अध्याय १ मज्जनमातङ्गगण्डच्युतमदमदिरामोदमत्तालिजालम् । स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम् ॥ १.१ ॥ सायं प्रातर्मुनीनां कुशकुसुमचयाच्छन्नतीरस्थनीरम् । पायाद्वो नर्मदाम्भः करिकरभकराक्रान्तरहस्तरङ्गम् ॥ १.२ ॥ मार्कण्डेय उवाच - हिमवच्छिखरे रम्ये सिद्धगन्धर्वसेविते । यक्षविद्याधराकीर्णे नानागणसमन्विते ॥ १.३ ॥ ब्रह्मविष्णुसुराः सर्वे स्कन्दनन्दिगणेश्वराः । चन्द्रादित्यौ ग्रहैः सार्धं नक्षत्रध्रुवमण्डलम् ॥ १.४ ॥ वायुश्च वरुणश्चैव कुबेरोऽथ यमस्तथा । इन्द्राद्या देवतास्सर्वे गन्धर्वगण एव च ॥ १.५ ॥ ब्राह्म्याद्या मातरश्च ऋषयश्च तपोधनाः । मूर्तिमन्तश्च तीर्थानि चण्डभृङ्गिमहाबलाः ॥ १.६ ॥ दानवासुरदैत्याश्च पिशाचा भूतराक्षसाः । सूर्यकोटिसमप्रख्यं मणिमाणिक्यशोभितम् ॥ १.७ ॥ रत्नवैदूर्यसोपानवापीकूपसहस्रकम् । पद्मनीलोत्पलोपेतं नानावृक्षसमन्वितम् ॥ १.८ ॥ काम्यकामफलैर्वृक्षैः पुष्पितैः फलितैर्युतम् । हंसकारण्डवाकीर्णं चक्रवाकोपकूजितम् ॥ १.९ ॥ कोककोकिलसंघुष्टं नानापक्षिसमाकुलम् । स्थानं सर्वे हरस्यापुः सिद्धैश्च परिसेवितम् ॥ १.१० ॥ तत्रासीनं महादेवं शङ्करं लोकशङ्करम् । स्तुवन्तः केऽपि देवेशं केचिन्नृत्यन्ति चाग्रतः ॥ १.११ ॥ दिव्यसिंहासनासीनमुमया सहितं हरम् । तेषां मध्ये समुत्थाय स्कन्दो वचनमब्रवीत् ॥ १.१२ ॥ कृताञ्जलिपुटो भूत्वा साष्टाङ्गं प्रणिपत्य च । सृष्टिसंहारकर्त्तारं सुरासुरनमस्कृतम् ॥ १.१३ ॥ ब्रह्मविष्ण्विन्द्रवरदं भक्तानां भक्तवत्सलम् । त्र्यम्बकसितकण्ठाय ज्ञाताज्ञातस्वरूपिणे ॥ १.१४ ॥ ईश्वरायाविनाशाय गजचर्मावगुण्ठिने । कपालमालाभरणद्वीपिचर्मधराय च ॥ १.१५ ॥ भस्मोद्धूलितदेहाय नमस्तेऽस्तु पिनाकिने । अनन्तानन्तरूपाय कालाय परमेष्ठिने ॥ १.१६ ॥ सद्यो वामस्तथा घोरस्तत्पुरुषाय ते नमः । ईशानाय परेशाय सदाशिव नमोऽस्तु ते ॥ १.१७ ॥ ऋग्यजुः सामरूपाय अथर्वाय नमोऽस्तु ते । नमः कालाग्निरूपाय सर्वलोकनिवासिने ॥ १.१८ ॥ नमः कान्तार्द्धदेहाय वर्षिष्ठाय च ते नमः । ओं नमः शिवाय रूपाय भीमाय भवरूपिणे ॥ १.१९ ॥ शिवाय भवरूपाय भीमरूपकपर्दिने । त्वया व्याप्तं जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ १.२० ॥ जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो । क्षमस्व मम ईशान अज्ञानाञ्ज्ञानतोऽपि वा ॥ १.२१ ॥ ईश्वर उवाच - वरं वृणीष्व भद्रं ते स्तवेनानेन सुव्रत । ददामि ते न सन्देहो वरं मनसि काङ्क्षितम् ॥ १.२२ ॥ स्कन्द उवाच - यदि तुष्टोऽसि मे देव वरं दातुममेच्छसि । उत्तरे तु दिशाभागे हर्म्या हेममयाः शुभाः ॥ १.२३ ॥ सप्तभौमास्तु विस्तीर्णहेमप्राकारतोरणाः । नानामणिसमुक्ताद्या वज्रवैदूर्यमण्डिताः ॥ १.२४ ॥ तत्रैव मधुरा वाणी वेणुवीणाः सहस्रशः । प्रेक्षणीयैर्नृत्यगीतैर्दिव्यकान्तिमनोहरैः ॥ १.२५ ॥ कस्यैतानि गृहाणीति मेरोरुत्तरतः शिव । त्वत्प्रसादात्तु पृच्छामि परं कौतूहलं हि मे ॥ १.२६ ॥ ईश्वर उवाच - शृणु स्कन्द सुरश्रेष्ठ कथ्यमानं निबोध मे । भृगुस्थाने पुरे ये वै राहुसूर्व्यसमागमे ॥ १.२७ ॥ कुरुक्षेत्रे प्रभासे च मोक्षे रुद्रपदे तथा । केदारक्षेत्रके स्थाने रुद्रे कनखले तथा ॥ १.२८ ॥ भैरवे ललिताक्षेत्रे शिव ध्यात्वा च पुत्रक । ये पृताः शिवनद्यां तु शिवध्यानपरायणा ॥ १.२९ ॥ तेषां गृहाणि रम्याणि स्वयं कर्मफलार्जितैः । सप्तभौमैर्गृहैर्दिव्यैर्वस्त्रभोगाश्च पुष्कलाः ॥ १.३० ॥ दत्तानि च मयैतेषां हर्म्यभोगसुखानि च । स्कन्द उवाच - सहस्रशतभौमाश्च वैदूर्यमाणमण्डिताः ॥ १.३१ ॥ कूटैः कपाटकैर्नद्धसिद्धद्वाराण्यनेकशः । नित्योत्सवैर्नृत्यगीतैः काम्यैर्दिव्यैर्मनोहरैः ॥ १.३२ ॥ असंख्याता गृहा रम्याः सूर्यकोटिसमप्रभाः । कस्यैतानीह हर्म्याणि पूर्वभागे महेश्वर ॥ १.३३ ॥ दक्षिणे पश्चिमे चैव नानाभोगाः सहस्रशः । सुरेन्द्रभवने भोगाः कलां नार्हन्ति षोडशीम् ॥ १.३४ ॥ केन कर्म्मविपाकेन शूभेनाप्यशुभेन वा । कूष्माण्डवासिनश्चक्रे घोरे मज्जन्ति तामसे ॥ १.३५ ॥ पूयशोणितकूपेषु कृमिकीटपतङ्गिनः । तिर्यग्योनिगताः पापैः पीड्यमानास्तु मानुषाः ॥ १.३६ ॥ दारिद्र्यदुःखिता दीनाः पच्यमाना बुभुक्षिताः । केन कर्म्मविपाकेन शूभाशुभगति प्रभो ॥ १.३७ ॥ एतत्सर्वं यथान्यायं कथयस्व प्रसादतः । ईश्वर उवाच - ये मृता नर्मदातीरे सङ्गमे तिग्मदार्शिते ॥ १.३८ ॥ तेषां गृहाणि रम्याणि पूर्वभागे च षण्मुख । ओंकारदक्षिणे भागे पूर्वतोऽमरकण्टके ॥ १.३९ ॥ नर्मदाकोटितीर्थे च ये मृताः स्कन्दमानुषाः । हर्म्ये मनोरमे रम्ये ते वसन्ति नरोत्तमाः ॥ १.४० ॥ भृगावग्नौ जले वापि रेवाकपिलसङ्गमे । दानं दत्तं तपस्तप्तं ते वसन्ति गृहैरिमैः ॥ १.४१ ॥ गोदावर्य्यां पयस्विन्यां तपत्यां चैव सङ्गमे । त्र्यम्बके धौतपापे च हिमाद्रौ विन्ध्यपर्वते ॥ १.४२ ॥ महेश्वरमये सह्ये गोकर्णे च महाबले । हरिश्चन्द्रपुरे चन्द्रे श्रीशैले त्रिपुरान्तके ॥ १.४३ ॥ कृष्णायां ससमुद्रायामेकादश्यां महानदे । कार्तिके योनिकुण्डे च ये म्रियन्ते च पुत्रक ॥ १.४४ ॥ याम्ये हर्म्ये हेममये तेषां श्रेष्ठास्स्वयम्भुवः । नाना भोगांश्च भुञ्जन्ति यथा शक्रस्त्रिविष्टपे ॥ १.४५ ॥ सरस्वत्यां त्यजेत्प्राणान् प्रभासे शशिभूषणे । पारियात्रे महाकाले प्रयागे च महापथे ॥ १.४६ ॥ तेषां गृहाणि रम्याणि नानाभोगाश्च पुष्कलाः । मणिमाणिक्यदीप्ताभाः सौम्ये कोटित्रयोदश ॥ १.४७ ॥ एवं तथैकाविंशत्या भूर्वे चैवोपवेशिताः । दक्षिणे नवकोट्यस्तु भृता हर्म्या हिरण्मयाः ॥ १.४८ ॥ गृहा मौक्तिकसंकाशाः कोट्यः षोडश वारुणे । तीर्थयात्राविशेषेण दानधर्मविशेषतः ॥ १.४९ ॥ भुञ्जन्ति विविधान् भोगान्मया तुष्टेन पुत्रक । मेरोरुत्तरतो भागे दक्षिणे वारुणे तथा ॥ १.५० ॥ क्रीडन्ति च मनोहारिमन्दिरे देवनिर्मिते । देवानां वार्द्धकिस्तत्र कर्ता विश्वस्य कर्मणः ॥ १.५१ ॥ सर्वरत्नमयं हर्म्यं भुवनोपरि पश्यसि । पूर्वभागे महासेन नार्मदः फलमश्नुते ॥ १.५२ ॥ एतत्ते कथितं स्कन्द परिपृष्टं त्वया च यत् । देवानां च हितार्थाय तुभ्यं सर्वं मयानघ ॥ १.५३ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे प्रथमोऽध्यायः ॥ अध्याय २ स्कन्द उवाच - श्रोतुकामा इमे सर्वे ब्रह्मविष्णुसुरोत्तमाः । प्रभावमीदृशं यस्य तीर्थस्याऽस्य महत्फलम् ॥ २.१ ॥ नर्मदायास्तथोत्पत्तिं सङ्गमं लिङ्गपूजनम् । पर्वकाले च देवानां पर्वतेऽमरकण्टके ॥ २.२ ॥ आख्यानसहितं देव कथयस्व यथार्थतः । तीर्थयात्राफलं सम्यग्वंशो मन्वन्तराणि च ॥ २.३ ॥ भक्त्या युक्तं च यत्किंचित्कथयस्व प्रसादतः । सूत उवाच - श्रुत्वाऽख्यानमिदं पुण्य पुराणं स्कन्दकीर्तितम् ॥ २.४ ॥ भविष्यभूततत्त्वज्ञः सप्तकल्पानुवर्तकः । आजगामाऽथमार्कण्डऋषिभिः सहितस्तदा ॥ २.५ ॥ सर्वकामसमृद्धात्मा श्रेयान् त्वेनैव पूजितः । सपादलक्षमधिकमृषीणां चोग्रतेजसाम् ॥ २.६ ॥ ब्रह्मर्षयो देवर्षयस्तथा राजर्षयः परे । एतैः परिवृतः श्रीमान्मध्येऽरण्याश्रमं प्रति ॥ २.७ ॥ तीर्थयात्राफलं प्राप्य नर्मदातटमाश्रितः । श्रुत्वा महान्तं मार्कण्डप्रभावं लोमहर्षणः ॥ २.८ ॥ आजगाम ततो द्रष्टुमृषिं कल्मषनाशनम् । नर्मदाप्रवाहे पुण्ये सिद्धगन्धर्वसेविते ॥ २.९ ॥ यक्षविद्याधराकीर्णे किन्नरैरुपशोभिते । नानादेवगणाकीर्णे नानागणनिषेविते ॥ २.१० ॥ रेवावतरणं श्रुत्वा प्रभावं पुण्यसङ्गतम् । ननृतुर्देवतास्तत्र सिद्धविद्याधरा नराः ॥ २.११ ॥ कह्लारैः शतपत्रैश्च पुन्नागैर्नागचम्पकैः । आम्रजम्बूकपित्थैश्च दाडिमैः पनसैस्तथा ॥ २.१२ ॥ निम्बजम्बीरनारङ्गैः कदलीषण्डमण्डितैः । कुमुदैर्नागवल्ल्याद्यैः शालेयैश्च तमालकैः ॥ २.१३ ॥ बीजपूरकखर्जूरैर्द्राक्षामधुरपाटलैः । बिल्वचन्दनपील्वाद्यैः कदम्बकुटजैस्तथा ॥ २.१४ ॥ सर्वकामफलैर्वृक्षैः फलितं पुष्पितं भृशम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ २.१५ ॥ कोकिलाबर्हिणशुकैर्नानापक्षिविनादितम् । जातिस्मरा पक्षिणश्च व्याजह्रुर्मानुषीङ्गिरम् ॥ २.१६ ॥ गन्धर्वकिन्नरयुतैर्यक्षविद्याधरोरगैः । क्रीडते मिथुनं दिव्यं शनैर्गिरिवरोत्तमे ॥ २.१७ ॥ दिव्यगन्धर्वनृत्यैश्च वेणुवीणासहस्रशः । दिव्योद्भवैः प्रेक्षणीयैः शोभितैर्गिरिगह्वरे ॥ २.१८ ॥ गीतध्वनिनिनादेन दिवं भूमिं व्यनादयन् । ब्रह्मर्षयो देवर्षयस्तथा राजर्षयः परे ॥ २.१९ ॥ वेदध्वनितयज्ञानामग्निहोत्रप्रकाशतः । ऋग्यजुःसामाथर्वाणि चातुर्वर्ण्या द्विजोत्तमाः ॥ २.२० ॥ पुलस्त्यश्च वसिष्ठश्च पुलहश्च क्रतुस्तथा । भृगुरत्रिर्मरीचिश्च भारद्वाजोऽथ काश्यपः ॥ २.२१ ॥ मनुर्यमोऽङ्गिराश्चैव शातातपपराशरौ । आपस्तम्बोऽथ शम्बश्च काव्यः कात्यायनो मुनिः ॥ २.२२ ॥ गौतमः शङ्खलिखितौ दक्षः कात्यायनिस्तथा । जामदग्न्यो याज्ञवल्क्य ऋष्यशृङ्गो विभाण्डकः ॥ २.२३ ॥ गर्गशौनकदाल्भ्या व्यास उद्दालकः शुकः । नारदः पर्वतश्चैव दुर्वासाश्चोग्रतापसः ॥ २.२४ ॥ शाकल्यो गालवश्चैव जाबालिर्मुद्गलस्तथा । विश्वामित्रः कौशिकश्च ऋषयो देवसम्मताः ॥ २.२५ ॥ तथा धर्मशतानन्दवैशम्पायनवैष्णवाः । शाकलायनवार्द्धक्यौ जुहुतिश्चावसुस्तथा ॥ २.२६ ॥ बालखिल्या महात्मानो भूमिमण्डलवासिनः । ब्रह्मदण्डं समारुहा देवलोकं व्रजन्ति ये ॥ २.२७ ॥ एते चान्येऽव्रजंस्तत्र ऋषयो धार्मिकाः परे । ज्वलन्तस्तेजसा सर्वे निर्धूमा इव पावकाः ॥ २.२८ ॥ मासोपवासिन केचित्केचित्पक्षोपवासिनः । त्रिरात्रकाः सान्तपना निराहारास्तथा परे ॥ २.२९ ॥ केचित्पुष्पफलाहाराः शान्ता वाताशनिस्तथा । केचिद्गोमयभक्ष्याश्च जलाहारास्तथापरे ॥ २.३० ॥ साग्निहोत्राश्च विद्वांसो मोक्षवेदार्थचिन्तकाः । इतिहासपुराणादि श्रुतिस्मृतिविशारदाः ॥ २.३१ ॥ एते चान्ये च बहवो मार्कण्डेयं प्रियया तपस्विनः । एतैश्च संतिष्ठनृक्षैरिव निशाकरः ॥ २.३२ ॥ तीर्थयात्राफलं श्रुत्वा धर्मपुत्रो युधिष्ठिरः । अभिज्ञैर्ब्राह्मणैः सार्धं द्रौपद्या प्रियया सह ॥ २.३३ ॥ विद्वद्भिर्वेदविद्भिश्च ब्रह्मिष्ठैर्ब्रह्मचिन्तकैः । नर्मदातीरमायाते मार्कण्डेयाश्रमं प्रति ॥ २.३४ ॥ प्रदक्षिणत्रिः प्रणम्य साष्टाङ्गं च पुनः पुनः । उपविष्टस्तदा तत्र भ्रातृभिस्सह धर्मजः ॥ २.३५ ॥ उपविष्टं नृपं दृष्ट्वा मार्कण्डेयो महामुनिः । उवाच वचनं देवं धर्मपुत्रं युधिष्ठिरम् ॥ २.३६ ॥ कुशलं नृपशार्दूल भ्रातृभिर्ब्राह्मणैः सह । प्रहस्य सोऽब्रवीद्वाक्यं मार्कण्डं मुनिसत्तमम् ॥ २.३७ ॥ अद्य मे सफलं जन्म जीवितं च सुजीवितम् । कृतकृत्योऽभवं त्वद्य त्वत्पादाम्बुजदर्शनात् ॥ २.३८ ॥ अद्य मेऽन्तर्मलं नष्टं पापोच्छेदननिर्म्मलम् । दृष्ट्वा तपोवनं सर्वं ज्वलन्तं सूर्यवर्चसम् ॥ २.३९ ॥ निर्मुक्तः किल्बिषादस्मात्सप्तजन्मान्तराद्विभो । रन्त्वा चोत्तरदिग्भागे देवभूमिं मनोहराम् ॥ २.४० ॥ गङ्गां त्रिपथगां देवीं यमुनां च सरस्वतीम् । गङ्गाद्वारं हिमस्थानं कुब्जाग्रं ब्रह्मयोनिकम् ॥ २.४१ ॥ उग्रं कनखलञ्चैव केदारं भैरवं तथा । नैमिषं च गयातीर्थं कुरुक्षेत्रं च पुष्करम् ॥ २.४२ ॥ वाराणसीं प्रयागं च गङ्गासागरसङ्गमम् । कालञ्जरं चाप्यतीर्थं प्रभासं शशिभूषणम् ॥ २.४३ ॥ पुण्यान्येतानि चान्यानि त्यक्त्वा क्षेत्राणि सुव्रत । सेव्यते केन कार्व्येण नर्मदैव महानदी ॥ २.४४ ॥ भविष्यभूततत्त्वज्ञ त्रिकालज्ञ त्रिवेदिक । श्रोतुकामा इमे सर्वे कथयस्व प्रसादतः ॥ २.४५ ॥ मार्कण्डेय उवाच - शृणु राजन्महाबाहो ब्राह्मणैर्भ्रातृभिः सह । तत्तेऽहं कथयिष्यामि पुराणं स्कन्दकीर्तितम् ॥ २.४६ ॥ स्वायम्भुवेऽथ मुनय आदिकल्पे कृते युगे । देवानां सङ्गमे तत्र कैलासे च शिवालये ॥ २.४७ ॥ कार्तिक्यां देवदेवेशं हरं द्रष्टुं समाययुः । प्राक्पृष्टं कार्त्तिकेयेन धर्माधर्मनिदर्शनम् ॥ २.४८ ॥ शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च । विष्णुब्रह्मादिदेवानां शृण्वतां यक्षरक्षसाम् ॥ २.४९ ॥ अष्टलक्षाणि सार्द्धानि शिवलोके च गीयते । तदर्द्धं वैष्णवे लोके चार्द्धार्द्धं ब्रह्मणः पुरे ॥ २.५० ॥ चतुरशीतिसहस्राणि मर्त्यलोके च गीयते । आराधितः शिवः पूर्वं ब्रह्माद्यैश्च सुरासुरैः ॥ २.५१ ॥ ततस्तुष्टः सुरेशानो वरं दातुं यथेप्सितम् । देवा ऊचुः॒ यदि तुष्टोऽसि देवेश देवानां वरदो भव ॥ २.५२ ॥ सप्तद्वीपा वसुमती वसुधा कर्म्मभागिनी । नवमद्वीपपर्य्यन्तं जम्बूद्वीपं प्रचक्षते ॥ २.५३ ॥ वापी कूपसहस्राणि नवार्णः सरितो नहि । न सृताश्चापगाः शर्वपितृघोरावतारिणीः ॥ २.५४ ॥ तिलोदकप्रदानेन पितॄन् पातुं हि साम्प्रतम् । तारिणी सर्वलोकानामवतारय नर्मदाम् ॥ २.५५ ॥ ईश्वर उवाच - दुष्प्राप्यं त्रिदशैः सर्वैरयाच्यं याच्यते सुराः । वेगं शक्नोति कः सोढुं तत्तोयभ्रमणस्य च ॥ २.५६ ॥ तोयं भूतं जगत्सर्वं निपतिष्यज्जवेन तु । याचध्वमन्यां सरितं सुखसाध्यान्तरङ्गिणीम् ॥ २.५७ ॥ देवा ऊचुः॒ काऽन्या तारयितुं शक्ता पुण्या सोढुं सरिद्वरा । मुक्त्वा त्रिनयनेशानीं नर्मदां शोकतारिणीम् ॥ २.५८ ॥ देवानां वचनं श्रुत्वा समाहूता सरिद्वरा । आगता च ततो देवी सर्वाभरणभूषिता ॥ २.५९ ॥ प्रत्यक्षा मकरारूढा देवदेवस्य चाज्ञया । देव मे देहि वक्तव्यं कर्तव्या तु कृपा मयि ॥ २.६० ॥ निशम्य तद्वचसौम्यं नर्मदायास्त्रिलोचनः । उवाच वचनं श्लक्ष्णं मर्त्यलोकेऽद्य गम्यताम् ॥ २.६१ ॥ लोकानां च हितार्थाय मर्त्यानां च विशेषतः । नर्मदोवाच - तवाज्ञां च करिष्येऽहं निराधारा कथं विभो ॥ २.६२ ॥ को मां धर्तुं च शक्नोति मही यास्यति विप्लवम् । आदिदेश ततः सर्वान् पर्वतान् परमेश्वरः ॥ २.६३ ॥ आदिश्यैतांश्च तान् सर्वांस्ततो देवः स्वयं शिवः । पर्वता ऊचुः॒ न शक्नुमो वयं सर्वे धर्तुं वेगं च नार्मदम् ॥ २.६४ ॥ भेदमाप्नोति वै पृथ्वी शतधा यान्ति भूभृतः । ऋक्षवानब्रवीद्देवं देह्याज्ञा त्रिदशेश्वर ॥ २.६५ ॥ धारयामि च सत्येन त्वत्प्रसादादुमापते । ततोऽवतारिता देवी जम्बूद्वीपे नराधिप ॥ २.६६ ॥ दारयित्वा महीं सर्वां सशैलवनकाननाम् । ततो देवगणैरुक्ता मर्यादां वह सुव्रते ॥ २.६७ ॥ एकविंशत्सहस्राणि योजनानां प्रमाणतः । सभित्त्वा सप्तपातालान् रसातलतलं ययौ ॥ २.६८ ॥ देवलोकं जगामाऽथ प्रलये समुपस्थिते । प्रथमा कथिता राजन्नवतारस्य कल्पना ॥ २.६९ ॥ स्वारोचिषे द्वितीये तु आदिकल्पे युगेऽनघ । न सागरा न सरितो न तीर्थानि न सङ्गमः ॥ २.७० ॥ त्रेतायुगेऽवतीर्णा तु पुरा भागीरथी सरित् । जह्नुना चुलुकेनैव हृदि मध्ये व्यवस्थिता ॥ २.७१ ॥ सा कथं सेव्यते राजस्त्यक्त्वा चैव तु कल्पगाम् । अज्ञानतमसाछन्ना विष्णुमायाविमोहिताः ॥ २.७२ ॥ त्यक्त्वा वै नर्मदां राजन् सेवन्तेऽन्यां नदीं सुराः । यावृशं सूर्यदेवानां मणिरत्नप्रभासु च ॥ २.७३ ॥ अन्तरं तादृशं राजन्नर्मदाऽन्यापगासु च । श्रुत्वाख्यानमिदं पुण्यं शङ्करस्य प्रभावतः ॥ २.७४ ॥ सेव्यते सप्तगा तत्र पुराणं स्कन्दकीर्तितम् । एतत्ते कथितं राजन् यथादृष्टं यथा श्रुतम् ॥ २.७५ ॥ कृतकृत्यः सर्वकामान् ब्राह्मणैर्वेदपारगैः । प्राप्नोषि परमं स्थानं वंशक्षयविवर्जितम् ॥ २.७६ ॥ श्रुत्वाख्यानमिदं पुण्यं पवित्रमघनाशनम् । ये शृण्वन्ति सदा नित्यं गोहत्या च प्रणश्यति ॥ २.७७ ॥ इति श्रीरेवाखण्डे आदिकल्पकथनं द्वितीयोऽध्यायः ॥ अध्याय ३ युधिष्ठिर उवाच - रेवाऽवतरणं पुण्यं सङ्गमं लिङ्गमर्चितम् । तीर्थयात्राप्रमाणश्च युगमन्वन्ताराणि च ॥ ३.१ ॥ पर्वतस्यतु माहात्म्यं तत्र नद्यां यथोचितम् । पर्वकालस्तु देवानां तीर्थे तीर्थे विशेषतः ॥ ३.२ ॥ पत्तनस्य तु माहात्म्यं तत्र वासं यथोचितम् । भृगोस्तु कीर्तनं पुण्यं ब्रह्महत्याविमोचनम् ॥ ३.३ ॥ केनाऽवतीर्य कार्येण जम्बूद्वीपे सरिद्वरा । शिवलोकं गता सा तु तन्मे वद महामुने ॥ ३.४ ॥ उक्तानुक्ताश्च यत्किंचित्कथयस्व प्रसादतः । मार्कण्डेय उवाच - श्रूयतां राजराजेन्द्र कथ्यमानं निबोध मे ॥ ३.५ ॥ हिरण्यकशिपुश्चासीद्युगे चाद्ये महाऽसुरः । शिवप्रसादसम्पन्नो ह्यलं मातृबलोत्कटः ॥ ३.६ ॥ निर्जिता देवतास्तेन पलायनपरायणाः । जग्मुः शरणमुद्विग्ना भयार्ता भयविह्वलः ॥ ३.७ ॥ शङ्खचक्रधरं देवं ससारार्णवतारणम् । शरणश्च प्रपन्नाः स्मो माधवं मधुसूदन ॥ ३.८ ॥ अग्निहोत्राश्च वेदाश्च न देवानां च याजनम् । न स्वाध्यायो न यज्ञाश्च न हुतं पितृतर्पणम् ॥ ३.९ ॥ व्यावितं दानवैर्दुष्टैर्धर्मकर्म च नाशितम् । एतस्मिन्नन्तरे राजन् विष्णुना प्रभविष्णुना ॥ ३.१० ॥ दैत्याश्च निहतास्सर्वे नृसिंहवपुषा तु ते । पुनःप्रवर्तते धर्मो देवब्राह्मणयाजनम् ॥ ३.११ ॥ क्षयिता दानवास्सर्वे पापकर्म्मरताऽधमाः । गता तेनैव कार्येण नर्मदा लोकधारिणी ॥ ३.१२ ॥ स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे । अवतारं पुनर्मर्त्ये देवी त्रिदशपूजिता ॥ ३.१३ ॥ करिष्यति नरश्रेष्ठलोकानां हितकाम्यया । धर्मकर्मरतं ज्ञात्वा मर्त्यं सुरगणार्चितः ॥ ३.१४ ॥ मार्कण्डेय उवाच - आसीत्पुरा चक्रवर्ती सोमवंशे पुरूरवाः । शशास पृथिवीं सर्वां यथाशक्रस्त्रिविष्टपम् ॥ ३.१५ ॥ एकदा स नृपश्रेष्ठः सभामध्ये पुरूरवाः । पप्रच्छ ब्राह्मणान् वृद्धान् वृद्धसेवी धृतव्रतः ॥ ३.१६ ॥ यज्ञादिभिर्विना केन मानवाः पापमोहिताः । स्वर्गं प्रापुरुपायेन तन्मे वद यथातथम् ॥ ३.१७ ॥ ब्राह्मणा ऊचुः॒ आस्ते स्वर्गे महाराज नर्मदा लोकपावनी । अवतारयतां स्वर्गाल्लोकानां पापहारिणीम् ॥ ३.१८ ॥ तेषां तद्वचनं श्रुत्वा द्विजानां विधृतामनाम् । आराधयामास देवमयुतं साग्रमेव च ॥ ३.१९ ॥ कन्दमूलफलैः शाकैर्जलाहारैस्तथापि सः । शिवभक्तिपरो नित्यं विशुद्धेनान्तरात्मना ॥ ३.२० ॥ ततस्तुष्टो महादेवो वरं वरय पुत्रक । ददामि ते न सन्देहो यथेष्टं मनसेप्सितम् ॥ ३.२१ ॥ पुरूरवा उवाच - यदि तुष्टो महादेव वरं दातुं ममेच्छसि । हिताय सर्वलोकानामवतारय नर्मदाम् ॥ ३.२२ ॥ नवखण्डास्सप्तद्वीपास्त्वापगास्सरितः तथा । निमग्नं नरके घोरे जगत्सर्वं मया श्रुतम् ॥ ३.२३ ॥ लक्षयोजनपर्य्यन्तं जम्बूद्वीपं निराश्रयम् । न देवास्तृप्तिमायान्ति न मातृपितृमानुषाः ॥ ३.२४ ॥ एतच्छ्रुत्वा महादेवो नरदेवस्य भाषितम् । हर उवाच - उवाच दुर्लभं देवैरयाच्यं याच्यते नृप ॥ ३.२५ ॥ वरमन्यं प्रयच्छामि वर्जयित्वा तु नर्मदाम् । पुरूरवा उवाच - नान्यं वरं महादेव प्राणत्यागेऽपि प्रार्थये ॥ ३.२६ ॥ ज्ञात्वा तु निश्चयं राज्ञस्तपसोग्रेण साधनम् । आज्ञापिता मेकला साऽवतर त्वं सुरेश्वरि ॥ ३.२७ ॥ पुरूरवाविपाकेन मर्त्यलोकहितं कुरु । आज्ञापितागता सा च शिवस्याग्रे व्यवस्थिता ॥ ३.२८ ॥ कृताञ्जलिपुटा भूत्वा ममादेशोऽद्य दीयताम् । हर उवाच - स्वर्गात्प्रयाहि रेवे त्वं मर्त्यलोकं ममाज्ञया ॥ ३.२९ ॥ पुरूरवस्तपः सत्यं कुरु कल्याणि साम्प्रतम् । नर्मदोवाच - कथमीश निराधारा स्वर्गाद्यास्याम्यहं धराम् ॥ ३.३० ॥ ततस्तद्वचनं श्रुत्वा देवदेव उमापतिः । आवाहयामास सर्वानष्टौ कुलनगोत्तमान् ॥ ३.३१ ॥ उवाच पर्वतान् देवः कः सरिद्धारणे क्षमः । पर्वता ऊचुः॒ शतधा भेदमायान्ति जलाघातान्महाद्रयः ॥ ३.३२ ॥ अभाषत ततो विन्ध्यो धर्तुमुत्सहते नदीम् । मम पुत्रः सुरेशाग्र्य त्वत्प्रसादान्न संशयः ॥ ३.३३ ॥ पर्यङ्क इति विख्यातः कन्दर्पदृढविक्रमः । ज्येष्ठः सर्वगणैर्युक्तो मान्यः सर्वमहीभृताम् ॥ ३.३४ ॥ देवैरपि च दुर्ज्ञेयः शिवायाश्चर्चने रतः । सन्त्येव पर्वतास्सर्वे यद्यपीह महेश्वर ॥ ३.३५ ॥ तथापि धारणे शक्तः स एवेह न संशयः । अशक्ता विकला वृद्धास्सर्व एव महीधराः ॥ ३.३६ ॥ अनुज्ञां देहि पर्यङ्कः क्षमस्तां धर्तुमापगाम् । अनुज्ञातश्च देवेन पर्यङ्कः स नगोत्तमः ॥ ३.३७ ॥ उवाच धारयिष्येऽहं त्वत्प्रसादान्महेश्वर । ततः प्रचलिता देवी मूर्ध्नि पर्यङ्कभूभृत ॥ ३.३८ ॥ जलौघवेगभ्रमणात्सशैलवनकानना । प्लाविता वसुधा सर्वा अकालकलितं जगत् ॥ ३.३९ ॥ स्तुता देवगणैः सर्वैस्तदा मेकलकन्यका । मर्यादां वह कल्याणि लोकानां हितकारिणी ॥ ३.४० ॥ त्वया व्याप्तमिदं सर्व त्रैलोक्यं सचराचरम् । ततः संवृतरूपेण शिवाज्ञातश्च मेकला ॥ ३.४१ ॥ प्रमाणतो योजनानां सहस्राण्येकविंशति । रसातलं सा विविशे तर्पयित्वा पितामहान् ॥ ३.४२ ॥ स्पृश मां त्वं स्वहस्तेन इत्युक्तः स पुरूरवाः । पीत्वा च सलिलं दत्ते पितृभ्यश्च तिलोदकम् ॥ ३.४३ ॥ अगमन् परमं स्थानं यत्सुरैरपि दुर्लभम् । पवित्रं परितस्सर्वं त्रैलोक्यं सचराचरम् ॥ ३.४४ ॥ सेव्यते तेन कार्य्येण नर्मदा सप्तकल्पगा । एतत्ते कथितं राजन्नाख्यानं च शिवोदितम् ॥ ३.४५ ॥ वैवस्वतमिदानीं तु द्वापरान्ते समुद्यते । त्वं राजा भ्रातृभिः सार्द्धं सत्यसंधो दृढव्रतः ॥ ३.४६ ॥ त्रेतायाः प्रथमे पादे गङ्गा भागीरथी स्मृता । अदहत्कपिलश्चास्य पितॄणामयुतानि षट् ॥ ३.४७ ॥ मोहितामायया विष्णोर्गता सप्तरसातलम् । एव मन्दाकिनी नाम त्वन्या गङ्गा सरिद्वरा ॥ ३.४८ ॥ मेकलातोयसम्पूर्णास्सागरास्सप्तयन्त्रिताः । तृतीये च तथा पादे अवतीर्णा सरस्वती ॥ ३.४९ ॥ स्थानेश्वरगता सा तु पुनर्गङ्गा समागमे । गङ्गाकनखले पुण्या गङ्गासागरसङ्गमे ॥ ३.५० ॥ ऊर्ध्वतीर्थे प्रयागे च वाराणस्यां विशेषतः । प्राची सरस्वती यत्र कुरुक्षेत्रे च पुण्यदा ॥ ३.५१ ॥ प्रणष्टे द्वावशादित्ये प्रलये समुपस्थिते । सप्तकल्पक्षये वृत्ते न मृता तेन नर्मदा ॥ ३.५२ ॥ सरितश्च क्षयं यान्ति गङ्गाद्याश्च सहस्रशः । नर्मदा तिष्ठते देवी सप्तकल्पानुगामिनी ॥ ३.५३ ॥ ब्राह्मी सरस्वती मूर्तिवैष्णवी त्रिपथा स्मृता । नर्मदा शाङ्करी मूर्तिर्नद्यस्तिस्रस्त्रिदेवताः ॥ ३.५४ ॥ गङ्गा च यमुना चैव सरयूश्च सरस्वती । शतभागा चन्द्रभागा रम्या सिन्धुर्महानदी ॥ ३.५५ ॥ इरावती च कपिला नर्मदा सवितस्तिका । दण्डकी गण्डकी चैव घर्घरा च महानदी ॥ ३.५६ ॥ शोणो महानदश्चैव वेदिका च तरङ्गिणी । ब्रह्मवाहा विष्णुवाहा सारङ्गा गौतमी तथा ॥ ३.५७ ॥ विश्ववाहा धेनुमती अपारा अपरा तथा । वेत्रवती च कुमुदा महातापी पयोष्णिका ॥ ३.५८ ॥ वेणा च दुग्धिका शिप्राऽजहासाऽभ्रमती तथा । कृष्णा भीमरथी चैव तुङ्गभद्रा महानदी ॥ ३.५९ ॥ गोदावरीति विख्याता गङ्गा सा दक्षिणा स्मृता । नद्यश्चैव तथा चान्यास्सर्वतीर्थानि सागराः ॥ ३.६० ॥ सर्वास्ताः प्रलयं यान्ति वर्जयित्वा तु कल्पगाम् । गङ्गा किं वर्ण्यते देवी हरेण शिरसा धृता ॥ ३.६१ ॥ गौरी वार्द्धशरीरस्था शिवस्य परमेष्ठिनः । नर्मदा वर्ण्यते देवी सप्तकल्पानुगामिनी ॥ ३.६२ ॥ ते देशाः पर्वताः पुण्यास्ते ग्रामास्तेऽपि चाश्रमाः । यत्र याता सरिच्छ्रेष्ठा नर्मदा सप्तकल्पगा ॥ ३.६३ ॥ त्रिभिः सारस्वतं पुण्यं सप्ताहेन तु यामुनम् । सद्यः पुनाति गाङ्गेयं दर्शनादेव नर्मदा ॥ ३.६४ ॥ रेवातटेषु ये वृक्षाः पतिताः कालपर्यये । नर्मदातोयसंस्पृष्टास्तेऽपि यान्ति पराङ्गतिम् ॥ ३.६५ ॥ रेवाया यत्र कुत्रापि सङ्गमे भरतर्षभ । स्नानं दानं जपो होमः स्वाध्यायः पितृपूजनम् ॥ ३.६६ ॥ देवताराधनं दीक्षा न्यासो देहविसर्जनम् । यत्किंचित्क्रियते मर्त्यैस्तदनन्तफलं स्मृतम् ॥ ३.६७ ॥ गोसहस्रशतं धेनु महादानानि कृत्स्नशः । वैशाख्यामथवा माध्यां कार्त्तिक्यां ग्रहणायने ॥ ३.६८ ॥ विषुवे संक्रमे भानोर्व्यतीपाते च वैधृतौ । दर्शे दिनक्षये वृद्धौ मन्वादिषु युगादिषु ॥ ३.६९ ॥ कल्पादौ च युगादौ च मातापित्रोः क्षयेऽहनि । ओंकारे वा भृगौ क्षेत्रे विशेषादुपसङ्गमे ॥ ३.७० ॥ रेवायां स्नानदानानि जपहोमार्चनादिकम् । यः कुर्यान्मनुजश्रेष्ठः सोऽश्वमेधफलं लभेत् ॥ ३.७१ ॥ ब्रह्महत्यादिभिः पापैर्मुच्यते नाऽत्र संशय । कुलानां शतमागामि समतीतं तथा शतम् ॥ ३.७२ ॥ उद्धरेदात्मना सार्द्धं रेवातीर्थावगाहनात् । ग्रामार्द्धं ग्राममेकं वा यो दद्यान्नर्मदातटे ॥ ३.७३ ॥ स लभेद्विपुलां लक्ष्मीमत्यन्तफलमश्नुते । नर्मदातीरसम्भूतां मृदं मूर्ध्नि बिभर्ति यः ॥ ३.७४ ॥ बिभर्ति मूर्तिमर्कस्यतमोनाशाय केवलम् । यत्र यत्र नरः स्नायात्नर्मदाया युधिष्ठिर ॥ ३.७५ ॥ प्राप्नुयादश्वमेधस्य फलमेतच्छिवोदितम् । नर्मदातोयपानस्य स्नानस्य प्रेक्षणस्य च ॥ ३.७६ ॥ अपि चान्द्रायणशत तुल्यं भवति वा न वा । नर्मदा कीर्तयेद्यस्तु प्रातरुत्थाय मानवः ॥ ३.७७ ॥ सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति । सङ्गमेन समायुक्ता नर्मदालिङ्गसङ्गता । हयमेधफलं तत्र स्नात्वा शिवपुरं व्रजेत् ॥ ३.७८ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे रेवाद्वितीयाऽवतारकथनं नाम तृतीयोऽध्यायः ॥ अध्याय ४ युधिष्ठिर उवाच - हिरण्यतेजसा पूर्व राज्ञा वै नर्मदा कथं । मर्त्येऽवतारिता देवी तत्सर्वं वक्तुमर्हसि ॥ ४.१ ॥ मार्कण्डेय उवाच - हिरण्यतेजा राजर्षिः सोमवंशे महीपते । सर्वधर्मभृतां श्रेष्ठः प्रजापतिसमोऽभवत् ॥ ४.२ ॥ एकछत्रां शशासोर्वीं सशैलवनकाननाम् । ख्याता चन्द्रपुरी तस्य शक्रस्येवामरावती ॥ ४.३ ॥ निराबाधाः प्रजास्तत्र भयदारिद्र्यवर्जिताः । चिरायुषो नरास्तत्र समालक्षं तु जीविनः ॥ ४.४ ॥ स्वयं कामदुघा धेनुर्धरणी सस्यशालिनी । कौशेयपट्टवस्त्राश्च वृक्षे वृक्षे समुद्भवा ॥ ४.५ ॥ एतस्मिन्नन्तरे प्राप्ते ह्यमावास्यां रविग्रहे । सत्कारोऽत्रास्ति देवानां पितॄणां च विशेषतः ॥ ४.६ ॥ वापीकूपसरो दिव्यं जम्बूद्वीपः प्रकीर्तितः । स्रवन्ती निम्नगा काचित्तस्मिन् द्वीपे न विद्यते ॥ ४.७ ॥ गवां शतसहस्राणि हेमरत्नं मणींस्तथा । कोशं हयानसंख्यातान्मत्तांश्च वरदन्तिनः ॥ ४.८ ॥ ग्रस्ते च राहुणा सूर्ये ब्राह्मणान् प्रददौ नृपः । पुरो धर्मसहस्राणि हेमरत्नमणींस्तथा ॥ ४.९ ॥ अतर्पयत्पितॄंश्चापि हव्यकव्येन भारत । कश्मलं जलपानं चापश्यत्पितृजुगुप्सितम् ॥ ४.१० ॥ क्षुत्क्षामकण्ठताल्वोष्ठान् कश्मलांश्च मृदम्भसा । नग्नान्मलिनवस्त्रांश्च शतशोऽथ सहस्रशः ॥ ४.११ ॥ हिरण्यतेजा राजर्षिः पश्यति स्म तदा पितॄन् । हिरण्यतेजा उवाच - के यूयं विकृताकाराः प्रेतभूता बुभुक्षिताः ॥ ४.१२ ॥ मज्जन्ते नरके घोरे रौरवे लोमहर्षणे । कथयध्वं यथान्यायं कर्म्मणा केन पाविताः ॥ ४.१३ ॥ पितर ऊचुः॒ शृणु राजन्महाभाग कथ्यमानं निबोध च । सरिद्धीनमिदं द्वीपं धर्मकर्मविनाशितम् ॥ ४.१४ ॥ न देवास्तृप्तिमायान्ति पितरो वा कथञ्चन । पितॄन्मोचयितुं शक्ता दुराराध्या सुरैरपि ॥ ४.१५ ॥ आगमिष्यति द्वीपेऽस्मिन् रेवा मुक्तिर्भविष्यति । एतत्ते कथित राजन् यथेष्टं कर्तुमर्हसि ॥ ४.१६ ॥ हिरण्यतेजा उवाच - पितॄणां मोक्षणं कार्यं यथा यान्ति पराङ्गतिम् । मया राज्येन किं कार्यं जीवितश्च निरर्थकम् ॥ ४.१७ ॥ एवमुक्त्वा ययौ राजा ह्युदयं सिद्धिपर्वतम् । कन्दमूलफलाहारः शिवध्यानपरायणः ॥ ४.१८ ॥ दिव्यं वर्षसहस्रं तु उग्रे तपसि संस्थित । राज्ञस्तु परमां भक्तिं ज्ञात्वा वै तत्र त्र्यम्बकः ॥ ४.१९ ॥ वृषारूढस्त्रिनेत्रश्च देवदेवो महेश्वर । प्रत्यक्ष तस्य राज्ञश्च तदात्मानमदर्शयत् ॥ ४.२० ॥ स दृष्ट्वा तादृशं रूपं देवदेवस्य भारत । त्रिः प्रदक्षिणमावृत्य साष्टाङ्गं प्रणिपत्य च ॥ ४.२१ ॥ स्तोत्रं चकार देवस्य शम्भोरमिततेजसः । नमस्तेऽस्तु सुरेशान शूलपाणे नमोऽस्तु ते ॥ ४.२२ ॥ पृथिव्यापश्च तेजश्च वायुराकाशमेव च । शब्दं स्पर्शश्च रूपश्च रसो गन्धश्च पञ्चमः ॥ ४.२३ ॥ बुद्धिर्मनस्त्वहङ्कारः प्रकृतिश्च गणास्त्रयः । सर्वाक्षः सर्वगो देवसकलो निष्कलोऽव्यय ॥ ४.२४ ॥ जिह्वाचापल्यभावेन क्लेशितोऽसि मया प्रभो । ब्रह्मविष्ण्वादि देवैश्च तवाद्यन्त न लभ्यते ॥ ४.२५ ॥ कथं तु मानुषा पापाः स्तोतुं शक्ता उमाधवम् । हिरण्यतेजसः स्तोत्रं श्रुत्वा देवो जगत्पतिः ॥ ४.२६ ॥ वरं वृणु महाभाग यत्ते मनसि रोचते । उवाच वचनं राजा शूलपाणिं महेश्वरम् ॥ ४.२७ ॥ यदि तुष्टोऽसि देवेश वरं दातुं ममेच्छसि । सप्तकल्पवहां देवीं नर्मदामवतारय ॥ ४.२८ ॥ पितॄणां मज्जतां घोरे नरके दारुणे भृशम् । मुच्यन्ते ते यथा प्रेतास्तृप्ता यान्ति पराङ्गातिम् ॥ ४.२९ ॥ एवं वरमहं मन्ये त्वत्प्रसादादुमापते । ईश्वर उवाच - अयाच्यं याचितं तात ब्रह्मविष्णुसुरासुरैः ॥ ४.३० ॥ नावतारयितुं शक्या तथान्यैरल्पजीविभिः । अन्यं याचस्व भद्रं ते वरं दास्येऽधुना तव ॥ ४.३१ ॥ राजोवाच - ततो राजा महाभागः प्रोवाच शशिभूषणम् । त्वयि तुष्टे महादेवे लोकनाथे जगद्गुरौ ॥ ४.३२ ॥ साध्यासाध्यं न वक्तव्यं त्रिषु लोकेषु किंचन । जन्मान्तरसहस्रेण वर नान्य वृणोम्यहम् ॥ ४.३३ ॥ त्यक्त्वा चैव सरिच्छ्रेष्ठां नर्मदां सप्तकल्पगाम् । दीयतां मम देवेश भृत्यभृत्योऽस्मि शाधि माम् ॥ ४.३४ ॥ हिरण्यतेजसो ज्ञात्वा निश्चयं मानसं तदा । आहूता च ततो देवी नर्मदा लोकपावनी ॥ ४.३५ ॥ मकरासनमारूढा दिव्याभरणभूषिता । श्यामवर्णा महातेजा शिवस्याग्रे व्यवस्थिता ॥ ४.३६ ॥ उमामहेश्वरौ नत्वा पादग्रहणपूर्वकम् । उवाच वचनं देवीं किमर्थं देव संस्मृता ॥ ४.३७ ॥ आदेशं देव मे देहि त्वदादेशे स्थिता ह्यहम् । ईश्वर उवाच - हिरण्यतेजा नृपतिस्त्यक्त्वा राज्य च नर्मदे ॥ ४.३८ ॥ चतुर्दशं तपस्तेपे घोररूपं सुदारुणम् । दिव्यं वर्षसहस्रं तु उग्रे तपसि संस्थितः ॥ ४.३९ ॥ कन्दमूलफलाहारः शिवध्यानपरायणः । जम्बूद्वीपेऽवतारं त्वं कुरुष्व धरणीतले ॥ ४.४० ॥ क्षिप्रं याहि वरारोहे संसारार्णवतारिणि । प्रेतरूपान् पितॄन् सर्वान्नरकस्थान् समुद्धर ॥ ४.४१ ॥ मुच्यन्ते येन चाघौघाद्धूतपापा यथेप्सितम् । नर्मदोवाचा॒ महेश्वरं शूलपाणिमेवमस्त्विति चाब्रवीत् ॥ ४.४२ ॥ निराधारा कथं देव जम्बूद्वीपे समाश्रये । आहूतास्ते ततस्तत्र पर्वताश्च कुलाकुलाः ॥ ४.४३ ॥ क्षणमात्रं तु तिष्ठध्वं येन याति सरिद्वरा । ऊचुश्च पर्वतास्तं च अशक्ता धारणे वयम् ॥ ४.४४ ॥ नर्मदोवाचा॒ अशक्तान् धारणे चैनान् प्रपश्यामि जगत्पते । मम तोयौघपातेन कल्लोलप्रवणावृताः ॥ ४.४५ ॥ शतधा भेदमायान्ति गिरयो वज्रदारिताः । तेषां मध्ये समुत्थाय प्राब्रवीदुदयाचलः ॥ ४.४६ ॥ शिवप्रसादसम्पन्नो ह्यहं धारयितुं क्षमः । ततः प्रचलिता देवी दत्त्वा पादं नगोपरि ॥ ४.४७ ॥ गगनात्प्रच्युता देवी पपात धरणीतले । वायुवेगा पुनर्भूत्वा वारुणीं दिशमाश्रिता ॥ ४.४८ ॥ अकालपीडिते लोके जम्बूद्वीपे चराचरे । हाहाकारो महानासीत्त्रिषु लोकेषु भारत ॥ ४.४९ ॥ श्रुत्वा च कल्कलाशब्दं भीषणं लोमहर्षणम् । पातालादुत्थितं लिङ्गं ज्वलितं दीप्ततेजसम् ॥ ४.५० ॥ हुङ्कारेणैव तद्भद्रे नर्मदामब्रवीद्वच । सर्वपापहरे देवि मर्यादां वह सुव्रते ॥ ४.५१ ॥ त्वद्धारणार्थमीशेन निसृष्टाः पर्वतास्त्रयः । विन्ध्यश्चतुर्थकस्तत्र श्रेष्ठः सर्वमहीभृताम् ॥ ४.५२ ॥ मेरुश्च हिमवांस्तत्र कैलासश्च तृतीयकः । तदा भित्त्वा त्रिशूलेन कीलिता वसुधातले ॥ ४.५३ ॥ द्वात्रिंशत्तु सहस्राणि प्रवाह पूर्वपश्चिमे । सहस्रार्द्धश्च विस्तारं दक्षिणोत्तरमानतः ॥ ४.५४ ॥ नृत्यन्ति देवतास्सर्वाः शङ्खवादित्रनिस्वनैः । सिद्धा विद्याधरा यक्षा गन्धर्वा किन्नरा नराः ॥ ४.५५ ॥ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । स्तुवन्ति परया भक्त्या नर्मदां सप्तकल्पगाम् ॥ ४.५६ ॥ हिरण्यतेजा राजर्षिर्नर्मदां चेदमब्रवीत् । अनुग्रहः कृतो देवि पितॄणां तारणाय मे ॥ ४.५७ ॥ उवाच कल्पगा राजंस्त्वत्तोऽन्यः को नु वै भुवि । प्रभाव ईदृशो यस्य राज्ञश्चामिततेजसः ॥ ४.५८ ॥ तपस्तप्त्वा महेशस्य ममार्थं त्वं यतोऽनघ । मातृकाः पैतृका ये ये सान्तः पुरपरिग्रहाः ॥ ४.५९ ॥ मम प्रभावात्नृपते उमामाहेश्वरं पुरम् । नमस्कृत्य सुरश्रेष्ठां पुत्रोऽहं ते वरानने ॥ ४.६० ॥ स्नानं कृत्वा च विधिवत्पितॄन्देवांश्च तर्पयन् । श्राद्धं पिण्डप्रदानं च तत्र सर्वमकल्पयत् ॥ ४.६१ ॥ नरकादुद्धृतास्सर्वे देवयानपथे स्थिताः । कृमिकीटपतङ्गाश्च पक्षिणश्चाण्डजाश्च ये ॥ ४.६२ ॥ भूतग्रामः समग्रश्च रेजे विद्याधरे पुरे । एतत्ते कथितं राजन्नादिसर्गावकल्पनम् ॥ ४.६३ ॥ कीर्तितानि मया रेवावताराणि विशाम्पते । आगता येन मार्गेण लोकानुग्रहकाम्यया ॥ ४.६४ ॥ एषोऽवतारः प्रथम आदिकल्पे कृते युगे । द्वितीयस्तु तथा स्कन्ददक्षसावर्णिकेऽन्तरे ॥ ४.६५ ॥ तृतीयः पुरूरवसा तथा वैष्णवकेऽन्तरे । एतत्ते कथितं राजन् यथा दृष्टं पुरातनम् ॥ ४.६६ ॥ स्नानावगाहनात्पानात्स्मरणात्कीर्तनादपि । अनेकभाविकं घोरमघं नश्यति तत्क्षणात् ॥ ४.६७ ॥ युधिष्ठिर उवाच - कैलासो हिमवान्मेरुः केन कार्य्येण सुव्रत । नर्मदातीरमासाद्य निक्षिप्ताः पर्वतास्त्रयः ॥ ४.६८ ॥ मार्कण्डेय उवाच - उन्मार्गगामिनीं रेवां विन्ध्यो वै धर्तुमक्षमः । आपगा तोयपूरेण प्लावितं जगतीतलम् ॥ ४.६९ ॥ कृत्वा व्रजन्तीं दृष्ट्वा वै शङ्करो लोकशङ्करः । भित्त्वा भूमि त्रिशूलेन कीलिताः पर्वतास्त्रयः ॥ ४.७० ॥ अत्रान्तरे च वैदूर्य्यगिरौ वै पर्यकल्पत । एतत्सर्वं समासेन शंसितं च मयानघ ॥ ४.७१ ॥ कथयिष्ये तथैवान्यद्यद्यदिच्छसि भारत ॥ ४.७२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे चतुर्थोऽध्यायः ॥ अध्याय ५ युधिष्ठिर उवाच - राज्ञाऽवतारिता रेवा कथं वै पुरुकुत्सुना । तत्सर्व श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥ ५.१ ॥ मार्कण्डेय उवाच - शृणु राजन् कथां दिव्यां पुरा स्कन्दस्य कीर्तिताम् । तत्तेऽहं कथयिष्यामि शिवेनोक्तं श्रुतं मया ॥ ५.२ ॥ क्षत्रियस्य कुलोत्पन्नः पुरुकुत्सुर्महायशाः । तेन वर्षसहस्रं वै पूर्वमाराधितो हरः ॥ ५.३ ॥ तपसा च भवेनोक्तं कस्त्वया प्रार्थितो वरः । ददामि ते वरं ह्येतद्येन त्वं सुखमेधसे ॥ ५.४ ॥ एवमुक्तस्तदा राजा प्रार्थयेऽहं तवाज्ञया । यदि तुष्टोऽसि मे देव कार्यं तत्कथयाम्यहम् ॥ ५.५ ॥ आस्ते नदी महाभागा नर्मदा नाम विश्रुता । अवतारयतां शम्भो कुमारीं दिव्यरूपिणीम् ॥ ५.६ ॥ तस्य तद्वचनं श्रुत्वा शम्भुर्विस्मयमागतः । सुचिरं क्लिश्यमानेन क्षत्रियेण महात्मना ॥ ५.७ ॥ अप्रार्थ्यं प्रार्थितं स्कन्द दुःसाध्यं त्रिदशैरपि । उक्ताशयः स राजर्षिः साध्यं किंचिन्निषेवय ॥ ५.८ ॥ मम वाक्यं तु तच्छ्रुत्वा क्षत्रियस्तु स विह्वलः । अपतत्स महाभागो मूर्छितो धरणीतले ॥ ५.९ ॥ आश्वासितो मया तत्र स्वस्थो भव विशाम्पते । मर्त्यलोके सरिच्छ्रेष्ठां नर्मदामवतारये ॥ ५.१० ॥ तस्यास्त्वागमनं श्रुत्वा त्रस्ता देवाः सवासवाः । कः शक्नुयादिमं भारं सोढुं वेगश्च नार्मदम् ॥ ५.११ ॥ धरणी भारभूता च नष्टा भ्रष्टाश्च पर्वताः । अशक्तास्तोयवर्षस्य धारणे सरितस्तथा ॥ ५.१२ ॥ अस्ति सिद्धो महापुण्यः पर्यङ्को नाम पर्वतः । स सहेत महाभारं वोढुं वेगश्च नार्मदम् ॥ ५.१३ ॥ सर्वे देवाऽगतास्तत्र प्रार्थितुं तं नगोत्तमम् । पृष्टास्तु पर्वतेन्द्रेण केन कार्य्येण चागता ॥ ५.१४ ॥ देवा ऊचुः॒ इक्ष्वाकुवंशसम्भूतः पुरुकुत्सुर्नराधिपः । तेनावतारिता पुण्या नदी नामा तु नर्मदा ॥ ५.१५ ॥ तेजः शब्दं च भारं च तस्याः पातं रयं तथा । असमर्था नगा वोढुं त्वामृते गिरिसत्तम ॥ ५.१६ ॥ पर्यङ्क उवाच - आगच्छतु महादेवी धारयामि न संशयः । आगच्छन्तीं महापुण्यां धारयामि च साम्प्रतम् ॥ ५.१७ ॥ चलिता नर्मदा शीघ्रं वेगेन समुपस्थिता । कृत्वा तस्योत्तमाङ्गेषु पर्यङ्कस्यैव भूभृतः ॥ ५.१८ ॥ राज्ञा तु सहिता देवी त्रिदशैरपि संयुता । वैन्येन तु पुरा चेष्टमश्वमेधेन भूभुजा ॥ ५.१९ ॥ मखस्थाने च वैन्यस्य वेणस्तम्बो महानभूत् । यं दृष्ट्वा विस्मयं प्राप्तास्सर्वे देवास्सवासवाः ॥ ५.२० ॥ वेणोस्तस्यैव मूलात्तु निर्गता सा महानदी । कृताञ्जलिपुटा देवास्थिताः सर्वेऽत्र संस्थिताः ॥ ५.२१ ॥ जय शब्दं प्रकुर्वन्तस्त्रिदशा ब्रह्मवादिनः । गणगन्धर्वयक्षाश्च मरुतश्च तथाऽश्विनौ ॥ ५.२२ ॥ पिशाचा राक्षसा नागा ऋषयश्च तपोधनाः । सर्वे पाद्येन चार्ध्येण भीतास्ते किङ्करा इव ॥ ५.२३ ॥ पाद्योपसंग्रहं कृत्वा नर्मदां शरणं गताः । अद्यः नः सफलं जन्म तपोऽद्य सफलश्च नः ॥ ५.२४ ॥ कृतार्था देवताः सर्वा देवि त्वद्दर्शनादिह । तमेव पुरुषं मन्ये येनैषा ह्यवतारिता ॥ ५.२५ ॥ वदन्ति देवतास्सर्वा मर्त्यलोकः परं गतः । ऋषिभिर्दैवतैः प्रोक्ता स्पृश हस्तेन देवताः ॥ ५.२६ ॥ येन पूतत्वमायान्ति नर्मदे नष्टकिल्विषाः । नर्मदा तु वदत्येवं न स्पृशामि सुरान् गणान् ॥ ५.२७ ॥ कुमारी ह्यहमद्याऽपि मम भर्ता न विद्यते । अहो कष्टं तु देवाश्च चिन्तया विह्वलीकृताः ॥ ५.२८ ॥ त्वतुल्यो रूपसम्पन्नः कुतः प्राप्यो वरोत्तमः । येन त्वं दर्शिता लोके स ते भर्ता भविष्यति ॥ ५.२९ ॥ ब्रह्मणस्तु पुरा शापात्समुद्रः पुरुकुत्सुकः । गतो मर्त्ये महाबाहुरिक्ष्वाकुकुलनन्दनः ॥ ५.३० ॥ पुरुकुत्सुर्वरस्तेऽस्तु क्षत्रियो देवसन्निभः । उद्वाहिता तदा तेन क्षत्रियेण तु नर्मदा ॥ ५.३१ ॥ उवाच वचनं देवान्नर्मदा सप्तकल्पगा । देवत्वमीदृश यस्य प्रजा धर्मे व्यवस्थिताः ॥ ५.३२ ॥ किमन्यत्तस्य वाच्यं स्यात्पुरुकुत्सोर्महात्मनः । स्वयम्भुवो यथा पुत्रो मानसः परिकीर्तितः ॥ ५.३३ ॥ पुरुकुत्सुस्तथा चाऽयं सर्वधर्मपरायणः । उवाच वचनं राजा पुरुकुत्सुश्च नर्मदाम् ॥ ५.३४ ॥ नर्मदे देवकन्या त्वं प्रसादः क्रियतां मयि । यान्तु मे पितरः स्वर्गं मम चाऽस्तु महद्यशः ॥ ५.३५ ॥ नर्मदोवाच - एव भवतु राजेन्द्र मत्तस्त्वं यद्यदिच्छसि । तत्सर्वं भवतश्चाद्य मत्प्रसादाद्भविष्यति ॥ ५.३६ ॥ एवमुक्त्वा ययौ देवी वारुणीं च दिशां तदा । निष्क्रान्ता पर्वतात्तस्मात्पर्यङ्कात्सरितां वरा ॥ ५.३७ ॥ याति वेगात्तथा देवी धनुर्मुक्तः शरो यथा । विदार्य मेदिनीं सर्वा पर्वतां छिखराणि च ॥ ५.३८ ॥ चूर्णयित्वा च तान् सर्वान् वज्राशनिहतानिव । यत्र यत्र गता विन्ध्ये तत्र तत्रावगाह्यते ॥ ५.३९ ॥ तत्र गङ्गासहस्रस्य फल स्यात्तीर्थवर्जिते । तदा स्तुता महादेवी नर्मदा लोकपावनी ॥ ५.४० ॥ ऋषिभिर्वैदिकैः सर्वैः सुखसन्तानकारिका । वेदा धर्मस्य मूलानि स्मृतिपुष्पफलानि च ॥ ५.४१ ॥ भक्षयन्ति द्विजाः पुण्या अग्निहोत्रपरायणाः । सेवन्ते नर्मदा तेऽपि स्वर्गसोपानपद्धतिम् ॥ ५.४२ ॥ यत्र यत्र गता स्कन्द तत्र तत्रैव दुर्लभा । दर्शने नर्मदायास्तु अग्निष्टोमफल लभेत् ॥ ५.४३ ॥ ये तु संस्नान्ति सेवन्ते नर्मदामप्यकामतः । फलं बहु सुवर्णस्य तेऽपि प्राप्स्यन्ति मानवाः ॥ ५.४४ ॥ यत्र यत्र गता पुण्या शिवस्यायतने शुभे । गङ्गास्नानस्य लक्षेण तत्र स्नाने सम भवेत् ॥ ५.४५ ॥ अग्निहोत्रेण यत्पुण्य पितृश्राद्धेन यत्फलम् । सर्वं सम्पद्यते तस्य नर्मदाया जलेन तु ॥ ५.४६ ॥ यत्किंचिद्वैदिकं कर्म्म ब्राह्मणाः कुर्वते सदा । नर्मदायास्तटे शूद्धिर्नात्र कार्य्या विचारणा ॥ ५.४७ ॥ नर्मदासङ्गमो यत्र शिवक्षेत्रं विनिर्दिशेत् । गङ्गाया लक्षमात्रेण तत्स्थानन् तु विशिष्यते ॥ ५.४८ ॥ कीर्तनं नर्मदायास्तु दानं तीर्थस्य सङ्गमे । न तेन सदृशं राजन् सत्यमेतद्ब्रवीम्यहम् ॥ ५.४९ ॥ नर्मदां प्रातरुत्थाय ये स्मरन्ति विचक्षणाः । पूर्वजन्मकृतं पापमैहिकश्च विनश्यति ॥ ५.५० ॥ नर्मदां मानवः कश्चित्तत्र यत्रावगाहते । शतजन्मार्जितं पापं तत्क्षणात्नश्यति ध्रुवम् ॥ ५.५१ ॥ नर्मदायास्तटे चैव प्राणांस्त्यजति मानवः । कल्पकोटिसहस्राणि स्वर्गलोके महीयते ॥ ५.५२ ॥ येऽप्यधर्मपराधीना नर्मदायां कथञ्चन । तेऽपि रुद्रत्वमायान्ति सत्यमेतद्ब्रवीम्यहम् ॥ ५.५३ ॥ प्रायश्चित्तानि दीयन्ते यत्र रेवा न विद्यते । रेवातोये तु संप्राप्ते प्रायश्चित्तं न विद्यते ॥ ५.५४ ॥ नर्मदां च महापुण्यां सप्तकल्पाधिवासिनीम् । सततं यः स्मरेद्भक्त्या स शिवः परिकीर्तितः ॥ ५.५५ ॥ तत्र वैण्येश्वरं देवं वेणुमूले व्यवस्थितम् । स्वर्गदं मोक्षदं विद्धिलोकानां पापनाशनम् ॥ ५.५६ ॥ विन्ध्यस्यैव तथा चाष्टौ मानसाः परिकीर्तिताः । पर्यङ्कः प्रथमो ज्ञेयः श्रेष्ठः सर्वमहीभृताम् ॥ ५.५७ ॥ असिताङ्गो वराङ्गश्च तथाऽन्ये चापि पर्वताः । पावको जातवेदाश्च कदम्बः सुरनायकः ॥ ५.५८ ॥ अर्चितास्तैर्महाभागैर्धर्मकर्मपरायणैः । उद्गमात्निर्गमं यावद्वारुणीं दिशमास्थिताः ॥ ५.५९ ॥ सार्द्धमेकशतं तस्याः प्रवाहाः परिकीर्तिताः । क्रोशार्द्धस्य त्रिभागश्च विस्तारः परिकीर्तितः ॥ ५.६० ॥ शिवस्य वर्तते चात्र ब्रह्मविष्णुं विडौजसाम् । कोटिभिस्त्रिदशानान्तुकाऽन्या धर्तुं प्रशक्यते ॥ ५.६१ ॥ आत्मानमात्मना सा तु बभार परमेश्वरी । त्रिदशानां हितार्थाय मानवानां च भारत ॥ ५.६२ ॥ लक्षयोजनपर्य्यन्तं जम्बूद्वीपं प्रचक्षते । द्विगुणः परिवेषस्तु लवणोदस्तु भारत ॥ ५.६३ ॥ सहस्रयोजनं विद्धिकन्याद्वीपञ्च भारत । तस्याः पञ्चशती गम्या त्वगम्या च तथाऽपरा ॥ ५.६४ ॥ शुभाशुभफलं चात्र पुण्यपापविभागयोः । प्रथमं मानुषो भूत्वा देवत्वमुपपद्यते ॥ ५.६५ ॥ क्षीणे पुण्ये पुनर्याति मानुषत्वं पृथक्पृथक् । कर्म्मभूमिमिमां विद्धि विदितं तव भारत ॥ ५.६६ ॥ धर्मेण कर्म्मणा स्वर्गः स्यादेव सुकृते कृते । नद्याः प्रवाहे भूभागे कल्पगाया व्यवस्थितिः ॥ ५.६७ ॥ लोकानां तारणार्थाय अवतीर्णा सरिद्वरा । अत्र स्वर्गश्च मोक्षश्च नर्मदातीरमाश्रितौ ॥ ५.६८ ॥ एतत्ते कथितं राजन् यथा वृष्टं सुरोत्तमैः ॥ ५.६९ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदायाश्चतुर्थावतारे पञ्चमोऽध्यायः ॥ अध्याय ६ युधिष्ठिर उवाच - मुने मेकलकन्याया अवतारः श्रुतो मया । इदानीं श्रोतुमिच्छामि तीर्थानि च यथाक्रमम् ॥ ६.१ ॥ मार्कण्डेय उवाच - शृणु राजन्महाभाग कथ्यमानं निबोध मे । वत्सगुल्मात्समारभ्य यावद्वै भृगुकच्छकः ॥ ६.२ ॥ अत्रान्तरेऽपि तीर्थानां संख्या केन तु शक्यते । तथापि ते प्रवक्ष्यामि यथा वृष्टं विशाम्पते ॥ ६.३ ॥ नर्मदा सौम्यभागे तु अनन्तपुरमव्ययम् । अनन्तसिद्धिलिङ्गं च सर्वपापहरं परम् ॥ ६.४ ॥ तीर्थं वैश्रवणं नाम कौबेरं धनदं तथा । मणिभद्रं तथा यज्ञं तत्तीर्थस्य प्रभावतः ॥ ६.५ ॥ मोक्षदं कामदं पुण्यं सर्वलोकव्यवस्थितम् । ऋषीणामाश्रमं पुण्यं सर्वदेवमयं शुभम् ॥ ६.६ ॥ सावर्णिः कौशिकश्चैव मुनिश्चैवाघमर्षणः । शाकल्यश्च कुशाकर्णिः शरभङ्गोऽग्निर्भगः ॥ ६.७ ॥ एते चान्ये च बहवो मुनयः शंसितव्रताः । अस्य तीर्थस्य माहात्म्यात्तपस्तप्त्वा दिवङ्गताः ॥ ६.८ ॥ वाल्मीकिरृषिवर्यो वै नैषादीं योनिमाश्रितः । प्रभावात्तस्य तीर्थस्य ब्रह्मतेजो वपुर्धरः ॥ ६.९ ॥ इक्ष्वाकुः कुवलयाश्वो दिलीपो नहुषस्तथा । वेणुर्ययाती राजा च अजपालस्म हैहयः ॥ ६.१० ॥ एते चान्ये च राजानो ह्यनन्तपुरवासिनः । अत्रान्तरे महेशानं मेकलातीरमाश्रितम् ॥ ६.११ ॥ तमभ्यर्च्य विधानेन सर्वे ते त्रिदिवङ्गताः । अखिलैरन्यतीर्थैश्च चिरकालफलप्रदैः ॥ ६.१२ ॥ अत्रास्ते स्वर्गदः श्रीमान् स्वयं देवो महेश्वरः । तीर्थं सप्तऋषिर्नाम सप्तसारस्वतं नृप ॥ ६.१३ ॥ अमर्त्यसम्भवं लिङ्गं तथैवारण्यकेश्वरम् । अघौघनाशनं तीर्थं तथान्यत्कल्मषापहम् ॥ ६.१४ ॥ पञ्चब्रह्ममयं तीर्थं सहस्रशिरसं हरम् । वाराहं वामनं तीर्थं यमतीर्थं महोत्कटम् ॥ ६.१५ ॥ सौरभङ्गं सहस्रं तु अश्वमेधं महामखम् । हिरण्यगर्भं सावित्र्यां चातुर्वेदं च पावनम् ॥ ६.१६ ॥ एतत्सर्व विजानीहि लोकानां पावनं परम् । तथाऽनन्तपुरं यावत्पर्यङ्कात्पश्चिमे शुभम् ॥ ६.१७ ॥ अत्रान्तरे मृता ये च दानधर्मविवर्जिताः । तेऽपि स्वर्गे महीयन्ते यावदिन्द्राश्चतुर्दश ॥ ६.१८ ॥ ततो द्वीपेश्वरं नाम व्यासतीर्थमनुत्तमम् । तत्र स्नात्वा तु लभते हयमेधफलं नरः ॥ ६.१९ ॥ कामिकं तत्परं तीर्थं न भूतं न भविष्यति । प्रदक्षिणां च यः कुर्याद्व्यासतीर्थस्य भारत ॥ ६.२० ॥ प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा । नरो वा यदि वा नारी शिवलोके महीयते ॥ ६.२१ ॥ द्वीपेश्वरे ततस्स्नात्वा वृषभं यः प्रयच्छति । काञ्चनेन विमानेन रुद्रलोके महीयते ॥ ६.२२ ॥ कार्तिकस्य चतुर्दश्यां कृष्णपक्षे जितेन्द्रियः । स्नापयेद्यः शिवं तत्र ह्युपवासपरायणः ॥ ६.२३ ॥ सर्वपापविनिर्मुक्तो रुद्रलोके महीयते । व्यासतीर्थं तु वै गत्वा सर्वे ब्रह्मादयः सुराः ॥ ६.२४ ॥ स्तुवन्ति भावितात्मानं ऋषयश्च तपोधनाः । ये चान्ये सिद्धगन्धर्वकिन्नरोरगराक्षसाः ॥ ६.२५ ॥ नर्मदातटमाश्रित्य मोदन्ते गतकल्मषाः । स्तुवन्ति विविधैः स्तोत्रैर्माङ्गल्यस्तुति संस्कृतैः ॥ ६.२६ ॥ यस्यास्ति शक्तिरसशक्तिरिह प्रवीरः प्रोर्ध्वी करोतु यदि वाऽवनतिं करोतु । यः पूजितः सुरवरः शशिशेखरेण नाऽराधितः सपदि भूतपति सुरैर्वा ॥ ६.२७ ॥ किं वा न वृष्टं हि पितामहेन न वा सुरैर्वा मधुसूदनेन । क्षीरोदमन्थोद्भवकालकूटं कण्ठे वृतं केन हरं विहाय ॥ ६.२८ ॥ एकेन दग्धं त्रिपुरं शरेण कामो ललाटाक्षिनिरीक्षणेन । भिन्नोऽन्धकः शूलवरेण येन कस्तेन सार्द्धं कुरुते विरोधम् ॥ ६.२९ ॥ जलौघकल्लोलतरङ्गभङ्गा गङ्गा धृता येन जटाग्रभागे पादाम्बुजाङ्गुष्ठनिपीडनेन पपात लङ्काधिपतिर्विसंज्ञः ॥ ६.३० ॥ सुरासुराणामिह यत्समक्षं विध्वंसितो दक्षमखः क्षणेन प्रणम्य दक्षः क्षयकारकस्य लेभे वरं तारकमारकस्य ॥ ६.३१ ॥ सर्वस्य पूज्यं हि वरोत्तमाङ्गं सम्पूज्यते लिङ्गवरं हरस्य अनेन पर्याप्तमतीव मूढः प्राप्तुं पदं यच्छति यत्करोति ॥ ६.३२ ॥ ब्रह्मात्र वृद्धो हरिरत्र लिङ्गं सुराऽसुराश्चैव समर्चयन्ति तथापि नूनं सुविचारयान्ति को वाऽधिको वाऽस्ति समो हरेण ॥ ६.३३ ॥ तेनैव चक्राङ्कसरोरुहाङ्कौ लिङ्गाङ्कितं यस्य जगद्भगाङ्कम् हस्ते प्रबद्धे नवकङ्कणे वै पश्यन्ति मूढाः खलु दर्पणेन ॥ ६.३४ ॥ पुण्यं पवित्रं स्तवनं व्यासेनोक्तं महात्मना । कृतं देवाधिनाथस्य सर्वकल्मषनाशनम् ॥ ६.३५ ॥ प्रतिपूज्य यथा न्यायमर्घपाद्यैरनुक्रमात् । उवाच मधुरं वाक्यं प्रसादः क्रियतां मयि ॥ ६.३६ ॥ देयं तस्य फलं देव यः पुमान् छ्रद्धयाऽर्चति । इति स्तुत्वा महेशानं ऋषयः शंसितव्रताः ॥ ६.३७ ॥ नर्मदादक्षिणे कूले प्रयातास्ते यथातथम् । अन्ये च ऋषयो देवा द्वैपायनमथाब्रुवन् ॥ ६.३८ ॥ आश्रमस्ते महाभाग वायसैराकुलीकृतः । यथा न वायसाः केऽपि प्रविशन्ति तपोवनम् ॥ ६.३९ ॥ म्रियन्ते ते सदा सर्वे मूर्धा तेषां विशीर्यते । व्यासेन शप्तास्ते सर्वे वायसा महतो भयात् ॥ ६.४० ॥ तस्मिंस्तीर्थे महाराज प्रविशन्ति न कर्हिचित् । ऋषयो वचनं श्रुत्वा व्यासस्य तु महात्मनः ॥ ६.४१ ॥ नर्मदा दक्षिणे कूले सर्वमेव कृतं क्षणात् । तिष्ठन्ति मुनयः सर्वे देवस्याराधने रताः ॥ ६.४२ ॥ आराध्य विधिना देवमस्तुवन् परमेश्वरम् । यस्यास्ति शक्तिरित्यादि व्यासस्तुतिपरायणाः ॥ ६.४३ ॥ स्तोत्रं तदेतत्त्रिदशेश्वरस्य व्यासेन भक्त्या कृतमीश्वरस्य । प्रातः पठेद्यः स्मरति प्रयत्नात्काले स जातोऽनुचरो हरस्य ॥ ६.४४ ॥ व्यासाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ । व्यासस्तस्य भवेत्प्रीतो नर्मदा च प्रसीदति ॥ ६.४५ ॥ एवं स्तुतो महादेवो व्यासेन तु महात्मना । शिवो व्यासस्य सन्तुष्ट इदं वचनमब्रवीत् ॥ ६.४६ ॥ किं करोमि स्थितो विप्र वरं ब्रूहि यथेप्सितम् । वरं ददामि ते प्रीतो येन त्वं सुखमेधसे ॥ ६.४७ ॥ व्यास उवाच - नर्मदादक्षिणे कूले तिष्ठ त्वं चोत्तरे शिव । आश्रमास्ते भविष्यन्ति सर्वे पुण्यतमाः स्मृताः ॥ ६.४८ ॥ एवमुक्त्वा ततो व्यासं तत्रैवान्तर धीयत । व्यासोऽपि चात्र वत्स्यामि दक्षिणं नर्मदे व्रज ॥ ६.४९ ॥ ततश्च दण्डकाष्ठेन चालयामास नर्मदाम् । नर्मदा चाब्रवीद्वाक्यं पूर्वमार्गेण सा गता ॥ ६.५० ॥ ततो व्यासस्तु संक्रुद्धो युगान्ताग्निरिवाभवत् । व्यासस्तु कुपितो राजन् सन्तीर्णो द्विजसत्तमः ॥ ६.५१ ॥ हुंकारिता च सा देवी नागता तत्र नर्मदा । नाहं कोपवत विप्र प्रलयं यामि कर्हिचित् ॥ ६.५२ ॥ सप्तकल्पक्षये वृत्ते न मृताऽस्मीति नर्मदा । ततो द्विजस्तु संजातो दक्षिणेन ततो गता ॥ ६.५३ ॥ न वारिता च साऽनेन व्यासभीता महानदी । उत्तरे मुनयः सर्वे कूले तिष्ठन्त्यनेकशः ॥ ६.५४ ॥ ततस्ते हृष्टमनसो मुनयः शंसितव्रताः । व्यासेन चार्जितं श्राद्धं तथाऽन्यैर्मुनिपुङ्गवैः ॥ ६.५५ ॥ पितरो द्वादशाब्दानि तार्पितास्ते नराधिप ॥ ६.५६ ॥ इति रेवाखण्डे नर्मदामाहात्ये षष्ठोऽध्यायः ॥ अध्याय ७ मार्कण्डेय उवाच - अन्यत्तीर्थं महापुण्यं सर्वपापप्रणाशनम् । अश्वमेधसमुद्भूता नदी यत्र वराङ्गना ॥ ७.१ ॥ स्नात्वा च सङ्गमे यत्र हयमेधफलं लभेत् । व्याधिभिर्मुच्यते यत्र नारी वा यदि वानरः ॥ ७.२ ॥ श्राद्धं तत्र प्रकुर्वन्तः पितॄणां प्रीतिवर्धनम् । त्रिपुर्यां पूर्वभागे तु दिशि याम्यां शिवः स्थितः ॥ ७.३ ॥ अनुग्रहार्थं लोकानां शैवक्षेत्रं विदुर्बुधाः । पञ्चाशीतिः कुरुक्षेत्रे पश्चाशीतिरिवात्र तु ॥ ७.४ ॥ राहुसूर्यसमायोगे समानं कीर्तितं सुरैः । श्राद्धे त्रीणि च लक्षाणि पुराणे कीर्तितानि वै ॥ ७.५ ॥ तीर्थानां तानि अत्रैव तिष्ठन्ति नृपसत्तम । यत्र तिष्ठति देवेशो माधवो मधुसूदनः ॥ ७.६ ॥ उत्पलावर्तनामा च सहस्रमस्तको हरिः । हरश्च द्विविधावे तौ तृतीया चैव नर्मदा ॥ ७.७ ॥ तस्याः किं वर्ण्यते राजन् देवैरपि सवासवैः । तत्र स्नात्वा महाराज सम्भवो न पुनर्भवेत् ॥ ७.८ ॥ पापयोनिं च न विशेद्यमलोकं न पश्यति । अर्चनाद्देवदेवस्य गाणपत्यमवाप्यते ॥ ७.९ ॥ उत्पन्नो हि हरिर्यत्र शङ्खचक्रगदाधरः । उपास्यते सुरैः सर्वैर्ब्रह्मशक्रपुरोगमैः ॥ ७.१० ॥ क्रोशमात्रं हरिक्षेत्रं कथं शोचन्ति मानवाः । अत्रान्तरे मृता ये च कृमिकीटपतङ्गमाः ॥ ७.११ ॥ तेऽपि यान्ति हरेर्लोकं किं पुनर्वैष्णवा नृप । अवशः स्ववशोऽपि स्यात्प्राणत्यागं करोति यः ॥ ७.१२ ॥ दशवर्षसहस्राणि राजा वैद्याधरे पुरे । तिलोदकप्रदानेन पिण्डदानेन भारत ॥ ७.१३ ॥ पितरस्तस्य तृप्यन्ति तृप्ता यान्ति परा गतिम् । एकादश्यां निराहारो गन्धपुष्पैः समर्चयेत् ॥ ७.१४ ॥ रात्रौ जागरणं कृत्वा दीपमालां प्रबोधयेत् । द्वादश्यां पञ्चगव्यं तु हविष्यान्नेन पारणम् ॥ ७.१५ ॥ भक्त्या तु भोजयेद्विप्रान् सहस्रं च सदक्षिणाम् । ओं नमो भगवते वासुदेवाय ॥ इमं मन्त्रं जपन् यस्तु शुचिर्भूत्वा समाहितः ॥ ७.१६ ॥ न तस्य पुनराधानं जन्म चैव युधिष्ठिर । अनेकभाविकं घोरं तूलराशिमिवानलः ॥ ७.१७ ॥ तत्क्षणाद्दहते कृत्स्नमेधांसीवहुताशनः । कल्पकल्पानुगौ देवौ नारायणमहेश्वरौ ॥ ७.१८ ॥ दक्षिणां दिशमास्थाय रेवातीरे व्यवस्थितौ । अर्चितौ च तौ देवेशौ सुरासुरगणैस्तथा ॥ ७.१९ ॥ सिद्धविद्याधरैर्यक्षैर्गन्धर्वैः किन्नरैर्नरैः । स्थाणुः पुण्यजलावर्ते ह्यवतार पुराकृतः ॥ ७.२० ॥ अनुग्रहाय लोकानां देवानां हितकाम्यया । ननाद सुमहानादं घोररूपं भयानकम् ॥ ७.२१ ॥ पिनाकिना च शूलेन भित्त्वा चैव रसातलम् । समानीता च सावित्री स्वर्गसोपानपद्धतिः ॥ ७.२२ ॥ मानवाः क्षीणपापाश्च तथा यान्ति परां गतिम् । अज्ञानतम सा ध्वस्ता नावरोहान्ति ये जनाः ॥ ७.२३ ॥ आत्मानं नावमन्यन्ते पापोपहतचेतसः । कल्पगां ये न सेवन्ते तेषां जन्म निरर्थकम् ॥ ७.२४ ॥ अष्टाविंशतिरत्रैव लिङ्गानां तु स्वयम्भुवाम् । पूजने संस्थिता राजन् छिवस्य च महात्मनः ॥ ७.२५ ॥ स्थानेश्वरं महादेवं शूलपाणिं तथा परम् । सप्तेश्वरं च कल्पेशं हिरण्यं जातवेदसम् ॥ ७.२६ ॥ प्राजापत्यं सिद्धनाथं शशाङ्कनयनं तथा । अनुकेशं तथा स्कन्दमाश्विनं तैजसं तथा ॥ ७.२७ ॥ ब्रह्मेश्वरं चाग्निगर्भं श्रीकण्ठं च उमापतिम् । नीलकण्ठं च खट्वाङ्गं महाकालं घटेश्वरम् ॥ ७.२८ ॥ त्रिलोचनं त्र्यम्बकं च देवदेवं महेश्वरम् । एतान्यन्यानि चैवेह सिद्धलिङ्गानि भारत ॥ ७.२९ ॥ अनङ्गं कामदेवं च रतिप्रीतिसमन्वितम् । सिद्धमन्वन्तरं चैव यत्रानङ्गत्रयोदशी ॥ ७.३० ॥ रम्भातृतीय तत्रैव तथा कृष्णाष्टमी नृप । विद्याधरी च तत्रैव उर्वशी च तिलोत्तमा ॥ ७.३१ ॥ अहल्या मेनका चैव तथाऽन्याश्च वराङ्गनाः । दाक्षायणी चानुमती चम्पका संभरायणी ॥ ७.३२ ॥ एताश्चाऽन्याश्च तत्रैव बह्व्यः सिद्धा विशाम्पते । केशवस्य पुरी रम्या पुण्या पापहरा नृप ॥ ७.३३ ॥ सुरासुराणां सर्वेषां दानवानां च भारत । स्वर्गमार्गप्रदा देवी तथा हरिहरात्मिका ॥ ७.३४ ॥ एतत्ते कीर्तितं राजन् यथा वृष्टं पुरातनम् । स्नानावगाहनात्पानाच्छ्रवणात्कीर्तनादपि ॥ ७.३५ ॥ अनेकभाविकं घोरमघं नश्यति तत्क्षणात् । ततस्तस्मिन्महाभाग कपिलातीर्थमुत्तमम् ॥ ७.३६ ॥ रेवाया उत्तरे कूले सर्वपापहरं परम् । तत्र स्नात्वा नरो राजन्नारी वापि जितेन्द्रिया ॥ ७.३७ ॥ तर्पयित्वा पितॄन् देवान्मुच्यते च ऋणत्रयात् । ब्राह्मणान् भोजयित्वा तु लभते परमाङ्गतिम् ॥ ७.३८ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे व्यासतीर्थमहिमवर्णनो नाम सप्तमोऽध्यायः ॥ अध्याय ८ मार्कण्डेय उवाच - अथान्यत्परमं तीर्थं त्रिषु लोकेषु विश्रुतम् । त्रिपुरी नाम विख्यातं रेवाया उत्तरेतटे ॥ ८.१ ॥ सपादलक्षतीर्थानि यत्र तिष्ठन्ति भारत । शतमष्टोत्तरं तत्र लिङ्गानां तु स्वयम्भुवाम् ॥ ८.२ ॥ त्रिपुरः पातितो राजन् देवदेवेन शूलिना । स्तोतव्यं किं परं तत्र सुरासुरनिषेवितम् ॥ ८.३ ॥ लोकानुग्रहकं देवं स्वयं विद्धि महेश्वरम् । गोकर्णं नाम विख्यातं भोगदं मोक्षदायकम् ॥ ८.४ ॥ कीर्तनाद्देवदेवस्य स्नपनेनाऽर्चनेन च । तोयेन नर्मदायास्तु ब्रह्महत्या प्रणश्यति ॥ ८.५ ॥ गन्धधूपप्रदीपैश्च तथा विभवविस्तरैः । अपि वर्षसहस्रेण पुण्यसंख्या न ज्ञायते ॥ ८.६ ॥ यदा तदा शिवे दानं तस्य संख्या न विद्यते । धन्यास्ते मानवा राजन् स्नात्वा पश्यन्ति ये हरम् ॥ ८.७ ॥ कैलासे स वसेन्मर्त्यस्त्रिपुर्यां यो वसेन्नृप । अकामात्कामतो वाऽपि प्राणत्यागं करोति यः ॥ ८.८ ॥ हंसयुक्तविमानेन किङ्किणीरवशालिना । छत्रेण ध्रियमाणेन सौवर्णेन विराजता ॥ ८.९ ॥ झल्लरीतूर्यवाद्येन नृत्यगीतोत्सवेनच । सुरासुरैर्वीक्ष्यमाणः सर्वालङ्कारभूषितः ॥ ८.१० ॥ भुङ्क्ते तु विपुलान् भोगान् यावदिच्छन्महेश्वरे । एवमेवाऽपि चान्यानि यानि काम्यानि मानुषैः ॥ ८.११ ॥ त्रिपुरारिस्तु देवेशो यत्र तिष्ठति भारत । त्रयस्त्रिंशत्प्रसिद्धानां देवानां कोटिभिः शिवः ॥ ८.१२ ॥ त्रिपुर्यां निवसेद्यस्माच्छिवक्षेत्रमतः स्मृतम् । क्रोशद्वयप्रमाणं तु शिवक्षेत्र प्रकीर्तितम् ॥ ८.१३ ॥ अत्रान्तरे मृता ये च ते प्रयान्ति शुभां गतिम् । ब्रह्मणा तु पुरा चेष्टं ब्रह्मयज्ञं मखोत्तमम् ॥ ८.१४ ॥ शक्रेण देवराजेन कृतं क्रतुशतं पुरा । गोकर्णं च महादेवं सर्वसिद्धिप्रदायकम् ॥ ८.१५ ॥ वटेश्वरं तथा चान्यं सिद्धलिङ्गं सुरेश्वरम् । ईश्वरं चैव कामेशमश्विभ्यामर्चितं हरम् ॥ ८.१६ ॥ अनङ्गं वामदेवं च कपोतेश्वरमेव च । सर्वेश्वरं सोमनाथं ऋणमोचनमेव च ॥ ८.१७ ॥ कपालमोचनं देवं तथान्यमघनाशनम् । इन्द्रेश्वरं च ब्रह्मेशं शिवं नारायणं भवम् ॥ ८.१८ ॥ विश्वदेवं सिद्धनाथममरं चान्द्रमेव च । सिद्धं विद्याधरं यज्ञमतुलं वासवं तथा ॥ ८.१९ ॥ ईशानमग्निगर्भं च कुबेरमतुलं तथा । गायत्रं चैव सावित्रं रोहिणीतीर्थमेव च ॥ ८.२० ॥ दाक्षायणी चैव सती दक्षयज्ञहरा स्मृता । रत्नावली सूर्यपत्नी सूर्यभामा च वारुणी ॥ ८.२१ ॥ विष्णुर्मरीचिर्मैत्रेयऋष्यशृङ्गो विभाण्डजः । तपस्वी शौनको गर्गो दुर्वासा उग्रतापसः ॥ ८.२२ ॥ पञ्चायुतानि सिद्धानि त्रिपुर्यां नृपसत्तम । अपि वर्षसहस्राणि न स्तोतुं शक्यते पुरी ॥ ८.२३ ॥ त्रिपुरीक्षेत्रमाहात्म्यं शक्रेणापि नराधिप । अनेकानि सहस्राणि क्षत्रियाणां युधिष्ठिर ॥ ८.२४ ॥ दीक्षायज्ञविधानेन नाकपृष्ठमुपासते । इतिहासं प्रवक्ष्यामि आदिकल्पे कृते युगे ॥ ८.२५ ॥ स्वायम्भुवेऽन्तरे प्राप्ते कापिले कालसंज्ञके । मनुर्नाम पुरा राजा चक्रवर्ती महायशाः ॥ ८.२६ ॥ अयोध्यां स पुरीं लेभे सूर्यवंशो महीपतिः । समाराध्य महादेवं शङ्करं मधुसूदनम् ॥ ८.२७ ॥ अवध्या दानवैर्या तु निर्मिता विश्वकर्मणा । वापीकूपसहस्रेण परिखाऽट्टालकेन वा ॥ ८.२८ ॥ धनदस्य पुरी यद्वदलका नाम विश्रुता । अयोध्या शोभना राजन् छक्रस्येवामरावती ॥ ८.२९ ॥ धनधान्यसमाकीर्णा सर्वालङ्कारभूषिता । ब्रह्मघोषनिनादेन भूमिं दिवमिवाकरोत् ॥ ८.३० ॥ साग्निहोत्रैश्च विद्वद्भिर्ब्राह्मणैर्वेदपारगैः । चतुर्वर्णाश्च धर्मश्च प्राकृता इतरे जनाः ॥ ८.३१ ॥ सपादलक्षवर्षाणि प्रजा सर्वा च जीवति । न कार्मण्यजरारोगा दुर्भिक्षं न तु मृत्युभीः ॥ ८.३२ ॥ स्वयं कामदुघा धेनुः पृथिवी सस्यशालिनी । अन्यायेन च भूतेषु दत्ता हर्ता न विद्यते ॥ ८.३३ ॥ नवखण्डां सप्तद्वीपां संशैलवनकाननाम् । शशास मेदिनीं सर्वां यथा शक्रस्त्रिविष्टपम् ॥ ८.३४ ॥ एकपत्नीगृहं यद्वद्गृहस्थस्य विराजते । यज्ञदानसहस्रेण तर्पितास्सर्वदेवताः ॥ ८.३५ ॥ यं यं प्रार्थयते कामं तं तमाप न संशयः । एको दोषः परं तत्र नदी नैवाऽत्र विद्यते ॥ ८.३६ ॥ राहुसोमसमायोगे देवखातं समाययौ । स्नानं कर्तुं समाधाय ब्राह्मणैर्वैदपारगैः ॥ ८.३७ ॥ विमानानां सहस्रेण गत्वा विशं नृपोत्तमः । शङ्खतूर्यनिनादेन वेणुवीणास्वनेन च ॥ ८.३८ ॥ सान्तः पुरपरीवारो वीक्ष्यमाणोऽङ्गनागणैः । निर्वर्त्य पर्वकाले तु दानहोमविधिक्रियाम् ॥ ८.३९ ॥ विवेश नगरीं पुण्यामयोध्यां देवनिर्मिताम् । पौर्णमास्यां गते यामे स्वस्थे चैव नृपोत्तमे ॥ ८.४० ॥ श्रूयते किङ्किणीशब्द आकाशे व्योमचारिणाम् । गीतवादित्रयुक्तानां सहस्रं पङ्क्तिः वाजिनाम् ॥ ८.४१ ॥ मनोहराणां यानानां दृष्ट्वा चैव दिवौकसाम् । जगाम विस्मयं राजा भवनोपरि शोभितः ॥ ८.४२ ॥ कस्यैतानि विमानानि ममैव भवनोपरि । शयने शयने चैव कामभोगविवार्जितः ॥ ८.४३ ॥ शोकोपहतचित्तस्य चिन्तया व्याकुलीकृतः । किमिदं साहसं लोके विमानानां नभोपरि ॥ ८.४४ ॥ एवं चिन्तयतस्तस्य सा निष्क्रान्ता निशा नृप । उदिते च तथा सूर्ये धर्मकर्म समाप्य वै ॥ ८.४५ ॥ वशिष्ठं प्राह राजर्षिरभिवाद्य नमस्कृतम् । उपविष्टं यथा न्यायमासने देवनिर्मिते ॥ ८.४६ ॥ इतिहासपुराणादि श्रावयन् विधिपूर्वकम् । मनुना च पुरा पृष्टो वशिष्ठो मुनिपुङ्गवः ॥ ८.४७ ॥ कस्यैतानि विमानानि ममोपरि महामुने । केन कर्म्मविपाकेन दानेन नियमेन च ॥ ८.४८ ॥ संशयो मे महाभाग त्रिकालज्ञ निवेदय । कस्मिन् देशे कृतो यज्ञः स्वर्गकामफलप्रदः ॥ ८.४९ ॥ येन याम्य क्षयांल्लोकान्नित्यान्तक विवार्जितान् । क्षत्रवंशसमुत्पन्नो यस्तु वै शिक्षते क्षितिम् ॥ ८.५० ॥ मातृकं पैतृकं वंशं यज्ञमिष्ट्वा दिवं नयेत् । स जातो येन भूलोकः सर्वथावद्यवर्जितः ॥ ८.५१ ॥ अन्ये पुत्रत्वमापन्नास्ते तु क्लेशाय केवलम् । एवमुक्तो वशिष्ठस्तु मनुना ब्राह्मणैः सह । प्रसन्नस्त्वब्रवीत्तं तु वशिष्ठो मुनिसत्तमः ॥ ८.५२ ॥ शृणुष्व त्वं महाभाग कथ्यमानं निबोध मे । ब्रह्मणा गदितं पूर्वं कश्यपस्य महामुनेः ॥ ८.५३ ॥ दक्षस्यात्रेर्गुरोश्चैव प्रजापतिरकल्पयत् । वेदश्रुतपुराणोक्तं तत्र कृत्स्नं मया श्रुतम् ॥ ८.५४ ॥ हन्त ते कथयिष्यामि यथावदनुपूर्वशः । पुराणवेदबाह्यं तु कर्म्म यत्क्रियते नृप ॥ ८.५५ ॥ न तत्सन्तः प्रशंसन्ति धर्महानिश्च जायते । नर्मदातीरमाश्रित्य त्रिपुरी नाम विश्रुता ॥ ८.५६ ॥ यैरिष्टं तत्र यज्ञैस्तु दानहोमबलिक्रिया । तेषां राजन् विमानानि स्थितान्युपरि वेश्मनः ॥ ८.५७ ॥ न तां लङ्घयितुं शक्ताः सर्वे देवास्सवासवाः । अतिक्रामन्ति ते स्वर्गं शिवेन सह मोदन्ते ॥ ८.५८ ॥ विषादं त्यज राजेन्द्र गहना कर्म्मणां गतिः । अन्यक्षेत्रे सहस्रं तु दत्तं तप्तं हुतं तथा ॥ ८.५९ ॥ एकं तु कल्पगा तीरे तुल्यं भवति वा न वा । शिवेन श्रावितं चासीत्पुराणं स्कन्दकीर्तितम् ॥ ८.६० ॥ जम्बूद्वीपे महाराज एका देवी तु नर्मदा । पापकर्मदुराचारान्नयते स्म दिवौकसम् ॥ ८.६१ ॥ तेऽपि यान्ति न सन्देहः कल्पगातोयदर्शनात् । धर्मध्वजाश्च ये मर्त्यास्त्रिषु लोकेषु विश्रुताः ॥ ८.६२ ॥ संसारार्णवमग्नानां पापोपहतचेतसाम् । यानरूपावरारोहा त्रैलोक्ये सचराचरे ॥ ८.६३ ॥ एकवक्त्रस्तु तत्पुण्यं न गुणान् स्तोतुमर्हति । त्यक्त्वा चैव महाभाग ब्रह्मविष्णुमहेश्वरान् ॥ ८.६४ ॥ संख्यां कर्तुं न शक्नोति तपसो दानकर्म्मणाम् । न गङ्गायमुना चापि नदी चैव सरस्वती ॥ ८.६५ ॥ इरावती वितस्ता च विपाशा कपिला तथा । शोणश्च घर्घरश्चैव सारङ्गा बदरी तथा ॥ ८.६६ ॥ पुण्या महानदी तापी गण्डकी च पयोष्णिका । तुङ्गभद्रा महापुण्या भीमरथ्या महानदी ॥ ८.६७ ॥ तीर्थानि सागराणां हि जम्बूद्वीपे वसन्ति हि । देवखाततडागेषु गर्तेषु च सरित्सु च ॥ ८.६८ ॥ किं फलं लभते मर्त्य इष्ट्वा यज्ञैर्नृपोत्तम । अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति ॥ ८.६९ ॥ पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति । अयं यथा तथा धर्मः समं भारत वर्तते ॥ ८.७० ॥ तस्मात्पापं न कुर्वीत चञ्चले जीविते सति । श्रुत्वाख्यानमिदं राजा नर्मदाकीर्तनं शुभम् ॥ ८.७१ ॥ आदिदेश ततोऽमात्यान् भृत्यांश्चैव सहस्रशः । राजोपस्करमादाय यूयं गच्छतमाचिरम् ॥ ८.७२ ॥ धेनूनां पञ्चलक्षाणि सवत्सानां च भारत । श्यामकर्णहयानां च लक्षमेकं शितत्विषाम् ॥ ८.७३ ॥ अयुतं च करीन्द्राणां घण्टाभरणसंयुजाम् ॥ ८.७४ ॥ हिरण्यकोटीः पञ्चाशत्सर्वासृङ्मणयस्तथा । सुमुहूर्ते सुनक्षत्रे चन्द्रे चैकादशे शुभे ॥ ८.७५ ॥ नानादेशनृपैः सार्द्धं गीतवादित्रमङ्गलैः । दिव्ययानसमारूढः स्तूयमानो मुहुर्मुहुः ॥ ८.७६ ॥ ब्राह्मणैर्वेदविद्भिश्च प्रायाच्च त्रिपुरीं नृपः । सप्तकल्पवहां पुण्यां सुरासुरनमस्कृताम् ॥ ८.७७ ॥ आजन्मरूढैस्तु पापैः सान्तः पुरपरिच्छदः । विमुक्तः पृथिवीपालः कल्पगा तोयदर्शनात् ॥ ८.७८ ॥ पृथिव्यां यानि तीर्थानि आसमुद्रान्तगोचरे । मेकलातोयसंस्पर्शात्पवित्राणीह तान्यपि ॥ ८.७९ ॥ स्नानं कृत्वा यथा न्यायं पितॄन् देवांश्च तर्पयन् । अर्चयित्वा महेशानं गन्धपुष्पविलेपनैः ॥ ८.८० ॥ दशयोजनपर्य्यन्तं यज्ञरूपं च मण्डपम् । अकारयन्महाबाहुः सर्वधर्मपरायणः ॥ ८.८१ ॥ हेमरूप्यमयं सर्वं यच्चान्यद्भोज्यभाजनम् । अगस्त्यो गौतमो गर्गो विष्णुः शातातपस्तथा ॥ ८.८२ ॥ अत्रिश्चैव वशिष्ठश्च पुलस्त्यः पुलहः क्रतुः । भृगुरग्निर्मरीचिश्च कश्यपोऽथ मनुस्तथा ॥ ८.८३ ॥ दुर्वासा याज्ञवल्क्यश्च भरद्वाजोऽथ भल्लुकः । विश्वामित्रो जमदग्नी ऋष्यशृङ्गो विभाण्डकः ॥ ८.८४ ॥ दक्षः पराशरो व्यासः काषायणबृहस्पती । एते चान्ये च बहव ऋषयः शंसितव्रताः ॥ ८.८५ ॥ चतुर्विद्यावेदविदो यज्ञकर्म्मविशारदाः । तीर्थं वै पुष्करं यद्वद्ब्रह्मविष्णुशिवात्मकम् ॥ ८.८६ ॥ तत्र प्रावर्तयद्यज्ञं हयमेधमनुत्तमम् । आहूता देवताः सर्वा देवेन्द्रः पाकशासनः ॥ ८.८७ ॥ तर्पिता अर्घपाद्यैश्च मधुपर्कैश्च विष्टरैः । ततो निवर्तितो यज्ञो यथोक्तो वेदकर्म्मणा ॥ ८.८८ ॥ तर्पिता ब्राह्मणास्सर्वे यथा विभवविस्तरैः । हारकेयूरकटकैः कण्ठाभरणभूषणैः ॥ ८.८९ ॥ केचित्कुङ्जरमारूढास्तथा च हयसंस्थिताः । दिव्ययानसमारूढा दिव्यमालावलम्बिनः ॥ ८.९० ॥ वयांसि पक्षिणो यत्र तथाऽन्ये वनचारिणः । यज्ञोच्छिष्टेषु लुलिता जाताः सर्वे हिरण्मयाः ॥ ८.९१ ॥ यं यं कामं प्रार्थयते तं तं प्राप्नोत्यसंशयम् । घोषणा क्रियतां राष्ट्रे दण्डहस्तैस्तु किङ्करैः ॥ ८.९२ ॥ पितृदेवमनुष्याश्च तृप्ता यान्ति परां गतिम् । ब्रह्मविष्णुमहेशाना वरं दत्त्वा दिवं ययुः ॥ ८.९३ ॥ अत्र यज्ञस्तपोदानं सर्वं भवति चाक्षयम् । एवं निवर्तितो यज्ञो राज्ञश्चामिततेजसः ॥ ८.९४ ॥ कृताञ्जलिपुटो भूत्वा मनुरित्याह कल्पगाम् । चान्द्रायणसहस्रस्य सोमयागशतस्य च ॥ ८.९५ ॥ त्वत्तोयपानमात्रेण समं भवति वा न वा । लोकानां तारणार्थाय अवतीर्णा महानदी ॥ ८.९६ ॥ त्वया व्याप्तं जगत्कृत्स्नं लोकाश्चैव चराचराः । स्नानावगाहनात्पानात्स्मरणात्कीर्तनादपि ॥ ८.९७ ॥ अनेकभाविकं पापं तूलराशिमिवानलः । दहत्येवं हि तोयं ते नात्र कार्य्या विचारणा ॥ ८.९८ ॥ स्वर्गसोपानभूताऽसि पितॄणां हितकाम्यया । दिवं नय वरारोहे भूतग्रामं चतुर्विधम् ॥ ८.९९ ॥ याः काश्चित्सरितो लोके तीर्थानि विविधानि च । तेषां त्वं जननी देवि पितॄणां तारिणी परा ॥ ८.१०० ॥ त्वया विना तु यत्तीर्थं धर्मकर्मशुभोदयम् । सूर्येणैव विहीनं हि निरालोकं जगद्यथा ॥ ८.१०१ ॥ सूर्याचन्द्रमसोर्भावः सामान्यः सर्वजन्तुषु । समं वर्षति पर्जन्यः सस्येषु च तृणेषु च ॥ ८.१०२ ॥ तथा त्वं सर्वलोकानां माता चैव गरीयसी । अपि वर्षसहस्रेण गुणान् कीर्तयितुं शुभे ॥ ८.१०३ ॥ ब्रह्मा बृहस्पतिश्चैव न शक्तोऽपि वरानने । स्तोत्रं श्रुत्वा महाभागा मनोरमिततेजसः ॥ ८.१०४ ॥ प्रत्युवाच वरारोहा मकरासनसंस्थिता । सर्वाभरणशोभाढ्या चन्द्रकान्तिनिभानना ॥ ८.१०५ ॥ वरं वृणु महाभाग तुष्टाऽस्मि मनसीप्सितम् । नमस्कृत्य महादेवीं राजा वचनमब्रवीत् ॥ ८.१०६ ॥ यदि तुष्टा वरारोहे वरं दातुं ममेच्छसि । तीर्थभूतं जगत्सर्वं कुरुष्व वरवर्णिनि ॥ ८.१०७ ॥ अयोध्याविषये देशे स्रवन्त्यः सम्भवन्त्विति । नानाविधास्तु सरितो गङ्गाद्यास्तु सुरालये ॥ ८.१०८ ॥ यथा च पतितास्सर्वास्तथा त्वं कल्पगे कुरु ॥ ८.१०९ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे त्रिपुरीवर्णनो नामाष्टमोऽध्यायः ॥ अध्याय ९ नर्मदोवाच - त्रेतायां प्रथमे पादे तव वंशे नृपोत्तम । भगीरथ इति ख्यातः स गङ्गा मानयिष्यति ॥ ९.१ ॥ सगराः षष्टिसाहस्रा अलाबुजसमुद्भवाः । कपिलस्य तु मार्गेण हये पातालगामिनि ॥ ९.२ ॥ पितुराज्ञाऽवसाने तु विदार्य धरणीं ततः । हयं तु वासुदेवेन सागरास्ते विदुर्बुधाः ॥ ९.३ ॥ प्रविष्टाः सागरास्ते तु रसातलतलं गताः । तानहं पूरयिष्यामि आत्मतोयेन सुव्रत ॥ ९.४ ॥ एवं वृतो वरस्तावच्छेषं वृणु नरेश्वर । पादे द्वितीये त्रेतायाः कालिन्दी च सरस्वती ॥ ९.५ ॥ सरयूर्गण्डकी नाम महाभागा विनिःसृताः । भगीरथ इति ख्यातस्तव वंशे भविष्यति ॥ ९.६ ॥ भागीरथी च विख्याता भविष्यति सरिद्वरा । गङ्गा च जाह्नवी चैव समभागा प्रकीर्तिता ॥ ९.७ ॥ ख्यातिं यास्यन्ति तास्सर्वाः कन्याद्वीपे न संशयः । आगच्छन्ती तु सा गङ्गा जह्नुना च महर्षिणा ॥ ९.८ ॥ हस्तेनाकृष्य सा पीता यथान्यत्प्राकृतं जलम् । दिव्यं वर्षसहस्रं तु उदरे च विसर्पिता ॥ ९.९ ॥ विषण्णवदनो राजा तदासीत्स भगीरथः । निष्कलं मे तपस्तप्तं शिवसेवा च निष्कला ॥ ९.१० ॥ मया तु सेवितं ह्येतज्जगत्सर्वं चराचरम् । किं करोमीति निश्चित्य महेशं शरणं गतः ॥ ९.११ ॥ शिवाज्ञा सयुतो भूत्वा लोकानां हितकामया । आगतश्च पुनर्मोहात्तां गङ्गां स महायशाः ॥ ९.१२ ॥ उवाच वचनं राजनृषिः क्रोधसमन्वितः । गङ्गाया मोक्षणं कर्तुं यो मामाराधयिष्यति ॥ ९.१३ ॥ गङ्गाया मोक्षणं तत्र कर्तव्य नाऽत्र संशयः । तस्य तद्वचनं श्रुत्वा जह्नोरमिततेजसः ॥ ९.१४ ॥ तमेवाराथयामास तपसोग्रेण भारत । ततस्तुष्टस्तु भगवान्मुमोचोत्तरवाहिनीम् ॥ ९.१५ ॥ ततः प्रभृति लोकेऽस्मिञ्जाह्नवीति प्रकीर्तिता । एतत्ते कथितं राजंस्त्रेतायां यद्भविष्यति ॥ ९.१६ ॥ तत्रैवाऽन्यं प्रवक्ष्यामि मर्कटीतीर्थमुत्तमम् । यत्र स्नात्वा महाराज कामतोऽकामतोऽपि वा ॥ ९.१७ ॥ चान्द्रायणशतस्योक्तं यत्पुण्यं तदवाप्नुयात् । युधिष्ठिर उवाच - संक्षेपाच्छ्रुतमेतद्धि विस्तरेण तपोधन ॥ ९.१८ ॥ कथं तु मर्कटीतीर्थं तन्मे कथय सुव्रत । मार्कण्डेय उवाच - आसीत्त्रेतायुगे राजा सत्यसेनो महातपाः ॥ ९.१९ ॥ राज्ञी तस्य प्रिया चासीन्नाम्ना शृङ्गारवल्लरी । जातिस्मरा तु सुभगा केवलं मर्कटानना ॥ ९.२० ॥ कदाचित्स महीपालो मृगया प्रियया सह । जगाम नर्मदातीरं नानाद्रुमलतायुतम् ॥ ९.२१ ॥ स्थापयित्वा तु तां देवीं वनान्तरमगात्ततः । क्रीडमाना च सा तत्र वंशगुल्मे स्वकं शिरः ॥ ९.२२ ॥ वृष्ट्वा विस्मयमापन्ना पार्श्वस्थं कंचिदब्रवीत् । गृहीत्वैतच्छिरः शीघ्रं नर्मदाया जले क्षिप ॥ ९.२३ ॥ निक्षिप्तमात्रे शिरसि राज्ञी चन्द्राननाऽभवत् । एतस्मिन्नन्तरे राजा प्राप्तस्तत्र प्रियाऽन्तिकम् ॥ ९.२४ ॥ स दृष्ट्वा तादृशं तस्या मुखं पूर्णशशिप्रभम् । पृच्छति स्म प्रियां राजा विस्मयाविष्टचेतनः ॥ ९.२५ ॥ कथयामास वृत्तान्तं पूर्वजन्मसमुद्भवम् । अत्राहं मर्कटीवासं तीरे वै नार्मदे शूभे ॥ ९.२६ ॥ कदाचित्क्रीडमानाऽहं वंशं भित्त्वा ह्यकामतः । ततः कालवशाज्जीर्णं शरीरं पतितं जले ॥ ९.२७ ॥ शिरस्तत्रैव संलग्नं कपिवक्त्राऽस्मि तेन वै । इदानीं नर्मदातोये निक्षिप्ते शिरसि प्रिय ॥ ९.२८ ॥ मुखं मे तीर्थमाहात्म्याच्चन्द्रबिम्बसमप्रभम् । श्रुत्वा स तीर्थमाहात्म्यं विस्मयोत्फुल्ललोचनः ॥ ९.२९ ॥ पुरोहितं समाहूय स्नातुं तत्र प्रचक्रमे । स्नात्वा तत्र विधानेन हेमकोटिशतं ददौ ॥ ९.३० ॥ तदा प्रभृति राजेन्द्र मर्कटीतीर्थमुच्यते । पूर्वभागस्थितं तस्य भृगुतीर्थमनुत्तमम् ॥ ९.३१ ॥ तत्र स्नात्वा तु कार्तिक्यां नर पापात्प्रमुच्यते । स्वर्गदो मोक्षदश्चैव देवस्तु नरकेश्वरः ॥ ९.३२ ॥ देवस्य चाग्रे वंशो वै सम्मुखो यत्र दृश्यते । पूर्वभागे स्थितं तत्र तस्मिन् वंशे तु निर्मले ॥ ९.३३ ॥ त्रिलोचन इति ख्यातं तथैव भ्रुकुटिस्थितम् । तृतीयं लोचनं दृष्ट्वा भृगुस्तु मुनिसत्तम ॥ ९.३४ ॥ प्रणम्य दण्डवद्भूमौ स्तोतुं समुपचक्रमे । भृगुरुवाच - प्रणमामि जने संस्थं भूतेशं भूतिदं हरम् ॥ ९.३५ ॥ भाव्यं भर्गं पशुपतिं भुवनेश्वरमेव च । दोषमात्रविहीनं च नित्यविज्ञानविग्रहम् ॥ ९.३६ ॥ परद्रव्यापहरणात्परदारनिषेवणात् । पराभवात्पराभूतं रक्ष मां कल्मषात्प्रभो ॥ ९.३७ ॥ आत्माभिमानमुदितं क्षणभङ्गुरके तथा । कुपथाभिमुखं दीनं त्राहि मां परमेश्वर ॥ ९.३८ ॥ दीनद्विजवरस्यार्थे प्रज्ञाने परितो भव । वृष्ट्वा सदा शङ्करस्त्वं मूढं मां किं विलम्बसे ॥ ९.३९ ॥ तृष्णां हर हरात्यर्थं लक्ष्मीं मे देहि निश्चलाम् ॥ ९.४० ॥ नित्यं छिनत्ति मोहं पापं हन्ति तारणं विदधाति । तव तीर्थमात्रगमनं तदपि न संचितं महेशान ॥ ९.४१ ॥ भूतिमूलविभूढस्य विभागं तन्निरर्थकम् । करुणाहृदयं नाम स्तोत्रमेतद्भृगूदितम् ॥ ९.४२ ॥ यः पठेत्प्रातरुत्थाय स याति परमां गतिम् । स्तोत्रेणानेन सन्तुष्टः शिवः प्रोवाच तं भृगुम् ॥ ९.४३ ॥ सर्वं दास्यामि ते विप्रवरं यन्मनसीप्सितम् । सिद्धिं चैव पुनः श्लाघ्यां यत्सुरैरपि दुर्लभाम् ॥ ९.४४ ॥ भृगुरुवाच - यदि तुष्टोऽसि देवेश वरं दातुमिहेच्छसि । मम नाम्नाऽस्य तीर्थस्य ख्यातिर्भवति भूतले ॥ ९.४५ ॥ अवतारय चात्मानं भृगुक्षेत्रे महेश्वर । शङ्कर उवाच - एवं भवतु विप्रेन्द्र तव नाम्ना भविष्यति ॥ ९.४६ ॥ क्षेत्रं पापहरं पुण्यं देवानामपि दुर्लभम् । पितृपुत्रविसंवादः क्रोधाज्जातः कथञ्चन ॥ ९.४७ ॥ अस्य तीर्थस्य माहात्म्यात्स तु शान्तिं गमिष्यति । ततः प्रभृति ये देवा ब्रह्माद्याः किन्नरा नराः ॥ ९.४८ ॥ उपासते भृगुक्षेत्रं यत्र तुष्टो महेश्वरः । दर्शनात्स्पर्शनात्तस्य मुच्यते ब्रह्महत्यया ॥ ९.४९ ॥ स्नानं यः कुरुते तत्र मुच्यते स ऋणत्रयात् । अवतारः कृतो राजन् युगे तत्र स्वयम्भुवा ॥ ९.५० ॥ तत्र क्षेत्रे नरश्रेष्ठ अष्टौ रुद्राः प्रकीर्तिताः । भृगुश्चैव तथा शूली वेदश्चन्द्रमुखस्तथा ॥ ९.५१ ॥ अट्टहासस्तथा कालः कराली चाष्टमस्तथा । अष्टौ रुद्रास्समुत्पन्नास्तस्मिन् क्षेत्रे युधिष्ठिर ॥ ९.५२ ॥ तेन रम्यं च धन्यं च भृगुक्षेत्रमुदाहृतम् । अयने विषुवे चैव संक्रान्तौ ग्रहणेषु च ॥ ९.५३ ॥ व्यतीपाते दिनच्छेदे छायायां तु गजस्य च । स्नानं दानं तथा होमं तर्पणं देवतार्चनम् ॥ ९.५४ ॥ सर्वं तदक्षयं राजंस्तस्मिन् क्षेत्रे न संशयः । स्नातस्य च भृगुक्षेत्रे एकरात्रोषितस्य च ॥ ९.५५ ॥ यत्पुण्यं जायते पुंसो न तत्क्रतुशतैरपि । दर्शे भाद्रपदे मासे शुक्लपक्षे विशेषतः ॥ ९.५६ ॥ नरः प्रदक्षिणां कृत्वा भृगुतीर्थस्य संयतः । तत्क्षणाद्विरजो भूत्वा शिवलोके महीयते ॥ ९.५७ ॥ अस्य तीर्थस्य माहात्म्यान्मुच्यते सर्वपातकैः । मर्कट्याः पश्चिमे भागे ह्यर्कतीर्थमुदाहृतम् ॥ ९.५८ ॥ तत्र नित्यं स्थितो भानुः सर्वदेवनमस्कृतः । नरः प्रदक्षिणां कृत्वा सर्वपापैः प्रमुच्यते ॥ ९.५९ ॥ माहात्म्यं तस्य देवस्य शृणु राजन् समासतः । पुरा गन्धर्वराजस्तु मोहनो नाम नामतः ॥ ९.६० ॥ ब्रह्मणस्तु सभां प्राप्तस्तदाराधनतत्परः । तत्र दुर्वाससं दृष्ट्वा रूपेणानेन गर्वितः ॥ ९.६१ ॥ अज्ञानेनाऽवमानेन स जहास मुनिं नृप । स्मेराननं समालोक्य तं शशाप मुनिस्तदा ॥ ९.६२ ॥ चित्रकुष्ठी दुराचारो भव त्वं रूपगर्वितः । स तु शापभयात्प्राह मुनिं गन्धर्वराट्ततः ॥ ९.६३ ॥ शापान्तं कुरु मे विप्र बालिशस्य प्रसादतः । दुर्वासा उवाच - गच्छ गन्धर्वराज त्वं त्रिपुर्यां नर्मदातटम् ॥ ९.६४ ॥ यस्मिन्नास्ते स्वयं देवः समग्रभयनाशनः । भासते भास्करं नाम विख्यातं चोत्तरे तटे ॥ ९.६५ ॥ तत्र स्नानान्महाराज शापान्तस्ते भविष्यति । स जगाम पुनर्नत्वा ततो वै नर्मदातटम् ॥ ९.६६ ॥ तत्र स्नात्वा विधानेन पूजयामास भास्करम् । त्रिरात्र्याराधितो भानुः प्रातः प्रोवाच तं नृप ॥ ९.६७ ॥ वरं वृणु महाभाग यत्ते मनसि वर्तते । गन्धर्व उवाच - यदि तुष्टोऽसि देवेश वरं दातुमिहेच्छसि ॥ ९.६८ ॥ चित्रकुष्ठं विनश्येत त्वत्प्रसादेन मे प्रभो । एवमस्त्विति तं प्राह गन्धर्वाधिपतिं तदा ॥ ९.६९ ॥ शापान्मुक्तो जगामाथ स्वपुरं प्रति भारत । एतत्ते कथितं राजन् छिवेन परिकीर्तितम् ॥ ९.७० ॥ सावित्र्याराधनं तत्र पुत्रार्थं किल भारत । तस्मिंस्तीर्थे नरः स्नात्वा समभ्यर्च्य च भास्करम् ॥ ९.७१ ॥ पुत्रवान् व्याधिमुक्तश्च जायते नाऽत्र संशयः । कोटीश्वरं तु तत्रैव विद्धिदक्षिणभागतः ॥ ९.७२ ॥ तमभ्यर्च्य विधानेन कोटिलिङ्गार्चनात्फलम् । नरः प्राप्नोति राजेन्द्र सत्यं सत्यं वदाम्यहम् ॥ ९.७३ ॥ कोटितीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः । तत्र यः सन्त्यजेत्प्राणानवशः स्ववशोऽपिवा ॥ ९.७४ ॥ सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ९.७५ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डेऽर्कतीर्थमाहात्म्ये नवमोऽध्यायः ॥ अध्याय १० मार्कण्डेय उवाच - दक्षिणे तस्य तीर्थस्य कल्पगातीरमाश्रितम् । सोमेनाराधितं तीर्थं भुक्तिमुक्तिफलप्रदम् ॥ १०.१ ॥ तत्र स्नात्वा दिवं यान्ति मृतास्ते न पुनर्भवाः । दक्षिणे तस्य देवस्य स्थितः शक्रेश्वरः शिवः ॥ १०.२ ॥ शक्रेणाराधितः पूर्वं सर्वकामसमृद्धये । अन्यत्तीर्थं प्रवक्ष्यामि ब्रह्मकुण्डमिति स्मृतम् ॥ १०.३ ॥ यत्रास्ते भगवान् विष्णू रेवा चोत्तरवाहिनी । तत्र स्नात्वा महाराज वैष्णवं लोकमाप्नुयात् ॥ १०.४ ॥ दर्शे चैव व्यतीपाते तिलतोयप्रदानतः । श्राद्धस्य करणात्तत्र पितॄणां तृप्तिरक्षया ॥ १०.५ ॥ उदीची नर्मदा यत्र प्रतीची यत्र जाह्नवी । क्षेत्रं गच्छ नृपश्रेष्ठ प्राची यत्र सरस्वती ॥ १०.६ ॥ ब्रह्मकुण्डोत्तरे भागे विद्धि देवं सनातनम् । अम्बरीषमिति ख्यातं माधवं मधुसूदनम् ॥ १०.७ ॥ एकादश्यां समभ्यर्च्य स्नात्वा यस्तु नराधिप । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ १०.८ ॥ तस्यैव पश्चिमे भागे हंसतीर्थं नराधिप । तत्र स्नात्वा पुरा राजन् हंसा वै त्रिदिवङ्गताः ॥ १०.९ ॥ तत्रापि कुरुते श्राद्धं दानं चैव नराधिप । हंसतीर्थप्रभावेण तिर्यग्योनौ न जायते ॥ १०.१० ॥ पश्चिमे तस्य भागे तु लिङ्गं परमसिद्धिदम् । महाकालमिति ख्यातं यन्मयाराधितं पुरा ॥ १०.११ ॥ तमभ्यर्च्य विधानेन शिवलोकमवाप्नुयात् । अथान्यत्संप्रवक्ष्यामि तीर्थराजमनुत्तमम् ॥ १०.१२ ॥ मातृतीर्थमिति ख्यातं लिङ्गं च मातृकेश्वरम् । तत्र स्नातस्य राजेन्द्र हयमेधफलं भवेत् ॥ १०.१३ ॥ तत्प्रवाहमतिक्रम्य यद्वा रेवोत्तरं महत् । सप्तविंशोद्भवः शिवस्तत्र लोकेषु गीयते ॥ १०.१४ ॥ तत्र स्नात्वा पितृभ्यश्च तोयपिण्डप्रदानतः । सर्वकामसमृद्धात्मा शिवलोके महीयते ॥ १०.१५ ॥ तत्र यद्दीयते दानं किंचिद्वापि युधिष्ठिर । तस्य संख्या न विद्यते इत्याह भगवान् छिवः ॥ १०.१६ ॥ तत प्रतीच्यां लिङ्गन् तु ब्रह्मेश्वरमिति श्रुतम् । ब्रह्मणा साधितं सद्यः सर्वकामफलप्रदम् ॥ १०.१७ ॥ दर्शनात्तस्य देवस्य सर्वपापैः प्रमुच्यते । अङ्गारे वा चतुर्दश्यां तदभ्यर्च्य विधानतः ॥ १०.१८ ॥ शिवभक्तिपरो मर्त्यः शिवलोके महीयते । अन्यत्तीर्थं प्रवक्ष्यामि स्वर्गद्वारमनुत्तमम् ॥ १०.१९ ॥ तत्र स्नातो नरव्याघ्र स्वर्गलोके महीयते । तत्र पश्चिमभागे तु लिङ्गं सिद्धेश्वरं परम् ॥ १०.२० ॥ तत्र सिद्धेश्वरं चैव तीर्थं पापप्रणाशनम् । तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ॥ १०.२१ ॥ पौषे मासि सिताष्टम्यां तमभ्यर्च्य विधानतः । दत्त्वा तु कपिलां धेनुं स्वर्गलोके महीयते ॥ १०.२२ ॥ तस्मादुत्तरतो विद्धि सङ्गमं लोकविश्रुतम् । गङ्गायमुनयोर्नित्यं रेवायाश्च नराधिप ॥ १०.२३ ॥ तत्र स्नातस्य राजेन्द्र अश्वमेधफलं भवेत् । श्राद्धं तत्र प्रकुर्वीत पितॄणां प्रीतिवर्द्धनम् ॥ १०.२४ ॥ राजोवाच - गङ्गा च यमुना चात्र समायाते कथं मुने । एतद्विस्तरतः सर्वं प्रब्रूहि मुनिपुङ्गव ॥ १०.२५ ॥ मार्कण्डेय उवाच - शृणु राजन्महाभाग कथ्यमानं निबोध मे । मतङ्गो नाम राजर्षिरासीद्धर्मपरायणः ॥ १०.२६ ॥ शिवभक्तो महायोगी त्रिपुर्यां वेदवित्तमः । षण्मासभोजी धर्मात्मा हत्वा करिवरं स्वयम् ॥ १०.२७ ॥ षष्ठे मासे तु संप्राप्ते यथावद्विधिपूर्वकम् । पितृयज्ञं तु निर्वर्त्य शेषं भुङ्क्ते नराधिप ॥ १०.२८ ॥ एवं तपसि तप्ते तु कालेन महता ततः । सप्तर्षयः समायातास्तेन मार्गेण भारत ॥ १०.२९ ॥ स तान् दृष्ट्वा नमस्कृत्य अर्घपाद्यैरपूजयत् । कुशासनोपविष्टांस्तु प्रोवाच मुनिसत्तमः ॥ १०.३० ॥ धन्योऽस्मि पितृमेधे यत्संप्राप्ता मे भवादृशाः । तत्तस्य वचनं श्रुत्वा मतङ्गस्य महामुने ॥ १०.३१ ॥ ऋषयश्चिन्तयामासुरन्योऽन्यं वै तदा नृप । मांसेन पितृमेधोऽस्य कथं त्याज्यो भवेदिति ॥ १०.३२ ॥ चिन्ताविष्टान्मुनीन् दृष्ट्वा वशिष्ठः प्राह तं मुनिम् । गङ्गायमुनयोर्योगे स्नानं कृत्वा महामुने ॥ १०.३३ ॥ भोक्षामहे वयं सर्वे नात्र कार्या विचारणा । तस्य तद्वचनं श्रुत्वा मतङ्गः प्राह तान् हसन् ॥ १०.३४ ॥ गङ्गायमुनयोर्योगे स्नानं चात्र भविष्यति । इत्युक्त्वा ध्यानमास्थाय स गङ्गां यमुनां तथा ॥ १०.३५ ॥ समाह्वयत्मुनिश्रेष्ठः समायाते तु तत्क्षणात् । स्नानं कुरुध्वं मुनयो गङ्गायमुनसङ्गमे ॥ १०.३६ ॥ ते दृष्ट्वा तादृशं कर्म्म मुनेस्तस्य महात्मनः । विस्मयाविष्टहृदयाः प्रशशंसुश्च तं मुनिम् ॥ १०.३७ ॥ ततस्तु मुनयः सर्वे स्नानं कृत्वा यथाविधि । पितृयज्ञं तु निर्वर्त्य मतङ्गस्य ययुर्दिवम् ॥ १०.३८ ॥ गङ्गा च यमुना चैव प्रविष्टे सप्त कल्पगां । इत्थं स सङ्गमो जातः सर्वपापहरः परः ॥ १०.३९ ॥ अमासोमसमायोगे स्नानं यः कुरुते नरः । सर्वधर्मसुसम्पन्नः शिवभक्तिपरायणः ॥ १०.४० ॥ उद्धृत्य पूर्वजान् सप्तचैवापरांस्तथा । दिव्यदेहसमापन्नो दिव्याभरणभूषितः ॥ १०.४१ ॥ दिव्ययान समारूढः स्तूयमानोऽप्सरोगणैः । तत्क्षणाद्विरजो भूत्वा स्वर्गलोके महीयते ॥ १०.४२ ॥ अस्य तीर्थस्य माहात्म्यान्मुच्यते सर्वपातकैः । नैरन्तर्येण षण्मासाज्जितक्रोधो जितेन्द्रियः ॥ १०.४३ ॥ स्नानं यः कुरुते तत्र पूजयेच्च महेश्वरम् । पथिकः कारणाद्वापि म्लेच्छदेशेऽपि वा क्वचित् ॥ १०.४४ ॥ यत्र तत्र मृतः सोऽपि प्राप्नुयाच्छिवसन्निधिम् । स्नानं दान तपो होमः संयोगे चैव पर्वणि ॥ १०.४५ ॥ यदत्र क्रियते तस्य पुण्यसंख्या न विद्यते । एतत्ते मे कृतं राजंस्त्रिपुरीक्षेत्रवर्णनम् ॥ १०.४६ ॥ श्रवणं यस्य राजेन्द्र दैवतैरपि दुर्लभम् । एतच्छ्रुत्वा महाराज नर्मदाकीर्तनं शुभम् ॥ १०.४७ ॥ नमस्कृत्य वरारोहां कामिकं यानमास्थितः । विवेश नगरीं पुण्यामयोध्यां देवनिर्मिताम् ॥ १०.४८ ॥ मुदा परमया युक्तो यथा पूर्वं तथैव सः । एतत्ते कीर्तितं राजन् यथावदनुपूर्वशः ॥ १०.४९ ॥ शिवेन कथितं पूर्वं स्कन्दस्य तु महात्मनः । श्रवणात्कीर्तनात्चैव शिवलोके महीयते ॥ १०.५० ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे मातङ्गाख्यानं नाम दशमोऽध्यायः ॥ अध्याय ११ अथान्यत्परमं तीर्थं सुरासुरनमस्कृतम् । योगतीर्थमिति ख्यातं सर्वपापप्रणाशनम् ॥ ११.१ ॥ योगी स्नात्वा विधानेन योगान्ते त्रिदिवं गतः । तत्र स्नात्वा नरो राजंस्तिर्यग्योनौ न गच्छति ॥ ११.२ ॥ सर्वपापविनिर्मुक्तो विष्णुलोके महीयते । अथान्यत्परमं तीर्थं ध्रुवो यत्र प्रकाशते ॥ ११.३ ॥ ध्रुवतीर्थे नरः स्नात्वा सर्वकामफलोदये । ध्रुवेश्वरं महादेवं भक्त्या यस्तु प्रपूजयेत् ॥ ११.४ ॥ दशायुतानि राजा वै पुरे वैद्याधरे शुभे । नाक्षत्रं नाम तीर्थं तु नर्मदातीरमाश्रितम् ॥ ११.५ ॥ यत्र ऋक्षेश्वरो देवः सर्वपापप्रणाशनः । सप्तविंशतिसंसिद्धिं नक्षत्राणि गतानि वै ॥ ११.६ ॥ तस्य तीर्थस्य माहात्म्याद्दिवि दीव्यन्तिदेवताः । तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ॥ ११.७ ॥ अथान्यत्परमं तीर्थं वाराहं नाम विश्रुतम् ॥ ११.८ ॥ महाशूकररूपेण धात्री यत्र समुद्धृता । एकादश्यां नरः स्नात्वा कृत्वा चैव यथोदितम् ॥ ११.९ ॥ उपवासपरो भूत्वा द्वादश्यां तु युधिष्ठिर । वैष्णवस्तु शुचिर्भूत्वा वाराहं च समर्चयेत् ॥ ११.१० ॥ पुष्पोपहारधूपैश्च गन्धदीपविलेपनैः । वर्षलक्षं तु साग्रं वै लोके क्रीडति वैष्णवे ॥ ११.११ ॥ ब्रह्मचारी जितक्रोधो विष्णुधर्मपरायणः । भक्त्या भोजयते यस्तु विप्रान् वैष्णवकांस्तथा ॥ ११.१२ ॥ लेखयित्वा विष्णुधर्मान् वस्त्रालङ्कारभूषितान् । निवेदयेद्ब्राह्मणाय श्रोत्रियाय विशेषतः ॥ ११.१३ ॥ पुराणं नर्मदाख्यानं श्रावयेच्च समाहितः । वरदाश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥ ११.१४ ॥ भवन्ति तस्य सत्यं वै नाऽत्र कार्य्या विचारणा । यावदक्षरसंख्यानं यावत्पत्रसमुच्चयः ॥ ११.१५ ॥ तावद्युगसहस्राणि स्वर्गलोके महीयते । विद्यादानात्परं दानं नान्य लोकेषु गीयते ॥ ११.१६ ॥ अदीपा च यथा रात्रिरनादित्यं यथा नभः । विद्याहीनं तथा सर्वमन्धे तमसि मज्जति ॥ ११.१७ ॥ एतत्ते कथितं सर्वं विद्यादानस्य यत्फलम् । सर्वदानफलं तस्य विद्यादानप्रभावतः ॥ ११.१८ ॥ अथान्यत्परमं तीर्थं चान्द्रायणमिति स्मृतम् । शशाङ्के रोहिणीयुक्ते पौर्णमास्यां महोत्सवे ॥ ११.१९ ॥ शशाङ्कभूषणं देवं सर्वसिद्धिप्रदायकम् । अर्चयित्वा विधानेन स्वर्गलोके महीयते ॥ ११.२० ॥ पौर्णमास्यां तु कुरुते राहुसूर्यसमागमे । तिलोदकं पिण्डदानं पुत्रः परमधार्मिकः ॥ ११.२१ ॥ पितरस्तस्य तृप्यन्ति पापोपहतचेतसः । सर्वं पाखण्डयुक्तं च आवृतं कलिना तथा ॥ ११.२२ ॥ पुराणवेदधर्माश्च दानं यज्ञस्तपस्तथा । आच्छादितमिदं पुण्यं हेतुकैः पापकर्मभिः ॥ ११.२३ ॥ नग्नैर्मलिनदीनैश्च कलौ लोके दिगम्बरैः । तस्माद्धर्मपरैर्नित्यमुपास्या नर्मदा नदी ॥ ११.२४ ॥ सौम्ये तु द्वादशादित्यं तीर्थं पुण्यविवर्धनम् । तत्र स्नात्वा नरो राजन्नर्चयित्वा तु भास्करम् ॥ ११.२५ ॥ संक्रान्तौ विषुवे चैव सूर्यलोके महीयते । एकस्मिन् भोजिते विप्रे लक्षं भवति भोजितम् ॥ ११.२६ ॥ तिलान्नं च हिरण्यं च यथा शक्त्या ददाति यः । शुक्लपक्षस्य माघस्य शुभा षष्ठी च सप्तमी ॥ ११.२७ ॥ तस्यां दानप्रभावेण ह्युपवासपरायणः । दशवर्षसहस्राणि सूर्यलोके महीयते ॥ ११.२८ ॥ तीर्थमाप्सरसं नाम याम्यां दिशि समाश्रितम् । चम्पका सीमपा नामा केशिनी भामिनी तथा ॥ ११.२९ ॥ कौमुदी सुप्रभा चैव उत्पला च महोदया । निषादयोनिं संप्राप्ताः पूर्वजन्मनि भारत ॥ ११.३० ॥ एता आप्सरसं देवं गौरी चैव सुरेश्वरी । माघे मासि तृतीयायां निराहाराश्च निर्जलाः ॥ ११.३१ ॥ उदकैः स्नापयित्वा तु बिल्वपत्रैरपूजयन् । दशवर्षसहस्राणि सावधानास्तु नार्मदैः ॥ ११.३२ ॥ सर्वकामसमृद्धास्ता अप्सरोभिः सुपूजिताः । सर्वालङ्कारशोभाढ्या नानावसनभूषिताः ॥ ११.३३ ॥ तस्य तीर्थस्य माहात्म्यात्संसिद्धिं परमां गताः । अथान्यत्कथयिष्यामि पुण्यतीर्थमनुत्तमम् ॥ ११.३४ ॥ यत्र स्नातस्य विधिवत्कन्यादानफलं भवेत् । शङ्करं नाम लिङ्गं तु उत्तरस्यां दिशि स्मृतम् ॥ ११.३५ ॥ अर्चयित्वा तु तं देवं दर्शे चैव नराधिप । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ११.३६ ॥ अथातः संप्रवक्ष्यामि सङ्गमं लोकविश्रुतम् । दत्तात्रेया नदी यत्र सङ्गता सह रेवया ॥ ११.३७ ॥ सौम्यभागे वरारोहासुरासुरनमस्कृता । तत्र स्नात्वा च दत्त्वा च अर्चयित्वा तु केशवम् ॥ ११.३८ ॥ पापिष्ठा ये दुराचारा धर्मकर्मबहिष्कृताः । प्रभावात्तस्य तीर्थस्य तेऽपि यान्ति हरेः पुरम् ॥ ११.३९ ॥ मेधातिथिः करः स्कन्दः सावर्णिः कौशिको मनुः । काश्यपो गालवश्चैव मैत्रेयस्तपसां निधिः ॥ ११.४० ॥ एते चान्येऽपि बहवो ऋषयः संशितव्रताः । तीर्थस्याऽस्य प्रभावेण शंसिद्धिं परमां गताः ॥ ११.४१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे तीर्थमहिमवर्णनो नामैकादशोऽध्यायः ॥ अध्याय १२ मार्कण्डेय उवाच - अथ शृणुष्व राजेन्द्र दक्षिणां दिशमाश्रितम् । शैवं गाञ्जालभेदं च संगमं सुरपूजितम् ॥ १२.१ ॥ तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः । यः कुर्यात्पितृदेवानां तर्पणं पिण्डपातनम् ॥ १२.२ ॥ पितरस्तस्य तृप्यन्ति यावच्चन्द्रार्कतारकम् । महोत्सवे च कौमुद्यां कार्त्तिक्यां चैव पर्वणि ॥ १२.३ ॥ गाञ्जालेश्वरलिङ्गं च अर्चयेत्सिद्धिदायकम् । हरिकेशश्चक्रवर्ती कन्यापुरपतिः पुरा ॥ १२.४ ॥ तीर्थस्याऽस्य प्रभावेण मुक्तो भूद्वत्सगोवधात् । मार्कण्डेय उवाच - ममास्ति संशयस्तात सुमहांल्लोमहर्षणः ॥ १२.५ ॥ कथं राजनि गोहत्या कथं मुक्तश्च गोवधात् । मार्कण्डेय उवाच - शृणु राजन् कथां दिव्यामितिहासं पुरातनम् ॥ १२.६ ॥ सोमवंशे नृपश्चासीत्सत्यधर्मव्रते स्थितः । देवानीक इति ख्यातो हरिकेशस्तदात्मजः ॥ १२.७ ॥ सर्वलक्षणसम्पूर्णश्चक्रवर्ती महाबलः । अनेकाश्च मखास्तेन राजन्निष्टा महात्मना ॥ १२.८ ॥ ख्यातं कन्यापुरं तस्य धनदस्यालका यथा । चिरायुषः प्रजाः सर्वा धनधान्यसमन्विताः ॥ १२.९ ॥ तुङ्गभद्रेति विख्याता श्रीशैले त्रिपुरान्तिके । उक्ता पातालगङ्गेति मल्लिकार्जुनदर्शनात् ॥ १२.१० ॥ पूर्वभागे ततस्तस्य श्रीधामं नाम खेटकम् । नाना मुनिसमाकीर्णं देवकोटिसमावृतम् ॥ १२.११ ॥ ललितोद्वाहिता तत्र शिवेन परमात्मना । पुरा त्वस्यायुषा नाम प्रजापतिरकल्पयत् ॥ १२.१२ ॥ सुप्रभा नाम तस्यास्तु विख्यातमभवत्तथा । देव्याः पूर्वावतारोऽयं कथितस्ते विशाम्पते ॥ १२.१३ ॥ द्वितीये हिमवत्पुत्री पार्वती च उमा तथा । तृतीये दक्षदुहिता नाम्ना गौरीति विश्रुता ॥ १२.१४ ॥ पुण्यतीर्थे च क्षेत्रेऽस्मिन् हरिकेशः प्रतापवान् । सुप्रभा निकटे नाम सुप्रभो राजसत्तम ॥ १२.१५ ॥ शशास मेदिनीं राजा सर्वधर्मपरायणः । लक्षमेकं तु दोग्ध्रीणां राहुसूर्यसमागमे ॥ १२.१६ ॥ निष्काणां तु सहस्रं वै प्रतिगङ्गामकल्पयत् । सर्वाभरणशोभाढ्यामेकां गां चोपवेशयत् ॥ १२.१७ ॥ ब्राह्मणांश्च समाहूय वेदविद्याबहुश्रुतान् । पञ्चभिर्दिवसैः पूर्वं राहुसूर्यसमागमे ॥ १२.१८ ॥ प्रयागे तत्र योगे वा इत्युक्तं वेदपारगैः । दैवोपकृतयोगेन पूर्वकर्म्मकृतेन च ॥ १२.१९ ॥ आग्नेयी हूयते चेष्टी राज्ञाऽनलसमागमे । अग्नावाहवनीयेऽत्र रौद्रैर्मन्त्रैः सुतेजसैः ॥ १२.२० ॥ पातालादुत्थितो वह्णिर्युगान्ताग्निसमप्रभः । दग्धं गोमण्डलं कृत्स्नमयुतं ब्रह्मचारिणाम् ॥ १२.२१ ॥ भस्मीभूतं च तत्सर्वं मण्डपं पुरमेव हि । हरिकेशो विषण्णात्मा प्रवेष्टुं वै हुताशनम् ॥ १२.२२ ॥ आसनादुत्थितो राजा सान्तः पुरपरिच्छदः । अमात्यैः संवृतस्तावत्समयज्ञैर्बलोत्तरैः ॥ १२.२३ ॥ हाहाकारो महानासीत्त्रिषु लोकेषु भारत । उवाच वचनं राजा ब्राह्मणान् वेदपारगान् ॥ १२.२४ ॥ ब्राह्मणस्यैव हत्याया गवां चैव विशेषतः । अपि वर्षसहस्रेण निष्कृतिर्न विधीयते ॥ १२.२५ ॥ धेनूनां चैव वत्सानां ब्राह्मणानां यथागतिः । सा गतिर्मे भवेन्नित्यं सत्यमेतद्ब्रवीम्यहम् ॥ १२.२६ ॥ ब्राह्मण उवाच - गच्छ त्वं महाभाग कल्पग्रामं पुरोत्तमम् । अगस्तिर्भगवान् यत्र कश्यपो भृगुरेव च ॥ १२.२७ ॥ भारद्वाजोऽत्रिगर्गौ च गौतमो मनुरेव च । याज्ञवल्क्यो वशिष्ठश्च ऋषयः शंसितव्रताः ॥ १२.२८ ॥ तत्र गत्वा महाराज प्रायश्चित्तं प्रगृह्यताम् । महर्षीणां मतेनैव वेदशास्त्रार्थदर्शिनाम् ॥ १२.२९ ॥ एवमुक्तो ययौ राजा पादचारी द्विजैः सह । विवेश नगरीं पुण्यां ब्रह्मलोकसमां नृपः ॥ १२.३० ॥ महर्षींस्तत्र तान् दृष्ट्वा सोऽभिवाद्य प्रणम्य च । निश्चयं चिरकालं तु तेषामेवाग्रत स्थितः ॥ १२.३१ ॥ ऋषय ऊचुः॒ स्वागतं ते नृपश्रेष्ठ फलं कर्मसहस्रशः । किमागमनकार्यं च सत्यमेतद्वदस्व नः ॥ १२.३२ ॥ तेषां तद्वचनं श्रुत्वा ऋषीणामूर्द्ध्वरेतसाम् । कृताञ्जलिपुटो भूत्वा वृत्तान्तं स्वं न्यवेदयत् ॥ १२.३३ ॥ दैवाद्विपद्यते कार्यं संसिद्धमपि भो द्विजाः । दशाऽयुतं गवां दग्धं द्विजानामयुतं तथा ॥ १२.३४ ॥ अनुग्रहं बहु मन्ये प्रायश्चित्तमथोदितम् । ब्राह्मणा ऊचुः॒ दशलक्षाणि गायत्र्यास्तीर्थे तीर्थे जपं कुरुं ॥ १२.३५ ॥ अयुतं तु गवां दत्त्वा सहिरण्यं नृपोत्तम । कोटिहोमं तु कुर्वीत सहस्रशतदक्षिणम् ॥ १२.३६ ॥ प्रयागं च महातीर्थं गच्छेद्वाराणसीं शुभाम् । केदारं च तथेशानं गङ्गासागरसङ्गमम् ॥ १२.३७ ॥ पितृतीर्थं गयां चैव नैमिषं पुष्करं तथा । मायापुरीं हरिक्षेत्रं गङ्गाद्वारं महाफलम् ॥ १२.३८ ॥ तीर्थेष्वेतेषु चान्येषु यावद्द्वादशवत्सरान् ॥ १२.३९ ॥ अनेन क्रमयोगेन शुद्धिस्ते नात्र संशय । मुक्तिस्ते भविता राजन् ब्राह्मणानां प्रभावतः ॥ १२.४० ॥ दत्तं ते श्रुतिवाक्येन प्रायश्चित्तं द्विजोत्तमैः । पादपूजा द्विजेन्द्राणां कर्तव्या च विधानतः ॥ १२.४१ ॥ कुरुक्षेत्रं जगामाथ कर्तुं सोमसवं नृपः । विचिन्त्यैवं स्वाघन्यासं सरस्वत्यां समाश्रयत् ॥ १२.४२ ॥ जपति स्म शिवस्तोत्रं हरं विष्णुं सरस्वतीम् । कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ॥ १२.४३ ॥ कुरुक्षेत्रस्य नाम्नाऽपि नरः पापात्प्रमुच्यते । अखिलशब्दमहौषधप्रक्षालितसकलाभूतकलङ्का । मुनिभिरुपासिततीर्था सरस्वतीह हरतु मे दुरितम् ॥ १२.४४ ॥ राज्ञस्तद्वचनं श्रुत्वा प्राह पापहरा नदी । विषादं त्यज राजेन्द्र शृणु मे वचनं परम् ॥ १२.४५ ॥ उपदेशं प्रदास्यामि स्थातुं तव नृपोत्तम । अनेकभाविकं घोरं स्मरणादेव नश्यति ॥ १२.४६ ॥ ब्रह्महत्या सहस्रं तु गोहत्यालक्षमेव च । न च मोचयितुं शक्ता गङ्गा चैव सरिद्वरा ॥ १२.४७ ॥ चराचरेऽस्य लोकेऽस्मिन् कर्त्री तिष्ठति कल्पगा । दीपादित्यादिभिर्वीक्ष्य यथान्धत्व प्रणश्यति ॥ १२.४८ ॥ तथा नाशयते पापं कल्पगा सरितां वरा । दानैर्दग्धा पुरा चाहं क्षत्रियाणामनेकधा ॥ १२.४९ ॥ ग्रस्ताऽहं तेन पापेन नृपदक्षिणया ततः । शुक्लतः कृष्णतां चाहं प्राप्ता भो पृथिवीपते ॥ १२.५० ॥ द्वादशाऽब्दे चतुर्विंशे स्नानं कर्तुं समागमम् । ग्रस्ते वै राहुणा सूर्ये कोटितीर्थे नराधिपः ॥ १२.५१ ॥ प्रत्यक्षं मे शरीरं त्वं पश्य तेजः समुज्ज्वलम् । स्नात्वा तु शिवमभ्यर्च्य बहु स्वर्णं मखोत्तमम् ॥ १२.५२ ॥ कुरु तत्र नृपश्रेष्ठ तेन ते निष्कृतिर्भवेत् । ये मृता ब्राह्मणा गावस्तेषामस्थिप्रवाहनम् ॥ १२.५३ ॥ नर्मदोदकसम्पर्काद्दिवि देवत्वमाप्यते । तिलोदकप्रदानेन तेषां मुक्तिः परा भवेत् ॥ १२.५४ ॥ श्रुत्वैतत्कथितं वाक्यं सरस्वत्या नृपश्च ताम् । नमस्कृत्य समुत्थाय कन्यापुरमगात्ततः ॥ १२.५५ ॥ सान्तः पुरपरीवारो मुदा परमया नृपः । तेनाज्ञप्तास्ततो भृत्याः सर्वसम्भारसभृताः ॥ १२.५६ ॥ यज्ञोपस्करमादाय मेकला यत्र गच्छत । अस्थि भस्म यथान्यायं नीतं कर्मकरैस्ततः ॥ १२.५७ ॥ प्रावाहयत्कल्पगायां मन्त्रयुक्तेन वारिणा । अस्थ्यादि पूजयित्वा च यथा विधमनुत्तमम् ॥ १२.५८ ॥ देवांश्च ब्राह्मणांस्तत्र तर्पयित्वा कृताञ्जलिः । प्रवाहो निर्गतस्तत्र नर्मदायां समाविशत् ॥ १२.५९ ॥ स गाञ्जालेति विख्यातो नर्मदा सङ्गमो नृप । गाञ्जालसिद्धलिङ्गं च सूर्यकोटिसमप्रभम् ॥ १२.६० ॥ दिव्ययानसमारूढा दग्धाः कालाग्निना तु ये । आशीर्वादपरास्सर्वे हरिकेशं प्रतुष्टुवुः ॥ १२.६१ ॥ त्वत्प्रसादान्महाभाग दिवि देवत्वमागताः । देवदुन्दुभिनिर्घोषैर्वेणुवीणारवैस्तथा ॥ १२.६२ ॥ दिव्ययानसमारूढा गतास्ते वैष्णवं पदम् । हरिकेशो नृपश्रेष्ठः परया च मुदायुतः ॥ १२.६३ ॥ सप्तकल्पवहां देवीं नर्मदा लोकपावनीम् । नमस्कृत्य सरिच्छ्रेष्ठां स्तुतिं चक्रे समाहितः ॥ १२.६४ ॥ नमस्तेऽस्तु सरिच्छ्रेष्ठे सप्तकल्पनिवासिनि । यत्र तत्र नरः स्नात्वा मुक्तो भवति कल्मषात् ॥ १२.६५ ॥ न तस्य पुनरावृत्तिर्घोरे संसारसागरे । जन्मान्तरसहस्रेण न त्वां स्तम्भयते बली ॥ १२.६६ ॥ जह्नुना हि पुरा पीता करतोयेन जाह्नवी । त्वया च पूरितं सर्वं विश्वं चैव चराचरम् ॥ १२.६७ ॥ त्वत्प्रसादात्महादेवि मुक्तिश्चापि भवार्णवात् । प्रत्यक्षा कल्पगैतच्च स्तोत्रं श्रुत्वा नृपोदितम् ॥ १२.६८ ॥ नर्मदोवाच - वरं वृणु महाभाग यत्ते मनसि वर्तते । तस्यास्तद्वचनं श्रुत्वा हरिकेशोऽब्रवीदिदम् ॥ १२.६९ ॥ यदि मे वरदादेवि पूतं मां परिकल्पय । स्नानावगाहनात्पानात्स्मरणात्कीर्तनादपि ॥ १२.७० ॥ सप्तजन्मकृतं पापं सद्य एव प्रणश्यतु । रेवोवाच - एवमस्तु नृपश्रेष्ठ मत्प्रसादाद्भविष्यति ॥ १२.७१ ॥ एवमुक्त्वा ततो देवी तत्रैवान्तर धीयत । हरिकेशश्चक्रवर्ती साष्टाङ्गं प्रणिपत्य च ॥ १२.७२ ॥ कामिकं यानमारुह्य सर्वालङ्कारभूषितः । विवेश नगरं पुण्यं यथाशक्रोऽमरावतीम् ॥ १२.७३ ॥ कालान्तरे ततः प्राप्ते राज्यं कृत्वा सुरालये । सान्तः पुरपरीवारो भोगान् भुङ्क्ते स्म पुष्कलान् ॥ १२.७४ ॥ एतत्ते कथितं राजन्महाभाग विशाम्पते । द्वापरं वंशमैक्ष्वाकं ब्राह्मं वैवस्वतं तथा ॥ १२.७५ ॥ कापिलं पुष्करं चेति सप्तकल्पान् विदुर्बुधाः । कापिलं प्रथमं विद्धि प्राजापत्यं द्वितीयकम् ॥ १२.७६ ॥ ब्राह्मं रौचं च सावित्रं बार्हस्पत्यं प्रभासकम् । महेन्द्रमग्निकल्पं वैजयन्तं मारुतं तथा ॥ १२.७७ ॥ वैष्णवं ब्रह्मरूपं च ज्योतिषं च चतुर्दशम् । एते कल्पास्तु संख्याता न मृता येषु नर्मदा ॥ १२.७८ ॥ एतत्ते कथितं राजन्नितिहासं पुरातनम् । धन्यं यशस्यमायुष्यं महतां कीर्तिवर्द्धनम् ॥ १२.७९ ॥ श्रवणात्कीर्तनाद्वापि मुच्यते सर्वकिल्विषात् ॥ १२.८० ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये गाञ्जालतीर्थवर्णनो नाम द्वादशोऽध्यायः ॥ अध्याय १३ मार्कण्डेय उवाच - अथान्यत्परमं तीर्थं सर्वपापविनाशनम् । दिशि याम्यां समाख्यातं नाम्ना वै बालुकेश्वरम् ॥ १३.१ ॥ पुण्यं प्रकीर्तितं तत्र लिङ्गं परमसिद्धिदम् । तत्र स्नात्वा यथान्यायं हेमभारफलं लभेत् ॥ १३.२ ॥ शङ्कुकर्ण इति ख्यातो यक्षः परमसिद्धिदः । उत्तरायणमासाद्य कन्या रेवासमागमे ॥ १३.३ ॥ संजगाम नृपश्रेष्ठ शिवसंसक्तमानसः । मणिमाणिक्यरत्नानि ब्राह्मणार्थमकल्पयत् ॥ १३.४ ॥ तावन्नृपस्तु तं स्थानात्स्थाणुं चैव महेश्वरम् । चालयामास यक्षस्तु ततः क्रुद्धो महेश्वरः ॥ १३.५ ॥ ददाह हस्तौ यक्षस्य विस्मयाविष्टचेतसः । आकाशवचसा प्रोक्तं विषादं त्यज पुत्रक ॥ १३.६ ॥ सुरसङ्घास्त्रयस्त्रिंशत्नैनं चालयितुं क्षमाः । सुरासुरगुरून् देवं स्थाणुभूतं स्वयम्भुवम् ॥ १३.७ ॥ किं पुनर्दानवा यक्षमानुषाश्चाल्पचेतसः । क्षमयित्वा तु देवेशं शङ्कुकर्णो महेश्वरम् ॥ १३.८ ॥ सूर्यकोटिसमप्रख्यं ज्वलन्तं दीप्ततेजसम् । अज्ञानात्कृतमेतत्तु क्षन्तव्यं मयि पुत्रके ॥ १३.९ ॥ उवाच वचनं देवं वरं देहि महेश्वर । प्रसाद्य चाब्रवीद्यक्षस्तव भृत्यं वशं गतम् ॥ १३.१० ॥ गणत्वं गणमध्ये तु देहि हे सुरसत्तम । यक्षतीर्थमिति ख्यातं लिङ्गं वै बालुकेश्वरम् ॥ १३.११ ॥ कर्तुमर्हसि देवेश तीर्थेऽस्मिन् सचराचरैः । अयने चोत्तरे ह्यत्र स्नानदानमनुत्तमम् ॥ १३.१२ ॥ इमं वरमहं मन्ये यदि तुष्टोऽसि शङ्कर । शङ्कर उवाच - सर्वकाभफलावाप्तिर्मत्प्रसादाद्भविष्यति ॥ १३.१३ ॥ एवमुक्त्वा महेशानस्तत्रैवान्तर धीयत । शङ्कुकर्णो महातेजास्तीर्थस्यास्य प्रभावतः ॥ १३.१४ ॥ दिव्ययानं समारुह्य ययौ माहेश्वरं पुरम् । अथान्यत्परमं तीर्थं सर्वपापप्रणाशनम् ॥ १३.१५ ॥ दिशि याम्यां समाख्यातं नाम्ना पूर्णमनोरथम् । पुण्यकीर्तनलिङ्गं तु ब्रह्महत्याप्रणाशनम् ॥ १३.१६ ॥ तत्र स्नात्वा महाराज गोसहस्रफलं लभेत् । हरिवर्मा पुरा चासीद्विराट्नगराधिपः ॥ १३.१७ ॥ सर्वधर्मगुणोपेतो यज्ञयाजी महायशाः । इष्टस्तत्र महायज्ञो येन वै कल्पगातटे ॥ १३.१८ ॥ गोलक्षं तत्र दत्तं च हेमभारपरिष्कृतम् । देवाश्च तार्पितास्तत्र ब्रह्माविष्णुर्बृहस्पतिः ॥ १३.१९ ॥ ब्राह्मणाः पूजिता भक्त्या नानारत्नविभूषिताः । प्रशशंसुश्च नृपतिं सुराः पूर्णमनोरथाः ॥ १३.२० ॥ अथान्यत्कथयिष्यामि तीर्थात्तीर्थमनुत्तमम् । रेवामत्स्यासमायोगे सुरासुरनमस्कृतम् ॥ १३.२१ ॥ नाभागस्य च संवादमापस्तम्बस्य चानघ । मन्वन्तरे चाक्षुषे वै संप्राप्ते द्वापरे युगे ॥ १३.२२ ॥ नाम्ना मत्स्येश्वरं लिङ्गं जलमध्ये व्यवस्थितम् । पूज्यते नागकन्याभिर्न तं पश्यन्ति मानुषाः ॥ १३.२३ ॥ महातेजो मणिमयं चन्द्रबिम्बसमप्रभम् । स्मरणाद्यस्य देवस्य ब्रह्महत्या प्रणश्यति ॥ १३.२४ ॥ युधिष्ठिर उवाच - साधुभिः सह संवासात्के गुणाः परिकीर्तिताः । काः कथाः कानि पुण्यानि सङ्गमे साप्तकल्पगे ॥ १३.२५ ॥ मार्कण्डेय उवाच - अत्रैवोदाहरन्तीममितिहासं पुरातनम् । नाभागस्य च संवादमापस्तम्ब तपोनिधेः ॥ १३.२६ ॥ महर्षिश्चात्मवान् पूर्वमापस्तम्बो द्विजोत्तमः । उपवासकृतारम्भो बभूव भगवांस्तथा ॥ १३.२७ ॥ नित्यं क्रोधं च कामञ्च लोभं मोहं विसृज्य च । रेवामत्स्यासमायोगे विवेश सलिलाशये ॥ १३.२८ ॥ स मत्स्यैः सलिलावर्ते सरितश्चानुगैस्तदा । तत्रान्योत्पतितैर्जालैः समानीतो महायशाः ॥ १३.२९ ॥ तस्मादुत्तारयामासुः सलिलाद्ब्रह्मनन्दनम् । तं दृष्ट्वा तपसा दीप्तं कैवर्ता भयविह्वलाः ॥ १३.३० ॥ शिरोभिः प्रणिपत्योच्चैरिदं वचनमब्रुवन् । अज्ञानात्क्रियमाणानामस्माकं क्षन्तुमर्हसि ॥ १३.३१ ॥ किं वा किं च प्रियं तेऽद्य तदाज्ञापय सुव्रत । स मुनिस्तन्महद्दृष्ट्वा मत्स्यानां कदनं कृतम् ॥ १३.३२ ॥ कृपया परयाविष्टो दाशान् प्रोवाच दुःखितः । दुःखितानीह भूतानि यो न भूतैः पृथग्विधैः ॥ १३.३३ ॥ केवलात्म सुखेच्छातोऽवेन्नृशंसतरोऽस्ति कः । अहोऽस्वस्थेष्वकारुण्यं स्वआर्थे चैव बलिर्वृथा ॥ १३.३४ ॥ ज्ञानिनामपि चेद्यस्तु केवलात्महिते रतः । ज्ञानिनो हि यथा स्वार्थमाश्रित्य ध्यानमाश्रिताः ॥ १३.३५ ॥ दुःखार्तानीह भूतानि प्रयान्ति शरणं ततः । योऽभिवाञ्छति भोक्तुं वै सुखान्येकान् ततो जनः ॥ १३.३६ ॥ पापात्परतरं तं हि प्रवदन्ति मुमुक्षवः । को नु मे स्यादुपायो हि येनाहं दुःखितात्मनाम् ॥ १३.३७ ॥ अन्तःप्रविश्य भूतानां भवेयं सर्वदुःखभुक् । यन्ममास्ति शुभं किंचित्तद्दीनानुपगच्छतु ॥ १३.३८ ॥ यत्कृतं दुष्कृतं तैश्च तदशेषमुपैतु माम् । दृष्ट्वा तान् कृपणान् व्यङ्गाननङ्गान् रोगिणस्तथा ॥ १३.३९ ॥ दया न जायते यस्य स रक्ष इति मे मतिः । प्राणसंशयमापन्नान् प्राणिनो भयविह्वलान् ॥ १३.४० ॥ यो न रक्षति शस्तोऽपि स तत्पापं समश्नुते । आहूतानां नयार्तानां सुखं यदुपजायते ॥ १३.४१ ॥ तस्य स्वर्गापवर्गौ च कलां नार्हन्ति षोडशीम् । तस्माच्चैतानहं दीनां छक्तुं मीनान् सुदुःखितान् ॥ १३.४२ ॥ यादृङ्मात्रं न पश्यामि किं पुनस्त्रिदशालयम् । निशम्यैतन्मुनेर्वाक्यं दाशास्ते जातसंभ्रमाः ॥ १३.४३ ॥ यथार्थं तु तथा सर्वं नाभागाय न्यवेदयन् । नाभागोऽपि ततः श्रुत्वा तं द्रष्टुं ब्रह्मनन्दनम् ॥ १३.४४ ॥ त्वरितः प्रययौ तत्र सामात्यः सपुरोहितः । स सम्यक्पूजयित्वा तु देवकल्पं नृपस्ततः ॥ १३.४५ ॥ प्रोवाच भगवन् विद्वन् किं करोमि तवाज्ञया । आपस्तम्ब उवाच - श्रमेण महताविष्टाः कैवर्ता दुःखजीविनः ॥ १३.४६ ॥ मम मूल्यं प्रयच्छेति यद्योग्यं मन्यसे नृप । नाभाग उवाच - सहस्राणि शतं मूल्यं निषादेभ्यो ददाम्यहम् ॥ १३.४७ ॥ निष्क्रयार्थं हि भगवन्नीतं ते ब्रह्मनन्दन । आपस्तम्ब उवाच - नाहं शतसहस्रेण नियम्यः पार्थिव त्वया ॥ १३.४८ ॥ सदृशं दीयतां मूल्यममात्यैः सह चिन्तय । नाभाग उवाच - कोटिं प्रदीयतां मूल्यं निषादेभ्यो द्विजोत्तम ॥ १३.४९ ॥ यद्येतदपि योग्यं नो ततो भूयः प्रदीयताम् । आपस्तम्ब उवाच - राजन्नार्हा वयं कोटिमधिकं चापि पार्थिव ॥ १३.५० ॥ सदृशं दीयतां मूल्यं ब्राह्मणैः सह संवद । राजोवाच - अर्द्धं राज्यं समस्तं वा निषादेभ्यः प्रदीयते ॥ १३.५१ ॥ एतन्मूल्यमहं मन्ये किं वालं मन्यसे द्विज । आपस्तम्ब उवाच - अर्द्धं राज्यं समस्तं वा नाहमर्हामि वै नृप ॥ १३.५२ ॥ सदृशं दीयतां मह्यं ऋषिभिः सह चिन्तय । महर्षेस्तद्वचः श्रुत्वा नाभागस्तु विवादयन् ॥ १३.५३ ॥ चिन्तयामास धर्मात्मा सामात्यः सपुरोहितः । ततः कश्चिदृषिस्तत्र लोमशस्तु महातपाः ॥ १३.५४ ॥ नाभागमब्रवीत्माभैः तोषयिष्यामि तं मुनिम् । राजोवाच - ब्रूहि मूल्यं महाभाग मे ज्ञातिकुलबान्धवान् ॥ १३.५५ ॥ निर्दग्धवानृषिः क्रुद्धस्त्रैलोक्यं सचराचरम् । किं पुनर्मानवं दीनमत्यल्पं विषयात्मकम् ॥ १३.५६ ॥ लोमश उवाच - त्वं समर्थो महाराज जगत्पूज्या द्विजोत्तमाः । गावश्च दिव्यास्तस्माद्वै मूल्यमस्मै प्रदीयताम् ॥ १३.५७ ॥ ततः श्रुत्वा तु वचनं स सामात्यपुरोहितः । हर्षेण महताविष्टः प्रोवाचेदं वचो मुनिम् ॥ १३.५८ ॥ उत्तिष्ठोत्तिष्ठ भगवन् कृतमेव न संशयः । एतद्योग्यतं मूल्यं भवतो मुनिसत्तम ॥ १३.५९ ॥ आपस्तम्ब उवाच - उत्तिष्ठाम्येव संप्रीत्या सम्यक्क्रीतोऽस्मि पार्थिव । गोभ्यो मूल्यं न पश्यामि पवित्रं पापनाशनम् ॥ १३.६० ॥ गावः प्रदक्षिणी कार्य्या वन्दनीया हि नित्यशः । मङ्गलायतन दिव्यास्सृष्टास्त्वेताः स्वयम्भुवा ॥ १३.६१ ॥ अप्यागाराणि विप्राणां देवतायतनानि च । यद्गोमयेन शुद्ध्यन्ति किं ब्रूमो ह्यधिकं ततः ॥ १३.६२ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तथैव च । गवां पञ्च पवित्राणि पुनन्ति सकलं जगत् ॥ १३.६३ ॥ गावो मे चाग्रतो नित्यं गावः पृष्ठत एव च । गावो मे हृदये चैव गवां मध्ये वसाम्यहम् ॥ १३.६४ ॥ एव यः पठते नित्यं त्रिसन्ध्यं नियतः शुचिः । मुच्यते सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥ १३.६५ ॥ अग्रे ग्रासपरो भावः कर्तव्यो भक्तितोऽन्वहम् । अकृत्वा स्वयमाहारं कुर्वन्नाप्नोति दुर्गतिम् ॥ १३.६६ ॥ तेनाग्नयो हुतास्सम्यक्पितरश्चापि तार्पिताः । देवाश्च पूजितास्तेन यो ददाति गवाह्निकम् ॥ १३.६७ ॥ मन्त्रः सौरभेयी जगत्पूज्या नित्य विष्णुपदे स्थिता । सर्वदेवमयी ग्रासं मया दत्तं प्रतीक्षताम् ॥ १३.६८ ॥ रक्षणाद्ब्रह्मपुत्राणां गवां कण्डूयनात्तथा । क्षीणार्तरक्षणाच्चैव ततः स्वर्गे महीयते ॥ १३.६९ ॥ आदिर्हि गावो यज्ञस्य मध्यं चान्त्यं प्रकीर्तिताः । क्षरन्ति तास्तु सकलं क्षीराज्यममृतं तथा ॥ १३.७० ॥ तस्माद्गावः प्रदातव्याः पूजनीया हि नित्यशः । स्वर्गस्य सङ्गमायैतास्सोपानं हि विनिर्मिताः ॥ १३.७१ ॥ एतच्छ्रुत्वा निषादास्ते गवां माहात्म्यमुत्तमम् । प्रणिपत्य महाभागमापस्तम्बमथाब्रुवन् ॥ १३.७२ ॥ निषादा ऊचुः॒ सम्भाषा दर्शनस्पर्शवर्णनं कीर्तनं तथा । पावनानि समस्तानि साधूनामिति नः श्रुतम् ॥ १३.७३ ॥ सम्भाषा दर्शनं चैवमिहास्माभिः कृतं द्विज । कुरुष्वानुग्रहं तस्मात्त्वां वयं शरणं गताः ॥ १३.७४ ॥ आपस्तम्ब उवाच - एतां गां प्रतिगृह्णन्तु ततस्ते मुक्तकिल्बिषाः । निषादाश्च गताः स्वर्गं सह मत्स्यैर्जलोद्भवैः ॥ १३.७५ ॥ प्राणिनां प्रीतिमुत्पाद्य निन्दितेनाऽपि कर्मणा । नरकं यदि पश्यामि वत्स्यामि स्वर्गमेव वा ॥ १३.७६ ॥ यन्मया सुकृतं किंचिन्मनोवाक्कायकर्मभिः । कृत तेनापि दुःखार्ताः सर्वे यान्तु शुभां गतिम् ॥ १३.७७ ॥ ततस्तस्य प्रसादेन महर्षेर्भावितात्मनः । निषादास्तेन वाक्येन सह मत्स्या दिवं गताः ॥ १३.७८ ॥ तान् दृष्ट्वा अथ गतान् स्वर्गं समत्स्यान्मत्स्यजीविनः । सामात्यभृत्यो नृपतिर्विस्मयादिदमब्रवीत् ॥ १३.७९ ॥ सेव्याः श्रेयोऽर्थिभिः सन्तः तीर्थं पुण्यं जलोत्तमम् । क्षणोपासनमप्यत्र न तेषां निष्कलं भवेत् ॥ १३.८० ॥ सद्भिस्सह समासीत सद्भिः कुर्वीत सत्कथाम् । आपस्तम्बो मुनिस्तत्र लोमशश्च महातपा ॥ १३.८१ ॥ पदैस्तु विविधैरिष्टैर्बोधयामास तु नृपम् । ततः संधारयामास धर्मबुद्धिं सुदुर्लभाम् ॥ १३.८२ ॥ तथेति कृत्वा चोक्त्वा च नृपं तं प्रशशंसतुः । अहो धन्योऽसि राजेन्द्र यत्ते धर्मपरामतिः ॥ १३.८३ ॥ धर्मः सुदुर्लभः पुंसां विशेषेण महीक्षिताम् । यदि राज्यमदाविष्टः स्वधर्मं न परित्यजेत् ॥ १३.८४ ॥ ततो जगति कस्तस्मात्पुनरभ्यधिको भवेत् । ध्रुवं धर्मश्च राज्यं वै मोहश्चैव सदा ध्रुवः ॥ १३.८५ ॥ महाध्रुवश्च नरको राज्यं निन्दन्ति ते बुधाः । राज्यं हि मन्यते मूढो नरो विषयलोलुपः ॥ १३.८६ ॥ मनीषिणस्तु पश्यन्ति सदैव नरकोपमम् । तस्माच्छोकश्च मोहश्च न कर्तव्यो मदस्त्वया ॥ १३.८७ ॥ यदीच्छसि महाराज शाश्वतीं गतिमात्मनः । मार्कण्डेय उवाच - इत्युक्त्वा महात्मानौ जग्मतुः स्वं स्वमाश्रमम् ॥ १३.८८ ॥ नाभागोऽपि वरं लब्ध्वा प्रहृष्टस्त्वविशत्पुरम् । एतत्ते कथितं राजन् ये गणाः सत्समागमे ॥ १३.८९ ॥ माहात्म्यं वै गवां तद्वत्किं भूयः श्रोतुमिच्छसि । रेवामत्स्यासमायोगे गवां माहात्म्यमुत्तमम् ॥ १३.९० ॥ तत्र स्नात्वा महाराज मत्स्येश्वरमथाऽर्चय । आपस्तम्बो महाभागो निषादा मत्स्यजीविनः ॥ १३.९१ ॥ मत्स्यैः सह गताः स्वर्गं तीर्थस्यास्य प्रभावतः । दिव्यकान्तिधराः सर्वे लोके क्रीडन्ति वैष्णवे ॥ १३.९२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे मत्स्येश्वरतीर्थवर्णनोनाम त्रयोदशोऽध्यायः ॥ अध्याय १४ मार्कण्डेय उवाच - अथान्यत्कथयिष्यामि तीर्थं पापविमोक्षणम् । मत्स्यायाः शुभताप्याश्च सङ्गमे सुरसेवितम् ॥ १४.१ ॥ देवो मत्स्येश्वरो नाम नागकन्याभिरर्चितः । तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ॥ १४.२ ॥ पञ्चवक्त्रास्त्रिनेत्राश्च मत्स्यतीर्थप्रभावतः । कलहंस इति ख्यातो देवर्षिर्ध्यानतत्परः ॥ १४.३ ॥ तस्याश्रमं परं रम्यं ब्रह्मर्षि विनिषेवितम् । शाकमूलफलाहारो जपध्यानपरायणः ॥ १४.४ ॥ सोऽतिष्ठदयुतं सार्द्धमेकपादेन भारत । शिवध्यानपरो भूत्वा सर्वभूतहिते रतः ॥ १४.५ ॥ ततस्तु ध्यानयोगेन तस्य देवः शतक्रतुः । चकम्पे तपसा चासौ देवराजो भविष्यति ॥ १४.६ ॥ हरिष्यति न सन्देहो पुरीं चैवामरावतीम् । ब्राह्मणश्च सुरेशानः कुब्जो वामनरूपधृक् ॥ १४.७ ॥ जगाम वृद्धरूपेण कलहंसाश्रमं प्रति । उवाच वचनं शक्रो ब्राह्मणं तपसि स्थितम् ॥ १४.८ ॥ किमर्थं तपसे शीघ्रं काममेतद्ब्रवीहि मे । आराधयसि कं देवं सत्यमेतत्तपोधन ॥ १४.९ ॥ संहृत्य तपसा योगं प्रहसन्नब्रवीद्वचः । जानामि त्वां महाभाग शक्रस्त्वं त्रिदशेश्वरः ॥ १४.१० ॥ न कामयेऽहमिन्द्रत्वं राज्यं कुरु यथेप्सितम् । आराधयाम्यहं देवं नान्यं देवं कथञ्चन ॥ १४.११ ॥ एतच्छ्रुत्वा वचस्तस्य महर्षेरब्रवीद्वृषः । वरं वृणु महाभाग यथा द्रक्ष्यसि शङ्करम् ॥ १४.१२ ॥ कलहंस उवाच - विनाऽहं त्र्यम्बकं याचे नान्याद्देवादहो वरम् । विजयी भव शक्र त्वं नान्यं वृणे वरं त्वहम् ॥ १४.१३ ॥ एवमुक्तो ययौ शक्रः सर्वकामसमन्वितः । ज्ञात्वा तस्य परां भक्तिं देवदेवो महेश्वरः ॥ १४.१४ ॥ अदर्शयदथात्मानं नीलकण्ठं त्रिलोचनम् । दृष्ट्वा रूपं महेशस्य साष्टाङ्गं प्रणिपत्य च ॥ १४.१५ ॥ कलहंसो मुनिश्रेष्ठः स्तोतुं समुपचक्रमे । नमोऽस्तु ते महादेव नीलकण्ठत्रिलोचन ॥ १४.१६ ॥ नमः शिवाय शान्ताय शूलहस्त नमोऽस्तु ते । नमः शिवाय शम्भवायाऽनाथाय नमो नमः ॥ १४.१७ ॥ त्र्यम्बकाय महादेवेत्यादि नामादिभिःस्तुत ओं नमो देवाय शम्भवाय भूर्भुवः स्वः । सोमरुद्रध्वान्तसूर्याय नमो रुद्राग्नये नमः ॥ १४.१८ ॥ नमः शम्भो पञ्चवक्त्र महाशिव नमोऽस्तु ते । स्वयम्भूवन पाताल नीलकण्ठ नमोऽस्तु ते ॥ १४.१९ ॥ ब्रह्मशर्वसुरेशानहरिहराय नमो नमः । ज्ञानशक्तिक्रियाशक्तिचराचर नमोऽस्तु ते ॥ १४.२० ॥ हाटकाय नमस्तुभ्यमुमानाथ नमोऽस्तु ते । ब्रह्मविष्णुमहेशाय सर्वज्ञाय नमो नमः ॥ १४.२१ ॥ सद्योजातस्तथा घोरस्तत्पुरुषाय नमो नमः । त्वया व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ १४.२२ ॥ आदिमध्यान्तरूपाय कलिकाल नमोऽस्तु ते । उमाकान्तार्धदेहाय श्रीकण्ठोरगभूषण ॥ १४.२३ ॥ अनन्तगणरूपाय नागयज्ञोपवीतिने । शब्दः स्पर्शश्च गन्धश्च रसो रूपं च पञ्चमम् ॥ १४.२४ ॥ बुद्धिर्मनस्त्वहङ्कारो ह्यष्टमूर्ते नमोऽस्तु ते । सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः ॥ १४.२५ ॥ गभस्तिमांश्च त्वं कालो मृत्युर्धाता प्रकाशकः । पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ १४.२६ ॥ सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च । इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिर्जनेश्वरः ॥ १४.२७ ॥ कलास्ते विष्णुब्रह्माद्या वेदो वैश्रवणो यमः । कलाकाष्ठामुहूर्ताश्च पक्षमासर्तवस्तथा ॥ १४.२८ ॥ संवत्सरस्त्वमेवासि कालचक्रो विभावसुः । पुरुषः शाश्वतो योगो व्यक्ताव्यक्तः सनातनः ॥ १४.२९ ॥ लोकाध्यक्षः सुराध्यक्षो विश्वकर्मा तमोनुदः । वरुणः शीतभारश्च जीमूतो जीवनोऽरिहा ॥ १४.३० ॥ भूतो यज्ञो भूतपतिर्लोकपालैर्निषेवितः । मनः सुपर्णो भूतादिः सदाशिव नमोऽस्तु ते ॥ १४.३१ ॥ जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो । ब्रह्मविष्ण्वादिभिर्देवैर्यस्यान्तो नैव लभ्यते ॥ १४.३२ ॥ भवसागरमग्नानां कः स्तोतुं शक्तिमान् भवेत् । अज्ञानाञ्ज्ञानतो वाऽपि शूलपाणे क्षमस्व तत् ॥ १४.३३ ॥ मार्कण्डेय उवाच - श्रुत्वा स्तोत्रमिदं देवः कलहंसस्य भारत । वरं वृणु महाप्राज्ञप्रीतः स्तोत्रेण तेऽनघ ॥ १४.३४ ॥ कलहंस उवाच - यदि तुष्टोऽसि मे देव वरं दातुमिहेच्छसि । कलहंसेश्वरं नाम तीर्थलिङ्गं सुरेश्वर ॥ १४.३५ ॥ अक्षया देवदेवाऽत्र होमदानबलिक्रियाः । अत्राक्षयं कृतं सर्वं त्वत्प्रसादात्महेश्वर ॥ १४.३६ ॥ शिवाज्ञा वर्तते तेऽत्र नरः स्वर्गमवाप्नुयात् । उत्क्रान्तिं कुरुते यस्तु अवशः स्ववशोऽपि वा ॥ १४.३७ ॥ स्तवेनानेन य स्तौतियस्त्वा स्तोष्यति शङ्कर । ब्रह्महा वा सुरापो वा स्तेयी च गुरुतल्पगः ॥ १४.३८ ॥ तीर्थस्यास्य प्रभावेण सर्वे यान्तु शिवालयम् । इदं वरमहं मन्ये सर्वकामसमृद्धये ॥ १४.३९ ॥ ईश्वर उवाच - यं यं कामयते कामं त्रैलोक्ये सचराचरे । मत्प्रसादान्न सन्देह सर्वमेतद्भविष्यति ॥ १४.४० ॥ एवमुक्त्वा ययौ देवः कैलासनिलयं नृप । कलहंसोऽथ मुनिभिर्ब्रह्मिष्ठैः सजितेन्द्रियः ॥ १४.४१ ॥ वर्षायुतानि साग्राणि भुङ्क्ते भोगाञ्छिवालये । दिव्ययानसमारूढः स्तूयमानोऽप्सरोगणैः ॥ १४.४२ ॥ वेणुवीणानिनादेन सर्वालङ्कारभूषितः । दश वर्षसहस्राणि तथैव शिवसन्निधौ ॥ १४.४३ ॥ दक्षिणोत्तरदिग्भागपञ्चक्रोशप्रमाणतः । स्नानात्तत्र दिवं याति म्रियते विबुधो भवेत् ॥ १४.४४ ॥ एतत्ते कथितं राजन् कलहंसस्य कीर्तनम् । स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे ॥ १४.४५ ॥ कलहंसस्य चाख्यानान्न सीदन्ति कलौ जनाः । पुत्रदारावृतानाघ मायामोहसमन्विताः । आख्यानसहितं देवं कर्मणा मनसा गिरा ॥ १४.४६ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे शिवमहिमवर्णनो नाम चतुर्दशोऽध्यायः ॥ अध्याय १५ युधिष्ठिर उवाच - भूयश्चेच्छाम्यहं श्रोतुं नर्मदाकीर्तनं शुभम् । आख्यानसहितं देव विदितं वद साम्प्रतम् ॥ १५.१ ॥ मार्कण्डेय उवाच - शृणु राजेन्द्र तीर्थं वै शिवेन कथितं पुरा । कामदं मोक्षदं चैव यज्ञदानप्रभावतः ॥ १५.२ ॥ रेवाया उत्तरे कूले कपिलासंगमात्परम् । वैदूर्यात्पश्चिमे भागे विख्यातं नर्मदापुरम् ॥ १५.३ ॥ अर्धकोटिस्तु तीर्थानां महादेवेन भारत । शतमष्टोत्तर तत्र लिङ्गानां परिकीर्तितम् ॥ १५.४ ॥ यत्र वै वसुरुद्रैश्च ब्रह्माद्यैश्च सुरासुरैः । सिद्धगन्धर्वयक्षैश्च विद्याधरमहोरगैः ॥ १५.५ ॥ वेदध्वनि निनादेन व्याप्तमस्ति चराचरम् । यत्राग्निर्हुत होमेन त्रिदिवं पर्यपूरयत् ॥ १५.६ ॥ देवर्षयो महाराज तथा ब्रह्मर्षयः परे । आसन् राजर्षयस्तत्र तापसा व्यवसायिनः ॥ १५.७ ॥ ब्राह्मणाश्च वसन्ति स्म मनसा ब्रह्मचिन्तनाः । आश्रमं जमदग्नेश्च ऋषिकोटिसमावृतम् ॥ १५.८ ॥ कश्यपो गालवो गर्गो बादरायणशाकटौ । अत्रिश्चैव वशिष्ठश्च पुलस्त्य पुलहः क्रतुः ॥ १५.९ ॥ भृगुश्चैव मरीचिश्च भारद्वाजो महातपाः । शाकल्य ऋष्यशृङ्गश्च मनुर्विष्णुर्यमोऽङ्गिराः ॥ १५.१० ॥ वाशिष्ठदक्षौ संवर्तः शातातपपराशरौ । आपस्तम्बः शुको व्यासाः कात्यायनबृहस्पती ॥ १५.११ ॥ हारीतः शङ्खलिखितौ याज्ञवल्क्योऽथ गौतमः । अगस्त्यः पावकाख्यश्च दुर्वासा उग्रतापसः ॥ १५.१२ ॥ शतानन्दस्तथा जह्नुर्वैशम्पायनजैमिनी । लोमशश्च विहङ्गश्च शौनको हरिरेव च ॥ १५.१३ ॥ एते चान्येऽपि मुनयो बहवः संशितव्रताः । ज्वलन्तस्तपसा तत्र सूर्यतेजः समप्रभाः ॥ १५.१४ ॥ चतुर्विद्यावेदविदः श्रुतिस्मृतिविशारदाः । संवत्सरकृताहारा अपाहारकरास्तथा ॥ १५.१५ ॥ मासोपवासिनश्चान्ये तथा पक्षोपवासिनः । शाकाहारानिराहाराः तथाऽन्ये मारुताशनाः ॥ १५.१६ ॥ कन्दमूलफलाहारा महात्मानस्तथा परे । इतिहासपुराणादि नानाशास्त्रविचिन्तकाः ॥ १५.१७ ॥ मोक्षोपायधृतात्मानो मौनिकाश्च न मौनिकाः । एकपादार्द्धपादाश्च भूमौ कारणभोजिनः ॥ १५.१८ ॥ आख्यानं कथयिष्यामि नर्मदापुरवासिनाम् । जमदग्निस्तु निवसन्मुनिः शिवपरायणः ॥ १५.१९ ॥ नर्मदासङ्गमे स्नात्वा तत्राभ्यर्च्यमहेश्वरम् । विविधैर्गन्धपुष्पैश्च तथाऽगुरुमनोहरैः ॥ १५.२० ॥ दक्षिणामूर्तिमाश्रित्य जपन्नासीत्तथा मुनेः । मासं च जपतस्तस्य देवदेवो महेश्वरः ॥ १५.२१ ॥ सिद्धेश्वरं नाम लिङ्गं सिद्धा यत्र सुरासुराः । उवाच वचनं देवो ब्राह्मणं प्रति भारत ॥ १५.२२ ॥ तुष्टोऽहं तव भक्त्या तु रुद्रजाप्येन तोषितः । जमदग्निरुवाच - यदि तुष्टो महादेव वरं दातुं ममेच्छसि ॥ १५.२३ ॥ होमार्थं चैव धेनुं मे ददस्व परमेश्वर । धर्मकर्मशुभार्थेषु शिवपूजासु तर्पणे ॥ १५.२४ ॥ पितृकार्ये देवकार्ये गावः पुण्यतमाः स्मृताः । एतस्मात्कारणादीश होमधेनुं प्रयच्छ मे ॥ १५.२५ ॥ दत्ता चैव महाभाग सर्वकामसमृद्धये । एवमुक्त्वा ददौ राजंस्तत्रैवान्तरधीयत ॥ १५.२६ ॥ यान् यान् प्रार्थयते कामांस्तांस्तान् प्राप्नोत्यसौ ततः । ऋषीणां च सहस्राणि कामैर्भोजयते द्विजः ॥ १५.२७ ॥ हिरण्मयैः स्वर्णपात्रैर्नानाभक्ष्यैर्यथेच्छया । कीर्तिर्ब्रह्मर्षिभिर्मान्यैः सर्वैः सुरगणैस्तथा ॥ १५.२८ ॥ जमदग्नेर्मुनीन्द्रस्य आश्रमे चोपवृंहिता । एतावति गते काले कार्तवीर्यो नृपोत्तमः ॥ १५.२९ ॥ माहिष्मतीं परित्यज्य स्वर्गसोपानमुत्तमम् । एकस्मिन् दिवसे राजा मृगयां च समाश्रितः ॥ १५.३० ॥ विन्ध्यं गिरिमनुप्राप्तो रेवातीरं समाश्रितः । हत्वा पशुसहस्राणि जमदग्न्याश्रमं गतः ॥ १५.३१ ॥ देह्येतां मां निजायोग्यां गां जगाद मुनिं प्रति । कार्तवीर्यवचः श्रुत्वा जमदग्निर्भयाकुलः । चिन्तयामास सुचिरं किमेतदिति विस्मितः ॥ १५.३२ ॥ धर्मो ह्यधर्मरूपेण कर्मभिः पुण्यसंचितैः । अधर्मो धर्मफलदो गहना कर्मणो गतिः ॥ १५.३३ ॥ इति चिन्तयतस्तस्ये न किंचिद्ब्रुवतो मुनेः । अपहृत्य बलाद्धेनुं घातयित्वा च तं मुनिम् ॥ १५.३४ ॥ स्थानान्निरगमत्तस्मात्कार्तवीर्यो नृपाधमः । कशादिभिस्ताडिता तु होमधेनुर्मुहुर्मुहुः ॥ १५.३५ ॥ शापं दत्त्वा ततस्तस्य पुनर्धेनुर्दिवङ्गता । करिष्यते कुलान्तं च रैणुकेयो नृपाधम ॥ १५.३६ ॥ हाहाकारो महानासीलोकानां च युधिष्ठिर । दुराचारस्ततः कोऽयं ब्राह्मणानां च कोपकृत् ॥ १५.३७ ॥ अथ श्रुत्वा महादेवो भार्गवः पितृसूतकम् । सहसैवागतः कोपात्समिधोऽग्निरिव ज्वलन् ॥ १५.३८ ॥ निहतं पितरं दृष्ट्वा कोपाद्द्विगुणविक्रमः । जगाम सहसोत्थाय पुरीं माहिष्मतीं प्रति ॥ १५.३९ ॥ कार्तवीर्यार्जुनं दृष्ट्वा क्रुद्धः प्रोवाच भार्गवः । तिष्ठ तिष्ठ क्व गन्तासि निहत्य पितरं मम ॥ १५.४० ॥ इत्युक्त्वाऽदाय परशुं चिच्छेद च भुजावनम् । शिरसैव समं कोपात्क्षत्रियान्तकरो मुनिः ॥ १५.४१ ॥ हते तस्मिन्महावीर्ये कार्तवीर्ये दुरात्मनि । देवदुन्दुभयोनेदुः पुष्पवृष्टिः पपात च ॥ १५.४२ ॥ तत्कोपादकरोत्सर्वां निःक्षत्रां पृथिवीं तदा । प्रतिज्ञां सफलीकृत्य स जगाम तमाश्रमम् ॥ १५.४३ ॥ मातरं च नमस्कृत्य ततश्चान्यान्मुनीश्वरान् । देवं परशुरामेशं संस्थाप्य विधिपूर्वकम् ॥ १५.४४ ॥ विशोकैरण्डिका चैव तृतीया पावनी तथा । पितुश्चकार तत्रैव सहसैवोत्तरां क्रियाम् ॥ १५.४५ ॥ देवद्रोणीति विख्याता तत्रास्ते कपिला शिला । तत्र पिण्डप्रदानेन दिवं गच्छन्ति पूर्वजाः ॥ १५.४६ ॥ एतत्ते कथितं राजन्नर्मदापुरमुत्तमम् । श्रवणात्कीर्तनात्तस्य दिवि देवत्वमाप्यते ॥ १५.४७ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे कार्तवीर्याख्याने पञ्चदशोऽध्यायः ॥ अध्याय १६ मार्कण्डेय उवाच - अथान्यं संप्रवक्ष्यामि सङ्गमं लोकविश्रुतम् । बृहत्या नर्मदायास्तु सुरासुरनिषेवितम् ॥ १६.१ ॥ नानाद्रुमलताकीर्णं विन्ध्यपर्वतसेवितम् । चम्पकैर्बकुलैर्युक्तमशोकैः स्तबकैरपि ॥ १६.२ ॥ पुन्नागैः किङ्किरातैश्च सुगन्धैर्नागकेशरैः । मल्लिकोत्पलजातीभिः पाटलैः पारिजातकैः ॥ १६.३ ॥ आम्रजम्बूकपित्थैश्च श्रीफलैः पनसैस्तथा । खर्जूरैर्बदरीभिश्च दाडिमैर्बीजपूरकैः ॥ १६.४ ॥ अरुष्करैः क्षीरवृक्षैर्नारङ्गैरुपशोभितैः । भरणायात्मवर्गस्य संविधाय वनेचरः ॥ १६.५ ॥ मुखगण्डूषसलिलं शिवाय स समाहरत् । अज्ञानभक्तिगर्भस्तु स्नापयित्वा फलं ददौ ॥ १६.६ ॥ वासरे वासरे चैव निषादो धर्मतत्परः । सौम्यायने च चक्षुर्वै दत्त्वा सौम्यं तथात्मनः ॥ १६.७ ॥ एवं सम्पूजयामास त्र्यम्बकं विधिपूर्वकम् । एतत्ते कथितं राजन् कल्पगा नेत्रसङ्गमम् ॥ १६.८ ॥ युधिष्ठिर उवाच - भगवन् छ्रोतुमिच्छामि महाकौतूहलं हि मे । संजातो मुनिशार्दूल स कथं नेत्रसङ्गमः ॥ १६.९ ॥ मार्कण्डेय उवाच - एकस्मिन् वासरे प्राप्ते व्यतीपाते च संक्रमे । स पुष्पभारमादाय प्रविवेश शिवालये ॥ १६.१० ॥ तृतीयमीक्षणं तत्र देवस्य च न पश्यति । तदा तु चिन्तयामास विस्मयाविष्ट चेतनः ॥ १६.११ ॥ केनापहृतमेतस्य नेत्रं देवस्य पाप्मना । इत्युक्त्वा च स्वकं नेत्रं तीक्ष्णबाणेन भारत ॥ १६.१२ ॥ ललाटे देवदेवस्य उत्कृत्य संन्यवेशयत् । न कम्पो न च कार्पण्यं नाऽन्यथा तस्य मानसम् ॥ १६.१३ ॥ ततस्तुष्टः सुरेशानो निषादं प्रति भारत । प्रहसन्न ब्रवीद्देवो वरं वृणु यथेप्सितम् ॥ १६.१४ ॥ शिवप्रसादसम्पन्ना बुद्धिरन्या प्रचक्रमे । मार्कण्डेय उवाच - श्रुत्वा तु वचनं शम्भोः साष्टाङ्गं प्रणिपत्य सः ॥ १६.१५ ॥ यदि तुष्टोऽसि देवेश वरं दातुं ममेच्छसि । निषादास्त इमे सर्वे मृगपक्षिगणैः सह ॥ १६.१६ ॥ सपुत्रदारपशवो ये चान्ये पापयोनयः । त्वत्प्रसादान्महेशान शिवलोकं प्रयान्तु ते ॥ १६.१७ ॥ एतद्वरमहं मन्ये भूतानां हितकाम्यया । एतच्छ्रुत्वा वचस्तस्य निषादाधिपतेः शिवः ॥ १६.१८ ॥ उवाच सर्वकामाप्तिं मत्प्रसादात्त्वमाप्स्यसि । एवमुक्त्वा शिवो राजंस्तत्रैवान्तरधीयत ॥ १६.१९ ॥ दिव्ययानसमारूढो निषादोऽनुचरैः सह । धृतस्वर्णातपत्रं तु वीज्यमानोऽप्सरोगणैः ॥ १६.२० ॥ दिव्याभरणशोभाढ्यः सर्वालङ्कारभूषितः । दिव्यवस्त्रपरीधानो दिव्यगन्धानुलेपनः ॥ १६.२१ ॥ सुरासुरैः स्तूयमानो वेणुवीणापुरस्सरः । प्रायाच्छिवपुरं क्षिप्रं तीर्थस्यास्य प्रभावतः ॥ १६.२२ ॥ एतत्ते कथितं राजन् छिवनेत्रह्रदाश्रितम् । अनेकशतसंख्याताः पापयोनिरता नराः ॥ १६.२३ ॥ नर्मदाशिवसंयोगे संसिद्धिं परमां गताः । अवश स्ववशो वाऽपि यस्तु प्राणान् परित्यजेत् ॥ १६.२४ ॥ वसेद्वर्षसहस्राणि उमामाहेश्वरे पुरे । श्रवणात्कीर्तनाच्चापि मुच्यते भवबन्धनात् ॥ १६.२५ ॥ धन्यास्ते पुरुषा राजन् ये म्रियन्ते शिवायने । न तेषां गर्भभूतिश्च जन्म चैव युधिष्ठिर ॥ १६.२६ ॥ पुत्रदारपरिग्रस्ता मोहजालसमावृताः । कल्पगां तु न पश्यन्ति पापोपहतचेतसः ॥ १६.२७ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये ह्रदाख्यानं नाम षोडशोऽध्यायः ॥ अध्याय १७ मार्कण्डेय उवाच - अथान्यत्परमं तीर्थं कथ्यमानं निबोध मे । सहस्रयज्ञं विख्यातं त्रिषु लोकेषु विश्रुतम् ॥ १७.१ ॥ तत्र स्नात्वा च जप्त्वा च पूजयित्वा महेश्वरम् । न तस्य पुनरावृत्तिर्घोरे संसारसागरे ॥ १७.२ ॥ कथयामि तवाख्यानमितिहासं पुरातनम् । ताराबलिर्नाम नागः कम्बलाश्वतरौ तथा ॥ १७.३ ॥ श्वेतोरगास्तथा चान्ये भुजङ्गाश्च तथाऽपरे । नागेश्वरं तेऽर्चयन्ति नानापुष्पविलेपनैः ॥ १७.४ ॥ नागपूगाः समासाद्य पूजयन्ति महेश्वरम् । गर्गोऽघमर्षणश्चैव च्यवनः शौनकोऽङ्गिराः ॥ १७.५ ॥ एते चान्येऽपि बहवो ब्रह्मविद्याङ्गपारगाः । नागानां चाश्रमं हर्तुं तत्र सर्वे ह्युपस्थिताः ॥ १७.६ ॥ ततस्तैः कुपितैर्नागैर्दष्टाश्चैव द्विजोत्तमाः । विषाघ्रातान्मुनीन् दृष्ट्वा कुपितश्चाघमर्षणः ॥ १७.७ ॥ वाहनं वासुदेवस्य पक्षिराजं समाह्वयत् । तत्क्षणादागतः पक्षी गरुडः क्रोधमूर्छितः ॥ १७.८ ॥ कृताञ्जलिपुटो भूत्वा ब्राह्मणं चेदमब्रवीत् । भुजङ्गान् भक्षयिष्यामि ब्राह्मणा निर्विषास्ततः ॥ १७.९ ॥ ब्रह्मशापभयार्तेन गरुडेन विषोल्बणाः । भक्षिताः पन्नगाः सर्वे मोचिता मुनयो विषात् ॥ १७.१० ॥ पक्षीन्द्रे च गते स्थाने भक्षयित्वा भुजङ्गमान् । अवशिष्टास्तु ये नागा विविशुस्ते रसातलम् ॥ १७.११ ॥ आप्लवे च सुसंप्राप्ते प्रवाहो नार्मदः क्षणात् । अस्थीनि स्रावयामास ततो नागा दिवं ययुः ॥ १७.१२ ॥ सर्पयोनिं परित्यज्य लोके क्रीडन्ति शाम्भवे । नागेश्वरस्य रेवायाः सम्पर्कात्पापमोक्षणम् ॥ १७.१३ ॥ तत्र नागह्रदश्चास्ते त्रिषु लोकेषु विश्रुतः । तत्र स्नातो दिवं याति यो नागेश्वरमर्चयेत् ॥ १७.१४ ॥ अयं ते कथितो राजन्नितिहासः पुरातनः । श्रवणात्कीर्तनाद्वाऽपि मुच्यते भवबन्धनात् ॥ १७.१५ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे नागेश्वराख्यानं नाम सप्तदशोऽध्यायः ॥ अध्याय १८ मार्कण्डेय उवाच - अथान्यत्कथयिष्यामि तीर्थं च जनकोत्तमम् । रेवाया उत्तरे कूले सर्वसिद्धिप्रदायकम् ॥ १८.१ ॥ अश्वमेधं तु तत्रैव शतमेधं तथापरम् । सहस्रमेधं विज्ञेयं सुरासुरनमस्कृतम् ॥ १८.२ ॥ लक्षमेधं तथा चान्यं शिवेन परिकीर्तितम् । जनको नाम राजर्षिर्यत्रेष्ट्वा त्रिदिवं ययौ ॥ १८.३ ॥ स्वारोचिषेऽन्तरे प्राप्ते त्रेतायां च नराधिप । पुरोधसं याज्ञवल्क्यं ब्रह्मर्षिं ब्रह्मवित्तमम् ॥ १८.४ ॥ कश्यपस्याश्रमं पुण्यं ब्रह्मर्षिगणसेवितम् । सिद्धगन्धर्वगीताढ्यं वेदध्वनिनिनादितम् ॥ १८.५ ॥ युक्तं कामफलैर्वृक्षैः पुष्पितैः फलितैः शुभम् । धनदस्य पुरी यद्वदलका देवनिर्मिता ॥ १८.६ ॥ तद्वच्च शोभितं नानामुनि वृन्द निषेवितम् । कामधेनूस्तथा दिव्याः शतसंख्याः पयस्विनीः ॥ १८.७ ॥ याज्ञिकानृत्विजश्चैव क्रतुं कर्तुं यथाविधि । यज्ञोपस्करसंभारं सर्वमादाय गच्छति ॥ १८.८ ॥ आदिदेश ततो मर्त्यान् भृत्यांश्चैव सहस्रशः । भक्षभोज्यादि संभारसंख्यां कर्तुं न शक्यते ॥ १८.९ ॥ एवं प्रवर्तितस्तत्र लक्षमेधः क्रतूत्तमः । जगृहुर्यज्ञभागं च शक्राद्याः सुरसत्तमाः ॥ १८.१० ॥ निवर्तितस्ततो यज्ञो हरिर्ब्रह्मा शतक्रतुः । नानविधैस्तथा रत्नैर्वासोयुग्मैश्च तार्पिताः ॥ १८.११ ॥ स्वं स्वं यानं समारूढा जग्मुर्देवास्त्रिविष्टपम् । नर्मदावभृथं स्नात्वा पुत्रदारोपशोभितः ॥ १८.१२ ॥ हरं हरिं चाऽर्चयित्वा वरदानप्रभावतः । दिव्यं यानं समारूढो यथा शक्रोऽमरैः सह ॥ १८.१३ ॥ धृतस्वर्णातपत्रस्तु बीज्यमानोऽप्सरोगणैः । गीयमानोऽप्सरोभिश्च नानालङ्कारभूषितः ॥ १८.१४ ॥ दृष्टो जनकराजाऽतः धर्मराजः समुत्थितः । यानस्याऽग्रे पादचारी अर्घपाद्यादिसंयुतः ॥ १८.१५ ॥ कृताञ्जलिपुटो भूत्वा वचनं चेदमब्रवीत् । तपसा ध्यानयोगेन दानदेवार्चनैरपि ॥ १८.१६ ॥ शिवरेवाप्रसादेन जिता लोकास्त्वयाखिलाः । उवाच जनको राजा धर्मराजं यशस्विनम् ॥ १८.१७ ॥ तथैव तव मूर्तिश्च यथा भानुः प्रभाकरः । ब्रह्माविष्णुस्तथा शम्भुः साक्षी सकलकर्मणाम् ॥ १८.१८ ॥ एवं जनकसंवादे धर्माधर्मविचारणात् । एतस्मिन्नन्तरे प्राप्तः किङ्किणीजालमण्डितम् ॥ १८.१९ ॥ वेणुवीणानिनादाढ्यमप्सरोगणसेवितम् । विमानं दिव्यमारूढो देवराजः शतक्रतुः ॥ १८.२० ॥ नारदः पर्वतश्चैव तथान्ये मुनिसत्तमाः । धर्मराजपुरं प्राप्ताः श्रुत्वा जनकमागतम् ॥ १८.२१ ॥ अध्यासुस्तमक्रुध्यन्तमासनानि महान्ति च । प्रसमीक्ष्य यथार्हन्तु पूजिताश्च पृथक्पृथक् ॥ १८.२२ ॥ तेषां मध्ये महाराज नारदो धर्ममब्रवीत् । के देशाः पर्वताः पुण्याः का नद्यश्चाश्रमाश्च के ॥ १८.२३ ॥ कानि तीर्थानि लोकेऽस्मिन् यत्र दत्तं हुतं तपः । न क्षीयते मनुष्याणां तन्मे कथय तत्त्वतः ॥ १८.२४ ॥ जानामि त्वां महाराज सूर्यपुत्रो ब्रवीहि मे । स्वरूपमद्य सर्वेषां यथा वदनुपूर्वशः ॥ १८.२५ ॥ धर्म उवाच - श्रूयतां मुनिशार्दूलशिवलोके यथा श्रुतम् । कल्माषपादो विख्यातो मथुरायां नराधिपः ॥ १८.२६ ॥ नाभागो नाम राजर्षिरयोध्याधिपतिस्तथा । यानं चोपरि राजर्षेर्नाभागस्य महात्मनः ॥ १८.२७ ॥ अधः कल्माषपादस्य दृश्यते सर्वदैवतैः । शिवलोके विवादोऽभूत्तयोस्तत्र महात्मनोः ॥ १८.२८ ॥ कल्माषपाद उवाच - पुष्करे दशयज्ञाश्च मया चेष्टा विधानतः । गङ्गायां नैमिषारण्ये प्रभासे शशिभूषणे ॥ १८.२९ ॥ गङ्गायमुनयोर्योगे वाराणस्यां तथैव च । इष्टं यज्ञशतं साग्रं मया तत्र महेश्वर ॥ १८.३० ॥ अधोभागे विमानो मे नाभागस्य ममोपरि । कल्पगां वर्जयित्वा तु तीर्थे तीर्थे मखोत्तमाः ॥ १८.३१ ॥ कृता मया महादेव विमानं मे तथाऽप्यधः । ईश्वर उवाच - शृणु राजन्महाभाग कथ्यमानं निबोध मे ॥ १८.३२ ॥ लक्षमेधं नाम तीर्थं रेवाया उत्तरे तटे । लक्षमेधेश्वरं नाम्ना लिङ्गं तत्र परं स्मृतम् ॥ १८.३३ ॥ चकार तत्र नाभागो यज्ञमेकं यथोदितम् । तत्तीर्थयज्ञमाहात्म्याद्यानमस्योपरि स्थितम् ॥ १८.३४ ॥ असंख्येष्वपि तीर्थेषु त्वयेष्टं राजसत्तम । विहाय कल्पगां तेन तव यानमधः स्थितम् ॥ १८.३५ ॥ धर्म उवाच - न शङ्करात्परो देवो न रेवायाः परा नदी । न सत्यात्परो धर्मो कारुण्यं सर्वजन्तुषु ॥ १८.३६ ॥ मया श्रुतं सूर्येलोके सूर्येणापि महेश्वरात् । एतत्ते सर्वमाख्यातं यथादृष्टं पुरातनम् ॥ १८.३७ ॥ वासीयो नर्मदातीरे शिवध्यानपरायणः । न तस्य वै यमः शास्ता यमलोकं न पश्यति ॥ १८.३८ ॥ ब्रह्मा विष्णुः शिवः शास्ता सत्यमेव यथोदितम् । धर्मराज्ञा समग्रं तु नारदाद्यामहर्षयः ॥ १८.३९ ॥ धर्माख्यानमिदं श्रुत्वा मुदापरमयायुताः । स्वं स्वं यानं समारुह्य शक्राद्यास्त्रिदिवं ययुः ॥ १८.४० ॥ धर्माख्यानमिदं पुण्यमितिहासं पुरातनम् । कथितं तव यत्नेन विदेहाद्या नराधिपाः ॥ १८.४१ ॥ दानयज्ञप्रभावेण त्रिदिवं वरमाययुः ॥ १८.४२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे जनकयज्ञो नामाष्टादशोऽध्यायः ॥ अध्याय १९ युधिष्ठिर उवाच - सप्तसारस्वतं तीर्थ शंस मेऽत्र महामुने । उत्पत्तिं चास्य तीर्थस्य कथयस्व यथार्थतः ॥ १९.१ ॥ मार्कण्डेय उवाच - सप्तसारस्वतो नाम गन्धर्वः शिवगायनः । वीणावेणुप्रेक्षणीय यन्त्रगीतविशारदः ॥ १९.२ ॥ मणिभद्रा सुभद्रा च हेमगर्भा तथा परा । आभिर्वराप्सरोभिश्च चिक्रीडे प्रतिवासरम् ॥ १९.३ ॥ मदिरा नष्टचैतन्यः कामार्तः काममोहितः । विहाय शाङ्करीं पूजां भक्ष्यभोज्यरतोऽभवत् ॥ १९.४ ॥ कियत्यपि गते काले ययौ द्रष्टुमुमापतिम् । गीतनृत्यैश्च तुष्टाव कैलासे तं नगोत्तमे ॥ १९.५ ॥ गन्धर्वं तं समालोक्य चिरकाले समागतम् । शशाप नन्दी कोपेन शिवभक्तिपराङ्मुखम् ॥ १९.६ ॥ चाण्डालयोनिं गच्छ त्वं पापस्यास्य प्रभावतः । क्षुत्क्षामस्त्वं निराहारो मर्त्यलोके चरिष्यसि ॥ १९.७ ॥ प्रसाद्य नन्दिनं सोऽथ गन्धर्वो वाक्यमब्रवीत् । शापस्यान्तं महाभाग दातुं मे त्वमिहार्हसि ॥ १९.८ ॥ नन्द्युवाच - नर्मदायां व्यतीपाते स्नात्वाऽभ्यर्च्य महेश्वरम् । अन्तं शापस्य संप्राप्य पुनस्त्वं चागमिष्यसि ॥ १९.९ ॥ एवं तद्वचनं श्रुत्वा चाण्डालीं योनिमाश्रितः । जातिस्मरत्वं संप्राप्य सशैलवनकाननाम् ॥ १९.१० ॥ बभ्राम धरणीं सर्वां तीर्थयात्राप्रसङ्गतः । अथ चक्राङ्गयोगेन नर्मदा तीरमागतः ॥ १९.११ ॥ शङ्करस्थण्डिले यागं तत्र गत्वा चकार सः । पुष्पोपहारैर्विविधैर्वीणावाद्यैर्मनोहरैः ॥ १९.१२ ॥ गन्धर्वभक्तिं विज्ञाय प्रत्यक्षोऽभूत्महेश्वरः । स्थण्डिलादुत्थितं लिङ्गं महापावनमम्भसि ॥ १९.१३ ॥ उवाच तं महादेवो गीतवादित्रतोषितः । वरं वृणु महाभाग यत्ते मनसि वर्तते ॥ १९.१४ ॥ कल्पगातोयसंस्पर्शात्प्राप्नोषि परमां गतिम् । गन्धर्व उवाच - यदि तुष्टो महेशान वरं दातुमिहेच्छसि ॥ १९.१५ ॥ सप्तसारस्वतं तीर्थं लिङ्गं सारस्वतं तथा । ख्यातिं यातु महादेव त्वत्प्रसादात्महीतले ॥ १९.१६ ॥ तिर्यग्योनिगताः पापाश्चाण्डालाश्च नराधमाः । सर्वे ते त्रिदिवं यान्तु तीर्थस्यास्य प्रभावतः ॥ १९.१७ ॥ एवमस्त्विति तं चोक्त्वा महेशोऽन्तरधीयत । दिव्ययान समारूढः सर्वालङ्कारभूषितः ॥ १९.१८ ॥ शिवलोकमवाप्यैवं यथापूर्वं तथैव सः । सप्तसारस्वते स्नात्वा अर्चयित्वा वृषध्वजम् ॥ १९.१९ ॥ कुलैकविंशमुद्धृत्य स्वर्गलोके महीयते । तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ॥ १९.२० ॥ शिवाज्ञा वर्तते राजंस्तत्र यस्त्रिदिवं जयेत् । युधिष्ठिर उवाच - कः स्रष्टा चास्य जगतो हर्ता धर्ता च भो मुने ॥ १९.२१ ॥ यथार्थमेतदाचक्ष्व विस्तरेण तपोधन । त्वत्तोऽहं श्रोतुमिच्छामि सर्वमेतन्मुदायुतः ॥ १९.२२ ॥ मार्कण्डेय उवाच - यथा श्रुतं मया पूर्वं पुराणं स्कन्दकीर्तितम् । तथा ते कथयिष्यामि शृणु राजन् यथार्थतः ॥ १९.२३ ॥ स्कन्देन तु पुरा पृष्टो हरः कल्पान्तकारकः । चराचरमिदं सर्वं कथं गच्छति संलयम् ॥ १९.२४ ॥ कुत्र गच्छन्त्यमी देवाः कथं चैषां स्थितिर्भवेत् । क्वच गच्छति वै ब्रह्मा कुत्र गच्छति केशवः ॥ १९.२५ ॥ वेदास्तु कुत्र गच्छन्ति सषडङ्गपदक्रमाः । अग्नयः पर्वताः सर्वे समुद्रद्वीपसंयुताः ॥ १९.२६ ॥ सिद्धाः सर्वे सनक्षत्राः सूर्याद्याश्च तथा ग्रहाः । पातालभुवनादीनि देवलोकाश्च शाश्वताः ॥ १९.२७ ॥ कल्पान्ते च सुरश्रेष्ठ क्व लीयन्ते च देवताः । हर उवाच - कथयामि परं गुह्यं सृष्टिसंहारकारकम् ॥ १९.२८ ॥ प्रलये सर्वभूतानि स्थावराणि चराणि च । शिवलिङ्गे विलीयन्ते नष्टे जगति शाश्वते ॥ १९.२९ ॥ शून्यं चैतज्जगत्सर्वं त्रैलोक्यं सचराचरम् । आतिष्ठति यदा वह्णिर्विस्फुरन् सर्वतोमुखः ॥ १९.३० ॥ ततो बृहस्पतिर्गायन् वेदत्रयसमन्वितम् । तदैवातिबलो देवः कूर्मरूपो महाद्युतिः ॥ १९.३१ ॥ नरकांश्चादहत्सर्वास्ततः प्रज्वलितो महान् । सर्वं दग्धं तु पातालं नागानां भुवनानि च ॥ १९.३२ ॥ कालरूपेण दग्धानि भुवनानि चतुर्दश । ज्वालामालाकुलीभूते वाङ्मये सचराचरे ॥ १९.३३ ॥ नष्टे त्रिविष्टपे सर्वे सशैलवनकानने । मायामये तु सर्वेऽस्मिंस्त्रैगुण्ये प्रलयं गते ॥ १९.३४ ॥ विनश्यति ततो ब्रह्मा सहितः सर्वदैवतैः । नाशयित्वा च भूतानि ब्रह्माण्डैः सह दैवतैः ॥ १९.३५ ॥ स्थिता तु नर्मदा चैका सुतीर्था सुरपूजिता । नर्मदायाऽवतारोऽयं मर्त्यलोके व्यवस्थितः ॥ १९.३६ ॥ गतमिन्द्रसहस्रं तु यावद्वै दशपञ्च च । अतीतं ब्रह्मणः षट्कं सप्तमोऽयं प्रजापतिः ॥ १९.३७ ॥ तदेवमग्निमध्यस्थं तेन सर्वमचेतनम् । अव्यक्ते सर्वभूतानामीशे जागर्ति जाग्रति ॥ १९.३८ ॥ यदा स्वपिति शान्तात्मा तदा सर्वं निमीलितम् । स विष्णुः सृष्टिकर्ता च हर्ता च जगतः प्रभुः ॥ १९.३९ ॥ एकीभूतेषु भूतेषु व्यपास्यन् सर्वतेजसाम् । पुनः सृष्टिं प्रकुरुते देवदेवः सदाशिवः ॥ १९.४० ॥ ब्रह्मा भूत्वाऽसृजल्लोकं विष्णुर्भूत्वा ह्यपालयत् । रुद्रः कालाग्निरूपेण हरत्यन्ते स एव हि ॥ १९.४१ ॥ तन्मया कथितं सर्वं किमन्यत्परिपृच्छसि । इडा नाम कला ह्येषा शम्भोर्वै सप्तकल्पगा ॥ १९.४२ ॥ अक्षया तेन लोके ।॰ अष्टौ युगसहस्राणि अहोरात्रं प्रजापतेः ॥ १९.४३ ॥ अनेनैव तु मानेन शतं ब्रह्मा स जीवति । पितामहशतेनैव विष्णोर्मानं विधीयते ॥ १९.४४ ॥ निमेषार्द्धं च शम्भोस्तु सहस्राणि चतुर्दश । एतावति विनश्यन्ति ह्यसंख्याताः पितामहाः ॥ १९.४५ ॥ तत्र द्वादशसाहस्रं दैवतं युगमुच्यते । तदेकसप्ततियुगं मन्वन्तरमिहोच्यते ॥ १९.४६ ॥ एतच्चतुर्दशगुणं कल्पमाहुर्मनीषिणः । हरार्कचन्द्रमनवः शक्रस्यायुः प्रकीर्तितम् ॥ १९.४७ ॥ लोकपालादयो देवाः साध्याश्चैव मरुद्गणाः । अष्टाविंशतिपर्यन्त युगानां सन्ति तेऽपि च ॥ १९.४८ ॥ एतत्ते कल्पगा कालमानं निगदितं मया । ये मृताः कल्पगातीरे दानयज्ञतपः स्थिताः ॥ १९.४९ ॥ दुर्गमं यमलोकं च न पश्यन्ति कदाचन । तपसा ध्यानयोगेन ब्रह्मार्चनपरायणाः ॥ १९.५० ॥ नर्मदातीरमासाद्य येऽत्र प्रासादकारकाः । दारुणं नरकं घोरं नाश्रयन्ते यमालयम् ॥ १९.५१ ॥ नर्मदां तु निषेवन्ते वार्द्धक्ये तु सुबुद्धयः । एतदेव परं ध्यानं शेषमन्यन्निरर्थकम् ॥ १९.५२ ॥ नर्मदादक्षिणे तीरे अशोकवनिकासु च । अशोकजननं नाम तीर्थ तत्र व्यवस्थितम् ॥ १९.५३ ॥ अशोकेश्वरलिङ्गं तु सर्वपापप्रणाशनम् । तत्र गोलक्षदानेन यत्फलं तत्र गच्छतः ॥ १९.५४ ॥ सप्तसारस्वतं लिङ्गं तथा लिङ्गं सुरार्चितम् । साप्तर्षं नाम लिङ्गं च लिङ्गं योगेश्वरं तथा ॥ १९.५५ ॥ चन्द्रकान्तं तथा लिङ्गं वरुणेश्वरमेव च । अभ्यर्च्य परया भक्त्या यमलोकं न पश्यति ॥ १९.५६ ॥ तिलोदकप्रदानेन पिण्डपातेन भारत । पितॄन् समुद्धरत्याशुघोरात्पूर्वं परं शतम् ॥ १९.५७ ॥ तत्र दत्तं हुतं यच्च तस्य संख्या न विद्यते । पुरा देवगणाः सर्वे तीर्थस्यास्य प्रभावतः ॥ १९.५८ ॥ संसिद्धिं परमां प्राप्य दिवि देवत्वमाययुः । संसारसागरे राजन् सञ्चरन्ति न दारुणे ॥ १९.५९ ॥ युधिष्ठिर उवाच - लिङ्गानि कीर्तितानीह तथा तीर्थानि यानि च । नानाख्यानसमेतानि प्रसादात्कथयस्व मे ॥ १९.६० ॥ मार्कण्डेय उवाच - शृणु राजन्महाभाग इतिहासं पुरातनम् । नागेश्वरं सिद्धलिङ्गं स्थितं नागह्रदे शुभे ॥ १९.६१ ॥ सिद्धिदं सर्वलोकानां नागकन्याभिरर्चितम् । ब्रह्मतेजोवपुः श्रीमान्नाम्ना चैवाघमर्षणः ॥ १९.६२ ॥ द्वादशादित्यसंकाशो दीप्यमान इवानलः । आपस्तम्बोऽथ मैत्रेयः संवर्तश्चात्रिरेव च ॥ १९.६३ ॥ एते चान्येऽपि बहव ऋषयः संशितव्रताः । अयुतानि मुनीन्द्राणामष्टौ तत्राश्रमे नृप ॥ १९.६४ ॥ कन्दमूलफलाहाराः शाकाहारास्तथाऽपरे । जलाहारास्तथैवाऽन्ये केचिद्गोमयभक्षिणः ॥ १९.६५ ॥ चान्द्रायणपराश्चाऽन्ये श्रुतिस्मृतिविशारदाः । मोक्षोपायं विचिन्वन्ति ब्रह्मिष्ठा ब्रह्मवित्तमा ॥ १९.६६ ॥ अघमर्षाऽश्रमपदं ब्रह्मलोकसमंनृप । धर्मस्तु वैश्यरूपेण जिज्ञासार्थं समागमत् । सप्तसारस्वते तीर्थे सोऽर्चित्वा वृषभध्वजम् ॥ १९.६७ ॥ गन्धपुष्पैस्तथा दीपैरुपहारैर्मनोरमैः । वर्तेरनृषयस्तत्र शतमष्टोत्तरं तथा ॥ १९.६८ ॥ भिक्षा च भिक्षवे दत्ता कौपीनं मृगचर्म च । साष्टाङ्गं च नमस्कृत्य तान् देवर्षिगणान्मुनीन् ॥ १९.६९ ॥ मासोपवासनिरतो नाशिकारण्यमागमत् । पुत्रदारस्नुषास्तस्य नित्यं तद्गातगमानसाः ॥ १९.७० ॥ मासे मासे त्वतिक्रान्ते रविसंक्रमणे नृप । ऋतवः षडतिक्रान्ता निराहारं तपस्यत ॥ १९.७१ ॥ न भोगो न च कार्पण्यं न मानो न च मत्सरः । न कामक्रोधलोभाश्च निर्जितास्तेन भारत ॥ १९.७२ ॥ वेदार्थे ब्राह्मणार्थे च मम वित्तस्य चार्जनम् । विष्णुधर्मपरो नित्यं विष्ण्वाराथन तत्परः ॥ १९.७३ ॥ उत्तरे चायने मासे सप्तसारस्वते तथा । स्नात्वा देवं समभ्यर्च्य लिङ्गरूपं जनार्दनम् ॥ १९.७४ ॥ यथा विभवयोगेन भिक्षां दत्त्वा यथा पुरा । हर उवाच - वरं ब्रूहि महाभाग सिद्धस्त्वं धर्मतो यतः ॥ १९.७५ ॥ महाराज महाभाग यत्ते मनसि वर्तते । इदं विमानमारुह्य दिव्यभोगसुखं कुरु ॥ १९.७६ ॥ पुत्रदारस्नुषोपेतो विष्णुलोकमितो व्रज । शार्ङ्ग उवाच - यदि तुष्टोऽसि मे देव वरं दातुं यथेप्सितम् ॥ १९.७७ ॥ वरं दशसहस्राणि लोकं यान्तु द्विजोत्तमाः । इदं वरमहं मन्ये हरेर्नान्यं कदाचन ॥ १९.७८ ॥ ऋषय ऊचुः॒ वैश्यः पापो दुराचारो महतां लाघवं यतः । सर्वेषामेव वर्णानां ब्राह्मणो गुरुरुच्यते ॥ १९.७९ ॥ त्रीन् वर्णान् याजयित्वा च त्वं यदा दिवमानयेः । न दृष्टं न श्रुतं चासीदेवं श्रुतिपुराणयोः ॥ १९.८० ॥ ब्राह्मणस्यापमानेन धर्मो वै जायते क्वचित् । तपसा ध्यानधर्माभ्यां न यास्यसि दिवमुने ॥ १९.८१ ॥ अपि वर्षसहस्रेण दुर्गमस्ते सुरालयः । व्रज त्वं वैश्यधर्मेण स्वगृहं प्रति साम्प्रतम् ॥ १९.८२ ॥ स एवमुक्तो विप्रैस्तान् साष्टाङ्गं प्रणिपत्य च । उवाच वचनं वैश्यो विमुक्तं मुनिपुङ्गवम् ॥ १९.८३ ॥ अज्ञानाञ्ज्ञानतो वाऽपि कोपं कर्तुं न युज्यते । अज्ञातं त्वां न गृह्णीयाच्छ्रद्धाहीनं च देवता ॥ १९.८४ ॥ सक्रोधेन तपस्तप्तं सर्वं भवति निष्फलम् । दैवतैरपि दुर्ज्ञेया गहना कर्मणो गतिः ॥ १९.८५ ॥ सत्येन ध्रियते धर्मस्ततः स्वर्गः प्रजायते । स्वकर्मनिरतं चैवमुद्धरन्तं तथा द्विजम् ॥ १९.८६ ॥ वैश्यं ब्राह्मणमित्याहुर्ब्राह्मणं वैश्यमेव च । निष्ठुरं निर्घृणं क्रूरं कृतघ्नं दीर्घकोपिनम् ॥ १९.८७ ॥ द्विजं वाचालरूपं तु दूरतः परिवर्जयेत् । ब्राह्मणा ऊचुः॒ को भवान् वैश्यरूपेण ब्रह्मा शक्रो जनार्दनः ॥ १९.८८ ॥ साङ्गोपाङ्गास्तथा वेदास्त्वयि धर्मः प्रतिष्ठितः । शार्ङ्ग उवाच - धर्मोऽहं वैश्यरूपेण जिज्ञासाऽर्थमिहागतः ॥ १९.८९ ॥ इदं विमानमारुह्य गम्यतां वैष्णवं पदम् । एते विमानमारुह्य सम्प्राप्तास्त्रिदशालयम् ॥ १९.९० ॥ सप्तसारस्वतं नत्वा तीर्थं देवं हरं हरिम् । वैश्यः पुत्रादिभिर्युक्तो प्राप लोकं तु वैष्णवम् ॥ १९.९१ ॥ एतत्ते कथितं राजन्नर्मदातीर्थमुत्तमम् ॥ १९.९२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे सृष्टिसंहारसारस्वततीर्थकथनं नामैकोनविंशोऽध्यायः ॥ अध्याय २० मार्कण्डेय उवाच - शाण्डिल्याकल्पगायोगः सर्वपापहरः परः । शाण्डिल्येश्वरलिङ्गं च सर्वपापहरं परम् ॥ २०.१ ॥ स्नातमात्रो नरस्तस्मिन्नर्चयित्वा महेश्वरम् । कर्मभूमिं न लभते हरस्य वचनं यथा ॥ २०.२ ॥ तिलोदकप्रदानेन हविषा पिण्डपातनात् । तृप्यन्ति पितरस्तस्य यावदिन्द्राश्चतुर्दश ॥ २०.३ ॥ राहुसोमसमायोगे कुरुक्षेत्रे महाफलम् । तत्रैव जन्म राजर्षेः कार्तवीर्यनृपस्य च ॥ २०.४ ॥ स्नात्वाभ्यर्च्य महादेवं गन्धपुष्पाद्युपस्करैः । सूर्याचन्द्रमसौ यावदुमामाहेश्वरे पुरे ॥ २०.५ ॥ भुङ्क्ते स विविधान् भोगांस्तावद्वै शिवसन्निधौ । तत्र शाण्डिल्यकौण्डिन्यौ माण्डव्यो मुनिमत्तमः ॥ २०.६ ॥ कौशिकश्च महातेजाः कश्यपो भृगुरेव च । एते चान्येऽपि बहवो जपध्यानपरायणाः ॥ २०.७ ॥ मुनीनां षष्टिसाहस्रं तपस्युग्रे व्यवस्थितम् । तस्याश्रमपदं रम्यं शाण्डिल्याकल्पगायुजि ॥ २०.८ ॥ शाण्डिल्यपुरमित्येव ब्रह्मर्षि विनिषेवितम् । द्वादशादित्यतीर्थं च नर्मदादक्षिणे तटे ॥ २०.९ ॥ देवदारु तथा तीर्थमन्यद्देववनं तथा । दशलक्षाणि तीर्थानि तत्र तिष्ठन्ति संगमे ॥ २०.१० ॥ द्वादशार्कमिदं नाम तीर्थं पापप्रणाशनम् । अन्यानि यानि लिङ्गानि कथितानि तवाऽनघ ॥ २०.११ ॥ मूषकश्च तथा तीर्थे मार्जारेणैव भक्षितः । निशायां मूषकः कश्चिदटमान इतस्ततः ॥ २०.१२ ॥ मार्जरेण ततः सोऽपि भक्षितश्च धृतः पुरा । ततो मेघागमे काले प्रवाहस्तत्र निर्गतः ॥ २०.१३ ॥ अस्थिप्रवहणं तस्य निमग्नं तत्र सङ्गमे । तीर्थस्यास्य प्रभावेण यक्षराजोऽभवत्नृप ॥ २०.१४ ॥ बृहद्वृन्दः समाख्यातो यक्षायुतसमावृतः । हंसयुक्तविमानेन यक्षलोके महीयते ॥ २०.१५ ॥ अथान्यत्कथयिष्यामि शाण्डिल्यानर्मदाश्रितम् । नाम्ना चाप्सरसं लिङ्गं मुक्ताश्चाप्सरसो यतः ॥ २०.१६ ॥ ज्ञानरूपमयं देवं सिद्धलिङ्गं प्रकीर्तितम् । युधिष्ठिर उवाच - कस्मादप्सरसः शप्ताः कथं याताश्च सङ्गमम् ॥ २०.१७ ॥ कथं च मोक्षणं शापाद्विदितं कुरु साम्प्रतम् । मार्कण्डेय उवाच - शृणु राजन् यथा न्यायं कथयामि तवाऽनघ ॥ २०.१८ ॥ मधूत्सवं शिवस्याग्रे विहायेन्द्रोत्सवं गताः । उर्वशी च तथा रम्भा अहल्या च तिलोत्तमा ॥ २०.१९ ॥ घृताची मेनका चैव चित्ररेखा च शालिनी । एताश्चाप्सरसो बह्व्यः सर्वा वै देव निर्मिताः ॥ २०.२० ॥ वसन्ते ता विशन्ति स्म शक्रलोकं सुरैः सह । मदिरानन्दपानेन मोहिताः कामपीडिताः ॥ २०.२१ ॥ समतीते वसन्ते तु उमामाहेश्वरं पुरम् । कैलासनिलयं देवं समाराधयितुं गताः ॥ २०.२२ ॥ शापस्य भयभीतास्ता देवेदेवस्य सुव्रताः । साष्टाङ्गं प्रणिपत्याथ मन्त्रगीतेन तुष्टुवुः ॥ २०.२३ ॥ ताश्चैवाप्सरसो गौरी ज्ञात्वा तत्र पराङ्मुखी । गौर्याः परमचित्तज्ञाः सर्वाभरणभूषिताः ॥ २०.२४ ॥ अनङ्गकुसुमा चान्या रूपयौवनशालिनी । धनपाली तथा चान्या व्योमरेखा तथापरा ॥ २०.२५ ॥ चामरग्राहिणी चान्या गान्धर्वी च तथाऽपरा । हेमदण्डा प्रतीहारा ऊचुरप्सरसः प्रति ॥ २०.२६ ॥ उमामाहेश्वरं नाम भवत्यो न समागताः । अपराधोऽयमेवाद्य भवतीनां सुदुःसहः ॥ २०.२७ ॥ अनेनैवापराधेन अजा मर्त्ये भविष्यथ । दिव्यं वर्षशतं साग्रमेवं भवत दुःखिताः ॥ २०.२८ ॥ अप्सरस ऊचुः॒ शापान्तं नो वरारोहे दातुमर्हसि पार्वति । इति तासां वचः श्रुत्वा देवी वचनमब्रवीत् ॥ २०.२९ ॥ शाण्डिल्याकल्पगायोगे नर्मदादक्षिणे तटे । तत्र स्नात्वा दिवं यान्ति शाण्डिल्येश्वरपूजनात् ॥ २०.३० ॥ गौरीतीर्थं तु तत्रैव ज्ञातुं योग्यं हि कल्पगाम् । उत्तीर्णा तेन मार्गेण लग्ना स्कन्दस्य पृष्ठतः ॥ २०.३१ ॥ तत्र स्नात्वा शिवं नत्वा कैलासं चा गमिष्यथ । शापभ्रष्टास्तु तास्सर्वाः क्ष्मां गत्वा अतिदुःखिताः ॥ २०.३२ ॥ शापावसाने सम्प्राप्ते कल्पगातीरमाश्रिताः । तत्र स्नात्वा तु शाण्डिल्यं पूजयित्वा विधानत ॥ २०.३३ ॥ अजारूपधरास्सर्वास्तस्मिन्नप्सरसः क्षणात् । दिव्ययानसमारूढास्सर्वालंकारभूषिताः ॥ २०.३४ ॥ गौरीतीर्थं तथैवापुर्यथापूर्वं तथैव तु । अजातीर्थमिति ख्यातं देवश्चाजेश्वरस्तथा ॥ २०.३५ ॥ सर्वपापहरं चैव लिङ्गमाप्सरसं तथा । तत्र स्नात्वा व्यतीपाते नारी वा यदि वा नरः ॥ २०.३६ ॥ अवशः स्ववशो वाऽपि प्राणत्यागं करोति यः । दशवर्षसहस्राणि राजा विद्याधरे पुरे ॥ २०.३७ ॥ कनकेश्वरमन्यत्तु कनकामोक्षदं शुभम् । ज्वरेश्वरं तत्र लिङ्गं ज्वरो यत्र न विद्यते ॥ २०.३८ ॥ ज्वरिता ऋषयो यत्र बभूवुर्ज्वरवर्जिताः । पञ्चब्रह्मेश्वरं नाम लिङ्गं पापविमोचनम् ॥ २०.३९ ॥ असुरो मलकेतुश्च शक्रस्यैव भयेन तु । पञ्चब्रह्मात्मकैर्मन्त्रैः स्थण्डिलस्थं तु शङ्करम् ॥ २०.४० ॥ नानाविधैः पुष्पधूपैः सम्पूज्य स्वपुरं ययौ । अपराह्णेऽथ संस्मार स पापो लिङ्गमैशकम् ॥ २०.४१ ॥ नमस्कृत्वाऽथ निर्माल्यं यावदुद्धर्तुमिच्छति । तावत्तत्स्थाणुभूतं वै लिङ्गं दृष्ट्वा महासुरः ॥ २०.४२ ॥ विषसादमहाबाहुः किमेतदिति विस्मितः । आकाशवाचाचोक्तं वै विषादं त्यजपुत्रक ॥ २०.४३ ॥ पञ्चब्रह्मेश्वरं नाम लिङ्गमेतत्महासुर । आकाशवचनं श्रुत्वा नमस्कृत्य दिवं ययौ ॥ २०.४४ ॥ पञ्चब्रह्मेश्वरं लिङ्गं लिङ्गं पुष्पेश्वरं तथा । तृतीयं तु तथा विद्धि लिङ्गं वै स्थण्डिलेश्वरम् ॥ २०.४५ ॥ नित्ये नैमित्तिके कार्ये ग्रहणे चन्द्रसूर्ययोः । श्रद्धया सङ्गमे स्नात्वा लिङ्गत्रितयपूजनात् ॥ २०.४६ ॥ गच्छन्ति पितरः स्वर्गं हविर्दानादिभिर्यथा । मन्वन्तरशतं यावन्मोदते ब्रह्मणः पुरे ॥ २०.४७ ॥ नर्मदायाप्यभागे तु गोप्यलिङ्गं व्यवस्थितम् । ब्रह्महत्यादिकं पापं सप्तरात्रेण नश्यति ॥ २०.४८ ॥ त्वष्टा पूषेति विख्यातौ बलिनौ ब्रह्मराक्षसौ । वज्रेण स्वेन शक्रेण हतौ तौ सिन्धुचारिणौ ॥ २०.४९ ॥ बुद्ध्वा ब्रह्मादिभिर्देवैर्ब्रह्महा त्वेष वासवः । इन्द्राण्या चैव संत्यक्तः सर्वैः सुरगणैस्तथा ॥ २०.५० ॥ ब्रह्महत्या समायुक्तः सम्प्राप्तो वै हिमालयम् । चन्द्रहीना यथा रात्रिरनादित्यं यथा नभः ॥ २०.५१ ॥ इयमाभाति वै तद्वच्छक्रहीनाऽमरावती । ततो देवगणैः सर्वैः प्रेषितो हव्यवाहनः ॥ २०.५२ ॥ शक्रस्यान्वेषणार्थाय कृशानो गम्यतां त्वया । जले दृष्ट्वा निवर्त्याऽथ देवतास्संन्यवेदयत् ॥ २०.५३ ॥ ततस्संप्रेषितो देवैः सर्वव्यापी प्रभञ्जनः । स तं प्रवेशयामास प्रोवाच त्रिदशेश्वरम् ॥ २०.५४ ॥ देवानां शासनादेव समागच्छं च त्वत्कृते । तमानीय पुरं दिव्यं ब्रह्मविष्णुपुरस्मराः ॥ २०.५५ ॥ ततो देवगणाः सर्वे शक्रेण सहिता गताः । ईशानो भगवान् यत्र कैलासे पर्वतोत्तमे ॥ २०.५६ ॥ नमस्कृत्य महादेवं सुरासुरनमस्कृतम् । प्रविष्टांस्तु यथान्यायं पप्रच्छ भगवान् हरः ॥ २०.५७ ॥ किमागमनकार्यं वः कुतो वो भयमागतम् । देवा ऊचुः॒ एष त्वां प्रति संप्रष्टुं देवराजः शतक्रतुः ॥ २०.५८ ॥ मोक्षणं ब्रह्महत्यायाः स्याद्यथा वै तथा कुरु । ईश्वर उवाच - वाराणस्यां क्रतुं चेष्ट्वा हयमेधं यथा विधि ॥ २०.५९ ॥ तीर्थयात्राक्रमेणैव ब्रह्महत्या प्रणश्यति । नमस्कृत्य ततो देवं सुराः काशीपुरं ययुः ॥ २०.६० ॥ यज्ञोपस्करमादाय तत्र चेष्टो मखोत्तमः । पौष्करं नैमिषारण्यं कुरुक्षेत्रं तथा पुनः ॥ २०.६१ ॥ केदारं भैरवं तीर्थं गङ्गासागरसङ्गमम् । ओघतीर्थं प्रयागं च प्रभासं शशिभूषणम् ॥ २०.६२ ॥ बभ्रमुः सर्वतीर्थानि पृथिव्यां यानि कानि च । कृष्णमस्य शरीरार्द्धमर्द्धं गौरं निरीक्ष्य च ॥ २०.६३ ॥ विस्मयं परमं जग्मुः सर्वे देवगणास्तथा । वाराणसीं पुरीं गत्वा सुरा विज्ञापयन्ति तम् ॥ २०.६४ ॥ अन्तरिक्षे पुरी ख्याता वाराणस्यसमा तथा । पञ्चक्रोशान्तरे तस्या ब्रह्महत्या न सर्पति ॥ २०.६५ ॥ पुराणे श्रूयते देव देवराज शतक्रतो । यावत्तिष्ठति गङ्गायां वाराणस्यां समागमे ॥ २०.६६ ॥ न तावद्ब्रह्महत्या तु निर्गमे पुनराविशेत् । काश्युवाच - नाहं समर्था हरणे मुक्त्वा काचित्तु कल्पगाम् ॥ २०.६७ ॥ ब्रह्महत्या यथा नश्येदुपदेशं ददामि ते । शाण्डिल्या नर्मदायोगे याम्ये भागे तु नार्मदे ॥ २०.६८ ॥ तत्र स्नात्वा महाराज त्रीणि लिङ्गानि चार्चयेत् । पञ्चब्रह्मेश्वरं देवं पुष्पेश्वरमथापरम् ॥ २०.६९ ॥ तृतीयं तु तथा शक्रलिङ्गं चैव स्थण्डिलेश्वरम् । शिवेन कीर्तितं पूर्वं पार्वत्याः षण्मुखस्य च ॥ २०.७० ॥ काशीपुर्या वचः श्रुत्वा देवदेवः शतक्रतुः । तं देशं समनुप्राप्य सर्वं स्नानादिकं व्यधात् ॥ २०.७१ ॥ तत्क्षणाद्दिव्यदेहश्च सूर्यसंक्रमणं ययौ । शरीरात्तस्य निर्गत्य ब्रह्महत्या ह वासवम् ॥ २०.७२ ॥ अस्य तीर्थस्य माहात्म्यादेकहत्या तवैव का । ब्रह्महत्यासहस्रं हि तमः सूर्योदये यथा ॥ २०.७३ ॥ तीर्थेऽस्मिन्न विशेद्धत्या योजनानि चतुर्दश । एतस्मिन्नन्तरे शक्रं प्रत्यक्षं प्राह कल्पगा ॥ २०.७४ ॥ शिवमस्तु महाराज स्वगृहं याहि साम्प्रतम् । इति तस्या वचः श्रुत्वा नमस्कृत्य तु नर्मदाम् ॥ २०.७५ ॥ दिव्यं यानं समारूढो मुदा परमया युतः । अप्सरोगणसंकीर्णं सिद्धगन्धर्वसेवितम् ॥ २०.७६ ॥ तत्रारूढः सुरपतिर्यथापूर्वं तथैव च । धृतदिव्यातपत्रस्तु वीज्यमानोऽप्सरोगणैः ॥ २०.७७ ॥ स्तूयमानः सुरगणैः प्रविवेशामरावतीम् । शिवेन कथितं ह्येतत्पार्वत्याः षण्मुखस्य च ॥ २०.७८ ॥ मया तु कथितं राजंस्तव ब्रह्मर्षिपूर्वकम् ॥ २०.७९ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे ब्रह्महत्याछेदनो नाम विंशोऽध्यायः ॥ अध्याय २१ युधिष्ठिर उवाच - भूयश्चेच्छाम्यहं श्रोतुं नर्मदातीर्थकीर्तनम् । तृप्तिं नैवाधिगच्छामि शृण्वन्नपि महामुने ॥ २१.१ ॥ इदानीं श्रोतुमिच्छामि रेवाकुब्जासमागमम् । आख्यानसहितं ब्रह्मन् कथयस्व प्रसादतः ॥ २१.२ ॥ कुब्जिका कर्मणा केन त्रिषु लोकेषु विश्रुता । एतन्नस्त्वं परं ब्रह्मन् संशयं छेत्तुमर्हसि ॥ २१.३ ॥ मार्कण्डेय उवाच - शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम् । कथितामीश्वरेणैव पार्वत्याः षण्मुखस्य मे ॥ २१.४ ॥ ऋषीणां ब्रह्ममुख्यानां गणानां चानुचारिणाम् । नानाऋक्षाणि सूर्यस्य जगदुद्योतकारिणः ॥ २१.५ ॥ शशिसूर्योपगमने तारा भान्ति नभस्तले । नान्या पयस्विनी शक्ता संसारार्णवतारणे ॥ २१.६ ॥ पितृदेवमनुष्याणां मुक्त्वा चैव तु कल्पगाम् । तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ॥ २१.७ ॥ चान्द्रायणसहस्रं च ब्रह्मकूर्चायुतं तथा । नर्मदातोयपानेन तुल्यं भवति वा न वा ॥ २१.८ ॥ तिलोदकप्रदानेन पितॄणां प्रीतिरक्षया । गायन्ति पितरो गाथा तथैव च पितामहाः ॥ २१.९ ॥ मातामहाद्याः सततं सर्व एव परस्परम् । अपि स्यात्स्वकुलेऽस्माकं पुत्रः परमधार्मिकः ॥ २१.१० ॥ हविस्तिलयुतं दद्याद्यो रेवासलिलार्चितम् । वर्षलक्षं तथा तेन तृप्ता यामः परां गतिम् ॥ २१.११ ॥ यज्ञक्रिया कृता तेन समग्रा भूरिदक्षिणा । एतत्ते कथितं राजं शिवेनोक्त यथा पुरा ॥ २१.१२ ॥ स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे । मा गयां गच्छ कौन्तेय मा गङ्गां मा सरस्वतीम् ॥ २१.१३ ॥ तत्र गच्छ नृपश्रेष्ठ यत्र कुब्जा सनर्मदा । वाराणसीं प्रयागं च गङ्गासागरसङ्गमम् ॥ २१.१४ ॥ केदारं कनखलं च प्रभासं शशिभूषणम् । हरिश्चन्द्रपुरं चान्द्रं श्रीशैलं त्रिपुरान्तकम् ॥ २१.१५ ॥ माहेन्द्र मलयं चैव गोकर्णं च महाबलम् । कालञ्जरं नीलकण्ठं त्र्यम्बकं धूतकिल्बिषम् ॥ २१.१६ ॥ रुद्रकोटिं हिमस्थानं भैरवं च महापथम् । तीर्थान्येतानि चान्यानि कलां नार्हन्ति षोडशीम् ॥ २१.१७ ॥ नानातीर्थसहस्राणि पुराणे कीर्तितानि च । ब्रह्मविष्णुशिवोक्तं हि तत्प्रमाणं हि सिद्धये ॥ २१.१८ ॥ सोमे प्रसिद्धाऽमावास्या रेवाकुब्जासमागमे । एरण्ड्यां चण्डवेगायां रेवया सह संगमे ॥ २१.१९ ॥ राजन् दर्शे यदा सोमः संविशेद्रविमण्डले । व्यतीपाते च संक्रान्तौ वैधृतौ विषुवे तथा ॥ २१.२० ॥ दक्षोत्तरायणे चैव षडशीतिमुखे तथा । दर्शे स्याद्विंशतिगुणं व्यतीपाते समां शतः ॥ २१.२१ ॥ संक्रमे वैधृतौ राजं छतार्धं परिकीर्तितम् । अमासोमसमायोगे राहुसोमसमागमे ॥ २१.२२ ॥ कुरुक्षेत्राच्छतगुणं पुण्यमाह शिवः स्वयम् । बिल्वाम्रकं सिद्धलिङ्गं ब्रह्महत्याव्यपोहनम् ॥ २१.२३ ॥ दर्शनात्स्पर्शनात्तस्य शिवलोके महीयते । कुब्जेश्वरं तथैवान्यत्न तत्पश्यन्ति मानवाः ॥ २१.२४ ॥ नर्मदाकुब्जिकामध्ये नागकन्याभिरर्च्यते । स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे ॥ २१.२५ ॥ कालाग्निरुद्रसंकाशं भित्त्वा पातालसङ्गमम् । सूर्यकोटिसमप्रख्यं प्रदीप्तज्वलनप्रभम् ॥ २१.२६ ॥ उत्थितं कल्पगामध्ये देवाऽवाहनकाम्यया । ओंकारस्य यवैकेन हीनं लिङ्गं नृपोत्तम ॥ २१.२७ ॥ पृथिव्यां यानि तीर्थानि लोकेऽस्मिन् सचराचरे । हीनान् यस्माद्यवार्द्धेन सत्यमेतच्छिवोदितम् ॥ २१.२८ ॥ तत्र यस्त्यजति प्राणानमासोमसमागमे । दिव्ययानसमारूढः स्तूयमानोऽप्सरोगणैः ॥ २१.२९ ॥ धृतदिव्यातपत्रस्तु सर्वालङ्कारभूषितः । त्रिंशच्छतसहस्राणि वसेच्छिवपुरे शुभे ॥ २१.३० ॥ त्यजेद्धि तत्र यः प्राणान्न वशः स्ववशोऽपि वा । दशवर्षसहस्राणि राजा विद्याधरे पुरे ॥ २१.३१ ॥ रन्तिदेवश्चक्रवर्ती शक्रतुल्यो महीपतिः । अयोध्याधिपतिः श्रीमान् सर्वधर्मभृतां वरः ॥ २१.३२ ॥ कण्वाश्रमपदे रम्ये सुरासुरनिषेविते । आख्यानसहितं राजं छृणु वेद यथाक्रमम् ॥ २१.३३ ॥ तीर्थसंख्याप्रमाणं च इतिहासं पुरातनम् । हरन्ति के च कार्त्तिक्यां कैलासे पर्वतोत्तमे ॥ २१.३४ ॥ ब्रह्मादयो गतास्तत्र विष्णुशक्रपुरोगमाः । उमया सहितो रुद्रो गणकोटिसमन्वितः ॥ २१.३५ ॥ नन्दिस्कन्दमहाकालसुरासुरनिषेवितः । सरितः सागराः शैलास्तीर्थानां कोटयस्तथा ॥ २१.३६ ॥ तेषां मध्ये समुत्थाय स्कन्दो वचनमब्रवीत् । कस्यैतानि विमानानि दीव्यन्ते दिवि शङ्कर ॥ २१.३७ ॥ साप्तभौमा गृहा रम्या हेमप्राकारतोरणाः । गीतनृत्यनिनादेन कामिनीनां मनोहराः ॥ २१.३८ ॥ ईश्वर उवाच - शृणु स्कन्द महाभाग कथ्यमानं यथोदितम् । तीर्थदानप्रभावेण तीर्थज्येष्ठक्रमेण तु ॥ २१.३९ ॥ ये मृता नर्मदातीरे पर्वतेऽमरकण्टके । माहेश्वरादितीर्थेषु भृगुकच्छावसानतः ॥ २१.४० ॥ इमानि यानि तीर्थानि लिङ्गमूर्तिधराणि च । सरितश्चापि गङ्गाद्यास्तासु दानप्रभावतः ॥ २१.४१ ॥ एतत्ते कथितं स्कन्द हर्म्यास्सन्ति समुद्धृताः । मार्कण्डेय उवाच - एवं पुरा महाराज कैलासे पर्वतोत्तमे ॥ २१.४२ ॥ ब्रह्मा पप्रच्छ तीर्थानां शङ्करं विधिपूर्वकम् । देवखातानि सर्वाणि सरितः सागरास्तथा ॥ २१.४३ ॥ नद्यः सर्वाश्च भूपृष्ठे गङ्गाद्या गिरिसम्भवाः । उत्तमाः कतिचिद्देव कथयस्व प्रसादतः ॥ २१.४४ ॥ हर उवाच - कथयामि परं तीर्थं पवित्रं पापनाशनम् । कौतुकेन त्वया पृष्टा नदीनामुत्तमा नदी ॥ २१.४५ ॥ सर्वासां सरितां मध्य उत्तमा सप्तकल्पगा । सर्वेषां जननी चेह नदी त्रैलोक्यसुन्दरी ॥ २१.४६ ॥ ब्रह्मोवाच - सुरसिन्धुं परित्यज्य नर्मदा वर्ण्यते कथम् । विरुद्धं सर्वलोकानां देवानां च विशेषतः ॥ २१.४७ ॥ ब्रह्मणस्तु वचः श्रुत्वा अगस्त्यो वाक्यमब्रवीत् । मध्ये पदे नियुक्तश्च वक्तुमेव न युज्यते ॥ २१.४८ ॥ धर्माः सर्वे वेदमूला ब्राह्मणा वेदसम्भवाः । वेदहीना न सिध्यन्ति यज्ञदानविधिक्रियाः ॥ २१.४९ ॥ स्वयम्भूर्भगवां छम्भुः शम्भुश्च भगवान् हरिः । वेदाश्च भगवां छम्भुः कल्पगा शम्भुसम्भवा ॥ २१.५० ॥ अव्यक्ताव्यक्तरूपेण जगतः कारणेच्छया । संहारसृष्टिरूपेण प्रलयोत्पत्तिकारिणी ॥ २१.५१ ॥ भगीरथनेमिनीता हरिणाऽत्रावतारिता । गङ्गा सा जह्नुना पीता मुनिना चुलुकेन च ॥ २१.५२ ॥ क्रुद्धः पीत्वा मुनिस्तां तु स्थितो ध्यानपरायणः । दिव्यं वर्षसहस्रं तु सा तु तस्योदरे स्थिता ॥ २१.५३ ॥ विस्मयो देवतानां हि समापेदे कुतूहलम् । ब्रह्माद्या देवताः सर्वा गत्वा तस्याश्रमं प्रति ॥ २१.५४ ॥ शापशङ्काकुलात्मानो मुनिं विज्ञापयन्ति ते । महानदीं मुने मुञ्च पवित्रां पापनाशिनीम् ॥ २१.५५ ॥ मर्त्ये वहतु सा नित्यं लोकसन्तापहारिणी । देवता ऋषिप्रोक्तेन मुक्ता तेन महानदी ॥ २१.५६ ॥ मुक्ता तु जह्नुना तत्र तेन सा जाह्नवी स्मृता । सा तु किं वर्ण्यते ब्रह्मन् पीताया जह्नुना पुरा ॥ २१.५७ ॥ मया चुलुकमात्रेण शोषिताः सप्तसागराः । हरिश्च भगवान् शम्भुश्शम्भुश्च भगवानिति ॥ २१.५८ ॥ विन्ध्यः सप्तशैलराजो नर्मदायाः प्रभावतः । तेनोद्धता देवमार्गा वर्तमानानि वारिताः ॥ २१.५९ ॥ यज्ञपर्वतपर्यङ्कावुभौ विन्ध्यस्तौ पुरा । मया निवारितौ बुद्ध्या देवमार्ग प्रवृत्तये ॥ २१.६० ॥ एवं विगर्हितो ब्रह्मा संवादेन परस्परम् । ततस्तुष्टाः सुराः सर्वे ह्यगस्त्यं प्रति भारत ॥ २१.६१ ॥ देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च । इति ते कथितो राजन्नितिहासः पुरातनः ॥ २१.६२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्य एकविंशोऽध्यायः ॥ अध्याय २२ युधिष्ठिर उवाच - कथं निवर्तितो यज्ञो रन्तिदेवस्य धीमतः । कण्वाश्रमपदे रम्ये रेवाकुब्जासमागमे ॥ २२.१ ॥ निखिलं श्रोतुमिच्छामि कथयस्व शिवोदितम् । मार्कण्डेय उवाच - शृण्वन्तु मुनयः सर्वे श्रोतुकामास्समागमम् ॥ २२.२ ॥ मया ख्यातमिदं पुण्यमितिहासं पुरातनम् । शण्डामर्कोऽथ राजर्षिर्मानसो ब्रह्मणः सुतः ॥ २२.३ ॥ सूर्यतेजः समप्रख्यस्तेजसा प्रज्वलन्निव । ब्रह्मिष्ठः सत्यवादी च वेदवेदाङ्गपारगः ॥ २२.४ ॥ ब्रह्मचारी जितक्रोधः सर्वभूतहिते रतः । षडशीतिसहस्राणि मुनीनां दीप्ततेजसाम् ॥ २२.५ ॥ तपस्तत्रैव तप्यन्ते मोक्षोपायविचिन्तकाः । कन्दमूलफलाहारा जलाहारास्तथा परे ॥ २२.६ ॥ मासोपवासिनश्चान्ये तथा पक्षोपवासिनः । चरन्ति के सान्तपनं प्राजापत्यं तथैव च ॥ २२.७ ॥ चान्द्रायणपराश्चान्ये ब्रह्मकूर्चास्तथापरे । शण्डामर्काश्रिताः सर्वे सर्वेषां गुरुरेव च ॥ २२.८ ॥ वेदध्वनितनिर्घोषैर्दिवं भूमिं व्यनादयन् । निर्धूमो ज्वलनस्तत्र हूयमानो हुताशनः ॥ २२.९ ॥ कामक्रोधविनिर्मुक्तैर्ब्रह्मचारिजितेन्द्रियैः । शण्डामर्काश्रमं दिव्यं युक्तं ब्रह्मसमद्विजैः ॥ २२.१० ॥ तथाकामफलैर्वृक्षैः पुष्पितैस्त्वतिशोभितम् । सर्वाश्रमगुरुश्चासीद्रन्तिदेवो महीपतिः ॥ २२.११ ॥ शासिता धरणी तेन सशैलवनकानना । न नराः शोकमात्सर्यरोगदारिद्र्यदुःखिताः ॥ २२.१२ ॥ चिरायुषः प्रजाः सर्वा धनधान्यसमाकुलाः । स्वयं कामदुघा गावः पृथिवी सस्यशालिनी ॥ २२.१३ ॥ कौशेयं पट्टसूत्रं च सर्वेषां विमलं चितम् । पर्जन्यः कामवर्षी च काले काले ऋतावृतौ ॥ २२.१४ ॥ नाना पुराणि रम्याणि हेमरत्नान्वितानि च । नाना चामरमाला च हेमरत्नावगण्ठिता ॥ २२.१५ ॥ किङ्किणीजालसंछन्ना मणिमालाविलम्बिता । बुद्बुदैरर्धचन्द्रैश्च पारिजातकदम्बकैः ॥ २२.१६ ॥ गोपुरैश्च महादिव्यैर्नानानकनिनादिता । नाट्यहर्म्यैश्च सङ्गीतैर्विचित्रकुसुमावृतैः ॥ २२.१७ ॥ भूमिर्हेममयी चैव चार्चिता यत्र संचितैः । प्रासादश्च महारत्नैर्देवदेवस्य शूलिनः ॥ २२.१८ ॥ मेरुमन्दरकैलासे यादृशश्च विराजते । नानारत्नशिलाभिश्च अनेकशिखरोत्करैः ॥ २२.१९ ॥ चन्द्रशालागवाक्षैश्च रत्नमालाविभूषितैः । शतार्धसाप्तभौमैश्च तथैवायुतभूमिकैः ॥ २२.२० ॥ चन्द्राननपताकाभिर्यज्ञैश्चापि विराजिता । एवं विधा नृपश्रेष्ठ सर्वशोभा समन्विता ॥ २२.२१ ॥ रन्तिदेवस्य राजर्षेरयोध्यानगरी शुभा । इत्थं शशास धरणीं यथा शक्रस्त्रिविष्टपम् ॥ २२.२२ ॥ नृपो यागसहस्रैश्च भूमिपृष्ठं ददाह सः । पुरोधसं वशिष्ठं च पप्रच्छ मुनिसत्तमम् ॥ २२.२३ ॥ कस्मिंस्तीर्थे तु निर्विघ्ना यज्ञसिद्धिर्महामुने । इति तस्य वचः श्रुत्वा राजर्षेर्मुनिसत्तमः ॥ २२.२४ ॥ उवाच रन्तिदेवं च वशिष्ठो ब्रह्मवित्तमः । दुर्वासाः कश्यपो गर्गो नारदः पर्वतः क्रतुः ॥ २२.२५ ॥ अग्निश्च शौनकश्चैव बृहस्पतिरथाङ्गिराः । भृगुरत्रिस्तथा वत्स्यः पुलस्त्यः पुलहस्तथा ॥ २२.२६ ॥ काश्यपो गालवश्चैव ऋष्यशृङ्गो विभाण्डकः । अहं च मुनयश्चैते मुनयो ब्रह्मवर्चसः ॥ २२.२७ ॥ सर्वेषां मतमेवं वै मम चैव नराधिप । अन्यतीर्थात्परं तीर्थं पुराणे परिकीर्तितम् ॥ २२.२८ ॥ कोटिकोटिगुणं पुण्यं कल्पगा यत्र वर्तते । एवमेवेति तं ब्रूयात्सत्यमेतत्त्वयोदितम् ॥ २२.२९ ॥ ततश्चाज्ञापयामास भृत्यामात्यपुरोधसः । यज्ञोपस्करसम्भारः शीघ्रमेव विधीयताम् ॥ २२.३० ॥ आदिदेश ततो दूतान्नानादेशेषु सत्वरान् । घोषणा क्रियतां राष्ट्रे समागच्छन्तु भूमिपाः ॥ २२.३१ ॥ आगतास्ते ततः सर्वे रन्तिदेवस्य शासनात् । यथा विभवशोभाढ्याः शक्रतुल्या महीभृतः ॥ २२.३२ ॥ गावश्च दशलक्षाणि सवत्साश्च पयस्विनीः । हेमभारैर्भूषिताश्च कामधेनुपयस्विनीः ॥ २२.३३ ॥ लक्षमेकं हयानां तु अयुतं दन्तिनां तथा । मणिमाणिक्यरत्नानां तत्र संख्या न विद्यते ॥ २२.३४ ॥ अनेकानि सहस्राणि करभानां च भारत । दिव्ययानं समारुह्य सान्तःपुरपरिच्छदः ॥ २२.३५ ॥ नानातूर्यैर्गीतवाद्यैर्मेकलातीरमागतः । तत्र मण्डपकुण्डानि यज्ञयूपा हिरण्मयाः ॥ २२.३६ ॥ नानाभक्षाणि भोज्यानि पक्वानि विविधानि च । नानाभरणरत्नैश्च ब्राह्मणाः समलंकृताः ॥ २२.३७ ॥ यज्ञदीक्षां च जग्राह पत्न्या सह नराधिपः । ततः प्रवर्तितो यज्ञो रेवातीरे सुशोभने ॥ २२.३८ ॥ तत्र ज्वलति निर्धूमः प्रत्यक्षो हव्यवाहनः । ब्रह्मशक्रादयो देवा लोकपाला मरुद्गणाः ॥ २२.३९ ॥ विश्वेदेवाश्च साध्याश्च वसवश्चन्द्रभास्करौ । सरितः सागराः शैलाः सर्वतीर्थानि चापगा ॥ २२.४० ॥ मातरः सिद्धगन्धर्वाः सयक्षोरगराक्षसाः । उमया सहितो रुद्रो विष्णुश्चैव सुरेश्वरः ॥ २२.४१ ॥ सर्वेषा यज्ञभागांश्च पृथक्पृथगकल्पयत् । एतस्मिन्नन्तरे राजन् वेदध्वनि निवेदितम् ॥ २२.४२ ॥ विस्मिता ह्यभवन् सर्वे श्रुत्वा स्मृतिभयानकम् । दानवा बलवन्तोऽद्य ते क्रौञ्चपुरवासिनः ॥ २२.४३ ॥ महाबाहुः सुबाहुश्च दैत्यकोटिसमावृताः । आगता नर्मदा तीरे सभृत्यबलवाहनाः ॥ २२.४४ ॥ दक्षिणां दिशमाश्रित्य यज्ञविघ्नं विचक्रिरे । ब्रह्माद्या मुनयः सर्वे भयत्रस्ताश्च कम्पिरे ॥ २२.४५ ॥ उवाच वचनं ब्रह्मा देवतुल्यं पुरोधसम् । मया विधिर्विस्मृतश्च मन्त्रादीनां महाभयात् ॥ २२.४६ ॥ उवाच रन्तिदेवं च यज्ञध्वंसं निवारय । ब्रह्मिष्ठस्तद्वचः श्रुत्वा रन्तिदेवो महीपतिः ॥ २२.४७ ॥ यदि मे विद्यते सत्यं शिवभक्तिपरा मतिः । दैत्यराक्षसदुष्टाश्च ये चान्ये विघ्नकारकाः ॥ २२.४८ ॥ सर्वे ते विलयं यान्ति तमः सूर्योदये यथा । पश्यन्तु मम सामर्थ्यं देवा विगतकल्मषाः ॥ २२.४९ ॥ एवमुक्त्वा ततो राजन् कुशाग्रेण तु नार्मदः । प्रवाहो दुष्टरक्षार्थं दक्षिणस्यां प्रकल्पितः ॥ २२.५० ॥ विष्णुश्चैव स्मृतस्तत्र शङ्खचक्रगदाधरः । उत्तरे देवयानस्य प्रवाहः परिकल्पितः ॥ २२.५१ ॥ एवं कृत्वा तु घोरेण देवमन्त्रेण सुव्रतः । जुहावाहवनीये तु कुण्डे बिल्वाम्रवेतसम् ॥ २२.५२ ॥ तस्मात्समुत्थितं लिङ्गं ज्वलत्कालानलप्रभम् । नान्तो नादिर्न मध्यं च तस्य लिङ्गस्य भारत ॥ २२.५३ ॥ ततः सुरासुराः सर्वे चक्रुः स्तोत्रमिदं पुरः । ओं नमो भुवनेशाय आदिदेव नमोऽस्तु ते ॥ २२.५४ ॥ चराचरख्यापकाय सृष्टिसंहारकारिणे । स्तोत्रं श्रुत्वा महादेवः शान्तरूपो जगत्पतिः ॥ २२.५५ ॥ बभूव परमप्रीतश्चराचरगुरुस्तदा । तद्दृष्ट्वा तादृशं कर्म रन्तिदेवस्य धीमतः ॥ २२.५६ ॥ आगत्य दानवाधीशो रन्तिदेवमपूजयत् । आदेशो दीयतां मह्यं किं करोमीति चाब्रवीत् ॥ २२.५७ ॥ उवाच वचनं राजा प्रहसन्निव भारत । आतिथ्यकाले सम्प्राप्ते यज्ञभागं वदामि ते ॥ २२.५८ ॥ देवानां यज्ञभांगं च दानवानां च सर्वशः । परिकल्प्य यथान्यायं मुदा परमया युतः ॥ २२.५९ ॥ स्वं स्वं यानं समारुह्य दानवास्ते च सर्वशः । लिङ्गं बिल्वाम्रकं नाम जुष्टं दैवैर्जगत्पतेः ॥ २२.६० ॥ नमस्कृत्य महादेवं रन्तिदेवं प्रतुष्टुवुः । ततः प्रमुदिता देवा रन्तिदेवमपूजयन् ॥ २२.६१ ॥ उमया सह देवेशं गणकोटिसमन्वितम् । ब्रह्मा विष्णुश्च देवाश्च वरं दत्त्वा दिवं ययुः ॥ २२.६२ ॥ गतेषु तेषु देवेषु रन्तिदेवः पुरं ययौ । कदाचिद्वृत्रहा तत्र ब्रह्महत्यासमावृतः ॥ २२.६३ ॥ रेवाकुब्जासमायोगे सर्वं स्नानादिकं व्यधात् । तत्क्षणाद्दिव्यदेहस्तु सूर्यसंकाशतेजसः ॥ २२.६४ ॥ शरीरात्तस्य निर्गत्य ब्रह्महत्याह वासवम् । अस्य तीर्थस्य माहात्म्यादेकहत्या तवैव का ॥ २२.६५ ॥ ब्रह्महत्यासहस्रं हि तमः सूर्योदये यथा । तीर्थेऽस्मिन् विनशेद्यावद्योजनानि चतुर्दश ॥ २२.६६ ॥ एतस्मिन्नन्तरे शक्रं प्रत्यक्षं प्राह कल्पगा । शान्तिस्तेऽस्तु महाभाग यथेष्टं गच्छ साम्प्रतम् ॥ २२.६७ ॥ इति तस्या वचः श्रुत्वा तां नमस्कृत्य कल्पगाम् । दिव्ययानं समारुह्य मुदा परमया युतः ॥ २२.६८ ॥ अप्सरोगणसंयुक्तं दिव्यगन्धर्वनादितम् । तत्रारूढः सुरपतिर्यथा पूर्वं तथैव सः ॥ २२.६९ ॥ धृतदिव्यातपत्रस्तु वीज्यमानोऽप्सरोगणैः । स्तूयमानः सुरगणैः प्रविवेशामरावतीम् ॥ २२.७० ॥ शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च । मया च कथितं राजंस्तव ब्रह्मर्षिपूर्वकम् ॥ २२.७१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे बिल्वाम्रकोत्पत्तिवर्णनो नाम द्वाविंशोऽध्यायः ॥ अध्याय २३ मार्कण्डेय उवाच - हरिकेश इति ख्यातः शालग्रामे द्विजोत्तमः । शिलोञ्छवृत्तिर्धर्मात्मा सत्यव्रतपरायणः ॥ २३.१ ॥ ब्राह्मणी सुव्रता तस्य धर्मपत्नी यशस्विनी । पतिव्रता महाभागा पतिशुश्रूषणे रता ॥ २३.२ ॥ काले ऋतुमती सा तु ऋतुगामी च स द्विजः । तस्य पुत्रशतं जज्ञे कपिलापुरमाश्रितम् ॥ २३.३ ॥ शिलोञ्छवृत्तियोगेन प्रस्थमेकमुपार्जयत् । क्षुत्क्षामाः ते च शिशवो रुदन्ति करुणं ततः ॥ २३.४ ॥ शिशून् बुभुक्षितान् दृष्ट्वा माता शोकार्तिविह्वला । गर्हयन्ती सुदुःखार्ता ब्राह्मणी पतिमब्रवीत् ॥ २३.५ ॥ वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । भरणीयाः प्रयत्नेन एष धर्मः सनातनः ॥ २३.६ ॥ भरणं पोष्यवर्गस्य पुत्राणां च विशेषतः । एतच्छ्रुत्वा तु वचनं ब्राह्मण्याः शोकविह्वलः ॥ २३.७ ॥ हरिकेशोऽब्रवीद्वाक्यं ब्राह्मणीं प्रति भारत । न मया संचितं धान्यं न वित्तं गृहमेधिना ॥ २३.८ ॥ ग्रामे ग्रामे भिक्षयित्वा सविभागं पृथक्पृथक् । ददामि परमं धान्यं नान्यां वृत्तिं तु कारये ॥ २३.९ ॥ ब्राह्मण्युवाच - बालहत्यासमं पापं बाले वृद्धे क्षुधार्दिते । तस्मात्प्रतिग्रहं कृत्वा भर्तव्या मम पुत्रकाः ॥ २३.१० ॥ पुत्रेण लोकं जयति पुत्रेण सुखमेधते । पुत्रेण स्वर्गमाप्नोति पितॄणां परमा गतिः ॥ २३.११ ॥ अम्बरीषस्य नृपतेरयोध्याधिपतेः किल । वर्तमाने महायज्ञे कुरुक्षेत्रे द्विजोत्तमाः ॥ २३.१२ ॥ गताश्च ब्राह्मणास्तत्र प्रतिग्रहजिघृक्षया । गाः कांचनं धनं प्राप्य शालग्रामनिवासिनः ॥ २३.१३ ॥ नानाभरणशोभाढ्या आगताः समलंकृताः । याहि यत्र द्विजाः सर्वे शालग्रामनिवासिनः ॥ २३.१४ ॥ सुतार्थं हरिकेशोऽथ रक्षिते कुरुजाङ्गले । अम्बरीषस्य नृपतेर्वर्तमाने महामखे ॥ २३.१५ ॥ गृहीत्वा ब्राह्मणीं पुत्रान् कुरुक्षेत्रं जगाम ह । प्रविष्टश्चाध्वरे तस्मिन् यत्र ते सन्ति ऋत्विजः ॥ २३.१६ ॥ ब्रह्मघोषस्वरेणैव स दृष्ट्वा दिवि देवताः । यमोऽङ्गिरामुनिर्विष्णुर्वशिष्ठो दक्ष एव च ॥ २३.१७ ॥ बृहद्विष्णुः प्रसन्नात्मा शातातपपराशरौ । आपस्तम्बोशनोव्यासाः कात्यायनबृहस्पती ॥ २३.१८ ॥ हारीतः शङ्खलिखितौ याज्ञवल्क्योऽथ गौतमः । दुर्वासाः काश्यपो गर्गो भारद्वाजोऽत्रिरेव च ॥ २३.१९ ॥ नारदः पर्वतश्चैव पुलस्त्यः पुलहः क्रतुः । विभाण्डको भृगुश्चैव शाकटो बादरायणः ॥ २३.२० ॥ बालखिल्या ब्रह्मपुत्रा ब्रह्मतेजो वपुर्धराः । अष्टाशीतिसहस्राणि ब्रह्मदण्डं समारुहन् ॥ २३.२१ ॥ अम्बरीषो महाराज दृष्ट्वा ब्राह्मणपुङ्गवम् । ब्रह्मर्षींस्तान्नमस्कृत्य अर्घपाद्यैरपूजयत् ॥ २३.२२ ॥ किमर्थमागतो विप्रसभार्यः सहपुत्रकैः । अनुग्रहमिमं मन्ये यन्मां वदसि सुव्रत ॥ २३.२३ ॥ आतिथ्यकाले सम्प्राप्तो याचयस्व यथोचितम् । ब्राह्मण उवाच - वित्तं वर्षशतं यावदेकैकाय सुताय मे ॥ २३.२४ ॥ त्वं देहि जीवनायाश होमधेनुं तथोत्तमाम् । अयुतं तु गवां भूप हेमभारपरिष्कृतम् ॥ २३.२५ ॥ कोटिमेकां हिरण्यस्य वस्त्रभूषणमुत्तमम् । इति तस्य वचः श्रुत्वा द्विजस्य पृथिवीपतिः ॥ २३.२६ ॥ श्रद्धया परया युक्तः सर्वं दत्त्वा यथोदितम् । शालग्रामपदं यानैः शीघ्रं प्रावेशयत्ततः ॥ २३.२७ ॥ क्रतुमिष्ट्वा स राजर्षिर्मुमुदे देववच्चिरम् । नानाविधान् स भुक्त्वाऽथ भोगान् पत्नीसुतैः सह ॥ २३.२८ ॥ कालान्तरे ततः प्राप्ते ऋषिर्मृत्युवशं गतः । मरुदेशे निरुदके ब्रह्मरक्षस्त्वमागतः ॥ २३.२९ ॥ राजप्रतिग्रहाद्दुष्टात्पुनर्जन्म न विद्यते । ब्राह्मण्यं यः परित्यज्य द्रव्यलोभेन मोहितः ॥ २३.३० ॥ विषयामिषलुब्धस्तु कुर्याद्राज प्रतिग्रहम् । नरके रौरवे घोरे तस्येह पतनं ध्रुवम् ॥ २३.३१ ॥ वृक्षादावाग्निना दग्धाः प्ररोहन्ति वनागमे । राजप्रतिग्रहाद्दग्धा न प्ररोहन्ति कर्हिचित् ॥ २३.३२ ॥ शोचन्ति पूर्व जन्मानि अन्यजन्मकृतानि च । भार्यापुत्रकृतेनैव गतोऽहं नरकार्णवम् ॥ २३.३३ ॥ एवमुक्त्वा कुरुक्षेत्रं पुत्रदारादिभिः सह । तत्र द्वादशवर्षाणि उषित्वा सुबुभुक्षितः ॥ २३.३४ ॥ उच्छिष्टं कश्मलं भुङ्क्ते राक्षसीं योनिमाश्रितः । वाराणसीं प्रयागं तु पुष्करं नैमिषं तथा ॥ २३.३५ ॥ गङ्गासागरसं भेदं क्षेत्रं कनखलं तथा । केदारं च महापुण्यं प्रभासं शशिभूषणम् ॥ २३.३६ ॥ अटित्वा सर्वतीर्थानि पापयोनिरतो नृप । चिन्तयामास देहं मे न निवृत्तं कथंचन ॥ २३.३७ ॥ तस्मात्पापविशद्ध्यर्थं प्रविशामि हुताशनम् । भार्या तस्य सपुत्रा वै भर्तारं सुव्रताऽब्रवीत् ॥ २३.३८ ॥ किंचिद्विज्ञापयामि त्वां यदि मां मन्यसे विभो । क्षणमात्रेण दुःखेन साधयामि सुखं बहु ॥ २३.३९ ॥ ब्राह्मणस्य हि धर्मोऽयं सर्वस्तद्वह्णिसाधनेन । तत्समाहृत्य दारूणि प्रदीप्य च हुताशनम् ॥ २३.४० ॥ अहं विशाम्यविधवा भर्तारं प्रथमं द्रुतम् । न पश्यामि पतन्तं वै ज्वलने दारुणे भृशम् ॥ २३.४१ ॥ उक्ता साऽकाशवाण्या च मा ते मृत्युभयं शुभे । श्रूयतां मम वाक्यं हि यथा धर्मो न हीयते ॥ २३.४२ ॥ कुब्जारेवासमायोगे ब्रह्मरक्षोविमोक्षणम् । तत्र स्नात्वा दिवं याति बिल्वाम्रकमर्चनात् ॥ २३.४३ ॥ लभते ब्रह्मलोकं च रक्षोयोनेश्च मोक्षणम् । ब्रह्मराक्षस उवाच - काऽसि त्वं च वरारोहे कस्य चासि यशस्विनि ॥ २३.४४ ॥ अनुग्रहार्थं भूतानां पूर्वजन्म कृतैः शुभैः । आकाशवाण्युवाच - धन्याऽहं सर्वभूतानामव्यक्ताव्यक्तरूपिणी ॥ २३.४५ ॥ एवमुस्त्वा तु सा देवी तत्रैवान्तरधीयत । पुत्रदारान्वितो नत्वा हरिकेशः सुरेश्वरम् ॥ २३.४६ ॥ सम्प्राप्त सुमुदायुक्तः कुब्जारेवासमागमम् । तत्र स्नात्वा यथान्यायमर्चयित्वा महेश्वरम् ॥ २३.४७ ॥ हुताशनं प्रविविशुः स्मृत्वा देवं हारिं हरम् । स्वीयं गृहमिवाक्लेशाः कामक्रोधविवर्जिताः ॥ २३.४८ ॥ तत्क्षणाद्दिव्यदेहास्तु ब्रह्मतेजोवपुर्धराः । दिव्ययानं समारुह्य ब्रह्मलोकमवाप्नुयुः ॥ २३.४९ ॥ पुत्रदारसमायुक्तो हरिकेशो नृपोत्तम । तस्य तीर्थस्य माहात्म्याद्दिवि दीव्यति देववत् ॥ २३.५० ॥ शतमष्टोत्तरं तत्र लिङ्गानां पुण्यसङ्गमे । मार्कण्डेश्वरमित्येकं मधुरेश्वरमेव च ॥ २३.५१ ॥ शूलपाणिं तथैवान्यमगस्त्येश्वरमेव च । एतान्यन्यानि चैवेह सिद्धलिङ्गानि सन्ति वै ॥ २३.५२ ॥ एतत्सर्वं यथा न्यायं कथितं तव सुव्रत । कुब्जारेवासमायोगं सुरासुरनिषेवितम् ॥ २३.५३ ॥ प्रातर्यः कीर्तयेद्भक्त्या नर्मदां सप्तकल्पगाम् । सर्वपापविनिर्मुक्तः स शैवं लभते पुरम् ॥ २३.५४ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्ये त्रयोविंशोऽध्यायः ॥ अध्याय २४ युधिष्ठिर उवाच - समुत्पत्तिं च कुब्जाया यस्यां विमलमानसाः । सर्वपापविनिर्मुक्ता गन्धर्वो रगराक्षसाः ॥ २४.१ ॥ एतद्वै श्रोतुमिच्छामि विस्तरेण महामुने । कथ्यतां मुनिशार्दूल समाख्यानं पुरातनम् ॥ २४.२ ॥ मार्कण्डेय उवाच - शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम् । चित्राङ्गदः शक्रसुतो गन्धर्वः काममोहितः ॥ २४.३ ॥ समालम्ब्य कुमारीणां दशलक्षाणि भारत । रेमे यथेच्छया सोऽपि पश्चान्मुक्तश्च किल्विषात् ॥ २४.४ ॥ आख्यानं कथयिष्यामि यथावृत्त पुरातनम् । सुवर्णो नाम गन्धर्वस्तस्य भार्या यशस्विनी ॥ २४.५ ॥ हेमगर्भेति विख्याता शक्रस्यैव यथा शची । सुता तस्याः सुकामेति विदितानङ्गमोहिनी ॥ २४.६ ॥ रूपयौवनसम्पन्ना ऊढा वै धनदेन सा । गौर्याराधनयोगेन तस्याः पुत्रोऽप्यजायत ॥ २४.७ ॥ केतुमाल इति ख्यातो राजा वैद्याधरे पुरे । शशिरेखा प्रिया तस्य भार्व्या वै रूपशालिनी ॥ २४.८ ॥ द्वे कन्ये जनयामास रतिः प्रीतिर्मनोरमे । ददौ स कामदेवाय पाणिग्रहणपूर्वकम् ॥ २४.९ ॥ कन्यानां दशलक्षाणि भूषणैर्भूषितानि च । तास्तु यानसमारूढाः कामरूपा मनोरमाः ॥ २४.१० ॥ विचित्रवस्त्राभरणा गौर्याराधन तत्परा । तावन्न भुज्यते ताभिस्ताम्बूलं भोजनादिकम् ॥ २४.११ ॥ यावन्न कार्यमस्माभिरिति सङ्कल्पमादधुः । नित्यं तैर्यत्रिकं तास्तु चक्रुः सर्वा समाहिता ॥ २४.१२ ॥ वसन्ते समनुप्राप्ते द्रष्टुं प्रेक्षणकं पुरा । पुष्पकेण विमानेन जग्मुस्ता इन्द्रमन्दिरम् ॥ २४.१३ ॥ क्रीडयित्वा यथा न्यायं मदिरामदविह्वलाः । अदृष्ट्वैव भवानीं ताश्चक्रे ताम्बूलभक्षणम् ॥ २४.१४ ॥ चित्राङ्गदस्य चापारं रूपं दृष्ट्वा वराङ्गनाः । मोहिता नाऽभिजानन्ति मदिरोन्मत्तमानसाः ॥ २४.१५ ॥ तैश्चापि कामिताः सर्वा गन्धर्व्यो मुदिताननाः । नानाविधैस्तथा कार्यैश्चिक्रीडुर्मन्मथाद्दिवि ॥ २४.१६ ॥ अतीते वत्सरे तास्तु गन्धर्वपुरमागताः । गौरीं द्रष्टुं समाजग्मुरुमा माहेश्वरं पुरम् ॥ २४.१७ ॥ नमस्कृत्य ततो देवीमिदं वचनमब्रुवन् । रक्षस्वास्माकमीशानि च्युतानां नियमात्स्वकात् ॥ २४.१८ ॥ ततश्चुकोप देवी तान् पापकर्मरतान् प्रति । व्रतादिकं हता ये ये परदाराविदूषकाः ॥ २४.१९ ॥ अपत्रपा दुराचाराः सर्वलोकबहिष्कृताः । तदधर्मस्य पापस्यानिष्कृतिर्धरणीतले ॥ २४.२० ॥ कुमारीं कामयेद्यस्तु कामलोभेन मोहितः । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ २४.२१ ॥ एतस्मिन्नन्तरे राजंस्ततश्चैत्राङ्गदः स्तुवन् । प्रणम्य शिरसा देवीमिदं वचनमब्रवीत् ॥ २४.२२ ॥ शापस्य स भयाद्भूरि विललाप नराधिप । अकार्यं कृतमस्माभिर्गन्धर्वतनयान्वितैः ॥ २४.२३ ॥ प्रायश्चित्तं किमस्याद्य पापस्य गद निष्कृतिम् । उवाच वचनं देवी गन्धर्वं काममोहितम् ॥ २४.२४ ॥ धर्मक्रियाविलुप्तस्य स्वर्गलोकच्युतस्य च । कुमारीदूषणे पापं महतां लोमहर्षणम् ॥ २४.२५ ॥ कुमारीदूषणे पापे निष्कृतिर्न विधीयते । मम गन्धर्वकन्याश्च मधुपानैर्विडम्बिताः ॥ २४.२६ ॥ यूयं त्वनेन पापेन गन्धर्वाः काममोहिताः । कुब्जावामनहीनाङ्गा भविष्यथ सहस्रशः ॥ २४.२७ ॥ दिव्यवर्षसहस्रं तु मर्त्यलोके चरिष्यथ । कन्याविकृतदोषेण कुब्जामर्कटकाननाः ॥ २४.२८ ॥ स्वकर्मकृतदोषेण पापं भुञ्जन्तु भूतले । एव शप्तास्तु ते देव्या सर्वे मर्त्य समागमन् ॥ २४.२९ ॥ शोचन्तः स्वानि कर्माणि पूर्वजन्मकृतानि च । बभ्रमुः सर्वतीर्थानि लोके चैव चराचरे ॥ २४.३० ॥ विषण्णवदनास्सर्वे पापेनाऽनेन कार्षिताः । शापस्याऽन्तं न विन्दन्ति सर्वतीर्थान् भ्रमन्त्यपि ॥ २४.३१ ॥ एकविंशतिलक्षाणि गन्धर्वाणि तथाऽनघ । न देवा न च तीर्थानि पापस्याऽस्य विशुद्धये ॥ २४.३२ ॥ नान्यद्वा युज्यते कर्म मुक्त्वा चैव हुताशनम् । कर्मणां दोषदाहेन मुञ्चामः पापकर्मणः ॥ २४.३३ ॥ दत्तोऽस्माकं महाशापो पापमार्गनिवर्तकः । एतस्मिन्नन्तरे प्राप्तः सकुबेरः पुराधिपः ॥ २४.३४ ॥ सम्प्राप्तो नैमिषारण्ये यत्र चित्राङ्गदादयः । तान् दृष्ट्वा सोऽब्रवीद्देवः क्षणमात्रं प्रतीक्षत ॥ २४.३५ ॥ उमामाहेश्वरे यावद्वच्मि गत्वा यथोदितम् । एवमुक्त्वा ययौ देवः कैलासं पर्वतोत्तमम् ॥ २४.३६ ॥ साष्टाङ्गं च नमस्कृत्य उमया सहितं हरम् । जय देवि सुरेशानि संसारार्णवतारिणि ॥ २४.३७ ॥ त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् । व्यापिनी शक्तिरूपेण सर्वेषां प्राणिनामपि ॥ २४.३८ ॥ इत्येवमादिभिर्वाक्यैर्देवीं तुष्टाव वासवः । स्तोत्रैः स्तुता महादेवी शक्रं वचनमब्रवीत् ॥ २४.३९ ॥ आर्तिः का ते समुत्पन्ना यथार्थं कथयस्व मे । उवाच वचनं शक्रः पार्वतीं प्रति भारत ॥ २४.४० ॥ वरदा यदि मे देवि वरं दातुं त्वमिच्छसि । चित्राङ्गदादिपापस्य मोक्षणं क्रियतां शुभे ॥ २४.४१ ॥ देव्युवाच - शिवाज्ञा वर्तते लोके पापस्यास्य विशुद्धये । तस्मात्पापविशुद्ध्यर्थं त्रिषु लोकेषु विश्रुतम् ॥ २४.४२ ॥ देवदेवं महादेवं याचस्व परमेश्वरम् । एवं देव्या वचः श्रुत्वा शक्रः प्रोवाच शङ्करम् ॥ २४.४३ ॥ निष्कृतिस्त्वस्य पापस्य क्रियतां वचनात्मम । शङ्कर उवाच - यज्ञपाकाश्रमं गत्वा मेकलातीरमाश्रितम् ॥ २४.४४ ॥ यज्ञपर्वतमासाद्य विन्ध्यस्यैव सुतोत्तमम् । तत्र यज्ञेश्वरं देवं लिङ्गं परमसिद्धिदम् ॥ २४.४५ ॥ बिल्वाम्रकं तथा चान्यत्कल्पगा तीरमाश्रितम् । पुण्यस्थाने तु तत्रास्य शापस्यान्तो भविष्यति ॥ २४.४६ ॥ एकविंशतिलक्षाणि तत्र मुक्तानि सङ्गमे । गन्धर्वाणां महाराज कुब्जभावमुपेयुषाम् ॥ २४.४७ ॥ महानदी नृपश्रेष्ठ कुब्जा तेन प्रकीर्तिता । दिव्ययानसमारूढाः स्तूयमाना मरुद्गणैः ॥ २४.४८ ॥ मुदा परमया युक्ता गान्धर्वं लोकमाप्नुयुः । बिल्वाम्रकं पूजयित्वा गन्धर्वा गतकिल्बिषाः ॥ २४.४९ ॥ यथा पूर्वं तथेदानी तीर्थस्याऽस्य प्रभावतः । हर्षेण महता युक्तः शक्रोऽपि त्रिदिवालयम् ॥ २४.५० ॥ जगाम त्रिदशैः सार्धं परिपूर्णमनोरथः । षडस्य चोत्तरे भागे षडस्य दक्षिणे तथा ॥ २४.५१ ॥ एवं ते कथितो राजन् रेवाकुब्जासमागमः । अनेके यस्य माहात्म्यात्संसिद्धिं परमां गताः ॥ २४.५२ ॥ श्रवणात्कीर्तनाद्वाऽपि मुच्यते भवबन्धनात् ॥ २४.५३ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्ये चित्राङ्गदशापमोचनो नाम चतुर्विंशोऽध्यायः ॥ अध्याय २५ मार्कण्डेय उवाच - अथान्यत्कथयिष्यामि तीर्थानां तीर्थमुत्तमम् । सर्वपापहरं दिव्यं स्वर्गसोपानसन्निभम् ॥ २५.१ ॥ सपादकोटितीर्थानि पुरे माहेश्वरे नृप । रौद्रं वारुणमासाद्य क्रोशमात्रप्रमाणतः ॥ २५.२ ॥ अत्रान्तरे महाराज शिवक्षेत्रमुदाहृतम् । प्राणत्यागं च यः कुर्याच्छिवलोके च मोदते ॥ २५.३ ॥ तिर्यग्योनिगताः पापाः कीटपक्षिमृगादयः । तेऽपि यान्ति शिवस्थानं यत्र देवो महेश्वरः ॥ २५.४ ॥ तिलोदकप्रदानेन मातृकाः पितृकास्तथा । पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥ २५.५ ॥ तत्रेष्टा ब्रह्मणा पूर्वमसंख्येयां मखोत्तमाः । शक्रश्च देवराज्रत्वं तत्रेष्ट्वा समवाप्तवान् ॥ २५.६ ॥ कार्तवीर्येण तत्रैव कृतं यज्ञशतं पुरा । अयोध्यायां पुरा राजन् यज्ञदानपरायणः ॥ २५.७ ॥ आदित्यस्य सुतश्चासीत्सूर्यवंशे महीपतिः । जित्वाऽसुरांस्तथा दैत्यान् रक्षोगणसमन्वितान् ॥ २५.८ ॥ मनुर्नाम्ना चक्रवर्ती शक्रादीशाद्गुणोत्तमः । पुरोत्तमे न सर्पन्ति मृत्युरोगजरास्तथा ॥ २५.९ ॥ शतार्द्धसाप्तभौमैश्च गृहैर्हेममयैः शुभैः । वापीकूपतडागानां दीर्घिकानां शतैर्युता ॥ २५.१० ॥ सुशोभिता प्रेक्षणीयैर्नानारूपैर्विलासिभिः । वेणुवीणाध्वनियुता नानावाद्यैः सहस्रशः ॥ २५.११ ॥ अलकेव कुबेरस्य शक्रस्येवामरावती । पुरी विराजते तद्वदयोध्या देवनिर्मिता ॥ २५.१२ ॥ लक्षाणि द्वे च सार्धाणि प्रजा जीवन्ति तत्र च । तत्रैव वंशे राजर्षीरभूत्परमधार्मिकः ॥ २५.१३ ॥ नानामखसहस्रैर्यो ददाह पृथिवीमिमाम् । न तद्देशो न तत्तीर्थं न तद्राष्टं न चाश्रमः ॥ २५.१४ ॥ नेष्टं यत्र महायज्ञैः सालङ्कायनभूभृता । सस्यमालाधृता पृथ्वी धनधान्यसमन्विता ॥ २५.१५ ॥ स्वयं कामदुघा गावः पट्टवस्त्रमहीरुहाः । यज्ञैः सर्वैर्विवाहैश्च वेदैर्माङ्गल्यमङ्गलैः ॥ २५.१६ ॥ एवं तु सततं धात्री कालेन महता ततः । अनावृष्टिरभूद्राष्ट्रे पुरा द्वादशवार्षिकी ॥ २५.१७ ॥ मृता जानपदाः सर्वे द्विपदाश्च चतुष्पदाः । तृणगुल्मलतावल्यो भूतग्रामं चतुर्विधम् ॥ २५.१८ ॥ हाहाकारोमहानासीद्देवासुरनृणां तथा । सालङ्कायनराजर्षिः चिन्तयामास भारत ॥ २५.१९ ॥ जन्मप्रभृति मे पापं किंचिदेव न विद्यते । पूजयामि हरिं देवं संसारार्णवतारणम् ॥ २५.२० ॥ ब्राह्मणांश्च मुनींश्चैव तर्पयामास चेच्छया । बृहस्पतिसमं बुद्ध्या वशिष्ठं ब्रह्मवादिनम् ॥ २५.२१ ॥ पप्रच्छ नृपतिर्भक्त्या साष्टाङ्गं प्रणिपत्य च । अनावृष्टिरभूद्विप्र कथं द्वादशवार्षिकी ॥ २५.२२ ॥ नाऽपराधो मया कश्चित्कृतो ब्राह्मणदेवयोः । संशयो मे महास्तत्र वेदानुग्रहतत्पर ॥ २५.२३ ॥ वशिष्ठ उवाच - शृणु राजन्महाबाहो अनावृष्टेश्च कारणम् । पुरा सांवत्सरे यज्ञे वृद्धाश्च मुनयोऽवदन् ॥ २५.२४ ॥ तेषां च वचनं श्रुत्वा कर्तव्यं जनसंसदि । तावदेव मुनिश्चात्रिः पुलस्त्यः पुलहः क्रतुः ॥ २५.२५ ॥ भृगुरग्निर्मरीचिश्च कश्यपोऽथ विभाण्डकः । जमदग्निश्च माण्डव्यो यमो विष्णुस्तथाङ्गिराः ॥ २५.२६ ॥ बृहस्पतिस्तथा दक्षः शातातपपराशरौ । उशना गौतमश्चैव व्यासः कात्यायनस्तथा ॥ २५.२७ ॥ विश्वामित्रोऽथ शाण्डिल्यः कक्षः कात्यायनिस्तथा । हारीतः शङ्खलिखितौ याज्ञवल्क्योऽथ गालवः ॥ २५.२८ ॥ आत्रेयः शौनको गर्गो जह्नुरुद्दालकस्तथा । कौशिको भार्गवोऽगस्त्यो दुर्वासाश्च्यवनस्तथा ॥ २५.२९ ॥ एते चान्येऽपि बहवो ऋषयः सूर्यवर्चसः ॥ २५.३० ॥ धर्माणामुपदेष्टारो वेदशास्त्रानुयायिनः । अनावृष्टिं तु वै ज्ञात्वा प्रत्ययोध्यां प्रतस्थिरे ॥ २५.३१ ॥ आगतान् स मुनीन् दृष्ट्वा राजा परमधार्मिकः । उदतिष्ठन्महाभाग दिवि शक्र इवऽपरः ॥ २५.३२ ॥ तानभ्यर्च्य यथा न्यायमर्घपाद्यादिभिः स्वयम् । उपविष्टान् यथा न्यायमासने शुभदर्शने ॥ २५.३३ ॥ स कारणमनावृष्टेः तान् पप्रच्छ महात्मनः । अब्रुवन्मुनयो वाक्यं सालङ्कायनभूपतिम् ॥ २५.३४ ॥ भविष्यभूततत्त्वज्ञं सप्तकल्पान्तवासिनम् । मार्कण्डेयं महात्मानं सर्वेषां गुरुमर्चय ॥ २५.३५ ॥ तस्याश्रमपदं गत्वा ब्राह्मणैः सह चिन्तय । यं यं धर्मं स वदति तं तं कर्तुमिहार्हसि ॥ २५.३६ ॥ एवमुक्तो द्विजैः सर्वैः सालङ्कायनभूपतिः । उवाच वचनं सर्वान्मुनीन्द्रां छंसितव्रतान् ॥ २५.३७ ॥ अनुग्रहमिमं मन्ये प्रसादं मुनिसत्तमाः । आदिदेश ततो राजा भ्रातरौ द्वारपालकौ ॥ २५.३८ ॥ सुधन्ववीरधन्वानौ प्रतीहारौ महाबलौ । रथे हयानि युज्यन्तां ब्राह्मणारोहणं प्रति ॥ २५.३९ ॥ ब्रह्मशर्मा देवशर्मा मन्त्रिणौ तत्त्वदर्शिनौ । पप्रच्छ गमनार्थाय कर्तव्यं च यथाऽदिशत् ॥ २५.४० ॥ मन्त्रिणावूचतुः॒ समयज्ञो महाबाहो त्वमेव विहितं कुरु । राजा तद्वचनं श्रुत्वा धर्मशास्त्रविशारदः ॥ २५.४१ ॥ उवाच श्लक्ष्णाया वाचा हर्षगद्गदमानसः । गन्तव्यं ब्राह्मणैः सार्द्धं यत्र कल्पान्तगो मुनिः ॥ २५.४२ ॥ एवमुक्त्वा ययौ राजा ब्राह्मणैः सह भारत । दिव्ययानसमारूढः सम्प्राप्तः कल्पगातटम् ॥ २५.४३ ॥ धर्मारण्यं समासाद्य मार्कण्डं मुनिभिः सह । स समीपे समासीनं प्रणम्य प्रणतिक्षमम् ॥ २५.४४ ॥ आपृष्टः कुशलं तेन तदा वै ब्रह्मवादिना । उवाच वचनं राजा मार्कण्डं ज्ञानचक्षुषम् ॥ २५.४५ ॥ अद्य मे कुशलं ब्रह्मंस्त्वत्पादाम्बुजदर्शनात् । किंतु मां बाधते नित्यं भविष्यं चैव तत्त्ववित् ॥ २५.४६ ॥ मार्कण्डेय उवाच - अपमार्गेण प्रजानां देव ब्राह्मणहिंसया । वर्णाश्रमविलोपेन अधर्मो धर्मबाधकः ॥ २५.४७ ॥ शम्भुर्न पूज्यते यत्र रुद्रभागो न दीयते । देशे तस्मिननावृष्टिर्दुर्भिक्षं मरणं ध्रुवम् ॥ २५.४८ ॥ विनश्यन्ति प्रजा राष्ट्रे अल्पायुर्नृपतिर्भवेत् । अब्रह्मण्या ब्राह्मणाश्च शूद्रा वै ब्रह्मवादिनः ॥ २५.४९ ॥ शिवजपं यज्ञसूत्रं शूद्रो धारयते यदा । अलिङ्गिनो लिङ्गिनश्च अव्रता व्रतधारिणः ॥ २५.५० ॥ स्वपापं कृतवन्तश्च तान् स्वराष्ट्रे प्रवासिनः । सव्याङ्गे ब्रह्मसूत्रं च वह्णिसूत्रं च कारयेत् ॥ २५.५१ ॥ गर्दभारोहणं तस्य कारयेल्लोकगार्हितम् । एतत्ते कथितं राजन्ननावृष्टेश्च कारणम् ॥ २५.५२ ॥ अनावृष्ट्या सस्यहानिस्तत्क्षयान्म्रियते प्रजा । प्रजाक्षयाद्वेदहानिस्तद्धानौ यज्ञसंक्षयः ॥ २५.५३ ॥ तत्क्षयाद्धर्महानिश्च तद्धानौ वर्णसङ्करः । तत्सङ्करात्कर्मलोपः पतनं नरके ध्रुवम् ॥ २५.५४ ॥ गङ्गासागरसम्भेदे चाण्डालाः सप्तसाम्प्रतम् । कणधूमं पिबन्त्याशु ऊर्ध्वपादा ह्यधः शिराः ॥ २५.५५ ॥ चकम्पिरे सुराः सर्वे सिद्धगन्धर्वकिन्नराः । देवराजः सुरैः सार्धमासनाच्चलितो नृप ॥ २५.५६ ॥ तपसस्तु प्रभावोऽयमपि दृष्टो नराधिप । नैमिषे च महारण्ये सुरासुरनमस्कृते ॥ २५.५७ ॥ शतमष्टोत्तरं सर्वे तापसाः शूद्रजन्मनः । ब्रह्मकर्म समासाद्य स्थिता धर्मपरायणाः ॥ २५.५८ ॥ अधर्मचारिणां पुंसां राजा पापेन लिप्यते । अयज्ञयाजकस्थाने अनावृष्टिर्भवेत्सदा ॥ २५.५९ ॥ अपूजनात्तथा नित्यं देवेदेवस्य शूलिनः । न स्वर्गो नापवर्गश्च न भोगाश्चापि पुष्कलाः ॥ २५.६० ॥ ब्रह्मविष्णुसुरेन्द्राद्या अर्चयन्ति महेश्वरम् । किं पुनर्मानुषाः पापा राजानः पापजीविनः ॥ २५.६१ ॥ नार्चयन्ति महेशं ये ते नराः पापभागिनः । न च स्वर्गस्य मोक्षस्य फलं भोगमवाप्नुयुः ॥ २५.६२ ॥ तस्मान्नृप त्वं श्रेयांसि ब्राह्मणैः सह चिन्तय । नर्मदातीरमासाद्य रुद्रयज्ञं समारभ ॥ २५.६३ ॥ तेषां शिरांसि होमेऽस्मिन् पातय त्वं यथाविधि । समर्चय सुरेशानं ततः शान्तिर्भविष्यति ॥ २५.६४ ॥ कामवर्षी च पर्जन्यः पुनः सृष्टिः प्रवर्तते । मुच्यतां पापदोषेण राज्यं स्वर्गमवाप्स्यसि ॥ २५.६५ ॥ तवैतत्कथितं राजन् यथादृष्टं मयाऽनघ । तस्य तद्वचनं श्रुत्वा राजा परमधार्मिकः ॥ २५.६६ ॥ नमस्कृत्य मुनिश्रेष्ठमृषिभिः सह भारत । अनुग्रहमिमं मन्ये त्वत्प्रसादाद्यथोदितम् ॥ २५.६७ ॥ आदिदेश प्रतीहारान् यज्ञसम्भारसिद्धये । गत्वाऽयोध्यां पुरीं रम्यामादेशं मखसम्भवम् ॥ २५.६८ ॥ यज्ञोपस्करमादाय सर्वैरागम्य तामिति । राज्ञीनां च कुमाराणां सहस्रं साष्टकं तथा ॥ २५.६९ ॥ सर्वांश्चैव महीपालान्नानादेशसमुद्भवान् । सप्तरात्राभ्यन्तरतो यथा यज्ञः प्रवर्तते ॥ २५.७० ॥ नमस्कृत्य गतौ तौ तु प्रतीहारौ पुरं प्रति । कथयामासतुस्तत्र यथोद्दिष्टं नृपेण तु ॥ २५.७१ ॥ अष्टोत्तरसहस्रं तु राज्ञीनां दिव्यवाससाम् । कुमारा ये च राजानो ये चान्ये गृहकर्मिणः ॥ २५.७२ ॥ असूताक्षतयोनीनां लक्षमेकं तु योषिताम् । रम्भोर्वशीसमानानां रूपेणाप्रतिमत्विषाम् ॥ २५.७३ ॥ महोरस्कन्धगात्राणां वाहानामयुतानि षट् । सुवर्णारत्नपूर्णानां मुद्राणामयुतं तथा ॥ २५.७४ ॥ सवसानां च धेनूनां त्रिंशल्लक्षाणि यन्त्रितः । पाण्डुराणां हयानां तु अयुतानि दशैव तु ॥ २५.७५ ॥ घण्टाभरणशोभानां दन्तिनामयुतं तथा । यज्ञोपस्करमादाय सर्वसम्भारसम्भृतम् ॥ २५.७६ ॥ प्रस्थितौ नर्मदां राज्ञे सन्निवेशयतां पुरः । प्रणम्य चाब्रवीद्राजा सप्तकल्पान्तवासिनम् ॥ २५.७७ ॥ आदेशो दीयतां मह्यं मखं यत्र प्रवर्तते । मार्कण्डेय उवाच - वैदूर्यस्य च वारुण्यां यज्ञयूपांश्च मण्डपान् ॥ २५.७८ ॥ अन्यांश्च यज्ञसम्भारान् सर्वांस्तत्रैव कारय । वशिष्ठं वामदेवं च भृगुमङ्गिरसं तथा ॥ २५.७९ ॥ पुलस्त्यं पुलहं चैव भारद्वाजं च कश्यपम् । याज्ञवल्क्यं मुनिं चैव मुनिं दुर्वाससं तथा ॥ २५.८० ॥ विभाण्डकं पर्वतं च विश्वामित्रं च नारदम् । शौनकं चैव गर्गं च संवर्तं च पराशरम् ॥ २५.८१ ॥ आपस्तम्बोशनो व्यासान् सकात्यायनगौतमम् । हारीतं शङ्खलिखितौ ऋष्यशृङ्गं च सोमपम् ॥ २५.८२ ॥ अष्टाशीतिसहस्राणि वालखिल्यान्मुनींस्तथा । सर्वदेवनमस्कार्यो यज्ञपर्वतसंज्ञितः ॥ २५.८३ ॥ हिरण्मया महास्तम्भा यादृशैरुपशोभिताः । बहुधा यत्र शोभन्ते तथोक्ते यज्ञमण्डपे ॥ २५.८४ ॥ कुण्डस्थलीः स्रुवास्सर्वाः कृत्वा हेममया नृपः । नानाविधैर्भक्ष्यभोज्यै रसैश्च विविधैस्तथा ॥ २५.८५ ॥ सरितः सागरां शैलांस्तीर्थराजं च सर्वशः । लोकपालान्महाबाहुरसुरान् दैत्यदानवान् ॥ २५.८६ ॥ चन्द्रादित्यौ ग्रहैः सार्धं नक्षत्रध्रुवमण्डलम् । ब्रह्माद्यांश्च सुरांस्तत्र मरुतो देवतास्तथा ॥ २५.८७ ॥ विष्णुं चैव सुरेशानं यज्ञे तत्पुरुषं स्वयम् । आवाहयन्महादेवं गणकोटिसमन्वितम् ॥ २५.८८ ॥ आवाहितस्ततश्चाग्निर्ब्राह्मणैर्वेदपारगैः । निर्धूमः प्रज्वलंश्चैव सूर्यकोटिसमप्रभः ॥ २५.८९ ॥ वेदध्वनितनिर्घोषैर्दिवं भूमिं च नादयन् । कणधूमकृताहारांश्चाण्डालान् सप्तवानय ॥ २५.९० ॥ तानानय तथा शूद्रान्नैमिषारण्यवासिनः । वशिष्ठ उवाच - अनुग्रहमिमं मन्ये यन्मां वदसि पार्थिव ॥ २५.९१ ॥ कुशाग्रेण ततो राजा तेषां मूर्ध्नो न्यपातयत् । तं दृष्ट्वा मानुषं होमं सामिषं प्रेतरूपिणम् ॥ २५.९२ ॥ प्रणष्टतोया रेवा तु विहाय त्रिदिवं गता । होमावसाने सम्प्राप्ते स्नानार्थं नर्मदां ययुः ॥ २५.९३ ॥ शुष्कतोयां ततोऽपश्यन्नर्मदां शंसितव्रताः । विस्मयं परमं प्राप्तः प्राह दुर्वाससं नृपः ॥ २५.९४ ॥ चुकोप राजा विप्रेषु पापकर्मा दुरासदः । पर्जन्यार्थं वृष्टिकामैः कृतो यज्ञो निरर्थकः ॥ २५.९५ ॥ पयः पुरातनं नष्टं न जातं वर्षणं क्वचित् । राज्ञस्तु वचनं श्रुत्वा दुर्वासाश्चाऽब्रवीत्नृपम् ॥ २५.९६ ॥ मुनींश्च सर्वांस्तत्रस्थान् धर्मतत्त्वविशारदान् । उदकं सर्वलोकानामीप्सितं च न संशयः ॥ २५.९७ ॥ ब्राह्मणानां तपो होमो वेदमन्त्रा वशे स्थिताः । दक्षिणा यज्ञरक्षा च यजमानवशे नृप ॥ २५.९८ ॥ यज्ञोपस्करणं किंचिद्यच्चान्यद्वेदसम्मितम् । तत्सर्वं यजमानेन वेदमूलं द्विजोत्तमाः ॥ २५.९९ ॥ वितोया नर्मदा जाता पर्जन्यो नैव वर्षति । तत्सर्वं कृतमेवं तु श्रुतिरेषा सनातनी ॥ २५.१०० ॥ या ययौ तां प्रतीक्षस्व नर्मदामापगोत्तमाम् । तस्य तद्वचनं श्रुत्वा क्षमस्वेत्यब्रवीत्नृपः ॥ २५.१०१ ॥ वशिष्ठो वामदेवश्च वदत्येवं युधिष्ठिर । काशीपुर्यां प्रयागे वा गङ्गायमुनसङ्गमे ॥ २५.१०२ ॥ तत्रैव वर्तते यज्ञः सत्यमेव तपोधनाः । केचिदाहुः कुरुक्षेत्रं स्थाने यत्र सरस्वती ॥ २५.१०३ ॥ समुद्दिष्टानि तीर्थानि मुनिभिस्तु पृथक्पृथक् । अब्रवीत्सहसा राजन् दुर्वासा रौद्रतापसः ॥ २५.१०४ ॥ नारदोऽपि मुनिश्रेष्ठः तापसो गतकिल्बिषः । सरस्वत्यां महाराज तत्र तोयं न विद्यते ॥ २५.१०५ ॥ तेषां तद्वचनं श्रुत्वा सालङ्कायनभूपतिः । अब्रवीच्च ततो वाक्यं सर्वानृषिगणान् प्रति ॥ २५.१०६ ॥ क्षणमेकं प्रतीक्षध्वं यावद्वहति कल्पगा । इत्युक्त्वा स नृपश्रेष्ठः ततस्तुष्टाव कल्पगाम् ॥ २५.१०७ ॥ नमस्तेऽस्तु सुरेशानि नमस्ते शङ्करात्मजे । इडा च पिङ्गला चैव उमा गङ्गा सरस्वती ॥ २५.१०८ ॥ गायत्री वेदमाता च सावित्री च सरस्वती । ब्राह्मी च वैष्णवी गौरी लोकमाता यशस्विनी ॥ २५.१०९ ॥ समुद्दिष्टानि तीर्थानि पृथिव्यां यानि कानि च । त्वयाऽवृतानि सर्वाणि जगच्च सचराचरम् ॥ २५.११० ॥ न तत्पश्यामि त्वद्वाराऽवृतं यन्न प्रदृश्यते । त्वत्तोयस्नानमात्रेण तृप्ता यान्ति परां गतिम् ॥ २५.१११ ॥ श्रुत्वा स्तोत्रमिदं देवी राज्ञश्चामिततेजसः । मकरासनमारूढा प्रत्यक्षा सप्तकल्पगा ॥ २५.११२ ॥ प्राह ब्रूहि वरं राजन् यत्ते मनसि वर्तते । राजोवाच - पूर्वान् सप्त परान् सप्त प्रवाहानक्षयान् कुरु ॥ २५.११३ ॥ वरमेतमहं मन्ये सप्तकल्पान्तवासिनि । नर्मदोवाच - दत्तो वरो मया ह्येष सत्यं तव नराधिप ॥ २५.११४ ॥ एवमुक्त्वा सरिच्छ्रेष्ठा जलौघेन परिप्लुता । प्रवाहैर्विस्तृतैस्तत्र वहन्ती सा व्यवस्थिता ॥ २५.११५ ॥ तं दृष्ट्वा तादृशं कर्म सालङ्कायनभूपतेः । तुष्टुवुर्मुनयः सर्वे सत्यधर्मपरायणाः ॥ २५.११६ ॥ स्नानावगाहनं पानं चक्रुस्ते पितृतर्पणम् । ततो निर्वतितो यज्ञो विप्रैः सर्वस्वदक्षिणैः ॥ २५.११७ ॥ यो यत्कामयते कामं तत्तस्मै प्रतिपादितम् । वस्त्रालङ्कारदानैश्च दिव्ययानैः सुशोभनैः ॥ २५.११८ ॥ ऋत्विजः पूजिताः सर्वे सालङ्कायनभूभृता । युगपत्पूजिताः सर्वे ब्रह्मविष्णुमहेश्वराः ॥ २५.११९ ॥ ततः शिवालयं गत्वा लिङ्गं त्रिदशपूजितम् । नाम्ना माहेश्वराख्यातं सर्वकामफलप्रदम् ॥ २५.१२० ॥ उमया सहितं शम्भुं भुक्तिमुक्तिप्रदायकम् । ओं महेश्वराय देवाय शम्भवाय नमो नमः ॥ २५.१२१ ॥ इत्यादिना तु मन्त्रेण समभ्यर्च्य विधानतः । कृताञ्जलिपुटो भूत्वा स्थितस्तत्रैव पार्थिवः ॥ २५.१२२ ॥ ततो विनिर्गता देवी पदमूलेन शूलिनः । प्रवाहो नर्मदा भेदे नार्मदः सुरपूजितः ॥ २५.१२३ ॥ ईश्वराद्यास्तथा देवाः सर्वे तुष्टास्तु भारत । वरं याचस्व भूपाल यथेष्टं मनसेप्सितम् ॥ २५.१२४ ॥ उवाच वचनं देवान् राजा परमधार्मिकः । यदि मे वरदा यूयं कामदाश्च प्रसादतः ॥ २५.१२५ ॥ इदं स्थानं तु न त्याज्यमीश्वराद्यैः सुरैरपि । यान्तु राष्ट्रे प्रजावृद्धिमनावृष्ट्या प्रपीडिताः ॥ २५.१२६ ॥ इदं वरमहं मन्ये पापा यान्तु त्रिविष्टपम् । अग्निश्चाहवनीयोऽत्र स्वयं तिष्ठति सर्वदा ॥ २५.१२७ ॥ देवा ऊचुः॒ यत्त्वया भाषितं राजंस्तत्सर्वं तु भवेदिति । एवमुक्त्वा ययुः सर्वे ह्यन्तर्धानं च खेचराः ॥ २५.१२८ ॥ पुनः प्रवर्धितं राष्ट्रं कामवर्षी च वासवः । यज्ञं निवर्तयित्वा तु दिव्यामात्यैः समावृतः ॥ २५.१२९ ॥ महीपालसहस्रैस्तु सान्तःपुरपरिच्छदः । विवेश नगरीं रम्यामयोध्यां देवनिर्मिताम् ॥ २५.१३० ॥ एतत्ते कथितं राजन्नुमामाहेश्वरं प्रति । तिर्यग्योनिगताः पापा मृगपक्षिसरीसृपाः ॥ २५.१३१ ॥ अवशः स्ववशो वाऽपि शिवलोकमवाप्नुयात् ॥ २५.१३२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चविंशोऽध्यायः ॥ अध्याय २६ मार्कण्डेय उवाच - अथान्यत्कथयिष्यामि मण्डपेश्वरमुत्तमम् । स्नातमात्रो नरस्तत्र न विशेद्योनिसङ्कटम् ॥ २६.१ ॥ दशलक्षाणि तीर्थानि तस्मिंस्तिष्ठन्ति भारत । मण्डपेश्वरतीर्थस्य कूर्मवृद्धिवदर्चनम् ॥ २६.२ ॥ सुरासुरगणैरिष्टं तस्मिंस्तीर्थे नराधिप । अनेकभाविकं पापं तत्क्षणादेव नश्यति ॥ २६.३ ॥ तिलोदकप्रदानेन पिण्डपातेन भारत । तृप्यन्ति पितरः सर्वे यावत्तिष्ठति कल्पगा ॥ २६.४ ॥ तत्र यस्त्यजति प्राणानवशस्ववशोऽपि वा । दशवर्षसहस्राणि राजा वैद्याधरे पुरे ॥ २६.५ ॥ मानसौ ब्रह्मणः पुत्रौ बादरायण शाकटौ । अगस्त्यस्याश्रमं पुण्यं महर्षिगणसेवितम् ॥ २६.६ ॥ कन्दमूलफलैः शाकैः शिवभक्तिपरायणैः । एकदाऽवसरे प्राप्ते अजापालो नृपात्मजः ॥ २६.७ ॥ अयोध्याधिपतिः श्रीमान् चक्रतुल्यपराक्रमः । अष्टोत्तरं शतं व्याघ्रानजाः कृत्वा ररक्ष च ॥ २६.८ ॥ सपादलक्षं जीवन्ति प्रजास्तस्मिन्महीपतौ । धनाढ्या धनदस्येव प्रशशास पुरीं तथा ॥ २६.९ ॥ स कदाचित्महाभागः ससैन्यो मृगयां गतः । महीपालसहस्रेण मुदा परमया युतः ॥ २६.१० ॥ सोऽपश्यत्पर्वतस्याग्रे मेरुतुल्ये महीपतिः । पुष्पारामसहस्राणि हर्म्याणि विविधानि च ॥ २६.११ ॥ तत्रैव शतसाहस्रं यतीनामूर्ध्वरेतसाम् । भक्त्याऽभ्यर्च्य विधानेन देवेशं च मुनींस्तथा ॥ २६.१२ ॥ प्रणम्योवाच मधुरं बादरायणशाकटौ । पितॄणां तारणार्थाय श्राद्धकालत्वसिद्धये ॥ २६.१३ ॥ महानयं भवद्भिश्च प्रसाद क्रियतां मयि । अभ्यर्च्य तान्मुनीन् सर्वान् प्रणिपत्य स्थितस्ततः ॥ २६.१४ ॥ तस्य तद्वचनं श्रुत्वा अजापालस्य भूभृतः । ऋषीणां तापसौ वृद्धौ बादरायणशाकटौ ॥ २६.१५ ॥ ऊचतुस्तौ तु वचनमजापालं नराधिपम् । न राजग्राहकाः सर्वे मुनयः शंसितव्रताः ॥ २६.१६ ॥ राजप्रतिग्रहो घोरो रौद्रः पापो भयावहः । नरके यातनां घोरां कः सोढुं शक्तिमान् भवेत् ॥ २६.१७ ॥ स्वस्ति तेऽस्तु नृपश्रेष्ठ पन्थानः सन्तु ते शिवाः । एवमुक्त्वा तु चक्रुस्ते मुनयो वाक्यसंयमम् ॥ २६.१८ ॥ ब्रह्मशापभयाद्भीतो नृपस्तूष्णीं बभूव ह । गजानां दशसाहस्रं घण्टाभरणभूषितम् ॥ २६.१९ ॥ प्रादाद्विप्राय संकल्प्य मठं हेममयं शुभम् । कालञ्जरगिरिं राजा त्रिश्चकार प्रदक्षिणाम् ॥ २६.२० ॥ नमस्कृत्वा महेशानं भक्तियुक्तः सुहृद्वृतः । जगाम स्वपुरं राजा यथा शक्रोऽमरावतीम् ॥ २६.२१ ॥ गते तस्मिन्महीपाले ऋषयः काममोहिताः । केचिद्गजसमारूढा नानारत्नसमन्विताः ॥ २६.२२ ॥ केचिदश्वसमारूढा वीज्यमानाश्च चामरैः । लभन्ते विविधान् भोगांस्ते ब्रह्मर्षितपोधनाः ॥ २६.२३ ॥ देवस्वभक्षकाः सर्वे स्त्रीलोभवशवर्तिनः । सुखं च परमं प्राप्ता देवद्रव्येन राजसाः ॥ २६.२४ ॥ कालान्तरे ततः प्राप्ते सर्वे मृत्युवशं गताः । वर्जयित्वा तु विप्रौ द्वौ बादरायणशाकटौ ॥ २६.२५ ॥ श्वयोनिं समनुप्राप्ताः सर्वे ते मुनिपुङ्गवाः । अमेध्यभक्षकाः पापा देवनिर्माल्यभक्षणात् ॥ २६.२६ ॥ तेषां सम्पर्कभावेन श्ववक्त्रौ द्वावुपस्थितौ । शोचन्तः स्वानि कर्माणि व्याहरन्तः स्वकां गिरम् ॥ २६.२७ ॥ पप्रच्छतुः श्वयोनींस्तौ बादरायणशाकटौ । कर्मणा केन यूयं वै श्वयोनिं समुपागताः ॥ २६.२८ ॥ ऋषय ऊचुः॒ देवद्रव्ये गुरुद्रव्ये द्रव्ये चण्डीश्वरस्य च । त्रिविधं पातकं दृष्टं दानभक्षणलङ्घनात् ॥ २६.२९ ॥ तस्मात्सम्पर्कदोषेण सारमेयत्वमागताः । बभ्रमुः सर्वतीर्थानि दिव्यं वर्षशतं तथा ॥ २६.३० ॥ नैमिषारण्यमासाद्य यथा योगं व्यवस्थिताः । तेषां तद्वचनं श्रुत्वा बादरायणशाकटौ ॥ २६.३१ ॥ जग्मतुर्ब्रह्मलोकं तौ ब्रह्मपुत्रौ यशस्विनौ । अभिवाद्य यथान्यायं ब्रह्माणं जगतां पतिम् ॥ २६.३२ ॥ ऊचतुश्च स्ववृत्तान्तं पितरं तत्त्वदर्शिनम् । अत्यन्तौ मुनिशार्दूलौ दृष्ट्वा तौ विकृताननौ ॥ २६.३३ ॥ उवाच वचनं श्रीमान् ब्रह्मालोकपितामहः । देवद्रव्यापहारेण दुष्कृतं स्वर्गगर्हितम् ॥ २६.३४ ॥ सुरासुरगणैर्यत्तु लङ्घितुं नैव शक्यते । किं पुनर्मानुषैः क्षुद्रैर्देवद्रव्योपजीविकैः ॥ २६.३५ ॥ तेषां तु नियतं घोरे नरके पतनं स्मृतम् । निष्कृतिर्नर्मदा तेषां विहिता लोकपावनी ॥ २६.३६ ॥ स्नात्वा तु कल्पगा तोयेऽभ्यर्चयित्वा वृषध्वजम् । मुच्यते सर्वपापेभ्यः सत्यमेतत्मयोदितम् ॥ २६.३७ ॥ पितामहवचः श्रुत्वा बादरायणशाकटौ । ऋषिभिः सह तत्रैव नर्मदातीरमाश्रितौ ॥ २६.३८ ॥ सरिन्नान्याऽस्ति लोकेऽस्मिन्पापस्यास्य विशुद्धये । ततस्ते मुनयः सर्वे स्मरन्तः पूर्वदुष्कृतम् ॥ २६.३९ ॥ षण्मासाऽभ्यन्तरे राजन् छिवध्यानपरायणाः । निष्कल्मषाः बभूवुस्ते तीर्थस्यास्य प्रभावतः ॥ २६.४० ॥ बल्याद्या मुनयः सर्वे शतक्रतुपुरोगमाः । ददृशुस्ते क्रतुवरं शिवेनैव यथोदितम् ॥ २६.४१ ॥ गृहीत्वाऽथ मुनीन् सर्वे ब्रह्माद्याश्च सुरासुराः । सुप्रभास्तांस्तु देवत्वं मण्डपेश्वरदर्शनात् ॥ २६.४२ ॥ तेन लिङ्गं तु विख्यातं लोकेऽस्मिन्मण्डपेश्वरम् । स्वारोचिषेऽन्तरे प्राप्ते त्रेतायां तु नृपोत्तम ॥ २६.४३ ॥ क्षत्रियाणां सहस्राणि तत्र सिद्धानि भारत । एतत्सर्वं समाख्यातं समासेन मयाऽनघ ॥ २६.४४ ॥ श्रवणात्कीर्तनाद्राजन् हयमेधफलं लभेत् ॥ २६.४५ ॥ युधिष्ठिर उवाच - अमरेश्वरपूर्वेण पर्यङ्कात्पश्चिमे तथा ॥ २६.४६ ॥ तीर्थसंख्यां क्रमेणैव कथयस्व तपोधन ॥ २६.४७ ॥ मार्कण्डेय उवाच - शृणु राजन्महाभाग पूर्वभागे व्यवस्थितम् ॥ २६.४८ ॥ श्वेतकिंशुकनामानं तीर्थं पापप्रणाशनम् । नराः सुखेन रूपेण यत्र स्नाता दिवं गताः ॥ २६.४९ ॥ श्वेतकिंशुकनामास्ति लिङ्गं परमसिद्धिदम् । ताटकेश्वरदेवश्च तत्र स्वर्गफलप्रदः ॥ २६.५० ॥ अन्यत्तु वर्णनामेति तीर्थं पापप्रणाशनम् । त्र्यम्बकस्तु महादेवो यत्रलोके वरप्रदः ॥ २६.५१ ॥ तस्य तीर्थस्य माहात्म्याद्गण्डेशस्त्रिदिवं गतः । गण्डकेश्वरलिङ्गं तु लिङ्गं शुक्लेश्वरं तथा ॥ २६.५२ ॥ नर्मदादन्तिवनिकासङ्गमो लोकविश्रुतः । तत्र लिङ्गेश्वरं लिङ्गं सर्वसिद्धिप्रदायकम् ॥ २६.५३ ॥ बालकेश्वरलिङ्गं तु तथाऽन्यत्पूर्णकेश्वरम् । रेवाया उत्तरे कूले नर्मदापुरमुत्तमम् ॥ २६.५४ ॥ तीर्थं कपिशिला नाम सर्वानर्थविदूषणम् । लिङ्गं सिद्धेश्वरं नाम तथाऽन्यन्नाडकेश्वरम् ॥ २६.५५ ॥ अत्रान्तरे नृपश्रेष्ठ दशलक्षाणि नामतः । तीर्थानि दशलक्षाणि कीर्तितानि यथाक्रमम् ॥ २६.५६ ॥ ततो गच्छेन्नृपश्रेष्ठ वैदूर्यात्पश्चिमां दिशम् । शशभीनर्मदायोगं सर्वपापप्रणाशनम् ॥ २६.५७ ॥ भुक्तिदं मुक्तिद चैव लिङ्गं वै शशभेश्वरम् । त्रिषु लोकेषु विख्यातं गर्दभीयोनिमोक्षणम् ॥ २६.५८ ॥ मण्डलेश्वरनामेह तीर्थं लिङ्गं नराधिप । यत्र माण्डलिकाः सिद्धा अजापालो मनुस्तथा ॥ २६.५९ ॥ तत्र चेष्ट्वा तु मनुजः सम्भवेन्न पुनर्भवे । तिलोदकप्रदानेन पिण्डपातेन भारत ॥ २६.६० ॥ पितरस्तस्य तृप्यन्ति यावच्चन्द्रदिवाकरौ । तत्र प्रदीयते दानं तस्य संख्या न विद्यते ॥ २६.६१ ॥ कान्तारकं ततो गच्छेत्सर्वतीर्थवरं शुभम् । तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ॥ २६.६२ ॥ सपादलक्षमधिकं तीर्थानां मण्डलेश्वरे । कीर्तिते तव राजेन्द्र यथादृष्टं यथाश्रुतम् ॥ २६.६३ ॥ त्रेतायां रघुवंशे तु कुमारौ रामलक्षणौ । मैथिल्या सह राजेन्द्र उत्तीर्णो यत्र कल्पगाम् ॥ २६.६४ ॥ जग्मतुः पितुराज्ञां वै कुर्वन्तौ विष्णुरूपिणौ । स्नात्वा तीर्थवरे तत्र भक्त्याऽभ्यर्च्य महेश्वरम् ॥ २६.६५ ॥ राजतीर्थं तु तद्गोप्यं लिङ्गं वै लक्षणेश्वरम् । सीतेश्वरं तथा लिङ्गं सुरासुरनमस्कृतम् ॥ २६.६६ ॥ तत्र स्नात्वाऽर्चयित्वा तु शूलपाणिं महेश्वरम् । सर्वपापविनिर्मुक्तो गाणपत्यमवाप्नुयात् ॥ २६.६७ ॥ ततोगच्छेत्नृपश्रेष्ठ पुण्यतीर्थं शिवालयम् । माहिष्मतीं पुरीं रम्यां तां दृष्ट्वा न च्युतः क्वचित् ॥ २६.६८ ॥ यत्र कालाग्निरुद्रोऽस्ति प्रज्वलन्निव हेतुभिः । त्रयस्त्रिंशत्तु तिष्ठन्तु लिङ्गानां कोटयस्तथा ॥ २६.६९ ॥ ततः कोटीश्वरं लिङ्गं कोटितीर्थे नराधिप । यज्ञकोटिफलं तत्र तस्य लिङ्गस्य पूजनात् ॥ २६.७० ॥ तत्र दत्तस्य दानस्य कोटिसंख्या तु विद्यते । दशाश्वमेधतीर्थं तु भुक्तिमुक्तिफलप्रदम् ॥ २६.७१ ॥ तिलोदकप्रदानेन पितॄणां गतिरुत्तमा । स्नातमात्रो नरस्तत्र सूर्यतेज समप्रभः ॥ २६.७२ ॥ पुराणि पञ्चसामान्याच्छम्भुना कीर्तितानि वै । प्रभासश्च कुरुक्षेत्रं तथा मायापुरी शुभा ॥ २६.७३ ॥ अवन्ती च महाकालं तथा माहेश्वरं पुरम् । एतेषु च समग्रेषु विद्धि लिङ्गान्यनुक्रमात् ॥ २६.७४ ॥ अत्र दत्तं हुतं वेष्टमक्षयादपि चाक्षयम् । अवशः स्ववशो वाऽपि प्राणत्यागं करोति य ॥ २६.७५ ॥ स याति परमं स्थानं यत्र देवो महेश्वरः । कीर्तयेत्प्रातरुत्थाय पुण्यान्येतानि यो नरः ॥ २६.७६ ॥ न स पापेन लिप्येत यमलोकं न पश्यति । तीर्थं पिपीलिका नाम गता यत्र पिपीलिकाः ॥ २६.७७ ॥ शिवलोकं महाभाग सर्वलोकोत्तमोत्तमम् । बन्ध्यारेवासमायोगं सुरासुरनमस्कृतम् ॥ २६.७८ ॥ सङ्गमे यत्र राजेन्द्र लिङ्गं वै मुनकेश्वरम् । योगिनस्तत्तु पश्यन्ति न तत्पश्यन्ति मानुषाः ॥ २६.७९ ॥ विख्यातं तत्तु नगरं नर्मदादक्षिणे तते । अयुत यत्र लिङ्गानां तीर्थानां च नराधिप ॥ २६.८० ॥ लिङ्गं चण्डीश्वरं नाम तथैवोडुगणेश्वरम् । वकेश्वरं तत्र विद्धि वका यत्र दिवं गताः ॥ २६.८१ ॥ तीर्थं गङ्गावहं नाम लिङ्गं वै सर्वसिद्धिदम् । अङ्गारेशमिति ज्ञेयं विमलं तत्र भारत ॥ २६.८२ ॥ सोमतीर्थमिति ज्ञेयं शुक्लतीर्थमतः परम् । तीर्थानां निरसं नाम ध्रुवतीर्थं नराधिप ॥ २६.८३ ॥ अनेकानि सहस्राणि तीर्थानां चैव भारत । तीर्थं पिपीलिका नाम भुक्तिमुक्तिप्रदायकम् ॥ २६.८४ ॥ क्रोशमात्रं तु विज्ञेयं पूर्वपश्चिमतस्तथा । तीर्थानामयुतं सार्द्धं ऋषिदेवनिषेवितम् ॥ २६.८५ ॥ तत्र दत्तं हुतं चैव तस्य संख्या न विद्यते । तत्र यः सन्त्यजेत्प्राणानवशः स्ववशोऽपि वा ॥ २६.८६ ॥ सर्वपापविनिर्मुक्त उमामाहेश्वरे पुरे । मोदते सर्वकामैस्तु यावदिन्द्राश्चतुर्दश ॥ २६.८७ ॥ यस्मादेव शिवं तस्मादर्चयेच्छान्तमानसः । मैत्रः कारुणिको नित्यं प्राप्नोति परमं पदम् ॥ २६.८८ ॥ क्षणमात्रेण यत्पुण्यं ततः कुर्यान्नराधिप । न तद्वर्षशतेनाऽपि न तु यज्ञशतैरपि ॥ २६.८९ ॥ शक्यं साधयितुं राजंस्तथा तीर्थशतैरपि । सर्वप्राणिषु कारुण्यं दीनानाथेषु भावयन् ॥ २६.९० ॥ मैत्री च मुदिता राजन् पुण्यशीलेषु सर्वदा । पुण्यवत्सुखमापेक्ष्यं सर्वप्राणिषु यत्नतः ॥ २६.९१ ॥ अक्षेत्रे तु कृतं पुण्यं समं भवति भारत । नर्मदासङ्गमो यत्र तत्र संख्या न विद्यते ॥ २६.९२ ॥ अन्यदेशे कृतं पापं पुण्यक्षेत्रे विनश्यति । पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति ॥ २६.९३ ॥ उत्तीर्णो नर्मदां यत्र कार्त्तिकेयो महाबलः । लिङ्गं तत्र च विज्ञेयं सिद्धिदं कार्त्तिकेश्वरम् ॥ २६.९४ ॥ चन्द्रेश्वरं तथा लिङ्गं लिङ्गं चैव शिखीश्वरम् । शक्तीश्वरं तथा चान्यत्सर्वपापप्रणाशनम् ॥ २६.९५ ॥ तेषाञ्चैव लिङ्गानामर्चनं भक्तिभावतः । ब्रह्महत्यादिकात्पापान्मुच्यते नात्र संशयः ॥ २६.९६ ॥ शिवलोकमवाप्नोति पितॄणां स्वर्गतिस्तथा ॥ २६.९७ ॥ युधिष्ठिर उवाच - भगवान् छ्रोतुमिच्छामि माहिष्मत्यास्तु पश्चिमे ॥ २६.९८ ॥ सन्निधौ च तिलेशस्य सर्वपापप्रणाशनम् । रासभीनर्मदाभेदं सुरासुरनमस्कृतम् ॥ २६.९९ ॥ मार्कण्डेय उवाच - शृणु राजन्महाभाग इतिहासं पुरातनम् । नर्मदागर्दभीभेदं तिर्यग्योनिविमोक्षणम् ॥ २६.१०० ॥ यस्मिंस्तीर्थे महाराज सतेजाहरिकेशयोः । अपाराद्रासभत्वाच्च मुक्तिः कल्मषनाशने ॥ २६.१०१ ॥ हविर्धानस्तु राजर्षिरासीत्कल्पो युधिष्ठिर । आत्रेयस्य सुतश्चासीद्ब्रह्मर्षिर्ब्रह्मवित्तमः ॥ २६.१०२ ॥ पावकस्य सुताया तु पाणिग्रहणधर्मतः । हविर्धानाय सा दत्ता सुतेजा नाम नामतः ॥ २६.१०३ ॥ कुशवल्कपरीधाना कन्दमूलफलाशिनी । रूपयौवनसम्पन्ना पार्वतीव मनोहरा ॥ २६.१०४ ॥ हविर्धानस्तु राजर्षिरृतुं बुद्ध्वा गतस्तु ताम् । आगतोऽसौ युवा तत्र सर्वशास्त्रविशारदः ॥ २६.१०५ ॥ महर्षिं त्वागतं ज्ञात्वा सुतेजा कामितुं गता । सहसाऽलंकृतां तां तु करं जग्राह स द्विजः ॥ २६.१०६ ॥ तेन सा धर्षिता तत्र यथेष्टं कामपीडिता । अग्निहोत्रस्य शालायां दाम्पत्यं कामसंयुतम् ॥ २६.१०७ ॥ ददृशे स महात्मा वै धर्माधर्मविशारदः । आसीद्विषण्णवदनो दृष्ट्वा तां पावकात्मजाम् ॥ २६.१०८ ॥ अवध्यो ब्राह्मणो दुष्टः पापात्मा पापकर्मकृत् । इयं च पत्नी दुष्टा मे न वध्या स्त्रीस्वभावतः ॥ २६.१०९ ॥ तमुवाच विचार्यैवं ब्राह्मणं दारकर्षकम् । मातरं गुरुपत्नीं च स्वसारं दुहितरं तथा ॥ २६.११० ॥ गत्वा तु प्रविशेदग्निं ततः शुद्ध्येत मानवः । गर्दभस्त्वं भवेद्विप्र गर्दभी च तथा विधिः ॥ २६.१११ ॥ दिव्यं वर्षसहस्रं तु अमेध्यं भक्षयिष्यथः । सुतेजाहरिकेशौ तु हविर्धानः शशाप तौ ॥ २६.११२ ॥ पीडितौ कर्मणा तेन गतौ द्वौ बद्रिकाश्रमम् । हिमस्थानं च केदारं भैरवं नैमिषं तथा ॥ २६.११३ ॥ सूर्याक्षं च गयातीर्थं गङ्गासागरसङ्गमम् । वाराणसीं प्रयागं च ओघतीर्थं च पुष्करम् ॥ २६.११४ ॥ योगीश्वरं रुद्रकोटिं महेन्द्रं ब्रह्मसम्भवम् । प्रभासं च कुरुक्षेत्रं तीर्थं सौम्येश्वरं तथा ॥ २६.११५ ॥ अनेकानि च तीर्थानि पृथिव्यां यानि कानि च । सार्द्धं तया तपस्विन्या हविर्धानस्य शापतः ॥ २६.११६ ॥ अनेकदुःखसम्पन्नो हरिकेशो भ्रमन्महीम् । खरयोनिनियुक्तस्तु परदाराभिकर्षकः ॥ २६.११७ ॥ कालेन भूयसा तत्र हरिकेशस्तया सह । तेनैव खररूपेण अगस्त्यं च महामुनिम् ॥ २६.११८ ॥ नमस्कृत्य मुनिं तत्र साष्टाङ्गं प्रणिपत्य च । गुरुतल्पगपापस्य परदाराभिगमिनः ॥ २६.११९ ॥ प्रायश्चित्तं विधानेन दीयतां मे द्विजोत्तम । मोचय त्वमिमां योनिं ब्रह्मलोकपदस्थितः ॥ २६.१२० ॥ हविर्धानान्तिकं याहि ततोऽगस्त्य उवाच तम् । तस्य तद्वचनं श्रुत्वा मुनीनामूर्ध्वरेतसाम् । हरिकेशोऽब्रवीद्वाक्यं सुतेजा सह सङ्गतः ॥ २६.१२१ ॥ अनुग्रहमिमं मन्ये ब्राह्मणानां न संशयः । ततो गतौ तु तं राजन् हविर्धानस्य चाश्रमम् ॥ २६.१२२ ॥ नमस्कृत्य मुनिश्रेष्ठं हरिकेशोऽब्रवीद्वचः । गुरुतल्पगपापोऽहं क्षमस्व मयि पुत्रके ॥ २६.१२३ ॥ शापान्तं च वरं मन्ये दातुमर्हसि सुव्रत । तस्य तद्वचनं श्रुत्वा हरिकेशस्य दुर्मतेः ॥ २६.१२४ ॥ उवाच वचनं विप्रस्तं वै गर्दभरूपिणम् । स्वकर्मणा तनुं त्वं हि गार्दभीं प्राप्तवानसि ॥ २६.१२५ ॥ जन्मान्तरकृतैश्चैव कर्मभिः कर्मकारिभिः । शुभं वाप्यशुभं वापि प्राप्यते नात्र संशयः ॥ २६.१२६ ॥ कर्मणां च विपाकोऽयमपि देवैः सवासवैः । ज्ञातुं न शक्यते विप्र गाहना कर्मणां गतिः ॥ २६.१२७ ॥ दोषो न विद्यते चैव तद्ब्राह्मण कथंचन । किंतु जन्मान्तरे येन कर्मणा तत्कृतं तव ॥ २६.१२८ ॥ तस्माद्विश हुताशं त्वमनया मेकलातटे । शङ्कराद्वरमासाद्य तावत्प्राप्स्यसि सद्गतिम् ॥ २६.१२९ ॥ एवमुक्तो ययौ राजन् हरिकेशस्तया सह । हरिकेशः सुतेजा च नर्मदातीरसन्निधौ ॥ २६.१३० ॥ दारूणि च समाहृत्य प्रविष्टौ च हुताशनम् । तत्क्षणाद्दिव्यदेहौ तु स्नात्वा स्पृष्ट्वा ह्युभावपि ॥ २६.१३१ ॥ कामिकं यानमारूढौ सर्वालङ्कारभूषितौ । अस्य तीर्थस्य माहात्म्याद्यथा लक्ष्मीजनार्दनौ ॥ २६.१३२ ॥ भुञ्जन्तौ विविधान् भोगान् गतौ माहेश्वरं पुरुम् । तेनाऽसौ सङ्गमः पुण्यस्तिर्यग्योनिविमोक्षणः ॥ २६.१३३ ॥ हरिकेशेश्वरं लिङ्गं सुतेजानिर्मितं तथा । हविर्धानेश्वरं नाम चतुर्थोऽगस्त्यनिर्मितम् ॥ २६.१३४ ॥ चत्वारि पुण्यलिङ्गानि काममोक्षप्रदानि तु । तिलोदकप्रदानेन तस्मिंस्तीर्थे नराधिप ॥ २६.१३५ ॥ मातृकं पैतृकं चैव नरकादुद्धरेत्पितॄन् । तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ॥ २६.१३६ ॥ एतत्ते कथितं राजन्नाख्यानं च पुरातनम् ॥ २६.१३७ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे गर्दभीतीर्थवर्णनो नाम षड्विंशोऽध्यायः ॥ अध्याय २७ मार्कण्डेय उवाच - गौरीखण्डं ततो गच्छेत्सर्वदेवनमस्कृतम् । तत्र स्नानेन लभते सर्वतीर्थफलं नरः ॥ २७.१ ॥ तिलोदकप्रदानेन पितॄणां तृप्तिरक्षया । जायते च नृपश्रेष्ठ नात्र कार्या विचारणा ॥ २७.२ ॥ गौरीखण्डेश्वरं नाम लिङ्गं पापहरं परम् । तत्रज्ञेयं मणिमयं जलमध्ये व्यवस्थितम् ॥ २७.३ ॥ न तत्पश्यन्ति मनुजाः सर्वैर्देवैस्तु पूजितम् । युधिष्ठिर उवाच - गौरीखण्डेश्वरं नाम तस्मिंस्तीर्थे कथं मुने ॥ २७.४ ॥ कथ्यतां च यथा न्यायं विदितं यत्तु साम्प्रतम् । मार्कण्डेय उवाच - पुरादेवगणैः सर्वैः कुमारः शङ्करात्मज ॥ २७.५ ॥ सैनापत्ये नियुक्तश्च तारकस्य वधं प्रति । कामितास्तेन तत्रैव सर्वास्ताः सुरयोषितः ॥ २७.६ ॥ उपालब्धास्ततः सर्वा उमामाहेश्वरे पुरे । उपालब्धं तु तं श्रुत्वा विषण्णा चैव पार्वती ॥ २७.७ ॥ कामितं यत्र यत्रैव तत्र तत्रेश्वरेश्वरी ॥ २७.८ ॥ दृष्ट्वाऽथ लज्जितः सोऽपि पक्षिणाऽसौ समाययौ । देवैः परिवृतः श्रीमान्मयूरस्थो महाबलः ॥ २७.९ ॥ पृष्ठतोऽनुगता माता रुदतीव सुरेश्वरी । उत्तीर्णा कल्पगां देवी पूजयित्वा महेश्वरम् ॥ २७.१० ॥ गौरीखण्डं तु विख्यातं त्रिषु लोकेषु तेन तत् । लिङ्गं प्रतिष्ठितं तत्र कुमारेश्वरसंज्ञितम् ॥ २७.११ ॥ मयूरेश्वरलिङ्गं तु भुक्तिमुक्तिफलप्रदम् । यस्य देवस्य माहात्म्यात्मयूरास्त्रिदिवङ्गताः ॥ २७.१२ ॥ अर्चनात्तस्य देवस्य तिर्यग्योनिर्न जायते । ततो गच्छेत्महाराज करमर्दासमागमम् ॥ २७.१३ ॥ तत्र स्नातो महाराज स भवे न पुनर्भवेत् । करमर्देश्वरं लिङ्गं पूजयेत्तत्र भारत ॥ २७.१४ ॥ पितॄणां तर्पणात्तत्र स्वर्गं प्राप्नोति मानवः । युधिष्ठिर उवाच - कथयस्व महाभाग करमर्दासमुद्भवम् ॥ २७.१५ ॥ भाविष्यभूततत्त्वज्ञस्त्रिकालज्ञस्त्रिवेदवित् । मार्कण्डेय उवाच - कथयामि यथादृष्टं शृणु चैकमना नृप ॥ २७.१६ ॥ मैत्रेयस्याश्रमं पुण्यं ऋषिभिस्तु निषेवितम् । मुनीनां तु सहस्राणि कन्दामूलफलाशिनाम् ॥ २७.१७ ॥ निवसन्ति यदा तत्र तपः कर्तुं निरन्तरम् । कस्मिंश्चिदन्यकाले तु तस्मिन्मुनिवराश्रमे ॥ २७.१८ ॥ राजा कुशध्वजो नाम एकच्छत्राधिपो नृप । आगमत्कलातीरं राहुसूर्यसमागमे ॥ २७.१९ ॥ अवतीर्णान्मुनीन्सर्वान् यथार्हं प्रणिपत्य च । पितॄणां श्राद्धकालोऽद्य प्रसादः क्रियतां मयि ॥ २७.२० ॥ ऋषय ऊचुः॒ गवां दशायुतान्येकप्रसूतानां पयोमुचाम् । सवत्सानां सुवर्णानां घण्टाभरणशोभिनाम् ॥ २७.२१ ॥ यदि शक्नोषि दातुं त्वं होमार्थे पितृदेवयोः । तत्र प्रवर्ततां श्राद्धं सत्यमेतत्तवोदितम् ॥ २७.२२ ॥ तेषां तद्वचनं श्रुत्वा मुनीनामूर्ध्वरेतसाम् । कुशध्वजोऽब्रवीद्वाक्यं ब्राह्मणांस्तान् यथार्थतः ॥ २७.२३ ॥ अनुग्रहमिमं मन्ये यथोक्तं ब्रह्मचारिभिः । ददाम्यहं न सन्देह इहैव मुनिपुङ्गवाः ॥ २७.२४ ॥ भोजयित्वा ततः श्राद्धे ब्राह्मणांस्तान्नृपोत्तमः । सकुशं जलमादाय तेभ्यो दत्ता तु गास्तदा ॥ २७.२५ ॥ दत्त्वा दान मुदायुक्तः स जगाम स्वकं पुरम् । स्थितास्तु ब्राह्मणास्तत्र होमकार्यार्थसिद्धये ॥ २७.२६ ॥ एकस्मिन् वासरे प्राप्ता राक्षसा घोररूपिणः । बुभुक्षिता महादंष्ट्रा विकृतास्या भयानकाः ॥ २७.२७ ॥ ब्राह्मणानां तदा गा वै भक्षितुं समुपागतान् । दृष्ट्वा तान् विकृताकारांस्तीव्रनादपरायणान् ॥ २७.२८ ॥ प्रणष्टास्तु ततः स्थानान्नर्मदाजलमाविशन् । तत्क्षणाद्दिव्यलोकस्थाः सर्वास्ताः कामधेनवः ॥ २७.२९ ॥ ततस्ते क्षुधितास्सर्वे ब्राह्मणान् भक्षितुं गताः । हरिं स्मरन्ति ते सर्वे ब्राह्मणाः शंसितव्रताः ॥ २७.३० ॥ रेवाजलं प्रविष्टा वै राक्षसैः परिपीडिताः । विष्णोः प्रस्वेदजस्तत्र प्रवाहो नर्मदां गतः ॥ २७.३१ ॥ गोपदं दृश्यते तत्र सर्वामरनमस्कृतम् । करमर्देश्वरं लिङ्गं विष्णुचक्राद्विनिःसृतम् ॥ २७.३२ ॥ प्रतिष्ठितं च तत्रैव विष्णुना प्रभविष्णुना । गावश्च ब्राह्मणाश्चैव सत्यमेतद्ब्रवीमि ते ॥ २७.३३ ॥ ब्रह्मलोकं गताः सर्वे तीर्थस्यास्य प्रभावतः । करमर्देश्वरं तीर्थं सर्वपापप्रणाशनम् । कीर्तितं कर्मणा तेन मह्याममिततेजसा ॥ २७.३४ ॥ तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः । श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ॥ २७.३५ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे करमर्देश्वरीकीर्तनं नाम सप्तविंशोऽध्यायः ॥ अध्याय २८ युधिष्ठिर उवाच - मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः । एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः ॥ २८.१ ॥ मार्कण्डेय उवाच - शृणु राजन्महाभाग यन्मां त्वं परिपृच्छसि । इक्ष्वाकुवंशसम्भूतो युवनाश्वो महीपतिः ॥ २८.२ ॥ सोऽयजत्पृथिवीपालः क्रतुभिर्भूरिदक्षिणैः । अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतः ॥ २८.३ ॥ मन्त्रिष्वाधाय तद्राज्यं वननिष्ठो महीपतिः । शास्त्रदृष्टेन विधिना संयम्यात्मानमात्मना ॥ २८.४ ॥ फलमूलानुभक्षश्च स चचार महत्तपः । शुष्ककण्ठः पिपासार्तः पानीयार्थे भृशः नृपः ॥ २८.५ ॥ सम्प्रविश्याश्रमस्यान्तः पानीयं सोऽभ्ययाचत । तस्य शुष्केण कण्ठेन क्रोशतस्तु तदा भृशम् ॥ २८.६ ॥ नाऽश्रौषीद्वचनं तत्र चातकस्यैव वासवः । भगवांस्तु तदा कश्चिदृषिस्तस्य महीपतेः ॥ २८.७ ॥ पुत्रीयमग्रतः कृत्वा मन्त्रैश्चाप्यभिमन्त्रितम् । रात्रौ च कलशं तत्र जलपूर्णं पिपासितः ॥ २८.८ ॥ अभ्यद्रवत्स वेगेन पीत्वापस्तत्र चास्वपत् । स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः ॥ २८.९ ॥ अग्निर्निवर्तितस्तस्य सुखी चैवाऽभवत्तदा । ततस्तेऽचाप्यबुध्यन्त मुनयः शंसितव्रताः ॥ २८.१० ॥ कस्येदं कर्म कुपिताः पप्रच्छुस्तं नृपं तदा । युवनाश्वो ममेत्येवं सत्यं समभिपद्यते ॥ २८.११ ॥ युवनाश्वमिदं प्राह भगवान् भार्गवस्तदा । सुतार्थं स्थापितं ह्येतत्तपसा चैव सम्भृतम् ॥ २८.१२ ॥ मया कर्म कृतं चैतत्तप आस्थाय दारुणम् । पुत्रार्थं तव राजेन्द्र येन ते बलवान् भवेत् ॥ २८.१३ ॥ महाबलो महावीर्यस्तपोबलसमन्वितः । सुतः शक्रसमोऽत्यर्थं सर्वधर्मपरायणः ॥ २८.१४ ॥ विधिना मन्त्रयुक्तेन मयैतदुपपादितम् । अभक्षणं त्वया राजन् युक्तं न कृतमत्र वै ॥ २८.१५ ॥ नूनं दैवकृतं त्वद्य यत्तत्त्वं कृतवानसि । पिपासुना च यत्पीतं विधिमन्त्रपुरस्कृतम् ॥ २८.१६ ॥ जलं त्वया महाराज तेन त्वं वीर्यवानसि । अन्वहं कर्म कृत्वाऽपि महान्तं सुखमाप्स्यसि ॥ २८.१७ ॥ विधास्यामो वयं चात्र पुत्रेष्टिं परमां तदा । वीर्येण शक्रतुल्यं त्वं पुत्रं वै जनयिष्यसि ॥ २८.१८ ॥ ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः । वामपार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः ॥ २८.१९ ॥ निश्चक्राम महातेजा न च तं मृत्युराविशत् । युवनाश्वस्य नृपतेस्तदद्भुतमिवाभवत् ॥ २८.२० ॥ तं द्रष्टुं समुपागतः शक्रं पृच्छन्ति तं देवाः । सुतः किं धास्यतीत्ययम् .... .... ॥ २८.२१ ॥ एष मां धास्यतीत्येवं शक्रः प्रोवाच तान् सुरान् । प्रदेशिनीं च तस्यास्ये ततः शक्रः समादधौ ॥ २८.२२ ॥ स तां बालस्ततो हृष्टः पपौ तस्य प्रदेशिनीम् । मान्धातेति च नामास्य शक्रश्चक्रे यथार्थवत् ॥ २८.२३ ॥ अवाप्य स शिशुस्तत्र शक्रदत्तां प्रदेशिनीम् । अवर्धत्महीपालः किंतु षोडशिकाः समाः ॥ २८.२४ ॥ आयुर्वेदादिशास्त्राणि दिव्यशास्त्राणि सर्वशः । उपतस्थुर्महाराजं ध्यानमात्रेण तं तदा ॥ २८.२५ ॥ धनुराजगवं नाम शराश्शृङ्गोद्भवाश्च ये । अभेद्यं कवचं चैव सद्यस्तमुपतस्थिरे ॥ २८.२६ ॥ सोऽभिषिक्तो मघवता देवैः सार्द्धं च भारत । धर्मेण चाक्रमल्लोकान् सर्वान् विष्णुरिव क्रमैः ॥ २८.२७ ॥ तस्याऽप्रतिहतं चक्रं प्रचचार महात्मनः । शतानि चैव राजानः स्वयमेवोपतस्थिरे ॥ २८.२८ ॥ तस्यैवमभवत्पूर्वं वसुधा वसुधापते । तेनेष्टं विविधैर्यज्ञैर्बहुभिश्चाप्तदक्षिणैः ॥ २८.२९ ॥ हृष्टमना महातेजाः स्वधर्मं प्राप्य पुष्कलम् । शक्रस्यार्धासनं धीमान् लब्धवानमितद्युतिः ॥ २८.३० ॥ आपालिता च पृथिवी तेन धर्मेण धीमता । निर्जिता शासनादेव सरत्नाकरपत्तना ॥ २८.३१ ॥ तत्कृतानां महाराज क्रतूनां दक्षिणावताम् । चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम् ॥ २८.३२ ॥ दशलक्षसहस्राणि राज्यं तस्य महात्मनः । तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना ॥ २८.३३ ॥ वृष्टिं च सस्यवृद्ध्यर्थं मिषता वज्रपाणिना । तेन सोमकुलोत्पन्नो गन्धर्वाधिपतिर्महान् ॥ २८.३४ ॥ गत्वा समानयन्मेघं प्रमथ्याभिहितः शरैः । प्रजाश्चतुर्विधास्तेन धृतास्तत्र महात्मना ॥ २८.३५ ॥ तेनाप्तास्तपसा लोकाः स्थापिताः स्वेन तेजसा । तस्यैव देववसतिस्थानमादित्यतेजसः ॥ २८.३६ ॥ यस्य पुण्यतमे देशे दृश्यतेऽमरकण्टकः । इष्ट्वा तत्र क्रतुशतमोङ्कारस्यैव चाग्रतः ॥ २८.३७ ॥ राज्ञा च पर्वते तस्मिन् स्तोत्रमेतदुदाहृतम् । नमस्ते कालमेघाय कालात्मक नमोऽस्तु ते ॥ २८.३८ ॥ कालाधिपं नमस्तेऽस्तु कालरूपः प्रवर्तसे । कालात्मा कालरूपेण विश्वात्मा विश्वरूपधृक् ॥ २८.३९ ॥ विश्वेश्वर नमस्तेऽस्तु कालत्यागे प्रवर्तकः । भवाय भवनाशाय भवोद्भव नमोऽस्तु ते ॥ २८.४० ॥ ओं नमो महादेवाय शम्भवाय भवाय च । अजपाय अजाताय अजायतनमीढुषे ॥ २८.४१ ॥ प्रभवाय शिवतराय अक्षमाय नमो नमः । त्र्यम्बकाय त्रिमूर्ताय त्रिलोकेशाय ते नमः ॥ २८.४२ ॥ अकालाय अजराय अमराय नमो नमः । ओंकारमादिदेवं च ये वै ध्यायन्ति नित्यशः ॥ २८.४३ ॥ न तेषां पुनरावृत्तिर्घोरे संसारसागरे । श्रुत्वा स्तोत्रमिदं देवः ओंकारः कालरूपधृक् ॥ २८.४४ ॥ प्रत्युवाच महीपालं देवदेव उमापतिः । वरं वृणीष्व भद्रं ते स्तोत्रेणानेन सुव्रत ॥ २८.४५ ॥ तुष्टोऽस्मीति न सन्देहो यथेष्टं तद्ददाम्यहम् । मान्धातोवाच - यदि तुष्टोऽसि देवेश वरं दातुं त्वमिच्छसि ॥ २८.४६ ॥ वैदूर्यो नाम शैलेन्द्रो मान्धाताख्यानमर्हति । देवस्थानमिदं देव त्वत्प्रसादाद्भविष्यति ॥ २८.४७ ॥ अत्र दानं तपः पूजा तथा प्राणविसर्जनम् । ये कुर्वन्ति नरास्तेषां शिवलोके निवासिता ॥ २८.४८ ॥ तस्य तद्वचनं श्रुत्वा मान्धातुः परमेश्वरः । उवाच वचनं देवो मान्धातारं महीपतिम् ॥ २८.४९ ॥ सर्वमेतत्नृपश्रेष्ठ मत्प्रसादाद्भविष्यति । एवमस्त्विति तं चोक्त्वा वरं लब्ध्वा महीपति ॥ २८.५० ॥ जगाम स्वां पुरीं शीघ्रं यथा शक्रोऽमरावतीम् । एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत् ॥ २८.५१ ॥ यो ममाग्रे महीपाल दृष्टोऽद्रिर्वै त्वयानघ । तदा प्रभृति मान्धाता वैदूर्यो गीयते गिरिः ॥ २८.५२ ॥ अस्य तीर्थस्य माहात्म्यात्मान्धातृप्रमुखा नृपाः । सर्वकामसमुद्युक्ता लोके क्रीडन्ति वैष्णवे ॥ २८.५३ ॥ श्रवणात्कीर्तनाद्वाऽपि हयमेधफलं लभेत् ॥ २८.५४ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे मान्धातुरुपाख्यानेऽष्टाविंशोऽध्याय अध्याय २९ मार्कण्डेय उवाच - कृते युगेऽथ सम्प्राप्ते बलिर्नाम महासुरः । तस्य पुत्रो महावीर्यः सहस्रभुजविश्रुतः ॥ २९.१ ॥ दिव्यं वर्षसहस्रं तु तेन चाराधितो हरः । तुष्टेन तेन सम्प्रोक्तः प्रार्थयस्व वरं वर ॥ २९.२ ॥ यत्किंचिद्वै वरं प्रोक्तं तद्दास्यामि न संशयः । बाणासुरो वदत्येवं यदि तुष्टोऽसि मे प्रभो ॥ २९.३ ॥ पुरं भवतु मे दिव्यमजेयं सर्वदैवतैः । त्वामेव वर्जयित्वा तु दुष्प्राप्यं सर्वदैवतैः ॥ २९.४ ॥ मयि तिष्ठति यत्तिष्ठेत्मयि गच्छति गच्छतु । कामिकं भवनं देव पुर भवतु मे तदा ॥ २९.५ ॥ उक्तो बाणासुरस्तेन बलिपुत्रो महायशाः । विष्णुनाभिहितश्चासौ किं त्वया प्रार्थितो हरः ॥ २९.६ ॥ बाण उवाच - मह्यं दत्तं महेशेन पुरं पुरवरोत्तमम् । अजेयं सर्वदेवानामसुराणां च दुर्लभम् ॥ २९.७ ॥ यदि दत्तं महेशेन पुरं तुभ्यं यथेप्सितम् । मयाऽपि ते प्रदत्तं च द्वितीयं तादृशं पुरम् ॥ २९.८ ॥ विष्णुनाऽपि पुरं दत्तं द्वितीयं च मनोरमम् । एकीभूतौ तु तौ देवायूचतुस्तौ बलेः सुतम् ॥ २९.९ ॥ गच्छ बाणासुर क्षिप्रं यत्रास्ते कमलासनः । गतस्तत्र बलेः पुत्रो यत्रातिष्ठत्पितामहः ॥ २९.१० ॥ परिष्वज्य स्वहस्तेन पृष्टश्चैव स्वयम्भुवा । बहुवर्षसहस्रं तु तपो घोरं त्वया कृतम् ॥ २९.११ ॥ वरस्तु कस्त्वया प्राप्तस्तपसाराध्य शङ्करम् । ब्रह्मणो वचनं श्रुत्वा प्रत्युवाच महासुरः ॥ २९.१२ ॥ मया तु प्रार्थितो रुद्रो दत्तस्तेन प्रसादतः । कामरूपं पुरं प्राप्तं मनोरम्यं मनोरमम् ॥ २९.१३ ॥ तादृशं तु पुरं दत्तं द्वितीयं विष्णुना पुनः । बाणासुरवचः श्रुत्वा प्रत्युवाच महासुरम् ॥ २९.१४ ॥ त्वया तु प्रार्थितो रुद्रो दत्तं तेन महात्मना । मयाऽपि ते पुरं दत्तं तेनासौ त्रिपुरः स्मृतः । एवं प्राप्तवरो राजन्महाबलपराक्रमः ॥ २९.१५ ॥ सहस्रभुजविस्तीर्णस्त्ववध्यः सर्वदैवतैः । पुराणि दानवानां तु अमराणां तु यानि च ॥ २९.१६ ॥ यक्षविद्याधराणां तु गन्धर्वाणां च रक्षसाम् । भग्नानि तानि सर्वाणि स्थण्डिलानि हृतानि च ॥ २९.१७ ॥ भग्नामरावती तेन पुरा शक्रस्य भारत । त्रिपुरं ह्यभवत्सर्वं कैलासः केवलं पृथक् ॥ २९.१८ ॥ उद्विग्नमानसा देवा हरपार्श्वमुपाययुः । वरो दत्तस्त्वया तस्मै ब्रह्मणा विष्णुनापि च ॥ २९.१९ ॥ तेन सार्धं तु संग्रामे शक्तिर्नास्तीति कस्यचित् । यस्तस्य पुरतस्तिष्ठेत्तमसौ भस्मतां नयेत् ॥ २९.२० ॥ एवं श्रुत्वा शिवो वाक्यं परं कौतूहलं ततः । संप्रेषितास्तदा देवा ब्रह्मविष्णुपुरोगमाः ॥ २९.२१ ॥ समेत्य गम्यतां देवास्त्रिंशत्कोट्यो महाबलाः । विनाशयत यत्नेन त्रिपुरं पुरसंस्थितम् ॥ २९.२२ ॥ ततो गताः सुराः सर्वे बद्धवैराः सहस्रशः । वाणासुरपुरं यत्र सुतीक्ष्णनिशितायुधाः ॥ २९.२३ ॥ सुयुद्धबलसम्पन्नाः सर्वे ते बलशालिनः । मार्गं पुरं च देशं च छादयन्तो घना इव ॥ २९.२४ ॥ संक्षिप्तेनैव कालेन मनसा चिन्तितेन च । सर्वे ते त्रिपुरं प्राप्ता धनुः क्षिप्ताः शरा इव ॥ २९.२५ ॥ द्रष्टुं दश दिशस्तेन प्रेषिता ये च किङ्कराः । ऊचुर्बाणासुरं ते तु निश्चिन्तस्त्वं कथं प्रभो ॥ २९.२६ ॥ उक्तं बाणासुरेणाऽपि वरोऽद्य सफलो मम । समीहितफलं प्राप्तं कुतो गच्छन्ति ते सुराः ॥ २९.२७ ॥ तेन ते क्षणमात्रेण सर्वे देवा जितास्तदा । हृतानि च ततोऽस्त्राणि पात्र भोजनं यथा ॥ २९.२८ ॥ इन्द्रस्यापि हृतं वज्रं चक्रं वै केशवस्य तु । जलं पितामहस्यापि पाशं च वरुणस्य च ॥ २९.२९ ॥ कुबरेस्य गदां चैव मरुतश्चाङ्कुशं तथा । यमस्यापहृतो दण्डः शक्तिर्वैश्वानरस्य च ॥ २९.३० ॥ कामरूपं पुरं तस्य हरदत्तं प्रसादतः । न शक्यते सुरैः सर्वैर्ब्रह्मविष्णुपुरोगमैः ॥ २९.३१ ॥ बाधितुं दैत्यराजस्य समन्तान्मिलितैरपि । सुरा बाणासुरेणैव ततो युद्धे पराजिताः ॥ २९.३२ ॥ भग्नास्तूत्साहरहिता हरपार्श्वमुपागताः । शिवेनोक्तास्तु ते सर्वे तत्र गत्वा तु किं कृतम् ॥ २९.३३ ॥ संग्रामः कीदृशस्तेन भवद्भिः सह निर्मितः । ततः किं कथ्यते देव न शक्तास्तस्य कर्मणि ॥ २९.३४ ॥ न तेन सह संग्रामे सम्मुखं केनचित्कृतम् । देवतावचनं श्रुत्वा क्रुद्धः प्रोवाच शङ्करः ॥ २९.३५ ॥ त्रिपुरं च महादुष्टामिमं व्यापादयाम्यहम् । अथवा चापमाकृष्य ह्यसुरं प्रदहाम्यहम् ॥ २९.३६ ॥ येन जीवन्नरो यस्तु सुराणां किङ्करो भवेत् । पतिव्रता प्रसादेना त्रिपुरं च सुरासुरैः ॥ २९.३७ ॥ न शक्यं धर्षितुं तस्मान्नारदं प्रेषयाम्यहम् । नारदः प्रेषितस्तत्र क्षोभय त्वं पतिव्रताः ॥ २९.३८ ॥ एवमुक्तस्तु देवर्षिर्बाणासुरपुरं ययौ । त्वरितं पुरमध्ये तु यत्र बाणासुरो नृपः ॥ २९.३९ ॥ तं तु देव ऋषिं दृष्ट्वा ह्यसुरो वाक्यमब्रवीत् । नमस्कृत्य च साष्टाङ्गमर्घपाद्यैः प्रपूज्य च ॥ २९.४० ॥ कुतोऽत्रागमनं तेऽद्य किं वा कार्यं महामुने । तस्य तद्वचनं श्रुत्वा मुनिः प्रोवाच तं तदा ॥ २९.४१ ॥ कुशलं ते बलेः पुत्रसादरं तु पुनः पुनः । बाणासुरोऽब्रवीद्वाक्यं कुशलं तव दर्शनात् ॥ २९.४२ ॥ देवर्षिरुपविष्टस्तु दिव्यासनसुशोभितः । राज्ञी चाभ्यर्चयत्तत्र स तस्यै नारदस्तदा ॥ २९.४३ ॥ पुराणवेदबाह्यानि वृत्तान्यादेशयन्मुनिः । नारीणां चलितं चित्तं कृत्वा देवमुनिस्तदा ॥ २९.४४ ॥ आगतो नारदः श्रीमान् कैलासं पर्वतोत्तमम् । नमस्कृत्य महादेवं वृत्तान्तं संन्यवेदयत् ॥ २९.४५ ॥ घातय त्रिपुरं देव सपुरं सुरकण्टकम् । निर्गतस्तु हरस्तस्मात्कैलासनिलयात्प्रभुः ॥ २९.४६ ॥ स्वकीयेनैव मार्गेण यत्रऽसौ त्रिपुरऽसुरः । देवी चण्डेश्वरो नन्दी महाकालो महेश्वरः ॥ २९.४७ ॥ वृषो भृङ्गिरिटिश्चैव विघ्नेशः स्कन्द एव च । पुष्पदन्तो महावीरो घण्टाकर्णो महोदरः ॥ २९.४८ ॥ गोमुखो हस्तिकर्णश्च स्थूलजङ्घो वृकोदरः । गणाः पञ्चदश त्वेते हरतुल्यपराक्रमाः ॥ २९.४९ ॥ अस्ति सिद्धो महाक्षेत्रं श्रीशैलो नामपर्वतः । तत्र स्थित्वा महादेवो हन्तव्यस्त्रिपुरः प्रिये ॥ २९.५० ॥ स्थानं माहेश्वरं चक्रे व्यापी तत्र पिनाकधृक् । एकपादेन ब्रह्माण्डं पातालं चापरेण च ॥ २९.५१ ॥ हिमवन्तं धनुः कृत्वा गुणं कृत्वा तु वासुकिम् । शरं वैश्वानरं कृत्वा तस्याऽग्रं कालमेव तु ॥ २९.५२ ॥ रथं भूमण्डलं कृत्वा वेदान् कृत्वा हयांस्तथा । रश्मींस्तक्षककर्कोटौ ब्रह्माणं सारथिं स्वयम् ॥ २९.५३ ॥ चक्ररक्षं वासुदेवमघोरं मन्त्रसप्तकम् । तथा पाशुपतं चैव मन्त्रराजं तथैव च ॥ २९.५४ ॥ दिव्यं वर्षसहस्रं तु स्थानं कृत्वा स्थितोऽभवत् । तिष्ठतो मम तत्रैव कालेन महता प्रिये ॥ २९.५५ ॥ लक्ष्यालक्ष्ये तनू कृत्वा गणेशो विघ्नमाचरत् । वामपादनखाग्रेण चलितः स्थानकादहम् ॥ २९.५६ ॥ ततो मया हतो नाऽसौ रक्षितुं त्रिपुरं कथम् । प्रवृत्तोऽसि गणाधीश जगद्विध्वंसकारकम् ॥ २९.५७ ॥ इति तस्य वचः श्रुत्वा विघ्नेशो वाक्यमब्रवीत् । अहं न विघ्नये त्वां चेत्कथमन्येऽर्चयन्ति माम् ॥ २९.५८ ॥ अपूजिते मयि विभो यः कार्यं कर्तुमिच्छति । तस्मै विघ्नं प्रदास्यामि सुरासुरगणेष्वपि ॥ २९.५९ ॥ एवमस्त्विति तं प्राह शङ्करः तदनन्तरम् । वध्यं चैव गतो लक्ष्यं संशक्तस्त्रिपुरं प्रति ॥ २९.६० ॥ तापसोऽयं दुराचारो दैत्यः परपुरं जयः । विनाशायाऽस्य दुष्टस्य कंचाहं प्रेषये शरम् ॥ २९.६१ ॥ त्रिपुरस्य वधार्थाय क्षिप्रं पाशुपतं महत् । अस्त्रमन्यद्विधास्यामीत्युक्त्वा देवो हरः पुरम् ॥ २९.६२ ॥ अघोरास्त्रेण तद्दग्धं त्रिखण्डं जर्जरीकृतम् । पातितं तु जले तत्र ततो मां शरणं गताः ॥ २९.६३ ॥ भवानि दानवैः सार्द्धं तेषां पत्न्यः सुतेक्षणाः । आपतन्ति रुदन्त्यस्ताः शतशोऽथ सहस्रशः ॥ २९.६४ ॥ सर्वासां निर्दयो वह्णिः स ददाह पतींस्तथा । श्रीशैले पतितं चैकमन्यच्चामरकण्टके ॥ २९.६५ ॥ गङ्गासागरसम्भेदे तृतीयं च तथा प्रिये । पुत्रपौत्रकलत्राणि मणिहेमपुराणि च ॥ २९.६६ ॥ विनाशं यान्ति तान् यत्र लिङ्गमेकं न नश्यति । लिङ्गानां नवकोटीनां यद्येकमपि दह्यते ॥ २९.६७ ॥ प्राणत्यागं करिष्यामि हुताशेऽस्मिंस्तदा ध्रुवम् । दग्धं तु त्रिपुरं कृत्स्नमघोरास्त्रेण दारुणम् ॥ २९.६८ ॥ पातितं नर्मदा मध्ये ज्वलत्कालानलप्रभम् । तद्भित्त्वा सप्तपातालं रसातलतलं ययौ ॥ २९.६९ ॥ तेन जालेश्वरं तीर्थं त्रिषु लोकेषु विश्रुतम् । अर्चनात्तस्य देवस्य मुच्यते ब्रह्महत्यया ॥ २९.७० ॥ कल्पकोटिसहस्राणि वसेच्छिवपुरे सुखी । तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ॥ २९.७१ ॥ तिलोदकप्रदानेन पिण्डपातेन भारत । पितरस्तस्य तृप्यन्ति शिवो यावच्च कल्पगा ॥ २९.७२ ॥ सार्द्धकोटिश्च लिङ्गानां गङ्गासागरसङ्गमे । सार्द्धकोटिश्च पतिता लिङ्गानां पुरवर्धने ॥ २९.७३ ॥ दशार्धकोटिः पतिता श्रीशैले त्रिपुरान्तिके । तिस्रः कोट्यार्धकोटी च पतितामरकण्टके ॥ २९.७४ ॥ एतानि बाणलिङ्गानि भुक्तिमुक्तिप्रदानि तु । त्रिपुरघ्नमघोरास्त्रं ज्वलत्कालाग्निरुद्रवत् ॥ २९.७५ ॥ कल्पगां वर्जयित्वा तु कान्या धारयितुं क्षमा । एतादृशं तु पतितं तदस्त्रं कल्पगाजले ॥ २९.७६ ॥ जालेश्वरं तु कथितं त्रिपुरघ्नमिदं तव । एतत्तीर्थं न जानन्ति लोकाश्च सचराचराः ॥ २९.७७ ॥ दहन्तं त्रिपुरं दृष्ट्वा देवा विस्मयमागताः । ब्रह्माद्या देवता येन संग्रामेषु पराजिताः ॥ २९.७८ ॥ शरेणैकेन तद्वीर्यं कृतं भस्मैकपुञ्जवत् । बाणासुरः पुरे दग्धे भीतः स्तोत्रमिदं जगौ ॥ २९.७९ ॥ ओं नमोऽनादिदेवेश विघ्नेश्वर महेश्वर । सर्वज्ञाज्ञानहृज्ज्ञानप्रदानैक नमोऽस्तु ते ॥ २९.८० ॥ अनन्तगुणरत्नाय परेशाय नमोऽस्तु ते । परात्पर परातीत उत्पत्तिस्थानकारक ॥ २९.८१ ॥ सर्वार्थसाधनोपाय विश्वेश्वर नमोऽस्तु ते । निरञ्जन निराधार स्वभाव निरुपद्रव ॥ २९.८२ ॥ प्रसन्नपरमेशान योगेश्वर नमोऽस्तु ते । असुरघ्न पिशाचघ्न भूतवेतालनाशन ॥ २९.८३ ॥ भूतनाथ जगन्नाथ सर्वाधार नमोऽस्तु ते । सृष्टिसंहार निर्वाणसप्तपातालसंश्रय ॥ २९.८४ ॥ श्रीकण्ठ नीलकण्ठेश महाकण्ठ नमोऽस्तु ते । त्र्यम्बकाय त्रिशूलाय त्रिलोकाय च ते नमः ॥ २९.८५ ॥ कपालिने कपालैश्च बद्धाङ्ग शशिशेखर । उमाकान्तार्धदेहाय सुरासुरनमस्कृत ॥ २९.८६ ॥ यत्र त्वं रूपसंस्थं चलमचलतनुं व्यापकं लक्ष्यहीनं तेजोऽभ्यन्तर्मरालं घनमघनमजं स्फाटिकं स्फाटिकाभम् । रक्तं नीलं च पीतं सितमसितमनेकाल्परूपं प्रयुक्तं मध्यान्तादिव्यपेतं स्फुटतनुरहितं लिङ्गरूपं नमामि ॥ २९.८७ ॥ मध्याह्ने लक्ष्ययोगेन हृदयकमले धारणीशे न हंसे नाकाशे वायुतत्त्वेऽनलधरणिजले विद्यते नैव शक्यम् । नो नादे नैव विन्दौ न करणनिलये नादिमध्यावसाने स्थानेष्वेषु प्रबुद्धो न च नियमयितुं यं सदाद्यं नमामि ॥ २९.८८ ॥ जिह्वाचापल्यभावेन वर्णितं मे महाप्रभो । क्षन्तव्यं तत्सुरेशान कस्त्वां वर्णयितुं क्षमः ॥ २९.८९ ॥ मार्कण्डेय उवाच - श्रुत्वा स्तुतिं च बाणस्य तुष्टोऽसौ भगवान् हरः । उवाच वचनं शम्भुरसुरं प्रति भारत ॥ २९.९० ॥ सेवापराधजो ह्येष क्षान्तस्ते दैत्यनायक । वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ॥ २९.९१ ॥ शिवस्य वचनं श्रुत्वा बाणो दैत्यपतिस्तदा । प्रणम्य चाब्रवीद्वाक्यं सुरासुरनमस्कृतम् ॥ २९.९२ ॥ यदि तुष्टोऽसि मे देव वरं दातुं त्वमिच्छसि । अनेनैव शरीरेण सान्तः पुरपरिच्छदः ॥ २९.९३ ॥ तव लोकं गमिष्यामि यत्र जन्म न विद्यते । अत्रोत्पत्तिविपत्तिभ्यां निर्विण्णोऽसुरयोनिषु ॥ २९.९४ ॥ त्रिभिर्देवैः पुरं दत्तं भिन्नं तत्पुरं त्वया । कथं तत्पतितं भूमौ गहना कर्मणां गतिः ॥ २९.९५ ॥ दाताबलिः प्रार्थयिता च विष्णुर्दानं मही वाजिमखस्य कालः । आसीत्फलं बन्धनमेव तस्य नमोऽस्तु तस्यै भवितव्यतायै ॥ २९.९६ ॥ स्वर्गो दुर्गः सुराः सैन्यं गजाश्चैरावतादयः । शस्त्रं वज्रमवाप्यास्ते यत्र देवो बृहस्पतिः ॥ २९.९७ ॥ निर्जितो मेघनादेन दशाननसुतेन च । सर्वमात्मवशं नीतं दैवं हि बलवत्तरम् ॥ २९.९८ ॥ बाणासुरवचः श्रुत्वा देवदेवो वरप्रदः । मम भक्तिप्रसादेन मदन्तिकमवाप्स्यसि ॥ २९.९९ ॥ ततो बाणासुरः श्रीमान् देवदेवप्रसादतः । दिव्ययानसमारूढः सुरासुरनमस्कृतः ॥ २९.१०० ॥ प्रायाच्छिवपुरं यत्र देवदेवो महेश्वरः । नर्मदा साऽब्रवीद्वाक्यं शम्भुं प्रति विशाम्पते ॥ २९.१०१ ॥ बिन्दुमात्रं न मे दग्धमघोरास्त्रेण शङ्कर । ददाह त्रिपुरं कृत्स्नं ज्वलत्कालानलप्रभम् ॥ २९.१०२ ॥ शान्तं च मम तोयेन रसातलतलं ययौ । ईश्वर उवाच - पुरं तु निखिलं दग्धमघोरास्त्रं सुदुस्सहम् ॥ २९.१०३ ॥ सूर्यकोटिसमप्रख्यं मध्यदेशे तवाम्भसः । अगमत्सौम्यरूपत्वं प्रभावात्तव नर्मदे ॥ २९.१०४ ॥ सरितः सागराः शैला गङ्गाद्याश्च सहस्रशः । गोप्यं तत्क्षणमात्रेण भस्मपुञ्जो यथा जलम् ॥ २९.१०५ ॥ सोढुं काऽन्या सरिच्छ्रेष्ठा त्वां विना भुवि कल्पगे । एवमुक्त्वा ययौ देवः सुरासुरनमस्कृतः ॥ २९.१०६ ॥ एतत्ते कथितं भूप आख्यानं श्रुतिसम्मितम् । जालेश्वरस्य तीर्थस्य समासेन युधिष्ठिर ॥ २९.१०७ ॥ सेव्यते तेन कार्येण नर्मदा सप्तकल्पगा । श्रवणात्कीर्तनात्तस्य रुद्रस्यानुचरो भवेत् ॥ २९.१०८ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डेऽमरेश्वरमाहात्ये एकोनत्रिंशोऽध्यायः ॥ अध्याय ३० मार्कण्डेय उवाच - ऋषीणामयुतं राजन्नैमिषारण्यवासिनाम् । गर्गश्च शौनको दक्षः सर्वेषां धर्मतः पिता ॥ ३०.१ ॥ तेषां निवसतां तत्र आश्चर्यमभवत्नृप । हिरण्या नाम नगरी दृष्टा वा यदि वा श्रुता ॥ ३०.२ ॥ हिरण्यवेगा नाम्नी तु नदीपुष्पफलद्रुमा । धनदस्य पुरी रम्या धनाढ्या च यथा स्थिता ॥ ३०.३ ॥ साप्तभौमैर्गृहैर्रम्यैर्हेमप्राकारतोरणैः । वेणुवीणानिनादौघैर्गन्धर्वैर्नादितायुतैः ॥ ३०.४ ॥ नागराः पूजिताः सर्वेऽत्राधिष्ठितधनान्विताः । अग्निहोत्रैश्च विद्वद्भिर्ब्राह्मणैर्वेदपारगैः ॥ ३०.५ ॥ एवं विधा पुरी रम्या सर्वोत्सवसमन्विता । अकाले म्रियते यस्तु स राज्ञा गृह्यते पुनः ॥ ३०.६ ॥ मुदा परमया युक्तो वित्तेशो धनदो यथा । प्रजापतिं संपप्रच्छ ब्रह्मणो मानसं सुतम् ॥ ३०.७ ॥ प्रणिपत्य नमस्कृत्य दक्षं तं मुनिपुङ्गवम् । अनेकानि सहस्राणि मुनीनां ब्रह्मवर्चसाम् ॥ ३०.८ ॥ सौत्रामणिः सोमसंस्था कस्मिन् देशे च सिद्ध्यति । आचक्ष्व मुनिशार्दूल यतः त्वं सर्वधर्मवित् ॥ ३०.९ ॥ हिरण्यबाहुं प्रोवाच दक्षो वैवस्वतं तदा । तीर्थं हि पुष्करं नाम त्रिषु लोकेषु विश्रुतम् ॥ ३०.१० ॥ तस्मिन्निष्टं हुतं राजन् सर्वं कोटिगुणं भवेत् । ब्राह्मणानां प्रसादेन नाऽत्र कार्या विचारणा ॥ ३०.११ ॥ तस्य तद्वचनं श्रुत्वा राजा प्रोवाच तं मुनिम् । निष्पाद्यतां च यज्ञो मे भगवन् पुष्करे शुभे ॥ ३०.१२ ॥ मानसं ब्रह्मणः पुत्रं सर्ववेदविशारदम् । त्वामृते दीक्षितुं कस्य शक्तिरस्मिन्महीतले ॥ ३०.१३ ॥ एवमस्त्विति तं प्राह दक्षो राजर्षिसत्तमम् । ततो जगाम राजर्षिः पुष्करं सर्वसम्भृतः ॥ ३०.१४ ॥ गवां च दशलक्षाणि सार्द्धं लक्षं तु वाजिनाम् । द्विपञ्चाशत्सहस्राणि गजेन्द्राणां रथायुतम् ॥ ३०.१५ ॥ मणिमाणिक्यरत्नानि वस्त्राण्याभरणानि च । तेषां संख्या न विद्येत कुबेरस्य धनं यथा ॥ ३०.१६ ॥ ततो भक्षाणि भोज्यानि पानानि विविधानि च । एवं प्रवर्तितो यज्ञः पवित्रे श्रेष्ठपुष्करे ॥ ३०.१७ ॥ आहूतश्च ततो ब्रह्मा शक्रश्चापि सुरेश्वरः । अन्यदेवैश्च किं कार्यं ताभ्यां सर्वं प्रपूजितम् ॥ ३०.१८ ॥ न रुद्रो यज्ञभागार्हो वासुदेवः त्वयाजकः । न चादित्यो न वरुणो न देवा न च चन्द्रमाः ॥ ३०.१९ ॥ वेदमूलो यतो यज्ञो राज्ञश्चामिततेजसः । वेदनिर्घोषशब्देन यज्ञधूमेन भारत ॥ ३०.२० ॥ रोदस्यनन्तरं राजन् सर्वमेव प्रपूरितम् । एतस्मिन्नन्तरे यज्ञच्छिद्रान्वेषणतत्पराः ॥ ३०.२१ ॥ सम्प्राप्ता राजशार्दूल बलेन बलवत्तराः । पराजयं च देवानामसुराणां जयं तथा ॥ ३०.२२ ॥ कर्तुं प्रस्थापिताः सर्वे ह्यसुरा देवकण्टकाः । तेभ्यो निकेतुना प्रोक्तं दैत्यानामीश्वरेण हि ॥ ३०.२३ ॥ न रुद्रोऽस्ति न विष्णुर्वा ब्रह्मास्ते स तु पूजकः । न कर्तव्यं भयं तेषां ब्राह्मणा ज्ञानदुर्बलाः ॥ ३०.२४ ॥ गच्छन्तु दानवा दैत्या भूतवेतालराक्षसाः । पिबन्तु सोमं यज्ञाङ्गं भक्षयन्तु तथा द्विजान् ॥ ३०.२५ ॥ विध्वंसितस्ततो यज्ञो ब्राह्मणाश्चैव भक्षिताः । अग्निर्विनाशितो यज्ञयूपश्च यज्ञमण्डपः ॥ ३०.२६ ॥ ऋषीणां धर्षिताः पत्न्यो नग्नरूपैस्तथा बलात् । कुमारा ऋषयश्चैव भयार्ताः प्राणपीडिताः ॥ ३०.२७ ॥ प्रणष्टश्च ततो ब्रह्मा शक्रो देवगणैः सह । एवं यज्ञे च विध्वस्ते चक्रवर्ती नृपोत्तमः ॥ ३०.२८ ॥ हिरण्यबाहुः कुपितो ब्राह्मणान् प्रति भारत । पापिष्ठाश्च दुराचारा गतास्ते भिक्षुका द्विजाः ॥ ३०.२९ ॥ स्वस्थानं च गता दैत्या गृहीत्वा यज्ञसम्भृतिम् । एकाकी हयमारुह्य सह पत्न्या व्रजाम्यहम् ॥ ३०.३० ॥ न पौरुषस्य कालोऽयं कोपस्य च कथंचन । शम्भुर्न देवता यत्र शङ्खचक्रगदाधरः ॥ ३०.३१ ॥ कथं सिद्ध्यति यज्ञौऽसौ न सूर्यो नैव चन्द्रमाः । लोलुपा ब्राह्मणाः पापाः त्वशक्ता यज्ञरक्षणे ॥ ३०.३२ ॥ यदि मे विद्यते सत्यं भवन्तु ब्रह्मराक्षसाः । सकण्टके निरुदके प्रदेशे नष्टचेतनाः ॥ ३०.३३ ॥ दक्षाद्यैर्ब्राह्मणैः सर्वैः सोऽभिशप्तो महीपतिः । अरक्षिता त्वं यज्ञस्य क्षत्रियाणां तथाऽधमः ॥ ३०.३४ ॥ खरो द्वादशवर्षाणि भविष्यसि न संशयः । शापाद्बभूवुरन्योऽन्यं ते खरब्रह्मराक्षसाः ॥ ३०.३५ ॥ एतत्ते कथितं वृत्तं न हरो न हरिः प्रभुः । न यज्ञो न च तद्दानं न तपोऽध्ययनं न च ॥ ३०.३६ ॥ वेदोक्तं कर्म न ब्राह्म्यं न धर्मं न त्रिविष्टपम् । न व्रतं वषट्कारः सर्वपापप्रणाशनः ॥ ३०.३७ ॥ एतस्मिन्नन्तरे राजन् देवर्षिर्नारदस्तदा । आजगाम क्रतुं द्रष्टुं पुष्करं प्रति भारत ॥ ३०.३८ ॥ ततो विप्लाविते यज्ञे दैत्यैर्दुष्कृतिकारिभिः । हिरण्यबाहुश्च परं ब्राह्मणं ब्रह्मपारगम् ॥ ३०.३९ ॥ उवाच वचनं राजा देवर्षिर्नारदं तदा । नाशितो ब्राह्मणैर्यज्ञः क्षुद्रैर्मे मुनिपुङ्गव ॥ ३०.४० ॥ यज्ञधर्मविधौ शक्तो घातयाम्यध्वरान्तकम् । शक्तोऽस्मि त्रिजगज्जेतुं किं पुनर्दैत्य दानवान् ॥ ३०.४१ ॥ मया चापि कृतो यज्ञो हरिशङ्करवर्जनात् । ब्रह्मशापवशाद्भीतो गार्दभं योनिमाश्रितः ॥ ३०.४२ ॥ केनोपायेन देवर्षे त्रिकालज्ञ त्रिवेदवित् । स्वर्गलोकं गमिष्यामि ऋत्विग्भिर्ब्राह्मणैः सह ॥ ३०.४३ ॥ अनुग्रहमिमं मन्ये यन्मां प्राप्तोऽसि नारद । नारद उवाच - शृणु राजन्महाभाग कथ्यमानं निबोध मे ॥ ३०.४४ ॥ रेवाचरुकसम्भेदं पञ्चलिङ्गानि भूमिप । तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ॥ ३०.४५ ॥ तत्र गच्छ नरश्रेष्ठ ब्राह्मणैर्ब्रह्मराक्षसैः । न यज्ञो न तपोदानं शिवध्यानपरो भव ॥ ३०.४६ ॥ सद्यः प्रमुच्यते पापाद्ब्राह्मणैः शापदूषितैः । यत्रासुरस्तु निहतो भैरवं रूपमाश्रितः ॥ ३०.४७ ॥ पापप्रणाशनं लिङ्गं ऋणमोचनमेव च । चतुष्केश्वरमपरं तथा सिद्धेश्वरं परम् ॥ ३०.४८ ॥ पञ्चमं वारुणं लिङ्गं सिद्धं तत्र प्रतिष्ठितम् । एवं तु नारदः प्राह भगवन्तं नृपोत्तमम् ॥ ३०.४९ ॥ युधिष्ठिर उवाच - भगवन् कीदृशं रूपं यदा नृत्यति भैरवः । एतदाचक्ष्व मे सर्वं प्रसादः क्रियतां प्रभो ॥ ३०.५० ॥ मार्कण्डेय उवाच - गौर्यापृष्टः पुरा राजन् कौतुकेन सुरेश्वरः । नृत्यरूपं समाख्याहि किमन्यैः कथितैर्मम ॥ ३०.५१ ॥ शान्तरूपं ततस्त्यक्त्वा कृतं रूपं सुदारुणम् । स्थितश्चैकेन पादेन प्रपीड्य वसुधातलम् ॥ ३०.५२ ॥ द्वितीयेन च पादेन ब्रह्माण्डं सचराचरम् । ख्यातं दारुवनं नाम पञ्चलिङ्गसमन्वितम् ॥ ३०.५३ ॥ निहत्य चासुरं तत्र पुनर्नृत्यं मया प्रिये । तस्मिन् दारुवने चण्डि रुद्रं भुवनदारुणम् ॥ ३०.५४ ॥ एतत्ते कथितं राजन् पुराणं स्कन्दकीर्तितम् । शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च ॥ ३०.५५ ॥ गच्छ गच्छ नृप स्थानं नर्मदाचारुसङ्गमम् । तत्र ते स्नातमात्रस्य शापस्यान्तो भविष्यति ॥ ३०.५६ ॥ एवमुक्त्वा ययौ राजन् देवर्षिर्नारदस्तदा । हिरण्यबाहुर्नृपतिः सान्तः पुरपरिच्छदः ॥ ३०.५७ ॥ दक्षशौनकगर्गाद्यैः शापभ्रष्टैः समन्वितः । आजगाम ततः शीघ्रं नर्मदाचरुसङ्गमम् ॥ ३०.५८ ॥ तत्र स्नात्वा स राजर्षिर्दत्त्वा चैव तिलोदकम् । पञ्चलिङ्गानि चाभ्यर्च्य तस्मिन् दारुवने तदा ॥ ३०.५९ ॥ सिद्धेश्वरं चरुलिङ्गं ऋणमोचनमेव च । पापप्रणाशनं चान्यच्चण्डिकेश्वरमुत्तमम् ॥ ३०.६० ॥ पूजयित्वा यथा न्यायं भुक्तिमुक्तिफलप्रदम् । स्तोत्रैस्तुष्टाव विविधैः शिवभक्तिपरायणः ॥ ३०.६१ ॥ त्वया विना तपोदानं न यज्ञं न च याजनम् । न स्वर्गं न च मोक्षं च कामयेय महेश्वर ॥ ३०.६२ ॥ न हरो न हरिर्यत्र सर्व तन्निष्कलं भवेत् । ततस्तुष्टः सुरेशानो वरं वृण्वित्युवाच तम् ॥ ३०.६३ ॥ हिरण्यबाहू राजर्षिः प्रसाद्य शिवमब्रवीत् । यदि तुष्टोऽसि मे देव वरं दातुं त्वमिच्छसि ॥ ३०.६४ ॥ तदास्याः खरयोनेर्मां महादेवविमोचय । त्यजन्ति चात्र ये प्राणान् पापा अपि नराधमाः ॥ ३०.६५ ॥ तेऽपि यान्ति तव स्थानं सत्यमेतद्वचो मम । निर्विघ्ना यज्ञसिद्धिश्च श्रेयो दानं तपस्तथा ॥ ३०.६६ ॥ एवमस्त्विति तं प्रोक्त्वा शिवस्त्वन्तरधीयत । शापान्मुक्तः स धर्मात्मा दिव्यकान्तिवपुर्धरः ॥ ३०.६७ ॥ कामिकं यानमारुह्य सान्तःपुरपरिच्छदः । ध्रियमाणातपत्रश्च स्तूयमानश्च मागधैः ॥ ३०.६८ ॥ मुदा परमया युक्तो हिरण्यपुरमाविशत् । अन्यं याजकमन्वेष्टुं यज्ञार्थं ब्रह्मवादिनम् ॥ ३०.६९ ॥ एतस्मिन्नन्तरे प्राप्ते नारदः पुरमभ्यगात् ॥ ३०.७० ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे रेवाचरुसङ्गमवर्णनो नाम त्रिंशोऽध्यायः ॥ अध्याय ३१ युधिष्ठिर उवाच - हिरण्यबाहुः शापान्ते नगरीं प्राप्य निर्वृतः । दक्षादयः कथं मुक्तास्तस्माच्छापाच्च कथ्यताम् ॥ ३१.१ ॥ मार्कण्डेय उवाच - शृणु राजन्महाबाहो कथ्यमानं निबोध मे । हिरण्यबाहुना शप्ता यावन्मुक्ता द्विजोत्तमाः ॥ ३१.२ ॥ बभ्रमुः सर्वतीर्थानि आसमुद्रान्त गोचरे । तेषां ब्रह्मादयः शापं न निवर्तयितुं क्षमाः ॥ ३१.३ ॥ वाराणसीं महापुण्यां गङ्गासागरसङ्गमम् । हिमवन्तं च केदारमौर्वतीर्थं च भारत ॥ ३१.४ ॥ गङ्गा च नैमिषारण्यं भैरवं पुष्करं तथा । मायापुरीं तथा रम्यामुग्रं कनखलं तथा ॥ ३१.५ ॥ रौद्रं चैव तथेशानं सुरासुरनमस्कृतम् । गङ्गाद्वारं हिमस्थानं प्रभासं शशिभूषणम् ॥ ३१.६ ॥ रुद्रकोटिसमायोगं गङ्गाभेदं सरस्वतीम् । स्थानेश्वरं तथा पुण्यं कुरुक्षेत्रं तथैव च ॥ ३१.७ ॥ कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् । कुरुक्षेत्रस्य नाम्नापि नरः पापैः प्रमुच्यते ॥ ३१.८ ॥ भ्रमेणैवं विषण्णास्ते शापस्यान्त न लेभिरे । निन्दितानि च तीर्थानि पापकर्मरतैस्ततः ॥ ३१.९ ॥ आकाशवचनं श्रुत्वा महातीर्थानि निन्दत । हरं हरिं च यो द्वेष्टि नाभिनन्दति यः सुरान् ॥ ३१.१० ॥ स याति यत्र यत्रैव दुःखं प्राप्नोत्यसंशयः । एतस्मिन्नन्तरे प्राप्तो नारदो देवपूजितः ॥ ३१.११ ॥ दक्षशौनकगर्गादीन् सर्वांस्तान्मुनिसत्तमान् । ब्रह्मरक्षस्तनून् दृष्ट्वा नारदो वाक्यमब्रवीत् ॥ ३१.१२ ॥ भवन्तः कर्मणा केन सञ्जाता ब्रह्मराक्षसाः । तस्याथ वचनं श्रुत्वा नारदस्य महामुनेः ॥ ३१.१३ ॥ सोऽभिवाद्य नमस्कृत्य दक्षो वचनमब्रवीत् । यथोत्सवं कृतं कर्म ब्रह्मलोकहिताय यत् ॥ ३१.१४ ॥ तद्विपर्यासमापन्नं गहना कर्मणो गतिः । कर्मोपदिश मे किंचिद्येन मुञ्चापि दुष्कृतम् ॥ ३१.१५ ॥ यत्र यत्र च गच्छामो जलमन्नं न विद्यते । अनावृष्टिरभूद्घोरा तत्र तत्रैव नारद ॥ ३१.१६ ॥ नारद उवाच - प्रसाद्यतां मुनिश्रेष्ठाः शापस्यान्तं करिष्यति । हिरण्यबाहुर्धर्मात्मा हिरण्यपुरमास्थितः ॥ ३१.१७ ॥ यज्ञं कर्तुं समायातो रेवाचरुकसङ्गमे । पञ्चलिङ्गानि चाभ्यर्च्य शापान्तं च करिष्यति ॥ ३१.१८ ॥ एवमुक्त्वा स देवर्षिर्ब्राह्मणैः शापकर्षितैः । आजगाम ततो दिव्यां हिरण्यनगरीं शुभाम् ॥ ३१.१९ ॥ हिरण्यबाहुर्नृपतिर्वशिष्ठश्च महामुनिः । विलोक्य तान्मुनीन् सर्वान् स देवर्षिपुरोगमान् ॥ ३१.२० ॥ अभिवाद्य यथा न्यायमर्घपाद्यैरपूजयत् । नारदस्तु ततो वाक्यं राजानमिदमब्रवीत् ॥ ३१.२१ ॥ कुशलं ते नृपश्रेष्ठ सुखं तिष्ठसि सुव्रत । नारदस्य वचः श्रुत्वा सर्वधर्मपरायणः ॥ ३१.२२ ॥ उवाच वचनं राजा नारदं श्लक्ष्णया गिरा । अद्य मे कुशलं ब्रह्मंस्तवपादाब्जदर्शनात् ॥ ३१.२३ ॥ किं कर्तव्यं मया तेऽद्य ब्रह्मन्मेऽनुग्रहं कुरु । नारद उवाच - कुरु ब्रह्ममुनीनां त्वं शापान्तं राजदर्शनात् ॥ ३१.२४ ॥ निपातय महादुष्टान् दैत्यान् दुष्कृतकारिणः । बन्धनस्था हि मोक्तव्या ब्राह्मणास्तु विशेषतः ॥ ३१.२५ ॥ राजोवाच - वेदं पठन्ति येऽज्ञानाद्वदन्त्यर्थं न तस्य च । प्रमाणं भूतलोकस्य तद्वत्कर्म च कुर्वतः ॥ ३१.२६ ॥ ब्रह्मन् वेदेन विधिवत्ते तु स्वर्गं प्रयान्ति वै । अहंकरविमूढाश्च मिथ्यदानेन याजकाः ॥ ३१.२७ ॥ पतन्ति नरके विष्णुशङ्करद्वेषणे रताः । अगस्त्यं च वशिष्ठं च कृत्वा तौ याजकौ मुने ॥ ३१.२८ ॥ क्रतुमिष्ट्वा विधानेन रेवाचरुकसङ्गमे । मोचयिष्याम्यहं शापात्पञ्चलिङ्गार्चनाद्द्विज ॥ ३१.२९ ॥ वेदमन्त्रहुतं तत्र स्वयं विष्णुर्ग्रहीष्यति । रुद्रः कालाग्निरूपेण ग्राहकश्च भविष्यति ॥ ३१.३० ॥ एवं यज्ञे तु सम्पूर्णे तुष्टे नारायणे शिवे । द्विजानां मोक्षणं तत्र भविष्यति न संशयः ॥ ३१.३१ ॥ न मुने देवता यत्र शङ्खचक्रगदाधरः । इहलोके परे चैव गतिस्तस्य न विद्यते ॥ ३१.३२ ॥ एवमुक्त्वा ययौ राजा सर्वसंभारसंभृतः । यज्ञोपस्करमादाय ब्राह्मणैर्वेदपारगैः ॥ ३१.३३ ॥ रेवाचरुकसंभेदे यज्ञमिष्ट्वा विधानतः । विहाय पापं शप्तांस्तान्मोचयामास स द्विजान् ॥ ३१.३४ ॥ पञ्चलिङ्गसमायोगे तीर्थस्यास्य प्रभावतः । ब्रह्मयानसमारूढो वीज्यमानोऽप्सरोगणैः ॥ ३१.३५ ॥ ध्रियमाणातपत्रस्तु स्तूयमानश्च वन्दिभिः । प्रायाच्छिवपुरं दिव्यमुमामाहेश्वरं नृप ॥ ३१.३६ ॥ एतत्ते कथितं राजन् पुराणाख्यानमुत्तमम् । श्रुत्वाख्यानामिदं पुण्यं पञ्चलिङ्गसमागमम् ॥ ३१.३७ ॥ यमलोकं न पश्येद्वै पापयोनिं न गच्छति । हयमेधफलं प्राप्य शिवलोके महीयते ॥ ३१.३८ ॥ पापग्रस्तो विमूढात्मा विष्णुमायाविमोहितः । कथं प्रयाति तत्तीर्थं कालग्रहवशीकृतः ॥ ३१.३९ ॥ श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ३१.४० ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चलिङ्गमाहात्म्ये एकत्रिंशोऽध्यायः ॥ अध्याय ३२ मार्कण्डेय उवाच - गुह्यातिगुह्यरूपाणि पवित्राणि युधिष्ठिर । श्राद्धकार्यस्य सिद्धानि तीर्थानीह निबोध मे ॥ ३२.१ ॥ अतिगुह्यस्य पुण्यस्य सर्वतोऽमरकण्टके । तमारभ्य गिरिश्रेष्ठं सर्वं पुण्यतरं स्मृतम् ॥ ३२.२ ॥ यावत्सा नर्मदा मध्ये पुण्यस्रोता महानदी । नास्ति तस्मात्परं पुण्यं त्रिषु लोकेषु भारत ॥ ३२.३ ॥ तस्योत्तरविभागेऽस्ति नामतो यज्ञपर्वतः । कनिष्ठो विन्ध्यपुत्रस्तु भ्राता पर्यङ्कभूभृतः ॥ ३२.४ ॥ स्वयंभुवा पुरा तस्मिन्निष्टः सौत्रामणिर्मखः । तत्रैवेष्टं मघवता हयमेधेन भारत ॥ ३२.५ ॥ दधीचिनाऽथ देवैश्च तत्रैवेष्टं महामखैः । निश्क्रान्ता पर्वतात्तस्माच्चतुर्नामा महानदी ॥ ३२.६ ॥ पतिता नर्मदायां तु सङ्गमो लोकविश्रुतः । तस्यास्तीरे तु ये दर्भाः पीतवर्णाः क्षितिं गताः ॥ ३२.७ ॥ ते श्राद्धकरणे भूप पितॄणां मोक्षदायकाः । स यावत्सङ्गमो नद्याः स यावद्यज्ञपर्वतः ॥ ३२.८ ॥ एतस्मिन्नन्तरे राजन् श्राद्धं यः परिकल्पयेत् । पितरस्तस्य तृप्यन्ति स्नानं कुर्यात्प्रदक्षिणम् ॥ ३२.९ ॥ सिद्धेश्वरं नामलिङ्गं चतुष्केश्वरमेव च । संख्या न भूयो लोकेषु ख्यातमात्रं मयाऽनघ ॥ ३२.१० ॥ सङ्गमे विद्यते देवो न तं पश्यन्ति मानवाः । पूज्यते नागकन्याभिः सदेवासुरसत्तमैः ॥ ३२.११ ॥ कथयामि तवाख्यानमितिहासं पुरातनम् । ऋषिः सुपर्णो यत्रासीद्ब्रह्मयोनिर्जितेन्द्रियः ॥ ३२.१२ ॥ पुरुहूता तस्य भार्या धर्मपत्नी पतिव्रता । नैमिषारण्यवासस्य कन्दमूलफलाशिनः ॥ ३२.१३ ॥ कृष्णाजिनपरीधानवल्कलादिकवाससः । त्रिकालवह्णिहोतारो वेदाध्ययनतत्पराः ॥ ३२.१४ ॥ वेदस्मृतिपुराणोक्तमोक्षोपायविचिन्तकाः । ऋषयो दशलक्षाणि नैमिषारण्यवासिनः ॥ ३२.१५ ॥ बालखिल्याश्च तत्रैव ब्रह्मणो मानसाः सुताः । ब्रह्मदण्डं समारुह्य देवलोकं प्रयान्ति ते ॥ ३२.१६ ॥ मासोपवासिनस्तत्र जलाहारास्तथापरे । तिष्ठन्ति बहवः केचिदेकपादेन चापरे ॥ ३२.१७ ॥ तस्मिंस्तपोवने रम्ये सिद्धगन्धर्वसेविते । प्रसाद्य चाब्रवीद्वाक्यं पुरुहूता निजं पतिम् ॥ ३२.१८ ॥ ऋतुकाले तु पर्वणि मांभजस्व महामुने । जायते मे यथा पुत्रः सर्वसन्तानपावनः ॥ ३२.१९ ॥ पुत्रेण लोकान् जयते तृप्यन्ति पितृदेवताः । अपुत्रस्य गतिर्नास्ति तस्मात्पुत्रमजीजनः ॥ ३२.२० ॥ ब्राह्मण उवाच - अमावास्याद्य गोत्रेऽस्मिन्मैथुनं वर्जितं प्रिये । अकर्तव्यमिदं भद्रे पितॄणां वार्जितं ध्रुवम् ॥ ३२.२१ ॥ पितरस्तस्य तन्मांसं भुञ्जते ऋतुगामिनः । दिव्यं वर्षसहस्रं तु तप्तं मे दुष्करं तपः ॥ ३२.२२ ॥ स्नात्वा तत्क्षणमात्रेण चाण्डालस्त्रिदिवङ्गतः । धिक्धिक्धिगीरितं सर्वं न वेदो न च याजनम् ॥ ३२.२३ ॥ प्रहस्य चाब्रवीद्वाक्यं निषादी तं मुनिं प्रति । विषादं त्यज विप्रर्षे सत्यमेतद्ब्रवीम्यहम् ॥ ३२.२४ ॥ अहंकारविमूढात्मा त्वत्समो नास्ति तापसः । न स्नानं न जपो होमो न स्वाध्यायः शिवार्चनम् ॥ ३२.२५ ॥ निष्कलं क्लेशमापन्नो वायुभक्षो निराश्रयः । त्वत्तपो ध्यानयोगश्च स्वर्गप्राप्तिश्च तत्कथम् ॥ ३२.२६ ॥ जाबालिरुवाच - काऽसि त्वं च वरारोहे निषादी रूपमाश्रिता । उमा सरस्वती गङ्गा मां जिज्ञासितुमागता ॥ ३२.२७ ॥ अनुग्रहमिमं मन्ये धर्मं ब्रूहि शुचिस्मिते । निषादो नैमिषारण्ये ममासीत्मुनिपुंगव ॥ ३२.२८ ॥ कामार्तया मया दर्शे भर्ता पुत्राय याचितः । अकाले याचमानाऽहं तेन शप्ता महात्मना ॥ ३२.२९ ॥ स च भर्ता मया शप्तस्ततोऽन्योऽन्यं समागते । अस्य तीर्थस्य महात्म्यादावां मुक्तौ तु किल्बिषात् ॥ ३२.३० ॥ तस्मात्त्वं हि मुनिश्रेष्ठ शिवाराधनतत्परः । मदर्थं कुरु कर्माणि होमजाप्यादिकं मुहुः ॥ ३२.३१ ॥ यास्यसे त्वं समे देशे सत्यमेतद्ब्रवीम्यहम् । इत्युक्त्वा सा ययौ स्वर्गं निजभर्त्रा समन्विता ॥ ३२.३२ ॥ त्यक्त्वा स्वकल्पं जाबालिः शिवाराधनतत्परः । अचिरेणैव कालेन ब्रह्मलोकमुपागतः ॥ ३२.३३ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे ब्राह्मणस्य भार्यया सह स्वर्गारोहणं नाम द्वात्रिंशोऽध्यायः ॥ अध्याय ३३ मार्कण्डेय उवाच - पश्चिमे नीलगङ्गाया नर्मदोत्तरकूलतः । व्यतीपातेश्वरं नाम लिङ्गं परमसिद्धिदम् ॥ ३३.१ ॥ सोमनाथं स्वयं विद्धि सोममूर्तिं जगत्पतिम् । सावित्र्या च तपस्तप्तं तत्र सप्तर्षिभिस्तथा ॥ ३३.२ ॥ सावित्रीकुण्डमित्येतद्विख्यातं नर्मदातटः । नरस्य स्नानमात्रस्य कन्यादानफलं भवेत् ॥ ३३.३ ॥ तिलोदकप्रदानेन चान्नदानेन भारत । पितरस्तस्य तृप्यन्ति सावित्रीलोकमाश्रिताः ॥ ३३.४ ॥ दक्षस्य दुहिता चासीत्कुमुदा नाम विश्रुता । सोमाय दत्त्वा तां दक्षो मुदा परमया युतः ॥ ३३.५ ॥ तस्या स जनयामास हिमांशुः पुत्रमद्भुतम् । ज्ञात्वाऽमृतमयं तं तु सुरा यज्ञफलार्थिनः ॥ ३३.६ ॥ हिमांशुं सोमपुत्रं च ते ययुश्च मुदान्विताः । अन्या सोमस्य परमा कला या षोडशी स्मृता ॥ ३३.७ ॥ अध्यास्ते सा चन्द्रमसं पितृणां तारणाय च । वनस्पतौ गते सोमे गवां क्षीरे हविःषु च ॥ ३३.८ ॥ सोमपाने महायज्ञे दर्शे दिविषदां तदा । पीतं श्रुत्वाऽसुराः सर्वे हिमांशुं पातुमुद्यताः ॥ ३३.९ ॥ असुराणां भयाद्विन्ध्यं हिमांशुर्गिरिमाश्रयत् । श्रुत्वा ते गिरिदुर्गस्थमसुराः स्वभयात्तदा ॥ ३३.१० ॥ ग्रस्ते ते राहुणा सूर्ये हिमांशुं प्रति भारत । कायातिकायप्रमुखाः सम्प्राप्ता दानवास्ततः ॥ ३३.११ ॥ राहोस्तु भ्रातरः सर्वे सैंहिकेया महाबलाः । समाहृत्य हिमांशुस्तैः सुधार्थे चिरजीविभिः ॥ ३३.१२ ॥ भूतले पातितः पापैः क्रन्दन्ति स्म सुरास्तदा । उवाच स पतन् भूमौ हिमांशुः सोमनन्दन ॥ ३३.१३ ॥ पातु मां देव ईशानो दानवानां भयंकरः । एतस्मिन्नन्तरे भूप हिमांशो रक्षणाय वै ॥ ३३.१४ ॥ पातालादुत्थितं लिङ्गं ज्वलत्कालानलप्रभम् । तेन बाणेन रौद्रेण हुङ्कारेण महासुराः ॥ ३३.१५ ॥ भस्मीकृतास्तु तत्रैव देवदेवेन शूलिना । ततस्तमब्रवीद्देवो भयमासुरजं त्यज ॥ ३३.१६ ॥ शिवभक्तिपरो भूत्वा निर्भयस्तिष्ठ पुत्रक । अथ सोमः सुरैः सार्द्धं गत्वा ब्रह्मनिकेतनम् ॥ ३३.१७ ॥ वृत्तान्तं कथयामास ततस्तद्वचनात्तु ताः । ब्रह्माद्या देवताः सर्वा जग्मुः सोमपुरोगमाः ॥ ३३.१८ ॥ ओंकारः कल्पगातीरे यत्र तिष्ठति भारत । दृष्ट्वा तु त्र्यम्बकं देवं षष्टिसंहारकारकम् ॥ ३३.१९ ॥ उवाच वचनं देवो ब्रह्मा लोकपितामहः । श्रीमानमृतरूपोऽयं हिमांशुः सोमनन्दनः ॥ ३३.२० ॥ रक्षणीयस्त्वया नाथ देवदानवशङ्कया । सप्तविंशतियोगानां गतिः प्रोक्ता तु चन्द्रमाः ॥ ३३.२१ ॥ त्वं गतिः सर्वलोकानां तस्मात्त्वं त्रातुमर्हसि । तेषां तद्वचनं श्रुत्वा शिव ऊचे यथोचितम् ॥ ३३.२२ ॥ पूजयित्वा तु देवेशं सोमनाथं जगत्पतिम् । पातालेश्वरनामानं गताः सर्वे त्रिविष्टपम् ॥ ३३.२३ ॥ तदा प्रभृति तत्स्थानं त्रिषु लोकेषु विश्रुतम् । सावित्रीकुण्डतोयेन स्नानं कृत्वा तमर्चयेत् ॥ ३३.२४ ॥ न तस्य पुनरावृत्तिः सत्यमेतच्छिवोदितम् । प्रभासे यत्फलं राजन् दृष्टं च शशिभूषणे ॥ ३३.२५ ॥ तत्फलं नृपशार्दूल भवेदेव न संशयः । कालातिक्रमणं कुर्यात्तत्र यो भैक्षमाश्रितः ॥ ३३.२६ ॥ न तस्य पुनरावृत्तिः सत्यमेतद्ब्रवीम्यहम् । तिलोदकप्रदानेन पिण्डपातेन भारत ॥ ३३.२७ ॥ पतितानुद्धरेज्जतून्नरकान्नात्र संशयः । श्रवणात्कीर्तनादस्य सोमलोके महीयते ॥ ३३.२८ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे पातालेश्वरमाहात्म्यं नाम त्रयस्त्रिंशोऽध्यायः ॥ अध्याय ३४ मार्कण्डेय उवाच - कथयामि तवाख्यानमिन्द्रद्युम्नस्य भारत । अयोध्याधिपतिः श्रीमान् सूर्यवंशे महीपतिः ॥ ३४.१ ॥ बुभुजे स महीं सर्वां सशैलवनकाननाम् । चक्रवर्ती नृपश्रेष्ठः सत्यसंधो दृढव्रतः ॥ ३४.२ ॥ स शशास महीं सर्वां यथा शक्रोऽमरावतीम् । यज्ञहोमसहस्रैस्तु ददाह वसुधामिमाम् ॥ ३४.३ ॥ यज्ञोत्सवविवाहैस्तु वेदमङ्गलमङ्गलैः । चातुर्वर्ण्यं स्वधर्मस्थं प्राकृता इतरे जनाः ॥ ३४.४ ॥ कामं कामदुघा धेनुर्धरणी सस्यशालिनी । पप्रच्छ स तु राजर्षिर्वशिष्ठं ब्रह्मवित्तमम् ॥ ३४.५ ॥ शक्रश्चाङ्गिरसं यद्वदयोध्याधिपतिस्तथा । सोमसूर्यान्वयस्यैकं तारणं च पुरोधसम् ॥ ३४.६ ॥ हयमेधं महायज्ञं कस्मिंस्तीर्थे यजाम्यहम् । कथय त्वं प्रसादेन यथा दृष्टं यथा श्रुतम् ॥ ३४.७ ॥ वशिष्ठ उवाच - ब्रह्मर्षयो वेदविदो यथा ते चाब्रुवन्नृप । यज्ञो निवर्तितव्यस्तु ऋत्विग्भिर्ब्राह्मणैस्तव ॥ ३४.८ ॥ मरीचिः कश्यपश्चापि अङ्गिरा गौतमस्तथा । दुर्वासाश्च्यवनो धूम्रः कण्वश्चैव महामुनिः ॥ ३४.९ ॥ एते चान्ये च नृपते मुनीन्द्राः शंसितव्रताः । पप्रच्छ तान्महाराज इन्द्रद्युम्नो महीपतिः ॥ ३४.१० ॥ कस्मिंस्तीर्थे कृतो यज्ञः कामभोगफलप्रदः । एतत्सर्वं यथार्थं मे वदन्तु मुनिपुंगवाः ॥ ३४.११ ॥ ऋषय ऊचुः॒ केचिद्वाराणसीं भूप प्रयागं च तथा परे ॥ ३४.१२ ॥ अन्ये वै नैमिषं तीर्थं पुष्करं च तथापरे । कुब्जाम्रकं तथा चान्ये गङ्गाद्वारमथापरे ॥ ३४.१३ ॥ मायापुरीं तथा चान्ये सर्वदेवनमस्कृताम् । वदन्त्यन्ये हिमस्थानं बिल्वकं नीलपर्वतम् ॥ ३४.१४ ॥ कुशावर्तं तथैवाऽन्ये तथा रुद्रमहालयम् । ईशानं चैव केदारं सर्वतीर्थमयं शुभम् ॥ ३४.१५ ॥ और्वतीर्थं वदन्त्यन्ये तथा बदरिकाश्रमम् । कालञ्जरं नीलकण्ठं देवदारुवनं तथा ॥ ३४.१६ ॥ हेमकूटं विरूपाक्षमन्ये चण्डीश्वरं तथा । भूतेश्वरं भस्मगात्रं प्रभासं शशिभूषणम् ॥ ३४.१७ ॥ तीर्थान्येतानि चान्यानि कथितानि तवानघ । मतान्तरं मुनीनां च विविधं परिकीर्तितम् ॥ ३४.१८ ॥ दुर्वासाश्चाब्रवीद्वाक्यं प्रहसन्निव तं नृपम् । विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ॥ ३४.१९ ॥ वैश्यानां धान्यधनतः शूद्राणां चैव जन्मतः । मार्कण्डेये विद्यमाने सप्तकल्पानुवर्तिनि ॥ ३४.२० ॥ भविष्यभूततत्त्वज्ञे त्रिकालज्ञे त्रयीविदि । ब्रह्मविष्णुमहेशानप्रमाणज्ञे तपोधने ॥ ३४.२१ ॥ कस्यास्ति धर्मकथने सामर्थ्यं धर्मनिश्चये । धर्मारण्ये महाराज गम्यतां कल्पगातटे ॥ ३४.२२ ॥ मार्कण्डेयो वक्ष्यते यत्तत्र यज्ञः प्रवर्त्यताम् । इन्द्रद्युम्न उवाच - यथा वदसि देवर्षे तथा कार्यं मयानघ ॥ ३४.२३ ॥ इत्युक्त्वा मुनिभिः सार्द्धं गन्तुं मार्कण्डमाश्रमम् । उवाच वचनं राजा प्रतीहारं सुवर्चसम् ॥ ३४.२४ ॥ मन्त्रिणं देवगर्भं च बृहस्पतिसमं नृप । यज्ञोपस्करसम्भारं सर्वमादाय सत्वरम् ॥ ३४.२५ ॥ आगच्छन्तु भवन्तोऽत्र ममादेशपरायणाः । साग्निभिर्ब्राह्मणैः सार्द्धं यास्यामः कल्पगातटम् ॥ ३४.२६ ॥ शीघ्रं सम्पाद्यतां सर्वं यथा यज्ञः प्रवर्त्यताम् । सर्वेषामेव विप्राणां यानमेषां पृथक्पृथक् ॥ ३४.२७ ॥ शतानि चाष्टौ राज्ञीनां यानमासां प्रकल्पय । नवखण्डक्षितीशानां समुद्रद्वीपवासिनाम् ॥ ३४.२८ ॥ नानानृपसहस्राणां घोषणा क्रियतां मुहुः । चन्द्रद्वीपं च सेतुं च ताम्रपात्रं शिलाष्टकम् ॥ ३४.२९ ॥ भोगद्वीपं च सौम्यं च गान्धर्ववारुणं तथा । कुमारिकाख्यं नवमं नवभेदं प्रवर्तितम् ॥ ३४.३० ॥ जम्बूशाककुशक्रौञ्चशाल्मलिप्लक्षपुष्कराः । सप्तद्वीपाः समाख्याताः समुद्राश्च निबोध मे ॥ ३४.३१ ॥ क्षारसर्पिर्दधिक्षीरमदिरेक्षुजलात्मकाः । समुद्राः परिखाकाराः पृथिवीमानकीर्तिताः ॥ ३४.३२ ॥ एतेषां घोषणां कार्यां ममादेशानुवर्तिनाम् । गवां च त्रीणि लक्षाणि सवत्सानां पयोमुचाम् ॥ ३४.३३ ॥ अश्वानां श्यामकर्णानां सपादं लक्षमेव च । दन्तिनामयुतं चैव घण्टाभरणभूषितम् ॥ ३४.३४ ॥ सहस्राणि च चत्वारि यानानां कामचारिणाम् । लक्षं तु करभाणां वै मणिमाणिक्यमेव च ॥ ३४.३५ ॥ अग्निशौचानि वस्त्राणि ब्राह्मणार्थे तथैव च । नानाभक्षाणि भोज्यानि पानानि विविधानि च ॥ ३४.३६ ॥ लक्षं कर्मकराणां तु तिलदर्भादिकं तथा । देवगर्भं समादिश्य मन्त्रिणं वदतां वरः ॥ ३४.३७ ॥ तत्रस्थैर्ब्राह्मणैः सार्द्धं दिव्यं यानं समाश्रितः । मुदा परमया युक्तः सान्तः पुरपरिच्छदः ॥ ३४.३८ ॥ धर्मारण्यं ततः प्राप्तो यत्रास्ते सप्तकल्पगः । ओंकारं कल्पगां दृष्ट्वा वैदूर्यं पर्वतं तथा ॥ ३४.३९ ॥ मुक्तोऽस्मि किल्बिषादद्य सप्तजन्मकृतादपि । एवमुक्त्वोपविष्टोऽसौ साष्टाङ्गं प्रणिपत्य च ॥ ३४.४० ॥ यथार्थं पूजयामास तमृषिं स नृपोत्तमः । दृष्ट्वा तं नृपतिं प्राह मार्कण्डेयो महामुनिः ॥ ३४.४१ ॥ कुशलं नृपशार्दूल चिरं दृष्टोऽसि सुव्रत । किमागमनकार्यं ते ब्राह्मणैर्मुनिपुंगवैः ॥ ३४.४२ ॥ इन्द्रद्युम्न उवाच - यज्ञं कर्तुं समायातः कस्मिंस्तीर्थे द्विजोत्तम । शिवेन कथितं यत्ते पुराणं स्कन्दकीर्तितम् ॥ ३४.४३ ॥ तदहं श्रोतुमिच्छामि यज्ञक्षेत्रफलं महत् ॥ ३४.४४ ॥ मार्कण्डेय उवाच - पृथिव्यां यानि तीर्थानि आसमुद्रान्तगोचरे ॥ ३४.४५ ॥ स्नानं कर्तुं समायान्ति नर्मदायां नराधिपा । उत्तरे यानि लिङ्गानि यानि तीर्थानि दक्षिणे ॥ ३४.४६ ॥ लीयन्ते कोटितीर्थेषु कोटितीर्थं ततः स्मृतम् । शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च ॥ ३४.४७ ॥ ब्रह्मविष्ण्वादिदेवानां शक्रस्यापि प्रकीर्तितम् । तन्मया कथितं राजन् यथोद्दिष्टं तु शम्भुना ॥ ३४.४८ ॥ ओंकारसन्निधौ रेवाकोटितीर्थं प्रकीर्तितम् । अत्र दत्तं हुतं चेष्टं तपस्तप्तं सुदुष्करम् ॥ ३४.४९ ॥ तस्यान्तो नैव विद्यते महेश्वरवचो यथा । राहुसोमसमायोगे कुरुक्षेत्रं प्रशस्यते ॥ ३४.५० ॥ सर्वदा सर्वकार्येषु नर्मदा पुण्यदायिनी । त्रयोदशगुणं विद्धि तीर्थमाहुर्मनीषिणः ॥ ३४.५१ ॥ शतकोटिगुणं तत्तु कोटितीर्थं प्रचक्षते ॥ ३४.५२ ॥ चन्द्रसूर्योपरागे तु विशेषेण नराधिप । यज त्वं कोटितीर्थेषु यदि स्वर्गमभीप्ससि ॥ ३४.५३ ॥ तस्य तद्वचनं श्रुत्वा राजा परमधार्मिकः । पादौ जग्राह तत्रैव मुनेरमिततेजसः ॥ ३४.५४ ॥ अनुग्रहमिमं मन्ये यत्त्वया कथितं मम । एतस्मिन्नन्तरे प्राप्ते यज्ञयूपानुपस्करान् ॥ ३४.५५ ॥ नानादेशान् क्षत्रियांश्च गाश्चाश्वांश्च गजांस्तथा । तत्क्षणाद्देवगर्भश्च प्रतीहारः समार्पयत् ॥ ३४.५६ ॥ त्रिंशद्योजनपर्यन्तं यज्ञयूपांश्च मण्डपम् । चकार स्वप्रमाणानि कुण्डानि विविधानि च ॥ ३४.५७ ॥ वेदध्वनितनिर्घोषा दिवं भूमिं समस्पृशन् । निर्धूमश्चाभवद्वह्णिः सूर्यकोटिसमप्रभः ॥ ३४.५८ ॥ ब्रह्माणं च तथा विष्णुं रुद्रं चैव समाह्वयत् । रुद्रा एकादश तत्र तथादित्याश्च द्वादश ॥ ३४.५९ ॥ विश्वेदेवास्तथासाध्या मरुतश्च तथा वसुः । लोकपालास्तथा चाष्टौ समुद्राः सरितस्तथा ॥ ३४.६० ॥ वनस्पतयस्तथा शैलास्तीर्थानि विविधानि च । दिक्पाला भूतपालाश्च सिद्धगन्धर्वकिन्नराः ॥ ३४.६१ ॥ पितरः सोमपाः सर्वे भुक्तिमुक्तिफलप्रदाः । राक्षसा गुह्यका भूता उरगाश्च यथा तथा ॥ ३४.६२ ॥ सद्मवातास्तथाकाशवासिनश्च तथोत्सवे । घृतक्षीरवहा नद्यो दधिपायसकर्दमाः ॥ ३४.६३ ॥ बभूव नृपतेस्तस्य तस्मिन् यज्ञे महोत्सवे । भक्षभोज्यैश्च विविधैः काम्ययानदिभिस्तथा ॥ ३४.६४ ॥ तृप्ता देवाश्च मुनयो भूतग्रामं चतुर्विधम् । एवं निवर्तितो यज्ञो ब्राह्मणैर्भूरिदक्षिणैः ॥ ३४.६५ ॥ सुरासुरैस्तथा दिव्यैरिन्द्रद्युम्नः स्तुतस्तदा । यज्ञभागांश्च देवानां पृथक्पृथगकल्पयत् ॥ ३४.६६ ॥ तथा भागो हि रुद्राणां यथा सृष्टस्वयम्भुवा । युधिष्ठिर उवाच - रुद्रादित्यवसूतां च विश्वेदेवहविर्भुजाम् ॥ ३४.६७ ॥ प्रमाणं नाम गोत्रांश्च कथयस्व महामुने । मार्कण्डेय उवाच - अत्रिश्चाङ्गिरसः सर्पिर्मरुतश्च बृहस्पतिः ॥ ३४.६८ ॥ ध्रुवो धूम्रश्च केतुश्च धरो धाता हरस्तथा । एकादश स्मृता रुद्राः सर्वे कामफलप्रदाः ॥ ३४.६९ ॥ अर्यमा वरुणश्चेन्द्र पूषा चैव गभस्तिमान् । मित्रश्चैव समाख्यातो जघन्यो जलकृत्तथा ॥ ३४.७० ॥ विवस्वांश्चैव पर्जन्यो धाता वै द्वादश स्मृताः । कश्यपस्याश्रमे जातास्तेजोनिधय उत्थिता ॥ ३४.७१ ॥ मासावरप्रयोगेण संचरन्ति परेच्छया । अहोरात्रमिमे सर्वे स्वर्लोकं च समन्ततः ॥ ३४.७२ ॥ वसूनष्टौ महाराज कथ्यमानां शृणुष्व वै । ध्रुवो धरश्च सोमश्च सावित्रो ह्यनिलोऽनल ॥ ३४.७३ ॥ प्रत्यूषश्चैव कल्पश्च अष्टौ ते वसवः स्मृताः । विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः ॥ ३४.७४ ॥ क्रतुर्दक्षस्तथा सत्यः कालः कामो घ्ननिस्तथा । पुरूरवोमार्द्रवसौ रोचमानश्च ते दश ॥ ३४.७५ ॥ मुहूर्तायास्तथा पुत्राः साध्या देवाः प्रकीर्तिता । एकहीनास्तु पञ्चाशत्मरुतश्चैव कीर्तिताः ॥ ३४.७६ ॥ एषां नामानि सर्वेषां ख्यातान्येव युधिष्ठिर । एतत्ते कथितं सर्वं यत्पृष्टोऽहं त्वयाऽनघ ॥ ३४.७७ ॥ ततो ध्रुवं विसृज्याथ मुनींश्च ब्रह्मनन्दनान् । ओंकारं च ततो ज्ञात्वा राजा पूजां चकार ह ॥ ३४.७८ ॥ मणिमाणिक्यरत्नैश्च लिङ्गस्याभरणं कृतम् । गन्धधूपैश्च विविधैः कर्पूरागरुचन्दनैः ॥ ३४.७९ ॥ ध्वजछत्रवितानैश्च व्यजनैर्दिव्यचामरैः । पूजयित्वा विधानेन स्तोत्रं मे तदुदाहृतम् ॥ ३४.८० ॥ ओंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदो मोक्षदश्चैव ओंकाराय नमो नमः ॥ ३४.८१ ॥ ब्रह्मविष्ण्विन्द्रवरद सर्वदेव नमोऽस्तु ते । कद्रुदाय प्रचेतसे सहस्राक्षायमीढुषे ॥ ३४.८२ ॥ या ते रुद्र शिवा तनूरघोरा पापकाशिनी । सर्वाननशिरोग्रीव सर्वभूतशिवाय च ॥ ३४.८३ ॥ सर्वव्यापी च भगवांस्तस्मै सर्वगते नमः । सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः ॥ ३४.८४ ॥ सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ३४.८५ ॥ जिह्वाचापल्यभावेन खेदितोऽसि महेश्वर । कृतं स्तोत्रमिदं देवस्येन्द्रद्युम्नेन भारत ॥ ३४.८६ ॥ लिङ्गमध्ये परं लिङ्गं ज्वलत्कालानलप्रभम् । यद्दृष्टं तदुवाचैनं राजानं प्रति भारत ॥ ३४.८७ ॥ वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ॥ ३४.८८ ॥ इन्द्रद्युम्न उवाच - यदि तुष्टोऽसि मे देव वरं दातुं ममेच्छसि ॥ ३४.८९ ॥ अत्रत्वमुमया सार्धं देवद्रोण्यां समर्चितः । आवासं कुरु देवेश सर्वदा यज्ञपर्वते ॥ ३४.९० ॥ अवशः स्ववशो वापि प्राणत्यागं करोति यः । तीर्थेऽस्मिन् देवदेवेश शिवलोकं प्रयातु सः ॥ ३४.९१ ॥ सहस्रयाजी धर्मज्ञो दानयज्ञाधिपस्तथा । अन्धाश्च वामनाश्चैव तिर्यग्योनिगतानराः ॥ ३४.९२ ॥ मरणादुभयोः साम्यं भवेदत्र महेश्वर । पर्वतं वेष्टयेद्यस्तु सूत्रेणैकेन पर्वणि ॥ ३४.९३ ॥ पृथिवी वेष्टिता तेन सशैलवनकानना । सर्वतीर्थफलावाप्तिः शिवलोके प्रयात्यसौ ॥ ३४.९४ ॥ ओंकार उवाच - सर्वमेतत्नृपश्रेष्ठ कामः सम्पद्यतां तव ॥ ३४.९५ ॥ एवमुक्त्वा ततो देवः तत्रैवान्तरधीयत । सुरासुरैरथादित्यैः साध्यैः सार्द्धं युधिष्ठिर । स्वकीयं यानमारुह्य कैलासनिलयं ययौ ॥ ३४.९६ ॥ राजाऽपि श्रावयामास भूतग्रामं चतुर्विधम् । मम यज्ञप्रभावेण सर्वे सन्तु निरामयाः ॥ ३४.९७ ॥ सर्वे तु तृप्तिमायान्तु मम यज्ञप्रभावतः । इन्द्रद्युम्नस्तु ब्रह्माणं ततस्तुष्टाव भारत ॥ ३४.९८ ॥ तुष्टः प्रोवाच धाता तं वरं वृणु विशाम्पते । राजोवाच - तुष्टोऽसि यदि मे देव वरं दातुमिहेच्छसि ॥ ३४.९९ ॥ नर्मदादक्षिणे कूले लिङ्गमूर्तिधरो भव । इमं वरमहं मन्ये यदि तुष्टोऽसि मे प्रभो ॥ ३४.१०० ॥ प्राणत्यागे कृते तत्र ब्रह्मलोकं प्रयातु वै । एवं भवतु राजेन्द्र ब्रह्मा प्रोवाच सत्वरम् ॥ ३४.१०१ ॥ एवमुक्त्वा ययौ ब्रह्मा रुद्रलोकं सुरैः सह । विष्णुं चैव ततो राजा साष्टाङ्गं च युधिष्ठिर ॥ ३४.१०२ ॥ केशवं माधवं विष्णुं गोविन्दं मधुसूदनम् । पद्मनाभं हृषीकेशं श्रीधरं च त्रिविक्रमम् ॥ ३४.१०३ ॥ दामोदरं वासुदेवं हरिं च प्रणमाम्यहम् । शङ्खचक्रगदाशार्ङ्गवनमालाविभूषणम् ॥ ३४.१०४ ॥ लोकनाथं जगन्नाथं श्रीनाथं सर्ववित्तमम् । श्रीकान्तं श्रीधरं श्रीशं श्रीनिवासं नमाम्यहम् ॥ ३४.१०५ ॥ अच्युतानन्तयज्ञेश यज्ञाधिप नमोऽस्तु ते । ऋक्सामाथर्वरूपाय यज्ञरूपाय ते नमः ॥ ३४.१०६ ॥ नृसिंहमत्स्यवाराहकूर्मरूपाय ते नमः । तीर्थयानसमारूढ गरुडध्वज ते नमः ॥ ३४.१०७ ॥ सहस्रशिरसं देवं सकलं निष्कलं परम् । वेद्यं पुरुषमध्यक्षमाद्यं नारायणं प्रभुम् ॥ ३४.१०८ ॥ प्रणतोऽस्मि सदा देवं दैत्यान्तकरणं हरिम् । हिरण्यगर्भं भूगर्भं यज्ञगर्भामृतोद्भवम् ॥ ३४.१०९ ॥ श्रीगर्भज्ञानगर्भाय वासुदेव नमोऽस्तु ते । त्वया सृष्टं जगत्सर्वं चराचरमिदं प्रभो ॥ ३४.११० ॥ स्रष्टा पालयिता त्वं वै हर्ता त्वं च युगे युगे । विश्वतश्चक्षुरव्यक्तो विज्ञेयो विश्वतो मुखः ॥ ३४.१११ ॥ विश्वात्मा विश्वतो देवो वासुदेवो नमोऽस्तु ते । त्वमादित्यश्च वायुश्च त्वमग्निस्त्वं च चन्द्रमाः ॥ ३४.११२ ॥ त्वं धाता देवदेवेश त्वमिन्द्रस्त्वं प्रजापतिः । त्वत्प्रसादात्सुरश्रेष्ठ यज्ञसिद्धिर्ममाभवत् ॥ ३४.११३ ॥ श्रुत्वा स्तोत्रमिदं देवः शङ्खचक्रगदाधरः ॥ ३४.११४ ॥ उवाच वचनं सत्यं वरं वृणु विशाम्पते । ददामि ते न संदेहो यज्ञसिद्धिमवाप्स्यसि ॥ ३४.११५ ॥ राजोवाच - ओंकारसौम्यभागे तु लिङ्गरूपी जनार्दनः । वैदूर्यशिखरस्याग्रे भव त्वं लोकपावनः ॥ ३४.११६ ॥ इमं वरमहं मन्ये यदि दातुमिहेच्छसि । यास्यन्ति वैष्णवं स्थानमिहाभ्यर्च्य विधानतः ॥ ३४.११७ ॥ तिर्यग्योनिं न गच्छन्ति यमलोकं तथा नराः । प्राणत्यागे कृते तत्र नरा गच्छन्ति ते पदम् ॥ ३४.११८ ॥ पितॄणामन्नदानेन पितरो वैष्णवं पदम् । प्रसादात्ते च गच्छन्तु सत्यं सत्यं वदाम्यहम् ॥ ३४.११९ ॥ तस्य तद्वचनं श्रुत्वा राज्ञश्चामिततेजसः । उवाच वचनं विष्णुरिन्द्रद्युम्नं विशाम्पते ॥ ३४.१२० ॥ अवतारं करिष्यामि इहैव नृपसत्तम । सर्वमेव नृपश्रेष्ठ मत्प्रसादाद्भविष्यति ॥ ३४.१२१ ॥ एवमुक्त्वा ययौ देवः शङ्खचक्रगदाधरः । सुरासुरैः स्तूयमानस्त्रिदिवं प्रति भारत ॥ ३४.१२२ ॥ एष ते कथितो राजन्निन्द्रद्युम्न महाध्वरः । तेनासौ पर्वतः पुण्यः सर्वलोकेषु विश्रुतः ॥ ३४.१२३ ॥ सिद्धेश्वरं च ब्रह्माणं विद्धि नारायणं हरिम् । श्रवणात्कीर्तनादस्य विष्णुलोके महीयते ॥ ३४.१२४ ॥ ततस्तुष्टाव तीर्थानि राजा सत्यव्रते स्थितः । पितृणां तारणार्थाय तीर्थेभ्यश्च नमो नमः ॥ ३४.१२५ ॥ तीर्थान्यूचुः॒ वरं वृणु महाभाग यत्ते मनसि वर्तते । तीर्थानां वचनं श्रुत्वा इन्द्रद्युम्न उवाच ह ॥ ३४.१२६ ॥ ओंकारसन्निधौ तीर्थे स्थातव्यं मदनुग्रहात् । एवमस्त्विति राजानमुक्त्वा चक्रुः सरित्स्तुतिम् ॥ ३४.१२७ ॥ कल्पगां त्वां नमस्कुर्मो हरस्य परमां कलाम् । अतीव सर्वलोकानां भुवि ख्यातां सरिद्वराम् ॥ ३४.१२८ ॥ नास्मत्प्रभावतः पूता किंतु पूता स्वभावतः । यद्वत्सूर्यप्रभा पुण्या वह्णेश्चापि प्रभा यथा ॥ ३४.१२९ ॥ हिमांशोश्चैव राजेन्द्र तथैवेयं महानदी । इत्युक्त्वा तं च राजानं तीर्थान्यन्तर्दधुस्तदा ॥ ३४.१३० ॥ ततस्तुष्टाव गङ्गां वा अर्घं दत्त्वा नृपोत्तमः । गङ्गा भागीरथी देवी तथा भोगवती शुभा ॥ ३४.१३१ ॥ जाह्नवी मोक्षदा भद्रा तारिणी पापनाशिनी । स्वर्गे मन्दाकिनी चैव देवदेवनमस्कृता ॥ ३४.१३२ ॥ गायत्री वेदमाता त्वमुमा कात्यायनी तथा । किमन्यदपि ते देवि हरेण शिरसा धृता ॥ ३४.१३३ ॥ कस्यास्ति शक्तिः स्तोतुं त्वामृते चन्द्रार्धशेखरात् । गङ्गोवाच - तुष्टाऽस्मि ते महाराज वरं याचस्व सुव्रत ॥ ३४.१३४ ॥ गङ्गाया वचनं श्रुत्वा राजा तां प्रत्युवाच ह । राजोवाच - यदि तुष्टाऽसि देवेशि वरं दातुमिहेच्छसि ॥ ३४.१३५ ॥ इहैव क्रियतां वासो वर एष प्रदीयताम् ॥ ३४.१३६ ॥ गङ्गोवाच - एवं भवतु राजेन्द्र भागेनैव वहाम्यहम् ॥ ३४.१३७ ॥ ततस्तुष्टाव गङ्गा तु कल्पगां सरितां वराम् । श्रेष्ठा त्वं कल्पगे देवि नमस्कार्ये चिरायुषि ॥ ३४.१३८ ॥ त्वत्तोयस्य प्रभावेण पावित्र्यमभवच्च मे । कल्पान्ते तु क्षयं यान्ति सरितः सागरादयः ॥ ३४.१३९ ॥ तीर्थानि चैव सर्वाणि त्वमेवात्रैव तिष्ठसि । पूज्या त्रिदशवन्द्या च सुभगे चिरगमिनी ॥ ३४.१४० ॥ गौरीसमा जटाग्रे वै हरमूर्तिर्भविष्यसि । एवमुक्त्वा ततो गङ्गा नमस्कृत्य च मेकलाम् ॥ ३४.१४१ ॥ दिव्ययानसमारूढा स्तूयमानाप्सरोगणैः । सरस्वत्युवाच - दुहिताऽहं तव ह्येषा धर्मतः परिपालिता ॥ ३४.१४२ ॥ सप्तकल्पवहे धन्ये त्वच्छुश्रूषापरायणा । आगताहं महाभागे त्वत्पादाब्जदिदृक्षया ॥ ३४.१४३ ॥ स्नानं कर्तुं तथा देवि चतुर्विंशतिवत्सरैः । किं न वेत्सि महाभागे मां धरेश्वरि वाहिनि ॥ ३४.१४४ ॥ करिणीरूपमास्थाय कोटितीर्थे समागता । सपादकोटितीर्थानि चन्द्रसूर्ये समे ग्रहे ॥ ३४.१४५ ॥ स्नानार्थं कल्पगे देवि आदिष्टा विष्णुना स्वयम् । द्वापरस्य चतुर्थांशे कुरुपाण्डवसेनयोः ॥ ३४.१४६ ॥ युद्धार्थं समितौ पुञ्जं सर्वतीर्थमये शुभे । तत्र यद्दीयते दानं तप्यतेऽथ तपस्तथा ॥ ३४.१४७ ॥ सर्वं शतगुणं तद्धि त्वत्तोये कल्पगे पुनः । तदेव कोटिगुणितं राहुग्रस्ते दिवाकरे ॥ ३४.१४८ ॥ एवमुक्त्वा महाराज कल्पगां च सरस्वती । इन्द्रद्युम्नं च राजानं स्वस्थानं चाभ्यगात्पुनः ॥ ३४.१४९ ॥ इन्द्रद्युम्नस्ततो राजा स्वयं तुष्टाव भारत । त्वत्तोयस्य प्रभावेण पितृदेवाश्च तार्पिताः ॥ ३४.१५० ॥ पवित्रं च त्वया देवि त्रैलोक्यं सचराचरम् । त्वं माता सर्वभूतानां नृणां संसारतारिणी ॥ ३४.१५१ ॥ मेकलासि महादेवि कल्पगा नर्मदा तथा । जलपूर्णेति विख्याता विन्ध्यपर्वतभूषणम् ॥ ३४.१५२ ॥ अपि वर्षसहस्रेण कः स्तोतुं च क्षमः शुभे । श्रुत्वा स्तोत्रमिदं देवी नृपस्यास्य तदाऽब्रवीत् ॥ ३४.१५३ ॥ क्षत्रियाणां सहस्रैस्तु कृतो यज्ञोऽत्र पार्थिव । सदृशस्ते महाराज न भूतो न भविष्यति ॥ ३४.१५४ ॥ वरं ददामि ते राजन् येन सिद्धिमवाप्स्यसि । तस्यास्तद्वचनं श्रुत्वा कल्पगाया युधिष्ठिर ॥ ३४.१५५ ॥ प्रहसन्नब्रवीद्राजा ब्राह्मणैः सहितस्तदा । शिवभक्तिपरो नित्यं सप्तकल्पवहे शुभे ॥ ३४.१५६ ॥ यदि तुष्टाऽसि मे देवि वरं दातुं त्वमिच्छसि । प्रवाहान् कुरु सप्त त्वं दक्षिणोत्तरकूलयोः ॥ ३४.१५७ ॥ सर्वतः सर्वगे देवि यदि मां बहु मन्यसे । इमं वरमहं मन्ये यदि तुष्टाऽसि सुव्रते ॥ ३४.१५८ ॥ तस्य तद्वचनं श्रुत्वा इन्द्रद्युम्नस्य भारत । नर्मदा चाब्रवीद्वाक्यमिन्द्रद्युम्नं नराधिप ॥ ३४.१५९ ॥ सर्वमेतत्प्रभावेण मत्प्रसादाद्भविष्यति । अत्रान्तरे च यद्दानं दीयते नाऽत्र संशयः ॥ ३४.१६० ॥ तस्य संख्या न विद्यते सत्यमेतद्ब्रवीमि ते । न तेषां पुनरावृत्तिरित्याह भगवान्नृप ॥ ३४.१६१ ॥ अन्त्यजाः श्वपचा वापि मृगाश्चैव सरीसृपाः । सर्वे ते त्रिदिवं यान्ति नीलगङ्गासमागमे ॥ ३४.१६२ ॥ यज्ञमिष्ट्वा नृपश्रेष्ठ इन्द्रद्युम्नो विशाम्पते । नर्मदां च नमस्कृत्य ओंकारं चैव भारत ॥ ३४.१६३ ॥ स्वकीयं यानमारुह्य सत्यधर्मपरायणः । वृतो नृप सहस्रेण स्तूयमानोऽप्सरोगणैः ॥ ३४.१६४ ॥ विवेश नगरीं पुण्यामयोध्यां देवनिर्मिताम् । एतत्ते कथितं राजन्नितिहासं पुरातनम् ॥ ३४.१६५ ॥ ततः कालेन महता राज्यं कृत्वा महाबलः । अयुतं साग्रमेवेह स राजा त्रिदिवं गतः ॥ ३४.१६६ ॥ श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् । यमलोकं न पश्येच्च पापयोनिं न गच्छति ॥ ३४.१६७ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे इन्द्रद्युम्नयज्ञनीलगङ्गावतारो नाम चतुस्त्रिंशोऽध्यायः ॥ अध्याय ३५ युधिष्ठिर उवाच - वैदूर्यपर्वतं रम्यं सुरसिद्धनिषेवितम् । मान्धाता केन कार्येण गतो वै सप्तकल्पगाम् ॥ ३५.१ ॥ तथा पाशुपतास्त्रेण हत्वा वै त्रिपुरं हरः । पातालं भेदयित्वा तु रसातलतलं ययौ ॥ ३५.२ ॥ जालेश्वरं तथा लिङ्गमुत्थितं केन हेतुना । नीलगङ्गा कथं तत्र कल्पगा भेदमागता ॥ ३५.३ ॥ बाणासुरः शिवे भक्तः शिवलब्धवरः शुचिः । लिङ्गानि तानि तेनेह पूजितानि महामुने ॥ ३५.४ ॥ संख्यया नवकोट्यस्तु तानि क्षिप्तानि तत्र वै । एतत्सर्वं समासेन कथयस्व महामुने ॥ ३५.५ ॥ यथाश्रुतं पुराकल्पे पुराणे स्कन्दकीर्तिते । ब्रह्मविष्ण्वादिदेवानां पार्वत्याः षण्मुखस्य च ॥ ३५.६ ॥ तथा तु कथ्यतां तात यथोद्दिष्टं शिवेन तु । मार्कण्डेय उवाच - शृणु राजन्महाबाहो कथ्यमानं निबोध मे ॥ ३५.७ ॥ स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे । देवानां सङ्गमं यत्र कैलासे पर्वतोत्तमे ॥ ३५.८ ॥ कार्त्तिक्यां च सुराः सर्वे हरं द्रष्टुमुपागताः । तत्र देवगणान् सर्वान् स्कन्दो वचनमब्रवीत् ॥ ३५.९ ॥ मया श्रुतं च दृष्टं च शिवेन कथितं पुरा । अष्टलक्षाणि सार्धानि ग्रन्थेऽस्मिन् कीर्तितानि च ॥ ३५.१० ॥ शिवलोके शिवेनैव निबद्धानि यथा यथा । तदर्धं वैष्णवे लोके तदर्द्धं ब्रह्मणः पुरे ॥ ३५.११ ॥ सपादलक्षं सूर्यस्य लोके चैव व्यवस्थितम् ॥ ३५.१२ ॥ चतुर्भिरधिकाशीतिसहस्राणि तथा क्रमम् । ख्यातानि मर्त्यलोके च नात्र कार्या विचारणा ॥ ३५.१३ ॥ सूतः संग्रहकर्ता च संहितास्तत्र एव च । कल्पस्कन्दो महास्कन्दः पुराणं सप्तधा विदुः ॥ ३५.१४ ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥ ३५.१५ ॥ अशक्ता मानुषा लोके अल्पजीवेन जीविकाः । युद्धिहीना दुराचारा भविष्यन्ति कलौ युगे ॥ ३५.१६ ॥ न स्वाध्यायो वषट्कारो न तपो न च याजनम् । स्त्रीकामा लोलुपा विप्राः काम्यकृत्यास्तु याचकाः ॥ ३५.१७ ॥ प्रतिग्रहपरा नित्यं कुटुम्बभरणार्थिनः । आत्मानं नैव बुध्यन्ते स्त्रीणां स्नेहवशंगता ॥ ३५.१८ ॥ कुकर्माणि करिष्यन्ति धर्मिष्ठास्तापसास्तथा । कलौ युगे तथा प्राप्ते काले कौला दिगम्बराः ॥ ३५.१९ ॥ एकवर्णाः प्रजाः सर्वा राजा म्लेच्छो भविष्यति । हीने युगे तथा प्राप्ते बौद्धस्थे चैव केशवे ॥ ३५.२० ॥ अल्पायुषश्चैव मर्त्या अल्पवीर्यपराक्रमाः । नानादेशोपद्रवाश्च भविष्यन्ति महामुने ॥ ३५.२१ ॥ वेदान् वै प्रार्पयिष्यन्ति द्विजाश्चाण्डालवंशिनः । वेदावेशं करिष्यन्ति वेदविक्रयणं तथा ॥ ३५.२२ ॥ राजद्वारे गमिष्यन्ति धनप्राप्तिसमीहया । विक्रयं चाग्निहोत्राणां कन्यानां विक्रयं तथा ॥ ३५.२३ ॥ करिष्यन्ति द्विजाः सर्वे श्रोत्रिया व्रतवर्जिताः । पूर्णे तु द्वादशे वर्षे नराः पलितयौवनाः ॥ ३५.२४ ॥ दश द्वादशवर्षा तु नारी गर्भधरा भवेत् । नारी न पुरुषं मन्येत्न मातापितरौ सुतः ॥ ३५.२५ ॥ नस्नुषा मन्यते श्वश्रूं दुहिता मातरं तथा । एतदुद्देशतः प्रोक्तं प्रकृतं शृणु भारत ॥ ३५.२६ ॥ यज्ञं कर्तुं महाराज मान्धाता नृपसत्तमः । वैदूर्यपर्वतं प्राप्तं पितॄणां तारणाय च ॥ ३५.२७ ॥ देवतानां हितार्थं वै जघान त्रिपुरं हरः । ज्वलत्पाशुपतास्त्रेण तद्दग्धमभवत्पुरा ॥ ३५.२८ ॥ पातालात्तेन चानीतं लिङ्गं जालेश्वरं तथा । कामदं मोक्षदं चैव सदादेवनमस्कृतम् ॥ ३५.२९ ॥ लोकानां तारणार्थाय नीलगङ्गा समागता । मेघराजसमुद्भूता सर्वपापहरा परा ॥ ३५.३० ॥ तस्यां श्राद्धं प्रकुर्वीत पितॄणामक्षयेच्छया । बाणासुरस्य लिङ्गानि कोटितीर्थे शिवालये ॥ ३५.३१ ॥ पतितानि जले चैव नर्मदाया नराधिप । पूजितानि पवित्राणि भुक्तिमुक्तिप्रदानि तु ॥ ३५.३२ ॥ बाणलिङ्गानि राजेन्द्र ख्यातानि भुवनत्रये । न प्रतिष्ठा न संस्कारः तेषामावाहनादि च ॥ ३५.३३ ॥ एवमेव प्रपूज्यानि शिवरूपाणि भारत । एतत्ते कथितं सर्वं यत्पृष्टोऽहं त्वयाऽनघ ॥ ३५.३४ ॥ शृणु राजन् कथां दिव्यामन्यां पापप्रणाशिनीम् । अघघ्नी या प्रतीता मे कीर्तयिष्यामि तेऽनघ ॥ ३५.३५ ॥ अस्तीह पर्वतः श्रीमान् वैदूर्यो नाम नामतः । तत्र पुण्यानि तीर्थानि तिष्ठन्त्यायतनानि च ॥ ३५.३६ ॥ कामं कामफलैर्वृक्षैः पुष्पितैः फलितैस्तथा । दिव्यपक्षिनिनादैश्च वानीरवनराजिभिः ॥ ३५.३७ ॥ शालैस्तालैश्च सरलैस्तमालैरुपशोभिता । नदी पापहरा पुण्या नर्मदा तत्र भारत ॥ ३५.३८ ॥ त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च । सरितः सागराः शैलादेवाश्च सपितामहाः ॥ ३५.३९ ॥ नर्मदायां नृपश्रेष्ठ सिद्धगन्धर्वचारणाः । स्नातुमायान्ति ते सर्वे सर्वसिद्धिस्तु भारत ॥ ३५.४० ॥ किं तत्र पर्वते राजन् यत्र विश्वावसुर्मुनिः । न यक्षाधिपतिर्यत्र कुबेरो नरवाहनः ॥ ३५.४१ ॥ वैदूर्यशिखरे पुण्ये तत्र साक्षाद्विवस्वतः । नित्यं पुष्पफला यत्र पादपा हरितच्छदाः ॥ ३५.४२ ॥ बह्वाश्चर्यं तथा तत्र दृश्यते पर्वतोत्तमे । पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते ॥ ३५.४३ ॥ ह्लादिनी पुण्यतीर्थानां राजर्षे तत्र वै सरित् । वैवस्वतान्तरे प्राप्ते राजन्नादिकृते युगे ॥ ३५.४४ ॥ ओंकारस्यावतारेण सवैदूर्यमयो गिरिः । त्रेतायुगे मणिमयो द्वापरे हैमरूपकः ॥ ३५.४५ ॥ कलौ पापहरः प्रोक्तो यथा देवस्तथा गिरिः । एतत्ते सर्वमाख्यातं यथादृष्टं पुरातनम् ॥ ३५.४६ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे वैदूर्यपर्वतवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ अध्याय ३६ मार्कण्डेय उवाच - वसुदानस्तु राजर्षिश्चक्रवर्ती पुराऽभवत् । अयोध्याधिपतिः श्रीमान् छक्रतुल्यपराक्रमः ॥ ३६.१ ॥ बुभुजे पृथिवी सर्वां ग्राममेकमिवाथ सः । ईजे यागसहस्रेण हयमेधकृतेन च ॥ ३६.२ ॥ सपादलक्षमधिकं सर्वा जीवन्ति च प्रजाः । न तत्र दीनो दुःखी वा दरिद्रो वाऽपि कश्चन ॥ ३६.३ ॥ स्वयं कामदुघा धेनुः पृथिवी सस्यशालिनी । एव पालयतस्तस्य पृथिवीं पृथिवीपते ॥ ३६.४ ॥ नर्मदादक्षिणे कूले दैत्यास्त्रिदशकण्टकाः । केतुमाली सुकेतुश्च सुमुखो दुन्दुभिस्तथा ॥ ३६.५ ॥ धर्मविघ्नं च कर्तारः समुद्भूताः सुरालये । केऽपि नो शक्नुवन्तीह यज्ञं कर्तुं भयात्तदा ॥ ३६.६ ॥ वसुदानोऽब्रवीद्वाक्यं वशिष्ठं ब्रह्मवित्तमम् । कस्मिंस्तीर्थे हि निर्विघ्नो हयमेधो विधीयते ॥ ३६.७ ॥ यज्ञविद्या विधानेन निर्दिश्य मम कथ्यताम् । तस्य तद्वचनं श्रुत्वा वसुदानस्य धीमतः ॥ ३६.८ ॥ वशिष्ठश्चाब्रवीद्वाक्यं राजानं प्रति भारत । न शक्यते मुखः कर्तुं हयमेधो विशेषतः ॥ ३६.९ ॥ अमरेश्वरस्य मूर्तिर्वै दक्षिणाशामुखे स्थिता । दानवैर्निर्जितास्तत्र सर्वे देवाः सवासवाः ॥ ३६.१० ॥ यज्ञभागं ग्रहीतुं न शक्नुवन्ति कदाचन । एतस्मात्कारणाद्राजन् सत्यमेतत्तवोदितम् ॥ ३६.११ ॥ तस्य तद्वचनं श्रुत्वा वशिष्ठस्य महात्मनः । चुकोप वसुदानश्च प्रत्याह च पुरोधसम् ॥ ३६.१२ ॥ हत्वैतान् राक्षसान् पापानद्य वै देवकण्टकान् । देवानां च प्रसादेन करिष्ये यागमुत्तमम् ॥ ३६.१३ ॥ एवमुक्त्वा ययौ राजा सर्वसम्भारसंवृतः । ब्राह्मणैः सहितो विद्वानृत्विग्भिर्वेदपारगैः ॥ ३६.१४ ॥ गवां च पञ्चलक्षाणि सवत्सानां पयोमुचाम् । सपादलक्षमश्वानां दन्तिनामयुतं तथा ॥ ३६.१५ ॥ मणिमाणिक्यरत्नानि हेमरूप्यवसूनि च । विविधं भक्ष्यभोज्यं च आज्यं व्रीहितिलांस्तथा ॥ ३६.१६ ॥ मण्डपान् यज्ञयूपांश्च समादाय नृपोत्तमः । एवं प्रवर्तिते यज्ञे निर्विघ्नेन तु भारत ॥ ३६.१७ ॥ आवभृत्योदकैः क्लिन्ना वसुधा हेमनिर्मिता । बभूवुर्लुलिता ये तु कर्दमे मृगपक्षिणः ॥ ३६.१८ ॥ ते हेमवर्णकाः सर्वे बभूवुस्तत्र भारत । युगपत्पूजिता यत्र ब्रह्मविष्णुमहेश्वराः ॥ ३६.१९ ॥ होमाच्च पृथक्क्षीराज्यप्रवाहास्तत्र निर्गताः । गवां मूत्रप्रवाहश्च तत्राभूत्नृपसत्तम ॥ ३६.२० ॥ स्नानोदकं च देवानामृषिभिर्वेदपारगैः । यत्कृतं तत्प्रवाहश्च तत्रासीत्नृपसत्तम ॥ ३६.२१ ॥ प्रवाहेषु च सर्वेषु मिलितेषु तदा नृप । आपगा कपिला नाम दृष्टा ब्रह्मर्षिदैवतैः ॥ ३६.२२ ॥ नर्मदासङ्गमस्तत्र रुद्रावर्तः प्रकीर्तितः । ततस्तु ब्राह्मणाः सर्वे दक्षिणाभिः प्रपूजिताः ॥ ३६.२३ ॥ गजाश्वरथमारूढा नानाभरणभूषिताः । तुष्टा देवगणाः सर्वे ऊचुस्तं पार्थिवं तदा ॥ ३६.२४ ॥ वरं वृणु महाभाग यज्ञेनानेन सुव्रत । वसुदान उवाच - रेवाकपिलसम्भेदे स्नात्वाऽभ्यर्च्य महेश्वरम् ॥ ३६.२५ ॥ विमानैस्त्रिदिवं यान्तु ये मृता न पुनर्भवाः । इमं वरमहं मन्ये दीयतां मदनुग्रहात् ॥ ३६.२६ ॥ देवा ऊचुः॒ कामं कामं फलिष्यन्ति चिन्तितास्ते मनोरथाः । वरं दत्त्वा च भो राजन् प्रीता वै देवतास्ततः ॥ ३६.२७ ॥ स्वं स्वं विमानमारुह्य मुदितास्त्रिदिवं ययुः । वसुदानोऽपि राजर्षिर्ब्राह्मणैर्वेदपारगैः ॥ ३६.२८ ॥ मुदा परमया युक्तो ह्ययोध्यामाययौ तदा । तीर्थस्यास्य प्रभावेण सान्तः पुरपरिच्छदः ॥ ३६.२९ ॥ भोगांश्च पुष्कलान् भुक्त्वा गतो माहेश्वरं पुरम् । एतत्ते कथितं सर्वं रेवाकपिलसङ्गमम् ॥ ३६.३० ॥ श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ३६.३१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे कपिलावतारो नाम षट्त्रिंशोऽध्यायः ॥ अध्याय ३७ मार्कण्डेय उवाच - स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे । अरुन्धतीप्रसूताया दाक्षायण्यास्सुतोऽभवत् ॥ ३७.१ ॥ विश्रवां नाम राजाऽभूच्छक्रतुल्यपराक्रमः । मथुराधिपतिः श्रीमांश्चक्रवर्ती महाबलः ॥ ३७.२ ॥ निर्जिताऽमरदैत्याश्च स राजा मघवा त्विव । सर्वकामसमृद्धाश्च ब्राह्मणाश्चेतरे जनाः ॥ ३७.३ ॥ एवं शासयतः पृथ्वीं धनधान्यसमाकुलाम् । न दुर्भिक्षं न दारिद्र्यं क्वचिदस्तिं महीतले ॥ ३७.४ ॥ एतस्मिन्नन्तरे प्राप्ते प्रस्थितोऽमरकण्टकम् । स्नात्वा च कोटितीर्थे वै समभ्यर्च्य महेश्वरम् ॥ ३७.५ ॥ दक्षिणां मूर्तिमाश्रित्य तस्य देवस्य भारत । समाधिस्थो भवेद्यावत्स राजा धर्मवत्सलः ॥ ३७.६ ॥ तावत्पश्यति मध्याह्ने प्रतीच्यादित्यमण्डलात् । द्वौ सूर्यौ पूर्वदिग्भागे गतौ द्वौ दाक्षिणां दिशम् ॥ ३७.७ ॥ द्वौ पातालं तथा चोर्द्ध्वं द्वौ सूर्यौ चण्डरूपिणौ । कालः संवर्तको वह्निः प्रजज्वाल तदा नृप ॥ ३७.८ ॥ रौद्राश्च दारुणा वाता ववुः प्रलयकारिणः । दिग्दाहो भूमिकम्पश्च उत्कापाताश्च दारुणाः ॥ ३७.९ ॥ पतितास्सिद्धगन्धर्वा देवलोकात्सकिन्नराः । विद्याधरास्तथा यक्षाः कर्मच्छेदादिव व्युताः ॥ ३७.१० ॥ विद्याधर्यो रुदन्त्यश्च तथैवाप्सरसस्तथा । प्रजज्वाल महावह्णिः सशैलवनकाननाम् ॥ ३७.११ ॥ भस्मीकृत्य धरां सर्वां रेवाकूलमिवागमत् । तृषार्तो दाहसन्तप्तस्तदाभूत्नृपसत्तमः ॥ ३७.१२ ॥ समुद्यतः पयः पातुं यावत्पश्यति मेकलाम् । तावत्तन्मध्यमार्गे तु वारि किंचिन्न विद्यते ॥ ३७.१३ ॥ प्रवाहो रेणुभूतश्च दृश्यते न तु नर्मदा । सरितः सागरान् छैलान् बभ्राम स सरांसि च ॥ ३७.१४ ॥ जलं पातुं न कुत्रापि लब्धवान् स नृपोत्तमः । अपश्यत्नर्मदां देवीं विन्ध्यं गिरिवरोत्तमम् ॥ ३७.१५ ॥ प्रविष्टो नर्मदामध्ये नृपश्चिन्ताकुलोऽभवत् । जलं विनाद्य मरणं नियतं मे न संशय ॥ ३७.१६ ॥ अन्तर्हितं जगत्कृत्स्नं न च किंचिज्जलं विना । चिन्तयित्वा नृपश्रेष्ठ ओंकारं च समाश्रयत् ॥ ३७.१७ ॥ पर्वतारोहणं यावत्तृषार्तः कर्तुमिच्छति । तावत्पश्यति राजासौ तत्र वै कल्पशाखिनम् ॥ ३७.१८ ॥ फलितं पुष्पितं रम्यं शाखाभिरुपशोभितम् । तं दृष्ट्वा शयितो राजा छायां प्राप्य सुशीतलाम् ॥ ३७.१९ ॥ शरीरममृतं भूतं जीविताशाभवत्तदा । अपश्यत्पुरुषं तत्र शयानं दीप्ततेजसम् ॥ ३७.२० ॥ तदुच्छ्वासेन लोका वै कम्पिताश्चोर्द्ध्वशस्तदा । पातालानि तथा सप्त निःश्वासेन युधिष्ठिर ॥ ३७.२१ ॥ कुम्भाः पार्श्वे च चत्वारस्तस्य तिष्ठन्ति सोदकाः । तान् दृष्ट्वा चिन्तयामास तृषार्तो नृपसत्तमः ॥ ३७.२२ ॥ बोधये सुखसुप्तं नो नादत्तं च पिबाम्यहम् । किं करोमीती संचिन्त्य तं प्रणम्य स्थितो नृपः ॥ ३७.२३ ॥ मानुषीं तनुमाश्रित्य स्थितोऽयं पुरुषोत्तमः । स्वयं प्रजापतिर्देवो हर्ता कर्ता जगत्प्रभुः ॥ ३७.२४ ॥ ततोऽपश्यद्द्वितीयं च पुरुषं दीप्ततेजसम् । वृषारूढं त्रिनेत्रं च शूलपाणिपिनाकिनम् ॥ ३७.२५ ॥ भस्मोज्ज्वलितगात्रं च जटामुकुटधारिणम् । कपालमालाभरणं तडिज्ज्योतिःसमप्रभम् ॥ ३७.२६ ॥ दंष्ट्राकरालं पुरुषं पिङ्गाक्षं शशिशेखरम् । तं दृष्ट्वा तादृशं रूपं सर्वेषां लोमहर्षणम् ॥ ३७.२७ ॥ राजा तुष्टाव देवेशं सर्वदेवनमस्कृतम् । जय देव महादेव आदिदेव नमोऽस्तु ते ॥ ३७.२८ ॥ तृषा मां बाधते देव शूलपाणे शृणुष्व तत् । प्रयच्छ शीतलं तोयं येन जीवामि शङ्कर ॥ ३७.२९ ॥ तस्य तद्वचनं श्रुत्वा प्रहसन्नब्रवीच्छिवः । जल्पतस्तस्य देवस्य चास्ये दृष्टाः समन्ततः ॥ ३७.३० ॥ सुरा ब्रह्मर्षयो लोकाः सप्त चैव चराचराः । पातालानि च भूतानि गन्धर्वोरगराक्षसाः ॥ ३७.३१ ॥ ततो ददर्श नारीं च समुद्विग्नां समागताम् । रजो गुण्ठित सर्वाङ्गीं रुधिरेण परिप्लुताम् ॥ ३७.३२ ॥ अनन्तदीप्ततेजस्कां मारुतोद्धूतमूर्धजाम् । बालं निधाय वामोरौ कन्यां चैव स्तनान्तरे ॥ ३७.३३ ॥ ब्रह्मसूत्रत्रिदण्डाभ्यां कुण्डलाभ्यां अलंकृताम् । दृष्ट्वा तां स ततो राजा प्रोवाच वचनं तदा ॥ ३७.३४ ॥ जय देवि महादेवि लोकानुग्रहकारिणि । तृषयाप्लुतदेहोऽहं जलं पायय मामिह ॥ ३७.३५ ॥ तस्य तद्वचनं श्रुत्वा तं प्राह परमेश्वरी । स्तन्यं पिब महीप त्वं यदि त्वां वाधते तृषा ॥ ३७.३६ ॥ तस्यास्तद्वचनं श्रुत्वा चिन्तयामास पार्थिवः । स्तनं पास्यामि देवेशि नारी वचनमब्रवीत् ॥ ३७.३७ ॥ प्रतिज्ञातं मया पूर्वं सुतेजस्ते नृपोत्तम । अग्रे न्यस्य स्तनं त्वां वै पश्चाद्दास्यामि बालकम् ॥ ३७.३८ ॥ तस्मात्पिब महाभाग स्तन्यं मे नास्ति पातकम् । तत प्रोवाच नृपतिस्तां नारीं कामरूपिणीम् ॥ ३७.३९ ॥ अकार्यमेतत्सर्वेषां मादृशानां कुतः कथा । अन्योऽन्यं जल्पतां तेषां सा तत्रान्तरधीयत ॥ ३७.४० ॥ क्व गताऽसि महादेवीत्युक्त्वा विस्मयमागतः । स्वप्नलब्धा यथा वार्ता निष्कला प्रतिभासते ॥ ३७.४१ ॥ इन्द्रजालमयं यद्वन्मृगतृष्णाजलं यथा । एवं चिन्तयतस्तस्य पुनरग्रे व्यवस्थिता ॥ ३७.४२ ॥ तां दृष्ट्वैव ततो राजा साष्टाङ्गं प्रणिपत्य च । कासि त्वं हि वरारोहे सत्यमेतद्ब्रवीहि मे ॥ ३७.४३ ॥ उमा कात्यायनी गङ्गा वेदमाता सरस्वती । ब्रह्माणी च महालक्ष्मीः कथयस्व प्रसादतः ॥ ३७.४४ ॥ समानः पुरुषः कोऽयं कुम्भाश्चत्वार एव के । वृषारूढस्त्रिनेत्रश्च कोऽयं शूलपिनाकधृक् ॥ ३७.४५ ॥ उत्सङ्गे निहितः कोऽयं बालकः का च कन्यका । मूर्खोऽहं नाभिजानामि जननं मरणं यथा ॥ ३७.४६ ॥ स्त्र्युवाच - पृथिवीं विद्धि मां राजन् सप्तद्वीपैरलंकृताम् । सप्तपाताललोकैश्च सशैलवनकाननाम् ॥ ३७.४७ ॥ सरितः सागराः शैलाममोदरनिवासिनः । व्याप्तं मया जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ ३७.४८ ॥ पर्यङ्कशायिनं देवं शङ्खचक्रगदाधरम् । जगद्योनिं हरिं विद्धि संसारार्णवतारणम् ॥ ३७.४९ ॥ त्रिनेत्रं शूलपाणिं च विद्धि देवं महेश्वरम् । वृषारूढं महादेवं लोकनाथं जगत्पतिम् ॥ ३७.५० ॥ उत्सङ्गस्थं शिशुं विद्धि ब्रह्माणं सृष्टिकारकम् । त्रिभिर्व्याप्तं जगत्सर्वं ब्रह्मविष्णुमहेश्वरैः ॥ ३७.५१ ॥ जगत्सृष्टिकरो ब्रह्मा स्वयं पालयिता हरिः । संहारकारको रुद्रस्त्रिभिर्व्याप्तं जगत्ततः ॥ ३७.५२ ॥ कलशांश्चतुरो विद्धि समुद्रान् पर्वतस्थितान् । स्तनमध्ये गतां कन्यां नर्मदां विद्धिपावनीम् ॥ ३७.५३ ॥ एतच्छ्रुत्वा वचो राजा विस्मयं परमं गतः । ततः कालेन महता पुनः सृष्टिः प्रवर्तते ॥ ३७.५४ ॥ सर्वलोकहितार्थाय ब्रह्मविष्णुमहेश्वराः । कल्पे कल्पे मया दृष्टमेतत्सर्वं युधिष्ठिर ॥ ३७.५५ ॥ न्यग्रोधः कल्पवृक्षश्च ओंकारः सप्तकल्पगा । अहं वैदूर्यशैलश्च परलिङ्गानि भारत ॥ ३७.५६ ॥ अक्षयं वाऽव्ययं चैतत्सर्वं जानीहि तत्त्वतः । एतत्ते कथितं राजन् यत्पृष्टोऽहं त्वयाऽनघ ॥ ३७.५७ ॥ भक्तस्त्वं श्रवणे श्रद्धा पुराणानां न संशयः । श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ३७.५८ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे कल्पान्तदर्शनं नाम सप्तत्रिंशोऽध्यायः ॥ अध्याय ३८ युधिष्ठिर उवाच - ईदृशं यस्य माहात्म्यं तीर्थस्य च परंतप । तृप्तिं नैवाधिगच्छामि शृण्वन् वेदविदां वर ॥ ३८.१ ॥ समर्थैः सर्वकार्येषु ब्राह्मणैर्वेदपारगैः । भूयस्तीर्थस्य माहात्म्यं निवेदय महामते ॥ ३८.२ ॥ मार्कण्डेय उवाच - अस्ति तीर्थं महाराज लिङ्गमन्यं यमेश्वरम् । दर्शनात्पूजनादस्य यमलोकं न पश्यति ॥ ३८.३ ॥ नर्मदादक्षिणे तीरे कपिलायाश्च पश्चिमे । विष्णोस्तत्र पुरी रम्या शक्रस्येवामरावती ॥ ३८.४ ॥ कल्पकोटियुगं चापि तस्यां तिष्ठति माधवः । पुरा देवासुरे युद्धे दानवैर्देवकण्टकैः ॥ ३८.५ ॥ निर्जिता देवताः सर्वास्तदासीच्च धरार्दिता । ब्रह्माद्या देवताः सर्वा क्षीरोदर्णवशायिनम् ॥ ३८.६ ॥ तुष्टुवुः प्रणिपत्यैनं स्तुत्यं चान्तःस्थमव्ययम् । जय देव जगन्नाथ दैत्यान्तक जनार्दन ॥ ३८.७ ॥ वाराहरूपमास्थाय प्रोद्धृता वसुधा त्वया । उद्धृता मत्स्यरूपेण वेदाः सागरमध्यतः ॥ ३८.८ ॥ कूर्मशेषादिरूपैश्च देवानामार्तिनाशनम् । बलिर्वामनरूपेण त्वया बद्धोऽसुरारिणा ॥ ३८.९ ॥ हिरण्यकशिपुर्दैत्यः सर्वलोकभयंकरः । त्वया नृसिंहरूपेण निहतो देवकण्टकः ॥ ३८.१० ॥ वेदमूल जगन्नाथ रक्ष नः शरणागतान् । श्रुत्वा स्तोत्रमिदं देवो ब्रह्माणं वाक्यमब्रवीत् ॥ ३८.११ ॥ किमर्थं च त्वया ब्रह्मन् क्षीरोदेऽहं प्रबोधित ॥ ३८.१२ ॥ ब्रह्मोवाच - त्वया विना जगन्नाथ क्षोणी छन्ना सुरारिभिः ॥ ३८.१३ ॥ सूर्येण च विहीनं हि निरालोकं जगद्यथा ॥ ३८.१४ ॥ विष्णुरुवाच - ब्रह्मन् भयं त्यजाशूत्वं दानवोऽयं दुरासदः । अचिरेणैव कालेन घातयामि च दानवम् ॥ ३८.१५ ॥ एवमुक्त्वा सुरैः सार्द्धमाजगाम जनार्दनः । सुदर्शनेन चक्रेण दानवानां शिरांसि च ॥ ३८.१६ ॥ चकर्त भगवान् विष्णुः सर्वलोकहिताय वै । भयार्ता दानवाः सर्वे पलायनपरायणाः ॥ ३८.१७ ॥ विष्णोस्त्रासात्तु ते सर्वे रसातलतलं ययुः । पुनः प्रवर्तितो यज्ञो द्विजदेवतपस्विनाम् ॥ ३८.१८ ॥ तस्यां पुर्यां महाभाग देवोऽभूद्दैत्यसूदनः । तत्र यस्त्यजति प्राणानवशः स्ववशोऽपि वा ॥ ३८.१९ ॥ वैष्णवेन विमानेन विष्णुलोके महीयते । कपिला पश्चिमायां तु नीलगङ्गासमागता ॥ ३८.२० ॥ अष्टायुतानि तीर्थानि विष्णुना प्रेरितानि वै । चक्रतीर्थं वामनं च कोटितीर्थं युगंधरम् ॥ ३८.२१ ॥ तत्र स्नात्वा नरो राजन् कोटितीर्थफलं लभेत् । सुदर्शनं नाम तीर्थं दैत्यसूदनमेव च ॥ ३८.२२ ॥ विष्ण्वावर्तं शिवावर्तं लक्ष्म्यावर्तं तथैव च । तत्र यद्दीयते दानं तस्य संख्या न विद्यते ॥ ३८.२३ ॥ विष्णोस्तु प्रीणनं कृत्वा अनन्तफलमश्नुते । क्रोशमात्रप्रमाणं हि विष्णुक्षेत्रं प्रकीर्तितम् ॥ ३८.२४ ॥ न विशेद्ब्रह्महत्या च सत्यमेतच्छिवोदितम् । मासोपवासं यः कुर्यादग्निहोत्रं तथैव च ॥ ३८.२५ ॥ पतिव्रता त्वं सत्यं च स्वाध्यायं यज्ञकर्म च । चान्द्रायणं पराकं च पितॄणां च तिलोदकम् ॥ ३८.२६ ॥ पितरस्तस्य तृप्यन्ति लोके क्रीडन्ति वैष्णवे । एकरात्रं त्रिरात्रं च कृच्छ्रं सान्तपनं तथा ॥ ३८.२७ ॥ अतिकृच्छ्रं पर्णकृच्छ्रं तथाऽन्यद्वैष्णवं व्रतम् । एकादश्यां न भुङ्क्ते यः पक्षयोरुभयोरपि ॥ ३८.२८ ॥ स गच्छति परं स्थानं यत्रास्ते भगवान् हरिः । अन्यक्षेत्रात्कोटिगुणं फलं वै केशवोऽब्रवीत् ॥ ३८.२९ ॥ तत्र जप्तं तपस्तप्तं सर्वं भवतु चाक्षयम् । श्रवणे द्वादशी पुण्या रोहिण्यामष्टमी शुभा ॥ ३८.३० ॥ तत्रोपोष्य महाराज विष्णुलोके महीयते । चाण्डालः श्वपचो वाऽपि तिर्यग्योनिगतोऽपि वा ॥ ३८.३१ ॥ अत्र यस्त्यजति प्राणान् विष्णुलोकं स गच्छति । कार्त्तिके चैव वैशाख उपवासं करोति यः ॥ ३८.३२ ॥ दशकोट्युपवासानां फलं प्राप्नोति मानवः । शङ्करेण पुरा गीतं पुराणे स्कन्दकीर्तिते ॥ ३८.३३ ॥ मासोपवासिनो दृष्ट्वा तत्रैव च पतिव्रताः । धर्मराजः स्वयं गत्वा अर्घं तेभ्यो निवेदयेत् ॥ ३८.३४ ॥ षष्टियानसहस्रैस्तु आगतो भगवान् प्रभुः । सहस्रयोजनं यावदायाति भगवान् यमः ॥ ३८.३५ ॥ शुक्लवस्त्रपरीधानो धर्मतेजो वपुर्धरः । स्थित्वा यानस्य चैवाग्रे भक्त्या पादौ च वन्दते ॥ ३८.३६ ॥ प्रदृश्य वैष्णवं लोकं ततो गत्वा निवर्तते । प्रत्यागतेषु यानेषु अपृच्छन् स्वेच्छया यमम् ॥ ३८.३७ ॥ ब्रह्मणो मानसाः पुत्राः सप्त चैव महर्षयः । कस्माच्च कारणाद्धर्म पादचारी गतः स्वयम् ॥ ३८.३८ ॥ कथयस्व महाभाग परं विस्मयमागताः । प्रहस्य चाब्रवीद्धर्मः शृण्वन्तु मुनिसत्तमाः ॥ ३८.३९ ॥ पतिव्रतानां दीप्तिं च दीप्तिं मासोपवासिनाम् । अशक्ता द्रष्टुमेतासां विमानान् दूरतः स्थितान् ॥ ३८.४० ॥ ताभ्यः प्रत्यागताः सर्वे मम भृत्या भयंकराः । एतस्मात्कारणाद्विप्राः पादचारी गतो ह्यहम् ॥ ३८.४१ ॥ मार्कण्डेय उवाच - माहात्म्याच्चामरावत्यां हरेरमिततेजसः । वासश्च यजनं तत्र कीर्तितं कलिनाशनम् ॥ ३८.४२ ॥ अथान्यः परमो देवो ब्रह्मेश इति विश्रुतः । रेवाया उत्तरे कूले संस्थितः पापनाशनः ॥ ३८.४३ ॥ अर्चनात्तस्य देवस्य नश्येतैनो युधिष्ठिर । पितरस्तृप्तिमायान्ति ब्रह्मलोकमवाप्नुयुः ॥ ३८.४४ ॥ लङ्केश्वराद्दक्षिणतः सिद्धलिङ्गं प्रकीर्तितम् । अर्चनात्स्पर्शनात्तस्य गाणपत्यमवाप्यते ॥ ३८.४५ ॥ विश्वेश्वरं महालिङ्गं सर्वदेवमयं शुभम् । शुक्लाष्टम्यां च वैशाखे लिङ्गायुतफलं लभेत् ॥ ३८.४६ ॥ अर्चनात्तस्य लिङ्गस्य शिवस्यानुचरो भवेत् । ततो गच्छेन्महाराज रेवाया उत्तरे तटे ॥ ३८.४७ ॥ पापप्रणाशनं चैव लिङ्गं परमसिद्धिदम् । अर्चनात्तर्पणात्स्नानाद्ब्रह्महत्यां व्यपोहति ॥ ३८.४८ ॥ ऋणानां मोचनं चैव लिङ्गं पापप्रणाशनम् । अनेकभाविकं चैव ऋणं तस्य प्रणश्यति ॥ ३८.४९ ॥ तिलोदकप्रदानेन ऋणमोचनदर्शनात् । पितरस्तस्य तृप्यन्ति यावच्चन्द्रार्कतारकम् ॥ ३८.५० ॥ अथान्यत्परमं लिङ्गं त्रिषु लोकेषु विश्रुतम् । दारुवने सिद्धलिङ्गं कथं पश्यन्ति कश्मलाः ॥ ३८.५१ ॥ नर्मदाचरुसम्भेदे स्नानं कृत्वा यथोदितम् । स्नापयित्वोदकेनेशं बिल्वपत्रैश्च पूजनात् ॥ ३८.५२ ॥ न तस्य पुनरावृत्तिरुमामाहेश्वरात्पुरात् ॥ ३८.५३ ॥ चतुष्केश्वरं सिद्धलिङ्गमामलक्याः प्रमाणतः । अर्चितं वै सुरैर्दैत्यैर्न तं पश्यन्ति मानवाः ॥ ३८.५४ ॥ करोत्यत्र तु यः श्राद्धं पुत्रः परमधार्मिकः । पितरस्तस्य तृप्यन्ति यावदाहूत संप्लवम् ॥ ३८.५५ ॥ शाकल्यस्याश्रमं पुण्यं योजनायुतविस्तरम् । यज्ञपर्वतमासाद्य निःसृता चरुका नदी ॥ ३८.५६ ॥ शक्रेणेष्टं पुरा तत्र बृहस्पतिपुरोधसा । एतत्पुण्यतमं लोके गीयते सर्वदैवतैः ॥ ३८.५७ ॥ चन्द्रसूर्योपरागे तु यत्फलं कुरुजाङ्गले । रेवाचरुकसंयोगे तत्फलं शिवकीर्तितम् ॥ ३८.५८ ॥ तत्राख्यातं दारुवनं भुवि सर्वैर्निषेवितम् । मुनीनां षष्टिसाहस्रैस्त्रेतातपसि संस्थितैः ॥ ३८.५९ ॥ कन्दमूलफलाहारैरग्निहोत्रपरायणैः । एतत्तीर्थप्रभावेण गतास्ते ब्रह्मणः पुरीम् ॥ ३८.६० ॥ निहत्य चान्धकं तत्र ननर्त भगवाञ्छिव । गणानां नायकाः सर्वे नानावाद्यानवादयन् ॥ ३८.६१ ॥ तत्र नृत्यति देवेशः सर्वा नृत्यन्ति देवताः । तेन दारुवनं ख्यातं लिङ्गं पापप्रणाशनम् ॥ ३८.६२ ॥ अर्चनात्तस्य देवस्य गाणपत्यमवाप्नुयात् । विमलेश्वरं तत्र लिङ्गं सर्वदेवमयं शुभम् ॥ ३८.६३ ॥ स्नानात्तत्र दिवं यान्ति ये मृता न पुनर्भवाः । निर्मलीकृतदेहास्तु कृतास्तत्र सुरासुराः ॥ ३८.६४ ॥ पिनाकिना महाराज नीताः सर्वे त्रिविष्टपम् । तिलोदकैः पिण्डदानैः पितॄन् प्रीणाति यो नरः ॥ ३८.६५ ॥ स गच्छति परं स्थानं यत्र देवो महेश्वरः । चन्द्रसूर्यग्रहे प्राप्ते दानसंख्या न विद्यते ॥ ३८.६६ ॥ शिवमभ्यर्च्य तत्रैव गाणपत्यमवाप्नुयात् । विमलेश्वरं तत्र लिङ्गं स्वयं विद्धि महेश्वरम् ॥ ३८.६७ ॥ व्याघ्रेश्वरं यत्र लिङ्गं व्याघ्री यत्र दिवं गता । तिलोदकप्रदानेन हविषा पिण्डदानतः ॥ ३८.६८ ॥ पितॄनुद्धरते पुत्रः शतपूर्वांस्तथा परान् । वसेत्स वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ ३८.६९ ॥ अर्चनात्तस्य देवस्य कीर्तनाच्छ्रवणादपि । इन्द्रलोकमवाप्नोति सत्यमेतन्मयोदितम् ॥ ३८.७० ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे चक्रस्वामिवर्णनो नामाष्टत्रिंशत्तमोऽध्यायः ॥ अध्याय ३९ युधिष्ठिर उवाच - लिङ्गं व्याघ्रेश्वरं नाम विघ्नकर्तृसमागमे । कथितं यन्महाभाग सर्वपापविमोक्षणम् ॥ ३९.१ ॥ प्रभावं वेदितुं तस्य पुनरिच्छाम्यहं मुने । मार्कण्डेय उवाच - शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम् ॥ ३९.२ ॥ बभ्रुर्नाम पुरा चासीद्राजा परमधार्मिकः । पुण्ड्रवर्द्धनवासी च सत्यधर्मपरायणः ॥ ३९.३ ॥ पितुः क्षयाहे सम्प्राप्ते श्राद्धकाले सुसंयतः । नित्यं नैमित्तिकं कर्म पित्रर्थं स चकार ह ॥ ३९.४ ॥ यज्ञकाले निवृत्तेऽथ बुद्धिं प्राप्य तु भारत । चिन्तयामास राजासौ किंकरोमीती चाब्रवीत् ॥ ३९.५ ॥ ऋषयो निरपेक्षाशाः कन्दमूलफलाशिनः । विप्रातिथिं न पश्यामि कं भोजयितुमुत्सहे ॥ ३९.६ ॥ संचिन्त्य विप्रभोज्यार्थं पाकमप्सु व्यनिक्षिपत् । ऋग्वेदश्च ततो वाक्यं कोपात्प्राह ततस्तदा ॥ ३९.७ ॥ इदानीं द्वापरस्यान्ते वर्तते पापसंभवः । वैवस्वतेऽन्तरे प्राप्ते ब्राह्मणा लब्धकामुकाः ॥ ३९.८ ॥ ते भुञ्जन् कामुकाः सर्वे राजद्रव्यं सकिल्बिषम् । देशे कदाचित्पुण्याहे भारद्वाजाश्रमंगतः ॥ ३९.९ ॥ सोऽभिवाद्य नमस्कृत्य मुनिं तत्र व्यवस्थितः । भारद्वाजोऽब्रवीद्वाक्यं तस्मै दत्त्वासनं महत् ॥ ३९.१० ॥ स्वागतं ते महाराज कुशलं सह भार्यया । चिरं दृष्टोऽसि धर्मज्ञ एकाकी त्वं कथंचन ॥ ३९.११ ॥ राजोवाच - अद्य मे कुशलं ब्रह्मंस्त्वत्पादाम्बुजदर्शनात् । महर्षे श्राद्धकालोऽयां पितॄणां मम वर्तते ॥ ३९.१२ ॥ भोजयेऽहं यथा विप्रं तथा त्वं कर्तुमर्हसि । तस्य तद्वचनं श्रुत्वा भारद्वाजोऽब्रवीद्वचः ॥ ३९.१३ ॥ महर्षीणां सहस्राणि तुष्टानामूर्ध्वरेतसाम् । हंसलोमशमुख्यानां यदि भोजयितुं क्षमः ॥ ३९.१४ ॥ पश्चात्प्रवर्तते श्राद्धं सत्यमेतद्ब्रवीम्यहम् । दद्या हेममयं पीठं दद्या धान्यं तथा वसु ॥ ३९.१५ ॥ मधुधेनुं तथा दिव्यां पयोधेनुं तथैव च । अग्निशौचस्य कौपीनं वस्त्रस्य तु विशाम्पते ॥ ३९.१६ ॥ तस्य तद्वचनं श्रुत्वा भारद्वाजस्य भूपतिः । एवमस्त्विति तं चोक्त्वा सर्वं पत्न्यै न्यवेदयत् ॥ ३९.१७ ॥ महोक्षं कल्पयित्वा पितृकार्यं निवर्तये । श्रौतस्मार्तादिकं कर्म आमिषं पितृतर्पणम् ॥ ३९.१८ ॥ इत्यादिस्मृतिवाक्यानि पर्यालोच्य पुनः पुनः । महोक्षं च ततो हत्वा तर्पयामास तान् पितॄन् ॥ ३९.१९ ॥ अनड्वाहं पशुं ज्ञात्वा भारद्वाजादयस्ततः । कुपिताः कर्मणा तेन राज्ञीं राजानमेव च ॥ ३९.२० ॥ कोपसंभारसंतप्ता गर्हयन्तोऽब्रुवंस्तदा । सुरामांसादिमाध्वीकं कृत्वा गोमांसभक्षणम् ॥ ३९.२१ ॥ तप्तकृच्छ्रं चरेद्विप्रो मौञ्जीबन्धेन शूद्ध्यति । अभक्षभक्षणं कृत्वा करीषाग्नौ विशेद्द्विजः ॥ ३९.२२ ॥ घातितानि त्वया चाष्टौ सहस्राणि तपस्विनाम् । हव्यं देवा न गृह्णन्ति कथं च पितरः पुनः ॥ ३९.२३ ॥ त्वया वै क्रतवश्चेष्टास्ते गता वै श्वयोनिषु । व्यर्थमास तपस्तेऽद्य मूलनाशस्त्वया कृतः ॥ ३९.२४ ॥ बभ्रुरुवाच - वेदोक्तं यः परित्यज्य धर्ममन्यं समाचरेत् । दशवर्षसहस्राणि श्वयोनौ जायते ध्रुवम् ॥ ३९.२५ ॥ वेदार्थनिन्दका ये वै ब्राह्मणा ज्ञानदुर्बलाः । इह जन्मनि शूद्रास्ते मृताः श्वानो भवन्ति ते ॥ ३९.२६ ॥ गोमेधो हयमेधश्च नरमेधस्तथाऽपरः । क्षत्रियास्त्वथ जीवन्ति पूज्यन्ते देवमानुषैः ॥ ३९.२७ ॥ राज्ञस्तद्वचनं श्रुत्वा भारद्वाजोऽशपत्नृपम् । यस्मान्महोक्षमांसेन तार्पिता ब्राह्मणास्त्वया ॥ ३९.२८ ॥ भवतु अनेन पापेन व्याघ्रो व्याघ्री तव प्रिया । दिव्यं वर्षसहस्रं तु वसुधां विचरिष्यथः ॥ ३९.२९ ॥ तस्य तद्वचनं श्रुत्वा मुनेरमिततेजसः । सुधर्मा चाब्रवीद्वाक्यं राजपत्नी यशस्विनी ॥ ३९.३० ॥ वेदोक्तकर्मकर्ता तु यतः शप्तः पतिर्मम । पतिव्रता च निर्दोषा धर्मिष्ठाऽहं तथैव च ॥ ३९.३१ ॥ दशवर्षसहस्राणि तेन पापेन दुःखिताः । भविष्यथ महाघोरा यूयं वै ब्रह्मराक्षसाः ॥ ३९.३२ ॥ निर्जले मरुदेशे च अपरे कण्टकावृते । क्षुधार्ताश्च तृषार्ताश्च काकगृध्रैरनुद्रुताः ॥ ३९.३३ ॥ भारद्वाजश्च राज्ञी च शप्त्वा तत्र परस्परम् । भारद्वाजश्च सार्द्धं तैः कृत्वा पुण्यं ततो नृप ॥ ३९.३४ ॥ ब्रह्मलोकं जगामाथ ब्राह्मणैः सह भारत । सोऽभिवाद्य यथा न्यायं ब्रह्माणं सुरसत्तमम् ॥ ३९.३५ ॥ सर्वं न्यवेदयत्तत्राभक्षभोज्यं च यत्कृतम् । ब्रह्मोवाच - लोकापचरितं कर्म [] कार्यं देववर्जितम् ॥ ३९.३६ ॥ [ङपिन् Oरिगिनल्] उक्तानि च निषिद्धानि धर्माधर्मविचारणे । लोकोक्तं विहितं कर्म त्रयी मार्गं विचारितम् ॥ ३९.३७ ॥ कर्तव्यं तु प्रयत्नेन स्वर्गमोक्षप्रदायकम् । बोधिता ब्राह्मणास्तेन ब्रह्मणा नृपतिस्तदा ॥ ३९.३८ ॥ शापान्तः कथितस्तेषां तेनैव परमेष्ठिना । शापस्यान्तो मया दृष्टो भवतां पापकर्मिणाम् ॥ ३९.३९ ॥ पुण्यक्षये च शप्तास्तु सम्प्राप्ते तु युगान्तरे । नर्मदातीरवासी यो मार्कण्डेयो महामुनिः ॥ ३९.४० ॥ स दास्यत्युपदेशं वो येन मोक्षमवाप्स्यथ । ततः कालेन महता मार्कण्डेयं मुनिं गताः ॥ ३९.४१ ॥ दैवयोगेन ते सर्वे कल्पगा तीरवासिनम् । अभिवाद्य यथा न्यायं तमृषिं प्रणिपत्य च ॥ ३९.४२ ॥ स्थिताः स्वकर्म तत्रैव व्याहरन्तः परस्परम् । दृष्ट्वा तांश्चिन्तयामास मार्कण्डेयो महामुनिः ॥ ३९.४३ ॥ मिथुनं व्याघ्ररूपेण व्याहरन्मानुषीं गिरम् । केन कर्मविपाकेन ब्राह्मणा ब्रह्मराक्षसाः ॥ ३९.४४ ॥ एवं संचिन्त्य मार्कण्डो भारद्वाजमथाब्रवीत् । दम्पती व्याघ्ररूपेण ब्राह्मणा ब्रह्मराक्षसाः ॥ ३९.४५ ॥ यूयं च विकृताकाराः कथयध्वं कथं च तत् । भारद्वाज उवाच - शृणु ब्रह्मन् समासेन कथ्यमानं वचो मम ॥ ३९.४६ ॥ भविष्यभूततत्त्वज्ञ त्रिकालज्ञ त्रिवेदवित् । बभ्रुर्नामा चक्रवर्ती पुण्ड्रवर्धनसंस्थितः ॥ ३९.४७ ॥ सुधर्मा नाम तस्यैव धर्मपत्नी पतिव्रता । एकदा श्राद्धकाले तु नातिथिं प्राप्तवान् द्विजम् ॥ ३९.४८ ॥ संचिन्त्याथ तदात्मानमागतो ह्याश्रमं मम । पादौ जग्राह शिरसा ततो वचनमब्रवीत् ॥ ३९.४९ ॥ पितॄणां श्राद्धकालो मे प्रसादः क्रियतां मयि । ततो मयोपदिष्टोऽसौ मुनींस्त्वं भोजयाधुना ॥ ३९.५० ॥ महोक्षं शातयित्वा तु भोजितास्ते तपोधनाः । शप्तो मया च शीघ्रं त्वं व्याघ्रयोनिं गमिष्यसि ॥ ३९.५१ ॥ निर्भर्त्स्य मां च तत्पत्नी शशाप ब्रह्मराक्षसाः । यूयं भवत वै सर्वे मरुदेशे क्षुधार्दिताः ॥ ३९.५२ ॥ ब्रह्माणं च ततः प्राप्ता विवादेन परस्परम् । ब्रह्मणा प्रेषितास्तेऽमी त्वत्सकाशमिहागताः ॥ ३९.५३ ॥ एतत्ते कथितं सर्वं कारणं विकृते महत् । नान्यत्स्थानं प्रपश्यामो यत्रास्माकं स्थितिर्भवेत् ॥ ३९.५४ ॥ न दिवा नैव रात्रिश्च न सूर्यो न च चन्द्रमाः । न ग्रहा नैव ऋक्षाणि ऋषयो यत्र मण्डलम् ॥ ३९.५५ ॥ सरितः सागराः शैला भूतग्रामं चतुर्विधम् । आसीदिदं तमो भूतमादि मध्यान्तवार्जितम् ॥ ३९.५६ ॥ मुग्धा वयं न जानीमो न चाज्ञायत किंचन । न्यग्रोधं नर्मदामध्ये मेघाभं कालरूपिणम् ॥ ३९.५७ ॥ त्वां वै सर्वद्विजश्रेष्ठं नान्य पश्यामि किंचन । त्वं पिता नो गुरुश्चैव हरिर्धाता स्वयं शिवः ॥ ३९.५८ ॥ अकामतः कृतं पापं स्वयमेतदुपार्जितम् । त्वत्प्रसादात्मुनिश्रेष्ठ मुञ्चामो घोरकिल्बिषात् ॥ ३९.५९ ॥ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशभम् ॥ ३९.६० ॥ मार्कण्डेय उवाच - शाकल्यस्याश्रमं पुण्यं ब्रह्मर्षिगणसेवितम् । वैदूर्यात्पश्चिमे भागे यत्र देवो महेश्वरः ॥ ३९.६१ ॥ तत्र गत्वा च यूयं वै तपश्चोग्रं करिष्यथ । जपध्यानपरा नित्यं कन्दमूलफलाशिनः ॥ ३९.६२ ॥ एवं द्वादशवर्षाणि संतिष्ठध्वं द्विजोत्तमाः । यावद्वै वेदमानेन पुनः सृष्टिः प्रवर्तते ॥ ३९.६३ ॥ तमो भूतमिदं सर्वं न प्राज्ञायत किंचन । सर्वं चकार भगवान्महाकालवपुर्धरः ॥ ३९.६४ ॥ प्राणिनां कर्मणा ह्येतज्जगत्कालवशङ्गतम् । वायुरग्निर्जलं पृथ्वी भूतग्रामश्चतुर्विधः ॥ ३९.६५ ॥ कालस्य भोजनं सर्वं भस्मपुञ्जमिवाभवत् । नाश्चर्यमत्र कर्तव्यं पुनः सृष्टिर्भविष्यति ॥ ३९.६६ ॥ तस्य तद्वचनं श्रुत्वा सर्वे ते पापयोनयः । नमस्कृत्य मुनिश्रेष्ठं मार्कण्डं कल्पवासिनम् ॥ ३९.६७ ॥ राजा च राजपत्नी च ऋषयो विमलेश्वरम् । जग्मुः कालेन महता पुनःसृष्टिः प्रवर्तिता ॥ ३९.६८ ॥ स्वयं प्रजापतिर्ब्रह्मा ससर्ज विविधाः प्रजाः । कलाः काष्ठा मुहूर्ताश्च जगत्स्थावरजङ्गमम् ॥ ३९.६९ ॥ सरितः सागरान् गुल्मान् पर्वतां च लतास्तथा । आपोऽग्निं वै तथा वायुं भूतग्रामं चतुर्विधम् ॥ ३९.७० ॥ सूर्यं च दक्षिणे नेत्रे सोऽसृजत्प्राणिनस्तथा । वामनेत्रे हिमांशुं च स तथा पर्यकल्पयत् ॥ ३९.७१ ॥ एतदृक्षवरैः सार्द्धं पवित्रं ध्रुवमण्डलम् । विवस्वतः प्रभां चैव सर्वलोकप्रकाशिनीम् ॥ ३९.७२ ॥ सृष्टा चान्द्रमसी ज्योत्स्ना दिवा रात्री तथैव च । अपरेषु च द्वीपेषु न सूर्यो नैव चन्द्रमाः ॥ ३९.७३ ॥ रौद्री प्रभाऽस्ति तत्रैवं पुनः सृष्टिः प्रवर्तिता । पूर्णे तु द्वादशे वर्षे शापान्ते समुपस्थिते ॥ ३९.७४ ॥ अर्चयित्वा महेशानं रेवाव्याघ्रसमागमे । भारद्वाजादयः सर्वे ब्रह्मलोकमवाप्नुयुः ॥ ३९.७५ ॥ कामिकं यानमारुह्य राजा मुनियुतस्तदा । तीर्थस्यास्य प्रभावेण उमामाहेश्वरे पुरे ॥ ३९.७६ ॥ व्याघ्रेश्वरो व्याघ्रकर्तृसङ्गमे त्रिदशार्चितः । अन्यल्लिङ्गं न पश्यामि दिव्यं वै विमलेश्वरात् ॥ ३९.७७ ॥ अर्चनात्तस्य लिङ्गस्य दर्शनात्स्पर्शनात्तथा । ब्रह्महत्या प्रणश्येत पापेष्वन्येषु का कथा ॥ ३९.७८ ॥ तीर्थेषु श्राद्धकरणात्पितॄणामक्षया गतिः । कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ३९.७९ ॥ तीर्थस्यास्य प्रभावेण लोके क्रीडन्ति वैष्णवे । एतत्ते कथितं सर्वं यथादृष्टं यथाश्रुतम् ॥ ३९.८० ॥ श्रवणात्कीर्तनादस्य अश्वमेधफलं लभेत् ॥ ३९.८१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे विमलेश्वरवर्णनो नामैकोनचत्वारिंशोऽध्यायः ॥ अध्याय ४० युधिष्ठिर उवाच - मनसा चिन्तितं यच्च तदेव समुपस्थितम् । लक्षणं सूत्रयागस्य पर्वतस्य तु वेष्टनम् ॥ ४०.१ ॥ कस्मिन् काले प्रकर्तव्यं विधानां विधिपूर्वकम् । त्वमेव वेत्सि सर्वं वै विदितं कुरु साम्प्रतम् ॥ ४०.२ ॥ येन देवाः सगन्धर्वा मानुषाः पापयोनयः । तत्र यागप्रभावेण दिवि देवत्वमागताः ॥ ४०.३ ॥ मार्कण्डेय उवाच - श्रूयतां राजशार्दूल सूत्रयागस्य लक्षणम् । चन्द्रसूर्योपरागे तु षडशीतिमुखे तथा ॥ ४०.४ ॥ युगादौ विषुवे चैव व्यतीपाते च संक्रमे । कार्त्तिक्यां च तथा माघ्यां वैशाख्यां चैव भारत ॥ ४०.५ ॥ सूर्योपरागतुल्यायां षष्ठ्यां हि कपिलस्य तु ॥ ४०.६ ॥ वैशाखमासस्य तु या तृतीया नवम्यथोर्जस्य च शुक्लपक्षे । माघे त्वमा चैव नभस्यकृष्णा त्रयोदशी चेति युगादयस्तथा ॥ ४०.७ ॥ पर्वस्वेतेषु कौन्तेय सूत्रयागं तु कारयेत् । अनन्तफलसंयुक्तं शिवेन कथितं पुरा ॥ ४०.८ ॥ सूत्रेण वेष्टयेद्यस्तु पर्वतं शिवसन्निभम् । उमया सहितं देवं गणेशेन तथैव च ॥ ४०.९ ॥ तावद्युगसहस्राणि स्वर्गलोके महीयते । पुत्रिणी भर्तृसंयुक्ता नारी तद्वेष्टिनी भवेत् ॥ ४०.१० ॥ कौशेयं पट्टसूत्रं च कार्पासं च महीपते । नवतन्तुं च यः कुर्याद्दश द्वादशतन्तुकम् ॥ ४०.११ ॥ अष्टादश महाराज चतुर्विंशति वा क्रमात् । क्षालयेत्कोटितीर्थे तु गन्धधूपेन वासयेत् ॥ ४०.१२ ॥ बध्नीयात्पुष्पमालां च दीपमालां च बोधयेत् । रात्रौ जागरणं कृत्वा ओंकारे विधिपूर्वकम् ॥ ४०.१३ ॥ शिवध्यानपरो भूत्वा निराहारो निशां नयेत् । प्रभाते चोत्सवं कुर्यादोंकाराभ्यर्चनं तथा ॥ ४०.१४ ॥ न्यग्रोधे बन्धयेत्सूत्रं समाधिस्थो नरेश्वर । कोटितीर्थं ततो गच्छेत्सर्वतीर्थमयं शुभम् ॥ ४०.१५ ॥ ऋणमोक्षं पापनाशं नरकेश्वरमुत्तमम् । गन्धर्वेश्वरलिङ्गं तु गच्छेत्परमशोभनम् ॥ ४०.१६ ॥ अदृश्यं सर्वभूतानां नागकन्याभिरर्च्यते । तत्र स्नात्वा नरो राजन् गान्धर्वं लोकमाप्नुयात् ॥ ४०.१७ ॥ ततो गच्छेन्नृपश्रेष्ठ अङ्गारेश्वरमुत्तमम् । दर्शनात्तस्य लिङ्गस्य गाणपत्यमवाप्यते ॥ ४०.१८ ॥ अङ्गारेण तपस्तप्तं दिव्यं वर्षशतं तथा । ग्रहत्वमगमत्सोऽपि तीर्थस्यऽस्य प्रभावतः ॥ ४०.१९ ॥ ब्रह्मावर्तं ततो गच्छेत्सर्वतीर्थमयं शुभम् । तत्र स्नात्वा नरो राजन् छिवलोकमवाप्नुयात् ॥ ४०.२० ॥ तिलोदकप्रदानेन पितॄणां परमा गतिः । दिव्यं वर्षसहस्रं तु तपस्तेपे सुदुष्करम् ॥ ४०.२१ ॥ ब्रह्मा चैव पुराकल्पे लोकानुग्रहकारकः । लिङ्गं मध्येश्वरं नाम जलमध्ये व्यवस्थितम् ॥ ४०.२२ ॥ पूज्यते नागकन्याभिर्न तत्पश्यन्ति मानवाः । दारुकेश्वरलिङ्गं तु सर्वपापप्रणाशनम् ॥ ४०.२३ ॥ अर्चनात्तस्य देवस्य नरो विद्याधरो भवेत् । भृगुलिङ्गं ततो गच्छेद्भैरवो यत्र संस्थितः ॥ ४०.२४ ॥ भृगुं गत्वा नरश्रेष्ठ मुच्यते ब्रह्महत्यया । जालेश्वरं ततो गच्छेत्पर्वतीर्थोत्तमोत्तमम् ॥ ४०.२५ ॥ स्नानमात्रो नरस्तत्र स भवे न पुनर्भवेत् । तिलोदकप्रदानेन पितॄणामक्षया गतिः ॥ ४०.२६ ॥ भैरवं रूपमास्थाय बाणस्य च पुरत्रयम् । पातितं जलमध्ये तु नर्मदाया हरेण वै ॥ ४०.२७ ॥ ज्वलत्पाशुपतास्त्रेण तत्रैव तदनन्तरम् । तदस्त्रसङ्गमाच्छीघ्रं पातालाच्चोत्थितं ततः ॥ ४०.२८ ॥ लिङ्गं जालेश्वरं नाम ब्रह्महत्यां व्यपोहति । कोटितीर्थं ततो गच्छेत्स्नात्वा च विधिपूर्वकम् ॥ ४०.२९ ॥ वलक्षं बन्धयेत्सूत्रमोंकारस्य तु भारत । ओंकारं च समभ्यर्च्य दीपमालां च बोधयेत् ॥ ४०.३० ॥ सफलः सूत्रयागस्तु त्वत्प्रसादान्महेश्वर । यतींश्च भोजयेत्तत्र दद्याच्छक्त्या च दक्षिणाम् ॥ ४०.३१ ॥ सार्द्धं च बन्धुभृत्यैश्च पारणं क्रियते नृप । यः शारीरेण कष्टेन पर्यटेच्छिवपर्वतम् ॥ ४०.३२ ॥ पदे पदे यज्ञफल तस्य स्याच्छङ्करोऽब्रवीत् । पुरा देवगणैः सर्वैः सिद्धगन्धर्वकिन्नरैः ॥ ४०.३३ ॥ विद्याधरैस्तथा यक्षैरसुरैर्दैत्यदानवैः । चन्द्रादित्यग्रहैश्चैव नक्षत्रध्रुवमण्डलैः ॥ ४०.३४ ॥ विश्वेदेवैश्च साध्यैश्च मरुद्भिर्वसुभिस्तथा । देवराजेन चेन्द्राण्या सावित्र्या चैव भारत ॥ ४०.३५ ॥ अरुन्धत्या सरस्वत्या गायत्र्या स च पर्वतः । सूत्रेण वेष्टितो भक्त्या फलं प्राप्तं शिवोदितम् ॥ ४०.३६ ॥ अहल्या मेनका रम्भा घृताची चोर्वशी तथा । तिलोत्तमा तथा चान्या सरितः सागराश्च वै ॥ ४०.३७ ॥ वेष्टनात्पर्वतस्यास्य दिग्देवत्वमवाप्तवान् । यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ ४०.३८ ॥ सूत्रयागप्रभावेण तावच्छिवपुरे वसेत् । एतत्ते कथितं राजन् सूत्रयागस्य यत्फलम् ॥ ४०.३९ ॥ श्रवणात्कीर्तनादस्य रुद्रस्यानुचरो भवेत् ॥ ४०.४० ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे सूत्रयागवर्णनो नाम चत्वारिंशोऽध्यायः ॥ अध्याय ४१ युधिष्ठिर उवाच - कीर्तनं कोटितीर्थस्य मानसंख्याप्रमाणतः । तीर्थानि चोत्तरे याम्ये प्राकारे संस्थितानि च ॥ ४१.१ ॥ कथयस्व प्रसादेन तानि मे मुनिसत्तम । तेषां तु दर्शनादेव पापं दुष्कृतकर्मिणाम् ॥ ४१.२ ॥ प्रणश्येत्तत्क्षणादेव तमः सूर्योदये यथा । मार्कण्डेय उवाच - उत्तरे यानि तीर्थानि यानि तीर्थानि दक्षिणे ॥ ४१.३ ॥ लीयन्ते कोटितीर्थे तु साक्षाच्छिवपदे नृप । पृथिव्यां यानि तीर्थानि आसमुद्रान्तगोचरे ॥ ४१.४ ॥ तानि साक्षात्कोटितीर्थे लीयन्ते परमे पदे । कपिलाऽमरयोर्मध्ये नर्मदोंकारमध्यतः ॥ ४१.५ ॥ अत्रान्तरे नृपश्रेष्ठ कोटितीर्थं व्यवस्थितम् । दशायुतानि तीर्थानां पातालतलवासिनाम् ॥ ४१.६ ॥ कपिलानर्मदामध्ये शिवेन स्थापितानि च । अत्रान्तरे महाराज रुद्रावर्तजलेन तु ॥ ४१.७ ॥ स्नात्वा विधानतस्ते वै गच्छन्ति शिवमन्दिरम् । ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते ॥ ४१.८ ॥ वसन्ति वामभागे वै ते लोकं यान्ति वैष्णवम् । ये पूर्वपश्चिमे भागे वसन्त्यमरकण्टके ॥ ४१.९ ॥ रुद्रस्य ब्रह्मणो लोकं ते प्रयान्ति च वैष्णवम् । जले चैकादशाग्नौ तु पतने षोडशैव तु ॥ ४१.१० ॥ सहस्राणि तथाशीतिर्मरणाद्गोगृहे तथा । अनशने ब्रह्मलोकः सार्द्धं लक्षमुदाहृतः ॥ ४१.११ ॥ कपिलानर्मदातोये जलाग्नी साधयन्ति ये । चतुर्युगसहस्राणि रुद्रलोके वसन्ति ते ॥ ४१.१२ ॥ अवशः स्ववशो वाऽपि मृगपक्षिसरीसृपाः । तिर्यग्योनिगताः पापा म्रियन्ते ये युधिष्ठिर ॥ ४१.१३ ॥ राजानस्ते प्रजायन्ते शुभे वैद्याधरे पुरे । राहुसोमसमायोगे कोटितीर्थे नराधिप ॥ ४१.१४ ॥ पुण्यं यत्कीर्तितं पुंसां तस्य संख्या न विद्यते । गयायां च कुरुक्षेत्रे पुष्करेऽमरकण्टके ॥ ४१.१५ ॥ तुल्यं फलमवाप्नोति राहुग्रस्ते दिवाकरे । प्राची सरस्वती यत्र स्थाणुः सारस्वतं जलम् ॥ ४१.१६ ॥ सार्द्धं द्वादश लक्षं तु दत्तं तत्र प्रवर्तते । तत्तुल्यं तु भवेत्सर्वं कोटितीर्थे न संशयः ॥ ४१.१७ ॥ न्यायोपार्जितवित्तस्य राहुग्रस्ते दिवाकरे । नानाविधं तु पुण्यं च मतं वै परिकीर्तितम् ॥ ४१.१८ ॥ ब्रह्मविष्णुशिवोक्तं च प्रमाण सर्वसम्मतम् । अल्पसत्त्वा नरा राजन् काले मायाविमोहिताः ॥ ४१.१९ ॥ ओंकारं ये न पश्यन्ति तथा वै सप्तकल्पगाम् । गोछागयोर्महाराज हेमरूप्ये यदन्तरम् ॥ ४१.२० ॥ शूद्रब्राह्मणयोर्यद्वद्यथा वद्दधितक्रयोः । अमरेश्वरतीर्थं हि ज्ञेयं तीर्थान्तरैः सह ॥ ४१.२१ ॥ दीयते कोटितीर्थे यद्गुञ्जामात्रं हिरण्यकम् । तस्य संख्या न विद्यते यावदाहूत संप्लवम् ॥ ४१.२२ ॥ चतुर्हस्तप्रमाणं तु कोटितीर्थं न संशयः । हस्तमात्रं तथा चान्ये वितस्तिं च तथाऽपरे ॥ ४१.२३ ॥ चतुरङ्गुलमयं केऽपि केचिदङ्गुलमानतः । अर्द्धाङ्गुलं यवमात्रं ब्रह्मसूत्रप्रमाणतः ॥ ४१.२४ ॥ चतुर्विंशे द्वादशाब्दे कुरुक्षेत्रात्सरस्वती । कोटितीर्थे तथा स्नातुं राहुग्रस्ते दिवाकरे ॥ ४१.२५ ॥ करिणीरूपमास्थाय आयात्स्वपुण्यकक्षयात् । स्नानं कृत्वा पुनर्याति कुरुक्षेत्रं न संशयः ॥ ४१.२६ ॥ कावेरीसङ्गमं यावदारभ्यो दधिसङ्गमम् । अत्रान्तरे महाराज तीर्थकोट्यो दश स्मृताः ॥ ४१.२७ ॥ कोटितीर्थं समारभ्य नीलगङ्गावसानतः । अष्टलक्षाणि तीर्थानां ब्रह्मसूत्रप्रमाणतः ॥ ४१.२८ ॥ कावेर्याः पूर्वभागे च यावत्पर्यङ्कपर्वतः । दश लक्षाणि तीर्थानां संख्या च कथिता तव ॥ ४१.२९ ॥ नर्मदायां समासाद्य जमदग्नेर्महाश्रमम् । श्रीकण्ठं नीलकण्ठं च लिङ्गं पापप्रणाशनम् ॥ ४१.३० ॥ कन्यातीर्थं महापुण्यं कपिलेश्वरमुत्तमम् । कपिलावर्तसंज्ञं तु तीर्थं पापहरं परम् ॥ ४१.३१ ॥ तत्र पूषा च सूर्यस्तु शिवध्यानपरायणः । दिव्यं वर्षसहस्रं तु तपस्तेपे सुदुष्करम् ॥ ४१.३२ ॥ ततस्तुष्टः सुरेशानस्तमुवाच तदा नृप । वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ॥ ४१.३३ ॥ पूषोवाच - यदि तुष्टोऽसि देवेश वरं दातुं त्वमिच्छसि । सूर्यपिङ्गलसंज्ञं तु लिङ्गं परमसिद्धिदम् ॥ ४१.३४ ॥ आकाशे प्रतपद्रश्मिसहस्रांशु समप्रभम् । मासे मासेऽन्यमित्रस्तु संक्रमश्चान्यराशिषु ॥ ४१.३५ ॥ इमं वरमहं मन्ये जगद्द्योतनकारकम् । ईश्वर उवाच - सर्वसम्पत्समृद्धिस्ते मत्प्रसादाद्भविष्यति ॥ ४१.३६ ॥ कृते युगे महाराज मयैतद्दृष्टमेव च । चतुर्दश्यां तथाऽष्टम्यां पिङ्गलेश्वरपूजनात् ॥ ४१.३७ ॥ कोटियज्ञफलं प्राप्य शिवलोके महीयते । रेवातीरेषु ये देवाः क्रोशमात्रं स्वयंभुवः ॥ ४१.३८ ॥ सर्वे ते सिद्धिदा ज्ञेयाः कामभोगफलप्रदाः । केचित्कूष्माण्डमात्रा वै केचिद्वै पुष्पमात्रकाः ॥ ४१.३९ ॥ एरण्डफलमात्राश्च वज्रमौक्तिकमानतः । कृते मणिमयाः प्रोक्तास्त्रेतायां तु हिरण्मयाः ॥ ४१.४० ॥ द्वापरे रौप्यताम्राश्च कलौ चाश्ममयाः स्मृताः । ब्राह्मं कृतयुगं प्राहुस्त्रेतां वै क्षत्रियं तथा ॥ ४१.४१ ॥ द्वापरं वैश्यमित्येवं कलिं शूद्रं तथैव च । नापुण्यालिङ्गमासाद्य म्रियतेऽमरकण्टके ॥ ४१.४२ ॥ को न मुच्येत कौन्तेय सप्तजन्मजकिल्बिषात् । यादृशोऽयं गिरिः पुण्यः सर्वतोऽमरकण्टकः ॥ ४१.४३ ॥ तादृशं नानुपश्यामि त्रिषु लोकेषु भारत । पर्वतस्य समन्तात्तु तीर्थकोटिर्व्यवस्थिता ॥ ४१.४४ ॥ स्वर्गसोपानमासाद्य प्रात्यक्षं शिवदर्शनम् । सुपुण्यं कोटितीर्थं वै तथा चामरकण्टकम् ॥ ४१.४५ ॥ स्वर्गदं मोक्षदं विद्धि सर्वसिद्धिप्रदायकम् । वैदूर्यपर्वते सिद्धो मान्धाता च कृते युगे ॥ ४१.४६ ॥ कथितो नृपशार्दूल तथान्यत्कथयामि ते । कावेरीसङ्गमः पुण्यः सर्वलोकेषु विश्रुतः ॥ ४१.४७ ॥ तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः । कावेर्यां भूतजाभौमे व्यतीपातो यदा भवेत् ॥ ४१.४८ ॥ सहस्रगुणितं पुण्यं भवेत्तस्यास्तु सङ्गमे । शस्त्रेण निहता ये वै तिलमिश्राम्बुदानतः ॥ ४१.४९ ॥ ते चैकोद्दिष्टश्राद्धेन स्वर्गलोकमवाप्नुयुः । चाण्डालाद्गुहकात्सर्पाद्विद्युतो ब्राह्मणादपि ॥ ४१.५० ॥ दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् । सर्वे ते नृपशार्दूल कावेरीसङ्गमे शुभे ॥ ४१.५१ ॥ श्राद्धस्य करणात्सत्यं तृप्ता यान्ति परां गतिम् । कुबेरेण तपस्तप्तं दिव्यं वर्षसहस्रकम् ॥ ४१.५२ ॥ आराधितः पूजितश्च लोकनाथ उमापतिः । शिवप्रसादसम्पन्नो लोकपालत्वमाप्तवान् ॥ ४१.५३ ॥ तत्र यस्त्यजति प्राणांस्तस्य पुण्यफलं शृणु । षष्टिवर्षसहस्राणि देवराज्यमवाप्नुयात् ॥ ४१.५४ ॥ अवशः स्ववशो वाऽपि प्राणत्यागं करोति यः । दशवर्षसहस्राणि राजा वैद्याधरे पुरे ॥ ४१.५५ ॥ रेवाकावेरिकैस्तोयैस्तिलैरारण्यकैस्तथा । पितरस्तर्पितास्तत्र तृप्ता यान्ति परां गतिम् ॥ ४१.५६ ॥ नानामुखसहस्रैस्तु कावेरी प्रथिता भुवि । चराचरं यथा व्याप्तं वायुना सूर्यरश्मिभिः ॥ ४१.५७ ॥ तथा तोयेन कावेर्या व्याप्तं च वसुधातलम् । नर्मदादक्षिणे कूले वाराहे विन्ध्यपर्वते ॥ ४१.५८ ॥ प्रत्यक्षा सर्वदेवानां पयोष्णी निर्गता यतः । सोमस्य दुहिता चासीथिमगर्भेन्दुशीतला ॥ ४१.५९ ॥ हरेणाराधिता पूर्वमुमामूर्तिः पयस्विनी । लोकानां तारणार्थाय सोमगङ्गेति गीयते ॥ ४१.६० ॥ विनिष्क्रान्ता शरीराच्च वाराहस्य यशस्विनः । तत्र स्नात्वा नरो राजन् भवे वै न पुनर्भवेत् ॥ ४१.६१ ॥ तिलोदकप्रदानेन पितरस्तस्य भारत । दशायुतसहस्राणि लोके क्रीडन्ति शाङ्करे ॥ ४१.६२ ॥ कार्त्तिक्यां यत्फलं तस्य वाराहे विन्ध्यपर्वते । संख्या न शक्यते स्नानादत्र वर्षशतैरपि ॥ ४१.६३ ॥ शिवेन कथितं पूर्वं पुराणे स्कन्दकीर्तिते । तत्र यद्दीयते दानं तस्य संख्या न विद्यते ॥ ४१.६४ ॥ ये चार्चयन्ति वाराहं न ते प्राकृतमानुषाः । प्राणत्यागे कृते तत्र शिवलोकमवाप्नुयुः ॥ ४१.६५ ॥ राहुसोमसमायोगे वाराहे विन्ध्यपर्वते । कुरुक्षेत्रसमं पुण्यं पुरा वै शङ्करोऽब्रवीत् ॥ ४१.६६ ॥ गिरेरारभ्य वाराहात्पयोष्ण्याः सङ्गमावधि । अत्रान्तरे नृपश्रेष्ठ तीर्थकोटिरुदाहृता ॥ ४१.६७ ॥ पयोष्णीसङ्गमे तत्र सोमावर्तः स उच्यते । स देशः सर्वतः पुण्यः सत्यमेतत्तवोदितम् ॥ ४१.६८ ॥ पयोष्णीसङ्गमे पापहरे लिङ्गस्य दर्शनात् । तत्र स्नानस्य दानस्य संख्या कर्तुं न शक्यते ॥ ४१.६९ ॥ तापीपयोष्णीसंभेदश्चन्द्रसूर्यग्रहे नृप । कुरुक्षेत्राच्छतगुणः शिवेन परिकीर्तितः ॥ ४१.७० ॥ चतुर्भुजो हरिर्यत्र श्रीपतिः पुरुषोत्तमः । विष्णुक्षेत्रं तु विज्ञेयं क्रोशमात्रं तु तन्नृप ॥ ४१.७१ ॥ आश्विनस्य तु मासस्य कृष्णपक्षे चतुर्दशी । अमावास्या सिनीवाली पर्वाण्येतान्यनुक्रमात् ॥ ४१.७२ ॥ चतुर्दश्यां चतुर्योगे पीयूषं वहते नृप । पितरस्तृप्तिमायान्ति दिने तस्मिन्न संशयः ॥ ४१.७३ ॥ सुर्यग्रहे कुरुक्षेत्रे यत्फलं परिकीर्तितम् । तापीपयोष्णीसम्पर्के तत्फलं परिकीर्तितम् ॥ ४१.७४ ॥ दीपोत्सर्गे तु कौमुद्यां फलं संख्या न विद्यते । पुरुषश्चक्रवर्ती स्याद्दीपं तत्र चकार यः ॥ ४१.७५ ॥ कार्त्तिक्यामाश्विने मासि पक्षयोरुभयोरपि । मासमेकं न भुञ्जीत तस्य पुण्यफलं शृणु ॥ ४१.७६ ॥ यावच्चन्द्रश्च सूर्यश्च हिमवांश्च महोदधिः । तावत्कालं वसेत्स्वर्गे विष्णुलोके च भारत ॥ ४१.७७ ॥ नर्मदादक्षिणे भित्त्वा पातालात्तु समुत्थितम् । कावेरी कुण्डमित्येवं त्रिषु लोकेषु विश्रुतम् ॥ ४१.७८ ॥ स्नातमात्रो नरस्तत्र गाणपत्यमवाप्नुयात् । कुण्डेश्वरं सिद्धलिङ्गं सुरसिद्धनिषेवितम् ॥ ४१.७९ ॥ प्रमादात्कुरुते यस्तु पूतलिङ्गस्य पूजनम् । न तत्पुण्यस्य संख्यास्ति यावच्चन्द्रार्कतारकम् ॥ ४१.८० ॥ तिलोदकप्रदानेन पिण्डपातेन भारत । असंख्यकालिका तृप्तिः पितॄणां नास्ति संशयः ॥ ४१.८१ ॥ कावेर्यास्तु प्रभावेण नर्मदासङ्गमात्पुनः । यज्ञावर्तोऽभवद्देशः सत्यमेतच्छिवोदितम् ॥ ४१.८२ ॥ स्वयम्भुवानि लिङ्गानि स्वर्गमोक्षप्रदानि तु । यत्र तत्र नरः स्नात्वा कावेर्या नृपसत्तम ॥ ४१.८३ ॥ अश्वमेधफलं प्राप्य विष्णुलोके महीयते । त्यक्त्वा प्राणांस्तु कौवेर्यां कौबेरं लोकमाप्नुयात् ॥ ४१.८४ ॥ कौबेरेश्वरलिङ्गं तु सर्वसिद्धिप्रदायकम् । कावेरीनर्मदामध्ये न तत्पश्यन्ति मानवाः ॥ ४१.८५ ॥ पूज्यते सुरदैत्यैस्तु नागकन्याभिरर्च्यते । अर्चनात्तस्य देवस्य द्वादशादित्यसन्निभः ॥ ४१.८६ ॥ सर्वपापविनिर्मुक्तः शिवलोके महीयते । कावेरीनर्मदाभेदे बाणलिङ्गं प्रतिष्ठितम् ॥ ४१.८७ ॥ कुबेरेण पुरा दृष्टं सङ्गमेश्वरनामतः । अर्चनात्तस्य देवस्य लोकपुरे वसेत् ॥ ४१.८८ ॥ गङ्गायमुनसंभेदे यत्फलं परिकीर्तितम् । भौमे तु भूतजायोगे व्यतीपाते च संक्रमे ॥ ४१.८९ ॥ राहुसोमसमायोगे तदेवाष्टगुणं स्मृतम् । अशीतिश्च गुणाः प्रोक्ता गङ्गायमुनसङ्गमे ॥ ४१.९० ॥ कावेरीनर्मदायोगे बाणा अष्टगुणाः स्मृताः । गङ्गाषष्टिसहस्रैस्तु क्षेत्रपालैः प्रपूज्यते ॥ ४१.९१ ॥ तदर्धैरन्यतीर्थानि रक्षन्ते नात्र संशयः । अमरेश्वरयाम्ये तु लिङ्गं चैव जलेश्वरम् ॥ ४१.९२ ॥ दर्शनात्तस्य लिङ्गस्य गाणपत्यमवाप्नुयात् । लक्षैश्च रक्षिता देवैर्नर्मदा सप्तकल्पगा ॥ ४१.९३ ॥ धन्विभिः षष्टिपुरुषैः सहस्रैश्च युधिष्ठिर । ओंकारं शतसाहस्र्या पर्वतो लिङ्गमेव च ॥ ४१.९४ ॥ अन्यदेशे कृतं पापं पुण्यक्षेत्रे विनश्यति । पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति ॥ ४१.९५ ॥ क्षणमात्रेण दुःखेन अत्यन्तसुखमश्नुते ॥ ४१.९६ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे कावेरीमाहात्म्यं नामैकचत्वारिंशोऽध्यायः ॥ अध्याय ४२ मार्कण्डेय उवाच - रेवा भित्त्वा चण्डवेगा महाभागा विनिःसृता । तत्र स्नात्वा नरव्याघ्र ब्रह्महत्यां व्यपोहति ॥ ४२.१ ॥ तिलोदकं तत्र तीर्थे हविषा पिण्डदानतः । पितॄन् समुद्धरेद्घोरात्नरकान्नात्र संशयः ॥ ४२.२ ॥ पापमृत्युमृता ये तु चण्डकर्मकृतो नराः । मुच्यन्ते तेन पापेन चण्डवेगासमागमे ॥ ४२.३ ॥ चण्डेश्वरं तत्र लिङ्गं सर्वदेवमयं शुभम् । दर्शनात्पूजनादस्य पुष्पगन्धादिदानतः ॥ ४२.४ ॥ ब्रह्महत्या सहस्रैर्हि तत्क्षणादेव मुच्यते । चन्द्रसेनः पुरा चासीद्दुरात्मा पापकर्मकृत् ॥ ४२.५ ॥ परदाररतश्चौरो ब्रह्मघ्नो गुरुतल्पगः । रघुवंशी च पापात्मा ऋषिपत्नीं च ब्राह्मणीम् ॥ ४२.६ ॥ अन्याश्च या वै सुभगाः पतिं हत्वा समाहरत् । नैमिषारण्यवासी च शाण्डिल्यो ब्रह्मवित्तमः ॥ ४२.७ ॥ सौदामिनी तस्य भार्या धर्मपत्नी यशस्विनी । रूपयौवनसम्पन्ना चन्द्रकान्तिसमप्रभा ॥ ४२.८ ॥ कामिनी वल्कलधरा पीनोन्नतपयोधरा । आख्यानं कथयिष्यामि तस्यास्तस्य पुरातनम् ॥ ४२.९ ॥ हयारूढश्चन्द्रसेनो नैमिषारण्यवासिनः । शाण्डिल्यस्याश्रमं प्राप्तो वने स मृगयन्मृगान् ॥ ४२.१० ॥ दष्टा सौदामिनी तेन शाण्डिल्यस्य प्रिया तदा । उवाच वचनं तां वै त्वं मे राज्ञी भवेदिति ॥ ४२.११ ॥ वल्कलाजिनधारी च कुशकाशपवित्रकः । कन्दमूलफलाशी च ब्राह्मणश्च पतिस्तव ॥ ४२.१२ ॥ किं करिष्यसि तत्तेन मम भोगांश्च पुष्कलान् । सर्वदा मत्प्रसादेन भुङ्क्ष्व त्वं वरवर्णिनि ॥ ४२.१३ ॥ तस्य तद्वचनं श्रुत्वा नृपतेः पापकर्मणः । आह सौदामिनी वाक्यं चन्द्रसेनं नृपाधमम् ॥ ४२.१४ ॥ याचस्व मे पतिं राजंस्तस्याहं वशवार्तिनी । शाण्डिल्यमब्रवीद्राजा ततोऽमूं वरयामि ते ॥ ४२.१५ ॥ कन्यामिमां च पत्नी ते चेदद्य त्वं ददस्व मे । मौल्ये ददामि ते द्रव्यमस्याः शतसहस्रशः ॥ ४२.१६ ॥ शाण्डिल्य उवाच - सर्वाः स्त्रियः कैतवबद्धमूलास्तासां प्रियो नास्ति मनुष्यलोके । यथेष्टचेष्टो भव भूमिपाल किं मां द्विजं पृच्छसि दुर्बलं च ॥ ४२.१७ ॥ कामान्धस्तु ततो राजा करे जग्राह तां तदा । सा निरीक्ष्या हतं पापं ज्वलन्ती तीव्रकोपतः । रजस्वलाऽहं मां स्पृष्ट्वा चाण्डालस्त्वं भविष्यसि ॥ ४२.१८ ॥ तां दृष्ट्वा तादृशीं नग्नां भयार्तां प्राणवल्लभाम् । चाण्डालस्तत्क्षणाज्जातः सर्वभूतभयावहः ॥ ४२.१९ ॥ हाहाकारं ततश्चक्रुः सर्वे देवाः समानुषाः । अश्वमारुह्य राजाऽसावयोध्यामाविशत्पुरीम् ॥ ४२.२० ॥ दृष्ट्वा चाण्डालरूपं तं ब्राह्मणाः पुरवासिनः । राजपुत्रा महीपालस्यान्तःपुरनिवासिनः ॥ ४२.२१ ॥ बभूवुर्भयभीताश्च गर्हयन्तो महीपतिम् । वशिष्ठं शरणं प्राप्तः शोचित्वा चात्मनस्तनुम् ॥ ४२.२२ ॥ राजा विषण्णवदन उवाच स्वपुरोहितम् । जगामाहं समुद्देशं नैमिषारण्यवासिनम् ॥ ४२.२३ ॥ शाण्डिल्यं च नमस्कृत्य साष्टाङ्गं प्रणिपत्य च । अब्रवं देहि भार्यां स्वां वित्तेन बहुलेन मे ॥ ४२.२४ ॥ शाण्डिल्यस्य तु पत्न्या वै तया शप्तोऽहमन्तिके । श्रुत्वा तस्य चरित्रं च पापस्य भो नराधिप ॥ ४२.२५ ॥ वशिष्ठोऽप्यब्रवीद्वाक्यं चन्द्रसेनं नराधिपम् । शाण्डिल्यं गच्छ राजेन्द्र तापसं ऋतुगामिनम् ॥ ४२.२६ ॥ सौदामिनीमृषेर्भार्यां ज्वलन्तीमिव तेजसा । एवमस्त्विति चोक्त्वा तं नमस्कृत्य पुरोधसम् ॥ ४२.२७ ॥ स जगाम तमुद्देशं नैमिषारण्यवासिनम् । शाण्डिल्यं तु नमस्कृत्य साष्टाङ्गं च पुनः पुनः ॥ ४२.२८ ॥ अब्रवीत्तं मुनिश्रेष्ठं भयत्रस्तो नराधिपः । क्षमस्व मे मुनिश्रेष्ठ त्वद्भार्यां प्रति कामिनः ॥ ४२.२९ ॥ त्वं माता मे पिता चासि रघुवंशं समुद्धर । मया त्वपकृतं तेऽद्य तस्य प्राप्तं फलं हि वै ॥ ४२.३० ॥ उवाच ब्राह्मणः प्रीतो भार्या चैव पतिव्रता । मार्कण्डेयः पिता राजन् छिष्योऽहं तस्य धीमतः ॥ ४२.३१ ॥ भार्यार्थमिह संप्राप्तो नैमिषारण्यवासिनः । त्वं तु गच्छ नृपश्रेष्ठ चण्डवेगासमागमम् ॥ ४२.३२ ॥ चण्डेश्वरं तमभ्यर्च्य तत्र स्नात्वा नृपोत्तम । अवाप्स्यसि परं स्थानं मुक्तश्चास्माच्च किल्बिषात् ॥ ४२.३३ ॥ तस्य तद्वचनं श्रुत्वा शाण्डिल्यस्य महात्मनः । शाण्डिल्यं च नमस्कृत्य तथा सौदामिनीं नृपः ॥ ४२.३४ ॥ स्वस्ति वोऽस्तु गमिष्यामि चण्डवेगासमागमम् । एवमुक्त्वा गतस्तत्र समागत्य क्षमापतिः ॥ ४२.३५ ॥ चण्डेश्वरं समभ्यर्च्य तत्र स्नात्वा विधानतः । दिव्ययानसमारूढः स्तूयमानोऽप्सरोगणैः ॥ ४२.३६ ॥ सर्वपापविनिर्मुक्तस्तीर्थस्यास्य प्रभावतः । क्षणाच्छिवपुरं प्राप्तश्चन्द्रसेनो महीपतिः ॥ ४२.३७ ॥ स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे । भूतानां च सहस्राणि संसिद्धिं तत्र चान्वयुः ॥ ४२.३८ ॥ एतत्ते कथितं राजंश्चण्डवेगासमागमम् । श्रवणात्कीर्तनाद्वापि भ्रूणहत्या प्रणश्यति ॥ ४२.३९ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे चण्डवेगामाहात्म्यवर्णनो नाम द्विचत्वारिंशोऽध्याय अध्याय ४३ मार्कण्डेय उवाच - एरण्डीनर्मदायोगं ततो गच्छेद्युधिष्ठिर । तृतीया चण्डवेगा च स्वर्गसोपानपद्धतिः ॥ ४३.१ ॥ तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः । तिलोदकप्रदानेन पिण्डपातेन भारत ॥ ४३.२ ॥ अनेककालिका तृप्तिः पितॄणामुपजायते । अमासोमसमायोगे राहुग्रस्ते दिवाकरे ॥ ४३.३ ॥ एरण्डीसङ्गमस्थाने पुण्यसंख्या न विद्यते । एरण्डीश्वरलिङ्गं तु सर्वपापप्रणाशनम् ॥ ४३.४ ॥ कुङ्कुमेन समालिप्य गन्धधूपैः प्रपूजयेत् । दिव्यं वर्षसहस्रं तु मोदते शिवसन्निधौ ॥ ४३.५ ॥ दर्शनात्तस्य लिङ्गस्य गाणपत्यमवाप्नुयात् । भद्ररुद्रेश्वरं नाम लिङ्गं परमसिद्धिदम् ॥ ४३.६ ॥ भद्ररुद्रौ पुराकल्पे गन्धर्वौ भ्रातरौ तथा । तमभ्यर्च्य विधानेन गतौ वैद्याधरं पुरम् ॥ ४३.७ ॥ गायन्ति पितरो गाथां तथैव च पितामहाः । तिलोदकप्रदानेन पिण्डपातेन भारत ॥ ४३.८ ॥ वसेत्मन्वन्तराणीह रुद्रलोके चतुर्दश । अस्त्रेण तु हता ये वै दैवात्पापमृता नराः ॥ ४३.९ ॥ चतुर्दश्यां तु श्राद्धेन वृषोत्सर्गेण भारत । वीरलोकमवाप्यैव तत्र क्रीडन्ति मानवाः ॥ ४३.१० ॥ तत्र यस्त्यजति प्राणानवशः स्ववशोऽपि वा । तीर्थस्यास्य प्रभावेण स भवे न पुनर्भवेत् ॥ ४३.११ ॥ चतुर्युगसहस्राणि राजा वैद्याधरे पुरे । आख्यानं कथयिष्यामि यथादृष्टं पुराऽनघ ॥ ४३.१२ ॥ चाक्षुषे चान्तरे प्राप्ते आदिकल्पे कृते युगे । निमिर्नाम पुरा राजा चक्रवर्ती विशाम्पते ॥ ४३.१३ ॥ पक्षियोनौ च संप्राप्तः कोपाद्वै ब्राह्मणस्य च । अस्य तीर्थस्य माहात्म्याद्दर्शसोमसमागमे ॥ ४३.१४ ॥ स्नात्वा संत्यज्य तां योनिं राज्यं कृत्वा दिवं गतः । युधिष्ठिर उवाच - कथं स राजा संप्राप्तो मानुषीं च तनुं पुनः ॥ ४३.१५ ॥ एतदाश्चर्यभूतं मे कथयस्व महामते । मार्कण्डेय उवाच - सुकन्यां नाम कन्यां वै ययाचे च्यवनो नृपम् ॥ ४३.१६ ॥ राज्ञी चन्द्रवती नाम निमेरासीत्पतिव्रता । सा पुत्रीं जनयामास प्राणेभ्योऽपि गरीयसीम् ॥ ४३.१७ ॥ एकदा तु नृपश्रेष्ठः सुखासीनो यदृच्छया । आगतं च्यवनं दृष्ट्वा अर्घपाद्यैरपूजयत् ॥ ४३.१८ ॥ अद्य मे सफलं जन्म त्वत्पादाम्बुजदर्शनात् । अनुग्रहमिमं मन्ये भोजनं कर्तुमर्हसि ॥ ४३.१९ ॥ तस्य तद्वचनं श्रुत्वा प्रोवाच च्यवनो मुनिः । कन्यां ददासि चेत्मह्यं भार्यार्थं धर्मतत्पराम् ॥ ४३.२० ॥ तदा भोक्ष्ये महीपाल नो चेत्पापमवाप्स्यसि । राजोवाच - एका मे दुहिता ब्रह्मन् राज्ञीं याचस्व वर्णिनीम् ॥ ४३.२१ ॥ कन्यादाने न शक्तोऽहं सत्यमेतत्तवोदितम् । ततः श्रुत्वा वचो राज्ञीं मुनिर्वचनमब्रवीत् ॥ ४३.२२ ॥ कन्यां देहि च मे राज्ञि गृहिणः पुत्रकारणात् । प्रहस्य चाब्रवीद्राज्ञी न ते योग्या द्विजोत्तम ॥ ४३.२३ ॥ अन्यदाचक्ष्व ब्रह्मर्षे तद्ददामि न संशयः । ततः कोपाच्छशापैनां पक्षियोनिं तु गच्छसि ॥ ४३.२४ ॥ शापं श्रुत्वा ततो राज्ञी शशापाथ महामुनिम् । यदि मे विद्यते सत्यं भर्तृभक्तिश्च निश्चला ॥ ४३.२५ ॥ शप्ता निरपराधाहं नेत्रहीनो भविष्यसि । परस्परं च तौ शप्तौ नर्मदातीरमागतौ ॥ ४३.२६ ॥ चचार च्यवनश्चोग्रमेरण्डीसङ्गमे तपः । दिव्यं वर्षसहस्रं तु वल्मीकेन तु पूरितः ॥ ४३.२७ ॥ गिरेर्वै पूर्वभागे तु मध्यारण्यमिति स्मृतम् । कदम्बवृक्षमासाद्य वने तस्मिंश्च दम्पती ॥ ४३.२८ ॥ पुष्पिते फलिते रम्ये संजातौ पक्षिरूपिणौ । अन्येऽपि पक्षिणस्तत्र समुद्भूताः सहस्रशः ॥ ४३.२९ ॥ जातिस्मरा व्याहरन्तो मानुषीं गिरमुत्तमाम् । सारङ्गाः पक्षिणस्ते तु सर्वदा हृष्टमानसाः ॥ ४३.३० ॥ ज्येष्ठे मासे तु संप्राप्ते दावाग्निरदहद्वनम् । प्रणष्टाश्चाण्डजाः सर्वे ज्वालामालाकुलीकृताः ॥ ४३.३१ ॥ कोटरे तु समालम्ब्य पुत्रैः सह यथा सुखम् । एकदा गर्भिणी जाता पक्षिणी तत्र भारत ॥ ४३.३२ ॥ भर्तारं पक्षिणी प्राह किं त्वं तिष्ठसि निर्भयम् । गताश्च पक्षिणः सर्वे किं त्वं संहारयिष्यसि ॥ ४३.३३ ॥ तस्यास्तद्वचनं श्रुत्वा खेचरो वाक्यमब्रवीत् । भार्यां त्यक्त्वा सुतांश्चैव याम्येकाकी कथं प्रिये ॥ ४३.३४ ॥ इति लोके न वेदे च दृष्टं केनापि कुत्रचित् । पाणिग्रहेण या भार्या सुशीला धर्मचारिणी ॥ ४३.३५ ॥ त्यक्त्वा गच्छति तां मोहाद्भ्रूणघ्नः स तु कीर्तितः । पक्षिण्युवाच - आत्मानं रक्ष जीवेश मूलभूतं कुलस्य तु ॥ ४३.३६ ॥ भूयोऽन्यास्ते भविष्यन्ति भार्याः शतसहस्रशः । जीवमाने तु या पत्यावन्यं कामयते वरम् ॥ ४३.३७ ॥ सा पापिष्ठा दुराचारा विष्ठायां जायते कृमिः । विधवा भर्तृहीना याऽनुगता न स्वकं पतिम् ॥ ४३.३८ ॥ जीवेद्वर्षशतं यावत्सा पापिष्ठा प्रकीर्तिता । पत्यौ जीवति या नारी म्रियते भर्तुरग्रतः ॥ ४३.३९ ॥ भर्तृदत्तोदकश्राद्धैः सा याति परमां गतिम् । प्रसादाद्यस्य लभ्येत पुत्रालङ्कारकीर्तयः ॥ ४३.४० ॥ कोऽन्यः प्रियतरस्तस्मादिह लोके परत्र च । स्वयं प्राप्तस्तु दावाग्निः शीघ्रं गच्छ कथं सुतान् ॥ ४३.४१ ॥ त्यक्त्वा गच्छामि जीवेश संहारो वर्ततेऽधुना । हस्तौ पादौ न विद्येते पावको नैव शाम्यति ॥ ४३.४२ ॥ अशक्ता नीयमाने तु पक्षिणश्चाण्डजीविनः । सुतांस्त्यक्त्वा तु या माता भयार्ता याति गर्हिता ॥ ४३.४३ ॥ सा सप्तजन्मपर्यन्तं सर्पिणी जायते ध्रुवम् । एवमुक्त्वा तु तत्रैव पुत्राणां च परस्परम् ॥ ४३.४४ ॥ सा संगृह्य प्रयत्नेन युग्मं युग्मं दम्पती । संस्थाप्यैरण्डिकायोगे भर्ता भार्यामुवाच ह ॥ ४३.४५ ॥ दंष्ट्रिभ्यश्च प्रयत्नेन रक्षणीयाः सुता मम । गच्छामि च सुतानन्यानानेतुं सांप्रतं प्रिये ॥ ४३.४६ ॥ एवमुक्त्वा गतः पक्षी कदम्बाश्रितमन्दिरम् । सोऽपश्यत्तदा तत्र मन्दिरं वह्निसंकुलम् ॥ ४३.४७ ॥ स्नेहात्प्रविष्टः पुत्रार्थी ज्वालामालावृतं गृहम् । तं ददाह तदा वह्णिः ससुतं स महीरुहम् ॥ ४३.४८ ॥ दग्धस्तु वह्णिना तेन वह्निपुञ्ज इवाभवत् । भस्मीभूते वने तस्मिन् प्रावट्कालः समागतः ॥ ४३.४९ ॥ एरण्ड्यन्तर्जले तत्र सर्वं तत्प्लावितं नृप । अमासोमसमायोगे पक्षिणस्तस्य चास्थि वै ॥ ४३.५० ॥ एरण्ड्याः सङ्गमे प्राप्तं दैवाद्वै नृपसत्तम । तत्क्षणाद्दिव्यदेहस्तु दिव्ययानं समाश्रितः ॥ ४३.५१ ॥ ध्रियमाणातपत्रस्तु वीज्यमानोऽप्सरोगणैः । दिव्यवस्त्रपरीधानो दिव्यालङ्कारभूषितः ॥ ४३.५२ ॥ उपरिव्याहरन् भार्यां स जगामात्मनः पुरीम् । आगच्छ सुभगे शीघ्रं भार्या त्वं मे भविष्यसि ॥ ४३.५३ ॥ सिद्धविद्याधरैर्यक्षैः साधुवादेन पूजितः । पुष्पवृष्टिः पपातोच्चैर्देवराजोपकल्पिता ॥ ४३.५४ ॥ एतस्मिन्नन्तरे राजन् पत्नीं भूयोऽपि चाब्रवीत् । कन्यार्थं त्वं सुशप्तासि च्यवनेन महात्मना ॥ ४३.५५ ॥ मुञ्चात्मानमवाप्य त्वं भवनं धर्मचारिणाम् । स्मारिताकाशवचसा नृपेणैवं पुरं गता ॥ ४३.५६ ॥ सुतान् प्रगृह्य चागत्य भर्तारमिदमब्रवीत् । या गतिर्मम भर्तुः स्यात्सा मे नित्यं भविष्यति ॥ ४३.५७ ॥ उवाच वचनं भर्ता शीघ्रं विश हुताशनम् । अमासोमसमायोगे एरण्डीतीर्थसङ्गमे ॥ ४३.५८ ॥ तत्र यत्पतितं चास्थि पापात्त्वां तारयिष्यति । एवमस्त्विति तं चोक्त्वा पक्षिणी सत्वरं तदा ॥ ४३.५९ ॥ आहृत्य तृणकाष्ठानि सम्प्रदीप्य हुताशनम् । ततो यानं समारूढा भर्तुः सा च सुतैः सह ॥ ४३.६० ॥ उमामहेश्वरं यद्वच्छ्रीपतिं च यथा रमा । तद्वच्चावाप भर्तारं तीर्थस्यास्य प्रभावतः ॥ ४३.६१ ॥ एवं यानं समारुह्य सभार्यस्तु तदा नृपः । चन्द्रसेनो देवसेनो यज्ञसेनस्तथापरः ॥ ४३.६२ ॥ त्रिभिः पुत्रैः परिवृतो धर्मवृत्तिपरायणः । विवेश नगरीं रम्यामयोध्यां देवनिर्मिताम् ॥ ४३.६३ ॥ मुदा परमया युक्तः सान्तः पुरपरिच्छदः । राज्यं कृत्वा वर्षलक्षं ततः प्राप्तः शिवालयम् ॥ ४३.६४ ॥ एरण्डीश्वरमभ्यर्च्य एरण्ड्याः सङ्गमे नृप । पञ्चाशीतिसहस्राणि क्षत्रियाणां महात्मनाम् ॥ ४३.६५ ॥ गतानि तत्र राजेन्द्र सत्यं वै शाम्भवं पुरम् । एतत्ते कथितं राजन्नाख्यानं वै पुरातनम् ॥ ४३.६६ ॥ श्रवणात्कीर्तनाद्वाऽपि गोसहस्रफलं लभेत् ॥ ४३.६७ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे एरण्डीसङ्गममहिमानुवर्णनो नाम त्रिचत्वारिंशोऽध्यायः ॥ अध्याय ४४ युधिष्ठिरौवाच - सुकन्यार्थे मुनिः शप्तश्चन्द्रवत्या महामुने । वल्मीकाच्च कथं मुक्तश्च्यवनः काममोहितः ॥ ४४.१ ॥ परलोकं कथं प्राप्तो ब्राह्मणो ब्रह्मवित्तमः । कथयस्व महाबाहो परं कौतूहलं हि मे ॥ ४४.२ ॥ मार्कण्डेय उवाच - शृणु त्वं राजशार्दूल कथ्यमानं निबोध मे । निमिः पुत्रं च राज्ये वै सूर्यसेनं निवेश्य च ॥ ४४.३ ॥ आदिदेशाथ मतिमाञ्ज्येष्ठा वै भगिनी तथा । च्यवनाय प्रदातव्या ब्राह्मणाय न संशयः ॥ ४४.४ ॥ एरण्ड्याः सङ्गमे चेष्ट्वा हयमेधं मखोत्तमम् । सर्वयज्ञकृतं पुण्यं ब्राह्मणाय प्रदास्यसि ॥ ४४.५ ॥ उक्त्वैवं सूर्यसेनं तु स गतः शिवमन्दिरे । एवमस्त्विति तं चोक्त्वा सूर्यसेनः प्रतापवान् ॥ ४४.६ ॥ एवं संचिन्त्य मनसा सर्वसंभारसंवृतः । स जगाम सुरैः सार्द्धं कन्यामादाय भूपतिः ॥ ४४.७ ॥ मण्डपांश्चैव यूपांश्च पञ्चयोजनविस्तरान् । स चकार ततो राजा पितुराज्ञामनुस्मरन् ॥ ४४.८ ॥ यज्ञस्तेन समारब्धः समाप्तवरदक्षिणः । रममाणा सुकन्या च कन्याभिर्नृपतिस्वसा ॥ ४४.९ ॥ श्रुत्वा शब्दं च वल्मीके कर्तुं क्रीडां समाययौ । तत्रापश्यत्मानुषं सा चक्षुर्हीनमधोमुखम् ॥ ४४.१० ॥ दृष्ट्वा सा कण्टकेनैव विव्याध च गृहं गता । हाहाकारो महानासीत्किमेतदिति भारत ॥ ४४.११ ॥ दुर्मनाः सूर्यसेनस्तु ब्राह्मणैः सह सत्वरम् । आजुहाव ततो देवावश्विनौ पाकशासनम् ॥ ४४.१२ ॥ यज्ञं निवर्तयामास यथावद्विधिपूर्वकम् । निवर्त्य च ततो यज्ञं राजा परमधार्मिकः ॥ ४४.१३ ॥ देवानभ्यर्चयामास च्यवनाय महात्मने । दिव्यं चक्षुर्ददध्वं हि वपुः कान्तं नवं वयः ॥ ४४.१४ ॥ एवमभ्यर्थितैर्देवैर्दत्तं चक्षुर्युधिष्ठिर । रूपयौ वनसंपन्नं कामदेवसमं वपुः ॥ ४४.१५ ॥ ततः प्रसादयित्वाऽसौ च्यवनं वाक्यमब्रवीत् । तत्क्षमस्व महाभाग यत्कृतं ते सुकन्यया ॥ ४४.१६ ॥ गृहाण पाणिमस्यास्त्वं मुने कोपं परित्यज । एवमभ्यर्थितो राज्ञा मुनिरोमित्युवाच ह ॥ ४४.१७ ॥ ततश्चावभृथे युग्मं चण्डवेगासमागमे । संस्थाप्य विधिवद्राजा तस्मै दत्त्वा क्रतोः फलम् ॥ ४४.१८ ॥ चकार पाणिग्रहणं सुकन्याया मनोहरम् । दिव्यरूपधरौ तौ तु लक्ष्मीनारायणाविव ॥ ४४.१९ ॥ संजातौ दम्पती तत्र हर्षेणोत्फुल्ललोचनौ । दत्त्वा कन्यां मुनेस्तत्र सूर्यसेनः पुरं ययौ ॥ ४४.२० ॥ बुभुजे विविधान् भोगान् छक्रतुल्यपराक्रमः । सूर्यसेनं सुकन्यां च च्यवनं शक्रमश्विनौ ॥ ४४.२१ ॥ भोजनान्ते स्मरेद्यस्तु चक्षुस्तस्य न हीयते । एतत्ते कथितं राजंश्चण्डैरण्डकसङ्गमम् ॥ ४४.२२ ॥ तत्र स्नातो दिवं याति न पुनर्गर्भमाविशेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ४४.२३ ॥ आख्यानं कथयिष्यामि यथा दृष्टं यथाश्रुतम् । बभ्राम सर्वतीर्थानि दुर्वासाश्चोग्रतापसः ॥ ४४.२४ ॥ पितृतीर्थं समागम्य पितॄणां हितकाम्यया । तत्र स्नात्वार्चयित्वा च शूलपाणिं पितामहम् ॥ ४४.२५ ॥ जलाञ्जलिं कुशतिलां पितृपिण्डमवासृजत् । दत्त्वा पिण्डं मुनीन् प्राह परं विस्मयमागतः ॥ ४४.२६ ॥ करे गृह्णन्ति पितरः पिण्डानीह मया श्रुतम् । तदद्य भो न पश्यामि तीर्थयात्रा निरर्थिका ॥ ४४.२७ ॥ तमुग्रतापसं ज्ञात्वा प्रोचुस्ते मुनयस्तदा । करे गृह्णन्ति पितरः पिण्डं दर्शे प्रकल्पितम् ॥ ४४.२८ ॥ सत्यमेतन्मुनिश्रेष्ठ नान्यथा वेदभाषितम् । तद्दर्शं च प्रतीक्ष त्वं तीर्थान्तरदिदृक्षया ॥ ४४.२९ ॥ चुकोप वै तदा विप्र ऋषिश्चैवाब्रवीद्वचः । अत्र नो पातये पिण्डं स्नानं दानं करोमि न ॥ ४४.३० ॥ दुर्वासास्तु ततः प्राह एरण्डं मुनिपुङ्गवम् । करे कमण्डलुं कृत्वा जलपूर्णं महामुनिम् ॥ ४४.३१ ॥ शरीरं क्लिश्यसे कस्मात्तवात्र निष्फलं तपः । ओंकारं कल्पगां गच्छ गृहीत्वैकं कमण्डलुम् ॥ ४४.३२ ॥ एकः पितामहः पूज्यो गयायां प्रभुरव्ययः । उक्त्वैवमृषिभिः सार्द्धं गिरिं त्वमरकण्टकम् ॥ ४४.३३ ॥ आजगाम महातेजा गत्वा तत्र च भारत । ओंकारस्यार्चनं कृत्वा स्तोत्रमेतदुदाहरत् ॥ ४४.३४ ॥ नमः कालाय देवाय त्रिदेवाय त्रिमूर्तये । अव्यक्ताव्यक्तरूपाय अनन्तानन्तगामिने ॥ ४४.३५ ॥ ऋग्यजुः सामरूपाय सर्वज्ञाय नमोऽस्तु ते । भवोद्भव जगन्नाथ उमाकान्त नमोऽस्तु ते ॥ ४४.३६ ॥ असुरघ्नाय देवाय त्रिपुरघ्नाय ते नमः । सद्योजातस्तथा घोरः पुरुषेशाय ते नमः ॥ ४४.३७ ॥ जयकालाग्निरुद्राय संवर्ताय नमो नमः । हृषीकेश्वररुद्राय पुरुषेशाय ते नमः ॥ ४४.३८ ॥ नमः शम्भवाय मयोभवाय शङ्कराय नमोऽस्तु ते । ब्रह्मविष्ण्विन्द्रवरद त्रिनेत्राय नमोऽस्तु ते ॥ ४४.३९ ॥ श्रीकण्ठनीलकण्ठाय नमः सोमार्धधारिणे । कपालमालिने तुभ्यं नमः खट्वाङ्गधारिणे ॥ ४४.४० ॥ नमः त्रिशूलहस्ताय नागाभरणभूषिणे । नमः पिनाकिने तुभ्यं महानाथ नमोऽस्तु ते ॥ ४४.४१ ॥ शर्वाय सर्वरूपाय चराचर नमोऽस्तु ते । जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो ॥ ४४.४२ ॥ क्षमस्व मे सुरेशान इह लोके परत्र च । त्वत्समो नास्ति देवेश कश्चिदन्य उमापते ॥ ४४.४३ ॥ श्रुत्वा स्तोत्रमिदं दिव्यं शिव ओंकाररूपधृक् । वरं वृणु महाभाग इति वाक्यमुवाच ह ॥ ४४.४४ ॥ दुर्वासा उवाच - यदि तुष्टोऽसि देवेश यदि देयो वरो मम । पितृतीर्थसमं तीर्थमेतदस्त्विति देहि मे ॥ ४४.४५ ॥ ओंकार उवाच - एतत्सर्वं भवत्वद्य मत्प्रसादात्तपोधन । असाध्यमपि साध्यं ते त्रैलोक्ये सचराचरे ॥ ४४.४६ ॥ एवं लब्ध्वा वरं विप्रो गिरेर्वै पूर्वभागतः । उवास मुनिभिः सार्द्धं दुर्वासा उग्र तापसः ॥ ४४.४७ ॥ अत्रान्तरे नृपश्रेष्ठ ब्रह्माणं प्राह नारदः । पितृतीर्थं गया नष्टा दुर्वाससः कोपतस्ततः ॥ ४४.४८ ॥ आस्ते स नर्मदातीरे ओंकारेऽमरकण्टके । नारदस्य वचः श्रुत्वा ब्रह्मा लोकानुकम्पया ॥ ४४.४९ ॥ हंसयानं समारूढो देवैः सह नृपोत्तम । आजगामाश्रमं तत्र दुर्वासा यत्र संस्थितः ॥ ४४.५० ॥ दृष्ट्वा पितामहं देवमेरण्डो मुनिपुंगवः । कमण्डलुं समादाय पादमूले तु ब्रह्मणः ॥ ४४.५१ ॥ विनिक्षिप्य यथा न्यायमर्घं दत्त्वा च तस्थिवान् । कमण्डलुजलोद्भूतः प्रवाहो नर्मदां गतः ॥ ४४.५२ ॥ ततः संपूज्य विधिवद्दुर्वासास्तं पितामहम् । ब्रह्मोवाच - उद्भवेद्यदि ते तीर्थममासोमसमागमे ॥ ४४.५३ ॥ इदानीं पितृतीर्थं तु जनैर्नेहोपदृश्यते । अनिवर्त्यस्तु शापस्ते तत्पूर्णं कुरु सांप्रतम् ॥ ४४.५४ ॥ दुर्वासा उवाच - मया निवर्तितः शापो वचनात्ते पितामह । पितॄणां दर्शनं तत्र गयापितृविसर्जिनी ॥ ४४.५५ ॥ भविष्यति प्रसादात्ते तस्मिंस्तीर्थे पितामह । एवमस्त्विति तं चोक्त्वा दिवं ब्रह्मा ययौ नृप ॥ ४४.५६ ॥ नमस्कृत्य महेशानं सुरासुरनमस्कृतम् । हर्षेण महताविष्टः पूज्यमानो द्विजोत्तमैः ॥ ४४.५७ ॥ दुर्वासास्तु मुनिश्रेष्ठस्तत्रैवान्तरधीयत । तेन पुण्यतमं लोके तत्रैरण्डी समागता ॥ ४४.५८ ॥ एरण्डीश्वरलिङ्गं तु सुरासुरनमस्कृतम् । पुण्यकर्मानुपश्येदमासोमसमागमे ॥ ४४.५९ ॥ दृष्ट्वा तत्परमं लिङ्गं यमलोकं न पश्यति । एतत्तु कथितं राजन्मया त्वां प्रति भारत ॥ ४४.६० ॥ श्रवणात्कीर्तनादस्य गच्छेत्माहेश्वरं पुरम् ॥ ४४.६१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे दुर्वासश्चरित्रे एरण्डीतीर्थवर्णनो नाम चतुश्चत्वारिंशोऽध्यायः अध्याय ४५ मार्कण्डेय उवाच - ततो गच्छेत्महाभाग रेवाशल्याविशल्ययोः । तत्र स्नात्वा दिवं याति फलं यज्ञेश्वराज्ञया ॥ ४५.१ ॥ तत्र यज्ञेश्वरां लिङ्गं धूपेश्वरमनुत्तमम् । सिद्धिदं मोक्षदं विद्धि न ते पश्यन्ति मानवाः ॥ ४५.२ ॥ तिलोदकप्रदानेन चान्नदानेन भारत । पितरस्तृप्तिमायान्ति यावच्चन्द्रार्कतारकम् ॥ ४५.३ ॥ पौर्णमास्यां तु सोमे वै व्यतीपाते च संक्रमे । दानं यत्क्रियते तत्र तस्य पुण्यफलं शृणु ॥ ४५.४ ॥ भरतेन कृतस्तत्र हयमेधः पुरा यथा । तत्तेऽहं कथयिष्यामि शृणु कौन्तेय साम्प्रतम् ॥ ४५.५ ॥ भरतो नाम राजासीत्सूर्यवंशे विशाम्पते । प्रशशास महाराज कृत्स्नं वै स महीतलम् ॥ ४५.६ ॥ यावत्तृणं विजानीया यावत्कीर्तिश्च भास्करः । तावद्वै भरतक्षेत्रं सशैलवनकाननम् ॥ ४५.७ ॥ एकदा स नृपश्रेष्ठो यज्ञकर्मपरायणः । भृगोर्दक्षिणभागे तु कुण्डमण्डपमण्डिताम् ॥ ४५.८ ॥ दशयोजनविस्तीर्णां यज्ञभूमिं चकार ह । गवां हि दशलक्षाणि सवत्सानां पयोमुचाम् ॥ ४५.९ ॥ लक्षमेकं हयानां च दन्तिनामयुतं तथा । मणिमाणिक्यरत्नानि वासांसि विविधानि च ॥ ४५.१० ॥ यज्ञोपस्करमादाय सर्वसंभारसंवृतः । वेदध्वनिनिनादेन दिवं भूमिं च संस्पृशन् ॥ ४५.११ ॥ होमेन देवतास्तृप्ताः सप्तलोकनिवासिनः । एवं प्रवर्तिते यज्ञे राज्ञश्चामिततेजसः ॥ ४५.१२ ॥ यज्ञविध्वंसनार्थं तु राक्षसा रौद्ररूपिणः । माल्यवांश्च सुमाली च सुकेशी शङ्खदूषणौ ॥ ४५.१३ ॥ राक्षसाना सहस्राणि समायातास्तु सत्वरम् । भग्नानि यज्ञवस्तूनि त्रिषु लोकेषु दारुणैः ॥ ४५.१४ ॥ प्रणष्टा देवताः सर्वा ऋत्विजश्च निपातिताः । एवं विनाशिते यज्ञे रक्षोभिश्च ततोऽनघ ॥ ४५.१५ ॥ कोपाज्जज्वाल राजापि हुताशन इवाहुतः । जघान राक्षसान् सर्वान् गिरीन् वज्रधरो यथा ॥ ४५.१६ ॥ प्रणष्टान् भयमीतांश्च पतितान् धरणीतले । राक्षसैर्निहतान् दृष्ट्वा ब्राह्मणानृत्विजस्तथा ॥ ४५.१७ ॥ शोकाविष्टस्ततः प्राह भरतो देवमन्त्रिणम् । गुरुस्त्वं सर्वदेवानां त्रिकालज्ञस्त्रिवेदवित् ॥ ४५.१८ ॥ ब्रह्महत्यादिकं पापं ममार्थे देवकण्टकैः । प्रायश्चित्तं मया कार्यं किं त्वं ब्रूहि बृहस्पते ॥ ४५.१९ ॥ बृहस्पतिरुवाच - विद्यां संजीवनीं तेऽहं ददामि नृपसत्तम । जीविता ब्राह्मणा देवाः शशंसुर्देवमन्त्रिणम् ॥ ४५.२० ॥ ततो निवर्तितो यज्ञः समग्रवरदक्षिणः । यूपमूलसमुद्भूता शल्या चैव विशल्यका ॥ ४५.२१ ॥ प्रविवेश महाराज नर्मदां लोकपावनीम् । ततो देवाः समारुह्य स्वं स्वं यानं दिवं ययुः ॥ ४५.२२ ॥ भरतोऽपि द्विजैः सार्द्धं प्रविवेश पुरीं ततः । तेन शल्या विशल्या च विख्याता भुवनत्रये ॥ ४५.२३ ॥ भरतेश्वरलिङ्गं च ब्रह्मयोन्यां समास्थितम् । एतत्ते कथितं राजन्यथादृष्टं यथाश्रुतम् ॥ ४५.२४ ॥ श्रवणात्कीर्तनादस्य न विशेद्योनिसङ्कटे ॥ ४५.२५ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे शल्याविशल्यामाहात्म्यानुवर्णनो नाम पञ्चचत्वारिंशोऽध्यायः ॥ अध्याय ४६ भृगुं पतन्ति ये शूराः कां गतिं प्राप्नुवन्ति ते । श्रोतुमिच्छाम्यहं त्वे तत्कथयस्व महामुने ॥ ४६.१ ॥ मार्कण्डेय उवाच - अनाशकेन भो राजन् भृगुगोग्रहसङ्गरैः । प्राणांस्त्यजन्ति ये शूरा गतिं तेषां निबोध मे ॥ ४६.२ ॥ पृथक्पृथङ्निवासांश्च तेषां कर्म्माणि भारत । चतुर्विंशतिकोट्यस्तु सप्तविंशतिरेव च ॥ ४६.३ ॥ उमया तु पुरा ज्ञप्ता मध्यमोत्तमकन्यकाः । अनेन विधिना ये तु प्राणांस्त्यक्ष्यन्ति मानवाः ॥ ४६.४ ॥ तांश्च भुङ्ग्ध्वं मया दत्ता युष्माकं सुप्रसादतः । अमरेशे प्रमृताश्च भ्रंशितुं ये पतन्ति ते ॥ ४६.५ ॥ भृगून् दृष्ट्वा नृपश्रेष्ठ मुच्यन्ते ब्रह्महत्यया । चतुरशीतिभृगवो जम्बूद्वीपे प्रकीर्तिताः ॥ ४६.६ ॥ तथाऽन्ये सप्तनिर्दिष्टाः स्वर्गसोपानमुत्तमम् । भैरवस्तु भृगुश्रेष्ठो ज्ञेयस्त्वमरकण्टके ॥ ४६.७ ॥ शूद्राश्च क्षत्रिया वैश्या अन्त्यजाश्चाधमास्तथा । एते त्यजन्ति प्राणान् वै वर्जयित्वा द्विजं नृप ॥ ४६.८ ॥ पतितो ब्राह्मणस्तत्र ब्रह्महा चात्महा भवेत् ॥ ४६.९ ॥ द्वाविंशतिसहस्राणि राहुसोमसमागमे । वर्षाणां जायते राजन् राजा वैद्याधरे पुरे ॥ ४६.१० ॥ ग्रस्ते तु राहुणा सूर्ये द्विगुणं फलमश्नुते । अवशः स्ववशो वाऽपि जलपूरानलाहतः ॥ ४६.११ ॥ म्रियते यो भृगुं प्राप्य स विद्याधरराड्भवेत् । भृगुर्भैरवरूपेण विन्ध्यकैलाससन्निभः ॥ ४६.१२ ॥ गर्हयन्ति भृगुं ये तु ते लिङ्गब्रह्मभेदिनः । भैरवः क्षमते तेषां नेति स्कन्देन कीर्तितम् ॥ ४६.१३ ॥ मन्यासाच्च च्युतो विप्रो मातृहा पितृहा तथा । स्वसृगः स्वस्नुषागश्च तथा स्वज्ञातिगस्तथा ॥ ४६.१४ ॥ एतेषां पतनं शस्तं करीषाग्नौ प्रसाधनम् । मुच्यते तेन पापेन शिवलोकं सगच्छति ॥ ४६.१५ ॥ हरिश्चन्द्रपुरे चन्द्रे श्रीशैले त्रिपुरान्तिके । त्रैयम्बके धौतपापे वाराहे विन्ध्यपर्वते ॥ ४६.१६ ॥ कावेर्यास्तु तथा कुण्डे पतनात्स्वर्गमाप्नुयात् । भृगोर्दक्षिणभागे तु लिङ्गं वै चपलेश्वरम् ॥ ४६.१७ ॥ क्षेत्रसंरक्षणायेह विख्यातं पापनाशनम् । धनुः षष्ट्यां ततः क्षेत्रं विज्ञेयं चापलेश्वरम् ॥ ४६.१८ ॥ आरोहति गिरिं यस्तु तमदृष्ट्वा तु मानवः । तस्य पुण्यफलं सर्वं स गृह्णाति न संशयः ॥ ४६.१९ ॥ आलेख्य च पटे सूर्यं पताकादण्डमण्डितम् । वलयं च करे कृत्वा वीज्यमानस्तु चामरैः ॥ ४६.२० ॥ वीरस्तु पतितुं गच्छेदारोहेद्भृगुपर्वतम् । पदे पदे यज्ञफलं तस्य स्याच्छङ्करोऽब्रवीत् ॥ ४६.२१ ॥ प्रतीक्षन्ते सर्वकालेऽप्सरसः काममोहिताः । दिव्यं यानं समारूढा दिव्या भरणभूषिताः ॥ ४६.२२ ॥ वीरस्तु पतितस्तत्र स्वं च त्यक्त्वा कलेवरम् । तत्क्षणाद्दिव्यदेहस्तु शक्रतुल्यपराक्रमः ॥ ४६.२३ ॥ कामदं यानमारुह्य विवादेन परस्परम् । गच्छेच्छिवपुरं सार्द्धमप्सरोभिः समन्वितः ॥ ४६.२४ ॥ क्लीबस्य सत्त्वहीनस्य उत्तीर्णस्य भृगोः पुनः । पदे पदे ब्रह्महत्या भवेत्तस्य न सशयः ॥ ४६.२५ ॥ न चिरायुर्भवेत्मर्त्यः कस्मात्मृत्योर्बिभेत्यसौ । न कोऽपि रक्षितुं शक्तः कालमृत्युवशं गतम् ॥ ४६.२६ ॥ स पापिष्ठो दुराचारश्चाण्डालो लोकगर्हितः । सन्यासादिकमारुह्य च्यवते यस्तु मानवः ॥ ४६.२७ ॥ सन्यासात्प्रच्युतं विप्रं दृष्ट्वा स्नानार्कवीक्षणम् । कुर्यात्सर्वप्रयतेन स्पर्शाच्चान्द्रायणं स्मृतम् ॥ ४६.२८ ॥ ऋतानृतं न वक्तव्यं तेन सार्द्धं कदाचन । स्थातव्यं चैव मौनेन नो चेत्पापमवाप्नुयात् ॥ ४६.२९ ॥ निश्चिते मरणे प्राप्ते कथं मृत्युरुपेक्षते । जरामृत्युश्च रोगाश्च संसारोदधि सम्प्लवे ॥ ४६.३० ॥ एवं ज्ञात्वा नृपश्रेष्ठ ह्यारोहेद्भृगुपर्वतम् । एतत्ते कथितं राजन् भृगोर्माहात्म्यमुत्तमम् ॥ ४६.३१ ॥ न ब्रूयाद्दुष्टबुद्धीनां कलौ पाखण्डकर्म्मणाम् । दिगम्बरश्वेतपटबौद्धादीनां विशेषतः ॥ ४६.३२ ॥ असंभाष्या दुराचाराः पुराणस्मृतिनिन्दकाः । न तैः सह प्रकर्तव्यः संवादो हि कदाचन ॥ ४६.३३ ॥ प्रत्येकं सर्वदेवानां स्वयमाह वृषध्वजः । न मन्यन्ते तु ये मूढास्तीर्थराजं मयोदितम् ॥ ४६.३४ ॥ प्रयान्ति नरकं घोरं भृगोर्येऽवतरन्ति ते ॥ ४६.३५ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे भृगुपर्वतमहिमाऽनुवर्णनो नाम षट्चत्वारिंशोऽध्यायः ॥ अध्याय ४७ युधिष्ठिर उवाच - ओंकारकीर्तनं विप्रदानं यज्ञस्तपस्तथा । सम्भवं पञ्चवक्त्राणां लिङ्गानां संभवं तथा ॥ ४७.१ ॥ युगसंख्यां कलां चैव चरितं च महामुने । कथयस्व प्रसादेन यथोद्दिष्टं तु शंभुना ॥ ४७.२ ॥ मार्कण्डेय उवाच - श्रूयतां राजराजेन्द्र पुराणं स्कन्दकीर्तितम् । द्वात्रिंशतिसहस्राणि लक्षाण्यष्टादशैव च ॥ ४७.३ ॥ एषा कृतयुगे संख्या सन्ध्यासन्ध्यांशमानतः । लक्ष्याण्यष्टौ तथा चाष्टौ सहस्राणि युधिष्ठिर ॥ ४७.४ ॥ द्वापरे भानमिच्छन्ति सन्ध्यासन्ध्यांशमानत । सहस्राणि च चत्वारि तथा लक्षचतुष्टयम् ॥ ४७.५ ॥ मानं कलियुगस्यैतत्सन्ध्यासन्ध्यांशमानतः । अल्पक्षीरप्रदा गावो ह्यल्पसस्या च मेदिनी ॥ ४७.६ ॥ अल्पोदकास्तथा मेघाः स्वल्पविद्यास्तथा द्विजाः । पूर्णे तु षोडशे वर्षे नराः पलितयौवनाः ॥ ४७.७ ॥ दशमे द्वादशे वर्षे नारी गर्भधरा भवेत् । शूद्रा धर्मपरा नित्यं कलौ काले दिगम्बराः ॥ ४७.८ ॥ एकवर्णाः प्रजाः सर्वा राजा म्लेच्छो भविष्यति । कलौ युगे तथा प्राप्ते कलिरूपे च माधवे ॥ ४७.९ ॥ नाग्निहोत्रं न वेदाश्च न धर्मो न च याजनम् । न सत्यं न तपो दानं न सत्त्वं न च देवताः ॥ ४७.१० ॥ वेदविक्रयिणो विप्रा अन्त्यजानां गृहे गृहे । वेदादेशं करिष्यन्ति वेदविप्लवकारकाः ॥ ४७.११ ॥ कन्याविक्रयिणः पापास्तथा कन्योपजीविनः । सहस्रांशो न धर्मस्य कला चैका प्रवर्तिता ॥ ४७.१२ ॥ यत्र सिद्धस्तत्र तीर्थं जले स्नास्यन्ति मानवाः । शूद्रा पत्नी द्विजानां तु भविष्यति गृहे गृहे ॥ ४७.१३ ॥ अधरोत्तरभावेन भविष्यन्ति कलौ नराः । बौद्धाः क्षपणकाः पापा नग्ना मलिनकश्मलाः ॥ ४७.१४ ॥ विडम्बयन्ति बालानां मोहिताः पापकर्मणाम् । न गुरुं मन्यते शिष्यः पुत्रश्च पितरं तथा ॥ ४७.१५ ॥ स्ववंशद्रव्यहर्तारः प्रव्रज्यावेषधारिणः । लिङ्गोपजीविनः पापास्तथा भस्मोपजीविनः ॥ ४७.१६ ॥ वैवस्वतेऽन्तरे प्राप्ते कलौ सर्वं भविष्यति । एतत्ते कथितं राजन् कलौ यद्यद्भविष्यति ॥ ४७.१७ ॥ ओंकारस्यैव चोत्पत्तिं विधानं विधिपूर्वकम् । कथयामि समासेन यत्पृष्टोऽहं त्वयाऽनघ ॥ ४७.१८ ॥ कीर्तनादस्य देवस्य मुच्यते भवबन्धनात् । ओं मित्येकाक्षर राजन् व्याहरन् समनुस्मरन् ॥ ४७.१९ ॥ यः प्रयाति त्यजन् देहं स याति परमां गतिम् । वेदमाता च गायत्री ओंकारप्रभवा तथा ॥ ४७.२० ॥ ओंमित्येकाक्षरे तत्त्वे ब्रह्मविष्णुमहेश्वराः । ओंकारो वेदमूलं तु श्रुतिशाखः प्रतिष्ठितः ॥ ४७.२१ ॥ फलं चैव तु पुष्पं च पर्णानि स्मृतिरागमः । यथादौ सर्वविद्यानामोंकारः परिपठ्यते ॥ ४७.२२ ॥ तथादौ सर्वदेवानामादिदेवो महेश्वरः । सन्ध्यात्रयं त्रिकालादि ओंकारे परिकीर्तितम् ॥ ४७.२३ ॥ अग्नित्रयं त्रयो लोकास्त्रिवर्गश्च प्रतिष्ठितः । अष्टषष्टिं च तीर्थानां ब्रह्मणे शिवकीर्तितम् ॥ ४७.२४ ॥ एकेन च शतं पूर्णं रुद्राणां परिकीर्तितम् । केदारे शतमेकं ओंकारैकोत्तरं शतम् ॥ ४७.२५ ॥ पञ्चब्रह्म पञ्चवक्त्रमोंकारं लिङ्गमुत्तमम् । पृथिव्यां यानि लिङ्गानि आसमुद्रान्तगोचरे ॥ ४७.२६ ॥ न तेषां पञ्चवक्त्राणि त्यक्त्वोंकारं युधिष्ठिर । स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे ॥ ४७.२७ ॥ दानवैर्निर्जिता देवा नर्मदातीरमाश्रिताः । अवद्रुताः कङ्कोलैस्तु कालिकेयैश्च कालकैः ॥ ४७.२८ ॥ ते देवा ब्रह्मसहिता ईश्वरं शरणं गताः । बृहस्पतिस्ततः प्राह ब्रह्माणं प्रति भारत ॥ ४७.२९ ॥ इष्टिं कुरु महारौद्रीं दानवानां क्षयंकरीम् । उवाच वचनं ब्रह्मा तदा तं देवमन्त्रिणम् ॥ ४७.३० ॥ ममैव विस्मृता मन्त्रा दानवानां भयेन च । एतस्मिन्नन्तरे भित्त्वा पातालानि च सप्त च ॥ ४७.३१ ॥ ओंकारपूर्वकं राजन् भूर्भुवःस्वश्च कीर्तयन् । पर्वतादुत्थितं लिङ्गं ज्वलत्कालानलप्रभम् ॥ ४७.३२ ॥ सूर्यकोटिसमप्रख्यं ज्वालामालासमाश्रितम् । आदिमध्यान्तहीनं च न दृष्टं परमं क्वचित् ॥ ४७.३३ ॥ चतुर्वर्गैश्चतुर्वेदैर्वेदाङ्गनिगमैः स्वयम् । उवाच वचनं शम्भुर्ब्रह्माणं लोकभावनम् ॥ ४७.३४ ॥ सौम्यां चैव तु भो ब्रह्मंल्लोकानां शान्तिकारिणीम् । मया समार्पिता वेदा इष्टिं कुरु यथेप्सया ॥ ४७.३५ ॥ ततो ब्रह्मा चकारेष्टिं रौद्रीं दैत्यक्षयंकरीम् । इष्टिं चैव तत सौम्यां लोकानां शान्तिकारिणीम् ॥ ४७.३६ ॥ ततोऽसुरा महाराज दृष्ट्वा चेष्टिं भयंकरीम् । ब्रह्मशापभयोद्विग्ना गतास्ते तु दिशो दश ॥ ४७.३७ ॥ ओंकारस्य प्रभावेण सर्वे देवास्तु निर्भयाः । ततोऽभ्यर्च्य सुरेशानं देवास्ते त्रिदिवं ययुः ॥ ४७.३८ ॥ कल्पान्तगं महालिङ्गं सुरासुरनमस्कृतम् । कामदं मोक्षदं चैव ओंकारं विद्धि पार्थिव ॥ ४७.३९ ॥ तस्मिंल्लिङ्गे तु लीयन्ते कल्पान्ते सर्वदेवताः । अमरं ब्रह्म वेत्याहुर्हरिं सिद्धेश्वरं तथा ॥ ४७.४० ॥ पिङ्गलेश्वरमादित्यं सोमं पित्रीश्वरं तथा । यत्र सिद्धास्त्रयो वेदाः सषडङ्गपदक्रमाः ॥ ४७.४१ ॥ तेन सिद्धेश्वरं विद्धि सर्वसिद्धिप्रदायकम् । कथितं पर्वतस्याग्रे लिङ्गकोटिसमन्वितम् ॥ ४७.४२ ॥ अर्चनात्तस्य लिङ्गस्य विष्णुलोके महीयते । कल्पे कल्पे महाराज क्षीयन्ते सर्वदेवताः ॥ ४७.४३ ॥ मुक्त्वा तु पञ्चलिङ्गानि मार्कण्डं नार्मदं नृप । अविमुक्तं च केदारमोंकारममरेश्वरम् ॥ ४७.४४ ॥ तथैव च महाकालमेवं लिङ्गं तु भारत । पुण्यानि पञ्चलिङ्गानि प्रातरुत्थाय यः पठेत् ॥ ४७.४५ ॥ सर्वतीर्थफलं प्राप्य शिवलोके महीयते । एका काली महाकाले वसेद्वै व्यापिनी सदा ॥ ४७.४६ ॥ सपादकोटिस्तीर्थानां महाकाले वसेत्नृप । शिवलोकेन कावेरी शिवक्षेत्रे स्थिता नृप ॥ ४७.४७ ॥ चतुः क्रोशाभ्यन्तरतो ब्रह्महत्या न सर्पति । आग्नेयं सिद्धलिङ्गं च तस्यास्तीरे समाश्रितम् ॥ ४७.४८ ॥ शिवख्यातमिति ख्यातं तीर्थे तु कुरुनन्दन । स्नातमात्रो नरस्तत्र स भवे न पुनर्भवेत् ॥ ४७.४९ ॥ कीटपक्षिपतङ्गादि तिर्यग्योनिगता नराः । मुच्यन्ते तत्र पापेन शिवस्य वचनं यथा ॥ ४७.५० ॥ तत्र यः कुरुते श्राद्धं पितॄणां च तिलोदकम् । युगकोटिसहस्रं तु पितरस्ते न तर्पिताः ॥ ४७.५१ ॥ सर्वेषामेव लिङ्गानां दिव्यं वाऽत्र प्रकीर्तितम् । तत्र स्नातो दिवं याति न विशेद्योनिसङ्कटे ॥ ४७.५२ ॥ कोटियज्ञफलं प्राप्य शिवलोके महीयते । अष्टकोटिस्तु तीर्थानां केदारे कथिता नृप ॥ ४७.५३ ॥ दर्शनादर्चनात्तस्य स्पर्शात्मोक्षफलं नृणाम् । केदारस्योदके पीते पुनर्जन्म न विद्यते ॥ ४७.५४ ॥ अहोरात्रोषितो भूत्वा पयः पानं करोति यः । तस्योदरे भवेल्लिङ्गं षण्मासाद्ब्रह्मचारिणः ॥ ४७.५५ ॥ केदारदर्शनादेव शिवलोके महीयते । वाराणसी महापुण्या त्रिषु लोकेषु विश्रुता ॥ ४७.५६ ॥ अन्तरिक्षे पुरी सा तु मृत्युलोकस्य बाह्यतः । पञ्चक्रोशान्तरे यावद्ब्रह्महत्या न सर्पति ॥ ४७.५७ ॥ अष्टाविंशतिकोट्यस्तु लिङ्गानां तत्र भारत । गङ्गावरुणयोर्मध्ये स्नानं कृत्वा यथोदितम् ॥ ४७.५८ ॥ सर्वपापविनिर्मुक्तो देववन्मोदते दिवि । तत्र यस्त्यजति प्राणान् छिवं ध्यात्वा तु मानवः ॥ ४७.५९ ॥ सहस्रकुलमुद्धृत्य शिवलोकं स गच्छति । तत्र यद्दीयते दानं तस्य संख्या न विद्यते ॥ ४७.६० ॥ तिलोदकप्रदानेन पितृणां प्रीतिरक्षया । तत्र यस्त्यजति प्राणानवशः स्ववशोऽपि वा ॥ ४७.६१ ॥ त्रिनेत्रः शूलपाणिस्तु शिवस्यानुचरो भवेत् । अविमुक्तस्य लिङ्गस्य स्पर्शनात्मुक्तिराप्यते ॥ ४७.६२ ॥ कलात्रयं तु तत्रास्ते काशीपुर्यां न संशयः । गङ्गासागरसंभेदे चतस्रस्तु कलाः स्मृताः ॥ ४७.६३ ॥ गङ्गासहस्रवक्त्रेण प्रविष्टा यत्र सागरम् । स्नानावगाहनात्पानात्पिण्डदानाच्च तर्पणात् ॥ ४७.६४ ॥ गच्छेच्छिवपुरं तत्र पितृभिः सह मानवः । अपरं कालरुद्रं तु सप्तपातालवासिनम् ॥ ४७.६५ ॥ हाटकं विद्धि तं देवं न तु पश्यन्ति मानवाः । पूज्यते सुरदैत्यैश्च सुरसिद्धनिषेवितम् ॥ ४७.६६ ॥ गङ्गेश्वरद्वितीयं तु तृतीयं सागरेश्वरम् । चतुर्थं शूलपाणिं तु चतस्रश्च कला इति ॥ ४७.६७ ॥ कलापञ्चात्मकं रुद्रमासमुद्रान्तगोचरे । वर्जयित्वा महेशानमोंकारं कामरूपिणम् ॥ ४७.६८ ॥ पञ्चब्रह्मपञ्चवक्त्रं नवशक्तिसमन्वितम् । ओंकारं कल्पगातीरे शिवेन कथितं पुरा ॥ ४७.६९ ॥ तेन पुण्यात्मके लोके लोकत्रितयपूजितम् । शङ्खकुन्देन्दुसंकाशं सद्योवक्त्रं तु पश्चिमम् ॥ ४७.७० ॥ ऋग्वेदो निर्गतो यस्माद्ब्रह्मा तत्राधिदेवता । उत्तरं वामदेवं तु पीताभं सुमनोहरम् ॥ ४७.७१ ॥ यजुर्वेदोद्भवं विद्धि विष्णुस्तत्राधिदेवता । अघोर मेघवर्णाभं याम्यां च दिशि चास्थितम् ॥ ४७.७२ ॥ सामवेदोद्भवं विद्धि सूर्यकालाग्निदैवतम् । पूर्वे तत्पुरुषं ज्ञेयं कुङ्कुमारुणसन्निभम् ॥ ४७.७३ ॥ अथर्वं निर्गतं तुर्यमापस्तत्राधिदेवताः । ईशानस्तव वक्त्रं तु पञ्चवर्णं महातनुम् ॥ ४७.७४ ॥ श्रुतिसिद्धान्तसङ्गीतं सोमं तत्राधिदेवता । षष्ठं सदाशिवं नाम निर्भागं च निरामयम् ॥ ४७.७५ ॥ निर्लक्षं लक्षहीनं तु ज्ञात्वा मोक्षे न संशयः । एतत्ते कथितं राजन्नोंकारस्य तु वर्णनम् ॥ ४७.७६ ॥ सहस्रास्यस्य नो शक्तिरेकवक्त्रस्य का कथा । स्नापयित्वोदकेनैव बिल्वपत्रेण पूजयेत् ॥ ४७.७७ ॥ चतुर्वर्षसहस्राणि रुद्रलोके महीयते । ओंकारदक्षिणामूर्तौ प्राणत्याग करोति यः ॥ ४७.७८ ॥ वर्षकोटिसहस्राणि वसेत्माहेश्वरे पुरे । प्रासादं च मठं चापि सुधयेष्टकसंयुतम् ॥ ४७.७९ ॥ चित्रमालेख्यमूले च पताकाध्वजशोभितम् । वितानां किङ्किणीयुक्तं नेत्रं वंशोद्भवं शुभम् ॥ ४७.८० ॥ पञ्चवर्णकशोभाढ्यमोंकारस्य तु कारयेत् । पञ्चामृतैः स्नापयित्वा चन्दनागुरुकुंकमैः ॥ ४७.८१ ॥ समावेष्ट्य परीधानैर्नानावस्त्रैः सुशोभनैः । हेममौक्तिकरत्नैश्च सघृतं गुग्गुलुं दहेत् ॥ ४७.८२ ॥ घण्टां च दीपकं चैव विधूमारार्तिकं च यत् । मृदङ्गान् पटहांश्चैव वेणुं वीणां च गीतकम् ॥ ४७.८३ ॥ काहली शङ्खवाद्यानि कांस्यतालाद्यमेव च । व्यजनं गेडुकं छत्रं चामरं ध्वजदण्डकम् ॥ ४७.८४ ॥ हेम चान्नधरादीनि गृहांश्च ग्रामपत्तनम् । यद्वा तद्वा नृपश्रेष्ठ ओंकाराय निवेदयेत् ॥ ४७.८५ ॥ तस्य दानफलस्येह संख्या कर्तुं न शक्यते । सिद्धेश्वरौंकारयोस्तु चन्द्रसूर्यग्रहग्रहे ॥ ४७.८६ ॥ ध्वजमालाकुलं कुर्यात्तस्य पुण्यफलं शृणु । यावती तं तु संख्याऽस्ति वायुनोद्धूयते पुनः ॥ ४७.८७ ॥ तावद्युगसहस्राणि शिवलोके वसेन्नृप । युगकोटिसहस्राणि युगकोटिशतानि च ॥ ४७.८८ ॥ सर्वकामसमृद्धात्मा ब्रह्मविष्णुशिवालये । एतत्ते कथितं राजनोंकारोत्पत्तिलक्षणम् ॥ ४७.८९ ॥ ब्रह्मणा तु कृतं तस्य स्तोत्रं त्वं शृणु साम्प्रतम् ॥ ४७.९० ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे ओंकारमहिमानुवर्णनो नाम सप्तचत्वारिंशोऽध्यायः ॥ अध्याय ४८ मार्कण्डेय उवाच - ब्रह्मणे कथितो मन्त्र ओंकारेण ततोऽनघ । ब्रह्मापि तद्वचः श्रुत्वा स्तोत्रमेतदुदाहरत् ॥ ४८.१ ॥ ओं व्योमसंख्यायिते व्योमहराय सर्वव्यापिने । अनन्ताय अनाथाय अमृताय ध्रुवाय च ॥ ४८.२ ॥ शम्भवाय शाश्वताय योगपीठसंस्थिताय । नित्यं योगयोगिने व्योमहराय ॥ ४८.३ ॥ ओं नमः शिवाय सर्वप्रभवाय शिवाय ईशानाय ॥ ४८.४ ॥ मूर्धाय तत्पुरुषाय वक्त्राय अघोराय हृदयाय वासुदेवाय गुह्याय सद्योजाताय मूर्तये ओंकाराय नमो नमः ॥ ४८.५ ॥ कलातीतोऽव्ययो बुद्धो वज्रदेहोपमर्दनः ॥ ४८.६ अध्यक्षश्च विधुः शास्ता पिनाकी त्रिदशाधिपः । अग्नी रुद्रो हुताशश्च पिङ्गलः पावनो हर ॥ ४८.७ ॥ ज्वलनो दहनो वस्तुर्भस्मान्तश्च क्षमान्तकः । अपमृत्युहरो धाता विधाता कर्तृसंज्ञकः ॥ ४८.८ ॥ कालो धर्मपतिः शास्ता वियोक्ता नवमः प्रियः । निर्मित्तो वारुणो हन्ता क्रूरदृष्टिर्भयावहः ॥ ४८.९ ॥ ऊर्ध्वदृष्टिर्विरूपाक्षो दंष्ट्रावान् धूम्रलोचनः । वालो ह्यतिबलश्चैव पाशहस्तो महाबलः ॥ ४८.१० ॥ श्वेतो विरूपो रुद्रश्च दीर्घबाहुर्जडान्तकः । शीघ्रो लघुर्वायुवेगो भीमश्च वडवामुखः ॥ ४८.११ ॥ पञ्चशीर्षा कपर्दी च सूक्ष्मस्तीक्ष्णः क्षपान्तकः । निधीशो रौद्रवान् धन्वी सौम्यदेहः प्रमर्दनः ॥ ४८.१२ ॥ अनन्तपालको धारः पातालेशो वृषध्वजः । सधूम्रः शाश्वतः शर्वः सर्वपिङ्गः करालवान् ॥ ४८.१३ ॥ विष्णुरीशो महात्मा च सुखो मृत्युविवार्जितः । शम्भुर्विभुर्गणाध्यक्षस्त्र्यक्षश्चैव दिवस्पतिः ॥ ४८.१४ ॥ संवादश्च विवादश्च प्रभविष्णुर्विवर्धनः । शतमेकोत्तरं यावद्रुद्राणां संख्यया स्मृतम् ॥ ४८.१५ ॥ शतमेकोत्तरं सर्वमोंकारे च प्रतिष्ठितम् । स्तोत्रं कृत्वा तथा ब्रह्मा देवदेवं महेश्वरम् ॥ ४८.१६ ॥ भूमौ प्रणम्य साष्टाङ्गं कृत्वा चैव प्रदक्षिणम् । मनसा संस्मरन् देवं तस्थौ लोकपितामहः ॥ ४८.१७ ॥ स्तोत्रं श्रुत्वा भगवतो ब्रह्मणो लोमहर्षणम् । देवदेवोऽब्रवीद्वाक्यं ब्रह्माणं प्रति भारत ॥ ४८.१८ ॥ स्तोत्रेणानेन दिव्येन तुष्टोऽहं ते वरं वृणु । ददामि ते न सन्देहो दुष्प्राप्यं त्रिदशैरपि ॥ ४८.१९ ॥ ब्रह्मोवाच - यदि तुष्टोऽसि देवेश यदि देयो वरो मम । पञ्चवक्त्रेषु यजनं ब्रह्म नाम भवत्विह ॥ ४८.२० ॥ हर उवाच - एवं भवतु वै ब्रह्मन् सत्यमेतत्तवोदितम् । ब्रह्मणो धर्मपूजा वै तदा प्रभृति भारत ॥ ४८.२१ ॥ ब्रह्मोवाच - पठिष्यन्ति स्तवं रौद्रमोंकारस्य तवाग्रतः । ब्राह्मणाः क्षत्रिया वैश्याः सदा तद्गतमानसाः ॥ ४८.२२ ॥ सर्वकाममवाप्स्यन्ति चेह लोके परत्र च । यं यं कामयते कामं तं तं प्राप्नोति मानवः ॥ ४८.२३ ॥ शतमेकोत्तरं नित्यं पठित्वा च दिवं व्रजेत् । एवमुक्त्वा तदा ब्रह्मा नमस्कृत्य महेश्वरम् ॥ ४८.२४ ॥ दिव्ययानसमारूढो ब्रह्मलोकं मुदा ययौ । चतुर्युगसहस्रेण ब्रह्मणोऽहः प्रकीर्तितम् ॥ ४८.२५ ॥ अनेनैव तु मानेन शतं ब्रह्मा हि जीवति । पितामहशतं यावद्विष्णोर्मानं विधीयते ॥ ४८.२६ ॥ ओंकारनिमिषार्धेन सहस्राणि चतुर्दश । विनश्यन्ति परं विष्णोरसंख्याताः पितामहाः ॥ ४८.२७ ॥ एवं ब्रह्मगतिं ज्ञात्वा शिवमन्तः सदार्चयेत् । शिवाज्ञा वर्तते लिङ्गे तस्माल्लिङ्गं सदार्चयेत् ॥ ४८.२८ ॥ द्वेष्टि लिङ्गं तु यो मोहात्सर्वदेवनमस्कृतम् । स याति नरकं घोरं शिवस्य वचनं यथा ॥ ४८.२९ ॥ बौद्धक्षपणपाखण्डा मिथ्यातत्त्वविचक्षणाः । नष्टास्तु नाशिता ये वै शिवाराधनवार्जिताः ॥ ४८.३० ॥ जन्मजन्मान्तराभ्यासात्ते प्रयान्ति रसातलम् । पुराणेषु तथा युद्ध्वा शिवोक्तं धर्ममाचरेत् ॥ ४८.३१ ॥ सदुष्टः पापबुद्धिस्तु योऽन्यं धर्मं समाचरेत् । एतत्ते कथितं राजन् पुराणं स्कन्दकीर्तितम् ॥ ४८.३२ ॥ श्रवणात्कीर्तनादस्य शिवलोके महीयते ॥ ४८.३३ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चब्रह्मात्मकस्तवो नामाष्टचत्वारिंशोऽध्यायः ॥ अध्याय ४९ मार्कण्डेय उवाच - ततो गच्छेत्महाभाग रेवाकपिलसङ्गमम् । तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ॥ ४९.१ ॥ तिलोदकप्रदानेन पितॄणां परमा गतिः । दिनानि नवसार्धानि राहुग्रस्ते निशाकरे ॥ ४९.२ ॥ वृद्धिं याति महाराज पुण्यवृद्ध्या न संशयः । ग्रस्ते तु राहुणा सूर्ये दिनानि च दशैव तु ॥ ४९.३ ॥ वर्धते कपिलाभेदस्तद्वदेव विशाम्पते । रेवायाः कपिलायोगे वाराणस्याः समागमे ॥ ४९.४ ॥ समानं फलां उद्दिष्टं तिलोदकेनापि विद्यते । वाराणसीसमा रेवा कपिलायाश्च सङ्गमे ॥ ४९.५ ॥ स्वायम्भुवेऽन्तरे प्राप्ते ब्रह्मलब्धवरोद्भवाः । रुद्रावर्तं ब्रह्मावर्तं सूर्यावर्तं तथाऽपरम् ॥ ४९.६ ॥ कपिलानर्मदायोगे ज्ञेयमेतत्त्रयं पुनः । नर्मदाभेदनं यत्र चतुर्हस्तप्रमाणतः ॥ ४९.७ ॥ रेवाकपिलयो राजंस्तत्रावर्तद्वयं स्मृतम् । पिप्पलावाहिनी तत्र सप्तपातालवासिनी ॥ ४९.८ ॥ तत्रैव कपिलावर्तं पिप्पलावर्तमेव च । कामयन्ति हि तीर्थं च पितरस्तृप्तिदायकम् ॥ ४९.९ ॥ तस्मात्पुत्रः प्रयत्नेन पितृभ्यश्च यथाविधि । जलाञ्जलिं तिलैर्मिश्रं दद्यात्पिण्डं च यत्नतः ॥ ४९.१० ॥ पितॄन् समुद्धरेद्घोराच्छ्राद्धं कृत्वा तु मानवः । रेवाकपिलयोर्योगे शुचिः स्नात्वा तु मानवः ॥ ४९.११ ॥ यः पश्येदमरं तत्र फलं तस्याश्वमेधिकम् । चन्द्रसूर्योपरागे तु पर्वकाले विशेषतः ॥ ४९.१२ ॥ गन्धं धूपं च नैवेद्यं दीपमालां च कारयेत् । तिलतण्डुलमिश्रैर्यः कुर्याल्लिङ्गस्य चार्चनम् ॥ ४९.१३ ॥ कुङ्कुमेन समालिप्य रक्तवस्त्रैः प्रवेष्टयेत् । पुष्पमालार्चनं कृत्वा हेमरत्नादिभिस्तथा ॥ ४९.१४ ॥ यावच्चन्द्रश्च सूर्यश्च हिमवांश्च महोदधिः । तावद्युगसहस्त्राणि रुद्रलोके महीयते ॥ ४९.१५ ॥ कौशेयं पट्टसूत्रं च कार्पासं रक्ततान्तवम् । वैजयन्तीवितानं च कलशोपरि वर्धयेत् ॥ ४९.१६ ॥ पञ्चरत्नसमायुक्तं किङ्किणीरवसंयुतम् । तत्तन्तुसंख्यया यावन्मुहूर्तमिह भारत ॥ ४९.१७ ॥ तावत्कालं वसेत्स्वर्ग उमामाहेश्वरे पुरे । ईशानमपरं चैव सामान्यात्कथितं पुरा ॥ ४९.१८ ॥ कपिलापूर्वभागे तु नातिदूरे व्यवस्थितम् । अर्चनात्तस्य लिङ्गस्य गाणपत्यमवाप्नुयात् ॥ ४९.१९ ॥ शुक्लाष्टं यां कार्त्तिके तु फलं शतगणोत्तरम् । संक्रमे च व्यतीपाते तस्य संख्या न विद्यते ॥ ४९.२० ॥ उपहारप्रदानेन कपिलेश्वरपूजनात् । वर्षाणामयुतं सार्द्धं लोके क्रीडति भास्करे ॥ ४९.२१ ॥ मृतवत्सा तथा बन्ध्या गर्भस्रावा च या भवेत् । रक्तवस्त्रैः पञ्चरत्नैः स्नानं सा च समाचरेत् ॥ ४९.२२ ॥ चतुर्दश्यां तथाष्टम्यां कपिलायां युधिष्ठिर । सुभगा जीवपुत्रा च सत्यमेतच्छिवोदितम् ॥ ४९.२३ ॥ उमया च वरो दत्तो नारीभ्यश्च प्रसादतः । कपिला निर्गता यस्मात्नर्मदायां प्रसर्पति ॥ ४९.२४ ॥ तीर्थानामष्टसाहस्रं कामभोगफलप्रदम् । आस्ते तत्र महाराज शिवेन कथितं पुरा ॥ ४९.२५ ॥ कपिला च ततो देया सर्वाभरणभूषिता । ब्राह्मणान् भोजयेत्तत्र यथा विभवविस्तरैः ॥ ४९.२६ ॥ उपवासपरो नित्यं तार्पिताः पितृदेवताः । हेमजालेश्वरं नाम लिङ्गं तत्रैव सिद्धिदम् ॥ ४९.२७ ॥ अर्चनात्तस्य देवस्य यमलोकं न पश्यति । वसुदानो धुन्धुमारश्चक्रवर्ती पुराऽभवत् ॥ ४९.२८ ॥ अस्य तीर्थस्य माहात्म्याद्दिवि देवत्वमाप्तवान् । अनेकानि सहस्राणि संसिद्धिं परमां गताः ॥ ४९.२९ ॥ क्षत्रियाणां नृपश्रेष्ठ कोटितीर्थप्रभावतः । उलूकैः पातितान् यत्र कोटितीर्थे शिरांस्यथ ॥ ४९.३० ॥ काकानां जलमध्ये तु शतशोऽथ सहस्रशः । तत्क्षणाद्दिव्यदेहास्तु ते काका यानमाश्रिताः ॥ ४९.३१ ॥ विद्याधराणां राजानो मया दृष्टाः पुरानघ । वृन्दाश्च जम्बुकानां तु व्याघ्राणां च भयेन वै ॥ ४९.३२ ॥ तथा मेघावृते काले नर्मदाजलमाविशन् । यक्षलोकं तु ते प्राप्ताः सर्वकामफलोदयम् ॥ ४९.३३ ॥ जम्बुकेश्वरमित्येवं तिर्यग्योनिविमोक्षणम् । पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् ॥ ४९.३४ ॥ वाराणसीप्रयागं च त्रैलोक्ये त्वमरेश्वरम् । त्रयस्त्रिंशत्कोटिभिस्तु सुरासुरनमस्कृतम् ॥ ४९.३५ ॥ तत्र स्नातश्च राजेन्द्र हयमेधफलं लभेत् । सिद्धा सरस्वती तत्र तीर्थस्यास्य प्रभावतः ॥ ४९.३६ ॥ यः कश्चित्कुरुते श्राद्धं पितॄणां प्रीतिवर्द्धनम् । स याति परमं स्थानं पितृभिः सह मानवः ॥ ४९.३७ ॥ लिङ्गं सारस्वतं नाम ब्रह्महत्याव्यापोहनम् । आख्यानं कथयिष्यामि इतिहासं पुरातनम् ॥ ४९.३८ ॥ स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे । अयोध्याधिपतिः श्रीमाञ्छक्रतुल्यपराक्रमः ॥ ४९.३९ ॥ धुन्धुमार इति ख्यातः सत्यवादी जितेन्द्रियः । यज्ञयाजी दानशीलो देवतातिथिपूजकः ॥ ४९.४० ॥ निरवद्याः प्रजास्तस्य भयदारिद्र्यवर्जिताः । सपादलक्षवर्षाणि प्रजा जीवन्ति भारत ॥ ४९.४१ ॥ यज्ञोत्सवविवाहैश्च वेदमङ्गलनिःस्वनैः । स्वयं कामदुघा धेनुः पृथिवी सस्यशालिनी ॥ ४९.४२ ॥ चतुर्वर्षसहस्राणि प्राकृता इतरे जनाः । कौशेयपट्टं वृक्षेषु बद्धं सर्वत्र भारत ॥ ४९.४३ ॥ यज्ञहोमसहस्रैस्तु सदा दोहमयीं नृप । एवं शशास पृथिवीं यथा शक्रस्त्रिविष्टपम् ॥ ४९.४४ ॥ एकस्मिन् समये राजा प्रतीहारमुवाच ह । आदेशय नृपान् सर्वान्नानादेशसमुद्भवान् ॥ ४९.४५ ॥ प्रतीहारसमादिष्टाः समायातास्ततो नृपाः । मृगयां तु स तैः सर्वैः कर्तुं विन्ध्यं जगाम ह ॥ ४९.४६ ॥ वेदध्वनितनिर्घोषैर्द्विजानामग्निहोत्रिणाम् । नादिता त्रिषु लोकेषु विख्याता सप्तकल्पगा ॥ ४९.४७ ॥ तत्रोपशोभितं रम्यं विचित्रं वनमण्डलम् । हत्वा जीवसहस्राणि क्षत्रियैः सह भारत ॥ ४९.४८ ॥ विवेश च वनं सर्वं ततः परमदारुणम् । भीमरूपं महाघोरं दुष्प्रेक्ष्यं च सुदुःसहम् ॥ ४९.४९ ॥ मेघनादेन गर्जन्तं सुतरां लोमहर्षणम् । वाराहं श्वेतवर्णं च दंष्ट्रायुगलभीषणम् ॥ ४९.५० ॥ तं दृष्ट्वा तादृशं तत्र वाराहं नृपसत्तमः । उवाच क्षत्रियान् सर्वान्न दृष्टं न मया श्रुतम् ॥ ४९.५१ ॥ एतादृशं वराहस्य रूपं वै लोमहर्षणम् । इत्युक्त्वा पाशमादाय यावद्धन्तुं समुद्यतः ॥ ४९.५२ ॥ तावद्वायुवपुर्भूत्वा निर्यातः प्राणपीडितः । विवेश जलमध्ये च कोटितीर्थे नराधिप ॥ ४९.५३ ॥ पृष्ठतोऽनुजगामऽथ स राजा हयवाहनः । प्रविष्टमात्रः पयसि वराहस्तु विशाम्पते ॥ ४९.५४ ॥ तत्क्षणाद्दिव्यदेहस्तु कामिकं यानमास्थितः । किमिदं प्राह तं राजा वाराहं देवरूपणम् ॥ ४९.५५ ॥ हृदि विस्मयमापन्नो सत्यमेतच्च ब्रूहि मे । तस्य तद्वचनं श्रुत्वा वाराहो देवरूपधृक् ॥ ४९.५६ ॥ प्रहसन्नब्रवीद्वाक्यं शृणु राजन्महामते । अङ्गदं नाम तु गणं विद्धि मां शङ्करस्य तु ॥ ४९.५७ ॥ गणैश्च देवमुख्यैश्च उमया च महेश्वरः । क्रीडन्नास्ते कदाचित्तु तस्याग्रे नृपसत्तम ॥ ४९.५८ ॥ तत्र गीतं मया गीतं रम्यं दण्डकलक्षणम् । दृष्ट्वोर्वशीं तथा रम्भामभूवं काममोहितः ॥ ४९.५९ ॥ व्याहरं छूकरीं वाणीं विस्वरो विकृताननः । विह्वलेन मया तत्र ह्यप्सरोभिस्तु क्रीडितम् ॥ ४९.६० ॥ तादृशं मां तुदृष्ट्वावैकामक्रीडावशगतम् । शशाप नन्दी कोपात्मा शुकरोऽमेध्यभुग्भव ॥ ४९.६१ ॥ दशवर्षसहस्राणि भ्रमिष्यसि महीतले । ब्रह्मापि नैव शक्नोति शिवस्य तु प्रकीर्तितम् ॥ ४९.६२ ॥ त्वं तु गामटमानोऽपि किङ्करस्यापि किङ्करः । कुपितं नन्दिनं ज्ञात्वा भयभीतान्तरात्मना ॥ ४९.६३ ॥ प्रसादितो मया नन्दी शापान्तं वरमादिशत् । दर्शनाद्धुन्धुमारस्यकोटितीर्थप्रभावतः ॥ ४९.६४ ॥ त्यक्त्वा तु शूकरीं योनिं पुनः प्रत्यागमिष्यसि । एतत्ते कथितं राजन्वाराहीं योनिमाश्रितः ॥ ४९.६५ ॥ यथा हि किल्विषात्मुक्तस्तीर्थस्यास्य प्रभावतः । ओंकारदर्शनाद्राजन् रेवातोयपरिष्कृतः ॥ ४९.६६ ॥ प्राप्तो गन्धर्वयोनिं तु दर्शनात्तव सुव्रत । विषादं त्यज राजेन्द्र गहना कर्मणां गतिः ॥ ४९.६७ ॥ धर्मे बुद्धिं समाधाय सर्वभूतहितो भव । जन्मतो मरणं राजन्मरणाज्जन्मसम्भवः ॥ ४९.६८ ॥ ज्ञात्वा शुभाशुभं कर्म त्वमात्मानं समुद्धर । स्वयमेवार्जितं कर्म स्वयमेवोपभुज्यते ॥ ४९.६९ ॥ स्वयं कर्ता च भोक्ता च शुभस्याप्यशुभस्य च । स्वस्ति वोऽस्ति गमिष्यामि एवमुक्त्वा जगाम ह ॥ ४९.७० ॥ ध्रियमाणातपत्रस्तु वीज्यमानोऽप्सरोगणैः । शिवध्यानपरो भूत्वा कैलासे न्यवसत्सुखम् ॥ ४९.७१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे वाराहस्वर्गारोहणं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ अध्याय ५० मार्कण्डेय उवाच - स तस्मिन्नृपति श्रेष्ठस्तृषितः श्रान्तवाहनः । हयं मुमोच राजा वै सर्वोपस्करमेव च ॥ ५०.१ ॥ स्मरनूर्ध्वगतिं तावदुपविष्टः शिलातले । रेणुध्वस्तस्ततोऽश्वो वै प्रविष्टः सप्तकल्पगाम् ॥ ५०.२ ॥ पानस्नानादिकं कृत्वा ह्यन्तरिक्षस्थितो हयः । ब्रह्मतेजः स्थितो भूत्वा ब्रह्मयानं समाश्रयत् ॥ ५०.३ ॥ अत्यद्भुतं तु तं दृष्ट्वा परं विस्मयमागत । उवाच वचनं राजा तुरङ्गं तं द्विजर्षभम् ॥ ५०.४ ॥ किमेतत्कारणं ब्रह्मञ्च्छंस मेऽद्ययथोचितम् । उवाच तद्वचः श्रुत्वा हयरूपो द्विजोत्तमः ॥ ५०.५ ॥ ब्रह्मर्षिर्गालवश्चाहं कुरुक्षेत्रे पुरा स्थितः । अश्वप्रतिग्रहाद्दग्धस्त्वश्वयोनिं समाश्रित ॥ ५०.६ ॥ दावाग्निना च यद्दग्धमुदकात्तत्प्ररोहति । दुष्टप्रतिग्रहाद्दग्धो न प्ररोहेत्कदाचन ॥ ५०.७ ॥ द्रुमसेनः पुरा चासीद्राजा परमधार्मिक । अयोध्याधिपतिश्चासौ चक्रवर्ती महाबलः ॥ ५०.८ ॥ राहुसूर्यसमायोगे कुरुक्षेत्रं जगाम ह । गजानश्वान् समादाय हिरण्यं गास्तथैव च ॥ ५०.९ ॥ माणिक्यवज्रवैदूर्यवासांसि विविधानि च । ब्राह्मणार्थे नृपश्रेष्ठ मुदा परमया युतः ॥ ५०.१० ॥ गृहाणि साप्तभौमानि धूपितानि तु काञ्चनैः । सर्वकामसमृद्धानि ब्राह्मणेभ्यो यथाविधि ॥ ५०.११ ॥ दत्त्वा स याचयामास सक्तुप्रस्थव्रते स्थितम् । राजोत्तमकुलं विप्रमुञ्छवृत्तिं समाश्रितम् ॥ ५०.१२ ॥ श्राद्धकालः पितॄणां मे भोजनं क्रियतामिति । ऋषिरुवाच - राज्ञो हि दर्शनं घोरं मेधामथनमक्षमम् ॥ ५०.१३ ॥ दृष्ट्वा चैव महीपालमादित्यं चावलोकयेत् । द्विजात्परतरो नास्ति प्रतिग्रहपराङ्मुखात् ॥ ५०.१४ ॥ असत्प्रतिग्रहं गृह्णन्नरकं याति वै ध्रुवम् । भार्याप्रतिग्रहग्राही याचस्वाऽन्यं द्विजोत्तमम् ॥ ५०.१५ ॥ ऋषे राजा वचः श्रुत्वा प्रतीहारं तथाब्रवीत् । घोषणा क्रियतां शीघ्रं स्थानेश्वरनिवासिनाम् ॥ ५०.१६ ॥ प्रतिग्रहाय यः कश्चित्स चायातु इह सत्वरम् । कृते तु घोषणे कश्चित्नासीत्नृपप्रतिग्रही ॥ ५०.१७ ॥ ततस्तु कुपितो राजा स्थानं तच्च निनिन्द च । अब्रह्मण्यमिदं स्थानं न वेदो न च याजनम् ॥ ५०.१८ ॥ जुगुप्सित्वा तु तान् सर्वांस्तूष्णीं चैव बभूव ह । तस्य वाक्यं तु तच्छ्रुत्वा राजानं चेदमब्रुवम् ॥ ५०.१९ ॥ गालवोऽहं द्विजश्रेष्ठश्चतुर्वेदी महातपाः । यज्ञयाजी तपस्वी च सर्वभूतहिते रतः ॥ ५०.२० ॥ अनुग्रहमिमं विद्धि उद्धरिष्ये भवार्णवात् । राजोवाच - ददामि ते न सन्देहः त्वमेको मुनिसत्तमः ॥ ५०.२१ ॥ मुद्गलाद्यैर्द्विजैः सर्वैर्वार्यमाणोऽपि चानघ । गृहीतोऽश्वरथस्तत्र मयाभरणभूषितः ॥ ५०.२२ ॥ ततः स मां नमस्कृत्य द्रुमसेनो ययौ नृप । मयापि चाग्निहोत्रादिकर्म त्यक्त्वा यथासुखम् ॥ ५०.२३ ॥ नानाविधानि दिव्यानि स्त्रीभिः सार्द्धं सुखानि तु । क्रीडतोऽपि तदर्थं वै यावत्मे च क्षयं गतम् ॥ ५०.२४ ॥ एवमुक्त्वा ययौ विप्रो ब्रह्मलोकं सनातनम् । एकाकी च ततो राजा चिन्तयामास भारत ॥ ५०.२५ ॥ एकाकी यदि यास्यामि गताश्वश्चरणेन तु । राजानो मां हसिष्यन्ति वचनैः स्वैः परस्परम् ॥ ५०.२६ ॥ दस्युभिर्निहतश्चास्य हय इत्येवमादिभिः । अश्वोपस्करमादाय शिरसा च कथं मया ॥ ५०.२७ ॥ प्रवेष्टव्यं पुरं चैतत्महालज्जाकरं मम । अद्य यावत्मया तावद्ब्राह्मणारोहणं कृतम् ॥ ५०.२८ ॥ पापस्यास्य विशुद्ध्यर्थं प्रवेक्ष्यामि हुताशनम् । एवं विचिन्तयाभास राजा तत्रैव सत्वरम् ॥ ५०.२९ ॥ दक्षिणां दिशमाश्रित्य शुष्ककाष्ठानि चाहरत् । ततः प्रज्वाल्य काष्ठानि कृत्वा च त्रिःप्रदक्षिणम् ॥ ५०.३० ॥ नमस्कृत्य हुताशं च विवेश स्वगृहं यथा । निर्जित्य तेजसा तेजः पावकस्य तदा नृपः ॥ ५०.३१ ॥ चतुर्भुजा त्रिनेत्रा तु मुक्ताभरणभूषिता । तं गृहीत्वा करेणैव इदं वचनमब्रवीत् ॥ ५०.३२ ॥ अप्राप्तं मरणं राजन् कालो विहितस्तव । अकस्मात्साहसं देव युक्तं न प्रतिभाति मे ॥ ५०.३३ ॥ कालप्राप्तं पुमांसं तु न रक्षेदीश्वरः स्वयम् । राजोवाच - काऽसि त्वं च वरारोहे ह्युमा गङ्गाऽथवा रमा ॥ ५०.३४ ॥ कथयस्व महाभागे मम त्वं भक्तिदायिनी । स्त्र्युवाच - नाहं गङ्गा न वाणी वा कपिलां विद्धि मां नृप ॥ ५०.३५ ॥ एनां रुद्राद्विनिष्क्रान्तां नर्मदातलवाहिनीम् । वसुदानस्य यज्ञे तु रेवाकपिलसङ्गमः ॥ ५०.३६ ॥ उमा कात्यायनी गङ्गा यमुना गौतमी तथा । सरस्वती तथा शिप्रा वरणा च शुभापगा ॥ ५०.३७ ॥ शतद्रूश्चन्द्रभागा च सिन्धू रेवामला तथा । वितस्ता चर्मणा देवी सोमावभृथमध्यतः ॥ ५०.३८ ॥ ब्रह्मविष्णुमहेशानां स्नानार्थं हृतवारिभिः । तिलोदकैर्मुनीनां तु प्रणीतः कलशोदकैः ॥ ५०.३९ ॥ तथा सोमरसैश्चैव घृतखण्डादिमिश्रितैः । बभूवातिप्रवाहो वै इज्याजन्यो महान् पुरा ॥ ५०.४० ॥ एतद्भूतं महत्पुण्यमुदयाचलमाश्रितम् । रुद्रावर्तपदं चात्र विद्यते नृपसत्तम ॥ ५०.४१ ॥ एवमुक्तो ययौ राजा देवी चान्तरधीयत । हृष्टस्तुष्टश्चक्रवर्ती मार्कण्डेयाश्रमं ययौ ॥ ५०.४२ ॥ गत्वा प्रणम्य तमृषिमुपविष्टस्तथाग्रतः । मार्कण्डेय उवाच - कुशलं ते नृपश्रेष्ठ धर्माचारविदां वर ॥ ५०.४३ ॥ सन्त्यज्य च कथं सैन्यमेकाकी त्वमिहागतः । राजोवाच - अद्य मे सफलं जन्म त्वत्पादाम्बुजदर्शनात् ॥ ५०.४४ ॥ धुन्धुमारस्तथा राजा कथयामास पूर्वकम् । मार्कण्डेयस्ततः श्रुत्वा वृत्तान्तं पृथिवीपतेः ॥ ५०.४५ ॥ रेवाकपिलयोर्योगे स्नात्वा स्तोत्रं चकार ह । तत्र स्नाता दिवं यान्ति रेवाकपिलसङ्गमे ॥ ५०.४६ ॥ उमा कात्यायनी गङ्गा यमुना गौतमी तथा । सरस्वती तथा शिप्रा वरणा च शुभापगा ॥ ५०.४७ ॥ शतद्रूश्चन्द्रभागा च सिन्धू रेवामला तथा । वितस्ता चर्मणादेवी बाहुदा वारुणी तथा ॥ ५०.४८ ॥ सरयूर्गण्डकी चैव घर्घरा बदरी तथा । गोमती वेणुकी चैव पारा वेत्रवती शुभा ॥ ५०.४९ ॥ विपाशा च तथा वाहा शङ्खिनी च पयोष्णिका । गोदावरी च कावेरी भीमा कृष्णा तथा शुभा ॥ ५०.५० ॥ सुभद्रा च तथा भद्रा करतोयाथ मालिनी । एताः सर्वास्त्वमेवासि सर्वगे त्वां नमाम्यहम् ॥ ५०.५१ ॥ लोकत्रयं त्वया व्याप्तमपां रूपेण सुव्रते । प्रसीद त्वं महाभागे लोकत्रितयपावनी ॥ ५०.५२ ॥ श्रुत्वा स्तोत्रमिदं देवी मार्कण्डेयात्तपोधनात् । पुष्पकं यानमारुह्य सर्वाभरणभूषिता ॥ ५०.५३ ॥ चतुर्भुजा त्रिनेत्रा च चन्द्रबिम्बनिभानना । उवाच वचनं देवी मार्कण्डेयं महामुनिम् ॥ ५०.५४ ॥ स्तोत्रेणानेन तुष्टाहं वरं वृणु यथेप्सितम् । मार्कण्डेय उवाच - परितुष्टासि देवेशि वरं दातुं त्वमिच्छसि ॥ ५०.५५ ॥ कलुषं हर कल्याणि लोकानां हरसंभवे । स्नानं कृत्वा स्तुवन् तोये लोकानापुः शिवाज्ञया ॥ ५०.५६ ॥ वरं ददस्व देवि त्वं धुन्धुमाराय सांप्रतम् । राज्यं कृत्वा दिवं यातु सान्तःपुरपरिच्छदः ॥ ५०.५७ ॥ यं यं चिन्तयते कामं तं तं प्राप्नोति सुव्रते । एवं भवतु विप्रेन्द्र मत्तो यद्वाञ्छितं त्वया ॥ ५०.५८ ॥ एवमुक्त्वा ययौ देवी कपिला लोकपावनी । मार्कण्डेयं मुनिं राजा मुनिभिः परिवारितम् ॥ ५०.५९ ॥ प्रणिपत्य यथा न्यायं गतश्च स्वपुरं तदा । ततः कालेन महताराजा धर्मपरायणः ॥ ५०.६० ॥ राज्यं कृत्वा क्रतूनिष्ट्वा धुन्धुमारो दिवं गतः । एतत्ते कथितं सर्वं मया दृष्टं पुरानघ ॥ ५०.६१ ॥ श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ५०.६२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे कपिलामाहात्म्ये धुन्धुमारस्वर्गारोहणं नाम पञ्चाशत्तमोऽध्यायः ॥ अध्याय ५१ युधिष्ठिर उवाच - द्वीपसंख्या भुवो मानं सागराणां च कीर्तनम् । पाताललोकसंख्यानं सर्वतो विदितं कुरु ॥ ५१.१ ॥ नरकं स्वर्गमानं च यत्किंचिदन्यदीदृशम् । उक्तानुक्तं यत्किंचित्कर्माकर्मशुभावहम् ॥ ५१.२ ॥ एतत्सर्वं समासेन स्कन्दपृष्टेन शम्भुना । कथितं तु पुराणं वै यथावृत्तं पुरातनम् ॥ ५१.३ ॥ भविष्यभूततत्त्वज्ञस्त्रिकालज्ञस्त्रिवेदवित् । त्वमेव वेत्सि सर्वं च प्रसादाद्वक्तुमर्हसि ॥ ५१.४ ॥ मार्कण्डेय उवाच - शृणु राजन्महाभाग कथ्यमानं निबोध मे । अनेकानि सहस्राणि मया दृष्टानि भारत ॥ ५१.५ ॥ युगे युगे क्षत्रियाणां दानयज्ञक्रियाणि च । नान्यस्तु त्वादृशो राजा दृष्टस्तेषां तु मध्यतः ॥ ५१.६ ॥ एतत्सर्वं समासेन स्कन्दपृष्टेन शम्भुना । कथितं तु पुराणं वै सर्वं ते कथयाम्यहम् ॥ ५१.७ ॥ चन्द्रद्वीपः प्रभासे तु ताम्रपर्णिर्गभस्तिमान् । नागद्वीपश्च सौम्यश्च गन्धर्वो वरुणस्तथा ॥ ५१.८ ॥ नवमः कुमारिकाख्यस्तु इति द्वीपाः प्रकीर्तिताः । नवखण्डवती चैषा कथिता ते समासतः ॥ ५१.९ ॥ खण्डेष्वेतेषु सर्वेषु प्रवाहो नार्मदः स्मृतः । जम्बूशाककुशक्रौञ्चशाल्मल्यश्च युधिष्ठिर ॥ ५१.१० ॥ प्लक्षश्च पुष्करश्चैव सप्तद्वीपाः प्रकीर्तिताः । क्षारं क्षीरं दधि सर्पिस्तथैवेक्षुरसोऽपि च ॥ ५१.११ ॥ सुरोदो मधुरोदश्च समुद्राः सप्तकीर्तिताः । भूर्लोकश्च भुवर्लोकः स्वर्लोकश्च महस्तथा ॥ ५१.१२ ॥ जनलोकस्तपोलोकः सत्यलोकस्तथा परः । भूर्लोकादित्ययोर्विद्धि त्वन्तरालं युधिष्ठिर ॥ ५१.१३ ॥ योजनानां चतुर्लक्ष पातालं यत्प्रमाणतः । रुद्राश्च वसवश्चाष्टौ निवसन्त्यत्र भारत ॥ ५१.१४ ॥ कथिताश्च मया लोकाः पातालानि निबोध मे । अतलं वितलं चैव शर्करं च गभस्तिकम् ॥ ५१.१५ ॥ महातलं च सुतलं रसातलमतः परम् । सौवर्णमष्टमं विद्धि सर्वकामसमन्वितम् ॥ ५१.१६ ॥ वह्नेर्दाहो ह्यपां शैत्यं मरुतां वहनं तथा । काठिन्यं च तथा धात्र्या गगने शुषिरं तथा ॥ ५१.१७ ॥ स्वभाव एव भूतानां स्वस्वभावानुसारतः । प्रकृतिं यान्ति भूतानि नात्र कार्या विचारणा ॥ ५१.१८ ॥ लक्षाणि चतुरशीतिर्योनीनां पापकर्मणाम् । नरकेषु च घोरेषु दारुणा यमयातनाः ॥ ५१.१९ ॥ निरुद्धाः प्राणिनः सर्वे नीतास्तु यमकिङ्करैः । यातना विविधा रौद्रास्तत्रस्थैरनुभूयते ॥ ५१.२० ॥ स्वकर्मफलयोगेन प्राप्नुवन्ति शुभाशूभम् । एतदर्थं तपो होमं दानं ध्यानं च पावनम् ॥ ५१.२१ ॥ कारुण्यं सर्वभूतेषु नर्मदाश्रयणं तथा । रेवायाः स्तवनं पूजा सूर्यस्य प्रभवो यथा ॥ ५१.२२ ॥ आख्यानं कथयिष्यामि यथावृत्तं पुरातनम् । मुचुकुन्दस्य संवादो दानवेन्द्रस्य भारत ॥ ५१.२३ ॥ कुवलयाश्वोऽथ राजर्षिश्चक्रवर्ती महायशाः । आसीत्कृतयुगे राजनन्तरे चाक्षुषे किल ॥ ५१.२४ ॥ शक्रादष्टगुणं राज्यं राज्ञश्चामिततेजसः । अनेकानि सहस्राणि दानानि विविधानि च ॥ ५१.२५ ॥ दत्तानि तेन राज्ञा वै सर्वतीर्थेष्वनुत्तमम् । इष्टाश्च क्रतवश्चापि वर्जयित्वा तु कल्पगाम् ॥ ५१.२६ ॥ दानवो मुचुकुन्दश्च सर्वधर्मपरायणः । ब्रह्मण्यः शिवभक्तश्च विष्णुभक्तो जितेन्द्रियः ॥ ५१.२७ ॥ राहुसोमसमायोगे वैदूर्ये सिद्धपर्वते । ओंकारनाथसहिता यत्रास्ते कल्पगा सरित् ॥ ५१.२८ ॥ अन्यानि यानि लिङ्गानि लोके चैव चराचरे । कल्पान्ते तानि लीयन्त ओंकारे वै न संशयः ॥ ५१.२९ ॥ शिवेन कथितं ह्येतद्विष्णोश्चैव शतक्रतोः । पार्वत्याः षण्मुखस्यापि पुराणे स्कन्दकीर्तिते ॥ ५१.३० ॥ आगतः कल्पगां देवीं कोटितीर्थे नराधिपः । नर्मदाकपिलायोगे सर्वसम्भारसंवृतः ॥ ५१.३१ ॥ लक्षमेकं तु दोग्ध्रीणां समादाय गवां नृप । अयुतं च हयानां च सहस्रं दन्तिनां तथा ॥ ५१.३२ ॥ कामिकानां तु यानानां सहस्रं हेममालिनाम् । धनं धान्य च वासांसि रत्नानि विविधानि च ॥ ५१.३३ ॥ स्नानं कृत्वा यथान्यायं ब्राह्मणेभ्यो ददौ तदा । मूर्तौ तु दक्षिणां चापि ओंकारस्य नराधिप ॥ ५१.३४ ॥ यो यं कामयते कामं तं तस्मै स प्रयच्छति । राजा कुवलयाश्वस्तु धर्मकर्मपरायणः ॥ ५१.३५ ॥ राहुसूर्यसमायोगे कुरुक्षेत्रं ययौ किल । सान्तःपुरपरीवारो ह्ययोध्याधिपतिः स्वयम् ॥ ५१.३६ ॥ राजपुत्रसहस्रैस्तु वृतः स्नानेप्सया किल । लक्षमेकं हयानान् च दन्तिनामयुतं तथा ॥ ५१.३७ ॥ हेममाणिक्यरत्नानि वासांसि विविधानि च । श्रद्धया परया युक्तो ब्राह्मणेभ्यो ददौ नृप ॥ ५१.३८ ॥ शेषं निर्वापितं क्षेत्रे स्थाने वायनपूर्वकम् । कालान्तरे ततः प्राप्ते कुरुक्षेत्रप्रभावतः ॥ ५१.३९ ॥ नानायानसहस्रैस्तु सान्तः पुरपरिग्रहः । ध्रियमाणा तपत्रस्तु वीज्यमानोऽप्सरोगणैः ॥ ५१.४० ॥ शङ्खवादित्रघोषेण नानाभरणभूषितः । विचचार च तत्रस्थो विद्याधर इवापरः ॥ ५१.४१ ॥ मुचुकुन्दोऽपि दैत्येन्द्रः सर्वकामसमन्वितः । कामिकैश्च महायानैर्हेमरत्नविभूषणैः ॥ ५१.४२ ॥ श्रुत्वा वाद्यसहस्राणि धर्मराजो विशाम्पते । जगाम विस्मयं घोरं किमेतदिति चाब्रवीत् ॥ ५१.४३ ॥ ततः कुवलयाश्वोऽपि तस्मिनहनि तत्पुरम् । उभौ निवेदितौ दूतैर्धर्मराजस्य धीमतः ॥ ५१.४४ ॥ कुवलयाश्वोऽथ राजर्षिर्मुचुकुन्दो महाबलः । लोकान्तरमुभावेतौ विमानस्थौ समागतौ ॥ ५१.४५ ॥ तावदुत्पतितं यानं मुचुकुन्दस्य चोपरि । योजनानां सहस्रेण ह्युपर्युपरि संस्थितम् ॥ ५१.४६ ॥ अयोध्याधिपतेर्यानमधोभागे व्यवस्थितम् । पप्रच्छ धर्मराजोऽपि चित्रगुप्तं तु लेखकम् ॥ ५१.४७ ॥ किं तु यानं समासाद्य अर्घपाद्येन पूजये । सप्तर्षीनृषिमुख्यांश्च धर्माधर्मविचारकान् ॥ ५१.४८ ॥ चित्रगुप्तोऽब्रवीद्वाक्यं तथा सप्तर्षयोऽब्रुवन् । मुचुकुन्दं समासाद्य त्वर्घपाद्येन पूजय ॥ ५१.४९ ॥ दानेन कापिलेनेज्यो दानवेन्द्रो न चापरः । अधः कुवलयाश्वश्च मुचुकुन्दस्तथोपरि ॥ ५१.५० ॥ एवमुक्तो धर्मराजो दानवेन्द्रमुपाश्रयत् । श्वेतवस्त्रपरीधानो ज्वलत्कुण्डलभूषणः ॥ ५१.५१ ॥ अञ्जलिं च ततो बद्ध्वा यानस्याग्रे व्यवस्थितः । कुशलं तेऽद्य दैत्येन्द्र सर्वधर्मभृतां वर ॥ ५१.५२ ॥ निर्जितास्ते त्रयो लोका दानेनाऽनेन सुव्रत । ओंकारदक्षिणस्यान्ते मूर्तौ कापिलसङ्गमे ॥ ५१.५३ ॥ सप्तकल्पवहातीरे दानसंख्या न विद्यते । मुचुकुन्द उवाच - धर्माधर्मे त्वमेवाद्य स्वर्गद्वारार्गलो यतः ॥ ५१.५४ ॥ एवमुक्तो यमस्तत्र दैत्येन्द्रेण महात्मना । पन्थानं दर्शयामास दैत्येन्द्रस्य युधिष्ठिर ॥ ५१.५५ ॥ ततस्तु प्रेषितस्तेन मुचुकुन्दो जगाम ह । मुदा परमया युक्त उमामाहेश्वरं पुरम् ॥ ५१.५६ ॥ संस्मारयित्वा विधिवद्दैत्येन्द्रं धर्मराट्ततः । आसाद्य कुवलयाश्वं धर्मराजोऽब्रवीदिदम् ॥ ५१.५७ ॥ स्वागतं ते महाराज कुशलं तव सर्वदा । कुवलयाश्व उवाच - परस्परविरोधत्वं देवदानवयोः सदा ॥ ५१.५८ ॥ मां त्यक्त्वा दानवेन्द्रस्तु पाद्यार्घेण त्वयार्चितः । विपरीतं च तत्सर्वं धर्मराज कृतं कथम् ॥ ५१.५९ ॥ यम उवाच - विषादं त्यज राजेन्द्र गहना कर्मणां गतिः । नाहं दाता च हर्ता च शुभाशुभफलस्य वै ॥ ५१.६० ॥ कर्मसाक्षी च सर्वेषां देवासुरनृणां नृप । सरस्वत्यां कुरुक्षेत्रे दानं दत्तं त्वयानघ ॥ ५१.६१ ॥ द्वापरान्ते तु दानं वै रेवादानं समं नहि । शिवेन कथितं चासीद्ब्रह्मविष्णुमरुद्गाणान् ॥ ५१.६२ ॥ कलां नार्हन्ति तीर्थानि सार्द्धं कल्पगया क्वचित् । अनृतं न मया चोक्तं पुराणं श्रुतिसम्मतम् ॥ ५१.६३ ॥ एतस्मिनन्तरे राजन् द्वयोः संवदतोस्तयोः । उक्तः कुवलयाश्वस्तु तदाकाशगिरा स्वयम् ॥ ५१.६४ ॥ धर्मश्चेत्थं महाराज मा कृथास्त्वं कथंचन । कल्पगा तोयसंस्पृष्टो दैत्यः शिवमवाप्तवान् ॥ ५१.६५ ॥ स राजा विस्मयापन्नः पुनर्व्यावृत्य चागतः । नर्मदां स्नातुकामोऽपि कपिलासङ्गमं प्रति ॥ ५१.६६ ॥ तत्र प्लुतस्ततो राजा शिवलोकं जगाम ह ॥ ५१.६७ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे मुचुकुन्दकुवलयाश्वस्वर्गारोहणं नामैकपञ्चाशत्तमोऽध्यायः ॥ अध्याय ५२ युधिष्ठिर उवाच - के व्रजन्ति यमं विप्र कीदृशा नरकास्तु ते । एतन्मे सर्वमाख्याहि देवलोकं व्रजन्ति के ॥ ५२.१ ॥ मार्कण्डेय उवाच - यान्ति पुष्पकयानेन पुष्परागप्रदायिनः । देवायतनकर्तारः शिवलोकं व्रजन्ति ते ॥ ५२.२ ॥ अनाथमण्डपानां तु ते क्रीडन्ति गृहोत्तमैः । देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः ॥ ५२.३ ॥ पूज्यमाना नरा यान्ति कामिकैश्च यथा सुखम् । द्योतयन्तो दिशः सर्वा यान्ति दीपप्रदानतः ॥ ५२.४ ॥ प्रतिश्रयप्रदानेन सुखं यान्ति यमालयम् । सर्वकामसमृद्धेन तथा गच्छति तोयदः ॥ ५२.५ ॥ अन्नं पानं प्रयच्छन्ति सुखं यान्ति निराकुलाः । दीपमालां हि यच्छन्ति गुरुशुश्रूषणे रताः ॥ ५२.६ ॥ पादाभ्यङ्गं च यः कुर्यात्सोऽश्वपृष्ठेन गच्छति । हेमरत्नप्रदानेन यान्ति रत्नविभूषिताः ॥ ५२.७ ॥ सर्वकामसमृद्धात्मा भूमिदानेन गच्छति । अन्नपानप्रदानेन पिबन् खादंश्च गच्छति ॥ ५२.८ ॥ इत्येवमादिभिर्दानैः सुखं यान्ति शिवालयम् । स्वर्गे च विपुलान् भोगान् प्राप्नोत्यन्नप्रदानतः ॥ ५२.९ ॥ सर्वेषामेव दानानामन्नदानपरं विदुः । सर्वप्रीतिकरं पुण्यं बलपुष्टिविवर्द्धनम् ॥ ५२.१० ॥ नान्नदानसमं दानं त्रिषु लोकेषु विश्रुतम् । अन्नादानसमं दानं त्रिषु लोकेषु विश्रुतम् । अन्नाद्भवन्ति भूतानि म्रियन्ते तदभावतः ॥ ५२.११ ॥ रक्तं मांसं मज्जशुक्रे क्रमादन्नात्प्रवर्तते । शुक्राद्भवन्ति भूतानि तस्मादन्नमयं जगत् ॥ ५२.१२ ॥ हेमरत्नाश्वनागेन्द्रनारीस्रक्चन्दनादिभिः । नास्त्याहारसमं सौख्यं नास्ति क्रोधसमो रिपुः ॥ ५२.१३ ॥ अत एव महापुण्यमन्नदानं च भारत । अन्नदः प्राणदः प्रोक्तस्तस्मादन्नप्रदो भवेत् ॥ ५२.१४ ॥ तस्मादन्नप्रदानेन दत्तान्यन्यानि सर्वशः । त्रैलोक्ये यानि दानानि भोगस्त्रीवाहनानि च ॥ ५२.१५ ॥ अन्नपानादि यत्किंचिदैश्वर्यं च युधिष्ठिर । अन्नदानस्य तत्सर्वमिहामुत्र फलं स्मृतम् ॥ ५२.१६ ॥ यस्मादन्नेन पुष्टाङ्गः कुरुते धर्मसंचयम् । पवित्रममृतं दिव्यं शुद्धं सत्त्वं रसायनम् ॥ ५२.१७ ॥ अन्नपानाश्वगोवत्सशय्याछत्राण्युपानहौ । प्रेतलोकप्रशस्तानि दानान्यष्टौ युधिष्ठिर ॥ ५२.१८ ॥ एवं दानविशेषेण धर्मराजपुरे नराः । सुखेनैव तु गच्छन्ति तस्माद्धर्मं समाचरेत् ॥ ५२.१९ ॥ अन्नदानं महाराज जलं चैव तु पुष्कलम् । पितृभ्यः प्रयतो दद्यात्तीर्थे चैवामरेश्वरे ॥ ५२.२० ॥ तीर्थानि पुण्यक्षेत्राणि यानि वै कीर्तितानि च । काममोक्षप्रदानीह सर्वसिद्धिकराणि च ॥ ५२.२१ ॥ सर्वेषामेव तेषां तु माता वै परिकीर्तिता । नर्मदा सरिता श्रेष्ठा सप्तकल्पवहा शुभा ॥ ५२.२२ ॥ तपसो यज्ञदानानां संख्या तीर्थेषु विद्यते । नर्मदायां न संख्यास्ति तेषामित्याह शङ्करः ॥ ५२.२३ ॥ यथा शिवस्तथा रेवा पूजनीया प्रयत्नतः । एषु ये तु कुकर्माणः पापा दानविवार्जिताः ॥ ५२.२४ ॥ पथा घोरेण ते यान्ति दक्षिणेन यमालयम् । षडशीतिसहस्राणि योजनानां समन्ततः ॥ ५२.२५ ॥ पुरं ज्ञेयं महारौद्रं नानारूपैरधिष्ठितम् । समीपस्थमिवाभाति नराणां क्रूरकर्मणाम् ॥ ५२.२६ ॥ पापिनामपि दूरस्थं पथा रौद्रेण यान्ति ते । तीव्रकण्टकयुक्तेन शर्कराभूषितेन च ॥ ५२.२७ ॥ क्षुरधारावृतैस्तीक्ष्णैः पाषाणैर्निर्मितेन च । केचित्त्वनेन महता दारुदारैश्च घातकैः ॥ ५२.२८ ॥ लोहसूचीभिरुग्राभिर्ग्रस्तेन च क्वचित्क्वचित् । लताप्रतानविषमैः पर्वतैर्वृक्षसंकुलैः ॥ ५२.२९ ॥ सुतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः । क्वचिद्विषमगर्ताभिस्तप्तलोष्टेष्टकैरपि ॥ ५२.३० ॥ सुतप्तबालुकाभिश्च तथा तीक्ष्णैश्च शङ्कुभिः । अनेकभग्नशाखाभिरावृतेन क्वचित्क्वचित् ॥ ५२.३१ ॥ कष्टेन तमसा केचिद्गच्छन्ति हि यमालयम् । मार्गस्थाङ्गारकैस्तप्तैर्ग्रस्ता दावाग्निभिस्तथा ॥ ५२.३२ ॥ क्वचित्तप्तशिलाभिश्च पङ्केन कटिमानतः । क्वचिद्दुष्टाम्बुना व्याप्तं दुष्करीषाग्निना क्वचित् ॥ ५२.३३ ॥ क्वचिद्गृध्रैर्बकैर्व्याघ्रैर्दुष्टैः कीटैः सुदारुणैः । क्वचिन्महाकुलीराद्यैः क्वचित्त्वजगरैः पुनः ॥ ५२.३४ ॥ मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्वणैः । मत्तमातङ्गयूथैश्च समन्ताच्च प्रमाथिभिः ॥ ५२.३५ ॥ पन्थानमुल्लिखद्भिश्च तीक्ष्णशृङ्गैर्महाबलैः । सिंहैर्विषाणमहिषैर्रौद्रैर्मत्तैश्च श्वापदैः ॥ ५२.३६ ॥ डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः । व्याधिभिश्च महाघोरैः पावकैश्च दुरासदैः ॥ ५२.३७ ॥ महानलविमिश्रेण महाचण्डेन वायुना । महापाषाणवर्षेण भिद्यमाना निराश्रयाः ॥ ५२.३८ ॥ क्वचित्क्वचित्प्रतप्तेन दीप्यमाना व्रजन्ति हि । महता व बाणवर्षेण भिद्यमानाः समन्ततः ॥ ५२.३९ ॥ पतद्भिर्वज्रसङ्घातैरुल्कापातैश्च दारुणैः । प्रदीप्ताङ्गारवर्षेण हन्यमाना व्रजन्ति हि ॥ ५२.४० ॥ महाघोररवैर्घोरैर्वित्रस्यन्तो मुहुर्मुहुः । निशितायुधवर्षेण पूर्यमाणाश्च सर्वशः ॥ ५२.४१ ॥ महाक्षराम्बुधाराभिः सिच्यमाना मुहुर्मुहुः । महाशीतेन रौद्रेण क्षुरधारादिभिस्तथा ॥ ५२.४२ ॥ अन्यैर्बहुविधाकारैः शतशोऽथ सहस्रशः । इत्थं च तप्तरौद्रेण मार्गेण विषमेण च ॥ ५२.४३ ॥ अविश्रान्तेन महता ह्यविदूरेण भारत । अविदूरेण कष्टेन सर्वदुःखाश्रयेण च ॥ ५२.४४ ॥ नीयन्ते देहिनः सर्वे मूढाः पापपरायणाः । यमदूतैर्महाघोरैर्यमाज्ञाकारिभिर्बलात् ॥ ५२.४५ ॥ एकाकिनः पराधीना मित्रबन्धुविवर्जिताः । शोचन्तः स्वानि कर्माणि दह्यन्ते च मुहुर्मुहुः ॥ ५२.४६ ॥ प्रेतभूतविमिश्राश्च शुष्ककण्ठोष्ठतालुकाः । कृशाङ्गा भीतभीताश्च दह्यमाना हुताग्निना ॥ ५२.४७ ॥ बद्धाः शृङ्खलया केचित्मज्जन्तः पापिनो भृशम् । कृष्यन्ते दह्यमानास्तु यमदूतैर्बलोत्कटैः ॥ ५२.४८ ॥ उरस्यधोमुखस्थाने तथैव खलु दुःखिताः । केशपाशे विबद्धाश्च कृष्यन्ते पापिनस्तथा ॥ ५२.४९ ॥ ललाटे चाशुगैर्बिद्ध्वा कृष्यन्ते देहिनः क्वचित् । उत्ताना दुष्टपन्थानं नीयन्ते पापकर्मणा ॥ ५२.५० ॥ पार्श्वबाहुविबद्धाश्च जठरे परिपीडिताः । ग्रीवापाशविकृष्याश्च केऽपि यान्ति सुदुःखिताः ॥ ५२.५१ ॥ जिह्वाशङ्कुप्रदानेन समानीयकृकाटिकाः । अर्द्धचन्द्रेण गृह्यन्ते क्षिप्यमाणा इतस्ततः ॥ ५२.५२ ॥ शिश्ने च वृषणे चैव रज्ज्वा बद्धास्तथा परो । विच्छिन्नहस्तपादाश्च छिन्नकर्णोष्ठनासिकाः ॥ ५२.५३ ॥ विच्छिन्नशिश्नवृषणाश्छिन्नशीर्षाङ्गसंचयाः । अङ्कुशैर्भिद्यमानास्तु खाद्यमानाः सरीसृपैः ॥ ५२.५४ ॥ इतश्चेतश्च धावन्ति क्रन्दमाना निराश्रयाः । मुद्गारैर्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः ॥ ५२.५५ ॥ कशाभिर्विविधाभिश्च घोराभिश्च समन्ततः । भिन्दिपालैश्च तुद्यन्ते वमन्तः शोणितं मुहुः ॥ ५२.५६ ॥ पात्यमानाश्च सलिले छायां वै प्रार्थयन्ति च । दानहीनाः प्रयान्त्येवं प्रायश्चित्तकृतो नराः ॥ ५२.५७ ॥ गृहीत्वा चैव पाथेयं सुखं याति यमालयम् । एवं पथा निकृष्टेन प्राप्ता यमपुरं नराः ॥ ५२.५८ ॥ प्राज्ञापितैस्तथा दूतैः प्रवेश्यन्ते यमाग्रतः । तत्र ये शुभकर्माणस्तान् वै संस्मारयेद्यमः ॥ ५२.५९ ॥ स्वागतासनदानेन पाद्यार्घेण प्रियेण च । धन्या यूयं महात्मानात्मनो हितकारिणः ॥ ५२.६० ॥ यैस्तु दिव्यसुखार्थं हि भवद्भिः सुकृतं कृतम् । नर्मदातटमाश्रित्य पर्वतेऽमरकण्टके ॥ ५२.६१ ॥ दानं दत्तं तपस्तप्तं हुतं चेष्टं विधानतः । वाराणस्यां कुरुक्षेत्रे प्रयागे पुष्करे तथा ॥ ५२.६२ ॥ गयायां नैमिषारण्ये गङ्गासागरसङ्गमे । केदारे भरैवे चापि प्रभासे शशिभूषणे ॥ ५२.६३ ॥ महाकालवने रम्ये श्रीशैले त्रिपुरान्तके । त्रैयम्बके धौतपापे नीलकण्ठे तथैव च ॥ ५२.६४ ॥ गङ्गाद्वारे हिमद्वारे तथा कालञ्जरे गिरौ । एतेष्वन्येषु तीर्थेषु क्षेत्रेषु च यथाक्रमम् ॥ ५२.६५ ॥ लब्धं जन्मफलं चैव भवद्भिर्नात्र संशयः । इदं विमानमारुह्य दिव्यस्त्रीभोगभूषितम् ॥ ५२.६६ ॥ संगच्छध्वं शिवं स्वर्गं सर्वकामसमन्वितम् । तत्र भुक्त्वा महाभोगाननन्तान् पुण्यसंख्यया ॥ ५२.६७ ॥ यत्किंचिदन्यदशुभं स्वल्पं तदपि भोक्ष्यथ । आख्यातं तु मया तावत्कल्पगातीरवासिनः ॥ ५२.६८ ॥ आरोहन्ति विमानानि सर्वेषामुपरि स्थिताः । सर्वतीर्थेषु संख्यास्ति ह्युक्तं ब्रह्मादिभिः पुरा ॥ ५२.६९ ॥ तत्र यद्दीयते दानं तेन स्वर्गे महीयते । म्रियते तत्र यः कश्चिद्व्रतेनानशनेन च ॥ ५२.७० ॥ दिव्ययानं समाश्रित्य स प्रयाति शिवालयम् । एतत्ते कथितं राजन् कल्पगापुण्यमुत्तमम् ॥ ५२.७१ ॥ पश्यन्ति पुण्यकर्माणो यमं मित्रमिवात्मनः । ये पुनः क्रूरकर्माणस्ते पश्यन्ति भयानकम् ॥ ५२.७२ ॥ दंष्ट्रा करालवदनं भ्रुकुटीकुटिलेक्षणम् । ऊर्द्ध्वकेशं महाश्मश्रुं स्फुरदोष्ठाधरोत्तरम् ॥ ५२.७३ ॥ अष्टादशभुजं क्रूरं नीलाञ्जनचयोपमम् । सर्वायुधोह्यतकरं गर्जन्तं दण्डपाणिनम् ॥ ५२.७४ ॥ महामहिषमारूढं तप्ताग्निसमलोचनम् । रक्तमाल्याम्बरधरं महामेरुमिवोत्थितम् ॥ ५२.७५ ॥ प्रलयाम्बुदनिर्घोषं पिबन्तमिव वारिधीन् । ग्रसन्तमिव त्रैलोक्यमुद्गिरतमिवानलम् ॥ ५२.७६ ॥ मृत्युस्तस्य समीपस्थः कालानलसमप्रभः । कालश्चाञ्जनसंकाशः कृतान्तश्च भयानकः ॥ ५२.७७ ॥ विविधा व्याधयस्तीक्ष्णा नानारूपा भयानकाः । शक्तिशूलाङ्कुशधराः पाशचक्रासिपाणयः ॥ ५२.७८ ॥ वज्रदंष्ट्राधरा रौद्राः क्रूराश्चाञ्जनसन्निभाः । सर्वायुधोद्यतकरा यमदूताश्च घातकाः ॥ ५२.७९ ॥ एवं विधं यमं तत्र पश्यन्ति पापचारिणः । निर्भयो याति चात्यर्थं यमो वा पापकारिणम् ॥ ५२.८० ॥ चित्रगुप्तश्च भगवान् धर्मं तेषां प्रबोधयन् । भो भो दुष्कृतकर्माणः परद्रव्यापहारकाः ॥ ५२.८१ ॥ गार्जिता रूपवीर्येण परदारोपमर्दकाः । यस्तु यत्कुरुते कर्म तेन तद्भुज्यते पुनः ॥ ५२.८२ ॥ तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् । किमर्थं परितप्यध्वं पीड्यमानाः स्वकर्मभिः ॥ ५२.८३ ॥ भुज्यन्ते स्वानि कर्माणि नास्ति दोषोऽत्र कस्यचित् । एते च पृथिवीपालाः संप्राप्ताश्च महीपते ॥ ५२.८४ ॥ स्वकीयैः कर्मभिर्घोरैर्दुष्प्रज्ञाबलगर्विताः । भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः ॥ ५२.८५ ॥ स्वल्पकालस्य राज्यस्य किं वै तद्दुष्कृतं कृतम् । भवद्भी राज्यलोभेन मोहेनान्यायवृत्तिभिः ॥ ५२.८६ ॥ यद्गृहीतं फलं तस्य यूयं भुङ्ग्ध्वं यथातथम् । कुत्र राज्यं कलत्रं वा यदर्थमशुभं कृतम् ॥ ५२.८७ ॥ तत्सर्वस्वं परित्यज्य यूयमेकाकिनस्तथा । त्वद्बान्धवा न पश्यन्ति येन विध्वंसिताः प्रजाः ॥ ५२.८८ ॥ यमदूतैः पात्यमाना अधुना कीदृशं भवेत् । एवं बहुविधैर्वाक्यैरुपलब्धा यमेन ते ॥ ५२.८९ ॥ शोचन्ति स्वानि कर्माणि तूष्णीं भूताश्च पार्थिव । इति वाक्यैः समादिश्य नृपांस्तान् धर्मराट्ततः ॥ ५२.९० ॥ तेषां पापविशुद्ध्यर्थं यमो दूतानथाब्रवीत् । भो भोश्चण्ड महाचण्ड गृहीत्वा नृपतीनिमान् ॥ ५२.९१ ॥ विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निना । ततः शीघ्रं समास्थाय नृपान् संगृह्य पादयोः ॥ ५२.९२ ॥ भ्रामयित्वा तु वेगेन चिक्षिपुर्यमकिङ्कराः । सर्वे वेगेन महता सुप्रतप्ते महीतले ॥ ५२.९३ ॥ आस्फालयन्ति महति चाश्मसारमये द्रुमे । ततस्ते सर्व एवाशु प्रहारैर्जर्जरीकृताः ॥ ५२.९४ ॥ विसंज्ञाश्च तदा सन्ति निश्चेष्टाश्च युधिष्ठिर । ततस्ते वायुना स्पृष्टाः शनैस्तु जीविताः पुनः ॥ ५२.९५ ॥ तानानीय विशुद्ध्यर्थं क्षिपन्ति नरकार्णवे । अष्टाविंशतिरेवाद्यास्तीव्रानरककोटयः ॥ ५२.९६ ॥ सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः । अतिघोरा च रौद्रा च तथा घोरतमा स्थिता ॥ ५२.९७ ॥ अत्यन्तदुःखजननी घोररूपा च पञ्चमी । षष्ठी तरणताराख्या सप्तमी च भयानका ॥ ५२.९८ ॥ अष्टमी कालरात्रिश्च नवमी च घटोत्कटा । दशमी चैव चण्डा च महाचण्डा ततोऽप्यधः ॥ ५२.९९ ॥ चण्डकोलाहला चैव प्रचण्डा च पराग्निका । जघन्या ह्यवरा लोमा भीषणी चैव नायिका ॥ ५२.१०० ॥ कराला विकराला च वज्रविंशतिराश्रिता । अस्ता च पञ्चकोणा च सुदीर्घा परिवर्तुला ॥ ५२.१०१ ॥ सप्तभौमाष्टभौमा च दीर्घमायेतिहापरा । इति ता नामतः प्रोक्ता घोरा नरककोटयः ॥ ५२.१०२ ॥ अष्टाविंशतिरेतास्तु भूतानां मानतः स्मृताः । तासां क्रमेण विज्ञेयाः पञ्चपञ्चैव नायका ॥ ५२.१०३ ॥ प्रत्येकं सर्वकोटीनां नामतस्तु विशाम्पते । रौरवः प्रथमस्तेषां रुदन्ति यत्र देहिनः ॥ ५२.१०४ ॥ महारौरवपीडाभिर्महान्तोऽपि रुदन्ति हि । तमः शीतं तथा चोष्णं पञ्चैते नायकाः स्मृताः ॥ ५२.१०५ ॥ अघोरः प्रथमस्तीक्ष्णः पद्मः संजीवनः शठः । महामायो विलोमश्च कण्टकः कटकः स्मृतः ॥ ५२.१०६ ॥ तीव्रो वामः करालश्च किङ्करालः प्रकम्पनः । महाचक्रः सुपद्मश्च कालसूत्रः प्रगर्जनः ॥ ५२.१०७ ॥ सूचीमुखः सुनेमिश्च खादकः सुप्रपीडितः । कुम्भीपाकः सुपाकश्च क्रकचश्च सुदारुणः ॥ ५२.१०८ ॥ अङ्गाररात्रिः पचनः असृक्पूयभवस्तथा । सुतीक्ष्णाः शण्डशकुनी महासंवर्तकः क्रतुः ॥ ५२.१०९ ॥ तप्तजन्तुः पङ्कलेषः पूतिमान् च ह्रदस्त्रपुः । उच्छ्वासश्च निरुच्छ्वासः सुदीर्घः क्रूरशाल्मली ॥ ५२.११० ॥ उष्ट्रितस्तु महानादः प्रवाहः सुप्रवाहनः । वृषाश्रयो वृषाश्वश्च सिंहव्याघ्रगजाननाः ॥ ५२.१११ ॥ श्वशूकराजमहिषमेषमूषखराननाः । ग्राहकुम्भीरनक्रास्या महाघोरा भयानकाः ॥ ५२.११२ ॥ सर्वभक्षाः स्वभक्षाश्च सर्वकर्माऽश्ववायसाः । गृध्रोलूक उलूकश्च शार्दूलकपिकच्छुराः ॥ ५२.११३ ॥ गण्डकः पूतिवक्त्रश्च रक्तास्यः पूतिमूत्रिकः । कणधूम्रस्तुषाराग्निः कृमिमान्निरयस्तथा ॥ ५२.११४ ॥ आतोद्यश्च प्रतोद्यश्च रुधिरोद्यश्च भोजनम् । कालात्मगोऽनुभक्षश्च सर्वभक्षः सुदारुणः ॥ ५२.११५ ॥ कर्कटस्तु विशालश्च विकटः कटपूतनः । अम्बरीषः कटाहश्च कष्टा वैतरणी नदी ॥ ५२.११६ ॥ सुतप्तो लोहशङ्कुश्च एकपादोऽश्रुपूरणः । असिपत्रवनं घोरमस्थिलिङ्गं प्रतिष्ठितम् ॥ ५२.११७ ॥ तिलातसीक्षुयन्त्राणि कूटपापप्रमर्दनाः । महाचुल्ली विचुल्ली च तप्तलोहमयी शिला ॥ ५२.११८ ॥ पर्वतः क्षुरधाराख्यो मयो यमलपर्वतः । सूचीविष्ठान्धकूपाश्च पतनः पातनस्तथा ॥ ५२.११९ ॥ मुशली वृषली चैवाशिवा सङ्कटला तथा । तालपत्रासिगहनं महामोहक एव च ॥ ५२.१२० ॥ संमोहनोऽस्थिभङ्गश्च तप्ताचलमयोऽगुणः । बहुदुःखो महादुःखः कश्मलो यमलस्तथा ॥ ५२.१२१ ॥ हालाहलो विरूपश्च श्वरूपश्च्युतमानसः । एकपादस्त्रिपादश्च तीव्रश्च विदितस्ततः ॥ ५२.१२२ ॥ अष्टाविंशतिरित्येते क्रमशः पञ्चकाः स्मृताः ॥ ५२.१२३ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे नरकवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ अध्याय ५३ मार्कण्डेय उवाच - कोटी नामनुरूपाश्च पञ्चपञ्चैव नायकाः । रौरवाद्यं मरीच्यन्तं नरकानां शतं स्मृतम् ॥ ५३.१ ॥ चत्वारिंशत्समधिकं महानरकमण्डलम् । एकक्रमात्प्रभुज्यन्ते नरैः कर्मानुरूपतः ॥ ५३.२ ॥ कामनाभिर्विरूपाभिरकर्मप्रचयाद्द्रुतम् । सुगूढया ततो ध्वान्ते तप्तशृङ्खलया नराः ॥ ५३.३ ॥ महावृक्षस्य शाखायां लम्ब्यन्ते यमकिङ्करैः । ततस्तान् सर्वतश्चैव दोलयन्ति हि किङ्कराः ॥ ५३.४ ॥ दोलिताश्चातिवेगेन निःसंज्ञां यान्ति पापिनः । अन्तरिक्षे स्थितानां च लोहभारशतं तदा ॥ ५३.५ ॥ पादयोर्बध्यते तेषां यमदूतैर्बलोत्कटैः । तेन भारेण महता भृशं सन्तापिता नराः ॥ ५३.६ ॥ ध्यायन्ति स्वानि कर्माणि तूष्णीं तिष्ठन्ति निश्चलाः । ततः क्रमादग्निवर्णैर्लोहदण्डैः सकण्टकैः ॥ ५३.७ ॥ निहन्यन्ते प्रयत्नेन यमदूतैश्च मस्तके । विष्ठापूर्णे ततः कूपे कृमीणां निलये ततः ॥ ५३.८ ॥ समन्तात्किङ्करैर्घोरैः पच्यन्ते पापकारिणः । ततः क्षारेण नीरेण वह्णावपि विशेषतः ॥ ५३.९ ॥ वार्ताकवत्प्रपच्यन्ते तप्ते लोहकटाहके । अमेध्यकूपे प्रक्षिप्य जलजन्तु समाकुले ॥ ५३.१० ॥ मेदोसृक्पूयपूर्णायां वाप्यां क्षिप्तास्तु ते ततः । भक्षन्ते कृमिभिस्तीक्ष्णैर्लोहतुण्डैश्च वायसैः ॥ ५३.११ ॥ पच्यन्ते मांसवच्चापि प्रदीप्ताङ्गारराशिषु । प्रोताः शूलेषु तीक्ष्णेषु नराः पापसमन्विताः ॥ ५३.१२ ॥ पच्यन्ते पापिनस्ते वै यमदूतैरनेकधा । तैलपूर्णकटाहेषु सुतप्तेषु ततः पुनः ॥ ५३.१३ ॥ तेषां चोत्पाट्यते जिह्वा असत्या प्रियवादिनाम् । सुदृढेन सुतप्तेन प्रपीड्योरसि पादतः ॥ ५३.१४ ॥ मिथ्यागमप्रयुक्तस्य द्विजस्यापि तथैवच । यज्ञार्थकोशविस्तीर्णं भल्लैस्तीक्ष्णैः प्रतोद्यते ॥ ५३.१५ ॥ निर्भत्सयन्ति ये मूढा मातरं पितरं तेषां । तेषां वक्त्रं बालुकाभिर्मुहुरापूर्य सिच्यते ॥ ५३.१६ ॥ ततः क्षारेण दीप्तेन पयसा तु पुनः पुनः । द्रुतं सम्पूर्यतेऽत्यर्थं तप्ततैलेन तन्मुखम् ॥ ५३.१७ ॥ विष्ठाभिः कृमिपूर्णाभिः श्वानवच्चरणैर्भटैः । परिपीड्य विषाणेन प्रविष्टा लोहशाल्मलीम् ॥ ५३.१८ ॥ हन्यन्ते पृष्ठदेहेषु पुनर्भीमैर्महाबलैः । दन्तुरेणातिकुण्ठेन क्रकचेन बलीयसा ॥ ५३.१९ ॥ शिरः प्रभृति पाट्यन्ते घोरैः कर्मभिरात्मजैः । खादयन्ति स्वमांसानि पाययन्ति स्वशोणितम् ॥ ५३.२० ॥ अन्नं पानं न दत्तं यैर्मूढैर्नाप्यनुमोदितम् । इक्षुवत्ते प्रपीड्यन्ते जर्जरीकृत्य मुद्गरैः ॥ ५३.२१ ॥ असितालवने घोरे छिद्यन्ते खण्डखण्डशः । सूचीभिर्भिन्नसर्वाङ्गास्ततः शूले प्ररोपिताः ॥ ५३.२२ ॥ चाचल्यमानाः कृष्यन्ते न म्रियन्ते तथापि च । देहादुत्पाट्यते मांसं तेषामस्थीनि मुद्गरैः ॥ ५३.२३ ॥ बहुशः कृष्यते तूर्णं यमदूतैर्बलोत्कटैः । तेऽनुच्छ्वासेनानुछ्वासास्तिष्ठन्ति नरके चिरम् ॥ ५३.२४ ॥ उच्छ्वासे च सदोच्छ्वासा बालुकावदनावृताः । रौरवेषु तु दन्ते वै पीड्यन्ते विविधैश्चरैः ॥ ५३.२५ ॥ महारौरवपीडाभिर्महान्तोऽपि रुदन्ति हि । उपस्थास्ये गुदे पार्श्वे पादे चोरसि मस्तके ॥ ५३.२६ ॥ निहन्यन्ते भटैस्तीक्ष्णैः सुतप्तैर्लोहमुद्गरैः । निन्दन्ति ये स्वरूपेण परदारान् हसन्ति च ॥ ५३.२७ ॥ आलिङ्गन्ति पतीनन्यान्न विन्दन्ति स्वकान् स्त्रियः । किमु धावसि वेगेन न स्मरेरतिशाश्वतीम् ॥ ५३.२८ ॥ वञ्चितश्च त्वया भर्ता पापान्धश्च यथा सुखम् । लोहकुम्भे विनिक्षिप्ताः चिताश्च शनैः शनैः ॥ ५३.२९ ॥ समृद्धाग्नौ प्रपाच्यन्ते प्रवेश्यन्ते शिलासु च । क्षिप्यन्ते चान्धकूपेषु दश्यन्तेऽजगरैर्भृशम् ॥ ५३.३० ॥ ये निन्दन्ति महात्मानमाचार्यं धर्मर्दर्शिनम् । शिवभक्तं च विप्रं च शिवधर्मं च शाश्वतम् ॥ ५३.३१ ॥ तेषामुरसि कण्ठे च जिह्वायां देहसन्धिषु । कीलकैरोष्ठपुटके कील्यन्ते यमकिङ्करैः ॥ ५३.३२ ॥ एवमादिमहाघोरा यातनाः पापकर्मिणाम् । एकैक नरके ज्ञेयाः शतशोऽथ सहस्रशः ॥ ५३.३३ ॥ यातना गहना राजन् सर्वेषां पापकर्मिणाम् । इत्येव यातनानन्ताः सर्वेषु नरकेषु च ॥ ५३.३४ ॥ कस्ता वर्षशतेनापि वक्तुं शक्नोति मानवः । इत्येवं विविधैर्घोरैः पात्यमानाः स्वकर्मभिः ॥ ५३.३५ ॥ क्रमात्सर्वेषु पच्यन्ते नरकेषु न संशयः । महापातकिनश्चापि सर्वेषु नरकेषु च ॥ ५३.३६ ॥ आचन्द्रतारकं यावत्पीड्यन्ते विविधैश्चरैः । तथा पातकिनः सर्वे निरयेष्वेषु सर्वदा ॥ ५३.३७ ॥ चतुर्दिक्षु सुपच्यन्ते नरकेषु न संशयः । उपपातकिनश्चापि तदर्द्धं यान्ति मानवाः ॥ ५३.३८ ॥ मृत्युर्न ज्ञायते तात कदा कस्य भविष्यति । प्राप्ते चाकस्मिके मृत्यौ वर्षं विन्दति को नरः ॥ ५३.३९ ॥ परित्यज्य यतः सर्वमेकाकी यास्यसि ध्रुवम् । तस्मात्सर्वप्रयत्नेन सत्यधर्मपरो भव ॥ ५३.४० ॥ एतत्ते सर्वमाख्यातं नरकाणा तु लक्षणम् ॥ ५३.४१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे नरकायातनानुवर्णनो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ अध्याय ५४ युधिष्ठिर उवाच - तीर्यते केन धर्मेण संसाराब्धिः सुदुस्तरः । मार्कण्डेय उवाच - तेन निर्भर्त्सितैः पापैः कथ्यमानां कथां शृणु ॥ ५४.१ ॥ रक्तो मूढश्च लोकोऽयमकार्ये संप्रवर्तते । न चात्मानं विजानाति न परं न च दैवतम् ॥ ५४.२ ॥ न शृणोति परं श्रेयः सति चक्षुषि नेक्षते । समे पथि शनैर्गच्छन् प्लवते स्म पदे पदे ॥ ५४.३ ॥ एवमुक्तो धर्मराजः संक्षेपात्पापदेहिनाम् । विस्तरेण यदा चख्यौ तेषां तच्छृणु साम्प्रतम् ॥ ५४.४ ॥ यम उवाच - मया मुक्तो न जानाति बोध्यमानो बुधैरपि । संसारे क्लिश्यते नाना रागलोभवशात्नरः ॥ ५४.५ ॥ गर्भपातेन भावेन शास्त्रमुक्तं न बुध्यते । नरैर्न श्रूयते कर्म स्वर्गमोक्षप्रसाधकम् ॥ ५४.६ ॥ सन्तप्यति शिवध्याने सर्वकामार्थसाधने । नरकादात्मनः श्रेयो यदत्र महदद्भुतम् ॥ ५४.७ ॥ प्रेतभूता नराः सर्वे यमलोकं समागताः । आख्यानं कथयिष्यामि यथोद्दिष्टं पुरातनम् ॥ ५४.८ ॥ सूर्येण कथितं त्वासीन्नर्मदाख्यानमुत्तमम् । देवतानां पितॄणां च मम पित्रानुकम्पया ॥ ५४.९ ॥ सपादलक्षमधिकं ब्रह्मणा कथितं रवेः । तत्र श्रुतं मया कृत्स्नं ब्रह्मणा तु शिवाच्छ्रुतम् ॥ ५४.१० ॥ शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य तु । जम्बूद्वीपं समासाद्य मानुषीं योनिमाश्रितः ॥ ५४.११ ॥ नाश्रयेन्नर्मदां देवीं सप्तकल्पवहां तु यः । स्नानावगाहनात्पानात्तथा दानक्रियादिभिः ॥ ५४.१२ ॥ लोकेऽस्मिन् गतिदा कान्या पापोपहतचेतसाम् । ये ध्यायन्ति महादेवीं नर्मदां पापहारिणीम् ॥ ५४.१३ ॥ अघानि तेषां नश्यन्ति तमः सूर्योदये यथा । नर्मदां संस्मरेद्यस्तु कीर्तयेद्यस्तु वा गिरा ॥ ५४.१४ ॥ परलोकं समायातो यमदूतैर्न बाध्यते । नर्मदां कीर्तयेद्यस्तु पापकर्मा नराधमः ॥ ५४.१५ ॥ नरकान् समयोद्दिष्टान्न च क्रामति कर्हिचित् । गङ्गाद्याः सरितस्तत्र तीर्थकोटिरनेकधा ॥ ५४.१६ ॥ रेवातेजः प्रतापेन शुद्धिं गच्छन्ति तत्क्षणात् । नरकस्थः स्मरेद्यस्तु मेकलां तु हरं हरिम् ॥ ५४.१७ ॥ मुच्यते यमदूतैः स तत्क्षणान्नात्र संशयः । यदि तिष्ठति वैदूर्यपर्वतेऽमरकण्टके ॥ ५४.१८ ॥ ओंकारः परमेशानो भुक्तिमुक्तिफलप्रदः । किमर्थं त्विह शोचन्ति पापोपहतचेतसः ॥ ५४.१९ ॥ सिद्धेश्वरं सिद्धलिङ्गं लोकानुग्रहकारकम् । यज्ञेश्वरं च मध्ये तु तत्रैव शशिभूषणम् ॥ ५४.२० ॥ नर्मदा दक्षिणे भागे लिङ्गं चैव महेश्वरम् । चतुर्थं कपिलेशं च शिवक्षेत्रं विदुर्बुधाः ॥ ५४.२१ ॥ येऽर्चयन्ति सदा भक्त्या पुष्पधूपार्तितर्पणैः । शिवलोकं तु ते यान्ति नरकान्नात्र संशयः ॥ ५४.२२ ॥ एतत्ते सर्वमाख्यातं यथा पृष्टं त्वयानघ । पापिष्ठान्नॄनधर्मस्थान् कथयामास भारत (?) ॥ ५४.२३ ॥ [स्तेह्त्सो दोर्त्] गोदानं हेमदानं च तिलदानं तथैव च । अन्नदानं पयोदानं सर्वोपस्करमेव च ॥ ५४.२४ ॥ प्रासादारामदानं च ये कुर्वन्ति नरोत्तमाः । यमलोकं न ते यान्ति नरकं घोररूपिणम् ॥ ५४.२५ ॥ मुच्यन्ते सर्वपापेभ्यः शिवस्य वचनं यथा । सन्मानं चापमानेन वियोगेनेष्टसङ्गमम् ॥ ५४.२६ ॥ यौवनं जरया ग्रस्तं कष्टात्सौख्यमुपद्रुतम् । वलिभिः पलितैश्चापि जर्जरीकृतविग्रहः ॥ ५४.२७ ॥ किं करोति नरः प्राज्ञो जरया जर्जरीकृतः । स्त्रीपुंसोर्यौवनं रूपं यदन्योऽन्यं प्रियंकरम् ॥ ५४.२८ ॥ तदेव जरया ग्रस्तमुभयोरपि न प्रियम् । अपूर्ववत्तथात्मानं शैथिल्येन समन्वितम् ॥ ५४.२९ ॥ यः पश्यन्न विरज्येत कोऽन्यस्तस्मादचेतनः । जराभिभूतः पुरुषः पत्नीपुत्रादिबान्धवैः ॥ ५४.३० ॥ अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते । धर्ममर्थं च कामं च मोक्षं न जरया युतः ॥ ५४.३१ ॥ शक्तः साधयितुं तस्मात्पुरा धर्मं समाचरेत् । वातपित्तकफादीनां वैषम्यं च युधिष्ठिर ॥ ५४.३२ ॥ वातादीनां समूहश्च देहजः परिकीर्तितः । तस्माद्व्याधिपरं ज्ञेयं शरीरमिदमात्मनः ॥ ५४.३३ ॥ वातोत्पत्त्यतिरेकेण बाधितो वै ज्वरेण च । रोगैर्नानाविधिभवैर्बहुदुःखान्यनेकधा ॥ ५४.३४ ॥ तानि च स्वात्मवेद्यानि किमन्यत्कथयाम्यहम् । एकोत्तरं मृत्युशतमस्मिन् देहे प्रतिष्ठितम् ॥ ५४.३५ ॥ अत्रैकं कालरूपं च शेषास्त्वागन्तवः स्मृताः । ये त्विहागन्तवः प्रोक्तास्ते प्रशाम्यन्ति भैषजैः ॥ ५४.३६ ॥ जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति । अपमृत्युश्च सर्वस्य विषमद्यादिसम्भवः ॥ ५४.३७ ॥ न चातिपुरुषस्तस्मादपमृत्योर्बभेति वै । विविधा व्याधयः कष्टाः सवैद्याः प्राणिनस्तथा ॥ ५४.३८ ॥ विषाणि त्वभिचाराश्च मृत्योर्द्वाराणि देहिनाम् । पीडितं रोगसर्पाद्यैरपि धन्वन्तरिः स्वयम् ॥ ५४.३९ ॥ स्वस्थं कर्तुं न शक्नोति कालप्राप्तं हि देहिनम् । नैषधं न तपो दानं न मित्राणि न बान्धवाः ॥ ५४.४० ॥ परित्रातुं नो समर्थाः कालेन परिपीडितम् । नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमो रिपुः ॥ ५४.४१ ॥ नास्ति मृत्युसमः कालः सर्वेषामेव देहिनाम् । सद्भार्या पुत्रमित्राणि राज्यैश्वर्यसुखानि च ॥ ५४.४२ ॥ मृत्युश्छिनत्ति सर्वाणि विविधान्यपि भारत । इदं ते कथितं राजञ्ज्ञातिसंसारदुस्तरम् ॥ ५४.४३ ॥ परिणाम इति ज्ञात्वा सर्वङ्कालस्य भोजनम् । तस्मात्सर्वप्रयत्नेन संसेव्या सप्तकल्पगा ॥ ५४.४४ ॥ सर्वदुःखापहा नित्यं सर्वशोकविनाशिनी । यो यान् कामयते कामांस्तांस्तान् देवी प्रयच्छति ॥ ५४.४५ ॥ इदं ज्ञानमिदं ध्यानं पाण्डित्यं वेद वेदनम् । निवासः सर्वभूतानां सेव्यते सप्तकल्पगा ॥ ५४.४६ ॥ यज्ञो दानं तपः सत्यं स्वाध्यायः पितृतर्पणम् । सफलं लभते तेषां यो रेवाम्बु निषेवते ॥ ५४.४७ ॥ ब्रह्मकूर्चसहस्राणि सोमपानायुतं तथा । नर्मदातोयपानस्य कलां नार्हन्ति षोडशीम् ॥ ५४.४८ ॥ संयुक्तोऽपि महापापैर्नानाजन्मकृतैरपि । ओंकारदक्षिणे घोरं मुच्यते तत्क्षणाज्जपन् ॥ ५४.४९ ॥ गोदानान्न परं दानं त्रिषु लोकेषु विश्रुतम् । नर्मदापयसि स्नात्वा यो दद्याद्गां द्विजन्मने ॥ ५४.५० ॥ संख्यां कर्तुं यथावच्च न देवैरपि शक्यते ॥ ५४.५१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे कर्मगतियमवाक्यं नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ अध्याय ५५ युधिष्ठिर उवाच - धेनुः कतिविधा प्रोक्ता कस्मिन् काले च दीयते । सर्वोपस्करसंयुक्ता त्वत्त इच्छामि वेदितुम् ॥ ५५.१ ॥ मार्कण्डेय उवाच - शृणु राजन्महाबाहो कथ्यमानं निबोध मे । कथयामि तवाख्यानमादिकल्पे कृते युगे ॥ ५५.२ ॥ चक्रवर्ती शशाङ्कोऽभूत्सर्वधर्मभृतां वरः । न च वर्णयितुं शक्यः सत्यधर्मव्रते स्थितः ॥ ५५.३ ॥ बुभुजे स महीमेतामेकच्छत्रां समाहितः । नवखण्डां सप्तद्वीपा यथा शक्रोऽमरावतीम् ॥ ५५.४ ॥ हरिश्चन्द्रस्य तस्यापि संवादश्चक्रवर्तिनः । हरिश्चन्द्रः कुरुक्षेत्रे गवामयुतमुत्तमम् ॥ ५५.५ ॥ हेमभारमलङ्कारसर्वरत्नविभूषितम् । ब्रह्मर्षिर्मुद्गलो नाम स्वयं ब्रह्म प्रतिष्ठितः ॥ ५५.६ ॥ मुद्गलाश्च द्विजाः सर्वे सत्यधर्मपरायणाः । शतमष्टोत्तरं साग्रं ब्राह्मणा ब्रह्मवादिनः ॥ ५५.७ ॥ हरिश्चन्द्रो ददौ तेभ्यो राहुसूर्यसमागमे । द्विजान् सम्पूज्य विधिच्छ्रद्धया परया युतः ॥ ५५.८ ॥ अर्चयित्वा महेशानं स्थानं परमसिद्धिदम् । चक्रपाणिं हृषीकेशं मुदा परमया युतः ॥ ५५.९ ॥ सरस्वत्यां नृपश्रेष्ठ तिलदर्भान्वितस्य तु । दानस्यास्य प्रभावेण लोकास्तेनाखिला जिताः ॥ ५५.१० ॥ अन्तरिक्षे पुरी प्राप्ता सर्वलोकमनोहरा । हरिश्चन्द्रपुरी ख्याता साऽस्मिल्लोके चराचरे ॥ ५५.११ ॥ सत्यदानसर्वत्यागैरित्यादिभिरलंकृतः । हरिश्चन्द्रसमो राजा न भूतो न भविष्यति ॥ ५५.१२ ॥ एवं गाथा पुरा गीता शक्राद्यैः सुरसत्तमैः । शशाङ्कोऽप्यकरोत्सर्वं नर्मदातीरमाश्रितः ॥ ५५.१३ ॥ दानं यज्ञ तपः सत्यं पर्वतेऽमरकण्टके । ददौ चार्धप्रसूतां ब्राह्मणाय महात्मने ॥ ५५.१४ ॥ दानस्यास्य प्रभावेण हरिश्चन्द्राधिकोऽभवत् । अनेकभाविकं पापं दग्ध्वा तूलौघवच्छिखी ॥ ५५.१५ ॥ यावद्वत्सस्य पादौ द्वौ मुखं योनौ प्रदृश्यते । तावद्गौः पृथिवी ज्ञेया सशैलवनकानना ॥ ५५.१६ ॥ स्वर्णशृङ्गी रौप्यखुरी सवत्सा कांस्यदोहना । नर्मदास्नानयुक्ता तु सकुशा तिलसंयुता ॥ ५५.१७ ॥ ओंकारामरयोर्मध्ये कोटितीर्थे नराधिपः । एताः सहस्रसख्याता ब्राह्मणेभ्यो न्यवेदयत् ॥ ५५.१८ ॥ एतस्मिन्नन्तरे नेदुर्देवदुन्दुभयो दिवि । तत्क्षणाद्यानमारूढो ज्वलन्मणिगणैरिव ॥ ५५.१९ ॥ स्तूयमानः समीपस्थैरसंख्यातैर्विमानिभिः । धृतस्वर्णातपत्रस्तु वीज्यमानस्तु चामरैः ॥ ५५.२० ॥ योजनानां सहस्रेण हरिश्चन्द्रोऽप्यधः स्थितः । तद्दृष्ट्वा तादृशं कर्म शशाङ्कस्य विशाम्पतेः ॥ ५५.२१ ॥ स विनिन्द्य कुरुक्षेत्रं विस्मयाविष्टचेतनः । महानद्यां शशाङ्केन राहुसोमसमागमे ॥ ५५.२२ ॥ दत्तं दानं न सामान्यं भवेदिति समासतः । विषण्णवदनो भूत्वा हरिश्चन्द्रो नृपोत्तमः ॥ ५५.२३ ॥ ब्रह्मलोकं गतः क्षिप्रं यत्र लोकेश्वरः प्रभुः । अभिवाद्य यथा न्यायं पप्रच्छ स पितामहम् ॥ ५५.२४ ॥ दानेन निर्जिता देवाः शशाङ्केन महात्मना । किं च पुण्यमिदं ब्रह्मन् कुरुक्षेत्राद्विशिष्यते ॥ ५५.२५ ॥ अमरेश्वरतीर्थं तु नाम रेवासमुद्भवम् । केनापि न समं भूतमुपर्युपरि दीप्यते ॥ ५५.२६ ॥ इति श्रुत्वा वचस्तस्य हरिश्चन्द्रस्य धीमतः । उवाच वचनं ब्रह्मा हरिश्चन्द्रं नृपोत्तमम् ॥ ५५.२७ ॥ विषादं त्यज राजेन्द्र गहना कर्मणां गतिः । शशाङ्कसदृशो राजा न दृष्टो न श्रुतो मया ॥ ५५.२८ ॥ एवं वक्तुं न योग्योऽहं न देवापि सवासवाः । अनेकानि सहस्राणि पुरा वै चक्रवर्तिना ॥ ५५.२९ ॥ इष्टानि च विधानेन पर्वतेऽमरकण्टके । राहुसूर्यसमायोगे तीर्थलक्षाणि भारत ॥ ५५.३० ॥ सरस्वतीं कुरुक्षेत्रं पुष्करं नैमिषं तथा । तीर्थान्येतानि चान्यानि स्नानं कर्तुं समाययुः ॥ ५५.३१ ॥ मेकलायां हरिश्चन्द्र कोटितीर्थे नराधिप । तीर्थानां त्यज राजेन्द्र साम्यं मेकलया सह ॥ ५५.३२ ॥ वाराणस्या कुरुक्षेत्रं तोलितं च मया पुरा । तीर्थानि न समं यान्ति तीर्थस्यास्य प्रभावतः ॥ ५५.३३ ॥ ख्यातमात्रं कुरुक्षेत्रं लोकयात्राप्रवर्तकम् । पुराणं न श्रुतं यैस्तु मिथ्याज्ञानसमन्वितैः ॥ ५५.३४ ॥ सेव्यतां कल्पगा देवी यदीच्छेत्परमं पदम् । नमस्कृत्य विधातारमयोध्याधिपतिस्तदा ॥ ५५.३५ ॥ मुदा परमया युक्तः स ययावमरेश्वरम् । एतत्सर्वं समाख्यातं यथावत्तव सुव्रत ॥ ५५.३६ ॥ यः शृणोति नरो राजन् गोसहस्रफलं लभेत् ॥ ५५.३७ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे गोदानमहिमानुवर्णनो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ अध्याय ५६ मार्कण्डेय उवाच - माहिष्मत्याः पश्चिमे वै तीर्थं पापहरं परम् । अशोकवनिका नाम सर्वशोकविनाशनम् ॥ ५६.१ ॥ स्नात्वा तत्रार्चयेद्गौरीं यथा विभवविस्तरैः । मातङ्गस्याश्रम तद्वत्सिद्धगन्धर्वसेवितम् ॥ ५६.२ ॥ शुक्लकृष्णातृतीयायां गन्धधूपविलेपनैः । उपहारैरनेकैश्च दीपमालाप्रबोधनैः ॥ ५६.३ ॥ तत्र या पूजयेन्नारी गौरीं भक्तिसमन्विता । रूपसौभाग्यसम्पन्नं लभते सत्पतिं तु सा ॥ ५६.४ ॥ कार्त्तिक्यां तु गतप्राणा मोदमाना तु संयता । अस्य तीर्थस्य माहात्म्यात्प्राप्ता माहेश्वरं पुरम् ॥ ५६.५ ॥ मातङ्गो नाम देवर्षिः पुराकल्पे युधिष्ठिर । नर्मदातीरमाश्रित्य तपस्तेपे सुदुष्करम् ॥ ५६.६ ॥ पुरा जन्मनिषादः स जातिं स्मरति पूर्विकाम् । अघमर्षणदेशस्थः सर्वधर्म बुबोध च ॥ ५६.७ ॥ महर्षीणां प्रसङ्गेन नर्मदादर्शनेन च । पापबुद्धिं परित्यज्य धर्मबुद्धिं चकार सः ॥ ५६.८ ॥ निर्विण्णोऽहं च भिक्षुश्चाधुना श्वपचयोनिषु । एवमुक्त्वा ततो राजन्नशोकवनिकां गतः ॥ ५६.९ ॥ जटावल्कलधारी च कन्दमूलफलाशनः । दिव्यं वर्षसहस्रं तु शिवाराधनतत्परः ॥ ५६.१० ॥ शिवध्यानपरः सोऽभूदुग्रे तपसि संस्थितः । दिव्यं वर्षसहस्रं हि तथा तस्य तपस्यतः ॥ ५६.११ ॥ एकाशीतिसहस्राणि जटाग्रेभ्यो विनिःस्मृताः । स्वयं पतन्ति विविधा नर्मदातोयमध्यतः ॥ ५६.१२ ॥ तत्क्षणाद्यक्षिणीरूपा अनन्ताश्चाप्रमाणिकाः । श्यामवर्णाः सुतेजः काः सर्वाभरणभूषिताः ॥ ५६.१३ ॥ यक्षलोकं व्रजन्त्याशु तीर्थस्यास्य प्रभावतः । मन्त्रयन्त्रविहीनोऽपि शिवभक्तिपरायणः ॥ ५६.१४ ॥ षडक्षरमिमं मन्त्रं हृदि चक्रे दिवानिशम् । ओंनमः शिवाय इति सर्वमन्त्रोत्तमोत्तमम् ॥ ५६.१५ ॥ तस्य भक्तिं परां ज्ञात्वा देवदेव उमापतिः । प्रत्यक्षरूपो भगवान् छूलपाणिः समागतः ॥ ५६.१६ ॥ उवाच वचनं देवो मातङ्गं प्रति भारत । वरं वृणीष्व भद्रं ते ध्यानेनानेन सुव्रत ॥ ५६.१७ ॥ मातङ्ग उवाच - यदि तुष्टोऽसि देवेश वरं दातुमिहेच्छसि । मातङ्गनाम्ना विख्यातिं तीर्थमेतत्प्रयातु वै ॥ ५६.१८ ॥ चाण्डालाः श्वपचाश्चैव पापयोनिगताऽपि । जपादि रहिताश्चापि मुच्यन्तेऽत्रापि किल्बिषात् ॥ ५६.१९ ॥ मातङ्गनामलिङ्गं तु नर्मदातीरमाश्रितम् । स्नात्वा योऽत्रार्चयेत्तस्य भवेद्बन्धविमोक्षणम् ॥ ५६.२० ॥ इदं वरमहं मन्ये त्वत्प्रसादात्महेश्वर । तस्य तद्वचनं श्रुत्वा प्रत्युवाच शिवापतिः ॥ ५६.२१ ॥ एवं भवतु तत्सर्वं मत्प्रसादान्न संशय । एवमुक्त्वा ययौ देव कैलासं पर्वतोत्तमम् ॥ ५६.२२ ॥ वरं सम्प्राप्य मातङ्ग उमामाहेश्वरं पुरम् । कामिकं यानमारूढः सर्वाभरणभूषित ॥ ५६.२३ ॥ जगामाशु चिरं भोक्तुं भोगान् स्नानप्रभावतः । या चैत्रमासेऽमावास्या कृष्णपक्षे चतुर्दशी ॥ ५६.२४ ॥ तस्यां तत्र हुतं दत्तमनन्तफलमश्नुते । तिलोदकप्रदानेन पापयोनिगताऽपि ॥ ५६.२५ ॥ सक्त्वाढ्यगुडपिण्डेन पितॄन्मोदयते तु यः । पितरस्तस्य तृप्यन्ति यावदिन्द्राश्चतुर्दश ॥ ५६.२६ ॥ तिलतण्डुलमिश्रं यः कुर्याल्लिङ्गस्य पूजनम् । सोऽपि वर्षसहस्राणि शिवलोके महीयते ॥ ५६.२७ ॥ अशोकवनिका नाम मातङ्गं तीर्थमुच्यते । रेवाया उत्तरे कूले कथितं तव भारत ॥ ५६.२८ ॥ अथान्यत्कथयिष्यामि याम्यभागे व्यवस्थितम् । तीर्थं मृगवनं नाम सर्वपापप्रणाशनम् ॥ ५६.२९ ॥ तत्र स्नात्वाऽर्चयेद्विष्णुं शङ्खचक्रगदाधरम् । एकादश्यां महाराज निराहारो निशां नयेत् ॥ ५६.३० ॥ हरिं मृगवने तत्र गन्धपुष्पैश्च पूजयेत् । एकस्मिन् भोजिते विप्रे लक्षं भवतु भोजितम् ॥ ५६.३१ ॥ तिलोदकप्रदानेन पितॄणां वैष्णवं पदम् । तत्रैव सन्निविष्टं तु वाराहं तीर्थमुत्तमम् ॥ ५६.३२ ॥ यत्र वाराहरूपेण धरा चैव समुद्धृता । विश्वरूपं तथा चान्यद्धरिणामिततेजसा ॥ ५६.३३ ॥ पतिव्रता च नारी वै तथा मासोपवासिनी । तत्र स्नात्वा विधानेन लोकं प्राप्नोति वैष्णवम् ॥ ५६.३४ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे मातङ्गाश्रमवर्णनो नाम षट्पञ्चाशत्तमोऽध्यायः ॥ अध्याय ५७ मार्कण्डेय उवाच - आख्यानं कथयिष्यामि ख्यातं मृगवनं यथा । व्याध कश्चिद्दुराचारः सर्वभूतेषु निर्दयः ॥ ५७.१ ॥ पाशहस्तो धनुष्पाणिर्विचरन् गिरिकन्दरे । आजघान मृगान् सर्वान् कुटुम्बार्थे नृपोत्तम ॥ ५७.२ ॥ ज्येष्ठे मासि तु संप्राप्ते निदाघे ज्वलनप्रभे । भ्रमति स्म तृषार्तश्च वृक्षमूले समाश्रितः ॥ ५७.३ ॥ रात्रौ स्वपिति निश्चेष्टो दुःखार्तश्च क्षुधान्वितः । वनसंघर्षजो वह्निरुत्थितो गिरिकन्दरात् ॥ ५७.४ ॥ प्रदग्धं च वन तेन मृगव्याघ्रसमावृतम् । भस्मीभूतं च तत्सर्वं रेणुभूतं च कृत्स्नशः ॥ ५७.५ ॥ मेघागमोक्तकाले तु प्रवाहे नार्मदे शुभे । कन्याराशिगते भानौ द्वादश्यां श्रवणेन तु ॥ ५७.६ ॥ नर्मदातोय संसर्गाद्यक्षा जातास्तु पन्नगाः । तत्क्षणाद्दिव्यदेहास्तु वैष्णवं यानमास्थिताः ॥ ५७.७ ॥ स व्याधश्चाभवद्राजा तीर्थस्यास्य प्रभावतः । दशवर्षसहस्राणि भोगान् भुङ्क्ते मनोहरान् ॥ ५७.८ ॥ येऽपि दग्धा मृगास्तत्र तेऽपि गन्धर्वतां गताः । वैष्णवेनैव यानेन प्राप्तास्तु वैष्णवं पदम् ॥ ५७.९ ॥ अवशः स्ववशो वापि यस्तु प्राणान् परित्यजेत् । दिव्यवर्षसहस्रं तु विष्णुलोके स मोदते ॥ ५७.१० ॥ तिलोदकप्रदानेन पितॄणां परमा गतिः । मनोरथं नाम तीर्थमन्यत्परमसिद्धिदम् ॥ ५७.११ ॥ त्रिषु लोकेषु विख्यातं रेवातीरसमुद्भवम् । यं यं प्रार्थयते कामं तं तं स्नात्वापि मानवः ॥ ५७.१२ ॥ सर्व च समवाप्नोति तीर्थस्यास्य प्रभावतः । अङ्गरावर्तसंभेदो गोसहस्रफलप्रदः ॥ ५७.१३ ॥ अङ्गारेश्वरदेवश्च तत्र तिष्ठति सङ्गमे । स्नानमात्रो नरस्तत्र गाणपत्यमवाप्नुयात् ॥ ५७.१४ ॥ अङ्गारश्च चतुर्थ्यां च यदा भवति भारत । हिरण्यपुरुषं कृत्वा रक्तवस्त्रेण वेष्टयेत् ॥ ५७.१५ ॥ घृतपूर्णं ताम्रपात्रं गुडेनापि प्रपूरितम् । तत्सर्वं विधिवद्दद्याच्छ्रोत्रियाय विशेषतः ॥ ५७.१६ ॥ दानतीर्थप्रभावेण शक्रार्द्धासनभाग्भवेत् । यस्मात्पापानि दुःखानि तीव्राण्यपि बहून्यपि ॥ ५७.१७ ॥ तस्मात्पापं न कर्तव्यमात्मपीडाकरं हि तत् । यस्मिन् काले च देशे च वयसा यादृशेन च ॥ ५७.१८ ॥ कृतं शुभाशूभं कर्म तत्तथा तेन भुज्यते । तस्मात्सदैव दातव्यमविच्छिन्न तयार्थिने ॥ ५७.१९ ॥ विच्छिद्यन्तेऽन्यथा भोगा ग्रीष्मे कुसरितो यथा । संसेव्यते यथा देवी सप्तकल्पवहा शुभा ॥ ५७.२० ॥ संसारस्य समुच्छित्त्यै ज्ञानयोगं ब्रवीमि ते । शिवप्रकाशकं ज्ञानं योगस्तत्रैव चिन्तितः ॥ ५७.२१ ॥ दुर्विज्ञेय गतिर्योगो नर्मदाशिवसन्निधौ । शिवाज्ञा वर्तते तत्र स्नानपूजाविधिर्यथा ॥ ५७.२२ ॥ स सिद्धान्ताऽविरोधेन पुस्तकैर्न विरोधयेत् । धर्मज्ञानापवर्गार्थं सहितं विन्दते नरः ॥ ५७.२३ ॥ पूर्वोत्तरविरोधेन कुत्रार्थोऽभिमतो भवेत् । दृष्ट्वाद्यमूलतस्तर्कं श्रुत्या सह विवर्जयेत् ॥ ५७.२४ ॥ तस्मादागमयुक्तेन सदात्मार्थविचारणम् । कर्तव्यं नानुमानेन केवलेन विपश्चिता ॥ ५७.२५ ॥ हीनोत्तमाद्यस्य फलं बहुधा स्वं च तत्स्मृतम् । तस्मात्परीक्षां कुर्वीत पुण्यं साधु महत्फलम् ॥ ५७.२६ ॥ पाखण्डिनो विकर्मस्थान् वैडालव्रतिकां शठान् । वर्जयेद्दूरतो धीमान् हैतुक्यान् तीर्थनिन्दकान् ॥ ५७.२७ ॥ दिगम्बरान् श्वेतपटान् ये चान्ये हेतुवादिनः । एतैः सह न संवादं संसर्गं न कथंचन ॥ ५७.२८ ॥ विपरीतं कलौ धर्मं नग्ना मुण्डा मलाशिनः । तस्मात्तं च परित्यज्य त्रेताधर्मं समाचरेत् ॥ ५७.२९ ॥ प्रमाणं सर्वधर्मेषु ब्रह्मविष्णुशिवोदितम् । अन्यथा कुरुते यस्तु नरके पतति ध्रुवम् ॥ ५७.३० ॥ सर्वेषामेव शास्त्राणामेवं शास्त्रविनिश्चयः । सेव्यतां कल्पगा देवी शिवपूजारतैः सदा ॥ ५७.३१ ॥ पितॄणां तर्पणं कुर्याद्भिक्षां दद्याच्च भिक्षवे । कारुण्यं सर्वभूतेषु नर्मदाख्यानचिन्तनम् ॥ ५७.३२ ॥ इदं ज्ञानमशेषं च सर्वकर्मविशोधनम् । आदिमध्यान्तरहितः स्वभावविमलः प्रभुः ॥ ५७.३३ ॥ सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयः शिवागमे । सर्वार्थसाधकं ज्ञानं तत्प्रणीतमसंशयम् ॥ ५७.३४ ॥ यः सर्वज्ञः सुसम्पूर्णः स्वभावविमलः शिवः । सर्वदोषविनिर्मुक्तः स ब्रूयात्कथमन्यथा ॥ ५७.३५ ॥ शिवाज्ञामन्तरेणापि जगत्सृष्टिः कथं भवेत् । अचैतन्यात्प्रधानेन अज्ञत्वात्पुरुषस्य च ॥ ५७.३६ ॥ प्रधानं परमाण्वादि यावत्किंचिदचेतनम् । तन्न कर्तृ स्वयं द्रष्टृ बुद्धिमत्करणं विना ॥ ५७.३७ ॥ न यथा घटमानेन मृत्पिण्डः स्वयमृच्छति । तथाज्ञाबुद्धिभावेन न तिष्ठेत्प्रकृतिः स्वयम् ॥ ५७.३८ ॥ धर्माधर्मोपदेशो न धर्माधर्मविचारणम् । सर्वज्ञेन विना जातु नादिसर्गे प्रसिद्ध्यति ॥ ५७.३९ ॥ यथानादि प्रवृत्तोऽयं घोरः संसारसागरः । शिवोऽपि हि तथानादिः संसारान्मोचकः स्मृतः ॥ ५७.४० ॥ व्याधीनां भैषजं यद्वत्प्रतिपक्षं स्वभावतः । तद्वत्संसारघोराणां प्रतिपक्षः शिवः स्मृतः ॥ ५७.४१ ॥ वैद्यं विना निराक्रन्दाः क्लिश्यन्ते रोगिणो यथा । शिवेन तु विना सर्वं निराक्रन्दं जगत्तथा ॥ ५७.४२ ॥ तस्मादनादिः सर्वज्ञः परिपूर्णः परः शिवः । अस्ति नातः परित्राता पुमान् संसारसागरे ॥ ५७.४३ ॥ येऽभ्यसन्ति शिवज्ञानं हृदये शिवभाविताः । यदि वेदाः प्रमाणं तु तेषां ज्ञानं प्रजायते ॥ ५७.४४ ॥ इयं च सर्वभूतानां शरणं भुवि नर्मदा । अपां रूपतया देवी लोकानुग्रहकारिणी ॥ ५७.४५ ॥ स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम् । भगवत्युद्धरत्येषां पतन्तं नरके ध्रुवम् ॥ ५७.४६ ॥ एवंज्ञात्वा नरश्रेष्ठ शिवमन्वीक्ष्य कल्पगाम् । उच्चैर्गृहाणि दिव्यानि धनधान्यान्वितानि च ॥ ५७.४७ ॥ सर्वोपस्करदिव्यानि ब्राह्मणेभ्यो निवेदयेत् । अनाथायातिवृद्धाय विकलाय कुटुम्बिने ॥ ५७.४८ ॥ काष्ठमृन्मयगेहं च यो द्विजाय प्रयच्छति । एवं विधान् गृहान् रम्यान् सर्वतोऽमरकण्टके ॥ ५७.४९ ॥ कारयेद्यः पुमान् दिव्यांस्तस्य पुण्यफलं शृणु । किं तस्य बहुभिर्दत्तैर्दानैर्भवति भारत ॥ ५७.५० ॥ एतदेव परं दानं सर्वकामार्थसाधकम् । यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ५७.५१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये सप्तपञ्चाशत्तमोऽध्यायः ॥ अध्याय ५८ युधिष्ठिर उवाच - श्रुत्वैतत्परमं गुह्यं गवां देवसमुद्भवम् । ब्रह्मकूर्चस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥ ५८.१ ॥ आख्याहि भगवन् सर्वं गोलोकः कीदृशः स्मृतः । प्राप्यते कर्मणा केन के तस्मिन्ननिशं स्थिताः ॥ ५८.२ ॥ मार्कण्डेय उवाच - श्रूयतामभिधास्यामि नमस्कृत्य महेश्वरम् । गोमातृलोकं परमं सर्वकामसमन्वितम् ॥ ५८.३ ॥ यथावत्सर्वलोकानामुपर्युपरि संस्थितम् । पातालानि ततः सप्त पातालं च ततस्तथा ॥ ५८.४ ॥ यावत्प्रमाणं परितः परिच्छिन्नं महीतलम् । तावत्प्रमाणं तस्याः समुद्रास्तानि चैव तु ॥ ५८.५ ॥ तेषां प्रत्येकमुत्सेधप्रमाणं परिकीर्तितम् । योजनानां सहस्राणि दशार्धानि ततस्ततः ॥ ५८.६ ॥ सहस्रयोजनोत्सेधस्तस्याभ्यन्तरतस्तथा । विवराणां समस्तानां सहस्राणि नव स्मृतम् ॥ ५८.७ ॥ तेषां रुचिरमाहात्म्यं नामतस्तु महीतले । दिव्यदिव्योपसम्पन्नः श्रीमच्चामीकरद्युतिः ॥ ५८.८ ॥ नागराजः सदैवास्ते तस्मिन् कृतनिकेतनः । अनन्तोऽनन्तधामा च मुकुन्दो नृपशैवलः ॥ ५८.९ ॥ ततो रसातलं नाम शिवसन्तोषभूमिकम् । वासुकेर्नागराजस्य तत्र चारु महापुरम् ॥ ५८.१० ॥ पुर च सुरलोम्नस्तु दानवाधिपतेर्महत् । सुपर्णस्य च दैत्यानामशेषाणां महात्मनाम् ॥ ५८.११ ॥ ततः सुतलनामास्ति शर्कराञ्चितभूमिकम् । नागादीनां स्वस्तिकानां तत्रैव वसतिः सदा ॥ ५८.१२ ॥ दानवाधिपतीनां च तत्रैव निलयः परः । वैरोचनहिरण्याख्यप्रभृतीनां महात्मनाम् ॥ ५८.१३ ॥ ततश्चातलमित्युक्तं पातालानां तस्य तु वै । तेषामूर्ध्ववस्तुसर्वेषां मृन्मयं च तलं क्षितेः ॥ ५८.१४ ॥ असुराधिपतेस्तावत्कालनेमेर्महापुरम् । चारुचामीकराभासं वैनतेयस्य चापरम् ॥ ५८.१५ ॥ ततश्च वितलं नाम पातालं रक्तभूतलम् । तस्मिन्महान्तको नाम दानवेन्द्रकृतालयः ॥ ५८.१६ ॥ तालकोऽग्निमुखस्तस्मिन्नलह्रादश्च दानवाः । निवसन्ति कृतागारास्तथा प्रह्लादवर्चसः ॥ ५८.१७ ॥ पातालं वितलं नाम शुक्लं क्षितितलं ततः । कम्बलाश्वतरौ नागौ सहितौ तत्र तिष्ठतः ॥ ५८.१८ ॥ महाजम्भहयग्रीवप्रभृतीनां महात्मनाम् । वाराणस्यसुरेन्द्राणां निवासस्तत्रकल्पितः ॥ ५८.१९ ॥ कृष्णं क्षितितलं तस्मात्पातालतलसंज्ञकम् । शङ्कुकर्णमहानादनमुचीनां निकेतनम् ॥ ५८.२० ॥ पातालात्सप्तमादूर्ध्वं सप्तद्वीपा मही स्थिता । समुद्रैः सप्तभिर्युक्ता पर्वतैः समलंकृता ॥ ५८.२१ ॥ जम्बूद्वीपश्च तन्मध्ये प्लक्षद्वीपस्ततः परः ॥ ५८.२२ ॥ क्रौञ्चद्वीपश्च परतः शाकद्वीपश्च तद्बहिः । परतः पुष्करद्वीपः सप्तमः परिकीर्तितः ॥ ५८.२३ ॥ क्षारोदकश्चेक्षुरसः सुरोदश्च घृतोदधिः । दधितोयः क्षीरपूर्णः स्वादूदः सप्तमः स्मृतः ॥ ५८.२४ ॥ सप्तद्वीपसमुद्राणां द्विगुणद्विगुणान्तरः । प्रमाणविस्तरो ज्ञेयो नियुतः प्रथमः स्मृतः ॥ ५८.२५ ॥ हिमवान् हेमकूटश्च निषधश्चेति दक्षिणे । नीलश्च श्वेतः शृङ्गश्च मेरोरुत्तरतः स्मृताः ॥ ५८.२६ ॥ मेरुरस्ति स्थितो मध्ये जम्बूद्वीपस्य भारत । माल्यवान् पूर्वतो ज्ञेयः पश्चिमे गन्धमादनः ॥ ५८.२७ ॥ एते पर्वतराजानो जम्बूद्वीपे नव स्मृताः । प्लक्षद्वीपादिषु ज्ञेयाः सप्तसप्तैव पर्वताः ॥ ५८.२८ ॥ पुष्करद्वीपमध्ये तु पर्वतो वलयाकृतिः । एकः स्मृतः समन्ताच्च नामतो मानसः स्मृतः ॥ ५८.२९ ॥ विन्ध्यो नाम महाभागो जम्बूद्वीपे व्यवस्थितः । यत्रैषा नर्मदादेवी प्लवन्ती लोकतारिणी ॥ ५८.३० ॥ विन्ध्यस्य चानुजो भ्राता सह्यो दक्षिणतः स्मृतः । उर्वी कूर्मतलाकारा काञ्चनी परिमण्डला ॥ ५८.३१ ॥ अणुरेव तथा सा तु निर्दिष्टातिविदः क्षितिः । तस्याः प्रमाणं निर्दिष्टं दशयोजनकोटयः ॥ ५८.३२ ॥ लोकालोक इति ख्यातस्तस्याः प्रान्ते समन्ततः । स्फीतो हेममयः श्रीमान् सरलः परिमण्डलः ॥ ५८.३३ ॥ योजनानां सहस्राणि चार्धमस्य व्यवस्थितम् । तावदेव च विस्तीर्णं तदर्धे भानुराहितः ॥ ५८.३४ ॥ प्रकाशयति स ज्योतिः परभागे निहन्यते । लोकालोक इति प्रोक्तस्ततोऽसावचलो महान् ॥ ५८.३५ ॥ लोकालोकावसानोऽयं भूर्लोकः परिकीर्तितः । गन्धर्वयक्षरक्षोभिः पिशाचैश्च निषेवितः ॥ ५८.३६ ॥ मानुषैः पशुभिश्चैव मृगपक्षिसरीसृपैः । स्थावरैर्विविधाकारैर्भूतैरेतैश्च षड्विधैः ॥ ५८.३७ ॥ भूर्लोकश्च भुवर्लोको यावदादित्यमण्डलम् । वसन्ति सततं रुद्रास्सततं वक्त्रभास्कराः ॥ ५८.३८ ॥ आदित्यमण्डलादूर्ध्वं स्मृता स्वर्लोकसंस्थितिः । विमानकोटयस्तस्मिन्नष्टाविंशतिराशयः ॥ ५८.३९ ॥ मेढीभूतो विमानानां सर्वेषामुपरि ध्रुवः । नियुता अनिलस्कन्धाः सप्तास्मिन्नन्तरे स्थिताः ॥ ५८.४० ॥ पृथिव्याः प्रथमः स्कन्धः स्थितश्चामेघमण्डलम् । आहवो नाम वै वातो व्यूहानां व्यूहकृत्तथा ॥ ५८.४१ ॥ द्वितीयः प्रवहो नाम निबद्धः सूर्यमण्डले । तृतीयः संवहो माम सुस्कन्धोऽसौ प्रतिष्ठितः ॥ ५८.४२ ॥ चतुर्थः सोद्वहः स्कन्धः स्थितो नक्षत्रमण्डले । ततो द्वयोर्विनिर्दिष्टा विमानोद्वहनक्रिया ॥ ५८.४३ ॥ योजनानां ध्रुवः कोटिर्महर्लोकः समुच्छ्रितः । स्कन्धः परिवहो नाम निबद्धः सप्तमो ध्रुवे ॥ ५८.४४ ॥ अन्नादीनि करोत्येष पर्वणामुपरि स्थितः । विनिर्वृत्तं विकाराणामधिवासो महात्मनाम् ॥ ५८.४५ ॥ तत्राधिकारिदेवानामष्टाविंशति कोटयः । जनात्स्वर्लोकमागत्य नियोगात्पद्मजन्मनः ॥ ५८.४६ ॥ स्थिता मन्वन्तरं तत्र स्वव्यापारावसायिनः । आरुह्य च महर्लोकमागच्छन्ति ततः पुनः ॥ ५८.४७ ॥ ब्रह्मणो दिवसैकेन देवाः स्वर्गे चतुर्दश । क्रमेण कृत्वा कर्माणि महर्लोके वसन्ति ते ॥ ५८.४८ ॥ कोटिद्वयं महर्लोकाज्जनलोकः समुच्छ्रितः । साध्यानामसुरास्तत्र वसन्ति सुखिनः सदा ॥ ५८.४९ ॥ योजनानां चतुःकोट्यः जनादप्युच्छ्रितं तपः । प्रजानां पतयस्तत्र स्थितास्तु ब्रह्मणः सुताः ॥ ५८.५० ॥ सत्यलोकस्तपोलोकात्कोटिषट्कं समुच्छ्रितम् । आस्ते परिवृतस्तत्र देवासुरगणैर्विराट् ॥ ५८.५१ ॥ ब्रह्मलोकाद्विष्णुलोको द्विगुणेन समुच्छ्रितः । विस्तरेण तदूर्ध्वे च दिव्यलोकः समन्वितः ॥ ५८.५२ ॥ विष्णुलोकाच्च परतः श्रीमच्छिवपुरं महत् । द्वाविंशत्कोटिविस्तीर्णं तदूर्ध्वे समुपस्थितम् ॥ ५८.५३ ॥ सूर्यायुतप्रतीकाशं सर्वकामसमन्वितम् । अनेकारण्यविन्यासं स्वर्गनद्युपशोभितम् ॥ ५८.५४ ॥ सर्वरत्नान्वितैर्दिव्यैस्तप्तजाम्बूनदप्रभैः । सहस्रखण्डभौमैश्च सर्वशोभासमन्वितैः ॥ ५८.५५ ॥ विमानैः सर्वतो व्याप्तं चन्द्रैरिवनभस्तलम् । अप्सरोगणसंकीर्णं सर्वविद्याधरान्वितम् ॥ ५८.५६ ॥ नृत्यगीतरवोपेतैरप्रमेयगुणान्वितैः । मनोजवैरसंख्यातैः परिवारसमन्वितैः ॥ ५८.५७ ॥ क्वचिद्दोलागृहैर्रम्यैः किङ्किणीरवकान्वितैः । उद्गतैरर्धचन्द्रैश्च घण्टाभरणभूषितैः ॥ ५८.५८ ॥ मणिमुक्तावितानैश्च मणिरत्नचयैः शुभैः । सर्वरत्नार्चितैर्द्रव्यैर्मुक्तादामसुशोभनैः ॥ ५८.५९ ॥ महासिंहासनैर्दिव्यैः सर्वरत्नविभूषितैः । क्वचित्पुण्यगृहैर्व्याप्तमसंख्यगुणान्वितैः ॥ ५८.६० ॥ सदा पुष्पफलैर्वृक्षैः क्वचिद्व्याप्तं मनोरमैः । पुष्पोद्यानैर्महारम्यैः शतशोऽथ सहस्रशः ॥ ५८.६१ ॥ सप्तकल्पवहा पुण्या तत्रैवास्ते सरिद्वरा । तत्कलायाः सहस्रांशो जम्बूद्वीपे प्रदृश्यते ॥ ५८.६२ ॥ अवतीर्णा महीपृष्ठे लोकानुग्रहकाम्यया । सर्वात्मनाऽवतारश्च गङ्गादिसरितामिह ॥ ५८.६३ ॥ अमृतस्यन्दिनीभिश्च नदीभिरुपशोभितम् । हेमरत्नाञ्चिता वाप्यः सोपानैः स्फाटिकैर्युताः ॥ ५८.६४ ॥ सितरक्तासितैः पीतैः सरोजैर्याः सुगन्धिभिः । पञ्चवर्णैश्च गुरुभिः शोभिताः काञ्चनाकुलैः ॥ ५८.६५ ॥ महाविकाशि संस्निग्धैः श्रीमद्भिः पञ्चहस्तकैः । दश द्वादशहस्तैश्च तथा विंशतिहस्तकैः ॥ ५८.६६ ॥ नालैर्मरकतप्रख्यैर्मनोहरदलान्वितैः । पूर्णनीलोत्पलैश्चान्यैर्दीर्घिकाश्च क्वचित्क्वचित् ॥ ५८.६७ ॥ सिंहव्याघ्रमुखैर्दिव्यैर्गजवाजिमृगाननैः । गोमुखैश्छागवदनैः कपिपक्षिमुखैस्तथा ॥ ५८.६८ ॥ एकवक्त्रैर्महावक्त्रैर्बहुवक्त्रैरवक्त्रकैः । एकपादैस्त्रिपादैश्च बहुपादैरपादकैः ॥ ५८.६९ ॥ वामनैर्जटिलैर्मुण्डैर्दीर्घग्रीवैर्महोदरैः । महाकायैर्महानासैर्महाकर्णैरकर्णकैः ॥ ५८.७० ॥ नानारूपाकृतिधरैर्नानाभरणभूषितैः । नानावेषधरैर्दिव्यैः कामरूपैर्महाबलैः ॥ ५८.७१ ॥ नानाप्रभावसंयुक्तैर्नानाशास्त्रविशारदैः । असंख्या जातयश्चान्या निवसन्ति तथा विधाः ॥ ५८.७२ ॥ कुब्जावामनकादीर्घा वरदेहा वराननाः । मुण्डाश्च विकटा नीचा ह्रस्वदीर्घश्च तादृशाः ॥ ५८.७३ ॥ लम्बोदरा ह्रस्वभुजा विनता ह्रस्वजानुकाः । मृगेन्द्रवदनाश्चान्या गजवाजिमुखास्तथा ॥ ५८.७४ ॥ ह्रस्वकुञ्चितकेशाश्च सुन्दरप्रियदर्शनाः । पञ्चाशत्कोटयस्तत्र शिवस्य परिचारिकाः ॥ ५८.७५ ॥ मणिमाणिक्यगेहेषु रमन्ते ता बहिः क्वचित् । तत्र गेहेषु यद्द्वारिसहस्रशतभूमिषु ॥ ५८.७६ ॥ विचित्रभूमयस्तत्र वज्रवैदूर्यभूषिताः । इति सर्वगुणोपेतैः स्त्रीसहस्रैर्वराननैः ॥ ५८.७७ ॥ असंख्यातैः पुरं व्याप्तमीश्वरस्य समन्ततः । तन्मध्ये सर्वतोभद्रं दिव्यमायतनं महत् ॥ ५८.७८ ॥ शुद्धस्फटिकसंकाशं स्थानमाद्यमुमापतेः । तत्रास्ते भगवान् सोमः पूज्यमानो गणेश्वरैः ॥ ५८.७९ ॥ सिद्धैः स्वस्थानसंप्राप्तैर्ब्रह्मविष्ण्वादिभिस्तथा । धर्मस्तत्र स्थितः श्रीमानीश्वरायतनेऽनघ ॥ ५८.८० ॥ यत्र वीरवृषः तत्र नित्यं गोमातरः स्थिताः । तत्र सा नर्मदादेवी पूज्यमाना सुरासुरैः ॥ ५८.८१ ॥ तेनोदकेन तृप्यन्ति गोवत्साः सर्वदेवताः । ब्रह्माविष्णुः सुरेशान उमया सहितोऽनघ ॥ ५८.८२ ॥ सुराश्च ऋषयो भूताः पितरो मातरस्तथा । स लोकः शिवलोकोऽत्र नर्मदालोक एव च ॥ ५८.८३ ॥ ये गुणा रुद्रलोकस्य गोलोकस्य तथैव च । नन्दा भद्रा सुभद्रा च सुशीला सुरभिस्तथा ॥ ५८.८४ ॥ इति गोमातरः पञ्च शिवलोकविनिर्गताः । षष्ठी तु नर्मदादेवी लोकानुग्रहकाम्यया ॥ ५८.८५ ॥ एताः सर्वा जगत्सर्वं सर्वलोकस्य मातरः । तर्पयन्ति महाराज नित्यमत्रात्मिकैर्गुणैः ॥ ५८.८६ ॥ कारणाच्च शिवस्थानादीश्वरेच्छावशाऽनुगा । ओंकारात्सर्वलोकानामिमं लोकं समाश्रिताः ॥ ५८.८७ ॥ तृणानि खादन्ति चरन्त्यरण्ये पिबन्ति तोयानि सुनिर्मलानि । दुग्धं प्रयच्छन्ति पुनन्ति देहं गावो यतो जीवति जीवलोकः ॥ ५८.८८ ॥ कुतस्तेषां हि पापानि येषां गृहमलंकृतम् । सततं बालवत्साभिर्गोभिः स्त्रीभिरिव स्वयम् ॥ ५८.८९ ॥ ये स्मरन्ति सदोंकारं नर्मदां च शिवात्मना । न तेषां पुनरावृत्तिर्घोरे संसारसागरे ॥ ५८.९० ॥ ये कुर्वन्ति परां भक्तिं तृणतोयप्रदानतः । प्रसादात्तु गवां तासां शिवलोकं व्रजन्ति ते ॥ ५८.९१ ॥ एताः सदानुकूलेन मातरः सर्वकामदाः । ये रक्षन्ति शुभा गाश्च शिवलोकं व्रजन्ति ते ॥ ५८.९२ ॥ येऽर्चयन्ति शिवं भक्त्या सद्विधानैः समाहिताः । ते विन्दन्ति महाभोगान् पुरं यान्ति शिवस्य वै ॥ ५८.९३ ॥ ये शिवाश्रयतीर्थानि श्रद्धया यान्ति मानवाः । कल्पगां च विशेषेण शैलं चामरकण्टकम् ॥ ५८.९४ ॥ ते क्रीडन्ति महाभोगैर्ब्रह्मविष्णुशिवालये । पयोऽमृतं घृतं क्षीरं मधुदध्यादिकं तु यत् ॥ ५८.९५ ॥ न पश्यति महाभाग कल्पगायां विमोहितः । एतत्ते कथितं राजन् रेवावतरणं शुभम् ॥ ५८.९६ ॥ अस्याख्यानेन भगवान् ।॰ प्रीयतां मे शिवः स्वयम् ॥ ५८.९७ ॥॰ इति श्रीस्कन्दपुराणे रेवाखण्डे शिवलोकवर्णनो नामाष्टपञ्चाशत्तमोऽध्यायः ॥ अध्याय ५९ युधिष्ठिर उवाच - दानधर्मविधानं च श्रोतुमिच्छामि कल्पग । दरिद्रा भिक्षवो वापि कथं यान्ति शिवालयम् ॥ ५९.१ ॥ विधिना केन दानेन मुच्यते दुष्कृतं तथा । लोकानां च हितार्थाय कथयस्व महामुने ॥ ५९.२ ॥ मार्कण्डेय उवाच - शृणु राजन् यथा न्यायं कथयामि तवानघ । पुष्करं बिल्वपत्रं च कुशास्तोयं च नार्मदम् ॥ ५९.३ ॥ स्वयम्भूर्भगवानाह सामान्यं धर्मकारणम् । श्रद्धापूताः सर्वधर्माः पुराणं श्रुतयस्तथा ॥ ५९.४ ॥ तस्योपदेशधर्मेण नरा यान्ति त्रिविष्टपम् । यस्तूलपूर्णविस्तीर्णं रक्तवस्त्रं ससूत्रकम् ॥ ५९.५ ॥ व्याघ्रचर्मकृतं वापि नववस्त्रावगुण्ठितम् । कृष्णाजिनोपवीतं च पुण्यधूपाधिवासितम् ॥ ५९.६ ॥ शिवध्यानाभियुक्ताय श्रद्धया विनिवेदयेत् । तत्तूलवस्त्रतन्तूनां रोमसंख्यास्ति यावती ॥ ५९.७ ॥ तावद्वर्षसहस्राणि शिवलोके महीयते । मोदते सर्वलोकेषु भुक्त्वा भोगाननेकशः ॥ ५९.८ ॥ पुनश्च क्षितिमासाद्य सिंहासनपतिर्भवेत् । तृणवल्कलपर्णानि शय्या प्रावरणादिकम् ॥ ५९.९ ॥ दत्त्वा तदर्थिने भूमौ शिवलोके महीयते । शिवमुद्दिश्य नैवेद्यं यो दद्याच्छिवदर्शिने ॥ ५९.१० ॥ शाकं मूलं फलं वापि तस्य पुण्यफलं शृणु । यावत्स्यात्तण्डुलादीनां संख्याफलदलेषु च ॥ ५९.११ ॥ तावद्वर्षसहस्राणि शिवलोके महीयते । भिक्षां सव्यञ्जनां दत्त्वा शिवभक्ताय भक्तितः ॥ ५९.१२ ॥ वर्षलक्षं महाभाग शिवलोके महीयते । दधिभक्तं सुसम्पूर्णं भिक्षापात्रं सुशोभनम् ॥ ५९.१३ ॥ दद्याद्यः शिवभक्ताय तस्य पुण्यफलं शृणु । वर्षकोटिसमं दिव्यं महाभोगैः समन्वितम् ॥ ५९.१४ ॥ स्थित्वा शिवपुरे दिव्ये तस्यान्ते च महीपतिः । सुशीतलेन तोयेन शिवभक्तं सितायुजा ॥ ५९.१५ ॥ तर्पयित्वा शम्भुलोके वर्षलक्षं च मोदते । कलशं शर्करोपेतं वस्त्रपूताम्बुपूरितम् ॥ ५९.१६ ॥ दद्याद्यः शिवभक्ताय तस्य पुण्यफलं शृणु । शुद्धस्फटिकसंकाशं विमानं सर्वकामिकम् ॥ ५९.१७ ॥ संप्राप्य शिवलोके तु वर्षकोटिं स मोदते । पलाशपर्णैः पत्रैर्वा यः कुर्यात्पुटकानि तु ॥ ५९.१८ ॥ प्रदद्याच्छिवयोगिभ्यस्ताम्रपात्रप्रदो हि सः । यस्ताम्रपात्रं सुकृतं प्रदद्याच्छिवयोगिने ॥ ५९.१९ ॥ कोटिषट्कं स कल्पानां शिवलोके महीयते । शूलं वहति यः पाणौ शक्तिं पृष्ठे कमण्डलुम् ॥ ५९.२० ॥ तं भोजयित्वा यत्नेन शिवलोकमवाप्नुयात् । भोजयेच्च यथा शक्त्या यः शिवव्रतचारिणम् ॥ ५९.२१ ॥ भोगैः स क्रीडति श्रेष्ठैः शिवलोके व्यवस्थितः । यः शिवाश्रमधर्मं च गृहस्थं भोजयेद्बुधः ॥ ५९.२२ ॥ विपुलैः स महाभोगैः शिवलोके महीयते । शिवाश्रमव्रतस्थं यः कन्दाद्यैर्भोजयेत्नरः ॥ ५९.२३ ॥ स दिव्यानाप्नुयाद्भोगानीश्वरस्य पुरे स्थितः । एवं पाशुपतं भक्तं भोजयित्वा प्रणम्य च ॥ ५९.२४ ॥ नानाविधैर्महाभोगैः शिवलोके महीयते । महाव्रतधरायैव भिक्षां यः प्रतिपादयेत् ॥ ५९.२५ ॥ स दिव्यैः शोभनैर्भोगैः शिवलोके महीयते । सयमनियमाचारं शिवभक्तिपरं नरम् ॥ ५९.२६ ॥ भोजयित्वा यथाशक्त्या शिवलोके महीयते । ज्ञानयोगबहिःस्था ये लोकसामान्यधर्मिणः ॥ ५९.२७ ॥ पूजयन्ति शिवं भक्त्या शिवलोकं व्रजन्ति ते । अनाशिकेनापि करीषवह्णिना पयः प्रदानेन तपोभिरुग्रैः ॥ ५९.२८ ॥ प्रयान्ति यज्ञैश्च न तां गतिं नरा । नीचोऽपि यां याति हि रुद्रभक्तः ॥ ५९.२९ ॥ यथा रेवाजलस्पर्शाल्लभन्ते सद्गतिं नराः । न तथा यज्ञदानाद्यैरुपायैर्भरतर्षभ ॥ ५९.३० ॥ इत्येष शिवलोकस्तु प्रसङ्गात्समुदाहृतः । गोलोकः कल्पगालोकः शिवभक्तैः समन्वितः ॥ ५९.३१ ॥ ज्ञानयोगेन ये शान्ता जपन्ति परमं शिवम् । ते सर्वदुःखनिर्मुक्ता भवन्ति सुखिनः सदा ॥ ५९.३२ ॥ शिवलोकश्च विज्ञेयो मण्डलावरणात्मकः । पञ्चभूतान्यहंकारः सत्त्वं प्रकृतिरष्टमी ॥ ५९.३३ ॥ ईदृशानां तु नागानां कोट्यो ज्ञेयाः सहस्रशः । सर्वाङ्गत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थितम् ॥ ५९.३४ ॥ विष्णुलोकात्परं स्थानं कुमारस्य महात्मनः । स्वच्छमौक्तिकसंकाशं परमा श्रीसमन्वितम् ॥ ५९.३५ ॥ स्कन्दलोकात्परं स्थानमुमादेव्याः प्रकीर्तितम् । तप्तचामीकरप्रख्यमशेषगुणसंयुतम् ॥ ५९.३६ ॥ उमास्थानात्परं चैव हरस्थानं तदुत्तमम् । सूर्यकोटिप्रतीकाशं सर्वकामसमन्वितम् ॥ ५९.३७ ॥ गणैरध्युषितं सर्वैरसंख्यैर्योगतत्परैः । हिरण्यगर्भकूर्माद्यैर्वसुरुद्रदिवाकरैः ॥ ५९.३८ ॥ स्तूयते भगवान्नित्यं तस्यान्ति प्रतिकाङ्क्षिभिः । ज्ञानध्यानपरैः शान्तैर्भिक्षाहारैर्जितेन्द्रियैः ॥ ५९.३९ ॥ प्राप्यं तैश्च परं स्थानं सूर्यायुतसमप्रभम् । तत्सत्कर्मकरैर्नित्यं ब्राह्मणैर्दग्धकल्मषैः ॥ ५९.४० ॥ वसन्ति यदृतं सिद्धाशयास्तु क्लेशवर्जिताः । नर्मदा सेव्यमानाश्च लभन्ते तत्पदं नराः ॥ ५९.४१ ॥ एतत्ते कथितं पार्थ यथोद्दिष्टं तु शम्भुना । यन्मया कथितं दानं नर्मदातीरमाश्रितम् ॥ ५९.४२ ॥ गच्छन्ति येऽन्यत्तीर्थं तु सहस्रांशो विशिष्यते । सर्वज्ञाः सर्वगाः शुद्धाः परिपूर्णा भवन्ति ते ॥ ५९.४३ ॥ शुद्धकर्मकरा ये तु परमैश्वर्यसंयुताः । सदेहाश्च विदेहाश्च भवन्ति स्वेच्छया पुनः ॥ ५९.४४ ॥ इति नित्यं विशुद्धं च स्थानमाद्यमुमापतेः । दिव्यं श्रीकण्ठनाथस्य जगद्भर्तुः समंस्थितम् ॥ ५९.४५ ॥ स्थानं नवकमित्येवं निर्गता यत्र कल्पगा । परमाष्टगुणैश्वर्यनित्यमक्षयमव्ययम् ॥ ५९.४६ ॥ शश्वद्गुरुप्रणीतेन ध्यानयोगेन ये नराः । ध्यायन्ति देवतां नित्यं ते सिद्धा यान्ति तत्पदम् ॥ ५९.४७ ॥ येऽभ्यसन्ति शिवज्ञानं नर्मदातीरमाश्रिताः । कामतृष्णाविनिर्मुक्तास्तेऽपि यान्ति च तत्पुरम् ॥ ५९.४८ ॥ अप्येकदिवसं यावच्छिवध्यानपरायणः । शिवधर्मपरस्तस्य धर्मस्यान्तो न विद्यते ॥ ५९.४९ ॥ योगधर्मसु सारत्वादभेद्यं पापमुद्गरैः । वज्रतण्डुलवज्ज्ञेयं तस्मात्तस्य फलं महत् ॥ ५९.५० ॥ देहान्तेनैव धर्मेण स्थानमाद्यं शिवालयम् । यत्रास्ते विपुलैर्भोगैः क्रीडन् कल्पायुतं नरः ॥ ५९.५१ ॥ ततः कल्पायुतस्यान्ते स्थानं कौमारमाप्नुयात् । तत्रार्धसम्मितं कालं स क्रीडन् ससुखं वसेत् ॥ ५९.५२ ॥ तदन्ते विष्णुलोकं च संप्राप्य वसते पुनः । ब्रह्मलोकं गतश्चान्ते तत्रापि वसते नरः ॥ ५९.५३ ॥ ब्रह्मलोकपरिभ्रष्टो वसेच्छिवपुरे सुखम् । तत्तस्माद्ब्रह्मविष्ण्वाद्यांल्लोकान् प्राप्नोत्यनुक्रमात् ॥ ५९.५४ ॥ इत्येवं सर्वलोकेषु रमित्वा क्रमशस्ततः । मनुष्यलोकमासाद्य शिवं रेवां समाश्रयेत् ॥ ५९.५५ ॥ मया ते कथिताऽन्यत्र यानि दानानि भारत । तानि सर्वे प्रशंसन्ति पर्वतेऽमरकण्टके ॥ ५९.५६ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये शिवमहिमानुवर्णनो नामैकोनषष्टितमोऽध्यायः ॥ अध्याय ६० मार्कण्डेय उवाच - वैष्णवं दानधर्मं च कथ्यमानं निबोध मे । विष्णुयोगं समभ्यस्य सर्वक्लेशापनुत्तये ॥ ६०.१ ॥ विष्णुं सम्पूज्य विधिना घृतस्नानादिभिः स्तवैः । द्वादश्यां विष्णुमुद्दिश्य दद्यादेकां पयस्विनीम् ॥ ६०.२ ॥ नर्मदातीरमासाद्य तस्य पुण्यफलं शृणु । पूज्यते धर्मराजेन यथा विष्णुस्तथैव सः ॥ ६०.३ ॥ शैवानां वैष्णवानां च सहस्रं भोजयेत्तु यः । गर्भिणी धेनुसंमिश्रं वृषभैर्दशभिर्युतम् ॥ ६०.४ ॥ अर्चितं गन्धपुष्पाद्यैर्हेमवस्त्रैरलंकृतम् । प्रदक्षिणमुपाक्रम्य मन्त्रराजं च भक्तितः ॥ ६०.५ ॥ ओं नमो भगवते वासुदेवयेति समुच्चरन् । वेदविद्भिः समाकीर्णं विष्णोराराधनैः शुभैः ॥ ६०.६ ॥ नर्मदातोयमासाद्य दीपमालां प्रबोधयेत् । गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ॥ ६०.७ ॥ गावो मे हृदये वापि गवां मध्ये वसाम्यहम् । इमं मन्त्रं समुत्थाय जपेदासां पुरो गवाम् ॥ ६०.८ ॥ गन्धतो याक्षतैर्मिश्रैर्गृहीत्वा ताम्रभाजनम् । शृङ्गपुच्छ जलस्नातः शुक्लवस्त्रसमन्वितः ॥ ६०.९ ॥ नर्मदास्नानपानेन गवां पुच्छाम्भसा तथा । सर्वकल्मषनिर्मुक्तः सुसिद्धः सुचिरव्रतः ॥ ६०.१० ॥ स्नापयित्वा गतस्तत्र स विप्रो नर्मदातटे । पौर्णमास्यां पूर्णचन्द्रे राहुसोमसमागमे ॥ ६०.११ ॥ तैरेव सार्द्धं विप्रेन्द्रैः संप्रपूज्य हरिं स्मरेत् । भृत्यपुत्रकलत्राद्यैर्युक्तः स्वजनबान्धवैः ॥ ६०.१२ ॥ निवेदयेत्तु कृष्णाय मन्त्रेण श्रद्धयान्वितः । श्राद्धे दाने च होमे च विवाहे मङ्गले तथा ॥ ६०.१३ ॥ गोमातरः स्थिता नित्यं विष्णुलोके शिवात्मिकाः । शिवायैता मया दत्ता विष्णवे च महात्मने ॥ ६०.१४ ॥ एवं विप्राय यो दद्याद्यज्ञार्थं समलंकृताः । एवं निवेद्य पुरुषो गोसहस्रफलं लभेत् ॥ ६०.१५ ॥ कुलानि त्रिंशदुत्तार्य नरकाद्भृत्यबान्धवान् । स्थापयेद्वैष्णवे लोके शिवस्य च महात्मनः ॥ ६०.१६ ॥ सर्वज्ञः परिपूर्णश्च विशुद्धः सर्वगः प्रभुः । संसारसागरान्मुक्तो हरितुल्यः प्रजायते ॥ ६०.१७ ॥ अनेनैव विधानेन गृहस्थाः प्राप्नुयुर्दिवम् । विनापि ज्ञानयोगेन गोसहस्रप्रदानतः ॥ ६०.१८ ॥ ब्राह्मणः क्षत्रियो वापि शूद्रोऽथापि च भक्तितः । नर्मदाकपिलायोगे यथा विभवविस्तरैः ॥ ६०.१९ ॥ ब्राह्मणाय दरिद्राय दीक्षितायोपशोभिने । चन्द्रसूर्योपरागे तु व्यतीपाते च संक्रमे ॥ ६०.२० ॥ षडशीति मुखे दद्यादमासोमसमागमे । कार्त्तिक्या वा युगादौ वा पुण्ये वाहनि भारत ॥ ६०.२१ ॥ यद्धि गायन्ति पितरो गाथामेतां नराधिप । अपि स्यात्स कुलेऽस्माकं पुत्रः परमधार्मिकः ॥ ६०.२२ ॥ नर्मदाकपिलायोगे कोटितीर्थे च मुक्तिदे । नरकादुद्धरेदस्मान् दत्त्वा गा यस्तु संयुताः ॥ ६०.२३ ॥ दशवर्षसहस्राणि लोके क्रीडति वैष्णवे । तस्मात्त्वमपि राजेन्द्र गोसहस्रप्रदो भव ॥ ६०.२४ ॥ देववद्दिवि मोदन्ते येन ते पितरः सदा । कथयामि तवाथाहमितिहासं पुरातनम् ॥ ६०.२५ ॥ युवनाश्वः पुरा राजा चक्रवर्ती महायशाः । शक्राच्छतगणं पुण्यं प्रजापालनतत्परः ॥ ६०.२६ ॥ अयोध्यानगरी यस्य ब्रह्मलोकसमप्रभा । तस्या कृतयुगे चादौ सर्वधर्मपरायणः ॥ ६०.२७ ॥ बृहस्पतिब्रह्मसमं वशिष्ठं स्वपुरोहितम् । अभिवाद्य यथान्यायमुवाच मुनिसत्तमम् ॥ ६०.२८ ॥ कस्मिन् स्थाने यजेद्यज्ञं तीर्थे देशे सुरालये । वशिष्ठप्रमुखाः सर्वे मुनयश्चेदमब्रुवन् ॥ ६०.२९ ॥ पृथिव्यां नैमिषं तीर्थं सर्वतीर्थमयं शुभम् । सफलो हयमेधस्तु कोटिकोटिगणोत्तरः ॥ ६०.३० ॥ पुराणे कीर्तितं राजन्मत्स्यरूपेण विष्णुना । सूर्येण कीर्तितं राजन्मनुपुत्राय चात्मनः ॥ ६०.३१ ॥ सर्वेषां तु पुराणानां पुराणं मत्स्यकीर्तितम् । वेदाश्चैव पुरा नष्टा मत्स्यरूपेण चोद्धृताः ॥ ६०.३२ ॥ वेदहीनाश्च वर्तन्ते द्विजा वै यज्ञकर्मसु । एवं विधं तु तत्तीर्थं युवनाश्व तवोदितम् ॥ ६०.३३ ॥ एवं श्रुत्वा ततो वाक्यं वशिष्ठस्य पुरोधसः । आदिदेश ततोऽमात्यान् धर्मिष्ठान् सत्यवादिनः ॥ ६०.३४ ॥ यज्ञोपस्करमादाय समागच्छत सत्वरम् । घोषणा क्रियतां राष्ट्रे दण्डहस्तैश्च किङ्करैः ॥ ६०.३५ ॥ आहूतास्तु ततो देवा नृपतेर्यज्ञकर्मणि । ब्रह्मा विष्णुः सुरेशश्च स्कन्दो वैश्रवणस्तथा ॥ ६०.३६ ॥ शम्भुश्चैव विशेषेण सुरासुरनमस्कृतः । धेनूनां दशलक्षाणि हेमरत्नान्वितानि च ॥ ६०.३७ ॥ लक्षमेकं हयानां च दन्तिनामयुतत्रयम् । मणिमाणिक्यमुक्ताश्च हिरण्यं चाप्यनन्तकम् ॥ ६०.३८ ॥ नानाविधानि द्रव्याणि भक्ष्यभोज्यमलंकृतम् । यज्ञद्रव्यं च यच्चान्यत्तत्सर्वसहितो नृपः ॥ ६०.३९ ॥ नानासहस्रयानैस्तु नानादेशगतैर्नृपैः । नानावाद्यसहस्रैस्तु नानागीतैर्मनोहरैः ॥ ६०.४० ॥ वेदघोषेण महता दिवं भूमिं विनादयन् । विवेश नैमिषं तीर्थं यत्र देवो महेश्वरः ॥ ६०.४१ ॥ हरिं सद्यः प्रभुं दृष्ट्वा मुच्यते यत्र किल्बिषात् । स्वर्गसोपानमेतत्तु प्रत्यक्षं देवलोकवत् ॥ ६०.४२ ॥ तत्र स्नात्वाऽभ्यर्च्य हरिं हरं स्वर्गमवाप्नुयात् । कीर्तनान्नैमिषस्यास्य नरो दहति तत्क्षणात् ॥ ६०.४३ ॥ अनेकभाविकं घोरं तूलराशिमिवानलः । दीक्षिता ब्राह्मणा देवाः कुतश्चित्तु समागताः ॥ ६०.४४ ॥ आर्तानामयुतं तेभ्यो ददौ देवाय चानघ । सहस्रमेकं नृपतिर्भूषणानां च भारत ॥ ६०.४५ ॥ ओं नमः शङ्करायेति माधवायेति चोत्तमः । जलदर्भौ समादाय पात्रे राजा हिरण्मये ॥ ६०.४६ ॥ एवं संकल्प्य राजेन्द्र यज्ञवाटमकारयत् । दशयोजनपर्यन्तं यज्ञयूपाश्च हेमजान् ॥ ६०.४७ ॥ ततो निर्वर्तितो यज्ञो वशिष्ठप्रमुखैर्द्विजैः । मुदिता देवताः सर्वा दिव्ययानसमाश्रिताः ॥ ६०.४८ ॥ जयशब्दं प्रचक्रुस्ता राजा नान्यो भवत्समः । नान्यो मम समः कश्चिदित्यहंकारवान्नृपः ॥ ६०.४९ ॥ यावद्यानं समारुह्य सान्तःपुरपरिच्छदः । निःसृतो नैमिषारण्यात्तावत्पश्यति वानरम् ॥ ६०.५० ॥ तिष्ठ तिष्ठेत्युवाचाथ शृणु राजन् वचो मम । किं ते यज्ञविधानेन देवतादानकर्मणि ॥ ६०.५१ ॥ अहंकारविमूढात्मा कर्ताहमिति मन्यसे । पुरामरेश्वरे यज्ञे सत्यधर्मस्य भूपतेः ॥ ६०.५२ ॥ वर्जयित्वा मुखं मेऽभूत्कण्ठाधो हेमवर्णकम् । ये गताः शिशवस्तेषां सर्वाङ्गाश्च हिरण्मयाः ॥ ६०.५३ ॥ कपिला नर्मदायोगे यज्ञतोयप्रवाहतः । स्नानावगाहनात्पानाल्लोडनात्कर्दमे तथा ॥ ६०.५४ ॥ गन्धर्वलोकं सम्प्राप्तो भूतग्रामश्चतुर्विधः । त्वदीये लुलितं यज्ञे नैमिषारण्यसम्भवे ॥ ६०.५५ ॥ पङ्केन लिप्तं गात्रं मे क्षालितं चाम्बुना तथा । न किंचित्फलमासीन्मे तव यज्ञो निरर्थकः ॥ ६०.५६ ॥ गवां त्वयायुते दत्तं धनं धान्यं तथा बहु । भूभुजा सत्यधर्मेण किंतु तावन्निरर्थकम् ॥ ६०.५७ ॥ दानेन तपसा वापि त्रयो लोकाः समर्जिताः । सर्वेषामेव तीर्थानां माता वै मेकला स्मृता ॥ ६०.५८ ॥ एतत्ते कथितं राजन् यथाभूदमरेश्वरे । स्वस्ति वोऽस्तु गमिष्यामि त्वं वायोध्या प्रति व्रज ॥ ६०.५९ ॥ अहमेव गमिष्यामि नर्मदां सप्तकल्पगाम् । श्रुत्वा त्वदीयं यज्ञं हि नैमिषारण्यमागतः ॥ ६०.६० ॥ निराशोऽहं गमिष्यामि नाभून्मे कांचनं मुखम् । वानरस्य वचः श्रुत्वा युवनाश्वोऽब्रवीद्वचः ॥ ६०.६१ ॥ कस्त्वं वानररूपेण सत्यमेतद्ब्रवीषि मे । वानर उवाच - अहं जाबालिनः पुत्रः कदम्बो नाम विश्रुतः ॥ ६०.६२ ॥ तिर्यग्योनौ प्रविष्टश्च प्राकृतैः कर्मभिः स्वकैः । भ्रान्तानि सर्वतीर्थानि वेषेणानेन सुव्रत ॥ ६०.६३ ॥ परित्राणं परं नाभूत्सत्यधर्ममखोत्तमे । वपुर्हिरण्मयं सर्वं मुखवर्जं ममाभवत् ॥ ६०.६४ ॥ वानरस्य वचं श्रुत्वा सन्निवृत्य नृपोत्तमः । आराध्य देवदेवेशं नैमिषे यज्ञपूरुषम् ॥ ६०.६५ ॥ उवाच वचनं श्लक्ष्णं प्रणिपत्य प्रसाद्य च । मदीययज्ञे दानेन तपसा नियमेन च ॥ ६०.६६ ॥ शमिच्छं छ्रावयामास एको वानररूपधृक् । हिरण्मयं मुखं चास्य यथा स्यात्त्वं तथा कुरु ॥ ६०.६७ ॥ उवाच वचनं देवो युवनाश्वं महीपतिम् । प्रत्यक्षं नैमिषं तीर्थं सूर्यकोटिसमप्रभम् ॥ ६०.६८ ॥ पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् । त्रिषु लोकेषु विख्यातो गिरिश्चामरकण्टकः ॥ ६०.६९ ॥ न च श्रुतं त्वया तात पुराणं स्कन्दकीर्तितम् । माता सा यत्र सरितां तीर्थानां च सरिद्वरा ॥ ६०.७० ॥ नामसंकीर्तनादस्या मुच्यते भवबन्धनात् । विषादं त्यज तीर्थानां प्रधानोऽमरकण्टकः ॥ ६०.७१ ॥ सत्यधर्मः पुनस्तत्र करिष्यति मखोत्तमम् । रेवाकपिलयोर्योगे मुखं तत्र हिरण्मयम् ॥ ६०.७२ ॥ भविष्यति न सन्देहस्तव वानरसत्तम । नैमिषं स नमस्कृत्य आदिदेवं हरं हरिम् ॥ ६०.७३ ॥ स्थानं स्वं च जगामाथ मुदा परमया युतः । नैमिषस्य वचः श्रुत्वा अयोध्याधिपतिस्तथा ॥ ६०.७४ ॥ विवेश नगरीं पुण्यां यथा शक्रोऽमरावतीम् । वानरोऽपि गतस्तत्र सत्यधर्मो यतः स्वयम् ॥ ६०.७५ ॥ प्रणम्य सत्यधर्माख्यमिदं वचनमब्रवीत् । रेवाकपिलयोर्योगे त्वदीये च महामखे ॥ ६०.७६ ॥ अवभृथस्नानजनिते कर्दमे लुठनान्मम । शरीरं काञ्चनीभूतं मुखमेवावशिष्यते ॥ ६०.७७ ॥ यज्ञमिष्ट्वा पुनस्तत्र मुखं मे काञ्चनं कुरु । गन्धर्वाधिपतिर्भूयो मुक्तो वानरयोनितः ॥ ६०.७८ ॥ हेमीभूतवपुस्तत्र यदा वानरसत्तमः । देवन्दुन्दुभिनादेन नानालङ्कारभूषितः ॥ ६०.७९ ॥ हंसयुक्तेन यानेन वीज्यमानोऽप्सरोगणैः । जगाम शाङ्करं लोकं तीर्थस्यास्य प्रभावतः ॥ ६०.८० ॥ तत्र ये श्वापदास्सर्वे तेऽपि स्नात्वा दिवङ्गताः । एतत्ते कथितं पार्थ यथावृत्तं पुरातनम् ॥ ६०.८१ ॥ श्रवणात्कीर्तनाच्चास्य गोसहस्रफलं लभेत् ॥ ६०.८२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये षष्टितमोऽध्यायः ॥ अध्याय ६१ युधिष्ठिर उवाच - श्रुत्वा नानाविधान् धर्मास्त्वत्प्रसादान्महामुने । नाहं तृप्तिं तु गच्छामि नर्मदाख्यानकीर्तनात् ॥ ६१.१ ॥ मार्कण्डेय उवाच - गावः पवित्रमतुलं गावः सर्वार्थसाधकाः । तस्माद्धि गोप्रदानेन शिवभक्त्या प्रमुच्यते ॥ ६१.२ ॥ यस्मिन् देशे भवेन्नित्यं शिवभक्तिसमन्वितः । सोऽपि देशो भवेत्पूतः किं पुनश्च सबान्धवः ॥ ६१.३ ॥ उक्तानि षट्सहस्राणि पुराणे मेकलातटे । इत्याह ज्ञानयोगस्य धर्मयोगस्य तत्त्ववित् ॥ ६१.४ ॥ धर्माधर्मगतीनां च स्वरूपमुपवर्णितम् । तीर्थाख्यानसमायुक्तं नर्मदाख्यानमुत्तमम् ॥ ६१.५ ॥ कीर्तनाच्छ्रवणात्तस्य मुच्यते भवबन्धनात् । विद्यां सिंहासने दिव्ये वस्त्रपुष्पाधिवासिताम् ॥ ६१.६ ॥ पूजयित्वा हरं विष्णुं शृणुयाद्वाचयेत्तथा । श्रीमत्सिंहासनं वापि कॢप्तं हैमं सुशोभनम् ॥ ६१.७ ॥ हेमवस्त्रोपरिच्छन्नं नानारत्नविभूषितम् । राजतं ताम्रकं कांस्यं ब्रह्मचारिविनिर्मितम् ॥ ६१.८ ॥ तत्तु तारसमुद्भूतं शृङ्गवद्रत्नभूषितम् । दिव्यं सिंहासनं वापि पूजां कृत्वा प्रयत्नतः ॥ ६१.९ ॥ गन्धाधिवसितकरः श्रीमदासनसंस्थितः । शम्भ्वायतनतीर्थेषु नरेन्द्र भवनेषु च ॥ ६१.१० ॥ बोधयेत्परमं धर्मं गृहग्रामपुरेषु च । नर्मदाकीर्तनाच्छ्रोता शिवलोके महीयते ॥ ६१.११ ॥ इदं तीर्थमिदं तीर्थं पर्यटन्नेति वै नरः । नर्मदैव परं तीर्थमित्याह भगवान् छिवः ॥ ६१.१२ ॥ अस्मिंस्तीर्थे नरश्रेष्ठ श्राद्धं कार्यं विधानतः । स्वागतेन यमः प्रीतश्चासनेन शतक्रतुः ॥ ६१.१३ ॥ पितरः पादशौचेन अत्राद्येन प्रजापतिः । विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ॥ ६१.१४ ॥ तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम् । विद्यावते स्नातकाय भिक्षवे श्रोत्रियाय च ॥ ६१.१५ ॥ तथा परमहंसाय विष्णुव्रतधराय च । सर्वोपस्करणं दत्त्वा शिवलोके महीयते ॥ ६१.१६ ॥ अनाहिताग्निं यो विप्रमाहिताग्निं करोति च । ब्राह्मणः क्षत्रियो वैश्यः स्ववित्तेनैव कारयेत् ॥ ६१.१७ ॥ अर्धार्धं सफलं तस्य यावज्जीवं न संशयः । विष्णुलोकेऽन्तकाले च भोगान् भुङ्क्ते च पुष्कलान् ॥ ६१.१८ ॥ स्वद्रव्येण च यो यज्ञं करोति विधिवद्द्विजः । नर्मदातीरमासाद्य ब्रह्मलोके स मोदते ॥ ६१.१९ ॥ धात्रीं हिरण्मयीं कृत्वा ब्राह्मणाय प्रकल्पयेत् । कल्पगा तीरमाश्रित्य विष्णुलोके महीयते ॥ ६१.२० ॥ तिलतण्डुलकर्पूरसुसम्भोज्यविमिश्रितैः । कुङ्कुमैर्वस्त्रधान्यैश्च निर्मितं शिवसन्निधौ ॥ ६१.२१ ॥ पर्वकाले च यो दद्यात्पर्वते मेकलातटे । वसेत्विष्णुलोकेषु नरः स्वर्गे न संशयः ॥ ६१.२२ ॥ प्रत्यक्षधेनुं यो दद्याथेमरत्नविभूषिताम् । घृतधेनुं गुडधेनुं शर्कराधेनुमेव च ॥ ६१.२३ ॥ रेवाकपिलयोर्योगे दत्त्वैतान्नरसत्तमः । सर्वपापविनिर्मुक्तो लोके क्रीडति वैष्णवे ॥ ६१.२४ ॥ यदि तत्र महाराज भिक्षान्नं च निवेदितम् । तस्य संख्या न विद्येत स यावत्संगमो नृप ॥ ६१.२५ ॥ एतत्सर्वं यथान्यायं कथितं तव सुव्रत । वैवस्वतेऽन्तरेऽथान्यच्छृणु त्वं नृपसत्तम ॥ ६१.२६ ॥ वीरणस्य तु राजर्षेर्मैत्रेयोऽभूत्पुरोहितः । तेन चायतनं विष्णोः कारितं नर्मदातटे ॥ ६१.२७ ॥ पुर्याश्चैवामरावत्या दिशि याम्यां व्यवस्थितम् । तदायतनमाहात्म्यान्नर्मदायाः प्रभावतः ॥ ६१.२८ ॥ मोदते वैष्णवे लोके युगस्यार्द्धं द्विजोत्तमः । शृणु त्वं यानि तीर्थानि रेवायाः पश्चिमोत्तरे ॥ ६१.२९ ॥ वनं मेघवनं नाम यज्ञपर्वतमाश्रितम् । रन्तिदेवः पुरा तत्र चक्रवर्ती युधिष्ठिर ॥ ६१.३० ॥ गवि नीतं कुलं येन स देवासुरमानुषम् । पितरो मोचिता येन गोभिर्विनिहताः पुरा ॥ ६१.३१ ॥ चाण्डालैश्च हता ये च प्राप्नुवन्ति परां गतिम् । चाण्डालादुदकात्सर्पाद्विद्युतो ब्राह्मणादपि ॥ ६१.३२ ॥ दन्तिभ्यश्च पशुभ्यश्च मरणं पापशालिनाम् । विष्णोर्बलिप्रदानेन क्रियाणां करणेन च ॥ ६१.३३ ॥ तीर्थपिण्डप्रदानेन ते यान्ति परमां गतिम् । दधीचिर्नाम राजर्षिरवन्त्यधिपतिस्तथा ॥ ६१.३४ ॥ सर्वधर्मभृतां श्रेष्ठः शक्रतुल्यपराक्रमः । पुरा देवासुरे युद्धे दैत्यैर्देवा विनिर्जिताः ॥ ६१.३५ ॥ देवानां ब्राह्मणानां च हन्तारो दैत्यकण्टकाः । नष्टाः स्वपापदोषेण सभृत्यकुलबान्धवाः ॥ ६१.३६ ॥ देवाः समुदिताः सर्वे लोकपालाः सवासवाः । निर्विघ्नं पृथिवीं कृत्वा लोकं चैव चराचरम् ॥ ६१.३७ ॥ विन्ध्यं गिरिं गतास्ते तु यस्मिन् वहति कल्पगा । समर्थं भूपतिं ज्ञात्वा दधीचिं कुरुसत्तम ॥ ६१.३८ ॥ दत्तान्यस्त्राणि रक्षार्थं तस्य राज्ञः सुरोत्तमैः । वज्रं शक्तिं तथा पाशं दण्डं खड्गं ध्वजं गदाम् ॥ ६१.३९ ॥ त्रिशूलं चेति देवानामायुधानि प्रचक्षते । तानि दत्त्वा यथा न्यायं नाकपृष्ठं मुदा ययुः ॥ ६१.४० ॥ पुराणमतमाज्ञाय दधीचिः सत्यविक्रमः । शापस्यैव भयाद्भीतो नमस्कृत्य प्रगृह्य च ॥ ६१.४१ ॥ प्रभावात्तोयतां नीत्वा शरीरान्तर्न्यवेशयत् । ततः कालान्तरे प्राप्ते दानवा बलदर्पिताः ॥ ६१.४२ ॥ जम्भकुम्भहयग्रीवप्रमुखाः पुनरुत्थिताः । दानवानां बलं ज्ञात्वा त्रस्ता देवाः सवासवाः ॥ ६१.४३ ॥ कार्यकाले समुत्पन्ने संस्मृत्यास्त्रायुधानि च । नारद प्रेषयामासुः दधीचिं प्रति भारत ॥ ६१.४४ ॥ अवन्तीं स पुरीं प्राप्य देवर्षिर्नारदस्तथा । विवेश भवनं राज्ञो मणिकाञ्चनवेदिकम् ॥ ६१.४५ ॥ उत्थितो नृपशार्दूलो मुनिं दृष्ट्वा सुतेजसम् । पूजयित्वा यथा न्यायं हेमकासनसंस्थितम् ॥ ६१.४६ ॥ तं तु दृष्ट्वा सुखासीनं राजा वचनमब्रवीत् । किमर्थं मानुषे लोके देवलोकात्समागतः ॥ ६१.४७ ॥ नारद उवाच - युद्धं महत्समुत्पन्नं देवानां दानवैः सह । समर्पय त्वं शस्त्राणि क्षीयन्ते दानवा यथा ॥ ६१.४८ ॥ कुरु कार्यं च देवानां सत्यधर्मव्रते स्थितः । दधीचिरुवाच - शृणु कार्यं च देवर्षे देवानां हितकाम्यया ॥ ६१.४९ ॥ अचिरेणैव कालेन क्षयं यास्यन्ति दानवाः । मया तान्येव शस्त्राणि रक्षणार्थं महामुने ॥ ६१.५० ॥ आपोभूतानि पीतानि शरीरे सन्ति तानि वै । उपायेन हि गृह्णन्तु दास्याम्येतानि वै पुनः ॥ ६१.५१ ॥ इत्युक्त्वा च नृपश्रेष्ठ आजुहाव च गाः पुरा । मांसादिभक्षितं गोभिरस्थिवर्जं विशाम्पते ॥ ६१.५२ ॥ अस्त्रग्रामस्ततः प्राप्तो लोकपालैर्यथा तथा । गोनर्दं नाम नगरं तत्तु लोकेषु विश्रुतम् ॥ ६१.५३ ॥ दानवा निहता देवैः पुनः सृष्टिः प्रवर्तिता । अचिन्तयत्तदा तत्र रन्तिदेवो महीपतिः ॥ ६१.५४ ॥ गोविद्युत्पशुचाण्डालसर्पैर्विनिहता नराः । देवलोकं न ते यान्ति न तेषामुदकक्रिया ॥ ६१.५५ ॥ शोचयित्वा चिरं कालं सान्तःपुरपरिग्रहः । प्रक्षाल्य नर्मदातोये तदस्थीनि व्यसर्जयत् ॥ ६१.५६ ॥ लिङ्गं ब्रह्मेश्वरं तत्र यज्ञपर्वतसन्निधौ । धर्मसंशयमापन्नो रन्तिदेवो महीपतिः ॥ ६१.५७ ॥ पप्रच्छ मुनिशार्दूलान् वशिष्ठप्रमुखान् द्विजान् । त्रिःप्रदक्षिणमावृत्य यथा न्यायमिदं वचः ॥ ६१.५८ ॥ के देशाः पर्वताः पुण्या नद्यः काः कीर्तिताः शुभाः । नरकस्थान् पितॄन् यत्र तद्वदेयुः समुद्धरेत् ॥ ६१.५९ ॥ अक्षयं च पितृश्राद्धं पितॄणामक्षया गतिः । ऋषय ऊचुः॒ मार्कण्डेयाश्रमं गच्छ अस्माभिः सह भूपते ॥ ६१.६० ॥ सोऽपि सर्वं विजानीयात्कल्पगा तीरमाश्रितः । तच्छ्रुत्वा रन्तिदेवोऽपि मुनिभिः परिभाषितः ॥ ६१.६१ ॥ जगाम मुनिभिः सार्द्धं कल्पगातीरवासिनम् । स राजा ब्राह्मणैः सार्द्धं प्रणिपत्य तथाऽर्चयत् ॥ ६१.६२ ॥ समुत्थायाब्रवीद्वाक्यमुपविष्टः कुशासने । मार्कण्डेय उवाच - कान्न मोचयते घोरान् पितॄन् संसारसागरात् ॥ ६१.६३ ॥ शृण्वन्तु मम वाक्यानि मुनयो विदितात्मनः । सर्वतीर्थमयी रेवा सर्वार्थात्ममयी शुभा ॥ ६१.६४ ॥ शिवेनैतत्निगदितं पुराणे स्कन्दकीर्तिते । कुब्जारेवासमायोगे विशेषात्सुरपूजिते ॥ ६१.६५ ॥ तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः । तत्र श्राद्धेन योगेन पितॄणां परमा गतिः ॥ ६१.६६ ॥ इदं ते कथितं राजन् कुब्जारेवासमागमे । अर्चयित्वा महेशानं तत्र बिल्वाम्रकाह्वयम् ॥ ६१.६७ ॥ सर्वपापविनिर्मुक्तो गाणपत्यमवाप्नुयात् । सार्धकोटिस्तु कन्यानां तत्र सिद्धिं परां गताः ॥ ६१.६८ ॥ शप्तास्ताः पूर्वमुनिभिः कामदोषेण भारत । विद्याधराश्च यक्षाश्च गन्धर्वाः किन्नरास्तथा ॥ ६१.६९ ॥ शप्तास्तेनैव दोषेण कुबेरपुरवासिनः । सर्वे ते सिद्धिमापन्नाः कुब्जारेवासमागमे ॥ ६१.७० ॥ अमासोमसमायोगे कार्त्तिक्यां चैव पर्वणि । वाराणसी प्रयागश्च पुष्करं नैमिषं तथा ॥ ६१.७१ ॥ एते स्नातुं समायान्ति कुब्जारेवासमागमे । श्रवणात्कीर्तनादस्य शिवलोके महीयते ॥ ६१.७२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे रन्तिदेवोपाख्यानं नामैकषष्टितमोऽध्यायः ॥ अध्याय ६२ रन्तिदेव उवाच - यथा शप्तास्तु ताः कन्यास्तासां नामानि कल्पग । श्रोतुमिच्छामि तत्त्वेन केषु स्थानेषु पूजिता ॥ ६२.१ ॥ मार्कण्डेय उवाच - वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी । प्रयागे ललितादेवी कामुका गन्धमादने ॥ ६२.२ ॥ मानसे कुमुदा नाम विश्वयोनिस्तथाम्बरे । गोमन्ते गोमती नाम मन्दरे कामचारिणी ॥ ६२.३ ॥ मदोत्कटा चैत्ररथे तपन्ती हस्तिनापुरे । कान्यकुब्जे तथा गौरी प्रभा कमलपर्वते ॥ ६२.४ ॥ एकाग्रे कीर्तिमत्याख्या विश्वा विश्वेश्वरे तथा । पुष्करे पुरुहूतेति केदारे मार्गदायिनी ॥ ६२.५ ॥ नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकार्णिका । स्थानेश्वरे भवानीति बिल्वके बिल्वपत्रिका ॥ ६२.६ ॥ श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा । जया वाराहशैले तु कमला कमलालये ॥ ६२.७ ॥ रुद्रकोट्यां तु रुद्राणी कोटिः कालञ्जरे तथा । महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी ॥ ६२.८ ॥ शालग्रामे महादेवी शिवलिङ्गे जलप्रिया । मायापुर्यां कुमारी तु सन्ताने ललिता तथा ॥ ६२.९ ॥ उत्पलाख्ये सहस्राक्षी हिरण्याक्षे महोत्पला । तीर्थायां मङ्गला नाम विमला पुरुषोत्तमे ॥ ६२.१० ॥ विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने । नारायणी सुपार्श्वे च त्रिकूटे भद्रसुन्दरी ॥ ६२.११ ॥ विपुले विपुला नाम कल्याणी प्रलयाचले । कोटीविकोटि तीर्थे तु यमुनायां मृगावती ॥ ६२.१२ ॥ करवीरे महालक्ष्मीरुमादेवी विनायके । आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥ ६२.१३ ॥ अभया कृष्णतीर्थे तु अमृता विन्ध्यकन्दरे । माण्डव्ये माण्डुका नाम स्वाहा माहेश्वरे पुरे ॥ ६२.१४ ॥ छागलम्बा प्रचण्डे च चण्डिकाऽमरकण्टके । सोमेश्वरे वराही तु प्रभासे पुष्करावती ॥ ६२.१५ ॥ देवमाता सरस्वत्यां पारा पारावते तथा । महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥ ६२.१६ ॥ संहिता कृतशौचे तु कार्त्तिकेये तु शाङ्करी । उत्पला वर्षके लोला सुभद्रा शोणसङ्गमे ॥ ६२.१७ ॥ मालासिद्धतले लक्ष्मीरनन्ता भारताश्रमे । जालन्धरे सिद्धमुखी तारा किष्किन्धपर्वते ॥ ६२.१८ ॥ देवदारुवने पुष्टिर्मेधा कश्मीरमण्डले । भीमादेवी हिमाद्रौ तु तुष्टिर्वस्त्रेश्वरे तथा ॥ ६२.१९ ॥ कपालमोचने सिद्धिर्माता कायावरोहणे । शङ्खोद्धारे धृतिर्नाम ध्वनिः पिण्डारके तथा ॥ ६२.२० ॥ कला तु चन्द्रभागायामक्षोदे शिवधारिणी । वैजयन्त्यमृता नाम बदर्यामोषधी तथा ॥ ६२.२१ ॥ ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका । मन्मथा हिमकूटे तु प्रमते सत्यवादिनी ॥ ६२.२२ ॥ अश्वत्थे वन्दिनी नाम निधिर्वैश्रवणे तथा । गायत्री वेदवदने पार्वती शिवसन्निधौ ॥ ६२.२३ ॥ देवलोके तथेन्द्राणी ब्रह्मणास्ये सरस्वती । सूर्यबिम्बे प्रभा नाम मातृका वैष्णवी तथा ॥ ६२.२४ ॥ अरुन्धती सतीनां च अप्सरस्सु तिलोत्तमा । चितिर्ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ॥ ६२.२५ ॥ एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् । अष्टोत्तरं तु तीर्थानां शतमेकं ह्युदाहृतम् ॥ ६२.२६ ॥ यः पठेत्प्रातरुत्थाय स याति परमां गतिम् । एषु तीर्थेषु ये स्नात्वा एताः पश्यान्ति मानवाः ॥ ६२.२७ ॥ सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम् । यः करोति तनुत्यागमुमास्थानेषु मानवः ॥ ६२.२८ ॥ स भित्त्वा ब्रह्मसदनं पदमाप्नोति शाङ्करम् । नामाष्टकशतं यस्तु श्रावयेच्छिवसन्निधौ ॥ ६२.२९ ॥ तृतीयायां तथाष्टम्यां बहुपुत्रो भवेन्नरः । गोदाने श्राद्धकाले च विवाहे मङ्गले तथा ॥ ६२.३० ॥ देवार्चनविधौ वापि पठन् ब्रह्मत्वमाप्नुयात् । श्रुत्वैतत्स्तोत्रमतुलं नमस्कृत्य च पर्वतम् ॥ ६२.३१ ॥ राजा स्वपितृमोक्षाय यज्ञार्थं प्राह कल्पगम् । कस्मिंस्तीर्थे भवेद्यज्ञः पितॄणां मोक्षदायकः ॥ ६२.३२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे मातृस्तुतिर्नाम द्विषष्टितमोऽध्यायः ॥ अध्याय ६३ मार्कण्डेय उवाच - रेवातटे महापुण्ये पितॄणां मोक्षणं प्रति । कुरु यज्ञं महाभाग मुच्यन्ते पितरो यथा ॥ ६३.१ ॥ इति श्रुत्वा महाराज नमस्कृत्य च कल्पगाम् । वशिष्ठप्रमुखैः सार्द्धं जगाम स्वपुरं नृपः ॥ ६३.२ ॥ स वत्सानां च लक्षैकमप्रसूतायुतं तथा । विंशतिः श्यामकर्णानां हयानां च दशायुतम् ॥ ६३.३ ॥ मणिमाणिक्यमुक्तादि भूषितोच्चैः श्रवस्त्विषाम् । अयुतं च करीन्द्राणां घण्टाभरणशोभिनाम् ॥ ६३.४ ॥ मणिमाणिक्यरत्नानां संख्यां कर्तुं न शक्यते । नानादेशनृपैः सार्द्धं ब्राह्मणैर्वेदपारगैः ॥ ६३.५ ॥ वेणुवीणानिनादेन ब्रह्मघोषरवेण च । आपूरयन् दिशः सर्वा दिवं भूमिं च संस्पृशन् ॥ ६३.६ ॥ हर्षेण महता युक्तो यज्ञसम्भारसंवृतः । रन्तिदेवो महीपालः कल्पगातीरमाश्रितः ॥ ६३.७ ॥ अनेकभक्षभोज्यानां तत्र संख्या न विद्यते । अष्टयोजनपर्यन्तं यज्ञयूपाश्च मण्डपाः ॥ ६३.८ ॥ हेमरत्नमयाः स्तम्भा मणिमौक्तिकभूषिताः । हिरण्मयानि कुण्डानि वेदिकाश्च सहस्रशः ॥ ६३.९ ॥ स्रुवश्च यज्ञपात्राणि सर्वं स्वर्णमयं तथा । समाहूतास्ततो देवा ब्रह्मविष्णुमहेश्वराः ॥ ६३.१० ॥ चन्द्रादित्यौ ग्रहैः सार्द्धं नक्षत्रध्रुवमण्डलम् । सिद्धा विद्याधरा यक्षाः सुरासुरमहोरगाः ॥ ६३.११ ॥ देवराजश्च देवाश्च बृहस्पतिपुरोगमाः । ततो यज्ञः समारब्धो ब्राह्मणैर्वेदपारगैः ॥ ६३.१२ ॥ होमेन तर्पिता देवाः सर्वलोकनिवासिनः । निर्धूमश्च ज्वलद्वह्णिः सप्तजिह्वासमन्वितः ॥ ६३.१३ ॥ प्रत्यक्षो हव्यवाहश्च स्वयं यज्ञे नराधिप । ततो निवर्तितो यज्ञो ब्राह्मणैराप्तदक्षिणैः ॥ ६३.१४ ॥ घोषणा भ्रामिता राष्ट्रे प्रतीहारैः सहस्रशः । यो यं कामयते कामं सोऽत्र तं त्वेत्यसंशयः ॥ ६३.१५ ॥ आहूताः पूर्वजास्तत्र मातृकाः पैतृकास्तथा । अपमृत्युवशं प्राप्तास्तिर्यग्योनिगताश्च ये ॥ ६३.१६ ॥ ते सर्वे शुभयोनित्वमापन्ना यज्ञयोगतः । अर्चिता नर्मदादेवीं प्रत्यक्षा रूपधारिणी ॥ ६३.१७ ॥ अर्चितो भगवांस्तत्र पार्वत्या सहितो हरः । श्रीपतिश्च श्रिया सार्द्धं शङ्खचक्रगदाधरः ॥ ६३.१८ ॥ शक्रादयस्तथा देवाः सपत्नीका अलंकृताः । गाश्चाश्वांश्च करीन्द्रांश्च ब्राह्मणेभ्यो न्यवेदयत् ॥ ६३.१९ ॥ यच्चान्यद्विद्यते किंचिद्धनं धान्यं पयो दधि । अग्निशौचानि वस्त्राणि सर्वं तेभ्यो न्यवेदयत् ॥ ६३.२० ॥ युगपत्पूजिता देवा ब्रह्मविष्णुमहेश्वराः । अर्चिता नर्मदादेवी शैलमूले व्यवस्थिता ॥ ६३.२१ ॥ प्रवाहो निर्गतो यत्र कुब्जारेवासमागमे । पितरस्तर्पिता देवाः प्राप्ताश्च परमां गतिम् ॥ ६३.२२ ॥ दिव्ययानसमारूढो दधीचिश्च नृपोत्तमः । शतमष्टोत्तरं पूर्वं पश्चिमं तदनन्तरम् ॥ ६३.२३ ॥ देवयानपथे सन्तः शतशोऽथ नृपोत्तम । ऊचुश्च देवास्ते सर्वे ब्रह्माद्या रन्तिदेवकम् ॥ ६३.२४ ॥ वृणीष्व भद्रं ते प्रीताः सत्येनानेन भूमिप । प्राप्तोऽसि परमं लोकं पितृभिर्मातृभिः सह ॥ ६३.२५ ॥ रन्तिदेवोऽब्रवीद्वाक्यं यूयं मे वरदा यदि । कलशः स्थापितो यत्र ब्राह्मणैर्वेदपारगैः ॥ ६३.२६ ॥ चतुर्वेदधरैर्भक्तैः पञ्चब्रह्मतनुः स्वयम् । शिवलिङ्गं भवेत्तत्र ज्वालामालासमप्रभम् ॥ ६३.२७ ॥ यज्ञपर्वतमासाद्य प्रवाहो यज्ञनिर्गतः । स्नाने विनिर्गता कुब्जा चरुके चरुका तथा ॥ ६३.२८ ॥ चर्मिला चाङ्घ्रिमूले तु शिल्पे शिल्पा विनिर्गता । धनदो देवताश्चान्याः सम्पूज्य प्रणिपत्य च ॥ ६३.२९ ॥ कल्पगां च नमस्कृत्य कामिकं यानमाश्रिताः । स्तोत्रं चक्रे महाभाग लिङ्गरूपस्य शूलिनः ॥ ६३.३० ॥ लोकनाथो जगत्स्रष्टा प्रणिपत्य यथाविधि । ब्रह्मो वाच - नास्ति रुद्रसमो देवो नास्ति रुद्रसमो गुरुः ॥ ६३.३१ ॥ नित्यदामलकायाय स्वप्रभामलमूर्तये । शिवभस्माङ्गरागाय देवेशाय नमोऽस्तु ते ॥ ६३.३२ ॥ नीलकण्ठाय देवाय सर्वायामितमूर्तये । बहुरूपाय कान्ताय शाश्वताय नमोऽस्तु ते ॥ ६३.३३ ॥ पराय परमेशाय सर्वज्ञाय नमोऽस्तु ते । सर्वप्रणतदेहाय स्वयमप्रणताय च ॥ ६३.३४ ॥ पूज्यानामपि पूज्याय नमस्त्र्यक्षाय शूलिने । ब्रह्मेन्द्रविष्णुवेद्याय उत्पत्तिस्थितिहेतवे ॥ ६३.३५ ॥ देवस्तुत नमस्तेऽस्तु भुक्तिमुक्तिप्रदाय च । वामाय वामरूपाय वामोमारोपभासिने ॥ ६३.३६ ॥ वामकान्तार्धवेहाय ईशानाय नमोऽस्तु ते । श्रुत्वा स्तोत्रमिदं देवो ब्रह्मणः सोऽमितद्युतिः ॥ ६३.३७ ॥ वृणीष्व वाञ्छितं यज्ञे वरमित्याह शङ्करः । ददामि ते न सन्देहो यस्त्वया वर ईप्सितः ॥ ६३.३८ ॥ उवाच वचनं ब्रह्मा शङ्करं सर्वगं प्रभुम् । पञ्चवक्त्रं पञ्चलिङ्गं ब्रह्मपूज्यं प्रकीर्तितम् ॥ ६३.३९ ॥ बिल्वा निवेदिता यस्मिन्नाम्राश्च विनिवेदिताः । बिल्वाम्रकन्नाम लिङ्गं संसारार्णवतारणम् ॥ ६३.४० ॥ प्रसिद्धिं परमां यातु भगवंस्त्वत्प्रसादतः । वामना मेकला यत्र यत्रेदं लिङ्गमुत्तमम् ॥ ६३.४१ ॥ तत्र स्नात्वा नरव्याघ्र शिवलोकमवाप्यते । इदं वरमहं मन्ये लोकानुग्रहकारकम् ॥ ६३.४२ ॥ शङ्करस्तु तथेत्येवं प्राह ब्रह्माणमव्ययम् । एवमुक्त्वा महेशानो गणकोटिसमावृतः ॥ ६३.४३ ॥ स्तूयमानः सुरैः सर्वैः जगाम भवनं स्वकम् । ब्रह्माद्या देवताश्चैव गताः स्वं स्वं निवेशनम् ॥ ६३.४४ ॥ रन्तिदेवः प्रतुष्टाव लिङ्गरूपधरं शिवम् । निशम्य रन्तिदेवस्य स्तोत्रं प्राह महेश्वरः ॥ ६३.४५ ॥ वरं वृणीष्व भद्रं ते स्तोत्रेणानेन सुव्रतं । रन्तिदेवोऽब्रवीद्वाक्यं यदि मे वरदः शिवः ॥ ६३.४६ ॥ इदं तीर्थं न मोक्तव्यं महादेव सदा त्वया । अघौघसमप्लुता ये तु तिर्यग्योनिगता नराः ॥ ६३.४७ ॥ अस्य तीर्थस्य माहात्म्यात्ते यान्तु परमां गतिम् । अत्र यद्दीयते दानं सर्वं भवति चाक्षयम् ॥ ६३.४८ ॥ इदं वरमहं मन्ये यदि तुष्टोऽसि शङ्कर । शङ्कर उवाच - अमासोमसमायोगे कार्त्तिक्यां चैव पर्वणि ॥ ६३.४९ ॥ अत्र यद्दीयते दानं तदनन्तं समश्नुते । एतत्ते कथितं राजंस्तीर्थं पापप्रणाशनम् ॥ ६३.५० ॥ विश्वेदेवाः परां सिद्धिमस्मिंस्तीर्थे समागताः । अगस्त्यशौनकश्चैव पराशरोऽघमर्षणः ॥ ६३.५१ ॥ संसिद्धिं परमां प्राप्ता नाना मुनिगणास्तथा । अत्रायुतं मुनीनां च तपसा दिवमारुहत् ॥ ६३.५२ ॥ संक्रमे च व्यतीपाते ग्रहणे चन्द्रसूर्ययोः । अमासोमसमायोगे षडशीतिमुखे तथा ॥ ६३.५३ ॥ पुण्यं दशगुणं वृद्धिं सत्यमेतच्छिवोदितम् । सपादकोटिस्तीर्थानां कुब्जारेवासमागमे ॥ ६३.५४ ॥ दक्षिणोत्तरभागे तु क्रोशमात्रं प्रतिष्ठितम् । अवशः स्ववशो वाऽपि प्राणान् यस्तु परित्यजेत् ॥ ६३.५५ ॥ राजा वर्षसहस्राणि विद्याधरपुरे भवेत् । कृमिकीटपतङ्गाद्यास्तीर्थेऽस्मिन् प्राणमोक्षणे ॥ ६३.५६ ॥ दिव्यं वर्षसहस्रं तु राजा विद्याधरे पुरे । बिल्वाम्रकं सिद्धलिङ्गं कामभोगफलप्रदम् ॥ ६३.५७ ॥ कुब्जेश्वरं महच्चान्यद्ब्रह्महत्यां व्यपोहति । अत्रान्तरे महाराज शिवक्षेत्रं विदुर्बुधाः ॥ ६३.५८ ॥ रेवाकुब्जासमायोगे यवानां सप्ततिस्तथा । अमासोमसमायोगे स्नानाच्छान्तिः प्रकीर्तिता ॥ ६३.५९ ॥ वाराणसी कुरुक्षेत्रं प्रयागो नैमिषं तथा । पुष्करं च गया चैव केदारं तीर्थमुत्तमम् ॥ ६३.६० ॥ फलमेतेषु सामान्यममासोमसमागमे । अक्षयं च फलं प्रोक्तं कुब्जारेवासमागमे ॥ ६३.६१ ॥ तिलोदकप्रदानेन मातृकं पैतृकं सुतः । नरकादुद्धरेत्सर्वान् पूर्वानपि परानपि ॥ ६३.६२ ॥ सोऽपि राजा गृहं प्राप्तः सर्वानुद्धृत्य पूर्वजान् । अयं ते कथितो राजन् कुब्जारेवासमागमः ॥ ६३.६३ ॥ रन्तिदेवो हरिश्चन्द्रः पुरुहूतः पुरूरवाः । अत्रेष्ट्वा विविधैर्यज्ञैर्दिव्यन्ति दिवि देववत् ॥ ६३.६४ ॥ श्रवणात्कीर्तनादस्य तीर्थस्य नरसत्तम । सर्वपापविशुद्धात्मा शिवलोके महीयते ॥ ६३.६५ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्ये त्रिषष्टितमोऽध्यायः ॥ अध्याय ६४ मार्कण्डेय उवाच - अथान्यत्कथयिष्यामि तीर्थं तीर्थवरं शुभम् । याम्यप्रदेशे रेवाया आश्रमः सुरपूजितः ॥ ६४.१ ॥ सुवर्णद्वीपपविख्यातो देवद्रोणीसमावृतः । हारीतो गौतमो विष्णुः सावर्णिः कौशिकस्तथा ॥ ६४.२ ॥ एते चान्ये च बहवो मुनयः शंसितव्रताः । मासोपवासिनः केचिदन्ये पक्षोपवासिनः ॥ ६४.३ ॥ चान्द्रायणपराश्चान्ये तथान्ये कृच्छ्रचारिणः । फलमूलाशिनः केचित्तथान्ये वायुभक्षकाः ॥ ६४.४ ॥ कणधूमं पिबन्त्यन्ये जलाहारास्तथा परे । एकपादाः स्थिताः केचिदन्ये चार्धपदाः स्थिताः ॥ ६४.५ ॥ दन्तोलूखलिनः केचिदन्ये सूर्यावलोकिनः । ब्राह्मणाश्च ब्रह्मविदः श्रुतिस्मृतिविशारदाः ॥ ६४.६ ॥ इतिहासपुराणानि मोक्षोपायविचिन्तकाः । अग्निहोत्रपरा नित्यं जपयज्ञक्रियापराः ॥ ६४.७ ॥ वेदध्वनितनिर्घोषैस्तारयन्ति जगत्त्रयम् । न तस्मिन् संचरेत्पापं तमः सूर्योदये यथा ॥ ६४.८ ॥ मेकलादक्षिणे तीरे ब्रह्मलोक इव स्थितः । आम्रजम्बूकदम्बैश्च कपित्थैर्बिल्वदाडिमैः ॥ ६४.९ ॥ कदलीबीजपूराद्यैर्जम्बीरैः पनसैस्तथा । न्यग्रोधबदरैर्मुख्यैर्बहुवृक्षविभूषितम् ॥ ६४.१० ॥ पुन्नागैर्नागबकुलैरशोकैस्तिलकैस्तथा । मन्दारैश्चम्पकैश्चाम्रातकैर्नीलोत्पलोत्पलैः ॥ ६४.११ ॥ पत्रपुष्पफलोपेतैर्वृक्षैः सर्वैरलंकृतम् । नानापक्षिगणोपेतं सिद्धगन्धर्वसेवितम् ॥ ६४.१२ ॥ व्याहरत्यण्डजाः सर्वे मानुषाणां गिरा नृप । एतद्गुणसमायुक्तं सुवर्णद्वीपमुत्तमम् ॥ ६४.१३ ॥ स्वायम्भुवेऽन्तरे राजन्नादिकल्पे कृते युगे । अर्चनाद्देवदेवस्य सुवर्णद्वीपवासिनः ॥ ६४.१४ ॥ अपहाय तमः कृत्स्नं लोके क्रीडन्ति शाङ्करे । पितॄणामन्नदानेन तिलतोयप्रदानतः ॥ ६४.१५ ॥ मलापकर्षणं कृत्वा वसन्ति ब्रह्मणः पुरे । पुण्यायां भूपकार्तिक्यां सर्वतीर्थफलप्रदः ॥ ६४.१६ ॥ नैतत्पश्यन्ति मनुजाः कलौ मायाविमोहिताः । कल्पगा याम्यभागे तु तीर्थकोटिरनेकधा ॥ ६४.१७ ॥ प्रसिद्धं सिद्धमुनिभिर्ज्ञायते केवलं हि तत् । नास्तिकैर्भिन्नमर्यादैः पुराणस्मृतिनिन्दकैः ॥ ६४.१८ ॥ तैलाभ्यक्तैर्न वेदोक्तकरै रेवातटे तथा । कलिमायाविमूढैश्च स्थानं तन्न प्रदृश्यते ॥ ६४.१९ ॥ हिरण्यगर्भास्थाने तु यस्मिन् वहति कल्पगा । यज्ञगर्भेश्वरं नाम शिवलिङ्गं प्रकीर्तितम् ॥ ६४.२० ॥ पूज्यते सिद्धगन्धर्वैः सुरासुरमहोरगैः । यत्र वैवस्वतो राजा सूर्यपुत्रो महायशाः ॥ ६४.२१ ॥ तस्य तीर्थस्य माहात्म्याच्चन्द्रबिम्बाननोऽभवत् । चैत्रस्यैव तु मासस्य शुक्लपक्षे नराधिप ॥ ६४.२२ ॥ चतुर्दश्यां पौर्णमास्यां यत्र सन्निहितो हरः । तिलोदकप्रदानेन पिण्डदानेन भारत ॥ ६४.२३ ॥ पितॄन् समुद्धरेत्तत्र नरकाद्भूरिदक्षिणः । निवसेद्वैष्णवे लोके यावच्चन्द्रार्कदर्शनम् ॥ ६४.२४ ॥ तत्र यद्दीयते दानं कुरुक्षेत्रसमं हि तत् । प्राणत्यागे कृते तत्र न पश्यन्ति यमालयम् ॥ ६४.२५ ॥ रेवाया उत्तरे कूले पर्यङ्को नाम पर्वतः । स च विन्ध्यसुतः श्रीमान् सर्वदेवमयः शुभः ॥ ६४.२६ ॥ तत्र पापहरो विष्णुः स्वयं तिष्ठति केशवः । नरपापहरो यस्तु नर्मदातटमाश्रितः ॥ ६४.२७ ॥ तत्र स्नात्वा महाराज गोसहस्रफलं लभेत् । तर्पिताः पितरस्तस्य तृप्ता यान्ति हरेः पुरम् ॥ ६४.२८ ॥ एकादशीं द्वादशीं वा तत्र यः कुरुते नरः । न तस्य पुनरावृत्तिर्मर्त्यलोके दुरासदे ॥ ६४.२९ ॥ क्रोशमात्रप्रमाणं च हरिक्षेत्रं प्रकीर्तितम् । अपमृत्युमृता ये च ते यान्ति परमां गतिम् ॥ ६४.३० ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे विष्णुकीर्तनं नाम चतुःषष्टितमोऽध्यायः ॥ अध्याय ६५ मार्कण्डेय उवाच - नर्मदायाम्यभागे तु तीर्थं पापप्रणाशनम् । माण्डव्यस्याश्रमं पुण्यं सिद्धगन्धर्वसेवितम् ॥ ६५.१ ॥ विभाण्डकश्च गार्ग्यश्च ऋष्यशृङ्गादयस्तथा । तस्मिन् सहस्रसंख्याता मुनयः शंसितव्रताः ॥ ६५.२ ॥ अशोकवनिकां राजन् छृणु साम्प्रतमुत्तमम् । तत्र सन्निहितो देव उमया सहितो हरः ॥ ६५.३ ॥ आविष्टश्चाश्रमे तत्र विशोको विमलः शिवः । विशोकया सरिच्छ्रेष्ठा नर्मदा यत्र सङ्गता ॥ ६५.४ ॥ तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः । अशोकेश्वरलिङ्गं च प्रत्यक्षं सिद्धिशङ्करम् ॥ ६५.५ ॥ शापभ्रष्टा द्विजास्तत्र नारदेन विमोचिताः । तस्य तीर्थस्य माहात्म्यात्मोदन्ते दिवि देवताः ॥ ६५.६ ॥ नानावृक्षफलैः पुष्पैः सर्वकामसमन्वितैः । नाना पक्षिगणैर्जुष्टं नानावृक्षनिषेवितम् ॥ ६५.७ ॥ सिद्धविद्याधरैर्यक्षैर्गन्धर्वैः किन्नरैस्तथा । वेणुवीणानिनादेन शङ्खवादित्रनिःस्वनैः ॥ ६५.८ ॥ शोभते सर्वदा राजन्नर्मदा विन्ध्यसङ्गमः । अशोका देवता यत्र ब्रह्मशक्रपुरोगमाः ॥ ६५.९ ॥ विश्वेदेवाश्रमं तद्धि सर्वदेवनमस्कृतम् । विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः ॥ ६५.१० ॥ अशोकवनिकायां च जनयामास कश्यपः । वैवस्वतेऽन्तरे प्राप्ते त्रेतायां नरसत्तम ॥ ६५.११ ॥ पञ्चायुतानि तानि तीर्थानि निवसन्ति शुभानि च । तत्र सिद्धा च सावित्री देवमातादितिस्तथा ॥ ६५.१२ ॥ देवयानी तथेन्द्राणी रोहिणी संभरायणी । दाक्षायणी लोकवन्द्या लोपामुद्रा महायशा ॥ ६५.१३ ॥ रत्नावली सूर्यभार्या ध्रुवा तारा गणेश्वरी । अशोकास्तेन विहितास्तत्रस्थाः शतसंख्यकाः ॥ ६५.१४ ॥ अस्य तीर्थस्य माहात्म्यान्मुच्यते किल्बिषान्नरः । शुक्लपक्षे चतुर्दश्यामाश्विने मासि भारत ॥ ६५.१५ ॥ अपुत्रिणी तथा बन्ध्या दुर्भगा भर्तृवर्जिता । पञ्चरत्नफलैः स्नाता दिव्यकुम्भैः समर्चयेत् ॥ ६५.१६ ॥ सहस्रजन्म सा भूयः पुत्रिणी सुभगा भवेत् । अशोकवनिका क्षेत्रे तत्र गौर्या वरः कृतः ॥ ६५.१७ ॥ यस्मिन् वहति सा देवी नर्मदा सप्तकल्पगा । तत्रेष्टं धर्मराजेन वरुणेन महात्मना ॥ ६५.१८ ॥ नैरृत्येन तथान्यैश्च लोकपालैर्यथा विधि । प्रत्यक्षो हव्यवाहश्च लोकपालानुपागतः ॥ ६५.१९ ॥ अत्रिर्मरीचिः कश्यपश्चक्रुस्तत्र मखोत्तमम् । अन्यक्षेत्राच्छतगुणा तत्र दानादिका क्रिया ॥ ६५.२० ॥ वाराणसी कुरुक्षेत्रं गया वै नैमिषं तथा । मायापुरी पुष्करं च प्रयागः शशिभूषणम् ॥ ६५.२१ ॥ काश्यपी सर्वतीर्थानि यत्र तिष्ठति कल्पगा । अशोकवनिकायास्तु नान्यत्तीर्थं समं विदुः ॥ ६५.२२ ॥ इष्टं यत्र पुरा राजन् हयमेधं मखोत्तमम् । ब्रह्मणा मोचिताः पूर्वं विप्राः कौलेययोनितः ॥ ६५.२३ ॥ अस्य तीर्थस्य माहात्म्यात्पाटलीपुत्रवासिनः । युधिष्ठिर उवाच - हयमेधमखेनेष्टं कथं तात स्वयम्भुवा ॥ ६५.२४ ॥ कथं च मोचिता विप्राः पूर्वं कौलेययोनितः । को वा राजा पुरा ब्रह्मन् देवराजसमोऽभवत् ॥ ६५.२५ ॥ एतत्सर्वं यथा न्यायं शंस मे मुनिसत्तम । मार्कण्डेय उवाच - शृणु राजन्महाभाग समाख्यानं पुरातनम् ॥ ६५.२६ ॥ अशोकवनिका तीर्थं कल्पगा तटमाश्रितम् । न जानन्ति महामूढा मनुजाः पापमोहिताः ॥ ६५.२७ ॥ गुप्ताद्गुप्ततरं तीर्थं सर्वतीर्थोत्तमोत्तमम् । विशोकेश्वरलिङ्गं तु तस्मिन् परमसिद्धिदम् ॥ ६५.२८ ॥ पूज्यते सिद्धगन्धर्वैर्न तत्पश्यन्ति मानुषाः । दर्शनात्स्पर्शनात्तस्य ब्रह्महत्यां व्यपोहति ॥ ६५.२९ ॥ स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे । रविश्चन्द्रो महाराज चक्रवर्ती महायशाः ॥ ६५.३० ॥ सोमवंशे जनिं प्राप्तः काञ्चीपुरपतिस्तथा । शशास पृथिवीं सर्वां यथा शक्रस्त्रिविष्टपम् ॥ ६५.३१ ॥ गतस्तु पृथिवीपालो नानावृक्षसमाकुलम् । नानापक्षिगणैर्जुष्टं नानामुनिनिषेवतम् ॥ ६५.३२ ॥ यत्रागस्त्येश्वरं नाम शम्भोरायतनं शुभम् । सेव्यते मुनिभिः सर्वैरगस्त्याद्यैस्तपोधनैः ॥ ६५.३३ ॥ राहुसूर्यसमायोगे रविश्चन्द्रो नृपोत्तमः । सप्तकल्पवहा यत्र शैलश्चामरकण्टकः ॥ ६५.३४ ॥ हस्त्यश्वरथपादातैः सकोशबलवाहनैः । तपस्यन्तं महात्मानं मुनिसङ्घैः समावृतम् ॥ ६५.३५ ॥ मैत्रावरुणिकं नाम ज्वलन्तमिति पावकम् । तेषां मध्ये समुत्थाय शाण्डिल्यश्च महातपाः ॥ ६५.३६ ॥ उरसा पृथिवीं गत्वा सोऽगस्तिं परिपृच्छति । रविश्चन्द्रो महातेजाः समायातस्तवाश्रमम् ॥ ६५.३७ ॥ पुरोहितोऽहमस्यास्मि जानीहि त्वं तपोनिधे । त्वत्पादार्चनमाकाङ्क्षी मन्यसे चेदनुग्रहः ॥ ६५.३८ ॥ अगस्त्य उवाच - आगच्छतु नृपश्रेष्ठः शीघ्रं सिंहासने स्थितः । आगतस्तदनुज्ञातः पादौ जग्राह तस्य च ॥ ६५.३९ ॥ अर्घपाद्यैश्च सम्पूज्य पप्रच्छ कुशलं मुनिः । कुशलं ते महाभाग सान्तः पुरपरिच्छदः ॥ ६५.४० ॥ उवाच वचनं राजा मुनीन्द्रं प्रति भारत । अद्य मे सफलं जन्म राज्यं जीवनमेव च ॥ ६५.४१ ॥ मुक्तश्च किल्बिषादस्मात्त्वात्पादाम्बुजदर्शनात् । सर्वत्र कल्पगा पुण्या सर्वतीर्थमयी शुभा ॥ ६५.४२ ॥ कस्मिन् स्थाने यजे यज्ञं शंस मे मुनिसत्तम । यथा संसिद्ध्यते यज्ञः सुराणां तृप्तिरक्षया ॥ ६५.४३ ॥ एतत्सर्वं यथा न्यायं त्रिकालज्ञ निवेदय । अगस्त्य उवाच - शृणु राजन्महाभाग कथ्यमानं निबोध च ॥ ६५.४४ ॥ शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च । ब्रह्मविष्ण्वादिदेवानामन्येषां च दिवौकसाम् ॥ ६५.४५ ॥ मया तत्र श्रुतं राजन्मार्कण्डेन चिरायुषा । तत्तेऽहं कथयिष्यामि मेकलातीर्थसम्भवम् ॥ ६५.४६ ॥ शृणुध्वं मुनयः सर्वे यत्प्रष्टव्यावतारणम् । कस्य शक्तिर्महाराज वर्जयित्वा महेश्वरम् ॥ ६५.४७ ॥ प्रमाणं सर्वतीर्थानां संख्यां वा कर्तुमादितः । उद्देशमात्रवक्ताऽहं मार्कण्डस्य महामुनेः ॥ ६५.४८ ॥ एतत्ते कथितं राजन् यथावृत्तं पुरातनम् ॥ ६५.४९ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये पञ्चषष्टितमोऽध्यायः ॥ अध्याय ६६ मार्कण्डेय उवाच - एवं श्रुतं पुरा राज्ञा रविश्चन्द्रेण धीमता । उवाच वचनं श्रीमानगस्त्यो मुनिसत्तम ॥ ६६.१ ॥ सरस्वती न गङ्गा च यमुना वा न सागराः । न चैवान्यानि तीर्थानि प्रयागप्रमुखान्यपि ॥ ६६.२ ॥ एकैव नर्मदा पुण्या सप्तकल्पवहा शुभा । लक्षयोजनपर्यन्तं जम्बूद्वीपं प्रकीर्तितम् ॥ ६६.३ ॥ नर्मदातोयपानेन लोकालोके चराचरे । तपोहीना नराश्चैव तेऽपि यान्ति शिवालयम् ॥ ६६.४ ॥ योऽयं कामयते कामं स तं प्राप्नोति पुष्कलम् । साधु साधु महाभाग पृष्टोऽहं यत्त्वयानघ ॥ ६६.५ ॥ नर्मदा कथिता दिव्या हृद्या कस्य न रोचते । सन्ति तीर्थानि यावन्ति दक्षिणोत्तरकूलयोः ॥ ६६.६ ॥ त्वत्प्रीतिदानि तावन्ति कथयामि नृपोत्तम । अन्यानि ग्रन्थलक्षेण न च कीर्तयितुं क्षमः ॥ ६६.७ ॥ त्रयो वेदास्त्रयो लोकास्तिस्रः सन्ध्यास्त्रयोऽग्नयः । सिद्धगन्धर्वयक्षाश्च सकिन्नरमहोरगाः ॥ ६६.८ ॥ विद्याधरश्चाप्सरसः कल्पगातटमाश्रिताः । ओंकारादीनि लिङ्गानि वैदूर्यादिनगाः पुरा ॥ ६६.९ ॥ द्वापरे च कलिं प्राप्य पावनत्वमवाप्नुयुः । ब्रह्मविष्ण्वादिदेवानां मर्यादा कथ्यतेऽधुना ॥ ६६.१० ॥ प्रभाभिर्द्योतमानाया रेवाया दक्षिणोत्तरे । यज्ञभूमिरियं ख्याता सुरासुरनमस्कृता ॥ ६६.११ ॥ अशोकवनिका तत्र तस्या देवो महेश्वरः । तत्र सिद्ध्यति निर्विघ्नो यज्ञ इत्याह शङ्करः ॥ ६६.१२ ॥ उवाच वचनं राजा अगस्त्यं मुनिसत्तमम् । स्वस्ति वोऽस्तु गमिष्यामि त्वया सह महामुने ॥ ६६.१३ ॥ अशोकवनिकां प्राप्तः स राजा मुनिभिर्वृतः । रेवाया दक्षिणे कूले पुण्यतीर्थेसु शोभने ॥ ६६.१४ ॥ दशयोजनपर्यन्तं यज्ञयूपाश्च मण्डपम् । मणिमाणिक्यरत्नौघैः सर्वद्वारेषु शोभिताः ॥ ६६.१५ ॥ पताकाध्वजशोभाड्या नानावस्त्रावगुण्ठिताः । विश्वामित्रो भरद्वाजः कश्यपो भार्गवस्तथा ॥ ६६.१६ ॥ ब्रह्मदृश्यो लोमशश्च तथान्ये मुनिसत्तमाः । वालखिल्या महाभागा मानसा ब्रह्मणः सुताः ॥ ६६.१७ ॥ एते चान्ये च बहवो मुनयः शंसितव्रताः । ततः प्रवर्तितो यज्ञो ब्राह्मणैराप्तदक्षिणैः ॥ ६६.१८ ॥ तृप्ताश्च देवताः सर्वाः प्रतिजग्मुस्त्रिविष्टपम् । जग्मुः सर्वे च मुदिता मुनयः स्वाश्रमं प्रति ॥ ६६.१९ ॥ ततो निवर्तितो यज्ञो दुर्वासाः कुपितो गतः । नात्र वैवस्वतो नाहं नारदः पर्वतस्तथा ॥ ६६.२० ॥ कथं निवर्तितो यज्ञः पापर्कर्मिनराधमैः । आगतस्तु यमस्तत्र नारदः पर्वतस्तथा ॥ ६६.२१ ॥ लेखकश्चित्रगुप्तश्च कालो मृत्युस्तथैव च । एते च कुपिताः सर्वे यज्ञभागं विना नृप ॥ ६६.२२ ॥ तान् सर्वान् कुपितान् दृष्ट्वा रविश्चन्द्रोऽब्रवीद्वचः । अशोकेश्वरदेवस्य नर्मदायाः प्रसादतः ॥ ६६.२३ ॥ को मे समर्थो विघ्नाय सुरासुरगणेष्वपि । तथैव कोऽन्यो जन्तूनां यज्ञविघ्नस्य हेतवे ॥ ६६.२४ ॥ यज्ञकाले च संप्राप्तो य कश्चिदपि मानवः । पूजनीयस्तथार्च्यश्च यथा देवश्चतुर्भुजः ॥ ६६.२५ ॥ यथायाता महाभागा ब्रह्मपुत्रा महौजसः । ददामि वो न सन्देहो मनसा यदभीप्सितम् ॥ ६६.२६ ॥ दुर्वासा उवाच - परिपूज्यश्च नः पुत्रो नारदः पर्वतस्तथा । एकाकी प्रार्थये नाहं मिलित्वा प्रार्थयामहे ॥ ६६.२७ ॥ रविश्चन्द्र उवाच - यो यं कामयते कामं तं तस्मै प्रददाम्यहम् । इति सर्वेऽपि तेनैव प्रस्तुता मुनिपुङ्गवाः ॥ ६६.२८ ॥ सुप्रीता विहिता राजन्नर्घपाद्यप्रदानतः । युधिष्ठिर उवाच - मुनयः केन कार्येण पाटलीपुत्रवासिनः ॥ ६६.२९ ॥ देव्या शप्ताः श्वयोनिं च गता मुक्ताश्च ते कथम् । मार्कण्डेय उवाच - पुरा तपोधनाः सर्वे जटावल्कलधारिणः ॥ ६६.३० ॥ नैपाले वै पशुपतिं देवदेवं महेश्वरम् । पूजयन्ति शिवं भक्त्या गौर्या विरहितं हरम् ॥ ६६.३१ ॥ अर्धनारीश्वरं देवं सुरासुरनमस्कृतम् । संशप्तास्तेन कार्येण पार्वत्या लिङ्गभेदिनः ॥ ६६.३२ ॥ वर्षं सहस्रं हि मितं श्वयोनिं च गमिष्यथ । निर्माल्यभक्षकाः पापाश्चण्डद्रव्यस्य भक्षकाः ॥ ६६.३३ ॥ तेषां कृते महाराज दुर्वासा नृपमब्रवीत् । श्वयोनिं समनुप्राप्तास्तत्र काले मुनीश्वराः ॥ ६६.३४ ॥ मोचय त्वं ततो राजन्नस्मत्प्रियचिकीर्षया । पार्वत्या तेऽभिशप्ताश्च नरके मज्जन्ति दारुणे ॥ ६६.३५ ॥ उवाच वचनं राजा मुनिं दुर्वाससं ततः । मोचयामि न सन्देहस्तस्मात्पापाद्द्विजोत्तमान् ॥ ६६.३६ ॥ प्रेषिताः किङ्करास्तेन सीदन्तो यत्र ते वने । प्रणिपत्य च ते सर्वे तानूचुश्च वनेचरान् ॥ ६६.३७ ॥ स्मारयन्ति पूर्वजातिमादिष्टाः प्रभुणा यथा । ततस्तद्वचनात्प्राप्तास्तेऽशोकवनिकां द्रुतम् ॥ ६६.३८ ॥ रविश्चन्द्रश्चक्रवर्ती तान् विलोक्य तपोधनान् । मुदा परमया युक्तः प्राह तान् प्रहसन्निव ॥ ६६.३९ ॥ अशोकेश्वरदेवस्य मेकलायाः प्रभावतः । मम दानप्रभावेण महर्षीणां प्रसादतः ॥ ६६.४० ॥ त्यक्त्वा श्वयोनिं मुनयः शिवलोकं प्रयान्तु वै । एतत्पापं महाघोरं मयि सर्वं निषीदतु ॥ ६६.४१ ॥ तत्क्षणान्मुक्तशापास्ते कामिकं यानमास्थिताः । ऊचुर्महर्षयो वाक्यं रविश्चन्द्रं शतक्रतुम् ॥ ६६.४२ ॥ त्वं माता त्वं पितास्माकं गुरुर्मोक्षप्रदायकः । एवमुक्त्वा ययुस्ते तु उमामाहेश्वरं परम् ॥ ६६.४३ ॥ साधु साधु महाभाग त्वं तु यज्ञतपोनिधिः । नाऽन्यस्त्वया समः कश्चित्सोमवंशे महीपतिः ॥ ६६.४४ ॥ त्वया हि निर्जितं सर्वं त्रैलोक्यं सचराचरम् । एवमुक्त्वा सुरश्रेष्ठाः साधुवादैस्तमार्चयन् ॥ ६६.४५ ॥ देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च । दुर्वासा उवाच - क्षत्रियेषु त्वया तुल्यो न दृष्टो न श्रुतो मया ॥ ६६.४६ ॥ प्राणत्यागो हि सुकरो धर्मत्यागो हि दुष्करः । वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ॥ ६६.४७ ॥ प्रहसन्नब्रवीद्वाक्यं राजा दुर्वाससं मुनिम् । मम दानप्रभावेण नरा दुष्कृतबुद्धयः ॥ ६६.४८ ॥ प्राप्नुवन् तु परं लोकं वर एष मम प्रियः । एवमस्त्विति तस्याग्रेऽभिधाय मुनिपुङ्गवः ॥ ६६.४९ ॥ स मुदा परया युक्तस्तत्रैवान्तरधीयत । तद्दृष्ट्वा तादृशं कर्म राज्ञश्चामिततेजसः ॥ ६६.५० ॥ शङ्कया परया युक्तो धर्मराजोऽब्रवीदिदम् । वरं ददामि भद्रं ते यज्ञभागबहिष्कृतः ॥ ६६.५१ ॥ श्वयोनित्वं गता विप्रा मोचिताः कर्मबन्धनात् । ईदृशं तव सामर्थ्यं जानामि च नृपोत्तम ॥ ६६.५२ ॥ पृथिव्यां दुष्करं कर्म यज्ञश्चैव विशेषतः । यो ददाति महाभाग स्वकीयं पुण्यमुत्तमम् ॥ ६६.५३ ॥ यमलोको जितस्तेन देवलोको जितस्तथा । वरयोग्योऽसि राजेन्द्र सत्यमेतत्मयोदितम् ॥ ६६.५४ ॥ रविश्चन्द्र उवाच - यदि तुष्टः सूर्यपुत्र वरं दातुं ममेच्छसि । मम यज्ञशतेनैव दानेन तपसा तथा ॥ ६६.५५ ॥ पापयोनिगता ये तु ये च दुष्कृतकारिणः । प्रयान्तु त्वत्प्रसादेन धर्मराज शिवालयम् ॥ ६६.५६ ॥ इमं वरमहं मन्ये प्रसादः क्रियतां मयि । यम उवाच - एवं भवतु राजेन्द्र सत्यधर्मपरायण ॥ ६६.५७ ॥ प्राप्नुहि त्वं परं लोकं सत्येनानेन सुव्रत । यतस्ते मोचिताः सर्वाः कश्मलात्पापयोनयः ॥ ६६.५८ ॥ क्षत्रियाः शतशो राजन्नन्ये चैव सहस्रशः । पापात्समुद्धृता ये च तेषां संख्या न विद्यते ॥ ६६.५९ ॥ एवमुक्त्वा नृपश्रेष्ठं धर्मराजो महाभुजः । कामिकं यानमारुह्य सुरासुरनमस्कृतम् ॥ ६६.६० ॥ ययौ स्वभवनं राजन्नारदः पर्वतस्तथा । तस्यामशीतिलक्षाणि तीर्थानां नरसत्तम ॥ ६६.६१ ॥ अशोकवनिकायां तु कीर्तितानि तवानघ । श्रवणात्कीर्तनात्तेषां गोसहस्रफलं भवेत् ॥ ६६.६२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डेऽशोकवनिकावर्णनो नाम षट्षष्टितमोऽध्यायः ॥ अध्याय ६७ मार्कण्डेय उवाच - अथातः कथयिष्यामि तीर्थं पापप्रणाशनम् । रेवाया उत्तरे कूले पुरं वागीश्वराभिधम् ॥ ६७.१ ॥ वागुर्नाम नदी तत्र रेवया सह संगता । तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ॥ ६७.२ ॥ वागीशा तत्र चामुण्डा दानवक्षयकारिणी । मणिभद्रो वीरभद्रस्तथाऽन्ये शतशो नृपाः ॥ ६७.३ ॥ बभूवुर्मुक्तशापास्ते तीर्थस्यास्य प्रभावतः । तिलपिण्डप्रदानेन पितॄणां परमा गतिः ॥ ६७.४ ॥ ब्रह्मदत्तश्चक्रवर्ती सूर्यवंशे महीपतिः । अयोध्याधिपतिः श्रीमान् चक्रतुल्यपराक्रमः ॥ ६७.५ ॥ धनधान्यसमायुक्तो भयदारिद्र्यवर्जितः । प्रजास्तस्मिन्महीपाले सर्वाऽपि मुदान्विताः ॥ ६७.६ ॥ इष्टः क्रतुवरस्तेन नर्मदावागुसङ्गमे । ब्रह्माद्या देवताः सर्वाः शक्रविष्णुपुरोगमाः ॥ ६७.७ ॥ प्रत्यक्षश्च महेशानो गणेश्वरसमन्वितः । लोकपालाश्च मरुतश्चन्द्रादित्यौ ध्रुवस्तथा ॥ ६७.८ ॥ ऋक्षाणि योगसिद्धाश्च सोममुख्याश्च सर्वशः । वशिष्ठो मुनिभिः सार्द्धं विदेहाधिपतिस्तथा ॥ ६७.९ ॥ एवमाद्याः समाहूता मित्रावरुण एव च । सर्वे हिरण्मयास्तत्र यज्ञयूपाश्च मण्डपाः ॥ ६७.१० ॥ दशयोजनपर्यन्तं यज्ञभूमिर्महीभृतः । स्वारोचिषेऽन्तरे राजन्नादिकल्पे कृते युगे ॥ ६७.११ ॥ गवां शतसहस्राणि हेमभारान्वितानि च । हयानां श्यामकर्णानामयुतं साग्रमेव च ॥ ६७.१२ ॥ दन्तिनामयुतं चैव घण्टाभरणभूषितम् । मणिमाणिक्यमुक्ताश्च भक्ष्यभोज्यान्यनेकधा ॥ ६७.१३ ॥ एवं राजा ब्रह्मदत्तः सर्वभूपालसत्तमः । यज्ञं प्रवर्तयामास सर्वसम्भारसंभृतः ॥ ६७.१४ ॥ वेदनिर्घोषशब्देन गीतवाद्यरवेण च । नानायानसमारूढैः स्तूयमानो मरुद्गणैः ॥ ६७.१५ ॥ ब्रह्मदत्तस्य यज्ञेन वागीशस्य प्रसादतः । नर्मदायाः प्रसादेन प्रेतास्तृप्तिं परां गताः ॥ ६७.१६ ॥ युधिष्ठिर उवाच - कथं तु ब्रह्मदत्तस्य कल्पगातीरयाजनम् । कथं प्रेता विनिर्मुक्ताः प्रेतास्ते केन कर्मणा ॥ ६७.१७ ॥ एतत्सर्वं यथा न्यायं कथयस्व तपोधन । मार्कण्डेय उवाच - शृणु राजन् यथा न्यायमितिहासं पुरातनम् ॥ ६७.१८ ॥ कार्त्तिक्यामुत्सवं प्राप्य पुष्करे ज्येष्ठपुष्करे । अयोगन्धः स्वयंभूश्च पुण्डरीकाक्ष एव च ॥ ६७.१९ ॥ पितामहः स्वयं तत्र सुरासुरगुरुः पिता । काव्यश्च होतृसदनौ वेदगर्भः कृतध्वनः ॥ ६७.२० ॥ स्वस्तिकश्चैव सावित्रो वामदेवोऽघमर्षणः । एते चान्ये च मुनयो ब्रह्मतेजोऽशसंभवाः ॥ ६७.२१ ॥ तथा ते हि यथाशक्ता ऋतुकालाभिगामिनः । गार्हस्थ्ये च स्थिता भार्या भर्तृशुश्रूषणे रताः ॥ ६७.२२ ॥ चीरवल्कलधारिण्यः शाकस्यामाकभक्षिकाः । विषण्णास्तेन धर्मेण सत्यस्ता अप्यगर्हयन् ॥ ६७.२३ ॥ द्विजस्य षट्च कर्माणि यजनं याजनं तथा । अध्यापनं चाध्ययनं दानं चैव प्रतिग्रहः ॥ ६७.२४ ॥ भूषणं परिधानं च योषितां भर्तृसेवनम् । एवं च गर्हिता राजन् योषिद्भिः पतयस्तथा ॥ ६७.२५ ॥ भीतास्ते विस्मिताः सर्वे विषण्णवदनास्तथा । हरिश्चन्द्रः पुरा राजा न भूतो न भविष्यति ॥ ६७.२६ ॥ दानेन निर्जितं येन त्रैलोक्यं सचराचरम् । राहुसूर्यसमायोगे कुरुक्षेत्रं जगाम ह ॥ ६७.२७ ॥ त्यक्त्वा ते पुष्करं तीर्थं धनलोभेन मोहिताः । सहस्रसंख्यामुनयः सभार्याः ससुताश्च ते ॥ ६७.२८ ॥ यत्र राजा हरिश्चन्द्रः प्रतिग्रहविलिप्सया । मुनीनाह हरिश्चन्द्रो मुदा परमया युतः ॥ ६७.२९ ॥ धन्या मे सफला यात्रा कुरुक्षेत्रे रविग्रहे । क्षुधार्ता दुःखिताश्चैव बाला वृद्धाः कृशातुराः ॥ ६७.३० ॥ वल्कलाजिनवस्त्राश्च यौवने प्रेतरूपिणः । यन्नो यूयमभिप्राप्ताः पत्नीपुत्रैश्च संयुताः ॥ ६७.३१ ॥ उवाच वचनं राजा साष्टाङ्गं प्रणिपत्य च । आदेशो दीयतां मह्यं किं करोमि भवत्कृते ॥ ६७.३२ ॥ एवमुक्त्वा ददौ श्रीमानेकैकस्य पृथक्पृथक् । लक्षं लक्षं हिरण्यस्य तथा गावः सहस्रशः ॥ ६७.३३ ॥ सहस्रं तुरगाणां च दन्तिनां शतमेव च । साप्तभौमान् गृहान् रम्यान् हेमप्राकारतोरणान् ॥ ६७.३४ ॥ नानाविधविलासांश्च यथा धनपतिः स्वयम् । कल्पान्तरे मृता जाताः प्रेतरूपा भयङ्कराः ॥ ६७.३५ ॥ लम्बोष्ठा लम्बवृषणा विकृताननसंयुताः । प्रतिग्रहप्रभावेण द्विजस्य पतनं ध्रुवम् ॥ ६७.३६ ॥ जातिस्मराः स्वं शोचन्ति एकाकीनास्तु ते बहिः । न भार्या न च मे पुत्रा न भृत्या न च बान्धवाः ॥ ६७.३७ ॥ न ते प्रतिग्रहैर्दग्धा यथा पूर्वं तथैव च । वयमेकाकिनो दग्धा वृक्षा इव हविर्भुजा ॥ ६७.३८ ॥ राजप्रतिग्रहैर्दग्धा न प्ररोहन्ति मानवाः । वैश्वानरेण दग्धानां पुनर्जन्म प्रजायते ॥ ६७.३९ ॥ न माता न पिता पुत्रो द्रविणं न च बान्धवाः । यमदूतैर्गृहीतानां धर्म एकः सहानुगः ॥ ६७.४० ॥ शोचित्वा सुचिरं कालं भार्यापुत्रविवर्जिताः । भ्रमित्वा च महीं सर्वां पुष्करं तीर्थमागताः ॥ ६७.४१ ॥ प्रेतरूपान्मुनीन् दृष्ट्वा विषादं परमं गतः । तानुवाच मुनिश्रेष्ठः कथं प्रेतत्वमागताः ॥ ६७.४२ ॥ प्रेता ऊचुः॒ हरिश्चन्द्रः सत्यधर्म सूर्यवंशे महीपतिः । अयोध्याधिपतिः श्रीमान् देवतुल्यपराक्रमः ॥ ६७.४३ ॥ तस्य प्रतिग्रहोऽस्माभिराप्तः सूर्यग्रहे स्थिते । तेन प्रेतत्वमापन्नाः सर्वे ब्रह्मर्षयो मुने ॥ ६७.४४ ॥ एतत्ते कथितं ब्रह्मन्मोक्षोऽस्माकं विधीयताम् । भविष्यभूततत्त्वज्ञो ब्रह्मपुत्रस्तपोनिधिः ॥ ६७.४५ ॥ उवाच वचनं श्रीमान्नारदस्तांस्तपोधनान् । कस्मिन्नवसरे पुण्ये कार्त्तिक्यां दिव्यपर्वणि ॥ ६७.४६ ॥ शिवेन कीर्तितं पूर्वं पार्वत्याः षण्मुखस्य च । श्रुतं मयापि तत्रैव पुराणं स्कन्दकीर्तितम् ॥ ६७.४७ ॥ कान्या पापक्षयं कर्तुं शक्ता रेवां विना नृप । गङ्गाद्याः सरितो विप्राः पुण्यतीर्थास्तथापि च ॥ ६७.४८ ॥ वागीशं च पुरं तत्र नर्मदातटमाश्रितम् । अध्वरे ब्रह्मदत्तस्य मोक्षणं तु भविष्यति ॥ ६७.४९ ॥ उद्देशं तु ततो दत्त्वा नारदस्त्रिदिवं गतः । तेऽपि प्रेता महाभाग ध्यात्वा शिवमुमापतिम् ॥ ६७.५० ॥ अभिजग्मुस्तमुद्देशं वागीशपुरमुत्तमम् । तत्र स्नात्वाभ्यर्च्य शिवं हरिं भास्करमेव च ॥ ६७.५१ ॥ अध्वरे ब्रह्मदत्तस्य मुक्ताः सर्वेऽपि किल्बिषात् । ब्रह्मयानं समारुह्य ब्रह्मलोकं समागताः ॥ ६७.५२ ॥ प्रतपन्ति यथादित्या ब्रह्मतेजोवपुर्धराः । तस्योपरि नरेशस्य पुष्पवृष्टिः पपात वै ॥ ६७.५३ ॥ एतत्ते कथितं राजन् यथावृत्तं पुरातनम् । श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ॥ ६७.५४ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे वागीश्वराख्यान नाम सप्तषष्टितमोऽध्यायः ॥ अध्याय ६८ मार्कण्डेय उवाच - प्रतिग्रहग्रहग्रस्ता लोभमोहविमोहिताः । मज्जन्ति नरके घोरे यत्र गत्वा न निर्गताः ॥ ६८.१ ॥ सफला वेदयज्ञाश्च तीर्थयात्रा च भारत । तथा क्लिश्यन्ति चात्मानं प्रतिग्रहपरा नराः ॥ ६८.२ ॥ दाता च याचकश्चैव कराभ्यामेव सूचितौ । अथो गच्छेद्ग्रहीता तु दाता गच्छति चोर्द्ध्वतः ॥ ६८.३ ॥ सहस्रावर्तकं नाम तीर्थं पापप्रणाशनम् । तत्र स्नातस्य विधिवद्वृषोत्सर्गफलं भवेत् ॥ ६८.४ ॥ आसप्तमं कुलं चैव पुनीते नाऽत्र संशयः । रेवाया उत्तरे कूले सहस्रायुधसंख्यया ॥ ६८.५ ॥ ततश्चान्ते महाभाग काराया वनमुत्तमम् । अग्निष्टोमफलं यत्र स्नात्वा स्वर्गं च गच्छति ॥ ६८.६ ॥ रेवाया उत्तरे भागे तीर्थ परमशोभनम् । सौगन्धिकं वनं नाम ब्रह्मचारिशुचिव्रताः ॥ ६८.७ ॥ सिषिचुः पितरस्तत्तु ब्रह्माद्याः सुतपोधनाः । सिद्धचारणगन्धर्वाः सकिन्नरमहोरगाः ॥ ६८.८ ॥ प्रविश्य तद्वनं मर्त्यः सर्वपापात्प्रमुच्यते । ततः सरस्वती चास्ति नदीनामुत्तमा नदी ॥ ६८.९ ॥ लक्ष्या देवसुता राजन्महापुण्या प्रकीर्तिता । तत्र स्नानं प्रकुर्वीत मानवो नृपते जले ॥ ६८.१० ॥ तर्पयित्वा पितॄन् देवानश्वमेधफलं लभेत् । ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् ॥ ६८.११ ॥ तत्र स्नात्वा व्यतीपाते संक्रान्तौ ग्रहणे नरः । सहस्रकपिलादाने वाजिमेधे च यत्फलम् ॥ ६८.१२ ॥ सुगन्धां छातकुम्भाश्च पञ्चयज्ञांश्च भारत । अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥ ६८.१३ ॥ त्रिशूलाख्यं तु तत्रैव तीर्थमासाद्य भारत । तत्राभिषेकं यः कुर्यादर्चयेत्पितृदैवतम् ॥ ६८.१४ ॥ गणेशत्वं स लभते त्यक्त्वा देहं न संशयः । ततो गच्छेन्महाराज ब्रह्मस्थानमनुत्तमम् ॥ ६८.१५ ॥ रेवाया उत्तरे कूले कामभोगफलप्रदम् । ब्रह्मोदमिति विख्यातं प्रकाश्यं भुवि भारत ॥ ६८.१६ ॥ तत्र सप्तर्षयः प्राप्ताः स्नानार्थं भरतर्षभ । कपिञ्जलो मुनिश्रेष्ठो हव्यवाहश्च भारत ॥ ६८.१७ ॥ भगवान् देवयानश्च विश्वावसुमहामुनिः । अस्य तीर्थस्य माहात्म्याद्ब्रह्मलोकमवाप्नुयुः ॥ ६८.१८ ॥ पितरः श्राद्धदानेन प्रयाता ब्रह्मणः पुरम् । उदुम्बरस्य कृत्वा तु विधिवद्दर्शनं ततः ॥ ६८.१९ ॥ अन्तर्द्धानमवाप्नोति तपसा दग्धकिल्बिषः । ततो गच्छेन्महाराज शङ्करं लोकशङ्करम् ॥ ६८.२० ॥ कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् । लभते सर्वकामांश्च स्वर्गलोकं हि गच्छति ॥ ६८.२१ ॥ नर्मदायाम्यभागे तु गोप्याद्गोप्यतर महत् । सिद्धलिङ्गं मणिमयं न तत्पश्यन्ति मानवाः ॥ ६८.२२ ॥ नागेन्द्रसुरसिद्धैश्च नागकन्याभिरर्च्यते । सपादकोटिस्तीर्थानां शङ्करे कुरुनन्दन ॥ ६८.२३ ॥ वसूनामाश्रमं पुण्यं मुनीनां ब्रह्मचारिणाम् । शिवभक्तिपराणांच कन्दमूलफलाशिनाम् ॥ ६८.२४ ॥ पितॄणामक्षया तृप्तिस्तिलतोयप्रदानतः । मुदा परमया युक्तो दाता याति शिवालयम् ॥ ६८.२५ ॥ ध्रुवो धरश्च सोमश्च सावित्रश्चानलोऽनिलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिता ॥ ६८.२६ ॥ शङ्करस्य प्रसादेन दिवि देवत्वमागताः । कल्पगासौम्यभागे तु सोमतीर्थमनुत्तमम् ॥ ६८.२७ ॥ तत्र स्नात्वा नरो राजन् स्वर्गलोके महीयते । सप्तसारस्वतं तीर्थं ततो गच्छेन्नृपोत्तम ॥ ६८.२८ ॥ ब्रह्मणा च कृतं स्तोत्रं पुण्यकीर्ते निशामय । ब्रह्मोवाचा॒ वाक्पतिर्वचसां नित्यं वासुदेवोऽस्तु मे गतिः ॥ ६८.२९ ॥ हंसः सुरेशो वक्ता वा वसूनामन्तरा वसन् । होता दिविषदीशानो वासुदेवोऽस्तु मे गतिः ॥ ६८.३० ॥ स्वाहाकारः स्वधाकारो वषट्कारो हविष्यभुक् । ऋङ्मूर्तिर्यजुषां मूर्तिर्वासुदेवोऽस्तु मे गतिः ॥ ६८.३१ ॥ क्षेत्रज्ञः परमः सूक्ष्मो जगतां तारको हरिः । ईश्वरो हृदयावासो वासुदेवोऽस्तु मे गतिः ॥ ६८.३२ ॥ श्रवण्यः श्रवणोपायः पुण्यश्लोकः शुचिश्रवाः । वरदो वासुदेवोऽग्निर्वासुदेवोऽस्तु मे गतिः ॥ ६८.३३ ॥ पुरुषः पुण्डरीकाक्षः पुराणो भुवनेश्वरः । आदित्यान्तर्गतो वह्णिर्वासुदेवोऽस्तु मे गतिः ॥ ६८.३४ ॥ कंसकालियहन्ता च सुबलो बलमर्दनः । शिशुपालनिहन्ताऽग्निर्वासुदेवोऽस्तु मे गतिः ॥ ६८.३५ ॥ कालनेमिनिहन्ताऽग्निर्यः काले नियतान्तकः । शतासुरशरीरघ्नो वासुदेवोऽस्तु मे गतिः ॥ ६८.३६ ॥ कङ्कासुरनिहन्ता च मधुकैटभनाशनः । शङ्खचक्रगदापाणिर्वासुदेवोऽस्तु मे गतिः ॥ ६८.३७ ॥ शुक्लः सलिलशायी च विष्णुः पापक्षयाह्वयः । इन्द्रो वचनसत्पालो वासुदेवोऽस्तु मे गतिः ॥ ६८.३८ ॥ हृषीकेशश्चेन्द्रपालोपेन्द्रो गरुडासनः । सहस्रनामा धर्मज्ञो वासुदेवोऽस्तु मे गतिः ॥ ६८.३९ ॥ शङ्खी च नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । धीरो वपुष्मान्मेधावी वासुदेवोऽस्तु मे गतिः ॥ ६८.४० ॥ बृहत्संकर्षणः शम्भुः स्वयम्भूर्भूतभावनः । निपुणो लक्षणः शुद्धो वासुदेवोऽस्तु मे गतिः ॥ ६८.४१ ॥ त्रैकालिकस्त्रिकालज्ञस्त्रयी कर्ता त्रिलोचनः । त्रिसामा देवकीसूनुर्वासुदेवोऽस्तु मे गतिः ॥ ६८.४२ ॥ अव्यक्तात्मा महात्मा च अन्तरात्मा जनार्दनः । प्राणश्चेन्द्रियभूतात्मा वासुदेवोऽस्तु मे गतिः ॥ ६८.४३ ॥ परमात्मा परं ब्रह्म परमेशः परा गतिः । परमेष्ठी परं ज्योतिर्वासुदेवोऽस्तु मे गतिः ॥ ६८.४४ ॥ विश्वात्मा विश्वकर्ता च विश्वस्य पतिरात्मवान् । द्यावापृथिव्योः कर्ता च वासुदेवोऽस्तु मे गतिः ॥ ६८.४५ ॥ सहस्रशीर्षा भगवान् सहस्राक्षः सहस्रपात् । सहस्रकोटिधारी वा वासुदेवोऽस्तु मे गतिः ॥ ६८.४६ ॥ इति वागीश्वरो वाग्मी पूजितः परमेश्वरः । भक्तस्य भगवान् विष्णुः प्रीयतां मे जनार्दनः ॥ ६८.४७ ॥ जन्मप्रभृति यत्किंचिन्मया सुकृतमर्जितम् । तत्समग्रं फलं चास्तु शाश्वतं पुरुषोत्तम ॥ ६८.४८ ॥ इदमभ्यस्यतो नित्यं पूजितः स्यात्सकेशवः । विनाशयति पापानि प्रकाशयति तत्फलम् ॥ ६८.४९ ॥ एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिः । कुपथं तं विजानीयाद्यत्र नाराध्यते हरिः ॥ ६८.५० ॥ वासुदेवपरा वेदा सुदेवपराक्रिया । वासुदेवात्मका विप्रा वासुदेवपराश्रयः ॥ ६८.५१ ॥ सर्वे देवा वासुदेवं यजन्ते सर्वे देवा वासुदेवात्प्रसूताः । सर्वेषां वा वासुदेवोऽपि देवो नान्यत्किंचिदवासुदेवातिरिक्तम् ॥ ६८.५२ ॥ नान्यः पुण्यतरो देवो नास्ति विष्णुपरं तपः । नास्ति विष्णुपरं ज्ञानं सर्वं विष्णुमयं जगत् ॥ ६८.५३ ॥ ये पठन्ति नरा भक्त्या विष्णुनामाङ्कितस्तवम् । ते यान्ति वैष्णवं लोकं परं ब्रह्म सनातनम् ॥ ६८.५४ ॥ मार्कण्डेय उवाच - श्रुत्वा स्तोत्रमिदं देवो ब्रह्मणः समहात्मनः । श्रिया प्रबोधितः कृष्णः शयानो योगनिद्रया ॥ ६८.५५ ॥ दृष्ट्वाऽब्रवीत्सुरान् सर्वान्नानारूपान् भयानकान् । किमस्ति वः समुत्पन्नं मां दिदृक्षुरिहागताः ॥ ६८.५६ ॥ उवाच वचनं ब्रह्मा केशवं प्रति भारत । त्वां विनात्र जगन्नाथ कस्त्राता देवकण्टकैः ॥ ६८.५७ ॥ दानवैर्वेष्टिता धात्री स्वर्गश्चैव विनाशितः । धर्मकामादिका यज्ञा वेदा विप्लावितास्तथा ॥ ६८.५८ ॥ दनुभारभराक्रान्ता रसातततलं गता । जटासुरश्च जाबालिर्दैत्यो मयसुतस्तथा ॥ ६८.५९ ॥ दशकोट्यस्तु दैत्यानां समग्रबलशालिनाम् । शिवप्रसादयुक्तानां स्वर्गविप्लवकारिणाम् ॥ ६८.६० ॥ तस्मात्प्रवर्तितं चक्रमुद्धर स्ववसुन्धराम् । श्रुत्वा वाक्यमिदं देवो भयार्तं प्राणपीडितम् ॥ ६८.६१ ॥ उवाच वचनं देवो भयं त्यजत दैत्यजम् । अचिरेणैव कालेन हनिष्यामि महासुरान् ॥ ६८.६२ ॥ वाराहरूपमास्थाय प्रेषितं कल्पगाजले । दंष्ट्राग्रेण धृता धात्री दानवानां क्षयः कृतः ॥ ६८.६३ ॥ पुनः प्रवर्तिता सृष्टिर्यथापूर्वं तथैव च । ब्रह्माद्या मुदिता देवाः प्रतिजग्मुस्त्रिविष्टपम् ॥ ६८.६४ ॥ एतत्ते कथितं राजन् वाराहं कल्पगातटे । श्रवणात्कीर्तनादस्य हयमेधफलं लभेत् ॥ ६८.६५ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे वाराहमहिमानुवर्णनो नामाष्टषष्टितमोऽध्यायः ॥ अध्याय ६९ मार्कण्डेय उवाच - ततो देवपथं तीर्थं सर्वदेवमयं शुभम् । तत्र स्नातश्च विधिवत्सर्वयज्ञफलं लभेत् ॥ ६९.१ ॥ मासे मासे कुशाग्रेण सोमयागं करोति यः । स रेवाजलपूतस्य कलां नार्हति षोडशीम् ॥ ६९.२ ॥ लिङ्गं देवपथं नाम सुरासुरनमस्कृतम् । श्रद्धया तद्दर्शनेन पितॄणां परमा गतिः ॥ ६९.३ ॥ चैत्रे मासे चतुर्दश्या पक्षयोरुभयोरपि । स्नानार्थं सर्वतीर्थानि जग्मुः कर्तुं च सत्क्रियाम् ॥ ६९.४ ॥ यद्देवलोके देवानामीप्सितं च नृपध्वज । सहस्राणि मुनीन्द्राणां तस्मिंश्शिवमुपासते ॥ ६९.५ ॥ चान्द्रायणपराः केचिद्ब्रह्मकूर्चपरास्तथा । कन्दमूलफलाहारा जलाहारा जलप्रियाः ॥ ६९.६ ॥ अग्निहोत्रपरा नित्यं तथा हुतहुताशनाः । उपासते देवपथं संसिद्धिं परमां गताः ॥ ६९.७ ॥ अथान्यत्संप्रवक्ष्यामि तीर्थं पापप्रणाशनम् । सहस्रयज्ञं परमं सर्वकामफलप्रदम् ॥ ६९.८ ॥ एकादश्यां मार्गशीर्षे पूजयित्वा जनार्दनम् । सहस्रयज्ञस्येष्टस्य फलं प्राप्नोति मानवः ॥ ६९.९ ॥ न पश्येद्यमलोकं च तिर्यग्योनिं न गच्छति । तीर्थस्यास्य प्रभावेण नरो विगतकल्मषः ॥ ६९.१० ॥ एतत्ते कथितं राजन् पुण्याख्यानमनुत्तमम् । श्रवणात्कीर्तनादस्य विष्णुलोके महीयते ॥ ६९.११ ॥ शुक्लतीर्थं ततो गच्छेत्सर्वतीर्थमयं शुभम् । यत्र स्नातोऽपि लभते दशधेनुफलं नरः ॥ ६९.१२ ॥ शुक्लीकृतास्तेन देवा ब्रह्मविष्णुमहेश्वराः । सपादकोटिस्तीर्थानां शुक्लतीर्थे व्यवस्थिता ॥ ६९.१३ ॥ अष्टहस्तप्रमाणं च शुक्लतीर्थं युधिष्ठिर । तत्र कालाग्निरुद्रश्च श्रीकण्ठश्च तथा परः ॥ ६९.१४ ॥ तैस्तैस्तपोभिरुग्रैश्च तत्र सिद्धिं परा गताः । शुक्लतीर्थप्रभावेण मोदन्ते दिवि देवताः ॥ ६९.१५ ॥ शक्रोऽपि च पुराध्यक्षं देवदेवमुमापतिम् । रेवातोयेन संस्नाप्य बिल्वपत्रैः समार्चयत् ॥ ६९.१६ ॥ पौर्णमास्याममावस्यां सोमः सूर्यः प्रभावतीम् । तत्र स्नातो ग्रहैः सार्द्धं नक्षत्रध्रुवमण्डलैः ॥ ६९.१७ ॥ तेन देवाश्च दीव्यन्ते शुक्लतीर्थप्रभावतः । कश्यपस्याश्रमं पुण्यं सुरसिद्धनिषेवितम् ॥ ६९.१८ ॥ मुनीनामयुतं तत्र स्वयं तिष्ठति भारत । कन्दमूलफलाहारा जलाहारास्तथा परे ॥ ६९.१९ ॥ शाकाहारा निराहारा ब्रह्मकूर्चास्तथा परे । चान्द्रायणपराः केचिदन्ये मासोपवासिनः ॥ ६९.२० ॥ ऋषिकोट्यस्त्रयस्त्रिंशच्छुक्लेश्वरमुपासते । राहुग्रस्ते तथा चन्द्रे पौर्णमास्यां तिथौ तथा ॥ ६९.२१ ॥ आयान्ति सर्वतीर्थानि स्नातुमेतच्छिवोदितम् । स्थानेश्वरे यत्फलं स्याद्राहुसूर्यसमागमे ॥ ६९.२२ ॥ तत्फलं प्राप्नुयात्सर्वं शुक्लतीर्थे न संशयः । हेमधेनुधरादीनि रूप्यदा गजदास्तथा ॥ ६९.२३ ॥ एतद्दत्त्वा महाराज पुण्यसंख्या न विद्यते । धनदेन कुबेरेण देवगन्धर्वदानवैः ॥ ६९.२४ ॥ राहुसूर्यसमायोगे शुक्लतीर्थे महेश्वरः । चन्दनागुरुकर्पूरपुष्पमालाभिरर्चितः ॥ ६९.२५ ॥ वितानध्वजमुख्यैश्च दीपमालाप्रबोधनैः । अस्य तीर्थप्रभावेण यक्षराजो धनेश्वरः ॥ ६९.२६ ॥ भोगा नानाविधास्तेन सम्प्राप्ता दिवि देवताः । सर्वतीर्थमयं तीर्थं सर्वदेवमयं च यत् ॥ ६९.२७ ॥ अपि वर्षसहस्रेण शुक्लतीर्थस्य वर्णनम् । न शक्यते सुरैः कर्तुं पुराणे स्कन्दकीर्तिते ॥ ६९.२८ ॥ पापयोनिगतो यश्च तिर्यग्योनिगतश्च यः । ब्रह्महा च सुरापश्च शिवनिर्माल्यभक्षकः ॥ ६९.२९ ॥ मुच्यते तेन पापेन तीर्थस्यास्य प्रभावतः । तत्र स्नानं नरः कृत्वा पूजयित्वा वृषध्वजम् ॥ ६९.३० ॥ सुरासुरगणैः सर्वैः पूज्यते नरसत्तम । एतत्ते कथितं राजन्महापातकनाशनम् ॥ ६९.३१ ॥ पितामहेन यत्रेष्टो यज्ञे यज्ञेश्वरः पुरा । स्तोत्रं कृत्वा यथा न्यायं देवदेवस्य शूलिनः ॥ ६९.३२ ॥ पूजयित्वा तु शुक्लेशं ब्रह्मा स्तोत्रमुदाहरत् । नमः शिवाय शान्ताय ज्ञानविज्ञानरूपिणे ॥ ६९.३३ ॥ सूक्ष्माय सूक्ष्मरूपाय सर्वसूक्ष्माय हेतवे । सूक्ष्माणामपि सूक्ष्माय नमः सूक्ष्मतमाय च ॥ ६९.३४ ॥ दिव्याय दिव्यरूपाय दिव्यदेहाय सेतवे । दिव्यानामपि दिव्याय नमो दिव्यतमाय च ॥ ६९.३५ ॥ व्योमप्रभाय भावाय अघोराय नमो नमः । व्योमप्रमाणधामाय वामेशाय नमो नमः ॥ ६९.३६ ॥ पराय परमेशाय पारमार्थिकहेतवे । पराय परमुक्ताय नमः परतराय च ॥ ६९.३७ ॥ एकजिह्वद्विजह्वाय बहुजिह्वाय ते नमः । तथैवासंख्यजिह्वाय त्रिणेत्राय नमो नमः ॥ ६९.३८ ॥ पूज्याय पूज्यपूज्याय सर्वपूज्यैकहेतवे । नित्यायानित्यरूपाय नित्यनित्यैकहेतवे ॥ ६९.३९ ॥ नित्यानामपि नित्याय नमो नित्यतमाय च । शक्ताय शक्तिरूपाय सर्वशक्त्येकहेतवे ॥ ६९.४० ॥ शक्तानामपि शक्ताय नमः शक्ततमाय च । शुद्धाय सर्वशुद्धाय सर्वशुद्ध्येकहेतवे ॥ ६९.४१ ॥ कालाय कालरूपाय सर्वकालैकहेतवे । कालानामपि कालाय नमः कालतमाय ते ॥ ६९.४२ ॥ सर्वमन्त्रशरीराय सर्वमन्त्रैकहेतवे । मन्त्राणामपि मन्त्राय नमो मन्त्रतमाय च ॥ ६९.४३ ॥ अप्रमेयमहेशाय ईशानाय नमो नमः । योगाय योगरूपाय योगपुरुष ते नमः ॥ ६९.४४ ॥ एककण्ठद्विकण्ठाय बहुकण्ठाय ते नमः । असंख्यकण्ठयुक्ताय नीलकण्ठाय ते नमः ॥ ६९.४५ ॥ अनन्ताय महेशाय हर्त्रे कर्त्रे नमोऽस्तु ते । नमस्तेऽस्तु महादेव नमस्तेऽस्तु सदाशिव ॥ ६९.४६ ॥ नमस्तेऽस्तु महाशुद्ध नमस्तुभ्यं नमो नमः । नमो भस्माङ्गरागाय नमः खट्वाङ्गधारिणे ॥ ६९.४७ ॥ सर्वात्मने नमस्तुभ्यं विश्वेशाय नमो नमः । सर्वज्ञाय नमस्तुभ्यं सनाथाय नमो नमः ॥ ६९.४८ ॥ अव्यक्ताय नमस्तुभ्यं शाश्वताय नमो नमः । कैलासवासिने तुभ्यं नमः पातालवासिने ॥ ६९.४९ ॥ त्वया व्याप्तमिदं सर्वं लोकालोकं चराचरम् । अपि वर्षसहस्रेण कः स्तोतुं शक्तिमान् भवेत् ॥ ६९.५० ॥ इति स्तवेन दिव्येन यः स्तौति परमेश्वरम् । विधूय सर्वपापानि रुद्रलोके महीयते ॥ ६९.५१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे शम्भुस्तुतिर्नामैकोनसप्ततितमोऽध्यायः ॥ अध्याय ७० युधिष्ठिर उवाच - किमर्थं संस्तुतो देवो ब्रह्मणा तेन तत्र वै । शुक्लतीर्थमिदं कस्मादास्ते यत्र महेश्वरः ॥ ७०.१ ॥ एतत्सर्वं समाख्याहि पृच्छतो मे महामुने । मार्कण्डेय उवाच - शृणु राजन् कथां दिव्यां स्वर्गार्हण्यामनुत्तमाम् ॥ ७०.२ ॥ यां श्रुत्वा सर्वपापेभ्यस्तीर्थस्नानेन मुच्यते । ययातिर्नाम धर्मात्मा सत्यधर्मपरायणः ॥ ७०.३ ॥ चक्रवर्ती नृपश्रेष्ठः सर्वधर्मभृतां वरः । इयाज स महायज्ञैः शतक्रतुरिवापरः ॥ ७०.४ ॥ नदी मधुमती पुण्या रेवया यत्र सङ्गता । यत्र यज्ञः समारब्ध ऋत्विग्भिर्ब्राह्मणैः सह ॥ ७०.५ ॥ मध्येश्वरं यत्र लिङ्गं स्वयंदेवो महेश्वरः । तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ॥ ७०.६ ॥ चक्रेण विष्णुना तत्र घातितौ मधुकैटभौ । अर्चनात्तस्य देवस्य गोसहस्रफलं लभेत् ॥ ७०.७ ॥ तिलतोयप्रदानेन पिण्डदानेन भारत । पितरस्तस्य तृप्यन्ति यावदिन्द्राश्चतुर्दश ॥ ७०.८ ॥ तत्र यज्ञः समारब्धो हरिशङ्करवर्जितः । जटासुरस्तत्र दैत्यश्छिद्रं दृष्ट्वा समागतः ॥ ७०.९ ॥ ततोविध्वंसितो यज्ञो दानवैर्बलदर्पितैः । यज्ञयूपा यज्ञपात्रं दश दिक्षु निपातिताः ॥ ७०.१० ॥ भुक्तो हुतपुरोडाशः सोमपानं च तैः कृतम् । प्रणष्टा देवताः सर्वा दानवानां भयेन च ॥ ७०.११ ॥ अष्टोत्तरशतं देवा मृगरूपेण निर्गताः । धनदो यक्षरूपेण प्रणष्टः स्वपुरीं गतः ॥ ७०.१२ ॥ महिषारूढो धर्मराजो गजारूढश्शतक्रतुः । मेषारूढो हव्यवाहो निर्गता व्रतमास्थिताः ॥ ७०.१३ ॥ वरुणश्च समायातः प्रणष्टः स्वपुरीं गतः । मकरासनमारूढो वायुश्च मृगमाश्रितः ॥ ७०.१४ ॥ ईशान ईशरूपेण वृषारूढः पलायितः । अस्त्राणि लोकपालानां हृतानि दनुसम्भवैः ॥ ७०.१५ ॥ एकाकी यानमारुह्य कथं यामि स्त्रिया सह । चिन्तयित्वा नृपश्रेष्ठश्चास्त्रं जग्राह भारत ॥ ७०.१६ ॥ तिष्ठ तिष्ठेति चोक्त्वा वै दैत्यसिंह दुरासदम् । न क्षत्रकुलसंजाता जातु दृष्ट्वा पलायिताः ॥ ७०.१७ ॥ दश द्वादशवर्षाणि विमुखास्तव पूर्वजाः । न चात्राह्वानितो रुद्रो रुद्र भागो न कल्पितः ॥ ७०.१८ ॥ यज्ञेऽस्मिन् यज्ञपुरुषो नाहूतो भगवान् हरिः । तेन दोषेण मे यज्ञो दानवैश्च विनाशितः ॥ ७०.१९ ॥ एवमुक्त्वा नृपश्रेष्ठो रुद्रं ध्यात्वा महेश्वरम् । रौद्ररूपं समास्थाय ज्याघोषं घोषरूपिणम् ॥ ७०.२० ॥ जग्राह कोपान्निस्त्रिंशं निजघान च दानवान् । आहूताश्च पुनर्देवाः सर्वे ब्रह्मपुरोगमाः ॥ ७०.२१ ॥ ऊचुस्ते वचनं देवा राजानं प्रति भारत । त्वया समोऽत्र राजर्षे न भूतो न भविष्यति ॥ ७०.२२ ॥ देवानां वचनं श्रुत्वा ययातिर्वाक्यमब्रवीत् । पुनः प्रवर्तितो यज्ञो हरविष्णुप्रसादतः ॥ ७०.२३ ॥ युक्तं पलायनं चात्र क्षत्रियस्य न विद्यते । स्तुतस्तु तेन कार्येण शूलपाणिः पिनाकधृक् ॥ ७०.२४ ॥ पातालादुत्थितं तत्र लिङ्गं कालानलप्रभम् । शुक्लीकृतं जगत्सर्वं प्रभया तस्य भारत ॥ ७०.२५ ॥ वरं वृणीष्व भद्रं ते तमुवाच वृषध्वजः । ययातिरुवाच - यदि तुष्टोऽसि मे देव वरं दातुं ममेच्छसि ॥ ७०.२६ ॥ इदं स्थानं न मोक्तव्यमुमया सह शङ्कर । यज्ञदानादिकं सर्वमक्षयं चात्र सर्वदा ॥ ७०.२७ ॥ तपोहीना नरा ये च दानहीनाः सकिल्बिषाः । ते सर्वे त्वत्पुरं यान्तु शुक्लतीर्थप्रभावतः ॥ ७०.२८ ॥ तमुवाच महादेवः सत्यमेतत्तवोदितम् । यं यं कामयते कामं तं तं प्राप्नोति मानवः ॥ ७०.२९ ॥ अस्य तीर्थस्य महात्म्याल्लिङ्गस्यास्य समर्चनात् । नरकं नैव पश्यन्ति जन्मजन्मनि भारत ॥ ७०.३० ॥ एतत्ते कथितं राजन् यथा स्कन्दशिवोदितम् । तत्र ये निहता दैत्याः प्राप्तास्तेऽपि शिवालयम् ॥ ७०.३१ ॥ स्वं स्वं यानं समारूढा ययुर्देवास्त्रिविष्टपम् । मुदा परमया युक्तः स्तूयमानो नृपोत्तमः ॥ ७०.३२ ॥ ययातिर्नाम राजर्षी राज्यं कृत्वा दिवं गतः । श्रवणात्कीर्तनादस्य शिवलोके महीयते ॥ ७०.३३ ॥ अध्याय ७१ मार्कण्डेय उवाच - दीप्तकेश्वरदेवेशं सिद्धलिङ्गं प्रकीर्तितम् । नातः परतरं किंचित्त्रिषु लोकेषु विश्रुतम् ॥ ७१.१ ॥ दर्शनाद्दीप्तदेवस्य स्पर्शनादर्चनात्तथा । अनेकभाविकं घोरं क्षणमात्रेण नश्यति ॥ ७१.२ ॥ अर्चयेद्दिनमेकं तु यो मुहूर्तं तु मानवः । न तस्य पुनरावृत्तिर्घोरे संसारसागरे ॥ ७१.३ ॥ मोक्षदा नाम चामुण्डा विद्धि गौरीं सरस्वतीम् । स्तुतः सहस्रनाम्ना वै विष्णुना ब्रह्मणा स्वयम् ॥ ७१.४ ॥ स्तुतानि तानि लिङ्गानि रेवाया उत्तरे तटे । ओंकारश्चाधिदेवश्च बिल्वाम्रकमहेश्वरः ॥ ७१.५ ॥ शुक्लेश्वरो भृगुश्चेति द्वीपेश्वरत्रिलोचनौ । वैवस्वतेऽन्तरे प्राप्ते आदिकल्पेकृतेयुगे ॥ ७१.६ ॥ श्रीपतिः परमाद्यश्च द्वितीयश्च पितामहः । तृतीयो देवराजश्च चतुर्थः सूर्य एव च ॥ ७१.७ ॥ पञ्चमः कथितः सोमः षष्ठो राहुः प्रकीर्तितः । सप्तमश्च शनिश्चैव त्वष्टमः केतुकः स्मृतः ॥ ७१.८ ॥ वैश्वानरश्च नवमो दशमश्च दिगीश्वरः । एकादशो वैक्रमश्च द्वादशो वारुणस्तथा ॥ ७१.९ ॥ त्रयोदशश्च वायुर्वै धनदश्च चतुर्दशः । नाना पदप्रकारेण स्तुतो देव उमापतिः ॥ ७१.१० ॥ विष्णुना देवनाथेन ब्रह्मणा च सुरासुरैः । स्थिरः स्थाणुः प्रभाभानुः प्रवरो वरदो वरः ॥ ७१.११ ॥ हरिश्च हरिणाख्यश्च सर्वभूतहरः प्रभुः । प्रवृत्तिश्च निवृत्तिश्च नियमः शाश्वतो ध्रुवः ॥ ७१.१२ ॥ श्मशानवासी भगवान् खेचरो गोचरस्तथा । अभिवन्द्यो महाकर्मा तपस्वी भूतभावनः ॥ ७१.१३ ॥ उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः । महारूपो महाकायः सर्वलोकप्रजापतिः ॥ ७१.१४ ॥ परात्मा सर्वभूतानां विरूपो वामनो मनुः । लोकपालो पिहितात्मा प्रसन्नो भवनाशनः ॥ ७१.१५ ॥ प्रवृत्तश्च महाङ्गश्च निचयो नियताश्रयः । सर्वकामः स्वयम्भूश्च आदिनादिकरो निधिः ॥ ७१.१६ ॥ सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः । चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः ॥ ७१.१७ ॥ तपोद्रष्टा बलः स्थातुर्मृगबाणार्पणोऽनघः । महातपा दीर्घतपा आदिर्दीनानुकम्पनः ॥ ७१.१८ ॥ सवत्सरकरो मन्त्रः प्रमाणं परमं तपः । योगी योगमहावीर्यो महारेता हरो हरः ॥ ७१.१९ ॥ महाचेताश्च सर्वज्ञः सबीजोऽपहरो हरः । कमण्डलुधरो धन्वी प्राणहस्तः प्रतापवान् ॥ ७१.२० ॥ अंशोऽनीशस्तथा शूली खट्वाङ्गी पट्टिशी तथा । शुचिश्च शुचिरूपश्च तेजस्तेजस्करो निधिः ॥ ७१.२१ ॥ उष्णीषी च सुवक्त्राश्च उदक्यो वितनस्तथा । हरिश्च हरिनेत्रश्च सुतीर्थः कृष्ण एव च ॥ ७१.२२ ॥ शृगालरूपी सर्वार्थः शुण्डीशुद्धः कमण्डलुः । अजश्च गन्धमाली च मृगरूपी कपालभृत् ॥ ७१.२३ ॥ ऊर्ध्वरेता ऊर्ध्वसाक्षी ऊर्ध्वबाहुर्नभः स्थलः । त्रिजटी च निवासश्च रुद्रः सेनापतिर्विभुः ॥ ७१.२४ ॥ अहश्चरो रात्रिचरः सुवासश्च दिशाम्पतिः । राजहा दैत्यहा चैव धातारूपगुणात्मकः ॥ ७१.२५ ॥ सिंहशार्दूलरूपश्च आर्द्रचर्मधरो हरः । कालयोगी महानादः सर्ववासश्चतुष्पथः ॥ ७१.२६ ॥ दुर्वारप्रेतचारी च भूतचारी महेश्वरः । बहुभूतो बहुधनः सर्वार्थो रुचिरा गतिः ॥ ७१.२७ ॥ नृत्यप्रियो नृत्यकर्ता नर्तकश्च बलाहकः । घोरो महातपा वासो नित्यो गिरिधरो नभः ॥ ७१.२८ ॥ सहस्रभूतो विज्ञेयो व्यवसायश्च निश्चयः । अमर्षो मर्षणो दक्षो दक्षक्रतुविनाशनः ॥ ७१.२९ ॥ दक्षयज्ञापहारी च सुमहो मध्यमस्तथा । तेजोऽपहारी बलिहा मुदितश्चार्चितो भवः ॥ ७१.३० ॥ गम्भीरघोषो गम्भीरो गभीरो हव्यवाहनः । न्यग्रोधरूपो न्यग्रोधऋक्षवर्णः प्रभुर्विभुः ॥ ७१.३१ ॥ तीक्ष्णबाणश्च हर्यक्षो महेशः कर्मकालवित् । दीक्षः प्रसादितो यज्ञः समुद्रो वडवानलः ॥ ७१.३२ ॥ हुताशश्च हृताशास्यः प्रसन्नात्मा हृताशनः । महातेजाः सुतेजाश्च विजयो जय एव च ॥ ७१.३३ ॥ ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च । शिखी दण्डी जटी ज्वाली मूर्तोदो दुर्बलो बहिः ॥ ७१.३४ ॥ वैणवी पापवेतालः कालाग्निः कालदण्डकः । नक्षत्रविग्रहो वृद्धिरजो गन्धवहोऽग्रजः ॥ ७१.३५ ॥ प्रजापतिर्हरिर्बाहुर्विभागः सर्वतोमुखः । विमोचनः सुरगणो हिरण्यकवचो भवः ॥ ७१.३६ ॥ अरजो धूलिधारी च महाचारी श्रुतश्रवाः । अनादिः सर्वभूतादिः सर्वस्याद्यः पिता गुरुः ॥ ७१.३७ ॥ व्यालरूपो महावासी हीनमाली तरङ्गवित् । त्रिपदस्त्र्यम्बकोऽव्यक्तः सर्वबन्धविमोचकः ॥ ७१.३८ ॥ सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः । प्रस्कन्दनो विभागश्च तुल्यो यज्ञविभागवित् ॥ ७१.३९ ॥ सर्ववासी सर्वचारी दुर्वासा भैरवो यमः । हिमो हिमकरो यज्ञः सर्वधाता बुधोत्तमः ॥ ७१.४० ॥ लोहिताक्षो महाक्षश्च विजयाख्यो विशारदः । संग्रहो विग्रहः कर्म सर्प राजविभूषणः ॥ ७१.४१ ॥ मुख्यो विमुक्तदेहश्च देहचारी च कर्दमः । सर्वाचारः प्रसादश्च खेचरो बलरूपधृक् ॥ ७१.४२ ॥ आकाशवृत्तिरूपश्च निपात उरगः खलः । रौद्ररूपः सुरादित्यो वसुरश्मिः सुवर्चसः ॥ ७१.४३ ॥ वसुवेगो महावेगो मनोवेगो निशाचरः । सर्वावासः श्रियावास आपदीशकलो हरः ॥ ७१.४४ ॥ मुनिरात्मगतिर्लोकः सहस्रवदनो विभुः । यक्षी च यक्षराजश्च श्येनो दीप्तिर्विशाम्पतिः ॥ ७१.४५ ॥ उन्मदो मदनाकारोऽप्यर्थानर्थकरो महान् । सिद्धयोगोऽपहारी च सिद्धः सर्वार्थसाधकः ॥ ७१.४६ ॥ भिक्षुश्च भिक्षुरूपश्च विभुः षण्णां मृदुत्वचः । महासेनो विशाखश्च यष्टिभागो गवाम्पतिः ॥ ७१.४७ ॥ वज्रहस्तश्च विष्टम्भिर्विष्ठः स्तम्भन एव च । ऋक्षो रिपुकरः कालो मधुर्मधुकलोचनः ॥ ७१.४८ ॥ वाचस्पत्यो वाजसेनो नैष्ठश्चाश्रमसूचकः । ब्रह्मचारी लोकचारी सर्वचारी सुरत्नवित् ॥ ७१.४९ ॥ ईशान ईश्वरः कालो निशाचारी त्वमेकधृक् । अमितश्चाप्रमेयश्च नदीनदकरोऽव्ययः ॥ ७१.५० ॥ नन्दीश्वरः सुनन्दी च नन्दनो नन्दवर्द्धनः । नागहारो विहारी च कालो ब्रह्मविदां वरः ॥ ७१.५१ ॥ चतुर्मुखो महालिङ्गश्चतुर्लिङ्गस्तथैव च । लिङ्गाध्यक्षः सुरध्यक्षो कालाध्यक्षो युगावहः ॥ ७१.५२ ॥ उमापतिरुमाकान्तो जाह्नवी धृतिमान् वरः । सर्वार्थः सर्वभूतार्थो नित्यः सर्वव्रतः शुचिः ॥ ७१.५३ ॥ यो न ब्रह्मादिभिर्देवो जायते न महर्षिभिः । स्तोतव्यः स कथं नाथ परमात्मा परात्परः ॥ ७१.५४ ॥ जिह्वाचापल्यमस्माकं क्षमस्व परमेश्वर । शिवं कुरुष्व देवानां स्वर्ग्याणां पुष्टिवर्धनम् ॥ ७१.५५ ॥ मार्कण्डेय उवाच - श्रुत्वा स्तोत्रमिदं देवः श्रीमान् द्वीपेश्वरः शिवः । प्रसन्नब्रवीद्देवान् प्रार्थयध्वं वरं सुराः ॥ ७१.५६ ॥ देवा ऊचुः॒ यदि तुष्टो महेशानो देवानां वरदः प्रभुः । तद्विनाशाय दैत्यानां त्राता भव महेश्वर ॥ ७१.५७ ॥ पापकर्माधमश्चैव पञ्चलिङ्गानि योऽर्चयेत् । सोऽपि तां गतिमाप्नोति दुर्लभा या महामखैः ॥ ७१.५८ ॥ शक्रेणाभिवृतस्तत्र देवदेव उमापतिः । पुरा नाम्नां सहस्रेण सुरासुरनमस्कृतः ॥ ७१.५९ ॥ शिवप्रसादसम्पन्नो देवराजस्ततोऽभवत् । धनदेन स्तुतस्तत्र देवो लक्षेश्वरः प्रभुः ॥ ७१.६० ॥ मोक्षदा नाम गौरीं च तां देवीं विद्धि भारत । मोक्षेश्वरं सिद्धलिङ्गं सुरासुरनमस्कृतम् ॥ ७१.६१ ॥ सिद्धैर्विद्याधरैर्यक्षैर्गन्धर्वैः किन्नरैर्नरैः । देवत्वं समनुप्राप्तं पञ्चलिङ्गसमर्चनात् ॥ ७१.६२ ॥ कुबेरो मारुतश्चैव वरुणो निरृतिस्तथा । वैवस्वतो यमश्चैव ततश्च नरकेश्वरः ॥ ७१.६३ ॥ तस्य लिङ्गस्य माहात्म्यात्सूर्यपुत्रो महायशाः । अन्यैरभिष्टुतस्तत्र पूर्वं द्वीपेश्वरः प्रभुः ॥ ७१.६४ ॥ भक्त्या नामसहस्रेण स्तुतः पूज्यतमः शिवः । सोमेनातोऽभवत्तत्र शम्भोः शिरसि भूषणम् ॥ ७१.६५ ॥ रोहिण्याऽभ्यर्चिता गौरी सुभगा तेन साभवत् । ऋक्षैर्योगतरैस्तद्वत्स्तुतो देवः पिनाकधृक् ॥ ७१.६६ ॥ ततस्तैर्भास्करेणैव तभः स्थलमलं कृतम् । व्याधयः कालमृत्युश्च चित्रगुप्तश्च लेखकः ॥ ७१.६७ ॥ तथा शक्रः सुरगणैरेतैः परिवृतः प्रभुः । पापिष्ठानां महारौद्रो धर्मिष्ठानां प्रसादवान् ॥ ७१.६८ ॥ कोट्योऽष्टौ चोर्ध्वकेशा रौद्राश्च विकृताननाः । पतिव्रतासहस्रैश्च तथा मासोपवासिभिः ॥ ७१.६९ ॥ किल्किलारवशब्दैश्च धर्मराजपुरोत्तमम् । व्याप्तं तु परितः श्रीमदसंख्यातैर्मनोरमैः ॥ ७१.७० ॥ श्रुत्वा तेषां रवं सार्द्धं धर्मराजः सभासदैः । श्वेतवस्त्रपरीधानः श्वेतमाल्यानुलेपनः ॥ ७१.७१ ॥ पादचारी गतः क्षिप्रं यत्र ते यानसंस्थिताः । कृताञ्जलिपुटो भूत्वा पप्रच्छ शुभकर्मणः ॥ ७१.७२ ॥ यथा शक्तेन योगेन धर्मं धर्मोत्तरं महत् । कस्माद्देशात्समायाताः कथं पुण्यमुपार्जितम् ॥ ७१.७३ ॥ विमानारूढा ऊचुः॒ कुरुक्षेत्रे तपस्तप्तं गङ्गायां च विशेषतः । सर्वेषामेव लोकानां द्वारं तद्धि प्रतिष्ठितम् ॥ ७१.७४ ॥ धर्माधर्मं तव बलं कारणं चेति तत्त्वतः । वाराणसी प्रयागश्च गङ्गासागरसङ्गमः ॥ ७१.७५ ॥ पितृतीर्थं महापुण्यं पुष्करं नैमिषं तथा । केदारं भैरवं चैव तथा रुद्रमहालयम् ॥ ७१.७६ ॥ सरस्वतीरुद्रकोटिः प्रभासं शशिभूषणम् । नानातीर्थसहस्रेषु दानयज्ञतपः कृतम् ॥ ७१.७७ ॥ एतत्ते कथितं सर्वं सूर्यपुत्रमहायशः । अन्ये दृष्ट्वा यथा न्यायं धर्मराजं ततस्तथा ॥ ७१.७८ ॥ ऊचुः सर्वे वचः श्लक्ष्णं धर्मराजं यथोदितम् । न त्वं प्रभुः सुकृतिनां ब्रह्मा विष्णुः शिवः प्रभुः ॥ ७१.७९ ॥ पापकर्मरता ये तु तेषां शास्ता यमः स्वयम् । यम उवाच - गत्वा कैलासमायामि यावत्तावत्प्रतीक्षताम् ॥ ७१.८० ॥ एवमुक्त्वा ययौ राजन् कैलासं स नगोत्तमम् । यस्मिन् शिवाद्यास्ते सर्वे पार्वती षण्मुखस्तथा ॥ ७१.८१ ॥ स्तुवन्ति देवताः सर्वादेवदेवमुमापतिम् । नृत्यन्ति चाग्रतः केचिदुत्पत्य निपतन्ति च ॥ ७१.८२ ॥ तं दृष्ट्वा तादृशं शम्भुं स्तुवन्तं दीप्ततेजसम् । स्तुवन्नामसहस्रेण देवदेवं पिनाकिनम् ॥ ७१.८३ ॥ साष्टाङ्गं च नमस्कृत्य धर्मराजोऽब्रवीदिदम् । येऽस्मत्पुरीं समायातास्तेषां का गतिरुच्यते ॥ ७१.८४ ॥ प्रहसन्नब्रवीद्देवो धर्मराजं युधिष्ठिर । अत्र प्रयान्तु ते सर्वे ये रेवातीरवासिनः ॥ ७१.८५ ॥ अन्यतीर्थनिवासा ये भोगान् भुञ्जन्तु ते दिवि । शिववाक्यं ततः श्रुत्वा ब्रह्माविष्णुर्यथातथम् ॥ ७१.८६ ॥ तुष्टा देवस्य वाक्येन सर्वदेवगणेश्वरुः । आगतः क्षणमात्रेण धर्मराजः पुरोत्तमम् ॥ ७१.८७ ॥ शिवोक्ताः प्रेषिताः सर्वे शिवलोकं युधिष्ठिर । यथा यथा समादिष्टास्ततोऽन्येऽपि शूभान्विताः ॥ ७१.८८ ॥ पुराकल्पे मया दृष्टं कार्त्तिक्यां देवतागमे । ततो गच्छेन्महाराज वैष्णवं तीर्थमुत्तमम् ॥ ७१.८९ ॥ कोकिला नाम विख्यातं सर्वपापविमोक्षणम् । वैष्णवं क्षेत्रमित्याह देवदेवो जनार्दनः ॥ ७१.९० ॥ सपादकोटिस्तीर्थानां तत्रास्ते चैव भारत । उपोष्यैकादशीं पुण्यां दीपमालां प्रबोधयेत् ॥ ७१.९१ ॥ न तस्य पुनरावृत्तिर्मर्त्यलोके दुरासदे । सर्वकामसमृद्धेन विमानाग्रेण भारत ॥ ७१.९२ ॥ असंख्यकालिका तृप्तिः पितॄणां नात्र संशयः । विप्रे च तोषिते तत्र दानसङ्ख्या न विद्यते ॥ ७१.९३ ॥ अत्रान्तरे त्यजेत्प्राणानवशः स्ववशोऽपि वा । दशवर्षसहस्राणि राजा वैद्याधरे पुरे ॥ ७१.९४ ॥ ध्रुवो ध्रुवत्वं स्वर्गे तु तारातेजः समुज्ज्वलन् । मर्त्ययोनिषु सम्भूता भूतग्रामा तथापरे ॥ ७१.९५ ॥ अर्चन्राड्देवदेवस्य दिवि देवत्वमाप्नुवन् । देवपुण्यक्षये मर्त्या भक्त्या पुण्यैश्च देवताः ॥ ७१.९६ ॥ स्वर्गमर्त्यप्रभेदोऽयं धर्माधर्मप्रभेदतः । केनापि तत्प्रकारेण पूजनीयो महेश्वरः ॥ ७१.९७ ॥ यद्वा तद्वा शिवे देयं भक्तियुक्तेन चेतसा । अरुन्धत्या सा भरण्या सावित्र्या च तथा तथा ॥ ७१.९८ ॥ अहल्यया मेनकया मरुत्वत्या च रम्भया । अप्सरोगणसङ्घैश्च सुरसिद्धगणैस्तथा ॥ ७१.९९ ॥ नर्मदातटमाश्रित्य पूजितो येन शङ्करः । तेन वै विपुला भोगाः प्राप्ता मोक्षश्च भारत ॥ ७१.१०० ॥ न पूजयेद्धरं यस्तु शिवमायाविमोहितः । न तस्य स्वर्गमोक्षौ च कैलासं प्रति का कथा ॥ ७१.१०१ ॥ न च स्वर्गस्य राज्यस्य भाजनं च नराधिप । सर्वतीर्थमयी रेवा सर्वदेवमयो हरः ॥ ७१.१०२ ॥ सर्वधर्ममयी बुद्धिः क्षमासत्यमयं तपः । ब्रह्मचर्यं तपोमूलं पञ्चेन्द्रियविनिग्रहः ॥ ७१.१०३ ॥ क्षमा सत्यं जपोऽधीतं तपः संयमलक्षणम् । एतत्ते कथितं राजं शिवेन कथितं पुरा ॥ ७१.१०४ ॥ मया च तव राजेन्द्र भ्रातॄणां च विशेषतः । न सामान्यतरा देवी कथिता या मया तव ॥ ७१.१०५ ॥ द्वीपेश्वरः कपिलेश्वरस्तथा वै नरकेश्वरः । एतान् देवान् समुत्थाय यथावत्परिकीर्तयेत् ॥ ७१.१०६ ॥ सर्वतीर्थफलं प्राप्य शिवलोके महीयते । अघौघे च परिक्षीणे प्राप्यते सप्तकल्पगा ॥ ७१.१०७ ॥ शिवः संनिहितो यस्यां शिवक्षेत्रं ततः परम् । श्रवणात्कीर्तनादस्य शिवलोके महीयते ॥ ७१.१०८ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे द्वीपेश्वरवर्णनो नामैकसप्ततितमोऽध्यायः ॥ अध्याय ७२ मार्कण्डेय उवाच - नर्मदासङ्गमं पुण्यं सुरसिद्धनिषेवितम् । तत्र स्नात्वा दिवं यान्ति पूजयित्वा महेश्वरम् ॥ ७२.१ ॥ आगच्छन्ती पुरा लोके नर्मदा भरतर्षभ । स्तुता पूर्वं नमस्कृत्य देवैर्ब्रह्मर्षिभिस्तथा ॥ ७२.२ ॥ त्वया पवित्रितं पुण्यं मर्त्यलोकं चराचरम् । अपां रूपगता रेवा हरस्य परमा कला ॥ ७२.३ ॥ उमा कात्यायनी गङ्गा यमुना च सरस्वती । चामुण्डा चर्चिका देवी रेवा त्वं सप्तकल्पगा ॥ ७२.४ ॥ शिवजा प्रवहा पुण्या मेकलाद्रिसुता स्तुता । यज्ञयूपा च मूर्धा च स्वर्गमोक्षप्रदा तथा ॥ ७२.५ ॥ तारिणी सर्वभूतानां पापघ्नी च तरङ्गिणी । लक्ष्मीः स्वाहा स्वधा चैव पुरुहूता यशस्विनी ॥ ७२.६ ॥ त्वया व्याप्तं जगत्कृत्स्नमपां रूपेण सुव्रते । सङ्गमं सिद्धलिङ्गं च सुरासुरनमस्कृतम् ॥ ७२.७ ॥ अत्र दत्तं हुतं सर्वमेतद्भवति चाक्षयम् । अत्यद्भुतं महाराज नर्मदास्नानमर्चनम् ॥ ७२.८ ॥ अनेकानि सहस्राणि विमानानि युधिष्ठिर । नानारत्नप्रभाजालैः सूर्यकोटिसमानि च ॥ ७२.९ ॥ गतानि धर्मराजस्य पुरीं वीणादिनिः स्वनैः । नादयन्ति दिवं भूमिं वेदनिर्घोषणादिभिः ॥ ७२.१० ॥ एकस्मिन् समये दृष्ट्वाश्चर्यं वैवस्वतो नृपः । अत्रिश्चैव वशिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥ ७२.११ ॥ इत्याद्याः सप्त मुनयो धर्माधर्मविचारकाः । शिवेन स्थापिताः पूर्वं हरिणा ब्रह्मणा तथा ॥ ७२.१२ ॥ युधिष्ठिर उवाच - अक्षीणकर्मबन्धुस्तु पुरुषो मुनिसत्तम । परं पदमवाप्नोति तन्मे कथय कल्पग ॥ ७२.१३ ॥ मार्कण्डेय उवाच - विष्णुना कथितं पूर्वं ब्रह्मणे च महात्मने । प्रपद्ये पुण्डरीकाक्षं देवं नारायणं हरिम् ॥ ७२.१४ ॥ लोकनाथं सहस्राक्षमक्षरं परमं पदम् । भगवन्तं प्रपद्येऽहं भूतभव्यभवत्प्रभुम् ॥ ७२.१५ ॥ स्रष्टारं सर्वभूतानामनन्तबलपौरुषम् । पद्मनाभं हृषीकेशं प्रपद्ये सत्यमव्ययम् ॥ ७२.१६ ॥ हिरण्यगर्भं भूगर्भममृतं विश्वतोमुखम् । अनश्वरमनाथं च प्रपद्ये भास्करद्युतिम् ॥ ७२.१७ ॥ सहस्रशिरसं देवं वैकुण्ठं तार्क्ष्यवाहनम् । प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥ ७२.१८ ॥ नारायणं हरिं चैव योगात्मानं सनातनम् । शरण्यं सर्वलोकानां प्रपद्ये ध्रुवमीश्वरम् ॥ ७२.१९ ॥ यः प्रभुः सर्वभूतानां येन सर्वमिदं ततम् । यः संहारकरो देवः स मे विष्णुः प्रसीदतु ॥ ७२.२० ॥ यस्माज्जातः पुरा ब्रह्मा पद्मयोनिः प्रजापतिः । प्रसीदतु स मे विष्णुः पितामहपरः प्रभुः ॥ ७२.२१ ॥ पुरा लये तु संप्राप्ते नष्टे लोके चराचरे । एकस्तिष्ठति योगात्मा स मे विष्णुः प्रसीदतु ॥ ७२.२२ ॥ जयेद्यः पृथिवीं सत्यं कालो धर्मः क्रियाफलम् । गणाकारः स तां वाचो वासुदेवः प्रसीदतु ॥ ७२.२३ ॥ योगावास नमस्तुभ्यं सर्वावास वरप्रद । यज्ञभोगिन् पञ्चभोगिन्नारायण नमोऽस्तु ते ॥ ७२.२४ ॥ चतुर्मूर्ते जगद्धाम लक्ष्मीवास वरप्रद । विश्वावास नमस्तेऽस्तु साक्षीभूत जगत्पते ॥ ७२.२५ ॥ अजेयः षड्विभागैकविश्वमूर्तिर्वृषाकपिः । मृगाधिपश्च कालश्च नमस्ते ज्ञानसागर ॥ ७२.२६ ॥ अव्यक्तादण्डमुत्पन्नमव्यक्तादपरः प्रभुः । यस्मात्परतरं नास्ति तमस्मि शरणं गतः ॥ ७२.२७ ॥ चिन्तयन्तो हि यं नित्यं ब्रह्मेशानादयः प्रभुम् । एकांशेन जगत्सर्वं यो विष्टभ्य विभुः स्थितः ॥ ७२.२८ ॥ अग्राह्यो निर्गुणः शास्ता तमस्मि शरणं गतः । दिवाकरस्य सोमस्य मध्ये ज्योतिरिव स्थितम् ॥ ७२.२९ ॥ क्षेत्रज्ञ इति यं प्राहुः स महात्मा प्रसीदतु । सांख्ययोगेन ये चान्ये सिद्धाश्चैव महर्षयः ॥ ७२.३० ॥ यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु । नमस्ते सर्वतोभद्र सर्वतोऽक्षिशिरोमुख ॥ ७२.३१ ॥ निर्विकार नमस्तेऽस्तु आदिकल्प हृदि स्थित । अतीन्द्रिय नमस्तुभ्यं परमात्मन्नमोऽस्तु ते ॥ ७२.३२ ॥ ये च त्वामभिजानन्ति संसारे न वसन्ति ते । रागद्वेषविनिर्मुक्ता लोभमोहविवार्जिताः ॥ ७२.३३ ॥ अशरीरः सुगुप्तः सन् सर्वदेहेषु तन्मयः । अव्यक्तबुद्ध्यहंकारमहाभूतेन्द्रियाणि च ॥ ७२.३४ ॥ त्वयि तानि न तेषु त्वं ते च तानि न तु स्वयम् । अव्यक्तो नातिकूटस्थो गुणानां प्रभुरीश्वरः ॥ ७२.३५ ॥ आवर्तो हेतुरहितः प्रभुः स्वात्मव्यवस्थितः । नमस्ते पुण्डरीकाक्ष वासुदेव नमोऽस्तु ते ॥ ७२.३६ ॥ ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते । भक्तानां मुक्तिदस्त्वं च गुरुश्च त्रिदशेश्वरः ॥ ७२.३७ ॥ समे भूतपतिस्त्वं हि प्रभुर्जन्मनि जन्मनि । अहंकारेण बद्धो वा तथा सत्त्वादिभिर्गणैः ॥ ७२.३८ ॥ पृथिवीं यातु मे घ्राणं यातु मे रसनाजलम् । चक्षुर्हुताशनं यातु स्पर्शो मे यातु मारुतम् ॥ ७२.३९ ॥ शब्दश्चाकाशमायातु मनो वै कारणं तथा । अहंकारश्च मे बुद्धिं त्वयि बुद्धिर्ममास्त्विति ॥ ७२.४० ॥ वियोगः सर्वकरणैर्गुणैर्भूतैस्तथाऽस्तु मे । सत्त्वं रजस्तमश्चैव प्रकृतिं स्वां विशन्तु मे ॥ ७२.४१ ॥ प्रभोः प्रभुमनवद्यं प्रपद्येऽहं नरः प्रभुम् । सहस्रशिरसं देवं महर्षिं भूतभावनम् ॥ ७२.४२ ॥ ब्रह्मयोनिश्च विश्वस्य स मे विष्णुः प्रसीदतु । ब्रह्मपत्न्यां प्रलीयन्ते नष्टे स्थावरजङ्गमे ॥ ७२.४३ ॥ आहूतसंप्लवे चैव लीयते प्रकृतौ महत् । हूयते च पुनस्ताभ्यां स मे विष्णुः प्रसीदतु ॥ ७२.४४ ॥ अग्निसोमार्कदेवानां ब्रह्मरुद्रेन्द्रयोगिनाम् । यस्ते जयति तेजांसि स मे विष्णुः प्रसीदतु ॥ ७२.४५ ॥ अजस्त्वं जगतः पन्था अमूर्तिर्वीश्वमूर्तिजित् । नवं प्रधानं च महान् पुरुषश्चेतनोऽलसः ॥ ७२.४६ ॥ अगोप्यो यः परतरस्तमेव शरणं गतः । सोमसूर्योपमस्तेजो योऽवतारयति स्वयम् ॥ ७२.४७ ॥ विजायन्ते दिशो यस्मात्स महात्मा प्रसीदतु । गुणवान्निर्गुणश्चैव चेतनोऽचेतनो स्वगः ॥ ७२.४८ ॥ सूक्ष्मः सर्वगतो देहः स महात्मा प्रसीदतु । सूर्यमध्ये स्थितः सोमस्तस्य मध्ये तु संस्मृतः ॥ ७२.४९ ॥ भूतत्वाद्योऽचलो दीप्तः स महात्मा प्रसीदतु । एकत्वात्तव नानात्वं ये विदुर्यान्ति ते परम् ॥ ७२.५० ॥ समः सर्वेषु भूतेषु प्रद्वेष्यात्मजनप्रियः । समं भजत्यनाकाङ्क्षी भजते नान्यचेतसः ॥ ७२.५१ ॥ योऽयं सर्वात्मना ज्ञेयः स मे विष्णुः प्रसीदतु । चराचरमिदं सर्वं भूतग्रामं चतुर्विधम् ॥ ७२.५२ ॥ त्वयि तं तन्तुवत्प्रोतं सूत्रे मणिगणा इव । न ते धर्मो ह्यधर्मोऽस्ति न गर्भो जन्म वा पुनः ॥ ७२.५३ ॥ जराजन्मविमोक्षार्थं तमेव शरणं गतः । इन्द्रियाणि गुणश्चैव श्वासोच्छ्वासश्च योनिषु ॥ ७२.५४ ॥ केवलं दारुवद्देहं नश्यं यत्परमापदम् । स्वयमेकाकिभावो मे जन्मतोऽत्र पुनर्भवः ॥ ७२.५५ ॥ त्वद्बुद्धिस्त्वद्गतप्राणा त्वद्भक्तस्त्वत्परायणः । त्वामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते ॥ ७२.५६ ॥ पूर्वदेहे कृता ये तु व्याधयः प्रविशन्तु माम् । वातादयश्च दुःखानि ऋणं तन्मुञ्चतात्प्रभो ॥ ७२.५७ ॥ श्रेयसां च परं श्रेयस्त्वन्येषां च यशस्विनाम् । सर्वपापविशुद्ध्यर्थं पुण्यं यत्परमं पदम् ॥ ७२.५८ ॥ प्रातरुत्थाय सततं मध्याह्ने च दिनक्षये । अजस्रं च तथा जप्यं सर्वपापोपशान्तिदम् ॥ ७२.५९ ॥ हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम् । प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ॥ ७२.६० ॥ गोवर्धनधरं देवं गोब्राह्मणहिते रतम् । प्रणतोऽस्मि गदापाणिं स मे पापं व्यपोहतु ॥ ७२.६१ ॥ शङ्खिनं चक्रिणं विष्णुं शार्ङ्गिणं मधुसूदनम् । प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ॥ ७२.६२ ॥ दामोदरं मुदा युक्तं पुण्डरीकाक्षमव्ययम् । प्रणतोऽस्मि स्थितं स्थित्यै स मे पापं व्यपोहतु ॥ ७२.६३ ॥ नारायणं नरं सौम्यं माधवं च जनार्दनम् । श्रीवत्सं श्रीवपुः श्रीमच्छ्रीधरं श्रीनिकेतनम् ॥ ७२.६४ ॥ प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु । यमीशं सर्वभूतानां ध्यायन्ति च तमक्षरम् ॥ ७२.६५ ॥ वासुदेवमनिर्देश्यं तमस्मि शरणं गतः । सर्वबन्धविनिर्मुक्तो यं प्रविश्य पुनर्भवम् ॥ ७२.६६ ॥ पुरुषो नैव प्राप्नोति तमस्मि शरणं गतः । कृत्वा ब्रह्मवपुः सर्वं सदेवासुरमानुषम् ॥ ७२.६७ ॥ यः करोति पुनः सृष्टिं तमस्मि शरणं गतः । ब्रह्मरूपधरं देवं योनिरूपं जनार्दनम् ॥ ७२.६८ ॥ सृष्टित्वे संस्थितं नित्यं प्रणतोऽस्मि जनार्दनम् । यस्मान्नान्यत्परं किंचिद्यस्मिन् सर्वमिदं जगत् ॥ ७२.६९ ॥ यः सर्वमध्यगोऽनन्तः सर्वगं तं नमाम्यहम् । योऽस्ति भूतेषु सर्वेषु स्थावरे जङ्गमेषु च ॥ ७२.७० ॥ विष्णुरेव स वै पापं ममाशेषं प्रणश्यतु । न वृत्तं निर्वृतं कर्म विष्णोर्यत्कर्म वा कृतम् ॥ ७२.७१ ॥ अनेकजन्मकर्मोत्थं पापं नश्यति मे तथा । निशायां च तथा प्रातर्मध्याह्णे चापराह्णयोः ॥ ७२.७२ ॥ अज्ञानाच्च कृतं पापं कर्मणा मनसा गिरा । यत्कृतं चाशुभं किंचित्तत्सर्वं नश्यतु क्षणात् ॥ ७२.७३ ॥ तत्सर्वं विलयं यातु तोयेषु लवणं यथा । परपीडां च निन्दां च कुर्वतो जन्म नार्जितम् ॥ ७२.७४ ॥ परद्रव्यपरक्षेत्रवाञ्छा क्रोधोद्भवं च यत् । तत्सर्वं विलयं यातु तोयेषु लवणं यथा ॥ ७२.७५ ॥ विष्णवे वासुदेवाय हरये केशवाय च । जनार्दनाय कृष्णाय नमो भूयो नमो नमः ॥ ७२.७६ ॥ नाभागो नाम राजर्षिर्नर्मदातीरसङ्गमे । चकार स्तोत्रमतुलं वैष्णवं तु प्रजापतिः ॥ ७२.७७ ॥ ब्रह्मणोऽङ्गिरसा प्राप्तं तस्मादिन्द्रेण भारत । वशिष्ठः श्रावयामास नाभागं राजसत्तमम् ॥ ७२.७८ ॥ स्नात्वा च नर्मदातोये दत्त्वा दानान्यनेकशः । कामिकं यानमारुह्य नाभागः स्वपुरीं ययौ ॥ ७२.७९ ॥ स्तौति नामसहस्रेण यः स्तवेन जनार्दनम् । न तस्य पुनरावृत्तिर्घोरे संसारसागरे ॥ ७२.८० ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे विष्णुस्तुतिर्नाम द्विसप्ततितमोऽध्यायः ॥ अध्याय ७३ मार्कण्डेय उवाच - ततो गच्छेच्च राजेन्द्र मेघनादमिति स्मृतम् । जलमध्ये महादेवो यत्र तिष्ठत्यदर्शितः ॥ ७३.१ ॥ युधिष्ठिर उवाच - जलमध्ये महादेवस्तिष्ठते केन हेतुना । उत्तरं दक्षिणं कूलं वर्जयित्वा द्विजोत्तम ॥ ७३.२ ॥ मार्कण्डेय उवाच - एतदाख्यानमतुलं पुण्यं श्रुतिसुखावहम् । पुराणे यच्छ्रुतं तात तत्ते वक्ष्याम्यशेषतः ॥ ७३.३ ॥ पुरा त्रेतायुगे तात पौलस्त्यो देवकण्टकः । त्रिलोकविजयी रौद्रः सुरासुरभयंकरः ॥ ७३.४ ॥ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । अवध्यो वरदानेन यत्र पर्यटते महीम् ॥ ७३.५ ॥ तत्र देवगिरौ रम्ये दानवो बलदर्पितः । मयो नामेति विख्यातो महानासीन्नृपेश्वर ॥ ७३.६ ॥ रावणस्तं ततो गत्वा विनयावनतः स्थितः । पूजितो दानसंमानैर्मयं वचनमब्रवीत् ॥ ७३.७ ॥ कस्येयं पद्मपत्राक्षी पूर्णचन्द्रनिभानना । किं नामधेया तपते तप उग्रं कथं विभो ॥ ७३.८ ॥ मय उवाच - दानवानां पतिः श्रेष्ठो मयोऽहं नामनामतः । भार्या तेजवती नाम ममेयं तनया शुभा ॥ ७३.९ ॥ मन्दोदरीति विख्याता तपते पतिकारणात् । श्रुत्वा तु वचनं तस्य रावणो मददर्पितः ॥ ७३.१० ॥ प्रश्रितः प्रणतो भूत्वा मयं वचनमब्रवीत् । पौलस्त्यो नाम राजाहं देवदानवदर्पहा ॥ ७३.११ ॥ प्रार्थयामि महाभाग सुतां त्वं दातुमर्हसि । ज्ञात्वा पैतामहं वंशं मयेनापि महात्मना ॥ ७३.१२ ॥ सुता दत्ता रावणाय कृत्वा विधिविधानतः । गृहीत्वा तां तदा रक्षः पूज्यमानो निशाचरैः ॥ ७३.१३ ॥ दिव्यैर्यानैर्विमानैश्च क्रीडते तु तया सह । पुत्रं पुत्रवतां श्रेष्ठो जनयामास भारत ॥ ७३.१४ ॥ तेनैव जातमात्रेण रवो मुक्तो महात्मना । संवर्तकस्य मेघस्य येन लोको जडीकृतः ॥ ७३.१५ ॥ श्रुत्वा तन्निनदं घोरं त्रस्तो लोकपितामहः । नाम चक्रे तदा तस्य मेघनादो भविष्यति ॥ ७३.१६ ॥ एतन्नामकृतं सोऽपि परमं व्रतमास्थितः । भावयामास देवेशमुमया सह शङ्करम् ॥ ७३.१७ ॥ व्रतैर्नियमदानैश्च होमैर्जाप्यैर्विधानतः । कृच्छ्रचान्द्रायणैर्दिव्यैः क्लिश्यते च कलेवरम् ॥ ७३.१८ ॥ एवमन्यद्दिने तात कैलासं धरणीधरम् । गत्वा लिङ्गमयं प्राप्य प्रस्थितो दक्षिणामुखः ॥ ७३.१९ ॥ नर्मदातटमाश्रित्य स्नातुकामो महाबलः । निक्षिप्यापूजयद्देवं कृत्वा जाप्यं जनेश्वरः ॥ ७३.२० ॥ गन्तुकामः परं मार्गं लङ्कायां नृपसत्तम । एकं समुद्धृतं लिङ्गं गृहितं सव्यपाणिना ॥ ७३.२१ ॥ प्रथमं च द्वितीयं च भक्त्या पौलस्त्यनन्दनः । तदा देवमहालिङ्गं पतितं नर्मदाम्भसि ॥ ७३.२२ ॥ पाहि पाहीति तेनोक्तो लिङ्गेन परमेष्ठिना । द्वितीयं पतितं तावदुत्तरे नर्मदातटे ॥ ७३.२३ ॥ मेघनादेति विख्यातं लिङ्गं तत्र सुशोभनम् । मध्यमेश्वरनामेति जलमध्ये व्यवस्थितम् ॥ ७३.२४ ॥ यावदुद्धर्तुकामोऽसौ सप्तपातालमागमत् । देवयोर्निश्चयं ज्ञात्वा निवृत्तोऽसौ निशाचरः ॥ ७३.२५ ॥ जगामाकाशमाविश्य पूज्यमानो निशाचरैः । तदा प्रभृति तत्तीर्थं मेघनादेति विश्रुतम् ॥ ७३.२६ ॥ मेघारवेति विख्यातमुत्तरे खेटकः शुभः । पूर्वे तु गर्जनं नाम सर्वपापक्षयंकरम् ॥ ७३.२७ ॥ तस्मिंस्तीर्थे तु राजेन्द्र यस्तु स्नानं समाचरेत् । अहोरात्रोषितो भूत्वा स लभेच्छाश्वतं शुभम् ॥ ७३.२८ ॥ पिण्डदानं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । तेन द्वादश वर्षाणि पितरस्तर्पिता दिवि ॥ ७३.२९ ॥ यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप । यत्फलं योगिनां तत्र लभते नात्र संशयः ॥ ७३.३० ॥ अग्निवेशं जले वापि अथवापि ह्यनाशकम् । अनिवर्तिका गतिस्तस्य स्यादिदं शङ्करोऽब्रवीत् ॥ ७३.३१ ॥ एवं ते नरशार्दूल गर्जितेश्वरमुत्तमम् । कथितं स्मरणादेव सर्वपापक्षयं करम् ॥ ७३.३२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे मेघनादेश्वरमहिमानुवर्णनो नाम त्रिसप्ततितमोऽध्यायः ॥ अध्याय ७४ मार्कण्डेय उवाच - ततो गच्छेच्च राजेन्द्र दारुतीर्थमनुत्तमम् । दारुको यत्र संसिद्धिमिन्द्रस्य दयितः सखा ॥ ७४.१ ॥ युधिष्ठिर उवाच - दारुकेण कथं तात तपश्चीर्णं पुराऽनघ । विधानं श्रोतुमिच्छामि सर्वपापक्षयं करम् ॥ ७४.२ ॥ मार्कण्डेय उवाच - अहं ते कथयिष्यामि विचित्रं यत्पुरातनम् । वृत्तं समभवत्तत्र ऋषीणां भावितात्मनाम् ॥ ७४.३ ॥ सूतो वज्रधरस्यासीत्मातलिर्नामनामतः । स पुत्रं शप्तवान् पूर्वं कथंचित्कारणान्तरे ॥ ७४.४ ॥ शापहेतोर्वेपमान इन्द्रस्य चरणौ शुभौ । प्रपीड्य तत्र देवेन्द्रं विज्ञापयति भारत ॥ ७४.५ ॥ मम ताताभिशप्तस्य अनाथस्य सुरेश्वर । कर्मणा केन शापस्य घोरस्यान्तो भविष्यति ॥ ७४.६ ॥ शक्र उवाच - नर्मदातटमाश्रित्य तोषय त्वं महेश्वरम् । तिष्ठ यावद्युगस्यान्तं पुनर्जननमाप्स्यसि ॥ ७४.७ ॥ पुनर्भूत्वा यदुकुले दारुको नाम नामतः । आरोहयित्वा देवेशं शङ्खचक्रगदाधरम् ॥ ७४.८ ॥ मानुषं तत्र सम्पन्नं ततः सिद्धिमवाप्स्यसि । एवमुक्तस्तु देवेन सहस्राक्षेण भारत ॥ ७४.९ ॥ प्रणम्य शिरसा भूमिमागतोऽसौ हतप्रभः । नर्मदा तटमाश्रित्य कर्शितस्वकलेवरः ॥ ७४.१० ॥ व्रतोपवार्सैर्विविधैर्जपहोमपरायणः । महादेवं महात्मानं वरदं शूलपाणिनम् ॥ ७४.११ ॥ अभजत्परया भक्त्या यावदाहूतसम्प्लवम् । अंशावतरणे विष्णोस्ततो भूत्वा महामतिः ॥ ७४.१२ ॥ तोषयित्वा जगन्नाथं ततो यातः स सद्गतिम् । एष ते सम्भवस्तात दारुतीर्थस्य सुव्रत ॥ ७४.१३ ॥ कथितस्तु मया पूर्वं यथा मे शङ्करोऽब्रवीत् । ततो युधिष्ठिरो राजा विस्मयाविष्टचेतनः ॥ ७४.१४ ॥ भ्रान्तोऽवलोकयामास स्तब्धरोमा मुहुर्मुहुः । तस्मिंस्तीर्थे नरः स्नात्वा विधिपूर्वं नरेश्वर ॥ ७४.१५ ॥ उपास्य सभ्यां तत्रैव संतर्प्य पितृदेवताः । देहत्यागं च तत्रैव यः करोति समाहितः ॥ ७४.१६ ॥ सोऽश्वमेधफलं प्राप्य रमते शिवसन्निधौ । तस्मिंस्तीर्थे तु यो भक्त्या भोजयेद्ब्राह्मणं शुचिः ॥ ७४.१७ ॥ स तु विप्रसहस्रस्य लभते फलमुत्तमम् । स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ॥ ७४.१८ ॥ यत्कृतं तु शुभं तत्र तत्सर्वं लभतेऽक्षयम् ॥ ७४.१९ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे दारुतीर्थतमहिमानुवर्णनो नाम चतुःसप्ततितमोऽध्यायः ॥ अध्याय ७५ मार्कण्डेय उवाच - ततो गच्छेच्च राजेन्द्र देवतीर्थमनुत्तमम् । यत्र देवास्त्रयस्त्रिंशत्तप्त्वा सिद्धिं परां गताः ॥ ७५.१ ॥ पुरा देवासुरे युद्धे दानवैर्बलदर्पितैः । इन्द्रो देवगणैः सार्द्धं स्वराज्याच्च्यावितो भृशम् ॥ ७५.२ ॥ हस्त्यश्वरथयानौघैर्मर्दयित्वा च वाहिनीम् । विशक्ता भेजिरे मार्गं प्रहारैर्जर्जरीकृताः ॥ ७५.३ ॥ जम्भशुम्भनिशुम्भाद्यैस्तु हुण्डग्रहकैः सह । बलिभिर्बाधिताः सर्वे ब्रह्माणमुपतस्थिरे ॥ ७५.४ ॥ प्रणम्य शिरसा देवं ब्रह्माणं परमेष्ठिनम् । व्यज्ञापयन्त देवेशमिन्द्राग्निकपुरोगमाः ॥ ७५.५ ॥ पश्य पश्य महाभाग दानवैराकुलीकृताः । बाधिताः पुत्रदाराभ्यां त्वामेव शरणं गताः ॥ ७५.६ ॥ परित्रायस्व देवेश सर्वलोकपितामह । नान्या गतिः सुरेशान मुक्त्वा त्वां परमेष्ठिनम् ॥ ७५.७ ॥ ब्रह्मोवाच - दानवानां विघातार्थं नर्मदातटमाश्रिताः । तपः कुरुत भो देवास्तपो हि परमं बलम् ॥ ७५.८ ॥ नान्योपायो न वै मन्त्रो न विद्या न च विक्रमः । विना रेवाजलं पुण्यं सर्वपापक्षयं करम् ॥ ७५.९ ॥ दारिद्र्यव्याधिमरणबन्धनव्यसनानि च । एतानि चैव पापस्य फलानीति मतिर्मम ॥ ७५.१० ॥ एवं ज्ञात्वा विधानेन तपः कुरुत दुष्करम् । पूज्यते शाम्भवं सर्वैः प्राप्नुयाताभयं ततः ॥ ७५.११ ॥ तच्छ्रुत्वा वचनं देवा ब्रह्मणः परमेष्ठिनः । नर्मदामागताः सर्वे तदेन्द्राग्निपुरोगमाः ॥ ७५.१२ ॥ विचेरुस्तत्र विपुलं तपः परमदुःसहम् । सकल्पैः परमां राजंस्तत्ते सिद्धिमवाप्नुवन् ॥ ७५.१३ ॥ तदा प्रभृति तत्तीर्थं देवतीर्थमिति श्रुतम् । गीयते सर्वलोकेषु सर्वपापक्षयंकरम् ॥ ७५.१४ ॥ तत्र श्रद्धात्मना योऽपि विधिनापि समन्वितः । स्नानं समाचरेद्भक्त्या स लभेन्मौक्तिकं फलम् ॥ ७५.१५ ॥ यस्तमर्चयते देवं सर्वदेवैस्तु पूजितम् । लभते चाश्वमेधस्य फलं यागस्य चोत्तमम् ॥ ७५.१६ ॥ यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप । तत्र देवशिला रम्या महापुण्याद्रिर्वधिनी ॥ ७५.१७ ॥ संन्यासेन मृतानां तु नराणामक्षया गतिः । अग्निप्रवेशं यः कुर्याद्देवतीर्थे युधिष्ठिर ॥ ७५.१८ ॥ रुद्रलोके वसेत्तावद्यावदाहूतसम्प्लवम् । एवं स्नानं जपो होमः स्वाध्यायो देवतार्चनम् ॥ ७५.१९ ॥ सुकृतं दुष्कृतं वापि तत्र तीर्थेऽक्षयं भवेत् । एतावद्विधिरुद्दिष्टा उत्पत्तिश्चैव भारत ॥ ७५.२० ॥ देवतीर्थस्य चरितं सर्वतीर्थेष्वनुत्तमम् ॥ ७५.२१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे देवतीर्थमहिमानुवर्णनो नाम पञ्चसप्ततितमोऽध्यायः ॥ अध्याय ७६ मार्कण्डेय उवाच - ततोगच्छेच्च राजेन्द्र गुहावासीति चोत्तमम् । यत्र सिद्धो महादेवो गुहावासीति शङ्करः ॥ ७६.१ ॥ युधिष्ठिर उवाच - केन कार्येण विप्रेन्द्र गुहावासीति शङ्करः । एतद्विस्तरतः सर्व कथयस्व ममानघ ॥ ७६.२ ॥ श्रोतुमिच्छाम्यहं देव सर्वं कौतूहलं हि मे । मार्कण्डेय उवाच - महाप्रश्नः कृतो मां यो महाप्राज्ञ नरेश्वर ॥ ७६.३ ॥ पुराणे विस्तरोऽप्यस्य न शक्यो हि मयाधुना । वृद्धभावात्कथयितुमहं च बहुकालिकः ॥ ७६.४ ॥ पूर्व दारुवने विप्रा वसन्ति स्म सुरैः समाः । ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥ ७६.५ ॥ स्वधर्मनिरतानां च कथितं परमं पदम् । तावद्वसन्तसमये कस्मिंश्चित्कारणान्तरे ॥ ७६.६ ॥ विमानस्थो महादेवो गम्यमानोमया सह । ददर्श च जनावासं वेदध्वनिनिनादितम् ॥ ७६.७ ॥ अगतागतसंवासं सर्वपापक्षयं करम् । तद्दृष्ट्वा मुदितां देवीं हर्षगद्गदया गिरा ॥ ७६.८ ॥ उवाच वचनं देवो दृष्ट्वा तापसयोषितः । नान्यं देवं न वै धर्मं ध्यायन्ति हिमनन्दिनि ॥ ७६.९ ॥ एतच्छ्रुत्वा परं वाक्यं देवदेवेन भाषितम् । कौतूहलसमाविष्टा शङ्करं पुनरब्रवीत् ॥ ७६.१० ॥ यत्त्वयोक्तं महादेव पतिधर्मपरास्त्रियः । तासामनङ्गो भूत्वा त्वं चरित्रं क्षोभय प्रभो ॥ ७६.११ ॥ महादेव उवाच - त्वयोक्तं वचनं देवि न चैतद्रोचते प्रिये । ब्राह्मणा हि महाभागा न तेषां विप्रियं चरेत् ॥ ७६.१२ ॥ मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः । चक्रात्तीक्ष्णतरो मन्युस्तस्माद्विप्रं न कोपयेत् ॥ ७६.१३ ॥ न ते देवा न ते लोकास्ते नागा नासुरास्तथा । दृश्यन्ते च त्रिभिर्लोकैरेतैरुष्टैर्न वञ्चिताः ॥ ७६.१४ ॥ तेषां क्षोभकरः प्रायः स्वर्गभोगफलच्युतः । येषां तुष्टा महाभागा ब्राह्मणाः क्षितिदेवताः ॥ ७६.१५ ॥ तेषां धर्मस्तथार्थश्च कामो मोक्षो न संशयः । एवं ज्ञात्वा महाभागे आग्रहस्त्यज्यतामयम् ॥ ७६.१६ ॥ एतल्लोकविरुद्धं हि यदीच्छसि वशे सुखम् । देव्युवाच - नाहं ते दयिता देव नाहं ते वशवर्तिनी ॥ ७६.१७ ॥ अन्यायधर्षणां चात्र सर्वासां कुरु सुव्रत । लोकालोके महादेव अशक्यं नास्ति ते विभो ॥ ७६.१८ ॥ क्रियतां मम देवैतत्परं कौतूहलं प्रभो । एवमुक्तो महादेवो देव्याः प्रियहिते रतः ॥ ७६.१९ ॥ कृत्वा कापालिकं रूपं ययौ दारुवनं प्रति । महाहिनां जटाजूटं नियम्य शशिभूषणः ॥ ७६.२० ॥ कङ्कत्राणं परं कृत्वा तथा सौवर्णकुण्डले । व्याघ्रचर्मपरीधानो हारकेयूरभूषितः ॥ ७६.२१ ॥ नूपुरारावनिर्घोषैः कम्पयंश्च वसुन्धराम् । महाडमरुघोषेण वीरघण्टानिनादिना ॥ ७६.२२ ॥ प्रभातसमये प्राप्ते तत्र दारुवनं गत । तावद्विप्रजनः सर्वः पुष्पमूलफलाशनः ॥ ७६.२३ ॥ निर्गतो बहुभिः सार्धं पठ्यमान इतस्ततः । तद्दृष्ट्वा महदाश्चर्यरूपं देवस्य भारत ॥ ७६.२४ ॥ युवतीजनः प्रमत्तश्च कामेन कलुषीकृतः । सुरूपं परमं दृष्ट्वा सर्वास्ताश्च वराननाः ॥ ७६.२५ ॥ क्लेशभावं तदागच्छन् याश्च दारुवने स्त्रियः । विकारा बहवस्तासां देवं दृष्ट्वा मनोजवम् ॥ ७६.२६ ॥ संजाता विप्रपत्नीनां तां शृणुष्व नृपोत्तम । परिधानं न जानन्ति परिभ्रष्टं करोद्यताः ॥ ७६.२७ ॥ दातुकामा तथा भैक्ष्यं चेष्टितुं नैव शक्यते । काचिद्दृष्ट्वा महादेवं रूपयौवनगर्विता ॥ ७६.२८ ॥ उत्सङ्गे संस्थितं वालं पतितं व्यस्मरत्ततः । कामबाणहता चान्या बाहुभ्यां पीडति स्तनौ ॥ ७६.२९ ॥ निःश्वसन्ती तथा चान्या न किंचित्परिजल्पते । एवमक्षोभयत्सर्वा महेशः पतिदेवताः ॥ ७६.३० ॥ चालितास्ता विदित्वा तु निर्जग्मुर्द्वारिसत्वराः । संचिताः परमं कृत्वा सर्वा देवो महेश्वरः ॥ ७६.३१ ॥ क्षोभयित्वा गणं स्त्रीणां गतश्चादर्शनं च तम् । ततो विप्रगणः सर्वः समायातो ददर्श ह ॥ ७६.३२ ॥ क्षोभितं स्त्रीजनं सर्वं हरेण क्रोधमाविशत् । क्रोधाविष्टो द्विजः कश्चिद्दण्डमुद्यम्य धावति ॥ ७६.३३ ॥ कुठारहस्तो ह्यपरस्तथान्यो दर्भमुष्टिमान् । इतश्चेतश्च ते सर्वे भ्रमित्वा तच्च काननम् ॥ ७६.३४ ॥ एकीभूता महात्मानो व्याजहुश्च रुषा गिरम् । यदि दत्तं हुतं किंचिद्गुरवस्तोषिता यदि ॥ ७६.३५ ॥ तेन सत्येन देवस्य लिङ्गं पततु भूतले । एवं सत्यप्रभावेण वचनेन द्विजन्मनाम् ॥ ७६.३६ ॥ देवस्य पश्यतो लिङ्गं पतितं धरणीतले । हाहाकारो महानासील्लोकालोके तु भारत ॥ ७६.३७ ॥ देवस्य पतितं लिङ्गं जगत्येव महाक्षयम् । पतमानस्य लिङ्गस्य शब्दोऽभूत्तत्र दारुणः ॥ ७६.३८ ॥ पतन्ति पर्वताग्राणि शोषमायान्ति सागराः । देवस्य पतिते लिङ्गे विमानैर्देवदानवाः ॥ ७६.३९ ॥ समेत्य सहिताः सर्वे ब्रह्मणा परमेष्ठिना । कृताञ्जलिपुटा देवं स्तुवन्ति विविधैः स्तवैः ॥ ७६.४० ॥ ततस्तुष्टो जगन्नाथो देवानां वरदोऽभवत् । देवोऽपि पतिते लिङ्गे शापेन धरणीतले ॥ ७६.४१ ॥ गत्वा दारुवनं विप्रांस्तोषयामास भारत । विश्वामित्रो वशिष्ठाद्या जाबालिरथ काश्यपः ॥ ७६.४२ ॥ समेत्य सहिताः सर्वे तमूचुस्त्रिपुरान्तकम् । महाजनोऽपि बलवान्नावज्ञेयः सुरेश्वरः ॥ ७६.४३ ॥ क्षान्तियुक्तोऽपि भूत्वा च भविष्यसि गतक्लमः । विध्वंसिता विप्रदारा यदेतल्लिङ्गमुत्तमम् ॥ ७६.४४ ॥ पतितं ते महादेव एतत्पुण्यं भविष्यति । तत्पुण्यं नाग्निहोत्रेण अग्निष्टोमैर्न लभ्यते ॥ ७६.४५ ॥ यच्छर्म रुद्र प्राप्स्यन्ति मानवा लिङ्गपूजया । देवानां चैव यक्षाणां गन्धर्वोरगरक्षसाम् ॥ ७६.४६ ॥ वचनेन तु विप्राणामेतत्पुण्यं भविष्यति । ब्रह्मविष्ण्विन्द्ररुद्राणां दर्शनेन च यत्फलम् ॥ ७६.४७ ॥ तत्फलं तस्य लिङ्गस्य दर्शने सकलं लभेत् । एवमुक्तो जगन्नाथः प्रणिपत्य द्विजोत्तमान् ॥ ७६.४८ ॥ मुदा परमया युक्तस्तांश्चैव प्रत्यभाषत । ब्राह्मणा जङ्गमं तीर्थं निर्जलं सर्वकामिकम् ॥ ७६.४९ ॥ येषां वाक्योदयेनैव शुद्ध्यन्ति मलना जनाः । किंचित्तीर्थं न हि क्षेत्रमूषरं गह्वराणि च ॥ ७६.५० ॥ ब्राह्मणाच्छ्रेष्ठमुद्दिष्टं यत्र गत्वा विशुद्ध्यति । पृथिव्यां यानि तीर्थानि गङ्गाद्याः सरितस्तथा ॥ ७६.५१ ॥ एकस्या विप्रवाक्यस्य कला नार्हन्ति षोडशीम् । अभिनन्द्य द्विजान् सर्वाननुज्ञातो महानृषिः ॥ ७६.५२ ॥ ततोऽगाच्च महादेवो नर्मदातटमुत्तमम् । परम व्रतमास्थाय गुहावासं महार्बुदम् ॥ ७६.५३ ॥ मौनं चचार भगवाञ्जपध्यानरतः सदा । समाप्ते नियमे तात स्थापयित्वा महेश्वरम् ॥ ७६.५४ ॥ वन्द्यमानः सुरैः सार्धं कैलासमगमत्प्रभुः । नर्मदायास्तटे येन स्थापितः परमेश्वरः ॥ ७६.५५ ॥ तेनैव कारणेनासौ नर्मदेश्वरमुत्तमम् । यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ॥ ७६.५६ ॥ स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते । तत्र तीर्थे नरः स्नात्वा विधिना सुजितेन्द्रियः ॥ ७६.५७ ॥ अर्चयित्वा महादेवमश्वमेधफलं लभेत् । पितृभ्यो ददते यस्तु तिलपुष्पकुशोदकम् ॥ ७६.५८ ॥ त्रिसप्तपुरुषास्तस्य स्वर्गे पाण्डव मोदन्ते । यस्तु भोजयते विप्रान् यथाशक्त्या नरोत्तमः ॥ ७६.५९ ॥ तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम् । सुवर्णं रजतं वापि ब्राह्मणेभ्यो युधिष्ठिर ॥ ७६.६० ॥ ददते तोयमास्पृश्य सोऽग्निष्टोमफलं लभेत् । अष्टम्यां च चतुर्दश्यां पूजयेच्च विशेषतः ॥ ७६.६१ ॥ नर्मदेश्वरमासाद्य अवाप्तं जन्मनः फलम् । अग्निवेशे जले वापि अनाशकमृतश्च यः ॥ ७६.६२ ॥ अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् । एतत्कीर्तयते यस्तु नर्मदेश्वरमुत्तमम् ॥ ७६.६३ ॥ भक्त्या शृणोति यो राजन्नश्वमेधफलं लभेत् ॥ ७६.६४ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे दारुवनप्रसङ्गे नर्मदेश्वरकीर्तनं नाम षट्सप्ततितमोऽध्यायः ॥ अध्याय ७७ ततो गच्छेच्च राजेन्द्र कपिलातीर्थमुत्तमम् । स्नानमात्रः प्रसङ्गेन नर्मदेश्वरकीर्तनम् ॥ ७७.१ ॥ तस्मिंस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति । यावन्ति रोमकूपानि तत्प्रसूतिकुलेषु च ॥ ७७.२ ॥ तावन्त्यब्दसहस्राणि विष्णुलोके महीयते । जले वाग्निप्रवेशे वा अथवानशके नरः ॥ ७७.३ ॥ तत्र तीर्थे मृतो यस्तु न गर्भे जायते क्वचित् । एव हि विधिरुद्दिष्टः सकलो नृपसत्तम ॥ ७७.४ ॥ तीर्थस्य च फलं पुण्यं किमन्यत्परिपृच्छसि । धन्यं यशस्यमायुष्यं सर्वदुःखघ्नमुत्तमम् ॥ ७७.५ ॥ एतच्छ्रुत्वा नरो राजन् सर्वपापैः प्रमुच्यते । ततो गच्छेत्तु राजेन्द्र करञ्जेश्वरमुत्तमम् ॥ ७७.६ ॥ तत्र सिद्धो महाभाग दैत्यो वै लोकविश्रुतः । युधिष्ठिर उवाच - कोऽसौ सिद्धो महाभाग तत्र तीर्थे महातपाः ॥ ७७.७ ॥ कस्य पुत्रोऽथ किंकार्यं कालः कः कथय द्विज । मार्कण्डेय उवाच - पुरा चादियुगे राजन्मानसो ब्रह्मणः सुतः ॥ ७७.८ ॥ वेदवेदाङ्गतत्त्वज्ञो मरीचिर्नाम नामतः । तस्याऽपि कश्यपो राजन् कालेन महतानघ ॥ ७७.९ ॥ पुत्रोऽथ मानसो जातः साक्षाद्ब्रह्मेव चापरः । क्षमा दमा दया दानं सत्यं शौचमथार्जवम् ॥ ७७.१० ॥ मरीचेस्तु गुणास्त्वेते सन्ति भान्ति च भारत । एवं गुणगणाः कीर्तिः कश्यपे द्विजसत्तमे ॥ ७७.११ ॥ ज्ञात्वा प्रजापतिर्दक्षो भार्यार्थे स्वसुतां ददौ । अदितिर्वै दनुश्चैव तथा ह्येकादशा पराः ॥ ७७.१२ ॥ यासां पुत्राश्च पौत्राश्च जाता भ्रातरसंख्यकाः । अदितिर्जनयामास पुत्रानिन्द्रपुरोगमान् ॥ ७७.१३ ॥ नागान् प्रेतपिशाचांश्च पतत्रीन् यक्षराक्षसान् । सिंहव्याघ्रवराहांश्च अन्या इत्येवमादयः ॥ ७७.१४ ॥ जातास्तस्य महाबाहो कश्यपस्य प्रजापतेः । यैस्तु लोकत्रयं व्याप्तं स्थावरं जङ्गमं महत् ॥ ७७.१५ ॥ तथान्यश्च महाभागो दनोः पुत्रो व्यजायत । सर्वलक्षणसम्पन्नः करञ्जो नाम नामतः ॥ ७७.१६ ॥ बलेरिव महाभाग चचार सुमहत्तपः । वरेण छन्दयामास त्रिपुरान्तकरः प्रभुः ॥ ७७.१७ ॥ भोः करञ्ज महासत्त्व परितुष्टोऽस्मि तेऽनघ । वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ॥ ७७.१८ ॥ करञ्ज उवाच - यदि तुष्टोऽसि मे देव त्रिपुरान्तकर प्रभो । ततः पुत्रैश्च पौत्रैश्च सहितं मे धनं कुरु ॥ ७७.१९ ॥ तथेत्युक्त्वा महादेव उमया सहितस्तदा । वृषारूढो गणैः सार्धं तत्रैवान्तरधीयत ॥ ७७.२० ॥ गते चादर्शनं देवे सोऽपि दैत्यो मुदान्वितः । स्वनाम्ना च महादेवं स्थापयित्वा गृहं ययौ ॥ ७७.२१ ॥ तदा प्रभृति तत्तीर्थं करञ्जेश्वरमुत्तमम् । स्नानमात्रो नरो राजन्मुच्यते ब्रह्महत्यया ॥ ७७.२२ ॥ तस्मिंस्तीर्थे महाराज तर्पयेत्पितृदेवताः । सोऽग्निष्टोमस्य यत्पुण्यं फलं प्राप्नोत्यसंशयम् ॥ ७७.२३ ॥ अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नरोत्तम ॥ ७७.२४ ॥ अथाग्नौ च जले प्राणान् भूतले वापि यस्त्यजेत् । स्वर्गे स तु वसेन्नूनं वर्षाणामयुतद्वयम् ॥ ७७.२५ ॥ धनवान् सुकुले चान्ते जायते विपुले कुले । वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः ॥ ७७.२६ ॥ राजा वा राजतुल्यो वा जायते नात्र संशयः । पुत्रपौत्रसमायुक्तः सर्वव्याधिविवर्जितः ॥ ७७.२७ ॥ एतत्ते सर्वमाख्यातं यत्त्वं मां परिपृच्छसि । तीर्थस्य तु फलं युक्त्या सर्वदानेषु भारत ॥ ७७.२८ ॥ एतत्पुण्यं पापहरं धन्यं दुःखप्रणाशनम् । पठतां शृण्वतां चैव तीर्थमाहात्म्यमुत्तमम् ॥ ७७.२९ ॥ यस्तु श्रावयते श्राद्धे स तत्पितृपरायणः । अक्षयं तस्य सर्वं स्याच्छङ्करस्त्विदमब्रवीत् ॥ ७७.३० ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे करञ्जेश्वरमहिमानुवर्णनो नाम सप्तसप्ततितमोऽध्यायः ॥ अध्याय ७८ अथ अष्टसप्ततितमोऽध्यायः मार्कण्डेय उवाच - ततो गच्छेच्च राजेन्द्र कुण्डलेश्वरमुत्तमम् । यत्र सिद्धिं गतो देवः कुण्डधारो नृपोत्तम ॥ ७८.१ ॥ तपः कृत्वा तु विपुलं सुरासुरभयं करम् । कुण्डधारो मन्दरस्थः क्रीडते स नृपोत्तम ॥ ७८.२ ॥ युधिष्ठिर उवाच - कस्यान्वये समुत्पन्नः कस्य पुत्रो महामतिः । तपस्तप्त्वा सुविपुलं तोषितो येन शङ्करः ॥ ७८.३ ॥ एतद्विस्तरतस्तात कथयस्व ममानघ । मार्कण्डेय उवाच - पुरा त्रेतायुगे राजन् पौलस्त्यो नाम विश्रवाः ॥ ७८.४ ॥ उपये मे महाभाग भरद्वाजसुतां नृप । पुत्रः पुत्रगुणैर्युक्तस्तस्यां जातो धनं जयः ॥ ७८.५ ॥ जातमात्रं सुतं ज्ञात्वा ब्रह्मा लोकपितामहः । चकार नाम सुप्रीत ऋषिदेवसमन्वितः ॥ ७८.६ ॥ यस्माद्विश्रवसो जातो मम पौत्रत्वमागतः । तस्माद्वैश्रवणो नाम मया दत्तं तवानघ ॥ ७८.७ ॥ यः स्वयं सर्वदेवानां धनगोप्ता भविष्यति । चतुर्थो लोकपालानामक्षयो यक्षपोऽपि वा ॥ ७८.८ ॥ यक्षो यक्षाधिपः श्रेष्ठः कुण्डधारोऽभवत्सुतः । सुस्वंरूपवयः प्राप्य मातापित्रोरनुज्ञया ॥ ७८.९ ॥ तपश्चकार विपुलं नर्मदातीरमाश्रितः । यत्र व्याघ्रेश्वरं लिङ्गं व्याघ्रखेटकमुत्तमम् ॥ ७८.१० ॥ कुण्डधारेण तत्रैव तपस्तप्तं सुदारुणम् । ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षास्वासारथारणः ॥ ७८.११ ॥ शिशिरे जलमध्यस्थो वायुभक्षः शतं समाः । एवं वर्षशते पूर्णे एकाङ्गुष्ठोऽभवत्ततः ॥ ७८.१२ ॥ चक्रवद्भ्रमते सूर्यमभितो भरतर्षभ । चतुर्थे पञ्चमे तावत्तुतोष वृषवाहनः ॥ ७८.१३ ॥ वरं वृणीष्व हे वत्स यत्ते मनसि रोचते । तद्ददामि न सन्देहस्तपसा तोषितो ह्यहम् ॥ ७८.१४ ॥ कुण्डधार उवाच - यदि तुष्टोऽसि मे देव वरदित्सुरिहागतः । ततो मन्नामकं लिङ्गं तीर्थं चैतद्भवत्विति ॥ ७८.१५ ॥ तथेत्युक्त्वा महादेवः सोमोऽन्तर्धानमागमत् । जगामा काशमाविश्य कैलासं धरणिधरम् ॥ ७८.१६ ॥ गते चादर्शन देव सोऽपि यक्षो मुदान्वितः । स्थापयामास देवेशं कुण्डलेश्वरमुत्तमम् ॥ ७८.१७ ॥ अलंकृत्वा गजं धेनुं धूपपुष्पविलेपनैः । वितानैश्चामरैश्छत्रैस्तथैव लिङ्गपूजनैः ॥ ७८.१८ ॥ तर्पयित्वा द्विजान् सम्यगन्नपानादि भूषणैः । प्रीणयित्वा महादेवं ततः स्वभवनं ययौ ॥ ७८.१९ ॥ तदा प्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम् । युधिष्ठिर परं पुण्यं कुण्डलेश्वरसंज्ञकम् ॥ ७८.२० ॥ तत्र तीर्थे तु यः कश्चिदुपवासपरायणः । अर्चयेद्देवमीशानं सर्वपापैः प्रमुच्यते ॥ ७८.२१ ॥ सुवर्णं रजतं वापि मणिं मौक्तिकमेव च । ब्राह्मणेभ्यो ददात्यत्र स मुख्यो मोदते दिवि ॥ ७८.२२ ॥ तत्र तीर्थे नरः स्नात्वा ऋग्यजुः सामसु द्विजः । ऋचमेकां जपित्वा च चतुर्वेदफलं लभेत् ॥ ७८.२३ ॥ तस्मिंस्तीर्थे तु गोदानमन्नदानमथापि वा । यः प्रयच्छति विप्रेभ्यस्तत्फलं शृणु पाण्डव ॥ ७८.२४ ॥ यावन्ति तस्य रोमाणि तत्प्रसूतिकुलेषु च । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ ७८.२५ ॥ स्वर्गवासो भवेत्तस्य पुत्रपौत्रसमन्वितः । तस्मिंस्तीर्थे महाभाग व्याघ्रश्चैव पिपासितः ॥ ७८.२६ ॥ निषादानां भयेनैव अटव्यामटति स्वयम् । निषादानां भर्यैर्नष्टः पतितो नर्मदाजले ॥ ७८.२७ ॥ जलप्लुतो महाभाग लिङ्गरूपधरोऽभवत् । उक्तश्चाकाशवाण्या वै व्याघ्रेश्वरमनुत्तमम् ॥ ७८.२८ ॥ पूज्यं वै त्रिषु लोकेषु ख्यातिं यास्यत्यसंशयम् । तत्र तीर्थे नरः स्नात्वा तल्लिङ्गमर्चयेत्तु यः ॥ ७८.२९ ॥ ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः । एतत्ते कथितं राजन् कुण्डलेश्वरमुत्तमम् ॥ ७८.३० ॥ श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ॥ ७८.३१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे कुण्डलेश्वरमहिमा अनुवर्णनोनाम अष्टसप्ततितमोऽध्यायः ॥ अध्याय ७९ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र पिप्पलेश्वरमुत्तमम् । यत्र सिद्धो महायोगी पिप्पलादो महातपाः ॥ ७९.१ ॥ युधिष्ठिर उवाच - पिप्पलादस्य चरितं श्रोतुमिच्छाम्यहं प्रभो । माहात्म्यं तस्य तीर्थस्य यत्र सिद्धो महातपाः ॥ ७९.२ ॥ कस्य पुत्रो महाभाग किमर्थं तप्तवांस्तपः । एतद्विस्तरतः सर्वं कथयस्व ममानघ ॥ ७९.३ ॥ मार्कण्डेय उवाच - मिथिलास्थो महाभाग वेदवेदाङ्गपारगः । याज्ञवल्क्यश्च पुरतश्चचार विपुलं तपः ॥ ७९.४ ॥ तापसी तस्य भगिनी याज्ञवल्क्यस्य धीमतः । चचार सापि तत्रस्था शुश्रूषन्ती महत्तपः ॥ ७९.५ ॥ ततस्त्वेकस्मिन् समये स्नाताहनि रजस्वला । अन्तर्वासं कृतवती दृष्ट्वा कर्कटकं रहः ॥ ७९.६ ॥ याज्ञवल्क्योऽपि तद्रात्रौ परिधानेन तेन वै । स्वप्नं दृष्ट्वात्यजच्छुक्रं प्रभातेऽन्वैषयत्पुनः ॥ ७९.७ ॥ तत सा ब्राह्मणी तात किमन्वेष्यसि भारत । केन कार्यं तव विभो वदस्व मम तत्त्वतः ॥ ७९.८ ॥ याज्ञवल्क्य उवाच - अपवित्रो मया भद्रे स्वप्नो दृष्टोऽद्य वै निशि । शुक्लं मे चात्र वस्त्रं स्वं निक्षिप्तं तन्न दृश्यते ॥ ७९.९ ॥ तच्छ्रुत्वा ब्राह्मणी वाक्यं भीतभीताभवन्नृप । तद्वस्त्रं तु मया ब्रह्मन् स्नात्वान्तर्धानकं कृतम् ॥ ७९.१० ॥ तस्यास्तद्वचनं श्रुत्वा हाहेत्युक्त्वा महातपाः । पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥ ७९.११ ॥ किमेतदिति जल्पन्तमाकाशाद्वाग्विनिर्गता । तोषयन्ती च तं विप्रं प्रोवाच नृपते तदा ॥ ७९.१२ ॥ नास्य दोषो मया दृष्टस्तव चैव शुभव्रते । तव गर्भोदयो येन तत्र दैवं परायणम् ॥ ७९.१३ ॥ न विनाशोऽस्य कर्तव्यो यावत्कालस्य पर्ययः । तथेति व्रीडिता सा च दुर्मनेति विमानतः ॥ ७९.१४ ॥ पालयामास तं गर्भं यावत्पुत्रो व्यजायत । जातमात्रं तु तं गर्भं कथयित्वा न कंचन ॥ ७९.१५ ॥ अश्वस्थवृक्षमासाद्य सोत्ससर्ज महीतले । यानि सत्त्वानि लोकेषु स्थावराणि चराणि वै ॥ ७९.१६ ॥ तानि वै पालयन्त्वेनं बालकं त्यजति स्म सा । एवमुक्त्वा ततः साध्वी ब्राह्मणी नृपसत्तम ॥ ७९.१७ ॥ यथागतं जगामाथ सावस्थाय मुहूर्तकम् । पादौ पाणी विनिक्षिप्य विमृज्य नयने शूभे ॥ ७९.१८ ॥ आस्यं च विकृतं कृत्वा रुरोदोच्चैरनाथवत् । तेन शब्देन वित्रस्ताः स्थावरा जङ्गमाश्च ये ॥ ७९.१९ ॥ अकम्पयत्महीं तात सशैलवनकन्दराम् । ततो ज्ञात्वा महद्भूतं क्षुधाविष्टं द्विजर्षभम् ॥ ७९.२० ॥ न जहाति नगश्छायामार्पयच्च ततः पयः । आप्यायितस्ततस्तेन अमृतेनैव भारत । ततः स चिन्तयाविष्टो निर्ममे ग्रहगोचरम् ॥ ७९.२१ ॥ तेन क्रूरसमाचारः क्रूरदृष्ट्या निरीक्षितः । पपात सहसा भूमौ शनैश्चारी शनैश्चरः ॥ ७९.२२ ॥ शनैश्चरं बालकोऽपि पादेनैव परामृशत् । पीडितः सोऽपि बालेन उवाच वचनं तदा ॥ ७९.२३ ॥ किं मयाऽपकृतं विप्र पिप्पलाद महामुने । निष्क्रामन् गगने चैव पातितो धरणीतले ॥ ७९.२४ ॥ सौरिणाप्येवमुक्तस्तु पिप्पलादो महामुनिः । क्रोधरूपोऽब्रवीद्वाक्यं तच्छृणुष्व नराधिप ॥ ७९.२५ ॥ पितृमातृविहीनस्य बालभावस्य दुर्मते । पीडां करोषि कस्मात्त्वं सौरे त्वमवशेषितः ॥ ७९.२६ ॥ शनैश्चर उवाच - क्रूरस्वभावसंजाता मम दृष्टि द्विजोत्तम । मुञ्च त्वं मां च कर्ताहं यद्ब्रवीषि न संशयः ॥ ७९.२७ ॥ पिप्पलाद उवाच - अद्य प्रभृतिबालानां जन्मतः षोडशीः समाः । पीडा त्वया न कर्तव्या एष ते समयः परः ॥ ७९.२८ ॥ एवमस्त्विति तं चोक्त्वा प्रजगाम यथागतः । देवमार्गं शनैश्चारी प्रणम्य ऋषिसत्तमम् ॥ ७९.२९ ॥ ततश्चादर्शनं तत्र गतवान् स महाग्रहः । विचिन्तयानश्चैकाकी क्रोधेन कलुषीकृतः ॥ ७९.३० ॥ आग्नेयीं हि दिशं ध्यात्वा जनयामास पावकम् । कृत्त्वा मांसं जुहावाग्नौ क्रियासम्भवतत्त्वतः ॥ ७९.३१ ॥ तावच्च जनिता कृत्या ज्वालामालाविभूषिता । हुतभुक्सदृशाकारा किंकरोमीति चाब्रवीत् ॥ ७९.३२ ॥ शोषयामि समुद्रं किं चूर्णयामि च पर्वतम् । भूमिं च वेष्टयामीह पातयित्वा नभस्तलम् ॥ ७९.३३ ॥ कस्य मूर्ध्नि पतिष्यामि घातयामि च कं द्विज । शीघ्रमादिश मे कार्यं न कालातिक्रमो भवेत् ॥ ७९.३४ ॥ तस्यास्तद्वचनं श्रुत्वा पिप्पलादो महातपाः । क्रोधरक्तान्तनयन इदं वचनमब्रवीत् ॥ ७९.३५ ॥ महता क्रोधवेगेन मया त्वं चिन्तिता शुभे । पिता मे याज्ञवल्क्यस्तु तं त्वं घातय माचिरम् ॥ ७९.३६ ॥ एवमुक्ता तु सा शीघ्रं स्फुटन्तीव नभस्तलम् । मिथिलास्थो महाप्राज्ञो यत्र तेपे महातपाः ॥ ७९.३७ ॥ यावत्पश्यति दिङ्मार्गं ज्वलनार्कसमप्रभम् । याज्ञवल्क्यो महातेजास्तद्भूतं समुपस्थितम् ॥ ७९.३८ ॥ तां दृष्ट्वा सहसायान्तीं भीतभीतो महामुनिः । भूतेनाक्रमितो विप्रो जनकं नृपतिं ययौ ॥ ७९.३९ ॥ शरणार्थमनुप्राप्तं विद्धि मां नृपसत्तम । महाभूताच्च मां रक्ष यदि शक्नोषि मानद ॥ ७९.४० ॥ राजोवाच - ब्रह्मतेजोभवं भूतमनिवार्यं दुरासदम् । प्रभुर्नैवाद्य शक्नोमि अन्यं गच्छ महामते ॥ ७९.४१ ॥ ततश्चान्यं नृपश्रेष्ठं शरणार्थी महातपाः । जगाम तेन चैवोक्त इन्द्रस्य शरणं ययौ ॥ ७९.४२ ॥ देवराज नमस्तेऽस्तु महाभूताच्च रक्ष माम् । तस्य तद्वचनं श्रुत्वाब्रवीदिन्द्रस्तदा वचः ॥ ७९.४३ ॥ न च शक्तः परित्रातुं ब्रह्मतेजो हि दुःसहम् । ततश्च ब्रह्मभवनं ब्राह्मणो ब्रह्मवित्तमः ॥ ७९.४४ ॥ जगाम विष्णुभवनं शक्तोऽपि त्यक्तवान् भयात् । ततः स परमोद्विग्नो निराशो जीविते नृप ॥ ७९.४५ ॥ अनुगम्यमानो भूतेन अगच्छच्च महेश्वरम् । तस्य योगबलोपेतो महादेवस्य पाण्डव ॥ ७९.४६ ॥ नखमांसान्तरे लुप्तो यथा देवो न पश्यति । अदृष्टमगमद्भूतं ज्वलनार्कसमप्रभम् ॥ ७९.४७ ॥ मुञ्च मुञ्चेति पुरुष मुञ्चेश्वरमुवाच ह । एवमुक्तो महादेवस्तेन भूतेन भारत ॥ ७९.४८ ॥ योगीन्द्रं दर्शयामास नखमांसान्तरे स्थितम् । संस्थाप्य कृत्यां भूतेशो ज्वलत्कालानलप्रभाम् ॥ ७९.४९ ॥ उवाच मा भैस्त्वं विप्र मा च गच्छ महामुने । ततस्तं सूक्ष्मदेहस्थं महादेवोऽब्रवीदिदम् ॥ ७९.५० ॥ किमस्य त्वं महाभूत कर्ता कृत्य वदस्व मे । कृत्योवाच - क्रोधदीप्तेन देवेश पिप्पलादेन चिन्तिता ॥ ७९.५१ ॥ अस्य देहे पतिष्यामि अहिंस्यां विद्धि मां प्रभो । एतच्छ्रुत्वा महादेवो भूतस्य वदनाच्च्युतम् ॥ ७९.५२ ॥ वरिष्ठं बन्धयामास याज्ञवल्क्यस्य घातकम् । योगीश्वरं तं विप्रेन्द्रं दत्त्वाभीतिं युधिष्ठिर ॥ ७९.५३ ॥ विसर्जयित्वा देवस्तं तत्रैवान्तरधीयत । प्रेषयित्वा तु तं भूतं पिप्पलादोऽपि दुर्मनाः ॥ ७९.५४ ॥ मातापितृविहीनस्तु नर्मदातटमाश्रितः । एकनिष्ठो निराहारो वर्षाणि षोडशैव तु ॥ ७९.५५ ॥ तोषयामास देवेशमुमया सह शङ्करम् । हर उवाच - परितुष्टोऽस्मि ते विप्र तपसानेन सुव्रत ॥ ७९.५६ ॥ वरं वृणीष्व ते दद्यां मनसाभीप्सितं शुभम् । पिप्पलाद उवाच - यदि मे भगवांस्तुष्टो यदि देयो वरो मम ॥ ७९.५७ ॥ अत्र सन्निहितो देव मम नाम्ना च शङ्कर । एवमुक्तस्तथेत्युक्त्वा पिप्पलादं महामुनिम् ॥ ७९.५८ ॥ जगामादर्शनं देवो भूतसङ्घैर्निषेवितः । पिप्पलादो गते देवे स्नात्वा तत्र महाम्भसि ॥ ७९.५९ ॥ स्थापयित्वा महदेवं जगामोत्तरपर्वतम् । तत्र तीर्थे नरो भक्त्या स्नात्वा मन्त्रयुतो नृप ॥ ७९.६० ॥ तर्पयित्वा पितॄन् देवान् पूजयित्वा महेश्वरम् । अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥ ७९.६१ ॥ मृतो रुद्रपुरं याति पिप्पलेश्वरसन्निधौ । अथवा भोजयेद्विप्रान् पितॄनुद्दिश्य भक्तितः ॥ ७९.६२ ॥ द्वादशाब्दसहस्राणि तृप्ता गच्छन्ति सद्गतिम् । संन्यासेन तु यः कश्चित्तत्र तीर्थे तनुं त्यजेत् ॥ ७९.६३ ॥ अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् । एतत्सर्वं समाख्यातं यत्त्वं मां परिपृष्टवान् ॥ ७९.६४ ॥ माहात्म्यं पिप्पलादस्य पिप्पलेश्वरमुत्तमम् । एतत्पुण्यं पापहरं धन्यं दुःखप्रणाशनम् ॥ ७९.६५ ॥ पठतां शृण्वतां चैव सर्वपापप्रमोचनम् ॥ ७९.६६ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे पिप्पलेश्वरमहिमानुवर्णनो नामैकोनाशीतितमोऽध्यायः ॥ अध्याय ८० मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र विमलेश्वरमुत्तमम् । तत्र देवशिला रम्या महादेवेन भाषिता ॥ ८०.१ ॥ गर्जनं खेटकं नाम तत्र देवशिला शुभा । तत्र स्नात्वा तु यो भक्त्या तर्पयेत्पितृदेवताः ॥ ८०.२ ॥ तस्य ते द्वादशाब्दानि सुतृप्ता दिवि मोदिताः । तस्मिंस्तीर्थे तु यो भक्त्या ब्राह्मणान् पूजयेन्नृप ॥ ८०.३ ॥ स्वल्पेनापि हि दानेन तस्य चान्तो न विद्यते । युधिष्ठिर उवाच - कानि दानानि विप्रेन्द्र शस्तानि धरणीतले ॥ ८०.४ ॥ यानि दत्त्वा नरो भक्त्या मुच्यते सर्वकिल्बिषैः । मार्कण्डेय उवाच - सुवर्णं रजतं ताम्रं मणिं मौक्तिकमेव च ॥ ८०.५ ॥ भूमिदानं तथा गावो मोचयन्त्यंशुमान्नरम् । तत्र तीर्थे तु यः कश्चित्कुरुते प्राणसंक्षयम् ॥ ८०.६ ॥ रुद्रलोके वसेत्तावद्यावदाहूतसंप्लवम् । ततः पुष्करिणीं गच्छेत्कुरुक्षेत्रसमां नृप ॥ ८०.७ ॥ पूर्वं पुष्करिणी नाम कुरुक्षेत्रं कलौ स्मृतम् । तत्र स्नात्वा यजेद्देवं तेजोराशिं दिवाकरम् ॥ ८०.८ ॥ ऋचमेकां जपेत्सौम्यः सामवेदफलं लभेत् । यजुर्वेदस्य जपनं ऋग्वेदस्य तथैव च ॥ ८०.९ ॥ त्र्यक्षरं वा जपेन्मन्त्रं ध्यायमानो दिवाकरम् । आदित्यहृदयं जप्त्वा मुच्यते सर्वकिल्बिषैः ॥ ८०.१० ॥ तत्र तीर्थे तु यः स्नात्वा विधिना पूजयेद्द्विजान् । तस्य कोटिगुणं दानं जायते नात्र संशयः ॥ ८०.११ ॥ कार्तिक्यां च तथा माध्यां वैशाख्यां तु विशेषतः । अमावास्यां व्यतीपाते संक्रमे वैधृतौ रवौ ॥ ८०.१२ ॥ कुरुक्षेत्रे नरः स्नात्वा रुद्रस्यानुचरो भवेत् । अनाशके जले ह्यग्नौ पञ्चाग्नौ वा तथापि वा ॥ ८०.१३ ॥ तस्मिंस्तीर्थे मृतो यस्तु स याति परमां गतिम् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा नृपसत्तम ॥ ८०.१४ ॥ विहितं कर्मकुर्वाणः स गच्छति सतां गतिम् । युधिष्ठिर उवाच - किं जपन्मुच्यते व्याधेर्ज्ञात्वा वर्णं द्विजोत्तम ॥ ८०.१५ ॥ किं कुर्वन्मुच्यते प्राणी याति लोकमनामयम् । मार्कण्डेय उवाच - शृणु राजन्नवहित इतिहासं पुरातनम् ॥ ८०.१६ ॥ गुह्यतीर्थे समासाद्य ब्राह्मणो मुक्तवान् यथा । पुरा द्विजवरश्चासीद्गोविन्दो नाम नामतः ॥ ८०.१७ ॥ तस्य भार्या सुसम्पन्ना ब्राह्मणी च पतिव्रता । तस्यां संजनयामास पुत्रमेकं च सुन्दरम् ॥ ८०.१८ ॥ स बाल एव भवने क्रीडते शिशुलीलया । कदाचिद्ब्राह्मणश्रेष्ठः काष्ठमानयितुं गतः ॥ ८०.१९ ॥ वनान्नीत्वा काष्ठभारं गृहे पश्चाच्च क्षिप्तवान् । क्रीडन्नास्ते शिशुस्तत्र काष्ठभारेण पीडितः ॥ ८०.२० ॥ ममार बालकस्तत्र द्विजो न ज्ञातवांस्तदा । ब्राह्मण्यपि तदा तस्मै न शशंस भयात्तथा ॥ ८०.२१ ॥ पुर्नद्विजः स गोविन्दो विपिनं संजगाम ह ॥ ८०.२२ ॥ ब्राह्मण्युवाच - रावणो ब्रह्मणः पौत्रस्त्रैलोक्यं यस्य शङ्कते । स हतो रामचन्द्रेण सपुत्रामात्यबान्धवः ॥ ८०.२३ ॥ एवं पुत्रं विना सौख्यं मर्त्ये नाके न विद्यते । यश आख्यायितं यस्य स्वर्गार्थं यस्य भारती ॥ ८०.२४ ॥ मिष्टान्नं ब्राह्मणस्यार्थे स्वर्गवासोऽपि विद्यते । पुत्रोत्पत्तिविनाशाभ्यां नापरं सुखदुःखयोः ॥ ८०.२५ ॥ ब्रह्महत्याश्वमेधाभ्यां नापरं पापपुण्ययोः । किं ब्रवीमीति हे वत्स नानुसौख्यं सुतं विना ॥ ८०.२६ ॥ एवं बहुविधं दुःखं प्रलपित्वा पुनः पुनः । बालं गृहगते विप्रे संगोप्य ब्राह्मणी तथा ॥ ८०.२७ ॥ एवं तस्यां विलपन्त्यां गता रात्रिर्युधिष्ठिर । भूम्यां प्रसुप्तं गोविन्दं पुत्रशोकेन पीडिता ॥ ८०.२८ ॥ यावन्निरीक्षते भार्या भर्तारं दुःखपीडितम् । कृमिराशिमयं तावद्गोविन्दं नृपसत्तम ॥ ८०.२९ ॥ दुःखाद्दुःखतरे मग्ना दृष्ट्वा तं पातकान्वितम् । एवं दुःखनिमग्नायाः शर्वरी विगता तदा ॥ ८०.३० ॥ पुनः प्रातस्तु गोविन्दो दर्भाय च वनं गतः । एवं न ज्ञातवान् विप्रः काष्ठेन च हतं सुतम् ॥ ८०.३१ ॥ गताश्च दिवसाः पञ्चब्राह्मण्या गोपितं च यत् । पशुपालः पञ्चमेऽह्नि महिषीरुत्तमाश्च गाः ॥ ८०.३२ ॥ अरण्ये महिषीर्मुक्त्वा गाश्च भोक्तुं गृहं गतः । विज्ञप्तः पशुपालेन गोविन्दो ब्राह्मणोत्तमः ॥ ८०.३३ ॥ यावद्भक्षाम्यहं स्वामिन्महिषीर्गाश्च रक्षय । ततः स त्वरितो गाश्च ब्राह्मणो महिषीः प्रति ॥ ८०.३४ ॥ जगाम महिषीर्गाश्च विप्रस्य तस्य रक्षतः । धावमानस्य गावश्च महिष्यः सङ्गमं गताः ॥ ८०.३५ ॥ तत्र प्रविष्टास्तु जले नद्या रेवासुसङ्गमे । तज्जलं पीतमात्रं तु त्वरया तेन वारिताः ॥ ८०.३६ ॥ अकामात्सलिलं पीत्वा प्रक्षाल्य नयने शुभे । आजगाम ततः पश्चाद्भवनं दिनसंक्षये ॥ ८०.३७ ॥ भुक्त्वा दुःखान्वितो रात्रौ गोविन्दः शयनं ययौ । निद्राभिभूतो दुःखेन श्रमेणैव तु खेदितः ॥ ८०.३८ ॥ पुनस्तं चार्धरात्रे तु तस्य भार्या निरीक्षते । कृमिभिर्वेष्टितं गात्रं क्वचित्पश्यत्यवेष्टितम् ॥ ८०.३९ ॥ पुनः सा विस्मयाविष्टा तस्य भार्या गुणान्विता । उवाच दुष्कृतं तस्य साध्वसाविष्टचेतना ॥ ८०.४० ॥ भार्योवाच - अतीते पञ्चमे चाह्णि इन्धनं क्षिपता तु ते । गृहे पश्चात्स्थितो बालस्त्वज्ञातो घातितस्त्वया ॥ ८०.४१ ॥ मया तत्पातकं घोरं त्वत्कृतं न प्रकाशितम् । तेन प्रच्छन्नपापेन दह्यमाना दिवानिशम् ॥ ८०.४२ ॥ न सुखं तव गात्रस्य न च पश्यामि चात्मनः । निद्रा प्रणष्टा मे नाथ रतिश्चैव त्वया सह ॥ ८०.४३ ॥ श्रूयते मानवे शास्त्रे श्लोको गीतो महर्षिभिः । स्मृत्वा स्मृत्वा च तं रात्रौ परितापो न शाम्यति ॥ ८०.४४ ॥ कीर्तनान्नश्यतेऽधर्मो वर्धतेऽसौ च गूहनात् । इह लोके परे चैव पापस्यान्तो न विद्यते ॥ ८०.४५ ॥ एवं संचिन्त्यमानाहं स्थिता रात्रौ भयातुरा । कृमिराशिमयं त्वां तु पश्यामि कथयामि किम् ॥ ८०.४६ ॥ पुनश्च कान्त त्वद्देहं भ्रूणहत्याकृमिप्लुतम् । क्वचित्तुदन्ति ते चैव क्वचिन्नष्टाः समन्ततः ॥ ८०.४७ ॥ एतत्संस्मृत्य संस्मृत्य विमृशन्ती पुनः पुनः । न जाने कारणं किंचित्पृच्छामि कथयस्व मे ॥ ८०.४८ ॥ तडागं वापि सरितं तीर्थं वा देवतालयम् । यं गतोऽसि प्रभावोऽयं तस्य नान्यस्य मे मतिः ॥ ८०.४९ ॥ एवमुक्तस्त्वसौ विप्रः कथयामास भारत । भार्यया पूर्ववृत्तान्तं रममाणो नृपोत्तम ॥ ८०.५० ॥ गोलुलायी निवृत्त्यर्थं नर्मदा सङ्गमं गतः । नाभिमात्रे जले मग्नस्तोयं पीतं यथेष्टतः ॥ ८०.५१ ॥ नान्यत्तीर्थं विजानामि नर्मदा च सरिद्वरा । एवं श्रुत्वा च तत्सर्वमुपवासः कृतः क्षणात् ॥ ८०.५२ ॥ भर्त्रा सह गता तत्र सङ्गमे वरवर्णिनी । स्नात्वा विधिप्रयुक्तेन सङ्गमे सुरपूजिते ॥ ८०.५३ ॥ तर्पयामास देवेशं शङ्करं च सहोमया । पञ्चामृतैः स्नापयित्वा ब्राह्मण्या सहितो द्विज ॥ ८०.५४ ॥ गन्धमाल्यादिधूपैश्च नैवेद्यैश्च सुशोभनैः । अपूजयत्तत्र लिङ्गं देवीं कात्यायनीं शुभाम् ॥ ८०.५५ ॥ रात्रौ जागरणं कृत्वा भर्त्रा तेन सहैव सा । ततः प्रभाते विमले द्विजं सम्पूज्य यत्नतः ॥ ८०.५६ ॥ गोदानेन हिरण्येन वस्त्रेणान्नेन भारत । गोविन्दः पूजयामास स्वशक्त्या ब्राह्मणं शुभम् ॥ ८०.५७ ॥ उक्तश्चाकाशवाण्या तु तीर्थं गुह्यावती त्विदम् । गुह्येश्वरं तत्र लिङ्गं पातालादुत्थितं तदा ॥ ८०.५८ ॥ गुह्यावतीनर्मदयोः सङ्गमो गुणवानभूत् । मुक्तपापो गृहं यातः स्वभार्यासहितो द्विजः ॥ ८०.५९ ॥ एतत्तीर्थं पापहरं बालहत्याप्रणाशनम् । तत्र स्नात्वा च जप्त्वा च दत्त्वा ब्राह्मणभोजनम् ॥ ८०.६० ॥ उपास्य श्राद्धकरणात्तिलोदकप्रदानतः । निवसेच्छिवलोके हि यावदाहूत संप्लवम् ॥ ८०.६१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे गुह्यावतीतीर्थमहिमानुवर्णनो नामाशीतितमोऽध्यायः ॥ अध्याय ८१ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र उत्तरे नर्मदातटे । मेघनादसमीपे तु विश्वरूपा सरिद्वरा ॥ ८१.१ ॥ निर्गता विश्वरूपस्य शरीरादुपकुर्वतः । पुरा दारुवने देवो लिङ्गहीनः कृतो द्विजैः ॥ ८१.२ ॥ नर्मदातटमाश्रित्य तपः कुर्वंस्तदा नृप । विश्वरूपोऽभवद्देवो निर्गता सरितां वरा ॥ ८१.३ ॥ गता सा नर्मदातोयं सङ्गमो गुणवानभूत् । तस्मिंस्तीर्थे नरः स्नात्वा स भवे न पुनर्भवेत् ॥ ८१.४ ॥ तत्र यत्क्रियते कर्म सर्वं तदक्षयं भवेत् । सारिका सिद्धिमायाता पतिता तीर्थसङ्गमे ॥ ८१.५ ॥ पूर्वमप्सरसां श्रेष्ठा शक्रशापादकामतः । चित्राङ्गदेन रमिता काचित्कष्टमवाप ह ॥ ८१.६ ॥ सारिका भव कल्याणि वर्षाणां साऽग्रविंशतिम् । मृत्वा त्वं नर्मदातोये विश्वरूपा सुसङ्गमे ॥ ८१.७ ॥ विचित्रा बहुचार्वङ्गी सञ्जाता सारिका नृप । जातिस्मरा सुराभावा नर्मदातटमाश्रिता ॥ ८१.८ ॥ ततः काले च संप्राप्ते प्रज्वाल्य पावकं शुभम् । प्रविष्टा सा शुभाचारा विश्वरूपा सुसङ्गमे ॥ ८१.९ ॥ दिव्यदेहधरी राजन् प्राप्ता शक्रस्य मन्दिरम् । एतदन्तरमासाद्य सारिकातीर्थमुच्यते ॥ ८१.१० ॥ तत्र यत्क्रियते कर्म श्राद्धं यज्ञः शिवार्चनम् । सर्वं कोटिगुणं विद्यान्मेघनादस्य दर्शनात् ॥ ८१.११ ॥ अवशः स्ववशो वापि यस्तु प्राणान् परित्यजेत् । न तस्य पुनरावृत्तिर्घोरे संसारसागरे ॥ ८१.१२ ॥ ख्यातानि पञ्चलिङ्गानि यानि दृष्ट्वा शिवं व्रजेत् । मानवो मनुजश्रेष्ठ शृणु तानि युधिष्ठिर ॥ ८१.१३ ॥ मेघनादं च गोष्ठेशं वागीशं काकडेश्वरम् । लक्षेश्वरं पञ्चलिङ्गान्येकाहे यस्तु पूजयेत् ॥ ८१.१४ ॥ अनेनैव शरीरेण स नरो हि शिवं व्रजेत् । कोटियज्ञफलं प्राप्य पश्चान्मोक्षमवाप्नुयात् ॥ ८१.१५ ॥ आख्यानं कथयिष्यामि पुरावृत्तं तवानघ । धर्मसेनः पुरा राजा अयोध्याधिपतिर्बली ॥ ८१.१६ ॥ धर्मेण राज्यं कृतवान् यज्ञांश्च बहुदक्षिणान् । शृण्वन् स धर्मशास्त्राणि नर्मदाचरितं तथा ॥ ८१.१७ ॥ श्रुत्वा विनिर्गतो राजा रेवाया उत्तरे तटे । मेघनादं समभ्यर्च्य स्नात्वा वै नर्मदाजले ॥ ८१.१८ ॥ उद्गच्छति दिनकरे अश्वारूढो नरेश्वरः । उत्तरां दिशमाश्रित्य गतो गोष्ठेश्वरं शिवम् ॥ ८१.१९ ॥ यथाविधानं सम्पूज्य वागीश्वरं गतस्ततः । तत्र स्नात्वा विधानेन पूजयित्वा शिवं नृपः ॥ ८१.२० ॥ चन्दनागुरुकर्पूरैर्धूपैर्दीपैर्विधानकैः । अश्वारूढो नृपश्रेष्ठः काकडेश्वरमागतः ॥ ८१.२१ ॥ तं प्रपूज्य ततो राजा गत्वा वै नार्मदे जले । लक्षेश्वरं पूजयित्वा स्थितं वै विधिपूर्वकम् ॥ ८१.२२ ॥ मेघनादं ततो गत्वा सूर्यश्चास्तमुपागमत् । ध्यात्वा स्वयं कालरूपं यावत्तिष्ठति वै नृपः ॥ ८१.२३ ॥ तावद्घोरोऽपि तुरगो ह्यन्तरिक्षचरस्तदा । दिव्यदेहधरः सश्चाप्यप्सरोभिः समावृतः ॥ ८१.२४ ॥ विमाने देवराजस्य ययाविन्द्रपुरीं स्थितः । शुनी पृष्ठे तु या राज्ञस्तीर्थयात्रां प्रकुर्वती ॥ ८१.२५ ॥ दिव्यदेहधरा सापि विमानेन गता दिवि । धर्मसेनोऽपि तां दृष्ट्वा विस्मयाविष्टचेतनः ॥ ८१.२६ ॥ अश्वरूपं जगादाथ किमेतदिति भारत । उवाचाकाशगो वाचं कथं त्वं खिद्यसे नृप ॥ ८१.२७ ॥ शरीरजेन कष्टेन तपः साध्या विभूतयः । पादचारी हि गच्छ त्वं परपादैर्गतो ह्यसि ॥ ८१.२८ ॥ भूयो यात्रां प्रकुरुषे तदा सिद्धिमवाप्स्यसि । ततो राजा च तस्याथ श्रुत्वा तद्वचनं तदा ॥ ८१.२९ ॥ पुनर्द्वितीयदिवसे प्रस्थितो लिङ्गपूजनम् । पञ्चलिङ्गान् समभ्यर्च्य समायातस्तु नर्मदाम् ॥ ८१.३० ॥ मेघनादं यदापश्यद्द्वारे देवं च दृष्टवान् । पञ्चवक्त्रं दशभुजं त्रिनेत्रं शूलपाणिनम् ॥ ८१.३१ ॥ वृषारूढं जगद्गर्भं शशाङ्ककृतशेखरम् । दृष्ट्वा तं देवदेवेशं तुष्टाव परमेश्वरम् ॥ ८१.३२ ॥ जय देव महादेव महापातकनाशन । संसारसागरे मग्नं मां समुद्धर साम्प्रतम् ॥ ८१.३३ ॥ हर उवाच - वरं वृणु महाभाग यत्ते मनसि वर्तते । तद्ददामि न सन्देहश्श्विभक्तो हि पुत्रक ॥ ८१.३४ ॥ यदि तुष्टोऽसि मे देव तन्मां सहचरं कुरु । एकाहे पञ्चलिङ्गानि पूजयिष्यति यो नरः ॥ ८१.३५ ॥ स तवानुचरो देव भवत्वेष वरो मम । धर्मसेनवचः श्रुत्वा भवत्वेवं हरोऽब्रवीत् ॥ ८१.३६ ॥ तं गृहीत्वा तु राजानं कैलासं स जगाम ह । स्वदेहस्थं चकारासौ धर्मसेनं नृपं नृप ॥ ८१.३७ ॥ एतत्ते कथितं राजन्नितिहासं पुरातनम् । श्रवणात्कीर्तनादस्य अश्वमेधफलं लभेत् ॥ ८१.३८ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चलिङ्गमहिमानुवर्णनो नामैकाशीतितमोऽध्यायः ॥ अध्याय ८२ मार्कण्डेय उवाच - अथान्यत्कथयिष्यामि तीर्थं पापप्रणाशनम् । मयूरकुक्कुटं नाम ब्रह्महत्या व्यपोहनम् ॥ ८२.१ ॥ मृकण्डस्याश्रमं पुण्यं नर्मदादक्षिणे तटे । मृकण्डो नाम भूपाल ऋषिः परमधार्मिकः ॥ ८२.२ ॥ तपस्तेपे महाभाग दिव्यैर्वर्षसहस्रकैः । तस्याश्रमपदे रम्ये मुनयः शंसितव्रताः ॥ ८२.३ ॥ वसन्ति स्म जलाहाराः शुष्कपत्रकृताशनाः । केचित्तन्न निराहारा मोक्षोपायविचिन्तकाः ॥ ८२.४ ॥ एतस्मिन्नन्तरे राजन् गन्धर्वौ शक्रगायनौ । हेतिप्रहेतिनामानौ गतौ शक्रसभां नृप ॥ ८२.५ ॥ वधूरप्सरसां श्रेष्ठा दृष्टा ताभ्यां युधिष्ठिर । दृष्टमात्रौ तु गन्धर्वौ कामबाणप्रपीडितौ ॥ ८२.६ ॥ हेतिः कुक्कुटशब्देन प्रहेतिर्बर्हिणस्तथा । घोष्यमाणौ सुमधुरं सादयामास तु च ताम् ॥ ८२.७ ॥ वृत्रहा तदभिप्रायं ज्ञात्वा शापं ददौ तवा ॥ ८२.८ ॥ पूर्णे दिव्यशते वर्षे पश्चादत्रागमिष्यथः । तिर्यग्योनौ तु संप्राप्तौ गन्धर्वौ हि युधिष्ठिर ॥ ८२.९ ॥ जातिस्मरौ दुराचारौ पक्षिणौ प्रियदर्शीनौ । सर्वतीर्थान्युत्तरन् तौ नारदं च ददर्शतुः ॥ ८२.१० ॥ गन्धर्वावूचतुः॒ भविष्यावः शुभाचार ब्रह्मपुत्र तपोधन । कर्मणा केन चावां हि मुक्तावेतौ वदस्व तत् ॥ ८२.११ ॥ नारद उवाच - नर्मदा दक्षिणे तीरे मृकण्डस्याश्रमं शुभम् । तिर्यग्योनिविमोक्षं च तीर्थं हि परमं मतम् ॥ ८२.१२ ॥ जलाप्लुतौ नर्मदायाः सर्वं तत्र भविष्यति । ततो हेतिः प्रहेतिश्च सुस्नातौ दिव्यरूपिणौ ॥ ८२.१३ ॥ एकेन स्नानमात्रेण पक्षिणौ दिव्यतां गतौ । स्नात्वा तु विधिनाऽनेन ध्यात्वा देवं सदाशिवम् ॥ ८२.१४ ॥ उच्चार्य्याघोरमन्त्रं तौ सदा ध्यानस्थितौ नृप । एतस्मिन्नन्तरे राजन् पातालादुत्थितं शुभम् ॥ ८२.१५ ॥ शतसूर्यप्रकाशं हि लिङ्गं तत्र युधिष्ठिर । कुक्कुटेश्वरमेकं तु मयूरेश्वरमेव च ॥ ८२.१६ ॥ गन्धर्वौ तु विमानस्थौ गतौ शक्रस्य मन्दिरम् । तस्मिंस्तीर्थे नरः स्नात्वा भवे नैव पुनर्भवेत् ॥ ८२.१७ ॥ स्नात्वा तिलोदकं दत्त्वा पितॄणां परमा गतिः । अवशः स्ववशोऽवापि यस्तु प्राणान् परित्यजेत् ॥ ८२.१८ ॥ न तस्य पुनरावृत्तिर्घोरे संसारसागरे । तत्र कीटाः पतङ्गाश्च पक्षिणोऽथ सरीसृपाः ॥ ८२.१९ ॥ मण्डूकाः पापवृक्षाश्च मृता यान्ति शिवं पदम् ॥ ८२.२० ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे मृकण्डाश्रमकीर्तनो नाम द्व्यशीतितमोऽध्यायः ॥ अध्याय ८३ मार्कण्डेय उवाच - ततोऽन्यत्परमं तीर्थं चन्द्रमत्यास्तु सङ्गमे । चन्द्रेश्वरं सिद्धलिङ्गं तथा सिद्धेश्वरं पुनः ॥ ८३.१ ॥ घण्टेश्वरं महिषेशमश्वतीर्थमतः परम् । वृषसेनं हयग्रीवं शुकतीर्थमतः परम् ॥ ८३.२ ॥ रमेश्वरं ततो गच्छेत्तीर्थं पापप्रणाशनम् । मेकलायास्तटे राजन्महापातकनाशनम् ॥ ८३.३ ॥ यदा दारुवने पूर्वं महादेवेन मोहिताः । ब्राह्मणानां स्त्रियस्तत्र रममाणाः समागताः ॥ ८३.४ ॥ चिन्तयन्त्यश्च ता मोक्षं मेकलातीरमाश्रिताः । ताभिश्च रममाणाभिरावृतं शिवपूजनम् ॥ ८३.५ ॥ नीलोत्पलदलैर्बिल्वैर्मल्लिकाजातिकुन्दकैः । शून्यं प्रपूजितं यावत्तावल्लिङ्गं समुत्थितम् ॥ ८३.६ ॥ पातालादागतं लिङ्गं ज्वलत्कालानलप्रभम् । रमेश्वरेति विख्यातं रममाणात्समुत्थितम् ॥ ८३.७ ॥ स्त्रीणां उवाच देवेशः शापमोक्षो भवत्विति । गच्छन्तु सर्वाः स्वगृहं साम्प्रतं गतकल्मषाः ॥ ८३.८ ॥ इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत । तस्मिंस्तीर्थे नरः स्नात्वा स भवे न पुनर्भवेत् ॥ ८३.९ ॥ अनाशकेन चाग्नौ हि ये मृता न पुनर्भवाः । तिलोदकं पितॄणां तु पिण्डदानं यथाविधि ॥ ८३.१० ॥ श्राद्धेनैव च दानेन पितॄणां परमा गतिः । इन्द्रेण ब्रह्मणा पूर्वं विष्णुना धनदेन च ॥ ८३.११ ॥ रक्षसा रावणेनाथ तथा चेन्द्रजिता नृप । जपो जप्तस्तपस्तप्तं यज्ञानि विविधानि च ॥ ८३.१२ ॥ कृतानि नृपशार्दूल गता हि परमां गतिम् । अन्यच्च कथयिष्यामि हारिणं तीर्थमुत्तमम् ॥ ८३.१३ ॥ हरिणेशं सिद्धलिङ्गं तथा वै धनुरीश्वरम् । बाणेश्वरं परविद्धि तथा वै लुब्धकेश्वरम् ॥ ८३.१४ ॥ लिङ्गरूपाणि पूजयित्वा शिवं व्रजेत् । आख्यानं कथयिष्यामि पुरावृत्तं युधिष्ठिर ॥ ८३.१५ ॥ अर्जुनो लुब्धको नाम मन्दजातिसमुद्भवः । पर्यटन्मृगयां राजन्नर्मदातीरमागतः ॥ ८३.१६ ॥ दृष्ट्वा यूथं मृगाणां तु धावमानः पुनः पुनः । पलायमानाः सर्वे ते एकः पश्चात्स्थितो मृगः ॥ ८३.१७ ॥ हतो मध्यदिने सोऽद्य कुरङ्गो नर्मदातटे । पतितोऽसौ गतप्राणो दिव्यदेहधरः पुनः ॥ ८३.१८ ॥ विमाने हंसयुक्ते वै ब्रह्मलोकं जगाम ह । गते तु हरिणे सोऽथ लुब्धकश्चिन्तयान्वितः ॥ ८३.१९ ॥ महापापान्यनेकानि कृतानि तु मया पुनः । का गतिं याम्यहं चाथ श्रेयसे मरणं मम ॥ ८३.२० ॥ चिन्तयित्वा ततो राजन् पतितो नर्मदाजले । तत्क्षणाद्दिव्यदेहोऽसौ गन्धर्वपुरमाययौ ॥ ८३.२१ ॥ गते तस्मिन् देवलोके धनुर्बाणौ जले स्थितौ । चत्वार्येतानि लिङ्गानि ख्यातानि भुवनत्रये ॥ ८३.२२ ॥ हरिणेश्वरं च बाणेशं लुब्धेशं धनुरीश्वरम् । रमेश्वरं पञ्चमं तु पञ्चलिङ्गानि कीर्तयेत् ॥ ८३.२३ ॥ न तस्य पुनरावृत्तिर्घोरे संसारसागरे । तस्मिंस्तीर्थे नरो राजन् स्नात्वा शिवपुरं व्रजेत् ॥ ८३.२४ ॥ ब्रह्महत्यादि पापानि विलयं यान्ति पार्थिव । अनाशके चार्धजले मृतः शिवमवाप्नुयात् ॥ ८३.२५ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे रमेश्वरहरिणेश्वरलुब्धकेश्वरधनुरीश्वरबाणेश्वरकथनो नाम त्र्यशीतितमोऽध्यायः ॥ अध्याय ८४ मार्कण्डेय उवाच - तत्र स्नात्वा तु भक्त्या य उपवासपरायणः । क्षपाजागरणं कुर्याद्दद्याद्दानं च यत्नतः ॥ ८४.१ ॥ देवस्य स्नपनं कुर्यादमृतैः पञ्चभिस्तथा । समालभेद्यथाशक्त्या पूजां कृत्वा विधानतः ॥ ८४.२ ॥ पात्रं परीक्ष्य दातव्यमात्मनः श्रेय इच्छता । पितरस्तस्य तृप्यन्ति द्वादशाब्दं न संशयः ॥ ८४.३ ॥ गच्छति तत्र दाता च यत्र देवो निरञ्जनः । गृहमध्ये प्रविष्टस्तु स्मरन्नामास्य शक्तितः ॥ ८४.४ ॥ नीलाद्रौ तु च यत्पुण्यं तत्समस्तं लभेत सः । शूलभेदे च यः कुर्याच्छ्राद्धं पर्वणि पर्वणि ॥ ८४.५ ॥ विशेषाच्चैव मासान्ते तस्य पुण्यफलं शृणु । केदारे चैव यत्पुण्यं कुब्जायां च तथा नृप ॥ ८४.६ ॥ कनखले चैव यत्पुण्यं गङ्गासागरसङ्गमे । सितासिते तु यत्पुण्यमन्यतीर्थे विशेषतः ॥ ८४.७ ॥ अर्बुदे चैव यत्पुण्यं पुण्यं चामरपर्वते । गङ्गाद्यैः सर्वतीर्थैश्च फलं प्राप्नोति मानवः ॥ ८४.८ ॥ अस्मिंस्तीर्थे तथा पुण्यं लभते नात्र संशयः । विधिमन्त्रसमायुक्तं तर्पयेत्पितृदेवताः ॥ ८४.९ ॥ कुलानि तारयत्येव दश पूर्वापराणि सः । दक्षिणां चैव मर्त्यश्च शुचिर्भूत्वा समाहितः ॥ ८४.१० ॥ न्यासं कृत्वा तु पूर्वोक्तं प्रदद्यादष्टपुष्पकम् । शास्त्रोक्तैरष्टभिर्मन्त्रैर्मानसैः शृणु तांस्तथा ॥ ८४.११ ॥ वारिजं सौम्यमाग्नेयं वायव्यं पार्थिवं पुनः । वानस्पत्यं भवेत्पुष्पं प्राजापत्यं तु सप्तमम् ॥ ८४.१२ ॥ अष्टमं शिवपुष्पं च शृण्वेतेषां विनिर्णयम् । वारिजं सलिलं ज्ञेयं सौम्यं मधुयुतं पयः ॥ ८४.१३ ॥ आग्नेयं धूपदीपं च वायव्यं चन्दनादिकम् । पार्थिवं कन्दमूलाद्यं वानस्पत्यफलात्मकम् ॥ ८४.१४ ॥ प्राजापत्यमन्नाद्यं च शिवपुष्पमुपासनम् । अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ॥ ८४.१५ ॥ तृतीयं च दयापुष्पमेभिस्तुष्यन्ति देवताः । तपसा चार्चयेद्भक्त्या अत्र तीर्थे नराधिप ॥ ८४.१६ ॥ छत्रं च चामरं दद्याच्छय्यां चोपानहौ तथा । तेन पूजनमात्रेण पूजिताः पुरुषास्त्रयः ॥ ८४.१७ ॥ स्वर्गलोके वसेत्तावद्यावदाहुत संप्लवम् । शूलपाणेस्तु यो भक्त्या स्नपनं चैव कारयेत् ॥ ८४.१८ ॥ पञ्चामृतेन यश्चैव यक्षकर्दमकुंकुमैः । समालभेच्च देवेशं श्रीखण्डैरगरादिभिः ॥ ८४.१९ ॥ नानाविधैश्च पुष्पैश्चार्चां कुर्वन्ति ये द्विजाः । रुद्रं पुरुषसूक्तं च लोके यः स्वस्वसूत्रकम् ॥ ८४.२० ॥ इषे त्वादिकमन्त्रादि ज्योतिर्ब्राह्मणमेव च । गायत्री च मधुश्चैव मण्डलब्राह्मणमेव च ॥ ८४.२१ ॥ एतज्जपं तु ये भक्त्या यजुर्वेदसमुद्भवम् । देवव्रतं नाम दैव्यं पुरुषास्तत्पुरं ययुः ॥ ८४.२२ ॥ आसीत्पुरा महाराज अन्धको नाम दुर्जय । आराधयामास शिवं चिरकालमुपस्थितः ॥ ८४.२३ ॥ प्रसन्नो भगवान् देवो वरं याचस्व सुव्रत । वरं लब्ध्वा तदा दैत्योऽधावत्सहर्षतोऽन्धकः ॥ ८४.२४ ॥ पुरे जनाश्च दृश्यन्ते भाजनैर्रत्नपूरितैः । साक्षतैर्भाजनैस्तस्य शतसाहस्रयोषितः ॥ ८४.२५ ॥ मन्त्रान् पठन्ति विप्राश्च माङ्गल्यनिस्वनेन च । भूपं चामात्यभृत्यैश्च राज्याश्वरथदन्तिभिः ॥ ८४.२६ ॥ वर्धापयन्ति ते सर्वे ये केचित्पुरवासिनः । हृष्टः पुष्टो वसंस्तत्र स सुरैर्नाभिभूयते ॥ ८४.२७ ॥ वरलब्धं तु तं ज्ञात्वा गीर्वाणाः शङ्कितास्तदा । एकीभूताश्च ते सर्वे शक्रस्य शरणं ययुः ॥ ८४.२८ ॥ समागतान् सुरान् दृष्ट्वा शक्रो वचनमब्रवीत् । कथं समागतास्सर्वे यूयं च त्रिदिवौकसः ॥ ८४.२९ ॥ कथं च भयमुत्पन्नं कथयध्वं महासुराः ॥ ८४.३० ॥ देवा ऊचुः॒ मृत्युलोकेऽभवत्पापस्त्वन्धको नाम दुर्मदः ॥ ८४.३१ ॥ तस्माच्च भयमापन्ना भवच्छरणमागताः । एतस्मिन्नन्तरे रौद्रो दानवो बलदार्पितः ॥ ८४.३२ ॥ एकाकी स्यन्दनारूढ आयुधैर्विविधैर्युतः । अन्धको राजशार्दूल ययौ शक्रपुरीं ततः ॥ ८४.३३ ॥ स्वर्णप्राकारसंयुक्तां शोभितां विविधैर्गृहैः । दुर्गमां शत्रुवर्गस्य सदा पार्थिवसत्तम ॥ ८४.३४ ॥ प्रविवेशासुरस्तत्र लीलया स्वगृहं यथा । समुत्थाय ततः शक्रः स्वकीयंचासनं ददौ ॥ ८४.३५ ॥ उपविष्टोऽन्धकस्तत्र शक्रस्यैवासने शुभे । शक्र उवाच - किं वो ह्यागमनं चात्र किं कार्यं कथयस्व मे ॥ ८४.३६ ॥ यदस्मदीयं वित्तं च तत्ते दास्यामि दानव । अन्धक उवाच - न चाहं कामये वित्तं न गजान्न तुरंगमान् ॥ ८४.३७ ॥ स्वकीयं दर्शयस्वाद्य स्वर्गशृङ्गारभूमिकम् । ऐरावतं महानागं सैन्धवोच्चैः श्रवोहयम् ॥ ८४.३८ ॥ उर्वश्यादीनि सर्वाणि वादित्रत्रितयानि च । अन्याः स्वीया विभूतीश्च दर्शयस्व शचीपते ॥ ८४.३९ ॥ तस्यैतद्वचनं श्रुत्वा शक्रोऽपि भयविह्वलः । सर्वाणि च पदार्थानि दर्शयामास चान्धकम् ॥ ८४.४० ॥ तदागत्य सुरैः सार्धं यक्षगन्धर्वकिन्नरैः । नृत्यन्त्यप्सरसस्तत्र वादित्रैर्विविधैर्नृप ॥ ८४.४१ ॥ तत्तस्य विभ्रमच्चित्तं दृष्ट्वाप्यप्सरसस्तदा । तेन देवगणास्सर्वे त्रस्ताः पार्थिवसत्तम ॥ ८४.४२ ॥ संग्रामैर्विविधैस्तत्र चक्रवज्रारिभीषणैः । सन्तापिताः सुरास्सर्वे क्षयं नीता ह्यनेकशः ॥ ८४.४३ ॥ आदित्य मरुताद्याश्च भग्नास्संग्राममण्डले । यथा सिंहकराक्रान्ताः श्वापदा व्यचरन् वने ॥ ८४.४४ ॥ तद्वदेकेन ते देवाः कृतास्सर्वे पराङ्मुखाः । बलाद्देशेषु ग्रामेषु प्रजाः पीडयतेऽनिशम् ॥ ८४.४५ ॥ आकम्प्य गृह्यते क्षीरं शाकं वासस्तथैव च । न सम्माने वचस्तेषां प्रजासन्तापने रतः ॥ ८४.४६ ॥ गृहीत्वा शक्रभार्यां च दानवोऽपि गृहं गतः । ततः सुराश्च शक्रश्च ब्रह्माणं शरणं ययुः ॥ ८४.४७ ॥ गजैश्च पर्वताकारैरश्वैश्चैव गजोपमैः । स्यन्दनैर्गगनाकारैः सिंहशार्दूलयोजितैः ॥ ८४.४८ ॥ कच्छपैर्मकरैश्चापि मृगमेषैस्तथोरगैः । ब्रह्मलोकमनुप्राप्ता देवाश्चेन्द्रपुरोगमाः ॥ ८४.४९ ॥ दृष्ट्वा पद्मोद्भवं देवं प्रणम्येशं प्रतुष्टुवुः । जयदेव जगन्नाथ जयसंभूति कारक ॥ ८४.५० ॥ पद्मयोने सुरश्रेष्ठ त्वामेव शरणं गताः । सोद्वेगं भाषितं श्रुत्वा देवानां भावितात्मनाम् ॥ ८४.५१ ॥ मेघगम्भीरया वाचा ब्रह्मा प्रोवाच वासवम् । किं वो ह्यागमनं देवास्सर्वेषां वै विवर्णता ॥ ८४.५२ ॥ केनावमानितास्सर्वे तत्सर्वं मे निवेद्यताम् । देवा ऊचुः॒ अन्यको नाम नाम्नेति दानवो बलदर्पितः ॥ ८४.५३ ॥ तेन देवगणास्सर्वे धनरत्नैर्विवर्जिताः । हत्वा देवगणान्नाथ पर्शुचक्रासितोमरैः ॥ ८४.५४ ॥ गृहीत्वा शक्रभार्यां वै दानवो विगतो बलात् । ततः श्रुत्वा वचस्तेषां ब्रह्मा लोकपितामहः ॥ ८४.५५ ॥ चिन्तयामास भगवान् वधं तस्य तु रक्षसः । अवध्यो दानवः पापः सर्वैरपि सुरासुरैः ॥ ८४.५६ ॥ ततः प्रतुष्टुवुः सर्वे देवाः शक्रपुरोगमाः । जय त्वं देव देवेश लक्ष्म्या चार्धशरीरवान् ॥ ८४.५७ ॥ आशु रक्षय देवेश तस्मात्ते शरणं गताः । जनार्दन उवाच - स्वागतं वो महाभागा ब्रुवतां चैव स्वागतम् ॥ ८४.५८ ॥ किं कार्यं प्रोच्यतां सर्वं कारणं यन्मयेप्सितम् । पराभवः कृतो येन स गच्छतु यमालयम् ॥ ८४.५९ ॥ एवमुक्तास्सुरास्सर्वे कथयन्ति स्म तत्त्वतः । प्रदर्शयन्ति चाङ्गानि वेपमानास्त्वधोमुखाः ॥ ८४.६० ॥ हृतराज्याः कृता नाथ अन्धकेन पराजिताः ॥ ८४.६१ ॥ पितेव पुत्रान् परिरक्ष देव जहीह शत्रुं सह पुत्रगोत्रैः । तथेति चोक्त्वा कमलासनं प्रभुः सुरासुरैर्वन्दितपादपीठः ॥ ८४.६२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डेऽन्धकोपाख्याने चतुरशीतितमोऽध्यायः ॥ अध्याय ८५ मार्कण्डेय उवाच - शङ्खं चक्रं गदां पाशं संगृह्य परमेश्वरः । उत्थितः शयनात्तूर्णं देवानां च जयप्रदः ॥ ८५.१ ॥ केशव उवाच - पाताले यदि वा स्वर्गे मर्त्ये वा यदि वा सुराः । अन्धकं तं वधिष्यामि येन सन्तापितास्सुराः ॥ ८५.२ ॥ गच्छन्तु स्वगृहं देवास्सन्तोषे भावितात्मनः । विष्णोस्तु वचनं श्रुत्वा ब्रह्माद्यास्तु सवासवाः ॥ ८५.३ ॥ स्वं स्वं यानं समारुह्य हृदि तुष्टा दिवं ययुः । ततो देवो माधवस्तु यत्र तिष्ठति चान्धकः ॥ ८५.४ ॥ तत्र गत्वा हृषीकेश आग्नेयास्त्रं मुमोच ह । दृष्ट्वा ज्वलन्तं चाग्नेयं केशवेन विसर्जितम् ॥ ८५.५ ॥ विसर्जयामास तदा वारुणं चास्त्रमुत्तमम् । वारुणास्त्रेण बाणेन आग्नेय शोषितं तदा ॥ ८५.६ ॥ अन्धकश्चिन्तयामास केन बाणो विसर्जितः । कस्येयं पौरुषी शक्तिः को यास्यति यमालयम् ॥ ८५.७ ॥ ततोऽन्धकः कोपयुक्तो बाणमार्गस्य संचरन् । दृष्ट्वा युद्धपथे प्राप्तं देवं तं चान्धकोऽब्रवीत् ॥ ८५.८ ॥ न शर्म प्राप्नुषे चात्र मम दृष्ट्या निरीक्षितः । तथा न शक्नुषे त्वं तु शार्दूलाद्गवयो हरे ॥ ८५.९ ॥ आगतं च यथाभक्षं मार्जारस्य च मूषकम् । तथा न शक्नुषे त्वं तु संस्थितोऽपि ममाग्रतः ॥ ८५.१० ॥ ततस्तु देव देवेशं शङ्खचक्रगदाधरम् । चतुर्भुजावदात्तं च द्वन्द्वयुद्धप्रदायिनम् ॥ ८५.११ ॥ दृष्ट्वा गदाधरं देवं साष्टाङ्गं प्रणतो भुवि । अन्धक उवाच - जय कृष्ण परस्त्वं हि विष्णो जिष्णो नमो नमः ॥ ८५.१२ ॥ हृषीकेशाय केशाय जगद्धात्रेऽच्युताय च । नमः पङ्कजनाभाय नमः पङ्कजमालिने ॥ ८५.१३ ॥ जनार्दनाय देवाय पीताम्बरधराय च । गोविन्दाय नमो नित्यं नमश्चोदधिशायिने ॥ ८५.१४ ॥ नमः करालवक्त्राय नृसिंहाय निनादिने । शार्ङ्गिणे स्मितवक्त्राय शङ्खचक्रगदाभृते ॥ ८५.१५ ॥ नमो वामनरूपाय क्रान्तलोकत्रयाय च । नमो वराहरूपाय यज्ञरूपाय ते नमः ॥ ८५.१६ ॥ वासुदेव नमस्तुभ्यं नमः कैटभनाशिने । वसुदेवसुतश्चेश नमस्ते सुरनायक ॥ ८५.१७ ॥ विष्णो देवाधिदेवेश जगद्धातः प्रजापते । प्रणामं येऽपि कुर्वन्ति तेभ्यश्चापि नमो नमः ॥ ८५.१८ ॥ समस्तभूतदेवाय वासुदेवाय धीमते । तस्मै यज्ञवराहाय विष्णवेऽमिततेजसे ॥ ८५.१९ ॥ गुणानां हि विधानाय नमस्तेऽस्तु पुनः पुनः । देव उवाच - तुष्टो ह्यहं दानवेन्द्र वरं वृणु यथेप्सितम् ॥ ८५.२० ॥ ददामि ते वरं चाद्य याचमानस्य साम्प्रतम् । अन्धक उवाच - यदि तुष्टोऽसि मे देव वरं दातुमिहेच्छसि ॥ ८५.२१ ॥ तदा ददस्व मे देव युद्धं परमशोभनम् । श्रीभगवानुवाच - कथं ददामि ते युद्धं तोषितोऽहं त्वया पुनः ॥ ८५.२२ ॥ न त्वां प्रति भवेत्कोपः कथं युध्येऽहमन्धक । यदि ते वर्तते बुद्धिर्युद्धं प्रति न संशयः ॥ ८५.२३ ॥ तर्हि त्वं गच्छ शीघ्रं वै देवं प्रति महेश्वरम् । अन्धक उवाच - प्रसादात्तस्य देवस्य विजयी भुवनत्रये ॥ ८५.२४ ॥ कथं युद्धं चरे तेन शङ्करेण वदस्व नः । एतच्छ्रुत्वा दानवस्य भगवानब्रवीदिदम् ॥ ८५.२५ ॥ अहं ते कथयिष्यामि येन युद्धं त्वया सह । कैलासशिखरं गत्वा धुनु तं च पुनः पुनः ॥ ८५.२६ ॥ धुनिते पर्वते तस्मिन् कम्पितं भुवनत्रयम् । पतन्ति शिखराग्राणि शीर्यमाणान्यनेकशः ॥ ८५.२७ ॥ चत्वारः सागरा राजन्नेकीभूताः समन्ततः । उमया सहितो रुद्रो विषयासक्तचेतनः ॥ ८५.२८ ॥ कम्पमानश्च पतितः पार्वत्या सह शङ्करः । गाढमालिङ्ग्य देवेशमुमा वचनमब्रवीत् ॥ ८५.२९ ॥ किमर्थं कम्पते शैलः कथं वै कम्पते धरा । पातालानि तु सप्तैव कम्पते स्वर्गसप्तकम् ॥ ८५.३० ॥ किं वा युगक्षयो देव तन्ममाख्यातुमर्हसि । महेश्वर उवाच - कस्यैषा दुर्मतिर्जाताऽपि पार्श्वचरस्य नु ॥ ८५.३१ ॥ ललाटे चेदयं भग्नः प्रयास्यति यमालयम् । कैलासे संस्थितो ध्याने सुप्तोऽहं प्रतिबोधितः ॥ ८५.३२ ॥ वधिष्ये तं न सन्देहः षण्मुखो वा भवेद्यदि । ततः स चिन्तयामास जानातीत्यन्धकोऽप्ययम् ॥ ८५.३३ ॥ उपायं चिन्तयामास येनासौ वध्यते क्षणात् । ततस्समागता देवा इन्द्रब्रह्मपुरोगमाः ॥ ८५.३४ ॥ रथं देवमयं कृत्वा सर्वलक्षणसंयुतम् । केचिद्देवाः स्थिताश्चक्रे केचित्तुण्डाग्रसंस्थिताः ॥ ८५.३५ ॥ केचिदक्षे स्थिता राजन् युगरश्मिषु संस्थिताः । रथस्तम्भे ध्वजाग्रे तु केचिदन्यत्र संस्थिताः ॥ ८५.३६ ॥ एवं देवमयं कृत्वा समारूढो जगत्प्रभुः । निर्ययौ दानवो यत्र क्रोधेनाऽपि महेश्वरः ॥ ८५.३७ ॥ दानवानर्दयामास आकाशं चाशुमानिव । न तत्र दृश्यते सूर्यो न काष्ठा न च चन्द्रमाः ॥ ८५.३८ ॥ ततो दानवराजेन आग्नेयास्त्रं सुयोजितम् । दह्यमानं शरैस्तत्र सर्वं गीर्वाणमण्डलम् ॥ ८५.३९ ॥ दह्यमानाः शरैश्चैवं देवं शरणमाययुः । ततो देवाधिदेवेन वारुणास्त्रं विसर्जितम् ॥ ८५.४० ॥ वारुणास्त्रेण तेनैव आग्नेयास्त्रं प्रशामितम् । दानवेन ततो मुक्तं वायव्यास्त्रं नृपोत्तम ॥ ८५.४१ ॥ पन्नगास्त्रं च देवोऽपि कोपाविष्टः प्रमुक्तवान् । मारुतो भक्षितः सर्पैः क्रोधाविष्टैर्न संशयः ॥ ८५.४२ ॥ दानवेन तदा मुक्तं गरुडास्त्रं बलीयसा । तेन तच्छतधा नीतं पन्नगास्त्रं न दृश्यते ॥ ८५.४३ ॥ ततो देवाधिदेवेन नारसिंहं विसर्जितम् । अस्त्रैरस्त्राणि संवार्य युध्येते च परस्परम् ॥ ८५.४४ ॥ समं युद्धमभूत्तात सुरासुरभयङ्करम् । चक्रेणालीकनाराचैस्तोमरैः खड्गमुद्गरैः ॥ ८५.४५ ॥ वत्सदन्तैस्तथा भल्लैः कर्णिकारैश्च शोभनैः । एवं न शक्यते हन्तुं दानवैर्विविधायुधैः ॥ ८५.४६ ॥ ततो दंष्ट्राकरालेन खड्गनाराचतोमरैः । श्वश्रून् दृष्ट्वा यथा याति लज्जमाना ह्यधोमुखी ॥ ८५.४७ ॥ न संस्पृशन्ति गात्राणि शस्ता गौडवधूर्यथा । आयुधानि ततस्त्यक्त्वा बाहुयुद्धमुपस्थितौ ॥ ८५.४८ ॥ करैः करांस्तु संगृह्य प्रहरन्तौ हि मुष्टिभिः । बन्धैः करप्रहाराद्यैर्युध्येते स्म परस्परम् ॥ ८५.४९ ॥ दानवोऽपि च तं देवं कक्षान्तरमपीडयत् । निश्चेष्टश्च तदा देवो मूर्छितस्तु महेश्वरः ॥ ८५.५० ॥ मूर्च्छागतं तु तं ज्ञात्वा चिन्तयामास दानवः । हा हा कष्टं कृतं वाद्य पापेन च दुरात्मना ॥ ८५.५१ ॥ किं नु कार्यं मया चात्र कथं वापि व्रजाम्यहम् । तं गृहीत्वाथ देवेशं गतः कैलासपर्वतम् ॥ ८५.५२ ॥ मुक्त्वा शयानम्मुच्चेतमन्धकोऽपि ययौ क्षणात् । ततस्स चेतनो भूत्वा देवदेवो महेश्वरः ॥ ८५.५३ ॥ यावत्पश्यति चात्मानं स्वकीये भवने स्थितम् । तावत्स चिन्तयामास पराभूतो दुरात्मना ॥ ८५.५४ ॥ क्रोधवेगसमाविष्टो निर्ययौ दानवं प्रति । आयसं लगुडं धृत्वा प्रभुर्भारसहस्रकम् ॥ ८५.५५ ॥ दानवं दृष्टवान् देवः प्राक्षिपत्तस्य मूर्धनि । खड्गेन ताडयामास दानवः प्रहसन् रणे ॥ ८५.५६ ॥ गृहीत्वा देव देवेशः कौवेरं बाणमुत्तमम् । हृदये ताडयामास ज्वलितेन च तत्क्षणात् ॥ ८५.५७ ॥ ततस्स दानवस्तत्र रुधिरोद्गारमुद्गिरन् । अधोमुखस्ततो भूत्वा शूलेन विदलीकृतः ॥ ८५.५८ ॥ शूलाग्रविक्षतः पापश्चक्रवद्भ्रमते तदा । ये तु भूमौ पतन्ति स्म देहतो रक्तबिन्दवः ॥ ८५.५९ ॥ तेभ्य उदभवन् पापा दानवाः शस्त्रपाणयः । व्याकुलश्च ततो देवो दानवैश्च पुनः पुनः ॥ ८५.६० ॥ देवेन संस्मृता दुर्गा चामुण्डा भीषणा तदा । आगता भीषणा देवी आयुधायुतसंयुता ॥ ८५.६१ ॥ महादंष्ट्रा महाकाया पिङ्गाक्षी लम्बकर्णिका । उवाच देवी देवेशं समादिश महेश्वर ॥ ८५.६२ ॥ देव उवाच - पिब त्वं रुधिरं भद्रे यथेष्टं दानवस्य च । पतितं च पृथिव्यां तु दुर्गे यत्नाद्गृहाण तत् ॥ ८५.६३ ॥ दानवस्य वधे चाद्य सहायं कर्तुमर्हसि । ततो हताश्च ते सर्वे खड्गेनापि सहस्रशः ॥ ८५.६४ ॥ अन्धकोऽपि च तान् दृष्ट्वा दानवान्निधनं गतान् । ततो वाग्भिः सुपुष्टाभिः स्तुवन् देवं महेश्वरम् ॥ ८५.६५ ॥ तिष्ठ तिष्ठेति देवेशं चण्डीं प्रति महाबलः । शूलविक्षतरन्ध्रेण रक्तं वै स्रावयन् बहु ॥ ८५.६६ ॥ पृथिवीं पूरयामास चतुः सागरमेखलाम् । अन्तरिक्षे स्थितेनापि शूलाग्रे संस्थितेन च ॥ ८५.६७ ॥ स्कन्धे धृतेन देवेन रुधिरौघप्रवर्षिणा । पृथिवी पूरिता तेन सशैलवनकानना ॥ ८५.६८ ॥ रुधिरेण कटिं यावद्वारितोऽपि महेश्वरः । ततो हृदयपर्यन्तं देवस्य च समागमत् ॥ ८५.६९ ॥ व्याकुलाश्च ततो देवाः प्रणष्टाश्च दिशं गताः । स तु स्वस्य शरीरस्य अङ्गान्यष्टौ व्यमर्दयत् ॥ ८५.७० ॥ अष्टौ भैरवरूपाश्च समुत्पन्ना महेश्वरात् । दंष्ट्राकरालिनः सर्वे हाहाकारं प्रकुर्वतः ॥ ८५.७१ ॥ खर्पराग्रकरास्सर्वे खड्गिनः कर्तिनस्तथा । पिबन्तु रुधिरं सर्वमित्याह परमेश्वर ॥ ८५.७२ ॥ पीतं तु तैश्च रुधिरं क्षीणं रक्तं स्थितं स्थलम् । शरीरं शोषितं तस्य अस्थिचर्मावशेषितम् ॥ ८५.७३ ॥ दानवश्चान्धकः प्राह अन्तरिक्षचरस्तथा । अन्धक उवाच - जयदेव जगन्नाथ उमाङ्गार्धशरीरभृत् ॥ ८५.७४ ॥ वृषभासनमारूढ शशाङ्ककृतशेखर । जयखट्वाङ्गहस्ताय गङ्गां शिरसि धारिणे ॥ ८५.७५ ॥ स्मरप्रमथनायेह ईश्वराय नमोऽस्तु ते । पूष्णोदन्तविनाशाय गणनाथ नमो नमः ॥ ८५.७६ ॥ जय सुरूपदेहाय अरूपाय नमो नमः । ब्रह्मोत्तमाङ्गनाशाय विश्वेश्वर सनातन ॥ ८५.७७ ॥ श्मशानवासिने नित्यं नित्यं भैरवरूपिणे । त्वं सर्वगश्च कर्ता त्वं त्वं हर्ता नान्य एव च ॥ ८५.७८ ॥ त्वं भूमिस्त्वं दिशश्चैव ज्योतिस्त्वं तेजसस्तथा । त्वं वायुः सर्वभूतानां जन्तुरूपो महेश्वरः ॥ ८५.७९ ॥ त्वं सोमस्त्वं बुधश्चैव त्वं गुरुर्भार्गवस्तथा । सौरिस्त्वं देवदेवेश भूमिपुत्रस्तथैव च ॥ ८५.८० ॥ ऋक्षाणि यानि दृश्यन्ते गगने शशिभास्करौ । एतान्येव च सर्वाणि त्वत्प्रसादान्महेश्वर ॥ ८५.८१ ॥ एवं बहुविधं स्तुत्वा देवदेवं स दानवः । संहताभ्यां च हस्ताभ्यां तं प्रणम्य महेश्वरम् ॥ ८५.८२ ॥ शङ्कर उवाच - साधु साधु महासत्त्व वरं याचस्व दानव । दाताहं याचकस्त्वं तु ददामीति यथेप्सितम् ॥ ८५.८३ ॥ अन्धक उवाच - यदि तुष्टोऽसि देवेश यदि देयो वरो मम । तदात्मनः समीपेऽहं स्थापितव्यो हि नान्यथा ॥ ८५.८४ ॥ भस्मी जटी त्रिशूली च त्रिनेत्री च चतुर्भुजः । व्याघ्रचर्मोत्तरीयश्च नागयज्ञोपवीतकः ॥ ८५.८५ ॥ एतदिच्छाम्यहं सर्वं यदि दास्यसि शङ्कर । शूलाग्रस्थो वदद्यावत्तावत्तुष्टो महेश्वरः ॥ ८५.८६ ॥ ईश्वर उवाच - ददामि ते वरं चाद्य यस्त्वया परिभाषितः । मया त्वमुदितः पूर्वं भृङ्गिरीटिर्भविष्यसि ॥ ८५.८७ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डेऽन्धकवरप्रदानो नाम पञ्चाशीतितमोऽध्यायः ॥ अध्याय ८६ मार्कण्डेय उवाच - अन्धकस्य वरं दत्त्वा तेनैव सह शङ्करः । उमया सहितश्चापि कैलासं पर्वतं गतः ॥ ८६.१ ॥ ततस्समागता देवा ब्रह्माद्यास्सह वासवाः । हृष्टपुष्टाश्च ते सर्वे महेश तं प्रणेमिरे ॥ ८६.२ ॥ देव उवाच - स्वागतं वो महाभागा ये केचित्त्विह चागताः । निहतो दानवस्तत्र भवदर्थे न संशयः ॥ ८६.३ ॥ रक्तेन तस्य मे शूलं निर्मलं च न दृश्यते । कर्तव्यं किं मया चाद्य कथ्यतां हि पितामह ॥ ८६.४ ॥ सुतस्तु भवतो ब्रह्मन् यश्चाऽसौ निहतो मया । कर्तुमिच्छाम्यहं सम्यक्तीर्थयात्रां न संशयः ॥ ८६.५ ॥ उत्थाय गम्यतां सर्वे ये केचित्त्विह चागताः । ततस्सर्वैः सुरैः सार्धं प्रभासं प्रति निर्ययौ ॥ ८६.६ ॥ प्रभासाद्यानि तीर्थानि गङ्गासागरसङ्गमे । अवगाह्य तु सर्वाणि निर्मलत्वं न विद्यते ॥ ८६.७ ॥ नीलीभूतं यथावस्त्रं सितत्वं नैव गच्छति । तथा कृष्णत्रिशूलस्य निर्मलत्वं न जायते ॥ ८६.८ ॥ नर्मदा तु ततो गत्वा देवो देवैः समन्वितः । उत्तरं दक्षिणं कूलमवगाह्य प्रयत्नतः ॥ ८६.९ ॥ गत्वा तु दक्षिणे कूले पर्वते भृगुसंज्ञिते । तत्र स्थित्वा महादेवो देवैः सह धरापते ॥ ८६.१० ॥ मनोहरं तु तत्स्थानं सर्वेषां हि दिवौकसाम् । ज्ञात्वा तीर्थविशेषं तु स्थितो देवो महेश्वरः ॥ ८६.११ ॥ गिरिं बिभेद शूलेन तेन भिन्नं रसातलम् । निर्मलं चाभवच्छूलं न लेपो दृश्यते क्वचित् ॥ ८६.१२ ॥ पातालान्निःसृता गङ्गा नाम्ना भोगवतीति सा । तत्र तीर्थं समुत्पन्नं शूलभेदेति विश्रुतम् ॥ ८६.१३ ॥ सूर्ये राहुगते तत्र महापुण्या सरस्वती । द्वितीयं सङ्गमं तत्र यथा वेणी सितासितम् ॥ ८६.१४ ॥ तत्र ब्रह्मा स्वयं देवो ब्रह्मेशं लिङ्गमुत्तमम् । यस्य याम्यदिशाभागे स्वयं देवो जनार्दनः ॥ ८६.१५ ॥ विद्यते च स्वयं तत्र विष्णुः पीठेषु संस्थितः । शूलेन च कृता रेखा तत्र तोयवहा नृप ॥ ८६.१६ ॥ तत्तोयं च गतं तत्र यत्र रेवा नदीजलम् । तत्र लिङ्गं महापुण्यं चक्रतीर्थेति विश्रुतम् ॥ ८६.१७ ॥ शूलभेदे च देवेशः स्नानं कृत्वा यथा विधि । आत्मानं मन्यते शुद्धं न किंचित्कलुषं तनौ ॥ ८६.१८ ॥ तस्य चैवोत्तरे भागे देव देवं जगद्गुरुम् । शूलपाणिं ततः प्राप्य पूजयामास यत्नतः ॥ ८६.१९ ॥ सर्वतीर्थमयं तीर्थं सर्वतीर्थाधिकं परम् । सर्वपुण्याधिकं पुण्यं सर्वद्रुःखघ्नमुत्तमम् ॥ ८६.२० ॥ तत्र तीर्थं प्रतिष्ठाप्य देवदेवो जगद्गुरुः । रक्षकांस्तु ततो मुक्त्वा तत्र स्थाप्य विनायकम् ॥ ८६.२१ ॥ क्षेत्रपालशतं चाष्टौ तीर्थं रक्षन्ति यत्नतः । विघ्नानि तस्य कुर्वन्ति यस्तत्र स्थातुमिच्छति ॥ ८६.२२ ॥ केचित्कुटुम्बचिन्तां तु केचिच्चिन्तां कृषीषु च । सेवां च कुर्वते केचिद्द्रव्यार्जनपरायणाः ॥ ८६.२३ ॥ परोक्षवादं कुर्वन्ति अन्ये हिसारता जनाः । परदारान् प्रसर्पन्ति अन्ये च वित्तचिन्तकाः ॥ ८६.२४ ॥ अन्येऽपि च वदन्त्येवं कथं तीर्थेषु गम्यते । क्षुधया पीड्यते भार्या ह्यपत्यानि तथैव च ॥ ८६.२५ ॥ मोहजाले निपतिताः पापाचाराश्च ये नराः । तेभ्यो रक्षन्ति तत्तीर्थं देवस्य च गणाः शुभम् ॥ ८६.२६ ॥ पुण्या जनाः स्थिरा ये च स्नानं तेषां च जायते । पयोष्ण्यां देवनद्यां च भोगवत्यां विशेषतः ॥ ८६.२७ ॥ एतच्च सङ्गमं पुण्यं यथा वेण्यां सितासिते । दृष्ट्वा तीर्थं तु ते सर्वे गीर्वाणा हृष्टमानसाः ॥ ८६.२८ ॥ देवस्य सन्निधो भूत्वा वर्णयन्ति परस्परम् । इदं तीर्थं च देवेश गयातीर्थसमं विदुः ॥ ८६.२९ ॥ गुह्याद्गुह्यतरं तीर्थं न भूतं न भविष्यति । शूलपाणिं समभ्यर्च्य ब्रह्माद्याश्च सुरैः सह ॥ ८६.३० ॥ ये गणाश्चैव गन्धर्वा यमो वरुणवासवौ । नृत्यगीतैस्तथा स्तोत्रैः सर्वे चैव सुरासुराः ॥ ८६.३१ ॥ देवेन भोदितो यत्र शूलाग्रेण नृपोत्तम । त्रयो गर्तास्तु संजातास्तोयपूर्णा नराधिप ॥ ८६.३२ ॥ आर्यावर्ता नरश्रेष्ठ महाकुलिशलाञ्छिताः । सर्वपापक्षयकराः सर्वदुःखापहारकाः ॥ ८६.३३ ॥ तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः । दीक्षामन्त्रविहीनोऽपि मुच्यते भवबन्धनात् ॥ ८६.३४ ॥ यः पुनर्विधिवत्स्नात्वा मन्त्रैः पञ्चभिरेव च । वेदोक्तैः पञ्चभिर्मन्त्रैः सहिरण्यैर्घटैस्तथा ॥ ८६.३५ ॥ अक्षरैर्दशभिश्चैव पञ्चाक्षरैस्त्रिभिस्तथा । पृथग्भूतैर्द्विजातीनां तीर्थं शस्तं नराधिप ॥ ८६.३६ ॥ ब्रह्मक्षत्रविशां वापि शूद्रस्याथ स्त्रियास्तथा । ध्यात्वा देवत्रयं राजन् स्नानं चैव यथाविधि ॥ ८६.३७ ॥ दशाक्षरेण मन्त्रेण तोयं पिबति यो नरः । केदारे च यथा पीतं तथा कुण्डे न संशयः ॥ ८६.३८ ॥ पञ्चरेफसमायुक्तं क्षकाराक्षरभूषितम् । ओंकारद्वयसंयुक्तमेतदत्रानुकीर्तनम् ॥ ८६.३९ ॥ यस्तत्र कुरुते स्नानं विधियुक्तो जितेन्द्रिय । तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः ॥ ८६.४० ॥ कुलं तारयते विंशद्दशपूर्वान् दशापरान् । गङ्गायां पञ्चतीर्थे च श्राद्धं वै कुरुते तु यः ॥ ८६.४१ ॥ स तत्र फलमाप्नोति शूलभेदे न संशयः । यस्तत्र विधिना युक्तो दानं दद्याच्च भक्तितः ॥ ८६.४२ ॥ तदक्षयं फलं तत्र कृतस्य सुकृतोऽथवा । गयाक्षेत्रे यथापुण्यं सर्वकार्येषु चैव हि ॥ ८६.४३ ॥ शूलभेदे तथा पुण्यं स्नानदानादितर्पणैः । भक्त्या च यो ददात्यत्र कांचनं गां महीं जलम् ॥ ८६.४४ ॥ अन्नं कृषीभवं शय्यां वासांसि भूषणानि च । अन्नादिभिर्धनैश्चैव गृहं पूर्णं च सर्वतः ॥ ८६.४५ ॥ युग्ययुग्लाङ्गलं मुख्यं नवं चैव धुरन्धरौ । दानान्येतानि यो दद्याद्ब्राह्मणे वेदपारगे ॥ ८६.४६ ॥ श्रोत्रियं च कुलीनं च शुचिं च विजितेन्द्रियम् । ज्ञात्वा दानं च यो दद्यात्तस्यान्तो नैव विद्यते ॥ ८६.४७ ॥ त्रयोदशदिनेष्वेकं त्रयोदशगुणं भवेत् ॥ ८६.४८ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे शूलभेदोत्पत्तिर्नाम षडशीतितमोऽध्यायः ॥ अध्याय ८७ मार्कण्डेय उवाच - उत्तानपादो राजेन्द्र पृच्छति स्म महेश्वरम् । सिद्धाश्च कीदृशा देव अपूज्याश्चैव कीदृशाः ॥ ८७.१ ॥ श्राद्धे चैवाह्निके यज्ञे दाने चैव विशेषतः । एतदाख्याहि मे देव कस्य दानं न दीयते ॥ ८७.२ ॥ ईश्वर उवाच - यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥ ८७.३ ॥ रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा । अवकीर्णः कुण्डगोलौ श्राद्धे दाने न शुद्ध्यति ॥ ८७.४ ॥ माहिष्यो वृषलः स्तेनो वार्धक्योऽथ विशेषतः । एते विप्राः सदा त्याज्याः पश्चान्मानं प्रशंसति ॥ ८७.५ ॥ प्रतिग्रहं तु गृह्णाति कालज्ञानं विना द्विजः । तस्य दानं न दातव्यं वृथा भवति निष्फलम् ॥ ८७.६ ॥ दरिद्रान् देहि राजंस्त्वं मा समृद्धान् कदाचन । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधम् ॥ ८७.७ ॥ उत्तानपाद उवाच - विधिश्च कीदृशी देव कथं श्राद्धस्य च क्रिया । दानं च दीयते येन तन्ममाख्यातुमर्हसि ॥ ८७.८ ॥ देव उवाच - श्राद्धं कृत्वा गृहे भक्त्या सुस्नातो विजितेन्द्रियः । वाग्यतस्तर्पयेत्तावद्यावत्संख्यामलङ्घयन् ॥ ८७.९ ॥ शूलभेदं ततो गत्वा स्नानं कृत्वा यथाविधि । पञ्चस्थानेषु यः श्राद्धं हव्यकव्यादिभिश्चरेत् ॥ ८७.१० ॥ पिण्डदानं च य कुर्यात्पायसैर्मधुसर्पिषा । तस्य तत्फलमाप्नोति तस्मिंस्तीर्थे न संशयः ॥ ८७.११ ॥ उपानहौ च यो दद्याद्ब्राह्मणेभ्यो विशेषतः । गच्छेद्विमानमारूढस्त्वमरैः परिवारितः ॥ ८७.१२ ॥ उत्तमं च गृहं दद्यात्सप्तधान्यैश्च पूरितम् । स स्वर्गलोके वसति काञ्चने भवनोत्तमे ॥ ८७.१३ ॥ तिलधेनुं च यो दद्यात्सवत्सां विधिपूर्वकम् । नाकपृष्ठे वसेत्तावद्यावदाहूतसंप्लवम् ॥ ८७.१४ ॥ गृहे वा यदि वारण्ये तीर्थे वा कुपथेषु च । तोयमन्नं च यो दद्याद्यमलोकं न पश्यति ॥ ८७.१५ ॥ अक्षयं चान्नदानं च तोयभूमिस्तथैव च । अन्नदानात्परं दानं न भूतो न भविष्यति ॥ ८७.१६ ॥ उत्तानपाद उवाच - कन्यादानं कथं देव कर्तव्यं कथयस्व तत् । प्रतिग्रहं तथा तोष्यं कन्योद्वाहमुपस्करम् ॥ ८७.१७ ॥ दातव्यं कस्य वै दानं दत्तं भवति चाक्षयम् । उत्तमं मध्यमं वापि कनीयांसं कथंचन ॥ ८७.१८ ॥ राजसं तामसं वापि निःश्रेयसमथापि वा । ईश्वर उवाच - सर्वेषामेव दानानां कन्यादानं विशिष्यते ॥ ८७.१९ ॥ यो दद्यात्परया भक्त्या अभिगम्य च यत्नतः । कुलीनस्य स्वरूपस्य गुणज्ञस्य विशेषतः ॥ ८७.२० ॥ सुलग्ने च मुहूर्ते च दद्यात्कन्यामलंकृताम् । अश्वान्नागांश्च वासांसि यो दद्याच्चैव भक्तितः ॥ ८७.२१ ॥ तस्य वासो भवेत्तत्र पदं यत्र निरामयम् । येन सा दुहिता दत्ता प्राणेभ्योऽपि गरीयसी ॥ ८७.२२ ॥ तेन सर्वमिदं दत्तं त्रैलोक्यं सचराचरम् । धनं कन्यार्थतः कल्प्यो न रोचयति दुर्मतिः ॥ ८७.२३ ॥ स भवेत्कर्मचाण्डालः कोशकारो भवेन्मृतः । कन्यार्थं याचते यस्तु स धनी निर्धनोऽपि वा ॥ ८७.२४ ॥ अभोज्यो भवते मर्त्यः सर्ववस्तुषु वर्जितः । गृहे तस्य च योऽश्नीयाज्जिह्वालम्पटको नृप ॥ ८७.२५ ॥ चान्द्रायणेन शुद्धः स्यात्तप्तकृच्छ्रमथापि वा । राजोवाच - वित्तं न विद्यते यस्य कन्योद्वाहेऽवतिष्ठति ॥ ८७.२६ ॥ कथं चोद्वाहनं कुर्यादेतदाचक्ष्व मे प्रभो । देव उवाच - स्ववित्तेनानुकर्तव्यं कन्योद्वाहनमेव च ॥ ८७.२७ ॥ कन्या नाम समुच्चार्य न दोषो याचकस्य च । अभिगम्योत्तमं दानमाहूतं चैव मध्यमम् ॥ ८७.२८ ॥ अधमं प्रोच्यमानं तु सेवादानं च निष्फलम् । असमर्थे न दातव्यं कन्यादानं तथैव च ॥ ८७.२९ ॥ समर्थस्तारयेद्विद्वान् काष्ठं क्षिप्तं यथा जले । यथा नौका तथा विद्वांस्तारयेत्परमं तटम् ॥ ८७.३० ॥ आहिताग्निस्तु यो भूत्वा गृह्नञ्शूद्रप्रतिग्रहम् । इह जन्मनि शूद्रत्वं मृतः श्वा चोपजायते ॥ ८७.३१ ॥ वृथा क्लेशाश्च जायन्ते ब्राह्मणस्याग्निहोत्रिणः । असत्प्रतिग्रहं गृह्णन्नापदं च विना द्विजः ॥ ८७.३२ ॥ तत्सर्वं नाशयेत्तस्य भिन्ना नौका यथाम्भसि । अतिक्लेशवशार्जितं विनाशयति तत्क्षणात् ॥ ८७.३३ ॥ एवं दुःखार्जितं पुण्यं शूद्रे गच्छति नान्यथा । लक्षदाक्षिण्यलाभाय प्रदानं चापराधकम् ॥ ८७.३४ ॥ कीर्तिपात्रेषु यद्दत्तं वृथा भवति पार्थिव ॥ ८७.३५ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे दानमहिमानुवर्णनं नाम सप्ताशीतितमोऽध्यायः ॥ अध्याय ८८ उत्तानपाद उवाच - कस्मिन् काले च क्रियते श्राद्धं दानं च शङ्कर । तीर्थयात्रा कथं कार्या आतिथ्यं कथयस्व नः ॥ ८८.१ ॥ शङ्कर उवाच - पितुरर्थं यथा पुण्यं सार्वकालिकमुत्तमम् । इदं तीर्थं तथा पुण्यं स्नानदानादितर्पणैः ॥ ८८.२ ॥ विशेषेण च कुर्वन्ति श्राद्धं चतुर्युगादिषु । मन्वन्तरादयो वत्स श्रूयतां च चतुर्दश ॥ ८८.३ ॥ आश्विने नवमी शुक्ला द्वादशी कार्तिकस्य च । तृतीया चैत्रमासे तु तथा भाद्रपदस्य च ॥ ८८.४ ॥ आषाढदशमी तथा माघस्यैव चसप्तमी । श्रावणस्याष्टमी कृष्णा तथाषाढी तु पूर्णिमा ॥ ८८.५ ॥ फाल्गुनस्य अमावास्या पौषस्यैकादशी शुभा । कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता ॥ ८८.६ ॥ मन्वन्तरादयश्चैव ह्यनन्तफलदाः स्मृताः । अयने तूत्तरे चैव दक्षिणे च तथैव हि ॥ ८८.७ ॥ कार्त्तिक्यां च तथा माध्यां वैशाख्यां च तृतीयया । चैत्र्यां चैव तथा षष्ठ्यां प्रौष्ठपद्यां तथैव च ॥ ८८.८ ॥ श्राद्धकालाश्च ते सर्वे दत्तं भवति चाक्षयम् । मधुमासे सिते पक्ष एकादश्यामुपोषितः ॥ ८८.९ ॥ क्षपाजागरणं कुर्याद्विष्णोः पदसमीपतः । दद्याद्दानं तथा शक्त्या हिरण्यं गोऽम्बराणि च ॥ ८८.१० ॥ धूपं दीपं च नैवेद्यं स्रक्पुष्पचन्दनानि च । अर्चां करोति यो विष्णोः कथां पौराणकीर्तनम् ॥ ८८.११ ॥ ऋग्यजुःसामाथर्वाणां सूक्तं तज्जपति द्विजः । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ८८.१२ ॥ प्रभाते कुरुते श्राद्धं द्विजान् भोज्य प्रयत्नतः । ददेद्दानं यथा शक्त्या हिरण्यं गोऽम्बराणि च ॥ ८८.१३ ॥ पितरस्तस्य तृप्यन्ति यावदाहूतसंप्लवम् । श्राद्धदश्च वसेत्तत्र यत्र देवो जनार्दनः ॥ ८८.१४ ॥ त्रयोदश्यां ततो गच्छेद्गुहावासीति तिष्ठति । दृष्ट्वा मार्कण्डमीशानं सर्वपापैः प्रमुच्यते ॥ ८८.१५ ॥ उत्तानपाद उवाच - गुहामध्ये यथा देव लिङ्गं परमशोभनम् । प्रतिष्ठा येन देवस्य तन्ममाख्यातुमर्हसि ॥ ८८.१६ ॥ ईश्वर उवाच - त्रिषु लोकेषु विख्यातं मार्कण्डेश्वरसंज्ञिकम् । बृहद्रथान्तरं यच्च सामवेदं द्विजोत्तमः ॥ ८८.१७ ॥ अथर्वाथर्वशीर्षाणि तथा हृच्च वृषाकपिम् । शिवसंकल्पितं जप्त्वा मुच्यते सर्वपातकैः ॥ ८८.१८ ॥ स याति परमं स्थानं यत्र देवो महेश्वरः । पादशौचं तथा तस्य कुर्वते ये च भक्तितः ॥ ८८.१९ ॥ गोदानेनैव यत्पुण्यं लभन्ते नाऽत्र संशयः । ब्राह्मणान् भोजयेत्तत्र पायसैर्मधुसर्पिषा ॥ ८८.२० ॥ एकेन भोजितेनापि सहस्रं तेन भोजितम् । सुवर्णं रजतं वस्त्रं दद्याद्भक्त्या द्विजातिषु ॥ ८८.२१ ॥ तेन तृप्यन्ति ते देवा मनुष्याः पितरस्तथा । चन्द्रसूर्यग्रहे भक्त्या स्नानं कुर्वन्ति ये नराः ॥ ८८.२२ ॥ देवार्चनं च यः कुर्याज्जपं होमं विशेषतः । दह्याद्दानं यथाशक्त्या ब्राह्मणे वेदपारगे ॥ ८८.२३ ॥ अश्वरत्नं गजरत्नं तूलापुरुषमेव च । यो दद्याच्छकटं तत्र सप्तधान्यप्रपूरितम् ॥ ८८.२४ ॥ युक्तं च लाङ्गलं दद्याद्युवानौ तु धुरन्धरौ । गोभूतिलहिरण्यं च पात्रे दातव्यमीप्सितम् ॥ ८८.२५ ॥ अपात्रे विदुषा किंचित्न देयं श्रेय इच्छता । सर्वभूतानि चात्मैव यतो धारयते मही ॥ ८८.२६ ॥ ततो विप्राय सा देया सर्वसस्यानुशालिनी । अन्यच्च शृणु राजेन्द्र गोदानस्य च यत्फलम् ॥ ८८.२७ ॥ यावद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते । तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ ८८.२८ ॥ येन केनाप्युपायेन ब्राह्मणाय समर्पयेत् । पृथ्वी दत्ता भवेत्तेन सशैलवनकानना ॥ ८८.२९ ॥ तारयन्ती च सा दत्ता कुलानामेकविंशतिम् । रौप्यखुरीं कांस्यदोहां सवत्सां च पयस्विनीम् ॥ ८८.३० ॥ प्रयच्छन्ति जनाः पुण्या राहुग्रस्ते निशाकरे । सर्वस्यैव तु दानस्य संख्या चास्ति नराधिप ॥ ८८.३१ ॥ चन्द्रसूर्योपरागे च दानसंख्या न विद्यते । यत्र गावः प्रदृश्यन्ते सर्वतीर्थानि तत्र वै ॥ ८८.३२ ॥ तत्र यज्ञं विजानीयात्नात्र कार्या विचारणा । पुनः स्मृत्वा तु तत्तीर्थं गमनं कुरुते नरः ॥ ८८.३३ ॥ अथवा श्रूयते यस्तु रुद्रस्यानुचरो भवेत् ॥ ८८.३४ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे शूलभेदमहिमानुकथनं नामाष्टाशीतितमोऽध्यायः ॥ अध्याय ८९ ईश्वर उवाच - अन्यच्चाख्यानकं वक्ष्ये पुरावृत्तं नराधिप । सकुटुम्बो गतः स्वर्गमृषिर्दीर्घतपा महान् ॥ ८९.१ ॥ शङ्कर उवाच - काशिराजेति विख्यातश्चित्रसेनो महाबलः । तस्य पुर्यां स वसते सर्वकामसमन्वितः ॥ ८९.२ ॥ सा पुरी जनसम्पूर्णा नानारत्नोपशोभिता । वाराणासीति विख्याता गङ्गातीरे समाश्रिता ॥ ८९.३ ॥ इन्द्रप्रस्थसमप्रख्या गौरीगोकुलसंयुता । बहुद्विजसमाकीर्णा वेदध्वनितनिःस्वना ॥ ८९.४ ॥ वणिग्जनैर्बहुविधैः क्रयविक्रयसंयुतैः । अट्टाट्टालैः प्रतोलीभिरुत्सवाद्यैस्तु मण्डिता ॥ ८९.५ ॥ देवतायतनैर्दिव्यैरारामैरुपशोभिता । नानापुष्पफलैर्रम्यैः कदलीषण्डमण्डिता ॥ ८९.६ ॥ तस्या उत्तरदिग्भागे आरामश्चोत्तमः शुभः । समन्दारवनं नाम त्रिषु लोकेषु विश्रुतम् ॥ ८९.७ ॥ नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् । बहुमन्दारसंयुक्तं तेन मन्दारकं वनम् ॥ ८९.८ ॥ विप्रो दीर्घतपा नाम सर्वदा तत्र तिष्ठति । तपस्तपति सोऽत्यर्थं तेन दीर्घतपाः स्मृतः ॥ ८९.९ ॥ स तिष्ठते सपत्नी कस्तिष्ठते पुत्रसंयुतः । शुश्रूषयन्ति तं सर्वे सुताः पञ्च समीपगाः ॥ ८९.१० ॥ तस्य पुत्रः कनीयांस्तु ऋष्यशृङ्गो महातपाः । वेदाध्ययनसंयुक्तो ब्रह्मचारी गुणान्वितः ॥ ८९.११ ॥ योगाभ्यासरतो नित्यं कन्दमूलफलाशनः । तिष्ठते मृगरूपेण मृगमध्ये वसन् सदा ॥ ८९.१२ ॥ दिनारम्भे दिनान्ते च मातापित्रग्रतः स्थितः । अभिवादयते नित्यं भाक्तमानृषिपुत्रकः ॥ ८९.१३ ॥ पुनर्जगाम तत्रैव कानने गिरिगह्वरे । क्रीडन् बालमृगैः सार्धं राजबाणमृतस्तु सः ॥ ८९.१४ ॥ राजोवाच - आश्रमे वसतस्तत्र सुदीर्घतपसस्तदा । सूनुस्तस्य कनीयांस्तु कथं मृत्युवशं गतः ॥ ८९.१५ ॥ श्रीभगवानुवाच - शृणुष्वैकमना भूत्वा कथां चित्रां महीपते । श्रवणादेव तस्या हि सर्वपापैः प्रमुच्यते ॥ ८९.१६ ॥ काशिराजो महाराजा महाबलपराक्रमः । चित्रसेन इति ख्यातो वाराणस्यां वसत्यसौ ॥ ८९.१७ ॥ एवं वसंस्तत्र राज्ये मन्त्रिणो वाक्यमब्रवीत् । मृगया च गमिष्यामि यूयं राज्ये प्रतिष्ठिताः ॥ ८९.१८ ॥ गम्यतां मन्त्रिभिः प्रोक्तो गतोऽसौ वसुधाधिपः ॥ ८९.१९ ॥ छत्रैश्छत्राणि दृश्यन्ते गच्छन्तं काननं प्रति । रजस्तत्रोत्थितं भूरि गजवाजिपदाहतम् ॥ ८९.२० ॥ तेनैवाच्छादितं सर्वं सादित्यं भूमिमण्डलम् । न तत्र दृश्यते सूर्यो न काष्ठा न च चन्द्रमाः ॥ ८९.२१ ॥ पादपाश्च न दृश्यन्ते गिरिसातूनि सर्वशः । तत्रापि च महाराज मृगयूथमदृश्यत ॥ ८९.२२ ॥ अधावन् पुरुषाः सर्वे सराजाराजपुत्रकाः । वृन्दलोपोऽभवत्तेषां शीघ्रं जग्मुर्दिशो दश ॥ ८९.२३ ॥ एकमार्गं गतो राजा चित्रसेनो महीपतिः । एकाकी स गतस्तत्र यत्र यत्र च ते मृगाः ॥ ८९.२४ ॥ प्रविष्टस्तु ततो दुर्गे कानने पक्षिवर्जिते । वल्मीगुल्मलताकीर्णे प्रविष्टो नैव दृश्यते ॥ ८९.२५ ॥ एकाक्यपश्यदात्मानं न चाश्वं न पदातिकान् । न कोऽपि चात्र जानाति नाहं वेद्मि दिशो दश ॥ ८९.२६ ॥ एवं कष्टं गतो राजा चित्रसेनो नराधिपः । छायां समाश्रितस्तत्र विश्रम्य च पुनः पुनः ॥ ८९.२७ ॥ क्षुत्तृषार्तो भ्रमन् दुर्गे कानने गिरिगह्वरे । ततोऽपश्यत्सरो दिव्यं पद्मिनीषण्डमण्डितम् ॥ ८९.२८ ॥ हंसकारण्डवाकीर्णं चक्रवाकोपकूजितम् । सरो दृष्ट्वा तु राजेन्द्रः संप्रहृष्टतनूरुहः ॥ ८९.२९ ॥ कुमुदानि गृहीत्वा तु तत्र स्नानं समाचरत् । तर्पयित्वा पितॄन् देवान्मनुष्यांश्च यथा विधि ॥ ८९.३० ॥ पपौ पानीयममलं यथावत्समभीप्सितम् । उत्तीर्य स जलात्तीरे दृष्ट्वा वृक्षं समीपतः ॥ ८९.३१ ॥ चिन्तयाऽनुपविष्टोऽसौ किं तु कर्म करोम्यहम् । ततश्छायाश्रितान् पश्यन् वनोद्देशे मृगान् बहून् ॥ ८९.३२ ॥ केचित्पूर्वमुखास्तत्र अपरे दक्षिणामुखा । वारुण्यभिमुखाः केचित्केचित्कौबेरमाश्रिताः ॥ ८९.३३ ॥ केचिन्निद्रां प्रकुर्वन्ति ऊर्ध्वकर्णाः स्थिताः परे । मृगमध्ये स्थितो योगी ऋष्यशृङ्गो महातपाः ॥ ८९.३४ ॥ मृगान् दृष्ट्वा ततो राजा प्रहारार्थमचिन्तयत् । वधित्वा च मृगं चैकं भक्षयामि यदृच्छया ॥ ८९.३५ ॥ स्वस्थावस्थो भविष्यामि मृगमांसस्य भक्षणात् । काशीं प्रति गमिष्यामि मार्गमन्वेषयंस्ततः ॥ ८९.३६ ॥ विचिन्त्यैवं ततो राजा वृक्षमूलं समाश्रितः । चापं धृत्वा कराग्रेण प्राक्षिपत्तच्छरं विभुः ॥ ८९.३७ ॥ क्षिप्तमात्रे शरे तस्मिन् सर्वे नष्टा मृगास्ततः । तेषां मध्ये स चैवेक ऋष्यशृङ्गो महातपाः ॥ ८९.३८ ॥ शरेण विद्धः पतितः कृष्ण कृष्णेति चाब्रवीत् । हाहा शब्दं कृतं तेन केनाहं पातितोऽधुना ॥ ८९.३९ ॥ कस्यैषा दुर्मतिर्जाता यया बुद्धिर्ममोपरि । मृगमध्ये स्थितश्चाहं न किंचदपराद्धवान् ॥ ८९.४० ॥ वाचां तां मानुषीं श्रुत्वा स राजा विस्मयान्वितः । शीघ्रं गत्वा ततोऽपश्यद्ब्राह्मणं ब्रह्मवर्चसम् ॥ ८९.४१ ॥ हा हा कष्टं कृतं मेऽद्य येनासौ घातितो मया । ब्राह्मण उवाच - न ते सिद्धिर्भवेत्किंचिन्मयि पञ्चत्वमागते ॥ ८९.४२ ॥ तवैव विहिता हत्या मयि पञ्चत्वमागते । जननी मे पिता वृद्धौ भ्रातरो हि तपस्विनः ॥ ८९.४३ ॥ भ्रातृजाया मरिष्यन्ति मयि पञ्चत्वमागते । एता हत्या भविष्यन्ति तव शुद्धिः कथं भवेत् ॥ ८९.४४ ॥ उपायं कथयिष्यामि कर्तुं त्वं यदि मन्यसे ॥ ८९.४५ ॥ राजोवाच - उपायः कथ्यतां मेऽद्य यस्ते मनसि वर्तते । करिष्ये तदहं सर्वं प्रयत्नेन महामुने ॥ ८९.४६ ॥ शृङ्ग्युवाच - पृच्छामि त्वां कुतः को वा कथं त्वमिह चागतः । ब्रह्मक्षत्रविशां मध्येऽन्त्यजः शूद्रोऽथवा पुनः ॥ ८९.४७ ॥ राजोवाच - नाहं विप्रो न वैश्योऽहं न शूद्रः क्षत्रियो ह्यहम् । शृङ्ग्युवाच - मां गृहीत्वाश्रमं पुण्यं यत्र तौ पितरौ मम ॥ ८९.४८ ॥ आवेदयस्व दयस्व चात्मानं पुत्रपापिनमागतम् । तौ दृष्ट्वा मां करिष्येते कारुण्यं च तवोपरि ॥ ८९.४९ ॥ उपायं वा करिष्येते येन शान्तिर्भविष्यति । तस्य तद्वचनं श्रुत्वा चित्रसेनो नृपोत्तमः ॥ ८९.५० ॥ स्कन्धे कृत्वा च तं विप्रं जगामाश्रमकं प्रति । न शक्नोति च तं वोढुं विश्रम्य च पुनः पुनः ॥ ८९.५१ ॥ तावत्पश्यति तं विप्रं मूर्छितं विकलेन्द्रियम् । मुमोच चित्रसेनस्तु छायां न्यग्रोधकस्य च ॥ ८९.५२ ॥ विश्रामं च ततः कृत्वा वाचं कुर्वन्मुहुर्मुहुः । पश्यतस्तस्य राजेन्द्र ऋष्यशृङ्गो महातपाः ॥ ८९.५३ ॥ पञ्चत्वमगमच्छीघ्रं ध्यानयोगेन योगवित् । दाहयामास तं विप्रं विधिदृष्टेन कर्मणा ॥ ८९.५४ ॥ स्नानं कृत्वा तु शोकार्तो रुरोद च मुमोह च । ततश्चानन्तरं राजा उद्वेगं परमं गतः ॥ ८९.५५ ॥ कथं यास्ये गृहानद्य वाराणस्यां हतो ह्यहम् । ब्रह्महत्या समाविष्टो जुहोम्यग्नौ कलेवरम् ॥ ८९.५६ ॥ अथवा ऋषिवाक्येन गच्छाम्येवाश्रमं प्रति । कथयामि यथावृत्तं गत्वा तस्य महा ऋषेः ॥ ८९.५७ ॥ एवं विचिन्त्य राजासौ जगामाश्रमसन्निधौ । ऋष्यशृङ्गस्य चास्थीनि गृहीत्वा स नृपोत्तमः ॥ ८९.५८ ॥ दृष्टिमार्गे स्थितस्तस्य ब्रह्मर्षेर्भावितात्मनः । दीर्घतपा उवाच - आगच्छ स्वागतं तेऽद्य आसने उपविश्यताम् ॥ ८९.५९ ॥ दीर्घतपास्म्यहं तेऽद्य मधुपर्कः सविष्टरः । राजोवाचा॒ अर्घस्यैव न योग्योऽहं महर्षेर्भावितात्मनः ॥ ८९.६० ॥ मृगमध्ये स्थितो विप्र तव पुत्रो मया हतः । पुत्रघ्नं शाधि मां विप्र तीव्रदण्डेन दण्डय ॥ ८९.६१ ॥ मृगभ्रान्त्या हतो विप्र ऋष्यशृङ्गो महातपाः । इति ज्ञात्वा च मां विप्र कुरुष्व च यथोचितम् ॥ ८९.६२ ॥ माता तस्य वचः श्रुत्वा गृहान्निर्गत्य विह्वला । हा हतास्मीत्युवाचाथ पतिता च महीतले ॥ ८९.६३ ॥ विललाप सुदुःखार्ता पुत्रशोकेन पीडिता । हा पुत्र पुत्रेति वदन् करुणं कुररी यथा ॥ ८९.६४ ॥ श्रुत्यध्ययनसम्पूर्णो जपहोमपरायणः । आगतं त्वां गृहद्वारे कदा पृच्छामि पुत्रक ॥ ८९.६५ ॥ त्रिलोक्यामपि श्रूयते चन्दनं किल शीतलम् । पुत्रगातपरिष्वङ्गश्चन्दनादपि शीतलः ॥ ८९.६६ ॥ परिष्वजितुमिच्छामि त्वामहं पुत्रसुप्रियम् । पञ्चत्वं च गमिष्यामि त्वद्विहीना सुदुःखिता ॥ ८९.६७ ॥ एवं विलपती दीना पुत्रशोकेन पीडिता । मूर्छिता विह्वला दीना निपपात महीतले ॥ ८९.६८ ॥ भार्यां च पतितां दृष्ट्वा पुत्रशोकेन पीडितः । चुकोप मुनिश्रेष्ठश्चित्रसेनं नृपं तदा ॥ ८९.६९ ॥ दीर्घतपा उवाच - याहि याहि महापाप मा मुखं दर्शयस्व मे । किं त्वया घातितो विप्र ह्यकामाच्च सुतो मम ॥ ८९.७० ॥ ब्रह्महत्या भविष्यन्ति बहवस्ते नराधिप । सकुटुम्बस्य मे त्वं हि मृत्युरेवमुपागतः ॥ ८९.७१ ॥ एवमुक्त्वा ततो विप्रो विचिन्त्य च पुनः पुनः । क्रोधं परित्यज्य ततो मुनिमार्गं जगाम ह ॥ ८९.७२ ॥ ऋषिरुवाच - उद्वेगं त्यज भो राजन् दुरुक्तं गदितं मया । पुत्रशोकाभिभूतेन दुःखमाप्तेन मानद ॥ ८९.७३ ॥ किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः । प्रायेण हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥ ८९.७४ ॥ अनेनैव प्रकारेण यत्त्वया लिखितं मम । परं तव भविष्यन्ति विप्रहत्या न संशयः ॥ ८९.७५ ॥ ब्रह्मक्षत्रविशां मध्ये शूद्रो वा चान्त्यजादिषु । कस्त्वं कथय सत्यं मे कस्माच्च निहतः सुतः ॥ ८९.७६ ॥ चित्रसेन उवाच - विज्ञापयामि विप्रर्षे क्षन्तव्यं च ममोपरि । नाहं विप्रोऽस्मि भो तात न शूद्रो नैव वैश्यजः ॥ ८९.७७ ॥ नचापि चान्त्यजातीयः क्षत्रियोऽहं द्विजोत्तम । काशिराजो मृगान् हन्तुमागतो वनमुत्तमम् ॥ ८९.७८ ॥ भ्रमता पातितस्तत्र मृगरूपधरो मुनिः । किं कर्तव्यं मया विप्र उपायं कथयस्व मे ॥ ८९.७९ ॥ दीर्घतपा उवाच - ब्रह्महत्या न शक्येत एकेन तरितुं विभो । देशे काले यथाशक्त्या तच्छृणुष्व नराधिप ॥ ८९.८० ॥ चत्वारो मे सुता राजन् सभार्या मातृपूर्वकाः । मया सह न जीवन्ति ऋष्यशृङ्गस्य कारणे ॥ ८९.८१ ॥ उपायं शोभनं तात कथयामि शृणुष्व भोः । शक्यते यदि चेत्कर्तुं सुखोपायं नरेश्वर ॥ ८९.८२ ॥ सकुटुम्बसमस्तान्नो दाहयस्वानले नृप । अस्थीनि नर्मदातोये शूलभेदे विनिक्षिपेः ॥ ८९.८३ ॥ नर्मदादक्षिणे कूले शूलभेदेति विश्रुतम् । सर्वपापहरं तीर्थं सर्वतीर्थोत्तमोत्तमम् ॥ ८९.८४ ॥ शुचिर्भूत्वा ममास्थीनि क्षिप त्वं शूलभेदके । मुच्यते सर्वपापेभ्यो मम वाक्यात्न संशयः ॥ ८९.८५ ॥ राजोवाच - आदेशो दीयतां तात करिष्यामि न संशयः । सर्वस्वमपि यत्किंचिद्राज्यं कोशः स्त्रियः सुताः ॥ ८९.८६ ॥ तव दानं प्रयच्छामि विप्र मां त्वं प्रसीद च । परस्परं विवदतोर्मुनिराज्ञोस्तदा नृप ॥ ८९.८७ ॥ स्फुटित्वा हृदयं शीघ्रं मुनेर्भार्या मृता तदा । पुत्रशोकसमाक्रान्ता निर्जीवा पतिता क्षितौ ॥ ८९.८८ ॥ पुत्राश्च मातृशोकेन सर्वे पञ्चत्वमागताः । स्नुषाश्चैव तु ताः सर्वा मृताश्च सह भर्तृभिः ॥ ८९.८९ ॥ पञ्चत्वं तु गतान् सर्वान्मुनिमुख्यान्निरीक्ष्य तान् । विप्राश्चाह्वानितास्तेन ते तत्राश्रमवासिनः ॥ ८९.९० ॥ तेभ्यो निवेदयामास यथा वृत्तं नरोत्तमः । संहतैस्तैरनुज्ञातः कथंचिद्दह्य यत्नतः ॥ ८९.९१ ॥ देहं स्वं पावनं कृत्वास्थीनि प्रगृह्य यत्नतः । याम्यां हि प्रस्थितो राजा पादचारी महीपतिः ॥ ८९.९२ ॥ न शक्नोति यदा गन्तुं छायामाश्रित्य तिष्ठति । विश्रम्य च पुनर्गच्छन् विश्रम्य च पुनः पुनः ॥ ८९.९३ ॥ सचैलं कुरुते स्नानमस्थीन् वोढा पदे पदे । विना जलं निराहारः सोऽगच्छद्दक्षिणामुखः ॥ ८९.९४ ॥ अचिरेणैव कालेन स गतो नर्मदातटे । आश्रमस्थान् द्विजान् सर्वान् पप्रच्छ राजसत्तमः ॥ ८९.९५ ॥ कथ्यतां मे द्विजश्रेष्ठाः शूलभेदस्य मार्गकः ॥ ८९.९६ ॥ विप्रा ऊचुः॒ नर्मदादक्षिणे कूले गतो द्रक्ष्यसि नान्यथा ॥ ८९.९७ ॥ ऋषिवाक्येन वै राजा गतोऽथ हि नरेश्वरः । स ददर्श ततस्तीर्थं बहुद्विजसमाकुलम् ॥ ८९.९८ ॥ बहुद्रुमलताकीर्णं बहुपुष्पोपशोभितम् । बहुमूलफलोपेतं बहुश्वापदशोभितम् ॥ ८९.९९ ॥ ऋषिसङ्घैः समाकीर्णं नानाव्रतधरैः शुभैः । एकपादस्थिताः केचिदपरे सूर्यवर्चसः ॥ ८९.१०० ॥ एकदृष्टिस्थिताः केचिदूर्ध्वबाहुस्थिताः परे । चान्द्रायणपरा केचित्केचित्पक्षोपवासिनः ॥ ८९.१०१ ॥ मासोपवासिनः केचित्केचिदृतुमुपोषिताः । शीर्णपर्णाशिनः केचित्केचिन्मारुतभोजनाः ॥ ८९.१०२ ॥ योगाभ्यासरताः केचिद्ध्यायन्तः परमं पदम् । गार्हस्थमास्थिताः केचित्केचिच्चैवाग्निहोत्रिणः ॥ ८९.१०३ ॥ एवं विधान् द्विजान् दृष्ट्वा जानुभ्यामवनीं गतः । प्रणम्य शिरसा राजन् राजा वचनमब्रवीत् ॥ ८९.१०४ ॥ कस्मिन् देशे तु तत्तीर्थं कथयध्वं द्विजोत्तमाः । सर्वेषां वाञ्छितां सिद्धिं दद्याच्च फलमीप्सितम् ॥ ८९.१०५ ॥ ऋषिरुवाच - धन्वन्तरशतं गच्छ भृगुतुङ्गस्य मूर्धनि । कुण्डं द्रक्ष्यसि विस्तीर्णं तोयपूर्णं सुशोभनम् ॥ ८९.१०६ ॥ तेषां तद्वचनं श्रुत्वा गतः कुण्डस्य मूर्धनि । दृष्ट्वा हि चैव तत्तीर्थं भ्रान्तिर्जाता नृपस्य हि ॥ ८९.१०७ ॥ वीक्ष्य कुण्डं महाभागं गङ्गां चैव विशेषतः । प्राचीं सरस्वतीं दृष्ट्वा भ्रान्तिर्जाता नृपस्य हि ॥ ८९.१०८ ॥ ततो विस्मयमापन्नश्चिन्तयानो मुहुर्मुहुः । आकाशसंस्थितं दृष्ट्वा सामिषं कुररं तथा ॥ ८९.१०९ ॥ भ्रममाणं गृहीत्वा तं वध्यमानं निरामिषैः । परस्परं हि युध्यन्ते सर्वे चामिषभक्षकाः ॥ ८९.११० ॥ हतश्चञ्चुप्रहारैस्तु कुररः पतितोऽम्भसि । शूलेन शूलिना यत्र भूभागं भेदितं पुरा ॥ ८९.१११ ॥ तत्तीर्थस्य प्रभावेण स सद्यः पुरुषोऽभवत् । विमानस्थं तु तं दृष्ट्वा क्रौंच वै दिव्यरूपिणम् ॥ ८९.११२ ॥ अप्सरोभिर्गीयमानं नृपस्तत्तीर्थमागतः । अस्थीनि भूमौ निक्षिप्य स्नानं कृत्वा यथा विधि ॥ ८९.११३ ॥ तिलमिश्रेण तोयेन तर्पयित्वेष्टदेवताः । धृत्वास्थीनि ततो राजा निक्षिप्यान्तर्जले तथा ॥ ८९.११४ ॥ क्षणमेकं ततो वीक्ष्य राजा ऊर्ध्वमुखः स्थितः । तां ददर्श ततः सर्वान् देवमूर्तिधरान् शुभान् ॥ ८९.११५ ॥ दिव्यवस्त्रैश्च संवीतान् दिव्याभरणभूषितान् । विमानैः काञ्चनैर्दिव्यैरप्सरोगणसेवितैः ॥ ८९.११६ ॥ पृथग्भूताश्च तान् सर्वान् विमानेषु व्यवस्थितान् । उत्पततः समालोक्य स राजा हर्षितोऽभवत् ॥ ८९.११७ ॥ ऋषिर्विमानमारूढश्चित्रसेनमथाब्रवीत् । भो भोः साधु महाराज चित्रसेन महामते ॥ ८९.११८ ॥ त्वत्प्रसादान्नृपश्रेष्ठ गतिर्दिव्या ममाद्य वै । इदं च यत्त्वया किंचित्कृतं परमदुष्करम् ॥ ८९.११९ ॥ स्वसुतोऽपि न शक्नोति पितॄणां कर्तुमीदृशम् । मदीयवचनाद्राजन्निष्पापस्त्वं भविष्यसि ॥ ८९.१२० ॥ यत्त्वं द्रक्ष्यसि राजेन्द्र कामिकं मनसेप्सितम् । आशीर्वादं ततो दत्त्वा चित्रसेनाय धीमते ॥ ८९.१२१ ॥ स्वर्गं जगाम स्वसुतैस्ततो दीर्घतपा मुनिः ॥ ८९.१२२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे दीर्घतपाख्यानो नामैकोननवतितमोऽध्यायः ॥ अध्याय ९० उत्तानपाद उवाच - दृष्ट्वा तत्तीर्थमाहात्म्यं चित्रसेनो नरेश्वरः । विपुलं तीक्ष्णधारं च कण्ठे चासि नृपोत्तम ॥ ९०.१ ॥ देवान् सर्वान् हृदि ध्यायन् ब्रह्मविष्णुमहेश्वरान् । विनिक्षिपन्नथात्मानौ प्रत्यक्षौ विष्णुशङ्करौ ॥ ९०.२ ॥ करे धृत्वा तु राजानं रुद्रो वचनमब्रवीत् । हर उवाच - प्राणत्यागं महाराज अकाले मा कुरुष्व ह ॥ ९०.३ ॥ अद्यापि तु युवासि त्वं न युक्तं मरणं तव । स्वस्थानं गच्छ वै शीघ्रं भोगान् भुङ्क्ष्व यथेप्सितान् ॥ ९०.४ ॥ भुङ्क्ष्व निष्कण्टकं राज्यं नाकं शक्र इवापरः । चित्रसेन उवाच - न राज्यं कामये देव न पुत्रान्न च बान्धवान् ॥ ९०.५ ॥ न भार्यां न च कोशं च न गाश्च न तुरङ्गमान् । मुञ्चस्व मां महादेव अविघ्नं क्रियतां मम ॥ ९०.६ ॥ स्वर्गप्राप्तिर्ममाद्यैव त्वत्प्रसादान्महेश्वर । देव उवाच - यस्याग्रतो भवेद्विष्णुर्ब्रह्मा रुद्रस्तथैव च ॥ ९०.७ ॥ स्वर्गेण तस्य किं कार्यं गतोऽसौ किं करिष्यति । तुष्टाव त्वां त्रयो देवा वृणीष्व वरमुत्तमम् ॥ ९०.८ ॥ यथेप्सितं महाराज सत्यमेतन्न संशयः । चित्रसेन उवाच - यदि तुष्टास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥ ९०.९ ॥ अद्य प्रभृति युष्माभिः स्थातव्यमिह सर्वदा । गयाशिरं यथा पुण्यं कृतं युष्माभिरेव च ॥ ९०.१० ॥ तथैवेदं तु कर्तव्यं शूलभेदं च पावनम् । यत्र यत्र स्थिता यूयं तत्र तत्र वसाम्यहम् ॥ ९०.११ ॥ गणानामिह सर्वेषामवध्योऽहं सुरेश्वर । ईश्वर उवाच - अद्य प्रभृति तिष्ठाम शूलभेदे नरेश्वर ॥ ९०.१२ ॥ कलांशेन त्रयो देवास्त्रिकालं निवसामहे । नन्दिसंज्ञो गणश्च त्वं भविष्यसि न संशय ॥ ९०.१३ ॥ भविष्यत्यग्रपूजा ते मत्समीपे सदा नृप । प्रक्षिप्य च निजास्थीनि यथा दीर्घतपा ययौ ॥ ९०.१४ ॥ सकुटुम्बो विमानस्थः स्वर्गे तिष्ठति तत्कुरु । एवं देवा वरं दत्त्वा चित्रसेनाय पार्थिव ॥ ९०.१५ ॥ कुण्डमूर्धनि यास्यामस्त्रयो देवास्तदा स्थिताः । परस्परं वदन्त्येवमिदं तीर्थं तथा शुभम् ॥ ९०.१६ ॥ यथा गयाशिरं पुण्यं सर्वमासि च पठ्यते । तथा रेवातटे पुण्यं शूलभेदं न संशयः ॥ ९०.१७ ॥ ब्रह्मोवाच - इदं तीर्थं महाराज यथापुण्यं गयाशिरः । स्नात्वा चैवोदके तस्मिन्नरो निर्मलतां व्रजेत् ॥ ९०.१८ ॥ एकं गयाशिरं मुक्त्वा सर्वतीर्थानि शङ्कर । शूलभेदस्य तीर्थस्य कलां नार्हन्ति षोडशीम् ॥ ९०.१९ ॥ कुण्डस्य दक्षिणे भागे दशहस्तप्रमाणतः । ऐन्द्रवारुणवायव्यां प्रमाणन्त्वेकविंशतिः ॥ ९०.२० ॥ एतत्प्रमाणं तीर्थस्य पिण्डदानादिकर्मसु । नराः पुण्याश्च ते सर्वे अत्र दानं कृतं च यैः ॥ ९०.२१ ॥ विष्णुस्त्रिनेत्ररूपेण ब्रह्मरूपी पितामहः । तस्मिंस्तीर्थे स्थिता नित्यं पूजां गृह्णन्ति भक्तितः ॥ ९०.२२ ॥ जातं जातं निरीक्ष्यन्ते स्वपुत्रं हि पितामहाः । कदा यास्यति पुत्रोऽसौ कदा दाता भविष्यति ॥ ९०.२३ ॥ पञ्चस्थानेषु यः श्राद्धं कुरुते भक्तिमान्नरः । स्वकुलानि तु सर्वाणि प्रेतभूतानि तारयेत् ॥ ९०.२४ ॥ एकविंशत्पितृपक्षे मातृपक्षैकविंशतिम् । भार्याया एकादशैवेति सर्वाण्येतानि तारयेत् ॥ ९०.२५ ॥ द्विजदेवप्रसादेन पितॄणां च तथैव हि । श्राद्धदो वसते तत्र यत्र देवो महेश्वरः ॥ ९०.२६ ॥ आत्मनो घातका ये च गोघ्नाः स्त्रैणहताश्च ये । दंष्ट्रिभिर्जलपातेन विद्युत्पातेन ये हताः ॥ ९०.२७ ॥ न तेषामग्निसंस्कारो न शौचं नोदकक्रिया । तत्र तीर्थे तु यः श्राद्धं तेषां कुर्यात्स्वभक्तितः ॥ ९०.२८ ॥ मोक्षप्राप्तिर्भवेत्तेषां त्रिस्थानेषु न संशयः । तृप्तिस्तु जायते तेषां वर्षमेकं न संशयः ॥ ९०.२९ ॥ अजानता कृतं पापं बालभावेषु यत्कृतम् । तत्सर्वं नश्यति क्षिप्रं सकृत्स्नानेन भूपते ॥ ९०.३० ॥ रजकेन यथा धौतवस्त्रं निर्मलतां व्रजेत् । पापोपलिप्तस्तीर्थेऽस्मिन् स्नातो निर्मलतां व्रजेत् ॥ ९०.३१ ॥ संन्यासं कुरुते यस्तु तस्मिंस्तीर्थे नराधिप । ध्यायमानो महादेवं स गच्छेत्परमं पदम् ॥ ९०.३२ ॥ क्रीडित्वा च यथा कामं स्वेच्छया शिवमन्दिरे । वेदवेदाङ्गतत्त्वज्ञो जायते विपुले कुले ॥ ९०.३३ ॥ रूपवान् सुभगश्चैव सर्वव्याधिविवर्जितः । सर्वधर्मसमोपेतः सर्वाचारसमन्वितः ॥ ९०.३४ ॥ एतत्ते कथितं राजंस्तीर्थस्य फलमुत्तमम् । तच्छ्रुत्वा मानवो नित्यं मुच्यते सर्वपातकैः ॥ ९०.३५ ॥ यश्चैनं श्रावयेद्भक्त्या आख्यानं द्विजसन्निधौ । श्राद्धे देवगृहे चैव पठेत्पर्वणि पर्वणि ॥ ९०.३६ ॥ गीर्वाणास्तस्य तुष्यन्ति मनुष्याः पितृभिः सह । पठतां शृण्वतां चैव नश्येद्वै पापसंचयः ॥ ९०.३७ ॥ लिखित्वा तीर्थमाहात्म्यं ब्राह्मणेभ्यो ददाति यः । जातिस्मरं स लभते प्राप्नोत्यभिमतं फलम् ॥ ९०.३८ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे चित्रसेनकथावर्णनो नाम नवतितमोऽध्यायः ॥ अध्याय ९१ राजोवाच - अन्यच्च श्रोतुमिच्छामि केन गङ्गावतारिता । रुद्रशीर्षस्थिता पुण्या देवी कथमिहागता ॥ ९१.१ ॥ पुण्या देवशिलानाम तस्या माहात्म्यमुत्तमम् । एतदाख्याहि मे सर्वं प्रसादात्पुरुषोत्तम ॥ ९१.२ ॥ रुद्र उवाच - शृणुष्वैकमना भूत्वा यथा गङ्गावतारिता । पुरा देवी महाभाग ब्रह्माद्यैः सकलैः सुरैः ॥ ९१.३ ॥ अभ्यर्थयज्जगन्नाथं देवदेवं जगद्गुरुम् । घटमध्ये स्थिता गङ्गा मोचिता च सुभूतले ॥ ९१.४ ॥ भारती च ततो मुक्ता रुद्रेण शिरसो भुवि । नरास्तीर्थे तटे तस्याः स्नानं कुर्वन्ति भक्तितः ॥ ९१.५ ॥ पिबन्ति च जलं नित्यं न ते यान्ति यमालयम् । यत्र सा पतिता कुण्डे शूलभेदे नराधिप ॥ ९१.६ ॥ देवनद्याः प्रतीच्यां च यत्र प्राची सरस्वती । याम्यां च शूलभेदाख्यमस्ति तीर्थमनुत्तमम् ॥ ९१.७ ॥ तत्रदेवशिला रम्या स्वयं देवेन निर्मिता । तत्र स्नात्वा तु यो भक्त्या ब्राह्मणं भोजयेन्नृप ॥ ९१.८ ॥ अल्पस्यैव तु दानस्य तस्य चान्तो न विद्यते । उत्तानपाद उवाच - कानि दानानि शस्तानि देवेश धरणीतले ॥ ९१.९ ॥ यानि दत्त्वा नरो भक्त्या मुच्यते सर्वकिल्बिषैः । देवशिलाया माहात्म्यं स्नानदानाद्धि यत्फलम् ॥ ९१.१० ॥ व्रतोपवासनि यमैर्यत्प्राप्यं तद्वदस्व मे । श्रीभगवानुवाच - आसीत्पुरा महावीर्यश्चेदिनाथो महाबलः ॥ ९१.११ ॥ वीरसेन इति ख्यातो मण्डलाधिपतीश्वरः । तस्य राज्ये रिपुर्नास्ति न व्याधिर्न च तस्करः ॥ ९१.१२ ॥ न चाधर्मोऽभवत्तत्र धर्म एव हि सर्वदा । सदा मुदान्वितो राजा सभार्यो बहुपुत्रकः ॥ ९१.१३ ॥ एका च दुहिता तस्य सुरूपा गिरिजा इव । दृष्टा सा पितृमातृभ्यां बन्धुवर्गजनैः सह ॥ ९१.१४ ॥ कृत्वा वैवाहिकं कार्यं काले प्राप्ते यथा विधि । अनन्तरं चेदिपतिर्द्वादशाब्दे महेश्वरः ॥ ९१.१५ ॥ ततस्तस्यास्तु यो भर्ता स मृत्युवशमागतः । विधवां तां सुतां दृष्ट्वा राजा शोकसमन्वितः ॥ ९१.१६ ॥ उवाच वचनं राजा स्वभार्यां दुःखपीडितः । भद्रे दुःखमिदं जातं यावज्जीवं सुदुःसहम् ॥ ९१.१७ ॥ नैषा रक्षयितुं शक्या रूपयौवनदर्पिता । नोपायो विद्यते भार्य्ये भानुमत्याश्च रक्षणे ॥ ९१.१८ ॥ परस्परं विवदतोस्तच्छ्रुत्वा कन्यकाऽब्रवीत् । भानुमत्युवाच - न व्रीडामि तवाग्रेऽहं ज्वलन्ती दाहकेनच ॥ ९१.१९ ॥ सत्यं नोत्पद्यते दोषो मदर्थे च नराधिप । अद्य प्रभृत्यहं तात न वेषं धारये क्वचित् ॥ ९१.२० ॥ स्थूलवस्त्रैर्निजाङ्गानि परिधास्यामि संयता । चरिष्यामि व्रतान् सर्वान् पुराणविहितानपि ॥ ९१.२१ ॥ आत्मानं शोषयिष्यामि तोषयन्ती जनार्दनम् । ममैषा वर्तते बुद्धिर्यदि त्वं तात मन्यसे ॥ ९१.२२ ॥ भानुमत्या वचः श्रुत्वा राजा स्नेहार्दितोऽभवत् । तीर्थयात्रां समुद्दिश्य कोशं दत्त्वा च पुष्कलम् ॥ ९१.२३ ॥ विसृज्य राजा स्वसुतां वृद्धान् कृत्वा तु रक्षणे । पुरुषं सायुधं चान्यं ब्राह्मणं च पुरोहितम् ॥ ९१.२४ ॥ अवगाह्य तटे ध्यातुं गङ्गायां सा नराधिप । नित्यमापूजयद्विप्रान् गन्धमाल्यादिभूषणैः ॥ ९१.२५ ॥ दासीदासप्रभृतयस्तस्या ये रक्षणे क्षमाः । ततः पितुर्मतेनैव गङ्गातीरे समास्थिताः ॥ ९१.२६ ॥ द्वादशाब्दानि सा तीरे गङ्गायाः समवस्थिता । त्यक्त्वा गङ्गां क्वचिद्राजपुत्री काष्ठां तु दक्षिणाम् ॥ ९१.२७ ॥ प्राप्ता सा सचिवैः सार्द्धं यत्र रेवा महानदी । षण्मासं च स्थिता तत्र ओंकारेऽमरकण्टके ॥ ९१.२८ ॥ नानाविधेषु तीर्थेषु तीर्थात्तीर्थं जगाम ह । स्नात्वा स्नात्वा द्विजान् पूज्यभक्तियुक्ता ह्यधिष्ठिता ॥ ९१.२९ ॥ वारुणीं च दिशं गत्वा देवनद्याश्च सङ्गमे । ददर्श चाश्रमं पुण्यमृषिसङ्घैर्निषेवितम् ॥ ९१.३० ॥ दृष्ट्वा ऋषिसमूहं सा प्रणिपत्येदमब्रवीत् । माहात्म्यं चास्य तीर्थस्य नाम चैवास्य कीर्तय ॥ ९१.३१ ॥ ऋषिरुवाच - चक्रतीर्थं तु विख्यातं चक्रं दत्तं पुरा हरेः । महेश्वरेण तुष्टेन देवदेवेन शूलिना ॥ ९१.३२ ॥ अत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः । अनिवर्तिका गतिस्तस्य भविता नात्र संशयः ॥ ९१.३३ ॥ द्वितीयेऽह्नि ततो गच्छेच्छूलभेदं तपस्विनि । रात्रौ जागरणं कृत्वा पठेत्पौराणिकीं कथाम् ॥ ९१.३४ ॥ विष्णुपूजां प्रकुर्वीत पुष्पदीपनिवेदनैः । प्रभाते भोजयेद्विप्रान् दानं दद्यात्स्वभक्तितः ॥ ९१.३५ ॥ चतुर्थेऽह्णि तथा गच्छेद्यत्र प्राची सरस्वती । ब्रह्मदेवाद्विनिष्क्रान्ता पावनार्थं नराधिप ॥ ९१.३६ ॥ तत्र स्नात्वा नरो गत्वा तर्पयेत्पितृदेवताः । श्राद्धदस्तु वसेत्तत्र यत्र देवः पितामहः ॥ ९१.३७ ॥ पञ्चमेऽह्णि ततो गच्छेल्लिङ्गं मार्कण्डसंज्ञितम् । तत्र स्नात्वा तु यो भक्त्या अर्चयेत्पितृदेवताः ॥ ९१.३८ ॥ श्राद्धं कृत्वा यथा न्यायमनिन्द्यान् पूजयेद्द्विजान् । पितरस्तस्य तृप्यन्ति द्वादशाब्दं न संशयः ॥ ९१.३९ ॥ सर्वदेवमयं स्थानं सर्वतीर्थमनुत्तमम् । कोटितीर्थसमं स्थानं कोटिलिङ्गोत्तमोत्तमम् ॥ ९१.४० ॥ त्रिरात्रं कुरुते यस्तु शुचिः स्नानं जितेन्द्रियः । पक्षं मासं च षण्मासमब्दमेकं कदाचन ॥ ९१.४१ ॥ न तस्य वसतिर्मर्त्ये नाके वासः सदाक्षयः । नियमस्थस्तु मुच्येत त्रिजन्मजनितादघात् ॥ ९१.४२ ॥ विना पुमांसं या नारी द्वादशाब्द तु सुव्रता । तिष्ठते साक्षयं कालं रुद्रलोके महीयते ॥ ९१.४३ ॥ मुनेश्च वचनं श्रुत्वा मुदां परमिकां ययौ । ततोऽवगाहते तीर्थमहर्निशमतन्द्रितम् ॥ ९१.४४ ॥ दृष्ट्वा तीर्थप्रभावं तु राज्ञी वचनमब्रवीत् । श्रूयतां वचनं मेऽद्य ब्राह्मणाः सपुरोहिताः ॥ ९१.४५ ॥ न त्यजामीदृशं स्थानं यावज्जीवाम्यहर्निशम् । मात्रे पित्रे तथा भ्रात्रे सद्भिर्वाच्यमिदं वचः ॥ ९१.४६ ॥ वर्तते शूलभेदे सा नियता व्रतचारिणी । एकान्तरोपवासेन शनैर्मासमुपोषिता ॥ ९१.४७ ॥ देवशिलास्थिता नित्यं ध्यायमाना तु केशवम् । अहर्निशं स्थिता भूमौ दृष्टा राज्ञी शुभानना ॥ ९१.४८ ॥ व्रतस्था नियताहारा नाम्ना भानुमती शुभा । गतेषु द्विजमुख्येष्वाययौ शबरयुग्मकम् ॥ ९१.४९ ॥ उवाच वचनं तत्र तां दृष्ट्वा शबराङ्गना । नैवाऽस्याः सदृशी काचित्त्रिषु लोकेषु विश्रुता ॥ ९१.५० ॥ साक्षादसौ देवकन्या ह्यवतीर्णा महीतले । भार्याया वचनं श्रुत्वा शबरस्तामुवाच ह ॥ ९१.५१ ॥ कमलानि यथा लाभं दत्त्वा त्वं भुङ्क्ष्व सत्वरम् । मम चैवार्चने बुद्धिर्न भोक्तव्यं मयाऽद्य वै ॥ ९१.५२ ॥ न मया वर्जितं भद्रे पापवृद्ध्याऽशुभं कृतम् । शबर्युवाच - न पूर्वं तु मया स्वामिन् भुक्तं तस्मिंस्तु वासरे ॥ ९१.५३ ॥ भुक्तशेषं मया भुक्तं यावत्कालं स्मराम्यहम् । भार्याया निश्चयं ज्ञात्वा स्नानं कर्तुं जगाम ह ॥ ९१.५४ ॥ अर्धोत्तरीयवस्त्रेण स्नानं कृत्वा तु भक्तितः । सर्वदेवं नमस्कृत्य गतो देवशिलां प्रति ॥ ९१.५५ ॥ तस्थौ स शङ्कमानोऽपि ध्यायमानो जनार्दनम् । कुमुदद्वयं शबर्या तु दासीहस्ते निवेदितम् ॥ ९१.५६ ॥ दृष्ट्वा राज्ञी तथा पुष्पे दासीं चैव तदाब्रवीत् । त्वेदं पुष्पद्वयं लब्धं कथ्यतां तच्च साम्प्रतम् ॥ ९१.५७ ॥ शीघ्रं गच्छावगच्छ त्वं पुष्पं चैवानयापरम् । अनेन वसुना चैव कमलानि समानय ॥ ९१.५८ ॥ भानुमत्या वचः श्रुत्वा गता सा शबरीं प्रति । श्रीफलानि च पुष्पाणि बहून्यन्यानि देहि मे ॥ ९१.५९ ॥ शबर्युवाच - श्रीफलानि च दास्यामि पुष्पाणि च विशेषतः । मूल्येन मे स्पृहा नास्ति गत्वा राज्ञीं निवेदय ॥ ९१.६० ॥ गता दासी निवेद्याथ राज्ञी च स्वयमागता । उवाच शबरं राज्ञी पुष्पं मूल्येन देहि मे ॥ ९१.६१ ॥ शबर उवाच - न मूल्यं कामये देवि फलपुष्पसमुद्भवम् । श्रीफलानि च पुष्पाणि यथेष्टं मम गृह्यताम् ॥ ९१.६२ ॥ अर्चां कुरु यथान्यायं वासुदेवं जगत्पतिम् । राज्ञी उवाच - विना मूल्यं न गृह्णामि कमलानि तवाधुना ॥ ९१.६३ ॥ धान्यस्य खण्डिकामेकामेतां प्रति निगृह्यताम् ॥ ९१.६४ ॥ शबर उवाच - नाहारं चिन्तयाम्यद्य मुक्त्वा देवं वरानने ॥ ९१.६५ ॥ देवकार्यं विना भद्रे नान्याबुद्धिः प्रवर्तते । राज्ञी उवाच - न त्वयान्नं परित्याज्यं सर्वमन्ने प्रतिष्ठितम् ॥ ९१.६६ ॥ तस्मात्सर्वप्रयत्नेन ममान्नं प्रतिगृह्यताम् । तपस्विनो महाभागा ये चारण्यनिवासिनः ॥ ९१.६७ ॥ ते मद्द्वारे स्थिताः सर्वे याचन्ते तेऽन्नकाङ्क्षिणः । शबर उवाच - निषेधोऽधिकृतः पूर्वं मया सत्यं न संशयः ॥ ९१.६८ ॥ सत्यमूलं जगत्सर्वं सत्ये चैव प्रतिष्ठितम् । सत्येन तपते सूर्यः सत्येन द्योतते शशी ॥ ९१.६९ ॥ सत्येन वायवोवान्ति धरा सत्ये प्रतिष्ठिता । तस्मात्सर्वप्रयत्नेन सत्यं सत्यं न लोपयेत् ॥ ९१.७० ॥ राज्ञी उवाच - आरामोपहृतं पुष्पमारण्यं पुष्पमेव च । क्रीतं प्रहिग्रहाल्लब्धं पुष्पमेवं चतुर्विधम् ॥ ९१.७१ ॥ उत्तमं फलमारण्यं गृहीत्वा स्वयमेव हि । मध्यमं फलमाराम्यमधमं क्रीतमेव च ॥ ९१.७२ ॥ प्रतिग्रहेण यल्लब्धं निष्फलं तद्विदुर्बुधाः । पुरोहित उवाच - गृहाण राज्ञि पुष्पाणि पूजां कुरु जनार्दने ॥ ९१.७३ ॥ उपकारं प्रकुर्वन्ती पूजां चक्रे यथाविधि । रात्रौ जागरणं कृत्वा कथा पौराणिकी श्रुता ॥ ९१.७४ ॥ शबरस्तु ततो भार्यामिदं वचनमब्रवीत् । दीपार्थं गृह्यतां स्नेहो यथालाभेन सुन्दरि ॥ ९१.७५ ॥ दत्त्वा दीपं ततः कृत्वा धूपं पूजां जनार्दने । कृत्वा जागरणं रात्रौ ध्यायमानस्तु केशवम् ॥ ९१.७६ ॥ ततः प्रभातसमये दृष्ट्वा स्नानोत्सुकंजनम् । केचिच्च शूलभेदे तु देवनद्यां तथैव च ॥ ९१.७७ ॥ सरस्वत्यां तथा केचिन्मार्कण्डेये तथा ह्रदे । चक्रतीर्थे तथा केचित्स्नानं कुर्वन्ति भक्तितः ॥ ९१.७८ ॥ शुचिभूतास्तु ते सर्वे जना देवशिलोपरि । श्राद्धं कुर्वन्ति वै तत्र प्रयत्नेन द्विजर्षभाः ॥ ९१.७९ ॥ तान् दृष्ट्वा शबरो बिल्वैः पिण्डं निर्वर्तयेत्ततः । भानुमत्या तथा सक्तुपिण्डनिर्वपणं कृतम् ॥ ९१.८० ॥ अनिन्द्य भोजयेद्विप्रं दम्भदोषविवर्जितम् । हविष्येण तथा दध्ना शर्करामधुसर्पिषा ॥ ९१.८१ ॥ पायसेन च गव्येन कृशरेण विशेषतः । भोजयित्वा तथा राज्ञी दानं दत्त्वा यथाविधि ॥ ९१.८२ ॥ पादुकोपानहौ छत्रं शय्या गोवृषमेव च । विविधानि च दानानि हेमरत्नमयानि च ॥ ९१.८३ ॥ तत्र तीर्थे महाराज कपिलां यः प्रयच्छति । तेन दत्ता मही राजन् सशैलवनकानना ॥ ९१.८४ ॥ उत्तानपाद उवाच - तिलप्रदः प्रजा इष्टा दीपदश्चक्षुरुत्तमम् । भूमिदः स्वर्गमाप्नोति दीर्घायुश्च हिरण्यदः ॥ ९१.८५ ॥ गृहदो रोगरहितो रौप्यदो रूपमुत्तमम् । वासोदश्चन्द्रलोकं तु अश्वदः सूर्यलोकभाक् ॥ ९१.८६ ॥ वृषदस्तु श्रियं पुण्यां गोदानात्तु त्रिविष्टपम् । शय्यादानं च यो दद्यात्स स्वर्गमभयप्रदः ॥ ९१.८७ ॥ धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम् । सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ॥ ९१.८८ ॥ भार्यामश्वं महीं वासस्तिलकां च न सर्पिषम् । ये नयेन हि भावेन दानं विप्राय यच्छति ॥ ९१.८९ ॥ तेन तेन हि भावेन प्राप्नोति पदपूजितम् । दृष्ट्वा दानानि सर्वाणि राज्ञ्या दत्तानि यानि च ॥ ९१.९० ॥ उवाच शबरो भार्यां यच्छृणुष्व नराधिप । शबर उवाच - पुराणं पठितं भद्रे ब्राह्मणैर्वेदपारगैः ॥ ९१.९१ ॥ श्रुतं च तन्मया सर्वं दानधर्मपरं शुभम् । पूर्वजन्मार्जितं पापं स्नानदानव्रतेन च ॥ ९१.९२ ॥ तत्सर्वं च क्षयं जातं मदीयेन प्रिये शृणु । अत्र दत्तं हुतं तप्तं सर्वं भवति चाक्षयम् ॥ ९१.९३ ॥ ते द्विजा भानुमत्या च शूलभेदं गतास्ततः । ददृशुः शबरं कुण्डे शबर्या सह संस्थितम् ॥ ९१.९४ ॥ ईशान्यां च ततो गत्वा भृगुपर्वतमूर्धनि । मर्तुकामस्तथारूढो भार्यया सह पार्थिव ॥ ९१.९५ ॥ राजपुत्र्युवाच - तिष्ठ तिष्ठ महासत्त्व शृणुष्व वचनं मम । किमर्थं त्यजसि प्राणानद्यापि च युवा भवान् ॥ ९१.९६ ॥ किं सन्तापः समुद्वेगः किं दुःखं व्याधिरेव च । शिशुश्च दृश्यतेऽद्यापि कारणं कथयस्व मे ॥ ९१.९७ ॥ शबर उवाच - कारणं नास्ति मे किंचिन्न दुःखं किंचिदेव हि । संसारसारभूतत्वे नान्या बुद्धिः प्रवर्तते ॥ ९१.९८ ॥ दुःखेन लभते यस्मान्मनुष्यत्वं वरानने । मानुष्यं जन्म चासाद्य यो न धर्मं समाचरेत् ॥ ९१.९९ ॥ स गच्छेन्नरकं घोरमल्पदोषेण सुन्दरि । तस्मात्पतितुमिच्छामि अस्मिंस्तीर्थे तपस्विनि ॥ ९१.१०० ॥ राजपुत्र्युवाच - अद्यापि वर्तते कालः स्वधर्मा विविधाः क्रियाः । कृत्वा प्रकृतधर्माणि तत्र दानेन शुद्ध्यति ॥ ९१.१०१ ॥ अहं दास्यामि ते धान्यं वासांसि द्रविणानि च । नित्यं त्वमाचरेर्धर्मं ध्यायमानो जनार्दनम् ॥ ९१.१०२ ॥ शबर उवाच - न चाहं कामये देवि धान्यं वस्त्राणि चैव हि । यः परस्यान्नमश्नाति स नरोऽश्नाति किल्बिषम् ॥ ९१.१०३ ॥ राजपुत्र्युवाच - कन्दमूलफलाहारो भुक्त्वा वै भक्ष्यमुत्तमम् । अवगाह्य च तीर्थानि सर्वपापैः प्रमुच्यसे ॥ ९१.१०४ ॥ ततो विमुक्तपापस्तु यः कश्चित्पुरुषः शुचिः । कर्मणा तेन चैव त्वं गतिं सम्प्राप्स्यसे शुभाम् ॥ ९१.१०५ ॥ शबर उवाच - अत्र मध्ये मया त्यक्ताः प्राणा दृष्ट्वा हितं च यत् । सत्यन्न लोपये देवि इति मे निश्चिता मतिः ॥ ९१.१०६ ॥ प्रसादः क्रियतां देवि क्षमस्व त्वं जनैः सह । बद्धोत्तरीयवस्त्रेण आत्मानं च प्रयत्नतः ॥ ९१.१०७ ॥ भार्यया सहितस्तत्र हरिं ध्यात्वा पपात ह । नगार्धं पतितो यावद्गतजीवो नराधिप ॥ ९१.१०८ ॥ तूष्णीं भूतं तु तं दृष्ट्वा कुण्डस्योपरि भूमिप । त्रिमूर्तिगर्ते तत्काले शबरो भार्यया सह ॥ ९१.१०९ ॥ दिव्यं विमानमारूढो गतश्च गतिमुत्तमाम् ॥ ९१.११० ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे शबरस्वर्गारोहणं नामैकनवतितमोऽध्यायः ॥ अध्याय ९२ राजोवाच - ततस्तयापि देवेश भानुमत्या हि किंकृतम् । एतन्मे संशयं देव कथयस्व प्रसादतः ॥ ९२.१ ॥ हर उवाच - चिन्तयित्वा तु सा राज्ञी गता कुण्डस्य सन्निधौ । दृष्ट्वा तीर्थस्य माहात्म्यं राज्ञी हर्षेण पूरिता ॥ ९२.२ ॥ विप्रान् बहून् समाहूय पूजयामास तत्क्षणात् । ददौ च विविधं दानं ब्राह्मणेभ्यो नराधिप ॥ ९२.३ ॥ दत्त्वा च दक्षिणामेवं मधुमासे च भूमिप । अमायां च ततो राज्ञी गता पर्वतमूर्धनि ॥ ९२.४ ॥ नगशृङ्गं समारुह्य कृत्वा तु करसम्पुटम् । विज्ञाप्य ब्राह्मणान् सर्वानिदं वचनमब्रवीत् ॥ ९२.५ ॥ मम माता पिता भ्राता तथाऽन्ये चैव बान्धवाः । सर्वे क्षमन्तु ते सर्वैरिदं वाच्यं तदा वचः ॥ ९२.६ ॥ इत्युक्त्वा शूलभेदे तु तपः कृत्वा सुदारुणम् । विसृज्य चैवमात्मानं तस्मिंस्तीर्थे दिवंगता ॥ ९२.७ ॥ ब्राह्मणा ऊचुः॒ सन्देशं कथयिष्यामस्त्वयोक्तं शोभनव्रते । मातापित्रोश्च सुश्रोणि मा तेऽभूदत्र संशयः ॥ ९२.८ ॥ ततो विसृज्य लोकं तु स्थिता पर्वतसन्निधौ । अर्धोत्तरीयवस्त्रं तु गाढं कृत्वा पुनः पुनः ॥ ९२.९ ॥ ततो विसृज्य चात्मानमेकचित्ता नराधिप । नगार्द्धं पतिता यावत्तावद्दृष्टा सुरासुरैः ॥ ९२.१० ॥ दिव्यं विमानमारुह्य कैलासं सा जगाम ह । ततः सा पश्यतां तेषां जनानां त्रिदिवं गता ॥ ९२.११ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे भानुमतीस्वर्गारोहणं नाम द्विनवतितमोऽध्यायः ॥ अध्याय ९३ देव उवाच - ततः पुष्करिणीं गच्छेत्सर्वपापप्रणाशिनीम् । श्रुत्वा तस्याः प्रभावं तु सर्वपापैः प्रमुच्यते ॥ ९३.१ ॥ रेवाया उत्तरे कूले तीर्थं परमशोभनम् । यत्रास्ते सर्वदा देवो दिव्यमूर्तिर्दिवाकरः ॥ ९३.२ ॥ कुरुक्षेत्रं यथापुण्यं सर्वकामिकमुत्तमम् । इदं तीर्थं तथा पुण्यं सर्वकामफलप्रदम् ॥ ९३.३ ॥ कुरुक्षेत्रे यथा वृद्धिर्दानस्य जगतीपते । पुष्करिण्यां तथा वृद्धिर्दानस्यापि न संशयः ॥ ९३.४ ॥ यवमेकं तु यो दद्यात्सौवर्णं चात्र वै नृप । पुष्करिण्यां तथा स्नानं सर्वं स्थानेश्वरे स्मृतम् ॥ ९३.५ ॥ सूर्यग्रहे यथा शक्त्या दत्त्वा दानं यथा विधि । हस्त्यश्वरथरत्नानि गृहं गाश्च धुरन्धरान् ॥ ९३.६ ॥ सुवर्णं रजतं वापि ब्राह्मणेभ्यो ददाति यः । त्रयोदशदिनं यावत्त्रयोदशगुणं भवेत् ॥ ९३.७ ॥ तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः । द्वादशाब्दं भवेत्तृप्तिस्तत्र तीर्थे महीपते ॥ ९३.८ ॥ यस्तत्र कुरुते श्राद्धं पायसैर्मधुसर्पिषा । श्राद्धं मघादि ऋक्षेषु पितॄणां दत्तमक्षयम् ॥ ९३.९ ॥ अक्षतैर्बदरैर्बिल्वैरिङ्गुदैर्वै तिलैः सह । अक्षयं फलमाप्नोति तस्मिंस्तीर्थे न संशयः ॥ ९३.१० ॥ तत्र स्नात्वा तु यो देवं पूजयेच्च दिवाकरम् । स गच्छेत्परमं लोकं त्रिदशैरपि वन्दितः ॥ ९३.११ ॥ ऋचमेकां पठेद्यस्तु यजुषः साम्न एव च । समग्रस्य स वेदस्य फलमाप्नोति वै द्विजः ॥ ९३.१२ ॥ त्रिपुष्करं जपेन्मन्त्रं ध्यायमानो दिवाकरम् । स गच्छेत्परमं लोकं त्रिदशैरपि वन्दितम् ॥ ९३.१३ ॥ यस्तत्र विधिवत्प्राणांस्त्यजते नृपसत्तम । स गच्छेत्परमं स्थानं यत्र देवो दिवाकरः ॥ ९३.१४ ॥ मार्कण्डेय उवाच - भूयोऽप्यन्यत्प्रवक्ष्यामि आदित्येश्वरमुत्तमम् । सर्वदुःखहरं पार्थ सर्वविघ्नविनाशनम् ॥ ९३.१५ ॥ अस्य तीर्थस्य चान्यानि तीर्थानि कुरुनन्दन । न लभन्ते श्रियं नाके मर्त्ये पातालगोचरे ॥ ९३.१६ ॥ कुरुक्षेत्रं यथा गङ्गा नैमिषं पुष्करं तथा । वाराणसी च केदारं प्रयागो नृपनन्दन ॥ ९३.१७ ॥ रवितीर्थस्य सर्वाणि कलां नार्हन्ति षोडशीम् । रवितीर्थे च यद्दत्तं शृणुष्व कुरुनन्दन ॥ ९३.१८ ॥ स्नेहार्थे कथयिष्यामि वार्धक्ये नास्ति पण्डितः । शृण्वन्तु ऋषयः सर्वे तपोनिष्ठा महात्मानः ॥ ९३.१९ ॥ श्रुतं मे रुद्रसान्निध्ये स्कन्दरुद्रगणैः सह । पार्वत्या प्रार्थितः शम्भूरवितीर्थस्य यत्फलम् ॥ ९३.२० ॥ शम्भुनापि तदाख्यातं गिरिजायाः पुरस्तदा । तत्सर्वमेकचित्तेन रुद्रोद्गीतं श्रुतं मया ॥ ९३.२१ ॥ दुर्भिक्षोपहता विप्रा नर्मदा तटमाश्रिताः । उद्दालको वशिष्ठश्च माण्डव्यो गौतमस्तथा ॥ ९३.२२ ॥ याज्ञवल्क्योऽथ शाण्डिल्यश्च्यवनो भार्गवस्तथा । नाशके तुर्विभाण्डश्च बालखिल्यादयस्तथा ॥ ९३.२३ ॥ शातातपोऽपि शङ्खश्च जैमिनिर्गोभिलस्तथा । जैगीषव्यः शतानीक ऋषिसङ्घाः समागताः ॥ ९३.२४ ॥ तीर्थयात्रा कृता तैस्तु नर्मदाया समन्ततः । आदित्येशं समायाताः प्रसङ्गादृषिसत्तमाः ॥ ९३.२५ ॥ वृक्षैस्संछादितं सर्वं धवैस्तिन्दुकपाटलैः । जम्बीरैरर्जुनैः कुन्दैर्जटाकेसरकिंशुकैः ॥ ९३.२६ ॥ पुन्नागनारिकेरैस्तु खदिरैः कल्पपादपैः । अनेकश्वापदाकीर्णं मृगमालासमाकुलम् ॥ ९३.२७ ॥ ऋक्षहस्तिसमायुक्तं चित्रकैश्च सुशोभितम् । प्रविश्य ऋषयः सर्वे वने पुष्पफलाकुले ॥ ९३.२८ ॥ वनान्ते च नारी शुभ्रा दृष्टा रक्ताम्बरान्विता । रक्तमाल्या सुशोभाढ्या रस्तचन्दनचर्चिता ॥ ९३.२९ ॥ रक्ताभरणसंयुक्ता शशिहस्ता भयावहा । तस्याः समीपगो दृष्टः कृष्णजीमूतसन्निभः ॥ ९३.३० ॥ महाकायो भीमवक्त्रः पाशहस्तो भयावहः । अनाधृष्यो वयोवृद्ध आतुरः पिङ्गलोचनः ॥ ९३.३१ ॥ दीर्घजिह्वः करालास्यस्तीक्ष्णादंष्ट्रो दुरासदः । वृद्धां स्त्रियं कुरुश्रेष्ठ ते पश्यन् विप्रपुंगवाः ॥ ९३.३२ ॥ ततः समीपगा वृद्धा स च वृद्धश्च भारत । स्वाध्यायनिरतैर्विप्रैस्तौ पृष्टौ पापकर्मिणौ ॥ ९३.३३ ॥ वृद्धावूचतुः॒ युष्माकं यमिनः सर्वे तिष्ठध्वं तीर्थमध्यतः । शीघ्रं प्रविश्यतां सर्वे नर्मदा चैव सेव्यताम् ॥ ९३.३४ ॥ तयोः श्रुत्वा तु वचनं ब्राह्मणाः शंसितव्रताः । जग्मुस्ते नर्मदाकच्छं दृष्ट्वा रेवां द्विजोत्तमाः ॥ ९३.३५ ॥ नताः केचित्स्तुवन्त्यन्ये जयदेवि नमोऽस्तु ते ॥ ९३.३६ ॥ ऋषय ऊचुः॒ नमोऽस्तु ते सिद्धगणैर्निषेविते नमोऽस्तु ते सर्वपवित्रमङ्गले । नमोऽस्तु ते विप्रसहस्रपूजिते । नमोऽस्तु ते रुद्रसमुद्भवे परे ॥ ९३.३७ ॥ नमोऽस्तु ते सर्वपवित्रपावने नमोऽस्तु ते देवि वरे प्रसीद नः । नमोऽस्तु ते शीतजले सुखप्रदे सरिद्वरे पापहरे दयान्विते ॥ ९३.३८ ॥ अनेकभूताङ्गसुशोभिताङ्गे गन्धर्वयक्षोरगपाविताङ्गे । महागजौघा महिषा वराहाः क्रीडन्ति तोये सुमहोर्मिमालैः ॥ ९३.३९ ॥ नमामः सर्वे वरदे सुखप्रदेऽस्मान् पशुपाशबद्धान् । पापैरनेकैः पशुपाशबद्धा भ्रमन्ति तावन्नरकेषु नित्यम् ॥ ९३.४० ॥ यावत्तवाम्भो नहि संस्पृशन्ति स्पृष्टं करैश्चन्द्रमसो रवेश्च । अनेकसंसारभयार्दितानां पापैरनेकैः परिवेष्टितानाम् ॥ ९३.४१ ॥ गतिस्त्वमम्भोजसमानवक्त्रे द्वन्द्वैरनेकैरभिसंवृतानाम् । नद्यस्तु पूज्या विमला भवन्ति । त्वां देवि चासाद्य न संशयोऽत्र ॥ ९३.४२ ॥ दुखातुराणामभयं ददासि देवैरनेकैरभिपूजितासि । विण्मूत्रदेहार्णवमग्नदेहा भवन्ति तावन्नरकेषु मर्त्याः ॥ ९३.४३ ॥ महानिलोद्धूततरङ्गभङ्गं जलं न यावत्तव संस्पृशन्ति । म्लेच्छाः पुलिन्दास्त्वथ यातुधानाः पिबन्ति चाम्भस्तव देवि पुण्यम् ॥ ९३.४४ ॥ तेऽपि प्रमुञ्चन्ति भयात्तु घोरात्किमत्र विप्रा भयपापभीताः । घोरे युगेऽस्मिन् कलिनाम्न्यपुण्ये त्वं भ्राजसे कालजलौघपूर्णे ॥ ९३.४५ ॥ देव्यत्र नक्षत्रपथेऽपि गङ्गा तव प्रसादाद्दिवि देव्यतिष्ठत् । काले यथेष्टं परिपालय त्वं यास्याम लोकं तव सुप्रसादात् ॥ ९३.४६ ॥ वयं तथा त्वं कुरु नः प्रसादं त्वामाश्रितास्त्वां शरणं गता वै । गतिस्त्वमेवात्र पितेव पुत्रं त्वमादिदेव प्रभवे विचित्रे ॥ ९३.४७ ॥ कालेऽप्यनावृष्टिभवं क्षयं च रक्षस्व (?) । सर्वं जगतः स्वरूपम् .... .... ॥ ९३.४८ ॥ एवं स्तुता महादेवी नर्मदा सरितां वरा । प्रत्यक्षा सा पराभूता ब्राह्मणानां युधिष्ठिर ॥ ९३.४९ ॥ नर्मदोवाच - तुष्टाहं वरदा विप्रा दास्ये वो वाञ्छितं फलम् । ततोऽवर्षन्महामेघा धान्यं च प्रचुरं तथा ॥ ९३.५० ॥ कन्दमूलफलं शाकं सुखं सर्वसंश्रितम् । मार्कण्डेय उवाच - पठन्ति ये स्तोत्रमिदं नरेन्द्र शृण्वन्ति भक्त्या परयआ प्रपन्नाः ॥ ९३.५१ ॥ तेभ्योऽन्तकाले सरिदुत्तमेयं गतिं विशद्धां नितरां ददाति । प्रातः समुत्थाय समान एवं संकीर्तयेद्रुद्रमुमां च देवीम् ॥ ९३.५२ ॥ पापानि सर्वाणि लयं ग्रयान्ति समाश्रयन्ते च महानुभावाः । पापैस्तु मुक्ता दिवि मोदयन्ते शम्भोर्गिरा चैव तु नान्यथा च ॥ ९३.५३ ॥ मार्कण्डेय उवाच - दृष्टास्ते पुरुषा नान्या नर्मदातटमाश्रिताः । स्नानदेवार्च्चनैर्युक्ताः पञ्चैव तु महाबलाः ॥ ९३.५४ ॥ ते दृष्टा ब्राह्मणैः सर्वैर्वेदवेदाङ्गपारगैः । विप्रा ऊचुः॒ दिनान्ते च स्त्रियोर्युग्मं दृष्टं रौद्रं भयावहम् ॥ ९३.५५ ॥ त्रयो वृद्धाश्च पुरुषाः पाशहस्ता भयावहाः । दुर्द्धरा दुर्निसंकाशा इतश्चेतश्च चञ्चलाः ॥ ९३.५६ ॥ व्याहरन्ति भिया वाचा आकाङ्क्षा दर्शनस्य च । अपरस्परिणस्सर्वे निरीक्षन्ते परस्परम् ॥ ९३.५७ ॥ तेषु सङ्घेषु यत्प्रोक्तं तत्सर्वं कथयामि ते । पुरुषा ऊचुः॒ तीर्थावगाहनं सर्वैः पूर्वपश्चिमदक्षिणे ॥ ९३.५८ ॥ उत्तरे च कृतं भक्त्या न पापं तद्व्यपोहितम् । निष्पापाश्चात्र सञ्जातास्तीर्थस्यास्य प्रभावतः ॥ ९३.५९ ॥ शृण्वन्तु ऋषयः सर्वे अग्निज्वालोपमा द्विजाः । पातकानि च घोराणि यान्यचिन्त्यानि देहिनाम् ॥ ९३.६० ॥ पापिष्ठेन तु चानेन गरोर्दारा विदूषिताः । हृतं चान्येन मित्रस्य सुवर्णं च तथा च वै ॥ ९३.६१ ॥ ब्रह्महत्या कृता रौद्रा कृतं चान्येन पातकम् । सुरापानं तु चाप्यस्य संजातं चान्यकामतः ॥ ९३.६२ ॥ गोवधं पापमेतेन कृतमेकेन पापिना । अकामतोऽपि सर्वेषां पातकानि नराधिप ॥ ९३.६३ ॥ ब्राह्मणास्तांस्तु ते दृष्ट्वा पापिष्ठा गतकल्मषाः । तीर्थस्यास्य प्रभावेण नर्मदायाः प्रभावतः ॥ ९३.६४ ॥ न क्वाचित्पातकानां तु प्रवेशश्चात्र जायते । एवं संचिन्त्य ते सर्वे पापिष्ठाश्च परस्परम् ॥ ९३.६५ ॥ क्षिप्रमेव समुद्धृत्य विचिन्त्य हृदये हरिम् । स्नात्वा रेवाजले पुण्ये तार्पित्वा पितृदेवताः ॥ ९३.६६ ॥ नत्वा तु भास्करं देवं हृदि ध्यात्वा जनार्दनम् । कृत्वा प्रदक्षिणां भक्त्या ज्वलिते जातवेदसि ॥ ९३.६७ ॥ पतिताः पाण्डवश्रेष्ठ पापोद्विग्नाश्च पापिनः । सात्त्विकीं कामनां कृत्वा त्यक्त्वा प्राणान् दिवङ्गताः ॥ ९३.६८ ॥ निष्पापास्ते महाभागैर्नर्मदायोत्तरे तटे । विमानस्थास्तदा दृष्टा ब्राह्मणैस्ते युधिष्ठिर ॥ ९३.६९ ॥ आश्चर्यमतुलं दृष्टमृषिभिर्नर्मदातटे । तदा प्रभृति ते सर्वे रागद्वेषविवर्जिताः ॥ ९३.७० ॥ रवितीर्थं द्विजा हृष्टाः सेवन्ते मोक्षकाङ्क्षया ॥ ९३.७१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डेऽर्कतीर्थमहिमानुवर्णनो नाम त्रिनवतितमोऽध्यायः ॥ अध्याय ९४ मार्कण्डेय उवाच - तीर्थस्यास्य च यत्पुण्यं तच्छृणुष्व नराधिप । पण्डितो वृद्धभावेन भक्त्या त्रातो नरेश्वर ॥ ९४.१ ॥ उद्देशं कथयिष्यामि दृष्ट्वा वान्तरमेव च । कुरुक्षेत्रं यथापूतं रवितीर्थं श्रुतं तथा ॥ ९४.२ ॥ ईश्वरेण पुराख्यातं षण्मुखस्य युधिष्ठिर । श्रुतं रुद्रगणैः सर्वैरहं तत्र समीपगः ॥ ९४.३ ॥ मार्तण्डग्रहणे प्राप्ते ये व्रजन्ति षडानन । रवितीर्थे कुरुक्षेत्रे तुल्यमेव फलं भवेत् ॥ ९४.४ ॥ स्नाने दाने तथा जाप्ये होमे चैव विशेषतः । कुरुक्षेत्रे तथा पुण्यं नात्र कार्या विचारणा ॥ ९४.५ ॥ ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा । रवितीर्थे विशेषेण रविपर्वणि भूमिप ॥ ९४.६ ॥ तत्र सूर्यदिने भक्त्या व्यतीपाते च वैधृतौ । संक्रमणे ग्रहणे वाऽपि ये व्रजन्ति जितेन्द्रियाः ॥ ९४.७ ॥ कामक्रोधविनिर्मुक्ता रागद्वेषैस्तथैव च । कथां च वैष्णवीं पार्थ वेदाध्ययनमेव च ॥ ९४.८ ॥ ऋग्वेदं वा यजुर्वेदं सामवेदमथर्वणम् । ऋचमेकां तु जप्त्वैव समस्तफलमाप्नुयुः ॥ ९४.९ ॥ गायत्र्या च चतुर्वेदफलमाप्नोति मानवः । प्रभाते पूजयेद्देवमन्नदानहिरण्मयैः ॥ ९४.१० ॥ तत्र स्नात्वा द्विजे योग्ये कपिलां यः प्रयच्छति । पृथिवी तेन वै दत्ता सशैलवनकानना ॥ ९४.११ ॥ भूर्लोकश्च भुवर्लोको महर्लोको जनस्तथा । तपः सत्य तथा लोकं पातालान्येकविंशतिः ॥ ९४.१२ ॥ तेन दत्तं भवेत्सर्वं गोदानं येन वै कृतम् । तेषामब्दकृतं पापं नश्येद्वै नात्र संशयः ॥ ९४.१३ ॥ युधिष्ठिर उवाच - पुण्या गतिः कथं तात एतत्कथय तत्त्वतः । मार्कण्डेय उवाच - पुरा कृतयुगस्यादौ ब्रह्मालोकपितामहः ॥ ९४.१४ ॥ उत्पाद्य तथा सकलं भूतग्रामं चतुर्विधम् । आकुला पृथिवी तेन संजाता पाण्डुनन्दन ॥ ९४.१५ ॥ ततः पश्चाद्विचिन्त्येदं कथं लोको भविष्यति । कथं स्वर्गं प्रयास्यन्ति मानवा भक्तिसंयुताः ॥ ९४.१६ ॥ भानुश्चैव कथं प्रीतो लोकानां जायते भृशम् । विरञ्चेश्चिन्त्यमानस्य अग्निकुण्डात्समुत्थिता ॥ ९४.१७ ॥ ज्वलन्ती तेजसा पूर्णा घण्टा लुलितनिःस्वना । दृष्ट्वा तां तु महाभागां कपिलां कुण्डमध्यगाम् ॥ ९४.१८ ॥ ब्रह्मालोकगुरुस्तां तु प्रणम्येदमुवाच ह । नमस्ते कापिले पुण्ये सर्वलोकेष्वनुत्तमे ॥ ९४.१९ ॥ माङ्गल्ये मङ्गले देवि त्रिषु लोकेषु वन्दिते । त्वं लक्ष्मीस्त्वं धृतिर्मेधा पवित्रा तु वरानने ॥ ९४.२० ॥ उमादेवीति विख्याता त्वं शची नात्र संशयः । वैष्णवी त्वं महादेवी ब्रह्माणी त्वं वरानने ॥ ९४.२१ ॥ कुमारी त्वं महाभागे भक्तिः श्रद्धा तथैव च । कालरात्री तु भूतानां कुमारी परमेश्वरी ॥ ९४.२२ ॥ त्वं त्रुटिस्त्वं घटी चैव मुहूर्तक्षणमेव च । संवत्सरर्तवो मासास्त्वं कालः पुरुषः सदा ॥ ९४.२३ ॥ नास्ति किंचित्त्वया हीनं त्रैलोक्ये सचराचरे । एवं स्तुता तु सा तेन कपिला परमेष्ठिना ॥ ९४.२४ ॥ तमुवाच महाभागा प्रहृष्टा परमेष्ठिनम् । प्रसन्ना तव वाक्येन देवदेव जगद्गुरो ॥ ९४.२५ ॥ ब्रह्मोवाच - जगद्धिताय जनिता मया त्वं परमेश्वरि । स्वर्गान्मर्त्यमितो याहि लोकानां हितकाम्यया ॥ ९४.२६ ॥ सर्वदेवमयीं त्वां तु सर्वलोकमयीं तथा । विधिना ये प्रदास्यन्ति तेषां वासस्त्रिविष्टपे ॥ ९४.२७ ॥ एवमुक्ता ततः पुण्या कपिला परमेष्ठिना । आजगाम भुवः पृष्ठे वन्द्यमाना सुरोत्तमैः ॥ ९४.२८ ॥ पवित्रा वसुधा तेन संजाता पाण्डुनन्दन । तस्या अङ्गेषु ये देवास्तान्मे निगदतः शृणु ॥ ९४.२९ ॥ मुखे ह्यग्निः स्थितो देवो दन्तेषु च भुजङ्गमाः । धाता विधाता चोष्ठौ च अश्विनौ कर्णसंस्थितौ ॥ ९४.३० ॥ वज्रपाणिः स्थितः शृङ्गे शृङ्गमध्ये पितामहः । कालो मध्यगतस्तात पाशभृद्वरुणस्तथा ॥ ९४.३१ ॥ यमश्च भगवान् देव आस्यस्योपरि संस्थितः । नाभिमध्ये स्थितश्छन्दो देवा जङ्घासु भारत ॥ ९४.३२ ॥ वसुन्धरा स्थिता नाभ्यां पर्वताः सन्धिषु स्थिताः । वृक्षा गुल्मानि वल्ल्यश्च सन्धिमार्गे व्यवस्थिताः ॥ ९४.३३ ॥ ऋषयो रोमकूपेषु संस्थिताः पाण्डुनन्दन । स्नायुस्थाः पितरः सर्वे प्रस्रवं सर्वतीर्थजम् ॥ ९४.३४ ॥ सर्वेषां गोमयं श्रेष्ठं पवित्रं पापनाशनम् । खुरेषु पन्नगाः सर्वे पुच्छाग्रे सूर्यरश्मयः ॥ ९४.३५ ॥ एवं भूता तु कपिला सर्वदेवमयी किल । ये ध्यायन्ति गृहे भक्त्या ते मुक्ता नात्र संशयः ॥ ९४.३६ ॥ प्रातरुत्थाय यो भक्त्या नित्यं कुर्यात्प्रदक्षिणम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ ९४.३७ ॥ कपिलापञ्चगव्येन यः स्नापयति शङ्करम् । विष्णुं वा जगदाधारं सूर्यं वा त्वन्यदैवतम् ॥ ९४.३८ ॥ पञ्चामृतेन संस्नाप्य भक्त्या गव्येन पाण्डव । अब्दं वा श्रोत्रिये नित्यं कपिलां यः प्रयच्छति ॥ ९४.३९ ॥ तुल्यमेतत्फलं प्रोक्तं शङ्करेण युधिष्ठिर । य प्रदास्यति विप्राय रवितीर्थे सुयन्त्रितः ॥ ९४.४० ॥ कपिलां वाथ कृष्णां वा श्वेतां रक्तां च पाटलाम् । क्षीरिणीं तरुणीं शुभ्रां सवत्सां वस्त्रसंयुताम् ॥ ९४.४१ ॥ स्वर्णशृङ्गीं रौप्यखुरीं विष्णुरूपं द्विजं स्मरन् । आत्मानं विष्णुरूपं च धेनुमादित्यरूपिणीम् ॥ ९४.४२ ॥ यो ददाति महाबाहो तस्य वासस्त्रिविष्टपो । ब्रह्महत्या विनिर्मुक्तः सुरापानं च दारुणम् ॥ ९४.४३ ॥ गुर्वङ्गनागमः स्तेयो स्वामिद्रोहो गवां वधः । मित्रविश्वासघातं च गुरुनिन्दासमुद्भवम् ॥ ९४.४४ ॥ स्थितिर्नष्टे च वंशे च निर्माल्यस्यावलङ्घनम् । कन्यागमागमश्चैव अभक्षस्य तु भक्षणम् ॥ ९४.४५ ॥ वृषली गमनं रौद्रं कुरूपागमनोद्भवम् । अग्निदं गरदं चैव कूटसाक्ष्यसमुद्भवम् ॥ ९४.४६ ॥ तत्सर्वं नाशयेत्पापं धेनुर्दानेन पाण्डव । सुरभिसंगमे पुण्ये निष्ठुते पापनाशने ॥ ९४.४७ ॥ श्राद्धं प्रेतस्य यो भक्त्या दापयेत्कुन्तिनन्दन । तस्य प्रीतो भवेत्सूर्यः सुप्रीतो भव एव च ॥ ९४.४८ ॥ दानं यद्दीयते तत्र सूर्यमुद्दिश्य भक्तितः । मित्रलोके सुखं याति नर्मदायाः प्रसादतः ॥ ९४.४९ ॥ दधिच्छन्दे मधुच्छन्दे देवयाने सुखप्रदे । भीमेश्वरे कुरुश्रेष्ठ समं पुण्यं प्रशस्यते ॥ ९४.५० ॥ पृथिव्यां सागरान्तायां प्रख्यातं तीर्थपञ्चकम् । ये न जानन्ति भूमिस्था ते मृता नात्र संशयः ॥ ९४.५१ ॥ स्नानं देवार्चनं जाप्यं होमं ब्राह्मणपूजनम् । भूमिदानेन वस्त्रेण अन्नदानेन भक्तितः ॥ ९४.५२ ॥ उपानच्छत्रशयाना गृहदानेन पाण्डव । ग्रामकन्याप्रदानेन गजदानहयेन च ॥ ९४.५३ ॥ विद्याशकटदानेन सर्वेषामभयप्रदः । स याति सर्वतीर्थानि रवितीर्थं युधिष्ठिर ॥ ९४.५४ ॥ तीर्थयात्राप्रभावेण व्याधयो यान्ति संक्षयम् । शत्रवो मित्रतां यान्ति विषं वा ह्यमृतायते ॥ ९४.५५ ॥ ग्रहाः सर्वेऽभवन् प्रीताः प्रीतस्तस्य दिवाकरः । तीर्थस्यास्य पयः पीत्वा यत्पुण्यं जायते नृणाम् ॥ ९४.५६ ॥ अब्दमश्वत्थसेवायां कपिलायास्तु दानतः । तत्फलं कथयिष्यामि भक्त्या तव महीपते ॥ ९४.५७ ॥ पापाः सर्वे विलीयन्ते भिन्नपात्रे जलं यथा । तीर्थस्याभिमुखं वृत्तं गच्छतां नात्र संशयः ॥ ९४.५८ ॥ इह बाह्यान्तरं तीर्थं कथितं तव पार्थिव । पापिष्ठानां कृतघ्नानां स्वामिमित्रविरोधिनाम् ॥ ९४.५९ ॥ तीर्थाख्यानं शुभं तेषां गोपितव्यं सदा बुधैः ॥ ९४.६० ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे आदित्येश्वरतीर्थकीर्तनो नाम चतुर्नवतितमोऽध्यायः ॥ अध्याय ९५ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र करञ्जेश्वरमुत्तमम् । यत्र ते निहतास्तात दानवास्तत्पदानुगैः ॥ ९५.१ ॥ इन्द्राद्यैश्चैव संहृष्टैः स्तुतो यज्ञः सुबुद्धिभिः । तेषां ये पुत्रपौत्राश्च पूर्ववैरमनुस्मरन् ॥ ९५.२ ॥ तत्र स्थास्तु सुराः सर्वे स्थापयित्वा ह्युमापतिम् । इन्द्रचन्द्रयमाः सूर्यः स्थापयित्वेष्टसिद्धये ॥ ९५.३ ॥ हृष्टपुष्टाः सुराः सर्वे जग्मुराकाशसस्थिताः । दानवानां महाभाग करोट्यः पतिता यतः ॥ ९५.४ ॥ तदा प्रभृति तत्तीर्थं करोटीति महीपते । विख्यातं भारते लोके भूपृष्ठे पाण्डुनन्दन ॥ ९५.५ ॥ अष्टम्यां च चतुर्दश्यां शुभे पक्षे तु भक्तितः । उपोष्य शूलिनश्चाग्रे रात्रौ कुर्वीत जागरम् ॥ ९५.६ ॥ तत्कथालापसंयुक्तं वेदोद्गीतं तथैव च । प्रभाते विमले प्राप्ते स्थाणुं सम्पूज्य यत्नतः ॥ ९५.७ ॥ पञ्चामृतेन संस्नाप्य श्रीखण्डेनैव चार्चयेत् । शतपल्लवपुष्पैश्च पूजयेच्च प्रयत्नतः ॥ ९५.८ ॥ बहुरूपं जपेन्मन्त्रं दक्षिणां तु प्रदाय च । तत्फलं समवाप्नोति आदित्येश्वर नार्मदे ॥ ९५.९ ॥ श्रुततीर्थप्रभावं वै यः पठेच्च नराधिप । तत्सर्वं कथयिष्यामि भक्त्या तव महीपते ॥ ९५.१० ॥ यथोक्तेन विधानेन नाभिमात्रे जले स्थितः । श्राद्धं तत्रैव प्रेताय कारयेत जितेन्द्रियः ॥ ९५.११ ॥ विविधैरग्रपाठैश्च वेदाध्ययनतत्परैः । गोहिरण्येन सम्पूज्य वस्त्रताम्बूलभोजनैः ॥ ९५.१२ ॥ भूषणैः पट्टदानैश्च ब्राह्मणं पाण्डुनन्दन । तस्मिंस्तीर्थे तु सम्पूज्य कामिकं भोजनं ददेत् ॥ ९५.१३ ॥ भवेत्कोटिगणं तस्य नात्र कार्या विचारणा । तत्र तीर्थे यथा भक्त्या त्यजेद्देहं च मानद ॥ ९५.१४ ॥ तस्य तीर्थे भवेत्पुण्यं तच्छृणुष्व नराधिप । यावदस्थिमनुष्यस्य तिष्ठते नर्मदाम्भसि ॥ ९५.१५ ॥ तावद्वसति धर्मात्मा शिवलोके सुदुर्लभे । ततः कालात्प्रच्युतश्च देवो मानुष्यतां गतः ॥ ९५.१६ ॥ कोटिध्वजपतिः श्रीमान् जायते नात्र संशयः । सर्वधर्मसमायुक्तो मेधावी जीवपुत्रकः ॥ ९५.१७ ॥ विख्यातश्च धरापृष्ठे दीर्घायुर्मानवो भवेत् । इन्द्रचन्द्रयमैः रुद्रैरादित्यैर्वसुभिस्तथा ॥ ९५.१८ ॥ विश्वेदेवैस्तथा सर्वैः स्थापितास्त्रिदशेश्वरः । नर्मदोत्तरकूले तु लोकानां हितकाम्यया ॥ ९५.१९ ॥ मानवः प्रेतमुद्दिश्य प्रासादं कारयेत्तु यः । तस्मिन्नरवरश्रेष्ठः स सद्गतिमवाप्नुयात् ॥ ९५.२० ॥ न्यायोपार्जितद्रव्येण यः श्राद्धं कुरुतेऽत्र वै । ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च सत्कृताः ॥ ९५.२१ ॥ तेऽपि यान्ति परे लोके शाङ्करे सुरपूजिते । यः शृणोति नरो भक्त्या माहात्म्यं तीर्थजं नृप ॥ ९५.२२ ॥ तस्य पापं प्रणश्येत षण्मासेन तु यत्कृतम् । मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र कुमारेश्वरमुत्तमम् ॥ ९५.२३ ॥ प्रसिद्धं सर्वतीर्थानामगस्त्येश्वरमुत्तमम् । षण्मुखेन तपस्तप्तं सर्वपातकनाशनम् ॥ ९५.२४ ॥ स्नानं च परया भुक्त्या सिद्धिः प्राप्ता नराधिप । देवसैन्याधिपो राजन् सर्वशत्रुविमर्दनः ॥ ९५.२५ ॥ उग्रतेजा महात्मा च संजातस्तीर्थसेवनात् । तदा प्रभृति तत्तीर्थं विख्यातं नर्मदातटे ॥ ९५.२६ ॥ तस्मिंस्तीर्थे तु यो भक्त्या एकचित्तो जितेन्द्रियः । अष्टम्यां च चतुर्दश्यां कार्त्तिकस्य विशेषतः ॥ ९५.२७ ॥ स्नापयेद्गिरिजानाथं दधिदुग्धेन सर्पिषा । गीतं तत्र प्रकर्तव्यं पिण्डदानं यथाविधि ॥ ९५.२८ ॥ ब्राह्मणैः श्रोत्रियैः पार्थ षट्कर्मनिरतैः सदा । यत्किंचिद्दीयते तत्र अक्षयं पाण्डुनन्दन ॥ ९५.२९ ॥ सर्वतीर्थात्परं तीर्थं निर्मितं शशिना नृप । एतत्ते सर्वमाख्यातं कुमारेश्वरजं फलम् ॥ ९५.३० ॥ कुमारदर्शनात्पुण्यं प्राप्यते पाण्डुनन्दन । मृतः स्वर्गमवाप्नोति सत्यमीश्वरभाषितम् ॥ ९५.३१ ॥ ततो गच्छेत्तु राजेन्द्र अगस्त्येश्वरमुत्तमम् । तत्र सिद्धो महाभाग अगस्त्यो मुनिपुङ्गवः ॥ ९५.३२ ॥ युधिष्ठिर उवाच - कथं सिद्धो महाभाग अगस्त्यो मुनिपुङ्गवः । कुम्भोद्भवो महाभाग मित्रावरुणसम्भवः ॥ ९५.३३ ॥ नर्मदातटमाश्रित्य तत्सर्वं कथयस्व मे । मार्कण्डेय उवाच - महाप्रश्नो महाराज परिपृष्टश्च यस्त्वया ॥ ९५.३४ ॥ तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमनाः सदा । पुराकृतयुगे तात भारार्ता जगती स्थिता ॥ ९५.३५ ॥ विज्ञप्तुकामा देवेशं नाकपृष्ठं गता नृप । इन्द्राय कथयामास दैत्यभारार्दितं जगत् ॥ ९५.३६ ॥ इन्द्र उवाच - ब्रह्मा च जगतः कर्ता तवैव मम सुन्दरि । ब्रह्मलोकं गमिष्यामि मन्त्रिभिर्दैवतैः सह ॥ ९५.३७ ॥ ततः सर्वे गतास्तत्र यत्रासौ कमलासनः । बृहस्पतिरुवाच - ब्रह्मन्निर्लम्बना जाता दैत्यभाराद्वसुन्धरा ॥ ९५.३८ ॥ असहन्ती तु तं भारं याति देवी रसातलम् । प्रतीकारं पृथिव्याश्च कुरुष्व जगतीपते ॥ ९५.३९ ॥ सर्वसत्त्वोपकाराय सृष्टिस्त्वयि जगत्पते । पितामह उवाच - कर्ताऽस्मि सर्वजगतामयोनिकलशोद्भवः ॥ ९५.४० ॥ अगस्त्यस्तपसां राशिः शक्तो दैत्यनिवारणे । एकतः सर्वदेवानां बलं तेजश्च जायते ॥ ९५.४१ ॥ एकतो ऋषिमुख्यस्य जायते नात्र संशयः । ब्रह्मणो वचनं श्रुत्वा सर्वे देवाः सवासवाः ॥ ९५.४२ ॥ तथैव कारणं चान्यत्कथयन्ति स्म भारत । विज्ञातं देवदेवेश विश्वामित्रचिकीर्षितम् ॥ ९५.४३ ॥ त्रिशङ्क्वर्थे च यज्ञोऽयं विश्वामित्रेण साधितः । स्पर्धया च वशिष्ठस्य यज्ञाङ्गानि समासृजत् ॥ ९५.४४ ॥ स्पर्धया सृजताकाशं भूमिं चान्यां समासृजत् । यथा तु हिमवच्छैलः पूर्वापरमहोदधिम् ॥ ९५.४५ ॥ व्याप्यैव संस्थितो भूम्यां देवकार्यार्थसाधकः । तथासौ स्पर्धते विन्ध्यः स्पर्धया कौशिकस्य च ॥ ९५.४६ ॥ तिष्ठन्ति देवकार्याणि कौशिकेन सुरेश्वर । कार्यद्वयप्रतीकारं चिन्तय स्वजगद्गुरो ॥ ९५.४७ ॥ ब्रह्मोवाच - एकस्त्वस्य गुरुर्विप्रो ह्यगस्त्यो मुनिपुङ्गवः । उत्पथे वर्तमानस्य कौशिकस्य दुरासदः ॥ ९५.४८ ॥ अगस्त्यो मार्गभेत्ता वै भविष्यति न संशयः । गुरुरात्मवतां शास्ता सर्वेषां वै न संशयः ॥ ९५.४९ ॥ वर्धनं पर्वतस्यास्य देवमार्गप्रवर्तनम् । शासः कौशिकविप्रस्य वसुधायां समन्ततः ॥ ९५.५० ॥ क्षमः समस्तकार्याणां मित्रावरुणनन्दनः । एवं तु निश्चयं कृत्वा देवाः सेन्द्रपितामहाः ॥ ९५.५१ ॥ ययुर्वसुन्धरासार्धं हिमवन्तं नगेश्वरम् । ददृशुस्ते स्थितं विप्रं ध्यायमानं च योगिनम् ॥ ९५.५२ ॥ सुदृढं निश्चलध्यानं मोक्षमार्गनियामकम् । तंदृष्ट्वा स्तोतुमारब्धाः सेन्द्रचन्द्राः सवारुणाः ॥ ९५.५३ ॥ देवा ऊचुः॒ जयमिच्छस्व देवानां भगवन् कलशोद्भव । प्रसादसुमुखो भूत्वा देवानां भयमागतम् ॥ ९५.५४ ॥ अगस्त्य उवाच - किं कार्यं तु समुत्पन्नं येन दूरं समागताः । एकान्तवासिनं नित्यं तं मां यूयं सुराश्च भोः ॥ ९५.५५ ॥ उच्यतां यन्मया कार्यं तत्सर्वं करवाण्यहम् । ततो मन्दानिलोद्धूतकमलाकरशोभिना ॥ ९५.५६ ॥ गुरुं नेत्रसहस्रेण प्रेरयामास वृत्रहा । वाक्पतिरुवाच - त्वया पूर्वं महाभाग देवकार्यार्थसिद्धये ॥ ९५.५७ ॥ समुद्राः कर्षिताः सर्वे ईश्वरेण यथा जगत् । विध्वस्तास्त्रिदशाः सर्वे दानवैर्बलदर्पितैः ॥ ९५.५८ ॥ जिता देवास्तु ते सर्वे दानवेभ्यः पराङ्मुखाः । तेषां वरापहाराय समुद्राः शोषिताः पुरा ॥ ९५.५९ ॥ साम्प्रतं दुःखिता धात्री पश्येमां भूतधारिणीम् । दैत्यभारेण दुःखार्ता भूमिर्जाता रसातलम् ॥ ९५.६० ॥ गन्तव्यं दक्षिणामाशां तपोराशे द्विजोत्तम । नर्मदोदधिमर्यादां कुरु पुण्यां महाद्विज ॥ ९५.६१ ॥ वृद्धिं विन्ध्यनगस्यापि देवकार्यं समुद्धर । कौशिकोऽथ कनीयांस्ते य उन्मार्गप्रवर्तकः ॥ ९५.६२ ॥ अगस्त्य उवाच - देवकार्यं करिष्यामि सुखं तिष्ठ वसुन्धरे । गच्छामि दक्षिणामाशां शक्तः शिष्यस्य वारणे ॥ ९५.६३ ॥ वर्धनं पर्वतस्यास्य वारयामि न संशयः । देवा ऊचुः॒ याम्यां गत्वा सुरैः सार्धं द्रष्टव्यो यं न संशयः ॥ ९५.६४ ॥ सिंहस्थे भास्करे विप्र येन यास्यन्ति भक्तितः । नश्यते च धनं धान्यं तेषां सौख्यं न संशयः ॥ ९५.६५ ॥ अधिकाराय देवानां स च दृष्टो भविष्यति । तत्प्रतिज्ञाय गीर्वाणाः समं वसुधया गताः ॥ ९५.६६ ॥ अगस्त्यं तपसां राशिं निर्गच्छन्तः समन्ततः । अगस्त्यपदविक्षेपाच्चलिता च वसुन्धरा ॥ ९५.६७ ॥ मनोवेगेन सम्प्राप्तः कौशिको यत्र तापसः । कौशिकोऽपि गुरुं दृष्ट्वा साष्टाङ्गं प्रणिपत्य च ॥ ९५.६८ ॥ धन्येऽहं मुनिशार्दूलप्रीतोऽहं तव दर्शनात् । अर्घपात्रं समादाय दध्यक्षतसमन्वितम् ॥ ९५.६९ ॥ दूर्वा च चन्दनं पूज्यभक्त्या पात्रे समाहितम् । गुरुपादपरिक्षिप्त उवाच मधुरं तदा ॥ ९५.७० ॥ आदेशो दीयतां तात तव प्रेष्यो द्विजोत्तम । अगस्त्य उवाच - देवकार्यविघातं च कौशिक त्वं विसर्जय ॥ ९५.७१ ॥ देवकार्यविसृष्टेन कर्मणा न प्रवर्तसे । यदि ते निश्चला भक्तिर्विश्वामित्र ममोपरि ॥ ९५.७२ ॥ तदा त्वं वर्जयेः सर्वमुन्मार्गस्य प्रवर्तनम् । विश्वामित्र उवाच - गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ॥ ९५.७३ ॥ इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः । स्पर्धया च वशिष्ठस्य त्रिशङ्कुर्मे सुयाचितः ॥ ९५.७४ ॥ अद्य प्रभृति तत्सर्वं त्यक्तमेव द्विजोत्तम । इत्युक्तः प्रययौ शीघ्रं रेवातीरं सुदुर्लभम् ॥ ९५.७५ ॥ उत्तरं तटमासाद्य तपस्तत्र समारभत् । नर्मदा त्रिषु लोकेषु पवित्रा पापनाशिनी ॥ ९५.७६ ॥ निश्चयं परमं कृत्वा मित्रावरुणनन्दनः । शिलातले निविष्टस्तु चचार विपुलं तपः ॥ ९५.७७ ॥ वायुभक्षः सदा कालं कुम्भयोनिर्महातपाः । ज्ञातो भक्तियुतः श्रेष्ठ ईश्वरेण युधिष्ठिर ॥ ९५.७८ ॥ प्रत्यक्षो द्वादशे वर्षे सङ्गतः पार्वतीपतिः । ईश्वर उवाच - साधु साधु मुनिश्रेष्ठ तपसा द्योतितं नभः ॥ ९५.७९ ॥ निश्चयं तव तुष्टोऽस्मि मित्रावरुणनन्दन । वर्षायुतसहस्रेण नान्येषां वरदो ह्यहम् ॥ ९५.८० ॥ अगस्त्य उवाच - संसारपल्वलातीतसृष्टिजन्मविवर्जित । दुर्लक्ष्यासुरसङ्घानां प्रमथेश नमोऽस्तु ते ॥ ९५.८१ ॥ नन्दिस्कन्दगणा देवा वृथा क्लिश्यन्ति मोहिताः । सनत्कुमारमुख्याश्च ऋषयः शंसितव्रताः ॥ ९५.८२ ॥ त्वद्रूपं ते न जानन्ति शम्भो नाथ नमोऽस्तु ते । ब्रह्माद्या देवताः सर्वे ध्यायन्ति त्वामहर्निशम् ॥ ९५.८३ ॥ नैते पश्यन्ति त्वद्रूपं धातर्देव नमोऽस्तु ते । ईश्वर उवाच - प्रसन्नस्तव विप्रेन्द्र ऊर्ध्वरेतस्त्वयोनिज ॥ ९५.८४ ॥ तव भक्तिगृहीतोऽहं प्रसन्न उमया सह । अगस्त्य उवाच - यदि तुष्टोऽसि देवेश यदि देयो वरो मम ॥ ९५.८५ ॥ प्रत्यक्षो भव तीर्थेऽस्मिन् यदि सत्यं वरप्रदः । अन्तर्जले सदाकालं धर्माध्यक्षो महेश्वर ॥ ९५.८६ ॥ शिलायां भव नित्यं च नर्मदायोत्तरे तटे । देवकार्यस्य कर्ताहं त्वत्प्रसादाज्जगत्पते ॥ ९५.८७ ॥ तथेति चोक्त्वा वृषवाहनोऽपि जगाम कैलासनगं नगेशः । अयोनिजो योगबलेन युक्तः प्रविद्यया लिङ्गबलाच्छिवस्य ॥ ९५.८८ ॥ जगाम दक्षिणामाशां सुरसङ्घैरभिष्टुतः । तपोवनं यथापुण्यं देवदानवसेवितम् ॥ ९५.८९ ॥ प्रविष्टो मुनिशार्दूलः पवित्रं देवकम्बलम् । निश्चला सुषमादेवी संस्थिता धरणी तथा ॥ ९५.९० ॥ पुष्पाणि ववृषुर्देवा जयशब्दं पुनः पुनः । युधिष्ठिर उवाच - तस्य तीर्थस्य यत्पुण्यं कथ्यतां मुनिसुव्रत ॥ ९५.९१ ॥ आदिमध्यावसाने च ब्राह्मणैः सह बान्धवैः । पितॄणां सर्वतीर्थानां सर्वसत्त्वोपकारकम् ॥ ९५.९२ ॥ मार्कण्डेय उवाच - पितॄन्मोक्षदं प्रोक्तं सर्वकाले जनाधिप । शिवाख्यां कार्त्तिके मासि कृष्णपक्षे चतुर्दशीम् ॥ ९५.९३ ॥ उपोष्य यो नरो भक्त्या कामक्रोधविवर्जितः । शमीतरुं समास्थाय रात्रौ कुर्वीत जागरम् ॥ ९५.९४ ॥ तत्कथालापसंयुक्तो धर्माख्यानैर्द्विजैः सह । गवां घृतेन देवेशं रात्रौ च स्नापयेत्पुनः ॥ ९५.९५ ॥ घटेनैव घटार्धेन तदर्धेन स्वशक्तितः । घृतेन बोधयेद्दीपं घृतं विप्राय दापयेत् ॥ ९५.९६ ॥ पञ्चामृतेन गव्येन स्नापयेत्परमेश्वरम् । प्रभाते पूजयेद्विप्रान् स्वदारनिरतान् सदा ॥ ९५.९७ ॥ वेदाभ्यसनशीलांश्च परदारविवर्जितान् । शूद्रसेवारता नित्यं धूर्तकर्मरता जनाः ॥ ९५.९८ ॥ पतिताः कूटसाक्ष्येण प्रतिग्रहरताः सदा । वेदद्वेषणशीलाश्च कुब्जाश्च विकलाः सदा ॥ ९५.९९ ॥ हीनातिरिक्तगात्रा ये द्विजाः श्राद्धे विवर्जिताः । वेदोक्तेन विशुद्धाङ्गाः पूज्या नित्यं युधिष्ठिर ॥ ९५.१०० ॥ भूमिदानेन वस्त्रेण कन्यादानैर्विशेषतः । श्राद्धकालेषु योगेषु भर्तव्या भक्तितत्परैः ॥ ९५.१०१ ॥ गोदानं तत्र कर्तव्यं श्रेयोऽर्थमात्मनस्तथा । सवत्सां क्षीरिणीं शुभ्रां पुष्टां वै शीलसंयुताम् ॥ ९५.१०२ ॥ कम्बलं परया भक्त्या पादुकोपानहौ तथा । हिरण्यरुक्मिणीं कन्थां ताम्बूलं भोजनं तथा ॥ ९५.१०३ ॥ घण्टाभरणशोभाढ्यां वस्त्रयुग्मावगुण्ठिताम् । स्वर्णशृङ्गीं रौप्यखुरीं कांस्यदोहेन संयुताम् ॥ ९५.१०४ ॥ उच्चार्य परया भक्त्या यावदाहूतसंप्लवम् । सर्व कोटिगुणं पार्थ शुभं वा यदि वाशुभम् ॥ ९५.१०५ ॥ तीर्थाख्यानं च यो भक्त्या पठते शृणुतेऽथवा । मुच्यते सर्वपापेभ्यः शिवलोके वसत्यपि ॥ ९५.१०६ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डेऽगस्त्यतीर्थवर्णनो नाम पञ्चनवतितमोऽध्यायः ॥ अध्याय ९६ मार्कण्डेय उवाच - अथानन्देश्वरं गच्छेत्सर्वदेवनमस्कृतम् । रुद्रस्य परमानन्दो यत्र जातो युधिष्ठिर ॥ ९६.१ ॥ तत्तीर्थं कथयिष्यामि सूर्यपापक्षयं करम् । युधिष्ठिर उवाच - आनन्दश्चैव संजातो रुद्रस्य द्विजसत्तम ॥ ९६.२ ॥ कथयस्व महाभाग संक्षेपान्मुनिसत्तम । मार्कण्डेय उवाच - कथयामि नृपश्रेष्ठ आनन्देश्वरमुत्तमम् ॥ ९६.३ ॥ दानवानां वधं कृत्वा देवदेवश्च शङ्करः । पूजितो दैवतैः सर्वैः किन्नरैर्यक्षपन्नगैः ॥ ९६.४ ॥ आनन्दं परमं प्राप्य ननर्त वृषवाहनः । भैरवं रूपमासाद्य गौरी चार्द्धाङ्गधारिता ॥ ९६.५ ॥ भूतवेतालकङ्कालैर्भैरवैर्भैरवो वृतः । नर्मदायोत्तरे तीरे दक्षिणे पाण्डुनन्दन ॥ ९६.६ ॥ तुष्टैर्मरुद्गणैस्तत्र स्थापितः कमलासनः । तदा प्रभृति वै देव आनन्देश्वर उच्यते ॥ ९६.७ ॥ अष्टम्यां च चतुर्दश्यां पौर्णमास्यां नराधिप । विधिं स्नात्वार्चयेद्देवां सुगन्धेन विलेपयेत् ॥ ९६.८ ॥ ब्राह्मणान् पूजयेत्तत्र यथाशक्त्या युधिष्ठिर । गोदानं तत्र कर्तव्यं वस्त्रदानं तथैव च ॥ ९६.९ ॥ वसन्तस्य त्रयोदश्यां श्राद्धं तत्रैव कारयेत् । इङ्गुदैर्बदरैर्बिल्वैरक्षतेन जलेन वा ॥ ९६.१० ॥ प्रेतानां कारयेच्छ्राद्धमानन्देश्वरतीर्थके । प्रेता आनन्दिताः स्युस्ते यावदाहूत सम्प्लवम् ॥ ९६.११ ॥ सन्ततिर्धनसौख्यं च सप्तजन्मनि जायते । आनन्दश्च भवेत्तेषां जन्म जन्म युधिष्ठिर ॥ ९६.१२ ॥ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र मातृतीर्थमनुत्तमम् । सङ्गमस्य समीपस्थं नर्मदादक्षिणे तटे ॥ ९६.१३ ॥ मातरस्तत्र राजेन्द्र संजाता नर्मदातटे । उमया याचितस्तत्र व्यालयज्ञोपवीतकः ॥ ९६.१४ ॥ उवाच योगिनीवृन्दं कष्टं कष्टं न शोभनम् । उवाच वरदश्चास्मि योगिवृन्दवरप्रदः ॥ ९६.१५ ॥ योगिन्य ऊचुः॒ अजेयाः सर्वदेवानां त्वत्प्रसादान्महेश्वर । तीर्थानामभिसंख्याने प्रख्याता वसुधातले ॥ ९६.१६ ॥ एवं भवतु योगिन्यस्तत्रैवान्तरधीयत ॥ ९६.१७ ॥ मार्कण्डेय उवाच - तस्मिंस्तीर्थे तु यो मर्त्यो नवम्यां विजितेन्द्रियः । उपोष्य परया भक्त्या पूजयेन्मातृमण्डलम् ॥ ९६.१८ ॥ तस्य ता मातरः प्रीताः प्रीतोऽयं वृषवाहनः । बन्ध्याया मृतवत्साया अपुत्राया युधिष्ठिर ॥ ९६.१९ ॥ स्नपनं चारभेत्तत्र मन्त्रज्ञैर्ब्राह्मणोत्तमैः । सहिरण्येन कुम्भेन पञ्चरत्नफलान्वितम् ॥ ९६.२० ॥ स्नापयेत्पुत्रकामा च कांस्यपात्रेण मन्त्रतः । पुत्रान् सा लभते नारी वीर्ययुक्तान् गुणान्वितान् ॥ ९६.२१ ॥ यं यं काममभिध्यायेत्तं तं सा लभते नृप । मातृतीर्थात्परं तीर्थं नास्त्यन्यत्पाण्डुनन्दन ॥ ९६.२२ ॥ तस्यैवानन्तरं तात जलमध्येश्वरं परम् । लिङ्गेश्वरमिति ख्यातं सुरासुरनमस्कृतम् ॥ ९६.२३ ॥ युधिष्ठिर उवाच - अत्यक्ता सा तु रेवा या कथं त्यक्ता च शम्भुना । जलमध्ये हि तिष्ठेत शूलपाणिः पिनाकधृक् ॥ ९६.२४ ॥ तदहं श्रोतुमिच्छामि तव वाक्याद्द्विजोत्तम । मार्कण्डेय उवाच - आश्चर्यभूता लोकेऽस्मिन् प्रतिष्ठा पाण्डुनन्दन ॥ ९६.२५ ॥ पण्डितो वृद्धभावेन कथयामि नृपोत्तम । आदौ कृतयुगे तात दानवो बलदर्पितः ॥ ९६.२६ ॥ कालबाष्प इति प्रोक्तो दुर्जयो देवदानवैः । तपश्चचार विपुलं नर्मदाया जले शुभे ॥ ९६.२७ ॥ आराधयन्महादेवमुग्रेण तपसा भृशम् । ततस्तुतोष भगवान् सपत्नीको महेश्वरः ॥ ९६.२८ ॥ ईश्वर उवाच - भो भो वत्स वरं ब्रूहि तुष्टोऽहं तव भक्तितः । देवस्य वचनं श्रुत्वा कालबाष्पोऽब्रवीद्वचः ॥ ९६.२९ ॥ देवाश्चैव मया भग्नाः प्रसादात्तव शूलिनः । संग्रामे च विषण्णोऽहं तस्मादाराधनं कृतम् ॥ ९६.३० ॥ हस्तं शिरसि यस्यैव दास्यामि च महेश्वर । न स जीवेत्पुमांल्लोके वरमेतं ददस्व मे ॥ ९६.३१ ॥ ईश्वर उवाच - यत्तेऽभिलषितं दैत्य तत्तथैव भविष्यति । इति श्रुत्वा वचो दैत्यः शम्भुमेवाभिदुद्रुवे ॥ ९६.३२ ॥ हस्तं ते मूर्ध्नि दास्यामि न तत्सत्यं वचस्तव । रुद्रः पलायितस्तेन केशवं शरणं गतः ॥ ९६.३३ ॥ निवेद्य केशवं सर्वं तस्मिन्नेव न्यलीयत । केशव उवाच - हन्म्यहं तं महादेव दुष्टं दैत्यजनेश्वरम् ॥ ९६.३४ ॥ हस्तं शिरसि तस्यैव दापयामि महेश्वर । ततस्त्वरितमापन्नः प्रविष्टो नमदातटे ॥ ९६.३५ ॥ कृष्णः स्त्रीवेषधारी च दैत्यसंमुखमागतः । द्वात्रिंशल्लक्षणोपेता नियुक्ता कामसायकैः ॥ ९६.३६ ॥ मधुमाथवके शम्भुं ध्यात्वा सर्वत्र कैशवी । वनं बभ्राम सर्वत्र सुशीला वटपादपम् ॥ ९६.३७ ॥ क्षोभयन्तीव चित्तानि सा रेमे धर्मनन्दन । रिङ्गमाणश्च दैत्योऽसौ कालबाष्पः सुदुर्जनः ॥ ९६.३८ ॥ प्रविष्टः स वने रम्ये यत्र सा शुभलोचना । अहं भवामि ते भर्ता दुर्जयो देवदानवैः ॥ ९६.३९ ॥ त्रैलोक्यस्वामिनी त्वं च प्रसीद मम सुन्दरि । श्रीकृष्ण उवाच - यदि मां मन्यसे भार्यां प्रत्ययश्च भवेन्मम ॥ ९६.४० ॥ दानव उवाच - स्वयं भवामि तन्वङ्गि शपथं मम साधनम् । तदहं च करिष्यामि इति मे सत्यभाषितम् ॥ ९६.४१ ॥ स्त्र्युवाच - कुरुष्व त्वं महाभाग शिरो हस्ते प्रदीयताम् । मार्कण्डेय उवाच - कामान्धेनैव राजेन्द्र निक्षिप्तो मस्तके करः ॥ ९६.४२ ॥ तत्क्षणादभवद्भस्म दग्धस्तृणचयो यथा । केशवस्योपरि तदा पुष्पवृष्टिः पपात ह ॥ ९६.४३ ॥ गताः सर्वे दिवं देवाः स्वस्थानं विगतज्वराः । क्षौराब्धिमगमद्विष्णुः कालबाष्पे निपातिते ॥ ९६.४४ ॥ य इदं शृणुयाद्भक्त्या चरितं दानवस्य च । श्राद्धं तत्रैव यः कुर्यात्कामक्रोधविवर्जितः ॥ ९६.४५ ॥ उद्धृतास्तेन सर्वे वै नरकाच्च पितामहाः । क्षेत्रे तस्मिंस्तु यो दद्याद्ब्राह्मणे वेदपारगे ॥ ९६.४६ ॥ तस्य दानफलं सर्वं कुरुक्षेत्राद्विशिष्यते । स्पर्शते य इदं लिङ्गं शङ्करेण च निर्मितम् ॥ ९६.४७ ॥ स्पर्शमात्रो मनुष्यस्तु रुद्रवासोऽभिजायते । एतस्मात्कारणाद्राजंल्लोकपालाश्च देवताः ॥ ९६.४८ ॥ दुर्गादेवी तथा चैव मधुहन्ता चतुर्भुजः । दानवाद्याश्च सर्वेऽपि रक्षणे चेश्वरस्य च ॥ ९६.४९ ॥ रक्षन्ते च सदाकालं गृहव्यापाररूपतः । पुत्रभ्रातृसमा भूत्वा स्वामिसम्बन्धरूपिणः ॥ ९६.५० ॥ लिङ्गेश्वरं तु राजेन्द्र देवैरद्याऽपि रक्ष्यते ॥ ९६.५१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे भस्मासुरवधो नाम षण्णवतितमोऽध्यायः ॥ अध्याय ९७ मार्कण्डेय उवाच - ततो गच्छेच्च राजेन्द्र धनदं तीर्थमुत्तमम् । नर्मदादक्षिणे कूले सर्वपापक्षयंकरम् ॥ ९७.१ ॥ सर्वतीर्थफलं तत्र प्राप्यते नात्र संशयः । चैत्रमासे त्रयोदश्यां शुक्लपक्षे जितेन्द्रियः ॥ ९७.२ ॥ उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम् । पञ्चामृतेन राजेन्द्र स्नापयेद्वरदं विभुम् ॥ ९७.३ ॥ पूजयेद्भक्तियुक्तेन गीतवाद्यं प्रदापयेत् । प्रभाते पूजयेद्विप्रानात्मनः श्रेय इच्छता ॥ ९७.४ ॥ प्रतिग्रहाविमुक्ताश्च विद्यासिद्धान्तवादिनः । भर्तव्या हि प्रियैर्भक्त्या परिवादविवर्जिताः ॥ ९७.५ ॥ पूजयेद्गोहिरण्येन वस्त्रालंकरणेन च । हस्त्यश्वरथदानेन सर्वपापक्षयो भवेत् ॥ ९७.६ ॥ त्रिजन्मजनितं पापं धनदस्य प्रभावतः । स्वर्गदं दुर्विनीतानां विनीतानां च मुक्तिदम् ॥ ९७.७ ॥ धनवान् स नरव्याघ्र भवेज्जन्मनि जन्मनि । कुलीनत्वं स्वरूपत्वं दुःखं नास्ति निरन्तरम् ॥ ९७.८ ॥ व्याधेस्तु न भयं तेषां नन्देद्धनदसेवनात् । धनस्य च यस्तीर्थे विद्यां वै प्रददाति हि ॥ ९७.९ ॥ स याति भास्करं लोकं सर्वदुःखविवर्जितः । मार्कण्डेय उवाच - अहं ते कथयिष्यामि चेतिहासं पुरातनम् ॥ ९७.१० ॥ द्वे भार्य्ये कश्यपस्यास्तां सर्वलोकेष्वनुत्तमे । गरुत्मान् विनतापुत्रः कद्रूपुत्रोरगाः स्मृताः ॥ ९७.११ ॥ सन्तोषेण द्वयं तात तिष्ठतः काश्यपे गृहे । कद्र्वास्तु भगिनी तत्र इष्टा च विनता तथा ॥ ९७.१२ ॥ क्रीडेद्विनतया सार्धं कश्यपोऽपि प्रजापतिः । ततस्त्वेकदिने पार्थ आश्रमस्था सुशोभना ॥ ९७.१३ ॥ उच्चैःश्रवोहयं दृष्ट्वा अतिवेगं नभःस्थितम् । पश्य पश्य च तन्वङ्गि अश्वं सर्वत्र पाण्डुरम् ॥ ९७.१४ ॥ धावमानमविश्रान्तं जवेन मानसोपमम् । कद्रूरुवाच - कथमेतत्तु तन्वङ्गि कृष्णं जल्पसि पाण्डुरम् ॥ ९७.१५ ॥ असत्यं भाषितं भद्रे यमलोकं गमिष्यसि । विनतोवाच - सत्यानृते तु वचने पणोऽयं मेऽस्तु तेऽधुना ॥ ९७.१६ ॥ सहस्रं चैव वर्षाणामज्ञात्वा दास्यतां व्रजेत् । असत्या यदि मे वाणी कृष्ण उच्चैःश्रवाहयः ॥ ९७.१७ ॥ तदाहं त्वद्गृहे दासी सर्वदैव भवामि हि । यदि तूच्चैःश्रवाः श्वेतो दासी त्वं मद्गृहे पुनः ॥ ९७.१८ ॥ एवं परस्परं द्वाभ्यां दासीयमब्रवीदिति । स्वाश्रमं हि गता कद्रू रात्रौ चिन्तातुरा स्थिता ॥ ९७.१९ ॥ श्वेतवर्णं तु कथितं श्यामं तमश्वकं तदा । पुत्राणां कथितं पार्थ पणश्चैव कृतो मया ॥ ९७.२० ॥ श्रुतं सर्वैस्तथा वाक्यं सर्पैर्मातृपणस्तदा । जाता दासी न सन्देहः श्वेतो भास्करवाहनः ॥ ९७.२१ ॥ कद्रूरुवाच - यथाहं न भवे दासी तत्कार्यं च विचिन्त्यताम् । उच्चैःश्रवो रोमकूपे विशध्वं यूयमेव च ॥ ९७.२२ ॥ एकं मुहूर्तं तिष्ठध्वं यावत्कृष्णः प्रदृश्यते । क्षणेनैकेन भवतां दासी सा भवते मम ॥ ९७.२३ ॥ दासीत्वे या तु तन्वङ्गी विनता सत्यगार्विता । ततः स्वस्थानगाः सर्वे भवन्तु सुखिनः सदा ॥ ९७.२४ ॥ सर्पा ऊचुः॒ यथा त्वं जननी चैव सर्वेषां भुवि पन्नगी । तथा सापि विशेषण वञ्चितव्या न मातृवत् ॥ ९७.२५ ॥ ततः सा तेन वाक्येन क्रुद्धा कालानलोपमा । मम वाक्यमकुर्वाणा ये केचिद्भुवि पन्नगाः ॥ ९७.२६ ॥ हव्यवाहमुखं सर्वे यास्यन्तीत्यविचारिणः । तेन वाक्येन भीतास्ते हयरोमसुवेष्टिताः ॥ ९७.२७ ॥ नष्टाः केचिद्दिशो दिव्याः कद्रूशापभयान्विताः । केचिद्गङ्गाजले नष्टाः केचिन्नष्टाः सरस्वतीम् ॥ ९७.२८ ॥ केचिन्महोदधिं नीताः प्रविष्टा विन्ध्यकन्दरे । आश्रित्य नर्मदातोयं मणिनागोत्तमो नृप ॥ ९७.२९ ॥ चचार विपुलं भक्त्या उत्तरे नर्मदातटे । मातृशापधरो नागः प्रविष्टो नर्मदाजले ॥ ९७.३० ॥ त्वत्प्रसादेन भो नाथ मातृशापं तराम्यहम् । हव्यवाहमुखं यस्मात्प्रयामि न जगत्पते ॥ ९७.३१ ॥ ईश्वर उवाच - हव्यवाहमुखं वत्स न यास्यसि ममाज्ञया । मम लोकनिवासोऽपि तव पुत्र भविष्यति ॥ ९७.३२ ॥ मणिनाग उवाच - अस्मिन् स्थाने महादेव स्थीयतामंशभागतः । सहस्रांशेन भागेन स्थीयतां नर्मदाजले ॥ ९७.३३ ॥ उपकाराय लोकानां मम नाम्ना च शङ्कर । ईश्वर उवाच - स्थापय स्वपरं लिङ्गमाज्ञया मम पन्नग ॥ ९७.३४ ॥ इत्युक्त्वान्तर्दधे देवस्तदैव शिवया सह । तत्र तीर्थे तु ये भक्त्या शुचयो यतमानसाः ॥ ९७.३५ ॥ पञ्चम्यां च चतुर्दश्यामष्टम्यां शुक्लपक्षके । अर्चयन्ति सदा पार्थ नोपसर्पन्ति ते यमम् ॥ ९७.३६ ॥ दध्ना च मधुना चैव घृतेन क्षीरतो जनाः । स्नापयन्ति विरूपाक्षमुमादेहार्धधारिणम् ॥ ९७.३७ ॥ कामाङ्गदहनं देवं महासुरनिषूदनम् । संस्नापयन्ति ये भक्त्या पश्यन्ति परमं पदम् ॥ ९७.३८ ॥ षट्कर्मनिरतास्तात शूद्रप्रणयवर्जिताः । तेऽपि यान्ति परं लोकं सर्वपापविवर्जिताः ॥ ९७.३९ ॥ व्रात्यांश्च दुर्धरान् षण्ढान् वार्धक्यांश्च कृषीवलान् । भिन्नदृष्टिकरान् विप्रान् कश्चिन्नैव च पूजयेत् ॥ ९७.४० ॥ वृषली मन्दिरे यस्य महिषं यस्तु वाहयेत् । ते विप्रा दूरतस्त्याज्या व्रते श्राद्धे नृपेश्वर ॥ ९७.४१ ॥ काणाः कुण्डाश्च गोलाश्च वैद्याश्चैव विवर्जिताः । नैते पूज्या द्विजाः पार्थ मणिनागेश्वरे शुभे ॥ ९७.४२ ॥ यदीच्छेदूर्ध्वगमनां पितृणामात्मनस्तथा । सर्वाङ्गरुचिराङ्गाश्च सदा पूज्या द्विजास्तु वै ॥ ९७.४३ ॥ स याति परमं लोकं यावदाहूतसम्प्लवम् । ततः स्वर्गाच्च्युतः सोऽपि जायते विपुले कुले ॥ ९७.४४ ॥ मणिनागेश्वरं देवं यः पश्यति नराधिप । धेनुं शय्यां तथा छत्रं कन्यां दासीं सुभक्तितः ॥ ९७.४५ ॥ पात्रे दद्यात्तु राजेन्द्र यदीच्छेच्छ्रेय आत्मनः । सुरभीणि च पुष्पाणि गन्धवस्त्राणि दापयेत् ॥ ९७.४६ ॥ दीपं धान्यं गृहं शुभ्रं सर्वोपस्करसंयुतम् । ददते ये नरा भक्त्या ते व्रजन्ति त्रिविष्टपम् ॥ ९७.४७ ॥ मणिनागे नृप स्वर्णपन्नगो यः प्रदीयते ॥ ९७.४८ ॥ पातकानि प्रलीयन्त आमपात्रे जलं यथा । नर्मदातोयसंसिद्धं भोज्यं विप्राय दीयते ॥ ९७.४९ ॥ तेऽपि पापैर्विनिर्मुक्ताः क्रीडन्ते दैवतैः सह । त्यागिनो भोगसंयुक्ता धर्माख्यानरताः सदा ॥ ९७.५० ॥ देवद्विजगुरोर्भक्तास्तीर्थसेवापरायणाः । मातापितृस्वामिभक्ताः क्रोधद्रोहविवर्जिताः ॥ ९७.५१ ॥ एतैः सर्वैर्गुणैर्युक्ता ये नराः पाण्डुनन्दन । जायन्ते स्वर्गकामाश्च स्वर्गे वासो भविष्यति ॥ ९७.५२ ॥ सर्वतीर्थवरं तीर्थं मणिनागं नृपोत्तम । तीर्थाख्यानमिदं पुण्यं यः पठेच्छृणुयादपि ॥ ९७.५३ ॥ सोऽपि पापविनिर्मुक्तः शिवलोके महीयते । न विषं क्रमते तेषां विचरन्ति यथेच्छया ॥ ९७.५४ ॥ भाद्रपद्यां च यः षष्ठ्यां भाद्रे स्नायाच्च दर्शके । तस्य पुण्यफलावाप्तिराख्यानकथनेन तु ॥ ९७.५५ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे मणिनागतीर्थवर्णनो नाम सप्तनवतितमोऽध्यायः ॥ अध्याय ९८ मार्कण्डेय उवाच - दक्षिणे नर्मदातीरे तीर्थं परमशोभनम् । सर्वपापहरं पुण्यं गोपालेश्वरमुत्तमम् ॥ ९८.१ ॥ गोदेहान्निःसृतं लिङ्गं पुण्यं भूमितले नृप । युधिष्ठिर उवाच - गोदेहात्निःसृतं कस्माल्लिङ्गं पापक्षयं करम् ॥ ९८.२ ॥ दक्षिणे नर्मदा तीरे मणिनागसमीपतः । संक्षेपात्कथ्यतां विप्र गोपालेश्वरमुत्तमम् ॥ ९८.३ ॥ मार्कण्डेय उवाच - कामधेनुस्तपस्तत्र पुत्रार्थं च चकार ह । ध्यायती परया भक्त्या देवदेवं महेश्वरम् ॥ ९८.४ ॥ तुष्टस्तस्या जगन्नाथः कपिलाया महेश्वरः । निःसृतो देहमध्यात्तु अक्षयः परमेश्वरः ॥ ९८.५ ॥ महेश्वर उवाच - तुष्टो देवि जगन्मातः कपिले परमेश्वरि । आराधनं कृतं कस्माद्वद देवि वरानने ॥ ९८.६ ॥ सुरभिरुवाच - लोकानामुपकाराय सृष्टाहं परमेष्ठिना । लोके कार्यं हि सर्वं वै मत्प्रसादात्प्रसिध्यति ॥ ९८.७ ॥ लोकाः सर्वे प्रपश्यन्ति त्वत्पसादात्त्रिशूलिनम् । तीर्थे त्वं भव भोः शम्भो लोकानां हितकाम्यया ॥ ९८.८ ॥ मार्कण्डेय उवाच - तदा प्रभृतितत्तीर्थं विख्यातं वसुधातले । स्नानेनैकेन राजेन्द्र सर्वपापं व्यपोहति ॥ ९८.९ ॥ गोपालेशे तु गोदानं यस्तु भक्त्या प्रदापयेत् । योग्ये द्विजोत्तमे देया योग्या धेनुः सकाञ्चनी ॥ ९८.१० ॥ सवस्त्रा तरुणी शुभ्रा क्षीरिणी वृषसंयुता । कृष्णपक्षे चतुर्दश्यामष्टम्यां वा युधिष्ठिर ॥ ९८.११ ॥ सर्वेषु चैव मासेषु कार्त्तिके च विशेषतः । दापयेत्परया भक्त्या द्विजे स्वाध्यायतत्परे ॥ ९८.१२ ॥ विधिना च प्रदास्यन्ति विधिना प्रतिगृह्णते । उभयोः पुण्यकर्माणि प्रेक्षकाः पुण्यभाजनाः ॥ ९८.१३ ॥ पिण्डदानं प्रकर्तव्यं प्रेतानां भावसंयुतैः । पिण्डेनैकेन राजेन्द्र प्रेता यान्ति परां गतिम् ॥ ९८.१४ ॥ भक्त्या प्रणामं रुद्रस्य ये कुर्वन्ति दिने दिने । तेषां पापं प्रलीयेत भिन्नपात्रे जलं यथा ॥ ९८.१५ ॥ तस्मिंस्तीर्थे तु यो राजन् वृषं चैव समुत्सृजेत् । युधिष्ठिर उवाच - वृषोत्सर्गे कृते तात यत्फलं भवते नृणाम् ॥ ९८.१६ ॥ तत्सर्वं कथयस्वाद्य प्रयत्नेन द्विजोत्तम । मार्कण्डेय उवाच - सर्वलक्षणसम्पन्ने वृषे चैव तु यत्फलम् ॥ ९८.१७ ॥ तदहं सम्प्रवक्ष्यामि शृणु त्वं धर्मनन्दन । कार्त्तिके चैव वैशाखे पौर्णमास्यां नराधिप ॥ ९८.१८ ॥ रुद्रस्य सन्निधौ भूत्वा शुचिः स्नात्वा जितेन्द्रियः । वृषोत्सर्गं तथा राजन् कारयेद्धरप्रीतये ॥ ९८.१९ ॥ स्थाने स्थित्वा पवित्रे तु चतस्रो वत्सिकाः शुभाः । वृषभाय च मुञ्चेत सर्वलक्षणसंयुताः ॥ ९८.२० ॥ प्रीयतां च महादेवो ब्रह्माविष्णुस्तथा परे । वृषभे रोमसंख्या तु सर्वाङ्गेषु नराधिप ॥ ९८.२१ ॥ तावद्वर्षप्रमाणं तु शिवलोके महीयते । शिवलोके उषित्वा तु पश्चान्मर्त्ये च जायते ॥ ९८.२२ ॥ कुले महति सम्भूतो धनधान्यसमाकुले । सुरूपे रूपवांश्चैव विद्याढ्ये सत्यवादिनाम् ॥ ९८.२३ ॥ गोपालेश्वरकं पुण्यं मयाख्यातं युधिष्ठिर । गोदेहात्निःसृतं लिङ्गं नर्मदादक्षिणे तटे ॥ ९८.२४ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे गोपालेश्वरमहिमानुवर्णनो नामाष्टनवतितमोऽध्यायः ॥ अध्याय ९९ मार्कण्डेय उवाच - नर्मदायोत्तरे कूले तीर्थं परमशोभनम् । सर्वपापहरं पुण्यं नाम्ना वै गौतमेश्वरम् ॥ ९९.१ ॥ स्थापितं गौतमेनैव लोकानां हितकाम्यया । स्वर्गसोपानरूपेण तीर्थं पुंसां युधिष्ठिर ॥ ९९.२ ॥ गच्छ त्वं परया भक्त्या यत्र देवो जगद्गुरुः । पातकानां विनाशाय स्वर्गवासाप्तये नृप ॥ ९९.३ ॥ सौख्यस्य वर्धनं लिङ्गं जयदं दुःखनाशनम् । पिण्डदानेन चैकेन कुलानां उद्धरेत्त्रयम् ॥ ९९.४ ॥ यत्किंचिद्दीयते भक्त्या स्वल्पं वा यदि वा बहु । तत्सर्वं शतसाहस्रमाज्ञया गौतमस्य च ॥ ९९.५ ॥ तीर्थानां परमं तीर्थं स्वयं रुद्रेण भाषितम् । मार्कण्डेय उवाच - दक्षिणे नर्मदाकूले तीर्थं परमशोभनम् ॥ ९९.६ ॥ शङ्खचूडेश्वरं तत्र प्रसिद्धं भूमिमण्डले । शङ्खचूडेश्वरस्तत्र संस्थितः पाण्डुनन्दन ॥ ९९.७ ॥ वैनतेयभयात्पार्थ संस्थितो नर्मदातटे । तत्र तीर्थे तु यो भक्त्या शुचिर्भूत्वा समाहितः ॥ ९९.८ ॥ स्नापयेच्छङ्खचूडं तु क्षौद्रेण दधिसर्पिषा । रात्रौ जागरणं कृत्वा देवस्याग्रे नराधिप ॥ ९९.९ ॥ दधिभक्तेन सम्पूज्य ब्राह्मणान् छंसितव्रतान् । गोदानं च तथा देयं सर्वपापक्षयं करम् ॥ ९९.१० ॥ तस्मिंस्तीर्थे तु यः पार्थ सर्पदष्टोऽपि नश्यति । सोऽपि याति परं लोकं शङ्खचूडस्य चाज्ञया ॥ ९९.११ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे शङ्खचूडतीर्थमहिमानुवर्णनो नाम नवनवतितमोऽध्यायः ॥ अध्याय १०० मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र पराशरवरोत्तमम् । पराशरो महात्मा च नर्मदायास्तटे शुभे ॥ १००.१ ॥ तपश्चचार विपुलं पुत्रार्थं पाण्डुनन्दन । हिमाचलसुता गौरी लक्ष्मीनारायणान्विता ॥ १००.२ ॥ तोषिता परया भक्त्या नर्मदायोत्तरे तटे । पराशरेण ऋषिणा तस्य तुष्टा वरं ददौ ॥ १००.३ ॥ देव्युवाच - भो भो ऋषिवरश्रेष्ठ तुष्टाहं तव भक्तितः । वरं याचस्व विप्रेन्द्र पराशरमहामते ॥ १००.४ ॥ पराशर उवाच - यदि तुष्टासि मे देवि यदि देयो वरो मम । पुत्रो मे दीयतां शीघ्रं सर्वशास्त्रविशारदः ॥ १००.५ ॥ तीर्थं चात्र भवेद्देवि सन्निधानं वरेण तु । लोकोपकारहेत्वर्थं स्थीयतां गिरिनन्दिनि ॥ १००.६ ॥ पराशराभिधानेन नर्मदादक्षिणे तटे । पराशरवचः श्रुत्वा देवी हिमवतः सुता ॥ १००.७ ॥ एवं भवतु ते विप्र इत्युक्त्वान्तरधीयत । पराशरो महात्मा च स्थापयामास पार्वतीम् ॥ १००.८ ॥ शङ्करं स्थापयामास सुरासुरनमस्कृतम् । अर्चितं सर्वदेवानां दानवानां दुरासदम् ॥ १००.९ ॥ पराशरो महात्मा च कृतार्थो विगतज्वरः । तस्मिंस्तीर्थे तु यो भक्त्या शुचिः प्रयतमानसः ॥ १००.१० ॥ मासे चैत्रे च विख्याते श्रावणे नृपनन्दन । मासि मार्गशिरे चैव शुक्लपक्षे तु सर्वदा ॥ १००.११ ॥ शङ्करं पाण्डवश्रेष्ठ गिरिजां पूजयेत्तथा । अष्टम्यां च चतुर्दश्यां सूर्यपर्वणि सर्वदा ॥ १००.१२ ॥ स्त्रियो वा पुरुषा वापि कामक्रोधविवर्जिताः । तत्र गत्वा शूचौ स्थाने नर्मदादक्षिणे तटे ॥ १००.१३ ॥ उपोष्य परया भक्त्या व्रतं कुर्युर्महामुने । रात्रौ जागरणं कृत्वा दीपदानं स्वशक्तितः ॥ १००.१४ ॥ सपत्नीकानुत्तमांश्च शीलश्रद्धासमन्वितान् । पूजयेद्ब्राह्मणान् पार्थ अन्नदानहिरण्मयैः ॥ १००.१५ ॥ वस्त्रेण च्छत्रदानेन शय्या ताम्बूलभोजनैः । श्राद्धं कार्यं नृपश्रेष्ठ आमश्राद्धं प्रशस्यते ॥ १००.१६ ॥ आमं चतुर्गुणं प्रोक्तं ब्राह्मणानां युधिष्ठिर । वेदोक्तेन विधानेन द्विजाः पूज्याः प्रयत्नतः ॥ १००.१७ ॥ हस्तमात्रकुशैश्चैव तिलैश्च वाञ्च्छितैर्नृप । विप्रं चोदङ्मुखं चैव आत्मानं दक्षिणामुखम् ॥ १००.१८ ॥ आमं दर्भेषु निःक्षिप्य इत्युच्चार्य द्विजाग्रतः । प्रेता यान्तु परं लोकं तीर्थस्यास्य प्रभावतः ॥ १००.१९ ॥ पापं मे प्रशमं यातु यातु वृद्धिः सदा शुभम् । वृद्धिं यातु सदा वंशो ज्ञातिवर्गो द्विजोत्तम ॥ १००.२० ॥ एवमुच्चार्य विप्रेन्द्रं देयं पराशराश्रमे । गोभूनीलहिरण्यानि अन्नं वस्त्रं च शक्तितः ॥ १००.२१ ॥ दातव्यं पाण्डवश्रेष्ठ पराशरवराश्रमे । यः शृणोति नरो भक्त्या सोऽपि पापैः प्रमुच्यते ॥ १००.२२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे पराशरतीर्थमहिमानुवर्णनो नाम शततमोऽध्यायः ॥ अध्याय १०१ मार्कण्डेय उवाच - भीमेश्वरं ततो गच्छेत्सर्वपापक्षयंकरम् । सेव्यते ऋषिसङ्घैश्च भीमव्रतधरैरपि ॥ १०१.१ ॥ तत्र तीर्थे तु यः स्नात्वा सोपवासो जितेन्द्रियः । जपंश्चैकाक्षरं मन्त्रमूर्ध्वबाहुर्दिवाकरम् ॥ १०१.२ ॥ तस्य जन्मार्जितं पापं तत्क्षणादेव नश्यति । सप्तजन्मार्जितं पापं गायत्र्या नश्यते ध्रुवम् ॥ १०१.३ ॥ दशभिर्जन्मजनितं शतेन च पुराकृतम् । त्रिजन्मना सहस्रेण गायत्री हन्ति किल्बिषम् ॥ १०१.४ ॥ वैदिकं लौकिकं चापि जाप्यं जप्तं जनेश्वर । तत्क्षणाद्दहते पापं तृणं च ज्वलनो यथा ॥ १०१.५ ॥ तदेव बलमाश्रित्य कदाचित्पापमाचरेत् । अज्ञानात्तस्य तत्क्षिप्रं न फलं हि कदाचन ॥ १०१.६ ॥ तत्र तीर्थे तु गोदानं शक्तिमात्रेण दापयेत् । तदक्षयं फलं सर्वं जायते पाण्डुनन्दन ॥ १०१.७ ॥ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र नारदेश्वरमुत्तमम् । तीर्थानां परमं तीर्थं निर्मितं नारदेन तु ॥ १०१.८ ॥ युधिष्ठिर उवाच - नारदेन मुनिश्रेष्ठ कस्य तीर्थं विनिर्मितम् । एतदाख्याहि मे सर्व प्रसन्नो यदि सत्तम ॥ १०१.९ ॥ मार्कण्डेय उवाच - परमेष्ठिसुतश्चापि नारदो भगवानृषिः । नर्मदायोतरे कूले तपस्तेपे पुराकृते ॥ १०१.१० ॥ नवनाडीनिरोधेन काष्ठावस्थां गतेन च । तोषितः श्रीमहादेवो नारदेन युधिष्ठिर ॥ १०१.११ ॥ ईश्वर उवाच - तुष्टोऽहं तव विप्रेन्द्र योगीश्वर अयोनिज । वरं प्रार्थय हे देव यत्ते मनसि वर्तते ॥ १०१.१२ ॥ नारद उवाच - त्वत्प्रसादेन भो देव योगश्चैव प्रसिध्यतु । ईश्वर उवाच - योगो भवतु भक्तिस्ते सर्वकालं ममैव तु ॥ १०१.१३ ॥ स्वेच्छाचारो भवे गच्छ स्वर्गपातालगोचरे । मर्त्ये च भ्रमसे योगिन्न केनापि निवार्यसे ॥ १०१.१४ ॥ सप्तस्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः । मम प्रियकरं दिव्यं नृत्यं गीतं च योगिना ॥ १०१.१५ ॥ कलिं च पश्यसे नित्यं देवदानवकिन्नरैः । त्वत्तीर्थं भूतले पुण्यं मत्प्रसादाद्भविष्यति ॥ १०१.१६ ॥ इत्युक्त्वान्तर्दधे देवो नारदस्तत्र लिङ्गिनम् । स्थापयामास राजेन्द्र सर्वसत्त्वोपकारकम् ॥ १०१.१७ ॥ मार्कण्डेय उवाच - पृथिव्यामुत्तमं तीर्थं निर्मितं नारदेन तु । तस्मिंस्तीर्थे नरश्रेष्ठ नागच्छेद्विजितेन्द्रियः ॥ १०१.१८ ॥ मासि भाद्रपदे रम्ये कृष्णपक्षे चतुर्दशीम् । उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम् ॥ १०१.१९ ॥ छत्रं तत्र प्रदातव्यं ब्राह्मणे शुभलक्षणम् । शस्त्रेण निहता ये तु तेषां श्राद्धं प्रदापयेत् ॥ १०१.२० ॥ यान्ति ते परमं लोकं पिण्डदानप्रभावतः । कपिला चैव दातव्या तत्र देशे नराधिप ॥ १०१.२१ ॥ अस्य श्राद्धप्रभावेण ब्राह्मणानां नराधिप । नर्मदातोयपानस्य न्यायार्जितधनस्य च ॥ १०१.२२ ॥ एतेषां च प्रभावेण प्रेता यान्तु परां गतिम् । इत्युच्चार्य द्विजे देया दक्षिणा च स्वशक्तितः ॥ १०१.२३ ॥ हविष्यान्नं विशालाक्ष द्विजानां चैव दापयेत् । विद्यादानेन चैकेन अक्षया गतिराप्यते ॥ १०१.२४ ॥ तस्मिंस्तीर्थे तु राजेन्द्र यो दद्यादग्रजन्मने । कांचनं स तिलं चैव स गच्छेच्च त्रिविष्टपम् ॥ १०१.२५ ॥ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र तीर्थद्वयमनुत्तमम् । दधिछन्दं मधुछन्दं सर्वपापक्षयं करम् ॥ १०१.२६ ॥ दधिच्छन्दे नरः स्नात्वा यो दद्याच्च द्विजे दधि । उपतिष्ठति तस्यैतत्सप्तजन्मसु भारत ॥ १०१.२७ ॥ न व्याधिर्न जरा तस्य न शोको न च मत्सरः । दशचन्द्रशतं यावज्जायते विपुले कुले ॥ १०१.२८ ॥ मधुच्छन्दे तु मधुना मिश्रितं च तिलोदकम् । न च वैवस्वतं देवं पश्यते सप्तजन्मसु ॥ १०१.२९ ॥ मधुना सह मिश्रं च तिलं यस्तु प्रयच्छति । तस्य पुत्रस्य पौत्रस्य दारिद्र्यं नैव जायते ॥ १०१.३० ॥ मधुना सह संमिश्रं तिलं यस्तु प्रयच्छति । मधुना सह संमिश्रं यस्तु पिण्डं प्रदापयेत् ॥ १०१.३१ ॥ तस्मिंस्तीर्थे तु यः स्नात्वा विधिवद्दक्षिणामुखः । पिता पितामहश्चैव तथैव प्रपितामहः ॥ १०१.३२ ॥ षोडशाब्दानि तुष्यन्ति नात्र कार्या विचारणा । मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र नन्दितीर्थमनुत्तमम् ॥ १०१.३३ ॥ यत्र सिद्धश्च वै नन्दी तत्सर्वं कथयाम्यहम् । नर्मदां पुरतः कृत्वा पुरा नन्दी महेश्वरम् ॥ १०१.३४ ॥ तपस्तप्तं जपंश्चैव तीर्थात्तीर्थं जगाम ह । दधिच्छन्दं मधुच्छन्दं यावत्त्यक्त्वा च गच्छति ॥ १०१.३५ ॥ ततस्तुष्टो महादेवो नन्दिनं तमुवाच ह । महेश्वर उवाच - भो भोः प्रसन्नो नन्दीश वरं वृणु यथेप्सितम् ॥ १०१.३६ ॥ तपसा तेन तुष्टोऽहं तीर्थयात्राकृतेन च । नन्द्युवाच - न चाहं कामये वित्तं न चाहं कुलसन्ततिम् ॥ १०१.३७ ॥ मुक्तिं न कामये चान्यद्देवेश चरणाम्बुजम् । कृमिकीटपतङ्गेषु तिर्यग्योनिगतेषु च ॥ १०१.३८ ॥ जन्मजन्मनि यास्यामि त्वद्भक्तिरचला च मे । तथेति चोक्तो देवेन परमेशेन नन्दिकः ॥ १०१.३९ ॥ गृहीत्वा तं करे शीघ्रं जगाम निलयं हरः । तस्मिंस्तीर्थे तु यः स्नात्वा भक्त्या त्र्यक्षं प्रपूजयेत् ॥ १०१.४० ॥ अग्निष्टोमे च यत्पुण्यं फलं प्राप्नोति मानवः । तत्र तीर्थे महापुण्ये प्राणत्यागं करोति यः ॥ १०१.४१ ॥ शिवस्यानुचरो भूत्वा मोदते कल्पमक्षयम् । ततः कालेन महता जायते विपुले कुले ॥ १०१.४२ ॥ वेदवेदाङ्गतत्त्वज्ञे जीवेच्च शरदां शतम् । एतत्ते कथितं पार्थ सर्वतुष्टिप्रदं शुभम् ॥ १०१.४३ ॥ दुर्लभं सत्यसंज्ञस्य सर्वपापक्षयं करम् ॥ १०१.४४ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे नन्दितीर्थवर्णनो नामैकशततमोऽध्यायः ॥ अध्याय १०२ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र वरुणेश्वरमुत्तमम् । यत्र सिद्धः पुरा देवो वरुणो नृपसत्तम ॥ १०२.१ ॥ पिण्याकशाकपर्णैश्च कृच्छ्रचान्द्रायणादिभिः । आराध्य गिरिजानाथं ततः सिद्धिं गता जनाः ॥ १०२.२ ॥ तत्र तीर्थे नरः स्नात्वा संतर्प्य पितृदेवताः । पूजयेच्छङ्करं भक्त्या स गच्छेत्परमं पदम् ॥ १०२.३ ॥ कुण्डिकां वर्धनीं वापि महद्वा जलभाजनम् । अन्नेन सहितं पार्थ तस्य पुण्यफलं शृणु ॥ १०२.४ ॥ यत्फलं लभते मर्त्यः सत्रे द्वादशवार्षिके । तत्फलं समवाप्नोति नात्र कार्या विचारणा ॥ १०२.५ ॥ सर्वेषामेव दानानामन्नदानमनुत्तमम् । यद्यत्प्रीतिकरं चैव तोयं च नृपसत्तम ॥ १०२.६ ॥ तत्र तीर्थे मृतानां च नराणां भावितात्मनाम् । वारुणे च पुरे वासो यावदाहूत सम्प्लवम् ॥ १०२.७ ॥ भुक्त्वा तत्र बहुं कालं मर्त्यलोकेऽभिजायते । अन्नदानप्रदो नित्यं जीवेच्च शरदां शतम् ॥ १०२.८ ॥ मार्कण्डेय उवाच - ततो गच्छेच्च राजेन्द्र अग्नितीर्थमनुत्तमम् । यत्र सिद्धो महातेजास्तपः कृत्वा हुताशनः ॥ १०२.९ ॥ सर्वभक्षीकृतो यश्च दण्डके मुनिना पुरा । नर्मदातटमाश्रित्य पूतो जातो हुताशनः ॥ १०२.१० ॥ तत्र तीर्थे नरः स्नात्वा समभ्यर्च्य जगद्गुरुम् । उमया सहित भक्त्या सर्वपापैः प्रमुच्यते ॥ १०२.११ ॥ तत्र तीर्थे नरः स्नात्वा दत्ते वै कांचनं नृप । ब्राह्मणेभ्यो जलं दत्त्वा लभते वार्बुदं फलम् ॥ १०२.१२ ॥ दधिच्छन्दे मधुच्छन्दे नन्दीशे वारुणे तथा । आग्नेये तत्फलं तात स्नात्वा मुच्येत किल्बिषैः ॥ १०२.१३ ॥ ते वन्द्या मानुषे लोके धन्याश्चाप्तमनोरथाः । यैर्हि दृष्टं महापुण्यं नर्मदातीर्थपञ्चकम् ॥ १०२.१४ ॥ स्वर्गलोकमवापुस्ते यावदिन्द्राश्चतुर्दश । ततः स्वर्गाच्च्युताश्चापि राजानः सन्ति धार्मिकाः ॥ १०२.१५ ॥ सर्वपापविनिर्मुक्ता भुञ्जते तेऽचलां महीम् । आखण्डलप्रतापोऽयं नर्मदातटसेवने ॥ १०२.१६ ॥ गङ्गाकनखले पुण्या कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥ १०२.१७ ॥ रेवातीरं वसेन्नित्यं तोयं यस्तु सदा पिबेत् । स्नातोऽसौ सर्वतीर्थेषु सोमपानं दिने दिने ॥ १०२.१८ ॥ गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च । कल्पान्ते संक्षयं यान्ति न मृतैका च नर्मदा ॥ १०२.१९ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे तीर्थपञ्चकवर्णनो नाम द्व्यधिकशततमोऽध्यायः ॥ अध्याय १०३ युधिष्ठिर उवाच - हनूमदीश्वरन्नाम कथं जातं महामते । ब्रह्महत्याहरं तीर्थं रेवायादक्षिणे तटे ॥ १०३.१ ॥ मार्कण्डेय उवाच - साधु पृष्टं महाबाहो सोमवंशविभूषण । गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया ॥ १०३.२ ॥ तव स्नेहात्प्रवक्ष्यामि पीडितो वार्धकेन तु । जातं पूर्वं महायुद्धं रामरावणयोरपि ॥ १०३.३ ॥ पुलस्त्यो ब्रह्मणः पुत्रस्तस्य वै विश्रवाः सुतः । रावणस्तस्य संजातो दशग्रीवोऽपि राक्षसः ॥ १०३.४ ॥ त्रैलोक्यविजयी जातः प्रसादाच्छूलिनस्तथा । गीर्वाणा निर्जिताः सर्वे रामस्य गृहिणी हृता ॥ १०३.५ ॥ यद्भ्राता कुम्भकर्णो वै सीता सा वनमाश्रिता । विभीषणेन पापोऽयं मन्दस्त्यक्तो विचार्य च ॥ १०३.६ ॥ स जितः कार्तवीर्येण स जितो जामदग्निना । स हतो रामचन्द्रेण तस्य राज्यं हृतं तथा ॥ १०३.७ ॥ ततो रामेण रक्षोऽपि जितः संख्ये महाबलः । वनं भग्नं हतो रक्षो गत्वा वायुसुतेन वै ॥ १०३.८ ॥ रावणस्य सुतः संख्ये हतश्चाक्षकुमारकः । एवं रामायणे जाते सीता मोक्षे कृते ततः ॥ १०३.९ ॥ अयोध्यायां गते रामे हनूमाश्च महाबलः । कैलासं हि गतः पार्थ प्रणामार्थं महेश्वरे ॥ १०३.१० ॥ तिष्ठ तिष्ठेति चोक्तो वै नन्दिना वानरोत्तमः । ब्रह्महत्यायुतस्त्वं हि राक्षसानां वधेन हि ॥ १०३.११ ॥ भैरवस्यासनं पुण्यं न गन्ताऽसि महाबल । हनुमानुवाच - नन्दिंस्त्वं हि वरं यच्छ पातकस्योपशान्तये ॥ १०३.१२ ॥ भूत्वा निष्पातकोऽहं वै प्रणमामि महेश्वरम् । नन्द्युवाच - रुद्रदेहोद्भवा पुण्या नर्मदा सरितां वरा ॥ १०३.१३ ॥ श्रवणाज्जन्मचरितं कीर्तनाद्द्विगुणं व्रजेत् । सप्तजन्मार्जितं पापं नश्येद्रेवावगाहनात् ॥ १०३.१४ ॥ तस्मात्तीरे वस त्वं च रेवासङ्गमदक्षिणे । ध्यायमानो विरूपाक्षं त्रिशूलकरसंस्थितम् ॥ १०३.१५ ॥ जटामुकुटसंकाशं व्यालयज्ञोपवीतकम् । उमार्धाङ्गधरं देवं गोराजासनसंस्थितम् ॥ १०३.१६ ॥ वत्सरान् सुबहून् यावद्ध्यायतस्तस्य तत्र वै । तत्र तुष्टो महादेव आगतः सह भार्यया ॥ १०३.१७ ॥ उवाच मधुरां वाणीं मेघगम्भीरया गिरा । साधु वत्स त्वया चात्र कष्टं तपसि संस्थितम् ॥ १०३.१८ ॥ हनूमांश्च हरं दृष्ट्वा उमार्धाङ्गधरं स्थितम् । साष्टाङ्गं प्रणतो भूत्वा जयदेव नमोऽस्तु ते ॥ १०३.१९ ॥ जय चान्धकघाताय बाणासुरविमर्दिने । जय भूतपनाथाय जय भैरवभूषण ॥ १०३.२० ॥ जय कामविनाशाय गङ्गां शिरसि धारिणे । एवं स्तुतो महादेवो वरदो वानरस्य च ॥ १०३.२१ ॥ ईश्वर उवाच - वरं प्रार्थय त्वं वत्स प्रार्थितं रभसं वद । हनुमानुवाच - ब्रह्मरक्षोवधाज्जाता ब्रह्महत्या महेश्वर ॥ १०३.२२ ॥ निष्पापोऽहं भवेयं वै युष्मत्सम्भाषणेन च । ईश्वर उवाच - नर्मदातीर्थं माहात्म्यध्यानयोगप्रभावतः ॥ १०३.२३ ॥ मन्मूर्तिदर्शनात्सद्यो निष्पापो नात्र संशयः । इत्युक्त्वान्तर्दधे देव उमासार्धं त्रिलोचनः ॥ १०३.२४ ॥ हनुमदीश्वरं तत्र स्थापयामास भक्तितः । आत्मयोगबलेनैव ब्रह्मचर्यप्रभावतः ॥ १०३.२५ ॥ ईश्वरस्य प्रभावेण कामदं स्थापितं शिवम् । अच्छेद्यमप्रतर्क्यं च विनाशोत्पत्तिवर्जितम् ॥ १०३.२६ ॥ मार्कण्डेय उवाच - हनुमदीश्वरे तत्र प्रत्ययं यत्पुराभवत् । यद्वृत्तं द्वापरस्यादौ त्रेतान्ते च नरेश्वरा ॥ १०३.२७ ॥ सुपर्णो नाम राजर्षिर्बभूव वसुधातले । तस्य राज्ये सदा सौख्यं दीर्घायुर्मानवः सदा ॥ १०३.२८ ॥ शतबाहुर्बभूवास्य पुत्रो भीमपराक्रमः । आसक्तः स सदाकालं जपध्याने नरेश्वर ॥ १०३.२९ ॥ क्रीडते पृथिवीं सर्वां पर्वतांश्च वनानि च । वधार्थं मृगयूथानामागतो विन्ध्यपर्वते ॥ १०३.३० ॥ मृगजातिसमाकीर्णे हस्तिजातिसमाश्रिते । हस्तिचित्रकशोभाढ्ये मृगवाराहसंकुले ॥ १०३.३१ ॥ क्रीडित्वा च ततो राजा चासने संस्थितः स च । वनमध्ये तदा दृष्ट्वा भ्रमन्तं पिङ्गलं द्विजम् ॥ १०३.३२ ॥ राजोवाच - एको वने वने कस्माद्भ्रमसे पुस्तिकाकरः । इतश्चेतो निरीक्षंस्त्वं कथयस्व द्विजोत्तम ॥ १०३.३३ ॥ ब्राह्मण उवाच - कान्यकुब्जात्समायातः प्रेषितो राजकन्यया । राजोवाच - कथयस्व प्रसादेन कस्मात्कार्याद्वद प्रभो ॥ १०३.३४ ॥ ब्राह्मण उवाच - शिखण्डी चैव राजा वै कान्यकुब्जं बुभुक्षते । अपुत्रः स महीपालः कन्या जाता मनोरथैः ॥ १०३.३५ ॥ हे नृप जातिस्मरा शुभाचारा नर्मदायाः प्रभावतः । पित्रोक्ता सा च कन्या वै विवाहाय प्रकल्पिता ॥ १०३.३६ ॥ असारे चाद्य संसारे कन्यादानं ददाम्यहम् । कन्योवाचा॒ यस्मिन् काले ह्यहं लिप्से तस्मिन् काले प्रदीयताम् ॥ १०३.३७ ॥ पुत्रीवाक्येन राजासौ विस्मयाविष्टचेतनः । शिखण्ड्युवाच - कथ्यतां मे महाभागे भाषितं हि त्वया कथम् ॥ १०३.३८ ॥ पितृवाक्येन सा वाला शिरसावनता भुवि । कथयामास यद्वृत्तं हनुमदीश्वरे नृप ॥ १०३.३९ ॥ कलापिन्यस्म्यहं तात स्थिता भर्तृसहानुगा । उरङ्गमेश सान्निध्ये रेवाया उत्तरे तटे ॥ १०३.४० ॥ हनुमतो वने पुण्ये क्रीडामि स्म यदृच्छया । भर्तृयुक्ता तत्र गुह्ये वञ्जुले सरले द्रुमे ॥ १०३.४१ ॥ आगता लुब्धकास्तत्र क्षुधार्ता वनमुत्तमम् । भर्तृकोपयुतैः पापैर्हताहं पतिना सह ॥ १०३.४२ ॥ ग्रीवां निमोटयामासुर्भक्षणोत्पाटनं कृतम् । हुताशनमुखे ते तु हसन्तश्चाशु लुब्धकाः ॥ १०३.४३ ॥ भर्जयित्वा ततो मांसं भक्षयित्वा यथेच्छया । सुप्ताः स्वस्थेन्द्रिया रात्रौ विगता शर्वरी क्षयम् ॥ १०३.४४ ॥ तन्मांसशेषं जुष्टं वै जम्बुकैर्गृध्रवायसैः । मच्छरीरोद्भवं चास्थि स्नायुमांसेन संयुतम् ॥ १०३.४५ ॥ गृहीत्वा पत्रिणैकेन आकाशात्पतता तदा । सामिषं पक्षिणं दृष्ट्वा पक्षिणोऽन्ये समागताः ॥ १०३.४६ ॥ दृष्ट्वा पक्षिसमूहं तु अस्थिखण्डं व्यसर्जयत् । विहगानां समस्तानां धावतां चापि पश्यताम् ॥ १०३.४७ ॥ पतितं नर्मदातोये हनुमदीश्वरे नृप । मदीयमस्थिखण्डं च पतितं नर्मदाजले ॥ १०३.४८ ॥ तस्य तीर्थप्रभावेण जाताहं क्षत्रिये कुले । भूप कन्याप्यहं जाता सम्पूर्णशशिवन्मुखी ॥ १०३.४९ ॥ जातिस्मरा नरेन्द्रास्मि जाताहं क्षत्रिये कुले । एतत्ते सर्वमाख्यातं कारणं नृपसत्तम ॥ १०३.५० ॥ मदर्थं विषमस्थाने शकुन्तमृगजातिषु । यदि प्रेषयसे तात कमपि नर्मदाजले ॥ १०३.५१ ॥ तस्याहं कथयिष्यामि स्थानचिह्नं समग्रकम् । कन्याया वचनं श्रुत्वा शिखण्डी ह्याह मां नृप ॥ १०३.५२ ॥ ग्रामविंशं च दास्यामि गच्छ त्वं नर्मदातटे । प्रेक्षणं मे प्रतिज्ञातमलक्ष्याऽपीडितेन तु ॥ १०३.५३ ॥ गच्छ त्वं नर्मदां पुण्यां सर्वपापक्षयंकरीम् । अग्रजां सोमनाथस्य हनुमदीश्वरे शुभे ॥ १०३.५४ ॥ अर्धक्रोशे तु रेवाया विस्तीर्णे वटपादपैः । कदम्बकवनैश्चैव संप्रधाने वनस्य च ॥ १०३.५५ ॥ न्यग्रोधवटसान्निध्ये अस्थिलक्ष्यं प्रदृश्यते । मृत्तिकामस्थिसंगृह्य गच्छ रेवान् द्विजोत्तम ॥ १०३.५६ ॥ आश्विनस्य सिते पक्षे त्रिपुरारितिथौ स्थिते । स्नापय शूलिनं भक्त्या रात्रौ कुरु च जागरम् ॥ १०३.५७ ॥ प्रभाते क्षिप्यतां शीघ्रं नाभिमात्रे जले स्थितः । इत्युच्चार्य द्विजश्रेष्ठ सुगतिस्तस्य जायते ॥ १०३.५८ ॥ अस्थि क्षिप्त्वा पुनः स्नानं कर्तव्यमघनाशनम् । कथितं कन्यया यच्च तत्सर्वं पुस्तके कृतम् ॥ १०३.५९ ॥ आगतोऽहं नृपश्रेष्ठ तस्मिंस्तीर्थे महालये । साभिज्ञानं ततो दृष्ट्वा गृहीत्वास्थि नृपोत्तम ॥ १०३.६० ॥ पूर्वोक्तेन विधानेन निक्षिप्तं नर्मदाजले । पुष्पवृष्टिः पपाताथ साधु साध्विति ब्राह्मण ॥ १०३.६१ ॥ विमानं तु ततो दिव्यं दृष्टं हनुमदीश्वरे । ततो ब्राह्मणराजानौ गृहीत्वानशनं स्थितौ ॥ १०३.६२ ॥ आत्मानं शोषयित्वा च ईश्वराराधने रतौ । एवं सन्ध्यायतो देवं शतबाहुर्द्विजोत्तमः ॥ १०३.६३ ॥ मासार्धात्तु मृतो राजा शतबाहुर्महामतिः । किङ्किणीजालशोभाढ्यं विमानं तत्र चागतम् ॥ १०३.६४ ॥ साधु साधु नृपश्रेष्ठ विमानारोहणं कुरु । राजोवाच - ऊर्ध्वमार्गं न गच्छामि विप्रो यावन्न संस्थितः ॥ १०३.६५ ॥ उपदेशप्रदो मह्यं गरुरूपो द्विजोत्तमः । देवा ऊचुः॒ हनुमदीश्वरे राजन्ये मृताः सन्ति मानवाः ॥ १०३.६६ ॥ ते यान्ति शिवलोकं वै सर्वपापक्षयं करम् । नैव पापक्षयश्चास्य ब्राह्मणस्य नरेश्वर ॥ १०३.६७ ॥ गृहं च गृहिणी वित्तं ब्राह्मणस्य प्रवर्तते । शतबाहुस्ततो विप्रं भाषयामास भक्तितः ॥ १०३.६८ ॥ त्यज मूलमधर्मस्य लोभमेकं द्विजोत्तम । इत्युक्त्वा प्रययौ राजा स्वर्गं स्वर्गिजनैः सह ॥ १०३.६९ ॥ दिनैः कैश्चिद्गतो विप्रः स्वर्गं सुकृतिभिः सह । वाहिन्याः काशिराजस्य पुत्र्याः तीर्थप्रभावतः ॥ १०३.७० ॥ आत्मनः कन्यया दत्ते पूर्वजन्मार्जितं तपः । अष्टम्यां च चतुर्दश्यां सर्वकालं मुनीश्वर ॥ १०३.७१ ॥ विशेषादाश्विने मासे कृष्णपक्षे चतुर्दशी । स्नापयेदीश्वरं भक्त्या क्षौद्रक्षीरेण सर्पिषा ॥ १०३.७२ ॥ दध्ना च खण्डयुक्तेन तिलतोयेन वा पुनः । श्रीखण्डेन सुगन्धेन चार्चयेत्तं महेश्वरम् ॥ १०३.७३ ॥ ततः सुगन्धपुष्पैश्च बिल्वपत्रैश्च पूतनम् । श्राद्धं यः कारयेत्तत्र ब्राह्मणैर्वेदपारगैः ॥ १०३.७४ ॥ सर्वलक्षणसम्पूर्णैः कुलीनैर्गृहपालकैः । तर्पयेद्ब्राह्मणं भक्त्या अन्नवस्त्रहिरण्यकैः ॥ १०३.७५ ॥ नरकस्था दिवं यान्ति इत्युच्चार्य द्विजातयः । स्वर्गस्थाः परमं लोकमित्युक्त्वा प्रणमेद्द्विजान् ॥ १०३.७६ ॥ पतितान् वर्जयेद्विप्रान् वृषली यस्य मन्दिरे । स्ववृषं तु परित्यज्य वृषैरन्यैर्वृषायते ॥ १०३.७७ ॥ वृषलीं तां विदुर्देवा न शूद्रा वृषली भवेत् । ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् ॥ १०३.७८ ॥ सुवर्णहरणं तस्य मित्रद्रोहभवं तथा । नश्यन्ति पातकाः सर्वे इत्येवं शङ्करोऽब्रवीत् ॥ १०३.७९ ॥ वाक्प्रलापेन किं वत्स बहुनोक्तेन किं तु वा । सर्वपापसमोपेतो दद्याद्दानं द्विजोत्तमे ॥ १०३.८० ॥ सर्वदेवमयी धेनुः सर्वदेवात्मिका स्थिता । शृङ्गाग्रेषु महीपाल शक्रो वसति नित्यशः ॥ १०३.८१ ॥ हरि स्कन्धे शिरो ब्रह्मा ललाटे वृषवाहनः । चन्द्रार्कौ लोचने ज्ञेयौ जिह्वायां तु सरस्वती ॥ १०३.८२ ॥ मरुद्गणाः सदा साध्यास्तस्याङ्गानि नरेश्वर । ओंकारश्चतुरो वेदाः सषडङ्गपदक्रमाः ॥ १०३.८३ ॥ ऋषयो रोमकूपेषु अस्थिख्याता महानगाः । दण्डहस्तो महाकायः कृष्णो महिषवाहनः ॥ १०३.८४ ॥ पृष्ठभागस्थितो नित्यं शुभाशुभनिरीक्षकः । चत्वारः सागराः पुण्याः क्षीरधाराः स्तनेषु च ॥ १०३.८५ ॥ विष्णुदेहोद्भवा गङ्गा दर्शनात्पापहारिणी । एवं या संस्थिता यस्मात्तस्मादेषा सदा बुधैः ॥ १०३.८६ ॥ लक्ष्मीश्च गोमये यस्याः पवित्रा सर्वमङ्गला । गोमयाल्लेपनं तस्मात्कर्तव्यं पाण्डुनन्दन ॥ १०३.८७ ॥ गन्धर्वाप्सरसो गङ्गा गोखुरेषु च संस्थिताः । अश्विनौ कर्णयोर्नित्यं वर्तेते रविपुत्रकौ ॥ १०३.८८ ॥ पृथिव्यां सागरान्तायां यानि तीर्थानि पाण्डव । तानि सर्वाणि प्राप्तानि गवां पादेषु नित्यशः ॥ १०३.८९ ॥ युधिष्ठिर उवाच - सर्वतीर्थसमा गावो गीर्वाणैः समलंकृताः । एतत्कथय मे तात कस्माद्गोषु समाश्रिताः ॥ १०३.९० ॥ मार्कण्डेय उवाच - सर्वदेवमयो विष्णुर्गावो विष्णुशरीरजाः । देयास्तस्मात्सदा वन्द्याः कल्पिता विबुधैर्जनैः ॥ १०३.९१ ॥ श्वेता वा कपिला वापि क्षीरिणी पाण्डुनन्दन । सर्वासां क्षीरिणीर्गावः श्वेतवस्त्रावगुण्ठिताः ॥ १०३.९२ ॥ कांस्यदोहनिका देयाः स्वर्णशृङ्गीर्विभूषिताः । हनूमदीश्वरस्याग्रे भक्त्या विप्रेषु दापयेत् ॥ १०३.९३ ॥ निसर्गस्थेन सा देया स्वर्गमात्मन इच्छता । असमर्थो यमस्तेषां विष्णुलोकं प्रयान्ति ते ॥ १०३.९४ ॥ विष्णुलोकच्युतः सोऽपि प्रयाति द्विजमन्दिरम् । तत्रैव जायते पुत्रो विद्वान् वनसमन्वितः ॥ १०३.९५ ॥ सर्वपापहरं तीर्थं हनुमदीश्वरं शुभम् । शृणोति मुच्यते पापाद्वर्णसङ्करसम्भवात् ॥ १०३.९६ ॥ दर्शे संचिन्तयेद्यस्तु मुच्यते नात्र संशयः ॥ १०३.९७ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे हनुमदीश्वरवर्णनो नाम त्र्यधिकशततमोऽध्यायः ॥ अध्याय १०४ मार्कण्डेय उवाच - आश्चर्यं कथितं तात यदभून्नर्मदातटे । सोमनाथस्यतीर्थं हि वाराणस्या समं नृप ॥ १०४.१ ॥ युधिष्ठिर उवाच - निमग्नो दुःखसंसारे हृतराज्यो द्विजोत्तम । युष्मद्वाणी जलैः स्नातो निर्दुःखोऽहं सबान्धवः ॥ १०४.२ ॥ मार्कण्डेय उवाच - साधु साधु महाबाहो सोमवंश विभूषण । पृष्टं ते दुर्लभं तीर्थं गुह्याद्गुह्यतरं यथा ॥ १०४.३ ॥ आदौ पितामहस्तात समस्तस्य जनस्य च । मनसा तस्य संजाता ऋषयो दश पुङ्गवाः ॥ १०४.४ ॥ मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । प्रचेताश्च वशिष्ठश्च भृगुर्नारद एव च ॥ १०४.५ ॥ जज्ञे प्रचेतसो दक्षो महातेजाः प्रजापतिः । दक्षस्यापि सुता जाताः पञ्चाशत्कन्यकाः किल ॥ १०४.६ ॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । तथैव च महाभाग सप्तविंशतिमिन्दवे ॥ १०४.७ ॥ तासां हि रोहिणी चन्द्रस्याभीष्टा साभवत्तदा । तस्याश्च कारणं कृत्वा शप्तो दक्षेण चन्द्रमाः ॥ १०४.८ ॥ क्षयरोग्यभवच्चन्द्रो विवक्षायाः प्रजापतेः । दक्षशापप्रभावेण निस्तेजाः शर्वरीपतिः ॥ १०४.९ ॥ गतः पितामहं सोमो वेपमानः प्रणम्य च । ब्रह्मयोने नमस्तुभ्यं वेदगर्भ नमोऽस्तु ते ॥ १०४.१० ॥ ब्रह्मोवाच - सर्वत्र दुर्लभा रेवा त्रिषु स्थानेषु भारत । ओंकारे च भृगुक्षेत्रे नर्मदा ह्युरगेश्वरे ॥ १०४.११ ॥ काष्ठवत्संस्थितः सोमो ध्यायते परमेश्वरम् । यावद्वर्षशतं पूर्णं तावत्तुष्टो महेश्वरः ॥ १०४.१२ ॥ प्रेत्यक्षः सोमनाथस्य वृषासन उमार्धगः । साष्टाङ्गं प्रणतो भूत्वा जय देव नमोऽस्तु ते ॥ १०४.१३ ॥ जय शङ्कर पापकृतान्त नमो जय ईश्वर नाथ नमोऽस्तु नमः । जय वासुकिभूषण भूतपते जय शूलकपालधराय नमः ॥ १०४.१४ ॥ जय अन्धकदेहविनाश नमो जय दानवदेहवधाय नमः । जय निष्कलसकलकलाय नमो जय कालकलादमनाय नमः ॥ १०४.१५ ॥ जय नीलकण्ठ उमापते जय सूक्ष्मनिरञ्जनशब्द नमः । जय आद्य अनाद्य अनन्त नमो जय पाणिपिनाकत्रिशूल नमः ॥ १०४.१६ ॥ एवं स्तुतो महादेवः सोमनाथेन पाण्डव । तुष्टस्तस्य नृपश्रेष्ठ उमया सह शङ्करः ॥ १०४.१७ ॥ ईश्वर उवाच - वरं वरय भद्रं ते यत्ते मनसि वर्तते । सोम उवाच - दक्षशापेन दग्धोऽहं क्षीणदेहो महेश्वर ॥ १०४.१८ ॥ पापप्रशमनं देव कुरु सर्वं ममैव तु । महेश्वर उवाच - भवद्भक्तिगृहीतोऽहं तूष्टश्चैवोमया सह ॥ १०४.१९ ॥ निष्पापः सोमनाथस्य संजातस्तीर्थसेवनात् । इत्युक्त्वान्तर्दधे देवः सोमो ध्यात्वा क्षणं नृप ॥ १०४.२० ॥ स्थापयामास लिङ्गं तु सिद्धिदं प्राणिनां भुवि । सर्वदुःखहरं देवं ब्रह्महत्याविनाशनम् ॥ १०४.२१ ॥ मार्कण्डेय उवाच - सोमनाथप्रभावं च संक्षेपात्कथयामि ते । शम्बरो नाम राजाभूत्तस्य पुत्रस्त्रिलोचनः ॥ १०४.२२ ॥ त्रिलोचनसुतः कण्ठः पापनिष्ठो महाधमः । वने विभ्रमतस्तस्य मृगयूथं त्वदृश्यत ॥ १०४.२३ ॥ मृगयूथं हतं सर्वं त्रिलोचनसुतेन च । मृगरूपी द्विजो मध्ये विचरन्निर्जने वने ॥ १०४.२४ ॥ तदा हतस्तु शस्त्रेण कण्ठेन ऋषिसत्तमः । ब्रह्महत्यायुतः कण्ठो निस्तेजा व्यचरन्महीम् ॥ १०४.२५ ॥ विचरन्नपि संप्राप्तो नर्मदानागसंगमे । कदम्बपाटलाकीर्णे बिल्वनारङ्गशोभिते ॥ १०४.२६ ॥ चिञ्चिनी चम्पकोपेते अगस्तितरुशोभिते । उन्मत्तभृङ्गसंयुक्ते तथा सर्वत्र शोभिते ॥ १०४.२७ ॥ चित्रकैर्मृगमार्जारैः सिंहैः सर्वत्र शूकरैः । शशकैर्गवयैर्युक्ते शिखण्डिरवनादिते ॥ १०४.२८ ॥ प्रविष्टस्तद्वने कण्ठस्तृषार्तः श्रमकर्षितः । स्नातो रेवाजले पुण्ये सङ्गमे पापनाशने ॥ १०४.२९ ॥ पत्राणि च विचित्राणि भक्षयन् सह किङ्करैः । सुप्तः पादपछायायां श्रान्तो मृगवधेन च ॥ १०४.३० ॥ आनर्च परया भक्त्या सोमनाथं युधिष्ठिर । पीत्वा तोयं कण्ठमात्रं सर्वपापक्षयंकरम् ॥ १०४.३१ ॥ तावत्तीर्थवरे विप्रः स्नानार्थं संगमं प्रति । मार्गगो ब्राह्मणो भूयस्ततस्तद्गतमानसः ॥ १०४.३२ ॥ मार्गे वृक्षे समारूढा स्त्री चैका च भयङ्करी । उवाच ब्राह्मणं सा हि तिष्ठ तिष्ठ द्विजोत्तम ॥ १०४.३३ ॥ त्रस्तो निरीक्षते यावद्दिशः सर्वा नरेश्वर । तावद्वृक्ष समारूढां स्त्रियं रक्ताम्बरावृताम् ॥ १०४.३४ ॥ रक्तपुष्पधरां वालां रक्तचन्दनचर्चिताम् । रक्ताभरणशोभाढ्यां पाशहस्तां ददर्श ह ॥ १०४.३५ ॥ स्त्र्युवाच - सन्देशं शृणु मे विप्र यदि गच्छसि संगमम् । मद्भर्ता तिष्ठते तत्र शीघ्रमेव विसर्जय ॥ १०४.३६ ॥ एकाकिनी च ते भार्या तिष्ठते वनमध्यगा । इत्याकर्ण्य गतो विप्रः सङ्गमं सुरदुर्लभम् ॥ १०४.३७ ॥ वृक्षछायास्थितं कण्ठं ब्राह्मणो हि ददर्श ह । ब्राह्मण उवाच - वनान्ते च मया दृष्टा बाला कमललोचना ॥ १०४.३८ ॥ रक्ताम्बरधरा तन्वी रक्तचन्दनर्चर्चिता । रक्तमाल्या सुशोभाढ्या पाशहस्ता मृगेक्षणा ॥ १०४.३९ ॥ वृक्षारूढावदद्वाक्यं भर्तारं प्रेषयस्व माम् । कण्ठ उवाच - कस्मिन् स्थाने तु विप्रेन्द्र तिष्ठते मृगलोचना ॥ १०४.४० ॥ कस्य सा केन कार्येण एतत्सर्वं वद हि मे । ब्राह्मण उवाच - संगमादर्धक्रोशे च उद्यानान्ते प्रशोभिते ॥ १०४.४१ ॥ तत्र तिष्ठति सा नारी सोत्कण्ठितमना विभो । ततो भृत्यमुवाचेदं कण्ठो राजा युधिष्ठिर ॥ १०४.४२ ॥ पृच्छ त्वं गच्छ का चासि आगता क्व गमिष्यसि । ततः क्षिप्रं गतस्तत्र यत्र नारी स्थिताभवत् ॥ १०४.४३ ॥ वृक्षस्थां ददृशे बालामुवाच नृपसत्तम । त्वां राजा पृच्छते बाले कासि त्वं क्व गमिष्यसि ॥ १०४.४४ ॥ स्त्र्युवाच - गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् । इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ १०४.४५ ॥ ब्रह्महत्यास्य संजाता मृगरूपद्विजोद्वधात् । मया युक्तोऽपि राजासौ मुक्तस्तीर्थप्रभावतः ॥ १०४.४६ ॥ अत्रार्धक्रोशमात्रं वै ब्रह्महत्या न संविशेत् । सोमनाथप्रभावाच्च तीर्थं वाराणसीसमम् ॥ १०४.४७ ॥ गच्छ त्वं प्रेषयेः कण्ठं शीघ्रमेव न संशयः । समस्तं कथयामास तद्वृत्तान्तं नृपं प्रति ॥ १०४.४८ ॥ तस्य वाक्येन राजासौ पपात धरणीतले । भृत्य उवाच - कस्मात्त्वं शोचसे नाथ पूर्वजातं शूभाशुभम् ॥ १०४.४९ ॥ इत्याकर्ण्य वचस्तस्य स राजा त्विदमब्रवीत् । प्राणत्यागं करोम्यत्र सोमनाथ समीपतः ॥ १०४.५० ॥ शीघ्रमानीयतां वह्णिरिन्धनानि बहून्यपि । आनीतं तत्क्षणात्सर्वं भृत्यैः स्वैर्वशवर्तिभिः ॥ १०४.५१ ॥ स्नानं कृत्वा शुभे तोये संगमे पापनाशने । अर्चित्वा परया भक्त्या सोमनाथं नरेश्वर ॥ १०४.५२ ॥ त्रिःप्रदक्षिणकं कृत्वा ज्वलिते जातवेदसि । प्रविष्टः कण्ठराजस्तु हृदि कृत्वा जनार्दनम् ॥ १०४.५३ ॥ पीताम्बरधरं देवं महामुकुटधारिणम् । विष्णोर्ध्यानेन चात्रैव सुगतिर्मे भवत्विति ॥ १०४.५४ ॥ पपात पुष्पवृष्टिश्च साधु साधु नृपात्मज । आश्चर्यमतुलं दृष्ट्वा निरीक्ष च परस्परम् ॥ १०४.५५ ॥ हुतं तैः पावके भृत्यैर्हृदि ध्यात्वा गदाधरम् । विमानस्था दिवं सर्वे सङ्गताः पाण्डुनन्दन ॥ १०४.५६ ॥ मार्कण्डेय उवाच - सोमनाथप्रभावोऽयं शृणुष्वैकमना नृप । अष्टम्यां च चतुर्दश्यां सर्वकाले शुभे दिने ॥ १०४.५७ ॥ विशेषाच्छुक्लपक्षे च सूर्यवारेण सप्तमी । उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम् ॥ १०४.५८ ॥ पञ्चामृतेन गव्येन स्नापयेत्परमेश्वरम् । श्रीखण्डलेपनं कुर्यात्पुष्पधूपादिकं तथा ॥ १०४.५९ ॥ घृतेन बोधयेद्दीपं गीतं नृत्यं च कारयेत् । सोमवारेण चाष्टम्यां प्रभाते पूजयेद्द्विजम् ॥ १०४.६० ॥ आत्मवन्तं जितक्रोधं द्विजनिन्दाविवर्जितम् । सर्वाङ्गरुचिरं शान्तं स्वदारपरिपालकम् ॥ १०४.६१ ॥ गायत्रीं पठमानं च विकर्मरहितं सदा । पुनर्भूर्वृषली शूद्री वर्तते यस्य मन्दिरे ॥ १०४.६२ ॥ हीनाङ्गास्त्वतिरिक्ताङ्गा येषां पूर्वापरे न हि । व्रते श्राद्धे तथा दाने द्विजा वर्ज्याः सदा बुधैः ॥ १०४.६३ ॥ पुंश्चली तरुणी भार्या द्विजः स्वाध्यायवर्जितः । आत्मना सह दातारमधो नयति पाण्डव ॥ १०४.६४ ॥ शाल्मली नौकया तुल्याः स्वधर्मनिरता द्विजाः । दातारं चैवमात्मानं तारयन्ति तरन्ति च ॥ १०४.६५ ॥ श्राद्धं सोमेश्वरे पार्थ यः कुर्यादुत मानवः । पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥ १०४.६६ ॥ अन्नं वस्त्रं हिरण्यं च यो दद्यादग्रजन्मने । स याति शाङ्करं लोकमिति मे सत्यभाषितम् ॥ १०४.६७ ॥ हयं यो वै ददात्यत्र सम्पूर्णाभरणान्वितम् । रक्तं वा पीतवर्णं वा सर्वलक्षणलक्षितम् ॥ १०४.६८ ॥ कुङ्कुमेन विलिप्ताङ्गमप्रजं च ददेदिति । स्रग्दामभूषितं कण्ठे सितवस्त्रावगुण्ठितम् ॥ १०४.६९ ॥ अङ्घ्रिराधीयतां स्कन्धे मदीयं हयमारुह । आरूढे ब्राह्मणे भूयो भास्करः प्रीयतामिति ॥ १०४.७० ॥ स याति शाङ्करं लोकं सर्वपापविवर्जितः । तस्माल्लोकाच्च्युतश्चापि राजा भवति धार्मिकः ॥ १०४.७१ ॥ तस्य वंशे सदा राज्यं न नश्यति कदाचन । दीर्घायुर्जायते पुत्रो भार्या च वशवर्तिनी ॥ १०४.७२ ॥ जीवेद्वर्षशतं साग्रं सर्वदुःखविवर्जितः । सोमस्य चोपरागे तु यो गच्छेद्विजितेन्द्रियः ॥ १०४.७३ ॥ सोपवासो जितक्रोधो गां तु दद्याद्द्विजन्मने । सवत्सां क्षीरसंयुक्तां श्वेतवर्णां बलान्विताम् ॥ १०४.७४ ॥ शबलीं पीतवर्णां वा धूम्रां वा नीलकन्धराम् । कपिलां वा सवस्त्रां वा घण्टाभरणभूषिताम् ॥ १०४.७५ ॥ रौप्यखुरां कांस्यदोहां स्वर्णशृङ्गीं नरेश्वर । श्वेतया वर्धते वंशो रक्ता सौभाग्यवर्धिनी ॥ १०४.७६ ॥ शबली ताम्रवर्णा च दुःखघ्ना च प्रकीर्तिता । कपिला तु हरेत्पापं त्रिजन्मभिरुपार्जितम् ॥ १०४.७७ ॥ तस्य लोकमवाप्नोति मान्धातुश्च जनेश्वर । पक्षान्ते च व्यतीपाते वैधृतौ रविसंक्रमे ॥ १०४.७८ ॥ दिनक्षये गजच्छाया ग्रहणे भास्करस्य च । ये व्रजन्ति विशुद्धाङ्गा वैरञ्च्ये सुरदुर्लभे ॥ १०४.७९ ॥ मातृहा गुरुहा यो हि आत्महा तु विशेषतः । द्रुपदाद्यं जपेन्नित्यं प्राणायामं तथा नृप ॥ १०४.८० ॥ गायत्रीं वैष्णवीं चैव सौरीं शैवीं यदृच्छया । सोऽपि पापैः प्रमुच्येत इत्येवं शङ्करोऽब्रवीत् ॥ १०४.८१ ॥ यः कुर्यात्सोमनाथस्य तत्र कर्ता प्रदक्षिणम् । प्रदक्षिणीकृतं तेन जम्बूद्वीपं नरेश्वर ॥ १०४.८२ ॥ ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् । भ्रूणहा शुध्यते तत्र एवमेव न संशयः ॥ १०४.८३ ॥ तीर्थाख्यानमिदं पुण्यं यः शृणोति जितेन्द्रियः । व्याधितो राजरोगेन अतुलां श्रियमाप्नुयात् ॥ १०४.८४ ॥ पुत्रार्थी लभते पुत्रं निष्कामः स्वर्गमाप्नुयात् । मुच्यते सर्वपापेभ्यस्तीर्थं श्रुत्वा वरं नृप ॥ १०४.८५ ॥ एतत्ते सर्वमाख्यातं सोमनाथस्य यत्फलम् ॥ १०४.८६ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे सोमनाथतीर्थमहिमानुवर्णनो नाम चतुरधिकशततमोऽध्यायः ॥ अध्याय १०५ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र पिङ्गलावर्तकं नृप । सङ्गमस्य समीपस्थं रेवाया उत्तरे तटे ॥ १०५.१ ॥ हव्यवाहेन राजेन्द्र स्थापितः पिङ्गलेश्वरः । युधिष्ठिर उवाच - हव्यवाहेन विप्रेन्द्र स्थापितश्चेश्वरः कथम् ॥ १०५.२ ॥ मार्कण्डेय उवाच - रेतसा यदि रुद्रेण तर्पितो हव्यवाहनः । प्राप्तो रुद्रेण सौम्येन देहं प्राप्य जगाम सः ॥ १०५.३ ॥ हव्यवाहमुखे क्षिप्ते रुद्रेणामिततेजसा । रुद्रस्य तेजसा दग्धः तीर्थयात्रां करोति सः ॥ १०५.४ ॥ चचार परया भक्त्या ध्यानमुग्रं हुताशनः । वायुभक्षः शतं साग्रं यावदासीथुताशनः ॥ १०५.५ ॥ तावत्तुष्टो महादेवो हुताशनमुवाच ह । हव्यवाह वरं ब्रूहि यत्ते मनसि वर्तते ॥ १०५.६ ॥ हुताशन उवाच - नमस्ते सर्वलोकेश उग्ररूप नमोऽस्तु ते । युष्मद्रेतेन संप्लुष्टः कुब्जो जातो महेश्वर ॥ १०५.७ ॥ शरीरार्तो ह्यहं कृष्णः संस्थितो नर्मदातटे । इत्युक्त्वान्तर्दधे देवो नीरुजस्त्वं भविष्यसि ॥ १०५.८ ॥ हव्यवाहेन राजेन्द्र स्थापितः पिङ्गलेश्वरः । जितक्रोधोऽपि यस्तत्र उपवासं समाचरेत् ॥ १०५.९ ॥ अतिरात्रफलं तत्र अन्ते रुद्रमवाप्नुयात् । गुणान्विताय दीनाय कपिलां तत्र भारत ॥ १०५.१० ॥ अलंकृत्वा सवस्त्रां च सवत्सां रूपसंयुताम् । यः प्रयच्छति विप्राय स गच्छेत्परमं पदम् ॥ १०५.११ ॥ ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । स्थापितं ह्यृषिसङ्घैश्च ब्रह्मवंशोद्भवैर्द्विजैः ॥ १०५.१२ ॥ ऋणमोचनविख्यातं रेवातटसमाश्रितम् । षण्मासं मनुजो भक्त्या तत्र यस्तर्पयेत्पितॄन् ॥ १०५.१३ ॥ दिव्यैः पित्र्यैर्मनुष्यैश्च ऋणैरात्मकृतैः सह । मुच्यते तत्क्षणात्सोऽथ स्नात्वा वै नर्मदाजले ॥ १०५.१४ ॥ प्रत्यक्षं पातकं तत्र दृश्यते चैव रूपि च । तत्र तीर्थे तु यो राजन्नेकचित्तो जितेन्द्रियः ॥ १०५.१५ ॥ स्नानं दानं नरो धीमान् कारयेद्भक्तितत्परः । ऋणत्रयविमुक्तस्तु वीर्यवान्मोदते दिवि ॥ १०५.१६ ॥ मार्कण्डेय उवाच - तस्यैवानन्तरं पार्थ कपिलातीर्थमुत्तमम् । स्थापितं कपिलेनैव सर्वपापप्रणाशनम् ॥ १०५.१७ ॥ अष्टम्यां च सिते पक्षे चतुर्दश्यां नरेश्वर । स्नापयेत्परया भक्त्या कपिलाक्षीरसर्पिषा ॥ १०५.१८ ॥ मधुना खण्डयुक्तेन दध्यक्षतफलेन च । कपिलेशं नृपश्रेष्ठ निशीथे तं जगत्प्रभुम् ॥ १०५.१९ ॥ श्रीखण्डेन सुगन्धेन गुण्ठयेच्च महेश्वरम् । ततः सुगन्धपुष्पैश्च श्वेतैश्च नृपनन्दन ॥ १०५.२० ॥ अर्चयन्ति जितक्रोधा न ते यान्ति यमालयम् । असिपत्रवनं घोरं यमवल्लीं सुदारुणाम् ॥ १०५.२१ ॥ ते व्रजन्ति सुखं पार्थ कपिलेशे सुपूजिते । स्नात्वा रेवाजले पुण्ये पूजयेद्ब्राह्मणं शुभम् ॥ १०५.२२ ॥ गोप्रदानेन वस्त्रेण अन्नेन किल भारता । छत्रशय्याप्रदानेन भूमौ राजा भवेत्तु सः ॥ १०५.२३ ॥ नीरोगस्तीव्रतेजाश्च जीवत्पुत्रः प्रियंवदः । शत्रवो मित्रतां यान्ति जायते नात्र संशयः ॥ १०५.२४ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे कपिलेश्वरमहिमानुवर्णनो नाम पञ्चाधिकशतमोऽध्यायः ॥ अध्याय १०६ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र पूतकेश्वरमुत्तमम् । नर्मदादक्षिणे कूले सर्वपापक्षयंकरम् ॥ १०६.१ ॥ सुस्थापितः शिवस्तत्र लोकानां हितकाम्यया । यस्तत्र मनुजः शम्भुं पूजयेत्पाण्डुनन्दन ॥ १०६.२ ॥ सर्वान् कामानवाप्नोति न स याति यमालयम् । कृष्णाष्टम्यां चतुर्दश्यां सर्वकामा नराधिप ॥ १०६.३ ॥ येऽर्चयन्ति महाकालं न ते यान्ति यमालयम् ॥ १०६.४ ॥ जलशायीति नाम्ना वै विख्यातं वसुधातले । दानवानां वधं कृत्वा सुप्तस्तत्र जनार्दनः ॥ १०६.५ ॥ चक्रं च क्षालितं तत्र देवदेवेन शौरिणा । सुदर्शनं च निष्पापं रेवातोयप्रभावतः ॥ १०६.६ ॥ युधिष्ठिर उवाच - चक्रतीर्थं समाचक्ष्व ऋषिसङ्घैर्निषेवितम् । विष्णोः प्रभावमतुलं रेवायाश्चैव यत्फलम् ॥ १०६.७ ॥ मार्कण्डेय उवाच - साधु साधु महाभाग विष्णुना च युधिष्ठिर । गृह्याद्गुह्यतरं तीर्थं निर्मितं चक्रिणा स्वयम् ॥ १०६.८ ॥ तत्तेऽहं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् । आसीत्पुरा महादैत्यो नलमेघ इति श्रुतः ॥ १०६.९ ॥ तेन देवा जिताः सर्वे हृतराज्या नराधिप । नलमेघभयात्पार्थ विष्णुरुद्राः सवासवाः ॥ १०६.१० ॥ यमस्कन्दजलेशाग्निवायवो वै धनेश्वरः । वसुवाक्पतिसिद्धाश्च प्रचेताश्च पितामहः ॥ १०६.११ ॥ गता देवाः परं लोकं विष्णुरुद्रनमस्कृतम् । स्तुवन्ति विविधैः स्तोत्रैर्वागीशप्रमुखा सुराः ॥ १०६.१२ ॥ नमः शिवमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने । गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ १०६.१३ ॥ इन्द्रादिप्रमुखान् देवान् विवर्णानवनीपते । प्रसादाभिमुखो देवः प्रत्युवाच दिवौकसः ॥ १०६.१४ ॥ स्वागतं सुरसङ्घाश्च कान्तिर्नष्टा पुरातनी । हिमप्लुष्टप्रभाणीव ज्योतिषां च मुखानि वै ॥ १०६.१५ ॥ प्रसभादर्चिषामेतदनुद्गीर्णं सुरायुधम् । वृत्रस्य हन्तुः कुलिशं कुण्ठितश्रीव लक्षते ॥ १०६.१६ ॥ किंचायमरिदुर्वारः पाणौ पाशः प्रचेतसः । मन्त्रोपहृतवीर्यस्य फणिनो दैन्यमागतः ॥ १०६.१७ ॥ कुबेरस्य मनः शल्यं शंसतीव पराभवम् । अपविद्धाङ्गदो बाहुर्भग्नशाख इव द्रुमः ॥ १०६.१८ ॥ यमोऽपि व्यलिखद्भूमिं दण्डेनापि हतत्विषा । कुरु तस्मै नमो देहनिर्विण्णो याति लाघवम् ॥ १०६.१९ ॥ अमी च द्वादशादित्याः प्रतापक्षयशीतलाः । चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥ १०६.२० ॥ मयि सृष्टिश्च लोकानां रक्षा युष्मास्ववस्थिता । ततो मन्दानिलोद्भूतकमलाकरशोभिना ॥ १०६.२१ ॥ गुरुनेत्रसहस्रेण प्रेरयामास वृत्रहा । सद्विनेत्रो हरस्त्र्यक्षः सहस्रनयनाधिकौ ॥ १०६.२२ ॥ वाचस्पतिरुवाचेदं प्राञ्जलिर्हंसवाहनम् । युष्मद्वंशोद्भवस्तात नलमेघो महाबलः ॥ १०६.२३ ॥ तेन देवगणाः सर्वे निरस्ता दानवेन च । नलमेघो न वध्योऽतश्चलितेन मया सुरैः ॥ १०६.२४ ॥ विना माधवदेवेन साध्यो भवति नैव हि । शङ्खपद्मगदापाणे जय चक्रधर प्रभो ॥ १०६.२५ ॥ इति देवस्तुतिं श्रुत्वा प्रबुद्धो जलशायिकः । उवाच मधुरां वाणीं मेघगम्भीरया गिरा ॥ १०६.२६ ॥ किमर्थं बोधितो ब्रह्मन् समस्तैश्च सुरासुरैः । ब्रह्मोवाच - नलमेघभयेनेह सम्प्राप्तास्तव मन्दिरम् ॥ १०६.२७ ॥ न वध्यः कस्यचित्पापो नलमेघो जनार्दन । तव हस्तेन दुष्टात्मा मृत्युं प्राप्स्यति नान्यथा ॥ १०६.२८ ॥ जनार्दन उवाच - स्वस्थानं यान्तु गीर्वाणा वधिष्यामि महाबलम् । स्थानं शंसन्तु मे देवा वसते यत्र दुर्मतिः ॥ १०६.२९ ॥ देवा ऊचुः॒ हिमालयगुहां कृष्ण वसते दानवेश्वरः । चतुर्विंशत्सहस्रैस्तु कन्याभिस्तु समावृतः ॥ १०६.३० ॥ तुरङ्गैः स्यन्दनैश्चैव संख्या तेषां न विद्यते । भवनानि विचित्राणि असंख्यानि बहून्यपि ॥ १०६.३१ ॥ द्विरदाः पर्वताकारा हयाश्च द्विरदोपमाः । महाबलोऽवसत्तत्र गीर्वाणभयदायकः ॥ १०६.३२ ॥ श्रुत्वा देवो वचस्तेषां देवानामातुरात्मनाम् । गरुडं चिन्तयामास शत्रुसङ्घविदारणम् ॥ १०६.३३ ॥ चक्रं करेण संगृह्य गदां शङ्खं ततः प्रभुः । शार्ङ्गं च मुशलं सीरं गृहीत्वा हि जनार्दनः ॥ १०६.३४ ॥ आरूढः पक्षिराजं तु वधार्थं दानवस्य च । दानवस्य गृहे पार्थ उत्पाता घोरदर्शनाः ॥ १०६.३५ ॥ गोमायुर्गृहमध्ये तु कपोतो गृहमाविशत् । विना वातेन तस्यैव ध्वजदण्डं पपात ह ॥ १०६.३६ ॥ सर्पमूषकयोर्बुद्धं तथा केशरिनागयोः । उन्मार्गाः सरितस्तत्र वहन्ते चक्रमाश्रिताः ॥ १०६.३७ ॥ अकाले तरुपुष्पाणि दृश्यन्ते तत्र पर्वते । ततः प्राप्तो जगन्नाथो हिमवन्तं नगेश्वरम् ॥ १०६.३८ ॥ पाञ्चजन्यं च कृष्णेन पूरितं पुरसन्निधौ । पाञ्चजन्यस्य शब्देन आरूढो दानवेश्वरः ॥ १०६.३९ ॥ नलमेघ उवाच - कोऽयं मृत्युवशं प्राप्तस्त्वज्ञानेन समावृतः । धुन्धुमार व्रज शीघ्रं स्वसैन्यपरिवारितः ॥ १०६.४० ॥ बलादानय तं बद्ध्वा ममाग्रे बलशालिनम् । धुन्धुमार उवाच - आनयामि न सन्देहः सुरपक्षांश्च साम्प्रतम् ॥ १०६.४१ ॥ स्यन्दनैश्च समायुक्तो गजवाजिभटैः सह । दृष्टस्तातो जगद्योनिः सुपर्णस्थो महाबलः ॥ १०६.४२ ॥ गृह्यतां गृह्यतामेष इत्युक्तास्ते च किङ्कराः । चतुर्दिक्षु च वर्तन्ते किङ्कराः केशवस्य च ॥ १०६.४३ ॥ सुपर्णेनाग्निबाणेन हन्यन्ते शलभा इव । धुन्धुमारोऽपि कृष्णेन शरघातेन ताडितः ॥ १०६.४४ ॥ हतो वक्षस्थलोपान्ते पतितः स्यन्दनोपरि । हाहाकारं ततः सर्वे दानवाश्चक्रुरुद्यताः ॥ १०६.४५ ॥ नलमेघस्ततः क्रुद्धो रथारूढो विनिर्गतः । ददर्श केशवं पार्थ शङ्खचक्रगदाधरम् ॥ १०६.४६ ॥ नलमेघ उवाच - हन्यतां दानवाः कृष्णो निहतो येन दानवः । हत्वा च मे चमूमुख्यमधुना च क्व यास्यति ॥ १०६.४७ ॥ इत्युक्त्वा दानवः पार्थ धर्षयामास सायकैः । दानवस्य शरांस्तत्र छेदयामास केशवः ॥ १०६.४८ ॥ गरुत्मान् भक्षयामास तत्सैन्यमतिभीषणम् । कृष्णेन द्विगुणास्तत्र प्रेषिता हि शिलीमुखाः ॥ १०६.४९ ॥ द्विगुणाद्द्विगुणीकृत्य प्रेषयामास दानवः । तेऽपि चाष्टगुणाः कृष्णं छादयामासुरोजसा ॥ १०६.५० ॥ ततः क्रुद्धेन देवेन आग्नेयं प्रेषितं तदा । वारुणं प्रतिवायव्यं नलमेघो व्यसर्जयत् ॥ १०६.५१ ॥ नारसिंहं नृसिंहोऽयं प्रेषयामास पाण्डव । नारसिंहं ततो दृष्ट्वा नलमेघो महाबलः ॥ १०६.५२ ॥ उत्तीर्णः स्यन्दनाच्छीघ्रं खड्गं गृह्य करेण तु । प्रेषयामास कृष्णाय तं हन्तुं बलवत्तरः ॥ १०६.५३ ॥ क्रुद्धोऽथ दानवः पार्थ आगतः केशवं प्रति । खड्गेन घातयामास गदापाणिं जनार्दनम् ॥ १०६.५४ ॥ मण्डलाग्रं ततो गृह्य केशवो हृष्टमानसः । हतो वक्षस्थले दैत्यो नलमेघो महाबलः ॥ १०६.५५ ॥ जनार्दनं तदा दैत्यो नाराचेन जघान ह । जनार्दनस्ततः क्रुद्धो नलमेघं मृधे नृप ॥ १०६.५६ ॥ अमोघं चक्रमादाय शिरस्तस्य न्यपातयत् । पतता शिरसा तस्य वसुधा च प्रकम्पिता ॥ १०६.५७ ॥ समुद्राः क्षुभिताः पार्थ भयादुन्मार्गगामिनः । पुष्पवष्टिं ततो देवा ववृषुः केशवोपरि ॥ १०६.५८ ॥ अवध्यः सुरसङ्घानां स हतः केशवेन तु । स्वस्थानश्च गतो देवो नलमेघे निपातिते ॥ १०६.५९ ॥ जनार्दनोऽपि कौन्तेय नर्मदातटमाश्रितः । लक्ष्मीसमन्वितः कृष्णो विलीनो नर्मदातटे ॥ १०६.६० ॥ चक्रं विमोचितं पापक्षालनाय मलान्वितम् । पतितं नर्मदातोये जलशायि समन्वितम् ॥ १०६.६१ ॥ निर्धूतकल्मषं जातं नर्मदायाः प्रभावतः । नलमेघवधोत्पन्नं यत्पापं मनुजाधिप ॥ १०६.६२ ॥ तत्सर्वं क्षालितं शीघ्रं रेवायाम्भसि भारत । तदा प्रभृति लोकेऽस्मिन् जलशायी महीतले ॥ १०६.६३ ॥ चक्रतीर्थं वदन्त्यन्ये अनेकाघौघनाशनम् ॥ १०६.६४ ॥ तत्तीर्थस्य प्रभावं वै शृणुष्वैकमना नृप । नागानां च यथानन्तो गीर्वाणानां जनार्दन ॥ १०६.६५ ॥ मासानां मार्गशीर्षोऽपि नदीपुण्या हि नर्मदा । मासि मार्गे सिते पक्षे एकादश्यां शुभे दिने ॥ १०६.६६ ॥ गत्वा ये मनुजास्तत्र कामक्रोधविवर्जिताः । स्नापयन्ति श्रियः कान्तं नागपर्यङ्कशायिनम् ॥ १०६.६७ ॥ राजेन्द्र परया भक्त्या क्षौद्रसागरसर्पिषा । गुडेन तोयमिश्रेण जगद्योनिं जनार्दनम् ॥ १०६.६८ ॥ स्नाप्यमानाश्च पश्यन्ति ये लोकागतपातकाः । ते यान्ति परमं लोकं सुरासुरनमस्कृतम् ॥ १०६.६९ ॥ घृतेन बोधयेद्दीपमथवा तैलमिश्रितम् । रात्रौ जागरणं कृत्वा देवः स्यान्नात्र संशयः ॥ १०६.७० ॥ कथां च वैष्णवीं भक्त्या ये शृण्वन्ति नरोत्तमाः । ब्रह्महत्यादिपापेभ्यो मुच्यन्ते नात्र संशयः ॥ १०६.७१ ॥ ये कुर्वन्ति प्रदक्षिणं जलशायि जगद्गुरुम् । प्रदक्षिणीकृतं तेन जम्बूद्वीपं नरेश्वर ॥ १०६.७२ ॥ ततः प्रभाते विमले पितॄन् संतर्प्य यत्नतः । श्राद्धं वै ब्राह्मणैस्तत्र पूज्यैः पाण्डवसत्तम ॥ १०६.७३ ॥ स्वदारनिरतैः शान्तैः परदारविवर्जितैः । वेदाभ्यसनशीलैश्च स्वकर्मनिरतैः शुभैः ॥ १०६.७४ ॥ नित्यं सज्जनशीलैश्च त्रिसन्ध्यापरिपालकैः । तादृशैः कारयेच्छ्राद्धमिच्छेयुः श्रेय आत्मनाम् ॥ १०६.७५ ॥ ते धन्या मानुषे लोके पुण्याश्चैवात्र मानुषाः । ये वसन्ति सदा कालं पदे ब्रह्माश्रये ह्रदे ॥ १०६.७६ ॥ जलशायिनं च पश्यन्ति प्रत्यक्षं सुरनायकम् । पक्षोपवासं ये केचिद्व्रतं चान्द्रायणं शुभम् ॥ १०६.७७ ॥ मासोपवासमुग्रं च तथान्यत्परमं व्रतम् । तत्र तीर्थे तु यः पार्थ कुर्यात्स्वर्गमवाप्नुयात् ॥ १०६.७८ ॥ अतः परं प्रवक्ष्यामि तिलधेनोस्तु यत्फलम् । तथा यस्मिन् यथा देयं दानं तस्य श्रुतं फलम् ॥ १०६.७९ ॥ एतत्कथान्तरे पुण्ये मुनीन्द्रैः पापनाशनम् । श्रुतं हि नैमिषारण्ये नारदाद्यैरनेकधा ॥ १०६.८० ॥ इदमाख्यानमायुष्यं पुण्यं कीर्तिविवर्धनम् । विप्राणां श्रावयेद्यस्तु सर्वं तत्फलमाप्नुयात् ॥ १०६.८१ ॥ बहूनां न प्रदेयानि गोगृहं शयनं किल । विभक्तदक्षिणा ह्येषा दातारं नोपतिष्ठति ॥ १०६.८२ ॥ एकस्मै सा प्रदातव्या बहूनां न युधिष्ठिर । सा च विक्रयमापन्ना दहेदासप्तमं कुलम् ॥ १०६.८३ ॥ तिलाः श्वेतास्तथा कृष्णास्तिलाः प्रोक्ताश्च वर्णतः । तिलानां च प्रमाणानि धेनोर्वत्सस्य कारयेत् ॥ १०६.८४ ॥ दातव्या वत्सकेनाथ बहूनां कामिनां न तु । यस्मिन् देशे च यन्मानं तिलानां च विचारतः ॥ १०६.८५ ॥ तेन मानेन सा कार्या अक्षयं फलमिच्छता । अर्चनीया प्रयत्नेन गन्धपुष्पाक्षतैर्विभो ॥ १०६.८६ ॥ नासायां सर्वगन्धाश्च जिह्वायां षड्रसा धृताः । मुक्ताफलानि वा दन्तजङ्घापुच्छेषु योजयेत् ॥ १०६.८७ ॥ कुक्षौ कार्पासकं देयं नाभ्यां पद्मं सकाञ्चनम् । ओष्ठे मधुघृतं दद्यात्कुर्यात्सर्पिश्च रोमके ॥ १०६.८८ ॥ कम्बले कम्बलं दद्याल्ललाटे ताम्रभाजनम् । स्कन्धे तु शकला देया लोहदण्डं च सङ्कटे ॥ १०६.८९ ॥ गुडं चैव गुदे दद्याच्छ्रोण्यां मधुघृते तथा । यवसे पायसं दद्याद्घृतक्षौद्रसमन्वितम् ॥ १०६.९० ॥ स्वर्णशृङ्गी रौप्यखुरी मुक्तालाङ्गुलभूषणा । वस्त्रं सदन्नं दातव्यं कांस्यपात्रसुदोहना ॥ १०६.९१ ॥ यत्तु बालकृतं पापं यद्वा कृतमजानता । वाचा कृतं कर्मकृतं मनसा यच्च चिन्तितम् ॥ १०६.९२ ॥ जलमात्रे ष्ठीवने च मुशले वा विलङ्घिते । वृषलीगमने चैव गुरुदारनिषेवणे ॥ १०६.९३ ॥ कन्यायां गमने चैव सुव्रर्णस्तेय एव च । सुरापानं च यच्चापि तिलधेनुः पुनाति हि ॥ १०६.९४ ॥ अहोरात्रोपवासेन विधिवत्सा मयोदिता । यासौ यमपुरे चैव नदी वैतरणी स्मृता ॥ १०६.९५ ॥ बालुकायाः स्थले चैव पच्यते यत्र दुष्कृती । अवीचिनरकोपेतौ यौ वै युगलपर्वतौ ॥ १०६.९६ ॥ यत्र लोहमुखाः काका यत्र स्थानं भयानकम् । असिपत्रवनं यत्र तप्तं च बालुकम् ॥ १०६.९७ ॥ तत्सुखेन व्यतिक्रम्य धर्मराजाऽश्रमं व्रजेत् । धर्मराजस्तु तं दृष्ट्वा सूनृतं वाक्यमब्रवीत् ॥ १०६.९८ ॥ वितानं विततं योग्यं मणिरलविभूषितम् । अत्रागच्छ नृपश्रेष्ठ गच्छ त्वं परमां गतिम् ॥ १०६.९९ ॥ मा च पापरते दानं न तद्दानं परं हितम् । मा विकाले विरूपे च न व्यङ्गे तु तथैव च ॥ १०६.१०० ॥ अवेदविदुषे चैव ब्राह्मणे मदविक्लवे । मित्रघ्ने च कृतघ्ने च व्रतहीने तथैव च ॥ १०६.१०१ ॥ वेदान्तगाय दातव्या तस्य तत्त्वं विजानते । वेदान्तगे तु सा देया श्रोत्रियेऽभूतबालका ॥ १०६.१०२ ॥ सर्वाङ्गरुचिरे देया पवित्रे च प्रियंवदे । पौर्णमास्याममावास्यां कार्तिक्यां चापि भारत ॥ १०६.१०३ ॥ वैशाख्यां मार्गशीर्षे च ग्रहणे चन्द्रसूर्ययोः । अयने विषुवे चैव व्यतीपाते च सर्वथा ॥ १०६.१०४ ॥ षडशीतिमुखे चैव गजछायासु सर्वदा । एष ते कथितः कल्पस्तिलधेनोर्मयानघ ॥ १०६.१०५ ॥ भित्त्वा च भास्करं लोकं हरिलोकं व्रजन्ति ते । एतत्ते सर्वमाख्यातं चक्रतीर्थफलं नृप ॥ १०६.१०६ ॥ श्रवणात्कीर्तनाद्वाऽपि गोसहस्रफलं लभेत् ॥ १०६.१०७ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे चक्रतीर्थमाहात्म्यवर्णनो नाम षडधिकशततमोऽध्यायः ॥ अध्याय १०७ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । चन्द्रादित्यं नृपश्रेष्ठ स्थापितं चण्डमुण्डयोः ॥ १०७.१ ॥ आसीत्पुरा महाभागौ चण्डमुण्डौ तु दानवौ । तपश्च चेरतुस्तत्र नर्मदायां युधिष्ठिर ॥ १०७.२ ॥ ध्यायतो भास्करं देवं तमो नाशं जगद्गुरुम् । ताभ्यां च तोषितः सोऽपि सहस्रांशुरुवाच ह ॥ १०७.३ ॥ साधुसाध्विति तौ पार्थ नर्मदायास्तटे शूभे । चण्डमुण्डौ वरं ब्रूतं विशिष्टं मनसेप्सितम् ॥ १०७.४ ॥ चण्डमुण्डावूचतुः॒ अजेयौ चैव देवेश सर्वेषां देवतानृणाम् । रोगैश्चेव परित्यक्तौ सविकाशं दिवाकर ॥ १०७.५ ॥ तत्तथेति शुभं वाक्यं भास्करस्ताववीदत् । ततश्चान्तर्दधे भानुर्दानवाभ्यां च भास्करम् ॥ १०७.६ ॥ स्थापितं परया भक्त्या पूजयेद्यो जितेन्द्रियः । गीर्वाणता मनुष्यस्य प्राप्ता तत्रैव वर्तते ॥ १०७.७ ॥ वसते भास्करे लोके वैरञ्चे देवसन्निधौ । घृतेन बोधयेद्दीपं षष्ठ्यां षष्ठ्यां नरेश्वर ॥ १०७.८ ॥ मुच्यते सर्वपापेभ्यो मृतो याति पुरं रवेः । चन्द्रादित्यमिति ख्यातं तत्र तीर्थं नरोत्तम ॥ १०७.९ ॥ विजयन्ते सदा कालं चन्द्रादित्यं व्रजन्ति ये ॥ १०७.१० ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे चन्द्रादित्येश्वरमहिमानुवर्णनो नाम सप्ताधिकशततमोऽध्यायः ॥ अध्याय १०८ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र यमहासमनुत्तमम् । सर्वपापहरं पार्थ रेवायास्तटमाश्रितम् ॥ १०८.१ ॥ युधिष्ठिर उवाच - यमहासं कथं जातं पृथिव्यां मुनिपुङ्गव । एतत्सर्वं समाख्याहि मम कौतूहलं परम् ॥ १०८.२ ॥ मार्कण्डेय उवाच - साधु साधु महाभाग पृष्टं ते धर्मनन्दन । स्नानार्थं नर्मदायां तु आगतस्ते पिता पुरा ॥ १०८.३ ॥ रजकेन यथा धौतं निर्मलं वसनं भवेत् । तथैव पश्यता राजन् रेवाजलमनुत्तमम् ॥ १०८.४ ॥ हास्यं कृतं यमेनाथ उत्थितं लिङ्गमुत्तमम् । ततस्तदा हि राजेन्द्र वागुवाचाऽशरीरिणी ॥ १०८.५ ॥ यमहासमिदं तीर्थं ख्यातिं यास्यति सर्वदा । स्नापयित्वा शिवं तत्र यमः स्वर्गं जगाम ह ॥ १०८.६ ॥ यमहासे तु राजेन्द्र जितक्रोधो जितेन्द्रियः । विशेषादाश्विने मासि कृष्णपक्षे चतुर्दशीम् ॥ १०८.७ ॥ उपोष्य परया भक्त्या सर्वपापैः प्रमुच्यते । रात्रौ जागरणं कृत्वा दीपं देवस्य बोधयेत् ॥ १०८.८ ॥ घृतेन चैव राजेन्द्र शृणु तस्यैव यत्फलम् । मुच्यते सर्वपापैस्तु अगम्यागमनोद्भवैः ॥ १०८.९ ॥ अभक्ष्यभक्षणैः पापैः पापैर्वा पेयसम्भवैः । अवाह्यवाहनेयच्च अद्रोह्य द्रोहणे तथा ॥ १०८.१० ॥ स्नानमात्रेण तच्चैव नश्येत्पापमनेकधा । यमलोकं न पश्येच्च न त्यजेत्पाण्डुनन्दन ॥ १०८.११ ॥ बहूनां परमं गुप्तं तीर्थं भूम्यां नृपात्मज । तदक्षयफलं तेषां यमहासे प्रदायिनाम् ॥ १०८.१२ ॥ अमावास्यां जितक्रोधो यस्तु पूजयते द्विजान् । भूमिदानेन यो भक्त्या तिलदानेन भारत ॥ १०८.१३ ॥ कृष्णाजिनप्रदानेन तिलधेनुप्रदानतः । वसुभे वृद्धियोगे च ये प्रदास्यन्ति भक्तितः ॥ १०८.१४ ॥ ओदनं वारि धूर्वाहं हयं चापि महाबलम् । कन्यां वस्त्रमजां गां वै महिषीमथवाश्विनीम् ॥ १०८.१५ ॥ ये यच्छन्ति नृपश्रेष्ठ नोपसर्पन्ति ते यमम् । यमोऽपि भवति प्रीतो जन्मजन्म युधिष्ठिर ॥ १०८.१६ ॥ यमस्य वाहनं स्त्रीं च महिषीं तत्र भारत । तस्य दानेन सततं यमः प्रीतो भवेन्नृप ॥ १०८.१७ ॥ न स याति यमे लोके यदि पापैः समाश्रितः । एतस्मात्कारणात्पार्थ महिषीदानं उत्तमम् ॥ १०८.१८ ॥ और्णवस्त्रद्वयं कार्यं लोहवर्णं च वेष्टितम् । दापयेद्धर्मराजाय प्रीयतां मे द्विजोत्तम ॥ १०८.१९ ॥ अनेनैव तु दानेन यमः प्रीतोऽस्तु मे सदा । इत्युच्चार्य द्विजस्याग्रे यमलोकं भयावहम् ॥ १०८.२० ॥ असिपत्रवने घोरे यमवल्ली सुदारुणा । रौद्रा वैतरणी चेति कुम्भीपाकः सुदारुणः ॥ १०८.२१ ॥ कालसूत्रं महाभीमं तथा यमलपर्वतौ । क्रकचं तैलयन्त्रं च स्थाने गृध्राः सुदारुणाः ॥ १०८.२२ ॥ अनिश्वासो महारौद्रो भीषणो रौरवस्तथा । एते घोराश्च नरकाः श्रूयन्ते द्विजसत्तम ॥ १०८.२३ ॥ तत्प्रसादेन ते सौम्यास्तीर्थस्यास्य प्रभावतः । दानस्यास्य प्रभावेण यमहासप्रभावतः ॥ १०८.२४ ॥ यमलोकं न वै याति नरकं नैव पश्यति ॥ १०८.२५ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे यमहासमहिमानुवर्णनो नामाष्टाधिकशततमोऽध्यायः ॥ अध्याय १०९ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र कोटीश्वरमनुत्तमम् । ऋषिकोटिः समायाता तत्र वै कुरुनन्दन ॥ १०९.१ ॥ कृष्णद्वैपायनस्तत्र मोक्षार्थं मुनिपुङ्गवः । मन्त्रयित्वा द्विजैः सर्वैर्वेदमण्डलपारगैः ॥ १०९.२ ॥ पञ्चामृतेन गव्येन तिलमिश्रेण तत्पर । पितृणां तर्पणं कृत्वा पिण्डदानं यथाविधि ॥ १०९.३ ॥ श्रावणस्य तु मासस्य पूर्णिमायां विशेषतः । प्राप्यते चाक्षया तृप्तिर्यावदाहूतसम्प्लवम् ॥ १०९.४ ॥ पितॄणां परमं गुह्यं रेवाजलमुपाश्रितम् । मोक्षदं सर्वभूतानां निर्मितं मुनिपुङ्गवैः ॥ १०९.५ ॥ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र व्यासतीर्थमनुत्तमम् । दुर्लभं मनुजैः पार्थ अन्तरिक्षे व्यवस्थितम् ॥ १०९.६ ॥ युधिष्ठिर उवाच - कस्माद्वै व्यासतीर्थं तु अन्तरिक्षे व्यवस्थितम् । एतदाचक्ष्व संक्षेपान्न च ग्रन्थस्य विस्तरः ॥ १०९.७ ॥ मार्कण्डेय उवाच - साधु साधु महाबाहो धर्मवान् गुरुवत्सलः । स्वधर्मनिरतः पार्थ तीर्थयात्राकृतादरः ॥ १०९.८ ॥ दुर्लभं सर्वजन्तूनां व्यासतीर्थं नरेश्वर । धर्षितो वृद्धभावेन वैकल्येन नराधिप ॥ १०९.९ ॥ गतचेतास्तु सञ्जातस्तथा भोः पाण्डुनन्दन । गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया ॥ १०९.१० ॥ कालस्तत्रैव राजेन्द्र न वसेद्वासवाज्ञया । अन्तरिक्षे च संजातं रेवायाश्चेष्टितं यतः ॥ १०९.११ ॥ विरञ्चिर्नैव शक्नोति रेवाया गुणकीर्तनम् । व्यासतीर्थं विशेषेण श्रुतमात्रं वदाम्यहम् ॥ १०९.१२ ॥ प्रत्यक्षः प्रत्ययो यत्र दृश्यते हि कलौ युगे । विहङ्गो गच्छते नैव भित्त्वा शूलं सुदारुणम् ॥ १०९.१३ ॥ तस्योत्पत्तिं समासेन कथयामि नृपात्मज । आसीत्पूर्वं महाराज ऋषिश्चैव पराशरः ॥ १०९.१४ ॥ तेन चोग्रं तपस्तप्तं गङ्गाम्भसि तु भारत । प्राणायामेन चातिष्ठत्प्रविष्टो जाह्नवीजले ॥ १०९.१५ ॥ पूर्णे च द्वादशे वर्षे निष्क्रान्तो जलमध्यतः । भिक्षार्थे चागतो ग्रामं नावि तत्रैव तिष्ठती ॥ १०९.१६ ॥ तत्र दृष्टा परोत्सृष्टा बाला तेन मनोरमा । तां च दृष्ट्वा स कामार्त उवाच मधुराक्षरम् ॥ १०९.१७ ॥ मां रमस्वाद्य त्वं कासि कामुकं मृगलोचने । नावारूढे नदीतीरे मम चित्तप्रमाथिनी ॥ १०९.१८ ॥ एवमुक्ता तु सा तेन प्रणम्य ऋषिसत्तमम् । नावं रक्षाम्यहं विप्र जानामि स्वामिनं न तु ॥ १०९.१९ ॥ ममेदं च वयो ब्रह्मञ्च्छेषं त्वं ज्ञातुमर्हसि । एवमुक्तस्तया सोऽपि क्षणं ध्यात्वाब्रवीदिदम् ॥ १०९.२० ॥ अहं ज्ञानबलाद्भद्रे जानामि तव सम्भवम् । कैवर्तपुत्रिका न त्वं राजपुत्री हि सुन्दरी ॥ १०९.२१ ॥ कन्योवाच - कः पिता कथ्यतां ब्रह्मन् कस्याहमुदरोद्भवा । कस्मिन् वंशे प्रजाताहं कैवर्ततनया कथम् ॥ १०९.२२ ॥ पराशर उवाच - कथयामि च ते तातं यं त्वं मां परिपृच्छसि । वसु नामा च राजाभूत्सोमवंशे प्रतापवान् ॥ १०९.२३ ॥ जम्बूद्वीपाधिपो भद्रे शत्रुसंत्रासनस्तथा । शतानि सप्त भार्याणां पुत्राणां तु दशैव हि ॥ १०९.२४ ॥ धर्मेण पालिता लोकाः शिवपूजारतः सदा । म्लेच्छास्तस्य विरोधेन शाकद्वीपनिवासिनः ॥ १०९.२५ ॥ तेषां च साधनार्थाय गतोल्लङ्घ्य महोदधिम् । संयुक्तः पुत्रभृत्यैश्च पौरुषे महति स्थितः ॥ १०९.२६ ॥ सग्रामस्तैः समारब्धश्चार्वङ्गि वसुना सह । जिता म्लेच्छाः समस्ताश्च वसुना ह्यवनीभृता ॥ १०९.२७ ॥ करदास्ते कृतास्तेन सभृत्यबलवाहनाः । प्रधाना तस्य महिषी तव माता मृगेक्षणा ॥ १०९.२८ ॥ प्रवासस्थे च भूपाले संजाता च रजस्वला । नारीणां तु सदा काले मन्मथो ह्यधिको भवेत् ॥ १०९.२९ ॥ विशेषेण ऋतौ काले भिद्यते कामसायकैः । मन्मथेन तु संतप्ताचिन्तयत्सा शुभेक्षणा ॥ १०९.३० ॥ दूतं सम्प्रेषयाम्यद्य वसुराजसमीपतः । व्याहृतः सत्वरो दूतो गच्छ त्वं नृपसन्निधौ ॥ १०९.३१ ॥ दूत उवाच - परराज्ये वसुर्देवि गतो राजा द्विडन्तकृत् । तत्र गन्तुं न शक्येत जलयन्त्रैर्विना शुभे ॥ १०९.३२ ॥ जलयानानि सर्वाणि नेयानि च परे तटे । तस्य वाक्येन सा नारी विषण्णा मदपीडिता ॥ १०९.३३ ॥ राज्ञीं दृष्ट्वा सखी ब्रूते कस्मात्त्वं परिखिद्यसे । लेखोऽयं प्रेष्यतां देवि शुकहस्ते यथा तथा ॥ १०९.३४ ॥ समुद्रं लङ्घयित्वा तु शकुन्तो याति सुन्दरि । व्याहृतो लेखकस्तत्र लिख लेखंऽममाज्ञया ॥ १०९.३५ ॥ त्वां विना पट्टराज्ञी सा वसुराज न जीवति । ऋतुकालश्च सम्प्राप्तः समस्तं चावधार्यताम् ॥ १०९.३६ ॥ लिखितो भूर्जपत्रे च वृत्तः स लेखकेन तु । शूकः पञ्जरमध्यस्थ आनीतस्तत्र सन्निधौ ॥ १०९.३७ ॥ राज्ञी उवाच तं तत्र गृह्यलेखं शुक व्रज । गतः पक्षी ततः शीघ्रं वसुराजसमीपतः ॥ १०९.३८ ॥ क्षिप्तो लेखः शुकेनैव सत्यभामा विसर्जितः । लेखार्थं चिन्तयामास वीर्यं गृह्य नरेश्वरः ॥ १०९.३९ ॥ अमोघपुटिकां कृत्वा प्रतिलोकेन विश्रुतः । शूकस्य चार्पयामास गच्छ राज्ञी समीपतः ॥ १०९.४० ॥ वसुराजं प्रणम्याथ बीजं गृह्य पपात ह । समुद्रोपरि संप्राप्तः शुको याति यथेच्छया ॥ १०९.४१ ॥ सामिषं च शुकं ज्ञात्वा श्येनस्तत्रापि धावितः । हतश्चञ्चुप्रहारेण शुकः श्येनेन भारत ॥ १०९.४२ ॥ मूर्छापन्नस्य तद्वीर्य पतितं जलमध्यतः । मत्स्येन गिलितं तत्र तद्वीर्यं पार्थिवस्य च ॥ १०९.४३ ॥ दाशैर्मत्स्यो गहीतश्च आनीतः स्वगृहं प्रति । यावत्तं पाटयामासूर्यमलं ददृशे तदा ॥ १०९.४४ ॥ शशिमण्डलसङ्काशं सूर्यतेजः समप्रभम् । दृष्ट्वा ते धर्षिताः सर्वे कैवर्ता जाह्नवीतटे ॥ १०९.४५ ॥ हर्षितास्ते गताः सर्वे प्रधानस्य च मन्दिरम् । पुत्रं राज्ञे प्रदायैव पुत्रीं च प्रत्यपालयत् ॥ १०९.४६ ॥ तत्त्वं देवि वरारोहे कैवर्तकन्यका नहि । ततः सा चिन्तयामास पराशरवचस्तदा ॥ १०९.४७ ॥ एवमुक्ता तु सा तेन दत्त्वात्मानं नरेश्वर । उवाच साध्वी भो ब्रह्मन्मत्स्यगन्धो निवर्त्यताम् ॥ १०९.४८ ॥ ततस्तेन तु सा बाला दिव्यगन्धाभिवासिता । कृता योगबलेनैव ज्वालयित्वा विभावसुम् ॥ १०९.४९ ॥ कृत्वा प्रदक्षिणं वह्नेरुद्धृता तेन सा तदा । ज्वलमानस्य मध्ये तु कामस्थानानि सोऽस्पृशत् ॥ १०९.५० ॥ ज्ञात्वा कामोत्सुकं विप्रं भीता सा नृपनन्दन । उवाच सहसा बाला दिवा च लोकसन्निधौ ॥ १०९.५१ ॥ ततस्तेन क्षणं ध्याता पूरयन्ती दिगम्बरम् । आगता तामसी तात यया व्याप्तं समन्ततः ॥ १०९.५२ ॥ ततः सविस्मयं तेन रहोबाला मृगेक्षणा । कामेनैव हि तप्तेन स्त्रीसौख्यं क्रीडता तदा ॥ १०९.५३ ॥ ततस्तेन मुहूर्तेनापत्यभारेण पीडिता । बालकं तत्र जटिलं सुभगं दण्डधारकम् ॥ १०९.५४ ॥ कमण्डलुधरं शान्तं मेखलाकटिभूषणम् । धृतोपवीतकं स्कन्धे विष्णुमायाविवार्जितम् ॥ १०९.५५ ॥ माता हि शङ्किता तत्र दृष्ट्वा पुत्रस्य चापलम् । वेपमाना ततो बाला गता सा शरणं मुनेः ॥ १०९.५६ ॥ रक्ष रक्ष मुनिश्रेष्ठ पराशर महामुने । जातमत्यद्भुतं विप्रं कौपीनाम्बरमेखलम् ॥ १०९.५७ ॥ दण्डहस्तं जटायुक्तमुत्तरीयविभूषितम् । पराशर उवाच - मा भैषीस्त्वं सुतो जातः कन्यैव त्वं भविष्यसि ॥ १०९.५८ ॥ नाम्ना सत्यवती चेति द्वितीया गन्धयोजना । शन्तनुर्नाम राजा वै स ते भर्ता भविष्यति ॥ १०९.५९ ॥ प्रथमा महिषी तस्य सोमवंशविभूषणा । गच्छ त्वं स्वाश्रमं भद्रे पूर्वरूपेण संस्थिता ॥ १०९.६० ॥ मा वैकल्यं कुरुष्वेदं दृष्टं ज्ञानस्य मे बलम् । इत्युक्त्वा प्रययौ विप्रः सा बाला स्थलमाश्रिता ॥ १०९.६१ ॥ नत्वा पुत्रं पराभक्त्या साष्टाङ्गं प्रणयेन च । तं प्रयान्तमथालोक्य सत्यवत्यब्रवीत्सुतम् ॥ १०९.६२ ॥ कामो देयस्त्वयाभीष्टः स्नेहो वै यदि मातरि । किमप्युपादिश त्वं मां येन सिद्धिमवाप्नुयाम् ॥ १०९.६३ ॥ व्यास उवाच - ईश्वराराधने यत्नं कुरुष्व त्वं सदाम्बिके । ततः सा पुत्रवाक्येन विषण्णा पाण्डुनन्दन ॥ १०९.६४ ॥ योजनगन्धोवाच - त्वद्वियोगादहं पुत्र पञ्चत्वं यामि नान्यथा । नास्ति पुत्रसमः स्नेहो नास्ति भ्रातृसमं बलम् ॥ १०९.६५ ॥ पुत्र उवाच - मा विषादं कुरुं त्वं हि सत्यं वै पितृभाषितम् । आपत्काले त्वयाहं वै स्मर्तव्यः कार्यसिद्धये ॥ १०९.६६ ॥ आपदस्तारयिष्यामि क्षम्यतां मातरात्मजे । इत्युक्त्वा तु ययौ व्यासः कन्या साऽपि पितुर्गृहम् ॥ १०९.६७ ॥ पराशरसुतस्तत्र निषण्णो वनमध्यतः । त्रेतायुगावसाने तु द्वापरादौ नरेश्वर ॥ १०९.६८ ॥ व्यासो विरञ्चये जात आख्यातो नारदेन च । ऋषिर्महानुभावस्तु पुत्रः पाराशरस्य च ॥ १०९.६९ ॥ कैवर्तकन्यकाजातो जानीहि जाह्नवी तटे । वाक्योक्त्या नारदस्यैव आगताः सुरसत्तमाः ॥ १०९.७० ॥ भानुः पितामहः शक्र ऋषिसङ्घैः समावृतः । आशीर्वादं पृथग्दत्त्वा साधु साध्विति भाषितः ॥ १०९.७१ ॥ पितामहेन बालोऽसौ जातमकर्मादि संस्कृतः । द्वैपायनो द्वीपजन्मा पाराशर्यः पराशरात् ॥ १०९.७२ ॥ कृष्णगात्रात्कृष्णनामा हव्यादातुर्विशिष्यति । विरञ्चिनाभिषिक्तोऽसौ ऋषिसङ्घैः पुनः पुनः ॥ १०९.७३ ॥ व्यासस्त्वं सर्वलोकानामित्युक्त्वा प्रययुः पुनः । तीर्थयात्रा समारब्धा कृष्णद्वैपायनेन तु ॥ १०९.७४ ॥ गङ्गावगाहिता तेन केदारं पुष्करं तथा । गया च नैमिषं तीर्थं कुरुक्षेत्रे सरस्वती ॥ १०९.७५ ॥ उज्जयिन्यां महाकालं सोमनाथं ययौ ततः । पृथिव्यां सागरान्तायां स्नातो व्यासो महामुनिः ॥ १०९.७६ ॥ अटन् वै नर्मदां प्राप्तो रुद्रदेहोद्भवां नदीम् । साह्लादं नर्मदां दृष्ट्वा चित्तं विश्राम्यपार्थिव ॥ १०९.७७ ॥ तपश्चचार विपुलं नर्मदातटमाश्रितः । ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ॥ १०९.७८ ॥ सार्द्रवासास्तु हेमन्ते ध्यायमानो महेश्वरम् । सृष्टिसंहारकर्तारमच्छेद्यं च सदाशिवम् ॥ १०९.७९ ॥ नित्यं सिद्धेश्वरं लिङ्गं पूजयन् पाण्डुनन्दन । अर्चनात्सिद्धलिङ्गस्य ध्यानयोगप्रभावतः ॥ १०९.८० ॥ प्रत्यक्ष ईश्वरो जातः कृष्णद्वैपायनस्य तु । तोषितोऽहं त्वया विप्र वरं प्रार्थय शोभनम् ॥ १०९.८१ ॥ व्यास उवाच - यदि तुष्टोऽसि मे देव यदि देयो वरो मम । प्रत्यक्षो नर्मदातीरे स्वयं भवाद्य मे विभो ॥ १०९.८२ ॥ अतीतानागतज्ञानं त्वत्प्रसादान्महेश्वर । ईश्वर उवाच - एवं भवतु ते विप्र मत्पसादात्न संशयः ॥ १०९.८३ ॥ त्वया भक्तिगृहीतोऽहं प्रत्यक्षो नर्मदातटे । इत्युक्त्वा प्रययौ देवः कैलासं नगमुत्तमम् ॥ १०९.८४ ॥ पत्नीसंग्रहणं जातं पुत्रो जातो यदास्य च । देवैरध्यासितः सर्वैः सेन्द्रब्रह्मपुरोगमैः ॥ १०९.८५ ॥ पुत्रजन्मततोज्ञात्वा आगता ऋषिसत्तमाः । तीर्थयात्राप्रसङ्गेन पराशरपुरोगमाः ॥ १०९.८६ ॥ मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसंवर्ता कात्यायनबृहस्पती ॥ १०९.८७ ॥ एवमादि सहस्राणि लक्षकोटिरनेकधा । व्यासाश्रमे शुभे पुण्ये प्राप्ताः सर्वे द्विजोत्तमाः ॥ १०९.८८ ॥ दृष्ट्वा व्यासस्तु विप्रेन्द्रानभ्युत्थाय कृतोद्यमः । पितृपूर्वं प्रणम्यादौ तेषां वार्तां प्रदापयन् ॥ १०९.८९ ॥ कृताञ्जलिपुटो भूत्वा इदं वाक्यमुवाच ह । उद्धृतं तु ममानन्दं युष्मत्सम्भाषदर्शनात् ॥ १०९.९० ॥ आरण्यानि च शाकानि फलान्यारण्यकानि च । तानि दास्यामि सर्वेषां युष्माकं पितृपूर्वकम् ॥ १०९.९१ ॥ नियमैः संयुतान् सर्वान् प्रत्येकं प्रणनाम च । ततस्तं प्रणतं दृष्ट्वा तत्र द्वैपायनं द्विजम् ॥ १०९.९२ ॥ वर्धयित्वा जयाशीर्भिस्ततो वीक्ष परस्परम् । पराशरः समस्तैश्च वीक्षितो मुनिपुङ्गवैः ॥ १०९.९३ ॥ उत्तरं दीयतां तात कृष्णद्वैपायनस्य च । एवमुक्तस्तु तैः सर्वैर्भगवांश्च पराशरः ॥ १०९.९४ ॥ उवाच स्वात्मजं व्यासमृषिभिर्यच्चिकीर्षितम् । नेच्छन्ति दक्षिणे कूले व्रतभङ्गभयात्सुत ॥ १०९.९५ ॥ परं वै भोक्तुकामाश्च तव श्रद्धाविशेषतः । व्यास उवाच - करोमि भवतां युक्तमत्रैव स्थीयतां क्षणम् ॥ १०९.९६ ॥ यावदासाद्य सरितं करोमि विधिपूर्वकम् । एवमुक्त्वा शुचिर्भूत्वा नर्मदातटमाश्रितः ॥ १०९.९७ ॥ स्तोत्रं जगाद सहसा तं निबोध जनेश्वर ॥ १०९.९८ ॥ व्यास उवाच - जय देवि नमो वरदे शिवदे जय पापविमर्दिनि शूलकरे । जय भैरवदेहविलीनकरे जय देवि पितामहसन्नमिते ॥ १०९.९९ ॥ जय भास्करशक्रसदानमिते जय षण्मुखतातसुते वरदे । जय देवशरीरसमूहमये जय सागरगामिनि भूमिसुते ॥ १०९.१०० ॥ जय जय लोकसमस्तकृताभरणे जय दुःखदरिद्रविनाशकरे । जय पुत्र कलत्रविवृद्धिकरे जय देवि सुदर्शनपापहरे ॥ १०९.१०१ ॥ एतद्व्यासकृत स्तोत्रं यः पठेच्छिवसन्निधौ । गृहे वा शुद्धभावेन कामक्रोधविवर्जितः । व्यासस्तस्य भवेत्प्रीतः प्रीतोऽयं वृषवाहनः ॥ १०९.१०२ ॥ स्तुता च नर्मदादेवी ततो वचनमब्रवीत् । नर्मदोवाच - स्तुतिवादेन तुष्टास्मि भो भो व्यासमहामुने ॥ १०९.१०३ ॥ यमिच्छसि वरं सम्यक्तं ते सर्वं ददाम्यहम् । व्यास उवाच - यदि तुष्टासि मे देवि यदि देयो वरो मम ॥ १०९.१०४ ॥ आतिथ्यमुत्तरे कूले मम दातुं त्वमर्हसि । नर्मदोवाच - अयुक्तं चिन्तितं व्यास अमार्गे त्वं प्रवर्तसे ॥ १०९.१०५ ॥ इन्द्रचन्द्रयमाः शक्ता उन्मार्गेण न वाहितुम् । अन्यं याचस्व हे वत्स यत्किंचिद्भुवि दुर्लभम् ॥ १०९.१०६ ॥ एव श्रुत्वा वचो देव्या व्यासो मूर्च्छां गतस्तदा । वृथा क्लेशश्च संजातः पतितो धरणीतले ॥ १०९.१०७ ॥ धरणी कम्पिता सर्वा सशैलवनकानना । मूर्छापन्नं ततो व्यासं ज्ञात्वा देवाः पराशरम् ॥ १०९.१०८ ॥ आयाता देवताः सर्वे हाहाकारं प्रकुर्वतः । उत्थापयन्तस्ते व्यासमूचुश्च सरितां वराम् ॥ १०९.१०९ ॥ ब्राह्मणार्थं तु संक्लिष्टा नामहेतोः सरिद्वरे । गवार्थे ब्राह्मणार्थे च प्राणान् परित्यजेत् ॥ १०९.११० ॥ एवं सा नर्मदा प्रोक्ता ब्रह्माद्यैश्च सुरैर्द्रुतम् । विकूलतां वै प्रददौ समन्ताद्रेवाभिषिक्तः स जलेन पूतः ॥ १०९.१११ ॥ सचेतनः सत्यवती सुतोऽयं ननाम देवैः सह नर्मदान्तैः । व्यास उवाच - तीर्थं समस्तं त्वयि देवतानां फलं प्रदिष्टं मम मन्दभाग्यम् ॥ १०९.११२ ॥ नर्मदोवाच - यतो यतो व्यासमहानुभाव सुमेरुनाम्नो धरणीधरस्य । विन्ध्यस्य चान्यस्य च ते हि मार्गं यास्यामि वै धर्मधरस्य धन्या ॥ १०९.११३ ॥ एवमुक्तो महातेजा व्यासः सत्यवतीयुतः । दक्षिणे चालयामास स्वाश्रमान्मुनिपुङ्गवान् ॥ १०९.११४ ॥ दण्डहस्तो महातेजा हुङ्कारैर्नृपनन्दन । व्यासहुङ्कारभीता च चलिता रुद्रनन्दिनी ॥ १०९.११५ ॥ दण्डेन दर्शयन्मार्गं देवी तत्र प्रवर्तिता । व्यासमार्गगतां देवीं दृष्ट्वा चेन्द्रपुरोगमाः ॥ १०९.११६ ॥ पुष्पवृष्टिं ददुर्व्यासे स्तुतिं कुर्वन्ति किन्नराः । प्रफुल्लनयना जाताः पराशरमुखा द्विजाः ॥ १०९.११७ ॥ किं कुर्मोऽत्र महिम्ना ते कर्मणा ते वरं जिताः । व्यास उवाच - तपः कृत्वा सुविपुलं दानं दत्त्वा महत्फलम् ॥ १०९.११८ ॥ एतदेव नरैः कार्यं साधूनां परितोषणम् । सुविभक्ता महाभागा अनुग्राह्यस्य सम्प्रति ॥ १०९.११९ ॥ तस्मान्ममाश्रमे पुण्ये स्थीयतां नात्र संशयः । आतिथ्यं शाकपर्णैश्च उदकेन विमिश्रितैः ॥ १०९.१२० ॥ प्रतिपन्नं समस्तैश्च पराशरमुखैर्द्विजैः । श्रयध्वमाश्रमं पुण्यं नर्मदायोत्तरे तटे ॥ १०९.१२१ ॥ मार्कण्डेय उवाच - स्नानतर्पणकृत्यानि कृतानि च द्विजोत्तमैः । व्यासकुण्डं ततो गत्वा होमं सम्यगकारयन् ॥ १०९.१२२ ॥ श्रीफलैर्बिल्वपत्रैश्च ध्यानयुक्ताश्च जुह्वति । गौतमो भृगुमाण्डव्यौ नारदो लोमशस्तथा ॥ १०९.१२३ ॥ पराशरस्तथा शङ्खः कौशिकश्च्यवनो मुनिः । पिप्पलादो वशिष्ठश्च नाशिकेतुर्महातपाः ॥ १०९.१२४ ॥ विश्वामित्रो ह्यगस्त्यश्च उद्दालकयमौ तथा । शाण्डिल्यो जैमिनिः काव्यो याज्ञवल्क्योशनाङ्गिराः ॥ १०९.१२५ ॥ अत्रिः शातातपश्चैव भरतो मुद्गलस्तथा । वात्स्यायनो महातेजाः संवर्तः शक्तिरेव च ॥ १०९.१२६ ॥ जातूकर्णो भरद्वाजो बालखिल्यादयस्तथा । एकचित्ता द्विजा राजन्मन्त्रतन्त्रं प्रकुर्वतः ॥ १०९.१२७ ॥ ततः समुत्थितं लिङ्गं ज्वलत्कालानलप्रभम् । साष्टाङ्गं प्रणतो व्यासो देवं दृष्ट्वा त्रिलोचनम् ॥ १०९.१२८ ॥ आशीर्वादं पुनर्विप्रा दत्त्वा व्यासं तदा ययुः । ततः प्रभृति तत्त्वज्ञ तीर्थं ख्यातं तु पाण्डव ॥ १०९.१२९ ॥ स्नानदानविधानं च यस्मिन् काले प्रतिष्ठितम् । कथयामि समस्तं ते भ्रातॄणां चैव पाण्डव ॥ १०९.१३० ॥ कार्त्तिकस्यासिते पक्षे चतुर्दश्यां नृपोत्तम । उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम् ॥ १०९.१३१ ॥ स्नापयेदीश्वरं भक्त्या क्षौद्रेण क्षीरसर्पिषा ॥ १०९.१३२ ॥ दध्ना च खण्डयुक्तेन कुशतोयेन वा पुनः । श्रीखण्डेन सुगन्धेन पूजयेत महेश्वरम् ॥ १०९.१३३ ॥ ततः सुगन्धपुष्पैश्च बिल्वपत्रैश्च पूजयेत् । कुमुदेन च कुन्देन कुशपुष्पाक्षतादिभिः ॥ १०९.१३४ ॥ उन्मत्तपुष्पैश्च रसैः सौम्यैश्चैवाप्यनुत्तमैः । अर्चयेत्परया भक्त्या द्वीपेश्वरमनुत्तमम् ॥ १०९.१३५ ॥ मन्दारादिकपुष्पैश्च पूजयेत्परमेश्वरम् । गुडमण्डप्रदानेन पातकं दिवसार्जितम् ॥ १०९.१३६ ॥ मासार्जितं च नश्येत गुडमण्डशतेन च । षण्मासं च सहस्रेण अर्काब्दं द्विगुणेन तु ॥ १०९.१३७ ॥ आजन्मजनितं पापमयुतेन प्रणश्यति । पौर्णमास्यां नृपश्रेष्ठ स्नानं कुर्वीत भक्तितः ॥ १०९.१३८ ॥ मन्त्रोक्तेन विधानेन कृत्वा पापक्षयंकरम् । वारुणं च तथा ज्ञेयं सर्वपापक्षयं करम् ॥ १०९.१३९ ॥ देवान् पितॄन्मनुष्यांश्च विधिवत्तर्पयेन्नृप । ऋचमेकां जपेत्स्नातः सामवेदफलं लभेत् ॥ १०९.१४० ॥ यजुर्वेदमथर्वाणं गायत्र्या सर्वमाप्नुयात् । जपेदष्टाक्षरं मन्त्रं सौरं वा शैवमेव च ॥ १०९.१४१ ॥ अथवा वैष्णवं मन्त्रं द्वादशाक्षरमेव च । पूजयेद्ब्राह्मणान् भक्त्या सर्वलक्षणलक्षितान् ॥ १०९.१४२ ॥ स्वधर्मनिरतान् विप्रान् दम्भलोभविवर्जितान् । हीनाङ्गानधिकाङ्गांश्च पतिताञ्छूद्रसेवितान् ॥ १०९.१४३ ॥ शूद्रान्नेन च संयुक्ता वृषली यस्य मन्दिरे । पौनर्भवास्तथा दुष्टा गुरुनिन्दापरायणाः ॥ १०९.१४४ ॥ वेदाध्ययनहीनाश्च हेतुकाः काकवृत्तयः । ईदृशान् वर्जयेच्छ्राद्धे दाने चैव व्रते तथा ॥ १०९.१४५ ॥ गायत्री पाठमात्रेण वरं विप्रः सुपण्डितः । नायं भृतचतुर्विद्यः सर्वाशीसर्वविक्रयी ॥ १०९.१४६ ॥ ईदृशान् वर्जयेच्छ्राद्धे व्रते दाने हिरण्मये । उपानहौ च वस्त्रं च शय्यां वा छत्रमासनम् ॥ १०९.१४७ ॥ यो दद्याद्ब्राह्मणे भक्त्या सोऽपि स्वर्गे महीयते । प्रत्यक्षा सुरभी तत्र तिलधेनुस्तथा मता ॥ १०९.१४८ ॥ तिलधेनुप्रदातारः स्वस्वदातार एव च । कृष्णाजिनप्रदातारो दातारः कुञ्जरस्य च ॥ १०९.१४९ ॥ कन्याविद्याप्रदातारोऽक्षयं लोकमवाप्नुयुः । धूर्वहौ दक्षिणायुक्तौ धान्योपस्करसंयुतौ ॥ १०९.१५० ॥ दापयेत्सर्वकामाय इति मे सत्यभाषितम् । सूत्रेण वेष्टयेदीशमथवा जगतीरुहम् ॥ १०९.१५१ ॥ मन्दिरं परया भक्त्या अथवा परमेश्वरम् । अथ प्रदक्षिणा कार्या विना शूद्रेण मानवैः ॥ १०९.१५२ ॥ जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्च भवेन्नृप । कुशः क्रौञ्चस्तथा शाकः पुष्करश्चेति सप्तमः ॥ १०९.१५३ ॥ सप्तसागरपर्यन्ता वेष्टिता तेन भारत । द्वीपेश्वरे तु राजेन्द्र वृषोत्सर्गो जितेन्द्रियैः ॥ १०९.१५४ ॥ वृषस्य मोक्षणे नैव ऐश्वरं लोकमाप्नुयात् । यस्तु वै पाण्डुरो वक्त्रे ललाटे चरणे तथा ॥ १०९.१५५ ॥ लाङ्गूले च मुखे शुभ्रः स वै नाकस्य दर्शनः । नीलोऽयमीदृशः प्रोक्तो दद्याद्द्वीपेश्वरे शूभे ॥ १०९.१५६ ॥ पामरास्तेऽप्यसंख्याता नाके गच्छन्ति पार्थिव । सौरे चण्डेश्वरे लोके पुरे वै चक्रपाणिनः ॥ १०९.१५७ ॥ स भुङ्क्ते स्वेच्छया लोकं व्यासतीर्थप्रभावतः । सपत्नीकांस्ततो विप्रान् पूजयेत्तत्र भक्तितः ॥ १०९.१५८ ॥ सितरत्नानि वस्त्राणि प्रदद्यादग्रजन्मने । कृत्वा प्रदक्षिणायुग्मं प्रीयतां मे जगद्गुरुः ॥ १०९.१५९ ॥ नास्ति विप्रसमो बन्धुरिह लोके परत्र च । यमलोके महाघोरे पतितं योऽभिरक्षति ॥ १०९.१६० ॥ पुरुषाः परया भक्त्या वेदशास्त्रार्थचिन्तकाः । द्वीपेश्वरं महादेवं संस्मरन्ति गृहे स्थिताः ॥ १०९.१६१ ॥ तेषां न जायते शोको न हानिर्न च दुष्कृतम् । प्रथमं पूजयेत्तत्र लिङ्गं सिद्धेश्वरं नृप ॥ १०९.१६२ ॥ यत्र सिद्धो महाभागः सत्यवत्याश्च नन्दनः । अस्यैवार्चनतः सिद्धः पाराशर्यो मुनिस्ततः ॥ १०९.१६३ ॥ तस्मिंस्तीर्थे तु ये राजन् प्राणत्यागं प्रकुर्वते । ते यान्ति परमं लोकं नात्र कार्या विचारणा ॥ १०९.१६४ ॥ समा सहस्राणि मृतो जले हि यो वै निमग्नः पतने च षोडश । महाहवे षष्टिरशीतिगोगृहे त्वनाशके भारत चाक्षया गतिः ॥ १०९.१६५ ॥ अथ योगेन तेनैव प्राप्यते चाक्षया गतिः । सूर्यलोकं ततो गत्वा शिवलोकं व्रजन्ति ते ॥ १०९.१६६ ॥ पितापितामहश्चैव तथैव प्रपितामहः । अनुभूता निरीक्षन्ते आगच्छन्तं स्वगोत्रजम् ॥ १०९.१६७ ॥ तिष्ठते चैव गोत्रेषु यो दद्याच्च तिलोदकम् । कार्तिक्यां च तथा माघ्यां वैशाख्यां च विशेषतः ॥ १०९.१६८ ॥ स्वर्गं च ते प्रयान्त्यन्ते स्वस्वपुत्रप्रभावतः । एतत्ते कथितं सर्वं द्वीपेश्वरफलं शुभम् ॥ १०९.१६९ ॥ यः पठेत्प्रातरुत्थाय यः शृणोति नरो नृप । सोऽपि पापैर्विनिर्मुक्तो मोदते शिवमन्दिरे ॥ १०९.१७० ॥ ईश्वरं सर्वतीर्थानां निर्मितं ऋषिपुङ्गवैः । कामदं सर्वजन्तूनां रेवायां च नृपोत्तम ॥ १०९.१७१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे द्वीपेश्वरव्यासतीर्थवर्णनो नाम नवाधिकशततमोऽध्यायः ॥ अध्याय ११० मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र प्रभासेश्वरमुत्तमम् । विख्यातां त्रिषु लोकेषु स्वर्गसोपानमुत्तमम् ॥ ११०.१ ॥ युधिष्ठिर उवाच - प्रभासं नाम तीर्थं तु यथाजातं महाफलम् । स्वर्गसोपानमार्गं च संक्षेपात्कथयस्व मे ॥ ११०.२ ॥ मार्कण्डेय उवाच - दुर्भगा रविपत्नी च प्रभा नामेति विश्रुता । तया चाराधितः शम्भुरुग्रेण तपसा पुरा ॥ ११०.३ ॥ वायुभक्षा स्थिता वर्षं शिवध्यानपरायणा । ततस्तुष्टो महादेवः प्रभां तां पाण्डुनन्दन ॥ ११०.४ ॥ उवाच क्लिश्यते कस्माद्बाले त्वं ब्रूहि चेष्टितम् । अहं च भास्करोपेतश्चान्तरं नैव विद्यते ॥ ११०.५ ॥ प्रभोवाच - नान्यो देवस्तथा शम्भो भर्ता पुष्यति न क्वचित् । सगुणो वापि चाख्यातो निर्गुणो द्रव्यवर्जितः ॥ ११०.६ ॥ प्रियो वा यदि वा द्वेष्यः स्त्रीणां भर्ता हि देवता । दुर्भगा त्वेन दग्धाहं लोकमध्ये महेश्वर ॥ ११०.७ ॥ अलब्धसौख्या भर्तुश्च तेन क्लिश्ये महेश्वर । देव उवाच - वल्लभा भास्करस्य त्वं मत्प्रभावाद्भविष्यसि ॥ ११०.८ ॥ पार्वत्युवाच - वल्लभा तव वाक्येन भास्करे न भविष्यति । वृथा क्लेशो भवेदेव प्रभायास्तत्र का कथा ॥ ११०.९ ॥ देवीवाक्येन रुद्रेण ध्यातस्तिमिरनाशनः । आगतो गगनाद्भानुर्नर्मदायोत्तरे तटे ॥ ११०.१० ॥ भानुरुवाच - कस्मादाह्वानितो देव अन्धकासुरनाशन । देव उवाच - प्रभां पालय हे भानो सन्तोषेण परेण च ॥ ११०.११ ॥ प्रभाया मन्दिरे नित्यं स्थीयतां हिमनाशन । एवं लब्धवरा देवात्प्रभा स्थाप्याह शङ्करम् ॥ ११०.१२ ॥ स्वांशेन स्थीयतामत्र तीर्थमुन्मीलयानघ । मार्कण्डेय उवाच - सर्वदेवमयं लिङ्गं स्थापितं पाण्डुनन्दन ॥ ११०.१३ ॥ प्रभासेश्वरनामेदं सर्वलोके च दुर्लभम् । अन्यानि यानि तीर्थानि काले तेऽपि फलन्ति वै ॥ ११०.१४ ॥ प्रभासंचापि राजेन्द्र सद्यः पुण्यफलप्रदम् । माघमासे च सप्तम्यां विशेषफलदं भवेत् ॥ ११०.१५ ॥ अश्वं यो दापयेत्तत्र यथोक्तं ब्राह्मणे नृप । इन्द्रस्य प्राप्यते लोकमथवा भास्करं व्रजेत् ॥ ११०.१६ ॥ दौर्भाग्यं नश्यते तत्र स्नानमात्रेण पाण्डव । तत्र तीर्थे तु यो भक्त्या कन्यादानं प्रयच्छति ॥ ११०.१७ ॥ ब्राह्मणाय विवाहार्थे दापेयत्पाण्डुनन्दन । समानवयसे विप्रे कुलीने धनिने तथा ॥ ११०.१८ ॥ यो ददाति महाराज महापातकसंयुतः । तस्य पापं च नश्येत उदके लवणं यथा ॥ ११०.१९ ॥ स्वामिद्रोहोद्भवं पापं यत्पापं स्तेयसम्भवम् । कूटसाक्ष्यप्रदं पापं चाण्डालव्रतचारिणाम् ॥ ११०.२० ॥ दाम्भिकं वृक्षकच्छेदमगम्यागमनोद्भवम् । ग्रामकूटोद्भवं यच्च गरदं वा प्रवारकम् ॥ ११०.२१ ॥ विद्याविक्रयणे यच्च संसर्गोद्भवपातकम् । पत्नीद्रोहोद्भवं घोरं सर्वद्रोहोद्भवं नृप ॥ ११०.२२ ॥ ब्रह्महत्या च यत्पापं यत्पापं भूमिहारिणः । गोवधे चैव यत्पापं गुर्वग्निब्राह्मणेषु च ॥ ११०.२३ ॥ जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्च भवेन्नृप । कुशक्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ ११०.२४ ॥ तत्पापं विलयं याति कन्यादानेन पाण्डव । भित्त्वाथ भास्करं लोकं शुभं व्रजेत् ॥ ११०.२५ ॥ क्रीडते रुद्रलोकस्थो यावदिन्द्राश्चतुर्दश । सर्वपापक्षये जाते शिवो भवति भावतः ॥ ११०.२६ ॥ तावद्भ्रमति तत्तीर्थं प्रभासं पाण्डुनन्दन । सोऽश्वमेधफलं प्राप्य सत्यमीश्वरभाषितम् ॥ ११०.२७ ॥ गोदानं च महत्पुण्यं सर्वपापक्षयंकरम् । प्रत्यक्षं सुरभीं तत्र जलधेनुं तथादृतः ॥ ११०.२८ ॥ तिलधेनुप्रदाता च अश्वदाता तथैव च । कन्याविद्याप्रदाता च अक्षयं लोकमाप्नुयात् ॥ ११०.२९ ॥ भूरिवस्त्रां क्षीरयुक्तां धान्योपस्करसंयुताम् । दापयेत्सर्वकामोऽथ सुरभीं नृपसत्तम ॥ ११०.३० ॥ सप्तसागरपर्यन्ता वेष्टिता तेन भारत । द्वीपेश्वरे तु राजेन्द्र वृषोत्सर्गं जितेन्द्रियैः ॥ ११०.३१ ॥ सर्वकालं तु कर्तव्यं चतुर्दश्यां विशेषतः ॥ ११०.३२ ॥ इति श्रीस्कन्दपुराणे प्रभासतीर्थमहिमानुवर्णनो नाम दशाधिकशततमोऽध्यायः ॥ अध्याय १११ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र नर्मदादक्षिणे तटे । स्थापितं वासुकेर्नाम्ना अशेषाघौघनाशनम् ॥ १११.१ ॥ युधिष्ठिर उवाच - आः कस्मात्कारणात्तात स्थापितं दक्षिणे तटे । तत्त्वं सर्वं ममाख्याहि त्वशेषं धर्मकारणम् ॥ १११.२ ॥ मार्कण्डेय उवाच - शृणु त्वं कुरुशार्दूल यः प्रश्नः क्रियते त्वया । भैरवं रूपमास्थाय नृत्यं शम्भुश्चकार ह ॥ १११.३ ॥ तच्छ्रमाज्जायते स्वेदो गङ्गातोयविमिश्रितः । तत्रैव पन्नगः स्नातो हरतोयविमिश्रिते ॥ १११.४ ॥ मन्दाकिनी ततः क्रुद्धा व्यालस्योपरि भारत । अजगरत्वमाप्नोषि उरगं चाब्रवीत्तदा ॥ १११.५ ॥ वासुकिरुवाच - अनुग्राह्योऽस्म्यहं पापो भवत्या हरसम्भृते । त्रैलोक्यपावनी पुण्या सरित्त्वं शुभलक्षणे ॥ १११.६ ॥ संसारच्छेदनकरी आर्ता नामार्तिनाशिनी । स्वर्गद्वारस्थिते देवि दयां कुरु ममोपरि ॥ १११.७ ॥ गङ्गोवाच - चर त्वं विपुलं नाग तपो वै शङ्करं प्रति । ततस्तपश्चचारासावीश्वराराधनं परम् ॥ १११.८ ॥ ततश्च ध्यायतो देवं दमयुक्तोऽभवत्स च । ततो वर्षशते पूर्णे उपरुद्धो जगद्गुरुः ॥ १११.९ ॥ आगत्य तत्समीपस्थः श्लक्ष्णां वाणीमुदाहरत् । वरं वरयतु श्रेष्ठं पन्नग त्वं महाबल ॥ १११.१० ॥ पन्नग उवाच - यदि तुष्टोऽसि मे देव वरं दातुं त्रिशूलभृत् । तदा मे दीयतां स्थानं स्वकीयं वृषवाहन ॥ १११.११ ॥ ईश्वर उवाच - प्रसन्नोऽहं महाबाहो रेवां गच्छ शुभां त्वरम् । याम्ये चैव तटे पुण्ये स्नानं कृत्वा विधानतः ॥ १११.१२ ॥ इत्युक्त्वाऽन्तर्दधे देवो वासुकिस्त्वरितान्वितः । रूपेणाजगरेणाथ विवेश नर्मदाजले ॥ १११.१३ ॥ मार्गेण तस्य तज्जातं जाह्नव्याः स्रोत उत्तमम् । निर्धूतकल्मषः सर्पः स जातो नर्मदाजले ॥ १११.१४ ॥ स्थापितश्चेश्वरस्तत्र नर्मदाया युधिष्ठिर । तेन नागेश्वरो भूम्यां सर्वपापविनाशनः ॥ १११.१५ ॥ अष्टम्यां च चतुर्दश्यां मधुना स्नापयेच्छिवम् । विमुक्तः सर्वपापेभ्यो जायते ह्यनलो यथा ॥ १११.१६ ॥ अपुत्रा ये नराः पार्थ स्नानं कुर्वन्ति संगमे । ते लभन्ते शुभान् पुत्रान् कार्तवीर्योपमानपि ॥ १११.१७ ॥ श्राद्धं तत्रैव ये भक्त्या उपवासपरायणाः । कुर्वन्ति तारयन्ति स्वान्नरकान्नृपनन्दन ॥ १११.१८ ॥ एवमाख्यातवानस्मि तव स्नेहाद्विशेषतः । मार्कण्डेय उवाच - ततो गच्छेच्च राजेन्द्र मार्कण्डेश्वरमुत्तमम् ॥ १११.१९ ॥ नर्मदादक्षिणे कूले गीर्वाणैर्वन्दितं शुभम् । गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया ॥ १११.२० ॥ स्थापितं च मया पुण्यं स्वर्गभोगं च मुक्तिदम् । ज्ञानं तत्रैव मे जातं प्रसादाच्छङ्करस्य च ॥ १११.२१ ॥ अन्यसूक्तं च यो ध्यायेद्द्रुपदं च जले जपेत् । सोऽपि घोरादघौघाच्च मुच्यते पाण्डुनन्दन ॥ १११.२२ ॥ वाचिकैर्मानसैश्चापि कर्मजैरपि पाण्डव । पञ्चेन्द्रियाण्यवष्टभ्य याम्यामाशां च संस्थितः ॥ १११.२३ ॥ यो जपेत्सलिले भक्त्या इत्येवं शङ्करोऽब्रवीत् । श्राद्धं तत्रैव यो भक्त्या कुरुते नृपनन्दन ॥ १११.२४ ॥ पितरस्तस्य वै तृप्ता यावदाहूतसम्प्लवम् । आमलैर्बदरैर्बिल्वैरक्षतैर्वा जलेन वा ॥ १११.२५ ॥ तर्पयेत्तत्र यः प्रेतान् प्रेता यान्ति शुभां गतिम् ॥ १११.२६ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे मार्कण्डेश्वरमहिमानुवर्णनो नामैकादशाधिकशततमोऽध्यायः ॥ अध्याय ११२ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । उत्तरे नर्मदाकूले यज्ञवाटस्य मध्यतः ॥ ११२.१ ॥ संकर्षणं च विख्यातं पृथिव्यां पापनाशनम् । तपश्चीर्णं पुरा राजन्नर्मदायास्तटे शुभे ॥ ११२.२ ॥ बलभद्रेण राजेन्द्र प्राणिनामुपकारकम् । गीर्वाणैश्चैव तत्रैव सन्निधौ नृपनन्दन ॥ ११२.३ ॥ उमया सहितः शम्भुः स्थितस्तत्रैव केशवः । यस्तत्र स्नापयेद्भक्त्या जितक्रोधो जितेन्द्रियः ॥ ११२.४ ॥ एकादश्यां सिते पक्षे मन्त्रेण स्नापयेच्छिवम् । श्राद्धं तत्र च यो भक्त्या प्रेतानां वै प्रदापयेत् ॥ ११२.५ ॥ स याति परमं स्थानं बलभद्रवचो यथा । ततो गच्छेच्च राजेन्द्र मन्मथेश्वरमुत्तमम् ॥ ११२.६ ॥ स्नानमात्रो नरो राजन् यमलोकं न पश्यति । अनपत्या तु या नारी स्नापयेत्पाण्डुनन्दन ॥ ११२.७ ॥ पुत्रं सा लभते पार्थ सत्यवन्तं दृढव्रतम् । तत्र स्नात्वा नरो राजन्मुनिः प्रयतमानसः ॥ ११२.८ ॥ उपोष्य परया भक्त्या गोसहस्रफलं लभेत् । तत्र नृत्यं प्रकुर्वन्ति ये नरा भक्तिमानसाः ॥ ११२.९ ॥ गीतवादित्रसंयुक्तं रात्रौ जागरणं शुभम् । सहाम्बिको महादेवस्तुष्टो वै मन्मथेश्वरः ॥ ११२.१० ॥ किं करिष्यति संरुष्टो यमस्तं न च पश्यति । कामेन स्थापितं तत्र एतस्मात्कारणात्नृप ॥ ११२.११ ॥ अन्नदानेन भो राजन् कीर्तितं फलमुत्तमम् । सोपानं स्वर्गमार्गस्य पृथिव्यां मन्मथेश्वरः ॥ ११२.१२ ॥ विशेषात्तत्र संख्यातं श्राद्धदानेन भारत । अन्नदानेन भो राजन् कीर्तितं फलमुत्तमम् ॥ ११२.१३ ॥ एतत्ते सर्वमाख्यातं तव भक्त्या तु भारत ॥ ११२.१४ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे मन्मथेश्वरमहिमानुवर्णनोनाम द्वादशाधिकशततमोऽध्यायः ॥ अध्याय ११३ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र एरण्डीसङ्गमेश्वरम् । प्रख्यातं सर्वलोकेषु ब्रह्महत्याप्रणाशनम् ॥ ११३.१ ॥ युधिष्ठिर उवाच - कारणं नैव जानेऽहं तत्सर्वं कथयस्व मे । एवमुक्तस्तु धर्मात्मा धर्मपुत्रेण धीमता ॥ ११३.२ ॥ कथयामास तत्सर्वमृषिसङ्घैः समावृतः । मार्कण्डेय उवाच - कथितं चोमया पूर्वं शम्भुना परमेष्ठिना ॥ ११३.३ ॥ तत्तेऽहं सम्प्रवक्ष्यामि श्रूयतां भ्रातृभिः सह । महेश्वर उवाच - अत्रिर्नामाह्वयो देव मानसो ब्रह्मणः सुतः ॥ ११३.४ ॥ अग्निहोत्ररतो नित्यं देवताऽतिथिपूजकः । सोमः संस्थापितोऽत्रैव कृतो विप्रेण पर्वते ॥ ११३.५ ॥ अनसूयेति नाम्ना वै तस्य भार्या गुणान्विता । पतिव्रता पतिप्राणा पत्युः कार्यहिते रता ॥ ११३.६ ॥ एवं जातः सदा कालो न पुत्रो न च पुत्रिका । अपराह्णे महाबाहो सुखासीनौ तु तौ क्वचित् ॥ ११३.७ ॥ वदतः सुखदुःखानि दैवदत्तानि यानि च । अत्रिरुवाच - सौम्ये शुभे प्रिये कान्ते सुरूपे प्रियभाषिणि ॥ ११३.८ ॥ पूर्णचन्द्रनिभाकारे प्रियकामे निरालसे । न त्वया सदृशी लोके त्रैलोक्ये सचराचरे ॥ ११३.९ ॥ पतिपुत्रप्रिया नारी सुहृज्जनहिते रता । पुत्रेण लोकाज्जयति पुत्रेण परमा गतिः ॥ ११३.१० ॥ नास्ति पुत्रसमो बन्धुः पृथिव्यां चैव दृश्यते । असिपत्रवने घोरे पतन्तं योऽभिरक्षति ॥ ११३.११ ॥ दुर्भिक्षेष्वपि दैन्यादौ वृद्धकालेऽपि पुत्रकः । पुत्रं विना च किं भद्रे जीवितैः सधनैरपि ॥ ११३.१२ ॥ व्याधिभिः परिभूतोऽपि निर्विण्णोऽपि यदा सुतः । लोकलज्जानयत्रस्तः पवित्रं कर्तुमर्हति ॥ ११३.१३ ॥ एतद्गुणसमायुक्तो निर्गुणः सगुणः सुतः । पुत्रहीने कुतः सौख्यमिह लोके परत्र च ॥ ११३.१४ ॥ अहश्च मध्यरात्रे च चिन्त्यमानश्च सर्वदा । शुष्यन्ति मम गात्राणि ग्रीष्मे कुसरितो यथा ॥ ११३.१५ ॥ अनसूयोवाच - यत्त्वया सूचितं विप्र तत्सर्वं शोचयाम्यहम् । तवोद्वेगकरं कार्यं तन्मे दहति चेतसि ॥ ११३.१६ ॥ ये च पुत्रा भविष्यन्ति दीर्घायुर्गुणसंयुताः । तत्कार्यं च समीक्षेऽहं येन तुष्टः प्रजापतिः ॥ ११३.१७ ॥ अत्रिरुवाच - तपस्तप्तं मया भद्रे जन्मप्रभृतिदुष्करम् । व्रतोपवासैर्नियमैः शाकाहारेण सुन्दरि ॥ ११३.१८ ॥ क्षीणं देहं तु पश्यामि अशक्तोऽहं शुभानने । स्थातुं शोचामि चात्मानं रहस्यं कथितं मया ॥ ११३.१९ ॥ अनसूयोवाच - भर्तः पतिव्रता नारी पतिपुत्रविवर्द्धिनी । त्रिवर्गसाधना सा च सेव्या सा विपुले जने ॥ ११३.२० ॥ जपस्तपस्तीर्थयात्रा पुत्रेज्यामन्त्रसाधनम् । वदन्ति गुरवः सर्वे यथोक्तं गुरुभाषितम् ॥ ११३.२१ ॥ अनुज्ञाता च दुःखेऽहं तपस्तप्स्यामि दुष्करम् । पुत्रार्थिनी बहुदिनान्यहं यामि सुरोत्तमम् ॥ ११३.२२ ॥ अत्रिरुवाच - साधु साधु महाप्राज्ञे मम सन्तोषकारिणि । अनुज्ञाता मया भद्रे पुत्रार्थं तप आचर ॥ ११३.२३ ॥ देवानां च मनुष्याणां पितॄणामनृणं कुरु । न भार्या सदृशो बन्धुस्त्रिषु लोकेषु विद्यते ॥ ११३.२४ ॥ नहि देवाः प्रशंसन्ति भार्यया रहितं सुखम् । सम्मुखे सम्मुखा याति विलोमे च पराङ्मुखी ॥ ११३.२५ ॥ तेन भार्या प्रशंसन्ति सदेवासुरमानुषाः । महाव्रते महाप्रज्ञे सत्यरूपे शुभे क्षणे ॥ ११३.२६ ॥ तपश्चरस्व शीघ्रं त्वं पुत्रार्थं च ममाज्ञया । एतद्वाक्यावसाने सा साष्टाङ्गं प्रणताऽब्रवीत् ॥ ११३.२७ ॥ त्वत्प्रसादेन विप्रेन्द्र सर्वमेतदवाप्नुयाम् । हंसलीलागतिर्यान्ती लोलाक्षी वरवर्णिनी ॥ ११३.२८ ॥ विषमस्थानसूया तु प्राप्तासौ नर्मदां नदीम् । सोमनाथेन तत्तुल्यं नात्र कार्या विचारणा ॥ ११३.२९ ॥ ये स्मरन्ति दिवा रात्रौ योजनानां शतैरपि । मुच्यन्ते सर्वपापेभ्यो रुद्रलोके वसन्ति ते ॥ ११३.३० ॥ नर्मदायाः समीपे तु द्वे तटे द्वे च योजने । प्रविशन्ती तपस्तत्र रेवायां वरवर्णिनी ॥ ११३.३१ ॥ यस्या दर्शनमात्रेण नश्यते पापसंचयम् । ततः तस्योत्तरे तीरे परे पर्णाशना शुभा ॥ ११३.३२ ॥ नियमस्था विशालाक्षी शाकाहारेण सुन्दरी । स्तुवन्ती तु ततो देवाञ्छुभैः स्तोत्रैश्च संयता ॥ ११३.३३ ॥ ग्रीष्मेषु च महादेवी पञ्चाग्निं साधयेत्ततः । वर्षाकाले सार्द्रवासाचरच्चान्द्रायणं व्रतम् ॥ ११३.३४ ॥ हेमन्ते च ततः प्राप्ते तोयवासाभवत्ततः । प्रातः स्नानं ततः सान्ध्यं कुर्याद्देवादितर्पणम् ॥ ११३.३५ ॥ देवानामर्चनं कृत्वा होमं कृत्वा यथा विधि । एवं वर्षशते प्राप्ते विष्णुरुद्रपितामहाः ॥ ११३.३६ ॥ सम्प्राप्ता द्विजरूपेण एरण्ड्याः सङ्गमं प्रति । संस्थिता अग्रतस्तस्या वेदमभ्युच्चरन्ति ते ॥ ११३.३७ ॥ अनसूया जपं त्यक्त्वा निरीक्षन्ती मुहुर्मुहुः । उत्थिता सा विशालाक्षी अर्घं दत्त्वा यथाविधि ॥ ११३.३८ ॥ अद्य मे सफलं जन्म अद्य मे सफलं तपः । दर्शनेन तु विप्राणां सर्वपापैः प्रमुच्यते ॥ ११३.३९ ॥ प्रदक्षिणां ततः कृत्वा साष्टाङ्गं प्रणताऽब्रवीत् । कन्दमूलफलैर्दिव्यैरद्याहं तर्पयामि वः ॥ ११३.४० ॥ विप्रा ऊचुः॒ तपसा तु विचित्रेण तव सत्येन सुव्रते । तृप्ता वै सर्वकामैस्तु तपस्विन्याश्च दर्शनात् ॥ ११३.४१ ॥ अस्माकं कौतुकं जातं किमर्थं तप्यते त्वया । स्वर्गमोक्षं तु रक्षार्थं तपस्तप्यसि दुष्करम् ॥ ११३.४२ ॥ अनसूयोवाच - तपसा सिध्यते स्वर्गस्तपसा परमा गतिः । तपसा चैव भो विप्राः सर्वकाममवाप्नुयात् ॥ ११३.४३ ॥ ब्राह्मणा ऊचुः॒ तन्वी श्यामा विशालाक्षी स्निग्धाङ्गी रूपसंयुता । हंसलीलागतिस्त्वं हि किं चात्मानं विशोषसि ॥ ११३.४४ ॥ अनसूयोवाच - युवत्वे च तपः कार्यं युवत्वे परमा गति । युवत्वे च सुतोत्पत्तिर्वृद्धत्वे सर्वमप्रियम् ॥ ११३.४५ ॥ विप्रा ऊचुः॒ साधु साधु महाप्राज्ञे वरं प्रार्थय सुव्रते । यत्त्वया चाभिलषितं तत्सर्वं प्रददाम्यहम् ॥ ११३.४६ ॥ अहं विष्णुरहं रुद्रो ह्यहं साक्षात्पितामहः । गूढरूपधरा लोके स्वचिह्नैरुपलक्षिताः ॥ ११३.४७ ॥ तस्या वाक्यावसाने तु स्वरूपं दर्शयन्ति ते । स्वैः स्वै रूपैः स्थिता देवाः सूर्यकोटिसमप्रभाः ॥ ११३.४८ ॥ चतुर्भुजो वासुदेवः शङ्खचक्रगदाधरः । अतसीपुष्पवर्णस्तु पीतवासा जनार्दनः ॥ ११३.४९ ॥ गरुत्मान् वाहनं यस्य श्रिया च सहितो हरिः । प्रसन्नवदनः श्रीमाञ्छिवरूपो व्यवस्थितः ॥ ११३.५० ॥ सितवासा महाभागश्चतुर्वदनसंयुतः । हंसोपरिसमारूढो ह्यक्षमालाकरोऽनघ ॥ ११३.५१ ॥ आगतो नर्मदातीरे ब्रह्मा लोकपितामहः । वृषभं तु समारूढो दशबाहुसमन्वितः ॥ ११३.५२ ॥ भस्मोद्धूलितगात्रस्तु पञ्चवक्त्रस्त्रिलोचनः । जटामुकुटसंयुक्तश्चन्द्रार्धकृतशेखरः ॥ ११३.५३ ॥ एतद्रूपधरो देवः सर्वव्यापी महेश्वरः । अनसूया तु तत्रैव देवानां दर्शनात्परम् ॥ ११३.५४ ॥ वेपमाना रहस्ये तु तान् पश्यन्ती मुहुर्मुहुः । अहं ब्रह्मा ह्यहं विष्णुरहं रुद्रः प्रकीर्तितः ॥ ११३.५५ ॥ आनन्दिता तु सा देवी दृष्ट्वैतान्महाव्रत । अनसूयोवाच - किं व्यापाराश्च के यूयं विष्णुरुद्रपितामहाः ॥ ११३.५६ ॥ तदहं श्रोतुमिच्छामीमं प्रश्नं कथयन्तु ते । ब्रह्मोवाच - प्रावृट्कालो ह्यहं प्रोक्त आपश्चैव प्रकीर्तितः ॥ ११३.५७ ॥ मेघरूपो ह्यहं प्रोक्तो वर्षामि वसुधातले । अहं सर्वाणि भूतानि प्राक्सन्ध्या ह्युदिते रवौ ॥ ११३.५८ ॥ एतस्मात्कारणाद्भावरहस्यं कथितं मया । विष्णुरुवाच - हेमन्तत्वाच्च विहितं विष्णुरूपं चराचरम् ॥ ११३.५९ ॥ पालनीयं जगत्सर्वं विष्णोर्माहात्म्यमुत्तमम् । रुद्र उवाच - ग्रीष्मकालो ह्यहं प्रोक्तः सर्वभूतक्षयंकरः ॥ ११३.६० ॥ शोषयामि जगत्सर्वं रुद्ररूपस्तपस्विनि । एवं ब्रह्मा च विष्णुश्च रुद्रश्चैव महीपते ॥ ११३.६१ ॥ तिस्रः सन्ध्यास्त्रयो देवास्त्रयः कालास्त्रयोऽग्नयः । तथा ब्रह्मा च विष्णुश्च रुद्रश्चैकत्वमागताः ॥ ११३.६२ ॥ वरं ददामि ते भद्रे यत्ते मनसि वर्तते । अनसूयोवाच - वन्ध्या लोकैरहं लोके ख्याप्यमाना च सर्वदा ॥ ११३.६३ ॥ ब्रह्मा विष्णुश्च रुद्रश्च प्रसादात्सुमुखा यतः । परितुष्टास्त्रयो देवा दुर्धर्षाऽपि ममोपरि ॥ ११३.६४ ॥ अस्मिंस्तीर्थे तु सान्निध्यं वरं ददतु मेऽधुना । देवा ऊचुः॒ एवं भवतु ते वाक्यं यत्त्वया प्रार्थितं शुभे ॥ ११३.६५ ॥ प्रत्यक्षा वैष्णवी माया एरण्डी चैव नामतः । अनसूयोवाच - यदि तुष्टास्त्रयो देवा मम भक्तिप्रबोधिताः ॥ ११३.६६ ॥ मम पुत्रा भवन्त्वत्र हरिरुद्रपितामहाः । विष्णुरुवाच - अर्थदाः पुत्रतां यान्ति न कदाचिच्छ्रुतं मया ॥ ११३.६७ ॥ भद्रे ददामि तान् पुत्रान् देवतुल्यपराक्रमान् । पितृतुल्यगुणोपेतान् सोमयाजि बहुश्रुतान् ॥ ११३.६८ ॥ अनसूयोवाच - ईप्सितं तु प्रदातव्यं यन्मया प्रार्थितं हरे । नान्यथा तच्च कर्तव्यं निवसन्तु ममोदरे ॥ ११३.६९ ॥ श्रीभगवानुवाच - पूर्वं तु भृगुसंवादे गर्भवास उपार्जितः । तस्याहं चैव पारं तु न च पश्यामि शोभने ॥ ११३.७० ॥ स्मरमाणः पुरावृत्तं चिन्तयामि पुनः पुनः । एवं संचिन्त्यमानौ हि पितामहमहेश्वरौ ॥ ११३.७१ ॥ अयोनिजा भविष्यामस्तव पुत्राः सुशोभने । योनिवासं च वै देवा नैव यान्ति वरानने ॥ ११३.७२ ॥ इत्युक्त्वा च तया सार्धं प्रत्यक्षास्तेऽभवंस्तदा । त्रयो देवा गताः पार्थ नर्मदायोत्तरे तटे ॥ ११३.७३ ॥ प्राप्ता वरं तु सा देवी प्रियं माहेन्द्रपर्वते । क्षीणदेहा च सा नारी शुष्कदेहा सुदारुणा ॥ ११३.७४ ॥ कृतयज्ञोपवीता सा तपोनिष्ठा शुभेक्षणा । शिलातले निषण्णा साऽपश्यत्कान्ता महाव्रतम् ॥ ११३.७५ ॥ हृष्टा तुष्टा महादेवी तिष्ठ कान्तेति चाब्रवीत् । तां दृष्ट्वा स मुनिर्धीमान् पुनः कान्तामुवाच ह ॥ ११३.७६ ॥ अत्रिरुवाच - साधु साधु महाप्राज्ञे अनसूये महाव्रते । असाध्यं सर्वनारीणां वरं प्राप्तासि दुर्लभम् ॥ ११३.७७ ॥ अनसूयोवाच - त्वत्प्रसादान्महर्षेऽहं वरं प्राप्ता च दुर्लभम् । तेनाहं ते प्रयच्छामि पुत्रानृषितपोधनान् ॥ ११३.७८ ॥ एवमुक्त्वा ततो देवी हर्षेण महता युता । अलोकयत्तदा कान्तं तेनापि शुभदर्शना ॥ ११३.७९ ॥ दर्शनादेव संजातं ललाटे मण्डलं शुभम् । नवयोजनसाहस्ररश्मि जालसमावृतम् ॥ ११३.८० ॥ कदम्बगोलकाकारं त्रिगणं परिमण्डलम् । तस्य मध्ये तु देवेशः पुरुषो दिव्यरूपधृक् ॥ ११३.८१ ॥ हेमवर्णः स वै देवः सूर्यकोटिसमप्रभः । पूर्वपुत्रोऽनसूयायाः साक्षाद्देवः पितामहः ॥ ११३.८२ ॥ चन्द्रमा इति विख्यातः सोमः पुत्रो नृपात्मज । इष्टः पुत्रो वरीयांस्तु कलाषोडशसंयुतः ॥ ११३.८३ ॥ प्रतिपच्च द्वितीया च तृतीया च तथा नृप । चतुर्थी पञ्चमी षष्ठी सप्तमी चाष्टमी तथा ॥ ११३.८४ ॥ नवमी दशमी चैव तथा चैकादशी परा । द्वादशी च त्रयोदशी चतुर्दशी ततः परम् ॥ ११३.८५ ॥ ततः पञ्चदशी देवी पूर्णमासी प्रकीर्तिता । अमावास्या तु विख्याता अथ सा षोडशी कला ॥ ११३.८६ ॥ चतुर्विधस्य लोकस्य सूक्ष्मो भूत्वा वरानने । आप्यायते जगत्सर्वं सोमोऽयं सचराचरम् ॥ ११३.८७ ॥ सुरासुराश्च गन्धर्वा राक्षसाः पन्नगास्तथा । पिशाचाश्च तथादित्याः पितरश्च पितामहः ॥ ११३.८८ ॥ सर्वे तमुपजीवन्ति हुतं द्रव्यं तु तत्स्थितम् । वनस्पतिगते सोमे यच्छिन्द्याच्च वनस्पतिम् ॥ ११३.८९ ॥ भुङ्क्ते दुःखं च वै मूढो दहत्यब्दकृतं शुभम् । वनस्पतिगते सोमे यो भक्षेद्दन्तधावनम् ॥ ११३.९० ॥ चन्द्रमा भक्षितस्तेन पितृवंशस्तु घातितः । अमावास्यां तु राजेन्द्र स्नानं कुर्याद्यथाविधि ॥ ११३.९१ ॥ अब्दमेकं विशालाक्षि पितॄणां परमा गतिः । हिरण्यं रजतं वस्त्रं यो ददति द्विजातिषु ॥ ११३.९२ ॥ सर्वं लक्षगुणं राजंल्लभते नात्र संशयः । एतद्गुणविशिष्टोऽसौ सोमरूपः प्रजापतिः ॥ ११३.९३ ॥ संजातः प्रथमः पुत्रोऽनसूयायास्तु नन्दनः । द्वितीयस्तु महाभाग दुर्वासा नाम नामतः ॥ ११३.९४ ॥ सृष्टिसंहारकर्ता च स्वयं साक्षान्महेश्वरः । इन्द्रोऽपि शापितस्तेन द्वितीयेन वरानने ॥ ११३.९५ ॥ द्वितीयस्य तु पुत्रस्य सम्भवः कथितो मया । दत्तात्रेयस्तु नाम्ना वै तृतीयो मधुसूदनः ॥ ११३.९६ ॥ जगद्व्यापी जगन्नाथः स्वयं देवो जनार्दनः । अवतीर्णो महाभागब्रह्मशम्भुसमन्वितः ॥ ११३.९७ ॥ पुत्रप्राप्तिपदं तीर्थं नर्मदायोत्तरे तटे । अनसूयाकृतं पार्थ सर्वपापक्षयं करम् ॥ ११३.९८ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे एरण्डीतीर्थमहिमानुवर्णनो नाम त्रयोदशाधिकशततमोऽध्यायः ॥ अध्याय ११४ मार्कण्डेय उवाच - एतस्यानन्तरं पार्थ सौवर्णं तीर्थमुत्तमम् । विख्यातं त्रिषु लोकेषु सर्वपापक्षयंकरम् ॥ ११४.१ ॥ रेवायां दुर्लभं स्नानं सङ्गमस्य समीपतः । विभक्तं हस्तमात्रं च पुण्यक्षेत्रे नराधिप ॥ ११४.२ ॥ सुवर्णशिलके स्नात्वा शान्तिं याति परां शुभाम् । निर्मित्वा भास्करं देवं होतव्यं तु हुताशने ॥ ११४.३ ॥ बिल्वेन घृतमिश्रेण बिल्वपत्रेण भूरिणा । प्रीयतां हि जगन्नाथो व्याधिर्नश्यतु मे सदा ॥ ११४.४ ॥ द्विजेभ्यश्चेत्प्रयुक्तं स्याद्यागस्य फलमाप्नुयात् । तत्र दानेन प्रीतात्मा मृतः स्वर्गमवाप्नुयात् ॥ ११४.५ ॥ शुक्लपक्षे तथाष्टम्यां सोपवासो जितेन्द्रियः । यस्तत्र कुरुते श्राद्धं नृदेवभक्तितो नरः ॥ ११४.६ ॥ समुद्धरेत्कुले तत्र दशपूर्वान् दशापरान् । कांचनं वापि यो दद्याद्धेनुं चैव सुशोभनाम् ॥ ११४.७ ॥ स याति परमं स्थानं यत्र देवो महेश्वरः । पूजयित्वा शिवं तत्र शत्रूणां विजयो भवेत् ॥ ११४.८ ॥ पुत्रवान् गुणवांश्चैव सर्वव्याधि विवर्जितः । इत्येवं कथितं राजन् सौवर्णं तीर्थमुत्तमम् ॥ ११४.९ ॥ मार्कण्डेय उवाच - एतस्मिन्नन्तरे तीर्थं करण्डेश्वरमुत्तमम् । प्रख्यातं सर्वलोकेषु नर्मदायोत्तरे तटे ॥ ११४.१० ॥ सर्वपापहरं प्रोक्तं सर्वदुःखघ्नमुत्तमम् । ततो गच्छेच्च राजेन्द्र तीर्थं परमशोभनम् ॥ ११४.११ ॥ सौभाग्यकरणं दिव्यं नराणां पापनाशनम् । तत्र या दुर्भगा नारी नरो वा नृपनन्दन ॥ ११४.१२ ॥ स्नात्वाऽर्चयेदुमां रुद्रं सौभाग्यं तस्य जायते । तृतीयायामहोरात्रं सोपवासो जितेन्द्रियः ॥ ११४.१३ ॥ निमन्त्रयेद्द्विजं तत्र सपत्नीकं सुरूपिणम् । गन्धमाल्यैरलंकृत्य पुष्पधूपाधिवासितम् ॥ ११४.१४ ॥ भोजयेत्पायसान्नेन कृशरेणाथ भक्तितः । भोजयित्वा यथा न्यायं प्रदक्षिणमथाचरेत् ॥ ११४.१५ ॥ त्वं तु देवो महादेव सपत्नीको वृषध्वज । यथा ते देव देवेश न वियोगः कदाचन ॥ ११४.१६ ॥ सोमनाथाख्यकार्पण्यात्तं ध्यायामीह चिन्तयन् । ज्येष्ठे शुक्ले तृतीयायां सौभाग्ये नर्मदाजले ॥ ११४.१७ ॥ स्नात्वा दत्त्वा च सुभगा न प्रियेण वियुज्यते । युधिष्ठिर उवाच - न दौर्भाग्यं न दारिद्र्यं न शोको न च दुर्गतिः ॥ ११४.१८ ॥ एतत्सर्वं भवेद्येन तत्सर्वं कथयस्व मे । मार्कण्डेय उवाच - दौर्भाग्यं दुर्गतिं चैव दारिद्र्यं शोकवर्धनम् ॥ ११४.१९ ॥ वैधव्यं सप्तजन्मनि जायते न युधिष्ठिर । कर्मणा येन पापानां क्षयस्तच्च वदामि ते ॥ ११४.२० ॥ ज्येष्ठे मासे सिते पक्षे ततीयायां विशेषतः । तत्र स्नात्वा तु यो भक्त्या पञ्चाग्निं साधयेत्तपः ॥ ११४.२१ ॥ सोऽपि पापैरशेषैस्तु मुच्यते नात्र संशयः । गुग्गुलुं दाहयेद्यस्तु गौरी शिवसमीपतः ॥ ११४.२२ ॥ तस्मिन् कर्मणि विप्रस्य उक्तानि भवते ततः । देहपाते कृते स्वर्गमित्येवं शङ्करोऽब्रवीत् ॥ ११४.२३ ॥ श्वेतैरक्तैस्तथा पीतैर्वस्त्रैश्च विविधैः शुभैः । ब्राह्मणीर्ब्राह्मणांश्चैव पूजयित्वा यथाविधि ॥ ११४.२४ ॥ पुष्पैर्नानाविधैश्चैव गन्धधूपैः सुशोभनैः । कण्ठे सूत्रं समाधाय कुङ्कुमेन विलेपयेत् ॥ ११४.२५ ॥ कल्पयित्वा स्त्रियं गौरीं ब्राह्मणं शिवरूपिणम् । ताभ्यां दद्यात्समादृत्य दानमुत्सृज्य वारिणा ॥ ११४.२६ ॥ कर्णवेष्टं त्वङ्गदं च काञ्चनीं मुद्रिकां तथा । सप्तधान्यं तथा देयं भोजनं नृपसत्तम ॥ ११४.२७ ॥ अन्यानि चैव दानानि तस्मिंस्तीर्थे नरोत्तम । सर्वदानैश्च यत्पुण्यं तत्पुण्यं त्रिगुणं भवेत् ॥ ११४.२८ ॥ तत्र साहस्रगुणितं नात्र कार्या विचारणा । शङ्करेण समं तत्र भुङ्क्ते भोगाननुत्तमान् ॥ ११४.२९ ॥ सौभाग्यं तस्य विपुलं जायते नात्र संशयः । अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ॥ ११४.३० ॥ कामदं तीर्थराजं तु नर्मदायां व्यवस्थितम् ॥ ११४.३१ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे सौभाग्यतीर्थमहिमानुवर्णनो नाम चतुर्दशाधिकशततमोऽध्यायः ॥ अध्याय ११५ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र भाण्डारं तीर्थमुत्तमम् । दारिद्र्यभेदकरणं पुरुषांश्चैकविंशतिम् ॥ ११५.१ ॥ धनदेन तपस्तप्तं प्रसन्नः पद्मसम्भवः । तत्रैव स्वस्वदानेन प्राप्तं वित्तमनन्तकम् ॥ ११५.२ ॥ तत्र गत्वा तु यो भक्त्या स्नात्वा वित्तं प्रयच्छति । तस्य वित्तपरिच्छेदो न भवेच्च कदाचन ॥ ११५.३ ॥ तस्यैवानन्तरं राजन् रोहिणीतीर्थमुत्तमम् । विख्यातं त्रिषु लोकेषु सर्वपापहरं परम् ॥ ११५.४ ॥ युधिष्ठिर उवाच - रोहिणीतीर्थमाहात्म्यं सर्वपापप्रणाशनम् । श्रोतुमिच्छामि तत्त्वेन तन्मे त्वं वक्तुमर्हसि ॥ ११५.५ ॥ मार्कण्डेय उवाच - तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे । तस्योदरे शयानस्य देवदेवस्य पाण्डव ॥ ११५.६ ॥ नाभ्यामभून्महत्पद्मं रविमण्डलसन्निभम् । कीर्णकाकेसरयुतं पत्रैश्च समलंकृतम् ॥ ११५.७ ॥ तत्र ब्रह्मा समुत्पन्नश्चतुर्वदनपङ्कजः । किं करोमीति देवेश चिन्त्यमानः स्वदेहतः ॥ ११५.८ ॥ भगवानभवत्तत्र मरीचिर्भरताधिप । मरीचेः कश्यपो जातः सर्वसृष्टिकरस्ततः ॥ ११५.९ ॥ दक्षस्यापि तदा जाताः पञ्चाशत्कन्यकास्तु वै । ददौ स दश धर्माय कश्यपाय त्रयोदश ॥ ११५.१० ॥ तथैव च पराः कन्याः सप्तविंशतिमिन्दवे । रोहिणी नाम या तासां मध्ये ताराधिपानना ॥ ११५.११ ॥ अभीष्टा सर्वनारीणां भर्तुश्चापि विशेषतः । पुनः सा निश्चयीभूता तपसे भो नराधिप ॥ ११५.१२ ॥ ततः सा नर्मदातीरे चचार विपुलं तपः । एकरात्रं द्विरात्रं च षड्द्वादश तथापरैः ॥ ११५.१३ ॥ पक्षमासोपवासैश्च कर्षयन्ती कलेवरम् । आराधयन्ती सततं महिषासुरमार्दिनीम् ॥ ११५.१४ ॥ स्नात्वा स्नात्वा जले नित्यं नर्मदायाः शुचिः स्मिता । ततस्तुष्टा महाभागा देवी नारायणी नृप ॥ ११५.१५ ॥ प्रसन्ना ते महाभागे व्रतेन नियमेन च । ददामि ते न सन्देहो वरं वृणु यथेप्सितम् ॥ ११५.१६ ॥ एवं श्रुत्वा तु वचनं रोहिणी शशिनः प्रिया । वरं वव्रे ततो देवीमिदं वचनमब्रवीत् ॥ ११५.१७ ॥ सर्वासां च सपत्नीनामधिका शशिनः प्रिया । यथा भवानि ह्यचिरात्त्वत्प्रसादात्तथा कुरु ॥ ११५.१८ ॥ एवमस्त्विति सा प्रोक्ता भवान्या भक्तितत्परैः । स्तूयमाना सुरगणैस्तत्रैवान्तरधीयत ॥ ११५.१९ ॥ तदा प्रभृति सा देवी रोहिणी शशिनः प्रिया । संजाता सर्वलोकस्य वल्लभा नृपसत्तम ॥ ११५.२० ॥ तत्र तीर्थे तु या नारी नरो वा स्नाति भक्तितः । वल्लभा भवते सा तु भर्तुर्वै रोहिणी यथा ॥ ११५.२१ ॥ तत्र तीर्थेषु यः कश्चित्प्राणत्यागं करोति च । सप्तजन्मनि तस्यैव वियोगो नैव जायते ॥ ११५.२२ ॥ मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र चक्रतीर्थमनुत्तमम् । सेनापुरेति विख्यातं सर्वपापक्षयकरम् ॥ ११५.२३ ॥ सैनापत्येऽभिषिक्तेन देवदेवेन चक्रिणा । अभिषिक्तो महासेनः स देवेन्द्रपुरोगमैः ॥ ११५.२४ ॥ दानवस्य वधार्थाय विजयाय दिवौकसाम् । भूमिदानेन विप्रेन्द्रांस्तर्पयित्वा यथा विधि ॥ ११५.२५ ॥ शङ्खभेरीनिनादेन पटहानां च निःस्वनैः । वीणाभिश्च मृदण्गैश्च झल्लरीकांस्यतालकैः ॥ ११५.२६ ॥ तच्छ्रुत्वा निनदं घोरं दानवो बलदर्पितः । सुराणामाविघातार्थमभिषेकस्य चाग्रतः ॥ ११५.२७ ॥ हस्त्यश्वरथपत्त्याद्यैः परिपूर्णो रवाकुलैः ॥ ११५.२८ ॥ ततस्तु तां रौद्रवस्य वाहिनीं शरैः सुशार्ङ्गोज्झितकैः सुतीक्ष्णैः । विध्वस्य हस्त्यश्वरथान्महात्मा चक्रं विमुक्तं मधुघातिना च ॥ ११५.२९ ॥ दृष्ट्वा तु भीषणं चक्रमभिव्याप्तं षडाननः । त्यक्त्वा तत्राप्यवस्थानं चकार विपुलं तपः ॥ ११५.३० ॥ चक्रं मुक्तं विनाशाय हरिणा लोकधारिणा । विह्वलां दाहयामास पपात विमले जले ॥ ११५.३१ ॥ निष्पापं तच्च संजातं नर्मदायाः प्रभावतः । प्रावृट्काले शुभे पक्षे द्वादश्यां चैव भारत ॥ ११५.३२ ॥ यश्च याति जितक्रोधश्चक्रतीर्थं हरिप्रियम् । सोऽपि पापैः प्रमुच्येत यमं घोरं न पश्यति ॥ ११५.३३ ॥ रात्रौ जागरणं कृत्वा दीपं देवस्य दापयेत् । कथां च वैष्णवीं तत्र देवदेवं समाहितः ॥ ११५.३४ ॥ भीमव्रतं च पाराकं कृच्छ्रं चान्द्रायणं तथा । व्रतं सान्तपनं देव त्रिरात्रव्रतकं भृशम् ॥ ११५.३५ ॥ तरेद्वैतरणीमन्ते भीमं चक्रमहर्निशम् । कूटशाल्मलिवृक्षांश्च कदाचिन्नैव पश्यति ॥ ११५.३६ ॥ एतत्ते कथितं सर्वं चक्रतीर्थस्य यत्फलम् ॥ ११५.३७ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे चक्रतीर्थमहिमानुवर्णनो नाम पञ्चदशाधिक शततमोऽध्यायः ॥ अध्याय ११६ मार्कण्डेय उवाच - धूमपातं ततो गच्छेन्महापातकनाशनम् । समीपे चक्रतीर्थस्या विष्णुना निर्मितं पुरा ॥ ११६.१ ॥ मेकलां परमां देवीमिमां त्रैलोक्यपावनीम् । कदाचित्पयसां राजा सान्तःपुरपरिच्छदः ॥ ११६.२ ॥ शिष्टैरिष्टैर्बन्धुभिश्च अर्घपात्रेण संयुतैः । हस्ताभरणसंयुक्तैः पुण्यैरमलकान्तिभिः ॥ ११६.३ ॥ चन्द्रमण्डलमानैश्च युक्तैर्मुक्ताफलैस्तथा । प्रवाललतिकाभिश्च इन्द्रनीलसमन्वितैः ॥ ११६.४ ॥ अर्घं ददौ तदा तस्यै वरुणः सरितां पतिः । गङ्गाद्याः सरितः सर्वास्तापी चापि पयोष्णिका ॥ ११६.५ ॥ नन्दिनी नलिनी पुण्या सर्वमर्घं ददुस्तदा । नर्मदोवाच - मदीये सङ्गमे दिव्ये स्नात्वा सन्तर्पयन्ति ये ॥ ११६.६ ॥ तस्य सप्तकुलोत्पन्नांस्तारयामि न संशयः । जलाञ्जलिं ततो दत्त्वा समुद्रो वाक्यमब्रवीत् ॥ ११६.७ ॥ धन्योऽहं कृतकृत्योऽहं त्वया देवि वरानने । समायातासि भद्रं ते मां चात्र पावनं कुरु ॥ ११६.८ ॥ नर्मदोवाच - पवित्रोऽसि महाभाग एकाकी त्वं महोदधे । मार्कण्डेय उवाच - एवं भगवती राजन्नर्मदा मेकला शुभा ॥ ११६.९ ॥ पूजिता सागरेणापि शुभे सिंहासने स्थिता । पाणिग्रहं गृहीता सा पुरुकुत्सेन भारत ॥ ११६.१० ॥ पुरुकुत्सस्य भार्या सा गृहधर्मेण संयुता । सदा वै वर्तते राजंस्तत्रैव सङ्गमे शुभे ॥ ११६.११ ॥ पुष्पवृष्टिस्तदा ह्यासीत्त्रिदशानां महोत्सवे । तत्र स्वयंवरश्चासीत्सरितः पृथिवीपते ॥ ११६.१२ ॥ तत्र यः कुरुते श्राद्धं स्थानं च पितृतर्पणम् । लक्षयज्ञफलं प्राप्य स मुक्तो नात्र संशयः ॥ ११६.१३ ॥ एवं त्रैलोक्यपूज्या ते नर्मदा लोकपावनी । तस्या माहात्म्यमतुलं कीर्तितं हि महाभुज ॥ ११६.१४ ॥ भक्त्या श्रुत्वा महाभाग रुद्रलोके महीयते । आदिमध्यावसानेषु रेवामाहात्म्यमुत्तमम् ॥ ११६.१५ ॥ यः कश्चिच्छृणुयाद्भक्त्या तस्य स्याद्वाञ्छितं फलम् । श्रुत्वा माहात्म्यमतुलं यो नरो हि जितेन्द्रियः ॥ ११६.१६ ॥ दानं कुर्यात्तदा तस्य सर्वकामार्थसिद्धयः । पुस्तकं पूजयित्वा तु धूपदीपकचन्दनैः ॥ ११६.१७ ॥ दानं तत्र प्रकर्तव्यं ब्राह्मणांश्चापि पूजयेत् । श्रवणेन तु दानेन सुप्रीता नर्मदा भवेत् ॥ ११६.१८ ॥ तीर्थे तीर्थे च कथितं तत्पूर्वं पाण्डुनन्दन । पुण्यं श्रुत्वा तु माहात्म्यं तद्दानेनैव पाण्डव ॥ ११६.१९ ॥ एतस्मात्कारणाद्दानं श्रुत्वा दानं हि कारणम् । तच्छ्रुत्वा राजशार्दूलो मार्कण्डेयस्य भाषितम् ॥ ११६.२० ॥ अर्घं दत्त्वा यथान्यायं पूजयित्वा ऋषीन् सदा । अश्वैर्गजैस्तथा रथैर्भ्रातृभिः सह धर्मराट् ॥ ११६.२१ ॥ तीर्थयात्रां चकाराशु नर्मदायां युधिष्ठिर । उत्तरे दक्षिणे तीरे स्नानपानावगाहनम् ॥ ११६.२२ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे युधिष्ठिरमार्कण्डेयसंवादे नर्मदाचरित्रवर्णनो नाम षोडशाधिकशततमोऽध्यायः ॥ इति श्रीस्कन्दपुराणस्य रेवाखण्डः ॥