्यं प्रविष्टोऽसौ योगाभ्यासमुपाश्रितः । लिङ्गं तु स्थापितं तेन मार्कण्डेश्वरसंज्ञितम् ॥ ५१.१८ ॥ तत्र स्नात्वा च यो भक्त्या सोपवासो जितेन्द्रियः । तत्र जागरणं कुर्वन् दद्याद्दीपं प्रयत्नतः ॥ ५१.१९ ॥ देवस्य स्नपनं कुर्यान्मृतैः पञ्चभिस्तथा । यथा शक्त्या समालभ्य पूजां कुर्याद्यथाविधि ॥ ५१.२० ॥ स्वशाखोत्पन्नमन्त्रैश्च जपं कुर्युर्द्विजातयः । सावित्र्यष्टसहस्रं तु शताष्टकमथापि वा ॥ ५१.२१ ॥ एतत्कृत्वा नृपश्रेष्ठ जन्मनः फलमाप्नुयात् । चतुर्दश्यां तु वै स्नात्वा पूजां कृत्वा यथाविधि ॥ ५१.२२ ॥ पात्रं परीक्ष्य दातव्यमात्मनः श्रेय इच्छता । पितरस्तस्य तृप्यन्ति द्वादशाब्दान्यसंशयम् ॥ ५१.२३ ॥ दाता स गच्छते तत्र यत्र भोगाः सनातनाः । गुहामध्ये प्रविष्टस्तु लोटयेच्चैव शक्तितः ॥ ५१.२४ ॥ नीले गिरौ हि यत्पुण्यं तत्समस्तं लभन्ति ते । शूलभेदे तु यः कुर्याच्छ्राद्धं पर्वणि पर्वणि ॥ ५१.२५ ॥ विशेषाच्चैत्रमासान्ते तस्य पुण्यफलं शृणु । केदारे चैव यत्पुण्यं गङ्गासागरसङ्गमे ॥ ५१.२६ ॥ सितासिते तु यत्पुण्यमन्यतीर्थे विशेषतः । अर्बुदे विद्यते पुण्यं पुण्यं चामरपर्वते ॥ ५१.२७ ॥ गयादिसर्वतीर्थानां फलमाप्नोति मानवः । विधिमन्त्रसमायुक्तस्तर्पयेत्पितृदेवताः ॥ ५१.२८ ॥ कुलानां तारयेद्विंशं दश पूर्वान् दशापरान् । दक्षिणस्यां ततो मूर्तौ शुचिर्भूत्वा समाहितः ॥ ५१.२९ ॥ न्यासं कृत्वा तु पूर्वोक्तं प्रदद्यादष्टपुष्पिकाम् । शास्त्रोक्तैरष्टभिः पुष्पैर्मानसैः शृणु तद्यथा ॥ ५१.३० ॥ वारिजं सौम्यमाग्नेयं वायव्यं पार्थिवं पुनः । वानस्पत्यं भवेत्षष्ठं प्राजापत्यं तु सप्तमम् ॥ ५१.३१ ॥ अष्टमं शिवपुष्पं स्यादेषां शृणु विनिर्णयम् । वारिजं सलिलं ज्ञेयं सौम्यं मधुघृतं पयः ॥ ५१.३२ ॥ आग्नेयं धूपदीपाद्यं वायव्यं चन्दनादिकम् । पार्थिवं कन्दमूलाद्यं वानस्पत्यं फलात्मकम् ॥ ५१.३३ ॥ प्राजापत्यं तु पाठाद्यं शिवपुष्पं तु वासना । अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ॥ ५१.३४ ॥ तृतीयं तु दया पुष्पं क्षमा पुष्पं चतुर्थकम् । ध्यानपुष्पं तपः पुष्पं ज्ञानपुष्पं तु सप्तमम् ॥ ५१.३५ ॥ सत्यं चैवाष्टमं पुष्पमेभिस्तुष्यन्ति देवताः । भक्त्या तपस्विनः पूज्या ज्ञानिनश्च नराधिप ॥ ५१.३६ ॥ छत्रमावरणं दद्यादुपानद्युगलं तथा । तेन पूजितमात्रेण पूजिताः पुरुषास्त्रयः ॥ ५१.३७ ॥ स्वर्गलोके वसेत्तावद्यावदाभूतसम्प्लवम् । शूलपाणेस्तु भक्त्या वै जाप्यं कुर्वन्ति ये नराः ॥ ५१.३८ ॥ पञ्चामृतैः पञ्चगव्यैर्यक्षकर्दमकुङ्कुमैः । समालभेत देवेशं श्रीखण्डागुरुचन्दनैः ॥ ५१.३९ ॥ नानाविधैश्च ये पुष्पैरर्चां कुर्वन्ति शूलिनः । निशि जागरणं कुर्युर्दीपदानं प्रयत्नतः ॥ ५१.४० ॥ धूपनैवेद्यकं दद्यात्पठेत्पौराणिकीं कथाम् । तत्र स्थाने स्थिता भक्त्या जपं कुर्वन्ति ये नराः ॥ ५१.४१ ॥ श्रीसूक्तं पौरुषं सूक्तं पावमानं वृषाकपिम् । वेदोक्तैश्चैव मन्त्रैश्च रौद्रीं वा बहुरूपिणीम् ॥ ५१.४२ ॥ ब्राह्मणान् पूजयेद्भक्त्या पूजयित्वा प्रणम्य च । नानाविधैर्महाभोगैः शिवलोके महीयते ॥ ५१.४३ ॥ अग्निमित्यादि जाप्यानि ऋग्वेदी जपते तु यः । रुद्रान् पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् ॥ ५१.४४ ॥ इषेत्वा दिकमन्त्रौघं ज्योतिर्ब्राह्मणमेव च । गायत्र्यं वै मधु चैव मण्डलब्राह्मणानि च ॥ ५१.४५ ॥ एताञ्जप्यांस्तु यो भक्त्या यजुर्वेदी जपेद्यदि । देवव्रतं वामदेव्यं पुरुषर्षभमेव च ॥ ५१.४६ ॥ बृहद्रथान्तरं चैव यो जपेद्भक्तितत्परः । स प्रयाति नरः स्थानं यत्र देवो महेश्वरः ॥ ५१.४७ ॥ पादशौचं तथाभ्यङ्गं कुरुते योऽत्र भक्तितः । गोदाने चैव यत्पुण्यं लभते नात्र संशयः ॥ ५१.४८ ॥ ब्राह्मणान् भोजयेत्तत्र मधुना पायसेन च । एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ॥ ५१.४९ ॥ सुवर्णं रजतं वस्त्रं दद्याद्भक्त्या द्विजोत्तमे । तर्पितास्तेन देवाः स्युर्मनुष्याः पितरस्तथा ॥ ५१.५० ॥ चन्द्रसूर्यग्रहे भक्त्या स्नानं कुर्वन्ति ये नराः । देवार्चनं ये च कुर्युर्जपं होमं विशेषतः । दद्याद्दानं यथाशक्ति ब्राह्मणे वेदपारगे ॥ ५१.५१ ॥ अश्वं रथं गजं यानं तुलापुरुषमेव च । शकटं यः प्रदद्याद्वा सप्तधान्यप्रपूरितम् ॥ ५१.५२ ॥ सयोक्त्रं लाङ्गलं दद्याद्युवानौ तु धुरंधरौ । गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् ॥ ५१.५३ ॥ अपात्रे विदुषा किंचिन्न देयं भूतिमिच्छता । यतोऽसौ सर्वभूतानि दधाति धरणी किल ॥ ५१.५४ ॥ ततो विप्राय सा देया सर्वसस्यौघमालिनी । अथान्यच्छृणु राजेन्द्र गोदानस्य तु यत्फलम् ॥ ५१.५५ ॥ यावद्वत्सस्य पादौ द्वौ मुखं योन्यां प्रदृश्यते । तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ ५१.५६ ॥ येन केनाप्युपायेन ब्राह्मणे तां समर्पयेत् । पृथ्वी दत्ता भवेत्तेन सशैलवनकानना ॥ ५१.५७ ॥ तारयेन्नियतं दत्ता कुलानामेकविंशतिम् । रौप्यखुरीं कांस्यदोहां सवस्त्रां च पयस्विनीम् ॥ ५१.५८ ॥ ये प्रयच्छन्ति कृतिनो ग्रस्ते सूर्ये निशाकरे । तेषां संख्यां न जानामि पुण्यस्याब्दशातैरपि ॥ ५१.५९ ॥ सर्वस्यापि हि दानस्य संख्यास्तीह नराधिप । चन्द्रसूर्योपरागे च दानसंख्या न विद्यते ॥ ५१.६० ॥ यत्र गौर्दृश्यते राजन् सर्वतीर्थानि तत्र हि । तत्र पर्व विजानीयान्नात्र कार्या विचारणा ॥ ५१.६१ ॥ पुनः स्मृत्वा तु तत्तीर्थं यः कुर्याद्गमनं नरः । अथवा म्रियते योऽत्र रुद्रस्यानुचरो भवेत् ॥ ५१.६२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदे दानधर्मप्रशंसावर्णनं नामैकपञ्चाशत्तमोऽध्यायः ॥ ऋKV अध्याय ५२ ईश्वर उवाच - अन्यदाख्यानकं वक्ष्ये पुरा वृत्तं नराधिप । सकुटुम्बो गतः स्वर्गं मुनिर्यत्र महातपाः ॥ ५२.१ ॥ उत्तानपाद उवाच - कथं नाकं गतो विप्रः सकुटुम्बो महानृषिः । कौतुकं परमं देव कथयस्व मम प्रभो ॥ ५२.२ ॥ ईश्वर उवाच - चित्रसेन इति ख्यातः काशीराजः पुराभवत् । शूरो दाता सुधर्मात्मा सर्वकामसमृद्धिमान् ॥ ५२.३ ॥ सा पुरी जनसंकीर्णा नानारत्नोपशोभिता । वाराणसीति विख्याता गङ्गातीरमुपाश्रिता ॥ ५२.४ ॥ शरच्चन्द्रप्रतीकाशा विद्वज्जनविभूषिता । इन्द्रयष्टिसमाकीर्णा गोपगोकुलसंवृता ॥ ५२.५ ॥ बहुध्वजसमाकीर्णा वेदध्वनिनिनादिता । वणिग्जनैर्बहुविधैः क्रयविक्रयशालिनी ॥ ५२.६ ॥ यन्त्रादानैः प्रतोलीभिरुच्चैश्चान्यैः सुशोभिता । देवतायतनैर्दिव्यैराश्रमैर्गहनैर्युता ॥ ५२.७ ॥ नानापुष्पफलैर्रम्या कदलीखण्डमण्डिता । पनसैर्बकुलैस्तालैरशोकैराम्रकैस्तथा ॥ ५२.८ ॥ राजवृक्षकपित्थैश्च दाडिमैरुपशोभिता । वेदाध्ययननिर्घोषैः पवित्रीकृतमङ्गला ॥ ५२.९ ॥ तस्या उत्तरदिग्भागे आश्रमोऽभूत्सुशोभनः । तन्मन्दारवनं नाम त्रिषु लोकेषु विश्रुतम् ॥ ५२.१० ॥ बहुमन्दारसंयुक्तं तेन मन्दारकं विदुः । विप्रो दीर्घतपा नाम सर्वदा तत्र तिष्ठति ॥ ५२.११ ॥ तपस्तपति सोऽत्यर्थं तेन दीर्घतपाः स्मृतः । स तिष्ठति सपत्नीकः ससुतः सस्नुषस्तथा ॥ ५२.१२ ॥ शुश्रूषन्ति सदा तस्य पुत्राः पञ्च प्रयत्नतः । तस्य पुत्रः कनीयांस्तु ऋक्षशृङ्गो महातपाः ॥ ५२.१३ ॥ वेदाध्ययनसम्पन्नो ब्रह्मचारी गुणान्वितः । योगाभ्यासरतो नित्यं कन्दमूलफलाशनः ॥ ५२.१४ ॥ तिष्ठते मृगरूपेण मृगयूथचरस्तदा । दिनान्ते च दिनान्ते च मातापित्रोः समीपगः ॥ ५२.१५ ॥ अभिवादयते नित्यं भक्तिमान्मुनिपुत्रकः । पुनर्गच्छति तत्रैव कानने गिरिगह्वरे ॥ ५२.१६ ॥ क्रीडन्बालमृगैः सार्द्धं प्रत्यहं स मुनेः सुतः । कदाचिद्दैवयोगेन ऋक्षशृङ्गो ममार सः ॥ ५२.१७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये ऋक्षशृङ्गचरित्रे दीर्घतपोमुन्याख्यानवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ऋKV अध्याय ५३ उत्तानपाद उवाच - आश्रमे वसतस्तस्य स दीर्घतपसो मुनेः । कनीयांस्तनयो देव कथं मृत्युमुपागतः ॥ ५३.१ ॥ ईश्वर उवाच - शृणुष्वैकमना भूत्वा कथां दिव्यां महीपते । श्रवणादेव यस्यास्तु मुच्यते सर्वकिल्बिषैः ॥ ५३.२ ॥ काशीराजो महावीर्यो महाबलपराक्रमः । चित्रसेन इति ख्यातां धरण्यां स नराधिप ॥ ५३.३ ॥ तस्य राज्ये सदा धर्मो नाधर्मो विद्यते क्वचित् । वेदधर्मरतो नित्यं प्रजा धर्मेण पालयन् ॥ ५३.४ ॥ स्वधर्मनिरतश्चैव युद्धातिथ्यप्रियः सदा । क्षत्रधर्मं समाश्रित्य भोगान्भुङ्क्ते स कामतः ॥ ५३.५ ॥ कोशस्यान्तो न विद्येत हस्त्यश्वरथपत्तिमान् । इतिहासपुराणज्ञैः पण्डितैः सह संकथाम् ॥ ५३.६ ॥ कथयन्राजते राजा कैलास इव शङ्करः । एवं स पालयन्राज्यं राजा मन्त्रिणमब्रवीत् ॥ ५३.७ ॥ मृगयायां गमिष्यामि तिष्ठध्वं राज्यपालने । गम्यतां सचिवैः प्रोक्ते गतोऽसौ वसुधाधिपः ॥ ५३.८ ॥ अश्वारूढाश्च धावन्तो राजानो मण्डलाधिपाः । छत्रैश्छत्राणि घृष्यन्तोऽनुजग्मुः काननं प्रति ॥ ५३.९ ॥ रजस्तत्रोत्थितं भौमं गजवाजिपदाहतम् । तेनैतच्छादितं सर्वं सदिङ्मार्तण्डमंलम् ॥ ५३.१० ॥ न तत्र दृश्यते सूर्यो न काष्ठा न च चन्द्रमाः । पादपाश्च न दृश्यन्ते गिरिशृङ्गाणि सर्वतः ॥ ५३.११ ॥ परस्परं न पश्यन्ति निशार्द्धे वार्षिके यथा । तत्रासौ सुमहद्यूथं मृगाणां समलक्ष्यत ॥ ५३.१२ ॥ अधावत्सहितः सर्वैः स राजा राजपुत्रकैः । वृन्दास्फोटोऽभवत्तेषां शीघ्रं जग्मुर्दिशो दश ॥ ५३.१३ ॥ एकमार्गगतो राजा चित्रसेनो महीपतिः । एकाकी स गतस्तत्र यत्र यत्र च ते मृगाः ॥ ५३.१४ ॥ प्रविष्टोऽसौ ततो दुर्गं काननं गिरिगह्वरम् । वल्लीगुल्मसमाकीर्णं स्थितो यत्र न लक्ष्यते ॥ ५३.१५ ॥ अदृश्यांस्तु मृगान्मत्वा दिशो राजा व्यलोकयत् । कां दिशं नु गमिष्यामि क्व मे सैन्यसमागमः ॥ ५३.१६ ॥ एवं कष्टं गतो राजा चित्रसेनो नराधिपः । वृक्षच्छायां समाश्रित्य विश्राममकरोन्नृपः ॥ ५३.१७ ॥ क्षुत्तृषार्तो भ्रमन्दुर्गे कानने गिरिगह्वरे । ततोऽपश्यत्सरो दिव्यं पद्मिनीखण्डमण्डितम् ॥ ५३.१८ ॥ हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् । ततो दृष्ट्वा स राजेन्द्रः सम्प्रहृष्टतनूरुहः ॥ ५३.१९ ॥ कमलानि गृहीत्वा तु ततः स्नानं समाचरत् । तर्पयित्वा पितृदेवान्मनुष्यांश्च यथाविधि ॥ ५३.२० ॥ आच्छाद्य शतपत्रैश्च पूजयामास शङ्करम् । ययौ पानीयममलं यथावत्स समाहितः ॥ ५३.२१ ॥ उत्तीर्य सलिलात्तीरे दृष्ट्वा वृक्षं समीपगम् । उत्तरीयमधः कृत्वोपविष्टो धरणीतले ॥ ५३.२२ ॥ चिन्तयन्नुपविष्टोऽसौ किमद्य प्रकरोम्यहम् । तत्रासीनो ददर्शाथ वनोद्देशे मृगान्बहून् ॥ ५३.२३ ॥ केचित्पूर्वमुखास्तत्र चापरे दक्षिणामुखाः । वारुण्यमिमुखाः केचित्केचित्कौबेरदिङ्मुखाः ॥ ५३.२४ ॥ केचिन्निद्रापराः केचिदूर्ध्वकर्णाः स्थिताः परे । मृगमध्ये स्थितो योगी ऋक्षशृङ्गो महातपाः ॥ ५३.२५ ॥ मृगान्दृष्ट्वा ततो राजा आहारार्थमचिन्तयत् । हत्वैतेषु मृगं कंचिद्भक्षयामि यदृच्छया ॥ ५३.२६ ॥ स्वस्थावस्थो भविष्यामि मृगमांसस्य भक्षणात् । काशीं प्रति गमिष्यामि मार्गमन्विष्य यत्नतः ॥ ५३.२७ ॥ विचिन्त्यैवं ततो राजा वृक्षमूलमुपाश्रितः । चापं गृह्य कराग्रेण स शरं संदधे ततः ॥ ५३.२८ ॥ विचिक्षेप शरं तत्र यत्र ते बहवो मृगाः । तेषां मध्ये स वै विद्ध ऋक्षशृङ्गो महातपाः ॥ ५३.२९ ॥ जग्मुस्त्रस्तास्तु ते सर्वे शब्दं कृत्वा वनौकसः । स ऋषिः पतितस्तत्र कृष्ण कृष्णेति चाब्रवीत् ॥ ५३.३० ॥ हाहा कष्टं कृतं तेन येनाहं घातितोऽधुना । कस्यैषा दुर्मतिर्जाता पापबुद्धेर्ममोपरि ॥ ५३.३१ ॥ मृगमध्ये स्थितश्चाहं न कंचिदुपरोधये । तां वाचं मानुषीं श्रुत्वा स राजा विस्मयान्वितः ॥ ५३.३२ ॥ शीघ्रं गत्वा ततोऽपश्यद्ब्राह्मणं ब्रह्मतेजसा । हाहा कष्टं कृतं मेऽद्य येनासौ घातितो द्विजः ॥ ५३.३३ ॥ चित्रसेन उवाच - अकामाद्घातितस्त्वं तु मृगभ्रान्त्या मयानघ । गृहीत्वा बहुदारूणि स्वतनुं दाहयाम्यहम् ॥ ५३.३४ ॥ दृष्टादृष्टं तु यत्किंचिन्न समं ब्रह्महत्यया । अन्यथा ब्रह्महत्यायाः शुद्धिर्मे न भविष्यति ॥ ५३.३५ ॥ ऋक्षशृङ्ग उवाच - न ते सिद्धिर्भवेत्काचिन्मयि पञ्चत्वमागते । बह्व्यो हत्या भविष्यन्ति विनाशे मम साम्प्रतम् ॥ ५३.३६ ॥ जननी मे पिता वृद्धो भ्रातरश्च तपस्विनः । भ्रातृजाया मरिष्यन्ति मयि पञ्चत्वमागते ॥ ५३.३७ ॥ एता हत्या भविष्यन्ति कथं शुद्धिर्भवेत्तव । उपायं कथयिष्यामि तं कर्तुं यदि मन्यसे ॥ ५३.३८ ॥ चित्रसेन उवाच - उपायः कथ्यतां मेऽद्य यस्ते मनसि वर्तते । करिष्ये तमहं सर्वं यत्नेनापि महामुने ॥ ५३.३९ ॥ ऋक्षशृङ्ग उवाच - पृच्छामि त्वां कथं को वा कुतस्त्वमिह चागतः । ब्रह्मक्षत्रविशां मध्ये को भवानुत शूद्रजः ॥ ५३.४० ॥ चित्रसेन उवाच - नाहं शूद्रोऽस्मि भोस्तात न वैश्यो ब्राह्मणो न वा । न चान्त्यजोऽस्मि विप्रेन्द्र क्षत्रियोऽस्मि महामुने ॥ ५३.४१ ॥ धर्मज्ञश्च कृतज्ञश्च सर्वसत्त्वहिते रतः । अकामात्पातकं जातं कथं शुद्धिर्भविष्यति ॥ ५३.४२ ॥ ऋक्षशृङ्ग उवाच - मां गृहीत्वा आश्रमं गच्छ यत्र तौ पितरौ मम । आवेदयस्व चात्मानं पुत्रघातिनमातुरम् ॥ ५३.४३ ॥ ते दृष्ट्वा मां करिष्यन्ति कारुण्यं च तवोपरि । उपायं कथयिष्यन्ति येन शान्तिर्भविष्यति ॥ ५३.४४ ॥ तस्य तद्वचनं श्रुत्वा चित्रसेनो नृपोत्तम । स्कन्धे कृत्वा तु तं विप्रं जगामाश्रमसन्निधौ ॥ ५३.४५ ॥ न शक्नोति यदा वोढुं विश्राम्यति पुनःपुनः । तावत्पश्यति तं विप्रं मूर्छितं विकलेन्द्रियम् ॥ ५३.४६ ॥ मुमोच चित्रसेनस्तं छायायां वटभूरुहः । वस्त्रं चतुर्गुणं कृत्वा चक्रे वातं मुहुर्मुहुः ॥ ५३.४७ ॥ पश्यतस्तस्य राजेन्द्र ऋक्षशृङ्गो महातपाः । पञ्चत्वमगमच्छीघ्रं ध्यानयोगेन योगवित् ॥ ५३.४८ ॥ दाहयामास तं विप्रं विधिदृष्टेन कर्मणा । स्नानं कृत्वा स शोकार्तो विललाप मुहुर्मुहुः ॥ ५३.४९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये ऋक्षशृङ्गस्वर्गगमनवर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ऋKV अध्याय ५४ ईश्वर उवाच - ततश्चानन्तरं राजा जगामोद्वेगमुत्तमम् । कथं यामि गृहं त्वद्य वाराणस्यामहं पुनः ॥ ५४.१ ॥ ब्रह्महत्यासमाविष्टो जुहोम्यग्नौ कलेवरम् । अथवा तस्य वाक्येन तं गच्छाम्याश्रमं प्रति ॥ ५४.२ ॥ कथयामि यथावृत्तं गत्वा तस्य महामुनेः । एवं संचिन्त्य राजासौ जगामाश्रमसन्निधौ ॥ ५४.३ ॥ ऋक्षशृङ्गस्य चास्थीनि गृहीत्वा स नृपोत्तमः । दृष्टिमार्गे स्थितस्तस्य महर्षेर्भावितात्मनः ॥ ५४.४ ॥ दीर्घतपा उवाच - आगच्छ स्वागतं तेऽस्तु आसनेऽत्रोपविश्यताम् । अर्घं ददाम्यहं येन मधुपर्कं सविष्टरम् ॥ ५४.५ ॥ चित्रसेन उवाच - अर्घस्यास्य न योग्योऽहं महर्षे नास्मि भाषणे । मृगमध्यस्थितो विप्रस्तव पुत्रो मया हतः ॥ ५४.६ ॥ पुत्रघ्नं विद्धि मां विप्र तीव्रदण्डेन दण्डय । मृगभ्रान्त्या हतो विप्र ऋक्षशृङ्गो महातपाः ॥ ५४.७ ॥ इति मत्वा मुनिश्रेष्ठ कुरु मे त्वं यथोचितम् । माता तद्वचनं श्रुत्वा गृहान्निष्क्रम्य विह्वला ॥ ५४.८ ॥ हा हतास्मीत्युवाचेदं पपात धरणीतले । विललाप सुदुःखार्ता पुत्रशोकेन पीडिता ॥ ५४.९ ॥ हा हता पुत्र पुत्रेति करुणं कुररी यथा । विललापातुरा माता क्व गतो मां विहाय वै । मुखं दर्शय चात्मीयं मातरं मां हि मानय ॥ ५४.१० ॥ श्रुताध्ययनसम्पन्नं जपहोमपरायणम् । आगतं त्वां गृहद्वारे कदा द्रक्ष्यामि पुत्रक ॥ ५४.११ ॥ लोकोक्त्या श्रूयते चैतच्चन्दनं किल शीतलम् । पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः ॥ ५४.१२ ॥ किं चन्दनेन पीयूपबिन्दुना किं किमिन्दुना ॥ ५४.१३ ॥ पुत्रगात्रपरिष्वङ्गपात्रं गात्रं भवेद्यदि ॥ ५४.१४ ॥ परिष्वजितुमिच्छामि त्वामहं पुत्र सुप्रिय । पञ्चत्वमनुयास्यामि त्वद्विहीनाद्य दुःखिता ॥ ५४.१५ ॥ एवं विलपती दीना पुत्रशोकेन पीडिता । मूर्छिता विह्वला दीना निपपात महीतले ॥ ५४.१६ ॥ भार्यां च पतितां दृष्ट्वा पुत्रशोकेन पीडिताम् । चुकोप स मुनिस्तत्र चित्रसेनाय भूभृते ॥ ५४.१७ ॥ दीर्घतपा उवाच - याहि याहि महापाप मा मुखं दर्शयस्व मे । किं त्वया घातितो विप्रो ह्यकामाच्च सुतो मम ॥ ५४.१८ ॥ ब्रह्महत्या भविष्यन्ति बह्व्यस्ते वसुधाधिप । सकुटुम्बस्य मे त्वं हि मृत्युरेष उपस्थितः ॥ ५४.१९ ॥ एवमुक्त्वा ततो विप्रो विचिन्त्य च पुनःपुनः । परित्यज्य तदा क्रोधं मुनिभावाज्जगाद ह ॥ ५४.२० ॥ दीर्घतपा उवाच - उद्वेगं त्यज भो वत्स दुरुक्तं गदितो मया । पुत्रशोकाभिभूतेन दुःखतप्तेन मानद ॥ ५४.२१ ॥ किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः । प्रागेव हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥ ५४.२२ ॥ अनेनैव विधानेन पञ्चत्वं विहितं मम । हत्यास्तव भविष्यन्ति पूर्वमुक्ता न संशयः ॥ ५४.२३ ॥ ब्रह्मक्षत्रविशां मध्ये शूद्रचण्डालजातिषु । कस्त्वं कथय सत्यं मे कस्माच्च निहतो द्विजः ॥ ५४.२४ ॥ चित्रसेन उवाच - विज्ञापयामि विप्रर्षे क्षन्तव्यं ते ममोपरि । नाहं विप्रोऽस्मि वै तात न वैश्यो न च शूद्रजः ॥ ५४.२५ ॥ न व्याधश्चान्त्यजातो वा क्षत्रियोऽहं महामुने । काशीराजो मृगान् हन्तुमागतो वनमुत्तमम् ॥ ५४.२६ ॥ भ्रान्त्या निपातितो ह्येष मृगरूपधरो मुनिः । इदानीं तव पादान्ते संश्रितः पातकान्वितः ॥ ५४.२७ ॥ किं कर्तव्यं मया विप्र उपायं कथयस्व मे ॥ ५४.२८ ॥ दीर्घतपा उवाच - ब्रह्महत्या न शक्येताप्येका निस्तरितुं प्रभो । दशैका च कथं शक्यास्ताः शृणुष्व नरेश्वर ॥ ५४.२९ ॥ चत्वारो मे सुता राजन् सभार्या मातृपूर्वकाः । मया सह न जीवन्ति ऋक्षशृङ्गस्य कारणे ॥ ५४.३० ॥ उपायं शोभनं तात कथयिष्ये शृणुष्व तम् । शक्रोऽपि यदि तं कर्तुं सुखोपायं नरेश्वर ॥ ५४.३१ ॥ सकुटुम्बं समस्तं मां दाहयित्वानले नृप । अस्थीनि नर्मदातोये शूलभेदे विनिक्षिप ॥ ५४.३२ ॥ नर्मदादक्षिणे कूले शूलभेदं हि विश्रुतम् । सर्वपापहरं तीर्थं सर्वदुःखघ्नमुत्तमम् ॥ ५४.३३ ॥ शुचिर्भूत्वा ममास्थीनि तत्र तीर्थे विनिक्षिप । मोक्ष्यसे सर्वपापैस्त्वं मम वाक्यान्न संशयः ॥ ५४.३४ ॥ राजोवाच - आदेशो दीयतां तात करिष्यामि न संशयः । समस्तं मेऽस्ति यत्किंचिद्राज्यं कोशः सुहृत्सुताः ॥ ५४.३५ ॥ तवाधीनं महाविप्र प्रयच्छामि प्रसीद मे । परस्परं विवदतोर्विप्र राज्ञोस्तदा नृप ॥ ५४.३६ ॥ स्फुटित्वा हृदयं शीघ्रं मुनिभार्या मृता तदा । पुत्रशोकसमाविष्टा निर्जीवा पतिता क्षितौ ॥ ५४.३७ ॥ पुत्राश्च मातृशोकेन सर्वे पञ्चत्वमागताः । स्नुषाश्चैव तदा सर्वा मृताश्च सह भर्तृभिः ॥ ५४.३८ ॥ पञ्चत्वं च गताः सर्वे मुनिमुख्या नृपोत्तम । विप्रानाह्वापयामास ये तत्राश्रमवासिनः ॥ ५४.३९ ॥ तेभ्यो निवेदयामास यथावृत्तं नृपोत्तमः । स तैस्तदाभ्यनुज्ञातः काष्ठान्यादाय यत्नतः ॥ ५४.४० ॥ दाहं संचयनं चक्रे चित्रसेनो महीपतिः । ऋक्षशृङ्गादिसर्वेषां गृहीत्वास्थीनि यत्नतः ॥ ५४.४१ ॥ याम्याशां प्रस्थितो राजा पादचारी महीपते । न शक्नोति यदा गन्तुं छायामाश्रित्य तिष्ठति ॥ ५४.४२ ॥ विश्रम्य च पुनर्गच्छेद्भाराक्रान्तो महीपतिः । सचैलं कुरुते स्नानं मुक्त्वास्थीनि पदे पदे ॥ ५४.४३ ॥ पिबेज्जलं निराहारः स गच्छन् दक्षिणामुखः । अचिरेणैव कालेन संगतो नर्मदातटम् ॥ ५४.४४ ॥ आश्रमस्थान् द्विजान् दृष्ट्वा पप्रच्छ पृथिवीपतिः ॥ ५४.४५ ॥ चित्रसेन उवाच - कथ्यतां शूलभेदस्य मार्गं मे द्विजसत्तमाः । येन यामि महाभागाः स्वकार्यार्थस्य सिद्धये ॥ ५४.४६ ॥ मुनय ऊचुः । इतः क्रोशान्तरादर्वाक्तीर्थं परमशोभनम् । नर्मदादक्षिणे कूले ततो द्रक्ष्यसि नान्यथा ॥ ५४.४७ ॥ ऋषिवाक्येन राजासौ शीघ्रं गत्वा नरेश्वरः । स ददर्श ततः शीघ्रं बहुद्विजसमाकुलम् ॥ ५४.४८ ॥ बहुद्रुमलताकीर्णं बहुपुष्पोपशोभितम् । ऋक्षसिंहसमाकीर्णं नानाव्रतधरैः शुभैः ॥ ५४.४९ ॥ एकपादास्थिताः केचिदपरे सूर्यदृष्टयः । एकाङ्गुष्ठ स्थिताः केचिदूर्ध्वबाहुस्थिताः परे ॥ ५४.५० ॥ दिनैकभोजनाः केचित्केचित्कन्दफलाशनाः । त्रिरात्रभोजनाः केचित्पराकव्रतिनोऽपरे ॥ ५४.५१ ॥ चान्द्रायणरताः केचित्केचित्पक्षोपवासिनः । मासोपवासिनः केचित्केचिदृत्वन्तपारणाः ॥ ५४.५२ ॥ योगाभ्यासरताः केचित्केचिद्ध्यायन्ति तत्पदम् । शीर्णपर्णाशिनः केचित्केचिच्च कटुकाशनाः ॥ ५४.५३ ॥ शैवालभोजनाः केचित्केचिन्मारुतभोजनाः । गार्हस्थ्ये च स्थिताः केचित्केचिच्चैवाग्निहोत्रिणः ॥ ५४.५४ ॥ एवंविधान् द्विजान् दृष्ट्वा जानुभ्यामवनिं गतः । प्रणम्य शिरसा राजन्राजा वचनमब्रवीत् ॥ ५४.५५ ॥ चित्रसेन उवाच - कस्मिन्देशे च तत्तीर्थं सत्यं कथयत द्विजाः । येनाभिवाञ्छिता सिद्धिः सफला मे भविष्यति ॥ ५४.५६ ॥ ऋषय ऊचुः । धन्वन्तरशतं गच्छ भृगुतुङ्गस्य मूर्धनि । कुण्डं द्रक्ष्यसि तत्पूर्णं विस्तीर्णं पयसा शिवम् ॥ ५४.५७ ॥ तेषां तद्वचनं श्रुत्वा गतः कुण्डस्य सन्निधौ । दृष्ट्वा चैव तु तत्तीर्थं भ्रान्तिर्जाता नृपस्य वै ॥ ५४.५८ ॥ ततो विस्मयमापन्नश्चिन्तयन्वै मुहुर्मुहुः । आकाशस्थं ददर्शासौ सामिषं कुररं नृपः ॥ ५४.५९ ॥ भ्रममाणं गृहीताहिं वध्यमानं निरामिषैः । परस्परं च युयुधुः सर्वेऽप्यामिषकाङ्क्षया ॥ ५४.६० ॥ हतश्चञ्चुप्रहारेण स ततः पतितोऽंभसि । शूलेन शूलिना यत्र भूभागो भेदितः पुरा ॥ ५४.६१ ॥ तत्तीर्थस्य प्रभावेण स सद्यः पुरुषोऽभवत् । विमानस्थं ददर्शासौ पुमांसं दिव्यरूपिणम् ॥ ५४.६२ ॥ गन्धर्वाप्सरसो यक्षास्तं यान्तं तुष्टुवुर्दिवि । अप्सरोगीयमाने तु गते सूर्यस्य मूर्धनि । चित्रसेनस्ततस्तस्मिन्नाश्चर्यं परमं गतः ॥ ५४.६३ ॥ ऋषिणा कथितं यद्वत्तद्वत्तीर्थं न संशयः । हृष्टरोमाभवद्दृष्ट्वा प्रभावं तीर्थसम्भवम् ॥ ५४.६४ ॥ ममाद्य दिवसो धन्यो यस्मादत्र समागतः । अस्थीनि भूमौ निक्षिप्य स्नानं कृत्वा यथाविधि ॥ ५४.६५ ॥ तिलमिश्रेण तोयेनातर्पयत्पितृदेवताः । गृह्यास्थीनि ततो राजा चिक्षेपान्तर्जले तदा ॥ ५४.६६ ॥ क्षणमेकं ततो वीक्ष्य राजोर्द्ध्ववदनः स्थितः । तान् ददर्श पुनः सर्वान् दिव्यरूपधराञ्छुभान् ॥ ५४.६७ ॥ दिव्यवस्त्रैश्च संवीतान् दिव्याभरणभूषितान् । विमानैर्विविधैर्दिव्यैरप्सरोगणसेवितैः ॥ ५४.६८ ॥ पृथग्भूतांश्च तान् सर्वान् विमानेषु व्यवस्थितान् । उत्पत्तिवत्समालोक्य राजा संहर्षी सोऽभवत् ॥ ५४.६९ ॥ ऋषिर्विमानमारूढश्चित्रसेनमथाब्रवीत् । भोभोः साधो महाराज चित्रसेन महीपते ॥ ५४.७० ॥ त्वत्प्रसादान्नृपश्रेष्ठ गतिर्दिव्या ममेदृषी । जातेयं यत्त्वया कार्यं कृतं परमशोभनम् ॥ ५४.७१ ॥ स्वसुतोऽपि न शक्नोति पित्ःणां कर्तुमीदृशम् । मदीयवचनात्तात निष्पापस्त्वं भविष्यसि ॥ ५४.७२ ॥ फलं प्राप्स्यसि राजेन्द्र कामिकं मनसेप्सितम् । आशीर्वादांस्ततो दत्त्वा चित्रसेनाय धीमते । स्वर्गं जगाम ससुतस्ततो दीर्घतपा मुनिः ॥ ५४.७३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमावन्त्यखण्डे रेवाखण्डे दीर्घतपसः स्वर्गारोहणवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ ऋKV अध्याय ५५ उत्तानपाद उवाच - माहात्म्यं तीर्थजं दृष्ट्वा चित्रसेनो नरेश्वरः । किं चकार क्व वा वासं किमाहारो बभूव ह ॥ ५५.१ ॥ ईश्वर उवाच - भृगुतुङ्गं समारुह्य ऐशानीं दिशमाश्रितः । तपश्चचार विपुलं कुण्डे तत्र नृपोत्तमः ॥ ५५.२ ॥ सर्वान् देवान् हृदि ध्यात्वा ब्रह्मविष्णुमहेश्वरान् । विचिक्षेप यदात्मानं प्रत्यक्षौ रुद्रकेशवौ । करे गृहीत्वा राजानं रुद्रो वचनमब्रवीत् ॥ ५५.३ ॥ ईश्वर उवाच - प्राणत्यागं महाराज मा काले त्वं कृथा वृथा । अद्याप्यसि युवा त्वं वै न युक्तं मरणं तव ॥ ५५.४ ॥ स्वस्थानं गच्छ शीघ्रं त्वं भुक्त्वा भोगान्यथेप्सितान् । कुरु निष्कण्टकं राज्यं नाके शक्र इवापरः ॥ ५५.५ ॥ चित्रसेन उवाच - न राज्यं कामये देव न पुत्रान्न च बान्धवान् । न भार्यां न च कोशं च न गजान्न तुरंगमान् ॥ ५५.६ ॥ मुञ्च मुञ्च महादेव मा विघ्नः क्रियतां मम । स्वर्गप्राप्तिर्ममाद्यैव त्वत्प्रसादान्महेश्वर ॥ ५५.७ ॥ ईश्वर उवाच - यस्याग्रतो भवेद्ब्रह्मा विष्णुः शम्भुस्तथैव च । स्वर्गेण तस्य किं कार्यं स गतः किं करिष्यति ॥ ५५.८ ॥ तुष्टा वयं त्रयो देवा वृणीष्व वरमुत्तमम् । यथेप्सितं महाराज सत्यमेतदसंशयम् ॥ ५५.९ ॥ चित्रसेन उवाच - यदि तुष्टास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः । अद्यप्रभृति युष्माभिः स्थातव्यमिह सर्वदा ॥ ५५.१० ॥ गयाशिरो यथा पुण्यं कृतं युष्माभिरेव च । तथैवेदं प्रकर्तव्यं शूलभेदं च पावनम् ॥ ५५.११ ॥ यत्रयत्र स्थिता यूयं तत्रतत्र वसाम्यहम् । गणानां चैव सर्वेषामाधिपत्यमथास्तु मे ॥ ५५.१२ ॥ ईश्वर उवाच - अद्यप्रभृति तिष्ठामः शूलभेदे नरेश्वर । त्रिकालां हि त्रयो देवाः कलांशेन वसामहे ॥ ५५.१३ ॥ नन्दिसंज्ञो गणाधीशो भविष्यति भवान्ध्रुवम् । मत्समीपे तु भवत आदौ पूजा भविष्यति ॥ ५५.१४ ॥ प्रक्षिप्य तानि चास्थीनि यत्र दीर्घतपा ययौ । सकुटुम्बो विमानस्थः स्वर्गतस्त्वं तथा कुरु ॥ ५५.१५ ॥ एवं देवा वरं दत्त्वा चित्रसेनाय पार्थिव । कुण्डमूर्धनि याम्यायां त्रयो देवास्तदा स्थिताः ॥ ५५.१६ ॥ परस्परं वदन्त्येवं पुण्यतीर्थमिदं परम् । यथा हि गयाशिरः पुण्यं पूर्वमेव पठ्यते । तथा रेवातटे पुण्यं शूलभेदं न संशयः ॥ ५५.१७ ॥ ईश्वर उवाच - इदं तीर्थं तथा पुण्यं यथा पुण्यं गयाशिरः । सकृत्पिण्डोदकेनैव नरो निर्मलतां व्रजेत् ॥ ५५.१८ ॥ एकं गयाशिरो मुक्त्वा सर्वतीर्थानि भूपते । शूलभेदस्य तीर्थस्य कलां नार्हन्ति षोडशीम् ॥ ५५.१९ ॥ कुण्डमुदीच्यां याम्यायां दशहस्तप्रमाणतः । रौद्रवारुणकाष्ठायां प्रमाणं चैकविंशति ॥ ५५.२० ॥ एतत्प्रमाणं तत्तीर्थं पिण्डदानादिकर्मसु । नाधर्मनिरता दातुं लभन्ते दानमत्र हि ॥ ५५.२१ ॥ विष्णुस्तु पितृरूपेण ब्रह्मरूपी पितामहः । प्रपितामहो रुद्रोऽभूदेवं त्रिपुरुषाः स्थिताः ॥ ५५.२२ ॥ कदा पश्यति तीर्थं वै कदा नस्तारयिष्यति । इति प्रतीक्षां कुर्वन्ति पुत्राणां सततं नृप । शूलभेदे नरः स्नात्वा दृष्ट्वा शूलधरं सकृत् ॥ ५५.२३ ॥ नापुत्रो नाधनो रोगी सप्तजन्मसु जायते । एकविंशतिं पितुः पक्षे मातुश्वैवेकविंशतिम् ॥ ५५.२४ ॥ भार्यापक्षे दशैवेह कुलान्येतानि तारयेत् । शूलभेदवने राजञ्छाकमूलफलैरपि ॥ ५५.२५ ॥ एकस्मिन्भोजिते विप्रे कोटीर्भवति भोजिता । पञ्चस्थानेषु यः श्राद्धं कुरुते भक्तिमान्नरः ॥ ५५.२६ ॥ कुलानि प्रेतभूतानि सर्वाण्यपि हि तारयेत् । द्विजदेवप्रसादेन पित्ःणां च प्रसादतः ॥ ५५.२७ ॥ श्राद्धदो निवसेत्तत्र यत्र देवो महेश्वरः । स्युरात्मघातिनो ये च गोब्राह्मणहनाश्च ये ॥ ५५.२८ ॥ दंष्ट्रिभिर्जलपाते च विद्युत्पातेषु ये मृताः । न येषामग्निसंस्कारो नाशौचं नोदकक्रिया ॥ ५५.२९ ॥ तत्र तीर्थे तु यस्तेषां श्राद्धं कुर्वीत भक्तितः । मोक्षावाप्तिर्भवेत्तेषां युगमेकं न संशयः ॥ ५५.३० ॥ अज्ञानाद्यत्कृतं पापं बालभावाच्च यत्कृतम् । तत्सर्वं नाशयेत्पापं स्नानमात्रेण भूपते ॥ ५५.३१ ॥ रजकेन यथा धौतं वस्त्रं भवति निर्मलम् । तथा पापोऽपि तत्तीर्थे स्नातो भवति निर्मलः ॥ ५५.३२ ॥ संन्यासं कुरुते योऽत्र तीर्थे विधिसमन्वितम् । ध्यायन्नित्यं महादेवं स गच्छेत्परमं पदम् ॥ ५५.३३ ॥ क्रीडित्वा स यथाकामं स्वेच्छया शिवमन्दिरे । वेदवेदाङ्गतत्त्वज्ञो जायतेऽसौ शुभे कुले ॥ ५५.३४ ॥ रूपवान्सुभगश्चैव सर्वव्याधिविवर्जितः । राजा वा राजपुत्रो वाचारसमन्वितः ॥ ५५.३५ ॥ एतत्ते कथितं राजंस्तीर्थस्य फलमुत्तमम् । यच्छ्रुत्वा मानवो नित्यं मुच्यते सर्वकिल्बिषैः ॥ ५५.३६ ॥ य इदं श्रावयेन्नित्यमाख्यानं द्विजपुंगवान् । श्राद्धे देवकुले वापि पठेत्पर्व्णि पर्व्णि ॥ ५५.३७ ॥ गीर्वाणास्तस्य तुष्यन्ति मनुष्याः पितृभिः सह । पठतां शृण्वतां चैव नश्यते सर्वपातकम् ॥ ५५.३८ ॥ लिखित्वा तीर्थमाहात्म्यं ब्राह्मणेभ्यो ददाति यः । जातिस्मरत्वं लभते प्राप्नोत्यभिमतं फलम् ॥ ५५.३९ ॥ रुद्रलोके वसेत्तावद्यावदक्षरमन्वितम् ॥ ५५.४० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये काशीराजमोक्षगमनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ऋKV अध्याय ५६ उत्तानपाद उवाच - अन्यच्च श्रोतुमिच्छामि केन गङ्गावतारिता । रुद्रशीर्षे स्थिता देवी पुण्या कथमिहागता ॥ ५६.१ ॥ पुण्या देवाशिला नाम तस्या माहात्म्यमुत्तमम् । एतदाख्याहि मे सर्वं प्रसन्नो यदि शङ्कर ॥ ५६.२ ॥ ईश्वर उवाच - शृणुष्वैकमना भूत्वा यथा गङ्गावतारिता । देवैः सर्वैर्महाभागा सर्वलोकहिताय वै ॥ ५६.३ ॥ अस्ति विन्ध्यो नगो नाम याम्याशायां महीपते । गीर्वाणास्तु गताः सर्वे तस्य मूर्ध्नि नरेश्वर ॥ ५६.४ ॥ तत्र चाह्वानिता गङ्गा ब्रह्माद्यैरखिलैः सुरैः । अभ्यर्च्येशं जगन्नाथं देवदेवं जगद्गुरुम् ॥ ५६.५ ॥ जटामध्यस्थितां गङ्गां मोचयस्वेति भूतले । भास्वन्ती सा ततो मुक्ता रुद्रेण शिरसा भुवि ॥ ५६.६ ॥ तत्र स्थाने महापुण्या देवैरुत्पादिता स्वयम् । ततो देवनदी जाता सा हिताय नृणां भुवि ॥ ५६.७ ॥ वसन्ति ये तटे तस्याः स्नानं कुर्वन्ति भक्तितः । पिबन्ति च जलं नित्यं न ते यान्ति यमालयम् ॥ ५६.८ ॥ यत्र सा पतिता कुण्डे शूलभेदे नराधिप । देवनद्याः प्रतीच्यां तु तत्र प्राची सरस्वती ॥ ५६.९ ॥ याम्यायां शूलभेदस्य तत्र तीर्थमनुत्तमम् । तत्र देवशिला पुण्या स्वयं देवेन निर्मिता ॥ ५६.१० ॥ तत्र स्नात्वा तु यो भक्त्या तर्पयेत्पितृदेवताः । पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥ ५६.११ ॥ तत्र स्नात्वा तु यो भक्त्या ब्राह्मणान् भोजयेन्नृप । स्वल्पान्नेनापि दत्तेन तस्य चान्तो न विद्यते ॥ ५६.१२ ॥ उत्तानपाद उवाच - कानि दानानि दत्तानि शस्तानि धरणीतले । यानि दत्त्वा नरो भक्त्या मुच्यते सर्वपातकैः ॥ ५६.१३ ॥ देवशिलाया माहात्म्यं स्नानदानादिजं फलम् । व्रतोपवासनियमैर्यत्प्राप्यं तद्वदस्व मे ॥ ५६.१४ ॥ ईश्वर उवाच - आसीत्पुरा महावीर्यश्चेदिनाथो महाबलः । वीरसेन इति ख्यातो मण्डलाधिपतिर्नृप ॥ ५६.१५ ॥ राष्ट्रे तस्य रिपुर्नास्ति न व्याधिर्न च तस्कराः । न चाधर्मोऽभवत्तत्र धर्म एव हि सर्वदा ॥ ५६.१६ ॥ सदा मुदान्वितो राजा सभार्यो बहुपुत्रकः । एकासीद्दुहिता तस्य सुरूपा गिरिजा यथा ॥ ५६.१७ ॥ इष्टा सा पितृमातृभ्यां बन्धुवर्गजनस्य च । कृतं वैवाहिकं कर्म काले प्राप्ते यथाविधि ॥ ५६.१८ ॥ अनन्तरं चेदिपतिर्द्वादशाब्दमखे स्थितः । ततस्तस्यास्तु यो भर्ता स मृत्युवशमागतः ॥ ५६.१९ ॥ विधवां तां सुतां दृष्ट्वा राजा शोकसमन्वितः । उवाच वचनं तत्र स्वभार्यां दुःखपीडिताम् ॥ ५६.२० ॥ प्रिये दुःखमिदं जातं यावज्जीवं सुदुःसहम् । नैषा रक्षयितुं शक्या रूपयौवनगर्विता ॥ ५६.२१ ॥ दूषयेत कुलं क्वापि कथं रक्ष्या हि बालिका । नोपायो विद्यते क्वापि भानुमत्याश्च रक्षणे । परस्परं विवदतोः श्रुत्वा तत्कन्यकाब्रवीत् ॥ ५६.२२ ॥ भानुमत्युवाच - न लज्जामि तवाग्रेऽहं जल्पन्ती तात कर्हिचित् । सत्यं नोत्पद्यते दोषो मदर्थे ते नराधिप ॥ ५६.२३ ॥ अद्यप्रभृत्यहं तात धारयिष्ये न मूर्धजान् । स्थूलवस्त्रपटार्द्धं तु धारयिष्यामि ते गृहे ॥ ५६.२४ ॥ करिष्यामि व्रतान्याशु पुराणविहितानि च । आत्मानं शोषयिष्यामि तोषयिष्ये जनार्दनम् ॥ ५६.२५ ॥ ममैषा वर्तते बुद्धिर्यदि त्वं तात मन्यसे । भानुमत्या वचः श्रुत्वा राजा संहर्षितोऽभवत् ॥ ५६.२६ ॥ तीर्थयात्रां समुद्दिश्य कोशं दत्त्वा सुपुष्कलम् । विसृज्य पुरुषान्वृद्धान् कृत्वा तस्याः सुरक्षणे ॥ ५६.२७ ॥ पुरुषान् सायुधांश्चापि ब्राह्मणान्सपुरोहितान् । दासीदासान्पदातींश्च चास्याः संरक्षणक्षमान् ॥ ५६.२८ ॥ ततः पितुर्मतेनैव गङ्गातीरं गता सती । अवगाह्य तटे द्वे तु गङ्गायाः स नराधिप ॥ ५६.२९ ॥ नित्यं सम्पूज्य सद्विप्रान्गन्धमाल्यादिभूषणैः । द्वादशाब्दानि सा तीरे गङ्गायाः समवस्थिता ॥ ५६.३० ॥ त्यक्त्वा गङ्गां तदा राज्ञी गता काष्ठां तु दक्षिणाम् । प्राप्ता सा सचिवैः सार्द्धं यत्र रेवा महानदी ॥ ५६.३१ ॥ समाः पञ्च स्थिता तत्र ओङ्कारेऽमरकण्टके । उदग्याम्येषु तीर्थेषु तीर्थात्तीर्थं जगाम सा ॥ ५६.३२ ॥ स्नात्वा स्नात्वा पूज्य विप्रान् भक्तिपूर्वमतन्द्रिता । वारुणीं सा दिशं गत्वा देवनद्याश्च सङ्गमे ॥ ५६.३३ ॥ ददर्श चाश्रमं पुण्यं मुनिसङ्घैः समाकुलम् । दृष्ट्वा मुनिसमूहं सा प्रणिपत्येदमब्रवीत् ॥ ५६.३४ ॥ माहात्म्यमस्य तीर्थस्य नाम चैवास्य कीदृशम् । कथयन्तु महाभागाः प्रसादः क्रियतां मम ॥ ५६.३५ ॥ ऋषय ऊचुः । चक्रतीर्थं तु विख्यातं चक्रं दत्तं पुरा हरेः । महेश्वरेण तुष्टेन देवदेवेन शूलिना ॥ ५६.३६ ॥ अत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः । अनिवर्तिका गतिस्तस्य जायते नात्र संशयः ॥ ५६.३७ ॥ द्वितीयेऽह्नि ततो गच्छेच्छूलभेदे तपस्विनि । पूर्वोक्तेन विधानेन स्नानं कुर्याद्यथाविधि ॥ ५६.३८ ॥ जन्मत्रयकृतैः पापैर्मुच्यते नात्र संशयः । जलेन तिलमात्रेण प्रदद्यादञ्जलित्रयम् ॥ ५६.३९ ॥ तृप्यन्ति पितरस्तस्य द्वादशाब्दान्यसंशयम् । यः श्राद्धं कुरुते भक्त्या श्रोत्रियैर्ब्राह्मणैर्नृप ॥ ५६.४० ॥ वार्द्धुष्याद्यास्तु वर्ज्यन्ते पित्ःणां दत्तमक्षयम् । अपरेऽह्णि ततो गच्छेत्पुण्यां देवशिलां शुभाम् ॥ ५६.४१ ॥ वीक्ष्यते जाह्नवी पुण्या देवैरुत्पादिता पुरा । स्नात्वा तत्र जलं दद्यात्तिलमिश्रं नराधिप ॥ ५६.४२ ॥ सकृत्पिण्डप्रदानेन मुच्यते ब्रह्महत्यया । एकादश्यामुपोषित्वा पक्षयोरुभयोरपि ॥ ५६.४३ ॥ क्षपाजागरणं कुर्यात्पठेत्पौराणिकीं कथाम् । विष्णुपूजां प्रकुर्वीत पुष्पधूपनिवेदनैः ॥ ५६.४४ ॥ प्रभाते भोजयेद्विप्रान् दानं दद्यात्सशक्तितः । चतुर्थेऽह्नि ततो गच्छेद्यत्र प्राची सरस्वती ॥ ५६.४५ ॥ ब्रह्मदेहाद्विनिष्क्रान्ता पावनार्थं शरीरिणाम् । तत्र स्नात्वा नरो भक्त्या तर्पयेत्पितृदेवताः ॥ ५६.४६ ॥ श्राद्धं कृत्वा यथान्यायमनिन्द्यान् भोजयेद्द्विजान् । पितरस्तस्य तृप्यन्ति द्वादशाब्दान्यसंशयम् ॥ ५६.४७ ॥ सर्वदेवमयं स्थानं सर्वतीर्थमयं तथा । देवकोटिसमाकीर्णं कोटिलिङ्गोत्तमोत्तमम् ॥ ५६.४८ ॥ त्रिरात्रं कुरुते योऽत्र शुचिः स्नात्वा जितेन्द्रियः । पक्षं मासं च षण्मासमब्दमेकं कदाचन ॥ ५६.४९ ॥ न तस्य सम्भवो मर्त्ये तस्य वासो भवेद्दिवि । नियमस्थो विमुच्येत त्रिजन्मजनितादघात् ॥ ५६.५० ॥ विना पुंसा तु या नारी द्वादशाब्दं शुचिव्रता । तिष्ठते साक्षयं कालं रुद्रलोके महीयते ॥ ५६.५१ ॥ मुनीनां वचनं श्रुत्वा मुदा परमया ययौ । ततोऽवगाह्य तत्तीर्थमहर्निशमतन्द्रिता ॥ ५६.५२ ॥ दृष्ट्वा तीर्थप्रभावं तु पुनर्वचनमब्रवीत् । श्रूयतां वचनं मेऽद्य ब्राह्मणाः सपुरोहिताः ॥ ५६.५३ ॥ न त्यजामीदृशं स्थानं यावज्जीवमहर्निशम् । मत्पितुश्च तथा मातुः कथयध्वमिदं वचः ॥ ५६.५४ ॥ त्वत्कन्या शूलभेदस्था नियता व्रतचारिणी । एवमुक्त्वा स्थिता सा तु तत्र भानुमती नृपः ॥ ५६.५५ ॥ एकान्तरोपवासस्था शनैर्मासोपवासिता । देवशिलास्थिता नित्यं दध्यौ सा चक्रपाणिनम् ॥ ५६.५६ ॥ अहर्निशं दहेद्धूपं चन्दनं च सदीपकम् । पादशौचं स्वयं कृत्वा स्वयं भोजयते द्विजान् । द्वादशाब्दानि सा राज्ञी सुव्रता तत्र संस्थिता ॥ ५६.५७ ॥ ईश्वर उवाच - अन्यद्देवशिलायास्तु माहात्म्यं शृणु भूपते । कथयामि महाबाहो सेतिहासं पुरातनम् ॥ ५६.५८ ॥ कश्चिद्वनेचरो व्याधः शबरः सह भार्यया । दुर्भिक्षपीडितस्तत्र आमिषार्थं वनं गतः ॥ ५६.५९ ॥ नापश्यत्पक्षिणस्तत्र न मृगान्न फलानि च । सरस्ततो ददर्शाथ पद्मिनीखण्डमण्डितम् ॥ ५६.६० ॥ दृष्ट्वा सरोवरं तत्र शबरी वाक्यमब्रवीत् । कुमुदानि गृहाण त्वं दिव्यान्याहारसिद्धये ॥ ५६.६१ ॥ देवस्य पूजनार्थं तु शूलभेदस्य यत्नतः । विक्रयो भविता तत्र धर्मशीलो जनो यतः ॥ ५६.६२ ॥ भार्याया वचनं श्रुत्वा जग्राह कुमुदानि सः । उत्तीर्णस्तु तटे यावद्दृष्ट्वा श्रीवृक्षमग्रतः ॥ ५६.६३ ॥ श्रीफलानि गृहीत्वा तु सुपक्वानि विशेषतः । शूलभेदं स सम्प्राप्तो ददर्श सुबहूञ्जनान् ॥ ५६.६४ ॥ चैत्रमासे सिते पक्षे एकादश्यां नराधिप । तस्मिन्नहनि नाश्नीयुर्बाला वृद्धास्तथा स्त्रियः ॥ ५६.६५ ॥ मण्डपं ददृशे तत्र कृतं देवशिलोपरि । वस्त्रैः संवेष्टितं दिव्यं स्रङ्माल्यैरुपशोभितम् ॥ ५६.६६ ॥ ऋषयश्चागतास्तत्र ये चाश्रमनिवासिनः । सोपवासाः सनियमाः सर्वे साग्निपरिग्रहाः ॥ ५६.६७ ॥ देवनद्यास्तटे रम्ये मुनिसङ्घैः समाकुले । आगच्छद्भिर्नृपश्रेष्ठ मार्गस्तत्र न लभ्यते ॥ ५६.६८ ॥ दृष्ट्वा जनपदं तत्र तां भार्यां शबरोऽब्रवीत् । गच्छ पृच्छस्व किमपि किमद्य स्नानकारणम् ॥ ५६.६९ ॥ पर्वाणि यानि श्रूयन्ते किंस्वित्सूर्येन्दुसम्प्लवः । अयनं किं भवेदद्य किं वाक्षयतृतीयका ॥ ५६.७० ॥ ततः स्वभर्तुर्वचनाच्छबरी प्रस्थिता तदा । पप्रच्छ नारीं दृष्ट्वाग्रे दत्त्वाग्रे कमले शुभे ॥ ५६.७१ ॥ तिथिरद्यैव का प्रोक्ता किं पर्व कथयस्व मे । किमयं स्नाति लोकोऽयं किं वा स्नानस्य कारणम् ॥ ५६.७२ ॥ नार्युवाच - अद्य चैकादशी पुण्या सर्वपापक्षयंकरी । उपोषिता सकृद्येन नाकप्राप्तिं करोति सा ॥ ५६.७३ ॥ तस्यास्तद्वचनं श्रुत्वा शबरी शाबराय वै । कथयामास चाव्यग्रा स्त्रीवाक्यं नृपसत्तम ॥ ५६.७४ ॥ अद्य त्वेकादशी पुण्या बालवृद्धैरुपोषिता । मदनैकादशी नाम सर्वपापक्षयंकरी ॥ ५६.७५ ॥ नियता श्रूयते तत्र राजपुत्री सुशोभना । व्रतस्था नियताहारा नाम्ना भानुमती सती ॥ ५६.७६ ॥ नैतया सदृशी काचित्त्रिषु लोकेषु विश्रुता । दृश्यते सा वरारोहा ह्यवतीर्णा महीतले ॥ ५६.७७ ॥ भार्याया वचनं श्रुत्वा शबरस्तां जगाद ह । कमलानि यथालाभं दत्त्वा भुङ्क्ष्व हि सत्वरम् ॥ ५६.७८ ॥ ममैषा वर्तते बुद्धिर्न भोक्तव्यं मया ध्रुवम् । न मयोपार्जितं भद्रे पापबुद्ध्या शुभं क्वचित् ॥ ५६.७९ ॥ शबर्युवाच - न पूर्वं तु मया भुक्तं कस्मिंश्चैव तु वासरे । भुक्तशेषं मया भुक्तं यावत्कालं स्मराम्यहम् ॥ ५६.८० ॥ भार्याया निश्चयं ज्ञात्वा स्नानं कर्तुं जगाम ह । अर्धोत्तरीयवस्त्रेण स्नानं कृत्वा तु भक्तितः ॥ ५६.८१ ॥ सर्वान् देवान्नमस्कृत्य गतो देवशिलां प्रति । तस्थौ स शङ्कमानोऽपि नमस्कृत्य जनार्दनम् ॥ ५६.८२ ॥ यस्यास्तु कुमुदे दत्ते तया राज्ञ्यै निवेदितम् । तद्दृष्ट्वा पद्मयुगलं तां दासीं साब्रवीत्तदा ॥ ५६.८३ ॥ कुत्र पद्मद्वयं लब्धं कथ्यतामग्रतो मम । शीघ्रं तत्रैव गत्वा च पद्मानानय चापरान् ॥ ५६.८४ ॥ धान्येन वसुना वापि कमलानि समानय । भानुमत्या वचः श्रुत्वा गता सा शबरं प्रति ॥ ५६.८५ ॥ श्रीफलानि च पुष्पाणि बहून्यन्यानि देहि मे ॥ ५६.८६ ॥ शबर्युवाच - श्रीफलानि सपुष्पाणि दास्यामि च विशेषतः । न लोभो न स्पृहा मेऽस्ति गत्वा राज्ञीं निवेदय ॥ ५६.८७ ॥ तया च सत्वरं गत्वा यथावृत्तं निवेदितम् । शबर्युक्तं पुरस्तस्याः सविस्तरपरं वचः ॥ ५६.८८ ॥ तस्यास्तु वचनं श्रुत्वा राज्ञी तत्र स्वयं गता । उवाच शबरीं प्रीत्या देहि पद्मानि मूल्यतः ॥ ५६.८९ ॥ शबर्युवाच - न मूल्यं कामये देवि फलपुष्पसमुद्भवम् । श्रीफलानि च पुष्पाणि यथेष्टं मम गृह्यताम् ॥ ५६.९० ॥ अर्चां कुरु यथान्यायं वासुदेवे जगत्पतौ ॥ ५६.९१ ॥ राज्ञ्युवाच - विना मूल्यं न गृह्णामि कमलानि तवाधुना । धान्यस्य खारिकामेकां ददामि प्रतिगृह्यताम् ॥ ५६.९२ ॥ दश विंशत्यथ त्रिंशच्चत्वारिंशदथापि वा । गृहाण वा खारिशतं दुर्भिक्षां बोधिमुत्तर ॥ ५६.९३ ॥ वसु रत्नं सुवर्णं च अन्यत्ते यदभीप्सितम् । तत्सर्वं सम्प्रदास्यामि कमलार्थे न संशयः ॥ ५६.९४ ॥ शबर्युवाच - नाहारं चिन्तयाम्यद्य मुक्त्वा देवं वरानने । देवकार्यं विना भद्रे नान्या बुद्धिः प्रवर्तते ॥ ५६.९५ ॥ राज्ञ्युवाच - न त्वयान्नं परित्याज्यं सर्वमन्ने प्रतिष्ठितम् । तस्मात्सर्वप्रयत्नेन ममान्नं प्रतिगृह्यताम् ॥ ५६.९६ ॥ तपस्विनो महाभागा ये चारण्यनिवासिनः । गृहस्थद्वारि ते सर्वे याचन्तेऽन्नमतन्द्रिताः ॥ ५६.९७ ॥ शबर्युवाच - निषेधश्च कृतः पूर्वं सर्वं सत्ये प्रतिष्ठितम् । सत्येन तपते सूर्यः सत्येन ज्वलतेऽनलः ॥ ५६.९८ ॥ सत्येन तिष्ठत्युदधिर्वायुः सत्येन वाति हि । सत्येन पच्यते सस्यं गावः क्षीरं स्रवन्ति च ॥ ५६.९९ ॥ सत्याधारमिदं सर्वं जगत्स्थावरजङ्गमम् । तस्मात्सर्वप्रयत्नेन सत्यं सत्येन पालयेत् ॥ ५६.१०० ॥ देवकार्यं तु मे मुक्त्वा नान्या बुद्धिः प्रवर्तते । गृहाण राज्ञि पुष्पाणि कुरु पूजां गदाभृतः ॥ ५६.१०१ ॥ श्रूयते द्विजवाक्यैस्तु न दोषो विद्यते क्वचित् । कुशाः शाकं पयो मत्स्या गन्धाः पुष्पाक्षता दधि । मांसं शय्यासनं धानाः प्रत्याख्येया न वारि च ॥ ५६.१०२ ॥ राज्ञ्युवाच - आरामोपहृतं पुष्पमारण्यं पुष्पमेव च । क्रीतं प्रतिग्रहे लब्धं पुष्पमेवं चतुर्विधम् ॥ ५६.१०३ ॥ उत्तमं पुष्पमारण्यं गृहीतं स्वयमेव च । मध्यमं फलमारामे त्वधमं क्रीतमेव च । प्रतिग्रहेण यल्लब्धं निष्फलं तद्विदुर्बुधाः ॥ ५६.१०४ ॥ पुरोहित उवाच - गृहाण राज्ञि पुष्पाणि कुरु पूजां गदाभृतः । उपकारः प्रकर्तव्यो व्यपदेशेन कर्हिचित् ॥ ५६.१०५ ॥ ईश्वर उवाच - श्रीफलानि सपद्मानि दत्तानि शबरेण तु । गृहीत्वा तानि राज्ञी सा पूजां चक्रे सुशोभनाम् ॥ ५६.१०६ ॥ क्षपाजागरणं चक्रे श्रुत्वा पौराणिकीं कथाम् । शबरस्तु ततो भार्यामिदं वचनमब्रवीत् ॥ ५६.१०७ ॥ दीपार्थं गृह्यतां स्नेहो यथालाभेन सुन्दरि । कृत्वा दीपं ततस्तौ तु कृत्वा पूजां हरेः शुभाम् ॥ ५६.१०८ ॥ चक्रतुर्जागरं रात्रौ ध्यायन्तो धरणीधरम् । ततः प्रभातसमये दृष्ट्वा स्नानोत्सुकं जनम् ॥ ५६.१०९ ॥ स्नाति वै शूलभेदे तु देवनद्यां तथापरे । सरस्वत्यां नराः केचिन्मार्कण्डस्य ह्रदेऽपरे ॥ ५६.११० ॥ चक्रतीर्थं गताश्चक्रुः स्नानं केचिद्विधानतः । शुचयस्ते जनाः सर्वे स्नात्वा देवाशिलोपरि ॥ ५६.१११ ॥ श्राद्धं चक्रुः प्रयत्नेन श्रद्धया पूतचेतसा । तान्दृष्ट्वा शबरो बिल्वैः पिण्डांश्चक्रे प्रयत्नतः ॥ ५६.११२ ॥ भानुमत्या तथा भर्तुः पिण्डनिर्वपणं कृतम् । अनिन्द्या भोजिता विप्रा दम्भवार्द्धुष्यवर्जिताः ॥ ५६.११३ ॥ हविष्यान्नैस्तथा दध्ना शर्करामधुसर्पिषा । पायसेन तु गव्येन कृतान्नेन विशेषतः ॥ ५६.११४ ॥ भोजयित्वा तथा राज्ञी ददौ दानं यथाविधि । पादुकोपानहौ छत्रं शय्यां गोवृषमेव च ॥ ५६.११५ ॥ विविधानि च दानानि हेमरत्नधनानि च । चक्रतीर्थे महाराज कपिलां यः प्रयच्छति । पृथ्वी तेन भवेद्दत्ता सशैलवनकानना ॥ ५६.११६ ॥ उत्तानपाद उवाच - यानि यानि च दत्तानि शस्तानि जगतीपतेः । तानि सर्वाणि देवेश कथयस्व प्रसादतः ॥ ५६.११७ ॥ ईश्वर उवाच - तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् । भूमिदः स्वर्गमाप्नोति दीर्घमायुर्हिरण्यदः ॥ ५६.११८ ॥ गृहदो रोगरहितो रूप्यदो रूपवान् भवेत् । वासोदश्चन्द्रसालोक्यमर्कसायुज्यमश्वदः ॥ ५६.११९ ॥ वृषदस्तु श्रियं पुष्टां गोदाता च त्रिविष्टपम् । यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ॥ ५६.१२० ॥ धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम् । वार्यन्नपृथिवीवासस्तिलकाञ्चनसर्पिषाम् ॥ ५६.१२१ ॥ सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते । येन येन हि भावेन यद्यद्दानं प्रयच्छति ॥ ५६.१२२ ॥ तेन तेन स भावेन प्राप्नोति प्रतिपूजितम् । दृष्ट्वा दानानि सर्वाणि राज्ञी दत्तानि यानि च ॥ ५६.१२३ ॥ उवाच शबरो भार्यां यत्तच्छृणु नरेश्वर । पुराणं पठितं भद्रे ब्राह्मणैर्वेदपारगैः ॥ ५६.१२४ ॥ श्रुतं च तन्मया सर्वं दानधर्मफलं शुभम् । पूर्वजन्मार्जितं पापं स्नानदानव्रतादिभिः ॥ ५६.१२५ ॥ शरीरं दुस्त्यजं मुक्त्वा लभते गतिमुत्तमाम् । संसारसागराद्भीतः सत्यं भद्रे वदामि ते ॥ ५६.१२६ ॥ अनेकानि च पापानि कृतानि बहुशो मया । घातिता जन्तवो भद्रे निर्दग्धाः पर्वताः सदा ॥ ५६.१२७ ॥ तेन पापेन दग्धोऽहं दारिद्र्यं न निवर्तते । तीर्थावगाहनं पूर्वं पापेन न कृतं मया ॥ ५६.१२८ ॥ तेनाहं दुःखितो भद्रे दारिद्र्यमनिवर्तिकम् । मातुर्गृहं प्रयाहि त्वं त्यज स्नेहं ममोपरि । नगशृङ्गं समारुह्य मोक्तुमिच्छाम्यहं तनुम् ॥ ५६.१२९ ॥ शबर्युवाच - मात्रा पित्रा न मे कार्यं नापि स्वजनबान्धवैः । या गतिस्तव जीवेश सा ममापि भविष्यति ॥ ५६.१३० ॥ न स्त्रीणामीदृशो धर्मो विना भर्त्रा स्वजीवितम् । श्रूयन्ते बहवो दोषा धर्मशास्त्रेष्वनेकधा ॥ ५६.१३१ ॥ पारणं कुरु भोजेन्द्र व्रतं येन न नश्यति । यत्तेऽभिवाञ्छितं किंचिद्विष्णवे कर्तुमर्हसि ॥ ५६.१३२ ॥ भार्याया वचनं श्रुत्वा मुमुदे शबरस्ततः । गृहीत्वा श्रीफलं शीघ्रं होमं कृत्वा यथाविधि ॥ ५६.१३३ ॥ सर्वदेवान्नमस्कृत्य भुक्तोऽपि च तया सह । चैत्र्यां तु विषुवं ज्ञात्वा तस्थौ तत्र दिनत्रयम् ॥ ५६.१३४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे व्याधवाक्योपदेशकथनपूर्वकदानादिफलवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ऋKV अध्याय ५७ ईश्वर उवाच - भानुमती द्विजान्भोज्य बुभुजे भुक्तशेषतः । भुक्त्वा सुसुखमास्थाय तदन्नं परिणाम्य च ॥ ५७.१ ॥ त्रयोदश्यां ततो गत्वा मदनाख्यतिथौ तदा । मार्कण्डस्य ह्रदे स्नात्वानर्च्य देवं गुहाशयम् ॥ ५७.२ ॥ कृतोपवासनियमा स्नापयित्वा महेश्वरम् । पञ्चामृतसुगन्धेन धूपदीपनिवेदनैः ॥ ५७.३ ॥ आर्चयद्विविधैः पुष्पैर्नैवेद्यैश्च सुशोभनैः । क्षपाजागरणं कृत्वा श्रुत्वा पौराणिकीं कथाम् ॥ ५७.४ ॥ नृत्यगीतैस्तथा स्तोत्रैर्दध्यौ देवं महेश्वरम् । अन्नं विस्तारितं सर्वं देवस्याग्रे यथाविधि ॥ ५७.५ ॥ चातुर्वर्ण्यसुताः सर्वे भोजिताः सपरिच्छदाः । चतुर्दश्यां दिनं यावत्सम्पूज्य वृषभध्वजम् ॥ ५७.६ ॥ शङ्खवादित्रभेरीभिः पटहध्वनिनादितम् । क्षपाजागरणं कृत्वा प्रभूतजनसंकुलम् ॥ ५७.७ ॥ नृत्यगीतैस्तथा स्तोत्रैः प्रेरिता सा निशा तदा । प्रभाते भोजिता विप्राः पायसैर्मधुसर्पिषा ॥ ५७.८ ॥ दत्त्वा दानानि विप्रेभ्यः शक्त्या विप्रानुसारतः । अर्चयित्वा महापुष्पैः सुगन्धैर्मदनेन च ॥ ५७.९ ॥ विचित्रैः सूक्ष्मवस्त्रैश्च देवः सम्पूज्य वेष्टितः । स्रग्दामलम्बमानैश्च बहुदीपसमुज्ज्वलैः ॥ ५७.१० ॥ पक्वान्नैर्विविधैर्भक्ष्यैः सुवृत्तैर्मोदकादिभिः । ततस्ते ब्राह्मणाः सर्वे वेदाध्ययनतत्पराः ॥ ५७.११ ॥ तत्पर्व कीर्तयांश्चक्रुः पद्मकं नाम नामतः । आदित्यस्य दिनं त्वद्य तिथिः पञ्चदशी तथा ॥ ५७.१२ ॥ त्वाष्ट्रमेव च नक्षत्रं संक्रान्तिर्विषुवन्तथा । व्यतीपातस्तथा योगः करणविष्टिरेव च ॥ ५७.१३ ॥ पद्मकं नाम पर्वैतदयनादिचतुर्गुणम् । अत्र दत्तं हुतं जप्तं सर्वं भवति चाक्षयम् ॥ ५७.१४ ॥ ते द्विजा भानुमत्याथ शूलभेदं गताः सह । ददृशुः शबरं कुण्डे भार्यया सह संस्थितम् ॥ ५७.१५ ॥ ऐशानीं स दिशं गत्वा पर्वते भृगुमूर्धनि । पतितुं च समारूढो भार्यया सह पार्थिव ॥ ५७.१६ ॥ भानुमत्युवाच - तिष्ठ तिष्ठ महासत्त्व शृणुष्व वचनं मम । किमर्थं त्यजसि प्राणानद्यापि च युवा भवान् ॥ ५७.१७ ॥ कः सन्तापः क उद्वेगः किं दुःखं व्याधिरेव च । शिशुः संदृश्यसेऽद्यापि कारणं कथ्यतामिदम् ॥ ५७.१८ ॥ शबर उवाच - कारणं नास्ति मे किंचिन्न दुःखं किंचिदेव तु । संसारभयभीतोऽहं नान्या बुद्धिः प्रवर्तते ॥ ५७.१९ ॥ दुःखेन लभ्यते यस्मान्मानुष्यं जन्म भाग्यतः । मानुष्यं जन्म चासाद्य या न धर्मं समाचरेत् ॥ ५७.२० ॥ स गच्छेन्निरयं घोरमात्मदोषेण सुन्दरि । तस्मात्पतितुमिच्छामि तीर्थेऽस्मिन्पापनाशने ॥ ५७.२१ ॥ राज्ञ्युवाच - अद्यापि वर्तते कालो धर्मस्योपार्जने तव । कृतापकृतकर्मा वै व्रतदानैर्विशुध्यति ॥ ५७.२२ ॥ अहं दास्यामि धान्यं वा वासांसि द्रविणं बहु । नित्यमाचर धर्मं त्वं ध्यायन्नित्यं महेश्वरम् ॥ ५७.२३ ॥ शबर उवाच - नैवाहं कामये वित्तं न धान्यं वस्त्रमेव च । यो यस्यैवान्नमश्नाति स तस्याश्नाति किल्बिषम् ॥ ५७.२४ ॥ राज्ञ्युवाच - कन्दमूलफलाहारो भ्रमित्वा भैक्ष्यमुत्तमम् । अवगाह्य सुतीर्थानि सर्वपापैः प्रमुच्यते ॥ ५७.२५ ॥ ततो विमुक्तपापस्तु यत्किंचित्कुरुते शुचिः । कर्मणा तेन पूतस्त्वं सद्गतिं प्राप्स्यसि ध्रुवम् ॥ ५७.२६ ॥ शबर उवाच - अन्नमद्य मया त्यक्तं प्राणेभ्योऽपि महत्तरम् । सत्यं न लोपयेद्देवि निश्चितात्र मतिर्मम ॥ ५७.२७ ॥ प्रसादः क्रियतां देवि क्षमस्वाद्य जनैः सह । अर्धोत्तरीयवस्त्रेण संयम्यात्मानमुद्यतः ॥ ५७.२८ ॥ भार्यया सहितो व्याधो हरिं ध्यात्वा पपात ह । नगार्धात्पतितो यावद्गतजीवो नराधिप ॥ ५७.२९ ॥ चूर्णीभूतौ हि तौ दृष्ट्वा कुण्डस्योपरि भूमिप । त्रिमुहूर्ते गते काले शबरो भार्यया सह ॥ ५७.३० ॥ दिव्यं विमानमारूढो गतश्चानुत्तमां गतिम् ॥ ५७.३१ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे व्याधस्वर्गगमनवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ऋKV अध्याय ५८ उत्तानपाद उवाच - अथातो देवदेवेश भानुमत्यकरोच्च किम् । एष मे संशयो देव कथयस्व प्रसादतः ॥ ५८.१ ॥ ईश्वर उवाच - चिन्तयित्वा मुहूर्तं सा गता कुण्डस्य सन्निधौ । दृष्ट्वा कुण्डस्य माहात्म्यं राज्ञी हर्षेण पूरिता ॥ ५८.२ ॥ विप्रान् बहून् समाहूय पूजयामास तत्क्षणात् । दत्त्वा तु विधिवद्दानं ब्राह्मणेभ्यो नृपात्मज ॥ ५८.३ ॥ निश्चयं परमं कृत्वा स्थिता शान्तेन चेतसा । ततः सम्पूज्य विधिवत्पित्ःन्देवान्नराधिप ॥ ५८.४ ॥ क्षपयित्वा पक्षमेकं मधुमासस्य सा स्थिता । अमावास्यां ततो राज्ञी गता पर्वतसन्निधौ ॥ ५८.५ ॥ नगशृङ्गं समारुह्य कृत्वा मुकुलितौ करौ । विज्ञाप्य ब्राह्मणान् सर्वानिदं वचनमब्रवीत् ॥ ५८.६ ॥ मम माता पिता भ्राता ये चान्ये सखिबान्धवाः । क्षमापयित्वा सर्वांस्तान्वचनं मम कथ्यताम् ॥ ५८.७ ॥ त्वत्पुत्री शूलभेदे तु तपः कृत्वा स्वशक्तितः । विसृज्य चैव सात्मानं तस्मिंस्तीर्थे दिवं ययौ ॥ ५८.८ ॥ ब्राह्मणा ऊचुः । संदेशं कथयिष्यामस्त्वयोक्तं शोभनव्रते । मातापितृभ्यां सुश्रोणि मा तेऽभूदत्र संशयः ॥ ५८.९ ॥ ततो विसृज्य तांल्लोकान् स्थिता पर्वतमूर्धनि । अर्धोत्तरीयवस्त्रेण गाढं बद्धा पुनःपुनः ॥ ५८.१० ॥ ततश्चिक्षेप सात्मानमेकचित्ता नराधिप । नगार्द्धे पतिता यावत्तावद्दृष्टाः सुराङ्गनाः ॥ ५८.११ ॥ भोभो वत्से महाभागे भानुमत्यतितापसि । दिव्यं विमानमारुह्य कैलासं प्रति गम्यताम् ॥ ५८.१२ ॥ ततः सा पश्यतां तेषां जनानां त्रिदिवं गता ॥ ५८.१३ ॥ मार्कण्डेय उवाच - इति ते कथितः सर्वः शूलभेदस्य विस्तरः । यः श्रुतः शङ्करात्पूर्वमृषिदेवसमागमे ॥ ५८.१४ ॥ य इदं पठते भक्त्या तीर्थे देवकुलेऽपि वा । स मुच्यते महापापादपि जन्मशतार्जितात् ॥ ५८.१५ ॥ ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः । गोघाती स्त्रीविघाती च देवब्रह्मस्वहारकः ॥ ५८.१६ ॥ स्वामिद्रोही मित्रघाती तथा विश्वासघातकः । परन्यासापहारी च परनिक्षेपलोपकः ॥ ५८.१७ ॥ रसभेदी तुलाभेदी तथा वार्द्धुषिकस्तु यः । यः कन्याविघ्नकर्ता च तथा विक्रयकारकः ॥ ५८.१८ ॥ परभार्या भ्रातृभार्या गौः स्नुषा कन्यका तथा । अभिगामी परद्वेषी तथा धर्मप्रदूषकः ॥ ५८.१९ ॥ मुच्यन्ते सर्वे एवैते शूलभेदप्रभावतः ॥ ५८.२० ॥ य इदं श्रावयेच्छ्राद्धे विप्राणां भुञ्जतां नृप । मुदं प्रयान्ति संहृष्टाः पितरस्तस्य सर्वशः ॥ ५८.२१ ॥ यश्चेदं शृणुयाद्भक्त्या पठ्यमानं नरो वशी । स मुक्तः सर्वपापेभ्यः सर्वकल्याणभाग्भवेत् ॥ ५८.२२ ॥ इदं यशस्यमायुष्यमिदं पावनमुत्तमम् । पठतां शृण्वतां नृणामायुःकीर्तिविवर्धनम् ॥ ५८.२३ ॥ इति कथितमिदं ते शूलभेदस्य पुण्यं महिमन हि मनुष्यैः श्रूयते यत्सपापैः । मदनरिपुतटिन्या याम्यकूलस्थितस्य प्रबलदुरितकन्दोच्छेदकुद्दालकल्पम् ॥ ५८.२४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदतीर्थमाहात्म्यवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः॥ शूलभेदमाहात्म्यं समाप्तम् ऋKV अध्याय ५९ श्रीमार्कण्डेय उवाच - ततः पुष्करिणीं गच्छेत्सर्वपापप्रणाशिनीम् । श्रुते यस्याः प्रभावे तु सर्वपापैः प्रमुच्यते ॥ ५९.१ ॥ रेवाया उत्तरे कूले तीर्थं परमशोभनम् । यत्रास्ते सर्वदा देवो वेदमूर्तिर्दिवाकरः ॥ ५९.२ ॥ कुरुक्षेत्रं यथा पुण्यं सार्वकामिकमुत्तमम् । इदं तीर्थं तथा पुण्यं सर्वकामफलप्रदम् ॥ ५९.३ ॥ कुरुक्षेत्रे यथा वृद्धिर्दानस्य जगतीपते । पुष्करिण्यां तथा दानं वर्धते नात्र संशयः ॥ ५९.४ ॥ यवमेकं तु यो दद्यात्सौवर्णं मस्तके नृप । पुष्करिण्यां तथा स्थानं यथा स्थानं नरे स्मृतम् ॥ ५९.५ ॥ सूर्यग्रहे तु यः स्नात्वा दद्याद्दानं यथाविधि । हस्त्यश्वरथरत्नादि गृहं गाश्च युगंधरान् ॥ ५९.६ ॥ सुवर्णं रजतं वापि ब्राह्मणेभ्यो ददाति यः । त्रयोदश दिनं यावत्त्रयोदशगुणं भवेत् ॥ ५९.७ ॥ तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः । द्वादशाब्दे भवेत्प्रीतिस्तत्र तीर्थे महीपते ॥ ५९.८ ॥ यस्तत्र कुरुते श्राद्धं पायसैर्मधुसर्पिषा । श्राद्धदो लभते स्वर्गं पित्ःणां दत्तमक्षयम् ॥ ५९.९ ॥ अक्षतैर्बदरैर्बिल्वैरिङ्गुदैर्वा तिलैः सह । अक्षयं फलमाप्नोति तस्मिंस्तीर्थे न संशयः ॥ ५९.१० ॥ तत्र स्नात्वा तु यो देवं पूजयेच्च दिवाकरम् । आदित्यहृदयं जप्त्वा पुनरादित्यमर्चयेत् । स गच्छेत्परमं लोकं त्रिदशैरपि वन्दितम् ॥ ५९.११ ॥ ऋचमेकां जपेद्यस्तु यजुर्वा साम एव च । स समग्रस्य वेदस्य फलमाप्नोति वै नृप ॥ ५९.१२ ॥ यस्त्र्यक्षरं जपेन्मन्त्रं ध्यायमानो दिवाकरम् । आदित्यहृदयं जप्त्वा मुच्यते सर्वपातकैः ॥ ५९.१३ ॥ यस्तत्र विधिवत्प्राणांस्त्यजते नृपसत्तम । स गच्छेत्परमं स्थानं यत्र देवो दिवाकरः ॥ ५९.१४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुष्करिण्यामादित्यतीर्थमाहात्म्यवर्णनं नामैकोनषष्टितमोऽध्यायः ॥ ऋKV अध्याय ६० श्रीमार्कण्डेय उवाच - भूयोऽप्यहं प्रवक्ष्यामि आदित्येश्वरमुत्तमम् । सर्वदुःखहरं पार्थ सर्वविघ्नविनाशनम् ॥ ६०.१ ॥ आयुःश्रीवर्द्धनं नित्यं पुत्रदं स्वर्गदं शिवम् । यस्य तीर्थस्य चान्यानि तीर्थानि कुरुनन्दन ॥ ६०.२ ॥ नालभन्त श्रियं नाके मर्त्ये पातालगोचरे । कुरुक्षेत्रं गया गङ्गा नैमिषं पुष्करं तथा ॥ ६०.३ ॥ वाराणसी च केदारं प्रयागं रुद्रनन्दनम् । महाकालं सहस्राक्षं शुक्लतीर्थं नृपोत्तम ॥ ६०.४ ॥ रवितीर्थस्य सर्वाणि कलां नार्हन्ति षोडशीम् । रवितीर्थे हि यद्वृत्तं तच्छृणुष्व नृपोत्तम ॥ ६०.५ ॥ स्नेहात्ते कथयिष्यामि वार्द्धकेनातिपीडितः । शृण्वन्तु ऋषयः सर्वे तपोनिष्ठा महौजसः ॥ ६०.६ ॥ श्रुतं मे रुद्रसांनिध्ये नन्दिस्कन्दगणैः सह । पार्वत्या पृष्टः शम्भुश्च रवितीर्थस्य यत्फलम् ॥ ६०.७ ॥ शम्भुना च यदाख्यातं गिरिजायाः ससम्भ्रमम् । तत्सर्वमेकचित्तेन रुद्रोद्गीतं श्रुतं मया ॥ ६०.८ ॥ तत्तेऽहं सम्प्रवक्ष्यामि शृणु यत्नेन पाण्डव । दुर्भिक्षोपहता विप्रा नर्मदां तु समाश्रिताः ॥ ६०.९ ॥ उद्दालको वशिष्ठश्च माण्डव्यो गौतमस्तथा । याज्ञवल्क्योऽथ गर्गश्च शाण्डिल्यो गालवस्तथा ॥ ६०.१० ॥ नाचिकेतो विभाण्डश्च वालखिल्यादयस्तथा । शातातपश्च शङ्खश्च जैमिनिर्गोभिलस्तथा ॥ ६०.११ ॥ जैगीषव्यः शतानीकः सर्व एव समागताः । तीर्थयात्रा कृता तैस्तु नर्मदायाः समन्ततः ॥ ६०.१२ ॥ आदित्येश्वरमायाताः प्रसङ्गादृषिपुंगवाः । वृक्षैः संछादितं शुभ्रं धवतिन्दुकपाटलैः ॥ ६०.१३ ॥ जम्बीरैरर्जुनैः कुब्जैः शमीकेसरकिंशुकैः । तस्मिंस्तीर्थे महापुण्ये सुगन्धिकुसुमाकुले ॥ ६०.१४ ॥ पुन्नागनालिकेरैश्च खदिरैः कल्पपादपैः । अनेकश्वापदाकीर्णं मृगमार्जारसंकुलम् ॥ ६०.१५ ॥ ऋक्षहस्तिसमाकीर्णं चित्रकैश्चोपशोभितम् । प्रविष्टा ऋषयः सर्वे वने पुष्पसमाकुले ॥ ६०.१६ ॥ वनान्ते च स्त्रियो दृष्ट्वा रक्ता रक्ताम्बरान्विताः । रक्तमाल्यानुशोभाढ्या रक्तचन्दनचर्चिताः ॥ ६०.१७ ॥ रक्ताभरणसंयुक्ताः पाशहस्ता भयावहाः । तासां समीपगा दृष्टाः कृष्णजीमूतसन्निभाः ॥ ६०.१८ ॥ महाकाया भीमवक्त्राः पाशहस्ता भयावहाः । अनावृष्ट्युपमा दृष्टा आतुराः पिङ्गलोचनाः ॥ ६०.१९ ॥ दीर्घजिह्वा करालास्या तीक्ष्णदंष्ट्रा दुरासदा । वृद्धा नारी कुरुश्रेष्ठ दृष्टान्या ऋषिपुंगवैः ॥ ६०.२० ॥ ततः समीपगा वृद्धा तस्य वृन्दस्य भारत । स्वाध्यायनिरता विप्रा दृष्टास्तैः पापकर्मभिः ॥ ६०.२१ ॥ ऊचुस्ते तु समूहेन ब्राह्मणांस्तपसि स्थितान् । अस्माकं स्वामिनः सर्वे तिष्ठन्ते तीर्थमध्यतः । ते प्रस्थाप्या महाभागाः सर्वथैव त्वरान्विताः ॥ ६०.२२ ॥ तच्छ्रुत्वा वचनं तेषां सर्वे चैव त्वरान्विताः । जग्मुस्ते नर्मदाकक्षं दृष्ट्वा रेवां द्विजोत्तमाः ॥ ६०.२३ ॥ ततः केचित्स्तुवन्त्यन्ये जय देवि नमोऽस्तु ते ॥ ६०.२४ ॥ नमोऽस्तु ते सिद्धगणैर्निषेविते नमोऽस्तु ते सर्वपवित्रमङ्गले । नमोऽस्तु ते विप्रसहस्रसेविते नमोऽस्तु रुद्राङ्गसमुद्भवे वरे ॥ ६०.२५ ॥ नमोऽस्तु ते सर्वपवित्रपावने नमोऽस्तु ते देवि वरप्रदे शिवे । नमामि ते शीतजले सुखप्रदे सरिद्वरे पापहरे विचित्रिते ॥ ६०.२६ ॥ अनेकभूतौघसुसेविताङ्गे गन्धर्वयक्षोरगपाविताङ्गे । महागजौघैर्महिषैर्वराहैरापीयसे तोयमहोर्मिमाले ॥ ६०.२७ ॥ नमामि ते सर्ववरे सुखप्रदे विमोचयास्मानघपाशबद्धान् ॥ ६०.२८ ॥ भ्रमन्ति तावन्नरकेषु मर्त्या यावत्तवाम्भो नहि संश्रयन्ति । स्पृष्टं करैश्चन्द्रमसो रवेश्चेत्तद्देवि दद्यात्परमं पदं तु ॥ ६०.२९ ॥ अनेकसंसारभयार्दितानां पापैरनेकैरभिवेष्टितानाम् । गतिस्त्वमम्भोजसमानवक्त्रे द्वन्द्वैरनेकैरभिसंवृतानाम् ॥ ६०.३० ॥ नद्यश्च पूता विमला भवन्ति त्वां देवि सम्प्राप्य न संशयोऽत्र । दुःखातुराणामभयं ददासि शिष्टैरनेकैरभिपूजितासि ॥ ६०.३१ ॥ विण्मूत्रदेहाश्च निमग्नदेहा भ्रमन्ति तावन्नरकेषु मर्त्याः । महाबलध्वस्ततरङ्गभङ्गं जलं न यावत्तव संस्पृशन्ति ॥ ६०.३२ ॥ म्लेच्छाः पुलिन्दास्त्वथ यातुधानाः पिबन्ति येऽंभस्तव देवि पुण्यम् । तेऽपि प्रमुच्यन्ति भयाच्च घोरात्किमत्र विप्रा भवपाशभीताः ॥ ६०.३३ ॥ सरांसि नद्यः क्षयमभ्युपेता घोरे युगेऽस्मिन्कलिनावसृष्टे । त्वं भ्राजसे देवि जलौघपूर्णा दिवीव नक्षत्रपथे च गङ्गा ॥ ६०.३४ ॥ तव प्रासादाद्वरदे विशिष्टे कालं यथेमं परिपालयित्वा । यास्याम मोक्षं तव सुप्रसादाद्वयं यथा त्वं कुरु नः प्रसादम् ॥ ६०.३५ ॥ त्वामाश्रिता ये शरणं गताश्च गतिस्त्वमम्बेव पितेव पुत्रान् । त्वत्पालिता यावदिमं सुघोरं कालं त्वनावृष्टिहतं क्षिपामः ॥ ६०.३६ ॥ एवं स्तुता तदा देवी नर्मदा सरितां वरा । प्रत्यक्षा सा परा मूर्तिर्ब्राह्मणानां युधिष्ठिर ॥ ६०.३७ ॥ श्रीमार्कण्डेय उवाच - पठन्ति ये स्तोत्रमिदं नरेन्द्र शृण्वन्ति भक्त्या परया प्रशान्ताः । ते यान्ति रुद्रं वृषसंयुतेन यानेन दिव्याम्बरभूषिताङ्गाः ॥ ६०.३८ ॥ ये स्तोत्रमेतत्सततं जपन्ति स्नात्वा च तोयेन तु नर्मदायाः । तेभ्योऽन्तकाले सरिदुत्तमेयं गतिं विशुद्धामचिराद्ददाति ॥ ६०.३९ ॥ प्रातः समुत्थाय तथा शयानो यः कीर्तयेतानुदिनं स्तवेन्द्रम् । देहक्षयं स्वे सलिले ददाति समाश्रयं तस्य महानुभाव ॥ ६०.४० ॥ पापैर्विमुक्ता दिवि मोदमानाः सम्भोगिनश्चैव तु नान्यथा च ॥ ६०.४१ ॥ प्रसन्ना नर्मदा देवी स्तोत्रेणानेन भारत । जलेनाप्यायितान् विप्रान् दक्षिणापथवाहिनी ॥ ६०.४२ ॥ अमृतत्वं तु वो दद्मि योगिभिर्यन्न गम्यते । दुर्लभं यत्सुरैः सर्वैर्मत्प्रसादाल्लभिष्यथ ॥ ६०.४३ ॥ इति ते ब्राह्मणा राजंल्लब्धा वरमनुत्तमम् । गमिष्यन्तः प्रीतचित्ता ददृशुश्चित्रमद्भुतम् ॥ ६०.४४ ॥ श्रीमार्कण्डेय उवाच - दृष्टास्तैः पुरुषाः पार्थ नर्मदातटसंस्थिताः । स्नानदेवार्चनासक्ताः पञ्च एव महाबलाः ॥ ६०.४५ ॥ ते दृष्टा ब्राह्मणैः सर्वैर्वेदवेदाङ्गपारगैः । संपृष्टास्तैर्महाराज यथा तदवधारय ॥ ६०.४६ ॥ विप्रा ऊचुः । वनान्ते स्त्रीयुगं दृष्ट्वा महारौद्रं भयावहम् । वृद्धाश्च पुरुषास्तत्र पाशहस्ता भयावहाः ॥ ६०.४७ ॥ दुर्धर्षा दुर्निरीक्ष्याश्च इतश्चेतश्च चञ्चलाः । व्याहरन्तः शुभां वाचं न तत्र गतिरस्ति वै ॥ ६०.४८ ॥ अपरस्परयोः सर्वे निरीक्षन्तः पुनःपुनः । तैस्तु यद्वचनं प्रोक्तं तत्सर्वं कथ्यतामिति ॥ ६०.४९ ॥ अस्माकं पुरुषाः पञ्च तिष्ठन्ति तत्र सत्तमाः । ते प्रस्थाप्या महाभागाः सर्वथैव त्वरान्विताः ॥ ६०.५० ॥ अथ ते पुरुषाः पञ्च श्रुत्वा वाक्यमिदं शुभम् । परस्परं निरीक्षन्तो वदन्ति च पुनःपुनः ॥ ६०.५१ ॥ क्व ते कस्य कुतो याताः किमुक्तं तैर्भयावहैः ॥ ६०.५२ ॥ पुरुषा ऊचुः । तीर्थावगाहनं सर्वैः पूर्वदक्षिणपश्चिमैः । उत्तरैश्च कृतं भक्त्या न पापं तैर्व्यपोहितम् ॥ ६०.५३ ॥ निष्पापाश्चाथ संजातास्तीर्थस्यास्य प्रभावतः । शृण्वन्तु ऋषयः सर्वे वह्निकालोपमा द्विजाः ॥ ६०.५४ ॥ पातकानि च घोराणि यान्यचिन्त्यानि देहिनाम् । पापिष्ठेन तु चैकेन गुरुदारा निषेविता ॥ ६०.५५ ॥ हृतं चान्येन मित्रस्वं सुवर्णं च धनं तथा । ब्रह्महत्या महारौद्रा कृता चान्येन पातकम् ॥ ६०.५६ ॥ सुरापानं तु चान्यस्य संजातं चाप्यकामतः । गोवध्या चाप्यकामेन कृता चैकेन पापिना ॥ ६०.५७ ॥ अकामतोऽपि सर्वेषां पातकानि नराधिप । ब्राह्मणानां तु ते श्रुत्वा वाक्यं तद्विस्मयान्विताः ॥ ६०.५८ ॥ सद्य एव तदा जाताः पापिष्ठा गतकल्मषाः । तीर्थस्यास्य प्रभावेन नर्मदायाः प्रभावतः ॥ ६०.५९ ॥ न क्वचित्पातकानां तु प्रवेशश्चात्र जायते । एवं संचित्य ते सर्वे पापिष्ठाश्च परस्परम् ॥ ६०.६० ॥ चित्रभानुः स्मृतस्तैस्तु विचिन्त्य हृदये हरिम् । स्नात्वा रेवाजले पुण्ये तर्पिताः पितृदेवताः ॥ ६०.६१ ॥ नत्वा तु भास्करं देवं हृदि ध्यात्वा जनार्दनम् । प्रदक्षिणं तु तं भक्त्या ज्वलन्तं जातवेदसम् ॥ ६०.६२ ॥ पतिताः पाण्डवश्रेष्ठ पापोद्विग्ना महीपते । सात्त्विकीं वासनां कृत्वा त्यक्त्वा रजस्तमस्तथा ॥ ६०.६३ ॥ हतं तैः पावके सर्वं रेवाया उत्तरे तटे । विमानस्थास्तदा दृष्टा ब्राह्मणैस्ते युधिष्ठिर ॥ ६०.६४ ॥ आश्चर्यमतुलं दृष्टमृषिभिर्नर्मदातटे । तदाप्रभृति ते सर्वे रागद्वेषविवर्जिताः ॥ ६०.६५ ॥ रवितीर्थं द्विजा हृष्टाः सेवन्ते मोक्षकाङ्क्षया । तीर्थस्यास्य च यत्पुण्यं तच्छृणुष्व नराधिप ॥ ६०.६६ ॥ पीडितो वृद्धभावेन भक्त्या प्रीतो नरेश्वर । उद्देशं कथयिष्यामि द्विक्रोशाभ्यन्तरे स्थितः ॥ ६०.६७ ॥ कुरुक्षेत्रं यथा पुण्यं रवितीर्थं श्रुतं मया । ईश्वरेण पुरा ख्यातं षण्मुखस्य नराधिप ॥ ६०.६८ ॥ श्रुतं रुद्राच्च तैः सर्वैरहं तत्र समीपगः । ईश्वर उवाच - मार्तण्डग्रहणे प्राप्ते ये व्रजन्ति षडानन । रवितीर्थे कुरुक्षेत्रे तुल्यमेतत्फलं लभेत् ॥ ६०.६९ ॥ स्नाने दाने तथा जप्ये होमे चैव विशेषतः । कुरुक्षेत्रे समं पुण्यं नात्र कार्या विचारणा ॥ ६०.७० ॥ ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा । रवितीर्थे विशेषेण रेवा पुण्यफलप्रदा ॥ ६०.७१ ॥ षष्ठ्यां सूर्यदिने भक्त्या व्यतीपाते च वै धृतौ । संक्रान्तौ ग्रहणेऽमायां ये व्रजन्ति जितेन्द्रियाः ॥ ६०.७२ ॥ कामक्रोधैर्विमुक्ताश्च रागद्वेषैस्तथैव च । उपोष्य परया भक्त्या देवस्याग्रे नराधिप ॥ ६०.७३ ॥ रात्रौ जागरणं कृत्वा दीपं देवस्य बोधयेत् । कथां वै वैष्णवीं पार्थ वेदाभ्यसनमेव च ॥ ६०.७४ ॥ ऋग्वेदं वा यजुर्वेदं सामवेदमथर्वणम् । ऋचमेकां जपेद्यस्तु स वेदफलमाप्नुयात् ॥ ६०.७५ ॥ गायत्र्या च चतुर्वेदफलमाप्नोति मानवः । प्रभाते पूजयेद्विप्रानन्नदानहिरण्यतः ॥ ६०.७६ ॥ भूमिदानेन वस्त्रेण अन्नदानेन शक्तितः । छत्रोपानहशय्यादिगृहदानेन पाण्डव ॥ ६०.७७ ॥ ग्रामधूर्वहदानेन गजकन्याहयेन च । विद्याशकटदानेन सर्वेषामभयं भवेत् ॥ ६०.७८ ॥ शत्रुश्च मित्रतां याति विषं चैवामृतं भवेत् । ग्रहा भवन्ति सुप्रीताः प्रीतस्तस्य दिवाकरः ॥ ६०.७९ ॥ एतत्ते सर्वमाख्यातं रवितीर्थफलं नृप । ये शृण्वन्ति नरा भक्त्या रवितीर्थफलं शुभम् ॥ ६०.८० ॥ तेऽपि पापविनिर्मुक्ता रविलोके वसन्ति हि । गोदानेन च यत्पुण्यं यत्पुण्यं भृगुदर्शने ॥ ६०.८१ ॥ केदार उदकं पीत्वा तत्पुण्यं जायते नृणाम् । अब्दमश्वत्थसेवायां तिलपात्रप्रदो भवेत् ॥ ६०.८२ ॥ तत्फलं समवाप्नोति आदित्येश्वरकीर्तनात् । श्रुते यस्य प्रभावे न जायते यन्नृपात्मज ॥ ६०.८३ ॥ तत्सर्वं कथयिष्यामि भक्त्या तव महीपते । पापानि च प्रलीयन्ते भिन्नपात्रे यथा जलम् ॥ ६०.८४ ॥ तीर्थस्याभिमुखो नित्यं जायते नात्र संशयः । गुह्याद्गुह्यतरं तीर्थं कथितं तव पाण्डव ॥ ६०.८५ ॥ पापिष्ठानां कृतघ्नानां स्वामिमित्रावघातिनाम् । तीर्थाख्यानं शुभं तेषां गोपितव्यं सदा बुधैः ॥ ६०.८६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदित्येश्वरतीर्थमाहात्म्यवर्णनं नाम षष्टितमोऽध्यायः ॥ ऋKV अध्याय ६१ श्रीमार्कण्डेय उवाच - ततो गच्छेत्परं पुण्यं नर्मदादक्षिणे तटे । शक्रतीर्थं सुविख्यातमशेषाघविनाशनम् ॥ ६१.१ ॥ पुरा शक्रेण तत्रैव तपो वै दुरतिक्रमम् । प्रारब्धं परया भक्त्या देवं प्रति महेश्वरम् ॥ ६१.२ ॥ ततः संतोषितो देव उमापतिर्नराधिप । देवेन्द्रत्वं वरं राज्यं दानवानां वधं ददौ ॥ ६१.३ ॥ लब्धं शक्रेण नृपते नर्मदातीर्थभावतः । ततः पुण्यतमं तीर्थं संजातं वसुधातले ॥ ६१.४ ॥ कार्त्तिकस्य तु मासस्य कृष्णपक्षे त्रयोदशीम् । उपोष्य वै नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ६१.५ ॥ दुःस्वप्नसम्भवैः पापैर्दुर्निमित्तसमुद्भवैः । ग्रहशाकिनिसम्भूतैर्मुच्यते पाण्डुनन्दन ॥ ६१.६ ॥ शक्रेश्वरं नृपश्रेष्ठ ये प्रपश्यन्ति भक्तितः । तेषां जन्मकृतं पापं नश्यते नात्र संशयः ॥ ६१.७ ॥ अगम्यागमने चैव अवाह्ये चैव वाहिते । स्वामिमित्रविघाते यन्नश्यते नात्र संशयः ॥ ६१.८ ॥ गोप्रदानं प्रकर्तव्यं शुभं ब्राह्मणपुंगवे । धुर्यं वा दापयेत्तस्मिन् सर्वाङ्गरुचिरं नृप ॥ ६१.९ ॥ दातव्यं परया भक्त्या स्वर्गे वासमभीप्सता । एतत्ते सर्वमाख्यातं शक्रेश्वरफलं नृप ॥ ६१.१० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शक्रेश्वरतीर्थमाहात्म्यवर्णनं नामैकषष्टितमोऽध्यायः ॥ ऋKV अध्याय ६२ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र करोडीश्वरमुत्तमम् । यत्र वै निहतास्तात दानवाः सपदानुगाः ॥ ६२.१ ॥ इन्द्रादिदेवैः संहृष्टैः सततं जयबुद्धिभिः । तेषां ये पुत्रपौत्राश्च पूर्ववैरमनुस्मरम् ॥ ६२.२ ॥ क्रुद्धैर्देवसमूहैश्च दानवा निहता रणे । तेषां शिरांसि संगृह्य सर्वे देवाः सवासवाः ॥ ६२.३ ॥ निक्षिप्य नर्मदातोये बन्धुभावमनुस्मरम् । तत्र स्नात्वा सुराः सर्वे स्थापयित्वा उमापतिम् ॥ ६२.४ ॥ इन्द्रेण सहिताः सर्वेऽपूजयंल्लोकसिद्धये । हृष्टचित्ताः सुराः सर्वे जग्मुराकाशमण्डलम् ॥ ६२.५ ॥ दानवानां महाभाग सूदिता कोटिरुत्तमा । तदा प्रभृति तत्तीर्थं करोडीति महीतले ॥ ६२.६ ॥ विख्यातं तु तदा लोके पापघ्नं पाण्डुनन्दन । अष्टम्यां च चतुर्दश्यामुभौ पक्षौ च भक्तितः । उपोष्य शूलिनश्चाग्रे रात्रौ कुर्वीत जागरम् ॥ ६२.७ ॥ सत्कथापाठसंयुक्तो वेदाध्ययनसंयुतः । प्रभाते विमले प्राप्ते पूजयेत्त्रिदशेश्वरम् ॥ ६२.८ ॥ पञ्चामृतेन संस्नाप्य श्रीखण्डेन च गुण्ठयेत् । शस्तैः पल्लवपुष्पैश्च पूजयेत्तु प्रयत्नतः ॥ ६२.९ ॥ बहुरूपं जपन्मन्त्रं दक्षिणाशां व्यवस्थितः । यथोक्तेन विधानेन नाभिमात्रे जले क्षिपेत् ॥ ६२.१० ॥ तिलाञ्जलिं तु प्रेताय दक्षिणाशामुपस्थितः । श्राद्धं तत्रैव विप्राय कारयेद्विजितेन्द्रियः ॥ ६२.११ ॥ विषमैरग्रजातैश्च वेदाभ्यसनतत्परैः । गोहिरण्येन सम्पूज्य ताम्बूलैर्भोजनैस्तथा ॥ ६२.१२ ॥ भूषणैः पादुकाभिश्च ब्राह्मणान्पाण्डुनन्दन । भवेत्कोटिगुणं तस्य नात्र कार्या विचारणा ॥ ६२.१३ ॥ तस्मिंस्तीर्थे तु यः कश्चित्त्यजेद्देहं विधानतः । तस्य भवति यत्पुण्यं तच्छृणुष्व नराधिप ॥ ६२.१४ ॥ यावदस्थीनि तिष्ठन्ति मर्त्यस्य नर्मदाजले । तावद्वसति धर्मात्मा शिवलोके सुदुर्लभे ॥ ६२.१५ ॥ ततः कालाच्च्युतस्तस्मादिह मानुषतां गतः । कोटिधनपतिः श्रीमाञ्जायते राजपूजितः ॥ ६२.१६ ॥ सर्वधर्मसमायुक्तो मेधावी बीजपुत्रकः । विख्यातो वसुधापृष्ठे दीर्घायुर्मानवो भवेत् ॥ ६२.१७ ॥ पुनः स्मरति तत्तीर्थं तत्र गत्वा नृपोत्तम । करोडेश्वरमभ्यर्च्य प्राप्नोति परमां गतिम् ॥ ६२.१८ ॥ इन्द्रचन्द्रयमैर्रुद्रैरादित्यैर्वसुभिस्तथा । विश्वेदेवैस्तथा सर्वैः स्थापितस्त्रिदशेश्वरः ॥ ६२.१९ ॥ रेवाया उत्तरे कूले लोकानां हितकाम्यया । मानवो भक्तिसंयुक्तः प्रासादं कारयेत्तु यः ॥ ६२.२० ॥ तस्मिंस्तीर्थे नरश्रेष्ठ सद्गतिं समवाप्नुयात् । न्यायोपात्तधनेनैव दारुपाषाणकेष्टकैः ॥ ६२.२१ ॥ ब्राह्मणः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिश्च शक्तितः । तेऽपि यान्ति नरा लोके शांकरे सुरपूजिते ॥ ६२.२२ ॥ यः शृणोति सदा भक्त्या माहात्म्यं तीर्थजं नृप । तस्य पापं प्रणश्येत षण्मासाभ्यन्तरं च यत् ॥ ६२.२३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे करोडीश्वरतीर्थमाहात्म्यवर्णनं नाम द्विषष्टितमोऽध्यायः॥ ऋKV अध्याय ६३ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र कुमारेश्वरमुत्तमम् । प्रसिद्धं सर्वतीर्थानामगस्त्येश्वरसन्निधौ ॥ ६३.१ ॥ षण्मुखेन पुरा तात सर्वपातकनाशनम् । आराध्य परया भक्त्या सिद्धिः प्राप्ता नराधिप ॥ ६३.२ ॥ देवसैन्याधिपो जातः सर्वशत्रुनिबर्हणः । उग्रतेजा महात्मासौ संजातस्तीर्थसेवनात् ॥ ६३.३ ॥ तदाप्रभृति तत्तीर्थं संजातंनर्मदातटे । तत्र तीर्थे तु यो गत्वा एकचित्तो जितेन्द्रियः ॥ ६३.४ ॥ कार्त्तिकस्य चतुर्दश्यामष्टम्यां च विशेषतः । स्नापयेद्गिरिजानाथं दधिदुग्धेन सर्पिषा ॥ ६३.५ ॥ गीतं तत्र प्रकर्तव्यं पिण्डदानं यथाविधि । ब्राह्मणैः श्रोत्रियैः पार्थ षट्कर्मनिरतैः शुभैः ॥ ६३.६ ॥ यत्किंचिद्दीयते तत्र अक्षयं पाण्डुनन्दन । सर्वतीर्थमयं तीर्थ निर्मितं शिखिना नृप ॥ ६३.७ ॥ एतत्ते सर्वमाख्यातं कुमारेश्वरजं फलम् । कुमारदर्शनात्पुण्यं प्राप्यते पाण्डुनन्दन ॥ ६३.८ ॥ मृतः स्वर्गमवाप्नोति सत्यमीश्वरभाषितम् ॥ ६३.९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुमारेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिषष्टितमोऽध्यायः ॥ ऋKV अध्याय ६४ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । नराणां पापनाशाय अगस्त्येश्वरमुत्तमम् ॥ ६४.१ ॥ तत्र स्नात्वा नरो राजन्मुच्यते ब्रह्महत्यया । कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ॥ ६४.२ ॥ घृतेन स्नापयेद्देवं समाधिस्थो जितेन्द्रियः । एकविंशतिकुलोपेतो च्यवेदैश्वरात्पदात् ॥ ६४.३ ॥ धनं चोपानहौ छत्रं दद्याच्च घृतकम्बलम् । भोजनं चैव सर्वेषां सर्वं कोटिगुणं भवेत् ॥ ६४.४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अगस्त्येश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥ ऋKV अध्याय ६५ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र आनन्देश्वरमुत्तमम् । तत्तीर्थं कथयिष्यामि सर्वपापक्षयंकरम् ॥ ६५.१ ॥ युधिष्ठिर उवाच - आनन्दश्चैव संजातो रुद्रस्य द्विजसत्तम । कथ्यतां मे च तत्सर्वं संक्षेपात्सह बान्धवैः ॥ ६५.२ ॥ श्रीमार्कण्डेय उवाच - कथयामि नृपश्रेष्ठ आनन्देश्वरमुत्तमम् । दानवानां वधं कृत्वा देवदेवो महेश्वरः ॥ ६५.३ ॥ पूजितो दैवतैः सर्वैः किन्नरैर्यक्षपन्नगैः । आनन्दसंयुतो देवो ननर्त वृषवाहनः ॥ ६५.४ ॥ भैरवं रूपमास्थाय गौर्या चार्द्धाङ्गसंस्थितः । भूतवेतालकङ्कालैर्भैरवैर्भैरवो वृतः ॥ ६५.५ ॥ ननर्त नर्मदातीरे दक्षिणे पाण्डुनन्दन । तुष्टैर्मरुद्गणैः सर्वैः स्थापितः कमलासनः ॥ ६५.६ ॥ तदाप्रभृति तत्तीर्थमानन्देश्वरमुच्यते । अष्टम्यां च चतुर्दश्यां पौर्णमास्यां नराधिप ॥ ६५.७ ॥ विधिवच्चार्चयेद्देवं सुगन्धेन विलेपयेत् । ब्राह्मणान्पूजयेत्तत्र यथाशक्त्या युधिष्ठिर ॥ ६५.८ ॥ गोदानं तत्र कर्तव्यं वस्त्रदानं शुभावहम् । वसन्तस्य त्रयोदश्यां श्राद्धं तत्रैव कारयेत् ॥ ६५.९ ॥ इङ्गुदैर्बदरैर्बिल्वैरक्षतैश्च जलेन वा । प्रेतानां कारयेच्छ्राद्धमानन्देश्वर उत्तमे ॥ ६५.१० ॥ आनन्दिता भवेयुस्ते यावदाभूतसम्प्लवम् । सन्ततेर्वै न विच्छेदः सप्तजन्मसु जायते । आनन्दो हि भवत्तेषां प्रतिजन्मनि भारत ॥ ६५.११ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आनन्देश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चषष्टितमोऽध्यायः ॥ ऋKV अध्याय ६६ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र मातृतीर्थमनुत्तमम् । सङ्गमस्य समीपस्थं नर्मदादक्षिणे तटे ॥ ६६.१ ॥ मातरस्तत्र राजेन्द्र संजाता नर्मदातटे । उमार्धनारिर्देवेशो व्यालयज्ञोपवीतधृक् ॥ ६६.२ ॥ उवाच योगिनीवृन्दं कष्टंकष्टमहो हर । अजेयाः सर्वदेवानां त्वत्प्रसादान्महेश्वर ॥ ६६.३ ॥ तीर्थमत्र विधानेन प्रख्यातं वसुधातले । एवं भवतु योगिन्य इत्युक्त्वान्तरधाच्छिवः ॥ ६६.४ ॥ श्रीमार्कण्डेय उवाच - तत्र तीर्थे तु यो भक्त्या नवम्यां नियतः शुचिः । उपोष्य परया भक्त्या पूजयेन्मातृगोचरम् ॥ ६६.५ ॥ तस्य स्युर्मातरः प्रीताः प्रीतोऽयं वृषवाहनः । वन्ध्याया मृतवत्साया अपुत्राया युधिष्ठिर ॥ ६६.६ ॥ स्नापनं चारभेत्तत्र मन्त्रशास्त्रविदुत्तमः । सहिरण्येन कुम्भेन पञ्चरत्नफलान्वितः ॥ ६६.७ ॥ स्नापयेत्पुत्रकामायाः कांस्यपात्रेण देशिकः । पुत्रं सा लभते नारी वीर्यवन्तं गुणान्वितम् ॥ ६६.८ ॥ यो यं काममभिध्यायेत्ततः स लभते नृप । मातृतीर्थात्परं तीर्थं न भूतं न भविष्यति ॥ ६६.९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मातृतीर्थमाहात्म्यवर्णनं नाम षट्षष्टितमोऽध्यायः ॥ ऋKV अध्याय ६७ श्रीमार्कण्डेय उवाच - तस्यैवानन्तरं तात जलमध्ये व्यवस्थितम् । लुङ्केश्वरमिति ख्यातं सुरासुरनमस्कृतम् ॥ ६७.१ ॥ इदं तीर्थं महापुण्यं नानाश्चर्यं महीतले । अस्य तीर्थस्य माहात्म्यमुत्पत्तिं शृणु भारत ॥ ६७.२ ॥ आसीत्पुरा महावीर्यो दानवो बलदर्पितः । कालपृष्ठ इति ख्यातः सुतो ब्रह्मसुतस्य च ॥ ६७.३ ॥ गङ्गातटं समाश्रित्य चचार विपुलं तपः । अधोमुखोऽपि संस्थित्वापिबद्धूममहर्निशम् ॥ ६७.४ ॥ ततश्चानन्तरं देवस्तिष्ठते ह्युमया सह । दृष्ट्वा तं पार्वती सा तु तपस्युग्रे व्यवस्थितम् ॥ ६७.५ ॥ पश्य पश्य महादेव धूमाशी तिष्ठते नरः । प्रसीद तं कुरुष्वाद्य देहि शीघ्रं वरं विभो ॥ ६७.६ ॥ ईश्वर उवाच - यदुक्तं वचनं देवि न तन्मे रोचते प्रिये । स्वकार्यं च सदा चिन्त्यं परकार्यं विसर्जयेत् ॥ ६७.७ ॥ मूर्खस्त्रीबालशत्रूणां यश्छन्देनानुवर्तते । व्यसने पतते घोरे सत्यमेतदुदीरितम् ॥ ६७.८ ॥ देव्युवाच - भार्ययाभ्यर्थितो भर्ता कारणं बहु भाषते । लघुत्वं याति सा नारी एवं शास्त्रेषु पठ्यते ॥ ६७.९ ॥ प्राणत्यागं करिष्यामि यदि मां त्वं न मन्यसे । पार्वत्या प्रेरितो देवो गतोऽसौ दानवं प्रति ॥ ६७.१० ॥ ईश्वर उवाच - किमर्थं पिबसे धूमं किमर्थं तप्यसे तपः । किं दुःखं किं नु सन्तापो वद कार्यमभीप्सितम् ॥ ६७.११ ॥ युवा त्वं दृश्यसेऽद्यापि वर्षविंशतिरेव च । तदाचक्ष्व हि मे सर्वं तपसः कारणं महत् ॥ ६७.१२ ॥ दानव उवाच - अचला दीयतां भक्तिर्मम स्थैर्यं तवोपरि । अपरं वर्षसाहस्रं निर्विघ्नं मे गतं विभो ॥ ६७.१३ ॥ दिवसानां सहस्रे द्वे पूर्णे त्वत्तपसा मम ॥ ६७.१४ ॥ ईश्वर उवाच - याचयाभीप्सितं कार्यं तुष्टोऽहं तव सुव्रत । देवस्य वचनं श्रुत्वा चिन्तयामास दानवः ॥ ६७.१५ ॥ किं नाकं याचयाम्यद्य किमद्य सकलां महीम् । एवं संचिन्तयामास कामबाणेन पीडितः ॥ ६७.१६ ॥ दानव उवाच - यदि तुष्टोऽसि मे देव वरं दास्यसि मे प्रभो । सङ्ग्रामैस्तु न तुष्टोऽहं बलं नास्तीति किंचन ॥ ६७.१७ ॥ यस्य मूर्धन्यहं देव पाणिना समुपस्पृशे । देवदानवगन्धर्वो भस्मसाद्यातु तत्क्षणात् ॥ ६७.१८ ॥ ईश्वर उवाच - यत्त्वया चिन्तितं किंचित्तत्सर्वं सफलं तव । उत्तिष्ठ गच्छ शीघ्रं त्वं भवनं प्रति दानव ॥ ६७.१९ ॥ दानव उवाच - स्थीयतां देवदेवेश यावज्ज्ञास्यामि ते वरम् । युष्मन्मूर्ध्नि न्यसे पाणिं प्रत्ययो मे भवेद्यथा ॥ ६७.२० ॥ ततश्चानन्तरं देवश्चिन्तयानो महेश्वरः । न स्कन्दो न हरिर्ब्रह्मा यः कार्येषु क्षमोऽधुना ॥ ६७.२१ ॥ ज्ञात्वा चैवापदं प्राप्तां देवः प्रार्थयते वृषम् । अनेन सह पापेन युध्यस्व साम्प्रतं क्षणम् ॥ ६७.२२ ॥ करं प्रासारयद्दैत्यो देवं मूर्ध्नि किल स्पृशेत् । लाङ्गूलेनाहतो दैत्यो विषण्णः पतितो भुवि ॥ ६७.२३ ॥ देवस्तु दक्षिणामाशां गतश्चैवोमया सह । भयभीतो निरीक्षेत ग्रीवां भज्य पुनःपुनः ॥ ६७.२४ ॥ गते चादर्शनं देवे युयुधे वृषभेण सः । द्वावेतौ बलिनां श्रेष्ठौ युयुधाते महाबलौ ॥ ६७.२५ ॥ प्रहारैर्वज्रसदृशैः कोपेन घटिकात्रयम् । पाणिभ्यां न स्पृशेद्यो वै वृषभस्य शिरस्तथा ॥ ६७.२६ ॥ हत्वा लाङ्गूलपातेन आगतो वृषभस्तदा । उत्थितश्चाप्यसौ दैत्यो व्रजते वृषपृष्ठतः ॥ ६७.२७ ॥ वायुवेगेन सम्प्राप्तो यत्र देवो महेश्वरः । आगतं दानवं दृष्ट्वा वृषो वचनमब्रवीत् ॥ ६७.२८ ॥ आरुह्य पृष्ठे मे देव शीघ्रमेव हि गम्यताम् । आरुह्य वृषभं देवो जगाम चोमया सह ॥ ६७.२९ ॥ नाकं प्राप्तस्ततो देवो गतः शक्रस्य मन्दिरम् । नात्यजद्देवपृष्ठं तु दानवो बलदर्पितः ॥ ६७.३० ॥ इन्द्रलोकं परित्यज्य ब्रह्मलोकं गतस्तदा । यत्रयत्र व्रजेद्देवो भयात्सह दिवौकसैः ॥ ६७.३१ ॥ अपश्यत्तत्र तत्रैव पृष्ठे लग्नं तु दानवम् । सर्वांल्लोकान् भ्रमित्वा तु देवो विस्मयमागतः ॥ ६७.३२ ॥ न स्थानं विद्यते किंचिद्यत्र विश्रम्यते क्षणम् । देवदानवयोस्तत्र युद्धं ज्ञात्वा सुदारुणम् ॥ ६७.३३ ॥ हर्षितात्मा मुनिस्तत्र चिरं नृत्यति नारदः । धन्योऽहमद्य मे जन्म जीवितं च सुजीवितम् ॥ ६७.३४ ॥ महान्तं च कलिं दृष्ट्वा संतोषः परमोऽभवत् । देवदानवयोस्तत्र युद्धं त्यक्त्वा च नारदः ॥ ६७.३५ ॥ आजगाम ततो विप्रो यत्र देवो महेश्वरः । दृष्ट्वा देवोऽथ तं विप्रं प्रतिपूज्याब्रवीदिदम् ॥ ६७.३६ ॥ भो नारद मुनिश्रेष्ठ जानीषे केशवं क्वचित् । गत्वा तत्र च शीघ्रं त्वं केशवाय निवेदय ॥ ६७.३७ ॥ नारद उवाच - देवदानवसिद्धानां गन्धर्वोरगरक्षसाम् । सर्वेषामेव देवेशो हरते ध्रुवमापदम् ॥ ६७.३८ ॥ असंभाव्यं न वक्तव्यं मनसापि न चिन्तयेत् । ईदृशीं नैव बुध्यामि आपदं च विभो तव ॥ ६७.३९ ॥ ईश्वर उवाच - गच्छ नारद शीघ्रं त्वं यत्र देवो जनार्दनः । विदितं च त्वया सर्वं यत्कृतं दानवेन तु ॥ ६७.४० ॥ अवध्यो दानवो ह्येष सेन्द्रैरपि मरुद्गणैः । गत्वा तु केशवं देवं निवेदय महामुने ॥ ६७.४१ ॥ नारद उवाच - न तु गच्छाम्यहं देव सुप्तः क्षीरोदधौ सुखी । केशवः प्रेरणे ह्येषामादेशो दीयतां प्रभो ॥ ६७.४२ ॥ मात्रा स्वस्रा दुहित्रा वा राजानं च तथा प्रभुम् । गुरुं चैवादितः कृत्वा शयानं न प्रबोधयेत् ॥ ६७.४३ ॥ ईश्वर उवाच - यदि क्वचिदगारेषु वह्निरुत्पद्यते महान् । निधनं यान्ति तत्रस्था यद्बुध्येरन्नसूरयः ॥ ६७.४४ ॥ नारद उवाच - शीघ्रं गच्छ महादेव आत्मानं रक्ष सुप्रभो । गच्छाम्यहं न सन्देहो यत्र देवो जनार्दनः ॥ ६७.४५ ॥ ततो नन्दिमहाकालौ स्तम्भहस्तौ भयानकौ । जघ्नतुर्दानवं तत्र मुद्गरादिभिरायुधैः ॥ ६७.४६ ॥ त्रयोऽपि च महाकायाः सप्ततालप्रमाणकाः । न शमो जायते तेषां युध्यतां च परस्परम् ॥ ६७.४७ ॥ ततश्चानन्तरं विप्रोऽगच्छत्तं केशवं प्रति । सुप्तं क्षीरार्णवेऽपश्यच्छेषपर्यङ्कसंस्थितम् ॥ ६७.४८ ॥ लक्ष्म्या पादयुगं गृह्य ऊरूपरि निवेशितम् । अप्सरोगीयमानं तु भक्त्यानम्य च केशवम् ॥ ६७.४९ ॥ अद्य मे सफलं जन्म जीवितं च सुजीवितम् । उत्थापयस्व देवेशं लक्ष्मि त्वमविशङ्किता ॥ ६७.५० ॥ नारदस्य वचः श्रुत्वा पदाङ्गुष्ठं व्यमर्दयत् । नारदस्तिष्ठते द्वारि उत्तिष्ठ मधुसूदन ॥ ६७.५१ ॥ देवोऽपि नारदं दृष्ट्वा परं हर्षमुपागतः । स्वागतं तु मुनिश्रेष्ठ सुप्रभाताद्य शर्वरी ॥ ६७.५२ ॥ नारद उवाच - अद्य मे सफलं देव प्रभातं तव दर्शनात् । कुशलं च न देवानां शीघ्रमुत्तिष्ठ गम्यताम् ॥ ६७.५३ ॥ श्रीविष्णुरुवाच - ब्रह्मा चेन्द्रश्च रुद्रश्च ये चान्ये तु मरुद्गणाः । आपदः कारणं यच्च तत्समाख्यातुमर्हसि ॥ ६७.५४ ॥ नारद उवाच - दानवेन महातीव्रं तपस्तप्तं सुदारुणम् । रुद्रेण च वरो दत्तो भस्मत्वं मनसेप्सितम् ॥ ६७.५५ ॥ वरदानबलेनैव स देवं हन्तुमर्हति । ईदृशं चेष्टितं ज्ञात्वा नीतो देवोऽमरैः सह ॥ ६७.५६ ॥ नारदस्य वचः श्रुत्वा जगाम समुनिर्हरिः । दृष्ट्वा देवस्तमीशानं गच्छन्तं दिशमुत्तराम् ॥ ६७.५७ ॥ दृष्ट्वा देवं च रुद्रोऽथ परिष्वज्य पुनःपुनः । नमस्कृत्य जगन्नाथं देवं च मधुसूदनः ॥ ६७.५८ ॥ विष्णुरुवाच - भयस्य कारणं देव कथ्यतां च महेश्वर । देवदानवयक्षाणां प्रेषयेयं यमालयम् ॥ ६७.५९ ॥ ललाटे च कृतो धर्मो युष्माकं च महेश्वर । छित्त्वा शिरस्तथाङ्गानि इन्द्रियाणि न संशयः ॥ ६७.६० ॥ ईश्वर उवाच - नास्ति सौख्यं च मूर्खेषु नास्ति सौख्यं च रोगिषु । पराधीनेन सौख्यं तु स्त्रीजिते च विशेषतः ॥ ६७.६१ ॥ स्त्रीजितेन मया विष्णो वरो दत्तस्तु दानवे । यस्य मूर्ध्नि न्यसेत्पाणिं स भवेद्भस्मपुंजवत् ॥ ६७.६२ ॥ अजेयश्चामरश्चैव मया ह्युक्तः स केशव । हन्तुमिच्छति मां पाप उपायस्तव विद्यते ॥ ६७.६३ ॥ विष्णुरुवाच - गच्छन्तु अमराः सर्वे युष्माभिः सह शङ्कर । उपायं सर्जयाम्यद्य वधार्थं दानस्य च ॥ ६७.६४ ॥ रेवायाश्च तटे तिष्ठ देव त्वममरैः सह । कालक्षेपो न कर्तव्यो गम्यतां त्वरितं प्रभो ॥ ६७.६५ ॥ दक्षिणा यत्र गङ्गा च रेवा चैव महानदी । यत्रयत्र च दृश्येत प्राची चैव सरस्वती ॥ ६७.६६ ॥ तत्समं च महातीर्थं न मर्त्ये चैव दृश्यते । स्नानं ये तत्र कुर्वन्ति दानं चैव तु भक्तितः ॥ ६७.६७ ॥ सप्तजन्मकृतं पापं नश्यते नात्र संशयः । एतत्तीर्थं महापुण्यं सर्वपातकनाशनम् ॥ ६७.६८ ॥ गम्यतां तत्र देवेश लुङ्केशं त्वं सहामरैः । विष्णोस्तु वचनादेव प्रविष्टो ह्रदमुत्तमम् ॥ ६७.६९ ॥ रतिं सुमहतीं चक्रे सह तत्र मरुद्गणैः । ततश्चानन्तरं देवो मायां कृत्वा ह्यनेकधा ॥ ६७.७० ॥ वसन्तमासं संसृज्य उद्यानवनशोभितम् । अशोकैर्बकुलैश्चैव ब्रह्मवृक्षैः सुशोभनैः ॥ ६७.७१ ॥ श्रीवृक्षैश्च कपित्थैश्च शिरीषैर्राजचम्पकैः । श्रीफलैश्च तथा तालैः कदम्बोदुम्बरैस्तथा ॥ ६७.७२ ॥ अश्वत्थादिद्रुमैश्चैव नानावृक्षैरनेकशः । नानापुष्पैः सुगन्धाढ्यैर्भ्रमरैश्च निनादितम् ॥ ६७.७३ ॥ तस्मिन्मध्ये महावृक्षो न्यग्रोधश्च सुशोभनः । बहुपक्षिसमायुक्तः कोकिलारावनादितः ॥ ६७.७४ ॥ कृष्णेन च कृतं तस्मिन्कन्यारूपं च तत्क्षणात् । न तस्याः सदृशी कन्या त्रैलोक्ये सचराचरे ॥ ६७.७५ ॥ अन्याश्च कन्यकाः सप्त सुरूपाः शुभलोचनाः । दिव्यरूपधराः सर्वा दिव्याभरणभूषिताः ॥ ६७.७६ ॥ पुमांसमभिकाङ्क्षन्त्यो यद्येकः कामयेत्स्त्रियः । मौक्तिकैर्रत्नमाणिक्यैर्वैडूर्यैश्च सुशोभनैः ॥ ६७.७७ ॥ कामहारैश्च वंशैश्च बद्धो हिन्दोलकः कृतः । आरूढाश्च महाकन्या गायन्ते सुस्वरं तदा ॥ ६७.७८ ॥ मारुतः शीतलो वाति वनं स्पृष्ट्वा सुशोभनम् । वातेन प्रेरितो गन्धो दानवो घ्राणपीडितः ॥ ६७.७९ ॥ ततः कुसुमगन्धेन विस्मयं परमं गतः । आघ्राय चेदृशं पुण्यं न दृष्टं न श्रुतं मया ॥ ६७.८० ॥ वने चिन्तयतः किंचिद्ध्वनिगीतं सुशोभनम् । गीतस्य च ध्वनिं श्रुत्वा मोहितो मायया हरेः ॥ ६७.८१ ॥ व्याधस्यैव महाकूटे पतन्ति च यथा मृगाः । कालस्पृष्टस्तथा कृष्णे पतितश्च नराधिप ॥ ६७.८२ ॥ दृष्ट्वा कन्यां च तां दैत्यो मूर्च्छया पतितो भुवि । पतितेन तु दृष्टैका कन्या वटतले स्थिता ॥ ६७.८३ ॥ आस्यं दृष्ट्वा तु नारीणां पुनः कामेन पीडितः । गृहीत्वा हेमदण्डं तु तां पातयितुमिच्छति ॥ ६७.८४ ॥ कन्योवाच - मा मानुस्पर्शयत्वं हि कुमार्यहं कुलोत्तम । भो मुञ्च मुञ्च मां शीघ्रं यावद्गच्छाम्यहं गृहम् ॥ ६७.८५ ॥ दानव उवाच - अहं विवाहमिच्छामि त्वया सह सुशोभने । भूपृष्ठे सकले राज्ञी भवस्येवं न संशयः ॥ ६७.८६ ॥ कन्योवाच - पिता रक्षति कौमार्ये भर्ता रक्षति यौवने । पुत्रो रक्षति वृद्धत्वे न स्त्री स्वातन्त्र्यमर्हति ॥ ६७.८७ ॥ न स्वातन्त्र्यं ममैवास्ति उत्पन्नाहं महत्कुले । याच्यस्तु मत्पिता भ्राता मातापि हि तथैव च ॥ ६७.८८ ॥ दानव उवाच - यदि मां नेच्छसे त्वद्य स्वातन्त्र्यं नावलम्बसे । ममापि च तदा हत्या सत्यं च शुभलोचने ॥ ६७.८९ ॥ कन्योवाच - विश्वासो नैव कर्तव्यो यादृशे तादृशे नरे । नराः स्त्रीषु विचित्राश्च लम्पटाः काममोहिताः ॥ ६७.९० ॥ परिणीय तु मां त्वं हि भुङ्क्ष्व भोगान्मया सह । जन्मनाशो भवेत्पश्चान्न त्वं नान्यो भवेन्मम ॥ ६७.९१ ॥ ब्राह्मणी क्षत्रिणी वैशी शूद्री यावत्तथैव च । द्वितीयो न भवेद्भर्ता एकाकी चेह जन्मनि ॥ ६७.९२ ॥ दानव उवाच - यत्त्वया गदितं वाक्यं तन्मया धारितं हृदि । प्रत्ययं मे कुरुष्वाद्य यत्ते मनसि रोचते ॥ ६७.९३ ॥ कन्योवाच - जानीष्व गोपकन्यां मां क्रीडामि सखिभिः सह । अस्मत्कुलेषु यद्दिव्यं तत्कुरुष्व यथाविधि ॥ ६७.९४ ॥ न तद्दिव्यं कुलेऽस्माकं विषं कोशं न तत्तुला । गोपान्वयेषु सर्वेषु हस्तः शिरसि दीयते ॥ ६७.९५ ॥ कामान्धेनैव राजेन्द्र निक्षिप्तो मस्तके करः । तत्क्षणाद्भस्मसाद्भूतो दग्धस्तृणचयो यथा ॥ ६७.९६ ॥ केशवोपरि देवैस्तु पुष्पवृष्टिः शुभा कृता । हृष्टाः सर्वेऽगमन्देवाः स्वस्थानं विगतज्वराः ॥ ६७.९७ ॥ क्षीरोदं केशवो गच्छत्कालपृष्ठे निपातिते । य इदं शृणुयाद्भक्त्या चरितं दानवस्य च ॥ ६७.९८ ॥ स जयी जायते नित्यं शङ्करस्य वचो यथा । एतस्मात्कारणाद्राजंल्लिङ्गेश्वरमिति श्रुतम् ॥ ६७.९९ ॥ लीनं च पातकं यस्मात्स्नानमात्रेण नश्यति । त्वगस्थि शोणितं मांसं मेदःस्नायुस्तथैव च ॥ ६७.१०० ॥ मज्जाशुक्रगतं पापं नश्यते जन्मकोटिजम् । लुङ्केश्वरे महाराज तोयं पिबति भक्तितः ॥ ६७.१०१ ॥ त्रिभिः प्रसृतिमात्राभिः पापं याति सहस्रधा । विशेषेण चतुर्दश्यामुभौ पक्षौ तु चाष्टमी ॥ ६७.१०२ ॥ उपोष्य यो नरो भक्त्या पित्ःणां पाण्डुनन्दन । उद्धृतास्तेन ते सर्वे नारकीयाः पितामहाः ॥ ६७.१०३ ॥ काकिणीं चैव यो दद्याद्ब्राह्मणे वेदपारगे । तेन दानफलं सर्वं कुरुक्षेत्रादिकं च यत् ॥ ६७.१०४ ॥ प्राप्तं तु नान्यथा राजञ्छङ्करो वदते त्विदम् । स्पर्शलिङ्गमिदं राजञ्छङ्करेण तु निर्मितम् ॥ ६७.१०५ ॥ स्पर्शमात्रे मनुष्याणां रुद्रवासोऽभिजायते । तेन दानफलं सर्वं कुरुक्षेत्रादिकं च यत् ॥ ६७.१०६ ॥ एतस्मात्कारणाद्राजंल्लोकपालाश्च रक्षकाः । दुर्गा च रक्षणे सृष्टा चतुर्हस्तधरा शुभा ॥ ६७.१०७ ॥ धनदो लोकपालेशो रक्षकश्चेश्वरस्य च । रक्षति च सदा कालं ग्रहव्यापाररूपतः ॥ ६७.१०८ ॥ पुत्रभ्रातृसमारूपैः स्वामिसम्बन्धरूपिभिः । लङ्केश्वरं च राजेन्द्र देवैर्नाद्यापि मुच्यते ॥ ६७.१०९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लुङ्केश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥ ऋKV अध्याय ६८ श्रीमार्कण्डेय उवाच - धनदस्य तु तत्तीर्थं ततो गच्छेद्युधिष्ठिर । नर्मदादक्षिणे कूले सर्वपापक्षयंकरम् ॥ ६८.१ ॥ सर्वतीर्थफलं तत्र प्राप्यते नात्र संशयः । चैत्रमासत्रयोदश्यां शुक्लपक्षे जितेन्द्रियः ॥ ६८.२ ॥ उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम् । पञ्चामृतेन राजेन्द्र स्नापयेद्धनदं बुधः ॥ ६८.३ ॥ दीपं घृतेन दातव्यं गीतं वाद्यं च कारयेत् । प्रभाते पूजयेद्विप्रानात्मनः श्रेय इच्छति ॥ ६८.४ ॥ प्रतिग्रहसमर्थांश्च विद्यासिद्धान्तवादिनः । श्रौतस्मार्तक्रियायुक्तान् परदारपराङ्मुखान् ॥ ६८.५ ॥ पूजयेद्गोहिरण्येन वस्त्रोपानहभोजनैः । छत्रशय्याप्रदानेन सर्वपापक्षयो भवेत् ॥ ६८.६ ॥ त्रिजन्मजनितं पापं वरदस्य प्रभावतः । स्वर्गदं दुर्विनीतानां विनीतानां च मोक्षदम् ॥ ६८.७ ॥ अन्नदं च दरिद्राणां भवेज्जन्मनिजन्मनि । कुलीनत्वं दुःखहानिः स्वभावाजायते नरे ॥ ६८.८ ॥ व्याधिध्वंसो भवेत्तेषां नर्मदोदकसेवनात् । धनदस्य तु यस्तीर्थे विद्यादानं प्रयच्छति ॥ ६८.९ ॥ स याति भास्करे लोके सर्वव्याधिविवर्जिते । देवद्रोणीं च तत्रैव स्वशक्त्या पाण्डुनन्दन ॥ ६८.१० ॥ ये प्रकुर्वन्ति भूयिष्ठां रेवाया दक्षिणे तटे । ते यान्ति शांकरे लोके सर्वदुःखविवर्जिते ॥ ६८.११ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे धनदतीर्थमाहात्म्यवर्णनं नामाष्टषष्टितमोऽध्यायः ॥ ऋKV अध्याय ६९ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र मङ्गलेश्वरमुत्तमम् । स्थापितं भूमिपुत्रेण लोकानां हितकाम्यया ॥ ६९.१ ॥ तोषितः परया भक्त्या शङ्करः शशिशेखरः । चतुर्दश्यां गुरुर्देवः प्रत्यक्षो मङ्गलेश्वरः ॥ ६९.२ ॥ ब्रूहि पुत्र वरं शुभ्रं तं ते दास्यामि मङ्गल ॥ ६९.३ ॥ मङ्गल उवाच - प्रसादं कुरु मे शम्भो प्रतिजन्मनि शङ्कर । त्वदङ्गस्वेदसम्भूतो ग्रहमध्ये वसाम्यहम् ॥ ६९.४ ॥ त्वत्प्रसादेन ईशान पूज्योऽहं सर्वदैवतैः । कृतार्थो ह्यद्य संजातस्तव दर्शनभाषणात् ॥ ६९.५ ॥ स्थानेऽस्मिन् देवदेवेश मम नाम्ना महेश्वरः । एवं भवतु ते पुत्रेत्युक्त्वा चान्तरधीयत ॥ ६९.६ ॥ मङ्गलोऽपि महात्मा वै स्थापयित्वा महेश्वरम् । आत्मयोगबलेनैव शूलिनापूजयत्ततः ॥ ६९.७ ॥ सर्वदुःखहरं लिङ्गं नाम्ना वै मङ्गलेश्वरम् । तत्र तीर्थे तु वै राजन्ब्राह्मणान्प्रीणयेत्सुधीः ॥ ६९.८ ॥ सपत्नीकान्नृपश्रेष्ठ चतुर्थ्यङ्गारके व्रते । पत्नीभर्तारसंयुक्तं विद्वांसं श्रोत्रियं द्विजम् ॥ ६९.९ ॥ व्रतान्ते चैव गौर्धुर्यैः शिवमुद्दिश्य दीयते । प्रीयतां मे महादेवः सपत्नीको वृषध्वजः ॥ ६९.१० ॥ वस्त्रयुग्मं प्रदातव्यं लोहितं पाण्डुनन्दन । धूर्वहौ रक्तवर्णौ च शुभ्रं कृष्णं तथैव च ॥ ६९.११ ॥ छत्रं शय्यां शुभां चैव रक्तमाल्यानुलेपनम् । दातव्यं पाण्डवश्रेष्ठ विशुद्धेनान्तरात्मना ॥ ६९.१२ ॥ चतुर्थ्यां तु तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः । श्राद्धं तत्रैव कर्तव्यं वित्तशाठ्येन वर्जितः ॥ ६९.१३ ॥ प्रेता भवन्ति सुप्रीता युगमेकं महीपते । सपुत्रो जायते मर्त्यः प्रतिजन्म नृपोत्तम ॥ ६९.१४ ॥ तस्य तीर्थस्य भावेन सर्वाङ्गरुचिरो नृप । मङ्गलं भवते वंशो नाशुभं विद्यते क्वचित् ॥ ६९.१५ ॥ भक्त्या यः कीर्तयेन्नित्यं तस्य पापं व्यपोहति ॥ ६९.१६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनसप्ततितमोऽध्यायः ॥ ऋKV अध्याय ७० श्रीमार्कण्डेय उवाच - रेवाया उत्तरे कूले तीर्थं परमशोभनम् । रविणा निर्मितं पार्थ सर्वपापक्षयंकरम् ॥ ७०.१ ॥ स्वांशेन भास्करस्तत्र तिष्ठते चोत्तरे तटे । सर्वव्याधिहरः पुंसां नर्मदायां व्यवस्थितः ॥ ७०.२ ॥ षष्ठ्यांषष्ठ्यां नृपश्रेष्ठ ह्यष्टम्यां च चतुर्दशीम् । स्नानं यः कारयेन्मर्त्यः श्राद्धं प्रेतेषु भक्तितः । तस्य पापक्षयः पार्थ सूर्यलोके महीयते ॥ ७०.३ ॥ ततः स्वर्गाच्च्युतः सोऽपि जायते विमले कुले । धनाढ्यो व्याधिनिर्मुक्तो जीवेज्जन्मनिजन्मनि ॥ ७०.४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थमाहात्म्यवर्णनं नाम सप्ततितमोऽध्यायः ॥ ऋKV अध्याय ७१ श्रीमार्कण्डेय उवाच - कामेश्वरं ततश्चान्यच्छृणु पाण्डवसत्तम । सिद्धो यत्र गणाध्यक्षो गौरीपुत्रो महाबलः ॥ ७१.१ ॥ तत्र तीर्थे तु यो भक्त्या भक्तियुक्तो जितेन्द्रियः । पञ्चामृतेन संस्नाप्य धूपनैवेद्यपूजनैः ॥ ७१.२ ॥ प्रसाद्य जगतामीशं सर्वपापैः प्रमुच्यते । अष्टम्यां मार्गशीर्षस्य तत्र स्नात्वा युधिष्ठिर ॥ ७१.३ ॥ यो येन यजते तत्र स तं काममवाप्नुयात् ॥ ७१.४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कामेश्वरतीर्थमाहात्म्यवर्णनं नामैकसप्ततितमोऽध्यायः ॥ ऋKV अध्याय ७२ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र मणिनागेश्वरं शुभम् । उत्तरे नर्मदाकूले सर्वपापक्षयंकरम् । स्थापितं मणिनागेन लोकानां हितकाम्यया ॥ ७२.१ ॥ युधिष्ठिर उवाच - आशीविषेण सर्पेण ईश्वरस्तोषितः कथम् । क्षुद्राः सर्वस्य लोकस्य भयदा विषशालिनः ॥ ७२.२ ॥ कथ्यतां तात मे सर्वं पातकस्योपशान्तिदम् । मम सन्तापजं दुःखं दुर्योधनसमुद्भवम् ॥ ७२.३ ॥ कर्णभीष्मोद्भवं रौद्रं दुःखं पाञ्चालिसम्भवम् । तव वक्त्राम्बुजौघेन प्लावितं निर्वृतिं गतः ॥ ७२.४ ॥ श्रुत्वा तव मुखोद्गीतां कथां वै पापनाशिनीम् । अयुक्तमिदमस्माकं द्विज क्लेशो न शाम्यति ॥ ७२.५ ॥ अथवा प्राप्स्यते तात विद्यादानस्य यत्फलम् । तत्फलं प्राप्यते नित्यं कथाश्रवणतो हरेः ॥ ७२.६ ॥ श्रीमार्कण्डेय उवाच - यथायथा त्वं नृप भाषसे च तथातथा मे सुखमेति भारती । शैथिल्यता वा जरयान्वितस्य त्वत्सौहृदं नश्यति नैव तात । शृणुष्व तस्मात्सह बान्धवैश्च कथामिमां पापहरां प्रशस्ताम् ॥ ७२.७ ॥ कथयामि यथावृत्तमितिहासं पुरातनम् ॥ ७२.८ ॥ कथितं पूर्वतो वृत्तैः पारम्पर्येण भारत ॥ ७२.९ ॥ द्वे भार्ये कश्यपस्यास्तां सर्वलोकेष्वनुत्तमे । गरुत्मन्तं च विनतासूत कद्रूरहीनथ ॥ ७२.१० ॥ संतोषेण च ते तात तिष्ठतः काश्यपे गृहे । कद्रूश्च विनता नाम हृष्टे च वनिते सदा ॥ ७२.११ ॥ ताभ्यां सार्द्धं क्रीडते च कश्यपोऽपि प्रजापतिः । ततस्त्वेकदिने प्राप्ते आश्रमस्था शुभानना ॥ ७२.१२ ॥ उच्चैःश्रवं हयं दृष्ट्वा मनोवेगसमन्वितम् । पश्य पश्य हि तन्वङ्गी हयं सर्वत्र पाण्डुरम् ॥ ७२.१३ ॥ धावमानमविश्रान्तं जवेन मनसोपमम् । तं दृष्ट्वा सहसा चाश्वमीर्ष्याभावेन चाब्रवीत् ॥ ७२.१४ ॥ कद्रूरुवाच - ब्रूहि भद्रे सहस्रांशोरश्वः किंवर्णको भवेत् । अहं ब्रवीमि कृष्णोऽयं त्वं किं वदसि तद्वद ॥ ७२.१५ ॥ विनतोवाच - पश्यसे ननु नेत्रैश्च कृष्णं श्वेतं न पश्यसि । असत्यभाषणाद्भद्रे यमलोकं गमिष्यसि ॥ ७२.१६ ॥ सत्यानृते तु वचने पणस्तव ममैव तु । सहस्रं चैव वर्षाणां दास्यहं तव मन्दिरे ॥ ७२.१७ ॥ असत्या यदि मे वाणी कृष्ण उच्चैःश्रवा यदि । तदाहं त्वद्गृहे दासी भवामि सर्पमातृके ॥ ७२.१८ ॥ यदि उच्चैःश्रवाः श्वेतोऽहं दासी च तवैव तु । एवं परस्परं द्वाभ्यां संवादोऽयं व्यवर्धत ॥ ७२.१९ ॥ आश्रमेषु गता बाला रात्रौ चिन्तापरा स्थिता । बन्धुवर्गस्य कथितं समस्तं तद्विचेष्टितम् ॥ ७२.२० ॥ पुत्राणां कथितं पार्थ पणं चैव मया कृतम् । हाहाकारः कृतः सर्पैः श्रुत्वा मात्रा पणं कृतम् ॥ ७२.२१ ॥ जाता दासी न सन्देहः श्वेतो भास्करवाहनः । उच्चैःश्रवा हयः श्वेतो न कृष्णो विद्यते क्वचित् ॥ ७२.२२ ॥ कद्रूरुवाच - यथाहं न भवे दासी तत्कार्यं च विचिन्त्यताम् । विशध्वं रोमकूपेषु ह्युच्चैःश्रवहयस्य तु ॥ ७२.२३ ॥ एकं मुहूर्तमात्रं तु यावत्कृष्णः स दृश्यते । क्षणमात्रेण चैकेन दासी सा भवते मम ॥ ७२.२४ ॥ दासीं कृत्वा तु तां तन्वीं विनतां सत्यगर्विताम् । ततः स्वस्थानगाः सर्वे भविष्यथ यथासुखम् ॥ ७२.२५ ॥ सर्पा ऊचुः । यथा त्वं जननी चाम्ब सर्वेषां भुवि पूजिता । तथा सापि विशेषेण वञ्चितव्या न मातरः ॥ ७२.२६ ॥ माता च पितृभार्या च मातृमाता पितामही । कर्मणा मनसा वाचा हितं तासां समाचरेत् ॥ ७२.२७ ॥ सा ततस्तेन वाक्येन क्रुद्धा कालानलोपमा । मम वाक्यमकुर्वाणा ये केचिद्भुवि पन्नगाः ॥ ७२.२८ ॥ हव्यवाहमुखे सर्वे ते यास्यन्त्यविचारितम् । मातुस्तद्वचनं श्रुत्वा सर्वे चैव भुजङ्गमाः ॥ ७२.२९ ॥ केचित्प्रविष्टा रोमेषु उच्चैःश्रवहयस्य च । नष्टाः केचिद्दशदिशं कद्रूशापभयात्ततः ॥ ७२.३० ॥ केचिद्गङ्गाजले नष्टाः केचिन्नष्टाः सरस्वतीम् । केचिन्महोदधौ लीनाः प्रविष्टा विन्ध्यकन्दरे ॥ ७२.३१ ॥ आश्रित्य नर्मदातोये मणिनागोत्तमो नृप । तपश्चचार विपुलमुत्तरे नर्मदातटे ॥ ७२.३२ ॥ मातृशापभयात्पार्थ ध्यायते कामनाशनम् । अच्छेद्यमप्रतर्क्यं च विनाशोत्पत्तिवर्जितम् ॥ ७२.३३ ॥ वायुभक्षः शतं साग्रं तदर्धं रविवीक्षकः । एवं ध्यानरतस्यैव प्रत्यक्षस्त्रिपुरान्तकः ॥ ७२.३४ ॥ साधु साधु महाभाग सत्त्ववांस्तु भुजंगम । त्वया भक्त्या गृहीतोऽहं प्रीतस्ते ह्युरगेश्वर । वरं याचय मे क्षिप्रं यस्ते मनसि वर्तते ॥ ७२.३५ ॥ मणिनाग उवाच - मातृशापभयान्नाथ क्लिष्टोऽहं नर्मदातटे । त्वत्प्रसादेन मे नाथ मातृशापो भवेद्वृथा ॥ ७२.३६ ॥ ईश्वर उवाच - हव्यवाहमुखं वत्स न प्राप्स्यसि ममाज्ञया । मम लोके निवासश्च तव पुत्र भविष्यति ॥ ७२.३७ ॥ मणिनाग उवाच - अत्र स्थाने महादेव स्थीयतामंशभागतः । सहस्रांशेन भागेन स्थीयतां नर्मदाजले । उपकाराय लोकानां मम नाम्नैव शङ्कर ॥ ७२.३८ ॥ ईश्वर उवाच - स्थापयस्व परं लिङ्गमाज्ञया मम पन्नग । इत्युक्त्वान्तर्हितो देवो जगाम ह्युमया सह ॥ ७२.३९ ॥ मार्कण्डेय उवाच - तत्र तीर्थे तु ये गत्वा शुचिप्रयतमानसाः । पञ्चम्यां वा चतुर्दश्यामष्टम्यां शुक्लकृष्णयोः ॥ ७२.४० ॥ अर्चयन्ति सदा पार्थ नोपसर्पन्ति ते यमम् । दध्ना च मधुना चैव घृतेन क्षीरयोगतः ॥ ७२.४१ ॥ स्नापयन्ति विरूपाक्षमुमादेहार्धधारिणम् । कामाङ्गदहनं देवमघासुरनिषूदनम् ॥ ७२.४२ ॥ स्नाप्यमानं च ये भक्त्वा पश्यन्ति परमेश्वरम् । ते यान्ति च परे लोके सर्वपापविवर्जितैः ॥ ७२.४३ ॥ श्राद्धं प्रेतेषु ये पार्थ चाष्टम्यां पञ्चमीषु च । ब्राह्मणैश्च सदा योग्यैर्वेदपाठकचिन्तकैः ॥ ७२.४४ ॥ स्वदारनिरतैः श्लक्ष्णैः परदारविवर्जितैः । षट्कर्मनिरतैस्तात शूद्रप्रेषणवर्जितैः ॥ ७२.४५ ॥ खञ्जाश्च दर्दुराः षण्ढा वार्द्धुष्याश्च कृषीवलाः । भिन्नवृत्तिकराः पुत्र नियोज्या न कदाचन ॥ ७२.४६ ॥ वृषलीमन्दिरे यस्य महिषीं यस्तु पालयेत् । स विप्रो दूरतस्त्याज्यो व्रते श्राद्धे नराधिप ॥ ७२.४७ ॥ काणाष्टुंटाश्च मण्टाश्च वेदपाठविवर्जिताः । न ते पूज्या द्विजाः पार्थ मणिनागेश्वरे शुभे ॥ ७२.४८ ॥ यदीच्छेदूर्ध्वगमनमात्मनः पितृभिः सह । सर्वाङ्गरुचिरां धेनुं यो दद्यादग्रजन्मने ॥ ७२.४९ ॥ स याति परमं लोकं यावदाभूतसम्प्लवम् । ततः स्वर्गाच्च्युतः सोऽपि जायते विमले कुले ॥ ७२.५० ॥ ये पश्यन्ति परं भक्त्या मणिनागेश्वरं नृप । न तेषां जायते वंशे पन्नगानां भयं नृप ॥ ७२.५१ ॥ पन्नगः शङ्कते तेषां मणिनागप्रदर्शनात् । सौपर्णरूपिणस्ते वै दृश्यन्ते नागमण्डले ॥ ७२.५२ ॥ फलानि चैव दानानां शृणुष्वाथ नृपोत्तम । अन्नं संस्कारसंयुक्तं ये ददन्ते नरोत्तमाः ॥ ७२.५३ ॥ तोयं शय्यां तथा छत्रं कन्यां दासीं सुभाषिणीम् । पात्रे देयं यतो राजन् यदीच्छेच्छ्रेय आत्मनः ॥ ७२.५४ ॥ सुरभीणि च पुष्पाणि गन्धवस्त्राणि दापयेत् । दीपं धान्यं गृहं शुभ्रं सर्वोपस्करसंयुतम् ॥ ७२.५५ ॥ ये ददन्ते परं भक्त्या ते व्रजन्ति त्रिविष्टपम् । मणिनागे नृपश्रेष्ठ यच्च दानं प्रदीयते ॥ ७२.५६ ॥ तस्य दानस्य भावेन स्वर्गे वासो भवेद्ध्रुवम् । पातकानि प्रलीयन्ते आमपात्रे यथा जलम् ॥ ७२.५७ ॥ नर्मदातोयसंसिद्धं भोज्यं विप्रे ददाति यः । सोऽपि पापैर्विनिर्मुक्तः क्रीडते दैवतैः सह ॥ ७२.५८ ॥ ततः स्वर्गच्युतानां हि लक्षणं प्रवदाम्यहम् । दीर्घायुषो जीवपुत्रा धनवन्तः सुशोभनाः ॥ ७२.५९ ॥ सर्वव्याधिविनिर्मुक्ताः सुतभृत्यैः समन्विताः । त्यागिनो भोगसंयुक्ता धर्माख्यानरताः सदा ॥ ७२.६० ॥ देवद्विजगुरोर्भक्तास्तीर्थसेवापरायणाः । मातापितृवशा नित्यं द्रोहक्रोधविवर्जिताः ॥ ७२.६१ ॥ एभिरेव गुणैर्युक्ता ये नराः पाण्डुनन्दन । सत्यं ते स्वर्गादायाताः स्वर्गे वासं व्रजन्ति ते ॥ ७२.६२ ॥ सर्वतीर्थवरं तीर्थं मणिनागं नृपोत्तम । तीर्थाख्यानमिदं पुण्यं यः पठेच्छृणुयादपि ॥ ७२.६३ ॥ सोऽपि पापैर्विनिर्मुक्तः शिवलोके महीयते । न विषं क्रमते तेषां विचरन्ति यथेच्छया ॥ ७२.६४ ॥ भाद्रपद्यां च यत्षष्ठ्यां पुण्यं सूर्यस्य दर्शने । तत्फलं समवाप्नोति आख्यानश्रवणेन तु ॥ ७२.६५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मणिनागेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विसप्ततितमोऽध्यायः ॥ ऋKV अध्याय ७३ श्रीमार्कण्डेय उवाच - नर्मदादक्षिणे कूले तीर्थं परमशोभनम् । सर्वपापहरं पार्थ गोपारेश्वरमुत्तमम् । गोदेहान्निःसृतं लिङ्गं पुण्यं भूमितले नृप ॥ ७३.१ ॥ युधिष्ठिर उवाच - गोदेहान्निःसृतं कस्माल्लिङ्गं पापक्षयंकरम् । दक्षिणे नर्मदाकूले मणिनागसमीपतः । संक्षेपात्कथ्यतां विप्र गोपारेश्वरसम्भवम् ॥ ७३.२ ॥ श्रीमार्कण्डेय उवाच - कामधेनुस्तपस्तत्र पुरा पार्थ चकार ह । ध्यायते परया भक्त्या देवदेवं महेश्वरम् ॥ ७३.३ ॥ तुष्टस्तस्या जगन्नाथ कपिलाय महेश्वरः । निःसृतो देहमध्यात्तु अच्छेद्यः परमेश्वरः ॥ ७३.४ ॥ तुष्टो देवि जगन्मातः कपिले परमेश्वरि । आराधनं कृतं यस्मात्तद्वदाशु शुभानने ॥ ७३.५ ॥ सुरभ्युवाच - लोकानामुपकाराय सृष्टाहं परमेष्ठिना । लोककार्याणि सर्वाणि सिध्यन्ति मत्प्रसादतः ॥ ७३.६ ॥ लोकाः स्वर्गं प्रयास्यन्ति मत्प्रसादेन शङ्कर । तीर्थे त्वं भव मे शम्भो लोकानां हितकाम्यया ॥ ७३.७ ॥ तथेति भगवानुक्त्वा तीर्थे तत्रावसन्मुदा । तदाप्रभृति तत्तीर्थं विख्यातं वसुधातले । स्नानेनैकेन राजेन्द्र पापसङ्घं व्यपोहति ॥ ७३.८ ॥ गोपारेश्वरगोदानं यस्तु भक्त्या च कारयेत् । योग्ये द्विजोत्तमे देया योग्या धेनुः सकाञ्चना ॥ ७३.९ ॥ सवत्सा तरुणी शुभ्रा बहुक्षीरा सवस्त्रका । कृष्णपक्षे चतुर्दश्यामष्टम्यां वा प्रदापयेत् ॥ ७३.१० ॥ सर्वेषु चैव मासेषु कार्त्तिके च विशेषतः । दापयेत्परया भक्त्या द्विजे स्वाध्यायतत्परे ॥ ७३.११ ॥ विधिना च प्रदद्याद्यो विधिना यस्तु गृह्णते । तावुभौ पुण्यकर्माणौ प्रेक्षकः पुण्यभाजनम् ॥ ७३.१२ ॥ पिण्डदानं प्रकुर्याद्यः प्रेतानां भक्तिसंयुतः । पिण्डेनैकेन राजेन्द्र प्रेता यान्ति परां गतिम् ॥ ७३.१३ ॥ भक्त्या प्रणामं रुद्रस्य ये कुर्वन्ति दिने दिने । तेषां पापं प्रलीयेत भिन्नपात्रे जलं यथा ॥ ७३.१४ ॥ तत्र तीर्थे तु यो राजन्वृषभं च समुत्सृजेत् । पितरश्चोद्धृतास्तेन शिवलोके महीयते ॥ ७३.१५ ॥ युधिष्ठिर उवाच - वृषोत्सर्गे कृते तात फलं यज्जायते नृणाम् । तत्सर्वं कथयस्वाशु प्रयत्नेन द्विजोत्तम ॥ ७३.१६ ॥ श्रीमार्कण्डेय उवाच - सर्वलक्षणसम्पूर्णे वृषे चैव तु यत्फलम् । तदहं सम्प्रवक्ष्यामि शृणुष्व धर्मनन्दन ॥ ७३.१७ ॥ कार्त्तिके चैव वैशाखे पूर्णिमायां नराधिप । रुद्रस्य सन्निधौ भूत्वा शुचिः स्नातो जितेन्द्रियः ॥ ७३.१८ ॥ वृषस्यैव समुत्सर्गं कारयेत्प्रीयतां हरः । सांनिध्ये कारयेत्पुत्र चतस्रो वत्सिकाः शुभाः ॥ ७३.१९ ॥ दत्त्वा तु विप्रमुख्याय सर्वलक्षणसंयुताः । प्रीयतां च महादेवो ब्रह्मा विष्णुर्महेश्वरः ॥ ७३.२० ॥ वृषभे रोमसंख्या या सर्वाङ्गेषु नराधिप । तावद्वर्षप्रमाणं तु शिवलोके महीयते ॥ ७३.२१ ॥ शिवलोके वसित्वा तु यदा मर्त्येषु जायते । कुले महति सम्भूतिर्धनधान्यसमाकुले ॥ ७३.२२ ॥ नीरोगो रूपवांश्चैव विद्याढ्यः सत्यवाक्शुचिः । गोपारेश्वरमाहात्म्यं मया ख्यातं युधिष्ठिर । गोदेहान्निःसृतं लिङ्गं नर्मदादक्षिणे तटे ॥ ७३.२३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोपारेश्वरमाहात्म्यवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ ऋKV अध्याय ७४ श्रीमार्कण्डेय उवाच - रेवाया उत्तरे कूले तीर्थं परमशोभनम् । सर्वपापहरं मर्त्ये नाम्ना वै गौतमेश्वरम् ॥ ७४.१ ॥ स्थापितं गौतमेनैव लोकानां हितकाम्यया । स्वर्गसोपानरूपं तु तीर्थं पुंसां युधिष्ठिर ॥ ७४.२ ॥ तत्र गच्छ परं भक्त्या यत्र देवो जगद्गुरुः । पातकस्य विनाशार्थं स्वर्गवासप्रदस्तथा ॥ ७४.३ ॥ सौभाग्यवर्द्धनं तीर्थं जयदं दुःखनाशनम् । पिण्डदानेन चैकेन कुलानामुद्धरेत्त्रयम् ॥ ७४.४ ॥ यत्किंचिद्दीयते भक्त्या स्वल्पं वा यदि वा बहु । तत्सर्वं शतसाहस्रमाज्ञया गौतमस्य हि ॥ ७४.५ ॥ तीर्थानां परमं तीर्थं स्वयं रुद्रेण भाषितम् ॥ ७४.६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमावन्त्यखण्डे रेवाखण्डे गौतमेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःसप्ततितमोऽध्यायः ॥ ऋKV अध्याय ७५ श्रीमार्कण्डेय उवाच - नर्मदादक्षिणे कूले तीर्थं परमशोभनम् । शङ्खचूडस्य नाम्ना वै प्रसिद्धं भूमिमण्डले ॥ ७५.१ ॥ शङ्खचूडः स्वयं तत्र संस्थितः पाण्डुनन्दन । वैनतेयभयात्पार्थ सुखदनर्मदातटे ॥ ७५.२ ॥ तत्र तीर्थे तु यो भक्त्या शुचिर्भूत्वा समाहितः । स्नापयेच्छङ्खचूडं तु क्षीरक्षौद्रेण सर्पिषा ॥ ७५.३ ॥ रात्रौ जागरणं कुर्याद्देवस्याग्रे नराधिप । दधिभक्तेन सम्पूज्य ब्राह्मणाञ्छंसितव्रतान् । गोप्रदाने द्विजेन्द्रोऽयं सर्वपापक्षयंकरः ॥ ७५.४ ॥ तस्मिंस्तीर्थे तु यः पार्थ सर्पदष्टं प्रतर्पयेत् । स याति परमं लोकं शङ्करस्य वचो यथा ॥ ७५.५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शङ्खचूडतीर्थमाहात्म्यवर्णनं नाम पञ्चसप्ततितमोऽध्यायः ॥ ऋKV अध्याय ७६ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र पारेश्वरमनुत्तमम् । पराशरो महात्मा वै नर्मदायास्तटे शुभे ॥ ७६.१ ॥ तपश्चचार विपुलं पुत्रार्थं पाण्डुनन्दन । हिमवद्दुहिता तेन गौरी नारायणी नृप ॥ ७६.२ ॥ तोषिता परया भक्त्या नर्मदोत्तरके तटे । तस्य तुष्टा महादेवी शङ्करार्धाङ्गधारिणी ॥ ७६.३ ॥ भोभो ऋषिवर श्रेष्ठ तुष्टाहं तव भक्तितः । वरं याचय मे विप्र पराशर महामते ॥ ७६.४ ॥ पराशर उवाच - परितुष्टासि मे देवि यदि देयो वरो मम । देहि पुत्रं भगवति सत्यशौचगुणान्वितम् ॥ ७६.५ ॥ वेदाभ्यसनशीलं हि सर्वशास्त्रविशारदम् । तीर्थे चात्र भवेद्देवि सन्निधानवरेण तु ॥ ७६.६ ॥ लोकोपकारहेतोश्च स्थीयतां गिरिनन्दिनि । पराशराभिधानेन नर्मदादक्षिणे तटे ॥ ७६.७ ॥ श्रीदेव्युवाच - एवं भवतु ते विप्र तत्रैवान्तरधीयत । पराशरो महात्मा वै स्थापयामास पार्वतीम् ॥ ७६.८ ॥ शङ्करं स्थापयामास सुरासुरनमस्कृतम् । अच्छेद्यमप्रतर्क्यं च देवानां तु दुरासदम् ॥ ७६.९ ॥ पराशरो महात्मा वै कृतार्थो ह्यभवन्नृप ॥ ७६.१० ॥ तत्र तीर्थे तु यो भक्त्या शुचिः प्रयतमानसः । स्त्र्यथवा पुरुषो वापि कामक्रोधविवर्जितः ॥ ७६.११ ॥ माघे चैत्रेऽथ वैशाखे श्रावणे नृपनन्दन । मासि मार्गशिरे चैव शुक्लपक्षे तु सर्वदा ॥ ७६.१२ ॥ तत्र गत्वा शुभे स्थाने नर्मदादक्षिणे तटे ॥ ७६.१३ ॥ उपोष्य परया भक्त्या व्रतमेतत्समाचरेत् । रात्रौ जागरणं कृत्वा दीपदानं स्वशक्तितः ॥ ७६.१४ ॥ गीतं नृत्यं तथा वाद्यं कामक्रोधविवर्जितः । प्रभाते विमले प्राप्ते द्विजाः पूज्याः स्वशक्तितः ॥ ७६.१५ ॥ सम्पूज्य ब्राह्मणान् पार्थ धनदानहिरण्यतः । वस्त्रेण छत्रदानेन शय्याताम्बूलभोजनैः ॥ ७६.१६ ॥ प्रीणयेन्नर्मदातीरे ब्राह्मणाञ्छंसितव्रतान् । श्राद्धं कार्यं नृपश्रेष्ठ आमैः पक्वैर्जलेन च ॥ ७६.१७ ॥ स्त्रीणां चैव तु शूद्राणामामश्राद्धं प्रशस्यते । आमं चतुर्गुणं देयं ब्राह्मणानां युधिष्ठिर ॥ ७६.१८ ॥ वेदोक्तेन विधानेन द्विजाः पूज्याः प्रयत्नतः । हस्तमात्रैः कुशैश्चैव तिलैश्चैवाक्षतैर्नृप ॥ ७६.१९ ॥ विप्रा उदङ्मुखाः कार्याः स्वयं वै दक्षिणामुखः । दर्भेषु निक्षिपेदन्नमित्युच्चार्य द्विजाग्रतः ॥ ७६.२० ॥ प्रेता यान्तु परे लोके तीर्थस्यास्य प्रभावतः । पापं मे प्रशमं यातु एतु वृद्धिं शुभं सदा ॥ ७६.२१ ॥ वृद्धिं यातु सदा वंशो ज्ञातिवर्गो द्विजोत्तम । एवमुच्चार्य विप्राय दानं देयं स्वशक्तितः ॥ ७६.२२ ॥ गोभूतिसहिरण्यादि चान्नं वस्त्रं स्वशक्तितः । दातव्यं पाण्डवश्रेष्ठ पारेश्वरवराश्रमे ॥ ७६.२३ ॥ ये शृण्वन्ति परं भक्त्या मुच्यन्ते सर्वपातकैः ॥ ७६.२४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पारेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्सप्ततितमोऽध्यायः ॥ ऋKV अध्याय ७७ श्रीमार्कण्डेय उवाच - भीमेश्वरं ततो गच्छेत्सर्वपापक्षयंकरम् । सेवितं ऋषिसङ्घैश्च भीमव्रतधरैः शुभैः ॥ ७७.१ ॥ तत्र तीर्थे तु यः स्नात्वा सोपवासो जितेन्द्रियः । जपेदेकाक्षरं मन्त्रमूर्ध्वबाहुर्दिवाकरे ॥ ७७.२ ॥ तस्य जन्मार्जितं पापं तत्क्षणादेव नश्यति । सप्तजन्मार्जितं पापं गायत्र्या नश्यते ध्रुवम् ॥ ७७.३ ॥ दशभिर्जन्मभिर्जातं शतेन तु पुरा कृतम् । सहस्रेण त्रिजन्मोत्थं गायत्री हन्ति किल्बिषम् ॥ ७७.४ ॥ वैदिकं लौकिकं वापि जाप्यं जप्तं नरेश्वर । तत्क्षणाद्दहते सर्वं तृणं तु ज्वलनो यथा ॥ ७७.५ ॥ न देवबलमाश्रित्य कदाचित्पापमाचरेत् । अज्ञानान्नश्यते क्षिप्रं नोत्तरं तु कदाचन ॥ ७७.६ ॥ तत्र तीर्थे तु यो दानं शक्तिमाश्रित्य चाचरेत् । तदक्षय्यफलं सर्वं जायते पाण्डुनन्दन ॥ ७७.७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भीमेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तसप्ततितमोऽध्यायः ॥ ऋKV अध्याय ७८ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र नरदेश्वरमुत्तमम् । तीर्थानां परमं तीर्थं निर्मितं नारदेन तु ॥ ७८.१ ॥ युधिष्ठिर उवाच - नारदेन मुनिश्रेष्ठ कस्मात्तीर्थं विनिर्मितम् । एतदाख्याहि मे सर्वं प्रसन्नो यदि सत्तम ॥ ७८.२ ॥ श्रीमार्कण्डेय उवाच - परमेष्ठिसुतः पार्थ नारदो मुनिसत्तमः । रेवायाश्चोत्तरे कूले तपस्तेन पुरा कृतम् ॥ ७८.३ ॥ नवनाडीनिरोधेन काष्ठावत्यां गतेन च । तोषितः पशुभर्ता वै नारदेन युधिष्ठिर ॥ ७८.४ ॥ ईश्वर उवाच - तुष्टोऽहं तव विप्रेन्द्र योगिनाथ अयोनिज । वरं प्रार्थय मे वत्स यस्ते मनसि वर्तते ॥ ७८.५ ॥ नारद उवाच - त्वत्प्रसादेन मे शम्भो योगश्चैव प्रसिध्यतु । अचला ते भवेद्भक्तिः सर्वकालं ममैव तु ॥ ७८.६ ॥ स्वेच्छाचारी भवे देव वेदवेदाङ्गपारगः । त्रिकालज्ञो जगन्नाथ गीतज्ञोऽहं सदा भवे ॥ ७८.७ ॥ दिने दिने यथा युद्धं देवदानवमानुषैः । पाताले मर्त्यलोके वा स्वर्गे वापि महेश्वर ॥ ७८.८ ॥ पश्येयं त्वत्प्रसादेन भवन्तं पार्वतीं तथा । तीर्थं लोकेषु विख्यातं सर्वपापक्षयंकरम् ॥ ७८.९ ॥ ईश्वर उवाच - एवं नारद सर्वं तु भविष्यति न संशयः । चिन्तितं मत्प्रसादेन सिध्यते नात्र संशयः ॥ ७८.१० ॥ स्वेच्छाचारो भवेर्वत्स स्वर्गे पातालगोचरे । मर्त्ये वा भ्रम वै योगिन्न केनापि निवार्यसे ॥ ७८.११ ॥ सप्त स्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकविंशतिः । ताना एकोनपञ्चाशत्प्रसादान्मे तव ध्रुवम् ॥ ७८.१२ ॥ मम प्रियंकरं दिव्यं नृत्यगीतं भविष्यति । कलिं च पश्यसे नित्यं देवदानवकिन्नरैः ॥ ७८.१३ ॥ त्वत्तीर्थं भूतले पुण्यं मत्प्रसादाद्भविष्यति । वेदवेदाङ्गतत्त्वज्ञो ह्यशेषज्ञानकोविदः । एकस्त्वमसि निःसङ्गो मत्प्रसादेन नारद ॥ ७८.१४ ॥ इत्युक्त्वान्तर्दधे देवो नारदस्तत्र शूलिनम् । स्थापयामास राजेन्द्र सर्वसत्त्वोपकारकम् ॥ ७८.१५ ॥ पृथिव्यामुत्तमं तीर्थं निर्मितं नारदेन तु । तत्र तीर्थे नृपश्रेष्ठ यो गच्छेद्विजितेन्द्रियः ॥ ७८.१६ ॥ मासि भाद्रपदे पार्थ कृष्णपक्षे चतुर्दशी । उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम् ॥ ७८.१७ ॥ छत्रं तत्र प्रदातव्यं ब्राह्मणे शुभलक्षणे । शस्त्रेण तु हता ये वै तेषां श्राद्धं प्रदापयेत् । ते यान्ति परमं लोकं पिण्डदानप्रभावतः ॥ ७८.१८ ॥ कपिला तत्र दातव्या पित्ःनुद्दिश्य भारत । इत्युच्चार्य द्विजे देया यान्तु ते परमां गतिम् ॥ ७८.१९ ॥ अस्य श्राद्धस्य भावेन ब्राह्मणस्य प्रसादतः । नर्मदातोयभावेन न्यायार्जितधनस्य च । तेषां चैव प्रभावेन प्रेता यान्तु परां गतिम् ॥ ७८.२० ॥ इत्युच्चार्य द्विजे देया दक्षिणा च स्वशक्तितः । हविष्यान्नं विशालाक्ष द्विजानां चैव दापयेत् ॥ ७८.२१ ॥ दीपं भक्त्या प्रदातव्यं नृत्यं गीतं च कारयेत् । अवाप्तं तेन वै सर्वं यः करोतीश्वरालये ॥ ७८.२२ ॥ स याति रुद्रसांनिध्यमिति रुद्रः स्वयं जगौ । विद्यादानेन चैकेन अक्षयां गतिमाप्नुयात् ॥ ७८.२३ ॥ धूर्वहास्तत्र दातव्या भूमिः सस्यवती नृप । चित्रभानुं शुभैर्मन्त्रैः प्रीणयेत्तत्र भक्तितः ॥ ७८.२४ ॥ आज्येन सुप्रभूतेन होमद्रव्येण भारत । ये यजन्ति सदा भक्त्या त्रिकालं नृत्यमेव च ॥ ७८.२५ ॥ तीर्थे नारदनामाख्ये रेवायाश्चोत्तरे तटे । चित्रभानुमुखा देवाः सर्वदेवमय ऋषिः ॥ ७८.२६ ॥ ऋषिणा प्रीणिताः सर्वे तस्मात्प्रीत्यो हुताशनः । पूजिते हव्यवाहे तु दारिद्र्यं नैव जायते ॥ ७८.२७ ॥ धनेन विपुला प्रीतिर्जायते प्रतिजन्मनि । कुलीनाश्च सुवेषाश्च सर्वकालं धनेन तु ॥ ७८.२८ ॥ प्लवो नदीनां पतिरङ्गनानां राजा च सद्वृत्तरतः प्रजानाम् । धनं नराणामृतवस्तरूणां गतं गतं यौवनमानयन्ति ॥ ७८.२९ ॥ धनदत्वं धनेशेन तस्मिंस्तीर्थे ह्युपार्जितम् । यमेन च यमत्वं हि इन्द्रत्वं चैव वज्रिणा ॥ ७८.३० ॥ अन्यैरपि महीपालैः पार्थिवत्वमुपार्जितम् । नारदेश्वरमाहात्म्याद्ध्रुवो निश्चलतां गतः ॥ ७८.३१ ॥ सर्वतीर्थवरं तीर्थं निर्मितं नारदेन तु । पृथिव्यां सागरान्तायां रेवायाश्चोत्तरे तटे । तद्वरं सर्वतीर्थानां महापातकनाशनम् ॥ ७८.३२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नारदेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टसप्ततितमोऽध्यायः ॥ ऋKV अध्याय ७९ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र तीर्थद्वयमनुत्तमम् । दधिस्कन्दं मधुस्कन्दं सर्वपापक्षयंकरम् ॥ ७९.१ ॥ दधिस्कन्दे नरः स्नात्वा यस्तु दद्याद्द्विजे दधि । उपतिष्ठेत्ततस्तस्य सप्तजन्मनि भारत ॥ ७९.२ ॥ न व्याधिर्न जरा तस्य न शोको नैव मत्सरः । दशचन्द्रशतं यावज्जायते विमले कुले ॥ ७९.३ ॥ मधुस्कन्देऽपि मधुना मिश्रितान्यस्तिलान्ददेत् । नासौ वैवस्वतं देवं पश्येद्वै जन्मसप्ततिम् ॥ ७९.४ ॥ मधुना सह सम्मिश्रं पिण्डं यस्तु प्रदापयेत् । तस्य पौत्रप्रपौत्रेभ्यो दारिद्र्यं नैव जायते ॥ ७९.५ ॥ दधिभिः सह संमिश्रं पिण्डं यस्तु प्रदापयेत् । तस्मिंस्तीर्थे नरः स्नात्वा विधिवद्दक्षिणामुखः ॥ ७९.६ ॥ पिता पितामहश्चैव तथैव प्रपितामहः । द्वादशाब्दानि तुष्यन्ति नात्र कार्या विचारणा ॥ ७९.७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दधिस्कन्दमधुस्कन्दतीर्थमाहात्म्यवर्णनं नामैकोनाशीतितमोऽध्यायः ॥ ऋKV अध्याय ८० श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र नन्दिकेश्वरमुत्तमम् । यत्र सिद्धो महानन्दी तत्ते सर्वं वदाम्यहम् ॥ ८०.१ ॥ रेवायां पुरतः कृत्वा पुरा नन्दी गणेश्वरः । तपस्तपञ्जयं कुर्वंस्तीर्थात्तीर्थं जगाम ह ॥ ८०.२ ॥ दधिस्कन्दं मधुस्कन्दं यावत्त्यक्त्वा तु गच्छति । तावत्तुष्टो महादेवो नन्दिनाथमुवाच ह ॥ ८०.३ ॥ ईश्वर उवाच - भोभोः प्रसन्नो नन्दीश वरं वृणु यथेप्सितम् । तपसा तेन तुष्टोऽहं तीर्थयात्राकृतेन ते ॥ ८०.४ ॥ नन्दीश्वर उवाच - न चाहं कामये वित्तं न चाहं कुलसन्ततिम् । मुक्त्वा न कामये कामं तव पादाम्बुजात्परम् ॥ ८०.५ ॥ कृमिकीटपतङ्गेषु तिर्यग्योनिं गतस्य वा । जन्म जन्मान्तरेऽप्यस्तु भक्तिस्त्वयि ममाचला ॥ ८०.६ ॥ तथेत्युक्त्वा महादेवः परया कृपया नृप । गृहीत्वा तं करे सिद्धं जगाम निलयं हरः ॥ ८०.७ ॥ तस्मिंस्तीर्थे तु यः स्नात्वा भक्त्या त्र्यक्षं प्रपूजयेत् । अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ८०.८ ॥ तत्र तीर्थे तु यः स्नात्वा प्राणत्यागं करोति चेत् । शिवस्यानुचरो भूत्वा मोदते कल्पमक्षयम् ॥ ८०.९ ॥ ततः कालेन महता जायते विमले कुले । वेदवेदाङ्गतत्त्वज्ञो जीवेच्च शरदां शतम् ॥ ८०.१० ॥ एतत्ते कथितं तात तीर्थमाहात्म्यमुत्तमम् । दुर्लभं मर्त्यसंज्ञस्य सर्वपापक्षयंकरम् ॥ ८०.११ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दिकेश्वरतीर्थमाहात्म्यवर्णनं नामाशीतितमोऽध्यायः ॥ ऋKV अध्याय ८१ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महाराज वरुणेश्वरमुत्तमम् । यत्र सिद्धो महादेवो वरुणो नृपसत्तम ॥ ८१.१ ॥ पिण्याकशाकपर्णैश्च कृच्छ्रचान्द्रायणादिभिः । आराध्य गिरिजानाथं ततः सिद्धिं परां गतः ॥ ८१.२ ॥ तत्र तीर्थे तु यः स्नात्वा संतर्प्य पितृदेवताः । पूजयेच्छङ्करं भक्त्या स याति परमां गतिम् ॥ ८१.३ ॥ कुण्डिकां वर्धनीं वापि महद्वा जलभाजनम् । अन्नेन सहितं पार्थ तस्य पुण्यफलं शृणु ॥ ८१.४ ॥ यत्फलं लभते मर्त्यः सत्रे द्वादशवार्षिके । तत्फलं समवाप्नोति नात्र कार्या विचारणा ॥ ८१.५ ॥ सर्वेषामेव दानानामन्नदानं परं स्मृतम् । सद्यः प्रीतिकरं तोयमन्नं च नृपसत्तम ॥ ८१.६ ॥ तत्रतीर्थे मृतानां तु नराणां भावितात्मनाम् । वरुणस्य पुरे वासो यावदाभूतसंप्लवम् ॥ ८१.७ ॥ पश्चात्पूर्णे ततः काले मर्त्यलोके प्रजायते । अन्नदानप्रदो नित्यं जीवेद्वर्षशतं नरः ॥ ८१.८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वरुणेश्वरतीर्थमाहात्म्यवर्णनं नामैकाशीतितमोऽध्यायः ॥ ऋKV अध्याय ८२ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल वह्नितीर्थमनुत्तमम् । यत्र सिद्धो महातेजास्तपः कृत्वा हुताशनः ॥ ८२.१ ॥ सर्वभक्ष्यः कृतो योऽसौ दण्डके मुनिना पुरा । नर्मदातटमाश्रित्य पूतो जातो हुताशनः ॥ ८२.२ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयित्वा महेश्वरम् । अग्निप्रवेशं कुरुते स गच्छेदग्निसाम्यताम् ॥ ८२.३ ॥ भक्त्या स्नात्वा तु यस्तत्र तर्पयेत्पितृदेवताः । अग्निष्टोमस्य यज्ञस्य फलमाप्नोत्यसंशयम् ॥ ८२.४ ॥ तस्यैवानन्तरं राजन्कौबेरं तीर्थमुत्तमम् । कुबेरो यत्र संसिद्धो यक्षाणामधिपः पुरा ॥ ८२.५ ॥ तत्र तीर्थे नरः स्नात्वा समभ्यर्च्य जगद्गुरुम् । उमया सहितं भक्त्या सर्वपापैः प्रमुच्यते ॥ ८२.६ ॥ तत्र तीर्थे तु यः स्नात्वा दद्याद्विप्राय कांचनम् । नाभिमात्रे जले तिष्ठन्स लभेतार्बुदं फलम् ॥ ८२.७ ॥ दधिस्कन्दे मधुस्कन्दे नन्दीशे वरुणालये । आग्नेये यत्फलं तात स्नात्वा तत्फलमाप्नुयात् ॥ ८२.८ ॥ ते वन्द्या मानुषे लोके धन्याः पूर्णमनोरथाः । यैस्तु दृष्टं महापुण्यं नर्मदातीर्थपञ्चकम् ॥ ८२.९ ॥ ते यान्ति भास्करे लोके परमे दुःखनाशने । भास्करादैश्वरे लोके चैश्वरादनिवर्तके ॥ ८२.१० ॥ नीयते स परे लोके यावदिन्द्राश्चतुर्दश । ततः स्वर्गाच्च्युतो मर्त्यो राजा भवति धार्मिकः ॥ ८२.११ ॥ सर्वरोगविनिर्मुक्तो भुनक्ति सचराचरम् । विष्णुश्च देवता येषां नर्मदातीर्थसेविनाम् ॥ ८२.१२ ॥ अखण्डितप्रतापास्ते जायन्ते नात्र संशयः । गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती ॥ ८२.१३ ॥ ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा । रेवातीरे वसेन्नित्यं रेवातोयं सदा पिबेत् ॥ ८२.१४ ॥ स स्नातः सर्वतीर्थेषु सोमपानं दिने दिने । गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च । कल्पान्ते संक्षयं यान्ति न मृता तेन नर्मदा ॥ ८२.१५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दधिस्कन्दादिपञ्चतीर्थमाहात्म्यवर्णनं नाम द्व्यशीतितमोऽध्यायः ॥ ऋKV अध्याय ८३ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महाराज तीर्थं परमशोभनम् । ब्रह्महत्याहरं प्रोक्तं रेवातटसमाश्रयम् । हनूमताभिधं ह्यत्र विद्यते लिङ्गमुत्तमम् ॥ ८३.१ ॥ युधिष्ठिर उवाच - हनूमन्तेश्वरं नाम कथं जातं वदस्व मे । ब्रह्महत्याहरं तीर्थं रेवादक्षिणसंस्थितम् ॥ ८३.२ ॥ श्रीमार्कण्डेय उवाच - साधु साधु महाबाहो सोमवंशविभूषण । गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया ॥ ८३.३ ॥ तव स्नेहात्प्रवक्ष्यामि पीडितो वार्द्धकेन तु । पूर्वं जातं महद्युद्धं रामरावणयोरपि ॥ ८३.४ ॥ पुलस्त्यो ब्रह्मणः पुत्रो विश्रवास्तस्य वै सुतः । रावणस्तेन संजातो दशास्यो ब्रह्मराक्षसः ॥ ८३.५ ॥ त्रैलोक्यविजयी भूतः प्रसादाच्छूलिनः स च । गीर्वाणा विजिताः सर्वे रामस्य गृहिणी हृता ॥ ८३.६ ॥ वारितः कुम्भकर्णेन सीतां मोचय मोचय । विभीषणेन वै पापो मन्दोदर्या पुनःपुनः ॥ ८३.७ ॥ त्वं जितः कार्तवीर्येण रैणुकेयेन सोऽपि च । स रामो रामभद्रेण तस्य संख्ये कथं जयः ॥ ८३.८ ॥ रावण उवाच - वानरैश्च नरैरृक्षैर्वराहैश्च निरायुधैः । देवासुरसमूहैश्च न जितोऽहं कदाचन ॥ ८३.९ ॥ श्रीमार्कण्डेय उवाच - सुग्रीवहनुमद्भ्यां च कुमुदेनाङ्गदेन च । एतैरन्यैः सहायैश्च रामचन्द्रेण वै जितः ॥ ८३.१० ॥ रामचन्द्रेण पौलस्त्यो हतः संख्ये महाबलः । वनं भग्नं हताः शूराः प्रभञ्जनसुतेन च ॥ ८३.११ ॥ रावणस्य सुतो जन्ये हतश्चाक्षकुमारकः । आयामो रक्षसां भीमः सम्पिष्टो वानरेण तु ॥ ८३.१२ ॥ एवं रामायणे वृत्ते सीतामोक्षे कृते सति । अयोध्यां तु गते रामे हनुमान्स महाकपिः ॥ ८३.१३ ॥ कैलासाख्यं गतः शैलं प्रणामाय महेशितुः । तिष्ठ तिष्ठेत्यसौ प्रोक्तो नन्दिना वानरोत्तमः ॥ ८३.१४ ॥ ब्रह्महत्यायुतस्त्वं हि राक्षसानां वधेन हि । भैरवस्य सभा नूनं न द्रष्टव्या त्वया कपे ॥ ८३.१५ ॥ हनुमानुवाच - नन्दिनाथ हरं पृच्छ पातकस्योपशान्तिदम् । पापोऽहं प्लवगो यस्मात्संजातः कारणान्तरात् ॥ ८३.१६ ॥ नन्द्युवाच - रुद्रदेहोद्भवा किं ते न श्रुता भूतले स्थिता । श्रवणाज्जन्मजनितं द्विगुणं कीर्तनाद्व्रजेत् ॥ ८३.१७ ॥ त्रिंशज्जन्मार्जितं पापं नश्येद्रेवावगाहनात् । तस्मात्त्वं नर्मदातीरं गत्वा चर तपो महत् ॥ ८३.१८ ॥ गन्धर्वाहसुतोऽप्येवं नन्दिनोक्तं निशम्य च । प्रयातो नर्मदातीरमौर्व्यादक्षिणसङ्गमम् ॥ ८३.१९ ॥ दध्यौ सुदक्षिणे देवं विरूपाक्षं त्रिशूलिनम् । जटामुकुटसंयुक्तं व्यालयज्ञोपवीतिनम् ॥ ८३.२० ॥ भस्मोपचितसर्वाङ्गं डमरुस्वरनादितम् । उमार्द्धाङ्गहरं शान्तं गोनाथासनसंस्थितम् ॥ ८३.२१ ॥ वत्सरान् सुबहून् यावदुपासांचक्र ईश्वरम् । तावत्तुष्टो महादेव आजगाम सहोमया ॥ ८३.२२ ॥ उवाच मधुरां वाणीं मेघगम्भीरनिस्वनाम् । साधु साध्वित्युवाचेशः कष्टं वत्स त्वया कृतम् ॥ ८३.२३ ॥ न च पूर्वं त्वया पापं कृतं रावणसंक्षये । स्वामिकार्यरतस्त्वं हि सिद्धोऽसि मम दर्शनात् ॥ ८३.२४ ॥ हनुमांश्च हरं दृष्ट्वा उमार्द्धाङ्गहरं स्थिरम् । साष्टाङ्गं प्रणतोऽवोचज्जय शम्भो नमोऽस्तु ते । जयान्धकविनाशाय जय गङ्गाशिरोधर ॥ ८३.२५ ॥ एवं स्तुतो महादेवो वरदो वाक्यमब्रवीत् । वरं प्रार्थय मे वत्स प्राणसम्भवसम्भव ॥ ८३.२६ ॥ श्रीहनुमानुवाच - ब्रह्मरक्षोवधाज्जाता मम हत्या महेश्वर । न पापोऽहं भवेदेव युष्मत्सम्भाषणे क्षणात् ॥ ८३.२७ ॥ ईश्वर उवाच - नर्मदातीर्थमाहात्म्याद्धर्मयोगप्रभावतः । मन्मूर्तिदर्शनात्पुत्र निष्पापोऽसि न संशयः ॥ ८३.२८ ॥ अन्यं च ते प्रयच्छामि वरं वानरपुंगव । उपकाराय लोकानां नामानि तव मारुते ॥ ८३.२९ ॥ हनूमानं जनिसुतो वायुपुत्रो महाबलः । रामेष्टः फाल्गुनो गोत्रः पिङ्गाक्षोऽमितविक्रमः ॥ ८३.३० ॥ उदधिक्रमणश्रेष्ठो दशग्रीवस्य दर्पहा । लक्ष्मणप्राणदाता च सीताशोकनिवर्तनः ॥ ८३.३१ ॥ इत्युक्त्वान्तर्दधे देव उमया सह शङ्करः । हनूमानीश्वरं तत्र स्थापयामास भक्तितः ॥ ८३.३२ ॥ आत्मयोगबलेनैव ब्रह्मचर्यप्रभावतः । ईश्वरस्य प्रसादेन लिङ्गं कामप्रदं हि तत् । अच्छेद्यमप्रतर्क्यं च विनाशोत्पत्तिवर्जितम् ॥ ८३.३३ ॥ श्रीमार्कण्डेय उवाच - हनूमन्तेश्वरे पुत्र प्रत्यक्षप्रत्ययं शृणु । यद्वृत्तं द्वापरस्यादौ त्रेतान्ते पाण्डुनन्दन ॥ ८३.३४ ॥ सुपर्वा नाम भूपालो बभूव वसुधातले । तस्य राज्ञः सदा सौख्यं नरा दीर्घायुषः सदा ॥ ८३.३५ ॥ स पुत्रधनसंयुक्तश्चौरोपद्रववर्जितः । शतबाहुर्बभूवास्य पुत्रो भीमपराक्रमः ॥ ८३.३६ ॥ आसक्तोऽसौ सदा कालं पापधर्मैर्नरेश्वर । अटाट्यत धरां सर्वां पर्वतांश्च वनानि च ॥ ८३.३७ ॥ वधार्थं मृगयूथानामागतो विन्ध्यपर्वतम् । तरुजातिसमाकीर्णे हस्तियूथसमाचिते ॥ ८३.३८ ॥ सिंहचित्रकशोभाढ्ये मृगवाराहसंकुले । क्रीडित्वा स वने राजा नर्मदामानतः क्वचित् ॥ ८३.३९ ॥ हनूमन्तवने प्राप्तः शतक्रोशप्रमाणके । चिञ्चिणीवनशोभाढ्ये कदम्बतरुसंकुले ॥ ८३.४० ॥ नित्यं पालाशजम्बीरैः करंजखदिरैस्तथा । पाटलैर्बदरैर्युक्तैः शमीतिन्दुकशोभितम् ॥ ८३.४१ ॥ मृगयूथैः समाछन्नशिखण्डिस्वरनादितम् । पारावतकसङ्घानां समन्तात्स्वरशोभितम् ॥ ८३.४२ ॥ शरत्कालेऽरमद्राजा बहुले चाश्विनस्य सः । वनमध्यं गतोऽद्राक्षीद्भ्रमन्तं पिङ्गलद्विजम् ॥ ८३.४३ ॥ पुस्तिकाकरसंस्थं च पप्रच्छ चपलं द्विजम् ॥ ८३.४४ ॥ शतबाहुरुवाच - एकाकी त्वं वने कस्माद्भ्रमसे पुस्तिकाकरः । इतस्ततोऽपि सम्पश्यन् कथयस्व द्विजोत्तम ॥ ८३.४५ ॥ ब्राह्मण उवाच - कान्यकुब्जात्समायातः प्रेषितो राजकन्यया । अस्थिक्षेपाय वै राजन्हनूमन्तेश्वरे जले ॥ ८३.४६ ॥ राजोवाच - अस्थिक्षेपो जले कस्माद्धनूमन्तेश्वरे द्विज । क्रियते केन कार्येण साश्चर्यं कथ्यतां मम ॥ ८३.४७ ॥ सुपर्वणः सुतो यानं त्यक्त्वा भूमौ प्रणम्य च । कृताञ्जलिपुटो भूत्वा ब्राह्मणाय नरेश्वर । समस्तं कथयामास वृत्तान्तं स्वं पुरातनम् ॥ ८३.४८ ॥ ब्राह्मण उवाच - शिखण्डी नाम राजास्ति कन्यकुब्जे प्रतापवान् । अपुत्रोऽसौ महीपालः कन्या जाता मनोरथैः ॥ ८३.४९ ॥ जातिस्मरा सुचार्वङ्गी नर्मदायाः प्रभावतः । पित्रा च सैकदा कन्या विवाहाय प्रजल्पिता ॥ ८३.५० ॥ अनित्ये पुत्रि संसारे कन्यादानं ददाम्यहम् । श्वःकृत्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् । न हि प्रतीक्षते मृत्युः कृतं चास्य न चाकृतम् ॥ ८३.५१ ॥ कन्योवाच - इच्छेयं यत्र कले हि तत्र देया त्वया पितुः । पुत्रीवाक्यादसौ राजा विस्मितो वाक्यमब्रवीत् ॥ ८३.५२ ॥ शिखण्ड्युवाच - कथ्यतां मे महाभागे साश्चर्यं भाषितं त्वया । पितुर्वाक्येन सा बालोत्तमा ह्यागतान्तिकम् ॥ ८३.५३ ॥ कथयामास यद्वृत्तं हनूमन्तेश्वरे नृप । कलापिनी ह्यहं तात युता भर्त्रावसं तदा ॥ ८३.५४ ॥ रेवौर्व्यासङ्गमन्तिस्था रेवाया दक्षिणे तटे । हनूमन्तवने पुण्ये चिक्रीडाहं यदृच्छया ॥ ८३.५५ ॥ भर्तृयुक्ता च संसुप्ता रजन्यां सरले नगे । आगता लुब्धकास्तत्र क्षुधार्ता वनमुत्तमम् ॥ ८३.५६ ॥ भर्तृयोगयुता पापैर्दृष्टाहं वधचिन्तकैः । पाशबन्धं समादाय बद्धाहं स्वामिना सह ॥ ८३.५७ ॥ ग्रीवां ते मोटयामासुः पिच्छाछोटनकं कृतम् । हुताशनमुखे तैस्तु सह कान्तेन लुब्धकैः ॥ ८३.५८ ॥ परिभर्ज्यावयोर्मांसं भक्षयित्वा यथेष्टतः । सुप्ताः स्वस्थेन्द्रिया रात्रौ सा गता शर्वरी क्षयम् ॥ ८३.५९ ॥ प्रभाते मांसशेषं च जम्बुकैर्गृध्रघातिभिः । मच्छरीरोद्भवं चास्थि स्नायुमांसेन चावृतम् ॥ ८३.६० ॥ गृहीतं घातिनैकेन चाकाशात्पतितं तदा । तं मांसभक्षणं दृष्ट्वा परे पक्षिण आगताः ॥ ८३.६१ ॥ दृष्ट्वा पक्षिसमूहं तु अस्थिखण्डं व्यसर्जयत् । विहगानां समस्तानां धावतां चैव पश्यताम् ॥ ८३.६२ ॥ पतितं नर्मदातोये हनूमन्तेश्वरे नृप । मदीयमस्थिखण्डं च पतितं नर्मदाजले ॥ ८३.६३ ॥ तस्य तीर्थस्य पुण्येन जाताहं पुत्रिका तव । भूपकन्या त्वहं जाता पूर्णचन्द्रनिभानना ॥ ८३.६४ ॥ जातिस्मरा नरेन्द्रस्य संजाता भवतः कुले । तस्माद्विवाहं नेच्छामि मम भर्ता नृपोत्तम ॥ ८३.६५ ॥ विषमे वर्ततेऽद्यापि शकुन्तमृगजातिषु । तस्यास्थिशेषं राजेन्द्र तस्मिंस्तीर्थे भविष्यति ॥ ८३.६६ ॥ तत्क्षेपणार्थं वै तात प्रेषयाद्य द्विजोत्तमम् । एतत्ते सर्वमाख्यातं कारणं नृपसत्तम ॥ ८३.६७ ॥ मद्भर्ता विषमे स्थाने शकुन्तमृगजातिषु । यदि प्रेषयसे तात कंचित्त्वं नर्मदातटे ॥ ८३.६८ ॥ तस्याहं कथयिष्यामि स्थानैश्चिह्नैश्च लक्षितम् । शिखण्डिनाप्यहं तत्र ह्याहूतो ह्यवनीपते ॥ ८३.६९ ॥ दास्यामि विंशतिग्रामान्गच्छ त्वं नर्मदातटे । प्रेषणं मे प्रतिज्ञातमलक्ष्म्या पीडितेन तु ॥ ८३.७० ॥ कन्योवाच - गच्छ त्वं नर्मदां पुण्यां सर्वपापक्षयंकरीम् । आग्नेय्यां सोमनाथस्य हनूमन्तेश्वरः परः ॥ ८३.७१ ॥ अर्धक्रोशेन रेवाया विस्तीर्णो वटपादपः । करंजः कटहश्चैव सन्निधाने वटस्य च ॥ ८३.७२ ॥ न्यग्रोधमूलसांनिध्ये सूक्ष्मान्यस्थीनि द्रक्ष्यसि । समूह्य तानि संगृह्य गच्छ रेवां द्विजोत्तम ॥ ८३.७३ ॥ आश्विनस्यासिते पक्षे त्रिपुरारिस्तु वै तिथौ । स्नाप्य त्रिशूलिनं भक्त्या रात्रौ त्वं कुरु जागरम् ॥ ८३.७४ ॥ क्षिपेः प्रभाते तानि त्वं नाभिमात्रजलस्थितः । इत्युच्चार्य द्विजश्रेष्ठ विमुक्तिस्तस्य जायताम् ॥ ८३.७५ ॥ क्षिप्त्वास्थीनि पुनः स्नानं कर्तव्यं त्वघनाशनम् । एवं कृते तु राजेन्द्र गतिस्तस्य भविष्यति ॥ ८३.७६ ॥ कथितं कन्यया यच्च तत्सर्वं पुस्तिकाकृतम् । आगतोऽहं नृपश्रेष्ठ तीर्थेऽत्र दुरितापहे ॥ ८३.७७ ॥ सोऽभिज्ञानं ततो दृष्ट्वा नीत्वास्थीनि नरेश्वर । पूर्वोक्तेन विधानेन प्राक्षिपं नार्मदा मसिपुष्पवृष्टिःऽशु साधु साध्विति पाण्डव । विमानं च ततो दिव्यमागतं बर्हिणस्तदा ॥ ८३.७८ ॥ दिव्यरूपधरो भूत्वा गतो नाके कलापवान् । एवं तु प्रत्ययं दृष्ट्वा हनूमन्तेश्वरे नृप ॥ ८३.७९ ॥ चकारानशनं विप्रः शतबाहुश्च भूपतिः । शोषयामासतुस्तौ स्वमीश्वराराधने रतौ ॥ ८३.८० ॥ ध्यायन्तौ तस्थतुर्देवं शतबाहुद्विजोत्तमौ । मासार्धेन मृतो राजा शतबाहुर्महामनाः ॥ ८३.८१ ॥ किङ्कणीजालशोभाढ्यं विमानं तत्र चागतम् । साधु साधु नृपश्रेष्ठ विमानारोहणं कुरु ॥ ८३.८२ ॥ शतबाहुरुवाच - नायामि स्वर्गमार्गाग्रं विप्रो यावन्न संस्थितः । उपदेशप्रदो मह्यं गुरुरूपी द्विजोत्तमः ॥ ८३.८३ ॥ अप्सरस ऊचुः । लोभावृतो ह्ययं विप्रो लोभात्पापस्य संग्रहः । हनूमन्तेश्वरे राजन्ये मृताः सत्त्वमास्थिताः ॥ ८३.८४ ॥ ते यान्ति शांकरे लोके सर्वपापक्षयंकरे । नैव पापक्षयश्चास्य ब्राह्मणस्य नरेश्वर ॥ ८३.८५ ॥ गृहं च गृहिणी चित्ते ब्राह्मणस्य प्रवर्तते । शतबाहुस्ततो विप्रमुवाच विनयान्वितः ॥ ८३.८६ ॥ त्यज मूलमनर्थस्य लोभमेनं द्विजोत्तम । इत्युक्त्वा स्वर्ययौ राजा स्वर्गकन्यासमावृतः ॥ ८३.८७ ॥ दिनैः कैश्चिद्गतो विप्रः स्वर्गं वैतालिकैर्वृतः । बर्ही च काशीराजस्य पुत्रस्तीर्थप्रभावतः ॥ ८३.८८ ॥ आत्मानं कन्यया दत्तं पूर्वजन्म व्यचिन्तयन् । सा च तं प्रौढमालोक्य पितुराज्ञामवाप्य च । स्वयंवरे स्वभर्तारं लेभे साध्वी नृपात्मजम् ॥ ८३.८९ ॥ श्रीमार्कण्डेय उवाच - एतद्वृत्तान्तमभवत्तस्मिंस्तीर्थे नृपोत्तम । एतस्मात्कारणान्मेध्यं तीर्थमेतत्सदा नृप ॥ ८३.९० ॥ अष्टम्यां वा चतुर्दश्यां सर्वकालं नरेश्वर । विशेषाच्चाश्विने मासि कृष्णपक्षे चतुर्दशीम् ॥ ८३.९१ ॥ स्नापयेदीश्वरं भक्त्या क्षौद्रक्षीरेण सर्पिषा । दध्ना च खण्डयुक्तेन कुशतोयेन वै पुनः ॥ ८३.९२ ॥ श्रीखण्डेन सुगन्धेन गुण्ठयेच्च महेश्वरम् । ततः सुगन्धपुष्पैश्च बिल्वपत्रैश्च पूजयेत् ॥ ८३.९३ ॥ मुचकुन्देन कदेन जातीकाशकुशोद्भवैः । उन्मत्तमुनिपुष्पौघैः पुष्पैस्तत्कालसम्भवैः ॥ ८३.९४ ॥ अर्चयेत्परया भक्त्या हनूमन्तेश्वरं शिवम् । घृतेन दापयेद्दीपं तैलेन तदभावतः ॥ ८३.९५ ॥ श्राद्धं च कारयेत्तत्र ब्राह्मणैर्वेदपारगैः । सर्वलक्षणसम्पूर्णैः कुलीनैर्गृहपालकैः ॥ ८३.९६ ॥ तर्पयेद्ब्राह्मणान् भक्त्या वसनान्नहिरण्यतः । नरकस्था दिवं यान्तु प्रोच्येति प्रणमेद्द्विजान् ॥ ८३.९७ ॥ पतितान् वर्जयेद्विप्रान् वृषली यस्य गेहिनी । स्ववृषं चापरित्यज्य वृषैरन्यैर्वृषायते ॥ ८३.९८ ॥ वृषलीं तां विदुर्देवा न शूद्री वृषली भवेत् । ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् ॥ ८३.९९ ॥ सुवर्णहरणन्यासमित्रद्रोहोद्भवं तथा । नश्यते पातकं सर्वमित्येवं शङ्करोऽब्रवीत् ॥ ८३.१०० ॥ श्रीमार्कण्डेय उवाच - वाक्प्रलापेन भो वत्स बहुनोक्तेन किं मया । सर्वपातकसंयुक्तो दद्याद्दानं द्विजन्मने ॥ ८३.१०१ ॥ गोदानं च प्रकर्तव्यमस्मिंस्तीर्थे विशेषतः । गोदानं हि यतः पार्थ सर्वदानाधिकं स्मृतम् ॥ ८३.१०२ ॥ सर्वदेवमया गावः सर्वे देवास्तदात्मकाः । शृङ्गाग्रेषु महीपाल शक्रो वसति नित्यशः ॥ ८३.१०३ ॥ उरः स्कन्दः शिरो ब्रह्मा ललाटे वृषभध्वजः । चन्द्रार्कौ लोचने देवौ जिह्वायां च सरस्वती ॥ ८३.१०४ ॥ मरुद्गणाः सदा साध्या यस्या दन्ता नरेश्वर । हुङ्कारे चतुरो वेदान् विद्यात्साङ्गपदक्रमान् ॥ ८३.१०५ ॥ ऋषयो रोमकूपेषु ह्यसंख्यातास्तपस्विनः । दण्डहस्तो महाकायः कृष्णो महिषवाहनः ॥ ८३.१०६ ॥ यमः पृष्ठस्थितो नित्यं शुभाशुभपरीक्षकः । चत्वारः सागराः पुण्याः क्षीरधाराः स्तनेषु च ॥ ८३.१०७ ॥ विष्णुपादोद्भवा गङ्गा दर्शनात्पापनाशनी । प्रस्रावे संस्थिता यस्मात्तस्माद्वन्द्या सदा बुधैः ॥ ८३.१०८ ॥ लक्ष्मीश्च गोमये नित्यं पवित्रा सर्वमङ्गला । गोमयालेपनं तस्मात्कर्तव्यं पाण्डुनन्दन ॥ ८३.१०९ ॥ गन्धर्वाप्सरसो नागाः खुराग्रेषु व्यवस्थिताः । पृथिव्यां सागरान्तायां यानि तीर्थानि भारत । तानि सर्वाणि जानीयाद्गौर्गव्यं तेन पावनम् ॥ ८३.११० ॥ युधिष्ठिर उवाच - सर्वदेवमयी धेनुर्गीर्वाणाद्यैरलंकृता । एतत्कथय मे तात कस्माद्गोषु समाश्रिताः ॥ ८३.१११ ॥ श्रीमार्कण्डेय उवाच - सर्वदेवमयो विष्णुर्गावो विष्णुशरीरजाः । देवास्तदुभयात्तस्मात्कल्पिता विविधा जनैः ॥ ८३.११२ ॥ श्वेता वा कपिला वापि क्षीरिणी पाण्डुनन्दन । सवत्सा च सुशीला च सितवस्त्रावगुण्ठिता ॥ ८३.११३ ॥ कांस्यदोहनिका देया स्वर्णशृङ्गी सुभूषिता । हनूमन्तेश्वरस्याग्रे भक्त्या विप्राय दापयेत् ॥ ८३.११४ ॥ नियमस्थेन सा देया स्वर्गमानन्त्यमिच्छता । असमर्थाय ये दद्युर्विष्णुलोके प्रयान्ति ते ॥ ८३.११५ ॥ असौ लोके च्युतो राजन्भूतले द्विजमन्दिरे । कुशलो जायते पुत्रो गुणविद्याधनर्द्धिमान् ॥ ८३.११६ ॥ सर्वपापहरं तीर्थं हनूमन्तेश्वरं नृप । शृण्वन्विमुच्यते पापाद्वर्णसंकरसंभवात् ॥ ८३.११७ ॥ दूरस्थश्चिन्तयन् पश्यन्मुच्यते नात्र संशयः ॥ ८३.११८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हनूमन्तेश्वरतीर्थमाहात्म्यवर्णनं नाम त्र्यशीतितमोऽध्यायः ॥ ऋKV अध्याय ८४ श्रीमार्कण्डेय उवाच - अत्रैवोदाहरन्तीममितिहासं पुरातनम् । कैलासे पृच्छते भक्त्या षण्मुखाय शिवोदितम् ॥ ८४.१ ॥ ईश्वर उवाच - पूर्वं त्रेतायुगे स्कन्द हतो रामेण रावणः । चतुर्दश तदा कोट्यो निहता ब्रह्मरक्षसाम् ॥ ८४.२ ॥ हतेषु तेषु वै तत्र रक्षणाय दिवौकसाम् । महानन्दस्तदा जातस्त्रिषु लोकेषु पुत्रक ॥ ८४.३ ॥ ततः सीतां समासाद्य समं वानरपुंगवैः । रामोऽप्ययोध्यामायातो भरतेन कृतोत्सवः । तस्मै समर्पयामास स राज्यं लक्ष्मणाग्रजः ॥ ८४.४ ॥ तस्मिन्प्रशासति ततो राज्यं निहतकण्टकम् । कृतकार्योऽथ हनुमान्कैलासमगात्पुरा ॥ ८४.५ ॥ ततो नन्दी प्रतीहारो रुद्रांशमपि तं कपिम् । न च संगमयामास रुद्रेणाघौघहारिणा ॥ ८४.६ ॥ तेन पृष्टस्तदा नन्दी किं मया पातकं कृतम् । येन रुद्रवपुः पुण्यं न पश्याम्यम्बिकान्वितम् ॥ ८४.७ ॥ नन्द्युवाच - त्वयावतरणं चक्रे कपीन्द्रामरहेतुना । तथापि हि कृतं पापमुपभोगेन शाम्यति ॥ ८४.८ ॥ हनुमानुवाच - किं मयाकारि तत्पापं नन्दिन्देवार्थकारिणा । राक्षसाश्च हता दुष्टा विप्रयज्ञाङ्गघातिनः ॥ ८४.९ ॥ ततस्तदालापकुतूहली हरो निजांशभाजं कपिमुग्रतेजसम् । उवाच द्वारान्तरदत्तदृष्टिः पुरःस्थितं प्रेक्ष्य कपीश्वरं पुनः ॥ ८४.१० ॥ ईश्वर उवाच - गङ्गा गया कपे रेवा यमुना च सरस्वती । सर्वपापहरा नद्यस्तासु स्नानं समाचर ॥ ८४.११ ॥ नर्मदादक्षिणे कूले तीर्थं परमशोभनम् । सोमनाथसमीपस्थं तत्र त्वं गच्छ वानर ॥ ८४.१२ ॥ तत्र स्नात्वा महापापं गमिष्यति ममाज्ञया । उत्पत्य वेगाद्धनुमाञ्छ्रीरेवादक्षिणे तटे ॥ ८४.१३ ॥ जगाम सुमहानादस्तपश्चक्रे सुदुष्करम् । तस्य वै तप्यमानस्य रक्षोवधकृतं तमः ॥ ८४.१४ ॥ विलीनं पार्थ कालेन कियतेशप्रसादतः । ततो देवैः समं देवस्तत्तीर्थमगमद्धरः ॥ ८४.१५ ॥ कपिमालिङ्गयामास वरं तस्मै प्रदत्तवान् । अद्यप्रभृति ते तीर्थं भविष्यति न संशयः ॥ ८४.१६ ॥ कपितीर्थं ततो जातं तस्थौ तत्र स्वयं हरः । हनूमन्तेश्वरो नाम्ना सर्वहत्याहरस्तदा ॥ ८४.१७ ॥ तत्र तीर्थे तु यः स्नात्वा भक्त्या लिङ्गं प्रपूजयेत् । सर्वपापानि नश्यन्ति हरस्य वचनं यथा ॥ ८४.१८ ॥ तत्रास्थीनि विलीयन्ते पिण्डदानेऽक्षया गतिः । यत्किंचिद्दीयते तत्र तद्धि कोटिगुणं भवेत् ॥ ८४.१९ ॥ हनुमानप्ययोध्यायां रामं द्रष्टुमथागमत् । चकार कुशलप्रश्नं स्वस्वरूपं न्यवेदयत् ॥ ८४.२० ॥ श्रीराम उवाच - कुर्वतो देवकार्यं ते मम कार्यं च कुर्वतः । ततोऽहमपि पापीयांस्तपस्तप्स्याम्यसंशयम् ॥ ८४.२१ ॥ तत्रैव दक्षिणे कूले रेवायाः पापहारिणि । चतुर्विंशतिवर्षाणि तपस्तेपेऽथ राघवः ॥ ८४.२२ ॥ ज्योतिष्मतीपुरीसंस्थः श्रीरेवास्नानमाचरन् । तस्य शुश्रूषणं चक्रे लक्ष्मणोऽपि तदाज्ञया ॥ ८४.२३ ॥ स्थापयामासतुर्लिङ्गे तौ तदा रामलक्ष्मणौ । प्रभावात्सत्यतपसो रेवातीरे महामती । निष्पापतां तदा वीरौ जग्मतू रामलक्ष्मणौ ॥ ८४.२४ ॥ ततस्तदा देवपुरोगमो हरो गतो हि वै पुण्यमुनीश्वरैः सह । आगत्य तीर्थं च वरं ददौ तदा निजां कलां तत्र विमुच्य तीर्थे ॥ ८४.२५ ॥ मुनिभिः सर्वतीर्थानां क्षिप्तं कुम्भोदकं भुवि । एकस्थं लिङ्गनामाथ कलाकुम्भस्तथाभवत् ॥ ८४.२६ ॥ कुम्भेश्वर इति ख्यातस्तदा देवगणार्चितः । रामोऽपि पूजयामास तल्लिङ्गं देवसेविवतम् ॥ ८४.२७ ॥ ततो वरं ददौ देवो रामकीर्त्यभिवृद्धये । चतुर्विंशतिमे वर्षे रामो निष्पापतां गतः ॥ ८४.२८ ॥ यदा कन्यागतः पङ्गुर्गुरुणा सहितो भवेत् । तदेव देवयात्रेयमिति देवा जगुर्मुदा ॥ ८४.२९ ॥ यथा गोदावरीतीर्थे सर्वतीर्थफलं भवेत् । तथात्र रेवास्नानेन लिङ्गानां दर्शनैर्न्ःणाम् ॥ ८४.३० ॥ करिष्यन्त्यत्र ये श्राद्धं पित्ःणां नर्मदातटे । कुम्भेश्वरसमीपस्थास्तत्फलं शृणु षण्मुख ॥ ८४.३१ ॥ यावन्तो रोमकूपाः स्युः शरीरे सर्वदेहिनाम् । तावद्वर्षप्रमाणेन पित्ःणामक्षया गतिः ॥ ८४.३२ ॥ पृथिव्यां देवताः सर्वाः सर्वतीर्थानि यानि तु । लभन्ते तत्फलं मर्त्या लिङ्गत्रयविलोकनात् ॥ ८४.३३ ॥ अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् । सरोगो मुच्यते रोगान्नात्र कार्या विचारणा ॥ ८४.३४ ॥ सिंहराशिं गते जीवे यत्स्याद्गोदावरीफलम् । तद्द्वादशगुणं स्कन्द कुम्भेश्वरसमीपतः ॥ ८४.३५ ॥ ये जानन्ति न पश्यन्ति कुम्भशम्भुमुमापतिम् । नर्मदादक्षिणे कूले तेषां जन्म निरर्थकम् ॥ ८४.३६ ॥ यथा गोदावरीयात्रा कर्तव्या मुनिशासनात् । चतुर्विंशतिमे वर्षे तथेयं देवभाषितम् ॥ ८४.३७ ॥ यावच्चन्द्रश्च सूर्यश्च यावद्वै दिवि तारकः । तावत्तदक्षयं दानं रेवाकुम्भेश्वरान्तिके ॥ ८४.३८ ॥ महादानानि देयानि तत्र लौकैर्विचक्षणैः । गोदानमत्र शंसन्ति सौवर्णं राजतं तथा ॥ ८४.३९ ॥ यस्याः स्मरणमात्रेण नश्यते पापसञ्चयः । स्नानेन किं पुनः स्कन्द ब्रह्महत्यां व्यपोहति ॥ ८४.४० ॥ तत्र तीर्थे तु यः स्नात्वा श्राद्धं कुर्याद्युधिष्ठिर । एकोत्तरं कुलशतमुद्धरेच्छिवशासनात् ॥ ८४.४१ ॥ यानि कानि च तीर्थानि चासमुद्रसरांसि च । शिवलिङ्गार्चनस्येह कलां नार्हन्ति षोडशीम् ॥ ८४.४२ ॥ एवं देवा वरं दत्त्वा हरीश्वरपुरोगमाः । स्वस्थानमगमन् पूर्वं मुक्त्वा तन्नाम चोत्तमम् ॥ ८४.४३ ॥ तीर्थस्यास्य वरं दत्त्वा स रामो लक्ष्मणाग्रजः । अयोध्यां प्रविवेशासौ निष्पापो नर्मदाजलात् ॥ ८४.४४ ॥ सौवर्णीं च ततः कृत्वा सीतां यज्ञं चकार सः । अनुमन्त्र्य मुनींल्लोकान्देवताश्च निजं कुलम् ॥ ८४.४५ ॥ पुरा त्रेतायुगे जातं तत्तीर्थं स्कन्दनामकम् । नियमेन ततो लोकैः कर्तव्यं लिङ्गदर्शनम् ॥ ८४.४६ ॥ तावत्पापानि देहेषु महापातकजान्यपि । यावन्न प्रेक्षते जन्तुस्तत्तीर्थं देवसेवितम् ॥ ८४.४७ ॥ ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् । ज्योतिष्मतीपुरीसंस्थं ये द्रक्ष्यन्ति हरं परम् ॥ ८४.४८ ॥ तस्मान्मोहं परित्यज्य जनैर्गन्तव्यमादरात् । तीर्थाशेषफलावाप्त्यै तीर्थं कुम्भेश्वराह्वयम् ॥ ८४.४९ ॥ मार्कण्डेय उवाच - श्रुत्वेति शम्भुवचसा स षडाननोऽथ नत्वा पितुः पदयुगाम्बुजमादरेण । सम्प्राप्य दक्षिणतटं गिरिशस्रवन्त्याः कीशाग्र्यरामकलशाख्यशिवान् ददर्श ॥ ८४.५० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपितीर्थरामेश्वरलक्ष्मणेश्वरकुम्भेश्वरमाहात्म्यवर्णनं नाम चतुरशीतितमोऽध्यायः ॥ ऋKV अध्याय ८५ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र नर्मदायाः पुरातनम् । ब्रह्महत्याहरं तीर्थं वाराणस्या समं हि तत् ॥ ८५.१ ॥ युधिष्ठिर उवाच - आश्चर्यं कथ्यतां ब्रह्मन्यद्वृत्तं नर्मदातटे । वाराणस्या समं कस्मादेतत्कथय मे प्रभो ॥ ८५.२ ॥ निमग्नो दुःखसंसारे हृतराज्यो द्विजोत्तम । युष्मद्वाणीजलस्नातो निर्दुःखः सह बान्धवैः ॥ ८५.३ ॥ श्रीमार्कण्डेय उवाच - साधु साधु महाबाहो सोमवंशविभूषण । पृष्टोऽस्मि दुर्लभं तीर्थं गुह्याद्गुह्यतरं परम् ॥ ८५.४ ॥ आदौ पितामहस्तावत्समस्तजगतः प्रभुः । मनसा तस्य संजाता दशैव ऋषिपुंगवाः ॥ ८५.५ ॥ मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ ८५.६ ॥ जज्ञे प्राचेतसं दक्षं महातेजाः प्रजापतिः । दक्षस्यापि तथा जाताः पञ्चाशद्दुहिताः किल ॥ ८५.७ ॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । तथैव स महाभागः सप्तविंशतिमिन्दवे ॥ ८५.८ ॥ रोहिणी नाम या तासामभीष्टा साभवद्विधोः । शेषासु करुणां कृत्वा शप्तो दक्षेण चन्द्रमाः ॥ ८५.९ ॥ क्षयरोग्यभवच्चन्द्रो दक्षस्यायं प्रजापतेः । स च शापप्रभावेण निस्तेजाः शर्वरीपतिः ॥ ८५.१० ॥ गतः पितामहं सोमो वेपमानोऽमृतांशुमान् । पद्मयोने नमस्तुभ्यं वेदगर्भ नमोऽस्तु ते । शरणं त्वां प्रसन्नोऽस्मि पाहि मां कमलासन ॥ ८५.११ ॥ ब्रह्मोवाच - निस्तेजाः शर्वरीनाथ कलाहीनश्च दृश्यसे । उद्विग्नमानसस्तात संजातः केन हेतुना ॥ ८५.१२ ॥ सोम उवाच - दक्षशापेन मे ब्रह्मन्निस्तेजस्त्वं जगत्पते । निर्हारश्चास्य शापस्य कथ्यतां मे पितामह ॥ ८५.१३ ॥ ब्रह्मोवाच - सर्वत्र सुलभा रेवा त्रिषु स्थानेषु दुर्लभा । ओङ्कारेऽथ भृगुक्षेत्रे तथा चैवौर्वसंगमे ॥ ८५.१४ ॥ तत्र गच्छ क्षपानाथ यत्र रेवान्तरं तटम् । त्वरितोऽसौ गतस्तत्र यत्र रेवौर्विसंगमः ॥ ८५.१५ ॥ काष्ठावस्थः स्थितः सोमो दध्यौ त्रिपुरवैरिणम् । यावद्वर्षशतं पूर्णं तावत्तुष्टो महेश्वरः ॥ ८५.१६ ॥ प्रत्यक्षः सोमराजस्य वृषासन उमापतिः । साष्टाङ्गं प्रणिपत्योच्चैर्जय शम्भो नमोऽस्तु ते ॥ ८५.१७ ॥ जय शङ्कर पापहराय नमो जय ईश्वर ते जगदीश नमः । जय वासुकिभूषणधार नमो जय शूलकपालधराय नमः ॥ ८५.१८ ॥ जय अन्धकदेहविनाश नमो जय दानववृन्दवधाय नमः । जय निष्कलरूप सकलाय नमो जय काल कामदहाय नमः ॥ ८५.१९ ॥ जय मेचककण्ठधराय नमो जय सूक्ष्मनिरञ्जनशब्द नमः । जय आदिरनादिरनन्त नमो जय शङ्कर किंकरमीश भज ॥ ८५.२० ॥ एवं स्तुतो महादेवः सोमराजेन पाण्डव । तुष्टस्तस्य नृपश्रेष्ठ शिवया शङ्करोऽब्रवीत् ॥ ८५.२१ ॥ ईश्वर उवाच - वरं प्रार्थय मे भद्र यत्ते मनसि वर्तते । साधु साधु महासत्त्व तुष्टोऽहं तपसा तव ॥ ८५.२२ ॥ सोम उवाच - दक्षशापेन दग्धोऽहं क्षीणसत्त्वो महेश्वर । शापस्योपशमं देव कुरु शर्म मम प्रभो ॥ ८५.२३ ॥ ईश्वर उवाच - तव भक्तिगृहीतोऽहमुमया सह तोषितः । निष्पापः सोमनाथस्त्वं संजातस्तीर्थसेवनात् ॥ ८५.२४ ॥ इत्यूचे देवदेवेशः क्षणं ध्यात्वेन्दुना ततः । स्थापितं परमं लिङ्गं कामदं प्राणिनां भुवि । सर्वदुःखहरं तत्तु ब्रह्महत्याविनाशनम् ॥ ८५.२५ ॥ युधिष्ठिर उवाच - सोमनाथप्रभावं मे संक्षेपात्कथय प्रभो । दुःखार्णवनिमग्नानां त्राता प्राप्तो द्विजोत्तम ॥ ८५.२६ ॥ श्रीमार्कण्डेय उवाच - शृणु तीर्थप्रभावं ते संक्षेपात्कथयाम्यहम् । यद्वृत्तमुत्तरे कूले रेवाया उरिसंगमे ॥ ८५.२७ ॥ शम्बरो नाम राजाभूत्तस्य पुत्रस्त्रिलोचनः । त्रिलोचनसुतः कण्वः स पापर्द्धिपरोऽभवत् ॥ ८५.२८ ॥ वने नित्यं भ्रमन्सोऽथ मृगयूथं ददर्श ह । मृगयूथं हतं तत्तु त्रिलोचनसुतेन च ॥ ८५.२९ ॥ मृगरूपी द्विजो मध्ये चरते निर्जने वने । स हतस्तेन सङ्गेन कण्वेन मुनिसत्तम ॥ ८५.३० ॥ ब्रह्महत्यान्वितः कण्वो निस्तेजा व्यचरन्महीम् । व्यचरंश्चैव सम्प्राप्तो नर्मदामुरिसंगमे ॥ ८५.३१ ॥ किंशुकाशोकबहले जम्बीरपनसाकुले । कदम्बपाटलाकीर्णे बिल्वनारङ्गशोभिते ॥ ८५.३२ ॥ चिञ्चिणीचम्पकोपेते ह्यगस्तितरुछादिते । प्रभूतभूतसंयुक्तं वनं सर्वत्र शोभितम् ॥ ८५.३३ ॥ चित्रकैर्मृगमार्जारैर्हिंस्रैः शम्बरशूकरैः । शशैर्गवयसंयुक्तैः शिखण्डिखरमण्डितम् ॥ ८५.३४ ॥ प्रविष्टस्तु वने कण्वस्तृषार्तः श्रमपीडितः । स्नातो रेवाजले पुण्ये सङ्गमे पापनाशने ॥ ८५.३५ ॥ अर्चितः परया भक्त्या सोमनाथो युधिष्ठिर । पपौ सुविमलं तोयं सर्वपापक्षयंकरम् ॥ ८५.३६ ॥ फलानि च विचित्राणि चखाद सह किंकरैः । सुप्तः पादपच्छायायां श्रान्तो मृगवधेन च ॥ ८५.३७ ॥ तावत्तीर्थवरं विप्रः स्नानार्थं सङ्गमं गतः । मार्गगो ब्राह्मणो हर्षोद्युक्तस्तद्गतमानसः ॥ ८५.३८ ॥ अबला तमुवाचेदं तिष्ठ तिष्ठ द्विजोत्तम । त्रस्तो निरीक्षते यावद्दिशः सर्वा नरेश्वर ॥ ८५.३९ ॥ तावद्वृक्षसमारूढां स्त्रियं रक्ताम्बरावृताम् । रक्तमाल्यां तदा बालां रक्तचन्दनचर्चिताम् । रक्ताभरणशोभाढ्यां पाशहस्तां ददर्श ह ॥ ८५.४० ॥ स्त्र्युवाच - संदेशं श्रूयतां विप्र यदि गच्छसि सङ्गमे । मद्भर्ता तिष्ठते तत्र शीघ्रमेव विसर्जय ॥ ८५.४१ ॥ एकाकिनी च ते भार्या तिष्ठते वनमध्यगा । इत्याकर्ण्य गतो विप्रः सङ्गमं सुरदुर्लभे ॥ ८५.४२ ॥ वृक्षच्छायान्वितः कण्वो ब्राह्मणेनावलोकितः । उवाच तं प्रति तदा वचनं ब्राह्मणोत्तमः ॥ ८५.४३ ॥ ब्राह्मण उवाच - वनान्तरे मया दृष्टा बाला कमललोचना । रक्ताम्बरधरा तन्वी रक्तचन्दनचर्चिता ॥ ८५.४४ ॥ रक्तमाल्या सुशोभाढ्या पाशहस्ता मृगेक्षणा । वृक्षारूढावदद्वाक्यं मद्भर्ता प्रेष्यतामिति ॥ ८५.४५ ॥ कण्व उवाच - कस्मिन्स्थाने तु विप्रेन्द्र विद्यते मृगलोचना । कस्य सा केन कार्येण सर्वमेतद्वदाशु मे ॥ ८५.४६ ॥ ब्राह्मण उवाच - सङ्गमादर्धक्रोशे सा उद्यानान्ते हि विद्यते । वचनाद्ब्रह्मणस्यैषा न ज्ञाता पार्थिवेन तु ॥ ८५.४७ ॥ तदा स कण्वभूपालः स्वकं दूतं समादिशत् । कण्व उवाच - गच्छ त्वं पृच्छतां तां क्वागता क्वच गमिष्यसि । प्रेषितस्त्वरितो दूतो गतो नारीसमीपतः ॥ ८५.४८ ॥ वृक्षस्थां ददृशो बालामुवाच नृपसत्तम । मन्नाथः पृच्छति त्वां तु कासि त्वं क्व गमिष्यसि ॥ ८५.४९ ॥ कन्योवाच - गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् । इह प्रच्छन्न पापानां शास्ता वैवस्वतो यमः ॥ ८५.५० ॥ ब्रह्महत्या च संजाता मृगरूपधरद्विजात् । मया युक्तोऽपि ते राजा मुक्तस्तीर्थप्रभावतः ॥ ८५.५१ ॥ अर्धक्रोशान्तरान्मध्ये ब्रह्महत्या न संविशेत् । सोमनाथप्रभावोऽयं वाराणस्याः समः स्मृतः ॥ ८५.५२ ॥ गच्छ त्वं प्रेष्यतां राजा शीघ्रमत्र न संशयः । गतो भृत्यस्ततः शीघ्रं वेपमानः सुविह्वलः ॥ ८५.५३ ॥ समस्तं कथयामास यद्वृत्तं हि पुरातनम् । तस्य वाक्यादसौ राजा पतितो धरणीतले ॥ ८५.५४ ॥ भृत्य उवाच - कस्मात्त्वं शोचसे नाथ पूर्वोपात्तं शुभाशुभम् । इत्याकर्ण्य वचस्तस्य राजा वचनमब्रवीत् ॥ ८५.५५ ॥ प्राणत्यागं करिष्यामि सोमनाथसमीपतः । शीघ्रमानीयतां वह्निरिन्धनानि बहूनि च ॥ ८५.५६ ॥ आनीतं तत्क्षणात्सर्वं भृत्यैस्तद्वशवर्तिभिः । स्नानं कृत्वा शुभे तोये सङ्गमे पापनाशने ॥ ८५.५७ ॥ अर्चितः परया भक्त्या सोमनाथो महीभृता । त्रिःप्रदक्षिणतः कृत्वा ज्वलन्तं जातवेदसम् ॥ ८५.५८ ॥ प्रविष्टः कण्वराजासौ हृदि ध्यात्वा जनार्दनम् । पीताम्बरधरं देवं जटामुकुटधारिणम् ॥ ८५.५९ ॥ श्रिया युक्तं सुपर्णस्थं शङ्खचक्रगदाधरम् । सुरारिसूदनं दध्यौ सुगतिर्मे भवत्विति ॥ ८५.६० ॥ पपात पुष्पवृष्टिस्तु साधु साधु नृपात्मज । आश्चर्यमतुलं दृष्ट्वा निरीक्ष्य च परस्परम् ॥ ८५.६१ ॥ मृतं तैः पावके भृत्यैर्हृदि ध्यात्वा गदाधरम् । विमानस्थास्ततः सर्वे संजाताः पाण्डुनन्दन ॥ ८५.६२ ॥ निष्पापास्ते दिवं याताः सोमनाथप्रभावतः । ब्राह्मणे सङ्गमे तत्र ध्यायमाने वृषध्वजम् ॥ ८५.६३ ॥ श्रीमार्कण्डेय उवाच - सोमनाथप्रभावोऽयं शृणुष्वैकमना विधिम् । अष्टम्यां वा चतुर्दश्यां सर्वकालं रवेर्दिने ॥ ८५.६४ ॥ विशेषाच्छुक्लपक्षे चेत्सूर्यवारेण सप्तमी । उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम् ॥ ८५.६५ ॥ पञ्चामृतेन गव्येन स्नापयेत्परमेश्वरम् । श्रीखण्डेन ततो गुण्ठ्य पुष्पधूपादिकं ददेत् ॥ ८५.६६ ॥ घृतेन बोधयेद्दीपं नृत्यं गीतं च कारयेत् । सोमवारे तथाष्टम्यां प्रभाते पूजयेद्द्विजान् ॥ ८५.६७ ॥ जितक्रोधानात्मवतः परनिन्दाविवर्जितान् । सर्वाङ्गरुचिराञ्छस्तान् स्वदारपरिपालकान् ॥ ८५.६८ ॥ गायत्रीपाठमात्रांश्च विकर्मविरतान् सदा । पुनर्भूवृषलीशूद्री चरेयुर्यस्य मन्दिरे ॥ ८५.६९ ॥ दूरतोऽसौ द्विजस्त्याज्य आत्मनः श्रेय इच्छता । हीनाङ्गानतिरिक्ताङ्गान् येषां पूर्वापरं न हि ॥ ८५.७० ॥ व्रते श्राद्धे तथा दाने दूरतस्तान् विवर्जयेत् । आयसी तरुणी तुल्या द्विजाः स्वाध्यायवर्जिताः ॥ ८५.७१ ॥ आत्मानं सह याज्येन पातयन्ति न संशयः । शाल्मलीनावतुल्याः स्युः षट्कर्मनिरता द्विजाः ॥ ८५.७२ ॥ दातारं च तथात्मानं तारयन्ति तरन्ति च । श्राद्धं सोमेश्वरे पार्थ यः कुर्याद्गतमत्सरः ॥ ८५.७३ ॥ प्रेतास्तस्य हि सुप्रीता यावदाभूतसम्प्लवम् । अन्नं वस्त्रं हिरण्यं च यो दद्यादग्रजन्मने ॥ ८५.७४ ॥ स याति शाङ्करे लोक इति मे सत्यभाषितम् । हयं यो यच्छते तत्र सम्पूर्णं तरुणं सितम् ॥ ८५.७५ ॥ रक्तं वा पीतवर्णं वा सर्वलक्षणसंयुतम् । कुङ्कुमेन विलिप्ताङ्गावग्रजन्महयावपि ॥ ८५.७६ ॥ स्रग्दामभूषितौ कार्यौ सितवस्त्रावगुण्ठितौ । अङ्घ्रिः प्रदीयतां स्कन्धे मदीये हयमारुह ॥ ८५.७७ ॥ आरूढे ब्राह्मणे ब्रूयाद्भास्करः प्रीयतामिति । स याति शांकरं लोकं सर्वपापविवर्जितः ॥ ८५.७८ ॥ उपरागे तु सोमस्य तीर्थं गत्वा जितेन्द्रियः । सत्यलोकाच्च्युतश्चापि राजा भवति धार्मिकः ॥ ८५.७९ ॥ तस्य वासः सदा राजन्न नश्यति कदाचन । दीर्घायुर्जायते पुत्रो भार्या च वशवर्तिनी ॥ ८५.८० ॥ जीवेद्वर्षशतं साग्रं सर्वदुःखविवर्जितः । सोपवासो जितक्रोधो धेनुं दद्याद्द्विजन्मने ॥ ८५.८१ ॥ सवत्सां क्षीरसंयुक्तां श्वेतवस्त्रावलोकिताम् । शबलां पीतवर्णां च धूम्रां वा नीलकर्बुराम् ॥ ८५.८२ ॥ कपिलां वा सवत्सां च घण्टाभरणभूषिताम् । रूप्यखुरां कांस्यदोहां स्वर्णशृङ्गीं नरेश्वर ॥ ८५.८३ ॥ श्वेतया वर्धते वंशो रक्ता सौभाग्यवर्धिनी । शबला पीतवर्णा च दुःखघ्न्यौ संप्रकीर्तिते ॥ ८५.८४ ॥ कपिला नाशयेत्पापं सप्तजन्मसमुद्भवम् । सत्यलोकमवाप्नोति गोप्रदायी नरेश्वर ॥ ८५.८५ ॥ पक्षान्तेऽथ व्यतीपाते वै धृतौ रविसंक्रमे । दिनक्षये गजच्छायां ग्रहणे भास्करस्य च ॥ ८५.८६ ॥ ये व्रजन्ति महात्मानः सङ्गमे सुरदुर्लभे । मृदावगुण्ठयित्वा तु चात्मानं सङ्गमे विशेत् ॥ ८५.८७ ॥ हृदयान्तर्जले जाप्या प्राणायामोऽथवा नृप । गायत्री वैष्णवी चैव सौरी शैवी यदृच्छया । तेऽपि पापैः प्रमुच्यन्त इत्येवं शङ्करोऽब्रवीत् ॥ ८५.८८ ॥ जगतीं सोमनाथस्य यस्तु कुर्यात्प्रदक्षिणाम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ॥ ८५.८९ ॥ ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् । भ्रूणहा स्वर्णहर्ता च मुच्यन्ते नात्र संशयः ॥ ८५.९० ॥ तीर्थाख्यानमिदं पुण्यं यः शृणोति जितेन्द्रियः । व्याधितो मुच्यते रोगी चारोगी सुखमाप्नुयात् ॥ ८५.९१ ॥ यत्ते संदह्यते चेतः शृणु तन्मे युधिष्ठिर । नैकापि नृप लोकेऽस्मिन् भ्रूणहत्या सुदुस्त्यजा ॥ ८५.९२ ॥ किमु षड्विंशतिं पार्थ प्राप याः क्षणदाकरः । सोऽपि तीर्थमिदं प्राप्य तपस्तप्त्वा सुदुश्चरम् ॥ ८५.९३ ॥ विमुक्तः सर्वपापेभ्यः शीतरश्मिरभूत्सुखी । श्रूयते नृप पौराणी गाथा गीता महर्षिभिः ॥ ८५.९४ ॥ लिङ्गं प्रतिष्ठितं ह्येकं दशभ्रूणहनं भवेत् । अतो लिङ्गत्रयं सोमः स्थापयामास भारत ॥ ८५.९५ ॥ रेवौरिसंगमे ह्याद्यं द्वितीयं भृगुकच्छके । ततः सिद्धिं परां प्राप्य प्रभासे तु तृतीयकम् ॥ ८५.९६ ॥ इति ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् । धर्म्यं यशस्यमायुष्यं स्वर्ग्यं संशुद्धिकृन्नृणाम् ॥ ८५.९७ ॥ पुत्रार्थी लभते पुत्रान्निष्कामः स्वर्गमाप्नुयात् । मुच्यते सर्वपापेभ्यस्तीर्थं कृत्वा परं नृप ॥ ८५.९८ ॥ एतत्ते सर्वमाख्यातं सोमनाथस्य यत्फलम् । श्रुत्वा पुत्रमवाप्नोति स्नात्वा चाष्टौ न संशयः ॥ ८५.९९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमनाथतीर्थमाहात्म्यवर्णनं नाम पञ्चाशीतितमोऽध्यायः ॥ ऋKV अध्याय ८६ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महाराज पिङ्गलावर्तमुत्तमम् । सङ्गमस्य समीपस्थं रेवाया उत्तरे तटे । हव्यवाहेन राजेन्द्र स्थापितः पिङ्गलेश्वरः ॥ ८६.१ ॥ युधिष्ठिर उवाच - हव्यवाहेन भगवन्नीश्वरः स्थापितः कथम् । एतदाख्याहि मे सर्वं प्रसादाद्वक्तुमर्हसि ॥ ८६.२ ॥ मार्कण्डेय उवाच - शम्भुना रेतसा राजंस्तर्पितो हव्यवाहनः । प्राप्तसौख्येन रौद्रेण गौर्याक्रीडनचेतसा ॥ ८६.३ ॥ हव्यवाहमुखे क्षिप्तं रुद्रेणामिततेजसा । रुद्रस्य रेतसा दग्धस्तीर्थयात्राकृतादरः ॥ ८६.४ ॥ सागरांश्च नदीर्गत्वा क्रमाद्रेवां समागतः । चचार परया भक्त्या ध्यानमुग्रं हुताशनः ॥ ८६.५ ॥ वायुभक्षः शतं साग्रं यावत्तेपे हुताशनः । तावत्तुष्टो महादेवो वरदो जातवेदसः । संनिधौ समुपेत्याथ वचनं चेदमब्रवीत् ॥ ८६.६ ॥ ईश्वर उवाच - वरं वृणीष्व हव्याश यस्ते मनसि वर्तते ॥ ८६.७ ॥ वह्निरुवाच - नमस्ते सर्वलोकेश उग्रमूर्ते नमोऽस्तु ते । रेतसा तव संदग्धः कुष्ठी जातो महेश्वर । कृपां कुरु महादेव मम रोगं विनाशय ॥ ८६.८ ॥ ईश्वर उवाच - हव्यवाह भवारोगो मत्प्रसादाच्च सत्वरम् । अत्र तीर्थे कृतस्नानः स्वरूपं प्रतिपत्स्यसे ॥ ८६.९ ॥ इत्युक्त्वा च महादेवस्तत्रैवान्तरधीयत । अनन्तरं हव्यवाहः सस्नौ रेवाजले त्वरन् ॥ ८६.१० ॥ तदैव रोगनिर्मुक्तोऽभवद्दिव्यस्वरूपवान् । स्थापयामास देवेशं स वह्निः पिङ्गलेश्वरम् ॥ ८६.११ ॥ नाम्ना संपूजयामास तुष्टाव स्तुतिभिर्मुदा । ततो जगाम देशं स्वं देवानां हव्यवाहनः ॥ ८६.१२ ॥ हव्यवाहेन भूपैवं स्थापितः पिङ्गलेश्वरः । जितक्रोधो हि यस्तत्र उपवासं समाचरेत् ॥ ८६.१३ ॥ अतिरान्त्रफलं तस्य अन्ते रुद्रत्वमाप्नुयात् । गुणान्विताय विप्राय कपिलां तत्र भारत ॥ ८६.१४ ॥ अलंकृत्य सवत्सां च शक्त्यालङ्कारभूषिताम् । यः प्रयच्छति राजेन्द्र स गच्छेत्परमां गतिम् ॥ ८६.१५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पिङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम षडशीतितमोऽध्यायः ॥ ऋKV अध्याय ८७ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल तीर्थं परमशोभनम् । स्थापितं मुनिसङ्घैर्यद्ब्रह्मवंशसमुद्भवैः ॥ ८७.१ ॥ ऋणमोचनमित्याख्यं रेवातटसमाश्रितम् । षण्मासं मनुजो भक्त्या तर्पयन् पितृदेवताः ॥ ८७.२ ॥ देवैः पितृमनुष्यैश्च ऋणमात्मकृतं च यत् । मुच्यते तत्क्षणान्मर्त्यः स्नातो वै नर्मदाजले ॥ ८७.३ ॥ प्रत्यक्षं दुरितं तत्र दृश्यते फलरूपतः । तत्र तीर्थे तु यो राजन्नेकचित्तो जितेन्द्रियः ॥ ८७.४ ॥ स्नात्वा दानं च वै दद्यादर्चयेद्गिरिजापतिम् । ऋणत्रयविनिर्मुक्तो नाके दीप्यति देववत् ॥ ८७.५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऋणत्रयमोचनतीर्थमाहात्म्यवर्णनं नाम सप्ताशीतितमोऽध्यायः ॥ ऋKV अध्याय ८८ श्रीमार्कण्डेय उवाच - तस्यैवानन्तरं पार्थ कापिलं तीर्थमाश्रयेत् । स्थापितं कपिलेनैव सर्वपातकनाशनम् ॥ ८८.१ ॥ अष्टम्यां च सिते पक्षे चतुर्दश्यां नरेश्वर । स्नापयेत्परया भक्त्या कपिलाक्षीरसर्पिषा ॥ ८८.२ ॥ श्रीखण्डेन सुगन्धेन गुण्ठयेत महेश्वरम् । ततः सुगन्धपुष्पैश्च श्वेतैश्च नृपसत्तम ॥ ८८.३ ॥ येऽर्चयन्ति जितक्रोधा न ते यान्ति यमालयम् । असिपत्त्रवनं घोरं यमचुल्ही सुदारुणा ॥ ८८.४ ॥ दृश्यते नैव विद्वद्भिः कपिलेश्वरपूजनात् । स्नात्वा रेवाजले पुण्ये भोजयेद्ब्राह्मणाञ्छुभान् ॥ ८८.५ ॥ गोप्रदानेन वस्त्रेण तिलदानेन भारत । छत्रशय्याप्रदानेन राजा भवति धार्मिकः ॥ ८८.६ ॥ तीव्रतेजा विघोरश्च जीवत्पुत्रः प्रियंवदः । शत्रुवर्गो न तस्य स्यात्कदाचित्पाण्डुनन्दन ॥ ८८.७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपिलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाशीतितमोऽध्यायः ॥ ऋKV अध्याय ८९ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र पूतिकेश्वरमुत्तमम् । नर्मदादक्षिणे कूले सर्वपापक्षयंकरम् ॥ ८९.१ ॥ स्थापितं जाम्बुवन्तेन लोकानां तु हितार्थिना । राजा प्रसेनजिन्नाम तस्यां वक्षस्थलान्मणौ ॥ ८९.२ ॥ समुत्क्षिप्ते तु तेनैव सपूतिरभवद्व्रणः । तत्र तीर्थे तपस्तप्त्वा निर्व्रणः समजायत ॥ ८९.३ ॥ तेन तत्स्थापितं लिङ्गं पूतिकेश्वरमुत्तमम् । यस्तत्र मनुजो भक्त्या स्नायाद्भरतसत्तम ॥ ८९.४ ॥ सर्वान्कामानवाप्नोति सम्पूज्य परमेश्वरम् । कृष्णाष्टम्यां चतुर्दश्यां सर्वकालं नराधिप । येऽर्चयन्ति सदा देवं ते न यान्ति यमालयम् ॥ ८९.५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पूतिकेश्वरतीर्थमाहात्म्यवर्णनं नामैकोननवतितमोऽध्यायः ॥ ऋKV अध्याय ९० श्रीमार्कण्डेय उवाच - रेवाया उत्तरे कूले वैष्णवं तीर्थमुत्तमम् । जलशायीति वै नाम विख्यातं वसुधातले ॥ ९०.१ ॥ दानवानां वधं कृत्वा सुप्तस्तत्र जनार्दनः । चक्रं प्रक्षालितं तत्र देवदेवेन चक्रिणा । सुदर्शनं च निष्पापं रेवाजलसमाश्रयात् ॥ ९०.२ ॥ युधिष्ठिर उवाच - चक्रतीर्थं समाचक्ष्व मुनिसंघैश्च वन्दितम् । विष्णोः प्रभावमतुलं रेवायाश्चैव यत्फलम् ॥ ९०.३ ॥ श्रीमार्कण्डेय उवाच - साधु साधु महाप्राज्ञ विरक्तस्त्वं युधिष्ठिर । गुह्याद्गुह्यतरं तीर्थं निर्मितं चक्रिणा स्वयम् ॥ ९०.४ ॥ तत्तेऽहं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् । आसीत्पुरा महादैत्यस्तालमेघ इति श्रुतः ॥ ९०.५ ॥ तेन देवा जिताः सर्वे हृतराज्या नराधिप । यज्ञभागान् स्वयं भुङ्क्ते अहं विष्णुर्न संशयः ॥ ९०.६ ॥ धनदस्य हृतं चित्तं हृतः शक्रस्य वारणः । इन्द्राणीं वाञ्छते पापो हयरत्नं रवेरपि ॥ ९०.७ ॥ तालमेघभयात्पार्थ रविरुद्राः सवासवाः । यमः स्कन्दो जलेशोऽग्निर्वायुर्देवो धनेश्वरः ॥ ९०.८ ॥ सवाक्पतिमहेशाश्च नष्टचित्ताः पितामहम् । गता देवा ब्रह्मलोकं तत्र दृष्ट्वा पितामहम् ॥ ९०.९ ॥ तुष्टुवुर्विविधैः स्तोत्रैर्वागीशप्रमुखाः सुराः । गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ ९०.१० ॥ दृष्ट्वा देवान्निरुत्साहान् विवर्णानवनीपते । प्रसादाभिमुखो देवः प्रत्युवाच दिवौकसः ॥ ९०.११ ॥ ब्रह्मोवाच - स्वागतं सुरसङ्घस्य कान्तिर्नष्टा पुरातनी । हिमक्लिष्टप्रभावेण ज्योतींषीव मुखानि वः ॥ ९०.१२ ॥ प्रशमादर्चिषामेतदनुद्गीर्णं सुरायुधम् । वृत्रस्य हन्तुः कुलिशं कुण्ठितश्रीव लक्ष्यते ॥ ९०.१३ ॥ किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः । मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥ ९०.१४ ॥ कुबेरस्य मनःशल्यं शंसतीव पराभवम् । अपविद्धगतो वायुर्भग्नशाख इव द्रुमः ॥ ९०.१५ ॥ यमोऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा । कुरुतेऽस्मिन्नमोघोऽपि निर्वाणालातलाघवम् ॥ ९०.१६ ॥ अमी च कथमादित्याः प्रतापक्षतिशीतलाः । चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥ ९०.१७ ॥ तद्ब्रूत वत्साः किमितः प्रार्थयध्वं समागताः । किमागमनकृत्यं वो ब्रूत निःसंशयं सुराः ॥ ९०.१८ ॥ मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता । ततो मन्दानिलोद्भूतकमलाकरशोभिना ॥ ९०.१९ ॥ गुरुं नेत्रसहस्रेण प्रेरयामास वृत्रहा । स द्विनेत्रं हरेश्चक्षुः सहस्रनयनाधिकम् ॥ ९०.२० ॥ वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् । युष्मद्वंशोद्भवस्तात तालमेघो महाबलः ॥ ९०.२१ ॥ उपतापयते देवान्धूमकेतुरिवोच्छ्रितः । तेन देवगणाः सर्वे दुःखिता दानवेन च ॥ ९०.२२ ॥ तालमेघो दैत्यपतिः सर्वान्नो बाधते बली । तस्मात्त्वां शरणं प्राप्ताः शरणं नो विधे भव ॥ ९०.२३ ॥ ततः प्रसन्नो भगवान् वेधास्तानब्रवीद्वचः ॥ ९०.२४ ॥ ब्रह्मोवाच - तालमेघेन वो मध्ये बली तेन समः सुराः । विना माधवदेवेन साध्यो मे नैव दानवः ॥ ९०.२५ ॥ ततः सुरगणाः सर्वे विरिञ्चिप्रमुखा नृप । क्षीरोदं प्रस्थिताः सर्वे दुःखितास्तेन वैरिणा ॥ ९०.२६ ॥ त्वरिताः प्रस्थिता देवाः केशवं द्रष्टुकाम्यया । क्षीरोदं सागरं गत्वास्तुवंस्ते जलशायिनम् ॥ ९०.२७ ॥ देवा ऊचुः । जगदादिरनादिस्त्वं जगदन्तोऽप्यनन्तकः । जगन्मूर्तिरमूर्तिस्त्वं जय गीर्वाणपूजित ॥ ९०.२८ ॥ जय क्षीरोदशयन जय लक्ष्म्या सदा वृत । जय दानवनाशाय जय देवकिनन्दन ॥ ९०.२९ ॥ जय शङ्खगदापाणे जय चक्रधर प्रभो । इति देवस्तुतिं श्रुत्वा प्रबुद्धो जलशाय्यथ ॥ ९०.३० ॥ उवाच मधुरां वाणीं मेघगम्भीरनिस्वनाम् । किमर्थं बोधितो ब्रह्मन् समर्थैर्वः सुरासुरैः ॥ ९०.३१ ॥ ब्रह्मोवाच - तालमेघभयात्कृष्ण सम्प्राप्तास्तव मन्दिरम् । न वध्यः कस्यचित्पापस्तालमेघो जनार्दन ॥ ९०.३२ ॥ त्वमेव जहि तं दुष्टं मृत्युं यास्यति नान्यथा ॥ ९०.३३ ॥ श्रीकृष्ण उवाच - स्वस्थानं गम्यतां देवाः स्वकीयां लभत प्रजाम् । दुष्टात्मानं हनिष्यामि तालमेघं महाबलम् ॥ ९०.३४ ॥ स्थानं ब्रुवन्तु मे देवा वसेद्यत्र स दानवः ॥ ९०.३५ ॥ देवा ऊचुः । हिमाचलगुहायां स वसते दानवेश्वरः । चतुर्विंशतिसाहस्रैः कन्याभिः परिवारितः ॥ ९०.३६ ॥ तुरङ्गैः स्यन्दनैः कृष्ण संख्या तस्य न विद्यते । नटा नानाविधास्तत्र असंख्यातगुणा हरे ॥ ९०.३७ ॥ द्विरदाः पर्वताकारा हयाश्च द्विरदोपमाः । महाबलो वसेत्तत्र गीर्वाणभयदायकः ॥ ९०.३८ ॥ श्रुत्वा देवो वचस्तेषां देवानामातुरात्मनाम् । अचिन्तयद्गरुत्मन्तं शत्रुसङ्घविनाशनम् ॥ ९०.३९ ॥ चक्रं करेण संगृह्य गदाचक्रधरः प्रभुः । शार्ङ्गं च मुशलं सीरं करैर्गृह्य जनार्दनः ॥ ९०.४० ॥ आरूढः पक्षिराजेन्द्रं वधार्थं दानवस्य च । दानवस्य पुरे पेतुरुत्पाता घोररूपिणः ॥ ९०.४१ ॥ गोमायुर्गृध्रमध्ये तु कपोतैः सममाविशत् । विना वातेन तस्यैव ध्वजदण्डः पपात ह ॥ ९०.४२ ॥ सर्पसूषकयोर्युद्धं तथा केसरिनागयोः । उन्मार्गाः सरितस्तत्रावहन्रक्तविमिश्रिताः । अकालतरुपुष्पाणि दृश्यन्ते स्म समन्ततः ॥ ९०.४३ ॥ ततः प्राप्तो जगन्नाथो हिमवन्तं नगेश्वरम् । पाञ्चजन्यश्वसहसा पूरितः पुरसन्निधौ ॥ ९०.४४ ॥ तेन शब्देन महता ह्यारूढो दानवेश्वरः । उवाच च तदा वाक्यं तालमेघो महाबलः ॥ ९०.४५ ॥ तालमेघ उवाच - कोऽयं मृत्युवशं प्राप्तो ह्यज्ञात्वा मम विक्रमम् । धुन्धुमाराज्ञया ह्याशु स्वसैन्यपरिवारितः ॥ ९०.४६ ॥ बलादानय तं बद्ध्वा ममाग्रे बहुशालिनम् ॥ ९०.४७ ॥ धुन्धुमार उवाच - आनयामि न सन्देहः सुरो यक्षोऽथ किन्नरः । स्यन्दनौघैः समायुक्तो गजवाजिभटैः सह ॥ ९०.४८ ॥ हृष्टस्ततो जगद्योनिः सुपर्णस्थो महाबलः । गृह्यतां गृह्यतामेष इत्युक्तास्तेन किंकराः ॥ ९०.४९ ॥ चतुर्दिक्षु प्रधावन्त इतश्चेतश्च सर्वतः । सुपर्णेनाग्निरूपेण दग्धास्ते शलभा यथा ॥ ९०.५० ॥ धुन्धुमारोऽपि कृष्णेन शरघातेन ताडितः । हतो वक्षःस्थले पापो मृतावस्थो रथोपरि ॥ ९०.५१ ॥ हाहाकारं ततः सर्वे दानवाश्चक्रुरातुराः । तालमेघस्ततः क्रुद्धो रथारूढो विनिर्गतः । ददृशे केशवं पार्थ शङ्खचक्रगदाधरम् ॥ ९०.५२ ॥ तालमेघ उवाच - अन्ये ते दानवाः कृष्ण ये हताः समरे त्वया । हिरण्यकशिपुप्रख्यानपुमांसो हि तेऽच्युत ॥ ९०.५३ ॥ इत्युक्त्वा दानवः पार्थ वर्षयामास सायकैः । दानवस्य शरान्मुक्तान् छेदयामास केशवः ॥ ९०.५४ ॥ गरुत्मानवधीत्सैन्यमवध्यं यत्सुरासुरैः । कृष्णेन द्विगुणास्तस्य प्रेषिताः स्वशिलीमुखाः ॥ ९०.५५ ॥ द्विगुणं द्विगुणीकृत्य प्रेषयामास दानवः । तानप्यष्टगुणैः कृष्णश्छादयामास सायकैः ॥ ९०.५६ ॥ ततः क्रुद्धेन दैत्येन ह्याग्नेयं बाणमुत्तमम् ॥ ९०.५७ ॥ वारुणं प्रेषयामास त्वाग्नेयं शमितं ततः । वारुणेनैव वायव्यं तालमेघो व्यसर्जयत् ॥ ९०.५८ ॥ सार्पं चैव हृषीकेशो वायव्यस्य प्रशान्तये । नारसिंहं नृसिंहोऽपि प्रेषयामास पाण्डव ॥ ९०.५९ ॥ नारसिंहं ततो दृष्ट्वा तालमेघो महाबलः । उत्तीर्य स्यन्दनाच्छीघ्रं गृहीत्वा खड्गचर्मणी ॥ ९०.६० ॥ कृष्ण त्वां प्रेषयिष्यामि यममार्गं सुदारुणम् । इत्युक्त्वा दानवः पार्थ आगतः केशवं प्रति ॥ ९०.६१ ॥ खड्गेनाताडयद्दैत्यो गदापाणिं जनार्दनम् । मण्डलाग्रं ततो गृह्य केशवो हृष्टमानसः ॥ ९०.६२ ॥ जघनोरःस्थले पार्थ तालमेघं महाहवे । जनार्दनस्तदा दैत्यं दैत्यो हरिमहन्मृधे ॥ ९०.६३ ॥ जनार्दनस्ततः क्रुद्धस्तालमेघाय भारत । अमोघं चक्रमादाय मुक्तं तस्य च मूर्धनि ॥ ९०.६४ ॥ निपपात शिरस्तस्य पर्वताश्च चकम्पिरे । समुद्राः क्षुभिताः पार्थ नद्य उन्मार्गगामिनीः ॥ ९०.६५ ॥ पुष्पवृष्टिं ततो देवा मुमुचुः केशवोपरि । अवध्यः सुरसङ्घानां सूदितः केशव त्वया ॥ ९०.६६ ॥ स्वस्थाश्चैव ततो देवास्तालमेघे निपातिते । जनार्दनोऽपि कौन्तेय नर्मदातटमाश्रितः ॥ ९०.६७ ॥ क्षीरोदां नर्मदां मत्वा अनन्तभुजगोपरि । लक्ष्म्या समन्वितः कृष्णो निलीनश्चोत्तरे तटे ॥ ९०.६८ ॥ चक्रं विभीषणं मर्त्ये ज्वालामालासमन्वितम् । पतितं नर्मदातोये जलशायिसमीपतः ॥ ९०.६९ ॥ निर्धूतकल्मषं जातं नर्मदातोययोगतः । तालमेघवधोत्पन्नं यत्पापं नृपनन्दन ॥ ९०.७० ॥ तत्स्रवं क्षालितं सद्यो नर्मदांभसि भारत । तदाप्रभृति लोकेऽस्मिञ्जलशायी महीपते ॥ ९०.७१ ॥ चक्रतीर्थं वदन्त्यन्ये केचित्कालाघनाशनम् । विख्यातं भारते वर्षे नर्मदायां महीपते ॥ ९०.७२ ॥ तत्तीर्थस्य प्रभावोऽयं श्रूयतामवनीपते । यथाऽनन्तो हि नागानां देवानां च जनार्दनः ॥ ९०.७३ ॥ मासानां मार्गशीर्षोऽस्ति नदीनां नर्मदा यथा । मासि मार्गशिरे पार्थ ह्येकादश्यां सितेऽहनि ॥ ९०.७४ ॥ गत्वा यो मनुजो भक्त्या कामक्रोधविवर्जितः । वैष्णवीं भावनां कृत्वा जलेशं तु व्रजेत वै ॥ ९०.७५ ॥ एकभुक्तं च नक्तं च तथैवायाचितं नृप । उपवासं तथा दानं ब्राह्मणानां च भोजनम् ॥ ९०.७६ ॥ करोति च कुरुश्रेष्ठ न स याति यमालयम् । यमलोकभयाद्भीता ये लोकाः पाण्डुनन्दन ॥ ९०.७७ ॥ ते पश्यन्तु श्रियः कान्तं नागपर्यङ्कशायिनम् । गोपीजनसमावृत्तं योगनिद्रां समाश्रितम् । विश्वरूपं जगन्नाथं संसारभयनाशनम् ॥ ९०.७८ ॥ स्नापयेत्परया भक्त्या क्षौद्रक्षीरेण सर्पिषा । खण्डेन तोयमिश्रेण जगद्योनिं जनार्दनम् ॥ ९०.७९ ॥ स्नाप्यमानं च पश्यन्ति ये लोका गतमत्सराः । ते यान्ति परमं लोकं सुरासुरनमस्कृतम् ॥ ९०.८० ॥ घृतेन बोधयेद्दीपमथवा तैलपूरितम् । रात्रौ जागरणं कृत्वा दैवस्याग्रे विमत्सराः ॥ ९०.८१ ॥ ये कथां वैष्णवीं भक्त्या शृण्वन्ति च नृपोत्तम । ब्रह्महत्यादिपापानि नश्यन्ते नात्र संशयः ॥ ९०.८२ ॥ प्रदक्षिणन्ति ये मर्त्या जलशायिजगद्गुरुम् । प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वसुंधरा ॥ ९०.८३ ॥ ततः प्रभाते विमले पित्ःन् संतर्पयेज्जलैः । श्राद्धं च ब्राह्मणैस्तत्र योग्यैः पाण्डव मानवाः ॥ ९०.८४ ॥ स्वदारनिरतैः शान्तैः परदारविवर्जकैः । वेदाभ्यसनशीलैश्च स्वकर्मनिरतैः शुभैः ॥ ९०.८५ ॥ नित्यं यजनशीलैश्च त्रिसन्ध्यापरिपालकैः । श्रद्धया कारयेच्छ्राद्धं यदीच्छेच्छ्रेय आत्मनः ॥ ९०.८६ ॥ ते धन्या मानुषे लोके वन्द्या हि भुवि मानवाः । ये वसन्ति सदाकालं पादपद्माश्रया हरेः ॥ ९०.८७ ॥ जलशायं प्रपश्यन्ति प्रत्यक्षं सुरनायकम् । पक्षोपवासं पाराकं व्रतं चान्द्रायणं शुभम् ॥ ९०.८८ ॥ मासोपवासमुग्रं च षष्ठान्नं पञ्चमं व्रतम् । तत्र तीर्थे तु यः कुर्यात्सोऽक्षयां गतिमाप्नुयात् ॥ ९०.८९ ॥ श्रीमार्कण्डेय उवाच - अतः परं प्रवक्ष्यामि तिलधेनोश्च यत्फलम् । यथा यस्मिन्यदा देया दाने तस्याः शुभं फलम् ॥ ९०.९० ॥ एतत्कथान्तरं पुण्यमृषेर्द्वैपायनात्पुरा । श्रुतं हि नैमिषे पुण्ये नारदाद्यैरनेकधा ॥ ९०.९१ ॥ इदं परममायुष्यं मङ्गल्यं कीर्तिवर्धनम् । विप्राणां श्रावयन्विद्वान्फलानन्त्यंसमश्नुते ॥ ९०.९२ ॥ बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः । विभक्तदक्षिणा ह्येता दातारं नाप्नुवन्ति च ॥ ९०.९३ ॥ एकमेतत्प्रदातव्यं न बहूनां युधिष्ठिर । सा च विक्रयमापन्ना दहत्यासप्तमं कुलम् ॥ ९०.९४ ॥ यथालाभा तु सर्वेषां चतुर्द्रोणा तु गौः स्मृता । द्रोणस्य वत्सकः कार्यो बहूनां वापि कामतः ॥ ९०.९५ ॥ यस्मिन्देशे तु यन्मानं विषये वा विचारितम् । तेन मानेन तां कुर्वन्नक्षयं फलमश्नुते ॥ ९०.९६ ॥ सुखपूर्वं शुचौ भूमौ पुष्पधूपाक्षतैस्तथा । कर्णाभ्यां रत्ने दातव्ये दीपौ नेत्रद्वये तथा ॥ ९०.९७ ॥ श्रीखण्डमुरसि स्थाप्यं ताभ्यां चैव तु काञ्चनम् । ऊर्ध्वे मधु घृतं देयं कुर्यात्सर्षपरोमकम् ॥ ९०.९८ ॥ कम्बले कम्बलं दद्याच्छ्रोण्यां मधु घृतं तथा । यवसं पायसं दद्याद्घृतं क्षौद्रसमन्वितम् ॥ ९०.९९ ॥ स्वर्णशृङ्गी रूप्यशिफारुक्मलाङ्गूलसंयुता । रत्नपृष्ठी तु दातव्या कांस्यपात्रावदोहिनी ॥ ९०.१०० ॥ यत्स्याद्बाल्यकृतं पापं यद्वा कृतमजानता । वाचा कृतं कर्मकृतं मनसा यद्विचिन्तितम् ॥ ९०.१०१ ॥ जले निष्ठीवितं चैव मुशलं वापि लङ्घितम् । वृषलीगमनं चैव गुरुदारनिषेवणम् ॥ ९०.१०२ ॥ कन्याया गमनं चैव सुवर्णस्तेयमेव च । सुरापानं तथा चान्यत्तिलधेनुः पुनाति हि ॥ ९०.१०३ ॥ अहोरात्रोपवासेन विधिवत्तां विसर्जयेत् । या सा यमपुरे घोरे नदी वैतरणी स्मृता ॥ ९०.१०४ ॥ वालुकायोऽश्मस्थला च पच्यते यत्र दुष्कृती । अवीचिर्नरको यत्र यत्र यामलपर्वतौ ॥ ९०.१०५ ॥ यत्र लोहमुखाः काका यत्र श्वानो भयंकराः । असिपत्त्रवनं चैव यत्र सा कूटशाल्मली ॥ ९०.१०६ ॥ तान्सुखेन व्यतिक्रम्य धर्मराजालयं व्रजेत् । धर्मराजस्तु तं दृष्ट्वा सूनृतं वक्ति भारत ॥ ९०.१०७ ॥ विमानमुत्तमं योग्यं मणिरत्नविभूषितम् । अत्रारुह्य नरश्रेष्ठ प्रयाहि परमां गतिम् ॥ ९०.१०८ ॥ मा च चाटु भटे देहि मैव देहि पुरोहिते । मा च काणे विरूपे च न्यूनाङ्गे न च देवले ॥ ९०.१०९ ॥ अवेदविदुषे नैव ब्राह्मणे सर्वविक्रये । मित्रघ्ने च कृतघ्ने च मन्त्रहीने तथैव च ॥ ९०.११० ॥ वेदान्तगाय दातव्या श्रोत्रियाय कुटुम्बिने । वेदान्तगसुते देया श्रोत्रिये गृहपालके ॥ ९०.१११ ॥ सर्वाङ्गरुचिरे विप्रे सद्वृत्ते च प्रियंवदे । पूर्णिमायां तु माघस्य कार्त्तिक्यामथ भारत ॥ ९०.११२ ॥ वैशाख्यां मार्गशीर्ष्यां वाषाढ्यां चैत्र्यामथापि वा । अयने विषुवे चैव व्यतीपाते च सर्वदा ॥ ९०.११३ ॥ षडशीतिमुखे पुण्ये छायायां कुंजरस्य वा । एष ते कथितः कल्पस्तिलधेनोर्मयानघ ॥ ९०.११४ ॥ व्रजन्ति वैष्णवं लोकं दत्त्वा पादं यमोपरि । प्राणत्यागात्परं लोकं वैष्णवं नात्र संशयः । भित्त्वाशु भास्करं यान्ति नात्र कार्या विचारणा ॥ ९०.११५ ॥ एतत्ते सर्वमाख्यातं चक्रतीर्थफलं नृप । यच्छ्रुत्वा मानवो भक्त्या सर्वपापैः प्रमुच्यते ॥ ९०.११६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे जलशायितीर्थमाहात्म्यवर्णनं नाम नवतितमोऽध्यायः ॥ ऋKV अध्याय ९१ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल तीर्थपरमपावनम् । चण्डादित्यं नृपश्रेष्ठ स्थापितं चण्डमुण्डयोः ॥ ९१.१ ॥ आस्तां पुरा महादैत्यौ चण्डमुण्डौ सुदारुणौ । नर्मदातीरमाश्रित्य चेरतुर्विपुलं तपः ॥ ९१.२ ॥ ध्यायन्तौ भास्करं देवं तमोनाशं जगत्त्रये । तुष्टस्तत्तपसा देवः सहस्रांशुरुवाच ह ॥ ९१.३ ॥ साधु साध्विति तौ पार्थ नर्मदायाः शुभे तटे । वरं प्रार्थयतं वीरौ यथेष्टं चेतसेच्छितम् ॥ ९१.४ ॥ चण्डमुण्डावूचतुः । अजेयौ सर्वदेवानां भूयास्वावां समाहितौ । सर्वरोगैः परित्यक्तौ सर्वकालं दिवाकर ॥ ९१.५ ॥ एवमस्त्विति तौ प्राह भास्करो वारितस्करः । इत्युक्त्वान्तर्दधे भानुर्दैत्याभ्यां तत्र भास्करः ॥ ९१.६ ॥ स्थापितः परया भक्त्या तं गच्छेदात्मसिद्धये । गीर्वाणांश्च मनुष्यांश्च पित्ःंस्तत्रापि तर्पयेत् ॥ ९१.७ ॥ स वसेद्भास्करे लोके विरिञ्चिदिवसं नृप । घृतेन बोधयेद्दीपं षष्ठ्यां स च नरेश्वर । मुच्यते सर्वपापैस्तु प्रतियाति पुरं रवेः ॥ ९१.८ ॥ उत्पत्तिं चण्डभानोर्यः शृणोति भरतर्षभ । विजयी स सदा नूनमाधिव्याधिविवर्जितः ॥ ९१.९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चण्डादित्यतीर्थमाहात्म्यवर्णनं नामैकनवतितमोऽध्यायः ॥ ऋKV अध्याय ९२ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र यमहास्यमनुत्तमम् । सर्वपापहरं तीर्थं नर्मदातटमाश्रितम् ॥ ९२.१ ॥ युधिष्ठिर उवाच - यमहास्यं कथं जातं पृथिव्यां द्विजपुंगव । एतत्सर्वं ममाख्याहि परं कौतूहलं हि मे ॥ ९२.२ ॥ श्रीमार्कण्डेय उवाच - साधु साधु महाप्राज्ञ पृष्टोऽहं नृपनन्दन । स्नानार्थं नर्मदां पुण्यामागतस्ते पिता पुरा ॥ ९२.३ ॥ रजकेन यथा धौतं वस्त्रं भवति निर्मलम् । तथासौ निर्मलो जातो धर्मराजो युधिष्ठिर ॥ ९२.४ ॥ स पश्यन्निर्मलं देहं हसन्प्रोवाच विस्मितः ॥ ९२.५ ॥ यम उवाच - मत्पुरं कथमायान्ति मनुजाः पापबृंहिताः । स्नानेनैकेन रेवायाः प्राप्यते वैष्णवं पदम् ॥ ९२.६ ॥ समर्था ये न पश्यन्ति रेवां पुण्यजलां शुभाम् । जात्यन्धैस्ते समा ज्ञेया मृतैः पङ्गुभिरेव वा ॥ ९२.७ ॥ समर्था ये न पश्यन्ति रेवां पुण्यजलां नदीम् । एतस्मात्कारणाद्राजन्हसितो लोकशासनः ॥ ९२.८ ॥ स्थापयित्वा यमस्तत्र देवं स्वर्गं जगाम ह । यमहासेश्वरे राजञ्जितक्रोधो जितेन्द्रियः ॥ ९२.९ ॥ विशेषाच्चाश्विने मासि कृष्णपक्षे चतुर्दशीम् । उपोष्य परया भक्त्या सर्वपापैः प्रमुच्यते ॥ ९२.१० ॥ रात्रौ जागरणं कुर्याद्दीपं देवस्य बोधयेत् । घृतेन चैव राजेन्द्र शृणु तत्रास्ति यत्फलम् ॥ ९२.११ ॥ मुच्यते पातकैः सर्वैरगम्यागमनोद्भवैः । अभक्ष्यभक्षणोद्भूतैरपेयापेयजैरपि ॥ ९२.१२ ॥ अवाह्यवाहिते यत्स्याददोह्यादोहने यथा । स्नानमात्रेण तस्यैवं यान्ति पापान्यनेकधा ॥ ९२.१३ ॥ यमलोकं न वीक्षेत मनुजः स कदाचन । पित्ःणां परमं गुह्यमिदं भूमौ नरेश्वर ॥ ९२.१४ ॥ ददतामक्षयं सर्वं यमहास्ये न संशयः । अमावास्यां जितक्रोधो यस्तु पूजयते द्विजान् ॥ ९२.१५ ॥ हिरण्यभूमिदानेन तिलदानेन भूयसा । कृष्णाजिनप्रदानेन तिलधेनुप्रदानतः ॥ ९२.१६ ॥ विधानोक्तद्विजाग्र्याय ये प्रदास्यन्ति भक्तितः । हयं वा कुंजरं वाथ धूर्वहौ सीरसंयुतौ ॥ ९२.१७ ॥ कन्यां वसुमतीं गां च महिषीं वा पयस्विनीम् । ददते ये नृपश्रेष्ठ नोपसर्पन्ति ते यमम् ॥ ९२.१८ ॥ यमोऽपि भवति प्रीतः प्रतिजन्म युधिष्ठिर । यमस्य वाहो महिषो महिष्यस्तस्य मातरः ॥ ९२.१९ ॥ तासां दानप्रभावेण यमः प्रीतो भवेद्ध्रुवम् । नासौ यममवाप्नोति यदि पापैः समावृतः ॥ ९२.२० ॥ एतस्मात्कारणादत्र महिषीदानमुत्तमम् । तस्याः शृङ्गे जलं कार्यं धूम्रवस्त्रानुवेष्टिता ॥ ९२.२१ ॥ आयसस्य खुराः कार्यास्ताम्रपृष्ठाः सुभूषिताः । लवणाचलं पूर्वस्यामाग्नेय्यां गुडपर्वतम् ॥ ९२.२२ ॥ कार्पासं याम्यभागं तु नवनीतं तु नैरृते । पश्चिमे सप्तधान्यानि वायव्ये तंदुलाः स्मृताः ॥ ९२.२३ ॥ सौम्ये तु काञ्चनं दद्यादीशाने घृतमेव च । प्रदद्याद्यमराजो मे प्रीयतामित्युदीरयन् ॥ ९२.२४ ॥ इत्युच्चार्य द्विजस्याग्रे यमलोकं महाभयम् । असिपत्त्रवनं घोरं यमचुल्ली सुदारुणा ॥ ९२.२५ ॥ रौद्रा वैतरणी चैव कुम्भीपाको भयावहः । कालसूत्रो महाभीमस्तथा यमलपर्वतौ ॥ ९२.२६ ॥ क्रकचं तैलयन्त्रं च श्वानो गृध्राः सुदारुणाः । निरुच्छ्वासा महानादा भैरवो रौरवस्तथा ॥ ९२.२७ ॥ एते घोरा याम्यलोके श्रूयन्ते द्विजसत्तम । त्वत्प्रसादेन ते सोम्यास्तीर्थस्यास्य प्रभावतः ॥ ९२.२८ ॥ दानस्यास्य प्रभावेण यमराजप्रसादतः । नरकेऽहं न यास्यामि द्विज जन्मनि जन्मनि ॥ ९२.२९ ॥ यमहास्यस्य चाख्यानमिदं शृण्वन्ति ये नराः । तेऽपि पापविनिर्मुक्ता न पश्यन्ति यमालयम् ॥ ९२.३० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे यमहास्यतीर्थमाहात्म्यवर्णनं नाम द्विनवतितमोऽध्यायः ॥ ऋKV अध्याय ९३ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र कल्होडीतीर्थमुत्तमम् । विख्यातं भारते लोके गङ्गायाः पापनाशनम् ॥ ९३.१ ॥ दुर्लभं मनुजैः पार्थ रेवातटसमाश्रितम् । प्राणिनां पापनाशाय ऊषरं पुष्करं तथा ॥ ९३.२ ॥ तत्तु तीर्थमिदं पुण्यमित्येवं शूलिनो वचः । जाह्नवी पशुरूपेण तत्र स्नानार्थमागता ॥ ९३.३ ॥ अतस्तद्विश्रुतं लोके कल्होडीतीर्थमुत्तमम् । त्रिरात्रं कारयेत्तत्र पूर्णिमायां युधिष्ठिर ॥ ९३.४ ॥ रजस्तमस्तथा क्रोधं दम्भं मात्सर्यमेव च । एतांस्त्यजति यः पार्थ तेनाप्तं मोक्षजं फलम् ॥ ९३.५ ॥ पयसा स्नापयेद्देवं त्रिसन्ध्यं च त्र्यहं तथा । पयो गोसम्भवं सद्यः सवत्सा जीवपुत्रिणी ॥ ९३.६ ॥ कृत्वा तत्ताम्रजे पात्रे क्षौद्रेण चैव योजिते । ओं नमः श्रीशिवायेति स्नानं देवस्य कारयेत् ॥ ९३.७ ॥ स याति त्रिदशस्थानं नाकस्त्रीभिः समावृतः । यस्तत्र विधिवत्स्नात्वा दानं प्रेतेषु यच्छति ॥ ९३.८ ॥ शुक्लां गां दापयेत्तत्र प्रीयतां मे पितामहाः । ब्राह्मणे शौचसम्पन्ने स्वदारनिरते सदा ॥ ९३.९ ॥ सवत्सां वस्त्रसंयुक्तां हिरण्योपरि संस्थिताम् । सत्त्वयुक्तो ददद्राजञ्छाम्भवं लोकमाप्नुयात् ॥ ९३.१० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कल्होडीतीर्थमाहात्म्यवर्णनं नाम त्रिनवतितमोऽध्यायः ॥ ऋKV अध्याय ९४ श्रीमार्कण्डेय उवाच - तस्यैवानन्तरं राजन्नन्दितीर्थं व्रजेच्छुभम् । सर्वपापहरं पुंसां नन्दिना निर्मितं पुरा ॥ ९४.१ ॥ पापौघहतजन्तूनां मोक्षदं नर्मदातटे । अहोरात्रोषितो भूत्वा नन्दिनाथे युधिष्ठिर ॥ ९४.२ ॥ पञ्चोपचारपूजायामर्चयेन्नन्दिकेश्वरम् । रत्नानि चैव विप्रेभ्यो यो दद्याद्धर्मनन्दन ॥ ९४.३ ॥ स याति परमं स्थानं यत्र वासः पिनाकिनः । सर्वसौख्यसमायुक्तोऽप्सरोभिः सह मोदते ॥ ९४.४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दिकेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्नवतितमोऽध्यायः ॥ ऋKV अध्याय ९५ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र बदर्याश्रममुत्तमम् । सर्वतीर्थवरं पुण्यं कथितं शंभुना पुरा ॥ ९५.१ ॥ यश्चैष भारतस्यार्थे तत्र सिद्धः किरीटभृत् । भ्राता ते फाल्गुनो नाम विद्ध्येनं नरदैवतम् ॥ ९५.२ ॥ नरनारायणौ द्वौ तावागतौ नर्मदातटे । ज्ञानं तस्यैव यो राजन्भक्तिमान्वै जनार्दने ॥ ९५.३ ॥ समं पश्यति सर्वेषु स्थावरेषु चरेषु च । ब्राह्मणं श्वपचं चैव तत्र प्रीतो जनार्दनः ॥ ९५.४ ॥ ऐकात्म्यं पश्य कौन्तेय मयि चात्मनि नान्तरम् । नरनारायणाभ्यां हि कृतं बदरिकाश्रमम् ॥ ९५.५ ॥ स्थापितः शङ्करस्तत्र लोकानुग्रहकारणात् । त्रिमूर्तिस्थापितं लिङ्गं स्वर्गमार्गानुमुक्तिदम् ॥ ९५.६ ॥ तत्र गत्वा शुचिर्भूत्वा ह्येकरात्रोपवासकृत् । रजस्तमस्तथा त्यक्त्वा सात्त्विकं भावमाश्रयेत् ॥ ९५.७ ॥ रात्रौ जागरणं कृत्वा मधुमासाष्टमीदिने । अथवा च चतुर्दश्यामुभौ पक्षौ च कारयेत् ॥ ९५.८ ॥ आश्विनस्य विशेषेण कथितं तव पाण्डव । स्नापयेत्परया भक्त्या क्षीरेण मधुना सह ॥ ९५.९ ॥ दध्ना शर्करया युक्तं घृतेन समलंकृतम् । पञ्चामृतमिदं पुण्यं स्नापयेद्वृषभध्वजम् ॥ ९५.१० ॥ स्नाप्यमानं शिवं भक्त्या वीक्षते यो विमत्सरः । तस्य वासः शिवोपान्ते शक्रलोके न संशयः ॥ ९५.११ ॥ शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणिने । संसारमूलबद्धानामुद्वेष्टनकरो हि यः ॥ ९५.१२ ॥ तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येनौं नमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः ॥ ९५.१३ ॥ यः पुनः स्नापयेद्भक्त्या एकभक्तो जितेन्द्रियः । तस्यापि यत्फलं पार्थ वक्ष्ये तल्लेशतस्तव ॥ ९५.१४ ॥ पीडितो वृद्धभावेन तव भक्त्या वदाम्यहम् । ते यान्ति परमं स्थानं भित्त्वा भास्करमण्डलम् ॥ ९५.१५ ॥ संसारे सर्वसौख्यानां निलयास्ते भवन्ति च । आश्चर्यं ज्ञातिवर्गाणां धर्माणां निलयास्तु ते ॥ ९५.१६ ॥ सम्पन्नाः सर्वकामैस्ते पृथिव्यां पृथिवीपते । श्राद्धं तत्रैव यः कुर्यान्नर्मदोदकमिश्रितम् ॥ ९५.१७ ॥ योग्यैश्च ब्राह्मणैर्राजन्कुलीनैर्वेदपारगैः । सुरूपैश्च सुशीलैश्च स्वदारनिरतैः शुभैः ॥ ९५.१८ ॥ आर्यदेशप्रसूतैश्च श्लक्ष्णैश्चैव सुरूपिभिः । कारयेत्पिण्डदानं वै भास्करे कुतपस्थिते ॥ ९५.१९ ॥ पित्ःणां परमं लोकं यदीच्छेद्धर्मनन्दन । वर्जयेत्तान्प्रयत्नेन काणान्दुष्टांश्च दाम्भिकान् ॥ ९५.२० ॥ तस्मात्सर्वप्रयत्नेन योग्यं विप्रं समाश्रयेत् । नरकान्मोचयेत्प्रेतान्कुम्भीपाकपुरोगमान् ॥ ९५.२१ ॥ मोक्षो भवति सर्वेषां पित्ःणां नृपनन्दन । विप्रेभ्यः काञ्चनं दद्यात्प्रीयतां मे पितामहः ॥ ९५.२२ ॥ अन्नं च दापयेत्तत्र भक्त्या वस्त्रं च भारत । गां वृषं मेदिनीं दद्याच्छत्रं शस्तं नृपोत्तम ॥ ९५.२३ ॥ स पुमान्स्वर्गमाप्नोति इत्येवं शङ्करोऽब्रवीत् । प्राणत्यागं तु यः कुर्याच्छिखिना सलिलेन वा ॥ ९५.२४ ॥ अनाशकेन वा भूयः स गच्छेच्छिवमन्दिरम् । नरनारायणीतीरे देवद्रोण्यां च यो नृप ॥ ९५.२५ ॥ स वसेदीश्वरस्याग्रे यावदिन्द्राश्चतुर्दश । पुनः स्वर्गाच्च्युतः सोऽपि राजा भवति वीर्यवान् ॥ ९५.२६ ॥ सर्वैश्वर्यगुणैर्युक्तः प्रजापालनतत्परः । ततः स्मरति तत्तीर्थं पुनरेवागमिष्यति ॥ ९५.२७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नारायणीतीर्थमाहात्म्यवर्णनं नाम पञ्चनवतितमोऽध्यायः ॥ ऋKV अध्याय ९६ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र तीर्थं कोटीश्वरं परम् । ऋषिकोटिः समायाता यत्र वै कुरुनन्दन ॥ ९६.१ ॥ कृष्णद्वैपायनस्यैव क्षेमार्थं मुनिपुंगवाः । मन्त्रयित्वा द्विजैः सर्वैर्वेदमङ्गलपाठकैः ॥ ९६.२ ॥ स्थापितः शङ्करस्तत्र कारणं बन्धनाशनम् । संसारच्छेदकरणं प्राणिनामार्तिनाशनम् ॥ ९६.३ ॥ कोटीश्वरमिति प्रोक्तं पृथिव्यां नृपनन्दन । स्नापयेत्तं तु यो भक्त्या पूर्णिमायां नृपोत्तम ॥ ९६.४ ॥ पित्ःणां तर्पणं कृत्वा पिण्डदानं यथाविधि । श्रावणस्य विशेषेण पूर्णिमायां युधिष्ठिर ॥ ९६.५ ॥ पित्ःणामक्षया तृप्तिर्यावदाभूतसम्प्लवम् । पित्ःणां परमं गुह्यं रेवातटसमाश्रितम् । मोक्षदं सर्वजन्तूनां निर्मितं मुनिसत्तमैः ॥ ९६.६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटीश्वरतीर्थमाहात्म्यवर्णनं नाम षण्णवतितमोऽध्यायः ॥ ऋKV अध्याय ९७ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल व्यासतीर्थमनुत्तमम् । दुर्लभं मनुजैः पुण्यमन्तरिक्षे व्यवस्थितम् ॥ ९७.१ ॥ युधिष्ठिर उवाच - कस्माद्वै व्यासतीर्थं तदन्तरिक्षे व्यवस्थितम् । एतदाख्याहि संक्षेपात्त्यज ग्रन्थस्य विस्तरम् ॥ ९७.२ ॥ श्रीमार्कण्डेय उवाच - साधु साधु महाबाहो धर्मवान्साधुवत्सल । स्वकर्मनिरतः पार्थ तीर्थयात्राकृतादरः ॥ ९७.३ ॥ दुर्लभं सर्वजन्तूनां व्यासतीर्थं नरेश्वर । पीडितो वृद्धभावेन अकल्पोऽहं नृपात्मज ॥ ९७.४ ॥ विसंज्ञो गतवित्तस्तु संजातः स्मृतिवर्जितः । गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया ॥ ९७.५ ॥ कलिस्तत्रैव राजेन्द्र न विशेद्व्याससंश्रयात् । अन्तरिक्षे तु संजातं रेवायाश्चेष्टितेन तु ॥ ९७.६ ॥ विरिञ्चिर्नैव शक्नोति रेवाया गुणकीर्तनम् । कथं ज्ञास्याम्यहं तात रेवामाहात्म्यमुत्तमम् ॥ ९७.७ ॥ व्यासतीर्थं विशेषेण लवमात्रं ब्रवीम्यतः । प्रत्यक्षः प्रत्ययो यत्र दृश्यतेऽद्य कलौ युगे ॥ ९७.८ ॥ विहङ्गो गच्छते नैव भित्त्वा शूलं सुदारुणम् । तस्योत्पत्तिं समासेन कथयामि नृपात्मज ॥ ९७.९ ॥ आसीत्पूर्वं महीपाल मुनिर्मान्यः पराशरः । तेनात्युग्रं तपश्चीर्णं गङ्गाम्भसि महाफलम् ॥ ९७.१० ॥ प्राणायामेन संतस्थौ प्रविष्टो जाह्नवीजले । पूर्णे द्वादशमे वर्षे निष्क्रान्तो जलमध्यतः ॥ ९७.११ ॥ भिक्षार्थी संचरेद्ग्रामं नावा यत्रैव तिष्ठति । तत्र तेन परा दृष्टा बाला चैव मनोहरा ॥ ९७.१२ ॥ तां दृष्ट्वा स च कामार्त उवाच मधुरं तदा । मां नयस्व परं पारं कासि त्वं मृगलोचने ॥ ९७.१३ ॥ नावारूढे नदीतीरे मम चित्तप्रमाथिनि । एवमुक्ता तु सा तेन प्रणम्य ऋषिपुंगवम् ॥ ९७.१४ ॥ कथयामास चात्मानं दृष्ट्वा तं काममोहितम् । कैवर्तानां गृहे दासी कन्याहं द्विजसत्तम ॥ ९७.१५ ॥ नावासंरक्षणार्थाय आदिष्टा स्वामिना विभो । मया विज्ञापितं वृत्तमशेषं ज्ञातुमर्हसि ॥ ९७.१६ ॥ एवमुक्तस्तया सोऽथ क्षणं ध्यात्वाब्रवीदिदम् ॥ ९७.१७ ॥ पराशर उवाच - अहं ज्ञानबलाद्भद्रे तव जानामि सम्भवम् । कैवर्तपुत्रिका न त्वं राजकन्यासि सुन्दरि ॥ ९७.१८ ॥ कन्योवाच - कः पिता कथ्यतां ब्रह्मन्कस्या वा ह्युदरोद्भवा । कस्मिन्वंशे प्रसूताहं कैवर्ततनया कथम् ॥ ९७.१९ ॥ पराशर उवाच - कथयामि समस्तं यत्त्वया पृष्टमशेषतः । वसुर्नामेति भूपालः सोमवंशविभूषणः ॥ ९७.२० ॥ जम्बूद्वीपाधिपो भद्रे शत्रूणां भयवर्धनः । शतानि सप्त भार्याणां पुत्राणां च दशैव तु ॥ ९७.२१ ॥ धर्मेण पालयेल्लोकानीशवत्पूज्यते सदा । म्लेच्छास्तस्याविधेयाश्च क्षीरद्वीपनिवासिनः ॥ ९७.२२ ॥ तेषामुत्सादनार्थाय ययावुल्लङ्घ्य सागरम् । संयुक्तः पुत्रभृत्यैश्च पौरुषे महति स्थितैः ॥ ९७.२३ ॥ समरं तैः समारब्धं म्लेच्छैश्च वसुना सह । जिता म्लेच्छाः समस्तास्ते वसुना मृगलोचने ॥ ९७.२४ ॥ करदास्ते कृतास्तेन सपुत्रबलवाहनाः । प्रधाना तस्य सा राज्ञी तव माता मृगेक्षणे ॥ ९७.२५ ॥ प्रवासस्थे महीपाले संजाता सा रजस्वला । नारीणां तु सदाकालं मन्मथो ह्यधिको भवेत् ॥ ९७.२६ ॥ विशेषेण ऋतोः काले भिद्यन्ते कामसायकैः । मन्मथेन तु संतप्ताचिन्तयत्सा शुभेक्षणा ॥ ९७.२७ ॥ दूतं वै प्रेषयाम्यद्य वसुराज्ञः समीपतः । आहूतः सत्वरं दूत गच्छ त्वं नृपसन्निधौ ॥ ९७.२८ ॥ दूत उवाच - परतीरं गतो देवि वसुराजारिशासनः । तत्र गन्तुमशक्येत जलयानैर्विना शुभे ॥ ९७.२९ ॥ तानि यानानि सर्वाणि गृहीतानि परे तटे । दूतवाक्येन सा राज्ञी विषण्णा कामपीडिता ॥ ९७.३० ॥ तत्सखी तामुवाचाथ कस्मात्त्वं परितप्यसे । स्वलेखः प्रेष्यतां देवि शुकहस्ते यथार्थतः ॥ ९७.३१ ॥ समुद्रं लङ्घयित्वा तु शकुन्ता यान्ति सुन्दरि । सखिवाक्येन सा राज्ञी स्वस्था जाता नराधिप ॥ ९७.३२ ॥ व्याहृतो लेखकस्तत्र लिख लेखं ममाज्ञया । त्वद्धीना सत्यभामाद्य वसो राजन्न जीवति ॥ ९७.३३ ॥ ऋतुकालोऽद्य संजातो लिख लेखं तु लेखकं । लिखिते भूर्जपत्रे तु लेखे वै लेखकेन तु ॥ ९७.३४ ॥ शुकः पञ्जरमध्यस्थ आनीतोद्धैव सन्निधौ ॥ ९७.३५ ॥ सत्यभामोवाच - नीत्वा लेखं गच्छ शीघ्रं वसुराज्ञः समीपतः । शकुनिः प्रणतो भूत्वा गृहीत्वा लेखमुत्तमम् ॥ ९७.३६ ॥ उत्पत्य सहसा राजञ्जगामाकाशमण्डलम् । ततः पक्षी गतः शीघ्रं वसुराजसमीपतः ॥ ९७.३७ ॥ क्षिप्ते लेखे शुकेनैव सत्यभामाविसर्जिते । वसुराज्ञा ततो लेखो गृह्य हस्तेऽवधारितः ॥ ९७.३८ ॥ लेखार्थं चिन्तयित्वा तु गृह्य वीर्यं नरेश्वरः । अमोघं पुटिकां कृत्वा प्रतिलेखेन मिश्रितम् ॥ ९७.३९ ॥ शुकस्य सोऽपयामास गच्छ राज्ञीसमीपतः । प्रणम्य वसुराजानं बीजं गृह्योत्पपात ह ॥ ९७.४० ॥ समुद्रोपरि सम्प्राप्तः शुकः श्येनेन वीक्षितः । सामिषं तं शुकं ज्ञात्वा श्येनस्तमभ्यधावत ॥ ९७.४१ ॥ हतश्चञ्चुप्रहारेण शुकः श्येनेन भारत । मूर्च्छया तस्य तद्बीजं पतितं सागराम्भसि ॥ ९७.४२ ॥ मत्स्येन गिलितं तच्च बीजं वसुमहीपतेः । कन्या मत्स्योदरे जाता तेन बीजेन सुन्दरि ॥ ९७.४३ ॥ प्राप्तोऽसौ लुब्धकैर्मत्स्य आनीतः स्वगृहं ततः । यावद्विदारितो मत्स्यस्तावद्दृष्टा त्वमुत्तमे ॥ ९७.४४ ॥ शशिमण्डलसङ्काशा सूर्यतेजःसमप्रभा । दृष्ट्वा त्वां हर्षिताः सर्वे कैवर्ता जाह्नवीतटे ॥ ९७.४५ ॥ हर्षितास्ते गताः सर्वे प्रधानस्य च मन्दिरम् । स्त्रीरत्नं कथयामासुर्गृहाण त्वं महाप्रभम् ॥ ९७.४६ ॥ गृहीता तेन तन्वङ्गी ह्यपुत्रेण मृगेक्षणा । भार्यां स्वामाह तन्वङ्गि पालयस्व मृगेक्षणे ॥ ९७.४७ ॥ ततः सा चिन्तयामास पराशरवचस्तदा । एवमुक्त्वा तु सा तेन दत्तात्मानं नरेश्वर ॥ ९७.४८ ॥ उवाच साधु मे ब्रह्मन्मत्स्यगन्धोऽनु वर्तते । ततस्तेन तु सा बाला दिव्यगन्धाधिवासिता ॥ ९७.४९ ॥ कृता योगबलेनैव ज्वालयित्वा विभावसुम् । कृत्वा प्रदक्षिणं वह्निमूढा तेन रसात्तदा ॥ ९७.५० ॥ जलयानस्य मध्ये तु कामस्थानान्यसंस्पृशत् । ज्ञात्वा कामोत्सुकं विप्रं भीता सा धर्मनन्दन ॥ ९७.५१ ॥ हसन्ती तमुवाचाथ देव त्वं लोकसन्निधौ । न लज्जसे कथं धीमन्कुर्वाणः पामरोचितम् ॥ ९७.५२ ॥ ततस्तेन क्षणं ध्यात्वा संस्मृता हृदि तामसी । आगता तामसी माया यया व्याप्तं चराचरम् ॥ ९७.५३ ॥ ततः सा विस्मिता तेन कर्मणैव तु रञ्जिता । ब्रह्मचर्याभितप्तेन स्त्रीसौख्यं क्रीडितं तदा ॥ ९७.५४ ॥ ततः सा तत्क्षणादेव गर्भभारेण पीडिता । प्रसूता बालकं तत्र जटिलं दण्डधारिणम् ॥ ९७.५५ ॥ कमण्डलुधरं शान्तं मेखलाकटिभूषितम् । उत्तरीयकृतस्कन्धं विष्णुमायाविवर्जितम् ॥ ९७.५६ ॥ ततोऽपि शङ्किता पार्थ दृष्ट्वा तं कलबालकम् । वेपमाना ततो बाला जगाम शरणं मुनेः ॥ ९७.५७ ॥ रक्ष रक्ष मुनिश्रेष्ठ पराशर महामते । जातं मेऽत्यद्भुतं पुत्रं कौपीनवरमेखलम् । दण्डहस्तं जटायुक्तमुत्तरीयविभूषितम् ॥ ९७.५८ ॥ पराशर उवाच - मा भैषीः स्वसुते जाते कुमारी त्वं भविष्यसि । नाम्ना योजनगन्धेति द्वितीयं सत्यवत्यपि ॥ ९७.५९ ॥ शंतनुर्नाम राजा यः स ते भर्ता भविष्यति । प्रथमा महिषी तस्य सोमवंशविभूषणा ॥ ९७.६० ॥ गच्छ त्वं स्वाश्रयं शुभ्रे पूर्वरूपेण संस्थिता । मा विषादं कुरुष्वात्र दृष्टं ज्ञानस्य मे बलम् ॥ ९७.६१ ॥ इत्युक्त्वा प्रययौ विप्रः सा बाला पुत्रमाश्रिता । नत्वोचे मातरं भक्त्या साष्टाङ्गं विनयानतः ॥ ९७.६२ ॥ क्षम्यतां मातरुक्तं मे प्रसादः क्रियतामपि । ईश्वराराधने यत्नं करिष्याम्यहमम्बिके ॥ ९७.६३ ॥ ततः सा पुत्रवाक्येन विषण्णा वाक्यमब्रवीत् ॥ ९७.६४ ॥ योजनगन्धोवाच - मा त्यक्त्वा गच्छ वत्साद्य मातरं मामनागसम् । त्वद्वियोगेन मे पुत्र पञ्चत्वं भाव्यसंशयम् ॥ ९७.६५ ॥ नास्ति पुत्रसमः स्नेहो नास्ति भ्रातृसमं कुलम् । नास्ति सत्यपरो धर्मो नानृतात्पातकं परम् ॥ ९७.६६ ॥ बालभावे मया जात आधारः किल जायसे । न मे भर्ता न मे पुत्रः पश्य कर्मविडम्बनम् ॥ ९७.६७ ॥ व्यास उवाच - मा विषादं कुरुष्वान्तः सत्यमेतन्मयोरितम् । आपत्कालेऽस्मि ते देवि स्मर्तव्यः कार्यसिद्धये ॥ ९७.६८ ॥ आपदस्तारयिष्यामि क्षम्यतां मे दुरुत्तरम् । इत्युक्त्वा प्रययौ व्यासः कन्या सापि गता गृहम् ॥ ९७.६९ ॥ पराशरसुतस्तत्र विषष्णो वनमध्यतः । त्रेतायुगावसाने तु द्वापरादौ नरेश्वर ॥ ९७.७० ॥ व्यासार्थं चिन्तयामासुर्देवाः शक्रपुरोगमाः । आख्यातो नारदेनैव पुत्रः पराशरस्य सः ॥ ९७.७१ ॥ कैवर्तपुत्रिकाजातो ज्ञानी जह्नुसुतातटे । ततो नारदवाक्येन आगताः सुरसत्तमाः ॥ ९७.७२ ॥ रामः पितामहः शक्रो मुनिसङ्घैः समावृताः । आस्यादिकं पृथग्दत्त्वा साधु साध्वित्युदीरयन् ॥ ९७.७३ ॥ पितामहेन वै बालो गर्भाधानादिसंस्कृतः । द्वीपायनो द्वीपजन्मा पाराशर्यः पराशरात् ॥ ९७.७४ ॥ कृष्णांशात्कृष्णनामायं व्यासो वेदान्व्यसिष्यति । विरञ्चिनाभिषिक्तोऽसौ मुनिसङ्घैः पुनःपुनः ॥ ९७.७५ ॥ व्यासस्त्वं सर्वलोकेषु इत्युक्त्वा प्रययुः सुराः । तीर्थयात्रा समारब्धा कृष्णद्वैपायनेन तु ॥ ९७.७६ ॥ गङ्गावगाहिता तेन केदारश्च सपुष्करः । गया च नैमिषं तीर्थं कुरुक्षेत्रं सरस्वती ॥ ९७.७७ ॥ उज्जयिन्यां महाकालं सोमनाथं प्रभासके । पृथिव्यां सागरान्तायां स्नात्वा यातो महामुनिः ॥ ९७.७८ ॥ अमृतां नर्मदां प्राप्तो रुद्रदेहोद्भवां शुभाम् । साह्लादो नर्मदां दृष्ट्वा चित्तविश्रान्तिमाप च ॥ ९७.७९ ॥ तपश्चचार विपुलं नर्मदातटमाश्रितः । ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ॥ ९७.८० ॥ सार्द्रवासाश्च हेमन्ते तिष्ठन्दध्यौ महेश्वरम् । स्वान्तर्हृत्कमले स्थाप्य ध्यायते परमेश्वरम् ॥ ९७.८१ ॥ सृष्टिसंहारकर्तारमछेद्यं वरदं शुभम् । नित्यं सिद्धेश्वरं लिङ्गं पूजयेद्ध्यानतत्परः ॥ ९७.८२ ॥ अर्चनात्सिद्धलिङ्गस्य ध्यानयोगप्रभावतः । प्रत्यक्षः शङ्करो जातः कृष्णद्वैपायनस्य सः ॥ ९७.८३ ॥ ईश्वर उवाच - तोषितोऽहं त्वया वत्स वरं वरय शोभनम् ॥ ९७.८४ ॥ व्यास उवाच - यदि तुष्टोऽसि मे देव यदि देयो वरो मम । प्रत्यक्षो नर्मदातीरे स्वयमेव भविष्यसि । अतीतानागतज्ञोऽहं त्वत्प्रसादादुमापते ॥ ९७.८५ ॥ ईश्वर उवाच - एवं भवतु ते पुत्र मत्प्रसादादसंशयम् । त्वयि भक्तिगृहीतोऽहं प्रत्यक्षो नर्मदातटे ॥ ९७.८६ ॥ सहस्रांशार्धभावेन प्रत्यक्षोऽहं त्वदाश्रमे । इत्युक्त्वा प्रययौ देवः कैलासं नगमुत्तमम् ॥ ९७.८७ ॥ पत्नीसंग्रहणं जातं कृष्णद्वैपायनस्य तु । शास्त्रोक्तेन विधानेन पत्नी पालयतस्तथा ॥ ९७.८८ ॥ पुत्रो जातो ह्यपुत्रस्य पराशरसुतस्य च । देवैर्वर्धापितः सर्वैरिञ्चेन्द्रपुरोगमैः ॥ ९७.८९ ॥ पुत्रजन्मन्यथाजग्मुर्वशिष्ठाद्या मुनीश्वराः । तीर्थयात्राप्रसङ्गेन पराशरपुरोगमाः ॥ ९७.९० ॥ मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥ ९७.९१ ॥ एवमादिसहस्राणि लक्षकोटिशतानि च । सशिष्याश्च महाभागा नर्मदातटमाश्रिताः ॥ ९७.९२ ॥ व्यासाश्रमे शुभे रम्ये संतुष्टा आययुर्नृप । दृष्ट्वा तान्सोऽपि विप्रेन्द्रानभ्युत्थानकृतोद्यमः ॥ ९७.९३ ॥ पितुः पूर्वं प्रणम्यादौ सर्वेषां च यथाविधि । आसनानि ददौ भक्त्या पाद्यमर्घं न्यवेदयत् ॥ ९७.९४ ॥ कृताञ्जलिपुटो भूत्वा वाक्यमेतदुवाच ह । उद्धृतोऽहं न सन्देहो युष्मत्सम्भाषणार्चनात् ॥ ९७.९५ ॥ आरण्यानि च शाकानि फलान्यारण्यजानि च । तानि दास्यामि युष्माकं सर्वेषां प्रीतिपूर्वकम् ॥ ९७.९६ ॥ न्यमन्त्रयत तान्सर्वान्प्रत्येकं प्रणिपत्य च । ततस्ते प्रणतं दृष्ट्वा कृष्णद्वैपायनं मुनिम् ॥ ९७.९७ ॥ वर्धयित्वा जयाशीर्भिरवलोक्य परस्परम् । पराशरः समस्तैश्च वीक्षितो मुनिपुंगवैः ॥ ९७.९८ ॥ उत्तरं दीयतां तात कृष्णद्वैपायनस्य च । एवमुक्तस्तु तैः सर्वैर्भगवान्स पराशरः । प्रोवाच स्वात्मजं व्यासमृषीणां यच्चिकीर्षितम् ॥ ९७.९९ ॥ श्रीपराशर उवाच - नेच्छन्ति दक्षिणे कूले व्रतभङ्गभयादथ । भोजनं भोक्तुकामास्ते श्राद्धे चैव विशेषतः ॥ ९७.१०० ॥ व्यास उवाच - करोमि भवतामुक्तमत्रैव स्थीयतां क्षणम् । यावत्प्रसाद्य सरितं करोमि विधिमुत्तमम् ॥ ९७.१०१ ॥ एवमुक्त्वा शुचिर्भूत्वा नर्मदातटमास्थितः । स्तोत्रं जगाद सहसा तन्निबोध नरेश्वर ॥ ९७.१०२ ॥ जय भगवति देवि नमो वरदे जय पापविनाशिनी बहुफलदे । जय शुम्भनिशुम्भकपालधरे प्रणमामि तु देवनरार्तिहरे ॥ ९७.१०३ ॥ जय चन्द्रदिवाकरनेत्रधरे जय पावकभूषितवक्त्रवरे । जय भैरवदेहनिलीनपरे जय अन्धकरक्तविशोषकरे ॥ ९७.१०४ ॥ जय महिषविमर्दिनि शूलकरे जय लोकसमस्तकपापहरे । जय देवि पितामहरामनते जय भास्करशक्रशिरोऽवनते ॥ ९७.१०५ ॥ जय षण्मुखसायुध ईशनुते जय सागरगामिनि शम्भुनुते । जय दुःखदरिद्रविनाशकरे जय पुत्रकलत्रविवृद्धिकरे ॥ ९७.१०६ ॥ जय देवि समस्तशरीरधरे जय नाकविदर्शिनि दुःखहरे । जय व्याधिविनाशिनि मोक्षकरे जय वाञ्छितदायिनि सिद्धवरे ॥ ९७.१०७ ॥ एतद्व्यासकृतं स्तोत्रं यः पठेच्छिवसन्निधौ । गृहे वा शुद्धभावेन कामक्रोधविवर्जितः ॥ ९७.१०८ ॥ तस्य व्यासो भवेत्प्रीतः प्रीतश्च वृषवाहनः । प्रीता स्यान्नर्मदा देवी सर्वपापक्षयंकरी ॥ ९७.१०९ ॥ न ते यान्ति यमालोकं यैः स्तुता भुवि नर्मदा । पितामहोऽपि मुह्येत देवि त्वद्गुणकीर्तनात् ॥ ९७.११० ॥ वाक्पतिर्नैव ते वक्तुं स्वरूपं वेद नर्मदे । कथं गुणानहं देवि त्वदीयाञ्ज्ञातुमुत्सहे ॥ ९७.१११ ॥ इति ज्ञात्वा शुचिं भावं वाङ्मनःकायकर्मभिः । प्रसन्ना नर्मदादेवी ततो वचनमब्रवीत् ॥ ९७.११२ ॥ सत्यवादेन तुष्टाहं भोभो व्यास महामुने । यदीच्छसि वरं किंचित्तं ते सर्वं ददाम्यहम् ॥ ९७.११३ ॥ व्यास उवाच - यदि तुष्टासि मे देवि यदि देयो वरो मम । आतिथ्यमुत्तरे कूले ऋषीणां दातुमर्हसि ॥ ९७.११४ ॥ नर्मदोवाच - अयुक्तं याचितं व्यास विमार्गे यत्प्रवर्तनम् । इन्द्रचन्द्रयमैः शक्यमुन्मार्गे न प्रवर्तितुम् ॥ ९७.११५ ॥ याचस्वान्यं वरं पुत्र यत्किंचिद्भुवि दुर्लभम् । एतच्छ्रुत्वा वचो देव्या व्यासो मूर्च्छां यतस्तदा ॥ ९७.११६ ॥ वृथा क्लेशोऽद्य मे जात इति मत्वा पपात ह । धरणी चलिता सर्वा सशैलवनकानना ॥ ९७.११७ ॥ मूर्च्छापन्नं ततो व्यासं दृष्ट्वा देवाः सवासवाः । हाहाकारमुखाः सर्वे तत्राजग्मुः सहस्रशः ॥ ९७.११८ ॥ व्यासमुत्थापयामासुर्वेदव्यसनतत्परम् । ब्राह्मणार्थे च संक्लिष्टो नात्महेतोः सरिद्वरे ॥ ९७.११९ ॥ गवार्थे ब्राह्मणार्थे च सद्यः प्राणान्परित्यजेत् । एवं सा नर्मदा प्रोक्ता ब्रह्माद्यैः सुरसत्तमैः ॥ ९७.१२० ॥ सुशीतलैस्तं बहुभिश्च वातैर्रेवाभ्यषिञ्चत्स्वजलेन भीता । सचेतनः सत्यवतीसुतोऽपि प्रणम्य देवान्सरितं जगाद ॥ ९७.१२१ ॥ व्यास उवाच - तीर्थैः समस्तैः किल सेवनाय फलं प्रदिष्टं मम मन्दभाग्यात् । यद्देवि पुण्या विफला ममाशा आरण्यपुष्पाणि यथा जनानाम् ॥ ९७.१२२ ॥ नर्मदोवाच - यतो यतो मां हि महानुभाव निनीषते चित्तमिलातलेऽत्र । विन्ध्येन सार्द्धं तव मार्गमद्य यास्याम्यहं दण्डधरस्य पृष्ठे ॥ ९७.१२३ ॥ एवमुक्तो महातेजा व्यासः सत्यवतीसुतः । दक्षिणे चालयामास स्वाश्रमस्य सरिद्वराम् ॥ ९७.१२४ ॥ दण्डहस्तो महातेजा हुङ्कारमकरोन्मुनिः । व्यासहुङ्कारभीता सा चलिता रुद्रनन्दिनी ॥ ९७.१२५ ॥ दण्डेन दर्शयन्मार्गं देवी तत्र प्रवर्तिता । व्यासमार्गं गता देवी दृष्टा शक्रपुरोगमैः ॥ ९७.१२६ ॥ पुष्पवृष्टिं ततो देवा व्यमुञ्चन् सह किंकरैः । किं कुर्मो ब्रूहि मे पुत्र कर्मणा ते स्म रञ्जिताः ॥ ९७.१२७ ॥ व्यास उवाच - तपश्च विपुलं कृत्वा दानं दत्त्वा महाफलम् । एतदेव नरैः कार्यं साधूनां यत्सुखावहम् ॥ ९७.१२८ ॥ यदि तुष्टा महाभागा अनुग्राह्यो ह्यहं यदि । तस्मान्ममाश्रमे सर्वैः स्थीयतां नात्र संशयः ॥ ९७.१२९ ॥ आतिथ्यं शाकपर्णेन रेवामृतविमिश्रितम् । प्रतिपन्नं समस्तैर्वः पराशरमुखैर्मम । स्थातव्यं स्वाश्रमे सर्वैर्रेवाया उत्तरे तटे ॥ ९७.१३० ॥ मार्कण्डेय उवाच - स्नानतर्पणनित्यानि कृतानि द्विजसत्तमैः । व्यासकुण्डे ततो गत्वा होमः सर्वैः प्रकल्पितः ॥ ९७.१३१ ॥ श्रीफलैर्बिल्वपत्रैश्च जुहुवुर्जातवेदसम् । गौतमो भृगुर्माण्डव्यो नारदो लोमशस्तथा ॥ ९७.१३२ ॥ पराशरस्तथा शङ्खः कौशिकश्च्यवनो मुनिः । पिप्पलादो वसिष्ठश्च नाचिकेतो महातपाः ॥ ९७.१३३ ॥ विश्वामित्रोऽप्यगस्त्यश्च उद्दालकयमौ तथा । शाण्डिल्यो जैमिनिः कण्वो याज्ञवल्क्योशनोऽङ्गिराः ॥ ९७.१३४ ॥ शातातपो दधीचिश्च कपिलो गालवस्तथा । जैगीषव्यस्तथा दक्षो भरतो मुद्गलस्तथा ॥ ९७.१३५ ॥ वात्स्यायनो महातेजाः संवर्तः शक्तिरेव च । जातूकर्ण्यो भरद्वाजो वालखिल्यारुणिस्तथा ॥ ९७.१३६ ॥ एवमादिसहस्राणि जुह्वते जातवेदसम् । अक्षमालाकरोत्कीर्णा ध्यानयोगपरायणाः ॥ ९७.१३७ ॥ एकचित्ता द्विजाः सर्वे चक्रुर्होमक्रियां तदा । ततः समुत्थितं लिङ्गं मोक्षदं व्याधिनाशनम् ॥ ९७.१३८ ॥ अच्छेद्यं परमं देवं दृष्ट्वा व्यासस्तुतोष च । पुष्पवृष्टिं ददुर्देवा आशीर्वादान्द्विजोत्तमाः ॥ ९७.१३९ ॥ साष्टाङ्गं प्रणतो व्यासो देवं दृष्ट्वा त्रिलोचनम् । ब्राह्मणान्पूजयामास शाकमूलफलेन च ॥ ९७.१४० ॥ पितृपूर्वं द्विजाः सर्वे भोजिताः पाण्डुनन्दन । आशीर्वादांस्ततः पुण्यान् दत्त्वा विप्रा ययुः पुनः ॥ ९७.१४१ ॥ तदा प्रभृति तत्तीर्थं व्यासाख्यं प्रोच्यते बुधैः ॥ ९७.१४२ ॥ युधिष्ठिर उवाच - व्यासतीर्थस्य यत्पुण्यं तत्सर्वं कथयस्व मे । स्नानदानविधानं च यस्मिन्काले महाफलम् ॥ ९७.१४३ ॥ श्रीमार्कण्डेय उवाच - कथयामि समस्तं ते भ्रातृभिः सह पाण्डव । कार्त्तिकस्य सिते पक्षे चतुर्दश्यां जितेन्द्रियः ॥ ९७.१४४ ॥ उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम् । स्नापयेदीश्वरं भक्त्या क्षौद्रक्षीरेण सर्पिषा ॥ ९७.१४५ ॥ दध्ना च खण्डयुक्तेन कुशतोयेन वै पुनः । श्रीखण्डेन सुगन्धेन गुण्ठयेत्परमेश्वरम् ॥ ९७.१४६ ॥ ततः सुगन्धकुसुमैर्बिल्वपत्रैश्च पूजयेत् । मुचुकुन्देन कुन्देन कुशजातीप्रसूनकैः ॥ ९७.१४७ ॥ उन्मत्तमुनिपुष्पैश्च तथान्यैः कालसम्भवैः । अर्चयेत्परया भक्त्या द्वीपेश्वरमनुत्तमम् ॥ ९७.१४८ ॥ इक्षुगडुकदानेन तुष्यते परमेश्वरः । गडुकाष्टकदानेन पातकं यात्यहोर्जितम् ॥ ९७.१४९ ॥ मासर्जितं च नश्येत गडुकाष्टशतेन च । षाण्मासिकं सहस्रेण द्विगुणैरब्दिकं तथा ॥ ९७.१५० ॥ आजन्मजनितं पापमयुतेन प्रणश्यति । द्विगुणैर्नश्यते व्याधिस्त्रिगुणैः स्याद्धनागमः ॥ ९७.१५१ ॥ षड्गुणैर्जायते वाग्मी सिद्धस्तद्द्विगुणैस्तथा । रुद्रत्वं दशलक्षैश्च जायते नात्र संशयः ॥ ९७.१५२ ॥ पौर्णमास्यां नृपश्रेष्ठ स्नानं कुर्वीत भक्तितः । मन्त्रोक्तेन विधानेन सर्वपापक्षयंकरम् ॥ ९७.१५३ ॥ वारुणं च तथाग्नेयं ब्राह्मयं चैवाक्षयंकरम् । देवान्पित्ःन्मनुष्यांश्च विधिवत्तर्पयेद्बुधः ॥ ९७.१५४ ॥ ऋचा ऋग्वेदजं पुण्यं साम्ना सामफलं लभेत् । यजुर्वेदस्य यजुषा गायत्र्या सर्वमाप्नुयात् ॥ ९७.१५५ ॥ अक्षरं च जपेन्मन्त्रं सौरं वा शिवदैवतम् । अथवा वैष्णवं मन्त्रं द्वादशाक्षरसंज्ञितम् ॥ ९७.१५६ ॥ पूजयेद्ब्राह्मणान्भक्त्या सर्वलक्षणलक्षितान् । स्वदारनिरतान्विप्रान्दम्भलोभविवर्जितान् ॥ ९७.१५७ ॥ भिन्नवृत्तिकरान् पापान् पतिताञ्छूद्रसेवनान् । शूद्रीग्रहणसंयुक्तान्वृषली यस्य मन्दिरे ॥ ९७.१५८ ॥ परोक्षवादिनो दुष्टान्गुरुनिन्दापरायणान् । वेदद्वेषणशीलांश्च हैतुकान् बकवृत्तिकान् ॥ ९७.१५९ ॥ ईदृशान्वर्जयेच्छ्राद्धे दाने सर्वव्रतेषु च । गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः ॥ ९७.१६० ॥ नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी । ईदृशान्पूजयेद्विप्रानन्नदानहिरण्यतः ॥ ९७.१६१ ॥ उपानहौ च वस्त्राणि शय्यां छत्रमथासनम् । यो दद्याद्ब्राह्मणे भक्त्या सोऽपि स्वर्गे महीयते ॥ ९७.१६२ ॥ प्रत्यक्षा सुरभी तत्र जलधेनुस्तथाघृता । तिलधेनुः प्रदातव्या महिष्यश्च तथैव च ॥ ९७.१६३ ॥ कृष्णाजिनप्रदाता यो दाता यस्तिलसर्पिषोः । कन्यापुस्तकयोर्दाता सोऽक्षयं लोकमाप्नुयात् ॥ ९७.१६४ ॥ धूर्वाहौ खुरसंयुक्तौ धान्योपस्करसंयुतौ । दापयेत्स्वर्गकामस्तु इति मे सत्यभाषितम् ॥ ९७.१६५ ॥ सूत्रेण वेष्टयेद्द्वीपमथवा जगतीं शुभम् । मन्दिरं परया भक्त्या परमेशमथापि वा ॥ ९७.१६६ ॥ प्रदक्षिणां विधानेन यः करोत्यत्र मानवः । जम्बूप्लाक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो नृप ॥ ९७.१६७ ॥ कुशः क्रौञ्चस्तथा काशः पुष्करश्चैव सप्तमः । सप्तसागरपर्यन्ता वेष्टिता तेन भारत ॥ ९७.१६८ ॥ द्वीपेश्वरे महाराज वृषोत्सर्गं च कारयेत् । वृषेणारुणवर्णेन माहेशं लोकमाप्नुयात् ॥ ९७.१६९ ॥ यस्तु वै पाण्डुरो वक्त्रे ललाटे पादयोस्तथा । लाङ्गूले यस्तु वै शुभ्रः स वै नाकस्य दर्शकः ॥ ९७.१७० ॥ नीलोऽयमीदृशः प्रोक्तो यस्तु द्वीपेश्वरे त्यजेत् । स समाः रोमसंख्याता नाके वसति भारत ॥ ९७.१७१ ॥ सौरं च शांकरं लोकं वैरञ्चं वैष्णवं क्रमात् । भुनक्ति स्वेच्छया राजन्व्यासतीर्थप्रभावतः ॥ ९७.१७२ ॥ सपत्नीकं ततो विप्रं पूजयेत्तत्र भक्तितः । सितरक्तानि वस्त्राणि यो दद्यादग्रजन्मने ॥ ९७.१७३ ॥ कृत्वा प्रदक्षिणं युग्मं प्रीयतां मे जगद्गुरुः । नास्ति विप्रसमो बन्धुरिह लोके परत्र च ॥ ९७.१७४ ॥ यमलोके महाघोरे पतन्तं योऽभिरक्षति । इतिहासपुराणज्ञं विष्णुभक्तं जितेन्द्रियम् ॥ ९७.१७५ ॥ पूजयेत्परया भक्त्या सामगं वा विशेषतः । द्वीपेश्वरं च ये भक्त्या संस्मरन्ति गृहे स्थिताः ॥ ९७.१७६ ॥ न तेषां जायते शोको न हानिर्न च दुष्कृतम् । प्रथमं पूजयेत्तत्र लिङ्गं सिद्धेश्वरं ततः ॥ ९७.१७७ ॥ यत्र सिद्धो महाभागो व्यासः सत्यवतीसुतः । अस्यैव पूजनात्सिद्धो धारासर्पो महामतिः ॥ ९७.१७८ ॥ तत्र तीर्थे तु यो राजन्प्राणत्यागं करोति च । सूर्यलोकमसौ भित्त्वा प्रयाति शिवसन्निधौ ॥ ९७.१७९ ॥ समाः सहस्राणि च सप्त वै जले दशैकमग्नौ पतने च षोडश । महाहवे षष्टिरशीति गोग्रहे ह्यनाशके भारत चाक्षया गतिः ॥ ९७.१८० ॥ पिता पितामहश्चैव तथैव प्रपितामहः । वायुभूतं निरीक्षन्ते ह्यागच्छन्तं स्वगोत्रजम् ॥ ९७.१८१ ॥ अस्मद्गोत्रेऽस्ति कः पुत्रो यो नो दद्यात्तिलोदकम् । कार्त्तिक्यां च विशेषेण वेशाख्यां वा तथैव च ॥ ९७.१८२ ॥ स्वर्गतिं च प्रयास्यामस्तत्र तीर्थोपसेवनात् । एतत्ते कथितं सर्वं द्वीपेश्वरमनुत्तमम् ॥ ९७.१८३ ॥ यः पठेत्परया भक्त्या शृणुयात्तद्गतो नृप । सोऽपि पापविनिर्मुक्तो मोदते शिवमन्दिरे ॥ ९७.१८४ ॥ ऊषरं सर्वतीर्थानां निर्मितं मुनिपुंगवैः । कामप्रदं नृपश्रेष्ठ व्यासतीर्थं न संशयः ॥ ९७.१८५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे व्यासतीर्थमाहात्म्यवर्णनं नाम सप्तनवतितमोऽध्यायः ॥ ऋKV अध्याय ९८ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र प्रभासेश्वरमुत्तमम् । विख्यातं त्रिषु लोकेषु स्वर्गसोपानमुत्तमम् ॥ ९८.१ ॥ युधिष्ठिर उवाच - प्रभासं तात मे ब्रूहि कथं जातं महाफलम् । स्वर्गसोपानदं दृश्यं संक्षेपात्कथयस्व मे ॥ ९८.२ ॥ श्रीमार्कण्डेय उवाच - दुर्भगा रविपत्नी च प्रभानामेति विश्रुता । तया चाराधितः शम्भुरुग्रेण तपसा पुरा ॥ ९८.३ ॥ वायुभक्षा स्थिता वर्षं वर्षं ध्यानपरायणा । ततस्तुष्टो महादेवः प्रभायाः पाण्डुनन्दन ॥ ९८.४ ॥ ईश्वर उवाच - कस्मात्संक्लिश्यसे बाले कथ्यतां यद्विवक्षितम् । अहं हि भास्करोऽप्येको नानात्वं नैव विद्यते ॥ ९८.५ ॥ प्रभोवाच - नान्यो देवः स्त्रियः शम्भो विना भर्त्रा क्वचित्प्रभो । सगुणो निर्गुणो वापि धनाढ्यो वाप्यकिंचनः ॥ ९८.६ ॥ प्रियो वा यदि वा द्वेष्यः स्त्रीणां भर्तैव दैवतम् । दुर्भगत्वेन दग्धाहं सखीमध्ये सुरेश्वर । भर्त्तर्यल्लब्धसौख्यास्मि तेन क्लिश्याम्यहं भृशम् ॥ ९८.७ ॥ ईश्वर उवाच - वल्लभा भास्करस्यैव मत्प्रसादाद्भविष्यसि ॥ ९८.८ ॥ पार्वत्युवाच - अप्रमाणं भवद्वाक्यं भास्करोऽपि करिष्यति । वृथा क्लेशो भवेदस्याः प्रभायाः परमेश्वर ॥ ९८.९ ॥ उमावाक्यान्महेशानध्यातस्तिमिरनाशनः । आगतो गगनाद्भानुर्नर्मदोत्तररोधसि ॥ ९८.१० ॥ भानुरुवाच - आहूतोऽस्मि कथं देव ह्यघासुरनिषूदन ॥ ९८.११ ॥ ईश्वर उवाच - प्रभां पालय भो भानो संतोषेण परेण हि ॥ ९८.१२ ॥ उमोवाच - प्रभाया मन्दिरे नित्यं स्थीयतां हिमनाशन । अग्रपत्नी समस्तानां भार्याणां क्रियतां रवे ॥ ९८.१३ ॥ भानुरुवाच - एवं देवि करिष्यामि तव वाक्यं वरानने । एतच्छ्रुत्वा प्रभाहूता प्रत्युवाच महेश्वरम् ॥ ९८.१४ ॥ प्रभोवाच - स्वांशेन स्थीयतां देव मन्मथारे उमापते । एकांशः स्थाप्यतामत्र तीर्थस्योन्मीलनाय च ॥ ९८.१५ ॥ श्रीमार्कण्डेय उवाच - सर्वदेवमयं लिङ्गं स्थापितं तत्र पाण्डव । प्रभासेश इति ख्यातं सर्वलोकेषु दुर्लभम् ॥ ९८.१६ ॥ अन्यानि यानि तीर्थानि काले तानि फलन्ति वै । प्रभासेशस्तु राजेन्द्र सद्यः कामफलप्रदः ॥ ९८.१७ ॥ माघमासे सिते पक्षे सप्तम्यां च विशेषतः । अश्वं यः स्पर्शयेत्तत्र यथोक्तब्राह्मणे नृप ॥ ९८.१८ ॥ इन्द्रत्वं प्राप्यते तेन भास्करस्याथवा पदम् । स्नात्वा परमया भक्त्या दानं दद्याद्द्विजातये ॥ ९८.१९ ॥ गोप्रदाता लभेत्स्वर्गं सत्यलोकं वरेश्वर । सर्वाङ्गसुन्दरीं शुभ्रां क्षीरिणीं तरुणीं शुभाम् ॥ ९८.२० ॥ सवत्सां घण्टासंयुक्तां कांस्यपात्रावदोहिनीम् । ददते ये नृपश्रेष्ठ न ते यान्ति यमालयम् ॥ ९८.२१ ॥ अथ यः परया भक्त्या स्नानं देवस्य कारयेत् । स प्राप्नोति परं लोकं यावदाभूतसम्प्लवम् ॥ ९८.२२ ॥ दौर्भाग्यं नाशमायाति स्नानमात्रेण पाण्डव । तत्र तीर्थे तु यो भक्त्या कन्यादानं प्रयच्छति ॥ ९८.२३ ॥ ब्राह्मणाय विवाहेन दापयेत्पाण्डुनन्दन । समानवयसे देया कुलशीलधनैस्तथा ॥ ९८.२४ ॥ ये ददन्ते महाराज ह्यपि पातकसंयुताः । तेषां पापानि लीयन्ते ह्युदके लवणं यथा ॥ ९८.२५ ॥ स्वामिद्रोहकृतं पापं निक्षेपस्यापहारिणि । मित्रघ्ने च कृतघ्ने च कूटसाक्ष्यसमुद्भवम् ॥ ९८.२६ ॥ तद्ग्रामोद्यानभेदोत्थं परदारनिषेवणम् । वार्द्धुषिकस्य यत्पापं यत्पापं स्तेयसम्भवम् ॥ ९८.२७ ॥ कूपभेदोद्भवं यच्च बैडालव्रतधारिणः । दाम्भिकं वृक्षच्छेदोत्थं विवाहस्य निषेधजम् ॥ ९८.२८ ॥ आरामस्थतरुच्छेदमगम्यागमनोद्भवम् । स्वभार्यात्यजने यच्च परभार्यासमीहनात् ॥ ९८.२९ ॥ ब्रह्मस्वहरणे यच्च गरदे गोविघातिनि । विद्याविक्रयणोत्थं च संसर्गाद्यच्च पातकम् ॥ ९८.३० ॥ श्वबिडालवधाद्घोरं सर्पशूद्रोद्भवं तथा । भूमिहर्तुश्च यत्पापं भूमिहारिणि चैव हि ॥ ९८.३१ ॥ मा ददस्वेति यत्पापं गोवह्निब्राह्मणेषु च । तत्पापं याति विलयं कन्यादानेन पाण्डव ॥ ९८.३२ ॥ स गत्वा भास्करं लोकं रुद्रलोके शुभे व्रजेत् । क्रीडते रुद्रलोकस्थो यावदिन्द्राश्चतुर्दश ॥ ९८.३३ ॥ सर्वपापक्षये जाते शिवे भवति भावना । एतद्व्रजति यस्तीर्थं प्रभासं पाण्डुनन्दन ॥ ९८.३४ ॥ सर्वतीर्थफलं प्राप्य सोऽश्वमेधफलं लभेत् । गोप्रदानं महापुण्यं सर्वपापक्षयं परम् । प्रशस्तं सर्वकालं हि चतुर्दश्यां विशेषतः ॥ ९८.३५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे प्रभासतीर्थमाहात्म्यवर्णनं नामाष्टनवतितमोऽध्यायः ॥ ऋKV अध्याय ९९ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल नर्मदादक्षिणे तटे । स्थापितं वासुकीशं तु समस्ताघौघनाशनम् ॥ ९९.१ ॥ युधिष्ठिर उवाच - कस्माच्च कारणात्तात रेवाया दक्षिणे तटे । वासुकीशस्थापितो वै विस्तराद्वद मे गुरो ॥ ९९.२ ॥ श्रीमार्कण्डेय उवाच - एतत्सर्वं समास्थाय नृत्यं शम्भुश्चकार वै ॥ ९९.३ ॥ श्रमादजायत स्वेदो गङ्गातोयविमिश्रितम् । पतन्तमुरगोऽश्नाति हरमौलिविनिर्गतम् ॥ ९९.४ ॥ मन्दाकिनी ततः क्रुद्धा व्यालस्योपरि भारत । प्राप्नुह्यजगरत्त्वं हि भुजङ्ग क्षुद्रजन्तुक ॥ ९९.५ ॥ वासुकिरुवाच - अनुग्राह्योऽस्मि ते पापो दुर्नयोऽहं हरादृते । त्रैलोक्यपावनी पुण्या सरित्त्वं शुभलक्षणा ॥ ९९.६ ॥ संसारच्छेदनकरी ह्यार्तानामार्तिनाशनी । स्वर्गद्वारे स्थिता त्वं हि दयां कुरु मयीश्वरि ॥ ९९.७ ॥ गङ्गोवाच - कुरुष्व विपुलं विन्ध्यं तपस्त्वं शङ्करं प्रति । ततः प्राप्स्यसि स्वं स्थानं पन्नगत्वं ममाज्ञया ॥ ९९.८ ॥ श्रीमार्कण्डेय उवाच - ततोऽसौ त्वरितो विन्ध्यं नागो गत्वा नगं शुभम् । तपस्तप्तुं समारेभे शङ्कराराधनोद्यतः ॥ ९९.९ ॥ नित्यं दध्यौ महादेवं त्र्यक्षं डमरुकोद्यतम् । ततो वर्षशते पूर्ण उपरुद्धो जगद्गुरुः । आगतस्तत्समीपं तु श्लक्ष्णां वाणीमुदाहरत् ॥ ९९.१० ॥ वरं वरय मे वत्स पन्नग त्वं कृतादर ॥ ९९.११ ॥ वासुकिरुवाच - यदि तुष्टोऽसि मे देव वरं दास्यसि शङ्कर । प्रसादात्तव देवेश भूयान्निष्पापता मम । तीर्थं किंचित्समाख्याहि सर्वपापप्रणाशनम् ॥ ९९.१२ ॥ ईश्वर उवाच - पन्नग त्वं महाबाहो रेवां गच्छ शुभंकरीम् । याम्ये तस्यास्तटे पुण्ये स्नानं कुरु यथाविधि ॥ ९९.१३ ॥ इत्युक्त्वान्तर्दधे देवो वासुकिस्त्वरयान्वितः । रूपेणाजगरेणैव प्रविष्टो नर्मदाजलम् ॥ ९९.१४ ॥ मार्गेण तस्य संजातं जाह्नव्याः स्रोत उत्तमम् । निर्धूतकल्मषः सर्पः संजातो नर्मदाजले ॥ ९९.१५ ॥ स्थापितः शङ्करस्तत्र नर्मदायां युधिष्ठिर । ततो नागेश्वरं लिङ्गं प्रसिद्धं पापनाशनम् ॥ ९९.१६ ॥ अष्टम्यां वा चतुर्दश्यां स्नापयेन्मधुना शिवम् । विमुक्तकल्मषः सद्यो जायते नात्र संशयः ॥ ९९.१७ ॥ अपुत्रा ये नराः पार्थ स्नानं कुर्वन्ति सङ्गमे । ते लभन्ते सुताञ्छ्रेष्ठान् कार्त्तवीर्योपमाञ्छुभान् ॥ ९९.१८ ॥ श्राद्धं तत्रैव यः कुर्यादुपवासपरायणः । कुर्वन्प्रमोचयेत्प्रेतान्नरकान्नृपनन्दन ॥ ९९.१९ ॥ सर्पाणां च भयं वंशे ज्ञातिवर्गे न जायते । निर्दोषं नन्दते तस्य कुलं नागप्रसादतः ॥ ९९.२० ॥ एतत्ते सर्वमाख्यातं तव स्नेहान्नृपोत्तम ॥ ९९.२१ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनशततमोऽध्यायः ॥ ऋKV अध्याय १०० श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल तीर्थं परमरोचनम् । मार्कण्डेशमिति ख्यातं नर्मदादक्षिणे तटे ॥ १००.१ ॥ उत्तमं सर्वतीर्थानां गीर्वाणैर्वन्दितं शिवम् । गुह्याद्गुह्यतरं पुत्र नाख्यातं कस्यचिन्मया ॥ १००.२ ॥ स्थापितं तु मया पूर्वं स्वर्गसोपानसंनिभम् । ज्ञानं तत्रैव मे जातं प्रसादाच्छङ्करस्य च ॥ १००.३ ॥ अन्यस्तत्रैव यो गत्वा द्रुपदामन्तर्जले जपेत् । स पातकैरशेषश्च मुच्यते पाण्डुनन्दन ॥ १००.४ ॥ वाचिकैर्मानसैश्च वा कर्मजैरपि पातकैः । पिण्डिकां चाप्यवष्टभ्य याम्यामाशां च संस्थितः ॥ १००.५ ॥ योजयेच्छूलिनं भक्त्या द्वात्रिंशद्बहुरूपिणम् । देहपाते शिवं गच्छेदिति मे निश्चयो नृप ॥ १००.६ ॥ आज्येन बोधयेद्दीपमष्टम्यां निशि भारत । स्वर्गलोकमवाप्नोति इत्येवं शङ्करोऽब्रवीत् ॥ १००.७ ॥ श्राद्धं तत्रैव यो भक्त्या कुर्वीत नृपनन्दन । पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥ १००.८ ॥ इङ्गुदैर्बदरैर्बिल्वैरक्षतेन जलेन वा । तर्पयेत्तत्र यो वंश्यानाप्नुयाज्जन्मनः फलम् ॥ १००.९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनं नाम शततमोऽध्यायः ॥ ऋKV अध्याय १०१ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । उत्तरे नर्मदाकूले यज्ञवाटस्य मध्यतः ॥ १०१.१ ॥ संकर्षणमिति ख्यातं पृथिव्यां पापनाशनम् । तपश्चीर्णं पुरा राजन्बलभद्रेण तत्र वै ॥ १०१.२ ॥ गीर्वाणा अपि तत्रैव संनिधौ नृपनन्दन । उमया सहितः शम्भुः स्थितस्तत्रैव केशवः ॥ १०१.३ ॥ बलभद्रेण राजेन्द्र प्राणिनामुपकारतः । स्थापितः परया भक्त्या शङ्करः पापनाशनः ॥ १०१.४ ॥ यस्तत्र स्नाति वै भक्त्या जितक्रोधो जितेन्द्रियः । एकादश्यां सिते पक्षे मधुना स्नापयेच्छिवम् ॥ १०१.५ ॥ श्राद्धं तत्रैव यो भक्त्या पित्ःणामथ दापयेत् । स याति परमं स्थानं बलभद्रवचो यथा ॥ १०१.६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे संकर्षणतीर्थमाहात्म्यवर्णनं नामैकाधिकशततमोऽध्यायः ॥ ऋKV अध्याय १०२ मार्कण्डेय उवाच - मन्मथेशं ततो गच्छेत्सर्वदेवनमस्कृतम् । स्नानमात्रान्नरो राजन्यमलोकं न पश्यति ॥ १०२.१ ॥ अनपत्या या च नारी स्नायाद्वै पाण्डुनन्दन । पुत्रं सा लभते पार्थ सत्यसङ्घं दृढव्रतम् ॥ १०२.२ ॥ तत्र स्नात्वा नरो राजञ्छुचिः प्रयतमानसः । उपोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ १०२.३ ॥ कामिकं तीर्थराजं तु तादृशं न भविष्यति । त्रिरात्रं कुरुते राजन्स गोलक्षफलं लभेत् ॥ १०२.४ ॥ तत्र नृत्यं प्रकर्तव्यं तुष्यते परमेश्वरः । गीतवादित्रनिर्घोषै रात्रौ जागरणेन च ॥ १०२.५ ॥ एरण्ड्यां च महादेवो दृष्टो मे मन्मथेश्वरः । किं समर्थो यमो रुष्टो भद्रो भद्राणि पश्यति ॥ १०२.६ ॥ कामेन स्थापितः शम्भुरेतस्मात्कामदो नृप । सोपानः स्वर्गमार्गस्य पृथिव्यां मन्मथेश्वरः ॥ १०२.७ ॥ विशेषश्चात्र सन्ध्यायां श्राद्धदाने च भारत । अन्नदानेन राजेन्द्र कीर्तितं फलमुत्तमम् ॥ १०२.८ ॥ एतत्ते सर्वमाख्यातं तव भक्त्या तु भारत । पृथिव्यां सागरान्तायां प्रख्यातो मन्मथेश्वरः ॥ १०२.९ ॥ गोदानं पाण्डवश्रेष्ठ त्रयोदश्यां प्रकारयेत् । चैत्रे मासि सिते पक्षे तत्र गत्वा जितेन्द्रियः ॥ १०२.१० ॥ रात्रौ जागरणं कृत्वा देवस्याग्रे नृपोत्तम । दीपं भक्त्या घृतेनैव देवस्याग्रे निवेदयेत् ॥ १०२.११ ॥ स्त्र्यथ वा पुरुषो वापि सममेतत्फलं स्मृतम् ॥ १०२.१२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मन्मथेश्वरतीर्थमाहात्म्यवर्णनं नाम द्व्यधिकशततमोऽध्यायः ॥ ऋKV अध्याय १०३ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल एरण्डीसङ्गमं परम् । यच्छ्रुतं वै मया राजञ्छिवस्य वदतः पुरा ॥ १०३.१ ॥ एतदेव पुरा प्रश्नं गौर्या पृष्टस्तु शङ्करः । प्रोवाच नृपशार्दूल गुह्याद्गुह्यतरं शुभम् ॥ १०३.२ ॥ ईश्वर उवाच - शृणु देवि परं गुह्यं नाख्यातं कस्यचिन्मया । रेवायाश्चोत्तरे कूले तीर्थं परमशोभनम् । भ्रूणहत्याहरं देवि कामदं पुत्रवर्धनम् ॥ १०३.३ ॥ पार्वत्युवाच - कथयस्व महादेव तीर्थं परमशोभनम् । भ्रूणहत्याहरं कस्मात्कामदं स्वर्गदर्शनम् ॥ १०३.४ ॥ ईश्वर उवाच - अत्रिर्नाम महादेवि मानसो ब्रह्मणः सुतः । अग्निहोत्ररतो नित्यं देवतातिथिपूजकः ॥ १०३.५ ॥ सोमसंस्थाश्च सप्तैव कृता विप्रेण पार्वति । अनसूयेति विख्याता भार्या तस्य गुणान्विता ॥ १०३.६ ॥ पतिव्रता पतिप्राणा पत्युः कार्यहिते रता । एवं याति ततः काले न पुत्रा न च पुत्रिका ॥ १०३.७ ॥ अपराह्णे महादेवि सुखासीनौ तु सुन्दरि । वदन्तौ सुखदुःखानि पूर्ववृत्तानि यानि च ॥ १०३.८ ॥ अत्रिरुवाच - सौम्ये शुभे प्रिये कान्ते चारुसर्वाङ्गसुन्दरि । विद्याविनयसम्पन्ने पद्मपत्रनिभेक्षणे ॥ १०३.९ ॥ पूर्णचन्द्रनिभाकारे पृथुश्रोणिभरालसे । न त्वया सदृशी नारी त्रैलोक्ये सचराचरे ॥ १०३.१० ॥ रतिपुत्रफला नारी पठ्यते वेदवादिभिः । पुत्रहीनस्य यत्सौख्यं तत्सौख्यं मम सुन्दरि ॥ १०३.११ ॥ यथाहं न तथा पुत्रः समर्थः सर्वकर्मसु । पुन्नामनरकाद्भद्रे जातमात्रेण सुन्दरि ॥ १०३.१२ ॥ पतन्तं रक्षयेद्देवि महापातकिनं यदि । महाघोरे गता वापि दुष्टकर्मपितामहाः ॥ १०३.१३ ॥ तद्धरन्ति सुपुत्राश्च वैतरण्यां गतानपि । पुत्रेण लोकाञ्जयति पौत्रेण परमा गतिः ॥ १०३.१४ ॥ अथ पुत्रस्य पौत्रेण प्रगच्छेद्ब्रह्म शाश्वतम् । नास्ति पुत्रसमो बन्धुरिह लोके परत्र च ॥ १०३.१५ ॥ अहश्च मध्यरात्रे च चिन्तयानस्य सर्वदा । शुष्यन्ति मम गात्राणि ग्रीष्मे नद्युदकं यथा ॥ १०३.१६ ॥ अनसूयोवाच - यत्त्वया शोचितं विप्र तत्सर्वं शोचयाम्यहम् । तवोद्वेगकरं यच्च तन्मे दहति चेतसि ॥ १०३.१७ ॥ येन पुत्रा भविष्यन्ति आयुष्मन्तो गुणान्विताः । तत्कार्यं च समीक्षस्व येन तुष्येत्प्रजापतिः ॥ १०३.१८ ॥ अत्रिरुवाच - तपस्तप्तं मया भद्रे जातमात्रेण दुष्करम् । व्रतोपवासनियमैः शाकाहारेण सुन्दरि ॥ १०३.१९ ॥ क्षीणदेहस्तु तिष्ठामि ह्यशक्तोऽहं महाव्रते । तेन शोचामि चात्मानं रहस्यं कथितं मया ॥ १०३.२० ॥ अनसूयोवाच - भर्तुः पतिव्रता नारी रतिपुत्रविवर्धिनी । त्रिवर्गसाधना सा च श्लाघ्या च विदुषां जने ॥ १०३.२१ ॥ जपस्तपस्तीर्थयात्रा मृडेज्यामन्त्रसाधनम् । देवताराधनं चैव स्त्रीशूद्रपतनानि षट् ॥ १०३.२२ ॥ ईदृशं तु महादोषं स्त्रीणां तु व्रतसाधने । वदन्ति मुनयः सर्वे यथोक्तं वेदभाषितम् ॥ १०३.२३ ॥ अनुज्ञाता त्वया ब्रह्मंस्तपस्तप्स्यामि दुष्करम् । पुत्रार्थित्वं समुद्दिश्य तोषयामि सुरोत्तमान् ॥ १०३.२४ ॥ अत्रिरुवाच - साधु साधु महाप्राज्ञे मम संतोषकारिणि । आज्ञाता त्वं मया भद्रे पुत्रार्थं तप आश्रय ॥ १०३.२५ ॥ देवतानां मनुष्याणां पित्ःणामनृणो भवे । न भार्यासदृशो बन्धुस्त्रिषु लोकेषु विद्यते ॥ १०३.२६ ॥ तेन देवाः प्रशंसन्ति न भार्यासदृशं सुखम् । सन्मुखे मन्मुखाः पुत्राः विलोमे तु पराङ्मुखाः ॥ १०३.२७ ॥ तेन भार्यां प्रशंसन्ति सदेवासुरमानुषाः । महाव्रते महाप्राज्ञे सत्त्ववति शुभेक्षणे ॥ १०३.२८ ॥ तपस्तपस्व शीघ्रं त्वं पुत्रार्थं तु ममाज्ञया । एतद्वाक्यावसाने तु साष्टाङ्गं प्रणताब्रवीत् ॥ १०३.२९ ॥ त्वत्प्रसादेन विप्रेन्द्र सर्वान्कामानवाप्नुयाम् । हंसलीलागतिः सा च मृगाक्षी वरवर्णिनी ॥ १०३.३० ॥ नियमस्था ततो भूत्वा सम्प्राप्ता नर्मदां नदीम् । शिवस्वेदोद्भवां देवीं सर्वपापप्रणाशनीम् ॥ १०३.३१ ॥ यस्या दर्शनमात्रेण नश्यते पापसञ्चयः । स्नानमात्रेण वै यस्या अश्वमेधफलं लभेत् ॥ १०३.३२ ॥ ये पिबन्ति महादेवि श्रद्दधानाः पयः शुभम् । सोमपानेन तत्तुल्यं नात्र कार्या विचारणा ॥ १०३.३३ ॥ ये स्मरन्ति दिवा रात्रौ योजनानां शतैरपि । मुच्यन्ते सर्वपापेभ्यो रुद्रलोकं प्रयान्ति ते ॥ १०३.३४ ॥ नर्मदायाः समीपे तु तावुभौ योजनद्वये । न पश्यन्ति यमं तत्र ये मृता वरवर्णिनि ॥ १०३.३५ ॥ ततस्तदुत्तरे कूले एरण्ड्याः सङ्गमे शुभे । नियमस्था विशालाक्षी शाकाहारेण सुन्दरि ॥ १०३.३६ ॥ तोषयन्ती त्रींश्च देवाञ्छुभैः स्तोत्रैर्व्रतैस्तथा । ग्रीष्मेषु च महादेवि पञ्चाग्निं साधयेत्ततः ॥ १०३.३७ ॥ वर्षाकाले चार्द्रवासाश्चरेच्चान्द्रायणानि च । हेमन्ते तु ततः प्राप्ते तोयमध्ये वसेत्सदा ॥ १०३.३८ ॥ प्रातःस्नानं ततः सन्ध्यां कुर्याद्देवर्षितर्पणम् । देवानामर्चनं कृत्वा होमं कुर्याद्यथाविधि ॥ १०३.३९ ॥ यजते वैष्णवांल्लोकान् स्नानजाप्यहुतेन च । एवं वर्षशते प्राप्ते रुद्रविष्णुपितामहाः ॥ १०३.४० ॥ सम्प्राप्ता द्विजरूपैस्तु एरण्ड्याः सङ्गमे प्रिये । पुरतः संस्थितास्तस्या वेदमभ्युद्धरन्ति च ॥ १०३.४१ ॥ अनसूया जपं त्यक्त्वा निरीक्ष्य तान्मुहुर्मुहुः । उत्थिता सा विशालाक्षी अर्घं दत्त्वा यथाविधि ॥ १०३.४२ ॥ अद्य मे सफलं जन्म अद्य मे सफलं तपः । दर्शनेन तु विप्राणां सर्वपापैः प्रमुच्यते ॥ १०३.४३ ॥ प्रदक्षिणं ततः कृत्वा साष्टाङ्गं प्रणताब्रवीत् । कन्दमूलफलं शाकं नीवारानपि पावनान् । प्रयच्छाम्यहमद्यैव मुनीनां भावितात्मनाम् ॥ १०३.४४ ॥ विप्रा ऊचुः । तपसा तु विचित्रेण तपःसत्येन सुव्रते । तृप्ताः स्म सर्वकामैस्तु सुव्रते तव दर्शनात् ॥ १०३.४५ ॥ अस्माकं कौतुकं जातं तापसेन व्रतेन यत् । स्वर्गमोक्षसुतस्यार्थे तपस्तपसि दुष्करम् ॥ १०३.४६ ॥ अनसूयोवाच - तपसा सिध्यते स्वर्गस्तपसा परमा गतिः । तपसा चार्थकामौ च तपसा गुणवान्सुतः । तप एव च मे विप्राः सर्वकामफलप्रदम् ॥ १०३.४७ ॥ विप्रा ऊचुः । तन्वी श्यामा विशालाक्षी स्निग्धाङ्गी रूपसंयुता । हंसलीलागतिगमा त्वं च सर्वाङ्गसुन्दरी ॥ १०३.४८ ॥ किं च ते तपसा कार्यमात्मानं शोच्यसे कथम् ॥ १०३.४९ ॥ अनसूयोवाच - यदि रुद्रश्च विष्णुश्च स्वयं साक्षात्पितामहः । गूढरूपधराः सर्वे तच्चिह्नमुपलक्षये ॥ १०३.५० ॥ तस्या वाक्यावसाने तु स्वरूपं दर्शयन्ति ते । स्वस्वरूपैः स्थिता देवाः सूर्यकोटिसमप्रभाः ॥ १०३.५१ ॥ चतुर्भुजो महादेवि शङ्खचक्रगदाधरः । अतसीपुष्पवर्णस्तु पीतवासा जनार्दनः ॥ १०३.५२ ॥ गरुत्मान्वाहनं यस्य श्रिया च सहितो हरिः । प्रसन्नवदनः श्रीमान्स्वयंरूपो व्यवस्थितः ॥ १०३.५३ ॥ पीतवासा महादेवि चतुर्वदनपङ्कजः । हंसोपरि समारूढो ह्यक्षमालाकरोद्यतः ॥ १०३.५४ ॥ आगतो नर्मदातीरे ब्रह्मा लोकपितामहः । योऽसौ सर्वजगद्व्यापी स्वयं साक्षान्महेश्वरः ॥ १०३.५५ ॥ वृषभं तु समारूढो दशबाहुसमन्वितः । भस्माङ्गरागशोभाढ्यः पञ्चवक्त्रस्त्रिलोचनः ॥ १०३.५६ ॥ जटामुकुटसंयुक्तः कृतचन्द्रार्द्धशेखरः । एवंरूपधरो देवः सर्वव्यापी महेश्वरः ॥ १०३.५७ ॥ अनसूया निरीक्ष्यैतद्देवानां दर्शनं परम् । वेपमाना ततः साध्वी सुरान्दृष्ट्वा मुहुर्मुहुः ॥ १०३.५८ ॥ अनसूयोवाच - किं व्यापारस्वरूपास्तु विष्णुरुद्रपितामहाः । एतद्वै श्रोतुमिच्छामि ह्यशेषं कथयन्तु मे ॥ १०३.५९ ॥ ब्रह्मोवाच - प्रावृट्कालो ह्यहं ब्रह्मा आपश्चैव प्रकीर्तिताः । मेघरूपो ह्यहं प्रोक्तो वर्षयामि च भूतले ॥ १०३.६० ॥ अहं सर्वाणि बीजानि प्राक्सन्ध्यासूदिते रवौ । एतद्वै कारणं सर्वं रहस्यं कथितं परम् ॥ १०३.६१ ॥ विष्णुरुवाच - हेमन्तश्च भवेद्विष्णुर्विश्वरूपं चराचरम् । पालनाय जगत्सर्वं विष्णोर्माहात्म्यमुत्तमम् ॥ १०३.६२ ॥ रुद्र उवाच - ग्रीष्मकालो ह्यहं प्रोक्तः सर्वभूतक्षयंकरः । कर्षयामि जगत्सर्वं रुद्ररूपस्तपस्विनि ॥ १०३.६३ ॥ एवं ब्रह्मा च विष्णुश्च रुद्रश्चैव महाव्रते । त्रयो देवास्त्रयः सन्ध्यास्त्रयः कालास्त्रयोऽग्नयः ॥ १०३.६४ ॥ तथा ब्रह्मा च विष्णुश्च रुद्रश्चैकात्मतां गतः । वरं दद्युश्च ते भद्रे यस्त्वया मनसीप्सितम् ॥ १०३.६५ ॥ अनसूयोवाच - धन्या पुण्या ह्यहं लोके श्लाघ्या वन्द्या च सर्वदा । ब्रह्मा विष्णुश्च रुद्रश्च प्रसन्नवदनाः शुभाः ॥ १०३.६६ ॥ यदि तुष्टास्त्रयो देवा दयां कृत्वा ममोपरि । अस्मिंस्तीर्थे तु सांनिध्याद्वरदाः सन्तु मे सदा ॥ १०३.६७ ॥ रुद्र उवाच - एवं भवतु ते वाक्यं यत्त्वया प्रार्थितं शुभे । प्रत्यक्षा वैष्णवी माया एरण्डीनाम नामतः ॥ १०३.६८ ॥ यस्या दर्शनमात्रेण नश्यते पापसञ्चयः । चैत्रमासे तु सम्प्राप्ते अहोरात्रोषितो भवेत् ॥ १०३.६९ ॥ एरण्ड्याः सङ्गमे स्नात्वा ब्रह्महत्यां व्यपोहति । रात्रौ जागरणं कुर्यात्प्रभाते भोजयेद्द्विजान् ॥ १०३.७० ॥ यथोक्तेन विधानेन पिण्डं दद्याद्यथाविधि । प्रदक्षिणां ततो दद्याद्धिरण्यं वस्त्रमेव च ॥ १०३.७१ ॥ रजतं च तथा गावो भूमिदानमथापि वा । सर्वं कोटिगुणं प्रोक्तमिति स्वायम्भुवोऽब्रवीत् ॥ १०३.७२ ॥ ये म्रियन्ति नरा देवि एरण्ड्याः सङ्गमे शुभे । यावद्युगसहस्रं तु रुद्रलोके वसन्ति ते ॥ १०३.७३ ॥ अहोरात्रोषितो भूत्वा जपेद्रुद्रांश्च वैदिकान् । एकादशैकसंज्ञांश्च स याति परमां गतिम् ॥ १०३.७४ ॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रांल्लभेत्कामान् यथेप्सितान् ॥ १०३.७५ ॥ एरण्ड्याः सङ्गमे स्नात्वा रेवाया विमले जले । महापातकिनो वापि ते यान्ति परमां गतिम् ॥ १०३.७६ ॥ अनसूयोवाच - यदि तुष्टास्त्रयो देवा मम भक्तिप्रचोदिताः । मम पुत्रा भवन्त्वेव हरिरुद्रपितामहाः ॥ १०३.७७ ॥ विष्णुरुवाच - पूज्या यत्पुत्रतां यान्ति न कदाचिच्छ्रुतं मया । शुभे ददामि पुत्रांस्ते देवतुल्यपराक्रमान् । रूपवन्तो गुणोपेतान्यज्विनश्च बहुश्रुतान् ॥ १०३.७८ ॥ अनसूयोवाच - ईप्सितं तच्च दातव्यं यन्मया प्रार्थितं हरे । नान्यथा चैव कर्तव्या मम पुत्रैषणा तु या ॥ १०३.७९ ॥ विष्णुरुवाच - पूर्वं तु भृगुसंवादे गर्भवास उपार्जितः । तस्याहं चैव पारं तु नैव पश्यामि शोभने ॥ १०३.८० ॥ स्मरमाणः पुरावृत्तं चिन्तयामि पुनःपुनः । एवं संचिन्त्य ते देवाः पितामहमहेश्वराः ॥ १०३.८१ ॥ अयोनिजा भविष्यामस्तव पुत्रा वरानने । योनिवासे महाप्राज्ञि देवा नैव व्रजन्ति च ॥ १०३.८२ ॥ सांनिध्यात्सङ्गमे देवि लोकानां तु वरप्रदाः । एरण्डी वैष्णवी माया प्रत्यक्षा त्वं भविष्यसि ॥ १०३.८३ ॥ त्रयो देवाः स्थिताः पाथ रेवाया उत्तरे तटे । वरप्राप्ता तु सा देवी गता माहेन्द्रपर्वतम् ॥ १०३.८४ ॥ क्षीणाङ्गी शुक्लदेहा च रूक्षकेशी सुदारुणा । कृतयज्ञोपवीता सा तपोनिष्ठा शुभेक्षणा ॥ १०३.८५ ॥ शिलातलनिविष्टोऽसौ दृष्टः कान्तो महायशाः । हृष्टचित्तोऽभवद्देवि उत्तिष्ठोत्तिष्ठ साब्रवीत् ॥ १०३.८६ ॥ अत्रिरुवाच - साधु साधु महाप्राज्ञे ह्यनसूये महाव्रते । अचिन्त्यं गालवादीनां वरं प्राप्तासि दुर्लभम् ॥ १०३.८७ ॥ अनसूयोवाच - त्वत्प्रसादेन देवर्षे वरं प्राप्तास्मि दुर्लभम् । तेन देवाः प्रशंसन्ति सिद्धाश्च ऋषयोऽमलाः ॥ १०३.८८ ॥ एवमुक्ता तु सा देवी हर्षेण महता युता । आलोकयेत्ततः कान्तं तेनापि शुभदर्शना ॥ १०३.८९ ॥ ईक्षणाच्चैव संजातं ललाटे मण्डलं शुभम् । नवयोजनसाहस्रं मण्डलं रश्मिभिर्वृतम् ॥ १०३.९० ॥ कदम्बगोलकाकारं त्रिगुणं परिमण्डलम् । तस्य मध्ये तु देवेशि पुरुषो दिव्यरूपधृक् ॥ १०३.९१ ॥ हेमवर्णोऽमृतमयः सूर्यकोटिसमप्रभः । आद्यः पुत्रोऽनसूयायाः स्वयं साक्षात्पितामहः ॥ १०३.९२ ॥ चन्द्रमा इति विख्यातः सोमरूपो नृपात्मज । इष्टापूर्ते च संपाति कलाषोडशकेन तु ॥ १०३.९३ ॥ प्रतिपच्च द्वितीया च तृतीया च महेश्वरि । चतुर्थी पञ्चमी चैव अव्यया षोडशी कला ॥ १०३.९४ ॥ चतुर्विधस्य लोकस्य सूक्ष्मो भूत्वा वरानने । आप्रीणाति जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ १०३.९५ ॥ सर्वे ते ह्युपजीवन्ति हुतं दत्तं शशिस्थितम् । वनस्पतिगते सोमे धनवांश्च वरानने ॥ १०३.९६ ॥ भुञ्जन् परगृहे मूढो ददेदब्दकृतं शुभम् । वनस्पतिगते सोमे यस्तु छिन्द्याद्वनस्पतीन् । तेन पापेन देवेशि नरा यान्ति यमालयम् ॥ १०३.९७ ॥ वनस्पतिगते सोमे मैथुनं यो निषेवते । ब्रह्महत्यासमं पापं लभते नात्र संशयः ॥ १०३.९८ ॥ वनस्पतिगते सोमे मन्थानं योऽधिवाहयेत् । गावस्तस्य प्रणश्यन्ति याश्च वै पूर्वसंचिताः ॥ १०३.९९ ॥ वनस्पतिगते सोमे ह्यध्वानं योऽधिगच्छति । भवन्ति पितरस्तस्य तं मासं रेणुभोजनाः ॥ १०३.१०० ॥ अमावस्यां महादेवि यस्तु श्राद्धप्रदो भवेत् । अब्दमेकं विशालाक्षि तृप्तास्तत्पितरो ध्रुवम् ॥ १०३.१०१ ॥ हिरण्यं रजतं वस्त्रं यो ददाति द्विजातिषु । सर्वं लक्षगुणं देवि लभते नात्र संशयः ॥ १०३.१०२ ॥ एवं गुणविशिष्टोऽसौ सोमरूपः प्रजापतिः । संजातः प्रथमः पुत्रो ह्यनसूयासुनन्दनः ॥ १०३.१०३ ॥ द्वितीयस्तु महादेवि दुर्वासा नाम नामतः । सृष्टिसंहारकर्ता च स्वयं साक्षान्महेश्वरः ॥ १०३.१०४ ॥ ऋषिमध्यगतो देवि तपस्तपति दुष्करम् । सोऽपि रुद्रत्वमायाति सम्प्राप्ते भूतविप्लवे ॥ १०३.१०५ ॥ इन्द्रोऽपि शप्तस्तेनैव दुर्वाससा वरानने । द्वितीयस्य तु पुत्रस्य सम्भवः कथितो मया ॥ १०३.१०६ ॥ दत्तात्रेयस्वरूपेण भगवान्मधुसूदनः । जगद्व्यापी जगन्नाथः स्वयं साक्षाज्जनार्दनः ॥ १०३.१०७ ॥ एते देवास्त्रयः पुत्रा अनसूयाया महेश्वरि । वरदानेन ते देवा ह्यवतीर्णा महीतले ॥ १०३.१०८ ॥ पुत्रप्राप्तिकरं तीर्थं रेवायाश्चोत्तरे तटे । अनसूयाकृतं पार्थ सर्वपापक्षयं परम् ॥ १०३.१०९ ॥ श्रीमार्कण्डेय उवाच - आश्चर्यभूतं लोकेऽस्मिन्नर्मदायां पुरातनम् । भ्रूणहत्या गता तत्र ब्राह्मणस्य नराधिप ॥ १०३.११० ॥ युधिष्ठिर उवाच - इतिहासं द्विजश्रेष्ठ कथयस्व ममानघ । सर्वपापहरं लोके दुःखार्तस्य च कथ्यताम् ॥ १०३.१११ ॥ श्रीमार्कण्डेय उवाच - सुवर्णशिलके ग्रामे गौतमान्वयसम्भवः । कृषीवलो महादेवि भार्यापुत्रसमन्वितः ॥ १०३.११२ ॥ वसते तत्र गोविन्दः संजातो विपुले कुले । पुत्रदारसमोपेतो गृहक्षेत्ररतः सदा ॥ १०३.११३ ॥ शकटं पूरयित्वा तु काष्ठानामगमद्गुहम् । प्रक्षिप्तानि च काष्ठानि ह्येकाकी क्षुधयान्वितः ॥ १०३.११४ ॥ रिङ्गमाणस्तदा पुत्रः पितुः शब्दात्समागतः । न दृष्टस्तेन वै पुत्रः काष्ठैः संछादितोऽवशः ॥ १०३.११५ ॥ आगतस्त्वरितो गेहे पिपासार्तो नराधिप । शकटं मोच्य तद्द्वारि सवृषं रज्जुसंयुतम् ॥ १०३.११६ ॥ भार्या तस्यैव या दृष्टा चित्तज्ञा वशवर्तिनी । दृष्ट्वा निपातितं पुत्रं काष्ठैर्निर्भिन्नमस्तकम् ॥ १०३.११७ ॥ अजल्पमानाकरुणं निक्षिप्तं ज्ञोलिकां शिशुम् । शुश्रूषणे रता साध्वी प्रियस्य च नराधिप ॥ १०३.११८ ॥ ततः स्नानादिकं कृत्वा भोजनाच्छयनं शुभम् । पुत्रं पुत्रवतां श्रेष्ठा ह्युत्थापयति शासनैः ॥ १०३.११९ ॥ यदा च नोत्थितः सुप्तः पुत्रः पञ्चत्वमागतः । तदा सा दीनवदना रुरोद च मुमोह च ॥ १०३.१२० ॥ तच्छ्रुत्वा रुदितं शब्दं गोविन्दस्त्रस्तमानसः । किमेतदिति चोक्त्वा तु पतितो धरणीतले ॥ १०३.१२१ ॥ द्वावेतौ मुक्तकेशौ तु भूमौ निपतितौ नृप । विलेपाते च राजेन्द्र निःश्वासोच्छ्वासितेन च ॥ १०३.१२२ ॥ कं पश्ये प्राङ्गणे पुत्रं दृष्ट्वा क्रीडन्तमातुरम् । संधारयिष्ये हृदयं स्फुटितं तव कारणे ॥ १०३.१२३ ॥ त्वज्जन्मान्तं यशो नित्यमक्षयां कुलसन्ततिम् । दृष्ट्वा किमनृणीभूतो यास्यामि परमां गतिम् ॥ १०३.१२४ ॥ मम वृद्धस्य दीनस्य गतिस्त्वं किल पुत्रक । एते मनोरथाः सर्वे चिन्तिता विफला गताः ॥ १०३.१२५ ॥ इमां तु विकलां दीनां विहीनां सुतबान्धवैः । रुदन्तीं पतितां पाहि मातरं धरणीतले ॥ १०३.१२६ ॥ पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । तेन पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ १०३.१२७ ॥ अपुत्रस्य गृहं शून्यं दिशः शून्या ह्यबान्धवाः । मूर्खस्य हृदयं शून्यं सर्वशून्यं दरिद्रता ॥ १०३.१२८ ॥ मृषायं वदते लोकश्चन्दनं किल शीतलम् । पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः ॥ १०३.१२९ ॥ श्मश्रुग्रहणक्रीडन्तं धूलिधूसरिताननम् । पुण्यहीना न पश्यन्ति निजोत्सङ्गसमास्थितम् ॥ १०३.१३० ॥ दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम् । पुण्यहीना न पश्यन्ति गङ्गाधरमिवात्मजम् ॥ १०३.१३१ ॥ वीणावाद्यस्वरो लोके सुस्वरः श्रूयते किल । रुदितं बालकस्यैव तस्मादाह्लादकारकम् ॥ १०३.१३२ ॥ मृगपक्षिषु काकेषु पशूनां स्वरयोनिषु । पुत्रं तेषु समस्तेषु वल्लभं ब्रुवते बुधाः ॥ १०३.१३३ ॥ मत्स्याश्वप्रकराश्चैव कूर्मग्राहादयोऽपि वा । पुत्रोत्पत्तौ च हृष्यन्ति विपत्तौ यान्ति दुःखिताम् ॥ १०३.१३४ ॥ देवगन्धर्वयक्षाश्च हृष्यन्ते पुत्रजन्मनि । पञ्चत्वे तेऽपि शोचन्ति मन्दभाग्योऽस्मि पुत्रक ॥ १०३.१३५ ॥ ऋषिमेलापकं चक्रे पुत्रार्थे राघवो नृप । इन्द्रस्थाने स्थितस्तस्य प्रोक्षते ह्यासनं यतः ॥ १०३.१३६ ॥ स्वर्गवासं सुताद्बाह्यं विद्यते न तु पाण्डव । चक्रे दशरथस्तस्मात्पुत्रार्थं यज्ञमुत्तमम् ॥ १०३.१३७ ॥ रामो लक्ष्मणशत्रुघ्नौ भरतस्तत्र सम्भवात् । कार्तवीर्यो जितो येन रामेणामिततेजसा ॥ १०३.१३८ ॥ स रामो रामचन्द्रेण अष्टवर्षेण निर्जितः । एकाकिना हतो वाली प्लवगः शत्रुदुर्जयः ॥ १०३.१३९ ॥ रावणो ब्रह्मपुत्रो यस्त्रैलोक्यं यस्य शङ्कते । हतः स रामचन्द्रेण सपुत्रः सहबान्धवः ॥ १०३.१४० ॥ एवं पुत्रं विना सौख्यं मर्त्यलोके न विद्यते । वंशार्थे मैथुनं यस्य स्वर्गार्थे यस्य भारती ॥ १०३.१४१ ॥ मृष्टान्नं ब्राह्मणस्यार्थे स्वर्गे वासं तु यान्ति ते । ब्रह्महत्याश्वमेधाभ्यां न परं पापपुण्ययोः ॥ १०३.१४२ ॥ पुत्रोत्पत्तिविपत्तिभ्यां न परं सुखदुःखयोः । किं ब्रवीमीति भो वत्स न तु सौख्यं सुतं विना ॥ १०३.१४३ ॥ एवं बहुविधं दुःखं प्रलपित्वा पुनःपुनः । जनैश्चाश्वासितो विप्रो बालं गृह्य बहिर्गतः ॥ १०३.१४४ ॥ ततः संस्कृत्य तं बालं विधिदृष्टेन कर्मणा । समवेतौ तु दुःखार्तावागतौ स्वगृहं पुनः ॥ १०३.१४५ ॥ एवं गृहागते विप्रे रात्रिर्जाता युधिष्ठिर । भूमौ प्रसुप्तो गोविन्दः पुत्रशोकेन पीडितः ॥ १०३.१४६ ॥ यावन्निरीक्षते भार्या भर्तारं दुःखपीडितम् । कृमिराशिगतं सर्वं गोविन्दं समपश्यत ॥ १०३.१४७ ॥ दुःखाद्दुःखतरे मग्ना दृष्ट्वा तं पातकान्वितम् । एवं दुःखनिमग्नायाः शर्वरी विगता तदा ॥ १०३.१४८ ॥ पशुपालस्तु महिषीमुक्त्वारण्येऽगमद्गृहात् । अरण्ये महिषीः सर्वा रक्षयित्वा गृहागतः ॥ १०३.१४९ ॥ विज्ञप्तः पशुपालेन गोविन्दो ब्राह्मणोत्तमः । यावद्भोक्ष्याम्यहं स्वामिन्महिषीस्त्वं च रक्षसे ॥ १०३.१५० ॥ ततः स त्वरितो विप्रो जगाम महिषीः प्रति । न तत्र महिषीः पश्येत्पश्चात्क्षेत्राभिसम्मुखम् ॥ १०३.१५१ ॥ धावमानश्च विप्रस्तु एरण्डीसङ्गमे गतः । ततः प्रविष्टस्तु जले रेवैरण्ड्योस्तु सङ्गमे ॥ १०३.१५२ ॥ तज्जलं पीतमात्रं तु त्वरया चातितर्षितः । अकामात्सलिलं पीत्वा प्रक्षाल्य नयने शुभे ॥ १०३.१५३ ॥ आजगाम ततः पश्चाद्भवनं दिवसक्षये । भुक्त्वा दुःखान्वितो रात्रौ गोविन्दः शयनं ययौ ॥ १०३.१५४ ॥ निद्राभिभूतः शोकेन श्रमेणैव तु खेदितः । पुनस्तच्चार्धरात्रे तु तस्य भार्या युधिष्ठिर ॥ १०३.१५५ ॥ कृमिभिर्वेष्टितं गान्त्रं क्वचित्पश्यत्यवेष्टितम् । पुनः सा विस्मयाविष्टा तस्य भार्या गुणान्विता । उवाच दुष्कृतं तस्य साध्वसाविष्टचेतसा ॥ १०३.१५६ ॥ भार्योवाच - अतीते पञ्चमे चाह्नि त्विन्धनं क्षिपतस्तु ते । गृहपश्चाद्गतो बालो ह्यज्ञानाद्घातितस्त्वया ॥ १०३.१५७ ॥ मया तत्पातकं घोरं रहस्यं न प्रकाशितम् । तेन प्रच्छन्नपापेन दह्यमाना दिवानिशम् ॥ १०३.१५८ ॥ न सुखं तव गात्रस्य पश्यामि न हि चात्मनः । निद्रा मम शमं याता रतिश्चैव त्वया सह ॥ १०३.१५९ ॥ श्रूयते मानवे शास्त्रे श्लोको गीतो महर्षिभिः । स्मृत्वा स्मृत्वा तु तं चित्ते परितापो न शाम्यति ॥ १०३.१६० ॥ कीर्तनान्नश्यते धर्मो वर्धतेऽसौ निगूहनात् । इह लोके परे चैव पापस्याप्येवमेव च ॥ १०३.१६१ ॥ एवं संचित्यमानाहं स्थिता रात्रौ भयातुरा । कृमिराशिगतं त्वां हि कस्याहं कथयामि किम् ॥ १०३.१६२ ॥ पुनस्त्वं चाद्य मे दृष्टो भ्रूणहत्याकृमिश्रितः । क्वचिद्भिन्दन्ति ते गात्रं क्वचिन्नष्टाः समन्ततः ॥ १०३.१६३ ॥ एतत्संस्मृत्य संस्मृत्य विमृशामि पुनःपुनः । न जाने कारणं किंचित्पृच्छन्त्याः कथयस्व मे ॥ १०३.१६४ ॥ तडागं वा सरिद्वापि तीर्थं वा देवतार्चनम् । यं गतोऽसि प्रभावोऽयं तस्य नान्यस्य मे स्थितम् ॥ १०३.१६५ ॥ एवमुक्तस्तु विप्रोऽसौ कथयामास भारत । भार्याया यद्दिवा वृत्तं शङ्कमानो नृपोत्तम ॥ १०३.१६६ ॥ अद्याहं महिषीसार्थं एरण्डीसङ्गमं गतः । नाभिमात्रे जले गत्वा पीतवान्सलिलं बहु ॥ १०३.१६७ ॥ नान्यत्तीर्थं विजानामि सरितं सर एव वा । सत्यं सत्यं पुनः सत्यं कथितं तव भामिनि ॥ १०३.१६८ ॥ एवं ज्ञात्वा तु सा सर्वमुपवासकृतक्षणा । सपत्नीको गतस्तत्र सङ्गमे वरवर्णिनि ॥ १०३.१६९ ॥ स्नात्वा तत्र जले रम्ये नत्वा देवं तु भास्करम् । स्नापयामास देवेशं शङ्करं चोमया सह ॥ १०३.१७० ॥ पञ्चगव्यघृतक्षीरैर्दधिक्षौद्रघृतैर्जलैः । गन्धमाल्यादिधूपैश्च नैवेद्यैश्च सुशोभनैः ॥ १०३.१७१ ॥ पूज्य त्रयीमयं लिङ्गं देवीं कात्यायनीं शुभाम् । रात्रौ जागरणं कृत्वा पत्यासि पतिव्रता ॥ १०३.१७२ ॥ ततः प्रभाते विमले द्विजान्सम्पूज्य यत्नतः । गोदानेन हिरण्येन वस्त्रेणान्नेन भारत ॥ १०३.१७३ ॥ गोविन्दः पूजयामास स्वशक्त्या ब्राह्मणाञ्छुभान् । मुक्तपापो गृहायातः स्वभार्यासहितो नृप ॥ १०३.१७४ ॥ एवं यः शृणुते भक्त्या गोविन्दाख्यानमुत्तमम् । पठते परया भक्त्या भ्रूणहत्या प्रणश्यति ॥ १०३.१७५ ॥ क्रीडते शांकरे लोके यावदाभूतसम्प्लवम् । यश्चैवाश्वयुजे मासि चैत्रे वा नृपसत्तम ॥ १०३.१७६ ॥ सप्तम्यां च सिते पक्षे सोपवासो जितेन्द्रियः । सात्त्विकीं वासनां कृत्वा यो वसेच्छिवमन्दिरे ॥ १०३.१७७ ॥ ध्यायमानो विरूपाक्षं त्रिशूलकरसंस्थितम् । कंसासुरनिहन्तारं शङ्खचक्रगदाधरम् ॥ १०३.१७८ ॥ पक्षिराजसमारूढं त्रैलोक्यवरदायकम् । पितामहं ततो ध्यायेद्धंसस्थं चतुराननम् ॥ १०३.१७९ ॥ सर्गप्रदं समस्तस्य कमलाकरशोभितम् । यो ह्येवं वसते तत्र त्रियमे स्थान उत्तमे ॥ १०३.१८० ॥ ततः प्रभाते विमले ह्यष्टम्यां च नराधिप । ब्राह्मणान् पूजयेद्भक्त्या सर्वदोषविवर्जितान् ॥ १०३.१८१ ॥ सर्वावयवसम्पूर्णान्सर्वशास्त्रविशारदान् । वेदाभ्यासरतान्नित्यं स्वदारनिरतान्सदा ॥ १०३.१८२ ॥ श्राद्धे दाने व्रते योग्यान् ब्राह्मणान् पाण्डुनन्दन । प्रेतानां पूजनं तत्र देवपूर्वं समारभेत् ॥ १०३.१८३ ॥ प्रेतत्वान्मुच्यते शीघ्रमेरण्ड्यां पिण्डतर्पणैः । दानानि तत्र देयानि ह्यन्नमुख्यानि सर्वदा ॥ १०३.१८४ ॥ हिरण्यभूमिकन्याश्च धूर्वाहौ शुभलक्षणौ । सीरेण सहितौ पार्थ धान्यं द्रोणकसंख्यया ॥ १०३.१८५ ॥ अलंकृतां सवत्सां च क्षीरिणीं तरुणीं सिताम् । रक्तां वा कृष्णवर्णां वा पाटलां कपिलां तथा ॥ १०३.१८६ ॥ कांस्यदोहनसंयुक्तां रुक्मखुरविभूषणाम् । स्वर्णशृङ्गीं सवत्सां च ब्राह्मणायोपपादयेत् ॥ १०३.१८७ ॥ प्रीयतां मे जगन्नाथा हरकृष्णपितामहाः । संसाररक्षणी देवी सुरभी मां समुद्धरेत् ॥ १०३.१८८ ॥ पुत्रार्थं याः स्त्रियः पार्थ ह्येरण्डीसङ्गमे नृप । स्नाप्यन्ते रुद्रसूक्तैश्च चतुर्वेदोद्भवैस्तथा ॥ १०३.१८९ ॥ चतुर्भिर्ब्राह्मणैः शस्तं द्वाभ्यां योग्यैश्च कारयेत् । एकेन सार्द्रकुम्भेन दाम्पत्यमभिषेचयेत् ॥ १०३.१९० ॥ दैवज्ञेनैव चैकेन अथवा सामगेन वा । पञ्चरत्नसमायुक्तं कुम्भे तत्रैव कारयेत् ॥ १०३.१९१ ॥ गन्धतोयसमायुक्तं सर्वौषधिविमिश्रितम् । आम्रपल्लवसंयुक्तमश्वत्थमधुकं तथा ॥ १०३.१९२ ॥ गुण्ठितं सितवस्त्रेण सितचन्दनचर्चितम् । सितपुष्पैस्तु संछन्नं सिद्धार्थकृतमध्यमम् ॥ १०३.१९३ ॥ कांस्यपात्रे तु संस्थाप्य पुत्रार्थी देशिकोत्तमः । अङ्गलग्नं तु यद्वस्त्रं कटकाभरणं तथा ॥ १०३.१९४ ॥ तत्सर्वं मण्डले त्याज्यं सिद्ध्यर्थं चात्मनस्तदा । प्रणम्य भास्करं पश्चादाचार्यं रुद्ररूपिणम् ॥ १०३.१९५ ॥ मधुरं च ततोऽश्नीयाद्देव्या भुवन उत्तमे । फलदानं च विप्राय छत्रं ताम्बूलमेव च ॥ १०३.१९६ ॥ उपानहौ च यानं च स भवेद्दुःखवर्जितः । भास्करे क्रीडते लोके यावदाभूतसम्प्लवम् ॥ १०३.१९७ ॥ दानं कोटिगुणं सर्वं शुभं वा यदि वाशुभम् । यथा नदीनदाः सर्वे सागरे यान्ति संक्षयम् ॥ १०३.१९८ ॥ एवं पापानि नश्यन्ति ह्येरण्डीसङ्गमे नृणाम् । समन्ताच्छस्त्रपातेन ह्येरण्डीसङ्गमे नृप ॥ १०३.१९९ ॥ भ्रूणहत्यासमं पापं नश्यते शङ्करोऽब्रवीत् । प्राणत्यागं च यो भक्त्या जातवेदसि कारयेत् ॥ १०३.२०० ॥ अनाशकं नृपश्रेष्ठ जले वा तदनन्तरम् । पञ्चसाहस्रिकं मानं वर्षाणां जातवेदसि ॥ १०३.२०१ ॥ जले त्रीणि सहस्राण्यनाशके षष्टिं भुञ्जते । काका बकाः कपोताश्च ह्युलूकाः पशवस्तथा ॥ १०३.२०२ ॥ संगमोदकसंस्पृष्टास्ते यान्ति परमां गतिम् । वृक्षाश्च तत्पदं ज्ञात्वा यां गतिं यान्ति योगिनः ॥ १०३.२०३ ॥ एरण्डिका मया देवी दृष्टो मे मन्मथेश्वरः । किं समर्थो यमो रुष्टो भद्रो भद्राणि पश्यति ॥ १०३.२०४ ॥ मृत्तिकां सङ्गमोद्भूतां ये च गुण्ठन्ति नित्यशः । भ्रूणहत्यादिपापानि नश्यन्ते नात्र संशयः ॥ १०३.२०५ ॥ एरण्डीसङ्गमे मर्त्यो लुण्ठ्यमानो नराधिप । सर्वपापैर्विनिर्मुक्तः पदं गच्छत्यनामयम् ॥ १०३.२०६ ॥ एरण्ड्याः सङ्गमं मर्त्याः कीर्तयन्त्याश्रमस्थिताः । विमुक्तपापा जायन्ते सत्यं शङ्करभाषितम् ॥ १०३.२०७ ॥ एरण्डीपादपाग्रैस्तु दृष्टैः पापं व्यपोहति ॥ १०३.२०८ ॥ तीर्थाख्यानमिदं पुण्यं ये पठिष्यन्ति मानवाः । शृण्वन्ति चापरे भक्त्या मुक्तपापा भवन्ति ते ॥ १०३.२०९ ॥ एतत्ते सर्वमाख्यातमेरण्डीसङ्गमं नृप । भूयश्चान्यत्प्रवक्ष्यामि सर्वपापक्षयंकरम् ॥ १०३.२१० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीसङ्गमतीर्थफलमाहात्म्यवर्णनं नाम त्र्यधिकशततमोऽध्यायः ॥ ऋKV अध्याय १०४ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपालं सौवर्णशिलमुत्तमम् । प्रख्यातमुत्तरे कूले सर्वपापक्षयंकरम् ॥ १०४.१ ॥ समन्ताच्छतपातेन मुनिसङ्घैः पुरा कृतम् । रेवायां दुर्लभं स्थानं सङ्गमस्य समीपतः ॥ १०४.२ ॥ विभक्तं हस्तमात्रं च पुण्यक्षेत्रं नराधिप । सुवर्णशिलके स्नात्वा पूजयित्वा महेश्वरम् ॥ १०४.३ ॥ नत्वा तु भास्करं देवं होतव्यं च हुताशने । बिल्वेनाज्यविमिश्रेण बिल्वपत्रैरथापि वा ॥ १०४.४ ॥ प्रीयतां मे जगन्नाथो व्याधिर्नश्यतु मे ध्रुवम् । द्विजाय काञ्चने दत्ते यत्फलं तच्छृणुष्व मे ॥ १०४.५ ॥ बहुस्वर्णस्य यत्प्रोक्तं यागस्य फलमुत्तमम् । तथासौ लभते सर्वं काञ्चनं यः प्रयच्छति ॥ १०४.६ ॥ तेन दानेन पूतात्मा मृतः स्वर्गमवाप्नुयात् । रुद्रस्यानुचरस्तावद्यावदिन्द्राश्चतुर्दश ॥ १०४.७ ॥ ततः स्वर्गावतीर्णस्तु जायते विशदे कुले । धनधान्यसमोपेतः पुनः स्मरति तज्जलम् ॥ १०४.८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सुवर्णशिलातीर्थमाहात्म्यवर्णनं नाम चतुरधिकशततमोऽध्यायः ॥ ऋKV अध्याय १०५ श्रीमार्कण्डेय उवाच - करञ्जाख्यं ततो गच्छेत्सोपवासो जितेन्द्रियः । तत्र स्नात्वा तु राजेन्द्र सर्वपापैः प्रमुच्यते ॥ १०५.१ ॥ अर्चयित्वा महादेवं दत्त्वा दानं तु भक्तितः । सुवर्णं रजतं वापि मणिमौक्तिकविद्रुमान् ॥ १०५.२ ॥ पादुकोपानहौ छत्रं शय्यां प्रावरणानि च । कोटिकोटिगुणं सर्वं जायते नात्र संशयः ॥ १०५.३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे करञ्जतीर्थमाहात्म्यवर्णनं नाम पञ्चाधिकशततमोऽध्यायः ॥ ऋKV अध्याय १०६ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल तीर्थं परमशोभनम् । सौभाग्यकरणं दिव्यं नरनारीमनोरमम् ॥ १०६.१ ॥ तत्र या दुर्भगा नारी नरो वा नृपसत्तम । स्नात्वार्चयेदुमारुद्रौ सौभाग्यं तस्य जायते ॥ १०६.२ ॥ तृतीयायामहोरात्रं सोपवासो जितेन्द्रियः । निमन्त्रयेद्द्विजं भक्त्या सपत्नीकं सुरूपिणम् ॥ १०६.३ ॥ गन्धमाल्यैरलंकृत्य वस्त्रधूपादिवासितम् । भोजयेत्पायसान्नेन कृसरेणाथ भक्तितः ॥ १०६.४ ॥ भोजयित्वा यथान्यायं प्रदक्षिणमुदाहरेत् । प्रीयतां मे महादेवः सपत्नीको वृषध्वजः ॥ १०६.५ ॥ यथा ते देवदेवेश न वियोगः कदाचन । ममापि करुणां कृत्वा तथास्त्विति विचिन्तयेत् ॥ १०६.६ ॥ एवं कृते ततस्तस्य यत्पुण्यं समुदाहृतम् । तत्ते सर्वं प्रवक्ष्यामि यथा देवेन भाषितम् ॥ १०६.७ ॥ दौर्भाग्यं दुर्गतिश्चैव दारिद्र्यं शोकबन्धनम् । वन्ध्यत्वं सप्तजन्मानि जायते न युधिष्ठिर ॥ १०६.८ ॥ ज्येष्ठमासे सिते पक्षे तृतीयायां विशेषतः । तत्र गत्वा तु यो भक्त्या पञ्चाग्निं साधयेत्ततः ॥ १०६.९ ॥ सोऽपि पापैरशेषैस्तु मुच्यते नात्र संशयः । गुग्गुलं दहते यस्तु द्विधा चित्तविवर्जितः ॥ १०६.१० ॥ शरीरं भेदयेद्यस्तु गौर्याश्चैव समीपतः । तस्मिन्कर्मप्रविष्टस्य उत्क्रान्तिर्जायते यदि ॥ १०६.११ ॥ देहपाते व्रजेत्स्वर्गमित्येवं शङ्करोऽब्रवीत् । सितरक्तैस्तथा पीतैर्वस्त्रैश्च विविधैः शुभैः ॥ १०६.१२ ॥ ब्राह्मणीं ब्राह्मणं चैव पूजयित्वा यथाविधि । पुष्पैर्नानाविधैश्चैव गन्धधूपैः सुशोभनैः ॥ १०६.१३ ॥ कण्ठसूत्रकसिन्दूरैः कुङ्कुमेन विलेपयेत् । कल्पयेत स्त्रियं गौरीं ब्राह्मणं शिवरूपिणम् ॥ १०६.१४ ॥ तेषां तद्रूपकं कृत्वा दानमुत्सृज्यते ततः । कङ्कणं कर्णवेष्टं च कण्ठिकां मुद्रिकां तथा ॥ १०६.१५ ॥ सप्तधान्यं तथा चैव भोजनं नृपसत्तम । अन्यान्यपि च दानानि तस्मिंस्तीर्थे ददाति यः ॥ १०६.१६ ॥ सर्वदानैश्च यत्पुण्यं प्राप्नुयान्नात्र संशयः । सहस्रगुणितं सर्वं नात्र कार्या विचारणा ॥ १०६.१७ ॥ शङ्करेण समं तस्माद्भोगं भुङ्क्ते ह्यनुत्तमम् । सौभाग्यं तस्य विपुलं जायते नात्र संशयः ॥ १०६.१८ ॥ अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् । राजेन्द्र कामदं तीर्थं नर्मदायां व्यवस्थितम् ॥ १०६.१९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कामदतीर्थमाहात्म्यवर्णनं नाम षडुत्तरशततमोऽध्यायः॥ ऋKV अध्याय १०७ श्रीमार्कण्डेय उवाच - ततो गच्छेत राजेन्द्र भण्डारीतीर्थमुत्तमम् । दरिद्रच्छेदकरणं युगान्येकोनविंशतिः ॥ १०७.१ ॥ धनदेन तपस्तप्त्वा प्रसन्ने पद्मसम्भवे । तत्रैव स्वल्पदानेन प्राप्तं वित्तस्य रक्षणम् ॥ १०७.२ ॥ तत्र गत्वा तु यो भक्त्या स्नात्वा वित्तं प्रयच्छति । तस्य वित्तपरिच्छेदो न कदाचिद्भविष्यति ॥ १०७.३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भण्डारीतीर्थमाहात्म्यवर्णनं नाम सप्तोत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १०८ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल रोहिणीतीर्थमुत्तमम् । विख्यातं त्रिषु लोकेषु सर्वपापहरं परम् ॥ १०८.१ ॥ युधिष्ठिर उवाच - रोहिणीतीर्थमाहात्म्यं सर्वपापप्रणाशनम् । श्रोतुमिच्छामि तत्त्वेन तन्मे त्वं वक्तुमर्हसि ॥ १०८.२ ॥ श्रीमार्कण्डेय उवाच - तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे । उदधौ च शयानस्य देवदेवस्य चक्रिणः ॥ १०८.३ ॥ नाभौ समुत्थितं पद्मं रविमण्डलसन्निभम् । कर्णिकाकेसरोपेतं पत्रैश्च समलंकृतम् ॥ १०८.४ ॥ तत्र ब्रह्मा समुत्पन्नश्चतुर्वदनपङ्कजः । किं करोमीति देवेश आज्ञा मे दीयतां प्रभो ॥ १०८.५ ॥ एवमुक्तस्तु देवेशः शङ्खचक्रगदाधरः । उवाच मधुरां वाणीं तदा देवं पितामहम् ॥ १०८.६ ॥ सरस्वत्यां महाबाहो लोकं कुरु ममाज्ञया । भूतग्राममशेषस्य उत्पादनविधिक्षयम् ॥ १०८.७ ॥ एतच्छ्रुतं तु वचनं पद्मनाभस्य भारत । चिन्तयामास भगवान्सप्तर्षीन्हितकाम्यया ॥ १०८.८ ॥ क्रमात्ते चिन्तिताः प्राज्ञाः पुलस्त्यः पुलहः क्रतुः । प्राचेतसो वसिष्ठश्च भृगुर्नारद एव च ॥ १०८.९ ॥ यज्ञे प्राचेतसो दक्षो महातेजाः प्रजापतिः । दक्षस्यापि तथा जाताः पञ्चाशद्दुहितरोऽनघ ॥ १०८.१० ॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । तथैव स महाभागः सप्तविंशतिमिन्दवे ॥ १०८.११ ॥ रोहिणीनाम या तासां मध्ये तस्य नराधिप । अनिष्टा सर्वनारीणां भर्तुश्चैव विशेषतः ॥ १०८.१२ ॥ ततः सा परमं कृत्वा वैराग्यं नृपसत्तम । आगत्य नर्मदातीरे चचार विपुलं तपः ॥ १०८.१३ ॥ एकरात्रैस्त्रिरात्रैश्च षड्द्वादशभिरेव च । पक्षमासोपवासैश्च कर्शयन्ति कलेवरम् ॥ १०८.१४ ॥ आराधयन्ती सततं महिषासुरनाशिनीं । देवीं भगवतीं तात सर्वार्तिविनिवारणीम् ॥ १०८.१५ ॥ स्नात्वा स्नात्वा जले नित्यं नर्मदायाः शुचिस्मिता । ततस्तुष्टा महाभागा देवी नारायणी नृप ॥ १०८.१६ ॥ प्रसन्ना ते महाभागे व्रतेन नियमेन च । एतच्छ्रुत्वा तु वचनं रोहिणी शशिनः प्रिया ॥ १०८.१७ ॥ यथा भवामि न चिरात्तथा भवतु मानदे । एवमस्त्विति सा चोक्त्वा भवानी भक्तवत्सला ॥ १०८.१८ ॥ स्तूयमाना मुनिगणैस्तत्रैवान्तरधीयत । तदाप्रभृति तत्तीर्थं रोहिणी शशिनः प्रिया ॥ १०८.१९ ॥ संजाता सर्वकालं तु वल्लभा नृपसत्तम । तत्र तीर्थे तु या नारी नरो वा स्नानि भक्तितः ॥ १०८.२० ॥ वल्लभा जायते सा तु भर्तुर्वै रोहिणी यथा । तत्र तीर्थे तु यः कश्चित्प्राणत्यागं करोति वै ॥ १०८.२१ ॥ सप्तजन्मानि दाम्पत्यवियोगो न भवेत्क्वचित् ॥ १०८.२२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रोहिणीसोमनाथतीर्थमाहात्म्यवर्णनं नामाष्टोत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १०९ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल चक्रतीर्थमनुत्तमम् । सेनापुरमितिख्यातं सर्वपापक्षयंकरम् ॥ १०९.१ ॥ सैनापत्याभिषेकाय देवदेवेन चक्रिणा । आनीतश्च महासेनो देवैः सेन्द्रपुरोगमैः ॥ १०९.२ ॥ दानवानां वधार्थाय जयाय च दिवौकसाम् । भूमिदानेन विप्रेन्द्रांस्तर्पयित्वा यथाविधि ॥ १०९.३ ॥ शङ्खभेरीनिनादैश्च पटहानां च निस्वनैः । वीणावेणुमृदङ्गैश्च झल्लरीस्वरमङ्गलैः ॥ १०९.४ ॥ ततः कृत्वा स्वनं घोरं दानवो बलदर्पितः । रुरुर्नाम विघातार्थमभिषेकस्य चागतः ॥ १०९.५ ॥ हस्त्यश्वरथपत्त्योघैः पूरयन्वै दिशो दश । तत्र तेन महद्युद्धं प्रवृत्तं किल भारत ॥ १०९.६ ॥ शक्त्यृष्टिपाशमुशलैः खड्गैस्तोमरटङ्कनैः । भल्लैः कर्णिकनाराचैः कबन्धपटसंकुलैः ॥ १०९.७ ॥ ततस्तु तां शत्रुबलस्य सेनां क्षणेन चापन्च्युतबाणघातैः । विध्वस्तहस्त्यश्वरथान्महात्मा जग्राह चक्रं रिपुसङ्घनाशनः ॥ १०९.८ ॥ ज्वलच्च चक्रं निशितं भयंकरं सुरासुराणां च सुदर्शनं रणे । चकर्त दैत्यस्य शिरस्तदानीं करात्प्रमुक्तं मधुघातिनश्च तत् ॥ १०९.९ ॥ तं दृष्ट्वा सहसा विघ्नमभिषेके षडाननः । त्यक्त्वा तु तत्र संस्थानं चचार विपुलं तपः ॥ १०९.१० ॥ मुक्तं चक्रं विनाशाय हरिणा लोकधारिणा । द्विदलं दानवं कृत्वा पपात विमले जले ॥ १०९.११ ॥ तदा प्रभृति तत्तीर्थं चक्रतीर्थमिति श्रुतम् । सर्वपापविनाशाय निर्मितं विश्वमूर्तिना ॥ १०९.१२ ॥ चक्रतीर्थे तु यः स्नात्वा पूजयेद्देवमच्युतम् । पुण्डरीकस्य यज्ञस्य फलमाप्नोति मानवः ॥ १०९.१३ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेद्ब्राह्मणाञ्छुभान् । शान्तदान्तजितक्रोधान्स लभेत्कोटिजं फलम् ॥ १०९.१४ ॥ तत्र तीर्थे तु यो भक्त्या त्यजते देहमात्मनः । विष्णुलोकं मृतो याति जयशब्दादिमङ्गलैः ॥ १०९.१५ ॥ क्रीडयित्वा यथाकामं देवगन्धर्वपूजितः । इहागत्य च भूयोऽपि जायते विपुले कुले ॥ १०९.१६ ॥ एतत्पुण्यं पापहरं धन्यं दुःखप्रणाशनम् । कथितं ते महाभाग भूयश्चान्यच्छृणुष्व मे ॥ १०९.१७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सेनापुरे चक्रतीर्थमाहात्म्यवर्णनं नाम नवोत्तरशततमोऽध्यायः ॥ ऋKV अध्याय ११० श्रीमार्कण्डेय उवाच - धौतपापं ततो गच्छेन्महापातकनाशनम् । समीपे चक्रतीर्थस्य विष्णुना निर्मितं पुरा ॥ ११०.१ ॥ निहतैर्दानवैर्घोरैर्देवदेवो जनार्दनः । तत्पापस्य विनाशार्थं दानवान्तोद्भवस्य च ॥ ११०.२ ॥ तत्र तीर्थे जितक्रोधश्चचार विपुलं तपः । दुश्चरं मौनमास्थाय ह्यशक्यं देवदानवैः ॥ ११०.३ ॥ स्नात्वा दत्त्वा द्विजातिभ्यो दानानि विविधानि च । तत्क्षणात्सुपापस्तु गतस्तद्वैष्णवं पदम् ॥ ११०.४ ॥ एवं युक्तस्तु यस्तत्र पापं कृत्वा सुदारुणम् । स्नात्वा जप्त्वा विधानेन मुच्यते सर्वपातकैः ॥ ११०.५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे धौतपापतीर्थमाहात्म्यवर्णनं नाम दशोत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १११ श्रीमार्कण्डेय उवाच - नर्मदादक्षिणे कूले तीर्थं परमशोभनम् । स्कन्देन निर्मितं पूर्वं तपः कृत्वा सुदारुणम् ॥ १११.१ ॥ युधिष्ठिर उवाच - स्कन्दस्य चरितं सर्वमाजन्म द्विजसत्तम । तीर्थस्य च विधिं पुण्यं कथयस्व यथार्थतः ॥ १११.२ ॥ श्रीमार्कण्डेय उवाच - देवदेवेन वै तप्तं तपः पूर्वं युधिष्ठिर । विज्ञप्तेन सुरैः सर्वैरुमादेवी विवाहिता ॥ १११.३ ॥ नास्ति सेनापतिः कश्चिद्देवानां सुरसत्तम । नीयन्ते दानवैर्घोरैः सर्वे देवाः सवासवाः ॥ १११.४ ॥ यथा निशा विना चन्द्रं दिवसो भास्करं विना । न शोभते मुहूर्तं वै तथा सेना विनायका ॥ १११.५ ॥ एवं ज्ञात्वा महादेव परया दयया विभो । सेनानीर्दीयतां कश्चित्त्रिषु लोकेषु विश्रुतः ॥ १११.६ ॥ एतच्छ्रुत्वा शुभं वाक्यं देवानां परमेश्वरः । कामयान उमां देवीं सस्मार मनसा स्मरम् ॥ १११.७ ॥ तेन मूर्छितसर्वाङ्गः कामरूपो जगद्गुरुः । कामयामास रुद्राणीं दिव्यं वर्षशतं किल ॥ १११.८ ॥ देवराजस्ततो ज्ञात्वा महामैथुनगं हरम् । संमन्त्र्य दैवतैः सार्द्धं प्रैषयज्जातवेदसम् ॥ १११.९ ॥ तेन गत्वा महादेवः परमानन्दसंस्थितः । सहसा तेन दृष्टोऽसौ हाहेत्युक्त्वा समुत्थितः ॥ १११.१० ॥ ततः क्रुद्धा महादेवी शापवाचमुवाच ह । वेपमाना महाराज शृणु यत्ते वदाम्यहम् ॥ १११.११ ॥ अहं यस्मात्सुरैः सर्वैर्याचिता पुत्रजन्मनि । कृता रतिश्च विफला संप्रेष्य जातवेदसम् ॥ १११.१२ ॥ तस्मात्सर्वे पुत्रहीना भविष्यन्ति न संशयः । हरेणोक्तस्ततो वह्निरस्माकं बीजमावह ॥ १११.१३ ॥ यथा भवति लोकेषु तथा त्वं कर्तुमर्हसि । मम तेजस्त्वया शक्यं गृहीतुं सुरसत्तम । देवकार्यार्थसिद्ध्यर्थं नान्यः शक्तो जगत्त्रये ॥ १११.१४ ॥ अग्निरुवाच - तेजसस्तव मे देव का शक्तिर्धारणे विभो । करोति भस्मसात्सर्वं त्रैलोक्यं सचराचरम् ॥ १११.१५ ॥ ईश्वर उवाच - उदरस्थेन बीजेन यदि ते जायते रुजा । तदा क्षिपस्व तत्तेजो गङ्गातोये हुताशन ॥ १११.१६ ॥ एवमुक्त्वा महादेवोऽमोघं बीजमुत्तमम् । हव्यवाहमुखे सर्वं प्रक्षिप्यान्तरधीयत ॥ १११.१७ ॥ गते चादर्शनं देवे दह्यमानो हुताशनः । गङ्गातोये विनिक्षिप्य जगाम स्वंनिवेशनम् ॥ १११.१८ ॥ असहन्ती तु तत्तेजो गङ्गापि सरितां वरा । शरस्तम्बे विनिक्षिप्य जगामाशु यथागतम् ॥ १११.१९ ॥ तत्र जातं तु तद्दृष्ट्वा सर्वे देवाः सवासवाः । कृत्तिकां प्रेषयामासुः स्तन्यं पाययितुं तदा ॥ १११.२० ॥ दृष्ट्वा ता आगताः सर्वा गङ्गागर्भे महामतेः । षण्मुखैः षण्मुखो भूत्वा पिपासुरपिबत्स्तनम् ॥ १११.२१ ॥ जातकर्मादिसंस्कारान्वेदोक्तान्पद्मसम्भवः । चकार सर्वान्दाजेन्द्र विधिदृष्टेन कर्मणा ॥ १११.२२ ॥ षण्मुखात्षण्मुखो नाम कार्त्तिकेयस्तु कृत्तिकात् । कुमारश्च कुमारत्वाद्गङ्गागर्भोऽग्निजोऽपरः ॥ १११.२३ ॥ एवं कुमारः सम्भूतो ह्यनधीत्य स वेदवित् । शास्त्राण्यनेकानि वेद चचार विपुलं तपः ॥ १११.२४ ॥ देवारण्येषु सर्वेषु नदीषु च नदेषु च । पृथिव्यां यानि तीर्थानि समुद्राद्यानि भारत ॥ १११.२५ ॥ ततः पर्याययोगेन नर्मदातटमाश्रितः । नर्मदादक्षिणे कूले चचार विपुलं तपः ॥ १११.२६ ॥ ऋग्यजुःसामविहितं जपञ्जाप्यमहर्निशम् । ध्यायमानो महादेवं शुचिर्धमनिसंततः ॥ १११.२७ ॥ ततो वर्षसहस्रान्ते पूर्णे देवो महेश्वरः । उमया सहितः काले तदा वचनमब्रवीत् ॥ १११.२८ ॥ ईश्वर उवाच - अहं ते वरदस्तात गौरी माता पिता ह्यहम् । वरं वृणीष्व यच्चेष्टं त्रिषु लोकेषु दुर्लभम् ॥ १११.२९ ॥ षण्मुख उवाच - यदि तुष्टो महादेव उमया सह शङ्कर । वृणोमि मातापितरौ नान्या गतिर्मतिर्मम ॥ १११.३० ॥ एतच्छ्रुत्वा शुभं वाक्यं पुत्रस्य वदनाच्च्युतम् । तथेत्युक्त्वा तु स्नेहेन प्रेम्णा तं परिषस्वजे ॥ १११.३१ ॥ ततस्तं मूर्ध्न्युपाघ्राय ह्युमयोवाच शङ्करः ॥ १११.३२ ॥ ईश्वर उवाच - अक्षयश्चाव्ययश्चैव सेनानीस्त्वं भविष्यसि ॥ १११.३३ ॥ शिखी च ते वाहनं दिव्यरूपो दत्तो मया शक्तिधरस्य संख्ये । सुरासुरादींश्च जयेति चोक्त्वा जगाम कैलासवरं महात्मा ॥ १११.३४ ॥ गते चादर्शनं देवे तदा स शिखिवाहनः । स्थापयित्वा महादेवं जगाम सुरसन्निधौ ॥ १११.३५ ॥ तदाप्रभृति तत्तीर्थं स्कन्दतीर्थमिति श्रुतम् । सर्वपापहरं पुण्यं मर्त्यानां भुवि दुर्लभम् ॥ १११.३६ ॥ तत्र तीर्थे तु यो राजन्भक्त्या स्नात्वार्चयेच्छिवम् । गन्धमाल्याभिषेकैश्च याज्ञिकं स लभेत्फलम् ॥ १११.३७ ॥ स्कन्दतीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः । तिलमिश्रेण तोयेन तस्य पुण्यफलं शृणु ॥ १११.३८ ॥ पिण्डदानेन चैकेन विधियुक्तेन भारत । द्वादशाब्दानि तुष्यन्ति पितरो नात्र संशयः ॥ १११.३९ ॥ तत्र तीर्थे तु राजेन्द्र शुभं वा यादि वाशुभम् । इह लोके परे चैव तत्सर्वं जायतेऽक्षयम् ॥ १११.४० ॥ तत्र तीर्थे तु यः कश्चित्प्राणत्यागं करिष्यति । शास्त्रयुक्तेन विधिना स गच्छेच्छिवमन्दिरम् ॥ १११.४१ ॥ कल्पमेकं वसित्वा तु देवगन्धर्वपूजितः । अत्र भारतवर्षे तु जायते विमले कुले ॥ १११.४२ ॥ वेदवेदाङ्गतत्त्वज्ञः सर्वव्याधिविवर्जितः । जीवेद्वर्षशतं साग्रं पुत्रपौत्रसमन्वितः ॥ १११.४३ ॥ इदं ते कथितं राजन्स्कन्दतीर्थस्य सम्भवम् । धन्यं यशस्यमायुष्यं सर्वदुःखघ्नमुत्तमम् । सर्वपापहरं पुण्यं देवदेवेन भाषितम् ॥ १११.४४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे स्कन्दतीर्थमाहात्म्यवर्णनं नामैकादशोत्तरशततमोऽध्यायः ॥ ऋKV अध्याय ११२ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र तीर्थमाङ्गिरसस्य तु । उत्तरे नर्मदाकूले सर्वपापविनाशनम् ॥ ११२.१ ॥ पुरासीदङ्गिरानाम ब्राह्मणो वेदपारगः । पुत्रहेतोर्युगस्यादौ चचार विपुलं तपः ॥ ११२.२ ॥ नित्यं त्रिषवणस्नायी जपन्देवं सनातनम् । पूजयंश्च महादेवं कृच्छ्रचान्द्रायणादिभिः ॥ ११२.३ ॥ द्वादशाब्दे ततः पूर्णे तुतोष परमेश्वरः । वरेण छन्दयामास द्विजमाङ्गिरसं वरम् ॥ ११२.४ ॥ वव्रे स तु महादेवं पुत्रं पुत्रवतां वरम् । वेदविद्याव्रतस्नातं सर्वशास्त्रविशारदम् ॥ ११२.५ ॥ देवानां मन्त्रिणं राजन् सर्वलोकेषु पूजितम् । ब्रह्मलक्ष्म्याः सदावासमक्षयं चाव्ययं सुतम् ॥ ११२.६ ॥ तथाभिलषितः पुत्रः सर्वविद्याविशारदः । भविष्यति न सन्देहश्चैवमुक्त्वा ययौ हरः ॥ ११२.७ ॥ वरैरङ्गिरसश्चापि बृहस्पतिरजायत । यथाभिलषितः पुत्रो वेदवेदाङ्गपारगः ॥ ११२.८ ॥ जाते पुत्रेऽङ्गिरास्तत्र स्थापयामास शङ्करम् । हृष्टतुष्टमना भूत्वा जगामोत्तरपर्वतम् ॥ ११२.९ ॥ तत्र चाङ्गिरसे तीर्थे यः स्नात्वा पूजयेच्छिवम् । सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति ॥ ११२.१० ॥ अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् । इच्छते यश्च यं कामं स तं लभति मानवः ॥ ११२.११ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽग्निरसतीर्थमाहात्म्यवर्णनं नाम द्वादशाधिकशततमोऽध्यायः ॥ ऋKV अध्याय ११३ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र कोटितीर्थमनुत्तमम् । ऋषिकोटिर्गता तत्र परां सिद्धिमुपागता ॥ ११३.१ ॥ तत्र तीर्थे तु यः स्नात्वा भोजयेद्ब्राह्मणाञ्छुचिः । एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥ ११३.२ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः । पूजिते तु महादेवे वाजपेयफलं लभेत् ॥ ११३.३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नाम त्रयोदशाधिकशाततमोऽध्यायः ॥ ऋKV अध्याय ११४ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । अयोनिजं महापुण्यं सर्वपापप्रणाशनम् ॥ ११४.१ ॥ अयोनिजे नरः स्नात्वा पूजयेत्परमेश्वरम् । पितृदेवार्चनं कृत्वा मुच्यते सर्वकिल्बिषैः ॥ ११४.२ ॥ तत्र तीर्थे तु विधिना प्राणत्यागं करोति यः । स कदाचिन्महाराज योनिद्वारं न पश्यति ॥ ११४.३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अयोनिसम्भवतीर्थमाहात्म्यवर्णनं नाम चतुर्दशाधिकशततमोऽध्यायः ॥ ऋKV अध्याय ११५ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महाराज तीर्थमङ्गारकं परम् । रूपदं सर्वलोकानां विश्रुतं नर्मदातटे ॥ ११५.१ ॥ अङ्गारकेण राजेन्द्र पुरा तप्तं तपः किल । अर्बुदं च निखर्वं च प्रयुतं वर्षसंख्यया ॥ ११५.२ ॥ ततस्तुष्टो महादेवः परया कृपया नृप । प्रत्यक्षदर्शी भगवानुवाच क्षितिनन्दनम् ॥ ११५.३ ॥ वरदोऽस्मि महाभाग दुर्लभं त्रिदशैरपि । वरं दास्याम्यहं वत्स ब्रूहि यत्ते विवक्षितम् ॥ ११५.४ ॥ अङ्गारक उवाच - तव प्रसादाद्देवेश सर्वलोकमहेश्वर । ग्रहमध्यगतो नित्यं विचरामि नभस्तले ॥ ११५.५ ॥ यावद्धराधरो लोके यावच्चन्द्रदिवाकरौ । नद्यो नदाः समुद्राश्च वरो मे चाक्षयो भवेत् ॥ ११५.६ ॥ एवमस्त्विति देवेशो दत्त्वा वरमनुत्तमम् । जगामाकाशमाविश्य वन्द्यमानः सुरासुरैः ॥ ११५.७ ॥ भूमिपुत्रस्ततस्तस्मिन्स्थापयामास शङ्करम् । गतः सुरालये लोके ग्रहभावे निवेशितः ॥ ११५.८ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् । हुतहोमो जितक्रोधः सोऽश्वमेधफलं लभेत् ॥ ११५.९ ॥ चतुर्थ्यङ्गारके यस्तु स्नात्वा चाभ्यर्चयेद्ग्रहम् । अङ्गारकं विधानेन सप्तजन्मानि भारत ॥ ११५.१० ॥ दशयोजनविस्तीर्णे मण्डले रूपवान् भवेत् । तत्रैव ता मृतो जन्तुः कामतोऽकामतोऽपि वा । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ ११५.११ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अङ्गारकतीर्थमाहात्म्यवर्णनं नाम पञ्चदशोत्तरशततमोऽध्यायः ॥ ऋKV अध्याय ११६ मार्कण्डेय उवाच - पाण्डुतीर्थं ततो गच्छेत्सर्वपापविनाशनम् । तत्र स्नात्वा नरो राजन्मुच्यते सर्वकिल्बिषैः ॥ ११६.१ ॥ तत्र तीर्थे तु यः स्नात्वा दापयेत्काञ्चनं शुचिः । भ्रूणहत्यादिपापानि नश्यन्ते नात्र संशयः ॥ ११६.२ ॥ पिण्डोदकप्रदानेन वाजपेयफलं लभेत् । पितरः पितामहाश्च नृत्यन्ते च प्रहर्षिताः ॥ ११६.३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पाण्डुतीर्थमाहात्म्यवर्णनं नाम षोडशाधिकशततमोऽध्यायः ॥ ऋKV अध्याय ११७ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र पुण्यं तीर्थं त्रिलोचनम् । तत्र तिष्ठति देवेशः सर्वलोकनमस्कृतः ॥ ११७.१ ॥ तत्र तीर्थे तु यः स्नात्वा भक्त्यार्चयति शङ्करम् । रुद्रस्य भवनं याति मृतो नास्त्यत्र संशयः ॥ ११७.२ ॥ कल्पक्षये ततः पूर्णे क्रीडित्वा च इहागतः । आवियोगेन तिष्ठेत पूज्यमानः शतं समाः ॥ ११७.३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे त्रिलोचनतीर्थमाहात्म्यवर्णनं नाम सप्तदशोत्तरशततमोऽध्यायः ॥ ऋKV अध्याय ११८ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । इन्द्रतीर्थेतिविख्यातं नर्मदादक्षिणे तटे ॥ ११८.१ ॥ युधिष्ठिर उवाच - नर्मदादक्षिणे कूले इन्द्रतीर्थं कथं भवेत् । श्रोतुमिच्छामि विप्रेन्द्र ह्यादिमध्यान्तविस्तरैः ॥ ११८.२ ॥ एतच्छ्रुत्वा तु वचनं धर्मपुत्रस्य धीमतः । कथयामास तद्वत्तमितिहासं पुरातनम् ॥ ११८.३ ॥ श्रीमार्कण्डेय उवाच - विश्वासयित्वा सुचिरं धर्मशत्रुं महाबलम् । वृत्रं जित्वाथ हत्वा तु गच्छमानं शचीपतिम् ॥ ११८.४ ॥ निष्क्राममाणं मार्गेण ब्रह्महत्या दुरासदा । अहोरात्रमविश्रान्ता जगाम भुवनत्रयम् ॥ ११८.५ ॥ यतोयतो ब्रह्महणं याति यानेन शोभनम् । दिशो भागं सुरैः सार्द्धं ततो हत्या न मुञ्चति ॥ ११८.६ ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वगनागमः । पातकानां गतिर्दृष्टा न तु विश्वासघातिनाम् ॥ ११८.७ ॥ पापकर्ममुखं दृष्ट्वा स्नानदानैर्विशुध्यति । नारी वा पुरुषो वापि नैव विश्वासघातिनः ॥ ११८.८ ॥ एवमादीनि चान्यानि श्रुत्वा वाक्यानि देवराट् । वचनं तद्विधैरुक्तं विषादमगमत्परम् ॥ ११८.९ ॥ त्यक्त्वा राज्यं सुरैः सार्धं जगाम तप उत्तमम् । पुत्रदारगृहं राज्यं वसूनि विविधानि च ॥ ११८.१० ॥ फलान्येतानि धर्मस्य शोभयन्ति जनेश्वरम् । फलं धर्मस्य भुञ्जेति सुहृत्स्वजनबान्धवाः ॥ ११८.११ ॥ पश्यतां सर्वमेतेषां पापमेकेन भुज्यते । परं हि सुखमुत्सृज्य कर्शयन्वै कलेवरम् ॥ ११८.१२ ॥ देवराजो जगामासौ तीर्थान्यायतनानि च । गङ्गातीर्थेषु सर्वेषु यामुनेषु तथैव च ॥ ११८.१३ ॥ सारस्वतेषु सर्वेषु सामुद्रेषु पृथक्पृथक् । नदीषु देवखातेषु तडागेषु सरःसु च ॥ ११८.१४ ॥ पापं न मुञ्चते सर्वे पश्चाद्देवसमागमे । रेवाप्रभवतीर्थेषु कूलयोरुभयोरपि ॥ ११८.१५ ॥ पूजयन्वै महादेवं स्कन्दतीर्थं समासदत् । तव स्थित्वोपवासैश्च कृच्छ्रचान्द्रायणादिभिः ॥ ११८.१६ ॥ कर्शयन्वै स्वकं देहं न लेभे शर्म वै क्वचित् । ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ॥ ११८.१७ ॥ आर्द्रवासास्तु हेमन्ते चचार विपुलं तपः । एवं तु तपतस्तस्य इन्द्रस्य विदितात्मनः ॥ ११८.१८ ॥ वत्सराणां सहस्राणि गतानि दश भारत । ततस्त्वेकादशे प्राप्ते वर्षे तु नृपसत्तम ॥ ११८.१९ ॥ सहसा भगवान्देवस्तु तुतोष परमेश्वरः । तथा ब्रह्मर्षयः सिद्धा ब्रह्मविष्णुपुरोगमाः ॥ ११८.२० ॥ तत्राजग्मुः सुराः सर्वे यत्र देवः शतक्रतुः । दृष्ट्वा समागतान् देवानृषींश्चैव महामतिः ॥ ११८.२१ ॥ उवाच प्रणतो भूत्वा सर्वदेवपुरोहितः । विदितं सर्वमेतेषां यथा वृत्रवधः कृतः ॥ ११८.२२ ॥ युष्माकं चाज्ञया पूर्वं ब्रह्मविष्णुमहेश्वराः । तथाप्येवं ब्रह्महणं मत्वा पापस्य कारिणम् ॥ ११८.२३ ॥ भ्रमन्तं सर्वतीर्थेषु ब्रह्महत्या न मुञ्चति । न नन्दति जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ ११८.२४ ॥ यथा विहीनचन्द्रार्कं तथा राज्यमनायकम् । तस्मात्सर्वे सुरश्रेष्ठा विज्ञाप्यं मम सम्प्रति ॥ ११८.२५ ॥ कुर्वन्तु शक्रं निर्दोषं तथा सर्वे महर्षयः । बृहस्पतिमुखोद्गीर्णं श्रुत्वा तद्वचनं शुभम् ॥ ११८.२६ ॥ ततः प्रोवाच भगवान्ब्रह्मा लोकपितामहः । एतत्पापं महाघोरं ब्रह्महत्यासमुद्भवम् ॥ ११८.२७ ॥ दैवतेभ्योऽथ भूतेभ्यश्चतुर्भागं क्षिपाम्यहम् । एवं मुक्त्वा क्षिपच्चैनो जलोपरि महामतिः ॥ ११८.२८ ॥ अवगाह्य ततः पेया आपो वै नान्यथा बुधैः । धरायामक्षिपद्भागं द्वितीयं पद्मसंभवः ॥ ११८.२९ ॥ अभक्ष्या तेन संजाता सदाकालं वसुंधरा । तदार्धमर्द्धं नारीणां द्वितीयेऽह्नि युधिष्ठिर ॥ ११८.३० ॥ निक्षिप्य भगवान्देवः पुनरन्यज्जगाद ह । असंग्राह्या त्वसंग्राह्या तेन जाता रजस्वला ॥ ११८.३१ ॥ चतुर्दिनानि सा प्राज्ञैः पापस्य महतो महात् । चतुर्थं तु ततो भागं विभज्य परमेश्वरः ॥ ११८.३२ ॥ कृषिगोरक्ष्यवाणिज्यैः शूद्रसेवाकरे द्विजे । ततोऽभिनन्दयामासुः सर्वे देवा महर्षयः ॥ ११८.३३ ॥ देवेन्द्रं वाग्भिरिष्टाभिर्नर्मदाजलसंस्थितम् । वरेण छन्दयामास ततस्तुष्टो महेश्वरः ॥ ११८.३४ ॥ वरं दास्यामि देवेश वरं वृणु यथेप्सितम् ॥ ११८.३५ ॥ इन्द्र उवाच - यदि तुष्टोऽसि देवेश यदि देयो वरो मम । अत्र संस्थापयिष्यामि सदा संनिहितो भव ॥ ११८.३६ ॥ एवमस्त्विति चोक्त्वा तं ब्रह्मविष्णुमहेश्वराः । जग्मुराकाशमाविश्य स्तूयमाना महर्षिभिः ॥ ११८.३७ ॥ गतेषु देवदेवेषु देवराजः शतक्रतुः । स्थापयित्वा महादेवं जगाम त्रिदशालयम् ॥ ११८.३८ ॥ इन्द्रतीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः । महापातकयुक्तोऽपि मुच्यते सर्वपातकैः ॥ ११८.३९ ॥ इन्द्रतीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् । सोऽश्वमेधस्य यज्ञस्य पुष्कलं फलमश्नुते ॥ ११८.४० ॥ एतत्ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् । श्रुतमात्रेण येनैव मुच्यन्ते पातकैर्नराः ॥ ११८.४१ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे इन्द्रतीर्थमाहात्म्यवर्णनं नामाष्टादशोत्तरशततमोऽध्यायः ॥ ऋKV अध्याय ११९ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र कह्लोडीतीर्थमुत्तमम् । रेवायाश्चोत्तरे कूले सर्वपापविनाशनम् ॥ ११९.१ ॥ हितार्थं सर्वभूतानामृषिभिः स्थापितं पुरा । तपसा तु समुद्धृत्य नर्मदायां महाम्भसि ॥ ११९.२ ॥ स्नात्वा तु कपिलातीर्थे कपिलां यः प्रयच्छति । श्रुत्वा चाख्यानकं दिव्यं ब्राह्मणाञ्छृणु यत्फलम् ॥ ११९.३ ॥ सर्वेषामेव दानानां कपिलादानमुत्तमम् । ब्राह्मणान्वेषितं पूर्वमृषिदेवसमागमे ॥ ११९.४ ॥ सद्यः प्रसूतां कपिलां शोभनां यः प्रयच्छति । सोपवासो जितक्रोधस्तस्य पुण्यफलं शृणु ॥ ११९.५ ॥ ससमुद्रगुहा तेन सशैलवनकानना । दत्ता चैव महाबाहो पृथिवी नात्र संशयः ॥ ११९.६ ॥ वाचिकं मानसं पापं कर्मणा यत्पुरा कृतम् । नश्यते कपिलां दत्त्वा सप्तजन्मार्जितं नृप ॥ ११९.७ ॥ भूमिदानं धनं धान्यं हस्त्यश्वकनकादिकम् । कपिलादानस्यैकस्य कलां नार्हन्ति षोडशीम् ॥ ११९.८ ॥ तत्र तीर्थे नरः स्नात्वा कपिलां यः प्रयच्छति । मृतो विष्णुपुरं याति गीयमानोऽप्सरोगणैः ॥ ११९.९ ॥ यावन्ति तस्या रोमाणि सवत्सायास्तु भारत । तावद्वर्षसहस्राणि स स्वर्गे क्रीडते चिरम् ॥ ११९.१० ॥ ततोऽवकीर्णकालेन त्विह मानुष्यतां गतः । धनधान्यसमोपेतो जायते विपुले कुले ॥ ११९.११ ॥ वेदविद्या व्रतस्नातः सर्वशास्त्रविशारदः । व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ ११९.१२ ॥ एतत्ते सर्वमाख्यातं कल्होडीतीर्थमुत्तमम् । यत्कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ११९.१३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कह्लोडीतीर्थमाहात्म्यवर्णनं नामैकोनविंशत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १२० श्रीमार्कण्डेय उवाच - अतः परं प्रवक्ष्यामि कम्बुकेश्वरमुत्तमम् । हिरण्यकशिपुर्दैत्यो दानवो बलदर्पितः ॥ १२०.१ ॥ अवध्यः सर्वलोकानां त्रिषु लोकेषु विश्रुतः । तस्य पुत्रो महातेजाः प्रह्लादो नाम नामतः ॥ १२०.२ ॥ विष्णुप्रसादाद्भक्त्या च तस्य राज्ये प्रतिष्ठितः । विरोचनस्तस्य सुतस्तस्यापि बलिरेव च ॥ १२०.३ ॥ बलिपुत्रोऽभवद्बाणस्तस्मादपि च शम्बरः । शम्बरस्यान्वये जातः कम्बुर्नाम महासुरः ॥ १२०.४ ॥ ज्ञात्वा विष्णुमयं घोरं महद्भयमुपस्थितम् । दानवानां विनाशाय नान्यो हेतुः कदाचन ॥ १२०.५ ॥ स त्यक्त्वा पुत्रदारांश्च सुहृद्बन्धुपरिग्रहान् । चचार मौनमास्थाय तपः कम्बुर्महामतिः ॥ १२०.६ ॥ अक्षसूत्रकरो भूत्वा दण्डी मुण्डी च मेखली । शाकयावकभक्षश्च वल्कलाजिनसंवृतः ॥ १२०.७ ॥ स्नात्वा नित्यं धृतिपरो नर्मदाजलमाश्रितः । पूजयंस्तु महादेवमर्बुदं वर्षसंख्यया ॥ १२०.८ ॥ ततस्तुतोष भगवान्देवदेवो महेश्वरः । उवाच दानवं काले मेघगम्भीरया गिरा ॥ १२०.९ ॥ भोभोः कम्बो महाभाग तुष्टोऽहं तव सुव्रत । इष्टं व्रतानां परमं मौनं सर्वार्थसाधनम् ॥ १२०.१० ॥ चरितं च त्वया लोके देवदानवदुश्चरम् । वरं वृणीष्व भद्रं ते यत्ते मनसि रोचते ॥ १२०.११ ॥ कम्बुरुवाच - यदि प्रसन्नो देवेश यदि देयो वरो मम । अक्षय्यश्चाव्ययश्चैव स्वेच्छया विचराम्यहम् ॥ १२०.१२ ॥ दैत्यदानवसङ्घानां संयुगेष्वपलायिता । भयं चान्यन्न विद्येत मुक्त्वा देवं गदाधरम् ॥ १२०.१३ ॥ तस्याहं संयुगे साध्यो येनोपायेन शङ्कर । भवामि न सदा कालं तं वदस्व वरं मम ॥ १२०.१४ ॥ ईश्वर उवाच - मम संनिहितो यत्र त्वं भविष्यसि दानव । तत्र विष्णुभयं नास्ति वसात्र विगतज्वरः ॥ १२०.१५ ॥ तस्य देवाधिदेवस्य वेदगर्भस्य संयुगे । शङ्खचक्रधरस्येशा नाहं सर्वे सुरासुराः ॥ १२०.१६ ॥ किं पुनर्यो द्विषत्येनं लोकालोकप्रभुं हरिम् । स सुखी वर्तते कालं न निमेषं मतं मम ॥ १२०.१७ ॥ तस्मात्त्वं परया भक्त्या सर्वभूतहिते रतः । वसिष्यसि चिरं कालमित्युक्त्वादर्शनं गतः ॥ १२०.१८ ॥ गते चादर्शनं देवे तत्र तीर्थे महामतिः । स्थापयामास देवेशं शिवं शान्तमनामयम् ॥ १२०.१९ ॥ तस्मिंस्तीर्थे महादेवं स्थापयित्वा दिवं गतः । तदाप्रभृति तत्पार्थ कम्बुतीर्थमिति श्रुतम् । विख्यातं सर्वलोकेषु महापातकनाशनम् ॥ १२०.२० ॥ कम्बुतीर्थे नरः स्नात्वा विधिनाभ्यर्च्य भास्करम् । ऋग्यजुःसाममन्त्रैश्च स्तूयमानो नृपोत्तम ॥ १२०.२१ ॥ तस्य पुण्यं समुद्दिष्टं ब्राह्मणैर्वेदपारगैः । तत्सर्वं तु शृणुष्वाद्य ममैव गदतो नृप ॥ १२०.२२ ॥ ऋग्यजुःसामगीतेषु साङ्गोपाङ्गेषु यत्फलम् । तत्फलं समवाप्नोति गायत्रीमात्रमन्त्रवित् ॥ १२०.२३ ॥ तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः । पूजयेद्देवमीशानं सोऽग्निष्टोमफलं लभेत् ॥ १२०.२४ ॥ अकामो वा सकामो वा तत्र तीर्थे कलेवरम् । यस्त्यजेन्नात्र सन्देहो रुद्रलोकं स गच्छति ॥ १२०.२५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कम्बुकेश्वरतीर्थमाहात्म्यवर्णनं नाम विंशत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १२१ मार्कण्डेय उवाच - ततो गच्छेन्महीपाल चन्द्रहासमतः परम् । यत्र सिद्धिं परां प्राप्तः सोमराजः सुरोत्तमः ॥ १२१.१ ॥ युधिष्ठिर उवाच - कथं सिद्धिं परां प्राप्तः सोमनाथो जगत्पतिः । तत्सर्वं श्रोतुमिच्छामि कथयस्व ममानघ ॥ १२१.२ ॥ श्रीमार्कण्डेय उवाच - पुरा शप्तो मुनीन्द्रेण दक्षेण किल भारत । असेवनाद्धि दाराणां क्षयरोगी भविष्यसि ॥ १२१.३ ॥ उद्वाहितानां पत्नीनां ये न कुर्वन्ति सेवनम् । या निष्ठा जायते नृणां तां शृणुष्व नराधिप ॥ १२१.४ ॥ ऋतावृतौ हि नारीणां सेवनाज्जायते सुतः । सुतात्स्वर्गश्च मोक्षश्च इत्येवं श्रुतिभाषितम् ॥ १२१.५ ॥ तत्कालोचितधर्मेण वेष्टितो रौरवे पतेत् । तस्यास्तद्रुधिरं पापः पिबते कालमीप्सितम् ॥ १२१.६ ॥ ततोऽवतीर्णः कालेन यां यां योनिं प्रयास्यति । तस्यां तस्यां स दुष्टात्मा दुर्भगो जायते सदा ॥ १२१.७ ॥ नारीणां तु सदा कामोऽभ्यधिकाः परिवर्तते । विशेषेण ऋतौ काले पीड्यते कामसायकैः ॥ १२१.८ ॥ परिभूता हिता भर्त्रा ध्यायन्तेऽन्यं पतिं स्त्रियः । ततः पुत्रः समुत्पन्नो ह्यटते कुलमुत्तमम् ॥ १२१.९ ॥ स्वर्गस्थास्तेन पितरः पूर्वजास्ते पितामहाः । पतन्ति जातमात्रेण कुलटस्तेन चोच्यते ॥ १२१.१० ॥ तेन कर्मविपाकेन क्षयरोग्यभवच्छशी । त्यक्त्वा लोकं सुरेन्द्राणां मर्त्यलोकमुपागतः ॥ १२१.११ ॥ ततस्तीर्थान्यनेकानि पुण्यान्यायतनानि च । भ्रमन्वै नर्मदां प्राप्तः सर्वपापप्रणाशनीम् ॥ १२१.१२ ॥ उपवासं च दानानि व्रतानि नियमांस्तथा । चचार द्वादशाब्दानि ततो मुक्तः स किल्बिषैः ॥ १२१.१३ ॥ स्नापयित्वा महादेवं सर्वपातकनाशनम् । जगाम प्रभया पूर्णः स च लोकमनुत्तमम् ॥ १२१.१४ ॥ येनैव स्थापितो देवः पूज्यते वर्षसंख्यया । तावद्वर्षसहस्राणि रुद्रलोके स पूज्यते ॥ १२१.१५ ॥ तेन देवान्विधानोक्तान्स्थापयन्ति नरा भुवि । अक्षयं चाव्ययं यस्मात्कालं भुञ्जन्ति मानवाः ॥ १२१.१६ ॥ सोमतीर्थे नरः स्नात्वा पूजयेद्देवमीश्वरम् । स भ्राजते नरो लोके सोमवत्प्रियदर्शनः ॥ १२१.१७ ॥ चन्द्रहासे तु यो गत्वा ग्रहणे चन्द्रसूर्ययोः । स्नानं समाचरेद्भक्त्या मुच्यते सर्वकिल्बिषैः ॥ १२१.१८ ॥ तत्र स्नानं च दानं च चन्द्रहासे शुभाशुभम् । कृतं नृपवरश्रेष्ठ सर्वं भवति चाक्षयम् ॥ १२१.१९ ॥ ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् । चन्द्रहासे तु ये स्नात्वा पश्यन्ति ग्रहणं नराः ॥ १२१.२० ॥ वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् । स्नानमात्रेण राजेन्द्र तत्र तीर्थे प्रणश्यति ॥ १२१.२१ ॥ बहवस्तं न जानन्ति महामोहसमन्विताः । देहस्थमिव सर्वेषां परमानन्दरूपिणम् ॥ १२१.२२ ॥ पश्चिमे सागरे गत्वा सोमतीर्थे तु यत्फलम् । तत्समग्रमवाप्नोति चन्द्रहासे न संशयः ॥ १२१.२३ ॥ संक्रान्तौ च व्यतीपाते अयने विषुवे तथा । चन्द्रहासे नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥ १२१.२४ ॥ ते मूढास्ते दुराचारास्तेषां जन्म निरर्थकम् । चन्द्रहासं न जानन्ति ये रेवायां व्यवस्थितम् ॥ १२१.२५ ॥ चन्द्रहासे तु यः कश्चित्संन्यासं कुरुते द्विजः । अनिवर्तिका गतिस्तस्य सोमलोकान्न संशयः ॥ १२१.२६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमतीर्थमाहात्म्यवर्णनं नामैकविंशत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १२२ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल कोहनस्वेति विश्रुतम् । सर्वपापहरं पुण्यं तीर्थं मृत्युविनाशनम् ॥ १२२.१ ॥ पुरा तत्र द्विजः कश्चिद्वेदवेदाङ्गपारगः । पत्नीपुत्रसुहृद्वर्गैः स्वकर्मनिरतोऽवसत् ॥ १२२.२ ॥ युधिष्ठिर उवाच - ब्राह्मणस्य तु यत्कर्म उत्पत्तिः क्षत्रियस्य तु । वैश्यस्यापि च शूद्रस्य तत्सर्वं कथयस्व मे ॥ १२२.३ ॥ धर्मस्यार्हस्य कामस्य मोक्षस्य च परं विधिम् । निखिलं ज्ञातुमिच्छामि नान्यो वेत्ता मतिर्मम ॥ १२२.४ ॥ मार्कण्डेय उवाच - उत्पत्तिकारणं ब्रह्मा देवदेवः प्रकीर्तितः । प्रथमं सर्वभूतानां चराचरजगद्गुरुः ॥ १२२.५ ॥ द्विजातयो मुखाज्जाताः क्षत्रिया बाहुयन्त्रतः । ऊरुप्रदेशाद्वैश्यास्तु शूद्राः पादेष्वथाभवन् ॥ १२२.६ ॥ ततस्त्वन्ये पृथग्वर्णाः पृथग्धर्मान् समाचरन् । पर्यायेण समुत्पन्ना ह्यनुलोमविलोमतः ॥ १२२.७ ॥ तेषां धर्मं प्रवक्ष्यामि श्रुतिस्मृत्यर्थचोदितम् । येन सम्यक्कृतेनैव सर्वे यान्ति परां गतिम् ॥ १२२.८ ॥ गतिर्ध्यानं विना भक्तैर्ब्राह्मणैः प्राप्यते नृप । अध्यापयन्यतो वेदान्वेदं वापि यथाविधि ॥ १२२.९ ॥ कुलजां रूपसम्पन्नां सर्वलक्षणलक्षिताम् । उद्वाहयेत्ततः पत्नीं गुरुणानुमते तदा ॥ १२२.१० ॥ ततः स्मार्तं विवाहाग्निं श्रौतं वा पूजयेत्क्रमात् । प्रतिग्रहधनो भूत्वा दम्भलोभविवर्जितः ॥ १२२.११ ॥ पञ्चयज्ञविधानानि कारयेद्वै यथाविधि । वनं गच्छेत्ततः पश्चाद्द्वितीयाश्रमसेवनात् ॥ १२२.१२ ॥ पुत्रेषु भार्यां निक्षिप्य सर्वसङ्गविवर्जितः । इष्टांल्लोकानवाप्नोति न चेह जायते पुनः ॥ १२२.१३ ॥ क्षत्रियस्तु स्थितो राज्ये पालयित्वा वसुंधराम् । शश्वद्धर्ममनाश्चैव प्राप्नोति परमां गतिम् ॥ १२२.१४ ॥ वैश्यधर्मो न सन्देहः कृषिगोरक्षणे रतः । सत्यशौचसमोपेतो गच्छते स्वर्गमुत्तमम् ॥ १२२.१५ ॥ न शूद्रस्य पृथग्धर्मो विहितः परमेष्ठिना । न मन्त्रो न च संस्कारो न विद्यापरिसेवनम् ॥ १२२.१६ ॥ न शब्दविद्यासमयो देवताभ्यर्चनानि च । यथा जातेन सततं वर्तितव्यमहर्निशम् ॥ १२२.१७ ॥ स धर्मः सर्ववर्णानां पुरा सृष्टः स्वयम्भुवा । मन्त्रसंस्कारसम्पन्नास्त्रयो वर्णा द्विजातयः ॥ १२२.१८ ॥ तेषां मतमनादृत्य यदि वर्तेत कामतः । स मृतो जायते श्वा वै गतिरूर्ध्वा न विद्यते ॥ १२२.१९ ॥ न तेषां प्रेषणं नित्यं तेषां मतमनुस्मरन् । यशोभागी स्वधर्मस्थः स्वर्गभागी स जायते ॥ १२२.२० ॥ एवं गुणगणाकीर्णोऽवसद्विप्रः स भारत । हनस्वेति हनस्वेति शृणोति वाक्यमीदृशम् ॥ १२२.२१ ॥ ततो निरीक्षते चोर्ध्वमधश्चैव दिशो दश । वेपमानः स भीतश्च प्रस्खलंश्च पदे पदे ॥ १२२.२२ ॥ शृङ्खलायुधहस्तैश्च पाशैश्चैव सुदारुणैः । वेष्टितं महिषारूढं नरं पश्यति मन्मुखम् ॥ १२२.२३ ॥ कृष्णांजनचयप्रख्यं कृष्णाम्बरविभूषितम् । रक्ताक्षमायतभुजं सर्वलक्षणलक्षितम् ॥ १२२.२४ ॥ दृष्ट्वा तं तु समायान्तं निरीक्ष्यात्मानमात्मना । जपञ्जाप्यं च परमं शतरुद्रीयसंस्तवम् ॥ १२२.२५ ॥ ततः प्रोवाच भगवान्यमः संयमनो महान् । शृणु वाक्यमतो ब्रह्मन्यमोऽहं सर्वजन्तुषु ॥ १२२.२६ ॥ संहरस्व महाभाग रुद्रजाप्यं सुदुर्भिदम् । येनाहं कालपाशैस्त्वां संयमामि गतव्यथः ॥ १२२.२७ ॥ तच्छ्रुत्वा निष्ठुरं वाक्यं यमस्य मुखनिर्गतम् । महाभयसमोपेतो ब्राह्मणः प्रपलायितः ॥ १२२.२८ ॥ तस्य मार्गे गताः सर्वे यमेन सह किंकराः । तिष्ठ तिष्ठेति तं विप्रमूचुस्ते सोऽप्यधावत ॥ १२२.२९ ॥ त्वरमाणः परिश्रान्तो हा हतोऽहं दुरात्मभिः । रक्ष रक्ष महादेव शरणागतवत्सल ॥ १२२.३० ॥ एवमुक्त्वापतद्भूमौ लिङ्गमालिङ्ग्य भारत । गतसत्त्वः स विप्रेन्द्रः समाश्रित्य सुरेश्वरम् ॥ १२२.३१ ॥ तं दृष्ट्वा पतितं भूमौ देवदेवो महेश्वरः । को हनिष्यति माभैस्त्वं हुङ्कारमकरोत्तदा ॥ १२२.३२ ॥ तेन ते किंकराः सर्वे यमेन सह भारत । हुङ्कारेण गताः सर्वे मेघा वातहता यथा ॥ १२२.३३ ॥ तदाप्रभृति तत्तीर्थं कोहनस्वेति विश्रुतम् । सर्वपापहरं पुण्यं सर्वतीर्थेष्वनुत्तमम् ॥ १२२.३४ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् । अग्निष्टोमस्य यज्ञस्य फलमाप्नोत्यनुत्तमम् ॥ १२२.३५ ॥ तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः । न पश्यति यमं देवमित्येवं शङ्करोऽब्रवीत् ॥ १२२.३६ ॥ अग्निप्रवेशं यः कुर्याज्जले वा नृपसत्तम । अग्निलोके वसेत्तावद्यावत्कल्पशतत्रयम् ॥ १२२.३७ ॥ एवं वरुणलोकेऽपि वसित्वा कालमीप्सितम् । इह लोकमनुप्राप्तो महाधनपतिर्भवेत् ॥ १२२.३८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोहनतीर्थमाहात्म्यवर्णनं नाम द्वाविंशत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १२३ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र कर्मदीतीर्थमुत्तमम् । यत्र तिष्ठति विघ्नेशो गणनाथो महाबलः ॥ १२३.१ ॥ तत्र तीर्थे नरः स्नात्वा चतुर्थ्यां वा ह्युपोषितः । विघ्नं न विद्यते तस्य सप्तजन्मनि भारत ॥ १२३.२ ॥ तत्र तीर्थे हि यत्किंचिद्दीयते नृपसत्तम । तदक्षयफलं सर्वं जायते नात्र संशयः ॥ १२३.३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कर्मदेश्वरतीर्थमाहत्म्यवर्णनं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः॥ ऋKV अध्याय १२४ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल नर्मदेश्वरमुत्तमम् । तत्र तीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥ १२४.१ ॥ अग्निप्रवेशश्च जलेऽथवा मृत्युरनाशके । अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् ॥ १२४.२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १२५ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल रवितीर्थमनुत्तमम् । यत्र देवः सहस्रांशुस्तपस्तप्त्वा दिवं गतः ॥ १२५.१ ॥ युधिष्ठिर उवाच - कथं देवो जगद्धाता सर्वदेवनमस्कृतः । तपस्तपति देवेशस्तापसो भास्करो रविः ॥ १२५.२ ॥ आराध्यः सर्वभूतानां सर्वदेवैश्च पूजितः । प्रत्यक्षो दृश्यते लोके सृष्टिसंहारकारकः ॥ १२५.३ ॥ आदित्यत्वं कथं प्राप्तः कथं भास्कर उच्यते । सर्वमेतत्समासेन कथयस्व ममानघ ॥ १२५.४ ॥ मार्कण्डेय उवाच - महाप्रश्नो महाराज यस्त्वया परिपृच्छितः । तत्सर्वं सम्प्रवक्ष्यामि नमस्कृत्य स्वयम्भुवम् ॥ १२५.५ ॥ आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ १२५.६ ॥ ततस्तेजश्च दिव्यं च तप्तपिण्डमनुत्तमम् । आकाशात्तु यथैवोल्का सृष्टिहेतोरधोमुखी ॥ १२५.७ ॥ तत्तेजसोऽन्तः पुरुषः संजातः सर्वभूषितः । स शिवोऽपाणिपादश्च येन सर्वमिदं ततम् ॥ १२५.८ ॥ तस्योत्पन्नस्य भूतस्य तेजो रूपस्य भारत । पश्चात्प्रजापतिर्भूयः कालः कालान्तरेण वै ॥ १२५.९ ॥ अग्निर्जातः स भूतानां मनुष्यासुररक्षसाम् । सर्वदेवाधिदेवश्च आदित्यस्तेन चोच्यते ॥ १२५.१० ॥ आदौ तस्य नमस्कारोऽन्येषां च तदनन्तरम् । क्रियते दैवतैः सर्वैस्तेन सर्वैर्महर्षिभिः ॥ १२५.११ ॥ तिस्रः सन्ध्यास्त्रयो देवाः सांनिध्याः सूर्यमण्डले । नमस्कृतेन सूर्येण सर्वे देवा नमस्कृताः ॥ १२५.१२ ॥ न दिवा न भवेद्रात्रिः षण्मासा दक्षिणायनम् । अयनं चोत्तरं चापि भास्करेण विना नृप ॥ १२५.१३ ॥ स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् । न वर्तते विना सूर्यं तेन पूज्यतमो रविः ॥ १२५.१४ ॥ शब्दगाः श्रुतिमुख्याश्च ब्रह्मविष्णुमहेश्वराः । प्रत्यक्षो भगवान्देवो दृश्यते लोकपावनः ॥ १२५.१५ ॥ उत्पत्तिः प्रलयस्थानं निधानं बीजमव्ययम् । हेतुरेको जगन्नाथो नान्यो विद्येत भास्करात् ॥ १२५.१६ ॥ एवमात्मभवं कृत्वा जगत्स्थावरजङ्गमम् । लोकानां तु हितार्थाय स्थापयेद्धर्मपद्धतिम् ॥ १२५.१७ ॥ नर्मदातटमाश्रित्य स्थापयित्वात्मनस्तनुम् । सहस्रांशुं निधिं धाम्नां जगामाकाशमव्ययम् ॥ १२५.१८ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् । सहस्रकिरणं देवं नाममन्त्रविधानतः ॥ १२५.१९ ॥ तेन तप्तं हुतं तेन तेन सर्वमनुष्ठितम् । तेन सम्यग्विधानेन सम्प्राप्तं परमं पदम् ॥ १२५.२० ॥ ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् । स्नात्वा ये नर्मदातोये देवं पश्यन्ति भास्करम् ॥ १२५.२१ ॥ तथा देवस्य राजेन्द्र ये कुर्वन्ति प्रदक्षिणम् । अनन्यभक्त्या सततं त्रिरक्षरसमन्विताः ॥ १२५.२२ ॥ तेन पूतशरीरास्ते मन्त्रेण गतपातकाः । यत्पुण्यं च भवेत्तेषां तदिहैकमनाः शृणु ॥ १२५.२३ ॥ ससमुद्रगुहा तेन सशैलवनकानना । प्रदक्षिणीकृता सर्वा पृथिवी नात्र संशयः ॥ १२५.२४ ॥ मन्त्रमूलमिदं सर्वं त्रैलोक्यं सचराचरम् । तेन मन्त्रविहीनं तु कार्यं लोके न सिध्यति ॥ १२५.२५ ॥ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । कार्यार्थं नैव सिध्येत तथा कर्म ह्यमन्त्रकम् ॥ १२५.२६ ॥ भस्महुतं पार्थ यथा तोयविवर्जितम् । निष्फलं जायते दानं तथा मन्त्रविवर्जितम् ॥ १२५.२७ ॥ काष्ठपाषाणलोष्टेषु मृन्मयेषु विशेषतः । मन्त्रेण लोके पूजां तु कुर्वन्ति न ह्यमन्त्रतः ॥ १२५.२८ ॥ द्वादशाब्दान्नमस्काराद्भक्त्या यल्लभते फलम् । मन्त्रयुक्तनमस्कारात्सकृत्तल्लभते फलम् ॥ १२५.२९ ॥ संक्रान्तौ च व्यतीपाते अयने विषुवे तथा । नर्मदाया जले स्नात्वा यस्तु पूजयते रविम् ॥ १२५.३० ॥ द्वादशाब्देन यत्पापमज्ञानज्ञानसंचितम् । तत्क्षणान्नश्यते सर्वं वह्निना तु तुषं यथा ॥ १२५.३१ ॥ चन्द्रसूर्यग्रहे स्नात्वा सोपवासो जितेन्द्रियः । तत्रादित्यमुखं दृष्ट्वा मुच्यते सर्वकिल्बिषैः ॥ १२५.३२ ॥ माघमासे तु सम्प्राप्ते सप्तम्यां नृपसत्तम । सोपवासो जितक्रोध उषित्वा सूर्यमन्दिरे ॥ १२५.३३ ॥ प्रातः स्नात्वा विधानेन ददात्यर्घं दिवाकरे । विधिना मन्त्रयुक्तेन स लभेत्पुण्यमुत्तमम् ॥ १२५.३४ ॥ पितृदेवमनुष्याणां कृत्वा ह्युदकतर्पणम् । मन्दिरे देवदेवस्य ततः पूजां समाचरेत् ॥ १२५.३५ ॥ गन्धैः पुष्पैस्तथा धूपैर्दीपनैवेद्यशोभनैः । पूजयित्वा जगन्नाथं ततो मन्त्रमुदीरयेत् ॥ १२५.३६ ॥ विष्णुः शक्रो यमो धाता मित्रोऽथ वरुणस्तथा । विवस्वान्सविता पूषा चण्डांशुर्भर्ग एव च ॥ १२५.३७ ॥ इति द्वादशनामानि जपन्कृत्वा प्रदक्षिणाम् । यत्फलं लभते पार्थ तदिहैकमनाः शृणु ॥ १२५.३८ ॥ दरिद्रो व्याधितो मूको बधिरो जड एव च । न भवेत्सप्त जन्मानि इत्येवं शङ्करोऽब्रवीत् ॥ १२५.३९ ॥ एवं ज्ञात्वा विधानेन जपन्मन्त्रं विचक्षणः । आराधयेद्रविं भक्त्या य इच्छेत्पुण्यमुत्तमम् ॥ १२५.४० ॥ मन्त्रहीनां तु यः कुर्याद्भक्तिं देवस्य भारत । स विडम्बति चात्मानं पशुकीटपतङ्गवत् ॥ १२५.४१ ॥ तत्र तीर्थे तु यः कश्चित्त्यजते देहमुत्तमम् । स गतस्तत्र देवैस्तु पूज्यमानो महर्षिभिः ॥ १२५.४२ ॥ स्वेच्छया सुचिरं कालमिह लोके नृपो भवेत् ॥ १२५.४३ ॥ पुत्रपौत्रसमायुक्तो हस्त्यश्वरथसङ्कुलः । दासीदासशतोपेतो जायते विपुले कुले ॥ १२५.४४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थमाहात्म्यवर्णनं नाम पञ्चविंशत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १२६ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र परं तीर्थमयोनिजम् । स्नातमात्रो नरस्तत्र न पश्येद्योनिसङ्कटम् ॥ १२६.१ ॥ तत्र तीर्थे नरः स्नात्वा पूजयेद्देवमीश्वरम् । अयोनिजो महादेव यथा त्वं परमेश्वर ॥ १२६.२ ॥ तथा मोचय मां देव सम्भवाद्योनिसङ्कटात् । गन्धपुष्पादिधूपैश्च स मुच्येत्सर्वपातकैः ॥ १२६.३ ॥ तस्य देवस्य यो भक्त्या कुरुते लिङ्गपूरणम् । स वसेद्देवदेवस्य यावत्सिक्थस्य संख्यया ॥ १२६.४ ॥ अयोनिजे महादेवं स्नापयेद्गन्धवारिणा । मधुक्षीरेण दध्ना वा स लभेद्विपुलां श्रियम् ॥ १२६.५ ॥ अष्टभ्यां च सिते पक्षे असितां वा चतुर्दशीम् । पूजयित्वा महादेवं प्रीणयेद्गीतवाद्यकैः ॥ १२६.६ ॥ वसेत्स च शिवे लोके ये कुर्वन्ति मनोहरम् । ते वसन्ति शिवे लोके यावदाभूतसम्प्लवम् ॥ १२६.७ ॥ तस्य देवस्य भक्त्या तु यः करोति प्रदक्षिणाम् । विज्ञापयंश्च सततं मन्त्रेणानेन भारत ॥ १२६.८ ॥ तस्य यत्फलमुद्दिष्टं पारम्पर्येण मानवैः । सकाशाद्देवदेवस्य तच्छृणुष्व समाधिना ॥ १२६.९ ॥ अयोनिजो महादेव यथा त्वं परमेश्वर । तथा मोचय मां शर्व सम्भवाद्योनिसङ्कटात् ॥ १२६.१० ॥ किं तस्य बहुभिर्मन्त्रैः कंठशोषणतत्परैः । येनौंनमः शिवायेति प्रोक्तं देवस्य संनिधौ ॥ १२६.११ ॥ तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येनौंनमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः ॥ १२६.१२ ॥ न तत्फलमवाप्नोति सर्वदेवेषु वै द्विजः । यत्फलं समवाप्नोति षडक्षर उदीरणात् ॥ १२६.१३ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेच्छिवयोगिनम् । द्विजानामयुतं साग्रं स लभेत्फलमुत्तमम् ॥ १२६.१४ ॥ अथवा भक्तियुक्तस्तु तेषां दान्ते जितेन्द्रिये । संस्कृत्य ददते भिक्षां फलं तस्य ततोऽधिकम् ॥ १२६.१५ ॥ यतिहस्ते जलं दद्याद्भिक्षां दत्त्वा पुनर्जलम् । सा भिक्षा मेरुणा तुल्या तज्जलं सागरोपमम् ॥ १२६.१६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अयोनिप्रभवतीर्थमाहात्म्यवर्णनं नाम षड्विंशत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १२७ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र अग्नितीर्थमनुत्तमम् । तत्र स्नात्वा तु पक्षादौ मुच्यते सर्वकिल्बिषैः ॥ १२७.१ ॥ तत्र तीर्थे तु यः कन्यां दद्यात्स्वयमलंकृताम् । तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नरोत्तम ॥ १२७.२ ॥ अग्निष्टोमातिरात्राभ्यां शतं शतगुणीकृतम् । प्राप्नोति पुरुषो दत्त्वा यथाशक्त्या ह्यलंकृताम् ॥ १२७.३ ॥ तस्याः पुत्रप्रपौत्राणां या भवेद्रोमसंगतिः । स याति तेन मानेन शिवलोके परां गतिम् ॥ १२७.४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अग्नितीर्थमाहात्म्यवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १२८ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र भृकुटेश्वरमुत्तमम् । यत्र सिद्धो महाभागो भृगुः परमकोपनः ॥ १२८.१ ॥ तेन वर्षशतं साग्रं तपश्चीर्णं पुरानघ । पुत्रार्थं वरयामास पुत्रं पुत्रवतां वरः ॥ १२८.२ ॥ वरो दत्तो महाभाग देवेनान्धकघातिना । तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ॥ १२८.३ ॥ अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत् । भृकुटेशं तु यः कश्चिद्घृतेन मधुना सह ॥ १२८.४ ॥ पुत्रार्थी स्नापयेद्भक्त्या स लभेत्पुत्रमीप्सितम् । तत्र तीर्थे तु यः स्नात्वा दद्याद्विप्राय काञ्चनम् ॥ १२८.५ ॥ गोदानं वा महीं वापि तस्य पुण्यफलं शृणु ॥ १२८.६ ॥ ससमुद्रगुहा तेन सशैलवनकानना । दत्ता पृथ्वी न सन्देहस्तेन सर्वा नृपोत्तम ॥ १२८.७ ॥ तेन दानेन स स्वर्गे क्रीडयित्वा यथासुखम् । मर्त्ये भवति राजेन्द्रो ब्राह्मणो वा सुपूजितः ॥ १२८.८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृकुटेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १२९ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल ब्रह्मतीर्थमनुत्तमम् । अन्येषां चैव तीर्थानां परात्परतरं महत् ॥ १२९.१ ॥ तत्र तीर्थे सुरश्रेष्ठो ब्रह्मा लोकपितामहः । चतुर्णामपि वर्णानां नर्मदातटमाश्रितः ॥ १२९.२ ॥ वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् । तत्क्षालयति देवेशो दर्शनादेव पातकम् ॥ १२९.३ ॥ श्रुतिस्मृत्युदितान्येव तत्र स्नात्वा द्विजर्षभाः । प्रायश्चित्तानि कुर्वन्ति तेषां वासस्त्रिविष्टपे ॥ १२९.४ ॥ ये पुनः शास्त्रमुत्सृज्य कामलोभप्रपीडिताः । प्रायश्चित्तं वदिष्यन्ति ते वै निरयगामिनः ॥ १२९.५ ॥ स्नात्वादौ पातकी ब्रह्मन्नत्वा तु कीर्तयेदघम् । तस्य तन्नश्यते क्षिप्रं तमः सूर्योदये यथा ॥ १२९.६ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः । अग्निष्टोमस्य यज्ञस्य स लभेत्फलमुत्तमम् ॥ १२९.७ ॥ तत्र तीर्थे तु यद्दानं ब्रह्मोद्दिश्य प्रयच्छति । तदक्षयफलं सर्वमित्येवं शङ्करोऽब्रवीत् ॥ १२९.८ ॥ गायत्रीसारमात्रोऽपि तत्र यः क्रियते जपः । ऋग्यजुःसामसहितः स भवेन्नात्र संशयः ॥ १२९.९ ॥ तत्र तीर्थे तु यो भक्त्या त्यजेद्देहं सुदुस्त्यजम् । अनिवर्तिका गतिस्तस्य ब्रह्मलोकान्न संशयः ॥ १२९.१० ॥ यावदस्थीनि तिष्ठन्ति ब्रह्मतीर्थे च देहिनाम् । तावद्वर्षसहस्राणि देवलोके महीयते ॥ १२९.११ ॥ अवतीर्णस्ततो लोके ब्रह्मज्ञो जायते कुले । उत्तमः सर्ववर्णानां देवानामिव देवता ॥ १२९.१२ ॥ विद्यास्थानानि सर्वाणि वेत्ति वेदाङ्गपारगः । जायते पूजितो लोके राजभिः स न संशयः ॥ १२९.१३ ॥ पुत्रपौत्रसमोपेतः सर्वव्याधिविवर्जितः । जीवेद्वर्षशतं साग्रं ब्रह्मतीर्थप्रभावतः ॥ १२९.१४ ॥ एतत्पुण्यं पापहरं तीर्थं ज्ञानवतां वरम् । ये पश्यन्ति महात्मानो ह्यमृतत्वं प्रयान्ति ते ॥ १२९.१५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ब्रह्मतीर्थमाहात्म्यवर्णनं नामैकोनत्रिंशदधिकशततमोऽध्यायः॥ ऋKV अध्याय १३० श्रीमार्कण्डेय उवाच - नर्मदादक्षिणे कूले देवतीर्थमनुत्तमम् । तत्र देवैः समागत्य तोषितः परमेश्वरः ॥ १३०.१ ॥ तत्र तीर्थे तु यः स्नात्वा कामक्रोधविवर्जितः । स लभेन्नात्र सन्देहो गोसहस्रफलं ध्रुवम् ॥ १३०.२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नाम त्रिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १३१ श्रीमार्कण्डेय उवाच - नर्मदादक्षिणे कूले नागतीर्थमनुत्तमम् । यत्र सिद्धा महानागा भये जाते ततो नृप ॥ १३१.१ ॥ युधिष्ठिर उवाच - महाभयानां लोकस्य नागानां द्विजसत्तम । कथं जातं भयं तीव्रं येन ते तपसि स्थिताः ॥ १३१.२ ॥ भूतं भव्यं भविष्यच्च यत्सुरासुरमानवे । तात ते विदितं सर्वं तेन मे कौतुकं महत् ॥ १३१.३ ॥ मम संतापजं दुःखं दुर्योधनसमुद्भवम् । तव वक्त्राम्बुजौघेन प्लावितं निर्वृतिं गतम् ॥ १३१.४ ॥ श्रुत्वा तव मुखोद्गीतां कथां पापप्रणाशनीम् । भूयो भूयः स्मृतिर्जाता श्रवणे मम सुव्रत ॥ १३१.५ ॥ न क्लेशत्वं द्विजे युक्तं न चान्यो जानते फलम् । विद्यादानस्य महतः श्रावितस्य सुतस्य च ॥ १३१.६ ॥ एवं ज्ञात्वा यथान्यायं यः प्रश्नः पृच्छितो मया । कथा तु कथ्यतां विप्र दयां कृत्वा ममोपरि ॥ १३१.७ ॥ मार्कण्डेय उवाच - यथा यथा त्वं नृप भाषसे च तथा तथा मे सुखमेति भारती । शैथिल्यभावाज्जरयान्वितस्य त्वत्सौहृदं नश्यति नैव तात ॥ १३१.८ ॥ कथयामि यथावृत्तमितिहासं पुरातनम् । कथितं पूर्वतो वृद्धैः पारम्पर्येण भारत ॥ १३१.९ ॥ द्वे भार्ये कश्यपस्यास्तां सर्वलोकेष्वनुत्तमे । गरुत्मतो वै विनता सर्पाणां कद्रुरेव च ॥ १३१.१० ॥ अश्वसंदर्शनात्ताभ्यां कलिरूपं व्यवस्थितम् । प्रभातकाले राजेन्द्र भास्कराकारवर्चसम् ॥ १३१.११ ॥ तं दृष्ट्वा विनता रूपमश्वं सर्वत्र पाण्डुरम् । अथ तां कद्रूमवोचत्सा पश्य पश्य वरानने ॥ १३१.१२ ॥ उच्चैःश्रवसः सादृश्यं पश्य सर्वत्र पाण्डुरम् । धावमानमविश्रान्तं जवेन पवनोपमम् ॥ १३१.१३ ॥ तं दृष्ट्वा सहसा यान्तमीर्ष्याभावेन मोहिता । कृष्णं मत्वा तथाजल्पत्तया सह नृपोत्तम ॥ १३१.१४ ॥ विनते त्वं मृषा लोके नृशंसे कुलपांसनि । कृष्णं चैनं वद श्वेतं नरकं यास्यसे परम् ॥ १३१.१५ ॥ विनतोवाच - सत्यानृते तु वचने पणोऽयं ते ममैव तु । सहस्रं वत्सरान्दासी भवेयं तव वेश्मनि ॥ १३१.१६ ॥ तथेति ते प्रतिज्ञाय रात्रौ गत्वा स्वकं गृहम् । परित्यज्य उभे ते तु क्रोधमूर्छितमूर्छिते ॥ १३१.१७ ॥ बन्धुगर्वस्य गत्वा तु कथयामास तं पणम् । कद्रूर्विनतया सार्द्धं यद्वृत्तं प्रमदालये ॥ १३१.१८ ॥ तच्छ्रुत्वा बान्धवाः सर्वे कद्रूपुत्रास्तथैव च । न मन्यन्ते हितं कार्यं कृतं मात्रा विगर्हितम् ॥ १३१.१९ ॥ अकृष्णः कृष्णतामम्ब कथं गच्छेद्धयोत्तमः । दासत्वं प्राप्स्यसे त्वं हि पणेनानेन सुव्रते ॥ १३१.२० ॥ कद्रूरुवाच - भवेयं न यथादासी तत्कुरुध्वं हि सत्वरम् । विशध्वं रोमकूपेषु तस्याश्वस्य मतिर्मम ॥ १३१.२१ ॥ क्षणमात्रं कृते कार्ये सा दासी च भवेन्मम । ततः स्वस्थोरगाः सर्वे भविष्यथ यथासुखम् ॥ १३१.२२ ॥ सर्पा ऊचुः । यथा त्वं जननी देवि पन्नगानां मता भुवि । तथापि सा विशेषेण वञ्चितव्या न कर्हिचित् ॥ १३१.२३ ॥ कद्रूरुवाच - मम वाक्यमकुर्वाणा ये केचिद्भुवि पन्नगाः । हव्यवाहमुखं सर्वे ते यास्यन्त्यविचारिताः ॥ १३१.२४ ॥ एतच्छ्रुत्वा तु वचनं घोरं मातृमुखोद्भवम् । केचित्प्रविष्टा रोमाणि तथान्ये गिरिसंस्थिताः ॥ १३१.२५ ॥ केचित्प्रविष्टा जाह्नव्यामन्ये च तपसि स्थिताः ॥ १३१.२६ ॥ ततो वर्षसहस्रान्ते तुतोष परमेश्वरः । महादेवो जगद्धाता ह्युवाच परया गिरा ॥ १३१.२७ ॥ भो भोः सर्पा निवर्तध्वं तपसोऽस्य महत्फलम् । यमिच्छथ ददाम्यद्य नात्र कार्या विचारणा ॥ १३१.२८ ॥ सर्पा ऊचुः । कद्रूशापभयाद्भीता देवदेव महेश्वर । तव पार्श्वे वसिष्यामो यावदाभूतसम्प्लवम् ॥ १३१.२९ ॥ देवदेव उवाच - एकश्चायं महाबाहुर्वासुकिर्भुजगोत्तमः । मम पार्श्वे वसेन्नित्यं सर्वेषां भयरक्षकः ॥ १३१.३० ॥ अन्येषां चैव सर्पाणां भयं नास्ति ममाज्ञया । आप्लुत्य नर्मदातोये भुजगास्ते च रक्षिताः ॥ १३१.३१ ॥ नास्ति मृत्युभयं तेषां वसध्वं यत्र चेप्सितम् । कद्रूशापभयं नास्ति ह्येष मे विस्तरः परः ॥ १३१.३२ ॥ एवं दत्त्वा वरं तेषां देवदेवो महेश्वरः । जगामाकाशमाविश्य कैलासं धरणीधरम् ॥ १३१.३३ ॥ गते चादर्शनं देवे वासुकिप्रमुखा नृप । स्थापयित्वा तथा जग्मुर्देवदेवं महेश्वरम् ॥ १३१.३४ ॥ तत्र तीर्थे तु यः कश्चित्पञ्चम्यामर्चयेच्छिवम् । तस्य नागकुलान्यष्टौ न हिंसन्ति कदाचन ॥ १३१.३५ ॥ मृतः कालेन महता तत्र तीर्थे नरेश्वर । शिवस्यानुचरो भूत्वा वसते कालमीप्सितम् ॥ १३१.३६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागेश्वरतीर्थमाहात्म्यवर्णनं नामैकत्रिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १३२ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र उत्तरे नर्मदातटे । सर्वपापहरं तीर्थं वाराहं नाम नामतः ॥ १३२.१ ॥ तत्र देवो जगद्धाता वाराहं रूपमास्थितः । स्थितो लोकहितार्थाय संसारार्णवतारकः ॥ १३२.२ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेद्धरणीधरम् । गन्धमाल्यविशेषैश्च जयशब्दादिमङ्गलैः ॥ १३२.३ ॥ उपवासपरो भूत्वा द्वादश्यां नृपसत्तम । वृषलाः पापकर्माणस्तथैवान्धपिशाचिनः ॥ १३२.४ ॥ आलापाद्गात्रसंपर्कान्निःश्वासात्सहभोजनात् । पापं संक्रमते यस्मात्तस्मात्तान् परिवर्जयेत् ॥ १३२.५ ॥ ब्राह्मणान् पूजयेद्भक्त्या यथाशक्त्या यथाविधि । रात्रौ जागरणं कार्यं कथायां तत्र भारत ॥ १३२.६ ॥ प्रभाते विमले स्नात्वा तत्र तीर्थे जगद्गुरुम् । ये पश्यन्ति जितक्रोधास्ते मुक्ताः सर्वपातकैः ॥ १३२.७ ॥ यथा तु दृष्ट्वा भुजगाः सुपर्णं नश्यन्ति मुक्त्वा विषमुग्रतेजः । नश्यन्ति पापानि तथैव शीघ्रं दृष्ट्वा मुखं शूकररूपिणस्तु ॥ १३२.८ ॥ नभोगतं नश्यति चान्धकारं दृष्ट्वा रविं देववरं तथैव । नश्यन्ति पापानि सुदुस्तराणि दृष्ट्वा मुखं पार्थ धराधरस्य ॥ १३२.९ ॥ किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने । नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ १३२.१० ॥ एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ १३२.११ ॥ ध्यायमाना महात्मानो रूपं नारायणं हरेः । ये त्यजन्ति स्वकं देहं तत्र तीर्थे जितेन्द्रियाः ॥ १३२.१२ ॥ ते गच्छन्त्यमलं स्थानं यत्सुरैरपि दुर्लभम् । क्षराक्षरविनिर्मुक्तं तद्विष्णोः परमं पदम् ॥ १३२.१३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदिवाराहतीर्थमाहात्म्यवर्णनं नाम द्वात्रिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १३३ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल परं तीर्थचतुष्टयम् । येषां दर्शनमात्रेण सर्वपापक्षयो भवेत् ॥ १३३.१ ॥ कौबेरं वारुणं याम्यं वायव्यं तु ततः परम् । यत्र सिद्धा महाप्राज्ञा लोकपाला महाबलाः ॥ १३३.२ ॥ युधिष्ठिर उवाच - किमर्थं लोकपालैश्च तपश्चीर्णं पुरानघ । नर्मदातटमाश्रित्य ह्येतन्मे वक्तुमर्हसि ॥ १३३.३ ॥ श्रीमार्कण्डेय उवाच - अधिष्ठानं समिच्छन्ति ह्यचलं निर्बले सति । संसारे सर्वभूतानां तृणबिन्दुवदस्थिरे ॥ १३३.४ ॥ कदलीसारनिःसारे मृगतृष्णेव चञ्चले । स्थावरे जङ्गमे सर्वे भूतग्रामे चतुर्विधे ॥ १३३.५ ॥ धर्मो माता पिता धर्मो धर्मो बन्धुः सुहृत्तथा । आधारः सर्वभूतानां त्रैलोक्ये सचराचरे ॥ १३३.६ ॥ एवं ज्ञात्वा तु ते सर्वे लोकपालाः कृतक्षणाः । तपस्ते चक्रुरतुलं मारुताहारतत्पराः ॥ १३३.७ ॥ ततस्तुष्टो महादेवः कृतस्यार्द्धे गते तदा । अनुरूपेण राजेन्द्र युगस्य परमेश्वरः ॥ १३३.८ ॥ वरेण छन्दयामास लोकपालान्महाबलान् । यो यमिच्छति कामं वै तं तं तस्य ददाम्यहम् ॥ १३३.९ ॥ एतच्छ्रुत्वा वचस्तस्य लोकपाला जगद्धिताः । वरदं प्रार्थयामासुर्देवं वरमनुत्तमम् ॥ १३३.१० ॥ कुबेर उवाच - यदि तुष्टो महादेव यदि देयो वरो मम । यक्षाणामीश्वरश्चाहं भवामि धनदस्त्विति ॥ १३३.११ ॥ ततः प्रोवाच देवेशं यमः संयमने रतः । तत्र प्रधानो भगवान् भवेयं सर्वजन्तुषु ॥ १३३.१२ ॥ वरुणोऽनन्तरं प्राह प्रणम्य तु महेश्वरम् । क्रीडेयं वारुणे लोके यादोगणसमन्वितः ॥ १३३.१३ ॥ जगादाशु ततो वायुः प्रणम्य तु महेश्वरम् । व्यापकत्वं त्रिलोकेषु प्रार्थयामास भारत ॥ १३३.१४ ॥ तेषां यदीप्सितं काममुमया सह शङ्करः । सर्वेषां लोकपालानः दत्त्वा चादर्शनं गतः ॥ १३३.१५ ॥ गते महेश्वरे देवे यथास्थानं तु ते स्थिताः । स्थापना च कृता सर्वैः स्वनाम्नैव पृथक्पृथक् ॥ १३३.१६ ॥ कुबेरश्च कुबेरेशं यमश्चैव यमेश्वरम् । वरुणो वरुणेशं तु वातो वातेश्वरं नृप ॥ १३३.१७ ॥ तर्पणं विदधुः सर्वे मन्त्रैश्च विविधैः शुभैः । सर्वे सर्वेश्वरं देव पूजयित्वा यथाविधि ॥ १३३.१८ ॥ आह्वयामासुस्तान् विप्रान्सर्वे सर्वेश्वरा इव । क्षान्तदान्तजितक्रोधान्सर्वभूताभयप्रदान् ॥ १३३.१९ ॥ वेदविद्याव्रतस्नातान् सर्वशास्त्रविशारदान् । ऋग्यजुःसामसंयुक्तांस्तथाथर्वविभूषितान् ॥ १३३.२० ॥ चातुर्विध्यं तु सर्वेषां दानं दास्याम गृह्णत । एवमुक्त्वा तु सर्वेषां विप्राणां दानमुत्तमम् ॥ १३३.२१ ॥ तत्र स्थाने ददुस्तेषां भूमिदानमनुत्तमम् । यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ १३३.२२ ॥ तावद्दानं तु युष्माकं परिपन्थी न कश्चन । राजा वा राजतुल्यो वा लोकपालैरनुत्तमम् ॥ १३३.२३ ॥ दत्तं लोपयते मूढः श्रूयतां तस्य यो विधिः । शोषयेद्धनदो वित्तं तस्य पापस्य भारत ॥ १३३.२४ ॥ शरीरं वरुणो देवः संततीं श्वसनस्तथा । आयुर्नयति तस्याशु यमः संयमनो महान् ॥ १३३.२५ ॥ निःशेषं भस्मसात्कृत्वा हुतभुग्याति भारत । तस्मात्सर्वप्रयत्नेन ब्राह्मणेभ्यो युधिष्ठिर । भक्तिः कार्या नृपैः सर्वैरिच्छद्भिः श्रेय आत्मनः ॥ १३३.२६ ॥ राजा वृक्षो ब्राह्मणास्तस्य मूलं भृत्याः पर्णा मन्त्रिणस्तस्य शाखाः । तस्मान्मूलं यत्नतो रक्षणीयं मूले गुप्ते नास्ति वृक्षस्य नाशः ॥ १३३.२७ ॥ षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चावमन्ता च तान्येव नरके वसेत् ॥ १३३.२८ ॥ स्वदत्ता परदत्ता वा पालनीया वसुंधरा । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ १३३.२९ ॥ देवताज्ञामनुस्मृत्य राजानो येऽपि तां नृप । पालयिष्यन्ति सततं तेषां वासस्त्रिविष्टपे ॥ १३३.३० ॥ स्वदत्ता परदत्ता वा यत्नाद्रक्ष्या युधिष्ठिर । मही महीक्षिता नित्यं दानाच्छ्रेयोऽनुपालनम् ॥ १३३.३१ ॥ आयुर्यशो बलं वित्तं संततिश्चाक्षया नृप । तेषां भविष्यते नूनं ये प्रजापालने रताः ॥ १३३.३२ ॥ एवमुक्त्वा तु तान् सर्वांल्लोकपालान् द्विजोत्तमान् । पूजयित्वा विधानेन प्रणिपत्य व्यसर्जयन् ॥ १३३.३३ ॥ गतेषु विप्रमुख्येषु स्नात्वा हुतहुताशनाः । लोकपालाः क्षुधाविष्टाः पर्यटन्भैक्षमात्मनः ॥ १३३.३४ ॥ अस्थिचर्मावशेषाङ्गाः कपालोद्धृतपाणयः । अलब्धग्रासमर्द्धार्धं निर्ययुर्नगराद्बहिः ॥ १३३.३५ ॥ शापं दत्त्वा तदा क्रोधाद्ब्राह्मणाय युधिष्ठिर । दरिद्राः सततं मूर्खा भवेयुश्च ययुर्गृहान् ॥ १३३.३६ ॥ तदाप्रभृति ते सर्वे ब्राह्मणा धनवर्जिताः । शापदोषेण कौबेर्यां संजाता दुःखभाजनाः ॥ १३३.३७ ॥ न धनं पैतृकं पुत्रैर्न पिता पुत्रपौत्रिकम् । भुञ्जते सकलं कालमित्येवं शङ्करोऽब्रवीत् ॥ १३३.३८ ॥ कुबेरेशो नरः स्नात्वा यस्तु पूजयते शिवम् । गन्धधूपनमस्कारैः सोऽश्वमेधफलं लभेत् ॥ १३३.३९ ॥ यमतीर्थे तु यः स्नात्वा सम्पश्यति यमेश्वरम् । सर्वपापैः प्रमुच्येत सप्तजन्मान्तरार्जितैः ॥ १३३.४० ॥ पूर्णमास्याममावास्यां स्नात्वा तु पितृतर्पणम् । यः करोति तिलैः स्नानं तस्य पुण्यफलं शृणु ॥ १३३.४१ ॥ सुतृप्तास्तेन तोयेन पितरश्च पितामहाः । स्वर्गस्था द्वादशाब्दानि क्रीडन्ति प्रपितामहाः ॥ १३३.४२ ॥ वरुणेशे नरः स्नात्वा ह्यर्चयित्वा महेश्वरम् । वाजपेयस्य यज्ञस्य फलं प्राप्नोति पुष्कलम् ॥ १३३.४३ ॥ मृतां कालेन महता लोके यत्र जलेश्वरः । स गच्छेत्तत्र यानेन गीयमानोऽप्सरोगणैः ॥ १३३.४४ ॥ वातेश्वरे नरः स्नात्वा सम्पूज्य च महेश्वरम् । जायते कृतकृत्योऽसौ लोकपालानवेक्षयन् ॥ १३३.४५ ॥ किं तस्य बहुभिर्यज्ञैर्दानैर्वा बहुदक्षिणैः । स्नात्वा चतुष्टये लोके अवाप्तं जन्मनः फलम् ॥ १३३.४६ ॥ ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् । नित्यं वसन्ति कौरिल्यां लोकपालान्निमन्त्र्य ये ॥ १३३.४७ ॥ एतत्पुण्यं पापहरं धन्यमायुर्विवर्धनम् । पठतां शृण्वतां चैव सर्वपापक्षयो भवेत् ॥ १३३.४८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुबेरादितीर्थचतुष्टयमाहात्म्यवर्णनं नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १३४ श्रीमार्कण्डेय उवाच - नर्मदादक्षिणे कूले रामेश्वरमनुत्तमम् । तीर्थं पापहरं पुण्यं सर्वदुःखघ्नमुत्तमम् ॥ १३४.१ ॥ तत्र तीर्थे तु ये स्नात्वा पूजयन्ति महेश्वरम् । महादेवं महात्मानं मुच्यन्ते सर्वकिल्बिषैः ॥ १३४.२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रामेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १३५ श्रीमार्कण्डेय उवाच - तस्यैवानन्तरं चान्यत्सिद्धेश्वरमनुत्तमम् । तीर्थं सर्वगुणोपेतं सर्वलोकेषु पूजितम् ॥ १३५.१ ॥ तत्र तीर्थे तु यः स्नात्वा ह्युमारुद्रं प्रपूजयेत् । वाजपेयस्य यज्ञस्य स लभेत्फलमुत्तमम् ॥ १३५.२ ॥ तेन पुण्येन महता मृतः स्वर्गमवाप्नुयात् । अप्सरोगणसंवीतो जयशब्दादिमङ्गलैः ॥ १३५.३ ॥ सहस्रवत्सरांस्तत्र क्रीडयित्वा यथासुखम् । धनधान्यसमोपेते कुले महति जायते ॥ १३५.४ ॥ पूज्यमानो नरश्रेष्ठ वेदवेदाङ्गपारगः । व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ १३५.५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरमाहात्म्यवर्णनं नाम पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १३६ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल चाहल्येश्वरमुत्तमम् । यत्र सिद्धा महाभागा त्वहल्या तापसी पुरा ॥ १३६.१ ॥ गौतमो ब्राह्मणस्त्वासीत्साक्षाद्ब्रह्मेव चापरः । सत्यधर्मसमायुक्तो वानप्रस्थाश्रमे रतः ॥ १३६.२ ॥ तस्य पत्नी महाभागा ह्यहल्या नाम विश्रुता । रूपयौवनसम्पन्ना त्रिषु लोकेषु विश्रुता ॥ १३६.३ ॥ अस्या अप्यतिरूपेण देवराजः शतक्रतुः । मोहितो लोभयामास ह्यहल्यां बलसूदनः ॥ १३६.४ ॥ मां भजस्व वरारोहे देवराजमनिन्दिते । क्रीडयस्व मया सार्द्धं त्रिषु लोकेषु पूजिता ॥ १३६.५ ॥ किं करिष्यसि विप्रेण शौचाचारकृशेन तु । तपःस्वाध्यायशीलेन क्लिश्यन्तीव सुलोचने ॥ १३६.६ ॥ एवमुक्ता वरारोहा स्त्रीस्वभावात्सुचञ्चला । मनसाध्याय शक्रं सा कामेन कलुषीकृता ॥ १३६.७ ॥ तस्या विदित्वा तं भावं स देवः पाकशासनः । गौतमं वञ्चयामास दुष्टभावेन भावितः ॥ १३६.८ ॥ विदित्वा चान्तरं तस्य गृहीत्वा वेषमुत्तमम् । अहल्यां रमयामास विश्वस्तां मन्दिरान्तिके ॥ १३६.९ ॥ क्षणमात्रान्तरे तत्र देवराजस्य भारत । आजगाम मुनिश्रेष्ठो मन्दिरं त्वरयान्वितः ॥ १३६.१० ॥ आगतं गौतमं दृष्ट्वा भीतभीतः पुरंदरः । निर्गतः स ततो दृष्ट्वा शक्रोऽयमिति चिन्तयन् ॥ १३६.११ ॥ ततः शशाप देवेन्द्रं गौतमः क्रोधमूर्छितः । अजितेन्द्रियोऽसि यस्मात्त्वं तस्माद्बहुभगो भव ॥ १३६.१२ ॥ एवमुक्तस्तु देवेन्द्रस्तत्क्षणादेव भारत । भगानां तु सहस्रेण तत्क्षणादेव वेष्टितः ॥ १३६.१३ ॥ त्यक्त्वा राज्यं सुरैः सार्द्धं गतश्रीको जगाम ह । तपश्चचार विपुलं गौतमेन महीतले ॥ १३६.१४ ॥ अहल्यापि ततः शप्ता यस्मात्त्वं दुष्टचारिणी । प्रेक्ष्य मां रमसे शक्रं तस्मादश्ममयी भव ॥ १३६.१५ ॥ गते वर्षसहस्रान्ते रामं दृष्ट्वा यशस्विनम् । तीर्थयात्राप्रसङ्गेन धौतपापा भविष्यसि ॥ १३६.१६ ॥ एवं गते ततः काले दृष्टा रामेण धीमता । विश्वामित्रसहायेन त्यक्त्वा साश्ममयीं तनुम् ॥ १३६.१७ ॥ पूजयित्वा यथान्यायं गतपापा विमत्सरा । आगता नर्मदातीरे तीर्थे स्नात्वा यथाविधि ॥ १३६.१८ ॥ कृतं चान्द्रायणं मासं कृच्छ्रं चान्यं ततः परम् । ततस्तुष्टो महादेवो दत्त्वा वरमनुत्तमम् ॥ १३६.१९ ॥ जगामादर्शनं भूयो रेमे चोमापतिश्चिरम् । अहल्या तु गते देवे स्थापयित्वा जगद्गुरुम् ॥ १३६.२० ॥ अहल्येश्वरनामानं स्वगृहे चागमत्पुनः । तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ॥ १३६.२१ ॥ स मृतः स्वर्गमाप्नोति यत्र देवो महेश्वरः । क्रीडयित्वा यथाकामं तत्र लोके महातपाः ॥ १३६.२२ ॥ गते वर्षसहस्रान्ते मानुष्यं लभते पुनः । धनधान्यचयोपेतः पुत्रपौत्रसमन्वितः ॥ १३६.२३ ॥ वेदविद्याश्रयो धीमाञ्जायते विमले कुले । रूपसौभाग्यसम्पन्नः सर्वव्याधिविवर्जितः । जीवेद्वर्षशतं साग्रमहल्यातीर्थसेवनात् ॥ १३६.२४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अहल्यातीर्थमाहात्म्यवर्णनं नाम षट्त्रिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १३७ मार्कण्डेय उवाच - धर्मपुत्र ततो गच्छेत्कर्कटेश्वरमुत्तमम् । उत्तरे नर्मदाकूले सर्वपापक्षयंकरम् ॥ १३७.१ ॥ तत्र स्नात्वा विधानेन यस्तु पूजयते शिवम् । अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ १३७.२ ॥ तस्य तीर्थस्य माहात्म्यं पुराणे यच्छ्रुतं मया । न तद्वर्णयितुं शक्यं संक्षेपेण वदाम्यतः ॥ १३७.३ ॥ तत्र तीर्थे तु यः कुर्यात्किंचित्कर्म शुभाशुभम् । हर्षान्मदान्महाराज तत्सर्वं जायतेऽक्षयम् ॥ १३७.४ ॥ तत्र तीर्थे तपस्तप्त्वा वालखिल्या मरीचयः । रमन्तेऽद्यापि लोकेषु स्वेच्छया कुरुनन्दन ॥ १३७.५ ॥ तत्रस्थास्तन्न जानन्ति नराज्ञानबहिष्कृताः । शरीरस्थमिवात्मानमक्षयं ज्योतिख्ययम् ॥ १३७.६ ॥ तत्र तीर्थे नृपश्रेष्ठ देवी नारायणी पुरा । अद्यापि तपते घोरं तपो यावत्किलार्बुदम् ॥ १३७.७ ॥ तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः । तस्य ते द्वादशाब्दानि तृप्तिं यान्ति पितामहाः ॥ १३७.८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कर्कटेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तत्रिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १३८ श्रीमार्कण्डेय उवाच - ततो गच्छेत्पाण्डुपुत्र शक्रतीर्थमनुत्तमम् । यत्र सिद्धो महाभागो देवराजः शतक्रतुः ॥ १३८.१ ॥ गौतमेन पुरा शप्तं ज्ञात्वा देवाः सुरेश्वरम् । ब्रह्माद्या देवताः सर्व ऋषयश्च तपोधनाः ॥ १३८.२ ॥ गौतमं प्रार्थयामासुर्वाक्यैः सानुनयैः शुभैः । गतराज्यं गतश्रीकं शक्रं प्रति मुनीश्वर ॥ १३८.३ ॥ इन्द्रेन रहितं राज्यं न कश्चित्कामयेद्द्विज । देवो वा मानवो वापि एतत्ते विदितं प्रभो ॥ १३८.४ ॥ तस्य त्वं भगयुक्तस्य दयां कुरु द्विजोत्तम । गतश्चादर्शनं शक्रो दूषितः स्वेन पाप्मना ॥ १३८.५ ॥ देवानां वचनं श्रुत्वा गौतमो वेदवित्तमः । तथेति कृत्वा शक्रस्य वरं दातुं प्रचक्रमे ॥ १३८.६ ॥ एतद्भगसहस्रं तु पुरा जातं शतक्रतो । तल्लोचनसहस्रं तु मत्प्रसादाद्भविष्यति ॥ १३८.७ ॥ एवमुक्तः सहस्राक्षः प्रणम्य मुनिसत्तमम् । ब्राह्मणांस्तान्महाभागान्नर्मदां प्रत्यगात्ततः ॥ १३८.८ ॥ स्नात्वा स विमले तोये संस्थाप्य त्रिपुरान्तकम् । जगाम त्रिदशावासं पूज्यमानोऽप्सरोगणैः ॥ १३८.९ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् । परदाराभिगमनान्मुच्यते पातकान्नरः ॥ १३८.१० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शक्रतीर्थमाहात्म्यवर्णनं नामाष्टत्रिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १३९ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महाराज सोमतीर्थमनुत्तमम् । यत्र सोमस्तपस्तप्त्वा नक्षत्रपथमास्थितः ॥ १३९.१ ॥ तत्र तीर्थे तु यः स्नायादाचम्य विधिपूर्वकम् । कृतजाप्यो रविं ध्यायेत्तस्य पुण्यफलं शृणु ॥ १३९.२ ॥ ऋग्वेदयजुर्वेदाभ्यां सामवेदेन भारत । जपतो यत्फलं प्रोक्तं गायत्र्या चात्र तत्फलम् ॥ १३९.३ ॥ तत्र तीर्थे तु यो भक्त्या ब्राह्मणान् भोजयेच्छुचिः । तेन सम्यग्विधानेन कोटिर्भवति भोजिता ॥ १३९.४ ॥ पादुकोपानहौ छत्रं वस्त्रकम्बलवाजिनः । यो दत्ते विप्रमुख्याय तस्य तत्कोटिसंमितम् ॥ १३९.५ ॥ सहस्रं तु सहस्राणामनृचां यस्तु भोजयेत् । एकस्य मन्त्रयुक्तस्य कलां नार्हति षोडशीम् ॥ १३९.६ ॥ एवं तु भोजयेत्तत्र बह्वृचं वेदपारगम् । शाखान्तर्गमथाध्वर्युं छन्दोगं वा समाप्तिगम् ॥ १३९.७ ॥ अग्निहोत्रसहस्रस्य यत्फलं प्राप्यते बुधैः । समं तद्वेदविदुषा तीर्थे सोमस्य तत्फलम् ॥ १३९.८ ॥ भोजयेद्यः शतं तेषां सहस्रं लभते नरः । एकस्य योगयुक्तस्य तत्फलं कवयो विदुः ॥ १३९.९ ॥ संनिरुध्येन्द्रियग्रामं यत्रयत्र वसेन्मुनिः । तत्रतत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥ १३९.१० ॥ तस्मात्सर्वप्रयत्नेन ग्रहणे चन्द्रसूर्ययोः । संक्रान्तौ च व्यतीपाते योगी भोज्यो विशेषतः ॥ १३९.११ ॥ संन्यासं कुरुते यस्तु तत्र तीर्थे युधिष्ठिर । विमानेन महाभागाः स याति त्रिदिवं नरः ॥ १३९.१२ ॥ सोमस्यानुचरो भूत्वा तेनैव सह मोदते ॥ १३९.१३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमतीर्थमाहात्म्यवर्णनं नामैकोनचत्वारिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १४० मार्कण्डेय उवाच - ततो गच्छेन्महाराज नन्दाह्रदमनुत्तमम् । यत्र सिद्धा महाभागा नन्दा देवी वरप्रदा ॥ १४०.१ ॥ महिषासुरे महाकाये पुरा देवभयंकरे । शूलिन्या शूलभिन्नाङ्गे कृते दानवसत्तमे ॥ १४०.२ ॥ येनैकादशरुद्राश्च ह्यादित्याः समरुद्गणाः । वसवो वायुना सार्द्धं चन्द्रादित्यौ सुरेश्वर ॥ १४०.३ ॥ बलिना निर्जिता येन ब्रह्मविष्णुमहेश्वराः । सङ्ग्रामे सुमहाघोरे कृते देवभयंकरे ॥ १४०.४ ॥ कृत्वा तत्कदनं घोरं नन्दा देवी सुरेश्वरी । यस्मात्स्नाता विशालाक्षी तेन नन्दाह्रदः स्मृतः ॥ १४०.५ ॥ तत्र तीर्थे तु यः स्नात्वा नन्दामुद्दिश्य भारत । ददाति दानं विप्रेभ्यः सोऽश्वमेधफलं लभेत् ॥ १४०.६ ॥ भैरवं चैव केदारं तथा रुद्रं महालयम् । नन्दाह्रदश्चतुर्थः स्यात्पञ्चमं भुवि दुर्लभम् ॥ १४०.७ ॥ बहवस्तं न जानन्ति कामरागसमन्विताः । नर्मदाया ह्रदं पुण्यं सर्वपातकनाशनम् ॥ १४०.८ ॥ तत्र तीर्थे तु यः स्नात्वा नन्दां देवीं प्रपूजयेत् । किं तस्य हिमवन्मध्यगमनेन प्रयोजनम् ॥ १४०.९ ॥ परमार्थमविज्ञाय पर्यटन्ति तमोवृताः । तेषां समागमे पार्थ श्रम एव हि केवलम् ॥ १४०.१० ॥ पृथिव्यां सागरान्तायां स्नानदानेन यत्फलम् । तत्फलं समवाप्नोति स्नात्वा नन्दाह्रदे नृप ॥ १४०.११ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दाह्रदतीर्थमाहात्म्यवर्णनं नाम चत्वारिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १४१ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल तापेश्वरमनुत्तमम् । यत्र सा हरिणी सिद्धा व्याधभीता नरेश्वर ॥ १४१.१ ॥ जले प्रक्षिप्य गात्राणि ह्यन्तरिक्षं गता तु सा । व्याधो विस्मितचित्तस्तु तां मृगीमवलोक्य च ॥ १४१.२ ॥ विमुच्य सशरं चापं प्रारेभे तप उत्तमम् । दिव्यं वर्षसहस्रं तु व्याधेनाचरितं तपः ॥ १४१.३ ॥ अतीते तु ततः काले परितुष्टो महेश्वरः । वरं ब्रूहि महाव्याध यत्ते मनसि रोचते ॥ १४१.४ ॥ व्याध उवाच - यदि तुष्टोऽसि देवेश यदि देयो वरो मम । तव पार्श्वे महादेव वासो मे प्रतिदीयताम् ॥ १४१.५ ॥ ईश्वर उवाच - एवं भवतु ते व्याध यस्त्वया काङ्क्षितो वरः । दैवदेवो महादेव इत्युक्त्वान्तरधीयत । गते चादर्शनं देवे स्थापयित्वा महेश्वरम् ॥ १४१.६ ॥ पूजयित्वा विधानेन गतो व्याधस्ततो दिवम् । तदाप्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ १४१.७ ॥ व्याधानुतापसंजातं तापेश्वरमिति श्रुतम् । तत्र तीर्थे तु यः स्नात्वा सम्पूजयति शङ्करम् ॥ १४१.८ ॥ शिवलोकमवाप्नोति मामुवाच महेश्वरः । ये स्नाता नर्मदातोये तीर्थे तापेश्वरे नराः ॥ १४१.९ ॥ तापत्रयविमुक्तास्ते नात्र कार्या विचारणा । अष्टम्यां च चतुर्दश्यां तृतीयायां विशेषतः ॥ १४१.१० ॥ स्नानं समाचरेन्नित्यं सर्वपातकशान्तये ॥ १४१.११ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तापेश्वरतीर्थमाहात्म्यवर्णनं नामैकचत्वारिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १४२ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महाराज रुक्मिणीतीर्थमुत्तमम् । यत्रैव स्नानमात्रेण रूपवान्सुभगो भवेत् ॥ १४२.१ ॥ अष्टम्यां च चतुर्दश्यां तृतीयायां विशेषतः । स्नानं समाचरेत्तत्र न चेह जायते पुनः ॥ १४२.२ ॥ यः स्नात्वा रुक्मिणीतीर्थे दानं दद्यात्तु कांचनम् । तत्तीर्थस्य प्रभावेन शोकं नाप्नोति मानवः ॥ १४२.३ ॥ युधिष्ठिर उवाच - तीर्थस्यास्य कथं जातो महिमेदृङ्मुनीश्वर । रूपसौभाग्यदं येन तीर्थमेतद्ब्रवीहि मे ॥ १४२.४ ॥ मार्कण्डेय उवाच - कथयामि यथावृत्तमितिहासं पुरातनम् । कथितं पूर्वतो वृद्धैः पारम्पर्येण भारत ॥ १४२.५ ॥ तं तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकाग्रमानसः । नगरं कुण्डिनं नाम भीष्मकः परिपाति हि ॥ १४२.६ ॥ हस्त्यश्वरथसम्पन्नो धनाढ्योऽति प्रतापवान् । स्त्रीसहस्रस्य मध्यस्थः कुरुते राज्यमुत्तमम् ॥ १४२.७ ॥ तस्य भार्या महादेवी प्राणेभ्योऽपि गरीयसी । तस्यामुत्पादयामास पुत्रमेकं च रुक्मकम् ॥ १४२.८ ॥ द्वितीया तनया जज्ञे रुक्मिणी नाम नामतः । तदाशरीरिणी वाचा राजानं तमुवाच ह ॥ १४२.९ ॥ चतुर्भुजाय दातव्या कन्येयं भुवि भीष्मक । एवं तद्वचनं श्रुत्वा जहर्ष प्रियया सह ॥ १४२.१० ॥ ब्राह्मणैः सह विद्वद्भिः प्रविष्टः सूतिकागृहम् । स्वस्तिकं वाचयित्वास्याश्चक्रे नामेति रुक्मिणी ॥ १४२.११ ॥ यतः सुवर्णतिलको जन्मना सह भारत । ततः सा रुक्मिणीनाम ब्राह्मणैः कीर्तिता तदा ॥ १४२.१२ ॥ ततः सा कालपर्यायादष्टवर्षा व्यजायत । पूर्वोक्तं चैव तद्वाक्यमशरीरिण्युदीरितम् ॥ १४२.१३ ॥ स्मृत्वा स्मृत्वाथ नृपतिश्चिन्तयामास भूपतिः । कस्मै देया मया बाला भविता कश्चतुर्भुजः ॥ १४२.१४ ॥ एतस्मिन्नन्तरे तावद्रैवतात्पर्वतोत्तमात् । मुख्यश्चेदिपतिस्तत्र दमघोषः समागतः ॥ १४२.१५ ॥ प्रविष्टो राजसदनं यत्र राजा स भीष्मकः । तं दृष्ट्वा चागतं गेहे पूजयामास भूपतिः ॥ १४२.१६ ॥ आसनं विपुलं दत्त्वा सभां गत्वा निवेशितः । कुशलं तव राजेन्द्र दमघोष श्रियायुत ॥ १४२.१७ ॥ पुण्याहमद्य संजातमहं त्वद्दर्शनोत्सुकः । कन्या मदीया राजेन्द्र ह्यष्टवर्षा व्यजायत ॥ १४२.१८ ॥ चतुर्भुजाय दातव्या वागुवाचाशरीरिणी । भीष्मकस्य वचः श्रुत्वा दमघोषोऽब्रवीदिदम् ॥ १४२.१९ ॥ चतुर्भुजो मम सुतस्त्रिषु लोकेषु विश्रुतः । तस्येयं दीयतां कन्या शिशुपालस्य भीष्मक ॥ १४२.२० ॥ तस्य तद्वचनं श्रुत्वा दमघोषस्य भूमिप । भीष्मकेन ततो दत्ता शिशुपालाय रुक्मिणी ॥ १४२.२१ ॥ प्रारब्धं मङ्गलं तत्र भीष्मकेण युधिष्ठिर । दिक्षु देशान्तरेष्वेव ये वसन्ति स्वगोत्रजाः ॥ १४२.२२ ॥ निमन्त्रितास्तु ते सर्वे समाजग्मुर्यथाक्रमम् । ततो यादववंशस्य तिलकौ बलकेशवौ ॥ १४२.२३ ॥ निमन्त्रितौ समायातौ कुण्डिनं भीष्मकस्य तु । भीष्मकेण यथान्यायं पूजितौ तौ यदूत्तमौ ॥ १४२.२४ ॥ ततः प्रदोषसमये रुक्मिणी काममोहिनी । सखीभिः सहिता याता पूर्बहिश्चाम्बिकार्चने ॥ १४२.२५ ॥ सापश्यत्तत्र देवेशं गोपवेषधरं हरिम् । तं दृष्ट्वा मोहमापन्ना कामेन कलुषीकृता ॥ १४२.२६ ॥ केशवोऽपि च तां दृष्ट्वा संकर्षणमुवाच ह । स्त्रीरत्नप्रवरं तात हर्तव्यमिति मे मतिः ॥ १४२.२७ ॥ केशवस्य वचः श्रुत्वा संकर्षण उवाच ह । गच्छ कृष्ण महाबाहो स्त्रीरत्नं चाशु गृह्यताम् ॥ १४२.२८ ॥ अहं च तव मार्गेण ह्यागमिष्यामि पृष्ठतः । दानवानां च सर्वेषां कुर्वंश्च कदनं महत् ॥ १४२.२९ ॥ संकर्षणमतं प्राप्य केशवः केशिसूदनः । ययौ कन्यां गृहीत्वा तु रथमारोप्य सत्वरम् ॥ १४२.३० ॥ निर्गतः सहसा राजन्वेगेनैवानिलो यथा । हाहाकारस्तदा जातो भीष्मकस्य पुरे महान् ॥ १४२.३१ ॥ निर्गता दानवाः क्रुद्धा वेला इव महोदधेः । गर्जन्तः सायुधाः सर्वे धावन्तो रथवर्त्मनि ॥ १४२.३२ ॥ बलदेवं ततः प्राप्ता रथमार्गानुगामिनम् । तेषां युद्धं बलस्यासीत्सर्वलोकक्षयंकरम् ॥ १४२.३३ ॥ यथा तारामये पूर्वं सङ्ग्रामे लोकविश्रुते । गदाहस्तो महाबाहुस्त्रैलोक्येऽप्रतिमो बलः ॥ १४२.३४ ॥ हलेनाकृष्य सहसा गदापातैरपातयत् । अशक्यो दानवैर्हन्तुं बलभद्रो महाबलः ॥ १४२.३५ ॥ बभञ्ज दानवान्सर्वांस्तस्थौ गिरिरिवाचलः । तं दृष्ट्वा च बलं क्रुद्धं दुर्धर्षं त्रिदशैरपि ॥ १४२.३६ ॥ भीष्मपुत्रो महातेजा रुक्मीनां महयशाः । नराणामतिशूराणामक्षौहिण्या समन्वितः ॥ १४२.३७ ॥ बलभद्रमतिक्रम्य ततो युद्धे निराकरोत् । तद्युद्धं वञ्चयित्वा तु रथमार्गेण सत्वरम् ॥ १४२.३८ ॥ केशवोऽपि तदा देवो रुक्मिण्या सहितो ययौ । विन्ध्यं तु लङ्घयित्वाग्रे त्रैलोक्यगुरुरव्ययः ॥ १४२.३९ ॥ नर्मदातटमापेदे यत्र सिद्धः पुरा पुनः । अजेयो येन संजातस्तीर्थस्यास्य प्रभावतः ॥ १४२.४० ॥ एतस्मात्कारणात्तात योधनीपुरमुच्यते । रुक्मोऽपि दानवेन्द्रोऽसौ प्राप्तः ॥ १४२.४१ ॥ प्रत्युवाचाच्युतं क्रुद्धस्तिष्ठ तिष्ठेति मा व्रज । अद्य त्वां निशितैर्बाणैर्नेष्यामि यमसादनम् ॥ १४२.४२ ॥ एवं परस्परं वीरौ जगर्जतुरुभावपि । तयोर्युद्धमभूद्घोरं तारकाग्निजसन्निभम् ॥ १४२.४३ ॥ चिक्षेप शरजालानि केशवं प्रति दानवः । नानुचिन्त्य शरांस्तस्य केशवः केशिसूदनः ॥ १४२.४४ ॥ ततो विष्णुः स्वयं क्रुद्धश्चक्रं गृह्य सुदर्शनम् । सम्प्रहरत्यमुं यावद्रुक्मिण्यात्र निवारितः ॥ १४२.४५ ॥ त्वां न जानाति देवेशं चतुर्बाहुं जनार्दनम् । दर्शयस्व स्वकं रूपं दयां कृत्वा ममोपरि ॥ १४२.४६ ॥ एवमुक्तस्तु रुक्मिण्या दर्शयामास भारत । देवा दृष्ट्वापि तद्रूपं स्तुवन्त्याकाशसंस्थिताः । दिव्यं चक्षुस्तदा देवो ददौ रुक्मस्य भारत ॥ १४२.४७ ॥ रुक्म उवाच - यन्मया पापनिष्ठेन मन्दभाग्येन केशव । सायकैराहतं वक्षस्तत्सर्वं क्षन्तुमर्हसि ॥ १४२.४८ ॥ पूर्वं दत्ता स्वयं देव जानकी जनकेन वै । मया प्रदत्ता देवेश रुक्मिणी तव केशव ॥ १४२.४९ ॥ उद्वाहय यथान्यायं विधिदृष्टेन कर्मणा । रुक्मस्य वचनं श्रुत्वा ततस्तुष्टो जगद्गुरुः ॥ १४२.५० ॥ बभाषे देवदेवेशो रुक्मिणं भीष्मकात्मजम् । गच्छ स्वकं पुरं मा भैः कुरु राज्यमकण्टकम् ॥ १४२.५१ ॥ केशवस्य वचः श्रुत्वा रुक्मो दानवपुंगवः । तं प्रणम्य जगन्नाथं जगाम भवनं पितुः ॥ १४२.५२ ॥ गते रुक्मे तदा कृष्णः समामन्त्र्य द्विजोत्तमान् । मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ॥ १४२.५३ ॥ वसिष्ठं च महाभागमित्येते सप्त मानसाः । इत्येते ब्राह्मणाः सप्त पुराणे निश्चयं गताः ॥ १४२.५४ ॥ क्षमावन्तः प्रजावन्तो महर्षिभिरलंकृताः । इत्येवं ब्रह्मपुत्राश्च सत्यवन्तो महामते ॥ १४२.५५ ॥ नर्मदातटमाश्रित्य निवसन्ति जितेन्द्रियाः । तपःस्वाध्यायनिरता जपहोमपरायणाः ॥ १४२.५६ ॥ निमन्त्रितास्तु राजेन्द्र केशवेन महात्मना । श्राद्धं कृत्वा यथान्यायं ब्रह्मोक्तविधिना ततः ॥ १४२.५७ ॥ हरिस्तान्पूजयामास सप्तब्रह्मर्षिपुंगवान् । प्रददौ द्वादश ग्रामांस्तेभ्यस्तत्र जनार्दनः ॥ १४२.५८ ॥ यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी । तावद्दानं मया दत्तं परिपन्थी न कश्चन ॥ १४२.५९ ॥ मद्दत्तं पालयिष्यन्ते ये नृपा गतकल्मषाः । तेभ्यः स्वस्ति करिष्यामि दास्यामि परमां गतिम् ॥ १४२.६० ॥ यावद्धि यान्ति लोकेषु महाभूतानि पञ्च च । तावत्ते दिवि मोदन्ते मद्दत्तपरिपालकाः ॥ १४२.६१ ॥ यस्तु लोपयते मूढो दत्तं वः पृथिवीतले । नरके तस्य वासः स्याद्यावदाभूतसम्प्लवम् ॥ १४२.६२ ॥ स्वदत्ता परदत्ता वा पालनीया वसुंधरा । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ १४२.६३ ॥ स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् । स विष्ठायां कृमिर्भूत्वा पितृभिः सह मज्जति ॥ १४२.६४ ॥ अन्यायेन हृता भूमिरन्यायेन च हारिता । हर्ता हारयिता चैव विष्ठायां जायते कृमिः ॥ १४२.६५ ॥ षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ १४२.६६ ॥ यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि । निर्माल्यरूपप्रतिमानि तानि को नाम साधुः पुनराददाति ॥ १४२.६७ ॥ एवं तान्पूजयित्वा तु सम्यङ्न्यायेन पाण्डव । रुक्मिण्या विधिवत्पाणिं जग्राह मधुसूदनः ॥ १४२.६८ ॥ मुशली च ततः सर्वाञ्जित्वा दानवपुंगवान् । स्वस्थानमगमत्तत्र कृत्वा कार्यं सुशोभनम् ॥ १४२.६९ ॥ प्रयातौ द्वारवत्यां तौ कृष्णसंकर्षणावुभौ । गच्छमानं तु तं दृष्ट्वा केशवं क्लेशनाशनम् ॥ १४२.७० ॥ ब्राह्मणाः सत्यवन्तश्च निर्गताः शंसितव्रताः । आगच्छमानांस्तौ वीक्ष्य रथमार्गेण ब्राह्मणान् ॥ १४२.७१ ॥ मुहूर्तं तत्र विश्रम्य केशवो वाक्यमब्रवीत् । किमागमनकार्यं वो ब्रूत सर्वं द्विजोत्तमाः ॥ १४२.७२ ॥ कुर्वाणाः स्वीयकर्माणि मम कृत्यं तु तिष्ठते । देवस्य वचनं श्रुत्वा मुनयो वाक्यमब्रुवन् ॥ १४२.७३ ॥ कल्पकोटिसहस्रेण सत्यभावात्तु वन्दितः । दुष्प्राप्योऽसि मनुष्याणां प्राप्तः किं त्यजसे हि नः ॥ १४२.७४ ॥ ब्राह्मणानां वचः श्रुत्वा भगवानिदमब्रवीत् । मथुरायां द्वारवत्यां योधनीपुर एव च ॥ १४२.७५ ॥ त्रिकालमागमिष्यामि सत्यं सत्यं पुनः पुनः । एवं ते ब्राह्मणाः श्रुत्वा योधनीपुरमागताः ॥ १४२.७६ ॥ अवतीर्णस्त्रिभागेन प्रादुर्भावे तु माथुरे । एतत्ते कथितं सर्वं तीर्थस्योत्पत्तिकारणम् ॥ १४२.७७ ॥ भूतं भव्यं भविष्यच्च वर्तमानं तथापरम् । यं श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १४२.७८ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेद्बलकेशवौ । तेन देवो जगद्धाता पूजितस्त्रिगुणात्मवान् ॥ १४२.७९ ॥ उपवासी नरो भूत्वा यस्तु कुर्यात्प्रदक्षिणम् । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ १४२.८० ॥ तत्र तीर्थे तु ये वृक्षास्तान्पश्यन्त्यपि ये नराः । तेऽपि पापैः प्रमुच्यन्ते भ्रूणहत्यासमैरपि ॥ १४२.८१ ॥ प्रातरुत्थाय ये केचित्पश्यन्ति बलकेशवौ । तेन ते सदृशाः स्युर्वै देवदेवेन चक्रिणा ॥ १४२.८२ ॥ ते पूज्यास्ते नमस्कार्यास्तेषां जन्म सुजीवितम् । ये नमन्ति जगन्नाथं देवं नारायणं हरिम् ॥ १४२.८३ ॥ तत्र तीर्थे तु यद्दानं स्नानं देवार्चनं नृप । तत्सर्वमक्षयं तस्य इत्येवं शङ्करोऽब्रवीत् ॥ १४२.८४ ॥ प्रविश्याग्नौ मृतानां च यत्फलं समुदाहृतम् । तच्छृणुष्व नृपश्रेष्ठ प्रोच्यमानमशेषतः ॥ १४२.८५ ॥ विमानेनार्कवर्णेन किंकिणीजालमालिना । आग्नेये भवते तत्र मोदते कालमीप्सितम् ॥ १४२.८६ ॥ जले चैवा मृतानां तु योधनीपुरमध्यतः । वसन्ति वारुणे लोके यावदाभूतसम्प्लवम् ॥ १४२.८७ ॥ अनाशके मृतानां तु तत्र तीर्थे नराधिप । अनिवर्तिका गतिर्नृणां नात्र कार्या विचारणा ॥ १४२.८८ ॥ तत्र तीर्थे तु यो दद्यात्कपिलादानमुत्तमम् । विधानेन तु संयुक्तं शृणु तस्यापि यत्फलम् ॥ १४२.८९ ॥ यावन्ति तस्या रोमाणि तत्प्रसूतेश्च भारत । तावन्ति दिवि मोदन्ते सर्वकामैः सुपूजिताः ॥ १४२.९० ॥ यावन्ति रोमाणि भवन्ति धेन्वास्तावन्ति वर्षाणि महीयते सः । स्वर्गाच्च्युतश्चापि ततस्त्रिलोक्यां कुले समुत्पत्स्यति गोमतां सः ॥ १४२.९१ ॥ तत्र तीर्थे तु यो दद्याद्रूप्यं काञ्चनमेव वा । काञ्चनेन विमानेन विष्णुलोके महीयते ॥ १४२.९२ ॥ तस्मिंस्तीर्थे तु यो दद्यात्पादुके वस्त्रमेव च । दानस्यास्य प्रभावेन लभते स्वर्गमीप्सितम् ॥ १४२.९३ ॥ ऋग्यजुःसामवेदानां पठनाद्यत्फलं भवेत् । तत्र तीर्थे तु राजेन्द्र गायत्र्या तत्फलं लभेत् ॥ १४२.९४ ॥ प्रयागे यद्भवेत्पुण्यं गयायां च त्रिपुष्करे । कुरुक्षेत्रे तु राजेन्द्र राहुग्रस्ते दिवाकरे ॥ १४२.९५ ॥ सोमेश्वरे च यत्पुण्यं सोमस्य ग्रहणे तथा । तत्फलं लभते तत्र स्नानमात्रान्न संशयः ॥ १४२.९६ ॥ द्वादश्यां तु नरः स्नात्वा नमस्कृत्य जनार्दनम् । उद्धृताः पितरस्तेन अवाप्तं जन्मनः फलम् ॥ १४२.९७ ॥ संक्रान्तौ च व्यतीपाते द्वादश्यां च विशेषतः । ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता ॥ १४२.९८ ॥ पृथिव्यां यानि तीर्थानि ह्यासमुद्राणि पाण्डव । तानि सर्वाणि तत्रैव द्वादश्यां पाण्डुनन्दन ॥ १४२.९९ ॥ क्षयं यान्ति च दानानि यज्ञहोमबलिक्रियाः । न क्षीयते महाराज तत्र तीर्थे तु यत्कृतम् ॥ १४२.१०० ॥ यद्भूतं यद्भविष्यच्च तीर्थमाहात्म्यमुत्तमम् । कथितं ते मया सर्वं पृथग्भावेन भारत ॥ १४२.१०१ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रुक्मिणीतीर्थमाहात्म्यवर्णनं नाम द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १४३ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महाराज योजनेश्वरमुत्तमम् । यत्र सिद्धौ पुरा कल्पे नरनारायणावृषी ॥ १४३.१ ॥ तत्र तीर्थे तपस्तप्त्वा सङ्ग्रामे देवदानवैः । जयं प्राप्तौ महात्मानौ नरनारायणावुभौ ॥ १४३.२ ॥ पुनस्त्रेतायुगे प्राप्ते तौ देवौ रामलक्ष्मणौ । तत्र तीर्थे पुनः स्नात्वा रावणो दुर्जयो हतः ॥ १४३.३ ॥ पुनः पार्थ कलौ प्राप्ते तौ देवौ बलकेशवौ । वसुदेवकुले जातौ दुष्करं कर्म चक्रतुः ॥ १४३.४ ॥ नरकं कालनेमिं च कंसं चाणूरमुष्टिकौ । शिशुपालं जरासंधं जघ्नतुर्बलकेशवौ ॥ १४३.५ ॥ ततस्तत्र रिपून्संख्ये भीष्मद्रोणपुरःसरान् । कर्णदुर्योधनादींश्च निहनिष्यति स प्रभुः ॥ १४३.६ ॥ धर्मक्षेत्रे कुरुक्षेत्रे तत्र युध्यन्ति ते क्षणम् । भीमार्जुननिमित्तेन शिष्यौ कृत्वा परस्परम् ॥ १४३.७ ॥ तत्र तीर्थे पुनर्गत्वा तपः कृत्वा सुदुष्करम् । पूजयित्वा द्विजान्भक्त्या यास्येते द्वारकां पुनः ॥ १४३.८ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेद्बलकेशवौ । तेन देवो जगद्धाता पूजितस्त्रिगुणात्मवान् ॥ १४३.९ ॥ उपवासी नरो भूत्वा यस्तु कुर्यात्प्रजागरम् । मुच्यते सर्वपापेभ्यो गायंस्तस्य शुभां कथाम् ॥ १४३.१० ॥ यावतस्तत्र तीर्थे तु वृक्षान् पश्यन्ति मानवाः । ब्रह्महत्यादिकं पापं तावदेषां प्रणश्यति ॥ १४३.११ ॥ प्रातरुत्थाय ये केचित्पश्यन्ति बलकेशवौ । तेनैव सदृशाः सर्वे देवदेवेन चक्रिणा ॥ १४३.१२ ॥ ते पूज्यास्ते नमस्कार्यास्तेषां जन्म सुजीवितम् । ये नमन्ति जगत्पूज्यं देवं नारायणं हरिम् ॥ १४३.१३ ॥ तत्र तीर्थे तु यद्दानं स्नानं देवार्चनं नृप । क्रियते तत्फलं सर्वमक्षयायोपकल्पते ॥ १४३.१४ ॥ अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः । लोकास्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गां च भुवं च दद्यात् ॥ १४३.१५ ॥ एतत्ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् । अतीतं च भविष्यच्च वर्तमानं महाबलम् ॥ १४३.१६ ॥ श्रुत्वा वापि पठित्वेदं श्रावयिपत्वाथ धार्मिकान् । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ १४३.१७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे योजनेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १४४ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महाराज द्वादशीतीर्थमुत्तमम् । क्षरन्ति सर्वदानानि जपहोमबलिक्रियाः ॥ १४४.१ ॥ न क्षीयते तु राजेन्द्र चक्रतीर्थे तु यत्कृतम् । यद्भूतं यद्भविष्यच्च तीर्थमाहात्म्यमुत्तमम् ॥ १४४.२ ॥ कथितं तन्मया सर्वं पृथग्भावेन भारत ॥ १४४.३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे द्वादशीतीर्थमहात्म्यवर्णनं नाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १४५ मार्कण्डेय उवाच - ततो गच्छेद्धरापाल शीवतीर्थमनुत्तमम् । दर्शनाद्यस्य देवस्य मुच्यते सर्वकिल्बिषैः ॥ १४५.१ ॥ शिवतीर्थे तु यः स्नात्वा जितक्रोधो जितेन्द्रियः । पूजयेत महादेवं सोऽग्निष्टोमफलं लभेत् ॥ १४५.२ ॥ तत्र तीर्थे तु यो भक्त्या सोपवासोऽर्चयेच्छिवम् । अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ १४५.३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शिवतीर्थमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १४६ मार्कण्डेय उवाच - अस्माहकं ततो गच्छेत्पितृतीर्थमनुत्तमम् । प्रेतत्वाद्यत्र मुच्यन्ते पिण्डेनैकेन पूर्वजाः ॥ १४६.१ ॥ युधिष्ठिर उवाच - अस्माहकस्य माहात्म्यं कथयस्व ममानघ । स्नानदानेन यत्पुण्यं तथा पिण्डोदकेन च ॥ १४६.२ ॥ श्रीमार्कण्डेय उवाच - पुरा कल्पे नृपश्रेष्ठ ऋषिदेवसमागमे । प्रश्नः पृष्टो मया तात यथा त्वमनुपृच्छसि ॥ १४६.३ ॥ एकत्र सागराः सप्त सप्रयागाः सपुष्कराः । नास्य साम्यं लभन्ते ते नात्र कार्या विचारणा ॥ १४६.४ ॥ सोमनाथं तु विख्यातं यत्सोमेन प्रतिष्ठितम् । तत्र सोमग्रहे पुण्यं तत्पुण्यं लभते नरः ॥ १४६.५ ॥ मासान्ते पितरो नृणां वीक्षन्ते सन्ततिं स्वकाम् । कश्चिदस्मत्कुलेऽस्माकं पिण्डमत्र प्रदास्यति ॥ १४६.६ ॥ प्रपितामहास्तथादित्याः श्रुतिरेषा सनातनी । एवं ब्रुवन्ति देवाश्च ऋषयः सतपोधनाः ॥ १४६.७ ॥ सकृत्पिण्डोदकेनैव शृणु पार्थिव यत्फलम् । द्वादशाब्दानि राजेन्द्र योगं भुक्त्वा सुशोभनम् ॥ १४६.८ ॥ युगे युगे महाराज अस्माहके पितामहाः । सर्वदा ह्यवलोकन्त आगच्छन्तं स्वगोत्रजम् ॥ १४६.९ ॥ भविष्यति किमस्माकममावास्याप्यमाहके । स्नानं दानं च ये कुर्युः पित्ःणां तिलतर्पणम् ॥ १४६.१० ॥ ते सर्वपापनिर्मुक्ताः सर्वान्कामांल्लभति वै । जलमध्येऽत्र भूपाल अग्नितीर्थं च तिष्ठति ॥ १४६.११ ॥ दर्शनात्तस्य तीर्थस्य पापराशिर्विलीयते । स्नानमात्रेण राजेन्द्र ब्रह्महत्यां व्यपोहति ॥ १४६.१२ ॥ शुक्लाम्बरधरो नित्यं नियतः स जितेन्द्रियः । एककालं तु भुञ्जानो मासं तीर्थस्य सन्निधौ ॥ १४६.१३ ॥ सुवर्णालंकृतानां तु कन्यानां शतदानजम् । फलमाप्नोति सम्पूर्णं पितृलोके महीयते ॥ १४६.१४ ॥ पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत् । धनधान्यसमायुक्तो दाता भवति धार्मिकः ॥ १४६.१५ ॥ उपवासी शुचिर्भूत्वा ब्रह्मलोकमवाप्नुयात् । अस्माहकं समासाद्य यस्तु प्राणान् परित्यजेत् ॥ १४६.१६ ॥ कोटिवर्षसहस्राणि रुद्रलोके महीयते । ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ १४६.१७ ॥ सुवर्णमणिमुक्ताढ्ये कुले जायेत रूपवान् । कृत्वाभिषेकविधिना हयमेधफलं लभेत् ॥ १४६.१८ ॥ धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः । चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम् ॥ १४६.१९ ॥ तत्फलं लभते नूनं तत्र तीर्थेऽभिषेचनात् । तीर्थानां परमं तीर्थं निर्मितं शम्भुना पुरा ॥ १४६.२० ॥ हृदयेशः स्वयं विष्णुर्जपेद्देवं महेश्वरम् । गन्धर्वाप्सरसश्चैव मरुतो मारुतास्तथा ॥ १४६.२१ ॥ विश्वेदेवाश्च पितरः सचन्द्राः सदिवाकराः । मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥ १४६.२२ ॥ प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव च । च्यवनो गालवश्चैव वामदेवो महामुनिः ॥ १४६.२३ ॥ वालखिल्याश्च गन्धारास्तृणबिन्दुश्च जाजलिः । उद्दालकश्चर्ष्यशृङ्गो वसिष्ठश्च सनन्दनः ॥ १४६.२४ ॥ शुक्रश्चैव भरद्वाजो वात्स्यो वात्स्यायनस्तथा । अगस्तिर्मित्रावरुणौ विश्वामित्रो मुनीश्वरः ॥ १४६.२५ ॥ गौतमश्च पुलस्त्यश्च पौलस्त्यः पुलहः क्रतुः । सनातनस्तु कपिलो वाह्निः पञ्चशिखस्तथा ॥ १४६.२६ ॥ अन्येऽपि बहवस्तत्र मुनयः शंसितव्रताः । क्रीडन्ति देवताः सर्व ऋषयः सतपोधनाः ॥ १४६.२७ ॥ मनुष्याश्चैव योगीन्द्राः पितरः सपितामहाः । अस्माहकेऽत्र तिष्ठन्ति सर्व एव न संशयः ॥ १४६.२८ ॥ पितरः पितामहाश्चैव तथैव प्रपितामहाः । येषां दत्तमुपस्थायि सुकृतं वापि दुष्कृतम् ॥ १४६.२९ ॥ अक्षयं तत्र तत्सर्वं यत्कृतं योधनीपुरे । मातरं पितरं त्यक्त्वा सर्वबन्धुसुहृज्जनान् ॥ १४६.३० ॥ धनं धान्यं प्रियान्पुत्रांस्तथा देहं नृपोत्तम । गच्छते वायुभूतस्तु शुभाशुभसमन्वितः ॥ १४६.३१ ॥ अदृश्यः सर्वभूतानां परमात्मा महत्तरः । शुभाशुभगतिं प्राप्तः कर्मणा स्वेन पार्थिव ॥ १४६.३२ ॥ युधिष्ठिर उवाच - शुभाशुभं न बन्धूनां जायते केन हेतुना । एकः प्रसूयते जन्तुरेक एव प्रलीयते ॥ १४६.३३ ॥ एको हि भुङ्क्ते सुकृतमेक एव हि दुष्कृतम् ॥ १४६.३४ ॥ मार्कण्डेय उवाच - एष त्वयोक्तो नृपते महाप्रश्नः स्मृतो मया ॥ १४६.३५ ॥ पितामहमुखोद्गीतं श्रुतं ते कथयाम्यहम् । यन्मे पितामहात्पूर्वं विज्ञातमृषिसंसदि ॥ १४६.३६ ॥ न माता न पिता बन्धुः कस्यचिन्न सुहृत्क्वचित् । कस्य न ज्ञायते रूपं वायुभूतस्य देहिनः ॥ १४६.३७ ॥ यद्येवं न भवेत्तात लोकस्य तु नरेश्वर । अमर्यादं भवेन्नूनं विनश्यति चराचरम् ॥ १४६.३८ ॥ एवं ज्ञात्वा पूरा राजन्समस्तैर्लोककर्तृभिः । मर्यादा स्थापिता लोके यथा धर्मो न नश्यति ॥ १४६.३९ ॥ धर्मे नष्टे मनुष्याणामधर्मोऽभिभवेत्पुनः । ततः स्वधर्मचलनान्नरके गमनं ध्रुवम् ॥ १४६.४० ॥ लोको निरङ्कुशः सर्वो मर्यादालङ्घने रतः । मर्यादा स्थापिता तेन शास्त्रं वीक्ष्य महर्षिभिः ॥ १४६.४१ ॥ स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् । पिण्डोदकप्रदानं च तथैवातिथिपूजनम् ॥ १४६.४२ ॥ पितरः पितामहाश्चैव तथैव प्रपितामहाः । त्रयो देवाः स्मृतास्तात ब्रह्मविष्णुमहेश्वराः ॥ १४६.४३ ॥ पूजितैः पूजिताः सर्वे तथा मातामहास्त्रयः । तस्मात्सर्वप्रयत्नेन श्रुतिस्मृत्यर्थनोदितान् ॥ १४६.४४ ॥ धर्मं समाचरन्नित्यं पापांशेन न लिप्यते । श्रुतिस्मृत्युदितं धर्मं मनसापि न लङ्घयेत् ॥ १४६.४५ ॥ इह लोके परे चैव यदीच्छेच्छ्रेय आत्मनः । पितापुत्रौ सदाप्येकौ बिम्बाद्बिम्बमिवोद्धृतौ ॥ १४६.४६ ॥ विभक्तौ वाविभक्तौ वा श्रुतिस्मृत्यर्थतस्तथा । उद्धरेदात्मनात्मानमात्मानमवसादयेत् ॥ १४६.४७ ॥ पिण्डोदकप्रदानाभ्यामृते पार्थ न संशयः । एवं ज्ञात्वा प्रयत्नेन पिण्डोदकप्रदो भवेत् ॥ १४६.४८ ॥ आयुर्धर्मो यशस्तेजः सन्ततिश्चैव वर्धते । पृथिव्यां सागरान्तायां पितृक्षेत्राणि यानि च ॥ १४६.४९ ॥ तानि ते सम्प्रवक्ष्यामि येषु दत्तं महाफलम् । गयायां पुष्करे ज्येष्ठे प्रयागे नैमिषे तथा ॥ १४६.५० ॥ संनिहत्यां कुरुक्षेत्रे प्रभासे कुरुनन्दन । पिण्डोदकप्रदानेन यत्फलं कथितं बुधैः ॥ १४६.५१ ॥ अस्माहके तदाप्नोति नर्मदायां न संशयः । तत्र ब्रह्मा मुरारिश्च रुद्रश्च उमया सह ॥ १४६.५२ ॥ इन्द्राद्या देवताः सर्वे पितरो मुनयस्तथा । सागराः सरितश्चैव पर्वताश्च बलाहकाः ॥ १४६.५३ ॥ तिष्ठन्ति पितरः सर्वे सर्वतीर्थाधिकं ततः । स्थिता ब्रह्मशिला तत्र गजकुम्भनिभा नृप ॥ १४६.५४ ॥ कलौ न दृश्या भवति प्रधानं यद्गयाशिरः । वैशाखे मासि सम्प्राप्तेऽमावास्यां नृपोत्तम ॥ १४६.५५ ॥ व्याप्य सा तिष्ठते तीर्थं गजकुम्भनिभा शिला । तच्च गव्यूतिमात्रं हि तीर्थं ततः प्रवक्षते ॥ १४६.५६ ॥ तस्मिन्दिने तत्र गत्वा यस्तु श्राद्धप्रदो भवेत् । पित्ःणामक्षया तृप्तिर्जायते शतवार्षिकी ॥ १४६.५७ ॥ अन्यस्यामप्यमावास्यां यः स्नात्वा विजितेन्द्रियः । करोति मनुजः श्राद्धं विधिवन्मन्त्रसंयुतम् ॥ १४६.५८ ॥ तस्य पुण्यफलं यत्स्यात्तच्छृणुष्व नराधिप । अग्निष्टोमाश्वमेधाभ्यां वाजपेयस्य यत्फलम् ॥ १४६.५९ ॥ तत्फलं समवाप्नोति यथा मे शङ्करोऽब्रवीत् । रौरवादिषु सर्वेषु नरकेषु व्यवस्थिताः ॥ १४६.६० ॥ पिता पितामहाद्याश्च पितृके मातृके तथा । पिण्डोदकेन चैकेन तर्पणेन विशेषतः ॥ १४६.६१ ॥ क्रीडन्ति पितृलोकस्था यावदाभूतसम्प्लवम् । ये कर्मस्था विकर्मस्था ये जाताः प्रेतकल्मषाः ॥ १४६.६२ ॥ पिण्डेनैकेन मुच्यन्ते तेऽपि तत्र न संशयः । अस्माहके शिला दिव्या तिष्ठते गजसन्निभा ॥ १४६.६३ ॥ ब्रह्मणा निर्मिता पूर्वं सर्वपापक्षयंकरी । उपर्यस्या यथान्यायं पित्ःनुद्दिश्य भारत ॥ १४६.६४ ॥ दक्षिणाग्रेषु दर्भेषु दद्यात्पिण्डान्विचक्षणः । भूमौ चान्नेन सिद्धेन श्राद्धं कृत्वा यथाविधि ॥ १४६.६५ ॥ श्राद्धिभ्यो वस्त्रयुग्मानि छत्रोपानत्कमण्डलु । दक्षिणा विविधा देया पित्ःनुद्दिश्य भारत ॥ १४६.६६ ॥ यो ददाति द्विजश्रेष्ठ तस्य पुण्यफलं शृणु । तस्य ते द्वादशाब्दानि तृप्तिं यान्ति न संशयः ॥ १४६.६७ ॥ अस्माहके महाराज पितरश्च पितामहाः । वायुभूता निरीक्षन्ते आगच्छन्तं स्वगोत्रजम् ॥ १४६.६८ ॥ अत्र तीर्थे सुतोऽभ्येत्य स्नात्वा तोयं प्रदास्यति । श्राद्धं वा पिण्डदानं वा तेन यास्याम सद्गतिम् ॥ १४६.६९ ॥ स्नाने कृते तु ये केचिज्जायन्ते वस्त्रविप्लुषः । प्रीणयेन्नरकस्थांस्तु तैः पित्ःन्नात्र संशयः ॥ १४६.७० ॥ केशोदबिन्दवस्तस्य ये चान्ये लेपभाजिनः । तृप्यन्त्यनग्निनसंस्कारा यं मृताः स्युः स्वगोत्रजाः ॥ १४६.७१ ॥ तत्र तीर्थे तु ये केचिच्छ्राद्धं कृत्वा विधानतः । नरकादुद्धरन्त्याशु जपन्तः पितृसंहिताम् ॥ १४६.७२ ॥ वनस्पतिगते सोमे यदा सोमदिनं भवेत् । अक्षयाल्लभते लोकान्पिण्डेनैकेन मानवः ॥ १४६.७३ ॥ अक्षयं तत्र वै सर्वं जायते नात्र संशयः । नरकादुद्धरन्त्याशु जपन्ते पितृसंहिताम् ॥ १४६.७४ ॥ तस्मिंस्तीर्थे त्वमावास्यां पित्ःनुद्दिश्य भारत । नीलं सर्वाङ्गसम्पूर्णं योऽभिषिच्य समुत्सृजेत् ॥ १४६.७५ ॥ तस्य पुण्यफलं वक्तुं न तु वाचस्पतिः क्षमः । अस्माहके वृषोत्सर्गाद्यत्पुण्यं समवाप्यते ॥ १४६.७६ ॥ तव शुश्रूषणात्सर्वं तत्प्रवक्ष्यामि भारत । रौरवादिषु ये किंचित्पच्यन्ते तस्य पूर्वजाः ॥ १४६.७७ ॥ वृषोत्सर्गेण तान्सर्वांस्तारयेदेकविंशतिम् । लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः ॥ १४६.७८ ॥ पिङ्गः खुरविषाणाभ्यां स नीलो वृष उच्यते । यस्तु सर्वाङ्गपिङ्गश्च श्वेतः पुच्छखुरेषु च ॥ १४६.७९ ॥ स पिङ्गो वृष इत्याहुः पित्ःणां प्रीतिवर्धनः । पारावतसवर्णश्च ललाटे तिलको भवेत् ॥ १४६.८० ॥ तं वृषं बभ्रुमित्याहुः पूर्णं सर्वाङ्गशोभनम् । सर्वाङ्गेष्वेकवर्णो यः पिङ्गः पुच्छखुरेषु च ॥ १४६.८१ ॥ खुरपिङ्गं तमित्याहुः पित्ःणां सद्गतिप्रदम् । नीलं सर्वशरीरेण स्वारक्तनयनं दृढम् ॥ १४६.८२ ॥ तमेव नीलमित्याहुर्नीलः पञ्चविधः स्मृतः । यस्तु वैश्यगृहे जातः स वै नीलो विशिष्यते ॥ १४६.८३ ॥ न वाहयेद्गृहे जातं वत्सकं तु कदाचन । तेनैव च वृषोत्सर्गे पित्ःणामनृणो भवेत् ॥ १४६.८४ ॥ जातं तु स्वगृहे वत्सं द्विजन्मा यस्तु वाहयेत् । पतन्ति पितरस्तस्य ब्रह्मकोकगता अपि ॥ १४६.८५ ॥ यथायथा हि पिबति पीत्वा धूनाति मस्तकम् । पिबन्पित्ःन् प्रीणयति नरकादुद्धरेद्धुनन् ॥ १४६.८६ ॥ यथा पुच्छाभिघातेन स्कन्धं गच्छन्ति बिन्दवः । नरकादुद्धरन्त्याशु पतितान् गोत्रिणस्तथा ॥ १४६.८७ ॥ गर्जन्प्रावृषि काले तु विषाणाभ्यां भुवं लिखन् । खुरेभ्यो या मृदुद्भूता तया संप्रीणयेदृषीन् ॥ १४६.८८ ॥ पिबन्पित्ःन् प्रीणयते खादनोल्लेखने सुरान् । गर्जन्नृषिमनुष्यांश्च धर्मरूपो हि धर्मज ॥ १४६.८९ ॥ भूतैर्वापि पिशाचैर्वा चातुर्थिकज्वरेण वा । गृहीतोऽस्माहकं गच्छेत्सर्वेषामाधिनाशनम् ॥ १४६.९० ॥ स्नात्वा तु विमले तोये दर्भग्रन्थिं निबन्धयेत् । मस्तके बाहुमूले वा नाभ्यां वा गलकेऽपि वा ॥ १४६.९१ ॥ गत्वा देवसमीपं च प्रादक्षिण्येन केशवम् । ततः समुच्चरन्मन्त्रं गायत्र्या वाथ वैष्णवम् ॥ १४६.९२ ॥ नारायणं शरण्येशं सर्वदेवनमस्कृतम् । नमो यज्ञाङ्गसम्भूत सर्वव्यापिन्नमोऽस्तु ते ॥ १४६.९३ ॥ नमो नमस्ते देवेश पद्मगर्भ सनातन । दामोदर जयानन्त रक्ष मां शरणागतम् ॥ १४६.९४ ॥ त्वं कर्ता त्वं च हर्ता च जगत्यस्मिंश्चराचरे । त्वं पालयसि भूतानि भुवनं त्वं बिभर्षि च ॥ १४६.९५ ॥ प्रसीद देवदेवेश सुप्तमङ्गं प्रबोधय । त्वद्ध्याननिरतो नित्यं त्वद्भक्तिपरमो हरे ॥ १४६.९६ ॥ इति स्तुतो मया देव प्रसादं कुरु मेऽच्युत । मां रक्ष रक्ष पापेभ्यस्त्रायस्व शरणागतम् ॥ १४६.९७ ॥ एवं स्तुत्वा च देवेशं दानवान्तकरं हरिम् । पुनरुक्तेन वै स्नात्वा ततो विप्रांस्तु भोजयेत् ॥ १४६.९८ ॥ वेदोक्तेन विधानेन स्नानं कृत्वा यथाविधि । पिण्डनिर्वपणं कृत्वा वाचयेत्स्वस्तिकं ततः ॥ १४६.९९ ॥ एवं स्तुत्वा च देवेशं दानवान्तकरं हरिम् । पुनरुक्तेन वै स्नात्वा ततो विप्रांस्तु भोजयेत् ॥ १४६.१०० ॥ वेदोक्तेन विधानेन स्नानं कृत्वा यथाविधि । एवं तान्वाचयित्वा तु ततो विप्रान्विसर्जयेत् ॥ १४६.१०१ ॥ यत्तत्रोच्चरितं किंचित्तद्विप्रेभ्यो निवेदयेत् । तत्र तीर्थे नरः स्नात्वा नारी वा भक्तितत्परा । शक्तितो दक्षिणां दद्यात्कृत्वा श्राद्धं यथाविधि ॥ १४६.१०२ ॥ तत्र तीर्थे नरो यावत्स्नापयेद्विधिपूर्वकम् । क्षीरेण मधुना वापि दध्ना वा शीतवारिणा ॥ १४६.१०३ ॥ तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम् । अयने विषुवे चैव युगादौ सूर्यसंक्रमे ॥ १४६.१०४ ॥ पुष्पैः सम्पूज्य देवेशं नैवेद्यं यः प्रदापयेत् । सोऽश्वमेधस्य यज्ञस्य फलं प्राप्नोति पुष्कलम् ॥ १४६.१०५ ॥ तत्र तीर्थे तु यो राजन् सूर्यग्रहणमाचरेत् । सूर्यतेजोनिभैर्यानैर्विष्णुलोके महीयते ॥ १४६.१०६ ॥ तत्र तीर्थे तु यः श्राद्धं पितृभ्यः सम्प्रयच्छति । सत्पुत्रेण च तेनैव सम्प्राप्तं जन्मनः फलम् ॥ १४६.१०७ ॥ इति श्रुत्वा ततो देवाः सर्वे शक्रपुरोगमाः । ब्रह्मविष्णुमहेशाश्च स्थापयांचक्रुरीश्वरम् ॥ १४६.१०८ ॥ सर्वरोगोपशमनं सर्वपातकनाशनम् । यस्तु संवत्सरं पूर्णममावास्यां तु भावितः ॥ १४६.१०९ ॥ पितृभ्यः पिण्डदानं च कुर्यादस्माहके नृप । त्रिपुष्करे गयायां च प्रभासे नैमिषे तथा ॥ १४६.११० ॥ यत्पुण्यं श्राद्धकर्त्ःणां तदिहैव भवेद्ध्रुवम् । तिलोदकं कुशैर्मिश्रं यो दद्याद्दक्षिणामुखः ॥ १४६.१११ ॥ मन्वादौ च युगादौ च व्यतीपाते दिनक्षये । यो दद्यात्पितृमातृभ्यः सोऽश्वमेधफलं लभेत् ॥ १४६.११२ ॥ अस्माहके नरो यस्तु स्नात्वा सम्पूजयेद्धरिम् । ब्रह्माणं शङ्करं भक्त्या कुर्याज्जागरणक्रियाम् ॥ १४६.११३ ॥ सर्वपापविनिर्मुक्तः शक्रातिथ्यमवाप्नुयात् । तत्र तीर्थे नरः स्नात्वा यः पश्यति जनार्दनम् ॥ १४६.११४ ॥ विशेषविधिनाभ्यर्च्य प्रणम्य च पुनःपुनः । सपुत्रेण च तेनैव पित्ःणां विहिता गतिः ॥ १४६.११५ ॥ एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः । सत्कार्यकारणोपेताः सुसूक्ष्माः सुमहाफलाः ॥ १४६.११६ ॥ एतत्ते कथितं राजन्महापातकनाशनम् । अस्माहकस्य माहात्म्यं किमन्यत्परिपृच्छसि ॥ १४६.११७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अस्माहकतीर्थमाहात्म्यवर्णनं नाम षट्चत्वारिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १४७ मार्कण्डेय उवाच - ततो गच्छेन्महीपाल सिद्धेश्वरमनुत्तमम् । नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ॥ १४७.१ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेद्वृषभध्वजम् । सर्वपापविनिर्मुक्तो गतिं यात्यश्वमेधिनाम् ॥ १४७.२ ॥ तत्र तीर्थे तु यः स्नात्वा श्राद्धं कुर्यात्प्रयत्नतः । पित्ःणां प्रीणनार्थाय सर्वं तेन कृतं भवेत् ॥ १४७.३ ॥ तत्र तीर्थे मृतानां तु जन्तूनां नृपसत्तम । गर्भवासे मतिस्तेषां न जायेत कदाचन ॥ १४७.४ ॥ गर्भवासो हि दुःखाय न सुखाय कदाचन । तत्तीर्थवारिणा स्नातुर्न पुनर्भवसम्भवः ॥ १४७.५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १४८ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल तीर्थमङ्गारकं शिवम् । उत्तरे नर्मदाकूले सर्वपापक्षयंकरम् ॥ १४८.१ ॥ चतुर्थ्यङ्गारकदिने संकल्प्य कृतनिश्चयः । स्नायादस्तं गते सूर्ये सन्ध्योपासनतत्परः ॥ १४८.२ ॥ पूजयेल्लोहितं भक्त्या गन्धमाल्यविभूषणैः । संस्थाप्यस्थण्डिले देवं रक्तचन्दनचर्चितम् ॥ १४८.३ ॥ अङ्गारकायेति नमः कर्णिकायां प्रपूजयेत् । कुजाय भूमिपुत्राय रक्ताङ्गाय सुवाससे ॥ १४८.४ ॥ हरकोपोद्भवायेति स्वेदजायातिबाहवे । सर्वकामप्रदायेति पूर्वादिषु दलेषु च ॥ १४८.५ ॥ एवं सम्पूज्य विधिवद्दद्यादर्घ्यं विधानतः । भूमिपुत्र महावीर्य स्वेदोद्भव पिनाकिनः ॥ १४८.६ ॥ अङ्गारक महातेजा लोहिताङ्ग नमोऽस्तु ते । करकं वारिसंयुक्तं शालितंदुलपूरितम् ॥ १४८.७ ॥ सहिरण्यं सवस्त्रं च मोदकोपरि संस्थितम् । ब्राह्मणाय निवेद्यं तत्कुजो मे प्रीयतामिति ॥ १४८.८ ॥ अर्घं दत्त्वा विधानेन रक्तचन्दनवारिणा । रक्तपुष्पसमाकीर्णं तिलतंदुलमिश्रितम् ॥ १४८.९ ॥ कृत्वा ताम्रमये पात्रे मण्डले वर्तुले शुभे । कृत्वा शिरसि तत्पात्रं जानुभ्यां धरणीं गतः ॥ १४८.१० ॥ मन्त्रपूतं महाभाग दद्यादर्घ्यं विचक्षणः । ततो भुञ्जीत मौनेन क्षारतिलाम्लवर्जितम् ॥ १४८.११ ॥ स्निग्धं मृदुसमधुरमात्मनः श्रेय इच्छता । एवं चतुर्थे सम्प्राप्ते चतुर्थ्यङ्गारके नृप ॥ १४८.१२ ॥ सौवर्णं कारयेद्देवं यथाशक्ति सुरूपिणम् । स्थापयेत्ताम्रके पात्रे गुडपीठसमन्विते ॥ १४८.१३ ॥ गन्धपुष्पादिभिर्देवं पूजयेद्गुडसंस्थितम् । ईशान्यां स्थापयेद्देवं गुडतोयसमन्वितम् ॥ १४८.१४ ॥ कासारेण तथाग्नेय्यां स्थापयेत्करकं परम् । रक्ततन्दुलसंमिश्रं नैरृत्यां वायुगोचरे ॥ १४८.१५ ॥ स्थापयेन्मोदकैः सार्धं चतुर्थं करकं बुधः । सूत्रेण वेष्टितग्रीवं गन्धमाल्यैरलंकृतम् ॥ १४८.१६ ॥ शङ्खतूर्यनिनादेन जयशब्दादिमङ्गलैः । रक्ताम्बरधरं विप्रं रक्तमाल्यानुलेपनम् ॥ १४८.१७ ॥ वेदिमध्यगतं वापि महदासनसंस्थितम् । सुरूपं सुभगं शान्तं सर्वभूतहिते रतम् ॥ १४८.१८ ॥ वेदविद्याव्रतस्नातं सर्वशास्त्रविशारदम् । पूजयित्वा यथान्यायं वाचयेत्पाण्डुनन्दन ॥ १४८.१९ ॥ रक्तां गां च ततो दद्याद्रक्तेनानडुहा सह । प्रीयतां भूमिजो देवः सर्वदैवतपूजितः ॥ १४८.२० ॥ विप्रं प्रदक्षिणीकृत्य पत्नीपुत्रसमन्वितः । पितृमातृसुहृत्सार्द्धं क्षमाप्य च विसर्जयेत् ॥ १४८.२१ ॥ एवं कृतस्य तस्याथ तस्मिंस्तीर्थे विशेषतः । यत्पुण्यं फलमुद्दिष्टं तत्ते सर्वं वदाम्यहम् ॥ १४८.२२ ॥ सप्त जन्मानि राजेन्द्र सुरूपः सुभगो भवेत् । तीर्थस्यास्य प्रभावेन नात्र कार्या विचारणा ॥ १४८.२३ ॥ अकामो वा सकामो वा तत्र तीर्थे मृतो नरः । अङ्गारकपुरं याति देवगन्धर्वपूजितः ॥ १४८.२४ ॥ उपभुज्य यथान्यायं दिव्यान्भोगाननुत्तमान् । इह मानुष्यलोके वै राजा भवति धार्मिकः ॥ १४८.२५ ॥ सुरूपः सुभगश्चैव सर्वव्याधिविवर्जितः । जीवेद्वर्षशतं साग्रं सर्वलोकनमस्कृतः ॥ १४८.२६ ॥ ॥ इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाचत्वारिंशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १४९ श्रीमार्कण्डेय उवाच - तस्यैवानन्तरं तीर्थं लिङ्गेश्वरमिति श्रुतम् । दर्शनाद्देवदेवस्य यत्र पापं प्रणश्यति ॥ १४९.१ ॥ कृत्वा तु कदनं घोरं दानवानां युधिष्ठिर । वाराहं रूपमास्थाय नर्मदायां व्यवस्थितः ॥ १४९.२ ॥ तत्र तीर्थे तु यः स्नानं कृत्वा देवं नमस्यति । स मुच्यते नृपश्रेष्ठ महापापैः पुराकृतैः ॥ १४९.३ ॥ द्वादश्यां कृष्णपक्षस्य शुक्ले च समुपोषितः । गन्धमाल्यैर्जगन्नाथं पूजयेत्पाण्डुनन्दन ॥ १४९.४ ॥ ब्राह्मणांश्च महाभाग दानसंमानभोजनैः । पूजयेत्परया भक्त्या तस्य पुण्यफलं शृणु ॥ १४९.५ ॥ सत्रयाजिफलं जन्तुर्लभते द्वादशाब्दकैः । ब्राह्मणान्भोजयंस्तत्र तदेव लभते फलम् ॥ १४९.६ ॥ तर्पयित्वा पित्ःन् देवान् स्नात्वा तद्गतमानसः । जपेद्द्वादशनामानि देवस्य पुरतः स्थितः ॥ १४९.७ ॥ मासि मासि निराहारो द्वादश्यां कुरुनन्दन । केशवं पूजयेन्नित्यं मासि मार्गशिरे बुधः ॥ १४९.८ ॥ पौषे नारायणं देवं माघमासे तु माधवम् । गोविन्दं फाल्गुने मासि विष्णुं चैत्रे समर्चयेत् ॥ १४९.९ ॥ वैशाखे मधुहन्तारं ज्येष्ठे देवं त्रिविक्रमम् । वामनं तु तथाषाढे श्रावणे श्रीधरं स्मरेत् ॥ १४९.१० ॥ हृषीकेशं भाद्रपदे पद्मनाभं तथाश्विने । दामोदरं कार्त्तिके तु कीर्तयन्नावसीदति ॥ १४९.११ ॥ वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् । तन्नश्यति न सन्देहो मासनामानुकीर्तनात् ॥ १४९.१२ ॥ स्वयं विनुद्धः सततमुन्मिषन्निमिषंस्तथा । शीघ्रं प्रपश्य भुञ्जानो मन्त्रहीनं समुद्गिरेत् ॥ १४९.१३ ॥ परमापद्गतस्यापि जन्तोरेषा प्रतिक्रिया । यन्मासाधिपतेर्विष्णोर्मासनामानुकीर्तनम् ॥ १४९.१४ ॥ ता निशास्ते च दिवसास्ते मासास्ते च वत्सराः । नराणां सफला येषु चिन्तितो भगवान्हरिः ॥ १४९.१५ ॥ परमापद्गतस्यापि यस्य देवो जनार्दनः । नावसर्पति हृत्पद्मात्स योगी नात्र संशयः ॥ १४९.१६ ॥ ते भाग्यहीना मनुजाः सुशोच्यास्ते भूमिभाराय कृतावताराः । अचेतनास्ते पशुभिः समाना ये भक्तिहीना भगवत्यनन्ते ॥ १४९.१७ ॥ ते पूर्णकार्याः पुरुषाः पृथिव्यां ते स्वाङ्गपाताद्भुवनं पुनन्ति । विचक्षणा विश्वविभूषणास्ते ये भक्तियुक्ता भगवत्यनन्ते ॥ १४९.१८ ॥ स एव सुकृती तेन लब्धं जन्मतरोः फलम् । चित्ते वचसि काये च यस्य देवो जनार्दनः ॥ १४९.१९ ॥ एतत्तीर्थवरं पुण्यं लिङ्गो यत्र जनार्दनः । वञ्चयित्वा रिपून्संख्ये क्रोधो भूत्वा सनातनः ॥ १४९.२० ॥ उपप्लवे चन्द्रमसो रवेश्च यो ह्यष्टकानामयनद्वये च । पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ॥ १४९.२१ ॥ घोणोन्मीलितमेरुरन्ध्रनिवहो दुःखाब्धिमज्जत्प्लवः प्रादुर्भूतरसातलोदरबृहत्पङ्कार्धमग्नक्षुरः । फूत्कारोत्करनुन्नवातविदलद्दिग्दन्तिनादश्रुतिन्यस्तस्तब्धवपुः श्रुतिर्भवतु वः क्रोडो हरिः शान्तये ॥ १४९.२२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लिङ्गवाराहतीर्थमाहात्म्यवर्णनं नामैकोनपञ्चाशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १५० श्रीमार्कण्डेय उवाच - ततो गच्छेन्महाराज कुसुमेश्वरमुत्तमम् । दक्षिणे नर्मदाकूले उपपातकनाशनम् ॥ १५०.१ ॥ कामेन स्थापितो देवः कुसुमेश्वरसंज्ञितः । ख्यातः सर्वेषु लोकेषु देवदेवः सनातनः ॥ १५०.२ ॥ कामो मनोभवो विश्वः कुसुमायुधचापभृत् । स कामान् ददाति सर्वान् पूजितो मीनकेतनः ॥ १५०.३ ॥ तेन निर्दग्धकायेन चाराध्य परमेश्वरम् । अनङ्गेन तथा प्राप्तमङ्गित्वं नर्मदातटे ॥ १५०.४ ॥ युधिष्ठिर उवाच - अङ्गिभृतस्य नाशत्वमनङ्गस्य तु मे वद । न श्रुतं न च मे दृष्टं भूतपूर्वं कदाचन ॥ १५०.५ ॥ एतत्सर्वं यथा वृत्तमाचक्ष्व द्विजसत्तम । श्रोतुमिच्छामि विप्रेन्द्र भीमार्जुनयमैः सह ॥ १५०.६ ॥ श्रीमार्कण्डेय उवाच - आदौ कृतयुगे तात देवदेवो महेश्वरः । तपश्चचार विपुलं गङ्गासागरसंस्थितः ॥ १५०.७ ॥ तेन सम्पादिता लोकास्तपसा ससुरासुराः । जग्मुस्ते शरणं सर्वे देवदेवं शचीपतिम् ॥ १५०.८ ॥ व्यापकः सर्वभूतानां देवदेवो महेश्वरः । संतापयति लोकांस्त्रींस्तन्निवारय गोपते ॥ १५०.९ ॥ श्रुत्वा तद्वचनं तेषां देवानां बलवृत्रहा । चिन्तयामास मनसा तपोविघ्नायचादिशत् ॥ १५०.१० ॥ अप्सरां मेनकां रम्भां घृताचीं च तिलोत्तमाम् । वसन्तं कोकिलं कामं दक्षिणानिलमुत्तमम् ॥ १५०.११ ॥ गत्वा तत्र महादेवं तपश्चरणतत्परम् । क्षोभयध्वं यथान्यायं गङ्गासागरवासिनम् ॥ १५०.१२ ॥ एवमुक्तास्तु ते सर्वे देवराजेन भारत । देवाप्सरःसमोपेता जग्मुस्ते हरसन्निधौ ॥ १५०.१३ ॥ वसन्तमासे कुसुमाकराकुले मयूरदात्यूहसुकोकिलाकुले । प्रनृत्य देवाप्सरगीतसंकुले प्रवाति वाते यमनैरृताकुले ॥ १५०.१४ ॥ तेन संमूर्छिताः सर्वे संसर्गाच्च खगोत्तमाः । मधुमाधवगन्धेन सकिन्नरमहोरगाः ॥ १५०.१५ ॥ यावदालोकते तावत्तद्वनं व्याकुलीकृतम् । वीक्षते मदनाविष्टं दशावस्थागतं जनम् ॥ १५०.१६ ॥ देवदेवोऽपि देवानामवस्थात्रितयं गतः । सात्त्विकीं राजसीं राजंस्तामसीं तां शृणुष्व मे ॥ १५०.१७ ॥ एकं योगसमाधिना मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या जघनस्थलस्तनतटे शृङ्गारभारालसम् । अन्यद्दूरनिरस्तचापमदनक्रोधानलोद्दीपितं शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥ १५०.१८ ॥ एवं दृष्टः स देवेन सशरः सशरासनः । भस्मीभूतो गतः कामो विनाशः सर्वदेहिनाम् ॥ १५०.१९ ॥ कामं दृष्ट्वा क्षयं यातं तत्र देवाप्सरोगणाः । भीता यथागतं सर्वे जग्मुश्चैव दिशो दश ॥ १५०.२० ॥ कामेन रहिता लोकाः ससुरासुरमानवाः । ब्रह्माणं शरणं जग्मुर्देवा इन्द्रपुरोगमाः ॥ १५०.२१ ॥ सीदमानं जगद्दृष्ट्वा तमूचुः परमेष्ठिनम् । जानासि त्वं जगच्छेषं प्रभो मैथुनसम्भवात् ॥ १५०.२२ ॥ प्रजाः सर्वा विशुष्यन्ति कामेन रहिता विभो ॥ १५०.२३ ॥ एतच्छ्रुत्वा वचस्तेषां देवानां प्रपितामहः । जगाम सहितस्तत्र यत्र देवो महेश्वरः ॥ १५०.२४ ॥ अतोषयज्जगन्नाथं सर्वभूतमहेश्वरम् । स्तुतिभिस्तण्डकैः स्तोत्रैर्वेदवेदाङ्गसम्भवैः ॥ १५०.२५ ॥ ततस्तुष्टो महादेवो देवानां परमेश्वरः । उवाच मधुरां वाणीं देवान्ब्रह्मपुरोगमान् ॥ १५०.२६ ॥ किं कार्यं कश्च सन्तापः किं वागमनकारणम् । देवतानामृषीणां च कथ्यतां मम माचिरम् ॥ १५०.२७ ॥ देवा ऊचुः । कामनाशाज्जगन्नाशो भवितायं चराचरे । त्रैलोक्यं त्वं पुनः शम्भो उत्पादयितुमर्हसि ॥ १५०.२८ ॥ एतच्छ्रुत्वा वचस्तेषां विमृश्य परमेश्वरः । चिन्तयामास कामस्य विग्रहं भुवि दुर्लभम् ॥ १५०.२९ ॥ आजगाम ततः शीघ्रमनङ्गो ह्यङ्गतां गतः । प्राणदः सर्वभूतानां पश्यतां नृपसत्तम ॥ १५०.३० ॥ ततः शङ्खनिनादेन भेरीणां निःस्वनेन च । अभ्यनन्दंस्ततो देवं सुरासुरमहोरगाः ॥ १५०.३१ ॥ नमस्ते देवदेवेश कृतार्थाः सुरसत्तमाः । विसर्जिताः पुनर्जग्मुर्यथागतमरिन्दम ॥ १५०.३२ ॥ गतेषु सर्वदेवेषु कामदेवोऽपि भारत । तपश्चचार विपुलं नर्मदातटमाश्रितः ॥ १५०.३३ ॥ तपोजपकृशीभूतो दिव्यं वर्षशतं किल । महाभूतैर्विघ्नकरैः पीड्यमानः समन्ततः ॥ १५०.३४ ॥ आत्मविघ्नविनाशार्थं संस्मृतः कुण्डलेश्वरः । चकार रक्षां सर्वत्र शरपाते नृपोत्तम ॥ १५०.३५ ॥ ततस्तुष्टो महादेवो दृढभक्त्या वरप्रदः । वरेण छन्दयामास कामं कामविनाशनः ॥ १५०.३६ ॥ ज्ञात्वा तुष्टं महादेवमुवाच झषकेतनः । प्रणतः प्राञ्जलिर्भूत्वा देवदेवं त्रिलोचनम् ॥ १५०.३७ ॥ यदि तुष्टोऽसि देवेश यदि देयो वरो मम । अत्र तीर्थे जगन्नाथ सदा संनिहितो भव ॥ १५०.३८ ॥ तथेति चोक्त्वा वचनं देवदेवो महेश्वरः । जगामाकाशमाविश्य स्तूयमानोऽप्सरोगणैः ॥ १५०.३९ ॥ गते चादर्शनं देवे कामदेवो जगद्गुरुम् । स्थापयामास राजेन्द्र कुसुमेश्वरसंज्ञितम् ॥ १५०.४० ॥ तत्र तीर्थे तु यः स्नात्वा ह्युपवासपरायणः । चैत्रमासे चतुर्दश्यां मदनस्य दिनेऽथवा ॥ १५०.४१ ॥ प्रभाते विमले प्राप्ते स्नात्वा पूज्य दिवाकरम् । तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः ॥ १५०.४२ ॥ कृत्वा स्नानं विधानेन पूजयित्वा च तं नृप । पिण्डनिर्वपणं कुर्यात्तस्य पुण्यफलं शृणु ॥ १५०.४३ ॥ सत्त्रयाजिफलं यच्च लभते द्वादशाब्दिकम् । पिण्डदानात्फलं तच्च लभते नात्र संशयः ॥ १५०.४४ ॥ अङ्कुल्लमूले यः पिण्डं पित्ःनुद्दिश्य दापयेत् । तस्य ते द्वादशाब्दानि तृप्तिं यान्ति पितामहाः ॥ १५०.४५ ॥ कृमिकीटपतङ्गा ये तत्र तीर्थे युधिष्ठिर । प्राप्नुवन्ति मृताः स्वर्गं किं पुनर्ये नरा मृताः ॥ १५०.४६ ॥ संन्यासं कुरुते योऽत्र जितक्रोधो जितेन्द्रियः । कुसुमेशे नरो भक्त्या स गच्छेच्छिवमन्दिरम् ॥ १५०.४७ ॥ तत्र दिव्याप्सरोभिश्च देवगन्धर्वगायनैः । क्रीडते सेव्यमानस्तु कल्पकोटिशतं नृप ॥ १५०.४८ ॥ पूर्णे चैव ततः काल इह मानुष्यतां गतः । जायते राजराजेन्द्रैः पूज्यमानो नृपो महान् ॥ १५०.४९ ॥ सुरूपः सुभगो वाग्मी विक्रान्तो मतिमाञ्छुचिः । जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ॥ १५०.५० ॥ एतत्पुण्यं पापहरं तीर्थकोटिशताधिकम् । कुसुमेशेति विख्यातं सर्वदेवनमस्कृतम् ॥ १५०.५१ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुसुमेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चाशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १५१ श्रीमार्कण्डेय उवाच - उत्तरे नर्मदाकूले तीर्थं परमशोभनम् । जयवाराहमाहात्म्यं सर्वपापप्रणाशनम् ॥ १५१.१ ॥ उद्धृता जगती येन सर्वदेवनमस्कृता । लोकानुग्रहबुद्ध्या च संस्थितो नर्मदातटे ॥ १५१.२ ॥ तत्र तीर्थे तु यः स्नात्वा वीक्षते मधुसूदनम् । मुच्यते सर्वपापेभ्यो दशजन्मानुकीर्तनात् ॥ १५१.३ ॥ मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः । रामो रामश्च कृष्णश्च बुद्धः कल्किश्च ते दश ॥ १५१.४ ॥ युधिष्ठिर उवाच - मत्स्येन किं कृतं तात कूर्मेण मुनिसत्तम । वराहेण च किं कर्म नरसिंहेन किं कृतम् ॥ १५१.५ ॥ वामनेन च रामेण राघवेण च किं कृतम् । बुद्धरूपेण किं वापि कल्किना किं कृतं वद ॥ १५१.६ ॥ एवमुक्तस्तु विप्रेन्द्रो धर्मपुत्रेण धीमता । उवाच मधुरां वाणीं तदा धर्मसुतं प्रति ॥ १५१.७ ॥ श्रीमार्कण्डेय उवाच - मीनो भूत्वा पुरा कल्पे प्रीत्यर्थं ब्रह्मणो विभुः । समर्पयत्समुद्धृत्य वन्दान्मग्नान्महार्णवे ॥ १५१.८ ॥ अमृतोत्पादने राजन्कूर्मो भूत्वा जगद्गुरुः । मन्दरं धारयामास तथा देवीं वसुंधराम् ॥ १५१.९ ॥ उज्जहार धरां मग्नां पातालतलवासिनीम् । वाराहं रूपमास्थाय देवदेवो जनार्दनः ॥ १५१.१० ॥ नरस्यार्द्धतनुं कृत्वा सिंहस्यार्द्धतनुं तथा । हिरण्यकशिपोर्वक्षो विददार नखाङ्कुशैः ॥ १५१.११ ॥ जटी वामनरूपेण स्तूयमानो द्विजोत्तमैः । तद्दिव्यं रूपमास्थाय क्रमित्वा मेदिनीं क्रमैः ॥ १५१.१२ ॥ कृतवांश्च बलिं पश्चात्पातालतलवासिनम् । स्थापयित्वा सुरान् सर्वान् गतो विष्णुः स्वकं पुरम् ॥ १५१.१३ ॥ जमदग्निसुतो रामो भूत्वा शस्त्रभृतां वरः । क्षत्रियान् पृथिवीपालानवधीद्धैहयादिकान् ॥ १५१.१४ ॥ कश्यपाय महीं दत्त्वा सपर्वतवनाकराम् । तपस्तपति देवेशो महेन्द्रेऽद्यापि भारत ॥ १५१.१५ ॥ ततो दाशरथी रामो रावणं देवकण्टकम् । सगणं समरे हत्वा राज्यं दत्त्वा विभीषणे ॥ १५१.१६ ॥ पालयित्वा नयाद्भूमिं मखैः संतर्प्य देवताः । स्वर्गं गतो महातेजा रामो राजीवलोचनः ॥ १५१.१७ ॥ वसुदेवगृहे भूयः संकर्षणसहायवान् । अवतीर्णो जगन्नाथो वासुदेवो युधिष्ठिर ॥ १५१.१८ ॥ सोऽवधीत्तव सामर्थ्याद्वधार्थं दुष्टभूभृताम् । चाणूरकंसकेशीनां जरासंधस्य भारत ॥ १५१.१९ ॥ तेन त्वं सुसहायेन हत्वा शत्रून्नरेश्वर । भोक्ष्यसे पृथिवीं सर्वां भ्रातृभिः सह संभृताम् ॥ १५१.२० ॥ तथा बुद्धत्वमपरं नवमं प्राप्स्यतेऽच्युतः । शान्तिमान्देवदेवेशो मधुहन्ता मधुप्रियः ॥ १५१.२१ ॥ तेन बुद्धस्वरूपेण देवेन परमेष्ठिना । भविष्यति जगत्सर्वं मोहितं सचराचरम् ॥ १५१.२२ ॥ न श्रोष्यन्ति पितुः पुत्रास्तदाप्रभृति भारत । न गुरोर्बान्धवाः शिष्या भविष्यत्यधरोत्तरम् ॥ १५१.२३ ॥ जितो धर्मो ह्यधर्मेण चासत्येन ऋतं जितम् । जिताश्चौरैश्च राजानः स्त्रीभिश्च पुरुषा जिताः ॥ १५१.२४ ॥ सीदन्ति चाग्निहोत्राणि गुरौ पूजा प्रणश्यति । सीदन्ति मानवा धर्माः कलौ प्राप्ते युधिष्ठिर ॥ १५१.२५ ॥ द्वादशे दशमे वर्षे नारी गर्भवती भवेत् । कन्यास्तत्र प्रसूयन्ते ब्राह्मणो हरिपिङ्गलः ॥ १५१.२६ ॥ भविष्यति ततः कल्किर्दशमे जन्मनि प्रभुः ॥ १५१.२७ ॥ एतत्ते कथितं राजन्देवस्य परमेष्ठिनः । कारणं दश जन्मनां सर्वपापक्षयंकरम् ॥ १५१.२८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्वेतवाराहतीर्थमाहात्म्यवर्णनं नामैकपञ्चाशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १५२ श्रीमार्कण्डेय उवाच - ततो गच्छेद्धरापाल भार्गलेश्वरमुत्तमम् । शङ्करं जगतः प्राणं स्मृतमात्राघनाशनम् ॥ १५२.१ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् । अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १५२.२ ॥ तत्र तीर्थे तु यः कश्चित्प्राणत्यागं करिष्यति । अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ १५२.३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भार्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विपञ्चाशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १५३ मार्कण्डेय उवाच - तस्यैवानन्तरं चान्यद्रवितीर्थमनुत्तमम् । यस्य संदर्शनादेव मुच्यन्ते पातकैर्नराः ॥ १५३.१ ॥ रवितीर्थे तु यः स्नात्वा नरः पश्यति भास्करम् । तस्य यत्फलमुद्दिष्टं स्वयं देवेन तच्छृणु ॥ १५३.२ ॥ नान्धो न मूको बधिरः कुले भवति कश्चन । कुरूपः कुनखी वापि तस्य जन्मानि षोडश ॥ १५३.३ ॥ दद्रुचित्रककुष्ठानि मण्डलानि विचर्चिका । नश्यन्ति देवभक्तस्य षण्मासान्नात्र संशयः ॥ १५३.४ ॥ चरितं तस्य देवस्य पुराणे यच्छ्रुतं मया । न तत्कथयितुं शक्यं संक्षेपेण नृपोत्तम ॥ १५३.५ ॥ तत्र तीर्थे तु यद्दानं रविमुद्दिश्य दीयते । विधिना पात्रविप्राय तस्यान्तो नास्ति कर्हिचित् ॥ १५३.६ ॥ अयने विषुवे चैव चन्द्रसूर्यग्रहे तथा । रवितीर्थे प्रदत्तानां दानानां फलमुत्तमम् ॥ १५३.७ ॥ संक्रान्तौ यानि दानानि हव्यकव्यानि भारत । अपामिव समुद्रस्य तेषामन्तो न लभ्यते ॥ १५३.८ ॥ येन येन यदा दत्तं येन येन यदा हुतम् । तस्य तस्य तदा काले सविता प्रतिदायकः ॥ १५३.९ ॥ सप्त जन्मानि तान्येव ददात्यर्कः पुनः पुनः । शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये ॥ १५३.१० ॥ संक्रान्तौ शतसाहस्रं व्यतीपाते त्वनन्तकम् ॥ १५३.११ ॥ युधिष्ठिर उवाच - रवितीर्थं कथं तात पुण्यात्पुण्यतरं स्मृतम् । विस्तरेण ममाख्याहि श्रवणौ मम लम्पटौ ॥ १५३.१२ ॥ श्रीमार्कण्डेय उवाच - शृणुष्वावहितो भूत्वा ह्यादित्येश्वरमुत्तमम् । उत्तरे नर्मदाकूले सर्वव्याधिविनाशनम् ॥ १५३.१३ ॥ पुरा कृतयुगस्यादौ जाबालिर्ब्राह्मणोऽभवत् । वसिष्ठान्वयसम्भूतो वेदशास्त्रार्थपारगः ॥ १५३.१४ ॥ पतिव्रता साधुशीला तस्य भार्या मनस्विनी । ऋतुकाले तु सा गत्वा भर्तारमिदमब्रवीत् ॥ १५३.१५ ॥ वर्तते ऋतुकालो मे भर्तारं त्वामुपस्थिता । भज मां प्रीतिसंयुक्तः पुत्रकामां तु कामिनीम् ॥ १५३.१६ ॥ एवमुक्तो द्विजः प्राह प्रियेऽद्याहं व्रतान्वितः । गच्छेदानीं वरारोहे दास्य ऋत्वन्तरे पुनः ॥ १५३.१७ ॥ पुनर्द्वितीये सम्प्राप्ते ऋतुकालेऽप्युपस्थिता । पुनः सा छन्दिता तेन व्रतस्थोऽद्येति भारत ॥ १५३.१८ ॥ इत्थं वा बहुशस्तेन छन्दिता च पुनः पुनः । निराशा चाभवत्तत्र भर्तारं प्रति भामिनी ॥ १५३.१९ ॥ दुःखेन महताविष्टा विधायानशनं मृता । तेन भ्रूणहतेनैव पापेन सहसा द्विजः ॥ १५३.२० ॥ शीर्णघ्राणाङ्घ्रिरभवत्तपः सर्वं ननाश च । दृष्ट्वात्मानं स कुष्ठेन व्याप्तं ब्राह्मणसत्तमः ॥ १५३.२१ ॥ विषादं परमं गत्वा नर्मदातटमाश्रितः । अपृच्छद्भास्करं तीर्थं द्विजेभ्यो द्विजसत्तमः ॥ १५३.२२ ॥ आरोग्यं भास्करादिच्छेदिति संचिन्त्य चेतसि । कुतस्तद्भास्करं तीर्थं भो द्विजाः कथ्यतां मम ॥ १५३.२३ ॥ तपस्तप्याम्यहं गत्वा तस्मिंस्तीर्थे सुभावितः ॥ १५३.२४ ॥ द्विजा ऊचुः । रेवाया उत्तरे कूले आदित्येश्वरनामतः । विद्यते भास्करं तीर्थं सर्वव्याधिविनाशनम् ॥ १५३.२५ ॥ तत्र याह्यविचारेण गन्तुं चेच्छक्यते त्वया । एवमुक्तो द्विजैर्विप्रो गन्तुं तत्र प्रचक्रमे ॥ १५३.२६ ॥ व्याधिना परिभूतस्तु घोरेण प्राणहारिणा । यदा गन्तुं न शक्नोति तदा तेन विचिन्तितम् ॥ १५३.२७ ॥ सामर्थ्यं ब्राह्मणानां हि विद्यते भुवनत्रये । लिङ्गपातः कृतो विप्रैर्देवदेवस्य शूलिनः ॥ १५३.२८ ॥ समुद्रः शोषितो विप्रैर्विन्ध्यश्चापि निवारितः । अहमप्यत्र संस्थस्तु ह्यानयिष्यामि भास्करम् ॥ १५३.२९ ॥ तपोबलेन महता ह्यादित्येश्वरसंज्ञितम् । इति निश्चित्य मनसा ह्युग्रे तपसि संस्थितः ॥ १५३.३० ॥ वायुभक्षो निराहारो ग्रीष्मे पञ्चाग्निमध्यगः । शिशिरे तोयमध्यस्थो वर्षास्वप्रावृताकृतिः ॥ १५३.३१ ॥ साग्रे वर्षशते पूर्णे रविस्तुष्टोऽब्रवीदिदम् ॥ १५३.३२ ॥ सूर्य उवाच - वरं वरय भद्रं ते किं ते मनसि वाञ्छितम् । अदेयमपि दास्यामि ब्रूहि मां त्वं चिरं कृथाः ॥ १५३.३३ ॥ किमसाध्यं हि ते विप्र इदानीं तपसि स्थितः ॥ १५३.३४ ॥ जाबालिरुवाच - यदि तुष्टोऽसि देवेश यदि देयो वरो मम । मम प्रतिज्ञा देवेश ह्यादित्येश्वरदर्शने ॥ १५३.३५ ॥ कृता तां पारितुं देव न शक्तो व्याधिना वृतः । शुक्लतीर्थेऽत्र तिष्ठ त्वमादित्येश्वरमूर्तिधृक् ॥ १५३.३६ ॥ एवमुक्ते तु देवेशो बहुरूपो दिवाकरः । उत्तरे नर्मदाकूले क्षणादेव व्यदृश्यत ॥ १५३.३७ ॥ तदाप्रभृति भूपाल तद्धि तीर्थं प्रचक्षते । सर्वपापहरं प्रोक्तं सर्वदुःखविनाशनम् ॥ १५३.३८ ॥ यस्तु संवत्सरं पूर्णं नित्यमादित्यवासरे । स्नात्वा प्रदक्षिणाः सप्त दत्त्वा पश्यति भास्करम् ॥ १५३.३९ ॥ यत्फलं लभते तेन तच्छृणुष्व मयोदितम् । प्रसुप्तं मण्डलानीह दद्रुकुष्ठविचर्चिकाः ॥ १५३.४० ॥ नश्यन्ति सत्वरं राजंस्तूलराशिरिवानले । धनपुत्रकलत्राणां पूरयेद्वत्सरत्रयात् ॥ १५३.४१ ॥ यस्तु श्राद्धप्रदस्तत्र पित्ःनुद्दिश्य संक्रमे । तृप्यन्ति पितरस्तस्य पितृदेवो हि भास्करः ॥ १५३.४२ ॥ इति ते कथितं सर्वमादित्येश्वरमुत्तमम् । सर्वपापहरं दिव्यं सर्वरोगविनाशनम् ॥ १५३.४३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदित्येश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १५४ श्रीमार्कण्डेय उवाच - नर्मदादक्षिणे कूले तीर्थं कलकलेश्वरम् । विख्यातं सर्वलोकेषु स्वयं देवेन निर्मितम् ॥ १५४.१ ॥ अन्धकं समरे हत्वा देवदेवो महेश्वरः । सहितो देवगन्धर्वैः किन्नरैश्च महोरगैः ॥ १५४.२ ॥ शङ्खतूर्यनिनादैश्च मृदङ्गपणवादिभिः । वीणावेणुरवैश्चान्यैः स्तुतिभिः पुष्कलादिभिः ॥ १५४.३ ॥ गायन्ति सामानि यजूंषि चान्ये छन्दांसि चान्ये ऋचमुद्गिरन्ति । स्तोत्रैरनेकैरपरे गृणन्ति महेश्वरं तत्र महानुभावाः ॥ १५४.४ ॥ प्रमथानां निनादेन कल्कलेन च बन्दिनाम् । यस्मात्प्रतिष्ठितं लिङ्गं तस्माज्जातं तदाख्यया ॥ १५४.५ ॥ तत्र तीर्थे तु यः स्नात्वा वीक्षेत्कलकलेश्वरम् । वाजपेयात्परं पुण्यं स लभेन्मानवो भुवि ॥ १५४.६ ॥ तेन पुण्येन पूतात्मा प्राणत्यागाद्दिवं व्रजेत् । आरूढः परमं यानं गीयमानोऽप्सरोगणैः ॥ १५४.७ ॥ उपभुज्य महाभोगान्कालेन महता ततः । मर्त्यलोके महात्मासौ जायते विमले कुले ॥ १५४.८ ॥ ब्राह्मणः सुभगो लोके वेदवेदाङ्गपारगः । व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ १५४.९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कलकलेश्वरतीर्थफलमाहात्म्यवर्णनं नाम चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १५५ श्रीमार्कण्डेय उवाच - अतः परं प्रवक्ष्यामि सर्वतीर्थादनुत्तमम् । उत्तरे नर्मदाकूले शुक्लतीर्थं युधिष्ठिर ॥ १५५.१ ॥ तस्य तीर्थस्य चान्यानि पुण्यत्वाच्छुभदर्शनात् । पृथिव्यां सर्वतीर्थानि कलां नार्हन्ति षोडशीम् ॥ १५५.२ ॥ युधिष्ठिर उवाच - तस्य तीर्थस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः । भ्रातृभिः सहितः सर्वैस्तथान्यैर्द्विजसत्तमैः ॥ १५५.३ ॥ श्रीमार्कण्डेय उवाच - शुक्लतीर्थस्य चोत्पत्तिमाकर्णय नरेश्वर । यस्य संदर्शनादेव ब्रह्महत्या प्रलीयते ॥ १५५.४ ॥ नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी । यच्च बाल्यं कृतं पापं दर्शनादेव नश्यति ॥ १५५.५ ॥ मोक्षदानि न सर्वत्र शुक्लतीर्थमृते नृप । शुक्लतीर्थस्य माहात्म्यं पुराणे यच्छ्रुतं मया ॥ १५५.६ ॥ समागमे मुनीनां तु देवानां हि तथैव च । कथितं देवदेवेन शितिकण्ठेन भारत । कैलासे पर्वतश्रेष्ठे तत्ते संकथयाम्यहम् ॥ १५५.७ ॥ पुरा कृतयुगस्यादौ तोषितुं गिरिजापतिम् । तपश्चचार विपुलं विष्णुर्वर्षसहस्रकम् । वायुभक्षो निराहारः शुक्लतीर्थे व्यवस्थितः ॥ १५५.८ ॥ ततः प्रत्यक्षतामागाद्देवदेवो महेश्वरः । प्रादुर्भूतस्तु सहसा तत्र तीर्थे नराधिप ॥ १५५.९ ॥ क्रोशद्वयमिदं चक्रे भुक्तिमुक्तिप्रदायकम् । तस्मिंस्तीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥ १५५.१० ॥ गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥ १५५.११ ॥ सर्वौषधीनामशनं प्रधानं सर्वेषु पेयेषु जलं प्रधानम् । निद्रा सुखानां प्रमदा रतीनां सर्वेषु गात्रेषु शिरः प्रधानम् ॥ १५५.१२ ॥ स्नातस्यापि यथा पुण्यं ललाटं नृपसत्तम । शुक्लतीर्थं तथा पुण्यं नर्मदायां युधिष्ठिर ॥ १५५.१३ ॥ सरितां च यथा गङ्गा देवतानां जनार्दनः । शुक्लतीर्थं तथा पुण्यं नर्मदायां व्यवस्थितम् ॥ १५५.१४ ॥ चतुष्पदानां सुरभिर्वर्णानां ब्राह्मणो यथा । प्रधानं सर्वतीर्थानां शुक्लतीर्थं तथा नृप ॥ १५५.१५ ॥ ग्रहाणां तु यथादित्यो नक्षत्राणां यथा शशी । शिरो वा सर्वगात्राणां धर्माणां सत्यमिष्यते ॥ १५५.१६ ॥ तथैव पार्थ तीर्थानां शुक्लतीर्थमनुत्तमम् । दुर्विज्ञेयो यथा लोके परमात्मा सनातनः ॥ १५५.१७ ॥ सुसूक्ष्मत्वादनिर्देश्यः शुक्लतीर्थं तथा नृप । मन्दप्रज्ञत्वमापन्ने महामोहसमन्वितः ॥ १५५.१८ ॥ शुक्लतीर्थं ना जानाति नर्मदातटसंस्थितम् । बहुनात्र किमुक्तेन धर्मपुत्र पुनः पुनः ॥ १५५.१९ ॥ शुक्लतीर्थं महापुण्यं सम्प्राप्तं कल्मषक्षयात् । योऽत्र दत्ते शुचिर्भूत्वा एकं रेवाजलाञ्जलिम् ॥ १५५.२० ॥ कल्पकोटिसहस्राणि पितरस्तेन तर्पिताः ॥ १५५.२१ ॥ एकः पुत्रो धरापृष्ठे पित्ःणामार्तिनाशनः । चाणक्यो नाम राजाभूच्छुक्लतीर्थं च वेद सः ॥ १५५.२२ ॥ युधिष्ठिर उवाच - कोऽसौ द्विजवरश्रेष्ठ चाणक्यो नाम नामतः । शुक्लतीर्थस्य यो वेत्ता नान्यो वेत्ता हि कश्चन ॥ १५५.२३ ॥ केनोपायेन तत्तीर्थं तेन ज्ञातं धरातले । तदहं श्रोतुमिच्छामि परं कौतूहलं हि मे ॥ १५५.२४ ॥ श्रीमार्कण्डेय उवाच - इक्ष्वाकुप्रभवो राजा नप्ता शुद्धोदनस्य च । चाणक्यो नाम राजर्षिर्बुभुजे पृथिवीमिमाम् ॥ १५५.२५ ॥ विक्रान्तो मतिमाञ्छूरः सर्वलोकैरवञ्चितः । वञ्चितः सहसा धूर्तवायसाभ्यां नृपोत्तमः ॥ १५५.२६ ॥ युधिष्ठिर उवाच - कथं स वञ्चितो राजा वायसाभ्यां कुतोऽथवा । पुरा येन प्रतिज्ञातं धीगर्भेण महात्मना ॥ १५५.२७ ॥ न जीवे वञ्चितोऽन्येन प्राणांस्त्यक्ष्ये न संशयः । एतन्मे वद विप्रेन्द्र परं कौतूहलं मम ॥ १५५.२८ ॥ श्रीमार्कण्डेय उवाच - आत्मानं वञ्चितं ज्ञात्वा तदा संगृह्य वायसौ । प्रेषयामास तीव्रेण दण्डेन यमसादनम् ॥ १५५.२९ ॥ वायसावूचतुः । सुन्दोपसुन्दयोः पुत्रावावां काकत्वमागतौ । मा वधीस्त्वं महाभाग कस्मिंश्चित्कारणान्तरे ॥ १५५.३० ॥ तावावां कृतसंकल्पौ त्वया कोपेन मानद । निरस्तावनिरस्तौ वा यास्यावः परमां गतिम् ॥ १५५.३१ ॥ तदादेशय राजेन्द्र कृत्वा तव महत्प्रियम् । मुक्तशापौ भविष्यावो ब्रह्मणो वचनं तथा ॥ १५५.३२ ॥ तच्छ्रुत्वा काकवचनं चाणक्यो नृपसत्तमः । नाहं जीवे विदित्वैवं वञ्चितः केन कर्हिचित् ॥ १५५.३३ ॥ तस्मात्तीर्थं विजानीतं यमस्य सदने द्विजौ । प्रेषयामि यथान्यायं श्रुत्वा तत्कथयिष्यथः ॥ १५५.३४ ॥ तेनैव मुक्तौ तौ काकौ स्रक्चन्दनविभूषितौ । शीघ्रगौ प्रेषयामास यमस्य सदनं प्रति ॥ १५५.३५ ॥ राजोवाच - तत्र धर्मपुरं गत्वा विचरन्तावितस्ततः । यदि पृच्छति धर्मात्मा यमः संयमनो महान् ॥ १५५.३६ ॥ कुतो वामागतं ब्रूतं केन वा भूषितावुभौ । मदीया भारती तस्य कथनीया ह्यशङ्कितम् ॥ १५५.३७ ॥ इक्ष्वाकुसंभवो राजा चाणक्यो नाम धार्मिकः । द्वादशाहे मृतस्यास्य तर्पितावशनादिना ॥ १५५.३८ ॥ तच्छ्रुत्वा वचनं राज्ञो गतौ तौ यमसादनम् । क्रीडितौ प्राङ्गणे तस्य स्रक्चन्दनविभूषितौ । धर्मराजेन तौ दृष्टौ पृष्टौ धृष्टौ च वायसौ ॥ १५५.३९ ॥ यम उवाच - कुतः स्थानात्समायातौ केन वा भूषितावुभौ । वृत्तं वै कथ्यतामेतद्वायसावविशङ्कया ॥ १५५.४० ॥ काकावूचतुः । इक्ष्वाकुसम्भवो राजा चाणक्यो नाम धार्मिकः । द्वादशाहे मृतस्यास्य तर्पितावशनादिभिः ॥ १५५.४१ ॥ तयोस्तद्वचनं श्रुत्वा सदा वैवस्वतो यमः । चित्रगुप्तं कलिं कालं वीक्ष्यतामिदमब्रवीत् ॥ १५५.४२ ॥ अण्डजस्वेदजातीनां भूतानां सचराचरे । विहितं लोककर्त्ःणां सान्निध्यं ब्रह्मणा मम ॥ १५५.४३ ॥ गतः कुत्र दुराचारश्चाणक्यो नामतस्त्विह । अन्विष्यतां पुराणेषु त्वितिहासेषु या गतिः ॥ १५५.४४ ॥ ततस्तैर्धर्मपालैस्तु धर्मराजप्रचोदितैः । निरीक्षिता पुराणोक्ता कर्मजा गतिरागतिः ॥ १५५.४५ ॥ ततः प्रोवाच वचनं धर्मो धर्मभृतां वरः । शृण्वतां धर्मपालानां मेघगम्भीरया गिरा ॥ १५५.४६ ॥ शुक्लतीर्थे मृतानां तु नर्मदाविमले जले । अण्डजस्वेदजातीनां न गतिर्मम सन्निधौ ॥ १५५.४७ ॥ तत्तीर्थं धार्मिकं लोके ब्रह्मविष्णुमहेश्वरैः । निर्मितं परया भक्त्या लोकानां हितकाम्यया ॥ १५५.४८ ॥ पापोपपातकैर्युक्ता ये नरा नर्मदाजले । शुक्लतीर्थे मृताः शुद्धा न ते मद्विषयाः क्वचित् ॥ १५५.४९ ॥ एतच्छ्रुत्वा तु वचनं तौ काकौ यमभाषितम् । आगतौ शीघ्रगौ पार्थ दृष्ट्वा यमपुरं महत् ॥ १५५.५० ॥ पृष्टौ तौ प्रणतौ राज्ञा यथावृत्तं यथाश्रुतम् । कथयामासतुः पार्थ दानवौ काकतां गतौ ॥ १५५.५१ ॥ अस्मात्स्थानाद्गतावावां यमस्य पुरमुत्तमम् । पृथिव्या दक्षिणे भागे ह्यतीत्य बहुयोनिजम् ॥ १५५.५२ ॥ तत्पुरं कामगं दिव्यं स्वर्णप्राकारतोरणम् । अनेकगृहसम्बाधं मणिकाञ्चनभूषितम् ॥ १५५.५३ ॥ चतुष्पथैश्चत्वरैश्च घण्टामार्गोपशोभितम् । उद्यानवनसंछन्नं पद्मिनीखण्डमन्दितम् ॥ १५५.५४ ॥ हंससारससंघुष्टं कोकिलाकुलसंकुलम् । सिंहव्याघ्रगजाकीर्णमृक्षवानरसेवितम् ॥ १५५.५५ ॥ नरनारीसमाकीर्णं नित्योत्सवविभूषितम् । शंखदुन्दुभिर्निर्घोषैर्वीणावेणुनिनादितम् ॥ १५५.५६ ॥ यममार्गेऽपि विहितं स्वर्गलोकमिवापरम् । गतौ तत्र पुनश्चान्यैर्यमदूतैर्यमाज्ञया ॥ १५५.५७ ॥ विदितौ प्रेषितौ तत्र यत्र देवो जगत्प्रभुः । प्राणस्य भीत्या दृष्टोऽसौ सिंहासनगतः प्रभुः ॥ १५५.५८ ॥ महाकायो महाजङ्घो महास्कन्धो महोदरः । महावक्षा महाबाहुर्महावक्त्रेक्षणो महान् ॥ १५५.५९ ॥ महामहिषमारूढो महामुकुटभूषितः । तत्रान्यश्च कलिः कालश्चित्रगुप्तो महामतिः ॥ १५५.६० ॥ समागतौ तदा दृष्टौ मध्ये ज्वलितपावकौ । पुण्यपापानि जन्तूनां श्रुतिस्मृत्यर्थपारगौ ॥ १५५.६१ ॥ विचारयन्तौ सततं तिष्ठाते तौ दिवानिशम् । ततो ह्यावां प्रणामान्ते यमेन यममूर्तिना ॥ १५५.६२ ॥ पृष्टावागमने हेतुं तमब्रूव शृणुष्व तत् । उज्जयिन्यां महीपालश्चाणक्योऽभूत्प्रतापवान् ॥ १५५.६३ ॥ द्वादशाहे मृतस्यास्य भुक्त्वा प्राप्तौ यमालयम् । ततोऽस्माकं वचः श्रुत्वा कम्पयित्वा शिरो यमः ॥ १५५.६४ ॥ उवाच वचनं सत्यं सभामध्ये हसन्निव । अस्ति तत्कारणं येन चाणक्यः पापपूरुषः ॥ १५५.६५ ॥ नायातो मम लोके तु सर्वपापभयंकरे । शुक्लतीर्थे मृतानां तु नर्मदायां परं पदम् ॥ १५५.६६ ॥ जायते सर्वजन्तूनां नात्र काचिद्विचारणा । अवशः स्ववशो वापि जन्तुस्तत्क्षेत्रमण्डले ॥ १५५.६७ ॥ मृतः स वै न सन्देहो रुद्रस्यानुचरो भवेत् । तद्धर्मवचनं श्रुत्वा निर्गत्य नगराद्बहिः ॥ १५५.६८ ॥ पश्यन्तौ विविधां घोरां नरके लोकयातनाम् । त्रिंशत्कोट्यो हि घोराणां नरकाणां नृपोत्तम ॥ १५५.६९ ॥ दृष्टा भीतौ परामार्तिगतौ तत्र महापथि । नरको रौरवस्तत्र महारौरव एव च ॥ १५५.७० ॥ पेषणः शोषणश्चैव कालसूत्रोऽस्थिभञ्जनः । तामिस्रश्चान्धतामिस्रः कृमिपूतिवहस्तथा ॥ १५५.७१ ॥ दृष्टश्चान्यो महाज्वालस्तत्रैव विषभोजनः । नरकौ दंशमशकौ तथा यमलपर्वतौ ॥ १५५.७२ ॥ नदी वैतरणी दृष्टा सर्वपापप्रणाशिनी । शीतलं सलिलं यत्र पिबन्ति ह्यमृतोपमम् ॥ १५५.७३ ॥ तदेव नीरं पापानां शोणितं परिवर्तते । असिपत्रवनं चान्यद्दृष्टान्या महती शिला ॥ १५५.७४ ॥ अग्निपुंजनिभाकारा विशाला शाल्मली परा । इत्यादयस्तथैवान्ये शतसाहस्रसंज्ञिताः ॥ १५५.७५ ॥ घोरघोरतरा दृष्टाः क्लिश्यन्ते यत्र मानवाः । वाचिकैर्मानसैः पापैः कर्मजैश्च पृथग्विधैः ॥ १५५.७६ ॥ अहंकारकृतैर्दोषैर्मायावचनपूर्वकैः । पिता माता गुरुर्भ्राता अनाथा विकलेन्द्रियाः ॥ १५५.७७ ॥ भ्रमन्ति नोद्धृता येषां गतिस्तेषां हि रौरवे । तत्र ते द्वादशाब्दानि क्षपित्वा रौरवेऽधमाः ॥ १५५.७८ ॥ इह मानुष्यके लोके दीनान्धाश्च भवन्ति ते । देवब्रह्मस्वहर्त्ःणां नराणां पापकर्मणाम् ॥ १५५.७९ ॥ महारौरवमाश्रित्य ध्रुवं वासो यमालये । ततः कालेन महता पापाः पापेन वेष्टिताः ॥ १५५.८० ॥ जायन्ते कण्टकैर्भिन्नाः कोशे वा कोशकारकाः । मृगपक्षिविहङ्गानां घातका मांसभक्षकाः ॥ १५५.८१ ॥ पेषणं नरकं यान्ति शोषणं जीवबन्धनात् । तत्रत्यां यातनां घोरां सहित्वा शास्त्रचोदिताम् ॥ १५५.८२ ॥ इह मानुष्यतां प्राप्य पङ्ग्वन्धबधिरा नराः । गवार्थे ब्राह्मणार्थे च ह्यनृतं वदतामिह ॥ १५५.८३ ॥ पतनं जायते पुंसां नरके कालसूत्रके । तत्रत्या यातना घोरा विहिता शास्त्रकर्तृभिः ॥ १५५.८४ ॥ भुक्त्वा समागता ह्यत्र ते यास्यन्त्यन्त्यजां गतिम् । बन्धयन्ति च ये जीवांस्त्यक्त्वात्मकुलसन्ततिम् ॥ १५५.८५ ॥ पतन्ति नात्र सन्देहो नरके तेऽस्थिभञ्जने । तत्र वर्षशतस्यान्त इह मानुष्यतां गताः ॥ १५५.८६ ॥ कुब्जा वामनकाः पापा जायन्ते दुःखभागिनः । ये त्यजन्ति स्वकां भार्यां मूढाः पण्डितमानिनः ॥ १५५.८७ ॥ ते यान्ति नरकं घोरं तामिस्रं नात्र संशयः । तत्र वर्षशतस्यान्ते इह मानुष्यतां गताः ॥ १५५.८८ ॥ दुश्चर्माणो दुर्भगाश्च जायन्ते मानवा हि ते । मानकूटं तुलाकूटं कूटकं तु वदन्ति ये ॥ १५५.८९ ॥ नरके तेऽन्धतामिस्रे प्रपच्यन्ते नराधमाः । शतसाहस्रिकं कालमुषित्वा तत्र ते नराः ॥ १५५.९० ॥ इह शत्रुगृहे त्वन्धा भ्रमन्ते दीनमूर्तयः । पितृदेवद्विजेभ्योऽन्नमदत्त्वा येऽत्र भुञ्जते ॥ १५५.९१ ॥ नरके कृमिभक्ष्ये ते पतन्ति स्वात्मपोषकाः । ततः प्रसूतिकाले हि कृमिभुक्तश्च सव्रणः ॥ १५५.९२ ॥ जायतेऽशुचिगन्धोऽत्र परभाग्योपजीवकः । स्वकर्मविच्युताः पापा वर्णाश्रमविवर्जिताः ॥ १५५.९३ ॥ नरके पूयसम्पूर्णे क्लिश्यन्ते ह्ययुतं समाः । पूर्णे तत्र ततः काले प्राप्य मानुष्यकं भवम् ॥ १५५.९४ ॥ उद्वेजनीया भूतानां जायन्ते व्याधिभिर्वृताः । अग्निदो गरदश्चैव लोभमोहान्वितो नरः ॥ १५५.९५ ॥ नरके विषसम्पूर्णे निमज्जति दुरात्मवान् । तत्र वर्षशतात्कालादुन्मज्जनमवस्थितः ॥ १५५.९६ ॥ भुवि मानुषतां प्राप्य कृपणो जायते पुनः । पादुकोपानहौ छत्रं शय्यां प्रावरणानि च ॥ १५५.९७ ॥ अदत्त्वा दंशमशकैर्भक्ष्यन्ते जन्यसप्ततिम् । पितुर्द्रव्यापहर्तारस्ताडनक्रोशने रताः ॥ १५५.९८ ॥ पीडनं क्रियते तेषां यत्र तौ युग्मपर्वतौ । या सा वैतरणी घोरा नदी रक्तप्रवाहिनी ॥ १५५.९९ ॥ पिबन्ति रुधिरं तत्र येऽभियान्ति रजस्वलाम् । असिपत्रवने घोरे पीड्यन्ते पापकारिणः ॥ १५५.१०० ॥ परपीडाकरा नित्यं ये नरोऽन्त्यजगामिनः । गुरुदाररतानां तु महापातकिनामपि ॥ १५५.१०१ ॥ शिलावगूहनं तेषां जायते जन्मसप्ततिम् । ज्वलन्तीमायसीं घोरां बहुकण्टकसंवृताम् ॥ १५५.१०२ ॥ शाल्मलीं तेऽवगूहन्ति परदाररता हि ये । परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ॥ १५५.१०३ ॥ अरण्ये निर्जले देशे स भवेत्क्रूरराक्षसः । देवस्वं ब्राह्मणस्वं च लोभेनैवाहरेच्च यः ॥ १५५.१०४ ॥ स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति । एवमादीनि पापानि भुञ्जन्ते यमशासनात् ॥ १५५.१०५ ॥ येषां तु दर्शनादेव श्रवणाज्जायते भयम् । तथा दानफलं चान्ये भुञ्जाना यममन्दिरे ॥ १५५.१०६ ॥ दृष्टाः श्रुतं कथयतां दूतानां च यमाज्ञया । रथैरन्ये गजैरन्ये केचिद्वाजिभिरावृताः ॥ १५५.१०७ ॥ दृष्टास्तत्र महाभाग तपःसंचयसंस्थिताः । गोदाता स्वर्णदाता च भूमिरत्नप्रदा नराः ॥ १५५.१०८ ॥ शय्याशनगृहादीनां स लोकः कामदो नृणाम् । अन्नं पानीयसहितं ददते येऽत्र मानवाः ॥ १५५.१०९ ॥ तत्र तृप्ताः सुसंतुष्टाः क्रीडन्ते यमसादने । अत्र यद्दीयते दानमपि वालाग्रमात्रकम् ॥ १५५.११० ॥ तदक्षयफलं सर्वं शुक्लतीर्थे नृपोत्तम । एतत्ते कथितं सर्वं यद्दृष्टं यच्च वै श्रुतम् ॥ १५५.१११ ॥ कुरुष्व यदभिप्रेतं यदि शक्नोषि मुच्यताम् । तयोस्तद्वचनं श्रुत्वा चाणक्यो हृष्टमानसः ॥ १५५.११२ ॥ विसर्जयामास खगावभिनन्द्य पुनःपुनः । ताभ्यां गताभ्यां सर्वस्वं दत्त्वा विप्रेषु भारत ॥ १५५.११३ ॥ कामक्रोधौ परित्यज्य जगामामरपर्वतम् । तत्र बद्ध्वोडुपं गाढं कृष्णरज्ज्वावलम्बितम् ॥ १५५.११४ ॥ प्लवमानोऽशु ध्यायन्देवं जनार्दनम् । आरोग्यं भास्करादिच्छेद्धनं वै जातवेदसः ॥ १५५.११५ ॥ प्राप्नोति ज्ञानमीशानान्मोक्षं प्राप्नोति केशवात् । नीलं रक्तं तदभवन्मेचकं यद्धि सूत्रकम् ॥ १५५.११६ ॥ शुद्धस्फटिकसङ्काशं दृष्ट्वा रज्जुं महामतिः । आप्लुत्य विमले तोये गतोऽसौ वैष्णवं पदम् ॥ १५५.११७ ॥ गायन्ति यद्वेदविदः पुराणं नारायणं शाश्वतमच्युताह्वयम् । प्राप्तः स तं राजसुतो महात्मा निक्षिप्य देहं शुभशुक्लतीर्थे ॥ १५५.११८ ॥ एषा ते कथिता राजन्सिद्धिश्चाणक्यभूभृतः । तथान्यत्तव वक्ष्यामि शृणुष्वैकाग्रमानसः ॥ १५५.११९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चाणक्यसिद्धिप्राप्तिवर्णनं नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १५६ श्रीमार्कण्डेय उवाच - नास्ति लोकेषु तत्तीर्थं पृथिव्यां यन्नरेश्वर । शुक्लतीर्थेन सदृशमुपमानेन गीयते ॥ १५६.१ ॥ शुक्लतीर्थं महातीर्थं नर्मदायां व्यवस्थितम् । प्रागुदक्प्रवणे देशे मुनिसङ्घनिषेवितम् ॥ १५६.२ ॥ वैशाखे च तथा मासि कृष्णपक्षे चतुर्दशी । कैलासादुमया सार्द्धं स्वयमायाति शङ्करः ॥ १५६.३ ॥ मध्याह्नसमये स्नात्वा पश्यत्यात्मानमात्मना । ब्रह्मविष्ण्विन्द्रसहितः शुक्लतीर्थे समाहितः ॥ १५६.४ ॥ कार्त्तिक्यां तु विशेषेण वैशाख्यां च नरोत्तम । ब्रह्मविष्णुमहादेवान् स्नात्वा पश्यति तद्दिने ॥ १५६.५ ॥ देवराजः सुरैः सार्द्धं वायुमार्गव्यवस्थितः । कृष्णपक्षे चतुर्दश्यां स्नात्वा पश्यति शङ्करम् ॥ १५६.६ ॥ गन्धर्वाप्सरसो यक्षाः सिद्धविद्याधरोरगाः । तद्दिने तेऽपि देवेशं दृष्ट्वा मुञ्चन्ति किल्बिषम् ॥ १५६.७ ॥ अर्धयोजनविस्तारं तदर्द्धेनैव चायतम् । शुक्लतीर्थं महापुण्यं महापातकनाशनम् ॥ १५६.८ ॥ यत्र स्थितैः प्रदृश्यन्ते वृक्षाग्राणि नरोत्तमैः । तत्र स्थिता महापापैर्मुच्यन्ते पूर्वसंचितैः ॥ १५६.९ ॥ पापोपपातकैर्युक्तो नरः स्नात्वा प्रमुच्यते । उपार्जिता विनश्येत भ्रूणहत्यापि दुस्त्यजा ॥ १५६.१० ॥ यस्मात्तत्रैव देवेश उमया सह तिष्ठति । वैशाख्यां च विशेषेण कैलासादेति शङ्करः ॥ १५६.११ ॥ तेन तीर्थं महापुण्यं सर्वपातकनाशनम् । कथितं ब्रह्मणा पूर्वं मया तव तथा नृप ॥ १५६.१२ ॥ रजकेन यथा धौतं वस्त्रं भवति निर्मलम् । तथा तत्र वपुःस्नानं पुरुषस्य भवेच्छुचि ॥ १५६.१३ ॥ पूर्वे वयसि पापानि कृत्वा पुष्टानि मानवः । अहोरात्रोषितो भूत्वा शुक्लतीर्थे व्यपोहति ॥ १५६.१४ ॥ शुक्लतीर्थे महाराज राकां रेवाजलाञ्जलिम् । कल्पकोटिसहस्राणि दत्त्वा स्युः पितरः शिवाः ॥ १५६.१५ ॥ न माता न पिता बन्धुः पतनं नरकार्णवे । उद्धरन्ति यथा पुण्यं शुक्लतीर्थे नरेश्वर ॥ १५६.१६ ॥ तपसा ब्रह्मचर्येण न तां गच्छन्ति सद्गतिम् । शुक्लतीर्थे मृतो जन्तुर्देहत्यागेन यां लभेत् ॥ १५६.१७ ॥ कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशीम् । घृतेन स्नापयेद्देवमुपोष्य प्रयतो नरः ॥ १५६.१८ ॥ स्नात्वा प्रभाते रेवायां दद्यात्सघृतकम्बलम् । सहिरण्यं यथाशक्ति देवमुद्दिश्य शङ्करं ॥ १५६.१९ ॥ देवस्य पूरणं कुर्याद्घृतेन घृतकम्बलम् । स गच्छति महातेजाः शिवलोकं मृतो नरः ॥ १५६.२० ॥ एकविंशकुलोपेतो यावदाभूतसम्प्लवम् । शुक्लतीर्थे नरः स्नात्वा ह्युमां रुद्रं च योऽर्चयेत् ॥ १५६.२१ ॥ गन्धपुष्पादिधूपैश्च सोऽश्वमेधफलं लभेत् । मासोपवासं यः कुर्यात्तत्र तीर्थे नरेश्वर ॥ १५६.२२ ॥ मुच्यते स महत्पापैः सप्तजन्मसुसंचितैः । उष्ट्रीक्षीरमविक्षीरं नवश्राद्धे च भोजनम् ॥ १५६.२३ ॥ वृषलीगमनं चैव तथाभक्ष्यस्य भक्षणम् । अविक्रयेऽनृते पापं माहिषेऽयाज्ययाजके ॥ १५६.२४ ॥ वार्द्धुष्ये पङ्क्तिगरदे देवब्राह्मणदूषके । एवमादीनि पापानि तथान्यान्यपि भारत ॥ १५६.२५ ॥ चान्द्रायणेन नश्यन्ति शुक्लतीर्थे न संशयः । शुक्लतीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ॥ १५६.२६ ॥ तस्य ते द्वादशाब्दानि तृप्तिं यान्ति सुतर्पिताः । पादुकोपानहौ छत्रं शय्यामासनमेव च ॥ १५६.२७ ॥ सुवर्णं धनधान्यं च श्राद्धं युक्तहलं तथा । अन्नं पानीयसंहितं तस्मिंस्तीर्थे ददन्ति ये ॥ १५६.२८ ॥ हृष्टाः पुष्टा मृता यान्ति शिवलोकं न संशयः । तत्र तीर्थे तु यो भक्त्या शिवमुद्दिश्य भारत ॥ १५६.२९ ॥ भिक्षामात्रं तथान्नं ये तेऽपि स्वर्यान्ति वै नराः । यज्विनां व्रतिनां चैव तत्र तीर्थनिवासिनाम् ॥ १५६.३० ॥ अपि वालाग्रमात्रं हि दत्तं भवति चाक्षयम् । अग्निप्रवेशं यः कुर्याच्छुक्लतीर्थे समाहितः ॥ १५६.३१ ॥ रागद्वेषविनिर्मुक्तो हृदि ध्यात्वा जनार्दनम् । सर्वकामसुसम्पूर्णः स गच्छेद्वारुणं पुरम् ॥ १५६.३२ ॥ न रोगो न जरा तत्र यत्र देवोऽंभसां पतिः । अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे युधिष्ठिर ॥ १५६.३३ ॥ अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् । अवशः स्ववशो वापि जन्तुस्तत्क्षेत्रमण्डले ॥ १५६.३४ ॥ मृतः स तु न सन्देहो रुद्रस्यानुचरो भवेत् । शुक्लतीर्थे तु यः कन्यां शक्त्या दद्यादलंकृताम् ॥ १५६.३५ ॥ विधिना यो नृपश्रेष्ठ कुरुते वृषमोक्षणम् । तस्य यत्फलमुद्दिष्टं पुराणे रुद्रभाषितम् ॥ १५६.३६ ॥ तदहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप । यावन्तो रोमकूपाः स्युः सर्वाङ्गेषु पृथक्पृथक् ॥ १५६.३७ ॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते । शुक्लतीर्थे तु यद्दत्तं ग्रहणे चन्द्रसूर्ययोः ॥ १५६.३८ ॥ वर्धते तद्गुणं तावद्दिनानि दश पञ्च च । शुक्लतीर्थे शुचिर्भूत्वा यः करोति प्रदक्षिणम् ॥ १५६.३९ ॥ पृथ्वी प्रदक्षिणा तेन कृता यत्तस्य तत्फलम् । शोभनं मिथुनं यस्तु रुद्रमुद्दिश्य पूजयेत् ॥ १५६.४० ॥ सप्त जन्मानि तस्यैव वियोगो न च वै क्वचित् । एतत्ते कथितं राजन् संक्षेपेण फलं महत् ॥ १५६.४१ ॥ शुक्लतीर्थस्य यत्पुण्यं यथा देवाच्छ्रुतं मया । य इदं शृणुयाद्भक्त्या पुराणे विहितं फलम् ॥ १५६.४२ ॥ स लभेन्नात्र सन्देहः सत्यं सत्यं पुनः पुनः । पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥ १५६.४३ ॥ मोक्षार्थी लभते मोक्षं स्नानदानफलं महत् ॥ १५६.४४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शुक्लतीर्थमहात्म्यवर्णनं नाम षट्पञ्चाशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १५७ श्रीमार्कण्डेय उवाच - तस्यैवानन्तरं राजञ्छुक्लतीर्थसमीपतः । वासुदेवस्य तीर्थं तु सर्वलोकेषु पूजितम् ॥ १५७.१ ॥ तद्धि पुण्यं सुविख्यातं नर्मदायां पुरातनम् । यत्र हुङ्कारमात्रेण रेवा क्रोशं जगाम सा ॥ १५७.२ ॥ यदा प्रभृति राजेन्द्र हुङ्कारेण गता सरित् । तदाप्रभृति स स्वामी हुङ्कारः शब्दितो बुधैः ॥ १५७.३ ॥ हुङ्कारतीर्थे यः स्नात्वा पश्यत्यव्ययमच्युतम् । स मुच्यते नरः पापैः सप्तजन्म कृतैरपि ॥ १५७.४ ॥ संसारार्णवमग्नानां नराणां पापकर्मिणाम् । नैवोद्धर्ता जगन्नाथं विना नारायणं परः ॥ १५७.५ ॥ सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम् । तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥ १५७.६ ॥ सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् । येषां हृदिस्थो भगवान्मङ्गलायतनो हरिः ॥ १५७.७ ॥ यदन्यद्देवतार्चायाः फलं प्राप्नोति मानवः । साष्टाङ्गप्रणिपातेन तत्फलं लभते हरेः ॥ १५७.८ ॥ रेणुगुण्ठितगात्रस्य यावन्तोऽस्य रजःकणाः । तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥ १५७.९ ॥ सम्मार्जनाभ्युक्षणलेपनेन तदालये नश्यति सर्वपापम् । नारी नराणां परया तु भक्त्या दृष्ट्वा तु रेवां नरसत्तमस्य ॥ १५७.१० ॥ येनार्चितो भगवान्वासुदेवो जन्मार्जितं नश्यति तस्य पापम् । स याति लोकं गरुडध्वजस्य विधूतपापः सुरसङ्घपूज्यताम् ॥ १५७.११ ॥ शाठ्येनापि नमस्कारं प्रयुञ्जंश्चक्रपाणिनः । सप्तजन्मार्जितं पापं गच्छत्याशु न संशयः ॥ १५७.१२ ॥ पूजायां प्रीयते रुद्रो जपहोमैर्दिवाकरः । शङ्खचक्रगदापाणिः प्रणिपातेन तुष्यति ॥ १५७.१३ ॥ भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् । विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥ १५७.१४ ॥ हुङ्कारतीर्थे राजेन्द्र शुभं वा यदि वाशुभम् । यत्कृतं पुरुषव्याघ्र तन्नश्यति न कर्हिचित् ॥ १५७.१५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हुङ्कारस्वामितीर्थमाहात्म्यवर्णनं नाम सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १५८ श्रीमार्कण्डेय उवाच - ततो गच्छेत्परं तीर्थं सङ्गमेश्वरमुत्तमम् । नर्मदादक्षिणे कूले सर्वपापभयापहम् ॥ १५८.१ ॥ धनदस्तत्र विश्रान्तो मुहूर्तं नृपसत्तम । पितृलोकात्समायातः कैलासं धरणीधरम् ॥ १५८.२ ॥ प्रत्ययार्थं नृपश्रेष्ठ ह्यद्यापि धरणीतले । कृष्णवर्णा हि पाषाणा दृश्यन्ते स्फटिकोज्ज्वलाः ॥ १५८.३ ॥ विन्ध्यनिर्झरनिष्क्रान्ता पुण्यतोया सरिद्वरा । प्रविष्टा नर्मदातोये सर्वपापप्रणाशने ॥ १५८.४ ॥ सङ्गमे तत्र यः स्नात्वा पूजयेत्सङ्गमेश्वरम् । अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥ १५८.५ ॥ घण्टापताकावितनं यो ददेत्सङ्गमेश्वरे । हंसयुक्तविमानस्थो दिव्यस्त्रीशतसंवृतः ॥ १५८.६ ॥ स रुद्रपदमाप्नोति रुद्रस्यानुचरो भवेत् । दधि भक्ते न देवस्य यः कुर्याल्लिङ्गपूरणम् ॥ १५८.७ ॥ सिक्थसंख्यं शिवे लोके स वसेत्कालमीप्सितम् । श्रीफलैः पूरयेल्लिङ्गं निःस्वो भूत्वा भवस्य तु ॥ १५८.८ ॥ सोऽपि तत्फलमाप्नोति गतः स्वर्गे नरेश्वर । अक्षया सन्ततिस्तस्य जायते सप्तजन्मसु ॥ १५८.९ ॥ स्नपनं देवदेवस्य दध्ना मधुघृतेन वा । यः करोति विधानेन तस्य पुण्यफलं शृणु ॥ १५८.१० ॥ धृतक्षीरवहा नद्यो यत्र वृक्षा मधुस्रवाः । तत्र ते मानवा यान्ति सुप्रसन्ने महेश्वरे ॥ १५८.११ ॥ पत्रं पुष्पं फलं तोयं यस्तु दद्यान्महेश्वरे । तत्सर्वं सप्तजन्मानि ह्यक्षयं फलमश्नुते ॥ १५८.१२ ॥ सर्वेषामेव पात्राणां महापात्रं महेश्वरः । तस्मात्सर्वप्रयत्नेन पूजनीयो महेश्वरः ॥ १५८.१३ ॥ ब्रह्मचर्यस्थितो नित्यं यस्तु पूजयते शिवम् । इह जीवन्स देवेशो मृतो गच्छेदनामयम् ॥ १५८.१४ ॥ शिवे तु पूजिते पार्थ यत्फलं प्राप्यते बुधैः । योगीन्द्रे चैव तत्पार्थ पूजिते लभते फलम् ॥ १५८.१५ ॥ ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् । येषां गृहेषु भुञ्जन्ति शिवभक्तिरता नराः ॥ १५८.१६ ॥ संनिरुध्येन्द्रियग्रामं यत्रयत्र वसेन्मुनिः । तत्र तत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥ १५८.१७ ॥ यत्फलं वेदविदुषि भोजिते शतसंख्यया । तत्फलं जायते पार्थ ह्येकेन शिवयोगिना ॥ १५८.१८ ॥ यत्र भुञ्जति भस्माङ्गी मूर्खो वा यदि पण्डितः । तत्र भुञ्जति देवेशः सपत्नीको वृषध्वजः ॥ १५८.१९ ॥ विप्राणां वेदविदुषां कोटिं संभोज्य यत्फलम् । भिक्षामात्रप्रदानेन तत्फलं शिवयोगिनाम् ॥ १५८.२० ॥ सङ्गमेश्वरमासाद्य प्राणत्यागं करोति यः । न तस्य पुनरावृत्तिः शिवलोकात्कदाचन ॥ १५८.२१ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सङ्गमेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टपञ्चाशदधिकशततमोऽध्यायः ॥ ऋKV अध्याय १५९ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महाराज तीर्थं परमपावनम् । नर्मदायां सुदुष्प्रापं सिद्धं ह्यनरकेश्वरम् ॥ १५९.१ ॥ तस्मिंस्तीर्थे नरः स्नात्वा पापकर्मापि भारत । न पश्यति महाघोरं नरकद्वारसंज्ञिकम् ॥ १५९.२ ॥ युधिष्ठिर उवाच - शुभाशुभफलैस्तात भुक्तभोगा नरास्त्विह । जायन्ते लक्षणैर्यैस्तु तानि मे वद सत्तम ॥ १५९.३ ॥ यथा निर्गच्छते जीवस्त्यक्त्वा देहं न पश्यति । तथा गच्छन्पुनर्देहं पञ्चभूतसमन्वितः ॥ १५९.४ ॥ त्वगस्थिमांसमेदोऽसृक्केशस्नायुशतैः सह । विण्मूत्ररेतःसङ्घाते का संज्ञा जायते नृणाम् ॥ १५९.५ ॥ एवमुक्तः स मार्कण्डः कथयामास योगवित् । ध्यात्वा सनातनं सर्वं देवदेवं महेश्वरम् ॥ १५९.६ ॥ मार्कण्डेय उवाच - शृणु पार्थ महाप्रश्नं कथयामि यथाश्रुतम् । सकाशाद्ब्रह्मणः पूर्वमृषिदेवसमागमे ॥ १५९.७ ॥ गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् । इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ १५९.८ ॥ अचीर्णप्रायश्चित्तानां यमलोके ह्यनेकधा । यातनाभिर्वियुक्तानामनेकां जीवसन्ततिम् ॥ १५९.९ ॥ गत्वा मनुष्यभावे तु पापचिह्ना भवन्ति ते । तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ॥ १५९.१० ॥ सहित्वा यातनां सर्वां गत्वा वैवस्वतक्षयम् । विस्तीर्णयातना ये तु लोकमायान्ति चिह्निताः ॥ १५९.११ ॥ गद्गदोऽनृतवादी स्यान्मूकश्चैव गवानृते । ब्रह्महा जायते कुष्ठी श्यावदन्तस्तु मद्यपः ॥ १५९.१२ ॥ कुनखी स्वर्णहरणाद्दुःश्चर्मा गुरुतल्पगः । संयोगी हीनयोनिः स्याद्दरिद्रोऽदत्तदानतः ॥ १५९.१३ ॥ ग्रामशूकरतां याति ह्ययाज्ययाजको नृप । खरो वै बहुयाजी स्याच्छ्वानिमन्त्रितभोजनात् ॥ १५९.१४ ॥ अपरीक्षितभोजी स्याद्वानरो विजने वने । वितर्जकोऽथ मार्जारः खद्योतः कक्षदाहतः ॥ १५९.१५ ॥ अविद्यां यः प्रयच्छेत बलीवर्दो भवेद्धि सः । अन्नं पर्युषितं विप्रे ददानः क्लीबतां व्रजेत् ॥ १५९.१६ ॥ मात्सर्यादथ जात्यन्धो जन्मान्धः पुस्तकं हरन् । फलान्याहरतोऽपत्यं म्रियते नात्र संशयः ॥ १५९.१७ ॥ मृतो वानरतां याति तन्मुक्तोऽथ गलाडवान् । अदत्त्वा भक्षयंस्तानि ह्यनपत्यो भवेन्नरः ॥ १५९.१८ ॥ हरन्वस्त्रं भवेद्गोधा गरदः पवनाशनः । प्रव्राजी गमनाद्राजन् भवेन्मरुपिशाचकः ॥ १५९.१९ ॥ वातको जलहर्ता च धान्यहर्ता च मूषकः । अप्राप्तयौवनां गच्छन् भवेत्सर्प इति श्रुतिः ॥ १५९.२० ॥ गुरुदाराभिलाषी च कृकलासो भवेच्चिरम् । जलप्रस्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः ॥ १५९.२१ ॥ अविक्रेयान् विक्रयन् वै विकटाक्षो भवेन्नरः । अयोनिगो वृको हि स्यादुलूकः क्रयवञ्चनात् ॥ १५९.२२ ॥ मृतस्यैकादशाहे तु भुञ्जानः श्वोपजायते । प्रतिश्रुत्य द्विजायार्थमददन्मधुको भवेत् ॥ १५९.२३ ॥ राज्ञीगमाद्भवेद्दुष्टतस्करो विड्वराहकः । परिवादी द्विजातीनां लभते काच्छपीं तनुम् ॥ १५९.२४ ॥ व्रजेद्देवलको राजन्योनिं चाण्डालसंज्ञिताम् । दुर्भगः फलविक्रेता वृश्चिको वृषलीपतिः ॥ १५९.२५ ॥ मार्जारोऽग्निं पदा स्पृष्ट्वा रोगवान्परमांसभुक् । सोदर्यागमनात्षण्ढो दुर्गन्धश्च सुगन्धहृत् ॥ १५९.२६ ॥ ग्रामभट्टो दिवाकीर्तिर्दैवज्ञो गर्दभो भवेत् । कुपण्डितः स्यान्मार्जारो भषणो व्यास एव च ॥ १५९.२७ ॥ स एव दृश्यते राजन्प्रकाशात्परमर्मणाम् । यद्वा तद्वापि पारक्यं स्वल्पं वा यदि वा बहु ॥ १५९.२८ ॥ कृत्वा वै योनिमाप्नोति तैरश्चीं नात्र संशयः । एवमादीनि चान्यानि चिह्नानि नृपसत्तम ॥ १५९.२९ ॥ स्वकर्मविहितान्येव दृश्यन्ते यैस्तु मानवाः । ततो जन्म ततो मृत्युः सर्वजन्तुषु भारत ॥ १५९.३० ॥ जायते नात्र सन्देहः समीभूते शुभाशुभे । स्त्रीपुंसोः सम्प्रयोगेण विषुद्धे शुक्रशोणिते ॥ १५९.३१ ॥ पञ्चभूतसमोपेतः सषष्ठः परमेश्वरः । इन्द्रियाणि मनः प्राणा ज्ञानमायुः सुखं धृतिः ॥ १५९.३२ ॥ धारणं प्रेरणं दुःखमिच्छाहङ्कार एव च । प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ ॥ १५९.३३ ॥ तस्येदमात्मनः सर्वमनादेरादिमिच्छतः । प्रथमे मासि स क्लेदभूतो धातुविमूर्छितः ॥ १५९.३४ ॥ मास्यर्बुदं द्वितीये तु तृतीये चेन्द्रियैर्युतः । आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रबलादिकम् । वायोस्तु स्पर्शनं चेष्टां दहनं रौक्ष्यमेव च ॥ १५९.३५ ॥ पित्तात्तु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशनम् । सलिलाद्रसनां शैत्यं स्नेहं क्लेदं समार्दवम् ॥ १५९.३६ ॥ भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च । आत्मा गृह्णात्यजः पूर्वं तृतीये स्पन्दते च सः ॥ १५९.३७ ॥ दौर्हृदस्याप्रदानेन गर्भो दोषमवाप्नुयात् । वैरूप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः ॥ १५९.३८ ॥ स्थैर्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः । षष्ठे बलं च वर्णश्च नखरोम्णां च सम्भवः ॥ १५९.३९ ॥ मनसा चेतनायुक्तो नखरोमशतावृतः । सप्तमे चाष्टमे चैव त्वचावान् स्मृतिवानपि ॥ १५९.४० ॥ पुनर्गर्भं पुनर्धात्रीमेनस्तस्य प्रधावति । अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते ॥ १५९.४१ ॥ नवमे दशमे वापि प्रबलैः सूतिमारुतैः । निर्गच्छते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥ १५९.४२ ॥ शरीरावयवैर्युक्तो ह्यङ्गप्रत्यङ्गसंयुतः । अष्टोत्तरं मर्मशतं तत्रास्था तु शतत्रयम् ॥ १५९.४३ ॥ सप्त शिरःकपालानि विहितानि स्वयम्भुवा । तिस्रः कोट्योऽर्धकोटी च रोम्णामङ्गेषु भारत ॥ १५९.४४ ॥ द्वासप्ततिसहस्राणि हृदयादभिनिसृताः । हितानाम हि ता नाड्यस्तासां मध्ये शशिप्रभा ॥ १५९.४५ ॥ एवं प्रवर्तते चक्रं भूतग्रामे चतुर्विधे । उत्पत्तिश्च विनाशश्च भवतः सर्वदेहिनाम् ॥ १५९.४६ ॥ गतिरूर्ध्वा च धर्मेण ह्यधर्मेण त्वधोगतिः । जायते सर्ववर्णानां स्वधर्मचलनान्नृप ॥ १५९.४७ ॥ देवत्वे मानवत्वे च दानभोगादिकाः क्रियाः । दृश्यन्ते या महाराज तत्सर्वं कर्मजं फलम् ॥ १५९.४८ ॥ स्वकर्म विहिते घोरे कामक्सोधार्जिते शुभे । निमज्जेन्नरके घोरे यस्योत्तारो न विद्यते ॥ १५९.४९ ॥ उत्तारणाय जन्तूनां नर्मदातटसंस्थितम् । एवमेतन्महातीर्थं नरकेश्वरमुत्तमम् ॥ १५९.५० ॥ नरकापहं महापुण्यं महापातकनाशनम् । तत्तीर्थं सर्वतीर्थानामुत्तमं भुवि दुर्लभम् ॥ १५९.५१ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत महेश्वरम् । महापातकयुक्तोऽपि नरकं नैव पश्यति ॥ १५९.५२ ॥ तत्र तीर्थे तु यो दद्याद्धेनुं वैतरणीं शुभाम् । स मुच्यते सुखेनैव वैतरण्यां न संशयः ॥ १५९.५३ ॥ युधिष्ठिर उवाच - यमद्वारे महाघोरे या सा वैतरणी नदी । किंरूपा किंप्रमाणा सा कथं सा वहति द्विज ॥ १५९.५४ ॥ कथं तस्याः प्रमुच्यन्ते केषां वासस्तु संततम् । केषां तु सानुकूला सा ह्येतद्विस्तरतो वद ॥ १५९.५५ ॥ श्रीमार्कण्डेय उवाच - धर्मपुत्र महाबाहो शृणु सर्वं मयोदितम् । या सा वैतरणी नाम यमद्वारे महासरित् ॥ १५९.५६ ॥ अगाधा पाररहिता दृष्टमात्रा भयावहा । पूयशोणिततोया सा मांसकर्दमनिर्मिता ॥ १५९.५७ ॥ तत्तोयं भ्रमते तूर्णं तापीमध्ये घृतं यथा । कृमिभिः सङ्कुलं पूयं वज्रतुण्डैरयोमुखैः ॥ १५९.५८ ॥ शिशुमारैश्च मकरैर्वज्रकर्तरिसंयुतैः । अन्यैश्च जलजीवैः सा सुहिंस्रैर्मर्मभेदिभिः ॥ १५९.५९ ॥ तपन्ति द्वादशादित्याः प्रलयान्त इवोल्बणाः । पतन्ति तत्र वै मर्त्याः क्रन्दन्तो भृशदारुणम् ॥ १५९.६० ॥ हा भ्रातः पुत्र हा मातः प्रलपन्ति मुहुर्मुहुः । असिपत्त्रवने घोरे पतन्तं योऽभिरक्षति ॥ १५९.६१ ॥ प्रतरन्ति निमज्जन्ति ग्लानिं गच्छन्ति जन्तवः । चतुर्विधैः प्राणिगणैर्द्रष्टव्या सा महानदी ॥ १५९.६२ ॥ तरन्ति तस्यां सद्दानैरन्यथा तु पतन्ति ते । मातरं ये न मन्यन्ते ह्याचार्यं गुरुमेव च ॥ १५९.६३ ॥ अवजानन्ति मूढा ये तेषां वासस्तु संततम् । पतिव्रतां साधुशीलामूढां धर्मेषु निश्चलाम् ॥ १५९.६४ ॥ परित्यजन्ति ये पापाः संततं तु वसन्ति ते । विश्वासप्रतिपन्नानां स्वामिमित्रतपस्विनाम् ॥ १५९.६५ ॥ स्त्रीबालवृद्धदीनानां छिद्रमन्वेषयन्ति ये । पच्यन्ते तत्र मध्ये वै क्रन्दमानाः सुपापिनः ॥ १५९.६६ ॥ श्रान्तं बुभुक्षितं विप्रं यो विघ्नयति दुर्मतिः । कृमिभिर्भक्ष्यते तत्र यावत्कल्पशतत्रयम् ॥ १५९.६७ ॥ ब्राह्मणाय प्रतिश्रुत्य यो दानं न प्रयच्छति । आहूय नास्ति यो ब्रूते तस्य वासस्तु संततम् ॥ १५९.६८ ॥ अग्निदो गरदश्चैव राजगामी च पैशुनी । कथाभङ्गकरश्चैव कूटसाक्षी च मद्यपः ॥ १५९.६९ ॥ वज्रविध्वंसकश्चैव स्वयंदत्तापहारकः । सुक्षेत्रसेतुभेदी च परदारप्रधर्षकः ॥ १५९.७० ॥ ब्राह्मणो रसविक्रेता वृषलीपतिरेव च । गोकुलस्य तृषार्तस्य पालीभेदं करोति यः ॥ १५९.७१ ॥ कन्याभिदूषकश्चैव दानं दत्त्वा तु तापकः । शूद्रस्तु कपिलापानी ब्राह्मणो मांसभोजनी ॥ १५९.७२ ॥ एते वसन्ति सततं मा विचारं कृथा नृप । सानुकूला भवेद्येन तच्छृणुष्व नराधिप ॥ १५९.७३ ॥ अयने विषुवे चैव व्यतीपाते दिनक्षये । अन्येषु पुण्यकालेषु दीयते दानमुत्तमम् ॥ १५९.७४ ॥ कृष्णां वा पाटलां वापि कुर्याद्वैतरणीं शुभाम् । स्वर्णशृङ्गीं रूप्यखुरां कांस्यपात्रस्य दोहिनीम् ॥ १५९.७५ ॥ कृष्णवस्त्रयुगाच्छन्नां सप्तधान्यसमन्विताम् । कुर्यात्सद्रोणशिखर आसीनां ताम्रभाजने ॥ १५९.७६ ॥ यमं हैमं प्रकुर्वीत लोहदण्डसमन्वितम् । इक्षुदण्डमयं बद्ध्वा ह्युडुपं पट्टबन्धनैः ॥ १५९.७७ ॥ उडुपोपरि तां धेनुं सूर्यदेहसमुद्भवाम् । कृत्वा प्रकल्पयेद्विद्वाञ्छत्त्रोपानद्युगान्विताम् ॥ १५९.७८ ॥ अङ्गुलीयकवासांसि ब्राह्मणाय निवेदयेत् । इममुच्चारयेन्मन्त्रं संगृह्यास्याश्च पुच्छकम् ॥ १५९.७९ ॥ ओं यमद्वारे महाघोरे या सा वैतरणी नदी । तर्तुकामो ददाम्येनां तुभ्यं वैतरणि नमः । इत्यधिवासनमन्त्रः ॥ १५९.८० ॥ गावो मे चाग्रतः सन्तु गावो मे सन्तु पृष्ठतः । गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ १५९.८१ ॥ ओं विष्णुरूप द्विजश्रेष्ठ भूदेव पङ्क्तिपावन । सदक्षिणा मया दत्ता तुभ्यं वैतरणि नमः । इति दानमन्त्रः ॥ १५९.८२ ॥ ब्राह्मणं धर्मराजं च धेनुं वैतरणीं शिवाम् । सर्वं प्रदक्षिणीकृत्य ब्राह्मणाय निवेदयेत् ॥ १५९.८३ ॥ पुच्छं संगृह्य सुरभेरग्रे कृत्वा द्विजं ततः ॥ १५९.८४ ॥ धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये । उत्तितीर्षुरहं धेनो वैतरण्यै नमोऽस्तु ते । इत्यनुव्रजमन्त्रः ॥ १५९.८५ ॥ अनुव्रजेत गच्छन्तं सर्वं तस्य गृहं नयेत् । एवं कृते महीपाल सरित्स्यात्सुखवाहिनी ॥ १५९.८६ ॥ तारयते तया धेन्वा सा सरिज्जलवाहिनी । सर्वान्कामानवाप्नोति ये दिव्या ये च मानुषाः ॥ १५९.८७ ॥ रोगी रोगाद्विमुक्तः स्याच्छाम्यन्ति परमापदः । स्वस्थे सहस्रगुणितमातुरे शतसंमितम् ॥ १५९.८८ ॥ मृतस्यैव तु यद्दानं परोक्षे तत्समं स्मृतम् । स्वहस्तेन ततो देयं मृते कः कस्य दास्यति । इति मत्वा महाराज स्वदत्तं स्यान्महाफलम् ॥ १५९.८९ ॥ इत्येवमुक्तं तव धर्मसूनो दानं मया वैतरणीसमुत्थम् । शृणोति भक्त्या पठतीह सम्यक्स याति विष्णोः पदमप्रमेयम् ॥ १५९.९० ॥ श्रीमार्कण्डेय उवाच - प्राप्ते चाश्वयुजे मासि तस्मिन्कृष्णा चतुर्दशी । स्नात्वा कृत्वा ततः श्राद्धं सम्पूज्य च महेश्वरम् ॥ १५९.९१ ॥ पितृभ्यो दीयते दानं भक्तिश्रद्धासमन्वितैः । पश्चाज्जागरणं कुर्यात्सत्कथाश्रवणादिभिः ॥ १५९.९२ ॥ ततः प्रभातसमये स्नात्वा वै नर्मदाजले । तर्पणं विधिवत्कृत्वा पित्ःणां देवपूर्वकम् ॥ १५९.९३ ॥ सौवर्णे घृतसंयुक्तं दीपं दद्याद्द्विजातये । पश्चात्संभोजयेद्विप्रान् स्वयं चैव विमत्सरः ॥ १५९.९४ ॥ एवं कृते नरश्रेष्ठ न जन्तुर्नरकं व्रजेत् । अवश्यमेव मनुजैर्द्रष्टव्या नारकी स्थितिः ॥ १५९.९५ ॥ अनेन विधिना कृत्वा न पश्येन्नरकान्नरः । तत्र तीर्थे मृतानां तु नराणां विधिना नृप ॥ १५९.९६ ॥ मन्वन्तरं शिवे लोके वासो भवति दुर्लभे । विमानेनार्कवर्णेन किंकिणीशतशोभिना ॥ १५९.९७ ॥ स गच्छति महाभाग सेव्यमानोऽप्सरोगणैः । भुनक्ति विविधान्भोगानुक्तकालं न संशयः ॥ १५९.९८ ॥ पूर्णे चैव ततः काल इह मानुष्यतां गतः । सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ १५९.९९ ॥ प्राप्य चाश्वयुजे मासि कृष्णपक्षे चतुर्दशीम् । अहोरात्रोषितो भूत्वा पूजयित्वा महेश्वरम् । महापातकयुक्तोऽपि मुच्यते नात्र संशयः ॥ १५९.१०० ॥ अष्टाविंशतिकोट्यो वै नरकाणां युधिष्ठिर । विमुक्ता नरकैर्दुःखैः शिवलोकं व्रजन्ति ते ॥ १५९.१०१ ॥ तत्र भुक्त्वा महाभोगान्दिव्यैश्वर्यसमन्वितान् । लभन्ते मानुषं जन्म दुर्लभं भुवि मानवाः ॥ १५९.१०२ ॥ ॥ इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽनरकेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनषष्ट्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १६० श्रीमार्कण्डेय उवाच - ततो गच्छेत्पाण्डुपुत्र मोक्षतीर्थमनुत्तमम् । सेवितं देवगन्धर्वैर्मुनिभिश्च तपोधनैः ॥ १६०.१ ॥ बहवस्तन्न जानन्ति विष्णुमायाविमोहिताः । यत्र सिद्धा महाभागा ऋषयः सतपोधनाः ॥ १६०.२ ॥ पुलस्त्यः पुलहो विद्वान्क्रतुश्चैव महामतिः । प्राचेतसो वसिष्ठश्च दक्षो नारद एव च ॥ १६०.३ ॥ एते चान्ये महाभागाः सप्तसाहस्रसंज्ञिताः । मोक्षं गताः सह सुतैस्तत्तीर्थं तेन मोक्षदम् ॥ १६०.४ ॥ तत्र प्रवाहमध्ये तु पतिता तमहा नदी । तत्र तत्सङ्गमं तीर्थं सर्वपापक्षयंकरम् ॥ १६०.५ ॥ ऋग्यजुःसामसंज्ञानामभ्यस्तानां तु यत्फलम् । सम्यग्जप्त्वा तु विधिना गायत्रीं तत्र तल्लभेत् ॥ १६०.६ ॥ तत्र दत्तं हुतं जप्तं तीर्थसेवार्जितं फलम् । सर्वमक्षयतां याति मोक्षसाधनमुत्तमम् ॥ १६०.७ ॥ तत्र तीर्थे मृतानां तु संन्यासेन द्विजन्मनाम् । अनिवर्तिका गतिस्तेषां मोक्षतीर्थप्रभावतः ॥ १६०.८ ॥ एष ते विधिरुद्दिष्टः संक्षेपेण मयानघ । व्युष्टिस्तीर्थस्य महती पुराणे याभिधीयते ॥ १६०.९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मोक्षतीर्थमाहात्म्यवर्णनं नाम षष्ट्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १६१ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महाराज सर्पतीर्थमनुत्तमम् । यत्र सिद्धा महासर्पास्तपस्तप्त्वा युधिष्ठिर ॥ १६१.१ ॥ वासुकिस्तक्षको घोरः सार्प ऐरावतस्तथा । कालियश्च महाभागः कर्कोटकधनंजयौ ॥ १६१.२ ॥ शङ्खचूडो महातेजा धृतराष्ट्रो वृकोदरः । कुलिको वामनश्चैव तेषां ये पुत्रपौत्रिणः ॥ १६१.३ ॥ तत्र तीर्थे महापुण्ये तपस्तप्त्वा सुदुष्करम् । भुञ्जन्ति विविधान्भोगान्क्रीडन्ति च यथासुखम् ॥ १६१.४ ॥ तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः । वाजपेयफलं तस्य पुरा प्रोवाच शङ्करः ॥ १६१.५ ॥ स्नातानां सर्पतीर्थे तु नराणां भुवि भारत । सर्पवृश्चिकजातिभ्यो न भयं विद्यते क्वचित् ॥ १६१.६ ॥ मृतो भोगवतीं गत्वा पूज्यमानो महोरगैः । नागकन्यापरिवृतो महाभोगपतिर्भवेत् ॥ १६१.७ ॥ मार्गशीर्षस्य मासस्य कृष्णपक्षे च याष्टमी । सोपवासः शुचिर्भूत्वा लिङ्गं सम्पूरयेत्तिलैः । यथाविभवसारेण गन्धपुष्पैः समर्चयेत् ॥ १६१.८ ॥ एवं विधाय विधिवत्प्रणिपत्य क्षमापयेत् । तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नरेश्वर ॥ १६१.९ ॥ तिलास्तत्र च यत्संख्याः पत्रपुष्पफलानि च । तावत्स्वर्गपुरे राजन्मोदते कालमीप्सितम् ॥ १६१.१० ॥ ततः स्वर्गात्परिभ्रष्टो जायते विमले कुले । सुरूपः सुभगश्चैव धनकोटिपतिर्भवेत् ॥ १६१.११ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सर्पतीर्थमाहात्म्यवर्णनं नामैकषष्ट्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १६२ श्रीमार्कण्डेय उवाच - गोपेश्वरं ततो गच्छेत्सर्पक्षेत्रादनन्तरम् । यत्र स्नानेन चैकेन मुच्यन्ते पातकैर्नराः ॥ १६२.१ ॥ तत्र तीर्थे तु यः स्नात्वा कुरुते प्राणसंक्षयम् । स गच्छेद्यदि युक्तोऽपि पापेन शिवमन्दिरम् ॥ १६२.२ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेद्देवमीश्वरम् । मुच्यते सर्वपापैश्च रुद्रलोकं स गच्छति ॥ १६२.३ ॥ क्रीडित्वा च यथाकामं रुद्रलोके महातपाः । इह मानुष्यतां प्राप्य राजा भवति धार्मिकः ॥ १६२.४ ॥ हस्त्यश्वरथसम्पन्नो दासीदाससमन्वितः । पूज्यमानो नरेन्द्रैश्च जीवेद्वर्षशतं सुखी ॥ १६२.५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोपेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विषष्ट्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १६३ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महाराज नागतीर्थमनुत्तमम् । आश्विनस्य सिते पक्षे पञ्चम्यां नियतः शुचिः ॥ १६३.१ ॥ रात्रौ जागरणं कृत्वा गन्धधूपनिवेदनैः । प्रभाते विमले स्नात्वा श्राद्धं कृत्वा यथाविधि ॥ १६३.२ ॥ मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा । तत्र तीर्थे तु यो राजन्प्राणत्यागं करिष्यति ॥ १६३.३ ॥ अनिवर्तिका गतिस्तस्य प्रोवाचेति शिवः स्वयम् ॥ १६३.४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागतीर्थमाहात्म्यवर्णनं नाम त्रिषष्ट्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १६४ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महाराज सांवौरं तीर्थमुत्तमम् । यत्र संनिहितो भानुः पूज्यमानः सुरासुरैः ॥ १६४.१ ॥ तत्र ये पङ्गुतां प्राप्ताः शीर्णघ्राणनखा नराः । दद्रुमण्डलभिन्नाङ्गा मक्षिकाकृमिसंकुलाः ॥ १६४.२ ॥ मातापितृभ्यां रहिता भ्रातृभार्याविवर्जिताः । अनाथा विकला व्यङ्गा मग्ना ये दुःखसागरे ॥ १६४.३ ॥ तेषां नाथो जगद्योनिर्नर्मदातटमाश्रितः । सांवौरनाथो लोकानामार्तिहा दुःखनाशनः ॥ १६४.४ ॥ तत्र तीर्थे तु यः स्नात्वा मासमेकं निरन्तरम् । पूजयेद्भास्करं देवं तस्य पुण्यफलं शृणु ॥ १६४.५ ॥ यत्फलं चोत्तरे पार्थ तथा वै पूर्वसागरे । दक्षिणे पश्चिमे स्नात्वा तत्र तीर्थे तु तत्फलम् ॥ १६४.६ ॥ कौमारे यौवने पापं वार्द्धके यच्च संचितम् । तत्प्रणश्यति सांवौरे स्नानमात्रान्न संशयः ॥ १६४.७ ॥ न व्याधिर्नैव दारिद्र्यं न चैवेष्टवियोजनम् । सप्तजन्मानि राजेन्द्र सांवौरपरिसेवनात् ॥ १६४.८ ॥ सप्तम्यामुपवासेन तद्दिने चाप्युपोषिते । स तत्फलमवाप्नोति तत्र स्नात्वा न संशयः ॥ १६४.९ ॥ रक्तचन्दनमिश्रेण यदर्घ्येण फलं स्मृतम् । तत्र तीर्थे नृपश्रेष्ठ स्नात्वा तत्फलमाप्नुयात् ॥ १६४.१० ॥ नर्मदासलिलं रम्यं सर्वपातकनाशनम् । निरीक्षितं विशेषेण सांवौरेण महात्मना ॥ १६४.११ ॥ ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् । स्नात्वा पश्यन्ति देवेशं सांवौरेश्वरमुत्तमम् ॥ १६४.१२ ॥ सूर्यलोके वसेत्तावद्यावदाभूतसम्प्लवम् ॥ १६४.१३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सांवौरेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःषष्ट्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १६५ श्रीमार्कण्डेय उवाच - नर्मदादक्षिणे कूले सिद्धेश्वरमिति श्रुतम् । तीर्थं परं महाराज सिद्धैः कृतमिति प्रभो ॥ १६५.१ ॥ तत्र तीर्थं महापुण्यं सर्वतीर्थेषु पावनम् । नर्मदाया महाराज दक्षिणं कूलमाश्रितम् ॥ १६५.२ ॥ तत्र तीर्थे नरः स्नात्वा तर्पयेत्पितृदेवताः । श्राद्धं तत्रैव यो दद्यात्पित्ःनुद्दिश्य भारत ॥ १६५.३ ॥ तृप्यन्ति पितरस्तस्य द्वादशाब्दान्न संशयः । तत्र तीर्थे तु यो भक्त्या स्नात्वा पूजयते शिवम् ॥ १६५.४ ॥ रात्रौ जागरणं कृत्वा पठेत्पौराणिकीं कथाम् । ततः प्रभाते विमले स्नानं कुर्याद्यथाविधि ॥ १६५.५ ॥ वीक्षते गिरिजाकान्तं स गच्छेत्परमां गतिम् । पुरा सिद्धा महाभागाः कपिलाद्या महर्षयः ॥ १६५.६ ॥ जपन्तश्च परं ब्रह्म योगसिद्धा महाव्रताः । सिद्धिं ते परमां प्राप्ता नर्मदायाः प्रभावतः ॥ १६५.७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चषष्ट्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १६६ मार्कण्डेय उवाच - ततः सिद्धेश्वरी देवी वैष्णवी पापनाशिनी । आनन्दं परमं प्राप्ता दृष्ट्वा स्थानं सुशोभनम् ॥ १६६.१ ॥ तत्र तीर्थे नरः स्नात्वा पूजयेत्पितृदेवताः । देवीं पश्यति यो भक्त्या मुच्यते सर्वपातकैः ॥ १६६.२ ॥ मृतवत्सा तु या नारी वन्ध्या स्त्रीजननी तथा । पुत्रं सा लभते नारी शीलवन्तं गुणान्वितम् ॥ १६६.३ ॥ तत्र तीर्थे तु यः स्नात्वा पश्येद्देवीं सुभक्तितः । अष्टम्यां वा चतुर्दश्यां सर्वकालेऽथवा नृप ॥ १६६.४ ॥ सङ्गमे तु ततः स्नाता नारी वा पुरुषोऽपि वा । पुत्रं धनं तथा देवी ददाति परितोषिता ॥ १६६.५ ॥ गोत्ररक्षां प्रकुरुते दृष्टा देवी सुपूजिता । प्रजां च पाति सततं पूज्यमाना न संशयः ॥ १६६.६ ॥ नवम्यां च महाराज स्नात्वा देवीमुपोषितः । पूजयेत्परया भक्त्या श्रद्धापूतेन चेतसा ॥ १६६.७ ॥ स गच्छेत्परमं लोकं यः सुरैरपि दुर्लभः ॥ १६६.८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्षष्ट्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १६७ युधिष्ठिर उवाच - नर्मदादक्षिणे कूले त्वच्चिह्नेनोपलक्षितम् । तीर्थमेतन्ममाख्याहि सम्भवं च महामुने ॥ १६७.१ ॥ मार्कण्डेय उवाच - पुरा कृतयुगस्यादौ दक्षिणे गिरिमुत्तमम् । विन्ध्यं सर्वगुणोपेतं नियतो नियताशनः ॥ १६७.२ ॥ ऋषिसङ्घैः कृतातिथ्यो दण्डके न्यवसं चिरम् । उषित्वा सुचिरं कालं वर्षाणामयुतं सुखी ॥ १६७.३ ॥ तानृषीन् समनुज्ञाप्य शिष्यैरनुगतस्ततः । निवृत्तः सुमहाभाग नर्मदाकूलमागतः ॥ १६७.४ ॥ पुण्यं च रमणीयं च सर्वपापविनाशनम् । कृत्वाहमास्पदं तत्र द्विजसंघसमायुतः ॥ १६७.५ ॥ ब्रह्मचारिभिराकीर्णं गार्हस्थ्ये सुप्रतिष्ठितैः । वानप्रस्थैश्च यतिभिर्यताहारैर्यतात्मभिः ॥ १६७.६ ॥ तपस्विभिर्महाभागैः कामक्रोधविवर्जितैः । तत्राहं वर्षमयुतं तपः कृत्वा सुदारुणम् ॥ १६७.७ ॥ आराधयं वासुदेवं प्रभुं कर्तारमीश्वरम् । जपंस्तपोभिर्नियमैर्नर्मदाकूलमाश्रितः ॥ १६७.८ ॥ ततस्तौ वरदौ देवौ समायातौ युधिष्ठिर । प्रत्यक्षौ भास्करौ राजन्नुमाश्रीभ्यां विभूषितौ ॥ १६७.९ ॥ प्रणम्याहं ततो देवौ भक्तियुक्तो वचोऽब्रुवम् । भवन्तौ प्रार्थयामि स्म वरार्हौ वरदौ शिवौ ॥ १६७.१० ॥ धर्मस्थितिं महाभागौ भक्तिं वानुत्तमां युवाम् । अजरो व्याधिरहितः पञ्चविंशतिवर्षवत् । अस्मिन्स्थाने सदा स्थेयं सह देवैरसंशयम् ॥ १६७.११ ॥ एवमुक्तौ मया पार्थ तौ देवौ कृष्णशङ्करौ । मामूचतुः प्रहृष्टौ तौ निवासार्थं युधिष्ठिर ॥ १६७.१२ ॥ देवावूचतुः । अस्मिन्स्थाने स्थितौ विद्धि सह देवैः सवासवैः । एवमुक्त्वा ततो देवौ तत्रैवान्तरधीयताम् ॥ १६७.१३ ॥ अहं च स्थापयित्वा तौ शङ्करं कृष्णमव्ययम् । कृतकृत्यस्ततो जातः सम्पूज्य सुसमाहितः ॥ १६७.१४ ॥ तस्मिंस्तीर्थे नरः स्नात्वा पूजयेत्परमेश्वरम् । मार्कण्डेश्वरनाम्ना वै विष्णुं त्रिभुवनेश्वरम् ॥ १६७.१५ ॥ स गच्छेत्परमं स्थानं वैष्णवं शैवमेव च । घृतेन पयसा वाथ दध्ना च मधुना तथा ॥ १६७.१६ ॥ नार्मदेनोदकेनाथ गन्धधूपैः सुशोभनैः । पुष्पोपहारैश्च तथा नैवेद्यैर्नियतात्मवान् ॥ १६७.१७ ॥ एवं विष्णोः प्रकुर्वीत जागरं भक्तितत्परः । स्नानादीनि तथा राजन्प्रयतः शुचिमानसः ॥ १६७.१८ ॥ ज्येष्ठे मासि सिते पक्षे चतुर्दश्यामुपोषितः । द्वादश्यां कारयेद्देवपूजनं वैष्णवो नरः ॥ १६७.१९ ॥ एवं कृत्वा चतुर्दश्यामेकादश्यां नरोत्तम । वैष्णवं लोकमाप्नोति विष्णुतुल्यो भवेन्नरः ॥ १६७.२० ॥ माहेश्वरे च राजेन्द्र गणवन्मोदते पुरे । श्राद्धं च कुरुते तत्र पित्ःनुद्दिश्य सुस्थिरः ॥ १६७.२१ ॥ तस्य ते ह्यक्षयां तृप्तिं प्राप्नुवन्ति न संशयः । नर्मदायां द्विजः स्नात्वा मौनी नियतमानसः ॥ १६७.२२ ॥ उपास्य सन्ध्यां तत्रस्थो जपं कृत्वा सुशोभनम् । तर्पयित्वा पित्ःन्देवान्मनुष्यांश्च यथाविधि ॥ १६७.२३ ॥ कृष्णस्य पुरतः स्थित्वा मार्कण्डेशस्य वा पुनः । ऋग्यजुःसाममन्त्रांश्च जपेदत्र प्रयत्नतः ॥ १६७.२४ ॥ ऋचमेकां जपेद्यस्तु ऋग्वेदस्य फलं लभेत् । यजुर्वेदस्य यजुषा साम्ना सामफलं लभेत् ॥ १६७.२५ ॥ एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता । मृतप्रजा तु या नारी वन्ध्या स्त्रीजननी तथा ॥ १६७.२६ ॥ रुद्रांस्तु विधिवज्जप्त्वा ब्राह्मणो वेदतत्त्ववित् । लिङ्गस्य दक्षिणे पार्श्वे स्थापयेत्कलशं शिवम् ॥ १६७.२७ ॥ रुद्रैकादशभिर्मन्त्रैः स्नापयेत्कलशाम्भसा । पुत्रमाप्नोति राजेन्द्र दीर्घायुषमकल्मषम् ॥ १६७.२८ ॥ मार्कण्डेश्वरवृक्षान्यो दूरस्थानपि पश्यति । ब्रह्महत्यादिपापेभ्यो मुच्यते शङ्करोऽब्रवीत् ॥ १६७.२९ ॥ य इदं शृणुयाद्भक्त्या पठेद्वा नृपसत्तम । सर्वपापविशुद्धात्मा जायते नात्र संशयः ॥ १६७.३० ॥ इदं यशस्यमायुष्यं धन्यं दुःखप्रणाशनम् । पठतां शृण्वतां वापि सर्वपापप्रमोचनम् ॥ १६७.३१ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तषष्ट्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १६८ श्रीमार्कण्डेय उवाच - नर्मदादक्षिणे रोधस्यङ्कूरेश्वरमुत्तमम् । तीर्थं सर्वगुणोपेतं त्रिषु लोकेषु विश्रुतम् ॥ १६८.१ ॥ यत्र सिद्धं महारक्ष आराध्य तु महेश्वरम् । शङ्करं जगतः प्राणं स्मृतिमात्रावहारिणम् ॥ १६८.२ ॥ युधिष्ठिर उवाच - किं तद्रक्षो द्विजश्रेष्ठ किंनाम कस्य वान्वये । एतद्विस्तरतः सर्वं कथयस्व ममानघ ॥ १६८.३ ॥ अज्ञानतिमिरान्धा ये पुमांसः पापकारिणः । युष्मद्विधैर्दीपभूतैः पश्यन्ति सचराचरम् ॥ १६८.४ ॥ धर्मपुत्रवचः श्रुत्वा मार्कण्डेयो मुनीश्वरः । स्मितं कृत्वा बभाषे तां कथां पापप्रणाशनीम् ॥ १६८.५ ॥ मार्कण्डेय उवाच - मानसो ब्रह्मणः पुत्रः पुलस्त्यो नाम पार्थिव । वेदशास्त्रप्रवक्ता च साक्षाद्वेधा इवापरः ॥ १६८.६ ॥ तृणबिन्दुसुता तस्य भार्यासीत्परमेष्ठिनः । तस्य धर्मप्रसङ्गेन पुत्रो जातो महामनाः ॥ १६८.७ ॥ यस्माद्वेदेतिहासैश्च सषडङ्गपदक्रमाः । विश्रान्ता ब्रह्मणा दत्ता नाम विश्रवसेति च ॥ १६८.८ ॥ कस्मिंश्चिदथ काले च भरद्वाजो महामुनिः । स्वसुतां प्रददौ राजन्मुदा विश्रवसे नृप ॥ १६८.९ ॥ स तया रमते सार्धं पौलोम्या मघवा इव । मुदा परमया राजन्ब्राह्मणो वेदवित्तमः ॥ १६८.१० ॥ केनचित्त्वथ कालेन पुत्रः पुत्रगुणैर्युतः । जज्ञे विश्रवसो राजन्नाम्ना वैश्रवणः श्रुतः ॥ १६८.११ ॥ सोऽपि मौनव्रतं कृत्वा बालभावाद्युधिष्ठिर । सर्वभूताभयं दत्त्वा चचार परमं व्रतम् ॥ १६८.१२ ॥ तस्य तुष्टो महादेवो ब्रह्मा ब्रह्मर्षिभिः सह । सखित्वं चेश्वरो दत्त्वा धनदत्वं जगाम ह ॥ १६८.१३ ॥ यमेन्द्रवरुणानां च चतुर्थस्त्वं भविष्यसि । ब्रह्माप्युक्त्वा जगामाशु लोकपालत्वमीप्सितम् ॥ १६८.१४ ॥ ततस्त्वनन्तरे काले कैकसी नाम राक्षसी । पातालं भूतलं त्यक्त्वा विश्रवं चकमे पतिम् ॥ १६८.१५ ॥ पुत्रोऽथ रावणो जातस्तस्या भरतसत्तम । कुम्भकर्णो महारक्षो धर्मात्मा च विभीषणः ॥ १६८.१६ ॥ कुम्भश्चैव विकुम्भश्च कुम्भकर्णसुतावुभौ । महाबलौ महावीर्यौ महान्तौ पुरुषोत्तम ॥ १६८.१७ ॥ अङ्कूरो राक्षसश्रेष्ठः कुम्भस्य तनयो महान् । विभीषणं च गुणवद्दृष्ट्वैवं राक्षसोत्तमः ॥ १६८.१८ ॥ ततः स यौवनं प्राप्य ज्ञात्वा रक्षः पितामहम् । परं निर्वेदमापन्नश्चचार सुमहत्तपः ॥ १६८.१९ ॥ दक्षिणं पश्चिमं गत्वा सागरं पूर्वमुत्तरम् । नर्मदायां प्रसङ्गेन ह्यङ्कूरो राक्षसेश्वरः ॥ १६८.२० ॥ तपश्चचार सुमहद्दिव्यं वर्षशतं किल । ततस्तुष्टो महादेवः साक्षात्परपुरंजयः ॥ १६८.२१ ॥ वरेण छन्दयामास राक्षसं वृषकेतनः । वरं वृणीष्व भद्रं ते तव दास्यामि सुव्रत ॥ १६८.२२ ॥ प्रोवाच राक्षसो वाक्यं देवदेवं महेश्वरम् । वरदं सोऽग्रतो दृष्ट्वा प्रणम्य च पुनःपुनः ॥ १६८.२३ ॥ यदि तुष्टो महादेव वरदोऽसि सुरेश्वर । दुर्लभं सर्वभूतानाममरत्वं प्रयच्छ मे ॥ १६८.२४ ॥ मम नाम्ना स्थितोऽनेन वरेण त्रिपुरान्तक । सदा संनिहितोऽप्यत्र तीर्थे भवितुमर्हसि ॥ १६८.२५ ॥ ईश्वर उवाच - यावद्विभीषणमतं यावद्धर्मनिषेवणम् । करिष्यसि दृढात्मा त्वं तावदेतद्भविष्यति ॥ १६८.२६ ॥ एवमुक्त्वा ययौ देवः सर्वदैवतपूजितः । विमानेनार्कवर्णेन कैलासं धरणीधरम् ॥ १६८.२७ ॥ गते चादर्शनं देवे स्नात्वाचम्य विधानतः । स्थापयामास राजेन्द्र ह्यङ्कूरेश्वरमुत्तमम् ॥ १६८.२८ ॥ गन्धपुष्पैस्तथा धूपैर्वस्त्रालङ्कारभूषणैः । पताकैश्चामरैश्छत्रैर्जयशब्दादिमंगलैः ॥ १६८.२९ ॥ पूजयित्वा सुरेशानं स्तोत्रैर्हृद्यैः सुपुष्कलैः । जगाम भवनं रक्षो यत्र राजा विभीषणः ॥ १६८.३० ॥ पूजितः स यथान्यायं दानसन्मानगौरवैः । सौदर्ये स्थापितो भावे सोऽवात्सीत्परयामुदा ॥ १६८.३१ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् । अङ्कूरेश्वरनामानं सोऽश्वमेधफलं लभेत् ॥ १६८.३२ ॥ माण्डव्यखातमारभ्य सङ्गमं वापि यच्छुभम् । रेवाया आमलक्याश्च देवक्षेत्रं महेश्वरम् ॥ १६८.३३ ॥ माण्डव्यखातात्पश्चिमतस्तीर्थं तदङ्कूरेश्वरम् । तत्र तीर्थे नरः स्नात्वा शुचिः प्रयतमानसः ॥ १६८.३४ ॥ सन्ध्यामाचम्य यत्नेन जपं कृत्वाथ भारत । तर्पयित्वा पित्ःन्देवान्मनुष्यान् भरतर्षभ ॥ १६८.३५ ॥ सचैलः क्लिन्नवसनो मौनमास्थाय संयतः । अष्टम्यां वा चतुर्दश्यामुपोष्य विधिवन्नरः ॥ १६८.३६ ॥ पूजां यः कुरुते राजंस्तस्य पुण्यफलं शृणु । साग्रं तु योजनशतं तीर्थान्यायतनानि च ॥ १६८.३७ ॥ भवन्ति तानि दृष्टानि ततः पापैः प्रमुच्यते । तत्र तीर्थे तु यद्दानं देवमुद्दिश्य दीयते ॥ १६८.३८ ॥ स्नात्वा तु विधिवत्पात्रे तदक्षयमुदाहृतम् । होमाद्दशगुणं प्रोक्तं फलं जाप्ये ततोऽधिकम् ॥ १६८.३९ ॥ त्रिगुणं चोपवासेन स्नानेन च चतुर्गुणम् । संन्यासं कुरुते यस्तु प्राणत्यागं करोति वा ॥ १६८.४० ॥ अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् । कृमिकीटपतङ्गानां तत्र तीर्थे युधिष्ठिर । अङ्कूरेश्वरनामाख्ये मृतानां सुगतिर्भवेत् ॥ १६८.४१ ॥ एतत्ते कथितं राजन्नङ्कूरेश्वरसम्भवम् । तीर्थं सर्वगुणोपेतं परमं पापनाशनम् ॥ १६८.४२ ॥ येऽपि शृण्वन्ति भक्त्येदं कीर्त्यमानं महाफलम् । लभन्ते नात्र सन्देहः शिवस्य भुवनं हि ते ॥ १६८.४३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अङ्कूरेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टषष्ट्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १६९ श्रीमार्कण्डेय उवाच - ततो गच्छेत्परं तीर्थं पुण्यं पापप्रणाशनम् । माण्डव्यो यत्र संसिद्ध ऋषिर्नारायणस्तथा ॥ १६९.१ ॥ नारायणेन शुश्रूषा शूलस्थेन कृता पुरा । तत्र स्नात्वा महाराज मुच्यते पापकञ्चुकात् ॥ १६९.२ ॥ युधिष्ठिर उवाच - आश्चर्यमेतल्लोकेषु यत्त्वया कथितं मुने । न दृष्टं न श्रुतं तात शूलस्थेन तपः कृतम् ॥ १६९.३ ॥ एतत्सर्वं कथय मे ऋषिभिः सहितस्य वै । अस्य तीर्थस्य माहात्म्यं माण्डव्यस्य कुतूहलात् ॥ १६९.४ ॥ श्रीमार्कण्डेय उवाच - शृणु राजन्यथावृत्तपुरा त्रेतायुगे क्षितौ । लोकपालोपमो राजा देवपन्नो महामतिः ॥ १६९.५ ॥ धर्मज्ञश्च कृतज्ञश्च यज्वा दानरतः सदा । प्रजा ररक्ष यत्नेन पिता पुत्रानिवौरसान् ॥ १६९.६ ॥ दात्यायनी प्रिया भार्या तस्य राज्ञो वशानुगा । हारनूपुरघोषेण झङ्काररवनादिता ॥ १६९.७ ॥ परस्परं तयोः प्रीतिर्वर्धतेऽनुदिनं नृप । वंशस्तम्बे स्थितो राजा संशास्ति पृथिवीमिमाम् ॥ १६९.८ ॥ हस्त्यश्वरथसम्पूर्णां धनवाहनसंयुताम् । अलंकृतो गुणैः सर्वैरनपत्यो महीपतिः ॥ १६९.९ ॥ दुःखेन महताविष्टः संतप्तः सन्ततिं विना । स्नानहोमरतो नित्यं द्वादशाब्दानि भारत ॥ १६९.१० ॥ व्रतोपवासनियमैः पत्नीभिः सह तस्थिवान् । आराधयद्भगवतीं चामुण्डां मुण्डमर्दिनीम् ॥ १६९.११ ॥ स्तोत्रैरनेकैर्भक्त्या च पूजाविधिसमाधिना । जय वाराहि चामुण्डे जय देवि त्रिलोचने ॥ १६९.१२ ॥ ब्राह्मि रौद्रि च कौमारि कात्यायनि नमोऽस्तु ते । प्रचण्डे भैरवे रौद्रि योगिन्याकाशगामिनि ॥ १६९.१३ ॥ नास्ति किंचित्त्वया हीनं त्रैलोक्ये सचराचरे । राज्ञा स्तुता च संतुष्टा देवी वचनमब्रवीत् ॥ १६९.१४ ॥ वरयस्व यथाकामं यस्ते मनसि वर्तते । आराधिता त्वया भक्त्या तुष्टा दास्यामि ते वरम् ॥ १६९.१५ ॥ देवपन्न उवाच - यदि तुष्टासि देवेशि वरार्हो यदि वाप्यहम् । पुत्रसन्तानरहितं संतप्तं मां समुद्धर ॥ १६९.१६ ॥ सन्तानं नय मे वृद्धिं गोत्ररक्षां कुरुष्व मे । अपुत्रिणां गृहाणीह श्मशानसदृशानि हि ॥ १६९.१७ ॥ पितरस्तस्य नाश्नन्ति देवता ऋषिभिः सह । क्रियमाणेऽप्यहरहः श्राद्धे मत्पितरः सदा ॥ १६९.१८ ॥ दर्शयन्ति सदात्मानं स्वप्ने क्षुत्पीडितं मम । इति राज्ञो वचः श्रुत्वा देवी ध्यानमुपागता ॥ १६९.१९ ॥ दिव्येन चक्षुषा दृष्टं त्रैलोक्यं सचराचरम् । प्रसन्नवदना देवी राजानमिदमब्रवीत् ॥ १६९.२० ॥ सन्तानं नास्ति ते राजंस्त्रैलोक्ये सचराचरे । यजस्व यज्ञपुरुषमपत्यं नास्ति तेऽन्यथा ॥ १६९.२१ ॥ मया दृष्टं महीपाल त्रैलोक्यं दिव्यचक्षुषा । एवमुक्त्वा गता देवी राजा स्वगृहमागमत् ॥ १६९.२२ ॥ इयाज यज्ञपुरुषं संजाता कन्यका ततः । तेजस्विनी रूपवती सर्वलोकमनोहरा ॥ १६९.२३ ॥ देवगन्धर्वलोकेऽपि तादृशी नास्ति कामिनी । तस्या नाम कृतं पित्रा हर्षात्कामप्रमोदिनी ॥ १६९.२४ ॥ ततः कालेन ववृधे रूपेणास्तम्भयज्जगत् । हंसलीलागतिः सुभ्रूः स्तनभारावनामिता ॥ १६९.२५ ॥ रक्तमाल्याम्बरधरा कुण्डलाभरणोज्ज्वला । दिव्यानुलेपनवती सखीभिः सा सुरक्षिता ॥ १६९.२६ ॥ कुचमध्यगतो हारो विद्युन्मालेव राजते । भ्रमराञ्चितकेशी सा बिम्बोष्ठी चारुहासिनी ॥ १६९.२७ ॥ कर्णान्तप्राप्तनेत्राभ्यां पिबन्तीवाथ कामिनः । चन्द्रताम्बूलसौरभ्यैराकर्षन्तीव मन्मथम् ॥ १६९.२८ ॥ कम्बुग्रीवा चारुमध्या ताम्रपादाङ्गुलीनखा । निम्ननाभिः सुजघना रम्भोरू सुदती शुभा ॥ १६९.२९ ॥ मातापितृसुहृद्वर्गे क्रीडानन्दविवर्धिनी । एकस्मिन्दिवसे बाला सखीवृन्दसमन्विता ॥ १६९.३० ॥ चन्दनागरुतांबूलधूपसौमनसाञ्चिता । गृहीत्वा पुष्पधूपादि गता देवीप्रपूजने ॥ १६९.३१ ॥ तडागतट उत्सृज्य भूषणान्यङ्गवेष्टकान् । चक्रुः सरसिताः क्रीडां जलमध्यगतास्तदा ॥ १६९.३२ ॥ क्रीडन्तीं तामवेक्ष्याथ ससखीं विमले जले । राक्षसः शम्बरो नाम श्येनरूपेण चागमत् ॥ १६९.३३ ॥ गृहीता जलमध्यस्था तेन सा काममोदिनी । खमुत्पपात दुष्टात्मा गृहीत्वाभरणान्यपि ॥ १६९.३४ ॥ वायुमार्गं गतः सोऽथ कामिन्या सह भारत । अपतन्कुण्डलादीनि यत्र तोये महामुनिः ॥ १६९.३५ ॥ माण्डव्यो नर्मदातीरे काष्ठवत्संजितेन्द्रियः । लीनो माहेश्वरे स्थाने नारायणपदे परे ॥ १६९.३६ ॥ तस्य चानुचरो भ्राता भ्रातुः शुश्रूषणे रतः । तपोजपकृशीभूतो दध्यौ देवं जनार्दनम् ॥ १६९.३७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे काममोदिनीहरणवर्णनं नामैकोनसप्तत्यधिशततमोऽध्यायः ॥ ऋKV अध्याय १७० श्रीमार्कण्डेय उवाच - कामप्रमोदिनीसख्यो नीयमानां च तेन तु । दृष्ट्वा ताश्चुक्रुशुः सर्वा निःसृत्य जलमध्यतः ॥ १७०.१ ॥ गता राजगृहे सर्वाः कथयन्ति सुदुःखिताः । कामप्रमोदिनी राजन्हृता श्येनेन पक्षिणा ॥ १७०.२ ॥ क्रीडन्ती च जलस्थाने तडागे देवसन्निधौ । अन्वेष्या च त्वया राजंस्तस्य मार्गं विजानता ॥ १७०.३ ॥ तासां तद्वचनं श्रुत्वा देवपन्नः सुदुःखितः । हाहेत्युक्त्वा समुत्थाय रुदमानो वरासनात् ॥ १७०.४ ॥ मन्त्रिभिः सहितस्तस्मिंस्तडागे जलसन्निधौ । न चिह्नं न च पन्थानं दृष्ट्वा दुःखान्मुमोह च ॥ १७०.५ ॥ तस्य राज्ञस्तु दुःखेन दुःखितो नागरो जनः । क्षणेनाश्वासितो राजा मन्त्रिभिः सपुरोहितैः ॥ १७०.६ ॥ किं कुर्म इत्युवाचेदमस्मिन्काले विधीयताम् । सर्वैस्तत्संविदं कृत्वा वाहिनीं चतुरङ्गिणीम् ॥ १७०.७ ॥ प्रेषयामि दिशः सर्वा हस्त्यश्वरथसंकुला । वादित्राणि च वाद्यन्ते व्याकुलीभूतसंकुले ॥ १७०.८ ॥ नाराचैस्तोमरैर्भल्लैः खड्गैः परश्वधादिभिः । राजा संनाहबद्धोऽभूद्गनं ग्रसते किल ॥ १७०.९ ॥ न देवो न च गन्धर्वो न दैत्यो न च राक्षसः । किं करिष्यति राजाद्य न जाने रोषनिष्कृतिम् ॥ १७०.१० ॥ नागरोऽपि जनस्तत्र दृष्ट्वा चकितमानसः । चतुर्दशसहस्राणि दन्तिनां सृणिधारिणाम् ॥ १७०.११ ॥ अश्वारोहसहस्राणि ह्यशीतिः शस्त्रपाणिनाम् । रथानां त्रिसहस्राणि विंशतिर्भरतर्षभ ॥ १७०.१२ ॥ सङ्ग्रामभेरीनिनदैः खुररेणुर्नभोगता । एतस्मिन्नन्तरे तात रक्षको नगरस्य हि ॥ १७०.१३ ॥ गृहीत्वाभरणं तस्यास्त्वङ्गप्रत्यङ्गिकं तथा । कुण्डलाङ्गदकेयूरहारनूपुरझल्लरीः ॥ १७०.१४ ॥ निवेद्याकथयद्राज्ञे मया दृष्टं त्ववेक्षणात् । तापसानामाश्रमे तु माण्डव्यो यत्र तिष्ठति ॥ १७०.१५ ॥ तापसैर्वेष्टितो यत्र ददृशे तत्र सन्निधौ । दण्डवासिवचः श्रुत्वा प्रत्यक्षाङ्गविभूषणम् ॥ १७०.१६ ॥ स क्रोधरक्तनयनो मन्त्रिणो वीक्ष्य नैगमान् । ईदृग्भूतसमाचारो ब्राह्मणो नगरे मम ॥ १७०.१७ ॥ चौरचर्यां व्रतच्छन्नः परद्रव्यापहरकः । तेन कन्या हृता मेऽद्य तपस्विपापकर्मिणा ॥ १७०.१८ ॥ शाकुन्तं रूपमास्थाय जलस्थो गगनं ययौ । पाखण्डिनो विकर्मस्थान् बिडालव्रतिकाञ्छठान् ॥ १७०.१९ ॥ चाटुतस्करदुर्वृत्तान् हन्यान्नस्त्यस्य पातकम् । न द्रष्टव्यो मया पापः स्तेयी कन्यापहारकः ॥ १७०.२० ॥ शूलमारोप्यतां क्षिप्रं न विचारस्तु तस्य वै । स च वध्यो मया दुष्टो रक्षोरूपी तपोधनः ॥ १७०.२१ ॥ एवं ब्रुवंश्चलन्क्रोधादादिश्य दण्डवासिनम् । कार्याकार्यं न विज्ञाय शूलमारोपयद्द्विजम् ॥ १७०.२२ ॥ पौरा जानपदाः सर्वे अश्रुपूर्णमुखास्तदा । हाहेत्युक्त्वा रुदन्त्यन्ये वदन्ति च पृथक्पृथक् ॥ १७०.२३ ॥ कुत्सितं च कृतं कर्म राज्ञा चण्डालचारिणा । ब्राह्मणो नैव वध्यो हि विशेषेण तपोवृतः ॥ १७०.२४ ॥ यदि रोषसमाचारो निर्वास्यो नगराद्बहिः । न जातु ब्राह्मणं हन्यात्सर्वपापेऽप्यवस्थितम् ॥ १७०.२५ ॥ राष्ट्रादेनं बहिष्कुर्यात्समग्रधनमक्षतम् । नाश्नाति च गृहे राजन्नाग्निर्नगरवासिनाम् । सर्वेऽप्युद्विग्नमनसो गृहव्याप्तिविवर्जिताः ॥ १७०.२६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे माण्डव्यशूलारोपणवर्णनं नाम सप्तत्यधिकशततमोऽध्यायः ॥ ऋKV अध्याय १७१ श्रीमार्कण्डेय उवाच - कथितं ब्राह्मणं द्रष्टुं शूले क्षिप्तं तपोधनैः । नारायणसमीपे तु गताः सर्वे महर्षयः ॥ १७१.१ ॥ नारदो देवलो रैभ्यो यमः शातातपोऽङ्गिराः । वसिष्ठो जमदग्निश्च याज्ञवल्क्यो बृहस्पतिः ॥ १७१.२ ॥ कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽरुणिर्मुनिः । वालखिल्यादयोऽन्ये च सर्वेऽप्यृषिगणान्वयाः ॥ १७१.३ ॥ ददृशुः शूलमारूढं माण्डव्यमृषिपुंगवाः । प्रोचुर्नारायणं विप्रं किं कुर्मस्तव चेप्सितम् ॥ १७१.४ ॥ सर्वे ते तत्र सांनिध्यान्माण्डव्यस्य महात्मनः । संभ्रान्ता आगता ऊचुः किं मृतः किं नु जीवति ॥ १७१.५ ॥ अवस्थां तस्य ते दृष्ट्वा विषादमगमन्परम् । असहित्वा तु तद्दुःखं सर्वे ते मनसा द्विजाः ॥ १७१.६ ॥ पृच्छयतां यदि मन्येत राजानं भस्मसात्कुरु । तेषां तद्वचनं श्रुत्वा वाक्यं नारायणोऽब्रवीत् ॥ १७१.७ ॥ मयि जीवति मद्भ्राता ह्यवस्थामीदृशीं गतः । धिग्जीवितं च मे किंतु तपसो विद्यते फलम् ॥ १७१.८ ॥ दृष्ट्वा शूलस्थितं ज्येष्ठं मन्मनो नु विदीर्यते । परं किं तु करिष्यामि येन राष्ट्रं सराजकम् ॥ १७१.९ ॥ भस्मसाच्च करोम्यद्य भवद्भिः क्षम्यतामिह । एवमुक्त्वा गृहीत्वासौ करस्थमभिमन्त्रयेत् ॥ १७१.१० ॥ क्रोधेन पश्यते यावत्तावद्धुंकारकोऽभवत् । तेन हुङ्कारशब्देन ऋषयो विस्मितास्तदा ॥ १७१.११ ॥ माण्डव्यस्य समीपे तु ह्यपृच्छंस्ते द्विजोत्तमाः । निवारयसि किं विप्र शापं नृपजिघांसनम् ॥ १७१.१२ ॥ अपापस्य तु येनेह कृतमस्य जिघांसनम् । ऋषीणां वचनं श्रुत्वा कृच्छ्रान्माण्डव्यकोऽब्रवीत् ॥ १७१.१३ ॥ अभिवन्दामि वो मूर्ध्ना स्वागतं ऋषयः सदा । अर्घ्यसन्मानपूजार्हाः सर्वेऽत्रोपविशन्तु ते ॥ १७१.१४ ॥ निविष्टैकाग्रमनसा सर्वान्माण्डव्यकोऽब्रवीत् ॥ १७१.१५ ॥ प्राप्तं दुःखं मया घोरं पूर्वजन्मार्जितं फलम् । मा विषादं कुरुध्वं भोः कृतं पापं तु भुज्यते ॥ १७१.१६ ॥ ऋषय ऊचुः । केन कर्मविपाकेन इह जात्यन्तरं व्रजेत् । दानधर्मफलेनैव केन स्वर्गं च गच्छति ॥ १७१.१७ ॥ माण्डव्य उवाच - अदत्तदाना जायन्ते परभाग्योपजीविनः । न स्नानं न जपो होमो नातिथ्यं न सुरार्चनम् ॥ १७१.१८ ॥ न पर्वणि पितृश्राद्धं न दानं द्विजसत्तमाः । व्रजन्ति नरके घोरे यान्ति ते त्वन्त्यजां गतिम् ॥ १७१.१९ ॥ पुनर्दरिद्राः पुनरेव पापाः पापप्रभावान्नरके वसन्ति । तेनैव संसरिणि मर्त्यलोके जीवादिभूते कृमयः पतङ्गाः ॥ १७१.२० ॥ ये स्नानशीला द्विजदेवभक्ता जितेन्द्रिया जीवदयानुशीलाः । ते देवलोकेषु वसन्ति हृष्टा ये धर्मशीला जितमानरोषाः ॥ १७१.२१ ॥ विद्याविनीता न परोपतापिनः स्वदारतुष्टाः परदारवर्जिताः । तेषां न लोके भयमस्ति किंचित्स्वभावशुद्धा गतकल्मषा हि ते ॥ १७१.२२ ॥ ऋषय ऊचुः । पूर्वजन्मनि विप्रेन्द्र किं त्वया दुष्कृतं कृतम् । येन कष्टमिदं प्राप्तं सन्धानं शूलगर्हितम् ॥ १७१.२३ ॥ शूलस्थं त्वां समालक्ष्य ह्यागताः सर्व एव हि । जीवन्तं त्वां प्रपश्याम त्वन्तरन्नवतारयन् । रुजासंतापजं दुःखं सोढ्वापि त्वमवेदनः ॥ १७१.२४ ॥ माण्डव्य उवाच - स्वयमेव कृतं कर्म स्वयमेवोपभुज्यते । सुकृतं दुष्कृतं पूर्वे नान्ये भुञ्जन्ति कर्हिचित् ॥ १७१.२५ ॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमुपगच्छति ॥ १७१.२६ ॥ न माता न पिता भ्राता न भार्या न सुताः सुहृत् । न कस्य कर्मणां लेपः स्वयमेवोपभुज्यते ॥ १७१.२७ ॥ श्रूयतां मम वाक्यं च भवद्भिः पृच्छितो ह्यहम् । पूर्वे वयसि भो विप्रा मलस्नानकृतक्षणः ॥ १७१.२८ ॥ अज्ञानाद्बालभावेन यूका कण्टेऽधिरोपिता । तैलाभ्यक्तशिरोगात्रे मया यूका घृता न हि ॥ १७१.२९ ॥ कङ्कतीं रोप्य केशेषु सासा कण्टेऽधिरोपिता । तेषु पापं कृतं सद्यः फलमेतन्ममाभवत् ॥ १७१.३० ॥ किंचित्कालं क्षपित्वाहं प्राप्स्ये मोक्षं निरामयम् । भवन्तस्त्विह सन्तापं मां कुरुध्वं महर्षयः ॥ १७१.३१ ॥ इमामवस्थां भुक्त्वाहं कंचिच्छपे न चोच्चरे । अहनि कतिचिच्छूले क्षपयिष्यामि किल्बिषम् ॥ १७१.३२ ॥ प्राक्तनं कर्म भुञ्जामि यन्मया संचितं द्विजाः । क्षन्तव्यमस्य राज्ञोऽथ कोपश्चैव विसर्ज्यताम् ॥ १७१.३३ ॥ श्रुत्वा तु तस्य तद्वाक्यं माण्डव्यस्य महर्षयः । प्रहर्षमतुलं लब्ध्वा साधु साध्वित्यपूजयन् ॥ १७१.३४ ॥ नारायण उवाच - इदं जलं मन्त्रपूतं कस्मिन्स्थाने क्षिपाम्यहम् । येन राजा भवेद्भस्म सराष्ट्रः सपुरोहितः ॥ १७१.३५ ॥ माण्डव्य उवाच - इदं जलं च रक्षस्व कालकूटविषोपमम् । समुद्रे क्षिपयिष्यामि देवकार्यं समुत्थितम् ॥ १७१.३६ ॥ अथ ते मुनयः सर्वे माण्डव्यं प्रणिपत्य च । आमन्त्रयित्वा हर्षाच्च कश्यपाद्या गृहान्ययुः ॥ १७१.३७ ॥ गच्छमानास्तु ते चोक्ताः पञ्चमेऽहनि तापसाः । आगन्तव्यं भवद्भिश्च मत्सकाशं प्रतिज्ञया ॥ १७१.३८ ॥ तथेति ते प्रतिज्ञाय नारदाद्या अदर्शनम् । गतेषु विप्रमुख्येषु शाण्डिली च तपोधना ॥ १७१.३९ ॥ द्वितीयेऽह्नि समायाता न तु बुद्ध्वाथ तं ऋषिम् । भर्तारं शिरसा धार्य रात्रौ पर्यटते स्म सा ॥ १७१.४० ॥ न दृष्टः शूलके विप्रो भराक्रान्त्या युधिष्ठिर । स्खलिता तस्य जानुभ्यां शूलस्थस्य पतिव्रता ॥ १७१.४१ ॥ सर्वाङ्गेषु व्यथा जाता तस्याः प्रस्खलनान्मुनेः । ईदृशीं वर्तमानां च ह्यवस्थां पूर्वदैविकीम् ॥ १७१.४२ ॥ पुनः पापफलं किंचिद्धा कष्टं मम वर्तते । व्यथितोऽहं त्वया पापे किमर्थं सूनकर्मणि ॥ १७१.४३ ॥ स्वैरिणीं त्वां प्रपश्यामि राक्षसी तस्करी नु किम् । एवमुक्त्वा क्षणं मोहात्क्रन्दमानो मुहुर्मुहुः ॥ १७१.४४ ॥ तपस्विनोऽथ ऋषयः सर्वे संत्रस्तमानसाः । पश्यमाना मुनेः कष्टं पृच्छन्ते ते युधिष्ठिर ॥ १७१.४५ ॥ पर्यटसे किमर्थं त्वं निशीये वहनं नु किम् । क्षिप्तं तु झोलिकाभारं किंवागमनकारणम् । व्यथामुत्पाद्य ऋषये दुःखाद्दुःखविलासिनि ॥ १७१.४६ ॥ शाण्डिल्युवाच - नासुरीं न च गन्धर्वीं न पिशाचीं न राक्षसीम् । पतिव्रतां तु मां सर्वे जानन्तु तपसि स्थिताम् ॥ १७१.४७ ॥ न मे कामो न मे क्रोधो न वैरं न च मत्सरः । अज्ञानाद्दृष्टिमान्द्याच्च स्खलनं क्षन्तुमर्हथ ॥ १७१.४८ ॥ वहनं भर्तृसौख्याय दिवा सम्पीड्यते रुजा । अयं भर्ता विजानीथ झोलिकासंस्थितः सदा ॥ १७१.४९ ॥ भरणं पानं वस्त्रं च ददाम्येतस्य रोगिणः । ऋषिः शौनकमुख्योऽसौ शाण्डिलीं मां विजानत ॥ १७१.५० ॥ स्वभर्तृधर्मिणीं कोपं मा कुरुष्वातिथिं कुरु । सतां समीपं सम्प्राप्तां सर्वं मे क्षन्तुमर्हथ ॥ १७१.५१ ॥ ऋषय ऊचुः । परव्यथां न जानीषे व्यचरन्ती यदृच्छया । प्रभातेऽभ्युदिते सूर्ये तव भर्ता मरिष्यति ॥ १७१.५२ ॥ आत्मदुःखात्परं दुःखं न जानासि कुलाधमे । तेन वाक्येन घोरेण शाण्डिली विमनाभवत् ॥ १७१.५३ ॥ परं विषादमापन्ना क्षणं ध्यात्वाब्रवीद्वचः । कोपात्संरक्तनयना निरीक्षन्ती मुनींस्तदा ॥ १७१.५४ ॥ सतां गेहे किल प्राप्ता भवतां चापकारिणी । सामेनातिथिपूजायां शिष्टे च गृहमागते ॥ १७१.५५ ॥ भवद्भिरीदृगातिथ्यं कृतं चैव ममैव तु । स्वर्गापवर्गधर्मश्च भवद्भिर्न निरीक्षितम् ॥ १७१.५६ ॥ प्राजापत्यामिमां दृष्ट्वा मां यथा प्राकृताः स्त्रियः । भवन्तः स्त्रीबलं मेऽद्य पश्यन्तु दिवि देवताः ॥ १७१.५७ ॥ मरिष्यति न मे भर्ता ह्यादित्यो नोदयिष्यति । अन्धकारं जगत्सर्वं क्षीयते नाद्य शर्वरी ॥ १७१.५८ ॥ एवमुक्ते तया वाक्ये स्तम्भितेऽर्के तमोमयम् । न च प्रजायते सर्वं निर्वषट्कारसत्क्रियम् ॥ १७१.५९ ॥ स्वाहाकारः स्वधाकारः पञ्चयज्ञविधिर्नहि । स्नानं दानं जपो नास्ति सन्ध्यालोपव्यतिक्रमः । षण्मासं च तदा पार्थ लुप्तपिण्डोदकक्रियम् ॥ १७१.६० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शाण्डिलीऋषिसंवादवर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १७२ श्रीमार्कण्डेय उवाच - अथ ते ऋषयः सर्वे देवाश्चेन्द्रपुरोगमाः । माण्डव्यस्याश्रमे पुण्ये समीयुर्नर्मदातटे ॥ १७२.१ ॥ शङ्खदुन्दुभिनादेन दीपिकाज्वलनेन च । अप्सरोगीतनादेन नृत्यन्त्यो वारयोषितः ॥ १७२.२ ॥ कथानकैः स्तुवत्यन्ये तस्य शूलाग्रधारिणः । अष्टाशीतिसहस्राणि स्नातकानां तपस्विनाम् ॥ १७२.३ ॥ समाजे त्रिदशैः सार्द्धं तत्र ते च दिदृक्षया । ब्रह्मविष्णुमहेशानास्तत्र हर्षात्समागताः ॥ १७२.४ ॥ मातरो मल्लिकाद्याश्च क्षेत्रपाला विनायकाः । दिक्पाला लोकपालाश्च गङ्गाद्याश्च सरिद्वराः ॥ १७२.५ ॥ ऋषिदेवसमाजे तु नित्यं हर्षप्रमोदने । तत्र राजा समायातः पौरजानपदैः सह ॥ १७२.६ ॥ दृष्ट्वा कौतूहलं तत्र व्याकुलीकृतमानसम् । वित्रस्तमनसो भूत्वा भयात्सर्वे समास्थिताः ॥ १७२.७ ॥ तस्मिन्समागमे दिव्ये ब्रह्मविष्ण्वीशमब्रुवन् । भो माण्डव्य महासत्त्व वरदास्तेऽमरैः सह ॥ १७२.८ ॥ अनेककष्टतपसा तव सिद्धिर्भविष्यति । प्रार्थयस्व यथाकामं यस्ते मनसि रोचते ॥ १७२.९ ॥ अनादित्यमयं लोकं निर्वषट्कारमाकुलम् । नष्टधर्मं विजानीहि प्रकृतिस्थं कुरुष्व च । अनुग्रहं तु शाण्डिल्याः प्रार्थयाम द्विजोत्तम ॥ १७२.१० ॥ एष ते कष्टदो राजा समायातस्तवाग्रतः । संभूषयस्व विप्रर्षे जनं देवासुरं गणम् ॥ १७२.११ ॥ माण्डव्य उवाच - यदि प्रसन्ना मे देवाः समायाताः सुरैः सह । त्रिकालमत्र तीर्थे च स्थातव्यमृषिभिः सह ॥ १७२.१२ ॥ भवतां तु प्रसादेन रुजा मे शाम्यतां सदा । एवमस्त्विति देवेशा यावज्जल्पन्ति पाण्डव ॥ १७२.१३ ॥ तावद्रक्षो गृहीत्वाऽग्रे कन्यां कामप्रमोदिनीम् । उवाच भगवञ्छापं पुरा दत्त्वोर्वशी मम ॥ १७२.१४ ॥ यदा कन्यां हरे रक्षःशापान्तस्ते भविष्यति । तेन मे गर्हितं कर्म शापेनाकृतबुद्धिना ॥ १७२.१५ ॥ क्षन्तव्यमिति चोक्त्वा च गतश्चादर्शनं पुनः । गते चैव तु सा कन्या दृष्ट्वा पद्मदलेक्षणा ॥ १७२.१६ ॥ मन्त्रयित्वा सुरैः सर्वैर्दत्ता माण्डव्यधीमते । तां वज्रशूलिकां प्लाव्य पवित्रैर्नर्मदोदकैः ॥ १७२.१७ ॥ माण्डव्यमृषिमुत्तार्य जयशब्दादिमङ्गलैः । विवाहयित्वा तां कन्यां माण्डव्यर्षिपुंगवः ॥ १७२.१८ ॥ अभिवाद्य च तान् सर्वान् दानसन्मानगौरवैः । अथ राजा समीपस्थो रत्नैश्च विविधैरपि ॥ १७२.१९ ॥ धिग्वादैर्निन्दितः सर्वैस्तैर्जनैर्भूषितः पुनः । राज्ञा च ब्राह्मणाः सर्वे भूषणाच्छादनाशनैः ॥ १७२.२० ॥ सुवर्णकोटिदानेन तुष्टान्कृत्वा क्षमापिताः । वृत्ते विवाह आहूय शाण्डिलीं तामथाब्रवीत् ॥ १७२.२१ ॥ मानयस्व इमान् विप्रान्मोचयस्व दिवाकरम् । अपहृत्य तमो येन कृपा सद्यः प्रवर्तते ॥ १७२.२२ ॥ ऋषीणां वचनं श्रुत्वा शाण्डिली दुःखिताब्रवीत् । उदितेऽर्के तु मे भर्ता मृत्युं यास्यति भो द्विजाः ॥ १७२.२३ ॥ तं कथं मोचयामीह ह्यात्मनोऽनिष्टसिद्धये । क्रियाप्रवर्तनाच्चाद्य किं कार्यं मे महर्षयः ॥ १७२.२४ ॥ निःपुंसी स्त्री ह्यनाथाहं भवामि भवतो मतम् । तिष्ठ त्वमन्धकारे तु नेच्छामि रविणोदयम् ॥ १७२.२५ ॥ तेन वाक्येन ते सर्वे देवासुरमहर्षयः । शिरःसंचालनाः सर्वे साधु साध्विति चाब्रुवन् ॥ १७२.२६ ॥ पतिव्रते महाभागे शृणु वाक्यं तपोधने । मन्यसे यदि नः सर्वान्कुरुष्व वचनं च यत् ॥ १७२.२७ ॥ शाण्डिल्युवाच - येन मे न मरेद्भर्ता येन सत्यं मुनेर्वचः । तत्कुरुध्वं विचार्याशु येन संवर्धते सुखम् ॥ १७२.२८ ॥ तस्यास्तद्वचनं श्रुत्वा स्वप्नावस्थाकृतो हृषिः । अन्तर्हितो मुहूर्तं च शाण्डिल्याश्च प्रपश्य ताम् ॥ १७२.२९ ॥ पुनरादाय ते सर्वे कृत्वा निर्व्रणसत्तनुं स्नापितो नर्मदातोये शाण्डिल्यायै समर्पितः ॥ १७२.३० ॥ ततः सा हृष्टमनसा पतिं दृष्ट्वा तु तैजसम् । प्रणम्य तानृषीन् देवान् विमलार्कं जगत्कृतम् ॥ १७२.३१ ॥ क्रियाप्रवर्तिताः सर्वे देवगन्धर्वमानुषाः । हृष्टतुष्टा गताः सर्वे स्वमाश्रमपदं महत् ॥ १७२.३२ ॥ पतिव्रता स्वभर्त्रा सा मासमेवाश्रमे स्थिता । माण्डव्येनाप्यनुज्ञाता ययौ नत्वा स्वमाश्रमम् ॥ १७२.३३ ॥ गतेषु तेषु सर्वेषु स्थापयामास चाच्युतम् । माण्डव्येश्वरनामानं नारायण इति स्मृतम् ॥ १७२.३४ ॥ दिव्यं वर्षसहस्रं तु पूजयामास भारत । गतोऽसावृषिसङ्घैश्च सहितोऽमरपर्वतम् ॥ १७२.३५ ॥ तपस्तपन्तौ तौ तत्र ह्यद्यापि किल भारत । भ्रातरौ संयतात्मानौ ध्यायतः परमं पदम् ॥ १७२.३६ ॥ तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः । पितरस्तस्य तृप्यन्ति पिण्डदानाद्दशाब्दिकम् ॥ १७२.३७ ॥ देवगृहे तु पक्षादौ यः करोति विलेपनम् । गोदानशतसाहस्रे दत्ते भवति यत्फलम् ॥ १७२.३८ ॥ उपलेपनेन द्विगुणमर्चने तु चतुर्गुणम् । दीपप्रज्वलने पुण्यमष्टधा परिकीर्तितम् ॥ १७२.३९ ॥ दिव्यनेत्रधरो भूत्वा त्रैलोक्ये सचराचरे । दध्ना मधुघृतैर्देवं पयसा नर्मदोदकैः ॥ १७२.४० ॥ स्नपनं ये प्रकुर्वन्ति पुष्पमालाविलेपनैः । येऽर्चयन्ति विरूपाक्षं देवं नारायणं हरिम् ॥ १७२.४१ ॥ तेऽपि दिव्यविमानेन क्रीडन्ते कल्पसंख्यया । दीपाष्टकं तु यः कुर्यादष्टमीं च चतुर्दशीम् ॥ १७२.४२ ॥ एकादश्यां तु कृष्णस्य न पश्यन्ति यमं तु ते । फलैर्नानाविधैः शुभ्रैर्यः कुर्याल्लिङ्गपूरणम् ॥ १७२.४३ ॥ तेऽपि यान्ति विमानेन सिद्धचारणसेविताः । घण्टा चैव पताका च विमाने पुष्पमालिका ॥ १७२.४४ ॥ वादित्राणि यथार्हाणि प्रान्ते च गच्छते शिवम् । देवालयं तु यः कुर्याद्वैष्णवं माण्डवेश्वरम् ॥ १७२.४५ ॥ स्वर्गे वसति धर्मात्मा यावदाभूतसम्प्लवम् । माण्डव्यनारायणाख्ये विप्रान् भोजयतेऽग्रतः ॥ १७२.४६ ॥ एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता । आश्विने मासि सम्प्राप्ते शुक्लपक्षे चतुर्दशीम् ॥ १७२.४७ ॥ कृतोपवासनियमो रात्रौ जागरणेन च । दीपमालां चतुर्दिक्षु पूजां कृत्वा तु शक्तितः ॥ १७२.४८ ॥ नारी वा पुरुषो वापि नृत्यगीतप्रवादनैः । प्रभाते विमले सूर्ये स्नानादिकविधिं नृप ॥ १७२.४९ ॥ अभिनिर्वर्त्य मौनेन पश्यते देवमीदृशम् । सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ॥ १७२.५० ॥ अथवा मार्गशीर्षे च चैत्रवैशाखयोरपि । श्रावणे वा महाराज सर्वकालेऽथवापि च ॥ १७२.५१ ॥ शिवरात्रिसमं पुण्यमित्येवं शिवभाषितम् । वाजपेयाश्वमेधाभ्यां फलं भवति नान्यथा ॥ १७२.५२ ॥ दुर्भगा दुःखिता वन्ध्या दरिद्रा च मृतप्रजा । स्नाति रुद्रघटैर्या स्त्री सर्वान्कामानवाप्नुयात् ॥ १७२.५३ ॥ कृमिकीटपतङ्गाश्च तस्मिंस्तीर्थे तु ये मृताः । स्वर्गं प्रयान्ति ते सर्वे दिव्यरूपधरा नृप ॥ १७२.५४ ॥ अनाशके जलेऽग्नौ तु ये मृता व्याधिपीडिताः । अनिवर्तिका गतिस्तेषां रुद्रलोके ह्यसंशयम् ॥ १७२.५५ ॥ नित्यं नमति यो राज शिवनारायणावुभौ । गोदानफलमाप्नोति तस्य तीर्थप्रभावतः ॥ १७२.५६ ॥ देवालये तु राजेन्द्र यश्च कुर्यात्प्रदक्षिणाम् । प्रदक्षिणीकृता तेन ससागरधरा धरा ॥ १७२.५७ ॥ सार्द्धं शतं च तीर्थानि मल्लिकाभवनाद्बहिः । तस्य तीर्थप्रमाणं तु विस्तरं राजसत्तम ॥ १७२.५८ ॥ सूत्रेण वेष्टयेत्क्षेत्रमथवा शिवमन्दिरम् । अथवा शिवलिङ्गं च तस्य पुण्यफलं शृणु ॥ १७२.५९ ॥ जम्बूद्वीपश्च कृतस्नश्च शाल्मली कुशक्रौञ्चकौ । शाकपुष्करगोमेदैः सप्तद्वीपा वसुंधरा ॥ १७२.६० ॥ भूषिता तेन राजेन्द्र सशैलवनकानना । रेवायां दक्षिणे भागे शिवक्षेत्रात्समीपतः ॥ १७२.६१ ॥ देवखातं महापुण्यं निर्मितं त्रिदशैरपि । तस्मिन् यः कुरुते स्नानं मुच्यते सर्वपातकैः ॥ १७२.६२ ॥ पूर्णिमायाममावस्यां व्यतीपातेऽर्कसंक्रमे । श्राद्धं च संग्रहे कुर्यात्स गच्छेत्परमां गतिम् ॥ १७२.६३ ॥ देवखाते त्रयो देवा ब्रह्मविष्णुमहेश्वराः । तिष्ठन्ति ऋषिभिः सार्द्धं पितृदेवगणैः सह ॥ १७२.६४ ॥ तत्र तीर्थेऽश्विने मासि चतुर्दश्यां विशेषतः । वायुमार्गे स्थितः शक्रस्तिष्ठते दैवतैः सह ॥ १७२.६५ ॥ पृथिव्यां यानि तीर्थानि सरितः सागरास्तथा । विंशति तानि सर्वाणि देवखाते दिनद्वयम् ॥ १७२.६६ ॥ गयाशिरे च यत्पुण्यं प्रयागे मकरकण्टके । प्रयागे सोमतीर्थे च तत्पुण्यं माण्डवेश्वरे ॥ १७२.६७ ॥ पट्टबन्धेन यत्पुण्यं मात्रायां लकुलेश्वरे । आश्विन्यामश्विनीयोगे तत्पुण्यं माण्डवेश्वरे ॥ १७२.६८ ॥ उज्जयिन्यां महाकाले वाराणस्यां त्रिपुष्करे । संनिहत्यां रविग्रस्ते माण्डव्याख्ये सनातनम् ॥ १७२.६९ ॥ इति ज्ञात्वा महाराज सर्वतीर्थेषु चोत्तमम् । पित्ःन्देवान् समभ्यर्च्य स्नानदानादिपूजनैः ॥ १७२.७० ॥ चतुर्दश्यां निराहारः स्थितो भूत्वा शुचिव्रतः । पूजयेत्परया भक्त्या रात्रौ जागरणे शिवम् ॥ १७२.७१ ॥ स्नानैश्च विविधैर्देवं पुष्पागरुविलेपनैः । प्रभाते पौर्णमास्यां तु स्नानादिविधितर्पणैः ॥ १७२.७२ ॥ श्राद्धेन हव्यकव्येन शिवपूजार्चनेन च । अग्निष्टोमादियज्ञैश्च विधिवच्चाप्तदक्षिणैः ॥ १७२.७३ ॥ धौतपापो विशुद्धात्मा फलते फलमुत्तमम् । गोसहस्रप्रदानेन दत्तं भवति भारत ॥ १७२.७४ ॥ स्नानाद्यैर्विधिवत्तत्र तद्दिने शिवसन्निधौ । हिरण्यं वृषभं धेनुं भूमिं गोमिथुनं हयम् ॥ १७२.७५ ॥ शिवमुद्दिश्य वै वस्त्रयुग्मे दद्यात्सुरूपिणे । पादुकोपानहौ छत्रं भाजनं रक्तवाससी ॥ १७२.७६ ॥ होमं जाप्यं तथा दानमक्षयं सर्वमेव तत् । ऋचमेकां तु ऋग्वेदे यजुर्वेदे यजुस्तथा ॥ १७२.७७ ॥ सामैकं सामवेदे तु जपेद्देवाग्रसंस्थितः । सम्यग्वेदफलं तस्य भवेद्वै नात्र संशयः ॥ १७२.७८ ॥ गायत्रीजाप्यमात्रस्तु वेदत्रयफलं लभेत् । कुलकोटिशतं साग्रं लभते तु शिवार्चनात् ॥ १७२.७९ ॥ स्नाने दाने तथा श्राद्धे जागरे गीतवादिते । अनिवर्तिका गतिस्तस्य शिवलोकात्कदाचन ॥ १७२.८० ॥ कालेन महताविष्टो मर्त्यलोके समाविशेत् । राजा भवति मेधावी सर्वव्याधिविवर्जितः ॥ १७२.८१ ॥ जीवेद्वर्षशतं साग्रं पुत्रपौत्रधनान्वितः । तच्च तीर्थं पुनः स्मृत्वा लीयमानो महेश्वरे ॥ १७२.८२ ॥ उपास्ते यस्तु वै सन्ध्यां तस्मिंस्तीर्थे च पर्वणि । साङ्गोपाङ्गैश्चतुर्वेदैर्लभते फलमुत्तमम् ॥ १७२.८३ ॥ तत्र सर्वं शिवक्षेत्राच्छरपातं समन्ततः । न संचरेद्भयोद्विग्ना ब्रह्महत्या नराधिप ॥ १७२.८४ ॥ यत्र तत्र स्थितो वृक्षान् पश्यते तीर्थतत्परः । विविधैः पातकैर्मुक्तो मुच्यते नात्र संशयः ॥ १७२.८५ ॥ श्वभ्री तत्र महाराज जलमध्ये प्रदृश्यते । कथानिका पुराणोक्ता वानरी तीर्थसेवनात् ॥ १७२.८६ ॥ तत्र कूपो महाराज तिष्ठते देवनिर्मितः । शिवस्य पश्चिमे भागे शिवक्षेत्रमनुत्तमम् ॥ १७२.८७ ॥ वृषोत्सर्गं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । क्रीडन्ति पितरस्तस्य स्वर्गलोके यदृच्छया ॥ १७२.८८ ॥ अगम्यागमने पापमयाज्ययाजने कृते । स्तेयाच्च ब्रह्मगोहत्यागुरुघाताच्च पातकम् । तत्सर्वं नश्यते पापं वृषोत्सर्गे कृते तु वै ॥ १७२.८९ ॥ माण्डव्यतीर्थमाहात्म्यं यः शृणोति समाधिना । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ १७२.९० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये माण्डव्यतीर्थमाहात्म्यवर्णनं नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥ ऋKV अध्याय १७३ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । नर्मदादक्षिणे कूले सर्वपापप्रणाशनम् ॥ १७३.१ ॥ सिद्धेश्वरमिति ख्यातं महापातकनाशनम् । यत्र शुद्धिं परां प्राप्तो देवदेवो महेश्वरः । पुरा हत्यायुतः पार्थ देवदेवस्त्रिशूलधृक् ॥ १७३.२ ॥ पुरा पञ्चशिरा आसीद्ब्रह्मा लोकपितामहः । तेनानृतं वचश्चोक्तं कस्मिंश्चित्कारणान्तरे ॥ १७३.३ ॥ तच्छ्रुत्वा सहसा तस्मै चुकोप परमेश्वरः । छेदयामास भगवान्मूर्धानं करजैस्तदा ॥ १७३.४ ॥ तस्य तत्करसंलग्नं च्यवते न कदाचन । ततो हि देवदेवेशः पर्यटन् पृथिवीमिमाम् ॥ १७३.५ ॥ ततो वाराणसीं प्राप्तस्तस्यां तदपतच्छिरः । पतिते तु कपाले च ब्रह्महत्या न मुञ्चति ॥ १७३.६ ॥ ततस्तु सागरे गत्वा पूर्वे च दक्षिणे तथा । पश्चिमे चोत्तरे पार्थ देवदेवो महेश्वरः ॥ १७३.७ ॥ पर्यटन्सर्वतीर्थेषु ब्रह्महत्या न मुञ्चति । नर्मदादक्षिणे कूले सुतीर्थं प्राप्तवान् प्रभुः ॥ १७३.८ ॥ कुलकोटिं समासाद्य प्रार्थयामास चात्मवान् । प्रायश्चित्तं ततः कृत्वा बभूव गतकल्मषः ॥ १७३.९ ॥ ततो निष्कल्मषो जातो देवदेवो महेश्वरः । हत्वा सुरेभ्यस्तत्स्थानं ततश्चान्तर्दधे प्रभुः ॥ १७३.१० ॥ तदाप्रभृति तत्तीर्थं शुद्धरुद्रेति कीर्तितम् । विख्यातं त्रिषु लोके ब्रह्महत्याहरं परम् ॥ १७३.११ ॥ मासे मासे सिते पक्षेऽमावास्यायां युधिष्ठिर । स्नात्वा तत्र विधानेन तर्पयेत्पितृदेवताः ॥ १७३.१२ ॥ दद्यात्पिण्डं पित्ःणां तु भावितेनान्तरात्मना । तस्य ते द्वादशाब्दानि सुतृप्ताः पितरो नृप ॥ १७३.१३ ॥ गन्धधूपप्रदीपाद्यैरभ्यर्च्य परमेश्वरम् । शुद्धेश्वराभिधानं तु शिवलोके महीयते ॥ १७३.१४ ॥ एतत्ते कथितं राजञ्छुद्धरुद्रमनुत्तमम् । मया श्रुतं यथा देवसकाशाच्छूलपाणिनः । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ १७३.१५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शुद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिसप्तत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १७४ श्रीमार्कण्डेय उवाच - गोपेश्वरं ततो गच्छेदुत्तरे नर्मदातटे । यत्र स्नानेन चैकेन मुच्यन्ते पातकैर्नराः ॥ १७४.१ ॥ तत्र तीर्थे तु यः स्नात्वा कुरुते प्राणसंक्षयम् । बर्हियुक्तेन यानेन स गच्छेच्छिवमन्दिरे ॥ १७४.२ ॥ क्रीडित्वा सुचिरं कालं शिवलोके नराधिप । इह मानुष्यतां प्राप्य राजा भवति वीर्यवान् ॥ १७४.३ ॥ हस्त्यश्वरथसम्पन्नो दासीदाससमन्वितः । पूज्यमानो नरेन्द्रैश्च जीवेद्वर्षशतं नरः ॥ १७४.४ ॥ सम्प्राप्ते कार्त्तिके मासि नवम्यां शुक्लपक्षतः । सोपवासः शुचिर्भूत्वा दीपकांस्तत्र दापयेत् ॥ १७४.५ ॥ गन्धपुष्पैः समभ्यर्च्य रात्रौ कुर्वीत जागरम् । तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नराधिप ॥ १७४.६ ॥ यावत्पुण्यं फलं संख्या दीपकानां तथैव च । तावद्युगसहस्राणि शिवलोके महीयते ॥ १७४.७ ॥ तस्मिंस्तीर्थे तु राजेन्द्र लिङ्गपूरणकं विधिम् । तथैव पद्मकैश्चैव दधिभक्तैस्तथैव च ॥ १७४.८ ॥ यस्तु कुर्यान्नरश्रेष्ठ तस्य पुण्यफलं शृणु । यावन्ति तिलसंख्यानि दधिभक्तं तथैव च ॥ १७४.९ ॥ पद्मसंख्या शिवे लोके मोदते कालमीप्सितम् । तस्मिंस्तीर्थे तु राजेन्द्र यत्किंचिद्दीयते नृप ॥ १७४.१० ॥ सर्वं कोटिगुणं तस्य संख्यातुं वा न शक्यते । एवं ते कथितं सर्वं सर्वतीर्थमनुत्तमम् ॥ १७४.११ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोपेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःसप्तत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १७५ श्रीमार्कण्डेय उवाच - उत्तरे नर्मदाकूले भृगुक्षेत्रस्य मध्यतः । कपिलेश्वरं तु विख्यातं विशेषात्पापनाशनम् ॥ १७५.१ ॥ योऽसौ सनातनो देवः पुराणे परिपठ्यते । वासुदेवो जगन्नाथः कपिलत्वमुपागतः ॥ १७५.२ ॥ पातालं सुतलं नाम तस्यैव नितलं ह्यधः । गभस्तिगं च तस्याधो ह्यन्धतामिस्रमेव च ॥ १७५.३ ॥ पातालं सप्तमं यच्च ह्यधस्तात्संस्थितं महत् । वसते तत्र वै देवः पुराणः परमेश्वरः ॥ १७५.४ ॥ स ब्रह्मा स महादेवः स देवो गरुडध्वजः । पूज्यमानः सुरैः सिद्धैस्तिष्ठते ब्रह्मवादिभिः ॥ १७५.५ ॥ वसतस्तस्य राजेन्द्र कपिलस्य जगद्गुरोः । विनाशं चाग्रतः प्राप्ताः क्षणेन सगरात्मजाः ॥ १७५.६ ॥ भस्मीभूतांस्तु तान्दृष्ट्वा कपिलो मुनिसत्तमः । जगाम परमं शोकं चिन्त्यमानोऽथ किल्बिषम् ॥ १७५.७ ॥ सर्वसङ्गपरित्यागे चित्ते निर्विषयीकृते । अयुक्तं षष्टिसहस्राणां कर्तं मम विनाशनम् ॥ १७५.८ ॥ कृतस्य करणं नास्ति तस्मात्पापविनाशनम् । गत्वा तु कापिलं तीर्थं मोचयाम्यघमात्मनः ॥ १७५.९ ॥ पातालं तु ततो मुक्त्वा कपिलो मुनिसत्तमः । तपश्चचार सुमहन्नर्मदातटमास्थितः ॥ १७५.१० ॥ व्रतोपवासैर्विविधैः स्नानदानजपादिकैः । परं निर्वाणमापन्नः पूजयन्रुद्रमव्ययम् ॥ १७५.११ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् । गोसहस्रफलं तस्य लभते नात्र संशयः ॥ १७५.१२ ॥ ज्येष्ठमासे तु सम्प्राप्ते शुक्लपक्षे चतुर्दशी । तत्र स्नात्वा विधानेन भक्त्या दानं प्रयच्छति ॥ १७५.१३ ॥ पात्रभूताय विप्राय स्वल्पं वा यदि वा बहु । अक्षयं तत्फलं प्रोक्तं शिवेन परमेष्ठिना ॥ १७५.१४ ॥ अङ्गारकदिने प्राप्ते चतुर्थ्यां नवमीषु च । स्नानं करोति पुरुषो भक्त्योपोष्य वराङ्गना ॥ १७५.१५ ॥ रूपमैश्वर्यमतुलं सौभाग्यं संततिं पराम् । लभते सप्तजन्मानि नित्यं नित्यं पुनः पुनः ॥ १७५.१६ ॥ पौर्णमास्याममावास्यां स्नात्वा पिण्डं प्रयच्छति । तस्य ते द्वादशाब्दानि तृप्ता यान्ति सुरालयम् ॥ १७५.१७ ॥ तत्र तीर्थे तु यो भक्त्या दद्याद्दीपं सुशोभनम् । जायते तस्य राजेन्द्र महादीप्तिः शारीरजा ॥ १७५.१८ ॥ तत्र तीर्थे मृतानां तु जन्तूनां सर्वदा किल । अनिवर्तिका भवेत्तेषां गतिस्तु शिवमन्दिरात् ॥ १७५.१९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपिलेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चसप्ताधिकशततमोऽध्यायः ॥ ऋKV अध्याय १७६ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल पिङ्गलावर्तमुत्तमम् । तीर्थं सर्वगुणोपेतं कामिकं भुवि दुर्लभम् ॥ १७६.१ ॥ वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् । पिङ्गलेश्वरमासाद्य तत्सर्वं विलयं व्रजेत् ॥ १७६.२ ॥ तत्र स्नानं च दानं च देवखाते कृतं नृप । अक्षयं तद्भवेत्सर्वमित्येवं शङ्करोऽब्रवीत् ॥ १७६.३ ॥ पृथिव्यां सर्वतीर्थेषु समुद्धृत्य शुभोदकम् । मुक्तं तत्र सुरैः खात्वा देवखातं ततोऽभवत् ॥ १७६.४ ॥ युधिष्ठिर उवाच - कथं तु देवखातं तत्संजातं द्विजसत्तम । सुराः सर्वे कथं तत्र मुमुचुर्वारि तीर्थजम् । सर्वं कथय मे विप्र श्रवणे लम्पटं मनः ॥ १७६.५ ॥ श्रीमार्कण्डेय उवाच - यदा तु शूलशुद्ध्यर्थं रुद्रो देवगणैः सह । बभ्राम पृथिवीं सर्वां कमण्डलुधरः शुभाम् ॥ १७६.६ ॥ प्रभासाद्येषु तीर्थेषु स्नानं चक्रुः सुरास्तदा । सर्वतीर्थोत्थितं तोयं पात्रे वै निहितं तु तैः ॥ १७६.७ ॥ शूलभेदमनुप्राप्य शूलं शुद्धं तु शूलिनः । तत्रोत्थमुदकं गृह्य आगता भृगुकच्छके ॥ १७६.८ ॥ तत्रापश्यंस्ततो ह्यग्निं च पिङ्गलाक्षं च रोगिणम् । तपस्युग्रे व्यवसितं ध्यायमानं महेश्वरम् ॥ १७६.९ ॥ हविर्भागैस्तु विप्राणां राज्ञां चैवामयाविनाम् । दृष्ट्वा तु बहुरोगार्तमग्निं देवमुखं सुराः । प्राहुस्ते सहिता देवं शङ्करं लोकशङ्करम् ॥ १७६.१० ॥ देवा ऊचुः । प्रसादः क्रियतां शम्भो पिङ्गलस्यामयाविनः । यथा हि नीरुजः कायो हविषां ग्रहणक्षमः । पुनर्भवति पिङ्गस्तु तथा कुरु महेश्वर ॥ १७६.११ ॥ ईश्वर उवाच - भोभोः सुरा हि तपसा तुष्टोऽहं वो विशेषतः । वचनाच्च विशेषेण ददाम्यभिमतं वरम् ॥ १७६.१२ ॥ पिङ्गल उवाच - यदि तुष्टोऽसि देवेश दीयते देव चेप्सितम् । चन्द्रादित्यौ च नयने कृत्वात्र कलया स्थितः ॥ १७६.१३ ॥ तथा पुनर्नवः कायो भवेद्वै मम शङ्कर । तथा कुरु विरूपाक्ष नमस्तुभ्यं पुनः पुनः ॥ १७६.१४ ॥ मार्कण्डेय उवाच - ततः स भगवाञ्छम्भुर्मूर्तिमादित्यरूपिणीम् । कृत्वा तु तस्य तद्रोगमपानुदत शङ्करः ॥ १७६.१५ ॥ ततः पुनर्नवीभूतः पुनः प्रोवाच शङ्करम् । अत्रैव स्थीयतां शम्भो तथैव भास्करः स्वयम् ॥ १७६.१६ ॥ प्राणिनामुपकाराय रोगाणामुपशान्तये । पापानां ध्वंसनार्थाय श्रेयसां चैव वृद्धये ॥ १७६.१७ ॥ एवमुक्तस्तु भगवान्पिङ्गलेन महात्मना । अवतारं च कृतवान् गीर्वाणानिदमब्रवीत् ॥ १७६.१८ ॥ ईश्वर उवाच - मुञ्चध्वमुदकं देवास्तीर्थेभ्यो यत्समाहृतम् । मम चोत्तरतः कृत्वा खातं देवमयं शुभम् ॥ १७६.१९ ॥ तत्र निक्षिप्यतां वारि सर्वरोगविनाशनम् । सर्वपापहरं दिव्यं सर्वैरपि सुरादिभिः ॥ १७६.२० ॥ एवमुक्ताः सुराः सर्वे खातं कृत्वा तथोत्तरे । वयस्त्रिंशत्कोटिगणैर्मुक्तं तत्तीर्थजं जलम् ॥ १७६.२१ ॥ प्रोचुस्ते सहिताः सर्वे विरूपाक्षपुरोगमाः । यः कश्चिद्देवखातेऽस्मिन्मृदालम्भनपूर्वकम् ॥ १७६.२२ ॥ स्नानं कृत्वा रविदिने संस्नाय नर्मदाजले । श्राद्धं कृत्वा पितृभ्यो वै दानं दत्त्वा स्वशक्तितः ॥ १७६.२३ ॥ पूजयिष्यति पिङ्गेशं तस्य वासस्त्रिविष्टपे । भविष्यति सुरैरुक्तं शृणोति सकलं जगत् ॥ १७६.२४ ॥ आमया भुवि मर्त्यानां क्षयरोगविचर्चिकाः । व्याधयो विकृताकाराः कासश्वासज्वरोद्भवाः ॥ १७६.२५ ॥ एकद्वित्रिचतुर्थाहा ये ज्वरा भूतसम्भवाः । ये चान्ये विकृता दोषा दद्रुश्च कामलं तथा ॥ १७६.२६ ॥ दिनैस्ते सप्तभिर्यान्ति नाशं स्नानैर्रवेर्दिने । शतभेदप्रभिन्ना ये कुष्ठा बहुविधास्तथा ॥ १७६.२७ ॥ शतमादित्यवाराणां स्नायादष्टोत्तरं तु यः । सम्पूज्य शङ्करं दद्यात्तिलपात्रं द्विजातये ॥ १७६.२८ ॥ नश्यन्ति तस्य कुष्ठानि गरुडेनेव पन्नगाः । एवमुक्त्वा गताः सर्वे त्रिदशास्त्रिदशालयम् ॥ १७६.२९ ॥ मार्कण्डेय उवाच - नदीषु देवखातेषु तडागेषु सरित्सु च । स्नानं समाचरेन्नित्यं नरः पापैः प्रमुच्यते ॥ १७६.३० ॥ षष्टितीर्थसहस्रेषु षष्टितीर्थशतेषु च । यत्फलं स्नानदानेषु देवखाते ततोऽधिकम् ॥ १७६.३१ ॥ देवखातेषु यः स्नात्वा तर्पयित्वा पित्ःन्नृप । पूजयेद्देवदेवेशं पिङ्गलेश्वरमुत्तमम् ॥ १७६.३२ ॥ सोऽश्वमेधस्य यज्ञस्य वाजपेयस्य भारत । द्वयोः पुण्यमवाप्नोति नात्र कार्या विचारणा ॥ १७६.३३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पिङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्सप्तत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १७७ श्रीमार्कण्डेय उवाच - भूतीश्वरं ततो गच्छेत्सर्वतीर्थेष्वनुत्तमम् । दर्शनादेव राजेन्द्र यस्य पापं प्रणश्यति ॥ १७७.१ ॥ तत्र स्थाने पुरा पार्थ देवदेवेन शूलिना । उद्धूलनं कृतं गात्रे तेन भूतीश्वरं तु तत् ॥ १७७.२ ॥ पुष्ये वा जन्मनक्षत्रे अमावास्यां विशेषतः । भूतीश्वरे नरः स्नात्वा कुलकोटिं समुद्धरेत् ॥ १७७.३ ॥ तत्र स्थाने तु यो भक्त्या कुरुते ह्यङ्गगुण्ठनम् । तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नराधिप ॥ १७७.४ ॥ यावन्तो भूतिकणिका गात्रे लग्नाः शिवालये । तावद्वर्षसहस्राणि शिवलोके महीयते ॥ १७७.५ ॥ सर्वेषामेव स्नानानां भस्मस्नानं परं स्मृतम् । पुराणैरृषिभिः प्रोक्तं सर्वशास्त्रेष्वनुत्तमम् ॥ १७७.६ ॥ एककालं द्विकालं वा त्रिकालं चापि यः सदा । स्नानं करोति चाग्नेयं पापं तस्य प्रणश्यति ॥ १७७.७ ॥ दिव्यस्नानाद्वरं स्नानं वायव्यं भरतर्षभ । वायव्यादुत्तमं ब्राह्म्यं वरं ब्राह्म्यात्तु वारुणम् ॥ १७७.८ ॥ आग्नेयं वारुणाच्छ्रेष्ठं यस्मादुक्तं स्वयम्भुवा । तस्मात्सर्वप्रयत्नेन ह्याग्नेयं स्नानमाचरेत् ॥ १७७.९ ॥ युधिष्ठिर उवाच - आग्नेयं वारुणं ब्राह्म्यं वायव्यं दिव्यमेव च । किमुक्तं श्रोतुमिच्छामि परं कौतूहलं हि मे ॥ १७७.१० ॥ मार्कण्डेय उवाच - आग्नेयं भस्मना स्नानमवगाह्य च वारुणम् । आपोहिष्ठेति च ब्राह्म्यं वायव्यं गोरजः स्मृतम् ॥ १७७.११ ॥ सूर्ये दृष्टे तु यत्स्नानं गङ्गातोयेन तत्समम् । तत्स्नानं पञ्चमं प्रोक्तं दिव्यं पाण्डवसत्तम ॥ १७७.१२ ॥ तस्मात्सर्वप्रयत्नेन स्नात्वा भूतीश्वरे तु यः । पूजयेद्देवमीशानं स बाह्याभ्यन्तरः शुचिः ॥ १७७.१३ ॥ तत्र स्थाने तु ये नित्यं ध्यायन्ति परमं पदम् । सूक्ष्मं चातीन्द्रियं नित्यं ते धन्या नात्र संशयः ॥ १७७.१४ ॥ मुक्तितीर्थं तु तत्तीर्थं सर्वतीर्थेष्वनुत्तमम् । दर्शनादेव यस्यैव पापं याति महत्क्षयम् ॥ १७७.१५ ॥ जायते पूजया राज्यं तत्र स्तुत्वा महेश्वरम् । जपेन पापसंशुद्धिर्ध्यानेनानन्त्यमश्नुते ॥ १७७.१६ ॥ ओं ज्योतिः स्वरूपमनादिमध्यमनुत्पाद्यमानमनुचार्यमाणाक्षरम् । सर्वभूतस्थितं शिवं सर्वयोगेश्वरं सर्वलोकेश्वरं मोहशोकहीनं महाज्ञानगम्यम् ॥ १७७.१७ ॥ तत्र तीर्थे तु यो गत्वा स्नानं कुर्यान्नरेश्वर । अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः । एवम्भूतं न जानन्ति मोक्षापेक्षणिका नराः ॥ १७७.१८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भूतीश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तसप्तत्यधिकशततमोऽध्यायः ॥ ऋKV अध्याय १७८ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र गङ्गावाहकमुत्तमम् । नर्मदायां महापुण्यं भृगुतीर्थसमीपतः ॥ १७८.१ ॥ तत्र गङ्गा महापुण्या चचार विपुलं तपः । पुरा वर्षशतं साग्रं परमं व्रतमास्थिता ॥ १७८.२ ॥ ध्यात्वा देवं जगद्योनिं नारायणमकल्मषम् । आत्मानं परमं धाम सरित्सा जगतीपते ॥ १७८.३ ॥ ततो जनार्दनो देव आगत्येदमुवाच ह ॥ १७८.४ ॥ विष्णुरुवाच - तपसा तव तुष्टोऽहं मत्पादाम्बुजसम्भवे । मत्तः किमिच्छसे देवि ब्रूहि किं करवाणि ते ॥ १७८.५ ॥ गङ्गोवाच - त्वत्पादकमलाद्भ्रष्टा गङ्गा सहचरा विभो । यदृच्छया त्रिलोकेश वन्द्यमाना दिवौकसैः ॥ १७८.६ ॥ नृपो भगीरथस्तस्मात्तपः कृत्वा सुदुष्करम् । समाराध्य जगन्नाथं शङ्करं लोकशङ्करम् ॥ १७८.७ ॥ अवतारयामास हि मां पृथिव्यां धरणीधर । मया वै युवयोर्वाक्यादवतारः कृतो भुवि ॥ १७८.८ ॥ वैष्णवीमिति मां मत्वा जनः सर्वाप्लुतो मयि । ये वै ब्रह्मणो लोके ये च वै गुरुतल्पगाः ॥ १७८.९ ॥ त्यागिनः पितृमातृभ्यां ये च स्वर्णहरा नराः । गोघ्ना ये मनुजा लोके तथा ये प्राणिहिंसकाः ॥ १७८.१० ॥ अगम्यागामिनो ये च ह्यभक्ष्यस्य च भक्षकाः । ये चानृतप्रवक्तारो ये च विश्वासघातकाः ॥ १७८.११ ॥ देवब्राह्मणवित्तानां हर्तारो ये नराधमाः । देवब्रह्मगुरुस्त्रीणां ये च निन्दाकरा नराः ॥ १७८.१२ ॥ ब्रह्मशापप्रदग्धा ये ये चैवात्महनो द्विजाः । भ्रष्टानशनसंन्यासनियतव्रतचारिणः ॥ १७८.१३ ॥ तथैवापेयपेयाश्च ये च स्वगुरुनिन्दकाः । निषेधका ये दानानां पात्रदानपराङ्मुखाः ॥ १७८.१४ ॥ ऋतुघ्ना ये स्वपत्नीनां पित्रोः सेहपरा न हि । बान्धवेषु च दीनेषु करुणा यस्य नास्ति वै ॥ १७८.१५ ॥ क्षेत्रसेतुविभेदी च पूर्वमार्गप्रलोपकः । नास्तिकः शास्त्रहीनस्तु विप्रः सन्ध्याविवर्जितः ॥ १७८.१६ ॥ अहुताशी ह्यसंतुष्टः सर्वाशी सर्वविक्रयी । कदर्या नास्तिकाः क्रूराः कृतघ्ना ये द्विजायः ॥ १७८.१७ ॥ पैशुन्या रसविक्रेयाः सर्वकालविनाकृताः । स्वगोत्रां परगोत्रां वा ये भुञ्जन्ति द्विजाधमाः ॥ १७८.१८ ॥ ते मां प्राप्य विमुच्यन्ते पापसङ्घैः सुसंचितैः । तत्पापक्षारतप्ताया न शर्म मम विद्यते ॥ १७८.१९ ॥ तथा कुरु जगन्नाथ यथाहं शर्म चाप्नुयाम् । एवमुक्तस्तु देवेशस्तुष्टः प्रोवाच जाह्नवीम् ॥ १७८.२० ॥ विष्णुरुवाच - अहमत्र वसिष्यामि गङ्गाधरसहायवान् । प्रविशस्व सदा रेवां त्वमत्रैव च मूर्तिना ॥ १७८.२१ ॥ मम पादतलं प्राप्य वह त्रिपथगामिनि । यदा बहूदककाले नर्मदाजलसंभृता ॥ १७८.२२ ॥ प्रावृट्कालं समासाद्य भविष्यति जलाकुला । प्लाव्योभयतटं देवी प्राप्य मामुत्तरस्थितम् ॥ १७८.२३ ॥ प्लावयिष्यति तोयेन यदा शङ्खं करे स्थितम् । तदा पर्वशतोद्युक्तं वैष्णवं पर्वसंज्ञितम् ॥ १७८.२४ ॥ न तेन सदृशं किंचिद्व्यतीपातादिसंक्रमम् । अयने द्वे च न तथा पुण्यात्पुण्यतरं यथा ॥ १७८.२५ ॥ तस्मिन्पर्वणि देवेशि शङ्खं संस्पृश्य मानवः । स्नानमाचरते तोये मिश्रे गाङ्गेयनार्मदे ॥ १७८.२६ ॥ पुण्यं त्वशेषपुण्यानां मङ्गलानां च मङ्गलम् । विष्णुना विधृतो येन तस्माच्छान्तिः प्रचक्रमे ॥ १७८.२७ ॥ तत्रान्तं पापसङ्घस्य ध्रुवमाप्नोति मानवः । शङ्खोद्धारे नरः स्नात्वा तर्पयेत्पितृदेवताः ॥ १७८.२८ ॥ तृप्तास्ते द्वादशाब्दानि सिद्धिं च सार्वकामिकीम् । गङ्गावहे तु यः श्राद्धं शङ्खोद्धारे प्रदास्यति ॥ १७८.२९ ॥ तेन पिण्डप्रदानेन नृत्यन्ति पितरस्तथा । शङ्खोद्धारे नरः स्नात्वा पूजयेद्बलकेशवौ ॥ १७८.३० ॥ रात्रौ जागरणं कृत्वा शुद्धो भवति जाह्नवि । यत्त्वं लोककृतं कर्म मन्यसे भुवि दुःसहम् ॥ १७८.३१ ॥ तस्मिन्पर्वणि तत्सर्वं तत्र स्नात्वा व्यपोहय । एवमुक्त्वा नरश्रेष्ठ विष्णुश्चान्तरधीयत ॥ १७८.३२ ॥ तदाप्रभृति तत्तीर्थं गङ्गावाहकमुत्तमम् । ब्रह्माद्यैरृषिभिस्तात पारम्पर्यक्रमागतैः ॥ १७८.३३ ॥ तत्र तीर्थे तु यः स्नात्वा भक्तिभावेन भारत । गङ्गातीर्थे तु स स्नातः समस्तेषु न संशयः ॥ १७८.३४ ॥ तत्र तीर्थे मृतानां तु नराणां भावितात्मनाम् । अनिवर्तिका गतिस्तेषां विष्णुलोकात्कदाचन ॥ १७८.३५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गङ्गावहकतीर्थमाहात्म्यवर्णनं नामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १७९ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र गौतमेश्वरमुत्तमम् । सर्वपापहरं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ १७९.१ ॥ गौतमेन तपस्तप्तं तत्र तीर्थे युधिष्ठिर । दिव्यं वर्षसहस्रं तु ततस्तुष्टो महेश्वरः ॥ १७९.२ ॥ प्रणम्य शिरसा तत्र स्थापितः परमेश्वरः । स्थापितो गौतमेनेशो गौतमेश्वर उच्यते ॥ १७९.३ ॥ तत्र देवैश्च गन्धर्वैरृषिभिः पितृदैवतैः । सम्प्राप्ता ह्युत्तमा सिद्धिराराध्य परमेश्वरम् ॥ १७९.४ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः । पूजयेत्परमीशानं सर्वपापैः प्रमुच्यते ॥ १७९.५ ॥ बहवस्तन्न जानन्ति विष्णुमायाविमोहिताः । तत्र संनिहितं देवं शूलपाणिं महेश्वरम् ॥ १७९.६ ॥ ब्रह्मचारी तु यो भूत्वा तत्र तीर्थे नरेश्वर । स्नात्वार्चयेन्महादेवं सोऽश्वमेधफलं लभेत् ॥ १७९.७ ॥ ब्रह्मचारी तु यो भूत्वा तर्पयेत्पितृदेवताः । पूजयेत्परमीशानं सर्वपापैः प्रमुच्यते ॥ १७९.८ ॥ तत्र तीर्थे तु यो दानं भक्त्या दद्याद्द्विजातये । तदक्षयफलं सर्वं नात्र कार्या विचारणा ॥ १७९.९ ॥ मासे चाश्वयुजे राजन् कृष्णपक्षे चतुर्दशीम् । स्नात्वा तत्र विधानेन दीपकानां शतं ददेत् ॥ १७९.१० ॥ पूजयित्वा महादेवं गन्धपुष्पादिभिर्नरः । मुच्यते सर्वपापेभ्यो मृतः शिवपुरं व्रजेत् ॥ १७९.११ ॥ अष्टम्यां च चतुर्दश्यां कार्त्तिक्यां तु विशेषतः । उपोष्य प्रयतो भूत्वा घृतेन स्नापयेच्छिवम् ॥ १७९.१२ ॥ पञ्चगव्येन मधुना दध्ना वा शीतवारिणा । स च सर्वस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १७९.१३ ॥ भक्त्या तु पूजयेत्पश्चात्स लभेत्फलमुत्तमम् । बिल्वपत्रैरखण्डैश्च पुष्पैरुन्मत्तकोद्भवैः ॥ १७९.१४ ॥ कुशापामार्गसहितैः कदम्बद्रोणजैरपि । मल्लिकाकरवीरैश्च रक्तपीतैः सितासितैः ॥ १७९.१५ ॥ पुष्पैरन्यैर्यथालाभं यो नरः पूजयेच्छिवम् । नैरन्तर्येण षण्मासं योऽर्चयेद्गौतमेश्वरम् । सर्वान्कामानवाप्नोति मृतः शिवपुरं व्रजेत् ॥ १७९.१६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गौतमेश्वरतीर्थमाहात्म्यवर्णनं नाम एकोनाशीत्यधिकशततमोऽध्यायः ॥ ऋKV अध्याय १८० श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल दशाश्वमेधिकं परम् । तीर्थं सर्वगुणोपेतं महापातकनाशनम् ॥ १८०.१ ॥ यत्र गत्वा महाराज स्नात्वा सम्पूज्य चेश्वरम् । दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥ १८०.२ ॥ युधिष्ठिर उवाच - अश्वमेधो महायज्ञो बहुसम्भारदक्षिणः । अशक्यः प्राकृतैः कर्तुं कथं तेषां फलं लभेत् ॥ १८०.३ ॥ अत्याश्चर्यमिदं तत्त्वं त्वयोक्तं वदता सता । यथा मे जायते श्रद्धा दीर्घायुस्त्वं तथा वद ॥ १८०.४ ॥ मार्कण्डेय उवाच - इदमाश्चर्यभूतं हि गौर्या पृष्टस्त्रियम्बकः । तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते निपुणाय वै ॥ १८०.५ ॥ पुरा वृषस्थो देवेश ह्युमया सह शङ्करः । कदाचित्पर्यटन्पृथिवीं नर्मदातटमाश्रितः ॥ १८०.६ ॥ दशाश्वमेधिकं तीर्थं दृष्ट्वा देवो महेश्वरः । तीर्थं प्रत्यञ्जलिं बद्ध्वा नमश्चक्रे त्रिलोचनः ॥ १८०.७ ॥ कृताञ्जलिपुटं देवं दृष्ट्वा देवीदमब्रवीत् ॥ १८०.८ ॥ देव्युवाच - किमेतद्देवदेवेश चराचरनमस्कृत । प्रह्वनम्राञ्जलिं बद्ध्वा भक्त्या परमया युतः ॥ १८०.९ ॥ एतदाश्चर्यमतुलं सर्वं कथय मे प्रभो ॥ १८०.१० ॥ ईश्वर उवाच - प्रत्यक्षं पश्य तीर्थस्य फलं मा विस्मिता भव । वियत्स्था मे भुविस्थस्य क्षणं देवि स्थिरा भव ॥ १८०.११ ॥ एवमुक्त्वा तु देवेशो गौरवर्णो द्विजोऽभवत् । क्षुत्क्षामकण्ठो जटिलः शुष्को धमनिसंततः ॥ १८०.१२ ॥ उपविश्य भुवः पृष्ठे सुस्वरं मन्त्रमुच्चरन् । क्रमप्रियो महादेवो माधुर्येण प्रमोदयन् ॥ १८०.१३ ॥ श्रुत्वा तां मधुरां वाणीं स्वयं देवेन निर्मिताम् । संभ्रान्ता ब्राह्मणाः सर्वे स्नातुं ये तत्र चागताः ॥ १८०.१४ ॥ नित्यक्रिया च सर्वेषां विस्मृता श्रुतिविभ्रमात् । तं दृष्ट्वा पठमानं तु क्षुत्पिपासाभिपीडितम् ॥ १८०.१५ ॥ द्विजोऽन्यमन्त्रयत्कश्चिद्भक्त्या तं भोजनाय वै । प्रसादः क्रियतां ब्रह्मन्भोजनाय गृहे मम ॥ १८०.१६ ॥ अद्य मे सफलं जन्म ह्यद्य मे सफलाः क्रियाः । सर्वान्कामान्प्रदास्यन्ति प्रीता मेऽद्य पितामहाः ॥ १८०.१७ ॥ त्वयि भुक्ते द्विजश्रेष्ठ प्रसीद त्वं ध्रुवं मम । एवमुक्तो महादेवो द्विजरूपधरस्तदा ॥ १८०.१८ ॥ प्रहस्य प्रत्युवाचेदं ब्राह्मणं श्लक्ष्णया गिरा । मया वर्षसहस्रं तु निराहारं तपः कृतम् ॥ १८०.१९ ॥ इदानीं तु गृहे तस्य करिष्ये द्विजसत्तम । दशभिर्वाजिमेधैश्च येनेष्टं पारणं तथा ॥ १८०.२० ॥ इत्युक्तो देवदेवेन ब्राह्मणो विस्मयान्वितः । उत्तमाङ्गं विधुन्वन्वै जगाम स्वगृहं प्रति ॥ १८०.२१ ॥ एवं ते बहवो विप्राः प्रत्याख्याते निमन्त्रणे । पुराणार्थमजानन्तो नास्तिका बहवो गताः ॥ १८०.२२ ॥ अथ कश्चिद्द्विजो विद्वान्पुराणार्थस्य तत्त्ववित् । देवं निमन्त्रयामास द्विजरूपधरं शिवम् ॥ १८०.२३ ॥ तथैव सोऽपि देवेन प्रोक्तः स प्राह तं पुनः । मनसा चिन्तयित्वा तु पुराणोक्तं द्विजोत्तमः ॥ १८०.२४ ॥ स्मृतिवेदपुराणेषु यदुक्तं तत्तथा भवेत् । इति निश्चित्य तं विप्रमुवाच प्रहसन्निव ॥ १८०.२५ ॥ भोभो विप्र प्रतीक्षस्व यावदागमनं पुनः । इत्युक्त्वा तु द्विजो गत्वा दशाश्वमेधिकं परम् ॥ १८०.२६ ॥ स्नानं महालम्भनादि कृतं तेन द्विजन्मना । जपं श्राद्धं तथा दानं कृत्वा धर्मानुसारतः ॥ १८०.२७ ॥ संकल्प्य कपिलां तत्र पुराणोक्तविधानतः । समायात्त्वरितं तत्र यत्रासौ तिष्ठते द्विजः ॥ १८०.२८ ॥ अथागत्य द्विजं प्राह वाजिमेधः कृतो मया । उत्तिष्ठ मे गृहं रम्यं भोजनार्थं हि गम्यताम् ॥ १८०.२९ ॥ इत्युक्तः शङ्करस्तेन ब्राह्मणेनातिविस्मितः । उवाच ब्राह्मणं देव इदानीं त्वमितो गतः ॥ १८०.३० ॥ द्विजवर्य कथं चेष्टा दश यज्ञा महाधनाः ॥ १८०.३१ ॥ द्विज उवाच - न विचारस्त्वया कार्यः कृता यज्ञा न संशयः । यदि वेदाः प्रमाणं तं भुवि देवा द्विजास्तथा ॥ १८०.३२ ॥ दशाश्वमेधिकं तीर्थं तथा सत्यं द्विजोत्तम । यदि वेदपुराणोक्तं वाक्यं निःसंशयं भवेत् ॥ १८०.३३ ॥ तदा प्राप्तं मया सर्वं नात्र कार्या विचारणा । एवमुक्तस्तु देवेश आस्तिक्यं तस्य चेतसः ॥ १८०.३४ ॥ विमृश्य बहुभिः किंचिदुत्तरं न प्रपद्यत । जगाम तद्गृहं रम्यं पठन्ब्रह्म सनातनम् ॥ १८०.३५ ॥ सम्प्राप्तं तं द्विजं भक्त्या पाद्यार्घ्येण तमर्चयत् । षड्रसं भोजनं तेन दत्तं पश्चाद्यथाविधि ॥ १८०.३६ ॥ ततो भुक्ते महादेवे सर्वदेवमये शिवे । पुष्पवृष्टिः पपाताशु गगनात्तस्य मूर्धनि । तस्यास्तिक्यं तु संलक्ष्य तुष्टः प्रोवाच शङ्करः ॥ १८०.३७ ॥ ईश्वर उवाच - किं तेऽद्य क्रियतां ब्रूहि वरदोऽहं द्विजोत्तम । अदेयमपि दास्यामि एकचित्तस्य ते ध्रुवम् ॥ १८०.३८ ॥ ब्राह्मण उवाच - यदि प्रीतोऽसि मे देव यदि देयो वरो मम । अस्मिंस्तीर्थे महादेव स्थातव्यं सर्वदैव हि ॥ १८०.३९ ॥ उपकाराय देवेश एष मे वर उत्तमः । एवमुक्तस्तु देवेन आरुरोह द्विजोत्तमः ॥ १८०.४० ॥ गन्धर्वाप्सरःसम्बाधं विमानं सार्वकामिकम् । पूज्यमानो गतस्तत्र यत्र लोका निरामयाः ॥ १८०.४१ ॥ मार्कण्डेय उवाच - एतदाश्चर्यमतुलं दृष्ट्वा देवी सुविस्मिता । विस्मयोत्फुल्लनयना पुनः पप्रच्छ शङ्करम् ॥ १८०.४२ ॥ पार्वत्युवाच - कथमेतद्भवेत्सत्यं यत्रेदमसमञ्जसम् । स्नानं कुर्वन्ति बहवो लोका ह्यत्र महेश्वर ॥ १८०.४३ ॥ तेषां तु स्वर्गगमनं यथैष स्वर्गतिं गतः । कथमेतत्समाचक्ष्व विस्मयः परमो मम ॥ १८०.४४ ॥ एतच्छ्रुत्वा तु देवेशः प्रहसन्प्रत्युवाच ताम् । वेदवाक्ये पुराणार्थे स्मृत्यर्थे द्विजभाषिते ॥ १८०.४५ ॥ विस्मयो हि न कर्तव्यो ह्यनुमानं हि तत्तथा । असंभाव्यं हि लोकानां पुराणे यत्प्रगीयते ॥ १८०.४६ ॥ यदि पक्षं पुरस्कृत्य लोकाः कुर्वन्ति पार्वति । तस्मान्न सिद्धिरेतेषां भवत्येको न विस्मयः ॥ १८०.४७ ॥ नास्तिका भिन्नमर्यादा ये निश्चयबहिष्कृताः । तेषां सिद्धिर्न विद्येत आस्तिक्याद्भवते ध्रुवम् ॥ १८०.४८ ॥ श्रुत्वाख्यानमिदं देवी ववन्दे तीर्थमुत्तमम् । सर्वपापहरं पुण्यं नर्मदायां व्यवस्थितम् ॥ १८०.४९ ॥ मार्कण्डेय उवाच - दशाश्वमेधं राजेन्द्र सर्वतीर्थोत्तमोत्तमम् । तीर्थं सर्वगुणोपेतं महापातकनाशनम् ॥ १८०.५० ॥ तत्रागता महाभागा स्नातुकामा सरस्वती । पुण्यानां परमा पुण्या नदीनामुत्तमा नदी ॥ १८०.५१ ॥ नाममात्रेण यस्यास्तु सर्वपापैः प्रमुच्यते । स्नातास्तत्र दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ १८०.५२ ॥ दशाश्वमेधे सा राजन्नियता ब्रह्मचारिणी । आराधयित्वा देवेशं परं निर्वाणमागतीः ॥ १८०.५३ ॥ कालुष्यं ब्रह्मसम्भूता संवत्सरसमुद्भवम् । प्रक्षालयितुमायाति दशम्यामाश्विनस्य च ॥ १८०.५४ ॥ उपोष्य रजनीं तां तु सम्पूज्य त्रिपुरान्तकम् । राजन्निष्कल्मषा यान्ति श्वोभूते शाश्वतं पदम् ॥ १८०.५५ ॥ युधिष्ठिर उवाच - सरस्वती महापुण्या नदीनामुत्तमा नदी । श्रीमार्कण्डेय उवाच - राजन्नाश्वयुजे मासि दशम्यां तद्विशिष्यते । पार्थिवेषु च तीर्थे तु सर्वेष्वेव न संशयः ॥ १८०.५६ ॥ दशाश्वमेधिके राजन्नित्यं हि दशमी शुभा । विशेषादाश्विने शुक्ला महापातकनाशिनी ॥ १८०.५७ ॥ तस्यास्नात्वार्चयेद्देवानुपवासपरायणः । श्राद्धं कृत्वा विधानेन पश्चात्सम्पूजयेच्छिवम् ॥ १८०.५८ ॥ तत्रस्थां पूजयेद्देवीं स्नातुकामां सरस्वतीम् । नमो नमस्ते देवेशि ब्रह्मदेहसमुद्भवे ॥ १८०.५९ ॥ कुरु पापक्षयं देवि संसारान्मां समुद्धर । गन्धधूपैश्च सम्पूज्य ह्यर्चयित्वा पुनःपुनः ॥ १८०.६० ॥ दश प्रदक्षिणा दत्त्वा सूत्रेण परिवेष्टयेत् । कपिलां तु ततो विप्रे दद्याद्विगतमत्सरः ॥ १८०.६१ ॥ सर्वलक्षणसम्पन्नां सर्वोपस्करसंयुताम् । दत्त्वा विप्राय कपिलां न शोचति कृताकृते ॥ १८०.६२ ॥ पश्चाज्जागरणं कुर्याद्घृतेनाज्वाल्य दीपकम् । पुराणपठनेनैव नृत्यगीतविवादनैः ॥ १८०.६३ ॥ वेदोक्तैश्चैव पूजयेच्छशिशेखरम् । प्रभाते विमले पश्चात्स्नात्वा वै नर्मदाजले ॥ १८०.६४ ॥ ब्राह्मणान् भोजयेद्भक्त्या शिवभक्तांश्च योगिनः । एवं कृते ततो राजन् सम्यक्तीर्थफलं लभेत् ॥ १८०.६५ ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेच्छङ्करं नरः । दशाश्वमेधावभृथं लभते पुण्यमुत्तमम् ॥ १८०.६६ ॥ पूतात्मा तेन पुण्येन रुद्रलोकं स गच्छति । आरूढः परमं यानं कामगं च सुशोभनम् ॥ १८०.६७ ॥ तत्र दिव्याप्सरोभिस्तु वीज्यमानोऽथ चामरैः । क्रीडते सुचिरं कालं जयशब्दादिमङ्गलैः ॥ १८०.६८ ॥ ततोऽवतीर्णः कालेन इह राजा भवेद्ध्रुवम् । हस्त्यश्वरथसम्पन्नो महाभोगी परंतपः ॥ १८०.६९ ॥ दशाश्वमेधे यद्दानं दीयते शिवयोगिनाम् । दशाश्वमेधसदृशं भवेत्तन्नात्र संशयः ॥ १८०.७० ॥ सर्वेषामेव यज्ञानामश्वमेधो विशिष्यते । दुर्लभः स्वल्पवित्तानां भूरिशः पापकर्मणाम् ॥ १८०.७१ ॥ तत्र तीर्थे तु राजेन्द्र दुर्लभोऽपि सुरासुरैः । प्राप्यते स्नानदानेन इत्येवं शङ्करोऽब्रवीत् ॥ १८०.७२ ॥ अकामो वा सकामो वा मृतस्तत्र नरेश्वर । देवत्वं प्राप्नुयात्सोऽपि नात्र कार्या विचारणा ॥ १८०.७३ ॥ अग्निप्रवेशं यः कुर्यात्तत्र तीर्थे नरोत्तम । अग्निलोके वसेत्तावद्यावदाभूतसम्प्लवम् ॥ १८०.७४ ॥ जलप्रवेशं यः कुर्यात्तत्र तीर्थे नराधिप । ध्यायमानो महादेवं वारुणं लोकमाप्नुयात् ॥ १८०.७५ ॥ दशाश्वमेधे यः कश्चिच्छूरवृत्त्या तनुं त्यजेत् । अक्षया नु गतिस्तस्य इत्येवं श्रुतिनोदना ॥ १८०.७६ ॥ न तां गतिं यान्ति भृगुप्रपातिनो न दण्डिनो नैव च सांख्ययोगिनः । ध्वजाकुले दुन्दुभिशङ्खनादिते क्षणेन यां यान्ति महाहवे मृताः ॥ १८०.७७ ॥ यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः । अक्षयांल्लभते लोकान्यदि क्लीबं न भाषते ॥ १८०.७८ ॥ दशाश्वमेधे संन्यासं यः करोति विधानतः । अनिवर्तिका गतिस्तस्य रुद्रलोकात्कदाचन ॥ १८०.७९ ॥ दशाश्वमेधे यत्पुण्यं संक्षेपेण युधिष्ठिर । कथितं परया भक्त्या सर्वपापप्रणाशनम् ॥ १८०.८० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दशाश्वमेधतीर्थमाहात्म्यवर्णनं नामाशीत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १८१ श्रीमार्कण्डेय उवाच - अतः परं प्रवक्ष्यामि भृगुतीर्थस्य विस्तरम् । यं श्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः ॥ १८१.१ ॥ तत्र तीर्थे तु विख्यातं वृषखातमिति श्रुतम् । भृगुणा तत्र राजेन्द्र तपस्तप्तं पुरा किल ॥ १८१.२ ॥ युधिष्ठिर उवाच - भृगुकच्छे स विप्रेन्द्रो निवसन् केन हेतुना । तपस्तप्त्वा सुविपुलं परां सिद्धिमुपागतः ॥ १८१.३ ॥ को वा वृष इति प्रोक्तस्तत्खातं येन खानितम् । एतत्सर्वं यथान्यायं कथयस्व ममानघ ॥ १८१.४ ॥ श्रीमार्कण्डेय उवाच - एष प्रश्नो महाराज यस्त्वया परिपृच्छितः । तत्सर्वं कथयिष्यामि शृणुष्वैकमना नृप ॥ १८१.५ ॥ षष्ठस्तु ब्रह्मणः पुत्रो मानसो भृगुसत्तमः । तपश्चचार विपुलं श्रीवृते क्षेत्र उत्तमे ॥ १८१.६ ॥ दिव्यं वर्षसहस्रं तु संशुष्को मुनिसत्तमः । निराहारो निरानन्दः काष्ठपाषाणवत्स्थितः ॥ १८१.७ ॥ ततः कदाचिद्देवेशो विमानवरमास्थितः । उमया सहितः श्रीमांस्तेन मार्गेण चागतः ॥ १८१.८ ॥ दृष्ट्वा तत्र महाभागं भृगुं वल्मीकवत्स्थितम् । उवाच देवी देवेशं किमिदं दृश्यते प्रभो ॥ १८१.९ ॥ ईश्वर उवाच - भृगुर्नाम महादेवि तपस्तप्त्वा सुदारुणम् । दिव्यं वर्षसहस्रं तु मम ध्यानपरायणः ॥ १८१.१० ॥ जलबिन्दु कुशाग्रेण मासे मासे पिबेच्च सः । संवत्सरशतं साग्रं तिष्ठते च वरानने ॥ १८१.११ ॥ तच्छ्रुत्वा वचनं गौरी क्रोधसंवर्तितेक्षणा । उवाच देवी देवेशं शूलपाणिं महेश्वरम् ॥ १८१.१२ ॥ सत्यमुग्रोऽसि लोके त्वं ख्यापितो वृषभध्वज । निष्कारुण्यो दुराराध्यः सर्वभूतभयंकरः ॥ १८१.१३ ॥ दिव्यं वर्षसहस्रं तु ध्यायमानस्य शङ्करम् । ब्राह्मणस्य वरं कस्मान्न प्रयच्छसि शंस मे ॥ १८१.१४ ॥ एवमुक्तोऽथ देवेशः प्रहस्य गिरिनन्दिनीम् । उवाच नरशार्दूल मेघगम्भीरया गिरा ॥ १८१.१५ ॥ स्त्री विनश्यति गर्वेण तपः क्रोधेन नश्यति । गावो दूरप्रचारेण शूद्रान्नेन द्विजोत्तमाः ॥ १८१.१६ ॥ क्रोधान्वितो द्विजो गौरी तेन सिद्धिर्न विद्यते । वर्षायुतैस्तथा लक्षैर्न किंचित्कारणं प्रिये ॥ १८१.१७ ॥ एवम्भूतस्य तस्यापि क्रोधस्य चरितं महत् । एवमुक्त्वा ततः शम्भुर्वृषं दध्यौ च तत्क्षणे ॥ १८१.१८ ॥ वृषो हि भगवन्ब्रह्मा वृषरूपी महेश्वरः । ध्यानप्राप्तः क्षणादेव गर्जयन् वै मुहुर्मुहुः ॥ १८१.१९ ॥ किं करोमि सुरश्रेष्ठ ध्यातः केनैव हेतुना । करोमि कस्य निधनमकाले परमेश्वर ॥ १८१.२० ॥ ईश्वर उवाच - कोपयस्व द्विजश्रेष्ठं गत्वा त्वं भृगुसत्तमम् । येन मे श्रद्दधत्येषा गौरी लोकैकसुन्दरी ॥ १८१.२१ ॥ एतच्छ्रुत्वा वृषो गत्वा धर्षणार्थं द्विजोत्तमम् । नर्मदायास्तटे रम्ये समीपे चाश्रमे भृगुः ॥ १८१.२२ ॥ ततः शृङ्गैर्गृहीत्वा तु प्रक्षिप्तो नर्मदाजले । ततः क्रुद्धो भृगुस्तत्र दण्डहस्तो महामुनिः ॥ १८१.२३ ॥ पशुवत्ते वधिष्यामि दण्डघातेन मस्तके । शिखायज्ञोपवीते च परिधानं वरासने ॥ १८१.२४ ॥ सुसंवृतं कृतं तेन धावन्वै पृष्ठतो ब्रवीत् ॥ १८१.२५ ॥ भृगुरुवाच - पापकर्मन्दुराचार कथं यास्यसि मे वृष । अवमानं समुत्पाद्य कृत्वा गर्तं खुरैस्तथा ॥ १८१.२६ ॥ गर्जयित्वा महानादं ततो विप्रमपातयत् । आत्मानं पातितं ज्ञात्वा वृषेण परमेष्ठिना ॥ १८१.२७ ॥ भृगुः क्रोधेन जज्वाल हुताहुतिरिवानलः । करे गृह्य महादण्डं ब्रह्मदण्डमिवापरम् ॥ १८१.२८ ॥ हन्तुकामो वृषं विप्रोऽभ्यधावत युधिष्ठिर । धावमानं ततो दृष्ट्वा स वृषः पूर्वसागरे ॥ १८१.२९ ॥ जम्बूद्वीपं कुशां क्रौञ्चं शाल्मलिं शाकमेव च । गोमेदं पुष्करं प्राप्तः पूर्वतो दक्षिणापथम् ॥ १८१.३० ॥ उत्तरं पश्चिमं चैव द्वीपाद्द्वीपं नरेश्वर । पातालं सुतलं पश्चाद्वितलं च तलातलम् ॥ १८१.३१ ॥ तामिस्रमन्धतामिस्रं पातालं सप्तमं ययौ । ततो जगाम भूर्लोकं प्राणार्थी स वृषोत्तमः ॥ १८१.३२ ॥ भुवः स्वश्चैव च महस्तपः सत्यं जनस्तथा । अनुगम्यमानो विप्रेण न शर्म लभते क्वचित् ॥ १८१.३३ ॥ पापं कृत्वैव पुरुषः कामक्रोधबलार्दितः । ततो जगाम शरणं ब्रह्माणं विष्णुमेव च ॥ १८१.३४ ॥ इन्द्रं चन्द्रं तथादित्यैर्याम्यवारुणमारुतैः । यदा सर्वैः परित्यक्तो लोकालोकैः सुरेश्वरैः ॥ १८१.३५ ॥ तदा देवं नमस्कृत्वा रक्ष रक्षस्व चाब्रवीत् । वध्यमानं महादेवो भृगुणा परमेष्ठिना ॥ १८१.३६ ॥ सर्वलोकैः परित्यक्तमनाथमिव तं प्रभो । दृष्ट्वा श्रान्तं वृषं देवः पतितं चरणाग्रतः ॥ १८१.३७ ॥ ततः प्रोवाच भगवान् स्मितपूर्वमिदं वचः ॥ १८१.३८ ॥ ईश्वर उवाच - पश्य देवि महाभागे शमं विप्रस्य सुन्दरि ॥ १८१.३९ ॥ पार्वत्युवाच - यावद्विप्रो न चास्माकं कुप्यते परमेश्वर । तावद्वरं प्रयच्छाशु यदि चेच्छसि मत्प्रियम् ॥ १८१.४० ॥ ततो भस्मी जटी शूली चन्द्रार्धकृतशेखरः । उमार्द्धदेहो भगवान्भूत्वा विप्रमुवाच ह ॥ १८१.४१ ॥ भोभो द्विजवरश्रेष्ठ क्रोधस्ते न शमं गतः । यस्मात्तस्मादिदं तात क्रोधस्थानं भविष्यति ॥ १८१.४२ ॥ ततो दृष्ट्वा च तं शम्भुं भृगुः श्रेष्ठं त्रिलोचनम् । जानुभ्यामवनिं गत्वा इदं स्तोत्रमुदैरयत् ॥ १८१.४३ ॥ भृगुरुवाच - प्रणिपत्य भूतनाथं भवोद्भवं भूतिदं भयातीतम् । भवभीतो भुवनपते विज्ञप्तुं किंचिदिच्छामि ॥ १८१.४४ ॥ त्वद्गुणनिकरान्वक्तुं का शक्तिर्मानुषस्यास्य । वासुकिरपि न तावद्वक्तुं वदनसहस्रं भवेद्यस्य ॥ १८१.४५ ॥ भक्त्या तथापि शङ्कर शशिधर करजालधवलिताशेष । स्तुतिमुखरस्य महेश्वर प्रसीद तव चरणनिरतस्य ॥ १८१.४६ ॥ सत्त्वं रजस्तमस्त्वं स्थित्युत्पत्तिविनाशनं देव । भवभीतो भुवनपते भुवनेश शरणनिरतस्य ॥ १८१.४७ ॥ यमनियमयज्ञदानं वेदाभ्यासश्च धारणायोगः । त्वद्भक्तेः सर्वमिदं नार्हन्ति वै कलासहस्रांशम् ॥ १८१.४८ ॥ उत्कृष्टरसरसायनखड्गां जनविवरपादुकासिद्धिः । चिह्नं हि तव नतानां दृश्यत इह जन्मनि प्रकटम् ॥ १८१.४९ ॥ शाठ्येन यदि प्रणमति वितरसि तस्यापि भूतिमिच्छया देव । भवति भवच्छेदकरी भक्तिर्मोक्षाय निर्मिता नाथ ॥ १८१.५० ॥ परदारपरस्वरतं परपरिभवदुःखशोकसंतप्तम् । परवदनवीक्षणपरं परमेश्वर मां परित्राहि ॥ १८१.५१ ॥ अधिकाभिमानमुदितं क्षणभङ्गुरविभवविलसन्तम् । क्रूरं कुपथाभिमुखं शङ्कर शरणागतं परित्राहि ॥ १८१.५२ ॥ दीनं द्विजं वरार्थे बन्धुजने नैव पूरिता ह्याशा । छिन्द्धि महेश्वर तृष्णां किं मूढं मां विडम्बयसि ॥ १८१.५३ ॥ तृष्णां हरस्व शीघ्रं लक्ष्मीं दद हृदयवासिनीं नित्यम् । छिन्द्धि मदमोहपाशं मामुत्तारय भवाच्च देवेश ॥ १८१.५४ ॥ करुणाभ्युदयं नाम स्तोत्रमिदं सर्वसिद्धिदं दिव्यम् । यः पठति भृगुं स्मरति च शिवलोकमसौ प्रयाति देहान्ते ॥ १८१.५५ ॥ एतच्छ्रुत्वा महादेवः स्तोत्रं च भृगुभाषितम् । उवाच वरदोऽस्मीति देव्या सह वरोत्तमम् ॥ १८१.५६ ॥ भृगुरुवाच - प्रसन्नो देवदेवेश यदि देयो वरो मम । सिद्धिक्षेत्रमिदं सर्वं भविता मम नामतः ॥ १८१.५७ ॥ भवद्भिः सन्निधानेन स्थातव्यं हि सहोमया । देवक्षेत्रमिदं पुण्यं येन सर्वं भविष्यति ॥ १८१.५८ ॥ अत्र स्थाने महास्थानं करोमि जगदीश्वर । तव प्रसादाद्देवेश पूर्यन्तां मे मनोरथाः ॥ १८१.५९ ॥ ईश्वर उवाच - श्रिया कृतमिदं पूर्वं किं न ज्ञातं त्वया द्विज । अनुमान्य श्रियं देवीं यदीयं मन्यते भवान् ॥ १८१.६० ॥ कुरुष्व यदभिप्रेतं त्वत्कृतं नः तदन्यथा । एवमुक्त्वा गते देवे स्नात्वा गत्वा भृगुः श्रियम् ॥ १८१.६१ ॥ कृत्वा च पारणं तत्र वसन्विप्रस्तया सह । श्रिया च सहितः काल इदं वचनमब्रवीत् ॥ १८१.६२ ॥ भृगुरुवाच - यदि ते रोचते भद्रे दुःखासीनं च ते यदि । त्वया वृते महाक्षेत्रे स्वीयं स्थानं करोम्यहम् ॥ १८१.६३ ॥ श्रीरुवाच - मम नाम्ना तु विप्रर्षे तव नाम्ना तु शोभनम् । स्थानं कुरुष्वाभिप्रेतमविरोधेन मे मतिः ॥ १८१.६४ ॥ भृगुरुवाच - कच्छपाधिष्ठितं ह्येतत्तस्य पृष्ठिगतं रमे । संमन्त्र्य सहितं तेन शोभनं भवती कुरु ॥ १८१.६५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृगुकच्छोत्पत्तिवर्णनं नामैकाशीत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १८२ श्रीमार्कण्डेय उवाच - ततो भृगुः श्रिया चैव समेतः कच्छपं गतः । अभिनन्द्य यथान्यायमुवाच वचनं शुभम् ॥ १८२.१ ॥ त्वया धृता धरा सर्वा तथा लोकाश्चराचराः । तथैव पुण्यभावत्वात्स्थितस्तत्र महामते ॥ १८२.२ ॥ चातुर्विद्यस्य संस्थानं करोमि रमया सह । यदि त्वं मन्यसे देव तदादेशय मां विभो ॥ १८२.३ ॥ कूर्म उवाच - एवमेव द्विजश्रेष्ठ मम नामाङ्कितं पुरम् । भविष्यति महत्कालं ममोपरि सुसंस्थितम् ॥ १८२.४ ॥ अचलं सुस्थिरं तात न भीः कार्या सुलोचने । एतच्छ्रुत्वा शुभं वाक्यं कच्छपस्य मुखाच्च्युतम् ॥ १८२.५ ॥ हृष्टस्तुष्टः श्रिया सार्द्धं पद्मयोनिसुतो भृगुः । अभीचि उदये प्राप्ते कृतकौतुकमङ्गलः ॥ १८२.६ ॥ नन्दने वत्सरे माघे पञ्चम्यां भरतर्षभ । शस्ते तु ह्युत्तरायोगे कुम्भस्थे शशिमण्डले ॥ १८२.७ ॥ रेवाया उत्तरे तीरे गम्भीरे चाभिवारुणि । प्रागुदक्प्रवणे देशे कोटितीर्थसमन्वितम् ॥ १८२.८ ॥ क्रोशप्रमाणं तत्क्षेत्रं प्रासादशतसंकुलम् । अचिरेणैव कालेन तपोबलसमन्वितः । विचिन्त्य विश्वकर्माणं चकार भृगुसत्तमः ॥ १८२.९ ॥ ब्राह्मणा वेदविद्वांसः क्षत्रिया राज्यपालकाः । वैश्या वृत्तिरतास्तत्र शूद्राः शुश्रूषकास्त्रिषु ॥ १८२.१० ॥ एवं श्रिया वृतं क्षेत्रं परमानन्दनन्दितम् । निर्मितं भृगुणा तात सर्वपातकनाशनम् । इति भृगुकच्छोत्पत्तिः ॥ १८२.११ ॥ मार्कण्डेय उवाच - ततः कालेन महता कस्मिंश्चित्कारणान्तरे । देवलोकं जगामाशु लक्ष्मीरृषिसमागमे ॥ १८२.१२ ॥ समर्प्य कुञ्चिकाट्टालं भृगवे ब्रह्मवादिने । पालयस्व यथार्थं वै स्थानकं मम सुव्रत ॥ १८२.१३ ॥ देवकार्याण्यशेषाणि कृत्वा श्रीः पुनरागता । आजगाम रमा देवी भृगुकच्छं त्वरान्विता ॥ १८२.१४ ॥ प्रार्थितं कुञ्चिकाट्टालं स्वगृहं सपरिग्रहम् । भृगुर्यदा तदा पार्थ मिथ्या नास्ति तदा वदत ॥ १८२.१५ ॥ एव विवादः सुमहान्संजातश्च नरेश्वर । ममेति मम चैवेति परस्परसमागमे ॥ १८२.१६ ॥ ततः कालेन महता भृगुणा परमर्षिणा । चातुर्विद्यप्रमाणार्थं चकार महतीं स्थितिम् ॥ १८२.१७ ॥ अस्मदीयं यथा सर्वं नगरं मृगलोचने । चातुर्विद्या द्विजाः सर्वे तथा जानन्ति सुन्दरि ॥ १८२.१८ ॥ श्रीरुवाच - प्रमाणं मम विप्रेन्द्र चातुर्वण्या न संशयः । मदीयं वा त्वदीयं वा कथयन्तु द्विजोत्तमाः ॥ १८२.१९ ॥ ततः समस्तैर्विबुधैः सम्प्रधार्य परस्परम् । द्विधा तैर्वाक्स्थलं दृष्ट्वा ब्राह्मणा नृपसंहितम् ॥ १८२.२० ॥ अष्टादशसहस्राणि नोचुर्वै किंचिदुत्तरम् । अष्टादशसहस्रेषु भृगुकोपभयान्नृप । उक्तं च तालकं हस्ते यस्य तस्येदमुत्तरम् ॥ १८२.२१ ॥ एतच्छ्रुत्वा तु सा देवी निगमं नैगमैः कृतम् । क्रोधेन महताविष्टा शशाप द्विजपुंगवान् ॥ १८२.२२ ॥ श्रीदेव्युवाच - यस्मात्सत्यं समुत्सृज्य लोभोपहतमानसैः । मदीयं लोपितं स्थानं तस्माच्छृण्वन्तु मे गिरम् ॥ १८२.२३ ॥ त्रिपौरुषा भवेद्विद्या त्रिपुरुषं न भवेद्धनम् । न द्वितीयस्तु वो वेदः पठितो भवति द्विजाः ॥ १८२.२४ ॥ गृहाणि न द्विभौमानि न च भूतिः स्थिरा द्विजाः । पक्षपातेन वो धर्मो न च निःश्रेयभावतः ॥ १८२.२५ ॥ इष्टो गोत्रजनः कश्चिल्लोभेनावृतमानसः । न च द्वैधं परित्यज्य ह्येकं सत्यं भविष्यति ॥ १८२.२६ ॥ अद्यप्रभृति सर्वेषामहङ्कारो द्विजन्मनाम् । न पिता पुत्रवाक्येन न पुत्रः पितृकर्मणि ॥ १८२.२७ ॥ अहङ्कारकृताः सर्वे भविष्यन्ति न संशयः । इति शप्त्वा रमादेवी तदैव च दिवं ययौ ॥ १८२.२८ ॥ ततो गतायां वै लक्ष्म्यां देवा ब्रह्मर्षयोऽमलाः । क्रोधलोभमिदं स्थानं तेऽपि चोक्त्वा दिवं ययुः ॥ १८२.२९ ॥ गतां दृष्ट्वा ततो देवीमृषींश्चैव तपोधनान् । भृगुश्च परमेष्ठी स विषादमगमत्परम् । प्रसादयामास पुनः शङ्करं त्रिपुरान्तकम् ॥ १८२.३० ॥ तपसा महता पार्थ ततस्तुष्टो महेश्वरः । उवाच वचनं काले हर्षयन् भृगुसत्तमम् ॥ १८२.३१ ॥ किं विषण्णोऽसि विप्रेन्द्र किं वा सन्तापकारणम् । मयि प्रसन्नेऽपि तव ह्येतत्कथय मेऽनघ ॥ १८२.३२ ॥ भृगुरुवाच - शापयित्वा द्विजान्सर्वान्पुरा लक्ष्मीर्विनिर्गता । अपवित्रमिदं चोक्त्वा ततो देवा विनिर्गताः ॥ १८२.३३ ॥ ईश्वर उवाच - पुरा मया यथा प्रोक्तं तत्तथा न तदन्यथा । क्रोधस्थानमसंदेहं तथान्यदपि तच्छृणु ॥ १८२.३४ ॥ तत्र स्थानसमुद्भूता महद्भयविवर्जिताः । ब्राह्मणा मत्प्रसादेन भविष्यन्ति न संशयः ॥ १८२.३५ ॥ वेदविद्याव्रतस्नाताः सर्वशास्त्रविशारदाः । येऽपि ते शतसाहस्रास्त्वरिता ह्यागतास्त्विह ॥ १८२.३६ ॥ अपठस्यापि मूर्खस्य सर्वावस्थां गतस्य च । उत्तरादुत्तरं शक्रो दातुं न तु भृगूत्तम ॥ १८२.३७ ॥ कोटितीर्थमिदं स्थानं सर्वपापप्रणाशनम् । अद्यप्रभृति विप्रेन्द्र भविष्यति न संशयः ॥ १८२.३८ ॥ मत्प्रसादाद्देवगणैः सेवितं च भविष्यति । भृगुक्षेत्रे मृता ये तु कृमिकीटपतंगकाः ॥ १८२.३९ ॥ वासस्तेषां शिवे लोके मत्प्रसादाद्भविष्यति । वृषखाते नरः स्नात्वा पूजयित्वा महेश्वरम् ॥ १८२.४० ॥ सर्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् । भृगुतीर्थे नरः स्नात्वा तर्पयेत्पितृदेवताः ॥ १८२.४१ ॥ तस्य ते द्वादशाब्दानि शान्तिं गच्छन्ति तर्पिताः । दधिक्षीरेण तोयेन घृतेन मधुना सह ॥ १८२.४२ ॥ ये स्नपन्ति विरूपाक्षं तेषां वासस्त्रिविष्टपे । मत्प्रसादाद्द्विजश्रेष्ठ सर्वदेवानुसेवितम् ॥ १८२.४३ ॥ भविष्यति भृगुक्षेत्रं कुरुक्षेत्रादिभिः समम् । मार्तण्डग्रहणे प्राप्ते यवं कृत्वा हिरण्मयम् ॥ १८२.४४ ॥ दत्त्वा शिरसि यः स्नाति भृगुक्षेत्रे द्विजोत्तम । अविचारेण तं विद्धि संस्नातं कुरुजाङ्गले ॥ १८२.४५ ॥ अहं चैव वसिष्यामि अम्बिका च मम प्रिया । सर्वदुःखापहा देवी नाम्ना सौभाग्यसुन्दरी ॥ १८२.४६ ॥ वसिष्यामि तया देव्या सहितो भृगुकच्छके । एवमुक्त्वा स्थितो देवो भृगुकच्छेऽम्बिका तथा ॥ १८२.४७ ॥ भृगुस्तु स्वपुरं प्रायाद्ब्रह्मघोषनिनादितम् । ऋग्यजुःसामघोषेण ह्यथर्वणनिनादितम् ॥ १८२.४८ ॥ तत्र तीर्थे तु यः स्नात्वा वृषमुत्सृजते नरः । स याति शिवसायुज्यमित्येवं शङ्करोऽब्रवीत् ॥ १८२.४९ ॥ तत्र तीर्थे तु यः स्नात्वा चैत्रे मासि समाचरेत् । दद्याच्च लवणं विप्रे पूज्य सौभाग्यसुन्दरीम् ॥ १८२.५० ॥ गोभूहिरण्यं विप्रेभ्यः प्रीयेतां ललिताशिवौ । न दुःखं दुर्भगत्वं च वियोगं पतिना सह ॥ १८२.५१ ॥ प्राप्नोति नारी राजेन्द्र भृगुतीर्थाप्लवेन च । यस्तु नित्यं भृगुं देवं पश्येद्वै पाण्डुनन्दन ॥ १८२.५२ ॥ आ ब्रह्मसदनं यावत्तत्रस्थैर्दैवतैः सह । यत्फलं समवाप्नोति तच्छृणुष्व नृपोत्तम ॥ १८२.५३ ॥ सुवर्णशृङ्गीं कपिलां पयस्विनीं साध्वीं सुशीलां तरुणीं सवत्साम् । दत्त्वा द्विजे सर्वव्रतोपपन्ने फलं च यत्स्यात्तदिहैव नूनम् ॥ १८२.५४ ॥ समाः सहस्राणि तु सप्त वै जले म्रियेल्लभेद्द्वादशवह्निमध्ये । त्यजंस्तनुं शूरवृत्त्या नरेन्द्र शक्रातिथ्यं याति वै मर्त्यधर्मा ॥ १८२.५५ ॥ आख्यानमेतच्च सदा यशस्यं स्वर्ग्यं धन्यं पुत्र्यमायुष्यकारि । शृण्वंल्लभेत्सर्वमेतद्धि भक्त्या पर्वणि पर्वण्याजमीढस्सदैव ॥ १८२.५६ ॥ संन्यासं कुरुते यस्तु भृगुतीर्थे विधानतः । स मृतः परमं स्थानं गच्छेद्वै यच्च दुर्लभम् ॥ १८२.५७ ॥ एतच्छ्रुत्वा भृगुश्रेष्ठो देवदेवेन भाषितम् । प्रहृष्टवदनो भूत्वा तत्रैव संस्थितो द्विजः ॥ १८२.५८ ॥ तिरोभावं गते देवे भृगुः श्रेष्ठो द्विजोत्तमः । स्वमूर्ति तत्र मुक्त्वा तु ब्रह्मलोकं जगाम ह ॥ १८२.५९ ॥ भृगुकच्छस्य चोत्पत्तिः कथिता तव पाण्डव । संक्षेपेण महाराज सर्वपामप्रणाशनी ॥ १८२.६० ॥ एतत्पुण्यं पापहरं क्षेत्रं देवेन कीर्तितम् । चतुर्युगसहस्रेण पितामहदिनं स्मृतम् ॥ १८२.६१ ॥ प्राप्ते ब्रह्मदिने विप्रा जायते युगसम्भवः । न पश्यामि त्विदं क्षेत्रमिति रुद्रः स्वयं जगौ ॥ १८२.६२ ॥ यः शृणोति त्विदं भक्त्या नारी वा पुरुषोऽपि वा । स याति परमं लोकमिति रुद्रः स्वयं जगौ ॥ १८२.६३ ॥ देवखाते नरः स्नात्वा पिण्डदानादिसत्क्रियाम् । यां करोति नृपश्रेष्ठ तामक्षयफलां विदुः ॥ १८२.६४ ॥ य इमं शृणुयाद्भक्त्या भृगुकच्छस्य विस्तरम् । कोटितीर्थफलं तस्य भवेद्वै नात्र संशयः ॥ १८२.६५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृगुकच्छतीर्थमाहात्म्यवर्णनं नाम द्व्यशीत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १८३ श्रीमार्कण्डेय उवाच - अतः परं महाराज गच्छेत्केदारसंज्ञकम् । यत्र गत्वा महाराज श्राद्धं कृत्वा पिबेज्जलम् । सम्पूज्य देवदेवेशं केदारोत्थं फलं लभेत् ॥ १८३.१ ॥ युधिष्ठिर उवाच - कथमत्र सुरश्रेष्ठ केदाराख्यः स्थितः स्वयम् । उत्तरे नर्मदाकूले एतद्विस्तरतो वद ॥ १८३.२ ॥ श्रीमार्कण्डेय उवाच - पुरा कृतयुगस्यादौ शङ्करस्तु महेश्वरः । भृगुणाराधितः शप्तः श्रिया च भृगुकच्छके ॥ १८३.३ ॥ अपवित्रमिदं क्षेत्रं सर्ववेदविवर्जितम् । भविष्यति नृपश्रेष्ठ गतेत्युक्त्वा हरिप्रिया ॥ १८३.४ ॥ तपश्चचार विपुलं भृगुर्वर्षसहस्रकम् । वायुभक्षो निराहारश्चिरं धमनिसंततः ॥ १८३.५ ॥ ततः प्रत्यक्षतामागाल्लिङ्गीभूतो महेश्वरः । प्रादुर्भूतस्तु सहसा भित्त्वा पातालसप्तकम् ॥ १८३.६ ॥ ददर्शाथ भृगुर्देवमौत्पलीं केलिकामिव । स्तुतिं चक्रे स देवाय स्थाणवे त्र्यम्बकेति च ॥ १८३.७ ॥ एवं स्तुतः स भगवान् प्रोवाच प्रहसन्निव । पुनः पुनर्भृगुं मत्तः किंतु प्रार्थयसे मुने ॥ १८३.८ ॥ भृगुरुवाच - पञ्चक्रोशमिदं क्षेत्रं पद्मया शापितं विभो । उपवित्रमिदं क्षेत्रं सर्ववेदविवर्जितम् । भविष्यतीति च प्रोच्य गता देवी विदं प्रति ॥ १८३.९ ॥ पुनः पवित्रतां याति यथेदं क्षेत्रमुत्तमम् । तथा कुरु महेशान प्रसन्नो यदि शङ्कर ॥ १८३.१० ॥ ईश्वर उवाच - केदाराख्यमिदं ब्रह्मंल्लिङ्गमाद्यं भविष्यति । कृत्वेदमादिलिङ्गानि भविष्यन्ति दशैव हि ॥ १८३.११ ॥ एकादशमदृश्यं हि क्षेत्रमध्ये भविष्यति । पावयिष्यति तत्क्षेत्रमेकादशः स्वयं विभुः ॥ १८३.१२ ॥ तथा वै द्वादशादित्या मत्प्रसादात्तु मूर्तितः । वसिष्यन्ति भृगुक्षेत्रे रोगदुःखनिबर्हणाः ॥ १८३.१३ ॥ दुर्गाः ह्यष्टादश तथा क्षेत्रपालास्तु षोडश । भृगुक्षेत्रे भविष्यन्ति वीरभद्राश्च मातरः ॥ १८३.१४ ॥ पवित्रीकृतमेतद्धि नित्यं क्षेत्रं भविष्यति । नाघमासे ह्युषःकाले स्नात्वा मासं जितेन्द्रियः ॥ १८३.१५ ॥ यः पूजयति केदारं स गच्छेच्छिवमन्दिरम् । तस्मिंस्तीर्थे नरः स्नात्वा पित्ःनुद्दिश्य भारत । श्राद्धं ददाति विधिवत्तस्य प्रीताः पितामहाः ॥ १८३.१६ ॥ इति ते कथितं सम्यक्केदाराख्यं सविस्तरम् । सर्वपापहरं पुण्यं सर्वदुःखप्रणाशनम् ॥ १८३.१७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे केदारेश्वरतीर्थमाहात्म्यवर्णनं नाम त्र्यशीत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १८४ श्रीमार्कण्डेय उवाच - धौतपापं ततो गच्छेद्भृगुतीर्थसमीपतः । वृषेण तु भृगुस्तत्र भूयोभूयो धुतस्ततः ॥ १८४.१ ॥ धौतपापं तु तत्तेन नाम्ना लोकेषु विश्रुतम् । तत्र स्थितो महादेवस्तुष्ट्यर्थं भृगुसत्तमे ॥ १८४.२ ॥ तत्र तीर्थे तु यः स्नात्वा शाठ्येनापि नरेश्वर । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ १८४.३ ॥ यस्तु सम्यग्विधानेन तत्र स्नात्वार्चयेच्छिवम् । देवान्पित्ःन्समभ्यर्च्य मुच्यते सर्वपातकैः ॥ १८४.४ ॥ ब्रह्महत्या गवां वध्या तत्र तीर्थे युधिष्ठिर । प्रविशेन्न सदा भीता प्रविष्टापि क्षयं व्रजेत् ॥ १८४.५ ॥ युधिष्ठिर उवाच - आश्चर्यभूतं लोकेऽस्मिन्कथयस्व द्विजोत्तम । प्रविशेन्न ब्रह्महत्या यथा वै धौतपाप्मनि ॥ १८४.६ ॥ ब्रह्महत्यासमं पापं भविता नेह किंचन । कथं वा धौतपापे तु प्रविष्टं नश्यते द्विज । एतद्विस्तरतः सर्वं पृच्छामि वद कौतुकात् ॥ १८४.७ ॥ मार्कण्डेय उवाच - आदिसर्गे पुरा शम्भुर्ब्रह्मणः परमेष्ठिनः । विकारं पञ्चमं दृष्ट्वा शिरोऽश्वमुखसन्निभम् ॥ १८४.८ ॥ अङ्गुष्ठाङ्गुलियोगेन तच्छिरस्तेन कृन्तितम् । कृत्तमात्रे तु शिरसि ब्रह्महत्याभक्तदा ॥ १८४.९ ॥ ब्रह्महत्यायुतश्चासीदुत्तरे नर्मदातटे । धुनितं तु यतो राजन्वृषेण धर्ममूर्तिना ॥ १८४.१० ॥ तत्र धौतेश्वरीं देवीं स्थापितां वृषभेण तु । ददर्श भगवाञ्छम्भुः सर्वदैवतपूजिताम् ॥ १८४.११ ॥ दृष्ट्वा धौतेश्वरीं दुर्गां ब्रह्महत्याविनाशिनीम् । तत्र विश्रममाणश्च शङ्करस्त्रिपुरान्तकः ॥ १८४.१२ ॥ स शङ्करो ब्रह्महत्याविहीनं मेने आत्मानं तस्य तीर्थस्य भावात् । सुविस्मितो देवदेवो वरेण्यो दृष्ट्वा दूरे ब्रह्महत्यां च तीर्थात् ॥ १८४.१३ ॥ विधौतपापं महितं धर्मशक्त्या विशेन्न हत्या देवीभयात्प्रभीता । रक्ताम्बरा रक्तमाल्योपयुक्ता कृष्णा नारी रक्तदामप्रसक्ता ॥ १८४.१४ ॥ मां वाञ्छन्ती स्कन्धदेशं रहस्ये दूरे स्थिता तीर्थवर्यप्रभावात् । संचिन्त्य देवो मनसा स्मरारिर्वासाय बुद्धिं तत्र तीर्थे चकार ॥ १८४.१५ ॥ विमृश्य देवो बहुशः स्थितः स्वयं विधौतपापः प्रथितः पृथिव्याम् । बभूव तत्रैव निवासकारी विधूतपापनिकटप्रदेशे ॥ १८४.१६ ॥ तदाप्रभृति राजेन्द्र ब्रह्महत्याविनाशनम् । विधौतपापं तत्तीर्थं नर्मदायां व्यवस्थितम् ॥ १८४.१७ ॥ आश्वयुक्शुक्लनवमी तत्र तीर्थे विशिष्यते । दिनत्रयं तु राजेन्द्र सप्तम्यादिविशेषतः ॥ १८४.१८ ॥ समुपोष्याष्टमीं भक्त्या साङ्गं वेदं पठेत्तु यः । अहोरात्रेण चैकेन ऋग्यजुःसामसंज्ञकम् ॥ १८४.१९ ॥ अभ्यसन्ब्रह्महत्याया मुच्यते नात्र संशयः । वृषलीगमनं चैव यश्च गुर्वङ्गनागमः ॥ १८४.२० ॥ स्नात्वा ब्रह्मरसोत्कृष्टे कुम्भेनैव प्रमुच्यते । वन्ध्या स्त्रीजननी या तु काकवन्ध्या मृतप्रजा ॥ १८४.२१ ॥ सापि कुम्भोदकैः स्नाता जीवत्पुत्रा प्रजावती । अपठस्तु नर उपोष्य ऋग्यजुःसामसम्भवाम् ॥ १८४.२२ ॥ ऋचमेकां जपन्विप्रस्तथा पर्वणि यो नृप । अनृचोपोष्य गायत्रीं जपेद्वै वेदमातरम् ॥ १८४.२३ ॥ जपन्नवम्यां विप्रेन्द्रो मुच्यते पापसञ्चयात् । एवं तु कथितं तात पुराणोक्तं महर्षिभिः ॥ १८४.२४ ॥ धौतपापं महापुण्यं शिवेन कथितं मम । प्राणत्यागं तु यः कुर्याज्जले वाग्नौ स्थलेऽपि वा ॥ १८४.२५ ॥ स गच्छति विमानेन ज्वलनार्कसमप्रभः । हंसबर्हिप्रयुक्तेन सेव्यमानोऽप्सरोगणैः ॥ १८४.२६ ॥ शिवस्य परमं स्थानं यत्सुरैरपि दुर्लभम् । क्रीडते स्वेच्छया तत्र यावच्चन्द्रार्कतारकम् ॥ १८४.२७ ॥ धौतपापे तु या नारी कुरुते प्राणसंक्षयम् । तत्क्षणादेव सा पार्थ पुरुषत्वमवाप्नुयात् ॥ १८४.२८ ॥ अथ किं बहुनोक्तेन शुभं वा यदि वाशुभम् । तदक्षयफलं सर्वं धौतपापे कृतं नृप ॥ १८४.२९ ॥ संन्यसेन्नियमेनान्नं संन्यसेद्विषयादिकम् । फलमूलादिकं चैव जलमेकं न संत्यजेत् ॥ १८४.३० ॥ एवं यः कुरुते पार्थ रुद्रलोकं स गच्छति । तत्र भुक्ताखिलान्भोगाञ्जायते भुवि भूपतिः ॥ १८४.३१ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे धौतपापतीर्थमाहात्म्यवर्णनं नाम चतुरशीत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १८५ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल एरण्डीतीर्थमुत्तमम् । स्नानमात्रेण तत्रैव ब्रह्महत्या प्रणश्यति ॥ १८५.१ ॥ मासि चाश्वयुजे तत्र शुक्लपक्षे चतुर्दशीम् । उपोष्य प्रयतः स्नातस्तर्पयेत्पितृदेवताः ॥ १८५.२ ॥ पुत्रर्द्धिरूपसम्पन्नो जीवेच्च शरदां शतम् । शिवलोकं मृतो याति नात्र कार्या विचारणा ॥ १८५.३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीतीर्थमाहात्म्यवर्णनं नाम पञ्चाशीत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १८६ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल तीर्थं कनखलोत्तमम् । गरुडेन तपस्तप्तं पूजयित्वा महेश्वरम् ॥ १८६.१ ॥ दिव्यं वर्षशतं यावज्जातमात्रेण भारत । तपोजपैः कृशीभूतो दृष्टो देवेन शम्भुना ॥ १८६.२ ॥ ततस्तुष्टो महादेवो वैनतेयं मनोजवम् । उवाच परमं वाक्यं विनतानन्दवर्धनम् ॥ १८६.३ ॥ प्रसन्नस्ते महाभाग वरं वरय सुव्रत । दुर्लभं त्रिषु लोकेषु ददामि तव खेचर ॥ १८६.४ ॥ गरुड उवाच - इच्छामि वाहनं विष्णोर्द्विजेन्द्रत्वं सुरेश्वर । प्रसन्ने त्वयि मे सर्वं भवत्विति मतिर्मम ॥ १८६.५ ॥ श्रीमहेश उवाच - दुर्लभः प्राणिनां तात यो वरः प्रार्थितोऽनघ । देवदेवस्य वाहनं द्विजेन्द्रत्वं सुदुर्लभम् ॥ १८६.६ ॥ नारायणोदरे सर्वं त्रैलोक्यं सचराचरम् । त्वया स कथमूह्येत देवदेवो जगद्गुरुः ॥ १८६.७ ॥ तेनैव स्थापितश्चेन्द्रस्त्रैलोक्ये सचराचरे । कथमन्यस्य चेन्द्रत्वं भवतीति सुदुर्लभम् ॥ १८६.८ ॥ तथापि मम वाक्येन वाहनं त्वं भविष्यसि । शङ्खचक्रगदापाणेर्वहतोऽपि जगत्त्रयम् ॥ १८६.९ ॥ इन्द्रस्त्वं पक्षिणां मध्ये भविष्यसि न संशयः । इति दत्त्वा वरं तस्मा अन्तर्धानं गतो हरः ॥ १८६.१० ॥ ततो गते महादेवे ह्युरुणस्यानुजो नृप । आराधयामास तदा चामुण्डां मुण्डमण्डिताम् ॥ १८६.११ ॥ श्मशानवासिनीं देवीं बहुभूतसमन्विताम् । योगिनीं योगसंसिद्धां वसामांसासवप्रियाम् ॥ १८६.१२ ॥ ध्यातमात्रा तु तेनैव प्रत्यक्षा ह्यभवत्तदा । जालंधरे च या सिद्धिः कौलीने उड्डिशे परे ॥ १८६.१३ ॥ समग्रा सा भृगुक्षेत्रे सिद्धक्षेत्रे तु संस्थिता । चामुण्डा तत्र सा देवी सिद्धक्षेत्रे व्यवस्थिता ॥ १८६.१४ ॥ संस्तुता ऋषिभिर्देवैर्योगक्षेमार्थसिद्धये । विनतानन्दजननस्तत्र तां योगिनीं नृप । भक्त्या प्रसादयामास स्तोत्रैर्वैदिकलौकिकैः ॥ १८६.१५ ॥ गरुड उवाच - ओं या सा क्षुत्क्षामकण्ठा नवरुधिरमुखा प्रेतपद्मासनस्था भूतानां वृन्दवृन्दैः पितृवननिलया क्रीडते शूलहस्ता । शस्त्रध्वस्तप्रवीरव्रजरुधिरगलन्मुण्डमालोत्तरीया देवी श्रीवीरमाता विमलशशिनिभा पातु वश्चर्ममुण्डा ॥ १८६.१६ ॥ या सा क्षुत्क्षामकण्ठा विकृतभयकरी त्रासिनी दुष्कृतानां मुञ्चज्ज्वालाकलापैर्दशनकसमसैः खादति प्रेतमांसम् । या सा दोर्दण्डचण्डैर्डमरुरणरणाटोपटंकारघण्टैः कल्पान्तोत्पातवाताहतपटुपटहैर्वल्गते भूतमाता । क्षुत्क्षामा शुष्ककुक्षिः खवरतरनरवरैः क्षोदति प्रेतमांसं मुञ्चन्ती चाट्टहासं घुरघुरितरवा पातु वश्चर्ममुण्डा ॥ १८६.१७ ॥ या सा निम्नोदराभा विकृतभवभयत्रासिनी शूलहस्ता चामुण्डा मुण्डघाता रणरणितरणझल्लरीनादरम्या । त्रैलोक्यं त्रासयन्ति ककहकहकहैर्घोररावैरनेकैर्नृत्यन्ती मातृमध्ये पितृवननिलया पातु वश्चर्ममुण्डा ॥ १८६.१८ ॥ या धत्ते विश्वमखिलं निजांशेन महोज्ज्वला । कनकप्रसवे लीना पातु मां कनकेश्वरी ॥ १८६.१९ ॥ हिमाद्रिसम्भवा देवी दयादर्शितविग्रहा । शिवप्रिया शिवे सक्ता पातु मां कनकेश्वरी ॥ १८६.२० ॥ अनादिजगदादिर्या रत्नगर्भा वसुप्रिया । रथाङ्गपाणिना पद्मा पातु मां कनकेश्वरी ॥ १८६.२१ ॥ सावित्री या च गायत्री मृडानी वागथेन्दिरा । स्मर्त्ःणां या सुखं दत्ते पातु मां कनकेश्वरी ॥ १८६.२२ ॥ सौम्यासौम्यैः सदा रूपैः सृजत्यवति या जगत् । परा शक्तिः परा बुद्धिः पातु मां कनकेश्वरी ॥ १८६.२३ ॥ ब्रह्मणः सर्गसमये सृज्यशक्तिः परा तु या । जगन्माया जगद्धात्री पातु मां कनकेश्वरी ॥ १८६.२४ ॥ विश्वस्य पालने विष्णोर्या शक्तिः परिपालिका । मदनोन्मादिनी मुख्या पातु मां कनकेश्वरी ॥ १८६.२५ ॥ विश्वसंलयने मुख्या या रुद्रेण समाश्रिता । रौद्री शक्तिः शिवानन्ता पातु मां कनकेश्वरी ॥ १८६.२६ ॥ कैलाससानुसंरूढ कनकप्रसवेशया । भस्मकाभिहृता पूर्वं पातु मां कनकेश्वरी ॥ १८६.२७ ॥ पतिप्रभावमिच्छन्ती त्रस्यन्ती या विना पतिम् । अबला त्वेकभावा च पातु मां कनकेश्वरी ॥ १८६.२८ ॥ विश्वसंरक्षणे सक्ता रक्षिता कनकेन या । आ ब्रह्मस्तम्बजननी पातु मां कनकेश्वरी ॥ १८६.२९ ॥ ब्रह्मविष्ण्वीश्वराः शक्त्या शरीरग्रहणं यया । प्रापिताः प्रथमा शक्तिः पातु मां कनकेश्वरी ॥ १८६.३० ॥ श्रुत्वा तु गरुडेनोक्तं देवीवृत्तचतुष्टयम् । प्रसन्ना संमुखी भूत्वा वाक्यमेतदुवाच ह ॥ १८६.३१ ॥ श्रीचामुण्डोवाच - प्रसन्ना ते महासत्त्व वरं वरय वाञ्छितम् । ददामि ते द्विजश्रेष्ठ यत्ते मनसि रोचते ॥ १८६.३२ ॥ गरुड उवाच - अजरश्चामरश्चैव अधृष्यश्च सुरासुरैः । तव प्रसादाच्चैवान्यैरजेयश्च भवाम्यहम् ॥ १८६.३३ ॥ त्वया चात्र सदा देवि स्थातव्यं तीर्थसन्निधौ । मार्कण्डेय उवाच - एवं भविष्यतीत्युक्त्वा देवी देवैरभिष्टुता ॥ १८६.३४ ॥ जगामाकाशमाविश्य भूतसङ्घसमन्विता । यदा लक्ष्म्या नृपश्रेष्ठ स्थापितं पुरमुत्तमम् ॥ १८६.३५ ॥ अनुमान्य तदा देवीं कृतं तस्यां समर्पितम् । लक्ष्मीरुवाच - रक्षणाय मया देवि योगक्षेमार्थसिद्धये ॥ १८६.३६ ॥ मातृवत्प्रतिपाल्यं ते सदा देवि पुरं मम । गरुडोऽपि ततः स्नात्वा सम्पूज्य कनकेश्वरीम् ॥ १८६.३७ ॥ तीर्थं तत्रैव संस्थाप्य जगामाकाशमुत्तमम् । तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ॥ १८६.३८ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते । गन्धपुष्पादिभिर्यस्तु पूजयेत्कनकेश्वरम् ॥ १८६.३९ ॥ तस्य योगैश्वर्यसिद्धिर्योगपीठेषु जायते । मृतो योगेश्वरं लोकं जयशब्दादिमङ्गलैः । स गच्छेन्नात्र सन्देहो योगिनीगणसंयुतः ॥ १८६.४० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कनखलेश्वरतीर्थमाहात्म्यवर्णनं नाम षडशीत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १८७ श्रीमार्कण्डेय उवाच - जालेश्वरं ततो गच्छेल्लिङ्गमाद्यं स्वयम्भुवः । कालाग्निरुद्रं विख्यातं भृगुकच्छे व्यवस्थितम् ॥ १८७.१ ॥ सर्वपापप्रशमनं सर्वोपद्रवनाशनम् । क्षेत्रपापविनाशाय कृपया च समुत्थितम् ॥ १८७.२ ॥ पुरा कल्पेऽसुरगणैराक्रान्ते भुवनत्रये । वेदोक्तकर्मनाशे च धर्मे च विलयं गते ॥ १८७.३ ॥ देवर्षिमुनिसिद्धेषु विश्वासपरमेषु च । कालाग्निरुद्रादुत्पन्नो धूमः कालोद्भवोद्भवः ॥ १८७.४ ॥ धूमात्समुत्थितं लिङ्गं भित्त्वा पातालसप्तकम् । अवटं दक्षिणे कृत्वा लिङ्गं तत्रैव तिष्ठति ॥ १८७.५ ॥ तत्र तीर्थे नृपश्रेष्ठ कुण्डं ज्वालासमुद्भवम् । यत्र सा पतिता ज्वाला शिवस्य दहतः पुरम् ॥ १८७.६ ॥ तत्रावटं समुद्भूतं धूमावर्तस्ततोऽभवत् । तस्मिन्कुण्डे तु यः स्नानं कृत्वा वै नर्मदाजले ॥ १८७.७ ॥ कुर्याच्छ्राद्धं पितृभ्यो वै पूजयेच्च त्रिलोचनम् । कालाग्निरुद्रनामानि स गच्छेत्परमां गतिम् ॥ १८७.८ ॥ यत्किंचित्कामिकं कर्म ह्याभिचारिकमेव वा । रिपुसंक्षयकृद्वापि सांतानिकमथापि वा । अत्र तीर्थे कृतं सर्वमचिरात्सिध्यते नृप ॥ १८७.९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कालाग्निरुद्रतीर्थमाहात्म्यवर्णनं नाम सप्ताशीत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १८८ श्रीमार्कण्डेय उवाच - ततः परं महाराज चत्वारिंशत्क्रमान्तरे । शालग्रामं ततो गच्छेत्सर्वदैवतपूजितम् ॥ १८८.१ ॥ यत्रादिदेवो भगवान्वासुदेवस्त्रिविक्रमः । स्वयं तिष्ठति लोकात्मा सर्वेषां हितकाम्यया ॥ १८८.२ ॥ नारदेन तपस्तप्त्वा कृता शाला द्विजन्मनाम् । सिद्धिक्षेत्रं भृगुक्षेत्रं ज्ञात्वा रेवातटे स्वयम् ॥ १८८.३ ॥ शालग्रामाभिधो देवो विप्राणां त्वधिवासितः । साधूनां चोपकाराय वासुदेवः प्रतिष्ठितः ॥ १८८.४ ॥ योगिनामुपकाराय योगिध्येयो जनार्दनः । शालग्रामेति तेनैव नर्मदातटमाश्रितः ॥ १८८.५ ॥ मासि मार्गशिरे शुक्ला भवत्येकादशी यदा । स्नात्वा रेवाजले पुण्ये तद्दिनं समुपोषयेत् ॥ १८८.६ ॥ रात्रौ जागरणं कुर्यात्सम्पूज्य च जनार्दनम् । पुनः प्रभातसमये द्वादश्यां नर्मदाजले ॥ १८८.७ ॥ स्नात्वा संतर्प्य देवांश्च पित्ःन्मात्ःस्तथैव च । श्राद्धं कृत्वा ततः पश्चात्पितृभ्यो विधिपूर्वकम् ॥ १८८.८ ॥ शक्तितो ब्राह्मणान्पूज्य स्वर्णवस्त्रान्नदानतः । क्षमापयित्वा तान्विप्रांस्तथा देवं खगध्वजम् ॥ १८८.९ ॥ एवं कृते महाराज यत्पुण्यं च भवेन्न्ःणाम् । शृणुष्वावहितो भूत्वा तत्पुण्यं नृपसत्तम ॥ १८८.१० ॥ न शोकदुःखे प्रतिपत्स्यतीह जीवन्मृतो याति मुरारिसाम्यम् । महान्ति पापानि विसृज्य दुग्धं पुनर्न मातुः पिबते स्तनोद्यत् ॥ १८८.११ ॥ शालग्रामं पश्यते यो हि नित्यं स्नात्वा जले नार्मदेऽघौघहारे । स मुच्यते ब्रह्महत्यादिपापैर्नारायणानुस्मरणेन तेन ॥ १८८.१२ ॥ वसन्ति ये संन्यसित्वा च तत्र निगृह्य दुःखानि विमुक्तसङ्घाः । ध्यायन्तो वै सांख्यवृत्त्या तुरीयं पदं मुरारेस्तेऽपि तत्रैव यान्ति ॥ १८८.१३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शालग्रामतीर्थमहात्म्यवर्णनं नामाष्टाशीत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १८९ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । उदीर्णो यत्र वाराहो ह्यभवद्धरणीधरः ॥ १८९.१ ॥ धन्वदंष्ट्रां करालाग्रां बिभ्रच्च पृथिवीमिमाम् । स एव पञ्चमः प्रोक्तो वाराहो मुक्तिदायकः ॥ १८९.२ ॥ युधिष्ठिर उवाच - कथमुदीर्णरूपोऽभूद्वाराहो धरणीधरः । वाराहत्वं गतः केन पञ्चमः केन संज्ञितः ॥ १८९.३ ॥ मार्कण्डेय उवाच - आदिकल्पे पुरा राजन्क्षीरोदे भगवान् हरिः । शेते स भोगिशयने योगनिद्राविमोहितः ॥ १८९.४ ॥ बभूव नृपतिश्रेष्ठ गत्वा वै देवसंनिधौ । अवोचद्भारखिन्नाहं गमिष्यामि रसातलम् ॥ १८९.५ ॥ दृष्ट्वा देवाः समुद्विग्ना गता यत्र जनार्दनः । तुष्टुवुर्वाग्भिरिष्टाभिः केशवं जगत्पतिम् ॥ १८९.६ ॥ देवा ऊचुः । नमो नमस्ते देवेश सुरार्तिहर सर्वग । विश्वमूर्ते नमस्तुभ्यं त्राहि सर्वान्महद्भयात् ॥ १८९.७ ॥ इत्युक्तो दैवतैर्देवो ह्युवाच किमुपस्थितम् । कार्यं वदध्वं मे देवा यत्कृत्यं मा चिरं कृथाः ॥ १८९.८ ॥ देवा ऊचुः । धरा धरित्री भूतानां भारोद्विग्ना निमज्जति । तामुद्धर हृषीकेश लोकान्संस्थापय स्थितौ ॥ १८९.९ ॥ एवमुक्तः सुरैः सर्वैः केशवः परमेश्वरः । वाराहं रूपमास्थाय सर्वयज्ञमयं विभुः ॥ १८९.१० ॥ दंष्ट्राकरालं पिङ्गाक्षं समाकुञ्चितमूर्धजम् । कृत्वाऽनन्तं पादपीठं दंष्ट्राग्रेणोद्धरन्भुवम् ॥ १८९.११ ॥ सपर्वतवनामुर्वीं समुद्रपरिमेखलाम् । उद्धृत्य भगवान् विष्णुरुदीर्णः समजायत ॥ १८९.१२ ॥ दर्शयन्पञ्चधात्मानमुत्तरे नर्मदातटे । तथाद्यं कोरलायां तु द्वितीयं योधनीपुरे ॥ १८९.१३ ॥ जयक्षेत्राभिधाने तु जयेति परिकीर्तितम् । असुरान्मोहयल्लिङ्गस्तृतीयः परिकीर्तितः ॥ १८९.१४ ॥ पावनाय जगद्धेतोः स्थितो यस्माच्छशिप्रभः । अतस्तु नृपशार्दूल श्वेत इत्याभिधीयते ॥ १८९.१५ ॥ उद्धृत्य जगतां देवीमुदीर्णो भृगुकच्छके । ततः पञ्चम उदीर्णो वराह इति संज्ञितः ॥ १८९.१६ ॥ इति पञ्चवराहास्ते कथितः पाण्डुनन्दन । युगपद्दर्शनं चैषां ब्रह्महत्यां व्यपोहति ॥ १८९.१७ ॥ ज्येष्ठे मासि सिते पक्ष एकादश्यां विशेषतः । गत्वा ह्यादिवराहं तु सम्प्राप्ते दशमीदिने ॥ १८९.१८ ॥ हविष्यमन्नं भुञ्जीयाल्लघुसायं गते रवौ । रात्रौ जागरणं कुर्याद्वाराहे ह्यादिसंज्ञके ॥ १८९.१९ ॥ ततः प्रभाते ह्युषसि संस्नात्वा नर्मदाजले । संतर्प्य पितृदेवांश्च तिलैर्यवविमिश्रितैः ॥ १८९.२० ॥ धेनुं दद्याद्द्विजे योग्ये सर्वाभरणभूषिताम् । निर्ममो निरहङ्कारो दानं दद्याद्द्विजातये ॥ १८९.२१ ॥ गत्वा सम्पूजयेद्देवं वाराहं ह्यादिसंज्ञितम् । अनेन विधिना पूज्य पश्चाद्गच्छेज्जयं त्वरन् ॥ १८९.२२ ॥ त्वरितं तु जयं गत्वा पूर्वकं विधिमाचरेत् । अश्वं दद्याद्द्विजाग्र्याय जयपूर्वाभिनिर्गतम् ॥ १८९.२३ ॥ लिङ्गे चैव तिला देयाः श्वेते हिरण्यमेव च । उदीर्णे च भुवं दद्यात्पूर्वकं विधिमाचरेत् ॥ १८९.२४ ॥ अनस्तमित आदित्ये वराहान्पञ्च पश्यतः । यत्फलं लभते पार्थ तदिहैकमनाः शृणु ॥ १८९.२५ ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । एभिस्तु सह संयोगो विश्वस्तानां च वञ्चनम् ॥ १८९.२६ ॥ स्वसृदुहितृभगिनीकुलदारोपबृंहणम् । आ जन्ममरणाद्यावत्पापं भरतसत्तम ॥ १८९.२७ ॥ तीर्थपञ्चकपूतस्य वैष्णवस्य विशेषतः । युगपच्चविनश्येत तूलराशिरिवानलात् ॥ १८९.२८ ॥ नारायणानुस्मरणाज्जपध्यानाद्विशेषतः । विप्रणश्यन्ति पापानि गिरिकूटसमान्यपि ॥ १८९.२९ ॥ दृष्ट्वा पञ्च वराहान्वै पौरुषे महति स्थितः । आप्लवन्नर्मदातोये श्राद्धं कृत्वा यथाविधि ॥ १८९.३० ॥ उदयास्तमनादर्वाग्यः पश्येल्लोटणेश्वरम् । कलेवरविमुक्तः स इत्येवं शङ्करोऽब्रवीत् ॥ १८९.३१ ॥ मुक्तिं प्रयाति सहसा दुष्प्रापां परमेश्वरीम् । पौरुषे क्रियमाणेऽपि न सिद्धिर्जायते यदि ॥ १८९.३२ ॥ ब्रुवन्ति स्वर्गगमनमपि पापान्वितस्य च । यत्र तत्र गतस्यैव भवेत्पञ्चवराहकी ॥ १८९.३३ ॥ ज्येष्ठस्यैकादशीतिथौ ध्रुवं तत्र वसेन्नरः । आदिं जयं तथा श्वेतं लिङ्गमुदीर्णमेव च ॥ १८९.३४ ॥ आश्रित्य तस्या द्रष्टव्या वराहास्तु यतस्ततः । ज्येष्ठस्यैकादशीतिथौ विष्णुना प्रभुविष्णुना ॥ १८९.३५ ॥ वाराहं रूपमास्थाय उद्धृता धरणी विभो । पुण्यात्पुण्यतमा तेन ह्यशेषाघौघनाशिनी ॥ १८९.३६ ॥ दृष्ट्वा पञ्चवराहान्वै क्रोडमुदीर्णरूपिणम् । पूजयित्वा विधानेन पश्चाज्जागरणं चरेत् ॥ १८९.३७ ॥ सपञ्चवर्तिकान् दीपान् घृतेनोज्ज्वाल्य भक्तितः । पुराणश्रवणैर्नृत्यैर्गीतवाद्यैः सुमङ्गलैः ॥ १८९.३८ ॥ वेदजाप्यैः पवित्रैश्च क्षपयित्वा च शर्वरीम् । यत्पुण्यं लभते मर्त्यो ह्याजमीढ शृणुष्व तत् ॥ १८९.३९ ॥ रेवाजलं पुण्यतमं पृथिव्यां तथा च देवो जगतां पतिर्हरिः । एकादशी पापहरा नरेन्द्र बह्वायासैर्लभ्यते मानवानाम् ॥ १८९.४० ॥ एकैकशो ब्रह्महत्यादिकानि शक्तानि हन्तुं पापसङ्घानि राजन् । नैते सर्वे युगपद्वै समेता हन्तुं शक्ताः किं न तद्ब्रूहि राजन् ॥ १८९.४१ ॥ यथेदमुक्तं तव धर्मसूनो श्रुतं च यच्छङ्कराच्चन्द्रमौलेः । श्रुत्वेदमिच्छन्मुच्यते सर्वपापैः पठन्पदं याति हि वृत्रशत्रोः ॥ १८९.४२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये उदीर्णवराहतीर्थमाहात्म्यवर्णनं नामैकोननवत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १९० श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल सोमतीर्थमनुत्तमम् । चन्द्रहासेति विख्यातं सर्वदैवतपूजितम् ॥ १९०.१ ॥ यत्र सिद्धिं परां प्राप्तः सोमो राजा सुरोत्तमः ॥ १९०.२ ॥ युधिष्ठिर उवाच - कथं सिद्धिमनुप्राप्तः सोमो राजा जगत्पतिः । तत्सर्वं श्रोतुमिच्छामि कथयस्व ममानघ ॥ १९०.३ ॥ मार्कण्डेय उवाच - पुरा शप्तो मुनीन्द्रेण दक्षेण किल भारत । असेवनाद्धि दाराणां क्षयरोगी भविष्यसि ॥ १९०.४ ॥ उद्वाहितानां पत्नीनां ये न कुर्वन्ति सेवनम् । या निष्ठा जायते तेषां तां शृणुष्व नरोत्तम ॥ १९०.५ ॥ ऋतुकाले तु नारीणां सेवनाज्जायते सुतः । सुतात्स्वर्गश्च मोक्षश्च हीत्येवं श्रुतिनोदना ॥ १९०.६ ॥ तत्कालोचितधर्मेण ये न सेवन्ति तां नराः । तेषां ब्रह्मघ्नजं पापं जायते नात्र संशयः ॥ १९०.७ ॥ तेन पापेन घोरेण वेष्टतो रौरवे पतेत् । तस्य तद्रुधिरं पापाः पिबन्ते कालमीप्सितम् ॥ १९०.८ ॥ ततोऽवतीर्णकालेन यां यां योनिं प्रयास्यति । तस्यां तस्यां स दुष्टात्मा दुर्भगो जायते सदा ॥ १९०.९ ॥ नारीणां तु सदा कामो ह्यधिकः परिवर्तते । विशेषेण ऋतोः काले भिद्यते कामसायकैः ॥ १९०.१० ॥ परिभूता हि सा भर्त्रा ध्यायतेऽन्यं पतिं ततः । तस्याः पुत्रः समुत्पन्नो ह्यटते कुलमुत्तमम् ॥ १९०.११ ॥ स्वर्गस्थास्तेन पितरः पूर्वं जाता महीपते । पतन्ति जातमात्रेण कुलटस्तेन चोच्यते ॥ १९०.१२ ॥ तेन कर्मविपाकेन क्षयरोगी शशी ह्यभूत् । त्यक्त्वा लोकं सुरेन्द्राणां मर्त्यलोकमुपागतः ॥ १९०.१३ ॥ तत्र तीर्थान्यनेकानि पुण्यान्यायतनानि च । भ्रमित्वा नर्मदां प्राप्तः सर्वपापप्रणाशिनीम् ॥ १९०.१४ ॥ उपवासस्तु दानानि व्रतानि नियमाश्च ये । चचार द्वादशाब्दानि ततो मुक्तः स किल्बिषैः ॥ १९०.१५ ॥ स्थापयित्वा महादेवं सर्वपातकनाशनम् । जगाम प्रभया पूर्णः सोमलोकमनुत्तमम् ॥ १९०.१६ ॥ येनैव स्थापितो देवः पूज्यते वर्षसंख्यया । तावद्युगसहस्राणि तस्य लोकं समश्नुते ॥ १९०.१७ ॥ तेन देवान् विधानोक्तान् स्थापयन्ति नरा भुवि । अक्षयं चाव्ययं यस्मात्फलं भवति नान्यथा ॥ १९०.१८ ॥ सोमतीर्थे तु यः स्नात्वा पूजयेद्देवमीश्वरम् । जायते स नरो भूत्वा सोमवित्प्रियदर्शनः ॥ १९०.१९ ॥ चन्द्रप्रभासे यो गत्वा स्नानं विधिवदाचरेत् । व्याधिना नाभिभूतः स्यात्क्षयरोगेण वा युतः ॥ १९०.२० ॥ चन्द्रहास्ये नरः स्नात्वा द्वादश्यां तु नरेश्वर । चतुर्दश्यामुपोष्यैव क्षीरस्य जुहुयाच्चरुम् ॥ १९०.२१ ॥ मन्त्रैः पञ्चभिरीशानं पुरुषस्त्र्यम्बकं यजेत् । हविःशेषं स्वयं प्राश्य चन्द्रहास्येशमीक्षयेत् ॥ १९०.२२ ॥ अनेन विधिना राजंस्तुष्टो देवो महेश्वरः । विधिना तीर्थयोगेन क्षयरोगाद्विमुच्यते ॥ १९०.२३ ॥ सप्तभिः सोमवारैर्यः स्नानं तत्र समाचरेत् । स वै कर्णकृताद्रोगान्मुच्यते पूजयञ्छिवम् ॥ १९०.२४ ॥ अक्षिरोगस्तथा राजंश्चन्द्रहास्ये विनश्यति । चन्द्रहास्ये तु यो गत्वा ग्रहणे चन्द्रसूर्ययोः । स्नानं समाचरेद्भक्त्या मुच्यते सर्वपातकैः ॥ १९०.२५ ॥ तत्र स्नानं च दानं च चन्द्रहास्ये शुभशुभम् । कृतं नृपवरश्रेष्ठ सर्वं भवति चाक्षयम् ॥ १९०.२६ ॥ ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् । चन्द्रहास्ये तु ये स्नात्वा पश्यन्ति ग्रहणं नराः ॥ १९०.२७ ॥ वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् । स्नानमात्रात्तु राजेन्द्र तत्र तीर्थे प्रणश्यति ॥ १९०.२८ ॥ बहवस्तन्न जानन्ति महामोहसमन्विताः । देहस्थ इव सर्वेषां परमात्मेव संस्थितम् ॥ १९०.२९ ॥ पश्चिमे सागरे गत्वा सोमतीर्थे तु यत्फलम् । तत्समग्रमवाप्नोति चन्द्रहास्ये न संशयः ॥ १९०.३० ॥ संक्रान्तौ च व्यतीपाते विषुवे चायने तथा । चन्द्रहास्ये नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥ १९०.३१ ॥ ते मूढास्ते दुराचारास्तेषां जन्म निरर्थकम् । चन्द्रहास्यं न जानन्ति नर्मदायां व्यवस्थितम् ॥ १९०.३२ ॥ चन्द्रहास्ये तु यः कश्चित्संन्यासं कुरुते नृप । अनिवर्तिका गतिस्तस्य सोमलोकात्कदाचन ॥ १९०.३३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चन्द्रहास्यतीर्थमहात्म्यवर्णनं नाम नवत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १९१ श्रीमार्कण्डेय उवाच - सिद्धेश्वरं ततो गच्छेत्तस्यैव तु समीपतः । अमृतस्रावि तल्लिङ्गमाद्यं स्वायम्भुवं तथा ॥ १९१.१ ॥ दृष्टमात्रेण येनेह ह्यनृणो जायते नरः । पुरा वर्षशतं साग्रमाराध्य परमेश्वरम् ॥ १९१.२ ॥ प्राप्नुयुः परमां सिद्धिमादित्या द्वादशैव तु । अतः सिद्धेश्वरः प्रोक्तः सिद्धिदः सिद्धिकाङ्क्षिणाम् ॥ १९१.३ ॥ युधिष्ठिर उवाच - कथं सिद्धेश्वरे प्राप्ताः सिद्धिं देवा द्विजोत्तम । आदित्या इति यच्चोक्तं तन्मे विस्मापनं कृतम् ॥ १९१.४ ॥ तपस्युग्रे व्यवसिता आदित्याः केन हेतुना । सम्प्राप्तास्तु द्विजश्रेष्ठ सिद्धिं चैवाभिलाषिकीम् ॥ १९१.५ ॥ संक्षिप्य तु मया पृष्टं विस्तराद्द्विज शंस मे ॥ १९१.६ ॥ मार्कण्डेय उवाच - अदितेर्द्वादशादित्या जाताः शक्रपुरोगमाः । इन्द्रो धाता भगस्त्वष्टा मित्रोऽथ वरुणोऽर्यमा ॥ १९१.७ ॥ विवस्वान्सविता पूषा ह्यंशुमान्विष्णुरेव च । त इमे द्वादशादित्या इच्छन्तो भास्करं पदम् ॥ १९१.८ ॥ नर्मदातटमाश्रित्य तपस्युग्रे व्यवस्थिताः । सिद्धेश्वरे महाराज काश्यपेयैर्महात्मभिः ॥ १९१.९ ॥ परा सिद्धिरनुप्राप्ता द्वादशादित्यसंज्ञितैः । स्थापितश्च जगद्धाता तस्मिंस्तीर्थे दिवाकरः ॥ १९१.१० ॥ स्वकीयांशविभागेन द्वादशादित्यसंज्ञितैः । तदाप्रभृति तत्तीर्थं राजन्ख्यातिं गतं भुवि ॥ १९१.११ ॥ प्रलये समनुप्राप्ते ह्यादित्या द्वादशैव ते । द्वादशादित्यतो राजन् सम्भवन्ति युगक्षये ॥ १९१.१२ ॥ इन्द्रस्तपति पूर्वेण धाता चैवाग्निगोचरे । गभस्तिपतिर्वै याम्ये त्वष्टा नैरृतदिङ्मुखः ॥ १९१.१३ ॥ वरुणः पश्चिमे भागे मित्रस्तु वायवे तथा । विष्णुश्च सौम्यदिग्भागे विवस्वानीशगोचरे ॥ १९१.१४ ॥ ऊर्ध्वतश्चैव सविता ह्यधः पूषा विशोषयन् । अंशुमांस्तु तथा विष्णुर्मुखतो निर्गतं जगत् ॥ १९१.१५ ॥ प्रदहन्वै नरश्रेष्ठ बभ्रमुश्च इतस्ततः । यथैव ते महाराज दहन्ति सकलं जगत् ॥ १९१.१६ ॥ तथैव द्वादशादित्या भक्तानां भावसाधनाः । प्रातरुत्थाय यः स्नात्वा द्वादशादित्यसंज्ञितम् ॥ १९१.१७ ॥ पश्यते देवदेवेशं शृणु तस्यैव यत्फलम् । वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् ॥ १९१.१८ ॥ नश्यते तत्क्षणादेव द्वादशादित्यदर्शनात् । प्रदक्षिणं तु यः कुर्यात्तस्य देवस्य भारत ॥ १९१.१९ ॥ प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः । तत्र तीर्थे तु सप्तम्यामुपवासेन यत्फलम् ॥ १९१.२० ॥ अन्यत्र सप्तसप्तम्यां लभन्ति न लभन्ति च । षष्ठ्यां वारे दैनकरे द्वादशादित्यदर्शनात् ॥ १९१.२१ ॥ प्रदक्षिणं तु यः कुर्यात्तस्य पापं तु नश्यति । अरोगी सप्तजन्मानि भवेद्वै नात्र संशयः ॥ १९१.२२ ॥ यस्तु प्रदक्षिणशतं दद्याद्भक्त्या दिने दिने । दद्रूपिटककुष्ठानि मण्डलानि विचर्चिकाः ॥ १९१.२३ ॥ नश्यन्ति व्याधयः सर्वे गरुडेनेव पन्नगाः । पुत्रप्राप्तिर्भवेत्तस्य षष्ट्या वासरसेवनात् ॥ १९१.२४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे द्वादशादित्यतीर्थमाहात्म्यवर्णनं नामैकनवत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १९२ मार्कण्डेय उवाच - तस्यैवानन्तरं तात देवतीर्थमनुत्तमम् । दृष्ट्वा तु श्रीपतिं पापैर्मुच्यते मानवो भुवि ॥ १९२.१ ॥ महर्षेस्तस्य जामाता भृगोर्देवो जनार्दनः ॥ १९२.२ ॥ युधिष्ठिर उवाच - कोऽयं श्रियः पतिर्देवो देवानामधिपो विभुः । कथं जन्माभवत्तस्य देवेषु त्रिषु वा मुने ॥ १९२.३ ॥ सम्बन्धी च कथं जातो भृगुणा सह केशवः । एतद्विस्तरतो ब्रह्मन् वक्तुमर्हसि भार्गव ॥ १९२.४ ॥ मार्कण्डेय उवाच - संक्षेपात्कथयिष्यामि साध्यस्य चरितं महत् । न हि विस्तरतो वक्तुं शक्ताः सर्वे महर्षयः ॥ १९२.५ ॥ नारायणस्य नाभ्यब्जाज्जातो देवश्चतुर्मुखः । तस्य दक्षोऽङ्गजो राजन् दक्षिणाङ्गुष्ठसम्भवः ॥ १९२.६ ॥ धर्मः स्तनान्तात्संजातस्तस्य पुत्रोऽभवत्किल । नारायणसहायोऽसावजोऽपि भरतर्षभ ॥ १९२.७ ॥ मरुत्वती वसुर्ज्ञाना लम्बा भानुमती सती । संकल्पा च मुहूर्ता च साध्या विश्वावती ककुप् ॥ १९२.८ ॥ धर्मपत्न्यो दशैवैता दाक्षायण्यो महाप्रभाः । तासां साध्या महाभागा पुत्रानजनयन्नृप ॥ १९२.९ ॥ नरो नारायणश्चैव हरिः कृष्णस्तथैव च । विष्णोरंशांशका ह्येते चत्वारो धर्मसूनवः ॥ १९२.१० ॥ तथा नारायणनरौ गन्धमादनपर्वते । आत्मन्यात्मानमाधाय तेपतुः परमं तपः ॥ १९२.११ ॥ ध्यायमानावनौपम्यं स्वं कारणमकारणम् । वासुदेवमनिर्देश्यमप्रतर्क्यमनन्तरम् ॥ १९२.१२ ॥ योगयुक्तौ महात्मानावास्थितावुरुतापसौ । तयोस्तपःप्रभावेण न तताप दिवाकरः ॥ १९२.१३ ॥ ववाह शङ्कितो वायुः सुखस्पर्शो ह्यशङ्कितः । शिशिरोऽभवदत्यर्थं ज्वलन्नपि विभावसुः ॥ १९२.१४ ॥ सिंहव्याघ्रादयः सौम्याश्चेरुः सह मृगैर्गिरौ । तयोर्गौरिव भारार्ता पृथिवी पृथिवीपते ॥ १९२.१५ ॥ चेरुश्च भूधराश्चैव चुक्षुभे च महोदधिः । देवाश्च स्वेषु धिष्ण्येषु निष्प्रभेषु हतप्रभाः । बभूवुरवनीपाल परमं क्षोभमागताः ॥ १९२.१६ ॥ देवराजस्तथा शक्रः संतप्तस्तपसा तयोः । युयोजाप्सरसस्तत्र तयोर्विघ्नचिकीर्षया ॥ १९२.१७ ॥ इन्द्र उवाच - रम्भे तिलोत्तमे कुब्जे घृताचि ललिते शुभे । प्रम्लोचे सुभ्रु सुम्लोचे सौरभेयि महोद्धते ॥ १९२.१८ ॥ अलम्बुषे मिश्रकेशि पुण्डरीके वरूथिनि । विलोकनीयं बिभ्राणा वपुर्मन्मथबोधनम् ॥ १९२.१९ ॥ गन्धमादनमासाद्य कुरुध्वं वचनं मम । नरनारायणौ तत्र तपोदीक्षान्वितौ द्विजौ ॥ १९२.२० ॥ तेपाते धर्मतनयौ तपः परमदुश्चरम् । तावस्माकं वरारोहाः कुर्वाणौ परमं तपः ॥ १९२.२१ ॥ कर्मातिशयदुःखार्तिप्रदावायतिनाशनौ । तद्गच्छत न भीः कार्या भवतीभिरिदं वचः ॥ १९२.२२ ॥ स्मरः सहायो भविता वसन्तश्च वराङ्गनाः । रूपं वयः समालोक्य मदनोद्दीपनं परम् । कन्दर्पवशमभ्येति विवशः को न मानवः ॥ १९२.२३ ॥ मार्कण्डेय उवाच - इत्युक्त्वा देवराजेन मदनेन समं तदा । जग्मुरप्सरसः सर्वा वसन्तश्च महीपते ॥ १९२.२४ ॥ गन्धमादनमासाद्य पुंस्कोकिलकुलाकुलम् । चचार माधवो रम्यं प्रोत्फुल्लवनपादपम् ॥ १९२.२५ ॥ प्रववौ दक्षिणाशायां मलयानुगतोऽनिलः । भृङ्गमालारुतरवै रमणीयमभूद्वनम् ॥ १९२.२६ ॥ गन्धश्च सुरभिः सद्यो वनराजिसमुद्भवः । किन्नरोरगयक्षाणां बभूव घ्राणतर्पणः ॥ १९२.२७ ॥ वराङ्गनाश्च ताः सर्वा नरनारायणावृषी । विलोभयितुमारब्धा वागङ्गललितस्मितैः ॥ १९२.२८ ॥ जगौ मनोहरं काचिन्ननर्त तत्र चाप्सराः । अवादयत्तथैवान्या मनोहरतरं नृप ॥ १९२.२९ ॥ हावैर्भावैः सृतैर्हास्यैस्तथान्या वल्गुभाषितैः । तयोः क्षोभाय तन्वङ्ग्यश्चक्रुरुद्यममङ्गनाः ॥ १९२.३० ॥ तथापि न तयोः कश्चिन्मनसः पृथिवीपते । विकारोऽभवदध्यात्मपारसम्प्राप्तचेतसोः ॥ १९२.३१ ॥ निवातस्थौ यथा दीपावकम्पौ नृप तिष्ठतः । वासुदेवार्पणस्वस्थे तथैव मनसी तयोः ॥ १९२.३२ ॥ पूर्यमाणोऽपि चाम्भोभिर्भुवमन्यां महोदधिः । यथा न याति संक्षोभं तथा तन्मानसं क्वचित् ॥ १९२.३३ ॥ सर्वभूतहितं ब्रह्म वासुदेवमयं परम् । मन्यमानौ न रागस्य द्वेषस्य च वशंगतौ ॥ १९२.३४ ॥ स्मरोऽपि न शशाकाथ प्रवेष्टुं हृदयं तयोः । विद्यामयं दीपयुतमन्धकार इवालयम् ॥ १९२.३५ ॥ पुष्पोज्ज्वलांस्तरुवरान् वसन्तं दक्षिणानिलम् । ताश्चैवाप्सरसः सर्वाः कन्दर्पं च महामुनी ॥ १९२.३६ ॥ यच्चारब्धं तपस्ताभ्यामात्मानं गन्धमादनम् । ददर्शातेऽखिलं रूपं ब्रह्मणः पुरुषर्षभ ॥ १९२.३७ ॥ दाहाय नामलो वह्नेर्नापः क्लेदाय चाम्भसः । तद्द्रव्यमेव तद्द्रव्यविकाराय न वै यतः ॥ १९२.३८ ॥ ततो विज्ञाय विज्ञाय परं ब्रह्म स्वरूपतः । मधुकन्दर्पयोषित्सु विकारो नाभवत्तयोः ॥ १९२.३९ ॥ ततो गुरुतरं यत्नं वसन्तमदनौ नृप । चक्राते ताश्च तन्वङ्ग्यस्तत्क्षोभाय पुनःपुनः ॥ १९२.४० ॥ अथ नारायणो धैर्यं संधायोदीर्णमानसः । ऊरोरुत्पादयामास वराङ्गीमबलां तदा ॥ १९२.४१ ॥ त्रैलोक्यसुन्दरीरत्नमशेषमवनीपते । गुणैर्लाघवमभ्येति यस्याः संदर्शनादनु ॥ १९२.४२ ॥ तां विलोक्य महीपाल चकम्पे मनसानिलः । वसन्तो विस्मयं यातः स्मरः सस्मार किंचन ॥ १९२.४३ ॥ रम्भातिलोत्तमाद्याश्च वैलक्ष्यं देवयोषितः । न रेजुरवनीपाल तल्लक्ष्यहृदयेक्षणाः ॥ १९२.४४ ॥ ततः कामो वसन्तश्च पार्थिवाप्सरसश्च ताः । प्रणम्य भगवन्तौ तौ तुष्टुवुर्मुनिसत्तमौ ॥ १९२.४५ ॥ वसन्तकामाप्सरस ऊचुः । प्रसीदतु जगद्धाता यस्य देवस्य मायया । मोहिताः स्म विजानीमो नान्तरं विद्यते द्वयोः ॥ १९२.४६ ॥ प्रसीदतु स वां देवो यस्य रूपमिदं द्विधा । धामभूतस्य लोकानामनादेरप्रतिष्ठतः ॥ १९२.४७ ॥ नरनारायणौ देवौ शङ्खचक्रायुधावुभौ । आस्तां प्रसादसुमुखावस्माकमपराधिनाम् ॥ १९२.४८ ॥ निधानं सर्वविद्यानां सर्वपापवनानलः । नारायणोऽतो भगवान् सर्वपापं व्यपोहतु ॥ १९२.४९ ॥ शार्ङ्गचिह्नायुधः श्रीमानात्मज्ञानमयोऽनघः । नरः समस्तपापानि हतात्मा सर्वदेहिनाम् ॥ १९२.५० ॥ जटाकलापबद्धोऽयमनयोर्नः क्षमावतोः । सौम्यास्यदृष्टिः पापानि हन्तुं जन्मार्जितानि वै ॥ १९२.५१ ॥ तथात्मविद्यादोषेण योऽपराधः कृतो महान् । त्रैलोक्यवन्द्यौ यौ नाथौ विलोभयितुमागताः ॥ १९२.५२ ॥ प्रसीद देव विज्ञानधन मूढदृशामिव । भवन्ति सन्तः सततं स्वधर्मपरिपालकाः ॥ १९२.५३ ॥ दृष्ट्वैतन्नः समुत्पन्नं यथा स्त्रीरत्नमुत्तमम् । त्वयि नारायणोत्पन्ना श्रेष्ठा पारवती मतिः ॥ १९२.५४ ॥ तेन सत्येन सत्यात्मन्परमात्मन्सनातन । नारायण प्रसीदेश सर्वलोकपरायण ॥ १९२.५५ ॥ प्रसन्नबुद्धे शान्तात्मन्प्रसन्नवदनेक्षण । प्रसीद योगिनामीश नर सर्वगताच्युत ॥ १९२.५६ ॥ नमस्यामो नरं देवं तथा नारायणं हरिम् । नमो नराय नम्याय नमो नारायणाय च ॥ १९२.५७ ॥ प्रसन्नानामनाथानां तथा नाथवतां प्रभो । शं करोतु नरोऽस्माकं शं नारायण देहि नः ॥ १९२.५८ ॥ मार्कण्डेय उवाच - एवमभ्यर्चितः स्तुत्या रागद्वेषादिवर्जितः । प्राहेशः सर्वभूतानां मध्ये नारायणो नृप ॥ १९२.५९ ॥ नारायण उवाच - स्वागतं माधवे कामे भवत्वप्सरसामपि । यत्कार्यमागतानां च इहास्माभिस्तदुच्यताम् ॥ १९२.६० ॥ यूयं संसिद्धये नूनमस्माकं बलशत्रुणा । संप्रेषितास्ततोऽस्माकं नृत्ययोगादिदर्शनम् ॥ १९२.६१ ॥ न वयं गीतनृत्येन नाङ्गचेष्टादिभाषितैः । लुब्धा वै विषयैर्मन्ये विषया दारुणात्मकाः ॥ १९२.६२ ॥ शब्दादिसङ्गदुष्टानि यदा नाक्षाणि नः शुभाः । तदा नृत्यादयो भावाः कथं लोभप्रदायिनः ॥ १९२.६३ ॥ ते सिद्धाः स्म न वै साध्या भवतीनां स्मरस्य च । माधवस्य च शाक्रोऽपि स्वास्थ्यं यात्वविशङ्किताः ॥ १९२.६४ ॥ योऽसौ परश्च परमः पुरुषः परमेश्वरः । परमात्मा समस्तस्य स्थावरस्य चरस्य च ॥ १९२.६५ ॥ उत्पत्तिहेतुरेते च यस्मिन्सर्वं प्रलीयते । सर्वावासीति देवत्वाद्वासुदेवेत्युदाहृतः ॥ १९२.६६ ॥ वयमंशांशकास्तस्य चतुर्व्यूहस्य मानिनः । तदादेशितवार्त्मानौ जगद्बोधाय देहिनाम् ॥ १९२.६७ ॥ तत्सर्वभूतं सर्वेशं सर्वत्र समदर्शिनम् । कुतः पश्यन्तौ रागादीन्करिष्यामो विभेदिनः ॥ १९२.६८ ॥ वसन्ते मयि चेन्द्रे च भवतीषु तथा स्मरे । यदा स एव भूतात्मा तदा द्वेषादयः कथम् ॥ १९२.६९ ॥ तन्मयान्यविभक्तानि यदा सर्वेषु जन्तुषु । सर्वेश्वरेश्वरो विष्णुः कुतो रागादयस्ततः ॥ १९२.७० ॥ ब्रह्माणमिन्द्रमीशानमादित्यमरुतोऽखिलान् । विश्वेदेवानृषीन् साध्यान्वसून्पितृगणांस्तथा ॥ १९२.७१ ॥ यक्षराक्षसभूतादीन्नागान्सर्पान्सरीसृपान् । मनुष्यपक्षिगोरूपगजसिंहजलेचरान् ॥ १९२.७२ ॥ मक्षिकामशकान्दंशाञ्छलभाञ्जलजान् कृमीन् । गुल्मवृक्षलतावल्लीत्वक्सारतृणजातिषु ॥ १९२.७३ ॥ यच्च किंचिददृश्यं वा दृश्यं वा त्रिदशाङ्गनाः । मन्यध्वं जातमेकस्य तत्सर्वं परमात्मनः ॥ १९२.७४ ॥ जायमानः कथं विष्णुमात्मानं परमं च यत् । रागद्वेषौ तथा लोभं कः कुर्यादमराङ्गनाः ॥ १९२.७५ ॥ सर्वभूतमये विष्णौ सर्वगे सर्वधातरि । निपात्य तं पृथग्भूते कुतो रागादिको गुणः ॥ १९२.७६ ॥ एवमस्मासु युष्मासु सर्वभूतेषु चाबलाः । तन्मथैकत्वभूतेषु रागाद्यवसरः कुतः ॥ १९२.७७ ॥ सम्यग्दृष्टिरियं प्रोक्ता समस्तैक्यावलोकिनी । पृथग्विज्ञानमात्रैव लोकसंव्यवहारवत् ॥ १९२.७८ ॥ भूतेन्द्रियान्तः करणप्रधानपुरुषात्मकम् । जगद्वै ह्येतदखिलं तदा भेदः किमात्मकः ॥ १९२.७९ ॥ भवन्ति लयमायान्ति समुद्रसलिलोर्मयः । न वारिभेदतो भिन्नास्तथैवैक्यादिदं जगत् ॥ १९२.८० ॥ यथाग्नेरर्चिषः पीताः पिङ्गलारुणधूसराः । तथापि नाग्नितो भिन्नास्तथैतद्ब्रह्मणो जगत् ॥ १९२.८१ ॥ भवतीभिश्च यत्क्षोभमस्माकं स पुरंदरः । कारयत्यसदेतच्च विवेकाचारचेतसाम् ॥ १९२.८२ ॥ भवन्त्यः स च देवेन्द्रो लोकाश्च ससुरासुराः । समुद्राद्रिवनोपेता मद्देहान्तरगोचराः ॥ १९२.८३ ॥ यथेयं चारुसर्वाङ्गी भवतीनां मयाग्रतः । दर्शिता दर्शयिष्यामि तथा चैवाखिलं जगत् ॥ १९२.८४ ॥ प्रयातु शक्रो मा गर्वमिन्द्रत्वं कस्य सुस्थिरम् । यूयं च मा स्मयं यात सन्ति रूपान्विताः स्त्रियः ॥ १९२.८५ ॥ किं सुरूपं कुरूपं वा यदा भेदो न दृश्यते । तारतम्यं सुरूपत्वे सततं भिन्नदर्शनात् ॥ १९२.८६ ॥ भवतीनां स्मयं मत्वा रूपौदार्यगुणोद्भवम् । मयेयं दर्शिता तन्वी ततस्तु शममेष्यथ ॥ १९२.८७ ॥ यस्मान्मदूरोर्निष्पन्ना त्वियमिन्दीवरेक्षणा । उर्वशी नाम कल्याणी भविष्यति वराप्सराः ॥ १९२.८८ ॥ तदियं देवराजस्य नीयतां वरवर्णिनी । भवत्यस्तेन चास्माकं प्रेषिताः प्रीतिमिच्छता ॥ १९२.८९ ॥ वक्तव्यश्च सहस्राक्षो नास्माकं भोगकारणात् । तपश्चर्या न वाप्राप्यफलं प्राप्तुमभीप्सता ॥ १९२.९० ॥ सन्मार्गमस्य जगतो दर्शयिष्ये करोम्यहम् । तथा नरेण सहितो जगतः पालनोद्यतः ॥ १९२.९१ ॥ यदि कश्चित्तवाबाधां करोति त्रिदशेश्वर । तमहं वारयिष्यामि निवृत्तो भव वासव ॥ १९२.९२ ॥ कर्तासि चेत्त्वमाबाधां न दुष्टस्येह कस्यचित् । तं चापि शास्ता तदहं प्रवर्तिष्याम्यसंशयम् ॥ १९२.९३ ॥ एतज्ज्ञात्वा न सन्तापस्त्वया कार्यो हि मां प्रति । उपकाराय जगतामवतीर्णोऽस्मि वासव ॥ १९२.९४ ॥ या चेयमुर्वशी मत्तः समुद्भूता पुरंदर त्रेताग्निहेतुभूतेयं एवं प्राप्य भविष्यति ॥ १९२.९५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये श्रीपत्युत्पत्तिवर्णनं नाम द्विनवत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १९३ श्रीमार्कण्डेय उवाच - इत्युक्तेऽप्सरसः सर्वाः प्रणिपत्य पुनः पुनः । ऊचुर्नारायणं देवं तद्दर्शनसमीहया ॥ १९३.१ ॥ वसन्तकामाप्सरस ऊचुः । भगवन्भवता योऽयमुपदेशो हितार्थिना । प्रोक्तः स सर्वो विज्ञातो माहात्म्यं विदितं च ते ॥ १९३.२ ॥ यत्त्वेतद्भवता प्रोक्तं प्रसन्नेनान्तरात्मना । दर्शितेयं विशालाक्षी दर्शयिष्यामि वो जगत् ॥ १९३.३ ॥ तत्रार्थे सर्वभावेन प्रपन्नानां जगत्पते । दर्शयात्मानमखिलं दर्शितेयं यथोर्वशी ॥ १९३.४ ॥ यदि देवापराधेऽपि नास्मासु कुपितं तव । नमस्ते जगतामीश दर्शयात्मानमात्मना ॥ १९३.५ ॥ नारायण उवाच - पश्यतेहाखिलांल्लोकान्मम देहे सुराङ्गनाः । मधुं मदनमात्मानं यच्चान्यद्द्रष्टुमिच्छथ ॥ १९३.६ ॥ श्रीमार्कण्डेय उवाच - इत्युक्त्वा भगवान्देवस्तदा नारायणो नृप । उच्चैर्जहास स्वनवत्तत्राभूदखिलं जगत् ॥ १९३.७ ॥ ब्रह्मा प्रजापतिः शक्रः सह रुद्रैः पिनाकधृक् । आदित्या वसवः साध्या विश्वेदेवा महर्षयः ॥ १९३.८ ॥ नासत्यदस्रावनिलः सर्वशश्च तथाग्नयः । यक्षगन्धर्वसिद्धाश्च पिशाचोरगकिन्नराः ॥ १९३.९ ॥ समस्ताप्सरसो विद्याः साङ्गा वेदास्तदुक्तयः । मनुष्याः पशवः कीटाः पक्षिणः पादपास्तथा ॥ १९३.१० ॥ सरीसृपाश्चाथ सूक्ष्मा यच्चान्यज्जीवसंज्ञितम् । समुद्राः सकलाः शैलाः सरितः काननानि च ॥ १९३.११ ॥ द्वीपान्यशेषाणि तथा तथा सर्वसरांसि च । नगरग्रामपूर्णा च मेदिनी मेदिनीपते । देवाङ्गनाभिर्देवस्य देहे दृष्टं महात्मनः ॥ १९३.१२ ॥ नक्षत्रग्रहताराभिः सुसम्पूर्णं नभस्तलम् । ददृशुस्ताः सुचार्वङ्ग्यस्तस्यान्तर्विश्वं रूपिणः ॥ १९३.१३ ॥ ऊर्ध्वं न तिर्यङ्नाधस्ताद्यदान्तस्तस्य दृश्यते । तमनन्तमनादिं च ततस्तास्तुष्टुवुः प्रभुम् ॥ १९३.१४ ॥ मदनेन समं सर्वा मधुना च वराङ्गनाः । ससाध्वसा भक्तिपराः परं विस्मयमागताः ॥ १९३.१५ ॥ वसन्तकामाप्सरस ऊचुः । पश्याम नादिं तव देव नान्तं न मध्यमव्याकृतरूपपारम् । परायणं त्वां जगतामनन्तं नताः स्म नारायणमात्मभूतम् ॥ १९३.१६ ॥ महीनभोवायुजलाग्नयस्त्वं शब्दादिरूपस्तु परापरात्मन् । त्वत्तो भवत्यच्युते सर्वमेतद्भेदादिरूपोऽसि विभो त्वमात्मन् ॥ १९३.१७ ॥ द्रष्टासि रूपस्य परस्य वेत्ता श्रोता च शब्दस्य हरे त्वमेकः । स्रष्टा भवान् सर्वगतोऽखिलस्य घ्राता च गन्धस्य पृथक्शरीरी ॥ १९३.१८ ॥ सुरेषु सर्वेषु न सोऽस्ति कश्चिन्मनुष्यलोकेषु न सोऽस्ति कश्चित् । पश्वादिवर्गेषु न सोऽस्ति कश्चिद्यो नांशभूतस्तव देवदेव ॥ १९३.१९ ॥ ब्रह्माम्बुधीन्दुप्रमुखानि सौम्य शक्रादिरूपाणि तवोत्तमानि । समुद्ररूपं तव धैर्यवत्सु तेजः स्वरूपेषु रविस्तथाग्निः ॥ १९३.२० ॥ क्षमाधनेषु क्षितिरूपमग्र्यं शीघ्रो बलवत्सु वायुः । मनुष्यरूपं तव राजवेषो मूढेषु सर्वेश्वर पादपोऽसि ॥ १९३.२१ ॥ सर्वानयेष्वच्युत दानवस्त्वं सनत्सजातश्च विवेकवत्सु । रसस्वरूपेण जलस्थितोऽसि गन्धस्वरूपं भवतो धरित्र्याम् ॥ १९३.२२ ॥ दृश्यस्वरूपश्च हुताशनस्त्वं स्पर्शस्वरूपं भवतः समीरे । शब्दादिकं ते नभसि स्वरूपं मन्तव्यरूपो मनसि प्रभो त्वम् ॥ १९३.२३ ॥ बोधस्वरूपश्च मतौ त्वमेकः सर्वत्र सर्वेश्वर सर्वभूत । पश्यामि ते नाभिसरोजमध्ये ब्रह्माणमीशं च हरं भृकुट्याम् ॥ १९३.२४ ॥ तवाश्विनौ कर्णगतौ समस्तास्तवास्थिता बाहुषु लोकपालाः । घ्राणोऽनिलो नेत्रगतौ रवीन्दु जिह्वा च ते नाथ सरस्वतीयम् ॥ १९३.२५ ॥ पादौ धरित्री जठरं समस्तांल्लोकान् हृषीकेश विलोकयामः । जङ्घे वयं पादतलाङ्गुलीषु पिशाचयक्षोरगसिद्धसङ्घाः ॥ १९३.२६ ॥ पुंस्त्वे प्रजानां पतिरोष्ठयुग्मे प्रतिष्ठितास्ते क्रतवः समस्ताः । सर्वे वयं ते दशनेषु देव दंष्ट्रासु देवा ह्यभवंश्च दन्ताः ॥ १९३.२७ ॥ रोमाण्यशेषास्तव देवसङ्घा विद्याधरा नाथ तवाङ्घ्रिरेखाः । साङ्गाः समस्तास्तव देव वेदाः समास्थिताः सन्धिषु बाहुभूताः ॥ १९३.२८ ॥ वराहभूतं धरणीधरस्ते नृसिंहरूपं च सदा करालम् । पश्याम ते वाजिशिरस्तथोच्चैस्त्रिविक्रमे यच्च तदाप्रमेयम् ॥ १९३.२९ ॥ अमी समुद्रास्तव देव देहे मौर्वालयः शैलधरास्तथामी । इमाश्च गङ्गाप्रमुखाः स्रवन्त्यो द्वीपाण्यशेषाणि वनादिदेशाः ॥ १९३.३० ॥ स्तुवन्ति चेमे मुनयस्तवेश देहे स्थितास्त्वन्महिमानमग्र्यम् । त्वामीशितारं जगतामनन्तं यजन्ति यज्ञैः किल यज्ञिनोऽमी ॥ १९३.३१ ॥ त्वत्तोहि सौम्यं जगतीह किंचित्त्वत्तो न रौद्रं च समस्तमूर्ते । त्वत्तो न शीतं च न केशवोष्णं सर्वस्वरूपातिशयी त्वमेव ॥ १९३.३२ ॥ प्रसीद सर्वेश्वर सर्वभूत सनातनात्मपरमेश्वरेश । त्वन्मायया मोहितमानसाभिर्यत्तेऽपराद्धं तदिदं क्षमस्व ॥ १९३.३३ ॥ किं वापराद्धं तव देवदेव यन्मायया नो हृदयं तवापि । मायाभिशङ्किप्रणतार्तिहन्तर्मनो हि नो विह्वलतामुपैति ॥ १९३.३४ ॥ न तेऽपराद्धं यदि तेऽपराद्धमस्माभिरुन्मार्गविवर्तिनीभिः । तत्क्षम्यतां सृष्टिकृतस्तवैव देवापराधः सृजतो विवेकम् ॥ १९३.३५ ॥ नमो नमस्ते गोविन्द नारायण जनार्दन । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ १९३.३६ ॥ नमोऽनन्त नमस्तुभ्यं विश्वात्मन्विश्वभावन । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ १९३.३७ ॥ वरेण्य यज्ञपुरुष प्रजापालन वामन । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ १९३.३८ ॥ नमोऽस्तु तेऽब्जनाभाय प्रजापतिकृते हर । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ १९३.३९ ॥ संसारार्णवपोताय नमस्तुभ्यमधोक्षज । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ १९३.४० ॥ नमः परस्मै श्रीशाय वासुदेवाय वेधसे । स्वेच्छया गुणयुक्ताय सर्गस्थित्यन्तकारिणे ॥ १९३.४१ ॥ उपसंहर विश्वात्मन्रूपमेतत्सनातनम् । वर्धमानं न नो द्रष्टुं समर्थं चक्षुरीश्वर ॥ १९३.४२ ॥ प्रलयाग्निसहस्रस्य समा दीप्तिस्तवाच्युत । प्रमाणेन दिशो भूमिर्गगनं च समावृतम् ॥ १९३.४३ ॥ न विद्मः कुत्र वर्तामो भवान्नाथोपलक्ष्यते । सर्वं जगदिऐकस्थं पिण्डितं लक्षयामहे ॥ १९३.४४ ॥ किं वर्णयामो रूपं ते किं प्रमाणमिदं हरे । माहात्म्यं किं नु ते देव यज्जिह्वाया न गोचरे ॥ १९३.४५ ॥ वक्तारो वायुतेनापि बुद्धीनामयुतायुतैः । गुणनिर्वर्णनं नाथ कर्तुं तव न शक्यते ॥ १९३.४६ ॥ तदेतद्दर्शितं रूपं प्रसादः परमः कृतः । छन्दतो जगतामीश तदेतदुपसंहर ॥ १९३.४७ ॥ मार्कण्डेय उवाच - इत्येवं संस्तुतस्ताभिरप्सरोभिर्जनार्दनः । दिव्यज्ञानोपपन्नानां तासां प्रत्यक्षमीश्वरः ॥ १९३.४८ ॥ विवेश सर्वभूतानि स्वैरंशैर्भूतभावनः । तं दृष्ट्वा सर्वभूतेषु लीयमानमधोक्षजम् ॥ १९३.४९ ॥ विस्मयं परमं चक्रुः समस्ता देवयोषितः । स च सर्वेश्वरः शैलान्पादपान्सागरान्भुवम् ॥ १९३.५० ॥ जलमग्निं तथा वायुमाकाशं च विवेश ह । काले दिक्ष्वथ सर्वात्म ह्यात्मनश्चान्यथापि च ॥ १९३.५१ ॥ आत्मरूपस्थितं स्वेन महिम्ना भावयञ्जगत् । देवदानवरक्षांसि यक्षीविद्याधरोरगाः ॥ १९३.५२ ॥ मनुष्यपशुकीटादिमृगपश्वन्तरिक्षगाः । येऽन्तरिक्षे तथा भूमौ दिवि ये च जलाश्रयाः ॥ १९३.५३ ॥ तान्विवेश स विश्वात्मा पुनस्तद्रूपमास्थितः । नरेण सार्धं यत्ताभिर्दृष्टपूर्वमरिन्दम ॥ १९३.५४ ॥ ताः परं विस्मयं जग्मुः सर्वास्त्रिदशयोषितः । प्रणेमुः साध्वसात्पाण्डुवदना नृपसत्तम ॥ १९३.५५ ॥ नारायणोऽपि भगवानाह तास्त्रिदशाङ्गनाः ॥ १९३.५६ ॥ नारायण उवाच - नीयतामुर्वशी भद्रा यत्रासौ त्रिदशेश्वरः । भवतीनां हितार्थाय सर्वभूतेष्वसाविति ॥ १९३.५७ ॥ ज्ञानमुत्पादितं भूयो लयं भूतेषु कुर्वता । तद्गच्छध्वं समस्तोऽयं भूतग्रामो मदंशकः ॥ १९३.५८ ॥ अहमद्यात्मभूतस्य वासुदेवस्य योगिनः । अस्मात्परतरं नास्ति योऽनन्तः परिपथ्यते ॥ १९३.५९ ॥ तमजं सर्वभूतेशं जानीत परमं पदम् । अहं भवत्यो देवाश्च मनुष्याः पशवश्च ये । एतत्सर्वमनन्तस्य वासुदेवस्य वै कृतम् ॥ १९३.६० ॥ एवं ज्ञात्वा समं सर्वं सदेवासुरमानुषम् । सपश्वादिगुणं चैव द्रष्टव्यं त्रिदशाङ्गनाः ॥ १९३.६१ ॥ मार्कण्डेय उवाच - इत्युक्तास्तेन देवेन समस्तास्ताः सुरस्त्रियः । प्रणम्य तौ समदनाः सवसन्ताश्च पार्थिव ॥ १९३.६२ ॥ आदाय चोर्वशीं भूयो देवराजमुपागताः । आचख्युश्च यथावृत्तं देवराजाय तत्तथा ॥ १९३.६३ ॥ मार्कण्डेय उवाच - तथा त्वमपि राजेन्द्र सर्वभूतेषु केशवम् । चिन्तयन्समतां गच्छ समतैव हि मुक्तये ॥ १९३.६४ ॥ राजन्नेवं विशेषेण भूतेषु परमेश्वरम् । वासुदेव कथं दोषांल्लोभादीन्न प्रहास्यसि ॥ १९३.६५ ॥ सर्वभूतानि गोविन्दाद्यदा नान्यानि भूपते । तदा वैरादयो भावाः क्रियतां न तु पुत्रक ॥ १९३.६६ ॥ इति पश्य जगत्सर्वं वासुदेवात्मकं नृप । एतदेव हि कृष्णेन रूपमाविष्कृतं नृप ॥ १९३.६७ ॥ परमेश्वरेति यद्रूपं तदेतत्कथितं तव । जन्मादिभावरहितं तद्विष्णोः परमं पदम् ॥ १९३.६८ ॥ संक्षेपेणाथ भूपाल श्रूयतां यद्वदामि ते । यन्मतं पुरुषः कृत्वा परं निर्वाणमृच्छति ॥ १९३.६९ ॥ सर्वो विष्णुसमासो हि भावाभावौ च तन्मयौ । सदसत्सर्वमीशोऽसौ महादेवः परं पदम् ॥ १९३.७० ॥ भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् । विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥ १९३.७१ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिमाहात्म्यवर्णनं नाम त्रिनवत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १९४ श्रीमार्कण्डेय उवाच - तच्छ्रुत्वानान्तदेवेन विश्वरूपमुदाहृतम् । देवराजस्तथा देवाः परं विस्मयमागताः ॥ १९४.१ ॥ दृष्ट्वा चाप्सरसं पुण्यामुर्वशीं कमलाननाम् । संत्रस्तो विस्मितश्चाभूदिन्द्रो राजश्रिया वृतः ॥ १९४.२ ॥ न किंचिदुत्तरं वाक्यमुक्तवाञ्जोषमास्थितः । इति वृत्तान्तभूतं हि नारायणविचेष्टितम् ॥ १९४.३ ॥ भृगोः खात्यां समुत्पन्ना लक्ष्मीः श्रुत्वा तु वै नृप । वैश्वरूपं परं रूपं विस्मिताचिन्तयत्तदा ॥ १९४.४ ॥ केनोपायेन स स्यान्मे भर्ता नारायणः प्रभुः । व्रतेन तपसा वापि दानेन नियमेन च ॥ १९४.५ ॥ वृद्धानां सेवनेनाथ देवताराधनेन वा । इति चिन्तापरां कन्यां सती ज्ञात्वा युधिष्ठिर ॥ १९४.६ ॥ प्राह प्राप्तो मया भर्ता शङ्करस्तपसा किल । प्रजापतिश्च गायत्र्या ह्यन्याभिरभिवाञ्छिताः ॥ १९४.७ ॥ तपसैव हि ते प्राप्यस्तस्मात्तच्चर सुव्रते । तपस्त्वं हि महच्चोग्रं सर्ववाञ्छितदायकम् ॥ १९४.८ ॥ मार्कण्डेय उवाच - सागरान्तं समासाद्य लक्ष्मीः परपुरंजय । चचार विपुलं कालं तपः परमदुश्चरम् ॥ १९४.९ ॥ स्थाणुवत्संस्थिता साभूद्दिव्यं वर्षसहस्रकम् । तत इन्द्रादयो देवाः शङ्खचक्रगदाधराः ॥ १९४.१० ॥ भूत्वा जग्मुस्तदर्थं ते सा तु पृष्टवती सुरान् । विश्वरूपं वैष्णवं यत्तद्दर्शयत माचिरम् ॥ १९४.११ ॥ विलक्षा व्रीडिता देवा गत्वा नारायणं तदा । अब्रुवन् वैश्वरूपं नो शक्ता दर्शयितुं वयम् ॥ १९४.१२ ॥ ततो यथेष्टं ते जग्मुः स च विष्णुरचिन्तयत् । उग्ररूपा स्थिता देवी देहं दहति भार्गवी ॥ १९४.१३ ॥ तां तस्मात्तत्र गत्वाहं वरं दत्त्वा तु वाञ्छितम् । पुनस्तपः करिष्यामि दर्शयिष्यामि वा पुनः । वैष्णवं विश्वरूपं यद्दुर्दश्यं देवदानवैः ॥ १९४.१४ ॥ मार्कण्डेय उवाच - ततो गत्वा हृषीकेशः सागरान्तस्थितां श्रियम् । प्राह तुष्टोऽस्मि ते देवि वरं वृणु यथेप्सितम् ॥ १९४.१५ ॥ श्रीरुवाच - यदि तुष्टोऽसि मे देव प्रपन्नाया जनार्दन । तदा दर्शय यद्दृष्टमप्सरोभिस्तवानघ ॥ १९४.१६ ॥ विश्वरूपमनन्तं च भूतभावन केशव । गन्धमादनमासाद्य कृतं यच्च तपस्त्वया ॥ १९४.१७ ॥ तद्वदस्व विभो विष्णो न मिथ्या यदि केशव । श्रद्दधामि न चैवाहं रूपस्यास्य कथंचन ॥ १९४.१८ ॥ बहुभिर्यक्षरक्षोभिर्मायाचारिप्रचारिभिः । छन्दिता मम जानद्भिर्भावमन्तर्गतं हरौ ॥ १९४.१९ ॥ भूत्वा विष्णुस्वरूपास्ते चक्रिणश्च चतुर्भुजाः । सुव्रीडिता गताः सर्वे विश्वरूपो सहायतः ॥ १९४.२० ॥ मार्कण्डेय उवाच - नारायणोऽथ भगवाञ्छङ्खचक्रगदाभृतम् । तया तथोक्तस्तद्रूपं मुक्त्वा वै सुरपूजितम् ॥ १९४.२१ ॥ रूपं परं यथोक्तं वै विश्वरूपमदर्शयत् । दर्शयित्वा वचः प्राह पञ्चरात्रविधानतः ॥ १९४.२२ ॥ योऽर्चयिष्यति मां नित्यं स पूज्यः स च पूजितः । धनधान्यसमायुक्तः सर्वभोगसमन्वितः ॥ १९४.२३ ॥ मूलं हि सर्वधर्माणां ब्रह्मचर्यं परं तपः । तेनाहं तत्र स्थास्यामि मूलश्रीपतिसंज्ञितः ॥ १९४.२४ ॥ मूलश्रीः प्रोच्यते ब्राह्मी ब्रह्मचर्यस्वरूपिणी । सर्वयोगमयी पुण्या सर्वपापहरी शुभा ॥ १९४.२५ ॥ पतिस्तस्याः प्रभुरहं वरदः प्राणिनां प्रिये । रेवाजले नरः स्नात्वा योऽर्चयेन्मां यतव्रतः ॥ १९४.२६ ॥ मूलश्रीपतिनामानं वाञ्छिते प्राप्नुयात्फलम् । दानानि तत्र यो दद्यान्महादानानि च प्रिये ॥ १९४.२७ ॥ सहस्रगुणितं पुण्यमन्यस्थानादवाप्यते । दृष्टं त्वया तत्र देशे सम्यक्चैवावधारितम् । तदर्चित्वा परान् कामानाप्स्यसि त्वं न संशयः ॥ १९४.२८ ॥ वरं वृणीष्व देवेशि वाञ्छितं दुर्लभं सुरैः । दुर्गसंसारकान्तारपतितैः परमेश्वरि ॥ १९४.२९ ॥ श्रीरुवाच - नारायण जगद्धातर्नारायण जगत्पते । नारायण परब्रह्म नारायणपरायण ॥ १९४.३० ॥ प्रसीद पाहि मां भक्त्या सम्यक्सर्गे नियोजय । प्रियो ह्यसि प्रियाहं ते यथा स्यां तत्तथा कुरु ॥ १९४.३१ ॥ गृहं धर्मार्थकामानां कारणं देव संमतम् । तदास्थायाश्रमं पुण्यं मां श्रेयसि नियोजय ॥ १९४.३२ ॥ नारायण उवाच - नारायणगिरा देवि विज्ञप्तोऽस्मि यतस्त्वया । नारायणगिरिर्नाम तेन मेऽत्र भविष्यति ॥ १९४.३३ ॥ नारायणस्मृतौ याति दुरितं जन्मकोटिजम् । यस्माद्गिरति तस्माच्च गिरिरित्येव शब्दितम् ॥ १९४.३४ ॥ तस्मात्सर्वाश्रयो देवि गिरिः पर्वतराङ्भवेत् । सुरासुरमनुष्याणां यथाहमपि चाश्रयः ॥ १९४.३५ ॥ य एतत्पूजयिष्यन्ति मण्डलस्थं परं मम । नारायणगिरिर्नाम देवरूपं शुभेक्षणे ॥ १९४.३६ ॥ ते दिव्यज्ञानसम्पन्ना दिव्यदेहविचेष्टिताः । दिव्यं लोकमवाप्स्यन्ति दिव्यभोगसमन्विताः ॥ १९४.३७ ॥ मार्कण्डेय उवाच - तयोरेवं संवदतोर्देवा इन्द्रपुरोगमाः । समागता वनोद्देशं सागरान्ते महर्षयः ॥ १९४.३८ ॥ ततो भृगुं देवराजो नारायणविचिन्तितम् । वव्रे ज्ञात्वा तु तत्कन्यां धर्मात्मा स ददौ च ताम् ॥ १९४.३९ ॥ धर्मोऽपि विधिवद्वत्स विवाहं समकारयत् । देवदेवस्य राजर्षे देवतार्थे समाहितः ॥ १९४.४० ॥ युधिष्ठिर उवाच - धर्मो विवाहमकरोद्विधिवद्यत्त्वयोदितम् । को विधिस्तत्र का दत्ता दक्षिणा भृगुणापि च ॥ १९४.४१ ॥ विवाहयज्ञे समभूत्स्रुक्स्रुवग्रहणे च कः । ऋत्विजः के सदस्याश्च तस्यासन् द्विजसत्तम ॥ १९४.४२ ॥ किं तस्यावभृथं त्वासीत्तत्सर्वं वद विस्तरात् । त्वद्वाक्यामृतपानेन तृप्तिर्मम न विद्यते ॥ १९४.४३ ॥ मार्कण्डेय उवाच - नारायणविवाहस्य यज्ञस्य च युधिष्ठिर । तपसस्तस्य देवस्य सम्यगाचरणस्य च ॥ १९४.४४ ॥ वक्तुं समर्थो न गुणान्ब्रह्मापि परमेश्वरः । तथाप्युद्देशतो वच्मि शृणु भूत्वा समाहितः ॥ १९४.४५ ॥ ब्रह्मा सप्तर्षयस्तत्र स्रुक्स्रुवग्रहणे रताः । अग्नीञ्जुहुविरे राजन्वेदिर्धात्री ससागरा ॥ १९४.४६ ॥ ददुः समुद्रा रत्नानि ब्रह्मर्षिभ्यो नृपोत्तम । धनदोऽपि ददौ वित्तं सर्वब्राह्मणवाञ्छितम् ॥ १९४.४७ ॥ विश्वकर्माऽपि देवानां ब्रह्मर्षीणां परंतप । वेश्मानि सुविचित्राणि सर्वरत्नमयानि च ॥ १९४.४८ ॥ कृत्वा प्रदर्शयामास देवेन्द्राय यशस्विने । शतक्रतुस्ततो विप्रान्कापिष्ठलपुरोगमान् ॥ १९४.४९ ॥ शौनकादींश्च पप्रच्छ बष्कलाञ्छागलानपि । आत्रेयानपि राजेन्द्र वृणुध्वमभिवाञ्छितम् ॥ १९४.५० ॥ दृष्ट्वा ते चित्ररत्नानि प्राहुः सर्वेश्वरेश्वरम् । देवानां च ऋषीणां च सङ्गमोऽयं सुपुण्यकृत् ॥ १९४.५१ ॥ अस्मिन्पुण्ये सुरेशान वस्तुं वाञ्छामहे सदा । शतक्रतुः प्राह पुनर्वासो वात्र भविष्यति । सत्यधर्मरता यूयं यावत्कालं भविष्यथ ॥ १९४.५२ ॥ मार्कण्डेय उवाच - पृष्टं यद्राजशार्दूल के मखे होत्रिणोऽभवन् । तत्प्रोच्यमानमधुना शृणु भूत्वा समाहितः ॥ १९४.५३ ॥ सनत्कुमारप्रमुखाः सदस्यास्तस्य चाभवन् । औद्गात्रमत्र्यङ्गिरसौ मरीचिश्च चकार ह ॥ १९४.५४ ॥ हौत्रं धर्मवसिष्ठौ च ब्रह्मत्वं सनको मुनिः । षट्त्रिंशद्ग्रामसाहस्रं प्रादात्तेभ्यः शतक्रतुः ॥ १९४.५५ ॥ लक्ष्मीर्भर्त्रा च संयुक्ताभवत्तत्कृतवान्प्रभुः । ब्रह्मणो जुह्वतो वह्निं यावद्देशस्थितैः सुरैः ॥ १९४.५६ ॥ दृष्टं ललाटं देशोऽसौ ललाट इति संज्ञितः । स देशः श्रीपतेः क्षेत्रपुण्यं देवर्षिसेवितम् ॥ १९४.५७ ॥ सर्वाश्चर्यमयं दिव्यं दिव्यसिद्धिसमन्वितम् । ब्राह्मणानां ततः पङ्क्तिं निवेशयितुमुद्यता ॥ १९४.५८ ॥ लक्ष्मीः श्रीपतिनामानमाह देवं वचस्तदा । श्रीरुवाच - य एते ब्राह्मणाः शिष्या भृग्वादीनां यतव्रताः ॥ १९४.५९ ॥ तान्निवेशयितुमिच्छामि त्वत्प्रसादादधोक्षज । मरीच्यादयः सुरेन्द्रेण स्थापिता गरुडध्वज ॥ १९४.६० ॥ नैष्ठिकव्रतिनो विप्रा बहवोऽत्र यतव्रताः । प्राजापत्ये व्रते ब्राह्मे केचिदत्र व्यवस्थिताः । तानहं स्थापयिष्यामि त्वत्प्रसादादधोक्षज ॥ १९४.६१ ॥ मार्कण्डेय उवाच - ततः कौतूहलधरो भगवान्वृषभध्वजः । पप्रच्छ व्रतिनः सर्वान्वृत्तिभेदे व्यवस्थितान् ॥ १९४.६२ ॥ नारदोऽपि महादेवमुपेत्य च सतीपतिम् । प्राह कृष्णाजिनधरो नैष्ठिका ब्राह्मणा ह्यमी ॥ १९४.६३ ॥ अमी कार्याः सुवस्त्रेण छन्नगुह्या द्विजोत्तमाः । प्राजापत्याश्चतुर्विंशसहस्राणि नरेश्वर ॥ १९४.६४ ॥ ब्रह्मचर्यव्रतस्थानां व्रतब्रह्मविचारिणाम् । द्वादशैषां सहस्राणि सन्ति वै वृषभध्वज ॥ १९४.६५ ॥ नारदस्य वचः श्रुत्वा देवा देवर्षयोऽपि च । साधु साध्वित्यमन्यन्त नोचुः केचन किंचन ॥ १९४.६६ ॥ समाह्वयत्ततो लक्ष्मीस्तान् विप्रान् भक्तिसंयुता । उवाच चरणान्गृह्य प्रसादः क्रियतां मयि ॥ १९४.६७ ॥ षट्त्रिंशच्च सहस्राणि वेश्मनामत्र संस्थितिः । विश्वकर्मकृतानां तु तेषु तिष्ठन्तु वोऽखिलाः ॥ १९४.६८ ॥ ते तथेति प्रतिज्ञाय स्थिताः संप्रीतमानसाः । धनधान्यसमृद्धाश्च वाञ्छितप्राप्तिलक्षणाः । सर्वकामसमृद्धाश्च ह्यनारम्भेषु कर्मणाम् ॥ १९४.६९ ॥ इति संस्थाप्य तान् विप्रान् सा स्थिता पर्यपालयत् । चतुर्धा तु स्थितो विष्णुः श्रिया देव्याः प्रिये रतः ॥ १९४.७० ॥ एवं वैवाहिकमखे निवृत्ते ऋषयस्तु तम् । ऊचुश्चावभृथस्नानं कुत्र कुर्मो जनार्दन ॥ १९४.७१ ॥ इति श्रुत्वा तु वचनं श्रीपतिः पादपङ्कजात् । मुमोच जाह्नवीतोयं रेवामध्यगमं शुचि ॥ १९४.७२ ॥ हरेः पादोदकं दृष्ट्वा निःसृतं मुनयस्तु ते । विस्मिताः समपद्यन्त जानन्तस्तस्य गौरवम् ॥ १९४.७३ ॥ रुद्रेण सहिताः सर्वे देवता ऋषयस्तथा । संकथा विस्मिताश्चक्रुर्विधुन्वन्तः शिरांसि च ॥ १९४.७४ ॥ ऋषय ऊचुः । ब्रूहि शम्भो किमत्रायं अकस्माद्वारिसम्भवः । विष्णोः पादाम्बुजोत्थश्च सम्मोहकरणः परः ॥ १९४.७५ ॥ ईश्वर उवाच - पादोदकमिदं विष्णोरहं जानामि वै सुराः । दशाश्वमेधावभृथैः स्नानमत्रातिरिच्यते ॥ १९४.७६ ॥ युष्माभिः श्रीपतिः पूज्यः स्नानं चावभृथं कुतः । भविष्यतीति तेनाशु इदं वोऽर्थे विनिर्मितम् ॥ १९४.७७ ॥ स्नात्वात्र त्रिदशेशाना यत्फलं सम्प्रपद्यते । वक्तुं न केनचिद्याति ततः किमुत्तरं वचः ॥ १९४.७८ ॥ मार्कण्डेय उवाच - एवमुक्त्वा तु ते सर्वे स्नानं कृत्वा यथागतम् । जग्मुर्देवा महेशानपुरोगा भरतर्षभ ॥ १९४.७९ ॥ ब्राह्मणाश्च ततः सर्वे स्ववेश्मान्येव भेजिरे । देवतीर्थे महाराज सर्वपापप्रणाशने ॥ १९४.८० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिविवाहवर्णनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १९५ युधिष्ठिर उवाच - देवतीर्थे तु किं नाम माहात्म्यं समुदाहृतम् । फलं किं स्नानदानादिकारिणां जायते मुने ॥ १९५.१ ॥ मार्कण्डेय उवाच - पृथिव्यां यानि तीर्थानि देवैर्मुनिगणैरपि । सेवितानि महाबाहो तानि ध्यातानि विष्णुना ॥ १९५.२ ॥ समागतान्येकतां वै तत्र तीर्थे युधिष्ठिर । तत्तीर्थं वैष्णवं पुण्यं देवतीर्थमिति श्रुतम् ॥ १९५.३ ॥ कुरुक्षेत्रं भुवि परमन्तरिक्षे त्रिपुष्करम् । पुरुषोत्तमं दिवि परं देवतीर्थं परात्परम् ॥ १९५.४ ॥ देवतीर्थसमं नास्ति तीर्थमत्र परत्र च । यत्प्राप्य मनुजस्तप्येन्न कदाचिद्युधिष्ठिर ॥ १९५.५ ॥ देवैरुक्तानि तीर्थानि योऽत्र स्नानं समाचरेत् । देवतीर्थे स सर्वत्र स्नातो भवति मानवः ॥ १९५.६ ॥ एवमस्त्विति तैरुक्ता देवा ऋषिगणा अपि । संतुष्टाः श्रीशमभ्यर्च्य स्वं स्वं स्थानं तु भेजिरे ॥ १९५.७ ॥ सूर्यग्रहेऽत्र वै क्षेत्रे स्नात्वा यत्फलमश्नुते । स्नात्वा श्रीशं समभ्यर्च्य समुपोष्य यथाविधि ॥ १९५.८ ॥ यद्ददाति हिरण्यानि दानानि विधिवन्नृप । तदनन्तफलं सर्वं सूर्यस्य ग्रहणे यथा ॥ १९५.९ ॥ भूमिदानं धेनुदानं स्वर्णदानमनन्तकम् । वज्रदानमनन्तं च फलं प्राह शतक्रतुः ॥ १९५.१० ॥ सोमो वै वस्त्रदानेन मौक्तिकानां च भार्गवः । सुवर्णस्य रविर्दानं धर्मराजो ह्यनन्तकम् ॥ १९५.११ ॥ देवतीर्थे तु यद्दानं श्रद्धायुक्तेन दीयते । तदनन्तफलं प्राह बृहस्पतिरुदारधीः ॥ १९५.१२ ॥ देवतीर्थे भृगुक्षेत्रे सर्वतीर्थाधिक नृप । देवतीर्थे नरः स्नात्वा श्रीपतिं योऽनुपश्यति ॥ १९५.१३ ॥ सोमग्रहे कुलशतं स समुद्धृत्य नाकभाक् । दानानि द्विजमुख्येभ्यो देवतीर्थे नराधिप ॥ १९५.१४ ॥ यैर्दत्तानि नरैर्भोगभागिनः प्रेत्य चेह ते । देवतीर्थे विप्रभोज्यं हरिमुद्दिश्य यश्चरेत् ॥ १९५.१५ ॥ स सर्वाह्लादमाप्नोति स्वर्गलोके युधिष्ठिर । देवतीर्थे नरो नारी स्नात्वा नियतमानसौ ॥ १९५.१६ ॥ उपोष्यैकादशीं भक्त्या पूजयेद्यः श्रियः पतिम् । रात्रौ जागरणं कृत्वा घृतेनोद्बोध्य दीपकम् ॥ १९५.१७ ॥ द्वादश्यां प्रातरुत्थाय तथा वै नर्मदाजले । विप्रदाम्पत्यमभ्यर्च्य विधिवत्कुरुनन्दन ॥ १९५.१८ ॥ वस्त्राभरणताम्बूलपुष्पधूपविलेपनैः । अक्षये विष्णुलोकेऽसौ मोदते चरितव्रतः ॥ १९५.१९ ॥ यः सदैकादशीतिथौ स्नात्वोपोष्यार्चयेद्धरिम् । रात्रौ जागरणं कुर्याद्वेदशास्त्रविधानतः ॥ १९५.२० ॥ धर्मराजकृतां पापां न स पश्यति यातनाम् । पञ्चरात्रविधानेन श्रीपतिं योऽर्चयिष्यति ॥ १९५.२१ ॥ दीक्षामवाप्य विधिवद्वैष्णवीं पापनाशिनीम् । स्वर्गमोक्षप्रदां पुण्यां भोगदां वित्तदामथ ॥ १९५.२२ ॥ राज्यदां वा महाभाग पुत्रदां भाग्यदामथ । सुकलत्रप्रदां वापि विष्णोर्भक्तिप्रदामिति ॥ १९५.२३ ॥ तरिष्यति भवाम्भोधिं स नरः कुरुनन्दन । योऽर्चयिष्यति तत्रैव देवतीर्थे श्रियः पतिम् ॥ १९५.२४ ॥ विश्वरूपमथो सम्यङ्मूलश्रीपतिमेव वा । नारायणगिरिं वापि गृहे वैकादशीतिथौ ॥ १९५.२५ ॥ भक्तिमाञ्छ्रद्धया युक्तः क्षीरैस्तीर्थोदकैरपि । सुसूक्ष्मैरहतैर्वस्त्रैर्महाकौशेयकैर्नृप ॥ १९५.२६ ॥ विचित्रैर्नेत्रजैर्वापि धूपैरगुरुचन्दनैः । गुग्गुलैर्घृतमिश्रैश्च नैवेद्यैर्विविधैरपि ॥ १९५.२७ ॥ पायसाद्यैर्मनुष्येन्द्र पयसा वा युधिष्ठिर । पिष्टदीपैः सुविमलैर्वर्धमानैर्मनोहरैः ॥ १९५.२८ ॥ पूजयित्वा नरो याति यथा तच्छृणु भारत । शङ्खी चक्री गदी पद्मी भूत्वासौ गरुडध्वजः ॥ १९५.२९ ॥ देवलोकानतिक्रम्य विष्णुलोकं प्रपद्यते । यस्तु वै परया भक्त्या श्रीपतेः पादपङ्कजम् ॥ १९५.३० ॥ चतुर्धाधिष्ठितं पश्येच्छ्रियं त्रैलोक्यमातरम् । नृत्यगीतविनोदेन मुच्यते पातकर्ध्रुवम् ॥ १९५.३१ ॥ नीराजने तु देवस्य प्रातर्मध्ये दिने तथा । सायं च नियतो नित्यं यः पश्येत्पूजयेद्धरिम् ॥ १९५.३२ ॥ स तीर्त्वा ह्यापदं दुर्गां नैवार्तिं समवाप्नुयात् । आयुःश्रीवर्धनं पुंसां चक्षुषामपि पूरकम् ॥ १९५.३३ ॥ उपपापहरं चैव सदा नीराजनं हरेः । तदा नीराजनाकाले यो हरेः पठति स्तवम् ॥ १९५.३४ ॥ स धन्यो देवदेवस्य प्रसन्नेनान्तरात्मना । हरेर्नीराजनाशेषं पाणिभ्यां यः प्रयच्छति ॥ १९५.३५ ॥ संगृह्य चक्षुषी तेन योजयेन्मार्जयन्मुखम् । तिमिरादीनक्षिरोगान्नाशयेद्दीप्तिमन्मुखम् ॥ १९५.३६ ॥ भवत्यशेषदुष्टानां नाशायालं नरोत्तम । दीपप्रज्वलनं यस्य नित्यमग्रे श्रियः पतेः ॥ १९५.३७ ॥ स्नात्वा रेवाजले पुण्ये प्रदद्यादधिकं व्रती । सप्तद्वीपवती तेन ससागरवनापगा ॥ १९५.३८ ॥ प्रदक्षिणीकृता स्याद्वै धरणी शङ्करोऽब्रवीत् । इदं यः पठ्यमानं तु शृणुयात्पठतेऽपि वा ॥ १९५.३९ ॥ स्मरणं सोऽतसमये विपाप्मा प्राप्नुयाद्धरेः । इदं यशस्यमायुष्यं स्वर्ग्यं पितृगुणप्रियम् ॥ १९५.४० ॥ माहात्म्यं श्रावयेद्विप्राञ्छ्रीपतेः श्राद्धकर्मणि । घृतेन मधुना तेन तर्पिताः स्युः पितामहाः ॥ १९५.४१ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिमाहात्म्यवर्णनं नाम पञ्चनवत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १९६ श्रीमार्कण्डेय उवाच - ततो गच्छेद्धराधीश हंसतीर्थमनुत्तमम् । यत्र हंसस्तपस्तप्त्वा ब्रह्मवाहनतां गतः ॥ १९६.१ ॥ हंसतीर्थे नरः स्नात्वा दानं दत्त्वा च काञ्चनम् । सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥ १९६.२ ॥ हंसयुक्तेन यानेन तरुणादित्यवर्चसा । सर्वकामसमृद्धेन सेव्यमानोऽप्सरोगणैः ॥ १९६.३ ॥ तत्र भुक्त्वा यथाकामं सर्वान् भोगान् यथेप्सितान् । जातिस्मरो हि जायेत पुनर्मानुष्यमागतः ॥ १९६.४ ॥ संन्यासेन त्यजेद्देहं मोक्षमाप्नोति भारत ॥ १९६.५ ॥ एतत्ते कथितं पार्थ हंसतीर्थस्य यत्फलम् । सर्वपापहरं पुण्यं सर्वदुःखविनाशनम् ॥ १९६.६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हंसतीर्थमाहात्म्यवर्णनं नाम षण्णवत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १९७ श्रीमार्कण्डेय उवाच - तस्यैवानन्तरं गच्छेत्सूर्यतीर्थमनुत्तमम् । मूलस्थानमिति ख्यातं पद्मजस्थापितं शुभम् ॥ १९७.१ ॥ मूलश्रीपतिना देवी प्रोक्ता स्थापय भास्करम् । श्रुत्वा देवोदितं देवी स्थापयामास भास्करम् ॥ १९७.२ ॥ प्रोच्यते नर्मदातीरे मूलस्थानाख्यभास्करः ॥ १९७.३ ॥ तत्र तीर्थे नरो यस्तु स्नात्वा नियतमानसः । संतर्प्य पितृदेवांश्च पिण्डेन सलिलेन च ॥ १९७.४ ॥ मूलस्थानं ततः पश्येत्स गच्छेत्परमां गतिम् । गुह्याद्गुह्यतरस्तत्र विशेषस्तु श्रुतो मया ॥ १९७.५ ॥ समागमे मुनीनां तु शङ्कराच्छशिशेखरात् । सदा वै शुक्लसप्तम्यां मूलमादित्यवासरः ॥ १९७.६ ॥ तदा रेवाजलं गत्वा स्नात्वा संतर्प्य देवताः । पित्ःंश्च भरतश्रेष्ठ दत्त्वा दानं स्वशक्तितः ॥ १९७.७ ॥ करवीरैस्ततो गत्वा रक्तचन्दनवारिणा । संस्थाप्य भास्करं भक्त्या सम्पूज्य च यथाविधि ॥ १९७.८ ॥ ततः सागुरुकैर्धूपैः कुन्दरैश्च विशेषतः । धूपयेद्देवदेवेशं दीपान् बोध्य दिशो दश ॥ १९७.९ ॥ उपोष्य जागरं कुर्याद्गीतवाद्यं विशेषतः । एवं कृते महीपाल न भवेदुग्रदुःखभाक् ॥ १९७.१० ॥ सूर्यलोके वसेत्तावद्यावत्कल्पशतत्रयम् । गन्धर्वैरप्सरोभिश्च सेव्यमानो नृपोत्तम ॥ १९७.११ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मूलस्थानतीर्थमाहात्म्यवर्णनं नाम सप्तनवत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १९८ मार्कण्डेय उवाच - ततो गच्छेन्महीपाल भद्रकालीतिसङ्गमम् । शूलतीर्थमिति ख्यातं स्वयं देवेन निर्मितम् ॥ १९८.१ ॥ पञ्चायतनमध्ये तु तिष्ठते परमेश्वरः । शूलपाणिर्महादेवः सर्वदेवतपूजितः ॥ १९८.२ ॥ स सङ्गमो नृपश्रेष्ठ नित्यं देवैर्निषेवितः । दर्शनात्तस्य तीर्थस्य स्नानदानाद्विशेषतः ॥ १९८.३ ॥ दौर्भाग्यं दुर्निमित्तं च ह्यभिशापो नृपग्रहः । यदन्यद्दुष्कृतं कर्म नश्यते शङ्करोऽब्रवीत् ॥ १९८.४ ॥ युधिष्ठिर उवाच - कथं शूलेश्वरी देवी कथं शूलेश्वरो हरः । प्रथितो नर्मदातीरे एतद्विस्तरतो वद ॥ १९८.५ ॥ मार्कण्डेय उवाच - बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः । वृत्तिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥ १९८.६ ॥ अशोकाश्रममध्यस्थो वृक्षमूले महातपाः । ऊर्ध्वबाहुर्महातेजास्तस्थौ मौनव्रतान्वितः ॥ १९८.७ ॥ तस्य कालेन महता तीव्रे तपसि वर्ततः । तमाश्रममनुप्राप्ता दस्यवो लोप्त्रहारिणः ॥ १९८.८ ॥ अनुसर्प्यमाणा बहुभिः पुरुषैर्भरतर्षभ । ते तस्यावसथे लोप्त्रं न्यदधुः कुरुनन्दन ॥ १९८.९ ॥ निधाय च तदा लीनास्तत्रैवाश्रममण्डले । तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् ॥ १९८.१० ॥ आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः । तमपृच्छंस्तदा वृत्तं रक्षिणस्तं तपोधनम् ॥ १९८.११ ॥ वद केन पथा याता दस्यवो द्विजसत्तम । तेन गच्छामहे ब्रह्मन् यथा शीघ्रतरं वयम् ॥ १९८.१२ ॥ तथा तु वचनं तेषां ब्रुवतां स तपोधनः । न किंचिद्वचनं राजन्नवदत्साध्वसाधु वा ॥ १९८.१३ ॥ ततस्ते राजपुरुषा विचिन्वन्तस्तमाश्रमम् । संयम्यैनं ततो राज्ञे सर्वान् दस्यून्न्यवेदयन् ॥ १९८.१४ ॥ तं राजा सहितैश्चोरैरन्वशाद्वध्यतामिति । सम्बध्य तं च तैर्राजञ्छूले प्रोतो महातपाः ॥ १९८.१५ ॥ ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा । प्रतिजग्मुर्महीपाल धनान्यादाय तान्यथ ॥ १९८.१६ ॥ शूलस्थः स तु धर्मात्मा कालेन महता तदा । ध्यायन्देवं त्रिलोकेशं शङ्करं तमुमापतिम् ॥ १९८.१७ ॥ बहुकालं महेशानं मनसाध्याय संस्थितः । निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत ॥ १९८.१८ ॥ धारयामास विप्राणामृषभः स हृदा हरिम् । शूलाग्रे तप्यमानेन तपस्तेन कृतं तदा ॥ १९८.१९ ॥ सन्तापं परमं जग्मुः श्रुत्वैतन्मुनयोऽखिलाः । ते रात्रौ शकुना भूत्वा संन्यवर्तन्त भारत ॥ १९८.२० ॥ दर्शयन्तो मुनेः शक्तिं तमपृच्छन् द्विजोत्तमम् । श्रोतुमिच्छाम ते ब्रह्मन् किं पापं कृतवानसि ॥ १९८.२१ ॥ श्रीमार्कण्डेय उवाच - ततः स मुनिशार्दूलस्तानुवाच तपोधनान् । दोषतः किं गमिष्यामि न हि मेऽन्यो पराध्यति ॥ १९८.२२ ॥ एवमुक्त्वा ततः सर्वानाचचक्षे ततो मुनिः । मुनयश्च ततो राज्ञे द्वितीयेऽह्नि न्यवेदयन् ॥ १९८.२३ ॥ राजा तु तमृषिं श्रुत्वा निष्क्रान्तः सह बन्धुभिः । प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥ १९८.२४ ॥ राजोवाच - यन्मयाऽपकृतं तात तवाज्ञानवशाद्बहु । प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥ १९८.२५ ॥ एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः । कृतप्रसादं राजा तं ततः समवतारयत् ॥ १९८.२६ ॥ अवतीर्यमाणस्तु मुनिः शूले मांसत्वमागते । अतिसंपीडितो विप्रः शङ्करं मनसागमत् ॥ १९८.२७ ॥ संध्यातः शङ्करस्तेन बहुकालोपवासतः । प्रादुर्भूतो महादेवः शूलं तस्य तथाछिनत् ॥ १९८.२८ ॥ शूलमूलस्थितः शम्भुस्तुष्टः प्राह पुनःपुनः । ब्रूहि किं क्रियतां विप्र सत्त्वस्थानपरायण ॥ १९८.२९ ॥ अदेयमपि दास्यामि तुष्टोऽस्म्यद्योमया सह । किं तु सत्यवतां लोके सिद्धिर्न स्याच्च भूयसी ॥ १९८.३० ॥ स्वकर्मणोऽनुरूपं हि फलं भुञ्जन्ति जन्तवः । शुभेन कर्मणा भूतिर्दुःखं स्यात्पातकेन तु ॥ १९८.३१ ॥ बहुभेदप्रभिन्नं तु मनुष्येषु विपच्यते । केषां दरिद्रभावेन केषां धनविपत्तिजम् ॥ १९८.३२ ॥ सन्तत्यभावजं केषां केषांचित्तद्विपर्ययः । तथा दुर्वृत्तितस्तेषां फलमाविर्भवेन्नृणाम् ॥ १९८.३३ ॥ केषांचित्पुत्रमरणे वियोगात्प्रियमित्रयोः । राजचौराग्नितः केषां दुःखं स्याद्दैवनिर्मितम् ॥ १९८.३४ ॥ तच्छरीरे तु केषांचित्कर्मणा सम्प्रदृश्यते । जराश्च विविधाः केषां दृश्यन्ते व्याधयस्तथा ॥ १९८.३५ ॥ दृश्यन्ते चाभिशापाश्च पूर्वकर्मानुसंचिताः । कष्टाः कष्टतरावस्था गताः केचिदनागसः ॥ १९८.३६ ॥ पूर्वकर्मविपाकेन धर्मेण तपसि स्थिताः । दान्ताः स्वदारनिरता भूरिदाः परिपूजकाः ॥ १९८.३७ ॥ ह्रीमन्तो नयसंयुक्ता अन्ये बहुगुणैर्युताः । दुर्गमामापदं प्राप्य निजकर्मसमुद्भवाम् ॥ १९८.३८ ॥ न संज्वरन्ति ये मर्त्या धर्मनिन्दां न कुर्वते । इदमेव तपो मत्वा क्षिपन्ति सुविचेतसः ॥ १९८.३९ ॥ हा भ्रातर्मातः पुत्रेति कष्टेषु न वदन्ति ये । स्मरन्ति मां महेशानमथवा पुष्करेक्षणम् ॥ १९८.४० ॥ दुष्कृतं पूर्वजं भोक्तुं ध्रुवं तदुपशाम्यति ॥ १९८.४१ ॥ दिनानि यावन्ति वसेत्स कष्टे यथाकृतं चिन्तयद्देवमीशम् । तावन्ति सौम्यानि कृतानि तेन भवन्ति विप्र श्रुतिनोदनैषा ॥ १९८.४२ ॥ यस्मात्त्वया कष्टगतेन नित्यं स्मृतश्चाहं मनसा पूजितश्च । गौरीसहायस्तेन इहागतोऽस्मि ब्रूह्यद्य कृत्यं क्रियतां किं नु विप्र ॥ १९८.४३ ॥ माण्डव्य उवाच - तुष्टो यद्युमया सार्धं वरदो यदि शङ्कर । तदा मे शूलसंस्थस्य संशयं परमं वद ॥ १९८.४४ ॥ न रुजा मम कापि स्याच्छूलसंप्रोतितेऽगके । अमृतस्रावि तच्छूलं प्रभावात्कस्य शंस मे ॥ १९८.४५ ॥ श्रीशूलपाणिरुवाच - शूलस्थेन त्वया विप्र मनसा चिन्तितोऽस्मि यत् । अनयानां निहन्ताहं दुःखानां विनिबर्हणः ॥ १९८.४६ ॥ ध्यातमात्रो ह्यहं विप्र पाताले वापि संस्थितः । शूलमूले त्वहं शम्भुरग्रे देवी स्वयं स्थिता । जगन्माताम्बिका देवी त्वामृतेनान्वपूरयत् ॥ १९८.४७ ॥ माण्डव्य उवाच - पूर्वमेव स्थितो यस्माच्छूलं व्याप्योमया सह । प्रसादप्रवणो मह्यमिदानीं चानया सह ॥ १९८.४८ ॥ यस्याः संस्मरणादेव दौर्भाग्यं प्रलयं व्रजेत् । न दौर्भाग्यात्परं लोके दुःखाद्दुःखतरं किल ॥ १९८.४९ ॥ किलैवं श्रूयते गाथा पुराणेषु सुरोत्तम । त्रैलोक्यं दहतस्तुभ्यं सौभाग्यमेकतां गतम् ॥ १९८.५० ॥ विष्णोर्वक्षःस्थलं प्राप्य तत्स्थितं चेति नः श्रुतम् । पीतं तद्वक्षसस्त्रस्तदक्षेण परमेष्ठिना ॥ १९८.५१ ॥ तस्मात्सतीति संजज्ञ इयमिन्दीवरेक्षणा । यजतस्तस्य देवेश तव मानावखण्डनात् ॥ १९८.५२ ॥ जुहावाग्नौ तु सा देवी ह्यात्मानं प्राणसंज्ञिकम् । आत्मानं भस्मसात्कृत्वा प्रालेयाद्रेस्ततः सुता ॥ १९८.५३ ॥ मेनकायां प्रभो जाता साम्प्रतं या ह्युमाभिधा । अनादिनिधना देवी ह्यप्रतर्क्या सुरेश्वर ॥ १९८.५४ ॥ यदि तुष्टोऽसि देवेश ह्युमा मे वरदा यदि । उभावप्यत्र वै स्थाने स्थितौ शूलाग्रमूलयोः ॥ १९८.५५ ॥ अवतारो यत्र तत्र संस्थितिं वै ततः कुरु ॥ १९८.५६ ॥ श्रीमार्कण्डेय उवाच - तेनैवमुक्ते सहसा कृत्वा भूमण्डलं द्विधा । निःसृतौ शूलमूलाग्राल्लिङ्गार्चाप्रतिरूपिणौ ॥ १९८.५७ ॥ प्रद्योतयद्दिशः सर्वा लिङ्गं मूले प्रदृश्यते । वामतः प्रतिमा देवी तदा शूलेश्वरी स्थिता ॥ १९८.५८ ॥ विलोभयन्ती च जगद्भाति पूरयती दिशः । दृष्ट्वा कृताञ्जलिपुटः स्तुतिं चक्रे द्विजोत्तमः ॥ १९८.५९ ॥ माण्डव्य उवाच - त्वमस्य जगतो माता जगत्सौभाग्यदेवता । न त्वया रहितं किंचिद्ब्रह्माण्डेऽस्ति वरानने ॥ १९८.६० ॥ प्रसादं कुरु धर्मज्ञे मम त्वाज्ञप्तुमर्हसि । ईदृशेनैव रूपेण केषु स्थानेषु तिष्ठसि । प्रसादप्रवणा भूत्वा वद तानि महेश्वरि ॥ १९८.६१ ॥ श्रीदेव्युवाच - सर्वगा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि । सर्वलोकेषु यत्किंचिद्विहितं न मया विना ॥ १९८.६२ ॥ तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः । स्मर्तव्या भूतिकामेन तानि वक्ष्यामि तत्त्वतः ॥ १९८.६३ ॥ वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी । प्रयागे ललिता देवी कामुका गन्धमादने ॥ १९८.६४ ॥ मानसे कुमुदा नाम विश्वकाया तथाऽपरे । गोमन्ते गोमती नाम मन्दरे कामचारिणी ॥ १९८.६५ ॥ मदोत्कटा चैत्ररथे हयन्ती हास्तिने पुरे । कान्यकुब्जे स्थिता गौरी रम्भा ह्यमलपर्वते ॥ १९८.६६ ॥ एकाम्रके कीर्तिमती विश्वां विश्वेश्वरे विदुः । पुष्करे पुरुहूता च केदारे मार्गदायिनी ॥ १९८.६७ ॥ नन्दा हिमवतः प्रस्थे गोकर्णे भद्रकर्णिका । स्थानेश्वरे भवानी तु बिल्वके बिल्वपत्त्रिका ॥ १९८.६८ ॥ श्रीशैले माधवी नाम भद्रे भद्रेश्वरीति च । जया वराहशैले तु कमला कमलालये ॥ १९८.६९ ॥ रुद्रकोट्यां तु कल्याणी काली कालञ्जरे तथा । महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी ॥ १९८.७० ॥ शालिग्रामे महादेवी शिवलिङ्गे जलप्रिया । मायापुर्यां कुमारी तु संताने ललिता तथा ॥ १९८.७१ ॥ उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला । गयायां विमला नाम मङ्गला पुरुषोत्तमे ॥ १९८.७२ ॥ विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने । नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुन्दरी ॥ १९८.७३ ॥ विपुले विपुला नाम कल्याणी मलयाचले । कोटवी कोटितीर्थेषु सुगन्धा गन्धमादने ॥ १९८.७४ ॥ गोदाश्रमे त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया । शिवचण्डे सभानन्दा नन्दिनी देविकातटे ॥ १९८.७५ ॥ रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने । देवकी मथुरायां तु पाताले परमेश्वरी ॥ १९८.७६ ॥ चित्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी । सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चण्डिका ॥ १९८.७७ ॥ रमणा रामतीर्थे तु यमुनायां मृगावती । करवीरे महालक्ष्मी रूपादेवी विनायके ॥ १९८.७८ ॥ आरोग्या वैद्यनाथे तु महाकाले महेश्वरी । अभयेत्युष्णतीर्थे तु मृगी वा विन्ध्यकन्दरे ॥ १९८.७९ ॥ माण्डव्ये माण्डुकी नाम स्वाहा माहेश्वरे पुरे । छागलिङ्गे प्रचण्डा तु चण्डिकामरकण्टके ॥ १९८.८० ॥ सोमेश्वरे वरारोहा प्रभासे पुष्करावती । वेदमाता सरस्वत्यां पारा पारातटे मुने ॥ १९८.८१ ॥ महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी । सिंहिका कृतशौचे तु कर्तिके चैव शांकरी ॥ १९८.८२ ॥ उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे । मता सिद्धवटे लक्ष्मीस्तरंगा भारताश्रमे ॥ १९८.८३ ॥ जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते । देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ॥ १९८.८४ ॥ भीमादेवी हिमाद्रौ तु पुष्टिर्वस्त्रेश्वरे तथा । कपालमोचने शुद्धिर्माता कायावरोहणे ॥ १९८.८५ ॥ शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा । काला तु चन्द्रभागायामच्छोदे शक्तिधारिणी ॥ १९८.८६ ॥ वेणायाममृता नाम बदर्यामुर्वशी तथा । ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका ॥ १९८.८७ ॥ मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी । अश्वत्थे वन्दिनीका तु निधिर्वैश्रवणालये ॥ १९८.८८ ॥ गायत्री वेदवदने पार्वती शिवसन्निधौ । देवलोके तथेन्द्राणी ब्रह्मास्ये तु सरस्वती ॥ १९८.८९ ॥ सूर्यबिम्बे प्रभा नाम मात्ःणां वैष्णवी मता । अरुन्धती सतीनां तु रामासु च तिलोत्तमा ॥ १९८.९० ॥ चित्रे ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् । शूलेश्वरी भृगुक्षेत्रे भृगौ सौभाग्यसुन्दरी ॥ १९८.९१ ॥ एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् । अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम् ॥ १९८.९२ ॥ इदमेव परं विप्र सर्वेषां तु भविष्यति । पठत्यष्टोत्तरशतं नाम्नां यः शिवसन्निधौ ॥ १९८.९३ ॥ स मुच्यते नरः पापैः प्राप्नोति स्त्रियमीप्सिताम् । स्नात्वा नारी तृतीयायां मां समभ्यर्च्य भक्तितः ॥ १९८.९४ ॥ न सा स्याद्दुःखिनी जातु मत्प्रभावान्नरोत्तम । नित्यं मद्दर्शने नारी नियताया भविष्यति ॥ १९८.९५ ॥ पतिपुत्रकृतं दुःखं न सा प्राप्स्यति कर्हिचित् । मदालये तु या नारी तुलापुरुषसंज्ञितम् ॥ १९८.९६ ॥ सम्पूज्य मण्डयेद्देवांल्लोकपालांश्च साग्निकान् । सपत्नीकान्द्विजान्पूज्य वासोभिर्भूषणैस्तथा ॥ १९८.९७ ॥ भूतेभ्यस्तु बलिं दद्यादृत्विग्भिः सह देशिकः । ततः प्रदक्षिणीकृत्य तुलामित्यभिमन्त्रयेत् ॥ १९८.९८ ॥ शुचिरक्ताम्बरो वा स्याद्गृहीत्वा कुसुमाञ्जलिम् । नमस्ते सर्वदेवानां शक्तिस्त्वं परमा स्थिता ॥ १९८.९९ ॥ साक्षिभूता जगद्धात्री निर्मिता विश्वयोनिना । त्वं तुले सर्वभूतानां प्रमाणमिह कीर्तिता ॥ १९८.१०० ॥ कराभ्यां बद्धमुष्टिभ्यामास्ते पश्यन्नुमामुखम् । ततोऽपरे तुलाभागेन्यसेयुर्द्विजपुंगवाः ॥ १९८.१०१ ॥ द्रव्यमष्टविधं तत्र ह्यात्मवित्तानुसारतः । मन्दशभूते विप्रेन्द्र पृथिव्यां यदधिष्ठितम् ॥ १९८.१०२ ॥ सुवर्णं चैव निष्पावांस्तथा राजिकुसुम्भकम् । तृणराजेन्दुलवणं कुङ्कुमं तु तथाष्टमम् ॥ १९८.१०३ ॥ एषामेकतमं कुर्याद्यथा वित्तानुसारतः । साम्यादभ्यधिकं यावत्काञ्चनादि भवेद्द्विज ॥ १९८.१०४ ॥ तावत्तिष्ठेन्नरो नारी पश्चादिदमुदीरयेत् । नमो नमस्ते ललिते तुलापुरुषसंज्ञिते ॥ १९८.१०५ ॥ त्वमुमे तारयस्वास्मानस्मात्संसारकर्दमात् । ततोऽवतीर्य मुरवे पूर्वमर्द्धं निवेदयेत् ॥ १९८.१०६ ॥ ऋत्विग्भ्योऽपरमर्द्धं च दद्यादुदकपूर्वकम् । तेभ्यो लब्धा ततोऽनुज्ञां दद्यादन्येषु चार्थिषु ॥ १९८.१०७ ॥ सपत्नीकं गुरुं रक्तवाससी परिधापयेत् । अन्यांश्च ऋत्विजः शक्त्या गुरुं केयूरकङ्कणैः ॥ १९८.१०८ ॥ शुक्लां गां क्षीरिणीं दद्याल्ललिता प्रीयतामिति । अनेन विधिना या तु कुर्यान्नारी ममालये ॥ १९८.१०९ ॥ मत्तुल्या सा भवेद्राज्ञां तेजसा श्रीरिवामला । सावित्रीव च सौन्दर्ये जन्मानि दश पञ्च च ॥ १९८.११० ॥ श्रीमार्कण्डेय उवाच - एवं निशम्य वचनं गौर्या द्विजवरोत्तमः । नमस्कृत्य जगामाशु धर्मराज निवेशनम् ॥ १९८.१११ ॥ तदा प्रभृति तत्तीर्थं ख्यातं शूलेश्वरीति च । तस्मिंस्तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ॥ १९८.११२ ॥ ब्राह्मणानन्नवासोभिः पिण्डैः पितृपितामहान् । भक्तोपहारैर्देवेशमुमया सह शङ्करं ॥ १९८.११३ ॥ धूपगुग्गुलदानैश्च दीपदानैः सुबोधितैः । सर्वपापविनिर्मुक्तः स गच्छेच्छिवसन्निधिम् ॥ १९८.११४ ॥ तस्मिंस्तीर्थे तु यः कश्चिदभियुक्तो नरेश्वर । अम्भिशापि तथा स्नातस्त्रिदिनं मुच्यते नरः ॥ १९८.११५ ॥ कृष्णपक्षे चतुर्दश्यां रात्रौ जागर्ति यो नरः । उपवासपरः शुद्धः शिवं सम्पूजयेन्नरः । प्रमुच्य पापसंमोहं रुद्रलोकं स गच्छति ॥ १९८.११६ ॥ त्रिनेत्रश्च चतुर्बाहुः साक्षाद्रुद्रोऽपरः । क्रीडते देवकन्याभिर्यावच्चन्द्रार्कतारकम् ॥ १९८.११७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टनवत्युत्तरशततमोऽध्यायः ॥ ऋKV अध्याय १९९ श्रीमार्कण्डेय उवाच - तस्यैवानन्तरं राजन्नाश्विनं तीर्थमुत्तमम् । कामिकं सर्वतीर्थानां प्राणिनां सिद्धिदायकम् ॥ १९९.१ ॥ तत्र तीर्थेऽश्विनौ देवौ सुरूपौ भिषजां वरौ । तपः कृत्वा सुविपुलं संजातौ यज्ञभागिनौ ॥ १९९.२ ॥ संमतौ सर्वदेवानामादित्यतनयावुभौ । नासत्यौ सत्त्वं पन्नौ सर्वदुःखघ्नसत्तमौ ॥ १९९.३ ॥ युधिष्ठिर उवाच - आदित्यस्य सुतौ तात नासत्यौ येन हेतुना । संजातौ श्रोतुमिच्छामि निर्णयं परमं द्विज ॥ १९९.४ ॥ मार्कण्डेय उवाच - पुराणे भास्करे तात एतद्विस्तरतो मया । संश्रुतं देवदेवस्य मार्तण्डस्य महात्मनः ॥ १९९.५ ॥ तत्ते संक्षेपतः सर्वं भक्तियुक्तस्य भारत । कथयामि न सन्देहो वृद्धभावेन कर्शितः ॥ १९९.६ ॥ अतितेजोरवेर्दृष्ट्वा राज्ञी देवी नरोत्तम । चचार मेरुकान्तारे वडवा तप उल्बणम् ॥ १९९.७ ॥ ततः कतिपयाहस्य कालस्य भगवान्रविः । दृष्ट्वा तु रूपमुत्सृज्य परमं तेज उज्ज्वलम् ॥ १९९.८ ॥ मनोभववशीभूतो हयो भूत्वा लघुक्रमः । विस्फुरन्ती यथाप्राणं धावमाना इतस्ततः ॥ १९९.९ ॥ हेषमाणः स्वरेणासौ मैथुनायोपचक्रमे । सम्मुखी तु ततो देवी निवृत्ता लघुविक्रमा ॥ १९९.१० ॥ यथा तथा नासिकायां प्रविष्टं बीजमुत्तमम् । ततो नासागते बीजे संजातो गर्भ उत्तमः ॥ १९९.११ ॥ जातौ यतः सुतौ पार्थ नासत्यौ विश्रुतौ ततः । सुसमौ सुविभक्ताङ्गौ बिम्बाद्बिम्बमिवोद्यतौ ॥ १९९.१२ ॥ अधिकौ सर्वदेवानां रूपैश्चर्यसमन्वितौ । नर्मदातटमाश्रित्य भृगुकच्छे गतावुभौ । परां सिद्धिमनुप्राप्तौ तपः कृत्वा सुदुश्चरम् ॥ १९९.१३ ॥ तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः । सुरूपः सुभगः पार्थ जायते यत्र तत्र च ॥ १९९.१४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आश्विनतीर्थमाहात्म्यवर्णनं नामैकोनद्विशततमोऽध्यायः ॥ ऋKV अध्याय २०० श्रीमार्कण्डेय उवाच - तस्यैवानन्तरं पार्थ सावित्रीतीर्थमुत्तमम् । यत्र सिद्धा महाभागा सावित्री वेदमातृका ॥ २००.१ ॥ युधिष्ठिर उवाच - सावित्री का द्विजश्रेष्ठ कथं वाराध्यते बुधैः । प्रसन्ना वा वरं कं च ददाति कथयस्व मे ॥ २००.२ ॥ श्रीमार्कण्डेय उवाच - पद्मा पद्मासनस्थेनाधिष्ठिता पद्मयोगिनी । सावित्रतेजःसदृशी सावित्री तेन चोच्यते ॥ २००.३ ॥ पद्मानना पद्मवर्णा पद्मपत्रनिभेक्षणा । ध्यातव्या ब्राह्मणैर्नित्यं क्षत्रवैश्यैर्यथाविधि ॥ २००.४ ॥ ब्रह्महत्याभयात्सा हि न तु शूद्रैः कदाचन । उच्चारणाद्धारणाद्वा नरके पतति ध्रुवम् ॥ २००.५ ॥ वेदोच्चारणमात्रेण क्षत्रियैर्धर्मपालकैः । जिह्वाछेदोऽस्य कर्तव्यः शूद्रस्येति विनिश्चयः ॥ २००.६ ॥ बाला बालेन्दुसदृशी रक्तवस्त्रानुलेपना । उषःकाले तु ध्यातव्या सन्ध्या सन्धान उत्तमे ॥ २००.७ ॥ उत्तुङ्गपीवरकुचा सुमुखी शुभदर्शना । सर्वाभरणसम्पन्ना श्वेतमाल्यानुलेपना ॥ २००.८ ॥ श्वेतवस्त्रपरिच्छन्ना श्वेतयज्ञोपवीतिनी । मध्याह्नसन्ध्या ध्यातव्या तरुणा भुक्तिमुक्तिदा ॥ २००.९ ॥ प्रदोषे तु पुनः पार्थ श्वेता पाण्डुरमूर्धजा । सुमृता तु दुर्गकान्तारे मातृवत्परिरक्षति ॥ २००.१० ॥ विशेषेण तु राजेन्द्र सावित्रीतीर्थमुत्तमम् । स्नात्वाचम्य विधानेन मनोवाक्कायकर्मभिः ॥ २००.११ ॥ प्राणायामैर्दहेद्दोषान् सप्तजन्मार्जितान्बहून् । आपोहिष्ठेति मन्त्रेण प्रोक्षयेदात्मनस्तनुम् ॥ २००.१२ ॥ नवषट्च तथा तिस्रस्तत्र तीर्थे नृपोत्तम । आपोहिष्ठेति त्रिरावृत्य प्रतिग्राहैर्न लिप्यते ॥ २००.१३ ॥ अघमर्षणं त्र्यृचं तोयं यथावेदमथापि वा । उपपापैर्न लिप्येत पद्मपत्रमिवाम्भसा ॥ २००.१४ ॥ त्र्यापं हि कुरुते विप्र उल्लेखत्रयमाचरेत् । चतुर्थं कारयेद्यस्तु ब्रह्महत्यां व्यपोहति ॥ २००.१५ ॥ द्रुपदाख्यश्च यो मन्त्रो वेदे वाजसनेयके । अन्तर्जले सकृज्जप्तः सर्वपापक्षयंकरः ॥ २००.१६ ॥ उदुत्यमिति मन्त्रेण पूजयित्वा दिवाकरम् । गायत्रीं च जपेद्देवीं पवित्रां वेदमातरम् ॥ २००.१७ ॥ गायत्रीं तु जपेद्देवीं यः सन्ध्यानन्तरं द्विजः । सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥ २००.१८ ॥ दशभिर्जन्मभिर्लब्धं शतेन तु पुराकृतम् । त्रियुगं तु सहस्रेण गायत्री हन्ति किल्बिषम् ॥ २००.१९ ॥ गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः । नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥ २००.२० ॥ सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु । यदन्यत्कुरुते किंचिन्न तस्य फलभाग्भवेत् ॥ २००.२१ ॥ सन्ध्यां नोपासते यस्तु ब्राह्मणो मन्दबुद्धिमान् । स जीवन्नेव शूद्रः स्यान्मृतः श्वा सम्प्रजायते ॥ २००.२२ ॥ सावित्रीतीर्थमासाद्य सावित्रीं यो जपेद्द्विजः । त्रैविद्यं तु फलं तस्य जायते नात्र संशयः ॥ २००.२३ ॥ पित्ःनुद्दिश्य यः स्नात्वा पिण्डनिर्वपणं नृप । कुरुते द्वादशाब्दानि तृप्यन्ति तत्पितामहाः ॥ २००.२४ ॥ सावित्रीतीर्थमासाद्य यः कुर्यात्प्राणसंक्षयम् । ब्रह्मलोकं वसेत्तावद्यावदाभूतसम्प्लवम् ॥ २००.२५ ॥ पूर्णे चैव ततः काल इह मानुष्यतां गतः । चतुर्वेदो द्विजो राजञ्जायते विमले कुले ॥ २००.२६ ॥ धनधान्यचयोपेतः पुत्रपौत्रसमन्वितः । व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ २००.२७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सावित्रीतीर्थमाहात्म्यवर्णनं नाम द्विशततमोऽध्यायः ॥ ऋKV अध्याय २०१ श्रीमार्कण्डेय उवाच - ततो गच्छेन्महीपाल देवतीर्थमनुत्तमम् । यत्र सिद्धा महाभागा देवाः सेन्द्रा युधिष्ठिर ॥ २०१.१ ॥ स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् । तत्र तीर्थप्रभावेन कृतमानन्त्यमश्नुते ॥ २०१.२ ॥ विशेषाद्भाद्रपदे तु कृष्णपक्षे त्रयोदशीम् । प्रधानं सर्वतीर्थानां देवैरध्यासितं पुरा ॥ २०१.३ ॥ स्नात्वा त्रयोदशीदिने श्राद्धं कृत्वा विधानतः । देवैः संस्थापितं देवं सम्पूज्य वृषभध्वजम् । सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् ॥ २०१.४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नामैकोत्तरद्विशततमोऽध्यायः ॥ ऋKV अध्याय २०२ मार्कण्डेय उवाच - तस्यैवानन्तरं चान्यच्छिखितीर्थमनुत्तमम् । प्रधानं सर्वतीर्थानां पञ्चायतनमुत्तमम् ॥ २०२.१ ॥ तत्र तीर्थे तपस्तप्त्वा शिखार्थं हव्यवाहनः । शिखां प्राप्य शिखी भूत्वा शिखाख्यं स्थापयञ्छिवम् ॥ २०२.२ ॥ प्रतिपच्छुक्लपक्षे या भवेदाश्वयुजे नृप । तदा तीर्थवरे गत्वा स्नात्वा वै नर्मदाजले ॥ २०२.३ ॥ देवानृषीन् पित्ःंश्चान्यांस्तर्पयेत्तिलवारिणा । हिरण्यं ब्राह्मणे दद्यात्संतर्प्य च हुताशनम् ॥ २०२.४ ॥ गन्धमाल्यैस्तथा धूपैस्ततः सम्पूजयेच्छिवम् । अनेन विधिनाभ्यर्च्य शिखितीर्थे महेश्वरम् ॥ २०२.५ ॥ विमानेनार्कवर्णेन ह्यप्सरोगणसंवृतः । गीयमानस्तु गन्धर्वैर्रुद्रलोकं स गच्छति ॥ २०२.६ ॥ शत्रुक्षयमवाप्नोति तेजस्वी जायते भुवि ॥ २०२.७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शिखितीर्थमाहात्म्यवर्णनं नाम द्व्यधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २०३ श्रीमार्कण्डेय उवाच - ततो गच्छेद्धराधीश कोटितीर्थमनुत्तमम् । यत्र सिद्धा महाभागाः कोटिसंख्या महर्षयः ॥ २०३.१ ॥ तपः कृत्वा सुविपुलमृषिभिः स्थापितः शिवः । तथा कोटीश्वरी देवी चामुण्डा महिषार्दिनी ॥ २०३.२ ॥ कृष्णपक्षे चतुर्दश्यां मासि भाद्रपदे नृप । तीर्थकोटीः समाहूय मुनिभिः स्थापितः शिवः ॥ २०३.३ ॥ तस्यां तिथौ च हस्तर्क्षं सर्वपापप्रणाशनम् । तत्र तीर्थे तदा गत्वा स्नानं कृत्वा समाहितः ॥ २०३.४ ॥ नरकादुद्धरत्याशु पुरुषानेकविंशतिम् । तिलोदकप्रदानेन किमुत श्राद्धदो नरः ॥ २०३.५ ॥ स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् । तस्य तीर्थस्य योगेन सर्वं कोटिगुणं भवेत् ॥ २०३.६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नाम त्र्युत्तरद्विशततमोऽध्यायः ॥ ऋKV अध्याय २०४ श्रीमार्कण्डेय उवाच - भृगुतीर्थं ततो गच्छेत्तीर्थराजमनुत्तमम् । पैतामहं महापुण्यं सर्वपातकनाशनम् ॥ २०४.१ ॥ ब्रह्मणा तत्र तीर्थे तु पुरा वर्षशतत्रयम् । आराधनं कृतं शम्भोः कस्मिंश्चित्कारणान्तरे ॥ २०४.२ ॥ युधिष्ठिर उवाच - किमर्थं मुनिशार्दूल ब्रह्मा लोकपितामहः । आराधयद्देवदेवं महाभक्त्या महेश्वरम् ॥ २०४.३ ॥ आराध्यः सर्वभूतानां जगद्भर्ता जगद्गुरुः । श्रोतव्यं श्रोतुमिच्छामि महदाश्चर्यमुत्तमम् ॥ २०४.४ ॥ धर्मपुत्रवचः श्रुत्वा मार्कण्डेयो मुनीश्वरः । कथयामास तद्वृत्तमितिहासं पुरातनम् ॥ २०४.५ ॥ मार्कण्डेय उवाच - स्वपुत्रिकामभिगन्तुमिच्छन्पूर्वं पितामहः । शप्तस्तु देवदेवेन कोपाविष्टेन सत्तम ॥ २०४.६ ॥ वेदास्तव विनश्यन्ति ज्ञानं च कमलासन । अपूज्यः सर्वलोकानां भविष्यसि न संशयः ॥ २०४.७ ॥ एवं दत्ते ततः शापे ब्रह्मा खेदावृतस्तदा । रेवाया उत्तरे कूले स्नात्वा वर्षशतत्रयम् । तोषयामास देवेशं तुष्टः प्रोवाच शङ्करः ॥ २०४.८ ॥ पूज्यस्त्वं भविता लोके प्राप्ते पर्वणि पर्वणि । अहमत्र च वत्स्यामि देवैश्च पितृभिः सह ॥ २०४.९ ॥ श्रीमार्कण्डेय उवाच - तदाप्रभृति तत्तीर्थं ख्यातिं प्राप्तं पितामहात् । सर्वपापहरं पुण्यं सर्वतीर्थेष्वनुत्तमम् ॥ २०४.१० ॥ तत्र भाद्रपदे मासि कृष्णपक्षे विशेषतः । अमावास्यां तु यः स्नात्वा तर्पयेत्पितृदेवताः ॥ २०४.११ ॥ पिण्डदानेन चैकेन तिलतोयेन वा नृप । तृप्यन्ति द्वादशाब्दानि पितरो नात्र संशयः ॥ २०४.१२ ॥ कन्यागते तु यस्तत्र नित्यं श्राद्धप्रदो भवेत् । अवाप्य तृप्तिं तत्पूर्वे वल्गन्ति च हसन्ति च ॥ २०४.१३ ॥ सर्वेषु पितृतीर्थेषु श्राद्धं कृत्वास्ति यत्फलम् । तत्फलं समवाप्नोति दर्शे तत्र न संशयः ॥ २०४.१४ ॥ पैतामहे नरः स्नात्वा पूजयन्पार्वतीपतिम् । मुच्यते नात्र सन्देहः पातकैश्चोपपातकैः ॥ २०४.१५ ॥ तत्र तीर्थे मृतानां तु नराणां भावितात्मनाम् । अनिवर्तिका गती राजन्रुद्रलोकादसंशयम् ॥ २०४.१६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पैतामहतीर्थमाहात्म्यवर्णनं नाम चतुरधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २०५ श्रीमार्कण्डेय उवाच - गच्छेत्ततः क्षोणिनाथ तीर्थं परमशोभनम् । कुर्कुरीनाम विख्यातं सर्वपापप्रणाशनम् ॥ २०५.१ ॥ यं यं प्रार्थयते कामं पशुपुत्रधनादिकम् । तं तं ददाति देवेशी कुर्कुरी तीर्थदेवता ॥ २०५.२ ॥ क्षेत्रपालो वसेत्तत्र ढौण्ढेशो नाम नामतः । तस्य चाराधनं कृत्वा नारी वा पुरुषोऽपि वा ॥ २०५.३ ॥ वन्दनादपि राजेन्द्र दौर्भाग्यं नाशमाप्नुयात् । अपुत्रो लभते पुत्रमधनो धनमुत्तमम् ॥ २०५.४ ॥ नारी नरस्तथाप्येवं लभते काममुत्तमम् । स्पर्शनाद्दर्शनात्तस्य तीर्थस्य विधिपूर्वकम् ॥ २०५.५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुर्कुरीतीर्थमाहात्म्यवर्णनं नाम पञ्चाधिकद्विशततमोऽध्यायः॥ ऋKV अध्याय २०६ श्रीमार्कण्डेय उवाच - गच्छेत्ततः क्षोणिनाथ तीर्थं परमशोभनम् । सर्वपापहरं पुण्यं दशकन्येति विश्रुतम् । महादेवकृतं पुण्यं सर्वकामफलप्रदम् ॥ २०६.१ ॥ तत्र तीर्थे महादेवो दशकन्या गुणान्विताः । ब्रह्मणो वरयामास ह्युद्वाहेन युयोज ह ॥ २०६.२ ॥ तदाप्रभृति तत्तीर्थं दशकन्येति विश्रुतम् । सर्वपापहरं पुण्यमक्षयं कीर्तितं फलम् ॥ २०६.३ ॥ तत्र तीर्थे तु यः कन्यां ददाति समलंकृताम् । प्राप्नोति पुरुषो दत्त्वा यथाशक्त्या स्वलंकृताम् ॥ २०६.४ ॥ तेन दानोत्थपुण्येन पूतात्मानो नराधिप । वसन्ति रोमसंख्यानि वर्षाणि शिवसन्निधौ ॥ २०६.५ ॥ ततः कालेन महता त्विह लोके नरेश्वर । मानुष्यं प्राप्य दुष्प्राप्यं धनकोटीपतिर्भवेत् ॥ २०६.६ ॥ तत्र तीर्थे तु यो भक्त्या स्नात्वा विप्राय काञ्चनम् । सम्प्रयच्छति शान्ताय सोऽत्यन्तं सुखमश्नुते ॥ २०६.७ ॥ वाचिकं मानसं वापि कर्मजं यत्पुरा कृतम् । तत्सर्वं विलयं याति स्वर्णदानेन भारत ॥ २०६.८ ॥ नरो दत्त्वा सुवर्णं चापि वालाग्रमात्रकम् । तत्र तीर्थे दिवं याति मृतो नास्त्यत्र संशयः ॥ २०६.९ ॥ तत्र विद्याधरैः सिद्धैर्विमानवरमास्थितः । पूज्यमानो वसेत्तावद्यावदाभूतसम्प्लवम् ॥ २०६.१० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दशकन्यातीर्थमाहात्म्यवर्णनं नाम षडुत्तरद्विशततमोऽध्यायः ॥ ऋKV अध्याय २०७ श्रीमार्कण्डेय उवाच - तस्याग्रे पावनं तीर्थं स्वर्णबिन्द्विति विश्रुतम् । यत्र स्नात्वा दिवं यान्ति मृताश्च न पुनर्भवम् ॥ २०७.१ ॥ तत्र तीर्थे तु यः स्नात्वा दत्ते विप्राय काञ्चनम् । तेन यत्तु फलं प्रोक्तं तच्छृणुष्व महीपते ॥ २०७.२ ॥ सर्वेषामेव रत्नानां काञ्चनं रत्नमुत्तमम् । अग्नितेजःसमुद्भूतं तेन तत्परमं भुवि ॥ २०७.३ ॥ तेनैव दत्ता पृथिवी सशैलवनकानना । सपत्तनपुरा सर्वा काञ्चनं यः प्रयच्छति ॥ २०७.४ ॥ मानसं वाचिकं पापं कर्मणा यत्पुरा कृतम् । तत्सर्वं नश्यति क्षिप्रं स्वर्णदानेन भारत ॥ २०७.५ ॥ स्वर्णदानं तु यो दत्त्वा ह्यपि वालाग्रमात्रकम् । तत्र तीर्थे मृतो याति दिवं नास्त्यत्र संशयः ॥ २०७.६ ॥ तत्र विद्याधरैः सिद्धैर्विमानवरमास्थितः । पूज्यमानो वसेत्तावद्यावदाभूतसम्प्लवम् ॥ २०७.७ ॥ पूर्णे तत्र ततः काले प्राप्य मानुष्यमुत्तमम् । सुवर्णकोटिसहिते गृहे वै जायते द्विजः ॥ २०७.८ ॥ सर्वव्याधिविनिर्मुक्तः सर्वलोकेषु पूजितः । जीवेद्वर्षशतं साग्रं राजसं सत्सु विश्रुतः ॥ २०७.९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सुवर्णबिन्दुतीर्थमाहात्म्यवर्णनं नाम सप्ताधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २०८ श्रीमार्कण्डेय उवाच - भूमिपाल ततो गच्छेत्तीर्थं परमशोभनम् । विख्यातं त्रिषु लोकेषु पित्ःणामृणमोचनम् ॥ २०८.१ ॥ तत्र स्नात्वा विधानेन संतर्प्य पितृदेवताः । मनुष्यश्च नृपश्रेष्ठ दानं दत्त्वानृणो भवेत् ॥ २०८.२ ॥ इच्छन्ति पितरः सर्वे स्वार्थहेतोः सुतं यतः । पुन्नाम्नो नरकात्पुत्रोऽस्मानयं मोचयिष्यति ॥ २०८.३ ॥ पिण्डदानं जलं तात ऋणमुत्तममुच्यते । पित्ःणां तद्धि वै प्रोक्तमृणं दैवमतः परम् ॥ २०८.४ ॥ अग्निहोत्रं तथा यज्ञाः पशुबन्धास्तथेष्टयः । इति देवर्णं प्रोक्तं शृणु मानुष्यकं ततः ॥ २०८.५ ॥ ब्राह्मणेषु च तीर्थेषु देवायतनकर्मसु । प्रतिश्रुत्य ददेत्तत्तद्व्यवहारः कृतो यथा ॥ २०८.६ ॥ ऋणत्रयमिदं प्रोक्तं पुत्राणां धर्मनन्दन । सत्पुत्रास्ते तु राजेन्द्र स्नाता य ऋणमोचने ॥ २०८.७ ॥ ऋणत्रयाद्विमुच्यन्ते ह्यपुत्राः पुत्रिणस्तथा । तस्मात्तीर्थवरं प्राप्य पुत्रेण नियतात्मना । पितृभ्यस्तर्पणं कार्यं पिण्डदानं विशेषतः ॥ २०८.८ ॥ तत्र तीर्थे हुतं दत्तं गुरवस्तोषिता यदि । मृतानां सप्त जन्मानि फलमक्षयमश्नुते ॥ २०८.९ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऋणमोचनतीर्थमाहात्म्यवर्णनं नामाष्टोत्तरद्विशततमोऽध्यायः ॥ ऋKV अध्याय २०९ श्रीमार्कण्डेय उवाच - तस्यैवानन्तरं पार्थ पुष्कलीतीर्थमुत्तमम् । तत्र तीर्थे नरः स्नात्वा ह्यश्वमेधफलं लभेत् ॥ २०९.१ ॥ क्षमानाथं ततो गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् । दानवगन्धर्वैरप्सरोभिश्च सेवितम् ॥ २०९.२ ॥ तत्र तिष्ठति देवेशः साक्षाद्रुद्रो महेश्वरः । भारेण महता जातो भारभूतिरिति स्मृतः ॥ २०९.३ ॥ युधिष्ठिर उवाच - भारभूतीति विख्यातं तीर्थं सर्वगुणान्वितम् । श्रोतुमिच्छामि विप्रेन्द्र परं कौतूहलं हि मे ॥ २०९.४ ॥ श्रीमार्कण्डेय उवाच - भारभूतिसमुत्पत्तिं शृणु पाण्डवसत्तम । विस्तरेण यथा प्रोक्ता पुरा देवेन शम्भुना ॥ २०९.५ ॥ आसीत्कृतयुगे विप्रो वेदवेदाङ्गपारगः । विष्णुशर्मेति विख्यातः सर्वशास्त्रार्थपारगः ॥ २०९.६ ॥ क्षमा दमो दया दानं सत्यं शौचं धृतिस्तथा । विद्या विज्ञानमास्तिक्यं सर्वं तस्मिन्प्रतिष्ठितम् ॥ २०९.७ ॥ ईदृग्गुणा हि ये विप्रा भवन्ति नृपसत्तम । पतितान्नरके घोरे तारयन्ति पित्ःंस्तु ते ॥ २०९.८ ॥ इन्द्रियं लोलुपा विप्रा ये भवन्ति नृपोत्तम । पतन्ति नरके घोरे रौरवे पापमोहिताः ॥ २०९.९ ॥ ये क्षान्तदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधान्निवृत्ताः । प्रतिग्रहे संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ २०९.१० ॥ एवं गुणगणाकीर्णो ब्राह्मणो नर्मदातटे । वसते ब्राह्मणैः सार्धं शिलोञ्छवृत्तिजीवनः ॥ २०९.११ ॥ तादृशं ब्राह्मणं ज्ञात्वा देवदेवो महेश्वरः । द्विजरूपधरो भूत्वा तस्याश्रममगात्स्वयम् ॥ २०९.१२ ॥ दृष्ट्वा तं ब्राह्मणैः सार्धमुच्चरन्तं पदक्रमम् । अभिवादयते विप्रं स्वागतेन च पूजितः ॥ २०९.१३ ॥ प्रोवाच तं मुहूर्तेन ब्राह्मणो विस्मयान्वितः । किमथ तद्बटो ब्रूहि किं करोमि तवेप्सितम् ॥ २०९.१४ ॥ बटुरुवाच - विद्यार्थिनमनुप्राप्तं विद्धि मां द्विजसत्तम । ददासि यदि मे विद्यां ततः स्थास्यामि ते गृहे ॥ २०९.१५ ॥ ब्राह्मण उवाच - सर्वेषामेव विप्राणां बटो त्वं गोत्र उत्तमे । दानानां परमं दानं कथं विद्या च दीयते ॥ २०९.१६ ॥ गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या भवतीह फलप्रदा ॥ २०९.१७ ॥ बटुरुवाच - यथान्ये बालकाः स्नाताः शुश्रूषन्ति ह्यहर्निशम् । तथाहं बटुभिः सार्धं शुश्रूषामि न संशयः ॥ २०९.१८ ॥ तथेति चोक्त्वा विप्रेन्द्रः पाठयंस्तं दिने दिने । वर्तते सह शिष्यैः स शिलोञ्छानुपहारयन् ॥ २०९.१९ ॥ ततः कतिपयाहोभिः प्रोक्तो बटुभिरीश्वरः । पचनाद्यं बटो कर्म कुरु क्रमत आगतम् ॥ २०९.२० ॥ तथेति चोक्तो देवेशो भारग्राममुपागतः । ध्यात्वा वनस्पतीः सर्वा इदं वचनमब्रवीत् ॥ २०९.२१ ॥ यावदागच्छते विप्रो बटुभिः सह मन्दिरम् । अदर्शनाभिः कर्तव्यं तावदन्नं सुसंस्कृतम् ॥ २०९.२२ ॥ एवमुक्त्वा तु ताः सर्वा विश्वरूपो महेश्वरः । क्रीडनार्थं गतस्तत्र बटुवेषधरः पृथक् ॥ २०९.२३ ॥ दृष्ट्वा समागतं तत्र बटुवेषधरं पृथक् । धिक्त्वां च परुषं वाक्यमूचुस्ते गिरिसन्निधौ ॥ २०९.२४ ॥ क्षुत्क्षामकंठाः सर्वे च गत्वा तु किल मन्दिरम् । त्वया सिद्धेन चान्नेन तृप्तिं यास्यामहे वयम् ॥ २०९.२५ ॥ तद्वृथा चिन्तितं सव त्वयागत्य कृतं द्विज । मिथ्याप्रतिज्ञेन सता दुरनुष्ठितमद्य ते ॥ २०९.२६ ॥ बटुरुवाच - सन्तापमनुतापं वा भोजनार्थं द्विजर्षभाः । मा कुरुध्वं यथान्यायं सिद्धेऽग्रे गृहमेष्यथा ॥ २०९.२७ ॥ बटुरुवाच - दिनशेषेण चास्माकं पञ्चतां च दिने दिने । निष्पत्तिं याति वा नेति तदसिद्धमशेषतः ॥ २०९.२८ ॥ असिद्धं सिद्धमस्माकं यत्त्वया समुदाहृतम् । दृष्ट्वानृतं गतास्तत्र त्वां बद्धाम्भसि निक्षिपे ॥ २०९.२९ ॥ बटुरुवाच - भोभोः शृणुध्व सर्वेऽत्र सोपाध्याया द्विजोत्तमाः । प्रतिज्ञां मम दुर्धर्षां यां श्रुत्वा विस्मयो भवेत् ॥ २०९.३० ॥ यदि सिद्धमिदं सर्वमन्नं स्यादाश्रमे गुरोः । यूयं बद्ध्वा मया सर्वे क्षेप्तव्या नर्मदाम्भसि ॥ २०९.३१ ॥ अथवान्नं न सिद्धं स्याद्भवद्भिर्दृढबन्धनैः । गुरोस्तु पश्यतो बद्ध्वा क्षेप्तव्योऽहं नर्मदाह्रदे ॥ २०९.३२ ॥ तथेति कृत्वा ते सर्वे समयं गुरुसन्निधौ । स्नात्वा जाप्यविधानेन भूतग्रामं ततो ययुः ॥ २०९.३३ ॥ दृष्ट्वा ते विस्मयं जग्मुर्विस्तृते भक्ष्यभोजने । षड्रसेन नृपश्रेष्ठ भुक्त्वा हुत्वा पृथक्पृथक् ॥ २०९.३४ ॥ ततः प्रोवाच वचनं हृष्टपुष्टो द्विजोत्तमः । वरदोऽस्मि वरं वत्स वृणु यत्तव रोचते ॥ २०९.३५ ॥ साङ्गोपाङ्गास्तु ते वेदाः शास्त्राणि विविधानि च । प्रतिभास्यन्ति ते विप्र मदीयोऽस्तु वरस्त्वयम् ॥ २०९.३६ ॥ प्रणम्य बटुभिः सार्धं स चिक्रीड यथासुखम् । द्वितीये तु ततः प्राप्ते दिवसे नर्मदाजले ॥ २०९.३७ ॥ क्रीडनार्थं गताः सर्वे सोपाध्याया युधिष्ठिर । ततः स्मृत्वा पणं सर्वे भाषयित्वा विधानतः ॥ २०९.३८ ॥ उपाध्यायमथोवाच नत्वा देवः कृताञ्जलिः । जले प्रक्षेपयाम्यद्य निष्प्रतिज्ञान् बटून् प्रभो ॥ २०९.३९ ॥ तद्देवस्य वचः श्रुत्वा नष्टास्ते बटवो नृप । गुरोस्तु पश्यतो राजन्धावमाना दिशो दश ॥ २०९.४० ॥ वायुवेगेन देवेन लुञ्जितास्ते समन्ततः । भारं बद्ध्वा तु सर्वेषां बटूनां च नरेश्वर ॥ २०९.४१ ॥ शापानुग्रहको देवोऽक्षिपत्तोये यथा गृहे । ततो विषादमगमद्दृष्ट्वा तान्नर्मदाजले ॥ २०९.४२ ॥ गुरुणा बटुरुक्तोऽथ किमेतत्साहसं कृतम् । एतेषां मातृपितरो बालकानां गृहेऽङ्गनाः ॥ २०९.४३ ॥ यदि पृच्छन्ति ते बालान् क्व गतान् कथयाम्यहम् । एवं स्थिते महाभाग यदि कश्चिन्मरिष्यति ॥ २०९.४४ ॥ तदा स्वकीयजीवेन त्वं योजयितुमर्हसि । मृतेषु तेषु विप्रेषु न जीवे निश्चयो मृतः ॥ २०९.४५ ॥ ब्रह्महत्याश्च ते बह्व्यो भविष्यन्ति मृते मयि । द्विजबन्धनमात्रेण नरको भवति ध्रुवम् ॥ २०९.४६ ॥ मरणाद्यां गतिं यासि न तां वेद्मि द्विजाधम । एवमुक्तः स्मितं कृत्वा देवदेवो महेश्वरः ॥ २०९.४७ ॥ भारभूतेश्वरे तीर्थ उज्जहार जलाद्द्विजान् । मुक्त्वा भारं तु देवेन छादयित्वा तु तान्द्विजान् ॥ २०९.४८ ॥ लिङ्गं प्रतिष्ठितं तत्र भारभूतेति विश्रुतम् । मृतांस्तान् वै द्विजान् दृष्ट्वा ब्रह्महत्या निराकृता ॥ २०९.४९ ॥ गतानि पञ्च वै दृष्ट्वा ब्रह्महत्याशतानि वै । ततः स विस्मयाविष्टो दृष्ट्वा तान्बालकान् गुरुः ॥ २०९.५० ॥ नान्यस्य कस्यचिच्छक्तिरेवं स्यादीश्वरं विना । ज्ञात्वा तं देवदेवेशं प्रणाममकरोद्द्विजः ॥ २०९.५१ ॥ अज्ञानेन मया सव यदुक्तं परमेश्वर । अप्रियं यत्कृतं सर्वं क्षन्तव्यं तन्मम प्रभो ॥ २०९.५२ ॥ देव उवाच - भगवन्गुरुर्भवान्देवो भवान्मम पितामहः । वेदगर्भ नमस्तेऽस्तु नास्ति कश्चिद्व्यतिक्रमः ॥ २०९.५३ ॥ जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥ २०९.५४ ॥ एवमुक्त्वा जगन्नाथो विष्णुशर्माणमानतः । तत्र तीर्थे जगामाशु कैलासं धरणीधरम् ॥ २०९.५५ ॥ तदाप्रभृति तत्तीर्थं भारभूतीति विश्रुतम् । विख्यातं सर्वलोकेषु महापातकनाशनम् ॥ २०९.५६ ॥ तत्र तीर्थे पुनर्वृत्तमितिहासं ब्रवीमि ते । सर्वपापहरं दिव्यमेकाग्रस्त्वं शृणुष्व तत् ॥ २०९.५७ ॥ पुरा कृतयुगस्यादौ वैश्यः कश्चिन्महामनाः । सुकेश इति विख्यातस्तस्य पुत्रोऽतिधार्मिकः ॥ २०९.५८ ॥ सोमशर्मेति विख्यातो मृतः पृथुललोचनः । स सखायं वणिक्पुत्रं कंचिच्चक्रे दरिद्रिणम् ॥ २०९.५९ ॥ सुदेवमिति ख्यातं सर्वकर्मसु कोविदम् । एकदा तु समं तेन व्यवहारमचिन्तयत् ॥ २०९.६० ॥ सखे समुद्रयानेन गच्छावोत्तरणैः शुभैः । भाण्डं बहु समादाय मदीये द्रव्यसाधने ॥ २०९.६१ ॥ परं तीरं गमिष्याव उत्कर्षस्त्वावयोः समः । इति तौ मन्त्रयित्वा तु मन्त्रवत्समभीप्सितम् ॥ २०९.६२ ॥ सर्वं प्रयाणकं गृह्य ह्यारूढौ लवणोदधिम् । तौ गत्वा तु परं भाण्डं विक्रीय पुरतस्तदा ॥ २०९.६३ ॥ प्राप्तौ बहु सुवर्णं च रत्नानि विविधानि च । नावं तां संगतां कृत्वा पश्चात्तावारुरोहतुः ॥ २०९.६४ ॥ नावमन्तर्जले दृष्ट्वा निशीथे स्वर्णसंभृताम् । दृष्ट्वा तु सोमशर्माणमुत्सङ्गे कृतमस्तकम् ॥ २०९.६५ ॥ शयानमतिविश्वस्तं सहदेवो व्यचिन्तयत् । एष निद्रावशं यातो मयि प्राणान्निधाय वै ॥ २०९.६६ ॥ अस्याधीनमिदं सर्वं द्रव्यरत्नमशेषतः । उत्कर्षार्द्धं तु मे दद्यात्तत्र गत्वेति वा न वा ॥ २०९.६७ ॥ इति निश्चित्य मनसा पापस्तं लवणोदधौ । चिक्षेप सोमशर्माणं पापध्यातेन चेतसा ॥ २०९.६८ ॥ उत्तीर्य तरणात्तस्माद्गत्वा संगृह्य तद्धनम् । ततः कतिपयाहोभिः संयुक्तः कालधर्मणा ॥ २०९.६९ ॥ गतो यमपुरं घोरं गृहीतो यमकिंकरैः । स नीतस्तेन मार्गेण यत्र संतपते रविः ॥ २०९.७० ॥ कृत्वा द्वादशधात्मानं सम्प्राप्ते प्रलये यथा । सुतीक्ष्णाः कण्टका यत्र यत्र श्वानः सुदारुणाः ॥ २०९.७१ ॥ तीक्ष्णदंष्ट्रा महाव्याला व्याघ्रा यत्र महावृकाः । सुतप्ता वालुका यत्र क्षुधा तृष्णा तमो महत् ॥ २०९.७२ ॥ पानीयस्य कथा नास्ति न छाया नाश्रमः क्वचित् । अन्नं पानीयसहितं यावत्तद्दीयते विषम् ॥ २०९.७३ ॥ छायां संप्रार्थमानानां भृशं ज्वलति पावकः । तैर्दह्यमाना बहुशो विलपन्ति मुहुर्मुहुः ॥ २०९.७४ ॥ हा भ्रातर्मातः पुत्रेति पतन्ति पथि मूर्छिताः । इत्थंभूतेन मार्गेण स गीतो यमकिंकरैः ॥ २०९.७५ ॥ यत्र तिष्ठति देवेशः प्रजासंयमनो यमः । ते द्वारदेशे तं मुक्त्वाचक्षुर्यमकिंकराः ॥ २०९.७६ ॥ बद्ध्वा तं गलपाशेन ह्यासीनं मित्रघातिनम् । अवधारय देवेश बुध्यस्व यदनन्तरम् ॥ २०९.७७ ॥ यम उवाच - न तु पूर्वं मुखं दृष्टं मया विश्वासघातिनाम् । ये मित्रद्रोहिणः पापास्तेषां किं शासनं भवेत् ॥ २०९.७८ ॥ ऋषयोऽत्र विचारार्थं नियुक्ता निपुणाः स्थिताः । ते यत्र ब्रुवते तत्र क्षिपध्वं मा विचार्यताम् ॥ २०९.७९ ॥ इत्युक्तास्ते तमादाय किंकराः शीघ्रगामिनः । मुनीशांस्तत्र तानूचुस्तं निवेद्य यमाज्ञया ॥ २०९.८० ॥ द्विजा अनेन मित्रं स्वं प्रसुप्तं निशि घातितम् । विश्वस्तं धनलोभेन को दण्डोऽस्य भविष्यति ॥ २०९.८१ ॥ मुनय ऊचुः । अदृष्टपूर्वमस्माभिर्वदनं मित्रघातिनाम् । कृत्वा पटान्तरे ह्येनं शृण्वन्तु गतिमस्य ताम् ॥ २०९.८२ ॥ ते शास्त्राणि विचार्याथ ऋषयश्च परस्परम् । आहूय यमदूतांस्तानूचुर्ब्राह्मणपुंगवाः ॥ २०९.८३ ॥ आलोकितानि शास्त्राणि वेदाः साङ्गाः स्मृतीरपि । पुराणानि च मीमांसा दृष्टमस्माभिरत्र च ॥ २०९.८४ ॥ ब्रह्मघ्ने च सुरापे च स्तेये गुर्वङ्गनागमे । निष्कृतिर्विहिता शास्त्रे कृतघ्ने नास्ति निष्कृतिः ॥ २०९.८५ ॥ ये स्त्रीघ्नाश्च गुरुघ्नाश्च ये बालब्रह्मघातिनः । विहिता निष्कृतिः शास्त्रे कृतघ्ने नास्ति निष्कृतिः ॥ २०९.८६ ॥ वापीकूपतडागानां भेत्तारो ये च पापिनः । उद्यानवाटिकानां च छेत्तारो ये च दुर्जनाः ॥ २०९.८७ ॥ दावाग्निदाहका ये च सततं येऽसुहिंसकाः । न्यासापहारिणो ये च गरदाः स्वामिवञ्चकाः ॥ २०९.८८ ॥ मातापितृगुरूणां च त्यागिनो दोषदायिनः । स्वभर्तृवञ्चनपरा या स्त्री गर्भप्रघातिनी ॥ २०९.८९ ॥ विवेकरहिता या स्त्री यास्नाता भोजने रता । द्विकालभोजनरतास्तथा वैष्णववासरे ॥ २०९.९० ॥ तासां स्त्रीणां गतिर्दृष्टा न तु विश्वासघातिनाम् । विश्वासघातिनां पुंसां मित्रद्रोहकृतां तथा ॥ २०९.९१ ॥ तेषां गतिर्न वेदेषु पुराणेषु च का कथा । इति स्थितेषु पापेषु गतिरेषां न विद्यते ॥ २०९.९२ ॥ नान्या गतिर्मित्रहनने विश्वस्तघ्ने च नः श्रुतम् । इतो नीत्वा यमदूता एनं विश्वस्तघातिनम् ॥ २०९.९३ ॥ कल्पकोटिशतं साग्रं पर्यायेण पृथक्पृथक् । नरकेषु च सर्वेषु त्रिंशत्कोटिषु संख्यया ॥ २०९.९४ ॥ क्षिप्यतामेष मित्रघ्नो विचारो मा विधीयताम् । इति ते वचनं श्रुत्वा किंकरास्तं निगृह्य च ॥ २०९.९५ ॥ यत्र ते नरका घोरास्तत्र क्षेप्तुं गतास्ततः । ते तमादाय हि नरके घोरे रौरवसंज्ञिते ॥ २०९.९६ ॥ चिक्षिपुस्तत्र पापिष्ठं क्षिप्ते रावोऽभवन्महान् । नरकस्थितभूतेषु मोक्तव्यो नैष पापकृत् ॥ २०९.९७ ॥ अस्य संस्पर्शनादेव पीडा शतगुणा भवेत् । यथा व्यथासिकाष्ठैश्च समिद्धैर्दहनात्मकैः ॥ २०९.९८ ॥ भवति स्पर्शनात्तस्य किमेतेन कृतामलम् । यथा दुर्जनसंसर्गात्सुजनो याति लाघवम् ॥ २०९.९९ ॥ सन्निधानात्तथास्याशु क्षते क्षारावसेचनम् । प्रसादः क्रियतामाशु नीयतां नरकेऽन्यतः ॥ २०९.१०० ॥ एवमुक्तास्ततस्तैस्तु गतास्ते त्वशुचिं प्रति । तत्र ते नारकाः सन्ति पूर्ववत्तेऽपि चुक्रुशुः ॥ २०९.१०१ ॥ एवं ते किंकराः सर्वे पर्यटन्नरकमण्डले । नरकेऽपि स्थितिस्तस्य नास्ति पापस्य दुर्मतेः ॥ २०९.१०२ ॥ यदा तदा तु ते सर्वे तं गृह्य यमसन्निधौ । गत्वा निवेद्य तत्सर्वं यदुक्तं नारकैर्नरैः । नरके न स्थितिर्यस्य तस्य किं क्रियतां वद ॥ २०९.१०३ ॥ यम उवाच - पापिष्ठ एष वै यातु योनिं तिर्यङ्निषेविताम् । कालं मुनिभिरुद्दिष्टः तिर्यग्योनिं प्रवेश्यताम् ॥ २०९.१०४ ॥ एवमुक्ते तु वचने प्रजासंयमनेन च । स गतः कृमितां पापो विष्ठासु च पृथक्पृथक् ॥ २०९.१०५ ॥ ततोऽसौ दंशमशकान् पिपीलिकसमुद्भवान् । यूकामत्कुणकाढ्यांश्च गत्वा पक्षित्वमागतः ॥ २०९.१०६ ॥ स्थावरत्वं गतः पश्चात्पाषाणत्वं ततः परम् । सरीसृपानजगरवराहमृगहस्तिनः ॥ २०९.१०७ ॥ वृकश्वानखरोष्ट्रांश्च सूकरीं ग्रामजातिकाम् । योनिमाश्वतरीं प्राप्य तथा महिषसम्भवाम् ॥ २०९.१०८ ॥ एताश्चान्याश्च बह्वीर्वै प्राप योनीः क्रमेण वै । स ता योनीरनुप्राप्य धुर्योऽभूद्भारवाहकः ॥ २०९.१०९ ॥ स गृहे पार्थिवेशस्य धार्मिकस्य यशस्विनः । स दृष्ट्वा कार्त्तिकीं प्राप्तामेकदा नृपसत्तमः ॥ २०९.११० ॥ पुरोहितं समाहूय ब्राह्मणांश्च तथा बहून् । न गृहे कार्त्तिकीं कुर्यादेतन्मे बहुशः श्रुतम् ॥ २०९.१११ ॥ समेताः कुत्र यास्याम इति ब्रूत द्विजोत्तमाः । यो गृहे कार्त्तिकीं कुर्यात्स्नानदानादिवर्जितः ॥ २०९.११२ ॥ संवत्सरकृतात्पुण्यात्स बहिर्भवति श्रुतिः । तस्मात्सर्वप्रयत्नेन तीर्थं सर्वगुणान्वितम् ॥ २०९.११३ ॥ सहितास्तत्र गच्छामः स्नातुं दातुं च शक्तितः । एवमुक्ते तु वचने पार्थिवेन द्विजोत्तमाः ॥ २०९.११४ ॥ ऊचुः श्रेष्ठं नृपथेष्ठ रेवाया उत्तरे तटे । भारेश्वरेति विख्यातं मुक्तितीर्थं नृपोत्तम ॥ २०९.११५ ॥ तत्र यामो वयं सर्वे सर्वपापक्षयावहम् । एवमुक्तः स नृपतिर्गृहीत्वा प्रचुरं वसु ॥ २०९.११६ ॥ शकटं संभृतं कृत्वा तत्र युक्तः स धूर्वहः । यः कृत्वा मित्रहननं गोयोनिं समुपागतः ॥ २०९.११७ ॥ इत्थं स नर्मदातीरे सम्प्राप्तस्तीर्थमुत्तमम् । गत्वा चतुर्दशीदिने ह्युपवासकृतक्षणः ॥ २०९.११८ ॥ गत्वा स नर्मदातीरे नाम रुद्रेत्यनुस्मरन् । शुचिप्रदेशाच्च मृदं मन्त्रेणानेन गृह्यताम् ॥ २०९.११९ ॥ उद्धृतासि वराहेण रुद्रेण शतबाहुना । अहमप्युद्धरिष्यामि प्रजया बन्धनेन च ॥ २०९.१२० ॥ स एवं तां मृदं नीत्वा मुक्त्वा तीरे तथोत्तरे । ददर्श भास्करं पश्चान्मन्त्रेणानेन चालभेत् ॥ २०९.१२१ ॥ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे । मृत्तिके हर मे पापं जन्मकोटिशतार्जितम् ॥ २०९.१२२ ॥ तत एवं विगाह्यापो मन्त्रमेतमुदीरयेत् । त्वं नर्मदे पुण्यजले तवाम्भः शङ्करोद्भवम् ॥ २०९.१२३ ॥ स्नानं प्रकुर्वतो मेऽद्य पापं हरतु चार्जितम् । स स्नात्वानेन विधिना संतर्प्य पितृदेवताः ॥ २०९.१२४ ॥ ययौ देवालयं पश्चादुपहारैः समन्वितः । भक्त्या संचिन्त्य सान्निध्ये शङ्करं लोकशङ्करम् ॥ २०९.१२५ ॥ पुराणोक्तविधानेन पूजां समुपचक्रमे । पूजाचतुष्टयं देवि शिवरात्र्यां निगद्यते ॥ २०९.१२६ ॥ संस्नाप्य प्रथमे यामे पञ्चगव्येन शङ्करम् । घृतेन पूरणं पश्चात्कृतं नृपवरेण तु ॥ २०९.१२७ ॥ धूपदीपनैवेद्याद्यं संकल्प्य च यथाविधि । अर्घेणानेन देवेशं मन्त्रेणानेन शङ्करम् ॥ २०९.१२८ ॥ नमस्ते देवदेवेश शम्भो परमकारण । गृहाणार्घमिमं देव संसाराघमपाकुरु ॥ २०९.१२९ ॥ वित्तानुरूपतो दत्तं सुवर्णं मन्त्रकल्पितम् । अग्निर्हि देवाः सर्वे सुवर्णं च हुताशनात् ॥ २०९.१३० ॥ अतः सुवर्णदानेन प्रीताः स्युः सर्वदेवताः । तदर्घं सर्वदा दातुः प्रीतो भवतु शङ्करः ॥ २०९.१३१ ॥ अनेन विधिना तेन पूजितः प्रथमे शिवः । यामे द्वितीये तु पुनः पूर्वोक्तविधिना चरेत् ॥ २०९.१३२ ॥ स्नापयामास दुग्धेन गव्येन त्रिपुरान्तकम् । तंदुलैः पूरणं पश्चात्कृतं लिङ्गस्य शूलिनः ॥ २०९.१३३ ॥ कृत्वा विधानं पूर्वोक्तं दत्तं वस्त्रयुगं सितम् । श्वेतवस्त्रयुगं यस्माच्छङ्करस्यातिवल्लभम् ॥ २०९.१३४ ॥ प्रीतो भवति वै शम्भुर्दत्तेन श्वेतवाससा । यामं तृतीयं सम्प्राप्तं दृष्ट्वा नृपतिसत्तमः ॥ २०९.१३५ ॥ देवं संस्नाप्य मधुना पूरणं चक्रिवांस्तिलैः । तिलद्रोणप्रदानं च कुर्यान्मन्त्रमुदीरयन् ॥ २०९.१३६ ॥ तिलाः श्वेतास्तिलाः कृष्णाः सर्वपापहरास्तिलाः । तिलद्रोणप्रदानेनु संसारश्छिद्यतां मम ॥ २०९.१३७ ॥ अनेन विधिना राजा यामिनीयामपूजनम् । अतिवाह्य विनोदेन ब्रह्मघोषेण जागरम् ॥ २०९.१३८ ॥ चकार पूजनं शम्भोर्बहुपुण्यप्रसाधकम् । ये जागरे त्रिनेत्रस्य शिवरात्र्यां शिवस्थिताः ॥ २०९.१३९ ॥ ते यां गतिं गताः पार्थ न तां गच्छन्ति यज्विनः । पापानि यानि कानि स्युः कोटिजन्मार्जितान्यपि ॥ २०९.१४० ॥ हरकेशवयोः स्नान्ति जागरे यान्ति संक्षयम् । यावन्तो निमिषा नृणां भवन्ति निशि जाग्रताम् ॥ २०९.१४१ ॥ निमिषे निमिषे राजन्नश्वमेधफलं ध्रुवम् । उपवासपराणां च देवायतनवासिनाम् ॥ २०९.१४२ ॥ शृण्वतां धर्ममाख्यानं ध्यायतां हरकेशवौ । न तां बहुसुवर्णेन क्रतुना गतिमाप्नुयुः ॥ २०९.१४३ ॥ शिवरात्रिस्तिथिः पुण्या कार्त्तिकी च विशेषतः । रेवाया उत्तरं कूलं तीरं भारेश्वरेति च ॥ २०९.१४४ ॥ जागृतश्चातिदुःखेन कथं पापं न हास्यति । इत्थंस जागरं कृत्वा शिवरात्र्यां नरेश्वरः ॥ २०९.१४५ ॥ प्रभाते विमले गत्वा नर्मदातीरमुत्तमम् । स्नापितास्तेन ते सर्वे वाहनानि गजादयः ॥ २०९.१४६ ॥ यैस्तु वाहैर्गतस्तीर्थं स्नातोऽहं स्नापयामि तान् । तत्र मध्यस्थितः स्नातस्तिर्यक्त्वान्निर्गतो वणिक् ॥ २०९.१४७ ॥ दानं ददौ तानुद्दिश्य किंचिच्छक्त्यनुरूपतः । तेन वाहकृताद्दोषान्मुक्तो भवति मानवः ॥ २०९.१४८ ॥ अन्यथासौ कृतो लाभः कृतो व्रजति तान् प्रति । संस्नाप्य तं ततो राजा स्वयं स्नात्वा विधानतः ॥ २०९.१४९ ॥ संतर्प्य पितृदेवांश्च कृत्वा श्राद्धं यथाविधि । कृत्वा पिण्डान्पितृभ्यश्च वृषमुत्सृज्य लक्षणम् ॥ २०९.१५० ॥ गत्वा देवालयं पश्चाद्देवं तीर्थोदकेन च । संस्नाप्य पञ्चगव्येन ततः पञ्चामृतेन च ॥ २०९.१५१ ॥ सर्वौषधिजलेनैव ततः शुद्धोदकेन च । चन्दनेन सुगन्धेन समालभ्य च शङ्करम् ॥ २०९.१५२ ॥ कुङ्कुमैश्च सकर्पूरैर्गन्धैश्च विविधैस्तथा । पुष्पौघैश्च सुगन्धाढ्यैश्चतुर्थं लिङ्गपूरणम् ॥ २०९.१५३ ॥ कृतं नृपवरेणात्र कुर्वता पूर्वकं विधिम् । गोदानं च कृतं पश्चाद्विधिदृष्टेन कर्मणा ॥ २०९.१५४ ॥ धेनुके रुद्ररूपासि रुद्रेण परिनिर्मिता । अस्मिन्नगाधे संसारे पतन्तं मां समुद्धर ॥ २०९.१५५ ॥ धेनुं स्वलंकृतां दद्यादनेन विधिना ततः । क्षमाप्य देवदेवेशं ब्राह्मणान् भोजयेद्बहून् ॥ २०९.१५६ ॥ षड्विधैर्भोजनैर्भक्ष्यैर्वासोभिस्तान् समर्चयेत् । दक्षिणाभिर्विचित्राभिः पूजयित्वा क्षमापयेत् ॥ २०९.१५७ ॥ स स्वयं बुभुजे पश्चात्परिवारसमन्वितः । तामेव रजनीं तत्र न्यवसज्जगतीपतिः ॥ २०९.१५८ ॥ तस्य तत्रोषितस्यैवं निशीथेऽथ नरेश्वर । आकाशे सोऽति शुश्राव दिव्यवाणीसमीरितम् ॥ २०९.१५९ ॥ वागुवाच - राजन्समं ततो लोके फलं भवति साम्प्रतम् । संसारसागरे ह्यत्र पतितानां दुरात्मनाम् ॥ २०९.१६० ॥ यदि संनिधिमात्रेण फलं तत्रोच्यते कथम् । यदि शंतनुवंशस्य तत्रोन्मादकरं भवेत् ॥ २०९.१६१ ॥ य एष त्वद्गृहे वोढा ह्यतिभारधुरंधरः । अनेन मित्रहननं पापं विश्वासघातनम् ॥ २०९.१६२ ॥ कृतं जन्मसहस्राणामतीते परिजन्मनि । गतेन पाप्मनात्मानं नरकेषु च संस्थितिः ॥ २०९.१६३ ॥ ततो योनिसहस्रेषु गतिस्तिर्यक्षु चैव हि । गोयोनिं समनुप्राप्तस्त्वद्गृहे स सुदुर्मतिः ॥ २०९.१६४ ॥ स्नापितश्च त्वया तीर्थे ह्यस्मिन् पर्वसमागमे । दृष्ट्वा पूजां त्वया कॢप्तां कृता जागरणक्रिया ॥ २०९.१६५ ॥ तेन निष्कल्मषो जातो मुक्त्वा देहं तवाग्रतः । स्वर्गं प्रति विमानस्थः सोऽद्य राजन्गमिष्यति ॥ २०९.१६६ ॥ श्रीमार्कण्डेय उवाच - एवमुक्ते निपतितो धुर्यः प्राणैर्व्ययुज्यत । विमानवरमारूढस्तत्क्षणात्समदृश्यत ॥ २०९.१६७ ॥ स तं प्रणम्य राजेन्द्रमुवाच प्रहसन्निव ॥ २०९.१६८ ॥ वृष उवाच - भोभो नृपवरश्रेष्ठ तीर्थमाहात्म्यमुत्तमम् । यत्र चास्मद्विधस्तीर्थे मुच्यते पातकैर्नरः । मया ज्ञातमशेषेण मत्समो नास्ति पातकी ॥ २०९.१६९ ॥ अतः परं किं तु कुर्यां परं तीर्थानुकीर्तनम् । भवान्माता भवन्भ्राता भवांश्चैव पितामहः ॥ २०९.१७० ॥ क्षन्तव्यं प्रणतोऽस्म्यद्य यस्मिंस्तीर्थे हि मादृशाः । गतिमीदृग्विधां यान्ति न जाने तव का गतिः ॥ २०९.१७१ ॥ समाराध्य महेशानं सम्पूज्य च यथाविधि । का गतिस्तव संभाष्या देह्यनुज्ञां मम प्रभो ॥ २०९.१७२ ॥ त्वरयन्ति च मां ह्येते दिविस्थाः प्रणयाद्गणाः । स्वस्त्यस्तु ते गमिष्यामीत्युक्त्वा सोऽन्तर्दधे क्षणात् ॥ २०९.१७३ ॥ श्रीमार्कण्डेय उवाच - गते चादर्शनं तत्र स राजा विस्मयान्वितः । तीर्थमाहात्म्यमतुलं वर्णयन्स्वपुरं गतः ॥ २०९.१७४ ॥ इत्थंभूतं हि तत्तीर्थं नर्मदायां व्यवस्थितम् । सर्वपापक्षयकरं सर्वदुःखघ्नमुत्तमम् ॥ २०९.१७५ ॥ उपपापानि नश्यन्ति स्नानमात्रेण भारत । कार्त्तिकस्य चतुर्दश्यामुपवासपरायणः ॥ २०९.१७६ ॥ चतुर्धा पूरयेल्लिङ्गं तस्य पुण्यफलं शृणु । ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥ २०९.१७७ ॥ महापापानि चत्वारि चतुर्भिर्यान्ति संक्षयम् । सोऽश्वमेधस्य यज्ञस्य लभते फलमुत्तमम् ॥ २०९.१७८ ॥ कार्त्तिके शुक्लपक्षस्य चतुर्दश्यामुपोषितः । स्वर्णदानाच्च तत्तीर्थे यज्ञस्य लभते फलम् ॥ २०९.१७९ ॥ अष्टम्यां वा चतुर्दश्यां वैशाखे मासि पूर्ववत् । दीपं पिष्टमयं कृत्वा पित्ःन् सर्वान् विमोक्षयेत् ॥ २०९.१८० ॥ तत्र यद्दीयते दानमपि वालाग्रमात्रकम् । तदक्षयफलं सर्वमेवमाह महेश्वरः ॥ २०९.१८१ ॥ भारभूत्यां मृतानां तु नराणां भावितात्मनाम् । अनिवर्तिका गती राजञ्छिवलोकान्निरन्तरम् ॥ २०९.१८२ ॥ अथवा लोकवृत्त्यर्थं मर्त्यलोकं जिगीषति । साङ्गवेदज्ञविप्राणां जायते विमले कुले ॥ २०९.१८३ ॥ धनधान्यसमायुक्तो वेदविद्यासमन्वितः । सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ २०९.१८४ ॥ पुनस्तत्तीर्थमासाद्य ह्यक्षयं पदमाप्नुयात् ॥ २०९.१८५ ॥ एतत्पुण्यं पापहरं कथितं ते नृपोत्तम । भारतेदं महाख्यानं शृणु चैव ततः परम् ॥ २०९.१८६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भारभूतितीर्थमाहात्म्यवर्णनं नाम नवाधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २१० श्रीमार्कण्डेय उवाच - तस्यैवानन्तरं तात पुङ्खिलं तीर्थमुत्तमम् । तत्र तीर्थे पुरा पुङ्खः पार्थ सिद्धिमुपागतः ॥ २१०.१ ॥ जामदग्न्यो महातेजाः क्षत्रियान्तकरः प्रभुः । तपः कृत्वा सुविपुलं नर्मदोत्तरतीरभाक् ॥ २१०.२ ॥ ततः प्रभृति विख्यातं पुङ्खतीर्थं नरेश्वर । तत्र तीर्थे तु यः स्नात्वा ह्याराध्य परमेश्वरम् ॥ २१०.३ ॥ इहलोके बलैर्युक्तः परे मोक्षमवाप्नुयात् । देवान्पित्ःन् समभ्यर्च्य पित्ःणामनृणी भवेत् ॥ २१०.४ ॥ तत्र तीर्थे नरो यस्तु प्राणत्यागं करोति वै । अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ २१०.५ ॥ तत्र तीर्थे नरः स्नात्वा हयमेधफलं लभेत् ॥ २१०.६ ॥ तत्र तीर्थे नरो यस्तु ब्राह्मणान् भोजयेन्नृप । एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ॥ २१०.७ ॥ तत्र तीर्थे तु यः कश्चित्पूजयेद्वृषभध्वजम् । वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥ २१०.८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुङ्खिलतीर्थमाहात्म्यवर्णनं नाम दशोत्तरद्विशततमोऽध्यायः ॥ ऋKV अध्याय २११ श्रीमार्कण्डेय उवाच - आश्चर्यभूतं लोकस्य देवदेवेन यत्कृतम् । तत्ते सर्वं प्रवक्ष्यामि नर्मदातटवासिनाम् ॥ २११.१ ॥ द्विजान् सुकृत्पणान् देवः कुष्ठी भूत्वा ययाच ह । श्राद्धकाले तु सम्प्राप्ते रक्तगन्धानुलेपनः ॥ २११.२ ॥ स्रवद्बुद्बुदगात्रस्तु मक्षिकाकृमिसंवृतः । दुश्चर्मा दुर्मुखो गन्धी प्रस्खलंश्च पदे पदे ॥ २११.३ ॥ ब्राह्मणावसथं गत्वा स्खलन्द्वारेऽब्रवीदिदम् । भोभो गृहपते त्वद्य ब्राह्मणैः सह भोजनम् ॥ २११.४ ॥ त्वद्गृहे कर्तुमिच्छामि ह्येभिः सह सुसंस्कृतम् । ततस्तं ब्रह्माणं दृष्ट्वा यजमानसमन्विताः ॥ २११.५ ॥ स्रवन्तं सर्वगात्रेषु धिग्धिगित्येवमब्रुवन् । निर्गच्छस्वाशु दुर्गन्ध गृहाच्छीघ्रं द्विजाधम ॥ २११.६ ॥ अभोज्यमेतत्सर्वेषां दर्शनात्तव सत्कृतम् । एवमेव तथेत्युक्त्वा देवदेवो महेश्वरः ॥ २११.७ ॥ जगामाकाशममलं दृश्यमानो द्विजोत्तमैः । गते चादर्शनं देवे स्नात्वाभ्युक्ष्य समन्ततः ॥ २११.८ ॥ भुञ्जतेऽस्म द्विजा राजन्यावत्पात्रे पृथक्पृथक् । यत्रयत्र च पश्यन्ति तत्रतत्र कृमिर्बहुः ॥ २११.९ ॥ दृष्ट्वा विस्मयमापन्नाः सर्वे किमिति चाब्रुवन् । ततः कश्चिदुवाचेदं ब्राह्मणो गुणवानजः ॥ २११.१० ॥ योगीन्द्रः शङ्कया तत्र बहुविप्रसमागमे । योऽत्र पूर्वं समायातः स योगी परमेश्वरः ॥ २११.११ ॥ तस्येदं क्रीडितं मन्ये भर्त्सितस्य विपाकजम् । फलं भवति नान्यस्य ह्यतिथेः शास्त्रनिश्चयात् ॥ २११.१२ ॥ सम्पूज्य परमात्मा वै ह्यतिथिश्च विशेषतः । श्राद्धकाले तु सम्प्राप्तमतिथिं यो न पूजयेत् ॥ २११.१३ ॥ पिशाचा राक्षसास्तस्य तद्विलुम्पन्त्यसंशयम् । रूपान्वितं विरूपं वा मलिनं मलिनाम्बरम् ॥ २११.१४ ॥ योगीन्द्रं श्वपचं वापि अतिथिं न विचारयेत् । तच्छ्रुत्वा वचनं तस्य यजमानपुरोगमाः ॥ २११.१५ ॥ ब्राह्मणा द्विजमन्वेष्टुं धाविताः सर्वतोदिशम् । तावत्कथंचित्केनापि गहनं वनमाश्रितः ॥ २११.१६ ॥ दृष्टो दृष्ट इति प्रोक्तं तेन ते सर्व आगताः । ततः पश्यन्ति तं विप्रं स्थाणुवन्निश्चलं स्थितम् ॥ २११.१७ ॥ क्रन्दते न चलति स्पन्दते न च पश्यति । जल्पन्ति करुणं केचित्स्तुवन्ति च तथापरे ॥ २११.१८ ॥ वाग्भिः सततमिष्टाभिः स्तूयमानस्त्रिलोचनः । क्षुधार्दितानां देवेश ब्राह्मणानां विशेषतः । विनष्टमन्नं सर्वेषां पुनः संकर्तुमर्हसि ॥ २११.१९ ॥ श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिर । परया कृपया देवः प्रसन्नस्तानुवाच ह ॥ २११.२० ॥ मया प्रसन्नेन महानुभावास्तदेव वोऽन्नं विहितं सुधेव । भुञ्जन्तु विप्राः सह बन्धुभृत्यैरर्चन्तु नित्यं मम मण्डलं च ॥ २११.२१ ॥ ततश्चायतनं पार्थ देवदेवस्य शूलिनः । मुण्डिनामेति विख्यातं सर्वपापहरं शुभम् । कार्त्तिक्यां तु विशेषेण गयातीर्थेन तत्समम् ॥ २११.२२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मुण्डितीर्थमाहात्म्यवर्णनं नामैकादशोत्तरद्विशततमोऽध्यायः ॥ ऋKV अध्याय २१२ श्रीमार्कण्डेय उवाच - अथान्यत्सम्प्रवक्ष्यामि देवस्य चरितं महत् । श्रुतमात्रेण येनाशु सर्वपापैः प्रमुच्यते ॥ २१२.१ ॥ भिक्षुरूपं परं कृत्वा देवदेवो महेश्वरः । एकशालां गतो ग्रामं भिक्षार्थी क्षुत्पिपासितः ॥ २१२.२ ॥ अक्षसूत्रोद्यतकरो भस्मगुण्ठितविग्रहः । स्फुरत्त्रिशूलो विश्वेशो जटाकुण्डलभूषितः ॥ २१२.३ ॥ कृत्तिवासा महाकायो महाहिकृतभूषणः । वादयन्वै डमरुकं डिण्डिमप्रतिमं शुभम् ॥ २१२.४ ॥ कपालपाणिर्भगवान्बालकैर्बहुभिर्वृतः । क्वचिद्गायन्हसंश्चैव नृत्यन्वदन् क्वचित्क्वचित् ॥ २१२.५ ॥ यत्र यत्र गृहे देवो लीलया डिण्डमं न्यसेत् । भाराक्रान्तं गृहं पार्थ तत्रतत्र विनश्यति ॥ २१२.६ ॥ एवं सम्प्रचरन् देवो वेष्टितो बहुभिर्जनैः । दृश्यादृश्येन रूपेण निर्जगाम बहिः प्रभुः ॥ २१२.७ ॥ इतश्चेतश्च धावन्तं न पश्यन्ति यदा जनाः । विस्मितास्ते स्थिताः शम्भुर्भविष्यति ततोऽस्तुवन् ॥ २१२.८ ॥ तेषां तु स्तुवतां भक्त्या शङ्करं जगतां पतिम् । डिण्डिरूपो हि भगवांस्तदासौ प्रत्यदृश्यत ॥ २१२.९ ॥ तदाप्रभृति देवेशो डिण्डिमेश्वर उच्यते । दर्शनात्स्पर्शनाद्राजन् सर्वपापैः प्रमुच्यते ॥ २१२.१० ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एकशालडिण्डिमेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वादशोत्तरद्विशततमोऽध्यायः ॥ ऋKV अध्याय २१३ श्रीमार्कण्डेय उवाच - पुनरन्यत्प्रवक्ष्यामि देवस्य चरितं महत् । श्रुतमात्रेण येनैव सर्वपापैः प्रमुच्यते ॥ २१३.१ ॥ अबालो बालरूपेण ग्रामण्यैर्बालकैः सह । आमलैः क्रीडते शम्भुस्तत्ते वक्ष्यामि भारत ॥ २१३.२ ॥ सर्वैस्तैरामलाः क्षिप्ता ये ते देवेन पाण्डव । आनीतास्तत्क्षणादेव ततः पश्चात्क्षिपेद्धरः ॥ २१३.३ ॥ यावद्गत्वा दिशो दिग्भ्य आगच्छन्ति पृथक्पृथक् । तावत्तमामलं भूतं पश्यन्ति परमेश्वरम् ॥ २१३.४ ॥ तृतीये चैव यत्कर्म देवदेवस्य धीमतः । स्थानानां परमं स्थानमामलेश्वरमुत्तमम् ॥ २१३.५ ॥ तेन पूजितमात्रेण प्राप्यते परमं पदम् ॥ २१३.६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आमलेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥ ऋKV अध्याय २१४ श्रीमार्कण्डेय उवाच - चतुर्थं सम्प्रवक्ष्यामि देवस्य चरितं महत् । श्रुतमात्रेण येनैव सर्वपापैः प्रमुच्यते ॥ २१४.१ ॥ कपाली कान्थिको भूत्वा यथा स व्यचरन्महीम् । पिशाचैर्राक्षसैर्भूतैर्डाकिनीयोगिनीवृतः ॥ २१४.२ ॥ भैरवं रूपमास्थाय प्रेतासनपरिग्रहः । त्रैलोक्यस्याभयं दत्त्वा चचार विपुलं तपः ॥ २१४.३ ॥ आषाढी तु कृता तत्र ह्याषाढीनाम विश्रुतम् । कन्था मुक्ता ततोऽन्यत्र देवेन परमेष्ठिना ॥ २१४.४ ॥ तदाप्रभृति राजेन्द्र स कन्थेश्वर उच्यते । तस्य दर्शनमात्रेण ह्यश्वमेधफलं लभेत् ॥ २१४.५ ॥ देवो मार्गे पुनस्तत्र भ्रमते च यदृच्छया । विक्रीणाति बलाकारो दृष्ट्वा चोक्तो हरेण तु ॥ २१४.६ ॥ यदि भद्र न चेत्कोपं करोषि मयि साम्प्रतम् । बलाभिर्भर मे लिङ्गं ददामि बहु ते धनम् ॥ २१४.७ ॥ एवमुक्तोऽथ देवेन स वणिग्लोभमोहितः । योजयामास बलका लिङ्गे चोत्तममध्यमान् ॥ २१४.८ ॥ तावद्यावत्क्षयं सर्वे गताः काले सुसंचिताः । स्थितं समुन्नतं लिङ्गं दृष्ट्वा शोकमुपागमत् ॥ २१४.९ ॥ कृत्वा तु खण्डखण्डानि स देवः परमेश्वरः । उवाच प्रहसन्वाक्यं तं दृष्ट्वा गतसाध्वसम् ॥ २१४.१० ॥ न च मे पूरितं लिङ्गं यास्यामि यदि मन्यसे । ददामि तत्र वित्तं ते यदि लिङ्गं प्रपूरितम् ॥ २१४.११ ॥ वणिगुवाच - अधन्यः कृतपुण्योऽहं निग्राह्यः परमेश्वर । तव प्रियमकुर्वाणः शोचिष्ये शाश्वतीः समाः ॥ २१४.१२ ॥ एतच्छ्रुत्वा वचस्तस्य वणिक्पुत्रस्य भारत । असंक्षयं धनं दत्त्वा स्थितस्तत्र महेश्वरः ॥ २१४.१३ ॥ तदा प्रभृति राजेन्द्र बलाकैरिव भूषितम् । प्रत्ययार्थं स्थितं लिङ्गं लोकानुग्रहकाम्यया ॥ २१४.१४ ॥ देवेन रचितं पार्थ क्रीडया सुप्रतिष्ठितम् । देवमार्गमिति ख्यातं त्रिषु लोकेषु विश्रुतम् । पश्यन् प्रपूजयन् वापि सर्वपापैः प्रमुच्यते ॥ २१४.१५ ॥ देवमार्गे तु यो गत्वा पूजयेद्बलाकेश्वरम् । पञ्चायतनमासाद्य रुद्रलोकं स गच्छति ॥ २१४.१६ ॥ देवमार्गे मृतानां तु नराणां भावितात्मनाम् । न भवेत्पुनरावृत्ती रुद्रलोकात्कदाचन ॥ २१४.१७ ॥ देवमार्गस्य माहात्म्यं भक्त्या श्रुत्वा नरोत्तम । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ २१४.१८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीकपालतीर्थमाहात्म्यवर्णनं नाम चतुर्दशोत्तरद्विशततमोऽध्यायः ॥ ऋKV अध्याय २१५ श्रीमार्कण्डेय उवाच - शृङ्गितीर्थं ततो गच्छेन्मोक्षदं सर्वदेहिनाम् । मृतानां तत्र राजेन्द्र मोक्षप्राप्तिर्न संशयः ॥ २१५.१ ॥ तत्रैव पिण्डदानेन पित्ःणामनृणो भवेत् । तेन पुण्येन पूतात्मा लभेद्गाणेश्वरीं गतिम् ॥ २१५.२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शृङ्गितीर्थमाहात्म्यवर्णनं नाम पञ्चदशोत्तरद्विशततमोऽध्यायः ॥ ऋKV अध्याय २१६ श्रीमार्कण्डेय उवाच - अषाढीतीर्थमागच्छेत्ततो भूपालनन्दन । कामिकं रूपमास्थाय स्थितो यत्र महेश्वरः ॥ २१६.१ ॥ चातुर्युगमिदं तीर्थं सर्वतीर्थेष्वनुत्तमम् । तत्र स्नात्वा नरो राजन् रुद्रस्यानुचरो भवेत् ॥ २१६.२ ॥ तत्र तीर्थे तु यः कश्चित्कुरुते प्राणमोक्षणम् । अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ २१६.३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अषाढीतीर्थमाहात्म्यवर्णनं नाम षोडशोत्तरद्विशततमोऽध्यायः ॥ ऋKV अध्याय २१७ श्रीमार्कण्डेय उवाच - एरण्डीसङ्गमं गच्छेत्सुरासुरनमस्कृतम् । तत्तु तीर्थं महापुण्यं महापातकनाशनम् ॥ २१७.१ ॥ उपवासपरो भूत्वा नियतेन्द्रियमानसः । तत्र स्नात्वा विधानेन मुच्यते ब्रह्महत्यया ॥ २१७.२ ॥ तत्र तीर्थे तु यो भक्त्या प्राणत्यागपरो भवेत् । अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ २१७.३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीतीर्थमाहात्म्यवर्णनं नाम सप्तदशोत्तरद्विशततमोऽध्यायः ॥ ऋKV अध्याय २१८ श्रीमार्कण्डेय उवाच - ततो गच्छेद्धराधीश तीर्थं परमशोभनम् । जमदग्निरिति ख्यातं यत्र सिद्धो जनार्दनः ॥ २१८.१ ॥ युधिष्ठिर उवाच - कथं सिद्धो द्विजश्रेष्ठ वासुदेवो जगद्गुरुः । मानुषं रूपमास्थाय लोकानां हितकाम्यया ॥ २१८.२ ॥ एतत्सर्वं यथान्यायं देवदेवस्य चक्रिणः । चरितं श्रोतुमिच्छामि कथ्यमानं त्वयानघ ॥ २१८.३ ॥ श्रीमार्कण्डेय उवाच - आसीत्पूर्वं महाराज हैहयाधिपतिर्महान् । कार्तवीर्य इति ख्यातो राजा बाहुसहस्रवान् ॥ २१८.४ ॥ हस्त्यश्वरथसम्पन्नः सर्वशस्त्रभृतां वरः । वेदविद्याव्रतस्नातः सर्वभूताभयप्रदः ॥ २१८.५ ॥ माहिष्मत्याः पतिः श्रीमान्राजा ह्यक्षौहिणीपतिः । स कदाचिन्मृगान्हन्तुं निर्जगाम महाबलः ॥ २१८.६ ॥ बहुभिर्दिवसैः प्राप्तो भृगुकच्छमनुत्तमम् । जमदग्निर्महातेजा यत्र तिष्ठति तापसः ॥ २१८.७ ॥ रेणुकासहितः श्रीमान्सर्वभूताभयप्रदः । तस्य पुत्रोऽभवद्रामः साक्षान्नारायणः प्रभुः ॥ २१८.८ ॥ सर्वक्षत्रगुणैर्युक्तो ब्रह्मविद्ब्राह्मणोत्तमः । तोषयन्परया भक्त्या पितरौ परमार्थवत् ॥ २१८.९ ॥ तं तदा चार्जुनं दृष्ट्वा जमदग्निः प्रतापवान् । चरन्तं मृगयां गत्वा ह्यातिथ्येन न्यमन्त्रयत् ॥ २१८.१० ॥ तथेति चोक्त्वा स नृपः सभृत्यबलवाहनः । जगाम चाश्रमं पुण्यमृषेस्तस्य महात्मनः ॥ २१८.११ ॥ तत्क्षणादेव सम्पन्नं श्रिया परमया वृतम् । विस्मयं परमं तत्र दृष्ट्वा राजा जगाम ह ॥ २१८.१२ ॥ गतमात्रस्तु सिद्धेन परमान्नेन भोजितः । सभृत्यबलवान्राजा ब्राह्मणेन यदृच्छया । किमेतदिति पप्रच्छ कारणं शक्तिमेव च ॥ २१८.१३ ॥ कामधेनोः प्रभावं तं ज्ञात्वा प्राह ततो द्विजम् । दक्षिणां देहि मे विप्र कल्मषां धेनुमुत्तमाम् ॥ २१८.१४ ॥ शतं शतसहस्राणामयुतं नियुतं परम् । भूषितानां च धेनूनां ददामि तव चार्बुदम् ॥ २१८.१५ ॥ जमदग्निरुवाच - अयुतैः प्रयुतैर्नाहं शतकोटिभिरुत्तमाम् । कामधेनुमिमां तात न दद्मि प्रतिगम्यताम् ॥ २१८.१६ ॥ एवमुक्तः स राजेन्द्रस्तेन विप्रेण भारत । क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥ २१८.१७ ॥ यस्येदृशः कामचारो मय्यपि द्विजपांसन । अहं ते पश्यतस्तस्मान्नयामि सुरभिं गृहात् ॥ २१८.१८ ॥ द्विज उवाच - कः क्रीडति सरोषेण निर्भयो हि महाहिना । मृत्युदृष्टोतरेणापि मम धेनुं नयेत यः ॥ २१८.१९ ॥ एवमुक्त्वा महादण्डं ब्रह्मदण्डमिवापरम् । गृहीत्वा परमक्रुद्धो जमदग्निरुवाच ह ॥ २१८.२० ॥ यस्यास्ति शक्तिस्तेजो वा क्षत्रियस्य कुलाधमः । धेनुं नयतु मे सद्यः क्षीणायुः सपरिच्छदः ॥ २१८.२१ ॥ एतच्छ्रुत्वा वचः क्रूरं हैहयः शतशो वृतः । धावमानः क्षितितले ब्रह्मदण्डहतोऽपतत् ॥ २१८.२२ ॥ हुंकृतेन ततो धेन्वाः खड्गपाशासिपाणयः । निर्गच्छन्तः प्रदृश्यन्ते कल्मषायाः सहस्रशः ॥ २१८.२३ ॥ नासापुटाग्राद्रोमाग्रात्किराता मागधा गुदात् । रन्ध्रान्तरेषु चोत्पन्नाः शतशोऽथ सहस्रशः ॥ २१८.२४ ॥ एवमन्योऽन्यमाहत्य हैहयष्टङ्कणान्दहन् । विनाशं सह विप्रेण गता ह्यर्जुनतेजसा ॥ २१८.२५ ॥ कार्तवीर्यो जयं लब्ध्वा संख्ये हत्वा द्विजोत्तमम् । जगाम स्वां पुरीं हृष्टः कृतान्तवशमोहितः ॥ २१८.२६ ॥ ततस्त्वरान्वितः प्राप्तः पश्चाद्रामो गते रिपौ । आक्रन्दमानां जननीं ददर्श पितुरन्तिके ॥ २१८.२७ ॥ राम उवाच - केनेदमात्मनाशाय ह्यज्ञानात्साहसं कृतम् । मम तातं जिघांसुर्यो द्रष्टुं मृत्युमिहेच्छति ॥ २१८.२८ ॥ ततः सा रामवाक्येन गतसत्त्वेव विह्वला । उदरं करयुग्मेन ताडयन्ती ह्युवाच तम् ॥ २१८.२९ ॥ अर्जुनेन नृशंसेन क्षत्रियैरपरैः सह । इहागत्य पिता तेन निहतो बाहुशालिना ॥ २१८.३० ॥ तं पश्य निहतं तातं गतासुं गतचेतसम् । संस्कृत्य विधिवत्पुत्र तर्पयस्व यथातथम् ॥ २१८.३१ ॥ एतच्छ्रुत्वा स वचनं जननीमभिवाद्य ताम् । प्रतिज्ञामकरोद्यां तां शृणुष्व च नराधिप ॥ २१८.३२ ॥ त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रियकुलान्वयाम् । स्नात्वा च तेषामसृजा तर्पयिष्यामि ते पतिम् ॥ २१८.३३ ॥ तस्यापि परशुना बाहून् कार्तवीर्यस्य दुर्मतेः । छित्त्वा पास्यामि रुधिरमिति सत्यं शृणुष्व मे ॥ २१८.३४ ॥ एवं प्रतिज्ञां कृत्वासौ जामदग्न्यः प्रतापवान् । क्रोधेन महताविष्टः संस्कृत्य पितरं ततः ॥ २१८.३५ ॥ माहिष्मतीं पुरीं रामो जगाम क्रोधमूर्छितः । छित्त्वा बाहुवनं तस्य हत्वा तं क्षत्रियाधमम् ॥ २१८.३६ ॥ जगाम क्षत्रियान्ताय पृथिवीमवलोकयन् । सप्तद्वीपार्णवयुतां सशैलवनकाननाम् ॥ २१८.३७ ॥ पूर्वतः पश्चिमामाशां दक्षिणोत्तरतः कुरून् । समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥ २१८.३८ ॥ स तेषु रुधिराम्भस्तु ह्रदेषु क्रोधमूर्छितः । पित्ःन् संतर्पयामास रुधिरेणेति नः श्रुतम् ॥ २१८.३९ ॥ अथर्चीकादय उपेत्य पितरो ब्राह्मणर्षभम् । तं क्षमस्वेति जगदुस्ततः स विरराम ह ॥ २१८.४० ॥ तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् । समं तपं चक्रमिति पुण्यं तत्परिकीर्तितम् ॥ २१८.४१ ॥ निवर्त्य कर्मणस्तस्मात्पित्ःन् प्रोवाच पाण्डव । रामः परमधर्मात्मा यदिदं रुधिरं मया ॥ २१८.४२ ॥ क्षिप्तं पञ्चसु तीर्थेषु तद्भूयात्तीर्थमुत्तमम् । तथेत्युक्त्वा तु ते सर्वे पितरोऽदृश्यतां गताः ॥ २१८.४३ ॥ एवं रामस्य संसर्गो देवमार्गे युधिष्ठिर । सर्वपापक्षयकरो दर्शनात्स्पर्शनान्नृणाम् ॥ २१८.४४ ॥ रेणुकाप्रत्ययार्थाय अद्यापि पितृदेवताः । दृश्यन्ते देवमार्गस्थाः सर्वपापक्षयंकराः ॥ २१८.४५ ॥ तत्र तीर्थे तु राजेन्द्र नर्मदोदधिसङ्गमे । स्थानं कृत्वा विधानेन मुच्यन्ते पातकैर्नराः ॥ २१८.४६ ॥ कुशाग्रेणापि कौन्तेय न स्पृष्टव्यो महोदधिः । अनेन तत्र मन्त्रेण स्नातव्यं नृपसत्तम ॥ २१८.४७ ॥ नमस्ते विष्णुरूपाय नमस्तुभ्यमपां पते । सान्निध्यं कुरु देवेश सागरे लवणाम्भसि । इति स्पर्शनमन्त्रः ॥ २१८.४८ ॥ अग्निश्च तेजो मृडया च देहे रेतोऽथ विष्णुरमृतस्य नाभिः । एतद्ब्रुवन् पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् ॥ २१८.४९ ॥ पञ्चरत्नसमायुक्तं फलपुष्पाक्षतैर्युतम् । मन्त्रेणानेन राजेन्द्र दद्यादर्घं महोदधेः ॥ २१८.५० ॥ सर्वरत्ननिधानस्त्वं सर्वरत्नाकराकरः । सर्वामरप्रधानेश गृहाणार्घं नमोऽस्तु ते । इत्यर्घमन्त्रः ॥ २१८.५१ ॥ आ जन्मजनितात्पापान्मामुद्धर महोदधे । याह्यर्चितो रत्ननिधे पर्वतान् पार्वणोत्तम । इति विसर्जनमन्त्रः ॥ २१८.५२ ॥ कोऽपरः सागराद्देवात्स्वर्गद्वारविपाटन । तत्र सागरपर्यन्तं महातीर्थमनुत्तमम् ॥ २१८.५३ ॥ जामदग्न्येन रामेण तत्र देवः प्रतिष्ठितः । यत्र देवाः सगन्धर्वा मुनयः सिद्धचारणाः ॥ २१८.५४ ॥ उपासते विरूपाक्षं जमदग्निमनुत्तमम् । रेणुकां चैव ये देवीं पश्यन्ति भुवि मानवाः ॥ २१८.५५ ॥ प्रियवासे शिवे लोके वसन्ति कालमीप्सितम् । तत्र स्नात्वा नरो राजंस्तर्पयन्पितृदेवताः ॥ २१८.५६ ॥ तारयेन्नरकाद्घोरात्कुलानां शतमुत्तरम् । स्नात्वा दत्त्वात्र सहिताः श्रुत्वा वै भक्तिपूर्वकम् ॥ २१८.५७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे जामदग्न्यतीर्थमाहात्म्यवर्णनं नामाष्टादशाधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २१९ श्रीमार्कण्डेय उवाच - नर्मदादक्षिणे कूले तीर्थं कोटीश्वरं परम् । यत्र स्नानं च दानं च सर्वं कोटिगुणं भवेत् ॥ २१९.१ ॥ तत्र देवाः सगन्धर्वा ऋषयो ये तथामलाः । कोटितीर्थे परां सिद्धिं सम्प्राप्ता भुवि दुर्लभाम् ॥ २१९.२ ॥ स्थापितश्च महादेवस्तत्र कोटीश्वरो नृप । तं दृष्ट्वा देवदेवेशं सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ २१९.३ ॥ तत्र तीर्थे तु यत्किंचिच्छुभं वा यदि वाशुभम् । क्रियते तन्नृपश्रेष्ठ सर्वं कोटिगुणं भवेत् ॥ २१९.४ ॥ तत्र दक्षिणमार्गस्था ये केचिन्मुनिसत्तमाः । सिद्धा मृताः पदं यान्ति पितृलोकं ध्रुवं हि ते ॥ २१९.५ ॥ उत्तरं नर्मदाकूलं ये श्रेष्ठा मुनिपुंगवाः । देवलोकं गताः पूर्वमिति शास्त्रस्य निश्चयः ॥ २१९.६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नामैकोनविंशदधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २२० श्रीमार्कण्डेय उवाच - ततो गच्छेद्धराधीश लोटणेश्वरमुत्तमम् । उत्तरे नर्मदाकूले सर्वपातकनाशनम् ॥ २२०.१ ॥ तत्क्षणादेव तत्सर्वं सप्तजन्मार्जितं त्वघम् । नश्यते देवदेवस्य दर्शनादेव तन्नृप ॥ २२०.२ ॥ बाल्यात्प्रभृति यत्पापं यौवने चापि यत्कृतम् । तत्सर्वं विलयं याति देवदेवस्य दर्शनात् ॥ २२०.३ ॥ युधिष्ठिर उवाच - आश्चर्यभूतं लोकेषु नर्मदाचरितं महत् । त्वया वै कथितं विप्र सकलं पापनाशनम् ॥ २२०.४ ॥ यदेकं परमं तीर्थं सर्वतीर्थफलप्रदम् । श्रोतुमिच्छामि तत्सर्वं दयां कृत्वा वदाशु मे ॥ २२०.५ ॥ ये केचिद्दुर्लभाः प्रश्नास्त्रिषु लोकेषु सत्तम । त्वत्प्रसादेन ते सर्वे श्रुता मे सह बान्धवैः ॥ २२०.६ ॥ एतमेकं परं प्रश्नं सर्वप्रश्नविदां वर । श्रुत्वाहं त्वत्प्रसादेन यत्र यामि सबान्धवः ॥ २२०.७ ॥ श्रीमार्कण्डेय उवाच - साधुसाधु महाप्राज्ञ यस्य ते मतिरीदृशी । दुर्लभं त्रिषु लोकेषु तस्य ते नास्ति किंचन ॥ २२०.८ ॥ धर्ममर्थं च कामं च मोक्षं च भरतर्षभ । काले काले च यो वेत्ति कर्तव्यस्तेन धीमता ॥ २२०.९ ॥ तस्मात्ते सम्प्रवक्ष्यामि प्रश्नस्यास्योत्तरं शुभम् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यन्ते भुवि मानवाः ॥ २२०.१० ॥ नर्मदा सरितां श्रेष्ठा सर्वतीर्थमयी शुभा । विशेषः कथितस्तस्या रेवासागरसङ्गमे ॥ २२०.११ ॥ आगच्छन्तीं नृपश्रेष्ठ दृष्ट्वा रेवां महोदधिः । प्रणम्य च पुनर्देवीं सङ्गमे रेवया सह ॥ २२०.१२ ॥ संचिन्त्य मनसा केयमिति मां वै सरिद्वरा । ज्ञात्वा संचिन्त्य मनसा रेवां लिङ्गोद्भवां पराम् ॥ २२०.१३ ॥ लुठन्वै सम्मुखस्तात गतो रेवां महोदधिः । समुद्रे नर्मदा यत्र प्रविष्टास्ति महानदी ॥ २२०.१४ ॥ तत्र देवाधिदेवस्य समुद्रे लिङ्गमुत्थितम् । लिङ्गोद्भूता महाभागा नर्मदा सरितां वरा ॥ २२०.१५ ॥ लयं गता तत्र लिङ्गे तेन पुण्यतमा हि सा । नर्मदायां वसन्नित्यं नर्मदाम्बु पिबन्सदा । दीक्षितः सर्वयज्ञेषु सोमपानं दिने दिने ॥ २२०.१६ ॥ सङ्गमे तत्र यः स्नात्वा लोटणेश्वरमर्चयेत् । सोऽश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ २२०.१७ ॥ वाचिकं मानसं पापं कर्मणा यत्कृतं नृप । लोटणेश्वरमासाद्य सर्वं विलयतां व्रजेत् ॥ २२०.१८ ॥ कार्त्तिक्यां तु विशेषेण कथितं शङ्करेण तु । तच्छृणुष्व नृपश्रेष्ठ सर्वपापापनोदनम् ॥ २२०.१९ ॥ सम्प्राप्तां कार्त्तिकीं दृष्ट्वा गत्वा तत्र नृपोत्तम । चतुर्दश्यामुपोष्यैव स्नात्वा वै नर्मदाजले ॥ २२०.२० ॥ संतर्प्य पितृदेवांश्च श्राद्धं कृत्वा यथाविधि । रात्रौ जागरणं कुर्यात्सम्पूज्य लोटणेश्वरम् ॥ २२०.२१ ॥ सफलं जीवितं तस्य सफलं तस्य चेष्टितम् । पङ्गवस्ते न सन्देहो जन्म तेषां निरर्थकम् ॥ २२०.२२ ॥ एकाग्रमनसा यैस्तु न दृष्टो लोटणेश्वरः । पिशाचत्वं वियोनित्वं न भवेत्तस्य वै कुले ॥ २२०.२३ ॥ सङ्गमे तत्र यो गत्वा स्नानं कृत्वा यथाविधि । पुण्यैश्चैव तथा कुर्याद्गीतैर्नृत्यैः प्रबोधनम् ॥ २२०.२४ ॥ ततः प्रभातां रजनीं दृष्ट्वा नत्वा महोदधिम् । आमन्त्र्य स्नानविधिना स्नानं तत्र तु कारयेत् ॥ २२०.२५ ॥ ओं नमो विष्णुरूपाय तीर्थनाथाय ते नमः । सान्निध्यं कुरु मे देव समुद्र लवणाम्भसि । इत्यामन्त्रणमन्त्रः ॥ २२०.२६ ॥ अग्निश्च तेजो मृडया च देहो रेतोऽधा विष्णुरमृतस्य नाभिः । एवं ब्रुवन् पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् । इति स्नानमन्त्रः ॥ २२०.२७ ॥ आजन्मशतसाहस्रं यत्पापं कृतवान्नरः । सकृत्स्नानाद्व्यपोहेत पापौघं लवणाम्भसि ॥ २२०.२८ ॥ अन्यथा हि कुरुश्रेष्ठ देवयोनिरसौ विभुः । कुशाग्रेणापि विबुधैर्न स्प्रष्टव्यो महार्णवः ॥ २२०.२९ ॥ सर्वरत्नप्रधानस्त्वं सर्वरत्नाकराकर । सर्वामरप्रधानेश गृहाणार्घं नमोऽस्तु ते । इति अर्वमन्त्र ॥ २२०.३० ॥ पितृदेवमनुष्यांश्च संतर्प्य तदनन्तरम् । उत्तीर्य तीरे तस्यैव पञ्चभिर्द्विजपुंगवैः ॥ २२०.३१ ॥ श्राद्धं समाचरेत्पश्चाल्लोकपालानुरूपिभिः । कृत्वाग्रे लोकपालांस्तु प्रतिष्ठाप्य यथाविधि ॥ २२०.३२ ॥ सम्पूज्य च यथान्यायं तानेव ब्राह्मणैः सह । सुकृतं दुष्कृतं पश्चात्तेभ्यः सर्वं निवेदयेत् ॥ २२०.३३ ॥ बाल्यात्प्रभृति यत्पापं कृतं वार्धकयौवने । प्रख्यापयित्वा तेभ्योऽग्रे लोकपालान्निमन्त्रयेत् ॥ २२०.३४ ॥ बाल्यात्प्रभृति यत्किंचित्कृतमा जन्मतोऽशुभम् । विप्रेभ्यः कथितं सर्वं तत्सांनिध्यं स्थितेषु मे ॥ २२०.३५ ॥ इत्युक्त्वा स लुठेत्पश्चात्तेभ्योऽग्रेण च सम्मुखम् । अनुमान्य च तान्पञ्च पश्चात्स्नानं समाचरेत् ॥ २२०.३६ ॥ श्राद्धं च कार्यं विधिवत्पितृभ्यो नृपसत्तम । एवं कृते नृपश्रेष्ठ सर्वपापक्षयो भवेत् ॥ २२०.३७ ॥ जिज्ञासार्थं तु यः कश्चिदात्मानं ज्ञातुमिच्छति । शुभाशुभं च यत्कर्म तस्य निष्ठामिमां शृणु ॥ २२०.३८ ॥ स्नात्वा तत्र महातीर्थे लुठमानो व्रजेन्नरः । पापकर्मान्यतो याति धर्मकर्मा व्रजेन्नदीम् ॥ २२०.३९ ॥ पापकर्मा ततो ज्ञात्वा पापं मे पूर्वसंचितम् । स्नात्वा तीर्थवरे तस्मिन्दानं दद्याद्यथाविधि ॥ २२०.४० ॥ लोटणेश्वरमभ्यर्च्य सर्वपापैः प्रमुच्यते । अवक्रगमनं गत्वा मुच्यते सर्वपातकैः ॥ २२०.४१ ॥ तस्मात्सर्वप्रयत्नेन ज्ञात्वैवं नृपसत्तम । स्नातव्यं मानवैस्तत्र यत्र संनिहितो हरः ॥ २२०.४२ ॥ एवं स्नात्वा विधानेन ब्राह्मणान् वेदपारगान् । पूजयेत्पृथिवीपाल सर्वपापोपशान्तये ॥ २२०.४३ ॥ एवं गुणविशिष्टं हि तत्तीर्थं नृपसत्तम । तस्य तीर्थस्य माहात्म्यं शृणुष्वैकमना नृप ॥ २२०.४४ ॥ तत्र तीर्थे नरः स्नात्वा संतर्प्य पितृदेवताः । श्राद्धं यः कुरुते तत्र पित्ःणां भक्तिभावितः ॥ २२०.४५ ॥ दानं ददाति विप्रेभ्यो गोभूतिलहिरण्यकम् । षष्टिवर्षसहस्राणि कोटिर्वर्षशतानि च ॥ २२०.४६ ॥ विमानवरमारूढः स्वर्गलोके महीयते । नर्मदासर्वतीर्थेभ्यः स्नाने दाने च यत्फलम् ॥ २२०.४७ ॥ तत्फलं समवाप्नोति रेवासागरसङ्गमे । सुवर्णं रजतं ताम्रं मणिमौक्तिकभूषणम् ॥ २२०.४८ ॥ गोवृषं च महीं धान्यं तत्र दत्त्वाक्षयं फलम् । शुभस्याप्यशुभस्यापि तत्र तीर्थे न संशयः ॥ २२०.४९ ॥ तत्र तीर्थे नरः कश्चित्प्राणत्यागं युधिष्ठिर । करोति भक्त्या विधिवत्तस्य पुण्यफलं शृणु ॥ २२०.५० ॥ कोटिवर्षं तु वर्षाणां क्रीडित्वा शिवमन्दिरे । वेदवेदाङ्गविद्विप्रो जायते विमले कुले ॥ २२०.५१ ॥ पुत्रपौत्रसमृद्धोऽसौ धनधान्यसमन्वितः । सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदांशतम् ॥ २२०.५२ ॥ अपि द्वादशयात्रासु सोमनाथे यदर्चिते । कार्त्तिक्यां कृत्तिकायोगे तत्पुण्यं लोटणेश्वरे ॥ २२०.५३ ॥ गया गङ्गा कुरुक्षेत्रे नैमिषे पुष्करे तथा । तत्पुण्यं लभते पार्थ लोटणेश्वरदर्शनात् ॥ २२०.५४ ॥ यः शृणोति नरो भक्त्या पठ्यमानमिदं शुभम् । सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति ॥ २२०.५५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लोटणेश्वरतीर्थमाहात्म्यवर्णनं नाम विंशत्युत्तरद्विशततमोऽध्यायः ॥ ऋKV अध्याय २२१ श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र रेवाया दक्षिणे तटे । क्रोशद्वयान्तरे तीर्थं मतृतीर्थादनुत्तमम् ॥ २२१.१ ॥ नाम्ना हंसेश्वरं पुण्यं वैमनस्यविनाशनम् । कश्यपस्य कुले जातो हंसो दाक्षायणीसुतः ॥ २२१.२ ॥ ब्रह्मणो वाहनं जातः पुरा तप्त्वा तपो महत् । सैकदा विधिनिर्देशं विना वैयग्र्यमास्थितः ॥ २२१.३ ॥ अभिभूतः शिवगणैः प्रणनाश युधिष्ठिर । दक्षयज्ञप्रमथने कांदिशीको विधिं विना ॥ २२१.४ ॥ ब्रह्मणा संसृतोऽप्याशु नायाति स यदा खगः । तदा तं शप्तवान्ब्रह्मा पातयामास वै पदात् ॥ २२१.५ ॥ ततः स शप्तमात्मानं मत्वा हंसस्त्वरान्वितः । पितामहमुपागम्य प्रणिपत्येदमब्रवीत् ॥ २२१.६ ॥ हंस उवाच - तिर्यग्योनिसमुत्पन्नं भवाञ्छप्तुं न चार्हति । स्वभाव एव तिर्यक्षु विवेकविकलं मनः ॥ २२१.७ ॥ तथापि देव पापोऽस्मि यदहं स्वामिनं त्यजे । किं तु धावद्भिरत्युग्रैर्गणैः शार्वैः पितामह । सहसाहं भयाक्रान्तस्त्रस्तस्त्यक्त्वा पलायितः ॥ २२१.८ ॥ अद्यापि भयमेवाहं पश्यन्नस्मि विभो पुरः । तेन स्मृतोऽपि भवता नाव्रजं भवदन्तिके ॥ २२१.९ ॥ श्रीमार्कण्डेय उवाच - इति ब्रुवन्नेव हि धातुरग्रे हंसः श्वसत्यक्षिपूज्यः सुदीनः । तिर्यञ्चं मां पापिनं मूढबुद्धिं प्रभो पुरः पतितं पाहि पाहि ॥ २२१.१० ॥ एको देवस्त्वं हि सर्गस्य कर्ता नानाविधं सृष्टमेतत्त्वयैव । अहं सृष्टस्त्वीदृशो यत्त्वया वै सोऽयं दोषो धातरद्धा तवैव ॥ २२१.११ ॥ शापस्य वानुग्रहस्यापि शक्तस्त्वत्तो नान्यः शरणं कं व्रजामि । सेवाधर्माद्विच्युतं दासभूतं चपेटैर्हन्तव्यं वै तात मां त्राहि भक्तम् ॥ २२१.१२ ॥ विद्याविद्ये त्वत्त एवाविरास्तां धर्माधर्मौ सदसद्द्युर्निशे च । नानाभावाञ्जगतस्त्वं विधत्सेस्तं त्वामेकं शरणं वै प्रपद्ये ॥ २२१.१३ ॥ एकोऽसि बहुरूपोऽसि नानाचित्रैककर्मतः । निष्कर्माखिलकर्मासि त्वामतः शरणं व्रजे ॥ २२१.१४ ॥ नमोनमो वरेण्याय वरदाय नमोनमः । नमो धात्रे विधात्रे च शरण्याय नमोनमः ॥ २२१.१५ ॥ शिक्षाक्षरवियुक्तेयं वाणी मे स्तौति किं विभो । का शक्तिः किं परिज्ञानमिदमुक्तं क्षमस्व मे ॥ २२१.१६ ॥ श्रीमार्कण्डेय उवाच - एवं वदति हंसे वै ब्रह्मा प्राह प्रसन्नधीः । शिक्षा दत्ता तवैवेयं मा विषादं कृथाः खग ॥ २२१.१७ ॥ तपसा शोधयात्मानं यथा शापान्तमाप्नुयाः । रेवासेवां कुरु स्नात्वा स्थापयित्वा महेश्वरम् । अचिरेणैव कालेन ततः संस्थानमाप्स्यसि ॥ २२१.१८ ॥ यच्चेष्ट्वा बहुभिर्यज्ञैः समाप्तवरदक्षिणैः । गोस्वर्णकोटिदानैश्च तत्फलं स्थापिते शिवे ॥ २२१.१९ ॥ ब्रह्मघ्नो वा सुरापो वा स्वर्णहृद्गुरुतल्पगः । रेवातीरे शिवं स्थाप्य मुच्यते सर्वपातकैः ॥ २२१.२० ॥ तस्माद्भर्गसरित्तीरे स्थापयित्वा त्रियम्बकम् । वियुक्तः सर्वदोषैस्त्वं यास्यसे पदमुत्तमम् ॥ २२१.२१ ॥ एवमुक्तः स विधिना हृष्टतुष्टः खगोत्तमः । तथेत्युक्त्वा जगामाशु नर्मदातीरमुत्तमम् ॥ २२१.२२ ॥ तपस्तप्त्वा कियत्कालं स्थापयामास शङ्करम् ॥ २२१.२३ ॥ स्वनाम्ना भरतश्रेष्ठ हंसेश्वरमनुत्तमम् । पूजयित्वा परं स्थानं प्राप्तवान्खगसत्तमः ॥ २२१.२४ ॥ तत्र हंसेश्वरे तीर्थे गत्वा स्नात्वा युधिष्ठिर । पूजयेत्परमेशानं स पापैः परिमुच्यते ॥ २२१.२५ ॥ स्तुवन्नेकमना देवं न दैन्यं प्राप्नुयात्क्वचित् । श्राद्धं दीपप्रदानं च ब्राह्मणानां च भोजनम् । दत्त्वा शक्त्या नृपश्रेष्ठ स्वर्गलोके महीयते ॥ २२१.२६ ॥ त्रिकालमेककालं वा यो भक्त्या पूजयेच्छिवम् । नवप्रसूतां धेनुं च दत्त्वा पार्थ द्विजोत्तमे । षष्टिवर्षसहस्राणि शिवलोके महीयते ॥ २२१.२७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हंसेश्वरतीर्थमाहात्म्यवर्णनं नामैकविंशदधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २२२ श्रीमार्कण्डेय उवाच - ततः क्रोशान्तरे गच्छेत्तिलादं तीर्थमुत्तमम् । तिलप्राशनकृद्यत्र जाबालिः शुद्धिमाप्तवान् ॥ २२२.१ ॥ पितृमातृपरित्यागी भ्रातुर्भार्याभिलाषकृत् । पुत्रविक्रयकृत्पापश्छलकृद्गुरुणा सह ॥ २२२.२ ॥ एवं दोषसमाविष्टो यत्र यत्रापि गच्छति । तत्र तत्रापि धिक्कारं लभते सत्सु भारत । न कोऽपि संगतिं धत्ते तेन सार्द्धं सभास्वपि ॥ २२२.३ ॥ इति लज्जान्वितो विप्रः काले न महता नृप । चिन्तामवाप महतीमगतिज्ञो हि पावने ॥ २२२.४ ॥ चकार सर्वतीर्थानि रेवां चाप्यवगाहयत् ॥ २२२.५ ॥ अणिवापान्तमासाद्य दक्षिणे नर्मदातटे । तस्थौ यत्र व्रती पार्थ जाबालिः प्राशयंस्तिलान् ॥ २२२.६ ॥ तिलैरेकाशनं कुर्वंस्तथैवैकान्तराशनम् । त्र्यहषड्द्वादशाहाशी पक्षमासाशनस्तथा ॥ २२२.७ ॥ कृच्छ्रचान्द्रायणादीनि व्रतानि च तिलैरपि । तिलादत्वमनुप्राप्तो ह्यब्दद्वासप्ततिं क्रमात् ॥ २२२.८ ॥ कालेन गच्छता तस्य प्रसन्नोऽभवदीश्वरः । प्रादादिहामुत्रिकीं तु शुद्धिं सालोक्यमात्मकम् ॥ २२२.९ ॥ तेन स स्थापितो देवः स्वनाम्ना भरतर्षभ । तिलादेश्वरसंज्ञां च प्राप लोकादपि प्रभुः ॥ २२२.१० ॥ तदा प्रभृति विख्यातं तीर्थं पापप्रणाशनम् । तत्र तीर्थे नरः स्नात्वा चतुर्दश्यष्टमीषु च ॥ २२२.११ ॥ उपवासपरः पार्थ तथैव हरिवासरे । तिलहोमी तिलोद्वर्ती तिलस्नायी तिलोदकी ॥ २२२.१२ ॥ तिलदाता च भोक्ता च नानापापैः प्रमुच्यते । तिलैरापूरयेल्लिङ्गं तिलतैलेन दीपदः । रुद्रलोकमवाप्नोति पुनात्या सप्तमं कुलम् ॥ २२२.१३ ॥ तिलपिण्डप्रदानेन श्राद्धे नृपतिसत्तम । विकर्मस्थाश्च गच्छन्ति गतिमिष्टां हि पूर्वजाः ॥ २२२.१४ ॥ स्वर्गलोकस्थिताः श्राद्धैर्ब्राह्मणानां च भोजनैः । अक्षयां तृप्तिमासाद्य मोदन्ते शाश्वतीः समाः ॥ २२२.१५ ॥ पितुः कुलं मातृकुलं तथा भार्याकुलं नृप । कुलत्रयं समुद्धृत्य स्वर्गं नयति वै नरः ॥ २२२.१६ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तिलादेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वाविंशदधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २२३ मार्कण्डेय उवाच - ततः क्रोशान्तरे पार्थ वासवं तीर्थमुत्तमम् । वसुभिः स्थापितं तत्र स्थित्वा वै द्वादशाब्दकम् ॥ २२३.१ ॥ धरो ध्रुवश्च सोमश्च आपश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविमे पुरा ॥ २२३.२ ॥ पितृशापपरिक्लिष्टा गर्भवासाय भारत । नार्मदं तीर्थमासाद्य तपश्चक्रुर्यतेन्द्रियाः ॥ २२३.३ ॥ आराधयन्तः परमं भवानीपतिमव्यम् । द्वादशाब्दानि राजेन्द्र ततस्तुष्टो महेश्वरः ॥ २२३.४ ॥ प्रत्यक्षः प्रददौ तेभ्यस्त्वभीष्टं वरमुत्तमम् । ततः स्वनाम्ना संस्थाप्य वसवस्तं महेश्वरम् । जग्मुराकाशमाविश्य प्रसन्ने सति शङ्करे ॥ २२३.५ ॥ ततः प्रभृति विख्यातं तीर्थं तद्वासवाह्वयम् । तस्मिंस्तीर्थे महाराज यो भक्त्या पूजयेच्छिवम् । यथालब्धोपहारैश्च दीपं दद्यात्प्रयत्नतः ॥ २२३.६ ॥ शुक्लपक्षे तदाष्टम्यां प्रत्यहं वापि शक्तितः । अष्टौ वर्षसहस्राणि स वसेच्छिवसंनिधौ ॥ २२३.७ ॥ ततः शिवालयं याति गर्भवासं न पश्यति । पुष्पैर्वा पल्लवैर्वापि फलैर्धान्यैस्तथापि वा ॥ २२३.८ ॥ पूजयेद्देवमीशानं स दैन्यं नाप्नुयात्क्वचित् । सर्वशोकविनिर्मुक्तः स्वर्गलोके महीयते ॥ २२३.९ ॥ एकाहमपि कौन्तेय यो वसेद्वासवेश्वरे । पापराशिं विनिर्धूय भानुवद्दिवि मोदते ॥ २२३.१० ॥ विप्रांश्च भोजयेद्भक्त्या दद्याद्वासांसि दक्षिणाम् ॥ २२३.११ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वासवेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २२४ मार्कण्डेय उवाच - ततः क्रोशान्तरे पार्थ तीर्थं कोटीश्वरं परम् । यत्र स्नानं च दानं च जपहोमार्चनादिकम् । भक्त्या कृतं नरैस्तत्र सर्वं कोटिगुणं भवेत् ॥ २२४.१ ॥ तत्र देवाः सगन्धर्वा ऋषयः सिद्धचारणाः । जलधिं प्रतिगच्छन्ति नर्मदां वीक्षितुं किल ॥ २२४.२ ॥ मिलिताः कोटिशो राजन्रेवासागरसङ्गमे । विनोदमतुलं दृष्ट्वा रेवार्णवसमागमे ॥ २२४.३ ॥ स्नात्वा शिवं च संस्थाप्य पूजयित्वा महेश्वरम् । कोटीश्वराभिधानं तु स्वस्वभक्त्या विधानतः ॥ २२४.४ ॥ कोटीतीर्थे परां सिद्धिं सम्प्राप्ताः सर्वतोषणात् । तेन तत्पुण्यमतुलं सर्वतीर्थेषु चोत्तमम् ॥ २२४.५ ॥ तत्र तीर्थे तु यत्किंचिच्छुभं वा यदि वाशुभम् । क्रियते नृपशार्दूल सर्वं कोटिगुणं भवेत् ॥ २२४.६ ॥ तत्र तीर्थे तु मार्गस्था ये केचिदृषिसत्तमाः । सिद्धामृतपदं यान्ति पितृलोकं तथोत्तमम् ॥ २२४.७ ॥ उत्तरे नर्मदातीरे दक्षिणे चाश्रिताश्च ये । देवलोकं गतास्तत्र इति मे निश्चिता मतिः ॥ २२४.८ ॥ बिल्वार्कपुष्पैर्धत्तूरकुशकाशप्रसूनकैः । ऋतूद्भवैस्तथान्यैश्च पूजयित्वा महेश्वरम् ॥ २२४.९ ॥ नानोपचारैर्विधिवन्मन्त्रपूर्वं युधिष्ठिर । धूपदीपार्धनैवेद्यैस्तोषयित्वा च धूर्जटिम् ॥ २२४.१० ॥ शिवलोकमवाप्नोति यावदिन्द्राश्चतुर्दश । पौषकृष्णाष्टमीयोगे विशेषः पूजने स्मृतः ॥ २२४.११ ॥ नित्यं च नृपतिश्रेष्ठ चतुर्दश्यष्टमीषु च । शिवमभ्यर्च्य विप्रांश्च भोजयेद्भक्तितो वरान् ॥ २२४.१२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटीश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २२५ श्रीमार्कण्डेय उवाच - ततः क्रोशान्तरे गच्छेदलिकातीर्थमुत्तमम् । अलिका नाम गान्धर्वी कुशीला कुटिलाशया ॥ २२५.१ ॥ चित्रसेनस्य दौहित्री विद्यानन्दमृषिं गता । वव्रे ते स्वीकृता तेन दशवर्षाणि तं श्रिता ॥ २२५.२ ॥ पतिं जघान तं सुप्तं कस्मिंश्चित्कारणान्तरे । गत्वा निवेदयामास पितरं रत्नवल्लभम् ॥ २२५.३ ॥ पित्रा मात्रा च संत्यक्ता बहुभिर्भर्त्सिता नृप । गर्भघ्नी त्वं पतिघ्नी त्वमिति दर्शय मा मुखम् ॥ २२५.४ ॥ ब्रह्मघ्नी याहि पापिष्ठे परित्यक्ता गृहाद्व्रज ॥ २२५.५ ॥ मार्कण्डेय उवाच - इति दुःखान्विता मूढा ताभ्यां निर्भर्त्सिता सती । तनुं त्यक्तुं मनश्चक्रे प्राप्य तीर्थान्तरं क्वचित् ॥ २२५.६ ॥ संपृच्छ्यमाना तीर्थानि ब्राह्मणेभ्यो युधिष्ठिर । श्रुत्वा पापहरं तीर्थं रेवासागरसङ्गमे ॥ २२५.७ ॥ तत्र पार्थ तपश्चक्रे निराहारा जितव्रता । कृच्छ्रातिकृच्छ्रपाराकमहासांतपनादिभिः ॥ २२५.८ ॥ चान्द्रायणैर्ब्रह्मकूर्चैः कर्शयामास वै तनुम् । एवं वर्षशतं सार्द्धं व्यतीतं तपसा नृप ॥ २२५.९ ॥ तस्या विशुद्धिमिच्छन्त्याः शिवध्यानार्चनादिभिः । ततः कतिपयाहोभिस्तस्या ज्ञात्वा हठं परम् । परितुष्टः शिवः प्राह पार्वत्या परिचोदितः ॥ २२५.१० ॥ ईश्वर उवाच - पुत्रि मा साहसं कार्षीः शुद्धदेहासि साम्प्रतम् । तुष्टोऽहं तपसा तेऽद्य वरं वरय वाञ्छितम् ॥ २२५.११ ॥ अलिकोवाच - यदि तुष्टोऽसि देवेश वरार्हा यद्यहं मता । नानापापाग्नितप्ताया देहि शुद्धिं परां मम ॥ २२५.१२ ॥ त्वं मे नाथो ह्यनाथायास्त्वमेव जगतां गुरुः । दीनानाथसमुद्धर्ता शरण्यः सर्वदेहिनाम् ॥ २२५.१३ ॥ ईश्वर उवाच - त्वं भद्रे शुद्धदेहासि मा किंचिदनुशोचिथाः । स्वनाम्ना स्थापयित्वेह मां ततः स्वर्गमेष्यसि ॥ २२५.१४ ॥ इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत । अलिकापि ततो भक्त्या स्नात्वा संस्थाप्य शङ्करम् ॥ २२५.१५ ॥ दत्त्वा दानं च विप्रेभ्यो लोकमाप महोत्कटम् । पितरं च समासाद्य मातरं च युधिष्ठिर ॥ २२५.१६ ॥ तैश्च संमानिता प्रीत्या बन्धुभिः सालिका ततः । विमानवरमारूढा दिव्यमालान्विता नृप ॥ २२५.१७ ॥ गौरीलोकमनुप्राप्तसखित्वेऽद्यापि मोदते । ततः प्रभृति तत्पार्थ विख्यातमलिकेश्वरम् ॥ २२५.१८ ॥ तत्र तीर्थे तु या नारी पुरुषो वा युधिष्ठिर । स्नात्वा सम्पूजयेद्भक्त्या महादेवमुमायुतम् ॥ २२५.१९ ॥ स पापैर्विविधैर्मुक्तो लोकमाप्नोति शांकरम् । मानसं वाचिकं पापं कायिकं यत्पुरा कृतम् ॥ २२५.२० ॥ सर्वं तद्विलयं याति भोजयित्वा द्विजान्सदा । दीपं दत्त्वा च देवाग्रे न रोगैः परिभूयते ॥ २२५.२१ ॥ धूपपात्रं विमानं च घण्टां कलशमेव च । दत्त्वा देवाय राजेन्द्र शाक्रं लोकमवाप्नुयात् ॥ २२५.२२ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवासागरसङ्गमेऽलिकेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २२६ मार्कण्डेय उवाच - ततः क्रोशान्तरे पुण्यं तीर्थं तद्विमलेश्वरम् । यत्र स्नानेन दानेन जपहोमार्चनादिभिः ॥ २२६.१ ॥ विमलेश्वरमाराध्य यो यदिच्छेत्स तल्लभेत् । स्वर्गलाभादिकं वापि पार्थिवं वा यथेप्सितम् ॥ २२६.२ ॥ पुरा त्रिशिरसं हत्वा त्वष्टुः पुत्रं शतक्रतुः । यस्य तीर्थस्य माहात्म्याद्वैमल्यं परमं गतः ॥ २२६.३ ॥ यत्र वेदनिधिर्विप्रो महत्तप्त्वा तपः पुरा । नानाकर्ममलैः क्षीणैर्विमलोऽभवदर्कवत् ॥ २२६.४ ॥ महादेवप्रसादेन सोमवत्प्रियदर्शनः । पुरा भानुमतीं भानुः सुतां स्मरशरार्दितः ॥ २२६.५ ॥ चकमे तेन दोषेण कुष्ठरोगार्दितोऽभवत् । स चाप्यत्र तपस्तप्त्वा विमलत्वमुपागतः ॥ २२६.६ ॥ महादेवेन तुष्टेन स्वस्थानं मुदितोऽभजत् । तथैव च पुरा पार्थ विभाण्डकसुतो मुनिः ॥ २२६.७ ॥ योगिसङ्गं वने प्राप्य पुरे च नृपतेस्तथा । राजसंसर्गदोषाद्वै मालिन्यं परमात्मनः ॥ २२६.८ ॥ विचारयन्नभ्युपेत्य रेवासागरसङ्गमम् । शान्तया भार्यया सार्द्धं तप्त्वा द्वादशवत्सरान् ॥ २२६.९ ॥ कृच्छ्रचान्द्रायणैर्देवं तोषयंस्त्र्यम्बकं मुनिः । महादेवेन तुष्टेन सोऽपि वैमल्यमाप्तवान् ॥ २२६.१० ॥ शर्वाण्या प्रेरितः शर्वः पुरा दारुवने नृप । मोहनान्मुनिपत्नीनां स्वं दीक्ष्य विमलं किल ॥ २२६.११ ॥ विचार्य परमस्थानं नर्मदोदधिसङ्गमम् । तत्र स्थित्वा महाराज तपस्तप्त्वा सहोमया ॥ २२६.१२ ॥ विमलोऽसौ यतो जातस्तेनासौ विमलेश्वरः । तेन नाम्ना स्वयं तस्थौ लोकानां हितकाम्यया ॥ २२६.१३ ॥ ततस्तिलोत्तमां सृष्ट्वा ब्रह्मा लोकपितामहः । प्रजानाथोऽपि तां सृष्ट्वा दृष्ट्वाग्रे सुमनोहराम् ॥ २२६.१४ ॥ भावियोगबलाक्रान्तः स तस्यामभिकोऽभवत् । तेन वीक्ष्य सदोषत्वं रेवातीरद्वयं श्रितः ॥ २२६.१५ ॥ तीर्थान्यनुसरन्मौनी त्रिस्नायी संस्मरञ्छिवम् । रेवार्णवसमायोगे स्नात्वा सम्पूज्य शङ्करम् । कालेनाल्पेन राजर्षे ब्रह्माप्यमलतां गतः ॥ २२६.१६ ॥ एवमन्येऽपि बहुशो देवर्षिनृपसत्तमाः । त्यक्त्वा दोषमलं तत्र विमला बहवोऽभवन् ॥ २२६.१७ ॥ तथा त्वमपि राजेन्द्र तत्र स्नात्वा शिवार्चनात् । अमलोऽपि विशेषेण वैमल्यं प्राप्स्यसे परम् ॥ २२६.१८ ॥ तत्र स्नात्वा नरो नारी पूजयित्वा महेश्वरम् । पापदोषविनिर्मुक्तो ब्रह्मलोके महीयते ॥ २२६.१९ ॥ तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् । अष्टम्यां च चतुर्दश्यां सर्वपर्वसु पार्थिव ॥ २२६.२० ॥ सप्तजन्मकृतं पापं हित्वा याति शिवालयम् । श्राद्धं कृत्वा विधानेन पित्ःणामनृणी भवेत् । ब्राह्मणान् भोजयेच्छक्त्या तेभ्यो दद्याच्च दक्षिणाम् ॥ २२६.२१ ॥ यद्यदिष्टतमं लोके यच्चैवात्महितं गृहे । तत्तद्गुणवते देयं तत्रैवाक्षयमिच्छता । स्वर्णधान्यानि वासांसि छत्रोपानत्कमण्डलुम् ॥ २२६.२२ ॥ गृहं देवस्य वै शक्त्या कृत्वा स्याद्भुवि भूपतिः । गीतनृत्यकथाभिश्च तोषयेत्परमेश्वरम् ॥ २२६.२३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विमलेश्वरतीर्थमाहात्म्यवर्णनं नाम षड्विंशत्यधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २२७ मार्कण्डेय उवाच - एतानि तव संक्षेपात्प्राधान्यात्कथितानि च । न शक्तो विस्तराद्वक्तुं संख्यां तीर्थेषु पाण्डव ॥ २२७.१ ॥ एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता । नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा ॥ २२७.२ ॥ मनसा संस्मरेद्यस्तु नर्मदां सततं नृप । चान्द्रायणशतस्याशु लभते फलमुत्तमम् ॥ २२७.३ ॥ अश्रद्दधानाः पुरुषा नास्तिकाश्चात्र ये स्थिताः । पतन्ति नरके घोरे प्राहैवं परमेश्वरः ॥ २२७.४ ॥ नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः । तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥ २२७.५ ॥ इयं माहेश्वरी गङ्गा महेश्वरतनूद्भवा । प्रोक्ता दक्षिणगङ्गेति भारतस्य युधिष्ठिर ॥ २२७.६ ॥ जाह्नवी वैष्णवी गङ्गा ब्राह्मी गङ्गा सरस्वती । इयं माहेश्वरी गङ्गा रेवा नास्त्यत्र संशयः ॥ २२७.७ ॥ यथा हि पुरुषे देवस्त्रैमूर्तत्वमुपाश्रितः । ब्रह्मविष्णुमहेशाख्यं न भेदस्तत्र वै यथा । तथा सरित्त्रये पार्थ भेदं मनसि मा कृथाः ॥ २२७.८ ॥ कोटिशो ह्यत्र तीर्थानि लक्षशश्चापि भारत । तथा सहस्रशो रेवातीरद्वयगतानि तु ॥ २२७.९ ॥ वृक्षान्तरिक्षसंस्थानि जलस्थलगतानि च । कः शक्तस्तानि निर्णेतुं वागीशो वा महेश्वरः ॥ २२७.१० ॥ स्मरणाज्जन्मजनितं दर्शनाच्च त्रिजन्मजम् । सप्तजन्मकृतं नश्येत्पापं रेवावगाहनात् ॥ २२७.११ ॥ देवकार्यं कृतं तेन अग्नयो विधिवद्धुताः । वेदा अधीताश्चत्वारो येन रेवावगाहिता ॥ २२७.१२ ॥ प्राधान्याच्चापि संक्षेपात्तीर्थान्युक्तानि ते मया । न शक्यो विस्तरः पार्थ श्रोतुं वक्तुं च वै मया ॥ २२७.१३ ॥ युधिष्ठिर उवाच - विधानं च यमांश्चैव नियमांश्च वदस्व मे । प्रायश्चित्तार्थगमने को विधिस्तं वदस्व मे ॥ २२७.१४ ॥ श्रीमार्कण्डेय उवाच - साधु पृष्टं महाराज यच्छ्रेयः पारलौकिकम् । शृणुष्वावहितो भूत्वा यथाज्ञानं वदामि ते ॥ २२७.१५ ॥ अध्रुवेण शरीरेण ध्रुवं कर्म समाचरेत् । अवश्यमेव यास्यन्ति प्राणाः प्राघूर्णिका इव ॥ २२७.१६ ॥ दानं वित्तादृतं वाचः कीर्तिधर्मौ तथा ख्युषः । परोपकरणं कायादसारात्सारमुद्धरेत् ॥ २२७.१७ ॥ अस्मिन्महामोहमये कटाहे सूर्याग्निना रात्रिदिवेन्धनेन । मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ॥ २२७.१८ ॥ ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ २२७.१९ ॥ मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥ २२७.२० ॥ अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २२७.२१ ॥ यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ २२७.२२ ॥ सन्तीह विविधोपाया नृणां देहविशोधनाः । तीर्थसेवासमं नास्ति स्वशरीरस्य शोधनम् ॥ २२७.२३ ॥ कृच्छ्रचान्द्रायणाद्यैर्वा द्वितीयं तीर्थसेवया । यदा तीर्थं समुद्दिश्य प्रयाति पुरुषो नृप । तदा देवाश्च पितरस्तं व्रजन्त्यनु खेचराः ॥ २२७.२४ ॥ परमा मोदपूर्णास्ते प्रयान्त्यस्यानुयायिनः । कृत्वाभ्युदयिकं श्राद्धं समापृच्छय तु देवताम् ॥ २२७.२५ ॥ इष्टबन्धूंश्च विष्णुं च शङ्करं सगणेश्वरम् । व्रजेद्द्विजाभ्यनुज्ञातो गृहीत्वा नियमानपि ॥ २२७.२६ ॥ एकाशनं ब्रह्मचर्यं भूशय्यां सत्यवादिताम् । वर्जनं च परान्नस्य प्रतिग्रहविवर्जनम् ॥ २२७.२७ ॥ वर्जयित्वा तथा द्रोहवञ्चनादि नृपोत्तम । साधुवेषं समास्थाय विनयेन विभूषितः ॥ २२७.२८ ॥ दम्भाहङ्कारमुक्तो यः स तीर्थफलमश्नुते । यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥ २२७.२९ ॥ विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते । अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ॥ २२७.३० ॥ आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते । मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ॥ २२७.३१ ॥ वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् । स्नानं सुरार्चनं चैव श्राद्धे वै पिण्डपातनम् ॥ २२७.३२ ॥ विप्राणां भोजनं शक्त्या सर्वतीर्थेष्वयं विधिः । प्रायश्चित्तनिमित्तं च यो व्रजेद्यतमानसः ॥ २२७.३३ ॥ तस्यापि च विधिं वक्ष्ये शृणु पार्थ समाहितः । एकाशनं ब्रह्मचर्यमक्षारलवणाशनम् ॥ २२७.३४ ॥ स्नात्वा तीर्थाभिगमनं हविष्यैकान्नभोजनम् । वर्जयेत्पतितालापं बहुभाषणमेव च ॥ २२७.३५ ॥ परीवादं परान्नं च नीचसङ्गं विवर्जयेत् । व्रजेच्च निरुपानत्को वसानो वाससी शुचिः ॥ २२७.३६ ॥ संकल्पं मनसा कृत्वा ब्राह्मणानुज्ञया व्रजेत् । तीर्थे गत्वा तथा स्नात्वा कृत्वा चैव सुरार्चनम् ॥ २२७.३७ ॥ दुष्कर्मतो विमुक्तः स्यादनुतापी भवेद्यदि । वेदे तीर्थे च देवे च दैवज्ञे चौषधे गुरौ ॥ २२७.३८ ॥ यादृशी भावना यस्य सिद्धिर्भवति तादृशी । उक्ततीर्थफलानां च पुराणेषु स्मृतिष्वपि ॥ २२७.३९ ॥ अर्थवादभवां शङ्कां विहाय भरतर्षभ । कृत्वा विचारं शास्त्रोक्तं परिकल्प्य यथोचितम् ॥ २२७.४० ॥ कायेन कृच्छ्रचरणे ह्यशक्तानां विशुद्धये । ज्ञात्वा तीर्थाविशेषं हि प्रायश्चित्तं समाचरेत् ॥ २२७.४१ ॥ तच्छृणुष्व महाराज नर्मदायां यथोचितम् । चतुर्विंशतिसंख्येभ्यो योजनेभ्यो व्रजेन्नरः ॥ २२७.४२ ॥ चतुर्विंशतिकृच्छ्राणां फलमाप्नोति शोभनम् । अत ऊर्ध्वं योजनेषु पादकृच्छ्रमुदाहृतः ॥ २२७.४३ ॥ तन्मध्ये च महाराज यो व्रजेच्छुद्धिकाङ्क्षया । योजने योजने तस्य प्रायश्चित्तं विदुर्बुधाः ॥ २२७.४४ ॥ प्रणवाख्ये महाराज तथा रेवोरिसंगमे । भृगुक्षेत्रे तथा गत्वा फलं तद्द्विगुणं स्मृतम् ॥ २२७.४५ ॥ सङ्गमे देवनद्याश्च शूलभेदे नृपोत्तम । द्विगुणं पादहीनं स्यात्करजासंगमे तथा ॥ २२७.४६ ॥ एरण्डीसङ्गमे तद्वत्कपिलायाश्च संगमे । केचित्त्रिगुणितं प्राहुः कुब्जारेवोत्थसङ्गमे ॥ २२७.४७ ॥ ओंकारे च महाराज तदपि स्यात्समञ्जसम् । सङ्गमेषु तथान्यासां नदीनां रेवया सह ॥ २२७.४८ ॥ प्राहुस्ते सार्धकृच्छ्रं वै फलं पूर्वं युधिष्ठिर । त्रिगुणं कृच्छ्रमाप्नोति रेवासागरसङ्गमे ॥ २२७.४९ ॥ कृच्छ्रं चतुर्गुणं प्रोक्तं शुक्लतीर्थे युधिष्ठिर । योजने योजने गत्वा चतुर्विंशतियोजनम् । तत्र तत्र वसेद्यस्तु सुचिरं नृवरोत्तम ॥ २२७.५० ॥ रेवासेवासमाचारः संयुक्तः शुद्धबुद्धिमान् । दम्भाहङ्काररहितः शुद्ध्यर्थं स विमुच्यते ॥ २२७.५१ ॥ इति ते कथितं पार्थ प्रायश्चित्तार्थलक्षणम् । रेवायात्राविधानं च गुह्यमेतद्युधिष्ठिर ॥ २२७.५२ ॥ युधिष्ठिर उवाच - योजनस्य प्रमाणं मे वद त्वं मुनिसत्तम । यज्ज्ञात्वा निश्चितं मे स्यान्मनःशुद्धेस्तु कारणम् ॥ २२७.५३ ॥ मार्कण्डेय उवाच - शृणु पाण्डव वक्ष्यामि प्रमाणं योजनस्य यत् । तथा यात्राविशेषेण विशेषं कृच्छ्रसम्भवम् ॥ २२७.५४ ॥ तिर्यग्यवोदराण्यष्टावूर्ध्वा वा व्रीहयस्त्रयः । प्रमाणमङ्गुलस्याहुर्वितस्तिर्द्वादशांगुला ॥ २२७.५५ ॥ वितस्तिद्वितयं हस्तश्चतुर्हस्तं धनुः स्मृतम् । स एव दण्डो गदितो विशेषज्ञैर्युधिष्ठिर ॥ २२७.५६ ॥ धनुःसहस्रे द्वे क्रोशश्चतुःक्रोशं च योजनम् । एतद्योजनमानं ते कथितं भरतर्षभ ॥ २२७.५७ ॥ येन यात्रां व्रजन् वेत्ति फलमानं निजार्जितम् । उक्तं कृच्छ्रफलं तीर्थे जलरूपे नृपोत्तम ॥ २२७.५८ ॥ यथाविशेषं ते वच्मि पूर्वोक्ते तत्र तत्र च । तन्मे शृणु महीपाल श्रद्दधानाय कथ्यते ॥ २२७.५९ ॥ यस्मिंस्तीर्थे हि यत्प्रोक्तं फलं कृच्छ्रादिकं नृप । तत्राप्युपोषणात्कृच्छ्रफलं प्राप्नोत्यथाधिकम् ॥ २२७.६० ॥ दिनजाप्याच्च लभते फलं कृच्छ्रस्य शक्तितः । तत्र विख्यातदेवेशं स्नात्वा दृष्ट्वाभिपूज्य च ॥ २२७.६१ ॥ प्रणम्य लभते पार्थ फलं कृच्छ्रभवं सुधीः । तीर्थे मुख्यफलं स्नानाद्द्वितीयं चाप्युपोषणात् ॥ २२७.६२ ॥ तृतीयं ख्यातदेवस्य दर्शनाभ्यर्चनादिभिः । चतुर्थं जाप्ययोगेन देहशक्त्या त्वहर्निशम् ॥ २२७.६३ ॥ पञ्चमं सर्वतीर्थेषु कल्पनीयं हि दूरतः । तीरस्थो योजनादर्वाग्दशांशं लभते फलम् ॥ २२७.६४ ॥ उक्ततीर्थफलात्पार्थ नात्र कार्या विचारणा ॥ २२७.६५ ॥ उपवासेन सहितं महानद्यां हि मज्जनम् । अप्यर्वाग्योजनात्पार्थ दद्यात्कृच्छ्रफलं नृणाम् ॥ २२७.६६ ॥ षड्योजनवहा कुल्य नद्योऽल्पा द्वादशैव च । चतुर्विंशतिगा नद्यो महानद्यस्ततोऽधिकाः ॥ २२७.६७ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थयात्रादिविधानविशेषकथनं नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २२८ युधिष्ठिर उवाच - परार्थं तीर्थयात्रायां गच्छतः कस्य किं फलम् । कियन्मात्रं मुनिश्रेष्ठ तन्मे ब्रूहि कृपानिधे ॥ २२८.१ ॥ मार्कण्डेय उवाच - परार्थं गच्छतस्तन्मे वदतः शृणु पार्थिव । यथा यावत्फलं तस्य यात्रादिविहितं भवेत् ॥ २२८.२ ॥ उत्तमेनेह वर्णेन द्रव्यलोभादिना नृप । नाधमस्य क्वचित्कार्यं तीर्थयात्रादिसेवनम् ॥ २२८.३ ॥ धर्मकर्म महाराज स्वयं विद्वान्समाचरेत् । शरीरस्याथवा शक्त्या अन्यद्वा कार्ययोगतः ॥ २२८.४ ॥ धर्मकर्म सदा प्रायः सवर्णेनैव कारयेत् । पुत्रपौत्रादिकैर्वापि ज्ञातिभिर्गोत्रसम्भवैः ॥ २२८.५ ॥ श्रेष्ठं हि विहितं प्राहुर्धर्मकर्म युधिष्ठिर । तैरेव कारयेत्तस्मान्नोत्तमैर्नाधमैरपि ॥ २२८.६ ॥ अधमेन कृतं सम्यङ्न भवेदिति मे मतिः । उत्तमश्चाधमार्थे वै कुर्वन्दुर्गतिमाप्नुयात् ॥ २२८.७ ॥ न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ॥ २२८.८ ॥ जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् । देवताराधनं दीक्षा स्त्रीशूद्रपतनानि षट् ॥ २२८.९ ॥ पतिवत्नी पतत्येव विधवा सर्वमाचरेत् । सभर्तृकाशके पत्यौ सर्वं कुर्यादनुज्ञया ॥ २२८.१० ॥ गत्वा परार्थं तीर्थादौ षोडशांशफलं लभेत् । गच्छतश्च प्रसङ्गेन तीर्थमर्द्धफलं स्मृतम् ॥ २२८.११ ॥ अनुसङ्गेन तीर्थस्य स्नाने स्नानफलं विदुः । नैव यात्राफलं तज्ज्ञाः शास्त्रोक्तं कल्मषापहम् ॥ २२८.१२ ॥ पित्रर्थं च पितृव्यस्य मातुर्मातामहस्य च । मातुलस्य तथा भ्रातुः श्वशुरस्य सुतस्य च ॥ २२८.१३ ॥ पोषकार्थादयोश्चापि मातामह्या गुरोस्तथा । स्वसुर्मातृष्वसुः पैत्र्या आचार्याध्यापकस्य च ॥ २२८.१४ ॥ इत्याद्यर्थे नरः स्नात्वा स्वयमष्टांशमाप्नुयात् । साक्षात्पित्रोः प्रकुर्वाणश्चतुर्थांशमवाप्नुयात् ॥ २२८.१५ ॥ पतिपत्न्योर्मिथश्चार्द्धं फलं प्राहुर्मनीषिणः । भागिनेयस्य शिष्यस्य भ्रातृव्यस्य सुतस्य च । षट्त्रिपञ्चचतुर्भागान्फलमाप्नोति वै नरः ॥ २२८.१६ ॥ इति ते कथितं पार्थ पारम्पर्यक्रमागतम् । कर्तव्यं ज्ञातिवर्गस्य परार्थे धर्मसाधनम् ॥ २२८.१७ ॥ वर्षाऋतुसमायोगे सर्वा नद्यो रजस्वलाः । मुक्त्वा सरस्वतीं गङ्गां नर्मदां यमुनानदीम् ॥ २२८.१८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे परार्थतीर्थयात्राफलकथनं नामाष्टविंशत्यधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २२९ श्रीमार्कण्डेय उवाच - एवं ते कथितं राजन्पुराणं धर्मसंहितम् । शिवप्रीत्या यथा प्रोक्तं वायुना देवसंसदि ॥ २२९.१ ॥ षष्टितीर्थसहस्राणि षष्टिकोटिस्तथैव च । आदिमध्यावसानेषु नर्मदायां पदे पदे ॥ २२९.२ ॥ मया द्वादशसाहस्री संहिता या श्रुता पुरा । देवदेवस्य गदतः साम्प्रतं कथिता तव ॥ २२९.३ ॥ पृष्टस्त्वयाहं भूपाल पर्वतेऽमरकण्टके । स्थितः संक्षेपतः सर्वं मया तत्कथितं तव ॥ २२९.४ ॥ नर्मदाचरितं पुण्यं शृणु तस्यास्ति यत्फलम् । यत्फलं सर्ववेदैः स्यात्सषडङ्गपदक्रमैः ॥ २२९.५ ॥ पठितैश्च श्रुतैर्वापि तस्माद्बहुतरं भवेत् । सत्रयाजी फलं यत्र लभते द्वादशाब्दिकम् ॥ २२९.६ ॥ चरिते तु श्रुते देव्या लभते तादृशं फलम् । सर्वतीर्थेषु यत्पुण्यं स्नात्वा सागरमादितः ॥ २२९.७ ॥ सकृत्स्नात्वा तथा श्रुत्वा नर्मदायां फलं हि तत् । आदिमध्यावसानेन नर्मदाचरितं शुभम् ॥ २२९.८ ॥ यः शृणोति नरो भक्त्या तस्य पुण्यफलं शृणु । स प्राप्य शिवसंस्थानं रुद्रकन्यासमावृतः ॥ २२९.९ ॥ रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते । एतद्धर्ममुपाख्यानं सर्वशास्त्रेषु सत्तमम् ॥ २२९.१० ॥ देशे वा मण्डले वापि वा ग्रामे नगरेऽपि वा । गृहे वा तिष्ठते यस्य चातुर्वर्ण्यस्य भारत ॥ २२९.११ ॥ स ब्रह्मा स शिवः साक्षात्स च देवो जनार्दनः । त्रिविधं कारणं लोके धर्मपन्थानमुत्तमम् ॥ २२९.१२ ॥ देवतानां गुरुं शास्त्रं परमं सिद्धिकारणम् । श्रुत्वेश्वरमुखात्पार्थ मयापि तव कीर्तितम् ॥ २२९.१३ ॥ दक्षिणे चोत्तरे कूले यानि तीर्थानि कानिचित् । प्रधानतः सुपुण्यानि कथितानि विशेषतः ॥ २२९.१४ ॥ स्पर्शनाद्दर्शनात्तेषां कीर्तनाच्छ्रवणात्तथा । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ २२९.१५ ॥ इदं यः शृणुयान्नित्यं पुराणं शिवभाषितम् । ब्राह्मणो वेदविद्यावान् क्षत्रियो विजयी भवेत् ॥ २२९.१६ ॥ धनभागी भवेद्वैश्यः शूद्रो वै धर्मभाग्भवेत् । सौभाग्यं सन्ततिं स्वर्गं नारी श्रुत्वाप्नुयाद्धनम् ॥ २२९.१७ ॥ ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः । माहात्म्यं नर्मदायास्तु श्रुत्वा पापबहिष्कृताः ॥ २२९.१८ ॥ पापभेदी कृतघ्नश्च स्वामिविश्वासघातकः । गोघ्नश्च गरदश्चैव कन्याविक्रयकारकः ॥ २२९.१९ ॥ एते श्रुत्वैव पापेभ्यो मुच्यन्ते नात्र संशयः । ये पुनर्भावितात्मानः शृण्वन्ति सततं नृप ॥ २२९.२० ॥ पूजयन्त इदं देवाः पूजिता गुरवश्च तैः । नर्मदा पूजिता तेन भगवांश्च महेश्वरः ॥ २२९.२१ ॥ तस्मात्सर्वप्रयत्नेन गन्धपुष्पविभूषणैः । पूजितं परया भक्त्या शास्त्रमेतत्फलप्रदम् ॥ २२९.२२ ॥ लेखापयित्वा सकलं नर्मदाचरितं शुभम् । उत्तमं सर्वशास्त्रेभ्यो यो ददाति द्विजन्मने ॥ २२९.२३ ॥ नर्मदासर्वतीर्थेषु स्नाने दाने च यत्फलम् । तत्फलं समवाप्नोति स नरो नात्र संशयः ॥ २२९.२४ ॥ एतत्पुराणं रुद्रोक्तं महापुण्यफलप्रदम् । स्वर्गदं पुत्रदं धन्यं यशस्यं कीर्तिवर्धनम् ॥ २२९.२५ ॥ सर्वपापहरं पार्थ दुःखदुःस्वप्ननाशनम् । पठतां शृण्वतां राजन् सर्वकामार्थसिद्धिदम् ॥ २२९.२६ ॥ शान्तिरस्तु शिवं चास्तु लोकाः सन्तु निरामयाः । गोब्राह्मणेभ्यः स्वस्त्यस्तु धर्मं धर्मात्मजाश्रयः ॥ २२९.२७ ॥ नरकान्तकरी रेवा सतीर्था विश्वपावनी । नर्मदा धर्मदा चास्तु शर्मदा पार्थ ते सदा ॥ २२९.२८ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेययुधिष्ठिरसंवादे रेवाखण्डपठनश्रवणदानादिफलश्रुतिवर्णनं नामैकोनत्रिंशदधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २३० सूत उवाच - इत्युक्त्वोपररामथ पाण्डोः पुत्राय वै मुनिः । मृकण्डतनयो धीमान्सप्तकल्पस्मरः पुरः ॥ २३०.१ ॥ मार्कण्डमुनिना प्रोक्तं यथा पार्थाय सत्तमाः । तथा वः कथितं सर्वं रेवामाहात्म्यमुत्तमम् ॥ २३०.२ ॥ इयं पुण्या सरिच्छ्रेष्ठा रेवा विश्वैकपावनी । रुद्रदेहसमुद्भूता सर्वभूताभयप्रदा ॥ २३०.३ ॥ ओङ्कारजलधिं यावदुवाच भृगुनन्दनः । तीर्थसङ्गमभेदान्वै धर्मपुत्राय पृच्छते ॥ २३०.४ ॥ समासेनैव मुनयस्तथाहं कथयामि वः । सप्तषष्टिसहस्राणि षष्टिकोट्यस्तथैव च ॥ २३०.५ ॥ कथं केनात्र शक्यन्ते वक्तुं वर्षशतैरपि । तथाप्यत्र मुनिश्रेष्ठाः प्रोक्तं पार्थाय वै यथा ॥ २३०.६ ॥ तीर्थमोंकारमारभ्य वक्ष्ये तीर्थावलिं शुभाम् । प्रोच्यमानां समासेन तां शृणुध्वं महर्षयः ॥ २३०.७ ॥ नत्वा सोमं महेशानं नत्वा ब्रह्माच्युतावुभौ । सरस्वतीं गणेशानं देव्यासाङ्घ्रिपञ्कजम् ॥ २३०.८ ॥ पूर्वाचार्यांस्तथा सर्वान्दृष्ट्वादृष्टार्थवेदिनः । प्रणम्य नर्मदां देवीं वक्ष्ये तीर्थावलिं त्विमाम् ॥ २३०.९ ॥ ओं नमो विश्वरूपाय ओङ्कारायाखिलात्मने । यमारभ्ये प्रवक्ष्यामि रेवातीर्थावलिं द्विजाः ॥ २३०.१० ॥ अस्मिन्मार्कण्डगदिते रेवातीर्थक्रमे शुभे । पुराणसंहिताध्याया मार्कण्डाश्रमवर्णनम् ॥ २३०.११ ॥ ततः प्रश्नाधिकारश्च प्रशंसा नर्मदोद्भवा । तथा पञ्चदशानां च प्रवाहानां प्रकीर्तनम् ॥ २३०.१२ ॥ नामनिर्वचनं तद्वत्तथा कल्पसमुद्भवाः । एकविंशतिकल्पानां तद्वन्नामानुकीर्तनम् ॥ २३०.१३ ॥ मार्कण्डेयानुभूतानां सप्तानां लक्षणानि च । माहात्म्यं चैव रेवायाः शिवविष्ण्वोस्तथैव च ॥ २३०.१४ ॥ संहारलक्षणं तद्वदोङ्कारस्य च सम्भवः । तथैवौंकारमाहात्म्यममरकण्टकीर्तनम् ॥ २३०.१५ ॥ अमरेश्वरतीर्थं च तथा दारुवनं महत् । दारुकेश्वरतीर्थं च तीर्थं वै चरुकेश्वरम् ॥ २३०.१६ ॥ चरुकासङ्गमस्तद्व्यद्वतीपातेश्वरं तथा । पातालेश्वरतीर्थं च कोटियज्ञाह्वयं तथा ॥ २३०.१७ ॥ वरुणेश्वरतीर्थं च लिङ्गान्यष्टोत्तरं शतम् । सिद्धेश्वरं यमेशं च ब्रह्मेश्वरमतः परम् ॥ २३०.१८ ॥ सारस्वतं चाष्टरुद्रं सावित्रं सोमसंज्ञितम् । शिवखातं महातीर्थं रुद्रावर्तं द्विजोत्तमाः ॥ २३०.१९ ॥ ब्रह्मावर्तं परं तीर्थं सूर्यावर्तमतः परम् । पिप्पलावर्ततीर्थं च पिप्पल्याश्चैव सङ्गमः ॥ २३०.२० ॥ अमरकण्टमाहात्म्यं कपिलासङ्गमस्तथा । विशल्यासम्भवश्चापि भृगुतुङ्गाद्रिकीर्तनम् ॥ २३०.२१ ॥ विशल्यासङ्गमः पुण्यः करमर्दासमागमः । करमर्देश्वरं तीर्थं चक्रतीर्थमनुत्तमम् ॥ २३०.२२ ॥ सङ्गमो नीलगङ्गायाः विध्वंसस्त्रिपुरस्य च । कीर्तनं तीर्थदानानां मधुकतृतीयाव्रतम् ॥ २३०.२३ ॥ अप्सरेश्वरतीर्थं च देहक्षेपे विधिस्ततः । तीर्थं ज्वालेश्वरं नाम ज्वालायाः सङ्गमस्तथा ॥ २३०.२४ ॥ शक्रतीर्थं कुशावर्तं हंसतीर्थं तथैव च । अम्बरीषस्य तीर्थं च महाकालेश्वरं तथा ॥ २३०.२५ ॥ मातृकेश्वरतीर्थं च भृगुतुङ्गानुवर्णनम् । तत्र भैरवमाहात्म्यं चपलेश्वरकीर्तनम् ॥ २३०.२६ ॥ चण्डपाणेश्च माहात्म्यं कावेरीसङ्गमस्तथा । कुबेरेश्वरतीर्थं च वाराहीसङ्गमस्तथा ॥ २३०.२७ ॥ सङ्गमश्चण्डवेगायास्तीर्थं चण्डेश्वरं तथा । एरण्डीसङ्गमः पुण्य एरण्डेश्वरमुत्तमम् ॥ २३०.२८ ॥ पितृतीर्थं च तत्रैव ओङ्कारस्य च सम्भवम् । माहात्म्यं पञ्चलिङ्गानामोङ्कारस्य मुनीश्वराः ॥ २३०.२९ ॥ कोटितीर्थस्य माहात्म्यं तीर्थं काकह्रदं तथा । जम्बुकेश्वरतीर्थं च सारस्वतमतः परम् ॥ २३०.३० ॥ कपिलासङ्गमस्तद्वत्तीर्थं च कपिलेश्वरम् । दैत्यसूदनतीर्थं च चक्रतीर्थं च वामनम् ॥ २३०.३१ ॥ तीर्थलक्षं विदुः पूर्वे कपिलायास्तु सङ्गमे । स्वर्गस्य नरकस्यापि लक्षणं मुनिभाषितम् ॥ २३०.३२ ॥ व्यवस्थानं शरीरस्य गोप्रदानानुवर्णनम् । अशोकवनिकातीर्थं मतङ्गाश्रमवर्णनम् ॥ २३०.३३ ॥ अशोकेश्वरतीर्थं च मतङ्गेश्वरमुत्तमम् । तथा मृगवनं पुण्यं तत्र तीर्थं मनोरथम् ॥ २३०.३४ ॥ सङ्गमोऽङ्गारगर्ताया अङ्गारेश्वरमुत्तमम् । तथा मेघवनं तीर्थं देव्या नामानुकीर्तनम् ॥ २३०.३५ ॥ सङ्गमश्चापि कुब्जायास्तीर्थं कुब्जेश्वरं तथा । बिल्वाम्रकं तथा तीर्थं पूर्णद्वीपमतः परम् ॥ २३०.३६ ॥ तथा हिरण्यगर्भायाः सङ्गमः पुण्यकीर्तनः । द्वीपेश्वरं नाम तीर्थं पुण्यं यज्ञेश्वरं तथा ॥ २३०.३७ ॥ माण्डव्याश्रमतीर्थं च विशोकासङ्गमस्तथा । वागीश्वरं नाम तीर्थं पुण्यो वै वागुसङ्गमः ॥ २३०.३८ ॥ सहस्रावर्तकं तत्र तीर्थं सौगन्धिकं तथा । सङ्गमश्च सरस्वत्या ईशानं तीर्थमुत्तमम् ॥ २३०.३९ ॥ देवतात्रयतीर्थं च शूलखातं ततः परम् । ब्रह्मोदं शाङ्करं सौम्यं सारस्वतमतः परम् ॥ २३०.४० ॥ सहस्रयज्ञतीर्थं च कपालमोचनं तथा । आग्नेयमदितीशं च वाराहं तीर्थमुत्तमम् ॥ २३०.४१ ॥ तथा देवपथं तीर्थं तीर्थं यज्ञसहस्रकम् । शुक्लतीर्थं दीप्तिकेशं विष्णुतीर्थं च योधनम् ॥ २३०.४२ ॥ नर्मदेश्वरतीर्थं च वरुणेशं च मारुतम् । योगेशं रोहिणीतीर्थं दारुतीर्थं च सत्तमाः ॥ २३०.४३ ॥ ब्रह्मावर्तं च पत्त्रेशं वाह्नं सौरं च कीर्त्यते । मेघनादं दारुतीर्थं देवतीर्थं गुहाश्रयम् ॥ २३०.४४ ॥ नर्मदेश्वरसंज्ञं तत्कपिलातीर्थमुत्तमम् । करञ्जेशं कुण्डलेशं पिप्पलादमतः परम् ॥ २३०.४५ ॥ विमलेश्वरतीर्थं च पुष्करिण्याश्च सङ्गमः । प्रशंसा शूलभेदस्य तत्रैवान्धकविक्रमः ॥ २३०.४६ ॥ देवाश्वासनदानं च तथैवान्धकनिग्रहः । शूलभेदस्य चोत्पत्तिस्तथा पात्रपरीक्षणम् ॥ २३०.४७ ॥ प्रशंसा दानधर्मस्य ऋषिशृङ्गानुभावनम् । स्वर्गतिं दीर्घतपसो भानुमत्यास्तथेङ्गितम् ॥ २३०.४८ ॥ शबरस्वर्गगमनं माहात्म्यं शूलभेदजम् । कपिलेश्वरतीर्थं च मोक्षतीर्थमतः परम् ॥ २३०.४९ ॥ सङ्गमो मोक्षनद्याश्च तीर्थं च विमलेश्वरम् । तथैवोलूकतीर्थं च पुष्करिण्याश्च सङ्गमः ॥ २३०.५० ॥ आदित्येश्वरतीर्थं च तीर्थं वै सङ्गमेश्वरम् । सङ्गमो भीमकुल्यायास्तीर्थं भीमेश्वरं शुभम् ॥ २३०.५१ ॥ मार्कण्डेश्वरतीर्थं च तथा वै पिप्पलेश्वरम् । करोटीश्वरतीर्थं च तीर्थमिन्द्रेश्वरं शुभम् ॥ २३०.५२ ॥ अगस्त्येशं कुमारेशं व्यासेश्वरमनुत्तमम् । वैद्यनाथं च केदारमानन्देश्वरसंज्ञितम् ॥ २३०.५३ ॥ मातृतीर्थं च मुण्डेशं चौरं कामेश्वरं तथा । सङ्गमश्चानुदुह्या वै तीर्थे भीमार्जुनाह्वये । तीर्थं धर्मेश्वरं नाम लुङ्केश्वरमतः परम् ॥ २३०.५४ ॥ ततो धनदतीर्थं च जटेशं मङ्गलेश्वरम् । कपिलेश्वरतीर्थं च गोपारेश्वरमुत्तमम् ॥ २३०.५५ ॥ मणिनागेश्वरं नाम मणिनद्याश्च सङ्गमः । तिलकेश्वरतीर्थं च गौतमेशमतः परम् ॥ २३०.५६ ॥ तत्रैव मातृतीर्थं च मुनिनोक्तं मुनीश्वराः । शङ्खचूडं च केदारं पाराशरमतः परम् ॥ २३०.५७ ॥ भीमेश्वरं च चन्द्रेशमश्ववत्याश्च सङ्गमः । बह्वीश्वरं नारदेशं वैद्यनाथं कपीश्वरम् ॥ २३०.५८ ॥ कुम्भेश्वरं च मार्कण्डं रामेशं लक्ष्मणेश्वरम् । मेघेश्वरं मत्स्यकेशमप्सराह्रदसंज्ञकम् ॥ २३०.५९ ॥ दधिस्कन्दं मधुस्कन्दं नन्दिकेशं च वारुणम् । पावकेश्वरतीर्थं च तथैव कपिलेश्वरम् ॥ २३०.६० ॥ नारायणाह्वयं तीर्थं चक्रतीर्थमनुत्तमम् । चण्डादित्यं परं तीर्थं चण्डिकातीर्थमुत्तमम् ॥ २३०.६१ ॥ यमहासाह्वयं तीर्थं तथा गङ्गेश्वरं शुभम् । नन्दिकेश्वरसंज्ञं च नरनारायणाह्वयम् ॥ २३०.६२ ॥ नलेश्वरं च मार्कण्डं शुक्लतीर्थमतः परम् । व्यासेश्वरं परं तीर्थं तत्र सिद्धेश्वरं तथा ॥ २३०.६३ ॥ कोटितीर्थं प्रभातीर्थं वासुकीश्वरमुत्तमम् । सङ्गमश्च करञ्जाया मार्कण्डेश्वरमुत्तमम् ॥ २३०.६४ ॥ तीर्थं कोटीश्वरं नाम तथा संकर्षणाह्वयम् । कनकेशं मन्मथेशं तीर्थं चैवानसूयकम् ॥ २३०.६५ ॥ एरण्डीसङ्गमः पुण्यो मातृतीर्थं च शोभनम् । तीर्थं स्वर्णशलाकाख्यं तथा चैवाम्बिकेश्वरम् ॥ २३०.६६ ॥ करञ्जेशं भारतेशं नागेशं मुकुटेश्वरम् । सौभाग्यसुन्दरी तीर्थं धनदेश्वरमुत्तमम् ॥ २३०.६७ ॥ रोहिण्यं चक्रतीर्थं च उत्तरेश्वरसंज्ञितम् । भोगेश्वरं च केदारं निष्कलङ्कमतः परम् ॥ २३०.६८ ॥ मार्कण्डं धौतपापं च तीर्थमाङ्गिरसेश्वरम् । कोटवीसङ्गमः पुण्यं कोटितीर्थं च तत्र वै ॥ २३०.६९ ॥ अयोनिजं परं तीर्थमङ्गारेश्वरमुत्तमम् । स्कान्दं च नार्मदं ब्राह्मं वाल्मीकेश्वरसंज्ञितम् ॥ २३०.७० ॥ कोटितीर्थं कपालेशं पाण्डुतीर्थं त्रिलोचनम् । कपिलेशं कम्बुकेशं प्रभासं कोहनेश्वरम् ॥ २३०.७१ ॥ इन्द्रेशं वालुकेशं च देवेशं शक्रमेव च । नागेश्वरं गौतमेशमहल्यातीर्थमुत्तमम् ॥ २३०.७२ ॥ रामेश्वरं मोक्षतीर्थं तथा कुशलवेश्वरौ । नर्मदेशं कपर्दीशं सागरेशमतः परम् ॥ २३०.७३ ॥ धौरादित्यं परं तीर्थं तीर्थं चापरयोनिजम् । पिङ्गलेश्वरतीर्थ च भृग्वीश्वरमनुत्तमम् ॥ २३०.७४ ॥ दशाश्वमेधिकं तीर्थं कोटितीर्थं च सत्तमाः । मार्कण्डं ब्रह्मतीर्थं च आदिवाराहमुत्तमम् ॥ २३०.७५ ॥ आशापूराभिधं तीर्थं कौबेरं मारुतं तथा । वरुणेशं यमेशं च रामेशं कर्कटेश्वरम् ॥ २३०.७६ ॥ शक्रेशं सोमतीर्थं च नन्दाह्रदमनुत्तमम् । वैष्णवं चक्रतीर्थं च रामकेशवसंज्ञितम् ॥ २३०.७७ ॥ तथैव रुक्मिणीतीर्थं शिवतीर्थमनुत्तमम् । जयवाराहर्तीर्थं च तीर्थमस्माहकाह्वयम् ॥ २३०.७८ ॥ अङ्गारेशं च सिद्धेशं तपेश्वरमतः परम् । पुनः सिद्धेश्वरं नामतीर्थं च वरुणेश्वरम् ॥ २३०.७९ ॥ पराशरेश्वरं पुण्यं कुसुमेशमनुत्तमम् । कुण्डलेश्वरतीर्थं च तथा कलकलेश्वरम् ॥ २३०.८० ॥ न्यङ्कुवाराहसंज्ञं च अङ्कोलं तीर्थमुत्तमम् । श्वेतवाराहतीर्थं च भार्गलं सौरमुत्तमम् ॥ २३०.८१ ॥ हुङ्कारस्वामितीर्थं च शुक्लतीर्थं च शोभनम् । सङ्गमो मधुमत्याश्च तीर्थं वै सङ्गमेश्वरम् ॥ २३०.८२ ॥ नर्मदेश्वरसंज्ञं च नदीत्रितयसङ्गमः । अनेकेश्वरतीर्थं च शर्भेशं मोक्षसंज्ञितम् ॥ २३०.८३ ॥ कावेरीसङ्गमः पुण्यस्तीर्थं गोपेश्वराह्वयम् । मार्कण्डेशं च नागेशमुदम्बर्याश्च सङ्गमः ॥ २३०.८४ ॥ साम्बादित्याह्वयं तीर्थमुदम्बर्याश्च सङ्गमः । सिद्धेश्वरं च मार्कण्डं तथा सिद्धेश्वरीकृतम् ॥ २३०.८५ ॥ गोपेशं कपिलेशं च वैद्यनाथमनुत्तमम् । पिङ्गलेश्वरतीर्थं च सैन्धवायतनं महत् ॥ २३०.८६ ॥ भूतीश्वराह्वयं तीर्थं गङ्गावाहमतः परम् । गौतमेश्वरतीर्थं च दशाश्वमेधिकं तथा ॥ २३०.८७ ॥ भृगुतीर्थं तथा पुण्यं ख्याता सौभाग्यसुन्दरी । वृषखातं च तत्रैव केदारं धूतपातकम् ॥ २३०.८८ ॥ तीर्थं धूतेश्वरीसङ्गमेरण्डीसंज्ञकं तथा । तीर्थं च कनकेश्वर्या ज्वालेश्वरं ततः परम् ॥ २३०.८९ ॥ शालग्रामाह्वयं तीर्थं सोमनाथमनुत्तमम् । तथैवोदीर्णवाराहं तीर्थं चन्द्रप्रभासकम् ॥ २३०.९० ॥ द्वादशादित्यतीर्थं च तथा सिद्धेश्वराभिधम् । कपिलेश्वरतीर्थं च तथा त्रैविक्रमं शुभम् ॥ २३०.९१ ॥ विश्वरूपाह्वयं तीर्थं नारायणकृतं तथा । मूलश्रीपतितीर्थं च चौलश्रीपतिसंज्ञकम् ॥ २३०.९२ ॥ देवतीर्थं हंसतीर्थ प्रभासं तीर्थमुत्तमम् । मूलस्थानं च कण्ठेशमट्टहासमतः परम् ॥ २३०.९३ ॥ भूर्भुवेश्वरतीर्थं च ख्याता शूलेश्वरी तथा । सारस्वतं दारुकेशमश्विनोस्तीर्थमुत्तमम् ॥ २३०.९४ ॥ सावित्रीतीर्थमतुलं वालखिल्येश्वरं तथा । नर्मदेशं मातृतीर्थं देवतीर्थमनुत्तमम् ॥ २३०.९५ ॥ मच्छकेश्वरतीर्थं च शिखितीर्थं च शोभनम् । कोटितीर्थं मुनिश्रेष्ठास्तत्र कोटीश्वरी मृडा ॥ २३०.९६ ॥ तीर्थं पैतामहं नाम माण्डव्ये श्वरसंज्ञितम् । तत्र नारायणेशं च अक्रूरेशमतः परम् ॥ २३०.९७ ॥ देवखातं सिद्धरुद्रं वैद्यनाथमनुत्तमम् । तथैव मातृतीर्थं च उत्तरेशमतः परम् ॥ २३०.९८ ॥ तथैव नर्मदेशां च मातृतीर्थं तथा पुनः । तथा च कुररीतीर्थं ढौण्ढेशं दशकन्यकम् ॥ २३०.९९ ॥ सुवर्णबिन्दुतीर्थं च ऋणपापप्रमोचनम् । भारभूतेश्वरं तीर्थं तथा मुण्डीश्वरं विदुः ॥ २३०.१०० ॥ एकशालं डिण्डिपाणिं तीर्थं चाप्सरसं परम् । मुन्यालयं च मार्कण्डं गणितादेवताह्वयम् ॥ २३०.१०१ ॥ आमलेश्वरतीर्थं च तीर्थं कन्थेश्वरं तथा । आषाढीतीर्थमित्याहुः शृङ्गीतीर्थं तथैव च ॥ २३०.१०२ ॥ बकेश्वरतीर्थं च कपालेशं तथैव च । मार्कण्डं कपिलेशं च एरण्डीसङ्गमस्तथा ॥ २३०.१०३ ॥ एरण्डीदेवतातीर्थं रामतीर्थमतःपरम् । जमदग्नेः परं तीर्थं रेवासागरसङ्गमः ॥ २३०.१०४ ॥ लोटनेश्वरतीर्थ तल्लुङ्केशनामकं तथा । वृषरखातं तत्र कुण्डं तथैव ऋषिसत्तमाः ॥ २३०.१०५ ॥ तथा हंसेश्वरंनाम तिलादं वासवेश्वरम् । तथा कोटीश्वरं तीर्थमलिकातीर्थमुत्तमम् । विमलेश्वरतीर्थं च रेवासागरसङ्गमे ॥ २३०.१०६ ॥ एवं तीर्थावलिः पुण्या मया प्रोक्ता महर्षयः । तीर्थसुक्तावलिः पुण्या ग्रथिता तटरज्जुना ॥ २३०.१०७ ॥ नर्मदानीरनिर्णिक्ता मार्कण्डेयविनिर्मिता । मण्डनायेह साधूनां सर्वलोकहिताय च ॥ २३०.१०८ ॥ दरितध्वान्तशमनीधार्या धर्मार्थिभिः सदा । अहोरात्रकृतं पापं सकृज्जप्त्वाशु नाशयेत् ॥ २३०.१०९ ॥ त्रिकालं जप्त्वा मासोत्थं शिवाग्रे च त्रिमासिकम् । मासं जप्त्वाथ वर्षोत्थं वर्षं जप्त्वा शताब्दिकम् ॥ २३०.११० ॥ श्राद्धकाले च विप्राणां भुञ्जतां पुरतः स्थितः । पठंस्तीर्थावलिं पुण्यां गयाश्राद्धप्रदो भवेत् ॥ २३०.१११ ॥ पूजाकाले च देवानां श्रद्धया पुरतः पठन् । प्रीणयेत्सर्वदेवांश्च पुनाति सकलं कुलम् ॥ २३०.११२ ॥ एवं तीर्थावलिः पुण्या रेवातीरद्वयाश्रिता । मया प्रोक्ता मुनिश्रेष्ठास्तथैवशृणुतानघाः ॥ २३०.११३ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थावलिकथनं त्रिंशदधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २३१ श्रीसूत उवाच - तथैव तीर्थस्तबकान् वक्ष्येऽहमृषिसत्तमाः । यैस्तु तीर्थावलीगुम्फः पूर्वोक्तैरेकतः कृतः ॥ २३१.१ ॥ विभक्तो भक्तलोकानामानन्दप्रथनः शुभः । मृकण्डतनयः पूर्वं प्राह पार्थाय पृच्छते ॥ २३१.२ ॥ यथा तथाहं वक्ष्यामि तीर्थानां स्तबकानिह । शिवाम्बुपानजा पुण्या रेवा कल्पलता किल ॥ २३१.३ ॥ तीरद्वयोद्भूततीर्थप्रसूनैः पुष्पिता शुभा । यत्पुण्यगन्धलक्ष्म्या वै त्रैलोक्यं सुरभीकृतम् ॥ २३१.४ ॥ तत्पुष्पमकरन्दस्य रसास्वादविदुत्तमः । भ्रमरः खलु मार्कण्डो मुनिर्मतिमतां वरः ॥ २३१.५ ॥ तत्पुष्पमालां हृदये तीर्थस्तबकचित्रिताम् । दधाति सततं पुण्यां मुनिर्भृगुकुलोद्वहः । तस्याः स्तबकसंस्थानं वक्ष्येऽहमृषिसत्तमाः ॥ २३१.६ ॥ ओङ्कारतीर्थमारभ्य यावत्पश्चिमसागरम् । संगमाः पञ्चत्रिंशद्वै नदीनां पापनाशनाः ॥ २३१.७ ॥ दशैकमुत्तरे तीरे सत्रिविंशति दक्षिणे । पञ्चत्रिंशत्तमः श्रेष्ठो रेवासागरसङ्गमः ॥ २३१.८ ॥ सङ्गमः सहितान्येवं रेवातीरद्वयेऽपि च । चतुःशतानि तीर्थानि प्रसिद्धानि द्विजोत्तमाः ॥ २३१.९ ॥ त्रिशतं शिवतीर्थानि त्रयीस्त्रिंशत्समन्वितम् । तत्रापि व्यक्तितो वक्ष्ये शृणुध्वं तानि सत्तमाः ॥ २३१.१० ॥ मार्कण्डेश्वरतीर्थानि दश तेषु मुनीश्वराः । दशादित्यभवान्यत्र नवैव कपिलेश्वराः ॥ २३१.११ ॥ सोमसंस्थापितान्यष्टौ तावन्तो नर्मदेश्वराः । कोटितीर्थान्यथाष्टौ च सप्त सिद्धेश्वरास्तथा ॥ २३१.१२ ॥ नागेश्वराश्च सप्तैव रेवातीरद्वयेऽपि तु । सप्तैव वह्निविहितान्यथाप्यावर्तसप्तकम् ॥ २३१.१३ ॥ केदारेश्वरतीर्थानि पञ्च पञ्चेन्द्रजानि च । वरुणेशाश्च पञ्चैव पञ्चैव धनदेश्वराः ॥ २३१.१४ ॥ देवतीर्थानि पञ्चैव चत्वारो वै यमेश्वराः । वैद्यनाथाश्च चत्वारश्चत्वारो वानरेश्वराः ॥ २३१.१५ ॥ अङ्गारेश्वरतीर्थानि तावन्त्येव मुनीश्वराः । सारस्वतानि चत्वारि चत्वारो दारुकेश्वराः ॥ २३१.१६ ॥ गौतमेश्वरतीर्थानि त्रीणि रामेश्वरास्त्रयः । कपालेश्वरतीर्थानि त्रीणि हंसकृतानि च ॥ २३१.१७ ॥ त्रीण्येव मोक्षतीर्थानि त्रयो वै विमलेश्वराः । सहस्रयज्ञतीर्थानि त्रीण्येव मुनिरब्रवीत् ॥ २३१.१८ ॥ भीमेश्वरास्त्रयः ख्याताः स्वर्णतीर्थानि त्रीणि च । धौतपापद्वयं प्रोक्तं करञ्जेशद्वयं तथा ॥ २३१.१९ ॥ ऋणमोचनतीर्थे द्वे तथा स्कन्देश्वरद्वयम् । दशाश्वमेधतीर्थे द्वे नन्दीतीर्थद्वयं द्विजाः ॥ २३१.२० ॥ मन्मथेशद्वयं चैव भृगुतीर्थद्वयं तथा । पराशरेश्वरौ द्वौ च अयोनीसंभवद्वयम् ॥ २३१.२१ ॥ व्यासेश्वरद्वयं प्रोक्तं पितृतीर्थद्वयं तथा । नन्दिकेश्वरतीर्थे द्वे द्वौ च गोपेश्वरौ स्मृतौ ॥ २३१.२२ ॥ मारुतेशद्वयं तद्वद्द्वौ च ज्वालेश्वरौ स्मृतौ । शुक्लतीर्थद्वयं पुण्यमप्सरेशद्वयं तथा ॥ २३१.२३ ॥ पिप्पलेश्वरतीर्थे द्वे माण्डव्येश्वरसंज्ञिते । द्वीपेश्वरद्वयं चैव प्राह तद्वद्भृगूद्वहः । उत्तरेश्वरतीर्थे द्वे अशोकेशद्वयी तथा ॥ २३१.२४ ॥ द्वे योधनपुरे चैव रोहिणीतीर्थकद्वयम् । लुङ्केश्वरद्वयं ख्यातमाख्यानं मुनिना तथा ॥ २३१.२५ ॥ सैकोनविंशतिशतं तीर्थान्येकैकशो द्विजाः । स्तबकेषु कृतं तीर्थं द्विशतं सचतुर्दशम् ॥ २३१.२६ ॥ शैवान्येतानि तीर्थानि वैष्णवानि च सत्तमाः । शृणुध्वं प्रोच्यमानानि ब्राह्मशाक्तानि च क्रमात् ॥ २३१.२७ ॥ अष्टविंशतितीर्थानि वैष्णवान्यब्रवीन्मुनिः । तेषु वाराहतीर्थानि षडेव मुनिसत्तमाः ॥ २३१.२८ ॥ चत्वारि चक्रतीर्थानि शेषाण्यष्टादशैव हि । विष्णुनाधिष्ठितान्येव प्राह पूर्वं मृकण्डजः ॥ २३१.२९ ॥ तथैव ब्रह्मणा सिद्ध्यै सप्ततीर्थान्यवीवदत् । त्रिषु च ब्रह्मणः पूजा ब्रह्मेशाश्चतुरोऽपरे । अष्टाविंशन्मया ख्याता यथासङ्ख्यं यथाक्रमम् ॥ २३१.३० ॥ एतत्पवित्रमतुलं ह्येतत्पापहरं परम् । नर्मदाचरितं पुण्यं माहात्म्यं मुनिभाषितम् ॥ २३१.३१ ॥ सूत उवाच - एवमुद्देशतः प्रोक्तो रेवातीर्थक्रमो मया । यथा पार्थाय संक्षेपान्मार्कण्डो मुनिरब्रवीत् ॥ २३१.३२ ॥ अवान्तराणि तीर्थानि तेषु गुप्तान्यनेकशः । यत्र यावत्प्रमाणानि तान्याकर्णयतानघाः ॥ २३१.३३ ॥ ओङ्कारतीर्थपरितः पर्वतादमरकण्टात् । क्रोशद्वये सर्वदिक्षु सार्धकोटीत्रयी मता ॥ २३१.३४ ॥ तीर्थानां संख्यया गुप्तप्रकटानां द्विजोत्तमाः । कोटिरेका तु तीर्थानां कपिलासङ्गमे पृथक् ॥ २३१.३५ ॥ अशोकवनिकायाश्च तीर्थं लक्षं प्रतिष्ठितम् । शतमं गारगर्तायाः सङ्गमे मुनिसत्तमाः ॥ २३१.३६ ॥ तीर्थानामयुतं तद्वत्कुब्जायाः सङ्गमे स्थितम् । शतं हिरण्यगर्भायाः सङ्गमे समवस्थितम् ॥ २३१.३७ ॥ तीर्थानामष्टषष्टिश्च विशोकासङ्गमे स्थिता । तथा सहस्रं तीर्थानां संस्थितं वागुसङ्गमे ॥ २३१.३८ ॥ शतं सरस्वतीसङ्गे शुक्लतीर्थे शतद्वयम् । सहस्रं विष्णुतीर्थेषु महिष्मत्यामथायुतम् ॥ २३१.३९ ॥ शूलभेदे च तीर्थानां साग्रं लक्षं स्थितं द्विजाः । देवग्रामे सहस्रं च तीर्थानां मुनिरब्रवीत् ॥ २३१.४० ॥ लुङ्केश्वरे च तीर्थानां साग्रा सप्तशती स्थिता । तीर्थान्यष्टोत्तरशतं मणिनद्याश्च सङ्गमे । वैद्यनाथे च तीर्थानां शतमष्टाधिकं विदुः ॥ २३१.४१ ॥ एवं तावत्प्रमाणानि तीर्थे कुम्भेश्वरे द्विजाः । साग्रं लक्षं च तीर्थानां स्थितं रेवोरसङ्गमे ॥ २३१.४२ ॥ ततश्चाप्यधिकानि स्युरिति मार्कण्डभाषितम् । अष्टाशीतिसहस्राणि व्यासद्वीपाश्रितानि च ॥ २३१.४३ ॥ सङ्गमे च करञ्जायाः स्थितमष्टोत्तरायुतम् । एरण्डीसङ्गमे तद्वत्तीर्थान्यष्टाधिकं शतम् ॥ २३१.४४ ॥ धूतपापे च तीर्थानां षष्टिरष्टाधिका स्थिता । स्कन्दतीर्थे शतं पुण्यं तीर्थानां मुनिरुक्तवान् ॥ २३१.४५ ॥ कोहनेश च तीर्थानां षष्टिरष्टाधिका स्थिता । सार्धकोटी च तीर्थानां स्थिता वै कोरिलापुरे ॥ २३१.४६ ॥ रामकेशवतीर्थे च सहस्रं साग्रमुक्तवान् । अस्माहके सहस्रं च तीर्थानि निवसन्ति हि ॥ २३१.४७ ॥ लक्षाष्टकं सहस्रे द्वे शुक्लतीर्थे द्विजोत्तमाः । तीर्थानि कथयामास पुरा पार्थाय भार्गवः ॥ २३१.४८ ॥ शतमष्टाधिकं प्राह प्रत्येकं सङ्गमेषु च । नदीनामवशिष्टानां कावेरीसङ्गमं विना ॥ २३१.४९ ॥ कावेर्याः सङ्गमे विप्राः स्थिता पञ्चशती तथा । तीर्थानां पर्वसु तथा विशेषो मुनिनोदितः ॥ २३१.५० ॥ मोक्षतीर्थं हि सत्प्राहुः पुराणपुरुषाश्रितम् । भृगोः क्षेत्रे च तीर्थानां कोटिरेका समाश्रिता ॥ २३१.५१ ॥ साधिकानामृषिश्रेष्ठा वक्तुं शक्तो हि को भवेत् । सर्वामराश्रयं प्रोक्तं सर्वतीर्थाश्रयं तथा ॥ २३१.५२ ॥ त्रिषु लोकेषु विख्यातं पूजितं सिद्धिसाधनम् । भारभूत्यां च तीर्थानां स्थितमष्टोत्तरं शतम् ॥ २३१.५३ ॥ अक्रूरेश्वरतीर्थे च सार्धं तीर्थशतं स्थितम् । विमलेश्वरतीर्थे तु रेवासागरसङ्गमे । दशायुतानि तीर्थानां साधिकान्यब्रवीन्मुनिः ॥ २३१.५४ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थसंख्यापरिगणनवर्णनं नामैकत्रिंशदधिकद्विशततमोऽध्यायः ॥ ऋKV अध्याय २३२ सूत उवाच - इति वः कथितं विप्रा रेवामाहात्म्यमुत्तमम् । यथोपदिष्टं पार्थाय मार्कण्डेयेन वै पुरा ॥ २३२.१ ॥ तथा तीर्थकदम्बाश्च तेषु तीर्थविशेषतः । प्राधान्येन मया ख्याता यथासङ्ख्यं यथाक्रमम् ॥ २३२.२ ॥ एतत्पवित्रमतुलं ह्येतत्पापहरं परम् । नर्मदाचरितं पुण्यं माहात्म्यं मुनिभाषितम् ॥ २३२.३ ॥ सप्तकल्पानुगो विप्रो नर्मदायां मुनीश्वराः । मृकण्डतनयो धीमान्परमार्थविदुत्तमः ॥ २३२.४ ॥ संसेव्य सर्वतीर्थानि नदीः सर्वाश्च वै पुरा । बहुकल्पस्मरां रेवामालक्ष्य शिवदेहजाम् ॥ २३२.५ ॥ मे कलेति च शर्वोक्तां शरणं शर्वजां ययौ । अजराममरां देवीं दैत्यध्वंसकरीं पराम् ॥ २३२.६ ॥ महाविभवसंयुक्तां भवघ्नीं भवजाह्नवीम् । तस्यामाबध्य सत्प्रेम जातः सोऽप्यजरामरः ॥ २३२.७ ॥ षष्टितीर्थसहस्राणि षष्टिकोट्यश्च सत्तमाः । व्यवस्थितानि रेवायास्तीरयुग्मे पदे पदे ॥ २३२.८ ॥ सारितः परितः सन्ति सतीर्थास्तु सहस्रशः । न तुलां यान्ति रेवायास्ताश्च मन्ये मुनीश्वराः ॥ २३२.९ ॥ एतद्वः कथितं सर्वं यत्पृष्टमखिलं द्विजाः । यन्महेशमुखाच्छ्रुत्वा वायुराह ऋषीन्प्रति ॥ २३२.१० ॥ तद्वन्मृकण्डतनयोऽप्यनुभूयाखिलां नदीम् । सतीर्थां पदशः प्राह पाण्डुपुत्राय पावनीम् ॥ २३२.११ ॥ एतच्च कथितं सर्वं संक्षेपेण द्विजोत्तमाः । नर्मदाचरितं पुण्यं त्रिषु लोकेषु दुर्लभम् ॥ २३२.१२ ॥ किमन्यैः सरितां तोयैः सेवितैस्तु सहस्रशः । यदि संसेव्यते तोयं रेवायाः पापनाशनम् ॥ २३२.१३ ॥ मेकलाजलसंसेवी मुक्तिमाप्नोति शाश्वतीम् ॥ २३२.१४ ॥ यथा यथा भजेन्मर्त्यो यद्यदिच्छति तीर्थगः । तत्तदाप्नोति नियतं श्रद्धयाश्रद्धयापि च ॥ २३२.१५ ॥ इदं ब्रह्मा हरिरिदमिदं साक्षात्परो हरः । इदं ब्रह्म निराकारं कैवल्यं नर्मदाजलम् ॥ २३२.१६ ॥ तावद्गर्जन्ति तीर्थानि नद्यो हृदयफलप्रदाः । यावन्न स्मर्यते रेवा सेवाहेवा कलौ नरैः ॥ २३२.१७ ॥ ध्रुवं लोके हितार्थाय शिवेन स्वशरीरतः । शक्तिः कापि सरिद्रूपा रेवेयमवतारिता ॥ २३२.१८ ॥ तावद्गर्जन्ति यज्ञाश्च वनक्षेत्रादयो भृशम् । यावन्न नर्मदानामकीर्तनं क्रियते कलौ ॥ २३२.१९ ॥ गरिमा गाण्यते तावत्तपोदानव्रतादिषु । नरैर्वा प्राप्यते यावद्भुवि भर्गभवा धुनी ॥ २३२.२० ॥ ये वसन्त्युत्तरे कूले रुद्रस्यानुचरा हि ते । वसन्ति याम्यतीरे ये लोकं ते यान्ति वैष्णवम् ॥ २३२.२१ ॥ धन्यास्ते देशवर्यास्ते येषु देशेषु नर्मदा । नरकान्तकरी शश्वत्संश्रिता शर्वनिर्मिता ॥ २३२.२२ ॥ कृतपुण्याश्च ते लोकाः शोकाय न भवन्ति ते । ये पिबन्ति जलं पुण्यं पार्वतीपतिसिन्धुजम् ॥ २३२.२३ ॥ इदं पवित्रमतुलं रेवायाश्चरितं द्विजाः । शृणोति यः कीर्तयते मुच्यते सर्वपातकः ॥ २३२.२४ ॥ यत्फलं सर्ववेदैश्च सषडङ्गपदक्रमैः । श्रुतैश्च पठितैस्तस्मात्फलमष्टगुणं भवेत् ॥ २३२.२५ ॥ सत्रयाजी फलं यच्च लभते द्वादशाब्दिकम् । श्रुत्वा सकृच्च रेवायाश्चरितं तत्फलं लभेत् ॥ २३२.२६ ॥ सर्वतीर्थावगाहाच्च यत्फलं सागरादिषु । सकृच्छ्रुत्वा च माहात्म्यं रेवायास्तत्फलं लभेत् ॥ २३२.२७ ॥ एतद्धर्म्यमुपाख्यानं सर्वशास्त्रेष्वनुत्तमम् । देशे वा मण्डले वापि नगरे ग्राममध्यतः ॥ २३२.२८ ॥ गृहे वा तिष्ठते यस्य लिखितं सार्ववार्णिकम् । स ब्रह्मा स शिवः साक्षात्स च देवो जनार्दनः ॥ २३२.२९ ॥ धर्मार्थकाममोक्षाणां मार्गेऽयं देवसेवितः । गुरूणां च गुरुः शास्त्रं परमं सिद्धिकारणम् ॥ २३२.३० ॥ यश्चेदं शृणुयान्नित्यं पुराणं देवभाषितम् । ब्राह्मणो वेदवान्भूयात्क्षत्रियो विजयी भवेत् ॥ २३२.३१ ॥ धनाढ्यो जायते वैश्यः शूद्रो वै धर्मभाग्भवेत् ॥ २३२.३२ ॥ सौभाग्यसन्ततिं नारी श्रुत्वैतत्समवाप्नुयात् । श्रियं सौख्यं स्वर्गवासं जन्म चैवोत्तमे कुले ॥ २३२.३३ ॥ रसभेदी कृतघ्नश्च स्वामिध्रुङ्मित्रवञ्चकः । गोघ्नश्च गरदश्चैव कन्याविक्रयकारकः ॥ २३२.३४ ॥ ब्रह्मघ्नश्च सुरापी च स्तेयी च गुरुतल्पगः । नर्मदाचरितं शृण्वंस्तामब्दं योऽभिषेवते ॥ २३२.३५ ॥ सर्वपापविनिर्मुक्तो जायते नात्र संशयः । पाकभेदी वृथापाकी देवब्राह्मणनिन्दकः ॥ २३२.३६ ॥ परीवादी गुरोः पित्रोः साधूनां नृपतेस्तथा । तेऽपि श्रुत्वा च पापेभ्यो मुच्यन्ते नात्र संशयः ॥ २३२.३७ ॥ ये पुनर्भावितात्मानः शस्त्रं शृण्वन्ति नित्यशः । पूजयन्ति च तच्छास्त्रं नार्मदं वस्त्रभूषणैः ॥ २३२.३८ ॥ पुष्पैः फलैश्चन्दनाद्यैर्भोजनैर्विविधैरपि । शास्त्रेऽस्मिन्पूजिते देवाः पूजिता गुरवस्तथा ॥ २३२.३९ ॥ इह लोके परे चैव नात्र कार्या विचारणा । तस्मात्सर्वप्रयत्नेन गन्धवस्त्रादिभूषणैः ॥ २३२.४० ॥ पूजयेत्परया भक्त्या वाचकं शास्त्रमेव च । वेदपाठैश्च यत्पुण्यमग्निहोत्रैश्च पालितैः ॥ २३२.४१ ॥ तत्फलं समवाप्नोति नर्मदाचरिते शुभे । कुरुक्षेत्रे च यत्पुण्यं प्रभासे पुष्करे तथा ॥ २३२.४२ ॥ रुद्रावर्ते गयायां च वाराणस्यां विशेषतः । गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥ २३२.४३ ॥ एवमादिषु तीर्थेषु यत्पुण्यं जायते नृणाम् । नर्मदाचरितं श्रुत्वा तत्पुण्यं सकलं लभेत् ॥ २३२.४४ ॥ आदिमध्यावसानेषु नर्मदाचरितं शुभम् । यः शृणोति नरो भक्त्या शृणुध्वं तत्फलं महत् ॥ २३२.४५ ॥ समाप्य शिवसंस्थानं देवकन्यासमावृतः । रुद्रस्यानुचरो भूत्वा शिवेन सह मोदते ॥ २३२.४६ ॥ धर्माख्यानमिदं पुण्यं सर्वाख्यानेष्वनुत्तमम् । गृहेऽपि पठ्यते यस्य चतुर्वर्णस्य सत्तमाः ॥ २३२.४७ ॥ धन्यं तस्य गृहं मन्ये गृहस्थं चापि तत्कुलम् । पुस्तकं पूजयेद्यस्तु नर्मदाचरितस्य तु ॥ २३२.४८ ॥ नर्मदा पूजिता तेन भगवांश्च महेश्वरः । वाचके पूजिते तद्वद्देवाश्च ऋषयोऽर्चिताः ॥ २३२.४९ ॥ लेखयित्वा च सकलं रेवाचरितमुत्तमम् । भूषणं सर्वशास्त्राणां यो ददाति द्विजन्मने ॥ २३२.५० ॥ नर्मदासर्वतीर्थेषु स्नानदानेन यत्फलम् । तत्फलं समवाप्नोति स नरो नात्र संशयः ॥ २३२.५१ ॥ एतत्पुराणं रुद्रोक्तं महापुण्यफलप्रदम् । स्वर्गदं पुत्रदं धन्यं यशस्यं कीर्त्तिवर्धनम् ॥ २३२.५२ ॥ धर्म्यमायुष्यमतुलं दुःखदुःस्वप्ननाशनम् । पठतां शृण्वतां चापि सर्वकामार्थसिद्धिदम् ॥ २३२.५३ ॥ यत्प्रदत्तमिदं पुण्यं पुराणं वाच्यते द्विजैः । शिवलोके स्थितिस्तस्य पुराणाक्षरवत्सरी ॥ २३२.५४ ॥ इति निगदितमेतन्नर्मदायाश्चरित्रं पवनगदितमग्र्यं शर्ववक्त्रादवाप्य । त्रिभुवनजनवन्द्यं त्वेतदादौ मुनीनां कुलपतिपुरतस्तत्सूतमुख्येन साधु ॥ २३२.५५ ॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवाखण्डसमाप्तिरेवाखण्डपुस्तकदानादिमाहात्म्यवर्णनं नाम द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥