देवदेव उवाच सरस्वतीदृषद्वत्योरन्तरे कुरुजाङ्गले । सुनिप्रवरमासीनं पुराणं लोमहर्षणम् । अष्टच्छन्त द्विजवराः प्रभावं सरसस्तदा ॥ १.१ ॥ प्रमाणं सरसो ब्रूहि तीर्थानां च विशेषतः । देवतानां च माहात्म्यमुत्पत्तिं वामनस्य च ॥ १.२ ॥ एतच्छ्रुत्वा वचस्तेषां रोमहर्षसमन्वितः । प्रणिपत्य पुराणर्षिरिदं वचनमव्रवीत् ॥ १.३ ॥ लोमहर्षण उवाच ब्रह्मणमग्र्यं कमलासनस्थं विष्णुं तथा लक्ष्मिसमन्वितं च । रुद्रं च देवं प्रणिपत्य मूर्ध्ना तीर्थं महद्ब्रह्मसरः प्रवक्ष्ये ॥ १.४ ॥ रन्तुकादौजसं यावत्पावनाच्च चतुर्मुखम् । सरः संनिहितं प्रोक्तं ब्रह्मणा पूर्वमेव तु ॥ १.५ ॥ कलिद्वापरयोर्मध्ये व्यासेन च महात्मना । सरःप्रमाणं यत्प्रोक्तं तच्छृणुध्वं द्विजोत्तमाः ॥ १.६ ॥ विश्वेश्वरादस्थिपुरं रथा कन्या जरद्गवी । यावदोघवती प्रोक्ता तावत्संनिहितं सरः ॥ १.७ ॥ मया श्रुतं प्रमाणं यत्पठ्यमानं तु वामने । तच्छृणुध्वं द्विजश्रेष्ठाः पुण्यं वृद्धिकरं महत् ॥ १.८ ॥ विश्वेश्वराद्देववरा नृपावनात्सरस्वती । सरः संनिहितं ज्ञेयं समन्तादर्थयोजनम् ॥ १.९ ॥ एतदाश्रित्य देवाश्च ऋषयश्च समागताः । सेवन्ते मुक्तिकामार्थं स्वर्गार्थे चापरे स्थिताः ॥ १.१० ॥ ब्रह्मणा सेवितमिदं सृष्टिकामेन योगिना । विष्णुना स्थितिकामेन हरिरूपेण सेवितम् ॥ १.११ ॥ रुद्रेण च सरोमध्यं प्रविष्टेन महात्मना । सेव्य तीर्थं महातेजाः स्थाणुत्वं प्राप्तवान् हरः ॥ १.१२ ॥ आद्यैषा ब्रह्मणो वेदिस्ततो रामहृदः स्मृतः । करुणा च यतः कृष्टं कुरुक्षेत्रं ततः स्मृतम् ॥ १.१३ ॥ तरन्तुकारन्तुकयोर्यदन्तरं यदन्तरं रामहृदाच्चतुर्मुखम् । एत्कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते ॥ १.१४ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये प्रथमोऽध्यायः _____________________________________________________________ ऋषय ऊचुः ब्रूहि वामनमाहात्म्यमुत्पत्तिं च विशेषतः । यथा बलिर्नियमितो दत्तं राज्यं शतक्रतोः ॥ २.१ ॥ लोमहर्षण उवाच शृणुध्वं मुनयः प्रीता वामनस्य महात्मनः । उत्पत्तिं च प्रभावं च निवासं कुरुजाङ्गले ॥ २.२ ॥ तदेव वंशं दैत्यानां शृणुध्वं द्विजसत्तमाः । यस्य वंशे समभवद्बलिर्वैरोचनिः पुरा ॥ २.३ ॥ दैत्यानामादिपुरुषो हिरण्यकशिपुः पुरा । तस्य पुत्रो महातेजाः प्रह्लादो नाम दानवः ॥ २.४ ॥ तस्माद्विरोचनो जज्ञे बलिर्जज्ञे विरोचनात् । हते हिरण्यकशिपौ देवानुत्साद्य सर्वतः ॥ २.५ ॥ राज्यं कृतं च तेनेष्टं त्रैलोक्ये सचराचरे । कृतयत्नेषु देवेषु त्रैलोक्ये दैत्यतां गते ॥ २.६ ॥ जये तथा बलवतोर्मयशम्बरयोस्तथा । शुद्धासु दिक्षु सर्वासु प्रवृत्ते धर्मकर्मणि ॥ २.७ ॥ संप्रवृत्ते दैत्यपथे अयनस्थे दिवाकरे । प्रह्लादशम्बरमयैरनुह्वादेन चैव हि ॥ २.८ ॥ दिक्षु सर्वासु सुप्तासु गगने दैत्यपालिते । देवेषु मखशोभां च स्वर्गस्थां दर्शयत्सु च ॥ २.९ ॥ प्रकृतिस्थे ततो लोके वर्तमाने च सत्पथे । अभावे सर्वपापानां धर्मभावे सदोत्थिते ॥ २.१० ॥ चतुष्पादे स्थिते धर्मे ह्यधर्मे पादविग्रहे । प्रजापालनयुक्तेषु भ्राजमानेषु राजसु । स्वधर्मसंप्रयुक्तेषु तथाश्रमनिवासिषु ॥ २.११ ॥ अभिषिक्तोऽसुरैः सर्वैर्दैत्यराज्ये बलिस्तदा । हृष्टेष्वसुरसंघेषु नदत्सु मुदितेषु च ॥ २.१२ ॥ अथाभ्युपगता लक्ष्मीर्बलिं पद्मान्तरप्रभा । पद्मोद्यतकरा देवी वरदा सुप्रवेशिनी ॥ २.१३ ॥ श्रीरुवाच बले बलवतां श्रेष्ठ दैत्यराज महाद्युते । प्रीतास्मि तव भद्रं ते देवराजपराजये ॥ २.१४ ॥ यत्त्वया युधि विक्रम्य देवराज्यं पराजितम् । दृष्ट्वा ते परमं सत्त्वं ततोऽहं स्वयमागता ॥ २.१५ ॥ नाश्चर्यं दानवव्याघ्र हिरण्यकशिपोः कुले । प्रसूतस्यासुरेन्द्रस्य तव कर्मे दमीदृशम् ॥ २.१६ ॥ विशेषितस्त्वया राजन् दैत्येन्द्रः प्रपितामहः । येन भुक्तं हि निखिलं त्रैलोक्यमिदमव्ययम् ॥ २.१७ ॥ एवमुक्त्वा तु सा देवी लक्ष्मीर्दैत्यनृपं बलिम् । प्रविष्टा वरदा सेव्या सर्वदेवमनोरमा ॥ २.१८ ॥ तुष्टाश्च देव्यः प्रवराः ह्रीः कीर्तिर्द्युतिरेव च । प्रभा धृतिः क्षमा भूतिरृद्धिर्दिव्या महामतिः ॥ २.१९ ॥ श्रुतिःस्मृतिरिडा कीर्तिः शान्तिः पुष्टिस्तथा क्रिया । सर्वाश्चप्सरसो दिव्या नृत्तगीतविशारदाः ॥ २.२० ॥ प्रपद्यन्ते स्म दैत्येन्द्रं त्रैलोक्यं सचराचरम् । प्राप्तमैश्वर्यमतुलं बलिना ब्रह्मवादिना ॥ २.२१ ॥ इति क्षीवामनपुराणे सरोमाहात्म्ये द्वितीयोऽध्यायः _____________________________________________________________ ईणृEE णीCःट्Zऊळ्Žष्षीङ्E ZEईCःEण्॒ ऋषय ऊचुः देवानां ब्रूहि नः कर्म यद्वृत्तास्ते पराजिताः । कथं देवातिदेवोऽसौ विष्णुर्वामनतां गतः ॥ ३.१ ॥ लोमहर्षण उवाच् । बलिसंस्थं च त्रैलोक्यं दृष्ट्वा देवः पुरन्दरः। मेरुप्रस्थं ययौ शक्रः स्वमातुर्निलयं शुभम् ॥ ३.२ ॥ समीपं प्राप्य मातुश्च कथयामास तां गिरम् । आदित्याश्च यथा युद्धे दानवेन पराजिताः ॥ ३.३ ॥ अदितिरुवाच् । यद्येवं पुत्र युष्माभिर्न शक्यो हन्तुमाहवे । बलिर्विरोचनसुतः सर्वैश्चैव मरुद्गणैः ॥ ३.४ ॥ सहस्रशिरसा शक्यः केवलं हन्तुमाहवे । तेनैकेन सहस्राक्ष न स ह्यन्येन शक्यते ॥ ३.५ ॥ तद्वत्पृच्छामि पितरं कश्यपं ब्रह्मवादिनम्। पराजयार्थं दैत्यस्य बलेस्तस्य महात्मनः ॥ ३.६ ॥ ततोऽदित्या सह सुराः पंप्राप्ताः कश्यपान्तिकम् । तत्रापश्यन्त मारीचं मुनिं दीप्ततपोनिधिम् ॥ ३.७ ॥ आद्यं देवगुरुं दिव्यं प्रदीप्तं ब्रह्मवर्चसा । तेजसा भास्कराकारं स्थितमग्निशिखोपमम् ॥ ३.८ ॥ न्यस्तदण्डं तपोयुक्तं बद्धकृष्णाजिनाम्बरम् । वल्कलाजिनसंवीतं प्रदीप्तमिव तेजसा ॥ ३.९ ॥ हुताशमिव दीप्यन्तमाज्यगन्धपुरस्कृतम् । स्वाध्यायवन्तं पितरं वपुष्मन्तमिवानलम् ॥ ३.१० ॥ ब्रह्मवादिसत्यवादिसुरासुरगुरुं प्रभुम् । ब्राह्मण्याप्रतिमं लक्ष्म्या कश्यपं दीप्ततेजसम् ॥ ३.११ ॥ यः स्रष्टा सर्वलोकानां प्रजानां पतिरुत्तमः । आत्मभावविशेषेण तृतीयो यः प्रजापतिः ॥ ३.१२ ॥ अथ प्रणम्य ते वीराः सहादित्या सुरर्षभाः । ऊचुः प्राञ्जलयः सर्वे ब्रह्माणमिव मानसाः ॥ ३.१३ ॥ अजेयो युधि शक्रेण बलिर्दैत्यो बलाधिकः । तस्माद्विधत्त नः श्रेयो देवानां पुष्टिवर्धनम् ॥ ३.१४ ॥ श्रुत्वा तु वचनं तेषां पुत्राणां कश्यपः प्रभुः । अकरोद्गमने बुद्धि ब्रह्मलोकाय लोककृत् ॥ ३.१५ ॥ कश्यप उवाच शक्र गच्छाम सदनं ब्रह्मणः परमाद्भुतम् । तथा पराजयं सर्वे ब्रह्मणः ख्यातुमुद्यताः ॥ ३.१६ ॥ सहादित्या ततो देवायाताः काश्यपमाश्रमम् । प्रस्थिता ब्रह्मसदनं महर्षिगणसेवितम् ॥ ३.१७ ॥ ते मुहूर्तेन संप्राप्ता ब्रह्मलोकं सुवर्चसः । दिव्यैः कामगमैर्यानैर्यथार्हैस्ते महाबलाः ॥ ३.१८ ॥ ब्रह्माणं द्रष्टुमिच्छन्तस्तपोराशिनमव्यायम् । अध्यगच्छन्त विस्तीर्णा ब्रह्मणः परमां सभाम् ॥ ३.१९ ॥ षट्पदोद्गीतमधुरां सामगैः समुदीरिताम् । श्रेयस्करीममित्रघ्नीं दृष्ट्वा संजहृषुस्तदा ॥ ३.२० ॥ ऋचो बह्वचमुख्यैश्च प्रोक्ताः क्रमपदाक्षराः । शुश्रुवुर्विबुधव्याघ्रा विततेषु च कर्मसु ॥ ३.२१ ॥ यज्ञविद्यावेदविदः पदक्रमविदस्तथा । स्वरेण परमर्षिणां सा बभूव प्रणादिता ॥ ३.२२ ॥ यज्ञसंस्तवविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः । छन्दसां चैव चार्थज्ञैः सर्वविद्याविशारदैः ॥ ३.२३ ॥ लोकायतिकमुख्यैश्च शुश्रुवुः स्वरमीरितम् । तत्र तत्र च विप्रेन्द्रा नियताः शंसितव्रताः ॥ ३.२४ ॥ जपहोमपरा मुख्या ददृशुः कश्यपात्मजाः । तस्यां सभायामास्ते स ब्रह्म लोकपितामहः ॥ ३.२५ ॥ सुरासुरगुरुः श्रीमान् विद्यया वेदमायया । उपासन्त च तत्रैव प्रजानां पतयः प्रभुम् ॥ ३.२६ ॥ दक्षः प्रचेताः पुलहो मरीचिश्च द्विजोत्तमाः । भृगुरत्रिर्वसिष्ठश्च गौतमो नारदस्तथा ॥ ३.२७ ॥ विद्यास्तथान्तरिक्षं च वायुस्तेजो जलं महो । शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ॥ ३.२८ ॥ प्रकृतिश्च विकारश्च यच्चान्यत्कारणं महत् । साङ्गोपाङ्गाश्च चत्वारो वेदा लोकपतिस्तथा ॥ ३.२९ ॥ नयाश्च क्रतवश्चैव सङ्कल्पः प्राण एव च । एते चान्ये च बहवः स्वयंभुवमुपासते ॥ ३.३० ॥ अर्थो धर्मश्य कामश्च क्रोधो हर्षश्च नित्यशः । सक्रो बृहस्पतिश्चैव संवर्तऽथ बुधस्तथा ॥ ३.३१ ॥ शनाश्चरश्च राहुश्च ग्रहाः सर्वे व्यवस्थिताः । मरुतो विश्वकर्मा च वसवश्च द्विजोत्तमाः ॥ ३.३२ ॥ दिवाकरश्च सोमश्च दिवा रात्रिस्तथैव च । अर्द्धमासाश्च मासाश्च ऋतवः षट्च संस्थिताः ॥ ३.३३ ॥ तां प्रविश्य सभां दिव्यां ब्रह्मणः सर्वकामिकाम् । कश्यपस्त्रिदशैः सार्द्ध पुत्रैर्धर्मभृतां वरः ॥ ३.३४ ॥ सर्वतेजोमयीं दिव्यां ब्रह्मर्षिगणसेविताम् । ब्राह्म्या श्रिया सेव्यमानामचिन्त्यां विगतक्लमाम् ॥ ३.३५ ॥ ब्रह्मणं प्रक्ष्य ते सर्वे परमासनमास्थितम् । शिरोभिः प्रणता देवं देवा ब्रह्मर्षिभिः सह ॥ ३.३६ ॥ ततः प्रणम्य चरणौ नियताः परमात्मनः । विमुक्ताः सर्वपापेभ्यः शान्ता विगतकल्मषाः ॥ ३.३७ ॥ दृष्ट्वा तु तान् सुरान् सर्वान् कश्यपेन सहागतान् । आह ब्रह्म महातेजा देवानां प्रभुरीश्वरः ॥ ३.३८ ॥ _____________________________________________________________ ब्रह्मोवाच यदर्थमिह संप्राप्त भवन्तः सर्व एव हि । चिन्तयाम्यहमप्यग्रे तदर्थं च महाबला ॥ ४.१ ॥ भविष्यति च वः सर्वं काङ्क्षितं यत्सुरोत्तमाः । बलेर्दानवमुख्यस्य योऽस्य जेता भविष्यति ॥ ४.२ ॥ न केवलं सुरादीनां गतिर्मम स विश्वकृत् । त्रैलोक्यस्यापि नेता च देवानामपि स प्रभुः ॥ ४.३ ॥ यः प्रभुः सर्वलोकानां विश्वेशश्च सनातनः । पूर्वजोऽयं सदाप्याहुरादिदेवं सनातनम् ॥ ४.४ ॥ तन्देवापि महात्मानं न विदुः कोऽप्यसाविति । देवानास्मान् श्रुतिं विश्वं स वेत्ति पुरुषोत्तमः ॥ ४.५ ॥ तस्यैव तु प्रसादेन प्रवक्ष्ये परमां गतिम् । यत्र योगं समास्थाय तपश्चरति दुश्चरम् ॥ ४.६ ॥ क्षीरोद्सयोत्तरे कूले उदीच्यां दिशि विश्वकृत् । अमृतं नाम परमं स्थानमाहुर्मनीषिणः ॥ ४.७ ॥ भवन्तस्तत्र वै गत्वा तपसा शंसितव्रताः । अमृतं स्थानमासाद्य तपश्चरत दुश्चरम् ॥ ४.८ ॥ ततः श्रोष्यथ संघुष्टां स्निग्धगम्भीरनिः स्वनाम् । उष्णान्ते तोयदस्येव तोयपूर्णस्य निःस्वनम् ॥ ४.९ ॥ रक्तां पुष्टक्षरां रम्यमाभयां सर्वदा शिवाम् । वाणीं परमसंस्कारं वदतां ब्रह्मवादिनाम् ॥ ४.१० ॥ दिव्यां सत्यकरीं सत्यां सर्वकल्मषनाशिनीम् । सर्वदेवाधिदेवस्य ततोऽसौ भावितात्मनः ॥ ४.११ ॥ तस्य व्रतसमाप्त्यां तु योगव्रतविसर्जने । अमोघं तस्य देवस्य विश्वतेजो महात्मनः ॥ ४.१२ ॥ कस्य किं वो वरं देवा ददामि वरदः स्थितः । स्वागतं वः सुरश्रेष्ठा मत्समीपमुपागताः ॥ ४.१३ ॥ ततोऽदितिः कश्यपश्च गृह्णीयातां वरं तदा । प्रणम्य शिरसा पादौ तस्मै देवाय धीमते ॥ ४.१४ ॥ भगवानेव नः पुत्रो भवत्विति प्रसीद नः । उक्तश्च परया वाचा तथास्त्वति स वक्ष्यति ॥ ४.१५ ॥ देवा ब्रुवन्ति ते सर्वे कस्यपोऽदितिरेव च । तथास्त्विति सुराः सर्वे प्रणम्य शिरसा प्रभुम् । श्वेतद्वीपं समुद्दिश्य गताः सौम्यदिशं प्रति ॥ ४.१६ ॥ तेऽचिरेणैव संप्राप्ताः क्षीरोदं सरितां पतिम् । यथोद्दिष्टं भगवता ब्रह्मणा सत्यवादिना ॥ ४.१७ ॥ ते क्रान्ताः सागरान् सर्वान् पर्वतांश्च सकाननान् । नदीश्च विविधा दिव्याः पृथिव्यां ते सुरोक्तमाः ॥ ४.१८ ॥ अपश्यन्त तमो घोरं सर्वसत्त्वविवर्जितम् । अभास्करममर्यादं तमसा सर्वतो वृतम् ॥ ४.१९ ॥ अमृतं स्थानमासाद्यकश्यपेन महात्मना । दीक्षिताः कामदं दिव्यं व्रतं वर्ष सहस्रकम् ॥ ४.२० ॥ प्रसादार्थं सुरेशाय तस्मै योगाय धीमते । नारायणाय देवाय सहस्राक्षाय भूतये ॥ ४.२१ ॥ ब्रह्मचर्येण मौनेन स्थानवीरासनेन च । क्रमेण च सुराः सर्वे तप उग्रं समास्थिताः ॥ ४.२२ ॥ कश्यपस्तत्र भगवान् प्रसादार्थं महात्मनः । उदीरयत वेदोक्तं यमाहुः परमं स्तवम् ॥ ४.२३ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये चतुर्थेऽध्यायः _____________________________________________________________ कश्यप उवाच नमोऽस्तु ते देवदेव एकशृङ्ग वृषार्च्चे सिन्धुवृष वृषाकपे सुरवृष अनादिसंभव रुद्र कपिल विष्वक्सेन सर्वभूतपते ध्रुव धर्मधर्म वैकुण्ठ वृषावर्त अनादिमध्यनिधन धनञ्जय शुचिश्रवः पृश्नितेजः निजय (५) अमृतेशय सनातन त्रिधाम तुषित महातत्त्व लोकनाथ पद्मनाभ विरिञ्चे बहुरूप अक्षय अक्षर हव्यभुज खण्डपरशो शतक्र मुञ्जकेश हंस महादक्षिण हृषीकेश सूक्ष्म महानियमधर विरज लोकप्रतिष्ठ अरूप अग्रज धर्मज धर्मनाभ (१०) गभस्तिनाभ शतक्रतुनाभ चन्द्ररथ सूर्यतेजः समुद्रवासः अजः सहस्रशिरः सहस्रपाद अदोमुख महापुरुष पुरुषोत्तम सहस्रबाहो सहस्रमूर्ते सहस्रास्य परुषोत्तम सहस्रबाहो सहस्रमूर्ते सहस्रास्य सहस्रसंभव सहस्रसत्त्वं त्वमाहुः । पुष्पहास चरम त्वमेव वौषट्(१५) वषट्कारं त्वामाहुरग्रयं मखेषु प्राशितारं सहस्रधारं च भुश्च भुवश्च स्वश्च त्वमेव वेदवेद्य ब्रह्मशय ब्राह्मणप्रिय त्वमेव द्यौरसि मातरिश्वासि धर्मोऽसि होता पोता मन्ता नेता होमहेतुस्त्वमेव अग्रय विश्वधाम्ना त्वमेव दिग्भिः सुभाण्ड (२०) इज्योऽसि सुमेधोऽसि समिधस्त्वमेव मतिर्गतिर्दाता त्वमसि । मोक्षोऽसि योगोऽसि । सृजसि । धाता परमयज्ञोऽसि सोमोऽसि दीक्षितोऽसि दक्षिणासि विश्वमसि । स्थविर हिरण्यनाम नारायण त्रिनयन आदित्यवर्म आदित्यतेजः महापुरुष (२५) पुरुषोत्तम आदिदेदेव सुविक्रम प्रभाकर शंभो स्वयंभो भूतादिः महाभूतोऽसि विश्वभूत विश्वं त्वमेव विश्वगोप्तासि पवित्रमसि विश्वभव ऊर्ध्वकर्म अमृत दिवस्पते वाचस्पते घृतार्चे अनन्तकर्म वंश प्रग्वंश विश्वपास्त्वमेव वरार्थिनां वरदोऽसि त्वम् । (३०) चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्जभिरेव च । हूयते च पुनर्द्वाभ्यां तुभ्यं होत्रात्मने नमः । इति श्रीवामनपुराणे सरोमाहात्म्ये पञ्चमोऽध्यायः _____________________________________________________________ लोमहर्षण उवाच । नारायणस्तु भगवाञ्छ्रुत्वैवं परमं स्तवम् । ब्रह्मज्ञेन द्विजेन्द्रेण कश्यपेन समीरितम् ॥ ६.१ ॥ उपाच वचनं सम्यक्तुष्टः पुष्टपदाक्षरम् । श्रीमान् प्रीतमना देवो यद्वदेत्प्रभुरीश्वरः ॥ ६.२ ॥ वरं वृणुध्वं भद्रं वो वरदोऽस्मि सुरोत्तमाः । कश्यप उवाच प्रीतोऽसि नः सुरश्रेष्ठ सर्वेषामेव निश्चयः ॥ ६.३ ॥ वासवस्यानुजो भ्राता ज्ञातीनां नन्दिवर्धनः । अदित्या अपि च श्रीमान् भगवानस्त वै सुतः ॥ ६.४ ॥ अदितिर्देवमाता च एतमेवार्थमुत्तमम् । पुत्रार्थं वरदं प्राह भगवन्तं वरार्थिनी ॥ ६.५ ॥ देवा ऊचुः निःश्रेयसार्थं सर्वेषां दैवतानां महेश्वर । त्राता भर्ता च दाता च शरणं भव नः सदा ॥ ६.६ ॥ ततस्तानब्रवीद्विष्णुर्देवान् कश्यपमेव च । सर्वेषामेव युष्माकं ये भविष्यन्ति शत्रवः । मुहूर्तमपि ते सर्वे न स्थास्यन्ति ममाग्रतः ॥ ६.७ ॥ हत्वासुरागणन् सर्वान् यज्ञभागाग्रभेजिनः । हव्यादांश्च सुरान् सर्वान् कव्यादांश्च पितृनपि ॥ ६.८ ॥ करिष्ये विबुधश्रेष्ठाः पारमेष्ठ्येन कर्मणा । यथायातेन सार्गेण निवर्तध्वं सुरोत्तमाः ॥ ६.९ ॥ लोमहर्षण उवाच एवमुक्ते तु देवेन विष्णुना प्रभविष्णुना । ततः प्रहृष्टमनसः पूजयन्ति स्म तं प्रभुम् ॥ ६.१० ॥ विश्वेदेवा महात्मानः कश्यपोऽदितिरेव च । नमस्कृत्य सुरेशाय तस्मै देवाय रंहसा ॥ ६.११ ॥ प्रयाताः प्राग्दिशं सर्वे विपुलं कश्यपाश्रमम् । ते कश्यपाश्रमं गत्वा कुरुक्षेत्रवनं महात् ॥ ६.१२ ॥ प्रसाद्य ह्यदितिं तत्र तपसे तां न्ययोजयन्। थ सा चचार तपो घोरं वर्षाणामयुतं तदा ॥ ६.१३ ॥ तस्या नाम्ना वनं दिव्यं सर्वकामप्रदं शुभम् । आराधनाय कृष्णस्य वाग्जिता वायुभोजना ॥ ६.१४ ॥ दैत्यैर्निराकृतान् दृष्ट्वा तनयानृषिसत्तमाः । वृथापुत्राहमिति सा निर्वेदात्प्रणयाद्धरिम् । तुष्टाव वाग्भिरग्र्याभिः परमार्थवबोधिनी ॥ ६.१५ ॥ शरण्यं शरणं विष्णुं प्रणता भक्तवत्सलम् । देवदैत्यमयं चादिमध्यमान्तस्वरूपिणम् ॥ ६.१६ ॥ अदितिरुवाच नमः कृत्यार्तिनाशाय नमः पुष्करमालिने । नमः परमकल्याण कल्याणायादिवेधसे ॥ ६.१७ ॥ नमः पङ्कजनेत्राय नमः पङ्कजनाभये । नमः पङ्कजसंभूतिसंभवायात्मयोनये ॥ ६.१८ ॥ श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे । नमः पद्मासिहस्ताय नमः कनकरेतसे ॥ ६.१९ ॥ तथात्मज्ञानयज्ञाय योगिचिन्त्याय योगिने । निर्गुणाय विशेषाय हरये ब्रह्मरूपिणे ॥ ६.२० ॥ जगच्च तिष्ठते यत्र जगतो यो न दृस्यते । नमः स्थूलातिसूक्ष्माय तस्मै देवाय शार्ङिड्णे ॥ ६.२१ ॥ यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः । अपश्यद्भिर्जगद्यश्च दृश्यते हृदि संस्थितः ॥ ६.२२ ॥ बहिर्ज्योति रलक्ष्यो यो लक्ष्यते ज्योतिषः परः । यस्मिन्नेव यतश्चैव यस्यैतदखिलं जगत् ॥ ६.२३ ॥ तस्मै समस्तजगताममराय नमो नमः । आद्यः प्रजापतिः सोऽपि पितॄणां परमः पतिः । पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥ ६.२४ ॥ यः प्रवृत्तैर्निवृत्तैश्च कर्मस्तस्मै विरज्यते । स्वर्गापवर्गफलदो नमस्तस्मै गदाभृते ॥ ६.२५ ॥ यस्तु संचित्यमानोऽपि सर्वं पापं व्यपोहति । नमस्तस्मै विशुद्धाय परस्मै हरिमेधसे ॥ ६.२६ ॥ ये पश्यन्त्यखिलाधारमीशानमजमव्ययम् । न पुनर्जन्ममरणं प्राप्नुवन्ति नमामि तम् ॥ ६.२७ ॥ यो यज्ञो यज्ञपरमैरिज्यते यज्ञसंस्थितः । तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् ॥ ६.२८ ॥ गीयते सर्ववेदेषु वेदविद्भिर्विदां गतिः । यस्तस्मै वेदवेद्याय नित्याय विष्णवे नमः ॥ ६.२९ ॥ यतो विश्वं समुद्भूतं यस्मिन् प्रलयमेष्यति । विश्वोद्भवप्रतिष्ठाय नमस्तस्मै महात्मने ॥ ६.३० ॥ आब्रह्मस्तम्बपर्यन्तं व्याप्तं येन चराचरम् । मायाजालसमुन्नद्धं तमुपेन्द्रं नमाम्यहम् ॥ ६.३१ ॥ योऽत्र तोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः । विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् ॥ ६.३२ ॥ मूर्त तमोऽसुरमयं तद्विधो विनिहन्ति यः । रात्रिजं सूर्यरूपी च तमुपेन्द्रं नमाम्यहम् ॥ ६.३३ ॥ यस्याक्षिणि चन्द्रसूर्यौ सर्वलोकशुभाशुभम् । पश्यतः कर्म सततं तमुपेन्द्रं नमाम्यहम् ॥ ६.३४ ॥ यस्मिन् सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम् । नानृतं तमजं विष्णुं नमामि प्रभवाव्ययम् ॥ ६.३५ ॥ यद्येतत्सत्यमुक्तं मे भूयश्चातो जनार्दन । सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ॥ ६.३६ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये षष्ठोऽध्यायः _____________________________________________________________ लोमहर्षण उवाच । एवं स्तुतोऽथ भगवान् वासुदेव उवाच ताम् । अदृश्यः सर्वभूतानां तस्याः संदर्शने स्थितः ॥ ७.१ ॥ श्रीभगवानुवाच मनोरथांस्त्वमदिते यानिच्छस्यभिवाञ्छितान् । तांस्त्वं प्राप्यसि धर्मज्ञे मत्प्रसादान्न संशयः ॥ ७.२ ॥ शृणु त्वं च महाभागे वरो यस्ते हृति स्थितः । मद्दर्शनं हि विफलं न कदाचिद्भविष्यति ॥ ७.३ ॥ यश्चेह त्वद्वने स्थित्वा त्रिरात्रं वै करिष्यति । सर्वे कामाः समृध्यन्ते मनसा यानिहेच्छति ॥ ७.४ ॥ दूरस्थोऽपि वनं यस्तु अदित्याः स्मरते नरः । सोऽपि याति परं स्थानं किं पुनर्निवसन्नरः ॥ ७.५ ॥ यश्चेह ब्राह्मणान् पञ्च त्रीन् वा द्वावेकमेव वा । भोजयेच्छ्रद्धया युक्ताः स याति परमां गतिम् ॥ ७.६ ॥ अदितिरुवाच यदि देव प्रसन्नस्त्वं भक्त्या मे भक्तवत्सल । त्रैलोक्याधिपतिः पुत्रस्तदस्तु मम वासवः ॥ ७.७ ॥ हृतं राज्यं हृतश्चास्य यज्ञभाग इहासुरैः । त्वयि प्रसन्ने परद तत्प्राप्नोतु सुतो मम ॥ ७.८ ॥ हृतं राज्यं न दुःखाय मम पुत्रस्य केशव । प्रपन्नदायविभ्रंशो बाधां मे कुरुते हृति ॥ ७.९ ॥ श्रीभगवानुवाच कृतः प्रसादो हि मया तव देवि यथेप्सितम् । स्वांशेन चैव ते गर्भे संभविष्यामि कश्यपात् ॥ ७.१० ॥ तव गर्भे समुद्भूतस्ततस्ते ये त्वरातयः । तानहं च हनिष्यामि निवृत्ता भव नन्दिनि ॥ ७.११ ॥ अदितिरुवाच प्रसीद देवदेवेश नमस्ते विश्वभावन । नाहं त्वामुदरे वोढुमीश शक्ष्यामि केशव । यस्मिन् प्रतिष्ठितं सर्वं विश्वयोनिस्त्वमीश्वरः ॥ ७.१२ ॥ अहं त्वां च वहिष्यामि आत्मानं चैव नन्दिनि । न च पीडां करिष्यामि स्वस्ति तेऽस्तु व्रजाम्यहम् ॥ ७.१३ ॥ इत्युक्त्वान्तर्हिते देवेऽदितिर्गर्भं समादधे । गर्भस्थिते ततः खृष्णे चचाल सरला क्षितिः । चकम्पिरे महाशैला जग्मुः क्षोभं महाब्धयः ॥ ७.१४ ॥ यतो यतोऽदितिर्याति ददाति पदमुत्तमम् । ततस्ततः क्षितिः खेदान्ननाम द्विजपुङ्गवाः ॥ ७.१५ ॥ दैत्यानामपि सर्वेषां गर्भस्थे मधुसूदने । बभूव तेजसो हानिर्यथोक्तं परमेष्ठिना ॥ ७.१६ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये सप्मोऽध्यायः _____________________________________________________________ लोमहर्षण उवाच । निस्तेसोऽसुरान् दृष्टवा समस्तानसुरेश्वरः । प्रह्लादमथ पप्रच्छ बलिरात्मपितामहम् ॥ ८.१ ॥ बलिरुवाच तात निस्तेजसो दैत्या निर्दग्धा इव वह्निना । किमेते सहसैवाद्य ब्रह्मदण्डहता इव ॥ ८.२ ॥ दुरिष्टं किं तु दैत्यानां कि कृत्या विधिनिर्मिता । नाशायैषां समुद्भुता येन निस्तेजसोऽसुराः ॥ ८.३ ॥ लोमहर्षण उवाच इत्यसुरवरस्तेन पृष्टः पौत्रेण ब्राह्मणाः । चिरं ध्यात्वा जगादेदमसुरं तं तदा बलिम् ॥ ८.४ ॥ प्रह्लाद उवाच चलन्ति गिरयो भीमिर्जहाति सहसा धतिम् । सद्यः समुद्राः क्षुभिता दैत्या निस्तेजसः कृताः ॥ ८.५ ॥ सूर्योदये यथा पूर्वं तथा गच्छन्ति न ग्रहाः । देवानां च परा लक्ष्मीः करणेनानुमीयते ॥ ८.६ ॥ महदेतन्महाबाहो कारणं दानवेश्वर । न ह्यल्पमिति मन्तव्यं त्वया कार्यं कथञ्चन ॥ ८.७ ॥ लोमहर्षण उवाच इत्युक्त्वा दानवपतिं प्रह्लादः सोऽसुरोत्तमः । अत्यर्थभक्तो देवेशं जगाम मनसा हरिम् ॥ ८.८ ॥ स ध्यानपथगं कृत्वा प्रह्लादश्च मनोऽसुरः । विचारयामास ततो यथा देवो जनार्दनः ॥ ८.९ ॥ स ददर्शोदरेऽदित्याः प्रह्लादो वामनाकृतिम् । तदन्तश्च वसून् रुद्रानश्विनौ सरुतास्तथा ॥ ८.१० ॥ साध्यान् विश्वे तथादित्यान् गन्धर्वोरगराक्षसान् । विरोचनं च तनयं बलिं चासुरनायकम् ॥ ८.११ ॥ जम्भं कुजम्भं नरकं बाणमन्यांस्तथासुरान् । आत्मानमुर्वीं गगनं वायुं वारि हुताशनम् ॥ ८.१२ ॥ समुद्राद्रिसरिद्द्वीपान् सरांसि च पशून्महीम् । वयोमनुष्यानखिलांस्तथैव च सरीसृपान् ॥ ८.१३ ॥ समस्तलोकस्रष्टारं ब्रह्मणं भवमेव च । ग्रहनक्षत्रताराश्च दक्षाद्यांश्च प्रजापतीन् ॥ ८.१४ ॥ संपश्यन् विस्मयाविष्टः प्रकृतिस्थः क्षणात्पुनः । प्रह्लादः प्राह दैत्येन्द्रं बलिं वैरोचिनिं ततः ॥ ८.१५ ॥ तत्संज्ञातं मया सर्वं यदर्थं भवतामियम् । तेजसो हानिरुत्पन्ना शृण्वन्तु तदशेषतः ॥ ८.१६ ॥ देवदेवो जगद्योनिरयोनिर्जगदादिजः । अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥ ८.१७ ॥ परावराणां परमः परापरसतां गतिः । प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः । स्थितिं कर्तु जगन्नाथः सोऽचिन्त्यो गर्भतां गतः ॥ ८.१८ ॥ प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः । त्रैलोक्यमंशेन सनाथमेकः कर्तु महात्मादितिजोऽवतीर्मः ॥ ८.१९ ॥ न यस्य रुद्रो न च पद्मयोनिर्नेन्द्रो न सूर्येन्दुमरीचिमिश्राः । जानन्ति दैत्याधिप यत्स्वरूपं स वासुदेवः कलयावतीर्णः ॥ ८.२० ॥ यमक्षरं वेदविदो वदन्ति विशन्ति यं ज्ञानविधूतपापाः । यस्मिन् प्रविष्टा न पुरर्भवन्ति तं वासुदेवं प्रणमामि देवम् ॥ ८.२१ ॥ भृतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयन्धेरजस्रम् । लयं च यस्मिन् प्रलये प्रयान्ति तं वासुदेवं प्रणतोऽस्म्यचिन्त्यम् ॥ ८.२२ ॥ न यस्य रूपं न बलं प्रभावो न च प्रतापः परमस्य पुंसः । विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमामि नित्यम् ॥ ८.२३ ॥ रूपस्य चक्षुर्ग्रहणे त्वगेषा स्पर्शग्रहित्री रसना रसस्य । घ्राणं च गन्धग्रहणे नियुक्तं न घ्राणचक्षुः श्रवणादि तस्य ॥ ८.२४ ॥ स्वयंप्रकाशः परमार्थतो यः सर्वेश्वरो वेदितव्यः स युक्त्या । शक्यं तमीड्यमनघं च देवं ग्राह्यं नतोऽहं हरिमीशितारम् ॥ ८.२५ ॥ येनैकदंष्ट्रेण समुद्धृतेयं धराचला धारयतीह सर्वम् । शेते ग्रसित्वा सकलं जगद्यस्तमीड्यमीशं प्रणतोऽस्मि विष्णुम् ॥ ८.२६ ॥ अंशावतीर्णेन च येन गर्भे हृतानि तेजांसि महासुराणाम् । नमामि तं देवमनन्तमीशमशेषसंसारतरोः कुठारम् ॥ ८.२७ ॥ देवो जगद्योनिरयं महात्मा स षोड्शांशेन महासुरेन्द्राः । सुरेन्द्रमातुर्जठरं प्रविष्टो हृतानि वस्तेन बलं वपूंषि ॥ ८.२८ ॥ बलिरुवाच तात कोऽयं हरिर्नाम यतो नो भयमागतम् । सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ॥ ८.२९ ॥ विप्रचित्तिः शिबिः शङ्कुरयः शङ्कुस्तथैव च । हयशिरा अश्वशिरा भङ्गकारो महाहनुः ॥ ८.३० ॥ प्रतापी प्रघशः शंभुः कुक्कुराक्षश्च दुर्जयः । एते चान्ये च मे सन्ति दैतेया दानवास्तथा ॥ ८.३१ ॥ महाबला महावीर्या भूभारधरणक्षमाः । एषामेकैकशः कृष्णो न वीर्यार्द्धेन संमितः ॥ ८.३२ ॥ लोमहर्षम उवाच पौत्रस्यैतद्वचः श्रुत्वा प्रह्लादो दैत्यसत्तमः । सक्रोधश्च बलिं प्राह वैकुण्ठाक्षेपवादिनम् ॥ ८.३३ ॥ विनाशमुपयास्यन्ति दैत्या ये चापि दानवाः । येषां त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् ॥ ८.३४ ॥ देवदेवं महाभागं वासुदेवमजं विभुम् । त्वामृते पापसङ्कल्प कोऽन्य एवं वदिष्यति ॥ ८.३५ ॥ य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः । सब्रह्मकास्तथा देवाः स्थावरान्ता विभूतयः ॥ ८.३६ ॥ त्वं चाहं च जगच्चेदं साद्रिद्रुमनदीवनम् । ससमुद्रद्वीपलोकोऽयं यश्चेदं सचराचरम् ॥ ८.३७ ॥ यस्याभिवाद्यवन्द्यस्य व्यापिनः परमात्मनः । एकांशांशकलाजन्म कस्तमेवं प्रवक्ष्यति ॥ ८.३८ ॥ ऋते विनाशाबिमुखं त्वामेकमविवेकिनम् । दुर्बुद्धिमजितात्मानं वृद्धानं शासनातिगम् ॥ ८.३९ ॥ शोच्योऽहं यस्य मे गेहे जातस्तव पिताधमः । यस्य त्वमीदृशः पुत्रो देवदेवावमानकः ॥ ८.४० ॥ तिष्ठत्वनेकसंसारसंघातौघविनाशिनि । कृष्णे भक्तिरहं तावदवेक्ष्यो भवता न किम् ॥ ८.४१ ॥ न मे प्रियतरः कृष्णादपि देहोऽयमात्मनः । इति जानात्ययं लोको भवांश्च दितिनन्दन ॥ ८.४२ ॥ जानन्नपि प्रियतरं प्राणेभ्योऽपि हरिं मम । निन्दां करोषि तस्य त्वमकुर्वन् गौरवं मम ॥ ८.४३ ॥ विरोचनस्तव गुरुर्गुरुस्तयाप्यहं बले । ममापि सर्वजगतां गुरुर्नारायणो हरिः ॥ ८.४४ ॥ निन्दां करोषि तस्मिस्त्वं कृष्णे गुरुगुरोर्गुरौ । यस्मात्तस्मादिहैव त्वमैश्वर्याद्भ्रांशमेष्यसि ॥ ८.४५ ॥ स देवो जगतां नाथो बले प्रभुर्जनार्दनः । नन्वहं प्रत्यवेक्ष्यस्ते भक्तिमानत्र मे गुरुः ॥ ८.४६ ॥ एतावन्मात्रमप्यत्र निन्दता जगतो गुरुम् । नापेक्षितस्त्वया यस्मात्तस्माच्छापं ददामि ते ॥ ८.४७ ॥ यथा मे शिरसश्छेदादिदं गुरुतरं बले । त्वयोक्तमच्युताक्षेपं राज्यभ्रष्टस्तथा पत ॥ ८.४८ ॥ यथा न कृष्णादपरः परित्राणं भवार्णवे । तथाचिरेण पश्येयं भवन्तं राज्यविच्युतम् ॥ ८.४९ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये अष्टमोऽध्यायः _____________________________________________________________ लोमहर्षण उवाच । इति दैत्यपतिः श्रुत्वा वचनं रौद्रमप्रियम् । प्रसादयामास गुरुं प्रणिपत्य पुनः पुनः ॥ ९.१ ॥ बलिरुवाच प्रसीद तात मा कोपं कुरु मोहहते मयि । बलावलेपमूढेन मयैतद्वाक्यमीरितम् ॥ ९.२ ॥ मोहापहतविज्ञानः पपोऽहं दितिजोत्तम । यच्छप्तोऽस्मि दुराचारस्तत्साधु भवता कृतम् ॥ ९.३ ॥ राज्यभ्रंशं यशोभ्रंशं प्रप्स्यामीति ततस्त्वहम् । विषण्णोऽसि यथा तात तथैवाविनये कृते ॥ ९.४ ॥ त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम् । ससारे दुर्लभास्तात गुरवो ये भवद्विधाः ॥ ९.५ ॥ प्रसीद तात मा कोपं कर्तुमर्हसि दैत्यप । त्वत्कोपपरिदग्धोऽहं परितप्ये दिवानिशम् ॥ ९.६ ॥ प्रह्लाद उवाच वत्स कोपेन मे मोहो जनितस्तेन ते मया । शापो दत्तो विवेकश्च मोहेनापहृतो मम ॥ ९.७ ॥ यदि मोहेन मे ज्ञानं नाक्षिप्तं स्यान्महासुर । तत्कथं सर्वगं जानन् हरिं कच्चिच्छपाम्यहम् ॥ ९.८ ॥ यो यः शापो मया दत्तो भवतोऽसुरपुङ्गव । भाव्यमेतेन नूनं ते तस्मात्त्वं मा विषीद वै ॥ ९.९ ॥ अद्यप्रभृति देवेशे भगवत्यच्युते हरौ । भवेथा भक्तिमानीशे स ते त्राता भविष्यति ॥ ९.१० ॥ शापं प्राप्य च मे वीर देवेशः संस्मृतस्त्वया । तथा तथा वदिष्यामि श्रेयस्त्वं प्राप्स्यसे यथा ॥ ९.११ ॥ लोमहर्षण उवाच अदितिर्वरमासाद्य सर्वकामसमृद्धिदम् । क्रमेण ह्युदरे देवो वृद्धिं प्राप्तो महायशाः ॥ ९.१२ ॥ ततो मासेऽथ दशमे काले प्रसव आगते । अजायत स गोविन्दो भगवान् वामनाकृतिः ॥ ९.१३ ॥ अवतीर्णे जगन्नाथे तस्मिन् सर्वामरेश्वरे । देवाश्च मुमुचुर्दुःखं देवमातादितिस्तथा ॥ ९.१४ ॥ ववुर्वाताः सुखस्पार्शा नीरजस्कमभून्नभः । धर्मे च सर्वभूतानां तदा मतिरजायत ॥ ९.१५ ॥ नोद्वेगश्चाप्यभूद्देहे मनुजानां द्विजोत्तमाः । तदा हि सर्वभूतानां धर्मे मतिरजायत ॥ ९.१६ ॥ तं जातमात्रं भगवान् ब्रह्म लोकपितामहः । जातकर्मादिकां कृत्वा क्रियां तुष्टाव च प्रभुम् ॥ ९.१७ ॥ ब्रह्मोवाच जयाधीश जयाजेय जय विश्वगुरो हरे । जन्ममृत्युजरातीत जयानन्त जयाच्युत ॥ ९.१८ ॥ जयाजित जयाशेष जयाव्यक्तस्थिते जय । परमार्थार्थ सर्वज्ञ ज्ञानज्ञेयार्थनिःसृत ॥ ९.१९ ॥ जयाशेष जगत्साक्षिञ्जगत्कर्तर्जगद्गुरो । जगतोऽजगदन्तेश स्थितौ पालयते जय ॥ ९.२० ॥ जयाखिल जयाशेष जय सर्वहृदिस्थित । जयादिमध्यान्तमय सर्वज्ञानमयोत्तम ॥ ९.२१ ॥ मुमुक्षुभिरनिर्देश्य नित्यहृष्ट जयेश्वर । योगिभिर्मुक्तिकामैस्तु दमादिघुणभूषण ॥ ९.२२ ॥ जयातिसूक्ष्म दुर्ज्ञेय जय स्थूल जगन्मय । जय सूक्ष्मातिसूक्ष्म त्वं जयानिन्द्रिय सेन्द्रिय ॥ ९.२३ ॥ जय स्वमायायोगस्थ शेषभोग जयाक्षर । जयैकदंष्ट्रप्रान्तेन समुद्धृतवसुंधर ॥ ९.२४ ॥ नृकेसरिन् सुरारातिवक्षस्थलविदारण । साम्प्रतं जय विश्वात्मन्मायावामन केशव ॥ ९.२५ ॥ निजमायापरिच्छिन्न जगद्धातर्जनार्दन । जयाचिन्त्य जयानेकास्वरूपैकविध प्रभो ॥ ९.२६ ॥ वर्द्धस्व वर्धितानेकविकारप्रकृते हरे । त्वय्येषा जगतामीशे संस्थिता धर्मपद्धतिः ॥ ९.२७ ॥ न त्वामहं न चेशानो नेन्द्राद्यास्त्रिदशा हरे । ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः ॥ ९.२८ ॥ त्वं मायापटसंवीतो जगत्यत्र जगत्पते । कस्त्वां वेत्स्यति सर्वेश त्वत्प्रसादं विना नरः ॥ ९.२९ ॥ त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो । स एव केवलं देवं वेत्ति त्वां नेतरो नज ॥ ९.३० ॥ तदीश्वरेश्वरेशान विभो वर्द्धस्व भावन । प्रभवायास्य विश्वस्य विश्वात्मन् पृथुलोचन ॥ ९.३१ ॥ लोमहर्षण उवाच एलं स्तुतो हृषीकेशः स तदा वामनाकृतिः । प्रहस्य भावगम्भीरमुवाचारूढसंपदम् ॥ ९.३२ ॥ स्तुतोऽहं भवता पूर्वमिन्द्राद्यैः कश्यपेन च । मया च वः प्रतिज्ञातमिन्द्रस्य भुवनत्रयम् ॥ ९.३३ ॥ भृयश्चहं स्तुतोऽदित्या तस्याश्चापि मयाश्रुतम् । यथा शक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ॥ ९.३४ ॥ सोऽहं तथा करिष्यामि यथेन्द्रो जगतः पतिः । भविष्यति सहस्राक्षः सत्यमेतद्ब्रवीमि वः ॥ ९.३५ ॥ ततः कृष्णाजिनं ब्रह्म हृषीकेशाय दत्तवान् । यज्ञोपवीतं भगवान् ददौ तस्य बृहस्पतिः ॥ ९.३६ ॥ आषाढमददाद्दण्डं मरीचिर्ब्रह्मणः सुतः । कमण्डलुं वसिष्ठश्च कौशं चीरमथाङ्गिराः । आसनं चैव पुलहः पुलस्त्यः पीतवाससी ॥ ९.३७ ॥ उपतस्थुश्च तं वेदाः प्रणवस्वरभूषणाः । शास्त्राण्यशेषाणि तथा सांख्ययोगोक्तयश्च याः ॥ ९.३८ ॥ स वामनो जटी दण्डी छत्री धृतकमण्डलुः । सर्वदेवमयो देवो बलेरध्वरमभ्यगात् ॥ ९.३९ ॥ यत्र यत्र पदं विप्रा भूभागे वामनो ददौ । ददाति भूमिर्विवरं तत्र तत्राभिपीडिता ॥ ९.४० ॥ स वामनो जडगतिर्मृदु गच्छन् सपर्वताम् । साब्धिद्वीपवतीं सर्वां चालयामास भेदिनीम् ॥ ९.४१ ॥ बृहस्पतिस्तु शनकैर्मार्गं दर्शयते शुभम् । तथा क्रीडाविनोदार्थमतिजाड्यगतोऽभवत् ॥ ९.४२ ॥ ततः शेषो महानागो निःसृत्यासौ रसातलात् । साहाय्यं कल्पयामास देवदेवस्य चक्रिणः ॥ ९.४३ ॥ तदद्यापि च विख्यातमहेर्विलमनुत्तमम् । तस्य संदर्शनादेव नागेभ्यो न भयं भवेत् ॥ ९.४४ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये नवमोऽध्यायः _____________________________________________________________ लोमहर्षण उवाच । सपर्वतवनामुर्वीं दृष्ट्वा संक्षुभितां बलिः । पप्रच्छोशनसं शुक्रं प्रणिपत्य कृताञ्जलिः ॥ १०.१ ॥ आचार्य क्षोभमायाति साब्धिभूमिधरा मही । कस्माच्च नासुरान् भागान् प्रतिगृह्णन्ति वह्नयः ॥ १०.२ ॥ इति पृष्टोऽथ बलिना काव्यो वेदविदां वरः । उवाच दैत्याधिपतिं चिरं ध्यात्वा महामतिः ॥ १०.३ ॥ अवतीर्णो जगद्योनिः कश्यपस्य गृहे हरिः । वामनेनेह रूपेण परमात्मा सनातनः ॥ १०.४ ॥ स नूनं यज्ञमायाति तव दानवपुङ्गव । तत्पादन्यासविक्षोभादियं प्रचलिता मही ॥ १०.५ ॥ कम्पन्ते गिरयश्चेमे क्षुभिता मकरालयाः । नेयं भूतपतिं भूमिः समर्था वोढुमीश्वरम् ॥ १०.६ ॥ सदेवासुरगन्धर्वा यक्षराक्षसपन्नगा । अनेनैव धृता भूमिरापोऽग्निः पवनो नभः । धारयत्यखिलान् देवान्मनुष्यांश्च महासुरान् ॥ १०.७ ॥ इयमस्य जगद्धातुर्माया कृष्णस्य गह्वरी । धार्यधारकभावेन यया संपीडितं जगत् ॥ १०.८ ॥ तत्सन्निधानादसुरा न भागार्हाः सुरद्विषः । भुञ्जते नासुरान् भागानपि तेन त्रयोऽग्नयः ॥ १०.९ ॥ शुक्रस्य वचनं श्रुत्वा हृष्टरोमाब्रवीद्बलिः । धन्योऽहं कृतपुण्यश्च यन्मे यज्ञपतिः स्वयम् । यज्ञमभ्यागतो ब्रह्मन्मत्तः कोऽन्योऽधिकः पुमान् ॥ १०.१० ॥ यं योगिनः सदोद्युक्ताः परमात्मानमव्ययम् । द्रष्टुमिच्छन्ति देवोऽसौ ममाध्वरमुपेष्यति । यन्मयाचार्य कर्तव्यं तन्ममादेष्टुमर्हसि ॥ १०.११ ॥ शुक्र उवाच यज्ञभागभुजो देवा वेदप्रामाण्यतोऽसुर । त्वया तु दानवा दैत्य यज्ञभागभुजः कृताः ॥ १०.१२ ॥ अयं च देवः सत्त्वस्थः करोति स्थितिपालनम् । विसृष्टं च तथायं च स्वयमत्ति प्रजाः प्रभुः ॥ १०.१३ ॥ भवांस्तु वन्दी भविता नूनं विष्णुः स्थितौ स्थितः । विदित्वैवं महाभागा कुरु यत्ते मनोगतम् ॥ १०.१४ ॥ त्वयास्य दैत्याधिपते क्वल्पकेऽपि हि वस्तुनि । प्रतिज्ञा नैव वोढव्या वाच्यं साम तथाफलम् ॥ १०.१५ ॥ कृतकृत्यस्य देवस्य देवार्थं चैव कुर्वतः । अलं दद्यां धनं देवे त्वेतद्वाच्यं तु याचतः । कृष्णस्य देवभूत्यर्थ प्रवृत्तस्य महासुर ॥ १०.१६ ॥ बलिरुवाच ब्रह्मन् कथमहं ब्रूयामन्येनापि हि याचितः । नास्तीति किमु देवस्य संसाकस्याघहारिणः ॥ १०.१७ ॥ व्रतोपवासैर्विविधैर्यः प्रभुर्गृह्यते हरिः । स मे वक्ष्यति देहीति गोविन्दःकिमतोऽधिकम् ॥ १०.१८ ॥ यदर्थं सुमहारम्भा दमशौचगुणान्वितैः । यज्ञा क्रियन्ते यज्ञेशः स मे देहीति वक्ष्यति ॥ १०.१९ ॥ तत्साधु सुकृतं कर्म तपः सुचरितं चनः । यन्मा देहीति विश्वेशः स्वयमेव वदिष्यति ॥ १०.२० ॥ नास्तीत्यहं गुरो वक्ष्ये तमभ्यागतमीश्वरम् । प्राणत्यागं करिष्येऽहं न तु नास्ति जने क्वचित् ॥ १०.२१ ॥ नास्तीति यन्मया नोक्तमन्येषामपि याचताम् । वक्ष्यामि कथमायाते तदद्य चामरेऽच्युते ॥ १०.२२ ॥ श्लाघ्य एव हि वीराणां दानाच्चापत्समागमः । न बाधाकारि यद्दानं तदङ्गं बलवत्स्मृतम् ॥ १०.२३ ॥ मद्राज्ये नासुखी कश्चिन्न दरिद्रो न चातुरः । न दुःखितो न चोब्दिग्नो न शमादिविवर्जितः ॥ १०.२४ ॥ हृष्टस्तुष्टः सुगन्धी च तृप्तः सर्वसुखान्वितः । जनः सर्वो महाभाग किमुताहं सदा सुखी ॥ १०.२५ ॥ एतद्विशिष्टमत्राहं दानबीजफलं लभे । विदितं मुनिशार्दुल मयैतत्त्वन्मुखाच्छ्रुतम् ॥ १०.२६ ॥ मत्प्रसादपरो नूनं यज्ञेनाराधितो हिरः । मम दानमवाप्यासौ पुष्णाति यदि देवताः ॥ १०.२७ ॥ एतद्बीजवरे दानबीजं पतति चेद्गुरौ । जनार्दने महापात्रे किं न प्राप्तं ततो मया ॥ १०.२८ ॥ विशिष्टं मम तद्दानं परितुष्टाश्च देवताः । उवभोगाच्छतगुणं दानं सुखकरं स्मृतम् ॥ १०.२९ ॥ मत्प्रसादपरो नूनं जज्ञेनाराधितो हरिः । तेनाभ्येति न संदेहो दर्शनादुपकारकृत् ॥ १०.३० ॥ अथ कोपेन चाभ्येति देवभागोपरोधतः । मां निहन्तुं ततो हि स्याद्वधः श्लाघ्यतरोऽच्युतात् ॥ १०.३१ ॥ एतज्ज्ञात्वा मुनिश्रेष्ठ दानविघ्नाकरेण मे । नैव भाव्यं जगन्नाथे गोविन्दे समुपस्थिते ॥ १०.३२ ॥ लोमहर्षण उवाच इत्येवं वदतस्तस्य प्राप्तस्तत्र जनार्दनः । सर्वदेवमयोऽतिन्त्यो मायावामनरूपधृक् ॥ १०.३३ ॥ तं दृष्ट्वा यज्ञवाटं तु प्रविष्टमसुराः प्रभुम् । जग्मुः प्रभावतः क्षोभं तेजसा तस्य निष्प्रभाः ॥ १०.३४ ॥ जेषुश्च मुनयस्तत्र ये समेता महाध्वरे । वसिष्ठो गाधिजो गर्गो अन्ये च मुनिसत्तमाः ॥ १०.३५ ॥ बलिश्चैवाखिलं जन्म मेने शफलमात्मनः । ततः संक्षोभमापन्नो न कश्चित्किञ्चिदुक्तवान् ॥ १०.३६ ॥ प्रत्येकं देवदेवेशं पूजयामास तेजसा । अथासुरपति प्रह्वं दृष्ट्वा मुनिवराश्च तान् ॥ १०.३७ ॥ देवदेवपतिः साक्षाद्विष्णुर्वामनरूपधृक् । तुष्टाव यज्ञं वह्निं च यजमानमथार्चितः । यज्ञकर्माधिकारस्थान् सदस्यान् द्रव्यसंपदम् ॥ १०.३८ ॥ सदस्याः पात्रमखिलं वामनं प्रति तत्क्षणात् । यज्ञवाटस्थितं विप्राः साधु साध्वित्युदीरयन् ॥ १०.३९ ॥ स चार्घमादाय बलिः प्रोद्भूतपुलकस्तदा । पूजयामास गोविन्दं प्राह चेदं महासुरः ॥ १०.४० ॥ बलिरुवाच सुवर्णरत्नसंघातो गजाश्वसमितिस्तथा । स्त्रियो वस्त्राण्यलङ्कारान् गावो ग्रामाश्च पुष्कलाः ॥ १०.४१ ॥ सर्वे च सरला पृथ्वी भवतो वा यदीप्सितम् । तद्ददासि वृणुष्वेष्टं ममार्थाः सन्ति ते प्रियाः ॥ १०.४२ ॥ इत्युक्तो दैत्यपतिना प्रीतिगर्भान्वितं वचः । प्राह सस्मितगम्भीरं भगवान् वामनाकृतिः ॥ १०.४३ ॥ ममाग्निशरणार्थाय देहि राजन् पदत्रयम् । सुवर्णग्रामरत्नादि तदर्थिभ्यः प्रदीयताम् ॥ १०.४४ ॥ बलिरुवाच त्रिभिः प्रयोजनं किं ते पदैः पदवतां वर । शतं शतसहस्रं वा पदानां मार्गतां भवान् ॥ १०.४५ ॥ श्रीवामन उवाच एतावता दैत्यपते कृतकृत्योऽस्मि मार्गणे । अन्येषामर्थिनां वित्तमिच्छया दास्यते भवान् ॥ १०.४६ ॥ एतच्छ्रुत्वा तु गदितं वामनस्य महात्मनः । वाचयामास वै तस्मै वामनाय महात्मने ॥ १०.४७ ॥ पाणौ तु पतिते तोये वामनोऽभूदवामनः । सर्वेदेवमयं रूपं दर्शयामास तत्क्षणात् ॥ १०.४८ ॥ चन्त्रसूर्यौ तु नयने द्यौः शिरश्चरणौ क्षितिः । पादाङ्गुल्यः पिशाचास्तु हस्ताङ्गुल्यश्च गुह्यकाः ॥ १०.४९ ॥ विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः । यक्षा नखेषु संभूता रेखास्वप्सरसस्तथा ॥ १०.५० ॥ दृष्टिरृक्षाण्यशेषाणि केशाः सूर्याशवः प्रभोः । तारका रोमकूपाणि रोमेषु च महर्षयः ॥ १०.५१ ॥ बाहवो विदिशस्तस्य दिशः श्रोत्रे महात्मनः । अश्विनौ श्रवणे तस्य नासा वायुर्महात्मनः ॥ १०.५२ ॥ प्रसादे चन्द्रमा देवो मनो धर्मः समाश्रितः । सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती ॥ १०.५३ ॥ ग्रीवादितिर्देवमाता विद्यास्तद्वलयस्तथा । स्वर्गद्वारमभून्मैत्रं त्वष्टा पूषा च वै भ्रुवौ ॥ १०.५४ ॥ मुखे वैश्वानरश्चास्य वृषणौ तु प्रजापतिः । हृदयं च परं ब्रह्म पुंस्त्वं वै कश्यपो मुनिः ॥ १०.५५ ॥ पृष्ठेऽस्य वसवो देवा मरुतः सर्वसंधिषु । वक्षस्थले तथा रुद्रो धैर्ये चास्य महार्णवः ॥ १०.५६ ॥ उदरे चास्य गन्धर्वा मरुतश्च महाबलाः । लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्याश्च वै कटिः ॥ १०.५७ ॥ सर्वज्योतींषि यानीह तपश्च परमं महत् । तस्य देवाधिदेवस्य तेजः प्रोद्भूतमुत्तमम् ॥ १०.५८ ॥ तनौ कुक्षिषु वेदाश्च जानुनी च महामखाः । इष्टयः पशवश्चास्य द्विजानां चेष्टितानि च ॥ १०.५९ ॥ तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महात्मनः । उपसर्पन्ति ते दैत्याः पतङ्गा इव पावकम् ॥ १०.६० ॥ चिक्षुरस्तु महादैत्यः पादाङ्गुष्ठं गृहीतवान् । दन्ताभ्यां तस्य वै ग्रीवामङ्गुष्ठेनाहनद्धरिः ॥ १०.६१ ॥ प्रमथ्य सर्वानसुरान् पादहस्ततलैर्विभुः । कृत्वा रूपं महाकायं संजहाराशु मेदिनीम् ॥ १०.६२ ॥ तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे । नभो विक्रममाणस्य सक्थिदेशे स्थितावुभौ ॥ १०.६३ ॥ परं विक्रममाणस्य जानुमूले प्रभाकरौ । विष्णोरास्तां स्थितस्यैतौ देवपालनकर्मणि ॥ १०.६४ ॥ जित्वा लोकत्रयं तांश्च हत्वा चासुरपुङ्गवान् । पुरन्दराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ॥ १०.६५ ॥ सुतलं नाम पातालमधस्ताद्वसुधातलात् । बलेर्दत्तं भगवता विष्णुना प्रभविष्णुना ॥ १०.६६ ॥ अथ दैत्यैश्वरं प्राह विष्णुः सर्वेश्वरेश्वरः । यत्त्वया सलिलं दत्तं गृहीतं पाणिना मया ॥ १०.६७ ॥ कल्पप्रमाणं तस्मात्ते भविष्यत्यायुरुत्तमम् । वैवखते तथातीते काले मन्वन्तरे तथा ॥ १०.६८ ॥ सावर्णिके तु संप्राप्ते भवानिन्द्रो भविष्यति । इदानीं भुवनं सर्वं दत्तं शक्राय वै पुरा ॥ १०.६९ ॥ चतुर्युगव्यवस्था च साधिका ह्येकसप्ततिः । नियन्तव्या मया सर्वे ये तस्य परिपन्थिनः ॥ १०.७० ॥ तेनाहं परया भक्त्या पूर्वमाराधितो बले । सुतलं नाम पातालं समासाद्य वचो मम ॥ १०.७१ ॥ वसासुर ममादेशं यथावत्परिपालयन् । तत्र देवसुखोपेते प्रासादशतसंकुले ॥ १०.७२ ॥ प्रोत्फुल्लपद्मसरसि ह्वदसुद्धसरिद्वरे । सुगन्धी पूपसंपन्नो वराभरमभूषितः ॥ १०.७३ ॥ स्रक्चन्दनादिदिग्धाङ्गो नृत्यगीतमनोहरान् । उपभुञ्जन्महाभोगान् विविधान् दानवेश्वर ॥ १०.७४ ॥ ममाज्ञया कालमिमं तिष्ठ स्त्रीशतसंवृतः । यावत्सुरैश्च विप्रैश्च न विरोधं गमिष्यसि ॥ १०.७५ ॥ तावत्त्वं भुङ्क्ष्व संभोगान् सर्वकामसमन्वितान् । यदा सुरैश्च विप्रैश्च विरोधं त्वं करिष्यसि । बन्धिष्यन्ति तदा पासा वारुणा घोरदर्शनाः ॥ १०.७६ ॥ बलिरुवाच तत्रासतो मे पाताले भगवन् भवदाज्ञया । किं भविष्यत्युपादानमुपभोगोपपादकम् । आप्यायितो येन देव स्मरेयं त्वामहं सदा ॥ १०.७७ ॥ श्रीभगवानुवाच दानान्यविधिदत्तानि श्राद्धान्यश्रोत्रियाणि च । हुतान्यश्रद्धया यानि तानि दास्यन्ति ते फलम् ॥ १०.७८ ॥ अदक्षिणास्तथा यज्ञाः क्रियाश्चाविधिना कृताः । फलानि तव दास्यन्ति अधीतान्यव्रतानि च ॥ १०.७९ ॥ उदकेन विना पूजा विना दर्बेण या क्रिया । आज्येन च विना होमं फलं दास्यन्ति ते बले ॥ १०.८० ॥ यश्चेदं स्थानमाश्रित्य क्रियाः काश्चित्करिष्यति । न तत्र चासुरो भागो भविष्यति कदाचन ॥ १०.८१ ॥ ज्येष्ठाश्रमे महापुण्ये तथा विष्णुपदे ह्वदे । ये च श्राद्धानि दास्यन्ति व्रतं नियममेव च ॥ १०.८२ ॥ क्रिया कृता च या काचिद्विधिनाविधिनापि वा । सर्वं तदक्षयं तस्य भविष्यति न संशयः ॥ १०.८३ ॥ ज्येष्ठे मासि सिते पक्षे एकादस्यामुपोषितः । द्वादश्यां वामनं दृष्ट्वा स्नात्वा विष्णुपदे ह्वदे । दानं दत्त्वा यथाशक्त्या प्राप्नोति परमं पदम् ॥ १०.८४ ॥ लोमहर्षण उवाच बलेर्वरमिमं दत्त्वा शक्राय च त्रिविष्टपम् । व्यापिना तेन रूपेण जगामादर्शनं हरिः ॥ १०.८५ ॥ शशास च यथापूर्वंमिन्द्रस्त्रैलोक्यमूर्जितः । निःशेषं च तदा कालं बलिः पातालमास्थितः ॥ १०.८६ ॥ इत्येतत्कथितं तस्य विष्णोर्माहात्म्यमुत्तमम् । वामनस्य शृण्वन् यस्तु सर्वपाषैः प्रमुच्यते ॥ १०.८७ ॥ बलिप्रह्लादसंवादं मन्त्रितं बलिशुक्रयोः । बलेर्विष्णोश्च चरितं ये स्मरिष्यन्ति मानवाः ॥ १०.८८ ॥ नाधयो व्याधयस्तेषां न च मोहाकुलं मनः । भविष्यति द्विजश्रेष्ठाः पुंसस्तस्य कदाचन ॥ १०.८९ ॥ च्युतराज्यो निजं राज्यमिष्टप्राप्तिं वियोगवान् । समाप्नेति महाभागा नरः श्रुत्वा कथामिमाम् ॥ १०.९० ॥ ब्राह्मणो वेदमाप्नोति क्षत्रियो जयते महीम् । वैश्यो धनसमृद्धिं च शूद्रः सुखमवाप्नुयात् । वामनस्य च माहत्म्यं शृण्वन् पापैः प्रमुच्यते ॥ १०.९१ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये दशमोऽध्यायः _____________________________________________________________ ऋषय ऊचुः कथमेषा समुत्पन्ना नदीनामुत्तमा नदी । सकखती महाभागा कुरुक्षेत्रप्रवाहिना ॥ ११.१ ॥ कथं सरः समासाद्य कृत्वा तीर्थानि पार्श्वतः । प्रयाता पश्चिमामाशां दृश्याहृश्यगतिः शुभा । एतद्विस्तरतो ब्रूहि तीर्थंवंशं सनातनम् ॥ ११.२ ॥ लोमहर्षण उवाच प्लक्षवृक्षात्समुद्भूता सरिच्छ्रेष्ठा सनातनी । सर्वपापक्षयकरी स्मरणादेव नित्यशः ॥ ११.३ ॥ सैषा शैलसहस्राणि विदार्य च महानदी । प्रविष्टा पुण्यतोयौघा वनं द्वैतमिति स्मृतम् ॥ ११.४ ॥ तस्मिन् पल्क्षे स्थितां दृष्ट्वा मार्कण्डेयो महामुनिः । प्रणिपत्य तदा मूर्ध्ना तुष्टावाथ सरस्वतीम् ॥ ११.५ ॥ त्वं देवि सर्वलोकानां माता देवारणिः शुभा । सदसद्देवि यत्किञ्चिन्मोक्षदाय्यर्थवत्पदम् ॥ ११.६ ॥ तत्सर्वं त्वयि संयोगि योगिवद्देवि संस्थितम् । अक्षरं परमं देवी यत्र सर्वं प्रतिष्ठितम् । अक्षरं परमं ब्रह्म विश्वं चैतत्क्षरात्मकम् ॥ ११.७ ॥ दारुण्यवस्थितो वह्निर्भृमौ गन्धो यथा ध्रुवम् । तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ॥ ११.८ ॥ ओङ्काराक्षरसंस्थानं यत्तद्देवि स्थिरास्थिरम् । तत्र मात्रात्रयं सर्वमस्ति यद्देवि नास्ति च ॥ ११.९ ॥ त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् । त्रीणि ज्योतींषि वर्गाश्च त्रयो धर्मादयस्तथा ॥ ११.१० ॥ त्रयो गुणास्त्रयो वर्णास्त्रयो देवास्तथा क्रमात् । त्रैधातवस्तथावस्थाः पितरश्चैवमादयः ॥ ११.११ ॥ एतन्मात्रात्रयं देवि तव रूपं सरस्वति । विभिन्नदर्शनामाद्यां ब्रह्मणो हि सनातनीम् ॥ ११.१२ ॥ सोमसंस्था हविःसंस्था पाकसंस्था सनातनी । तास्त्वदुच्चारणाद्देवि क्रियन्ते ब्रह्मवादिभिः ॥ ११.१३ ॥ अनिर्देश्यपदं त्वेतदर्द्धमात्राश्रितं परम् । अविकार्यक्षयं दिव्यं परिणामविवर्जितम् ॥ ११.१४ ॥ तवैतत्परमं रूपं यन्न शक्यं मयोदितुम् । न चास्येन न वा जिह्वाताल्वोष्ठादिभिरुच्यते ॥ ११.१५ ॥ स विष्णुः स वृषो ब्रह्म चन्द्राक्रज्योतिरेव च । विश्वावासं विश्वरूपं विश्वात्मानमनीश्वरम् ॥ ११.१६ ॥ साङ्ख्यसिद्धान्तवेदोक्तं बहुशाखास्थिरीकृतम् । अनादिमध्यनिधनं सदसच्च सदेव तु ॥ ११.१७ ॥ एकं त्वनेकधाप्येकभाववेदसमाश्रितम् । अनाख्यं षड्गुणाख्यं च बह्वाख्यं त्रिगुणाश्रयम् ॥ ११.१८ ॥ नानाशक्तिविभावज्ञं नानाशक्तिविभावकम् । सुखात्सुखं महात्सौख्यं रूपं तत्त्वगुणात्मकम् ॥ ११.१९ ॥ एवं देवि त्वया व्याप्तं सकलं निष्कलं च यत् । अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥ ११.२० ॥ येऽर्था नित्या ये विनश्यन्ति चान्ये येऽर्थाः स्थूला ये तथा सन्ति सूक्ष्माः । ये वा भूमौ येऽन्तरिक्षेन्यतो वा तेषां देवि त्वत्त एवोपलब्धिः ॥ ११.२१ ॥ यद्वा मूर्तं यदमूर्तं समस्तं यद्वा भूतेष्वेकमेकं च किञ्चित् । यच्च द्वैते व्यस्तभूतं च लक्ष्यं तत्संबद्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥ ११.२२ ॥ एवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती । प्रत्युवाच महात्मानं मार्कण्डेय महासुनिम् । यत्र त्वं नेष्यसे विप्र तत्र यास्याम्यतन्द्रिता ॥ ११.२३ ॥ मार्कण्डेय उवाच आद्यं ब्रह्मसरः पुण्यं ततो रामह्वदः स्मृतः । कुरुणा ऋषिणा पुष्टं कुरुक्षेत्रं ततः स्मृतम् । तस्य मध्येन वै गाढं पुण्या पुण्यजलावहा ॥ ११.२४ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये एकादशोऽध्यायः _____________________________________________________________ लोमहर्षण उवाच । इत्युषेर्वचनं श्रुत्वा मार्कण्डेयस्य धीमतः । नदी प्रवाहसंयुक्ता कुरुक्षेत्रं विवेश ह ॥ १२.१ ॥ तत्र सा रन्तुकं प्राप्य पुण्यतोया सरस्वती । कुरक्षेत्रं समाप्लाव्य प्रयाता पश्चिमां दिशम् ॥ १२.२ ॥ तत्र तीर्थसहस्राणि ऋषिभिः सेवितानि च् तान्यहं कीर्तयिष्यामि प्रसादात्परमेष्ठिनः ॥ १२.३ ॥ तीर्थानां स्मरणं पुण्यं दर्शनं पापनाशनम् । स्नानं मुक्तिकरं प्रोक्तमपि दुष्टृतकर्मणः ॥ १२.४ ॥ ये स्मरन्ति च तीर्थानि देवताः प्रीणयन्ति च । स्नान्ति च श्रद्दधानाश्च ते यान्ति परमां गतिम् ॥ १२.५ ॥ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्कुरुक्षेत्रं स बाह्याभ्यन्तरः शुचिः ॥ १२.६ ॥ कुरुक्षत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् । इत्येवं वाचमुत्सृज्य सर्वपाषैः प्रमुच्यते ॥ १२.७ ॥ ब्रह्मज्ञानं गयाश्राद्धं गोग्रहे मरणं तथा । वासः पुंसां कुरुक्षेत्रे मुक्तिरुक्ता चतुर्विधा ॥ १२.८ ॥ सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मवर्तं प्रचक्षते ॥ १२.९ ॥ दूरस्थोऽपि कुरुक्षेत्रे गच्छामि च वसाम्यहम् । एवं यः सततं ब्रूयात्सोऽपि पाषैः प्रमुच्यते ॥ १२.१० ॥ तत्र चैव सरःस्नायी सरस्वत्यास्तटे स्थितः । तस्य ज्ञानं ब्रह्ममयमुत्पत्स्यति न संशयः ॥ १२.११ ॥ देवता ऋषयः सिद्धाः सेवन्ते कुरुजाङ्गलम् । तस्य संसेवनान्नित्यं ब्रह्म चात्मनि पश्यति ॥ १२.१२ ॥ चञ्चलं हि मनुष्यत्वं प्राप्य ये मोक्षकाङ्किणः । सेवन्ति नियतात्मानो अपि दुष्कृतकारिणः ॥ १२.१३ ॥ ते विमुक्ताश्च कलुषैरनेकजन्मसंभवैः । पश्यन्ति निर्मलं देवं हृदयस्थं सनातनम् ॥ १२.१४ ॥ ब्रह्मवेदिः कुरुक्षेत्रं पुण्यं सान्निहितं सरः ॥ १२.१५ ॥ ग्रहनक्षत्रताराणां कालेन पतनाद्भयम् । कुरुक्षेत्रे मृतानां च पतनं नैव विद्यते ॥ १२.१६ ॥ यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः । गन्धर्वाप्सरसो यक्षाः सेवन्ति स्थानकाङ्क्षिणः ॥ १२.१७ ॥ गत्वा तु श्रद्धाया युक्तः स्नात्वा स्थाणुमहाह्वदे । मनसा चिन्तितं कामं लभते नात्र संशयः ॥ १२.१८ ॥ नियमं त ततः कृत्वा गत्वा सरः प्रदक्षिणम् । रन्तुकं च समासाद्य क्षमयित्वा पुनः पुनः ॥ १२.१९ ॥ सरस्वत्यां नरः स्नात्वा यक्षं दृष्ट्वा प्रणम्य च । पुष्पं धूपं च नैवैद्यं दत्वा वाचमुदीरयेत् ॥ १२.२० ॥ तव प्रसादाद्यक्षेन्द्र वानानि सरितश्च याः । भ्रमिष्यामि च तीर्थानि अविघ्नें कुरु मे सदा ॥ १२.२१ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये द्वादशोऽध्यायः _____________________________________________________________ ऋशय ऊचुः वनानि सप्त नो ब्रूहि नव नद्यश्च याः स्मृताः । तीर्थानि च समग्राणि तीर्थस्नानफलं तथा ॥ १३.१ ॥ येन येन विधानेन यस्य तीर्थस्य यत्फलम् । तत्सर्वं विस्ततेणेह ब्रूहि पौराणिकोत्तम ॥ १३.२ ॥ लोमहर्षण उवाच् शृणु सप्त वनानीह कुरुथेत्रस्य मध्यतः । येषां नामानि पुण्यानि सर्वपापहराणि च ॥ १३.३ ॥ काम्यकं च वनं पुण्यं तथादितिवनं महत् । व्यासस्य च वनं पुण्यं फलकीवनमेव च ॥ १३.४ ॥ तत्र सूर्यवनस्थानं तथा मधुवनं महत् । पुण्यं शीतवनं नाम सर्वकल्मषनाशनम् ॥ १३.५ ॥ वनान्येतानि वै सप्त नदीः शृणुत मे द्विजाः । सरस्वती नदी पुण्या तथा वैतरणी नदी ॥ १३.६ ॥ आपगा च महापुण्या गङ्गा मन्दाकिनी नदी । मधुस्रावा वासुनदी कौशिकी पापनाशिनी ॥ १३.७ ॥ दृषद्वती महापुण्या तथा हिरण्वती नदी । वर्षाकालवहाः सर्वा वर्जयित्वा सरस्वतीम् ॥ १३.८ ॥ एतासामुदकं पुण्यं प्रावृट्काले प्रकीर्तितम् । रजस्वलत्वमेतासां विद्यते न कदाचन । तीर्थस्य च प्रभावेण पुण्या ह्येताः सरिद्वराः ॥ १३.९ ॥ शृण्वन्तु मुनयः प्रीतास्तीर्थस्नानफलं सहत् । गमनं स्मरणं चैव सर्वकल्मषनाशनम् ॥ १३.१० ॥ रन्तुकं च नरो दृष्ट्वा द्वारपालं महाबलम् । यक्षं समभिवाद्यैव तीर्तयात्रां समाचरेत् ॥ १३.११ ॥ ततो गच्छेत विप्रान्द्रा नाम्नादितिवनं महत् । अदित्या यत्र गुत्रार्थं कृतं घोरं महत्तपः ॥ १३.१२ ॥ तत्र स्नात्वा च दृष्ट्वा च अदितिं देवमातरम् । पुत्रं जनयते शूरं सर्वदोषिविवर्जितम् । आदित्यशतसंकाशं विमानं चाधिरोहति ॥ १३.१३ ॥ ततो गच्छेत विप्रेन्द्रा विष्णोः स्थानमनुत्तमम् । सवनं नाम विख्यातं यत्र संनिहितो हरिः ॥ १३.१४ ॥ विमले च नरः स्नात्वा दृष्ट्वा च विमलेश्वरम् । निर्मलं स्वर्गमायाति रुद्रलोकं च गच्छति ॥ १३.१५ ॥ हरिं च बलदेवं च एकत्राससमन्वितौ । दृष्ट्वा मोक्षमवाप्नोति कलिकल्मषसंभवैः ॥ १३.१६ ॥ ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् । तत्र स्नात्वा च दृष्ट्वा च ब्रह्माणं वेदसंयुतम् ॥ १३.१७ ॥ ब्रह्मवेदफलं प्राप्य निर्मलं स्वर्गमाप्नुयात् । तत्रापि संगमं प्राप्य कौशिक्यां तीर्थसंभवम् । संगमे च नरः स्नात्वा प्राप्नोति परमं पदम् ॥ १३.१८ ॥ धरण्यास्तीर्थमासाद्य सर्वपापविमोचनम् । क्षान्तियुक्तो नरः स्नात्वा प्राप्नोति परमं पदम् ॥ १३.१९ ॥ धरण्यामपराधानि कृतानि पुरुषेण वै । सर्वाणि क्षमते तस्य स्नातमात्रस्य देहिनः ॥ १३.२० ॥ ततो दक्षाश्रमं गत्वा दृष्ट्वा देक्षेश्वरं शिवम् । अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १३.२१ ॥ ततः शालूकिनीं गत्वा स्नात्वा तीर्थे द्विजोत्तमाः । हरिं हरेण संयुक्तं पूज्य भक्तिसमन्वितः । प्रप्नोत्यक्षिमतांल्लोकान् सर्वपापविवर्जितान् ॥ १३.२२ ॥ सर्पिर्दधि समासाद्य नागानां तीर्थमुत्तमम् । तत्र स्नानं नरः कृत्वा मुक्तो नागभयाद्भवेत् ॥ १३.२३ ॥ ततो गच्छेत विप्रेन्द्रा द्वारपालं तु रन्तुकम् । तत्रोष्य रजनीमेकां स्नात्वा तीर्थवरे शुभे ॥ १३.२४ ॥ द्वितीयं पूजयेद्यत्र द्वारपालं प्रयत्नतः । ब्राह्मणान् भोजयित्वा च प्रणिपत्य क्षमापयेत् ॥ १३.२५ ॥ तव प्रसादाद्यक्षेन्द्र मुक्तो भवति किल्बिषैः । सिद्धिर्मयाभिलषिता तया सार्द्धं भवाम्यहम् । एवं प्रसाद्य यक्षेन्द्रं ततः पञ्चनदं व्रजेत् ॥ १३.२६ ॥ पञ्चनदाश्च रुद्रेण कृता दानवभीषणाः । तत्र सर्वेषु लोकेषु तीर्थं पञ्चनदं स्मृतम् ॥ १३.२७ ॥ कोटितीर्थानि रुद्रेण समाहृत्य यतः स्थितम् । तेन त्रैलोक्यविख्यातं कोटितीर्थं प्रचक्षते ॥ १३.२८ ॥ तस्मिन् तीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरं हरम् । पञ्चयज्ञानवाप्नोति नित्यं श्रद्धासमन्वितः ॥ १३.२९ ॥ तत्रैव वामनो देवः सर्वदेवैः प्रतिष्ठितः । तत्रापि च नरः स्नात्वा ह्यग्निष्टोमफलं लभेत् ॥ १३.३० ॥ अश्विनोस्तीर्थमासाद्य श्रद्धावान् यो जितेन्द्रियः । रूपस्य भागी भवति यशस्वी च भवेन्नरः ॥ १३.३१ ॥ वाराहं तीर्थमाख्यातं विष्णुना परिकीर्तितम् । तस्मिन् स्नात्वा श्रद्दधानः प्राप्नोति परमं पदम् ॥ १३.३२ ॥ ततो गच्छेत विप्रेन्द्राः सोमतीर्थमनुत्तमम् । यत्र सोमस्तपस्तप्त्वा व्याधिमुक्तोऽभवत्पुरा ॥ १३.३३ ॥ तत्र सोमेश्वरे दृष्ट्वा स्नात्वा तीर्थवरे शुभे । राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १३.३४ ॥ व्याधिभिश्च विनिर्मुक्तः सर्वदोषविवर्जितः । सोमलोकमपाप्नोति तत्रैव रमते चिरम् ॥ १३.३५ ॥ भूतेश्वरं च तत्रैव ज्वालामालेश्वरं तथा । तावुभौ लिङ्गावभ्यर्च्य न भूयो जन्म चाप्नुयात् ॥ १३.३६ ॥ एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् । कृतशोचं समासाद्य तीर्थसेवी द्विजोत्तमः ॥ १३.३७ ॥ पुण्डरीकमवाप्नोति कृकशौचो भवेन्नरः । ततो मुञ्जवटं नाम महादेवस्य धीमतः ॥ १३.३८ ॥ उपोष्य रजनीमेकां गाणपत्यमवाप्नयात् । तत्रैव च महाग्राही यक्षिणी लोकविश्रुता ॥ १३.३९ ॥ स्नात्वाबिगत्वा तत्रैव प्रसाद्य यक्षिणीं ततः । उपवासं च तत्रैव महापातकनाशनम् ॥ १३.४० ॥ कुरुक्षेत्रस्य तद्द्वारं विश्रुतं पुण्यवर्द्धूनम् । प्रदक्षिणमुपावर्त्य ब्राह्मणान् भोजयेत्ततः । पुष्करं च ततो गत्वा अभ्यर्च्य पितृदेवताः ॥ १३.४१ ॥ जामदग्न्येन रामेण आहृतं तन्महात्मना । कृतकृत्यो भवेद्राजा अश्वमेधं च विन्दति ॥ १३.४२ ॥ कन्यादानं च यस्तत्र कार्तिक्यां वै करिष्यति । प्रसन्ना देवतास्तस्य दास्यन्त्यभिमतं फरम् ॥ १३.४३ ॥ कपलश्च महायक्षो द्वारपालः खयं स्थितः । विघ्नं करोति पापानां दुर्गति च प्रयच्छति ॥ १३.४४ ॥ पत्नी तस्य महायक्षी नाम्नोदूखलमेखला । आहत्य दुन्दुभिं तत्र भ्रमते नित्यमेव हि ॥ १३.४५ ॥ सा ददर्श स्त्रियं चैकां सपुत्रां पापदेशजाम् । तामुवाच तदा यक्षी आहत्य निशि दुन्दुभिम् ॥ १३.४६ ॥ युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले । तद्वद्भूतालये स्नात्वा सपुत्रा वस्तुमिच्छसि ॥ १३.४७ ॥ दिवा मया ते कथितं रात्रौ भक्ष्यामि निश्चितम् । एतच्छ्रुत्वा तु वचनं प्रणिपत्य च यक्षिणीम् ॥ १३.४८ ॥ उवाच दीनया वाचा प्रसादं कुरु भामिनि । ततः सा यक्षिणी तां तु प्रोवाच कृपयान्विता ॥ १३.४९ ॥ यदा सूर्यस्य ग्रहणं कालेन भविता क्वचित् । संनिहत्यां तदा स्नात्वा पूता स्वर्गं कमिष्यसि ॥ १३.५० ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये त्रयोदसोऽध्यायः _____________________________________________________________ लोमहर्षण उवाच । ततो रामहृदं गच्छेत्तीर्थसेवी द्विजोत्तमः । यत्र रामेण विप्रेण तरसा दीप्ततेजसा ॥ १४.१ ॥ क्षत्रमुत्साद्य वीरेण ह्रदाः पञ्च निवेशिताः । पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् ॥ १४.२ ॥ पितरस्तर्पितास्तेन तथैव च पितामहाः । ततस्ते पितरः प्रीता राममूचुर्द्विजोत्तमाः ॥ १४.३ ॥ राम राम महाबाहो प्रीताः स्मस्तव भार्गव । अनया पितृभक्त्या च विक्रमेण च ते विभो ॥ १४.४ ॥ वरं वृणीष्व भद्रं ते किमिच्छसि महायशः । एवमुक्तस्तु पितृभी रामः प्रभवताः परः ॥ १४.५ ॥ अब्रवीत्प्राञ्जलिर्वाक्यं स पितृन् गगने स्थितान् । भवन्तो यदि मे प्रीता यद्य नुग्राह्यता मयि ॥ १४.६ ॥ पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः । यच्च पोषाभिभूतेन क्षत्रमुत्सादितं मया ॥ १४.७ ॥ ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् । ह्रदाश्चैते तीर्थभूता भवेयुर्भुवि विश्रुताः ॥ १४.८ ॥ एवमुक्ताः शुभं वाक्यं रामस्य पितरस्तदा । प्रत्यूचुः परमप्रीता रामं हर्षपुरस्कृताः ॥ १४.९ ॥ तपस्ते वर्द्धूतां पुत्र पितृभक्त्या विशेषतः । यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया ॥ १४.१० ॥ ततश्च पापान्मुक्तस्त्वं पातितास्ते क्वकर्मभिः । ह्रदाश्च तव तीर्थत्वं गमीष्यन्ति न संशयः ॥ १४.११ ॥ ह्रदेष्वेतेषु ये स्नात्वा स्वान् पितॄंस्तर्पयन्ति च । तेभ्यो दास्यन्ति पितरो यथाभिलषितं वरम् ॥ १४.१२ ॥ ईप्सितान्मानसान् कामान् स्वर्गवासं च शाश्वतम् । एवं दत्त्वा वरान् विप्रा रामस्य पितरस्तदा ॥ १४.१३ ॥ आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्हितास्तदा । एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः ॥ १४.१४ ॥ स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुचिव्रतः । राममभ्यर्च्य श्रद्धावान् विन्देद्बहु सुवर्णकम् ॥ १४.१५ ॥ वंशमूलं समासाद्य तीर्थसेवी सुसंयतः । स्ववंशसिद्धये विप्राः स्नात्वा वै वंशमूलके ॥ १४.१६ ॥ कायशोधनमासाद्य तीर्थं त्रैलोक्यविश्रुतम् । शरीरसुद्धिमाप्नोति स्नातस्तस्मिन्न संशयः ॥ १४.१७ ॥ सुद्धदेहश्च तं याति यस्मान्नावर्तते पुनः । तावद्भ्रमन्ति तीर्थेषु सिद्धास्तीर्थपरायणाः । यावन्न प्राप्नुवन्तीह तीर्थं तत्कायशोधनम् ॥ १४.१८ ॥ तस्मिस्तीर्थे च संप्लाव्य कायं संयतमानसः । परं पदमवाप्नोति यस्मान्नावर्तते पुनः । १४.१९ ततो गच्छेत विप्रेन्द्रास्तीर्थं त्रैलोक्यविश्रुतम् । लोका यत्रोद्धताः सर्वे विष्णुना प्रभविष्णुना ॥ १४.२० ॥ लोकोद्धारं सामासाद्य तीर्थस्मरणतत्परः । स्नात्वातीर्थवरे तस्मिन् लोकान् पश्यति शाश्वतान् ॥ १४.२१ ॥ यत्र विष्णुः स्थितो नित्यं शिवो देवः सनातनः । तौ देवौ प्रणिपातेन प्रसाद्य मुक्तिमाप्नुयात् ॥ १४.२२ ॥ श्रीतीर्थं तु ततो गच्छेत्शालग्राममनुत्तमम् । तत्र स्नातस्य सान्निध्यं सदा देवी प्रयच्छति ॥ १४.२३ ॥ कपिलाह्रदमासाद्य तीर्थं त्रैलोक्यविश्रुतम् । तत्र स्नात्वार्ऽचयित्वा च दैवतानि पितृस्तथा ॥ १४.२४ ॥ कपिलानां सहस्रस्य फलं विन्दति मानवः । तत्र स्थितं महादेवं कापिलं वपुरास्थितम् ॥ १४.२५ ॥ दृष्ट्वा मुक्तिमवाप्नोति ऋषिभिः पूजितं शिवम् । सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः ॥ १४.२६ ॥ अर्चयित्वा पितृन् देवानुपवासपरायणः । अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ॥ १४.२७ ॥ सहस्रकिरणं देवं भानुं त्रैलोक्यविश्रुतम् । दृष्ट्वा मुक्तिमवाप्नोति नरो ज्ञानसमन्वितः ॥ १४.२८ ॥ भवानीवनामासाद्य तीर्थसेवी यथाक्रमम् । तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ॥ १४.२९ ॥ पितामहस्य पिबतो ह्यमृतं पूर्वमेव हि । उद्गारात्सुरभिर्जाता सा च पातालमाश्रिता ॥ १४.३० ॥ तस्याः सुरभयो जाताः तनया लोकमातरः । ताभिस्तत्सकलं व्याप्तं पातालं सुनिरन्तरम् ॥ १४.३१ ॥ पितामहस्य यजतो दक्षिणार्थमुपाहृताः । आहुता ब्रह्मणा ताश्च विभ्रान्ता विवरेण हि ॥ १४.३२ ॥ तस्मिन् विवरद्वारे तु स्थितो गणपतिः स्वयम् । यं दृष्ट्वा सकलान् कामान् प्राप्नोतिसंयतेन्द्रियः ॥ १४.३३ ॥ संगिनीं तु समासाद्य तीर्थं मुक्तिसमाश्रयम् । देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ॥ १४.३४ ॥ अनन्तां श्रियमाप्नोति पुत्रपौत्रसमन्वितः । भोगांश्च विपुलान् भुक्त्वा प्राप्नोति परमं पदम् ॥ १४.३५ ॥ ब्रह्मावर्ते नरः स्नात्वा ब्रह्मज्ञानसमन्वितः । भवते नात्र सन्देहः प्राणान्मुञ्चति स्वेच्छया ॥ १४.३६ ॥ ततो गच्छेत विप्रेन्द्रा द्वारपालं तु रन्तुकम् । तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ॥ १४.३७ ॥ तत्र स्नात्वा महाप्राज्ञ उपवासपरायणः । यक्षस्य च प्रसादेन लभते कामिकं फलम् ॥ १४.३८ ॥ ततो गच्छेत विप्रेन्द्रा ब्रह्मवर्तं मुनिस्तुतम् । ब्रह्मावर्ते नरः स्नात्वा ब्रह्म चाप्नोति निश्चितम् ॥ १४.३९ ॥ ततो गच्छेत विप्रेन्द्राः सुतीर्थकमनुत्तमम् । तत्र संनिहिता नित्यं पितरो दैवतैः सह ॥ १४.४० ॥ तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः । अश्वमेधमवाप्नोति पितृन् प्रीणाति शाश्वतान् ॥ १४.४१ ॥ ततोऽम्बुवनं धर्मज्ञ समासाद्य यथाक्रमम् । कामेश्वरस्य तीर्थं तु स्नात्वा श्रद्धासमन्वितः ॥ १४.४२ ॥ सर्वव्याधिविनिर्मुक्तो ब्रह्मवाप्तिर्भवेद्ध्रुवम् । मातृतीर्थं च तत्रैव यत्र स्नातस्य भक्तितः ॥ १४.४३ ॥ प्रजा विवर्द्धते नित्यमनन्तां चाप्नुभाच्छ्रियम् । ततः शीतवनं गच्छेन्नियतो नियताशनः ॥ १४.४४ ॥ तीर्थं तत्र महाविप्रा महदन्यत्र दुर्लभम् । पुनाति दर्शनादेव दण्डकं च द्विजोत्तमाः ॥ १४.४५ ॥ केशानभ्युक्ष्य वै तस्मिन् पूतो भवति पापतः । तत्र तीर्थवरं चान्यत्स्वानुलोमायनं महत् ॥ १४.४६ ॥ तत्र विप्रा महाप्राज्ञा विद्वांसस्तीर्थतत्पराः । स्वनुलोमायने तीर्थे विप्रास्त्रैलोक्यविश्रुते ॥ १४.४७ ॥ प्राणायामैर्निहरन्ति स्वलोमानि द्विजोत्तमाः । पूतात्मानश्च ते विप्राः प्रयान्ति परमां गतिम् ॥ १४.४८ ॥ दशाश्वमेधिकं चैव तत्र तीर्थं सुविश्रुतम् । तत्र स्नात्वा भक्तियुक्तस्तदेव लभते फलम् ॥ १४.४९ ॥ ततो गच्छेत श्रद्धावान्मानुषं लोकविश्रुतम् । दर्शनात्तस्य तीर्थस्य मुक्तो भवति किल्बिषैः ॥ १४.५० ॥ पुरा कृष्णमृगास्तत्र व्याधेन शरपीडिताः । विगाह्य तस्मिन् सरसि मानुषत्वमुपागताः ॥ १४.५१ ॥ ततो व्याधाश्च ते सर्वे तानपृच्छन् द्विजोत्तमान् । मृगा अनेन वै याता अस्माभिः शरपीडिताः ॥ १४.५२ ॥ निमग्नास्ते सरः प्राप्य क्व ते याता द्विजोत्तमाः । तेऽब्रुवंस्तत्र वै पृष्टा वयं ते च द्विजोत्तमाः ॥ १४.५३ ॥ अस्य तीर्थस्य माहात्म्यान्मानुषत्वमुपागताः । तस्माद्यूयं श्रद्दधानाः स्नात्वा तीर्थे विमत्सराः ॥ १४.५४ ॥ सर्वपापविनिर्मुक्ता भविष्यथ न संशयः । ततः स्नाताश्च ते सर्वे शुद्धदेहा दिवं गताः ॥ १४.५५ ॥ एतत्तीर्थस्य माहात्म्यं मानुषस्य द्विजोत्तमाः । ये शृण्वन्ति श्रद्दधानास्तेऽपि यान्ति परां गतिम् ॥ १४.५६ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये चतुर्दशोऽध्यायः _____________________________________________________________ लोमहर्षण उवाच । मानुषस्य तु पूर्वेण क्रोशमात्रे द्विजोत्तमाः । आपगा नाम विख्याता नदी द्विजनिषेविता ॥ १५.१ ॥ श्यामाकं पयसा सिद्धमाज्येन च परिप्लुतम् । ये प्रयच्छन्ति विप्रेभ्यस्तेषां पापं न विद्यते ॥ १५.२ ॥ ये तु श्राद्धं करिष्यन्ति प्राप्य तामापगां नदीम् । ते सर्वकामसंयुक्ता भविष्यन्ति न संशयः ॥ १५.३ ॥ शंसन्ति सर्वे पितरः स्मरन्ति च पितामहाः । अस्माकं च कुले पुत्रः पौत्रो वापि भविष्यति ॥ १५.४ ॥ य आपगां नदीं गत्वा तिलैः संतर्पयिष्यति । तेन तृप्ता भविष्यामो यावत्कल्पशतं गतम् ॥ १५.५ ॥ नभस्ये मासि सम्प्राप्ते कृष्णपक्षे विशेषतः । चतुर्दश्यां तु मध्याह्ने पिण्डदो मुक्तिमाप्नुयात् ॥ १५.६ ॥ ततो गच्छेत विप्रेन्द्रा ब्रह्मणः स्थनमुत्तमम् । ब्रह्मोदुम्बरमित्येवं सर्वलोकेषु पिश्रुतम् ॥ १५.७ ॥ तत्र ब्रह्मर्षिकुण्डेषु स्नातस्य द्विजसत्तमाः । सप्तर्षिणां प्रसादेन सप्तसोमफलं भवेत् ॥ १५.८ ॥ भरद्वाजो गौतमश्च जमदग्निश्च कश्यपः । विश्वामित्रो वसिष्ठश्च अत्रिश्च भगवानृपिः ॥ १५.९ ॥ एतैः समेत्य तत्कुण्डं कल्पितं भुवि दुर्लभम् । ब्रह्मणा सेवितं यस्माद्ब्रह्मोदुम्बरमुच्यते ॥ १५.१० ॥ तस्मिंस्तीर्थवरे स्नातो ब्रह्मणोऽव्यक्तजन्मनः । ब्रह्मलोकमवाप्नोति नात्र कार्या विचारणा ॥ १५.११ ॥ देवान् पितॄन् समुद्दिश्य यो विप्रं भोजयिष्यति । पितरस्तस्य सुखिता दास्यन्ति भुवि दुर्लभम् ॥ १५.१२ ॥ सप्तर्षीश्च समुद्दश्य पृथं स्नानं समाचरेत् । ऋषीणां च प्रसादेन सप्तलोकाधिपो भवेत् ॥ १५.१३ ॥ कपिस्थलेति विख्यातं सर्वपातकनाशनम् । यस्मिन् स्थितः खयं देवो वृद्धकेदारसंज्ञितः ॥ १५.१४ ॥ तत्र स्नात्वार्ऽचयित्वा च रुद्रं दिण्डिसमन्वितम् । अन्तर्धानमवाप्नोति शिवलोके स मोदते ॥ १५.१५ ॥ यस्तत्र तर्पणं कृत्वा पिबते चुलकत्रयम् । दिण्डिदेवं नमस्कृत्य केदारस्य फलं लभेत् ॥ १५.१६ ॥ यस्तत्र कुरुते श्राद्धं शिवमुद्दिश्य मानवः । चैत्रसुक्लचतुर्दश्यां प्राप्नोति परमंपदम् ॥ १५.१७ ॥ कलस्यां तु ततो गच्छेद्यत्र देवी स्वयं स्थिता । दुर्गा कात्यायनी भद्रा निद्रा माया सनातनी ॥ १५.१८ ॥ कलस्यां च नरः स्नात्वा दृष्ट्वा दुर्गा तटे स्थिताम् । संसारगहनं दुर्गंनिस्तरेन्नात्र संशयः ॥ १५.१९ ॥ ततो गच्छेत सरकं त्रैलोक्यस्यापि दुर्लभम् । कृष्णपक्षे चतुर्दश्यां दृष्ट्वा देवं महेश्वरम् ॥ १५.२० ॥ लभते सर्वकामांश्च शिवलोकं स गच्छति । तिस्राः कोट्यस्तु तीर्थानां सरके द्विजसत्तमाः ॥ १५.२१ ॥ रुद्रकोटिस्तथा कूपे सरोमध्ये व्यवस्थिता । तस्मिन् सरे च यः स्नात्वा रुद्रकोटिं स्मरेन्नरः ॥ १५.२२ ॥ पूजिता रुद्रकोटिश्च भविष्यति न संशयः । रुद्राणां च प्रसादेन सर्वदोषविवर्जितः ॥ १५.२३ ॥ ऐन्द्रज्ञानेन संयुक्तः परं पदमवाप्नुयात् । इडास्पदं च तत्रैव तीर्थं पापभयापहम् ॥ १५.२४ ॥ अस्मिन्मुक्तिमवाप्नोति दर्शनादेव मानवः । तत्र स्नात्वार्ऽथयित्वा च पितृदेवगणानपि ॥ १५.२५ ॥ न दुर्गतिमवाप्नोति मनसा चिन्तितं लभेत् । केदारं च महातीर्थं सर्वकल्मषनाशनम् ॥ १५.२६ ॥ तत्र स्नात्वा तु पुरुषः सर्वदानफलं लभेत् । किंरूपं च महातीर्थं तत्रैव भुवि दुर्लभम् ॥ १५.२७ ॥ सरकस्य तु पूर्वेण तीर्थं त्रैलोक्यविश्रुतम् । अन्यजन्म सुविख्यातं सर्वपापप्रणाशनम् ॥ १५.२८ ॥ नारसिंहं वपुः कृत्वा हत्वा दानवमूर्जितम् । तिर्यग्योनौ स्थितो विष्णुः सिंहेषु रतिमाप्नुवन् ॥ १५.२९ ॥ ततो देवाः सगन्धर्वा आराघ्य वरदं शिवम् । ऊचुः प्रणतसर्वाङ्गा विष्णुदेहस्य लम्भने ॥ १५.३० ॥ ततो देवो महात्मासौ शारभं रूपमास्थितः । युद्धं च कारयामास दिव्यं वर्षसहस्रकम् । युध्यमानौ तु तौ देवौ पतितौ सरमध्यतः ॥ १५.३१ ॥ तस्मिन् सरस्तटे विप्रो देवर्षिर्नारदः स्थितः । अश्वत्थवृक्षमाश्रित्य ध्यानस्थस्तौ ददर्श ह ॥ १५.३२ ॥ विष्णुश्चतुर्भुजो जज्ञे लिङ्गाकारः शिवः स्थितः । तौ दृष्ट्वा तत्र पुरुषौ तुष्टाव भक्तिभावितः ॥ १५.३३ ॥ नमः शिवाय देवाय विष्णवे प्रभविष्णवे । हरये च उमाभर्त्रे स्थितिकालभृते नमः ॥ १५.३४ ॥ हराय वहुरूपाय विश्वरूपाय विष्णवे । त्र्यम्बकाय सुसुद्धाय कुष्णाय ज्ञानहेतवे ॥ १५.३५ ॥ धन्योऽहं सुकृती नित्यं यद्दृष्टो पुरुषोत्तमौ । ममाश्रममिदं पुण्यं युवाभ्यां विमलीकृतम् । अद्यप्रभृति त्रैलोक्ये अन्यजन्मेति विश्रुतम् ॥ १५.३६ ॥ य इहागत्य स्नात्वा च पितॄन् संतर्पयिष्यति । तस्य श्रद्धान्वितस्येह ज्ञानमैन्द्रं भविष्यति ॥ १५.३७ ॥ अश्वत्थस्य तु यन्मूलं सदा तत्र वसाम्यहम् । अश्वत्थवन्दनं कृत्वा यमं रौद्रं न पश्यति ॥ १५.३८ ॥ ततो गच्छेत विप्रेन्द्रा नागस्य ह्रदमुत्तमम् । पौण्डरीके नरः स्नात्वा पुण्डरीकफलं लभेत् ॥ १५.३९ ॥ दशम्यां शुक्लपक्षस्य चैत्रस्य तु विशेषतः । स्नानं जपं तथा श्राद्धं मुक्तिमार्गप्रदायकम् ॥ १५.४० ॥ ततस्त्रिविष्टवं गच्छेत्तीर्थं देवनषेवितम् । तत्र वैतरणी पुण्या नदी पापप्रमोचनी ॥ १५.४१ ॥ तत्र स्नात्वार्ऽचयित्वा च शूलपाणिं वृषध्वजम् । सर्वपापविशुद्धात्मा गच्छत्येव परां गतिम् ॥ १५.४२ ॥ ततो गच्छेत विप्रेन्द्रा रसावर्तमनुत्तमम् । तत्र स्नात्वा भक्तियुक्तः सिद्धिमाप्नोत्यनुत्तमाम् ॥ १५.४३ ॥ चैत्र शुक्लचतुर्दश्यां तीर्थे स्नात्वा ह्यलेपके । पूजयित्वा शिवं तत्र पापलेपो न विद्यते ॥ १५.४४ ॥ ततो गच्छेन विप्रन्द्राः फलकीवनमुत्तमम् । यत्र देवाः सगन्धर्वाः साध्याश्च ऋषयः स्थिताः । तपश्चरन्ति विपुलं दिव्यं वर्षसहस्रकम् ॥ १५.४५ ॥ दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः । अग्निष्टोमातिरात्राभ्यां फलं विन्दति मावनः ॥ १५.४६ ॥ सोमक्षये च संप्राप्ते सोमस्य च दिने तथा । यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु ॥ १५.४७ ॥ गयायां च यता श्राद्ध पितृन् प्रीणाति नित्यशः । तथा श्राद्धं च कर्तव्यं फलकीवनमाश्रितैः ॥ १५.४८ ॥ मनसा स्मरते यस्तु फलकीवनमुत्तमम् । तस्यापि पितरस्तृप्तिं प्रयास्यन्ति न संशयः ॥ १५.४९ ॥ तत्रापि तीर्थं सुमहत्सर्वदेवैरलङ्कृतम् । तस्मिन् स्नातस्तु पुरुषो गोसहस्रफलं लभेत् ॥ १५.५० ॥ पाणिखाते नरः स्नात्वा पितृन् संतर्प्य मानवः । अवाप्नुयाद्राजसूयं सांख्यं योगं च विन्दति ॥ १५.५१ ॥ ततो गच्छेत सुमहत्तीर्थं मिश्रकमुत्तमम् । तत्र तीर्थानि मुनिना मिश्रितानि महात्मना ॥ १५.५२ ॥ व्यासेन मुनिशार्दुला दधीच्यर्थं महात्मना । सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ॥ १५.५३ ॥ ततो व्यासवनं गच्छेन्नियतो नियताशनः । मनोजवे नरः स्नात्वा मिश्रके स्नाति यो नरः ॥ १५.५४ ॥ मनसा चिन्तितं सर्वं सिध्यते नात्र संशयः । गत्वा मधुवटीं चैव देव्यास्तीर्थं नरः शुचिः ॥ १५.५५ ॥ तत्र स्नात्वार्ऽचयेद्देवान् पितॄंश्च प्रयतो नरः । स देव्या समनुज्ञातो यथा सिद्धिं लभेन्नरः ॥ १५.५६ ॥ कौशिक्याः संगमे यस्तु दृषद्वत्यां नरोत्तमः । स्नायीत नयताहारः सर्वपापैः प्रमुच्यते ॥ १५.५७ ॥ ततो व्यासस्थली नाम यत्र व्यासेन धीमता । पुत्रशोकाभिभूतेन देहत्यागाय निश्चयः ॥ १५.५८ ॥ कृतो देवैश्च विप्रेन्द्राः पुनरुत्थापितस्तदा । अभिगम्य स्थलीं तस्य पुत्रशोकं न विन्दति ॥ १५.५९ ॥ गिन्दत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च । गच्छेत परमां सिद्धिं ऋणैर्मुक्तिमवाप्नुयात् ॥ १५.६० ॥ यह्नं च सुदिनं चैव द्वे तीर्थे भुवि दुर्लभे । तयोः स्नात्वा विशुद्धात्मा सूर्यलोकमपाप्नुयात् ॥ १५.६१ ॥ कृतजप्यं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् । तत्राभिषेकं कुवीन्त गङ्गायां प्रयतः स्थितः ॥ १५.६२ ॥ अर्चयित्वा महादेवमश्वमेधफलं लभेत् । कोटितीर्थं च तत्रैव दृष्ट्वा कोटीश्वरं प्रभुम् ॥ १५.६३ ॥ तत्र स्व्नात्वा श्रद्दधानः कोटियज्ञफलं लभेत् । ततो वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम् ॥ १५.६४ ॥ यत्र वामनरूपेण विष्णुना प्रभविष्णुना । बलेरपहृतं राज्यमिन्द्राय प्रतिपादितम् ॥ १५.६५ ॥ तत्र विष्णुपदेस्नात्वा अर्चयित्वा च वामनम् । सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् ॥ १५.६६ ॥ ज्येष्ठाश्रमं च तत्रैव सर्वपातकनाशनम् । तं तु दृष्ट्वा नरो मुक्तिं संप्रयाति न संशयः ॥ १५.६७ ॥ ज्येष्ठे मासि सिते पक्षे एकादश्यामुपोषितः । द्वादश्यां च नरः स्नात्वा ज्येष्ठत्वं लभते नृपु ॥ १५.६८ ॥ तत्र प्रतिष्ठिता विप्रा विष्णुना प्रभविष्णुना । दीक्षाप्रतिष्ठासंयुक्ता विष्णुप्रीणनतत्पराः ॥ १५.६९ ॥ तेभ्यो दत्तानि श्राद्धानि दानानि विविधानि च । अक्षयाणि भविष्यन्ति यावन्मन्वन्तरस्थितिः ॥ १५.७० ॥ तत्रैव कोटितीर्थं च त्रिषु लोकेषु विश्रुतम् । तस्मिस्तीर्थे नरः स्नात्वा कोटियज्ञफलं लभेत् ॥ १५.७१ ॥ कोटीश्वरं नरो दृष्ट्वा तस्मितीर्थे महेश्वरम् । महादेवप्रसादेन गाणपत्यमवाप्नुयात् ॥ १५.७२ ॥ तत्रैव सुमहत्तीर्थं सूर्यस्य च महात्मनः । तस्मिन् स्नात्वा भक्तिभुक्तः सूर्यलोके महीयते ॥ १५.७३ ॥ ततो गच्छेत विप्रैन्द्रास्तीर्थं कल्मषनाशनम् । कुलोत्तारणनामानं विष्णुना कल्पितं पुरा ॥ १५.७४ ॥ वर्णानामाश्रमाणां च तारणाय सुनिर्मलम् । ब्रह्मचर्यात्परं मोक्षं य इच्छिन्ति सुनिर्मलम् । तेऽपि तत्तीर्थमासाद्य पश्यन्ति परमं पदम् ॥ १५.७५ ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । कुलानि तारयेत्स्नातः सप्त सप्त च सप्त च ॥ १५.७६ ॥ ब्राह्मणाः क्षत्रिया वैश्याः सूद्रा ये तत्परायणाः । स्नाता भक्तियुताः सर्वे पश्यन्ति परमं पदम् ॥ १५.७७ ॥ दूरस्थोऽपि स्मरेद्यस्तु कुरुक्षेत्रं सवामनम् । सोऽपि मुक्तिमवाप्नोति किं पुनर्न्निवसन्नरः ॥ १५.७८ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ने पञ्चदशोऽध्यायः _____________________________________________________________ लोमहर्षण उवाच । पवनस्य ह्रदे स्नात्वा दृष्ट्वा देवं महेश्वरम् । विमुक्तः कलुषैः सर्वैः शैवं पदमवाप्नुयात् ॥ १६.१ ॥ पुत्रशोकेन पवनो यस्मिल्लीनो बभूव ह । ततः सब्रह्मकैर्देवैः प्रसाद्य प्रकटीकृतः ॥ १६.२ ॥ अतो गच्छेत अमृतं स्थानं तच्छूलपाणिनः । यत्र देवैः सगन्धर्वैः हनुमान् प्रकटीकृतः ॥ १६.३ ॥ तत्र तीर्थे नरः स्नात्वा अमृतत्वमवाप्नुयात् । कुलोत्तारणमासाद्य तीर्थसेवी द्विजोत्तमः ॥ १६.४ ॥ कुलानि तारयेत्सर्वान्मातामहपितामहान् । शालिहोत्रस्य राजर्षेस्तीर्थं त्रैलोक्यविश्रुतम् ॥ १६.५ ॥ तत्र स्नात्वा विमुक्तस्तु कलुषैर्दैहसंभवैः । श्रीकुञ्जं तु सरस्वत्यां तीर्थं त्रैलोक्यविश्रुतम् ॥ १६.६ ॥ तत्र स्नात्वा नरो भक्त्या अग्निष्टोमफलं लभेत् । ततो नैमिषकुञ्जं तु समासाद्य नरः शुचिः ॥ १६.७ ॥ नैमिषस्य च स्नानेन यत्पुण्यं तत्समाप्नुयात् । तत्र तीर्थं महाख्यातं वेदवत्या निषेवितम् ॥ १६.८ ॥ रावणेन गृहीतायाः केशेषु द्विजसत्तमाः । तद्वधाय च सा प्राणान्मुमुचे शोककर्शिता ॥ १६.९ ॥ ततो जाता गृहे राज्ञो नजकस्य महात्मनः । सीता नामेति विख्याता रामपत्नी पतिव्रता ॥ १६.१० ॥ सा हृता रावणेनेह विनाशायात्मनः स्वयम् । रामेण रावणं हत्वा अभिषिच्य विभिषणम् ॥ १६.११ ॥ समानीता गृहं सीता कीर्तिरात्मवता यथा । तस्यास्तीर्थे नरः स्नात्वा कन्यायज्ञफलं लभेत् ॥ १६.१२ ॥ विमुक्तः कलुषैः सर्वैः प्राप्नोति परमं पदम् । ततो गच्छेत सुमहद्ब्रह्मणः स्थानमुत्तमम ॥ १६.१३ ॥ यत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः । ब्राह्मणश्च विशुद्धत्मा परं पदमवाप्नुयात् ॥ १६.१४ ॥ ततो गच्छेत सोमस्य तीर्थं त्रैलोक्यदुर्लभम् । यत्र सोमस्तपस्तप्त्वा द्विजराज्यमवाप्नुयात् ॥ १६.१५ ॥ तत्र स्नात्वार्ऽचयित्वा च स्वपितॄन् दैवतानि च । निर्मलः स्वर्गमायाति कार्तिक्यां चन्द्रमा यथा । । १६.१६ सप्तसारस्वतं तीर्थं त्रैलोक्यस्यापि दुर्लभम् । यत्र सप्त सरस्वत्य एकीभूता वहन्ति च ॥ १६.१७ ॥ सुप्रभा काञ्चनाक्षी च विशाला मानसह्रदा । सरस्वत्योघनामा च सुवेणुर्विमलोदका ॥ १६.१८ ॥ पितामहस्य यजतः पुष्करेषु स्थितस्य ह । अब्रुवनृषयः सर्वे नायं यज्ञो महाफलः ॥ १६.१९ ॥ न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती । तछ्रुत्वा भगवान् प्रीतः सस्माराथ सरस्वतीम् ॥ १६.२० ॥ पितामहेन यजता आहूता पुष्करेषु वै । सुप्रभा नाम सा देवी तत्र ख्याता सरस्वती ॥ १६.२१ ॥ तां दृष्ट्वा मुनयः प्रीता वेगयुक्तां सरस्वतीम् । पितामहं मानयन्तीं ते तु तां बहु मेनिरे ॥ १६.२२ ॥ एवमेषा सरिच्छ्रेष्ठा पुष्करस्था सरस्वती । समानीता सुरुक्षेत्रे मङ्कणेन महात्मना ॥ १६.२३ ॥ नैमिषे मुनयः स्थित्वा शौनकाद्यास्तपोधनाः । ते पृच्छन्ति महात्मानं पौराणं लोमहर्षणम् ॥ १६.२४ ॥ कथं यज्ञफलोऽस्माकं वर्ततां सत्पथे भवेत् । ततोऽब्रेवीन्महाभागाः प्रणम्य शिरसा ऋतीन् ॥ १६.२५ ॥ सरस्वती स्थिता यत्र तत्र यज्ञफलं महत् । एतच्छ्रुत्वा तु मनुयो नानास्वाध्यायवेदिनः ॥ १६.२६ ॥ समागम्य ततः सर्वे सस्मरुस्ते सरस्वतीम् । सा तु ध्याता ततस्तत्र ऋषिभिः सत्रयाजिभिः ॥ १६.२७ ॥ समागता प्लावनार्थं यज्ञे तेषां महात्मनाम् । नैमिषे काञ्चनाक्षी तु स्मृता मङ्कणकेन सा ॥ १६.२८ ॥ समागता कुरुक्षेत्रं पुण्यतोय सरस्वती । गयस्य यजमानस्य गयेष्वेव महाक्रतुम् ॥ १६.२९ ॥ आहूता च सरिच्छ्रेष्ठा गययज्ञे सरस्वती । विशालां नाम तां प्राहुरृषयः संशितव्रताः ॥ १६.३० ॥ सरित्सा हि समाहूता मङ्कणेन महात्मना । कुरुक्षेत्रं समायाता प्रविष्टा च महानदी ॥ १६.३१ ॥ उत्तरे कोशलाभागे पुण्ये देवर्षिसेविते । उद्दालकेन मुनिना तत्र ध्याता सरस्वती ॥ १६.३२ ॥ आजगाम सरिच्छ्रेष्ठा तं देशं मुनिकारणात् । पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः ॥ १६.३३ ॥ मनोहरेति विख्याता सर्वपापक्षयावहा । आहूता सा कुरुक्षेत्रे मङ्कणेन महात्मना । ऋषेः संमाननार्थाय प्रविष्टा तीर्थमुत्तमम् ॥ १६.३४ ॥ सुवेणुरिति विख्याता केदारे या सरस्वती । सर्वपापाक्षया ज्ञेया ऋषिसिद्धिनिषेविता ॥ १६.३५ ॥ सापि तेनेह मुनिना आराध्य परमेश्वरम् । ऋषीणामुपकारार्थं कुरुक्षेत्रं प्रवेशिता ॥ १६.३६ ॥ दक्षेण यजता सापि गङ्गाद्वारे सरस्वती । विमलोदा भगवती दक्षेण प्रकटीकृता ॥ १६.३७ ॥ समाहूता ययौ तत्र मङ्कणेन महात्मना । कुरुक्षेत्रे तु कुरुणा यजिता च सरस्वती ॥ १६.३८ ॥ सरोमध्ये समानीता मार्कण्डेयेन धीमता । अभिष्टूय महाभागां पुण्यतोयां सरस्वतीम् ॥ १६.३९ ॥ यत्र मङ्कणकः सिद्धः सप्तसारस्वते स्थितः । नृत्यमानश्च देवेन शङ्करेण निवारितः ॥ १६.४० ॥ इति क्षीवामनुराणे सरोमाहात्म्ये षोडशोऽध्यायः _____________________________________________________________ ऋषय ऊचुः । कथं मङ्कणकः सिद्धः कस्माज्जातो महानृषिः । नृत्यमानस्तु देवेन किमर्थं स निवारितः ॥ १७.१ ॥ लोमहर्षण उवाच कश्यपस्य सुतो जज्ञे मानसो मङ्कणोमुनिः । स्नानं कर्तुं व्यवसितो गृहीत्वा वल्कलं द्विजः ॥ १७.२ ॥ तत्र गता ह्यप्सरसो रम्भाद्याः प्रियदर्शनाः । स्नायन्ति रुचिराः स्निग्धास्तेन सार्धमनिन्दिताः ॥ १७.३ ॥ ततो मुनेस्तदा क्षोभाद्रेतः स्कन्नं यदम्भसि । तद्रेतः स तु जग्राह कलशे वै महातपाः ॥ १७.४ ॥ सप्तधा प्रविभागं तु कलशस्थं जगाम ह । तत्रर्षयः स्पत जाता विदुर्यान्मरुतां गणान् । १७.५ वायुवेगो वायुबलो वायुहा वायुमण्डलः । वायुज्वलो वायुरेतो वायुचक्रश्च वीर्यवान् ॥ १७.६ ॥ एते ह्यपत्यास्तस्यर्षेर्धारयन्ति चराचरम् । पुरा मङ्कणकः सिद्धः कुशाग्रेणेति मे श्रुतम् ॥ १७.७ ॥ क्षतः किल करे विप्रास्तस्य शाकरसोऽस्रवत् । स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनुत्तवान् ॥ १७.८ ॥ ततः सर्वं प्रनृत्तं च सथावरं जङ्मं च यत् । प्रनुत्तं च जगद्दृष्ट्वा तेजसा तस्य मोहितम् ॥ १७.९ ॥ ब्रह्मादिभिः सुरैस्तत्र ऋषिभिश्च तपोधनैः । विज्ञप्तो वै महादेवो मुनेरर्थे द्विजोत्तमाः ॥ १७.१० ॥ नाय नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि । ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव हि ॥ १७.११ ॥ सुरणां हितकामार्थं महादेवोऽभ्यभाषत । हर्षस्थानं किमर्थं च तवेदं मुनिसत्तम । तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ॥ १७.१२ ॥ किं न पश्यसि मे ब्रह्मन् कराच्छाकरसं स्रुतम् । यं दृष्ट्वाहं प्रनुत्तो वै हर्षेण महतान्वितः ॥ १७.१३ ॥ तं प्रहस्याब्रवीद्देवो मुनिं रागेम मोहितम् । अहं न विस्मयं विप्र गच्छामीह प्रपश्यताम् ॥ १७.१४ ॥ एवमुक्त्वा मुनिश्रेष्ठं देवदेवो महाद्युतिः । अङ्गुल्यग्रेण विप्रेन्द्राः स्वाङ्गुष्ठं ताडयद्भवः ॥ १७.१५ ॥ ततो भस्म क्षतात्तस्मान्निर्गतं हिमसन्निभम् । तद्दृष्ट्वा व्रीडितोविप्रः पादयोः पतितोऽब्रवीत् ॥ १७.१६ ॥ नान्यं देवादहं मन्ये शूलपाणेर्महात्मनः । चराचरस्य जगतो वरस्त्वमसि शूलधृक् ॥ १७.१७ ॥ त्वदाश्रयाश्च दृश्यन्ते सुरा ब्रह्मादयोऽनघ । पूर्वस्त्वमसि देवानां कर्ता कारयिता महत् ॥ १७.१८ ॥ त्वत्प्रसादात्सुराः सर्वे मोदन्ते ह्यकुलोभयाः । एवं स्तुत्वा महादेवमृषिः स प्रणतोऽब्रवीत् ॥ १७.१९ ॥ भगवंस्त्वप्रसादाद्धि तपो मे न क्षयं व्रजेत् । ततो देवः प्रसान्नात्मा तमृषिं वाक्यमब्रवीत् ॥ १७.२० ॥ ईश्वर उवाच तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा । आश्रमे चेह वत्स्यामि त्वया सार्द्धमहं सदा ॥ १७.२१ ॥ सप्तसारस्वते स्नात्वा यो ममर्चिष्यते नरः । न तस्य दुर्लभं किञ्चिदिह लोके परत्र च ॥ १७.२२ ॥ सारस्वतं च तं लोकं गमिष्यति न संशयः । शिवस्य च प्रसादेन पाप्नोति परमं पदम् ॥ १७.२३ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये सप्तदशोध्यायः _____________________________________________________________ लोमहर्षण उवाच । ततस्त्वौशनसं तीर्थं गच्छेत्तु श्रद्धायान्विताः । उशना यत्र संसिद्धो ग्रहत्वं च समाप्तवान् ॥ १८.१ ॥ तस्मिन् स्नात्वा विमुक्तस्तु पातकैर्जन्मसंभवैः । ततो याति परं ब्रह्म यस्मान्नावर्तते पुनः ॥ १८.२ ॥ रहोदरो नाम मुनिर्यत्र मुक्तो बभूव ह । महता शिरसा ग्रस्तस्तीर्थमाहात्म्यदर्शनात् ॥ १८.३ ॥ कथं रहोदरो ग्रस्तः कथं मोक्षमवाप्तवान् । तीर्थस्य तस्य माहात्म्यमिच्छामः श्रोतुमादरात् ॥ १८.४ ॥ लोमहर्षण उवाच पुरा वै दण्डकारण्ये राघवेण महात्मना । वसता द्विजशार्दूला राक्षसास्तत्र हिंसिताः ॥ १८.५ ॥ तत्रैकस्य शिरश्छिन्नं राक्षसस्य दुरात्मनः । क्षुरेण शितधारेण तत्पपात महावने ॥ १८.६ ॥ रहोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया । वने विचारतस्तत्र अस्थि भित्त्वा विवेश ह ॥ १८.७ ॥ स तेन लग्नेन तदा द्विजातिर्न शशाक ह । अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ॥ १८.८ ॥ स पूतिना विस्रवता वेदनार्ते महामुनिः । जगाम सर्वतीर्थानि पृथिव्यां यानि कानि च ॥ १८.९ ॥ ततः स कथयामास ऋषीणां भावितात्मनाम् । तेऽब्रुवनृषयो विप्रं प्रयाह्यैशनसं प्रतिः ॥ १८.१० ॥ तेषां तद्वचनं श्रुत्वा जगाम स रहोदरः । ततस्त्वैशनसे तीर्थे तस्योपस्पृशतस्तदा ॥ १८.११ ॥ तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले द्विजाः । ततः स विरजो भूत्वा पूतात्मा वीतकल्मषः ॥ १८.१२ ॥ आजगामाश्रमं प्रीतः कथयामास चाखिलम् । ते श्रुत्वा ऋषयः सर्वे तीर्थमाहात्म्यमुत्तमम् । कपालमोचनमिति नाम चक्रुः समागताः ॥ १८.१३ ॥ तत्रापि सुमहत्तीर्थ विश्वामित्रस्य विश्रुतम् । ब्राह्मण्यं लब्धवान् यत्र विश्वामित्रो महामुनिः ॥ १८.१४ ॥ तस्मिस्तीर्थवरे स्नात्वा ब्राह्मण्यं लभते ध्रुवम् । ब्राह्मणस्तु विशुद्धात्मा परं पदमवाप्नुयात् ॥ १८.१५ ॥ ततः पूथूदकं गच्छेन्नियतो नियताशनः । तत्र सिद्धस्तु ब्रह्मर्षि रुषङ्गुर्नाम नामतः ॥ १८.१६ ॥ जातिस्मरो रुषङ्गुस्तु गङ्गाद्वारे सदा स्थितः । अन्तकालं ततो दृष्ट्वा पुत्रान् वचनमब्रवीत् । इह श्रेयो न पस्यामि नयध्वं मां पृथूदकम् ॥ १८.१७ ॥ विज्ञाय तस्य तद्भावं रुषङ्गोस्ते तपोधनाः । तं वै तीर्थे उपानिन्युः सरस्वत्यास्तपोधनम् ॥ १८.१८ ॥ स तैः पुत्रैः समानीतः सरस्वत्यां समाप्लुतः । स्मृत्वा तीर्थगुणान् सर्वान् प्राहेदमृषिसत्तमः ॥ १८.१९ ॥ सरस्वत्युत्तरे तीर्थे यस्त्यजेदात्मनस्तनुम् । पृथूदके जप्यपरो नूनं चामरतां व्रजेत् ॥ १८.२० ॥ तत्रैव ब्रह्मयोन्यस्ति ब्रह्मणा यत्र निर्मिता । पृथूदकं समाश्रित्य सरस्वत्यास्तटे स्थितः ॥ १८.२१ ॥ चातुर्वर्ण्यस्य सृष्ट्यर्थमात्मज्ञानपरोऽभवत् । तस्याभिध्यायतः सृष्टिं ब्रह्मणोऽव्यक्तजन्मनः ॥ १८.२२ ॥ मुखतो ब्राह्मणा जाता बाहुभ्यां क्षत्रियास्तथा । ऊरुभ्यां वैश्यजातीयाः पद्भ्यां शूद्रास्ततोऽभवन् ॥ १८.२३ ॥ चातुर्वर्ण्यं ततो दृष्ट्वा आश्रमस्थं ततस्ततः । एवं प्रतिष्ठितं तीर्थं ब्रह्मयोनीति संज्ञितम् ॥ १८.२४ ॥ तत्र स्नात्वा मुक्तिकामः पुनर्योनिं न पश्यति । तत्रैव तीर्थं विख्यातमवकीर्णेति नामतः ॥ १८.२५ ॥ यस्मिन् तीर्थे बको दाल्भ्यो धृतराष्ट्रममर्षणम् । जुहाव वाहनैः सार्धं तत्राबुध्यत्ततो नृपः ॥ १८.२६ ॥ ऋषय ऊचुः कथं प्रतिष्ठितं तीर्थमवकीर्णेन नामतः । धृतराष्ट्रेण राज्ञा च स किमर्थं प्रसादितः ॥ १८.२७ ॥ लोमहर्षण उवाच ऋषयो नैमिषेया ये दक्षिणार्थं ययुः पुरा । तत्रैव च बको दाल्भ्यो दृतराष्ट्रा मयाचत ॥ १८.२८ ॥ तेनापि तत्र निन्दार्थमुक्तं पश्वनृतं तु यत् । ततः क्रोधेन महता मांसमुत्कृत्य तत्र ह । । १८.२९ पृथूदके महातीर्थे अवकीर्णेति नामतः । जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेस्ततः ॥ १८.३० ॥ हूयमाने तदा राष्ट्रे प्रवृत्ते यज्ञकर्मणि । अक्षियत ततो राष्ट्रं नृपतेर्दुष्कृतेन वै ॥ १८.३१ ॥ ततः स चिन्तयामास ब्राह्मणस्य विचेष्टितम् । पुरोहितेन संयुक्ते रत्नान्यादाय सर्वशः ॥ १८.३२ ॥ प्रसादनार्थं विप्रस्य ह्यवकीर्णं ययौ तदा । प्रसादितः स राज्ञा च तुष्टः प्रोवाच तं नृपम् ॥ १८.३३ ॥ ब्राह्मणा नावमन्तव्याः पुरुषेण विजानता । अवज्ञातो ब्राह्मणस्तु हन्यात्त्रिपुरुषं कुलम् ॥ १८.३४ ॥ एवमुक्त्वा स नृपतिं राज्येन यशसा पुनः । उत्थापयामास ततस्तस्य राज्ञो हिते स्थितः ॥ १८.३५ ॥ तस्मिंस्तीर्थे तु यः स्नाति श्रद्दधानो जितेन्द्रियः । स प्राप्नोति नरो नित्यं मनसा चिन्तितं फलम् ॥ १८.३६ ॥ तत्र तीर्थं सुविख्यातं यायातं नाम नामतः । यस्येह यजमानस्य मधु सुस्राव वै नदी ॥ १८.३७ ॥ तस्मिन् स्नातो नरो भक्त्या मुच्यते सर्वकिल्बिषैः । फलं प्राप्नोति यज्ञस्य अश्वमेधस्य मानवः ॥ १८.३८ ॥ मधुस्रवं च तत्रैव तीर्थं पुण्यतमं द्विजाः । तस्मिन् स्नात्वा नरो भक्त्या मधुनातर्पयेत्पितॄन् ॥ १८.३८ ॥ तत्रापि सुमहत्तीर्थं वसिष्ठोद्वाहसंज्ञितम् । तत्र स्नातो भक्तियुक्तो वासिष्ठं लोकमाप्नुयात् ॥ १८.३९ ॥ तत्रापि सुमहत्तीर्थं वसिष्ठोद्वाहसंज्ञितम् । तत्र स्नातो भक्तियुक्तो वासिष्ठं लोकमाप्नुयात् ॥ १८.४० ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये अष्टादशोऽध्यायः _____________________________________________________________ ऋषय ऊचुः । वसिष्ठस्यापवाहोऽसौ कथं वै संबभूव ह । किमर्थं सा सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् ॥ १९.१ ॥ लोमहर्षण उवाच विश्वामित्रस्य राजर्षेर्वसिष्ठस्य महात्मनः । भृशं वैरं बभूवेह तपःस्पर्द्धाकृते महत् ॥ १९.२ ॥ आश्रमो वै वसिष्ठस्य स्थाणुतीर्थे बभूव ह । तस्य पश्चिमदिग्भागे विश्वामित्रस्य धीमतः ॥ १९.३ ॥ यत्रेष्ट्वा भगवान् स्थाणुः पूजयित्वा सरस्वतीम् । स्थापयामास देवेशो लिङ्गाकारां सरस्वतीम् ॥ १९.४ ॥ वसिष्ठस्तत्र तपसा घोररूपेण संस्थितः । तस्येह तपसा हीनो विश्वामित्रो बभूव ह ॥ १९.५ ॥ सरस्वतीं समाहूय इदं वचनमब्रवीत् । वसिष्ठं मुनिसार्दूलं स्वेन वेगेन आनय ॥ १९.६ ॥ इहाहं तं द्विजश्रेष्ठं हनिष्यामि न संशयः । एतच्छ्रत्वा तु वचनं व्यथिता सा महानदी ॥ १९.७ ॥ तथा तां व्यथितां दृष्ट्वा वेपमानं महानदीम् । विश्वामित्रोऽब्रवीत्क्रुद्धो वसिष्ठं शीघ्रमानय ॥ १९.८ ॥ ततो गत्वा सरिच्छ्रेष्ठा वसिष्ठं मुनिसत्तमम् । कथयामास रुदती विश्वामित्रस्य तद्वचः ॥ १९.९ ॥ तपःक्रियाविशीर्णां च भृशं शोकसमन्विताम् । उवाच स सरिच्छ्रेष्ठां विश्वामित्राय मां वचः ॥ १९.१० ॥ तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सतित् । चालयामास तं स्तानात्प्रवाहेणाम्भसस्तदा ॥ १९.११ ॥ स च कूलापहारेम मित्रावरुणयोः सुतः । उह्यमानश्च तुष्टाव तदा देवीं सरस्वतीम् ॥ १९.१२ ॥ पितामहस्य सरसः प्रवृत्तासि सरस्वति । व्याप्तं त्वया जगत्सर्वं तवैवाम्भोभिरुत्तमैः ॥ १९.१३ ॥ त्वमेवाकाशगा देवी मेघेषु सृजसे पयः । सर्वास्त्वापस्त्वमेवेति त्वत्तो वयमधीमहे ॥ १९.१४ ॥ पुष्टिर्धृतिस्तथा कीर्तिः सिद्धिः कान्तिः क्षमा तथा । स्वधा स्वाहा तथा वाणी तवायत्तमिदं जगत् ॥ १९.१५ ॥ त्वमेव सर्वभूतेषु वाणीरूपेण संस्थिता । एवं सरस्वती तेन स्तुता भगवती तदा ॥ १९.१६ ॥ सुखेनोवाह तं विप्रं विश्वामित्रश्रमं प्रति । न्यवेदयत्तदा खिन्ना विश्वामित्राय तं मुनिम् ॥ १९.१७ ॥ तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः । अथान्विषत्प्रहरणं वसिष्ठान्तकरं तदा ॥ १९.१८ ॥ तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी । अपोवाह वसिष्ठं तं मध्ये चैवाम्भसस्तदा । उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम् ॥ १९.१९ ॥ ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् । अब्रवीत्क्रोधरक्ताक्षो विश्वामित्रो महातपाः ॥ १९.२० ॥ यस्मान्मां सरितां श्रेष्ठे वञ्चयित्वा विनिर्गता । शोणितं वह कल्याणि रक्षोग्रामणिसंयुता ॥ १९.२१ ॥ ततः सरस्वती शप्ता विश्वामित्रेण धीमता । अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा ॥ १९.२२ ॥ अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तदा । सरस्वतीं तदा दृष्ट्वा भभूवुर्भृशदुःखिताः ॥ १९.२३ ॥ तस्मिन्तीर्थवरे पुण्ये शोणितं समुपावहत् । ततो भूतपिशाचाश्च राक्षसाश्च समागताः ॥ १९.२४ ॥ ततस्तो शोणितं सर्वे पिबन्तः सुखमासते । तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः । नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा ॥ १९.२५ ॥ कस्यचित्त्वथ कालस्य ऋषयः सतपोधनाः । तीर्थयात्रां समाजग्मुः सरस्वत्यां तपोधनाः ॥ १९.२६ ॥ तां दृष्ट्वा राक्षसैघोरैः पीयमानां महानदीम् । परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे ॥ १९.२७ ॥ ते तु सर्वे महाभागाः समागम्य महाव्रताः । आहूय सरितां श्रेष्ठामिदं वचनमब्रवन् ॥ १९.२८ ॥ किं कारणं सरिच्छ्रेष्ठे शोणितेन ह्लदो ह्ययम् । एवमाकुलतां यातः श्रुत्वा वेत्स्यामहे वयम् ॥ १९.२९ ॥ ततः सा सर्वमाचष्ट विश्वामित्रविचेष्टितम् । ततस्ते मुनयः प्रीताः सरस्वत्यां समानयन् । अरुणां पुण्यतोयौघां सर्वदुष्कृतनाशनीम् ॥ १९.३० ॥ दृष्ट्वा तोयं सरस्वत्या राक्षसा दुःखिता भृशम् । ऊचुस्तान् वै मुनीन् सर्वान् दैन्ययुक्ताः पुनः पुनः ॥ १९.३१ ॥ वयं हि क्षुधिताः सर्वे धर्महीनाश्च शाश्वताः । न च नः कामकारोयं यद्वयं पापकारिणः ॥ १९.३२ ॥ युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा । पक्षोऽयं वर्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः ॥ १९.३३ ॥ एवं वैश्याश्च शूद्राश्च क्षत्रियाश्च विकर्मभिः । ये ब्राह्मणान् पेद्विषन्ति ते भवन्तीह राक्षसाः ॥ १९.३४ ॥ योषितां चैव पापानां योनिदोषेण वर्द्धते । इयं संततिरस्माकं गतिरेषा सनातनी ॥ १९.३५ ॥ शक्ता भवन्तः सर्वेषां लोकानामपि तारणे । तेषां ते मुनयः श्रुत्वा कृपाशीलाः पुनश्च ते ॥ १९.३६ ॥ ऊचुः परस्परं सर्वे तप्यमानाश्च ते द्विजाः । क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत् ॥ १९.३७ ॥ केशावपन्नमाधूतं मारुतश्वासद्वषितम् । एभिः संसृष्टमन्नं च भागं वै रक्षसां भवेत् ॥ १९.३८ ॥ तस्माज्ज्ञात्वा सदा विद्वानन्नान्येतानि जर्जयेत् । राक्षसानामसौ भुङ्क्ते यो भुङ्क्ते अन्नमीदृशम् ॥ १९.३९ ॥ शोधयित्वा तु तत्तीर्थमृषयस्ते तपोधनाः । मोक्षार्थं रक्षसां तेषां संगमं तत्र कल्पयन् ॥ १९.४० ॥ अरुणायाः सरस्वत्याः संगमे लोकविश्रुते । त्रिरात्रोपोषितः स्नातो मुच्यते सर्वकिल्बिषैः ॥ १९.४१ ॥ प्राप्ते कलियुगे घोरे अधर्मे प्रत्युपस्थिते । अरुणासंगमे स्नात्वा मुक्तिमाप्नोति मानवः ॥ १९.४२ ॥ ततस्ते राक्षसाः सर्वे स्नाताः पापविवर्जिताः । द्वियामाल्यम्बरधराः स्वर्गस्थितिसमन्विताः ॥ १९.४३ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये एकोनविंशोऽध्यायः _____________________________________________________________ लोमहर्षण उवाच । समुद्रास्तत्र चत्वारो दर्विणा आहताः पुरा । प्रत्येकं तु नरः स्नातो गोसहस्रफलं लभेत् ॥ २०.१ ॥ यत्किञ्चित्क्रियते तस्मिंस्तपस्तीर्थे द्विजोत्तमाः । परिपूर्णं हि तत्सर्वमपि दुष्कृतकर्मणः ॥ २०.२ ॥ शतसाहस्रिकं तीर्थं तथैव शतिकं द्विजाः । उभयोर्हि नरः स्नातो गोसहस्रफलं लभेत् ॥ २०.३ ॥ सोमतीर्थं च तत्रापि सरस्वत्यास्तटे स्थितम् । यस्मिन् स्नातस्तु पुरुषो राजसूयफलं लभेत् ॥ २०.४ ॥ रेणुकाश्रममासाद्य श्रद्दधानो जितेन्द्रियः । मातृभक्त्या च यत्पुण्यं तत्फलं प्राप्नुयान्नरः ॥ २०.५ ॥ ऋणैर्मुक्तो भवेन्नित्यं देवर्षिपितृसंभवैः । कुमारस्याभिषेकं च ओजसं नाम विश्रुतम् ॥ २०.६ ॥ तस्मिन् स्नातस्तु पुरुषो यशसा च समन्वितः । कुमारपुरमाप्नोति कृत्वा श्राद्धं तु मानवः ॥ २०.७ ॥ चैत्रषष्ठ्यां सिते पक्षे यस्तु श्राद्धं करिष्यति । गयाश्राद्धे च यत्पुण्यं तत्पुण्यं प्राप्नुयान्नरः ॥ २०.८ ॥ संनिहित्यां यथा श्राद्धं राहुग्रस्ते दिवाकरे । तथा श्राद्धं तत्र कृतं नात्र कार्या विचारणा ॥ २०.९ ॥ ओजसे ह्यक्षयं श्राद्धं वायुना कथितं पुरा । तस्मात्सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत् ॥ २०.१० ॥ यस्तु स्नानं श्रद्दधानश्चैत्रषष्ठ्यां करिष्यति । अक्षय्यमुदकं तस्य पितॄणामुपजायते ॥ २०.११ ॥ तत्र पञ्चवटं नाम तीर्थं त्रैलोक्यविश्रुतम् । महादेवः स्थितो यत्र योगमूर्तिधरः स्वयम् ॥ २०.१२ ॥ तत्र स्नात्वार्ऽचयित्वा व देवदेवं महेश्वरम् । गाणपत्यमवाप्नोति दैवतैः सह मोदते ॥ २०.१३ ॥ कुरुतीर्थं च विख्यातं कुरुणा यत्र वै तपः । तप्तं सुघोरं क्षेत्रस्य कर्षणार्थं द्विजोत्तमाः ॥ २०.१४ ॥ तस्य घोरेण तपसा तुष्ट इन्द्रोब्रवीद्वचः । राजर्षे परितुष्टोऽस्मि तपसानेन सुव्रतः ॥ २०.१५ ॥ यज्ञं ये च कुरुक्षेत्रे करिष्यन्ति शतक्रतोः । ते गमिष्यन्ति सुकृतांल्लोकान् पापविवर्जितान् ॥ २०.१६ ॥ अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः । आगम्यागम्य चैवैनं भूयो भूयोऽवहस्य च ॥ २०.१७ ॥ शतक्रतुरनिर्विण्णः पृष्ट्वा पृष्ट्वा जगाम ह । यदा तु तपसोग्रेण चकर्ष देहमात्मनः । ततः शक्रोऽब्रवीत्प्रीत्य ब्रूहि यत्ते चिकीर्षितम् ॥ २०.१८ ॥ कुरुरुवाच ये श्रद्दधानास्तीर्थेऽस्मिन्मानवा निवसन्ति ह । ते प्राप्नुवन्तु सदनं ब्रह्मणः परमात्मनः ॥ २०.१९ ॥ अन्यत्र कृतपापा ये पञ्चपातकदूषिताः । अस्मिस्तीर्थे नराः स्नात्वा मुक्ता यान्तु परां गतिम् ॥ २०.२० ॥ कुरुक्षेत्रे पुण्यतमं कुरुतीर्थं द्विजोत्तमाः । ते दृष्ट्वा पापमुक्तस्तु परं पदमवाप्नुयात् ॥ २०.२१ ॥ कुरुतीर्थे नरः स्नातो मुक्तो भवति किल्विषैः । कुरुणा समनुज्ञातः प्राप्नोति परमं पदम् ॥ २०.२२ ॥ स्वर्गद्वारं ततो गच्छेत्शिवद्वारे व्यवस्थितम् । तत्र स्नात्वा शिवद्वारे प्राप्नोति परमं पदम् ॥ २०.२३ ॥ ततो गच्छेदनरकं तीर्थं त्रैलोक्यविश्रुतम् । यत्र पूर्वे स्थितो ब्रह्म दक्षिणे तु महेश्वरः ॥ २०.२४ ॥ रुद्रपत्नी पश्चिमतः पद्मनाभोत्तरे स्थितः । मध्ये अनरकं तीर्थं त्रैलोक्यस्यापि दुर्लभम् ॥ २०.२५ ॥ यस्मिन् स्नातस्तु मुच्येत पातकैरुपपातकैः । वैशाखे च यदा षष्ठी मङ्गलस्य दिनं भवेत् ॥ २०.२६ ॥ तदा स्नानं तत्र कृत्वा मुक्तो भवति पातकैः । यः प्रयच्छेत करकांश्चतुरो भक्ष्यसंयुतान् ॥ २०.२७ ॥ कलशं च तथा दद्यादपूपैः परिशोभितम् । देवताः प्रीमयेत्पूर्वं करकैरन्नसंयुतैः ॥ २०.२८ ॥ ततस्तु कलशं दद्यात्सर्वपातकनाशनम् । अनेनैव विधानेन यस्तु स्नानं समाचरेत् ॥ २०.२९ ॥ स मुक्ताः कलुषैः सर्वैः प्रयाति परमं पदम् । अन्यत्रापि यदा षष्ठी मङ्गलेन भविष्यति ॥ २०.३० ॥ तत्रापि मुक्तिफलदा क्रिया तस्मिन् भविष्यति । तीर्थे च सर्वतीर्थानां यस्मिन् स्नातो द्विजोत्तमाः ॥ २०.३१ ॥ सर्वदेवैरनुज्ञातः परं पदमवाप्नुयात् । काम्यकं च वनं पुण्यं सर्वपातकनाशनम् ॥ २०.३२ ॥ यस्मिन् प्रविष्टमात्रस्तु मुक्तो भवति किल्बिषैः । यमाश्रित्य वनं पुण्यं सविता प्रकटः स्थितः ॥ २०.३३ ॥ पूषा नाम द्विजश्रेष्ठ दर्शनान्मुक्तिमाप्नुयात् । आदित्यस्य दिने प्राप्ते तस्मिन् स्नातस्तु मानवः । विशुद्धदेहो भवति मनसा चिन्तितं लभेत् ॥ २०.३४ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये विशोऽध्यायः _____________________________________________________________ ऋषय ऊचुः काम्यकस्य तु पूर्वेण कुञ्जं देवैर्निषेवितम् । तस्य तीर्थस्य संभूतिं विस्तरेण ब्रवीहि नः ॥ २१.१ ॥ लोहमर्षण उवाच शृण्वन्तु मुनयः सर्वे तीर्थमाहात्म्यमुत्तमम् । ऋषीणां चरितं श्रुत्वा मुक्तो भवति किल्बिषैः ॥ २१.२ ॥ नैमिषेयाश्च ऋषयः कुरुक्षेत्रे समागताः । सरस्वत्यास्तु स्नानार्थं प्रवेशं ते न लेभिरे ॥ २१.३ ॥ ततस्ते कल्पयामासुस्तीर्थं यज्ञोपवीतिकम् । शेषास्तु मुनयस्तत्र न प्रवेशं हि लेभिरे ॥ २१.४ ॥ रन्तुकस्याश्रमात्तावद्यावत्तीर्थं सचक्रकम् । ब्राह्मणैः परिपूर्णं तु दृष्ट्वा देवी सरस्वती ॥ २१.५ ॥ हितार्थं सर्वविप्राणां कुत्वा कुञ्जानि सा नदी । प्रयाता पश्चिमं मार्गं सर्वभूतहिते स्थिता ॥ २१.६ ॥ पूर्वप्रवाहे यः स्नाति गङ्गस्नानफलं लभेत् । प्रवाहे दक्षिणे तस्या नर्मदा सरितां वरा ॥ २१.७ ॥ पश्चिमे तु दिशाभागे यमुना संश्रिता नदी । यदा उत्तरतो याति सिन्धुर्भवति सा नदी ॥ २१.८ ॥ एवं दिशाप्रवाहेण याति पुण्या सरस्वती । तस्यां स्नातः सर्वतीर्थे स्नातो भवति मानवः ॥ २१.९ ॥ ततो गच्छेद्द्विजश्रेष्ठा मदनस्य महात्मनः । तीर्थं त्रैलोक्यविख्यातं विहारं नाम नामतः ॥ २१.१० ॥ यत्र देवाः समागम्य शिवदर्शनकाङ्क्षिणः । समागता न चापश्यन् देवं देव्या समन्वितम् ॥ २१.११ ॥ ते स्तुवन्तो महादेवं नन्दिनं गणनायकम् । ततः प्रसन्नो नन्दीशः कथयामास चेष्टितम् ॥ २१.१२ ॥ भवस्य उमया सार्धं विहारे क्रीडितं महत् । तच्छ्रत्वा देवतास्तत्र पत्नीराहूय क्रीडिताः ॥ २१.१३ ॥ तेषां क्रीडाविनोदेन तुष्टः प्रोवच शङ्करः । योऽस्मिंस्तीर्थेनरः स्नातिविहारे श्रद्धयान्वितः ॥ २१.१४ ॥ धनधान्यप्रियैर्युक्तो भवते नात्र संसयः । दुर्गातीर्थं ततो गच्छेद्दुर्गया सेवितं महत् ॥ २१.१५ ॥ यत्र स्नात्वा पितृन् पूज्य न दुर्गतिमवाप्ःृयात् । तत्रापि च सरस्वत्याः कूपं त्रैलोक्यविश्रुतम् ॥ २१.१६ ॥ दर्शनान्मुक्तिमाप्नोति सर्वपातकवर्जितः । यस्तत्र तर्पयेत्देवान् पितॄंश्च श्रद्धयान्तवितः ॥ २१.१७ ॥ अक्षय्यं लभते सर्वं पितृतीर्थं विशिष्यते । मातृहा पितृहा यश्च ब्रह्महा गुरुतल्पगः ॥ २१.१८ ॥ स्नात्वा शुद्धिमवाप्नोति यत्र प्राची सरस्वती । देवमार्गप्रविष्टा च देवमार्गेण निःसृत ॥ २१.१९ ॥ प्रची सरस्वती पुण्या अपि दुष्कृतकर्मणाम् । त्रिरात्रं ये करिष्यन्ति प्राचीं प्राप्य सरस्वतीम् ॥ २१.२० ॥ न तेषां दुष्कुतं किञ्चिद्देहमाश्रित्य तिष्ठति । नरनारायणौ देवौ ब्रह्मा स्थाणुस्तथा रविः ॥ २१.२१ ॥ प्रचीं दिशं निषेवन्ते सदा देवाः सवासवाः । ये तु श्राद्धं करिष्यन्ति प्राचीमाश्रित्य मानवाः ॥ २१.२२ ॥ तेषां न दुर्लभं किञ्चिदिह लोके परत्र च । तस्मात्प्राची सदा सेव्या पञ्चम्यां च विशेषतः ॥ २१.२३ ॥ पञ्चम्यां सेवमानस्तु लक्ष्मीवान् जायते नरः । तत्र तीर्थमौशनं त्रैलोक्यस्यापि दुर्लभम् ॥ २१.२४ ॥ उशना यत्र संसिद्ध आराध्य परमेश्वरम् । ग्रहमध्येषु पूज्यते तस्य तीर्थस्य सेवनात् ॥ २१.२५ ॥ एवं शुक्रेण मुनिना सेवितं तीर्थमुत्तमम् । ये सेवन्ते श्रद्दधानास्ते यान्ति परमां गतिम् ॥ २१.२६ ॥ यस्तु श्राद्धं नरो भक्त्या तस्मिंस्तीर्थे करिष्यति । पितरस्तारितास्तेन भविष्यन्ति न संशयः ॥ २१.२७ ॥ चतुर्मुखं ब्रह्मतीर्थं सरो मर्यादया स्थितम् । ये सेवन्ते चतुर्दश्यां सोपवासा वसन्ति च ॥ २१.२८ ॥ अष्टम्यां कृष्णपक्षस्य चैत्रे मासि द्विजोत्तमाः । ते पश्यन्ति परं सूक्ष्मं यस्मान्नावर्तते पुनः ॥ २१.२९ ॥ स्थाणुतीर्थं ततो गच्छेत्सहस्रलिङ्गशोभितम् । तत्र स्थाणुवटं दृष्ट्वा मुक्तो भवति किल्बिषैः ॥ २१.३० ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये एकविशोऽध्यायः _____________________________________________________________ ऋषय ऊचुः स्थाणुतीर्थस्य माहात्म्यं वटस्य च महामुने । सान्निहत्यसरोत्पत्तिं पूरणं पांशुना ततः ॥ २२.१ ॥ लिङ्गानां दर्शनात्पुण्यं स्पर्शनेन च किं फलम् । तथैव सरमाहात्म्यं ब्रूहि सर्वमशेषतः ॥ २२.२ ॥ लोमहर्षण उवाच शृण्वन्तु मुनयः सर्वे पुराणं वामनं महत् । यच्छ्रुत्वा मुक्तिमाप्नोति प्रसादाद्वामनस्य तु ॥ २२.३ ॥ सनत्कुमारमासीनं स्थाणोर्वटसमीपतः । ऋषिभिर्बालखिल्याद्यैर्ब्रह्मपुत्रैर्महात्मभिः ॥ २२.४ ॥ मार्कण्डेयो मुनिस्तत्र विनयेनाभिगम्य च । पप्रच्छ सरमाहात्म्यं प्रमाणां च स्थितिं तथा ॥ २२.५ ॥ मार्कण्डेय उवाच ब्रह्मपुत्र महाभाग सर्वेशास्त्रविशारद । ब्रूहि मे सरमाहात्म्यं सर्वपापक्षयावहम् ॥ २२.६ ॥ कानि तीर्थानि दृश्यानि गुह्यानि द्विजसत्तम । लिङ्गानि ह्यतिपुण्यानि स्थाणोर्यानि समीपतः ॥ २२.७ ॥ येषां दर्शनामात्रेण मुक्तिं प्राप्नोति मानवः । वटस्य दर्शनं पुण्यमुत्पत्ति कथयस्व मे ॥ २२.८ ॥ प्रदक्षिणायां यत्पुण्यं तीर्थस्नानेन यत्फलम् । गुह्येषु चैव दृष्टेषु यत्पुण्यमभिजायते ॥ २२.९ ॥ देवदेवो यता स्थाणुः सरोमध्ये व्यवस्थितः । किमर्थं पांशुना शक्रस्तीर्थं पूरितवान् पुनः ॥ २२.१० ॥ स्थाणुतीर्थस्य माहात्म्यं चक्रतीर्थस्य यत्फलम् । सूर्यतीर्थस्य माहात्म्यं सोमतीर्थस्य ब्रूहि मे ॥ २२.११ ॥ संकरस्य च कुह्यानि विष्णोः स्तानानि यानि च । कथयस्य महाभाग सरस्वत्याः सविस्तरम् ॥ २२.१२ ॥ ब्रूहि देवाधिदेवस्य माहात्म्यं देव तत्त्वतः । विरिञ्जस्य प्रसादेन विदितं सर्वमेव च ॥ २२.१३ ॥ लोमहर्षण उवाच् मार्कण्डेयवचः श्रुत्वा ब्रह्मत्मा स महामुनिः । अतिभक्त्या तु तीर्थस्य प्रवणीकृतमानसः ॥ २२.१४ ॥ पर्यङ्कं शिथिलीकृत्वा नमस्कृत्वा महेश्वरम् । कथयामास तत्सर्वं यच्छ्रुतं ब्रह्मणः पुरा ॥ २२.१५ ॥ सनत्कुमार उवाच नमस्कृत्य महादेवमीशानं वरदं शिवम् । उत्पत्ति च प्रवक्ष्यामि तीर्थानां ब्रह्मभाषिताम् ॥ २२.१६ ॥ पूर्वमेकार्णवे घोरे नष्टे स्थावरजङ्गमे । बृहदण्डमभूदेकं प्रजानां बीजसंभवम् ॥ २२.१७ ॥ तस्मिन्नण्डे स्थितो ब्रह्मा शयनायोपचक्रमे । सहस्रयुगपर्यन्तं सुप्त्वा स प्रत्यबुध्यत ॥ २२.१८ ॥ सुप्तोत्थितस्तदा ब्रह्मा शून्यं लोकमपश्यत । सृष्टिं चिन्तयतस्तस्य रजसा मोहितस्य च ॥ २२.१९ ॥ रजः सृष्टिगुणं प्रोक्तं सत्त्वं स्थितिगुणं विदुः । उपसंहारकाले च तमोगुमः प्रवर्तते ॥ २२.२० ॥ गुणातीतः स भगवान् व्यापकः पुरुषः स्मृतः । तेनदं सकलं व्याप्तं यत्किञ्चिञ्जीवसंज्ञितम् ॥ २२.२१ ॥ स ब्रह्म स च गोविन्द ईश्वरः स सनातनः । यस्तं वेद महात्मानं स सर्वं वेद मोक्षवित् ॥ २२.२२ ॥ किं तेषां सकलैस्तीर्थैराश्रमैर्वा प्रयोजनम् । येषामनन्तकं चित्तमात्मन्येव व्यवस्थितम् ॥ २२.२३ ॥ आत्मा नदी संयमपुण्यतीर्था सत्योदका शीलमाधियुक्ता । तस्यां स्नातः पुण्यकर्मा पुनाति न विरिणा सुद्ध्यति चान्तरात्मा ॥ २२.२४ ॥ एतत्प्रधानं पुरुषस्य कर्म यदात्मसंबोधसुखे प्रविष्टम् । ज्ञेयं तदेव प्रवदन्ति सन्तस्तत्प्राप्य देही विजहाति कामान् ॥ २२.२५ ॥ नैतादृसं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीले स्थितिर्दण्डविधानवर्जनमक्रोधनश्चोपरमः क्रियाभ्यः ॥ २२.२६ ॥ एतद्ब्रह्म समासेन मयोक्तं ते द्विजोत्तम । यज्ज्ञात्वा ब्रह्म परमं प्राप्स्यसि त्वं न संशयः ॥ २२.२७ ॥ इदानीं शृणु चोत्पत्तिं ब्रह्मणः परमात्मनः । इमं चोदाहरन्त्येव श्लोकं नारायणं प्रति ॥ २२.२८ ॥ आपो नारा वै तनव इत्येवं नाम शुश्रुमः । तासु शेते स यस्माच्च तेन नारायणः स्मृतः ॥ २२.२९ ॥ विबुद्धः सलिले तस्मिन् विज्ञायान्तर्गतं जगत् । अण्डं बिभेद भगवांस्तस्मादोमित्यजायत ॥ २२.३० ॥ ततो भूरभवत्तस्माद्भुव इत्यपरः स्मृतः । स्वः शब्दश्च तृतीयोऽभद्भूर्भुवः स्वेति संज्ञितः ॥ २२.३१ ॥ तस्मात्तेजः समभवत्तत्सवितुर्वरेण्यं यत् । उदकं शोषयामास यत्तेजोऽण्डविनिःसृतम् ॥ २२.३२ ॥ तेजसा शोषितं शेषं कललत्वमुपागतम् । कललाद्बुद्बुदं ज्ञेयं ततः काठिन्यतां गतम् ॥ २२.३३ ॥ काठिन्याद्धरणी ज्ञेय भूतानां धारिणी इह सा । यस्मिन् स्तानेस्थितं ह्यण्डं तस्मिन् संनिहितंसरः ॥ २२.३४ ॥ यदाद्यं निःसृतं तेजस्तस्मादादित्य उच्यते । अण्डमध्ये समुत्पन्नो ह्रह्मा लोकपितामहः ॥ २२.३५ ॥ उल्बं तस्याभवन्मेरुर्जरायुः पर्वताः स्मृताः । गर्भोदकं समुद्राश्च तथा नद्यः सहस्रशः ॥ २२.३६ ॥ नाभिस्थाने यदुदकं ब्रह्मणो निर्मलं महत् । महत्सरस्तेन पूर्णं विमलेन वराम्भसा ॥ २२.३७ ॥ तस्मिन्मध्ये स्थाणुरूपी वृटवृक्षो महामनः । तस्माद्विनिर्गता वर्णा ब्राह्मणाः क्षत्रिया विशः ॥ २२.३८ ॥ शूद्राश्च तस्मादुत्पन्नाः शुश्रूषार्थं द्विजन्मनाम् । ततश्चिन्तयतः सृष्टिं ब्रह्मणोऽव्यक्तजन्मनः । मनसा मानसा जाताः सनकाद्या महर्षयः ॥ २२.३९ ॥ पुनश्चिन्तयतस्तस्य प्रजाकामस्य धीमतः । उत्पन्ना ऋषयः सप्त ते प्रजापतयोऽभवन् ॥ २२.४० ॥ पुनश्चिन्तयतस्तस्य रजसा मोहितस्य च । बालखिल्याः समुत्पन्नास्तपःस्वाध्यायतत्पराः ॥ २२.४१ ॥ ते सदा स्नाननिरता देवार्चनपरायणाः । उपवासैर्व्रतैस्तीव्रैः शोषयन्ति कलेवरम् ॥ २२.४२ ॥ वानप्रस्थेन विधिना अग्निहोत्रसमन्विताः । तपसा परमेणेह शोषयन्ति कलेवरम् ॥ २२.४३ ॥ दिव्यं वर्षसहस्रं ते कृशा धमनिसंतताः । आराधयन्ति देवेशं न च तुष्यति शङ्करः ॥ २२.४४ ॥ ततः कालेन महता उमया सह शङ्करः । आकाशमार्गेण तदा दृष्ट्वा देवी सुदुःखिताः ॥ २२.४५ ॥ प्रसाद्य देवदेवेशं शङ्करं प्राह सुव्रता । क्लिश्यन्ते ते मुनिगणा देवदारुवनाश्रयाः ॥ २२.४६ ॥ तेषां क्लेशक्षयं देव विधेहि कुरु मे दयाम् । किं वेदधर्मनिष्ठनामनन्तं देव दृष्कृतम् ॥ २२.४७ ॥ नाद्यापि येन शुद्ध्यन्ति शुष्कस्नाय्वस्थिसोषिताः । तच्छ्रुत्वा वचनं देव्याः पिनाकी पातितान्धकः । प्रोवाच प्रहसन्मूर्ध्नि चारुचन्द्रांशुशोभितः ॥ २२.४८ ॥ श्रीमहादेव उवाच न वेत्सि देवि तत्त्वेन धर्मस्य गहना गतिः । नैते धर्मं विजानन्ति न च कामविवर्जिताः ॥ २२.४९ ॥ न च क्रोधेन निर्मुक्ताः केवलं मूढबुद्धयः । एतच्छ्रुत्वाब्रवीद्देवी मा मैवं शंसितव्रतान् ॥ २२.५० ॥ देव प्रदर्शयात्मानं परं कौतूहलं हि मे । स इत्युक्त उवाचेदं देवीं देवः स्मिताननाः ॥ २२.५१ ॥ तिष्ठ त्वमत्र यास्यामि यत्रैते मुनिपुङ्गवाः । साधयन्ति तपो घोरं दर्शयिष्यामि चेष्टितम् ॥ २२.५२ ॥ इत्युक्ता तु ततो देवी शङ्करेण महात्मना । गच्छस्वेत्याह मुदिता भर्तरं भुवनेश्वरम् ॥ २२.५३ ॥ यत्र ते मुनयः सर्वे काष्ठलेष्टसमाः स्थिताः । अधीयाना महाभागाः कृताग्निसदनक्रियाः ॥ २२.५४ ॥ तान् विलोक्य ततो देवो नग्नः सर्वाङ्गसुन्दरः । वनमालाकृतापीडो युवा भिक्षाकपालभृत् ॥ २२.५५ ॥ आश्रमे पर्यटन् भिक्षां मुनीनां दर्शनं प्रति । देहि भिक्षां ततश्चोक्त्वा ह्याश्रमादाश्रमं ययौ ॥ २२.५६ ॥ तं विलोक्याश्रमगतं योषितो ब्रह्मवादिनाम् । सकौतुकस्वभावेन तस्य रूपेम मोहिताः ॥ २२.५७ ॥ प्रोचुः परस्परं नार्य एहि पश्याम भिश्रुकम् । परस्परमिति चोक्त्वा गृह्य मूलफलं बहु ॥ २२.५८ ॥ गृहाण भिक्षामूचुस्तास्तं देवं मुनियोषितः । स तु भिक्षाकपालं तं प्रसार्य बहु सादरम् ॥ २२.५९ ॥ देहि देहि शिवं वोऽस्तु भवतीभ्यस्तपोवने । हसमानस्तु देवोसस्तत्र देव्या निरीक्षितः । तस्मै दत्त्वैव तां भिक्षां पप्रच्छुस्तं स्मरातुराः ॥ २२.६० ॥ नार्य ऊचुः कोऽसौ नाम व्रतविधिस्त्वया तापस सेव्यते । यत्र नग्नेन लिङ्गेन वनमालाविभूषितः । भवान् वै तापसो हृद्यो हृद्याः स्मो यदि मन्यसे ॥ २२.६१ ॥ इत्युक्तस्तापसीभिस्तु प्रोवाच हसिताननः । इदमीदृग्व्रतं किञ्चिन्न रहस्यं प्रकाश्यते ॥ २२.६२ ॥ शृण्वन्ति बहवो यत्र तत्र व्याख्या न विद्यते । अस्य व्रतस्य सुभगा इति मत्वा गमिष्यथ ॥ २२.६३ ॥ एवमुक्तास्तदा तेन ताः प्रत्यूचुस्तदा मुनिम् । रहस्ये हि गमिष्यामो मुने नः कैतुकं महत् ॥ २२.६४ ॥ इत्युक्त्वा तास्तदा तं वै जगृहुः पाणिपल्लवैः । काचित्कण्ठे सकन्दर्पा बाहुभ्यामपरास्तथा ॥ २२.६५ ॥ जानुभ्यामपरा नार्यः केशेषु ललितापराः । अपरास्तु कटीरन्ध्रे अपराः पादयोरपि ॥ २२.६६ ॥ क्षोभं विलोक्य मुनय आश्रमेषु स्वयोषिताम् । हन्यतामिति संभाष्य काष्ठपाषाणपाणयः ॥ २२.६७ ॥ पातयन्ति स्म देवस्य लिङ्गमुद्धृत्य भीषणम् । पातिते तु ततो लिङ्गे गतोऽन्तर्धानमीश्वरः । २२.६८ देव्या स भगवान् रुद्रः कैलासं नगमाश्रितः । पतिते देवदेवस्य लिङ्गे नष्टे चराचरे ॥ २२.६९ ॥ क्षोभो बभूव सुमहानृषीणां भावितात्मनाम् । एवं देवे तदा तत्र वर्तति व्याकुलीकृते ॥ २२.७० ॥ उवाचैको मुनिवरस्तत्र बुद्धिमतां वरः । न वयं विद्मः सद्भावं तापसस्य महात्मनः ॥ २२.७१ ॥ विरिञ्चिं शरणं यामः स हि ज्ञास्यति चेष्टितम् । एवमुक्ताः सर्व एव ऋषयो लञ्जिता भृशम् ॥ २२.७२ ॥ ब्रह्मणः सदनं जग्मुर्देवैः सह निषेवितम् । प्रणिपत्याथ देवेशं लञ्जयाधोमुखाः स्थिताः ॥ २२.७३ ॥ अथ तान् दुःखितान् दृष्ट्वा ब्रह्म वचनमब्रवीत् । अहो मुग्धा यदा यूयं क्रोधेन कलुषीकृताः ॥ २२.७४ ॥ न धर्मस्य क्रिया काचिज्ज्ञायते मूढबुद्धयः । श्रुयतां धर्मसर्वस्वं तापसाः क्रूरचेष्टितः ॥ २२.७५ ॥ विदित्वा यद्बुधः क्षिप्रं धर्मस्य फलमाप्नुयात् । योऽसावात्मनि देहेऽस्मिन् विभुर्नित्योव्यवस्थितः ॥ २२.७६ ॥ सोऽनादिः स महास्थाणुः पृथक्त्वे परिसूचितः । मणिर्यथोपधानेन धत्ते वर्णोज्ज्वलोऽपि वै ॥ २२.७७ ॥ तन्मयो भवते तद्वदात्मापि मनसा कृतः । मनसो भेदमाश्रित्य कर्मभिश्चोपचीयते ॥ २२.७८ ॥ ततः कर्मवशाद्भुङ्क्ते संभोगान् स्वर्गनारकान् । तन्मनः शोधयेद्धीमान् ज्ञानयोगाद्युपक्रमैः ॥ २२.७९ ॥ तस्मिन् शुद्धे ह्यन्तरात्मा स्वयमेव निराकुलः । न शरीरस्य संक्लेशैरपि निर्दहनात्मकैः ॥ २२.८० ॥ शुद्धिमाप्नोति पुरुषः संशुद्धं यस्य नो मनः । क्रिया हि नियमार्थाय पातकेभ्यः प्रकीर्तिताः ॥ २२.८१ ॥ यस्मादत्याविलं देहं न शीघ्रं शुद्ध्यते किल । तेन लोकेषु मार्गोऽयं सत्पथस्य प्रवर्तितः ॥ २२.८२ ॥ वर्णाश्रमविभागोऽयं लोकाध्यक्षेण केनचित् । निर्मितो मोहमाहात्म्यं चिह्नं चोत्तमभागिनाम् ॥ २२.८३ ॥ भवन्तः क्रोधकामाभ्यामभिभूताश्रमे स्थिताः । ज्ञानिनामाश्रमो वेश्म अनाश्रममयोगिनाम् ॥ २२.८४ ॥ क्व च न्यस्तसमस्तेच्छा क्व च नारीमयो भ्रमः । क्व क्रोधमीदृशं घोरं येनात्मानं न जायथ ॥ २२.८५ ॥ यत्क्रोधनो यजति यद्ददाति यद्वा तपस्तपतिल यज्जुहोति । न तस्य प्राप्नोति फलं हि लोके मोघं फलं तस्य हि क्रोधनस्य ॥ २२.८६ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये द्वाविशोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच । ब्रह्मणो वचनं श्रुत्वा ऋषयः सर्व एव ते । पुनरेव च पप्रच्छुर्जगतः श्रेयकारणम् ॥ २३.१ ॥ ब्रह्मोवाच् गच्छामः शरणं देवं शूलपाणिं त्रिलोचनम् । प्रसादाद्देवदेवस्य भविष्यथ यथा पुरा ॥ २३.२ ॥ इत्युक्ता ब्रह्मणा सार्द्ध कैलासं गिरिमुत्तमम् । ददृशुस्ते समासीनमुमया सहितं हरम् ॥ २३.३ ॥ ततः स्तोतुं समारब्धो ब्रह्म लोकपितामहः । देवाधिदेवं वरदं त्रैलोक्यस्य प्रभुं शिवम् ॥ २३.४ ॥ ब्रह्मोवाच् अनन्ताय नमस्तुभ्यं वरदाय पिनाकिने । महादेवाय देवाय स्थणवे परमात्मने ॥ २३.५ ॥ नमोऽस्तु भुवनेशाय तुभ्यं तारक सर्वदा । ज्ञानानं दायको देवस्त्वमेकः पुरुषोत्तमः ॥ २३.६ ॥ नमस्ते पद्मगर्भाय पद्मेशाय नमो नमः । घोरशान्तिस्वरूपाय चण्डक्रोध नमोऽस्तु ते ॥ २३.७ ॥ नमस्ते देव विश्वेश नमस्ते सुरनायक । शूलपाणे नमस्तेऽस्तु नमस्ते विश्वभावन ॥ २३.८ ॥ एवं स्तुतो महादेवो ब्रह्मणा ऋषिभिस्तदा । उवाच मा भैर्व्रजत लिङ्गं वो भविता पुनः ॥ २३.९ ॥ क्रियतां मद्वयः शीघ्रं येन मे प्रीतिरुत्तमा । भविष्यति प्रतिष्ठायां लिङ्गस्यात्र न संशयः ॥ २३.१० ॥ ये लिङ्गं पूजयिष्यन्ति मामकं भक्तिमाश्रिताः । न तेषां दुर्लभं किचिद्भविष्यति कदाचन ॥ २३.११ ॥ सर्वेषामेव पापानां कृतानामपि जानता । शुद्ध्यते लिङ्गपूजायां नात्र कार्या विचारणा ॥ २३.१२ ॥ युष्माभिः पातितं लिङ्गं सारयित्वा महात्सरः । सांनिहत्यं तु विख्यातं तस्मिञ्शीघ्रं प्रतिष्ठितम् ॥ २३.१३ ॥ यथाभिलषितं कामं ततः प्रप्स्यथ ब्राह्मणाः । स्थाणुर्नाम्ना हि लोकेषु पूजनीयो दिवौकसाम् ॥ २३.१४ ॥ स्थाण्वीस्वरे स्थितो यस्मात्स्ताण्वीश्वरस्ततः स्मृतः । ये स्मरन्ति सदा स्थाणुं ते मुक्ताः सर्वकिल्बिषैः ॥ २३.१५ ॥ भविष्यन्ति शुद्धदेहा दर्शनान्मोक्षगामिनः । इत्येवमुक्ता देवेन ऋषयो ब्रह्मणा सह ॥ २३.१६ ॥ तस्माद्दारुवनाल्लिङ्गं नेतुं समुपचक्रमुः । न तं चालयितुं शक्तास्ते देवा ऋषिभिः सह ॥ २३.१७ ॥ श्रमेण महता युक्ता ब्रह्माणं शरणं ययुः । तेषां श्रमाभितप्तानामिदं ब्रह्माब्रवीद्वचः ॥ २३.१८ ॥ किं वा श्रमेण महता न यूयं वहनक्षमाः । स्वेच्छया पातितं लिङ्गं देवदेवेन शूलिना ॥ २३.१९ ॥ तस्मात्तमेव शरणं यास्यामः सहिताः सुराः । प्रसन्नश्च महादेवः स्वयमेव नयिष्यति ॥ २३.२० ॥ इत्येवमुक्ता ऋषयो देवाश्च ब्रह्मणा सह । कैलासं गिरिमासेदू रुद्रदर्शनकाङ्क्षिणः ॥ २३.२१ ॥ न च पश्यन्ति तं देवं ततश्चिन्तासमन्विताः । ब्रह्माणमूचुर्मुनयः क्व स देवो महेश्वरः ॥ २३.२२ ॥ ततो ब्रह्म चिरं ध्यात्वा ज्ञात्वा देवं महेश्वरम् । हस्तिरुपेण तिष्ठन्तं मुनिभिर्मानसैः स्तुतम् ॥ २३.२३ ॥ अथ ते ऋषयः सर्वे देवाश्च ब्रह्मणा सह । गता महत्सरः पुण्यं यत्र देवः स्वयं स्थितः ॥ २३.२४ ॥ न च पश्यन्ति तं देवमन्विष्यन्तस्ततस्ततः । ततश्चिन्तान्विता देवा ब्रह्मणा सहिता स्थिताः ॥ २३.२५ ॥ पस्यन्ति देवीं सुप्रीतां कमण्डलुविभूषिताम् । प्रीयमाणा तदा देवी इदं वचनमब्रवीत् ॥ २३.२६ ॥ श्रमेण महता युक्ता अन्विष्यन्तो महेश्वरम् । पीयताममृतं देवास्ततो ज्ञास्यथ शङ्करम् । एतच्छ्रत्वा तु वचनं भवान्या समुदाहृतम् ॥ २३.२७ ॥ सुखोपविष्टास्ते देवाः पपुस्तदमृतं शुचि । अनन्तरं सुखासीनाः पप्रच्छुः परमेश्वरीम् ॥ २३.२८ ॥ क्व स देव इहायातो हस्तिरूपधरः स्थितः । दर्शितश्च तदा देव्या सरोमध्ये व्यवस्थितः ॥ २३.२९ ॥ दृष्ट्वा देवं हर्षयुक्ताः सर्वे देवाः सहर्षिभिः । ब्रह्मणमग्रतः कृत्वा इदं वचनमब्रुवन् ॥ २३.३० ॥ त्वया त्यक्तं महादेव लिङ्गं त्रैलोक्यवन्दितम् । तस्य चानयने नान्यः समर्थः स्यान्महेश्वर ॥ २३.३१ ॥ इत्येवमुक्तो भगवान् देवो ब्रह्मादिभिर्हरः । जगाम ऋषिभिः सार्द्ध देवदारुवनाश्रमम् ॥ २३.३२ ॥ तत्र गत्वा महादेवो हस्तिरूपधरो हरः । करेण जग्राह ततो लीलया परमेश्वरः ॥ २३.३३ ॥ तमादाय महादेवः स्तूयमानो महर्षिभिः । निवेशयामास तदा सरःपार्श्वे तु पश्चिमे ॥ २३.३४ ॥ ततो देवाः सर्व एव ऋषयश्च तपोधनाः । आत्मानं सफलं दष्ट्वा स्तवं चक्रुर्महेश्वरे ॥ २३.३५ ॥ नमस्ते परमात्मननन्तयोने लोकसाक्षिन् परमेष्ठिन् भगवन्महाविरिञ्च महाविभूते महाक्षेत्रज्ञ महापुरुष सर्वभूतावास मनोनिवास आदिदेव महादेव सदाशिव (५) ईशान दुर्विज्ञेय दुराराध्य महाभूतेश्चर परमेश्वर महायोगेश्वर त्र्यम्बक महायोगिन् परब्रह्मन् परमज्योतिः ब्रह्मविदुत्तम ओङ्कार वषट्कार स्वाहाकार स्वधाकार परमकारण सर्वगत सर्वदर्शिन् सर्वशक्ते सर्वदेव अज (१०) सहस्रार्चिः पृषार्चिः सुधामन् हरधाम अनन्तधाम संवर्त संकर्षण वडवानल अग्नीषोमात्मक पवित्र महापवित्र महामेघ महामायाधर महाकाम कामहन् हंस परमहंस महाराजिक महेश्वर महाकामुक महाहंस भवक्षयकर सुरसिद्धार्चित (१५) हिरण्यवाह हिरण्यरेतः हिरण्यनाभ हिरण्याग्रकेश मुञ्जकेशिन् सर्वलोकवरप्रद सर्वानुग्रहकर कमलेशय कुशेशय हृदयेशय ज्ञानोदधे शंभो विभो महायज्ञ महायाज्ञि क सर्वयज्ञमय सर्वय५ ऋदय सर्वयज्ञसंस्तुत निराश्रय (२०) समुद्रेशय अत्रिसंभव भक्तानुकम्पिनभग्नयोग योगधर वासुकिमहामणि विद्योतितविग्रह हरितनयन त्रिलोचन जटाधर नीलकण्ठ चन्द्रार्धधर उमाशरीरार्धहर गजचर्मधर दुस्तरसंसारमहासंहारकर(२५) प्रसीद भक्तजनवत्सल एवं स्तुतो देवगणैः सुभक्त्या सब्रहामुख्यैश्च पितामहेन । त्यक्त्वा तदा हस्तिरूपं महात्मा लिङ्गे तदा संनिधानं चकार ॥ २३.३६ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये त्रयोविंशोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथोवाच महादेवो देवान् ब्रह्मपुरोगमान् । ऋषीणां चैव प्रैत्यक्षं तीर्थमाहात्म्यमुत्तमम् ॥ २४.१ ॥ एतत्सांनिहितं प्रोक्तं सरः पुण्यतमं महत् । मयोपसेवितं यस्मात्तस्मान्मुक्तिप्रदायकम् ॥ २४.२ ॥ इह ये पुरुषाः केचिद्ब्राह्मणाः क्षत्रिया विशः । लिङ्गस्य दर्शनादेव पश्यन्ति परमं पदम् ॥ २४.३ ॥ अहन्यहनि तीर्थानि आसमुद्रसरांसि च । स्थाणुतीर्थं समेष्यन्ति मध्यं प्राप्ते दिवाकरे ॥ २४.४ ॥ स्तोत्रेणानेन च नरो यो मां स्तोष्यति भक्तितः । तस्याहं सुलभो नित्यं भविष्यामि न संशयः ॥ २४.५ ॥ इत्युक्त्वा भगवान् रुद्रो ह्यन्तर्धानं गतः प्रभुः । देवाश्च ऋषयः सर्वे स्वानि स्थानानि भेहिरे ॥ २४.६ ॥ ततो निरन्तरं स्वर्गं मानुषैर्मिश्रितं कृतम् । स्थाणुलिङ्गस्य माहात्म्य दर्शनात्स्वर्गमाप्नुयात् ॥ २४.७ ॥ ततो देवाः सर्व एव ब्रह्माणं शरणं ययुः । तानुवाच तदा ब्रह्मा किमर्थमिह चागताः ॥ २४.८ ॥ ततो देवाः सर्व एव इदं वचनमब्रुवन् । मानुषेभ्यो भयं तीव्रं रक्षास्माकं पितामह ॥ २४.९ ॥ तानुवाच तदा ब्रह्मा सुरांस्त्रिदशनायकः । पांशुना पूर्यतां शीघ्रं सरः शक्रे हितं कुरु ॥ २४.१० ॥ ततो ववर्ष भगवान् पांशुना पाकशासनः । सप्ताहं पूरयामास सरो देवैस्तदा वृतः ॥ २४.११ ॥ तं दृष्ट्वा पांशुवर्षं च देवदेवो महेश्वरः । करेण धारयामास लिङ्गं तीर्थवटं तदा ॥ २४.१२ ॥ तस्मात्पुण्यतमं तीर्थमाद्यं यत्रोदकं स्थितम् । तस्मिन् स्नातः सर्वतीर्थैः स्नातो भवति मानवः ॥ २४.१३ ॥ यस्तत्र कुरुते श्राद्धं वटलिङ्गस्य चान्तरे । तस्य प्रीताश्च पितरो दास्यन्ति भुवि दुर्लभम् ॥ २४.१४ ॥ पूरितं त चचो दृष्ट्वा ऋषयः सर्व एव ते । पांशुना सर्वगात्राणि स्पृशन्ति श्रद्धया युताः ॥ २४.१५ ॥ तेऽपि निर्धूतपापास्ते पांशुना मुनयो गताः । पूज्यमानाः सुरगणैः प्रयाता ब्रह्मणः पदम् ॥ २४.१६ ॥ ये तु सिद्धा महात्मानस्ते लिङ्गं पूजयन्ति च । व्रजन्ति परमां सिद्धिं पुनरावृत्तिदुर्लभाम् ॥ २४.१७ ॥ एवं ज्ञात्वा तदा ब्रह्मा लिङ्गं शैलमयं तदा । आद्यलिङ्गं तदा स्थाप्य तस्योपरि दधार तत् ॥ २४.१८ ॥ ततः कालेन महता तेजसा तस्य रञ्जितम् । तस्यापि स्पर्शनात्सिद्धः परं पदमवाप्नुयात् ॥ २४.१९ ॥ ततो देवैः पुनर्ब्रह्मा विज्ञप्तो द्विजसत्तम । एते यान्ति परां सिद्धिं लिङ्गस्य दर्शनान्नराः ॥ २४.२० ॥ तच्छ्रुत्वा भगवान् ब्रह्मा देवानां हितकाम्यया । उपर्युपरि लिङ्गानि सप्त तत्र चकार ह ॥ २४.२१ ॥ ततो ये मिक्तिकामाश्च सिद्धाः शमपरायणाः । सेव्य पांशुं प्रयत्नेन प्रयाताः परमं पदम् ॥ २४.२२ ॥ पांशवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः । महादुष्कृतकर्माणं प्रयान्ति परमं पदम् ॥ २४.२३ ॥ अज्ञानाज्ज्ञानतो वापि स्त्रियो वा पुरुषस्य वा । नश्यते दुष्कृतं सर्वं स्थाणुतीर्थप्रभावतः ॥ २४.२४ ॥ लिङ्गस्य दर्शनान्मुक्तिः स्पर्शनाच्च वटस्य च । तत्संनिधौ जले स्नात्वा प्राप्नोत्यभिमतं फलम् ॥ २४.२५ ॥ पितृणां तर्पणं यस्तु जले तस्मिन् करिष्यति । बिन्दो बिन्दौ तु तोयस्य अनन्तफलभाग्भवेत् ॥ २४.२६ ॥ यस्तु कृष्णतिलैः सार्द्ध लिङ्गस्य पश्चिमे स्थितः । तर्पयेच्छ्रद्धया युक्तः स प्रीणाति युगत्रयम् ॥ २४.२७ ॥ यावन्मन्वन्तरं प्रोक्तं यावल्लिङ्गस्य संस्थितिः । तापत्प्रीताश्च पितरः पिबन्ति जलमुत्तमम् ॥ २४.२८ ॥ कृते युगे सान्निहत्यं त्रेतायां वायुसंज्ञितम् । कलिद्वापरयोर्मध्ये कूपं रुद्रह्रदं स्मृतम् ॥ २४.२९ ॥ चैत्रस्य कृष्णपक्षे च चतुर्दश्यां नरोत्तमः । स्नात्वा रुद्रह्रदे तीर्थे परं पदमवाप्नुयात् ॥ २४.३० ॥ यस्तु वटे स्थितो रात्रिं ध्यायते परमेश्वरम् । स्थाणोर्वटप्रसादेन मनसा चिन्तितं फलम् ॥ २४.३१ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये चतुर्विंशोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच स्थाणोर्वटस्योत्तरतः सुक्रतीर्थं प्रकीर्तितम् । स्थाणोर्वटस्य पूर्वेण सोमतीर्थं द्विजोत्तम ॥ २५.१ ॥ स्थाणोर्वटं दक्षिणतो दक्षतीर्थमुदाहृतम् । स्थाणोर्वटात्पश्चिमतः स्कन्दतीर्थं प्रतिष्ठितम् ॥ २५.२ ॥ एतानि पुण्यतीर्तानि मध्ये स्थाणुरिति स्मृतः । तस्य दर्शनमात्रेण प्राप्नोति परमं पदम् ॥ २५.३ ॥ अष्टम्यां च चतुर्दश्यां यस्त्वेतानि परिक्रमेत् । पदे पदे यज्ञफलं स प्राप्नोति न शंशयः ॥ २५.४ ॥ एतानि मुनिभिः साध्यैरादित्यैर्वसुभिस्तदा । मरुद्भिर्वह्निभिश्चैव सेवितानि प्रयत्नतः ॥ २५.५ ॥ अन्ये ये प्राणिनः केचित्प्रविष्टाः स्थाणुमुत्तमम् । सर्वपापविनिर्मुक्ताः प्रयान्ति परमां गतिम् ॥ २५.६ ॥ अस्ति तत्संनिधौ लिङ्गं देवदेवस्य शूलिनः । उमा च लिङ्गरूपेण हरपार्श्वं न मुञ्चति ॥ २५.७ ॥ तस्य दर्शनमात्रेण सिद्धिं प्राप्नोति मानवः । वटस्य उत्तरे पार्श्वे तक्षकेण महात्मना ॥ २५.८ ॥ प्रतिष्ठितं महालिङ्गं सर्वकामप्रदायकम् । वटस्य पूर्वदिग्भागे विश्वकर्मकृतं महत् ॥ २५.९ ॥ लिङ्गं प्रत्यङ्मुखं दृष्ट्वा सिद्धिमाप्नोति मानवः । तत्रैव लिङ्गरूपेण स्थिता देवी सरस्वती ॥ २५.१० ॥ प्रणम्य तां प्रयत्नेन बुद्धिं मेधां च विन्दति । वटपार्श्वे स्थितं लिङ्गं ब्रह्मणा तत्प्रतिष्ठितम् ॥ २५.११ ॥ दृष्ट्वा वटेश्वरं देवं प्रयाति परमं पदम् । ततः स्थाणुवटं दृष्ट्वा कृत्वा चापि प्रदक्षिणम् ॥ २५.१२ ॥ प्रदिक्षिणीकृता तेन सप्तद्वीपा वसुंधरा । स्थाणोः पश्चिमदिग्बागे नकुलीशो गणः स्मृतः ॥ २५.१३ ॥ तमभ्यर्च्य प्रयत्नेन सर्वपापैः प्रमुच्यते । तस्य दक्षिणदिग्भागे तीर्थं रुद्रकरं स्मृतम् ॥ २५.१४ ॥ तस्मिन् स्नातः सर्वतीर्थे स्नातो भवति मानवः । तस्य चोत्तरदिग्भागे रावणेन महात्मना ॥ २५.१५ ॥ प्रतिष्ठितं महालिङ्गं गोकर्णं नाम नामतः । आषाढमासे या कृष्णा भविष्यति चतुर्दशी । तस्यां योर्ऽचति गोकर्णं तस्य पुण्यफलं शृणु ॥ २५.१६ ॥ कामतोऽकामतो वापि यत्पापं तेन संचितम् । तस्माद्विमुच्यते पापात्पूजयित्वा हरं शुचिः ॥ २५.१७ ॥ कौमारब्रह्मचर्येण यत्पुण्यं प्राप्यते नरैः । तत्पुण्यं सकलं तस्य अष्टम्यां योर्ऽचयेच्छिवम् ॥ २५.१८ ॥ यदीच्छेत्परमं रूपं सौभाग्यं धनसंपदः । कुमारेश्वरमाहात्म्यात्सिद्ध्यते नात्र संशयः । । २५.१९ तस्य चोत्तरदिग्बागे लिङ्गं पूज्य विभीषणः । अजरश्चामरश्चैव कल्पयित्वा बभूव ह ॥ २५.२० ॥ आषाढस्य तु मासस्य शुक्ला या चाष्टमी भवेत् । तस्यां पूज्य सोपवासो ह्यमृतत्वमवाप्नुयात् ॥ २५.२१ ॥ खरेण पूजितं लिङ्गं तस्मिन् स्थाने द्विजोत्तम । तं पूजयित्वा यत्नेन सर्वकामानवाप्नुयात् ॥ २५.२२ ॥ दूषणस्त्रिशिराश्चैव तत्र पूज्य महेश्वरम् । यथाभिलषितान् कामानापतुस्तौ मुदान्वितौ ॥ २५.२३ ॥ चैत्रमासे सिते पक्षे यो नरस्तत्र पूजयेत् । तस्य तौ वरदौ देवौ प्रयच्छेतेऽभिवाञ्छितम् ॥ २५.२४ ॥ स्थाणोर्वटस्य पूर्वोण हस्तिपादेश्वरः शिवः । तं दृष्ट्वा मुच्यते पापैरन्यजन्मनि संभवैः ॥ २५.२५ ॥ तस्य दक्षिणतो लिङ्गं हारीतस्य ऋषेः स्थितम् । यत्प्रणण्य प्रयत्नेन सिद्धिं प्राप्नोति मानवः ॥ २५.२६ ॥ तस्य दक्षिणपार्श्वे तु वापीतस्य महात्मनः । लिह्गं त्रैलोक्यविख्यातं सर्वपापहरं शिवम् ॥ २५.२७ ॥ कङ्गालरूपिणा चापि रुद्रेण सुमहात्मना । प्रतिष्ठितं महालिङ्गं सर्वपापप्रणशनम् ॥ २५.२८ ॥ भुक्तिदं मुक्तिदं प्रोक्तं सर्वकिल्बिषनाशनम् । लिङ्गस्य दर्शनाच्चैव अग्निष्टोमफलं लभेत् ॥ २५.२९ ॥ तस्य पश्चिमदिग्भागे लिङ्गं सिद्धप्रतिष्ठितम् । सिद्धेश्वरं तु विख्यातं सर्वसिद्धिप्रदायकम् ॥ २५.३० ॥ तस्य दक्षिणदिग्बागे मृकण्डेन महात्मना । तत्र प्रतिष्ठितं लिङ्गं दर्शनात्सिद्धिदायकम् ॥ २५.३१ ॥ तस्य पूर्वे च दिग्भागे आदित्येन महात्मना । प्रतिष्ठितं लिङ्गवरं सर्वकिल्बिषनाशनम् ॥ २५.३२ ॥ चित्राङ्गदस्तु गन्धर्वो रम्भा चाप्सरसां वरा । परस्परं सानुरागौ स्थाणुदर्शनकाङ्क्षिणौ ॥ २५.३३ ॥ दृष्ट्वा स्थाणुं पूजयित्वा सानुरागौ परस्परम् । आराध्य वरदं देवं प्रतिष्ठाप्य महेश्वरम् ॥ २५.३४ ॥ चित्राङ्गदेश्वरं दृष्ट्वा तथा रम्भेश्वरं द्विज । सुभगो दर्शनीयश्च कुले जन्म समाप्नुयात् ॥ २५.३५ ॥ तस्य दभिणतो लिङ्गं वज्रिणा स्थापितं पुरा । तस्य प्रसादात्प्राप्नोति मनसा चिन्तितं फलम् ॥ २५.३६ ॥ पराशरेण मुनिना ततैवाराध्य शङ्करम् । प्राप्तं कवित्वं परमं दर्शनाच्छङ्करस्य च ॥ २५.३७ ॥ वेदव्यासेन मुनिना आराध्य परमेश्वरम् । सर्वज्ञत्वं ब्रह्मज्ञानं प्राप्तं देवप्रसादतः ॥ २५.३८ ॥ स्थाणोः पश्चिमदिग्भागे वायुना जगदायुना । प्रतिष्ठितं महालिङ्गं दर्शनात्पापनाशनम् ॥ २५.३९ ॥ तस्यापि दक्षिणे भागे लिङ्गं हिमवतेश्वरम् । प्रतिष्ठितं पुण्यकृतां दर्शनात्सिद्धिकारकम् ॥ २५.४० ॥ तस्यापि पश्चिमे भागे कार्तवीर्येण स्थापितम् । लिङ्गं पापहरं सद्यो कार्तनात्पुण्यमाप्नुयात् ॥ २५.४१ ॥ तस्याप्युत्तरदिग्भागो सुपार्श्वे स्थापितं पुनः । आराध्य हनुमांश्चाप सिद्धिं देवप्रसादतः ॥ २५.४२ ॥ तस्यैव पूर्वदिग्भागे विष्णुना प्रभविष्णुना । आराध्य वरदं देवं चक्रं लब्धं सुदर्शनम् ॥ २५.४३ ॥ तस्यापि पूर्वादिघ्भागे मित्रेण वरुणेन च । प्रतिष्ठितौ लिङ्गवरौ सर्वकामप्रदायकौ ॥ २५.४४ ॥ एतानि मुनिभिः साध्यैरादित्यैर्वसुभिस्तथा । सेवितानि प्रयत्नेन सर्वपापहराणि वै ॥ २५.४५ ॥ खर्णलिङ्गस्य पश्चात्तु ऋषिभिस्तत्त्वदर्शिभिः । प्रतिष्ठितानि लिङ्गानि येषां संख्या न विद्यते ॥ २५.४६ ॥ तथा ह्युत्तरतस्तस्य यावदोघवती नदी । सहस्रमेकं लिङ्गानां देवपश्चिमतः स्थितम् ॥ २५.४७ ॥ तस्यापि पूर्वदिग्भागे बालखिल्यैर्महात्मभिः । प्रतिष्ठिता रुद्रकोटिर्यावत्संनिहितं सरः ॥ २५.४८ ॥ दक्षिणेन तु देवस्य गन्धर्वैर्यक्षकिन्नरैः । प्रतिष्ठितानि लिङ्गानि येषां संख्या न विद्यते ॥ २५.४९ ॥ तिस्रः कोट्योर्ऽधकोटी च लिङ्गानां वायुरब्रवीत् । असंख्याताः सहस्राणि ये रुद्राः स्थाणुमाश्रिताः ॥ २५.५० ॥ एतज्ज्ञात्वा श्रद्दधानः स्थाणुलिङ्गं समाश्रयेत् । यस्य प्रसादात्प्राप्नोति मनसा चिन्तितं फलम् ॥ २५.५१ ॥ अकामो वा सकामो वा प्रविष्टः स्थाणुमन्दिरम् । विमुक्तः पातकैर्घोरैः प्राप्नोति परमं पदम् ॥ २५.५२ ॥ चैत्रे मासे त्रयोदश्यां दिव्यनक्षत्रयोगतः । शुक्रार्कचन्द्रसंयोगे दिने पुण्यतमे शुभे ॥ २५.५३ ॥ प्रतिष्ठितं स्थाणुलिङ्गं ब्रह्मणा लोकधारिणा । ऋषिभिर्देवसंघैश्च पूजितं शाश्वतीः समाः ॥ २५.५४ ॥ तस्मिन् काले निराहारा मानवाः श्रद्धयान्विताः । पूजयन्ति शिवं ये वै ते यान्ति परमं पदम् ॥ २५.५५ ॥ तदारूढमिदं ज्ञात्वा ये कुर्वन्ति प्रदक्षिणम् । प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वसुंधरा ॥ २५.५६ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये पञ्चविशोऽध्यायः _____________________________________________________________ मार्कण्डेय उवाच स्थाणुतीर्थप्रभावं तु श्रोतुमिच्छाम्यहं मुने । केन सिद्धिरथ प्राप्ता सर्वपापभयापहा ॥ २६.१ ॥ सनत्कुमार उवाच् शृणु सर्वमशेषेण स्थाणुमाहात्म्यमुत्तमम् । यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः ॥ २६.२ ॥ एकार्णवे जगत्यस्मिन्नष्टे स्थावरजङ्गमे । विष्णोर्नाभिसमुद्भूतं पद्ममव्यक्तजन्मनः । तस्मिन् ब्रह्म समुद्भूतं सर्वलोकपितामहः ॥ २६.३ ॥ तस्मान्मरीचिरभवन्मरीचेः कश्यपः सुतः । कश्यपादभवद्भास्वांस्तमान्मनुरजायत ॥ २६.४ ॥ मनोस्तु क्षुवतः पुत्र उत्पन्नो मुखसंभवः । पृथिव्यां चतुरन्तायां राजासीद्धर्मरक्षिता ॥ २६.५ ॥ तस्य पत्नी बभूवाथ भया नाम भयावहा । मृत्योः सकाशादुत्पन्ना कालस्य दुहिता तदा ॥ २६.६ ॥ तस्यां समभवद्वेनो दुरात्मा वेदनिन्दकः । स दृष्ट्वा पुत्रवदनं क्रुद्धो राजा वनं ययौ ॥ २६.७ ॥ तत्र कृत्वा तपो घोरं धर्मेणावृत्य रोदसी । प्राप्तवान् ब्रह्मसदनं पुरनावृत्तिदुर्वभम् ॥ २६.८ ॥ वेनो राजा समभवत्समस्ते क्षितिमण्डले । स मातामहदोषेण तेन कालात्मजात्मजः ॥ २६.९ ॥ घोषयामस नगरे दुरात्मा वेदनिन्दकः । न दातव्यं न यष्टव्यं न होतव्यं कदाचन ॥ २६.१० ॥ अहमेकोऽत्र वै वन्द्यः पूज्योऽहं भवतां सदा । मया हि पालिता यूयं निवसध्वं यथासुखम् ॥ २६.११ ॥ तन्मत्तोऽन्यो न देवोऽस्ति युष्माकं यः परायणम् । एतच्छ्रत्वा तु वचनमृषयः सर्व एव ते ॥ २६.१२ ॥ परस्परं समागम्य राजानं वाक्यमब्रवन् । श्रुतिः प्रमाणं धर्मस्य ततो यज्ञः प्रतिष्ठितः ॥ २६.१३ ॥ यज्ञैर्विना नो प्रीयन्ते देवाः स्वर्गनिवासिनः । अप्रीता न प्रयच्छन्ति वृष्टिं सस्यस्य वृद्धये ॥ २६.१४ ॥ तस्माद्यज्ञैश्च देवैश्च धार्यते सचराचरम् । एतच्छ्रुत्वा क्रोधदृष्टिर्वेनः प्राह पुनः पुनः ॥ २६.१५ ॥ न यष्टव्यं न दातव्यमित्याह क्रोधमूर्च्छितः । ततः क्रोधसमाविष्टा ऋषयः सर्व एव ते ॥ २६.१६ ॥ निजघ्नुर्मन्त्रपूतैस्ते कुशैर्वज्रसमन्वितैः । ततस्त्वराजके लोके तमसा संवृते तदा ॥ २६.१७ ॥ दस्युभिः पीड्यमानास्तानृषींस्ते शरणं ययुः । ततस्ते ऋषयः सर्वे ममन्थुस्तस्य वै करम् ॥ २६.१८ ॥ सव्यं तस्मात्समुत्तस्थौ पुरुषो ह्रस्वदर्शनः । तमूचुरृषयः सर्वे निषीदतु भवानिति ॥ २६.१९ ॥ तस्मान्निषादा उत्पन्ना वेनकल्मषसंभवाः । ततस्ते ऋषयः सर्वे मन्मथुर्दक्षिणं करम् ॥ २६.२० ॥ मथ्यमाने करे तस्मिनुत्पन्नः पुरुषोऽपरः । बृहत्सालप्रतीकाशो दिव्यलक्षणलक्षितः ॥ २६.२१ ॥ धनुर्बाणाङ्कितकरश्चश्चक्रध्वसमन्वितः । तमुत्पन्नं तदा दृष्ट्वा सर्वे देवाः सवासवाः ॥ २६.२२ ॥ अभ्यषिञ्चन् पृथिव्यां तं राजानं भूमिपालकम् । ततः स रञ्जयामास धर्मेण पृथिवीं तदा ॥ २६.२३ ॥ पित्राःऽपरञ्जिता तस्य तेन सा परिपालिता । तत्र राजेतिशब्दोऽस्य पृथिव्या रञ्जनादभूत् ॥ २६.२४ ॥ स राज्यं पाप्य तेभ्यस्तु चिन्तयामास पार्थिवः । पिता मम अधर्मिष्ठो यज्ञव्युच्छित्तिकारकः ॥ २६.२५ ॥ कथं तस्य क्रिया कार्या परलोकसुखावहा । इत्येवं चिन्तयानस्य नारदोऽभ्याजगाम ह ॥ २६.२६ ॥ तस्मै स चासनं दत्त्वा प्रणिपत्य च पृष्टवान् । भगवन् सर्वलोकस्य जानासि त्वं शुभाशुभम् ॥ २६.२७ ॥ पिता मम दुराचारो देवब्राह्मणनिन्दकः । स्वकर्मरहितो विप्र परलोकमवाप्तवान् ॥ २६.२८ ॥ ततोऽब्रवीन्नारदस्तं ज्ञात्वा दिव्येन चक्षुषा । म्लेच्छमघ्ये समुत्पन्नं क्षयकुष्ठसमन्वितम् ॥ २६.२९ ॥ तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः । चिन्तयामास दुखार्तः कथं कार्यं मया भवेत् ॥ २६.३० ॥ इत्येवं चिन्तयानस्य मतिर्जाता महात्मनः । पुत्रः स कथ्यते लोके यः पितॄंस्त्रायते भयात् ॥ २६.३१ ॥ एवं संचिन्त्य स तदा नारदं पृष्टवान्मुनिम् । तारणं मत्पितुस्तस्य मया कार्यं कथं मुने ॥ २६.३२ ॥ नारद उवाच गच्छ त्वं तस्य तं देहं तीर्थेषु कुरु निर्मलम् । यत्र स्थाणोर्महत्तीर्थं सरः संनिहितं प्रति ॥ २६.३३ ॥ एतच्छ्रत्वा तु वचनं नारदस्य महात्मनः । सचिवे राज्यमाधाय राजा स तु जगाम ह ॥ २६.३४ ॥ स गत्वा चोत्तरां भूमिं म्लेच्छमध्ये ददर्श ह । कुष्ठरोगेण महाता क्षयेण च समन्वितम् ॥ २६.३५ ॥ ततः शोकेन महता संतप्तो वाक्यमब्रवीत् । ह म्लेच्छा नौमि पुरुषं स्वगृहं च नयाम्यहम् ॥ २६.३६ ॥ तत्राहमेनं निरुजं करिष्ये यदि मन्यथ । तथेति सर्वे ते म्लेच्छाः पुरुषं तं दयापरम् ॥ २६.३७ ॥ ऊचुः प्रणतसर्वाङ्गा यथा जानासि तत्कुरु । तत आनीय पुरुषान् शिविकावाहनोचितान् ॥ २६.३८ ॥ दत्त्वा शुल्कं च द्विगुणं सुखेन नयत द्विजम् । ततः श्रुत्वा तु वचनं तस्य राज्ञो दयावतः । २६.३९ गृहीत्वा शिविकां क्षिप्रं कुरुक्षेत्रेण यान्ति ते । तत्र नीत्वा स्थाणुतीर्थे अवतार्य च ते गताः ॥ २६.४० ॥ ततः स राजा मध्याह्ने तं स्नापयति वै तदा । ततो वायुरन्तरिक्षे इदं वचनमब्रवीत् ॥ २६.४१ ॥ मा तात साहसं कार्षिस्तीर्थ रक्ष प्रयत्नतः । अयं पापेन घोरेम अतीव परिवेष्टितः ॥ २६.४२ ॥ वेदनिन्दा महत्पापं यस्यान्तो नैव लभ्यते । सोऽयं स्नानान्महत्तीर्थं नाशयिष्यति तत्क्षणात् ॥ २६.४३ ॥ एतद्वोयर्बचः श्रुत्वादुःखेन महतान्वितः । उवाच शोकसंतप्तस्तस्य दुःखेन दुःखितः । एष घोरेण पापेन अतीव परिवेष्टितः ॥ २६.४४ ॥ प्रायश्चित्तं करिष्येऽहं यद्वदिष्यन्ति देवताः । ततस्ता देवताः सर्वा इदं वचनमब्रुवन् ॥ २६.४५ ॥ स्नात्वा स्नात्वा च तीर्थेषु अभिषिञ्चस्व वारिणा । ओजसा चुलुकं यावत्प्रतिकूले सरस्वतीम् ॥ २६.४६ ॥ स्नात्वा मुक्तिमवाप्नोति पुरुषः श्रद्धयान्वितः । एष स्वपोषणपरो देवदूषणतत्परः ॥ २६.४७ ॥ ब्राह्मणैश्च परित्यक्तो नैष शुद्ध्यति कर्हिचित् । तस्मादेनं समुद्दिश्य स्नात्वा तीर्थेषु भक्तितः ॥ २६.४८ ॥ अभिषिञ्चस्व तोयेन ततः पूतो भविष्यति । इत्येतद्वचनं श्रुत्वा कृत्वा तस्याश्रमं ततः ॥ २६.४९ ॥ तीर्थयात्रां ययौ राजा उद्दिश्य जनकं स्वकम् । स तेषु प्लावनं कुर्वस्तीर्थेषु च दिने दिने ॥ २६.५० ॥ अभ्यषिढ्चत्स्वपितरं तीर्थतोयेन नित्यशः । एतस्मिन्नेव काले तु सारमेयो जगाम ह ॥ २६.५१ ॥ स्थाणोर्मठे कौलपतिर्देवद्रव्यस्य रक्षिता । परिग्रहस्य द्रव्यस्य परिपालयिता सदा ॥ २६.५२ ॥ प्रियश्च सर्वसोकेषु देवकार्यपरायणः । तस्यैवं वर्तमानस्य धर्ममार्गे स्थितस्य च ॥ २६.५३ ॥ कालेन चलिता बुद्धिर्देवद्रव्यस्य नाशेने । तेनाधर्मेण युक्तस्य परलोकगतस्य च । । २६.५४ दृष्ट्वा यमोऽब्रवीद्वाक्यं श्वयोनिं व३ अ मा चिरम् । तद्वाक्यानन्तरं जातः श्व वै सौगन्धिके वने ॥ २६.५५ ॥ ततः कालेन महता श्वयूथपरिवारितः । परिभूतः सरमया दुःखेन महता वृतः ॥ २६.५६ ॥ त्यक्त्वा द्वैतवनं पुण्यं सान्निहत्यं ययौ सरः । तस्मिन् प्रविष्टमात्रस्तु स्थाणोरेव प्रसादतः ॥ २६.५७ ॥ अतीव तृषया युक्तः सरस्वत्यां ममञ्ज ह । तत्र संप्लुतदेहस्तु विमुक्तः सर्वाकिल्बिषैः ॥ २६.५८ ॥ आहारलोभेन तदा प्रविवेश कुटीरकम् । प्रविशन्तं तदा दृष्ट्वा श्वानं भयसमन्वितः ॥ २६.५९ ॥ स तं पस्पर्श शनकैः स्थाणुतीर्थे ममञ्ज ह । पततः पूर्वतीर्थेषु विप्रुषैः परिषिञ्चतः ॥ २६.६० ॥ शुनोऽस्य गात्रसंभूतैरब्बिन्दुभिः स सिञ्चितः । विरक्तदृष्टिश्च शुनः क्षेपेण च ततः परम् ॥ २६.६१ ॥ स्थाणुतीर्थस्य माहात्म्यात्स पुत्रेण च तारितः । नियतस्तत्क्षणाञ्जातो स्तुतिं कर्तुं प्रचक्रमे ॥ २६.६२ ॥ वेन उवाच प्रपद्ये देवमीशानं त्वामजं चन्द्रभूषणम् । महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥ २६.६३ ॥ नमस्ते देवदेवेश सर्वशत्रुनिषूदन । देवेश बलिविष्टम्भदेवदैत्यैश्च पूजित ॥ २६.६४ ॥ विरूपाक्ष सहस्राक्ष त्र्यक्ष यक्षेश्वरप्रिय । सर्वतः पाणिपादान्त सर्वतोऽक्षिशिरोमुख ॥ २६.६५ ॥ सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठसि । शङ्कुकर्ण महाकर्म कुम्भकर्णार्णवालय ॥ २६.६६ ॥ गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते । शतजिह्व शतावर्त शतोदर शतानन ॥ २६.६७ ॥ गायन्ति त्वां गायत्रिणो ह्यर्चयन्त्यर्क्कमर्चिणः । ब्रह्माणं त्वा शतक्रतो उद्वंशमिव मेनिरे ॥ २६.६८ ॥ मूर्तौ हि ते महामूर्ते समुद्राम्बुधरास्तथा । देवताः सर्व एवात्र गोष्ठे गाव इवासते ॥ २६.६९ ॥ शरीरे तव पश्यामि सोममग्निं जलेश्वरम् । नारायणं तथा सूर्यं ब्रह्माणं च बृहस्पतिम् ॥ २६.७० ॥ भगवान् कारणं कार्यं क्रियाकारणमेव तत् । प्रभवः प्रलयश्चैव सदसच्चापि दैवतम् ॥ २६.७१ ॥ नमो भवाय शर्वाय वरदायोग्ररूपिणे । अन्धकासुरहन्त्रे च पशूनां पतये नमः ॥ २६.७२ ॥ त्रिजटाय त्रिशीर्षाय त्रिशुलासक्कपाणये । त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्र नमोऽस्तु ते ॥ २६.७३ ॥ नमो मुण्डाय चण्डाय अण्डायोत्पत्तिहेतवे । डिण्डिमासक्तहस्ताय डिण्डिमुण्डाय ते नमः ॥ २६.७४ ॥ नमोर्ध्वकेशदंष्ट्राय शुष्काय विकृताय च । धूम्रलोहितकृष्णाय नीलग्रीवाय ते नमः ॥ २६.७५ ॥ नमोऽस्त्वप्रतिरूपाय विरुपाय शिवाय च । सूर्यमालाय सूर्याय स्वरूपध्वजमालिने ॥ २६.७६ ॥ नमो मानातिमानाय नमः पटुतराय ते । नमो गणेन्द्रनाथाय वृषस्कन्धाय धन्विने ॥ २६.७७ ॥ संक्रन्दनाय चण्डाय पर्णधारपुटाय च । नमो हिरण्यवर्णाय नमः कनकवर्चसे ॥ २६.७८ ॥ नमः स्तुताय स्तुत्याय स्तुतिस्थाय नमोऽस्तु ते । सर्वाय सर्वभक्षाय सर्वभूतशरीरिणे ॥ २६.७९ ॥ नमो होत्रे च हन्त्रे च सितोदग्रपताकिने । नमो नम्याय नम्राय नमः कटकटाय च ॥ २६.८० ॥ नमोऽस्तु कृशनाशाय शयितायोत्थिताय च । स्थिताय धावमानाय मुण्डाय कुटिलाय च ॥ २६.८१ ॥ नमो नर्तनशीलाय लयवादित्रशालिने । नाट्योपहारलुब्धाय मुखवादित्रशालिने ॥ २६.८२ ॥ नमो ज्योष्ठाय श्रेष्ठाय बलतिबलघातिने । कालनाशाय कालाय संसारक्षयरूपिणे ॥ २६.८३ ॥ हिमवद्दुहितुः कान्त भैरवाय नमोऽस्तु ते । उग्राय च नमो नित्यं नमोऽस्तु दशबाहवे ॥ २६.८४ ॥ चितिभस्मप्रियायैव कपालासक्तपाणये । विभीषणाय भीष्माय भीमव्रतधराय च ॥ २६.८५ ॥ नमो विकृतवक्त्राय नमः पूतोग्रदृष्टये । पक्वाममांसलुब्धाय तम्बिवीणाप्रियाय च ॥ २६.८६ ॥ नमो वृषाङ्कवृक्षाय गोवृषाभिरुते नमः । कटङ्कटाय भीमाय नमः परपराय च ॥ २६.८७ ॥ नमः सर्ववरिष्ठाय वराय वरदायिने । नमो विरक्तरक्ताय भावनायाक्षमालिने ॥ २६.८८ ॥ विभेदभेदभिन्नाय छायायै तपनाय च । अघोरघोररूपाय घोरघोरतराय च ॥ २६.८९ ॥ नमः शिवाय शान्ताय नमः शान्ततमाय च । बहुनेत्रकपालाय एकमूर्ते नमोऽस्तु ते ॥ २६.९० ॥ नमः क्षुद्राय लुब्धाय यज्ञभागप्रियाय च । पञ्चालाय सिताङ्गाय नमो यमनियामिने ॥ २६.९१ ॥ नमश्चित्रोरुघण्टाय घण्टाघण्टनिघण्टिने । सहस्रशतघण्टाय घण्टामालविभूषिणे ॥ २६.९२ ॥ प्रणसंघट्टगर्वाय नमः किलिकिलिप्रिये । हुंहुङ्काराय पाराय हुंहुङ्कारप्रियाय च ॥२६.९३ ॥ नमः समसमे नित्यं गृहवृक्षनिकेतिने । गर्भमांसशृगालाय तारकाय तराय च ॥ २६.९४ ॥ नमो यज्ञाय यजिने हुताय प्रहुताय च । यज्ञवाहाय हव्याय तप्याय तपनाय च ॥ २६.९५ ॥ नमस्तु पयसे तुभ्यं तुण्डानां पतये नमः । अन्नदायान्नपतये नमो नानान्नभोजिने ॥ २६.९६ ॥ नमः सहस्रशीर्षाय सहस्रचरणाय च । सहस्रोद्यतशूलाय सहस्राभरणाय च ॥ २६.९७ ॥ बालनुचरगोप्त्रे च बाललीलाविलासिने । नमो बालाय वृद्धाय क्षुब्धाय क्षोभणाय च ॥ २६.९८ ॥ गङ्गालुलितकेशाय मुञ्जकेशाय वै नमः । नमः षट्कर्मतुष्टाय त्रिकर्मनिरताय च ॥ २६.९९ ॥ नग्नप्राणाय चण्डाय कृशाय स्फोटनाय च । धर्मार्थकाममोक्षाणां कथ्याय कथनाय च ॥ २६.१०० ॥ साङ्ख्याय साङ्ख्यमुख्याय साङ्ख्ययोगमुखाय च । नमो विरथरथ्याय चतुष्पथरथाय च ॥ २६.१०१ ॥ कुष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने । वक्त्रसंधानकेशाय हरिकेश नमोऽस्तु ते । त्र्यम्बिकाम्बिकनाथायव्यक्तव्यक्ताय वेधसे ॥ २६.१०२ ॥ कामकामदकामघ्न तृप्तातृप्तविचारिणे । नमः सर्वद पापघ्न कल्पसंख्याविचारिणे ॥ २६.१०३ ॥ महासत्त्व महाबाहो महाबल नमोऽस्तु ते । महामेघ महाप्रख्य महाकाल महाध्युते ॥ २६.१०४ ॥ मेघावर्त युगावर्त चन्द्रार्कपतये नमः । त्वमन्नमन्नभोक्ता च पक्वभुक्पावनोत्तम ॥ २६.१०५ ॥ जरायुजाण्डजाश्चैव स्वेदजोद्भिदजाश्च ये । त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः ॥ २६.१०६ ॥ स्रष्टा चराचरस्यास्य पाता हन्ता तथैव च । त्वामाहुर्ब्रह्य विद्वांसो ब्रह्म ब्रह्मविदां गतिम् ॥ २६.१०७ ॥ मनसः परमज्योतिस्त्वं वायुर्ज्योतिषामपि । हंहवृक्षे मधुकरमाहुस्त्वं ब्रह्मवादिनः ॥ २६.१०८ ॥ यजुर्मयो ऋङ्मयस्त्वामाहुः साममयस्तथा । पठ्यसे स्तुतिभिर्नित्यं वेदोपनिषदां गणैः ॥ २६.१०९ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये । त्वमेव मेघसंघाश्च विद्युतोऽसनिगर्जितम् ॥ २६.११० ॥ संवत्सरस्त्वमृतवो मासो मासार्धमेव च । युगा निमेषाः काष्ठाश्च नक्षत्राणि ग्रहाः कलाः ॥ २६.१११ ॥ वृक्षाणां ककुभोऽसि त्वं गिरीणां हिमवान् गिरिः । व्याघ्रो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥ २६.११२ ॥ क्षिरोदोऽस्युदधीनां च यन्त्राणां धनुरेव च । वज्रं प्रहरणानां च व्रतानां सत्यमेव च ॥ २६.११३ ॥ त्वमेव द्वेष इच्छा च रागो मोहः क्षमाक्षमे । व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥ २६.११४ ॥ त्वं शरी त्वं गदी चापि खट्वाङ्गी च शरासनी । छेत्ता मेत्ता प्रहर्तासि मन्ता नेता सनातनः ॥ २६.११५ ॥ दशलक्षणसंयुक्तो धर्मोर्ऽथः काम एव च । समुद्राः सरितो गङ्गा पर्वताश्च सरांसि च ॥ २६.११६ ॥ लतावल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः । द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ॥ २६.११७ ॥ आदिश्चन्तश्च वेदानां गायत्री प्रणवस्तथा । लोहितो हरितो नीलः कुष्णः पीतः सितस्तथा ॥ २६.११८ ॥ कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा । सवर्णश्चाप्यवर्णाश्च कर्ता हर्ता त्वमेव हि ॥ २६.११९ ॥ त्वमिन्द्रश्च यमश्चैव वरुणो धनदोऽनिलः । उपप्लवश्चित्रभानुः स्वर्भानुरेव च ॥ २६.१२० ॥ शिक्षाहैत्रं त्रिसौपर्णं यजुषां शतरुद्रियम् । पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ॥ २६.१२१ ॥ तिन्दुको गिरिजो वृक्षे मुद्गं चाखिलजीवनम् । प्राणाः सत्त्वं रजश्चैव तमश्च प्रतिपत्पितिः ॥ २६.१२२ ॥ प्राणोऽपानः मसानश्च उदानो व्यान एव च । उन्मेषश्च निमेषश्च क्षुतं जृम्भितमेव च ॥ २६.१२३ ॥ लोहितान्तर्गतो दृष्टिर्महावक्त्रो महोदरः । शुचिरोमा हरिश्मश्रुरूर्ध्वकेशश्चलाचलः ॥ २६.१२४ ॥ गीतवादित्रनृत्यज्ञो गीतवादित्रकप्रियः । मत्स्यो जालो जलौकाश्च कालः केलिकला कलिः ॥ २६.१२५ ॥ अकालश्च विकालश्च दुष्कालः काल एव च । मृत्युश्च मृत्युकर्ता च यक्षो यक्षभयङ्करः ॥ २६.१२६ ॥ संवर्तकोऽन्तकश्चैव संवर्तकबलाहकः । घण्टो घण्टी माहघण्टी चिरी माली च मातलिः ॥ २६.१२७ ॥ ब्रह्मकालयमाग्नीनां दण्डी मुण्डी त्रिमुण्डधृक् । चतुर्युगश्चतुर्वेदश्चातुर्हेत्रप्रवर्तकः ॥ २६.१२८ ॥ चातुराश्रम्यनेता च चातुर्वर्ण्यकरस्तथा । नित्यमक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः ॥ २६.१२९ ॥ रक्तमाल्याम्बरधरो गिरिको गिरिकप्रियः । शिल्पं च शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्तकः ॥ २६.१३० ॥ भगनेत्राङ्कुशश्चण्डः पूष्णो दन्तविनाशनः । स्वाहा स्वधा वषट्कारो नमस्कारो नमो नमः ॥ २६.१३१ ॥ गूढव्रतो गुह्यतपास्तारकास्तारकामयः । धाता विधाता संधाता पृथिव्या धरणोऽपरः ॥ २६.१३२ ॥ ब्रह्म तपश्च सत्यं च व्रतचर्य मथार्जवम् । भूतात्मा भूतकृद्भूतिर्भूतभव्यभवोद्भवः ॥ २६.१३३ ॥ भूर्भुवः स्वरृतं चैव ध्रुवो दान्तो महेश्वरः । दीक्षितोऽदीक्षितः कान्तो दुर्दान्तो दान्तसंभवः ॥ २६.१३४ ॥ चन्द्रावर्तो युगावर्तः संवर्तकप्रवर्तकः । बिन्दुः कामो ह्यणुः स्थूलः कर्णिकारस्रजप्रियः ॥ २६.१३५ ॥ नन्दीमुखो भीममुकः सुमुको दुर्मुखस्तथा । हिरण्यगर्भः शकुनिर्महोरगपतिर्विराट् । । २६.१३६ अधर्महा महादेवो दण्डधारो गणोत्कटः । गोनर्दे गोप्रतारश्च गोवृषेश्वरवाहनः ॥ २६.१३७ ॥ त्रैलोक्यगोप्ता गोविन्दो गोमार्गो मार्ग एव च । स्थिरः श्रेष्ठश्च स्थाणुश्च विक्रोशः क्रोश एव च ॥ २६.१३८ ॥ दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः । दुर्द्धर्षो दुष्प्रकाशश्च दुर्दुर्शो दुर्जयो जयः ॥ २६.१३९ ॥ शशाङ्कानलशीतोष्णः क्षुत्तृष्णा च निरामयः । आधयो व्याधयश्चैव व्याधिहा व्याधिनाशनः ॥ २६.१४० ॥ समूहश्च समूहस्य हन्ता देवः सनातनः । शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः ॥ २६.१४१ ॥ त्र्यम्बको दण्डधारश्च उग्रदंष्ट्रः कुलान्तकः । विषापहः सुरश्रेष्ठः सोमपास्त्वं मरुत्पते । अमृताशी जगन्नातो देवदेव गणेश्वरः ॥ २६.१४२ ॥ मधुश्च्युतानां मधुपो ब्रह्मवाक्त्वं घृतच्युतः । सर्वलोकस्य भोक्ता त्वं सर्वलोकपितामहः ॥ २६.१४३ ॥ हिरण्यरेताः पुरुषस्त्वमेकः त्वं स्त्री पुमांस्त्वं हि नपुंसकं च । बालो युवा स्थविरो देवदंष्ट्रा त्वन्नो गिरिर्विश्वकृद्विश्वहर्ता ॥ २६.१४४ ॥ त्वं वै धाता विश्वकृतां वरेण्यस्त्वां पूजयन्ति प्रणताः सदैव । चन्द्रादित्यौ चक्षुषी ते भवान् हि त्वमेव चाग्निः प्रपितामहश्च । आराध्य त्वां सरखतीं वाग्लभन्ते अहोरात्रे निमिषोन्मेषकर्ता ॥ २६.१४५ ॥ न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते । माहात्म्यं वेदितुं शक्ता यातातथ्येन शङ्कर ॥ २६.१४६ ॥ पुंसां शतसहस्राणि यत्समावृत्य तिष्ठति । महतस्तमसः पारे गोप्ता मन्ता भवान् सदा ॥ २६.१४७ ॥ यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ २६.१४८ ॥ या मूर्तयश्च सूक्ष्मास्ते न शक्या या निदर्शितुम् । ताभिर्मां सततं रक्ष पिता पुत्रमिवौरसम् ॥ २६.१४९ ॥ रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते । भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि ॥ २६.१५० ॥ जटिने दण्डिने नित्यं लम्बोदरशारीरिणे । कमण्डलुनिषङ्गाय तस्मै रुद्रात्मने नमः ॥ २६.१५१ ॥ यस्य केशेषु जीमूता नद्याः सर्वाङ्गसन्धिषु । कुक्षौ समुद्रश्चत्वारस्तस्मै तोयात्मने नमः ॥ २६.१५२ ॥ संभक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते । यः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम् ॥ २६.१५३ ॥ प्रविश्य वदनं राहोर्यः सोमं पिबते निशि । ग्रसत्यर्कं च खर्भानू रक्षितस्तव तेजसा ॥ २६.१५४ ॥ ये चात्र पतिता गर्भा रुद्रगन्धस्य रक्षेण । नमस्तेऽस्तु खधा खाहा प्राप्नुवन्ति तदद्भुते ॥ २६.१५५ ॥ येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् । रक्षन्तु ते हि मां नित्यं ते मामाप्याययन्तु वै ॥ २६.१५६ ॥ ये नदीषु समुद्रेषु पर्वतेषु गुहासु च । वृभमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥ २६.१५७ ॥ चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च । हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥ २६.१५८ ॥ ये च पञ्चसु भूतेषु दिशासु विदिशासु च । चन्द्रार्कयोर्मध्यागता ये च चन्द्रार्करश्मिषु ॥ २६.१५९ ॥ रसातलगता ये च ये च तस्मात्परं गताः । नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः ॥ २६.१६० ॥ येषां न विद्यते संख्या प्रमाणं रूपमेव च । असंख्येयगणा रुद्रा नमस्तेभ्योऽस्तु नित्यशः ॥ २६.१६१ ॥ प्रसीद मम भद्रं ते तव भावगतस्य च । त्वयि मे हृदयं देव त्वयि बुद्धिर्मतिस्त्वयि ॥ २६.१६२ ॥ स्तुत्वैवं स महादेवं विरराम द्विजोत्त्मः ॥ २६.१६३ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये षड्विंशोऽध्यायः _____________________________________________________________ सनत्कुमार उवचा । अथैनमब्रवीद्देवस्त्रैलोक्याधिपतिर्भवः । आश्वासनकरं चास्य वाक्यविद्वाक्यमुत्तमम् ॥ २७.१ ॥ अहो तुष्टोऽस्मि ते राजन् स्तवेनानेन सुव्रत । बहुनात्र किमुक्तेन मत्समीपे वसिष्यसि ॥ २७.२ ॥ उषित्वा सुचिरं कालं मम गात्रोद्भवः पुनः । असुरो ह्यन्धको नाम भविष्यसि सुरान्तकृत् ॥ २७.३ ॥ हिरण्याक्षगृहे जन्म प्राप्य वृद्धिं गमिष्यसि । पूर्वाधर्मेण घोरेण वेदनिन्दाकृतेन च ॥ २७.४ ॥ साभिलाषो जगन्मातुर्भविष्यसि यदा तदा । देहं शुलेन हत्वाहं पावयिष्यामि समार्बुदम् ॥ २७.५ ॥ तत्राप्यकल्मषो भूत्वा स्तुत्वा मां भक्तितः पुनः । ख्यातोगणाधिपो भूत्वा नाम्ना भृङ्गिरिटिः स्मृतः ॥ २७.६ ॥ मत्सन्निधाने स्थित्वा त्वं ततः सिद्धिं गमिष्यसि । वेनप्रोक्तं स्तवमिमं कीर्तयेद्यः शृणोति च ॥ २७.७ ॥ नाशुभं प्राप्नुयात्किञ्चिद्दीर्घमायुरवाप्नुयात् । यथा सर्वेषु देवेषु विशिष्टो भगवाञ्शिवः ॥ २७.८ ॥ तथा स्तवो वरिष्ठोऽयं स्तवानां वेननिर्मितः । यशोराज्यसुखैश्वर्यधनमानाय कीर्तितः ॥ २७.९ ॥ श्रोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः । व्याधितो दुःखितो दीनश्चौरराजभयान्वितः ॥ २७.१० ॥ राजकार्यविमुक्तो वा मुच्यते महतो भयात् । अनेनैव तु देहेन गणानां श्रेष्ठतां व्रजेत् ॥ २७.११ ॥ तेजसा यशसा चैव युक्तो भवति निर्मलः । न राक्षसाः पिशाचा वा न भूता न विनायकाः ॥ २७.१२ ॥ विघ्नं कुर्युर्गृहे तत्र यत्रायं पठ्यते स्तवः । श्रुणुयाद्या स्तवं नारी अनुज्ञां प्राप्य भर्तृतः ॥ २७.१३ ॥ मातृपक्षे पितुः पक्षे पूज्या भवति देववत् । श्रुणुयाद्यः स्तवं दिव्यं कीर्तयेद्वा समाहितः ॥ २७.१४ ॥ तस्य सर्वाणि कार्याण सिद्धिं गच्छन्ति नित्यशः । मनसा चिन्तितं यच्च यच्च वाचानुकीर्तितम् ॥ २७.१५ ॥ सर्वं संपद्यते तस्य स्तवनस्यानुकीर्तनात् । मनसा कर्मणा वाचा कृतमेनो विनश्यति । वरं वरय भद्रं ते यत्त्वया मनसेप्सितम् ॥ २७.१६ ॥ वेन उवाच अस्य लिङ्गस्य माहात्म्यात्तथा लिङ्गस्य दर्शनात् । मुक्तोऽहं पातकैः सर्वैस्तव दर्शनतः किल ॥ २७.१७ ॥ यदि तुष्टोऽसि मे देव यदि देयो वरो मम । देवस्वभक्षणाञ्जातं श्वयोनौ तव सेवकम् ॥ २७.१८ ॥ एतस्यापि प्रसादं त्वं कर्तुमर्हसि शङ्कर । एतस्यापि भयान्मध्ये सरसोऽहं निमञ्जितः ॥ २७.१९ ॥ देवैर्निवारितः पूर्वं तीर्थेऽस्मिन् स्नानकारणात् । अयं कृतोपकारश्च एतदर्थे वृणोम्यहम् ॥ २७.२० ॥ तस्यैतद्वचनं श्रुत्वा तुष्टः प्रोवाच शङ्करः । एषोऽपि पापिनिर्मुक्तो भविष्यति न संशयः ॥ २७.२१ ॥ प्रसादान्मे महाबाहो शिवलोकं गमिष्यति । तथा स्तवमिमं श्रुत्वा मुच्यते सर्वपातकैः ॥ २७.२२ ॥ कुरुक्षेत्रस्य माहात्म्यं सरसोऽस्य महीपते । मम लिङ्गस्य चोत्पत्तिं श्रुत्वा पापैः प्रमुच्यते ॥ २७.२३ ॥ सनत्कुमार उवाच इत्येवमुक्त्वा भगवान् सर्वलोकनमस्कृतः । पश्यतां सर्वलोकानां तत्रैवान्तरधीयत ॥ २७.२४ ॥ स च श्वा तत्क्षणादेव स्मृत्वा जन्म पुरातनम् । दिव्यमूर्तिधरो भूत्वा तं राजानमुपस्थितः ॥ २७.२५ ॥ कृत्वा स्नानं ततो वैन्यः पितृदर्शनलालसः । स्थाणतीर्थे कुटीं शून्यां दृष्ट्वा शोकसमन्वितः ॥ २७.२६ ॥ दृष्ट्वा वेनोऽब्रवीद्वाक्यं हर्षेण महतान्वितः । सत्पुत्रेण त्वया वत्स त्रातोऽहं नरकार्मवात् ॥ २७.२७ ॥ त्वयाभिषिञ्चितो नित्यं तीर्थस्थपुलिने स्थितः । अस्य साधोः प्रसादेन स्थाणोर्देवस्य दर्शनात् ॥ २७.२८ ॥ मुक्तापापश्च स्वर्लोकं यास्ये यत्र शिवः स्थितः । इत्येवमुक्त्वा राजानं प्रतिष्ठाप्य महेश्वरम् ॥ २७.२९ ॥ स्थाणुतीर्थे ययौ सिद्धिं तेन पुत्रेण तारितः । स च श्वा परमां सिद्धिं स्थाणुतीर्थप्रभावतः ॥ २७.३० ॥ विमुक्तः कलुषैः सर्वैर्जगाम भवमन्दिरम् । राजा पितृऋणैर्मुक्तः परिपाल्य वसुन्धराम् ॥ २७.३१ ॥ पुत्रानुत्पाद्य धर्मेण कृत्वा यज्ञं निरर्गलम् । दत्त्वाकामांश्चविप्रेभ्यो भुक्त्वा भोगान् पृथग्विधान् ॥ २७.३२ ॥ सुहृदोऽथ ऋणैर्मुक्त्वा कामैः संतर्प्य च स्त्रियः । अभिषिच्य सुतं राज्ये कुरुक्षेत्रं ययौ नृपः ॥ २७.३३ ॥ तत्र तप्त्वा तपो घोरं पूजयित्वा च शङ्करम् । आत्मेच्छया तनुं त्यक्त्वा प्रयातः परमं पदम् ॥ २७.३४ ॥ एतत्प्रभावं तीर्थस्य स्थाणोर्यः शृणुयान्नरः । सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥ २७.३५ ॥ इति श्रीवामनपुराणे सरोमाहात्म्ये सप्तविंशोऽध्यायः