अथ श्रीवामनपुराणम् नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् । त्रैलोक्यराज्यमाक्षिप्य बलेरिन्द्राय यो ददौ । श्रीधराय नमस्तस्मै छद्मवामनरूपिणे ॥ १.१ ॥ पुलस्त्यमुषिमासीनमाश्रमे वाग्विदां वरम् । नारदः परिपप्रच्छ पुराणं वामनाश्रयम् ॥ १.२ ॥ कथं भगवता ब्रह्मन् विष्णुना प्रभविष्णुना । वामनत्वं धृतं पूर्वं तन्ममाचक्ष्व पृच्छतः ॥ १.३ ॥ कथं च वैष्णवनो भूत्वा प्रह्लादो दैत्यसत्तमः । त्रिदशैर्युयुधे सार्थमत्र मै संशयो महान् ॥ १.४ ॥ श्रूयते च द्विजश्रेष्ठ दक्षस्य दुहिता सती । शङ्करस्य प्रिया भार्या बभुव वरवर्णिनी ॥ १.५ ॥ किमर्थं सा परित्यज्य स्वरीरं वरानना । जाता हिमवतो गेहे गिरीन्द्रस्य महात्मनः ॥ १.६ ॥ पुनश्च देवदेववस्य पत्नीत्वमगमच्छुभा । एतन्मे संशयं छिन्धि सर्ववित्त्वं मतोऽसि मे ॥ १.७ ॥ तीर्थानां चैव माहात्म्यं दानानां चैव सत्तम । व्रतानां विविधानां च विधिमाचक्ष्व मे द्विज ॥ १.८ ॥ एवभुक्तो नारदेन पुलस्त्यो सुनिसत्तमः । प्रोवाच वदतां श्रेष्ठो नारदं तपसो निधिम ॥ १.९ ॥ पुलस्त्य उवाच । पुराणं वामनं वक्ष्ये क्रमान्निखिलमादितः । अवधानं स्थिरं कृत्वा शृणुष्व मुनिसत्त्म ॥ १.१० ॥ पुरा हैमवती देवी मन्दरस्थं महेश्वरम् । उवाच वचनं दृष्ट्वा ग्रीष्मकालमुपस्थितम् ॥ १.११ ॥ ग्रीष्मः प्रवृत्तो देवेश न च ते विद्यते गृहम् । यत्र वातातपौ ग्रीष्मे स्थितयोर्नौ गमिष्यतः ॥ १.१२ ॥ एवमुक्तो भवान्या तु शङ्करो वाक्यमब्रवीत् । निराश्रयोऽहं सुदती सदारण्यचरः शुभे ॥ १.१३ ॥ इत्युक्ता शङ्करेणाथ वृक्षच्छायासु नारद । निदाघकालमनयत्समं शर्वेण सा सती ॥ १.१४ ॥ निदाघान्ते समुद्रभूतो निर्जनाचरितोऽद्भुतः । घनान्धकारिताशो वै प्रावृट्कालोषतिरागवान् ॥ १.१५ ॥ तं दृष्ट्वा दक्षतनुजा प्रावृट्कालमुपस्थितम् । प्रोवाच वाक्यं देवेशं सती सप्रणयं तदा ॥ १.१६ ॥ विवान्ति वाता हृदयावदारणा गर्जन्त्यमी लोयधरा महेश्वर । स्फुरन्ति नीलाभ्रगणेषु विद्युतो वाशन्ति केकारवमेव बर्हिणः ॥ १.१७ ॥ पतन्ति धारा गगनात्परिच्युता बका बलाकाश्च सरन्ति तोयदान् । कदम्बसर्ज्जार्जुनकेतकीद्रुमाः पुष्पाणि मुञ्चन्ति सुमारुताहताः ॥ १.१८ ॥ श्रुत्वैव मघस्य दृढं तु गर्जितं त्यजन्ति हंसाश्च सरांसि तत्क्षणात् । यथाश्रयान् योगिगणः समन्तात्प्रवृद्धमूलानपि संत्यजन्ति ॥ १.१९ ॥ इमानि यूथानि वने मृगाणां चरन्ति धावन्ति रमन्ति शंभो । तथाचिराभाः सुतरां स्फुरन्ति पश्येह नीलेषु घनेषु देव । नूनं समृद्धिं सलिलस्य दृष्ट्वा चरन्ति शूरास्तरुणद्रुमेषु ॥ १.२० ॥ उद्वत्त्वेगाः सहसैव निम्नगा जाताः शशङ्काङ्कितचारुमैले । किमत्र चित्रं यदनुज्ज्वलं जनं निषेव्य योषिद्भवति त्वशीला ॥ १.२१ ॥ नीलैश्च मेघैश्च समावृतं नभः पुष्षैश्च सर्ज्जा मुकुलैश्च नीपाः । फलैश्च बिल्वाः पयसा तथापगाः पत्रैः सपद्मैश्च महासरांसि ॥ १.२२ ॥ काले सुरौद्रे ननु ते ब्रवीमि । गृहं कुरुष्वात्र महाचजलोत्तमे सुनिर्वृता येन भवामि शंभो ॥ १.२३ ॥ इत्थं त्रिनेत्रः श्रुतिरामणीयकं श्रुत्वा वचो वाक्यमिदं बभाषे । न मेऽस्ति वित्तं गृहसंचयार्थे मृगारिचर्मावरणं मम प्रिये ॥ १.२४ ॥ ममोपवीतं भुजगेश्वरः शुभे कर्णेऽपि पद्मश्च तथैव पिङ्गलः । केयूरमेकं मम कम्बलस्त्वहिर्द्वितीयमन्यो भुजगो धनञ्जयः ॥ १.२५ ॥ सव्येतरे तक्षक उत्तरे तथा । नीलोऽपि नीलाञ्जनतुल्यवर्णः श्रोणीतटे राजति सुप्रतिष्ठः ॥ १.२६ ॥ पुलस्त्य उवाच । इति वचनमथोग्रं शङ्करात्सा मृडानी ऋतमपि तदसत्यं श्रीमदाकर्ण्य भीता । अवनितसमवेक्ष्य स्वामिनो वासकृच्छ्रात्परिवदति सरोषं लज्जयोच्छ्वस्य चोष्म् ॥ १.२७ ॥ देव्युवाच । कथं हि देवदेवेश प्रावट्कालो गमिष्यति । वृक्षमूले स्थिताया मे सुदुःखेन वदाम्यतः ॥ १.२८ ॥ शङ्कर उवाच । घनावस्थितदेहायाः प्रावृट्घनखण्डमुन्नतमारुह्य तस्थौ सह दक्षकन्यया । ततोऽभवन्नाम तेदश्वरस्य जीमूतकेतुस्त्विति विश्रुतं दिवि ॥ १.३० ॥ इति श्रीवामनपुराणे प्रथमोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच ततस्त्रिनेत्रस्य गतः प्रावृट्कालो घनोपरि । लोकान्न्दकरी रम्या शरत्समभवन्मुने ॥ २.१ ॥ त्यजन्ति नीलाम्बुधरा नभस्तलं वृक्षांश्च कङ्काः सरितस्तटानि । पद्माः सुगन्धं निलयानि वायसा रुरुर्विषाणं कलुषं जलाशयः ॥ २.२ ॥ विकासमायन्ति त पङ्काजानि चन्द्रांशवो भान्ति लताः सुपुष्पाः । नन्दन्ति हृष्टान्यपि गोकुलानि सन्तश्च संतोषमनुव्रजन्ति ॥ २.३ ॥ सरस्सु पद्म गगने च तारका जलाशयेष्वेव तथा पयांसि । सतां च चित्तं हि दिशां मुखैः समं वैमल्यमायान्ति शशङ्ककान्तयः ॥ २.४ ॥ ए तादृशे हरः काले मघपृष्ठाधिवासिनीम् । सतीमादाय शैलेन्द्रं मन्दरं समुपाययौ ॥ २.५ ॥ ततो मन्दरपृष्ठेऽसौ स्थितः समशिलातले । रराम शंभुर्भगवान् सत्या सह महाद्युतिः ॥ २.६ ॥ ततो व्यतीते शरदि प्रतिबुद्धे च केशवे । दक्षः प्रजापतिश्रेष्ठो यष्टुमारभत क्रतुम् ॥ २.७ ॥ द्वादशेव स चादित्याञ्शक्रादींश्च सुरोत्तमान् । सकश्यपान् समामन्त्र्य सदस्यान् समचीकरत् ॥ २.८ ॥ अरुन्धत्य च सहितं वसिष्ठं शंसितव्रतम् । सहानसूययात्रिं च सह धृत्या च कौशिकम् ॥ २.९ ॥ अहल्यया गौतमं च भरद्वाजममायया । चन्द्रया सहितं ब्रह्मन्नृषिमङ्गीरसं तथा ॥ २.१० ॥ आमन्त्र्य कृतावान्दक्षः सदस्यान् यज्ञसंसदि । विद्वान् गुणसंपन्नान् वेदवेदाड्गपारगान् ॥ २.११ ॥ धर्मं च स समाहूय भार्ययाहिंसया सह । निमन्त्र्य यज्ञवाटस्य द्वारपालत्वमादिशत् ॥ २.१२ ॥ अरिष्टनेमिनं चक्रे इध्माहरणकारिणम् । भृगुं च मन्त्रसंस्कारे सम्यग्दक्षं प्रयुक्तवान् ॥ २.१३ ॥ तथा चन्द्रमसं देवं रोहिण्या सहितं शुचिम् । धनानामाधिपत्ये च युक्तवान् हि प्रजापतिः ॥ २.१४ ॥ जामातृदुहितृश्वैव दौहित्रांश्च प्रजापतिः । सशङ्करां सतीं मुक्त्वा मखे सर्वान्न्यमन्त्रयत् ॥ २.१५ ॥ नारद उवाच किमर्थं लोकपतिना धनाध्यक्षो महेश्वरः । ज्येष्ठः श्रेष्ठो वरिष्ठोऽपि आद्योऽपि न निमन्त्रितः ॥ २.१६ ॥ पुलस्त्य उवाच ज्येष्ठः श्रेष्ठो वरिष्ठोऽपि आद्योऽपि भगवाञ्शिवः । कपालीलि विदित्वेशो दक्षेण न निमन्त्रितः ॥ २.१७ ॥ नारद उवाच किमर्थं देवताश्रेष्ठः शूलपाणिस्त्रिलोचनः कपाली भगवाञ्जातः कर्मणा केन शङ्करः ॥ २.१८ ॥ शृणुष्वावहितो भूत्वा कथामेतां पुरातनीम् । प्रोक्तमादिपुराणे च ब्रह्मणाव्यक्तमूर्त्तिना ॥ २.१९ ॥ पुरा त्वेकार्णवं सर्वं जगत्स्थावरजङ्गमम् । नष्टटन्द्रार्कनक्षत्रं प्रणष्टपवनानलम् ॥ २.२० ॥ अप्रतर्क्यमविज्ञेयं भावाभावविवर्जितम् । निमग्नुपर्वततरु तमोभूतं सुदुर्दसम् ॥ २.२१ ॥ तस्मिन् स शेते भगवान्निद्रां वर्षसहस्रिकीम् । रात्र्यन्ते सृजते लोकान् राजसं रूपास्थितः ॥ २.२२ ॥ राजसः पञ्चवदनो वेदवेदाङ्गपारगः । स्रष्टा चराचरस्यास्य जगतोऽद्भुतदर्शनः ॥ २.२३ ॥ तमोमयस्तथैवान्यः समुद्भूतस्त्रिलोचनः । शूलपाणिः कपर्द्दी च अक्षमालां च दर्शयन् ॥ २.२४ ॥ ततो महात्मा ह्यसृजदहङ्कारं सुदारुणम् । येनाक्रान्तावुभौ देवौ तावेव ब्रह्मशङ्करौ ॥ २.२५ ॥ अहङ्कारावृतो रुद्रः प्रत्युवाच पितामहम् । को भवानिह संप्राप्तः केन सृष्टोऽसि मां वद ॥ २.२६ ॥ पितामहोऽप्यहङ्कारात्प्रत्युवाचाथ को भवान् । भवतो जनकः कोऽत्र जननी वा तदुच्यताम् ॥ २.२७ ॥ इत्यन्योन्यं पुरा ताभ्यां ब्रह्मेशाभ्यां कलिप्रिय । परिवादोऽभवत्तत्र उत्पत्तिर्भवतोऽभवत् ॥ २.२८ ॥ भवान्प्यन्तरिक्षं हि जातमात्रस्तदोत्पतत् । धारयन्नतुलां वीणां कुर्वन् किलकिलाध्वनिम् ॥ २.२९ ॥ ततो विनिर्जितः शंभुर्मानिना पद्मयोनिना । तस्थावधोमुखो दीनो ग्रहाक्रान्तो यथा शशी ॥ २.३० ॥ पराजिते लोकपतौ देवेन परमेष्षिना । क्रोधान्धकारितं रुद्रं पञ्चमोऽथ मुखोऽब्रोवीत् ॥ २.३१ ॥ अहं ते प्रतिजानामि तमोमूर्तो त्रिलोचन । दिग्वासा वृषभारूढो लोकक्षयकरो भवान् ॥ २.३२ ॥ इत्युक्ताः शङ्करः क्रुद्धो वदनं घोरचक्षुषा । निर्दग्धुकामस्त्वनिशं ददर्श भगवानजः ॥ २.३३ ॥ ततस्त्रिनेत्रस्य समुद्भवन्ति वक्त्राणि पञ्चाथ सुदर्शनानि । श्वेतं च रक्तं कनकावदातं नीलं तथा पिङ्गजटं च शुभ्रम् ॥ २.३४ ॥ वक्त्राणि दृष्ट्वार्ऽकसमानि सद्यः पैतामहं वक्त्रमुवाच वाक्यम् । समाहतस्याथ जलस्य बुद्बुदा भवन्ति किं तेषु पराक्रमोऽस्ति ॥ २.३५ ॥ तच्छ्रुत्वा क्रोधयुक्तेन शङ्करेण महात्मना । नखाग्रेण शिरश्छिन्नं ब्राह्मं परुषवादिनम् ॥ २.३६ ॥ तच्छिन्नं शङ्करस्यैव सव्ये करतलेऽपतत् । पतते न कदाचिच्च तच्छङ्करकराच्छिरः ॥ २.३७ ॥ अथ क्रोधावृतेनापि ब्रह्मणाद्भुवतकर्मणा । सृष्टस्तु पुरुषो धीमान् कवची कुण्डली शरी ॥ २.३८ ॥ धनुष्पाणिर्महाबाहुर्बाणशक्तिधरोऽव्ययः । चतुर्भुजो महातूणी आदित्यसमदर्शनः ॥ २.३९ ॥ स प्राह गच्छ दुर्बुद्धे मा त्वां शूलिन्निपातये । भवान् पापसमायुक्तः पापिष्ठं को जिघांसति ॥ २.४० ॥ इत्युक्ताः शेकरस्तेन पुरुषेण महात्मना । त्रपायुक्तो जगामाथ रुद्रो बदरिकाश्रमम् ॥ २.४१ ॥ नरनारायणस्थानं पर्वते हि हिमाश्रये । सरस्वती यत्र पुण्या स्तन्दने सरितां वरा ॥ २.४२ ॥ तत्र गत्वा च तं दृष्ट्वा नारायणमुवाच ह । भिक्षां प्रयच्छ भगवन्महाकापालिकोऽस्मि भोः ॥ २.४३ ॥ इत्युक्तो धर्मपुत्रस्तु रुद्रं वचनमब्रवीत् । सव्यं भुजं ताडयस्व त्रिशूलेन महेश्वर ॥ २.४४ ॥ नारायणवचः श्रुत्वा त्रिशूलेन त्रिलोचनः । सव्यं नारायणभुजं ताडयामास वेगवान् ॥ २.४५ ॥ त्रिशूलाभिहतान्मार्गात्तिस्रो धारा विनिर्ययुः । एका गगनमाक्रम्य स्थिता ताराभिमम्डिता ॥ २.४६ ॥ द्वितीया न्यपतद्भूमौ तां जग्राह तपोधनः । अत्रिस्तस्मात्समुद्भूतो दुर्वासाः शङ्करांशतः ॥ २.४७ ॥ तृतीया न्यपतद्धारा कपाले रौद्रदर्शने । तस्माच्छिशुः समभवत्संनद्धकवचो युवा ॥ २.४८ ॥ श्यामावदातः शरचापपाणिर्गर्जन्यथा प्रावृषि तोयदोऽसौ । इत्थं ब्रुवन् कस्य विशातयामि स्कन्धाच्छिरस्तालफलं यथैव ॥ २.४९ ॥ तं शकरोऽभ्येत्य वचो वभाषे नरं हि नारायणबाहुजातम् । निपातयैनं नर दुष्टवाक्यं ब्रह्मात्मजं सूर्यशतप्रकाशम् ॥ २.५० ॥ इत्येवमुक्तः स तु शङ्करेण आद्यं धनुस्त्वाजगवं प्रसिद्धम् । जग्राह तूणानि तथाक्षयाणि युद्धाय वीरः स मतिं चकार ॥ २.५१ ॥ ततः प्रयुद्धौ सुभृशं महाबलौ१ ब्रह्मात्मजो बाहुभवश्च शार्वः । दिव्यं सहस्रं परिवत्सराणां ततो हरोऽभ्येत्य विरञ्चिमूचे ॥ २.५२ ॥ जितस्त्वदीयः पुरुषः पितामह नरेण दिव्यद्भुतकर्मणा बली । महापृषत्कैरभिपत्य ताडितस्तदद्भुतं चेह दिशो दशैव ॥ २.५३ ॥ ब्रह्म तमीशं वचनं बभाषे नेहास्य जन्मान्यजितस्य शंभो । पराजितश्चेष्यतेऽसौ त्वदीयो नरो मदीयः पुरुषो महात्मा ॥ २.५४ ॥ इत्येवमुक्तो वचनं त्रिनेत्रश्चिक्षेप सूर्ये पुरुषं विरिञ्चेः । नरं नरस्यैव तदा स विग्रहे चिक्षेप धर्मप्रभवस्य देवः ॥ २.५५ ॥ इति श्रीवामनपुराणे द्वितीयः ________________________________________________________________________ पुलस्त्य उवाच । ततः करतले रुद्रः कपाले दारुणे स्थिते । संतापमगमद्ब्रह्मंश्चिन्तया व्याकुलेन्द्रियः ॥ ३.१ ॥ ततः समागता रौद्रा नीलाञ्चनचयप्रभा । सरक्तमूर्द्धजा भीमा ब्रह्महत्या हरान्तिकम् ॥ ३.२ ॥ तामागतां हरो दृष्ट्वा पप्रच्छ विकरालिनीम् । कासि त्वमागता रौद्रे केनाप्यर्थेन तद्वद ॥ ३.३ ॥ कपालिनमथोवाच ब्रह्महत्या सुदारुणा । ब्रह्मवध्यास्मि संप्राप्तां मां प्रोतीच्छ त्रिलोचन ॥ ३.४ ॥ इत्येवमुक्त्वा वचनं ब्रह्महत्या विवेश ह । त्रिशूलपाणिनं रुद्रं संप्रतापितविग्रहम् ॥ ३.५ ॥ ब्रह्णहत्याभिभूतश्च शर्वो बदरिकाश्रमम् । आगच्छन्न ददर्शाथ नरनारायणावृषी ॥ ३.६ ॥ अदृष्ट्वा धर्मतनयौ चिन्ताशोकसमन्वितः । जगाम यमुनां स्नातुं सापि शुष्कजलाभवत् ॥ ३.७ ॥ कालिन्दीं शुष्कसलिलां निरीक्ष्य वृषकेतनः । प्लक्षजां स्नातुमगमदन्तर्द्धानं च सा गता ॥ ३.८ ॥ ततोनु पुष्करारण्यं मागधारण्यमेव च । सैन्धवारण्यमेवासौ गत्वा स्नातो यथेच्छया ॥ ३.९ ॥ तथैव नैमिषारण्यं धर्मारण्यं तथेश्वरः । स्नातो नैव च सा रौद्रा ब्रह्महत्या व्यमुञ्चत ॥ ३.१० ॥ सरित्सु तीर्थेषु तथाश्रमेषु पुण्येषु देवायतनेषु शर्वः । समायुतो योगयुतोऽपि पापान्नावाप मोक्षं जलदध्वजोऽसौ ॥ ३.११ ॥ ततो जगाम निर्विण्णः शङ्करः कुरुजाङ्गलम् । तत्र गत्वा ददर्शाथ चक्रपाणिं खगध्वाजम् ॥ ३.१२ ॥ तं दृष्ट्वा पुण्डरीकाक्षं शङ्खचक्रगदाधरम् । कृताञ्जलिपुटो भूत्वा हरः स्तोत्रमुदीरयत् ॥ ३.१३ ॥ हर उवाच । नमस्ते देवतानाथ नमस्ते गरुडध्वज । शङ्खचक्रगदापाणे वासुदेव नमोऽस्तु ते ॥ ३.१४ ॥ नमस्ते निर्गुणानन्त अप्रर्क्याय वेधसे ज्ञानाज्ञान निरालम्ब सर्वालम्ब नमोऽस्तु ते ॥ ३.१५ ॥ रजोयुक्त नमस्तेऽस्तु ब्रह्ममूर्ते सनातन । त्वया सर्वमिदं नाथ जगत्सृष्टं चराचरम् ॥ ३.१६ ॥ सत्त्वाधिष्ठित लोकेश विष्णुमूर्ते अधोक्षज । प्रजापाल महाबाहो जनार्दन नमोऽस्तु ते ॥ ३.१७ ॥ तमोमूर्त्ते अहं ह्येष त्वदंशक्रोधसंभवः । गुणाभियुक्त देवेश सर्वव्यापिन्नमोऽस्तु ते ॥ ३.१८ ॥ भूरियं त्वं जगन्नाथ जलाम्बरहुताशनः । वायुर्बुद्धिर्मनश्चापि शर्वरी त्वं नमोऽस्तु ते ॥ ३.१९ ॥ धर्मो यज्ञस्तपः सत्यटमहिंसा शौचमार्जवम् । क्षमा दानं दया लक्षमीर्ब्रह्मचर्यं त्वमीश्वर ॥ ३.२० ॥ त्वं साङ्गाश्चतुरो वेदास्त्वं वेद्यो वेदपारगः । उपवेदा भवानीश सर्वोऽसि त्वं नमोऽस्तु ते ॥ ३.२१ ॥ नमो नमस्तेऽच्युतत चक्रपाणे नमोऽस्तु ते माधव मीनमूर्ते । लोके भवान् कारुणिको मतो मे त्रायस्व मां केश्व पापबन्धात् ॥ ३.२२ ॥ ममाशुभं नाशय विग्रहस्थं यद्ब्रह्महत्याभिभवं बभूव । दग्धोऽस्मि नष्टोऽस्म्यसमीक्ष्यकारी पुनीहि तीर्थोऽसि नमो नमस्ते ॥ ३.२३ ॥ पुलस्त्य उवाच । इत्थं स्तुतश्चक्रधरः शङ्करेण महात्मना । प्रोवाच भगवान् वाक्यं ब्रह्महत्याक्षयाय हि ॥ ३.२४ ॥ हिरिरुवाच । महेश्वर शृणुष्वेमां मम वाचं कलस्वनाम् । ब्रह्महत्याक्षयकरीं शुभदां पुण्यवर्धनीम् ॥ ३.२५ ॥ योऽसौ प्राङ्मण्डले पुण्ये मदंशप्रभवोऽव्ययः । प्रयागे वसते नित्यं योगशायीति विश्रुतः ॥ ३.२६ ॥ चरणाद्दक्षीणात्त्स्य विनिर्याता सरिद्वरा । विश्रुता वरणेत्वयेव सर्वपापहरा शुभा ॥ ३.२७ ॥ सव्यादन्या द्वितीया च असिरित्येव विश्रुता । ते उभे सरिच्छ्रेष्ठे लोकपूज्ये बभूवतुः ॥ ३.२८ ॥ ताभ्यां मध्ये तु यो देशस्तत्क्षेत्रं योगशायिनः । त्रैलोक्यप्रवरं तीर्थं सर्वपापप्रमोचनम् । न तादृशोऽस्ति गगने न भूभ्यां न रसातले ॥ ३.२९ ॥ तत्रास्ति नगरी पुण्या ख्याता वाराणसी शुभा । यस्यां हि भोगिनोऽपीश प्रयान्ति भवतो लयम् ॥ ३.३० ॥ विलासिनीनां रशनास्वनेन श्रुतिस्वनैर्ब्रह्मणपुङ्गवानाम् । शुचिस्वरत्वं गुरवो निशम्य हास्यादशासन्त मुहुर्मुहुस्तान् ॥ ३.३१ ॥ व्रजत्सु योषित्सु चतुष्पथेषु पदान्यलक्तारुणितानि दृष्ट्वा । ययौ शशी विस्मयमेव यस्यां किंस्वित्प्रयाता स्थालपद्मिनीयम् ॥ ३.३२ ॥ तुङ्गनि यस्यां सुरमन्दिराणि रुन्धन्ति चन्द्रं रजनीसुखेषु । दिवापि सूर्यं पवनाप्लुताभिर्दीर्घाभिरेवं सुपताकिकाभिः ॥ ३.३३ ॥ भृङ्गाश्च यस्यां शशिकान्तभित्तौ प्रलोभ्यमानाः प्रतिबिम्बितेषु । आलेश्ययोषिद्विमलाननाब्जेष्वीयुर्भ्रमान्नैव च पुष्पकान्तरम् ॥ ३.३४ ॥ परिश्रमश्चापि पराजितेषु नरेषु संमोहनखेलनेन । यस्यां जसक्रीडनसंगतासु न स्त्रीषु संभो गृहदीर्घोकासु ॥ ३.३५ ॥ न चैव कश्चित्परमन्दिराणि रुणद्धि शंभो सहसा ऋतेऽक्षन् । न चाबलानां तरसा पराक्रमं करोति यस्यां सुरतं हि मक्त्वा ॥ ३.३६ ॥ पाशग्रन्थिर्गजेन्द्राणां दानच्छेदो मदच्युतौ । यस्यां मानमदौ पुंसां करिणां यौवनागमे ॥ ३.३७ ॥ प्रियदोषाः सदा यस्यां कौशिका नेतरे जनाः । तारागणेऽकुलीनत्वं गद्ये वृत्तच्युतिर्विभो ॥ ३.३८ ॥ भृतचिलुब्धा विलासिन्यो भुजङ्गपरिवारिताः । चन्द्रभूषितदेहाश्च यस्यां त्वमिव शङ्कर ॥ ३.३९ ॥ ईदृशायां सुरेशान वाराणस्यां महाश्रमे । वसते भवांल्लोलः सर्वपापहरो रविः ॥ ३.४० ॥ दशाश्वमेधं यत्प्रोक्तं मदंशो यत्र केशवः । तत्र गत्वा सुरश्रेष्ठ पापमोक्षमवाप्स्यसि ॥ ३.४१ ॥ इत्येवमुक्तो गरु.डध्वजेन वृषध्वजस्तं शिरसा प्रणम्य । जगाम वेगाद्गरुडो यथासौ वाराणसीं पापविमोचनाय ॥ ३.४२ ॥ गत्वा सुपुण्यां नगरीं सुतीर्थां दृष्ट्वा च लोलं सदशश्वमेधम् । स्नात्वा च तीर्थेषु विमुक्तपापः स केशवं द्रष्टुमुपाजगाम ॥ ३.४३ ॥ केशवं शङ्करो दृष्ट्वा प्रणिपत्येदमब्रवीत् । तवत्प्रसादाधृषीकेश ब्रह्महत्या क्षयं गता ॥ ३.४४ ॥ नेदं कपालं देवेश मद्धस्तं परिमुञ्चति । कारणं वेद्मि न च तदेतन्मे वक्तुमर्हसि ॥ ३.४५ ॥ पुलस्त्य उवाच् । महादेववचः श्रुत्वा केशवो वाक्यमब्रवीत् । विद्यते कारणं रुद्र तत्सर्वं कथयामि ते ॥ ३.४६ ॥ योऽसौ ममाग्रतो दिव्यो ह्रदः पद्मोत्पलैर्युतः । एष तीर्थवरः पुण्यो देवगन्धर्वपूजितः ॥ ३.४७ ॥ एतस्मिन्प्रवरे तीर्थे क्नानं शंभो समाचर । स्नातमात्रस्य चाद्यैव कपालं परिमोक्ष्यति ॥ ३.४८ ॥ ततः कपाली लोके च ख्यातो रुद्र भविष्यसि । कपालमोचनेत्येवं तीर्थं चेदं भविष्यति ॥ ३.४९ ॥ पुलस्त्य उवाच । एवमुक्तः सुरेशेन केशवेन महेश्वरः । कपालमोचने सस्नौ वेदोस्तविधिना मुने ॥ ३.५० ॥ स्नातस्य तीर्थे त्रिपुरान्तकस्य परिच्युतं हस्ततलात्कपालम् । नाम्ना बभूवाथ कपालमोचनं तत्तीर्थवर्यं भगवत्प्रसादात् ॥ ३.५१ ॥ इति श्रीवामपुराणे तृतीयोऽध्ययः ________________________________________________________________________ पुलस्त्य उवाच । एवं कपाली संजातो देवर्षे भगवान्हरः । अनेन कारणेनासौ दक्षेण न निमन्त्रितः ॥ ४.१ ॥ कपालिजायेति सतीं विज्ञायाथ प्रजापतिः । यज्ञे चार्हापि दुहिता दक्षेण न निमन्त्रिता ॥ ४.२ ॥ एतस्मिन्नन्तरे देवीं द्रष्टुं गौतमनन्दिनी । जया जगाम शैलेन्द्रं मन्दरं चारुकन्दरम् ॥ ४.३ ॥ तामागतां सती दृष्ट्वा जयमेकामुवाच ह । किमर्थं विजया नागाज्जयन्ती चापराजिता ॥ ४.४ ॥ सा देव्या वचनं श्रुत्वा उवाच परमेश्वरीम् । गता निमन्त्रिताः सर्वा मखे मातामहस्य ताः ॥ ४.५ ॥ समं पित्रा गौतमेन मात्रा चैवाप्यहल्यया । अहं समागता द्रष्टुं त्वां तत्र गमनोत्सुका ॥ ४.६ ॥ किं त्वं न व्रजसे तत्र तथा देवो महेश्वरः । नामन्त्रितासि तातेन उताहोस्विद्व्रजिष्यसि ॥ ४.७ ॥ गतास्तु ऋषयः सर्वे ऋषिपत्न्यः सुरास्तथा । मातृष्वसः शशाङ्कश्च सपत्नीको गतः क्रतुम् ॥ ४.८ ॥ चतुर्दशसु लोकेषु जन्तवो ये चराचराः । निमन्त्रिताः क्रतौ सर्वे किं नासि त्वं निमन्त्रिता ॥ ४.९ ॥ पुलस्त्य उवाच् । जयायास्तद्वचः श्रुत्वा वज्रपातसमं सती । मन्युनाभिप्लुता ब्रह्मन् पञ्चत्वमगमत्ततः ॥ ४.१० ॥ जया मृतां सतीं दृष्ट्वा क्रोधशोकपरिप्लुता । मुञ्चती वारि नेत्राभ्यां सस्वरं विललाप ह ॥ ४.११ ॥ आक्रन्दितध्वनिं श्रुत्वा शूलपाणिस्त्रिलोचनः । आः किमेतदितीत्युक्त्वा जयाभ्याशमुपागतः ॥ ४.१२ ॥ आगतो ददृशे देवीं लतामिव वनस्पतेः । कृत्तां परशुना भूमौ श्लथाङ्गीं पतितां सतीम् ॥ ४.१३ ॥ देवीं निपतितां दृष्ट्वा जयां पप्रच्छ शङ्करः । किमियं पतिता भूमौ निकृत्तेव लता सती ॥ ४.१४ ॥ सा शङ्करवचः श्रुत्वा जया वचनमब्रवीत् । श्रत्वा मखस्था दक्षस्य भगिन्यः पतिभिः सह ॥ ४.१५ ॥ आदित्याद्यास्त्रिलोकेश समं शक्रादिभिः सुरैः । मातृष्वसा विपन्नेयमन्तर्दुःखेन दह्यती ॥ ४.१६ ॥ पुलस्त्य उवाच । एतच्छ्रुत्वा वचो रौद्रं रुद्रः क्रोधाप्लुतो बभौ । क्रुद्धस्य सर्वगात्रेभ्यो निश्चेरुः सहसार्चिषः ॥ ४.१७ ॥ ततः क्रोधात्त्रिनेत्रस्य गात्ररोमोद्भाव मुने । गणाः सिंहमुखा जाता वीरभद्रपुरोगमाः ॥ ४.१८ ॥ गणैः परिवृतस्तस्मान्मन्दराद्धिमसाह्वयम् । गतः कनखलं तस्माद्यत्र दक्षोऽयजत्क्रतुम् ॥ ४.१९ ॥ ततो गणानामधिपो वीरभद्रो महाबलः । दिशि प्रतीच्युत्तरायां तस्थौ शूलधरो मुने ॥ ४.२० ॥ जया क्रोधाद्गदां गृह्य पूर्वदक्षिणतः स्थिता । मध्ये त्रिरशूलधृक्शर्वस्तस्थौ क्रोधान्महामुने ॥ ४.२१ ॥ मडगारिवदनं दृष्ट्वा देवाः शक्रपुरोगमाः । ऋषयो यक्षगन्धर्वाः किमिदं त्वित्यचिन्तयन् ॥ ४.२२ ॥ ततस्तु धनुरादाय शरांश्चाशीविषोपमान् । द्वारपालस्तदा धर्मो वीरभद्रमुपाद्रवत् ॥ ४.२३ ॥ तमापतन्तं सहसा धर्मं दृष्ट्वा गणेश्वरः । करेणैकेन जग्राह त्रिशुलं वह्निसन्निभम् ॥ ४.२४ ॥ कार्मुकं च द्वितीयेन तृतीयेनाथ मार्गणान् । चतुर्थेन गदां गृह्य धर्ममभ्यद्रवद्गणः ॥ ४.२५ ॥ ततश्चतुर्भुजं दृष्ट्वा धर्मराजो गणेश्वरम् । तस्थावष्टभुनजो भूत्वा नानायुधधरोऽव्ययः ॥ ४.२६ ॥ खड्गचर्मगदाप्रासपरश्वधवराङ्कुशैः । चापमार्गणभृत्तस्थौ हन्तुकामो गणेश्वरम् ॥ ४.२७ ॥ गणेश्वरोऽपि संक्रुद्धो हन्तुं धर्म सनातनम् । ववर्ष मार्गणास्तीक्ष्णान् यथा प्रावृषि तोयदः ॥ ४.२८ ॥ तावन्योन्यं महात्मानौ शरचापधरौ मुने । रुधिरारुणसिक्ताङ्गौ किंशुकाविव रेजतुः ॥ ४.२९ ॥ ततो वरास्त्रैर्गणनायकेन जितः स धर्मः तरसा प्रसह्य । पराङ्मुखोऽभूद्विमना मुनीन्द्र स वीरभद्रः प्रविवेश यज्ञम् । । ४.३० यज्ञावाटं प्रविष्टं तं वीरभद्रं गणेश्वरम् । दृष्ट्वा तु सहसा देवा उत्तस्थुः सायुधा मुने ॥ ४.३१ ॥ वसवोऽष्टौ महाभागा ग्रहा नव सुदारुणाः । इन्द्राद्या द्वादशादित्या रुद्रास्त्वेकादशैव हि ॥ ४.३२ ॥ विश्वेदेवाश्च साध्याश्च सिद्धगन्धर्वपन्नगाः । यक्षाः किंपुरुषाश्चैव खगाश्क्रधरास्तथा ॥ ४.३३ ॥ राजा वैवस्ताद्वंशाद्धर्मकीर्तिस्तु विश्रुतः । सोमवंशोद्भवश्चोग्रो भोजकीर्तिर्महाभुजः ॥ ४.३४ ॥ दीतिजा दानवाश्चान्ये येऽन्ये तत्र समागताः । ते सर्वेऽभ्यद्रवन् रौद्रं वीरभद्रमुदायुधाः ॥ ४.३५ ॥ तानापतत एवाशु चापबाणधरो गणः । अभिदुद्राव वेगेन सर्वानेव शरोत्करैः ॥ ४.३६ ॥ ते शस्त्रवर्षमतुलं गणेशाय समुत्सृजन् । गणेशोऽपि वरास्त्रैस्तान् प्रचिच्छेद बिभेद च ॥ ४.३७ ॥ शरैः शस्त्रैश्च सततं वध्यमाना महात्मना । वीरभद्रेण देवाद्या अवहारमर्कुत ॥ ४.३८ ॥ ततो विवेश गणपो यज्ञमध्यं सुविस्तृतम् । जुह्वाना ऋषयो यत्र हवींषि प्रवितन्वते ॥ ४.३९ ॥ ततो महर्षयो दृष्ट्वा मृगेन्द्रवदनं गणम् । भीता होत्रं परित्यज्य जग्मुः शरणमच्युतम् ॥ ४.४० ॥ तानार्ताश्चक्रभृद्दृष्ट्वा महर्षीस्त्रस्तमानसान् । न भेतव्यमितीत्युक्त्वा समुत्तस्थौ वरायुधः ॥ ४.४१ ॥ समानम्य ततः शार्ङ्ग शरानग्निशिखोपमान् । मुमोच वीरभद्राय कायावरणदारणान् ॥ ४.४२ ॥ ते तस्य कायमासाद्य अमोघा वै हरेः शराः । निपेतुर्भुवि भग्नाशा नास्तिकादिव याचकाः ॥ ४.४३ ॥ शरास्त्वमोघान्मोघत्वमापन्नान्वीक्ष्य केशवः । दिव्यैरस्त्रैर्वीरभद्रं प्रच्छादयितुमुद्यतः ॥ ४.४४ ॥ तानस्त्रान्वासुदेवेन प्रक्षिप्तान्गणनायकः । वारयामास शूलेन गदया मार्गणैस्तथा ॥ ४.४५ ॥ दृष्ट्वा विपन्नान्यस्त्राणि गदां चिक्षेप माधवः । त्रिशुलेन समाहत्य पातयामास भूतले ॥ ४.४६ ॥ मुशलं वीरभद्राय प्रचिक्षेप हलायुधः । लाङ्गलं च गणेशोऽपि गदया प्रत्यवारयत् ॥ ४.४७ ॥ मुशलं सगदं दृष्ट्वा लाङ्गलं च निवारितम् । वीरभद्राय चिक्षेप चक्रं क्रोधात्खगध्वजः ॥ ४.४८ ॥ तमापतन्तं शतसूर्यकल्पं सुदर्शनं वीक्ष्य गणेश्वरस्तु । शूलं परित्यज्य जगार चक्रं यथा मधुं मीनवपुः सुरेन्द्रः ॥ ४.४९ ॥ चक्रे निगीर्णे गणनायकेन क्रोधातिरक्तोऽसितचारुनेत्रः । मुरारिरभ्येत्य गणाधिपेन्द्रमुत्क्षिप्य वेगाद्भुवि निष्पिपपेष ॥ ४.५० ॥ हरिबाहूरुवेगेन विनिष्पिष्टस्य भूतले । सहितं रुधिरोद्गारैर्मुकाच्चक्रं विनिगतम् ॥ ४.५१ ॥ ततो निःसृतमालोक्य चक्रं कैटभनाशनः । समादाय हृषीकेशो वीरभद्रो मुमोच ह ॥ ४.५२ ॥ हृषीकेशेन मुक्तस्तु वीरभद्रो जटाधरम् । गत्वा निवेदयामास वासुदेवात्पराजयम् ॥ ४.५३ ॥ ततो जटाधरो दृष्ट्वा गणेशं शोणिताप्लुतम् । निश्वसन्तं यथा नागं क्रोधं चक्रे तदाव्ययः ॥ ४.५४ ॥ ततः क्रोधाभिभूतेन वीरभद्रोऽथ शंभुना । पूर्वोद्दिष्टे तदा स्थाने सायुधस्तु निवेशितः ॥ ४.५५ ॥ वीरभद्रमथादिश्य भद्रकालीं च शङ्करः । विवेश क्रोधताम्राक्षो यज्ञवाटं त्रिशूलभृत् ॥ ४.५६ ॥ ततस्तु देवप्रवरे जटाधरे त्रिशूलपाणौ त्रिपुरान्तकारिणि । दक्षस्य यज्ञं विशति क्षयङ्करे जातो ऋषीणां प्रवरो हि साध्वसः ॥ ४.५७ ॥ इति श्रीवामनपुराणे चतुर्थोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । जटाधरं हरिर्द्दष्ट्वा क्रोधादारक्तलोचनम् । तस्मात्स्थानादपाक्रम्य कुब्जाम्रेऽन्तर्हितः स्थितः ॥ ५.१ ॥ वसवोऽष्टौ हरं दृष्ट्वा सुस्रुवुर्वेगतो मुने । सा तु जाता सरिच्छ्रेष्ठा सीता नाम सरस्वती ॥ ५.२ ॥ एकादश तथा रुद्रास्त्रिनेत्रा वृषकेतनाः । कान्दिशीका लयं जग्मुः समभ्येत्यैव शङ्करम् ॥ ५.३ ॥ विश्वेऽश्विनौ चच साध्याश्च मरुतोऽनलभास्कराः । समासाद्य पुरोडाशं भक्ष्याश्च महामुने ॥ ५.४ ॥ चन्द्रः सममृक्षगणैर्निशां समुपदर्शयन् । उत्पत्यरुह्य गगनं स्वमधिष्ठानमास्थितः ॥ ५.५ ॥ कश्यपाद्याश्च ऋषयो जपन्तः शतरुद्रियम् । पुष्पाञ्जलिपुटा भूत्वा प्रणताः संस्थिता मुने ॥ ५.६ ॥ असकृद्दक्षदयिता दृष्ट्वा रुद्रं बलाधिकम् । शक्रादीनां सुरेशानां कृपणं विललाप ह ॥ ५.७ ॥ ततः क्रोधाभिभूतेन शङ्करेण महात्मना । तलप्रहारैरमरा बहवो विनिपातिताः ॥ ५.८ ॥ पादप्रहारैरमरा त्रिशुलेनापरे मुने । दृष्ट्यग्निना तथैवान्ये देवाद्याः प्रलयीकृताः ॥ ५.९ ॥ ततः पूषा हरं वीक्ष्य विनिघ्नन्तं सुरासुरान् । क्रोधाद्बाहू प्रसार्यथ प्रदुद्राव महेश्वरम् ॥ ५.१० ॥ तमापतन्तं भगवान् संनिरीक्ष्य त्रिलोचनः । बाहुभ्यां प्रतिजग्राह करेणैकेन शङ्करः ॥ ५.११ ॥ कराभ्यां प्रगृहीतस्य शंभुनांशुमतोऽपि हि । कराङ्गुलिभ्यो निश्चेरुरसृग्धाराः समन्ततः ॥ ५.१२ ॥ ततो वेगेन महता अंशुमन्तं दिवाकरम् । भ्रामयामास सततं सिंहो मृगशिशुं यथा ॥ ५.१३ ॥ भ्रामितस्यातिवेगेन नारदांशुमतोऽपि हि । भुजौ हस्वत्वमापन्नौ त्रुटितस्नायुबन्धनौ ॥ ५.१४ ॥ रुधिराप्लुतसर्वाङ्गमंशुमन्तं महेश्वरः । संनिरीभ्योत्ससर्जैनमन्यतो।भिजगाम ह ॥ ५.१५ ॥ ततस्तु पूषा विहसन् दशनानि विदर्शयन् । प्रोवाचैह्येहि कापालिन् पुनः पुनरथेश्वरम् ॥ ५.१६ ॥ ततः क्रोधाभिभूतेन पूष्णे वेगेन शंभुना । मुष्टिनाहत्य दशनाः पातिता धरणीतले ॥ ५.१७ ॥ भग्नदन्तस्तथा पूषा शोणिताभिप्लुताननः । पपात भुवि निःसंज्ञो वज्राहत इवाचलः ॥ ५.१८ ॥ भगो।भिवीभ्य पूषाणं पतितं रुधिरोक्षितम् । नेत्राभ्यां घोररूपाभ्यां वृषध्वजमवैक्षत ॥ ५.१९ ॥ त्रिपुरघ्नस्ततः क्रुद्धस्तलेनाहत्य चक्षुषी । निपातयामास भुवि क्षोभयन्सर्वदेवताः ॥ ५.२० ॥ ततो दिवाकराः सर्वे पुरस्कृत्य शतक्रतुम् । मरुद्भिश्च हुताशैश्च भयाज्जग्मुर्दिशो दश । । ५.२१ प्रतियातेषु देवेषु प्रह्लादाद्या दितीस्वराः । नमस्कृत्य ततः सर्वे तस्थुः प्राञ्जलयो मुने ॥ ५.२२ ॥ ततस्तं यज्ञवाटं तु शङ्करो घोरचक्षुषा । ददर्श दग्धुं कोपेन सर्वांश्चैव सुरामुरान् ॥ ५.२३ ॥ ततो निलिल्यिरे वीराः प्रणेमुर्दुद्रुस्तथा । भयादन्ये हरं दृष्ट्वा गता वैवस्वतक्षयम् ॥ ५.२४ ॥ त्रयोऽग्नयस्त्रिभिर्नेर्दुःसहं समवैक्षत । दृष्टमात्रास्त्रिनेत्रेण भस्मीभूताभवन् क्षणात् ॥ ५.२५ ॥ अग्नौ प्रणष्टे यज्ञोऽपि भूत्वा दिव्यवपुर्मृगः । दुद्राव विक्लवगतिर्दक्षिणासहितोऽम्बरे ॥ ५.२६ ॥ तमेवानुससारेशश्चापमानम्य वेगवान् । शरं पाशुपतं कृत्वा कालरूपी महेश्वरः ॥ ५.२७ ॥ अर्द्धेन यज्ञवाटान्ते जटाधर इति श्रुतः । अर्द्धेन गगने शर्वः कालरूपी च कथ्यते ॥ ५.२८ ॥ नारद उवाच । कालरूपी त्वयाख्यातः शंभुर्गगनगोचरः । लक्षणं च स्वरूपं च सर्वं व्याख्यातुमर्हसि ॥ ५.२९ ॥ पुलस्त्य उवाच । स्वरूपं त्रिपुरघ्नस्य वदिष्ये कालपूपिणः । येनाम्बरं मुनिश्रेष्ठ व्याप्तं लोकहितेप्सुना ॥ ५.३० ॥ यत्राश्विनी च भरणी कुत्तिकायास्तथांशकः । मेषो राशिः कुजक्षेत्रं तच्छिरः कालरूपिणः ॥ ५.३१ ॥ आग्नेयाशास्त्रयो ब्रह्मन् प्राजापत्यं कवेर्गृहम् । सौम्यार्द्ध वृषनामेदं वदनं परिकीर्तितम् ॥ ५.३२ ॥ मृगार्द्धमार्द्रादित्यांशास्त्रयः सौम्यगृहं त्विदम् । मिथुनं भुजयोस्तदस्य गगनस्थस्य शूलिनः ॥ ५.३३ ॥ आदित्यांशश्च पुष्यं च आश्लेषा शशिनो गृहम् । राशिः कर्कटको नाम पार्श्वे मखविनाशिनः।थ । ५.३४ पित्र्यर्क्षं भगदैवत्यमुत्तरांश्च केसरी । सूर्यक्षेत्रं विभोर्ब्रह्मन् हृदयं परिगीयते ॥ ५.३५ ॥ उत्तरांशास्त्रयः पाणिश्चित्रार्धं कन्यका त्वियम् । सोमपुत्रस्य सद्मैतद्द्वितीयं जठरं विभोः ॥ ५.३६ ॥ चित्रांशद्वितयं स्वातिर्विशाखायांशकत्रयम् । द्वितीयं सुक्रसदनं तुला नाभिरुदाहृता ॥ ५.३७ ॥ विशाखांशमनूराधा ज्येष्ठा भौमगृहं त्विदम् । द्वितीयं वृश्चिको राशिर्मेढ्रं कालसवरूपिणः ॥ ५.३८ ॥ मूलं पूर्वोत्तरांशश्च देवाचजार्यगृहं धनुः । ऊरुयुगलमीशस्य अमरर्षे प्रगीयते ॥ ५.३९ ॥ उत्तरांशास्त्रयो ऋक्षं श्रवणं मकरो मुने । धनिष्ठार्धं शतभिषा जानुनी परमेष्ठिनः ॥ ५.४० ॥ धनिष्ठार्धं शतभिषा प्रौष्ठपद्यांशकत्रयम् । सौरेः सद्मापरमिदं कुम्भो जङ्घे च विश्रते ॥ ५.४१ ॥ प्रोष्ठपद्यांशमेकं तु उत्तरा रेवती तथा । द्वितीयं जीवसदनं मीनस्तु चरणावुभौ ॥ ५.४२ ॥ एवं कृत्वा कालरूपं त्रिनेत्रो यज्ञं क्रोधान्मार्गराजघान । विद्धश्चासौ वेदनाबुद्धिमुक्तः खे संतस्थौ तारकाभिश्चिताङ्गः ॥ ५.४३ ॥ नारद उवाच । राशयो गदिता ब्रह्मंस्त्वया द्वादश वै मम । तेषां विशेषतो ब्रूहि लक्षणानि स्वरूपतः ॥ ५.४४ ॥ पुलस्त्य उवाच । स्वरूपं तव वक्ष्यामि राशीनां शृणु नारद । यादृशा यत्र संचारा यस्मिन् स्थाने वसन्ति च ॥ ५.४५ ॥ मेषः समानमूर्तिश्च अजाविकधनादिषु । संचारस्थानमेवास्य धान्यरत्नाकरादिषु ॥ ५.४६ ॥ नवशादूलसंछन्नवसुधायां च सर्वशः । नित्यं चरति फुल्लेषु सरसां पुलिनेषु च ॥ ५.४७ ॥ वृषः सदृशरूपो हि चरते गोकुलादिषु । तस्याधिवासभूमित्तु कुषीवलधराश्रयः ॥ ५.४८ ॥ स्त्रीपुंसयोः समं रूपं शय्यासनपरिग्रहः । वीणावाद्यधृङ्मिथुनं गीतनर्तकशिल्पिषु ॥ ५.४९ ॥ स्थितः क्रीडारतिर्नित्यं विहारावनिरस्य तु । मिथुनं नाम विख्यातं राशिर्द्वेधात्मकः स्थितः ॥ ५.५० ॥ कर्किः कुलीरेण समः सलिलस्थः प्रकीर्तितः । केदारवापीपुलिने विविक्तावनिरेव च ॥ ५.५१ ॥ सिहस्तु पर्वतारण्यदुर्गकन्दरभूमिषु । वसते व्याधपल्लीषु गह्वरेषु गुहासु च ॥ ५.५२ ॥ व्रीहिप्रदीपिककरा मनावारूढा च कन्यका । चरते स्त्रीरतिस्थाने वसते नड्वलेषु च ॥ ५.५३ ॥ तुलापाणिश्च पुरुषो वीथ्यापणविचारकः । नगराध्वानशालासु वसते तत्र नारद ॥ ५.५४ ॥ श्वभ्रवल्मीकसंचारी वृश्चिको वृश्चिकाकृतिः । विषगोमयकीटादिपाषाणादिषु संस्थितः ॥ ५.५५ ॥ धनुस्तु रङ्गजघनो दीप्यमानो धनुर्धरः । वाजिशूरास्त्रविद्वीरः स्थायी गजरथादिषु ॥ ५.५६ ॥ मृगास्यो मकरो ब्रह्मन् वृषस्कन्धेक्षणाङ्गजः । मकरोऽसौ नदीचारी वसते च महोदधौ ॥ ५.५७ ॥ रिक्तमुम्भश्च पुरुषः स्कन्धधारी जलाप्लुतः । द्यूतशालाचरः कुम्भः स्थायी शौण्डिकसद्मसु ॥ ५.५८ ॥ मीनद्वयमथासक्तं मीनस्तीर्थाब्धिसंचरः । वसते पुण्यदेशेषु देवब्राह्नणसद्मसु ॥ ५.५९ ॥ लक्षणा गदितास्तुभ्यं मेषादीनां महामुने । न कस्यचित्त्वयाख्येयं गुह्यमेतत्पुरातनम् ॥ ५.६० ॥ एतन्मया ते कथितं सुरर्षे यथा त्रिनेत्रः प्रमाथ यज्ञम् । पुण्यं पुराणं परमं पवित्रमाख्यातवान्पापहरं शिवं च ॥ ५.६१ ॥ इति श्रीवामनपुराणे पञ्चमोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । हृद्भवो ब्रह्मणो योऽसौ धर्मो दिव्यवपुर्मुने । दाक्षायाणी तस्य भार्या तस्यामजनयत्सुतान् ॥ ६.१ ॥ हरिं कुष्णं च देवर्षे नारायणनरौ तथा । योगाभ्यासरतौ नित्यं हरिकृष्णौ बभूवतुः ॥ ६.२ ॥ नरनारायणौ चैव जगतो हितकाम्यया । तप्येतां च तपः सौम्यौ पुराणवृषिसत्त्मौ ॥ ६.३ ॥ प्रालेयाद्रिं समागम्य तीर्थे बदरिकाश्रमे । गृमन्तौ तत्परं ब्रह्म गङ्गाया विपुले तटे ॥ ६.४ ॥ नरनारायणाभ्यां च जगदेतच्चराचरम् । तापितं तपसा ब्रह्मन् शक्रः क्षोभं तदा ययौ ॥ ६.५ ॥ संक्षुब्धस्तपसा ताभ्यां क्षोभमणाय शतक्रतुः । रम्भाद्याप्सरसः श्रेष्ठाः प्रेषयत्स महाश्रमम् ॥ ६.६ ॥ कन्दर्पश्च सुदुर्धर्षश्चूताङ्कुरमहायुधः । समं सहचरेणैव वसन्तेनाश्रमं गतः ॥ ६.७ ॥ ततो माधवकन्दर्पौ ताश्चैवाप्सरसो वराः । बदर्याश्रममागम्य विचिक्रीडुर्यथेच्छया ॥ ६.८ ॥ ततो वसन्ते संप्राप्ते सिंशुका ज्वलनप्रभाः । निष्पत्राः सततं रेजुः शोमभयन्तो धरातलम् ॥ ६.९ ॥ शिशिरं नाम मातङ्गं विदार्य नखरैरिव । वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने ॥ ६.१० ॥ मया तुषारौघकरी निर्जितः स्वेन तेजसा । तमेव हसतेत्युच्चैः वसन्तः कुन्दकुड्मलैः ॥ ६.११ ॥ वनानि कर्णिकाराणां पुष्पितानि विरेजिरे । यथा नरेन्द्रपुत्राणि कनकाभरणानि हि ॥ ६.१२ ॥ तेषामनु तथा नीपाः पिङ्करा इव रेजिरे । स्वमिसंलब्धसंमाना भृत्या राजसुतानिव ॥ ६.१३ ॥ रक्ताशोकवना भान्ति पुष्पिताः सहसोज्ज्वलाः । भृत्वा वसन्तनृपतेः संग्रामेऽसृक्प्लुता इव ॥ ६.१४ ॥ मृगवृन्दाः पिञ्जरिता राजन्ते गहने वने । पुलकाभिर्वृता यद्वत्सज्जनाः सुहृदागमे ॥ ६.१५ ॥ मञ्जरीभिर्विराजन्ते नदीकूलेषु वेतसाः । वक्तुकामा इवाङ्गुल्या कोऽस्माकं सदृशो नगः ॥ ६.१६ ॥ रक्ताशोककरा तन्वी देवर्षे किशुकाङ्घ्रिका । नीलाशोककचा श्यामा विकासिकमलानना ॥ ६.१७ ॥ नीलेन्दीवरनेत्रा च ब्रह्मन् बिल्वफलस्तनी । प्रफुल्लकुन्ददशना मञ्जरीकरशोभिता ॥ ६.१८ ॥ बन्धुजीवाधरा शुभ्रा सिन्दुवारनखाद्भता । पुंस्कोकिलस्वना दिव्या अङ्कोलवसना शुभा ॥ ६.१९ ॥ बर्हिवृन्दकलापा च सारसस्वरनूपुरा । प्राग्वंशरसना ब्रह्मन्मत्तहंसगतिस्तथा ॥ ६.२० ॥ पुत्रजीवांशुका भृङ्गरोमराजिविराजिता । वसन्तलक्ष्मीः संप्राप्ता ब३ मन् बदरिकाश्रमे ॥ ६.२१ ॥ ततो नारायणो दृष्ट्वा आश्रमस्यानवद्यताम् । समीक्ष्य च दिशः सर्वास्ततोऽनङ्गमपश्यत ॥ ६.२२ ॥ नारद उवाच् । कोऽसावनङ्गो ब्रह्मर्षे तस्मिन् बदरिकाश्रमे । यं ददर्श जगन्नाथो देवो नारायणोऽव्ययः ॥ ६.२३ ॥ पुलस्त्य उवाच । कन्दर्पो हर्षतनयो योऽसौ कामो निगद्यते । स शङ्करेण संदग्धो ह्यनङ्गत्वमुपागतः ॥ ६.२४ ॥ नारद उवाच । किमर्थं कामदेवोऽसौ देवदेवेन शंभुना । दग्धस्तु कारणे कस्मिन्नेतद्व्याख्यातुमर्हसि ॥ ६.२५ ॥ पुलस्त्य उवाच । यदा दक्षसुता ब्रह्मन् सती याता यमक्षयम् । विनाश्य दक्षयज्ञं तं विचचार त्रिलोचनः ॥ ६.२६ ॥ ततो वृषध्वजं दृष्ट्वा कन्दर्पः कुसुमायुधः । अपत्नीकं तदास्त्रेण उन्मादेनाभ्यताडयत् ॥ ६.२७ ॥ ततो हरः शरेणाथ उन्मादेनाशु ताडितः । विचचार तदोन्मत्तः काननानि सरांसि च ॥ ६.२८ ॥ स्मरन् सतीं महादेवस्तथोन्मादेन ताडितः । न शर्म लेभे देवर्षे बाणविद्ध इव द्विपः ॥ ६.२९ ॥ ततः पपात देवेशः कालिन्दीसरितं मुने । निमग्ने शङ्करे आपो दग्धाः कृष्णात्वमागताः ॥ ६.३० ॥ तदाप्रभृति कालिन्द्या भृङ्गाञ्जननिभं जलम् । आस्यन्दत्पुण्यतीर्था सा केशपाशमिवावने ॥ ६.३१ ॥ ततो नदीषु पुण्यासु सरस्सु च नदेषु च । पुलुनेषु च रम्येषु वापीषु नलिनीषु च ॥ ६.३२ ॥ पर्वतेषु च रम्येषु काननेषु च सानुषु । विचारन् स्वेच्छया नैव शर्म लेभे महेश्वरः ॥ ६.३३ ॥ क्षणं गायति देवर्षे क्षणं रोदिति शङ्करः । क्षणं ध्यायति तन्वङ्गीं दक्षकन्यां मनोरमाम् ॥ ६.३४ ॥ ध्यात्वा क्षणं प्रस्वपिति क्षणं स्वप्नायते हरः । स्वप्ने तथेदं गदति तां दृष्ट्वा दक्षकन्यकाम् ॥ ६.३५ ॥ निर्घृणे तिष्ठ किं मूढे त्यजसे मामनिन्दिते । मुग्धे त्वया विरहितो दग्धोऽस्मि मदनाग्निना ॥ ६.३६ ॥ सति सत्यं प्रकुपिता मा कोपं कुरु सुन्दरि । पादप्रणामावनतमभिभाषितु मर्हसि ॥ ६.३७ ॥ श्रूयसे दृश्यसे नित्यं स्पृश्यसे वन्द्यसे प्रिये । आलिङ्ग्यसे च सततं किमर्थं नाभिभाषसे ॥ ६.३८ ॥ विलपन्तं जनं दृष्ट्वा कृपा कस्य न जायते । विशेषतः पतिं बाले ननुप त्वमतिनिर्घृणा ॥ ६.३९ ॥ त्वयोक्तानि वचांस्येवं पूर्वं मम कृशोदरि । विना त्वया न जीवेयं तदसत्यं त्वया कृतम् ॥ ६.४० ॥ एह्येहि कामसंतप्तं परिष्वज सुलोचने । नान्यथा नश्यते तापः सत्येनापि शपे प्रिये ॥ ६.४१ ॥ इत्थं विलप्य स्वप्नान्ते प्रतिबुद्धस्तु तत्क्षणात् । उत्कूजति तथारण्ये मुक्तकण्ठं पुनः पुनः ॥ ६.४२ ॥ तं कूजमानं विलपन्तमारात्समीक्ष्य पाचं तरसा वृषकेतनं हि । विव्याध चापं तरसा विनाम्य संतापनाम्ना तु शरेण भूयः ॥ ६.४३ ॥ संतापनास्त्रेण तदा स विद्धो भूयः स संतप्ततरो बभूव । संतापयंश्चापि जगत्समग्रं फूत्कृत्य फूत्कृत्य विवासते स्म ॥ ६.४४ ॥ तं चापि भूयो मदनो जघान विजृण्भणास्त्रेण ततो विजृम्भे । ततो भृशं कामशरैर्वितुन्नो विजृम्भमाणः परितो भ्रमंश्च ॥ ६.४५ ॥ ददर्श यक्षाधिपतेस्तनूजं पाञ्चालिकं नाम जगत्प्रधानम् । दृष्ट्वा त्रिनेत्रो धनदस्य पुत्रं पार्श्वं समभ्येत्य वचो बभाषे । भ्रातृव्य वक्ष्यसि वचो यदद्य तत्त्वं कुरुष्वामितविक्रमोऽसि ॥ ६.४६ ॥ पाञ्चालिक उवाच । यन्नाथ मां वक्ष्यसि तत्करिष्ये सुदुष्करं यद्यपि देवसंघै । आज्ञापयस्वातुलवीर्य शंभो दासोऽस्मि ते भक्तियुतस्तथेश ॥ ६.४७ ॥ ईश्वर उवाच । नाशं गतायां वरदाम्बिकायां कामाग्निना प्लुष्सुविग्रहोऽस्मि । विजृम्भणोन्मादसरैर्विभिन्नो धृतिं न विन्दामि रतिं सुखं वा ॥ ६.४८ ॥ विजृम्भणं पुत्र तथैव तापमुन्मादमुग्रं मदनप्रणुन्नम् । नान्यः पुमान् धारयितुं हि शक्तो मुक्त्वा भवन्तं हि ततः प्रतीच्छ ॥ ६.४९ ॥ पुलस्त्य उवाच । इत्येवमुक्तो वृषभध्वजेन यक्षः प्रतीच्छत्स विजृम्भणादीन् । तोषं जगामाशु ततस्त्रिशूली तुष्टस्तदैवं वचनं बभाषे ॥ ६.५० ॥ हर उवाच । यस्मात्त्वया पुत्र सुदुर्धराणि विजृम्भणादीन् प्रतीच्छितानि । तस्माद्वरं त्वां प्रतिपूजनाय दास्यामि लोक्य च हास्यकारि ॥ ६.५१ ॥ यस्त्वां यदा पश्यति चैत्रमासे स्पृशेन्नरो वार्चयते च भक्त्या । वृद्धोऽथ बालोऽथ युवाथ योषित्सर्वे तदोन्मादधरा भवन्ति ॥ ६.५२ ॥ गायन्ति नृत्यन्ति रमन्ति यक्ष वाद्यानि यत्नादपि वादयन्ति । तवाग्रतो हास्यवचोऽभिरक्ता भवन्ति ते योगयुतास्तु ते स्युः ॥ ६.५३ ॥ ममैव नाम्ना भवितासि पूज्यः पाञ्चालिकेशः प्रथितः पृथिव्याम् । मम प्रसादाद्वरदो नराणां भविष्यसे पूज्यतमोऽभिगच्छ ॥ ६.५४ ॥ इत्येवमुक्तो विभुना स यक्षो जगाम देशान् सहसैव सर्वान् । कालञ्जरस्योत्तरतः सुपुण्यो देशो हिमाद्रेरपि दक्षिणस्थः ॥ ६.५५ ॥ तस्मिन् सुपुण्ये विषये निविष्टो रुद्रप्रसादादभिपूज्यतेऽसौ । तस्मिन् प्रयाते भगवांस्त्रिनेत्रो देवोऽपि विन्ध्यं गिरिमभ्यगच्छत् ॥ ६.५६ ॥ तत्रापि मदनो गत्वा ददर्श वृषकेतनम् । दृष्ट्वा प्रहर्त्तुकामं च ततः प्रादुवचद्धरः ॥ ६.५७ ॥ ततो दारुवनं घोरं मदनाभिसृतो हरः । विवेश ऋषयो यत्र सपत्नीका व्यवस्थिताः ॥ ६.५८ ॥ ते चापि ऋषयः सर्वे दृष्ट्वा मूर्ध्ना नताभवन् । ततस्तान् प्राह भगवान् भिक्षा मे प्रतिदीयताम् ॥ ६.५९ ॥ ततस्ते मौनिनस्तस्थुः सर्व एव महर्षयः । तदाश्रमाणि सर्वाणि परिचक्राम नारदः ॥ ६.६० ॥ तं प्रविष्टं तदा दृष्ट्वा भार्गवात्रेययोषितः । प्रक्षोभमगमन् सर्वा हीनसत्त्वाः समन्ततः ॥ ६.६१ ॥ ऋते त्वरुन्धतीमेकामनसूयां च भामिनीम् । एताभ्यां भर्तृपूजासु तच्चिन्तासु स्थितं मनः ॥ ६.६२ ॥ ततः संक्षुभिताः सर्वा यत्र याति महेश्वरः । तत्र प्रयान्ति कामार्त्ता मदविह्वलितेन्द्रियाः ॥ ६.६३ ॥ त्यक्त्वाश्रमणि शून्यानि स्वानिता मुनियोषितः । अनुडजग्मुर्यथा मत्तं करिण्य इव कुञ्जरम् ॥ ६.६४ ॥ ततस्तु ऋषयो दृष्ट्वा भार्गवाङ्गिरसो मुने । क्रोधान्विताब्रुवन्सर्वे लिङ्गेऽस्य पततां भुवि ॥ ६.६५ ॥ ततः पपात देवस्य लिङ्गं पृथ्वीं विदारयन् । अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः ॥ ६.६६ ॥ ततः स पतितो लिङ्गो विभिद्य वसुधातलम् । रसातलं विवेशाशु ब्रह्मण्डं चोर्ध्वतोऽभिनत् ॥ ६.६७ ॥ ततश्चचाल पृथिवी गिरयः सरितो नगाः । पातालभुवनाः सर्वे जङ्गमाजङ्गमैर्वृताः ॥ ६.६८ ॥ संक्षुब्धान् भुवनान् दृष्ट्वा भूर्लोकादीन् पितामहः । जगाम माधवं द्रष्टुं क्षीरोदं नाम सागरम् ॥ ६.६९ ॥ तत्र दृष्ट्वा हृषीकेशं प्रणिपत्य च भक्तितः । उवाच देव भुवनाः किमर्थ क्षुभिता विभो ॥ ६.७० ॥ अथोवाच हरिर्ब्रह्मन् शार्वो लिङ्गो महर्षिभिः । पातितस्तस्य भारार्ता संचचाल वसुंधरा ॥ ६.७१ ॥ ततस्तदद्भुततमं श्रुत्वा देवः वितामहः । तत्र गच्छाम देवेश एवमाह पुनः पुनः ॥ ६.७२ ॥ ततः पितामहो देवः केशवश्च जगत्पतिः । आजग्मतुस्तमुद्देशं यत्र लिङ्गं भवस्य तत् ॥ ६.७३ ॥ ततोऽनन्तं हरिर्लिङ्गं दृष्ट्वारुह्य खगेश्वरम् । पातालं प्रविवेशाथ विस्मयान्तरितो विभुः ॥ ६.७४ ॥ ब्रह्म पद्मविमानेन उर्ध्वमाक्रम्य सर्वतः । नैवान्तमलभद्ब्रह्मन् विस्मितः पुनरागतः ॥ ६.७५ ॥ विष्णुर्गत्वाथ पातालान् सप्त लोकपरायणः । चक्रपाणिर्विनिष्क्रान्तो लेभेऽन्तं न महामुने ॥ ६.७६ ॥ विष्णुः पितामहश्चोभौ हरलिङ्गं समेत्य हि । कृताञ्जलिपुटौ भूत्वा स्तोतुं देवं प्रचक्रतुः ॥ ६.७७ ॥ हरिब्रह्माणावूचतुः । नमोऽस्तु ते शूलपाणे नमोऽस्तु वृषभध्वज । जीमूतवाहन कवे शर्व त्र्यम्बक शङ्कर ॥ ६.७८ ॥ महेश्वर महेशान सुपर्णाक्ष वृषाकपे । दक्षयज्ञक्षयकर कालरूप नमोऽस्तु ते ॥ ६.७९ ॥ त्वमादिरस्य जगतस्त्वं मध्यं परमेश्वर । भवानन्तश्च भगवान् सर्वगस्त्वं नमोऽस्तु ते ॥ ६.८० ॥ पुलस्त्य उवाच् । एवं संस्तूयमानस्तु तस्मिन् दारुवने हरः । स्वरूपी ताविदं वाक्यमुवाच वदतां वरः ॥ ६.८१ ॥ हर उवाच । किमर्थं देवतानाथौ परिभूतक्रमं त्विह । मां स्तुवाते भृशास्वस्थं कामतापितविग्रहम् ॥ ६.८२ ॥ देवावूचतुः । । भक्तः पातितं लिङ्गं यदेतद्भुवि शङ्कर । एतत्प्रगृह्यतां भूय अतो देव स्तुवावहे ॥ ६.८३ ॥ हर उवाच् । यद्यर्चयन्ति त्रिदशा मम लिङ्गं सुरोत्तमौ । तदेतत्प्रतिगृह्णीयां नान्यथेति कथञ्चन ॥ ६.८४ ॥ ततः प्रोवाच भगवानेवमस्त्विति केशव । ब्रह्म स्वयं च जग्राह लिङ्गं कनकपिङ्गलम् ॥ ६.८५ ॥ ततश्चकार भगवांश्चातुर्वर्ण्यं हरार्चने । शास्त्राणि चैषां मुख्यानि नानोक्तिविदितानि च । । ६.८६ आद्यं शैवं परिख्यातमन्यत्पाशुपतं मुने । तृतीयं कालवदनं चतुर्थं च कपालिनम् ॥ ६.८७ ॥ शैवश्चासीत्स्वयं शक्तिर्वसिष्ठस्य प्रियः श्रुतः । तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः ॥ ६.८८ ॥ महापाशुपतश्चासीद्भरद्वाजस्तपोधनः । तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः ॥ ६.८९ ॥ कालस्यो भगवानासीदापस्तम्बस्तपोधनः । तस्य शिष्योभवद्वैश्यो नाम्ना क्राथेश्वरो मुने ॥ ६.९० ॥ महाव्रती च धनदस्तस्य शिष्यश्च विर्यवान् । कर्णोदर इति ख्यातो जात्या शूद्रो महातपाः ॥ ६.९१ ॥ एवं म भगवान्ब्रह्म पूजनाय शिवस्य तु । कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः ॥ ६.९२ ॥ गते ब३ मणि शर्वोऽपि उपसंहृत्य तं तदा । लिङ्गं चित्रवने सूक्ष्मं प्रतिष्ठाप्य चचार ह । ६.९३ विचरन्तं तदा भूयो महेशं कुसुमायुधः । आरात्स्थित्वाग्रतो धन्वी संतापयितुमुद्यतः ॥ ६.९४ ॥ ततस्तमग्रतो दृष्ट्वा क्रोधाध्मातदृशा हरः । स्मरमालोकयामास शिखाग्राच्चरणान्तिकम् ॥ ६.९५ ॥ आलोकितस्त्रिनेत्रेण मदनो द्युतिमानपि । प्रादह्यत तदा ब्रह्मन् पादादारभ्य कक्षवत् ॥ ६.९६ ॥ प्रदह्यमानौ चरणौ दृष्ट्वासौ कुसुमायुधः । उत्ससर्ज धनुः श्रेष्ठं तज्जगामाथ पञ्चधा ॥ ६.९७ ॥ यदासीन्मुष्टिबन्धं तु रुक्मपृष्ठं महाप्रभम् । स चम्पकतरुर्जातः सुगन्धाढ्यो गुणाकृतिः ॥ ६.९८ ॥ नाहस्थानं शुभाकारं यदासीद्वज्रभूषितम् । तज्जातं केसरारण्यं बकुलं नामतो मुने ॥ ६.९९ ॥ या च कोटी सुभा ह्यासीदिन्द्रनीलविभूषिता । जाता सा पाटला रम्या भृङ्गराजिविभूषिता ॥ ६.१०० ॥ नाहोपरि तथा मुष्टौ स्थानं शशिमणिप्रभम् । पञ्चगुल्माभवज्जाती शशाङ्ककिरणोज्ज्वला ॥ ६.१०१ ॥ ऊर्द्ध्व मुष्ट्या अधः कोट्योः स्थानं विद्रुमभूषितम् । तस्माद्भुपुटा मल्ली संजाता विविधा मुने ॥ ६.१०२ ॥ पुष्पोत्तमानि रम्याणि सुरभीणि च नारद । जातियुक्तानि देवेन स्वयमाचरितानि च ॥ ६.१०३ ॥ मुमोच मार्गणान् भूम्यां शरीरे दह्यति स्मरः । फलोपगानि वृक्षाणि संभूतानि सहस्रशः ॥ ६.१०४ ॥ चूतादीनि सुगन्धीनि स्वादूनि विविधानि च । हरप्रसादाज्जातानि भोज्यान्यपि सुरोत्तमैः ॥ ६.१०५ ॥ एवं दग्ध्वा स्मरं रुद्रः संयम्य स्वतनुं विभुः । पुष्यार्था शिशिराद्रिं स जगाम तपसेऽव्ययः ॥ ६.१०६ ॥ एवं पुरा देववरेण शंभुना कामस्तु दग्धः सशरः सचापः । ततस्त्वनङ्गेति महाधनुर्द्धरो देवैस्तु गीतः सुरपूर्वपूजितः ॥ ६.१०७ ॥ इति श्रीवामनपुराणे षष्ठोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । ततोऽनङ्गं विभुर्द्दष्ट्वा ब्रह्मन्नारायणो मुनिः । प्रहस्यैवं वचः प्राह कन्दर्व इह आस्यताम् ॥ ७.१ ॥ तदक्षुब्धत्वमीक्ष्यास्य कामो विस्मयमागतः । वसन्तोऽपि महाचिन्तां जगामाशु महामुने ॥ ७.२ ॥ ततश्चाप्सरसो दृष्ट्वा स्वागतेनाभिपूज्य च । वसन्तमाह भगवानेह्येहि स्थीयतामिति ॥ ७.३ ॥ ततो विहस्य भगवान्मञ्जरीं कुसुमावृताम् । आदाय प्राक्सुवर्णाङ्गीमूर्वोर्बालां विनिर्ममे ॥ ७.४ ॥ ऊरूद्भवां स कन्दर्पो दृष्ट्वा सर्वाङ्गसुन्दरीम् । अमन्यत तदानङ्गः किमियं सा प्रिया रतिः ॥ ७.५ ॥ तदेव वदनं चारु स्वक्षिभ्रूकुटिलालकम् । सुनासावंशाधरोष्ठमालोकनपरायणम् ॥ ७.६ ॥ तावेवाहार्य विरलौ पीवरौ मग्नचूचुकौ । राजेतेऽस्यः कुचौ पीनौ सज्जनावि संहतौ ॥ ७.७ ॥ तदेव तनु चार्वङ्ग्या वलित्रयविभूषितम् । उदरं राजते श्लक्ष्णं रोमावलिविभूषितम् ॥ ७.८ ॥ रोमावलीच जघनाद्यान्ती स्तनतटं त्वियम् । राजते भृङ्गमालेव पुलिनात्कमलाकरम् ॥ ७.९ ॥ जघनं त्वतिविस्तीर्ण भात्यस्या रशनावृतम् । श्रीरोदमथने नद्धूं भूजङ्गेनेव मन्दरम् ॥ ७.१० ॥ कदलीस्तम्भसदृशैरूर्ध्वमूलैरथोरुभिः । विभाति सा सुचार्वङ्गी पद्मकिढ्जल्कसन्निभा ॥ ७.११ ॥ जानुनी गूढगुल्फे च शुभे जङ्घे त्वरोमशे । विभातोऽस्यास्तथा पादावलक्तकसमत्विषौ ॥ ७.१२ ॥ इति संचिन्तयन् कामस्तामनिन्दितलोचनाम् । कामातुरोऽसौ संजातः किमुतान्यो जनो मुने ॥ ७.१३ ॥ माधवोऽप्युर्वशीं दृष्ट्वा संचिन्तयत नारद । किंस्वित्कामनरेन्द्रस्य राजधानी स्वयं स्थिता ॥ ७.१४ ॥ आयाता शशिनो नूनमियं कान्तिर्निशाक्षये । रविरश्मिप्रतापार्तिभीता शरणमागता ॥ ७.१५ ॥ इत्थं संचितयन्नेव अवष्टभाप्सरोगणम् । तस्थौ मुनिरिव ध्यानमास्थितः स तु माधवः ॥ ७.१६ ॥ ततः स विस्मितान् सर्वान् कन्दर्पादीन्महामुने । दृष्ट्वा प्रोवाच वचनं स्मितं कृत्वा शुभव्रतः ॥ ७.१७ ॥ इयं ममोरुसंभृता कामाप्सरस माधव । नीयतां सुरलोकाय दीयतां वासवाय च ॥ ७.१८ ॥ इत्युक्ताः कम्पमानास्ते जग्मुर्गृह्योर्वशीं दिवम् । सहस्राक्षाय तां प्रादाद्रूपयौवनशालिनीम् ॥ ७.१९ ॥ आचक्षुश्चरितं ताभ्यां धर्मजाभ्यां महामुने । देवाराजाय कामाद्यास्ततोऽभृद्विस्मयः परः ॥ ७.२० ॥ एताद्शं हि चरितं ख्यातिमग्र्यां जगाम ह । पातालेषु तथा मर्त्यै दिक्ष्वष्टासु जगाम च ॥ ७.२१ ॥ एकदा निहते रौद्रो हिरण्यकशिपौ मुने । अभिषिक्तस्तदा राज्ये प्रह्लादौ नाम दानवः ॥ ७.२२ ॥ तस्मिञ्शासति दैत्येन्द्रे देवब्राह्मणपूजके । मखानि भुवि राजानो यजन्ते विधिवत्तदा ॥ ७.२३ ॥ ब्राह्मणाश्च तपो धर्मं तीर्थयात्राश्च कुर्वते । वैश्याश्च पशुवृत्तिस्थाः शूद्राः शुश्रूषणे रताः ॥ ७.२४ ॥ चातुर्वर्ण्यं ततः स्वे स्वे आश्रमे धर्मकर्मणि । आवर्त्तत ततो देवा वृत्त्या युक्ताभवान्मुने ॥ ७.२५ ॥ ततस्तु च्यवनो नाम भार्गवेन्द्रो महातपाः । जगाम नर्मदां स्नातुं तीर्थं चैवाकुलीश्वरम् ॥ ७.२६ ॥ तत्र दृष्ट्वा महादेवं नदीं स्नातुमवातरत् । अवतीर्णं प्रजग्राह नागः केकरलोहितः ॥ ७.२७ ॥ गृहीतस्तेन नागेन सस्मार मनसा हरिम् । संस्मृते पुण्डरीकाक्षे निर्विषोऽभून्महोरगः ॥ ७.२८ ॥ नीतस्तेनातिरौद्रेण पन्नगेन रसातलम् । निर्विषश्चापि तत्याज च्यवनं भुजगोत्तमः ॥ ७.२९ ॥ संत्यक्तमात्रो नागेन च्यवनो भार्गवोत्तमः । चचार नागकन्याभिः पूज्यचमानः समन्ततः ॥ ७.३० ॥ विचारन् प्रविवेशाथ दानवानां महत्पुरम् । संपूज्यमानो दैत्येन्द्रः प्रह्लादोऽथ ददर्श तम् ॥ ७.३१ ॥ भृगुपुत्रे महातेजाः पूजां चक्रे यथार्हतः । संपूजितोपविष्टश्च पृष्टश्चागमनं प्रति ॥ ७.३२ ॥ स चोवाच महाराज महातीर्थं महाफलम् । स्नातुमेवागतोऽस्म्यद्य द्रष्टुञ्चैवाकुलीश्वरम् ॥ ७.३३ ॥ नद्यामेवावतीर्णोऽस्मि गृहीतश्चाहिना बलान् । समानीतोऽस्मि पाताले दृष्टश्चात्र भवानपि ॥ ७.३४ ॥ एतच्छ्रुत्वा तु वचनं च्यवनस्य दितीश्वरः । प्रोवाच धर्मसंयुक्तं स वाक्यं वाक्यकोविदः ॥ ७.३५ ॥ प्रह्लाद उवाच । भगवन् कानि तीर्थानि पृथिव्यां कानि चाम्बरे । रसातले च कानि स्युरेतद्वक्तुं ममार्हसि ॥ ७.३६ ॥ च्यवन उवाच । पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् । चक्रतीर्थं महाबाहो रसातलतले विदुः ॥ ७.३७ ॥ पुलस्त्य उवाच । श्रुत्वा तद्भार्गववचो दैत्यराजो महामुने । नेमिषै गन्तुकामस्तु दानवानितदब्रवीत् ॥ ७.३८ ॥ प्रह्लाद उवाच । उत्तिष्ठध्वं गमिष्यामः स्नातुं तीर्थं हि नैमिषम् । द्रक्ष्यामः पुण्डरीकाक्षं पीतवाससमच्युतम् ॥ ७.३९ ॥ पुलस्त्य उवाच । इत्युक्ता दानवेन्द्रेण सर्वे ते दैत्यदानवाः । चक्रुरुद्योगमतुलं निर्जग्मुश्च रसातलात् ॥ ७.४० ॥ ते समभ्येत्य दैतेया दानवाश्च महाबलाः । नेमिषारण्यमागत्य स्नानं चक्रुर्मुदान्विताः ॥ ७.४१ ॥ ततो दितीश्वरः श्रीमान्मृगव्यां स चचार ह । चरन् सरस्वतीं पुण्यां ददर्श विमलोदकाम् ॥ ७.४२ ॥ तस्यादूरे महाशाखं शलवृक्षं शरैश्चितम् । ददर्श बाणानपरान्मुखे लग्नान् परस्परम् ॥ ७.४३ ॥ ततस्तानद्भुताकारान् बाणान्नागोपवीतकान् । दृष्ट्वातुलं तदा चक्रे क्रोधं दैत्येश्वरः किल ॥ ७.४४ ॥ स ददर्श ततोऽदूरात्कृष्णाजिनधरौ मुनी । समुन्नतजटाभारौ तपस्यासक्तमानसौ ॥ ७.४५ ॥ तयोश्च पार्श्वयोर्दिव्ये धनुषी लक्षणान्विते । शार्ङ्गमागवं चैव अक्ष्य्यौ च महेषुधी ॥ ७.४६ ॥ तौ दृष्ट्वामन्यत तदा दामिबिकाविति दानवः । ततः प्रोवाच वचनं तावुभौ पुरुषोत्तमौ ॥ ७.४७ ॥ किं भवद्भ्यां समारःधं दम्भं धर्मविनाशनम् । क्व तपः क्व जटाभारः क्व चेमौ प्रवरायुधौ ॥ ७.४८ ॥ अथोवाच नरो दैत्यं का ते चिन्ता दितीश्वर । सामर्थ्ये सति यः कुर्यात्तत्संपद्येत तस्य हि ॥ ७.४९ ॥ अथोवाच दितीशस्तौ का शक्तिर्युवयोरिह । मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके ॥ ७.५० ॥ नरस्तं प्रत्युवाचाथ आवाभ्यां शक्तिरूर्जिता । न कश्चिच्छक्नुयाद्योद्धुं नरनारायणौ युधि ॥ ७.५१ ॥ दैत्येश्वरस्तस्तः क्रुद्धः प्रतिज्ञामारुरोह च । यथा कथञ्चिज्जेष्यामि नरनारायणौ रणे ॥ ७.५२ ॥ इत्येवमुक्त्वा वचनं महात्मा दितीश्वरः स्थाप्य बलं वनान्ते । वितत्य चापं गुणमाविकृष्य तलध्वनिं घोरतरं चकार ॥ ७.५३ ॥ ततो नरस्त्वाजगवं हि चापमानम्य बाणान् सुबहुञ्शिताग्रान् । मुमोच तानप्रतिमैः पृषत्कैश्चिच्छेद दैत्यस्तपनीयपुङ्खैः ॥ ७.५४ ॥ छिन्नान् समीक्ष्याथ नरः पृषत्कान् दैत्येश्वरेणाप्रतिमेव संख्ये । क्रुद्धः समानम्य महाधनुस्ततो मुमोच चान्यान् विविधान् पृषत्कान् ॥ ७.५५ ॥ एकं नरो द्वौ दितिजेश्वरश्च त्रीन् धर्मसूनुश्चतुरो दितीशः । नरस्तु बाणान् प्रमुमोच पञ्च षड्द्रत्यनाथो निशितान् पृषत्कान् ॥ ७.५६ ॥ सप्तर्षिमुख्यो द्विचतुश्च दैत्यो नरस्तु षट्त्रीणि च दैत्यमुख्ये । षट्त्रीणि चैकं च दितीश्वरेण मुक्तानि बाणानि नराय विप्र ॥ ७.५७ ॥ एकं च षट्पञ्च नरेण मुक्तास्त्वष्टौ शराः सप्त च दानवेन । षट्सप्त चाष्टौ नव षण्नरेण द्विसप्ततिं दैत्यपतिः ससर्ज्ज ॥ ७.५८ ॥ शतं नरस्त्रीणि शतानि दैत्यः षड्धर्मपुत्रो दश दैत्यराजः । ततोऽप्यसंख्येयतरान् हि बाणान्मुमोचतुस्तौ सुभृशं हि कोपात् ॥ ७.५९ ॥ ततो नरो बाणगणैरसख्यैरवास्तरद्भूमिमथो दिशः खम् । स चापि दैत्यप्रवरः पृषत्कैश्चिच्छेद वेगात्तपनीयपुङ्खैः ॥ ७.६० ॥ ततः पतत्त्रिभिर्वीरौ सुभृशं नरदानवौ । युद्धे वरास्त्रैर्युध्येतां घोररूपैः परस्परम् ॥ ७.६१ ॥ ततस्तु दैत्येन वरास्त्रपाणिना चापे नियुक्तं तु पितामहास्त्रम् । महेश्वरास्त्रं पुरुषोत्तमेव समं समाहत्य निपेततुस्तौ ॥ ७.६२ ॥ ब्रह्मस्त्रे तु प्रशमिते प्रह्लादः क्रोधमूर्छितः । गदां प्रगृह्य तरसा प्रचस्कन्द रथोत्तमात् ॥ ७.६३ ॥ गदापाणिं समायान्तं दैत्यं नारायणस्तदा । दृष्ट्वाथ पृष्ठतश्चक्रे नरं योद्धूमनाः स्वयम् ॥ ७.६४ ॥ ततो दीतीशः सगदः समाद्रवत्सशार्ङ्गपाणिं तपसां निधानम् । ख्यातं पुराणर्षिमुदारविक्रमं नारायणं नारद लोकपालम् ॥ ७.६५ ॥ इति श्रीवामनपुराणे सप्तमोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । शार्ङ्गपाणिनमायान्तं दृष्ट्वाग्रे दानवेश्वरः । परिभ्राम्य गदां वेगात्मूर्ध्नि साध्यमताडयत् ॥ ८.१ ॥ ताडितस्याथ गदया धर्मपुत्रस्य नारद । नेत्राभ्यामपतद्वारि वह्निवर्षनिभं भुवि ॥ ८.२ ॥ मूर्ध्नि नारायणस्यापि सा गदा दानवार्पिता । जगाम शतधा ब्रह्मञ्शैलशृङ्गे यथाशनिः ॥ ८.३ ॥ ततो निवृत्य दैत्येन्द्रः समास्थाय रथं द्रुतम् । आदाय कार्मुकं वीरस्तूणद्बाणं समाददे ॥ ८.४ ॥ आनम्य चापं वेगेन गार्द्धूपत्राञ्सिलीमुखान् । मुमोच साध्याय तदा क्रोधन्धकारिताननः ॥ ८.५ ॥ तानापतत एवाशु बाणांश्चन्द्रार्द्धसन्निभान् । चिच्छेद बाणैरपरैर्निर्बिभेद च दानवम् ॥ ८.६ ॥ ततो नारायणं दैत्यो दैत्यं नारायणः शरैः । आविध्येतां तदान्योन्यं मर्मभिद्भिरजिह्यगैः ॥ ८.७ ॥ ततोऽम्बरे संनिपातो देवानामभवन्मुने । दिदृक्षूणां तदा युद्धं लघु चित्रं च सुष्ठु च ॥ ८.८ ॥ ततः सुराणां दुन्दुभ्यस्त्ववाद्यन्त महास्वनाः । पुष्पवर्षमनौपम्यं मुमुचुः साध्यदैत्ययौः ॥ ८.९ ॥ ततः पश्यत्सु देवेषु गगनस्थेषु तावुभौ । अयुध्येतां महेष्वासौ प्रेक्षकप्रीतिवर्द्धनम् ॥ ८.१० ॥ बबन्धतुस्तदाकाशं तावुभौ शरवृष्टिभिः । दिशश्च विदिशश्चैव छादयेतां शरोत्करैः ॥ ८.११ ॥ ततो नारायणश्चापं समाकृष्य महामुने । बिभेद मार्गणैस्तीक्ष्णैः प्रह्लादं सर्वमर्मसु ॥ ८.१२ ॥ तथा दैत्येश्वरः क्रुद्धश्चापमानम्य वेगवान् । बिभेद हृदये बाह्वोर्वदने च नरोत्तमम् ॥ ८.१३ ॥ ततोऽस्यतो दैत्यपतेः कार्मुकं मुष्टिबन्धनात् । चिच्छेदैकेन बाणेन चन्द्रार्धाकारवर्चसा ॥ ८.१४ ॥ अपास्यत धनुश्छिन्नं चापमादाय चापरम् । अधिज्यं लाघवात्कृत्वा ववर्ष निशिताञ्शरान् ॥ ८.१५ ॥ तानप्यस्य शरान् साध्यश्छित्त्वा बाणैरवारयत् । कार्मुकं च क्षुरप्रेण चिच्छेद पुरुषोत्तमः ॥ ८.१६ ॥ छिन्नं छिन्नं धनुर्दैत्यस्त्वन्यदन्यत्समाददे । समादत्तं तदा साध्यो मुने चिच्छेद लाघवात् ॥ ८.१७ ॥ संछिन्नेष्वथ चापेषु जग्राह दितिजेश्वरः । परिघं दारुणां दीर्घं सर्वलोहमयं दृढम् ॥ ८.१८ ॥ परिगृह्याथ परिघं भ्रामयामास दानवः । भ्राम्यमाणं स चिच्छेद नाराचेन महामुनिः ॥ ८.१९ ॥ छिन्ने तु परिघे श्रीमान् प्रह्लादो दानवेश्वरः । मुद्गरं भ्राम्य वेगेन प्रचिक्षेप नराग्रजे ॥ ८.२० ॥ तमापतन्तं बलवान्मार्गणैर्दशभिर्मुने । चिच्छेद दशधा साध्यः स छिन्नो न्यपतद्भुवि ॥ ८.२१ ॥ मुद्गरे वितथे जाते प्रासमाविध्य वेगवान् । प्रचिक्षेप नराग्र्याय तं च चिच्छेद धर्मजः ॥ ८.२२ ॥ प्रासे छिन्ने ततो दैत्यः शक्तिमादाय चिक्षिपे । तां च चिच्छेद बलवान् क्षुरप्रेण महातपाः ॥ ८.२३ ॥ छिन्नेषु तेषु शस्त्रेषु दानवोऽन्यन्महद्धनुः । समादाय ततो बाणैरवतस्तार नारद ॥ ८.२४ ॥ ततो नारायणो देवो दैत्यनाथं जगद्गुरुः । नाराचेन जघानाथ हृदये सुरतापसः ॥ ८.२५ ॥ संभिन्निहृदयो ब्रह्मन् देवेनाद्भुतकर्मणा । निपपात रथोपस्थे तमपोवाह सारथिः ॥ ८.२६ ॥ स संज्ञां सुचिरेणैव प्रतिलभ्य दितीश्वरः । सुदृढं चापमादाय भूयो योद्धमुपागतः ॥ ८.२७ ॥ तमागतं संनिरीक्ष्य प्रत्युवाच नराग्रजः । गच्छ दैत्येन्द्र योत्स्यामः प्रातस्त्वाह्निकमाचर ॥ ८.२८ ॥ एवमुक्तो दितीशस्तु साध्येनाद्भुतकर्मणा । जगाम नैमिषारण्यं क्रियां चक्रे तदाऽह्निकीम् ॥ ८.२९ ॥ एवं युध्यति देवे च प्रह्लादो ह्यसुरो मुने । रात्रौ चिन्तयते युद्धे कथं जेष्यामि दाम्भिकम् ॥ ८.३० ॥ एवं नारायणेनासौ सहायुध्यत नारद । दिव्यं वर्षसस्रं तु दैत्यो देवं न चाजयत् ॥ ८.३१ ॥ ततो वर्षसहस्रान्ते ह्यजिते पुरुषोत्तमे । पीतवाससमभ्येत्य दानवो वाक्यमब्रवीत् ॥ ८.३२ ॥ किमर्थं देवदेवेश साध्यं नारायणं हरिम् । विजेतुं नाद्य शक्नोमि एतन्मे कारणं वद ॥ ८.३३ ॥ पीतवासा उवाच । दुर्जयोऽसौ महाबाहुस्त्वया प्रह्लाद धर्मजः । साध्यो विप्रवरो धीमान्मृधे देवासुरैरपि ॥ ८.३४ ॥ प्रह्लाद उवाच । यद्यसौ दुर्जयो देव मया साध्यो रणाजिरे । तत्कथं यत्प्रतिज्ञातं तदसत्यं भविष्यति ॥ ८.३५ ॥ हीनप्रतिज्ञो देवेश कथं जीवेत मादृशः । तस्मात्तवाग्रतो विष्णो करिष्ये कायशोधनम् ॥ ८.३६ ॥ पुल्स्त्य उवाच । इत्येवमुक्त्वा वचनं देवाग्रे दानवेश्वरः । शिरःस्नातस्तदा तस्थौ गृणन् ब्रह्म सनातनम् ॥ ८.३७ ॥ ततो दैत्यपतिं विष्णुं पीतवासाब्रवीद्वचः । गच्छ जेष्यसि भक्त्या तं न युद्धेन कथञ्चन ॥ ८.३८ ॥ प्रह्लाद उवाच । मया जितं देवदेव त्रैलोक्यमपि सुव्रत । जितोऽयं त्वत्प्रसादेन शक्रः किमुत धर्मजः ॥ ८.३९ ॥ असौ यद्यजयो देव त्रैलोक्येनापि सुव्रतः । न स्थातुं त्वत्प्रसादेव शक्यं किमु करोम्यज ॥ ८.४० ॥ पीतवासा उवाच । सोऽहं दानवशार्दूल लोकानां हितकाम्यया । धर्मं प्रवर्त्तापयितुं तपश्चर्यां समास्थितः ॥ ८.४१ ॥ तस्माद्यदिच्छसि जयं तमाराधय दानव । तं पराजेष्यसे भक्त्या तस्माच्छुश्रूष धर्मजम् ॥ ८.४२ ॥ पुलस्त्य उवाच् । इत्युक्तः पीतवासेन दानवेन्द्रो महात्मना । अब्रवीद्वचनं हृष्टः समाहूयान्धकं मुनेष ॥ ८.४३ ॥ दैत्याश्च दानवाश्चैव परिपाल्यास्त्वयान्धक । मयोत्सृष्टमिदं राज्यं प्रतीच्छस्व महाभुज ॥ ८.४४ ॥ इत्येवमुक्तो जग्राह राज्यं हैरण्यलोचनिः । प्रह्लादोऽपि तदागच्छत्पुण्यं बदरिकाश्रमम् ॥ ८.४५ ॥ दृष्ट्वा नारायणं देवं नरं च दितिजेश्वरः । कृताञ्जलिपुटो भूत्वा ववन्दे चरणौ तयोः ॥ ८.४६ ॥ तमुवाच महातेजा वाक्यं नारायणोऽव्ययः । किमर्थं प्रणतोऽसीह मामजित्वा महासुर ॥ ८.४७ ॥ प्रह्लाद उवाच् । कस्त्वां जेतुं प्रभो शक्तः कस्त्वत्तः पुरुषोऽधिकः । त्वं हि नारायणोऽनन्तः पीतवासा जनार्दनः ॥ ८.४८ ॥ त्वं देवः पुण्डरीकाक्षस्त्वं विष्णुः शार्ङ्गचापधृक् । त्वमव्ययो महेशानः शाश्वतः पुरुषोत्तमः ॥ ८.४९ ॥ त्वां योगिनश्चिन्तयन्ति चार्चयन्ति मनीषिणः । जपन्ति स्नातकास्त्वां च यजन्ति त्वां च याज्ञिकाः ॥ ८.५० ॥ त्वमच्युको हृषीकेशश्चक्रपाणिर्धराधरः । महामीनो हयशिरास्त्वमेव वरकच्छपः ॥ ८.५१ ॥ हिरण्याक्षरिपुः श्रीमान् भगवानथ सूकरः । मत्पितुर्नाशनकरो भवानपि नृकेसरी ॥ ८.५२ ॥ ब्रह्म त्रिनेत्रोऽमरराढुताशः प्रेताधिपो नीरपतिः समीरः । सूर्यो मृगाङ्कोऽचलजङ्गमाद्यो भवान् विभो नाथ खगेन्द्रकेतो ॥ ८.५३ ॥ त्वं पृथ्वी ज्योतिराकाशं जलं भूत्वा सहस्रशः । त्वया व्याप्तं जगत्सर्वं कस्त्वां जेष्यति माधव ॥ ८.५४ ॥ भक्त्या यदि हृषीकेश तोषमेषि जगद्गुरो । नान्यथा त्वं प्रशक्तोऽसि जेतुं सर्वगताव्यय ॥ ८.५५ ॥ भगवानुवाच् । परितुष्टोऽस्मि ते दैत्य स्तवेनानेन सुव्रत । भक्त्या त्वनान्यया चाहं त्वया दैत्य पराजितः ॥ ८.५६ ॥ पराजितश्च पुरुषो दैत्य दण्डं प्रयच्छति । दण्डार्थं ते प्रदास्यामि वरं वृणु यमिच्छसि ॥ ८.५७ ॥ प्रह्लाद उवाच । नारायण वरं याचे यं त्वं मे दातुमर्हसि । तन्मे पापं लयं यातु शारीरं मानसं तथा ॥ ८.५८ ॥ वाचिकं च जगन्नाथ यत्त्वया सह युध्यतः । नरेण यद्यप्यभवद्वरमेतत्प्रयच्छ मे ॥ ८.५९ ॥ नारायण उवाच । एवं भवतु दैद्येन्द्र पापं ते यातु संक्षयम् । द्वितीयं प्रार्थय वरं तं ददामि तवासुर ॥ ८.६० ॥ प्रह्लाद उवाच । या या जायेय मे बुद्धिः सा सा विष्णो त्वदाश्रिता । देवार्चने च निरता त्वच्चित्ता त्वत्परायणा ॥ ८.६१ ॥ नारायण उवाच । एवं भविष्यत्यसुर वरमन्यं यमिच्छसि । तं वृणीष्व महाबाहो प्रदास्याम्यविचारयन् ॥ ८.६२ ॥ प्रह्लाद उवाच् । सर्वमेव मया लब्धं त्वत्प्रसादादधोक्षज । त्वत्पादपङ्कजाभ्यां हि ख्यातिरस्तु सदा मम ॥ ८.६३ ॥ एवमस्त्वपरं चास्तु नित्यमेवाक्षयोऽव्ययः । अजरश्चामरश्चापि मत्प्रसादाद्भविष्यसि ॥ ८.६४ ॥ गच्छस्व दैत्यशार्दूल स्वमावासं क्रियारतः । न कर्मबन्धो भवतो मच्चित्त्स्य भविष्यति ॥ ८.६५ ॥ प्रशासयदमून् दैत्यान् राज्यं पालय शाश्वतम् । स्वजातिसदृशं दैत्य कुरु धर्ममनुत्तमम् ॥ ८.६६ ॥ पुलस्त्य उवाच । इत्युक्तो लोकनाथेन प्रह्लादो देवमब्रवीत् । कथं राज्यं समादास्ये परित्यक्तं जगद्गुरो ॥ ८.६७ ॥ तमुवाच जगत्स्वामी गच्छ त्वं निजमाश्रयम् । हितोपदेष्टा दैत्यानां दानवानां तथा भव ॥ ८.६८ ॥ नारायणेनैवमुक्तः स तदा दैत्यनायकः । प्रणिपत्य विभुं तुष्टो जगाम नगरं निजम् ॥ ८.६९ ॥ दृष्टः सभाजितश्चापि दानवैरन्धकेन च । निमन्त्रितश्च राज्याय न प्रत्यैच्छत्स नारद ॥ ८.७० ॥ राज्यं परित्यज्य महासुरेन्द्रो नियोजयन् सत्पथि दानवेन्द्रान् । ध्यायन् स्मरन् केशवमप्रमेयं तस्थौ तदा योगविशुद्धदेहः ॥ ८.७१ ॥ एवं पुरा नारद दानवेन्द्रो नारायणेनोत्तमपूरुषेण । पराजितश्चापि विमुच्य राज्यं तस्थौ मनो धातरि सन्निवेश्य ॥ ८.७२ ॥ इति श्रीवामनपुराणे अष्टमोऽध्यायः ________________________________________________________________________ नारद उवाच । नेत्रहीनः कथं राज्ये प्रह्लादेनान्धको मुने । अभिषिक्तो जानतापि राजधर्मं सनातनम् ॥ ९.१ ॥ पुलस्त्य उवाच । लब्धचक्षुरसौ भूयो हिरण्याक्षेऽपि जीवति । ललोऽभिषिक्तो दैत्येन प्रह्लादेन निजे पदे ॥ ९.२ ॥ नारद उवाच् । राज्येऽन्धकोऽभिषिक्तस्तु किमाचरत सुव्रत । देवादिभिः सह कथं समास्ते तद्वदस्व मे ॥ ९.३ ॥ पुलस्त्य उवाच । राज्येऽभिषिक्तो दैत्येन्द्रो हिरण्याक्षसुतोऽन्धकः । तपसाराध्य देवेशं शूलपाणिं त्रिलोचनम् ॥ ९.४ ॥ अजेयत्वमवध्यत्वं सुरसिद्धर्षिपन्नगैः । अदाह्यत्वं हुताशेन अक्लेद्यत्वं जलेन च ॥ ९.५ ॥ एवं स वरलब्धस्तु दैत्यो राज्यमपालयत् । शुक्रं पुरोहितं कृत्वा समध्यास्ते ततोऽन्धकः ॥ ९.६ ॥ ततश्चक्रो समुद्योगं देवानामन्धकोऽसुरः । आक्रम्य वसुधां सर्वां मनुजेन्द्रान् पराजयत् ॥ ९.७ ॥ पराजित्य महीपालान् सहायार्थे नियोज्य चा । तैः समं मेरुशिखरं जगामाद्भुतदर्शनम् ॥ ९.८ ॥ शक्रोऽपि सुरसैन्यानि समुद्योज्य महागजम् । समारुह्यामरावत्यां गुप्तिं कृत्वा विनिर्ययौ ॥ ९.९ ॥ शक्रस्यानु तथैवान्ये लोकपाला महौजसः । आरुह्य वाहनं स्वं स्वं सायुधा निर्ययुर्बहिः ॥ ९.१० ॥ देवसेनापि च समं शक्रोणाद्भुतकर्मणा । निर्जगामातिवेगेन गजवाजिराथादिभिः ॥ ९.११ ॥ अग्रतो द्वादशादित्याः पृष्ठतश्च त्रिलोचनाः । मध्येऽष्टौ वसवो विश्वे साध्याश्विमरुतां गणाः । यभविद्याधराद्याश्च स्वं स्वं वाहनमास्थिताः ॥ ९.१२ ॥ नारद उवाच । रुद्रादीनां वदस्वेह वाहनानि च सर्वशः । एकैकस्यापि धर्मत्र परं कौतूहलं मम ॥ ९.१३ ॥ पुलस्त्य उवाच । शृणुष्व कथयिष्यामि सर्वेषामपि नारद । वाहनानि समासेन एकैकस्यानुपूर्वशः ॥ ९.१४ ॥ रुद्रहस्तलोत्पन्नो महावीर्यो महाजवः । श्वेतवर्णो गजपतिर्देवराजस्य वाहनम् ॥ ९.१५ ॥ रुद्रोरुसंभवो भीमः कृष्णवर्णो मनोजवः । पौण्ड्रको नाम महिषो धर्मराजस्य नारद ॥ ९.१६ ॥ रुद्रकर्ममलोद्भूतः श्यामो जलधिसंज्ञकः । शिशुमारो दिव्यगतिः वाहनं वरुणस्य च ॥ ९.१७ ॥ रौद्रः शकटचक्राक्षः शैलाकारो नरोत्तमः । अम्बिकापादसंभूतो वाहनं धनदस्य तु ॥ ९.१८ ॥ एकादशानां रुद्राणां वाहनानि महामुने । गन्धर्वाश्च महावीर्या भुजगोन्द्राश्च दारुणाः । श्वेतानि सौरभेयाणि वृषाण्युग्रजवानि च ॥ ९.१९ ॥ रथं चन्द्रमसश्चार्द्धूसहस्रं हंसवाहनम् । हरयो रथवाहाश्च आदित्या मुनिसत्तम ॥ ९.२० ॥ कुञ्जरस्थाश्च वसवो यक्षाश्च नरवाहनाः । किन्नरा भुजगारूढा हयारूढौ तथाश्विनौ ॥ ९.२१ ॥ सारङ्गधिष्ठिता ब्रह्मन्मरुतो घोरदर्शनाः । सुकारूढाश्च कवयो गन्धर्वाश्च पदातिनः ॥ ९.२२ ॥ आरुह्य वाहनान्येवं स्वानि स्वान्यमरोत्तमाः । संनह्य निर्ययुर्हृष्टा युद्धाय सुमहौजसः ॥ ९.२३ ॥ नारद उवाच् । गदितानि सुरादीनां वाहनानि त्वया मुने । दैत्यानां वाहनान्येवं यथावद्वक्तुमर्हसि ॥ ९.२४ ॥ पुलस्त्य उवाच । शृणुष्व दानवादीना वाहनानि द्विजोत्तम । कथयिष्यामि तत्त्वेन यथावच्छ्रोतुमर्हसि ॥ ९.२५ ॥ अन्धकस्य रथो दिव्यो युक्तः परमवाजिभिः । कृष्णवर्णैः सहस्रारस्त्रनल्वपरिमाणवान् ॥ ९.२६ ॥ प्रह्लादस्य रथो दिव्यश्चन्द्रवर्णैर्हयोत्तमैः । उह्यमानस्तथाष्टाभिः श्वेतरुक्ममयः सुभः ॥ ९.२७ ॥ विरोजनस्य च गजः कुजम्भस्य तुरङ्गमः । जम्भस्य तु रथो द्वियो हयैः काञ्जनसन्निभैः ॥ ९.२८ ॥ शङ्कुकर्णस्य तुरगो हयग्रीवस्य कुञ्जरः । रथो मयस्य विख्यातो दुन्दुभेश्च महोरगः । शम्बरस्य विमानोऽभूदयः शङ्कोर्मृगाधिपः ॥ ९.२९ ॥ वबलवृत्रौ च बलिनौ गदामुसलधारिणौ । पद्भ्यां दैवतसैन्यानि अभिद्रवितुमुद्यतौ ॥ ९.३० ॥ ततो रणोऽभूत्तुमुलः संकुलोऽतिभयङ्करः । रजसा संवृतो लोकी पिङ्गवर्णेन नारद ॥ ९.३१ ॥ नाज्ञासीच्च पिता पुत्रं न पुत्रः पितरं तथा । स्वानेवानये निजघ्नुर्वै परानन्ये च सुव्रत ॥ ९.३२ ॥ अभिद्रुतो महावेगो रथोपरि रथस्तदा । गजो मत्तगजेन्द्रं च सादी सादिनमभ्यगात् ॥ ९.३३ ॥ पदातिरपि संक्रुद्धः पदातिनमथोल्बणम् । परस्परं तु प्रत्यघ्नन्नन्योन्यजयकाङ्क्षिणः ॥ ९.३४ ॥ ततस्तु संकुले तस्मिन् युद्धे दैवासुरे मुने । प्रावर्तत नदी घोरा शमयन्ती रणाद्रजः ॥ ९.३५ ॥ शोणितोदा रथावर्त्ता योधसंघट्टवाहिनी । गजकुम्भमाहकूर्मा शरमीना दुरत्यया ॥ ९.३६ ॥ तीक्ष्णाग्रप्रासमकरा महासिग्राहवाहिनी । अन्त्रशैवलसंकीर्णा पताकाफेनमालिननी ॥ ९.३७ ॥ गृध्रकङ्कमहाहंसा श्येनचक्रआह्वमण्डिता । वनवायसकादम्बा गोमायुश्वापदाकुला ॥ ९.३८ ॥ पिशाचमुनिसंकीर्णा दुस्तरा प्राकृतैर्जनैः । रथप्लवैः संतरन्तः शूरास्तां प्रजगाहिरे ॥ ९.३९ ॥ आगुल्फआदवमज्जन्तः सूदयन्तः परस्परम्ः । समुत्तरन्तो वेगेन योधा जयधनेप्सवः ॥ ९.४० ॥ ततस्तु रौद्रो सुरदैत्यसादने महाहवे भीरुभयङ्करेऽथ । रक्षांसि यक्षाश्च सुसप्रहृष्टाः पिशाचयूथास्त्वभिरेमिरे च ॥ ९.४१ ॥ पिबन्त्यसृग्गाढतरं भटानामालिङ्ग्य मांसानि च भक्षयन्ति । वसां विलुम्पन्ति च वनिस्फुरन्ति गर्जन्त्यथान्योन्यमथो वयांसि ॥ ९.४२ ॥ मुञ्चन्ति फेत्काररवाञ्शिवाश्च क्रन्दन्ति योधा भुवि वेदनार्त्ताः । शस्त्रप्रतप्ता निपतन्ति चान्ये युद्धं श्मशानप्रतिमं बभूव ॥ ९.४३ ॥ तस्मिञ्शिवाघोररवे प्रवृत्ते मुरासुराणां सुभयङ्करे ह । युद्धं बभौ प्राणपणेपविद्धं द्वन्द्वेऽतिशस्त्राक्षगतो दुरोदरः ॥ ९.४४ ॥ हिरण्यचक्षुस्तनयो रणेऽन्धको रथे स्थितो वाजिसहस्रयोजिते । मत्तेभष्टष्टस्थितमुग्रतेजसं समेयिवान् देवपतिं शतक्रतुम् ॥ ९.४५ ॥ समापतन्तं महिषाधिरूढं यमं प्रतीच्छद्बलवान् दितीशः । प्रह्लादनामा तुरगाष्टयुक्तं रथं समास्थाय समुद्यातास्त्रः ॥ ९.४६ ॥ विरोचनश्चापि जलेश्वरं त्वगाज्जम्भस्त्वथागाद्धनदं बलाढ्यम् । वायुं समभ्येत्य च शम्बरोऽथ मयो हुताशं युयुधे मुनीन्द्र ॥ ९.४७ ॥ अन्ये हयग्रीवमुखा महाबला दितेस्तनूजा दनुपुङ्गवाश्च । सुरान् हुताशार्कवसूरकेश्वरान् द्वन्द्वं समासाद्य महाबलान्विताः ॥ ९.४८ ॥ गर्जन्त्यथान्योन्यमुपेत्य युद्धे चापानि कर्षन्त्यतिवेगिताश्च । मुञ्चन्ति नाराचगणान् सहस्रश अगच्छ हे तिष्ठसि किं ब्रुवन्तः ॥ ९.४९ ॥ शरैस्तु तीक्ष्णैरतितापयन्तः शस्त्रैरमोघैरभिताडयन्तः । मन्दाकिनीवेगनिभां वहन्तीं प्रवर्तयन्तो भयदां नदीं च ॥ ९.५० ॥ त्रैलोक्यमाकाङ्क्षिभिरुग्रवेगैः सुरासुरैर्नारद संप्रयुद्धे । पिशाचरक्षोगणपुष्टिवर्धनीमुत्तर्तुमिच्छद्भिरसृग्नदी बभै ॥ ९.५१ ॥ वाद्यन्ति तूर्याणि सुरासुराणां पश्यन्ति खस्था मुनिसिद्धसंघाः । नयन्ति तान्प्सरसां गणाग्र्या हता रणे येऽभिमुखास्तु शूराः ॥ ९.५२ ॥ इती श्रीवामनपुराणे नवमोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । ततः प्रवृत्ते संग्रामे भीरूणां भयवर्धने । सहस्रक्षो महाचापमादाय व्यसृजच्छरान् ॥ १०.१ ॥ अन्धकोऽपि महावेगं धनुराकृष्य भास्वरम् । पुरन्दराय चिक्षेप शरान् बर्हिणवाससः ॥ १०.२ ॥ तावन्योन्यं सुतीक्ष्णाग्रैः शरैः संनतपर्वभिः । रुक्मपुङ्खैर्महावेगैराजघ्नतुरुभावपि ॥ १०.३ ॥ चचः क्रुद्धूः शतमखः कुलिशं भ्राम्य पाणिना । चिक्षेप दैत्यराजाय तं ददर्श तथान्धकः ॥ १०.४ ॥ आजघान च बाणौघैरस्त्रैः स नारद । तान् भस्मसात्तदा चक्रे नगानिव हुताशनः ॥ १०.५ ॥ ततोऽतिवेगिनं वज्रं दृष्ट्वा बलवतां वरः । समाप्लुत्य रथात्तस्थौ भुवि बाहु सहायवान् ॥ १०.६ ॥ रथं सारथिना सार्धं साश्वध्वजसकूबम् । भस्म कृत्वाथ कुलिशमन्धकं समुपाययौ ॥ १०.७ ॥ तमापतन्तं वेगेन मुष्टिनाहत्य भूतले । पातयामास बलवान् जगर्ज च तदान्धकः ॥ १०.८ ॥ तं गर्जमानं वीक्ष्याथ वासवः सायकैर्दृढम् । ववर्ष तान् वारयन् स समभ्यायाच्छतक्रतुम् ॥ १०.९ ॥ आजघान तलेनेभं कुम्भमध्ये पदा करे । जानुना च समाहत्य विषाणं प्रबभञ्ज च । । १०.१० वाममुष्ट्या तथा पार्श्वं समाहत्यान्धकस्त्वरन् । गजेन्द्रं पातयामास प्रहारैर्जर्जरीकृतम् ॥ १०.११ ॥ गजेन्द्रात्पतमानाच्च अवप्लुत्य शतक्रतुः । पाणिना वज्रमादाय प्रविवेशामरावतीम् ॥ १०.१२ ॥ परङ्मुखे सहस्राक्षे तदा दैवतबलं महत् । पातयामा द्रत्येन्द्रः पादमुष्टितलादिभिः ॥ १०.१३ ॥ ततो वैवस्वतो दण्डं परिभ्राम्य द्विजोत्तम । समभ्यधावत्प्रह्लादं हन्तुकामः सुरोत्तमः ॥ १०.१४ ॥ तमापतन्तं बाणैघैर्ववर्षं रविनन्दनम् । हिरण्यकशिपोः पुत्रश्चापमानम्य वेगवान् ॥ १०.१५ ॥ तां बाणवृष्टिमतुलां दण्डेनाहत्य भास्करिः । शातयित्वा प्रचिक्षेप दण्डं लोकभयङ्करम् ॥ १०.१६ ॥ स वायुपथमास्थाय धर्मराजकरे स्थितः । जज्वाल कालग्निनिभो यद्वद्दग्धुं जगत्त्रयम् ॥ १०.१७ ॥ जाज्वल्यमानामायान्तं दण्डं दृष्ट्वा दितेः सुताः । प्राक्रोशन्ति हतः कष्टं प्रह्लादोऽयं यमेन हि ॥ १०.१८ ॥ तमाक्रन्दितमाकर्ण्य हिरण्याक्षसुतोऽन्धकः । प्रोवाच मा भैष्टच मयि स्थिते कोऽयं सुराधमः ॥ १०.१९ ॥ इत्येवसुक्त्वा वचनं वेगेनाबिससार च् जग्राह पाणिना दणेडं हसन् सव्येन नारद ॥ १०.२० ॥ तमादाय ततो वेगाद्भ्रामयामास चान्धकः । जगर्ज च महानादं यथा प्रावृषि तोयदः ॥ १०.२१ ॥ प्रह्लादं रक्षितं दृष्ट्वा दण्डाद्दैत्येश्वरेण हि । साधुवादं ददुर्हृष्टा दैत्यदानवयूथपाः ॥ १०.२२ ॥ भ्रामयन्तं महादण्डं दृष्ट्वा भानुसुतो मुने । दुःसहं दुर्धरं मत्वा अन्तर्धानमगाद्यमः ॥ १०.२३ ॥ अन्तर्हिते धर्मराजे प्रह्लादोऽपि महामुने । दारयामास बलवान् देवसैन्यं समन्ततः ॥ १०.२४ ॥ वरुणः शिशुमारस्थो बद्ध्वा पाशैर्महासुरान् । गदया दारयामास तमभ्यागाद्विरोचनः ॥ १०.२५ ॥ तोमरैर्वज्रसंस्पर्शैः शक्तिभिर्मार्गणैरपि । जलेशं ताडयामास मुद्गरैः कणपैरपि ॥ १०.२६ ॥ ततस्तं गदयाभ्येत्य पातयित्वा धरातले । अभिद्रुत्य बबन्धाथ पाशैर्मत्तगजं बली ॥ १०.२७ ॥ तान् पाशाञ्शतधा चक्रे वेगाच्च दनुजेश्वरः । वरुणं च समभ्येत्य मध्ये जग्राह नारद ॥ १०.२८ ॥ ततो दन्ती च शृङ्गाभ्यां प्रचिक्षेप तदाव्ययः । ममर्द च तथा पद्भ्यां सवाहं सलिलेश्वराम् ॥ १०.२९ ॥ तं मर्द्यमानं वीक्ष्याथ शशाङ्कः शिशिराशुमान् । अभ्येत्य ताडयामास मार्गणैः कायदारणैः ॥ १०.३० ॥ स ताड्यमानः शिशिरांशुबाणैरवाप पीडां परमां गजेन्द्रः । दुष्टश्च वेगात्पयसामधीशं मुहुर्मुहुः पादतलैर्ममर्द ॥ १०.३१ ॥ स मृद्यमानो वरुणो गजेन्द्रं पद्भ्यां सुगाढं जगृहे महर्षे । पादेषु भूमिं करयोः स्पृशंश्च मूर्द्धानमुल्लाल्य बलान्महात्मा ॥ १०.३२ ॥ गृह्याङ्गुलीभिश्च गजस्य पुच्छं कृत्वेह बन्धं भुजगेश्वरेण । उत्पाट्य चिक्षेप विरोचनं हि सकुञ्जरं खे सनियन्तृवाहम् ॥ १०.३३ ॥ क्षिप्तो जलेशेन विरोचनस्तु सकुञ्जरो भूमितले पपात । साट्टं सन्यत्रार्गलहर्म्यभूमि पुरं सुकेशेरिव भस्करेण ॥ १०.३४ ॥ ततो जलेशः सगदः सपाशः सम्भ्यधावद्दितिजं निहन्तुम् । ततः समाक्रन्दमनुत्तमं हि मुक्तं तु दैत्यैर्घनरावतुल्यम् ॥ १०.३५ ॥ हा हा हतोऽसौ वरुणेन वीरो विरोचनो दानवसैन्यपालः । प्रह्लाद हे जम्भकुजम्भकाद्या रक्षध्वमभ्येत्य सहान्धकेन ॥ १०.३६ ॥ अहो महात्मा बलवाञ्जलेशः संचूर्णयन् दैत्यभटं सवाहम् । पाशेन बद्ध्वा गदया निहन्ति यथा पशुं वाजिमखे महेन्द्रः ॥ १०.३७ ॥ श्रुतत्वाथ शब्दं दितिजैः समीरितं जम्भप्रधाना दितिजेश्वरास्ततः । समभ्यधावंस्त्वरिता जलेश्वरं यथा पतङ्गा ज्वलितं हुताशनम् ॥ १०.३८ ॥ तानागतान् वै प्रसमीक्ष्य देवः प्राह्लादिसुत्सृज्य वितत्य पाशम् । गदां समुद्भ्राम्य जलेश्वरस्तु दुद्राव तान् जम्भमुखानरातीन् ॥ १०.३९ ॥ जम्भं च पाशेन तथा निहत्य तारं तलेनाशनिसंनिभेन । पादेन वृत्रं तरसा कुजम्भं निपातयामास बलं च मुष्ट्या ॥ १०.४० ॥ तेनार्दिता देववरेण दैत्याः संप्राद्रवन् दिक्षु विमुक्तशस्त्राः । ततोऽन्धकः सत्वरितोऽभ्युपेयाद्रणाय योद्धुं जलनायकेन ॥ १०.४१ ॥ तमापतन्तं गदया जघान पाशेन बद्ध्वा परुणोऽसुरेशम् । तं पाशमाविध्य गदां प्रगृह्य चिक्षेप दैत्यः स च जलेश्वराय ॥ १०.४२ ॥ तमापतन्तं प्रसमीक्ष्य पाशं गदां च दाक्षायणिनन्दनस्तु । विवेश वेगात्पयसां निधानं ततोऽन्धको देवबलं ममर्द ॥ १०.४३ ॥ ततो हुताशः सुरशत्रुसैन्यं ददाह रोषात्पवनावधूतः । तमभ्ययाद्दानवविश्वकर्मा मयो महाबाहुरुदग्रवीर्यः ॥ १०.४४ ॥ तमापतन्तं सह शम्बरेण समीक्ष्य वह्निः पवनेन सार्धम् । शक्त्या मयं शम्बरमेत्य कण्ठे संताड्य जग्राह बलान्महर्षे ॥ १०.४५ ॥ शक्त्या स कायावरणे विदारिते संभिन्नदेहो न्यपतत्पृथिव्याम् । मयः प्रजज्वाल च शम्वरोऽपि कण्ठावलग्ने ज्वलने प्रदीप्ते ॥ १०.४६ ॥ स दह्यमानो दितिजोऽग्निनाथ सुविस्वरं घोरतरं रुराव । सिंहाभिपन्नो विपिने यथैव मत्तो गजः क्रन्दति वेदनार्त्तः ॥ १०.४७ ॥ तं शब्दमाकर्ण्य च शम्बरस्य दैत्येश्वरः क्रोधविरक्तदृष्टिः । आः किं किमेतन्ननु केन युद्धे जितो मयः शम्बरदानवश्च ॥ १०.४८ ॥ ततोऽब्रुवन् दैत्यभटा दितीशं प्रदह्यते ह्येष हुताशनेन । रक्षस्व चाभ्येत्य न शक्यतेऽन्यैर्हुताशनो वारयितुं रणाग्रे ॥ १०.४९ ॥ इत्थं स दैत्यैरभिनोदितस्तु हिरण्यचक्षुस्तनयो महर्षे । उद्यम्य वेगात्परिघं हुताशं समाद्रवत्तिष्ठ तिष्ठ ब्रुवन् हि ॥ १०.५० ॥ श्रुत्वान्धकस्यापि वचोऽव्ययात्मा संक्रुद्धचित्तस्त्वरितो हि दैत्यम् । उत्पाट्य भूम्यां च विनिष्पिपेष ततोऽन्धकः पावकमाससाद ॥ १०.५१ ॥ समाजघानाथ हुताशनं हि वरयुधेनाथ वराङ्गमध्ये । समाहतोऽग्निः परिमुच्य शम्बरं तथान्धकं स त्वरितोऽभ्यधावत् ॥ १०.५२ ॥ तमापतन्तं परिघेण भूयः समाहनन्मूर्ध्नि तदान्धकोऽपि । स ताडितोऽग्निर्दितिजेश्वरेण भयात्प्रदुद्राव रणाजिराद्वि ॥ १०.५३ ॥ ततोऽन्धको मारुतचन्द्रभास्करान् साध्यान् सरुद्राश्विवसून्महोरगान् । यान् याञ्शरेण स्पृशते पराक्रमी पराङ्मुखांस्तान्कृतवान् रणाजिरात् ॥ १०.५४ ॥ ततो विजित्यामरसैन्यसुग्रं सेन्द्रं सरुद्रं सयमं ससोमम् । संपूज्यमानो दनुपुङ्गवैस्तु तदान्धको भूमिमुपाजगाम ॥ १०.५५ ॥ आसाद्य भूमिं करदान्नरेन्द्रान् कृत्वा वशे स्थाप्य चराचरं च् जगत्समग्रं प्रविवेश धीमान् पातालमग्र्यं पुरमश्मकाह्वम् ॥ १०.५६ ॥ तत्र स्थितस्यापि महासुरस्य गन्धर्वविद्याधरसिद्धसंघाः । सहाप्सरोभिः परिचारणाय पातालमभ्येत्य समावसन्त ॥ १०.५७ ॥ इति श्रीवामनपुराणे दशमोऽध्यायः ________________________________________________________________________ नारद उवाच । यदेतद्भवता प्रोक्तं सुकेशिनकरोऽम्बरात् । पातितो भुवि सूर्योण तत्कदा कुत्र कुत्र च ॥ ११.१ ॥ सुकेशीति च कश्चासौ केन दत्तः पुरोऽस्य च । किमर्थं पातितो भूम्यामाकाशाद्भास्करेण हि ॥ ११.२ ॥ पुलस्त्य उवाच् । शृणुष्वावहितो भूत्वा कथामेतां पुरातनीम् । यथोक्तवान् स्वयंभूर्मां कथ्यमानां मयानघ ॥ ११.३ ॥ आसीन्निशाचरपतिर्विद्युत्केशीति विश्रुतः । तस्य पुत्रो गुणज्येष्ठः सुकेशिरभवत्ततः ॥ ११.४ ॥ तस्य तुष्टस्तथेशानः पुरमाकाशचारिणम् । प्रादादजेयत्वमपि शत्रुभिश्चाप्यवध्यताम् ॥ ११.५ ॥ स चापि शङ्करात्प्राप्य वरं गगनगं पुरम् । रेमे निशाचरैः सार्द्धू सदा धर्मपथि स्थितः ॥ ११.६ ॥ स कदाचिद्गतोऽरण्यं मागधं राक्षसेश्वरः । तत्राश्रमांस्तु ददृशो ऋषीणां भावितात्मनाम् ॥ ११.७ ॥ महर्षिन् स तदा दृष्ट्वा प्रणिपत्याभिवाद्य च् प्रत्युवाच ऋषीन् सर्वान् कृतासनपरिग्रहः ॥ ११.८ ॥ सुकेशिरुवाच । प्रष्टुमिच्छामि भवतः संशयोऽयं हृदि स्थितः । कथयन्तु भवन्तो मे न चौवाज्ञापयाम्यहम् ॥ ११.९ ॥ किंस्विच्छ्रेयः परे लोके किमु चेह द्विजोत्तमाः । केन पूज्यस्तथा सत्सु केनासौ सुखमेधते ॥ ११.१० ॥ पुलस्त्य उवाच् । इत्थं सुकेशिवचनं निशम्य परमर्षयः । प्रोचुर्विमृस्य श्रेयोर्ऽथमिह लोके परत्र च ॥ ११.११ ॥ ऋष ऊचुः । श्रूयतां कथयिष्यामस्तव राक्षसपुङ्गव । यद्धि श्रेयो भवेद्वीर इह चामुत्र चाव्ययम् ॥ ११.१२ ॥ श्रेयो धर्मः परे लोके इह च क्षणदाचर । तस्मिन् समाश्रितः सत्सु पूज्यस्तेन सुखी भवेत् ॥ ११.१३ ॥ सुकेशिरुवाच । किंलक्षणो भवेद्धर्मः किमाचरणसत्क्रियः । यमाश्रित्य न सीदन्ति देवाद्यास्तु तदुच्यताम् ॥ ११.१४ ॥ ऋषय ऊचुः । देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः । स्वाध्यायवेदवेत्तृत्वं विष्णुपूजारतिः स्मृता ॥ ११.१५ ॥ दैत्यानां बाहुशलित्वं मात्सर्यं युद्धसत्क्रिया । वेदनं नीतिशास्त्राणां हरभक्तिरुदाहृता ॥ ११.१६ ॥ सिद्धानामुदितो धर्मो योगयुक्तिरनुत्तमा । स्वाध्यायं ब्रह्मविज्ञानं भक्तिर्द्वाभ्यामपि स्थिरा ॥ ११.१७ ॥ उत्कृष्टोपासनं ज्ञेयं नृत्यवाद्येषु वेदिता । सरस्वत्यां स्थिरा भक्तिर्गान्धर्वो धर्म उच्यते ॥ ११.१८ ॥ विद्याधरत्वमतुलं विज्ञानं पौरुषे मतिः । विद्याधराणां धर्मोऽयं भवान्यां भक्तिरेव च ॥ ११.१९ ॥ गन्धर्वविद्यावेदित्वं भक्तिर्भानौ तथा स्थिरा । कौशल्यं सर्वशिल्पानां धर्मः किंपुरुषः स्मृतः ॥ ११.२० ॥ ब्रह्मचर्यममानित्वं योगाभ्यासरतिर्दृढा । सर्वत्र कामचारितवं धर्मोऽयं पैतृकः स्मृतः ॥ ११.२१ ॥ ब्रह्मचर्यं यताशित्वं जप्यं ज्ञानं च राक्षस । नियमाद्धर्मवेदित्वमार्थो धर्मः प्रचक्ष्यते ॥ ११.२२ ॥ स्वाध्यायं ब्रह्मचर्यं च दानं यजनमेव च । अकार्पण्यमनायासं दयाहिंसा क्षमा दमः ॥ ११.२३ ॥ जितेन्द्रियत्वं शौचं च माङ्गल्यं भक्तिरच्युते । शङ्करे भास्करे देव्यां धर्मोऽयं मानवः स्मृतः ॥ ११.२४ ॥ धनाधिपत्यं भोगानि स्वाध्यायं शकरर्चनम् । अहङ्कारमशौण्डीर्यं धर्मोऽयं गुह्यकेष्विति ॥ ११.२५ ॥ परदारावमर्शित्वं पारक्येर्ऽथे च लोलुपा । स्वाध्यायं त्र्यम्बके भक्तिर्धर्मोऽयं राक्षसः स्मृतः ॥ ११.२६ ॥ अविवेकमथाज्ञानं शौचहानिरसत्यता । पिशाचानामयं धर्मः सदा चामिषगृध्नुता ॥ ११.२७ ॥ योनयो द्वादशैवैतास्तासु धर्माश्च राक्षस । ब्रह्मणा कथिताः पुण्या द्वादशैव गतिप्रदाः ॥ ११.२८ ॥ सुकेशिरुवाच । भवद्भिरुक्ता ये धर्माः शाश्वता द्वादशाव्ययाः । तत्र ये मानवा धर्मास्तान् भूयो वक्तुमर्हथ ॥ ११.२९ ॥ ऋषय ऊचुः । शृणुष्व मनुजादीनां धर्मास्तु क्षणदाचर । ये वसन्ति महीपृष्ठे नरा द्वीपेषु सप्तसु ॥ ११.३० ॥ योजनानां प्रमाणेणन पञ्चाशत्कोटिरायता । जलोपरि महीयं हि नौरिवास्ते सरिज्जले ॥ ११.३१ ॥ तस्योपरि च देवेशो ब्रह्म शौलेन्द्रमुत्तमम् । कर्णिकाकारमत्युच्चं स्थापयामास सत्त्म ॥ ११.३२ ॥ तस्येमां निर्ममे पुण्यां प्रजां देवश्चतुर्दिशम् । स्थानानि द्वीपसंज्ञानि कृतवांश्च प्रजापतिः ॥ ११.३३ ॥ तत्र मध्ये च कृतवाञ्जम्बूद्वीपमिति श्रुतम् । तल्लक्षं योजनानां च प्रमाणेन निगद्यते ॥ ११.३४ ॥ ततो जलनिधी रौद्रो बाह्यतो द्विगुणः स्थितः । तस्यापि द्विगुणः प्लक्षो बाह्यतः संप्रतिष्ठितः ॥ ११.३५ ॥ ततस्त्विक्षुरसोदश्च बाह्यतो वलयासृतिः । द्विगुणः शाल्मलिद्वीपो द्विगुणोऽस्य महोदधेः ॥ ११.३६ ॥ सुरोदो द्विगुणस्तस्य तस्माच्च द्विगुणः कुशः । घृतोदो द्विगुणश्चैव कुशद्वीपात्प्रकीर्तितः ॥ ११.३७ ॥ घृतोदाद्द्विगुणः प्रोक्तः क्रौञ्चद्वीपो निशाचर । ततोऽपि द्विगुणः प्रोक्तः समुद्रो दधिसंज्ञितः ॥ ११.३८ ॥ समुद्राद्द्विगुणः शाकः शाकाद्दुग्धाब्धिरुत्तमः । द्विगुणः संस्थितो यत्र शेषपर्यङ्कगो हरिः । एते च द्विगुणाः सर्वे परस्परमपि स्थिताः ॥ ११.३९ ॥ चत्वारिंशदिमाः कोट्यो लक्षाश्च नवतिः स्मृताः । योजनानां राक्षसेन्द्र पञ्च चाति सुवुस्तृताः । जम्बूद्वीपात्समारभ्य यावत्क्षीराब्धिरन्ततः ॥ ११.४० ॥ तस्माच्च पुष्करद्वीपः स्वादूदस्तदनन्तरम् । कोट्यश्चतस्रो लक्षाणां द्विपञ्चाशच्च राक्षस ॥ ११.४१ ॥ पुष्करद्वीपमानोऽयं तावदेव तथोदधिः । लक्षमण्डकटाहेन समन्तादिभिपूरितम् ॥ ११.४२ ॥ एवं द्वीपास्त्विमे सप्त पृथग्धर्माः पृथक्क्रियाः । गदिष्यामस्तव वयं शृमुष्व त्वं निशाचर ॥ ११.४३ ॥ प्लक्षादिषु नरा वीर ये वसन्ति सनातनाः । शाकान्तेषु न तेष्वस्ति युगावस्था कथञ्चन ॥ ११.४४ ॥ मोदन्ते देववत्तेषां धर्मो दिव्य उदाहृतः । कल्पान्ते प्रलयस्तेषां निगद्येत महाभुज ॥ ११.४५ ॥ ये जनाः पुष्करद्वीपे वसन्ते रौद्रदर्शने । पैशाचमाश्रिता धर्मं कर्मान्ते ते विनाशिनः ॥ ११.४६ ॥ सुकेशिरुवाच । किमर्थं पुष्कद्वीपो भवद्भिः समुदाहृतः । दुर्दर्शः शौचरहितो घोरः कर्मान्तनाशकृत् ॥ ११.४७ ॥ तस्मिन्निशाचर द्वीपे नरकाः सन्ति दारुणाः । रौरवाद्यास्ततो रौद्रः पुष्करो घोरदर्शनः ॥ ११.४८ ॥ सुकेशिरुवाच । कियन्त्येतानि रौद्राणि नरकाणि तपोधनः । कियन्मात्राणि मार्गेण का च तेषु स्वरूपता ॥ ११.४९ ॥ ऋषय ऊचुः । शृणुष्व राक्षसश्रेष्ठ प्रमाणं लक्षणं तथा । सर्वेषां रौरवादीनां संख्या या त्वेकविंशतिः ॥ ११.५० ॥ द्वे सहस्रे योजनानां ज्वलिताङ्गारविस्तृते । रौरवो नाम नरकः प्रथमः परिकीर्त्तितः ॥ ११.५१ ॥ तप्तताम्रमयी भूमिरधस्ताद्वाह्नितापिता । द्वितीयो द्विगुस्तस्मान्महारौरव उच्यते ॥ ११.५२ ॥ ततोऽपि द्विःस्थितश्चान्यस्तमिस्रो नरकः स्मृतः । अन्धतामिस्रको नाम चतुर्थो द्विगुमः परः ॥ ११.५३ ॥ ततस्तु कालचक्रेति पञ्चमः परिगीयते । अप्रतिष्ठं च नरकं घटीयन्त्रं च सप्तमम् ॥ ११.५४ ॥ असिपत्रवनं चान्यत्सहस्राणि द्विसप्ततिः । योजनानां परिख्यातमष्टमं नरकोत्तमम् ॥ ११.५५ ॥ नमकं तप्तकुम्भं च दशमं कूटशाल्मलिः । करपत्रस्तथैवोक्तस्तथान्यः श्वानभोजनः ॥ ११.५६ ॥ संदंशो लोहपिण्डश्च करम्भसिकता तथा । घोरा क्षारनदी चान्या तथान्यः कृमिभोजनः । तथाष्टादशमी प्रोक्ता घोरा वैतरणी नदी ॥ ११.५७ ॥ तथापरः शोणितपूयभोजनः क्षुराग्रधारो निशितश्च चक्रकः । संशोषणो नाम तथाप्यनन्तः प्रोक्तास्तवैते नरकाः सुकेशिन् ॥ ११.५८ ॥ इति श्रीवामनपुराणे एकादशोऽध्यायः ________________________________________________________________________ सुकेशिरुवाच । कर्मणा नरकानेतान् केन गच्छन्ति वै कथम् । एतद्वदन्तु विप्रेन्द्राः परं कौतूहलं मम ॥ १२.१ ॥ ऋषय ऊचुः । कर्मणा येन येनेह यान्ति शालकटङ्कट । स्वकर्मफलभोगार्थं नरकान्मे शृणुष्व तान् ॥ १२.२ ॥ वेदवेवद्विजातीनां यैर्निन्दा सततं कृता । ये पुराणेतिहासार्थान्नाभिनन्दन्ति पापिनः ॥ १२.३ ॥ कुरुनिन्दाकरा ये च सखविघ्नकराश्च ये । दातुर्निवारकाये च तेषु ते निपतन्ति हि । । १२.४ सुहृद्दम्पतिसोदर्यस्वामिभृत्यपितासुतान् । याज्योपाध्याययोर्यैश्च कृतो भेदोऽधमैर्मिथः ॥ १२.५ ॥ कन्यामेकस्य दत्त्वा च ददत्यन्यस्य येऽधमाः । करपत्रेण पाट्यन्ते ते द्विधा यमकिङ्करैः ॥ १२.६ ॥ परोपतापजनकाश्चन्दनोशीरहारिणः । बालव्यजनहर्त्तारः करम्भसिकताश्रिताः ॥ १२.७ ॥ निमन्त्रितोऽन्यतो भुङ्क्ते श्राद्धे दैवे सपैतृके । स द्विधा कृष्यते मूढस्तीक्ष्णतुण्डैः खगोत्तमैः ॥ १२.८ ॥ मर्माणि यस्तु साधूनां तुदन् वाग्भिर्निकृन्तति । तस्योपरि तुदन्तस्तु तुण्डैस्तिष्ठन्ति पत्त्रिणः ॥ १२.९ ॥ यः करोति च पैशुन्यं साधूनामन्यथामतिः । वज्रतुण्डनखा जिह्वामाकर्षन्तेऽस्य वायसाः ॥ १२.१० ॥ मातापितृगुरूणां च येऽवज्ञां चक्रुरुद्धताः । मज्जन्ते पूयविम्मूत्रे त्प्रतिष्ठे ह्यधोसुखाः ॥ १२.११ ॥ देवतातिथिभूतेषु भृत्येष्वभ्यागतेषु च । अभुक्तवत्सु येऽश्नन्ति बालपित्रग्निमातृषु ॥ १२.१२ ॥ दुष्टचासृक्पूयनिर्यासं भुञ्जते त्वधमा इमे । सूचीमुखाश्च जायन्ते क्षुधार्त्ता गिरिविग्रहाः ॥ १२.१३ ॥ एकपङ्क्त्युपविष्टानां विषमं भोजयन्ति ये । विड्भोजनं राक्षसेन्द्र नरकं ते व्रजन्ति च ॥ १२.१४ ॥ एकसार्थप्रयातं ये पश्यन्तश्चार्थिनं नराः । असंविभज्य भुञ्जन्ति ते यान्ति श्लेष्मभोजनम् ॥ १२.१५ ॥ गोब्राह्णणाग्नयः स्पृष्टा यैरुच्छिष्टैः क्षपाचर । क्षिप्यन्ते हि करास्तेषां तप्तसुम्भे सुदारुणे ॥ १२.१६ ॥ सूर्येन्दुतारका दृष्टा यैरुच्छिष्टैश्च कामतः । तेषां नेत्रगतो वह्निर्धम्यते यमकिङ्करैः ॥ १२.१७ ॥ मित्रजायाथ जननी ज्येष्ठो भ्राता पिता स्वसा । जामयो गुरवो वृद्धा यैः संस्पृष्टाः पदा नृभिः ॥ १२.१८ ॥ बद्धाङ्घ्रयस्ते विगडैर्लोहैर्वाह्निप्रतापितैः । क्षिप्यन्ते रौरवे घोरे ह्याजानुपरिदाहिनः ॥ १२.१९ ॥ पायसं कृशरं मांसं वृथा भुक्तानि यैर्नरैः । तेषामयोगुडास्तप्ताः क्षिप्यन्ते वदनेऽद्भुताः ॥ १२.२० ॥ गुरुदेवद्विजातीनां वेदानां च नराधमैः । निन्दा निशामिता यैस्तु पापानामिति कुर्वताम् ॥ १२.२१ ॥ तेषां लोहमयाः कीला वह्निवर्णाः पुनः पुनः । श्रवणेषु निखन्यन्ते धर्मराजस्य किङ्करैः ॥ १२.२२ ॥ प्रपादेवकुलालामान् विप्रवेश्मसभामठान् । कूपवापीतडागांश्च भङ्क्त्वा विध्वंसयन्ति ये ॥ १२.२३ ॥ तेषां विलपतां चर्म देहतः क्रियते पृथक् । कर्त्तिकाभिः सुतीक्ष्णीभिः सुरौद्रैर्यमकिङ्करैः ॥ १२.२४ ॥ गोब्राह्मणार्कमग्निं च ये वै मेहन्ति मानवाः । तेषां गुदेव चान्त्राणि विनिःकृन्तन्ति वायसाः ॥ १२.२५ ॥ स्वपोषणपरो यस्तु परित्यजति मानवः । पुत्रभृत्यकलत्रादिबन्धुवर्गमकिञ्चनम् । दुर्भिक्षे संभ्रमे चापि स श्वभोज्ये निपात्यते ॥ १२.२६ ॥ शरणागतं ये त्यजन्ति ये च बन्धनपालकाः । पतन्ति यन्त्रपीडे ते ताड्य मानास्तु किङ्करैः ॥ १२.२७ ॥ क्लेशयन्ति हि विप्रादीन् ये ह्यकर्मसु पापिनः । ते पिष्यन्ते शिलापेषे शोष्यनतेऽपि च शोषकैः ॥ १२.२८ ॥ न्यासापहारिणः पापा बध्यन्ते निगडैरपि । श्रुत्क्षामाः शुष्कताल्वोष्ठाः पात्यन्ते वृश्चिकाशने ॥ १२.२९ ॥ पर्वमैथुनिनः पापाः परदाररताश्च ये । ते वह्नितप्तां कूटाग्रामालिङ्गन्ते च शाल्मलीम् ॥ १२.३० ॥ उपाध्यायमधःकृत्य यैरधीतं द्विजाधमैः । तेषामध्यापको यश्च स शिलां शिरसा वहेत् ॥ १२.३१ ॥ मूत्रश्लेष्मपुरीषाणि यैरुत्सृष्टानि वारिणि । ते पात्यन्ते च विण्मूत्रे दुर्गन्धे पूयपूरिते ॥ १२.३२ ॥ श्राद्धातिथेयमन्योन्यं यैर्भुक्तं भुवि मानवैः । परस्परं भक्षयन्ते मांसानि स्वानि बालिशाः ॥ १२.३३ ॥ वेदवह्निगुरुत्यागी भार्यापित्रोस्तथैव च् गिरिशृड्गादधःपातं पात्यन्ते यमकिङ्करैः ॥ १२.३४ ॥ पुनर्भूपतयो ये च कन्याविध्वंसकाश्च ये । तद्गर्भश्राद्धभुग्यश्च कृमीन्भक्षेत्पिपीलिकाः ॥ १२.३५ ॥ चाण्डालादन्त्यजाद्वापि प्रतिगृह्णाति दक्षिणाम् । याजको यजमानश्च सोऽस्मान्तः स्थूलकीटकः ॥ १२.३६ ॥ पृष्ठमांसाशिनो मूढास्तथैवोत्कोचजीविनः । क्षिप्यन्ते वृकभक्षे ते नरके रजनीचर ॥ १२.३७ ॥ स्वर्णस्तेयी च ब्रह्मघ्नः सुरापो गुरुलल्पगः । तथा गोभूमिहर्त्तरो गोस्त्रीबालहनाश्च ये ॥ १२.३८ ॥ एत नरा द्विजा ये च गोषु विक्रयिणस्तथा । सोमविक्रयिणो ये च वेदविक्रयिणस्तथा ॥ १२.३९ ॥ कूटसभ्यास्त्वशौचाश्च नित्यनैमित्तनाशकाः । कूटसाक्ष्यप्रदा ये च ते महारौरवे स्थिताः ॥ १२.४० ॥ दशवर्ष सहस्राणि तावत्तामिस्रके स्थिताः । तावच्चैवान्धतामिस्रे असिपत्रवने ततः ॥ १२.४१ ॥ तावच्चैव घटीयन्त्रे तप्तकुम्भे ततः परम् । प्रपातो भवते तेषां यैरिदं दुष्कृतं कृतम् ॥ १२.४२ ॥ ये त्वेते नरका रौद्रा रौरवाद्यास्तवोदिताः । ते सर्वे क्रमशः प्रोक्ताः कृतघ्ने लोकनिन्दिते ॥ १२.४३ ॥ यथा सुराणां प्रवरो जनार्दनो यथा गिरीणामपि शैशिराद्रिः । यथायुधानां प्रवरं सुदर्शनं यथा खगानां विनतातनूजः । महोरगाणां प्रवरोऽप्यनन्तो यथा च भूतेषु मही प्रधाना ॥ १२.४४ ॥ नदीषु गङ्गा जलजेषु पद्मं सुरारिमुख्येषु हराङ्घ्रिभक्तः । क्षेत्रेषु यद्वत्कुरुजङ्गलं वरं तीर्थेषु यद्वत्प्रवरं पृथूदकम् ॥ १२.४५ ॥ सरस्सु चैवोत्तरमानसं यथा वनेषु पुण्येषु हि नन्दनं यथा । लोकेषु यद्वत्सदनं विरिञ्चेः सत्यं यथा धर्मविधिक्रियासु ॥ १२.४६ ॥ यथाश्वमेधः प्रवरः क्रतूनां पुत्रो यथा स्पर्शवतां वरिष्ठः । तपोधनानामपि सुम्भयोनिः श्रुतिर्वरा यद्वदिहागमेषु ॥ १२.४७ ॥ मुख्यः पुराणेषु यथैव मात्स्यः स्वायंभुवोक्तिस्त्वपि संहितासु । मनुः स्मृतीनां प्रवरो यथैव तिथीषु दर्शा विषुवेषु दानम् ॥ १२.४८ ॥ तेजस्विनां यद्वदिहार्क उक्तो ऋक्षेषु चन्द्रो जलधिर्ह्वदेषु । भवान् यथा राक्षससत्तमेषु पाशेषु नागस्तिमितेषु बन्धः ॥ १२.४९ ॥ धान्येषु शलिर्द्विपदेषु विप्रः चतुष्पदे गौः श्वपदां मृगेन्द्रः । पुष्पेषु जाती नगरेषु काञ्ची नारीषु रम्भा श्रमीणां गृहस्थः ॥ १२.५० ॥ कुशस्थली श्रेष्ठतमा पुरेषु देशेषु सर्वेषु च मध्यदेशः । फलेषु चूतो मुकुलेष्वशोकः सर्वौषधीनां प्रवरा च पथ्या ॥ १२.५१ ॥ मूलेषु कन्दः प्रवरो यथोक्तो व्याधिष्वजीर्णं क्षणदाचरेन्द्र । श्वेतेषु दुग्धं प्रवरं यथैव कार्पासिकं प्रावरणेषु यद्वत् ॥ १२.५२ ॥ कलासु मुख्या गणितज्ञता च विज्ञानमुख्येषु यथेन्द्रजालम् । शाकेषु मुख्या त्वपि काकमाची रसेषु मुख्यं लवणं यथैव ॥ १२.५३ ॥ तुङ्ड्गेषु तालो नलिनीषु पम्पा वनौकसेष्वेव च ऋक्षराजः । महीरुहेष्वेव यथा वटश्च यथा हरो ज्ञानवतां वरिष्ठः ॥ १२.५४ ॥ यथा सतीनां हिमवत्सुता हि यथार्जुनीनां कपिला वरिष्ठा । यथा वृषाणामपि नीलवर्णो यथैव सर्वेष्वपि दुःसहेषु । दुर्गेषु रौद्रेषु निशाचरेश नृपातनं वैतरणी प्रधाना ॥ १२.५५ ॥ पापीयसां तद्वदिह कृघ्नाः सर्वेषु पापेषु वनशाचरेन्द्र । ब्रह्मघ्नगोघ्नादिषु निष्कृतिर्हि विद्येतत नैवास्य तु दुष्टचारिणः । न निष्कृतिश्चास्ति कृतघ्नवृत्तेः सुहृत्कृतं नाशयतोऽब्दकोटिभिः ॥ १२.५६ ॥ इति श्रीवामनपुराणे द्वादशोऽध्यायः ________________________________________________________________________ सुकेशिरुवाच । भवद्भिरुदिता घोरा पुष्करद्वीपसंस्थितिः । जम्बूद्वीपस्य संस्थानं कथयन्तु महर्षयः ॥ १३.१ ॥ ऋषय ऊचुः । जम्बूद्वीपस्य संस्थानं कथ्यमानं निसामय । नवभेदं सुविस्तीर्णं स्वर्गसोक्षफलप्रदम् ॥ १३.२ ॥ मध्ये त्विलावृतो वर्षो भद्रश्वः पूर्वतोऽद्भुतः । पूर्व उत्तरतश्चापि हिरण्यो राक्षसेश्वर ॥ १३.३ ॥ पूर्वदक्षिणतश्चापि किंनरो वर्ष उच्यते । भारतो दक्षिणे प्रोक्तो हरिर्दक्षिणपशचिमे ॥ १३.४ ॥ पश्चिमे केकुमालश्च रम्यकः पश्चिमोत्तरे । उत्तरे च कुरुर्वर्षः कल्पवृक्षसमावृतः ॥ १३.५ ॥ पुण्या रम्या नवैवैते वर्षाः शालकटङ्कट । इलावृताद्या ये चाष्टौ वर्षं मुक्त्वैव भारतम् ॥ १३.६ ॥ न तेष्वस्ति युगावस्था जरामृत्युभयं न च । तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्यत्नतः । विपर्ययो न तेष्वस्ति नोत्तमाधममध्यमाः ॥ १३.७ ॥ यदेतद्भारतं वर्षं नवद्वीपं निसाचर । सागरान्तरिताः सर्वे अगम्याश्च परस्परम् ॥ १३.८ ॥ इन्द्रीपः कसेरुमांस्ताम्रवर्णो गभस्तिमान् । नागद्वीपः कटाहश्च सिंहलो वारुणस्तथा ॥ १३.९ ॥ अयं तु नवमस्तेषां द्वीपः सागरसंवृतः । कुमाराख्यः परिख्यातो द्वीपोऽयं दक्षिणोत्तरः ॥ १३.१० ॥ पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः । आन्ध्रा दक्षिमते वीर तुरुष्कास्त्वपि चोत्तरे ॥ १३.११ ॥ ब्राह्मणाः क्षत्रिया वैश्याः सूद्राश्चान्तरवासिनः । इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः ॥ १३.१२ ॥ तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते । स्वर्गापवर्गप्राप्तिश्च पुण्यं पापं तथैव च । । १३.१३ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥ १३.१४ ॥ तथान्ये शतसाहस्रा भूधरा मध्यवासिनाः । विस्तारोच्छ्रायिणो रम्या विपुलाः शुभसानवः ॥ १३.१५ ॥ कोलाहलः सवैभ्राजो मन्दरो दुर्दराचलः । वातन्धमो वैद्युतश्च मैनाकः सरसस्तथा ॥ १३.१६ ॥ तुङ्गप्रस्थो नागगिरिस्तथा गोवर्धनाचलः । उज्जायनः पुष्पगिरिरर्बुदो रैवतस्तथा ॥ १३.१७ ॥ ऋष्यमूकः सगोमन्तश्चित्रकूटः कृतस्मरः । श्रीपर्वतः कोङ्गणश्च शतशऽन्येऽपि पर्वताः ॥ १३.१८ ॥ तैर्विमिश्रा जनपदा म्लेच्छा आर्याश्च भागशः । तैः पीयन्ते सरिच्छ्रेष्ठा यास्ताः सम्यङ्निशामयः ॥ १३.१९ ॥ सरस्वती पञ्चरूपा कालिन्दी सहिरण्वती । शतद्रुश्चन्द्रिका नीला वितस्तैरावती कुहूः ॥ १३.२० ॥ मधुरा हाररावी च उशीरा धातुकी रसा । गोमती धूतपापा च बाहुदा सदृषद्वती ॥ १३.२१ ॥ निश्चिरा गण्डकी चित्रा कौशिकी च वधूसरा । सरूश्च सलौहित्या हिमवत्पादनिःसृताः ॥ १३.२२ ॥ वेदस्मृतिर्वेदसिनी वृत्रघ्नी सिन्धुरेव च । पर्णाशा नन्दिनी चैव पावनी च मही तथा ॥ १३.२३ ॥ पारा चर्मण्वती लूपी विदिशा वेणुमत्यपि । सिप्रा ह्यवन्ती च तथा पारियात्राश्रयाः स्मृताः ॥ १३.२४ ॥ शोणो महानदश्चैव नर्मदा सुरसा कृपा । मन्दाकिनी दशार्णा च चित्रकूटापवाहिका ॥ १३.२५ ॥ चित्रोत्पला वै तमसा करमोदा पिशाचिका । तथान्या पिप्पलश्रोणी विपाशा वञ्जुलावती ॥ १३.२६ ॥ सत्सन्तजा शुक्तिमती मञ्जिष्ठा कृत्तिसा वसुः । ऋक्षपादप्रसूता च तथान्या बलवाहिनी ॥ १३.२७ ॥ शिवा पयोष्णी निर्विन्ध्या तापी सनिषधावती । वेण वैतरणी चैव सिनीवाहुः कुमुद्वती ॥ १३.२८ ॥ तोया चैव महागैरी दुर्गन्धा वाशिलाः तथा । विन्ध्यपादप्रसूताश्च नद्यः पुण्यजलाः शुभाः ॥ १३.२९ ॥ गोदावरी भीमरथी कृष्णा वेणा सरस्वती । तुङ्गभद्रा सुप्रयोगा वाह्या कावेरिरेव च ॥ १३.३० ॥ दुग्धोदा नलिनी रेव वारिसेना कलस्वना । एतास्त्वपि महानद्यः सह्यपादविनिर्गताः ॥ १३.३१ ॥ कृतमाला ताम्रर्णी वढ्जुला चोत्पलावती । सिनी चैव सुदामा च शुक्तिमत्प्रभवास्त्विमाः ॥ १३.३२ ॥ सर्वाः पुण्याः सरस्वत्यः पापप्रशमनास्तथा । जगतो मातरः सर्वाः सर्वाः सागरयोषितः ॥ १३.३३ ॥ अन्याः सहस्रशश्चात्र क्षुद्रनद्यो हि राक्षस । सदाकालवहाश्चान्याः प्रवृट्कालवहास्तथा । उदङ्मध्योद्भवा देशाः पिबन्ति स्वेच्छया शुभाः ॥ १३.३४ ॥ मत्स्याः कुशट्टाः कुणिकुण्डलाश्च पाञ्जालकाश्याः सह कोसलाभिः ॥ १३.३५ ॥ वृकाः शबरकौवीराः सभूलिङ्गा जनास्त्विमे । शकाश्चैव समशका मध्यदेश्य जनास्त्विमे ॥ १३.३६ ॥ वाह्लीका वाटधानाश्च आभीराः कालतोयकाः । अपरान्तास्तथा शूद्राः पह्लावाश्च सखेटकाः ॥ १३.३७ ॥ गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः । शातद्रवा ललित्थाश्च पारावतसमूषकाः ॥ १३.३८ ॥ माठरोदकधाराश्चज कैकैया दशमास्तथा । श्रत्रियाः प्रतिवैश्याश्च वैश्यशूद्रकुलानि च ॥ १३.३९ ॥ काम्बोजा दरदाश्चैव बर्बरा ह्यङ्गलौकिकाः । चीनाश्चैव तुषाराश्च बहुधा बाह्यतोदराः ॥ १३.४० ॥ आत्रेयाः सभरद्वाजाः प्रस्थलाश्च दशेरकाः । लम्पकास्तावकारामाः शूलिकास्तङ्गणैः सहा ॥ १३.४१ ॥ औरसाश्चालिमद्राश्च किरातानां च जातयः । तामसाः क्रममासाश्च सुपार्श्वाः पुण्ड्रकास्तथा ॥ १३.४२ ॥ कुलूताः कुहुका ऊर्णास्तूणीपादाः सुकुक्कुटाः । माण्डव्या मालवीयाश्च उत्तरापथवासिनः ॥ १३.४३ ॥ अङ्गा वङ्गा मुद्गरवास्त्वन्तर्गिरिबहिर्गिराः । तथा प्रवङ्गा वाङ्गेया मांसादा बलदन्तिकाः ॥ १३.४४ ॥ ब्रह्मोत्तरा प्राविजया भार्गवाः केशवर्राः । प्रग्ज्योतिषाश्च शूद्रश्च विदेहास्ताम्रलिप्तकाः ॥ १३.४५ ॥ माला मगधगोनन्दाः प्राच्य नजपदास्त्विमे । पुण्ड्राश्च केरलाश्चैव चौडाः कुल्याश्च राक्षस ॥ १३.४६ ॥ जातुषा मूषिकादाश्च कुमारादा महाशकाः । महाराष्ट्रा माहिषिकाः कालिङ्गाश्चैव सर्वशः ॥ १३.४७ ॥ आभीराः सह नैषीका आरण्याः शबराश्च ये । वलिन्ध्या विन्ध्यमौलेया वैदर्भा दण्डकैः सह ॥ १३.४८ ॥ पौरिकः सौशिकाश्चैव अश्मका भोगवर्द्धनाः । वैषिकाः कुन्दला अन्ध्रा उद्भिदा नलकारकाः । दाक्षिणात्या जनपदास्त्विमे शालकटङ्कटः ॥ १३.४९ ॥ सूर्पारका कारिवना दुर्गास्तालीकटैः सह । पुलीयाः ससिनीलाश्च तापसास्तामसास्तथा ॥ १३.५० ॥ कारस्करास्तु रमिनो नासिक्यान्तरनर्मदाः । भारकच्छाः समाहेयाः सह सारस्वतैरपि ॥ १३.५१ ॥ वात्सेयाश्च सुराष्ट्राश्च आवन्त्याश्चार्बुदैः सह । इत्येते पश्चिमामाशां स्थिता जानपदा जनाः । ॥ १३.५२ कारुषाश्चैकलव्याश्च मेकलाश्चोत्कलैः सह । उत्तमर्णा दशार्णाश्च भोजाः किङ्कवरैः सह ॥ १३.५३ ॥ तोशला कोशलाश्चैव त्रैपुराश्चैल्लिकास्तथा । तुरुसास्तुम्बराश्चैव वहनाः नैषधैः सह ॥ १३.५४ ॥ अनूपास्तुण्डिकेराश्च वीतहोत्रास्त्ववन्तयः । सुकेशे वन्ध्यमूलस्थस्त्विमे जनपदाः स्मृताः ॥ १३.५५ ॥ अथो देशान् प्रवक्ष्यामः पर्वताश्रयिणस्तु ये । निराहारा हंसमार्गाः कुपथास्तङ्गणाः खशाः ॥ १३.५६ ॥ कुथप्रावरणाश्चैव ऊर्णाः चपुण्याः सहूहुकाः । त्रिगर्त्ताश्च किराताश्च तोमराः शिशिराद्रिकाः ॥ १३.५७ ॥ इमे तवोक्ता विषयाः सुविस्तराद्द्विपे कुमारे रजनीचरेश । एतेषु देशेषु च देशधर्मान् संकीर्त्यमानाञ्शृणु तत्त्वातो हि ॥ १३.५८ ॥ इती श्रीवामनपुराणे त्रयोदशोऽध्यायः ________________________________________________________________________ ऋषय ऊचुः । अहिंसा सत्यमस्तं दानं क्षान्तिर्दमः शमः । अकार्पण्यं च शौचं च तपश्च रजनीचर ॥ १४.१ ॥ दशाङ्गो राक्षसश्रेष्ठ धर्मोऽसौ सार्ववर्णिकः । ब्राह्मणस्यापि विहिता चातुराश्रम्यकल्पना ॥ १४.२ ॥ सुकेशिरुवाच । विप्राणां चातुराश्रम्यं विस्तरान्मे तपोधनाः । आचक्षध्वं न मे तृप्तिः शृण्वतः प्रतिपद्यते ॥ १४.३ ॥ ऋषय ऊचुः । कृतोपनयनः सम्यग्ब्रह्मचारी गुरौ वसेत् । तत्र धर्मोऽस्य यस्तं च कथ्यमानं निशामय ॥ १४.४ ॥ स्वाध्यायोऽथाग्निशुश्रुषा स्नानं भिक्षाटनं तथा । गुरोर्निंवेद्य तच्चाद्यमनुज्ञातेन सर्वदा ॥ १४.५ ॥ गुरोः कर्मणि सोद्योगः सम्यक्प्रीत्युपपादनम् । तेनाहूतः पठेच्चैव तत्परो नान्यमानसः ॥ १४.६ ॥ एकं द्वौ सकलान् वापि वेदान् प्राप्य सुरोर्मुखात् । अनुज्ञातो वरं दत्त्वा गुरवे दक्षिणां ततः ॥ १४.७ ॥ गार्हस्थ्याश्रमकामस्तु गार्हस्थ्याश्रममावसेत् । वानप्रस्थाश्रमं वापि चतुर्थं स्वेच्छयात्मनः ॥ १४.८ ॥ तत्रैव वा गुरोर्गेहे द्विजो निष्ठामवाप्नुयात् । गुरोरभावे तत्पुत्रे तच्छिष्ये तत्सुतं विना ॥ १४.९ ॥ शुश्रूषन्निरभीमानो ब्रह्मचर्याश्रमं वसेत् । एवं जयति मृत्युं स द्विजः शालकटङ्कट ॥ १४.१० ॥ उपावृत्तस्ततस्तस्माद्गृहस्थाश्रमकाम्यया । असमानर्षिकुलजां कन्यामुद्वहेद्निशाचर ॥ १४.११ ॥ स्वकर्मणा धनं लब्ध्वा पितृदेवातिथीनपि । सम्यक्संप्रीणयेद्भक्त्या सदाचाररतो द्विजः ॥ १४.१२ ॥ सदाचारो निगदितो युष्माभिर्मम सुव्रताः । लक्षणं श्रोतुमिच्ःामि कथयध्वं तमद्य मे ॥ १४.१३ ॥ ऋषय ऊचुः । सदाचारो निगदितस्तव योऽस्माभिरादरात् । लक्षणं तस्य वक्ष्यामस्तच्छृणुष्व निशाचर ॥ १४.१४ ॥ गृहस्थेन सदा कार्यमाचारपरिपालनम् । न ह्याचारविहिनस्य भद्रमत्र परत्र च ॥ १४.१५ ॥ यज्ञदानतपांसीह पुरुषस्य न भूतये । भवन्ति यः समुल्लङ्घ्य सदाचारं प्रवर्तते ॥ १४.१६ ॥ हुराचारो हि पुरुषो नेह नामुत्र नन्दते । कार्यो यत्नः सदाचारे आचारो हन्त्यलक्षणम् ॥ १४.१७ ॥ तस्य स्वरूपं वक्ष्यामः सदाचारस्य राक्षस । शृणुष्वैकमनास्तच्च यदि श्रेयोऽभिवाञ्छसि ॥ १४.१८ ॥ धर्मोऽस्य मूलं धनमस्य शाखा पुष्पं च कामः फलमस्य मोक्षः । असौ सदाचारतरुः सुकेशिन् संसेवितो येन स पुण्यभोक्त ॥ १४.१९ ॥ ब्रह्मो मुहूर्ते प्रथमं विबुध्येदनुस्मरेद्देववरान्महर्षीन् । प्राभातिकं मङ्गलमेव वाच्यं यदुक्तवान् देवपतिस्त्रिनेत्रः ॥ १४.२० ॥ सुकेशिरुवाच । किं तदुक्तं सुप्रभातं शङ्करेण महात्मना । प्रभाते यत्पठन्मर्त्यो मुच्यते पापबन्धनात् ॥ १४.२१ ॥ ऋषय ऊचुः । श्रूयतां राक्षसश्रेष्ठ सुप्रभातं हरोदितम् । श्रुत्वा स्मृत्वा पठित्वा च सर्वपापैः प्रमुच्यते ॥ १४.२२ ॥ ब्रह्म मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च । गुरुश्च शुक्रः सह भानुजेन कुर्वन्तु सर्वे मम सुप्रभातम् ॥ १४.२३ ॥ भृगुर्वसिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहः सगौतमः । रैभ्यो मरीचिश्च्यवनो ऋभुश्च कुर्वन्तु सर्वे मम सुप्रभातम् ॥ १४.२४ ॥ सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च । सप्त स्वराः सप्त रसातलाश्च कुर्वन्तु सर्वे मम सुप्रभातम् ॥ १४.२५ ॥ पृथ्वी सगन्धा सरसास्तथाऽपः स्पर्शश्च वायुर्ज्वलनः सतेजाः । नभः सशब्दं महता सहैव यच्छन्तु सर्वे मम सुप्रभातम् ॥ १४.२६ ॥ सप्तार्णवाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपवराश्च सप्त । भूरादि कृत्वा भुवनानि सप्त ददन्तु सर्वे मम सुप्रभातम् ॥ १४.२७ ॥ इत्थं प्रभाते परमं पवित्रं पठेत्स्मरेद्वा शृमुयाच्च भक्त्या । दुःस्वप्ननाशोऽनघ सुप्रभातं भवेच्च सत्यं भगवत्प्रसादात् ॥ १४.२८ ॥ ततः समुत्थाय विचिन्तयेन धर्मं तथार्थं च विहाय शय्याम् । उत्थाय पश्चाद्धरिरित्युदीर्य गच्छेत्तदोत्सर्गविधिं हि कर्तुम् ॥ १४.२९ ॥ न देवगोब्राह्मणवह्निमार्गे न राजमार्गे न चतुष्पथे च । कुर्यादथोत्सर्गमपीह गोष्ठे पूर्वापरां चैव समाश्रितो गाम् ॥ १४.३० ॥ ततस्तु शौचार्थमुपाहरेन्मृदं गुदे त्रयं पाणितले च सप्त । तथोभयोः पञ्च चतुस्तथैकां लिङ्गे तथैकां मृदमाहरेत ॥ १४.३१ ॥ नान्तर्जलाद्राक्षस मूषिकस्थलात्शौचावशिष्टा शरणात्तथान्या । वल्मीकमृच्चैव हि शौचनाय ग्राह्य सदाचारविदा नरेण ॥ १४.३२ ॥ उदङ्मुखः प्राङ्मुखो वापि विद्वान् प्रक्षाल्य पादौ भुवि संनिविष्टः । समाचमेदद्भिरफेनिलाभिरादौ परिमृज्य मुखं द्विरद्भिः ॥ १४.३३ ॥ ततः स्पृशेत्खानि शिरः करेण संध्यामुपासीत ततः क्रमेण । केशांस्तु संशोध्य च दन्तधावनं कृत्वा तथा दर्पणदर्शनं च ॥ १४.३४ ॥ कृत्वा शिरःस्नानमथाङिड्कं वा संपूज्य तोयेन पितॄन् सदेवान् । होमं च कृत्वालभनं शुभानां कृत्वा बहिर्निर्गमनं प्रशस्तम् ॥ १४.३५ ॥ दूर्वादधिसर्पिरथोदकुम्भं धेनुं सवत्सां वृषभं सुवर्णम् । मृद्गोमयं स्वस्तिकमक्षतानि लाजामधु ब्राह्मणकन्यकां च ॥ १४.३६ ॥ श्वेतानि पुष्पाण्यथ शोभनानि हुताशनं चन्दमर्कबिम्बम् । अश्वत्थवृक्षं च समालभेत ततस्तु कुर्यान्निजजातिधर्मम् ॥ १४.३७ ॥ देशानुशिष्टं कुल धर्ममग्र्यं स्वगोत्रधर्मं न हि संत्यजेत् । तेनार्थसिद्धिं समुपाचरेत नासत्प्रलापं न च सत्यहीनम् ॥ १४.३८ ॥ न निष्ठुरं नागमशास्त्रहीनं वाक्यं वदेत्साधुजनेन येन । निन्द्यो भवेन्नैव च धर्मःेदी संगं न चासत्सु नरेषु कुर्यात् ॥ १४.३९ ॥ संध्यासु वर्ज्यं सुरतं दिवा च सर्वासु योनीषु पराबलासु । आगारशून्येषु महीतलेषु रजस्वलास्वेव जलेषु वीर ॥ १४.४० ॥ वृथाटनं था दानं वृथा च पशुमारणम् । न कर्त्तव्यं गृहस्थेन वृता दारपरिग्रहम् ॥ १४.४१ ॥ वृथाटनान्नित्यहानिर्वृथादानाद्धनक्षयः । वृथा पशुघ्नः प्राप्नोति पातकं नरकप्रदम् ॥ १४.४२ ॥ संतत्या हानिरश्लाघया वर्णसंकरतो भयम् । भेतव्यं च भवेल्लोके वृथादारपरिग्रहात् ॥ १४.४३ ॥ परस्वे परदारे च न कार्या बुद्धिरुत्तमैः । परस्वं नरकायैव परदाराश्च मृत्यवे ॥ १४.४४ ॥ नेक्षेत्परस्त्रियं नग्नां न संभाषेन तस्करान् । उद्क्यादर्शनं स्पर्शं संभाषं च विवर्जयेत् ॥ १४.४५ ॥ नैकासने तथा स्थेयं सोदर्या परजायया । तथैव स्यान्न मातुश्च तथा स्वदुहितुस्त्वपि ॥ १४.४६ ॥ न च स्नायीत वै नग्नो न शयीत कदाचन । दिग्वाससोऽपि न तथा परिभ्रमणमिष्यत् । भिन्नासनभाजनादीन् दूरतः परिवर्जयेत् ॥ १४.४७ ॥ नन्दासु नाभ्यङ्गमुपाचरेत क्षौरं च रिक्तासु जयासु मांसम् । पूर्णासु योषित्परिवर्जयेत भद्रासु सर्वाणि समाचरेत ॥ १४.४८ ॥ नाभ्यङ्गमर्के न च भूमिपुत्रे क्षौरं च शुक्रे रविजे च मांसम् । बुधेषु योषिन्न समाचरेत शेषेषु सर्वाणि सदैव कुर्यात् ॥ १४.४९ ॥ चित्रासु हस्ते श्रवणे च तैलं क्षौरं विशाखास्वभिजित्सुवर्ज्यम् । मूले मृगे भाग्रपदासु मांसं योषिन्मघाकृत्तिकयोत्तरासु ॥ १४.५० ॥ सदैव जर्ज्यं शयनमुदक्शिरास्तथा प्रतीच्यां रजनीचरेश । भुञ्जीत नैवेह च दक्षिणामुखो न च प्रतीच्यामभिभोजनीयम् ॥ १४.५१ ॥ देवालयं चैत्यतरुं चतुष्पथं विद्याधिकं चापि गुरुं प्रदक्षिणम् । माल्यान्नपानं वसनानि यत्नतो नान्यैर्धृतांश्चापि हि धारयेद्बुधः ॥ १४.५२ ॥ स्नायाच्छिरःस्नानतया च नित्यं न कारणं चैव विना निशासु । ग्रहोपरागे स्वजनापयाते मुक्त्वा च जन्मर्क्षगते शशङ्के ॥ १४.५३ ॥ नाभ्यङ्गितं कायमुपस्पृशेच्च स्नातो न केशान् विधुनीत चापि । गात्राणि चैवाम्बरपाणिना च स्नातो विमृज्याद्रजनीचरेश ॥ १४.५४ ॥ वसेच्च देशेषु सुराजकेषु सुसंहितेष्वेव जनेषु नित्यम् । अक्रोधना न्यायपरा अमत्सराः कृषीवला ह्योषधयश्च यत्र ॥ १४.५५ ॥ न तेषु देशेषु वसेत बुद्धिमान् सदा नृपो दण्डरुचिस्त्वशक्तः । जनोऽपि नित्योत्सवबद्धवैरः सदा जिगीषुश्च निशाचरेन्द्र ॥ १४.५६ ॥ इति श्रीवामनपुराणे चतुर्दशोऽध्यायः ________________________________________________________________________ ऋषय ऊचुः । यच्च जर्ज्यं महाबाहो सदाधर्मस्थितैर्नरैः । यद्भोज्यं च समुद्दिष्टं कथयिष्यामहे वयम् ॥ १५.१ ॥ भोज्यमन्नं पर्युषितं स्नेहाक्तां चिरसंभृतम् । अस्नेहा व्रीहयः श्लक्ष्णा विकाराः पयसस्तथा ॥ १५.२ ॥ शशकः शल्यको गोधा श्वाविधो मत्स्यकच्छपौ । तद्वद्द्विदलकादीनि भोज्यानि मनुरब्रवीत् ॥ १५.३ ॥ मणिरत्नप्रवालानां तद्वन्मुक्ताफलस्य च । शैलदारुमयानां च तृणमूलौषधान्यपि ॥ १५.४ ॥ शूर्पधान्याजिनानां च संहतानां च वाससाम् । वल्कलानामशेषाणामम्बुना शुद्धिरिष्यते ॥ १५.५ ॥ सस्नेहानामथोष्णेन तिलकल्केन वारिणा । कार्पासिकानां वस्त्राणां सुद्धिः स्यात्सह भस्मना ॥ १५.६ ॥ नागदन्तास्थिशृङ्गाणां तक्षणाच्छुद्धिरिष्यते । पुनः पाकेन भाण्डानां मृन्मयानां च मेध्यता ॥ १५.७ ॥ शुचि भैक्षं कारुहस्तः पण्यं योषिन्मुखं तथा । रथ्यागतमविज्ञातं दासवर्गेण यत्कृतम् ॥ १५.८ ॥ वाक्प्रशस्तं चिरातीतमनेकान्तरितं लघु । चेष्टितं बालवृद्धानां बालस्य च मुखं शुचि ॥ १५.९ ॥ कर्मान्ताङ्गारशालासु स्तनन्धयसुताः स्त्रियः । वाग्विप्रुषो द्विजेन्द्राणां संतप्ताश्चाम्बुबिन्दवः ॥ १५.१० ॥ भूमिर्विशुध्यते खातदाहमार्जनगोक्रमैः । लेपादुल्लेखनात्सेकाद्वेश्म संमार्जनार्जनात् ॥ १५.११ ॥ केशकीटावपन्नेऽन्ने गोघ्राते मक्षिकान्विते । मृदम्बुभस्मक्षाराणि प्रक्षेप्तव्यानि शुद्धये ॥ १५.१२ ॥ औदुम्बराणां चाम्लेन क्षारेण त्रपुसीसयोः । भस्माम्बिभिश्च कांस्यानां शुद्धिः प्लावोद्रवस्य च ॥ १५.१३ ॥ अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च । अन्येषामपि द्रव्याणां शुद्धिर्गन्धापहारतः ॥ १५.१४ ॥ मातुः प्रस्रवणे वत्सः शकुनिः फलपातने । गर्दभो भारवाहित्वे श्वा मृगग्रहणे शुचिः ॥ १५.१५ ॥ रथ्याकर्दमतोयानि नावः पथि तृणानि च । मारुतेनैव सुद्ध्यन्ति पक्वेष्टकचितानि च ॥ १५.१६ ॥ शृतं द्रोणाढकस्यान्नममेध्याभिप्लुतं भवेत् । अग्रमुद्धृत्य संत्याज्यं शेषस्य प्रोक्षणं स्मृतम् ॥ १५.१७ ॥ उपवासं त्रिरात्रं वा दूषितान्नस्य भोजने । अज्ञाते ज्ञातपूर्वे च नैव शुद्धिर्विधीयते ॥ १५.१८ ॥ उदक्याश्वाननग्नांश्च सूतिकान्त्यावसायिनः । स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥ १५.१९ ॥ सस्नेहमस्थि संस्पृस्य सवासाः स्नानमाचरेत् । आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य च ॥ १५.२० ॥ न लङ्घयेत्पुरीषासृक्ष्ठीवनोद्वर्त्तनानि च । गृहादुच्छिष्टविण्मूत्रे पादाम्भांसि क्षिपेद्बहिः ॥ १५.२१ ॥ पञ्चपिण्डाननुद्धत्य न स्नायात्परवारिणि । स्नायीत देवखातेषु सरोहदसरित्सु च ॥ १५.२२ ॥ नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत्कदाचन । नालपेद्जनविद्विष्टं वीरहीनां तथा स्त्रियम् ॥ १५.२३ ॥ देवतापितृसच्छास्त्रयज्ञवेदादिनिन्दकैः । कृत्वा तु स्पर्शमालापं शुद्ध्यतेर्ऽकावलोकनात् ॥ १५.२४ ॥ अभोज्याः सूतिकाषण्ढमार्जाराखुश्वकुक्कुटाः । पतितापविद्धनग्नाश्चाण्डालाद्यधमाश्च ये ॥ १५.२५ ॥ सुकेशिरुवाच । भवद्भिः कीर्तिताभोज्या य एते सूतिकादयः । अमीषां श्रोतुमिच्छामि तत्त्वतो लक्षणानि हि ॥ १५.२६ ॥ ऋषय ऊचुः । ब्राह्मणी ब्राह्मणस्यैव यावरोधत्वमागता । तावुभौ सूतिकेत्युक्तौ तयोरन्नं विगर्हितम् ॥ १५.२७ ॥ न जुहोत्युचिते काले न स्नाति न ददाति च । पितृदेवार्चनाद्धीनः स षण्ढः परिगीयते ॥ १५.२८ ॥ दम्भार्थं जपते यश्च तप्यते यजते तथा । न परत्रार्थमुद्यक्तो स मार्जारः प्रकीर्तितिः ॥ १५.२९ ॥ विभवे सति नैवात्ति न ददाति जुहोति च । तमाहुराखुं तस्यान्नं भुक्त्वा कृच्छ्रेण सुद्ध्यति ॥ १५.३० ॥ यः परेषां हि मर्माणि निकृन्तन्निव भाषते । नित्यं परगुणद्वेषी स श्वान इति कथ्यते ॥ १५.३१ ॥ सभागतानां यः सभ्यः पक्षपातं समाश्रयेत् । तमाहुः कुक्कुटं देवास्तस्याप्यन्नं विगर्हितम् ॥ १५.३२ ॥ स्वघर्मं यः सुत्सृज्य परधर्मं समाश्रयेत् । अनापदि स विद्वद्भिः पतितः परिकीर्त्यते ॥ १५.३३ ॥ देवत्यागी पितृत्यागी गुरुभक्त्यरतस्तथा । गोब्राह्मणस्त्रीवधकृदपविद्धः स कीर्त्यते ॥ १५.३४ ॥ येषां कुले न वेदोऽस्ति न सास्त्रं नैव च व्रतम् । ते नग्नाः कीर्तिताः सद्भिस्तेषामन्नं विगर्हितम् ॥ १५.३५ ॥ आशार्तानामदाता च दातुश्च प्रतिषेधकः । शरणागतं यस्त्यजति स चाण्डालोऽधमो नरः ॥ १५.३६ ॥ यो बान्धवैः परित्यक्तः साधुभिर्ब्राह्मणैरपि । कुण्डाशी यश्च तस्यान्नं भुक्त्वा चान्द्रायणं चरेत् ॥ १५.३७ ॥ यो नित्यकर्मणो हानिं कुर्यान्नैमित्तिकस्य च । भुक्त्वान्नं तस्य शुद्ध्येत त्रिरात्रोपोषितो नरः ॥ १५.३८ ॥ गणकस्य निषादस्य गणिकाभिषजोस्तथा । कदर्यस्यापि शुद्ध्येत त्रिरात्रोपोषितो नरः ॥ १५.३९ ॥ नित्यस्य कर्मणो हानिः केवलं मृतजन्मसु । न तु नैमित्तिकोच्छेदः कर्त्तव्यो हि कथञ्चन ॥ १५.४० ॥ जाते पुत्रे पितुः स्नानं सचैलस्य विधीयते । मृते च सर्वबन्धूनामित्याह भगवान् भृगुः ॥ १५.४१ ॥ प्रेताय सलिलं देयं बहिर्दग्ध्वा तु गोत्रजैः । प्रमेऽह्नि चतुर्थे वा सप्तमे वास्थिसंचयम् ॥ १५.४२ ॥ ऊर्द्ध्वं संचयनात्तेषामङ्गस्पर्शो विधीयते । सोदकैस्तु क्रिया कार्या संशुद्धैस्तु सपिण्डजैः ॥ १५.४३ ॥ विषोद्बन्धनशस्त्राम्बुवह्निपातमृतेषु च । बाले प्रव्राजि संन्यासे देशान्तरमृते तथा ॥ १५.४४ ॥ सद्यः शौचं भवेद्वीर तच्चाप्युक्तं चतुर्विधम् । गर्भस्रावे तदेवोक्तं पूर्णकालेन चेतरे ॥ १५.४५ ॥ ब्रह्मणानामहोरात्रं क्षत्रियाणां दिनत्रयम । षड्रात्रं चैव वैश्यानां शूद्राणां द्वादशाह्निकम् ॥ १५.४६ ॥ दशद्वादशमासार्द्धमाससंख्यैर्दिंश्च तैः । स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाक्रामम् ॥ १५.४७ ॥ प्रेतमुद्दिस्य कर्त्तव्यमेकोद्दिष्टं विधानतः । सपिण्डीकरणं कार्यं प्रेते आवत्सरान्नरैः ॥ १५.४८ ॥ ततः पितृत्वमापन्ने दर्शपूर्णादिभिः सुभैः । प्रीणनं तस्य कर्त्तव्यं यथा श्रुतिनिदर्शनात् ॥ १५.४९ ॥ पितुरर्थं समुद्दिश्य भूमिदानादिकं स्वयम् । कुर्याद्येनास्य सुप्रीताः पितरो यान्ति राक्षस ॥ १५.५० ॥ यद्यदिष्टतमं किञ्चिद्यच्चास्य दयितं गृहे । तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ १५.५१ ॥ अध्येतव्या त्रयी नित्यं भाव्यं च विदुषा सदा । धर्मतो धनमाहार्यं यष्टव्यं चापि शक्तितः ॥ १५.५२ ॥ यच्चापि कुर्वतो नात्मा जुगुप्सामेति राक्षस । तत्कर्त्तव्यमशङ्केन यन्न गोप्यं महाजने ॥ १५.५३ ॥ एवमाचरतो लोके पुरुषस्य गृहे सतः । धर्मार्थकामसंप्राप्तिः परत्रेह च शोभनम् ॥ १५.५४ ॥ एष दूद्देशतः प्रोक्तो गृस्थाश्रम उत्तमः । वानप्रस्थाश्रमं धर्मं प्रवक्ष्यामोऽवधार्यताम् ॥ १५.५५ ॥ अपत्यसंततिं दृष्ट्वा प्राज्ञो देहस्य चानतिम् । वानप्रस्थाश्रमं धर्मं प्रवक्ष्यामोऽवधार्यताम् ॥ १५.५६ ॥ तत्रारण्योपभोगैश्च तपोभिश्चात्मकर्षणम् । भूमौ शय्या ब्रह्मचर्यं पितृदेवातिथिक्रिया ॥ १५.५७ ॥ होमस्त्रिषवणं स्नानं जटावल्कलधारणम् । वन्यस्नेहनिषेवित्वं वानप्रस्थविधिस्त्वयम् ॥ १५.५८ ॥ सर्वसङ्गपरित्यागो ब्रह्मचर्यममानिता । जितेन्द्रियत्वमावासे नैकस्मिन् वसतिश्चिरम् ॥ १५.५९ ॥ अननारम्भस्तथाहारो भैक्षान्नं नातिकोपिता । आत्मज्ञानावबोधेच्छा तथा चात्मावबोधनम् ॥ १५.६० ॥ चतुर्थे त्वाश्रमे धर्मा अस्माभिस्ते प्रकीर्तिताः । वर्णधर्माणि चान्यानि निशामय निशाचर ॥ १५.६१ ॥ गार्हस्थ्यं ब्रह्मचर्यं च वानप्रस्थं त्रयाश्रमाः । क्षत्रियस्यापि कथिता ये चाचारा द्विजस्य हि ॥ १५.६२ ॥ वैखानसत्वं गार्हस्थ्यमाश्रमद्वितयं विशः । गार्हस्थ्ययमुत्तमं त्वेकं शूद्रस्य क्षणदाचर ॥ १५.६३ ॥ स्वानि वर्णाश्रमोक्तानि धर्माणीह न हापयेत् । यो हापयति तस्यासौ परिकुप्यति भास्करः ॥ १५.६४ ॥ कुपितः कुलनाशाय ईश्वरो रोगवृद्धये । भानुर्वै यतते तस्य नरस्य क्षणदाचर ॥ १५.६५ ॥ तस्मात्स्वरधर्मं न हि संत्यजेत न हापयेच्चापि हि नात्मवंशम् । यः संत्यजेच्चापि निजं हि धर्मं तस्मै प्रकुप्येत दिवाकरस्तु ॥ १५.६६ ॥ पुलस्त्य उवाच । इत्येवमुक्तो मुनिभिः सुकेशी प्रणम्य तान् ब्रह्मनिधीन्महर्षीन् । जगाम चोत्पत्य पुरं स्वकीयं मुहुर्मुहुर्धर्ममवेक्षमाणः ॥ १५.६७ ॥ ________________________________________________________________________ पुलस्त्य उवाच । ततः सुकेशिर्देवर्षे गत्वा स्वपुरमुत्तमम् । सम्हूयाब्रवीत्सर्वान् राक्षसान् धार्मिकं वचः ॥ १६.१ ॥ अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः । दानं दया च क्षान्तिश्व ब्रह्मचर्यममानिता ॥ १६.२ ॥ शुभा सत्या च मधुरा वाङ्नित्यं सत्क्रिया रतिः । सदाचारनिषेवित्वं परलोकप्रदायकाः ॥ १६.३ ॥ इत्यूचुर्मुनयो मह्यं धर्ममाद्यं पुरातनम् । सोहमाज्ञापये सर्वान् क्रियतामविकल्पतः ॥ १६.४ ॥ पुलस्त्य उवाच । ततः सुकेशिवचनात्सर्व एव निशाचराः । त्रयोदशाङ्गं ते धर्म चक्रुर्मुदितमानसाः ॥ १६.५ ॥ ततः प्रवृद्धिं सुतरामगच्छन्त निशाचराः । पुत्रपौत्रार्थसंयुक्ताः सदाटारसमन्विताः ॥ १६.६ ॥ तज्जयोतिस्तेजस्तेषां राक्षसानं महात्मनाम् । गन्तुं नाशक्तुवन् सूर्यो नक्षत्राणि न चन्द्रमाः ॥ १६.७ ॥ ततस्त्रिभुवने ब्रह्मन्निशाचरपुरोऽभवत् । दिवा चन्द्रस्य सदृशः क्षणदायां च सूर्यवत् ॥ १६.८ ॥ न ज्ञायते गतिर्व्योम्नि भास्करस्य ततोऽम्बरे । शशङ्कमिति तेजस्त्वादमन्यन्त पुरोत्तमम् ॥ १६.९ ॥ स्वं विकासं विमुञ्चन्ति निशामिति व्यचिन्तयन् । कमलाकरेषु कमला मित्रमित्यवगम्य हि । रात्रौ विकसिता ब्रह्मन् विभूतिं दातुमीप्सवः ॥ १६.१० ॥ कौशिका रात्रिसमयं बुद्ध्वा निरगमन् किल । तान् वायसास्तदा ज्ञात्वा दिवा निघ्नन्ति कौशिकान् ॥ १६.११ ॥ स्नातकास्त्वापगास्वेव स्नानजप्यपरायणाः । आकण्ठमग्नास्तिष्ठन्ति रात्रौ ज्ञात्वाथ वासरम् ॥ १६.१२ ॥ न व्ययुज्यन्त चक्रआश्च तदा वै पुरदर्शने । मन्मानास्तु दिवसमिदमुच्चैर्ब्रुवन्ति च ॥ १६.१३ ॥ नूनं कान्ताविहीनेन केनचिच्चक्रपत्त्रिणा । उत्सृष्टं जीवितं शून्ये फूत्कृत्य सरितस्तटे ॥ १६.१४ ॥ ततोऽनुकृपयाविष्टो विवस्वास्तीव्ररश्मिभिः । संतापयञ्जगत्सर्वं नास्तमेति कथञ्चन ॥ १६.१५ ॥ अन्ये वदन्ति चक्रआह्वो नृनं कश्चिन्मृतो भवेत् । तत्कान्तया तपस्तप्तं भर्तृशोकार्त्तया बत ॥ १६.१६ ॥ आराधितस्तु भगवांस्तपसा वै दिवाकरः । तेनासौ शशिनिर्जेता नास्तमेति रविर्ध्रुवम् ॥ १६.१७ ॥ यज्विनो होमशालासु सह ऋत्विग्भिरध्वरे । प्रावर्त्तयन्त कर्माणि रात्रावपि महामुने ॥ १६.१८ ॥ महाभागवताः पूजां विष्णोः कुर्वन्ति भक्तितः । रवौ शशिनि चैवान्ये ब्रह्मणोऽन्ये हरस्य च ॥ १६.१९ ॥ कामिनश्चाप्यमन्यन्त साधु चन्द्रमसा कृतम् । यदियं रजनी रम्या कृता सततकौमुदी ॥ १६.२० ॥ अन्येऽब्रुवंल्लोकगुरुरस्माभिश्चक्रभृद्वशी । निर्व्याजेन महागन्धैरर्चितः कुसुमैः शुभैः ॥ १६.२१ ॥ सह लक्ष्म्या महायोगी नभस्यादिचतुर्ष्वपि । अशून्यशयना नाम द्वितीया सर्वकामदा ॥ १६.२२ ॥ तेनासौ भगवान् प्रीतः प्रादाच्छयनमुत्तमम् । अशून्यं च महाभोगैरनस्तमितशेखरम् ॥ १६.२३ ॥ अनयेऽब्रुवन् ध्रुवं देव्या रोहिण्याशशिनः क्षयम् । दृष्ट्वा तप्तं तपो घोरं रुद्राराधनकाम्यया ॥ १६.२४ ॥ पुण्यायामक्षयाष्टम्यां वेदोक्तविधिना स्वयम् । तुष्टेन शंभुना दत्तं वरं चास्यै यदृच्छया ॥ १६.२५ ॥ अन्येऽब्रुवन् चन्द्रमसा ध्रुवमाराधितो हरिः । व्रतेनेह त्वखण्डेन तेनाखण्डः शशी दिवि ॥ १६.२६ ॥ अन्येऽब्रवञ्छशाङ्केन ध्रुवं रक्षा कृतात्मनः । पदद्वयं समभ्यर्च्य विष्णोरमिततेजसः ॥ १६.२७ ॥ तेनासौ दीप्तिमांश्चन्द्रः परिभूय दिवाकरम् । अस्माकमानन्दकरो दिवा तपति सूर्यवत् ॥ १६.२८ ॥ लक्ष्यते कारणैरन्यैर्बहुभिः सत्यमेव हि । शशङ्कनिर्जितः सूर्यो न विभाति यथा पुरा ॥ १६.२९ ॥ यथामी कमलाः श्लक्ष्णा रणद्भृङ्गणावृताः । विकचाः प्रतिभासन्ते जातः सूर्योदयो ध्रुवम् ॥ १६.३० ॥ यथा चामी विभासन्ति विकचाः कुमुदाकराः । अतो विज्ञायते चन्द्र उदितश्च प्रतापवान् ॥ १६.३१ ॥ एवं संभाषतां तत्र सूर्यो वाक्यानी नारद । अमन्यत किमेतद्धि लोको वक्ति शुभाशुभम् ॥ १६.३२ ॥ एवं संचिन्त्य भगवान् दध्यौ ध्यानं दिवाकरः । आसमन्ताज्जगद्ग्रस्तं त्रैलोक्यं रजनीचरैः ॥ १६.३३ ॥ ततस्तु भगवाञ्ज्ञात्वा तेदजसोऽप्यसहिष्णुताम् । निशाचरस्य वृद्धिं तामचिन्तयत योगवित् ॥ १६.३४ ॥ ततोऽज्ञासीच्च तान् सर्वान् सदाचाररताञ्शुचीन् । देवब्राह्मणपूजासु संसक्तान् धर्मसंयुतान् ॥ १६.३५ ॥ ततस्तु रक्षःक्षयकृत्तिमिरद्विपकेसरी । महांशुनखरः सूर्यस्तद्विघातमचिन्तयत् ॥ १६.३६ ॥ ज्ञातवांश्च ततश्छिद्रं राक्षसानां दिवस्पतिः । स्वधर्मविच्युतिर्नाम सर्वधर्मविघातकृत् ॥ १६.३७ ॥ ततः क्रोधाभिभूतेन भानुना रिपुभेदिभिः । भानुभी राक्षसपुरं तद्दृष्टं च यथैच्छया ॥ १६.३८ ॥ स भानुना तदा दृष्टः क्रोधाध्मातेन चत्रुषा । निपपाताम्बराद्भ्रष्टः क्षीणपुण्य इव ग्रहः ॥ १६.३९ ॥ पतमानं समालोक्य पुरं शालकटङ्कटः । नमो भवाय शर्वाय इदमुच्चैरुदीरयत् ॥ १६.४० ॥ तमाक्रन्दितमाकर्ण्य चारणा गगनेचराः । हा देति चुक्रुशुः सर्वे हरभक्तः पतत्यसौ ॥ १६.४१ ॥ तच्चारणवचः शर्वः श्रुतवान् सर्वगोऽव्ययः । श्रुत्वा संचिन्तयामास केनासौ पात्यते भुवि ॥ १६.४२ ॥ ज्ञातवान् देवपतिना सहस्रकिरणेन तत् । पातितं राक्षसपुरं ततः क्रुद्धस्त्रिलोचनः ॥ १६.४३ ॥ क्रुद्धस्तु भगवन्तं तं भानुमन्तमपश्यत । दृष्टमात्रस्त्रिणेत्रेण निपपात ततोऽमबरात् ॥ १६.४४ ॥ गगनात्स परिभ्रष्टः पथि वायुनिषेविते । यदृच्छया निपतितो यन्त्रमुक्तो यथोपलः ॥ १६.४५ ॥ ततो वायुपथान्मुक्तः किंशुकोज्ज्वलविग्रहः । निपपातान्तरिक्षात्स वृतः किन्नरचारणैः ॥ १६.४६ ॥ चारणेर्वेष्टितो भानुः प्रविभात्यम्बरात्पतन् । अर्द्धपक्वं यथा तालात्फलं कपिभिरावृतम् ॥ १६.४७ ॥ ततस्तु ऋषयोऽभ्येत्य प्रत्यूचुर्भानुमालिनम् । निपतस्व हरिक्षेत्रे यदि श्रेयोऽभिवाञ्छसि ॥ १६.४८ ॥ ततोऽव्रवीत्पतन्नेव विवस्वांस्तांस्तपोधनान् । किं तत्क्षेत्रं हरेः पुण्यं वदध्वं शीघ्रमेव मे ॥ १६.४९ ॥ तमूचुर्मुनयः सूर्यं शृणु क्षेत्रं महाफलम् । साम्प्रतं वासुदेवस्य भावि तच्छङ्करस्य च ॥ १६.५० ॥ योगशायिनमारभ्य यावत्केशवदर्शनम् । एतत्क्षेत्रं हरेः पुण्यं नाम्ना वाराणसी पुरी ॥ १६.५१ ॥ तच्छ्रुत्वा भगवान् भानुर्भवनेत्राग्नितापितः । वरणायास्तथैवास्यास्त्वन्तरे निपपात ह ॥ १६.५२ ॥ ततः प्रदह्यति तनौ निमज्यास्यां लुलद्रविः । वरणायां समभ्येत्य न्यमज्जत यथेच्छया ॥ १६.५३ ॥ भुयोऽसिं वरणां भूयो भूयोऽपि वरणामसिम् । लुलंस्त्रिणेत्रवह्न्यार्त्तो भ्रमतेऽलातचक्रवत् ॥ १६.५४ ॥ एतस्मिन्नन्तरे ब्रह्मनृषयो यक्षराक्षसाः । नागा विद्याधराश्चापि पक्षिणोऽप्सरसस्तथा ॥ १६.५५ ॥ यावन्तो भास्कररथे भूतप्रेतादयः स्थिताः । तावन्तो ब्रह्मसदनं गता वेदयितुं मुने ॥ १६.५६ ॥ ततो ब्रह्म सुरपतिः सुरैः सार्ध समभ्यगातट् । रम्यं महेश्वरावासं मन्दरं रविकारणात् ॥ १६.५७ ॥ गत्वा दृष्ट्वा च देवेशं शङ्करं शूलपाणिनम् । प्रसाद्य भास्करार्थाय वाराणस्यामुपानयत् ॥ १६.५८ ॥ ततो दिवाकरं भूयः पाणिनादाय शङ्करः । कृत्वा नामास्य लोलेति रथमारोपयत्पुनः ॥ १६.५९ ॥ आरोपिते दिनकरे ब्रह्माभ्येत्य सुकेशिनम् । सबान्धवं सनगरं पुनरारोपयद्दिवि ॥ १६.६० ॥ समारोप्य सुकेशिं च परिष्वज्य च शङ्करम् । प्रणम्य केशवं देवं वैराजं स्वगृहं गतः ॥ १६.६१ ॥ एवं पुरा नारद भास्करेण पुरं सुकेशेर्भुवि सन्निपातितम् । दिवाकरो भूमितले भवेन क्षिप्तस्तु दृष्ट्या न च संप्रदग्धः ॥ १६.६२ ॥ आरोपितो भृमितलाद्भवेन भूयोऽपि भानुः प्रतिभासनाय । स्वयंभुवा चापि निशाचरेन्द्रस्त्वारोपितः खे सपुरः सबन्धुः ॥ १६.६३ ॥ इति श्रीवामनपुराणे षोडशोऽध्यायः ________________________________________________________________________ नारद उवाच । यानेतान् भगवान् प्राह कामिभिः शशिनं प्रति । आराधनाय देवाभ्यां हरीशाभ्यां वदस्व तान् ॥ १७.१ ॥ पुलस्त्य उवाच् । शृणुष्व कामिभिः प्रोक्तान् व्रतान् पुण्यान् कलिप्रिय । आराधनाय शर्वस्य केशवस्य च धीमतः ॥ १७.२ ॥ यदा त्वाषाढी संयाति व्रजते चोत्तरायणम् । तदा स्वपिति देवेशो भोगिभोगे श्रियः पतिः ॥ १७.३ ॥ प्रतिसुप्ते विभौ तस्मिन् देवगन्धर्वगुह्यकाः । देवानां मातरश्चापि प्रसुप्ताश्चाप्यनुक्रमात् ॥ १७.४ ॥ नारद उवाच् । कथयस्व कुरादीनां शयने विधिमुत्तमम् । सर्वमनुक्रमेणैव पुरस्कृत्य जनार्दनम् ॥ १७.५ ॥ पुलस्त्य उवाच । मिथुनाभिगते सूर्ये शुक्लपक्षे तपोधन । एकादश्यां जगत्स्वामी शयनं परिकल्पयेत् ॥ १७.६ ॥ शेषाहिभोगपर्यङ्कं कृत्वा संपूज्य केशवम् । कृत्वोपवीतकं चैव सम्यक्संपूज्य वै द्विजान् ॥ १७.७ ॥ अनुज्ञानं ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः शुचिः । लब्ध्वा पीताम्बरधरः स्वस्ति निद्रां समानयेत् ॥ १७.८ ॥ त्रयोदश्यां ततः कामः स्वपते शयने शुभे । कदम्बानां सुगन्धानां कुसुमैः परिकल्पिते ॥ १७.९ ॥ चतुर्दश्यां ततो यक्षाः स्वपन्ति सुखशीतले । सौवर्णपङ्कजकृते सुखास्तीर्णोपधानके ॥ १७.१० ॥ पौर्ममास्यामुमानाथः स्वपते चर्मसंस्तरे । वैयाघ्रे च जटाभारं समुद्ग्रन्थ्यान्यचर्मणा ॥ १७.११ ॥ ततो दिवाकरो राशिं संप्रयाति च कर्कटम् । ततोऽमराणां रजनी भवते दक्षिणायनम् ॥ १७.१२ ॥ ब्रह्मा प्रतिपदि तथा नीलोत्पलमयेऽनघ । तल्पे स्वपिति लोकानां दर्शयन्मार्गमुत्तमम् ॥ १७.१३ ॥ विश्वकर्मा द्वितीयायां तृतीयायां गिरेः सुता । विनायकश्चुर्थ्या तु पञ्चम्यामपि धर्मराट् ॥ १७.१४ ॥ षष्ठ्यां स्कन्दः प्रस्वपिति सप्तम्यांभगवान् रविः । कात्यायनी तथाष्टम्यां नवम्यां कमलालया ॥ १७.१५ ॥ दशम्यां भुजगेन्द्राश्च स्वपन्ते वायुभोजनाः । एकादश्यां तु कृष्णायां साध्या ब्रह्मन् स्वपन्ति च ॥ १७.१६ ॥ एष क्रमस्ते गदितो नभादौ स्वपने मुने । स्वपत्सु तत्र देवेषु प्रावृट्कालः समाययौ ॥ १७.१७ ॥ कङ्काः समं बलाकाभिरारोहन्ति नगोत्तमान् । वायसाश्चापि सुर्वन्ति नीडानि ऋषिपुङ्गव । वायसाश्च स्वपन्त्येते ऋतौ गर्भभरालसाः ॥ १७.१८ ॥ यस्यां तिथ्यां प्रस्वपिति विश्वकर्मा प्रजापतिः । द्वितीया सा शुभा पुण्या अशून्यशयनोदिता ॥ १७.१९ ॥ तस्यां तिथावर्च्य हरिं श्रीवत्साङ्कं चतुर्भुजम् । पर्यङ्कस्थं समं लक्ष्म्या गन्धपुष्पादिभिर्मुने ॥ १७.२० ॥ ततो देवाय शय्यायां फलानि प्रक्षिपेत्क्रमात् । सुरभीणी निवेद्येत्थं विज्ञाप्यो मधुसूदनः ॥ १७.२१ ॥ यथा हि लक्ष्म्या न वियुज्यसे त्वं त्रिविक्रमानन्त जगन्निवास । तथास्त्वशून्यं शयनं सदैव अस्माकमेवेह तव प्रसादात् ॥ १७.२२ ॥ यथा त्वशून्यं तव देव तल्पं समं हि लक्ष्म्या वरदाच्युतेश । सत्येन तेनामितवीर्य विष्णो गार्हस्थ्यनाशो मम नास्तु देव ॥ १७.२३ ॥ इत्युच्चार्य प्रणम्येशं प्रसाद्य च पुनः पुनः । नक्तां भुञ्जीत देवर्षे तैलक्षारविवर्जितमट् ॥ १७.२४ ॥ द्वितीयेऽह्नि द्विजाग्र्याय फलान् दद्याद्विचक्षणः । लक्ष्मीधरः प्रीयतां मे इत्युच्चार्य निवेदयेत् ॥ १७.२५ ॥ अनेन तु विधानेन चातुर्मास्यव्रतं चरेत् । यावद्चवृश्चिकराशिस्थः प्रतिभाति दिवाकरः ॥ १७.२६ ॥ ततो विबुध्यन्ति सुराः क्रमशः क्रमशो मुने । तुलास्थेर्ऽके हरिः कामः शिवः पश्चाद्विबुध्यते ॥ १७.२७ ॥ तत्र दानं द्वितीयायां मूर्त्तिर्लक्ष्मीधरस्य तु । सशय्यास्तरणोपेता यथा विभवमात्मनः ॥ १७.२८ ॥ एष व्रतस्तु प्रथमः प्रोक्तस्तव महामुने । यस्मिंश्चीर्णे वियोगस्तु न भवेदिह कस्यचित् ॥ १७.२९ ॥ नभस्ये मासि च तथा या स्यात्कृष्णाष्टमी शुभा । युक्ता मृगशिरेणैव सा तु कालाष्टमी स्मृता ॥ १७.३० ॥ तस्यां सर्वेषु लिङ्गेषु तिथौ स्वपिति शङ्करः । वसते संनिधाने तु तत्र पूजाक्षया स्मृता ॥ १७.३१ ॥ तत्र स्नायीन वै विद्वान् गोमूत्रेण जलेन च । स्नातः संपूजयेत्पुष्पैर्धत्तूरस्य त्रिलोचनम् ॥ १७.३२ ॥ धूपं केसरनिर्यासं नैवेद्यं मधुसर्पिषी । प्रीयतां मे विरूपाक्षस्त्वित्युच्चार्य च दक्षिणाम् । विप्राय दद्यान्नैवेद्यं सहिरण्यं द्विजोत्तम ॥ १७.३३ ॥ तद्वदाश्वयुजे मासि उपवासी जितेन्द्रियः । नवम्यां गोमयस्नानं कुर्यात्पूजां तु पङ्कजैः । धूपयेत्सर्जनिर्यासं नैवेद्यं मधुमोदकैः ॥ १७.३४ ॥ कृतोपवासस्तवष्टम्यां नवम्यां स्नानमाचरेत् । प्रीयतां मे हिरण्याक्षो दक्षिणा सतिला स्मृता ॥ १७.३५ ॥ कार्त्तिके पयसा स्नानं करवीरेण चार्चनम् । धुपं श्रीवासनिर्यासं नैवेद्यं मधुपायसम् ॥ १७.३६ ॥ सनैवेद्यं च रजतं दातव्यं दानमग्रजे । प्रीयतां गवान् स्थासुरिति वाच्यमनिष्ठुरम् ॥ १७.३७ ॥ कृत्वोपवासमष्टम्यां नवम्यां स्नानमाचरेत् । मासि मार्गशिरे स्नानं दध्नार्चा भद्रया स्मृता ॥ १७.३८ ॥ धूपं श्रीवृक्षनिर्यासं नैवेद्यं मधुनोदनम् । संनिवेद्या रक्तशालिर्दक्षिणा परिकीर्त्तिता । नमोऽस्तु प्रीयतां शर्वस्त्विति वाच्यं च पण्डितैः ॥ १७.३९ ॥ पौषे स्नानं च हविषा पूजा स्यात्तगरैः सुभैः । धूपो मधुकनिर्यासो नैवेद्यं मधु शष्कुली ॥ १७.४० ॥ समुद्गा दक्षिणा प्रोक्ता प्रीमनाय जगद्गुरोः । वाच्यं नमस्ते देवेश त्र्यम्बकेति प्रकीर्तयेत् ॥ १७.४१ ॥ माघे कुशोदकस्नानं मृगमदेन चार्च्यनम् । धूपः पदम्बनिर्यासो नैवेद्यं सतिलोदनम् ॥ १७.४२ ॥ पयोभक्तं सनैवेद्यं सरुक्मं प्रतिपादयेत् । प्रीयतां मे महादेव उमापतिरितीरयेत् ॥ १७.४३ ॥ एवमेव समुद्दिष्टं षड्भिर्मासैस्तु पारणम् । पारणान्ते त्रिनेत्रस्य स्नपनं कारयेत्क्रमात् ॥ १७.४४ ॥ गोरोचनायाः सहिता गुडेन देवं समालभ्य च पूजयेत । प्रीयस्व दीनोऽस्मि भवन्तमीश मच्छोकनाशं प्रकुरुष्व योग्यम् ॥ १७.४५ ॥ ततस्तु फाल्गुने मासिं कृष्णाष्टम्यां यतव्रत । उपवासं समुदीतं कर्तव्यं द्विजसत्तम ॥ १७.४६ ॥ द्वितीयेऽह्नि ततः स्नानं पञ्चगव्येन कारयेत् । पूजयेत्कुन्दकुसुमैर्धूपयेत्चन्दनं त्वपि ॥ १७.४७ ॥ नैवेद्यं सघृतं दद्यात्ताम्रपात्रे गुडोदनम् । दक्षिणां च द्विजातिभ्यो नैवेद्यसहितां मुने । वासोयुगं प्रीणयेच्च रुद्रमुच्चार्य नामतः ॥ १७.४८ ॥ चैत्रे चोदुम्बरफलैः स्नानं मन्दारकार्चनम् । गुग्गुलुं महिषाख्यं च घृताक्तं धूपयेद्बुधः ॥ १७.४९ ॥ समोदकं तथा सर्पिः प्रीणनं विनिवेदयेत् । दक्षिणा च सनैवेद्यं सृगाजिनमुदाहृतम् ॥ १७.५० ॥ नाट्येश्वर नमस्तेऽस्तु इदमुच्चार्य नारद । प्रीणनं देवनाथाय कुर्याच्छ्रद्धासमन्वितः ॥ १७.५१ ॥ वैशाखे स्नानमुदितं सुगन्धकुसुमाम्भसा । पूजनं शङ्करस्योक्तं चूतमञ्जरिभिर्विभो ॥ १७.५२ ॥ धूपं सर्जाज्ययुक्तं च नैवेद्यं सफलं घृतम् । नामजप्यमपीशस्य कालघ्नेति विपश्चिता ॥ १७.५३ ॥ जलकुम्भान् सनैवेद्यान् ब्राह्मणाय निवेदयेत् । सोपवीतान् सहान्नाद्यांस्तच्चित्तैस्तत्परायणैः ॥ १७.५४ ॥ ज्येष्ठे स्नानं चामलकैः पूजार्ऽककुसुमैस्तथा । धूपयेत्तत्त्रिनेत्रं च आयत्यां पुष्टिकारकम् ॥ १७.५५ ॥ सक्तूंश्च सघृतान् देवे दध्नाक्तान् विनिवेदयेत् । उपानद्यगलं छत्रं दानं दद्याच्च भक्तिमान् ॥ १७.५६ ॥ नमस्ते भगनेत्रघ्न पूष्णो दशननाशन । इदमुच्चारयेद्भक्त्या प्रीणनाय जगत्पतेः ॥ १७.५७ ॥ आषाढे स्नानमुदितं श्रीफलैरर्चनं तथा । धत्तूरकुसुमैः शुक्लैर्धूपयेत्सिल्हकं तथा ॥ १७.५८ ॥ नैवेद्याः सघृताः पूपाः दक्षिणा सघृता यवाः । नमस्ते दक्षयज्ञघ्न इदमुच्चैरुदीरयेत् ॥ १७.५९ ॥ श्रावणे मृगभोज्येन स्नानं कृत्वार्ऽचयेद्धरम् । श्रीवृक्षपत्रः सफलैर्धूपं दद्यात्तथागुरुम् ॥ १७.६० ॥ नैवेद्यं सघृतं दद्यात्दधि पूपान् समोदकान् । दध्योदनं सकृसरं माषधानाः सशष्कुलीः ॥ १७.६१ ॥ दक्षिणां श्वेतवृषभं धेनुं च कपिलां शुभाम् । कनकं रक्कवसनं प्रदद्याद्ब्राह्मणाय हि । गङ्गाधरेति जप्तव्यं नाम शंभोश्च पण्डितैः ॥ १७.६२ ॥ अमीभिः षड्भिरपरैर्मासैः पारणमुत्तमम् । एवं संवत्सरं पूर्णं संपूज्य षभध्वजम् । अक्षयान् लभते कामान्महेश्वरवचो यथा ॥ १७.६३ ॥ इदमुक्तं व्रतं पुण्यं सर्वाक्षयकरं शुभम् । स्वयं रुद्रण देवर्षे तत्तथा न तदन्यथा ॥ १७.६४ ॥ इति श्रीवामनपुराणे सप्तदशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । मासि चाश्वयुजे ब्रह्मन् यदा पद्मं जगत्पतेः । नाभ्या निर्याति हि तदा देवेष्वेतान्यथोऽभवन् ॥ १८.१ ॥ कन्दर्पस्य कराग्रे तु कदम्बश्चारुदर्शनः । तेन तस्य परा प्रीतिः कदम्बेन विवर्द्धते ॥ १८.२ ॥ यक्षाणामधिपस्यापि मणिभद्रस्य नारद । वटवृक्षः समभवत्तस्मिस्तस्य यतिः सदा ॥ १८.३ ॥ महेश्वरस्य हृदये धत्तूरविटपः शुभः । संजातः स च शर्वस्य पतिकृत्तस्य नित्यशः ॥ १८.४ ॥ ब्रह्मणो मध्यतो देहाञ्जातो मरकतप्रभः । ख दरः कण्टकी श्रेयानभवद्विश्वकर्मणः ॥ १८.५ ॥ गिरिजायाः करतले कुन्दसुल्मस्त्वजायत । गणाधिपस्य कुम्भस्थो राजते सिन्धुवारकः ॥ १८.६ ॥ यमस्य क्षिणे पार्श्वे पालाशो दक्षिणोत्तरे । कृष्णोदुम्बरको रुद्राज्जातः क्षोमकरो वृषः ॥ १८.७ ॥ स्कन्दस्य बन्धुजीवस्तु रवेरश्वत्थ एव च । कात्यायनयाः शमीजाताबिल्वो लक्ष्मायाः करेऽभवत् ॥ १८.८ ॥ नागानां पतये ब्रह्मञ्छरस्तम्बो व्यजायत । वासुकेर्विस्तृते पुच्छे पृष्ठे दूर्वा सितासिता ॥ १८.९ ॥ साध्यानां हृदये जातो वृक्षो हरितचन्दनः । एवं जातेषु सर्वेषु तेन तत्रतिर्भवेत् ॥ १८.१० ॥ तत्र रम्ये शुभे काले या शुक्लैकादशी भवेत् । तस्यां संपूजयेद्विष्णुं तेन खण्डोऽस्य पूर्यते ॥ १८.११ ॥ पुष्षैः पुत्रैः फलैर्वापि गन्धवर्णरस्न्वितैः । ओषधीभिश्च मुख्याभिर्यावत्स्याच्छरदागमः ॥ १८.१२ ॥ घृतं तिला ब्रीहियवा हिरण्यकन्कादि यत् । मणिमुक्ताप्रवालानि वस्त्राणि विविधानि च ॥ १८.१३ ॥ रसानि स्वादुकट्वम्लकषायलवणानि च । तिक्तानि च निवेद्यानि तान्यखण्डानि यानि हि ॥ १८.१४ ॥ तत्पूजार्थं प्रदातव्यं केशवाय महात्मने । यदा संवत्सरं पूर्णमखण्डं भवते गृहे ॥ १८.१५ ॥ कृतोपवासो देवर्षे द्वितीयेऽहनि संयतः । स्नानेन तेन स्नायीत येनाखण्डं हि वत्सरम् ॥ १८.१६ ॥ सिद्धार्तकैस्तिलैर्वापि तेनैवोद्वर्तनं स्मृतम् । हविषा पद्मनाभस्य स्नानमेव समाचरेत् । होमे तदेव गदितं दाने शक्तिर्निजा द्विज ॥ १८.१७ ॥ पूजयेताथ कुसुमैः पादादारभ्य केशवम् । धूपयेद्विविधं धूपं येन स्याद्वत्सरं परम् ॥ १८.१८ ॥ हिरण्यरत्नवासोभिः पूजयेत जगद्गुरुम् । रागखाण्डवचोष्याणि हविष्याणि निवेदयेत् ॥ १८.१९ ॥ ततः संपूज्य देवेशं पद्मनाभं जगद्गुरुम् । विज्ञापयेन्मुनिश्रेष्ठ मन्त्रेणानेन सुव्रत ॥ १८.२० ॥ नमोऽस्तु ते पद्मनाभ पद्माधव महाद्युते । धर्मार्थकाममोक्षणि त्वखण्डानि भवन्तु मे ॥ १८.२१ ॥ विकासिपद्मपत्राक्ष यथाखण्डोसि सर्वतः । तेन सत्येन धर्माद्य अखण्डाः सन्तु केशव ॥ १८.२२ ॥ एवं संवत्सरं पूर्णं सोपवासो जितेन्द्रियः । अघण्डं पारयेद्ब्रह्मन् व्रतं वै सर्ववस्तुषु ॥ १८.२३ ॥ अस्मिंश्चीर्णे व्रतं व्यक्तं परितुष्यन्ति देवताः । धर्मार्थकाममोक्षाद्यास्त्वक्षयाः संभवन्ति हि ॥ १८.२४ ॥ एतानि ते मयोक्तानि व्रतान्युक्तानि कामिभिः । प्रक्ष्याम्यधुना त्वेतद्वैष्णवं पञ्जरं शुभम् ॥ १८.२५ ॥ नमो नमस्ते गोविन्द चक्रं गृह्य सुदर्शनम् । प्राच्यां रक्षस्व मां विष्णो त्वामाहं शरणं गतः ॥ १८.२६ ॥ गदां कौमोदकीं गृह्य पद्मनाभामितद्युते । याम्यां रक्षस्व मां विष्णो त्वमाहं शरणं गतः ॥ १८.२७ ॥ हलमादाय सौनन्दं नमस्ते पुरषोत्तम । प्रतीच्यां रक्ष मे विष्णो भवन्तं शरणं गतः ॥ १८.२८ ॥ मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम । उत्तरस्यां जगन्नाथ भवन्तं शरणं गतः ॥ १८.२९ ॥ शार्ङ्गमादाय च धनुरस्त्रं नारायणं हरे । नमस्ते रक्ष रक्षघ्न ऐशान्यां शरणं गतः ॥ १८.३० ॥ पाञ्चजन्यं महाशङ्खमन्तर्बोध्यं च पङ्कजम् । प्रगृहय्रक्ष मां विष्णो आग्नेय्यां यज्ञसूकर ॥ १८.३१ ॥ चर्म सूर्यशतं गृह्य खङ्गं चन्द्रमसं तथा । नैरृत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन् ॥ १८.३२ ॥ वैजयन्तीं प्रगृह्य त्वं श्रीवत्सं कण्ठभूषणम् । वायव्यां रक्ष मां देव अश्वशीर्ष नमोऽस्तु ते ॥ १८.३३ ॥ वैनतेयं समारुह्य अन्तरिक्षे जनार्दन । मां त्वं रक्षाजित सदा नमस्ते त्वपराजति ॥ १८.३४ ॥ विशालाक्षं समारुह्य रक्ष मां त्वं रसातले । अकूपार नमस्तुभ्यं महामोह नमोऽस्तु ते ॥ १८.३५ ॥ करशीर्षाङ्घ्रर्वेषु तथाष्टबाहुपञ्जरम् । कृत्वा रक्षस्व मां देव नमस्ते पुरुषोत्तम ॥ १८.३६ ॥ एतदुक्तं भगवता वैष्णवं पञ्जरं महत् । पुरा रक्षार्थमीशेन कात्यायन्या द्विजोत्तम ॥ १८.३७ ॥ नाशयामास सा यत्र दानवं महिषासुरम् । नमरं रक्तबीजं च तथान्यान् सुरकण्टकान् ॥ १८.३८ ॥ नारद उवाच । कासौ कात्यायानी नाम यचा जघ्ने महिषासुरम् । नमरं रक्तबीजं च तथान्यान् कुरकण्टकान् ॥ १८.३९ ॥ कश्चसौ महिषो नाम कुले जातश्च कस्य सः । कश्चासौ रक्तबीजाख्यो नमरः कस्य चात्मजः । एतद्विस्तरतस्तात यथावद्वक्तुमर्हसिः ॥ १८.४० ॥ पुलस्त्य उवाच् । श्रूयतां संप्रवक्ष्यामि कथां पापप्रणाशिनीम् । सर्वदा वरदा दुर्गा येयं कात्यायनी मुने ॥ १८.४१ ॥ पुरासुरवरौ रौद्रौ जगत्क्षोभकरावुभौ । रम्भश्चैव करम्भश्च द्वावास्तां सुमाबलौ ॥ १८.४२ ॥ तावपुत्रौ च देवर्षे पुत्रार्थं तेपतुस्तपः । बहून् वर्षगणान् दैत्यौ स्थितौ पञ्चनदे जले ॥ १८.४३ ॥ तत्रैको जलमध्यस्थो द्वितीयोऽप्यग्निपञ्चमी । करम्भश्चैव रम्भश्च यक्षं मालपटं प्रति ॥ १८.४४ ॥ एकं मिमग्नं सलिले ग्राहरूपेण वासवः । चरणाभ्यां समादाय निजघान यथेच्छया ॥ १८.४५ ॥ ततो भ्रातरि नष्टे च रम्भः कोपपरिप्लुतः । वह्नौ स्वशीर्षं संक्षिद्य होतुमैच्चन्महाबलः ॥ १८.४६ ॥ ततः प्रगृह्य केशेषु खङ्गं च रविसप्रभम् । छेत्तुकामो निजं शीर्षं वह्निना प्रतिषेधितः ॥ १८.४७ ॥ उक्तश्च मा दैत्यवर नाशयात्मानमात्मना । दुस्तरा परवध्यापि स्ववध्याप्यतिदुस्तरा ॥ १८.४८ ॥ यच्च प्रार्थयसे वीर तद्ददामि यथेप्सितम् । मा म्रियस्व मृतस्येह नष्टा भवति वै कथा ॥ १८.४९ ॥ ततोऽब्रवीद्वचो रम्भो वरं चेन्मे ददासि हि । त्रैलोक्यविजयी पुत्रः स्यान्मे त्वत्तेजसाधिकः ॥ १८.५० ॥ अजेयो दैवतैः सर्वैः पुभिर्दैत्यैश्च पावक । महाबलो वायुरिव कामरूपी कृतास्त्रवित् ॥ १८.५१ ॥ तं प्रोवाच कविर्ब्रह्मन् बाञमेवं भविष्यति । यस्यां चित्तं समालम्बि करिष्यसि ततः सुतः ॥ १८.५२ ॥ इत्येवमुक्तो देवेन वह्निना दानवो ययौ । द्रष्टुं मालवटं यक्षं यक्षैश्च परिवारितम् ॥ १८.५३ ॥ तेषां पद्मनिधिस्तत्र वसते नान्यचेतनः । गजश्च महिषाश्चाश्वा गावोऽजाविपरिप्लुताः ॥ १८.५४ ॥ तान् दृष्ट्वैव तदा चक्रे भावं दानवपार्थिवः । महिष्यां रूपयुक्तायां त्रिहायण्यां तपोधन ॥ १८.५५ ॥ सा समागाच्च दैत्यैन्द्रं कामयन्ती तरस्विनी । स चापि गमनं चक्रे भवितव्यप्रचोदितः ॥ १८.५६ ॥ तस्यां समभवद्गर्भस्तां प्रगृह्याथ दानवः । पातालं प्रविवेशाथ ततः स्वभवनं गतः ॥ १८.५७ ॥ दृष्टश्च दानवैः सर्वैः परित्यक्तश्च बन्धुभिः । अकार्यकारकेत्येवं भृयो मालवटं गतः ॥ १८.५८ ॥ सापि तेनैव पतिना महिषी चारुदर्शना । समं जगाम तत्पुण्यं यक्षमण्डलमुत्तमम् ॥ १८.५९ ॥ ततस्तु वसतस्तस्य श्यामा सा सुषुवे मुने । अजीजनत्सुतं शुभ्रं महिषं कामरूपिणम् ॥ १८.६० ॥ एतामृतुमतीं जातां महिषोऽन्यो ददर्श ह । सा चाभ्यगाद्दितिवरं रक्षन्ती शीलमात्मनः ॥ १८.६१ ॥ तमुन्नामितनासं च महिषं वीक्ष्य दानवः । खङ्ग निष्कृष्य तरसा महिषं समुपाद्रवत् ॥ १८.६२ ॥ तेनापि दैत्यस्तीक्ष्णाभ्यां शृङ्गाभ्यां हृदि ताडितः । निर्भिन्नहृदयो भूमौ निपपात ममार च । । १८.६३ मृते भर्तरि सा श्यामा यक्षाणां शरणं गता । रक्षिता गुह्यकैः साध्वी निवार्य महिषं ततः ॥ १८.६४ ॥ ततो निवारितो यक्षैर्हयारिर्मदनातुरः । निपपात सरो दिव्यं ततो दैत्यैऽभवन्मृतः ॥ १८.६५ ॥ नमरो नाम विख्यातो महाबलपराक्रमः । यक्षानाश्रित्य तस्थौ स कालयन् श्वापदान्मुन् ॥ १८.६६ ॥ स च दैत्येश्वरो यक्षैर्मालवटपुरस्सरैः । चितामारोपितः सा च श्यामा तं चारुहत्पतिम् ॥ १८.६७ ॥ ततोऽग्निमध्यादुत्तस्थौ पुरुषो रौद्रदर्शनः । व्यद्रावयत्स तान् यक्षान् खङ्गपाणिर्भयङ्करः ॥ १८.६८ ॥ ततो हतास्तु महिषाः सर्व एव महात्मना । ऋते संरक्षितारं हि महिषं रम्भनन्दनम् ॥ १८.६९ ॥ स नामतः स्मृतो दैत्यो रक्तबीजो महामुन् । योऽजयत्सर्वतो देवान् सेन्द्ररुद्रार्कमारुतान् ॥ १८.७० ॥ एवं प्रभावा दनुपुङ्गवास्ते तेजोऽधिकस्तत्र बभौ हयारिः । राज्येऽभिषिक्तश्च महासुरेन्द्रैर्विनिर्जितैः शम्बरतारकाद्यैः ॥ १८.७१ ॥ अशक्नुवद्भिः सहितैश्च देवैः सलोकपालैः सहुताशभास्करैः । स्थानानि त्यक्तानि शशीन्द्रभास्करैर्धर्मश्च दूरे प्रतियोजितश्च ॥ १८.७२ ॥ इति श्रीवामनपुराणे अष्टादशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । ततस्तु देवा महिषेम निर्जिताः स्थानानि संत्यज्य सवाहनायुधाः । जग्मुः पुरस्कृत्य रिचामहं ते द्रष्टुं तदा चक्रधरं श्रियः पतिम् ॥ १९.१ ॥ गत्वा त्वपश्यंश्च मिथः सुरोत्तमौ स्थितौ खगेन्द्रासनशङ्करौ हि । दृष्टावा प्रणम्यैव च सिद्दिसाधकौ न्यवेदयंस्तन्महिषादिचेष्टितम् ॥ १९.२ ॥ प्रभोऽश्विसूर्येन्द्वनिलाग्निवेधसां जलेशशक्रादिषु चाधिकारान् । आक्रम्य नाकात्तु निराकृता वयं कृतावनिस्था महिषासुरेण ॥ १९.३ ॥ एतद्भवन्तौ शरणागतानां श्रुत्वा वचो ब्रूत हितं सुराणाम् । न चेद्व्रजामोऽद्य रसातलं हि संकाल्यमाना युधि दानवेन ॥ १९.४ ॥ इत्थं मुरारिः सह शङ्करेण श्रुत्वा वचो विप्लुतचेतसस्तान् । दृष्ट्वाथ चक्रे सहसैव कोपं कालाग्निकल्पो हरिरव्ययात्मा ॥ १९.५ ॥ ततोऽनुकोपान्मधुसूदनस्य सशङ्करस्यापि पितामहस्य । तथैव शक्रादिषु दैवतेषु महर्द्धि तेजो वदनाद्विनिःसुतम् ॥ १९.६ ॥ तच्चैकतां पर्वतकूटसन्निभं जगाम तेजः प्रवराश्रं मुने । कात्यायनस्याप्रतिमस्य तेन महर्षिणा तेज उपाकृतं च ॥ १९.७ ॥ तेनार्षिसृष्टेन च तेजसा वृतं ज्वलत्प्रकाशार्कसहस्रतुल्यम् । तस्माच्च जाता तरलायताक्षी कात्यायनी योगविशुद्धदेहा ॥ १९.८ ॥ माहेश्वराद्वक्त्रमथो बभूव नेत्रत्रयं पावकतेजसा च । याम्येन केशा हरितेजसा च भुजास्तथाष्टादश संप्जज्ञिरे ॥ १९.९ ॥ सौम्येन युग्मं स्तनयोः सुसंहतं मध्यं तथैन्द्रेण च तेजसाभवत् । ऊरब चजङ्घे च नितम्बसंयुते जाते जलेशस्य तु तेजसा हि ॥ १९.१० ॥ पादो च लोकप्रपितामहस्य पद्माभिकोशप्रतिमौ बभूवतुः । दिवाकराणमपि तेजसाङ्गुलीः कराङ्गुलीश्च वसुतेजसैव ॥ १९.११ ॥ प्रजापतीनां दशनाश्च तेजसा याक्षेण नासा श्रवणौ च मारुतात् । साध्येन च भ्रयुगलं सुकान्तिमत्कन्दर्पबाणासनसन्निभं बभौ ॥ १९.१२ ॥ तर्थार्षितेजोत्तममुत्तमं महन्नाम्ना पृथिव्यामभवत्प्रसिद्धम् । कात्यायनीत्येव तदा बभौ सा नाम्ना च तेनैव जगत्प्रसिद्धा ॥ १९.१३ ॥ ददौ त्रिशूलं वरदस्त्रिशूली चक्रं मुरारिर्वरुणश्च शङ्खम् । शक्तिं हुताशः श्वसनश्च चापं तूणौ तथाक्ष्य्यशरौ विवस्वान् ॥ १९.१४ ॥ वज्रं तथेन्द्रः सह घण्टया च यमोऽथ दण्डं धनदो गदां च । ब्रह्मऽक्षमालां सकमण्डलुं च कालोऽसिमुग्रं सह चर्मणा च ॥ १९.१५ ॥ हारं च सोमः सह चामरेण मालं समुद्रो हिमवान्मृगेन्द्रम् । चूडामणिं कुण्डलमर्द्धचन्द्रं प्रादात्कुठारं वसुशिल्पकर्त्ता ॥ १९.१६ ॥ गन्धर्वराजो रजतानुलिप्तं पानस्य पूर्णं सदृशं च भाजनम् । भुजङ्गहारं भुजगेश्वरोऽपि अम्लानपुष्पामृतवः स्रजं च ॥ १९.१७ ॥ तदातितुष्टा सुरस्त्तमानां अट्टाट्टहासं मुमुचे त्रिनेत्रा । तां तुष्टुवुर्देववराः सहेन्द्राः सविष्णुरुद्रेन्द्वनिलाग्निभास्कराः ॥ १९.१८ ॥ नमोऽस्तु दैव्यै सुरपूजितायै या संस्थिता योगविशुद्धदेहा । निद्रास्वरूपेण महीं वितत्य तृष्णा त्रपा क्षुद्भयदाथ कान्तिः ॥ १९.१९ ॥ श्रद्धा स्मृतिः पुष्टिरथो क्षमा च छाया च शक्तिः कमलालया च । वृत्तिर्दया भ्रान्ति रथेह माया नमोऽस्तु दैव्यै भवरूपिकायै ॥ १९.२० ॥ ततः स्तुताः देववरैर्मृगेन्द्रमारुह्य देवी प्रगतावनीध्रम् । विन्ध्यं महापर्वतमुच्चशृङ्गं चकार यं निम्नतरं त्वगस्त्यः ॥ १९.२१ ॥ नारद उवाच । किर्मथमद्रिं भगवानगस्त्यस्तं निम्नशृङ्गं कृतवान्महर्षिः । कस्मै कृते केन च कारणेन एतद्वदस्वामलसत्त्ववृत्ते ॥ १९.२२ ॥ पुलस्त्य उवाच । पुरा हि विन्ध्येन दिवाकरस्य गतिर्निरुद्धा गगनेचरस्य । रविस्ततः कुमभभवं समेत्य होमावसाने वचनं बभाषे ॥ १९.२३ ॥ समागतोऽहं द्विज दूरतस्त्वां कुरुष्व मामुद्धरणं मुनीन्द्र । ददस्व दानं मम यन्मनीषिनं चरामि येन त्रिदिवेषु निर्वृतः ॥ १९.२४ ॥ इत्थं दिवाकरवचो गुणसंप्रयोगि श्रुत्वा तदा कलशजो वचनं बभाषे । दानं ददामि तव यन्मनसस्त्वभीष्टं नार्थि प्रयाति विमुखो मम कश्चिदेव ॥ १९.२५ ॥ श्रुत्वा वचोऽमृतमयं कलशोद्भवस्य प्राह प्रभुः करतले विनिधाय मूर्ध्नि । एषोऽद्य मे गिरिवरः प्ररुणाद्धि मार्गं विन्ध्यस्य निम्नकरणे भगवन् यतस्व ॥ १९.२६ ॥ इति रविवचनादथाह कुम्भजन्मा कुतमिति विद्धि मया हि नीचशृङ्गम् । तव किरणजितो भविष्यते महीध्रो मम चरणसम्श्रितस्य का व्यथा ते ॥ १९.२७ ॥ इत्येवमुक्त्वा कलशोद्भावस्तु सूर्यं हि संस्तूय विनम्य भक्त्या । जगाम संत्यज्य हि दण्डकं हि विन्ध्याचलं वृद्ध्वपुर्महर्षिः ॥ १९.२८ ॥ गत्वा वचः प्राह मुनिर्महीध्रं यास्ये महातीर्थवरं सुपुण्यम् । वृद्धोस्मयशक्तश्च तवाधिरोढुं तस्माद्भवान्नीचतरोऽस्तु सद्यः ॥ १९.२९ ॥ इत्येवमुक्तो मुनिस्त्तमेन स नीचशृङ्गस्त्वभवन्महीध्रः । समाक्रमच्चापि महर्षिमुक्यः प्रोल्लङ्घ्य विन्ध्यं त्विदमाह शैलम् ॥ १९.३० ॥ यावन्न भूयो निजमाव्रजामि महाश्रमं धौतवपुः सुतीर्थात् । त्वया न तावत्त्विह वर्धितव्यं नो चेद्विशप्स्येऽहमवज्ञया ते ॥ १९.३१ ॥ इत्येवमुक्त्वा भगवाञ्जगाम दिशं स याम्यां सहसान्तरिक्षम् । आक्रम्य तस्थौ स हि तां तदाशां काले व्रजाम्यत्र यदा मुनीन्द्रः ॥ १९.३२ ॥ तत्राश्रमं रम्यतरं हि कृत्वा संशुद्धजाम्बूनदतोरणान्तम् । तत्राथ निक्षिप्य विदर्भपुत्रीं स्वमाश्रमं सौम्यमुपाजगाम ॥ १९.३३ ॥ ऋतावृतौ पर्वकालेषु नित्यं तम्मबरे ह्याश्रममावसत्सः । शेषं च कालं स हि दण्डकस्थस्तपश्चारामितकान्तिमान्मुनिः ॥ १९.३४ ॥ विनन्ध्योऽपि दृष्ट्वा गगने महाश्रमं वृद्धिं न यात्येव भयान्महर्षेः । नासौ निवृत्तेति मतिं विधाय स संस्थितो नीचतराग्रशृङ्गः ॥ १९.३५ ॥ एवं त्वगस्त्येन महाचलेन्द्रः स नीचशृङ्गे हि कृतो महर्षे । तस्योर्ध्वशृङ्गे मुनिसंस्तुता सा दुर्गा स्थिता दानवनाशनार्थम् ॥ १९.३६ ॥ देवाश्च सिद्धाश्च महोरगाश्च विद्याधरा भूतगणाश्च सर्वे । सर्वाप्सरोभिः प्रतिरामयन्तः कात्यायनीं तस्थुरपेतशोकाः ॥ १९.३७ ॥ इति श्रीवामनपुराणे एकोनविंशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । ततस्तु तां तत्र तदा वसन्तीं कात्यायनीं शैलवरस्य शृङ्गे । अपश्यतां दानवसत्तमौ द्वौ चण्डश्च मुण्डश्च तपस्विनीं ताम् ॥ २०.१ ॥ दृष्ट्वैव शौलादवतीर्य शीघ्रमाजग्मतुः स्वभवनं सुरारी । दृष्ट्वोचतुस्तौ महिषासुरस्य दूताविदं चण्डमुण्डौ दितीशम् ॥ २०.२ ॥ स्वस्थो भवान् किं त्वसुरेन्द्र साम्प्रतमागच्छ पश्याम च तत्र विन्ध्यम् । तत्रास्ति देवी सुमहानुभावा कन्या सुरूपा सुरसुन्दरीणाम् ॥ २०.३ ॥ जितास्तया तोयधरालकैर्हि जितः शशङ्को वदनेन तन्व्या । नेत्रैस्त्रिभिस्त्रीणि हुताशनानि जितानि कण्ठेन जितस्तु शङ्खः ॥ २०.४ ॥ स्तनौ सुवृत्तावथ मग्नचूचुकौ स्थितौ विजित्येव गजस्य कुम्भौ । त्वां सर्वजोतारमिति प्रतर्क्य कुचौ स्मरेणैव कृतौ सुदुर्गौ ॥ २०.५ ॥ पीनाः सशस्त्राः पिरघोपमाश्च भुजास्तथाष्टादश भान्ति तस्याः । पराक्रमं वै भवतो विदित्वा कामेन यन्त्रा इव ते कृतास्तु ॥ २०.६ ॥ मध्यं च तस्यास्त्रिवलीतरङ्गं विभाति दैत्येन्द्र सुरोमराजि । भयातुरारोहणकातरस्य कामस्य सोपानमिव प्रयुक्तम् ॥ २०.७ ॥ सा रोमराजी सुतरां हि तस्या विराजते पीजकुचावलग्ना । आरोहणे त्वद्भयकातरस्य स्वेदप्रवाहोऽटसुर मन्मथस्य ॥ २०.८ ॥ नाभिर्गभीरा सुतरां विभाति प्रदक्षिणास्याः परिवर्तमाना । तस्यैव लावण्यगृहस्य मुद्रा कन्दर्पराज्ञा स्वयमेव दत्ता ॥ २०.९ ॥ विभाति रम्यं जघनं मृगाक्ष्याः समन्ततो मेखलयावजुष्टम् । मन्याम तं कामनराधिपस्य प्राकारगुप्तं नगरं सुदुर्गम् ॥ २०.१० ॥ वृत्तावरोमौ च मृदू कुमार्याः शोभेत ऊरू समनुत्तमौ हि । आवासनार्थं मकरध्वजेन जनस्य देशाविव सन्निविष्टौ ॥ २०.११ ॥ तञ्जानुयुग्मं महिषासुरेन्द्र अर्द्धेन्नतं भाति तथैव तस्याः । सृष्ट्वा विधाता हि निरूपणाय श्रान्तस्तथा हस्ततले ददौ हि ॥ २०.१२ ॥ जङ्घे सुवृत्तेऽपि च रोमहीने शोभेत दैत्येश्वर ते तदीये । आक्रम्य लोकानिव मिर्मिताया रूपार्जितस्यैव कृताधरौ हि ॥ २०.१३ ॥ पादौ च तस्याः कमलोदराभौ प्रयत्नतस्तौ हि कृतौ विधात्रा । आज्ञापि ताभ्यां नखरत्नमाला नक्षत्रमाला गगने यथैव ॥ २०.१४ ॥ एवंस्वरूपा दनुनाथ कन्या महोग्रशस्त्राणि च धारयन्ती । दृष्ट्वा यथेष्टं न च विद्म का सा सुताथवा कस्यचिदेव बाला ॥ २०.१५ ॥ तद्भूतले रत्नमनुत्तमं स्थितं स्वर्गं परित्यज्य महासुरेन्द्र । गत्वात्थ विन्ध्यं स्वयमेव पश्य कुरुष्व यत्तेऽभिमतं क्षमं च ॥ २०.१६ ॥ श्रुत्वैव ताभ्यां महिषासुरस्तु देव्याः प्रवृत्तिं कमनीयरूपाम् । चक्रे मतिं नात्र विचारमस्ति इत्येवमुक्त्वा महिषोऽपि नास्ति ॥ २०.१७ ॥ प्रागेव पुंसस्तु शुभाशुभानि स्थाने विधात्रा प्रतिपादितानि । यस्मिन् यथायानि यतोऽथविप्र स नीयते वा व्रजति स्वयं वा ॥ २०.१८ ॥ ततोनु मुण्डं नमरं सचण्डे विडालनेत्रं सपिशङ्गवाष्कलम् । उग्रायुधं चिक्षुररक्तबीजौ समादिदेशाथ महासुरेन्द्रः ॥ २०.१९ ॥ आहत्य भेरी रमकर्कशास्ते स्वर्गं परित्यज्य महीधरं तु । आगम्य मूले शिविरं निवेश्य तस्थुश्च सञ्जा दनुनन्दनास्ते ॥ २०.२० ॥ ततस्तु दैत्यो महिषासुरेण संप्रेषितो दानवयूथपालः । मयस्य पुत्रो रिपुसैन्यमर्दी स दुन्दुभिर्दुन्दुभिनिःखनस्तु ॥ २०.२१ ॥ अभ्येत्य देवीं गगनस्थितोऽपि स दुन्दुभिर्वाक्यमुवाच विप्र । कुमारि दूतोऽस्मि महासुरस्य रम्भात्मजस्याप्रतिमस्य युद्धे ॥ २०.२२ ॥ कात्यायानी दुन्दुभिमभ्युवाच एह्येहि दैत्येन्द्र भयं विमुच्य । वाक्यं च यद्रम्भसुतो बभाषे वदस्व तत्सत्यमपेतमोहः ॥ २०.२३ ॥ तथोक्तवाक्ये दितिजः शिवायास्तयज्याम्बरं भूमितले निषण्णः । सुखोपविष्टः परमासने च रम्भात्मजेनोक्तमुवाच वाक्यम् ॥ २०.२४ ॥ दुन्दुभिरुवाच । एवं समाज्ञापयते सुरारिस्त्वां देवि दैत्यो महिषासुरस्तु । यथामरा हीनबलाः पृथिव्यां भ्रमान्ति युद्धे विजिता मया ते ॥ २०.२५ ॥ स्वर्गं मही वायुपथाश्च वश्याः पातालमन्ये च महेश्वराद्याः । इन्द्रोऽस्मि रुद्रोऽस्मि दिवाकरोऽस्मि सर्वेषु लोक्ष्वधिपोऽस्मि बाले ॥ २०.२६ ॥ न सोऽस्ति नाके न महीतले वा रसातले देवभटोऽसुरो वा । यो मां हि संग्राममुपेयिवांस्तु भूतो न यक्षो न जिजीविषुर्यः ॥ २०.२७ ॥ यान्येव रत्नानि महीतले वा स्वर्गेऽपि पातालतलेऽथ मुग्धे । स्रावणि मामद्य समागतानि वीर्यार्जितानीह विशालनेत्रे ॥ २०.२८ ॥ स्त्रीरत्नमग्र्यं भवती च कन्या प्राप्तोऽस्मि शैलं तव कारणेन । तस्माद्भजस्वेह जगत्पतिं मां पतिस्तवार्हेऽस्मि विभुः प्रभुश्च ॥ २०.२९ ॥ पुलस्त्य उवाच् । इत्येवमुक्ता दितिजेन दुर्गा कात्यायनी प्राह मयस्य पुत्रम् । सत्यं प्रभुर्दानवराट्पृथिव्यां सत्यं च युद्धे विजितामराश्च ॥ २०.३० ॥ किं त्वस्ति दैत्येश कुलेऽस्मदीये धर्मो हि शुल्काख्य इति प्रसिद्धः । तं चेत्प्रदद्यान्महिषो ममाद्य भजामि सत्येन पतिं हयारिम् ॥ २०.३१ ॥ श्रुत्वाथ वाक्यं मयजोऽब्रवीच्च शुल्कं वदस्वाम्बुजपत्रनेत्रे । दद्यात्स्वमूर्धानमपि त्वदर्थे किं नाम शुल्कं यदिहैव तभ्यम् ॥ २०.३२ ॥ पुलस्त्य उवाच । इत्येवमुक्ता दनुनायकेन कात्यायनी सस्वनमुन्नदित्वा । विहस्य चैतद्वचनं बभाषे हिताय सर्वस्य चराचरस्य ॥ २०.३३ ॥ श्रीदेव्युवाच । कुलेऽस्मदीये शृणु दैत्य शुल्कं कृतं हि यत्पूर्वतरैः प्रसह्य । यो जेष्यतेऽस्मत्कुलजां रणाग्रे तस्याः स भर्त्तापि भविष्यतीति ॥ २०.३४ ॥ पुलस्त्य उवाच् । तच्छ्रुत्वा वचनं देव्या दुन्दुभिर्दानवेश्वरः । गत्वा निवेदयामास महिषाय यथातथम् ॥ २०.३५ ॥ स चाभ्यगान्महातेजाः सर्वदैत्यपुरः सरः । आगत्य विन्ध्यशिखरं योद्धधुकामः सरस्वतीम् ॥ २०.३६ ॥ ततः सेनापतिर्दैत्यो चिक्षुरो नाम नारद । सेनाग्रगामिनं चक्रे नमरं नाम दानवम् ॥ २०.३७ ॥ स चापि तेनाधिकृतश्चतुरङ्गं समूर्जितम् । बलेकदेशमादाय दुर्गा दुद्राव वेगितः ॥ २०.३८ ॥ तमापतन्तं वीक्ष्याथ देवा ब्रह्मपुरोगमाः । ऊचुर्वाक्यं महादेवीं वर्म ह्याबन्ध चाम्बिके ॥ २०.३९ ॥ अथोवाच सुरान् दुर्गा नाहं बध्नामि देवताः । कवचं कोऽत्र संतिष्ठेत्ममाग्रे दानवाधमः ॥ २०.४० ॥ यदा न देव्या कवचं कृतं शस्त्रनिबर्हणम् । तदा रक्षार्थमस्यास्तु विष्णुपञ्जरमुक्तवान् ॥ २०.४१ ॥ सा तेन रक्षिता ब्रह्मन् दुर्गा दानवसत्तमम् । अवध्यं दैवतैः सर्वेर्महिषं प्रत्यपीयत् ॥ २०.४२ ॥ एवं पुरा देववरेण शंभुना तद्वैष्णवं पञ्जरमायताक्ष्याः । प्रोक्तं तया चापि हि पादघातैर्निषूदितोऽसौ महिषासुरेन्द्रः ॥ २०.४३ ॥ एवंप्रभावो द्विज विष्णुपञ्जरः सर्वासु रक्षास्वधिको हि गीतः । कस्तस्य कुर्याद्युधि दर्फहानिं यस्य स्थितश्चेतसि चक्रपाणिः ॥ २०.४४ ॥ इति श्रीवामनपुराणे विंशोऽध्यायः ________________________________________________________________________ नारद उवाच । कथं कात्यायनी देवी सानगं महिषासुरम् । सवाहनं हतवती तथा विस्तरतो वाद ॥ २१.१ ॥ एतच्च संशयं ब्रह्मन् हृदि मे परिवर्तते । विद्यामानेषु शस्त्रेषु यत्पद्भ्यां तममर्दयत् ॥ २१.२ ॥ पुलस्त्य उवाच । शृणुष्वावहितो भूत्वा कथामेतां पुरातनीम् । वृत्तां देवयुगस्यादौ पुण्यां पापभयापहाम् ॥ २१.३ ॥ एवं स नमरः क्रुद्धः समापतत वेगवान् । सगजाश्वरथो ब्रह्मन् दृष्टो देव्या यथेच्छया ॥ २१.४ ॥ ततो बाणगणैर्दैत्यः समानम्याथ कार्मुकम् । ववर्ष शैलं धारौघैर्द्यैरिवाम्बुदवृष्टिभिः ॥ २१.५ ॥ शरवर्षेण तेनाथ विलोक्याद्रिं समावृतम् । क्रुद्धा भगवती वेगादाचकर्ष धनुर्वरम् ॥ २१.६ ॥ तद्धनुर्दानवे सैन्ये दुर्गया नामितं बलान् । सुवर्णपृष्ठं विबभौ विद्युदम्बुधरेष्विव ॥ २१.७ ॥ बाणैः सुररिपूनन्यान् खड्गेनान्यान् शुभव्रत । गदया मुसलेनान्यांश्चर्मणान्यानपातयत् ॥ २१.८ ॥ एकोऽप्यसौ बहून् देव्याः केसरी कालसंनिभः । विधुन्वन् केसरसटां निषूदयति दानवान् ॥ २१.९ ॥ कुलिशाभिहता दैत्याः शक्त्या निर्भिन्नवक्षसः । लाङ्गलैर्दारितग्रीवा विनिकृत्ताः परश्वधैः ॥ २१.१० ॥ दण्डनिर्भिंन्नशिरसश्चक्रविच्छिन्नबन्धनाः । चेलुः पेतुश्च मम्लुश्च तत्यजुश्चापरे रणम् ॥ २१.११ ॥ ते वध्यमाना रौद्रय दुर्गया दैत्यदानवाः । कालरात्रिं मन्यमाना दुद्रुवुर्भयपीडिताः ॥ २१.१२ ॥ सैन्याग्रं भग्नमालोक्य दुर्गामग्रे तथा स्थिताम् । दृष्ट्वाजगाम नमरो मत्तकुञ्जरसंस्थितः ॥ २१.१३ ॥ समागम्य च वेगेन देव्याः शक्तिं मुमोच ह । त्रिशुलमपि सिंहाय प्राहिणोद्दानवो रणे ॥ २१.१४ ॥ तावापतन्तौ देव्या तु हुङ्कारेणाथ भस्मसात् । कृतावथ गजेन्द्रेण गृहीतो मध्यतो हरिः ॥ २१.१५ ॥ अथोत्पत्य च वेगेन तलेनाह्तय दानवम् । गतासुः सुञ्जरस्कन्धात्क्षिप्य दैव्यै निवेदितः ॥ २१.१६ ॥ गृहीत्वा दानवं मध्ये ब्रह्मन् कात्यायनी रुषा । सव्येन पाणिना भ्राम्य वादयत्पहं यथा ॥ २१.१७ ॥ ततोऽट्टहासं मुमुचे तादृशे वाद्यतां गते । हास्यात्समुद्भवंस्तस्या भूता नानाविधाद्भुताः ॥ २१.१८ ॥ केचिद्व्याघ्रमुखा रौद्रा वृकाकारास्तथा परे । हयास्या महिषास्याश्च वराहवदनाः परे ॥ २१.१९ ॥ आखुकुक्कुटवक्त्राश्च गोऽजाविकमुखास्तथा । नानावक्त्राक्षिचरणा नानायुधधरास्तथा ॥ २१.२० ॥ गायन्त्यन्ये हसन्त्यन्ये पमन्त्यन्ये तु संघशः । वादयन्त्यपरे तत्र स्तुवन्त्यन्ये तथाम्बिकाम् ॥ २१.२१ ॥ सा तैर्भूतगणैर्देवी सार्द्ध तद्दानवं बलम् । शातयामास चाक्रम्य यथा सस्यं महाशनिः ॥ २१.२२ ॥ सेनाग्रे निहते तस्मिन् तथा सेनाग्रगामिनि । चिक्षुरः सैन्यपालस्तु योधयामास देवताः ॥ २१.२३ ॥ कार्मुकं दृढमाकर्णमाकृष्य रथिनां वरः । ववर्ष शरजालानि यथा मेघो वसुन्धराम् ॥ २१.२४ ॥ तान् दुर्गा स्वशरैश्छित्त्वा शरसंघान् सुपर्वभिः । सौवर्णपुङ्खानपराञ्शरान् जग्राह षोडश ॥ २१.२५ ॥ ततश्चतुर्भिश्चतुरस्तुरङ्गनपि भामिनी । हत्वा सारथिमेकेन ध्वजमेकेन चिच्छिदे ॥ २१.२६ ॥ ततस्तु सशरं चापं चिच्छेदैकेषुणाम्बिका । छिन्ने धनुषु खङ्गं च चर्म चादत्तवान् बली ॥ २१.२७ ॥ तं खङ्ग चर्मणा सार्ध दैत्यस्याधुन्वतो बलात् । शरैश्चतुर्भिश्चिच्छेद ततः शूलं समाददे ॥ २१.२८ ॥ समुद्भ्राम्य महच्छूलं संप्राद्रवदथाम्बिकाम् । क्रोष्टुको मुदितोऽरण्ये मृगराजवधूं यथा ॥ २१.२९ ॥ तस्याभिपततः पादौ करौ शीर्ष च पञ्चभिः । शरैश्चिच्छद संक्रुद्धा न्यपतिन्निहतोऽसुरः ॥ २१.३० ॥ तस्मिन् सेनापतौ क्षुण्णे तदोग्रास्यो महासुरः । समाद्रवत वेगेन करालास्यश्च दानवः ॥ २१.३१ ॥ बाष्कलश्चोद्धतश्चैव उदग्राख्योग्रकार्मुकः । दुर्द्धरो दुर्मुखश्चैव बिडालनयनोऽपरः ॥ २१.३२ ॥ एतेऽन्ये च महात्मानो दानवा बलिनां वराः । कात्यायनीमाद्रवन्त नानाशस्त्रास्त्रपाणयः ॥ २१.३३ ॥ तान् दृष्ट्वा लीलया दुर्गा वीणां जग्राह पाणिना । वादयामास हसती तथा डमरुकं वरम् ॥ २१.३४ ॥ यथा यथा वादयते देवी वाद्यानि तानि तु । तथा तथा भूतगणा नृत्यन्ति च हस्न्ति च ॥ २१.३५ ॥ ततोऽसुराः शस्त्रधराः समभ्येत्य सरस्वतीम् । अभ्यघ्नंस्तांश्च जग्राह केशेषु परमेश्वरी ॥ २१.३६ ॥ प्रहृह्य केशेषु महासुरांस्तानुत्पत्य सिंहात्तु नगस्य सानुम् । ननर्त वीणां परिवादयन्ती पपौ च पानं जगतो जनित्री ॥ २१.३७ ॥ ततस्तु देव्या बलिनो महासुरा दोर्दण्डनिर्धूतविशीर्मदर्पाः । विस्रस्तवस्त्रा व्यसवश्च जाताः ततस्तु तान् वीक्ष्य महासुरेन्द्रान् ॥ २१.३८ ॥ देव्या महौजा महिषासुरस्तु व्यद्रावयद्भूतगणान् खुराग्रैः । तुण्डेन पुच्छेन तथोरसान्यान्निःश्वासवातेन च भूतसंघान् ॥ २१.३९ ॥ नादेन चैवाशनिसन्निभेन विषाणाकोट्या त्वपरान् प्रमथ्य । दुद्राव सिंहं युधि हन्तुकामः ततोऽम्बका क्रोधवशं जगाम ॥ २१.४० ॥ ततः स कोपादथ तीक्ष्णशृङ्गः क्षिप्रं गिरीन् भूमिमशीर्णयच्च । संक्षोभयययंस्तोयनिधीन् घनांश्च विध्वंसयन् प्राद्वताथ गुर्गाम् ॥ २१.४१ ॥ सा चाथ पाशेन बबन्ध दुष्टं स चाप्यभूत्क्लिन्नकटः करीन्द्रः । करं प्रचिच्छेद च हस्तिनोऽग्रं स चापि भृयो महिषोऽभिजातः ॥ २१.४२ ॥ ततोऽस्य शूलं व्यसृजन्यमृडानी स शीर्णमूलो न्यपतत्पृथिव्याम् । शक्तिं प्रचिक्षेप हुताशदत्तां सा कुण्ठिताग्रा न्यपतनमार्षे ॥ २१.४३ ॥ चक्रं हरेर्दानपचक्रहन्तुः क्षिप्तं त्वचक्रत्वमुपागतं हि । गदां समाविध्य धनेश्वरस्य क्षिप्तातु भग्ना न्यपतत्पृथिव्याम् ॥ २१.४४ ॥ जलेशपाशोऽपि महासुरेण विषाणतुण्डाग्रखुरप्रणुन्नः । निरस्य तत्कोपितया च मुक्तो दण्डस्तु याम्यो बहुखण्डतां गतः ॥ २१.४५ ॥ वज्रं सुरेन्द्रस्य च विग्रहेऽस्य मुक्तं सुसूक्ष्मत्वमुपाजगाम । संत्यज्य सिंहं महिषासुरस्य दुर्गाधिरूढा सहसैव पृष्ठम् ॥ २१.४६ ॥ पृष्ठस्थितायां महिषासुरोऽपि पोप्लूयते वीर्यमदान्मृडान्याम् । सा चापि पद्भ्यां मृदुकोमलाभ्यां ममर्द तं क्लिन्नमिवाजिनं हि ॥ २१.४७ ॥ स मृद्यमानो धरणीधराभो देव्या बली हीनबलो बभूव । ततोऽस्य शूलेन बिबेद कण्ठं तस्मात्पुमान् खङ्गधरो विनिर्गतः ॥ २१.४८ ॥ निष्क्रान्तमात्रं हृदये पदा तमाहत्य संगृह्य कचेषु कोपात् । शिरः प्रचिच्छेद वरासिनास्य हाहाकृतं दैत्यबलं तदाभूत् ॥ २१.४९ ॥ सचण्डमुण्डाः समयाः सताराः सहासिलोम्ना भयकातराक्षाः । संताड्यमानाः प्रमथैर्भवान्याः पातलमेवाविविशुर्भयार्ताः ॥ २१.५० ॥ देव्या जयं देवागणा विलोक्य स्तुवन्ति देवीं स्तुतिभिर्महर्षे । नारायणीं सर्वजगत्प्रतिष्ठां कात्यायनीं घोरमुखीं सुरूपाम् ॥ २१.५१ ॥ संस्तूयमाना सुरसिद्धसंघैर्न्निषण्णभूता हरपादमुले । भूयो भविष्याम्यमरार्थमेवमुक्त्वा सुरांस्तान् प्रविवेश दुर्गा ॥ २१.५२ ॥ इती श्रीवामनपुराणे एकविंशोऽध्यायः ________________________________________________________________________ नारद उवाच । पुलस्त्य कथ्यतां तावद्देव्या भूयः समुद्भवः । महत्कौतूहलं मेऽद्य विस्तराद्ब्रह्मवित्तम ॥ २२.१ ॥ पुलस्त्य उवाच । श्रूयतां कथयिष्यामि भूयोऽस्याः संभवं मुने । शुम्भासुरवधार्थाय लोकानां हितकाम्यया ॥ २२.२ ॥ या सा हिमवतः पुत्री भवेनोढा तपोधना । उमा नाम्ना च तस्याः सा कोशाञ्जाता तुकौशिकी ॥ २२.३ ॥ संभीय विन्ध्यं गत्वा च भृयो भूतगणैर्वृता । शुम्भं चैव निशुम्भं च वधिष्यति वरायुधैः ॥ २२.४ ॥ नारद उवाच । ब्रह्मंस्त्वया समाख्याता मृता दक्षत्मजा सती । सा जाता हिमवत्पुत्रीत्येवं मे वक्तुमर्हसि ॥ २२.५ ॥ यथा च पार्वतीकोशात्समुद्धभूता हि कौशिकी । यथा हतवती शुम्भं निसुम्भं च महासुरम् ॥ २२.६ ॥ कस्य चेमौ सुतौ वीरौ ख्यातौ शुम्भनिशुम्भकौ । एतद्विस्तरतः सर्वं यथावद्वक्तुमर्हसि ॥ २२.७ ॥ पुलस्त्य उवाच । एतत्ते कथयिष्यामि पार्वत्याः संभवं मुने । शृणुष्वावहितो भूत्वा स्कन्दोत्पत्तिं च शाश्वतीम् ॥ २२.८ ॥ रुद्रः सत्यां प्रणष्टायां ब्रह्मचारिव्रते स्तितः । निराश्रयत्वमापन्नस्तपस्तप्तुं व्यवस्थितः ॥ २२.९ ॥ स चासीद्देवसेनानीर्दैत्यदर्फविनाशनः ॥ २२.१० ॥ ततो निराकृता देवाः सेनानाथेन शंभुना । दानवेन्द्रेण विक्रम्य महिषेण पराजिताः ॥ २२.११ ॥ ततो जग्मुः मुरेशानं द्रष्टुं चक्रगदाधरम् । श्वेत्दवीपे महाहंसं प्रपन्नाः शरणं हरिम् ॥ २२.१२ ॥ तानागतान् सुरान् दृष्ट्वा ततः शक्रपुरोगमान् । विहस्य मेघगम्भीरं प्रोवाच पुरुषोत्तमः ॥ २२.१३ ॥ किं जितास्त्वसुरेन्द्रेण महिषेण दुरात्मना । येन सर्वे समेत्यैवं मम पार्श्वमुपागताः ॥ २२.१४ ॥ तद्युष्माकं हितार्थाय यद्वदामि सुरोत्तमाः । तत्कुरुध्वं जयो येन समाश्रित्य भवेद्धि वः ॥ २२.१५ ॥ य एते पितरो दिव्यास्त्वग्निष्वात्तेति विश्रुताः । अमीषां मानसी कन्या मेना नाम्नास्ति देवताः ॥ २२.१६ ॥ तामाराध्य महातिथ्यां श्रद्धया परयामराः । प्रार्थयध्वं सतीं मेनां प्रालेयाद्रेरिहार्थतः ॥ २२.१७ ॥ तस्यां सा रूपसंयुक्ता भविष्यति तपस्विनी । दक्षकोपाद्यया मुक्तं मलवज्जीवितं प्रियम् ॥ २२.१८ ॥ सा शङ्करात्स्वतेजोंऽशं जनयिष्यति यं सुतम् । स हनिष्यति दैत्येन्द्रं महिषं सपदानुगम् ॥ २२.१९ ॥ तस्माद्गच्छत पुण्यं तत्कुरुक्षेत्रं महाफलम् । तत्र पृथूदके तीर्थे पूज्यन्तां पितरोऽव्ययः ॥ २२.२० ॥ महातिथ्यां महापुण्ये यदि शत्रुपराभवम् । जिहासतात्मनः सर्वे इत्थं वै क्रियतामिति ॥ २२.२१ ॥ पुलस्त्य उवाच । इत्युक्त्वा वासुदेवेन देवाः शक्रपुरोगमाः । कृताञ्जलिपुटा भूत्वा पप्रच्छुः परम्श्वरम् ॥ २२.२२ ॥ देवा ऊचुः । कोऽयं कुरुक्षेत्र इति यत्र पुण्यं पृथूदकम् । उद्भवं तस्य तीर्थस्य भगवान् प्रब्रवीतु नः ॥ २२.२३ ॥ केयं प्रोक्ता महापुण्या तिथीनामुत्तमा तिथिः । यस्यां हि पितरो दिव्याः पूज्यास्माभिः प्रयन्ततः ॥ २२.२४ ॥ ततः सुराणां वचनान्मुरारिः कैटभार्दनः । कुरुक्षेत्रोद्भवं पुण्यं प्रोक्तवांस्तां तिथीमपि ॥ २२.२५ ॥ श्रीभगवानुवाच । सोमवंशोद्भवो राजा ऋक्षो नाम महाबलः । कृस्यादौ समभवदृक्षात्संवरणोऽवत् ॥ २२.२६ ॥ स च पित्रा निजे राज्ये बाल एवाभिषेचितः । बाल्येऽपि धर्मनिरतो मद्भक्तश्च सदाभवत् ॥ २२.२७ ॥ पुरोहितस्तु तस्यासीद्वसिष्ठो वरुणात्मजः । स चास्याध्यापयामास साङ्गान् वेदानुदारधीः ॥ २२.२८ ॥ ततो जगाम चारण्यं त्वनध्याये नृपात्मजः । सर्वकर्मसु निक्षिप्य वसिष्ठं तपसां निधिम् ॥ २२.२९ ॥ ततो मृगयाव्याक्षेपादेकाकी विजनं वनम् । वैभ्राजं स जगामाथ अथोन्मादनमभ्ययात् ॥ २२.३० ॥ ततस्तु कौतुकाविष्टः सर्वतुकुसुमे वने । अवितृपतः सुगन्धस्य समन्ताद्व्यचरद्वनम् ॥ २२.३१ ॥ स वनन्तं च ददृशे फुल्लकोकनदावृतम् । कह्लारपद्मकुमुदैः कमलेन्दीवरैरपि ॥ २२.३२ ॥ तत्र क्रीडन्ति सततमप्सरोऽमरकन्यकाः । तासां मध्ये ददर्शाथ कन्यां संवरणोऽधिकाम् ॥ २२.३३ ॥ दर्शनादेव स नृपः काममार्गणपीडितः । जातः सा च तमीक्ष्यैव कामबाणातुराभवत् ॥ २२.३४ ॥ उभौ तौ पीडितौ मोहं जग्मतुः काममार्गणैः । राजा चलासनो भूम्यां निपपात तुरङ्गमात् ॥ २२.३५ ॥ तमभ्येत्य महात्मानो गन्धर्वाः कामरूपिणः । सिषिचुर्वारिणाभ्येत्य लब्धसंज्ञोऽभवत्क्षणात् ॥ २२.३६ ॥ सा चाप्सरोभिरुत्पात्य नीता पितृकुलं निजम् । ताभिराश्वासिता चापि मधुरैर्वचनाम्बुभिः ॥ २२.३७ ॥ स चाप्यरुह्य तुरगं प्रतिष्ठानं पुरोत्तमम् । गतस्तु मेरुशिखरं कामचारी यथामरः ॥ २२.३८ ॥ यदाप्रभृति सा दृष्टा आर्क्षिणा तपती गिरौ । तदाप्रभृति नाश्नाति दिवा स्वपिति नो निशि ॥ २२.३९ ॥ ततः सर्वविदव्यग्रोविदित्वा वरुणात्मजः । तपतीतापितं वीरं पार्थिवं तपसां निधिः ॥ २२.४० ॥ समुत्पत्य महायोगी गगनं रविमण्डलम् । विवेश देवं तिग्मांशु ददर्श स्यन्दने स्थितम् ॥ २२.४१ ॥ तं दृष्ट्वा भास्करं देवं प्रणमद्द्विजसत्तमः । प्रतिप्रणमितश्चासौ भास्करेणाविशद्रथे ॥ २२.४२ ॥ ज्वलज्जटाकलापोऽसौ दिवाकरसमीपगः । शोभते वारुणिः श्रीमान् द्वितीय इव भास्करः ॥ २२.४३ ॥ ततः संपूजितोर्ऽघार्भास्करेण तपोधनः । पृष्टश्चागमने हेतुं प्रत्युवाच दिवाकरम् ॥ २२.४४ ॥ समायातोऽस्मि देवेश याचितुं त्वां महाद्युते । सुतां संवरणस्यार्थे तस्य त्वं दातुमर्हसि ॥ २२.४५ ॥ ततो वसिष्ठाय दिवाकरेण निवेदिता सा तपती तनूजा । गृहागताय द्विजपुङ्गवाय राज्ञोर्ऽथतः संवरणस्य देवाः ॥ २२.४६ ॥ सावित्रिमादाय ततो वसिष्ठः स्वमाश्रमं पुण्यमुपाजगाम । सा चापि संस्मृत्य नृपात्मजं तं कृताञ्जलिर्वारुणिमाह देवी ॥ २२.४७ ॥ तपत्युवाच । ब्रह्मन्मया खेदमुपेत्य यो हि सहाप्सरोभिः परिचारिकाभिः । दृष्टो ह्यरण्येऽमरगर्भतुल्यो नृपात्मजो लक्षणतोऽभिजाने ॥ २२.४८ ॥ पादौ शुभौ चक्रगदासिचिह्नौ जङ्घे तथोरू करिहस्ततुल्यौ । कटिस्तथा सिंहकटिर्यथैव क्षामं च मध्यं त्रिबलीनिबद्धम् ॥ २२.४९ ॥ ग्रीवास्य शङ्खाकृतिमादधाति भुजौ च पीनौ कठनौसुदीर्घौ । हस्तौ तथा पद्मदलोद्भवाङ्कौ छत्राकृतिस्तस्य शिरो विभाति ॥ २२.५० ॥ नीलाश्च केशाः कुटिलाश्च तस्य कर्णौ समांसौ सुसमा च नासा । दीर्घाश्च तस्याङ्गुलयः सुपर्वाः पद्भ्यां कराभ्यां दशनाश्च सुभ्राः ॥ २२.५१ ॥ समुन्नतः षड्भिरुदारवीर्यस्त्रिभिर्गभीरस्त्रिपु च प्रलम्बः । रक्तस्तथा पञ्चसु राजपुत्रः कृष्णश्चतुर्भिस्त्रिभिरानतोऽपि ॥ २२.५२ ॥ द्वाभ्यां च शुक्लः सुराभिश्चतुर्भिः दृश्यन्ति पद्मानि दशैव चास्य । वृतः स भर्ता भगवान् हि पूर्वं तं राजपुत्रं भुवि संविचिन्त्य ॥ २२.५३ ॥ ददस्व मां नाथ तपस्विनेऽस्मै गुणोपपन्नाय समीहिताय । नेहान्यकामां प्रवदन्ति सन्तो दातुं तथान्यस्य विभो क्षमस्व ॥ २२.५४ ॥ देवदेव उवाच । इत्येवमुक्तः सवितुश्च पुत्र्या ऋषिस्तदा ध्यानपरो बभूव । ज्ञात्वा च तत्रार्कसुतां सकामां मुदा युतो वाक्यमिदं जगाद ॥ २२.५५ ॥ स एव पुत्रि नृपतेस्तनूजो दृष्टः पुरा कामयसे यमद्य । स एव चायाति ममाश्रमं वै ऋक्षात्मजः संवरणो हि नाम्ना ॥ २२.५६ ॥ अथाजगाम स नृपस्य पुत्रस्तमाश्रमं ब्राह्मणपुङ्कवस्य । दृष्ट्वा वसिष्ठं प्रणिपत्य मूर्ध्ना स्थितस्त्वपश्यत्तपतीं नरेन्द्रः ॥ २२.५७ ॥ दृष्ट्वा च तां पद्मविशालनेत्रां तां पूर्वदृष्टामिति चिन्तयित्वा । पप्रच्छ केयं ललना द्विजेन्द्र स वारुणिः प्राह नराधिपेन्द्रम् ॥ २२.५८ ॥ इयं विवस्वद्दुहिता नरेन्द्र नाम्ना प्रसिद्धा तपती पृथिव्याम् । मया तवार्थाय दिवाकरोऽर्थितः प्रादान्मया त्वाश्रममानिनिन्ये ॥ २२.५९ ॥ तस्मात्मसुत्तिष्छ नरेन्द्र देव्याः पाणिं तपत्या विधिवद्गृहाण । इत्येवमुक्तो नृपतिः प्रहृष्टो जग्राह पाणिं विधिवत्तपत्याः ॥ २२.६० ॥ सा तं पतिं प्राप्य मनोऽभिरामं सूर्यामजा शक्रसमाप्रभावम् । रराम तन्वी भवनोत्तमेषु यता महैन्द्रं दिवि दैत्यकन्या ॥ २२.६१ ॥ ________________________________________________________________________ देवदेव उवाच । तस्यां तपत्यां नरसत्तमेन जातः सुतः पार्थिवलक्षणस्तु । स जातकर्मादिभिरेव संस्कृतो विवर्द्धताज्येन हुतो यथाग्निः ॥ २३.१ ॥ कृतोऽस्य चूडाकरणश्च देवा विप्रण मित्रावरुणात्मजेन । नवाब्दिकस्य व्रतबन्धनं च वेदे च शास्त्रे विधिपारगोऽबूत् ॥ २३.२ ॥ ततश्चतुःपड्भिरपीह वर्षैः सर्वज्ञतामभ्यगमत ततोऽसौ । ख्यातः पृथिव्यां पुरुषोत्तमोऽसौ नाम्ना कुरुः संवरणस्य पुत्रः ॥ २३.३ ॥ ततो नरपतिर्दृष्ट्वा धर्मिकं तनयं शुभम् । दारक्रियार्थमकरोद्यत्नं शुभकुले ततः ॥ २३.४ ॥ सोदामिनीं सुदाम्नस्तु सुतां रूपाधिकां नपः । कुरोरर्थाय वतवान् स प्रादात्कुरवेऽपि ताम् ॥ २३.५ ॥ स तां नृपसुतां लब्ध्वा धर्मार्थावविरोधयन् । रेमे तन्व्या सह तया पौलोम्या मघवानिव ॥ २३.६ ॥ ततो नरपतिः पुत्रं राज्यभारक्षमं बली । विदित्वा योवराज्याय विधानेनाभ्यषेचयत् ॥ २३.७ ॥ ततो राज्येऽभिषिक्तस्तु कुरुः पित्रा निजे पदे । पालयामास स महीं पुत्रवच्च स्वयं प्रजाः ॥ २३.८ ॥ स एव क्षेत्रपालोऽभूत्पशुपालः स एव हि । स सर्वपालकश्चासीत्प्रजापालो महाबलः ॥ २३.९ ॥ ततोऽस्य बुद्धिरुपन्ना कीर्तिर्लोके गरीयसी । यावत्कीर्तिः सुसंस्था हि तावद्वासः सुरैः सह ॥ २३.१० ॥ स त्वेवं नृपतिश्रेष्ठो याथातथ्यमवेक्ष्य च । विचचार महीं सर्वां कीर्त्यर्थं तु नराधिपः ॥ २३.११ ॥ ततो द्वैतवनं नाम पुण्यं लोकेश्वरो बली। । तदासाद्य सुसंतुष्टो विवेशाभ्यान्तरं ततः ॥ २३.१२ ॥ तत्र देवीं ददर्शाथ पुण्यां पापविमोचनीम् । प्लक्षजां ब्रह्मणः पुत्रीं हरिजिह्वां सरस्वतीम् ॥ २३.१३ ॥ सुदर्शनस्य जननीं ह्वन्दं कृत्वा सुविस्तरम् । स्थितां भगवतीं कूले तीर्थकोटिभिराप्लुताम् ॥ २३.१४ ॥ तस्यास्तज्जलमीक्ष्यैव स्नात्वा प्रीतोऽभवन्नृपः । समाजगाम च पुनः ब्रह्मणो वेदिमुत्तराम् ॥ २३.१५ ॥ समन्तपञ्चकं नाम धर्मस्थानमनुत्तमम् । आकमन्ताद्योजनानि पञ्च च सर्वतः ॥ २३.१६ ॥ देवा ऊचुः । कियन्त्यो वेदयः सन्ति ब्रह्मणः पुरुषोत्तम । येनोत्तरतया वेदिर्गादिता सर्वपञ्चका ॥ २३.१७ ॥ देवदेव उवाच् । वेदयो लोकनाथस्य पञ्च धर्मस्य सेतवः । यासु यष्टं सुरेशेन लोकनाथेन शंभुना ॥ २३.१८ ॥ प्रयागो मध्यमा वेदिः पूर्वा वेदिर्गयाशिरः । विरजा दक्षिणा वेदिरनन्तफलदायिनी ॥ २३.१९ ॥ प्रतीची पुष्करा वेदिस्त्रिभिः कुण्डैरलङ्कृता । समन्तपञ्चका चोक्ता वेदिरेवोत्तराव्यया ॥ २३.२० ॥ तममन्यत राजर्षिरिदं क्षेत्रं महाफलम् । करिष्यामि कृषिष्यामि सर्वान् कामान् यथेप्सितान् ॥ २३.२१ ॥ इति संचिन्त्य मनसा त्यक्त्वा स्यन्तनमुत्तमम् । चक्रे कीर्त्यर्थमतुलं संस्थानं पार्थिवर्षभः ॥ २३.२२ ॥ कृत्वा सीरं स सौवर्णं गह्य रुद्रवृषं प्रभुः । पौण्ड्रकं याम्यमहिषं स्वयं कर्षितुमुद्यतः ॥ २३.२२ ॥ तं कर्षन्तं नरवरं समभ्येत्य तक्रतुः । प्रोवाच राजन् किमिदं भवान् कर्तुमिहोद्यतः ॥ २३.२३ ॥ तं कर्षन्तं नरवरं समभ्येत्य शतक्रतुः । प्रोवाच राजन् किमिदं भवान् कर्तुमिहोद्यतः ॥ २३.२४ ॥ राजाब्रवीत्सुरवरं तपः सत्यं क्षमां दयाम् । कृषामि शौचं दानं च योगं च ब्रह्मचारिताम् ॥ २३.२५ ॥ तस्योवाच हरिर्देवः कस्माद्बीजो नरेश्वर । लब्धोऽष्टाङ्गेति सहसा अवहस्य गतस्ततः ॥ २३.२६ ॥ गतेऽपि शक्र राजर्षिरहन्यहनि सीरधृक् । कृषतेऽन्यान् समन्ताच्च सप्तक्रोशान्महीपतिः ॥ २३.२७ ॥ ततोऽहमब्रुवं गत्वा कुरो किमिदमित्यथ । तदाष्टाङ्गं महाधर्मं समाख्यातं नृपेण हि ॥ २३.२८ ॥ ततो मयास्य गदितं नृप बीजं क्व तिष्ठति । स चाह मम देहस्थं बीजं तमहमब्रुवम् । देह्यहं वापयिष्यामि सीरं कृषतु वै भवान् ॥ २३.२९ ॥ ततो नृपतिना बाहुर्दक्षिणः प्रसृतः कतः । प्रसृतं तं भुजं दृष्ट्वा मया चक्रेण वेगतः ॥ २३.३० ॥ सहस्रधा ततश्छिद्य दत्तो युष्माकमेव हि । ततः सव्यो भुजो राज्ञा दत्तश्छिन्नोऽप्यसौ मया ॥ २३.३१ ॥ तथैवोरुयुगं प्रादान्मया छिन्नौ च तावुभौ । ततः स मे शिरः प्रादात्तेन प्रीतेऽस्मि तस्य च । वरदोऽस्मीत्यथेत्युक्ते कुरुर्वरमयाचत ॥ २३.३२ ॥ यावदेतन्मया कृष्टं धर्मक्षेत्रं तदस्तु च । स्नातानां च मृतानां च महापुण्यफलं त्विह ॥ २३.३३ ॥ उपवासं च दानं च स्नानं जप्यं च माधव । होमयज्ञादिकं चान्यच्छुभं वाप्यशुभं विभो ॥ २३.३४ ॥ त्वत्प्रसाद्धृषीकेश शङ्खचक्रगदाधर । अक्षयं प्रवरे क्षेत्रे भवत्वत्र महाफलम् ॥ २३.३५ ॥ तथा भवान् सुरैः सार्धं समं देवेन शलिना । वस त्वं पुण्डरीकाक्ष मन्नामव्यञ्जकेऽच्युत । इत्येवमुक्तस्तेनाहं राज्ञा बाढमुवाच तम् ॥ २३.३६ ॥ तथा च त्वं दिव्यवपुर्भव भूयो महीपते । तथान्तकाले मामेव लयटमेष्यसि सुव्रत ॥ २३.३७ ॥ कीर्तिश्च शाश्वती तुभ्यं भविष्यति न संशयः । तत्रैव याजका यज्ञान् यजिष्यन्ति सहस्रशः ॥ २३.३८ ॥ तस्य क्षेत्रस्य रक्षार्थं ददौ स पुरुषोत्तमः । यक्षं च चन्द्रनामानं वासुकिं चापि पन्नगम् ॥ २३.३९ ॥ विद्याधरं शङ्कुकर्णं सुकेशिं राक्षसेश्वरम् । अजावनं च नृपतिं महोदेवं च पावकम् ॥ २३.४० ॥ एतानि सर्वतोऽभ्येत्य रक्षन्ति कुरुजाङ्गलम् । अमीषां बलिनोऽन्ये च भृत्याश्चैवानुयायिनः ॥ २३.४१ ॥ अष्टौ सहस्राणि धरनुर्धराणां ये वारयन्तीह सुदुष्कृतान् वै । स्नातुं न यच्छन्ति महोग्ररूपास्तवन्यस्य भूताः सचराचराणाम् ॥ २३.४२ ॥ तस्यैव मध्ये बहुपुण्य उक्तः पृथूदकः पापहरः शिवश्च । पुण्या नदी प्राङ्मुखतां प्रयाता यत्रौघयुक्तस्य शुभा जताढ्या ॥ २३.४३ ॥ पूर्वं प्रजेयं प्रपितामहेन सृष्टा समं भूतगणैः समस्तैः । मही जलं वह्निसमीरमेव खं त्वेवमादौ विबभौ पृथूदकः ॥ २३.४४ ॥ तथा च सर्वाणा महार्णवानि तीर्थानि नद्यः स्त्रवणाः सरांसि । संनिर्मितानीह महाभुजेन तच्चैक्यमागात्सलिलं महीषु ॥ २३.४५ ॥ ________________________________________________________________________ देवदेव उवाच । एवं पृथूदको देवाः पुण्यः पापभयापहः । तं गच्छध्वं महातीर्थं यावत्संनिधिवोधितम् ॥ २४.१ ॥ यदा मृगशिरोऋक्षे शशिसूर्यौ बृहस्पतिः । तिष्ठन्ति सा तिथिः पुण्या त्वक्षया परिगीयते ॥ २४.२ ॥ तं गच्छध्वं सुरश्रेष्ठा यत्र प्राची सरस्वती । पितॄनाराधयध्वं हि तत्र श्राद्धेन भक्तिततः ॥ २४.३ ॥ ततो मुरारिवचनं श्रुत्वा देवाः सवासवाः । समाजग्मुः कुरुक्षेत्रे पुण्यतीर्थं पृथूदकम् ॥ २४.४ ॥ तत्र स्नात्वा सुराः सर्वे बृहस्पतिमचोदयन् । विशस्व भगवनृक्षमिमं मृशिरं कुरु । पुण्यां तिथिं पापहरां तव कालोऽयमागतः ॥ २४.५ ॥ प्रवर्तते रविस्तत्र चन्द्रमापि विशत्यसौ । त्वदायत्तं गुरो कार्यं सुराणां तत्कुरुष्व च ॥ २४.६ ॥ इत्येवमुक्तो देवैस्तु देवाचार्योऽब्रवीदिदम् । यदि वर्षाधिपोऽहं स्यां ततो यास्यामि देवताः ॥ २४.७ ॥ आषाढे मासि मार्गर्क्षे चन्द्रक्षयतिथिर्हि या । तस्यां पुरन्दरः प्रीतः पिण्डं पितृषु भक्तितः ॥ २४.८ ॥ प्रादात्तिलमधून्मिश्रं हविष्यान्नं कुरुष्वथ । ततः प्रीतास्तु पितरस्तां प्राहुस्तनयां निजाम ॥ २४.९ ॥ मेनां देवाश्च शैलाय हिमयुक्ताय वै ददुः । तां मेनां हिमवांल्लब्ध्वा प्रसादाद्दैवतेष्वथ । प्रीतिमानभवच्चासौ रराम च यथेच्छया ॥ २४.१० ॥ ततो हिमाद्रिः पितृकन्यया समं समर्पयन् वै विषयान् यथैष्टम् । अजीजनत्सा तनयाश्च तिस्रो रूपातियुक्ताः सुरयोषितोपमाः ॥ २४.११ ॥ इति श्रीवामनपुराणे चतुर्विंशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । मेनायाः कन्यकास्तिस्रो जाता रूपगुणान्विताः । सुनाभ इति च ख्यातश्चतुर्थस्तनयोऽभवत् ॥ २५.१ ॥ रक्ताङ्गी रक्तनेत्रा च रक्ताम्बरविभूषिता । रागिणि नाम संजाता ज्येष्ठा मेनासुता मुने ॥ २५.२ ॥ शुभाङ्गी पद्मपत्राक्षी नीलकुञ्चितमूर्धजा । श्वेतमाल्याम्बरधरा कुटिला नाम चापरा ॥ २५.३ ॥ नीलाञ्चनचयप्रख्या नीलेन्दीवरलोचना । रूपेणानुपमा काली जघन्या मेनकासुता ॥ २५.४ ॥ जातास्ताः कन्यकास्तिस्रः षडब्दात्परतो मुने । कर्तुं तपः प्रयातास्ता देवास्ता ददृशुः शुभाः ॥ २५.५ ॥ ततो दिवाकरैः सर्वैर्वसुभिश्च तपस्विनी । कुटिला ब३ मलोकं तु नीता शशिकरप्रभा ॥ २५.६ ॥ अथोचुर्देवताः सर्वाः किं त्वियं जनयिष्यति । पुत्रं महिषहन्तारं ब्रह्मन् व्याख्यातुमर्हसि ॥ २५.७ ॥ ततोऽब्रवीत्सुरपतिर्नेयं शक्ता तपस्विनी । शार्वं धारयितुं तेजो वराकी मुच्यातां त्वियम् ॥ २५.८ ॥ ततस्तु कुटुला ऋद्धा ब्रह्माणं प्राह नारद । तथा यतिष्ये भगवन् यता शार्वं सुदुर्द्धरम् ॥ २५.९ ॥ धारयिष्याम्यहं तेजस्तथैव श्रुणु सत्तम । तपसाहं सुतप्तेन समाराध्य जनार्दनम् ॥ २५.१० ॥ यथा हरस्य मूर्धानं नमयिथ्ये पितामह । तथा देव करिष्यामि सत्यं सत्यं मयोदितम् ॥ २५.११ ॥ पुलस्त्य उवाच । ततः पितामहः क्रुद्धः कुटिलां प्राह दारुणाम् । भगवानादिकृद्ब्रह्मा सर्वेशोऽपि महामुन् ॥ २५.१२ ॥ ब्रह्मोवाच । यस्मान्मद्वचनं पापे न क्षान्तं कुटिले त्वया । तस्मान्मच्छापनिर्दग्धा सर्वा आपो भविष्यसि ॥ २५.१३ ॥ इत्येवं ब्रह्मणा शप्ता हिमवद्दुहिता मुने । आपोमयी ब्रह्मलोकं प्लावयामास वेगिनी ॥ २५.१४ ॥ तामुद्वृत्तजलां दृष्ट्वा प्रबबन्ध पितामहः । ऋक्सामाथर्वयजुभिर्वाङ्मयैर्बन्धनैर्दृढम् ॥ २५.१५ ॥ सा बद्धा सिस्थिता ब्रह्मन् तत्रैव गिरिकन्यका । आपोमयी प्लावयन्ती ब्रह्मणो विमला जटाः ॥ २५.१६ ॥ या सा रागवती नाम सापि नीता सुरैर्दिवम् । ब्रह्मणे तां निवेद्यैवं तामप्याह प्रजापतिः ॥ २५.१७ ॥ सापि क्रुद्धाब्रवीन्नूनं तथा तप्स्ये महत्तपः । यथा मन्नामसंयुक्तो महिषघ्नो भविष्यति ॥ २५.१७ ॥ तामप्यथाशपद्ब्रह्म सन्ध्या पापे भविष्यसि । या मद्वाक्यमलङ्घ्यं वै सुरैर्लङ्घयसे बलात् ॥ २५.१८ ॥ तामप्यथाशपद्ब्रह्म सन्ध्या पापे भविष्यसि । या मद्वाक्यमलङ्घ्यं वै सुरैर्लङ्घयसे बलात् ॥ २५.१९ ॥ सापि जाता मुनिश्रेष्ठ सन्ध्या रागवती ततः । प्रतीच्छत्कृत्तिकायोगं शैलेया विग्रहं दृढम् ॥ २५.२० ॥ ततो गते कन्यके द्वे ज्ञात्वा मेना तपस्विनी । तपसो वारयमास उमेत्येवाब्रवीच्च सा ॥ २५.२१ ॥ तदेव माता नामास्याश्चक्रे पितृसुता शुभा । उमेत्येव हि कन्यायाः सा जगाम तपोवनम् ॥ २५.२२ ॥ ततः सा मनसा देवं शूलपाणिं वृषध्वजम् । रुद्रं चेतसि संधाय तपस्तेपे सुदुष्करम् ॥ २५.२३ ॥ ततो ब्रह्माब्रवीद्देवान् गच्छध्वं हिमवत्सुताम् । इहानयध्वं तां कालीं तपस्यन्तीं हिमालये ॥ २५.२४ ॥ ततो देवाः समाजग्मुर्ददृशुपः शैलनन्दिनीम् । तेजसा विजितास्तस्या न शेकुरुपसर्पितुम् ॥ २५.२५ ॥ इन्द्रोऽमरगणैः सार्द्धं निर्द्धूतस्तेजसा तया । ब्रह्मणोऽधिकतेजोऽस्या विनिवेद्य प्रतिष्ठितः ॥ २५.२६ ॥ ततो ब्रह्माब्रवीत्सा दि ध्रवं शङ्करवल्लभा । यूयं यत्तेजसा नूनं विक्षिप्तास्तु हतप्रभाः ॥ २५.२७ ॥ तस्माद्भजध्वं स्व स्वं हि स्थानं भो विगतज्वराः । सतारकं हि महिषं विदध्वं निहतं रणे ॥ २५.२८ ॥ इत्येवमुक्ता देवेन ब्रह्मणा सेन्द्रकाः सुराः । जग्मुः स्वान्येव धिष्ण्यानि सद्यो वै विगतज्वराः ॥ २५.२९ ॥ उमामपि तपस्यन्तीं हिमवान् पर्वतेश्वरः । निवर्त्य तपसस्तस्मात्सदारो ह्यनयद्गृहान् ॥ २५.३० ॥ देवोऽप्याश्रित्य तद्रौद्रं व्रतं नाम्ना निराश्रयम् । विचचार महाशैलान् सेरुप्राग्र्यान्महामतिः ॥ २५.३१ ॥ स कदाचिन्महाशैलं हिमवन्तं समागतः । तेनार्चितः श्रद्धयासौ तां रात्रिमवसद्धरः ॥ २५.३२ ॥ द्वितीयेऽह्नि गिरीशेन महादेवो नमन्त्रितः । इहैव तिष्ठस्व विभो तपःसाधनाकारणात् ॥ २५.३३ ॥ इत्येवमुक्तो गिरिणा हरश्चक्रे मतिं च ताम् । तस्थावाश्रममाश्रित्य त्यक्त्वा वासं निराश्रयम् ॥ २५.३४ ॥ वसतोऽप्याश्रमे तस्य देवदेवस्य शूलिनः । तं देशमगमत्काली गिरिराजसुता शुभा ॥ २५.३५ ॥ तामागतां हरो दृष्ट्वा भूयो जातां प्रियां सतीम् । स्वागतेनाभिसंपूज्य तस्थौ योगरतो हरः ॥ २५.३६ ॥ सा चाभ्येत्य वरारोहा कृताञ्जपरिग्रहा । ववन्दे चरणौ शौवौ सखीभिः सह भामिनी ॥ २५.३७ ॥ ततस्तु सुचिराच्छर्वः समीक्ष्य गिरिकन्यकाम् । न युक्तं चैवमुक्त्वाथ सगणोऽन्तर्दधे ततः ॥ २५.३८ ॥ सापि शर्ववचो रौद्रं श्रुत्वा ज्ञानसमन्विता । अन्तर्दुःखेन दह्यन्ती पितरं प्राह पार्वती ॥ २५.३९ ॥ तात यास्ये महारण्ये तप्तुं घोरं महत्तपः । आराधनाय देवस्य शङ्करस्य पिनाकिनः ॥ २५.४० ॥ तथेत्युक्तं वचः पित्रा पादे तस्यैव विस्तृते । ललिताख्या तपस्तेपे हराराधनाकाम्यया ॥ २५.४१ ॥ तस्याः सख्यस्तदा देव्याः परिचर्या तु कुर्वते । समित्कुशफलं चापि मूलाहरणमादितः ॥ २५.४२ ॥ विनोदनार्थं पार्वत्या मृन्मयः शूलधृघरः । कृतस्तु तेजसा युक्तो भद्रमस्त्विति साब्रवीत् ॥ २५.४३ ॥ पूजां करोति तस्यैव तं पश्यति मुहुर्मुहुः । ततोऽस्यास्तुष्टिमगमच्छ्रद्धया त्रिपुरान्तकृत् ॥ २५.४४ ॥ बटुरूपं समाधाय आषाढी मुञ्जमेखली । यज्ञोपवीती छत्री च मृगाजिनधरस्तथा ॥ २५.४५ ॥ कमण्डलुव्यग्रकरो भस्मारुणितविग्रहः । प्रत्याश्रमं पर्यटन् स तं काल्याश्रममागतः ॥ २५.४६ ॥ तमुत्थाय तदा काली सखीभिः सह नारद । पूजयित्वा यथान्यायं पर्यपृच्छदिदं ततः ॥ २५.४७ ॥ उमोवाच । कस्मादागम्यते भिक्षो कुत्र स्थाने तवाश्रमः । क्व च त्वं प्रतिगन्तासि मम शीघ्रं निवेदय ॥ २५.४८ ॥ भिक्षुरुवाच् । ममाश्रमपदं बाले वाराणस्यां शुचिव्रते । अथातस्तीर्थयात्रायां गमिष्यामि पृथूदकम् ॥ २५.४९ ॥ देव्युवाच । किं पुण्यं तत्र विप्रेन्द्र लब्धासि त्वं पृथूदके । पथि स्नानेन च फलं केषु किं लब्दवानसि ॥ २५.५० ॥ भिक्षुरुवाच । मया स्नानं प्रयागे तु कृतं प्रथममेव हि । ततोऽथ तीर्थे कुब्जाम्रे जयन्ते चण्डिकेश्वरे ॥ २५.५१ ॥ बन्धुवृन्दे च कर्कन्धे तीर्थे कनखले तथा । सरस्वत्यामग्निकुण्डे भद्रायां तु त्रिविष्टपे ॥ २५.५२ ॥ कोनटे कोटितीर्थे च कुब्जके च कृसोदरि । निथ्कामेन कृतं स्नानं ततोऽभ्यागां तवाश्रमम् ॥ २५.५३ ॥ इहस्थां त्वां समाभाष्य गमिष्यामि पृथूदकम् । पृच्छामि यदहं त्वां वै तत्र न क्रोद्धुमर्हसि ॥ २५.५४ ॥ अहं यत्तपसात्मानं शोषयामि कृशोदरि । बाल्येऽपि संयततनुस्तत्तु श्लाघ्यं द्विजन्मनाम् ॥ २५.५५ ॥ किमर्थं भवती रौद्रं प्रथमे वयसि स्थिता । तपः समाश्रिता भीरु संशयः प्रतिभाति मे ॥ २५.५६ ॥ प्रथमे वयसि स्त्रीणां सह भर्त्रा विलासिनि । सुभोगा भोगिताः काले व्रजन्ति स्थिरयौवने ॥ २५.५७ ॥ तपसा वाञ्छयन्तीह गिरिजे सचराचराः । रूपाभिजनमैश्वर्यं तच्च ते विद्यते बहु ॥ २५.५८ ॥ तत्किमर्थमपास्यैतानलङ्काराञ्जटा धृताः । चीनांशुकं परित्यज्य किं त्वं वल्कलधारिणी ॥ २५.५९ ॥ पुलस्त्य उवाच । ततस्तु तपसा वृद्धा देव्याः सोमप्रभा सखी । भिक्षवे कथयामास यथावत्सा हि नारद ॥ २५.६० ॥ सोमप्रभोवाच । तपश्चर्या द्विजश्रेष्ठ पार्वत्या येन हेतुना । तं शृणुष्व त्वियं काली हरं भर्तारमिच्छति ॥ २५.६१ ॥ पुलस्त्य उवाच । सोमप्रभाया वचनं श्रुत्वा संकम्प्य वै शिरः । विहस्य च महाहासं भिक्षुराह वचस्त्विदम् ॥ २५.६२ ॥ भिक्षुरुवाच् । वदामि ते पार्वति वाक्यमेवं केन प्रदत्ता तव बुद्धिरेषा । कथं करः पल्लवकोमलस्ते समेष्यते शार्वकरं ससर्पम् ॥ २५.६३ ॥ तथा दुकूलाम्बरशालिनी त्वं मृगारिचर्माभिवृतस्तु रुद्रः । त्वं चन्दनाक्ता स भस्मभूषितो न युक्तरूपं प्रतिभाति मे त्विदम् ॥ २५.६४ ॥ पुलस्त्य उवाच । एवं वादिनि विप्रेन्द्र पार्वती भिक्षुमब्रवीत् । मा मैवं वद बिक्षो त्वं हरः सर्वगुणाधिकः ॥ २५.६५ ॥ शिवो वाप्यथवा भीमः सधनो निर्धनोऽपि वा । अलङ्कृतो वा देवेशस्तथा वाप्यनलङ्कृतः ॥ २५.६६ ॥ यादृशस्तादृशो वापि स मे नाथो भविष्यति । निवार्यतामयं भिक्षुर्विवक्षुः स्फुरिताधरः । न तथा निन्दकः पापी यथा शृण्वन् शशिप्रभे ॥ २५.६७ ॥ पुलस्त्य उवाच । इत्येवमुक्त्वा वरदा समुत्थातुमथैच्छत । ततोऽत्यजद्भिक्षुरूपं स्वरूपस्थोऽभवच्छिवः ॥ २५.६८ ॥ भूत्वोवाच प्रिये गच्छ स्वमेव भवनं पितुः । तवार्थाय प्रहेष्यामि महर्षिन् हिमवद्गृहे ॥ २५.६९ ॥ यच्चेह रुद्रमीहन्त्या मृन्मयश्चेश्वरः कृतः । असौ भद्रेश्वरेत्येवं ख्यातो लोके भविष्यति ॥ २५.७० ॥ देवदानवगन्धर्वा यक्षाः किंपुरुषोरगाः । पूजयिष्यन्ति सततं मानवाश्च शुभेप्सवः ॥ २५.७१ ॥ इत्येवमुक्ता देवेन गिरिराजसुता मुने । जगामाम्बरमाविश्य स्वमेव भवनं पितुः ॥ २५.७२ ॥ शङ्करोऽपि महातेजा विसृज्य किरिकन्यकाम् । पृथूदकं जगामाथ स्नानं चक्रे विधानतः ॥ २५.७३ ॥ ततस्तु देवप्रवरो महेश्वरः पृथूदके स्नानमपास्तकल्मषः । कृत्वा सनन्दिः सगणः सवाहनो महागिरिं मन्दरमाजगाम ॥ २५.७४ ॥ आयाति त्रिपुरान्तके सह गणैर्ब्रह्मर्षिभिः सप्तभिरारोहत्पुलको बभौ गिरिवरः संहृष्टतित्तः क्षणात् । चक्रे दिव्यफलैर्जलेन शुचिना मूलैश्च कन्दादिभिः पूजां सर्वगणेश्वरैः सह विभोरद्रिस्त्रिनेत्रस्य तु ॥ २५.७५ ॥ इति श्रीवामनपुराणे पञ्चविंशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । ततः संपूजितो रुद्रः शैलेन प्रीतिमानभूत् । सस्मार च महर्षिस्तु अरुन्धत्या समं ततः ॥ २६.१ ॥ ते संस्मृतास्तु ऋषयः शङ्करेण महात्मना । समाजग्मुर्महाशैलं मन्दरं चारुकन्दरम् ॥ २६.२ ॥ तानागतान् समीक्ष्यैव देवस्त्रिपुरनाशनः । अभ्युत्थायाभिपूज्यैतानिदं वचनमब्रवीत् ॥ २६.३ ॥ धन्योऽयं पर्वतश्रेष्ठः श्लाघ्यः पूज्यश्च दैवतैः । धूतपापस्तथा जातो भवतां पादपङ्कजैः ॥ २६.४ ॥ स्थीयतां विस्तृते रम्ये गिरिप्रस्थे समे शुभे । शिलासु पद्मवार्णासु श्लक्ष्णासु च मृदुष्वपि ॥ २६.५ ॥ पुलस्त्य उवाच । इत्येवमुक्ता देवेन संकरेण महर्षयः । सममेव त्वरुन्धत्या विविशुः शैलसानुनि ॥ २६.६ ॥ उपविष्टेषु ऋषिषु नन्दी देवगणाग्रणीः । अर्घ्यादिना समभ्यर्च्य स्थितः प्रयतमानसः ॥ २६.७ ॥ ततोऽब्रवीत्सुरपतिर्धर्म्य वाक्यं हितं सुरान् । आत्मनो यशसो वृद्ध्यै सप्तर्षीन् विनयान्वितान् ॥ २६.८ ॥ हर उवाच । कश्यपात्रे वारुणेय गाधेय शृणु गौतम् । भरद्वाज शृणुष्व त्वमङ्गिरस्त्वं शृणुष्व च ॥ २६.९ ॥ ममासीद्दक्षतनुजा प्रिया सा दक्षकोपतः । उत्ससर्ज सती प्राणान् योगदृष्ट्य पुरा किलः ॥ २६.१० ॥ साद्य भूयः समुद्भूता शैलराजसुता उमा । सा मदर्थाय शैलेन्द्रो याच्यतां द्विजसत्तमाः ॥ २६.११ ॥ पुलस्त्य उवाच । सप्तर्षयस्त्वेवमुक्ता बाढमित्यब्रुवन् वचः । ओंनमः शङ्करायेति प्रोक्त्वा जग्मुर्हिमालयम् ॥ २६.१२ ॥ ततोऽप्यरुन्धतीं शर्वः प्राह गच्छस्व सुन्दरि । पुरन्ध्र्यो हि पुरन्ध्रीणां गतिं धर्मस्य वे विदुः ॥ २६.१३ ॥ इत्येवमुक्ता दुर्लङ्घ्यं लोकाचारं त्वरुन्धती । नमस्ते रुद्र इत्युक्त्वा जगाम पतिना सह ॥ २६.१४ ॥ गत्वा हिमाद्रिशिखरमोषधिप्रस्थमेव च । ददृशुः शैलराजस्य पुरीं सुरपुरीमिव ॥ २६.१५ ॥ ततः संपूज्यमानास्ते शैलयोषिद्भिरादरात् । सुनाभादिभिरव्यग्रैः पुज्यमानास्तु पर्वतैः ॥ २६.१६ ॥ गन्धर्वैः किंनरैर्यक्षैस्तथान्यैस्तत्पुरस्सरैः । विविशुर्भवनं रम्यं हिमाद्रेर्हाटकोज्जवलम् ॥ २६.१७ ॥ ततः सर्वे महात्मानास्तपसा धौतकल्मषाः । समासाद्य महाद्वारं संतस्थुर्द्वाःस्थकारणात् ॥ २६.१८ ॥ ततस्तु त्वरितोऽभ्यागाद्द्वाःस्थोऽद्रिर्गन्धमादनः । धारयन् वै करे दण्डं पद्मरागमयं महत् ॥ २६.१९ ॥ ततस्तमूचुर्मुनयो गत्वा शैलपतिं शुभम् । निवेदयास्मान् संप्राप्तान्महत्कार्यर्थिनो वयम् ॥ २६.२० ॥ इत्येवमुक्तः शैलेन्द्रो ऋषिभिर्गन्धमादनः । जगाम तत्र यत्रास्ते शैलराजोऽद्रिभिर्वृतः ॥ २६.२१ ॥ निषण्णो भुवि जानुभ्यां दत्त्वा हस्तौ मुखे गिरिः । दण्डं निक्षिप्य कक्षायामिदं वचनमब्रवीत् ॥ २६.२२ ॥ गन्धमादन उवाच । इमे हि ऋषयः प्राप्ताः शैलराज तवार्थिनः । द्वारे स्थैताः कार्यिणस्ते तव दर्शनलालसाः ॥ २६.२३ ॥ पुलस्त्य उवाच । द्वाःस्थवाक्यं समाकर्ण्य समुत्थायाचलेश्वरः । स्वयमभ्यागमद्द्वारि समादायार्घ्यमुत्तमम् ॥ २६.२४ ॥ तान्र्च्यार्घ्यादिना शैलः समानीय सभातलम् । उवाच वाक्यं वाक्यज्ञः कृतासनपरिग्रहान् ॥ २६.२५ ॥ हिमवानुवाच । अनभ्रवृष्टिः किमियमुताहोऽकुसुमं फलम् । अप्रतर्क्यमचिन्त्यं च भवदागमनं त्विदम् ॥ २६.२६ ॥ अद्यप्रभृति धन्योऽस्मि शैलराडद्य सत्तमाः । संशुद्धदेहोऽस्मयद्यैव यद्भवन्तो ममाजिरम् ॥ २६.२७ ॥ आत्मसंसर्गसंशुद्धं कृतवन्तो द्विजोत्तमाः । दृष्टिपूतं पदाक्रान्तं तीर्थं सारस्वतं यथा ॥ २६.२८ ॥ दासोऽहं भवतां विप्राः कृतपुण्यश्च सांप्रतम् । येनार्थिनो हि ते यूयं तन्ममाज्ञातुमर्हथ ॥ २६.२९ ॥ सदारोऽहं समं पुत्रैर्भृत्यैर्नप्तृभिरव्ययाः । किङ्करोऽस्मि स्थितो युष्मदाज्ञाकारी तदुच्यताम् ॥ २६.३० ॥ पुलस्त्य उवाच । शैलराजवचः श्रुत्वा ऋषयः संशितव्रतः । ऊचुरङ्गिरसं वृद्धं कार्यमद्रौ निवेदय ॥ २६.३१ ॥ इत्येवं चोदितः सर्वैरृषिबिः कश्यपादिभिः । प्रत्युवाच परं वाक्यं गिरिराजं तमङ्गिराः ॥ २६.३२ ॥ अङ्गिरा उवाच । श्रूयतां पर्वतश्रेष्ठ येन कार्येण वै वयम् । समागतास्त्वत्सदनमरुन्धत्या समं गिरे ॥ २६.३३ ॥ योऽसौ महात्मा सर्वात्मा दक्षयज्ञक्षयङ्करः । शङ्करः शूलधृक्शर्वस्त्रिनेत्रो वृषवाहनः ॥ २६.३४ ॥ जीमूतकेतुः शत्रुघ्नो यज्ञभोक्ता स्वयं प्रभुः । यमीश्वरं वदन्त्येके शिवं स्थाणौ भवं हरम् ॥ २६.३५ ॥ भीममुग्रं महेशानं महादेवं पशोः पतिम् । वयं तेन प्रेषिताः स्मस्त्वत्सकाशं गिरीश्वर ॥ २६.३६ ॥ इयं या त्वत्सुता काली सर्वलोकेषु सुन्दरी । तां प्रार्थयति देवेशस्तां भवान् दातुमर्हति ॥ २६.३७ ॥ स एव धन्यो हि पिता यस्य पुत्री शुभं पतिम् । रूपाभिजनसंपत्त्या प्राप्नोति गिरिसत्तम ॥ २६.३८ ॥ यावन्तो जङ्गमागम्या भूताः शैल चतुर्विधाः । तेषां माता त्वियं देवी यतः प्रोक्तः पिता हरः ॥ २६.३९ ॥ प्रणम्य शङ्करं देवाः प्रणमन्तु सुतां तव । कुरुष्व पादं शत्रूणां मूर्ध्नि भस्मपरिप्लुतम् ॥ २६.४० ॥ याचितारो वयं शर्वो वरो दाता त्वमप्युमा । वधूः सर्वजगन्माता कुरु यच्छ्रेयसे तव ॥ २६.४१ ॥ पुलस्त्य उवाच । तद्वचोऽङ्गिरसः श्रुत्वा काली तस्थावधोमुखी । हर्षमागत्य सहसा पुनर्दैन्यमुपागता ॥ २६.४२ ॥ ततः शैलपतिः प्राह पर्वतं गन्धमादनम् । गच्छ शैलानुपामन्त्र्य सर्वानागान्तुर्महसि ॥ २६.४३ ॥ ततः शीघ्रतरः शैलो गृहाद्गृहमगाञ्जवी । मेर्वादीन् पर्वतश्रेष्ठानाजुहाव समन्ततः ॥ २६.४४ ॥ तेऽप्याजग्मुस्त्वरावन्तः कार्यं मत्वा महत्तदा । विविशुर्विस्मयाविष्टाः सौवर्णेष्वासनेषु ते ॥ २६.४५ ॥ उदयो हेमकूटश्च रम्यको मन्दरस्तथा । उद्दालको वारुणश्च वराहो गरुडासनः ॥ २६.४६ ॥ शुक्तिमान् वेगसानुश्च दृढशृङ्गोऽथ शृङ्वान् । चित्रकूटस्त्रिकूटश्च तथा मन्दरकाचलः ॥ २६.४७ ॥ विन्ध्यश्च मलयश्चैव पारियात्रोऽथ दुर्दरः । कैलासाद्रिर्महेन्द्रश्च निषधोऽञ्जनपर्वतः ॥ २६.४८ ॥ एते प्रधाना गिरयस्तथान्ये क्षुद्रपर्वताः । उविष्टाः सभायां वै प्रणिपत्य ऋषिंश्च तान् ॥ २६.४९ ॥ ततो गिरीशः स्वां भार्या मेनामाहूतवांश्च सः । समागच्छत कल्याणी समं पुत्रेण भामिनी ॥ २६.५० ॥ साभिवन्द्य ऋषीणां हि चारणांश्च तपस्विनी । सर्वान् ज्ञातीन् समाभाष्य विवेश ससुता ततः ॥ २६.५१ ॥ ततोऽद्रिषु महाशैल उपविष्टेषु नारद । उवाच वाक्यं वाक्यज्ञः सर्वानाभाष्य सुस्वरम् ॥ २६.५२ ॥ हिमवानुवाच । इमे सप्तर्षयः पुण्या याचितारः सुतां मम । महेश्वरार्थं कन्यां तु तच्चावेद्यं भवत्सु वै ॥ २६.५३ ॥ तद्वदध्वं यथाप्रज्ञं ज्ञातयो यूयमेव मे । नोल्लङ्घ्य युष्मान् दास्यामि तत्क्षमं वक्तुमर्हथ ॥ २६.५४ ॥ पुलस्त्य उवाच । हिमवद्वचनं श्रुत्वा मेर्वाद्याः स्थावरोत्तमाः । सर्व एवाब्रुवन् वाक्यं स्थिताः स्वेष्वासनेषु ते ॥ २६.५५ ॥ याचितारश्च मुनयो वरस्त्रिपुरहा हरः । दीयतां शैल कालीयं जामाताभिमतो हि नः ॥ २६.५६ ॥ मेनाप्यथाह भर्तारं शृणु शैलेन्द्र मद्वचः । पितृनाराध्य देवैस्तैर्दत्तानेनैव हेतुना ॥ २६.५७ ॥ यस्त्वस्यां भूतपतिना पुत्रो जातो भविष्यति । स हनिष्यति दैत्यैन्द्रं महिषं तारकं तथा ॥ २६.५८ ॥ इत्येवं मेनया प्रोक्तः शैलैः शैलेश्वरः सुताम् । प्रोवाच पुत्रि दत्तासि शर्वाय त्वं मयाधुना ॥ २६.५९ ॥ ऋषीनुवाच कालीयं मम पुत्री तपोधनाः । प्रणामं संकरवधूर्भक्तिनम्रा करोति व ॥ २६.६० ॥ ततोऽप्यरुन्धती कालीमह्कमारोप्य चाटुकैः । लज्जमानां समाश्वास्य हरनामोदितैः शुभैः ॥ २६.६१ ॥ ततः सप्तर्षयः प्रोचुः शैलराज निशामय । जामित्रगुणसंयुक्तां तिथिं पुण्यां सुमङ्गलाम् ॥ २६.६२ ॥ उत्तराफाल्गुनीयोगं तृतीयेऽह्नि हिमांशुमान् । गमिष्यति च तत्रोक्तो मुहूर्त्तो मैत्रनामकः ॥ २६.६३ ॥ तस्यां तिथ्यां हरः पाणिं ग्रहीष्यति समन्त्रकम् । तव पुत्र्या वयं यामस्तदनुज्ञातुमर्हसि ॥ २६.६४ ॥ ततः संपूज्य विधिना फलमूलादिभिः शुभैः । विसर्जयामास शनैः शैलराडृषिपुङ्गवान् ॥ २६.६५ ॥ तेऽप्याजग्मुर्महावेगात्त्वाक्रम्य मरुदालयम् । आसाद्य मन्दरगिरिं भूयोऽवन्दन्त शङ्करम् ॥ २६.६६ ॥ प्रणम्योचुर्महेशानं भवान् भर्त्ताद्रिजा वधुः । सब्रह्यकास्त्रयो लोका द्रक्ष्यन्ति घनवाहनम् ॥ २६.६७ ॥ ततो महेश्वरः प्रीतो मुनीन् सर्वाननुक्रमात् । पूजयामास विधिना अरुन्धत्या समं हरः ॥ २६.६८ ॥ ततः संपूजिता जग्मुः सुराणां मन्त्रणाय ते । तेऽप्याजग्मुर्हरं द्रष्टुं ब्रह्मविष्ण्विन्द्रभास्कराः ॥ २६.६९ ॥ गेहं ततोऽभ्येत्य महेश्वरस्य कृतप्रणामा विविशुर्महर्षे । सस्मार नन्दिप्रमुखांश्च सवानभ्येत्य ते वन्द्य हरं निषण्णाः ॥ २६.७० ॥ देवैर्गणैश्चापि वृतो गिरीशः स शोभते मुक्तजटाग्रभारः । यता वने सर्ज्जकदम्बमध्ये प्ररोहमूलोऽथ वनस्पतिर्वै ॥ २६.७१ ॥ इति श्रीवामनपुराणे षड्विंशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । समागतान् सुरान् दृष्ट्वा नन्दिराख्यातवान् विभोः । अथोत्थाय हरिं भक्त्या परिष्वज्य न्यपीडयत् ॥ २७.१ ॥ ब्रह्मणां शिरसा नत्वा समाभाष्य शतक्रतुम् । आलोक्यान्यान् सुरगणान् संभावयत्स शङ्करः ॥ २७.२ ॥ गणाश्च जय देवेति वीरभद्रपुरोगमाः । शैवाः पाशुपताद्याश्च विविशुर्मन्दरालम् ॥ २७.३ ॥ ततस्तस्मान्महाशैलं कैलासं सह दैवतैः । जगाम भगवान् शर्वः कर्तुं वैवाहिकं विधिम् ॥ २७.४ ॥ ततस्तस्मिन्महाशैले देवमातादितिः शुभा । सुरभिः सुरसा चान्याश्चक्रर्मण्डनमाकुलाः ॥ २७.५ ॥ महास्थिशेखरी चारुरोचनालिकलो हरः । सिंहाजिनी चालिनीलभुजङ्गकृतकुण्डलः ॥ २७.६ ॥ महाहिरत्नवलयो हारकेयूरनूपुरः । समुन्नातजटाभारो वृषभस्थो विराजते ॥ २७.७ ॥ तस्याग्रतो गणाः स्वैः स्वैरारूढा यान्ति वाहनैः । देवाश्च पृष्ठतो जग्मुर्हुताशनपुरोगमाः ॥ २७.८ ॥ वैनतेयं समारूढः सह लक्ष्म्या जनार्दनः । प्रयाति देवपार्श्वस्थो हंसेन च पितामहः ॥ २७.९ ॥ गजाधिरूढो देवेन्द्रश्छत्रं शुक्लपटं विभुः । धारयामास विततं शच्या सह सहस्रदृक् ॥ २७.१० ॥ यमुना सरितां श्रेष्ठा बालव्यजनमुत्तमम् । श्वेतं प्रगृह्य हस्तेन कच्छपे संस्थिता ययौ ॥ २७.११ ॥ हंसकुन्दन्दुसंकाशं बालव्याजनमुत्तमम् । सरस्वती सरिच्छ्रेष्ठा गजारूढा समादधे ॥ २७.१२ ॥ ऋतवः षट्समादाय कुसुमं गन्धसंयुतम् । पञ्चवर्णं महेशानं जग्मुस्ते कामचारिणः ॥ २७.१३ ॥ मत्तमैरावणनिभं गजमारुह्य वेगवान् । अनुलेपनमादाय ययौ तत्र पृथूदकः ॥ २७.१४ ॥ गन्धर्वास्तुम्बरुमुखा गायन्तो मधुरस्वरम् । अनुजग्मुर्महादेवं वादयन्तश्च किन्नराः ॥ २७.१५ ॥ नृत्यन्त्योऽप्सरश्चैव स्तुवन्तो मुनयश्च तम् । गन्धर्वा यान्ति देवेशं त्रिनेत्रं शूलपाणिनम् ॥ २७.१६ ॥ एकादश तथा कोट्यो रुद्राणां तत्र वै ययुः । द्वादशैवादितेयानामष्टौ कोट्यो वसुनपि ॥ २७.१७ ॥ सप्तषष्टिस्तथा कोट्यो गणानामृषिसत्तम । चतुर्विशत्तथा जग्मुरृषीणामूर्ध्वरेतसाम् ॥ २७.१८ ॥ असंख्यातानि यूथानि यक्षकिन्नररक्षसाम् । अनुजग्मुर्महेशानं विवाहाय समाकुलाः ॥ २७.१९ ॥ ततः क्षणेन देवेशः क्ष्माधराधिपतेस्तलम् । संप्राप्तास्त्वागमन् शैलाः कुञ्जरस्थाः समन्ततः ॥ २७.२० ॥ ततो ननाम भगवांस्त्रिनेत्रः स्थावराधिपम् । शैलाः प्रणेमुरीशानं ततोऽसौ मुदितोऽभवत् ॥ २७.२१ ॥ समं सुरैः पार्षदैश्च विवेश वृषकेतनः । नन्दिना दर्शिते मार्गे शैलराजपुरं महत् ॥ २७.२२ ॥ जीमूतकेतुरायात इत्येवं नगरस्त्रियः । निजं कर्म परित्यज्य दर्शनव्यापृताभवन् ॥ २७.२३ ॥ माल्यार्द्धमन्या चादाय करेणैकेन भामिनी । केशपाशं द्वितीयेन शङ्कराभिमुखी गता ॥ २७.२४ ॥ अन्यालक्तकरागाढ्यं पादं कृत्वाकुलेक्षणा । अनलक्तकमेकं हि हरं द्रष्टुमुपागता ॥ २७.२५ ॥ एकेनाक्ष्णाञ्जितेनैव श्रुत्वा भीममुपागतम् । साञ्जनां च प्रगृह्यान्या शलाकां सुष्ठु धावति ॥ २७.२६ ॥ अन्या सरसनं वासः पाणिनादाय सुन्दरी । उन्मत्तेवागमन्नग्ना हरदर्शनलालासा ॥ २७.२७ ॥ अन्यातिक्रान्तमीशानं श्रुत्वा स्तनभरालसा । अनिन्दत रुषा बाला यौवनं स्वं कृशोदरी ॥ २७.२८ ॥ इत्थं स नगरस्त्रीणां क्षोभं संजनयन् हरः । जगाम वृषभारूढो दिव्यं श्वशुरमन्दिरम् ॥ २७.२९ ॥ ततः प्रविष्टं प्रसमीक्ष्य शंभुं शैलेन्द्रवेश्मन्यबला ब्रुवन्ति । स्थाने तपो दुश्चरमम्बिकायाश्चीर्णं महानेष सुरस्तु शंभुः ॥ २७.३० ॥ स एष येनाङ्गमानङ्गतां कृतं कन्दर्पनाम्नः कुसुमायुधस्य । क्रतोः क्षयी दक्षविनाशकर्ता भगाक्षिहा शूलधरः पिनाकी ॥ २७.३१ ॥ नमो नमः शङ्कर शूलपाणे मृगारिचर्माम्बर कालशत्रो । महाहिहाराङ्कितकुण्डलाय नमो नमः पार्वतिवल्लभाय ॥ २७.३२ ॥ इत्थं संस्तूयमानः सुरापतिविधृतेनातपत्रेण शंभुः सिद्धैर्वन्द्यः सयक्षैरहिकृतवलयी चारुभस्मोपलिफ्तः । अग्रस्थेनाग्रजेन प्रमुदितमनसा विष्णुना चानुगेन वैवाहीं मङ्गलाढ्यां हुतवहमुदितामारुरोहाथ वेदीम् ॥ २७.३३ ॥ आयाते त्रिपुरान्तके सहचरैः सार्धं च स्पतर्षिभिर्व्यग्रोऽभूद्गिरिराजवेश्मनिजनः काल्याः समालङ्कृतौ । व्याकुल्यं समुपागताश्च गिरयः पूजादिना देवताः प्रायोव्याकुलिता भवन्ति सुहृदः कन्याविवाहोत्सुकाः ॥ २७.३४ ॥ प्रसाध्य देवीं गिरिजां ततः स्त्रयो दुकूलशुक्लाभिवृताङ्गयष्चिकाम् । भ्रात्रा सुनाबेन तदोत्सवे कृते सा शङ्कराभ्याशमथोपपादिता ॥ २७.३५ ॥ ततः शुभे हर्म्यतले हिरण्मये स्थिताः सुराः संकरकालिचेष्टितम् । पस्यन्ति देवोऽपि समं कुशाङ्ग्या लोकानुजुष्टं पदमाससाद ॥ २७.३६ ॥ यत्र क्रीडा विचित्राः सकुसुमतरवो वारिणो बिन्दुपातैर्गन्धाढ्यैर्गन्धचूर्णैः प्रविरलमवनौ गुण्डितौ गुण्डिकायाम् । मुक्तादामैः प्रकामं हरगिरितनया क्रीडनार्थं तदाघ्यनत्पश्चात्सिन्दूरपुञ्जैरविरतविततैश्चक्रतुः क्ष्मां सुरक्ताम् ॥ २७.३७ ॥ एवं क्रीडां हरः कृत्वा समं च गिरिकन्यया । आगच्छद्दक्षिणां वेदिमृषिभिः सेवितां दृढाम् ॥ २७.३८ ॥ अथाजगाम हिमवान् शुक्ललाम्बरधरः शुचिः । पवित्रपाणिरादाय मधुपर्कमथोज्ज्वलम् ॥ २७.३९ ॥ उपविष्टस्त्रिनेत्रस्तु शाक्रीं दिशमपश्यत । सप्तर्षिकांश्च शैलन्द्रः सूपविष्टोऽवलोकयन् ॥ २७.४० ॥ सुखासीनास्य शर्वस्य कृताञ्ज० इपुटो गिरिः । प्रोवाच वचनं श्रीमान् धर्मसाधनमात्मनः ॥ २७.४१ ॥ हिमवानुवाच । मत्पुत्रीं भगवन् कालीं पौत्रीं च पुलहाग्रजे । पितॄणामपि दौहित्रीं प्रतीच्छेमां मयोद्यताम् ॥ २७.४२ ॥ पुलस्त्य उवाच । इत्येवमुक्त्वा शैलेन्द्रो हस्तं हस्तेन योजयन् । प्रादात्प्रतीच्छ भगवनिदमुच्चैरुदीरयन् ॥ २७.४३ ॥ हि उवाच । न मेऽस्ति माता न पिता तथैव न ज्ञातयो वापि च बानधवाश्च । निराश्रयोऽहं किरिशृङ्गवासी सुतां प्रतीच्छासि तवाद्रिराज ॥ २७.४४ ॥ इत्येवमुक्त्वा वरदोऽवपीडयत्करं करेणाद्रिकुमारिकायाः । सा चापि संस्पर्शमवाप्य शंभोः परां मुदं लब्धवती सुरर्षे ॥ २७.४५ ॥ तथाधिरूढो वरदोऽथ वेदिं सहाद्रिपुत्र्या मधुपर्कमश्नन । दत्त्वा च लाजान् कलमस्य शुक्लांस्ततो विरिञ्चो गिरिजामुवाच ॥ २७.४६ ॥ कालि पस्यस्व वदनं भर्तुः शशधरप्रभम् । समदृष्टिः स्थिरा भूत्वा कुरुष्वाग्नेः प्रदक्षिणम् ॥ २७.४७ ॥ ततोऽम्बिका हरमुखे दृष्टे शैत्यमुपागता । यथार्करश्मिसंतप्ता प्राप्य वृष्टिमिवावनिः ॥ २७.४८ ॥ भूयः प्राह विभोर्वक्त्रमीक्षस्वेति पितामहः । लज्जया सापि दृष्टेति शनैर्ब्रह्माणमब्रवीत् ॥ २७.४९ ॥ समं गिरिजया तेन हुताशस्त्रिःप्रदक्षिणम् । कृतो लाजाश्च हविषा समं क्षिप्ता हुताशने ॥ २७.५० ॥ ततो हराङ्घ्रिर्मालिन्या गृहीतो हायकारणात् । किं याचसि च दास्यामि मुञ्चस्वेति हरोऽब्रवीत् ॥ २७.५१ ॥ मालिनी शङ्करं प्राह मत्सख्या देहि शङ्कर । सौभाग्यं निजगोत्रीयं ततो मोक्षमवाप्स्यसि ॥ २७.५२ ॥ अथोवाच महादेवो दत्तं मालिनि मुञ्च माम् । सौभाग्यं निजगोत्रीयं योऽस्यास्तं शृणु वच्मि ते ॥ २७.५३ ॥ योऽसौ पीताम्बरधरः शङ्खधृक्मधुसूदनः । एतदीयो हि सौभाग्यो दत्तोऽस्मद्गोत्रमेव हि ॥ २७.५४ ॥ इत्येवमुक्ते वचने प्रमुमोच वृषध्वजम् । मालिनी निजगोत्रस्य शुभचारित्रमालिनी ॥ २७.५५ ॥ यदा हरो हि मालिन्या गृहीतश्चरणे शुभे । तदा कालीमुखं ब्रह्म ददर्श शशिनोऽधिकम् ॥ २७.५६ ॥ तद्दृष्ट्वा क्षोभमगमत्शुक्रच्युतिमवाप च । तच्छुक्रं बालुकायां च खिलीचक्रे ससाध्वसः ॥ २७.५७ ॥ ततोऽब्रवीद्वरो ब्रह्मन्न द्विजान् हन्तुमर्हसि । अमी महर्षयो धन्या वालखिल्याः पितामह ॥ २७.५८ ॥ ततो महेशवाक्यान्ते समुत्तस्थुस्तपस्विनः । अष्टाशीतिसहस्राणि वालखिल्या इति स्मृताः ॥ २७.५९ ॥ ततो विवाहे निर्वृत्ते प्रविष्टः कौतुकं हरः । रेमे सहोमया रात्रिं प्रभाते पुनरुत्थितः ॥ २७.६० ॥ ततोऽद्रपुत्रीं समवाप्य शंभुः सरैः समं भूतगणैश्च हृष्टः । संपूजितः पर्वतपार्थिवेन स मन्दरं शीघ्रमुपादजगाम ॥ २७.६१ ॥ ततः सुरान् ब्रह्महरीन्द्रमुख्यान् प्रणम्य संपूज्य यथाविभागम् । विसर्ज्य भूतैः सहितो महीध्रमध्यावसन्मन्दरमष्टमूर्तिः ॥ २७.६२ ॥ ________________________________________________________________________ पुलस्त्य उवाच । ततो गिरौ वसन् रुद्रः स्वेच्छया विचरन्मुने । विश्वकर्माणमाहूय प्रोवाच कुरु मे गुहम् ॥ २८.१ ॥ ततश्चकार शर्वस्य गृहं स्वस्तिकलक्षणम् । योजनानि चतुःषष्टिः प्रमाणेन हिरण्मयम् ॥ २८.२ ॥ दन्ततोरमनिर्व्यूहं मुक्ताजालान्तरं शुभम् । शुद्धस्फटिकसोपानं वैडूर्यकृतपरूपकम् ॥ २८.३ ॥ सप्तकक्षं सुविस्तीर्णं सर्वैः समुदितं गुणैः । ततो देवपतिश्चक्रे यज्ञं गार्हस्थ्यलक्षणम् ॥ २८.४ ॥ तं पूर्वचरितं मार्गमनुयाति स्म शङ्करः । तथा सतस्त्रिनेत्रस्य महान् कालोऽभ्यगान्मुने ॥ २८.५ ॥ रमतः सह पार्वत्या धर्मापेक्षो जगत्पतिः । ततः कदाचिन्नर्मार्थं कालीत्युक्ता भवेन हि ॥ २८.६ ॥ पार्वती मन्युनाविष्टा शङ्करं वाक्यमब्रवीत् । संरोहतीषुणा विद्धं वनं परशुना हतम् । वाचा दुरुक्तां बीभत्सं न प्ररोहति वाक्क्षतम् ॥ २८.७ ॥ वाक्सायका वदनान्निष्पतन्ति तैराहतः शोचति रात्र्यहानि । न तान् विमुञ्चेत हि पण्डितो जनस्तमद्य धर्म वितथं त्वया कृतम् ॥ २८.८ ॥ तस्माद्व्रजामि देववेश तपस्तप्तुमनुत्तमम् । तथा यतिष्ये यथा भवान् कालीति वक्ष्यति ॥ २८.९ ॥ इत्येवमुक्त्वा गिरिजा प्रणम्य च महेश्वरम् । अनुज्ञाता त्रिरिजा दिवमेवोत्पपात ह ॥ २८.१० ॥ समुत्पत्य च वेगेन हिमाद्रिशिखरं शिवम् । टङ्कच्छिन्नं प्रयत्नेन विधात्रा निर्मितं तथा ॥ २८.११ ॥ ततोऽवतीर्य सस्मार जयां च विजयां तथा । जयन्तीं च महापुण्यां चतुर्थोमपराजिताम् ॥ २८.१२ ॥ ताः संस्मृताः समाजग्मुः कालीं द्रष्टुं हि देवताः । अनुज्ञातास्तथा देव्या शुश्रूषां चक्रिरे शुभाः ॥ २८.१३ ॥ ततस्तपसि पार्वत्यां स्थितायां हिमवद्वनात् । समाजगाम तं देशं व्याघ्रो दंष्ट्रानखायुधः ॥ २८.१४ ॥ एकपादस्थितायां तु देव्यां व्याघ्रस्त्वचिन्तयत् । यदा पतिष्यते चेयं तदादास्यामि वै अहम् ॥ २८.१५ ॥ इत्येवं चिन्तयन्नेव दत्तदृष्टिर्मृगाधिपः । पश्यमानस्तु वदनमेकदृष्टिरजायत ॥ २८.१६ ॥ ततो वर्षशतं देवी गृणन्ती ब्रह्ममः पदम् । तपोऽवर्षशतं देवी गृणन्ती ब्रह्म त्रिभुवनेश्वरः ॥ २८.१७ ॥ पितामहस्ततोवाच देवीं प्रीतोऽस्मि शास्वते । तपसा धूतपापासि वरं वृणु यथेप्सितम् ॥ २८.१८ ॥ अथोवाच वचः काली व्याघ्रस्य कमलोद्भव । वरदो भव तेनाहं यास्ये प्रीतिमनुत्तमाम् ॥ २८.१९ ॥ ततः प्रादाद्वरं ब्रह्मा व्याग्रस्याद्भुतकर्मणः । गाणपत्यं विभौ भक्तिमजेयत्वं च धर्मिताम् ॥ २८.२० ॥ वरं व्याघ्राय दत्वैवं शिवकान्तामथाब्रवीत् । वृणीष्व वरमव्यग्रा वरं दास्ये तवाम्बिके ॥ २८.२१ ॥ ततो वरं गिरिसुता प्राह देवी पितामहम् । वरः प्रदीयतां मह्यं वर्णं कनकसंनिभम् ॥ २८.२२ ॥ तथेत्युक्त्वा गतो ब्रह्मा पर्वती चाभवत्ततः । कोशं कृष्णं परित्यज्य पद्मकिञ्जल्कसन्निभाः ॥ २८.२३ ॥ तस्मात्कोशाच्च संजाता भूयः कात्यायनी मुने । तामभ्येत्य सहस्राक्षः प्रतिजग्राह दक्षिणाम् । प्रोवाच गिरिजां देवो वाक्यं स्वार्थाय वासवः ॥ २८.२४ ॥ इन्द्र उवाच । इयं प्रदीयतां मह्यं भगिनी मेऽस्तु कौशिकी । त्वत्कोशसंभवा चेयं कौशिकी कौशिकोऽप्यहम् ॥ २८.२५ ॥ तां प्रादादिति संश्रुत्य कौशिकीं रूपसंयुताम् । सहस्राक्षोऽपि तां गृह्य विन्ध्यं वेगाज्जगाम च ॥ २८.२६ ॥ तत्र गत्वा त्वथोवाच तिष्ठस्वात्र महाबले । पूज्यमाना सुरैर्नाम्ना ख्याता त्वं विन्ध्यवासिनी ॥ २८.२७ ॥ तत्र स्थाप्य हरिर्देवीं दत्त्वा सिंहं च वाहनम् । भवामरारिहन्त्रीति उक्त्वा स्वर्गमुपागमत् ॥ २८.२८ ॥ उमापि तं वरं लब्ध्वा मन्दरं पुनेत्य च । प्रणम्य च महेशानं स्थिता सविनयं मुने ॥ २८.२९ ॥ ततोऽमरगुरुः श्रीमान् पार्वत्या सहितोऽव्ययः । तस्थौ व्रषसहस्रं हि महामोहनके मुने ॥ २८.३० ॥ महामोहस्थिते रुद्रे भुवनाश्चेलुरुद्धताः । चक्षुभुः सागराः सप्त देवाश्च भयमागमन् ॥ २८.३१ ॥ ततः सुराः सहेन्द्रेण ब्रह्मणः सदनं गताः । प्रणम्योचुर्महेशानं जगत्क्षुब्धं तु किं त्विदम् ॥ २८.३२ ॥ तानुवाच भवो नूनं महामोहनके स्थितः । तेनाक्रान्तास्त्विमे लोका जग्मुः क्षोभं दुरत्ययम् ॥ २८.३३ ॥ इत्युक्त्वा सोऽभवत्तूष्णीं ततोऽप्यूचुः सुरा हरिम् । आगच्छ शक्रर्गच्छामो यावत्तन्न समाप्यते ॥ २८.३४ ॥ समाप्ते मोह्वने बालो यः समुत्पस्यतेऽव्ययः । स नूनं देवराजस्य पदमैन्दं हरिष्यति ॥ २८.३५ ॥ ततोऽमराणां वचनाद्विवेको बलघातिनः । भयाज्ज्ञानं ततो नष्टं भाविकर्मप्रचोदनात् ॥ २८.३६ ॥ ततः शक्रः सुरैः सार्धं वह्निना च सहस्रदृक् । जगाम मन्दरगिरिं तच्छृङ्गे न्यविशत्ततः ॥ २८.३७ ॥ अशक्ताः सर्व एवैते प्रवेष्टुं तद्भवाजिरम् । चिन्तयित्वा तु सुचिरं पावकं ते व्यसर्जयन् ॥ २८.३८ ॥ स चाभ्येत्य सुरश्रेष्ठो दृष्ट्वा द्वारे च नन्दिनम् । दुष्प्रवेशं च तं मत्वा चिन्तां वह्निः परां गतः ॥ २८.३९ ॥ स तु चिन्तार्णवे मग्नः प्रापश्यच्छंभुसद्मनः । निष्क्रामनतीं महापङ्क्तिं हंसानां विमलां तथा ॥ २८.४० ॥ असावुपाय इत्युक्त्वा हंसरूपो हुताशनः । वञ्चयित्वा प्रतीहारं प्रविवेश हराजिरम् ॥ २८.४१ ॥ प्रविश्य सूक्ष्ममूर्तिश्च शिरोदेसे कपर्दिनः । प्राह प्रहस्य गम्भीरं देवा द्वारि स्थिता इति ॥ २८.४२ ॥ तच्छ्रत्वा सहसोत्थाय परित्यज्य गिरेः सुताम् । विनिष्क्रन्तोऽजिराच्छर्वो वह्निना सह नारद ॥ २८.४३ ॥ विनिष्क्रान्ते सुरपतौ देवा मुदितमानसाः । शिरोभिरवनीं जग्मुः सेन्द्रार्कशशिपावकाः ॥ २८.४४ ॥ ततः प्रीत्या सुरानाह वदध्वं कार्यमाशु मे । प्रणामावनतानां वो दास्येऽहं वरमुत्तमम् ॥ २८.४५ ॥ देवा ऊचुः । यदि तुष्टोऽसि देवानां वरं दातुमिहेच्छसि । तदिदं त्यज्यतां तावन्महामैथुनमीश्वर ॥ २८.४६ ॥ ईश्वर उवाच । एवं भवतु संत्यक्तो मया भावोऽमरोत्तमाः । ममेदं तेज उद्रिक्तं कश्चिद्देवः प्रतीच्छतु ॥ २८.४७ ॥ पुलस्त्य उवाच । इत्युक्ताः शंभुना देवाः सेन्द्रचन्द्रदिवाकराः । असीदन्त यथा मग्नाः पङ्के वृन्दारका इव ॥ २८.४८ ॥ सीदस्तु दैवतेष्वेवं हुतासोऽभ्येत्य शङ्करम् । प्रोवाच मुञ्च तेजस्त्वं प्रतीच्छाम्येष शङ्कर ॥ २८.४९ ॥ ततो मुमोच भगवांस्तद्रेतः स्कन्नमेव तु । जलं तृषानते वै यद्वत्तैलपानं पिपासितः ॥ २८.५० ॥ ततः पीते तेजसि वै शार्वे देवेन वह्निना । स्वस्थाः सुराः समामन्त्र्य हरं जग्मुस्त्रिविष्टपम् ॥ २८.५१ ॥ संप्रयातेषु देवेषु हरोऽपि निजमन्दिरम् । समभ्येत्य महादेवीमिदं वचनमब्रवीत् ॥ २८.५२ ॥ देवि देवैरिहाभ्येत्य यत्नात्प्रेष्य हुताशनम् । नीतः प्रोक्तो निषिद्धस्तु पुत्रोत्पत्तिं तवोदरात् ॥ २८.५३ ॥ सापि भर्तुर्वचः श्रुत्वा क्रुद्धा रक्तान्तलोचना । शशाप दैवतान् सर्वान्नष्टपुत्रोद्भवा शिवा ॥ २८.५४ ॥ यस्मान्नेच्छन्ति ते दुष्टा मम पुत्रमथौरसम् । तस्मात्ते न जनष्यन्तिस्वासुयोषित्सु पुत्रकान् ॥ २८.५५ ॥ एवं शप्त्वा सुरान् गौरी शौचशालामुपागमत् । आहूय मालिनीं स्वनातुं मतिं चक्रे तपोधना ॥ २८.५६ ॥ मालिनी सुरभिं गृह्य श्लक्ष्णमुद्वर्तनं शुभा । देव्यङ्गमुद्विर्तयते कराभ्यां कनकप्रभम् । तत्स्वेदं पार्वती चैव मेने कीदृग्गुणेन हि ॥ २८.५७ ॥ मालिनी तूर्णमगमद्गृहं स्नानस्य कारणात् । तस्यां गतायां शैलेयी मलाच्चक्रे गजाननम् ॥ २८.५८ ॥ चतुर्भुजं पीनवक्षं पुरुषं लक्षणान्वितम् । कृत्वोत्ससर्ज भूम्यां च स्थिता भद्रासने पुनः ॥ २८.५९ ॥ मालिनी तच्छिरःक्नानं ददौ विहसती तदा । ईषद्धासामुमा दृष्ट्वा मालिनीं प्राह नारद ॥ २८.६० ॥ किमर्थं भीरु शनकैर्हससि त्वमतीव च । साथोवाच हसाम्येवं भवत्यास्तनयः किल ॥ २८.६१ ॥ भविष्यतीति देवेन प्रोक्तो नन्दी गणाधिपः । तच्छुत्वा मम हासोऽयं संजातोऽद्य कृशोदरि ॥ २८.६२ ॥ यस्माद्देवैः पुत्रकामः शङ्करो विनिवारितः । एतच्छ्रुत्वा वचो देवी सस्नौ तत्र विधानतः ॥ २८.६३ ॥ स्नात्वार्च्य शङ्करं भक्त्या समभ्यागाद्गृहं प्रति । ततः शंभुः समागत्य तस्मिन् भद्रासने त्वपि ॥ २८.६४ ॥ स्नातस्तस्य ततोऽधस्तात्स्थितः स मलपूरुषः । उमास्वेदं भवस्वेदं जलभूतिसमन्वितम् ॥ २८.६५ ॥ तत्संपर्कात्समुत्तस्थौ फूत्कृत्य करमुत्तम् । अपत्यं हि विदित्वा च प्रीतिमान् भुवनेश्वरः ॥ २८.६६ ॥ तं चादाय हरो नन्दिमुवाच भगनेत्रहा । रुद्रः स्नात्वर्च्य देवादीन् वाग्भिरद्भिः पितृनपि ॥ २८.६७ ॥ जप्त्वा सहस्रनामानमुमापार्श्वमुपागतः । समेत्य देवीं विहसन् शङ्करः शूलधृग्वः ॥ २८.६८ ॥ प्राह त्वं पश्य शैलेयि स्वसुतं गुमसंयुतम् । इत्युक्ता पर्वतसुता समेत्यापस्यदद्भुतम् ॥ २८.६९ ॥ यत्तदङ्गमलाद्दिव्यं कृतं गजमुखं नरम् । ततः प्रीति गिरिसुता तं पुत्रं परिषष्वजे ॥ २८.७० ॥ मूर्ध्नि चैनमुपाघ्राय ततः शर्वोऽब्रवीदुमाम् । नायकेन विना देवि तव भूतोऽपि पुत्रकः ॥ २८.७१ ॥ यस्माज्जातस्ततो नाम्ना भविष्यति विनायकः । एष विघ्नसहस्राणि सुरादीनां करिष्यति ॥ २८.७२ ॥ पूजयिष्यन्ति चैवास्य लोका देवि चराचराः । इत्येवमुक्त्वा देव्यास्तु दत्तवांस्तनयाय हि ॥ २८.७३ ॥ सहायं तु गणश्रेष्ठं नाम्ना ख्यातं घटोदरम् । तथा मातृगणा घोरा भूता विघ्नकराश्च ये ॥ २८.७४ ॥ ते सर्वे परमेशेन देव्याः प्रीत्योपपादिताः । देवी च स्वसुतं दृष्ट्वा परां मुदमवाप च ॥ २८.७५ ॥ रेमेऽथ शंभुना सार्धं मन्दरे चारुकन्दरे । एवं भूयोऽभवद्देवी इयं कात्यायनी विभो । या जघान महादैत्यै पुरा शुम्भनिशुम्भकौ ॥ २८.७६ ॥ एतत्तवोक्तं वचनं शुभाख्यं यथोद्भवं पर्वततो मृडान्याः । स्वर्ग्यं यशस्यं च तथाघहारि आख्यनमूर्जस्करमद्रिपुत्र्याः ॥ २८.७७ ॥ इति श्रीवामनपुराणे अष्टाविंशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । कश्यपस्य दनुर्नाम भार्यासीद्द्विजसत्तम । तस्याः पुत्रत्रयं चासीत्सहस्राक्षाद्बलाधिकम् ॥ २९.१ ॥ ज्येष्ठः सुम्भ इति ख्यातो निशुम्भश्चापरोऽसुरः । तृतीयो नमुचिर्नाम महाबलसमन्वितः ॥ २९.२ ॥ योऽसौ नमुचिरित्येवं ख्यातो दनुसुतोऽसुरः । तं हन्तुमिच्छति हरिः प्रगृह्य कुलिशं करे ॥ २९.३ ॥ त्रिदिवेशं समायान्तं नमुचिस्तद्भयादथ । प्रविवेश रथं भानोस्ततो नाशकदच्युतः ॥ २९.४ ॥ शक्रस्तेनाथ समयं चक्रे सह महात्मना । अवध्यत्वं वरं प्रादाच्छस्त्रैरस्त्रैश्च नारद ॥ २९.५ ॥ ततोऽवध्यत्वमाज्ञाय शस्त्रादास्त्राच्च नरद । संत्यज्य भास्कररथं पातालमुपयादथ ॥ २९.६ ॥ स निमज्जन्नपि जले सामुद्रं फेनसुत्तमम् । ददृशे दानवपतिस्तं प्रगृह्येदमब्रवीत् ॥ २९.७ ॥ यदुक्तं देवपतिना वासवेन वचोऽस्तु तत् । अयं स्पृशतु मां फेनः पराभ्यां गृह्य दानवः ॥ २९.८ ॥ मुखनासाक्षिकार्णादीन् संममार्ज्ज यथेच्छया । तस्मिञ्छक्रोऽजद्वज्रमन्तर्हितमपीश्वरः ॥ २९.९ ॥ तेनासौ भग्ननासास्यः पपात च ममार च । समये च तथा नष्टे ब्रह्महत्यास्पृशद्धरिम् ॥ २९.१० ॥ स वै तीर्थं समासाद्य स्नातः पापादमुच्यत । ततोऽस्य भ्रातरौ वीरौ क्रुद्धौ सुम्भनिशुम्भकौ ॥ २९.११ ॥ उद्योगं सुमहत्कृत्वा सुरान् बाधितुमागतौ । सुरास्तेऽपि सहस्राक्षं पुरस्कृत्य विनिर्ययुः ॥ २९.१२ ॥ जितास्त्वाक्रम्य दैत्याभ्यां सबलाः सपदानुगाः । शक्रस्याहृत्य च गजं याम्यं च महिषं बलात् ॥ २९.१३ ॥ वरुणस्य मणिच्छत्रं गदां वै मारुततस्य च । निधनः पद्मशङ्खाद्या हृतास्त्वाक्रम्य दानवैः ॥ २९.१४ ॥ त्रैलोक्यं वशगं चास्ते ताभ्यां नारद सर्वतः । तदाजग्मुर्महीपृष्ठं ददृशुस्ते महासुरम् ॥ २९.१५ ॥ रक्तबीजमथोचुस्ते को भवानिति सोऽब्रवीत् । स चाह दैत्योऽस्मि विभो सचिवो महिषस्य तु ॥ २९.१६ ॥ रक्तबीजेति विख्यातो महावीर्यो महाभुजः । अमात्यौ रुचिरौ वीरौ चण्डमुण्डाविति श्रुतौ ॥ २९.१७ ॥ तावारतां सलिले मग्नौ भयाद्देव्या महाभुजौ । यस्त्वासीत्प्रभूरस्माकं महिषो नाम दानवः ॥ २९.१८ ॥ निहतः स महादेव्या विन्ध्यशैले सुविस्तृते । भवन्तौ कस्य तनयौ कौ वा नाम्ना पिरश्रुतौ । किंवीर्यौ किंप्रभावौ च एतच्छंसितुमर्हथः ॥ २९.१९ ॥ शुम्भनिशुम्भावूचतुः । अहं शुंभ इति ख्यातो दनोः पुत्रस्तथौरसः । निशुम्भोऽयं मम भ्राता कनीयान् शत्रुपूगहा ॥ २९.२० ॥ अनेन हगुशो देवाः सेन्द्ररुद्रदिवाकराः । समेत्य निर्जिता वीरा येऽन्ये च बलवत्तराः ॥ २९.२१ ॥ तदुच्यतां कया दैत्यो निहतो महिषासुरः । यावत्तां घातयिष्यावः स्वसैन्यपरिवारितौ ॥ २९.२२ ॥ इत्थं तोस्तु वदतोर्नर्मदायास्तटे मुने । जलवासाद्विनिष्क्रान्तौ चण्डमुण्डौ च दानवौ ॥ २९.२३ ॥ ततोऽभ्येत्यासुरश्रेष्ठौ रक्तबीजं समाश्रितौ । ऊचतुर्वचनं श्लक्ष्णं कोऽयं तव पुरस्सरः ॥ २९.२४ ॥ स चोभौ प्राह दैत्योऽसौ शुम्भो नाम सुरार्दनः । कनीयानस्य च भ्राता द्वितीयो हि निशुम्भकः ॥ २९.२५ ॥ एतावाश्रित्य तां दुष्टां महिषघ्नीं न संशयः । अहं विवाहयिष्यामि रत्नभूतां जगत्त्रये ॥ २९.२६ ॥ चण्ड उवाच । न सम्यगुक्तां भवता रत्नार्हेऽसि न साम्प्रतम् । यः प्रभुः स्यात्स रत्नार्हस्तस्माच्छुम्भाय योज्यताम् ॥ २९.२७ ॥ तदाचचक्षे शुम्भाय निसुम्भाय च कौशिकीम् । भूयोऽपि तद्विधां जातां कौशिकीं रूपशालिनीम् ॥ २९.२८ ॥ ततः शुम्भो निजं दूतं सुग्रीवं नाम दानवम् । दैत्यं च प्रेषयामास सकाशं विन्ध्यवासिनीम् ॥ २९.२९ ॥ स गत्वा तद्वचः श्रुत्वा देव्यागत्य महासुरः । निशुम्भशुम्बावाहेदं मन्युनाबिपरिप्लुतः ॥ २९.३० ॥ सुग्रीव उवाच । युवयोर्वचनाद्देवीं प्रदेष्टुं दैत्यनायकौ । गतवानहमद्यैव तामहं वाक्यमब्रुवम् ॥ २९.३१ ॥ यथा शुम्भोऽतिविख्यातः ककुद्मी दानवेष्वपि । स त्वां प्राह महाभागे प्रभुरस्मि जगत्त्रये ॥ २९.३२ ॥ यानि स्वर्गे महीष्टष्ठे पाताले चापि सुन्दरि । रत्नानि सन्ति तावन्ति मम वेश्मनि नित्यशः ॥ २९.३३ ॥ त्वमुक्ता चण्डमुण्डाभ्यां रत्नभूता कृशोदरि । तस्माद्भजस्वमां वा त्वं नुशुम्भंवा ममानुजम् ॥ २९.३४ ॥ सा चाह मां विहसती शृणु सुग्रीव मद्वचः । सत्यमुक्तं त्रिलोकेशः शुम्भो रत्नार्ह एव च ॥ २९.३५ ॥ किं त्वस्ति दुर्विनीताया हृदये मे मनोरथः । यो मां विजयते युद्धे स भता स्यान्महासुर ॥ २९.३६ ॥ मया चोक्तावलिप्तासि यो जयेत्ससुरासुरान् । स त्वां कथं न जयते सा त्वमुत्तिष्ठ भामिनी ॥ २९.३७ ॥ साथ मां प्राह किं कुर्मि यदनालोचितः कृतः । मनोरथस्तु तद्गच्छ सुम्भाय त्वं निवेदय ॥ २९.३८ ॥ तयैवमुक्तस्त्वभ्यागां त्वत्सकाशं महासुर । सा चाग्निकोटिसदृशी मत्वैवं कुरु यत्क्षमम् ॥ २९.३९ ॥ पुलस्त्य उवाच् । इति सुग्रीववचनं निशम्य स महासुरः । प्राह दूरस्थितं सुम्भो दानवं धूम्रलोचनम् ॥ २९.४० ॥ शुम्भ उवाच । धूम्राक्ष गच्छ तां दुष्टां केशाकर्षणविह्वलाम् । सापराधां यता दासीं कृत्वा शीघ्रमिहानय ॥ २९.४१ ॥ यश्चास्याः पक्षकृत्कश्चिद्भविष्यति महाबलः । स हन्तव्योऽविचार्यैव यदि हि स्यात्पितामहः ॥ २९.४२ ॥ स एवमुक्तः शुम्भेन धूम्राक्षोऽक्षौहिणीशतैः । वृतः षड्भिर्महातेजा विन्ध्यं किरिमुपाद्रवत् ॥ २९.४३ ॥ स तत्र दृष्ट्वा तां दुर्गां भ्रान्तदृष्टिरुवाच ह । एह्येहि मूढे भर्तारं शुम्भमिच्छस्व कौशिकी । न चेद्बलान्नयिष्यामि केशाकर्षणविह्वलाम् ॥ २९.४४ ॥ श्रीदेव्युवाच । प्रेषितोऽसीह शुम्भेन बलान्नेतुं हि मां किल । तत्र किं ह्यबला कुर्याद्यथेच्छसि तथा कुरु ॥ २९.४५ ॥ पुलस्त्य उवाच् । एवमुक्तो विभावर्या बलावान् धूम्रलोचनः । सम्भ्यधावत्त्वरितो गदामादाय वीर्यवान् ॥ २९.४६ ॥ तमापतन्तं सगदं हुङ्कारेणैव कौशिकी । सबलं भस्मसाच्चक्रे शुष्कमग्निरिवेन्धनम् ॥ २९.४७ ॥ ततो हाहाकृतमभूज्जगत्यस्मिश्चराचरे । सबलं भस्मसान्नीतं कौशिक्या वीक्ष्य दानवम् ॥ २९.४८ ॥ तच्च शुम्भोऽपि शुश्राव महच्छब्दमुदीरितम् । अथादिदेश बलिनौ चण्डमुण्डौ महासुरौ ॥ २९.४९ ॥ रुरुं च बलिनां श्रेष्ठं तथा जग्मुर्मुदान्विताः । तेषां च सैन्यमतुलं गजाश्वरथसंकुलम् ॥ २९.५० ॥ समाजगाम सहसा यत्रास्ते कोशसंभवा । तदायान्तं रिपुबलं दृष्ट्वा कोटिशतावरम् ॥ २९.५१ ॥ सिंहोऽद्रवद्धुतसटः पाटयन् दानवान् रणे । कांश्चित्करप्रहारेण कांश्चिदास्येन लीलया ॥ २९.५२ ॥ नखरैः कांश्चिदाक्रम्य उरसा प्रममाथ च । ते वध्यमानाः सिंहेन गिरिकन्दरवासिना ॥ २९.५३ ॥ भूतैश्च देव्यनुचरैश्चण्डमुण्डौ समाश्रयन् । तावार्त्तं स्वबलं दृष्ट्वा कोपप्रस्फुरिताधरौ ॥ २९.५४ ॥ समाद्रवेतां दुर्गां वै पतङ्गविव पावकम् । तावापतन्तौ रौद्रौ वै दृष्ट्वा क्रोधपरिप्लुता ॥ २९.५५ ॥ त्रिसाखां भ्रुकुटीं वक्त्रे चकार परमेश्वरी । भ्रुकुटीकुटुलाद्देव्या ललाटफलकाद्द्रुतम् । काली करालवदना निःसृता योगिनी शुबा ॥ २९.५६ ॥ खट्वाङ्गमादाय करेण रौद्रमसिञ्च कालाञ्जनकोशमुग्रम् । संशुष्कगात्रा रुधिराप्लुताङ्गीनरेन्द्रमूर्ध्ना स्रजमुद्वहन्ती ॥ २९.५७ ॥ कांश्चित्खड्गेन चिच्छेद खट्वाङ्गेन परान् रणे । न्यषूदयद्भृशं क्रुद्धा सरताश्वगजान् रिपून् ॥ २९.५८ ॥ चर्माङ्कुशं मुद्गरं च सधनुष्कं सघण्टिकम् । कुञ्जरं सह यन्त्रेण प्रतिक्षेप मुकेऽम्बिका ॥ २९.५९ ॥ सचक्रकूबररथं ससारथितुरङ्गमम् । समं योधेन वदने क्षिप्य चर्वयतेऽम्बिका ॥ २९.६० ॥ एकं जग्राह केशेषु ग्रीवायमपरं तथा । पादेनाक्रम्य चैवान्यं प्रेषयामास मृत्यवे ॥ २९.६१ ॥ ततस्तु तद्बलं देव्या भक्षितं सबलाधिपम् । रुरुर्दृष्ट्वा प्रदुद्राव तं चण्डि ददृशे स्वयम् ॥ २९.६२ ॥ आजघानाथ शिरसि खट्वाङ्गेन महासुरम् । स पपात हतो भूम्यां छिन्नमूल इव द्रुमः ॥ २९.६३ ॥ ततस्तं पतितं दृष्ट्वा पशोरिव विभावरी । कोशमुत्कर्तयामास कर्णादिचरणान्तिकम् ॥ २९.६४ ॥ सा च कोशं समादाय वबन्ध विमला जटाः । एका न बन्धमगमत्तामुत्पाट्याक्षिपद्भुवि ॥ २९.६५ ॥ सा जाता सुतरां रौद्री तैलाभ्यक्तशिरोरुहा । कुष्णार्धमर्धशुक्लं च धारयन्ती स्वकं वपुः ॥ २९.६६ ॥ साब्रवीदं वरमेकं तु मारयामि महासुरम् । तस्या नाम तदा चक्रे चण्डमारीति विश्रुतम् ॥ २९.६७ ॥ प्राह गच्छस्व सुभगे चण्डमुण्डाविहानय । स्वयं हि मारयिष्यामि तावानेतुं त्वमर्हसि ॥ २९.६८ ॥ श्रुत्वैवं वचनं देव्याः साभ्यद्रवत्तावुभौ । प्रदुद्रुवतुर्भयार्त्तौ दिशमाश्रित्य दक्षिणाम् ॥ २९.६९ ॥ ततस्तावपि वेगेन प्राधावत्त्यक्तवाससौ । साधिरुह्य महावेगं रासभं गरुडोपमम् ॥ २९.७० ॥ यतो गतौ च तौ दौत्यौ तत्रैवानुययौ शिवा । सा ददर्श तदा पौण्ड्रं महिषं वै मस्य च ॥ २९.७१ ॥ सा तस्योत्पाटयामास विषाणं भुजगाकृतिम् । तं प्रगृह्य करेणैव दानवावन्वगाज्जवात् ॥ २९.७२ ॥ तौ चापि भूमिं संत्यज्य जग्मतुर्गगनं तदा । वेगेनाबिसृता सा च रासभेन महेश्वरी ॥ २९.७३ ॥ ततो ददर्श गरुडं पन्नगेन्द्रं चिषादिषुम । कर्कोटकं स दृष्ट्वा ऊर्ध्वरोमा व्यजायत ॥ २९.७४ ॥ भयान्मार्यश्च गरुडो मांसपिण्डोपमो बभौ । न्यपतंस्तस्य पत्राणि रौद्राणि हि पतत्त्रिणः ॥ २९.७५ ॥ खगेन्द्रपत्राण्यादाय नागं कर्कोटकं तथा । वेगेनानुसरद्देवी चण्डमुण्डौ भयातुरौ ॥ २९.७६ ॥ संप्राप्तौ च तदा देव्या चण्डमुण्डौ महासुरौ । बद्धौ कर्कोटकेनैव बद्ध्वा विन्ध्यमुपागमत् ॥ २९.७७ ॥ निवेदयित्वा कौशिक्यै कोशमादाय भेरवम् । शिरोभिर्दानवेन्द्राणां तार्क्ष्यपत्रैश्च शोभनैः ॥ २९.७८ ॥ कृत्वा स्रजमनौपम्यां चण्डिकायै न्यवेदयत् । घर्घरां च मृगेन्द्रस्य चर्मणः सा समार्पयत् ॥ २९.७९ ॥ स्रजमन्यैः खगेन्द्रस्य पत्रैर्मूर्घ्नि निबध्य च । आत्मना सा पपौ पानं रुधिरं दानवेष्वपि ॥ २९.८० ॥ चण्डा त्वादाय चण्डं च मुण्डं चासुरनायकम् । चकार कुपिता दुर्गा विशिरस्कौ महासुरौ ॥ २९.८१ ॥ तयोरेवाहिना देवी शेखरं सुष्करेवती । कृत्वा जगाम कौशिक्याः सकाशं मार्यया सह ॥ २९.८२ ॥ समेत्य साब्रवीद्देवि गृह्यतां शेखरोत्तमः । ग्रथितो दैत्यशीर्षाभ्यां नागराजेन वेष्टितः ॥ २९.८३ ॥ तं शेखरं शिवा गृह्य चण्डाया मूर्ध्नि विस्तृतम् । बबन्ध प्राह चैवैनां कृतं कर्म सुदारुणम् ॥ २९.८४ ॥ शेखरं चण्डमुण्डाभ्यां यस्माद्धारयसे शुभम् । तस्माल्लोके तव ख्यातिश्चामुण्डेति भविष्यति ॥ २९.८५ ॥ इत्येवमुक्त्वा वचनं त्रिनेत्रा मा चण्डमुण्डस्रजधारिणीं वै । दिग्वाससं चाभ्यवदत्प्रतीता निषूदय खारिबलान्यमूनि ॥ २९.८६ ॥ सा त्वेवमुक्ताथ विषाणकोट्या सुवेगयुक्तेन च रासभेन । निषूदयन्ती रिपुसैन्यमुग्रं चचार चान्यानसुरांश्चखाद ॥ २९.८७ ॥ ततोऽम्बिकायास्त्वथ चर्ममुण्डया मार्या च सिंहेन च भूतसंघैः । निपात्यमाना दनुपुङ्गवास्ते ककुद्मिनं शुम्भमुपाश्रयन्त ॥ २९.८८ ॥ इति श्रीवामनपुराणे एकोनत्रिंशोध्यायः ________________________________________________________________________ पुलस्त्य उवाच । चण्डमुण्डौ च निहतौ सैन्यं च विद्रुतम् । समादिदेशातिबलं रक्तबीजं महासुरम् । अक्षौहिणीनां त्रिंशद्भिः कोटिभिः परिवारितम् ॥ ३०.१ ॥ तमापतन्तं दैत्यानां बलं दृष्ट्वैव चण्डिका । मुमोच सिंहनादं वै ताभ्यां सह महेश्वरी ॥ ३०.२ ॥ निनदन्त्यास्ततो देव्या ब्रह्माणी मुखतोऽभवत् । हंसयुक्तविमानस्था साक्षसूत्रकमण्डलुः ॥ ३०.३ ॥ माहेश्वरी त्रिनेत्रा च वृषारूढा त्रिशूलिनी । महाहिवलया रौद्रा जाता कुण्डलिनी क्षणात् ॥ ३०.४ ॥ कण्ठादथ च कौमारी बर्हिपत्रा च शक्तिनी । समुद्भूता च देवर्षे मयूरवरवाहना ॥ ३०.५ ॥ बाहुभ्यां गरुडारूढा शङ्खचक्रगदासिनी । शार्ङ्गबाणधरा जाता वैष्णवी रूपशालिनी ॥ ३०.६ ॥ महोग्रमुशला रौद्रा दंष्ट्रोल्लिखितभूतला । वाराही पृष्ठतो जाता शेषनागोपरि श्थिता ॥ ३०.७ ॥ वज्राङ्कुशोद्यतकरा नानालङ्कारभूषिता । जाता गजेन्द्रपष्ठस्था माहेन्द्री स्तनमण्डलात् ॥ ३०.८ ॥ विक्षिपन्ती सटाक्षेपैर्ग्रहनक्षत्रतारकाः । नखिनी हृदयाज्जाता नारसिंही सुदारुणा ॥ ३०.९ ॥ ताभिर्निपात्यमानं तु निरीक्ष्य बलमासुरम् । ननाद भूयो नादान् वै चण्डिका निर्भया रिपून् । तन्निनादं महच्छ्रुत्वा त्रैलोक्यप्रतिपूरकम् ॥ ३०.१० ॥ समाजगाम देवेशः शूलपाणिस्त्रिलोचनः । अभ्येत्य वन्द्य चैवैनां प्राह वाक्यं तदाम्बिकं ॥ ३०.११ ॥ समायातोऽस्मि वै दुर्गे देह्याज्ञां किं करोमि ते । तद्वाक्यसमकालं च देव्या देहोद्भवा शिवा ॥ ३०.१२ ॥ जाता सा चाह देवेशं गच्छ दौत्येन शङ्कर । ब्रूहि शुम्भं निशुम्भं च यदि जीवितुमिच्छथ ॥ ३०.१३ ॥ तद्गच्छध्वं दुराचाराः सप्तमं हि रसातलम् । वासवो लभतां स्वर्गं देवाः सन्तु गतव्यथा ॥ ३०.१४ ॥ यजन्तु ब्राह्मणाद्यामी वर्णा यज्ञांश्च साम्प्रतम् । नोचेद्बलावलेपेन भवन्तो योद्धुमिच्छथ ॥ ३०.१५ ॥ तदागच्छध्वमव्यग्रा एषाहं विनिषूदये । यतस्तु सा शिवं दौत्ये न्ययोजयत्नारद ॥ ३०.१६ ॥ ततो नाम महादेव्याः शिवदूतीत्यजायत । ते चापि शङ्करवचः श्रुत्वा गर्वसमन्वितम्। । हुङ्कृत्वाभ्यद्रवन् सर्वे यत्र कात्यायनी स्थिता ॥ ३०.१७ ॥ ततः शरैः शक्तिभिरङ्कुर्वरैः परश्वधैः शूलभुशुण्डिपट्टिशैः । प्रासैः सुनीक्ष्णैः परिघैश्च विस्तृतैर्ववर्षतुदैत्यवरौ सुरेश्वरीम् ॥ ३०.१८ ॥ सा चापि बाणैर्वरकामुकच्युतैश्चिच्छेद शस्त्राण्यथ बाहुभिः सह । जघान चान्यात्रणचण्डविक्रमा महासुरान् बाणशतैर्महेश्वरी ॥ ३०.१९ ॥ मारी त्रिशूलेन जघान चान्यान् खट्वाङ्गपातैरपरांश्च कौशिकी । महाजलक्षेपहतप्रभावान् ब्राह्मी तथान्यानसुरांश्चकार ॥ ३०.२० ॥ माहेश्वरी शूलविदारितोरसश्चकार दग्धानपरांश्च वैष्णवी । शक्त्या कुमारी कुलिशेन चैन्द्री तुण्डेन चक्रेण वराहरूपिणी ॥ ३०.२१ ॥ नखैर्विभिन्नानपि नालसिंही अट्टाट्टहासैपि रुद्रदुती । रुद्रस्त्रिशूलेन तथैव चान्यान् विनायकश्चापि परश्वधेन ॥ ३०.२२ ॥ एवं हि देव्या विविधैस्तु रूपैर्निपात्यमाना दनुपुगवास्ते । पेतुः पृथिव्यां भुवि चापि भूतैस्ते भक्ष्यमाणाः प्रलयं प्रजग्मुः ॥ ३०.२३ ॥ ते वध्यमानास्त्वथ देवताभिर्महासुरा मातृभिराकुलाश्च । विमुक्तकेशास्तरलेक्षणा भयात्ते रक्तबीजं शरणं हि जग्मुः ॥ ३०.२४ ॥ स रक्तबीजः सहसाभ्युपेत्य वरास्त्रमादाय च मातृमण्डतम् । विद्रावयन् भूतगणान् समन्ताद्विवेश कोपात्स्फुरिताधरश्च ॥ ३०.२५ ॥ तमापतन्तं प्रसमीक्ष्य मातरः शस्त्रैः शिताग्रैर्दितजं ववर्षुः । यो रक्तबिन्दुर्न्यपतत्पृथिव्यां स तत्प्रमाणस्त्वसुरोऽपि जज्ञे ॥ ३०.२६ ॥ ततस्तदाश्चर्यमयं निरीक्ष्य सा कौशिकी केशिनिमभ्युवाच । पिबस्व चण्डे रुधिरं त्वरातेर्वितत्य वक्त्रं वडवानलाभम् ॥ ३०.२७ ॥ सा त्वेवमुक्ता वरदाम्बिका हि वितत्य वक्त्रं विकरालमुग्रम् । ओष्ठं नभस्पृक्पृथिवीं स्पूशन्तं कृत्वाधरं तिष्ठति चर्ममुण्डा ॥ ३०.२८ ॥ ततोऽम्बिका केशविकर्षणाकुलं कृत्वा रिपुं प्राक्षिपत स्ववक्त्रे । बिभेद शूलेन तथाप्युरस्तः क्षतोद्भवान्ये न्यपतंश्च वक्त्रे ॥ ३०.२९ ॥ ततस्तु शोषं प्रजगाम रक्तं रक्तक्षये हीनबलो बभूव । तं हीनवीर्यं शतधा चकार चक्रेण चामीकरभूषितेन ॥ ३०.३० ॥ तस्मिन् विशस्ते दनुसैन्यनाते ते दानवा दीनतरं विनेदुः । हा तात ह भ्रातरिति ब्रुवन्तः क्त यासि तिष्ठस्व मुहूर्त्तमेहि ॥ ३०.३१ ॥ तथापरे विलुलितकेशपाशा विशीर्णवर्माभरणा दिगम्बराः । निपातिता धरणितले मृडान्या प्रदुद्रुवुर्गिरिवरमुह्य दैत्याः ॥ ३०.३२ ॥ विशीर्णवर्मायुधभूषणं तत्बलं निरीक्ष्यैव हि दानवेन्द्रः । विशीर्मचक्राक्षरथो निशुम्भः क्रोधान्मृडानीं समुपाजगाम ॥ ३०.३३ ॥ खड्गं समादाय च चर्म भास्वरं धुन्वन् शिरः प्रेक्ष्य च रूपमस्याः । संस्तम्भमोहज्वरपीडितेऽथ चित्रे यथासौ लिखितो बभूव ॥ ३०.३४ ॥ तं स्तम्भितं वीक्ष्य सुरामग्रे प्रोवाच देवी वचनं विहस्य । अनेन वीर्येण सुरास्त्वया जिता अनेन मां प्रार्थयसे बलेन ॥ ३०.३५ ॥ श्रुत्वा तु वाक्यं कौशिक्या दानवः सुचिरादिव । प्रोवाच चिन्तयित्वाथ वचनं वदतां वरः ॥ ३०.३६ ॥ सुकुमाररीरोऽथं मच्छस्त्रपतनादपि । शतधा यास्यते भीरु आमपात्रमिवाम्भसि ॥ ३०.३७ ॥ एतद्विचिन्तयन्नर्थ त्वां प्रहर्त्तु न सुन्दरि । करोमि बुद्धि तस्मात्त्वं मां भजस्वायतेक्षणे ॥ ३०.३८ ॥ मम खङ्गनिपातं हि नेन्द्रो धारयितुं क्षमः । निवर्त्तय मतिं युद्धाद्भार्या मे भव साम्प्रतम् ॥ ३०.३९ ॥ इत्थं निशुम्भवचनं श्रुत्वा योगीश्वरी मुने । विहस्य भावगम्भीरं निशुम्भं वाक्यमब्रवीत् ॥ ३०.४० ॥ नाजिताहं रणे वीर भवे भार्या हि कस्यचित् । भवान् यदिह भार्यार्थो ततो मां जय संयुगे ॥ ३०.४१ ॥ इत्येवमुक्ते वचने खङ्गमुद्यम्य दानवः । प्रचिक्षेप तदा वेगात्कौशिकीं प्रति नारद ॥ ३०.४२ ॥ तमापतन्तं निस्त्रिंशं षड्भिर्बर्हिणराजितैः । चिच्छेद चर्मणा सार्द्ध तदद्भुतमिवाभवत् ॥ ३०.४३ ॥ खड्गे सचर्मणि छिन्ने गदां गृह्य महासुरः । समाद्रवत्कोशभवां वायुवेगसमो जवे ॥ ३०.४४ ॥ तस्यापतत एवाशु करौ श्लिष्टौ समौ दृढौ । गदया सह चिच्छेद क्षुरेप्रेण रणेऽम्बिका ॥ ३०.४५ ॥ तस्मिन्नपतिते रौद्रे सुरशत्रौ भयङ्करे । चण्डाद्य मातरो हृष्टाश्चक्रुः किलकिलाध्वनिम् ॥ ३०.४६ ॥ गगनस्थास्ततो देवाः शतक्रतुपुरोगमाः । जयस्व विजयेत्यूचुर्हृष्टाः शत्रौ निपातिते ॥ ३०.४७ ॥ ततस्तूर्याण्यवाद्यन्त भूतसंघैः समन्ततः । पुष्पवृष्टिं च मुमुचुः सुराः कात्यायनीं प्रति ॥ ३०.४८ ॥ निशुम्भं पतितं दृष्ट्वा शुम्भः क्रोधान्महामुने । वृन्दारकं समारुह्य पाशपाणिः समभ्यगात् ॥ ३०.४९ ॥ तमापतन्तं दृष्ट्वाथ सगजं दानवेश्वरम् । जग्रा ह चतुरो वाणांश्चन्द्रार्धाकरवर्चसः ॥ ३०.५० ॥ क्षुरप्राभ्यां समं पादौ द्वौ चिच्छेद द्विपस्य सा । द्वाभ्यां कुम्भे जघानाथ हसन्ती लीलयाम्बिका ॥ ३०.५१ ॥ निकृत्ताभ्यां गजः पद्म्यां निपपात तथेच्छया । शक्रवज्रसमाक्रान्तं शैलराजशिरो यथा ॥ ३०.५२ ॥ तस्यावर्जितनागस्य शुम्भस्याप्युत्पतिष्यतः । शिरश्चिच्छेद बाणेन कुण्डलालङ्कृतं शिवा ॥ ३०.५३ ॥ छिन्ने शिरसि दैत्येन्द्रो निपपात सकुञ्जरः । यथा समहिषः क्रोञ्चो महासेनसमाहतः ॥ ३०.५४ ॥ श्रुत्वा सुराः सुररिपु निहतौ मृडान्या सेन्द्राः ससूर्यमरुदश्विवसुप्रधानाः । आगत्य तं गिरिवरं विनयावनम्रा देव्यास्तदा स्तुतिपदं त्विदमीरयन्तः ॥ ३०.५५ ॥ देवा ऊचुः। । नमोऽस्तु ते भगवति पापनाशिनि नमोऽस्तु ते सुररिपुदर्पशातनि । नमोऽस्तु ते हरिहरराज्यदायिनि नमोऽस्तु ते मखभुजकार्यकारिणि ॥ ३०.५६ ॥ नमोऽस्तु ते त्रिदशरिपुक्षयङ्करि नमोऽस्तु ते शतमखपादपूजिते । नमोऽस्तु ते महिषविनासकारिणि नमोऽस्तु ते हरिहरभास्करस्तुते ॥ ३०.५७ ॥ नमोऽस्तु तेऽष्टादशबाहुशालिनि नमोऽस्तु ते शुम्भनिशुम्भघातिनि । नमोऽस्तु लोकार्त्तिहरे त्रिशूलिनि नमोऽस्तु नारायणि चक्रधारिणि ॥ ३०.५८ ॥ नमोऽस्तु वाराहि सदा धराधरे त्वां नारसिंहि प्रणता नमोऽसुत ते । नमोऽस्तु नारसिंहि प्रणता नमोऽस्तु ते । नमोऽस्तु ते वज्रधरे गजध्वजे नमोऽसुत कौमारि मयूरवाहिनि ॥ ३०.५९ ॥ नमोऽस्तु पैतामहहंसवाहने नमोऽस्तु मालाविकटे सुकेशिनि । नमऽस्तु मालाविकटे सुकेशिनि । नमोऽस्तु ते रासभपृष्ठवाहिनि नमोऽस्तु सर्वार्त्तिहरे जगन्मये ॥ ३०.६० ॥ नमोऽस्तु विश्वेश्वरि पाहि विश्वं निषूदयारीन् द्विजदेवतानाम् । नमोऽस्तु ते सर्वमयि त्रिनेत्रे नमो नमस्ते वरदे प्रसीद ॥ ३०.६१ ॥ ब्रह्माणी त्वं मृडानी वरशिखिगमना शक्तिहस्ता कुमारी वाराही त्वं सुवक्त्रा खगपतिगमना वैष्णवी त्वं सशार्ङ्गो । दुर्दृश्या नारसिंही घुरघुरितरवा त्वं तथैन्द्री सवज्रा त्वं मारी चर्ममुण्डाशवगमनरता योगिनी योगसिद्धा ॥ ३०.६२ ॥ नमस्ते त्रिनेत्रे भगवति तवचरणानुषिता ये अहरहर्विनतशिरसोऽवनताः । नहि नहि परिभवमस्त्यशुभं च स्तुतिबलिकुसुमकराः सततं ये ॥ ३०.६३ ॥ एवं स्तुता सुरवरैः सुरशत्रुनाशिनी प्राह प्रहस्य सुरसिद्धमहर्षिवर्यान् । प्राप्तो मयाद्भुततमो भवतां प्रसादात्संग्राममूर्ध्वि सुरशत्रुजयः प्रमर्दात् ॥ ३०.६४ ॥ इमां स्तुतिं भक्तिपरा नरोत्तमा भवद्भिरुक्तामनुकीर्त्तयन्ति । दुःस्वप्ननाशो भविता न संशयो वरस्तथान्यो व्रियतामभीप्सितः ॥ ३०.६५ ॥ देवा ऊचुः । यदि वरदा भवती त्रिदशानां द्विजशिशुगोषु यतस्व हिताय । पुनरपि देवरिपूनपरांस्त्वं प्रदह हुताशनतुल्यशरीरे ॥ ३०.६६ ॥ देव्युवाच् । भूयो भविष्याम्यसृगुक्षितानना हराननस्वेदजलोद्भवा सुराः । अन्धासुरस्याप्रतिपोषणे रता नाम्ना प्रसिद्धा भुवनेषु चर्चिका ॥ ३०.६७ ॥ भूयो वधिष्यामि सुरारिमुत्तमं संभूय नन्दस्य गृहे यशोदया । तं विप्रचित्तिं लवणं तथापरौ शुम्भं निशुम्भं दशनप्रहारिमी ॥ ३०.६८ ॥ भूयः सुरास्तिष्ययुगे निराशिनी निरीक्ष्य मारी च गृहे शतक्रतोः । संभूय देव्यामितसत्यधामया सुरा भरिष्यामि च शाकम्भरी वै ॥ ३०.६९ ॥ भूयो विपक्षक्षपणाय देवा विन्ध्ये भविष्यम्यृषिरक्षणार्थम् । दुर्वृत्तचेष्टान् विनिहत्य दैत्यान् भूयः समेष्यामि सुरालयं हि ॥ ३०.७० ॥ यदारुणाक्षो भविता महासुरः तदा भविष्यामि हिताय देवाताः । महालिरूपेण विनष्टजीवितं कृत्वा समष्यामि पुनस्त्रिविष्टपम् ॥ ३०.७१ ॥ पुलस्त्य उवाच । इत्येवमुक्त्वा वरदा सुराणां कृत्वा प्रणामं दिवजपुङ्गवानाम् । विसृज्य भूतानि जगाम देवी खं सिद्धसंघैरनुगम्यमाना ॥ ३०.७२ ॥ इदं पुराणं परमं पवित्रं देव्या जयं मङ्गलदायि पुंसाम् । श्रोतव्यमेतन्नियतैः सदैव रक्षोघ्नमेतद्भगवानुवाच ॥ ३०.७३ ॥ इति श्रीवामनपुराणे त्रिंशोध्यायः ________________________________________________________________________ नारद उवाच । कथं समहिषः क्रोञ्चो भिन्नः स्कन्देन सुव्रत । एतन्मे विस्तराद्ब्रह्मन् कथयस्वामितद्युते ॥ ३१.१ ॥ पुलसत्य उवाच् । शृणुष्व कथयिष्यामि कथां पुण्यां पुरातनीम् । यशोवृद्धिं कुमारस्य कार्तिकेयस्य नारद ॥ ३१.२ ॥ यत्तत्पीतं हुताशेन स्कन्नं शुक्रं पिनाकिनः । तेनाक्रान्तोऽभवद्ब्रह्मन्मन्दतेजा हुताशनः ॥ ३१.३ ॥ ततो जगाम देवानां सकाशममितद्युतिः । तैश्चापि प्रहितस्तूर्णं ब्रह्मलोकं जगाम ह ॥ ३१.४ ॥ स गच्छन् कुटुलां देवीं ददर्श पथि पावकः । तां दृष्ट्वा प्राह कुटिले तेज एतत्सुदुर्द्धरम् ॥ ३१.५ ॥ महेश्वरेण संत्यक्तं निर्दहेद्भुवनान्यपि । तस्मात्प्रतीच्छ पुत्रोऽयं तव धन्यो भविष्यति ॥ ३१.६ ॥ इत्यग्निना सा कुटिला स्मृत्वा क्वमतमुत्तमम् । प्रक्षिपस्वाम्भसि मम प्राह वह्निं महापगा ॥ ३१.७ ॥ ततस्त्वधारयद्देवी शार्वं तेजस्त्वपूपुषत् । हुताशनो।पि भगवान् कामचारी परिभ्रमन् ॥ ३१.८ ॥ पञ्चवर्षसहस्राणि धृतवान् हव्यभुक्ततः । मांसमस्थीनि रुधिरं मेदोन्त्ररेतसी त्वचः ॥ ३१.९ ॥ रोमश्मश्व्रक्षिकेशाद्याः सर्वे जाता हिरण्मयाः । हिरण्यरेता लोकेषु तेन गीतश्च पावकः ॥ ३१.१० ॥ पञ्चवर्षसहस्राणि कुटुला ज्वलनोपमम् । धारयन्ती तदा गर्भं ब्रह्मणः स्थानमागता ॥ ३१.११ ॥ तां दृष्टावान् पद्मजन्मा संतप्यन्तीं महापगाम् । दृष्ट्वा पप्रच्छ गेनायं तव गर्भः समाहितः ॥ ३१.१२ ॥ सा चाह शङ्करं यत्तच्छ्रुक्रं पीतं हि वह्निना । तदशक्तेन तेनाद्य निक्षिप्तं मयि सत्तम ॥ ३१.१३ ॥ पञ्जवर्ष सहस्राणि धारयन्त्याः पितामह । गर्भस्य वर्त्तते कालो न पपात च कर्हिचित् ॥ ३१.१४ ॥ तच्छ्रुत्वा भगवानाह गच्छ त्वमुदयं गिरिम् । तत्रास्ति योजनशतं रौद्रं शरवणं महत् ॥ ३१.१५ ॥ तत्रैव क्षिप सुश्रेणि विस्तीर्णे गिरिसानुनि । दशवर्षसहस्रान्ते ततो बालो भविष्यति ॥ ३१.१६ ॥ सा श्रुत्वा ब्रह्मणो वाक्यं रूपिणी गिरिमागता । आगत्य गर्भं तत्याज सुखेनैवाद्रिनन्दिनी ॥ ३१.१७ ॥ सा तु संत्यज्य तं बालं ब्रह्माणं सहसागमत् । आपोमयी मन्त्रवशात्संजाताकुटिला सती ॥ ३१.१८ ॥ तेजसा चापि शार्वेण रौक्मं शरवणं महत् । तन्निवासरताश्चान्ये पादपा मृगपक्षिणः ॥ ३१.१९ ॥ ततो दशसु पूर्णेषु शरद्दशशतेष्वथ । बालार्कदीप्तिः संजातो बालः कमललोचनः ॥ ३१.२० ॥ उत्तानशायी भगवान् दिव्ये शरवणे स्थितः । मुखेऽङ्गुष्ठं समाक्षिप्य रुरोद घनराडिव ॥ ३१.२१ ॥ एतस्मिन्नन्तरे देव्यः कृत्तिकाः षट्सुतेजसः । ददृशुः स्वेच्छया यान्त्यो बालं शरवणे स्थितम् ॥ ३१.२२ ॥ कृपायुक्ताः समाजग्मुः यत्र स्कन्दः स्थितोऽभवत् । अहं पूर्वमहं पूर्वं तस्मै स्तन्येऽभिचुक्रुशुः ॥ ३१.२३ ॥ विवदन्तीः स ता दृष्टावा षण्मुखः समजायत । अबीभरंश्च ताः सर्वाः शिशुं स्नेहाच्च कृत्तिकाः ॥ ३१.२४ ॥ भ्रियमामः स ताभिस्तु बालो वृद्धिमगान्मुने । कार्त्तिकेयेति विख्यातो जातः स बलिनां वरः ॥ ३१.२५ ॥ एतस्मिन्नन्तरे ब्रह्मन् पावकं प्राह पद्मजः । कियत्प्रमाणः पुत्रस्ते वर्त्तते साम्प्रतं गुहः ॥ ३१.२६ ॥ स तद्वचनमाकर्ण्य अजानंस्तं हरात्मजम् । प्रोवाच पुत्रं देवेश न वेद्मि कतमो गुहः ॥ ३१.२७ ॥ तं प्राह भगवान् यत्तु तेजः पीतं पुरा त्वया । त्रैयम्बलं त्रिलोकेश जातः शरवणे शिशुः ॥ ३१.२८ ॥ श्रुत्वा पितामहवचः पावकस्त्वरितोऽभ्यगात् । वेगिनं मेषमारुह्य कुटिला तं ददर्श ह ॥ ३१.२९ ॥ ततः पप्रच्छ कुटिला शीघ्रं क्व व्रजसे कवे । सोऽब्रवीत्पुत्रदुष्ट्यर्थं जातं शरवणे शिशुम् ॥ ३१.३० ॥ साब्रवीत्तनयो मह्यं ममेत्याह च पावकः । विवदन्तौ ददर्साथ स्वेच्छाचारी जनार्दनः ॥ ३१.३१ ॥ तौ पप्रच्छ किमर्थं वा विवादमिह चक्रथः । तावूचतुः वुत्रहेतो रुद्रशुक्रोद्भवाय हि ॥ ३१.३२ ॥ तावुवाच हरिर्देवो गच्छ तं त्रिपुरान्तकम् । स यदा वक्ष्यति देवेशस्तत्कुरुध्वमसंशयम् ॥ ३१.३३ ॥ इत्युक्तौ वासुदेवेन कुटिलाग्नी हरान्तिकम् । सम्भ्येत्योचतुस्तथ्यं कस्य पुत्रेति नारद ॥ ३१.३४ ॥ रुद्रस्तद्वाक्यमाकर्ण्य हर्षनिर्भरमानसः । दिष्ट्या दिष्ट्येति गिरिजां प्रोद्भूतपुलकोऽब्रवीत् ॥ ३१.३५ ॥ ततोऽम्बिका प्राह हरं देव गच्छाम शिशुम् । प्रष्टुं समाश्रयेद्यं स तस्य पुत्रो भविष्यति ॥ ३१.३६ ॥ बाढमित्येव भगवान् समुत्तस्थौ वृषध्वजः । सहोमया कुटिलया पावकेन च धीमता ॥ ३१.३७ ॥ संप्राप्तास्ते शरवणं हराग्निकुटिलाम्बिकाः । ददृशुः शिशुकं तं च कृत्तिकोत्सङ्गशायिनम् ॥ ३१.३८ ॥ ततः स बालकस्तेषां मत्वा चिन्तितमादरात् । योगी चतुर्मूर्तिरभूत्षण्मुखः स शिशुस्त्वपि ॥ ३१.३९ ॥ कुमारः शङ्करमगाद्विशाखो गौरिमागमत् । कुटिलामगमच्छाखो महासेनोऽग्निमभ्ययात् ॥ ३१.४० ॥ ततः प्रीतियुतो रुद्र उमा च कुटिला तथा । पावकश्चापि देवेशः परां मुदमवाप च ॥ ३१.४१ ॥ ततोऽब्रुवन् कृत्तिकास्ताः षण्मुखः किं हरात्मजः । ता अब्रवीद्धरः प्रतीत्या विधिवद्वचनं मुने ॥ ३१.४२ ॥ नाम्ना तु कार्त्तिकेयो हि युष्माकं तनयस्त्वसौ । कुटुलायाः कुमारेति पुत्रोऽयं भविताव्ययः ॥ ३१.४३ ॥ स्कन्द इत्येव विख्यातो गौरीपुत्रो भवत्वसौ । गुह इत्येव नाम्ना च ममासौ तनयः स्मृतः ॥ ३१.४४ ॥ माहासेन इति ख्यातो हुताशस्यास्तु पुत्रकः शारद्वत इति ख्यातः सुतः शरवणस्य च ॥ ३१.४५ ॥ एवमेव महायोगी पृथिव्यां ख्यातिमेष्यति । षडास्यत्वान्महाबाहुः षण्मुखो नाम गीयते ॥ ३१.४६ ॥ इत्येवमुक्त्वा भगवान् शूलपाणिः पितामहम् । सस्मार दैवतैः सार्द्ध तेऽप्याजग्मुस्त्वरान्विताः ॥ ३१.४७ ॥ प्रणिपत्य च कामारिमुमां च गिरिनन्दिनीम् । दृष्ट्वा हुताशनं प्रीत्या कुटिलां कृत्तिकास्तथा ॥ ३१.४८ ॥ ददृशुर्बालमत्युग्रं षण्मुखं सूर्यसंनिभं मुष्णन्तमिव चक्षुंषि तेजसा स्वेन देवताः ॥ ३१.४९ ॥ कौतुकाभिवृताः सर्वे एवमूचुः सुरोत्तमाः । देवकार्यं त्वया देव कृतं देव्याग्निना तथा ॥ ३१.५० ॥ तदुत्तष्ठ व्रजामोऽद्य तीर्थमौजसमव्ययम् । कुरुक्षेत्रे सरस्वत्यामभिष्ञ्चाम षण्मुखम् ॥ ३१.५१ ॥ सेनायाः पतिरस्त्वेष देवगन्धर्वकिंनराः । महिषं घातयत्वेष तारकं च सुदारुणम् ॥ ३१.५२ ॥ बाढमित्यब्रवीच्छर्वः समुत्तस्थुः सुरास्ततः । कुमारसहिता जग्मुः कुरुक्षेत्रं महाफलम् ॥ ३१.५३ ॥ तत्रैव देवताः सेन्द्रा रुद्रब्रह्मजनार्दनाः । यत्नमस्याभिषेकार्तं चक्रुर्मुनिगणैः सह ॥ ३१.५४ ॥ ततोऽम्बुना सप्तसमुद्रवाहिनीनदीजलेनापि महाफलेन । वरौषधीभिश्च सहस्रमूर्त्तिभिस्तदाभ्यषिञ्चन् गुमच्युताद्याः ॥ ३१.५५ ॥ अभिषिञ्चति सेनान्यां कुमारे दिव्यरूपिणि । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ३१.५६ ॥ अभिषिक्तं कुमारं च गिरिपुत्री निरीक्ष्य हि । स्नेहादुत्सङ्गगं स्कन्दं मूर्ध्न्यजिघ्रन्मुर्हुर्मुहुः ॥ ३१.५७ ॥ जिघ्रती कार्त्तिकेयस्य अभिषेकार्द्रमाननम् । भात्यद्रिजा यथेन्द्रस्य देवमातादितिः पुरा ॥ ३१.५८ ॥ तदाभिषिक्तं तनयं दृष्ट्वा शर्वो मुदं ययौ । पावकः कृत्तिकाश्चैव कुटिला च यशस्विनी ॥ ३१.५९ ॥ ततोऽभिषिक्तास्य हरः सेनापत्ये गुहस्य तु । प्रमथांश्चतुरः प्रदाच्छक्रतुल्यपराक्रमान् ॥ ३१.६० ॥ घण्टाकर्ण लोहिताक्षं नन्दिसेनं च दारुणम् । चतुर्थं बलिनां मुख्यं ख्यातं कुमुदमालिनम् ॥ ३१.६१ ॥ हरदत्तान् गणान् दृष्ट्वा देवाः स्कन्दस्य नारद । प्रददुः प्रमथान् स्वान् स्वान् सर्वे ब्रह्मपुरोगमाः ॥ ३१.६२ ॥ स्थाणुं ब्रह्म गणं प्रादाद्विष्णुः प्रादाद्गणत्रयम् । संक्रमं विक्रमं चैव तृतीयं च पराक्रमम् ॥ ३१.६३ ॥ उत्केसं पङ्कजं शक्रो रविर्दण्डकपिङ्गलौ । चन्द्रो मणिं वसुमणिमश्विनौ वत्सनन्दिनौ ॥ ३१.६४ ॥ ज्योतिर्हुताशनः प्रादाज्जवलज्जिह्वं तथापरम् । कुन्दं मुकुन्दं कुसुमं त्रीन् धातानुचरान् ददौ ॥ ३१.६५ ॥ चक्रानुचक्रौ त्वष्टां च वेधातिस्थिरसुस्थिरौ । पाणित्यजं कालकञ्च प्रादात्पूषा महाबलौ ॥ ३१.६६ ॥ स्वर्णमालं घनाह्वं च हिमवान् प्रमथोत्तमौ । प्रादादेवोच्छ्रितो विन्ध्यस्त्वतिशृङ्गं च पार्षदम् ॥ ३१.६७ ॥ सुवर्चसं च वरुणः प्रददौ चातिवर्चसम् । संग्रहं विग्रहं चाब्धिर्नागा जयमहाजयौ ॥ ३१.६८ ॥ उन्मादं शुङ्कुर्ण च पुष्पदन्तं तथाम्बिका । घसं चातिघसं वायुः प्रादादनुचरावुभौ ॥ ३१.६९ ॥ परिघं चटकं भीमं दहतिदहनौ तथा । प्रददावंशुमान् पञ्च प्रमथान् षण्मुखाय हि ॥ ३१.७० ॥ यमः प्रमाथमुन्माथं कालसेनं महामुखम् । तालपत्रं नाडिजङ्घं षडेवानुचरान् ददौ ॥ ३१.७१ ॥ सुप्रभं च सुकर्माणं ददौ धाता गणेश्वरौ । सुव्रतं सत्यसन्धं च मित्रः प्रदाद द्विजोत्तम ॥ ३१.७२ ॥ अनन्तः शङ्कुपीठश्च निकुम्भः कुमुदोऽम्बुजः । एकाक्षः कुनटी चक्षुः किरीटी कलशोदरः ॥ ३१.७३ ॥ सूचीवक्त्रः कोकनदः प्रहासः प्रियकोऽच्युतः । गणाः पञ्चदशैते हि यक्षैर्दत्ता गुहस्य तु ॥ ३१.७४ ॥ कालिन्द्याः कालकन्दश्च नर्मदाया रणोत्कटः । गोदावर्याः सिद्धयात्रस्तमसायाद्रिकम्पकः । ३१.७५ सहस्रबाहुः सीताया वञ्जूलायाः सितोदरः । मन्दाकिन्यास्तथा नन्दो विपाशायाः प्रियङ्करः ॥ ३१.७६ ॥ ऐरावत्याश्चतुर्द्दष्ट्रः षोडशाक्षो वितस्तया । मार्जारं सौशिकी प्रादात्क्रथक्रौञ्चौ च गौतमी ॥ ३१.७७ ॥ बाहुदा शतसीर्षं च वाहा गोनन्दनन्दिकौ । भीमं भीमरथी प्रादाद्वेगारिं सरयूर्ददौ ॥ ३१.७८ ॥ अष्टबाहुं ददौ काशी सुबाहुमपि गण्डकी । महानदी चित्रदेवं चित्रा चित्ररथं ददौ ॥ ३१.७९ ॥ कुहूः कुवलयं प्रादान्मधुवर्णं मधूदका । जम्बूकं धूतपापा च वेणा श्वेताननं ददौ ॥ ३१.८० ॥ श्रुतवर्म च पर्मासा रेवा सागरवेगिनम् । प्रभावार्थं सहं प्रादात्काञ्चना कनकेक्षणम् ॥ ३१.८१ ॥ गृध्रपत्रं च विमला चारुवक्त्रं मनोहरा । धूतपापा महारावं कर्णा विद्रुमसंनिभम् ॥ ३१.८२ ॥ सुप्रसादं सुवेणुश्च जिष्णुमेघवती ददौ । यज्ञबाहुं विशाला च सरस्वत्यो ददुर्गणान् ॥ ३१.८३ ॥ कुटिला तनयस्यादाद दश शक्रबलान् गणान् । करालं सितकेशं च कृष्णकेशं जटाधरम् ॥ ३१.८४ ॥ मेघनादं चतुर्द्दष्ट्रं विद्युजिह्वं दशाननम् । सोमाप्ययनमेवोग्रं देवयाजिनमेव च ॥ ३१.८५ ॥ हंसास्यं कुण्डजठरं बहुग्रीवं हयाननम् । कूर्मग्रीवं च पञ्चैतान् ददुः पुत्राय कृत्तिकाः ॥ ३१.८६ ॥ स्थाणुजङ्घं कुम्भवक्त्रं लोहजङ्घं महाननम् । पिण्डाकारं च पञचैतान् ददुः स्कन्दायट चर्षयः ॥ ३१.८७ ॥ नागजिह्वं चन्द्रभासं पाणिकूर्मं शशीक्षकम् । चाषवक्त्रं च जम्बूकं ददौ तीर्थः पृथूदकः ॥ ३१.८८ ॥ चक्रतीर्थं सुचजक्राक्षं मकराश्रं गयाशिरः । गणं पञ्चशिखं नाम ददौ कनखलः स्वकम् ॥ ३१.८९ ॥ बन्धुदत्तं वाजिशिरो बाहुशालं च पुष्करम् । सर्वौञ्जसं माहिषकं मानसः पिङ्गलं यथा ॥ ३१.९० ॥ रुद्रमौशनसः प्रादात्ततोऽन्ये मातरो ददुः । वसुदामां सोमतीर्थः प्रभासो नन्दिनीमपि ॥ ३१.९१ ॥ इन्द्रतीर्थं विशोकां च उदपानो घनस्वनाम् । सप्तसारस्वतः प्रादान्मातरश्चतुरोद्भुताः ॥ ३१.९२ ॥ गीतप्रियां माधवीं च तीर्थनेमिं स्मिताननाम् । एकचूडां नागतीर्थः कुरुक्षेत्रं पलासदाम् ॥ ३१.९३ ॥ ब्रह्मयोनिश्चण्डशिलां भद्रकालीं त्रिविष्टपः । चौण्डीं भैण्डीं योगभैण्डीं प्रादाच्चरणपावनः ॥ ३१.९४ ॥ सोपानीयां मही प्रादाच्छालिकां मानसो ह्रदः । शकघण्टां शतानन्दां तथोलूखलमेखलाम् ॥ ३१.९५ ॥ पद्मावती माधवीं च ददौ बदरिकाश्रमः । सुषमामैकचूडां च देवीं धमधमां तथा ॥ ३१.९६ ॥ उत्क्राथनीं वेदमित्रां केदारो मातरो ददौ । सुनक्षत्रां कद्रुलां च सुप्रभातां मुङ्गलाम् ॥ ३१.९७ ॥ देवमित्रां चित्रसेनां ददौ रुद्रमहालयः । कोटरामूर्ध्वणीं च श्रीमतीं बहुपुत्रिकाम् ॥ ३१.९८ ॥ पलितां कमलाक्षीं च प्रयागो मातरो ददौ । सूपलां मधुकुम्भां च ख्यातिं दहदहां पराम् ॥ ३१.९९ ॥ प्रादात्खटकटां चान्यां सर्वपापविमोचनः । संतानिकां विकलिकां क्रमश्चत्वरवासिनीम् ॥ ३१.१०० ॥ जलेश्वरीं कुक्कुटिकां सुदामां लोहमेखलाम् । वपुष्मत्युत्मुकाक्षी च कोकनामा महाशनी । रौद्रा कर्कटिका तुण्डा श्वेततीर्थो ददौ त्विमाः ॥ ३१.१०१ ॥ एतानि भूतानि गणांश्च मातरो दृष्ट्वा महात्मा विनतातनूजः । ददौ मयूरं स्वसुतं महाजवं तथारुणस्ताम्रचूडं च पुत्रम् ॥ ३१.१०२ ॥ शक्ति हुताशोऽद्रिसुता च वस्त्रं दण्डं गुरुः सा कुटिला कमण्डलुम् । मालां हरिः शूलधरः पताकां कण्ठे च हारं मघवानुरस्तः ॥ ३१.१०३ ॥ गणैर्वृतो मातृबिरन्वयातो मयूरसंस्थो वरशक्तिपाणिः । सैन्याधिपत्ये स कृतो भवेन रराज सूर्येव महावपुष्मान् ॥ ३१.१०४ ॥ इति श्रीवामनपुराणे एकत्रिंशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । सेनापत्येऽभिषिक्तस्तु कुमारो दैवतैरथ । प्रणिपत्य भवं भक्त्या गिरिजां पावकं शुचिम् ॥ ३२.१ ॥ षट्कृत्तिकाश्च शिरसा प्रणम्य कुटिलामपि । ब्रह्माणं च नमस्कृत्य इदं वचनमब्रवीत् ॥ ३२.२ ॥ कुमार उवाच । नमोऽस्तु भवतां देवा ओं नमोऽस्तु तपोधनाः । युष्मत्प्रसादाज्जेष्यामि शत्रू महिषतारकौ ॥ ३२.३ ॥ शिशुरस्मि न जानामि वक्तुं किञ्चन देवताः । दीयतां ब्रह्मणा सार्द्धमनुज्ञ मम साम्प्रतम् ॥ ३२.४ ॥ इत्येवमुक्ते वचने कुमारेण महात्मना । मुखं निरीक्षन्ति सुराः स्रेवे विगतसाध्यमाः ॥ ३२.५ ॥ शङ्कपरोऽपि सुतस्नेहात्समुत्थाय प्रजापतिम् । आदाय दक्षिणे पाणौ स्कन्दान्तिकमुपागमत् ॥ ३२.६ ॥ अथोमा प्राह तनयं पुत्र एह्येहि शत्रुहन् । वन्दस्व चरणौ दिव्यौ विष्णोर्लोकनमस्कृतौ ॥ ३२.७ ॥ ततो विहस्याह गुहः कोऽयं मातर्वदस्व माम् । यस्यादरात्प्रणामोऽयं क्रियते मद्विधैर्जनैः ॥ ३२.८ ॥ तं माता प्राह वचनं कृते कर्मणि पद्मभूः । वक्ष्यते तव योऽयं हि महात्मा गरुडध्वजः ॥ ३२.९ ॥ केवलं त्विह मां देवस्त्वत्पिता प्राह शङ्करः । नान्यः परतरोऽस्माद्धि वयमन्ये च देहिनः ॥ ३२.१० ॥ पार्वत्या गदिते स्कन्दः प्रणिपत्य जनार्दनम् । तस्थौ कृताञ्जलिपुटस्त्वाज्ञां प्रार्थयतेऽच्युतात् ॥ ३२.११ ॥ कृताञ्जलिपुटं स्कन्दं भगवान् भूतभावनः । कृत्वा स्वस्त्ययनं देवो ह्यनुज्ञां प्रददौ ततः ॥ ३२.१२ ॥ नारद उवाच । यत्तत्स्वस्त्ययनं पुण्यं कृतवान् गरुडध्वजः । शिखिध्वजाय विप्रर्षे तन्मे व्याख्यातुमर्हसि ॥ ३२.१३ ॥ पुलस्त्य उवाच । शृणु स्वस्त्ययनं पुण्यं यत्प्राह भगवान् हरिः । स्कन्दस्य विजयार्थाय महिषस्य वधाय च ॥ ३२.१४ ॥ स्वस्ति ते कुरुतां ब्रह्म पद्मयोनी रजोगुणः । स्वस्ति चक्राङ्कितकरो विष्णुस्ते विदधत्वाजः ॥ ३२.१५ ॥ स्वस्ति ते शङ्करो भक्त्या सपत्नीको वृषध्वजः । पावकः स्वस्ति तुभ्यं च करोतु शिखिवाहन ॥ ३२.१६ ॥ दिवाकरः स्वस्ति करोतु तुभ्यं सोमः सभौमः सबुधो गुरुश्च । काव्यः सदा स्वस्ति करोतु तुभ्यं शनैश्चरः स्वस्त्ययनं करोतु ॥ ३२.१७ ॥ मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुर्वसिष्ठो भृगुरङ्गिराश्च । मृकण्डुजस्ते कुरुतां हि स्वस्ति स्वस्ति सदा सप्त महर्षयश्च ॥ ३२.१८ ॥ विश्वेश्विनौ साध्यमरुद्गणाग्नयो दिवाकराः शूलधरा महेश्वराः । यक्षाः पिशाचा वसवोऽथ किन्नराः ते स्वस्ति कुर्वन्तु सदोद्यतास्त्वमी ॥ ३२.१९ ॥ नागाः सुपर्णाः सरितः सरांसि तीर्थानि पुण्यायतनाः समुद्राः । महाबला भूतगणा गणेन्द्राः ते स्वस्ति कुर्वन्तु सदा समुद्यताः ॥ ३२.२० ॥ स्वस्ति द्विपादिकेभ्यस्ते चतुष्पादेभ्य एव च । स्वस्ति ते बहुपादेभ्यस्त्वपादेभ्योऽप्यनामयम् ॥ ३२.२१ ॥ प्राचीं दिग्रक्षतां वज्री दक्षिणां दण्डनायकः । पाशी प्रतीचीं रक्षतु लक्ष्मामशुः पातु चोत्तराम् ॥ ३२.२२ ॥ वह्निर्दक्षिमपूर्वा च कुबेरो दक्षिणापराम् । प्रतीचीमुत्तरां वायुः शिवः पूर्वोत्तरामपि ॥ ३२.२३ ॥ उवरिष्टाद्ध्रुवः शिवः पुर्वोत्तरामपि । मुसती लाङ्गली चक्री धनुष्मानन्तरेषु च ॥ ३२.२४ ॥ वाराहोऽम्बुनिधौ पातु दुर्गे पातु नृकेसरी । सामवेदध्वनिः श्रीमान् सर्वलतः पातु माधवः ॥ ३२.२५ ॥ पुलस्त्य उवाच । एवं कृतस्वस्त्ययनो गुहः शक्तिधरोऽग्रणीः । प्रणिपत्य सुरान् सर्वान् समुत्पतत भूतलात् ॥ ३२.२६ ॥ तमन्वेव गणाः सर्वे दत्ता ये मुदितैः सुरैः । अनुजग्मुः कुमारं ते कामरूपा विहङ्गमाः ॥ ३२.२७ ॥ मातरश्च तथा सर्वाः समुत्पेतुर्नभस्तलम् । समं स्कन्देन बलिना हन्तुकामा महासुरान् ॥ ३२.२८ ॥ ततः सुदीर्घमध्वानं गत्वा स्कन्दोऽब्रवीद्गणान् । भूम्यां तूर्णं महावीर्याः कुरुध्वमवतारणम् ॥ ३२.२९ ॥ गणा गुहवचः श्रुत्वा अवतीर्य महीतलम् । आरात्पतन्तस्तद्देशं नादं चक्रुर्भयङ्करम् ॥ ३२.३० ॥ तन्निनादो महीं सर्वामापूर्य च नभस्तलम् । विवेशार्णवरन्ध्रेण पातालं दानवालयम् ॥ ३२.३१ ॥ श्रुतः स महिषेणाथ तारकेम च धीमता । विरोजनेन जम्भेन कुजम्भेनासुरेण च ॥ ३२.३२ ॥ ते श्रुत्वा सहसा नादं वज्रपातोपमं दृढम् । किमेतदिति संचिन्त्य तूर्णं जग्मुस्तदान्धकम् ॥ ३२.३३ ॥ ते समेत्यान्धकेनैव समं दानवपुङ्गवाः । मन्त्रयामासुरुद्विग्नास्तं शब्दं प्रति नारद ॥ ३२.३४ ॥ मन्त्रयत्सु च दैत्येषु भूतलात्सूकराननः । पातालकेतुर्दैत्येन्द्रः संप्राप्तोऽथ रसातलम् ॥ ३२.३५ ॥ स बाणविद्धो व्यथितः कम्पमानो मुहुर्मुहुः । अब्रवीद्वचनं दीनं समभ्येत्यान्धकासुरम् ॥ ३२.३६ ॥ पातालकेतुरुवाच । गतोऽहमासं दैत्येन्द्र गालवस्याश्रमं प्रति । तं विध्वंसयितुं यत्नं समारब्धं बलान्मया ॥ ३२.३७ ॥ यावत्सूकरूपेण प्रविशामि तमाश्रमम् । न जाने तं नरं राजन् येन मे प्रहितः शरः ॥ ३२.३८ ॥ शरसंभिन्नजत्रुश्च भयात्तस्य महाजवः । प्रणष्ट आश्रमात्तस्मात्स च मां पृष्ठतोऽन्वगात् ॥ ३२.३९ ॥ तुरङ्गखुरनिर्घोषः श्रूयते परमोऽसुर । तिष्ठ तिष्ठेति वदतस्तस्य शूरस्य पृष्ठतः । तद्भयादस्मि जलधिं संप्राप्तो दक्षिणार्णवम् ॥ ३२.४० ॥ यावत्पस्यामि तत्रस्थान्नानावेषाकृतीन्नरान् । केचिद्गर्जन्ति घनवत्प्रतिगर्जन्ति चापरे ॥ ३२.४१ ॥ अन्ये चोचुर्वयं नूनं निघ्नामो महिषासुरम् । तारकं घातयामोऽद्य वदन्त्यन्ये सुतैजसः ॥ ३२.४२ ॥ तच्छ्रुत्वा सुतरां त्रासो मम जातोऽसुरेश्वर । महार्णवं परित्यज्य पतितोऽस्मि भयातुरः ॥ ३२.४३ ॥ धरण्यां विवृतं गर्तं स मामन्वपतद्बली । तद्भयात्संपरित्यज्य हिरण्यपुरमात्मनः ॥ ३२.४४ ॥ तवान्तिकमनुप्राप्तः प्रसादं कर्तुमर्हसि । तच्छ्रत्वा चान्धको वाक्यं प्राह मेघस्वनं वचः ॥ ३२.४५ ॥ न भेतव्यं त्वया तस्मात्सत्यं गोप्तास्मि दानव । महिषस्तारकश्चोभौ बाणश्च बलिनां वरः ॥ ३२.४६ ॥ अनाख्यायैव ते वीरास्त्वन्धकं महिषादयः । स्वपरिग्रहसंयुक्ता भूमिं युद्धाय निर्ययुः ॥ ३२.४७ ॥ यत्र ते दारुमाकारा गणाश्चक्रुर्महास्वनम् । तत्र दैत्याः समाजग्मुः सायुधाः सबला मुने ॥ ३२.४८ ॥ दैत्यानापततो दृष्ट्वा कार्तिकेयगणास्ततः । अभ्यद्रवन्त सहसा स चोग्रो मातृमण्डलः ॥ ३२.४९ ॥ तेषां पुरस्सरः स्थाणुः प्रगृह्य परिघं बली । निषूदयत्परबलं क्रुद्धो रुद्रः पशूनिव ॥ ३२.५० ॥ तं निघ्नन्तं महादेवं निरीक्ष्य कलशोदरः । कुठारं पाणिनादाय हन्ति सर्वान्महासुरान् ॥ ३२.५१ ॥ ज्वालामुखो भयकरः करेणादाय चासुरम् । सरथं सगजं साश्वं विस्तृते वदनेऽक्षिपत ॥ ३२.५२ ॥ दण्डकश्चापि संक्रुद्धः प्रासपाणिर्महासुरम् । सवाहनं प्रक्षिपति समुत्पाट्य महार्मवे ॥ ३२.५३ ॥ शङ्कुकर्णश्च मुसली हलेनाकृष्य दानवान् । संचूर्णयति मन्त्रीव राजानं प्रासभृद्वशी ॥ ३२.५४ ॥ खड्गचर्मधरो वीरः पुष्पदन्तो गणेश्वरः । द्विधा त्रिधा च बहुधा चक्रे दैतेयदानवान् ॥ ३२.५५ ॥ पिङ्गलो दण्डमुद्याम्य यत्र यत्र प्रधावति । तत्र तत्र प्रदृश्यन्ते राशयः शावदानवैः ॥ ३२.५६ ॥ सहस्रनयनः शूलं भ्रामयन् वै गणाग्रणीः । निजघानासुरान् वीरः सवाजिरथकुञ्जरान् ॥ ३२.५७ ॥ भीमो भीमशिलावर्षै स पुरस्सरतोऽसुरान् । निजघान यथैवेन्द्रो वज्रवृष्ट्या नगोत्तमान् ॥ ३२.५८ ॥ रौद्रः शकटचक्राक्षो गणः पञ्चशिखो बली । भ्रामयन्मुद्गरं वेगान्निजघान बलाद्रिपून् ॥ ३२.५९ ॥ गिरिभेदी तलेनैव सारोहं कुञ्जरं रणे । भस्म चक्रे महावेगो रथं च रथिना सह ॥ ३२.६० ॥ नाडीजङ्घोऽङ्घ्रिपातैश्च मुष्टिभिर्जानुनासुरान् । कीलभिर्वज्रतुल्याभिर्जघान बलवान्मुने ॥ ३२.६१ ॥ कूर्मग्रीवो ग्रीवयैव शिरमा चरणेन च । लुण्ठनेन तता दैत्यान्निजघान सवाहनान् ॥ ३२.६२ ॥ पिण्डारकस्तु तुण्डेन शृङ्गाभ्यां च कलिप्रिय । विदारयति संग्रामे दानवान् समरोद्धतान् ॥ ३२.६३ ॥ ततस्तत्सैन्यमतुलं वध्यमानं गणेश्वरैः । प्रदुद्रावाथ महिषस्तारकश्च गणाग्रणीः ॥ ३२.६४ ॥ ते हन्यमानाः प्रमथा दानवाभयां वरायुधैः । परिवार्य समन्तात्ते युयुधुः कुपितास्तदा ॥ ३२.६५ ॥ हंसास्यः पट्टिशेनाथ जघान महिषासुरम् । षोटशाक्षस्त्रिशूलेन शतशीर्षो वरासिना ॥ ३२.६६ ॥ श्रुतायुधस्तु गदया विशोको मुसलेन तु । बन्धुदत्तस्तु शूलेन मूर्ध्नि दैत्यमताडयत् ॥ ३२.६७ ॥ तथान्यैः पार्षदैर्युद्धे शूलशक्त्यृष्टिपट्टिशैः । नाकम्पत्ताड्यमानोऽपि मैनाक इव पर्वतः ॥ ३२.६८ ॥ तारको भद्रकाल्या च तथोलूखलया रणे । वध्यते चैकचूडाया दार्यते परमायुधैः ॥ ३२.६९ ॥ तौ ताड्यमानौ प्रमथैर्मातृभिश्च महासुरौ । न क्षोभं जग्मतुर्विरौ क्षोभयन्तौ गणानपि ॥ ३२.७० ॥ महिषो गदया तूर्णं प्रहारैः प्रमथानथ । पराजित्य पराधावत्कुमारं प्रति सायुधः ॥ ३२.७१ ॥ तमापतन्तं महिषं सुचक्राक्षो निरीक्ष्य हि । चक्रमुद्यम्य संक्रुद्धो रुरोध दनुनन्दनम् ॥ ३२.७२ ॥ गदाचक्राङ्कितकरौ गणासुरमहारथै । अयुध्येतां तद ब्रह्मन् लघु चित्रं च सुष्ठु च ॥ ३२.७३ ॥ गदां मुमोच महिषः समाविध्य गणाय तु । सुचक्राक्षो निजं चक्रमुत्ससर्जासुरं प्रति ॥ ३२.७४ ॥ गदां छित्त्वा सुतीक्ष्णारं चक्रं महिषमाद्रवत् । तत उच्चुक्रुशुर्दैत्या हा हतो महिषस्तिवति ॥ ३२.७५ ॥ तच्छ्रुत्वाभ्यद्रवद्बाणः प्रासमाविध्य वेगवान् । जघान चक्रं रक्ताक्षः पञ्जमुष्टिशतेन हि ॥ ३२.७६ ॥ पञ्चबाहुशतेनापि सुचक्राक्षं बबन्ध सः । बलवानपि बाणेन निष्प्रयत्नगतिः कृतः ॥ ३२.७७ ॥ सुचक्राक्षं सचक्रं हि बद्धं बाणासुरेण हि । दृष्ट्वाद्रवद्गदापाणिर्मकराक्षो महाबलः ॥ ३२.७८ ॥ गदया मूर्ध्नि बाणं हि निजघान महाबलः । वेदनार्त्तो मुमोचाथ सुचक्राक्षं महासुरः । स चापि तेन संयुक्तो व्रीडायुक्तो महामनाः ॥ ३२.७९ ॥ स संग्रामं परित्यज्य सालिग्राममुपाययौ । बाणोऽपि मकाराक्षेण ताडितोऽभूत्पराङ्मुखः ॥ ३२.८० ॥ प्रभज्यत बलं सर्वं दैत्यानां सुरतापस । ततः स्वबलमीक्ष्यैव प्रभग्नं तारको बली । खड्गोद्यतकरो दैत्यः प्रदुद्राव गणेश्वरान् ॥ ३२.८१ ॥ ततस्तु तेनाप्रतिमेन सासिना ते हंसवक्त्रप्रमुखा गणेश्वराः । समातरश्चापि पराजिता रणे स्कन्दं भयार्त्ताः शरणं प्रपेदिरे ॥ ३२.८२ ॥ भगनान् गणान् वीक्ष्य महेश्वरात्मजस्तं तारकं सासिनमापतन्तम् । दृष्ट्वैव शक्त्या हृदये बिभेद स भिन्नमर्मा न्यपतत्पृथिव्याम् ॥ ३२.८३ ॥ तस्मिन्हते भ्रातरि भग्नदर्पो भयातुरोऽभून्महिषो महर्षे । संत्यज्य संग्रामशिरो दुरात्मा जगाम शैलं स दिमाचलाख्यम् ॥ ३२.८४ ॥ बाणोऽपि वीरे निहतेऽथ तारके गते हिमाद्रिं महिषे भयात्ते । भयाद्विवेशोग्रमपां निधानं गर्णैर्बले वध्यति सापराधे ॥ ३२.८५ ॥ हत्वा कुमारो रणमुर्ध्नि तारकं प्रगृह्य शक्तिं महता जवेन । मयूरमारुह्य शिखण्डमण्डितं ययौ निहन्तुं महिषासुरस्य ॥ ३२.८६ ॥ स पृष्ठतः प्रेक्ष्य शिकण्डिकेतनं समापतन्तं वरशक्तिपाणिनम् । कैलासमुत्सृज्य हिमाचलं तथा क्रौञ्चं समभ्येत्व गुहं विवेश ॥ ३२.८७ ॥ दैत्यं प्रविष्टं स पिनाकिसूनुर्जुगोप यत्नाद्भगवान् सुहोऽपि । स्वबन्धुहन्ता भविता कथं त्वहं संचिन्तयन्नेव ततः स्थितोऽभूत् ॥ ३२.८८ ॥ ततोऽभ्यगात्पुष्करसंभवस्तु हरो मुरारिस्त्रिदसेश्वरश्च । अभ्येत्य चोचुर्महिषं सशैलं भिन्दस्व शक्त्या कुरु देवकार्यम् ॥ ३२.८९ ॥ तत्कार्तिकेयः प्रियमेव तथ्यं श्रुत्वा वचः प्राह सुरान् विहस्य । कथं हि मातामहनप्तृकं वधे स्वभ्रातरं भ्रातृसुतं च मातुः ॥ ३२.९० ॥ एषा श्रुतिश्चापि पुरातनी किल गायन्ति यां वेदविदो महर्षयः । कृत्वा च यस्या मतमुत्तमायाः स्वर्गं व्रजन्ति त्वतिपापिनोऽपि ॥ ३२.९१ ॥ गां ब्राह्मणं वृद्धमथाप्तवाक्यं बालं स्वबन्धुं ललनामदुष्टाम् । कृतापराधा अपि नैव वध्या आचार्यमुख्या गुरवस्तथैव ॥ ३२.९२ ॥ एवं जानन् धर्ममग्र्यं सुरेन्द्रा नाहं हन्यां भातरं मातुलेयम् । यदा दैत्यो निर्गामिष्यद्गुहान्तः तदा शक्त्या घातायिष्यामि शत्रुम् ॥ ३२.९३ ॥ श्रुत्वा कुमारवचनं भगवान्महर्षे कृत्वा मतिं स्वहृदये गुहमाह शक्रः । मत्तो भवान्न मतिमान् वदसे किमर्थं वाक्यं शृणुष्व हरिणा गदितं हि पूर्वम् ॥ ३२.९४ ॥ नैकस्यार्थे बहून् हन्यादिति शास्त्रेषु निश्चयः । एकं हन्याद्बहुभ्योर्ऽथे न पापी तेन जायते । ॥ ३२.९५ एतच्छ्रुत्वा मया पूर्वं समयस्थेन चाग्निज । निहतो नमुचिः पूर्वं सोदरोऽपि ममानुजः ॥ ३२.९६ ॥ तस्मात्बहूनामर्थाय सक्रोञ्चं महिषासुरम् । घातयस्व पराक्रम्य शक्त्या पावकदत्तया ॥ ३२.९७ ॥ पुरन्दरवचः श्रुत्वा क्रोधादारक्तलोचनः । कुमारः प्राह वचनं कम्पमानः शतक्रतुम् ॥ ३२.९८ ॥ मूढ किं ते बलं बाह्वोः शारीरं चापि वृत्रहन् । येनाधिक्षिपसे मां त्वं ध्रुवं न मतिमानसि ॥ ३२.९९ ॥ तमुवाच सहस्राक्षस्त्वत्तोऽहं बलवान् गुह । तं गृहः प्राह एह्येहि युद्ध्यस्व बलवान् यदि ॥ ३२.१०० ॥ शक्रः प्राहाथ बलवान् ज्ञायते कृत्तिकासुत । प्रदक्षिणं शीघ्रतरं यः कुर्यात्क्रौञ्चमेव हि ॥ ३२.१०१ ॥ श्रुत्वा तद्वचनं स्कन्दो मयूरं प्रोह्य वेगवान् । प्रदक्षिणं पादचारी कर्त्तु तूर्णतरोऽब्यगात् ॥ ३२.१०२ ॥ शक्रोऽवतीर्य नागेन्द्रात्पादेनाथ प्रदक्षिणम् । कृत्वा तस्थौगुहोऽभ्येत्य मूढङ्किं संस्थितो भवान् ॥ ३२.१०३ ॥ तमिन्द्रः प्राह कौटिल्यं मया पूर्वं प्रदक्षिणः । कृतोऽस्य न त्वया पूर्वं कुमारः शक्रमब्रवीत् ॥ ३२.१०४ ॥ मया पूर्वं मया पूर्वं विवदनतौ परस्परम् । प्राप्योचतुर्महेशाय ब्रह्मणे माधवाय च ॥ ३२.१०५ ॥ अथोवाच हरिः स्कन्दं प्रष्टुमर्हसि पर्वतम् । योऽयं वचक्ष्यति पूर्वं क्रौञ्चमभ्येत्य पावकिः । पप्रच्छाद्रिमिदं केन कृतं पूर्वं प्रदक्षिणम् ॥ ३२.१०६ ॥ तन्माधववचः श्रुत्वा क्रौञ्चमभ्येत्य पावकिः । पप्रच्छाद्रिमिदं केन कृतं पूर्वं प्रदक्षिणम् ॥ ३२.१०७ ॥ इत्येवमुक्तः क्रौञ्चस्तु प्राह पूर्वं महामतिः । चकार गोत्रभित्पश्चात्त्वाया कृतमथो गुह ॥ ३२.१०८ ॥ एवं ब्रुवन्तं क्रौञ्चं स क्रोधात्प्रस्फुरिताधरः । बिभेद शक्त्या कौटिल्यो महिषेण समं तदा ॥ ३२.१०९ ॥ तस्मिन्हतेऽथ तनये बलवान् सुनाभो वेगेन भूमिधरपार्थिवस्तथागात् । ब्रह्मेन्द्ररुद्रश्विवसुप्रधाना जग्मुर्दिवं महिषमीक्ष्य हतं गुहेन ॥ ३२.११० ॥ स्वमातुलं बीक्ष्य बली कुमारः शक्तिं समुत्पाट्य निहन्तुकामः । निवारितश्चक्रधरेण वेगादालिङ्ग्य दोर्भ्या गुरुरित्युदीर्य ॥ ३२.१११ ॥ सुनाभमभ्येत्य हिमाचलस्तु प्रगृह्य हस्तेऽन्यत एव नीतवान् । हरिः कुमारं सशिखण्डिनं नयद्वेगाद्दिवं पन्नगशत्रुपत्रः ॥ ३२.११२ ॥ ततो गुहः प्राह हरिं सुरेशं मोहेन नष्टो भगवन् विवेकः । भ्राता मया मातुलजो निरस्तस्तस्मात्करिष्ये स्वशरीरशोषम् ॥ ३२.११३ ॥ तं प्राह विष्णुर्व्रज तीर्थवर्थं पृथूदकं पापतरोः कुठारम् । स्नात्वौघवत्यां हरमीक्ष्य भक्त्या भविष्यसे सूर्यसमप्रभावः ॥ ३२.११४ ॥ इत्येवमुक्तो हरिणा कुमारस्त्वभ्येत्य तीर्थं प्रसमीक्ष्य शंभुम् । स्नात्वार्च्य देवान् स रविप्रकाशो जगाम शैलं सदनं हरस्य ॥ ३२.११५ ॥ सुचक्रनेत्रोऽपि महाश्रमे तपश्चचार शैले पवनाशनस्तु । आराधयानो वृषभध्वजं तदा हरोऽस्य तुष्टो वरदो बभूव ॥ ३२.११६ ॥ देवात्स वव्रे वरमायुधार्थे चक्रं तथा वै रिपुबाहुषण्डम् । छिन्द्याद्यथा त्वप्रतिमं करेण बाणस्य तन्मे भगवान् ददातु ॥ ३२.११७ ॥ तमाह शंभुर्व्रज दत्तमेतद्वरं हि चक्रस्य तवायुधास्य । बाणस्य तद्बाहुबलं प्रवृद्धं संछेत्स्यते नात्र विचारणास्ति ॥ ३२.११८ ॥ वरे प्रदत्ते त्रिपुरान्तकेन गणेश्वरः स्कन्दमुपाजगाम । निपत्य पादौ प्रतिवन्द्य हृष्टो निवेदयामास हरप्रसादम् ॥ ३२.११९ ॥ एवं तवोक्तं महिषासुरस्य वधं त्रिनेत्रात्मजशक्तिभेदात् । क्रौञ्चस्य मृत्युः शरणागतार्थं पापापहं पुण्यविवर्धनं च ॥ ३२.१२० ॥ इति श्रीवामनपुराणे द्वात्रिंशोऽध्यायः ________________________________________________________________________ नारद उवाच । योऽसौ मन्त्रयतां प्राप्तो दैत्यानां शरताडितः । स केन वद निर्भिन्नः शरेण दितिजेश्वरः ॥ ३३.१ ॥ पुलस्त्य उवाच । आसीन्नृपो रघुकुले रिपुजिन्महर्षे तस्यात्मजो गुमगणैकनिर्धिर्महात्मा । सूरोऽसैन्यदमनो बलवान् सुहृत्सु विप्रान्धदीनकृपणेषु समानभावः ॥ ३३.२ ॥ ऋतध्वजो नाम महान्महीयान् स गालवार्थे तुरगाधिपूढः । पातालकेतुं निजघान पृष्ठे बाणेन चन्द्रार्धनिभेन वेगात् ॥ ३३.३ ॥ नारद उवाच् । किमर्थं गालवस्यासौ साधयामास सत्तमः । येनासौ पत्रिणा दैत्यं निजघान नृपात्मजः ॥ ३३.४ ॥ पुलस्त्य उवाच । पुरा तपस्तप्यति गालवर्षिर्महाश्रमे स्वे सततं निविष्टः । पपातालकेतुस्तपसोऽस्य विघ्नं करोति मौढ्यात्स समाधिभङ्गम् ॥ ३३.५ ॥ न चेष्यतऽसौ तपसो व्ययं हि शक्तोऽपि कर्त्तु त्वथ भस्मसात्तम् । आकाशमीक्ष्याथ स दीर्घमुष्णं मुमोच निःश्वासमनुत्तमं हि ॥ ३३.६ ॥ ततोऽम्बराद्वाजिवरः पपात बभूव वाणी त्वशरीरिणी च । असौ तुरङ्गो बलवान् क्रमेत अह्ना सहस्राणि तु योजनानाम् ॥ ३३.७ ॥ स तं प्रगृह्यश्ववरं नरेन्द्रं ऋतध्वजं योज्य तदात्तशस्त्रम् । स्थितस्तपस्येव ततो महर्षिर्दैत्यं समेत्य विशिखैर्नृपजो बिभेद ॥ ३३.८ ॥ केनाम्बरतलाद्वाजी निसृष्टो वद सुव्रत । वाक्कस्यादेहिनी जाता परं कौतूहलं मम ॥ ३३.९ ॥ पुलस्त्य उवाच । विश्ववसुर्नाम महेन्द्रगायनो गन्धर्वराजो बलवान् यशस्वी । निसृष्टवान् भूवलये तुरङ्गं ऋतध्वजस्यैव सुतार्थमाशु ॥ ३३.१० ॥ नारद उवाच । कोर्ऽथो गन्धर्वराजस्य येनाप्रैषीन्महाजवम् । राज्ञः कुवलयाश्वस्य कोर्ऽथो नृपसुतस्य च ॥ ३३.११ ॥ पुलस्त्य उवाच । विश्ववसोः शीलगुणोपपन्ना आसीत्पुरन्ध्रीषु वरा त्रिलोके । लावण्यराशिः शशिकान्तितुल्या मदालसा नाम मदालसैव ॥ ३३.१२ ॥ तां नन्दने देवरिपुस्तरस्वी संक्रीडतीं रूपवतीं ददर्श । पातालकेतुस्तु जहार तन्वीं तस्यार्थतः सोऽश्ववरः प्रदत्तः ॥ ३३.१३ ॥ हत्वा च दैत्यं नृपतेस्तनूजो लब्ध्वा वरोरूमपि संस्थितोऽभूत् । दृष्टो यथा देवपतिर्महेन्द्रः शच्या तथा राजसुतो मृगाक्ष्या ॥ ३३.१४ ॥ नारद उवाच । एवं निरस्ते महिषे तारके च महासुरे । हिरण्याक्षसुतो धीमान् किमचेष्टत वै पुनः ॥ ३३.१५ ॥ पुलस्त्य उवाच । तारकं निहतं दृष्ट्वा महिषं च रणेऽन्धकः । क्रोधं चक्रे सुदुर्बुद्धिर्देवानां देवसैन्यहा ॥ ३३.१६ ॥ ततः स्वल्पपरीवारः प्रगृह्य परिघं करे । निर्जगामाथ पातालाद्विचचार च मेदिनीम ॥ ३३.१७ ॥ ततो विचरता तेन मन्दरे चारुकन्दरे । दृष्टा गौरी च गिरिजा सखीमध्ये स्थिताशुभा ॥ ३३.१८ ॥ ततोऽभूत्कामबाणार्त्तः सहसैवान्धकोऽसुरः । तां दृष्ट्वा चारुसर्वाङ्गीं गिरिराजसुतां वने ॥ ३३.१९ ॥ अथोवाचासुरो मूढो वचनं मन्मथान्धकः । कस्येयं चारुसर्वाङ्गी वने चरति सुन्दरी ॥ ३३.२० ॥ इयं यदि भवेन्नैव ममान्तःपुरवासिनि । तन्मदीयेन जीवेन क्रियते निष्फलेन किम् ॥ ३३.२१ ॥ यदस्यास्तनुमध्याया न पिरष्वङ्गवानहम् । अतो धिङ्मम रूपेण किं स्थिरेण प्रयोजनम् ॥ ३३.२२ ॥ स मे बन्धुः स सचिवः स भ्राता साम्परायिकः । यो मामसितकेशां तां योजयेन्मृगलोचनाम् ॥ ३३.२३ ॥ इत्थं वदति दैत्येन्द्रे प्रह्लादो बुद्धिसागरः । पिधाय कर्णो हस्ताभ्यां शिरःकम्पं वचोऽब्रवीत् ॥ ३३.२४ ॥ मा मैवं वद दैत्येन्द्र जगतो जननी त्वियम् । लोकनाथस्य भार्योयं शङ्करस्य त्रिशूलिनः ॥ ३३.२५ ॥ मा कुरुष्व सुदुर्बुद्धिं सद्यः कुलविनाशिनीम् । भवतः परदारोयं मा निमज्ज रसातले ॥ ३३.२६ ॥ सत्सु कुत्सितमेवं हि असत्स्वपि हि कुत्सितम् । शत्रवस्ते प्रकुर्वन्तु परदारावगाहनम् ॥ ३३.२७ ॥ किञ्चित्त्वया न श्रुतं दैत्यनाथ गीतं श्लोकं गाधिना पार्थिवेन । दृष्ट्वा सैन्यं विप्रधेनुप्रसक्तं तथ्यं पथ्यं सर्वलोके हितं च ॥ ३३.२८ ॥ वरं प्राणास्त्याज्या न च पिशुनवादेष्वभिरतिः वरं मौनं कार्यं न च वचनमुक्तं यदनृतम् । वरं क्लीबैर्भाव्यं न च परकगलत्राभिगमनं वरं भिक्षार्थित्वं न च परधनास्वादमसकृत् ॥ ३३.२९ ॥ स प्रह्लादवचः श्रुत्वा क्रोदान्धो मदनार्दितः । इयं सा शत्रुजननीत्येवमुक्त्वा प्रदुद्रुवे ॥ ३३.३० ॥ ततोऽन्वधावन् दैतेया यन्त्रमुक्ता इवोपलाः । तान् रुरोध बलान्नन्दी वज्रोद्यतकरोऽव्ययः ॥ ३३.३१ ॥ मयतारपुरोगास्ते वारिता द्रावितास्तथा । कुलिशोनाहतास्तूर्णं जग्मुर्भीता दिशो दश ॥ ३३.३२ ॥ तानर्दितान् रणे दृष्ट्वा नन्दिनान्धकदानवः । परिघेण समाहत्य पातयामास नन्दिनम् ॥ ३३.३३ ॥ शैलादिं पतितं दृष्ट्वा धावमानं तथान्धकम् । शतरूपाभवद्गौरी भयात्तस्य दुरात्मनः ॥ ३३.३४ ॥ ततः स देवीगणमध्यसंस्थितः परिभ्रमन्न भाति महासुरेन्द्रः । यथा वने मत्तकरी परिभ्रमन् करेणुमध्ये मदलोलदृष्टिः ॥ ३३.३५ ॥ न पिरज्ञातवांस्तत्र का तु सा गिरिकन्यका । नात्राश्चर्यं न पश्यन्ति चत्वारोऽमी सदैव हि ॥ ३३.३६ ॥ न पश्यतीह जात्यन्धो रागान्धोऽपि न पश्यति । न पश्यति मदोन्मत्तो लोभाक्तान्तो न पश्यति । सोऽपश्यमानो गिरिजां पश्यन्नपि तदान्धकः ॥ ३३.३७ ॥ प्रहारं नाददत्तासां युवत्य इति चिन्तयन् । ततो देव्या स दुष्टात्मा शतवर्या निराकृतः ॥ ३३.३८ ॥ कुट्टितः प्रवरैः शस्त्रैर्निपपात महीतले । वीक्ष्यान्धकं निपतितं शतरूपा विभावरी ॥ ३३.३९ ॥ तस्मात्स्थानादपाक्रम्य गतान्तर्धानमम्बिका । पतितं चान्धकं दृष्ट्वा दैत्यदानवयूथपाः ॥ ३३.४० ॥ कुर्वान्तः सुमहाशब्दं प्राद्रवन्त रणार्थिनः । तेषामापततां शब्दं श्रुत्वा तस्थौ गणेश्वरः ॥ ३३.४१ ॥ आदाय वज्रं बलवान्मघवानिव गणेश्वरः ॥ ३३.४२ ॥ सम्भ्येत्याम्बिकां दृष्ट्वा ववन्दे चरणौ शुभौ । देवी च ता निजा मूर्तिः प्राह गच्छध्वमिच्छया ॥ ३३.४३ ॥ विहरध्वं महीपृष्ठे पूज्यमाना नरैरिह । वसतिर्भवतीनां च उद्यानेषु वनेषु च ॥ ३३.४४ ॥ वनस्पतिषु वृक्षेषु गच्छध्वं प्रणिपत्याम्बिकां क्रमात् ॥ ३३.४५ ॥ दक्षु सवासु जग्मुस्ताः स्तूयमानाश्च किन्नरैः । अन्धकोऽपि स्मृतिं लब्ध्वा अपश्यन्नद्रिनन्दिनीम् । स्वबलं निर्जितं दृष्ट्वा ततः पातालमाद्रवात् ॥ ३३.४६ ॥ ततो दुरात्मा स तदान्धको मुने पातालमभ्येत्य दिवा न भुङ्क्ते । रात्रौ न शेते मदनेषुताडितो गौरीं स्मरन्कामबलाभिपन्नः ॥ ३३.४७ ॥ इति श्रीवाम्नपुराणे त्रयस्त्रिंशोंऽध्यायः ________________________________________________________________________ नारद उवाच । क्व गतः शङ्करो ह्यासीद्येनाम्बा नन्दिना सह । अनधकं योधयामास एतन्मे वक्तुमर्हसि ॥ ३४.१ ॥ पुलस्त्य उवाच । यदा वर्षसहस्रं तु महामोहे स्थितोऽभत् । तदाप्रभृति निस्तेजाः क्षीणवीर्यः प्रदृश्यते ॥ ३४.२ ॥ स्वमात्मानं निरीक्ष्याथ निस्तेजोङ्गं महेश्वरः । तपोर्थाय तथा चक्रे मतिं मतिमतां वरः ॥ ३४.३ ॥ स महाव्रतमुत्पाद्य समाश्वास्याम्बिकां विभुः । शैलादिं स्थाप्य गोप्तारं विचचार महीतलम् ॥ ३४.४ ॥ महामुद्रार्पितग्रीवो महाहिकुतकुण्डलः । धारयाणः कटीदेशे महाशङ्खस्य मेखलाम् ॥ ३४.५ ॥ कपालं दक्षिणे हस्ते सव्ये गृह्य कमण्डलुम् । एकाहवासी वृक्षे हि शैलसानुनदीष्वटन् ॥ ३४.६ ॥ स्थानं त्रैलोक्यमास्थाय मूलाहारोऽम्बुभोजनः । वाय्वाहारस्तदा तस्थौ नववरिषशतं क्रमात् ॥ ३४.७ ॥ ततो वीटां सुखे क्षिप्य निरुच्छ्वासोऽभवद्यतिः । विस्तृते हिमवत्पुष्ठे रम्ये समशिलातले ॥ ३४.८ ॥ ततो वीटा विदार्यैव कपालं परमेष्ठनः । सार्चिष्मती जटामध्यान्निषण्णा धरणीतले ॥ ३४.९ ॥ वीटया तु पतन्त्याद्रिर्दारितः क्ष्मासमोऽभवत् । जातस्तीर्थवरः पुम्यः केदार इति विश्रुतः ॥ ३४.१० ॥ ततो हरो वरं प्रादात्केदाराय वृषध्वजः । पुण्यवृद्धिकरं ब्रह्मन् पापघ्नं मोक्षसाधनम् ॥ ३४.११ ॥ ये जलं तावके तीर्थे पीत्वा संयमिनो नराः ॥ ३४.१२ ॥ षण्मासाद्धारयिष्न्ति निवृत्ताः परपाकतः । तेषां हृत्पङ्कजेष्वेव मल्लिङ्गं भविता ध्रुवम् ॥ ३४.१३ ॥ न चास्य पापाभिरतिर्भविष्यति कदाचन । पितॄणामक्षयं श्राद्धं भविष्यति न संशयः ॥ ३४.१४ ॥ स्नानदानतपांसीह होमजप्यादिकाः क्रियाः । भविष्यन्त्यक्षया नॄणां मृतानामपुनर्भवः ॥ ३४.१५ ॥ एतद्वरं हरात्तीर्थं प्राप्य पुष्णाति देवताः । पुनाति पुंसां केदारस्त्रिनेत्रवचनं यथा ॥ ३४.१६ ॥ केदाराय वरं दत्त्वा जगम त्वरितो हरः । स्नातुं भानुसुतां देवीं कालिन्दीं पापनाशिनीम् ॥ ३४.१७ ॥ तत्र स्नात्वा शुचिर्भूत्वा जगामाथ सरस्वतीम् । वृतां तीर्थशतैः पुण्यैः प्लक्षजां पापनाशिनीम् ॥ ३४.१८ ॥ अवतीर्मस्ततः स्नातुं निमग्नश्च महाम्भसि । द्रुपदां नाम गायत्रीं जजापान्तर्जले हरः ॥ ३४.१९ ॥ निमग्ने शङ्करे देव्यां सरस्वत्यां कलिप्रिय । साग्राः संवत्सरो जातो न चोन्मज्जत ईश्वरः ॥ ३४.२० ॥ एतस्मिन्नन्तरे ब्रह्मन् भुवनाः सप्त सार्णवाः । चेलुः पेतुर्धरण्यां च नक्षत्रास्तारकैः सह ॥ ३४.२१ ॥ आसनेभ्यः प्रचलिता देवाः शक्रपुरोगमाः । स्वस्त्यस्तु लोकेभ्य इति जपन्तः परमर्षयः ॥ ३४.२२ ॥ ततः क्षुब्धेषु लोकेषु देवा ब्रह्माणमागमन् । दृष्ट्वोचुः किमिदं लोकाः क्षुब्धाः संशयमागताः ॥ ३४.२३ ॥ तानाह पद्मसंभूतो नैतद्वेद्मि च कारणम् । तदागच्छत वो युक्तं द्रष्टुं चक्रगदाधरम् ॥ ३४.२४ ॥ पितामहेनैवमुक्ता देवाः शक्रषुरोगमाः । पितामहं पुरस्कृत्य मुरारिसदनं गताः ॥ ३४.२५ ॥ नारद उवाच । कोऽसौ सुरारिर्देवर्षे देवो यक्षो नु किन्नरः । दैत्यो राक्षसो वापि पार्थिवो वा तदुच्यताम् ॥ ३४.२६ ॥ पुलस्त्य उवाच । योऽसौ मुरारिर्देवर्षे देवो यक्षो नु किन्नरः । दैत्यो राक्षसो वापि पार्थिवो वा तदुच्यताम् ॥ ३४.२७ ॥ नारद उवाच । यौऽसौ मुर इति ख्यातः कस्य पुत्रः स गीयते । कथं च नहतः संख्ये विष्णुना तद्वदस्व मे ॥ ३४.२८ ॥ पुलस्त्य उवाच । श्रुयतां कथयिष्यामि मुरासुरनिबर्हणम् । विचित्रमिदमाख्यानं पुण्यं पापप्रणाशनम् ॥ ३४.२९ ॥ कश्यपस्यौरसः पुत्रो मुरो नाम दनुद्भवः । स ददर्श रणे शस्तान् दितिपुत्रान् सुरोत्तमैः ॥ ३४.३० ॥ ततः स मरणाद्भीतस्तप्त्वा वर्षगणान्बहून् । आराधयामास विभुं ब्रह्माणमपराजितम् ॥ ३४.३१ ॥ ततोऽस्य तुष्टो वरदः प्राह वत्स वरं वृणु । स च वव्रे वरं दैत्यो वरमेनं पितामहात् ॥ ३४.३२ ॥ यं यं करतलेनाहं स्पृशेयं समरे विभो । स स मद्धस्तसंस्पृष्टस्त्वमरोऽपि मरत्वतः ॥ ३४.३३ ॥ बाढमित्याह भगवान् ब्रह्म लोकपितामहः । ततोऽभ्यागान्महातेजा मुरः सुरगिरिं बली ॥ ३४.३४ ॥ समेत्याह्वयते देवं यक्षं किन्नरमेव वा । न कश्चिद्युयुधे तेन समं दैत्येन नारद ॥ ३४.३५ ॥ ततोऽमरावतीं ऋद्धः स गत्वा शक्रमाह्वयत् । न चास्य सह योद्धुं वै मतिं चक्रे पुरन्दरः ॥ ३४.३६ ॥ ततः स करमुद्यम्य प्रविवेशामरावतीम् । प्रविशन्तं न तं कश्चिन्निवारयितुमुत्सहेत् ॥ ३४.३७ ॥ स गत्वा शक्रसदनं प्रोवाचेन्द्रं मुरस्तदा । देहि युद्धं सहस्राक्ष नो चेत्स्वर्गं परित्यज ॥ ३४.३८ ॥ इत्येवमुक्तो मुरुणा ब्रह्मन् हरिहयस्तदा । स्वर्गराज्यं परित्यज्य भूचरः समजायत ॥ ३४.३९ ॥ ततो गजेन्द्रकुलिशौ हृतौ शक्रस्य शत्रुणा । सकलत्रो महातेजाः सह देवैः सुतेन च ॥ ३४.४० ॥ कालिन्दाया दक्षिमे कूले निवेश्य स्वपुरं स्थितः । मुरुश्चापि महाभोगान् बुभुजे स्वर्गसंस्थितः ॥ ३४.४१ ॥ दानवाश्चापरे रौद्रा मयतारपुरोगमाः । मुरमासाद्य मोदन्ते स्वर्गे सुकुतिनो यथा ॥ ३४.४२ ॥ स कदाचिन्महीपृष्ठं समायातो महासुरः । एकाकी कुञ्जरारूढं सरयूं निम्नगां प्रति ॥ ३४.४३ ॥ स सरय्वास्तटे वीरं राजानं सूर्यवंशजम् । ददृशो रघुनामानं दीक्षितं यज्ञकर्मणि ॥ ३४.४४ ॥ तमुपोत्याव्रवीद्दैत्यो युद्धं मे दीयतामिति । नो चेन्निवर्ततां यज्ञो नेष्टव्या देवतास्त्वया ॥ ३४.४५ ॥ तमुपेत्य महातेजा मित्रावरुमसंभवः । प्रोवाच बुद्धिमान् ब्रह्मन् वसिष्ठस्तपतां वरः ॥ ३४.४६ ॥ किं ते जितैर्नरैर्दैत्य अजिताननुशासय । प्रहर्तुमिच्छसि यदि तं निवारय चान्तकम् ॥ ३४.४७ ॥ स बली शासनं तुभ्यं न करोति महासुर । तस्मिञ्जिते हि विजितं सर्वं मन्यस्व भूतलम् ॥ ३४.४८ ॥ स तद्वसिष्ठवचनं निशम्य दनुपुङ्गवः । जगाम धर्मराजानं विजेतुं दण्डपाणिनम् ॥ ३४.४९ ॥ तमायान्तं यमः श्रुत्वा मत्वावध्यं च संयुगे । स समारुह्य महिषं केशवान्तिकमागमत् ॥ ३४.५० ॥ समेत्य चाभिवाद्यैनं प्रोवाच मुरचेष्टितम् । स चाह गच्छ मामद्य प्रेपयस्व महासुरम् ॥ ३४.५१ ॥ स वासुदेववचनं श्रुत्वाभ्यागात्त्वरान्वितः । एतस्मिन्नन्तरे दैत्यः संप्राप्तो नगरीं मुरः ॥ ३४.५२ ॥ तमागतं यमः प्राह किं मुरो कर्त्तुमिच्छसि । वदस्व वचनं कर्त्ता त्वदीयं दानवेश्वर ॥ ३४.५३ ॥ मुरुरुवाच । यम प्रजासंयमानन्निवृत्तिं कर्त्तुमर्हसि । नो चेत्तवाद्य छित्त्वाहं मूर्धानं पातये भुवि ॥ ३४.५४ ॥ तमाह धर्मराड्ब्रह्मन् यदि मां संयमाद्भवान् । गोपायति मुरो सत्यं करिष्ये वचनं तव्छ । ३४.५५ मुरस्तमाह भवतः कः संयन्ता वदस्व माम । अहमेन पराजित्य वारयामि न संशयः ॥ ३४.५६ ॥ यमस्तं प्राहं मां विष्णुर्देवश्चक्रगदाधरः । श्वेतद्वीपनिवासी यः स मां संयमतेऽव्ययः ॥ ३४.५७ ॥ तमाह दैत्यशार्दूलः क्वासौ वसति दुर्जयः । स्वयं तत्र गमिष्यामि तस्य संयमनोद्यतः ॥ ३४.५८ ॥ तमुवाच यमो गच्छ क्षीरोदं नाम सागरम् । तत्रास्ते भगवान् विष्णुर्लोकनाथो जगन्मयः ॥ ३४.५९ ॥ मुरस्तद्वाक्यमाकर्ण्य प्राह गच्छामि केशवम् । किं तु त्वया न तावद्धि संयम्या धर्म मानवाः ॥ ३४.६० ॥ स प्राह गच्छ त्वं तावत्प्रवर्तिष्ये जयं प्रति । संयन्तुर्वा यथा स्याद्धि ततो युद्धं समाचर ॥ ३४.६१ ॥ इत्येवामुक्त्वा वचनं दुग्धाब्धिमगमन्मुरः । यत्रास्ते शेषपर्यङ्के चतुर्मूर्तिर्जनार्दनः ॥ ३४.६२ ॥ नारद उवाच । चतुर्मूर्त्तिः कथं विष्णुरेक एव निगद्यते । सर्वगत्वात्कथमपि अव्यक्तत्वाच्च तद्वद ॥ ३४.६३ ॥ पुलस्त्य उवाच । अव्यक्तः सर्वगोऽपीह एक एव महामुने । चतुर्मूर्तिर्जगन्नाथो यता ब्रह्मंस्तथा शृणु ॥ ३४.६४ ॥ अप्रतर्क्यमनिर्देश्यं शुक्लं शान्तं परं पदम् । वासुदेवाख्यमाव्यक्तं स्मृतं द्वादशपत्रकम् ॥ ३४.६५ ॥ नारद उवाच । कथं शुक्लं कथं शान्तमप्रतर्क्यमनिन्दितम् । कान्यस्य द्वादशैवोक्ता पत्रका तानि मे वद ॥ ३४.६६ ॥ पुलस्त्य उवाच । शृणुष्व गुह्यं परमं परमेष्ठिप्रभाषितम् । श्रतं सनत्कुमारेम तेनाख्यातं च तन्मम ॥ ३४.६७ ॥ नारद उवाच । कोऽयं सनत्कुमारेति यस्योक्तं ब्रह्मणा स्वयम् । तवापि तेन गदितं वद मामनुपूर्वशः ॥ ३४.६८ ॥ पुलस्त्य उवाच् । धर्मस्य भार्याहिंसाख्या तस्यां पुत्रचतुष्टयम् । संजातं मुनिसार्दुल योगशास्त्रविचारकम् ॥ ३४.६९ ॥ ज्येष्ठः सनत्कुमारोऽभूद्द्वितीयश्च सनातनः । तृतीयः सनको नाम चतुर्थश्च सनन्दनः ॥ ३४.७० ॥ सांख्येवेत्तारमपरं कपिलं वोढुमासुरिम् । दृष्ट्वा पञ्चशिखं श्रेष्ठं योगयुक्तं तपोनिधिम् ॥ ३४.७१ ॥ ज्ञानयोगं न ते दद्युर्ज्यायांसोऽपि कनीयसाम् । मानमुक्तं महायोगं कपिलादीनपासतः ॥ ३४.७२ ॥ सनत्कुमारश्चाभ्येत्य ब्रह्माणं कमलोद्भवम् । अपृच्छद्योगविज्ञानं तमुवाच प्रजापतिः ॥ ३४.७३ ॥ ब्रह्मोवाच । कथयिष्यामि ते साध्य यदि पुत्रत्वमिच्छसि । यस्य कस्य न वक्तव्यं तत्सत्यं नान्यथेति हि ॥ ३४.७४ ॥ सनत्कुमार उवाच् । पुत्र एवास्मि देवेश यतः शिष्योऽस्म्यहं विभो । न विसेषोऽस्ति पुत्रस्य शिष्यस्य च पितामह ॥ ३४.७५ ॥ ब्रह्मोवाच । विशेषः शिष्यपुत्राभ्यां विद्यते धर्मनन्दन । धर्मकर्मसमायोगे तथापि गदतः श्रुणु ॥ ३४.७६ ॥ पुन्नाम्नो नरकात्त्राति पुत्रस्तेनेह गीयते । सेषपापहरः शिष्य इतीयं वैदिकी श्रुतिः ॥ ३४.७७ ॥ सनत्कुमार उवाच । कोऽयं पुन्नामको देव नरकात्त्राति पुत्रकः । कस्माच्छेषं ततः पापं हरेच्छिष्यश्च तद्वद ॥ ३४.७८ ॥ ब्रह्मोवाच । एतत्पुराणं परमं महर्षे योगाङ्गयुक्तं च सदैव यच्च । तथैव चोग्रं भयहारि मानवं वदामि ते साध्य निशामयैनम् ॥ ३४.७९ ॥ इति श्रीवामनपुराणे चतुस्त्रिंशोऽध्यायः ________________________________________________________________________ ब्रह्मोवाच । परदाराभिगमनं पापीयांसोपसेवनम् । पारुष्यं सर्वभूतानां प्रथमं नरकं स्मृतम् ॥ ३५.१ ॥ फलस्तेयं महापापं फलहीनं तथाटनम् । छेदनं वृक्षजातीनां द्वितीयं नरकं स्मृतम् ॥ ३५.२ ॥ वर्ज्यादानं तथा दुष्टमवध्यवधबन्धनम् । विवादमर्थहेतूत्थं तृतीयं नरकं स्मृतम् ॥ ३५.३ ॥ भयदं सर्वसत्त्वानां भवभूति विनाशनम् । भ्रंशनं निजधर्माणां चतुर्थं नरकं स्मृतम् ॥ ३५.४ ॥ मारणं मित्रकौटिल्यं लिथ्याभिशपनं च यत् । मिष्टौकाशनमित्युक्तं पञ्चमं तु नृपाचनम् ॥ ३५.५ ॥ यन्त्रः फलादिहरणं यमनं योगनाशनम् । यानयुग्यस्य हरणं षष्ठमुक्तं नृपाचनम् ॥ ३५.६ ॥ राजभागहरं मूढं राजजायानिषेवणम् । राज्ये त्वहितकारित्वं सप्तमं निरयं स्मृतम् ॥ ३५.७ ॥ लुब्धत्वं लोलुपत्वं च लब्धधर्मार्थनाशनम् । लालासंकीर्णमेवोक्तमष्टमं नरकं स्मृतम् ॥ ३५.८ ॥ विप्रोष्यं ब्रह्महरणं ब्राह्मणानां विनिन्दनम् । विरोधं बन्धुभिश्चोक्तं नवमं नरपाचनम् ॥ ३५.९ ॥ शिष्टाचारविनाशं च शिष्टद्वेषं शिशोर्वधम् । शास्त्रस्तेयं धर्मनाशं दशमं परिकीर्तितम् ॥ ३५.१० ॥ षडङ्गनिधनं घोरं षाङ्गुण्यप्रतिषेधनम् । एकादशममेवोक्तं नरकं सद्भिरुत्तमम् ॥ ३५.११ ॥ सत्सु नित्यं सदा वैरमनाचारमसत्क्रिया । संस्कारपरिहीनत्वमिदं द्वादशमं स्मृतम् ॥ ३५.१२ ॥ हानिर्धर्मार्थकामनामपवर्गस्य हारणम् । संभेदः संविदामेतत्त्रयोदशममुच्यते ॥ ३५.१३ ॥ कृपणं धर्महीनं च यद्वर्ज्यं यच्च वह्निदम् । चतुद्र्दशममोवोक्तं नरकं तद्विगर्हितम् ॥ ३५.१४ ॥ अज्ञानं चाप्यमुयत्वमशौचमशुभावहम् । स्मृतं तत्पञ्चदशममस्त्यवचनानि च ॥ ३५.१५ ॥ आलस्यं वै षोडशममाक्रोशं च विशेषतः । सर्वस्य चाततायित्वलमावासेष्वग्निदीपनम् ॥ ३५.१६ ॥ इच्छा च परदारेषु नरकाय निगद्यते । ईर्षर्याभावश्च सत्येषु उद्धृत्तं तु विगर्हितम् ॥ ३५.१७ ॥ एतैस्तु पापैः पुरुषः पुन्नमाद्यैर्न संशयः । संयुक्तः प्रीणयेद्देवं संतत्या जगतः पतिम् ॥ ३५.१८ ॥ प्रीतः सृष्ट्या तु शुभया स पापाद्येन मुच्यते । पुंनामनरकं घोरं विनाशयति सर्वतः ॥ ३५.१९ ॥ एतस्मात्कारणात्साध्य सुतः पुत्रेति गद्यते । अतः परं प्रवक्ष्यामि शेषपापस्य लक्षणम् ॥ ३५.२० ॥ ऋमं देवर्षिभूतानां मनुष्याणां विशेषतः । पितृणां च द्विजश्रेष्ठ सर्वर्वणेषु चैकता ॥ ३५.२१ ॥ ओङ्कारादपि निर्वृत्तिः पापकार्यकृतश्च यः । मत्स्यादश्च महापापमगम्यागमनं तथा ॥ ३५.२२ ॥ घृतादिविक्रयं घोरं चण्डालादिपरिग्रहः । स्वदोषाच्छादनं पापं परदोषप्रकाशनम् ॥ ३५.२३ ॥ मत्सरित्वं वाग्दुष्टत्वं निष्टुरत्वं तथा परम् । टाकित्वं तालवादित्वं नाम्ना वाचाप्यधर्मजम् ॥ ३५.२४ ॥ दारुणत्वमधार्मिक्यं नरकावहमुच्यते । एतैश्च पापैः संयुक्तः प्रीणयेद्यदि शङ्करम् ॥ ३५.२५ ॥ ज्ञानाधिरमशेषेण शेषपापं जयेत्ततः । शारीरं वाचिकं यत्तु मानसं कायिकं तथा ॥ ३५.२६ ॥ पितृमातृकृतं यच्च कृतं यच्चाश्रितैर्नरैः । भ्रातृभिर्बान्धवैश्चापि तस्मिन् जन्मनि धर्मज ॥ ३५.२७ ॥ तत्सर्वं विलयं याति स धर्मः सुतशिष्ययोः । विपरीते भवेत्साध्य विपरीतः पदक्रमः ॥ ३५.२८ ॥ तस्मात्पुत्रश्च शिष्यश्च विधातव्यौ विपश्चिता । एतदर्थमभिध्याय शिष्याच्छ्रेष्ठतरः सुतः । सेषात्तारयते शिष्यः सर्वतोऽपि हि पुत्रकः ॥ ३५.२९ ॥ पुलस्त्य उवाच । पितामहवचः श्रुत्वा साध्यः प्राह तपोधनः । त्रिः सत्यं तव पुत्रोऽहं देव योगं वदस्व मे ॥ ३५.३० ॥ तमुवाच महायोगी त्वन्मातापिररौ यदि । दास्येते च ततः सूनुर्दायादो मेऽसि पुत्रक ॥ ३५.३१ ॥ सनत्कुमारः प्रोवाच दायादपरिकल्पना । येयं हि भवता प्रोक्ता तां मे व्याख्यातुमर्हसि ॥ ३५.३२ ॥ तदुक्तं साध्यमुख्येन वाक्यं श्रुत्वा पितामहः । प्राह प्रहस्य भगवान् क्श्रुणु वत्सेति नारद ॥ ३५.३३ ॥ ब्रह्मोवाच । औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गुढोत्पन्नोऽपविद्धश्च दायादा बान्धवास्तु षट् ॥ ३५.३४ ॥ अमीषु षट्पु पुत्रेषु ऋमपिण्डधनक्रियाः । गोत्रस्म्यं कुले वृत्तिः प्रतिष्ठ शाश्वती तथा ॥ ३५.३५ ॥ कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । स्वयेदत्तः पारशवः षडदायादबन्धवाः ॥ ३५.३६ ॥ अमीभिरृणपिण्डादिकथा नैवेह विद्यते । नामधारका एवेह न गोत्रकुलसंमताः ॥ ३५.३७ ॥ तत्तस्य वचनं श्रुत्वा ब्रह्मणः सनकाग्रजः । उवाचैषां विशेषं मे ब्रह्मन् व्याख्यातुमहसि ॥ ३५.३८ ॥ ततोऽब्रवीत्सुरपतिर्विशेषं शृणु पुत्रक । औरसो यः स्वयं जातः प्रतिबिम्बमिवात्मनः ॥ ३५.३९ ॥ क्लीबोन्मत्ते व्यसनिनि पत्यौ तस्याज्ञया तु या । भार्या ह्यनातुरा पुत्रं जनयेत्क्षेत्रजस्तु सः ॥ ३५.४० ॥ मातापितृभ्यां यो दत्तः स दत्तः परिगीयते । मित्रपुत्रं मित्रदत्तं कृत्रिमं प्राहुरुत्तमाः ॥ ३५.४१ ॥ न ज्ञायते गृहे केन जातस्त्विति स गूञकः । बाह्मतः स्वयमानीतः सोऽपविद्धः प्रकीर्तितः ॥ ३५.४२ ॥ कन्याजातस्तु कानीनः सगर्भोढः सहोकः । मूल्यैर्गृहीतः क्रीतः स्याद्द्विविधः स्यात्पुनर्भवः ॥ ३५.४३ ॥ दत्त्वैकस्य च या कन्या हृत्वान्यस्य प्रदीयते । तज्जालस्तनयो ज्ञेयो लोके पौनर्भवो मुने ॥ ३५.४४ ॥ दुर्भिक्षे व्यसने चापि येनात्मा विनिवेदितः । स स्वयन्दत्त इत्युस्तथान्यः कारणान्तरैः ॥ ३५.४५ ॥ ब्राह्मणस्य सुतः शूद्रयां जायते यस्तु सुव्रत । ऊढायां वाप्यनूढायां स पारशव उच्यते ॥ ३५.४६ ॥ एतस्मात्कारणात्पुत्र न स्वयं दातुमर्हसि । स्वमात्मानं गच्छ शीघ्रं पितरौ समुपाह्वय ॥ ३५.४७ ॥ ततःस मातापितरौ सस्मार वचनाद्विभोः । तावाजग्मतुरीशानं द्रष्टुं वै दम्पती मुने ॥ ३५.४८ ॥ धर्मोऽहिंसा च देवेशं प्रणिपत्य न्यषीदताम् । उपविष्टौ सुखासीनौ साध्यो वचनमब्रवीत् ॥ ३५.४९ ॥ सनत्कुमार उवाच । योगं जिगमिषुस्तात व्रह्माणं समचूचुदम् । स चोक्तवान्मां पुत्रार्थे तस्मात्त्वं दातुमर्हसि ॥ ३५.५० ॥ तावेवमुक्तौ पुत्रेण योगाचार्यं पितामहम् । उक्तवन्तौ प्रभोऽयं हि आवयोस्तनयस्तव ॥ ३५.५१ ॥ अद्यप्रभृत्ययं पुत्रस्तव ब्रह्मन् भविष्यति । इत्युक्त्वा जग्मतुर्सूर्ण येनैवाब्यागतौ यथा ॥ ३५.५२ ॥ पितामहोऽपि तं पुत्रं साध्यं सद्धिनयान्वितम् । सनत्कुमारं प्रोवाच योगं द्वादशपत्रकम् ॥ ३५.५३ ॥ शिखासंश्थं तु ओङ्कारं मेषोऽस्य शिरसि स्थितः । मासो वैशाखनामा च प्रथमं पत्रकं स्मृतम् ॥ ३५.५४ ॥ नकारो मुखसंस्थो हि वृषस्तत्र प्रकीर्तितः । ज्येष्ठमासाश्च तत्पत्रं द्वितीयं परिकीर्तितम् ॥ ३५.५५ ॥ मोकारो भुजयोर्युग्मं मिथुनस्तत्र संस्थितः । मासो आषाढनामा च तृतीयं पत्रकं स्मृतम् ॥ ३५.५६ ॥ भकारं नेत्रयुगलं तत्र कर्कटकः स्थितः । मासः श्रावण इत्युक्तश्चतुर्थं पत्रकं स्मृतम् ॥ ३५.५७ ॥ गकारं हृदयं प्रोक्तं सिंहो वसति तत्र च । मासो भाद्रस्तथा प्रोक्तः पञ्चमं पत्रकं स्मृतम् ॥ ३५.५८ ॥ वकारं कवचं विद्यात्कन्या तत्र प्रतिषिठता । मासश्चाश्वयुजो नाम ष्ष्ठं तत्पत्रकं स्मृतम् ॥ ३५.५९ ॥ तेकारमस्त्रग्रामं च तुलाराशिः कृताश्रयः । मासश्च कार्तिको नाम सप्तमं पत्रकं स्मृतम् ॥ ३५.६० ॥ वाकारं नाभिसंयुक्तं स्थितस्तत्र तु वृश्चिकः । मासो मार्गशिरो नाम त्वष्टमं पत्रकं स्मृतम् ॥ ३५.६१ ॥ सुकारं जघनं प्रोक्तं तत्रस्थश्च धनुर्धरः । पौषति गदितो मासो नवमं परिकीर्तितम् ॥ ३५.६२ ॥ देकारश्चोरुयुगलं मकरोऽप्यत्र संस्थितः । माघो निगदितो मासः पत्रकं दशमं स्मृतम् ॥ ३५.६३ ॥ वाकारो जनुयुग्मं च कुम्भस्तत्रादिसंस्थितः । पत्रकं फाल्गुनं प्रोक्तं तदेकादशमुत्तमम् ॥ ३५.६४ ॥ पादौ यकारो मीनोऽपि स चैत्रे वसते मुने । इदं द्वादशमं प्रोक्तं पत्रं वै केशवस्य हि ॥ ३५.६५ ॥ द्वादशारं तथा चक्रं षष्णाभि द्वियुतं तथा । त्रिव्यूहमेकमूर्तिश्च तथोक्तः परमेश्वरः ॥ ३५.६६ ॥ एतत्तवोक्तं देवस्य रूपं द्वादशपत्रकम् । यस्मिन् ज्ञाते मुनिश्रेष्ठ न भूयो मरणं भवेत् ॥ ३५.६७ ॥ द्वितीयमुक्तं सत्त्वाढ्यं चतुर्वर्णं चतुर्मुखम् । चतुर्बाहुमुदाराङ्गं श्रीवत्सधरमव्ययम् ॥ ३५.६८ ॥ तृतीयस्तमसो माम शेषमूर्तिः सहस्रपात् । सहस्रवदनः श्रीमान् प्रजाप्रलयकारकः ॥ ३५.६९ ॥ चतुर्थो राजसो नाम रक्तवर्णश्चतुर्मुखः । द्विभुजो धारयन्मालं सृष्टिकृच्चादिपूरुषः ॥ ३५.७० ॥ अव्याक्तात्मभवन्त्येते त्रयो व्यक्ता महामुने । अतो मरीचिप्रमुखास्तथान्येऽपि सहस्रशः ॥ ३५.७१ ॥ एतत्तवोक्तं मुनिवर्य रूपं विभोः पुराणं मतिपुष्टिवर्धनम् । चुतुर्भुजं तं स मुरुर्दुरात्मा कृतान्तवाक्यात्पुनराससाद ॥ ३५.७२ ॥ तमागतं प्राह मुने मधुघ्नः प्राप्तोऽसि केनासुर कारणेन । स प्राह योद्धुं सह वै त्वयाद्य तं प्राह भूयः सुरशत्रुहन्ता ॥ ३५.७३ ॥ यदीह मां योद्धुमुपागतोऽसि तत्कम्पेत ते हृदयं किमर्थम् । ज्वरातुरस्येव मुहुर्मुहुर्वै तन्नास्मि योत्स्ये सह कातरेण । । ३५.७४ इत्येवमुक्तो मधुसूदनेन मुरुस्तदा स्वे हृदये स्वहस्तम् । कथं क्व कस्येति मुहुस्तथोक्त्वा निपातयामास विपन्नबुद्धिः ॥ ३५.७५ ॥ हरिश्च चक्रं मृदुलाघवेन मुमोच तद्धतकमलस्य शत्रोः । चिच्छेद देवास्तु गतव्यथाभवन् देवं प्रसंसन्ति च पद्मनाभम् ॥ ३५.७६ ॥ एतत्तवोक्तं मुरदैत्यनाशनं कृतं हि युक्त्या शितचक्रपाणिना । अतः प्रसिद्धिं समुपाजगाम मुरारिरित्येव विभुर्नृसिंहः ॥ ३५.७७ ॥ इति श्रीवामनपुराणे पञ्चत्रिंशो ________________________________________________________________________ पुलस्त्य उवाच । ततो मुरारिभवनं समभ्येत्य सुरास्ततः । ऊचुर्देवं नमस्कृत्य जगत्संक्षुब्धिकारणम् ॥ ३६.१ ॥ तच्छ्रुत्वा भगवान् प्राह गच्छामो हरमन्दिरम् । स तव्त्स्यति महाज्ञानी जगत्क्षुब्धं चरचरम् ॥ ३६.२ ॥ तयोक्ता वासुदेवेनन देवाः शक्रपुरोगमाः । जनार्दनं पुरस्कृत्य प्रजाग्मुर्मन्दरं गिरिम् । न तत्र देवं न वृषं न देवीं न च नन्दिनम् ॥ ३६.३ ॥ शून्यं गिरिमपश्यन्त अज्ञानतिमिरावृताः । तान्मूढदृष्टीन् संप्रोक्ष्य देवान् विष्णुर्महाद्युतिः ॥ ३६.४ ॥ प्रोवाच किं न पश्यध्वं महेशं पुरतः स्थितम् । तमूचुर्नैव देवेशं पश्यामो गिरिजापतिम् ॥ ३६.५ ॥ न विद्मः कारणं तच्च येन दृष्टिर्हता हि नः । तानुवाच जगन्मूर्तिर्यूयं देवस्य सागसः ॥ ३६.६ ॥ पापिष्ठा गर्भहन्तारो मृडान्याः स्वार्थतत्पराः । तेन ज्ञानविवेको वै हृतो देवेवन शूलिना ॥ ३६.७ ॥ येनाग्रतः स्थितमपि पश्यन्तोऽपि न पश्यथ । तस्मात्कायविशुद्ध्यर्थं देवदृष्ट्यर्थमादरात् ॥ ३६.८ ॥ तप्तकृच्छ्रेम संशुद्धाः कुरुध्वं स्नानमीश्वरे । क्षीरस्नाने प्रयुञ्जीत सार्द्ध कुम्भशतं सुराः ॥ ३६.९ ॥ दधिस्नाने चुतःषष्टिर्द्वात्रिंशद्धविषोर्ऽहणे । पञ्चगव्यस्य शुद्धस्य कुम्भाः षोडश कीर्तिताः ॥ ३६.१० ॥ मदुनोऽष्टौ जलस्योक्ताः सर्वे ते द्विगुणाः सुराः । ततो रोचनया देवमष्टोत्तरशतेन हि ॥ ३६.११ ॥ अनुलिम्पेत्कुङ्कुमेन चन्दनेन च भक्तितः । बिल्वपत्रैः सकमलैः धत्तूरसुरचन्दनैः ॥ ३६.१२ ॥ मन्दारैः पारिजातैश्च अतिमुक्तैस्तथार्ऽचयेत् । अगुरुं सह कालेयं चन्दनेनापि धूपयेत् ॥ ३६.१३ ॥ जप्तव्यं शतरूद्रीयं ऋग्वेदोक्तैः पदक्रमैः । एवं कृते तु देवेशं पश्यध्वं नेतरेण च ॥ ३६.१४ ॥ इत्युक्ता वासुदेवेन देवाः केशवमब्रुवन् । विधानं तप्तकृच्छ्रस्य कथ्यतां मधुसूदन । यस्मिश्चिर्णे कायशुद्धिर्भवते सार्वकालिकी ॥ ३६.१५ ॥ वासुदेव उवाच । त्र्यहमुष्णं पिबेदापः त्र्यहमुष्णं पयः पिवेत् । त्र्यहमुष्णं पिबेत्सर्पिर्वायुभक्षो दिनत्रयम् ॥ ३६.१६ ॥ पला द्वादश तोयस्य पलाष्टौ पयसः सुराः । षट्पलं सर्पिषः प्रोक्तं दिवसे दिवसे पिबेत् ॥ ३६.१७ ॥ पुलस्त्य उवाच । इत्येवमुक्ते वचने सुराः कायविशुद्धये । तप्तकृच्छ्ररहस्यं वै चक्रुः शक्रपुरोगमाः ॥ ३६.१८ ॥ ततो व्रते सुराश्चीर्णे विमुक्ताः पापतोऽभवन् । विमुक्तपापा देवेशं वासुदेवमथाब्रुवन् ॥ ३६.१९ ॥ क्वासौ वद जगन्नाथ शंभुस्तिष्ठति केशव । यं क्षीराद्यभिषेकेण स्नापयामो विधानतः ॥ ३६.२० ॥ अथोवाच सुरान्विष्णुरेव तिष्ठति शङ्करः । मद्देहे किं न पश्यध्वं योगाश्चायं प्रतिष्ठितः ॥ ३६.२१ ॥ तमूचुर्नैव पश्यामस्त्वत्तो वै त्रिपुरान्तकम् । सत्यं वद सुरेशान महेशानः क्व तिष्ठति ॥ ३६.२२ ॥ ततोऽव्ययात्मा स हरिः स्वहृत्पङ्कजशायिनम् । दर्शयामास देवानां मुरारिर्लिङ्गमैश्वरम् ॥ ३६.२३ ॥ ततः सुराः क्रमेणैव क्षीरादिभिरनन्तरम् । स्नापयाञ्चक्रिरे लिङ्गं शाश्वतं ध्रुवमव्ययम् ॥ ३६.२४ ॥ गोरोचनया त्वालिप्य चन्दनेन सुगन्धिना । बिल्वपत्राम्बुजैर्देवं पूजयामासुरञ्जसा ॥ ३६.२५ ॥ प्रधूप्यागुरुणा भक्त्या निवेद्य परमैषधीः । जप्त्वाष्टशतनामानं प्रणामं चक्रिरे ततः ॥ ३६.२६ ॥ इत्येवं चिन्तयन्तश्च देवावेतौ हरीश्वरौ । कथं योगत्वमापन्नौ सत्त्वान्धतमसोद्भवौ ॥ ३६.२७ ॥ सुराणां चिन्तितं ज्ञात्वा विश्वमूर्तिभूद्विभुः । सर्वलक्षणसंयुक्तः सर्वायुधधरोऽव्ययः ॥ ३६.२८ ॥ सार्द्धं त्रिनेत्रं कमलाहिकुण्डलं जटागुडाकेशखगर्षभध्वजम् । समाधवं हारभुजङ्गवक्षसं पीताजिनाच्छन्नकटिप्रदेशम् ॥ ३६.२९ ॥ चक्रासिहस्तं हलशार्ङ्गपाणिं पिनाकशूलाजगवान्वितं च । कपर्दखट्वाङ्गकपालघण्टासशङ्खटङ्काररवं महर्षे ॥ ३६.३० ॥ दृष्ट्वैव देवा हरिशङ्करं तं नमोऽस्तु ते सर्वगताव्ययेति । प्रोक्त्वा प्रणामं कमलासनाद्याश्चक्रुर्मतिं चैकतरां नियुज्य ॥ ३६.३१ ॥ तानेकचित्तान् विज्ञाय देवान् देवपतिर्हरिः । प्रगृह्याभ्यद्रवत्तूर्णं कुरुक्षेत्रं स्वमाश्रमम ॥ ३६.३२ ॥ ततोऽपश्यन्त देवेशं स्थाणुभूतं जले शुचिम् । दृष्ट्वानमः स्थाणवेति प्रोक्त्वा सर्वेह्युपाविशन् ॥ ३६.३३ ॥ ततोऽब्रवीत्सुरपतिरेह्येहि दीयतां वरः । क्षुब्धं जगज्जगन्नाथ उन्मज्जस्व प्रियातिथे ॥ ३६.३४ ॥ ततस्तां मधुरां वाणीं शुश्राव वृषभध्वजः । श्रुत्वोत्तस्थौ च वैगेन सर्वव्यापी निरञ्जनः ॥ ३६.३५ ॥ नमोऽस्तु स्र्वदेभ्यः प्रोवाच प्रहसन् हरः । स चागतः सुरैः सेन्द्रः प्रणतो विनयान्वितैः ॥ ३६.३६ ॥ तमूचुर्देवताः सर्वस्त्यज्यतां शङ्करद्रत्म् । महाव्रतं त्रयो लोकाः क्षुब्धास्त्वत्तेसावृताः ॥ ३६.३७ ॥ अथोवाच महादेवो मया त्यक्तो महाव्रतः । ततः सुरा दिवं जग्मुर्हृष्टाः प्रयतमानसाः ॥ ३६.३८ ॥ ततोऽपि कम्पते पृथ्वी साब्धिद्वीपाचला मुने । ततोऽभिचिन्तयद्रुद्रः किमर्थं क्षुभिता मही ॥ ३६.३९ ॥ ततः पर्यचरच्छूली कुरुक्षेत्रं समन्ततः । ददर्शोघवतीतीरे उशनसं तपोनिधिम् ॥ ३६.४० ॥ ततोऽब्रवीत्सुरपतिः किमर्थं तप्यते तपः । जगत्क्षोभकरं विप्र तच्छीघ्रं कथ्यतां मम ॥ ३६.४१ ॥ उशना उवाच । तवाराधनकामार्थं तप्यते हि महत्तपः । संजीवनीं शुभां विद्यां ज्ञातुमिच्छे त्रिलोचन ॥ ३६.४२ ॥ हर उवाच । तपसा परितुष्टोऽस्मि सुतप्तेन तपोधन । तस्मात्संजीवनींविद्यां भवान् ज्ञास्यति तत्तवत्तः ॥ ३६.४३ ॥ वरं लब्ध्वा ततः शुक्रस्तपसः संन्यवर्त्तत । तथापि चलते पृथ्वी साब्धिभूभृन्नगावृता ॥ ३६.४४ ॥ ततोऽगमन्महादेवः सप्तसारस्वतं शुचिः । ददर्श नृत्यमानं च ऋषिं मङ्कणसंज्ञितम् ॥ ३६.४५ ॥ भावेन पोप्लूयति बालवत्स भुजौ प्रसार्यैव ननर्त्त वेगात् । तस्यैव वेगेन समाहता तु चचाल भूर्भूमिधरैः सहैव ॥ ३६.४६ ॥ तं शङ्गरोऽभ्येत्य करे निगृह्य प्रोवाच वाक्यं प्रहसन्महर्षे । किं भावितो नृत्यसि केन हेतुना वदस्व मामेत्य किमत्र तुष्टिः ॥ ३६.४७ ॥ स ब्राह्मणः प्राह ममाद्य तुष्टिर्येनेह जाता शृणु तद्द्विजेन्द्र । बहून् गणान् वै मम तप्यतस्तपः संवत्सरान् कायविशोषणार्थम् ॥ ३६.४८ ॥ ततोऽनुपश्यामि करात्क्षतोत्थं निर्गच्छते शाकरसं ममेह । तेनाद्य तुष्टोऽस्मि भृशं द्विजेन्द्र येनास्मि नृत्यामि सुभावितात्मा ॥ ३६.४९ ॥ तं प्राह शंभुर्द्विज पश्य मह्यं भस्म प्रवृत्तोऽङ्गुलितोऽतिशुक्लम् । संताडनादेव न च प्रहर्षो ममास्ति नृनं हि भवान् प्रमत्तः ॥ ३६.५० ॥ श्रुत्वाथ वाक्यं वृषभध्वजस्य मत्वा मुनिर्मङ्कणको महर्षे । नृत्यं परित्यज्य सुविस्मितोऽथ ववन्द पादौ विनयावनम्रः ॥ ३६.५१ ॥ तमाह शंभुर्द्विज गच्छ लोकं तं ब्रह्मणो दुर्गममव्ययस्य । इदं च तीर्थं प्रवरं पृथिव्यां पृथूदकस्यास्तु समं फलेन ॥ ३६.५२ ॥ सांनिध्यमत्रैव सुरासुराणां गन्धर्वविद्याधरकिन्नराणाम् । सदास्तु धर्मस्य निधानमग्र्यं सारस्वतं पापमलापहारि ॥ ३६.५३ ॥ सुप्रभा काञ्चानाक्षी च सुवेणुर्विमलोदका । मनोहरा चौघवती विशाला च सरस्वती ॥ ३६.५४ ॥ एताः सप्त सरस्वत्यो निविसिष्यन्ति नित्यशः । सोमपालफलं सर्वाः प्रयच्छन्ति सुपुण्यदाः ॥ ३६.५५ ॥ भवानपि कुरुक्षेत्रे मूर्तिं स्थाप्य गरीयसीम् । गमिष्यति महापुण्यं ब्रह्मलोकं सुदुर्गमम् ॥ ३६.५६ ॥ इत्येवमुक्तो देवेन शङ्करेम तपोधनः । मूर्त्ति स्थाप्य कुरुक्षेत्रे ब्रह्मलोकमगाद्वशी ॥ ३६.५७ ॥ गते मङ्कणके पृथ्वी निश्चला समजायत । अथागान्मन्दरं शंभुर्निजमावसथं शुचिः ॥ ३६.५८ ॥ एतत्तवोक्तं द्विज शङ्करस्तु गतस्तदासीत्तपसेऽथ शैले । शून्येऽभ्यगाद्दृष्टमतिर्हि देव्या संयोधितो येन हि कारणेन ॥ ३६.५९ ॥ इति श्रीवामनपुराणे षट्त्रिशोध्यायः ________________________________________________________________________ नाराद उवाच । गतोऽन्धकस्तु पाताले किमचेष्टत दानवः । शङ्करो मन्दरस्थोऽपि यच्चाकार तदुच्यताम् ॥ ३७.१ ॥ पुलास्त्य उवाच । पातालस्थोऽन्धको ब्रह्मन् बाध्यते मदनाग्निना । संत्पतविग्रहः सर्वान् दानवानिदमब्रवीत् ॥ ३७.२ ॥ स मे सुहृत्स मे बन्धुः स भ्रात स पिता मम । यस्तामद्रिसुतां शीघ्नं ममान्ति कमुपानयेत् ॥ ३७.३ ॥ एवं ब्रुवति दैत्येन्दे अन्धके मदनान्धके । मेघगम्भीरनिर्घोषं प्रहलादो वाक्यमब्रवीत् ॥ ३७.४ ॥ येयं गिरिसुता वीर सा माता धर्मतस्तव । पिता त्रिनयनो देवः श्रूयतामत्र कारणम् ॥ ३७.५ ॥ तव पित्रा ह्यपुत्रेम धर्मनित्येन दानव । आराधितो महादेवः पुत्रार्थाय पुरा किल ॥ ३७.६ ॥ तस्मै त्रिलोचननासीद्दत्तोऽन्धोऽप्येव दानव । पुत्रकः पुत्रकामास्य प्रोक्त्वेत्यं वचनं विभो ॥ ३७.७ ॥ नेत्रत्रयं हिरण्याक्ष नर्मार्थमुमया मम । पिहितं योगसंस्थस्य ततोऽन्धमभवत्तमः ॥ ३७.८ ॥ तस्माच्च तमसो जातो भूतो नीलघनस्वनः । तदितं गृह्यतां दैत्य तवोपयिकमात्मजम् ॥ ३७.९ ॥ यदा तु लोकविद्विष्टं दुष्टं कर्म करिष्यति । त्रैलोक्यजननीं चापि अभीवाञ्छिष्यतेऽधमः ॥ ३७.१० ॥ घातयिष्यति वा विप्रं यदा प्रक्षिप्त चासुरान् । तदास्य स्वयमेवाहं करिष्ये कायशोधनम् ॥ ३७.११ ॥ एवमुक्त्वा गतः शंभुं स्वस्थानं मन्दराचलम् । त्वत्पितापि समभ्यागात्त्वामादाय रसातलम् ॥ ३७.१२ ॥ एतेन कारणेनाम्बा शैलेयी भविता तव । सर्वस्यापीह जगतो गुरुः शंभुः पिता ध्रुवम् ॥ ३७.१३ ॥ भवानपि तपोयुक्तः शास्त्रवेत्ता गुणाप्लुतः । नेदृशे पापसंकल्पे मतिं कुर्याद्भवद्विधः ॥ ३७.१४ ॥ त्रैलोक्यप्रभुरव्यक्तो भवः सर्वैर्नमस्कृतः । अजेयस्तस्य भार्येयं न त्वमर्हेऽमरार्दन ॥ ३७.१५ ॥ न चापि शक्तः प्राप्तुं तां भवाञ्शैलनृपात्मजाम् । अजित्वा सगणं रुद्रं स च कामोऽद्य दुर्लभः ॥ ३७.१६ ॥ यस्तरेत्सागरं दोर्भ्या पातयेद्भुवि भास्करम् । मेरुमुत्पाटयेद्वापि स जयेच्छूलपाणिनम् ॥ ३७.१७ ॥ उताहोस्विदिमाः शक्याः क्रियाः कर्तुं नरेर्बलात् । न च शक्यो हरो जेतुं सत्यं सत्यं मयोदितम् ॥ ३७.१८ ॥ किं त्वया न श्रुतं दैत्य यथा दण्डो महीपलिः । परस्त्रीकामवान्मूढः सराष्ट्रो नाशमाप्तवान् ॥ ३७.१९ ॥ आसीद्दण्डो नाम नृपः प्रभूतबलवाहनः । स च वव्रे महातेजाः पौरोहित्याय भार्गवम् ॥ ३७.२० ॥ ईजे च विविधैर्यज्ञैर्नृपतिः शुक्रपावलितः । सुक्रस्यासीच्च दुहिता अरजा नाम नामतः ॥ ३७.२१ ॥ शुक्रः कदाचिदगमद्वृषुपर्वाणमासुरम् । तेनार्चितश्चिरं तत्र तस्थौ भार्गवसत्त्मः ॥ ३७.२२ ॥ अरजा स्वगृहे वह्निं शुश्रुषन्ती महासुर । अतिष्ठत सुचार्वङ्गी ततोऽब्यागान्नराधिपः ॥ ३७.२३ ॥ स पप्रच्छ क्व शुक्रोति तमूचुः परिचारिकाः । गतः स भगवान् शुक्रो याजनाय दनोः सुतम् ॥ ३७.२४ ॥ पप्रच्छ नृपतिः का तु तिष्ठते भार्गवाश्रमे । तास्तमूचुर्गुरोः पुत्री संतिष्ठत्यरजा नृप ॥ ३७.२५ ॥ तामाश्रमे शुक्रसुतां द्रष्टुमिक्ष्वाकुनन्दनः । प्रविवेश महाबाहुर्ददर्शारजसं ततः ॥ ३७.२६ ॥ तां तृष्ट्वा कामसंतप्तस्तत्क्षणादेव पार्थिवः । संजातोऽन्धक दण्डस्तु कृतान्तबलचोदितः ॥ ३७.२७ ॥ ततो विसर्जयामास भृत्यान् भ्रातृन् सुहृत्तमान् । शुक्रशिष्यानपि बली एकाकी नृप आव्रजत् ॥ ३७.२८ ॥ तमागतं शुक्रसुता प्रत्युत्थाय यशस्विनी । पूजयामास संहृष्टा भ्रातृभावेन दानव ॥ ३७.२९ ॥ ततस्तामाह नृपतिर्बाले कामाग्निवारिणा । मां समाह्लादयस्वाद्य स्वपरिष्वङ्गवारिणा ॥ ३७.३० ॥ सापि प्राह नृपश्रेष्ठ मा विनीनस आतुरः । पिता मम महाक्रोधात्त्रिदशानपि निर्दहेत् ॥ ३७.३१ ॥ मूढबुद्धे भवान् भ्राता ममासि त्वनयाप्लुतः । भगिनी धर्मतस्तेऽहं भवाञ्शिष्यः पितुर्मम ॥ ३७.३२ ॥ सोऽब्रोवीद्भीरु मां शुक्रः कालेन परिधक्ष्यति । कामाग्निर्निर्दहति मामद्यैव तनुमध्यमे ॥ ३७.३३ ॥ सा प्राह दण्डं नृपातिं मुहूर्त परिपालय । तमेव याचस्व गुरुं स ते दास्यत्यसंशयम् ॥ ३७.३४ ॥ दण्डोऽब्रवीत्सुतन्वङ्गि कालक्षेपो न मे क्षमः । च्युतावसरकर्तृत्वे विघ्नो जायेत सुन्दरि ॥ ३७.३५ ॥ ततोऽब्रवीच्च विरजा नाहं त्वां पार्थिवात्मज । दातुं शक्ता स्वमात्मानं स्वतन्त्रा न हि योषितः ॥ ३७.३६ ॥ किं वा ते बहुनोक्तेन मा त्वं नाशं नराधिप । गच्छस्व शुक्रशापेन सभृत्यज्ञातिबान्धवः ॥ ३७.३७ ॥ ततोऽऽब्रवीन्नरपतिः सुतनु शृणु चेष्टितम् । चित्राङ्गदाया यद्वृत्तं पुरा देवयुगे शुभे ॥ ३७.३८ ॥ विश्वकर्णसुता साध्वी नाम्ना चित्राङ्गदाभवत् । रूपयौवनसंपन्ना पद्महीनेव पद्मिनी ॥ ३७.३९ ॥ सा कदाचिन्महारण्यं सखीभिः परिवारिता । जगाम नेमिषं नाम स्नातुं कमललोचना ॥ ३७.४० ॥ सा स्नातुमवतीर्णा च अथाभ्यागान्नरेश्वरः । सुदेवतनयो धीमान् सुरथो नाम नामतः । ॥ तां ददर्श च तन्वङ्गीं शुभाङ्गो मदनातुरः ॥ ३७.४१ ॥ तं दृष्ट्वा सा सखीराह वचनं सत्यसंयुतम् । असौ नराधिपसुतो मदनेन सदर्थ्यते ॥ ३७.४२ ॥ मदर्थे च क्षमं मेऽस्य स्वप्रदानं सुरूपिणः । सख्यस्तामब्रुवन् बाला न प्रगल्भऽसि सुन्दरि ॥ ३७.४३ ॥ अस्वातन्त्र्यं तवास्तीह प्रदाने स्वत्मनोऽनघे । पिता तवास्ति धर्मिष्ठः सर्वशिल्पविशारदः ॥ ३७.४४ ॥ न ते युक्तमिहात्मानं दातुं नरपतेः स्वयम् । एतस्मिन्नन्तरे राजा सुरथः सत्यवात्सुधी ॥ ३७.४५ ॥ समभ्येत्याब्रबीदेनां कन्दर्पशरपीडितः । त्वं मुग्धे मोहयसि मां दृष्ट्यैव मदिरेक्षणे ॥ ३७.४६ ॥ त्वद्दृष्टिरपातेन स्मरेणाभ्येत्य ताडितः । तन्मां कुचतले तल्पे अभिशायितुमर्हसि ॥ ३७.४७ ॥ नोचेत्प्रधक्ष्यते कामो भूयो भूयोऽतिदर्शनात् । ततः सा चारुसर्वाङ्गी राज्ञो राजीवलोचना ॥ ३७.४८ ॥ वार्यमाणा सखीभिस्तु प्रादादात्मानमात्मना । एवं पुरा तया तैन्व्या परित्रातः स भूपतिः ॥ ३७.४९ ॥ तस्मान्मामपि सुश्रोणि त्वं परित्रातुमर्हसि । अरजस्काब्रवीद्दण्डं तस्या यद्वृत्तमुत्तरम् ॥ ३७.५० ॥ किं त्वया न पिरज्ञातं तस्मात्ते कथयाम्यहम् । तदा तया तु तन्वङ्ग्या सुरथस्य महीपतेः ॥ ३७.५१ ॥ आत्मा प्रदत्तः स्वातन्त्र्यात्ततस्तामशपत्पिता । यस्माद्धर्मं परित्यज्य स्त्रीभावान्मन्दचेतसे ॥ ३७.५२ ॥ आत्मा प्रदत्तस्तस्माद्धि न विवाहो भविष्यति । विवाहरहिता नैव सुखं लप्स्यसि भर्तृतः ॥ ३७.५३ ॥ न च पुत्रफलं नैव पतिना योगमेष्यसि । उत्सृष्टमात्रे शापे तु ह्यपोवाह त्रयोदश । अपकृष्टे नपरपतौ सापि मोहमुपागता ॥ ३७.५४ ॥ अकृतार्थं नरपतिं योजनानि त्रयोदश । अपकृष्टे नपरपतौ सापि मोहमुपागता ॥ ३७.५५ ॥ ततस्तां सिषिचुः सख्यः सरस्वत्या जलेन हि । सा सिच्यमाना सुतरां शिशिरेणाप्यथाम्भसा ॥ ३७.५६ ॥ मृतकल्पा महाबाहो विश्वकर्मसुताभवत् । तां मृतामिति विज्ञाय जग्मुः सख्यस्त्वरान्विताः ॥ ३७.५७ ॥ काष्ठान्याहर्तुमपरा वह्निमानेतुमाकुलाः । सा च तास्वपि सर्वासु गतासु वनमुत्तमम् ॥ ३७.५८ ॥ संज्ञां लेभे सुचार्वङ्गी दिशश्चाप्यवलोकयत् । अपश्यन्ती नापतिं तथा स्निग्धं सखीजनम् ॥ ३७.५९ ॥ निपपात सरस्वत्याः पयसि स्फुरितेक्षणा । तां वेगात्काञ्चनाक्षी तु महानद्यां नरेश्वर ॥ ३७.६० ॥ गोमत्यां परिचिक्षेप तरङ्कुटिले जले । तयापि तस्यास्तद्भाव्यं विदित्वाथ विशां पते ॥ ३७.६१ ॥ महावने परिक्षिप्ता सिंहव्याघ्रभयाकुले । एवं तस्याः स्वतन्त्राया एषावस्था श्रुता मया ॥ ३७.६२ ॥ तां प्राह पुत्रि कस्यासि सुता सुरसुतोपमा । किमर्थमागतासीह निर्मनुष्यमृगे वने ॥ ३७.६३ ॥ ततः सा प्राह तमृषिं यथातथ्यं कृशोदरी । श्रुत्वार्षिः कोपमगमदशपच्छिल्पिनां वपम् ॥ ३७.६४ ॥ यस्मात्स्वतनुजातेयं परदेयापि पापिना । योजिता नैव पतिना तस्माच्छाखामृगोऽस्तु सः ॥ ३७.६५ ॥ इत्युक्त्वा स महायोगी भूयः स्नात्वा विधानतः । उपास्य पश्विमां सन्ध्यां पूजयामास शङ्करम् ॥ ३७.६६ ॥ संपूज्य देवदेवेशं यथोक्तविधिना हरम् । उवाचागम्यतां सुभ्रूं सुदतीं पतिलालसाम् ॥ ३७.६७ ॥ गच्छस्व सुभगे देशं सप्तगोदावरं शुभम् । तत्रोपास्य महेशानं महान्तं हाटकेश्वरम् ॥ ३७.६८ ॥ तत्र स्थिताया रम्भोरु ख्याता देववती शुभा । आगमिष्यति दैत्यस्य पुत्री कन्दरमालिनः ॥ ३७.६९ ॥ तथान्या सुह्यकसुता नन्दयन्तीति विश्रुता । अञ्जनस्यैव तत्रापि समेष्यति तपस्विनी । तथापरा वेदवती पर्जन्यदुहिता शुभा ॥ ३७.७० ॥ यदा तिस्रः समेष्यन्ति सप्तगोदावरे जले । हाटकाख्ये महादेव तदा संयोगमेष्यसि ॥ ३७.७१ ॥ इत्येवमुक्ता मुनिना बाला चित्राङ्गदा तदा । सप्तगोदावरं तीर्थमगमत्त्वरिता ततः ॥ ३७.७२ ॥ संप्राप्य तत्र देवेशं पूजयन्ती त्रिलोचनम् । समध्यास्ते शुचिपरा फलमूलाशनाभवत् ॥ ३७.७३ ॥ स चर्षिर्ज्ञानसंपन्नः श्रीकण्ठायतनेऽलिखत् । श्लोकमेकं महाख्यानं तस्याश्च प्रियकाम्यया ॥ ३७.७४ ॥ न सोऽस्ति कश्चित्त्रिदशोऽसुरो वा यक्षोऽथ मर्त्यो रजनीचरो वा । इदं हि दुःखं मृगशावनेत्र्या निर्मार्जयेद्यः स्वपराक्रमेण ॥ ३७.७५ ॥ इत्येवमुक्त्वा स मुनिर्जगाम द्रष्टुं विभुं पुष्करनाथमीड्यम् । नदीं पयोष्णीं मुनिवृन्दवन्द्यां संचिन्तयन्नेव विशालनेत्राम् ॥ ३७.७६ ॥ इति श्रीवामनपुराणे सप्तत्रिंशोऽध्यायः ________________________________________________________________________ दण्ड उवाच । चित्राङ्गदायास्त्वरजे तत्र सत्या यथासुखम् । स्मरन्त्याः सुरथं वीरं महान् कालः समभ्यगात् ॥ ३८.१ ॥ विश्वकर्मापि मुनिना शप्तो वानरतां गतः । न्यपतन्मेरुशिखराद्भूपृष्ठं विधिचोदितः ॥ ३८.२ ॥ वनं घोरं सुगुल्माढ्यं नदीं शालूकिनीमनु । शाक्वेयं पर्वतश्रेष्ठं समावसति सुन्दरि ॥ ३८.३ ॥ तत्रासतोऽस्त सुचिरं फलमूलान्यथाश्नतः । कालोऽत्यगाद्वरारोहे बहुवर्षगणो वने ॥ ३८.४ ॥ एकदा दैत्यशार्दूलः कन्दराख्यः सुतां प्रियाम् । प्रतिगृह्य समभ्यागात्ख्यातां देववतीमिति ॥ ३८.५ ॥ तां च तद्वनमायान्तीं समं पित्रा वराननाम् । ददर्श वानरश्रेष्ठः प्रजग्राह बालत्करे ॥ ३८.६ ॥ ततो गृहीतां कपिना स दैत्यः स्वसुतां शुबे । कन्दरो वीक्ष्य संक्रुद्धः ख्ड्गमुद्यम्य चाद्रवत् ॥ ३८.७ ॥ तमापतन्तं दैत्येन्द्रं दृष्ट्वा शाखामृगो बली । तथैव सह चार्वङ्ग्या हिमाचलमुपागतः ॥ ३८.८ ॥ ददर्श च महादेवं श्रीकण्ठं यमुनातटे । तस्याविदूरे गहनमाश्रमं ऋषिवर्जितम् ॥ ३८.९ ॥ तस्मिन्महाश्रमे पुण्ये स्थाप्य देववतीं कपिः । न्यमञ्जत स कालिन्द्यां पश्यतो दानवस्य हि ॥ ३८.१० ॥ सोऽजानत्तां मृतां पुत्रीं समं शाखामृगेण हि । जगाम च महातेजाः पातालं निलयं निजम् ॥ ३८.११ ॥ स चापि वानरो देव्या कालिन्द्या वेगते हृतः । नीतः शिवीति विख्याते देशं शुभजनावृतम् ॥ ३८.१२ ॥ ततस्तीर्त्वाथ वेगेन स कपिः पर्वतं प्रति । गन्तुकामो महातेजा यत्र न्यस्ता सुलोचना ॥ ३८.१३ ॥ अथापश्यत्समायान्तमञ्जनं गुह्यकोत्तमम् । नन्दयन्त्या समं पुत्र्या गत्वा जिगमिषुः कपिः ॥ ३८.१४ ॥ तां दृष्ट्वामन्यत श्रीमान् सेयं देववती ध्रुवम् । तन्मे वृथा श्रमो जातो जलमज्जनसंभवः ॥ ३८.१५ ॥ इति संचिन्तयन्नेव समाद्रवत्सुन्गदरीम् । सा तद्भयाच्च न्यपतन्नदीं चैव हिरण्वतीम् ॥ ३८.१६ ॥ गुह्यको वीक्ष्य तनयां पतितामापगाजले । दुःखशोकसमाक्रान्तो जगामाञ्जनपर्वतम् ॥ ३८.१७ ॥ तत्रासौ तप आस्थाय मोनव्रतधरः शुचिः । समास्ते वै महातेजाः संवत्सरगणान् बहून् ॥ ३८.१८ ॥ नन्दयन्त्यपि वेगेन हिरण्यत्यापवाहिता । नीता देशं महापुण्यं कोशलं साधुभुर्युतम् ॥ ३८.१९ ॥ गच्छन्ती सा च रुदती ददृशो वटपादपम् । प्ररोहप्रावृततनुं जटाधरमिवेश्वरम् ॥ ३८.२० ॥ तं दृष्ट्वा विपुलच्छायं विशश्राम वरानना । उपविष्टा शिलवापट्टे ततो वाचं प्रशुश्रवे ॥ ३८.२१ ॥ न सोऽस्ति पुरुषः कश्चिद्यस्तं ब्रूयात्तपोधनम् । यथा स तनयस्तुभ्यमुद्बद्धो वटपादपे ॥ ३८.२२ ॥ सा श्रुत्वा तां तदा वार्णीं विस्पष्टाक्षरसंयुताम् । तिर्यगूर्ध्वमधश्चैव समन्तादवलोकयत् ॥ ३८.२३ ॥ ददृशे वृक्षशिखरे शिशुं पञ्चाब्दिकं स्थितम् । पिङ्गलाभिर्जटाभिस्तु उद्ब्द्धं यत्नतः शुभे ॥ ३८.२४ ॥ तं विब्रुवन्तं दृष्ट्वैव नन्दयन्ती सुदुःखिता । प्राह केनासि बद्ध्स्तवं नन्दयन्ती सुदुःखिता । प्राह केनासि बद्धस्त्वं पापिना वद बालक ॥ ३८.२५ ॥ स तामाह महाभागे बद्धोऽस्मि कपिना वटे । जटास्वेवं सुदुष्टेन जीवामि तपसो बलात् ॥ ३८.२६ ॥ पुरोन्मत्तपुरेत्येव तत्र देवो महेश्वरः । तत्रास्ति तपसो राशिः पिता मम ऋतध्वजः ॥ ३८.२७ ॥ तस्यास्मि जपमानस्य महायोगं महात्मनः । जातोऽलिवृन्दसंयुक्तः सर्वशास्त्रविशारदः ॥ ३८.२८ ॥ ततो मामब्रवीत्तातो नाम कृत्वा शुभानने । जाबालीति परिख्याय तच्छृणुष्व शुभानने ॥ ३८.२९ ॥ पञ्चवर्षसहस्राणि बाल एव भविष्यसि । दशवर्षसहस्राणि सुमारत्वे चरिष्यसि ॥ ३८.३० ॥ विंशतिं यौवनस्थायी वीर्येण द्विगुणं ततः । पञ्चवर्षशतान् बालो भोक्ष्यसे बन्धनं दृढम् ॥ ३८.३१ ॥ दशवर्षशतान्येव कौमारे कायपीडनम् । यौवने पारमान् भोगान् द्विसहस्रसमास्तथा ॥ ३८.३२ ॥ चत्वारिशच्छतान्येव वार्धके क्लेशमुत्तमम् । लप्स्यसे भूमिशय्याढ्यं कदन्नाशनभोजनम् ॥ ३८.३३ ॥ इत्येवमुक्तः पित्राहं बालः पञ्चाब्ददेशिकः । विचरामि महीपृष्ठं गच्छन् स्नातुं हिरण्वतीम् ॥ ३८.३४ ॥ ततोऽपश्यं कपिवरं सोऽवदन्मां क्व यास्यसि । इमां देववतीं गृह्यं मूढ न्यस्तां महाश्रमे ॥ ३८.३५ ॥ ततोऽसौ मां समादाय विस्फुरन्तं प्रयत्नतः । वटाग्रेऽस्मिन्नुद्ब्बन्ध जटाभिरपि सुन्दरि ॥ ३८.३६ ॥ तथा च रक्षा कपिना कृता भीरु निरन्तरैः । लतापाशैर्महायन्त्रमधस्ताद्दुष्टबुद्धिना ॥ ३८.३७ ॥ अभेद्योऽयमनाक्रम्य उपरिष्टात्तथाप्यधः । दिशां मुकेषु सर्वेषु कृतं यन्त्रं लतामयम् ॥ ३८.३८ ॥ संयम्य मां कपिवरः प३ अतोऽमरपर्वतम् । यथेच्छया मया दृष्टमेतत्ते गदितं शुभे ॥ ३८.३९ ॥ भवती का महारण्ये ललना परिवर्जिता । समायाता सुचार्वङ्गी केन सार्थेन मां वद ॥ ३८.४० ॥ साब्रवीदढ्जनो नाम सुह्यकेन्द्रः पिता मम । नन्दयन्तीति मे नाम प्रम्लोचागर्भसंभवा ॥ ३८.४१ ॥ तत्र मे जातके प्रोक्तमृषिणा मुद्गलेन हि । इयं नरेन्द्रमहिषी भविष्यति न संशयः ॥ ३८.४२ ॥ तद्वाक्यसमकालं च व्यनदद्देवदुन्दुभिः । शिवा चाशिवनिर्घोषा ततो भूयोऽब्रवीनमुनिः ॥ ३८.४३ ॥ न संदेहो नरपतेर्महाराज्ञी भविष्यति । महान्तं संशयं घोरं कन्याभावे गमिष्यति । ततो जगाम स ऋषिरेवमुक्त्वा वचोऽद्भुतम् ॥ ३८.४४ ॥ पिता मामपि चादाय समागन्तुमथैच्छत । तीर्थं ततो हिरण्वत्यास्तीरात्कपिरथोत्पतत् ॥ ३८.४५ ॥ तद्भयाच्च मया ह्यात्मा क्षिप्तः सागरगाजले । तयास्मि देशमानीता इमं मानुषवर्जितम् ॥ ३८.४६ ॥ श्रुत्वा जाबालिरथ तद्वचनं वै तयोदितम् । प्राह सुन्दरि गच्छस्व श्रीकण्ठं यमुनातटे ॥ ३८.४७ ॥ तत्रागच्छति मध्याह्ने मत्पिता शर्वमर्चितुम् । तस्मै निवेदयात्मानं तत्र श्रेयोऽधिलप्स्यसे ॥ ३८.४८ ॥ ततस्तु त्वरिता काले नन्दयन्ती तपोनिधिम् । परित्राणार्थमगमद्धिमाद्रेर्यमुनां नदीम् ॥ ३८.४९ ॥ सा त्वदीर्घेण कालेन कन्दमूलफलाशना । संप्राप्ता शङ्करस्थानं यत्रागच्छति तापसः ॥ ३८.५० ॥ ततः सा देवदेवेशं श्रीकण्ठं लोकवन्दितम् । प्रतिवन्द्य ततोऽपश्यक्षरांस्तान्महामुने ॥ ३८.५१ ॥ तेषामर्थं हि विज्ञाय सा तदा चारुहासिनी । तज्जाबाल्युदितं श्लोकमलिखच्चान्यमात्मनः ॥ ३८.५२ ॥ मुद्गलेनास्मि गदिता राजपत्नी भविष्यति । सा चावस्थामिमां प्राप्ता कश्चिन्मां त्रातुमीश्वरः ॥ ३८.५३ ॥ इत्युल्लिख्य शिलापट्टे गता स्नातुं यमस्वसाम् । ददृसे चाश्रमवरं मत्तकोकिलनादितम् ॥ ३८.५४ ॥ ततोऽमन्यत सात्रर्षिर्नूनं तिष्ठति सत्तमः । इत्येवं चिन्तयन्ती सा संप्रविष्टा महाश्रमम् ॥ ३८.५५ ॥ ततो ददर्श देवाभां स्थितां देववतीं शुभाम् । संशुष्कास्यां चलन्नेत्रां परिम्लानामिवाब्जिनीम् ॥ ३८.५६ ॥ सा चापतन्तीं ददृशे यक्षजां दैत्यनन्दिनी । केयमित्येव संचिन्त्य समुत्थाय स्थिताभवत् ॥ ३८.५७ ॥ ततोऽन्योन्यं समालिङ्ग्य गाढं गाढं सुहृत्त्या । पप्रच्छतुस्तथान्योऽयं कथयामासतुस्तदा ॥ ३८.५८ ॥ ते परिज्ञाततत्त्वार्थे अन्योन्यं ललनोत्तमे । समासीने कथाभिस्ते नानारूपाभिरादरात् ॥ ३८.५९ ॥ एतस्मिन्नन्तरे प्राप्तः श्रीकण्ठं स्नातुमादरात् । स तत्त्वज्ञो मुनिश्रेष्ठो अक्षराण्यवलोकयन् ॥ ३८.६० ॥ स दृष्ट्वा वाचयित्वा च तमर्थमधिगम्य च । मुहूर्तं ध्यानमास्थाय व्यजानाच्च तपोनिधिः ॥ ३८.६१ ॥ ततः संपूज्य देवेशं त्वरया स ऋतध्वजः । अयोध्यामगमत्क्षिप्रं द्रष्टुमिक्ष्वाकुमीश्वरम् ॥ ३८.६२ ॥ तं दृष्ट्वा नृपतिश्रेष्ठं तापसो वाक्यमब्रवीत् । श्रूयतां नरसार्दूल विज्ञप्तिर्मम पार्थिव ॥ ३८.६३ ॥ मम पुत्रो गुणैर्युक्तः सर्वसास्त्रविशारदः । उद्ब्द्धः कपिना राजन् विषयानते तवैव हि ॥ ३८.६४ ॥ तं हि मोचयितुं नान्यः शक्तस्त्वत्तदनयादृते । शकुनिर्नाम राजेन्द्र स ह्यस्त्रविधिपारगः ॥ ३८.६५ ॥ तन्मुनेर्वाक्यमाकर्ण्य पिता मम कृशोदरि । आदिदेश प्रियं पुत्रं शकुनिं तापसान्वये ॥ ३८.६६ ॥ ततः स प्रहितः पित्रा भ्राता मम महाभुजः । संप्राप्तो बन्धनोद्देशं समं हि परमर्षिणा ॥ ३८.६७ ॥ दृष्ट्वा न्यग्रोधमत्युच्चं प्ररोहास्तृतदिङ्मुखम् । ददर्श वृक्षशिखरे उद्बद्धमृषिपुत्रकम् ॥ ३८.६८ ॥ ताश्च सर्वाल्लतापाशान् दृष्ट्वान् स समन्ततः । दृष्ट्वा स मुनिपुत्रं तं स्वजटासंयतं वटे ॥ ३८.६९ ॥ धनुरादाय बलवानधिज्यं स चकार ह । लाघवादृषिपुत्रं तं रक्षंश्चिच्छेदमार्गणैः ॥ ३८.७० ॥ कपिना यत्कृतं सर्वं लतापाशं चतुर्दिशम् । पञ्चवर्षशते काले गते शक्तस्तदा शरैः ॥ ३८.७१ ॥ लताच्छन्नं ततस्तूर्णमारुरोह मुनिर्वटम् । प्राप्तं स्वपितरं दृष्ट्वा जाबालिः संयतोऽपि सन् ॥ ३८.७२ ॥ आदरात्पितरं मूर्ध्ना ववन्दत विधानतः । संपरिष्वज्य स मुनिर्मूर्ध्न्याघ्राय सुतं ततः ॥ ३८.७३ ॥ उन्मोचयितुमारब्धो न शशाक सुसंयतम् । ततस्तूर्णं धनुर्न्यस्य बाणांश्च शकुनिर्बली ॥ ३८.७४ ॥ आरुरोह वटं तूर्णं जटा मोचयितुं तदा । न च शक्नोति संच्छन्नं दृढं कपिवरेम हि ॥ ३८.७५ ॥ यदा न शकिता स्तेन संप्रमोचयितुं जटाः । तदावतीर्णः शकुनिः सहितः परमर्षिणा ॥ ३८.७६ ॥ जग्राह च धनुर्बाणांश्चकार शरमण्डपम् । लाघवादर्द्धचन्द्रैस्तां शाखां चिच्छेद स त्रिधा ॥ ३८.७७ ॥ शाखया कृत्तया चासौ भारवाही तपोधनः । शरसोपानमार्गेण अवतीर्णोऽथ पादपात् ॥ ३८.७८ ॥ तस्मिंस्तदा स्वे तनये ऋतध्वजस्त्राते नरेन्द्रस्य सुतेन धन्विना । जाबालिना भारवहेन संयुतः समाजगामाथ नदीं स सूर्यजाम् ॥ ३८.७९ ॥ इति श्रीवामनपुराणे अष्टात्रिंशोऽध्यायः ________________________________________________________________________ दण्डक उवाच । एतस्मिन्नन्तरे बाले यक्षासुरसुते शुभे । समागते हरं द्रष्टुं श्रीकण्ठं योगिनां वरम् ॥ ३९.१ ॥ ददृशाते परिम्लानसंशुष्ककुसुमं विभुम् । बहुनिरमालल्यसंयुक्तं गते तस्मिनृतध्वजे ॥ ३९.२ ॥ ततस्तं वीक्ष्य देवेशं ते उभे अपि कन्यके । स्नापयेतां विधानेन पूजयेतामहर्निशम् ॥ ३९.३ ॥ ताभ्यां स्थिताभ्यां तत्रैव ऋषिपभ्यागमद्वनम् । द्रष्टुं श्रिकण्ठमव्यक्तं गालवो नाम नामतः ॥ ३९.४ ॥ स दृष्ट्वा कन्यकायुग्मं कस्येदमिति चिन्तयन् । प्रविवेश शुचिः स्नात्वा कालिन्द्या विमले जले ॥ ३९.५ ॥ ततोऽनुपूजयामास श्रीकण्ठं गालवो मुनिः । गायेते सुस्वरं गीतं यक्षासुरसुते ततः ॥ ३९.६ ॥ ततः स्वरं समाकर्ण्य गालवस्ते अजानत । गन्धर्वकन्येक चैते संदेहो नात्र विद्यते ॥ ३९.७ ॥ संपूज्य देवमीशानं गालवस्तु विधानतः । कृतजप्यः समध्यास्ते कन्याभ्यामबिवादितः ॥ ३९.८ ॥ ततः पप्रच्छ स मुनिः कन्यके कस्य कथ्यताम् । कुलालङ्कारणे भक्तियुक्ते भवस्य हि ॥ ३९.९ ॥ तमूचतुर्मुनिश्रेष्ठं याथातथ्यं शुभानने । जातो विदितवृत्तान्तो गालवस्तपतां वरः ॥ ३९.१० ॥ समुष्य तत्र रजनीं ताभ्यां संपूजितो मुनिः । प्रातरुत्थाय गौरीसं संपूज्य च विधानतः ॥ ३९.११ ॥ ते उपेत्याब्रवीद्यास्ये पुष्करारण्यमुत्तमम् । आमन्त्रयामि वां कन्ये समनुज्ञातुमर्हथः ॥ ३९.१२ ॥ ततस्ते ऊचतुर्ब्रहन् दुर्लभं दर्शनं तव । किमर्थं पुष्करारण्यं भवान् यास्यत्यथादरात् ॥ ३९.१३ ॥ ते उवाच महातेजा महत्कार्यसमन्वितः । कार्तिकी पुण्यदा भाविमासान्ते पुष्करेषु हि ॥ ३९.१४ ॥ ते ऊचतुर्वयं यामो भवान् यत्र गमिष्यति । न त्वया स्म विना ब्रह्मन्निह चस्थातुं हि शक्नुवः ॥ ३९.१५ ॥ बाढमाह ऋषिश्रेष्ठस्ततो नत्वा महेश्वरम् । गते ते ऋषिणा सार्द्धू पुष्करारण्यमादरात् ॥ ३९.१६ ॥ तथान्ये ऋषयस्तत्र समायाताः सहस्रशः । पार्थिवा जानपद्याश्च मुक्त्वैकं तमृतध्वजम् ॥ ३९.१७ ॥ ततः स्नाताश्च कार्तिक्यामृषयः पुष्करेष्वथ । राजानश्च महाभागा नाभागेक्ष्वाकुसंयुताः ॥ ३९.१८ ॥ गालवोऽपि समं ताभ्यां कन्यकाभ्यामवातरत् । स्नातुं स पुष्करे तीर्थे मध्यमे धनुषाकृतौ ॥ ३९.१९ ॥ निमग्नश्चापि ददृशे महामत्स्यं जलेशयम्ष । बह्वीभिर्मत्स्यकन्याभिः प्रीयमाणं पुनः पुनः ॥ ३९.२० ॥ स ताश्चाह तिमिर्मुग्धाः यूयं धर्मं न जानथ । जनापवादं घोरं हि न शक्तः सोढुमुल्बणम् ॥ ३९.२१ ॥ तास्तमूचुर्महामत्स्यं किं न पस्यसि गालवम् । तापसं कन्यकाभ्यां वै विचरन्तं यथेच्छया ॥ ३९.२२ ॥ यद्यसावपि धर्मात्मा न बिभेति तपोधनः । जनापवादात्तत्किं त्वं बिभेषु जलमध्यगः ॥ ३९.२३ ॥ ततस्ताश्चाह स तिमिर्नैष वेत्ति तपोधनः । रागान्धो नापि च भयं विजानाति सुबालिशः ॥ ३९.२४ ॥ तच्छ्रुत्वा मत्स्यवचनं गालवो व्रीडया युतः । नोत्तत्तार निमग्नोऽपि तस्थौ स विजितेन्द्रियः ॥ ३९.२५ ॥ स्नात्वा ते अपि रम्भोरु समुत्तीर्य तटे स्थिते । प्रतीक्षन्त्यौ मुनिवरं तद्दर्शनसमुत्सुके । । ३९.२६ वृत्ता च पुष्करे यात्रा गता लोका यथागतम् । ऋषयः पार्थिवाश्चान्ये नाना जानपदस्तदा ॥ ३९.२७ ॥ तत्र स्थितैका सुदती विश्वकर्मतनुरुहा । चित्राङ्गदा सुचार्वङ्गी वीक्षन्ती तनुमध्यमे ॥ ३९.२८ ॥ ते स्थिते चापि वीक्षन्त्यौ प्रतीक्षन्त्यौ च गालवम् । संस्थिते निर्जने तीर्थे गालवोऽन्तर्जले तथा ॥ ३९.२९ ॥ ततोऽभ्यागाद्वेदवती नाम्ना गन्धर्वकन्यका । पर्जन्यतनया साध्वी घृताचीर्गर्भसंभवा ॥ ३९.३० ॥ सा चाभ्येत्य जले पुण्ये स्नात्वा मध्यमपुष्करे । ददर्श कन्यात्रितयमुभयोस्तटयोः स्थितम् ॥ ३९.३१ ॥ चित्राङ्गदामथाभ्येत्य पर्यपृच्छदनिष्ठुरम् । कासि केन च कार्येण निर्जने स्थितवत्यसि ॥ ३९.३२ ॥ सा तामुवाच पुत्रीं मां विन्दस्व सुरव्रधकेः । चित्राङ्गदेति सुश्रेणि विख्यातां विश्वकर्मणः ॥ ३९.३३ ॥ साहम्भयागाता भद्रे स्नातुं पुण्यां सरस्वतीम् । नैमिषे काञ्चनाक्षीं तु विख्यातां धर्ममातरम् ॥ ३९.३४ ॥ तत्रागताथ राज्ञाहं दृष्टा वैदर्भकेण हि । सुरथेन स कामार्तो मामेव शरणं गतः ॥ ३९.३५ ॥ मयात्मा तस्य दत्तश्व सखीभिवार्यमाणया । ततः शप्तास्मि तातेन वियुक्तास्मि च भूभुजा ॥ ३९.३६ ॥ मर्तुं कृतमतिर्भद्रे वारिता गुह्यकेन च । श्रीकण्ठमगमं द्रष्टुं ततो गोदावरं जलम् ॥ ३९.३७ ॥ तस्मादिमं समायाता तीर्थप्रवरमुत्तम् । न चापि दृष्टः सुरथः स मनोह्लादनः पतिः ॥ ३९.३८ ॥ भवती चात्र का बाले वृत्ते यात्राफलेऽधुना । समागता हि तच्छंस मम सत्येन भामिनि ॥ ३९.३९ ॥ साब्रवीच्छ्रुयतां यास्मि मन्दभाग्या कृशोदरी । यता यात्राफले वृत्ते समायातास्मि पुष्करम् ॥ ३९.४० ॥ पर्जन्यस्य घृताच्यां तु जाता वेदवतीति हि । रममाणा वनेद्देशे दृष्टास्मि कपना सखि ॥ ३९.४१ ॥ स चाभ्येत्याब्रवीत्का त्वं यासि देववतीति हि । आनीतास्यश्रमात्केन भूपृष्ठान्मेरुपर्वतम् ॥ ३९.४२ ॥ ततो मयोक्तो नैवास्मि कपे देववतीत्यहम् । नाम्ना वेदवतीत्येवं मेरोरपि कृताश्रया ॥ ३९.४३ ॥ ततस्तेनातिदुष्टेन वानरेण ह्यभिद्रुता । समारूढास्मि सहसा बन्दुजीवं नगोत्तमम् ॥ ३९.४४ ॥ तेनापि वृक्षस्तरसा पादाक्रान्तस्त्वभज्यत । ततोस्य विपुलां वृक्षं प्राक्षिपत्सागराम्भसि । सह तेनैव वृक्षेण पतितास्म्यहमाकुला ॥ ३९.४५ ॥ ततः प्लवङ्गमो वक्षं प्राक्षिपत्सागराम्भसि । सह तेनैव वृक्षेण पतितास्म्यहमाकुला ॥ ३९.४६ ॥ ततोम्बरतलाद्वृक्षं निपतन्तं यदृच्छया । ददृशुः सर्वभूतानि स्तावराणि चराणि च ॥ ३९.४७ ॥ ततो हाहाकृतं लोकैर्मा पतन्तीं निरीक्ष्य हि । ऊचुश्च सिद्धगन्धर्वाः कष्टं सेयं महात्मनः ॥ ३९.४८ ॥ इन्द्रद्युम्नस्य महिषी गदिता ब्रह्मणा स्वयम् । मनोः पुत्रस्य वीरस्य सहस्रक्रतुयाजिनः ॥ ३९.४९ ॥ तां वाणीं मधुरां श्रुत्वा मोहमस्म्यागता ततः । न च जाने स केनापि वृक्षश्छिन्नः सहस्रधा ॥ ३९.५० ॥ ततोऽस्मि वेगाद्बलिना हृतानलसखेन हि । समानीतास्मयहमिमं त्वं दृष्टा चाद्य सुन्दरि ॥ ३९.५१ ॥ तदुत्तष्ठस्व गच्छावः पुच्छावः क इमे स्थिते । कन्यके अनुपश्ये हि पुण्करस्योत्तरे तटे ॥ ३९.५२ ॥ एवमुक्त्वा वराङ्गी सा तया सुतनुकन्यया । जगाम कन्यके द्रष्टुं प्रष्टुं कार्यसमुत्सुका ॥ ३९.५३ ॥ ततो गत्वा पर्यपुच्छत्ते ऊचतुरुभे अपि । याथातथ्यं तयोस्ताभ्यां स्वमात्मानं निवेदितम् ॥ ३९.५४ ॥ ततस्ताश्तुरोपीह सप्तगोदावरं जलम् । संप्राप्य तीर्थे पिष्ठन्ति अर्चन्त्यो हाटकेश्वरम् ॥ ३९.५५ ॥ ततो बहून् वर्षगणान् बभ्रमुस्ते जनास्त्रयः । तासामर्थाय शकुनिर्जाबालिः सऋतध्वजः ॥ ३९.५६ ॥ भारवाही ततः खिन्नो दशब्दशतिके गते । काले जगाम निर्वेदात्समं पित्रा तु शाकलम् ॥ ३९.५७ ॥ तस्मिन्नरपतिः श्रीमानिन्द्रद्युम्नो मनोः सुतः । समध्यास्ते स विज्ञाय सार्घपात्रो विनिर्ययौ ॥ ३९.५८ ॥ सम्यक्संपूजितस्तेन सजाबालिरृतध्वजः । स चेक्ष्वाकुसुतो धीमान् शकुनिर्भ्रातृजोर्चितः ॥ ३९.५९ ॥ ततो वाक्यं मुनिः प्राह इन्द्रद्युम्नं ऋतध्वजः । राजन्नष्टऽबलास्माकं नन्दयन्तीति विश्रुता ॥ ३९.६० ॥ तस्यार्थे चैव वसुधा स्माभिरटिता नृप । तस्मादुत्तिष्ठ मार्गस्व साहाय्यं कर्तुमर्हसि ॥ ३९.६१ ॥ अथोवाच नृपो ब्रह्मन्ममापि ललनोत्तमा । नष्टा कृतश्रमस्यापि कस्याहं कथयामि ताम् ॥ ३९.६२ ॥ आकाशात्पर्पताकारः पतमानो नजोत्तमः । सिद्धानां वाक्यमाकर्ण्य बाणैश्छिन्नः सहस्रधा ॥ ३९.६३ ॥ न चैव सा वरारोहा विभिन्ना लाघावान्मया । न च जानामि सा कुत्र तस्माद्गच्छामि मार्गितुम् ॥ ३९.६४ ॥ इत्येमुक्त्वा स नृपः समुत्थाय त्वरान्वितः । स्यन्दनानि द्विजाभ्यां स भ्रातृपुत्राय चार्पयत् ॥ ३९.६५ ॥ तेऽधिरुह्य रथांस्तूर्णं मार्गन्ते वसुधां क्रमात् । बदर्याश्रममासाद्य ददृशुस्तपसां निधिम् ॥ ३९.६६ ॥ तपसा कर्शितं दीनं मलपङ्कजटाधरम् । निःश्वासायासपरमं प्रथमे वयसि स्थितम् ॥ ३९.६७ ॥ तमुपेत्याब्रवीद्राजा इन्द्रद्युम्नो महाभुजः । तपस्विन् यौवने घोरमास्थितोऽसि सुदुश्चरम् ॥ ३९.६८ ॥ तपः किमर्थं तच्छंस किमभिप्रेतमुच्यताम् । सोऽब्रवीत्को भवान् ब्रूहि ममात्मानं सुहृत्तया ॥ ३९.६९ ॥ परिपृच्छसि शोकार्तं परिखिन्नं तपोन्वितम् । स प्राह राजास्मि विभो तपस्विन् शाकले पुरे ॥ ३९.७० ॥ मनोः पुत्रः प्रियो भ्राता इक्ष्वाकोः कथितं तव । स चास्मै पूर्वचरितं सर्वं कथितवान्नृपः ॥ ३९.७१ ॥ श्रुत्वा प्रोवाच राजर्षिर्मा मुञ्चस्व कलेवरम् । आगच्छ यामि तन्वङ्गीं विचेतुं भ्रातृजोऽसि मे ॥ ३९.७२ ॥ इत्युक्त्वा संपरिष्वज्य नृपं धमनिसंततम् । समारोप्य रथं तूर्णं तापसाभ्यां न्यवेदयत् ॥ ३९.७३ ॥ ऋतध्वजः सपुत्रस्तु तं दृष्ट्वा पृथिवीपतिम् । प्रोवाच राजन्नेह्योहि करिष्यामि तव प्रियम् ॥ ३९.७४ ॥ यासौ चित्राङ्गदा नाम त्वया दृष्टा हि नैमिषे । सप्तगोदावरं तीर्थं सा मयैव विसर्जिता ॥ ३९.७५ ॥ तदागच्छथ गच्छमः सौदेवस्यैव कारणात् । तत्रास्माकं समेष्यन्ति कन्यास्तिस्रस्तथापराः ॥ ३९.७६ ॥ इत्येवमुक्त्वा स ऋषिः समाश्वास्य सुदेवजम् । शकुनिं पुरतझ कृत्वा सेन्द्रद्युम्नः सपुत्रकः ॥ ३९.७७ ॥ स्यन्दनेनाश्वयुक्तेन गन्तुं समुपचक्रमे । सप्तगोदावरं तीर्थं यत्र ताः कन्यका गताः ॥ ३९.७८ ॥ एतस्मिन्नन्तरे तन्वी घृताची शोकसंयुता । विचचारोदयगिरिं विचिन्वन्ती सुतां निजाम् ॥ ३९.७९ ॥ तमाससाद च कपिं पर्यपृच्छत्तथाप्सराः । किं बाला न त्वया दृष्टा कपे सत्यं वदस्व मां ॥ ३९.८० ॥ तस्यास्तद्वचनं श्रुत्वा सकपिः प्राह बालिकाम् । दृष्टा देववती नाम्ना मया न्यस्ता महाश्रमे ॥ ३९.८१ ॥ कालिन्द्या विमले तीर्थे मृगपक्षिसमन्विते । श्रकण्ठायतनस्याग्रे मया सत्यं तवोदितम् ॥ ३९.८२ ॥ सा प्राह वानरपते नाम्ना वेदवतीति सा । न हि देववती ख्याता तदाच्छ व्रजावहे ॥ ३९.८३ ॥ घृताच्यास्तद्वचः श्रुत्वा वानरस्त्वरितक्रमः । पृष्ठतोऽस्याः समागच्छन्नदीमन्वेव कौशिकीम् ॥ ३९.८४ ॥ ते चापि कौशिकीं प्राप्ता राजर्षिप्रवरास्त्रयः । द्वितये तापसाभ्यां च रथैः परमवेगिभिः ॥ ३९.८५ ॥ अवतीर्य रथेभ्यस्ते स्नातुमभ्यागमन्नदीम् । घृताच्यपि नदीं स्नातं सुपण्यमाजगाम ह ॥ ३९.८६ ॥ तामन्वेव कपिः प्रायाद्दृष्टो जाबालिना तथा । दृष्ट्वैव पितरं पार्थिवं च महाबलम् ॥ ३९.८७ ॥ स येव पुनरायाति वानरस्तात वेगवान् । पूर्वं जटास्वेव बलाद्योन बद्धोऽस्मि पादपे ॥ ३९.८८ ॥ तज्जाबालिवचः श्रुत्वा शकुनिः क्रोधसंयुतः । सशरं धनुरादाय इदं वचनमब्रवीत् ॥ ३९.८९ ॥ ब्रह्मन् प्रदीयतां मह्यमाज्ञा तात वदस्व माम । यावदेनं निहन्म्यद्य शरेणैकेन वानरम् ॥ ३९.९० ॥ इत्येवमुक्ते वचने सर्वभूतहिते रतः । महर्षिः शकुनिं प्राह देतुयुक्तं वचो महत् ॥ ३९.९१ ॥ न कश्चित्तात केनापि बध्यते हन्यतेऽपि वा । वधबन्धौ पूर्वकर्मवश्यौ नृपतिनन्दन ॥ ३९.९२ ॥ इत्येवमुक्त्वा शकुनिमृषिर्वानरमब्रवीत् । एह्येहि वानरास्माकं साहाय्यं कर्तुमर्हसि ॥ ३९.९३ ॥ इत्येवमुक्तो मुनिना बाले स कपिकुञ्जरः । कृताञ्जलिपुटो भूत्वा प्रणिपत्येदमब्रवीत् । । ममाज्ञा दीयतां ब्रह्मन् शाधि किं करवाण्यहम् ॥ ३९.९४ ॥ इत्यक्ते प्राह स मुनिस्तं वानरपतिं वचः । मम पुत्रस्त्वयोद्बद्धो जटासु वटपादपे ॥ ३९.९५ ॥ न चोन्मोचयितुं वृक्षाच्छक्नुयामोऽपि यत्नतः । तदनेन नरेन्द्रेण त्रिधा कृत्वा तु शाखिनः ॥ ३९.९६ ॥ शाखां वहति मत्सूनुः शिरसा तां विमोचय । दशवर्षशतान्यस्य शाखां वै वहतोऽगमन् ॥ ३९.९७ ॥ न च सोऽस्ति पुमान् कश्चिद्यचो ह्युन्मोचयितुं क्षमः । स ऋषेर्वाक्यमाकर्ण्य कपिर्जाबालिनो जटाः ॥ ३९.९८ ॥ शनैरुन्मोचयामास क्षणादुन्मोचिताश्च ताः । ततः प्रीतो मुनिश्रेष्ठो वरदोभूदृतध्जः ॥ ३९.९९ ॥ कपिं प्राह वृणिष्व त्वं वरं यन्मनसोप्सितम् । ऋतध्वजवचः श्रुत्वा इमं वरमयाचत ॥ ३९.१०० ॥ विश्वकर्मा महातेजाः कपित्वे प्रतिसंस्थितः । ब्रह्मन् भवान्वरं मह्यं यदि दातुमिहेच्छति ॥ ३९.१०१ ॥ तत्स्वदत्तो महाघोरो मम शापो निवर्त्यताम् । चित्राङ्गदायाः पितरं मां त्वष्टारं तपोधन ॥ ३९.१०२ ॥ अभिजानीहि भवतः शापाद्वारतां गत्म् । सुबहूनि च पापानि मया यानि कृतानि हि ॥ ३०.१०३ ॥ कपिचापल्यदोषेण तानि मे यान्तु संक्ष्यम् । ततो ऋथध्वजः प्राह शापस्यान्तो भविष्यति ॥ ३९.१०४ ॥ यदा घृताच्यां तनयं जनिष्यसि महाबलम् । इत्येवमुक्ताः संहृष्टः स तदा कपिकुञ्जरः ॥ ३९.१०५ ॥ स्नातुं तूर्णं महानद्यामवतीर्णः कृशोदरि । ततस्तु सर्वे क्रमाशः स्नात्वार्ऽच्य पितृदेवताः ॥ ३९.१०६ ॥ जग्मुर्हृष्टा रथेभ्यस्ते घृताची दिवमुत्पतत् । तामन्वेव महावेगः स कपिः प्लवतां वरः ॥ ३९.१०७ ॥ ददृशे रूपसंपन्नां घृताचीं स प्लवङ्गमः । सापि तं बलिनां श्रेष्ठं दृष्ट्वैव कपिकुञ्जरम् ॥ ३०.१०८ ॥ ज्ञात्वाथत विश्वकर्माणं कामयामास कामिनी । ततोऽनु पर्वतश्रेष्ठे ख्याते कोलाहले कपिः ॥ ३९.१०९ ॥ रमयामास तां तन्वीं सा च तं वानरोत्तमम् । एवं रमन्तौ सुचिरं संप्राप्तौ विन्ध्यपर्वतम् ॥ ३९.११० ॥ रथैः पञ्चापि तत्तीर्थं संप्राप्तास्ते नरोत्तमाः । मघ्याह्नमये प्रीताः सप्तगोदावरं जलम् ॥ ३९.१११ ॥ प्राप्य विश्रामहेत्वर्थमवतेरुस्त्वरान्विताः । तेषां सारथयश्चाश्वान् स्नात्वा पीतोदकाप्लुतान् ॥ ३९.११२ ॥ रमणीये वनोद्देशे प्रचारार्थे समुत्सृजन् । शाढ्वलाढ्येषु देशेषु मुहुर्त्तादेव वाजिनः ॥ ३९.११३ ॥ तृप्ताः समाद्रवन् सर्वे देवायतनमुत्तमम् । तुरङ्गखुरनिर्घोषं श्रुत्वा ता योषितां वराः ॥ ३९.११४ ॥ किमेतदिति चोक्त्वैव प्रजग्मुर्हाटकेश्वरम् । आरुह्य बलभीं तास्तु समुदैक्षन्त सर्वशः ॥ ३९.११५ ॥ अपश्यंस्तीर्थसलिले स्नायमानान्नरोत्तमान् । ततश्चित्राङ्गदा दृष्ट्वा जटामण्डलधारिणम्। । सुरथं हसती प्राह संरोहत्पुलका सखीम् ॥ ३९.११६ ॥ योऽसौ युवा नीलघनप्रकाशः संदृश्यते दीर्घभुजः सूरूपः । स एव नूनं नरदेवसूनुर्वृतो मया पूर्वतरं पतिर्यः ॥ ३९.११७ ॥ यश्चैव जाम्बूवनदतुल्यवर्णः श्वेतं जटाभारमधारयिष्यत् । स एष नूनं तपतां वरिष्ठो ऋतध्वजो नात्र विचारमस्ति ॥ ३९.११८ ॥ ततोऽब्रवीदथो हृष्टा नन्दयन्ती सखीजनम् । एषोऽपरोऽस्यैव सुतो जावालिर्नात्र संशयः ॥ ३९.११९ ॥ इत्येवमुक्त्वा वचनं बलभ्या अवतीर्य च । समासताग्रतः शंभोर्गायन्त्यो गीतिकां शुभाम् ॥ ३९.१२० ॥ नमोऽस्तु शर्व शंबो त्रिनेत्र चारुगात्र त्रैलोक्यनाथ उमापते दक्षयज्ञविध्वंसकर कामाह्गनासन घोर पापप्रणाशन महापुरुष महोग्रमूर्ते सर्वसत्त्वक्षयङ्कर शुभङ्कर महेश्वर त्रिशूलधारिन् स्मरारे गुहावासिन् दिग्वासः महाशङ्कशेखर (५) जटाधर कपालमालाविभूषिकशरीर वामचक्षुः बामदेव प्रजाध्यक्ष भगाक्ष्णोः क्षयङ्कर भीमसेन महासेननाथ पशुपते कामाङ्गदहन चत्वरवासिन् शिव महादेव ईशान संकर भीम भव वषभध्वज जटिल प्रौढ महानाट्येश्वर भूरिरत्न (१०) अविमुक्तक रुद्रश्वर स्थाणो एकलिङ्ग कालिन्दीप्रिय श्रीकण्ठ नीलकण्ठ अपराजित रिपुभयङ्कर संतोषपते वामदेव अघोर तत्पुरुष महाघोर अघोरमूर्त्त शान्त सरस्वतीकान्त कीनाट सहस्रमूर्त्ते महोद्भव (१५) विबो कालाग्निरुद्र हर महीधरप्रिय सर्वतीर्थाधिवास हंस कामेश्वर केदाराधिपते परिपूर्ण मुचुकुन्द मधुनिवासिन् कृपाणपाणे भयङ्कर विद्याराज सोमराज कामराज उञ्जक अञ्जनराजकन्याहृदचलवसते समुद्रशायिन् (२०) गजमुख घण्टेश्वर गोकर्ण ब्रह्मयोने सहस्रवक्त्राक्षिचरण हाटकेश्वर नमोऽस्तु ते । एतस्मिन्नन्तरे प्राप्ताः सर्व एवर्षिपार्थिवाः । द्रष्टुं त्रैलोक्यकर्तारं त्र्यम्बकं हाटकेश्वरम् ॥ ३९.१२१ ॥ समारूढाश्च सुस्नाता ददृशुर्योषितश्च ताः । स्थितास्तु पुरतस्तस्य गायन्त्यो गेयमुत्तमम् ॥ ३९.१२२ ॥ ततः सुदेवतनयो विश्वकर्मसुतां प्रियाम् । दृष्ट्वा हृषितचित्तस्तु संरोहत्पुलको बभौ ॥ ३९.१२३ ॥ ऋतध्वजोऽपि तन्वङ्गीं दृष्ट्वा चित्राङ्गदां स्थिताम् । प्रत्यभिज्ञाय योगात्मा बभौ मुदितमानसः ॥ ३९.१२४ ॥ ततस्तु सहसाभ्येत्य देवेशं हाटकेश्वरम् । संपूजयन्तस्त्र्यक्षं ते स्तुवन्तः संस्थिताः क्रमात् ॥ ३९.१२५ ॥ चित्राङ्गदापि तान् दृष्ट्वा ऋतध्वजपुरोगमान् । समं ताभिः कृसाङ्गीभिरभ्युत्थायाभ्यवादयत् ॥ ३९.१२६ ॥ स च ताः प्रतिनन्द्यैव समं पुत्रेण तापसः । समं नृपतिभिर्हृष्टः संविवेश यथासुखम् ॥ ३९.१२७ ॥ ततः कपिवरः प्राप्तो घृताच्या सह सुन्दरि । स्नात्वा गोदावरीतीर्थे दिदृक्षुर्हाटकेश्वरम् ॥ ३९.१२८ ॥ ततोऽपश्यत्सुतां तन्वीं घृताची शुभदर्शनाम् । सापि तां मातरं दृष्ट्वा हृष्टाभूद्वरवर्णिनी ॥ ३९.१२९ ॥ ततो घृताची स्वां पुत्रीं परिष्वज्य न्यपीडयत् । स्नेहात्सवाष्पनयनां मुहुस्तां परिजिघ्रवीत् ॥ ३९.१३० ॥ ततो ऋतध्वजः श्रीमान् कपिं वचनमब्रवीत् । गच्छनेतुं गुह्यकं त्वमञ्जनाद्रौ महाञ्जनम् ॥ ३९.१३१ ॥ पातालादपि दैत्येशं वीरं कन्दरमालिनम् । स्वर्गाद्गन्धर्वराजानं पर्जन्यं शीघ्रमानय ॥ ३९.१३२ ॥ इत्येवमुक्ते मुनिना प्राह देववती कपिम् । गालवं वानरश्रेष्ठ इहानेतुं त्वमर्हसि ॥ ३९.१३३ ॥ इत्येवमुक्ते वचने कपिर्मरुतविक्रमः । गत्वाञ्जनं समामन्त्र्य जगामामरपर्वतम् ॥ ३९.१३४ ॥ पर्जन्यं तत्र चामन्त्र्य प्रेषयित्वा महाश्रमे । सप्तगोदावरे तीर्थे पातालमगमत्कपिः ॥ ३९.१३५ ॥ तत्रामन्त्र्य महावीर्यं कपिः कन्दरमालिनम् । पातालादभिनिष्क्रम्य महीं पर्यचरज्जवी ॥ ३९.१३६ ॥ गालं तपसो योनिं दृष्ट्वा माहिष्मतीमनु । समुत्पत्यानयच्छीघ्रं सप्तगोदावरं जलम् ॥ ३९.१३७ ॥ तत्र स्नात्वा विधानेन संप्राप्तो हाटकेश्वरम् । ददृशे नन्दयन्ती च स्थितां देववतीमपि ॥ ३९.१३८ ॥ तं दृष्ट्वा गालवं चैव समुत्थायाभ्यवादयत् । स चार्चिष्यन्महादेवं महर्षीनभ्यवादयत् । ते चापि नृपतिश्रेष्ठस्तं संपूज्य तपोधनम् ॥ ३९.१३९ ॥ प्रहर्षमतुलं गत्वा उपविष्टा यथासुखम् । तेषूपविष्टेषु तदा वानरोपनिमन्त्रिताः ॥ ३९.१४० ॥ समायाता महात्मानो यक्षगन्धर्वदानवाः । तानागतान् समीक्ष्यैव पुत्र्यस्ताः पृथुलोचनाः ॥ ३९.१४१ ॥ स्नेहार्द्रनयनाः सर्वास्तदा सस्वजिरे पितॄन् । नन्दयन्त्यादिका दृष्ट्वा सपितृका वरानना ॥ ३९.१४२ ॥ सवाष्पनयना जाता विश्वकर्मसुता तदा । अथ तामाह स मुनिः सत्यं सत्यध्वजो वचः ॥ ३९.१४३ ॥ मा विषादं कृताः पुत्रि पितायं तव वानरः । सा तद्वचनमाकर्ण्य व्रीडोपहतचेतना ॥ ३९.१४४ ॥ कथं तु विश्वकर्मासौ वानरत्वं गतोऽधुना । दुष्पुत्र्यां मयिजातायं तस्मात्त्यक्षे कलेवरम् ॥ ३९.१४५ ॥ इति संचिन्त्य मनसा ऋतध्वजमुवाच ह । परित्रायस्व मां ब्रह्मन् पापोपहतचेतनाम् ॥ ३९.१४६ ॥ पितृघ्नी मर्तुमिच्छामि तदनुज्ञातुमर्हसि । अथोवाच मुनिस्तन्वीं मा विषादं कृथाधुना ॥ ३९.१४७ ॥ भाव्यस्य नैव नाशोऽस्ति नन्मा त्याक्षीः कलेवरम् । भविष्यति पिता तुभ्यं भुययोऽप्यमरवर्द्धकिः ॥ ३९.१४८ ॥ जातेऽपत्ये घृताच्यां तु नात्र कार्या विचारणा । इत्येवमुक्ते वचने मुनिना भावितात्मना ॥ ३९.१४९ ॥ घृताची तां सम्भ्येत्य प्राह चित्राङ्गदां वचः । पुत्रि त्यजस्व शोकं त्वं मासौर्दशभिरात्मजः ॥ ३९.१५० ॥ भविष्यति पुतुस्तुभ्यं मत्सकाशान्न संशयः । इत्येवमुक्ता संहृष्टा बभौ चित्राङ्गदा तदा ॥ ३९.१५१ ॥ प्रतीक्षन्ती सुचार्वङ्गी विवाहे पितृदर्शनम् । सर्वास्ता अपि तावन्तं कालं सुतनुकन्यकाः ॥ ३९.१५२ ॥ प्रत्यैक्षन्त विवाहं हि तस्या एव प्रियेप्सया । ततो दशसु मासेषु समतीतेष्वथाप्सराः ॥ ३९.१५३ ॥ तस्म्न् गोदावरीतीर्थे प्रसूता तनयं नलम् । जातेऽपत्ये कपित्वाच्च विश्वकर्माप्यमुच्यत ॥ ३९.१५४ ॥ समभ्येत्य प्रियां पुत्रीं पर्यष्वजत चादरात् । ततः प्रीतेन मनसा सस्मार सुरवर्द्धकिः ॥ ३९.१५५ ॥ सुराणामधिपं शक्रं सहैव सुरकिन्नरैः । त्वष्ट्राथ संस्मृतः शक्रो मरुद्गणवृतस्तदा ॥ ३९.१५६ ॥ सुरैः सरुद्रैः संप्राप्तस्तत्तीर्थ हाटकाह्वयम् । समायातेषु देवेषु गन्धर्वेष्वप्सरस्सु च ॥ ३९.१५७ ॥ इन्द्रद्युम्नो मुनिश्रेष्ठमृतध्वजमुवाच ह । जाबालेर्दीयतां ब्रह्मन् सुताकन्दरमालिनः ॥ ३९.१५८ ॥ गृह्णातु विधिवत्पाणिं दैतेय्यास्तनयस्तव । नन्दयन्तीं च शकुनिः परिणेतुं स्वरूपवान् ॥ ३९.१५९ ॥ ममेयं वेदवत्यस्तु त्वाष्ट्रोयी सुरथस्य च । बाढमित्यब्रवीद्धृष्टो मुनिर्मनुसुतं नृपम् ॥ ३९.१६० ॥ ततोऽनुचक्रुः संहृष्टा विवाहविधिमुत्तमम् । ऋत्विजोऽभूद्गालवस्तु हुत्वा हव्यं विधनतः ॥ ३९.१६१ ॥ गायन्ते तत्र गन्धर्वा नृत्यन्तेऽप्सरसस्तथा । आदौ जाबालिनः पाणिर्गृहीतो दैत्यकन्यया ॥ ३९.१६२ ॥ इन्द्रद्युम्नेन तदनु वेदवत्या विधानतः । ततः शकुनिना पाणिर्गृहीतो यक्षकन्यया ॥ ३९.१६३ ॥ चित्राङ्गदायाः कल्याणि सुरथः पाणिमग्रहीत् । एवं क्रमाद्विवाहस्तु निर्वृत्तस्तनुमध्यमे ॥ ३९.१६४ ॥ वृत्ते मुनिर्विवाहे तु शक्रादीन् प्राह दैवतान् । अस्मिस्तीर्थे भवद्भिस्तु सप्तगोदावरे सदा ॥ ३९.१६५ ॥ स्थेयं विशेषतो मासमिमं माधवमुत्तमम् । बाढमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा दिवं क्रमात् ॥ ३९.१६६ ॥ मुनयो मुनिमादाय सपुत्रं जग्मुरादरात् । भार्याश्चादाय राजानः स्वं स्वं नगरमागताः ॥ ३९.१६७ ॥ प्रहृष्टाः सुखिनस्तस्थुः भुञ्जते विषयान् प्रियान् । चित्राङ्गदायाः कल्याणि एवं वृत्तं पुरा किल । तन्मां कमलपत्राक्षि भजस्व ललनोत्तमे ॥ ३९.१६८ ॥ इत्येवमुक्त्वा नरदेवसूनुस्तां भूमिदेवस्य सुतां वरोरुम् । स्तुवन्मृगाक्षीं मृदुना क्रमेण सा चापि वाक्यं नृपतिं बभाषे ॥ ३९.१६९ ॥ इति श्रीवामनपुराणे एकोनचत्वारिंशोऽध्यायः ________________________________________________________________________ अरजा उवाच । नात्मानं तव दास्यामि बुहनोक्तेन किं तव । रक्षन्ती भवतः शापादात्मानं च मही पते ॥ ४०.१ ॥ प्रह्लाद उवाच् । इत्थं विवदमानां तां भार्गवेन्द्रसुतां बलात् । कामोपहतचित्तात्मा व्यध्वंसयत मन्दधीः ॥ ४०.२ ॥ तां कृत्वा च्युतचापित्रां मदान्धः पृथिवीपतिः । निश्चक्रामाश्रमात्तस्माद्गतश्च नगरं निजम् ॥ ४०.३ ॥ सापि शुक्रसुता तन्वी अरजा रजसाप्लुता । आश्रमादथ निरगत्य बहिस्तस्थावधोसुखी ॥ ४०.४ ॥ चिन्तयन्ती स्वपितरं रुदती च मुहुर्मुहुः । महाग्रहोपतप्तेव रोहिणी शशिनः प्रिया ॥ ४०.५ ॥ ततो बहुतिथे काले समाप्ते यज्ञकर्मणि । पातालादागमच्छुक्रः खमाश्रमपदं मुनिः ॥ ४०.६ ॥ आश्रमान्ते च ददृशे सुतां दैत्य रजखलाम् । मेघलेखामिवाकाशे संध्यारागेण रञ्जिताम् ॥ ४०.७ ॥ तां दृष्ट्वा परिपप्रच्छ पुत्रि केनासि धर्षिता । कः क्रीडति सरोषेण सममाशीविषेण हि ॥ ४०.८ ॥ कोऽद्यैव याम्यां नगरीं गमिष्यति सुदुर्मतिः । यस्त्वां सुद्धसमाचारां विध्वंसयति पापकृत् ॥ ४०.९ ॥ ततः स्वपितरं दृष्ट्वा कम्पमाना पुनः पुनाः । रुदन्ती व्रीडयोपेता मन्दं मन्दमुवाच ह ॥ ४०.१० ॥ तव शिष्येण दण्डेन वार्यमाणेन चासकृत् । बलादनाथा रुदती नीताहं वचनीयताम् ॥ ४०.११ ॥ एतत्पुत्र्या वचः श्रुत्वा क्रोधसंरक्तलोचनः । उपस्पृश्य शुचिर्भूत्वा इदं वचनमब्रवीत् ॥ ४०.१२ ॥ यस्मात्तेनाविनितेन मत्तो ह्यभयमुत्तमम् । गौरवं च तिरस्कृत्य च्युतधर्मारजा कृता ॥ ४०.१३ ॥ तस्मात्सराष्ट्रः सबलः सभृत्यो वाहनैः सह । सप्तरात्रान्तराद्भस्म ग्राववृष्ट्या भविष्यति ॥ ४०.१४ ॥ इत्येवमुक्त्वा मुनिपुङ्गवोऽसौ शप्त्वा स दण्डं स्वसुतामुवाच । त्वं पापमोक्षार्थमिहैव पुत्रि तिष्ठस्व कल्याणि तपश्चरन्ती ॥ ४०.१५ ॥ श्पत्वेत्थं भगवान् शुक्रो दण्डमिक्ष्वाकुनन्दनम् । जगाम शिष्यसहितः पातालं दानवालयम् ॥ ४०.१६ ॥ दण्डोऽपि भस्मसाद्भूतः सराष्ट्रबलवाहनः । महता ग्राववरषेण सप्तरात्रान्तरे तदा ॥ ४०.१७ ॥ एवं तदृण्डकारण्यं परित्यज्यनति देवता । आलयं राक्षसानां तु कृतं देवेन शंभुना ॥ ४०.१८ ॥ एवं परकलत्राणि नयन्ति सुकृतीनपि । भस्मभूतान् प्राकृतांस्तु महान्तं च पराभवम् ॥ ४०.१९ ॥ तस्मादन्धक दुर्बुद्धिर्न कार्या भवता त्वियम् । प्राकृतापि दहेन्नारी किमुताहोद्रिनन्दिनी ॥ ४०.२० ॥ शङ्करोऽपि न दैत्येश शक्यो जेतुं सुरासुरैः । द्रष्टुमप्यमितौजस्कः किमु योधयितुं रणे ॥ ४०.२१ ॥ पुलस्त्य उवाच । इत्येवमुक्ते वचने क्रुद्धस्ताम्रेक्षणः श्वसन् । वाक्यमाह महातेजाः प्रह्लादं चान्धकासुरः ॥ ४०.२२ ॥ किं ममासौ रणे योद्धुं शक्तस्त्रिमयनोऽसुर । एकाकी धर्मरहितो भस्मारुणितविग्रहः ॥ ४०.२३ ॥ नान्धको बिभियादिन्द्रान्नामरेभ्यः कथञ्चन । स कथं वृषपत्राक्षाद्बिभेति स्त्रीमुखेक्षकात् ॥ ४०.२४ ॥ तच्छ्रुत्वास्य वचो घोरं प्रह्लादः प्राह नारद । न सम्यगुक्तं भवता विरुद्धं धर्मतोर्ऽथतः ॥ ४०.२५ ॥ हुताशनपतङ्गाभ्यां सिंहक्रोष्टुकयोरिव । गजेन्द्रमशकाभ्यां च रुक्मपाषाणयोरिव ॥ ४०.२६ ॥ एतेषामेभिरुदितं यावदन्तरमन्धक । तावदेवान्तरं चास्ति भवतो वा हरस्य च ॥ ४०.२७ ॥ वारितोऽसि मया वीर भूयो भूयश्च वार्यसे । शृणुष्व वाक्यं देवर्षेरसितस्य महात्मनः ॥ ४०.२८ ॥ यो धर्मशीलो जितमानरोषो विद्याविनीतो न परोपतापी । स्वदारतुष्टः परदारवर्जो नतस्य लोके भयमस्ति किञ्चित् ॥ ४०.२९ ॥ यो धर्महीनः कलहप्रियः सदा परोपतापी श्रुतिशास्त्रवर्जितः । परार्थदारेष्सुरवर्णसंगमी सुखं न विन्देत परत्र चेह ॥ ४०.३० ॥ धर्मान्वितोऽभून्मनुरर्कपुत्रः स्वदारसंतुष्टमनास्त्वगस्त्यः ॥ ४०.३१ ॥ एतानि पुण्यानि कृतान्यमीभिर्मया निबद्धानि कुलक्रमोक्त्या । तेजोन्विताः शापवरक्षमाश्च जाताश्च सर्वे सुरसिद्धपूज्याः ॥ ४०.३२ ॥ अधर्मऽयुक्तोऽङ्गसुतो बभूव विभुश्च नित्यं कलहप्रियोऽभूत् । परोपतापी नमुचिर्दुरात्मा पराबलेप्सुर्नहुषश्च राजा ॥ ४०.३३ ॥ परार्थलिप्सुर्दिजितो हिरण्यदृक्मूर्खस्तु तस्याप्यनुजः सुदुर्मतिः । अवर्णसंगी यदुस्त्तमौजा एते विनष्टास्त्वनयात्पुरा हि ॥ ४०.३४ ॥ तस्माद्धर्मो न संत्याज्यो धर्मो हि परमा गतिः । धर्महीना नरा यान्ति रौरवं नरकं महत् ॥ ४०.३५ ॥ धर्मस्तु गदितः पुंभिस्तारणे दिवि चेह च । पतनाय तथाधर्म इह लोके परत्र च ॥ ४०.३६ ॥ त्याज्यं धर्मान्वितैर्न्नित्यं परदारोपसेवनम् । नयन्ति परदारा हि नरकानेकविंशतिम् । सर्वेषामपि वर्णानामेष धर्मो ध्रुवोऽन्धक ॥ ४०.३७ ॥ परार्थपरदारेषु यदा वाञ्छां करिष्यति । स याति नरकं घोरं रौरवं बहुलाः समाः ॥ ४०.३८ ॥ एवं पुरासुरपते देवर्षिरसितोऽव्यायः । प्राह धर्मव्यवस्थानं खगेन्द्रायारुणाय हि ॥ ४०.३९ ॥ तस्मात्सुदूरतो वर्जेत्परदारान् विचक्षणाः । नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥ ४०.४० ॥ पुलस्त्य उवाच । इत्येवमुक्ते वचने प्रह्लादं प्राह चान्धकः । भवान् धर्मपरस्त्वेको नाहं धर्म समाचरे ॥ ४०.४१ ॥ इत्येवमुक्त्वा प्रह्लादमन्धकः प्राह शम्बरम् । गच्छ शम्बर शैलेन्द्रं मन्दरं वद शङ्करम् ॥ ४०.४२ ॥ भिक्षो किमर्थं शौलेन्द्रं स्वर्गोपम्यं सकन्दरम् । परिभुञ्जसि केनाद्य तव दत्तो वदस्व माम ॥ ४०.४३ ॥ तिष्ठन्ति शासने मह्यं देवाः शक्रपुरोगमाः । तत्किमर्थं निवससे मामनादृत्य मन्दरे ॥ ४०.४४ ॥ यदीष्टस्तव शैलेन्द्रः क्रियतां वचनं मम । येयं हि भवतः पत्नी सा मे शीघ्रं प्रदीयताम् ॥ ४०.४५ ॥ इत्युक्तः स तदा तेन शम्बरो मन्दरं द्रुतम् । जगाम तत्र यत्रास्ते सह देव्या पिनाकधृक् ॥ ४०.४६ ॥ गत्वोवाचान्धकवचो याथातथ्यं दनोः सुतः । तमुत्तरं हरः प्राह शृण्वत्या गिरिकन्यया ॥ ४०.४७ ॥ ममायं मन्दरो दत्तः सहस्राक्षेण धीमता । तन्न शक्नोम्यहं त्यक्तुं विनाज्ञां वृक्षवैरिणः ॥ ४०.४८ ॥ यच्चाब्रवीद्दीयतां मे गिरिपुत्रीति दानवः । तदेषा यातु स्वं कामं नाहं वारयितुं क्षमः ॥ ४०.४९ ॥ ततोऽब्रवीत्गिरिसुता शम्बरं मुनिसत्तम । ब्रूहि गत्वान्धकं वीर मम वाक्यं विपश्चितम् ॥ ४०.५० ॥ अहं पताका संग्रामे भवानीशश्च देविनौ । प्रामद्यूतं परिस्तीर्य यो जेष्यति स लप्स्यते ॥ ४०.५१ ॥ इत्येवमुक्तो मतिमान् शम्बरोऽन्दकमागमत् । समागम्याब्रवीद्वाक्यं शर्वगौर्योश्च भाषितम् ॥ ४०.५२ ॥ तच्छ्रत्वा दानवपतिः क्रोधदीप्तेक्षणः श्वसन् । समाहूयाब्रवीद्वाक्यं दुर्योधनमिदं वचः ॥ ४०.५३ ॥ गच्छ शीघ्रं महाबाहो भेरीं सान्नाहिकीं दृढाम् । ताडयस्व सुविश्रब्धं दुःशीलामिव योषितम् ॥ ४०.५४ ॥ समादिष्टोऽन्धकेनाथ भेरीं दुर्योधनो बलात् । ताडयामास वेगेन यथाप्राणेन भूयसा ॥ ४०.५५ ॥ सा ताडिता बलवता भेरी दुर्योधनेन हि । सत्वरं भैरवं रावं रुराव सुरभी यथा ॥ ४०.५६ ॥ तस्यास्तं स्वरमाकर्ण्य सर्व एव महासुराः । समायाताः सभां तूर्णं किमेतदिति वादिनः ॥ ४०.५७ ॥ याथातथ्यं च तान् सर्वानाह सेनापतिर्बली । ते चापि बलिनां श्रेष्ठाः सन्नद्धा युद्धकाङ्क्षिणः ॥ ४०.५८ ॥ सहान्धका निर्ययुस्ते गजैरुष्ट्रैर्हयै रथैः । अन्धको रथमास्थाय पञ्चनल्वप्रणमाणतः ॥ ४०.५९ ॥ त्र्यम्बकं स पराजेतुं कृतबुद्धिर्विनिर्ययौ । जम्भः कुजम्भो हुण्डश्च तुहुण्डः शम्बरो बलिः ॥ ४०.६० ॥ बाणाः कार्तस्वरो हस्ती सूर्यशत्रुर्महोदरः । अयःशुङ्कुः शिबिः शाल्वो वृषपर्वा विरोचनः ॥ ४०.६१ ॥ हयग्रीवः कालनेमिः संह्लादः कालनाशनः । शरभः शलभश्चैव विप्रचित्तिश्च वीर्यवान् ॥ ४०.६२ ॥ दुर्योधनश्च पाकश्च विपाकः कालशम्बरौ । एते चान्ये च बहवो महावीर्या महाबलाः । प्रजगमुरुत्सुका योद्धुं नानायुधधरा रणे ॥ ४०.६३ ॥ इत्थं दुरात्मा दनुसैन्यपालस्तदान्धको योद्धुमना हरेण । महाचलं मन्दरमभ्युपेयिवान् स कालपाशावसितो हि मन्दधीः ॥ ४०.६४ ॥ इति श्रीवामनपुराणे चत्वारिशोऽध्यायः ________________________________________________________________________ पुलास्त्य उवाच । हरोऽपि शम्बरे याते समाहूयाथ नन्दिनम् । प्राहामन्त्रय शैलादे ये स्थितास्तव शासने ॥ ४१.१ ॥ ततो महेशवचनान्नन्दी तूर्णतरं गतः । उपस्पृश्य जलं श्रीमान् सस्मार गणनायकान् ॥ ४१.२ ॥ नन्दिना संस्मृताः सर्वे गणनाथाः सहस्रशः । समुत्पत्य त्वरायुक्ताः प्रणतास्त्रिदसेश्वरम् ॥ ४१.३ ॥ आगतांश्च गणान्नन्दी कृताञ्जलिपुटोऽव्ययः । सर्वान्निवेदयामास शङ्कराय महात्मने ॥ ४१.४ ॥ नन्द्युवाच । यानेतान् पश्यसे शंभो त्रिनेत्राञ्जटिलाञ्शुचीन् । एते रुद्रा इति ख्याताः कोट्य एकादशैव तु ॥ ४१.५ ॥ वानरास्यान् पश्यसे यान् शार्दूलसमविक्रमान् । एतेषां द्वारपालास्ते मन्नमानो यशोधनाः ॥ ४१.६ ॥ षण्मुखान् पश्यसे यांश्च शक्तिपाणीञ्शिखिध्वजान् । षट्च षष्टिस्तथा कोट्यः स्कन्दनाम्नः कुमारकान् ॥ ४१.७ ॥ एतावत्यस्तथा कोट्य शाखा नाम षडाननाः । विशाखास्तावदेवोक्ता नैगमेयाश्च शङ्कर ॥ ४१.८ ॥ सप्तकोटिशतं शंभो अमी वै प्रमथोत्तमाः । एकैकं प्रति देवेश तावत्यो ह्यपि मातरः ॥ ४१.९ ॥ भस्मारुणितदेहाश्च त्रिनेत्राः शूलपाणयः । एते शैवा इति प्रोक्तास्तव भक्ता गणेश्वराः ॥ ४१.१० ॥ तथा पाशुपताश्चान्ये भस्मप्रहारणा विभो । एते गणास्त्वसंख्याताः सहायार्थं समागताः ॥ ४१.११ ॥ पिनाकधारिणो रौद्रा गणाः कालमुखापरे । तव भक्ताः समायाता जटामण्डलिनोद्भुताः ॥ ४१.१२ ॥ खट्वाङ्गयोधिनो वीरा रक्तचर्मसमावृताः । इमे प्राप्ता गणा योद्धुं महाव्रतिन उत्तमाः ॥ ४१.१३ ॥ दिग्वाससो मौनिनश्च घण्टाप्रहरणास्तथा । निराश्रया नाम गणाः समायाता जगद्गुरो ॥ ४१.१४ ॥ सार्धद्विनेत्राः पद्माक्षाः श्रीवत्साङ्कितवक्षसः । समायाताः खगारूढा वृषभध्वजिनोऽव्ययाः ॥ ४१.१५ ॥ महापाशुपता नाम चक्रशूलधरास्तथा । भैरवो विष्णुना सार्द्धमभेदेनार्चितो हि यै ॥ ४१.१६ ॥ इमे मृगोन्द्रवदनाः शूलबाणधनुर्धराः । गणास्त्वद्रोमसंभूता वीरभद्रपुरोगमाः ॥ ४१.१७ ॥ एते चान्ये च बहवः शतशोऽथ सहस्रशः । सहायार्थं तवायाता यथाप्रीत्यादिशस्व तान् ॥ ४१.१८ ॥ ततोऽभ्येत्य गणाः सर्वे प्रणेमुर्वृषभध्वजम् । तान् करेणैव भगवान् समाश्वास्योपवेशयत् ॥ ४१.१९ ॥ महापाशुपतान् दृष्ट्वा समुत्थाय महेश्वरः । संपरिष्वजताध्यक्षांस्ते प्रणेमुर्महेश्वरम् ॥ ४१.२० ॥ ततस्तदद्भुततमं दृष्ट्वा सर्वे गणेश्वराः सुचिरं विस्मिताक्षाश्च वैलक्ष्यमगमत्परम् ॥ ४१.२१ ॥ विस्मिताक्षान् गणान् दृष्ट्वा सैलदिर्योगिनां वरः । प्राह प्रहस्य देवेशं शूलपाणिं गणाधिपम् ॥ ४१.२२ ॥ विस्मितामी गणा देव सर्व एव महेश्वर । महापाशुपतानां हि यत्त्वयालिङ्गनं कृतम् ॥ ४१.२३ ॥ तदेतेषां महादेव स्फुटं त्रैलोक्यविन्दकम् । रूपं ज्ञानं विवेकं च वदस्व स्वेच्छया विभो ॥ ४१.२४ ॥ प्रमथाधिपतेर्वाक्यं विदित्वा भूतभावनः । बभाषे तान् गणान् सर्वान् भावाभावविचारिणः ॥ ४१.२५ ॥ रुद्र उवाच् । भव्द्भिर्भक्तिसंयुक्तैर्हरो भावेन पूजितः । अहङ्कारविमूढैश्च निन्दद्भिर्वैष्णवं पदम् ॥ ४१.२६ ॥ तेनाज्ञानेन भवतोनादृत्यानुविरोधिताः । योऽहं स भगवान् विष्णुर्विष्णुर्यः सोऽहमव्ययः ॥ ४१.२७ ॥ नावयोर्वै विशेषोऽस्ति एका मूर्तिर्द्विधा स्थिता । तदमीभिर्नरव्याघ्रैर्भक्तिभावयुतैर्गणैः ॥ ४१.२८ ॥ यथाहं वै परिज्ञातो न भवद्भिस्तथा ध्रुवम् । येनाहं निन्दितो नित्यं भवद्भिर्मूढबुद्धिभिः ॥ ४१.२९ ॥ तेन ज्ञानं हि वै नष्टं नातस्त्वालिङ्गिता मया । इत्येवमुक्ते वचने गणाः प्रोचुर्महेश्वरम् ॥ ४१.३० ॥ कथं भवान् यथैक्येन संस्थितोऽस्ति जनार्दनः । भवान् हि निर्मलः सुद्धः शान्तः सुक्लो निरञ्जनः ॥ ४१.३१ ॥ स चाप्यञ्जनसंकाशः कथं तेनेह युज्यते । तेषां वचनमर्थाढ्यं श्रुत्वा जीमूतवाहनः ॥ ४१.३२ ॥ विहस्य मेघगम्भीरं गणानिदमुवाच ह । श्रूयतां सर्वमाख्यास्ये स्वयशोवर्द्धनं वचः ॥ ४१.३३ ॥ न त्वेव योग्या यूयं हि महाज्ञानस्य कर्हिचित् । अपवादभयाद्गुह्यं भवतां हि प्रकाशये ॥ ४१.३४ ॥ प्रियध्वमपि चैतेन यन्मच्चित्तास्तु नित्यशः । एकरूपात्मकं देहं कुरुध्यं यत्नमास्थिताः ॥ ४१.३५ ॥ पयसा हविषाद्यैश्च स्नापनेन प्रयत्नतः । चन्दनादिभिरेकाग्रैर्न मे प्रीतिः प्रजायते ॥ ४१.३६ ॥ यत्नात्क्रकचमादाय छिन्दध्वं मम विग्रहम् । नरकार्हा भवद्भक्ता रक्षामि स्वयशोर्ऽथतः ॥ ४१.३७ ॥ मायं वदिष्यते लोको महान्तमपवादिनम् । यथा पतन्ति नरके हरभक्तास्तपस्विनः ॥ ४१.३८ ॥ व्रजन्ति नरकं घोरं इत्येवं परिवादिनः । अतोर्ऽथं न क्षिपाम्यद्य भवतो नरकेऽद्भुते ॥ ४१.३९ ॥ यन्निन्दध्वं जगन्नाथं पुष्कराक्षं च मन्मयम् । स चैव सदृशो लोके विद्यते सचराचरे । श्वेतमूर्तिः स गवान् पीतो रक्तोऽञ्जनप्रभः ॥ ४१.४० ॥ न तस्य सदृशो लोके विद्यते सचराचरे । श्वेतमूर्तिः स भगवान् पीतो रक्तोऽञ्जनप्रभः ॥ ४१.४१ ॥ तस्मात्परतरं लोके नान्यद्धर्म हि विद्यते । सात्त्विकं राजसं चैव तामसं मिश्रकं तथा । स एव धत्ते भगवान् सर्वपूज्यः सदाशिवः ॥ ४१.४२ ॥ शङ्करस्य वचः श्रुत्वा शैवाद्या प्रमथोत्तमाः । प्रत्यूचुर्भगवन् ब्रूहि सदाशिवविशेणम् ॥ ४१.४३ ॥ तेषां तद्भाषितं श्रुत्वा प्रमथानामथेश्वरः । दर्शयामास तद्रूपं सदाशैवं निरञ्जनम् ॥ ४१.४४ ॥ ततः पश्यन्ति हि गणाः तमीसं वै शहस्रशः । सहस्रवक्त्रचरणं सहस्त्रभुजमीश्वरम् ॥ ४१.४५ ॥ दण्डपाणिं सुदुर्दृश्यं लोकैर्व्याप्तं समन्ततः । दण्डसंस्थास्य दृश्यन्ते देवप्रहरणास्तथा ॥ ४१.४६ ॥ तत एकमुखं भूयो ददृशुः शङ्करं गणाः । रौद्रैश्च वैष्णवैश्चैव वृतं चिह्नैः सहस्रशः ॥ ४१.४७ ॥ अर्द्धेन वैष्णववपुर्द्धेन हरविग्रहः । खगध्वजं वृषारूढं वृषध्वजम् ॥ ४१.४८ ॥ यथा यथा त्रिनयनो रूपं धत्ते गुणाग्रणीः । तथा तथा त्वजायन्त महापाशुपता गणाः ॥ ४१.४९ ॥ ततोऽभवच्चैकरूपी शङ्करो बहुरूपवान् । द्विरूपश्चाभवद्योगी एकरूपोऽप्यरूपवान् । क्षणाच्छ्वेतः क्षणाद्रक्तः पीतो नीलः क्षणादपि ॥ ४१.५० ॥ मिश्रको वर्णहीनश्च महापाशुपतस्तथा । क्षणाद्भवति रुद्रेन्द्रः क्षणाच्छंभुः प्रभाकरः ॥ ४१.५१ ॥ क्षणार्द्धाच्छङ्करो विष्णुः क्षणाच्छर्वः पितामहः । ततस्तदद्भुततमं दृष्ट्वा शैवादयो गणाः ॥ ४१.५२ ॥ अजानन्त तदैक्येन ब्रह्मविष्ण्वीशभास्करान् । यदाभिन्नममन्यन्त देवेदेवं सदाशिवम् ॥ ४१.५३ ॥ तदा निर्धूतपापास्ते समजायन्त पार्षदाः । तेष्वेवं धूतपापेषु अभिन्नेषु हरीश्वरः ॥ ४१.५४ ॥ प्रीतात्मा विबभो शंशुः प्रीतीयुक्तोऽब्रवीद्वचः । परितुष्टोऽस्मि वः सर्वे ज्ञानेनानेन सुव्रताः ॥ ४१.५५ ॥ वृणुध्वं वरमानन्त्यं दास्ये वो मनसेप्सितम् । ऊचुस्ते देहि भगवन् वरमस्माकमीश्वर । भिन्नदृष्ट्युद्भवं पापं यत्तद्भ्रंशं प्रयातु नः ॥ ४१.५६ ॥ पुलस्त्य उवाच । बाढमित्यब्रवीच्छर्वश्चक्रे निर्धूतकल्पषान् । संपरिष्वजताव्यक्तस्तान् सर्वान् गणयूथपान् ॥ ४१.५७ ॥ इति विभुना प्रणतार्तिहरेण गणपतयो वृषमेघरथेन । श्रुतिगदितानुगमेनेव मन्दरं गिरिमवतत्य समध्यवसन्तम् ॥ ४१.५८ ॥ आच्छादितो गिरिवरः प्रमथैर्घनाभै राभाति शुक्लतनुरीश्वरपादजुष्टः । नीलाजिनातततनुः शरदभ्रवर्णो यद्वद्विभाति बलवान् वृषभो हरस्य ॥ ४१.५९ ॥ इति श्रीवामनपुराणे एकचत्वारिशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । एतस्मिन्नन्तरे प्राप्तः समं दैत्यैस्तथान्धकः । मन्दरं पर्वतश्रेष्ठं प्रमथाश्रितकन्दरम् ॥ ४२.१ ॥ प्रमथा दानवातन् दृष्ट्वा चक्रुः किलकिलाध्वनिम् । प्रमथाश्चापि संरब्धा जघ्नुस्तूर्याण्यनेकशः ॥ ४२.२ ॥ स चावृणोन्महानादो रोदसी प्रलयोपमः । शुश्राव वायुमार्गस्थो विघ्नराजो विनायकः ॥ ४२.३ ॥ समभ्ययात्सुसंक्रुद्धः प्रमथैरभिसंवृतः । मन्दरं पर्वतश्रेष्ठं ददृशे पितरं तथा ॥ ४२.४ ॥ प्रणिपत्य तथा भक्त्या वाक्यमाह महेश्वरम् । किं तिष्ठसि जगन्नाथ समुत्तिष्ठ रणोत्सुकः ॥ ४२.५ ॥ ततो विघ्नेशवचनाज्जगन्नाथोऽम्बिकां वचः । प्राह यास्येऽन्धकं हन्तुं स्थेयमेवाप्रमत्तया ॥ ४२.६ ॥ ततो गिरिसुता देवं समालिङ्ग्य पुनः पुनः । समीक्ष्य सस्नेहहरं प्राह गच्छ जयान्धकम् ॥ ४२.७ ॥ ततोऽमरगुरोर्गौरी चन्दनं रोचनाञ्जनम् । प्रतिवन्द्य सुसंप्रीता पादावेवाभ्यवन्दत ॥ ४२.८ ॥ ततो हरः प्राह वचो यशस्यं मालिनीमपि । जयां च विजयां चैव जयन्तीं चापराजिताम् ॥ ४२.९ ॥ युष्माभिरप्रमत्ताभिः स्थेयं गेहे सुरक्षिते । रक्षणीया प्रयत्नेन गिरिपुत्री प्रमादतः ॥ ४२.१० ॥ इति संदिश्य ताः सर्वाः समारुह्य वृषं विभुः । निर्जगाम गृहात्तुष्टो जयेप्सुः शूलधृग्बली ॥ ४२.११ ॥ निर्गच्छतस्तु भवनादीश्वरस्य गणाधिपाः । समन्तात्परिवार्यैव जयशब्दांश्च चक्रिरे ॥ ४२.१२ ॥ रणाय निर्गच्छति लोकपाले महेश्वरे शूलधरे महर्षे । शुभानि सौम्यानि सुमङ्गलानि जातानी चिह्नानि जयाय शंभोः ॥ ४२.१३ ॥ शिवा स्थिता वामतरेऽथ भागे प्रयाति चाग्रे स्वनमुन्नदन्ती । क्रव्यादसंघाश्च तथामिषैणः प्रयान्ति हृष्टास्तृषितासृगर्थे ॥ ४२.१४ ॥ दक्षिणाङ्गं नखान्तं वै समकम्पत शूलिनः । शकुनिश्चापि हारीतो मौनी याति पराङ्गमुखः ॥ ४२.१५ ॥ निमित्तानीदृशान् दृष्ट्वा भूतभव्यभवो विभुः । शैलादिं प्राह वचनं सस्मितं शशिशेखरः ॥ ४२.१६ ॥ हर उवाच । नन्दिन् जजोऽद्य मे भावी न कथञ्चित्पराजयः । निमित्तानीह दृस्यन्ते संभूतानि गणेश्वर ॥ ४२.१७ ॥ तच्छंभुवचनं श्रुत्वा शैलादिः प्राह संकरम् । कः संदेहो महादेव यत्त्वं जयसि शात्रवान् ॥ ४२.१८ ॥ तच्छंभुवचनं श्रुत्वा शैलादिः प्राह शङ्करम् । समादिदेश युद्धाय महापशुपतैः सह ॥ ४२.१९ ॥ तेऽभ्येत्य दानवबलं मर्दयन्ति स्म वेगिताः । नानाशस्त्रधरा वीरा वृक्षानशनयो यथा ॥ ४२.२० ॥ ते वध्यमाना बलिभिः प्रमथैर्दैत्यदानवाः । प्रवृत्ताः प्रमथान् हन्तुं कूटमुद्गरपाणयः ॥ ४२.२१ ॥ ततोऽम्बरतले देवाः सेन्द्रविष्णुपितामहाः । ससूर्याग्निपुरोगास्तु समायाता दिदृक्षवः ॥ ४२.२२ ॥ ततोऽम्बरतले घोषः सस्वनः समजायत । गीतवाद्यादिसंमिश्रो दुन्दुभीनां कलिप्रिय ॥ ४२.२३ ॥ ततः पश्यत्सु देवेषु महापाशुपतादयः । गणास्तद्दानवं सैन्यं जिघांसन्ति स्म कोपिताः ॥ ४२.२४ ॥ चतुरङ्गबलं दृष्ट्वा हन्यमानं गणेश्वरैः । क्रोधान्वितस्तुहुण्डस्तु वेगोनाबिससार ह ॥ ४२.२५ ॥ आदाय परिघं घोरं पट्टोद्ब्द्धमयस्मयम् । राजतं राजतेऽत्यर्थमिन्द्रध्वजमिवोच्छ्रितम् ॥ ४२.२६ ॥ तं भ्रामयानो बलवान्निजघान रणे गणान् । रुद्राद्याः स्कन्दपर्यन्तास्तेऽभज्यन्त भयातुराः ॥ ४२.२७ ॥ तत्प्रभग्नं बलं दृष्ट्वा गणनाथो विनायकः । समाद्रवत वेगेन तुहुण्डं दनुरुङ्गवम् ॥ ४२.२८ ॥ आपतन्तं गणपतिं दृष्ट्वा दैत्यो दुरात्मवान् । परिघं पातयामास गुम्भपृष्ठे महाबलः ॥ ४२.२९ ॥ विनायकस्य तत्कुम्भे परिघं वज्रभूषणम् । शतधा त्वगमद्ब्रह्मन्मेरोः कूट इवाशनिः ॥ ४२.३० ॥ परिघं विफलं दृष्ट्वा समायान्तं च पार्षदम् । बबन्ध बाहुपाशेन राहू रक्षन् हि मातुलम् ॥ ४२.३१ ॥ स बद्धो बाहुपासेन बलादाकृष्य दानवम् । समाजघान शिरशि कुठारेण महोदरः ॥ ४२.३२ ॥ काष्ठवत्स द्विधा भूतो निपपात धरातले । तथापि नात्यजद्राहुर्बलवान् दानवेश्वरः । स मोक्षार्थेऽकरोद्यत्नं न शशाक च नारद ॥ ४२.३३ ॥ विनायकं संयतमीक्ष्य राहुणा कुण्डोदरो नाम गणेश्वरोऽथ । प्रगृह्य तूर्ण मुशलं महात्मा राहुं दुरात्मानमसौ जघान ॥ ४२.३४ ॥ ततो गणेशः कलशध्वजस्तु प्रासेन राहुं हृदये बिभेद । घटोदरो वै गदया जघान खड्गेन रक्षोऽधिपतिः सुकेशी ॥ ४२.३५ ॥ स तैश्चतुर्भिः परिताड्यमानो गणाधिपं राहुरथोत्ससर्ज । संत्यक्तमात्रोऽथ परश्वधेन तुहुण्मूर्द्धानमथो बिभेद ॥ ४२.३६ ॥ हते तुहुण्डे विमुखे च राहौ गणेश्वराः क्रोधविषं मुमुक्षवः । पञ्चैककालानलसन्निकाशा विशान्ति सेनां दनुपुङ्गवानाम् ॥ ४२.३७ ॥ तां बध्यमानां स्वचमूं समीक्ष्यचबलिर्बली मारुततुल्यवेगः । गदां समाविध्य जघान मूर्ध्नि विनायकं कुम्भतटे करे च ॥ ४२.३८ ॥ कुण्डोदरं भग्नकटिं चकार महोदरं शीर्णशिरःकपालम् । कुम्भध्वजं चूर्णितसंधिबन्धं घटोदरं चोरुविभिन्नसंधिम् ॥ ४२.३९ ॥ गणाधिपांस्तान् विमुखान् स कृत्वा बलन्वितो वीरतरोऽसुरेन्द्रः । समभ्यधावत्त्वरितो निहन्तुं गणेश्वरान् स्कन्दविशाखमुख्यान् ॥ ४२.४० ॥ तमापतन्तं भगवान् समीक्ष्य महेश्वरः श्रेष्ठतमं गणानाम् । शैलादिमामन्त्र्य वचो बभाषे गच्छस्व दैत्यान् जहि वीर युद्ध ॥ ४२.४१ ॥ इत्येवमुक्तो वृषभध्वजेन वज्रं समादाय शिलादसूनुः । बलिं सम्भ्येत्य जघान मूर्ध्नि संमोहितः सोऽवनिमाससाद ॥ ४२.४२ ॥ संमोहितं भ्रातृसुतं विदित्वा बली कुजम्भो मुसलं प्रगृह्य । संभ्रामयंस्तूर्णतरं स वेगात्ससर्ज नन्दिं प्रति जातकोपः ॥ ४२.४३ ॥ तमापतन्तं मुसलं प्रगृह्य करेण तूर्ण भगवान् स नन्दी । जघान तेनैव कुजम्भमाहवे स प्राणहीनो निपपात भूमौ ॥ ४२.४४ ॥ हत्वा कुजम्भं मुसलेन नन्दी वज्रेण वीरः शतशो जघान । ते वध्यमाना गणनायकेन दुर्योधनं वै शरणं प्रपन्नाः ॥ ४२.४५ ॥ दुर्योधनः प्रेक्ष्य गणाधिपेन वज्रपहारैर्निहतान् दितीशान् । प्रासं समाविध्य तडित्प्रकाशं नन्दिं प्रचिक्षेप हतोऽसि वै ब्रुवन् ॥ ४२.४६ ॥ तमापतन्तं कुलिशेन नन्दी बिभेद गुह्यं पिशुनो यथा नरः । तत्प्रासमालक्ष्य तदा निकृत्तं संवर्त्त्य मुष्टिं गणमाससाद ॥ ४२.४७ ॥ ततोऽस्य नन्दी कुलिसेन तृर्ण शिरोऽच्छिनत्तालफलप्रकाशम् । हतोऽथ भूमौ निपपात वेगाद्दैत्याश्च भीता विगता दिशो दश ॥ ४२.४८ ॥ ततो हतं स्वं तनयं निरीक्ष्य हस्ती तदा नन्दिनमाजगाम । प्रगृह्य बाणासनमुग्रवेगं बिभेद बाणैर्यमदण्डकल्पैः ॥ ४२.४९ ॥ गणान् सन्दीन् वृषभध्वजांस्तान् धाराभिरेवाम्बुरास्तु शैलान् । ते छाद्यमानासुरबामजालैर्विनायकाद्या बलिनोऽपि समन्तान् ॥ ४२.५० ॥ पराङ्मुखान् वीक्ष्य गणान् कुमारः शक्त्या पृषत्कान्थ वारयित्वा । तूर्णं सभभ्येत्य रिपुं समीक्ष्य प्रगृह्य शक्त्या हृदये विभेद ॥ ४२.५१ ॥ शक्तिनिर्भिन्नहृदयो हस्ती भूम्यां पपातह । ममार चारिपृतना जाता भूयः पराङ्मुखी ॥ ४२.५२ ॥ अमरारिबलं दृष्ट्वा भग्नं क्रुद्धा गणेश्वराः । पुरतो नन्दिनं कृत्वा जिघांसन्ति स्म दानवान् ॥ ४२.५३ ॥ ते वध्यमानाः प्रमथैर्दैत्याश्चापि पराङ्मुखाःष । भूयो निवृत्ता बलिनः कार्त्तस्वरपुरोगमाः ॥ ४२.५४ ॥ तान्निवृत्तान् समीक्ष्यैव क्रोधदीप्तेक्षणः श्वशसन् । नन्दिषेणो व्याघ्रमुखो निवृत्तश्चापि वेगवान् ॥ ४२.५५ ॥ तस्मिन्निवृत्ते गणपे पट्टिशाग्रकरे तदा । कार्त्तस्वरो निववृते गदामादाय नारद ॥ ४२.५६ ॥ तमापतन्तं ज्वलनप्रकाशं गमः समीक्ष्यैव महासुरेन्द्रम् । तं पट्टिशं भ्राम्य जघान मूर्ध्नि कार्तस्वरं विस्वरमुन्नदन्तम् ॥ ४२.५७ ॥ तस्मिन् हते समाविध्य तुरङ्गकन्धरः । बबन्ध वीरः सह पट्टिशेन गणेश्वरं चाप्यथ नन्दिषेणम् ॥ ४२.५८ ॥ नन्दिषेणं तथा बद्धं समीक्ष्य बलिनां वरः । विशाखः कपितोऽभ्येत्य शक्तिपाणिरवस्थितः ॥ ४२.५९ ॥ तं दृष्ट्वा बलिनां श्रेष्ठः पाशपाणिरयःशिराः । संयोधयामास बली विशाखं कुक्कुटध्वजम् ॥ ४२.६० ॥ विशाखं संनिरुद्धं वै दृष्ट्वायशिरसा रणे । शाखश्च नैगमेयश्च तूर्णमाद्रवतां रिपुम् ॥ ४२.६१ ॥ एकतो नैगमेयेन भिन्नः शक्त्या त्वयःसिराः । शाखश्च नैगमेयश्च तूर्णमाद्रवतां रिपुम् ॥ ४२.६२ ॥ स त्रिभिः शङ्करसुतैः पीड्यमानो जहौ पणम् । ते प्राप्ताः शम्बरं तूर्णं प्रेक्ष्यमाणा गणेश्वराः ॥ ४२.६३ ॥ पाशं शक्त्या समाहत्य चतुर्भिः शङ्करात्मजैः । जगाम विलयं तूर्णमाकासादिव भूतलम् ॥ ४२.६४ ॥ पाशे निराशतां याते शम्बरः कातरेक्षणः । दिशोऽथ भेजे देवर्षे कुमारः सैन्यमर्दयत् ॥ ४२.६५ ॥ तैर्वध्यमाना पृतना महर्षे सादानवी रुद्रसुतैर्गणैश्च । विषण्णारूपा भयविह्वलाङ्गी जगाम सुक्रं शरणं भयार्ता ॥ ४२.६६ ॥ इति श्रीवामनपुराणे द्विचत्वारिंशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । ततः स्वैसैन्यमालक्ष्य निहतं प्रमथैरथ । अन्धकोऽभ्येत्य शुक्रं तु इदं वचनमब्रवीत् ॥ ४३.१ ॥ भगवंस्त्वां माश्रित्य वयं बाधाम देवताः । अथान्यानपि विप्रर्षे गन्धर्वसुरकिन्नरान् ॥ ४३.२ ॥ तदियं पश्य भगवन्मया गुप्ता वरूथिनी । अनाथेन यथा नारी प्रमथैरपि काल्यते ॥ ४३.३ ॥ कुजम्भाद्याश्च निहता भ्रातरो मम भार्गव । अक्षयाः प्रमथाश्चामी कुरुक्षेत्रफलं यथा ॥ ४३.४ ॥ तस्मात्कुरुष्व श्रेयो नो न जीयेम यथा परैः । जयेम च परान् युद्धे तथा त्वं कुर्तुमर्हसि ॥ ४३.५ ॥ शुक्रोऽन्धकवचः श्रुत्वा सान्त्वयन् परमाद्भुतम् । वचनं प्राह देवर्षे ब्रह्मर्षिर्दानवेश्वरम् । त्वद्धितार्थ यतिष्यामि करिष्यामि तव प्रियम् ॥ ४३.६ ॥ इत्येवमुक्त्वा वचनं विद्यां संजीवनीं कविः । आर्वतयामास तदा विधानेन शुचिव्रतः ॥ ४३.७ ॥ तस्यामावर्त्यमानायां विद्यायामसुरेश्वराः । ये हताः प्रथमं युद्धे दानवास्ते समुत्थिताः ॥ ४३.८ ॥ कुजम्भादिषु दैत्येषु नन्दी शङ्करमब्रवीत् । युद्धायाभ्यागतेष्वेव नन्दी शङ्करमब्रवीत् ॥ ४३.९ ॥ महादेव वचो मह्यं शृणु त्वं परमाद्भुतम् । अविचिन्त्यमसह्यं च मृतानां जीवनं पुनः ॥ ४३.१० ॥ ये हताः प्रमथैर्दैत्या यथाशक्त्या रणाजिरे । ते समुज्जीविता भूयो भार्गावेणाथ विद्याया ॥ ४३.११ ॥ तदिदं तैर्महादेव महत्कर्म कृतं रणे । संजातं स्वल्पमेवेश शुक्रविद्याबलाक्षयम् ॥ ४३.१२ ॥ इत्येवमुक्ते वचने नन्दिना कुलनन्दिना । प्रत्युवाच प्रभुः प्रीत्य स्वार्थसाधनमुत्तमम् ॥ ४३.१३ ॥ गच्छ सुक्रं गणपते ममान्तिकमुपानय । अहं तं संयमिष्यामि यथायोगं समेत्य हि ॥ ४३.१४ ॥ इत्येवमुक्तो रुद्रेण नन्दी गणपतिस्ततः । समाजगाम दैत्यानां चमुं शुक्रजिघृक्षया ॥ ४३.१५ ॥ तं ददर्शासुरश्रेष्ठो बलवान् हयकन्धरः । संरुरोध तदा मार्गं सिहस्येव पशुर्वने ॥ ४३.१६ ॥ समुपेत्याहनन्नन्दी वज्रेण शतपर्वणा । स पपाताथ निःसंज्ञो ययौ नन्दी ततस्त्वरन् ॥ ४३.१७ ॥ ततः कुजम्भो जम्भश्च बलो वृत्रस्त्वयःशिराः । पञ्च दानवशार्दुला नन्दिनं समुपाद्रवन् ॥ ४३.१८ ॥ तथान्ये दानवश्रेष्ठ मयह्लादपुरोगमाः । नानाप्रहरणा युद्धे गणनाथमभिद्रवन् ॥ ४३.१९ ॥ ततो गणानामधिपं कुट्यमानं महाबलैः । समपश्यन्त देवास्तं पितामहपुरोगमाः ॥ ४३.२० ॥ तं दृष्ट्वा भगवान् ब्रह्म प्राह शक्रपुरोगमान् । साहाय्यं क्रियतां शंभोरेतदन्तरमुत्तमम् ॥ ४३.२१ ॥ पितामहोक्तं वचनं श्रुत्वा देवाः सवासवाः । समापतन्त वेगेन शिवसैन्यमथाम्बरात् ॥ ४३.२२ ॥ तेषामापततां वेगः प्रमथानां बले बभौ । आपगानां महावेगं पतन्तीनां महार्णवे ॥ ४३.२३ ॥ ततो हलहलाशब्दः समजायत चोभयोः । बलयोर्घोरसंकाशो सुरप्रमथयोरथ ॥ ४३.२४ ॥ तमन्तरमुपागम्य नन्दी संगृह्य वेगवान् । रथाद्भार्गवमाक्रामत्सिंहः क्षुद्रमृगं यथा ॥ ४३.२५ ॥ तमादाय हराभ्याशमागमद्गणनायकः । निपात्य रक्षिणः सर्वानथ शुक्रं न्यवेदयत् ॥ ४३.२६ ॥ तमानीतं कविं शर्वः प्राक्षिपद्वदने प्रभुः । भार्गवं त्वावृततनुं जठरे स न्यवेशयत् ॥ ४३.२७ ॥ स शंभुना कविश्र्ष्ठो ग्रस्तो जठरमास्थितः । तुष्टाव भगवान्तं तं मुनिर्वाग्भिरथादरात् ॥ ४३.२८ ॥ शुक्र उवाच । वरदाय नमस्तुभ्यं हराय गुणशालिने । शङ्कराय महेशाय त्र्यम्बकाय नमो नमः ॥ ४३.२९ ॥ जीवनाय नमस्तुभ्यं लोकनाथ वृषाकपे । मदनाग्ने कालशत्रो वामदेवाय ते नमः ॥ ४३.३० ॥ स्थाणवे विश्वरूपाय वामनाय सदागते । महादेवाय शर्वाय ईश्वराय नमो नमः ॥ ४३.३१ ॥ त्रिनयन हर भव शङ्कर उमापते जीमूतकेतो शुहागृह श्मशाननिरत भूतिविलेपन सूलपाणे पशुपते गोपते तत्पुरुषसत्त्म नमो नमस्ते । इत्थं स्तुतः कविवरेम हरोऽथ भक्त्या प्रीतो वरं वरय दद्मि तवेत्युवाच । स प्राह देववर देहि वरं ममाद्य यद्वै तवैव जठरात्प्रतिनिर्गमोऽस्तु ॥ ४३.३२ ॥ ततो हरोऽक्षीणि तदा निरुध्य प्राह द्विजेन्द्राद्य विनिर्गमस्व । इत्युक्तमात्रो विभुना चचार देवोदरे भार्गवपुङ्गवस्तु ॥ ४३.३३ ॥ परिभ्रमन् ददर्शाथ शंभोरेवोदरे कविः । भुवनार्णवपातालान् वृतान् स्थावरजङ्मैः ॥ ४३.३४ ॥ आदित्यान् वसवो रुद्रान् विश्वेदेवान् गणांस्तथा । यक्षान् किंपुरुषाद्यादीन् गन्धर्वाप्सरसां गणान् ॥ ४३.३५ ॥ मुनीन्मनुजसाध्यांश्च पशुकीटपिपीलिकान् । वृक्षगुल्मान् गिरीन् वल्ल्यः फलमूलौषधानि च ॥ ४३.३६ ॥ स्थालस्थांश्च जलस्थांश्चानिमिषान्निमिषानपि । चतुष्पदान् सद्विपदान् स्थावरान् जङ्गमानपि ॥ ४३.३७ ॥ अव्यक्तांश्चैव व्यक्तांश्च सगुणान्निर्गुणानपि । स दृष्ट्वा कौतुकाविष्टः परिबभ्राम भार्गवः । तत्रासतो भार्गवस्य दिव्यः संवत्सरो गतः ॥ ४३.३८ ॥ न चानमलभद्ब्रह्मंस्ततः श्रान्तोऽभवत्कविः । स श्रन्तं वीक्ष्य चात्मानं नालभन्निर्गमं वशी । भिक्तिनम्रो महादेवं शरणं समुपागम् ॥ ४३.३९ ॥ शुक्र उवाच् । विश्वरूप महारूप विश्वरूपाक्षसूत्रधृक् । सहस्राक्ष महादेव त्वामहं शरणं गतः ॥ ४३.४० ॥ नमोऽस्तु ते शङ्कर शर्व शंभो सहस्रनेत्राङ्घ्रिभुजङ्गभूषण । दृष्ट्वैव सर्वान् भुवनांस्तवोदरे श्रान्तो भवन्तं शरणं प्रपन्नः ॥ ४३.४१ ॥ इत्येवमुक्ते वचने महात्मा शंभुर्वचः प्राह ततो विहस्य । निर्गच्छ पुत्रोऽसि ममाधुना त्वं शिश्नेन भो भार्गववंशचन्द्र ॥ ४३.४२ ॥ नाम्ना तु शुक्रेति चराचरास्त्वां स्तोष्यन्ति नैवात्र विचारमन्यत् । इत्येवमुक्त्वा भगवान्मुमोच शिश्नेन शुक्रं स च निर्जगाम ॥ ४३.४३ ॥ विनिर्गतो भार्गाववंशचन्द्रः शुक्रत्वमापद्य महानुभावः । प्रणम्य शंभुं स जगाम तूर्ण महासुराणां बलमुत्तमौजाः ॥ ४३.४४ ॥ भार्गवे पुनरायाते दानवा मुदिताभवन् । पुनर्युद्धाय विदधुर्मतिं सह गणेश्वरैः ॥ ४३.४५ ॥ गणेश्वरास्तानसुरान् सहामरागणैरथ । युयुधुः संकुलं युद्धं सर्व एव जयेप्सवः ॥ ४३.४६ ॥ ततोऽसुरगणानां च देवतानां च युध्यताम् । द्वन्द्वयुद्धूं समभवद्घोररूपं तपोधन ॥ ४३.४७ ॥ अन्धको नन्दिनं युद्धं शङ्कुकर्णं त्वयःशिराः । कुम्भध्वजं बलिर्धीमान्नन्दिषेणं विरोचनः ॥ ४३.४८ ॥ अश्वग्रीवो विशाखं च शाखो वृत्रमयोधयत् । वाणस्तथा नैगमेयं बलं राक्षसपुङ्गवः ॥ ४३.४९ ॥ विनायको माहावीर्य परश्वधधरो रणे । संक्रुद्धो राक्षसश्रेष्ठं तुहुण्डं समयोधयत् । दुर्योधनश्च बलिनं घण्टाकर्णमयोधयत् ॥ ४३.५० ॥ हस्ती च कुण्डजठरं ह्लादो वीरं घटोदरम् । एते हि बलिनां श्रेष्ठा दानवाः प्रमथास्तथा । संयोधयन्ति देवर्षे दिव्याब्दानां शतनि षट् ॥ ४३.५१ ॥ शतक्रतुमथायान्तं वज्रपाणिमभिस्थितम् । वारयामास बलवान् जम्भो नाम महासुरः ॥ ४३.५२ ॥ सम्भुनामासुरपतिः स ब्रह्मणमयोधयत् । महौजसं कुजम्भश्च विष्णुं दैत्यान्तकारिणम् ॥ ४३.५३ ॥ विवस्वन्तं रणे शाल्वो वरुणं त्रिशिरास्तथा । द्विमूर्धा पवनं सोमं राहुर्मित्रं विरूपधृक् ॥ ४३.५४ ॥ अष्टौ ये वसवः ख्याता धराद्यास्ते महासुरान् । अष्टावेव महेष्वासान् वारयामासुराहवे ॥ ४३.५५ ॥ सरभः शलक्षः पाकः पुरोऽथ विपृथुःपृथुः । वातापि चेल्वलश्चैव नानाशस्त्रास्त्रयोधिनः ॥ ४३.५६ ॥ विश्वेदेवगणान् सर्वान् विष्वक्सेनपुरोगमान् । एक एव रणे रौद्रः कालनेमिर्महासुरः ॥ ४३.५७ ॥ एकादशैव ये रुद्रास्तानेकोऽपि रणोत्कटः । योधयामास तेजस्वी विद्युन्माली महासुरः ॥ ४३.५८ ॥ द्वावश्विनौ च नरको भास्करानेव शम्बरः । साध्यान्मरुद्गणांश्चैव निवातकवचादयः ॥ ४३.५९ ॥ एवं द्वन्द्रवसहस्राणि प्रमथामरदानवैः । कृतानि च सुराब्दानां दशतीः षट्महामुने ॥ ४३.६० ॥ यदा न शकिता योद्धुं दैवतैरमरारयः । तदा मायं समाश्रित्य ग्रसन्तः क्रमशोऽव्ययान् ॥ ४३.६१ ॥ ततोऽभवच्छैलपृष्ठं प्रावृडभ्रसमप्रभैः । आवृतं वर्जितं सर्वैः प्रमथैरमरैरपि ॥ ४३.६२ ॥ दृष्ट्वा शून्यं गिरिप्रस्थं ग्रस्तांश्च प्रमथामरान् । क्रोधादुत्पादयामास रुद्रो जृम्भायिकां वशी ॥ ४३.६३ ॥ तया स्पृष्टा दनुसुता अलसा मन्दभाषिणः । वदनं विकृतं कृत्वा मुक्तशस्त्रं विजृम्भिरे ॥ ४३.६४ ॥ जृम्भमाणेषु च तदाच दानवेषु गणेश्वराः । सुराश्च निर्ययुस्तूर्णं दैत्यदेहेभ्य आकुला ॥ ४३.६५ ॥ मेघप्रभेभ्यो दैत्येभ्यो निर्गच्छन्तोऽमरोत्तमाः । शोभन्ते पद्मपत्राक्षा मेघेभ्य इव विद्युतः ॥ ४३.६६ ॥ गणामरेषु च समं निर्गतेषु तपोधन । अयुध्यन्त महात्मानो भूय एवातिकोपिताः ॥ ४३.६७ ॥ ततस्तु देवैः सगणैः दानवाः शर्वपालितैः । पराजीयन्त संग्रामे भूयो भूयस्त्वहर्निशम् ॥ ४३.६८ ॥ ततस्त्रिनेत्रः स्वैं संध्यां सप्ताब्धशतिके गते । कालेऽभ्युपासत तदा सोऽष्टादशभुजोऽव्ययः ॥ ४३.६९ ॥ संस्पृश्यापः सरस्वत्यां स्नात्वा च विधिना हरः । कृतार्थो भक्तिमान्मूर्ध्ना पुष्पाञ्जलिमुपाक्षिपत् ॥ ४३.७० ॥ ततो ननाम शिरसा ततश्चक्रे प्रदक्षिणम् । हिरण्यगर्भेत्यादित्यमुपतस्थे जजाप ह ॥ ४३.७१ ॥ त्वष्ट्रे नमो नमस्तेऽस्तु सम्यगुच्चार्य शूलधृक् । ननर्त भावगम्भीरं दोर्दण्डं भ्रामयन् बलात् ॥ ४३.७२ ॥ परिनृत्यति देवेशे गणाश्चैवामरास्तथा । नृत्यन्ते भावसंयुक्ता हरस्यानुविलासिनः ॥ ४३.७३ ॥ सन्ध्यामुपास्य देवेशः परिनृत्य यथेच्छया । युद्धाय दानवैः सर्वैस्त्रिनेत्रभुजपालितैः ॥ ४३.७४ ॥ ततोऽमरगणाः सर्वैस्त्रिनेत्रभुजपालितैः । दानवा निर्जिताः सर्वे बलिभिर्भयवर्जितैः ॥ ४३.७५ ॥ स्वबलं निर्जितं दृष्ट्वा मत्वाजेयं च शङ्कम् । अन्धकः सुन्दमाहूय इदं वचनमब्रीत् ॥ ४३.७६ ॥ सुन्द भ्रातासि मे वीर विश्वस्यः सर्ववस्तुषु । तद्वदाम्यद्य यद्वाक्यं तच्छ्रुत्वा यत्क्षमं कुरु ॥ ४३.७७ ॥ दुर्जयोऽसौ रणपटुर्धर्मात्मा कारणान्तरैः । समासते हि हृदये पद्माक्षी शैलनन्दिनी ॥ ४३.७८ ॥ तदुत्तिष्ठस्व गच्छामो यत्रास्ते चारुहासिनी । तत्रैनां मोहयिष्यामि हररूपेण दानव ॥ ४३.७९ ॥ भवान् भवस्यानुचरो भव नन्दी गणेश्वरः । ततो गत्वाथ भुक्त्वा तां जेष्यामि प्रमथान् सुरान् ॥ ४३.८० ॥ इत्वेवमुक्ते वचने बाढं सुन्दोऽम्भयभाषत । समजायत शैलादिरन्धकः शङ्करोऽप्यभूत् ॥ ४३.८१ ॥ नन्दिरुद्रौ ततो भूत्वा महासुरचमूपती । संप्राप्तौ मन्दरगिरिं प्रहारैः क्षतविग्रहौ ॥ ४३.८२ ॥ हस्तमालम्ब्य सुन्दस्य अन्धको हरमन्दिरम् । विवेश निर्विशङ्केन चित्तेनासुरसत्तमः ॥ ४३.८३ ॥ ततो गिरिसुता दूरादायान्तं वीक्ष्य चान्धकम् । महेश्वरवपुश्छ्न्नं प्रहारैर्जर्जरच्छविम् ॥ ४३.८४ ॥ सुन्दं शैलादिरूपस्थमवष्टम्याविशत्ततः । तं दृष्ट्वा मालिनीं प्राह सुयशां विजयां जयाम् ॥ ४३.८५ ॥ जये पश्यस्व देवस्य मदर्थे विग्रहं कृतम् । शत्रुभिर्दानववरैस्तदुत्तिष्ठस्व सत्वरम् ॥ ४३.८६ ॥ घृतमानय पौराणं बीजिकां लवणं दधि । व्रणभङ्गं करिष्यामि स्वयमेव पिनाकिनः ॥ ४३.८७ ॥ कुरुष्व शीघ्रं सुयशे स्वभर्तुर्व्रणनाशनम् । इत्येवमुक्त्वा वचनं समत्थाय वरासनात् ॥ ४३.८८ ॥ अभ्युद्ययौ तदा भक्त्वा मन्यमाना वृषध्वजम् । शूलपाणेस्ततः स्थित्वा रूपं चिह्नानि यत्नतः ॥ ४३.८९ ॥ अन्वियेष ततो ब्रह्मन्नोभौ पार्श्वस्थितौ वृषौ । सा ज्ञात्वा दानवं रौद्रं मायाच्छादितविग्रह्म् ॥ ४३.९० ॥ अपयानं तदा चक्रे गिरिराजसुता मुने । देव्याश्चिन्तितमाज्ञाय सुन्दं त्यक्त्वान्धकोऽसुरः ॥ ४३.९१ ॥ समाद्रवत वेगेन हरकान्तां विभावरीम् । समाद्रवत दैतेयो येन मार्गेण सागमत् ॥ ४३.९२ ॥ अपस्कारान्तरं भञ्जन् पादप्लुतिभिराकुलः । तमापतन्तं दृष्ट्वैव गिरिजा प्राद्रवद्भयात् ॥ ४३.९३ ॥ गृहं त्यक्त्वा हयुपवनं सखीभिः सहिता तदा । तत्राप्यनुजगामासौ मदान्धो मुनिपुङ्गव ॥ ४३.९४ ॥ तथापि न शशषैनं तपसो गोपनाय तु । तद्भयादाविशद्गौरी श्वेतार्ककुसुमं शुचि ॥ ४३.९५ ॥ विजडयाद्या महागुल्मे संप्रयाता लयं मुने । नष्टायामाथ पार्वत्यां भूयो हैरण्यलोचनिः ॥ ४३.९६ ॥ सुन्दं हस्ते समादाय स्वसैन्यं पुनरागमत् । अन्धके पुरायाते स्वबलं मुनिसत्तम ॥ ४३.९७ ॥ प्रावर्तत महायुद्धं प्रमथासुरयोरथ । ततोऽमरगणश्रेष्ठो विष्णुश्चक्रगदाधरः ॥ ४३.९८ ॥ निजघानासुरबलं शङ्करप्रियकाम्यया । शार्ङ्गचापच्युतैर्बाणैः संस्यूता दानवर्षभाः ॥ ४३.९९ ॥ पञ्च षट्सप्त चाष्टौ वा व्रघ्नपादैर्घना इव । गदया कांश्चिदवधीत्चक्रेणान्यान् जनार्दनः ॥ ४३.१०० ॥ खङ्गेन च चकर्तान्यान् दृष्ट्यान्यान् भस्मासाद्व्यधात् । हलेनाकृष्य चैवान्यान्मु सलेन व्यचूर्णयत् ॥ ४३.१०१ ॥ गरुडः पक्षपाताभ्यां तुण्डेनाप्युरसाहनत् । स चादिपुरुषो धाता पुराणाः प्रपितामहः ॥ ४३.१०२ ॥ भ्रामयन् विपुलं पद्ममभ्यषिञ्चत वारिणा । संस्पृष्टा ब्रह्मतोयेन सर्वतीर्थमयेन हि ॥ ४३.१०३ ॥ गणामरगणाश्चासन्नवनागशताधिकाः । दानवास्तेन तोयेन संस्पृष्टाश्चाघहारिणा ॥ ४३.१०४ ॥ सवाहनाः क्षयं जग्मुः कुलिशेनेव पर्वताः । दृष्ट्वा ब्रह्महरी युद्धे घातयन्तौ महासुरान् ॥ ४३.१०५ ॥ शतक्रतुश्च दुद्राव प्रगृह्य कुलिशं बली । तमापतन्तं संप्रेक्ष्य बलो दानवसत्तमः ॥ ४३.१०६ ॥ मुक्त्वा देवं गदापाणिं विमानस्थं च पद्मजम् । शक्रमेवाद्रवद्योद्धुं मुष्टिमुद्याम्य नारद । बलवान् दानवपतिरजेयो देवदानवै ॥ ४३.१०७ ॥ तमापतन्तं त्रिदशेश्वरस्तु दोष्णां सहस्रेण यताबलेन । वज्रं परिभ्राम्य बलस्य मूर्ध्नि चिक्षेप हे मूढ हतोऽस्युदीर्य ॥ ४३.१०८ ॥ स तस्य मूर्ध्नि प्रवरोऽपि वज्रो जगाम तूर्णं हि सहस्रधा मुने । बलोऽद्रवद्देवपतिश्च भीतः पराङ्मुखोऽभृत्समरान्महर्षे ॥ ४३.१०९ ॥ तं चापि जम्भो विमुखं निरीक्ष्य भूत्वाग्रतः प्राह न युक्तमेतत् । तिष्ठस्व राजासि चराचरस्य न राजधर्मे गदितं पलायनम् ॥ ४३.११० ॥ सहस्राक्षो जम्भवाक्यं निखम्य भीतस्तूर्णं विष्णुमागान्महर्षे । उपेत्याह श्रूयतां वाक्यमीश त्वं मे नाथो भूतभव्येश विष्णो ॥ ४३.१११ ॥ जम्भस्तर्जयतेऽत्यर्थं मां निरायुधमीक्ष्य हि । आयुधं देहि भगवान् त्वामहं शरणं गतः ॥ ४३.११२ ॥ तमुवाच हरिः शक्रं त्यक्त्वा दर्प व्रजाधुना । प्रार्थयस्वायुधं वह्निं स ते दास्यत्यसंशयम् ॥ ४३.११३ ॥ जनार्दनवचः श्रुत्वा शक्रस्त्वरितविक्रमः । शरणं पावकमगादिदं चोवाच नारद ॥ ४३.११४ ॥ शक्र उवाच । निघ्ननो मेबलं वज्रं कृशानो शतधा गतम् । एष चाहूयते जम्भस्तस्माद्देह्यायुधं मम ॥ ४३.११५ ॥ पुलस्त्य उवाच । तमाह भगवान् वह्निः प्रीतोऽसि तव वासव । यत्त्वं दर्प परित्यज्य मामेव शरणं गतः ॥ ४३.११६ ॥ इत्युच्चार्य स्वशक्त्यास्तु शक्तिं निष्क्राम्य भावतः । प्रादादिन्द्राय भगवान् रोचमानो दिवं गतः ॥ ४३.११७ ॥ तामादाय तदा शक्तिं शतघण्टां सुदारुणाम् । प्रत्युद्ययौ तदा जम्भं हन्तुकामोऽरिमर्दनः ॥ ४३.११८ ॥ तेनातियशसा दैत्यः सहसैवाभिसंद्रुतः । क्रोधं चक्रे तदा जम्भ निजघान गजाधिपम् ॥ ४३.११९ ॥ जम्भमुष्टिनिपातेन भग्नकुम्भकटो गजः । निपपात यथा शैलः शक्रवज्रहतः पुरा ॥ ४३.१२० ॥ पतमानाद्द्विपेन्द्रात्तु शक्रश्चाप्लुत्य वेगवान् । त्यक्त्वैव मन्दरगिरिं पपात वसुधातले ॥ ४३.१२१ ॥ पतमान हरिं शिद्धाश्चारणाश्च तदाब्रुवन् । मा मा शक्र पतस्वाद्य भूतले तिष्ठ वासव ॥ ४३.१२२ ॥ स तेषां वचनं श्रुत्वा योगी तस्थौ क्षणं तदा । प्राह चैतान् कथं योत्स्ये अपत्रः शत्रुभिः सहः ॥ ४३.१२३ ॥ तमूचुर्देवगन्धर्वा मा विषादं व्रजेश्वर । युध्यस्व त्वं समारुह्यप्रेषयिष्याम यदा रथम् ॥ ४३.१२४ ॥ इत्येवमुक्त्वा विपुलं रथं स्वस्तिकलक्षणम् । वानरध्वजसंयुक्तं हरिभिर्हरिभिर्युतम् ॥ ४३.१२५ ॥ शुद्धजाम्भूनदमयं किङ्किणीजालमण्डितम् । शक्राय प्रेषयामासुर्विश्वावसुपुरोगमाः ॥ ४३.१२६ ॥ तमागतमुदीक्ष्याथ हीनं सारथिना हरिः । प्राह योत्स्ये कथं युद्धे संयमिष्ये कथं हयान् ॥ ४३.१२७ ॥ यदि कश्चिद्धि सारथ्यं करिष्यति ममाधुना । ततोऽहं घातये शत्रून्नान्यथेति कथञ्चन ॥ ४३.१२८ ॥ ततोऽब्रुवंस्ते गन्धर्वा नास्माकं सारथिर्विभो । विद्यते स्वयमेवाश्वांस्त्वं संयन्तुमिहार्हसि ॥ ४३.१२९ ॥ इत्येवमुक्ते गवांस्त्यक्त्वा स्यन्दनमुत्तमम् । क्षमातलं निपपातैव परिभ्रष्टस्रगम्बरः ॥ ४३.१३० ॥ चलन्मौलिर्मुक्तकचः परिभ्रष्टायुधाङ्गदः । पतमानं सहस्राक्षं दृष्ट्वा भूः समकम्पत ॥ ४३.१३१ ॥ पृथिव्यां कम्पमानायां शमीकर्षेस्तपस्विनी । भार्याब्रवीत्प्रभो बालं बहिः कुरु यथासुखम् ॥ ४३.१३२ ॥ स तु शीलावचः श्रुत्वा किमर्थमिति चाव्रवीत् । सा चाह श्रूयतां नाथ दैवज्ञपरिभाषितम् ॥ ४३.१३३ ॥ यदेयं कम्पते भूमिस्तदा प्रक्षिप्यते बहिः । यद्बाह्यतो मुनिश्रेष्ठ तद्भवेद्द्विगुणं मुने ॥ ४३.१३४ ॥ एतद्वाक्यं तदा श्रुत्वा बालमादाय पुत्रकम् । निराशङ्को बहिः शीघ्रं प्राक्षिपत्क्ष्मातले द्विजः ॥ ४३.१३५ ॥ भूयो गोयुगलार्थाय प्रविष्टो भार्यया द्विजः । निवारितो गता वेला अर्द्धूहानिर्भविष्यति ॥ ४३.१३६ ॥ इत्येवमुक्ते देवर्षे बहिर्निर्गम्य वेगवान् । ददर्श बालद्वितयं समरूपमवस्थितम् ॥ ४३.१३७ ॥ तं दृष्ट्वा देवताः पूज्य भार्यां चाद्भुतदर्शनाम् । प्राह तत्त्वं न विन्दामि यत्पृच्छामि वदस्व तत् ॥ ४३.१३८ ॥ बालस्यास्य द्वितीयस्य के भविष्यद्गुणा वद । भाग्यानि चास्य यच्चोक्तं कर्मतत्कथयाधुना ॥ ४३.१३९ ॥ साब्रवीन्नाद्य ते वक्ष्ये वदिष्यामि पुनः प्रभो । सोऽब्रवीद्वद मेऽद्यैव नोचेन्नाश्नामि भोजनम् ॥ ४३.१४० ॥ सा प्राह श्रूयतां ब्रह्मन् वदिष्ये वचनं हितम् । कातरेणाद्य यत्पृष्टं भाव्यः कारुरयं कि ॥ ४३.१४१ ॥ इत्युक्तावति वाक्ये तु बाल एव त्वेचेतनः । जगाम साह्यं शक्रस्य कर्तुं सौत्यविशारदः ॥ ४३.१४२ ॥ तं व्रजन्तं हि गन्धर्वा विश्वावसुपुरोगमाः । ज्ञात्वेन्द्रस्यैव साहाय्ये तेजसा समवर्धयन् ॥ ४३.१४३ ॥ गन्धर्वतेजसा युक्तः शिशुः शक्रं समेत्य हि । प्रोवाचैह्येहि देवेश प्रियो यन्ता भवामि ते ॥ ४३.१४४ ॥ तच्छ्रत्वास्य हरिः प्राह कस्य पुत्रोऽसि बालक । संयन्तासि कथं चाश्वान् संशयः प्रतिभाति मे ॥ ४३.१४५ ॥ सोऽब्रवीदृषितेजोत्थं क्ष्माभवनं विद्धि वासव । गन्धर्वतेजसा युक्तं वाजियानवनिशारदम् ॥ ४३.१४६ ॥ तत्छ्रवा भगवाञ्छक्रः खं भेजे योगिनां वरः । स चापि विप्रतनयो मातलिर्नामविश्रुतः ॥ ४३.१४७ ॥ ततोऽधिरूढस्तु रथं शक्रस्त्रिदशपुङ्गवः । रश्मीन् शमीकतनयो मातलिः प्रगृहीतवान् ॥ ४३.१४८ ॥ ततो मन्दरमागम्य विवेश रिपुवाहिनीम् । प्रविशन् ददृशे श्रीमान् पतितं कार्सुकं महत् ॥ ४३.१४९ ॥ सशरं पञ्चवर्णाभं सितरक्तासितारुणम् । पाण्डुच्छायं सुरश्रेष्ठस्तं जग्राह समार्गणम् ॥ ४३.१५० ॥ ततस्मनसा देवान् रजःसत्त्वतमोमयान् । नमस्कृत्य शरं चापे साधिज्ये विनियोजयत् ॥ ४३.१५१ ॥ ततो निश्चेरुरत्युग्राः शरा बर्हिणवाससः । ब्रह्मेशथविष्णुनामाङ्काः सूदयन्तोऽसुरान् रणे ॥ ४३.१५२ ॥ आकाशं विदिशः पृथ्वीं दिशश्च स शरोत्करैः । सहस्राक्षोऽतिपटुभिश्छादयामास नारद ॥ ४३.१५३ ॥ गजो विद्धो हयो भिन्नः पृथिव्यां पतितो रथः । महामात्रो धरां प्राप्तः सद्यः सीदञ्छरातुरः ॥ ४३.१५४ ॥ पदाति पतितो भूम्यां शक्रमार्गणताडितः । हतप्रधानभूयिष्ठं बलं तदभवद्रिपोः ॥ ४३.१५५ ॥ तं शक्रबाणभिहतं दुरासदं सैन्यं समालक्ष्य तदा कुजम्भः । जम्भासुरश्चापि सुरेशमव्ययं प्रजगमतुर्गृह्य गदे सुघोरे ॥ ४३.१५६ ॥ तावापतन्तौ भगवान्निरीक्ष्य सुदर्शनेनारिविनाशनेन । विष्णुः कुजम्भं निजघान वेगात्स स्यन्दनाद्गामगमद्गतासुः ॥ ४३.१५७ ॥ तस्मिन् हते भ्रातरि माधवेन जम्भस्ततः क्रोधवशं जगाम । क्रोधान्वितः शक्रमुपाद्रवद्रणे सिंहं यतैणोऽतिविपन्नबुद्धिः ॥ ४३.१५८ ॥ तमापतन्तं प्रसमीक्ष्य शक्रस्त्यक्त्वैव चापं सशरं महात्मा । जग्राह शक्तिं यमदण्डकल्पां तामग्निदत्तां रिपवे ससर्ज ॥ ४३.१५९ ॥ शक्तिं सघण्टां कृतनिःस्वनां वै दृष्ट्वा पतन्तीं गदया जघान । गदां च कृत्वा सहसैव भस्मसाद्बिभेद जम्भं हृदये च तूर्णम् ॥ ४३.१६० ॥ शक्त्या स भिन्नो हृदये सुरारिः पपात भूम्यां विगतासुरेव । तं वीक्ष्य भूमौ पतितं विसंज्ञं दैत्यास्तु भीता विमुखा बभूवुः ॥ ४३.१६१ ॥ जम्भे हते दैत्यबले च भग्ने गणास्तु हृष्टा हरिमर्चयन्तः । वीर्यं प्रशंसन्ति शतक्रतोश्च स गोत्रभिच्छर्वमुपेत्य तस्थौ ॥ ४३.१६२ ॥ इति श्रीवामनपुराणे त्रिचत्वारिशोध्यायः ________________________________________________________________________ पुलस्त्य उवाच । तस्मिस्तदा दैत्यबले च भग्ने शुक्रोऽब्रवीदन्दकमासुरेन्द्रम् । एह्येहि वीराद्य गृहं महासुर योत्स्याम भूयो हरमेत्य शैलम् ॥ ४४.१ ॥ तमुवाचान्धको ब्रह्मन्न सम्यग्भवतोदितम् । रणान्नैवापयास्यामि कुलं व्यपदिशन् स्वयम् ॥ ४४.२ ॥ पश्य त्वं द्विजशार्दूल मम वीर्यं सुदुर्धरम् । देवदानवगन्धर्वान् जेष्ये सेन्द्रमहेश्वरम् ॥ ४४.३ ॥ इत्येवमुक्त्वा वचनं हिरण्याक्षसुतोऽन्धकः । समाश्वास्याब्रवीच्छंभुं सारिथं सारिथिं मधुराक्षरम् ॥ ४४.४ ॥ सार्थे वाहय रथं हराभ्याशं महाबल । यावन्निहन्मि बाणैघैः प्रमथामरवाहिनीम् ॥ ४४.५ ॥ इत्यन्धकवचः श्रुत्वा सारथिस्तुरगांस्तदा । कृष्मवर्णान्महावेगान् कशयाभ्याहनन्मुने ॥ ४४.६ ॥ ते यत्नतोऽपि तुरघाः प्रेर्यमाणा हरं प्रति । जघनेष्ववसीदन्तः कृच्छ्रे णोहुश्च तं रथम् ॥ ४४.७ ॥ वहन्तस्तुरगा दैत्यं प्राप्ताः प्रमथवाहिनीम् । संवत्सरेण साग्रेण वायुवेगसमा अपि ॥ ४४.८ ॥ ततः कार्मुकमानम्य बाणजालैर्गणेश्वरान् । सुरान् संछादयामास सेन्द्रोपेन्द्रमहेश्वरान् ॥ ४४.९ ॥ बाणैशछादितमीक्ष्यैव बलं त्रैलोक्यरक्षिता । सुरान् प्रोवाच भगवांश्चक्रपिणिर्जनार्दनः ॥ ४४.१० ॥ विष्णुरुवाच । किं तिष्ठध्वं सुरश्रेष्ठा हतेनानेन वै जयः । तसमान्मद्वचनं शीघ्रं क्रियतां वै जयेप्सवः ॥ ४४.११ ॥ शात्यन्तामस्य तुरागाः समं रथकुटुम्बिना । भज्यतां स्यन्दनश्चापि विरथः क्रियतां रिपुः ॥ ४४.१२ ॥ विरथं तु कृतं पश्चादेनं धक्ष्यति शङ्करः । नोपेक्ष्यः शत्रुरुद्दिष्टो देवाचार्येण देवताः ॥ ४४.१३ ॥ इतेयवमुक्ताः प्रमथा वासुदेवेन सामराः । चक्रुर्वेगं सहेन्द्रेण समं चक्रधरेण च ॥ ४४.१४ ॥ तुरगाणां सहस्रं तु मेघाभानां जनार्दनः । निमिषान्तरमात्रेण गदया विनिपोथयत् ॥ ४४.१५ ॥ हताश्वात्स्यन्दनात्स्कन्दः प्रगृह्य रथसारथिम् । शक्त्या विभिन्नहृदयं गतासुं व्यसृजद्भुवि ॥ ४४.१६ ॥ विनायकाद्याः प्रमथाः समं शक्रेण दैवतैः । सध्वजाक्षं रथं तूर्णमभञ्जन्त तपोधनाः ॥ ४४.१७ ॥ सहसा स महातेजा विरथस्त्यज्य कार्मुकम् । गदामादाय बलवानभिदुद्राव दैवतान् ॥ ४४.१८ ॥ पदान्यष्टौ ततो गत्वा मेघगम्भीरया गिरा । स्थित्वा प्रोवाच दैत्येन्द्रो महादेवं स हेतुमत् ॥ ४४.१९ ॥ भिक्षो भवान् सहानीकस्त्वसहायोऽस्मि साम्प्रतम् । तथापि त्वां विजेष्यामि पश्य मेऽद्य पराक्रमम् ॥ ४४.२० ॥ तद्वाक्यं शङ्करः श्रुत्वा सेन्द्रान्सुरगणांस्तदा । ब्रह्मणा सहितान् सर्वान् स्वशरीरे न्यवेशयत् ॥ ४४.२१ ॥ शरीरस्थांस्तान् प्रमथान् कृत्वा देवांश्च शङ्करः । प्राह एह्येहि तुष्टात्मनहमेकोऽपि संश्थितः ॥ ४४.२२ ॥ तं दृष्ट्वा महदाश्चर्यं सर्वामरगणक्षयम् । दैत्यः शङ्करमभ्यागाद्गदामादाय वेगवान् ॥ ४४.२३ ॥ तमापतन्तं भगवान् दृष्ट्वा त्यक्त्वा वृषोत्तमम् । शूलपाणिर्गिरिप्रस्थे पदातिः प्रत्यतिष्ठत ॥ ४४.२४ ॥ वेगेनैवापतन्तं च बिभेदोरसि भैरवः । दारुणं सुमहद्रूपं कृत्वा त्रैलोक्यभीषणम् ॥ ४४.२५ ॥ दंष्ट्राकरालं रविकोटिसंनिभं मृगारिचर्माभिवृतं जटाधरम् । भुजङ्गहारामलकण्ठकन्दरं विंशार्धबाहुं सषडर्धलोचनम् ॥ ४४.२६ ॥ एतादृसेन रूपेण भगवान् भूतभावननः । बिभेद शत्रुं शूलेन शुभदः शाश्वतः शिवः ॥ ४४.२७ ॥ सशूलं भैरवं गृह्य भिन्नेप्युरसि दानवः । विजहारातिवेगेन क्रोशमात्रं महामुने ॥ ४४.२८ ॥ ततः कथञ्चिद्भगवान् संस्तभ्यात्मनामात्मना । तूर्णमुत्पाटयामास शूलेन सगदं रिपुम् ॥ ४४.२९ ॥ दैत्याधिपस्तवपि गदां हरमूर्ध्नि न्यपातयत् । कराभ्यां गृह्य शूलं च समुत्पतत दानवः ॥ ४४.३० ॥ संस्थितः स महायोगी सर्वाधारः प्रजापतिः । गदापातक्षताद्भूरि चतुर्धासृगथापतत् ॥ ४४.३१ ॥ पूर्वधारासमुद्भूतो भैरवोऽग्निसमप्रभः । विद्याराजेति विख्यातः पद्ममालाविभूषितः ॥ ४४.३२ ॥ तथा दक्षिणधारोत्थो भैरवः प्रेतमण्डितः । कालराजेति विख्यातः कृष्णाञ्जनसमप्रभः ॥ ४४.३३ ॥ अथ प्रोतीचीधारोत्थो भैरवः पत्रभूषितः । अतसीकुसुमप्रख्यः कामराजेति विश्रुतः ॥ ४४.३४ ॥ उदग्धाराभवश्चान्यो भैरवः शूलभूषितः । सोमराजेति विख्यातश्चक्रमालाविभूषितः ॥ ४४.३५ ॥ क्षतस्य रुधिरात्जातो भैरवः शूलभूषितः । स्वच्छन्दराजो विख्यातः इन्द्रायुधसमप्रभः ॥ ४४.३६ ॥ भूमिस्थाद्रुधिराज्जातो भैरवः शूलभूषितः । ख्यातो ललितराजेति सौभाञ्जनसमप्रभः ॥ ४४.३७ ॥ एवं हि सप्तरूपोऽसौ कथ्यते भैरवो मुने । विघ्नराजोऽष्टमः प्रोक्तो भैरवाष्टकमुच्यते ॥ ४४.३८ ॥ एवं महात्मना दैत्यः शूलप्रोतो महासुराः । छत्रवद्धारितो ब्रह्मन् भैरवेण त्रिशुलिना ॥ ४४.३९ ॥ तस्यासृगुल्बणं ब्रह्मञ्छूलभेदादवापतत् । येनाकष्ठं महादेवो निमग्नः सप्तमूर्तिमान् ॥ ४४.४० ॥ ततः स्वेदोऽभवद्भूरि श्रमजः शङ्करस्य तु । ललाटफलके तस्माज्जाता कन्यासृगाप्लुता ॥ ४४.४१ ॥ यद्भूभ्यां न्यपतद्विप्र स्वेदबिन्दुः शिवाननात् । तस्मादङ्गरपुञ्जाभो बालकः समजायत ॥ ४४.४२ ॥ स बालस्तषितोऽत्यर्थं पपौ रुधिरमान्धकम् । कन्या चोत्कृत्य संजातमसृग्विलिलिहेऽद्भुता ॥ ४४.४३ ॥ ततस्तामाह बालार्कप्रभां भैरवमूर्तिमान् । शङ्करो वरदो लोके श्रेयोर्ऽथाय वचो महत् ॥ ४४.४४ ॥ त्वां पूजयिष्यन्ति सुरा ऋषः पितरोरगाः । यक्षविद्याधराश्चैव मानवाश्च शुभङ्करि ॥ ४४.४५ ॥ त्वां स्तोष्यन्ति सदा देवि बलिपुष्पोत्करैः करैः । चर्च्चिकेति सुभं नाम यस्मादा रुधिरचर्चिता ॥ ४४.४६ ॥ इत्येवमुक्ता वरदेन चर्चिका भूतानुजाता हरिचर्मवासिनी । महीं समन्ताद्विचचार सुन्दरी स्थानं गता हैङ्गुलताद्रिमुत्तमम् ॥ ४४.४७ ॥ तस्यां गतायां वरदः कुजस्य प्रादाद्वरं सर्ववरोत्तमं यत् । ग्रहाधिपत्यं जगातां शुभाशुभं भविष्यति त्वद्वरागं महात्मन ॥ ४४.४८ ॥ हरोऽन्धकं वर्षसहस्रमात्रं दिव्यं स्वनेत्रार्कहुताशनेन । चकार संशुष्कतनुं त्वशोणितं त्वगस्थिशेषं भगवान् स भैरवः ॥ ४४.४९ ॥ तत्राग्निना नेत्रभवेन शुद्धः स मुक्तपापोऽसुरराड्बभुव । ततः प्रजानां बहुरूपमीशं नाथं हि सर्वस्य चराचरस्य ॥ ४४.५० ॥ ज्ञात्वा स सर्वेश्वरमीशमव्ययं त्रैलोक्यनाथं वरदं वरेण्यम् । सर्वैः सुराद्यैर्नतमीड्यमाद्यं ततोऽन्धकः स्तोत्रमिदं चकार ॥ ४४.५१ ॥ अन्धक उवाच । नमोऽस्तु ते भैरव भीममूर्ते त्रिलोकगोप्त्रे शितशूलधारिणे । विंशार्द्धबाहो भुजगेशहार त्रिनेत्र मां पाहि विपन्नबुद्धिम् ॥ ४४.५२ ॥ जयस्व सर्वेश्वर विश्वमूर्त्ते सुरासुरैर्वन्दितपादपीठ । त्रैलोक्यमातुर्गुरवे वृषाङ्क भीतः शरण्यं शरणागतोऽस्मि ॥ ४४.५३ ॥ त्वां नाथ देवाः शिवमीरयन्ति सिद्धा हरं स्थाणुं महर्षयश्च । भीमं च यक्षा मनुजा महेश्वरं भूताश्च भूताधिपमामनन्ति ॥ ४४.५४ ॥ निशाचरा उग्रमुपार्चयन्ति भवेति पुण्याः पितरो नमन्ति । दासोऽस्मि तुभ्यं हर पाहि मह्यं पापक्षयं मे कुरु लोकनाथ ॥ ४४.५५ ॥ भावंस्त्रिदेवस्त्रियुगस्त्रिधर्मा त्रिपुष्करश्चासि विभो त्रिनेत्र । त्रय्यारुणिस्त्रितिव्ययात्मन् पुनीहि मां त्वां शरणं गतोऽस्मि ॥ ४४.५६ ॥ त्रिणाचिकेतस्त्रिपदप्रतिष्ठः षडङ्गवित्त्वं विषयेष्वलुब्धः । त्रैलोक्यनाथोऽसि पुनीहि शंभो दासोऽस्मि भीतः शरणागतस्ते ॥ ४४.५७ ॥ कृतं महत्शङ्कर तेऽपराधं मया महाभूतपते गिरीश । कामारिणा निर्जितमानसेन प्रसादये त्वां शिरसा नतोऽस्मि ॥ ४४.५८ ॥ पापोऽहं पापकर्माहं पापात्मा पापसंभवः । त्राहि मां देव ईशान सर्वपापहरो भव ॥ ४४.५९ ॥ मा मे क्रुध्यस्व देवेश त्वया चैतादृशोऽस्मयहम् । सृष्टः पापसमाचारो मे प्रसन्नो भवेश्वर ॥ ४४.६० ॥ त्वं कर्त्ता चैव धाता च त्वं जयस्त्वं महाजयः । त्वं मङ्गल्यस्त्वमोङ्कारस्त्वमीशानो ध्रुवोऽव्ययः ॥ ४४.६१ ॥ त्वं ब्रह्म सृष्टिकृन्नाथस्त्वं विष्णुस्त्वं महेश्वरः । त्वमिन्द्रस्त्वं वषट्कारो धर्मस्त्वं च सुरोत्तमः ॥ ४४.६२ ॥ सूक्ष्मस्त्वं व्यक्तरूपस्त्वं त्वमव्यक्तस्त्वमीश्वरः । त्वया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् ॥ ४४.६३ ॥ त्वमादिरन्तो मध्यश्च त्वमनादिः सहस्रपात् । विजयस्त्वं सहस्राक्षो विरूपाक्षो महाभुजः ॥ ४४.६४ ॥ अन्तः सर्वागो व्यापी हंसः प्राणाधिपोऽच्युतः । गीर्वाणपतिरव्यग्रो रुद्रः पशुपतिः शिवः ॥ ४४.६५ ॥ त्रैविद्यस्त्वं जितक्रोधो जितारिर्विजितेन्द्रियः । जयश्च शूलपाणिस्त्वं त्राहि मां शरणागतम् ॥ ४४.६६ ॥ पुलस्त्य उवाच । इत्थं महेश्वरो ब्रह्मन् स्तुतो दैत्याधिपेन तु । प्रीतियुक्तः विङ्गलाक्षो हैरण्याक्षिमुवाच ह ॥ ४४.६७ ॥ सिद्धोऽसि दानवपते परितुष्टोऽस्मि तेऽन्धक । वरं वरय भद्रं ते यमिच्छसि विनाम्बिकाम् ॥ ४४.६८ ॥ अन्धक उवाच । अम्बिका जननी मह्यं भगवांस्त्र्यम्बकः पिता । वन्दामि चरणौ मातुर्वन्दनीया ममाम्बिका ॥ ४४.६९ ॥ वरदोऽसि यदीशान तद्यातु विलयं मम । शारीरं मानसं वाग्जं दुष्कृतं दुर्विचिन्तितम् ॥ ४४.७० ॥ तथा मे दानवो भावो व्यपयातु महेश्वर । स्थिरास्तु त्वयि भक्तिस्तु वरमेतत्प्रयच्छ मे ॥ ४४.७१ ॥ महादेव उवाच । एवं भवतु दैत्येन्द्र पापं ते यातु संक्षयम् । मुक्तोऽसि दैत्यभावाच्च भृङ्गी गणपतिर्भव ॥ ४४.७२ ॥ इत्येवमुक्त्वा वरदः शूलग्रादवतार्य तम् । निर्मार्ज्य निजहस्तेन चक्रे निर्व्रणमन्धकम् ॥ ४४.७३ ॥ ततः स्वदेहतो देवान् ब्रह्मादीनाजुहाव सः । ते निश्चेरुर्महात्मानो नमस्यन्तस्त्रिलोचनम् ॥ ४४.७४ ॥ गणान् सनन्दीनाहूय सन्निवेश्य तदाग्रतः । भृङ्गिनं दर्शयामास ध्रुवं नैषोऽन्धकति हि ॥ ४४.७५ ॥ तं दृष्ट्वा दानवपतिं संशुष्कपिशितं रिपुम् । गणाधिपत्यमापन्नं प्रशशंसुर्वृषध्वजम् ॥ ४४.७६ ॥ ततस्तान् प्राह भगवान् संपरिष्वज्य देवताः । गच्छध्वं स्वानि धिष्ण्यानि भुञ्जध्वं त्रिदिवं सुखम् ॥ ४४.७७ ॥ सहस्राक्षोऽपि संयातु पर्वतं मलयं शुभम् । तत्र स्वकार्यं कृत्वैव पश्चाद्यातु त्रिविष्टपम् ॥ ४४.७८ ॥ इत्येवमुक्त्वा त्रिदशान् समाभाष्य व्यसर्जयत् । पिमामहं नमस्कृत्य परिष्वज्य जनार्दनम् । ते विसृष्टा महेशेन सुरा जग्मुस्त्रक्षिविष्टपम् ॥ ४४.७९ ॥ महेन्द्रो मलयं गत्वा कृत्वा कार्यं दिवं गतः । गतेषु शक्रपाग्र्येषु देवेषु भगवाञ्चिशवः ॥ ४४.८० ॥ विसर्जयामास गणाननुमान्य यथार्हतः । गणाश्च शङ्करं दृष्ट्वा स्वं स्वं वाहनमास्थिताः ॥ ४४.८१ ॥ जग्मुस्ते शुभलोकानि महाभोगानि नारद । यत्र कामदुधा गावः सर्वकामफलद्रुमाः ॥ ४४.८२ ॥ नद्यस्त्वमृतवाहिन्यो ह्रदाः पायसकर्दमाः । स्वां स्वां गतिं प्रयातेषु प्रमथेषु महेश्वरः ॥ ४४.८३ ॥ समादायान्धकं हस्ते सनन्दिः शैलमभ्यगात् । द्वाभ्यां वर्षसहस्राभ्यां पुनरागाद्वरो गृह्म् ॥ ४४.८४ ॥ ददृशे च गिरेः पुत्रीं श्वेतार्ककुसुमस्थिताम् । समायातं निरीक्ष्यैव सर्वलक्षणसंयुतम् ॥ ४४.८५ ॥ त्यक्त्वार्ऽकपुष्पं निर्गत्य सखीस्ताः समुपाह्वयत् । समाहूताश्च देव्या ता जयाद्यास्तूर्ममागमन् ॥ ४४.८६ ॥ ताभिः परिवृता तस्थौ हरदर्शनलालसा । ततस्त्रिनेत्रो गिरिजां दृष्ट्वा प्रेक्ष्य च दानवम् ॥ ४४.८७ ॥ नन्दिनं च तथा हर्षादालिलिङ्गे गिरेः सुताम् । अथोवाचैष दासस्ते कृतो देवि मयान्धकः ॥ ४४.८८ ॥ पश्यस्व प्रणतिं यातं स्वसुतं चारुहासिनि । इत्युच्चार्यान्धकं चैव पुत्र पह्येहि सत्वरम् ॥ ४४.८९ ॥ व्रजस्व शरणं मातुरेष श्रेयस्करी तव । इत्युक्तो विभुना नन्दी अन्धकश्च गणेश्वरः ॥ ४४.९० ॥ समागम्याम्बिकापादौ ववन्दतुरुभावपि । अन्धकोऽपि तदा गौरीं भक्तिनम्रो महामुने । स्तुतिं चक्रे महापुण्यां पापघ्नीं श्रुतीसंमिताम् ॥ ४४.९१ ॥ अन्धक उवाच । ओं नमस्ये भावानीं भूतभव्यप्रियां लोकधात्रीं जनित्रीं स्कन्दमातरं महादेवप्रियां धारिणीं स्यन्दिनीं चेतनां त्रैलोक्यमातरं धरित्रीं देवमातरमथेज्यां स्मृतिं दयां लज्जां कान्तिमग्र्यामसूयां मतिं सदापावनीं दैत्यसैन्यक्षयकरीं महामायां वैजयन्ती सुशुभां कालरात्रिं गोविन्दभगिनीं शैलराजपूत्रीं सर्वदेवार्चितां सर्वभूतार्चितां विद्यां सरस्वतीं त्रिनयनमहिषीं नमस्यामी मृडानीं शरण्यां शरणमुपागतोऽहं नमो नमस्ते । इत्थं स्तुता सान्धकेन परितुष्टा विभावरी । प्राह पुत्र प्रसन्नास्मि वृणुष्व परमुत्तमम् ॥ ४४.९२ ॥ भृङ्गिरुवाच । पापं प्रशममायातु त्रिविधं मम पार्वति । तथेश्वरे च सततं भक्तिरस्तु ममाम्विके ॥ ४४.९३ ॥ पुलस्त्य उवाच । बाढमित्यब्रवीद्गौरी हिरण्याक्षसुतं ततः । स चास्ते पूजयञ्शर्वं गणानामधिपोऽभवत् ॥ ४४.९४ ॥ एवं पुरा दानवसत्तमं तं महेश्वरेणाथ विरूपदृष्ट्या । कृत्वैव रूपं भयदं च भैरवं भृङ्गित्वमीसेन कृतं स्वभक्त्या ॥ ४४.९५ ॥ एतत्तवोक्तं हरकीर्तिवर्धनं पुण्यं पवित्रं शुभदं महर्षे । संकीर्तनीयं द्विजसत्तमेषु धर्मायुरारोग्यधनैषिणा सदा ॥ ४४.९६ ॥ इति श्रीवामपुराणे चतुश्चत्वारिशोऽध्यायः ________________________________________________________________________ नारद उवाच । मलयेऽपि महेन्द्रेण यत्कृतं ब्राह्मणर्षभ । निष्पादितं स्वकं कार्यं तन्मे व्याख्यातुमर्हसि ॥ ४५.१ ॥ पुलस्त्य उवाच । श्रूयतां यन्महेन्द्रेण मलये पर्वतोत्तमे । कृतं लोकहितं ब्रह्मन्नात्मनश्च तथा हितम् ॥ ४५.२ ॥ अन्धासुरस्यानुचरा मयतापुरोगमाः । ते निर्जिताः सुरगणैः पातालगमनोत्सुकाः ॥ ४५.३ ॥ ददृशुर्मलयं शैलं सिद्धाध्युषितकन्दरम् । लतावितासंछन्नं मत्तसत्त्वसमाकुलम् ॥ ४५.४ ॥ चन्दनैरुरगाक्रान्तैः सुशीतैरभिसेवितम् । माधवीकुसुमामोदं ऋष्यर्चितहरं गिरिम् ॥ ४५.५ ॥ तं दृष्ट्वा शीतलच्छायं श्रान्ता व्यायामकर्षिताः । मयतारपुरोगास्ते निवासं समरोचयन् ॥ ४५.६ ॥ तेषु तत्रोपविष्टेषु प्राणतृप्तिप्रदोऽनिलः । विवाति शीतः शनकैर्दक्षिणो गन्धसंयुतः ॥ ४५.७ ॥ तत्रैव च रतिं चक्रः सर्व एव महासुराः । कुर्वन्तो लोकसंपूज्ये विद्धेषं देवतागणे ॥ ४५.८ ॥ ताञ्ज्ञात्वा शङ्करः शक्रं प्रेषयन्मलयेऽसुरान् । स चापि ददृशे गच्छन् पथि गोमातरं हरिः ॥ ४५.९ ॥ तस्याः प्रदक्षिणां कृत्वा दृष्ट्वा शैलं च सुप्रभम् । ददृशे दानवान् सर्वान् संहृष्टान् भोगसंयुतान् ॥ ४५.१० ॥ अथाजुहाव बलहा सर्वानेव महासुरान् । ते चाप्याययुरव्यग्रा विकिरन्तः शेरोत्करान् ॥ ४५.११ ॥ तानागतान् बाणजालैः रथस्थोऽद्भुतदर्शना । छादयामास विप्रर्षे गिरीन् वृष्ट्या यथा घनः ॥ ४५.१२ ॥ ततो बाणैरवच्छाद्य मयादीन् दानवान् हरिः । पाकं जघान तीक्ष्णाग्रैर्मार्गणैः कङ्गवाससैः ॥ ४५.१३ ॥ तत्र नाम विभुर्लोभे शासनत्वात्शरैर्दृढैः । पाकशासनतां शक्रः सर्वामरपतिर्विभुः ॥ ४५.१४ ॥ तथान्यं पुरनामानं बाणासुरसुतं शरैः । सुपुङ्खैर्दारयामास ततोऽभूत्स पुरन्दरः ॥ ४५.१५ ॥ हत्वेत्थं समरेऽजैषीद्गोत्रभिद्दानवं बलम् । तच्चापि विजितं ब्रह्मन् रसातलमुपागमत् ॥ ४५.१६ ॥ एतदर्थं सहस्राक्षः प्रेषितो मलयाचलम् । त्र्यम्बकेन मुनिश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥ ४५.१७ ॥ नारद उवाच । किमर्थं दैवतपतिर्गौन्त्रभित्कथ्यते हरिः । एष मे संशयो ब्रह्मन् हृदि संपरिवर्तते ॥ ४५.१८ ॥ पुलस्त्य उवाच । श्रुयतां गोत्रभिच्छक्रः कीर्तितो हि यथा मया । हते हिरण्यकशिपौ यच्चकारारिमर्दनः ॥ ४५.१९ ॥ दितिर्विनष्टपुत्रा तु कश्यपं प्राह नारद । विभो नाथोऽसि मे देहि शक्रहन्तारमात्मजम् ॥ ४५.२० ॥ कश्यपस्तामुवाचाथ यदि त्वमसितेक्षणे । शौचाचारसमायुक्ता स्थास्यसे दशतीर्दश ॥ ४५.२१ ॥ संवत्सराणां दिव्यानां ततस्त्रैलोक्यनायकम् । जनयिष्यसि पुत्रं त्वं शत्रुघ्नं नान्यथा प्रिये ॥ ४५.२२ ॥ इत्येवमुक्ता सा भर्त्रा दितिर्नियममास्थिता । गर्भाधानं ऋषिः कृत्वा जगामोदयपर्वतम् ॥ ४५.२३ ॥ गते तस्मिन्मुनिश्रेष्ठे सहस्राक्षोऽपि सत्वरम् । तमाश्रममुपागम्य दितिं वचनमब्रवीत् ॥ ४५.२४ ॥ करिष्याम्यनुशुश्रूषां भवत्या यदि मन्यसे । बाञमित्यब्रवीद्देवी भाविकर्मप्रचोदिता ॥ ४५.२५ ॥ समिदाहरणादीनि तस्याश्चक्रे पुरन्दरः । विनीतात्मा च कार्यार्था छिद्रान्वेषी भुजङ्गवत् ॥ ४५.२६ ॥ एकदा सा तपोयुक्ता शौचे महति संस्थिता । दशवर्षशतान्ते तु शिरःस्नाता तपस्विनी ॥ ४५.२७ ॥ जानुभ्यामुपरि स्थाप्य मुक्तकेशा निजं शिरः । सुष्वाप केशप्रान्तैस्तु संश्लिष्टचरणाभवत् ॥ ४५.२८ ॥ तमन्तरमशौचस्य ज्ञात्वा देवः सहस्रदृक् । विवेश मातुरुदरं नासारन्ध्रेण नारद ॥ ४५.२९ ॥ प्रविश्य जठरं क्रुद्धो दैत्यमातुः पुरन्दरः । ददर्शोर्ध्वमुकं बालं कटिन्यस्तकरं महत् ॥ ४५.३० ॥ तस्यैवास्येऽथ ददृशे पेशीं मांसस्य वासवः । शुद्धस्फटिकसंकाशां कराभ्यां जगृहेऽथ ताम् ॥ ४५.३१ ॥ ततः कोपसमाध्मातो मांसपेशीं शतक्रतुः । कराभ्यं मर्दयामास ततः सा कठिनाभवत् ॥ ४५.३२ ॥ ऊर्ध्वेनार्धं च ववृधे त्वधोर्ऽधं ववृधे तथा । शतपर्वाथ कुलिशः संजातो मांसपेशितः ॥ ४५.३३ ॥ तेनैव गर्भं दितिजं वज्रेण शतपर्वणा । चिच्छेद सप्तधा ब्रह्मन् स रुरोद च विस्वरम् ॥ ४५.३४ ॥ ततोऽपयबुध्यत दितिरजानाच्छक्रचोष्टितम् । शुश्राव वाचं पुत्रस्य रुदमानस्य नारद ॥ ४५.३५ ॥ शक्रोऽपि प्राह मा मूढ रुदस्वेति सुघर्घरम् । इत्येवमुक्त्वा चैकैकं भूयश्चिच्छेद सप्तधा ॥ ४५.३६ ॥ ते जाता मरुतो नाम देवभृत्याः शतक्रतोः । मातुरेवापचारेण चलन्ते ते पुरस्कृताः । ४५.३७ ततः सकुलिशः शक्रो निर्गम्य जठरात्तदा । दितिं कृताञ्जलिपुटः प्राह भीतस्तु शापतः ॥ ४५.३८ ॥ ममास्ति नापराधोऽयं यच्छास्तस्तनयस्तव । तवैवापनयाच्छस्तस्तन्मे न क्रोद्धमर्हसि ॥ ४५.३९ ॥ दितिरुवाच । न तावत्रापराधोऽस्ति मन्ये दिष्टमिदं पुरा । संपूर्णे त्वपि काले वै या शौचत्वमुपागता ॥ ४५.४० ॥ पुलस्त्य उवाच । इत्येवमुक्त्वा तान् बालान् परिसान्त्व्य दितिः स्वयम् । देवाराज्ञा सहैतांस्तु प्रेषयामास भामिनि ॥ ४५.४१ ॥ एवं पुरा स्वानपि सोदरान् स गर्भस्थितानुज्जरितुं भयार्तः । बिभेद वज्रेण ततः स गोत्रभित्ख्यातो महर्षे भगवान्महेन्द्रः ॥ ४५.४२ ॥ इति श्रीवामनपुराणे पञ्चचत्वारिंशोऽध्यायः ________________________________________________________________________ नारद उवाच । यदमी भवता प्रोक्ता मरुतो दितिजोत्तमाः । तत्केन पूर्वमासन् वै मरुन्मार्गेण कथ्यताम् ॥ ४६.१ ॥ पूर्वमन्वन्तरेष्वेव समतीतेषु सत्तम् । के त्वासन् वायुमार्गस्थास्तन्मे व्याख्यातुमर्हसि ॥ ४६.२ ॥ पुलस्त्य उवाच । श्रूयतां पूर्वमरुतामुत्पत्तिं कथयामि ते । स्वायंभुवं समारभ्य यावन्मन्वन्तरं त्विदम् ॥ ४६.३ ॥ स्वायंभुवस्य पुत्रोऽभून्मनोर्नाम प्रियव्रतः । तस्यासीत्सवनो नाम पुत्रस्त्रैलोक्यपूजितः ॥ ४६.४ ॥ स चानपत्यो देवर्षे नृपः प्रेतगतिं गतः । ततोऽरुदत्तस्य पत्नी सुदेवा शोकविह्वला ॥ ४६.५ ॥ न ददाति तदा दग्धुं समालिङ्ग्य स्थिता पतिम् । नाथ नातेति बहुशो विलपन्ती त्वनाथवत् ॥ ४६.६ ॥ तामन्तरिक्षादशरीरिणी वाक्प्रोवाच मा राजपत्नीह रोदीः । यद्यस्ति ते सत्यमनुत्तमं तदा भवत्वयं ते पतिना सहाग्निः ॥ ४६.७ ॥ सा तां वाणीमन्तरिक्षान्निशम्य प्रोवाचेदं राजपुत्री सुदेवा । शोचाम्येनं पार्थिवं पुत्रहीनं नैवात्मानं मन्दभाग्यं विहङ्ग ॥ ४६.८ ॥ सोऽथाब्रवीन्मा रुदस्वायताक्षि पुत्रास्त्वत्तो भूमिपालस्य सप्त । भविष्यन्ति वह्निमारोह शीघ्रं सत्यं प्रोक्तं श्रद्दधत्स्व त्वमद्य ॥ ४६.९ ॥ इत्येवमुक्ता खचरेण बाला चितौ समारोप्य पितं वरार्हम् । हुताशमासाद्य पतिव्रता तं संचिन्तयन्ती ज्वलनं प्रवनन्ना ॥ ४६.१० ॥ ततो मुहूर्तान्नृपतिः श्रिया युतः समुत्तस्थौ सहितो भार्ययासौ । खमुत्पपाताथ स कामचारी समं महिष्या च सुनाभपुत्र्या ॥ ४६.११ ॥ तस्याम्बरे नारद पार्थिवस्य जाता रजोगा महिषी तु गच्छतः । स दिव्ययोगात्प्रतिसंस्थितोऽम्बरे भार्यासहायो दिवसानि पञ्च ॥ ४६.१२ ॥ ततस्तु षष्ठेऽहनि पार्थिवेन ऋतुर्न वन्ध्योऽद्य भवेद्विचिन्त्य । रराम तन्व्या सह कामचारी ततोऽम्बरात्प्राच्यवतास्य शुक्रम् ॥ ४६.१३ ॥ शुक्रोत्सर्गावसाने तु नृपतिर्भार्यया सह । जगाम दिव्यया गत्या ब्रह्मलोकं तपोधन । । । ४६.१४ ॥ तदम्बरात्प्रचलितमभ्रवर्णं शुक्रं समाना नलिनी वपुष्मती । चित्रा विशाला हरितालिनी च सप्तर्षिपत्न्यो ददृशुर्यथेच्छया ॥ ४६.१५ ॥ तद्दृष्ट्वा पुष्करे न्यस्तं प्रत्यैच्छन्त तपोधन । मन्यमानास्तदमृतं सदा यौवनलिप्सया ॥ ४६.१६ ॥ ततः स्नात्वा च विधिवत्संपूज्य तान्निजान् पतीन् । पतिभिः समनुज्ञाताः पपुः पुष्करसंस्थितम् ॥ ४६.१७ ॥ तच्छुक्रं पार्थिवेन्द्रस्य मन्यमानास्तदामृतम् । पीतमात्रेण शुक्रेण पार्थिवेन्द्रोद्भवेन ताः ॥ ४६.१८ ॥ ब्रह्मतेजोविहीनास्ता जाताः पत्न्यस्तपस्विताम् । ततस्तु तत्यजुः सर्वे सदोषास्ताश्च पत्नयः ॥ ४६.१९ ॥ सुषुवुः सप्त तनयान् रुदतो भैरवं मुने । तेषां रुदितशब्देन सर्वमापूरितं जगत् ॥ ४६.२० ॥ अथाजगाम भगवान् ब्रह्म लोकपितामहः । समभ्येत्याब्रवीद्बालान्मा रुदध्वं महाबलाः ॥ ४६.२१ ॥ मरुतो नाम यूयं वै भविष्यध्वं वियच्चराः । इत्येवमुक्त्वा देवेशो ब्रह्म लोकपितामहः ॥ ४६.२२ ॥ तानादाय वियच्चारी मारुतानादिदेश ह । ते त्वासन्मरुतस्त्वाद्या मनोः स्वायंभुवेऽन्तरे ॥ ४६.२३ ॥ स्वारेचिषे तु मरुतो वक्ष्यामि शृणु नारद । स्वारोचिषस्य पुत्रस्तु श्रीमानासीत्क्रतुध्वजः ॥ ४६.२४ ॥ तस्य पुत्राभवन् सप्त सप्तार्च्चिःप्रतिमा मुने । तपोर्ऽथं ते गताः शैलं महामेरुं नरेश्वराः ॥ ४६.२५ ॥ आराधयन्तो ब्रह्मणं पदमैन्द्रमथेप्सवः । ततो विपश्चिन्नामाथ सहस्राक्षो भयातुरः ॥ ४६.२६ ॥ पूतनामप्सरोमुख्यां प्राह नारद वाक्यवित् । गच्छस्व पूतने शैलं महामेरुं विशालिनम् ॥ ४६.२७ ॥ तत्र तप्यन्ति हि तपः क्रतुध्वजसुता महत् । यथा हि तपसो विघ्नं तेषां भवति सुन्दरि ॥ ४६.२८ ॥ तथा कुरुष्व मा तेषां सिद्धिर्भवतु सुन्दरि । इत्येवमुक्ता शक्रेण पूतना रूपशालिनी ॥ ४६.२९ ॥ तत्राजगाम त्वरिता यत्रातप्यन्त ते तपः । आश्रमस्याविदूरे तु नदी मन्दोदवाहिनी ॥ ४६.३० ॥ तस्यां स्नातुं समायाताः सर्व एव सहोदराः । सापि स्नातुं सुचार्वङ्गी त्ववतीर्णा महानदीम् ॥ ४६.३१ ॥ ददृशुस्ते नृपाः स्नातां ततश्चुक्षुभिरे मुने । तेषां च प्राच्यवच्छुक्रं तत्पपौ जलचारिणी ॥ ४६.३२ ॥ शङ्खिना ग्राहमुख्यस्य महाशङ्खस्य वल्लभा । तेऽपि विभ्रष्टतपसो जग्मू राज्यं तु षैतृकम् ॥ ४६.३३ ॥ सा चापसराः शक्रमेत्य याथातथ्यं न्यवेदयत् । ततो बहुतिथे काले सा ग्राही शङ्खरूपिणी ॥ ४६.३४ ॥ समुद्धृता महाजालौर्मत्स्यबन्धेन मानिनी । स तां दृष्ट्वा महाशङ्खी स्थलास्थां मत्स्यजीविकः ॥ ४६.३५ ॥ निवेदयामास तदा क्रतुध्वजसुतेषु वै । तथाभ्येत्य महात्मानो योगिनो योगधारिणः ॥ ४६.३६ ॥ नीत्वा स्वमन्दिरं सर्वे पुरवाप्यां समुत्सृजन् । ततः प्रमाच्छङ्खिनी सी सुषुवे सप्त वै शिशून् ॥ ४६.३७ ॥ जातमात्रेषु पुत्रेषु मोक्षभावमगाच्च सा । अमातृपितृका बाला जलमध्यविहारिणः ॥ ४६.३८ ॥ स्तान्यार्थिनो वै रुरुदुराथाभ्यागात्पितामहः । मा रुदध्वमितीत्याह मरुतो नाम पुत्रकाः ॥ ४६.३९ ॥ यूयं देवा भविष्यध्वं वायुस्कन्धविचारिणः । इत्येवमुक्त्वाथादाय सर्वास्तान् दैवतान् प्रति ॥ ४६.४० ॥ नियोज्य च मरुमार्गे वैराजं भवनं गतः । एवमासंश्च मरुतो मनोः स्वारोचिषेऽन्तरे ॥ ४६.४१ ॥ उत्तमे मरुतो ये च ताञ्छृणुष्व तपोधन । उत्तमस्यान्ववाये तु राजासीन्निषधाधिपः ॥ ४६.४२ ॥ वपुष्मानिति विख्यातो वपुषा भास्करोपमः । तस्य पुत्रो गुणश्रेष्ठो ज्योतिष्मान् धार्मिकोऽभवत् ॥ ४६.४३ ॥ स पुत्रार्थो तपस्तेपे नदीं मन्दाकिनीमनु । तस्य भार्या च सुश्रोणी देवाचार्यासुता शुभा ॥ ४६.४४ ॥ तपश्चारणयुक्तस्य बभूव परिचारिका । सा स्वयं फलपुष्पाम्बुसमित्कुशं समाहरत् ॥ ४६.४५ ॥ चकार पद्मपत्राक्षी सम्यक्चातिथिपूजनम् । पतिं शुश्रूषमाणा सा कृशा धमनिसंतता ॥ ४६.४६ ॥ तेजोयुक्ता सुचार्वङ्गीं दृष्टा सप्तर्षिभिर्वने । तां तथा चारुसर्वाङ्गीं दृष्ट्वाथ तपसा कृसाम् ॥ ४६.४७ ॥ पप्रच्छुस्तपसो हेतुं तस्यास्तद्भर्तुरेव च । साब्रवीत्तनयार्थाय आवाभ्यां वै तपःक्रिया ॥ ४६.४८ ॥ ते चास्यै वरदा ब्रह्मन् जाताः सप्त सहर्षयाः । व्रजध्वं तनयाः सप्त भविष्यन्ति न सशं यः ॥ ४६.४९ ॥ युवयोर्गुणसंयुक्ता महर्षीणां प्रसादतः । इत्येवमुक्त्वा जग्मुस्ते सर्व एव महर्षयः ॥ ४६.५० ॥ स चापि राजर्षिरगात्सभार्यो नगरं निरम् । ततो बहुतिथे काले सा राज्ञो महिषी प्रिया ॥ ४६.५१ ॥ अवाप गर्भं तन्वङ्गी तस्मान्नृपतिसत्तमात् । गुर्विण्यामथ भार्यायां ममारासौ नराधिपः ॥ ४६.५२ ॥ सा चाप्यारोढुमिच्छन्ती भर्तारं वै पतिव्रता । निवारिता तदामात्यैर्न तथापि व्यतिष्ठता ॥ ४६.५३ ॥ समारोप्याथ भर्तारं चितायामारुहच्च सा । ततोऽग्निमध्यात्सलिले मांसपेश्यपतन्मुने ॥ ४६.५४ ॥ साम्भसा सुखशीतेन संसिक्ता सप्तधाभवत् । तेऽजायन्ताथ मरुत उत्तमस्यान्तरे मनोः ॥ ४६.५५ ॥ तामसस्यान्तरे ये च मरुतोऽप्यभवन् पुरा । तानहं कीर्तयिष्यामि गीतनृत्यकलिप्रिय ॥ ४६.५६ ॥ तामसस्य मनोः पुत्रो ऋतध्वज इति श्रुतः । स पुत्रर्थो जुहावाग्नौ स्वमांसं रुधिरं तथा ॥ ४६.५७ ॥ अस्थीनि रोमकेशांश्च स्नायुमज्जायकृद्ःनम् । शुक्रं च चित्रगौ राजा सुतार्थो इति नः श्रुतम् ॥ ४६.५८ ॥ सप्तस्वेवार्चिषु ततः शुक्रपातादनन्तरम् । मा मा क्षिपस्वेत्यभवच्छब्दः सोऽपि मृतो नृपः ॥ ४६.५९ ॥ ततस्तस्माद्धुतवहात्सप्त तत्तेजसोपमाः । शिशवः समजायन्त ते रुदन्तोऽभवन्मुने ॥ ४६.६० ॥ तेषां तु ध्वनिमाकर्ण्य भगवान् पद्मसंभवः । समागम्य निवार्य्याथ स चक्रे मरुतः सुतान् ॥ ४६.६१ ॥ ते त्वासन्मरुतो ब्रह्मंस्तमसे देवतागणाः । येऽभवन् रैवते तांश्च शृणुष्व त्वं तपोधनः ॥ ४६.६२ ॥ रैवतस्यान्ववाये तु राजासीद्रिपुजिद्वशी । रिपुजिन्नामतः ख्यातो न तस्यासीत्सुतः किल ॥ ४६.६३ ॥ स समाराध्य तपसा भास्करं तेजसां निधिम् । अवाप कन्यां सुरतिं तां प्रगृह्य गृहं ययौ ॥ ४६.६४ ॥ तस्यां पितृगृहे ब्रह्मन् वसन्त्यां स पिता मृतः । सापि दुःखपरीताङ्गीं स्वां तनुं त्यक्तुमुद्यता ॥ ४६.६५ ॥ ततस्तां वारयामासुरृषयः सप्त मानसाः । तस्यामासक्तचित्तास्तु सर्व एव तपोधनाः ॥ ४६.६६ ॥ अपारयन्ती तद्दुःखं प्रज्वाल्याग्निं विवेश ह । ते चापश्यन्त ऋषयस्तच्चित्ता भावितास्तथा ॥ ४६.६७ ॥ तां मृतामृषयो दृष्ट्वा कष्टं कष्टेति वादिनः । प्रजग्मुर्ज्वलनाच्चापि सप्ताजायन्त दारकाः ॥ ४६.६८ ॥ ते च मात्रा विनाभूता रुरुदुस्तान् पितामहः । निवारयित्वा कृतवांल्लोकनाथो मरुद्गणान् ॥ ४६.६९ ॥ रैवतस्यान्तरे जाता मरुतोऽमी तपोधन । शृणुष्व कीर्तयिष्यामि चाक्षुषस्यान्तरे मनोः ॥ ४६.७० ॥ आसीन्मङ्किरिति ख्यातस्तपस्वी सत्यवाक्शुचिः । सप्तसारस्वते तीर्थे सोऽतप्यत महत्तपः ॥ ४६.७१ ॥ विघ्नार्थं तस्य तुषिता देवाः संप्रेषयन् वपुम् । सा चाभ्येत्य नदीतीरे क्षोभयामास भामिनी ॥ ४६.७२ ॥ ततोऽस्य प्राच्यवच्छ्रुक्रं सप्तसारस्वते जले । तां चैवाप्यशपन्मूढां मुनिर्मङ्कणको वपुम् ॥ ४६.७३ ॥ गच्छ लब्धासि मूढे त्वं पापस्यास्य महत्फलम् । विध्वंसयिष्यति हयो भवतीं यज्ञसंसदि ॥ ४६.७४ ॥ एवं शप्त्वा ऋषिः श्रीमान् जगामाथ स्वमाश्रमम् । सरस्वतीभ्यः सप्तभयः सप्त वै मरुतोऽभवन् ॥ ४६.७५ ॥ एतत्तवोक्ता मरुतः पुरा यथा जाता वियद्व्याप्तिकरा महर्षे । येषां श्रुते जन्मनि पापहानिर्भवेच्च धर्माभ्युदयो महान् वै ॥ ४६.७६ ॥ इति श्रीवामुपुराणे षट्चत्विरिंशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । एतदर्थं बलिर्दैत्यः कृतो राजा कलिप्रिय । मन्त्रप्रदाता प्रह्लादः शुक्रश्चासीत्पुरोहितः ॥ ४७.१ ॥ ज्ञात्वाभिषिक्तं दैतेयं विरोचनसुतं बलिम् । दिदृक्षवः समायाताः समयाः सर्व एव हि ॥ ४७.२ ॥ तानागतान्निरीक्ष्यैव पूजयित्वा यताक्रमम । पप्रच्छ कुलजान् सर्वान् किंनु श्रेयस्करं मम ॥ ४७.३ ॥ तमुचुः सर्व एवैनं शृणुष्व सुरमर्दन । यत्ते श्रेयस्करं कर्म यदस्माकं हितं तथा ॥ ४७.४ ॥ पितामहस्तव ७ ई आसीद्दानवपालकः । हिरण्यकशिपुर्वीरः स शक्रोऽभूज्जगत्त्रये ॥ ४७.५ ॥ तमागम्य सुरश्रेष्ठो विष्णुः सिंहवपुर्धरः । प्रत्यक्षं दानवेन्द्राणां नखैस्तं हि व्यदारयत् ॥ ४७.६ ॥ अपकृष्टं तथा राज्यमान्धकस्य महात्मनः । तेषामर्थे महाबाहो शङ्करेम त्रिशूलिना ॥ ४७.७ ॥ तथा तव पितृव्योऽपि जम्भः शक्रेण घातितः । कुजम्भो विष्णुना चापि प्रत्यक्षं पशुवत्तव ॥ ४७.८ ॥ शम्भुः पाको महेन्द्रेण भ्राता तव सुदर्शनः । विरोचनस्तव पिता निहतः कथयामि ते ॥ ४७.९ ॥ श्रुत्वा गो६ षयं ब्रह्मन् कृत शक्रेण दानवः । उद्योगं कारयामास सह सर्वैर्महासुरैः ॥ ४७.१० ॥ रथैरन्ये गजैरन्ये वाजिभिश्चापरेऽसुराः । पदातयस्तथैवान्ये जग्मुर्युद्धाय दैवतैः ॥ ४७.११ ॥ मयोऽग्रे याति बलवान् सेनानाथो भयङ्करः । सैन्यस्य मध्ये च बलिः कालनेमिश्च षृष्ठतः ॥ ४७.१२ ॥ वामपार्श्वमवष्टभ्य शालवः प्रथितविक्रमः । प्रयाति दक्षिणं घोरं तारकाख्यो भयङ्करः ॥ ४७.१३ ॥ दानवानां सहस्राणि प्रयुतान्यर्बुदानि च् संप्रयातानि युद्धाय देवैः सह कलिप्रिय ॥ ४७.१४ ॥ श्रुत्वासुराणामुद्योगं शक्रः सुरपतिः सुरान् । उवाच याम दैत्यांस्तान् योद्धुं सबलसंयुतान् ॥ ४७.१५ ॥ इत्येवमुक्त्वा वचनं सुरराट्स्यन्दनं बली । समारुरोह भगवान् यतमातलिवाजिनम् ॥ ४७.१६ ॥ समारूढे सहस्राक्षे स्यन्दनं देवतागणः । स्वं स्वं वाहनमारुह्य निश्चेरुर्युद्धकाङ्क्षिमः ॥ ४७.१७ ॥ आदित्या वसवो रुद्राः साध्या विश्वेऽश्विनौ तथा । विद्याधरा गुह्यकाश्च यक्षराक्षसपन्नगाः ॥ ४७.१८ ॥ राजर्षयस्तथा सिद्धा नानाभूताश्च संहताः । गजानन्ये रथानन्ये हयानन्ये समारुहन् ॥ ४७.१९ ॥ विमानानि च सुभ्राणि पक्षिवाह्यानि नारद । समारुह्याद्रवन् सर्वे यतो दैत्यबलं स्थितम् ॥ ४७.२० ॥ एतस्मिन् विष्णुः सुरश्रेष्ठ अधिरुह्य समभ्यगात् ॥ ४७.२१ ॥ तमागतं सहस्राक्षस्त्रैलोक्यपतिमव्ययम् । ववन्द मूर्ध्नावनतः सह सर्वैः सुरोत्तमैः ॥ ४७.२२ ॥ ततोऽग्रे देवसैन्यस्य कार्तिकेयो गदाधरः । पालयञ्जघनं विष्णुर्याति मध्ये सहस्रदृक् ॥ ४७.२३ ॥ वामं पार्श्वंमवष्भ्य जन्तो व्रजते मुने । दक्षिणं वरुणः पार्श्वमवष्टभ्याव्रजद्बली ॥ ४७.२४ ॥ ततोऽमराणां पृतना यशस्विनी स्कन्देन्द्रविष्णुवम्बुपसूर्यपालिता । नानास्त्रशस्त्रोद्यतदोःसमूहा समाससादारिबलं महीध्रे ॥ ४७.२५ ॥ उदयाद्रितटे रम्ये शुभे समशिलातले । निर्वृक्षे पक्षिरहिते जातो देवासुरो रणः ॥ ४७.२६ ॥ संनिपातस्तयो रौद्रः सैन्ययोरभवन्मुने । महीधरोत्तमे पूर्वं यथा वानरहस्तिनोः ॥ ४७.२७ ॥ रणरेणु रथोद्धूतः पिङ्गलो रणमूर्धनि । संद्यानुरक्तः सदृशो मेघः खे सुरतापस ॥ ४७.२८ ॥ तदासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन । श्रूयते त्वनिशं शब्दः छिन्धि भिन्धीति सर्वतः ॥ ४७.२९ ॥ ततो विशसनो रौद्रो दैत्यानां दैवतैः सह । जातो रुधिरनिष्यन्दो रजःसयमनात्मकः ॥ ४७.३० ॥ शान्ते रजसि देवाद्यास्तद्दानवबलं महत् । अभिद्रवन्ति सहिताः समं स्कन्देन धीमता ॥ ४७.३१ ॥ निजघ्नुर्दानवान् देवाः कुमारभुजपालिताः । देवान्निजघ्नुर्दैत्याश्च मयगुप्ताः प्रहारिणः ॥ ४७.३२ ॥ ततोऽमृतरसास्वादाद्विना भूताः सुरत्तमाः । निर्जिताः समरे दैत्यैः समं स्कन्देन नारद ॥ ४७.३३ ॥ विनिर्जितान् सुरान् दृष्ट्वा वैनतेयध्वजोऽरिहा । शार्ङ्गमानम्य बाणैघैर्निजघान ततस्ततः ॥ ४७.३४ ॥ ते विष्णुना हन्यमानाः पतत्त्रिभिरयोमुखैः । दैतेयाः शरणं जग्मुः कालनेमिं महासुराम् ॥ ४७.३५ ॥ तेभ्यः स चाभयं दत्त्वा ज्ञात्वाजेयं च माधवम् । विवृद्धिमगमद्ब्रह्मन् यथा व्याधिरुपेक्षितः ॥ ४७.३६ ॥ यं यं करेण स्पृशति देवं यक्षं सकिन्नरम् । तं तमादाय चिक्षेप विस्तृते वदने बली ॥ ४७.३७ ॥ संरम्भाद्दानवेन्द्रो विमृदति दितिजैः संयुतो देवसैन्यं सेन्द्रं सार्क सचन्द्रं करचरणनखैरस्क्षत्रहीनोऽपि वेगात् । चक्रैर्वैश्वानराभैस्त्ववनिगगनयोस्तिर्यगूर्ध्वं समन्तात्प्राप्तेऽन्ते कालवह्नेर्जगदखिलमिदं रूपमासीद्दिधक्षोः ॥ ४७.३८ ॥ तं दृष्ट्वा वर्द्धमानं रिपमतिबलिनं देवगन्धर्वमुख्याः सिद्धाःसाध्याश्विमुख्या भयतरलदृशः प्राद्रवन् दिक्षु सर्वे । पोप्लूयन्तश्च दैत्या हरिममरगणैरर्चितं चारुमौलिं नानाशस्त्रास्त्रपातैर्विगलितयशसंचक्रुरुत्सिक्तदर्पाः ॥ ४७.३९ ॥ तानित्थंप्रेक्ष्य दैत्यान्मयबलिपुरगान् कालनेमिप्रधानान् बाणैराकृष्य शार्ङ्ग त्वनवरतमुरोभेदिबिर्वज्रकल्पैः । कोपादारक्तदृष्टिः सरथगजहयान् दृष्टिनिर्धूतवीर्यान्नाराचख्यैः सुपुङ्खैर्जलदिव गिरीन् छादयामास विष्णुः ॥ ४७.४० ॥ तैर्वाणैश्छाद्यमाना हरिकरनुदितैः कालदण्डप्रकाशैर्नाराचैरर्धचन्द्रैर्बालिमयपुरागा भीतभीतास्त्वारन्तः । प्रारम्बे दानवेन्द्रं शतवदनमथो प्रेषयन् कालनेमिं स प्रायाद्देवसैन्यप्रभुममितबलं केशवं लोकनाथम् ॥ ४७.४१ ॥ तं दृष्ट्वा शतशीर्षमुद्यतगदं शैलेन्द्रशृङ्गाकृतिं विष्णुः शार्ङ्गमपास्य सत्वरमथो जग्राह चक्रं करे । सोऽप्येनं प्रसमीक्ष्य दैत्यविटपप्रच्छेदनं मानिनं प्रोवाचाथ विहस्य तं च सुचिरं मेघस्वनो दानवः ॥ ४७.४२ ॥ अयं स दनुपुत्रसैन्यवित्रासकृद्रिषुः परमकोपितः स मधोर्विघातकृत् । हिरण्यनयनान्तकः कुसुमपूजारतिः क्व याति मम दृष्टिगोचरे निपतितः खलः ॥ ४७.४३ ॥ यद्येष संप्रति ममाहवमभ्युषैति नृनं न याति निलयं निजमम्बुजाक्षः । मन्मुष्टिपिष्टशिथिलाङ्गमुपात्तभस्म संद्रक्ष्यते सुरजनो भयकातराक्षः ॥ ४७.४४ ॥ इत्येवमुक्त्वा मधुसूदनं वै स कालनेमिः स्फुरिताधरोष्ठः । गदां खगेन्द्रोपरि जातकोपो मुमोच शैले कुलिशं यथेन्द्रः ॥ ४७.४५ ॥ तामापतन्तीं प्रसमीक्ष्य विष्णुर्घोरां गदां दानवबाहुमुक्ताम् । चक्रेण चिच्छेद सुदुर्गतस्य मनोरथं पूर्वकृतेन कर्म ॥ ४७.४६ ॥ गदां छित्त्वा दानवाभ्याशमेत्य भुजौ पीनौ संप्रचिच्छेद वेगात् । भुजाभ्यां कृत्ताभ्यां दग्धशैलप्रकाशः संदृश्येताप्यपरः कालनेमि ॥ ४७.४७ ॥ ततोऽस्य माधवः कोपात्शिरश्चक्रेण भूतले । छित्त्वा निपातयामास पक्वं तालफलं यथा ॥ ४७.४८ ॥ तथा विबाहुर्विशिरा मुण्डतालो यथा वने । तस्थौ मेरुरिवाकम्प्यः कबन्धः क्ष्माधरेश्वरः ॥ ४७.४९ ॥ तं वैनतेयोऽप्युपसा खगोत्त्मो निपातयामास मुने धरण्याम् । यथाम्बराद्बाहुशिरः प्रणष्टबलं महेन्द्रः कुलिशेन भूम्याम् ॥ ४७.५० ॥ तस्मिन् हते दानवसैन्यपाले संपीड्यमानास्त्रिदशैस्तु दैत्याः । विमुक्तशस्त्रालकचर्मवस्त्राः संप्राद्रवन् बाणमृतेऽसुरेन्द्राः ॥ ४७.५१ ॥ इति श्रीवामनपुराणे सप्तचत्वारिंशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । संनिवृत्ते ततो बाणे दानवाः सत्वरं पुनः । निवृत्ता देवतानां च सशस्त्रा युद्धलालसाः ॥ ४८.१ ॥ विष्णुरप्यमितौजास्तं ज्ञात्वाजेयं बलेः सुतम् । प्राहामन्त्र्य सुरान् सर्वान् युध्यध्वं विगतज्वराः ॥ ४८.२ ॥ विष्णुनाथ समादिष्टा देवाः शक्रपुरोगमाः । युयुधुर्दानवैः सार्धं विष्णुस्त्वन्तरधीयत ॥ ४८.३ ॥ माधवं गतमाज्ञाय शुक्रो बलिमुवाच ह् गोविन्देन मुरास्त्यक्तास्त्वं जयस्वाधुना बले ॥ ४८.४ ॥ स पुरोहितवाक्येन प्रीतो याते जनार्दने । गदामादाय देजस्वी देवसैन्यमभिद्रुतः ॥ ४८.५ ॥ बाणो बाहुसहस्रेण गृह्य प्रहरणान्यथ । देवसैन्यमभिद्रुत्य निजघान सहस्रशः ॥ ४८.६ ॥ मयोऽपि मायामास्थाय तैस्तै रूपान्तरैर्मुने । योधयामास बलावान् सुराणां च वरूछिनीम् ॥ ४८.७ ॥ विद्युज्जिह्वः प्ररिभद्रो वृषपर्वा शतेक्षणः । विपाको विक्षरः सैन्यं तेऽपि देवानुपाद्रवन् ॥ ४८.८ ॥ ते हन्यमाना दितिजैर्देवाः शक्रपुरोगमाः । गते जनार्दने देवे प्रायशो विमुख्याभवन् ॥ ४८.९ ॥ तान् प्रभग्नान् सुरगाणान् बलिबाणापुरोगमाः । पृष्ठतश्चाद्रवन् सर्वे त्रैलोक्यविजिगीषवः ॥ ४८.१० ॥ संबाध्यमाना दैतेयैर्दवाः सेन्द्रा भयातुराः । त्रिविष्टपं परित्यज्य ब्रह्मलोकमुपागताः ॥ ४८.११ ॥ ब्रह्मलोकं गतेष्वित्थं सेन्द्रेष्वपि सुरेषु वै । स्वर्गभोक्ता बलिर्जातः सपुत्रभ्रातृबान्धवः ॥ ४८.१२ ॥ शक्रोऽभूद्भगवान् ब्रह्मन् बलिर्बाणो यमोऽभवत् । वरुणोऽभून्मयः सोमो राहुर्ह्लोदो हुताशनः ॥ ४८.१३ ॥ स्वर्भानुरभवत्सूर्यः शुक्रश्चासीद्बृहस्पतिः । येऽन्येऽप्यधिकृता देवास्तेषु जाताः सुरारयः ॥ ४८.१४ ॥ पञ्चमस्य कलेरादौ द्वापरान्ते सुदारुणः । देवासुरोऽभूत्संग्रामो यत्र शक्रोऽप्यभूद्बलिः ॥ ४८.१५ ॥ पातालाः सप्त तस्यास्न् वशे लोकत्रयं तथा । भूर्भुवःस्वरिति ख्यातं दशलोकाधिपो बलिः ॥ ४८.१६ ॥ स्वर्गे स्वयं निवसति भुञ्जन् भोगान् सुदर्लभान् । तत्रोपासन्त गन्धर्वा विश्वावसुपुरोगमाः ॥ ४८.१७ ॥ तिलोत्तमाद्याप्सरसो नृत्यन्ति सुरतापस । वादयन्ति च वाद्यानि यक्षविद्याधरादयः ॥ ४८.१८ ॥ विविधानपि भोगांश्च भुञ्जन् दैत्येश्वरो बलि । सस्मार मनसा ब्रह्मन् प्रह्लादं स्वपितामहम् ॥ ४८.१९ ॥ संस्मृतो नप्तृणा चासौ महाभागवतोऽसुरः । समभ्यागात्त्वरायुक्तः पातालात्स्वर्गमव्ययम् ॥ ४८.२० ॥ तमागतं समीक्ष्यैव त्यक्त्वा सिंहासनं बलिः । कृताञ्जलिपुटो भूत्वा ववन्दे चरणावुभौ ॥ ४८.२१ ॥ पादयोः पतितं वीरं प्रह्लादस्त्वरितो बलिम् । समुत्थाप्य परिष्यवज्य विवेश परमासने ॥ ४८.२२ ॥ लं बलिः प्राह भोस्तात त्वत्प्रसादात्सुरा मया । निर्जिताः शक्रराज्यं च हृतं वीर्यबलान्मया ॥ ४८.२३ ॥ तदिदं तात मद्वीर्यविनिर्जितसुरोत्तमम् । त्रैलोक्यराज्यं भुञ्ज त्वं मयि भृत्ये पुरःस्थिते ॥ ४८.२४ ॥ एतावता पुण्ययुतः स्यामहं तात यत्स्वयम् । त्वदङ्घ्रिपूजाभिरतस्त्वदुच्छिष्टान्नभोजनः ॥ ४८.२५ ॥ न सा पालयतो राज्यं धृतिर्भवति सत्तम । या धृतिर्गुरुशुश्रुषां कुर्वतो जायते विभो ॥ ४८.२६ ॥ ततस्तदुक्तं बलिना वाक्यं श्रुत्वा द्विजोत्तम । प्रह्लादः प्राह वचनं धर्मकामार्थसाधनम् ॥ ४८.२७ ॥ मया कृतं राज्यमकण्टकं पुरा प्रशासिता भूः सुहृदोऽनुपूजिताः । दत्तं यथेष्टं जनिनास्तथात्मजाः स्थितो बले सम्प्रति योगसाधकः ॥ ४८.२८ ॥ गृहीतं पु६ विधिवन्मया भूयोऽर्पितः तव । एवं भव गुरूणां त्वं सदा सुश्रूषणे रतः ॥ ४८.२९ ॥ इत्येवमुक्त्वा वचनं करे त्वादाय दक्षिणे । शाक्रे सिंहासने ब्रह्मन् बलिं तूर्णं न्यवेशयत् ॥ ४८.३० ॥ सोपविष्टो महेन्द्रस्य सर्वरत्नमये शुभे । सिंहहासने दैत्यपतिः शुशुभे मघवानिव ॥ ४८.३१ ॥ तत्रोपविष्टश्चैवासौ कृताञ्जलिपुटो नतः । प्रह्लादं प्राह वचनं मेघगम्भीरया गिरा ॥ ४८.३२ ॥ यन्मया तात कर्तव्यं त्रैलोक्यं परिरक्षता । धर्मार्थकाममोक्षेभ्यस्तदादिशतु मे भवान् ॥ ४८.३३ ॥ तद्वाक्यसम कालं च शुक्रः प्रह्लादमब्रवीत् । यद्युक्तं तन्महाबाहो वदस्वाद्योत्तरं वचः ॥ ४८.३४ ॥ वचनं बलिशुक्राभ्यां श्रुत्वा भागवतोऽसुरः । प्राह धर्मार्थसंयुक्तं प्रह्लादो वाक्यमुत्तमम् ॥ ४८.३५ ॥ यदायत्यां क्षमं राजन् यद्धितं भुवनस्य च । अविरोधेन धर्मस्य अर्थस्योपार्जनं च यत् ॥ ४८.३६ ॥ सर्वसत्त्वानुगमनं कामवर्गफलं च यत् । परत्रेह च यच्छ्रेयः पुत्र तत्कर्म आरच ॥ ४८.३७ ॥ यता श्लाघ्यं प्रयास्यद्य यथा कीर्तिर्भवेत्तव । यता नायशसो योगस्तथा कुरु महामते ॥ ४८.३८ ॥ एतदर्थ श्रियं दीप्तां काङ्क्षन्ते पुरुषोत्तमाः । येनैतानि गृहेऽस्माकं निवसन्ति सुनिर्वृताः ॥ ४८.३९ ॥ कुलजो व्यसने मग्नः सखा चार्थबहिः कृतः । वृद्धो ज्ञातिर्गुणी विप्रः कीर्तीश्च यशसा सह ॥ ४८.४० ॥ तस्माद्यथैते निवसन्ति पुत्र राज्यस्थितस्येह कुलोद्गताद्याः । तथा यत्स्वामलसत्त्वचेष्ट यथा यशस्वी भवितासि लोके ॥ ४८.४१ ॥ भूभ्यां सदा ब्राह्मणभूषितायां क्षत्रान्वितायां दृढवापितायाम् । शुश्रुषणासक्तसमुद्भवाया मृद्धिं प्रयान्तीह नराधिपेन्द्राः ॥ ४८.४२ ॥ तस्माद्द्विजाग्र्याः श्रुतिशास्त्रयुक्ता नराधिपांस्ते क्रतुभिर्द्विजेन्द्रा यज्ञाग्निधूमेन नृपस्य शान्तिः ॥ ४८.४३ ॥ तपोऽध्ययनसंपन्ना याजनाध्यापने रताः । सन्तु विप्रा बले पूज्यास्त्वत्तोऽनुज्ञामवाप्य हि । । ४८.४४ स्वाध्याययज्ञनिरता दातारः शस्त्रजीविनः । क्षत्रियाः सन्तु दैत्येन्द्र प्रजापालनधर्मिणः ॥ ४८.४५ ॥ यज्ञाध्ययनसंपन्ना दातारः कृषिकारिणः । पाशुपाल्यं प्रकुर्वन्तु वेश्या विपणिजीविनः ॥ ४८.४६ ॥ ब्राह्मणक्षत्रियविशां सदा शुश्रुषणे रताः । शूद्राः सन्त्वसुरश्रेष्ठ तवाज्ञाकारिणः सदा ॥ ४८.४७ ॥ यदा वर्णाः स्वधर्मस्था भवन्ति दितिजेश्वर । धर्मवृद्धिस्तदा स्याद्वै धर्मवृद्धौ नृपोदयः ॥ ४८.४८ ॥ तस्माद्वर्णाः स्वधर्मस्थास्त्वया कार्याः सदा बले । तद्वृद्धौ भवतो वृद्धिस्तद्वानौ हानिरुच्यते ॥ ४८.४९ ॥ इत्थं वचः श्राण्य महासुरेन्द्रो बलिं महात्मा स बभूव तूष्णीम् । ततो यदाज्ञापयसे करिष्ये इत्थं बलिः प्राह वचो महर्षे ॥ ४८.५० ॥ इति श्रीवामनपुराणे अष्टचत्वारिंशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । ततो गतेषु देवेषु ब्रह्मलोकं प्रति द्विज । त्रैलोक्यं पालयामास बलिर्धर्मान्वितः सदा ॥ ४९.१ ॥ कलिस्तदा धर्मयुतं जगद्दृष्ट्वा कृते यथा । ब्रह्माणं शरणं भेजे स्वभावस्य निषेणात् ॥ ४९.२ ॥ गत्वा स ददृशे देवं सेन्द्रैर्देवैः समन्वितम् । स्वदीप्त्या द्योतयन्तं च स्वदेशं ससुरासुरम् ॥ ४९.३ ॥ प्रणिपत्य तमाहाथ तिष्यो ब्रह्माणमीश्वरम् । मम स्वभावो बलिना नाशितो देवसत्तम ॥ ४९.४ ॥ तं प्राह भगवान् योगी स्वभावं जगतोऽपि हि । न केवलं हि भवतो हृतं तेन बलीयसा ॥ ४९.५ ॥ पश्यस्व तिष्य देवेन्द्रं वरुणं च समारुतम् । भास्करोऽपि हि दीनत्वं प्रयातो हि बलाद्बलेः ॥ ४९.६ ॥ न तस्य कश्चित्त्रैलोक्ये प्रतिषेद्धास्ति कर्मणः । ऋते सहस्रं शिरसं हरिं दशशताङ्घ्रिकम् ॥ ४९.७ ॥ म भूमिं च तथा नाकं राज्यं लक्ष्मीं यसोऽव्ययः । समाहरिष्यति बलेः कर्तुः सद्धर्मगोचरम् ॥ ४९.८ ॥ इत्येवमुक्तो देवेन ब्रह्मणा कलिरव्ययः । दीनान् दृष्ट्वा स शक्रादीन् विभीतकवनं गतः ॥ ४९.९ ॥ कृतः प्रावर्त्तत तदा कलेर्नासात्जगत्त्रये । धर्मोऽभवच्चतुष्पादश्चातुर्वर्ण्येऽपि नारद ॥ ४९.१० ॥ तपोऽहिंसा च सत्यं च शौचमिन्द्रियनिग्रहः । दया दानं त्वानृशंस्यं शुश्रुषा यज्ञकर्म च ॥ ४९.११ ॥ एतानि सर्वजगतः परिव्याप्य स्थितानि हि । बलिना बलवान् ब्रह्मन् तिष्योऽपि हि कृतः कृतः ॥ ४९.१२ ॥ स्वधर्मस्थायिनो वर्णा ह्याश्रमांश्चाविश्न् द्विजाः । प्रजापालनधर्मस्थाः सदैव मनुजर्षभाः ॥ ४९.१३ ॥ धर्मोत्तरे वर्तमाने ब्रह्मन्नस्मिञ्जगत्त्रये । त्रैलोक्यलक्ष्मीर्वरदा त्वायाता दानवेश्वरम् ॥ ४९.१४ ॥ तामागतां निरीक्ष्यैव सहस्राक्षश्रियं बलिः । पप्रच्छ कासि मां ब्रूहि केनास्यर्थेन चागता ॥ ४९.१५ ॥ सा तद्वचनमाकर्ण्य प्राह श्रीः पद्ममालिनी । बले शृणुष्व यास्मि त्वामायाता महिषि बलात् ॥ ४९.१६ ॥ अप्रमेयबलो देवो योऽसौ चक्रगदाधरः । तेन त्यक्तस्तु मघवा ततोऽहं त्वामिहागता ॥ ४९.१७ ॥ स निर्ममे युवतयश्चास्रो रूपसंयुताः । श्वेताम्बरधरा चैव श्वेतस्रगनुलेपना ॥ ४९.१८ ॥ श्वेतवृन्दारकारूढा सत्त्वाढ्या श्वेतविग्रहा । रक्ताम्बरधरा चान्या रक्तस्रगनुलेपना ॥ ४९.१९ ॥ रक्तवाजिसामारूढा रक्ताङ्गी राजसी हि सा । पीताम्बरा पीरवर्णा पीतमाल्यानुलेपना ॥ ४९.२० ॥ सौवर्णस्यन्दनचरा तामसं गुणमाश्रिता । नीलाम्बरा नीमाल्या नीलगन्धामनुलेपना ॥ ४९.२१ ॥ नीलवृषसमारूढा त्रिगुणा सा प्रकीर्तिता । या सा श्वेताम्भरा श्वेता सत्त्वाढ्या कुञ्जरस्थिता ॥ ४९.२२ ॥ सा ब्रह्माणं समायाता चन्द्रं चन्द्रानुगानपि । या रक्ता रक्तवसना वाजिस्था रजसान्विता ॥ ४९.२३ ॥ तां प्रादाद्देवराजाय मनेव तत्समेषु च । पीताम्बरा या सुभगा रथस्था कनकप्रभा ॥ ४९.२४ ॥ प्रजापतिभ्यस्तां प्रादात्शुक्राय च विशःसु च । नीलवस्त्रालिसदृशी या चुर्थी वृषस्थिता ॥ ४९.२५ ॥ सा दानवान्नैऋतांश्च शूद्रान् विद्याधरानपि । विप्राद्याः श्वेतरूपां तां कथयन्ति सरस्वतीम् ॥ ४९.२६ ॥ स्तुवन्ति ब्रह्मणा सार्धं मखे मन्त्रादिभिः सदा । क्षत्रिया रक्तवर्णां तां जयश्रीमिति शंसिरे ॥ ४९.२७ ॥ सा चेन्द्रेणासुरश्रेष्ठ मनुना च यशस्विनी । वैश्यास्तां पीतवसनां कनकाङ्गीं सदैव हि ॥ ४९.२८ ॥ स्तुवन्ति लक्ष्मीमित्येवं प्रजापालास्तथैव हि । शूद्रास्तां नीलवर्णाङ्गीं स्तुवन्ति च सुभक्तितः ॥ ४९.२९ ॥ श्रिया देवीति नाम्ना तां समं दैत्यैश्च राक्षसैः । एवं विभक्तास्ता नार्यस्तेन देवेन चक्रिणा ॥ ४९.३० ॥ एतासां च स्वरूपस्तास्तिष्ठन्ति निधयोऽव्ययाः । इतिहासपुराणानि वेदाः साङ्गास्तथोक्तयः ॥ ४९.३१ ॥ चतुःषष्टिकलाः श्वेता महापद्मो निधिः स्थितः । मुक्तासुवर्णरजतं रथाश्वगजभूषणम् ॥ ४९.३२ ॥ शस्त्रास्त्रादिकवस्त्राणि रक्ता पद्मो निधिः स्मृतः । गोमहिष्यः खरोष्ट्रं च सुवर्णाम्बरभूमयः ॥ ४९.३३ ॥ ओषध्यः पशवः पीता महानीलो निधिः स्थितः । सर्वासामपि जातीनां जातिरेका प्रतिष्ठिता ॥ ४९.३४ ॥ अन्येषामपि संहर्त्री नीला शङ्खो निधिः स्थितः । एतासु संस्थितानां च यानि रूपाणि दानव । भवन्ति सुरुषाणां वै तान् विबोध वदामि ते ॥ ४९.३५ ॥ सत्यशौचाभिसंयुक्ता मखदानोत्सवे रताः । भवन्ति दावनपते महापद्माश्रिता नराः ॥ ४९.३६ ॥ यज्विनः सुभगा दृप्ता मानिनो बहुदक्षिणाः । सर्वसामान्यसुखिनो नराः पद्माश्रिताः स्मृताः ॥ ४९.३७ ॥ सत्यानृतसमायुक्ता दानाहरणदक्षिणाः । न्यायान्यायव्ययोपेता महानीलाश्रिता नराः ॥ ४९.३८ ॥ नास्तिकाः शौचरहिताः कृपणा भोगवर्जिताः । स्तेयानृतकथायुक्ता नराः शङ्खश्रिता बले ॥ ४९.३९ ॥ इत्येवं कथितस्तुभ्यं तेषां दानव निर्णयः ॥ ४९.४० ॥ अहं सा रागिणी नाम जायश्रीस्त्वामुपागता । ममास्ति दावनपते प्रतिज्ञा साधुसंमता ॥ ४९.४१ ॥ समाश्रयामि शौर्यढ्यं न च क्लीबं कथञ्चन । न चास्ति भवतस्तुल्यो त्रैलोक्येऽपि बलाधिकः ॥ ४९.४२ ॥ त्वया बलविभूत्या हि प्रीतिर्मे जनिता ध्रुवा । यत्त्वया युधि विक्रम्य देवराजो विनिर्जितः ॥ ४९.४३ ॥ अतो मम परा प्रीतिर्जाता दानव शाश्वती । दृष्ट्वा ते परमं सत्त्वं सर्वेभ्योऽपि बलाधिकम् ॥ ४९.४४ ॥ शौण्डीर्यमानिनं वीरं ततोऽहं स्वयमागता । नाश्चर्य दानवश्रेष्ठ हिरण्यकशिपोः कुले ॥ ४९.४५ ॥ प्रसूतस्यासुरेन्द्रस्य तव कर्म यदीदृशम् । विशेषितस्त्वया राजन् दैतेयः प्रपितामहः ॥ ४९.४६ ॥ विजितं विक्रमाद्येन त्रैलोक्यं वै परैर्हृतम् । इत्येवमुक्त्वा वचनं दानवैन्द्रं तदा बलिम् ॥ ४९.४७ ॥ जयश्रीश्चन्द्रवदना प्रविष्टाद्योतयच्छुभा । तस्यां चाथ प्रविष्टायां विधवा इव योषितः ॥ ४९.४८ ॥ समाश्रयन्ति बलिनं ह्रीश्रीधीधृतिकीर्त्तयः । प्रभा मतिः श्रमा भूतिर्विद्या नीतिर्दया तथा ॥ ४९.४९ ॥ श्रुतिः स्मृतिर्धृतिः कीर्तिर्मूर्तिः शान्ति क्रियान्विताः । पुष्टिस्तुष्टी रुचिस्त्वन्या तथा सत्त्वाश्रिता गुणाः । ताः सर्वा बलिमाश्रित्य व्यश्राम्यन्त यथासुखम् ॥ ४९.५० ॥ एवं गुणोऽभृद्दनुपुङ्गवोऽसौ बलिर्महात्मा शुभबुद्धिरात्मवान् । यज्वा तपस्वी मृदुरेव सत्यवाक्दाता विभर्ता स्वजनाभिगोप्ता ॥ ४९.५१ ॥ त्रिविष्टपं शासति दानवेन्द्रे नासीन् क्षुधार्तो मलिनो न दीनः । सदोज्ज्वलो धर्मरतोऽथ दान्तः कामोपभोक्ता मनुजोऽपि जातः ॥ ४९.५२ ॥ इति श्रीवामनपुराणे एकोनपञ्चाशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । गते त्रैलोक्यराज्ये तु दानवेषु पुरन्दरः । जगाम ब्रह्मसदनं सह देवैः शचीपतिः ॥ ५०.१ ॥ तत्रापश्यत्स देवेशं ब्रह्माणं कमलोद्भवम् । ऋषिभिः सार्धमासीनं पितरं स्वं च कश्यपम् ॥ ५०.२ ॥ ततो ननाम शिरसा शक्रः सुरगणैः सह । ब्रह्माणं कश्यपं चैव तांश्च सर्वास्तपोधनान् ॥ ५०.३ ॥ प्रोवाचेन्द्रः सुरैः सार्ध देवनाथं पितामहम् । पितामह हृतं राज्यं बलिना बलिना मम ॥ ५०.४ ॥ ब्रह्मा प्रोवाच शक्रैतद्भुज्यते स्वकृतं फलम् । शक्रः पप्रच्छ भो ब्रूहि किं मया दुष्कृतं कृतम् ॥ ५०.५ ॥ कश्यपोऽप्याह देवेशं भ्रूणहत्या कृता त्वया । दित्युदरात्त्वया गर्भः कृत्तो वै बहुधा बलात् ॥ ५०.६ ॥ पितरं प्राह देवेन्द्रः स मातुर्देषतो विभो । कृन्तनं प्राप्तवान् गर्भो यदशौचा हि सा भवत् ॥ ५०.७ ॥ ततोऽब्रवीत्कश्यपस्तु मातुर्देषः स दासताम् । गतस्ततो विनिहतो दासोऽपि कुलिशेन भो ॥ ५०.८ ॥ तच्छ्रुत्वा कश्यपवचः प्राह शक्रः पितामहम् । विनाशं पाप्मनो ब्रूहि प्रायश्चित्तं विभो मम ॥ ५०.९ ॥ ब्रह्मा प्रोवाच देवेशं वशिष्ठः कश्यपस्तथा । हितं सर्वस्य जगतः शक्रस्यापि विशेषतः ॥ ५०.१० ॥ शङ्खचक्रगदापाणिर्माधवः पुरुषोत्तमः । तं प्रपद्यस्व शरणं स ते श्रेयो विधास्यति ॥ ५०.११ ॥ सहस्राक्षोऽपि वचनं गुरूणां स निशम्य वै । प्रोवाच स्वल्पकालेन कस्मिन् प्राप्यो बहूदयः । तमूचुर्देवता मर्त्ये स्वल्पकाले महोदयः ॥ ५०.१२ ॥ इत्येवमुक्तः सुरराड्विरिञ्चिना मरीचिपुत्रेण च कश्यपेन । तथैव मित्रावरुणात्मजेन वेगान्महीपृष्ठमवाप्य तस्थौ ॥ ५०.१३ ॥ कालिञ्जरस्योत्तरतः सुपुण्यस्तथा हिमाद्रेरपि दक्षिणस्थः । सुशस्थलात्पूर्वत एव विश्रुतो वसोः पुरात्पिश्चिमतोऽवतस्थे ॥ ५०.१४ ॥ पूर्वं गयेन नृवरेम यत्र यष्टोऽश्वमेधः शतकृत्सदक्षिणः । मनुष्येमेधः शतकृत्सहस्रकृन्नरेन्द्रसूयश्च सहस्रकृद्वै ॥ ५०.१५ ॥ तथा पुरा दुर्यजनः सुरासुरैः ख्यातो महामेध इति प्रसिद्धः । यत्रास्य चक्रे भगवान्मुरारिः वास्तव्यमव्यक्ततनुः खमूर्तिमत् । ख्यातिं जगामाथ गदाधरेति महाघवृक्षस्य शितः कुठारः ॥ ५०.१६ ॥ यस्मिन् द्विजेन्द्राः श्रुतिशास्त्रवर्जिताः समत्वमायान्ति पितामहेन । सकृत्पितृन् यत्र च संप्रपूज्य भक्त्या त्वनन्येन हि चेतसैव । फलं महामेधमखस्य मानवा लभन्त्यनन्त्यं भगवत्प्रसादात् ॥ ५०.१७ ॥ महानदी यत्र सुरर्षिकन्या जलापदेशाद्धिमशैलमेत्य । चक्रे जगत्पापविनष्टिमग्र्यां संदर्शनप्राशनमञ्जनेन ॥ ५०.१८ ॥ तत्र शक्रः समभ्येत्य महानद्यास्तटेऽद्भुते । आराधनाय देवस्य कृत्वाश्रममवस्थितः ॥ ५०.१९ ॥ प्रातःस्नायी त्वधःशायी एकभक्तस्त्वयाचितः । तपस्तेपे सहस्राक्षः स्तुवन् देवं गदाधरम् ॥ ५०.२० ॥ तस्यैवं तप्यतः स्मयग्जितसर्वेन्द्रियस्य हि । कामक्रोधविहीनस्य साग्रः संवत्सरो गतः ॥ ५०.२१ ॥ ततो गदाधरः प्रीतो वासवं प्राह नारद । गच्छ प्रीतोऽस्मि भवतो मुक्तपापोऽसि साम्प्रतम् ॥ ५०.२२ ॥ निजं राज्यं च देवेश प्राप्स्यसे न चिरादिव । यतिष्यामि तथा शक्र भावि श्रेयो यता तव ॥ ५०.२३ ॥ इत्येवमुक्तोऽथ गदाधरेण विसर्जितः स्नाप्य मनोहरायाम् । स्नातस्य देवस्य तदैनसो नरास्तं प्रोचुरस्माननुसासयस्व ॥ ५०.२४ ॥ प्रोवाच तान् भीषणकर्मकारान्नाम्ना पुलिन्दान्मम पापसंभवाः । वसध्वमेवान्तरमद्रिसुख्ययोर्हिमाद्रिकालिञ्जरयोः पुलिन्दाः ॥ ५०.२५ ॥ इत्येवमुक्त्वा सुरराट्पुलिन्दान् विमुक्तपापोऽमरसिद्धयक्षैः । संपूज्यमानोऽनुजगाम चमं मातुस्तदा धर्मनिवासमीड्यम् ॥ ५०.२६ ॥ दृष्ट्वादितिं मूर्ध्नि कृताञ्जलिस्तु विनाम्रमौलिः समुपाजगाम् । प्रणम्य पादौ कमलोदराभौ निवेदयामास तपस्तदात्मनः ॥ ५०.२७ ॥ पप्रच्छ सा कारणमीश्वरं तमाघ्राय चालिङ्ग्य सहाश्रुदृष्ट्या । स चाचचक्षे बलिना रणे जयं तदात्मनो देवगणैश्च सार्धम् ॥ ५०.२८ ॥ श्रुत्वैव सा शोकपरिप्लुताङ्गी ज्ञात्वा जितं दैत्यसुतैः सुतं तम् । दुःखान्विता देवमनाद्यमीड्यं जगाम विष्णुं शरणं वरेण्यम् ॥ ५०.२९ ॥ नारद उवाच । कस्मिन् जनित्री सुरसत्तमानां स्थाने हृषीकेशमनन्तमाद्यम् । चराचरस्य प्रभवं पुराणमाराधयामास शुभे वद त्वम् ॥ ५०.३० ॥ पुलस्त्य उवाच । सुरारणिः शक्रमवेक्ष्य दीनं पराजितं दानवनायकेन । सितेऽथ पक्षे मरार्क्षगेर्ऽके घृतार्चिषः स्यादथ सप्तमेऽह्नि । । ५०.३१ दृष्ट्वैवे देवं त्रिदशाधिपं तं महोदये शक्रदिशाधिरूढम् । निराशना संयतवाक्सुचिता तदोपतस्थे शरणं सुरेन्द्रम् ॥ ५०.३२ ॥ अदितिरुवाच । जयस्व दिव्याम्बुजकोशचौर जयस्व संसारतरोः कुठार । जयस्व पापेन्धनजातवेदस्तमौघसंरोध नमो नमस्ते ॥ ५०.३३ ॥ नमोऽसु ते भास्कर दिव्यमूर्ते त्रैलोक्यलक्ष्मीतिलकाय ते नमः । त्वं कारणं सर्वचराचरस्य नाथोऽसि मां पालय विश्वमूर्ते ॥ ५०.३४ ॥ त्वया जगन्नाथ जगन्मयेन नाथेन शक्रो निजराज्यहानिम् । अवाप्तावान् शत्रुपराभवं च ततो भवन्तं शरणं प्रपन्ना ॥ ५०.३५ ॥ इत्येवमुक्त्वा सुरुपूजितं सा आलिख्य रक्तेन हि चन्दनेन । संपूजयित्वा करवीरपुष्यैः संधूप्य धूपैः कणमर्कभोज्यम् ॥ ५०.३६ ॥ निवेद्य चैवाज्ययुतं महार्हमन्नं महेन्द्रस्य हिताय देवी । स्तवेन पुण्येन च संस्तुवन्ती स्थिता निराहारमथोपवासम् ॥ ५०.३७ ॥ ततो द्वितीयेऽह्नि कृतप्रणामा स्नात्वा विधानेन च पूजयित्वा । दत्त्वा द्विजेभ्यः कणकं तिलाज्यं ततोऽग्रतः सा प्रयता बभूव ॥ ५०.३८ ॥ ततः प्रीतोऽभवद्भानुर्घृतार्चिः सूर्यमण्डलात् । विनिःसृत्ययाग्रतः स्थित्वा इदं वचनमब्रवीत् ॥ ५०.३९ ॥ व्रतेतानेन सुप्रीतस्तवाहं दक्षनन्दिनि । प्राप्स्यसे दुर्लभं कामं मत्प्रसादान्न संशयः ॥ ५०.४० ॥ राज्यं त्वत्तनयानां वै दास्ये देवि सुरारणि । दानवान् ध्वंसयिष्यामि संभूयैवोदरे तव ॥ ५०.४१ ॥ तद्वाक्यं वासुदेवस्य श्रुत्वा ब्रह्मन् सुरारणिः । प्रोवाच जगतां योनिं वेपमाना पुनः पुनः ॥ ५०.४२ ॥ कथं त्वामुदरेणाहं वोढुं शक्ष्यामि दुर्धरम् । यस्योदरे जगत्सर्वं वसते स्थाणुजङ्गमम् ॥ ५०.४३ ॥ कस्त्वां धारयितुं नाथ शक्तस्त्रैलोक्यधार्यसि । यस्य सप्तार्णवाः कुक्षौ निवसन्ति सहाद्रिभिः ॥ ५०.४४ ॥ तस्माद्यथा सुरपतिः शक्रः स्यात्सुरराडिह । यथा च न मम क्लेशस्तथा कुरु जनार्दन ॥ ५०.४५ ॥ विष्णुरुवाच । सत्यमेतन्महाभागे दुर्धरोऽस्मि सुरासुरैः । तथापि संभविष्यामि अहं देव्युदरे तव ॥ ५०.४६ ॥ आत्मानं भुवनान् शैलांस्त्वाञ्च देवि सकश्यपाम् । धारयिष्यामि योगेन मा विषादं कुथाम्बिके ॥ ५०.४७ ॥ तवोदरेऽहं दाक्षेयि संभविष्यामि वै यदा । तदा निस्तेजसो दैत्याः सभविष्यन्त्यसंशयम् ॥ ५०.४८ ॥ इत्येवमुक्त्वा भगवान् विवेश तस्याश्च भूयोऽरिगणप्रमर्दी । स्वतेजसोंऽशेन विवेश देव्याः तदोदरे शक्रहिताय विप्र ॥ ५०.४९ ॥ इति श्रीवामनपुराणे पञ्चाशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । देवमातुः स्थिते उदरे वामनाकृतौ । निस्तेजसोऽसुरा जाता यथोक्तं विश्वयोनिना ॥ ५१.१ ॥ निस्तेजसोऽसुरान् दृष्ट्वा प्रह्लादं दानवेश्वरम् । बलिर्दानवशार्दूल इदं वचनमब्रवीत् ॥ ५१.२ ॥ बलिरुवाच । तात निस्तेजसो दैत्याः केन जातास्तु हेतुना । कथ्यतां परमज्ञोऽसि शुभाशुभविशारद ॥ ५१.३ ॥ पुलस्त्य उवाच । तत्पौत्रवचनं श्रुत्वा मुहूर्तं ध्यानमास्तितः । किमर्थं तेजसो हानिरिति कस्मादतीव च ॥ ५१.४ ॥ स ज्ञात्वा वासुदेवोत्थं भयं दैत्येष्वनुत्तमम् । चिन्तयामास योगात्मा क्व विष्णुः सांप्रतं स्थितः ॥ ५१.५ ॥ अधो नाभेः स पातालान् सप्त संचिन्त्य नारद । नाबेरुपरि भूरादिल्लोकांश्चर्तुमियाद्वशी ॥ ५१.६ ॥ भूमिं स पङ्कजाकारां तन्मध्ये पङ्कजाकृतिम् । मेरुं ददर्श शैलेन्द्रं शातकौम्भं महर्द्धिमत् ॥ ५१.७ ॥ तस्योपरि महापुर्यस्त्वष्टौ लोकपतीस्तथा । तेषामातुः स ददृशे मृगपक्षिगणैर्वृतम् ॥ ५१.८ ॥ तदधस्तान्महापुण्यमाश्रमं सुरपूजितम् । देवमातुः स ददृशे मृगपक्षिगणैर्वृतम् ॥ ५१.९ ॥ तां दृष्ट्वा देवजननीं सर्वतेजोधिकां मुने । विवेश दानवपतिरन्वेष्टुं मधुसूदनम् ॥ ५१.१० ॥ स दृष्टवाञ्जगन्नाथं माधवं वामनाकृतिम् । सर्वभीतवरेण्यं तं देवमातुरथोदरे ॥ ५१.११ ॥ तं दृष्ट्वा पुण्डरीकाक्षं शङ्खचक्रगदाधरम् । सुरासुरगणैः सर्वैः सर्वतो व्याप्तविग्रहम् ॥ ५१.१२ ॥ तेनैव क्रमयोगेन दृष्ट्वा वामनतां गतम् । दैत्यतेजोहरं विष्णुं प्रकृतिस्थोऽभवत्ततः ॥ ५१.१३ ॥ अथोवाच महाबुद्धिर्विरोजनसुतं बलिम् । प्रह्लादो मधुरं वाक्यं प्रणम्य मधुसूदनम् ॥ ५१.१४ ॥ प्रह्लाद उवाच । श्रूयतां सर्वमाख्यास्ये यतो वो भयमागतम् । येन निस्तेजसो दैत्या जाता दैत्येन्द्र हेतुना ॥ ५१.१५ ॥ भवता निर्जिता देवाः सेन्द्ररुद्रार्कपावकाः । प्रयाताः शरणं देवं हरिं त्रिभुवनेश्वरम् ॥ ५१.१६ ॥ स तेषामभयं दत्त्वा शक्रादिनां जगद्गुरुः । अवतीर्णो महाबाहुरदित्या जठरे हरिः ॥ ५१.१७ ॥ हृतानि वस्तेन बले तेजांसीति मतिर्मम । नालं तमो विषहितुं स्थातुं सूर्योदयं बले ॥ ५१.१८ ॥ पुलस्त्य उवाच । प्रह्लादवचनं श्रुत्वा क्रोधप्रस्फुरिताधरः । प्रह्लादमाहाथ बलिर्भाविकर्मप्रचोदितः ॥ ५१.१९ ॥ बलिरुवाच । तात कोऽय हरिर्नाम यतो नो भयमागतम् । सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ॥ ५१.२० ॥ सहस्रशो यैरमराः सेन्द्ररुद्राग्निमारुताः । निर्जित्य त्याजिताः स्वर्गं भग्नदर्पा रणाजिरे ॥ ५१.२१ ॥ येन सूर्यरथाद्वेगात्चक्रं कृष्टं महाजवम् । स विप्रचित्तिर्बलवान्मम सैन्यपुरस्सरः ॥ ५१.२२ ॥ अयःशुङ्कु शिवः शंभुरसिलोमा विलोमकृत् । त्रिशिरा मकराक्षश्च वृषपर्वा नतेक्षमः ॥ ५१.२३ ॥ एते चानये च बलिनो नानायुधविसारदाः । येषामेकैकशो विष्णुः कलां नार्हति षोडशीम् ॥ ५१.२४ ॥ पुलस्त्य उवाच । पौत्रस्यैतद्वचः श्रुत्वा प्रह्लादः क्रोधमूर्छितः । धिग्धिगित्याह स बलिं वैकुण्ठाक्षेपवादिनम् ॥ ५१.२५ ॥ धिक्त्वां पापसमारारं दुषुटबुद्धिं सुबालिशम् । हरिं निन्दयतो जिह्वा कथं न पतिता तव ॥ ५१.२६ ॥ शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः । यत्त्रैलोक्यगुरुं विष्णुमभिनिन्दसि दुर्मते ॥ ५१.२७ ॥ शोच्यश्चास्मि न संदेहो येन जातः पिता तव । यस्य त्वं कर्कशः पुत्रो जातो देवावमान्यकः ॥ ५१.२८ ॥ भवान् किल विजानाति तथा चामी महासुराः । यता नान्यः प्रियः कश्चिन्मम तस्माज्जनार्दनात् ॥ ५१.२९ ॥ जानन्नपि प्रियतरं प्राणेभ्योऽपि हरिं मम् । सर्वेश्वरेश्वरं देवं कथं निन्दितवानसि ॥ ५१.३० ॥ गुरुः पूज्यस्तव पिता पूज्यस्तस्याप्यहं गुरुः । ममापि पूज्यो भगवान् गुरुर्लोकगुरुर्हरिः ॥ ५१.३१ ॥ गुरोर्गुरुगुरुर्मूढ पूज्यः पज्यतमस्तव । पूज्यं निन्दयसे पाप कथं न पतितोऽस्यधः ॥ ५१.३२ ॥ शोचनीया दुराचारा दानवामी कृतास्त्वया । येषां त्वं कर्कशो राजा वासुदेवस्य निन्दकः ॥ ५१.३३ ॥ यस्माद्पूज्योर्ऽचनीयश्च भवता निन्दितो हरिः । तस्मात्पापसमाचरा राज्यनाशमवाप्नुहि ॥ ५१.३४ ॥ यता नान्यत्प्रियतरं विद्यते मम केशवात् । मनसा कर्मणा वाचा राज्यभ्रष्टस्तथा पत ॥ ५१.३५ ॥ यता न तस्मादपरं व्यतिरिक्तं हि विद्यते । चतुर्दशसु लोकेषु रपाज्यभ्रष्टस्तथा पत ॥ ५१.३६ ॥ सर्वेषामंपि भूतानां नान्यल्लोके परायणम् । यथा तथानुपस्येयं भवन्तं राज्यविच्युतम् ॥ ५१.३७ ॥ पुलस्त्य उवाच । एवमुच्चारिते वाक्ये बलिः सत्वरितस्तदा । अवतीर्यासनाद्ब्रह्मन् कृताञ्जलिपुटो बली ॥ ५१.३८ ॥ शिरसा प्रणिपत्याह प्रसादं यातु मे गुरुः । कृतापराधानपि हि क्षमन्ति गुरवः शिशून् ॥ ५१.३९ ॥ तत्साधु यदहं शप्तो भवता दानवेश्वर । न बिभेमि परेभ्योऽहं न च राज्यपरिक्षयात् ॥ ५१.४० ॥ नैव दुःखं मम विभो यदहं राज्यविच्युतः । दुःखं कृतापराधत्वाद्भवतो मे महत्तरम् ॥ ५१.४१ ॥ तत्क्षम्यतां तात ममापराधो बालोऽस्मयनाथोऽस्मि सुदुर्मतिश्च । कृतेऽपि दोषे गुरवः शिशूनां क्षमन्ति दैत्यं समुपागतानाम् ॥ ५१.४२ ॥ पुलस्त्य उवाच । स एवमुक्तो वचनं महात्मा विमुक्तमोहो हरिपादभक्तः । चिरं विचिन्त्याद्भुतमेतदित्थमुवाच पौत्रं मधुरं वचोऽथ ॥ ५१.४३ ॥ प्रह्लाद उवाच । तात मोहेन मे ज्ञानं विवेकश्च तिरस्कृतः । येन सर्वगतं विष्णुं जानंस्त्वां सप्तवानहम् ॥ ५१.४४ ॥ नूनमेतेन भाव्यं वै भवतो येन दानव । ममाविशन्महाबाहो विवेकप्रतिषेधकः ॥ ५१.४५ ॥ तस्माद्राज्यं प्रति विभो न ज्वरं कर्तुमर्हसि । अवश्यं भाविनो ह्यर्था न विनश्यन्ति कर्हिचित् ॥ ५१.४६ ॥ पुत्रमित्रकलत्रार्थ राज्यभोगधनाय च । आगमे निर्गमे प्राज्ञो न विषादं समाचरेत् ॥ ५१.४७ ॥ यथा यथा समायान्ति पूर्वकर्मविधानतः । सुखदुःखानि दैत्येन्द्र नरस्तानि सहेत्तथा ॥ ५१.४८ ॥ आपदामागमं दृष्ट्वा न विष्ण्णो भवेद्वशी । संपदं च सुविस्तीर्णां प्राप्य नोऽधृतिमान् भवेत् ॥ ५१.४९ ॥ धनक्षये न मुह्यन्ति न हृष्यन्ति धनागमे । धीराः कार्येषु च सदा भवन्ति पुरुषोत्तमाः ॥ ५१.५० ॥ एवं विदित्वा दैत्येन्द्र न विषादं कथञ्चन । कर्तुमर्हसि विद्वांस्त्वं पण्डितो नावसीदति ॥ ५१.५१ ॥ तथान्यच्च महाबाहो हितं शृणु महार्थकम् । भवतोऽथ तथान्येषां श्रुत्वा तच्च समाचर ॥ ५१.५२ ॥ शरण्यं शरणं गच्छ तमेव पुरुषोत्त्मम् । स ते त्राता भयादस्माद्दानवेन्द्र भविष्यति ॥ ५१.५३ ॥ ये संश्रिता हरिमनन्तमनादिमध्यं विष्णुं चराचरगुरुं हरिमीशितारम् । संसारगर्तपतितस्य करावलम्बं नूनं न ते भुवि नरा ज्वरिणो भवन्ति ॥ ५१.५४ ॥ तन्मना दानवश्रेष्ठ तद्भक्तश्च भवाधुना । स एष भवतः श्रेयो विधास्यति जनार्धनः ॥ ५१.५५ ॥ अहं च पापोपशमार्थमीशमाराध्य यास्ये प्रतितीर्थयात्राम् । विमुक्तपापश्च ततो गमिष्ये यत्राच्युतो लोकपतिर्नृसिंहः ॥ ५१.५६ ॥ पुलस्त्य उवाच । इत्येवमाश्वास्य बलिं महात्मा संस्मृत्य योगाधिपतिं च विष्णुम् । आमन्त्र्य सर्वान् दनुयूथपालान् जगाम कर्तुं त्वथ तीर्थयात्राम् ॥ ५१.५७ ॥ इति श्रीवामनपुराणे एकपञ्चाशोऽध्यायः ________________________________________________________________________ नारद उवाच । कानि तीर्थानि विप्रेन्द्र प्रह्लादोऽनुजगाम ह । प्रह्लादतीर्थयात्रां मे सम्यगाख्यातुमर्हसि ॥ ५२.१ ॥ पुलस्त्य उवाच । शृणुष्व कथयिष्यामि पापपङ्कप्रणाशिनीम् । प्रह्लादतीर्थयात्रां ते शुद्धपुण्यप्रदायिनीम् ॥ ५२.२ ॥ संत्यज्य मेरुं कनकाचलेन्द्रं तीर्थं जगामामरसंघजुष्टम् । ख्यातं पृतिव्यां शुभदं हि मानसं यत्र स्थितो मत्स्यवपुः सुरेशः ॥ ५२.३ ॥ तस्मिंस्तीर्थवरे स्नात्वा संतर्प्य पितृदेवताः । संपूज्य च जगन्नाथमच्युतं श्रुतिभिर्युतम् ॥ ५२.४ ॥ उपोष्य भूयः संपूज्य देवर्षिपितृमानवान् । जगाम कच्छपं द्रष्टुं कौशिक्यां पापनाशनम् ॥ ५२.५ ॥ तस्यां स्नात्वा महानद्यां संपूज्य च जगत्पतिम् । समुपोष्य शुचिर्भूत्वा दत्वा विप्रेषु दक्षिणाम् ॥ ५२.६ ॥ नमस्कृत्य जगन्नाथमथो कूर्मवपुर्धरम् । ततो जगाम कृष्णाख्यं द्रष्टुं वाजिमुखं प्रभुम् । तत्र देवह्रदे स्नात्वा तर्पयित्वा पितॄन् सुरान् ॥ ५२.७ ॥ संपूज्य हयशीर्षं च जगाम गजसाह्वयम् । तत्र देवं जगन्नाथं गोविन्दं चक्रपाणिनम् ॥ ५२.८ ॥ स्नात्वा संपूज्य विधिवत्जगाम यमुनां नीम् । तस्यां स्नातः शुचिर्भूत्वा संतर्प्यार्षिसुरान् पितॄन् । ददर्श देवदेवेशं लोकनाथं त्रिविक्रमम् ॥ ५२.९ ॥ नारद उवाच । साम्प्रतं भगवान् विष्णुस्त्रैलोक्याक्रमणं वपुः । करिष्यति जगत्स्वामी बलेर्बन्धनमीश्वरः ॥ ५२.१० ॥ तत्कथं पूर्वकालेऽपि विभुरासीत्त्रिविक्रमः । कस्य वा बन्धनं विष्णुः कृतवांस्तच्च मे वद ॥ ५२.११ ॥ पुलस्त्य उवाच । श्रूयतां कथियिष्यामि योऽयं प्रोक्तस्त्रिविक्रमः । यस्मिन् काले संबभूव यं च वञ्चितवानसौ ॥ ५२.१२ ॥ आसीद्धुन्धुरिति ख्यातः कश्यपस्यौरसः सुतः । दनुगर्भसमुद्भूतो माबलपराक्रमः ॥ ५२.१३ ॥ स समाराद्य वरदं ब्रह्माणं तपसासुरः । अवध्यत्वं सुरैः सेन्द्रैः प्रार्थयत्स तु नारद ॥ ५२.१४ ॥ तद्वरं तस्य च प्रादात्तपसा पङ्कजोद्भवः । परितुष्टः स च बली निर्जगाम त्रिविष्टपम् ॥ ५२.१५ ॥ चतुर्थस्य कलेरादौ जित्वा देवान् सवासवान् । धुन्धुः शक्रत्वमकरोद्धिरण्यकशिपौ सति ॥ ५२.१६ ॥ तस्मिन् काले स बलवान् हिरण्यकशिपुस्ततः । चचार मन्दरगिरौ दैत्यं धुन्धुं समाश्रितः ॥ ५२.१७ ॥ ततोऽसुरा यथा कामं विहरन्ति त्रिविष्टपे । ब्रह्मलोके च त्रिदशाः संस्थिता दुःखसंयुताः ॥ ५२.१८ ॥ ततोऽमरान् ब्रह्मसदो निवासिनः श्रुत्वाथ धुन्धुर्दितिजानुवाच । ब्रजाम दैत्य वयमग्रजस्य सदो विजेतुं त्रिदशान् सशक्रान् ॥ ५२.१९ ॥ ते धुन्धुवाक्यं तु निशम्य दैत्याः प्रोचुर्न नो विद्यति लोकपाल । गतिर्यया याम पितामहाजिरं सुदुर्गमोऽयं परतो हि मार्गः ॥ ५२.२० ॥ इतः सहस्रैर्बहुयोजनाख्यैर्लोको महर्नाम महर्षिजुष्टः । येषां हि दृष्ट्यार्ऽपणचोदितेन दह्यन्ति दैत्याः सहसेक्षितेन ॥ ५२.२१ ॥ ततोऽपरो योजनकोटिना वै लोको जनो नाम वस्न्ति यत्र । गोमातरोऽस्मासु विनाशकारि यासां रजोऽपीह महासुरेन्द्र ॥ ५२.२२ ॥ ततोऽपरो योजनकोटिभिस्तु षड्भिस्तपो नाम तपस्विजुष्टः । तिष्ठन्ति यत्रासुर साध्यवर्या येषां हि नश्वासमरुत्त्वसह्यः ॥ ५२.२३ ॥ ततोऽपरो योजनकोटिभिस्तु त्रिंशद्भिरादित्यसहस्रदीप्तिः । सत्याभिधानो भगवन्निवासो वरप्रदोऽभुद्भवतो हि योऽसौ ॥ ५२.२४ ॥ यस्य वेदध्वनिं श्रुत्वा विकसन्ति सु रादयः । संकोचमसुरा यान्ति ये च तेषां सधर्मिणः ॥ ५२.२५ ॥ तस्मान्मा त्वं महाबाहो मतिमेतां समादधः । वैराजभुवनं धुन्धो दुरारोहं सदा नृभिः ॥ ५२.२६ ॥ तेषां वचनमाकर्ण्य धुन्धुः प्रोवाच दानवान् । गन्तुकामः स सदनं ब्रह्मणो जेतुमीश्वरान् ॥ ५२.२७ ॥ कथं तु कर्मणा केन गम्यते दानवर्षभाः । कथं तत्र सहस्राक्षः संप्राप्तः सह दैवतैः ॥ ५२.२८ ॥ ते धुन्धुना दानवेन्द्राः पृष्टाः प्रोचुर्वचोऽधिपम् । कर्म तन्न वयं विद्मः शुक्रस्तद्वेत्त्यसंशयम् ॥ ५२.२९ ॥ दैत्यानां वचनं श्रुत्वा धुनधुर्दैत्यपुरोहितम् । पप्रच्छ शुक्रं किं कर्म कृत्वा ब्रह्मसदोगतिः ॥ ५२.३० ॥ ततोऽस्मै कथयामास दैत्यचार्यः कलिप्रिय । शक्रस्य चरितं श्रीमान् पुरा वृत्ररिपोः किल ॥ ५२.३१ ॥ शक्रः शतं तु पुण्यानां क्रोतूनामजयत्पुरा । दैत्येन्द्र वाजिमेधानां तेन ब्रह्मसदो गतः ॥ ५२.३२ ॥ तद्वाक्यं दानवपतिः श्रुत्वा शुक्रस्य वीर्यवान् । यष्टुं तुरगमेधानां चकार मतिमुत्तमाम् । अथामन्त्र्यासुरगुरुं दानवांश्चाप्यनुत्तमान् ॥ ५२.३३ ॥ प्रोवाच यक्ष्येऽहं यज्ञैरश्वमेधैः सदक्षिमैः । तदागच्छध्वमवनीं गच्छामो वसुधाधिपान् ॥ ५२.३४ ॥ विजित्य हयमेधान् वै यथाकामगुणन्विनतान् । आहूयन्तां च निधयस्त्वाज्ञाप्यनातां च गुह्यकाः ॥ ५२.३५ ॥ आमन्त्र्यन्तां च ऋषयः प्रयामो देविकाटतम् । सा हि पुण्या सरिच्छ्रेष्ठ सर्वसिद्धिकरी शुभा । स्थानं प्राचीनमासाद्य वाजिसेधान् यजामहे ॥ ५२.३६ ॥ इत्थं सुरारेर्वचनं निशम्यासुरयाजकः । बाढमित्यब्रवीधृष्टो निधयः संदिदेश सः ॥ ५२.३७ ॥ ततो धुन्धुर्देविकायाः प्राचीने पापनाशने । भार्गवेन्द्रेण शुक्रेण वाजिमेधाय दीक्षितः ॥ ५२.३८ ॥ सदस्या ऋत्विजश्चापि तत्रासन् भार्गवा द्विजाः । शुक्रस्यानुमते ब्रह्मन् शुक्रशिष्याश्च पण्यिताः ॥ ५२.३९ ॥ यज्ञभागभुजस्तत्र स्वर्भानुप्रमुखा मुने । कृताश्चासुरनाथेन शुक्रस्यानुमतेऽसुराः ॥ ५२.४० ॥ ततः प्रवृत्तो यज्ञस्तु समुत्सृष्टस्तथा हयः । हयस्यानु ययौ श्रीमानसिलोमा महासुरः ॥ ५२.४१ ॥ ततोऽग्निधूमेन मही सशैला व्याप्ता दिशः खं विदिशश्च पूर्णाः । तेनोग्रगन्धेन दिवस्पृसेन मरुद्ववौ ब्रह्मलोके महर्षे ॥ ५२.४२ ॥ तं गन्धमाघ्राय सुरा विषण्णा जानन्त धुन्धुं हयमेधदीक्षितम् । ततः शरण्यं शरणं जनार्धनं जग्मुः सशक्रा जगातः परयणम् ॥ ५२.४३ ॥ प्रणम्य वरदं देवं पद्मनाभं जनार्दनम् । प्रोचुः सर्वे सुरगणा भयगद्गदया गिरा ॥ ५२.४४ ॥ भगवन् देवदेवेश चराचरपरायण । विज्ञप्तिः श्रूयतां विष्णो सुराणामार्तिनाशन ॥ ५२.४५ ॥ धुन्धुर्नामासुरपतिर्बलवान् वरबृंहितः । सर्वान् सुरान् विनिर्जित्य त्रैलोक्यमहारद्बलिः ॥ ५२.४६ ॥ ऋते पिनाकिनो देवात्त्रात्ऽस्मान्न यतो हरे । अतो विवृद्धिमगमद्यथा व्याधिरुपेक्षितः ॥ ५२.४७ ॥ साम्प्रतं ब्रह्मलोकस्थानपि जेतुं समुद्यतः । शुक्रस्य मतमास्ताय सोऽश्वमेधाय दीक्षितः ॥ ५२.४८ ॥ शतं क्रतूनामिष्ट्वासौ ब्रह्मलोकं महासुरः । अरोढुमिच्छति वशी विजेतुं त्रिदशानपि ॥ ५२.४९ ॥ तस्मादकालहीनं तु चिन्तयस्व जगद्गुरो । उवायं मखविध्वंसे येन स्याम सुनिर्वृताः ॥ ५२.५० ॥ श्रुत्वा सुराणां वचनं भगवान्मधुसूदनः । दत्त्वाभयं महाबाहुः प्रेषयामास साम्प्रतम् । विसृज्य देवताः सर्वा ज्ञात्वाजेयं महासुरम् ॥ ५२.५१ ॥ बन्धनाय मतिं चक्रे धुन्धोर्धर्मध्वजस्य वै । ततः कृत्वा स भगवान् वामनं रूपमीश्वरः ॥ ५२.५२ ॥ देहं त्यक्त्वा निरालम्बं काष्टवद्देविकाजले । क्षणान्मज्जंस्तथोन्मज्जन्मुक्तकेशो यदृच्छया ॥ ५२.५३ ॥ दृष्टोऽथ दैत्यपतिना दैत्यैश्चान्यैस्तथर्षिभिः । ततः कर्म परित्यज्य यज्ञियं ब्राह्मणोत्तमाः ॥ ५२.५४ ॥ समुत्तारयितुं विप्रमाद्रवन्त समाकुलाः । सदस्या यजमानश्च ऋत्विजोऽथ महौजसः ॥ ५२.५५ ॥ निमज्जमानमुज्जह्रुः सर्वे ते वामनं द्विजम् । समुत्तार्य प्रसन्नास्ते पप्रच्छुः सर्व एव हि । किमर्थं पतितोऽसीह केनाक्षिप्तोऽसि नो वद ॥ ५२.५६ ॥ तेषामाकर्ण्य वचनं कम्पमानो मुहुर्मुहुः । प्राह धुन्धुपुरोगांस्ताञ्छ्रूयतामत्र कारणम् ॥ ५२.५७ ॥ ब्राह्मणो गुणवानासीत्प्रभास इति विश्रुतः । सर्वसास्त्रार्थवित्प्राज्ञो गोत्रतश्चापि वारुणः ॥ ५२.५८ ॥ तस्य पुत्रद्वयं जातं मन्दप्रज्ञं सुदुःखितम् । तत्र ज्येष्ठो मम भ्राता कनीयानपरस्त्वहम् ॥ ५२.५९ ॥ नेत्रभास इति ख्यातो ज्येष्ठो भ्राता ममासुर । मम नाम पिता चक्रे गतिभासेति कौतुकात् ॥ ५२.६० ॥ रम्यश्चावसथो बन्धो शुभश्चासीत्पितुर्मम । त्रिविष्टपगुणैर्युक्तश्चारुरूपो महासुर ॥ ५२.६१ ॥ ततः कालेन महता आवयोः स पिता मृतः । तस्योर्ध्वदेहिकं कृत्वा गृहमावां समागतौ ॥ ५२.६२ ॥ ततो मयोक्तः स भ्राता विभजाम गृहं वयम् । तेनोक्तो नैव भवतो विद्यते भागा इत्यहम् ॥ ५२.६३ ॥ कुब्जवामनखञ्जानां क्लीबानां श्वित्रिणामपि । उन्मत्तानां तथान्धानां धनभागो न विद्यते ॥ ५२.६४ ॥ शय्यासनस्थानमात्रं स्वेच्छयान्नभुजक्रिया । एतावद्दीयते तेभ्यो नार्थभागहरा हि ते ॥ ५२.६५ ॥ एवमुक्ते मया सोक्तः किमर्थं पैतृकाद्गृहात् । धनार्थभागमर्हामि नाहं न्यायेन केन वै ॥ ५२.६६ ॥ इत्युक्तावति वाक्येऽसौ भ्राता मे कोपसंयुतः । समुत्क्षिप्याक्षिपन्नद्यामस्यां मामिति कारणात् ॥ ५२.६७ ॥ ममास्यां निम्नगायां तु मध्येन प्लवतो गतः । कालः संवत्सराख्यस्तु युष्माभिरिह चोद्धृतः ॥ ५२.६८ ॥ के भवन्तोऽत्र संप्राप्ताः सस्नेहा बान्धवा इव । कोऽयं च शक्रप्रतिमो दीक्षितो यो महाभुजः ॥ ५२.६९ ॥ तन्मे सर्वं समाख्याता याथातथ्यं तपोधनाः । महर्द्धिसंयुता यूयं सानुकम्पाश्च मे भृशम् ॥ ५२.७० ॥ तद्वामनवचः श्रुत्वा भार्गवा द्विजसत्तमाः । प्रोचुर्वं द्विजा ब्रह्मन् गोत्रश्चापि भार्गवाः ॥ ५२.७१ ॥ असावपि महातेजा धुन्धुर्नाम महासुरः । दाता भोक्ता विभक्ता च दीक्षितो यज्ञकर्मणि ॥ ५२.७२ ॥ इत्येवमुक्त्वा देवेशं वामनं भार्गवास्ततः । प्रोचुर्दैत्यपतिं सर्वे वामनार्थकरं वचः ॥ ५२.७३ ॥ दीयतामस्य दैत्येन्द्र सर्वोपस्करसंयुतम् । श्रीमदावसथं दास्यो रत्नानि विविधानि च ॥ ५२.७४ ॥ इति द्विजानां वचनं श्रुत्वा दैत्यपतिर्वचः । प्राह द्विजेन्द्र ते दद्मि यावदिच्छसि वै धनम् ॥ ५२.७५ ॥ दास्ते गृहं हिरण्यं च वाजिनः स्यन्दनान् गजान् । प्रयच्छाम्यद्य भवतो व्रियतामीप्सितं विभो ॥ ५२.७६ ॥ तद्वाक्यं दानवपतेः श्रुत्वा देवोऽथ वामनः । प्राहासुरपतिं धुन्धुं स्वार्थसिद्धिकरं वचः ॥ ५२.७७ ॥ सोदरेणापि हि भ्रात्रा ह्रियन्ते यस्य संपदः । तस्याक्षमस्य यद्दत्तं किमन्यो न हरिष्यति ॥ ५२.७८ ॥ दासीदासांश्च भृत्यांश्च गृहं रत्नं परिच्छदम् । समर्थेषु द्विजेन्द्रेषु प्रयच्छस्व महाभुज ॥ ५२.७९ ॥ मम प्रमाणमालोक्य मामकं च पदत्रयम् । संप्रयच्छस्व दैत्येन्द्र नाधिकं रक्षितुं क्षमः ॥ ५२.८० ॥ इत्येवमुक्ते वचने महात्मना विहस्य दैत्याधिपतिः सऋत्विजः । प्रादाद्द्विजेन्द्राय पदत्रयं तदा यदा स नान्यं प्रगृहाण किञ्चित् ॥ ५२.८१ ॥ क्रमत्रयं तावदवेक्ष्य दत्तं महासुरेन्द्रेण विभुर्यशस्वी । चक्रे ततो लङ्घयितुं त्रिविक्रमं रूपमनन्तशक्तिः ॥ ५२.८२ ॥ कृत्वा च रूपं दितिजांश्च हत्वा प्रणम्य चर्षिन् प्रथमक्रमेण । महीं महीध्रैः सहितां सहार्मवां जहार रत्नाकरपत्तनैर्युताम् ॥ ५२.८३ ॥ भुवं सनाकं त्रिदसाधिवासं सोमार्कऋक्षैरभिमण्डितं नभः । देवो द्वितीयेन जहार वेगात्क्रमेण देवप्रियमीप्सुरीश्वरः ॥ ५२.८४ ॥ क्रमं तृतीयं न यदास्य पूरितं तदातिकोपाद्दनुपुङ्गवस्य । पपात पृष्ठे भगवांस्त्रिविक्रमो मेरुप्रमाणेन तु विग्रहेण ॥ ५२.८५ ॥ पतता वासुदेवेन दानवोपरि नारद । त्रिंशद्योजनसाहस्री भूमेर्गर्ता दृढीकृता ॥ ५२.८६ ॥ ततो दैत्यं समुत्पाट्य तस्यां प्रक्षिप्य वेगतः । अवर्षत्सिकतावृष्ट्या तां गर्तामपूरयत ॥ ५२.८७ ॥ ततः स्वर्गं सहस्राक्षो वासुदेवप्रसादतः । सुराश्च सर्वे त्रैलोक्यमवापुर्निरुपद्रवाः ॥ ५२.८८ ॥ भगवानपि दैत्येन्द्रं प३ षिप्य सिकतार्णवे । कालिन्द्य रूपमाधाय तत्रैवान्तरधीयत ॥ ५२.८९ ॥ एवं पुरा विष्णुरभूच्च वामनो धुन्धुं विजेतुं च त्रिविक्रमोऽभूत् । यस्मिन् स दैत्येन्द्रसुतो जगाम महाश्रमे पुण्ययुतो महर्षे ॥ ५२.९० ॥ इति श्रीवामनपुराणे द्विपञ्चाशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । कालिन्दीसलिले स्नात्वा पूजयित्वा त्रिविक्रमम् । उपोष्य रजनीमेकां लिङ्गभेदं गिरिं ययौ ॥ ५३.१ ॥ तत्र स्नात्वा च विमले भवं दृष्ट्वा च भक्तितः । उपोष्य रजनीमेकां तीर्थं केदारमाव्रजत् ॥ ५३.२ ॥ तत्र स्नात्वार्ऽच्य चेशानं माधवं चाप्यभेदतः । उषित्वा वासरान् सप्त कुब्जाम्रं प्रजगाम ह ॥ ५३.३ ॥ ततः सुतीर्थे स्नात्वा च सोपवासी जितेन्द्रियः. हृषीकेशं समभ्यर्च्य ययौ बदरिकाश्रमम् ॥ ५३.४ ॥ तत्रोष्य नारायणमर्च्य भक्त्या स्नात्वाथ विद्वान् स सरस्वतीजले । वराहतीर्थे गरुडासनं स दृष्ट्वाथ संपूज्य सुभक्तिमांश्च ॥ ५३.५ ॥ भद्रकर्णे ततो गत्वा जयेशं शशिशेखरम् । दृष्ट्वा संपूज्य च शिवं विपाशामभितो ययौ ॥ ५३.६ ॥ तस्यां स्नात्वा समभ्यर्च्य देवदेवं द्विजप्रियम् । उपवासी इरावत्यां ददर्श परमेश्वरम् ॥ ५३.७ ॥ यमाराध्य द्विजश्रेष्ठ शाकले वै पुरूरवाः । समवाप परं रूपमैश्वर्य च सुदुर्लभम् ॥ ५३.८ ॥ कुष्ठरोगाभिभूतश्च यं समाराघ्य वै भृगुः । आरोग्यमतुलं प्राप संतानमपि चाक्षयम् ॥ ५३.९ ॥ नारद उवाच । कथं पुरूरवा विष्णुमाराघ्य द्विजसत्तम । विरूपत्वं समुत्सृज्य रूपं प्राप श्रिया सह ॥ ५३.१० ॥ पुलस्त्य उवाच । श्रूयतां कथयिष्यामि कथां पापुप्रणाशिनीम् । पूर्वं त्रेतायुगस्यादौ यथावृत्तं तपोधन ॥ ५३.११ ॥ मद्रदेश इति ख्यातो देशो वै ब्रह्मणः सुत । शाकलं नाम नगरं ख्यातं स्थानीयमुत्तमम् ॥ ५३.१२ ॥ तस्मिन् विपणिवृत्तिस्थः सुधर्माख्योऽभवद्वणिक् । धनाढ्यो गुणवान् भोगी नानासास्त्रविशारदः ॥ ५३.१३ ॥ स त्वेकदा निजाद्राष्ट्रात्सुराष्ट्रं गन्तुमद्यतः । सार्थेन महता युक्तो नानाविपणपण्यवान् ॥ ५३.१४ ॥ गच्छतः पथि तस्याथ मरुभूमौ कलिप्रिय । अभवद्दस्युतो रात्रौ अवस्कन्दोऽतिदुःसहः ॥ ५३.१५ ॥ ततः स हृतसर्वस्वो वणिग्गुःखसमन्वितः । असहायो मरौ तस्मिंश्चचारोन्मत्तवद्वशी ॥ ५३.१६ ॥ चरता तदरण्यं वै दुःखाक्रान्तेन नारद । आत्मा इव शमीवृक्षो मरावासादितः शुभः ॥ ५३.१७ ॥ तं मृगौः पिक्षिक्षिश्चैव हीनं दृष्ट्वा शमीतरुम् । श्रान्तः क्षुत्तृट्परीतात्मा तस्याधः समुपाविशत् ॥ ५३.१८ ॥ सुप्तश्चापि सुविश्रान्तो मध्याह्ने पुनरुत्यितः । समपश्यदथायान्तं प्रेतं प्रेतशतैर्वृतम् ॥ ५३.१९ ॥ उद्वाह्यन्तमथान्येन प्रेतेन प्रेतनायकम् । पिण्डाशिभिश्च पुरतो धावद्भी रूक्षविग्रहैः ॥ ५३.२० ॥ अथाजगाम प्रेतोऽसौ पर्यटित्वा वनानि च । उपागम्य शमीमूले वणिक्पुत्रं ददर्श सः ॥ ५३.२१ ॥ स्वागतेनाभिवाद्यैनं समाभाष्य परस्परम् । सुखोपविष्टश्छायायां पृष्ट्वा कुशलमाप्तवान् ॥ ५३.२२ ॥ ततः प्रेताधिपतिना पृष्टः स तु वणिक्सखः । कुत आगम्यते ब्रूहि क्व साधो वा गमिष्यसि ॥ ५३.२३ ॥ कथं चेदं महारण्यं मृगपक्षिविवर्जितम् । समापन्नोऽसि भद्रं ते सर्वमाख्यातुमर्हसि ॥ ५३.२४ ॥ एवं प्रेताधिपतिना वणिक्पृष्टः समासतः । सर्वमाख्यातवान् ब्रह्मन् स्वदेशधनविच्युतिम् ॥ ५३.२५ ॥ तस्य श्रुत्वा स वृत्तान्तं तस्य दुःखेन दुःखितः । वमिक्पुत्रं ततः प्राह प्रेतपालः स्वबन्धुवत् ॥ ५३.२६ ॥ एवं गतेऽपि मा शोकं कर्तुमर्हसि सुव्रत । भूयोऽप्यर्थाः भविष्यन्ति यदि भाग्यबलं तव ॥ ५३.२७ ॥ भाग्यक्षयेर्ऽथाः क्षीयन्ते भवन्त्यभ्युदये पुनः । क्षीणस्यास्य शरीरस्य चिन्तया नोदयो भवेत् ॥ ५३.२८ ॥ इत्युच्चार्य समाहूय स्वान् भृत्यान् वाक्यमब्रवीत् । अद्यातिथिरयं पूज्यः सदैव स्वजनो मम ॥ ५३.२९ ॥ अस्मिन् समागते प्रेताः प्रीतिर्जाता ममातुला ॥ ५३.३० ॥ एवं हि वदतस्तस्य मृत्पात्रं सुदृढं नवम् । दध्योदनेन संपूर्णमाजगाम यथेप्सितम् ॥ ५३.३१ ॥ तथा नवा च सुदृढा संपूर्णा परमाम्भसा । वारिधानी च संप्राप्ता प्रेतानामग्रतः स्थिता ॥ ५३.३२ ॥ तमागतं ससलिलमन्नं वीक्ष्य महामतिः । प्राहोत्तिष्ठ वणिक्पुत्र त्वमाह्निकमुपाचर ॥ ५३.३३ ॥ ततस्तु वारिधान्यास्तौ सलिलेन विधानतः । कृताह्निकावुभौ जातौ वणिक्प्रेतपतिस्तथा ॥ ५३.३४ ॥ ततो वणिक्सुतायादौ दध्योदनमथेच्छया । दत्त्वा तेभ्यश्च सर्वेभ्यः प्रेतेभ्यो व्यददात्ततः ॥ ५३.३५ ॥ भुक्तवत्सु च सर्वेषु कामतोऽम्भसि सेविते । अनन्तरं सबुभुजे प्रेतपालो बराशनम् ॥ ५३.३६ ॥ प्रकामतृप्ते प्रेत च वारिधान्योदनं तथा । अन्तर्धानमगाद्ब्रह्मन् वणिक्पुत्रस्य पश्यतः ॥ ५३.३७ ॥ ततस्तदद्भुततमं दृष्ट्वा स मतिमान् वणिक् । पप्रच्छ तं प्रेतपालं कौतूहलमना वशी ॥ ५३.३८ ॥ अरण्ये निर्जने साधो कुतोऽन्नस्य समुद्भवः । कुतश्च वारिधानीयं संपूर्णा परमाम्भसा ॥ ५३.३९ ॥ तथामी तव ये भृत्यास्त्वत्तस्ते वर्मतः कृशाः । भवानपि च तेजस्वी किञ्चित्पुष्टवपुः शुभः ॥ ५३.४० ॥ शुक्लवस्त्रपरीधानो बहूनां परिपालकः । सर्वमेतन्ममाचक्ष्व को भवान् का शमी त्वियम् ॥ ५३.४१ ॥ इत्थं वणिक्सुतवचः श्रुत्वासौ प्रेतनायकः । शशंस सर्वमस्याद्यं यथावृत्तं पुरातनम् ॥ ५३.४२ ॥ अहमासं पुरा विप्रः शाकले नगरोत्तमे । सोमशर्मेति विख्यातो बहुलागर्भसंभवः ॥ ५३.४३ ॥ ममास्ति च वणिक्श्रीमान् प्राति वेश्यो महाधनः । स तु सोमश्रवा नाम विष्णुभक्तो महायशाः ॥ ५३.४४ ॥ सोऽहं कदर्यो मूढात्मा धनेऽपि सति दुर्मतिः । न ददामि द्विजातिभ्यो न चाश्नाम्यन्नमुत्तमम् ॥ ५३.४५ ॥ प्रमादाद्यदि भुञ्जामि दधिक्षीरघृतान्वितम् । ततो रात्रौ नृभिर्घोरैस्ताड्यते मम विग्रहः ॥ ५३.४६ ॥ प्रातर्भवति मे घोरा मृत्युतुल्या विषूचिका । न च कश्चिन्माभ्यासे तत्र तिष्ठति बान्धवः ॥ ५३.४७ ॥ कथं कथमपि प्राणा मया संप्रतिधारिताः । एवमेतादृशः पापी निवसाम्यतिनिर्घृणः ॥ ५३.४८ ॥ सौवीरतिलपिण्याकसक्तुशाकादिभोनैः । क्षपयामि कदन्नाद्यैरात्मानं कालयापनैः ॥ ५३.४९ ॥ एवं तत्रासतो मह्यं महान् कालोऽभ्यगादथ । श्रवणद्वादशी नाम मासि भाद्रपदेऽभवत् ॥ ५३.५० ॥ ततो नागरिको लोको गतः स्नातुं हि संगमम् । इरावत्या नड्वलाया ब्रह्मक्षत्रपुरस्सरः ॥ ५३.५१ ॥ प्रातिवेश्यप्रसंगेन तत्राप्यनुगतोऽस्म्यहम् । कृतोपवासः शुचिमानेकादश्यां यतव्रतः ॥ ५३.५२ ॥ ततः संगमतोयेन वारिधानीं दृढां नवाम् । संपूर्णां वस्तुसंवीतां छत्रोपानहसंयुताम् ॥ ५३.५३ ॥ सृत्पात्रमपि मिष्टस्य पूर्णं दध्योदनस्य ह । प्रदत्तं ब्राह्मणेन्द्राय शुचये ज्ञानधर्मिणे ॥ ५३.५४ ॥ तदेव जीवता दत्तं मया दानं वणिक्सुत । वर्षाणां सप्ततीनां वै नान्यद्दत्तं हि किञ्चन ॥ ५३.५५ ॥ मृतः प्रेतत्वमापन्नो दत्त्वा प्रेतान्नमेव हि । अमी चादत्तदानास्तु मदन्नेनोपजीविनः ॥ ५३.५६ ॥ एतते कारणं प्रोक्तं यत्तदन्नं मयाम्भसा । दत्तं तदिदमायाति मध्याह्नेऽपि दिने दिने ॥ ५३.५७ ॥ यावन्नाहं च भुञ्जामि न तावत्क्षयमेति वै । मयि भुक्ते च पीते च सर्वमन्तर्हितं भवेत् ॥ ५३.५८ ॥ यच्चातपत्रमददं सोऽयं जातः शमीतरुः । उवानद्युगले दत्ते प्रेतो मे वाहनोऽभवत् ॥ ५३.५९ ॥ इयं तोवक्ता धर्मज्ञ मया कीनाशतात्मनः । श्रवणद्वादशीपुण्यं तवोक्यं पुणयवर्धरम् ॥ ५३.६० ॥ इत्येवमुक्ते वचने वणिक्पुत्रोऽब्रवीद्वचः । यन्मया तात कर्त्तव्यं तदनुज्ञातुमर्हसि ॥ ५३.६१ ॥ तत्तस्य वचनं श्रुत्वा वणिक्पुत्रस्य नारद । प्रेतपालो वचः प्राह स्वार्थसिद्धिकरं ततः ॥ ५३.६२ ॥ यत्त्वया तात कर्त्तव्यं मद्धितार्थं महामते । कथयिष्यामि तत्सम्यक्तव श्रेयस्करं मम ॥ ५३.६३ ॥ गयायां तीर्थजुष्टायां स्नात्वा शौचसमन्वितः । मम नाम समुद्दिश्य पिण्डनिर्वपणं कुरु ॥ ५३.६४ ॥ तत्र पिण्डप्रदानेन प्रेतभावादहं सखे । मुक्तस्तु सर्वदातृणां यास्यामि सहलोकताम् ॥ ५३.६५ ॥ यथेयं द्वादशी पुण्या मासि प्रौष्ठपदे सिता । बुधश्रवणसंयुक्ता सातिश्रेयस्करी स्मृता ॥ ५३.६६ ॥ इत्येवमुक्त्वा वणिजं प्रेतराजोऽनुगैः सह । स्वनामानि यथान्यायं सम्यगाख्यातवाञ्छुचिः ॥ ५३.६७ ॥ प्रेतस्कन्धे समारोप्य त्याजितो मरुमण्डलम् । रम्येऽथ शूरसेनाख्ये देशे प्राप्तः स वै वणिक् ॥ ५३.६८ ॥ स्वकर्मधर्मयोगेन धनमुच्चावचं बहु । उवार्जयित्वा प्रययौ गयाशीर्षमनुत्तमम् ॥ ५३.६९ ॥ पिण्डनिर्वपणं तत्र प्रेतानामनुपूर्वशः । चकार स्वपितॄणां च दायादानामनन्तरम् ॥ ५३.७० ॥ आत्मनश्च महाबुद्धिर्महाबोध्यं तिलैर्विना । पिण्डनिर्वपणं चक्रे तथान्यानपि गोत्रजान् ॥ ५३.७१ ॥ एवं प्रदत्तेष्वथ वै पिण्डेषु प्रेतभावतः । विमुक्तास्ते द्विज प्रेता ब्रह्मलोकं ततो गताः ॥ ५३.७२ ॥ स चापि हि वणिक्पुत्रो निजमालयमाव्रजत् । श्रवणद्वादशीं कृत्वा कालधर्ममुपेयिवान् ॥ ५३.७३ ॥ गन्धर्वलोके सुचिरं भोगान् भुक्त्वा सुदुर्लभान् । मानुष्यं जन्ममासाद्य स बभौ शाकले विराट् ॥ ५३.७४ ॥ स्वधर्मकर्मवृत्तिस्थः श्रवणद्वादशीरतः । कालधर्ममवाप्यासौ गुह्यकावासमाश्रयत् ॥ ५३.७५ ॥ तत्रोष्य सुचिरं कालं भोगान् भुक्त्वाथ कामतः । मर्त्यलोकमनुप्राप्य राजन्यतनयोऽभवत् ॥ ५३.७६ ॥ तत्रापि क्षत्रवृत्तिस्थो दानभोगरतो वशी । गोग्रहेऽरिगणाञ्जित्वा कालधर्ममुपेयिवान् । शक्रलोकं स संप्राप्य देवैः सर्वैः सुपूजितः ॥ ५३.७७ ॥ पुण्यक्षयात्परिभ्रष्टः शाकले सोऽभवद्द्विजः । ततो विकटरूपोऽसौ सर्वशास्त्रार्थपारगः ॥ ५३.७८ ॥ विवाहयद्द्विजसुतां रूपेणानुपमां द्विज । सावमेने च भर्त्तारं सुशीलमपि भामिनी ॥ ५३.७९ ॥ विरूपमिति मन्वाना ततस्सोभूत्सुदुःखितः । ततो निर्वेदसंयुक्तो गत्वाश्रमपदं महत् ॥ ५३.८० ॥ इरावत्यास्तटे श्रीमान् रूपधारिणमासदत् । तमाराध्य जगन्नाथं नक्षत्रपुरुषेण हि ॥ ५३.८१ ॥ सुरूपतामवाप्याग्र्यां तस्मिन्नेव च जन्मनि । ततः प्रियोऽभूद्भार्याया भोगवांश्चाभवद्वशी । श्रवणद्वादशीभक्तः पूर्वाभ्यासादजायत ॥ ५३.८२ ॥ एवं पुरासौ द्विजपुङ्गवस्तु कुरूपरूपो भगवत्प्रसादात् । अनङ्गरूपप्रतिमो बभूव मृश्च राजा स पुरूरवाभूत् ॥ ५३.८३ ॥ इति श्रीवामनपुराणे त्रिपञ्चाशोऽध्यायः ________________________________________________________________________ नारद उवाच । पुरूरवा द्विजश्रेष्ठ यथा देवं श्रियः पतिम् । नक्षत्रपुरुषाख्येन आराधयत तद्वद ॥ ५४.१ ॥ पुलस्त्य उवाच । श्रूयतां कथयिष्यामि नक्षत्रपुरुषव्रतम् । नक्षत्राङ्गनि देवस्य यानि यानीह नारद ॥ ५४.२ ॥ मूलर्क्षं चरणौ विष्णोर्जङ्घे द्वे रोहिणी स्मृते । द्वे जानुनी तथाश्विन्यौ संस्तिते रूपधारिमः ॥ ५४.३ ॥ आषाढं द्वे द्वयं चोर्वोर्गुह्यस्थं फाल्गुनीद्वयम् । कटिस्थाः कृत्तिकाश्चैव वासुदेवस्य संस्थिताः ॥ ५४.४ ॥ प्रौष्ठपद्याद्वयं पार्श्वे कुक्षिभ्यां रेवती स्थिता । उरःसंस्था त्वनुराधा श्रविष्ठा पृष्ठसंस्थिता ॥ ५४.५ ॥ विशाखा भुजयोर्हस्तः करद्वयमुदाहृतम् । पुनर्वसुरथाङ्गुल्यो नखाः सार्पं तथोच्यते ॥ ५४.६ ॥ ग्रीवास्थैता तथा ज्येष्ठा श्रवणं कर्णयोः स्थितम् । मुखसंस्थस्तथा पुष्यः स्वातिर्दन्ताः प्रकीर्तिताः ॥ ५४.७ ॥ हनू द्वे वारुणश्चोक्तो नासा पैत्र उदाहृतः । मृगशीर्षं नयनयो रूपधारिणि तिष्ठति ॥ ५४.८ ॥ चित्रा चैव ललाटे तु भरणी तु तथा शिरः । शिरोरुहस्था चैवार्द्रा नक्षत्राङ्गमिदं हरेः ॥ ५४.९ ॥ विधानं संप्रवक्ष्यामि यथायोगेन नारद । संपूजितो हरिः कामान् विदधाति यथेप्सितान् ॥ ५४.१० ॥ चैत्रमासे सिताष्टम्यां यदा मूलगतः शशी । तदा तु भगवत्पादौ पूजयेत्तु विधानतः । नक्षत्रसन्निधौ दद्याद्विप्रेन्द्राय च भोजनम् ॥ ५४.११ ॥ जानुनी चाश्विनीयोगे पूजयेदथ भक्तितः । दोहदे च हविष्यान्नं पूर्ववद्द्विजभोजनम् ॥ ५४.१२ ॥ आषाढाभ्यां तथा द्वाभ्यां द्वावूरू पूजयेद्बुधः । सलिलं शिशिरं तत्र दोहदे च प्रकीर्तितम् ॥ ५४.१३ ॥ फाल्गुनीद्वितये गुह्यं पूजनीयं विचक्षणैः । दोदहे च पयो गव्यं देयं च द्विजभोजनम् ॥ ५४.१४ ॥ कृत्तिकासु कटिः पूज्या सोपवासो जितेन्द्रियः । देयञ्च दोहदं विष्णोः सुगन्धकुसुमोदकम् ॥ ५४.१५ ॥ पार्श्वे भाद्रपदायुग्मे पूजयित्वा विधानतः । गुडं सलेहकं दद्याद्दोहदे देवकीर्तितम् ॥ ५४.१६ ॥ द्वे कुक्षी रेवतीयोगे दोहदे मुद्गमोदकाः । अनुराधासु जठरं षष्ठिकान्नं च दोहदे ॥ ५४.१७ ॥ श्रविष्ठायां तथा पृष्ठं सालिभक्तं च दोहदे । भुजयुग्मं विशाखासु दोहदे परमोदनम् ॥ ५४.१८ ॥ हस्ते हस्तौ तथा पूज्यौ यावकं दोहदे स्मृतम् । पुनर्वसावङ्गुलीश्च पटोलस्तत्र दोहदे ॥ ५४.१९ ॥ आश्लेषासु नखान् पूज्य दोहदे तित्तिरामिषम् । ज्येष्ठायां पूजयेद्ग्रीवां दोहदे तिलमोदकम् ॥ ५४.२० ॥ श्रवणे श्रवणौ पूज्यौ दधिभक्तं च दोहदे । पुष्ये मुखं पूजयेत दोहदे घृतपायसम् ॥ ५४.२१ ॥ स्वातियोगे च दशना दोहदे तिलशष्कुली । दातव्या केशवप्रीत्यै ब्रह्मणस्य च भोजनम् ॥ ५४.२२ ॥ हनू शतभिषायोगे पूजयेच्च प्रयत्नतः । प्रियङ्गुरक्तशाल्यन्नं दोहदं मधुविद्विषः ॥ ५४.२३ ॥ मघासु नासिका पूज्या मधु दद्याच्च दोहदे । मृगोत्तमाङ्गे नयने मृगमांसं च दोहदे ॥ ५४.२४ ॥ चित्रायोगे ललाटं च दोहदे चारुभोजनम् । भरणीषु शिरः पूज्यं चारु भक्तं च दोहदे ॥ ५४.२५ ॥ संपूजनीया विद्वद्भिरार्द्रायोगे शिरोरुहाः । विप्रांश्च भोजयेद्भक्तया दोहदे च गुडार्द्रकम् ॥ ५४.२६ ॥ नक्षेत्रयोगेष्वेतेषु सम्पूज्य जगतः पतिम् । पारिते दक्षिणान्दद्यात्स्त्रीपुंसोश्चारुवाससी ॥ ५४.२७ ॥ छत्रोपानत्श्वेतयुगं सप्त धान्यानि काञ्चनम् । घृतपात्रं च मतिमन् ब्राह्मणाय निवेदयेत् ॥ ५४.२८ ॥ प्रतिनक्षत्रयोगेन पूजनीया द्विजातयः । नक्षत्रमय एवैष पुरुषः शाश्वतो मतः ॥ ५४.२९ ॥ नक्षत्रपुरुषाख्यं हि व्रतानामुत्तमं व्रतम् । पूर्वं कृतं हि भृगुणा सर्वपातकनाशनम् ॥ ५४.३० ॥ अङ्गोपाङ्गानि देवर्षे पूजयित्वा जगद्गुरोः । सुरूपाम्यभिजायन्ते प्रत्यङ्गङ्गानि चैव हि ॥ ५४.३१ ॥ सप्तजन्मकृतं पापं कुलसंगागतं च यत् । पितृमातृसमुत्थं च तत्सर्वं हन्ति केशवः ॥ ५४.३२ ॥ सर्वाणि भद्राण्याप्नोति शरीरारोग्यमुत्तमम् । अनन्तां मनसः प्रीतिं रूपं चातीव शोभनम् ॥ ५४.३३ ॥ वाङ्माधुर्यं तथा कान्ति यच्चान्यदभिवाञ्छितम् । ददाति नक्षत्रपुमान् पूजितस्तु जनार्दनः ॥ ५४.३४ ॥ उपोष्य सम्यगेतेषु क्रमेणर्क्षेषु नारद । अरुन्धती महाभागा ख्यातिमग्र्यां जगाम ह ॥ ५४.३५ ॥ आदित्यस्तनयार्थाय नक्षत्राङ्गं जनार्दनम् । संपूजयित्वा गोविन्दं रेवन्तं पुत्रमाप्तवान् ॥ ५४.३६ ॥ रम्भा रूपमवापाग्र्यं वाङ्माधुर्यं च मेनका । कान्ति विधुरवापाग्र्यां राज्यं राजा पूरूवाः ॥ ५४.३७ ॥ एवं विधानतो ब्रह्मन्नक्षत्राङ्गो जनार्दनः । पूजितो रूपधारी यैस्तैः प्राप्ता तु सुकामिता ॥ ५४.३८ ॥ एतत्तवोक्तं परमं पवित्रं धन्यं यशस्यं शुभरूपदायि । नक्षत्रपुंसः परमं विधानं शृणुष्व पुण्यामिह तीर्थयात्राम ॥ ५४.३९ ॥ इति श्रीवामनपुराणे चतुष्पञ्चाशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । इरावतीमनुप्राप्य पुण्यां तामृषिकन्यकाम् । स्त्रात्वा संपूजयामास चैत्राष्टम्यां जनार्दनम् ॥ ५५.१ ॥ नक्षत्रपुरुषं चीर्त्वा व्रतं पुण्यप्रदं शुचिः । जगाम स कुरुक्षेत्रं प्रह्लादो दानवेश्वरः ॥ ५५.२ ॥ ऐरावतेन मन्त्रेण चक्रतीर्थं सुदर्शनम् । उपामन्त्र्य ततः सस्नौ वेदोक्तविधिना मुने ॥ ५५.३ ॥ उपोष्य क्षणदां भक्त्या पूजियत्वा कुरुध्वजम् । कृतशौचौ जगामाथ द्रष्टुं पुरुषकेसरिम् ॥ ५५.४ ॥ स्नात्वा तु देविकायां च नृसिंहं प्रतिपूज्य च । तत्रेष्य रजनोमेकां गोकर्णं दानवो ययौ ॥ ५५.५ ॥ तस्मिन् स्नात्वा तथा प्राचीं पूज्येशं विश्वकर्मिणम् । प्राचीने चापरे दैत्यो द्रष्टुं कामेश्वरं ययौ ॥ ५५.६ ॥ तत्र स्नात्वा च दृष्ट्वा च पूजयित्वा च शङ्करम् । द्रष्टुं ययौ च प्रह्लादः पुण्डरीकं महाम्भसि ॥ ५५.७ ॥ तत्र स्नात्वा च दृष्ट्वा च संतर्प्य पितृदेवताः । पुण्डरीकं च संपूज्य उवास दिवसत्रयम् ॥ ५५.८ ॥ विशाखयूपे तदनु दृष्ट्वा देवं तथाजितम् । स्नात्वा तथा कृष्णतीर्थे त्रिरात्रं न्यवसच्छुचिः ॥ ५५.९ ॥ ततो हंसपदे हंसं दृष्ट्वा संपूज्य चेश्वरम् । जगामासौ पयोष्णायामखण्डं द्रष्टुमीश्वरम् ॥ ५५.१० ॥ स्नात्वा पयोष्ण्याः सलिले पूज्याखण्डं जगत्पतिम् । द्रष्टुं जगाम मतिमान् वितस्तायां कुमारिलम् ॥ ५५.११ ॥ तत्र स्नात्वार्ऽच्य देवेशं बालखिल्यैर्मरीचिषैः । आराध्यामानं यद्यत्र कृतं पापप्रणाशनम् ॥ ५५.१२ ॥ यत्र सा सुरभिर्देवी स्वसुतां कपिलां शुभाम् । देवप्रियार्थमसृजद्धितार्थं जगतस्तथा ॥ ५५.१३ ॥ तत्र देवह्रदे स्नात्वा शंभुं संपूज्य भक्तितः । विधिवद्दधि च प्राश्य मणिमन्तं ततो ययौ ॥ ५५.१४ ॥ तत्र तीर्थवरे स्नात्वा प्राजापत्ये महामतिःऽ ददर्श शंभु ब्रह्माणं देवेशं च प्रजापतिम् ॥ ५५.१५ ॥ विधानतस्तु तान् देवान् पूजयित्वा तपोधन । षड्रात्रं तत्र च स्थित्वा जगाम मधुनन्दिनीम् ॥ ५५.१६ ॥ मधुमत्सलिले स्नात्वा देवं चक्रधरं हरम् । शूलबाहुं च गोविन्दं ददर्श दनुपुङ्गवः ॥ ५५.१७ ॥ नारद उवाच् । किमर्थं भगवान् शम्भुर्दधाराथ सुदर्शनम् । शूलं तथा वासुदेवो ममैतद्ब्रूहि पृच्छतः ॥ ५५.१८ ॥ पुलस्त्य उवाच । श्रूयतां कथयिष्यामि कथामेतां पुरातनीम् । कथयामास यां विष्णुर्भविष्यमनवे पुरा ॥ ५५.१९ ॥ जलोद्भवो नाम महासुरेन्द्रो घोरं स तप्त्वा तप उग्रवीर्यः । आराधयामास विरञ्चिमारात्स तस्य तुष्टो वरदो बभूव ॥ ५५.२० ॥ देवासुराणामजयो महाहवे निजैश्च शस्त्रैरमरैरवध्यः । ब्रह्मर्षिशापैश्च निरीप्सितार्थो जले च वह्नौ स्वगुणोपहर्त्ता ॥ ५५.२१ ॥ एवंप्रभावो दनुपुङ्गवोऽसौ देवान्महर्षीन्नृपतीन् समग्रान् । आबाधमानो विचचार भूम्यां सर्वाः क्रिया नाशयदुग्रमूर्तिः ॥ ५५.२२ ॥ ततोऽमरा भूमिभवाः सभूपाः जग्मुः शरण्यं हरिमीशितारम् । तैश्चापि सार्द्ध भगवाञ्जगाम हिमालयं यत्र हरस्त्रिनेत्रः ॥ ५५.२३ ॥ संमन्त्र्य देवर्षिहितं च कार्यं मतिं च कृत्वा निधनाय शत्रोः । निजायुधानां च विपर्ययं तौ देवाधिपौ चक्रतुरुग्रकर्मिणौ ॥ ५५.२४ ॥ ततश्चासौ दानवो विष्णुशर्वौ समायातौ तज्जिघांसू सुरेशौ । मत्वाजेयौ शत्रुभिर्घोररुपौ भयास्तोये निम्नगायां विवेश ॥ ५५.२५ ॥ ज्ञात्वा प्रनष्टं त्रिदिवेन्द्रशत्रुं नदीं विशालां मधुमत्सुपुण्याम् । द्वयोः सशस्त्रौ तटयोर्हरीशौ प्रच्छन्नमूर्ती सहसा बभूवतुः ॥ ५५.२६ ॥ जलोद्भवश्चापि जलं विमुच्य ज्ञात्वा गतौ शङ्करवासुदेवौ । दिशस्समीक्ष्य भयकातराक्षो दुर्गं हिमाद्रिं च तदारुरोह ॥ ५५.२७ ॥ महीध्रशृङ्गोपरि विष्णुशम्भू चञ्चूर्यमाणं स्वरिपुं च दृष्ट्वा । वेगादुभौ दुदुवतुः सशस्त्रौ विष्णुस्त्रिशूली गिरिशश्च चक्री ॥ ५५.२८ ॥ ताभ्यां स दृष्टस्त्रिदशोत्तमाभ्यां चक्रेण शूलेन च बिन्नदेहः । पपात शैलात्तपनीयवर्णो यथान्तरिक्षाद्विमला च तारा ॥ ५५.२९ ॥ एवं त्रिशुलं च दधार विष्णुश्चक्रं त्रिनेत्रोऽप्यरिसूदनार्थम् । यत्राघहन्त्री ह्यभवद्वितस्ता हराङ्घ्रिपाताच्छिशिराचलात्तु ॥ ५५.३० ॥ तत्प्राप्य तीर्थं त्रिदशाधिपाभ्यां पूजां च कृत्वा हरिशङ्कराभ्याम् । उपोष्य भक्त्या हिमवन्तमागाद्द्रष्टुं गिरीशं शिवविष्णुगुप्तम् ॥ ५५.३१ ॥ तं समभ्यर्च्च विधिवद्दत्त्वा दानं द्विजातिषु । विस्तुते हिमवत्पादे भृगुतुङ्गं जगाम सः ॥ ५५.३२ ॥ यत्रेश्वरो देववरस्य विष्णोः प्रादाद्रथाङ्गप्रवरायुधं वै । येन प्रचिच्छेद त्रिधैव शङ्करं जिज्ञासमानोऽस्त्रबलं महात्मा ॥ ५५.३३ ॥ इति श्रीवामनपुराणे पञ्चपञ्चाशोऽध्यायः ________________________________________________________________________ नारद उवाच । भगवंल्लोकनाथाय विष्णवे विषमेक्षणः । किमर्थमायुधं चक्रं दत्तवांल्लोकपूजितम् ॥ ५६.१ ॥ पुलस्त्य उवाच् । शृणुष्वावहितो भूत्वा कथामेतां पुरातनीम् । चक्रप्रदानसंबद्धां शिवमाहात्मयवर्धिनीम् ॥ ५६.२ ॥ आसीद्द्विजातिप्रवरो वेदवेदांङ्गपारगः । गृहाश्रमी महाभागो वीतमन्युरिति स्मृतः ॥ ५६.३ ॥ तस्यात्रेयी महाभागो भार्यासीच्छीलसंमता । पतिव्रता पतिप्राणा धर्मशीलेति विश्रुता ॥ ५६.४ ॥ तस्यामस्य महर्षेस्तु ऋतुकालाभिगामिनः । संबभूव सुतः श्रीमानुपमन्युरिति समृतः ॥ ५६.५ ॥ तं माता मुनिशार्दूल शालिपिष्टरसेन वै । पोषयामास वदती क्षीरमेतत्सुदुर्गता ॥ ५६.६ ॥ सोऽजानानोऽथ क्षीरस्य स्वादुतां पय इत्यथ । संभावनामप्यकरोच्छालिपिष्टरसेऽपि हि ॥ ५६.७ ॥ स त्वेकदा समं पित्रा कुत्रचिद्द्विजमेश्मनि । क्षीरौदनं च बुभुजे सुस्वादु प्राणपुष्टिदम् ॥ ५६.८ ॥ स लब्ध्वानुपमं स्वादं क्षीरस्य ऋषिदारकः । मात्रा दत्तं द्वितीयेऽह्नि नादत्ते पिष्टवारि तत् ॥ ५६.९ ॥ रुरोदाथ ततो बाल्यात्पोयऽर्थि चातको यथा । तं माता रुदती प्राह बाष्पगद्गदया गिरा ॥ ५६.१० ॥ उमापतौ पशुपतौ शूलधारिणि संकरे । अप्रसन्ने विरुपाक्षे कुतः क्षीरेण भोजनम् ॥ ५६.११ ॥ यदीच्छसि पयो भोक्तुं सद्यः पुष्टिकरं सुत । तदाराधय देवेशं विरूपाक्षं त्रिशूलिनम् ॥ ५६.१२ ॥ तस्मिस्तुष्टे जगद्धाम्नि सर्वकल्याणदायिनि । प्राप्यतेऽमृतपायित्वं किं पुनः क्षीरभोजनम् ॥ ५६.१३ ॥ तन्मातुर्वचनं श्रुत्वा वीतमन्युसुतोऽब्रवीत् । कोऽयं विरूपाक्ष इति त्वयाराध्यस्तु कीर्तितः ॥ ५६.१४ ॥ ततः सुतं धर्मशीला धर्माढ्यं वाक्यमब्रवीत् । योऽयं विरुपाक्ष इति श्रूयतां कथयामि ते ॥ ५६.१५ ॥ आसीन्महासुरपतिः श्रीदाम इति विश्रुतः । तेनाक्रम्य जगत्सर्वं श्रीर्नीता स्ववशं पुरा ॥ ५६.१६ ॥ निःश्रीकास्तु त्रयो लोकाः कृतास्तेन दुरात्माना । श्रीवत्सं वासुदेवस्य हर्तुमैच्छन्महाबलः ॥ ५६.१७ ॥ तम्स्य दुष्टं भगवानभिप्रायं जनार्दनः । ज्ञात्वा तस्य वधाकाङ्क्षी महेश्वरमुपागमत् ॥ ५६.१८ ॥ एतस्मिन्नन्तरे शंभुर्योगमूर्तिधरोऽप्ययः । तस्थौ हिमाचलप्रस्थमाश्रित्य श्लुक्ष्णभूतलम् ॥ ५६.१९ ॥ अथाभ्येत्य जगन्नाथं सहस्रशिरसं विभुम् । आराधयामास हरिः स्वयमात्मानमात्मना ॥ ५६.२० ॥ साग्रं वर्षसहस्रं तु पादाङ्गुष्ठेन तस्तिवान् । गृणंस्तत्परमं ब्रह्म योगिज्ञेयमलक्षणम् ॥ ५६.२१ ॥ ततः प्रीतः प्रभुः प्रादाद्विष्णवे परमं वरम् । प्रत्यक्षं तैजसं श्रीमान् दिव्यं चक्रं सुदर्शनम् ॥ ५६.२२ ॥ तद्दत्त्वा देवदेवाय सर्वभूतभयप्रदम् । कालचक्रनिभं चक्रं शङ्करो विष्णुमब्रवीत् ॥ ५६.२३ ॥ वरायुधोऽयं देवेश सर्वायुधनिबर्हणः । सुदर्शनो द्वादशारः षण्णाभिर्द्वियुगो जवी ॥ ५६.२४ ॥ आरासंस्थास्त्वमी चास्य देवा मासाश्च राशयः । शिष्टानां रक्षणार्थाय संस्थिता ऋथवश्च षट् ॥ ५६.२५ ॥ अग्निः सोमस्तथा मित्रो वरुणोऽथ शचीपतिः । इन्द्राग्नी चाप्यथो विश्वे प्रजापतय एव च ॥ ५६.२६ ॥ हनूमांश्चाथ बलावान् देवो धन्वन्तरिस्तथा । तपश्चैव तपस्यश्च द्वादशैते प्रतिष्ठिताः । चैत्राद्याः फाल्गुनान्ताश्च मासास्तत्र प्रतिष्ठताः ॥ ५६.२७ ॥ त्वमेवमाधाय विभो वरायुधं शत्रुं सुराणां जहि मा विशङ्किथाः । अमोघ एषोऽमरराजडपूजितो धृतो मया नेत्रगतस्तपोबलात् ॥ ५६.२८ ॥ इत्युक्तः शंभूना विष्णुः भवं वचनमब्रवीत् । कथं शंभो विजानीयाममोघो मोघ एव वा ॥ ५६.२९ ॥ यद्यमोघो विभो चक्रः सर्वत्राप्रतिघस्तव । जिज्ञासार्थं तवैवेह प्रक्षेप्स्यामि प्रतीच्छ भोः ॥ ५६.३० ॥ तद्वाक्यं वासुदेवस्य निशम्याह विनाकधृक् । यद्येवं प्रक्षिपस्वेति निर्विशङ्केन चेतसा ॥ ५६.३१ ॥ तन्महेशानवचनं श्रुत्वा विष्णुः सुदर्शनम् । मुमोच तेजोजिज्ञासुः शङ्करं प्रति वेगवान् ॥ ५६.३२ ॥ मुरारिकरविभ्रष्टं चक्रमभ्येत्य शूलिनम् । त्रिधा चकार विश्वेशं यज्ञेशं यज्ञयाजकम् ॥ ५६.३३ ॥ हरं हरिस्त्रिधाभूतं दृष्टवा कृत्तं महाभुजः । व्रीडोपप्लुतदेहस्तु प्रणिपातपरोऽभवत् ॥ ५६.३४ ॥ पादप्रणामावनतं वीक्ष्य दामोदरं भवः । प्राह प्रीतिपरः श्रीमानुत्तिष्ठति पुनः पुनः । । ५६.३५ प्राकृतोऽयं महाबाहो विकारश्चक्रनेमिना । निकृत्तो न स्वरभावो मे सोऽच्छेद्योऽदाह्य एव च ॥ ५६.३६ ॥ तद्यदेतानि चक्रेण त्रीणि भागानि केशव । कृतानि तानि पुण्यनि भविष्यन्ति न सशयः ॥ ५६.३७ ॥ हिरण्याक्षः स्मृतो ह्येकः सुवर्णाक्षस्तथा परः । तृतीयश्च विरूपाक्षस्त्रयोऽमी पुण्यदा नृणाम् ॥ ५६.३८ ॥ उत्तिष्ठ गच्छस्व विभो निहन्तुममरार्दनम् । श्रीदाम्नि निहते विष्णो नन्दयिष्यन्ति देवताः ॥ ५६.३९ ॥ इत्येवमुक्तो भगवान् हरेम गरुडध्वजः । गत्वा सुरगिरिप्रस्थं श्रीदामानं ददर्श ह ॥ ५६.४० ॥ तं दृष्ट्वा देवदर्पघ्नं दैत्यं देववरो हरिः । मुमोच चक्रं वेगाढ्यं हतोऽसीति ब्रुवन्मुहुः ॥ ५६.४१ ॥ ततस्तु तेनाप्रतिपौरुषेण चक्रेण दैत्यस्य शिरो निकृत्तम् । संछिन्नसीर्षो निपपात शैलाद्वज्राहतं शैलशिरो यथैव ॥ ५६.४२ ॥ तसमिन् हते देवरिपौ मुरारिरीशं समाराध्य विरूपनेत्रम् । लब्ध्वा च चक्रं प्रवरं महायुधं जगाम देवो निलयं पयोनिधिम् ॥ ५६.४३ ॥ सोऽयं पुत्र निरूपाक्षो देवदेवो महेश्वरः । तमाराधय चेत्साधो क्षीरेणोच्छसि भोजनम् ॥ ५६.४४ ॥ तन्मातुर्वचनं श्रुत्वा वीतमन्युसुतो बली । तमाराध्य विरूपाक्षं प्राप्तः क्षीरेण भोजनम् ॥ ५६.४५ ॥ एवं तवोक्तं परमं पवित्रं संछेदनं शर्वतनोः पुरा वै । तत्तीर्थवर्यं स महासुरो वै समाससादाथ सुपुण्यहेतोः ॥ ५६.४६ ॥ इति श्रीवामनपुराणो ष्ट्पञ्चाशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । तस्मिंस्तीर्थवरे स्नात्वा दृष्ट्वा देवं त्रिलोचनम् । पूजयित्वा सुवर्णाक्षं नैमिषं प्रययौ ततः ॥ ५७.१ ॥ तत्र तीर्थसहस्राणि त्रिंशत्पापहराणि च । तोम्त्याः काञ्चनाक्ष्याश्च गुरुदायाश्च मध्यतः ॥ ५७.२ ॥ तेषु स्नात्वार्च्य देवेशं पीतवाससमच्युतम् । ऋषीनपि च संपूज्य नैमिषारण्यवासिनः ॥ ५७.३ ॥ देवदेवं तथेशानं संपूज्य विधिना ततः । गयायां गोपतिं द्रष्टुं जगाम स महासुरः ॥ ५७.४ ॥ तत्र ब्रह्मध्वजे स्नात्वा कृत्वा चास्य प्रदक्षिणाम् । पिण्डनिर्वपणं पुण्यं पिदृणां स चकार ह ॥ ५७.५ ॥ उदपाने तथा स्नात्वा तत्राभ्यर्च्य पितॄन् वशी । गदापाणिं समभ्यर्च्य गोपतिं चापि शङ्करम् ॥ ५७.६ ॥ इन्द्रतीर्थे तथा स्नात्वा संतर्प्य पितृदेवताः । महानदीजले स्नात्वा सरयूमाजगाम सः ॥ ५७.७ ॥ तस्यां स्नात्वा समभ्यर्च्य गोप्रतारे कुशेशयम् । उपोष्य रजनीमेकां विरजां नगरीं ययौ ॥ ५७.८ ॥ स्नात्वा विरजसे तीर्थे दत्त्वा पिण्डं पितॄंस्तथा । दर्शनार्थ ययौ श्रीमानजितं पुरुषोत्तमम् ॥ ५७.९ ॥ तं दृष्ट्वा पुण्डरीकाक्षमक्षरं परमं शुचिः । षड्रात्रमुष्य तत्रैव महेन्द्रं दक्षिणं ययौ ॥ ५७.१० ॥ तत्र देववरं शंभुमर्द्धनारीश्वरं हरम् । दृष्ट्वार्च्य संपूज्य पितॄन्महेन्द्रं चोत्तरं गतः ॥ ५७.११ ॥ तत्र देववरं शंभुं गोपालं सोमपायिनम्. दृष्ट्वा स्नात्वा सोमतीर्थे सह्याचलमुपागतः ॥ ५७.१२ ॥ तत्र स्नात्वा महोदक्यां वैकुण्ठं चार्च्यं भक्तितः । सुरान् पितृन् समभ्यर्च्य पारियात्रं गिरिं गतः ॥ ५७.१३ ॥ तत्र स्नात्वा लाह्गलिन्यां पूजयित्वापराजितम् । कशेरुदेशं चाभयेत्य विश्वरूपं ददर्श सः ॥ ५७.१४ ॥ यत्र देववरः शंभुर्गणानां तु सुपूजितम् । विश्वरूपमथात्मानं दर्शयामास योगवित् ॥ ५७.१५ ॥ तत्र मङ्कुणिकातोये स्नात्वाभ्यर्य्य महेश्वरम् । जगामाद्रिं स सौगन्धि प्रह्लादो मलायाचलम् ॥ ५७.१६ ॥ महाह्रदे ततः स्नात्वा पूजयित्वा च शङ्करम् । ततो जगाम योगात्मा द्रष्टुं विन्ध्ये सदाशिवम् ॥ ५७.१७ ॥ ततो विपाशासलिले स्नात्वाभ्यर्च्य सदाशिवम् । त्रिरात्रं समुपोष्याथ अवन्तीं नगरीं ययो ॥ ५७.१८ ॥ तत्र शिप्राजले स्नात्वा विष्णुं संपूज्य भक्तिततः । श्मशानस्थं ददर्शाथ महाकालवपुर्धरम् ॥ ५७.१९ ॥ तस्मिन् हि सर्वसत्त्वानां तेन रूपेण शङ्करः । तामसं रूपमास्थाय संहारं कुरुते वशी ॥ ५७.२० ॥ तत्रस्थेन सुरेशेन श्वेतकिर्नाम भूपतिः । रक्षितस्त्वन्तकं दग्ध्वा सर्वबूतापहारिणम् ॥ ५७.२१ ॥ तत्रातिहृष्टो वसति नित्यं शर्वः सहोमया । वृतः प्रमथकोटीभिर्बहुभिस्त्रिदशार्चितः ॥ ५७.२२ ॥ तं दृष्ट्वाथ महाकालं कालकालान्तकान्तकम् । यमसंयमनं मृत्योर्मृत्युं चित्रविचित्रकम् ॥ ५७.२३ ॥ श्मसाननिलयं शंभुं भूतनाथं जगत्पतिम् । पूजयित्वा शूलधरं जगाम निषधान् प्रति ॥ ५७.२४ ॥ तत्रामरेश्वरं देवं दृष्ट्वा संपूज्य भक्तितः । महोदयं समभ्येत्य हयग्रीवं ददर्श सः ॥ ५७.२५ ॥ अश्वतीर्थे ततः स्नात्वा दृष्ट्वा च तुरगाननम् । श्रीधरं चैव संपूज्य पञ्चालविषयं ययौ ॥ ५७.२६ ॥ तत्रेश्वरगुणैर्युक्तं पुत्रमर्थपतेरथ । पाञ्चालिकं वशी दृष्ट्वा प्रयागं परतो ययौ ॥ ५७.२७ ॥ स्नात्वा सन्निहिते तीर्थे यामुने लोकविश्रुते । दृष्ट्वा वटेश्वरं रुद्रं माधवं योगशायिनम् ॥ ५७.२८ ॥ द्वावेव भक्तितः पूज्यौ पूजयित्वा महासुरः । माघमासमथोपोष्य ततो वाराणसीं गतः ॥ ५७.२९ ॥ ततोऽस्यां वरणायं च तीर्थेषु च पृथक्पृथक् । सर्वपापहराद्येषु स्नात्वार्ऽच्य पितृदेवताः ॥ ५७.३० ॥ प्रदक्षिमीकृत्य पुरीं पूज्याविमुक्तकेशवौ । लोलं दिवाकरं दृष्ट्वा ततो मधुवनं ययौ ॥ ५७.३१ ॥ तत्र स्वयंभुवं देवं ददर्शासुरसत्तमः । तमभ्यर्च्य महातेजाः पुष्करारण्यमागमत् ॥ ५७.३२ ॥ तेषु त्रिष्वपि तीर्थेषु स्नात्वार्ऽच्य पितृदेवताः । पुष्कराक्षमयोगन्धि ब्रह्माणं चाप्यपूजयत् ॥ ५७.३३ ॥ ततो भूयः सरस्वत्यास्तीर्थे त्रैलोक्यविश्रुते । कोटितीर्थे रुद्रकोटिं ददर्श वृषभध्वजम् ॥ ५७.३४ ॥ नैमिषेया द्विजवरा मागधेयाः ससैन्धवाः । धर्मारण्याः पौष्करेया दण्डकारण्यकास्तथा ॥ ५७.३५ ॥ चाम्पेया भारुकच्छेया देविकातीरगाश्च ये । ते तत्र शङ्करं द्रष्टुं समायाता द्विजातयः ॥ ५७.३६ ॥ कोटिसंख्यास्तपः सिद्धा हरदर्शलालसाः । अहं पूर्वमहं पूर्वमित्येवं वादिनो मुन् ॥ ५७.३७ ॥ तान् संक्षुब्धान् हरो दृष्ट्वा महर्षीन् दग्धकिल्बिषान् । तेषामेवानुकम्पार्थं कोटिमूर्त्तिरभूद्भवः ॥ ५७.३८ ॥ ततस्ते मुनयः प्रीताः सर्व एव महेश्वरम् । संपूजयन्तस्तस्थुर्वै तीर्थं कृत्वा पृथक्पृथक् । इत्येवं रुद्रकोटीति नाम्ना शंभुरजायत ॥ ५७.३९ ॥ तं ददर्श महातेजाः प्रह्लादो भक्तिमान् वशी । कोटितीर्थे ततः स्नात्वा तर्पयित्वा वसुन् पितॄन् । रुद्रकोटिं समभ्यर्च्य जगाम कुरुजाङ्गलम् ॥ ५७.४० ॥ त६ देववरं स्थाणुं शङ्करं पार्वतीप्रियम् । सरस्वतीजले मग्नं ददर्श सुरपूजितम् ॥ ५७.४१ ॥ सारस्वतेऽम्भसि स्नात्वा स्थाणुं संपूज्य भक्तितः । स्नात्वा दसाश्वमेधे च संपूज्य च सुरान् पितृन् ॥ ५७.४२ ॥ सहस्रलिङ्गं संपूज्य स्नात्वा कन्याह्रदे शुचिः । अभिवाद्य गुरुं शुक्रं सोमतीर्थं जगाम ह ॥ ५७.४३ ॥ तत्र स्नात्वार्ऽच्य च पितृन् सोमं संपूज्य भक्तिततः । क्षीरिकावासमभ्येत्य स्नानं चक्रे महायशाः ॥ ५७.४४ ॥ प्रदक्षिणीकृत्य तरुं वरुणं चार्च्य बुद्धिमान् । भूयः कुरुध्वजं दृष्ट्वा पद्माख्यां नगरी गतः ॥ ५७.४५ ॥ तत्रार्च्य मित्रावरुणौ भास्करौ लोकपूजितौ । कुमारधारामभ्येत्य ददर्श स्वामिनं वशी ॥ ५७.४६ ॥ स्नात्वा कपिलधारायां संतर्प्यार्च्य पितृन् सुरान् । दृष्ट्वा स्कन्दं समभ्यर्च्य नर्मदायां जगाम ह ॥ ५७.४७ ॥ तस्यां स्नात्वा समभ्यर्च्य वासुदेवं श्रियः पतिम् । जगाम भूधरं द्रष्टुं वाराहं चक्रधारिणम् ॥ ५७.४८ ॥ स्नात्वा कोकामुके तीर्थे संपूज्य धरणीधरम् । त्रिसौवर्णं महादेवमर्बुदेशं जगाम ह ॥ ५७.४९ ॥ तत्र नारीह्रदे स्नात्वा पूजयित्वा च शङ्करम् । कालिञ्जरं समभ्येत्य नीलकण्ठं ददर्श सः ॥ ५७.५० ॥ नीलतीर्थजले स्नात्वा पूजयित्वा ततः शिवम् । जगाम सागरानूपे प्रभासे द्रष्टुमीश्वरम् ॥ ५७.५१ ॥ स्नात्वा च संगमे नद्याः सरस्वत्यार्णंवस्य च । सोमेश्वरं लोकपतिं ददर्श स कपर्दिनम् ॥ ५७.५२ ॥ यो दक्षशापनिर्दग्धः क्षयी ताराधिपः शशी । आप्यायितः शङ्करेण विष्णुना सकपर्दिना ॥ ५७.५३ ॥ तावर्च्य देवप्रवरौ प्रजगाम महालयम् । तत्र रुद्रं समभ्यर्च्य प्रजगामोत्तरान् कुरून् ॥ ५७.५४ ॥ पद्मनाभं स तत्रर्च्य सप्तगोदावरं ययौ । तत्र स्नात्वार्ऽच्य विश्वेशं भीमं त्रैलोक्यवन्दितम् ॥ ५७.५५ ॥ गत्वा दारुवने श्रीमान् लिङ्गं स ददर्श ह । तमर्च्य ब्राह्मणीं गत्वा स्नात्वार्ऽच्य त्रिदशेश्वरम् ॥ ५७.५६ ॥ प्लक्षावतरणं गत्वा श्रीनिवासमपूजयत् । ततश्च कुण्डिनं गत्वा संपूज्य प्रामतृप्तिदम् ॥ ५७.५७ ॥ शूर्पारके चतुर्बाहुं पूजयित्वा विधानतः । मागधारण्यमासाद्य ददर्श वसुधाधिपम् ॥ ५७.५८ ॥ तमर्चयित्वा विश्वेशं स जगाम प्रजामुखम् । महातीर्थे ततः स्नात्वा वासुदेवं प्रणम्य च ॥ ५७.५९ ॥ शोणं शंप्राप्य संपूज्य स्कमवर्माणमीश्वरम् । महाकोश्यां महादेवं हंसाख्यं भक्तिमानथ ॥ ५७.६० ॥ पूजयित्वा जगामाथ सैन्धवारण्यमुत्तमम् । तत्रेश्वरं सुनेत्राख्यं शङ्खशूलधरं गुरुम् । पूजयित्वा महाबाहुः प्रजागाम त्रिविष्टपम् ॥ ५७.६१ ॥ तत्र देवं महेशानं जटाधरमिति श्रुतम् । तं दृष्ट्वार्ऽच्य हरिं चासौ तीर्थं कनखलं ययौ ॥ ५७.६२ ॥ तत्रार्च्य भद्रकालीशं वीरभद्रं च दानवः । धनाधिपं च मेघङ्कं ययावथ गिरिव्रजम् ॥ ५७.६३ ॥ तत्र देवं पशुपतिं लोकनाथं महेश्वरम् । संपूजयित्वा पिधिवत्कामरूपं जगाम ह ॥ ५७.६४ ॥ शशिप्रभं देववरं त्रिनेत्रं संपूजयित्वा सह वै मृडान्या । जगाम तीर्थप्रवरं महाख्यं तस्मिन्महादेवमपूजयत् ॥ ५७.६५ ॥ ततस्त्रिकूटं गिरिमत्रिपुत्रं जगाम द्रष्टुं स हि चक्रपाणिनम् । तमीड्य भक्त्या तु गजेन्द्रसोक्षणं जजाप जप्यं परमं पवित्रम् ॥ ५७.६६ ॥ तत्रोष्य दैत्येश्वरसूनुरादरान्मासत्रयं मूलफलाम्बुभक्षी । निवेद्य विप्रप्रवरेषु काञ्चनं जगाम घोरं स हि दण्डकं वनम् ॥ ५७.६७ ॥ तत्र दिव्यं महाशाखं वनस्पतिवपुर्धरम् । ददर्श पुण्डरीकाक्षं महाश्वापदवारणम् ॥ ५७.६८ ॥ तस्याधस्थात्त्रिरात्रं स महाभागवतोऽसुरः । स्थितः स्थिण्डिलशायी तु पठन् सारस्वतं स्तवम् ॥ ५७.६९ ॥ तस्मात्तीर्थवरं विद्वान् सर्वपापप्रमोचनम् । जगाम दानवो द्रष्टुं सर्वपापहरं हरिम् ॥ ५७.७० ॥ तस्याग्रतो जजापासौ स्तवौ पापप्रणाशनौ । यौ पुरा भगवान् प्राह क्रोडरूपी जनार्दनः ॥ ५७.७१ ॥ तस्मादथागाद्दैत्येन्द्रः शालग्रामं महाफलम् । यत्र संनिहितो विष्णुश्चरेषु स्थावरेषु च । । ५७.७२ तत्र सर्वगतं विष्णुं मत्वा चक्रे रतिं बली । पूजयन् भगवत्पादौ महाभागवतो मुने ॥ ५७.७३ ॥ इयं तवोक्ता मुनिसंघजुष्टा प्रह्लादतीर्थानुगतिः सुपुण्या । यत्कीर्त्तनाच्छ्रवणात्स्पर्शनाच्च विमुक्तपापा मनुजा भवन्ति ॥ ५७.७४ ॥ इति श्रीवामनपुराणे सप्तपञ्चाशोऽध्यायः ________________________________________________________________________ नारद उवाच । यान् जप्यान् भगवद्भ भक्त्या प्रह्लादो दानवोऽजपत् । गजेन्द्रमोक्षणादींस्तु चतुरस्तान् वदस्व मे ॥ ५८.१ ॥ पुलस्त्य उवाच । शृणुष्व कथयिष्यामि जप्यानेतांस्तपोधन । दुःस्वप्ननाशो भवति यैरुक्तैः संश्रुतैः स्मृतैः ॥ ५८.२ ॥ गजेन्द्रमोक्षणं त्वादौ शृणुष्व तदनन्तरम् । सारस्वतं ततः पुण्यौ पापप्रशमनौ स्तवौ ॥ ५८.३ ॥ सर्वरत्नमयः श्रीमांस्त्रिकूटो नाम पर्वतः । सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः ॥ ५८.४ ॥ क्षीरोदजलवीच्यग्रैर्धैतामलशिलातलः । उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः ॥ ५८.५ ॥ अपसरोभिः परिवृतः श्रीमान् प्रस्वणाकुलः । गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः ॥ ५८.६ ॥ विद्याधरैः सपत्नीकैः संयतैश्च तपस्विभिः । वृकद्वीपिगजेन्द्रश्च वृगात्रो विराजते ॥ ५८.७ ॥ पुन्नागैः कर्णिकारैश्च बिल्वामलकपाटलैः । चूतनीपकदम्बैश्च चन्दनागुरुचम्पकैः ॥ ५८.८ ॥ शालैस्तालैस्तमालैश्च सरलार्जुनपर्पटैः । तथान्यैर्विविधैर्वृक्षैः सर्वतः समलङ्कृतः ॥ ५८.९ ॥ नानाधात्वङ्कितैः शृङ्गैः प्रस्रवद्भिः समन्ततः । शोभितो रुचिरप्रख्यैस्त्रिभिर्विस्तीर्णसानुभिः ॥ ५८.१० ॥ मृगैः शाखामृगैः सिंदैर्मातङ्गैश्च सदामदैः । जीवञ्जीवकसंघुष्टैश्चकोरशिखिनादितैः ॥ ५८.११ ॥ तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः । नानापुष्पसमाकीर्णं नानागन्धाधिवासितम् ॥ ५८.१२ ॥ द्वितीयं राजतं शृङ्गं सेवते यं निशाकरः । पाण्डुराम्बुदसंकाशं तुषारचयसंनिभम् ॥ ५८.१३ ॥ वज्रेन्द्रनीलवैडूर्यतेजोभिर्भासयन् दिशः । तृतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम् ॥ ५८.१४ ॥ न तत्कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः । नातप्ततपसो लोके ये च पापकृतो जनाः ॥ ५८.१५ ॥ तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् । कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥ ५८.१६ ॥ कुमुदोत्पलकह्लारैः पुण्डरीकैश्च मण्डितम् । कमलैः शतपत्रैश्च काञ्चनैः समलङ्कृतम् ॥ ५८.१७ ॥ पत्रैर्मरकतप्रख्यैः पुष्पैः काञ्चनसंनिभैः । गुल्मैः कीचकवेणूनां समन्तात्परिवेष्टितम् ॥ ५८.१८ ॥ तस्मिन् सरसि दुष्टात्मा विरूपोऽन्तर्जलेशयः । आसीद्ग्राहो गजेन्द्राणां रिपुराकेकरेक्षमः ॥ ५८.१९ ॥ अथ दन्तोज्ज्वलमुखः कदाचिद्गजयूथपः । मदस्रावी जलाकाङ्क्षी पादचारीव पर्वतः ॥ ५८.२० ॥ वासयन्मदगन्धेन गिरिमैरावतोपमः । गजो ह्यञ्जनसंकाशो मदाच्चलितलोचनः ॥ ५८.२१ ॥ तृषितः पातुकामोऽसौ अवतीर्णश्च तज्जलम् । सलीलः पङ्कजवने यूथमध्यगतश्चरन् ॥ ५८.२२ ॥ गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना । पश्यन्तीनां करेणूनां क्रोशन्तीनां च दारुणम् ॥ ५८.२३ ॥ ह्रियते पङ्कजवने ग्राहेणातिबलीयसा । वारुणैः संयतः पाशैर्निष्प्रयत्नगतिः कृतः ॥ ५८.२४ ॥ वेष्ट्यमानः सुघोरैस्तु पाशैर्नागो दृढैस्तथा । विस्फूर्य च यथाशक्ति विक्रोसंश्च महारवान् ॥ ५८.२५ ॥ व्यथितः स निरुत्साहो गृहीतो घोरकर्मणा । परमापदमापन्नो मनसाचिन्तयद्धरिम् ॥ ५८.२६ ॥ स तु नागवरः श्रीमन्नारायणपरायणः । तमेव शरणं देवं गतः सर्वात्मना तदा ॥ ५८.२७ ॥ एकात्मा निगृहीतात्मा विशुद्धेनान्तरात्मना । जन्मजन्मान्तराभ्यासात्भक्तिमान् गरुडध्वजे ॥ ५८.२८ ॥ नान्यं देवं महादेवात्पूजयामास केशवात् । मथितामृतफेनाभं शङ्खचक्रगदाधरम् ॥ ५८.२९ ॥ सहस्रशुभनामानमादिदेवमजं विभुम् । प्रगृह्य पुष्कराग्रेण काञ्चनं कमलोत्तमम् । आपद्विमोक्षमन्विच्छन् गजः स्तोत्रमुदीरयत् ॥ ५८.३० ॥ गजेन्द्र उवाच । ओं नमो मूलप्रकृतये अजिताय महात्मने । अनाश्रिताय देवाय निःस्पृहाय नमोऽस्तु ते ॥ ५८.३१ ॥ नम आद्याय बीजाय आर्षेयाय प्रवर्तिने । अन्तराय चैकाय अव्यक्ताय नमो नमः ॥ ५८.३२ ॥ नमो गुह्याय गूढाय गुणाय गुणवर्तिने । अप्रर्क्याप्रमेयाय अतुलाय नमो नमः ॥ ५८.३३ ॥ नमः शिवाय शान्ताय निश्चिन्ताय यशस्विने । सनातनाय पूर्वाय पुराणाय नमो नमः ॥ ५८.३४ ॥ नमो देवाधिदेवाय स्वभावाय नमो नमः । नमो जगत्प्रतिष्ठाय गोविन्दाय नमो नमः ॥ ५८.३५ ॥ नमोऽस्तु पदमनाभाय नमो योगोद्भवाय च । विश्वेश्वराय देवाय शिवाय हरये नमः ॥ ५८.३६ ॥ नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने । नारायणाय विश्वाय देवानां परमात्मने ॥ ५८.३७ ॥ नमो नमः कारणवामनाय नारायणायामितविक्रमाय । श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ ५८.३८ ॥ गुह्याय वेदनिलयाय महोदराय सिंहाय दैत्यनिधनाय चतुर्भुजाय । ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय देवोत्तमाय वरदाय नमोऽच्युताय ॥ ५८.३९ ॥ नागेन्द्रदेहशयनासनसुप्रियाय गोक्षीरहेमशुकनीलघनोपमाय । पीताम्बराय मधुकैटभनाशनाय विश्वाय चारुमुकुटाय नमोऽजराय ॥ ५८.४० ॥ नाभिप्रजातक्रमलस्थचतुर्मखाय श्रीरोदकार्णवनिकेतयशोधराय । नानाविचित्रमुकुटाङ्गदभूषणाय सर्वेश्वराय वरदाय नमो वराय ॥ ५८.४१ ॥ भक्तिप्रियाय वरदीप्तसुदर्शनाय फुलालारविन्दविपुलायतलोचनाय । देवेन्द्रविघ्नशमनोद्यतपौरुषाय योगेश्वराय विरजाय नमो वराय ॥ ५८.४२ ॥ ब्रह्मायनाय त्रिदशायनाय लोकाधिनाथाय भवापनाय । नारायणायात्महितायनाय महावराहाय नमस्करोमि ॥ ५८.४३ ॥ कूटस्थमव्यक्तमचिन्त्यरूपं नारायणं कारणमादिदेवम् । युगान्तशेषं पुरुषं पुराणं तं देवदेवं शरणं प्रपद्ये ॥ ५८.४४ ॥ योगेश्वरं चारुविचित्रमौलिमज्ञेयमग्र्यं प्रकृतेः परस्थम् । क्षेत्रज्ञमात्मप्रभवं वरेण्यं तं वासुदेवं शरणं प्रपद्य ॥ ५८.४५ ॥ अदृश्यमव्यक्तमचिन्त्यमव्ययं महर्षयो ब्रह्मयं सनातनम् । वदन्ति यं वै पुरुषं सनातनं तं देवगुह्यं शरणं प्रपद्ये ॥ ५८.४६ ॥ यदक्षरं ब्रह्म वदन्ति सर्वगं निशम्य यं मृत्युमुखात्प्रमुच्यते । तमीश्वरं तृप्तमनुत्तमैर्गुणैः परायणं विष्णुमुपैमि साश्वतम् ॥ ५८.४७ ॥ कार्यं क्रिया कारणमप्रमेयं हिरण्यबाहुं वरपद्मनाभम् । महाबलं वेदनिधिं सुरेशं व३ आमि विष्णुं शरणं जनार्दनम् ॥ ५८.४८ ॥ किरीटकेयूरमहार्हनिष्कैर्मण्युत्तमालङ्कृतसर्वगात्रम् । पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि ॥ ५८.४९ ॥ भवोद्भवं वेदविदां परिष्ठं योगात्मनां सांख्यविदां वरिष्ठम् । आदित्यरुद्राश्विवसुप्रभावं प्रभुं प्रपद्येऽच्युतमात्मवन्तम् ॥ ५८.५० ॥ श्रीवत्साङ्कं महादेवं देवगुह्यमनौपमम् । प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥ ५८.५१ ॥ प्रभवं सर्वभूतानां निर्गुणं परमेश्वरम् । प्रपद्ये मुक्तसंगानां यतीनां परमां गतिम् ॥ ५८.५२ ॥ भगवन्तं गुणाध्यक्षमक्षरं पुष्करेक्षणम् । शरण्यं शरणं भक्त्या प्रपद्ये भक्तवत्सलम् ॥ ५८.५३ ॥ त्रिविक्रमं त्रिलोकेशं सर्वेषां प्रपितामहम् । योगात्मानं महात्मानं प्रपद्येऽहं जनार्दनम् ॥ ५८.५४ ॥ आदिदेवमजं शंभुं व्यक्ताव्यक्तं सनातनम् । नारायणमणीयांसं प्रपद्ये ब्राह्मणप्रियम् ॥ ५८.५५ ॥ नमो वराय देवाय नमः सर्वसहाय च । प्रपद्ये देवदेवेशमणीयांसमणोः सदा ॥ ५८.५६ ॥ एकाय लोकत्त्वाय परतः परमात्मने । नमः सहस्रशिरसे अनन्ताय महात्मने ॥ ५८.५७ ॥ त्वामेव परमं देवमृषयो वेदपारगाः । कीर्तयन्ति च यं सर्वे ब्रह्मादीनां परायणम् ॥ ५८.५८ ॥ नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद । सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् ॥ ५८.५९ ॥ पुलस्त्य उवाच । भक्तिं तस्यानुसंचिन्त्य नागस्यमोघसंभवः । प्रीतिमानभवद्विष्णुः शङ्खचक्रगदाधरः ॥ ५८.६० ॥ सान्निध्यं कल्पयामास तस्मिन् सरसि केशवः । गरुडस्थो जगत्स्वामी लोकाधारस्तपोधनः ॥ ५८.६१ ॥ ग्राहग्रस्तं गजेन्द्रं तं तं च ग्राहं जलाशयात् । उज्जहाराप्रमेयात्मा तरसा मधुसूदनः ॥ ५८.६२ ॥ स्थलस्थं दारयामास ग्राहं चक्रेण माधवः । मोक्षयामास नागेन्द्रं पाशेभ्यः शरणागतम् ॥ ५८.६३ ॥ स हि देवलशापेन हूहूर्गन्धर्वसत्तमः । ग्राहत्वमगमत्कृष्णाद्वधं प्राप्य दिवं गतः ॥ ५८.६४ ॥ गजोऽपि विष्णुना स्पृष्टो जातो दिव्यवपुः पुमान् । आपद्विक्तौ युगपद्गजगन्धर्वसत्तमौ ॥ ५८.६५ ॥ प्रीतीमान् पुण्डरीकाक्षः शरणागतवत्सलः । अभवत्त्वथ देवेशस्ताभ्यां चैव प्रपूजितः ॥ ५८.६६ ॥ इदं च भगवान् योगी गजेन्द्रं शरणागतम् । प्रोवाच मुनिशार्दूल मधुरं मधुसूदनः ॥ ५८. ६७ ॥ श्रीभगवानुवाच । यो मां त्वाञ्च सरश्चैव ग्राहस्य च विदारणम् । गुल्मकीचकरेणूनां रूपं मेरोः सुतस्य च । । ५८.६८ अश्वत्थं भास्करं गङ्गं नैमिषारण्यमेव च । संस्मरिष्यन्ति मनुजाः प्रयताः स्थिरबुद्धयः ॥ ५८.६९ ॥ कीर्तयिष्यन्ति भक्त्या च श्रोष्यन्ति च शुचिव्रतः । दुःस्वप्नो नश्यते तेषां सुस्वप्नश्च भविष्यति ॥ ५८.७० ॥ मात्स्यं कौर्मञ्च वाराहं वामनं तार्क्ष्यमेव च । नारसिंहं च नागेन्द्रं सृष्टिप्रलयकारकम् ॥ ५८.७१ ॥ एतानि प्रातरुत्थाय संस्मरिष्यनति ये नराः । सर्वपापैः प्रमुच्यन्ते पुण्यं लोकमवाप्नुयुः ॥ ५८.७२ ॥ पुलस्त्य उवाच । एवमुक्त्वा हृषीकेशो गजेन्द्रं गरुडध्वजः । स्पर्शयामास हस्तेन गजं गन्धर्वमेव च ॥ ५८.७३ ॥ ततो दिव्यवपुर्भत्वा गजेन्द्रो मधुसूदनम् । जगाम शरणं विप्र नारायणपरायमः ॥ ५८.७४ ॥ ततो नारायणः श्रीमान्मोक्षयित्वा गजोत्तमम् । पापबनधाच्च शापाच्च ग्राहं चाद्भुतकर्मकृत् ॥ ५८.७५ ॥ ऋषिभिः स्तूयमानश्च देवगुह्यपरायणैः । गतः स भगवान् विष्णुर्दुर्विज्ञेयगतिः प्रभुः ॥ ५८.७६ ॥ गजेन्द्रमोक्षणं दृष्ट्वा देवाः शक्रपुरोगमाः । ववन्दिरे महात्मानं प्रभुं नारायणं हरिम् ॥ ५८.७७ ॥ महर्षयश्चारणाश्च दृष्ट्वा गजविमोक्षणम् । विस्मयोत्फूल्लनयनाः संस्तुवन्ति जनार्दनम् ॥ ५८.७८ ॥ प्रजापतिपतिर्ब्रह्मा चक्रपाणिविचेष्टितम् । गजेन्द्रमोक्षणं दृष्ट्वा इदं वचनमब्रवीत् ॥ ५८.७९ ॥ य इदं शृणुयान्तित्यं प्रातरुत्थाय मानवः । प्राप्नुयात्परमां सिद्धिं दुःस्वप्नस्तस्य नश्यति ॥ ५८.८० ॥ गजेन्द्र मोक्षणं पुण्यं सर्वपापप्रणाशनम् । कथितेन स्मृतेनाथ श्रुतेन च तपोधनः । गजेन्द्रमोक्षणेनेह सद्यः पापात्प्रमुच्यते ॥ ५८.८१ ॥ एतत्पवित्रं परमं सुपुण्यं संकीर्तनीयं चरितं मुरारेः । यस्मिन् किलोक्ते बहुपापबन्धनात्लभ्येत मोक्षो द्विरदेन यद्वत् ॥ ५८.८२ ॥ अजं वरेण्यं वरपद्मनाभं नारायणं ब्रह्मनिधिं सुरेशम् । तं देवगुह्यं पुरुषं पुराणं वन्दाम्यहं लोकपतिं वरेण्यम् ॥ ५८.८३ ॥ पुलस्त्य उवाच । एतत्तवोक्तं प्रवरं स्तवानां स्तवं मुरारेर्वरनागकीर्तनम् । यं कीर्त्य संश्रुत्य तथा विचिन्त्य पापापनोदं पुरुषो लभेत ॥ ५८.८४ ॥ इति श्रीवामनपुराणे अष्टपञ्चाशोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । कश्चिदासीद्द्विजद्रोग्धा पिशुनः क्षत्रियाधमः । परपीडारुचिः क्षुद्रः स्वभावादपि निर्घृणः ॥ ५९.१ ॥ पर्यासिताः दा तेन पितृदेवद्विजातयः । स त्वायुषि परिक्षिणे जज्ञे घोरो निशाचरः ॥ ५९.२ ॥ तेनैव कर्मदोषेम स्वेन पापकृतां वरः । क्रुरैश्चक्रे ततो वृत्तिं राक्षसत्वाद्विशेषतः ॥ ५९.३ ॥ तस्य पापरतस्यैवं जग्मुर्वर्षशतानि तु । तेनैव कर्मदोषेण नान्यां वृत्तिमरोचयत् ॥ ५९.४ ॥ यं यं पश्यति सत्त्वं स तं तमादाय राक्षसः । चखाद रौद्रकर्मासौ बाहुगोचरमागतम् ॥ ५९.५ ॥ एवं तस्यातिदुष्टस्य कुर्वतः प्राणिनां वधम् । जगाम च महान् कालः परिणामं तथा वयः ॥ ५९.६ ॥ स कदाचित्तपस्यन्तं ददर्श सतरितस्तटे । महाभागमूर्ध्वभुजं यथावत्संयतेन्द्रियम् ॥ ५९.७ ॥ अनया रक्षया ब्रह्मन् कृतरक्षं तपोनिधिम् । योगाचार्यं शुचिं दक्षं वासुदेवपरायणम् ॥ ५९.८ ॥ विष्णुः प्राच्यां स्तितश्चक्री विषणुर्दक्षिणतो गदी । प्रतीच्यां शार्ङ्गधृग्विष्णुर्विष्णुः खड्गी ममोत्तरे ॥ ५९.९ ॥ हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः । क्रोडरूपी हरिर्भूमौ नारसिंहोऽम्बरे मम ॥ ५९.१० ॥ श्रुरान्तममलं चक्रं भ्रमत्येतत्सुदर्शनम् । अस्यांशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान् ॥ ५९.११ ॥ गदा चेयं सहस्रार्चिरुद्वमन् पावको यथा । रक्षोभूतपिशाचानां डाकिनीनां च शातनी ॥ ५९.१२ ॥ शार्ङ्गं विस्फूर्जितं चैव वासुदेवस्य मद्रिपून् । तिर्यङ्मनुष्यकूष्माण्डप्रेतादीन् हन्त्वशेषतः ॥ ५९.१३ ॥ खड्गधाराज्वलज्ज्योत्स्नानिर्धूता ये ममाहिताः । ते यान्तु सौम्यतां सद्यो गरुडेनेव पन्नगाः ॥ ५९.१४ ॥ ये कूष्माण्डास्तथा यक्षा दैत्या ये च निशाचराः । प्रेता विनायकाः क्रूरा मनुष्या जृम्भकाः खगाः ॥ ५९.१५ ॥ सिंहादयो ये पशवो दन्दशूकाश्च पन्नगाः । सर्वे भवन्तु मे सौम्या विष्णुचक्ररवाहताः ॥ ५९.१६ ॥ चित्तवृत्तिहरा ये च ये जनाः स्मृतीहारकाः । बलौजसां च हर्तारश्छायाविध्वंसकाश्च ये ॥ ५९.१७ ॥ ये चोपभोगहर्तारो ये च लक्षणनाशकाः । कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः ॥ ५९.१८ ॥ बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थमैन्द्रियकं तथा । ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् ॥ ५९.१९ ॥ पृष्ठे पुरस्तादथ दक्षिणोत्तरे विकोणतश्चास्तु नजार्दनो हरिः । तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति ॥ ५९.२० ॥ यथा परं ब्रह्म हरिस्तथा परं जगत्स्वरूपश्च स एव केशवः । ऋतेन तेनाच्युतनामकीर्तनात्प्रणाशमेतु त्रिविधं ममासुभम् ॥ ५९.२१ ॥ इत्यसावात्मरक्षार्थं कृत्वा वै विष्णुपञ्जरम् । संस्थितोऽसावपि बली राक्षसः समुपाद्रवत् ॥ ५९.२२ ॥ ततो द्विजनियुक्तायां रक्षायां रजनीचरः । निर्धूतवेगः सहसा तस्थौ मासचतुष्टयम् ॥ ५९.२३ ॥ यावद्द्विजस्य देवर्षे समाप्तिर्वै समाधितः । जाते जप्यावसानेऽसौ त ददर्श निशाचरम् ॥ ५९.२४ ॥ दीनं हतबालोत्साहं कान्दिशीकं हतौजसम् । तं दृष्ट्वा कृपयाविष्टः समाश्वास्य निशाचरम् ॥ ५९.२५ ॥ पप्रच्छागमने हेतुं स चाचष्ट यथातथम् । स्वभावमात्मनो द्रष्टुं रक्षया तेजसः क्षितिम् ॥ ५९.२६ ॥ कथयित्वा च तद्रक्षः कारणं विविधं ततः । प्रसीदेत्यब्रवीद्विप्रं निर्विण्णाः स्वेन कर्मणा ॥ ५९.२७ ॥ बहूनि पापानि मोक्षमिच्छामि त्वत्प्रसादतः । कृताः स्त्रियो मया बह्व्यो विधवाः पुत्रवर्जिताः । अनागसां च सत्त्वानामल्पकानां क्षयः कृतः ॥ ५९.२८ ॥ तस्मात्पापादहं मोक्षमिच्छमि त्वत्प्रसादतः । पापप्रशमनायालं कुरु मे धर्मदेशनम् ॥ ५९.२९ ॥ पापस्यास्य क्षयरमुपदेशं प्रयच्छ मे । तस्य तद्वचनं श्रुत्वा राक्षसस्य द्विजोत्तमः ॥ ५९.३० ॥ वचनं प्राह धर्मात्मा हेतुमच्च सुभाषितम् । कथं क्रूरस्वभावस्य सतस्तव निशाचर । सहसैव समायाता जिज्ञासा धर्मवर्त्मनि ॥ ५९.३१ ॥ राक्षस उवाच । त्वां वै समागतोऽस्म्यद्य क्षिप्तोऽहं रक्षया बलात् । तव संसर्गतो ब्रह्मन् जातो निर्वेद उत्तमः ॥ ५९.३२ ॥ का सा रक्षा न तां वेद्मि वेद्मि नास्याः परायणम् । यस्याः संसर्गसासाद्य निर्वेदं प्रापितं परम् ॥ ५९.३३ ॥ त्वं कृपां कुरु धर्मज्ञ मय्यनुक्रोशमावह । यथा पापापनोदो मे भवत्यार्य तथा कुरु ॥ ५९.३४ ॥ पुलस्त्य उवाच् । इत्येवमुक्तः स मुनिस्तदा वै तेन रक्षसा । प्रत्युवाच महाभागो विमृश्य सुचिरं मुनिः ॥ ५९.३५ ॥ ऋषिरुवाच् । यन्ममाहोपदेशार्थं निर्विण्णाः स्वेन कर्मणा । युक्तमेतद्धि पापानां निवृत्तिरुपकारिका ॥ ५९.३६ ॥ करिष्ये यातुधानानां नत्वहं धर्मदेशनम् । तान् संपृच्छ द्विजान् सौम्य ये वै प्रवचने रताः ॥ ५९.३७ ॥ एवमुक्त्वा ययौ विप्रश्चिन्तामाप स राक्षसः । कथं पापापनोदः स्यादिति चिन्ताकुलेन्द्रियः ॥ ५९.३८ ॥ न चखाद स सत्त्वानि क्षुधा संबाधितोऽपि सन् । षष्ठे षष्ठे तदा काले जन्तुमेकमभक्षयत् ॥ ५९.३९ ॥ स कदाचित्क्षुधाविष्टः पर्यटन् विपुले वने । ददर्शाथ फलाहारमागतं ब्रह्मचारिणम् ॥ ५९.४० ॥ गृहीतो रक्षसा तेन स तदा मुनिदारकः । निराशो जीविते प्राह सामपूर्वं निशाचरम् ॥ ५९.४१ ॥ ब्राह्मण उवाच । भो भद्र ब्रूहि यत्कार्यं गृहीतो येन हेतुना । तदनुब्रूहि भद्रं ते अयमस्म्यनुशाधि माम् ॥ ५९.४२ ॥ राक्षस उवाच । षष्ठे काले त्वमाहारः क्षुधितस्य समागतः । निःश्रीकस्यातिपापस्य निर्घृणस्य द्विजद्रुहः ॥ ५९.४३ ॥ ब्राह्मण उवाच । यद्यवश्यं त्वया चाहं भक्षितव्यो निशाचर । आयास्यामि तवाद्यैव निवेद्य गुरवे फलम् ॥ ५९.४४ ॥ गुर्वर्थमेतदागत्य यत्फलग्रहणं कृतम् । ममात्र निष्ठा प्राप्तस्य फलानि विनिवेदितुम् ॥ ५९.४५ ॥ स त्वं मुहूर्तमात्रं मामत्रैवं प्रतिपालय । निवेद्य गुरवे यावदिहागच्छाम्यहं फलम् ॥ ५९.४६ ॥ राक्षस उवाच् । षष्ठे काले न मे ब्रह्मन् कश्चिद्ग्रहणमागतः । प्रतिमुच्येत देवोऽपि इति मे पापाजीविका ॥ ५९.४७ ॥ एक एवात्र मोक्षस्य तव हेतुः शृणुष्व तत् । मुञ्चाम्यहमसंदिग्धं यदि तत्कुरुते भवान् ॥ ५९.४८ ॥ ब्राह्मण उवाच । गुरोर्यन्न विरोधाय यन्न धर्मोपरोधकम् । तत्करिष्याम्यहं रक्षो यन्न व्रतहरं मम ॥ ५९.४९ ॥ राक्षस उवाच । मया निसर्गतो ब्रह्मन् जातिदोषाद्विशेषतः । निर्विवेकेन चित्तेन पापकर्म सदा कृतम् ॥ ५९.५० ॥ आबाल्यान्मम पापेषु न धर्मेषु रतं मनः । तत्पापासंक्षयान्मोक्षं प्राप्नुयां येन तद्वद ॥ ५९.५१ ॥ यानि पापानि कर्माणि बालत्वाच्चरितानि च । दुष्टां योनिमिमां प्राप्य तन्मुक्तिं कथय द्विज ॥ ५९.५२ ॥ यद्येतद्द्विजपुत्र त्वं समाख्यास्यस्यशेषतः । ततः क्षुधार्तान्मत्तस्त्वं नियतं मोक्षमाप्स्यसि ॥ ५९.५३ ॥ न चेत्तत्पापशीलोऽहमत्यर्थं क्षुत्पिपासितः । षष्ठे काले नृशंसात्मा भक्षयिष्यामि निर्घृणः ॥ ५९.५४ ॥ पुलस्त्य उवाच । एवमुक्तो मुनिसुतस्तेन घोरेम रक्षसा । चिन्तामवाप महतीमशक्तस्तदुदीरणे ॥ ५९.५५ ॥ स विमृश्य चिरं विप्रः शरणं जातवेदसम् । जगाम ज्ञानदानाय संशयं परमं गतः ॥ ५९.५६ ॥ यदि शुश्रुषितो वह्निर्गुरुशुश्रूषणादनु । व्रतानि वा सुचीर्णानि सप्तार्चिः पातु मां ततः ॥ ५९.५७ ॥ न मातरं न पितरं गौरवेण यथा गुरुम् । सर्वदैवावगच्छामि तथा मां पातु पावकः ॥ ५९.५८ ॥ यथा गुरुं न मनसा कर्मणा वचसापि वा । अवजानाम्यहं तेन पातु सत्येन पावकः ॥ ५९.५९ ॥ इत्येवं मनसा सत्यान् कुर्वतः शपथान् पुनः । सप्तर्चिषा समादिष्टा प्रादुरासीत्सरस्वती ॥ ५९.६० ॥ सा प्रोवाच द्विजसुतं राक्षसग्रहणाकुलम् । मा भैर्द्विजसुताहं त्वां मोक्षयिष्यामि संकटात् ॥ ५९.६१ ॥ यदस्य रक्षसः श्रेयो जिह्वाग्रे संस्थिता तव । तत्सर्वं कथयिष्यामि ततो मोक्षमवाप्स्यसि ॥ ५९.६२ ॥ अदृश्या रक्षसा तेन प्रोक्त्वेत्थं सा सरस्वती । अदर्शानं गता सोऽपि द्विजः प्राह निशाचरम् ॥ ५९.६३ ॥ ब्राह्मण उवाच । श्रुयतां तव यच्छ्रेयस्तथान्येषां च पापिनाम् । समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत् ॥ ५९.६४ ॥ प्रातरुत्थाय जप्तव्यं मध्याह्नेऽह्नक्षयेऽपि वा । असंशयं सदा जप्यो जपतां पुष्टिशान्तिदः ॥ ५९.६५ ॥ ओं हरिं कुष्णं हृषीकेशं वासुदेवं जनार्दनम् । प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ॥ ५९.६६ ॥ चराचरसुरुं नाथं गोविन्दं शेषशायिनम् । प्रणतोऽस्मि परं देवं स मे पापं व्यपोहतु ॥ ५९.६७ ॥ शङ्खिनं चक्रिणं शार्ङ्गधारिणं स्रग्धरं परम् । प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ॥ ५९.६८ ॥ दामोदरमुदाराक्षं पुण्डरीकाक्षमच्युतम् । प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ॥ ५९.६९ ॥ नारायणं नरं शौरिं माधवं मधुसूदनम् । प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु ॥ ५९.७० ॥ केशवं चन्द्रसूर्याक्षं कंसकेशिनिषूदनम् । प्रणतोऽस्मि महाबाहुं स मे पापं व्यपोहतु ॥ ५९.७१ ॥ श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम् । प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ॥ ५९.७२ ॥ यमीशं सर्वभूतानां ध्यायन्ति यतयोऽक्षरम् । वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ॥ ५९.७३ ॥ समस्तालम्बनेभ्यो यं व्यावृत्त्य मनसो गतिम् । ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ॥ ५९.७४ ॥ सर्वगं सर्वभूतं च सर्वस्याधारमीश्वरम् । वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ॥ ५९.७५ ॥ परमात्मानमव्यक्तं यं प्रयान्ति सुमेधसः । कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः ॥ ५९.७६ ॥ पुण्यपापविनिर्मुक्ता यं प्रविश्य पुनर्भवम् । न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ॥ ५९.७७ ॥ ब्रह्म भूत्वा जगत्सर्वं सदेवासुरमानुषम् । यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः ॥ ५९.७८ ॥ ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयं वपुः । प्रभुः पुरातनो जज्ञे तमस्मि शरणं गतः ॥ ५९.७९ ॥ ब्रह्मरूपधरं देवं जगद्योनि जनार्दनम् । स्रष्टृत्वे संस्थितं सृष्टौ प्रणतोऽस्मि सनातनम् ॥ ५९.८० ॥ स्रष्टा भूत्वा स्थितो योगी स्थितावसुरसूदनः । तमादिपुरुषं विष्णुं प्रमतोऽस्मि जनार्दनम् ॥ ५९.८१ ॥ धृता मही हता दैत्याः परित्रातास्तथा सुराः । येन तं विष्णुमाद्येशं प्रणतोऽस्मि जनार्दनम् ॥ ५९.८२ ॥ यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम् । तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥ ५९.८३ ॥ पातालवीथीभूतानु तथा लोकान्निहन्ति यः । तमन्तपुरुषं रुद्रं प्रणतोऽस्मि सनातनम् ॥ ५९.८४ ॥ संभक्षयित्वा सकलं यथासृष्टमिदं जगत् । यो वै नृत्यति रुद्रात्मा प्रणतोऽस्मि जनार्दनम् ॥ ५९.८५ ॥ सुरासुराः पितृगणाः यक्षगन्धर्वराक्षसाः । संभूता यस्य देवस्य सर्वगं तं नमाम्यहम् ॥ ५९.८६ ॥ समस्तदेवाः सकला मनुष्याणां च जातयः । यस्यांशभूता देवस्य सर्वगं तं नतोऽस्मयहम् ॥ ५९.८७ ॥ वृक्षगुल्मादयो यस्य तथा पशुमृगादयः । एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥ ५९.८८ ॥ यस्मान्नान्यत्परं किञ्चिद्यस्मिन् सर्वं महात्मनि । यः सर्वमध्यगोऽनन्तः सर्वगं तं नमाम्यहम् ॥ ५९.८९ ॥ यथा सर्वेषु भूतेषु गूढोऽग्निरिव दारुषु । विष्णुरेवं तथा पापं ममाशेषं प्रणश्यतु ॥ ५९.९० ॥ यथा विष्णुमयं सर्वं ब्रह्मदि सचराचरम् । यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा ॥ ५९.९१ ॥ शुभशुभानि कर्माणि रजःसत्त्वतमांसि च । अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा ॥ ५९.९२ ॥ यन्निशायां च यत्प्रातर्यन्मध्याह्नापराह्णयोः । संध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ॥ ५९.९३ ॥ यत्तिष्ठता यद्व्रजता यच्च शय्यागतेन मे । कृतं यदशुभं कर्म कायेन मनसा गिरा ॥ ५९.९४ ॥ अज्ञानतो ज्ञानतो वा मदाच्चलितमानसैः । तत्क्षिप्रं विलयं यातु वासुदेवस्य कीर्तनात् ॥ ५९.९५ ॥ परदारपरद्रव्यवाञ्छाद्रोहोद्भवं च यत् । परपीडोद्भवां निन्दां कुर्वता यन्महात्मनाम् ॥ ५९.९६ ॥ यच्च भोज्ये तथा पेये भक्ष्ये चोष्ये विलेहने । तद्यातु विलयं तोये यथा लवणभाजनम् ॥ ५९.९७ ॥ यद्बाल्ये यच्च कौमारे यत्पापं यौवने मम । वयःपरिणतौ यच्च यच्च जन्मातरे कृतम् ॥ ५९.९८ ॥ तन्नारायण गोविन्द हरिकृष्णेश कीर्तनात् । प्रयातु विलयं तोये यथा लवणभाजनम् ॥ ५९.९९ ॥ विष्णवे वासुदेवाय हरये केशवाय च । जनार्दनाय कृष्णाय नमो भूयो नमो नमः ॥ ५९.१०० ॥ भविष्यन्नरकघ्नाय नमः कंसविघातिने । अरिष्टकेशिचणूरदेवारिक्षयिणे नमः ॥ ५९.१०१ ॥ कोऽन्यो बलेर्वञ्चयिता त्वामृते वै भविष्यति । कोऽन्यो नाशयति बलाद्दर्पं हैहयभूपतेः ॥ ५९.१०२ ॥ कः करिष्यत्यथान्यो वै सागरे सेतुबन्धनम् । वधिष्यति दशग्रीवं कः सामात्यपुरःसरम् ॥ ५९.१०३ ॥ कस्त्वामृतेऽन्यो नन्दस्य गोकुले रतिमेष्यति । प्रलम्बपूतनादीनां त्वामृते मधुसूदन । निहन्ताप्यथबा शास्ता देवदेव भविष्यति ॥ ५९.१०४ ॥ जपन्नेवं नरः पुण्यं वैष्णवं धर्ममुत्तमम् । इष्टानिष्टप्रसंगेभ्यो ज्ञानतोऽज्ञानतोऽपि वा ॥ ५९.१०५ ॥ कृतं तेन तु यत्पापं सप्तजन्मान्तराणि वै । महापातकसंज्ञं वा तथा चैवोपपातकम् ॥ ५९.१०६ ॥ जज्ञादीनि च पुण्यानि जपहोमव्रतानि च । नाशयेद्योगिनां सर्वमामपात्रमिवाम्भसि ॥ ५९.१०७ ॥ नरः संवत्सरं पूर्णं तिलपात्राणि षोडश । अहन्यहनि यो दद्यात्पठत्येतच्च तत्समम् ॥ ५९.१०८ ॥ अविलुप्तब्रह्मचर्यं संप्राप्य स्मरणं हरेः । विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् ॥ ५९.१०९ ॥ यथैतत्स्तयमुक्तं मे न ह्यल्पमपि मे मृषा । राक्षसस्त्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु ॥ ५९.११० ॥ पुलस्त्य उवाच । एवमुच्चारिते तेन मुक्तो विप्रस्तु रक्षसा । अकामेन द्विजो भूयस्तमाह रजनीचरम् ॥ ५९.१११ ॥ ब्रह्मण उवाच । एतद्भद्र मया ख्यातं तव पातकनाशनम् । विष्णोः सारस्वतं स्तोत्रं यज्जगाद सरस्वती ॥ ५९.११२ ॥ हुताशनेन प्रहिता मम जिह्वाग्रसंस्थिता । जगादैनं स्तवं विष्णोः सर्वेषां चोपशान्तिदम् ॥ ५९.११३ ॥ अनेनैव जगन्नाथं त्वमाराधय केसवम् । ततः शापापनोदं तु स्तुते लप्स्यसि केशवे ॥ ५९.११४ ॥ अहर्निशं हृषीकेशं स्तवेनानेन राक्षस । स्तुहि भक्तिं दृढां कृत्वा ततः पापाद्विमोक्ष्यसे ॥ ५९.११५ ॥ स्तुतो हि सर्वपापानि नाशयिष्यत्यसंशयम् । स्तुतो हि भक्त्या नॄणां वै सर्वपापहरो हरिः ॥ ५९.११६ ॥ पुलस्त्य उवाच । ततः प्रणम्य तं विप्रं प्रसाद्य स निशाचरः । तदैव तपसे श्रीमान् शालग्राममगाद्वशी ॥ ५९.११७ ॥ अहर्निशं स एवैनं जपन् सारस्वतं स्तवम् । देवक्रियारतिर्भूत्वा तपस्तेपे निशाचरः ॥ ५९.११८ ॥ समाराध्य जगन्नाथं स तत्र पुरषोत्तमम् । सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्तवान् ॥ ५९.११९ ॥ एतत्ते कथितं ब्रह्मन् विष्णोः सारस्वतं स्तवम् । विप्रवक्त्रस्थया सम्यक्सरस्वत्या समीरितम् ॥ ५९.१२० ॥ य एतत्परमं स्तोत्रं वासुदेवस्य मानवः । पठष्यति स सर्वेभ्यः पापेभ्यो मोक्षमाप्स्यति ॥ ५९.१२१ ॥ इति श्रीवामनपुराणे एकोनषष्टितमोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । नमस्तेऽस्तु जगन्नाथ देवदेवं नमोऽस्तु ते । वासुदेव नमस्तेऽस्तु बहुरूप नमोऽस्तु ते ॥ ६०.१ ॥ एकशृङ्ग नमस्तुभ्यं नमस्तुभ्यं वृषाकपे । श्रीनिवास नमस्तेऽस्तु नमस्ते भूतभावन ॥ ६०.२ ॥ विष्वक्सेन नमस्तुभ्यं नारायण नमोऽस्तु ते । ध्रुवध्वज नमस्तोऽस्तु सत्यध्वज नमोऽस्तु ते ॥ ६०.३ ॥ यज्ञध्वज नमस्तुभ्यं धर्मध्वज नमोऽस्तु ते । तालध्वज नमस्तेऽस्तु नमस्ते गरुहध्वज ॥ ६०.४ ॥ वरेण्य विष्णो वैकुण्ठ नमस्ते पुरुषोत्तम । नमो जयन्त विजय जयानन्त पराजित ॥ ६०.५ ॥ कृतावर्तद महावर्त महादेव नमोऽस्तु ते । अनाद्याद्यन्त मध्यान्त नमस्ते पद्मजप्रिय ॥ ६०.६ ॥ पुरञ्जय नमस्तुभ्यं शत्रुञ्जय नमोऽस्तु ते । शुभञ्जय नमस्तेऽस्तु नमस्तेऽस्तु धनञ्जय ॥ ६०.७ ॥ सृष्टिगर्भ नमस्तुभ्यं शुचिश्रवः वृथुश्रवः । नमो हिरण्यगर्भाय पद्मगर्भाय ते नमः ॥ ६०.८ ॥ नमः कमलनेत्राय कालनेत्राय ते नमः । कालनाभ नमस्तुभ्यं महानाभ नमो नमः ॥ ६०.९ ॥ वृष्टिमूल महामूल मूलावास नमोऽस्तु ते । धर्मावास जलावास श्रीनिवास नमोऽस्तु ते ॥ ६०.१० ॥ धर्माध्यक्ष प्रजाध्यक्ष लोकाध्यक्ष नमो नमः । सेनाध्यक्ष नमस्तुभ्यं कालाध्यक्ष नमो नमः ॥ ६०.११ ॥ गदाधर श्रुतिधर चक्रधारिन् श्रियो धर । वनमालाधर हरे नमस्ते धरणीधर ॥ ६०.१२ ॥ आर्चिषेण महासेन नमस्तेऽस्तु पुरुष्टुत । वहुकल्प महाकल्प नमस्ते कल्पनामुख ॥ ६०.१३ ॥ सर्वात्मन् सर्वग विभो विरिञ्चे श्वेत केशव । नील रक्त महानील अनिरुद्ध नमोऽस्तु ते ॥ ६०.१४ ॥ द्वादशात्मक कालात्मन् सामात्मन् परमात्मक । व्योमकात्मक सुब्रह्मन् भूतात्मक नमोऽस्तु ते ॥ ६०.१५ ॥ हरिकेश महाकेश गुडाकेश नमोऽस्तु ते । मुञ्जकेश हृषीकेश सर्वनाथ मनोऽस्तु ते ॥ ६०.१६ ॥ सुक्ष्म स्थूल महास्थूल महासूक्ष्म शुभङ्कर । श्वेतपीताम्बरधर नीलवास नमोऽस्तु ते ॥ ६०.१७ ॥ कुशेशय नमस्तेऽस्तु सीरध्वज नजार्धन । गोविन्द प्रीतिकर्ता च हंस पीताम्बरप्रिय ॥ ६०.१८ ॥ अधोक्षज नमस्तुभ्यं सीरध्वज जनार्दन । वामनाय नमस्तेऽस्तु नमस्ते मधुसूदन ॥ ६०.१९ ॥ सहस्रशीर्षाय नमो ब्रह्मशीर्षाय ते नमः । नमः सहस्रनेत्राय सोमसूर्यानलेक्षम । ॥ ६०.२० ॥ नमश्चाथर्वशिरसे महाशीर्षाय ते नमः । नमस्ते धर्मनेत्राय महानेत्राय ते नमः ॥ ६०.२१ ॥ नमः सहस्रपादाय सहस्रभुजमन्यवे । नमो यज्ञवराहाय महारूपाय ते नमः ॥ ६०.२२ ॥ नमस्ते विश्वदेवाय विश्वात्मन् विश्वसंभव । विश्वरूप नमस्तेऽस्तु त्वत्तो विश्वमभूदिदम् ॥ ६०.२३ ॥ न्यग्रोधस्तवं महाशाखस्त्वं मूलकुसुमार्चितः । स्कन्धपत्राङ्कुरलतापल्लवाय नमोऽस्तु ते ॥ ६०.२४ ॥ मूलं ते ब्राह्मणा ब्रह्मन् स्कन्धस्ते क्षत्रियोर्दिशः । नाभ्या ह्यभूदन्तरिक्षं शशाङ्को मनसस्तव ॥ ६०.२५ ॥ ब्राह्मणाः साग्नयो वक्त्राः देर्दण्डाः सायुधा नृपाः । पार्श्वाद्विशश्चेरुयुगाज्जाताः शूद्राश्च पादतः ॥ ६०.२६ ॥ नेत्राद्भानुरभूत्तुभ्यं पद्भ्यां भूः श्रोत्रयोर्दिशः । नाभ्या ह्यभूदन्तरिक्षं शशाङ्को मनसस्तव ॥ ६०.२७ ॥ प्राणाद्वायुः समभवत्कामाद्ब्रह्मा पितामहः । क्रोधात्त्रिनयनो रुद्रः शीर्ष्णोः द्यौः समवर्तत ॥ ६०.२८ ॥ इन्द्राग्नी वदनात्तुभ्यं पशवो मलसंभवाः । ओषध्यो रोमसंभूता विराजस्त्वं नमोऽस्तु ते ॥ ६०.२९ ॥ पुष्पहास नमस्तेऽस्तु महाहास नमोऽस्तु ते । ओङ्कारस्त्वं वषट्कारो वौषट्त्वं च स्वधा सुधा ॥ ६०.३० ॥ स्वाहाकार नमस्तुभ्यं हन्तकार नमोऽस्तु ते । सर्वाकार निराकार वेदाकार नमोऽस्तु ते ॥ ६०.३१ ॥ त्वं हि वेदमयो देवः सर्वदेवमयस्तथा । सर्वतीर्थमयश्चैव सर्वयज्ञमयस्तथा ॥ ६०.३२ ॥ नमस्ते यज्ञपुरुष यज्ञभागभुजे नमः । नमः सहस्रधाराय शतधाराय ते नमः ॥ ६०.३३ ॥ भीर्भुवःस्वःस्वरूपाय गोदायामृतदायिने । सुवर्णब्रह्मदात्रे च सर्वदात्रे च ते नमः ॥ ६०.३४ ॥ ब्रह्मेशाय नमस्तुभ्यं ब्रह्मादे ब्रह्मरूपधृक् । परब्रह्म नमस्तेऽस्तु शब्दब्रह्म नमोऽस्तु ते ॥ ६०.३५ ॥ विद्यास्त्वं वेद्यरूपस्त्वं वेदनीयस्त्वमेव च । बुद्धिस्त्वमपि बोध्यश्च बोधस्त्वं च नमोऽस्तु ते ॥ ६०.३६ ॥ होता होमश्च हव्यं च हूयमानश्चहव्यावाट् । पाता पोता च पुतश्च पावनीयश्च ओं नमः ॥ ६०.३७ ॥ हन्ता च हन्यमानश्च ह्रिमाणस्त्वमेव च । हर्त्ता नेता च नीतिश्च पूज्योऽग्र्यो विश्वधार्यसि ॥ ६०.३८ ॥ स्रुक्स्रुवौ परधामासि कपालोलूखलोऽरणिः । यज्ञपात्राणेयस्त्वमेकधा बहुधा त्रिधा ॥ ६०.३९ ॥ यज्ञस्त्वं यजमानस्त्वमीड्यस्त्वमसि याजकः । ज्ञाता ज्ञेयस्तथा ज्ञानं ध्येयो ध्यातासि चेश्वर ॥ ६०.४० ॥ ध्यानयोगश्च योगी च गतिर्मोक्षो धृतिः सुखम् । योगाङ्गानि त्वमीशानः सर्वगस्त्वं नमोऽस्तु ते ॥ ६०.४१ ॥ ब्रह्म होता तथोद्गाता साम यूपोऽत दक्षिणा । दीक्षा त्वं त्वं पुरोडाशस्त्वं पशुः पशुवाह्यसि ॥ ६०.४२ ॥ गुह्यो धाता च परमः शिवो नारायणस्तथा । महाजनो निरयनः सहस्रार्केन्दुरूपवान् ॥ ६०.४३ ॥ द्वादशारोऽथ षण्णाभिस्त्रिव्यूहो द्वियुगस्तथा । कालचक्रो भवानीशो नमस्ते पुरुषोत्तमः ॥ ६०.४४ ॥ पराक्रमो विक्रमस्त्वं हयग्रीवो हरीश्वरः । नरेश्वरोऽथ ब्रह्मेशः सूर्येशस्त्वं नमोऽस्तु ते ॥ ६०.४५ ॥ अश्ववक्त्रो महामेधाः शंभुः शक्रः प्रभञ्जनः । मित्रावरुणमूर्तिस्त्वममूर्तिरनघः परः ॥ ६०.४६ ॥ प्राग्वंशकायो भूतादिर्महाभूतोऽच्युतो द्विजः । त्वमूर्ध्वकर्त्ता ऊर्ध्वश्च ऊर्ध्वरेता नमोऽस्तु ते ॥ ६०.४७ ॥ महापातकहा त्वं च उपपातकहा तथा । अनीशः सर्वपापेभ्यस्त्वामहं शरणं गतः ॥ ६०.४८ ॥ इत्येतत्परमं स्तोत्रं सर्वपापप्रमोचनम् । महेश्वरेण कथितं वाराणस्यां पुरा मुने ॥ ६०.४९ ॥ केशवस्याग्रतो गत्वा स्नात्वा तीर्थे सितोदके । उपशान्तस्तथा जातो रुद्रः पापवशात्ततः ॥ ६०.५० ॥ एतत्पवित्रं त्रिपुरध्नभाषितं पठन्नरो विष्णुपरो महर्षे । विमुक्तपापो ह्युपशान्तमूर्ति संपूज्यते देववरैः प्रसिद्धैः ॥ ६०.५१ ॥ इति श्रीवामनपुराणे षष्ठितमोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । द्वितीयं पापशमनं स्तवं वक्ष्यामि ते मुने । येन सम्यगधीतेन पापं नाशं तु गच्चति ॥ ६१.१ ॥ मत्स्यं नमस्ये देवेशं कूर्मं गोविन्दमेव च । हयशीर्षं नमस्तेऽहं भवं विष्णुं त्रिविक्रमम् ॥ ६१.२ ॥ नमस्ये माधवेशानौ हृषीकशकुमारिणौ । नारायणं नमस्येऽहं नमस्ये गरुडासनम् ॥ ६१.३ ॥ ऊर्ध्वकेशं नृसिहं च रुपधारं कुरुध्वजम् । कामपालमखण्डं च नमस्ये ब्राह्मणप्रियम् ॥ ६१.४ ॥ अजितं विश्वकर्माणं पुण्डरीकं द्विजप्रियम् । हंसं शंभुं नमस्ये च ब्रह्माणं सप्रजापतिम् ॥ ६१.५ ॥ नमस्ये शूलबाहुं च देवं चक्रधरं तथा । शिवं विष्णुं सुवर्णाक्षं गोपतिं पीतवाससम् ॥ ६१.६ ॥ नमस्ये च गदापाणिं नमस्ये च कुशोशयम् । अर्धनारीश्वरं देवं नमस्ये पापनाशनम् ॥ ६१.७ ॥ गोपालं च सैवकुण्ठं नमस्ये चापराजितम् । नमस्ये विश्वरूपं च सौगन्धिं सर्वदाशिवम् ॥ ६१.८ ॥ पाञ्चालिकं हयग्रीवं स्वयम्भुवममरेश्वरम् । नमस्ये पुष्कराक्षं च पयोगन्धिं च केशवम् ॥ ६१.९ ॥ अविमुक्तं च लोलं च ज्येष्ठेयं मध्यमं तथा । उपशान्तं तमस्येऽहं मार्कण्डेयं सजम्बुकम् ॥ ६१.१० ॥ नमस्ये पद्मकिरणं नमस्ये वडवामुखम् । कार्त्तिकेयं नमस्येऽहं बाह्लीकं शिखिनं तथा ॥ ६१.११ ॥ नमस्ये स्थाणुमनघं नमस्ये वनमालिनम् । नमस्ये लाङ्गलीशं च नमस्येऽहं श्रियः पतिम् ॥ ६१.१२ ॥ नमस्ये च त्रिनयनं नमस्ये हव्यवाहनम् । नमस्ये च त्रिसौवर्णं नमस्ये शशिभूषणम् ॥ ६१.१३ ॥ त्रिणाचिकेतं ब्रह्मेशं नमस्ये शशिभूषणम् । कपर्दिनं नमस्ये च सर्वामयविनाशनम् ॥ ६१.१४ ॥ नमस्ये शशिनं सूर्यं ध्रुवं रौद्रं महौजसम् । पद्मनाभं हिरण्याक्षं नमस्ये स्कन्दमव्ययम् ॥ ६१.१५ ॥ नमस्ये भीमहंसौ च नमस्ये हाटकेश्वरम् । सदा हंसं नमस्ये च नमस्ये प्रामतर्पणम् ॥ ६१.१६ ॥ नमस्ये रुक्मकवचं महायोगिनमीश्वरम् । नमस्ये श्रीनिवासं च नमस्ये पुरुषोत्तमम् ॥ ६१.१७ ॥ नमस्ये च चतुर्बाहुं नमस्ये वसुधाधिपम् । वनस्पतिं पशुपतिं नमस्ये प्रभुमव्ययाम् ॥ ६१.१८ ॥ श्रीकण्ठं वासुदेवं नीलकण्ठं सदण्डिनम् । नमस्ये सर्वमनघं गौरीशं नकुलीस्वरम् ॥ ६१.१९ ॥ मनोहरं कृष्णकेशं नमस्ये चक्रपाणिनम् । यशोधरं महाबाहुं नमस्ये च कुशप्रियम् ॥ ६१.२० ॥ भूधरं छादितगदं सुनेत्रं शूलशङ्खिनम् । भद्राक्षं वीरभद्रं च नमस्ये शङ्कुकर्णिकम् ॥ ६१.२१ ॥ वषध्वजं महेशं च विश्वामित्रं शशिप्रभम् । उपेन्द्र चैव गोविन्दं नमस्ते पङ्कजप्रियम् ॥ ६१.२२ ॥ सहस्रशिर्सं देवं नमस्ये कुन्दमालिनम् । कालाग्निं रुद्रदेवेशं नमस्ये कृत्तिवाससम् ॥ ६१.२३ ॥ नमस्ये छागलेशं च नमस्ये पङ्कजासनम् । सहस्राक्षं कोकनदं नमस्ये हरिशङ्करम् ॥ ६१.२४ ॥ अगस्तयं गरुडं विष्णुं कपिलं ब्रह्मवाङ्मयम् । सनातनं च ब्रह्माणं नमस्ये ब्रह्मतत्परम् ॥ ६१.२५ ॥ अप्रतर्क्यं चतुर्बाहुं सहस्रांशुं तपोमयम् । नमस्ये धर्मराजानं देवं गरुडवाहनम् ॥ ६१.२६ ॥ सर्वबूतगतं शान्तं निर्मलं सर्वलक्षणम् । महायोगिनमव्यक्तं नमस्ये पापनाशनम् ॥ ६१.२७ ॥ निरञ्जनं निराकारं निर्गुणं निर्मलं पदम् । नमस्ये पापहन्तारं शरण्यं शरणं व्रजे ॥ ६१.२८ ॥ एतत्पवित्रं परमं पुराणं प्रोक्तं त्वगस्तयेन महर्षिणा च । ध्न्यं यशस्यं बहुपापनाशनं संकर्तनात्स्मारणात्संश्रवाच्च ॥ ६१.२९ ॥ इति श्रीवामनपुराणे एकषष्टितमोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । गतेऽथ तीर्थयात्रायां प्रह्लादे दानवेश्वरे । कुरुक्षेत्रं समभ्यागाद्यष्टुं वैरोचनो वलिः ॥ ६२.१ ॥ तस्मिन्महाधर्मयुते तीर्थे ब्राह्मणपुङ्गवः । शुक्रो द्विजातिप्रवरानामन्त्रयत्भार्गवान् ॥ ६२.२ ॥ भृगूनामन्त्र्यमाणान् वै श्रुत्वात्रेयाः सगौतमाः । कौशिकाङ्गिरसश्चैव तत्यजुः कुरुजाङ्गलान् ॥ ६२.३ ॥ उत्तराशां प्रजग्मुस्ते नदीमनु शतद्रुकाम् । शातद्रवे जले स्नात्वा विपाशां प्रययुस्ततः ॥ ६२.४ ॥ विज्ञाय तत्राप्यरतिं स्नात्वार्ऽच्य पितृदेवताः । प्रजग्मुः किरणां पुण्यां दिनेशकिरणच्युताम् ॥ ६२.५ ॥ तस्यां स्नात्वार्ऽच्य देवेर्षे सर्व एव महर्षयः । ऐरावतीं सुपुण्योदां स्नात्वा जग्मुरथेश्वरीम् ॥ ६२.६ ॥ देविकाया जले स्नात्वा पयोष्ण्यां चैव तापसाः । अवतीर्णा मुने स्नातुमात्रेयाद्याः शुभां नदीम् ॥ ६२.७ ॥ ततो निमग्ना ददृशुः प्रतिबिम्बमथात्मनः । अन्तर्जले द्विजश्रेष्ठ महदाश्चर्यकारकम् ॥ ६२.८ ॥ उन्मज्जने च ददृशुः पुनर्विस्मितमानसाः । ततः स्नात्वा समुत्तीर्णा ऋषयः सर्व एव हि ॥ ६२.९ ॥ जगमुस्ततोऽपि ते ब्रह्मन् कथयन्तः परस्परम् । चिन्तयन्तश्च सततं किमेतदिति विस्मिताः ॥ ६२.१० ॥ ततो दूरादपश्यन्त वनषण्डं सुविस्तृतम् । वनं हरगलश्यामं खगध्वनिनिनादितम् ॥ ६२.११ ॥ अतितुङ्गतया वयोम आवृण्वानं नगोत्तमम् । विस्तृताभिर्जटाभिस्तु अन्तर्भूमिञ्च नारद ॥ ६२.१२ ॥ काननं पुष्पितैर्वृक्षैरतिभाति समन्ततः । दशार्द्धवर्णैः सुखदैर्नभस्तारागणैरिव ॥ ६२.१३ ॥ तं दृष्ट्वा कमलैर्व्याप्तं पुण्डरीकैश्च शोभितम् । तद्वत्कोकनदैर्व्याप्तं वनं पद्मवनं यथा ॥ ६२.१४ ॥ प्रजग्मुस्तुष्टिमतुलां ते ह्लादं परमं ययः । विविशुः प्रीतमनसो हंसा इव महासरः ॥ ६२.१५ ॥ तन्मध्ये ददृशुः पुण्यमाश्रमं लोकपूजितम् । चतुर्णां लोकपालानां वर्गाणां मुनिसत्तम । । ६२.१६ धर्माश्रमं प्राङ्मुखं तु पलाशविटपावृतम् । प्रतीच्यभिमुखं ब्रह्मनर्थस्येक्षुवनावृतम् ॥ ६२.१७ ॥ दक्षिणाभिमुखं काम्यं रम्भाशोकवनावृतम् । उदङ्मुखं च मोक्षस्य शुद्धस्फटिकवर्चसम् ॥ ६२.१८ ॥ कृतान्ते त्वाश्रमी मोक्षः कामस्त्रेतान्तरे श्रमी । आश्रम्यर्थो द्वापरान्ते तिष्यादौ धर्म आश्रमी ॥ ६२.१९ ॥ तान्याश्रमाणि मुनयो दृष्ट्वात्रेयादयोऽव्ययाः । तत्रैव च रतिं चक्रुरखण्डे सलिलाप्लुते ॥ ६२.२० ॥ धर्माद्यैर्भगवान् विष्णुरखण्ड विश्रुतः । चतुर्मुर्तिर्जगन्नाथः पुर्वमेव प्रतिष्ठितः ॥ ६२.२१ ॥ तमर्चयन्ति ऋषयो योगात्मानो बहुश्रुताः । शुश्रूषयाथ तपसा ब्रह्मचर्येण नारद ॥ ६२.२२ ॥ एवं ते न्यवसंस्तत्र समेता मुनयो वने । असुरेभ्यस्तदा भीताः स्वाश्रित्याखण्डपर्वतम् ॥ ६२.२३ ॥ तथान्ये ब्राह्मणा ब्रह्मनश्मकुट्टा मरीचिपाः । स्नात्वा जले हि कालिन्द्याः प्रजग्मुर्दक्षिणामुखाः ॥ ६२.२४ ॥ अवन्तिविषयं प्राप्य विष्णुमासाद्य संस्थिताः । विष्णोरपि प्रसादेन दुष्प्रवेशं महासुरैः ॥ ६२.२५ ॥ बालखिल्यादयो जग्मुरवशा दानवाद्भयात् । रुद्रकोटिं समाश्रित्य स्थितास्ते ब्रह्मचारिणः ॥ ६२.२६ ॥ एवं गतेषु विप्रेषु गौतमाङ्गिरसादिषु । शुक्रस्तु भार्गवान् सर्वान्निन्ये यज्ञविधौ मुने ॥ ६२.२७ ॥ अधिष्ठिते भार्गवैस्तु महायज्ञेऽमितद्युते । यज्ञदीक्षां बलेः शुक्रश्चाकार विधिना स्वयम् ॥ ६२.२८ ॥ श्वेताम्बरधरो दैत्यः श्वेतमाल्यानुलेपनः । मृगाजिनावृतः पृष्ठे बर्हिपत्रविचित्रितः ॥ ६२.२९ ॥ समास्ते वितते यज्ञे सदस्यैरभिसंवृतः । हयग्रीवप्रलम्बाद्यैर्मयबाणपुरोगमैः ॥ ६२.३० ॥ पत्नी विन्ध्यावली चास्य दीक्षिता यज्ञकर्मणि । ललनानां सहस्रस्य प्रधाना ऋषिकन्यका ॥ ६२.३१ ॥ शुक्रेणाश्वः श्वेतवर्णो मधुमासे सुलक्णः । महीं विहर्तुमुत्सृष्टस्तारकाक्षोऽन्वगाच्च तम् ॥ ६२.३२ ॥ एवमश्वे समुत्सृष्टे वितते यज्ञकर्मणि । गते च मासत्रितये हूयमाने च पावके ॥ ६२.३३ ॥ पूज्यमानेषु दैत्येषु मिषुनस्थे दिवाकरे । सुषुवे देवजननी माधवं वामनाकृतिम् ॥ ६२.३४ ॥ तं जातमात्रं भगवन्तमीशं नारायणं लोकपतिं पुराणम् । ब्रह्मा समभ्येत्य समं महर्षिभिः स्तोत्रं जगादाथ विभोर्महर्षे ॥ ६२.३५ ॥ नमोऽस्तु ते माधव सत्त्वमूर्त्ते नमोऽस्तु ते शाश्वत विश्वरूप । नमोऽस्तु ते शत्रुवनेन्धनाग्ने नमोऽस्तु वै पापमहादवाग्ने ॥ ६२.३६ ॥ नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्ते जगादाधार नमस्ते पुरुषोत्तम ॥ ६२.३७ ॥ नारायण जगन्मूर्ते जगन्नाथ गदाधर । पीतवासः श्रियःकान्त जनार्दन नमोऽस्तु ते ॥ ६२.३८ ॥ भवांस्त्राता च गोप्ता च विश्वात्मा सर्वगोऽव्ययः । सर्वधारी धराधारी रूपधारी नमोऽस्तु ते ॥ ६२.३९ ॥ वर्धस्व वर्धिताशेषत्रैलोक्य सुरपूजित । कुरुष्व दैवतपते मघोनोऽश्रुप्रमार्जनम् ॥ ६२.४० ॥ त्वं धाता च विधाता च संहर्ता त्वं महेश्वरः । महालय महायोगिन् योगशायिन्नमोऽस्तु ते । । ६२.४१ इत्थं स्तुतो जगन्नाथं सर्वात्मा सर्वगो हरिः । प्रोवाच भगवान्मह्यं कुरूपनयनं विभो ॥ ६२.४२ ॥ ततश्चकार देवस्य जातकर्मादिकाः क्रियाः । भरद्वाजो महातेजा बार्हस्पत्यस्तपोधनः ॥ ६२.४३ ॥ व्रतबन्धं तथेशस्त कृतवान् सर्वसास्त्रवित् । ततो ददुः प्रीतियुताः सर्व एव वरान् क्रमात् ॥ ६२.४४ ॥ यज्ञोपवीतं पुलहस्त्वहं च सितवाससी । मृगाजिनं कुम्भयोनिर्भरद्वाजस्तु मेखलाम् ॥ ६२.४५ ॥ पालाशमददद्दण्डं मरीचिर्ब्रह्मणाः सुतः । अक्षसूत्रं वारुणिस्तु कौश्यं वेदमथाङ्गिराः ॥ ६२.४६ ॥ छत्रं प्रादाद्रघू राजा उपानद्युगलं नृगः । कम्ण्डलुं बृहत्तेजाः प्रादाद्विष्णोर्बृहस्पतिः ॥ ६२.४७ ॥ एवं कृतोपनयनो भगवान् भूतभावनः । संस्तूयमानो ऋषिभिः साङ्गं वेदमधीयत ॥ ६२.४८ ॥ भरद्वाजादाङ्गिरसात्सामवेदं महाध्वनिम् । महदाख्यानसंयुक्तं गन्धर्वसहितं मुने ॥ ६२.४९ ॥ मासेनैकेन बगवान् ज्ञानश्रुतिमहार्णवः । लोकचारप्रवृत्त्यर्थमभूच्छ्रुतिविशारदः ॥ ६२.५० ॥ सर्वशास्त्रेषु नैपुण्यं गत्वा देवोऽक्षयोऽव्ययः । प्रोवाच ब्राह्मणश्रेष्ठं भरद्वाजमिदं वचः ॥ ६२.५१ ॥ श्रीवामन उवाच । ब्रह्मन् व्रजामि देह्याज्ञां कुरुक्षेत्रं महोदयम् । तत्र दैत्यपतेः पुण्यो हयमेधः प्रवर्तते ॥ ६२.५२ ॥ समाविष्टानि पश्यस्व तेजांसि पृथिवीतले । ये संनिधानाः सततं मदंशाः पुण्यवर्धनाः । तेनाहं प्रतिजानामि कुरुक्षेत्रं गतो बलिः ॥ ६२.५३ ॥ भरद्वाज उवाच । स्वेच्छया तिष्ठ वा गच्छ नाहमाज्ञापयामि ते । गमिष्यामो वयं विष्णो बलेरध्वरं मा खिद ॥ ६२.५४ ॥ यद्भवन्तमहं देव परिपृच्छामि तद्वद । केषु केषु विभो नित्यं स्थानेषु पुरुषोत्तम । सान्निध्यं भवतो ब्रूहि ज्ञातुमिच्छामि तत्त्वतः ॥ ६२.५५ ॥ वामन उवाच । श्रूयतां कथयिष्यामि येषु येषु गुरो अहम् । निवासामि सुपुण्येषु स्थानेषु बहुरूपवान् ॥ ६२.५६ ॥ ममावतारैर्वसुधा नभस्तलं पातालमम्भोनिधयो दिवञ्च । दिशः समस्ता गिरयोऽम्बुदाश्च व्याप्ता भरद्वाज ममानुरूपैः ॥ ६२.५७ ॥ ये दिव्या ये च भौमा जलगगनचराः स्थावरा जङ्गमाश्च सेन्द्राः सार्काः सचन्द्रा यमवसुवरुणा ह्यग्नयः सर्वपालाः । ब्रह्माद्याः स्थावरान्ता द्विजखगमहिता मूर्तिमन्तो ह्यमूर्ताः ते सर्वे मत्प्रसूता बहु विविधगुणाः पूरणार्थं पृथिव्याः ॥ ६२.५८ ॥ एते हि मुख्याः सुरसिद्धदानवैः पुज्यास्तथा संनिहिता महीतले । यैर्दृष्टमात्रैः सहसैव नाशं प्रयाति पापं द्विजवर्य कीर्तनैः ॥ ६२.५९ ॥ इति श्रीवामनपुराणे द्विषष्टितमोऽध्यायः ________________________________________________________________________ श्रीभगवानुवाच । आद्यं मात्स्यं महद्रुपं संस्थितं मानसे ह्रदे । सर्वपापक्षयकरं कीर्तनस्पर्शनादिभिः ॥ ६३.१ ॥ कौर्ममन्यत्सन्निधानं कोशिक्यां पापनाशनम् । हयशीर्षं च कृष्णांशे गोविन्दं हस्तिनापुरे ॥ ६३.२ ॥ तत्रिविक्रमं च कालिन्द्यां लिङ्गभेदे भवं विभुम् । केदारे माधवं शौरिं कुब्जाम्रे हृष्टमूर्धजम् ॥ ६३.३ ॥ नारायणं बदर्थां च वाराहे गरुडासनम् । जयेशं भद्रकर्णे च विपाशायां द्विजप्रियम् ॥ ६३.४ ॥ रूपधारमिरावत्यां कुरुक्षेत्रे कुरुध्वजम् । कृतशौचे नृसिंहं च गोकर्णे विश्वकर्मिणम् ॥ ६३.५ ॥ प्राचीने कामपालं च पुण्डरीकं महाम्भसि । विशाखयूपे ह्यजितं हंसं हंसपदे तथा ॥ ६३.६ ॥ पयोष्णायामखण्डं च वितस्तायां कुमारिलम् । मणिमत्पर्वते शंभुं ब्रह्मण्ये च प्रजापतिम् ॥ ६३.७ ॥ मधुनद्यां चक्रधरं शूलबाहुं हिमालये । विद्धि विष्णुं मुनिश्रेष्ट स्थितमोषधिसानुनि ॥ ६३.८ ॥ भृगुतुङ्गे सुवर्णाश्रं नैमिषे पीतवाससम् । गयायां गोपतिं देवं गदापाणिनमीश्वरम् ॥ ६३.९ ॥ त्रैलोक्यनाथं वरदं गोप्रतारे कुशेशयम् । अर्द्धनारीश्वरं पुण्ये माहेन्द्रे दभिणे गिरौ ॥ ६३.१० ॥ गोपालमुत्तरे नित्यं महेन्द्रे सोमपीथिनम् । वैकुण्ठमपि सह्याद्रौ पारियात्रऽपराजितम् ॥ ६३.११ ॥ कशेरुदेशे देवेशं विश्वरूपं तपोधनम् । मलयाद्रौ च सौगन्धिं विन्ध्यपादे सदाशिवम् ॥ ६३.१२ ॥ अवनतिविषये विष्णुं निषधेष्वमरेश्वरम् । पाञ्चालिकं च ब्रह्मर्षे पाञ्चालेषु व्यवस्थितम् ॥ ६३.१३ ॥ महोदये हयग्रीवं प्रयागे योगशायिनम् । स्वयंभुवं मधुवते अयोगन्धिं च पुष्करे ॥ ६३.१४ ॥ तथैव विप्रप्रवर वाराणस्यां च केशवम् । अविमुक्तकमत्रैव लोलश्चात्रैव गीयते ॥ ६३.१५ ॥ पद्मायां पद्मकिरणं समुद्रे वडवासुखम् । कुमारधारे बाह्लीशं कार्तिकेयं च बर्हिणम् ॥ ६३.१६ ॥ अजेशे शंभुमनघं स्थाणुं च कुरुजाङ्गले । वनमालिनमाहुर्मां दिष्किन्धावासिनो जनाः ॥ ६३.१७ ॥ वीरं कुवलायारूढं शङ्खचक्रगदाधरम् । श्रीवत्साह्कमुदाराङ्गं नर्मदायां श्रियः पतिम् ॥ ६३.१८ ॥ माहिष्मत्यां त्रिनयनं तत्रैव च हुताशनम् । अर्बुदे च त्रिसौपर्ण क्ष्माधरं सूकराचले ॥ ६३.१९ ॥ त्रिणाचिकेतं ब्रह्मर्षे प्रभासे च कपर्दिनम् । तथैवात्रापि विख्यातं तृतीयं शशिसेखरम् ॥ ६३.२० ॥ उदये शशिनं सूर्यं ध्रुवं च त्रितयं स्थितम् । हेमकूटे हिरण्याक्षं स्कन्दं शरवणे मुने ॥ ६३.२१ ॥ महालये स्मृतं रुद्रमुत्तरेषु कुरुष्वथ । पद्मनाभं मुनिश्रेष्ठ सर्वसौख्यप्रदायकम् ॥ ६३.२२ ॥ सप्तगोदावरे ब्रह्मन् विख्यातं हाटकेश्वरम् । तत्रैव च महाहंसं प्रयागेऽपि वटेश्वरम् ॥ ६३.२३ ॥ शोणे च रुक्मकवचं कुण्डिने घ्राणतर्पणम् । भिल्लीवने महायोगं माद्रेषु पुरुषोत्तमम् ॥ ६३.२४ ॥ प्लक्षावतरणे विश्वं श्रीनिवासं द्विजोत्तम । शूर्पारके चतुर्बाहुं मगधायां सुधापतिम् ॥ ६३.२५ ॥ गिरिव्रजे पशुपतिं श्रीकण्ठं यमुनातटे । वनस्पतिं समाख्यातं दण्डकारण्यवासिनम् ॥ ६३.२६ ॥ कालिञ्जरे नीलकण्ठं सरय्वां शंभुमुत्तमम् । हंसयुक्तं महाकोश्यां सर्वपापप्रणाशनम् ॥ ६३.२७ ॥ गोकर्णे दक्षिणे शर्वं वासुदेवं प्रजामुखे । विन्घ्यशृङ्गे महाशैरिं कन्थायां मधुसूदनम् ॥ ६३.२८ ॥ त्रिकूटशिखरे ब्रह्मन् चक्रपाणिनमीश्वरम् । लौहदण्डे हृषीकेशं कोसलायां मनोहरम् ॥ ६३.२९ ॥ महाबाहुं सुराष्ट्रे च नवराष्ट्रे यशोधरम् । भूधरं देवकानद्यां महोदायां कुशप्रियम् ॥ ६३.३० ॥ गोमत्यां छादितगदं शङ्खोद्धारे च शङ्खिनम् । सुनेत्रं सैन्धवारण्ये शूरं शूरपुरे स्थितम् ॥ ६३.३१ ॥ रुद्राख्यं च हरण्वत्यां वीरभद्रं त्रिविष्टपे । शङ्कुकर्णं च भीमायां भीमं शालवने विदुः ॥ ६३.३२ ॥ विश्वामित्रं च गदितं कैलासे वृषभध्वजम् । महेशं महिलाशैले कामरूपे शशिप्रभम् ॥ ६३.३३ ॥ बलभ्यामपि गोमित्रं कटाहे पङ्कजप्रियम् । उपेन्द्रं सिंहलद्वीपे शक्राह्वे कुन्दमालिनम् ॥ ६३.३४ ॥ रसातले च विख्यातं सहस्रशिरसं मुने । कालाग्निरुद्रं तत्रैव तथान्यं कृत्तिवाससम् ॥ ६३.३५ ॥ सुतले कूर्ममचलं वितले पङ्कजासनम् । महातले गुरो ख्यातं देवेशं छागलेश्वरम् ॥ ६३.३६ ॥ तले सहस्रचरणं सहस्रभुजमीश्वरम् । सहस्राक्षं परिख्यातं मुसलाकृष्टदानवम् ॥ ६३.३७ ॥ पाताले योगिनामीशं स्थितञ्च हरिशङ्करम् । धरातले कोकनदं मेदिन्यां चक्रपाणिनम् ॥ ६३.३८ ॥ भुवर्लोके च गरुडं स्वर्लोके विष्णुमव्ययम् । महर्ल्लोके तथागस्त्यं कपिलं च जने स्थितम् ॥ ६३.३९ ॥ तपोलोकेऽखिलं ब्रह्मन् वाङ्मयं सत्यसंयुतम् । ब्रह्माणं ब्रह्मलोके च सप्तमे वै प्रतिष्ठितम् ॥ ६३.४० ॥ सनातनं तथा शैवे परं ब्रह्म च वैष्णवे । अप्रतर्क्यं निरालम्बे निराकाशे तपोमयम् ॥ ६३.४१ ॥ जम्बुद्वीपे चतुर्बाहुं कुशद्वीपे कुशेशयम् । प्लक्षद्विपे मुनिश्रेष्ठ ख्यातं गरुडवाहनम् ॥ ६३.४२ ॥ पद्मनाभं तथा क्रौञ्चे शाल्मले वृषभध्वजम् । सहस्रांशुः स्थितः शाके धर्मराट्पुष्करे स्थितः ॥ ६३.४३ ॥ तथा पृथिव्यां ब्रह्मर्षे शालग्रामे स्थितोऽस्मयहम् । सजलस्थलपर्यन्तं चरेषु स्तावरेषु च ॥ ६३.४४ ॥ एतानि पुण्यानि ममालयानि ब्रह्मन् पुराणानि सनातनानि । धर्मप्रदानीह महौजसानि संकीर्तनीयन्यघनाशनानि ॥ ६३.४५ ॥ संकीर्तनात्स्मारणाद्दर्शनाच्च संस्पर्शनादेव च देवतायाः । धर्मार्थकामाद्यपवर्गमेव लभन्ति देवा मनुजाः ससाध्याः ॥ ६३.४६ ॥ एतानि तुभ्यं विनिवेदितानि ममालयानीह तपोमयानि । उत्तिष्ठ गच्छामि महासुरस्य यज्ञं सुराणां हि हिताय विप्र ॥ ६३.४७ ॥ पुलस्त्य उवाच । इत्येवमुक्त्वा वचनं महर्षे विष्णुर्भरद्वाजमृषिं महात्मा । विलासलीलागमनो गिरीन्द्रात्स चाभ्यगच्छत्कुरुजाङ्गलं हि ॥ ६३.४८ ॥ इति श्रीवामनपुराणे त्रिषष्टितमोऽध्यायः ________________________________________________________________________ ईणृEE णीCःट्Zऊळ्Žष्षीङ्E ZEईCःEण्॒ ॰२ ® ॰१ ष् ॰१ श्रीवामनपुराणं६४ पुलस्त्य उवाच । ततः समागच्चति वासुदेवे मही चकम्पे गिरयच चेलुः । क्षुब्धाः समुद्रा श्रीवामनपुराणं६४ पुलस्त्य उवाच । ततः समागच्चति वासुदेवे मही चकम्पे गिरयश्च चेलुः । क्षुब्धाः समुद्रा दिवि ऋक्षमण्डलो बभौ विपर्यस्तगतिर्महर्षे ॥ ६४.१ ॥ यज्ञः समागात्परमाकुलत्वं न वेद्मि किं मे मधुहा करिष्यति । यथा प्रदग्धोऽस्मि महेश्वरेण किं मां न संधक्ष्ययति वासुदेवः ॥ ६४.२ ॥ ऋक्साममन्त्राहुतिभिर्हुताभिर्वितानकीयान् ज्वलनास्तु भागान् । भक्त्या द्विजेन्द्ररपि संप्रपादितान्नैव प्रतीच्चन्ति विभोर्भयेन ॥ ६४.३ ॥ तान् दृष्ट्वा घोररुपांस्तु उत्पातान् दानवेश्वरः । पप्रच्छोशनसं शुक्रं प्रणिपत्य कृताञ्जलिः ॥ ६४.४ ॥ किमर्थमाचार्य मही सशैला रम्भेव वाताभिहता चचाल । किमासुरीयान् सुहुतानपीह भागान्न गृह्णन्ति हुताशनाश्च ॥ ६४.५ ॥ क्षुब्धाः किमर्थं मकरालयाश्च भो ऋक्षा न खे किं प्रचरन्ति पूर्ववत् । दिशः किमर्थं तमसा परिप्लुता दोषेण कस्याद्य वदस्व मे गुरो ॥ ६४.६ ॥ पुल्स्त्य उवाच । शुक्रस्तद्वाक्यमाकर्ण्य विरोचनसुतेरितम् । अथ ज्ञात्वा कारणं च बलिं वचनमब्रवीत् ॥ ६४.७ ॥ शुक्र उवाच । शृणुष्व दैत्येश्वर येन भागान्नामी प्रतीच्छन्ति हि आसुरीयान् । हुताशना मन्त्रहुतानपीह नूनं समागच्छति वासुदेवः ॥ ६४.८ ॥ तदङ्घ्रिविक्षेपमपारयन्ती मही सशैला चलिता दितीश । तस्यां चलत्यां मकरालयामी उद्वृत्तवेला दितिजाद्य जाताः ॥ ६४.९ ॥ पुलस्त्य उवाच । शुक्रस्य वचनं श्रुत्वा बलिर्भार्गवमब्रवीत् । धर्मं सत्यं च पथ्यं च सर्वोत्साहसमीरितम् ॥ ६४.१० ॥ बलिरुवाच । आयाते वासुदेवे वद मम भगवन् धर्मकामर्थत्तत्त्वं किं कार्यं किं च देयं मणिकन्कमथो भूगजाश्वादिकं वा । किं वा वाच्यं मुरारेर्निजहितमथवा तद्धितं वा प्रयुढञ्जे तथ्यं पथ्यंप्रियभोमम वदशुभदन्तत्करिष्ये न चान्यत् ॥ ६४.११ ॥ पुलस्त्य उवाच । तद्वाक्यं भार्गवं श्रुत्वा दैत्यनाथेरितं वरम् । विचिन्त्य नारद प्राह भूतभव्यविदीश्वरः ॥ ६४.१२ ॥ त्वाया कृता यज्ञभुजोऽसुरेन्द्रा बहिष्कृता ये श्रुतिदृष्टमार्गे । श्रुतिप्रमाणं मखभोजिनो बहिः सुरास्तदर्थं हरिरभ्युपैति ॥ ६४.१३ ॥ तस्याध्वरं दैत्यसमागतस्य कार्यं हि किं मां परिपृच्छसे यत् । कार्यं न देयं हि विभो तृणाग्रं यदध्वरे भूकनकादिकं वा ॥ ६४.१४ ॥ वाच्यं तथा साम निरर्थकं विभो कस्ते वरं दातुमलं हि शक्नुयात् । यस्योदरे भूर्भुवनाकपालरसातलेशा निवसन्ति नित्यशः ॥ ६४.१५ ॥ बलिरुवाच । मया न चोक्तं वचनं हि भार्गव न चास्ति मह्यं न च दातुमुत्सहे । समागतेऽप्ययर्थिनि हीनवृत्ते जनार्दने लोकपतौ कथं तु ॥ ६४.१६ ॥ एवं च श्रुयते श्लोकः सतां कथयतां विभो । सद्भावो ब्राह्मणेष्वेव कर्त्तव्यो भूतिमिच्छता । दृश्यते हि तथा तच्च सत्यं ब्राह्मणसत्तम ॥ ६४.१७ ॥ पूर्वाभ्यासेन कर्माणि संभवन्ति नृणां स्फुटम् । वाक्कायमनसानीह योन्यन्तरगतान्यपि ॥ ६४.१८ ॥ किं वा त्वया द्विजश्रेष्ठ पौराणी न श्रुता कथा । या वृत्ता मलये पूर्वं कोशकारसुतस्य तु ॥ ६४.१९ ॥ शुक्र उवाच । कथयस्व महाबाहो कोशकारसुताश्रयाम् । कथां पौराणिकीं पुण्यां महाकौतूहलं हि मे ॥ ६४.२० ॥ बलिरुवाच । शृणुष्व कथयिष्यामि कथामेतां मखान्तरे । पूर्वाभ्यासनिबद्धां हि सत्यां भृगुकुलोद्वह ॥ ६४.२१ ॥ मुद्गलस्य मुनेः पुत्रो ज्ञानविज्ञानपारगः । कोशकार इति ख्यात आसीद्ब्रह्मंस्तपोरतः ॥ ६४.२२ ॥ तस्यासीद्दयिता साध्वी धर्मिष्ठा नामतः सुता । सती वात्स्यायनसुता धर्मशीला पतिव्रता ॥ ६४.२३ ॥ तस्यामस्य सुतो जातः प्रकृत्या वै जडाकृतिः । मूकवन्नालपति स न च पश्यति चान्धवत् ॥ ६४.२४ ॥ तं जातं ब्राह्मणी पुत्रं जडं मूकं त्वचक्षुषम् । मन्यमाना गृहद्वारि षष्ठेऽहनि समुत्सृजत् ॥ ६४.२५ ॥ ततोऽभ्यागाद्दुराचारा राक्षसी जातहारिणी । स्वं शिशुं कृशमादाय सूर्पाक्षी नाम नामतः ॥ ६४.२६ ॥ तत्रोत्सृज्य स्वपुत्रं सा जग्राह द्विजनन्दनम् । तमादाय जगामाथ भोक्तुं शालोदरे गिरौ ॥ ६४.२७ ॥ ततस्तामागतां वीक्ष्य तस्या भर्ता घटोदरः । नेत्रहीनः प्रत्युवाच किमानीतस्त्वया प्रिये ॥ ६४.२८ ॥ साब्रवीत्राक्षसपते मया स्थाप्य निजं शिशुम् । कोशकारद्विजगृहे तस्यानीतः प्रभो सुतः ॥ ६४.२९ ॥ स प्राह न त्वया भद्रे भद्रमाचरितं त्विति । महाज्ञानी द्विजेन्द्रोऽसौ ततः शप्स्यति कोपितः ॥ ६४.३० ॥ तस्माच्छीघ्रमिमं त्यक्त्वा मनुजं घोररुपिणम् । अन्यस्य कस्यचित्पुत्रं शीघ्रमानय सुन्दरि ॥ ६४.३१ ॥ इत्येवमुक्ता सा रौद्रा राक्षसी कामचारिणी । समाजगाम त्वरिता समुत्पत्य विहायसम् ॥ ६४.३२ ॥ स चापि राक्षससुतो निसृष्टो गृहबाह्यतः । रुरोद सुस्वरं ब्रह्मन् प्रक्षिप्याङ्गुष्ठमानने ॥ ६४.३३ ॥ सा क्रन्दितं चिराच्छ्रुत्वा धर्मिष्ठा पतिमब्रवीत् । पश्य स्वयं मुनिश्रेष्ठ सशब्दस्तनयस्तव ॥ ६४.३४ ॥ त्रस्ता सा निर्जगामाथ गृहमध्यात्तपस्विनी । स चापि ब्राह्मणश्रेष्ठः समपश्यत तं शिशुम् ॥ ६४.३५ ॥ वर्णरूपादिसंयुक्तं यथा स्वतनयं तथा । ततो विहस्य प्रोवाच कोशकारो निजां प्रियाम् ॥ ६४.३६ ॥ एतेनाविश्य धर्मिष्ठे भाव्यं भूतेन साम्प्रतम् । कोऽप्यटस्माकं छलयितुं सुरूपी भुवि संस्थितः ॥ ६४.३७ ॥ इत्युक्त्वा वचनं मन्त्री मन्त्रैस्तं राक्षसात्मजम् । बबन्धोल्लिख्य वसुधां सकुशेनाथ पाणिना ॥ ६४.३८ ॥ एतस्मिन्नन्तरे प्राप्ता सूर्पाक्षी विप्रबालकम् । अन्तर्धानगता भूमौ चिक्षेप गृहदूरतः ॥ ६४.३९ ॥ तं क्षिप्तमात्रं जग्राह कोशकारः स्वकं सुतम् । सा चाभ्येत्य ग्रहीतुं स्वं नाशकद्राक्षसी सुतम् ॥ ६४.४० ॥ इतश्चेतश्च विभ्रष्टा सा भर्तारमुपागमत् । कथयामासा यद्वृत्तं स्वद्विजात्मजहीरिणम् ॥ ६४.४१ ॥ एवं गतायं राक्षस्यां ब्राह्मणेन महात्मना । स राभसशिशुर्ब्रह्मन् भार्यायै विनिवेदितः ॥ ६४.४२ ॥ स चात्मतनयः पित्रा कपिलायाः सवत्सयाः । दध्ना संयोजितोऽत्यर्थं क्षीरेणेक्षुरसेन च ॥ ६४.४३ ॥ द्वावेव वर्धितौ बालौ संजातौ सप्तवार्षिकौ । पित्रा च कृतनामानौ निशाकरदिवाकरौ ॥ ६४.४४ ॥ नैशाचरिर्दिवाकीर्तिर्निशाकीर्तिः स्वपुत्रकः । तयोश्चकार विप्रोऽसौ व्रतबन्धक्रियां क्रमात् ॥ ६४.४५ ॥ व्रतबन्धे कृते वेदं पपाठासौ दिवाकरः । निशाकरो जडतया न पपाठेति नः श्रुतम् ॥ ६४.४६ ॥ तं बान्धवाश्च पितरौ माता भ्राता गुरुस्तथा । पर्यनिन्दंस्तथा ये च जना मलयवासिनः ॥ ६४.४७ ॥ ततः स पित्रा क्रुद्धेन क्षिप्तः कूपे निरूदके । महाशिलां चोपरि वै पिधानमवरोपयत् ॥ ६४.४८ ॥ एवं क्षिप्तस्तदा कूपे समतीतेषु भार्गव । तस्य मातागमत्कूपं तमन्धं शिलयाचितम् ॥ ६४.४९ ॥ ततो दशसु वर्षेषु समतीतेषु भार्गव । तस्य मातागमत्कूपं तमन्धं शिलयाचितम् ॥ ६४.५० ॥ सा दृष्टावा निचितं कूपं शिलया गिरिकल्पया । उच्चैः प्रोवाच केनेयं कूपोपरि शिला कृता ॥ ६४.५१ ॥ कूपान्तस्थः स तां वाणीं श्रुत्वा मातुर्निशाकरः । प्राह प्रदत्ता पित्रा मे कूपोपरि शिला त्वियम् ॥ ६४.५२ ॥ सातिभीताब्रवीत्कोऽसि कूपान्तस्थोऽद्भुतस्वरः । सोऽप्याह तव पुत्रोऽस्मि निशाकरेति विश्रुतः ॥ ६४.५३ ॥ साब्रवीत्तनयो मह्यं नाम्ना ख्यातो दिवाकरः । निशाकरेति नाम्नाहो न कश्चित्तनयोऽस्ति मे ॥ ६४.५४ ॥ स चाह पूर्वचरितं मातुर्निरवशेषतः । सा श्रुत्वा तां शिलांसुभ्रः समुत्क्षिप्यान्तयोऽश्रिपत् ॥ ६४.५५ ॥ सोत्तीर्य कूपात्भगवन्मातुः पादाववन्दत । सा स्वानुरूपं तनयं दृष्ट्वा स्वसुतस्य च ॥ ६४.५६ ॥ ततस्तमादाय सुतं धर्मिष्ठा पतिमेत्य च । कथयामास तत्सर्वं चेष्टितं स्वसुतस्य च ॥ ६४.५७ ॥ ततो।न्वपृच्छद्विप्रोऽसौ किमिदं तात कारणम् । नोक्तवान् यद्भवान् पूर्वं महत्कौतूहलं मम ॥ ६४.५८ ॥ तच्छ्रुत्वा वचनं धीमान् कोशकारं द्विजोत्तमम् । प्राह पुत्रोऽद्भुतं वाक्यं मातरं पितरं तथा ॥ ६४.५९ ॥ श्रूयतां कारणं तात येन मूकत्वमाश्रितम् । मया जडत्वमनघ तथान्धत्वं स्वचक्षुषः ॥ ६४.६० ॥ पूर्वमासमहं विप्र कुले वृन्दारकस्य तु । वृषाकपेश्च तनयो मालागर्भसमुद्भवः ॥ ६४.६१ ॥ ततः पिता पाठयन्मां शास्त्रं धर्मार्थकामदम् । मोक्षशास्त्रं परं तात सेतिहासश्रुतिं तथा ॥ ६४.६२ ॥ सोऽहं तात महाज्ञानी परावरविशारदः । जातो मदान्धस्तेनाहं दुष्कर्माभिरतोऽभवम् ॥ ६४.६३ ॥ मदात्समभवल्लेभस्तेन नष्टा प्रगल्भता । विवेको नाशमगमत्मूर्खभावमुपागतः ॥ ६४.६४ ॥ मूढ भावतया चाथ जातः पापरतोऽस्म्भहम् । परदारपरार्थेषु मतिर्मे च सदाभवत् ॥ ६४.६५ ॥ परदाराभिमर्शित्वात्परार्थहरणादपि । मृतोऽस्म्युद्ब्न्धनेनाहं नरकं रौरवं गतः ॥ ६४.६६ ॥ तस्माद्वर्षसहस्रान्ते भुक्तशिष्टे तदागसि । अरण्ये मृगहा पापः संजातोऽहं मृगाधिपः ॥ ६४.६७ ॥ व्याघ्रत्वे संस्थितस्तात बद्धः पञ्जरगः कृतः । नराधिपेन विभुना नीतश्च नगरं निजम् ॥ ६४.६८ ॥ बद्धस्य पिञ्जरस्थस्य व्याघ्रत्वेऽधिष्ठितस्य ह । धर्मार्थकामशास्त्राणि प्रत्यभासन्त सर्वशः ॥ ६४.६९ ॥ ततो नृपतिशार्दूलो गदापाणिः कदाचन । एकवस्त्रपरीधानो नगरान्निर्ययौ बहिः ॥ ६४.७० ॥ तस्य भार्या जिता नाम रूपेणाप्रतिमा भुवि । सा निर्गते तु रमणे ममान्तिकमुपागता ॥ ६४.७१ ॥ तां दृष्ट्वा ववृधे मह्यं पूर्वाभ्यासान्मनोभवः । यथैव धर्मशास्त्राणि तथाहमवदं च ताम् ॥ ६४.७२ ॥ राजपुत्रि सुकल्याणि नवयौवनशालिनि । चित्तं हरसि मे भीरु कोकिला ध्वनिना यथा ॥ ६४.७३ ॥ सा मद्वचनमाकर्ण्य प्रोवाच तनुमध्यमा । कथमेवावयोर्व्याघ्र रतियोगमुपेष्यति ॥ ६४.७४ ॥ ततोऽहमब्रुवं तात राजपुत्रीं सुमध्यमाम् । द्वारमुद्घाटयस्वाद्य निर्गमिष्यामि सत्वरम् ॥ ६४.७५ ॥ साप्ययब्रवीद्दिवा व्याघ्र लोकोऽयं परिपश्यति । रात्रावुद्घाटयिष्याम ततो रंस्याव स्वेच्छया ॥ ६४.७६ ॥ तामेवाहमवोचं वै कालक्षेपेऽहमक्षमः । तस्मादुद्घाटय द्वारं मां बन्धाच्च विमोचय ॥ ६४.७७ ॥ ततः सा पीवरश्रेणी द्वारमुद्घाटयन्मुने । उद्घाटिते ततो द्वारे निर्गतोऽहं बहिः श्रणात् ॥ ६४.७८ ॥ पाशानि निगडादीनि छिन्नानि हि बलान्मया । सा गृहीता च नृपतेर्भार्या रमितुमिच्छता ॥ ६४.७९ ॥ ततो दृष्टोऽस्मि नृपतेर्भृत्यैरतुलविक्रमैः । शस्त्रहस्तैः सर्वतश्च तैरहं परिवेष्टितः ॥ ६४.८० ॥ महापाशैः शृङ्खलाभिः समाहत्य च मुद्गरैः । वध्यमानोऽब्रुवमहं मा मा हिंसध्वमाकुलाः ॥ ६४.८१ ॥ ते मद्वचनमाकर्ण्य मत्वैव रजनीचरम् । दृढं वृक्षे समुद्ब्ध्य घातयन्त तपोधन ॥ ६४.८२ ॥ भयो गतश्च नरकं परदारनिषेवणात् । मुक्तो वर्षसहस्रान्ते जातोऽहं श्वेतगर्दभः ॥ ६४.८३ ॥ ब्राह्मणस्याग्निवेश्यस्य गेहे बहुकलत्रिणः । तत्रापि सर्वविज्ञानं प्रत्यभासत्ततो मम ॥ ६४.८४ ॥ उपवनाह्यः कृतश्चास्मि द्विजयोषिद्भिरादरात् । एकदा नवराष्ट्रीया भार्या तस्याग्रजन्मनः ॥ ६४.८५ ॥ विमतिर्नामतः ख्याता गन्तुमैच्छद्गृहं पितुः । तामुवाच पतिर्गच्छ आरुह्यं श्वेतगर्दभम् ॥ ६४.८६ ॥ मासेनागमनं कार्यं न स्थेयं परतस्ततः । इत्येवमुक्ता सा भर्त्रा तन्वी मामधिरुह्य च ॥ ६४.८७ ॥ बन्धनादवमुच्याथ जगाम त्वरिता मुने । ततोर्ऽधपथि सा तन्वी मत्पृष्ठादवरुह्य वै ॥ ६४.८८ ॥ अवतीर्णा नदीं स्नातुं स्वरूपा चार्द्रवाससा । साङ्गोपाङ्गां रूपवतीं दृष्ट्वा तामहमाद्रवम् ॥ ६४.८९ ॥ मया चाभिद्रुता तूर्णं पतिता पृथिवीतले । तस्यामुपरि भो तात पतितोऽहं भृशातुरः ॥ ६४.९० ॥ हृष्टो भर्त्रानुसृष्टेन नृणा तदनुसारिणा । प्रोत्क्षिप्य यष्टिं मां ब्रह्मन् समाधावत्त्वरान्वितः ॥ ६४.९१ ॥ तद्भयात्तां परित्यज्य प्रद्रुतो दक्षिणामुखः । ततोऽभिद्रवतस्तूर्ण खलीनरसना मुने ॥ ६४.९२ ॥ ममासक्ता वंशगुल्मे दुर्मोक्षे प्राणनाशने । तत्रासक्तस्य षड्रात्रान्ममाभूज्जीवितक्षयः ॥ ६४.९३ ॥ गतोऽस्मि नरकं भूयस्तस्मान्मुक्तोऽभवं शुकः । महारण्ये तथा बद्धः शबरेण दुरात्मना ॥ ६४.९४ ॥ पञ्जरे क्षिप्य विक्रीतो वणिक्पुत्राय शालिने । तेनाप्यन्तः पुरवरे युवतीनां समीपतः ॥ ६४.९५ ॥ शब्दशास्त्रविदित्येव दोषघ्नश्चेत्यवस्थितः । तत्रासतस्तरुण्यस्ता ओदनाम्बुफलादिभिः ॥ ६४.९६ ॥ भक्ष्यैश्च दाडिमफलैः पुष्णन्त्यहरहः पितः । कदाचित्पद्मपत्राक्षी श्यामा पीनपयोधरा ॥ ६४.९७ ॥ सुश्रोणी तनुमध्या च वणिक्पुत्रप्रिया शुभा । नाम्ना चन्द्रावली नाम समुद्घाट्याथ पञ्जरम् ॥ ६४.९८ ॥ मां जग्राह सुचार्वङ्गी कराभ्यां चारुहासिनी । चकारोपरि पीनाभ्यां कराभ्यां चारुहासिनी । चकारोपरि पीनाभ्यां स्तनाभ्यां सा हि मां ततः ॥ ६४.९९ ॥ ततोऽहं कृतवान् भावं तस्यां विलसितुं प्लवन् । ततोऽनुप्लपतस्तत्र हारे मर्कटबन्धनम् ॥ ६४.१०० ॥ बद्धोऽहं पापसंयुक्तो मृश्च तदनन्तरम् । भूयोऽपि नरकं घोरं प्रपन्नोऽस्मि सुदुर्मतिः ॥ ६४.१०१ ॥ तस्माच्चाहं वृषत्वं वै गतश्चाण्डालपक्वणे । स चैकदा मां शकटे नियोज्य स्वां विलासिनीम् ॥ ६४.१०२ ॥ समारोप्य महातेजा गन्तुं कृतमतिर्वनम् । ततोऽग्रतः स चण्डालो गतस्त्वेवास्य पृष्ठतः ॥ ६४.१०३ ॥ गायन्ती याति तच्छ्रुत्वा जातोऽहं व्यथितेन्द्रियः । पृष्ठस्तु समालोक्य विपर्यस्तस्तथोत्प्लुतः ॥ ६४.१०४ ॥ पतितो भूमिमगमं तदक्षे क्षणविक्रमात् । योक्त्रे सुबद्ध एवास्मि पञ्चत्वमगमं ततः ॥ ६४.१०५ ॥ भूयो निमग्नो नरके दशवर्षशतान्यपि । अतस्तव गृहे जातस्त्वहं जातिमनुस्मरन् ॥ ६४.१०६ ॥ तावन्त्येवाद्य जन्मानि स्मरामि चानुपूर्वशः । पूर्वाभ्यासाच्च शास्त्राणि बन्धनं चागतं मम ॥ ६४.१०७ ॥ तदहं जातविज्ञानो नाचरिष्ये कथञ्चन । पापानि घोररूपाणि मनसा कर्मणा गिरा ॥ ६४.१०८ ॥ शुभं वाप्यशुभं वापि स्वाध्यायं शास्त्रजीविका । बन्धनं वा वधो वापि पूर्वाभ्यासेन जायते ॥ ६४.१०९ ॥ जातिं यदा पौर्विकीं तु स्मरते तात मानवः । तदा स तेभ्यः पापेभ्यो शुभवर्धनाय पापक्षयायाथ मुने ह्यरण्यम् । भवान् दिवाकीर्तिमिमं सुपुत्रं गार्हस्थ्यधर्मे विनियोजयस्व ॥ ६४.११० ॥ तस्माद्गमिष्ये शुभवर्धनाय पापक्षयायाथ मुने ह्यरण्यम् । भवान् दिवाकीर्तिमिमं सुपुत्रं गार्हस्थ्यधर्मे विनियोजयस्व ॥ ६४.१११ ॥ बलिरुवाच । इत्येवमुक्त्वा स निशाकरस्तदा प्रणम्य मातापितरौ महर्षे । जगाम पुण्यं सदनं मुरारेः ख्यातं बदर्याश्रममाद्यमीड्यम् ॥ ६४.११२ ॥ एवं पुराभ्यासरतस्य पुंसो भवन्ति दानाध्ययनादिकानि । तस्माच्च पूर्वं द्विजवर्य वै मया अभ्यस्तमासीन्ननु ते ब्रवीमि ॥ ६४.११३ ॥ दानं तपो वाध्ययनं महर्षे स्तेयं महापातकमग्निदाहम् । ज्ञानानि चैवाब्यसंतां हि पूर्वं भवन्ति धर्मार्थशांसि नाथ ॥ ६४.११४ ॥ पुलस्त्य उवाच । इत्येवमुक्त्वा बलवान् स शुक्रं दैत्येश्वरः स्वः गुरुमीशितारम् । ध्यायंस्तदास्ते मधुकैटभघ्नं नारायणं चक्रगदासिपाणिम् ॥ ६४.११५ ॥ इति श्रीवामनपुराणे चतुःषष्टितमोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । एतस्मिन्नन्तरे प्राप्तो भगवान् वामनाकृतिः । जज्ञवाटमुपागमुच्चैर्वचनमब्रवीत् ॥ ६५.१ ॥ ओङ्कारपूर्वाः श्रुतयो मखेऽस्मिन् तिष्ठन्ति रूपेण तपोधनानाम् । यज्ञोऽश्वमेधः प्रवरः क्रतूनां मुख्यस्तथा सत्रिषु दैत्यनाथः ॥ ६५.२ ॥ इत्थं वचनमाकर्ण्य दानवाधिपतिर्वशी । सार्घपात्रः समभ्यागाद्यत्र देवः स्थितोऽभवत् ॥ ६५.३ ॥ ततोर्ऽच्य. देवदेवेशमर्च्यमर्घादिनासुरः । भरद्वाजर्षिणा सार्धं यज्ञवाटं प्रवेशयत् ॥ ६५.४ ॥ प्रविष्टमात्रं देवेशं प्रतिपूज्य वधानतः । प्रोवाच भगवन् ब्रूहि किं दद्मि तव मानद ॥ ६५.५ ॥ ततोऽब्रवीत्सुरश्रेष्ठो दैत्यराजानमव्ययः । विहस्य सुचिरं कालं भरद्वाजमवेक्ष्य च ॥ ६५.६ ॥ गुरोर्मदीयस्य गुरुस्तस्यास्त्यग्निपरिग्रहः । न स धारयते भूम्यां पारक्यां जातवेदसम् ॥ ६५.७ ॥ तदर्थमभियाच्ऽहं मम दानवपार्थिव । मच्छरीरप्रमाणेन देहि राजन् पदत्रयम् ॥ ६५.८ ॥ सुरारेर्वचनं श्रुत्वा बलिर्भार्यामवेक्ष्य च । बाणं च तनयं वीक्ष्य इदं वचनमब्रवीत् ॥ ६५.९ ॥ न केवलं प्रमाणेन वामनोऽयं लघुः प्रिये । येन क्रमत्रयं मौर्ख्याद्याचते बुद्धितोऽपि च ॥ ६५.१० ॥ प्रयो विधाताल्पधियां नराणां बहिष्कृतानां च महानुभाग्यैः । धनादिकं भूरि न वै ददाति यथेह विष्णोर्न बहुप्रयासः ॥ ६५.११ ॥ न ददाति विधिस्तस्य यस्य भाग्यविपर्ययः । मयि दातरि यश्चायमद्य याचेत्पदत्रयम् ॥ ६५.१२ ॥ इत्येवमुक्त्वा वचनं महात्मा भूयोऽप्युवाचाथ हरिं दनूजः । याचस्व विष्णो गजवाजिभूमिं दासीहिरण्यं यदभीप्सितं च ॥ ६५.१३ ॥ भवान् याचयिता विष्णो अहं दाता जगत्पतिः । दातुर्याचयितुर्लज्जा कथं न स्यात्पदत्रये ॥ ६५.१४ ॥ रसातलं वा वृथिवीं भुवं नाकमथापि वा । एतभ्यः कतमं दद्यां स्थानं याचस्व वामन ॥ ६५.१५ ॥ वामन उवाच । गजाश्वभूहिरण्यादि तदर्थिभ्यः प्रदीयताम् । एतावता त्वहं चार्थी देहि राजन् पदत्रयम् ॥ ६५.१६ ॥ इत्येवमुक्ते वचने वामनेन महासुरः । बलिर्भृङ्गारमादाय ददौ विष्णोः क्रमत्रयम् ॥ ६५.१७ ॥ पाणौ तु पतिते तोये दिव्यं रूपं चकार ह । त्रैलोक्यक्रमणार्थाय बहुरूपं जगन्मयम् ॥ ६५.१८ ॥ पद्भ्यां भूमिस्तथा जङ्घे नभस्त्रैलोक्यवन्दितः । सत्यं तपो जानुयुग्मे ऊरुभ्यां मेरुमन्दरौ ॥ ६५.१९ ॥ विश्वेदेवा कटीभागे मरुतो वस्तिशीर्षगाः । लिङ्गे स्थितो मन्मथश्च वृषणाभ्यां प्रजापतिः ॥ ६५.२० ॥ कुक्षिभ्यामर्णवाः सप्त जठरे भुवनानि च । वलिषु त्रिषु नद्यश्च यज्ञास्तु जठरे स्थिताः ॥ ६५.२१ ॥ इष्टापूर्तादयः सर्वाः क्रियास्तत्र तु संस्थिताः । पृष्ठस्था वसवो देवाः स्कन्धौ रुद्रैरधिषठितौ ॥ ६५.२२ ॥ बाहवश्च दिशः सर्वा वसवोऽष्टौ करे स्मृताः । हृदये संस्थितो ब्रह्मा कुलिशो हृदयास्थिषु ॥ ६५.२३ ॥ श्रीसमुद्रा उरोमध्ये चन्द्रमा मनसि स्थितः । ग्रीवादितिर्देवमाता विद्यास्तद्वलयस्थिताः ॥ ६५.२४ ॥ मुखे तु साग्नयो विप्राः संस्कारा दशनच्छदाः । धर्मकामार्थमोक्षीयाः शास्त्रः शौचसमन्विताः ॥ ६५.२५ ॥ लक्ष्म्या सह ललाटस्थाः श्रवणाभ्यामथाश्विनौ । श्वासस्थो मातरिश्वा च मरुतः सर्वसंधिषु ॥ ६५.२६ ॥ सर्वसूक्तानि दशाना जिह्वा देवी सरस्वती । चन्द्रादित्यौ च नयने पक्ष्मस्थाः कृत्तिकादयः ॥ ६५.२७ ॥ शिखायां देवदेवस्य ध्रुवो राजा न्यषीदत । तारका रोमकूपेभ्यो रोमाणि च महर्षयः ॥ ६५.२८ ॥ गुणैः सर्वमयो भूत्वा भगवान् भूतभावनः । क्रमेणैकेन जगतीं जहार सचराचराम् ॥ ६५.२९ ॥ भूमिं विक्रममाणस्य महारूपस्य तस्य वै । दक्षिणोऽभूत्स्तनश्चन्द्रः सूर्योऽभूदथ चोत्तरः । नक्षश्चाक्रमतो नाभिं सूर्येन्दू सव्यदक्षिणौ ॥ ६५.३० ॥ द्वितीयेन क्रमेणाथ स्वर्महर्जनतापसाः । क्रान्तार्धार्धेन वैराजं मध्येनापूर्यताम्बरम् ॥ ६५.३१ ॥ ततः प्रतापिना ब्रह्मन् बृहद्विष्ण्वङ्घ्रिणाम्बरे । ब्रह्माण्डोदरमाहत्य निरालोकं जगाम ह ॥ ६५.३२ ॥ विश्वाङ्घ्रिणा प्रसरता कटाहो भेदितो बलान् । कुटिला विष्णुपादे तु समेत्य कुटिला ततः ॥ ६५.३३ ॥ तस्या विष्णुपदीत्येवं नामाख्यातमभून्मुने । तथा सुरनदीत्येवं तामसेवन्त तापसाः । भगवानप्यसंपूर्णे तृतीये तु क्रमे विभुः ॥ ६५.३४ ॥ समभ्येत्य बलिं प्राह ईषत्प्रस्फुरिताधरः । ऋमाद्भवति दैत्येन्द्र बन्धनं घोरदर्शनम् । त्वं पूरय पदं तन्मे नो चेद्बन्धं प्रतीच्छ भोः ॥ ६५.३५ ॥ तन्मुरारिवचः श्रुत्वा विहस्याथ बलेः सुतः । बाणः प्राहामरपतिं वचनं हेतुसंयुतम् ॥ ६५.३६ ॥ बाण उवाच । कृत्वा महीमल्पतरां जगत्पते स्वायंभुवादिभुवनानि वै षट् । कथं बलिं प्रार्थयसे सुविस्तृतां यां प्राग्भवान्नो विपुलामथाकरोत् ॥ ६५.३७ ॥ विभो सही यावतीयं त्वयाद्य सृष्टचा समेता भुवनान्तरालैः । दत्ता च तातेन हि तावतीयं किं वाक्छलेनैष निबध्यतेऽद्य ॥ ६५.३८ ॥ या नैव शक्य भवता हि पूरितुं कथं वितन्याद्दितिजेश्वरोऽसौ । शक्तस्तु संपूजयितुं मुरारे प्रसीद मा बन्धनमादिशस्व ॥ ६५.३९ ॥ प्रोक्तं श्रुतौ भवतापीश वाक्यं दानं पात्रे भवते सौख्यदायि । देशे सुपुण्ये वरदे यच्च काले तच्चाशेषं दृश्यते चक्रपाणे ॥ ६५.४० ॥ दानं भूमिः सर्वकामप्रदेयं भवान् पात्रं देवदेवो जितात्मा । कालो ज्येष्ठामूलयोगे मृगाङ्गः कुरुक्षेत्रं पुण्यदेशं प्रसिद्धम् ॥ ६५.४१ ॥ किं वा देवोऽस्मद्विधैर्बुद्धिहीनैः शिक्षापनीयः साधु वासाधु चैव । स्वयं श्रुतीनामपि चादिकर्त्ता व्याप्य स्थितः सदसद्यो जगद्वै ॥ ६५.४२ ॥ कृत्वा प्रमाणं स्वयसेव हीनं पदत्रयं याचितवान् भुवश्च । किं त्वं न गृह्णासि जगत्त्रयं भो रूपेण लोकत्रयवन्दितेन ॥ ६५.४३ ॥ नात्राश्चर्यं यज्जगद्वै समग्रं क्रमत्रयं नैव पूर्णं तवाद्य । क्रमेण त्वं लङ्घयितुं समर्थो लीलामेतां कृतवान् लोकनाथ ॥ ६५.४४ ॥ प्रमाणहीनां स्वयमेव कृत्वा वसुंधरां माधव पद्मनाभ । विष्णो न बध्नासि बलिं न दूरे प्रभुर्यदेवेच्छति तत्करोति ॥ ६५.४५ ॥ पुलस्त्य उवाच । इत्येवमुक्ते वचने बाणेन बलिसूनुना । प्रोवाच भगवान् वाक्यमादिकर्त्ता जनार्दनः ॥ ६५.४६ ॥ त्रिविक्रम उवाच । यान्युक्तानि वचांसीत्थं त्वया बालेय साम्प्रतम् । तेषां वैच हेतुसंयुक्तं शृणु प्रत्युत्तरं मम ॥ ६५.४७ ॥ पूर्वमुक्तस्तव पिता मया राजन् पदत्रयम् । देहि मह्यं प्रमाणेन तदेतत्समनुष्ठितम् ॥ ६५.४८ ॥ किं न वेत्ति प्रमाणं मे बलिस्तव पितासुर । प्रायच्छद्येन निःशङ्कं ममानन्तं क्रमत्रयम् ॥ ६५.४९ ॥ सत्यं क्रमेण चैकेन क्रमेयं भूर्भुवादिकम् । बलेरपि हितार्थाय कृतमेतत्क्रमत्रयम् ॥ ६५.५० ॥ तस्माद्यन्मम बालेय त्वत्पित्राम्बु करे महत् । दत्तं तेनायुरेतस्य कल्पं यावद्भविष्यति ॥ ६५.५१ ॥ गते मन्वन्तरे बाण श्राद्धदेवस्य साम्प्रतम् । सावर्णिके च संप्राप्ते बलिरिन्द्रो भविष्यति ॥ ६५.५२ ॥ इत्थं प्रोक्त्वा बलिसुतं बाणं देवस्त्रिविक्रमः । प्रोवाच बलिमभ्येत्य वचनं मधुराक्षरम् ॥ ६५.५३ ॥ श्रीभगवानुवाच । आपूरणाद्दक्षिणाया गच्छ राजन्महाफलम् । सुतलं नाम पातालं वस तत्र निरामयः ॥ ६५.५४ ॥ बलिरुवाच । सुतले वसतो नाथ मम भोगाः कुतोऽव्ययाः । भविष्यन्ति तु येनाहं निवत्स्यामि निरामयः ॥ ६५.५५ ॥ त्रिविक्रम उवाच । सुतलस्थस्य दैत्येन्द्र यानि भोगानि तेऽधुना । भिवष्यन्ति महार्हाणि तानि वक्ष्यामि सर्वशः ॥ ६५.५६ ॥ दानान्यविधित्तानि श्राद्धान्यश्रोत्रियाणि च । तथाधीतान्यव्रतिभिर्दास्यन्ति भवतः फलम् ॥ ६५.५७ ॥ तथान्यमुत्सवं पुण्यं वृत्ते शक्रमहोत्सवे । द्वारप्रतिपदा नाम तव भावी महोत्सवः ॥ ६५.५८ ॥ तत्र त्वां नरशार्दूला हृष्टाः पुष्टाः स्वलङ्कृताः । पुष्पदीपप्रदानेन अर्जयिष्यन्ति यत्नतः ॥ ६५.५९ ॥ तत्रोत्सवो सुख्यतमो भविष्यति दिवानिशं हृष्टजनाभिरामम् । यथैव राज्ये भवतस्तु साम्प्रतं तथैव सा भाव्यथ कौमुदी च ॥ ६५.६० ॥ इत्येवमुक्त्वा मधुहा दितीश्वरं विसर्जयित्वा सुतलं सभार्यम् । यज्ञं समादाय जगाम तूर्णं स शक्रसद्भामरसंघजुष्टम् ॥ ६५.६१ ॥ दत्त्वा मघोने च विभुस्त्रिविष्टपं कृत्वा च देवान्मखभागभोक्तॄन् । अन्तर्दधे विश्वपतिर्महर्षे संपश्यतामेव मुराधिपानाम् ॥ ६५.६२ ॥ स्वर्गं गते धातरि वासुदेवे शाल्वोऽसुराणां महता बलेन । कृत्वा पुरं सौभमिति प्रसिद्धं तदान्तरिक्षे विचचार कामात् ॥ ६५.६३ ॥ मयस्तु कृत्वा त्रिपुरं महात्मा सुवर्णताम्रायसमग्र्यसौख्यम् । सतारकाक्षः सह वैद्युतेन संतिष्ठते भृत्यकलत्रवान् सः ॥ ६५.६४ ॥ बणोऽपि देवेन हृते त्रिविष्टपे बद्धे बलौ चापि रसातलस्थे । कृत्वा सुगुप्तं भुवि शोणिताख्यं पुरं स चास्ते सह दानवेन्द्रैः ॥ ६५.६५ ॥ एवं पुरा चक्रधरेण विष्णुना बद्धो बलिर्वामनरूपधारिणा । शक्रप्रियार्थ सुरकार्यसिद्धये हिताय विप्रर्षभगोद्विजानाम् ॥ ६५.६६ ॥ प्रादुर्भवस्ते कथितो महर्षे पुण्यः शुचिर्वामनस्याघहारी । श्रुते यस्मिन् संस्मृते कीर्तिते च पापं याति प्रक्षयं पुण्यमेति ॥ ६५.६७ ॥ एतत्प्रोक्तं भवतः पुण्यकीर्त्तेः प्रादुर्भावो बलिबन्धोऽव्ययस्य । यच्चाप्यन्यन् श्रोतुकामोऽसि विप्र तत्प्रोच्यतां कथयिष्याम्यशेषम् ॥ ६५.६८ ॥ इति श्रीवामनपुराणे पञ्चषष्टितमोऽध्यः ________________________________________________________________________ नारद उवाच । श्रुतं यथा भगवता बलिर्बद्धो महात्मना । किं त्वस्तयन्यत्तु प्रष्टव्यं तच्छ्रुत्वा कथयाद्य मे ॥ ६६.१ ॥ भगवान् देवराजाय दत्त्वा विष्णुस्त्रिविष्टपम् । अन्तर्धानं गतः क्वासौ सर्वात्मा तात कथ्यताम् ॥ ६६.२ ॥ सुतलस्थश्च दैत्येन्द्रः किमकार्षीत्तथा वद । का चेष्टा तस्य विप्रर्षे तन्मे व्याख्यातुमर्हसि ॥ ६६.३ ॥ पुलस्त्य उवाच । अन्तर्धाय सुरावासं वामनोऽभूदवामनः । जगाम ब्रह्मसदनमधिरुह्योरगाशनम् ॥ ६६.४ ॥ वासुदेवं समायान्तं ज्ञात्वा ब्रह्माव्ययात्मकः । समुत्थायायथ सौहार्दात्सस्वजे कमलासनः ॥ ६६.५ ॥ परिष्वज्यार्च्य विधिना वेधाः पूजादिना हरिम् । पप्रच्छ किं चिरेणेह भवतागमनं कृतम् । ६६.६ अथोवाच जगत्स्वामी मया कार्यं महत्कृतम् । सुराणां क्रतुभागार्थं स्वयंभो बलिबन्धनम् ॥ ६६.७ ॥ पितामहस्तद्वचनं श्रुत्वा मुदितमानसः । कथं कथमिति प्राह त्वं मां दर्शितुमर्हसि ॥ ६६.८ ॥ इत्येवमुक्ते वचने भगवान् गरुडध्वजः । दर्शयामास तद्रूपं सर्वदेवमयं लघु ॥ ६६.९ ॥ तं दृष्ट्वा पुण्डरीकाक्षं योजनायुतविस्तृतम् । तावानेवोर्ध्वामानेन ततोऽजः प्रणतोऽभवत् ॥ ६६.१० ॥ ततः प्रणम्य सुचिरं साधु साध्वित्युदीर्य च । भक्तितम्रो महादेवं पद्मजः स्तोत्रमीरयत् ॥ ६६.११ ॥ ओं नमस्ते देवाधिदेव वासुदेव एकशृङ्ग बहुरूप वृषाकपे भूतभावतन सुरासुरवृष सुरासुरमथन पीतवासः श्रीनिवास असुरनिर्मितान्त अमितनिर्मित कपिल महाकपिल विष्वक्सेन नारायण (५) ध्रुवध्वज सत्यध्वज खङ्गध्वज तालध्वज वैकुण्ठं पुरुषोत्तम वरेण्य विष्णो अपराजित जय जयन्त विजय कृतावर्त महादेव अनादे अनन्त आद्यान्तमध्यनिधन पुरञ्जय धनञ्जय शुचिश्रव पृश्निगर्भ (१०) कमलगर्भ कमलायताक्ष श्रीपते विष्णुमूल मूलाधिवास धर्माधिवास धर्मवास धर्माध्यक्ष प्रजाध्यक्ष गदाधर श्रीधर श्रुतिधर वनमालाधर लक्ष्मीधर धरणीधर पद्भनाम (१५) विरिञ्जे आर्ष्टिषेण महासेन सेनाध्यक्ष पुरुष्टुत बहुकल्प महाकल्प कल्पनामुख अनिरुद्ध सर्वग सर्वात्मन् द्वादशात्मक सूर्यात्मक सोमात्मक कालात्मक व्योमात्मक भूतात्मक (२०) रसात्मक परमात्मन् सनातन मुञ्जकेश हरिकेश गुडाकेश केशव नील सूक्ष्म स्थूल पीत रक्त श्वेत श्वेताधिवास रक्ताम्बरप्रिय प्रीतिकर प्रीतिवास हंस नीलवास सीरध्वज सर्वलोकाधिवास (२५) कुशेशय अधोक्षज गोविन्द जनार्दन मधुसूदन वामन नमस्ते । सहस्रशीर्षोऽसि सहस्रदृगसि सहस्रपादोऽसि त्वं कमलोऽसि महापुरुषोऽसि सहस्रबाहुरसि सहस्रमूर्तिरसि त्वं देवाः प्राहुः सहस्रवदनं (३०) तेनमस्त । ओं नमस्ते विश्वदेवेश विश्वभूः विश्वात्मक विश्वरूप विश्वसंभव त्वत्तो विश्वामिदमभवद्ब्राह्मणास्त्वन्मुखेभ्योऽभवन् क्षत्रिया दोःसंभूताः ऊरुयुग्माद्विसोऽभवन् शूद्राश्चरणकमलेभ्यः (३५) नाभ्या भवतोऽन्तरिक्षमजायत इन्द्राग्नीवक्त्रतो नेत्राद्भानुरभून्मनसः शशाङ्कः अहं प्रसादजस्तव क्रोधात्त्र्यम्बकः प्राणाज्जातो भवतो मातरिश्वा शिरसो द्यौरजायत श्रोत्राद्दिशो भूरियं चरणादभूत्श्रोत्रोद्भवादिशोभवतः स्वयंभोनक्षत्रास्तेजोद्भवाः (४०) मूर्त्तयश्चामूर्तयश्च सर्वे त्वत्तः समुद्भूताः । अतो विश्वात्मकोऽसि ओं नास्ते पुष्पहासोऽसि महाहासोऽसि परमोऽसि ओं कारोऽसि वषट्कारोऽसि स्वराहाकारोऽसि वौषट्कारोऽसि स्वधाकारोऽसि वेदमयोऽसि तीर्थमयोऽसि यजमानमयोऽसि (४५) यज्ञमयोऽसि सर्वधातासि यज्ञभोक्तासि शुक्रधातासि भूर्द भुवर्द स्वर्द स्वर्णद गोद अमृतदोऽसीति । ओं ब्रह्मादिरसि ब्रह्मयोऽसि यज्ञोऽसि वेदकामोऽसि वेद्योऽसि यज्ञधारोऽसि महामीनोऽसि महासेनोऽसि महाशिरा असि । (५०) नृकेसर्यसि होतासि होम्योऽसि हव्योऽसि हूयमानोऽसि हयमेधोऽसि पोतासि पावयितासि पूतोऽसि पूज्योऽसि दातासि हन्यमानोऽसि ह्रियमाणोऽसि हर्त्तासीति ओं । नीतिरसि नेतासि अग्र्योऽसि विश्वधामासि शुभाण्डोऽसि ध्रुवोऽसि आरणेयोऽसि (५५) ध्यानोऽसि ध्येयोऽसि ज्ञेयोऽसि ज्ञानोऽसि ज्ञानोऽसि यष्टासि दानोऽसि भूमासि ईक्ष्योऽसि ब्रह्मासि होतासि उद्गातासि गतिमतां गतिरसि ज्ञानिनां ज्ञानमसि योगिनां योगोऽसि मोक्षगामिनां मोक्षोऽसि श्रीमतां श्रीरसि गृह्योऽसि पातासि परमसि (६०) सोमोऽसि सूर्योऽसि दीक्षासि दक्षिणासि नरोऽसि त्रिनयनोऽसि महानयनोऽसि आदित्यप्रभवोऽसि सुरोत्तमोऽसि शुचिरसि शुक्रोऽसि नभोसि नभस्योऽसि इषोऽसि ऊर्जोऽसि सहोऽसि सहस्योऽसि तपोऽसि तपस्योऽसि मधुरसि (६५) माधवोऽसि कालोऽसि संक्रमोऽसि विक्रमोऽसि पराक्रमोऽसि अश्वग्रीवोऽसि महामेधोऽसि शङ्करोऽसि हरिश्वोरोऽसि शंभुरसि ब्रह्मेशोऽसि सूर्योऽसि मित्रावरुणोऽसि प्राग्वंशकायोऽसि भृतादिरसि महाभूतोऽसि ऊर्ध्वकर्मासि कर्त्तासि (७०) सर्वपापविमोचनोऽसि त्रिविक्रमोऽसि ओं नमस्ते पुलस्त्य उवाच । इत्थं स्तुतः पद्मवेन विष्णुस्तपस्विभिश्चाद्भुतकार्मकारी । प्रोवाच देवं प्रपितामहं तु वरं वृणीष्वामलसत्त्ववृत्ते ॥ ६६.१२ ॥ तमब्रवीत्प्रीतियुतः पितामहो वरं ममेहाद्य विभो प्रयच्छ । रूपेण पुण्येन विबो ह्यनेन संस्थीयतां मद्भवने मुरारे ॥ ६६.१३ ॥ इत्थं वृते देववरेण प्रादात्प्रभुस्तथास्त्विति तमव्ययात्मा । तस्थौ हि रूपेण हि वामनेन संपूज्यमानः सदने स्वयंभोः ॥ ६६.१४ ॥ नृत्यन्ति तत्राप्सरसां समूह्य गायन्ति गीतानि सुरेन्द्रगायनाः । विद्याधरास्तूर्यरांश्च वादयन् स्तुवन्ति देवासुरसिद्धसङ्घाः ॥ ६६.१५ ॥ ततः समाराध्य विभुं सुराधिपः पितामहो धौतमलः स शुद्धः । स्वर्गे विरिञ्चिः सदनात्सुपुष्पाण्यानीय पूजां प्रचकार विष्णोः ॥ ६६.१६ ॥ स्वर्गे सहस्रं स तु योजनानां विष्णोः प्रमाणेन हि वामनोऽभूत्तत्रास्य शक्रः प्रचकार पूजां स्वयंभुवस्तुल्यगुणां महर्षे ॥ ६६.१७ ॥ एतत्तवोक्तं भगवांस्त्रिविक्रमश्चकार यद्देवहितं महात्मा । रसातलस्थो दितिजश्चकार यत्तच्छृणुष्वाद्य वदामि विप्र ॥ ६६.१८ ॥ इति श्रीवामनपुराणे षट्षष्टितमोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । गत्वा रसातलं दैत्यो महार्हमणिचित्रितम् । शुद्धस्फटिसोपानं कारयामास वै पुरम् ॥ ६७.१ ॥ तत्र मध्ये सुविस्तीर्मः प्रासादो वज्रवेदिकः । मुक्ताजालान्तरद्वारो निर्मितो विश्वकर्मणा ॥ ६७.२ ॥ तत्रास्ते विविधान् भोगान् भुञ्जन् दिव्यान् स मानुषान् । नाम्ना विन्ध्यावलीत्येवं भार्यास्य दयिताभवत् । ६७.३ युवतीनां सहस्रस्य प्रधाना शीलमण्डिता । तया सह महातेजा रेमे वैरोचनिर्मुने ॥ ६७.४ ॥ भोगासक्तस्य दैत्यस्य वसतः सुतले तदा । दैत्यतेजोहरः प्राप्तः चपाताले वै सुदर्शनः ॥ ६७.५ ॥ चक्रे प्रविष्टे पातालं दानवानां पुरे महान् । बभै हलहलाशब्दः क्षुभितार्णवसंनिभः ॥ ६७.६ ॥ तं च श्रुत्वा महाशब्दं बलिः खङ्गं समाददे । आः किमेतदितीत्थञ्च पप्रच्छासुरपुङ्गवः ॥ ६७.७ ॥ ततो विन्ध्यावली प्राह सान्त्वयन्ती निजं पतिम् । कोशे खङ्गं समावेश्य धर्मपत्नी शुचिव्रता ॥ ६७.८ ॥ एतद्भगवतश्चक्रं दैत्यचक्रक्षयङ्करम् । संपूजनीयं दैत्येन्द्र वामनस्य महात्मनः । इत्येवमुक्त्वा चार्वङ्गी सार्घपात्रा विनिर्ययौ ॥ ६७.९ ॥ अथाभ्यागात्सहस्रारं विष्णोश्चक्रं सुदर्शनम् । ततोऽसुरपतिः प्रह्वः कृताञ्जलिपुटो मुने । संपूज्य विधिवच्चक्रमिदं स्तोत्रमुदीरयत् ॥ ६७.१० ॥ बलिरुवाच । नमस्यामि हरेश्चक्रं दैत्यचक्रविदारणम् । सहस्रांशुं सहस्राभं सहस्रारं सुनिर्मलम् ॥ ६७.११ ॥ नमस्यामि हरेश्चक्रं यस्य नाभ्यां पितामहः । तुण्डे त्रिशूलधृक्शर्व आरामूले महाद्रयः ॥ ६७.१२ ॥ अरेषु संस्थिता देवाः सेन्द्राः सार्काः सपावकाः । जवे यस्य स्थितो वायुरापोग्निः पृथिवी नभः ॥ ६७.१३ ॥ आरप्रान्तेषु जीमूताः सौदामिन्यृक्षतारकाः । बाह्मतो मुनयो यस्य बालखिल्यादयस्तथा ॥ ६७.१४ ॥ तमायुधवरं वन्दे वासुदेवस्य भक्तितः । यन्मे पापं शरीरोत्थं वाग्जं मानसमेव च ॥ ६७.१५ ॥ तन्मे दहस्व दीप्तांशो विष्णोश्चक्र सुदर्शन । यन्मे कुलोद्भवं पापं पैतृकं मातृकं तथा ॥ ६७.१६ ॥ तन्मे हरस्व तरसा नमस्ते अच्युतायुध । आधयो मम नश्यन्तु व्याधयो यान्तु संक्षयम् । त्वन्नामकीर्तनाच्चक्र दुरितं यातु संक्षयम् ॥ ६७.१७ ॥ इत्येवमुक्त्वा मतिमान् समभ्यर्च्याथ भक्तितः ॥ संस्मरन् पुण्डरीकाक्षं सर्वपापप्रणासनम् ॥ ६७.१८ ॥ पूजितं बलिना चक्रं कृत्वा निस्तेजसोऽसुरान् । निश्चक्रामाथ पातालाद्विषुवे दक्षिमे मुने ॥ ६७.१९ ॥ सुदर्शने निर्गते तु बलिर्विक्लवतां गतः । परमामापदं प्राप्य सस्मार स्वपितामहम् ॥ ६७.२० ॥ स चापि संस्मृतः प्राप्तः सुतलं दानवेश्वरः । दृष्ट्वा तस्थौ महातेजाः सार्घपात्रो बलिस्तदा ॥ ६७.२१ ॥ तमर्च्य विधिना ब्रह्मन् पितुः पितरमीश्वरम् । कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् । ६७.२२ संस्मृतोऽसि मया तात सुविषण्णेन चेतसा तन्मे हितं च पथ्यं च श्रेयोग्र्यं वद तात मे । ६७.२३ किं कार्यं तात संसारे वसता पुरुषोण हि । कृतेन येन वै नास्य बन्धः समुपजायते । ६७.२४ संसारार्णवमग्नानां नराणामल्पचेतसाम् । तरणे यो भवेत्पोतस्तन्मे व्याख्यातुमर्हसि ॥ ६७.२५ ॥ पुलस्त्य उवाच । एतद्वचनमाकर्ण्य तत्पौत्राद्दानवेश्वरः । विचिन्त्य प्राह वचनं संसारे यद्वितं परम् ॥ ६७.२६ ॥ प्रह्लाद उवाच । साधु दानवशार्दूल यत्ते जाता मतिस्त्वियम् । प्रवक्ष्यामि हितं तेऽद्य तथानेयेषां हितं बले ॥ ६७.२७ ॥ भवजलधिगतानां द्वान्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् । विषमविषयतोये मज्जतामप्लावानां भवति शरणमेको विष्णुपोतो नराणाम् ॥ ६७.२८ ॥ ये संश्रिता हरिमनन्तमनादिमध्यं नारायणं सुरगुरुं शुभदं वरेण्यम् । शुद्धं खगेन्द्रगमनं कमलालयेशं ते धर्मराजकरणं न विशन्ति धीराः । ६७.२९ स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ ६७.३० ॥ तथान्यदुक्तं नरसत्तमेन इक्ष्वाकुणा भक्तियुतेन नूनम् । ये विष्णुभक्ताः पुरुषाः पृथिव्यां यमस्य ते निर्विषया भवन्ति ॥ ६७.३१ ॥ सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम् । तावेव केवलं शलाघ्यौ यौ तत्पूजाकरौ करौ ॥ ६७.३२ ॥ नूनं न तौ करौ प्रोक्तौ वृक्षशाखाग्रपल्लवौ । न यौ पूजितुं शक्तौ हरिपादाम्बुजद्वयम् ॥ ६७.३३ ॥ नूनं तत्कण्ठशालूकमथवा प्रतिजिह्वका । रोगोवान्यो न सा जिह्वा या न वक्ति हरेर्गुणान् ॥ ६७.३४ ॥ शोचनीयः स बन्धूनां जीवन्नपि मृतो नरः । यः पादपङ्कजं विष्णोर्न पूजयति भक्तितः ॥ ६७.३५ ॥ ये नरा वासुदेवस्य सततं पूजने रताः । मृता अपि न शोच्यास्ते सत्यं सत्यं मयोदितम् ॥ ६७.३६ ॥ शारीरं मानसं वाग्जं मूर्तामूर्तं चराचरम् । दृश्यं स्पृस्यमदृश्यञ्च तत्सर्वं केशवात्मकम् ॥ ६७.३७ ॥ येनार्चितो हि भगवान् चतुर्धा वै त्रिविक्रमः । तेनार्चिता न संदेहो लोकाः सामरदानवाः ॥ ६७.३८ ॥ यता रत्नानि जलधेरसंख्येयानि पुत्रक । तथा गुणा हि देवस्य त्वसंख्यातास्तु चक्रिणः ॥ ६७.३९ ॥ ये शङ्खचक्राब्जकरं सशार्ङ्गिणं खगेन्द्रकेतुं वरदं श्रियः पतिम् । समाश्रयन्ते भवभीतिनाशनं संसारगर्ते न पतन्ति ते पुनः ॥ ६७.४० ॥ येषां मनसि गोविन्दो निवासी सततं बले । न ते परिभवं यान्ति न मृत्योरुद्विजन्ति च ॥ ६७.४१ ॥ देवं सार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणम् । न तेषां यमसालोक्यं न च ते नरकौकसः ॥ ६७.४२ ॥ न तां गतिं प्राप्नुवन्ति श्रुतिशास्त्रविशारदाः । विप्रा दानवशार्दूल विष्णुभक्ता व्रजन्ति याम् ॥ ६७.४३ ॥ या गतिर्दैत्यशार्दूल हतानां तु महाहवे । ततोऽदिकां गतिं यान्ति विष्णुभक्ता नरोत्तमाः ॥ ६७.४४ ॥ या गतिर्धर्मशीलानां सात्त्विकानां महात्मनाम् । सा गतिर्गदिता दैत्य भगवत्सेविनामपि ॥ ६७.४५ ॥ सर्वावासं वासुदेवं सूक्ष्ममव्यक्तविग्रहम् । प्रविशन्ति महात्मानं तद्भक्ता नान्यचेतसः ॥ ६७.४६ ॥ अनन्यमनसो भक्त्या ये नमस्यन्ति केशवम् । शुचयस्ते महात्मानस्तीर्थभूता भवन्ति ते ॥ ६७.४७ ॥ गच्छन् तिष्ठन् स्वपन् जाग्रत्पिबन्नश्चन्नभीक्ष्णशः । ध्यायन्नारायणं यस्तु न ततोऽन्योऽस्ति पुण्यभाक् । वैकुण्ठं खड्गपरशुं भवबन्धसमुच्छिदम् ॥ ६७.४८ ॥ प्रणिपत्य यथान्यायं संसारे न पुनर्भवेत् । क्षेत्रेषु वसते नित्यं क्रीडन्नास्तेऽमितद्युतिः ॥ ६७.४९ ॥ आसीनः सर्वदेहेषु कर्मभिर्न स बध्यते । येषां विष्णुः प्रियोन्त्यन्ते विष्णोः सततं प्रियाः ॥ ६७.५० ॥ न ते पुनः सम्भवन्ति तद्भक्तास्तत्परायणाः । ध्यायेद्दामोदरं यस्तु भक्तिनम्रोर्ऽचयेत वा ॥ ६७.५१ ॥ न स संसारपङ्केऽस्मिन्मज्जते दानवेश्वर । कल्यमुत्थाय ये भक्त्या स्मरन्ति मधुसूदनम् । स्तुवन्त्यप्यभिशृण्वन्ति दुर्गण्यतितरन्ति ते ॥ ६७.५२ ॥ हरिवाक्यामृतं पीत्वा विमलैः श्रोत्रभाजनैः । प्रहृष्यति मनो येषां दुर्गाण्यतितरन्ति ते ॥ ६७.५३ ॥ येषां चक्रगदापाणौ भक्तिरव्यभिचारिणी । ते यान्ति नियतं स्थानं यत्र योगेश्वरो हरिः ॥ ६७.५४ ॥ विष्णुकर्मप्रसक्तानां भक्तानां या परा गतिः । सा तु जन्मसहस्रेण न तपोभिरवाप्यते ॥ ६७.५५ ॥ किं जप्यैस्तस्य मन्त्रैर्वा किं तपोभिः किमाश्रमैः । यस्य नास्ति परा भक्तिः सततं मधुसूदने ॥ ६७.५६ ॥ वृथा यज्ञा वृता वेदा वृथा दानं वृथा श्रुतम् । वृथा तपश्च कीर्तिश्च यो द्वेष्टि मधुसूदनम् ॥ ६७.५७ ॥ किं तस्य बहुर्भर्मन्त्रैर्भक्तिर्यस्य जनार्दने । नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ ६७.५८ ॥ विष्णुरेव गतिर्योषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ ६७.५९ ॥ सर्वमङ्गलमाङ्गल्यं वरेण्यं वरदं प्रभुम् । नारायणं नमस्कृत्य सर्वकर्माणि कारयेत् ॥ ६७.६० ॥ विष्टयो व्यतिपाताश्च येऽन्ये दुर्नीतिसम्भवाः । ते नाम स्मरणाद्विष्णोर्नासं यान्ति महासुर ॥ ६७.६१ ॥ तीर्थकोटिसहस्राणि तीर्थकोटिशतानि च । नारायणप्रणामस्य कलां नार्हन्ति षोडशीम् ॥ ६७.६२ ॥ पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च । तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनात् ॥ ६७.६३ ॥ प्राप्नुवन्ति न तांल्लोकान् व्रतिनो वा तपस्विनः । प्राप्यन्ते ये तु कृष्णस्य नमस्कारपरैर्न रैः ॥ ६७.६४ ॥ योऽप्यन्यदेवताभक्तो मिथ्यार्चयति केशवम् । सो।ऽपि गच्छति साधूनां स्थानं पुण्यकृतां महत् ॥ ६७.६५ ॥ सातत्येन हृषीकेशं पूजयित्वा तु यत्फलम् । सुचीर्णतपसां नॄणां तता फलं न कदाचन ॥ ६७.६६ ॥ त्रिसन्ध्यं पद्मानाभं तु ये स्मरन्ति सुमेधसः । ते लभन्त्युपवासस्य फलं नासत्यत्र संशयः ॥ ६७.६७ ॥ सततं शास्त्रदृष्टेन कर्मणा हरिमर्चय । तत्प्रसादात्परां सिद्धिं बले प्राप्स्यसि शाश्वतीम् ॥ ६७.६८ ॥ तन्मना भव तद्भक्तस्तद्याजी तं नमस्कुरु । तमेवाश्रित्य देवेशं सुखं प्राप्यसि पुत्रक ॥ ६७.६९ ॥ आद्यं ह्यनन्तमजरं हरिमव्ययं च ये वै स्मरन्त्यहरहर्नृवरा भुविस्थाः । सर्वत्रगं शुभदं ब्रह्ममयं पुराणं ते यान्ति वैष्णवपदं ध्रुवमक्षयञ्च ॥ ६७.७० ॥ ये मानवा विगतरागपरापरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति । ते धौतपाण्डुरपुटा इव राजहंसाः संसारसागरजलस्य तरन्ति पारम् ॥ ६७.७१ ॥ ध्यायन्ति ये सततमच्युतमीशितारं निष्कल्मषं प्रवरपद्मदलायताक्षम् । ध्यानेन तेन हतकिल्बषवेदनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥ ६७.७२ ॥ ये कीर्तयन्ति वरदं वरपद्मनाभं शङ्खाब्जचक्रवरचापगदासिहस्तम् । पद्मालयावदनपङ्कजषट्पदाख्यं नूनं प्रयान्ति सदनं मधुघातिनस्ते ॥ ६७.७३ ॥ शृण्वन्ति ये भक्तिपरा मनुष्याः संकीर्त्यमानं भगवन्तमाद्यम् । ते मुक्तपापाः सुखिनो भवन्ति यथामृतप्राशनतर्पितास्तु ॥ ६७.७४ ॥ तस्माद्ध्यानं स्मरणं कीर्तनं वा नाम्नां श्रवणं पठतां सज्जनानाम् । कार्यं विष्णोः श्रद्दधानैर्मनुष्यैः पूजातुल्यं तत्प्रशंसन्ति देवा ॥ ६७.७५ ॥ बाह्यैस्तथान्तःकरणैरविक्लवैर्यो नार्चयेत्केशवमीशितरम् । पुष्पैश्च पत्रैर्जलपल्लवादिभिर्नूनं स मुष्टो विधितस्करेण ॥ ६७.७६ ॥ इति श्रीवामनपुराणे सप्तषष्टितमोऽध्यायः ________________________________________________________________________ बलिरुवाच । भवता कथितं सर्वं समाराध्य जनार्दनम् । या गतिः प्राप्यते लोके तां मे वक्तुमिहार्हसि ॥ ६८.१ ॥ केनार्चनेन देवस्य प्रीतिः समुपजायते । कानि दानानि शस्तानि प्रीणनाय जगद्गुरोः ॥ ६८.२ ॥ उपवासादिकं कार्यं कस्यां तिथ्यां महोदयम् । कानि पुण्यानि शस्तानि विष्णोस्तुष्टिप्रदानि वै ॥ ६८.३ ॥ यच्चान्यदपि कर्त्तव्यं हृष्टरूपैरनालसैः । तदप्यशेषं दैत्येन्द्र ममाख्यातुमिहार्हसि ॥ ६८.४ ॥ प्रह्लाद उवाच । श्रद्दधानैर्भक्तिपरैर्यान्युद्दिश्य जनार्दनम् । बले दानानि दीयन्ते तानूचुर्मुनयोऽक्षयान् ॥ ६८.५ ॥ ता एव तिथयः शस्ता यास्वभ्यर्च्य जगत्पतिम् । तच्चित्तस्तन्मयो भूत्वा उपवासी नरो भवेत् ॥ ६८.६ ॥ पूजितेषु द्विजेन्द्रेषु पूजितः स्याज्जनार्दनः । एतान् द्विषन्ति ये मूढास्ते यान्ति नरकं ध्रुवम् ॥ ६८.७ ॥ तानर्चयेन्नरो भक्त्या ब्राह्मणान् विष्णुतत्परः । एवमाह हरिः पूर्वं ब्राह्मणा मामकी तनुः ॥ ६८.८ ॥ ब्राह्मणो नावमन्तव्यो बुधो वाप्यबुधोऽपि वा । सोऽपि दिव्या तनुर्विष्णोस्तस्मात्तामर्चयेन्नरः ॥ ६८.९ ॥ तान्येव च प्रशस्तानि कुसुमानि महासुर । यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च ॥ ६८.१० ॥ विशेषतः प्रवक्ष्यामि पुष्पाणि तिथयस्तथा । दानानि च प्रशस्तानि माधवप्रीणनाय तु । । ६८.११ जाती शताह्वा सुमनाः कुन्दं बहुपुटं तथा । बाणञ्च चम्पकाशोकं करवीरं च यूथिका ॥ ६८.१२ ॥ पारिभद्रं पाटला च बकुलं गिरिशालिनी । तिलकं च जपाकुसुमं पीतकं नागरं त्वपि ॥ ६८.१३ ॥ एतानि हि प्रशस्तानि कुसुमान्यच्युतार्चने । सुरभीणि तथान्यानि वर्जयित्वा तु केतकीम् ॥ ६८.१४ ॥ बिल्वपत्रं शमीपत्रं पत्रं भृङ्गमृगाङ्कयोः । तमालामलकीपत्रं शस्तं केशवपूजने ॥ ६८.१५ ॥ येषामपि हिच पुष्पाणि प्रशस्तान्यच्युतार्चने । पल्लवान्यपि तेषां स्तुः पत्राण्यर्चाविधौ हरेः । ६८.१६ वीरुधां च प्रवालेन बर्हिषा चार्चयेत्तथा । नानारूपैश्चाम्बुभवैः कमलेन्दीवरादिभिः ॥ ६८.१७ ॥ प्रवालैः शुचिभिः श्लक्ष्णैर्जलप्रक्षालितैर्बले । वनस्पतीनामर्च्येत तथा दूर्वाग्रपल्लवैः ॥ ६८.१८ ॥ चन्दनेनानुलिम्पेत कुङ्कुमेन प्रयत्ननतः । उशीरपद्मकाभ्यां च तथा कालीयकादिना ॥ ६८.१९ ॥ महिषाख्यं कणं दारु सिह्लकं सागरुं सिता । शङ्खं जातीफलं श्रीशे धूपानि स्युः प्रियाणि वै ॥ ६८.२० ॥ हविषा संस्कृता ये तु यवगोधूमशालयः । तिलमुद्गादयो माषा व्रीहयश्च प्रिया हरेः ॥ ६८.२१ ॥ गोदानानि पवित्राणि भूमिदानानि चानघ । वस्त्रान्नस्वर्णदानानि प्रीतये मधुघातिनः ॥ ६८.२२ ॥ माघमासे तिला देयास्तिलधेनुश्च दानव । इन्धनादीनि च तथा माधवप्रीणनाय तु ॥ ६८.२३ ॥ फाल्गुने व्रीहयो मुद्गा वस्त्रकृष्णाजिनादिकम् । गोविन्दप्रीणनार्थाय दातव्यं पुरुषर्षभैः ॥ ६८.२४ ॥ चैत्रे चित्राणि वस्त्राणि शयनान्यासनानि च । विष्णोः प्रीत्यर्थमेतानि देयानि ब्राह्मणेष्वथ ॥ ६८.२५ ॥ गन्धमाल्यानि देयानि वैशाखे सुरभीणि वै । देयानि द्विजमुख्येभ्यो मधुसूदनतुष्टये ॥ ६८.२६ ॥ उदकुम्भाम्बुधेनुं च तालवृन्तं सुचन्दनम् । त्रिविक्रमस्य प्रीत्यर्थं दातव्यं साधुभिः सदा ॥ ६८.२७ ॥ उवानद्युगलं छत्रं लवणामलकादिकम् । आषाढे वामनप्रीत्यै दातव्यानि तु भक्तितः ॥ ६८.२८ ॥ घृतं च क्षीरकुम्भाश्च घृतधेनुफलानि च । श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता ॥ ६८.२९ ॥ मासि भाद्रपदे दद्यात्पायसं मधुसर्पिषी । हृषीकेशप्रीणनार्थं लवणं सगुडोदनम् ॥ ६८.३० ॥ तिलास्तुरङ्गं वृषभं दधि ताम्रायसादिकम् । प्रीत्यर्थं पद्मनाभस्य देयमाश्वयुजे नरैः ॥ ६८.३१ ॥ रजतं कनकं दीपान्मणिमुक्ताफलादिकम् । दामोदरस्य तुष्ट्यर्थं प्रदद्यात्कार्तिके नरः ॥ ६८.३२ ॥ खरोष्ट्राश्वतरान्नागान् यानयुग्यमजाविकम् । दात्वयं केशवप्रीत्यै मासि मार्गशिरे नरैः ॥ ६८.३३ ॥ प्रासादनगरादीनि गृहप्रावरणादिकम् । नारायणस्य तुष्ट्यर्थं पौषे देयानि भक्तितः ॥ ६८.३४ ॥ दासीदासमलङ्कारमन्नं षड्रससंयुतम् । पुरुषोत्तमस्य तुष्ट्यर्थं प्रदेयं सार्वकालिकम् ॥ ६८.३५ ॥ यद्यदिष्टतमं किञ्चिद्यद्वाप्यस्ति शुचि गृहे । तत्तद्वि देयं प्रीत्यर्थं देवदेवाय चक्रिणे ॥ ६८.३६ ॥ यः कारयेन्मन्दिरं केशवस्य पुण्यांल्लोकान् स जयेच्छाश्वतान् वै । दत्त्वारामान् पुष्पफलाभिपन्नान् भोगान् भुङ्क्ते कामातः श्लाघनीयान् ॥ ६८.३७ ॥ पितामहस्य पुरतः कुलान्यष्टौ तु यानि च । तारयेदात्मना सार्धं विष्णोर्मन्दिरकारकः ॥ ६८.३८ ॥ इमाश्च पितरो दैत्य गाथा गायन्ति योगिनः । पुरतो यदुसिंहस्य ज्यामघस्य तपस्विनः ॥ ६८.३९ ॥ अपि नः स कुले कश्चिद्विष्णुभक्तो भविष्यति । हरिमन्दिरकर्ता यो भविष्यति शिचिव्रतः ॥ ६८.४० ॥ अपि नः सन्ततौ जायेद्विष्ण्वालयविलेपनम् । सम्मार्जनं च धर्मात्मा करिष्यति च भक्तितः ॥ ६८.४१ ॥ अपि नः सन्ततौ जातो ध्वजं चकेशवमन्दिरे । दास्यते देवदेवाय दीपं पुष्पानुलेपनम् ॥ ६८.४२ ॥ महापातकयुक्तो वा पातकी चोपपातकी । विमुक्तपापो भवति विष्ण्वायतनचित्रकृत् ॥ ६८.४३ ॥ इत्थं पितॄणां वचनं श्रुत्वा नृपतिसत्तमः । चकारायतनं भूम्यां ख्यं च लिम्पतासुर ॥ ६८.४४ ॥ विभूतिभिः केशवस्य केशवाराधने रतः । नानाधातुविकारैश्च पञ्चवर्णैश्च चित्रकैः ॥ ६८.४५ ॥ ददौ दीपानि विधिवद्वासुदेवालये बले । सुगन्धितैलपूर्णानि घृतपूर्णानि च स्वयम् ॥ ६८.४६ ॥ नानावर्णा वैजयन्त्यो महारजनरञ्जिताः । मञ्जिष्ठा नवरङ्गीयाः श्वेतपाटलिकाश्रिताः ॥ ६८.४७ ॥ आरामा विविधा हृद्याः पुष्पाढ्याः फलशालिनः । लतापल्लवसंछन्ना देवदारुभिरावृताः ॥ ६८.४८ ॥ कारिताश्च महामञ्चाधिष्ठिताः कुशलैर्जनैः । पौरोगवविधानज्ञै रत्नसंस्कारिभिर्द्दढै ॥ ६८.४९ ॥ तेषु नित्यं प्रपूज्यन्ते यतयो ब्रह्मचारिणः । श्रोत्रिया ज्ञानसम्पन्ना दीनान्धविकलादयः ॥ ६८.५० ॥ इत्थं स नृपतिः कृत्वा श्रद्दधानो जितेन्द्रियः । ज्यामघो विष्णुनिलयं गत इत्यनुशुश्रुमः ॥ ६८.५१ ॥ तमेव चाग्यापि बले मार्गं ज्यामघकारितम् । व्रजन्ति नरशार्दूल विष्णुलोकजिगीषवः ॥ ६८.५२ ॥ तस्मात्त्वमपि राजेन्द्र कारयस्वालयं हरेः । तमर्चयस्व यत्नेन ब्राह्मणांश्च बहुश्रुतान् । पौराणिकान् विशेषेण सदाचाररताञ्शुचीन् ॥ ६८.५३ ॥ वासोभिर्भूषणै रत्नैर्गौभिर्भूकनकादिभिः । विभवे सति देवस्य प्रीणनं कुरु चक्रिणः ॥ ६८.५४ ॥ एवं क्रियायोगरतस्य तेऽद्य नूनं मुरारिः शुभदो भविष्यति । नरा न सीदन्ति बले समाश्रिता विभुं जगन्नाथमनन्तमच्युतम् ॥ ६८.५५ ॥ पुलस्त्य उवाच । इत्येवमुक्त्वा वचनं दितीश्वरो वैरोचनं सत्यमनुत्तमं हि । संपूजितस्तेन विमुक्तिमाययौ संपूर्णकामो हरिपादभक्तः ॥ ६८.५६ ॥ गते हि तस्मिन्मुदिते पितामहे बलेर्बभौ मन्दिरमिन्दुवर्णम् । महेन्द्रशिल्पिप्रवरोऽथ केशवं स कारयामास महामहीयान् ॥ ६८.५७ ॥ स्वयं स्वभार्यासहितश्चकार देवालये मार्जनलेपनादिकाः । क्रिया महात्मा यवशर्कराद्यां बलिं चकाराप्रतिमां मधुद्रुहः ॥ ६८.५८ ॥ दीपप्रदानं स्वयमायताक्षी विन्ध्यावली विष्णुगृहे चकार । गेयं स धर्म्यश्रवणं च धीमान् पौराणिकैर्विप्रवरैरकारयत् ॥ ६८.५९ ॥ तथाविधस्यासुरपुङ्गवस्य धर्म्ये सुमार्गे प्रतिसंस्थितस्य । जगत्पतिर्दिव्यवपुर्जनार्दनस्तस्थौ महात्मा बलिरक्षणाय ॥ ६८.६० ॥ सूर्यायुताभं मुसलं प्रगृह्य निघ्नन् स दुष्टारियूथापालान् । द्वारि स्थितो न प्रददौ प्रवेशं प्राकारगुप्ते बलिनो गृहे तु ॥ ६८.६१ ॥ द्वारि स्थिते धातरि रक्षपाले नारायणे सर्वगुणाभिरामे । प्रासादमध्ये हरिमीशितारमभ्यर्चयामास सुरर्षिमुख्यम् ॥ ६८.६२ ॥ स एवमास्तेऽसुरराड्बलिस्तु समर्चयन् वै हरिपादपङ्कजौ । सस्मार नित्यं हरिभषितानि स तस्य जातो विनयाङ्कुशस्तु ॥ ६८.६३ ॥ इदं च वृत्तं स पपाठ दैत्यराट्स्मरन् सुवाक्यानि गुरोः शुभानि । तथ्यानि पथ्यानि परत्र चेह पितामहस्येन्द्रसमस्य वीरः ॥ ६८.६४ ॥ ये वृद्धवाक्यानि समाचरन्ति श्रुत्वा दुरुक्तान्यपि पूर्वतस्तु । स्निग्धानि पश्चान्नवनीतशुद्धा मोदन्ति ते नात्र विचारमस्ति ॥ ६८.६५ ॥ आपद्भुजङ्गदष्टस्य मन्त्रहीनस्य सर्वदा । वृद्धवाक्यैषधा नूनं कुर्वन्ति किल निर्विषम् ॥ ६८.६६ ॥ वृद्धवाक्यामृतं पीत्वा तदुक्तमनुमान्य च । या तृप्तिर्जायते पुंसा सोमपाने कुतस्तथा ॥ ६८.६७ ॥ आपत्तौ पतितानां येषां वृद्धा न सन्ति शास्तारः । ते शोच्या बनधूनां जीवन्तोऽपीह मृततुल्याः ॥ ६८.६८ ॥ आपद्ग्राहगृहीतानां वृद्धाः सन्ति न पण्डिताः । येषां मोक्ष्यितारे वै तेषां सान्तिर्न विद्यते ॥ ६८.६९ ॥ आपज्जलनिमग्नानां ह्रियतां व्यसनोर्मिभिः । वृद्धवाक्यैर्विना नूनं नैवोत्तारं कथञ्चन ॥ ६८.७० ॥ तस्माद्यो वृद्धवाक्यानि शृणुयाद्विदधाति च । स सद्यः सिद्धिमाप्नोति यथा वैरोचनो बलिः ॥ ६८.७१ ॥ इति श्रीवामनपुराणे अष्टषष्टितमोऽध्यायः ________________________________________________________________________ पुलस्त्य उवाच । एतन्मया पुण्यतमं पुराणं तुभ्यं तथा नारद कीर्तितं वै । श्रुत्वा च कीर्त्या परया समेतो भक्त्या च विष्णोः पदमभ्युपैति ॥ ६९.१ ॥ यथा पापानि पूयन्ते गङ्गावारिविगाहनात् । तथा पुराणश्रवणाद्दुरितानां विनाशनम् ॥ ६९.२ ॥ न तस्य रोगा जायन्ते न विषं चाभिचारिकम् । शरीरे च कुले ब्रह्मन् यः श्रुणोति च वामनम् ॥ ६९.३ ॥ श्रणोति नित्यं विधिवच्च भक्त्या संपूजयन् यः प्रणतश्च विष्णुम् । स चाश्वमेधस्य सदक्षिणस्य फलं समग्रं परिहिनपापः ॥ ६९.४ ॥ प्राप्नोति दत्तस्य सुवर्णभूमेरश्वस्य गोनागरथस्य चैव नारी नरश्चापि च पादमेकं शृण्वन् शुचिः पुण्यतमः पृथिव्याम् । ६९.५ स्नाने कृते तीर्थवरे सुपुण्ये गङ्गाजले नैमिषपुष्करे वा । कोकामुखे यत्प्रवदन्ति विप्राः प्रयागमासाद्य च माघमासे ॥ ६९.६ ॥ स तत्फलं प्राप्य च वामनस्य संकीर्तयन्नान्यमनाः पदं हि । गच्छेन्मया नारद तेऽद्य चोक्तं यद्राजसूयस्य फलं प्रयच्छेत् ॥ ६९.७ ॥ यद्भूमिलोके सुरलोकलभ्ये महत्सुखं प्राप्य नरः समग्रम् । प्रापनोति चास्य श्रवणान्महर्षे सौत्रामणेर्नास्ति च संशयो मे ॥ ६९.८ ॥ रत्नस्य दानस्य च यत्फलं भवेद्यत्सूर्यस्य चेन्दोर्ग्रहणे च राहोः । अन्नस्य दानेन फलं यथोक्तं बुभुक्षिते विप्रवरे च साग्निके ॥ ६९.९ ॥ दुर्भिक्षसंपीडितपुत्रभार्ये यामी सदा पोषणतत्परे च । देवाग्निविप्रर्षिरते च पित्रोः शुश्रुषके भ्रातरि ज्येष्ठसाम्ने । यत्तत्फलं संप्रवदन्ति देवाः स तत्फलं लभते चास्य पाठात् ॥ ६९.१० ॥ चतुर्दशं वामनमाहुरग्र्यं श्रुते च यस्याघचयाश्च नाशम् । प्रयान्ति नास्त्यत्र च संशयो मे महान्ति पापान्यपि नारदाशु ॥ ६९.११ ॥ पाठात्संश्रवणाद्विप्र श्रावणादपि कस्यचित् । सर्वपापानि नश्यन्ति वामनस्य सदा मुदे ॥ ६९.१२ ॥ इदं रहस्यं परमं तवोक्तं न वाच्यमेतद्धरिभक्तिवर्जिते । द्विजस्य निन्दारतिहिनदक्षिणे सहेतुवाक्यावृतपापसत्त्वे ॥ ६९.१३ ॥ नमो नमः कारण वामनाय नित्यं यो वदेन्नियतं द्विजः । तस्य विष्णुः पदं मोक्षं ददाति सुरपूजितः ॥ ६९.१४ ॥ वाचकाय प्रदातव्य गोभूस्वर्णविभूषणम् । वित्तशाठ्यं न कर्तव्यं कुर्वन् श्रवणनाशकम् ॥ ६९.१५ ॥ त्रिसंध्यं च पठन् शृण्वन् सर्वपापप्रणाशनम् । असूयारहितं विप्र सर्वसम्पत्प्रदायकम् ॥ ६९.१६ ॥ इति श्रीवामनपुराणे एकोनसप्ततितमोऽध्यायः इति श्रीवामनपुराणं समाप्तम्