ऋषय ऊचुः कथं सनत्कुमारस्तु नारदाय महात्मने । प्रोक्तवान्सकलान्धर्मान्कथं तौ मिलितावुभौ ॥ १,२.१ ॥ कस्मिन्स्थाने स्थितौ सूत तावुभौ ब्रह्मवादिनौ । हरिगीतसमुद्गाने चक्रतुस्तद्वदस्व नः ॥ १,२.२ ॥ सूत उवाच सनकाद्या महात्मानो ब्रह्मणो मानसाः सुताः । निर्ममा निरहंकाराः सर्वे ते ह्यूध्वरेतसः ॥ १,२.३ ॥ तेषां नामानि वक्ष्यामि समकश्च सनन्दनः । सनस्फुमारश्च विभुः सनातम इति स्मृतः ॥ १,२.४ ॥ विष्णुभक्ता महात्मानो ब्रह्मध्यानपरायणाः । सहस्रसूर्यसंकाशाः सत्यसन्धा मुमुक्षवः ॥ १,२. ५॥ एकदा मेरुशृङ्गं ते प्रस्थिता ब्रह्मणः सभाम् । इष्टं मार्गेऽथ ददृशुः गङ्गां विष्णिपदीं द्विजाः ॥ १,२.६ ॥ तां निरीक्ष्य समुद्युक्ताः स्त्रातुं सीताजलेऽभवन् । एतस्मिन्नन्तरे तत्र देवर्षिर्नारदो मुनिः ॥ १,२.७ ॥ आजगाम द्विजश्रेष्ठा दृष्ट्वा भ्रान्तॄन्स्वकाग्रजान् । तान्दृष्ट्वा स्त्रातुमुद्युक्तान्नमस्कृत्य कृताञ्जितिः ॥ १,२.८ ॥ गुणन्नामानि सप्रेमभक्तियुक्तो मधुद्विषः । नारायणाच्युतानन्त वासुदेव जनार्दन ॥ १,२.९ ॥ यज्ञेश यज्ञपुरुष कृष्ण विष्णो नमोऽस्तु ते । पद्माक्ष कमलाकान्त गङ्गाजनक केशव । क्षिरोदशायिन्देवेश दामोदर नमोऽस्तु ते ॥ १,२.१० ॥ श्रीराम विष्णो नरसिंह वामन प्रद्युम्नसंकर्पण वात्पदेव । अजानिरुद्धामलरुङ्मुरारं त्वं पाहि नः सर्वभयादजस्त्रम् ॥ १,२.११ ॥ इत्युच्च रन्हरेर्नाम नत्वा तान्स्वाग्रजान्मुनीन् । उपासीनश्च तैः सार्द्धं सस्नौ प्रीतिसमन्वितः ॥ १,२.१२ ॥ ते षां चापि तु सीताया जले लोकमलाप हे । स्त्रात्वा संतर्त्य देवर्षिपितन्विगतकल्मषाः ॥ १,२.१३ ॥ उत्तीर्य्य संध्योपास्त्यादि कृत्वाचारं स्वकं द्विजाः । कथां प्रचक्रुर्विविधाः नारायण गुणाश्रिताः ॥ १,२.१४ ॥ कृतत्रियेषु मुनिषु गङ्गातीरे मनोरमे । चकारनारदः प्रश्नं नानाख्यानकयान्तरे ॥ १,२.१५ ॥ नारद उवाच सर्वज्ञाः स्थ मुनिश्रेष्ठाः भगवद्भक्तितत्पराः । यूयं सर्वे जगन्नाथा भगवन्तः सनातनाः ॥ १,२.१६ ॥ लोकोद्धारपरान्युष्मान्दीनेषु कृतसौहृदान् । पृच्छे ततो वदत मे भगवल्लक्षणं बुधाः ॥ १,२.१७ ॥ येनेदमखिलं जातं जगत्स्थावरजङ्गमम् । गङ्गापादोदकं यस्य स कथं ज्ञायते हरिः ॥ १,२.१८ ॥ कथं च त्रिविधं कर्म सफलं जायते नृणाम् ॥ ज्ञानस्य लक्षण ब्रूत तपसश्चापि मानदाः ॥ १,२.१९ ॥ अतिथेः पूजनं वापि येन विष्णुः प्रसीदति । एवमादीनि गुह्यानि हरितुष्टिकराणि च । अनुगृह्य च मां नाथास्तत्त्वतो वक्तुमर्हथ ॥ १,२. २० ॥ शौनक उवाच नमः पराय देवाय परस्मात्परमात्र च । परावर निवासाय सगुणायागुणाय च ॥ १,२.२१ ॥ अमायायात्मसंज्ञाय माचिने विश्वरुपिणे । योगीश्वराय योगाय योगगम्याय विष्णवे ॥ १,२.२२ ॥ ज्ञानाय ज्ञानगम्याय सर्वज्ञानैकहेतवे । ज्ञाचेश्वराय ज्ञेयाय ज्ञात्रे विज्ञानसंपदे ॥ १,२.२३ ॥ ध्यानाय ध्यानगम्याय ध्यातृपातहराय च । ध्यानेश्वराय सुधियेध्येयध्यातृस्वरुपिणे ॥ १,२.२४ ॥ आदित्यवचन्द्राग्निविधातृदेवाः सिद्धाश्च यक्षासुरनागसङ्घाः । यच्छक्तियुक्तास्तमजं पुराणं सत्यं स्तुतीशं सततं नतोऽस्मि ॥ १,२.२५ ॥ यो ब्रह्मरुपी जगतां विधाता स एव पाता द्विजविष्णुरुपी । कल्पान्तरुद्राख्यतमुः स देवः शेतेंऽघ्रिपानस्तमजं भजामि ॥ १,२.२६ ॥ यन्नामसंकीर्त्तनतो गजेन्द्रो ग्राहोग्रबन्धान्मुमुचे स देवः । विराजमानः स्वपदे पराख्ये तं विष्णुमाद्यं शरणं प्रपद्ये ॥ १,२.२७ ॥ शिवस्वरुपी शिवभक्ति भाजां यो विष्णुरुपी हरिभावितानाम् । संकल्पपूर्वात्मकदेहहेतुस्तंस्तमेव नित्यं शरणं प्रपद्ये ॥ १,२.२८ ॥ यः केशिहन्ता नरकान्तकश्च बालो भुजाग्रेण दधार गोत्रम् । देवं च भूमारविनोदशीलं तं वासुदेवं सततं नतोऽस्मि ॥ १,२.२९ ॥ लेभेऽवतीर्योग्रनृसिंहरुपीयोदैत्यवक्षः कठिनं शिलावत् । विदार्यसंराक्षितवान्स्वभक्तं प्रह्लादमीशं तमजं मनामि ॥ १,२.३० ॥ व्योमादिभिर्मूषितमात्मसंज्ञं निरञ्जनं नित्यममेयतत्त्वम् । जगद्विधातारमकर्मकं च परं पुराणं पुरुषम नतोऽस्मि ॥ १,२.३१ ॥ ब्रह्मेन्द्ररुद्रानिलवायुमर्त्यगन्धर्वयक्षासुरदेवसंघैः । स्वमूर्तिभेदैः स्थित एक ईशस्तमादिमात्मा नमहं भजामि ॥ १,२.३२ ॥ यतो भिन्नमिदं सर्वं समुद्भूतं स्थितं च वै । यस्मिन्नेष्यति पश्चाच्च तमस्ति शरणं गतः ॥ १,२.३३ ॥ यः स्थितो विश्वरुपेण सङ्गीवात्र प्रतीयते । असङ्गी परिपूर्णश्च तमस्मि शरणं गतः ॥ १,२.३४ ॥ हृदि स्थितोऽपि यो देवो मायया मोहितात्मनाम् । न ज्ञायते परः शुद्धस्तमस्मि शरणं गतः ॥ १,२.३५ ॥ सर्वसंगनिवृत्तानां ध्यानयोगरतात्मनाम् । सर्वत्र भाति ज्ञानात्मा तमस्मि शरणं गतः ॥ १,२.३६ ॥ दधार मन्दारं पृष्टे निरोदेऽमृतमन्थने । देवतानां हितार्थाय तं कूर्मं शरणं गतः ॥ १,२.३७ ॥ द्रष्ट्राङ्कुरेण योऽनन्तः समुद्धृत्यार्णवाद्धराम् । तस्थाविदं जगत्कृत्स्नं वाराहं तं नतोऽस्म्यहम् ॥ १,२.३८ ॥ प्रह्लादं गोपयन्दैत्यं शिलातिकठिनोरसम् । विदार्य हतवान्यो हि तं नृसिंहं नतोऽस्म्यहम् ॥ १,२.३९ ॥ लब्ध्वा वैरोचनेर्भूमिं द्वाभ्यां पद्भ्यामतीत्य यः । आब्रह्मभुवनं पादात्सुरेभ्यस्तं नतोऽजितम् ॥ १,२.४० ॥ हैहयस्यापराधेन ह्येकविंशतिसंख्यया । क्षत्रियान्वयभेत्ता यो जामदग्न्यं नतोऽस्मि तम् ॥ १,२.४१ ॥ आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः । हतवान्राक्षसानीकं रामचन्द्रं नतोऽस्म्यहम् ॥ १,२.४२ ॥ मूर्तिद्वयं समाश्रित्य भूभारमपहृत्य च । संजहार कुलं स्वं यस्तं श्रीकृष्णप्यहं भजे ॥ १,२.४३ ॥ भूम्यादिलोकत्रितयं संतृत्पात्मानमात्मनि । पश्यन्ति निर्मलं शुद्धं तमीशानं भजाम्यहम् ॥ १,२.४४ ॥ युगान्ते पापिनो शुद्धान्भित्त्वा तीक्ष्णसुधारया । स्थापयामास यो धर्मं कृतादौ तन्नमाम्यहम् ॥ १,२.४५ ॥ एवमादीन्यनेकानि यस्य रुपाणि पाण्डवाः । न शक्यं तेन संख्यातुं कोट्यब्दैरपि तं भजे ॥ १,२.४६ ॥ महिमानं तु यन्नाम्नः परं गन्तुं मुनीश्वराः । देवासुराश्च मनवः कथं तं श्रुल्लको भजे ॥ १,२.४७ ॥ यन्नामश्रवणेनापि महापातकिनो नराः । पवित्रतां प्रपद्यन्ते त कथं स्तौमि चाल्पधीः ॥ १,२.४८ ॥ यथाकथञ्चिद्यन्नम्नि कीर्तिते वा श्रुतेऽपि वा । पापिनस्तु विशुद्धाः स्युः शद्धा मोक्षमवान्पुयुः ॥ १,२.४९ ॥ आत्मन्यात्मानमाधाय योगिनो गतकल्मशाः । पश्यन्ति यं ज्ञानरुपं तमस्मि शरणं गतः ॥ १,२.५० ॥ साङ्ख्याः सर्वेषु पश्यन्ति परिपूरणान्तकं हरिम् । तमादिदेवमजरं ज्ञानरुपं भजाम्यहम् ॥ १,२.५१ ॥ सर्वसत्त्वमयं शान्तं सर्वद्रष्टारमीश्वरम् । सहस्रशीर्षकं देवं वन्दे भावात्मकं हरिम् ॥ १,२.५२ ॥ यद्भूतं यच्च वै भाव्यं स्थावरं जङ्गमं जगत् । दशाङ्गुलं योऽत्स्यतिष्टत्तमीशमजरं भदे ॥ १,२.५३ ॥ अणोरणीयांसमजं महतश्च महत्तरम् । गुह्याद्गुह्यतमं देवं प्रणमामि पुनः पुनः ॥ १,२.५४ ॥ ध्यातः स्मृतः पूजितो वा शृतः प्रणमितोऽपि वा । स्वपदं यो ददातीशस्तं वन्दे पुरुषोत्तमम् ॥ १,२.५५ ॥ इति स्तुवन्तं परमं पेरेशं हर्षाम्बुसंरुद्धविलोचनास्ते । मुनीश्वरा नारदसंयुतास्तु सनन्दनाद्याः प्रपुदं प्रजग्मुः ॥ १,२.५६ ॥ य इदं प्रातरुत्याय पाठेद्वै पौरुपं स्तवम् । सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥ १,२.५७ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सनत्कुमारनारदसंवादे नारदकृतविष्णुस्तुतिर्नाम द्वितीयोध्यायः _____________________________________________________________ नारद उवाच कथं ससर्ज ब्रह्मादीनादिदेवः पुरा विभुः । तन्ममाख्याहि सनक सर्वज्ञोऽस्ति यतो भवान् ॥ १,३.१ ॥ श्रीसनक उवाचा नारायणोऽक्षरोऽनन्तः सर्वव्यापी निरञ्जनः । तेनेदमखिलं व्यात्पं जगत्स्थावरजङ्गमम् ॥ १,३.२ ॥ आदिसर्गे महाविष्णुः स्वप्रकाशो जगन्मयः । गुणभेदमधिष्ठाय मूर्त्तित्रिकमवासृजत् ॥ १,३.३ ॥ सृष्ट्यर्थं तु पुरा देवो दक्षिणाङ्गात्प्रजापतिम् । मध्येरुद्राख्यमीथानं जगदन्तकरं मुने ॥ १,३.४ ॥ पालनायास्य जगतो वामाङ्गाद्विष्णुमव्ययम् । तमादिदेवमजरं केचिदाहुः शिवाभिधम् । केचिद्विष्णुं सदा सत्यं ब्रह्माणं केचिदूचिरे ॥ १,३.५ ॥ तस्य शक्तिः परा विष्णोर्जगत्कार्यप्रवर्तिनी । भावाभावस्वरुपा सा विद्याविद्येति गीयते ॥ १,३.६ ॥ यदा विश्वं महाविष्णोर्भिन्नत्वेन प्रतीयते । तदा ह्यविद्या संसिद्धा भवेद्दुःखस्य साधनम् ॥ १,३.७ ॥ ज्ञातृज्ञेयाद्युपाधिस्ते यदा नश्यति नारद । सर्वैकभावना बुद्धिः सा विद्येत्यभिधीयते ॥ १,३.८ ॥ एषं माया महाविष्णोर्भिन्ना संसारदायिनी । अभेदबुद्ध्या दृष्टा चेत्संसारक्षयकारिणी ॥ १,३.९ ॥ विष्णुशक्तिसमुद्भूतमेतत्सर्वं वराचंम् । यस्माद्भिन्नमिदं सर्वं यच्चेङ्गेद्यच्चनेङ्गति ॥ १,३.१० ॥ उपाधिभिर्यथाकाशो भिन्नत्वेन प्रतीयते । अविद्योपाधियोगेनतथेदमखिलं जगत् ॥ १,३.११ ॥ यथा हरिर्जगद्यापी तस्य शक्तिस्तथा मुने । दाहशक्तिर्यथाङ्गारे स्वाश्रयं व्याप्य तिष्टति ॥ १,३.१२ ॥ उमेति केचिदाहुस्तां शक्तिं लक्ष्मीं तथा परे । भारतीत्यपरे चैनां गिरिजेत्यम्बिकेति च ॥ १,३.१३ ॥ दुर्गेति भद्रकालीति चण्डी माहेश्वरीत्यपि । कौमारी वैष्णवी चेति वाराह्येन्द्री च शाम्भवी ॥ १,३.१४ ॥ ब्राह्मीति विद्याविद्येति मायेति च तथा परे । प्रकृतिश्च परा चेति वदन्ति परमर्षस्यः ॥ १,३.१५ ॥ शेषशक्तिः परा विष्णोर्जगत्सर्गादिकारिणी । व्यक्ताव्यक्तस्वरुपेण जगह्याप्य व्यवस्थिता ॥ १,३.१६ ॥ प्रकृतिश्चपुमांश्चैव कालश्चेति विधिस्थितिः । सृष्टिस्थितिविनाशानामेकः कारणतां गतः ॥ १,३.१७ ॥ येनेदमखिलं जातं ब्रह्मरुपधरेण वै । तस्मात्परतरो देवो नित्यैत्यभिधीयते ॥ १,३.१८ ॥ रक्षां करोति यो देवो नित्य इत्यभिधीयते । रक्षां करोति यो देवो जगतां परतः पुमान् ॥ १,३.१९ ॥ तस्मात्परतरं यत्तदव्ययं परमं पदम् ॥ १,३.२० ॥ अक्षरो निर्गुणः शुद्धः परिपूर्णः सनातनः । यः परः कालपुपाख्यो योगिध्येयः परात्परः ॥ १,३.२१ ॥ परमात्मा परानन्दः सर्वोपाधिविवर्जितः । ज्ञानैकवेद्यः परमः सञ्चिदानन्दविग्रहः ॥ १,३.२२ ॥ योऽसौ शुद्धोऽपि परमो ह्यहॄङ्कारेण संयुतः । देहीति प्रोच्यते मूढैरहोऽज्ञानविडम्बनम् ॥ १,३.२३ ॥ स देवः परमः शुद्धः सत्त्वदिगुणभेदतः । मूर्तित्रयं समापन्नः सृष्टिस्थित्यन्तकारणम् ॥ १,३.२४ ॥ योऽसौ ब्रह्मा जगत्कर्ता यन्नाभिकमलोद्भवः । स एवानन्दरुपात्मा तस्मान्नास्त्यपरो मुने ॥ १,३.२५ ॥ अन्तर्यामी जगद्यापी सर्वसाक्षी निरञ्जनः । भिन्नाभिन्नस्वरुपेण स्थितो वै परमेश्वरः ॥ १,३.२६ ॥ यस्य शक्तिर्महामाया जगद्विस्त्रम्भधारिणी । विश्वोत्पत्तेर्निदानत्वात्प्रकृतिः प्रोच्यते बुधैः ॥ १,३.२७ ॥ आदिसर्गे महाविष्णोर्लोकान्कर्त्तुं समुद्यतः । प्रकृतिः पुरुषश्चेति कालश्चेति त्रिधा भवेत् ॥ १,३.२८ ॥ पश्यन्ति भावितात्मानो यं ब्रह्मत्यभिसंज्ञितम् । शुद्धं यत्परमं धाम तद्विष्णोः परमं पदम् ॥ १,३.२९ ॥ एवं शुद्धोऽक्षरोऽनन्तः कालरुपी महेश्वरः । गुणरुपीगुणाधारोजगतामादिकृद्विभुः ॥ १,३.३० ॥ प्रतृतिः क्षोभमापन्ना पुरुषाख्ये जगद्गुरौ । महान्प्रादुरभूद्धुद्धिस्ततोऽहं समवर्त्तत ॥ १,३.३१ ॥ अहॄङ्काराश्च सूक्ष्माणि तन्मात्राणीन्द्रियाणि च । तन्मात्रेभ्यो हि जातानि भूतानि जगतः कृते ॥ १,३.३२ ॥ आकाशवाय्यग्रिजलभूमयोऽब्जभावात्मज । यथाक्रमं कारणतामेकैकस्योपयान्ति च ॥ १,३.३३ ॥ ततो ब्रह्मा जगद्धाता तामसानसृजत्प्रभुः । तिर्यग्योनिगताञ्जन्तून्पशुपक्षिमृगादिकान् ॥ १,३.३४ ॥ तमप्यसाधकं मत्वा देवसर्गं सनातनात् । ततो वैमानुषं सर्गं कल्पयामास पह्मजः ॥ १,३.३५ ॥ ततो दक्षादिकान्पुत्रान्सृष्टिसाधनतत्परान् । एभिः पुत्रैरिदं व्याप्तं सदेवासुरमानुषम् ॥ १,३.३६ ॥ भुर्भुवश्च तथा स्वश्च महश्वैव जनस्तथा । तपश्च सत्यमित्येवं लोकाः सत्योपरि स्थिताः ॥ १,३.३७ ॥ अतलं वितलं चैव सुतलं च तलातलम् । महातलं च विप्रेन्द्र ततोऽधच्च रसातलम् ॥ १,३.३८ ॥ पातालं चेति सप्तैव पातालानि क्रमादधः । एष सर्वेषु लोकेषु लोकनाथांश्च सृष्टवान् ॥ १,३.३९ ॥ कुलाचलान्नदीश्चासौ तत्तल्लोकनिवासिनाम् । वर्त्तनादीनि सर्वाणि यथायोग्यंमकल्पयत् ॥ १,३.४० ॥ भूतले मध्यगो मेरुः सर्वदेवसमाश्रयः । लोकालोकश्च भूम्यन्ते तन्मध्ये सत्प सागराः ॥ १,३.४१ ॥ द्वीपाश्च सत्प विप्रेन्द्र द्वीपे कुलाचलाः । बाह्या नद्यश्च विख्याता जनाश्चामरसन्निभाः ॥ १,३.४२ ॥ जम्बूप्लक्षाभिधानौ च शाल्मलश्च कुशस्तथा । क्रौञ्चशाकौ पुष्करश्च ते सर्वे देवभूमयः ॥ १,३.४३ ॥ एते द्वीपाः समुद्रैस्तु सत्पसत्पभिरावृताः । लवणेक्षुसुरासर्पिर्दधिक्षीरजलैः समम् ॥ १,३.४४ ॥ एते द्वीपाः समुद्राश्च पूर्वस्मादुत्तरेराः । ज्ञेया द्विगुणविस्तरा लोकालोकाञ्च पर्वतात् ॥ १,३.४५ ॥ क्षारोदधेरुपत्तरं यद्धि माद्रेश्चैव दक्षिणाम् । ज्ञेयं तद्भारतं वर्षं सर्वकर्मफलप्रदम् ॥ १,३.४६ ॥ अत्र कर्माणि कुर्वन्ति त्रिविधानि तु नारद । तत्फलं भुज्यते चैव भोगभूमिधनक्रमात् ॥ १,३.४७ ॥ भारते तु कृतं कर्म शुभं वाशुभमेव च । तत्फलं क्षयि विप्रेन्द्र भुज्यतेऽन्यत्रजन्तुभिः ॥ १,३.४८ ॥ अद्यापि देवा इच्छन्ति जन्म भारतभूतले । संचितं सुमहत्पुण्यमक्षय्यममलं शुभम् ॥ १,३.४९ ॥ कदा लभामहे जन्म वर्षभारतभूमिषु । कदा पुण्येन महता यास्याम परमं पदम् ॥ १,३.५० ॥ दानैर्वाविविधैर्यज्ञैस्तपोभिर्वाथवा हरिम् । जगदीशंसमेष्यामो नित्यानन्दमनामयम् ॥ १,३.५१ ॥ यो भारतभुवं प्राप्य विष्णुपूजापरो भवेत् । न तस्य सदृशोऽन्योऽस्ति त्रिषु लोकेषु नारदा ॥ १,३.५२ ॥ हरिकीर्तनशीलो वा तद्भक्तानां पियोऽपि वा । शुक्षषुर्वापि महतः सवेद्यो दिविजैरपि ॥ १,३.५३ ॥ हरिपूजारतो नित्यं भक्तः पूजास्तोऽषि वा । भक्तोच्छिष्टान्नसेवी च याति विष्णोः परं पदम् ॥ १,३.५४ ॥ नारायणेति कृष्णेति वासुदेवेति यो वदेत् । अहिंसादिपरः शन्तिः सोऽपि वन्द्यः सुरोत्तमैः ॥ १,३.५५ ॥ शिवेति नीलकण्ठेति शङ्करेतिच यः स्मरेत् । सर्वभूतहितो नित्यं सोऽभ्यर्च्यो दिविजैः स्मृतः ॥ १,३.५६ ॥ गुरुभक्तः शिवध्यानी स्वाश्रमाचारतत्परः । अनसूयुःशुचिर्दक्षो यः सोऽप्यर्च्यःसुरेश्वरैः ॥ १,३.५७ ॥ ब्राह्मणानां हितकरः श्रध्दावान्वर्णधर्मयोः । वेदवादरतो नित्यं स ज्ञेयः पङ्किपावनः ॥ १,३.५८ ॥ अभेददर्शी देवेशे नारायणशिवात्मके । सर्वं यो ब्रह्मण नित्यमस्मदादिषु का कथा ॥ १,३.५९ ॥ गोषु क्षान्तो ब्रह्मचारी परनिन्दाविवर्जितः । अपरिग्रहशी लश्च देवपूज्यः स नारद ॥ १,३.६० ॥ स्तेयादिदोषविमुखः कृतज्ञः सत्यवाक्शुचिः । परोपकारनिरतः पूजनीयः सुरासुरैः ॥ १,३.६१ ॥ वेदार्थश्रवणे बुद्धिः पुराणश्रवणे तथा । सत्संगेऽपि च यस्यास्ति सोऽपि वन्द्यः सुरोत्तमैः ॥ १,३.६२ ॥ एवमादीन्यनेकानि कर्माणि श्रद्धयान्वितः । करोति भारते वर्षे संबन्धोऽस्माभिरेव च ॥ १,३.६३ ॥ एतेष्वन्यतमो विप्रमात्मानं नारभेत्तु यः । स एव दुष्कृतिर्मूढो नास्त्यन्योऽस्मादचेतनः ॥ १,३.६४ ॥ संप्राप्य भारते जन्म सत्कर्म सुपराङ्मुखः । पीयूषकलशं सुक्त्वा विषभाण्डमुपाश्रितः ॥ १,३.६५ ॥ श्रुतिस्मृत्युदितैर्द्धर्मैर्नात्मानं पावयेत्तु यः । स एवात्मविधाती स्यात्पापिनामग्रणीर्मुने ॥ १,३.६६ ॥ कर्मभूमिं समासाद्य यो न धर्मं समाचरेत् । स च सर्वाधमः प्रोक्तो वेदविद्भिर्मुनीश्वर ॥ १,३.६७ ॥ शुभं कर्म समुत्सृज्य दुष्कर्माणि करोति यः । कामधेनुं परित्यज्य अर्कक्षीरं सं मार्गति ॥ १,३.६८ ॥ एवं भारतभूभागं प्रशंसन्ति दिवौकसः । ब्रह्माद्या अपि विप्रेन्द्र स्वभोगक्षयभीरवः ॥ १,३.६९ ॥ तस्मात्पुण्यतमं ज्ञेयं भारतं वर्षमुत्तमम् । देवानां दुर्लभं वापि सर्वकर्मफलप्रदम् ॥ १,३.७० ॥ अस्मिन्पुण्ये च भूभागे यस्तु सत्कर्मसूद्यतः । न तस्य सदृशं कश्चित्रिषु विद्यते ॥ १,३.७१ ॥ अस्मिञ्जातो नरो यस्तु स्वङ्कर्मक्षपणोद्यतः । नररुपपरिच्छन्नः स हरिर्नात्र संशयः ॥ १,३.७२ ॥ परं लोकफलं प्रेप्सुः किर्यात्कर्माण्यतन्द्रितः । निवेद्य हरये भक्त्या तत्फलं ह्यक्षयं स्मृतम् ॥ १,३.७३ ॥ विरागी चेत्कर्मफलेष्वपि किञ्चित्र कारयेत् । अर्पयेत्सुकृतं कर्म प्रीयतामितिं मे हरिः ॥ १,३.७४ ॥ आब्रह्मभुवनाल्लोकाः पुनरुत्पत्तिदायकाः । फलागृध्नुः कर्मणां तत्प्रात्प्रोति परमं पदम् ॥ १,३.७५ ॥ वेदोदितानि कर्माणि कुर्यादीश्वरतुष्टये । यथाश्रमं त्यक्तुकामः प्रान्पोति पदमव्ययम् ॥ १,३.७६ ॥ निष्कामो वा सकामो वा कुर्यात्कर्म यथाविधि । स्वाश्रमाचारशून्यश्च पतितः प्रोच्यते बुधैः ॥ १,३.७७ ॥ सदाचारपरो विप्रो वर्द्धते ब्रह्मतेजसा । तस्य विष्णुश्च तुष्टः स्याद्भक्तियुक्तस्य नारद ॥ १,३.७८ ॥ भारते जन्म संप्राप्य नात्मानं तारयेतु यः । पच्यते निरये धोरे स त्वाचन्द्राक्रतारकम् ॥ १,३.७९ ॥ वासदेवपरो धर्मो वासुदेवपरं तपः । वासुदेवपरं ज्ञानं वासुदेवपरा गतिः ॥ १,३.८० ॥ वासुदेवात्मकं सर्वं जगत्स्थावरजङ्गमम् । आब्रह्मस्तम्बपर्यन्तं तस्मादन्यत्र विद्यते ॥ १,३.८१ ॥ स एव धाता त्रिपुरान्तकश्च स एव देवासुरयज्ञरुपः । स एवब्रह्माण्डमिदं ततोऽन्यन्न किञ्चिदस्ति व्यतिरिक्तरुपम् ॥ १,३.८२ ॥ अस्मात्परं नापरमस्ति किञ्चिद्यस्मादणीयान्नतथा महीयान् । व्यात्पं हि तेनेदमिदं विचित्रं तं देवदेवं प्रणमेत्समीङ्यम् ॥ १,३.८३ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सृष्टिभरतखण्डप्राशस्त्यभूगोलानां वर्णनं नाम तृतीयोऽध्यायः _____________________________________________________________ सनक उवाच श्रद्धापूर्वाः सर्वधर्मा मनोरथफलप्रदाः । श्रद्धयासाध्यते सर्वं श्रद्धया तुष्यते हरिः ॥ १,४.१ ॥ भक्तिर्भक्त्यैव कर्त्तव्यातथा कर्माणि भक्तितः । कर्मश्चद्धाविहीनानि न सिध्यन्तिं द्विजो तमाः ॥ १,४.२ ॥ यथाऽलोको हि जन्तूनां चेष्टाकारणतां गतः । तथैव सर्वसिद्धीनां भक्तिः परमकारणम् ॥ १,४.३ ॥ यथा समस्त लोकानां जीवनं सलिलं स्मृतम् । तथा समस्तसिद्धीनां जीवनं भक्तिरिष्यते ॥ १,४.४ ॥ यथा भूमिं समाश्रित्य सर्वे जीवन्ति जन्तवः । तथा भक्तिं समाश्रित्य सर्वकार्य्याणि साधयेत् ॥ १,४.५ ॥ श्रद्धावांल्लभते धर्ंमं श्रद्धावातर्थमाप्नुयात् । श्रद्धया साध्यते कामः श्रद्धावान्मोक्षमान्पुयात् ॥ १,४.६ ॥ न दानैर्न तपोभिर्वा यज्ञैर्वा बहुदक्षिणैः । भक्तिहीनेर्मुनिश्चेष्ठ तुष्यते भगवान्हरिः ॥ १,४.७ ॥ मेरुमात्रसुवर्णानां कोटिकोटिसहस्रशः । दत्ता चाप्यर्थनाशाय यतोभक्तिविवर्जिता ॥ १,४.८ ॥ अभक्त्या यत्तपस्तप्तैः केवलं कायशोषणम् । अभक्त्या यद्धुतं हव्यं भस्मनि न्यस्तहव्यवत् ॥ १,४.९ ॥ यत्किञ्चित्कुरुते कर्ंमश्रद्धयाप्यणुमात्रुमात्रकम् ।. तन्नाम जायते पुंसां शाश्वतं प्रतीदायकम् ॥ १,४.१० ॥ अश्वमेघसहस्रं वा कर्ंम वेदोदितं कृतम् । तत्सर्वं निष्फलं ब्रह्मन्यदि भक्तिविवर्जितम् ॥ १,४.११ ॥ हरिभक्तिः परा नॄणां कामधेनूपमा स्मृता । तस्यां सत्यां पिबन्त्यज्ञाः संसारगरलं ह्यहो ॥ १,४.१२ ॥ असारभूते संसारे सारमेतदजात्मज । भगवद्भक्तसङ्गश्च हरिभक्तिस्तितिक्षुता ॥ १,४.१३ ॥ असूयोपेतमनसां भक्तिदानादिकर्ंम यत् । अवेहि निष्फलं ब्रहंस्तेषां दूरतरो हरिः ॥ १,४.१४ ॥ परिश्रियाभितत्पानां दम्भाचाररतात्मनाम् । मृषा तु कुर्वतां कर्म तेषां दूरतरो हरिः ॥ १,४.१५ ॥ पृच्छतां च महाधर्ंमान्वदतां वै मृषा च तान् । धर्मेष्वभक्तिमनसां तेषां दूरतरो हरिः ॥ १,४.१६ ॥ वेदप्रणिहितो धर्ंमो धर्ंमो वेदो नारायणः परः । तत्राश्रद्धापरा ये तु तेषां दूरतरो हरिः ॥ १,४.१७ ॥ यस्य धर्ंमविहीनानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ १,४.१८ ॥ धर्मार्थकाममोक्षाख्याः पुरुषार्थाः सनातनाः । श्रद्धावतां हि सिध्यन्ति नान्यथा ब्रह्मनन्दना ॥ १,४.१९ ॥ स्वाचारमनतिक्रम्य हरिभक्तिपरो हि यः । स याति विष्णुभवनं यद्वै पश्यन्ति सूरयः ॥ १,४.२० ॥ कुर्वन्वेदोदितान्धर्ंमान्मुनीन्द्र स्वाश्रमोचितान् । हरिध्यानपरोयस्तु स याति परमं पदम् ॥ १,४.२१ ॥ आचारप्रभवो धर्मः धर्ंमस्य प्रभुरच्युतः । आश्रमाचारयुक्तेन पूजितः सर्वदा हरिः ॥ १,४.२२ ॥ यः स्वाचारपरिभ्रष्टः साङ्गवेदान्तगोऽपि वा । स एव पतितो ज्ञेयो यतः कर्मबहिष्कृतः ॥ १,४.२३ ॥ हरिभक्तिपरि वापि हरिध्यानपरोऽपि वा । भ्रष्टो यः स्वाश्रमाचारात्पतितः सोऽभिधीयते ॥ १,४.२४ ॥ वेदो वा हरिभक्तिर्वा भक्तिर्वापि महेश्वरे । आचारात्पतितं मूढं न पुनाति द्विजोत्तम ॥ १,४.२५ ॥ पुण्यक्षेत्राभिगमनं पुण्यतीर्थनिषेवणम् । यज्ञो वा विविधो ब्रह्मंस्त्यक्ताचारंन रक्षति ॥ १,४.२६ ॥ आचारात्प्राप्यते स्वर्ग आचारात्प्राप्यते सुखम् । आचारात्प्राप्यते मोक्ष आचारात्किं न लभ्यते ॥ १,४.२७ ॥ आचाराणान्तु सर्वेषां योगानां चैव सत्तम् । हरिभक्तेपरि तथा निदानं भक्तिरिष्यते ॥ १,४.२८ ॥ भक्त्यैव पूज्यते विष्णुर्वाञ्छितार्थफलप्रदः । तस्मात्समस्तलोकानां भक्तिर्मातेति गीयते ॥ १,४.२९ ॥ जीवन्ति जन्तवः सर्वे यथा मातराश्रिताः । तथा भक्तिं समाश्रित्य सर्वे जीवन्ति धार्ंमिकाः ॥ १,४.३० ॥ स्वाश्रमाचारयुक्तस्य हरिभक्तिर्यदा भवेत् । न तस्य त्रिषु लोकेषु सदृशोऽस्त्यजनन्दन ॥ १,४.३१ ॥ भक्त्या सिध्यन्ति कर्ंमाणि कर्ंमाणि कर्ंमाभिस्तुष्यते हरिः । तस्मिंस्तुष्टे भवेज्ज्ञानं ज्ञानान्मोक्षमवाप्यते ॥ १,४.३२ ॥ भक्तिस्तु भगवद्भक्तसङ्गेन खलु जायते । तत्सङ्गं प्राप्यते पुम्भिः सुकृतैः पूर्वसञ्चितैः ॥ १,४.३३ ॥ वर्णाश्रमाचाररता भगवद्भक्तिलालसाः । कामादिदोषनिर्मुक्तास्ते सन्तो लोकशिक्षकाः ॥ १,४.३४ ॥ सस्तङ्गः परमो ब्रह्मन्न लभ्येताकृतात्मनाम् । यदि लभ्येत विज्ञेयं पुण्यं जन्मान्तरार्जितम् ॥ १,४.३५ ॥ पूर्वार्जितानि पापानि नाशमायान्ति यस्य वै । सत्सङ्गतिर्भवेत्तस्य नान्यथा घटते हि सा ॥ १,४.३६ ॥ रविर्हि रशिमजालेन दिवा हन्तिबहिस्तमः । सन्तः सूक्तिमरीच्योश्चान्तर्ध्वान्तं हि सर्वदा ॥ १,४.३७ ॥ दुर्लभाः पुरुषा लोके भगवद्भक्तिलालसाः । तेषां सङ्गो भवेद्यस्य तस्य शान्तिर्हि शाश्वती ॥ १,४.३८ ॥ नारद उवाच किंलक्षणा भागवतास्ते च किं कर्ंम कुर्वते । तेषां लोको भवेत्कीदृक्तत्सर्वं ब्रूहि तत्त्वतः ॥ १,४.३९ ॥ त्वं हि भक्तो रमेशस्य देवदेवस्य चित्रिणः । एतान्निगदितुं शक्तस्त्वतो नास्त्यधिकोऽपरः ॥ १,४.४० ॥ सनक उवाच शृणु ब्रह्मन्परं गुह्यं मार्कण्डेयस्य धीमनः ञ । यमुवाच जगन्नाथो योगनिद्राविमोचितः ॥ १,४.४१ ॥ योऽसौ विष्णुः परं ज्योतिर्देवदेवः सनातनः । जगत्कर्त्ता शिवब्रह्म स्वरुपवान् ॥ १,४.४२ ॥ युगान्ते रौद्ररुपेण ब्रह्माण्डग्राहितः । जगत्येकार्णवीभूते नष्टे स्थावरजङ्गमे ॥ १,४.४३ ॥ भगवानेव शेषात्मा शेते वटदले हरिः । असंख्याताब्जजन्माद्यैराभूषिततनूरूहः ॥ १,४.४४ ॥ पादाङ्गुष्टाग्रनिर्यातगङ्गाशीताम्बुपावनः । सूक्ष्मात्सूक्ष्मतरो देवो ब्रह्माण्डग्रासंबृंहितः ॥ १,४.४५ ॥ वटच्छदे शयानोऽभूत्सर्वशक्तिसमन्वितः । तस्मिन्स्थाने महाभागो नारायणपरायणः । मार्कण्डेयः स्थिनस्तस्य लीलाः पश्यन्महे शितुः ॥ १,४.४६ ॥ ऋषय ऊचुः तस्मिन्काले महाघोरे नष्टे स्थावरजङ्गमे । हरिरेकः स्थित इति मुने पूर्वं हि शुश्रुम ॥ १,४.४७ ॥ जगत्येकार्णवीभूते नष्टे स्थावरञ्जगमे । सर्वग्रस्तेन हरिणा किमर्थं सोऽवशेषितः ॥ १,४.४८ ॥ परं कौतूहलं ह्यत्रं वर्त्ततेऽतीव सूत नः । हरिकीर्तिसुधापाने कस्यालस्यं प्रजा यते ॥ १,४.४९ ॥ सूत उवाच आसीन्मुनिर्महाभागो मृकण्डुरिति विश्रुतः । शालग्रामे महातीर्थे सोऽतप्यत महातपाः ॥ १,४.५० ॥ युगानाम युतं ब्रह्मन्गृणन्ब्रह्म सनातनम् ॥ट निराहारः क्षमायुक्तः सत्यसन्धो जितेन्द्रियः ॥ १,४.५१ ॥ आत्मवत्सर्वभूतानि पश्यन्विषयनिःस्पृहः । सर्वभूतहितो दान्त स्तताप सुमहत्तपः ॥ १,४.५२ ॥ तत्तापःशङ्किताः सर्वे देवा इन्द्रादयस्तदा । परेशं शरणं जग्मुर्नारायणमनामयम् ॥ १,४.५३ ॥ क्षीराब्धेरुत्तरं तीरं संप्राप्यत्रिविवौकसः । तुष्टुवुर्देवदेवेशं पह्मनाभं जगद्गुरुम् ॥ १,४.५४ ॥ देवा ऊचुः नारायणाक्षरानन्त शरणागतपालक । मृकण्डुतपसा त्रस्तान्पाहि नः शरणागतान् ॥ १,४.५५ ॥ जय देवाधिदेवेश जय शङ्खगदाधर । जयो लोकस्वरुपाय जयो ब्रह्माण्डहेतवे ॥ १,४.५६ ॥ नमस्ते देवदेवेश नमस्ते लोकपावन । नमस्ते लोकनाथाय नमस्ते लोकसाक्षिणे ॥ १,४.५७ ॥ नमस्ते ध्यानगम्याय नमस्ते ध्यानहेतवे । नमस्ते ध्यानरुपाय नमस्ते ध्यानपाक्षिणे ॥ १,४.५८ ॥ केशिहन्त्रे नमस्तुभ्यं मधुहन्त्रे परात्मने । नमो भूम्यादिरूपाय नमश्चैतन्यरुपिणे ॥ १,४.५९ ॥ नमो ज्येष्टाय शुद्धाय निर्गुणाय गुणात्मने । अरुपाय स्वरुपाय बहुरुपाय ते नमः ॥ १,४.६० ॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ॥ १,४.६१ ॥ नमो हिक्षमगर्भाय नमो ब्रह्मादिरुपिणे । नमः सूर्य्यादिरुपाय हव्यकव्यभुजे नमः ॥ १,४.६२ ॥ नमो नित्याय वन्द्याय सदानन्दैकरुपिणे । नमः स्मृतार्तिनाशाय भूयो भूयो नमो नमः ॥ १,४.६३ ॥ एवं देवस्तुतिं श्रुत्वा भगवान्कमलापतिः । प्रत्यक्षतामगात्तेषां शङ्कचत्रगदाधरः ॥ १,४.६४ ॥ विकचाम्बुजपत्राक्षं सूर्य्यकोटिसमप्रभम् । सर्वालङ्कारसंयुक्तं श्रीवत्साङ्कितवक्षसम् ॥ १,४.६५ ॥ पीताम्बरधरं सौम्यं स्वर्णयज्ञोपवीतिनम् । स्तृयमानं मुनिवरैः पार्षदप्रवरावृत्तम् ॥ १,४.६६ ॥ तं दृष्य्वा देवसंघास्ते तत्तेजोहततेजसः । नमश्चक्रुर्मुदा युक्ता अष्टाङ्गौरवनिं गताः ॥ १,४.६७ ॥ ततः प्रसन्नो भगवान्मेघगंभीरनिस्वनः । उवाच प्रीणयन्देवान्नतानिन्द्रपुरोगमान् ॥ १,४.६८ ॥ श्रीभगवानुवाच जाने वो मानसं दुःखं मृकण्डुतपसोङ्गम् । युष्मान्न बाधते देवाः स ऋषिः सज्जनाग्राणीः ॥ १,४.६९ ॥ संपद्भिः संयुता वापि विपद्भिश्चापि सज्जनाः । सर्वथान्यं न बाधन्ते स्वप्नेऽपि सुरसत्तमाः ॥ १,४.७० ॥ सततं बाध्यमानोऽपि विषयाख्यैररातिभिः । अविधायात्मनो रक्षामन्यान्द्वेष्टि कथं सुधीः ॥ १,४.७१ ॥ तापत्रयाभिधानेन बाध्यमानो हि मानवः । अन्यं क्रीडयितुं शक्तः कथं भवति सत्तमः ॥ १,४.७२ ॥ कर्मणा मनसा वाचा बाधते यः सदा परान् । नित्यं कामादिभिर्युक्तो मूढधीः प्रोच्यते तु सः ॥ १,४.७३ ॥ यो लोकहितकृन्मर्त्यो गतासुर्यो विमत्सरः । निःशङ्गः प्रोच्यते सद्भिरिहामात्र च सत्तमाः ॥ १,४.७४ ॥ सशङ्कः सर्वदा दुःखी निःशङ्कः सुखमान्पुयात् । गच्छध्वं स्वालयं स्वस्थाः क्रीडयिष्यति वो न सः ॥ १,४.७५ ॥ भवतां रक्षकश्चाहं विहरध्वं यथासुखम् । इति दत्वा वरं तेषामतसीकुसुमप्रभः ॥ १,४.७६ ॥ पश्यतामेव देवानां तत्रैवान्तरधीयत । तुष्टात्मानः सुरगणां ययुर्नाकं यथागतम् ॥ १,४.७७ ॥ मृकण्डोरपि तुष्टात्मा हरिः प्रत्यक्षतामगात् । अरुपं परमं ब्रह्मस्वप्रकाशं निरञ्जनम् ॥ १,४.७८ ॥ अतसीपुष्पसंकाशं पीतवाससमच्यचुतम् । दिव्यायुधधरं दृष्ट्वा मृकण्डुर्विस्मितोऽभवत् ॥ १,४.७९ ॥ ध्यानादुन्मील्य नयनं अपश्यद्धरिमग्रतः । प्रसन्नवदनं शान्तं धातारं विश्वतेजसम् ॥ १,४.८० ॥ रोमाञ्चितशरीरोऽसावानन्दाश्रुविलोचनः । ननाम दण्डवद्भूमौ देवदेव सनातनम् ॥ १,४.८१ ॥ अश्रुभिः क्षालयंस्तस्य चरणौ हर्षसंभवैः । शिरस्यञ्चलिमाधाय स्तोतुं समुपचक्रमे ॥ १,४.८२ ॥ मृकण्डुरुवाच नमः परेशाय परात्मरुपिणे परात्परस्प्रात्परतः पराय । अपारपाराय परानुकर्त्रे नमः परेभ्यः परपारणाय ॥ १,४.८३ ॥ यो नामजात्यादिविकल्पहीनः शब्दादिदोषव्यतिरेकरुपः । बहुस्वरुपोऽपि निरञ्जनो यस्तमीशमीढ्यं परमं भजामि ॥ १,४.८४ ॥ देवान्तवेद्यं पुरुषं पुराणं हिरण्यगर्भादिजगत्स्वरुपम् । अनूपमं भक्ति जनानुकम्पिनं भजामि सर्वेश्वरमादिमीड्यम् ॥ १,४.८५ ॥ पश्यन्ति यं वीतसमस्तदोषा ध्यानैकनिष्ठा विगतस्पृहाश्च । निवृत्तमोहाः परमं पवित्रं नतोऽस्मि संसारनिर्वर्त्तकं तम् ॥ १,४.८६ ॥ स्मृतार्तिनाशनं विष्णुं शरणागतपालकम् । जगत्सेव्यं जगाद्धाम परेशं करुणाकरम् ॥ १,४.८७ ॥ एवं स्तुतः स भगवान्विष्णुस्तेन महर्षिणा । अवाप परमां तुष्टिं शङ्खचक्रगदाधरः ॥ १,४.८८ ॥ अयालिङ्ग्य मुनिं देवश्चतुर्भिर्दीर्घबाहुभिः । उवाच परमं प्रीत्या वरं बरय सुव्रत ॥ १,४.८९ ॥ प्रीतोऽस्मि तपसा तेन स्तोत्रेण च तवानघ । मनसा यदभिप्रेतं वरं वरय सुव्रत ॥ १,४.९० ॥ मृकण्डुरूवाच देवदेव जगन्नाथ कृतार्थोऽस्मि न संशयः । त्वद्दर्शनमपुण्यानां दुर्लभं च यतः स्मृतम् ॥ १,४.९१ ॥ ब्रह्माद्या यं न वश्यन्ति योगिनः संशितव्रताः । धर्मिष्टा दीक्षिताश्वापि वीतरागा विमत्सराः ॥ १,४.९२ ॥ तं पश्यामि परं धाम किमतोऽन्यं वरं वृणे । एतेनैव कृतार्थोऽस्मि जनार्दन जगद्धरो ॥ १,४.९३ ॥ यत्रामस्मृतिमात्रेण महापातकिनोऽपि ये । तत्पदे परमं यान्नि ते दृष्ट्वा किषुनाच्युत ॥ १,४.९४ ॥ श्रीभगवानुवाच सत्यत्प्रुक्तं त्वया ब्रह्मान्प्रीनोऽस्मि तव पण्डित । मदृर्शनं हि विफलं न कदाचिद्भविष्यति ॥ १,४.९५ ॥ विष्णिर्भक्तकुटुम्बीति वदन्ति विवुधाः सदा । तदेव पालयिष्यामि मज्जनो नानृतं वदेत् ॥ १,४.९६ ॥ तस्मात्त्वत्तपसातुष्टो यास्यामि तव पुत्रताम् । समस्तगुणसंयुक्तो दीर्घजीवी स्वरुपवान् ॥ १,४.९७ ॥ मम जन्म कुले यस्य कतत्कुलं मोक्षगामि वै । मयि तुष्टे मुनिश्रेष्ठ किमसाध्यं जगत्रये ॥ १,४.९८ ॥ इत्युक्त्वा देवदेवशो मुनेरतस्य समीक्षतः । अन्तर्दधे मृकण्डुश्च तपसः समवर्तत ॥ १,४.९९ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे भक्तिवर्णनप्रसङ्गेन मार्कण्डेयचरितारम्भो नाम चतुर्थोऽध्यायः _____________________________________________________________ नारद उवाच ब्रह्मन्कथं स भगवान्मृकण्डोः पुत्रतां गतः । किं चकार च तद्ब्रुहि हरिर्भार्गववंशजः ॥ १,५.१ ॥ श्रूयते चपुराणेषु मार्कण्डेयो महामुनिः । अपश्यद्वैष्णवीं मायां चिरञ्जीव्यस्य संप्लवे ॥ १,५.२ ॥ सनक उवाच श्रुणु नारद वक्षअयामि कथामेतां सनातनीम् । विष्णुभक्तिसमायुक्तां मार्कुण्डेयमुनिं प्रति ॥ १,५.३ ॥ तपसोऽन्ते मृकण्डुस्ते मृकण्डुस्तु भार्यामुदूह्य सत्तमः । गार्हस्थ्यमकरोद्धृष्टः शान्तो दान्तः कृतार्थकः ॥ १,५.४ ॥ तस्य भार्या शुचिर्दक्षा नित्यं पतिपरायणा । मनसा वचसा चापि देहेन च पतिव्रता ॥ १,५.५ ॥ काले दधार सा गर्भं हरितेजोंशसंभवम् । रुषुवे दशमासान्ते पुत्रं तेजस्विनां परम् ॥ १,५.६ ॥ स ऋषिः परमप्रीतो दृष्ट्वा पुत्रं सुलक्षणम् । जातकं कारयामास मङ्गलं विधिपूर्वकम् ॥ १,५.७ ॥ स बालो ववृधे तत्र शुक्लपक्ष इवीडुपः । ततस्तु पञ्चमे वर्षे उपनीय मुदान्वितः ॥ १,५.८ ॥ शिक्षां चकार विप्रेन्द्र वैदिकीं धर्मसंहिताम् । नमस्कार्या द्विजाः पुत्र सदादृष्टा विधानतः ॥ १,५.९ ॥ त्रिकालं सूर्यमभ्यर्च्य सलिलाञ्चलिदानतः । वैदिकं कर्म तर्तव्यं वेदाध्ययनपूर्वकम् ॥ १,५.१० ॥ ब्रह्मचर्येण तपसा पूजनीयो हरिः सदा । निषिद्धं वर्जनीयं स्यादृष्टसंभाषणादिकम् ॥ १,५.११ ॥ साधुभिः सह वस्तव्यं विष्णुभक्तिपरैः सदा । न द्वेषः कस्यचित्कार्यः सर्वेषां हितमाचरेत् ॥ १,५.१२ ॥ इज्याध्यंयनदानानि सदा कार्याणि ते सुत । एवं पित्रा समादिष्टो मार्कण्डेयो मुनीश्वरः ॥ १,५.१३ ॥ चचार धर्मं सततं सदा संचिन्तयन्हरिम् । मार्कण्डेयो महाभागो दयावान्धर्मवत्सलः ॥ १,५.१४ ॥ आत्मवान्सत्यसन्धश्च मार्तण्डसदृशप्रभः । वशीं शान्तो महाज्ञानी सर्वतत्त्वार्थकोविदः ॥ १,५.१५ ॥ तपश्चचारं महामच्युतप्रीतिकारणम् । आराधितो जगन्नाथो माक्रण्डेयेन धीमता ॥ १,५.१६ ॥ पुराणसंहितां कर्त्तुदत्तवान्वरमच्युतः । मार्कण्डेयो मुनि तपश्चचारं परममच्युतप्रीतिकारणम् । मार्कण्डेयो मुनिस्तस्मान्नारायण इति स्मृतः ॥ १,५.१७ ॥ चिरजीवी महाभक्तो देवदेवस्य चक्रिणः । जगत्येकार्णवीभूते स्वप्रभावं जनार्द्दनः ॥ १,५.१८ ॥ तस्य दर्शयितुं विग्रास्तं न संहृतवान्हरिः । मृकण्डुतनयो धीमान्विष्णुभक्तिसमन्वितः ॥ १,५.१९ ॥ तस्मिञ्जले महाघोरे स्थितवाञ्छीर्णपत्रवत् । मार्कण्डेयः स्थितस्तावद्यावच्छेते हरिः स्वयम् ॥ १,५.२० ॥ तस्य प्रमाणं वक्ष्यामि कालस्य वदतः श्रुणु । दशभिः पञ्चभिश्चैव निमेषैः परिकीर्तिता ॥ १,५.२१ ॥ काष्टातत्रिंशतो ज्ञेया कला पह्मजनन्दन । तत्रिंशतो क्षणो ज्ञेयस्तैः पङ्भर्घटिका स्मृता ॥ १,५.२२ ॥ तद्वयेन मुहूर्त्तं स्याद्दिनं तत्रिंशता भवेत् । त्रिंशद्दिनेर्भवेन्यासः पक्षद्वितयसंयुतः ॥ १,५.२३ ॥ ऋतुर्मासद्वयेन स्यात्तत्रयेणायनं स्मृतम् । तद्दयेन भवेदब्दः स देवानां दिनं भवेत् ॥ १,५.२४ ॥ उत्तरं दिवसं प्राहू रात्रिर्वै दक्षिणायनम् । मानुषेणैव मासेन पितॄणां दिनमुच्यते ॥ १,५.२५ ॥ तस्मात्सुर्येन्दुसंयोगे ज्ञातव्यं कल्पमुत्तमम् । दिव्यैर्वर्षसहस्रैर्द्वादशभिर्दैवतं युगम् ॥ १,५.२६ ॥ दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् । एकसत्पतिसंख्यातैर्दिव्यैर्मन्वन्तरं युगैः ॥ १,५.२७ ॥ चतुर्द्दशभिरेतैश्च ब्रह्मणो दिवसंमुने । यावत्प्रमाणं दिवसं तावद्रात्रिः प्रकीर्तिता ॥ १,५.२८ ॥ नाशमायाति विप्रेन्द्र तस्मिन्काले जगन्नयम् । मनुषेण सहस्रेण यत्प्रमाणं भवेच्छृणु ॥ १,५.२९ ॥ चतुर्युगसहस्राणि ब्रह्मणो दिवसं मुने । तद्वन्मासो वत्सरश्च ज्ञेयस्तस्यापि वेधसः ॥ १,५.३० ॥ परार्द्धद्वयकालस्तु तन्मतेन भवेद्विजाः । विष्णोरहस्तु विज्ञेयं तावद्रात्रिः प्रकीर्तिता ॥ १,५.३१ ॥ मृकण्डुतनयस्तावत्स्थितः संजीर्णपर्णवत् । तस्मिन्घोरे जलमये विष्णुशक्त्युपबृंहितः । आत्मानं परमं ध्यायन्स्थितवान्हरिसान्निधौ ॥ १,५.३२ ॥ अथ काले समायाते योगनिद्राविमोचितः । सृष्टवान्ब्रह्मरुपेण जगदेतच्चराचरम् ॥ १,५.३३ ॥ संहृतं तु जलं वीक्ष्य सृष्टं विश्वं मृकण्डुजः । विस्मितः परमप्रीतो ववन्दे चरणौ हरेः ॥ १,५.३४ ॥ शिरस्यञ्जलिमाधाय मार्कण्डेयो महामुनिः । तुष्टाव वाग्भिरिष्टाभिः सदानन्दैकविग्रहम् ॥ १,५.३५ ॥ मार्कण्डेय उवाच सहस्रशिरसं देवं नारायणमनामयम् । वासुदेवमनाधारं प्रणतोऽस्मिजनार्दनम् ॥ १,५.३६ ॥ अमेयमजरं नित्यं सदानन्दैकविग्रहम् । अप्रतर्क्यमनिर्देश्यं प्रणतोऽस्मि जनार्द्दनम् ॥ १,५.३७ ॥ अक्षरं परमं नित्यं विशाक्षं विश्वसम्भवम् । सर्वतत्त्वमयं शान्तं प्रणतोऽस्मि जनार्द्दनम् ॥ १,५.३८ ॥ पुराणं पुरुषं सिद्धं सर्वज्ञानैकभाजनम् । परात्परतरं रुपं प्रणतोऽस्मि जनार्द्दनम् ॥ १,५.३९ ॥ परञ्ज्योतिः परं धाम पवित्रं परमं पदम् । सर्वैकरुपं परमं प्रणतोऽस्मि जनार्द्दनमम् ॥ १,५.४० ॥ तं सदानन्दचिन्मात्रं पराणां परमं पदम् । सर्वं सनातनं श्रेष्ठं प्रणतोऽस्मि जनार्द्दनम् ॥ १,५.४१ ॥ सगुणं निर्गुणं शान्तं मायातीतं सुमायिनम् । अरुपं बहुरुपं तं प्रणतोऽस्मि जनार्द्दनम् ॥ १,५.४२ ॥ यत्रतद्भगवान्विश्वं सृजत्यवत्ति हन्ति च । तमादिदेवमीशानं प्रणतोऽस्मि जनार्द्दनम् ॥ १,५.४३ ॥ परेश परमानन्द शरणागतवत्सल । त्राहि मां करुणासिन्धो मनोतीति नमोऽस्तुते ॥ १,५.४४ ॥ एवं स्तवन्तं विप्रेन्द्रं मार्कण्डेयजगद्गुरुम् । उवाच परया प्रीत्या शङ्खचक्रगदाधरः ॥ १,५.४५ ॥ श्रीभगवानुवाच लोके भागवता ये च भगवद्भक्तमानसाः । तेषां तुष्टो न सन्देहो रक्षाम्येतांश्च सर्वदा ॥ १,५.४६ ॥ अहमेव द्विजश्रेष्ठ नित्यं प्रच्छन्नविग्रहः । भगवद्भक्तरुपेण लोकाक्रक्षामि सर्वदा ॥ १,५.४७ ॥ मार्कण्डेय उवाच किंलक्षणा भागवता जायन्ते केन कर्ंमणा । एतदिच्छाम्यदं श्रोतुं कौतुहलपरो यतः ॥ १,५.४८ ॥ श्रीभगवानुवाचा लक्षणं भागवतानां श्रुणुष्व मुनिसत्तम् । वक्तुं तेषां प्रभावं हि शक्यते नाब्दकोटिभिः ॥ १,५.४९ ॥ यो हिताः सर्वजन्तूनां गतासूया अअमत्सरा । विशिनो निस्पृहाः शान्तास्ते वै भागवतोत्तमाः ॥ १,५.५० ॥ कर्ंमणा मनसा वाचा परपीडां न कुर्वते । अपरिग्रहशीलाश्च ते वै भागवताः स्मृताः ॥ १,५.५१ ॥ सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः । तद्भक्तविष्णुभक्ताश्च ते वै भागवतोत्तमाः ॥ १,५.५२ ॥ मातापित्रोश्च शुश्रुषां कुर्वन्ति ये नरोत्तमाः । गङ्गाविश्वेश्वरधिया ते वै भागवतोत्तमाः ॥ १,५.५३ ॥ ये तु देवार्च्चनरता ये तु तत्साधकाः स्मृताः । पूजां दृष्ट्वानुमोदन्ते ते वै भागवतोत्तमाः ॥ १,५.५४ ॥ व्रतिनां च यतीनां च परिचर्यापराशअच ये । वियुक्तपरनिन्दाश्च ते व भागवतोत्तमाः ॥ १,५.५५ ॥ सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः । ये गुणग्राहिणो लोके ते वै भागवताः स्मृताः ॥ १,५.५६ ॥ आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः । तुल्याः शत्रुषु मित्रेषु ते वै भागवतोत्तमाः ॥ १,५.५७ ॥ धर्ंमशास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये । सतां शुश्रूषवो ये च ते वै भागवतोत्तमाः ॥ १,५.५८ ॥ व्याकुर्वते पुराणानि तानि शृण्वन्ति ये तथा । तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः ॥ १,५.५९ ॥ ये गोब्राह्मणशुश्रूषआं कुर्वते सततं नराः । तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः ॥ १,५.६० ॥ अन्येषामुदयं दृष्ट्वा येऽभिनवन्दन्ति मानवाः । हरिनामपरा ये च ते वै भागवतोत्तमाः ॥ १,५.६१ ॥ आरामारोपणरतास्तडापरिरक्षकाः । कासारकूपकर्त्तारस्ते वै भागवतोत्तमाः ॥ १,५.६२ ॥ ये वै तडागकर्त्तारो देवसह्मानि कुर्वते । गोयत्रीनिरता ये च ते वै भागवतोत्तमाः ॥ १,५.६३ ॥ येऽभिनन्दन्ति नामानि हरेः श्रुत्वातिहर्षिताः । रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥ १,५.६४ ॥ तुलसीकावनं दृष्ट्वा ये नमस्कुर्वते नराः । तत्काष्टाङ्कितकर्णा ये ते वै भागवतोत्तमाः ॥ १,५.६५ ॥ तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये । तन्मूलमृत्तिकां ये च ते वै भागवतोत्तमाः ॥ १,५.६६ ॥ आश्रमाचाचरनिरतास्तथैवातिथिपूजकाः । ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः ॥ १,५.६७ ॥ शिवाप्रियाः शिवासक्ताः शिवपादार्च्चने रताः । त्रिपुण्ड्रधारिणो ये च ते वै भागवतोत्तमाः ॥ १,५.६८ ॥ व्याहरन्ति च नामानि हरेः शम्भोर्महात्मनः । रुद्राक्षालङ्कृता ये च ते वै भागवतोत्तमाः ॥ १,५.६९ ॥ ये यजन्ति महादेवं ऋतुभिर्बहुदक्षिणैः । हरिं वा परया भक्त्या ते वै भागवतोत्तमाः ॥ १,५.७० ॥ विदितानि च शास्त्राणि परार्थं ग्रवदन्ति ये । सर्वत्र गुणभाजो ये ते वै भागवताः स्मृताः ॥ १,५.७१ ॥ शिवे च परमेशे च विष्णौ च परमात्मनि । समबुद्ध्या प्रवर्त्तन्ते ते वै भागवताः स्मृताः ॥ १,५.७२ ॥ शिवाग्रिकार्यनिरताः पञ्चाक्षरजपे रताः । शिवध्यानरता ये च ते वै भागवतोत्तमाः ॥ १,५.७३ ॥ पानीयदाननिरता येऽन्नदानरतास्तथा । एकादर्शीव्रतरता वै भागवतोत्तमाः ॥ १,५.७४ ॥ गोदाननिरता ये च कन्यादानरताश्च ये । मदर्थं कर्ंमकर्त्तारस्ते वै भागवतोत्तमाः ॥ १,५.७५ ॥ एते भागवता विप्र केचिदत्र प्रकीर्तिताः । मयापि गदितुं शक्या नाब्दकोटिशतैरपि ॥ १,५.७६ ॥ तस्मात्त्वमपि विप्रेन्द्र सुशीलो भव सर्वदा । सर्वभूताश्रयो दान्तो मेत्रो धर्ंमपरायणः ॥ १,५.७७ ॥ पुनर्युगान्तपर्य्यन्तं धर्ंमं सर्वं समाचरन् । मन्मूर्त्तिध्याननिरतः परं निर्वाणमाप्स्यसि ॥ १,५.७८ ॥ एवं मृकण्डुपुत्रस्य स्वभक्तस्य कृपानिधिः । दत्त्वा वरं स देवेशस्तत्रैवान्तरधीयत ॥ १,५.७९ ॥ मार्कण्डेयो महाभागो हरिभक्तिरतः सदा । चचार परमं धर्ममीजे च विधिवन्मखैः ॥ १,५.८० ॥ शालप्रामे महाक्षेत्रे तताप परमं तपः । ध्यानक्षपितकर्मा तु परं निर्वाणमात्पवान् ॥ १,५.८१ ॥ तस्माज्जन्तुषु सर्वेषु हितकृद्धरिपूजकः । ईप्सिवं मनसा यद्यनत्तदान्प्रोत्यसंशयम् ॥ १,५.८२ ॥ सनक उवाच एतत्सर्वं निगदितं त्वया पृष्टं द्विजोत्तम । भगवद्भक्ति माहात्म्यं किमन्यच्छ्रोतुमिच्छसि ॥ १,५.८३ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे मार्कण्डेयवर्णनं नाम पञ्चमोऽध्यायः _____________________________________________________________ सूत उवाच भगवद्भक्तिमाहात्म्यं श्रुत्वा प्रीतस्तु नारदः । पुनः पप्रच्छ सनकं ज्ञानविज्ञानपारगम् ॥ १,६.१ ॥ नारद उवाच क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् । परया दयया तथवं ब्रूहिं शास्त्रार्थपारग ॥ १,६.२ ॥ सनक उवाच शुणु ब्रह्मन्तरं गुह्यं सर्वसंपत्करं परम् । दुःस्वन्पनाशनं पुण्यं धर्म्यं पापहरं शुभम् ॥ १,६.३ ॥ श्रोतव्यं मुनिभिर्नित्यं दुष्टग्रहनिवारणम् । सर्वरोगप्रशमनमायुर्वर्ध्दनकारणम् ॥ १,६.४ ॥ क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् । गङ्गायमुनयोर्योगं वदन्ति परमर्षयः ॥ १,६.५ ॥ सितासितोदकं तीर्थं ब्रह्माद्याः सर्वदेवताः । मुनयो मनवश्चैव सेवन्ते पुण्यकाङ्क्षिणः ॥ १,६.६ ॥ गङ्गा पुण्यनदी ज्ञेया यतो विष्णुपदोद्भवा । रविजा यमुना ब्रह्मंस्तयोर्योगः शुभावहः ॥ १,६.७ ॥ स्मृतार्तिनाशिनी गङ्गा नदीनां प्रवरा मुने । सर्वपापक्षयकरी सर्वोपद्र वनाशिनी ॥ १,६.८ ॥ यानि क्षेत्राणि पुण्यानि समुद्रान्ते महीतले । तेषां पुण्यतमं ज्ञेयं प्रयागाख्यं महामुने ॥ १,६.९ ॥ इयाज वेधा यज्ञेन यत्र देवं रमापतिम् । तथैव मुनयः सर्वे चक्रश्च विविधान्मखान् ॥ १,६.१० ॥ सर्वतीर्थाभिषेकाणि यानि पुण्यानि तानि वै । गङ्गाबिन्द्वभिषेकस्य कलां नार्हन्ति षोडशीम् ॥ १,६.११ ॥ गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शते स्थितः । सोऽपि मुच्येत पापेभ्यः किमु गङ्गाभिषेकवान् ॥ १,६.१२ ॥ विष्णुपादोद्भवा देवी विश्वेश्वरशिरः स्थिता । संसेव्या मुनिभिर्देवः किं पुनः पामरैर्जनै ॥ १,६.१३ ॥ यत्सैकतं ललाटे तु ध्रियते मनुजोत्तमैः । तत्रैव नेत्रं विज्ञेयं विध्यर्द्धाधः समुज्ज्वलत् ॥ १,६.१४ ॥ यन्मज्जन महापुण्यं दुर्लभं त्रिदिवौकसाम् । सारुप्यदायकं विष्णोः किमस्मात्कथ्यते परम ॥ १,६.१५ ॥ यत्र स्त्राताः पापिनोऽपि सर्वपापविवर्जिताः । महद्विमानमारुढाः प्रयान्ति परमं पदम् ॥ १,६.१६ ॥ यत्र स्नाता महात्मानः पितृमातृकुलानि वै । सहस्राणि समुद्धृत्य विष्णुलोके व्रजन्ति वै ॥ १,६.१७ ॥ स स्नातः सर्वतीर्थेषु यो गङ्गां स्मरति द्विच । पुण्यक्षेत्रेषु सर्वेषौ स्थितवान्नात्र संशयः ॥ १,६.१८ ॥ यत्र स्नातं नरं दृष्ट्वा पापोऽपि स्वर्गभूमिभाक् । मदङ्गस्पर्शेमात्रेण देवानामाधपो भवेत् ॥ १,६.१९ ॥ तुलसीमूलसंभूता द्विजपादोद्भावा तथा । गङ्गोद्भवा तु मृल्लोकान्नयत्यच्युतरुपताम् ॥ १,६.२० ॥ गङ्गा च तुलसी चैव हरिभक्तिरचञ्चला । अत्यन्तदुर्ल्लभा नॄणां भक्तिर्द्धर्मप्रवक्तरि ॥ १,६.२१ ॥ सद्धर्मवक्तुः पदसंभवां मृदं गङ्गोद्भवां चैव तथा तुलस्याः । मूलोद्भवां भक्तियुतो मनुष्यो धृत्वा शिरस्येति पदं च विष्णोः ॥ १,६.२२ ॥ कदा यास्याम्यहं गङ्गां कदा पश्यामि तामहम् । वाञ्च्छत्यपि च यो ह्येवं सोऽपि विष्णुपदं व्रजेत् ॥ १,६.२३ ॥ गङ्गाया महिमा ब्रह्मन्वक्तुं वर्षशतैरपि । न शक्यते विष्णुनापि किमन्यैर्बहुभाषितैः ॥ १,६.२४ ॥ अहो माया जगत्सर्वं मोहयत्येतदद्भुतम् । यतो वै नरकं यान्ति गङ्गानात्रि स्थितेऽपि हि ॥ १,६.२५ ॥ संसारदुःख विच्छेदि गङ्गानाम प्रकीर्तितम् । तथा तुलस्या भक्तिश्च हरिकीर्तिप्रवक्तरि ॥ १,६.२६ ॥ सकृदप्युच्चरेद्यस्तु गङ्गेत्येवाक्षरद्वयम् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ १,६.२७ ॥ योजनत्रितयं यस्तु गङ्गायामधिगच्छति । सर्वपापविनिर्मुक्तः सूर्यलोकं समेति हि ॥ १,६.२८ ॥ सेयं गङ्गा महापुण्या नदी भक्त्या निषेविता । मेषतौलिमृगाकर्षु पावयत्यखिलं जगत् ॥ १,६.२९ ॥ गोदावरी भीमरथी कृष्णा रेवा सरस्वती । तुङ्गभद्रा च कावेरी कालिंन्दी बाहुदा तथा ॥ १,६.३० ॥ वेत्रवती ताम्रपर्णी सरयूश्च द्विजोत्तम । एवमादिषु तीर्थेषु गङ्गा मुख्यतमा स्मृता ॥ १,६.३१ ॥ यथा सर्वगतो विष्णुर्जगव्द्याप्य प्रतिष्टितः । तथेयं व्यापिनी गङ्गा सर्वपापप्रणाशिनी ॥ १,६.३२ ॥ अहो गङ्गा जगद्धात्री स्नानपानादिभिर्जगत् । पुनाति पावनीत्येषा न कथं सेव्यते नृभिः ॥ १,६.३३ ॥ तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् । वाराणसीति विख्यातं सर्वदेवनिषेवितम् ॥ १,६.३४ ॥ ते एव श्रवणे धन्ये संविदाते बहुश्रुतम् । इह श्रुतिमतां पुंसां काशी याभ्यां श्रुतासकृत् ॥ १,६.३५ ॥ ये यं स्मरन्ति संस्थानमविमुक्तं द्विजोत्तमम् । निर्धूतसर्वपापास्ते शिवलोकं व्रजन्ति वै ॥ १,६.३६ ॥ योजनानां शतस्थोऽपि अविमुक्तं स्मरेद्यदि । बहुपातकपूर्णोऽपि पदं गच्छत्यनामयम् ॥ १,६.३७ ॥ प्राणप्रयाणसमये योऽविमुक्तं स्मरेद्वूज । सोऽपि पापविनिर्मुक्तः शैवं पदमवान्पुयात् ॥ १,६.३८ ॥ काशीस्मरणजं पुण्यं भुक्त्वा स्वर्गे तदन्ततः । पृथिव्यामेकराडू भूत्वा काशीं प्राप्य च मुक्तिभाक् ॥ १,६.३९ ॥ बहुनात्र किमुक्तेन वाराणस्या गुणान्प्रति । नामापि गृह्णातां काश्याश्चतुर्वर्गो न दूरतः ॥ १,६.४० ॥ गङ्गायमुनयोर्योगोऽधिकः काश्या अपि द्विजा । यस्य दर्शनमात्रेण नरा यान्ति परां गतिम् ॥ १,६.४१ ॥ मकरस्थे रवौ गङ्गा यत्र कुत्रावगाहिता । पुनाति स्त्रानपानाद्यैर्नयन्तीन्द्रपुरं जगत् ॥ १,६.४२ ॥ यो गङ्गां भजते नित्यं शङ्करो लोकशङ्करः । लिङ्गरुपीं कथं तस्या महिमा परिकीर्त्यते ॥ १,६.४३ ॥ हरिरुपधरं लिङ्गं लिङ्गरुपधरो हरिः । ईषदप्यन्तरं नास्ति भेदकृच्चानयोः कुधीः ॥ १,६.४४ ॥ अनादिनिधने देवे हरिशङ्करसंज्ञिते । अज्ञानसागरे मग्ना भेदं कुर्वन्ति पापिनः ॥ १,६.४५ ॥ यो देवो जगतामशः कारणानां च कारणम् । युगान्ते निगदन्त्येतद्रुद्ररुपधरो हरिः ॥ १,६.४६ ॥ रुद्रो वै विष्णुरुपेण पालयत्यखिलञ्जगत् । ब्रह्मरुपेण सृजति प्रान्तेः हयेतत्रयं हरः ॥ १,६.४७ ॥ हरिशङ्करयोर्मध्ये ब्रह्मणश्चापि यो नरः । भेदं करोति सोऽभ्येति नरकं भृशदारुणम् ॥ १,६.४८ ॥ हरं हरिं विधातारं यः पश्यत्येकरुपिणम् । स याति परंमानन्दं शास्त्राणामेष विष्वयः ॥ १,६.४९ ॥ योऽसावनादिः सर्वज्ञो जगतामादिकृद्विभुः । नित्यं संनिहितस्तत्र लिङ्गरुपी जनार्दनः ॥ १,६.५० ॥ काशीविश्वेश्वरं लिङ्गज्योतिर्लिङ्गं तदुच्यते । तं दृष्ट्वा परमं ज्योतिराप्रोति मनुजोत्तमः ॥ १,६.५१ ॥ काशीप्रदक्षिणा येन कृता त्रैलोक्यपावनी । सत्पद्वीपासाब्धिशैला भूः परिक्रमितामुना ॥ १,६.५२ ॥ धातुमृद्दारपाषाणलेख्याद्या मूर्तयोऽमलाः । शिवस्य वाच्युतस्यापि तासु संनिहितो हरिः ॥ १,६.५३ ॥ तुलसीकाननं यत्र यत्र पह्मवनं द्विजा । पुराणपठनं यत्र यत्र संनिहितो हरिः ॥ १,६.५४ ॥ पुराणसंहितावक्ता हरिरित्यभिधीयते । तद्भक्तिं कुर्वतां नॄणां गङ्गास्त्रानां दिने दिने ॥ १,६.५५ ॥ पुराणश्रवणे भक्तिर्गङ्गास्त्रानसमा द्विज । तद्वक्तरि च या भक्तिः सा प्रयागोपमा स्मृता ॥ १,६.५६ ॥ पुराणधर्मकथनैर्यः समुद्धरते जगत् । संसारसागरे मग्नं स हरिः परिकीर्तितः ॥ १,६.५७ ॥ नास्ति गङ्गासमं तीर्थं नास्ति मातृसमो गुरुः । नास्ति विष्णुसमं दैवं नास्ति तत्त्वं गुरोः परम् ॥ १,६.५८ ॥ वर्णानां ब्राह्मणः श्रेष्ठस्तारकाणां यथा शशी । यथा पयोधिः सिन्धूनां तथा गङ्गा परा स्मृता ॥ १,६.५९ ॥ नास्ति शान्तिसमो बन्धुर्नास्ति सत्यात्परं तपः । नास्ति मोक्षात्परो लाभो नास्ति गङ्गासमा नदी ॥ १,६.६० ॥ गङ्गायाः परमं नाम पापारण्यदवानलः । भवव्याधिहरा गङ्गा तस्मात्सेव्या प्रयन्ततः ॥ १,६.६१ ॥ गायत्री जाह्नवी चोभे सर्वपापहरे स्मृते । एतयोर्भक्तिहीनो यस्तं विद्यात्पतितं द्विज ॥ १,६.६२ ॥ गायत्री छन्दसां माता माता लोकस्य जाह्नवी । उभे ते सर्वपापानां नाशकारणतां गते ॥ १,६.६३ ॥ यस्य प्रसन्ना गायत्री तस्य गङ्गा प्रसीदति । विष्णुशक्तियुते ते द्वे समकामप्रसिद्धेदे ॥ १,६.६४ ॥ धर्मार्थकामरुपाणां फलरुपे निरञ्जने । सर्वलोकानुग्रहार्थं प्रवर्तेते महोत्तमे ॥ १,६.६५ ॥ अतीव दुर्ल्लभा नॄणां गायत्री जाह्नवी तथा । तथैव तुलसीभक्तिर्हरिभक्तिश्च सात्त्विकी ॥ १,६.६६ ॥ अहो गङ्गा महाभागा स्मृता पापप्रणाशिनी । हरिलोकप्रदा दृष्टा पीता सारुप्यदायिनी । यत्र स्त्राता नरा यान्ति विष्णोः पदमनुत्तमम् ॥ १,६.६७ ॥ नारायणो जगद्धाता वासुदेवः सनातनः । गङ्गास्त्रानपराणां तु वाञ्छितार्थफलप्रदः ॥ १,६.६८ ॥ गङ्गाजलकरणेनापि यः सिक्तो मनुजोत्तमः । सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ॥ १,६.६९ ॥ यद्विन्दुसेवनादेव सगरान्वयसम्भवः । विसृज्यराक्षसं भावं संप्रात्पः परमं पदम् ॥ १,६.७० ॥ इति श्रीवृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम षष्टोऽध्यायः _____________________________________________________________ नारद उवाच कोऽसौ राक्षसभावाद्धि मोचितः सगरावन्वये । सगरः को मुनिश्रेष्ठ तन्म्रमाख्यातुमर्हसि ॥ १,७.१ ॥ सनक उवाच श्रुणुष्व मुनिशार्दूल गङ्गामाहात्म्यमुत्तमम् । यज्जलस्पर्शमात्रेण पावितं सागरं कुलम् । गतं विष्णुपदं विप्र सर्वलोकोत्तमोत्तमम् ॥ १,७.२ ॥ आसीद्रविकुले बाहुर्नाम वृकात्मजः । बुभुजे पृथिवीं सर्वां धर्मतो धर्मतत्परः ॥ १,७.३ ॥ ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये च जन्तवः । स्थापिताः स्वस्वधर्मेषु तेन बाहुर्विशांपतिः ॥ १,७.४ ॥ अश्वमेधैरियाजासौ सत्पद्वीपेषु सत्पभिः । अतर्प्पयद्भूमिदेवान् गोभूस्वर्णाशुकादिभिः ॥ १,७.५ ॥ अशासन्नीतिशास्त्रेण यथेष्टं परिपन्थिनः । मेने कृतार्थमात्मानमन्यातपनिवारणम् ॥ १,७.६ ॥ चन्दनानि मनोज्ञानि बलिं यत्सर्वदा जनाः । भूषिता भूषणौर्दिव्यैस्तद्राष्ट्रे सुखिनो मुने ॥ १,७.७ ॥ अकृष्टपच्या पृथिवी फलपुष्पसमन्विता ॥ १,७.८ ॥ ववर्ष भूमौ देवेन्द्रः काले काले मुनिश्वरः । आधर्मनिरतापाये प्रजा धर्मेण रक्षिताः ॥ १,७.९ ॥ एकदा तस्य भूपस्य सर्वसंपद्विनाशकृत् । अहॄङ्कारो महाञ्जज्ञे सासूयो लोपहेतुकः ॥ १,७.१० ॥ अहं राजा समस्तानां लोकानां पालको बली । कर्त्ता महाक्रतूनां च मत्तः पूज्योऽस्ति कोऽपरः ॥ १,७.११ ॥ अहं विचक्षणः श्रीमाञ्जिताः सर्वे मयरयः । वेदवेदाङ्गतत्त्वज्ञो नीतिशास्त्र विशारदः ॥ १,७.१२ ॥ अजेयोऽव्याहतैश्वर्यो मत्तः कोऽन्योऽधिको भुवि । अहॄङ्कारपरस्यैवं जातासूया परेष्वपि ॥ १,७.१३ ॥ असूयातोऽभवत्कामस्तस्य राज्ञो मुनीश्वर । एषु स्थितेषु तु नरो विनाषं यत्यसंशयम् ॥ १,७.१४ ॥ यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ १,७.१५ ॥ तस्यासूया नु महती जाता लोकविरोधिनी । स्वदेहनाशिनी विग्र सर्वसंपद्विनाशिनी ॥ १,७.१६ ॥ असूयाविष्टमनसि यदि संपत्प्रवर्त्तते । तुषाग्निं वायुसंयोगमिव जानीहि सुव्रत ॥ १,७.१७ ॥ असूयोपेतमनसां दम्भाचारवतां तथा । परुषोक्तिरतानां च सुखं नेह परत्र च ॥ १,७.१८ ॥ असूयाविष्टचित्ता नां सदा निष्ठुरभाषिणाम् । प्रियावा तनया वापि बान्धवा अप्यरातयः ॥ १,७.१९ ॥ मनोभिलाषं कुरुते यः समीक्ष्य परस्त्रियम् । स स्वसंपद्विनाशाय कुठारो नात्र संशयः ॥ १,७.२० ॥ यः स्वश्रेयोविनाशाय कुर्याद्यत्नं नरो मुने । सर्वेषां श्रेयसं दृष्ट्वा स कुर्यान्मत्सूरं कुधीः ॥ १,७.२१ ॥ मित्रापत्यगृहक्षेत्र धनधान्यपषुष्वपि । हानिमिच्छन्नरः कुर्यादसूयां सततं द्विज ॥ १,७.२२ ॥ अथ तस्याविनीतस्य ह्यसूयाविष्टचेतसः । हैहयास्ताललजङ्घाश्च बलिनोऽरातयोऽभवन् ॥ १,७.२३ ॥ यस्यानुकूलो लक्ष्मीशः सौभाग्यं तस्य वर्द्धते । स एव विमुखो यस्य सौभाग्यं तस्य हीयते ॥ १,७.२४ ॥ तावत्पुत्राश्च पौत्राश्च धनधान्यगृहादयः । यावदीक्षेत लक्ष्मीशः कृपापाङ्गेन नारद ॥ १,७.२५ ॥ अपि मूर्खान्धबधिरजडाः शूरा विवेकिनः । श्लाध्या भवन्ति विप्रेन्द्र प्रेक्षिता माधवेन ये ॥ १,७.२६ ॥ सौभाग्यं तस्य हीयेत यस्यासूयादिलाञ्छनम् । जायते नात्र संदेहो जन्तुद्वेषो विशेषतः ॥ १,७.२७ ॥ सततं यस्य कस्यापि यो द्वेषं कुरुते नरः । तस्य सर्वाणि नश्यन्ति श्रेयांसि मुनिसतम् ॥ १,७.२८ ॥ असूया वर्द्धते यस्य तस्य विष्णुः पराङ्मुखः । धनं धान्यं मही संपनद्विश्यति ततो ध्रुवम् ॥ १,७.२९ ॥ विवेकं हन्त्यहॄङ्कारस्त्वविवेकात्तु जीविनाम् । आपदः संभवन्त्येवेत्यहॄङ्कारं त्यजेत्ततः ॥ १,७.३० ॥ अहं कारो भवेद्यस्य तस्य नाशोऽतिवेगतः । असूयाविसृष्टमनसस्तस्य राज्ञः परैः सह ॥ १,७.३१ ॥ आयोधनमभीद्धोरं मासमेकं निरन्तरम् । हैहयैस्तालजङ्घैश्च रिपुभिः स पराजितः ॥ १,७.३२ ॥ स तु बाहुस्ततो दुःखी अन्तर्वत्न्या स्वभार्यया । अवाप परमां तुष्टिं तत्र दृष्ट्वा महत्सरः ॥ १,७.३३ ॥ असूयोपेतमनसस्तस्य भावं निरीक्ष्य च । सरोगतविहङ्गास्ते लीनाश्चित्रमिदं महत् ॥ १,७.३४ ॥ अहो कष्टमहो रुपं घोरमत्र समागतम् । विशन्तस्त्वरया वासमित्यूचुस्ते विहङ्गमाः ॥ १,७.३५ ॥ सोऽवगाह्यसरोभूपः पत्नीभ्यां सहितो मुता । पीत्वा जलं च सुखदं वृक्षमूलमुपाश्रितः ॥ १,७.३६ ॥ तस्मिन्बाहौ वनं याते तेनैव परिरक्षिताः । दुर्गुणान्विगणय्यास्यधिग्धिगित्यब्रुवन्प्रजाः ॥ १,७.३७ ॥ यो वा को वा गुणी मर्त्यः सर्वश्वाध्यतरोद्विजः । सर्वसंपत्समायुक्तोऽप्यगुणीनिन्दितो जनैः ॥ १,७.३८ ॥ अपकीर्तिसमो मृत्युर्लोकेष्वन्यो न विद्यते । यदा बाहुर्वनं यातस्तदा तद्रागगा जनाः । संतुष्टिं परमां याता दवथौ विगते यथा ॥ १,७.३९ ॥ निन्दातो बहुशो बाहुर्मृतवत्काननेस्थितः । निहत्य कर्म च यशो लोके द्वजवरोत्तम ॥ १,७.४० ॥ नास्त्यकीर्तिसमो मृत्युर्मास्ति क्रोधसमो रिपुः । नास्ति निन्दासमं पापं नास्ति मोहसमासवः ॥ १,७.४१ ॥ नास्त्यसूयासमा कीर्तिर्नास्ति कामसमोऽनलः । नास्ति रागसमः पाशो नास्ति सङ्गसमं विषम् ॥ १,७.४२ ॥ एवं विलप्यबहुधा बाहुरत्यन्तदुःखितः । जीर्णाङ्गोमनसस्तापाद्वृद्धभावादभूदसौ ॥ १,७.४३ ॥ गते बहुतिथे काले और्वाश्रमसमीपतः । स बाहुर्व्याधिना ग्रस्ते ममार मुनिसत्तम ॥ १,७.४४ ॥ तस्य भार्या च दुःखार्ता कनिष्ठा गर्भिणी तदा । चिरं विलप्य बहुधा सहगन्तुं मनो दधे ॥ १,७.४५ ॥ समानीय चसैधांसि चितां कृत्वातिदुःखिता । समारोप्य तन्पूरुढं स्वयं समुपचक्रमे ॥ १,७.४६ ॥ एतस्मिन्नन्तरे धीमनौर्वस्तेजोनिधिर्मुनिः । एतद्विज्ञातवान्सर्वं परमेण समाधिना ॥ १,७.४७ ॥ भूतं भव्यं वर्त्तमानं त्रिकालज्ञामुनीश्वराः । गतासूया महात्नानः पश्यन्तिज्ञान चक्षुषा ॥ १,७.४८ ॥ तपोभिस्तेजसां राशिरौर्वपुण्यसमो मुनिः । संप्रात्पस्तत्र साध्वी च यत्र बाहुप्रिया स्थिता ॥ १,७.४९ ॥ चितामारोढुमुद्युक्तां तां दृष्ट्वा मुनिसत्तमः । प्रोवाच धर्ममूलानि वाक्यानि मुनिसत्तमः ॥ १,७.५० ॥ और्व उवाच राजवर्यप्रिये साध्वि मा कुरुष्वातिसाहसम् । तवोदरे चक्रवर्ती शनुहन्ता हि तिष्टति ॥ १,७.५१ ॥ बालापत्याश्च गर्भिण्यो ह्यदृष्टऋतवस्तथा । रजस्वला राजसुतेनारोहति चिन्ताशुभो ॥ १,७.५२ ॥ ब्रह्महत्यादिपापानां प्रोक्ता निष्कृतिरुत्तमैः । दाम्भिनोनिन्दकस्यापि भ्रूणघ्रस्य न निष्कृतिः ॥ १,७.५३ ॥ नास्तिकस्य कृतन्घस्य धर्मोपेक्षाकरस्य च । विश्वासघातकस्यापि निष्कृतिर्नास्ति सुव्रते ॥ १,७.५४ ॥ तस्मादेतन्महत्पापं कर्त्तुं नार्हसि शोभने । यदेतद्दुःखमुत्पन्नं तत्सर्वं शान्तिमेष्यति ॥ १,७.५५॥ इत्युक्ता मुनिना साध्वी विश्वस्य तदनुग्रहम् । विललापातिदुःखार्ता समुह्यधवपत्कुजौ ॥ १,७.५६ ॥ और्वोऽपि तां पुनः प्राह सर्वशास्त्रार्थकोविदुः । मारोदीराज ननये श्रियमग्र्ये गमिष्यसि ॥ १,७.५७ ॥ मा भुं चास्त्रमाहाभागेप्रेतो दाह्योऽद्य सज्जनैः । तस्माच्छोकं परित्यज्य कुरु कालोचिता क्रि पाम् ॥ १,७.५८ ॥ पण्डिते वापिमूर्खे वा दरिद्रे वाश्रियान्विते । दुर्वृत्ते वा सुवृत्ते वा मृत्योःसर्वत्रतुल्यता ॥ १,७.५९ ॥ नगरे वा तथामन्ये दैन्यमत्रातिरिच्यते ॥ १,७.६० ॥ यद्यत्पुरातनं कर्मतत्तदेर्विह युज्यते । कारणं दैवमेवात्र मन्ये सोपाधिका जनाः ॥ १,७.६१ ॥ गर्भे वा बाल्यभावे वा यौवने वापि वार्द्धके । मृत्योर्वशं प्रयातव्यं जन्तुभिः कमलानने ॥ १,७.६२ ॥ हन्ति पाति च गोविन्द्रो जन्तून्कर्मवशे स्थितान् । प्रवादं रोपयन्त्यज्ञा हेतुमात्रेषु जन्तुषु ॥ १,७.६३ ॥ तस्मादुःखं परित्यज्य सुखिती भव सुव्रते । कुरु पत्युश्च कर्माणि विवेकेन स्थिरा भव ॥ १,७.६४ ॥ एतच्छरीरं दुःखानां व्याधीनामथुतैर्गृतम् । सुखाभासं बहुक्लेशं कर्मपाशेन यन्त्रितम् ॥ १,७.६५ ॥ इत्याश्चास्य महाबुद्धिस्तया कार्याण्यकारयत् । त्यक्तशोका च सा तन्वी नता प्राह मुनीश्वरम् ॥ १,७.६६ ॥ किमत्र चित्रं यत्सन्तः परार्थफलकाङ्क्षिणः । नहि द्रुमाश्च भोगार्थं फलन्ति जगतीतले ॥ १,७.६७ ॥ योऽन्यदुःखानि विज्ञाय साधुवाक्यैः प्रबोधयेत् । स एव विष्णुःसत्त्वस्थो यतः परिहिते स्थितः ॥ १,७.६८ ॥ अन्य दुःखेन यो दुःखी योऽन्यहर्षेण हर्षितः । स एव जगतामीशो नररुपधरो हरिः ॥ १,७.६९ ॥ सद्भिः श्रुतानि शास्त्राणि परदुःखविमुक्तये । सर्वेषां दुःखनाशाय इति सन्तो वदन्ति हि ॥ १,७.७० ॥ यत्र सन्तः प्रवर्त्तते तत्र दुःखं न बाधते । वर्तते यत्र मार्ताण्डः कथं तत्रतमो भवेत् ॥ १,७.७१ ॥ इत्येवं वादिनी सा तु स्वपत्युश्चापराः क्रियाः । चकार तत्सरस्तीरे मुनिप्रोक्तविधानतः ॥ १,७.७२ ॥ स्थिते तत्र मुनौ राजा देवराडिव संज्वलन् । चितामध्याद्विनिष्क्रम्य विमानवरमास्थितः । प्रपेदे परमं धाम नत्वा चौर्वं मुनीश्वरम् ॥ १,७.७३ ॥ महापातकयुक्ता वा युक्ता वा चोपपातकैः । परं पदं प्रयान्त्येव महद्भिरवलोकिताः ॥ १,७.७४ ॥ कलेवरं वा तद्भस्म तद्धूमं वापि सत्तम । यदि पश्यति पुण्यात्मा स प्रयाति परां गतिम् ॥ १,७.७५ ॥ पत्युः कृतक्रिया सा तु गत्वाश्रमपदंमुनेः । चकार तस्य शुश्रूषां सपत्न्या सह नारद् ॥ १,७.७६ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम सत्पमोऽध्यायः _____________________________________________________________ सनक उवाच एवमौर्वाश्रमे ते द्वे बाहुभार्ये मुनीश्वर । चक्राते भक्तिभावेन शुश्रूषआं प्रतिवासररम् ॥ १,८.१ ॥ गते वर्षार्ध्दके काले ज्येष्ठा राज्ञी तु या द्विज । तस्याः पापमतिर्जाता सपत्न्याः संपदं प्रति ॥ १,८.२ ॥ ततस्तया गरो दत्तः कनिष्ठायै तु पापया । न स्वप्रभावं चक्रे वै गरो मुनिनिषेवया ॥ १,८.३ ॥ भूलेपनादिभिः सम्यग्यतः सामुदिनं मुनेः । चकार सेवां तेनासौ जीर्णपुण्येन कर्मणा ॥ १,८.४ ॥ ततो मास त्रयेऽतीते गरेण सहितंसुतम् । सुषाव सुशुभे काले शुश्रूषानष्टकिल्बिषा ॥ १,८.५ ॥ अहो सत्संगतिर्लोके किं पापं न विनाशयेत् । न तदातिसुखं किं वा नराणां पुण्यकर्मणाम् ॥ १,८.६ ॥ ज्ञानाज्ञानकृतं पापं यच्चान्यत्कारीतं परैः । तत्सर्वं नाशयत्याशु परिचर्या महात्मनाम् ॥ १,८.७ ॥ जडोऽपि याति पूज्यत्वं सत्संगाज्जगतीतलं । कलामात्रोऽपि शीताशुः शंभुना स्वीकृतो यथा ॥ १,८.८ ॥ सत्संगतिः परामृद्धिं ददाति हि नृणां सदा । इहामुत्र च विग्नेन्द्र सन्तः पूज्यतमास्ततः ॥ १,८.९ ॥ अहो महग्दुणान्वक्तुं कः समर्थो मुनीश्वरा । गर्भं प्रात्पो गरो जीर्णो मासत्रयमहोऽद्भुतम् ॥ १,८.१० ॥ गरेण सहितं पुत्रं दृष्ट्वा तेजोनिधिर्मुनिः । जातकर्म चचकारासौ तन्नाम सगरेति च ॥ १,८.११ ॥ पुपोष सगरं बालं तन्माता प्रीतिपूर्वकम् । चौलोपवीतकर्माणि तथा चक्रे मुनीश्वरः ॥ १,८.१२ ॥ शास्त्राण्यध्यापयामास राजयोग्यानि मन्त्रवित् । समर्थं सगरं दृष्ट्वा किञ्चिदुद्भिन्नशैशवम् ॥ १,८.१३ ॥ मन्त्रवत्सर्व शास्त्रास्त्रं दत्तवान्स मुनीश्वरः । सगरः शिक्षितस्तेन सम्यगौर्वर्षिणा मुने ॥ १,८.१४ ॥ बभूव बलवान्धर्मि कृतज्ञो गुणवान्सुधीः । धर्मज्ञः सोऽपि सगरो मुनेरमिततेजसः । सभित्कुशांवुपुष्पादि प्रत्यहं समुपानयत् ॥ १,८.१५ ॥ स कदाचिद्गुणिनिधिः प्रणिपत्य स्वमातरम् । उवाच प्राञ्जलिर्भूत्वा सगरो विनयान्वितः ॥ १,८.१६ ॥ सगर उवाच मातर्गतः पिता कुत्र किंनामा कस्य वंशजः । तत्सर्वं मेसमाचक्ष्व श्रोतुं कौतूहलं मम ॥ १,८.१७ ॥ पित्रा विहीना ये लोके जीवन्तोऽपि मृतोपमाः ॥ १,८.१८ ॥ दरीद्रोऽपि पिता यस्य ह्यास्ते स धनदोपमः । यस्य माता पिता नास्ति सुखं तस्य न विद्यते ॥ १,८.१९ ॥ धर्महीनो यथा मूर्खः परत्रेह च निन्दितः । मातापितृविहीनस्य अज्ञस्याप्यविवेकिनः । अपुत्रस्य वृथां जन्म ऋणग्रस्तस्य चैव हि ॥ १,८.२० ॥ चन्द्रहीना यथा रात्रिः पह्महीनं यथा सरः । पतिहीना यथा नारी पितृहीनस्तथा शिशुः ॥ १,८.२१ ॥ धर्महीनो यथा जन्तुः कर्महीनो यथा गृही । पशुहीनो यथा वैश्यस्तया पित्रा विनार्भक्तः ॥ १,८.२२ ॥ सत्यहीनं यथा वाक्यं साधुहीना यथा सभा । तपो यथा दयाहीनं सथा पित्रा विवार्भकः ॥ १,८.२३ ॥ वृक्षहीनं यथारण्यं जलहीना यथा नदी । बेदहीनो यथा वाजी तथा पित्रा विनार्भक्तः ॥ १,८.२४ ॥ यथा लगुतरो लोके मातर्याव्ञापरो नरः । तथा पित्रा विहीनस्तु बहुदुःखान्वितः सुतः ॥ १,८.२५ ॥ इतीतितं सुतेनैषा श्रुत्वा निःश्वास्य दुःखिता । संपृष्टं तद्यथावृत्तं सर्वं तस्मै न्यवेदयत् ॥ १,८.२६ ॥ तच्छुत्वा सगरः क्रुद्धः कोपसंरक्त लोचनः । हनिष्यामीत्यरातीन्स प्रतिज्ञामकरोत्तदा ॥ १,८.२७ ॥ प्रदक्षिणीकृत्य मुनिं जननीं च प्रणम्य सः । प्रस्थापितः प्रतस्थे च तेनैव मुनिना वदा ॥ १,८.२८ ॥ और्वाश्रमाद्रिनिष्क्रान्तः सगरः सत्यवाक्शुचिः । वशिष्टं स्वकुलाचार्यं प्रात्पः प्रीतिसमन्वितः ॥ १,८.२९ ॥ प्रणम्य गुरवे तस्मै विशिष्टाय महात्मने । सर्वं विज्ञापत्रामास ज्ञानदृष्ट्या विजानते ॥ १,८.३० ॥ ऐन्द्रास्त्रं वारुणं ब्राह्ममाग्रेयं सगरो नृपः । तेनैव मुनिनावाप खड्गं वज्रोपमं धनुः ॥ १,८.३१ ॥ ततस्तेनाभ्यनुज्ञातः सगरः सौमनस्यवान् । आशीर्भिरर्चितः सद्यः प्रतस्थे प्रणिपत्य तम् ॥ १,८.३२ ॥ एकेनैव तु चापेन स शूरः परिपन्थिनः । सपुत्रपौत्रान्सगणानकरोत्स्वर्गासिनः ॥ १,८.३३ ॥ तच्चापमुक्तबाणाग्निसंततास्तदरातवः । केचिद्विनष्टा संत्रस्तास्तथा चान्ये प्रदुद्रुवुः ॥ १,८.३४ ॥ केचिद्विशीर्ण केशाश्चवल्मीकोपरि संस्थिताः । तृणान्यभक्षयन्केचिन्नग्राश्च विविशुर्जनलम् ॥ १,८.३५ ॥ शकाश्च यवनाश्वेवतथा चान्ये महीभृतः । सत्वरं शरणं जग्मुर्वशिष्टं प्राणलोलुपाः ॥ १,८.३६ ॥ जितक्षितिर्बाहुपुत्रो रिपून्गुरुसमीपगान् । चारैर्विज्ञातवान्सद्यः प्रात्प श्चाचार्यसन्निधिम् ॥ १,८.३७ ॥ तमागतं बाहुसुतं निशम्य मुनिर्वशिष्टः शरणागतांस्तान् । त्रातुं च शिष्याभिहितं च कर्तुं विवारयामास तदा क्षणेन ॥ १,८.३८ ॥ चकार मुण्डाञ्शबरान्यवनांल्लम्बमूर्द्धजान् । अन्धांश्च श्मश्रुलान्सर्वान्मुण्डान्वेदवहिष्कृतान् ॥ १,८.३९ ॥ वसिष्टमुनिना तेन हतप्रायान्निरीक्ष्य सः । प्रहसन्प्राह सगरः स्वगुरुं तपसो निधिम् ॥ १,८.४० ॥ ॥ सागर उवाच भो भो गुरो दुराचारानेतान्रक्षसि तान्वृथा । सर्वथाहं हनिष्यामि मत्पितुर्देशहारकान् ॥ १,८.४१ ॥ उपेक्षेत समर्थः सन्धर्मस्य परिपन्थिनः । स एव सर्वनाशाय हेतुभूतो न संशयः ॥ १,८.४२ ॥ बान्धवं प्रथमं मत्वा दुर्जताः सकलं जगत् । त एव बलहीनाश्चेद्भजन्तेऽत्यन्तसाधुताम् ॥ १,८.४३ ॥ अहो मायाकृतं कर्म खलाः कश्मलचेतसः । तावत्कुर्वन्ति कार्याणि यावत्स्यात्प्रबलं बलम् ॥ १,८.४४ ॥ दासभावं च शत्रूणां वारस्त्रीणां च सौहृदम् । साधुभावं च सर्पाणां श्रेयस्कामो न विश्वसेत् ॥ १,८.४५ ॥ प्रहासं कुर्वते नित्यं यान्दन्तान्दर्शयन्खलाः । तानेव दर्शयन्त्याशु स्वसामर्थ्य विपर्यये ॥ १,८.४६ ॥ पिशुना जिह्वया पूर्वं परुषं प्रवदन्ति च । अतीव करुणं वाक्यं वदन्त्येव तथाबलाः ॥ १,८.४७ ॥ श्रेयस्कामो भवेद्यस्तु नीतिशास्त्रार्थकोविदः । साधुत्वं समभावं च खलानां नैव विश्वसेत् ॥ १,८.४८ ॥ दुर्जनं प्रणतिं यान्ते मित्रं कैतवशीलितम् । दुष्टां भार्यां च विश्वस्तो मृत एव न संशयः ॥ १,८.४९ ॥ मा रक्ष तस्मादेतान्वै गोरुपव्याघ्रकर्मिणः । हत्वैतानखिलान् दुष्टांस्त्वत्प्रसादान्महीं भजे ॥ १,८.५० ॥ वशिष्टस्तद्वचः श्रुत्वा सुप्रीतो मुनिसत्तमः । कराभ्यां सगस्ययाङ्गं स्पृशन्निदमुवाच ह ॥ १,८.५१ ॥ वसिष्ट उवाच साधु साधु महाभाग सत्यं वदसि सुव्रत । तथापि मद्वचऋ श्रुत्वा परां शान्तिं लभिष्यसि ॥ १,८.५२ ॥ मयैते निहिताः पूर्वं त्वत्प्रतिज्ञाविरोधिनः । हातानां हनवे कीर्तिः का समुत्पद्यते वद ॥ १,८.५३ ॥ भूमीश जन्तवः सर्वे कर्मपाशेन यन्त्रिताः । तथापि पापैर्निहताः किमर्थं हंसि तान्पुनः ॥ १,८.५४ ॥ देहस्तु पापजनितः पूर्वपमेवैनसा हतः । आत्मा ह्यभेद्यः पूर्णत्वाच्छास्त्राणामेष निश्चयः ॥ १,८.५५ ॥ स्वकर्मफलभोगानां हेतुमात्रा हि जन्तवः । कर्माणि दैवमूलानि देवाधीनमिदं जगत् ॥ १,८.५६ ॥ आत्मा ह्यभेद्यः रक्षिता दुष्टशिक्षिता । ततो नरैरस्वतन्त्रैः किं कार्यं साध्यते वद ॥ १,८.५७ ॥ शरीरं पापसंभूतं पापेनैव प्रवर्तते । पापमूलमिदं ज्ञात्वा कथं हन्तुं समुद्यतः ॥ १,८.५८ ॥ आत्मा शुद्धोऽपि देहस्थो देहीति प्रोच्यते बुधैः । तस्मादिदं वपुर्भूप पापमूलं न संशयः ॥ १,८.५९ ॥ पापमूलवपुर्हन्तुः का कीर्तिस्तव बाहुज । भविष्यतीति निश्चित्य नैतान्हिंसीस्ततः सुत ॥ १,८.६० ॥ इति श्रुत्वा गुरोर्वाक्यं विरराम स कोपतः । स्पृशन्करेण सगरं नन्दनं मुनयस्तदा ॥ १,८.६१ ॥ अथाथर्वनिधिस्तस्य सगरस्य महात्मनः । राज्याभिषेकं कृतवान्मुनिभिः सह सुव्रतैः ॥ १,८.६२ ॥ भार्याद्वयं च तस्यासीत्केशिनी सुमति स्तथा । काश्यपस्य विदर्भस्य तनये मुनसत्तम ॥ १,८.६३ ॥ राज्ये प्रतिष्टिते दृष्ट्वा मुनिरौर्वस्तपोनिधिः । वनादागत्य राजानं संभाष्य स्वाश्रमं ययौ ॥ १,८.६४ ॥ कदाचित्तस्य भूपस्य भार्याभ्यां प्रार्थितोमुनिः । वरं ददावपत्यार्थमौर्वो भार्गवमन्त्रवित् ॥ १,८.६५ ॥ क्षणं ध्यानस्थितो भूत्वा त्रिकालज्ञो मुनीश्वरः । केशितीं सुमतिं चैव इदमाह प्रहर्षयम् ॥ १,८.६६ ॥ और्व उवाच एका वंशधरं चैकमन्या षड्युतानि च । अपत्यार्थं महाभागे वृणुतां च यथेप्सितम् ॥ १,८.६७ ॥ अथ श्रुत्वा वचस्तस्य मुनेरौर्वस्य नारद । केशिन्येकं सुतं वव्रे वंशसन्तानकारणम् ॥ १,८.६८ ॥ षष्टिसहस्राणि सुमत्या ह्यभवन्सुताः । नाम्नासमञ्जाः केशिन्यास्तनयो मुनिसत्तम ॥ १,८.६९ ॥ असमञ्जास्तु कर्माणि चकारोन्मत्तचेष्टितः । तं दृष्ट्वा सागराः सर्वे ह्यासन्दुर्वृत्तचेतसः ॥ १,८.७० ॥ तद्वालभावं संदुष्टं ज्ञात्वा बाहुसुतो नृपः । चिन्तयामास विधिवत्पुत्रकर्म विगर्हिनम् ॥ १,८.७१ ॥ अहो कष्टतरा लोके दुर्जनानां हि संगतिः । कारुकैस्ताड्यते वह्णिरयःसंयोगमात्रतः ॥ १,८.७२ ॥ अंशुमान्नाम तनयो बभूव ह्यसमञ्जसः । शास्त्रज्ञो गुणवान्धर्मी पितामहहिते रतः ॥ १,८.७३ ॥ दुर्वृत्ताः सागराः सर्वे लोकोपद्रव कारिणः । अनुष्टानवतां नित्यमन्तराया भवन्ति ते ॥ १,८.७४ ॥ हुतानि यानि यज्ञेषु हवींषि विधित्रद्दिजैः । बुभुजे तानि सर्वाणि निराकृत्य दिवौकसः ॥ १,८.७५ ॥ स्वर्गादाहृत्य सवतं रम्भाद्या देवयोषितः । भजन्ति सागरास्ता वै कचग्रहबलात्कृताः ॥ १,८.७६ ॥ पारिजातादिवृक्षाणां पुष्पाण्याहृत्य ते खलाः । भूषयन्ति स्वदेहानि मद्यपानपरायणाः ॥ १,८.७७ ॥ साधुवृत्तीः समाजह्नुः सदाचाराननाशयन् । मित्रैश्च योद्रुमारब्धा बलिनोऽत्यन्तपापिनः ॥ १,८.७८ ॥ एतद्दृष्ट्वातिदुःखार्ता देवा इन्द्रपुरोगमाः । विचारं परमं चक्रुरेतेषुं नाशहेतवे ॥ १,८.७९ ॥ निश्चित्य विवुधाः सर्वे पातालान्तरगोचरम् । कपिलं देवदेवेशं ययुः प्रच्छन्नरुपिणः ॥ १,८.८० ॥ ध्यायन्तमात्मनात्मानं परानैदैकविग्रहम् । प्राणम्य दण्डवद्रूमौ तुष्टुवुव्रिदशास्ततः ॥ १,८.८१ ॥ देवा ऊचुः नमस्ते योगिने तुभ्यां साङ्ख्ययोगरताय च । नररुपप्रतिच्छिन्नविष्णवे जिष्णवे नमः ॥ १,८.८२ ॥ नमः परेशभक्ताय लोकानुग्रहहेतवे । संसारारण्यदावाग्रे धर्मपालनसेतवे ॥ १,८.८३ ॥ महते वीतरागाय तुभ्यं भूयो नमो नमः । सागरैः पीडितानस्मांस्त्रायस्व शरणागतान् ॥ १,८.८४ ॥ कपिल उवाच ये तु नाशमिहेच्छन्ति यशोबलधनायुषाम् । त एव लोकान्बाधन्ते नात्राश्वार्यं सुगेतमाः ॥ १,८.८५ ॥ यस्तु बाधितुमिच्छेत जनान्निरपराधिनः । तं विद्यात्सर्वलोकेषु पापभोगरतं सुराः ॥ १,८.८६ ॥ कर्मणा मनसा वाचा यस्त्वन्यान्बाधते सदा । तं हन्ति दैवमेवाशु नात्र कार्या विचारणा ॥ १,८.८७ ॥ अल्पैरहोभिरे वैते नाशमेष्यन्ति सागराः । इत्युक्तं मुनिना तेन कपिलेन महात्मना । प्रणम्य तं यथान्यायं गता नाकं दिवौकसः ॥ १,८.८८ ॥ अत्रान्तरे तु सगरोवसिष्टाद्यैर्महर्षिभिः । आरेभे हयमेधाख्यं यज्ञं कर्त्तुमनुत्तमम् ॥ १,८.८९ ॥ तद्यज्ञे योजितं सत्पिमपहृत्य सुरेश्वरः । पाताले स्थापयामास कपिलो यत्र तिष्टति ॥ १,८.९० ॥ गूढविग्रहशक्रेण हृतमश्वं तु सागराः । अन्वेष्टुं बभ्रभुर्लोकान् भूरादींश्च सुविस्मिताः ॥ १,८.९१ ॥ अहष्टसत्पयस्ते च पातालं गन्तु मुद्यताः । चख्नुर्महीतलं सर्वमेकैको योजनं पृथक् ॥ १,८.९२ ॥ मृत्तिकां खनितां ते चौदधितीरे समाकिरन् । तद्वारेण गताः सर्वे पातालं सगरात्मजाः ॥ १,८.९३ ॥ विचिन्वन्ति हयं तत्र मदोन्मत्ता विचेतसः ॥ १,८.९४ ॥ तत्रापश्यन्महात्मानं कोटिसूर्यसमप्रभम् । कपिलं ध्याननिरतं वाजिनं च तदन्तिके ॥ १,८.९५ ॥ ततः सर्वे तु संरब्धा मुनिं दृष्ट्वातिवेगतः । हन्तुमुद्युक्तमनसो विद्रवन्तः समासदन् ॥ १,८.९६ ॥ हन्यतां हन्यतामेष वध्यतां वध्यतामयम् । गुह्यतां गृह्यतामाशु इत्यूचुस्ते परस्परम् ॥ १,८.९७ ॥ हृताश्वं साधुभावेन बकवद्ध्यानतत्परम् । सन्ति चारो खला लोके कुर्वन्त्याडम्बरं महत् ॥ १,८.९८ ॥ इत्युच्चरन्तो जहसुः कपिलं ते मुनीश्वरम् । समस्तेन्द्रियसंदोहं नियम्यात्मानमात्मनि ॥ १,८.९९ ॥ आस्थितः कपिलस्तेषां तत्कर्म ज्ञातवान्नहि ॥ १,८.१०० ॥ आसन्नमृत्यवस्ते तु विनष्टमतयो मुनिम् । पद्भिः संताडयामासुर्बुहूं च जगृहुः परे ॥ १,८.१०१ ॥ ततस्त्यक्तसमाधिस्तु स मुनिर्विस्मितस्तदा । उवाच भावगम्भीरं लोकोपद्रवकारिणः ॥ १,८.१०२ ॥ ऐश्वर्यमदमत्तानां क्षुधितानां च कामिनाम् । अहॄङ्कारविमूढानां विवेको नैव जायते ॥ १,८.१०३ ॥ निधेराधारमात्रेण मही ज्वलति सर्वदा । तदेव मानवा भुक्त्वा ज्वलन्तीति किमद्भुतम् ॥ १,८.१०४ ॥ किमत्र चित्रं सुजनं बाधन्ते यदि दुर्जनाः । महीरुहां श्चानुतटे पातयन्ति नदीरयाः ॥ १,८.१०५ ॥ यत्र श्रीर्यौंवनं वापि शारदा वापि तिष्टति । तत्राश्रीर्वृद्धता नित्यं मुर्खत्वं चापि जायते ॥ १,८.१०६ ॥ अहो कनकमाहात्म्यमाख्यातुं केन शक्यते । नामसाम्यादहो चित्रं धत्तूरोऽपिमदप्रदः ॥ १,८.१०७ ॥ भवेद्यदि खलस्य श्रीः सैव लोकविनाशिनी । यथा सखाग्नेः पवनः पन्नगस्य यथा विषम् ॥ १,८.१०८ ॥ अहो धनमदान्दस्तु पश्यन्नपि न पश्यति । यदि पश्यत्यामहितं स पश्यति न संशयः ॥ १,८.१०९ ॥ इत्युक्त्वा कपिलः क्रुद्धो नेत्राभ्यां ससृजेऽनलम् । स वह्निः सागरान्सर्वान्भस्मसादकरोत्क्षणात् ॥ १,८.११० ॥ यन्नेत्रजानलं दृष्ट्वा पातालतलवासिनः । अकालप्रलयं मत्वा चुक्रुशुः शोकलालसाः ॥ १,८.१११ ॥ तदग्नितापिताः सर्वे दन्दशूकाश्च राक्षसाः । सागरं विविशुः शीघ्रं सतां कोपो हि दुःसहः ॥ १,८.११२ ॥ अथ तस्य महीपस्य समागम्याध्वरं तदा । देवदूत उवाचेदं सर्वं वृत्तं हि यक्षते ॥ १,८.११३ ॥ एतत्समाकर्ण्य वचः सगरः सर्ववित्प्रभुः । दैवेन शिक्षिता दुष्टा इत्युवाचाति हर्षितः ॥ १,८.११४ ॥ माता वा जनको वापि भ्राता वा तनयोऽपि वा । अधर्मं कुरुते यस्तु स एव रिपुरिष्यते ॥ १,८.११५ ॥ यस्त्वधर्मेषु निरतः सर्वलोकविरोधकृत् । तं रिपुं परमं विद्याच्छास्त्राणामेष निर्णयः ॥ १,८.११६ ॥ सगरः पुत्रनाशेऽपि न शुशोच मुनीश्वरः । दुर्वृत्तनिधनं यस्मात्सतामुत्साह कारणम् ॥ १,८.११७ ॥ यज्ञेष्वनधिकारत्वादपुत्राणामिति स्मृतेः । पौत्रं तमंशुमन्तं हि पुत्रत्वे कतवान्प्रभुः ॥ १,८.११८ ॥ असमञ्जःसुतं तु सुधीयं वाग्विदांवरम् । युयोज सारविद्भूयो ह्यश्चानयनकर्मणि ॥ १,८.११९ ॥ स गतस्तद्विलद्वारे दृष्ट्वा तं मुनिपुङ्गवम् । कपिलं तेजसांराशिं साष्टाङ्गंप्रणनामहा ॥ १,८.१२० ॥ कृताञ्जलिपुटो भूत्वा विनये नाग्रतः स्थितः । उवाच शान्तमनसं देवदेवं सनातनम् ॥ १,८.१२१ ॥ अंशुमानुवाच दौःशील्यं यत्कृतं ब्रह्मन्मत्पितृव्यैः क्षमस्वतत् । परोपकारनिरताः क्षमासारा हि साधवः ॥ १,८.१२२ ॥ दुर्जनेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । नहि संहरतेज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥ १,८.१२३ ॥ बाध्यमानोऽपि सुजनः सर्वेषां सुखकृद्भवेत् । ददाति परमां तुष्टिं भक्ष्यमाणोऽमरैः शशी ॥ १,८.१२४ ॥ दारितश्छिन्न एवापि ह्यामोदेनैव चन्दनः । सौरभं कुरुते सर्वं तथैव सुजनोजनः ॥ १,८.१२५ ॥ क्षान्त्या च तपसा चारैस्तद्गुणज्ञा मुनीश्वराः । संजातं शासितुं लोकांस्त्वां विदुः पुरुषोत्तम ॥ १,८.१२६ ॥ नमो ब्रह्मन्मुने तुभ्यं नमस्ते ब्रह्ममूर्त्तये । नमो ब्रह्मण्यशीलाय ब्रह्मध्यानपराय च ॥ १,८.१२७ ॥ इति स्तुतो मुनिस्तेन प्रसन्नवदनस्तदा । वरं वरय चेत्याह प्रसन्नोऽस्मि तवानघ ॥ १,८.१२८ ॥ एवमुक्ते तु मुनिना ह्यंशुमान्प्रणिपत्यतम् । प्रापयास्मत्पितॄन्ब्राह्मं लोकमित्यभ्यभाषत ॥ १,८.१२९ ॥ ततस्तस्यादिसंतुष्टो मुनिः प्रोवाच सादरम् । गङ्गामानीय पौत्रस्ते नयिष्यति पितॄन्दिवम् ॥ १,८.१३० ॥ त्वत्पौत्रेण समानीता गङ्गा पुण्यजला नदी । कृत्वैतान्धूतपापान्वै नयिष्यति परं पदम् ॥ १,८.१३१ ॥ प्रापयैनं हयं वत्स यतः स्यात्पूर्णमध्वरम् । पितामहान्तिकं प्राप्य साश्वं वृत्तं न्यवेदयत् ॥ १,८.१३२ ॥ सगरस्तेन पशुना तं यज्ञं ब्रह्मणैः सह । विधाय तपसा विष्णुमाराध्यापपदंहरेः ॥ १,८.१३३ ॥ जज्ञे ह्यंशुमतः पुत्रो दिलीप इति विश्रुतः । तस्माद्भगीरथो जातो यो गङ्गामानयद्दिवः ॥ १,८.१३४ ॥ भगीरथस्य तपसा तुष्टो ब्रह्मा ददौ मुने । गङ्गां भगीरथायाः चिन्तयामा स धारणे ॥ १,८.१३५ ॥ ततश्च शिवमाराध्य तद्द्वारा स्वर्णदीं भुवम् । आनीय तज्जलैः स्पृष्ट्वा पूतान्निन्ये दिवं पितॄन् ॥ १,८.१३६ ॥ भगीरथान्वये जातः सुदसो नाम भूपतिः । यस्य पुत्रो मित्रसहः सर्वलोकेषु विश्रुतः ॥ १,८.१३७ ॥ वशिष्टशापात्प्रात्पः स सौदासो राक्षसीं तनुम् । गङ्गाबिन्दुनिषेवेणंपुनर्मुक्तो नृपोऽभवत् ॥ १,८.१३८ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम अष्टमोऽध्यायः _____________________________________________________________ नारद उवाच शत्पः कथं वसिष्टेन सौन्दासो नृपसत्तमः । गङ्गाबिन्दूभिषेकेण पुनः शुद्धोऽबयत्कथम् ॥ १,९.१ ॥ सर्वमेतदशेषेण भ्रातर्मे वक्तुमह्रसि । शृण्वतां वदतां चैव गङ्गाख्यानं शुभावहम् ॥ १,९.२ ॥ सनक उवाच सौदासः सर्वधर्मज्ञः सर्वज्ञो गुणवाञ्छुचिः । बुभुजे पृथिवीं सर्वां पितृवद्रञ्जयन्प्रजाः ॥ १,९.३ ॥ सगेरण यथा पूर्वं महीयं सत्पसागरा । रक्षिता तद्वदमुना सर्वधर्माविरोधिना ॥ १,९.४ ॥ पुत्रपौत्रसमायुक्तः सर्वैश्वर्यसमन्वितः । त्रिंशदष्टसहस्राणि बुभुजे पृथिवीं युवा ॥ १,९.५ ॥ सौदासस्त्वेकदा राजा मृगयाभिरतिर्वनम् । विवेश्व सबलः सम्यक्शोधितं ह्यासमन्त्रिभिः ॥ १,९.६ ॥ निषादैः सदितस्तत्र विनिघ्रन्मूगलञ्चयम् । आससाद नदीं रेवां धर्मज्ञः स पिपासितः ॥ १,९.७ ॥ सुदासतनयस्तत्र स्नात्वा कृत्वाह्निकं मुने । भुक्त्वा च मन्त्रिभिः सार्ध्दं तां निशां तत्र चावसत् ॥ १,९.८ ॥ ततः प्रातः समुथाय कृत्वा पौर्वाह्निकीं क्रियाम् । बभ्राम मन्त्रिसहितो नर्मदातीरजे वने ॥ १,९.९ ॥ वनाद्वनान्तरं गच्छन्नेक एव महीपत्तिः । आकर्णकृष्टबाणः सत्कृष्णसारं समन्वगात् ॥ १,९.१० ॥ दूरसैन्योऽश्वमारूढः स राजानुव्रजन्मृगम् । व्याघ्रद्वयं गुहासंस्थमपश्थमपश्यत्सुरते रतम् ॥ १,९.११ ॥ मृगपृष्टं परित्यज्य व्याघ्रयोः संमुखं ययौ । धनुःसंहितबाणेन तेनासौ शरशास्त्रवित् ॥ १,९.१२ ॥ तां व्याघ्रीं पातयामास तीक्ष्णाग्रनतपर्वणा । पतमाना तु साव्याघ्री षट्रत्रिंशद्योजनायता ॥ १,९.१३ ॥ तडित्वद्धोरनिर्घोषा राक्षसी विकृताभवत् । पतितां स्वप्रियां वीक्ष्य द्विषन्स व्याघ्रराक्षसः ॥ १,९.१४ ॥ प्रतिक्रियां करिष्यामीत्युक्तवा चान्तर्दधे तदा । राजा तु भयसंविग्नो वनेसैन्यं समेत्य च ॥ १,९.१५ ॥ तद्रृत्तं कथयन्सर्वान्स्वां पुरीं स न्यवर्त्तत । शङ्कमानस्तु तद्रक्षःकृत्या द्राजा सुदासजः ॥ १,९.१६ ॥ परितत्याज मृगयां ततः प्रभृति नारद । गते बहुतिथे काले हयमेधमखं नृपः ॥ १,९.१७ ॥ समारेभे प्रसन्नात्मा वशिष्टाद्यमुनीश्वरैः । तत्र ब्रह्मादिदेवेभ्यो हविर्दत्त्वा यथाविधि ॥ १,९.१८ ॥ समाप्य यज्ञनिष्क्रान्तो वशिष्टः स्त्रातकोऽपि च । अत्रान्तरे राक्षसोऽसौ नृपहिसितभार्यकः । कर्तुं प्रतिक्रियां राज्ञे समायातोरुषान्वितः ॥ १,९.१९ ॥ स राक्षसस्तस्य गुरौ प्रयाते वशिष्टवेषं तु तदैव धृत्वा । राजानमभ्येत्य जगाद भोक्ष्ये मांसं समिच्छाम्यहमित्युवाच ॥ १,९.२० ॥ भूयः समास्थाय स सूदवषं पक्त्वामिषं मानुपमस्य वादात् । स्थितश्च राजापि हरि यपात्रे धृत्वा गुरोरागमनं प्रतीक्षन् ॥ १,९.२१ ॥ तन्मांसं हेमपात्रस्थं सौदासो विनयान्वितः । समागताय गुरुवे ददौ तस्मौ ससादरम् ॥ १,९.२२ ॥ तं दृष्ट्वा चिन्तयामास गुरुः किमिति विस्मितः ॥ १,९.२३ ॥ अपश्यन्मानुषं मासं परमेण समाधिना । अहोऽस्य राज्ञो दौःशील्यमभक्ष्यं दत्तवान्मम ॥ १,९.२४ ॥ इति विरमयमापन्नः प्रमन्युरभवन्मुनिः । अभोऽज्यं मद्विघाताय दत्त हि पृथिवीपते ॥ १,९.२५ ॥ तस्मात्तवापि भवतु ह्येतदेव हि भोजनम् । नृमांसं रक्षसामेव भोज्यं दत्तं मम त्वया ॥ १,९.२६ ॥ तद्याहि राक्षसत्वं त्वं तदाहारोचितं नृपा । इति शापं ददत्यस्मिन्सौदासो भयविह्वूलः ॥ १,९.२७ ॥ आज्ञत्पो भवतैवेति सकंपोऽस्म व्यजिज्ञपत् । भूराशृ चिन्तयामास वशिष्टस्तेन नोदितः ॥ १,९.२८ ॥ रक्षसा वञ्चितं भूपं ज्ञातवान् दिव्यचक्षुषा । राजापि जलमादाय वशिष्टं शप्तुमुद्यतः ॥ १,९.२९ ॥ समुद्यतं गुरुं शप्तं दृष्ट्वा भूयो रुषान्वितम् । मदयन्ती प्रियातस्य प्रत्युवाचाथ सुव्रता ॥ १,९.३० ॥ मदयन्त्युवाच भो भो क्षत्रियदायाद कोप संहर्तुमर्हसि । त्वया यत्कर्म भोक्तव्यं तत्प्रात्पं नात्र संशयः ॥ १,९.३१ ॥ गुरु तुकृत्य हुङ्कृत्य यो वदेन्मृढधीर्नरः । अरण्ये निर्जले देश स भवेद्धह्यराक्षसः ॥ १,९.३२ ॥ जितेन्द्रिया जितक्रोधा गुरु शुश्रूषणे रताः । प्रयान्ति ब्रह्मसदनमिति शास्त्रेषु निश्चयः ॥ १,९.३३ ॥ तयोक्तो भूपतिः कोपं त्यक्त्वा भार्यां ननन्द च । जलं कुत्र क्षिपामीति चिन्तयामास चात्मना ॥ १,९.३४ ॥ तज्जलं यत्र संसिक्तं तद्भवेद्भस्म निश्चितम् । इति मत्वा जलं तत्तु पादयोर्न्यक्षिपत्स्वयम् ॥ १,९.३५ ॥ तज्जलस्पशिमात्रेण पादौ कल्माषतां गतौ । कल्माषपाद इत्येवं ततः प्रभृति विस्तृतः ॥ १,९.३६ ॥ कल्माषपादो मतिमान् प्रिययाश्चासितस्तदा । मनसा सोऽतिभीतस्तु ववन्दे चरणं गुरोः ॥ १,९.३७ ॥ उवाच च प्रपन्नस्तं प्राञ्जलिर्नयकोविदः । क्षमस्व भगवन्सर्वं नापराधः कृतो मया ॥ १,९.३८ ॥ तच्छुत्वोवाच भूपालं मुनिर्निःश्वस्य दुःखितः । आत्मानं गर्हयामास ह्यविवेकपरायणम् ॥ १,९.३९ ॥ अविवेरो हि सर्वेषामापदां परमं पदम् । विवेकरहितो लोके पशुरेव न संशयः ॥ १,९.४० ॥ राज्ञा त्वजानता नूनमेतत्कर्मोचितं कृतम् । विवेकरहितोऽज्ञोऽहं यतः पापं समाचरेत् ॥ १,९.४१ ॥ विवेकनियतो याति यो वा को वापि निर्वृत्तिम् । विवेकहीनमान्पोति को वा यो वाप्यनिर्वृतिम् ॥ १,९.४२ ॥ इत्युक्तवा चात्मनात्मानं प्रत्युवाच मुनिर्नृपम् । नात्यन्तिङ्कं भवेदेतद्दादशाब्दं भविष्यति ॥ १,९.४३ ॥ गङ्गाबिन्दूभिषिक्तस्तु त्यक्त्त्वा वै राक्षसीं तनुम् । पूर्वरुपं त्वमापन्नो भोक्ष्यसे मेदिनीमिमाम् ॥ १,९.४४ ॥ तद्विन्दुसेकसंभूतज्ञानेन गतकल्मषः ॥ हरिसेवापरो भूत्वा परां शान्तिं गमिष्यसि ॥ १,९.४५॥शुभावहम् इत्युक्त्वाथर्वविद्भूपं वशिष्टः स्वाश्रमं ययौ । राजापि दुःखसंपन्नो राक्षसीं तानुमाश्रितः ॥ १,९.४६ ॥ क्षुत्पपासाविशेषार्तो नित्यं क्रोधपरायणः । कृष्णक्षपाद्युतिर्भीमो बभ्राम विजने वने ॥ १,९.४७ ॥ मृगांश्च विविधांस्तत्र मानुषांश्च सरीसृपान् । विहङ्गमान्प्लवङ्गांश्च प्रशस्तांस्तानभक्षयत् ॥ १,९.४८ ॥ अस्थिभिर्बहुभिर्भूयः पीतरक्तकलेवरैः । रक्तान्तप्रेतकेशैशअच चित्रासीद्भूर्भयङ्करी ॥ १,९.४९ ॥ ऋतुत्रये स पृथिवीं शतयो जनविस्तृताम् । कृत्वातिदुःखितां पश्चाद्वनान्तरमुपागमत् ॥ १,९.५० ॥ तत्रापि कृतवान्नित्यं नरमांसाशनं सदा । जगाम नर्मदातीरं मुनिसिद्धनिषेवितम् ॥ १,९.५१ ॥ विचरन्नर्मदातीरे सर्वलोकभयङ्करः । अपश्यत्कञ्चन मुनिं रमन्तं प्रियया सह ॥ १,९.५२ ॥ क्षुधानलेन संतत्पस्तं मुनिं समुपाद्रवत् । जाग्राह चातिवेगेन व्याधो मृगशिशं यथा ॥ १,९.५३ ॥ ब्राह्मणी स्वपतिं वीक्ष्य निशाचरकरस्थितम् । शिरस्यञ्जलिमाधाय प्रोवाच भयविह्वाला ॥ १,९.५४ ॥ ब्राह्मण्युवाच भो भो नृपतिशार्दूल त्राहि मां भयविह्वलाम् । प्राणप्रिय प्रदानेन कुरु पूर्णं मनोरथम् ॥ १,९.५५ ॥ नान्मा मित्रसहस्त्वं हि सूर्यवंशसमुद्भवः । न राक्षसस्ततोऽनाथां पाहि मां विजने वने ॥ १,९.५६ ॥ या नारी भर्त्तृरहिता जीवत्यपि मृतोपमा । तथापि बालवैधव्यं किं वक्ष्याम्यरिमर्दन ॥ १,९.५७ ॥ न मातापितरौ जाने नापि बन्धुं च कञ्चन । पतिरेव परो बन्धुः परमं जीवनं मम ॥ १,९.५८ ॥ भवान्येत्त्यखिलान्धर्मान्योषितां वर्त्तनं यथा । त्रायस्व बन्धुरहितां बालापत्यां जनेश्वर ॥ १,९.५९ ॥ कथं जीवामि पत्यास्मिन्हीना हि विजने वने । दुहिताहं भगवतस्त्राहि मां पतिदानतः ॥ १,९.६० ॥ प्रणदानात्परं दानं न भूतं न भविष्यति । वदन्तीति महाप्राज्ञाः प्राणदानं कुरुष्व मे ॥ १,९.६१ ॥ इत्युक्तावा सा पपातास्य राक्षसस्य पदाग्रतः । एवं संप्रार्थ्यमानोऽपि ब्राह्मण्या राक्षसो द्विजम् ॥ १,९.६२ ॥ अभक्षयकृष्णसारशिशुं व्याघ्रो यथा बलात् ॥ १,९.६२ ॥ ततो विलप्य बहुधा तस्य पत्नी पतिव्रता । पूर्वशापहतं भूपमशपत्क्रोधिता पुनः ॥ १,९.६३ ॥ पतिं मे सुरतासक्तं यस्माद्धिंसितवान्बलात् । तस्मात्स्त्रीसङ्गमं प्रात्पस्त्वमपि प्राप्स्यसे मृतिम् ॥ १,९.६४ ॥ शत्वैवं ब्राह्मणी क्रुद्धा पुनः शापान्तरं ददौ । राक्षसत्वं ध्रुवं तेऽस्तु मत्पतिर्भक्षितो यतः ॥ १,९.६५ ॥ सोऽपि शापद्वयं श्रुत्वा तया दत्तं निशाचरः । प्रमन्युः प्राहि विसृजन्कोपादङ्गारसंचयम् ॥ १,९.६६ ॥ दुष्टे कस्मात्प्रदत्तं मेवृथा शापद्वयं त्वया । एकस्यैवापराधस्य शापस्त्वेको ममोचितः ॥ १,९.६७ ॥ यस्मात्क्षिपसि दुष्टाग्येमयि शापन्तरं ततः । पिशाचयोनिमद्यैव याहि पुत्रसमन्विता ॥ १,९.६८ ॥ तेनैवं ब्रह्मणी शत्पा पिशाचत्वं तदा गता । क्षुधार्ता सुस्वरं भीमारुरोदापत्यसंयुता ॥ १,९.६९ ॥ राक्षसश्च पिशाची च क्रोशन्तौ निर्जने वने । जग्मतुर्नर्मदातीरे वनं राक्षससेवितम् ॥ १,९.७० ॥ औदासीन्यं गुरौ कृत्वा राक्षसीं तनुमा श्रितः । तत्रास्ते दुःखसंतत्पः कश्चिल्लोकविरोधकृत् ॥ १,९.७१ ॥ राक्षसं च पिशाचीं च दृष्ट्वा रववटमागतौ । उवाच क्रोधबहुलो वटस्थो ब्रह्मराक्षसः ॥ १,९.७२ ॥ किमर्थमागतौ भीमौ युवां मत्स्थानमीप्सितम् । ईदृशौ केन पापेन जातौ मे ब्रुवतां ध्रुवम् ॥ १,९.७३ ॥ सौदासस्तद्वचः श्रुत्वातया यच्चात्मना कृतम् । सर्वं निवेदयित्वास्मै पश्चादेतदुवाच ह ॥ १,९.७४ ॥ सौदास उवाच कस्त्वं वद महाभाग त्वया वै किं कृतं पुरा । सख्युर्ममाति स्नेहेन तत्सर्वं वक्तुमर्हसि ॥ १,९.७५ ॥ करोति वञ्चनं मित्रे यो वा को वापि दुष्टधीः । स हि पापपालं भुङ्क्ते यातनास्तु युगायुतम् ॥ १,९.७६ ॥ जन्तूनां सर्वदुःखानि क्षीयन्ते मित्रदर्शनात् । तस्मान्मित्रेषु मतिमान्न कुर्याद्वंयनं कदा ॥ १,९.७७ ॥ कल्माषपादेनेत्युक्तो वटस्थो ब्रह्मराक्षसः । उवाच प्रीतिमापन्नो धर्मवाक्यानि नारद ॥ १,९.७८ ॥ ब्रह्मराक्षस उवाच अहमासं पुरा विप्रो मागधो वेदपारगः । सोमदत्त इति ख्यातो नान्मा धर्मपरायणः ॥ १,९.७९ ॥ प्रमत्तोऽहं महाभाग विद्यया वयसा धनैः । औदासीन्यं गुरोः कृत्वा प्रात्पवानीदृशीं गतिम् ॥ १,९.८० ॥ नलभेऽहं सुखं किं चिज्जिताहारोऽतिदुःखितः । मया तु भक्षिता विप्राः शतशोऽथ सहस्रशः ॥ १,९.८१ ॥ क्षुत्पिपासापरो नित्यमन्तस्तापेन पीडितः । जगत्रासकरो नित्यं मांसाशनपरायणः ॥ १,९.८२ ॥ गुर्ववज्ञा मनुष्याणां राक्षसत्वप्रदायिनी । मयानुभूतमेतद्धि ततः श्रीमान्न चाचरेत् ॥ १,९.८३ ॥ कल्माषपाद उवाच गुरुस्तु कीदृशः प्रोक्तः कस्त्वयाश्लाघितः पुरा । तद्वदस्व सरवे सर्वं परं कौतूहलं हि मे ॥ १,९.८४ ॥ ब्रह्मराक्षस उवाच गुरवः सन्ति बहवः पूज्या वन्द्याश्च सादरम् । यातानहं कथयिष्यामि शृणुष्वैकमनाः सरवे ॥ १,९.८५ ॥ अध्यापकश्च वेदानां वेदार्थयुतिबैधकः । शास्त्रवक्ता धर्मवक्ता नीतिशास्त्रोपदेशकः ॥ १,९.८६ ॥ मन्त्रोपदेशव्याख्याख्याकृद्वेदसदंहृत्तथा । व्रतोपदेशकश्चैव भयत्रातान्नदो हि च ॥ १,९.८७ ॥ श्वशुरो मातुलश्चैव ज्येष्ठभ्राता पिता तथा । उपनेता निषेक्ता च संस्कर्त्ता मित्रसत्तम ॥ १,९.८८ ॥ एते हि गुरवः प्रोक्ताः पूज्या वन्द्यश्च सादरम् ॥ १,९.८९ ॥ कल्माषपाद उवाच गुरवो बहवः प्रोक्ता एतेषां कतमो वरः । तुल्याः सर्वेऽप्युत सरवे तद्यथावद्धि ब्रूहि मे ॥ १,९.९० ॥ ब्रह्मराक्षस उवाच साधु साधु महाप्राज्ञ यत्पृष्टं तद्वदामि ते । गुरुमाहात्म्यकथनं श्रवणं चानुमोदनम् ॥ १,९.९१ ॥ सर्वेषां श्रेय आधत्ते तस्माद्वक्ष्यामि सांप्रतम् । एते समानपूजार्हाः सर्वदा नात्र संशयः ॥ १,९.९२ ॥ तथापि श्रुणु वक्ष्यामि शास्त्राणां सारनिश्चयम् । अध्यापकाश्च वेदानां मन्त्रव्याख्याकृतस्तथा ॥ १,९.९३ ॥ पिता च धर्मवक्ता च विशेषगुरवः स्मृताः एतेषामपि भूपाल शृणुष्व प्रवरं गुरुम् ॥ ॥ १,९.९४ ॥ सर्वशास्त्रार्थतत्वज्ञैर्भाषितं प्रवदामि ते । यः पुराणानि वदति धर्मयुक्तानि पणडितः ॥ १,९.९५ ॥ संसारपाशविच्छेदकरणानि स उत्तमः । देवपूजार्हकर्माणि देवतापूजने फलम् ॥ १,९.९६ ॥ जायते च पुराणेभ्यस्तस्मात्तानीह देवताः । सर्ववेदार्थसाराणि पुराणानीति भूपते ॥ १,९.९७ ॥ वदन्ति मुनयश्चैव तदूक्ता परमो गुरुः । यः संसारार्णत्वं तर्त्तुमुद्योगं कुरुते नरः ॥ १,९.९८ ॥ श्रुणुयात्स पुराणानि इति शास्त्रविभागकृत् । प्रोक्तवान्सर्वधर्माश्च पुराणेषु महीपते ॥ १,९.९९ ॥ तर्कस्तु वादहेतुः स्यान्नीतिस्त्वैहिकसाधनम् । पुराणानि महाबुद्धे इहामुत्र सुखाय हि ॥ १,९.१०० ॥ यः शृणोति पुराणानि सततं भक्तिसंयुतः । तस्य स्यान्निर्मला बुद्धिर्भूयो धर्मपरायणः ॥ १,९.१०१ ॥ पुराणश्रवणाद्भक्तिर्जायते श्रीपतौ शुभा । विष्णुभक्तनृणां भूप धर्मे बुद्धिः प्रवर्त्तते ॥ १,९.१०२ ॥ धर्मात्पापानि नश्यन्ति ज्ञानं शुद्धं च जायते । धर्मार्थकाममोक्षाणां ये फलान्यभिलिप्सवः ॥ १,९.१०३ ॥ श्रुणुयुस्ते पुराणानि प्राहुरित्थं पुराविदः । अहं तु गौतममुनेः सर्वज्ञाद्रूह्यवादिनः ॥ १,९.१०४ ॥ श्रुतवान्सर्वधर्मार्थ गङ्गातीरे मनोरमे । कदाचित्परमेशस्य पूजां कर्त्तुमहं गतः ॥ १,९.१०५ ॥ उपस्थितायापि तस्मै प्रणामं न ह्यकारिषम् । स तु शान्तो महाबुद्धिर्गौन्तमस्तेजसां निधिः ॥ १,९.१०६ ॥ मन्त्रोदितानि कर्मणि करोतीतिमुदं य यौ । यस्त्वर्चितो मया देवः शिवः सर्वजगद्गुरुः ॥ १,९.१०७ ॥ गुर्ववज्ञा कृतायेन राक्षसंत्वे नियुक्तवान् । ज्ञानतोऽज्ञानतो वापि योऽवज्ञां कुरुते गुरोः ॥ १,९.१०८ ॥ तस्यैवाशु प्रणश्यन्ति धीविद्यार्थात्मजक्रियाः । शुश्रूषां कुरुते यस्तु गुरुणां सादरं नरः ॥ १,९.१०९ ॥ तस्य संपद्भवेद्भूप इति प्राहुर्विपश्चितः । तेन शापेन दग्धोऽहमन्तश्चैव क्षधाग्निना ॥ १,९.११० ॥ मोक्षं कदा प्रयास्यामि न जाने नृपसत्तम । एवं वदति विप्रेन्द्र वटस्थेऽस्मिन्निशाचरे ॥ १,९.१११ ॥ धर्मशास्त्रप्रसंगेन तयोः पापं क्षयं गतम् । एतस्मिन्नन्तरे प्रात्पः कश्चिद्विप्रोऽतिधार्मिकः ॥ १,९.११२ ॥ कलिङ्गदेशसंभूतो नान्म्रा गर्ग इति स्मृतः । वहन्गङ्गाजलं स्कन्धे स्तुवन् विश्वेश्वरं प्रभुम् ॥ १,९.११३ ॥ गायन्नामानि तस्यैव मुदा हृष्टतन् रुहः । तमागतं मुनिं दृष्ट्वा पिशाचीराक्षसौ च तौ ॥ १,९.११४ ॥ प्रात्पा नः पारणेत्युक्त्वा प्राद्ववन्नूर्ध्वबाहवः । तेन कीर्तितनामानि श्रुत्वा दूरे व्यवस्थिताः । अशक्तास्तं धर्षयितुमिदमूचुश्च राक्षसाः ॥ १,९.११५ ॥ अहो विप्र महाभाग नमस्तुभ्य महात्मने । नामकीर्तनमाहात्म्याद्राक्षसा दूरगावयम् ॥ १,९.११६ ॥ अस्माभिर्भक्षिताः पूर्वं विप्राः कोटिसहस्रः । नामप्रावरणं विप्र रक्षति त्वां महाभययात् ॥ १,९.११७ ॥ नामश्रवणमात्रेण राक्षसा अपि भो वयम् । परां शान्तिं समापन्ना महिम्ना ह्यच्युतस्य वै ॥ १,९.११८ ॥ सर्वथा त्वं महाभाग रागादिरुहितोह्यसि । गङ्गाजलाभिषेकेण पाह्यस्मात्पातकोच्चयात् ॥ १,९.११९ ॥ हरिसे वापरो भूत्वा यश्चात्मानं तु तारयेत् । स तारयेनगत्सर्वमिति शंसन्ति सूरयः ॥ १,९.१२० ॥ अवहाय हरेर्नाम घोरसंसारभेषजम् । केनोपायेन लभ्येत मुक्तिः सर्वत्र दुर्लभा ॥ १,९.१२१ ॥ लोहोडुपेन प्रतरन्निमजत्युदके यथा । तयैवाकृतपुण्यास्तु तारयन्ति कथं परान् ॥ १,९.१२२ ॥ अहो चरित्रं महतां सर्वलोकसुखा वहम् । यथा हि सर्वलोकानामानन्दाय कलानिधिः ॥ १,९.१२३ ॥ पृथिव्यां यानि तीर्थानि पवित्राणि द्विजोत्तम् । तानि सर्वाणि गङ्गायाः कणस्यापि समानिन ॥ १,९.१२४ ॥ तुलसीदलप्रदलसंमिश्रमपि सर्षपमात्रकम् । गङ्गाजलं पुनात्येव कुलानामेकविंशतिम् ॥ १,९.१२५ ॥ तस्माद्विप्र महाभाग सर्वशास्त्रार्थकोविद । गङ्गाजलप्रदानेन पाह्मस्मान्पापकर्मिणः ॥ १,९.१२६ ॥ इत्याख्यातं राक्षसैस्तैर्गङ्गामाहात्म्यमुत्तमम् । निशम्य विस्मया विष्टो बभूव द्विजसतमः ॥ १,९.१२७ ॥ एषामपीद्दशी भक्तिर्गङ्गायां लोकमातरि । किमु ज्ञानप्रभावाणां महतां पुण्यशालिनाम् ॥ १,९.१२८ ॥ अथासौ मनसा धर्मं विनिश्चित्य द्रिजोत्तमः । सर्वपूतहितो भक्तः प्राप्रोतीति परं पदम् ॥ १,९.१२९ ॥ ततो विप्रः कृपाविष्टो गङ्गाजलप्रनुत्तममम् । तुलसीदलसंमिश्रं तेषु रक्षःस्वसेचयत् ॥ १,९.१३० ॥ राक्षसास्तेन सिक्तास्तु सर्षपोपमबिन्दुना । विमृज्य राक्षसं भावमभवन्देवतोपमाः ॥ १,९.१३१ ॥ ब्राह्मणं सम्यक्ते जग्मुर्हस्तथैव च । कोटिसूर्यप्रतीकाशा बभूवुर्विवुधर्षभाः ॥ १,९.१३२ ॥ शङ्खचक्रगदाचिह्ना हरिसारुप्यमागताः । स्तुवन्तो ब्राह्मणं सम्यक्ते जग्मुर्ह रिमान्दिरम् ॥ १,९.१३३ ॥ राजा कल्माषपादस्तु निजरुपं समास्थितः । जगाम महतीं चिन्तां दृष्ट्वा तान्मुक्तिगानधान् ॥ १,९.१३४ ॥ तस्मिन् राज्ञि सुदुःखार्ते गूढरुपा सरस्वती । धर्ममूलं महावाक्यं बभाषेऽगाधया गिरा ॥ १,९.१३५ ॥ भो भो राजन्महाभाग न दुःखं गन्तुमर्हसि । राजस्तवापि भागान्ते महच्छ्रेयो भविष्यति ॥ १,९.१३६ ॥ सत्कर्मधूतपापा ये हरिभक्तिपरायणाः । प्रयान्ति नात्र संदेहस्तद्विष्णोः परमं पदम् ॥ १,९.१३७ ॥ सर्वभूतदयायुक्ता धर्ममार्गप्रवर्तिनः । प्रयान्ति परमं स्थानं गुरुपूजापरायणाः ॥ १,९.१३८ ॥ इतीरितं समाकर्ण्य भारत्या नृपसतमः । मनसा निर्वृत्तिं प्राप्यसस्मार च गुरोर्वचः ॥ १,९.१३९ ॥ स्तुवन्गुरुं च तं विग्नं हरिं चैवातिहर्षितः । पीर्ववृत्तं च विप्राय सर्वं तस्मै न्यवेदयत् ॥ १,९.१४० ॥ ततो नृपस्तु कालिङ्गं प्रणम्य विधिर्वमुने । नामानि व्याहरन्विष्णोः सद्यो वाराणसीं ययौ ॥ १,९.१४१ ॥ षण्मासं तत्र गङ्गायां स्नात्वा दृष्ट्वा सदानिवम् । ब्राह्मणीदत्तश पात्तु मुक्तो मित्रसहोऽभवत् ॥ १,९.१४२ ॥ ततस्तु स्वपुरीं प्रात्पो वसिष्टेन महात्मना । अभिषिक्तो मुनुश्रेष्ठ स्वकं राज्यमपालयत् ॥ १,९.१४३ ॥ पालयित्वा महीं कृत्स्त्रां भुक्त्वा भोगान्स्त्रियं विना । वशिष्टात्प्राप्य सन्तानं गतो मोक्षं नृपोत्तमः ॥ १,९.१४४ ॥ नैतच्चित्रं द्विजश्रेष्ठ विष्णोर्वाराणसीगुणान् । गृणञ्छृण्वन्स्मरन्गङ्गां पीत्वा मुक्तो भवेन्नरः ॥ १,९.१४५ ॥ तस्मान्माहिम्ने विप्रेन्द्र गङ्गायाः शक्यते नहि । पारं गन्तुं सुराधीशैर्ब्रह्मविष्णुशिवरपि ॥ १,९.१४६ ॥ यन्नामस्मरणादेव महापातककोटिभिः । विमुक्तो ब्रह्मसदनं नरो याति न संशयः ॥ १,९.१४७ ॥ गङ्गा गङ्गेति यन्नाम सकृदप्युच्यते यदा । तदैव पापनिमुक्तो ब्रह्मलोके महीयते ॥ १,९.१४८ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गा माहात्म्ये नवमोऽध्यायः _____________________________________________________________ नारद उवाच विष्णुपादाग्रसंभूता या गङ्गेत्यभिधीयते । तदुत्पत्तिं वद भ्रातरनुग्राह्योऽस्मि ते यदि ॥ १,१०.१ ॥ सनक उवाच शृणु नारद वक्ष्यामि गङ्गोत्पत्तिं तवानघ । वदृतां शृण्वतां चैंव पुण्यदां पापनाशिनीम् ॥ १,१०.२ ॥ आसीदिन्द्रादिदेवानां जनकः कश्यपो मुनिः । दक्षात्मजे तस्य भार्ये दितिश्चादितिरेव च ॥ १,१०.३ ॥ अगदितिर्देवमातास्ति दैत्यानां जननी दितिः । ते तयोरात्मजा विप्र परस्परजयैषिणः ॥ १,१०.४ ॥ सदा सपूर्वदेवास्तु यतो दैत्याः प्रकीर्तिताः । आदिर्दैत्यो दितेः पुत्रो हिरण्यकशिपुर्बली ॥ १,१०.५ ॥ प्रह्लादस्तस्य पुत्रोऽभूत्सुमहान्दैत्यसत्तमः । विरोचन स्तस्य सुतो बभूव द्विजभक्तिमान् ॥ १,१०.६ ॥ तस्य पुत्रोऽतितेजस्वी बलिरासीत्प्रतापवान् । स एव वाहिनीपालो दैत्यानामभवन्मुनेः ॥ १,१०.७ ॥ बलेन महता युक्तो बुभुजे मेदिनीमिमाम् । विजित्य वसुधां सर्वां स्वर्गं जेतुं मनो दधे ॥ १,१०.८ ॥ गजाश्च यस्यायुतकोटिलक्षास्तावन्त एवाश्चरथा मुनीन्द्र । गजेगजे पञ्चशती पदातेः किं वर्ण्यते तस्य चमूर्वरिष्टा ॥ १,१०.९ ॥ अमात्यकोट्यग्रसरावमात्यौ कुम्भाण्डनामाप्यथ कूपकर्णः । पित्रा समं शौर्यपराक्रमाभ्यां बाणो बलेः पुत्रशतग्रजोऽभूत् ॥ १,१०.१० ॥ बलिः सुराञ्जेतुमनाः प्रवृत्तः सैन्येन युक्तो महता प्रतस्थे । ध्वजातपर्त्रैर्गगनाबुराशेस्तरङ्गविद्युत्स्मरणं प्रकुर्वन् ॥ १,१०.११ ॥ अवाप्य वृत्रारिपुरं सुरारी रुरोघ दैत्यैर्मृगराजगाढैः । सुरश्च युद्धाय पुरात्तथैव विनिर्ययुर्वज्रकरादयश्च ॥ १,१०.१२ ॥ ततः प्रववृते युद्धं घोरं गीर्वाणदैत्ययो । कल्पान्तमेघानिर्धोषं डिण्डिंमध्वनिसंभ्रमम् ॥ १,१०.१३ ॥ मुमुचुः शरजालानि दःत्याः सुमनसां बले । देवाश्च दैत्यसेनासु संग्रामेऽत्यन्तदारुणे ॥ १,१०.१४ ॥ जहि दारय भिन्धीते छिन्धि मारय ताडय । इत्येवं सुमहान्घोषो वदतां सेनयोरभूत् ॥ १,१०.१५ ॥ शरदुन्दुभिनिध्वानैः सिंहनादैः सिंहनादैः सुरद्विषाम् । भाङ्कारैः स्यन्दनानां च बाणक्रेङ्गारनिःस्वनैः ॥ १,१०.१६ ॥ अश्वानां हेषितैश्चैव गजानां बृंहितैस्तथा । टङ्गारैर्धनुषां चैव लोकः शब्दत्मयोऽभवत् ॥ १,१०.१७ ॥ सुरासुरविनिर्मुक्तबाणनिष्पेषजानले । अकालप्रलयं मेने निरीक्ष्य सकलं जगत् ॥ १,१०.१८ ॥ बभौ देवद्विषां सेना स्फुरच्छस्त्रौघधारिणी । चलद्विद्युन्निभा रात्रिश्छादिता जलदैरिव ॥ १,१०.१९ ॥ तस्मिन्युद्धे महाधोरैर्गिरीन् क्षित्पान् सुरारिभिः । नाराचैश्चूर्णयामासुर्वेवास्ते लघुविक्रमाः ॥ १,१०.२० ॥ केचित्सताडयामासुर्नागैर्नागान्रथान्रथैः । अश्वैरश्वांश्च केचित्तु गदादण्डैरथार्द्दयन् ॥ १,१०.२१ ॥ परिधैस्ताडिताः केचित्पेतुः शोणितकर्द्दमे । समुक्त्रान्तासवः केचिद्विमानानि समाश्रिताः ॥ १,१०.२२ ॥ ये दैत्या निहता देवैः प्रसह्य सङ्गरे तदा । ते देवभावमापन्ना दैतेयान्समुपाद्रवन् ॥ १,१०.२३ ॥ अथ दैत्यगणाः क्रुद्वास्तड्यमानाः सुर्वैर्भृशम् । शस्त्रैर्बहुविधैर्द्देवान्निजध्नुरतिदारुणाः ॥ १,१०.२४ ॥ दृषद्भिर्भिदिपालैश्च खड्गैः परशुतोमरैः । परिधैश्छुरिकाभिश्च कुन्तैश्चक्रैश्च शङ्कुभिः ॥ १,१०.२५ ॥ मुसलैरङ्कुशेश्वैव लाङ्गलैः पट्टिशैस्तथा । शक्त्योपलैः शतघ्रीभिः पाशैश्च तलमुष्टिभिः ॥ १,१०.२६ ॥ शूलैर्नालीकनाराचैः क्षेपणीयैःसमुद्ररैः । रथाश्वनागपदगैः सङ्कुलो ववृधे रणः ॥ १,१०.२७ ॥ देवाश्च विविधास्त्राणि दैतेयेभ्यः समाक्षिपन् । एवमष्टसहस्राणि युद्धमासीत्सुदारुणम् ॥ १,१०.२८ ॥ अथ दैत्यबले वृद्धे पराभूता दिवौकसः । सुरलोकं परित्यतज्य सर्वे भीताः प्रदुद्रुवुः ॥ १,१०.२९ ॥ नररुपपरिच्छन्ना विचेरु रवनीतले । वैरोचनिस्त्रिभुवनं नारायणपरायणः ॥ १,१०.३० ॥ बुभुजेऽव्याहतैश्चर्यप्रवृद्धश्रीर्महाबलः । इत्याज चाश्वमेघैः स विष्णुप्रीणनतत्परः ॥ १,१०.३१ ॥ इन्द्रत्वं चाकरोत्स्वर्गे दिक्पालत्वं तथैव च । देवानां प्रीणनार्थाय यैः क्रियन्ते द्विजैर्मखाः ॥ १,१०.३२ ॥ तेषु यज्ञेषु सर्वेषु हविर्भुङ्क्ते स दैत्यराट् । अदितिः स्वात्मजान्वीक्ष्य देवमातातिदुःखिता ॥ १,१०.३३ ॥ वृथात्र निवसामीति मत्वागाद्धिमवद्गिरम् । शक्रस्यैश्वर्यमिच्छन्ती दैत्यानां च पराजयम् ॥ १,१०.२४ ॥ हरिध्यानपरा भूत्वा तपस्तेपेऽतिदुष्करम् । किञ्चित्कालं समासीना तिष्टन्ती च ततः परम् ॥ १,१०.३५ ॥ पादेनैकेन सुचिरं ततः पादाग्रमात्रतः । कञ्चित्कालं फलाहारा ततः शीर्णदलाशना ॥ १,१०.३६ ॥ ततो जलाशमा वायुभोजनाहारवर्जिता । सञ्चिदानन्दसन्दोहं ध्यायत्यात्मानमत्मना ॥ १,१०.३७ ॥ दिव्याब्दानां सहस्रं सा तपोऽतप्यत नारद । दुरन्तं तत्तपः श्रुत्वा दैतेया मायिनोऽदितिम् ॥ १,१०.३८ ॥ देवतारुपमास्थाय संप्रोचुर्बलिनोदिताः । किमर्थं तप्यते मातः शरीरपरिशोषणम् ॥ १,१०.३९ ॥ यदि जनन्ति दैतेया महहुखं ततो भवेत् । त्यजेदं दुःखबहुलं कायशोषणकारणम् ॥ १,१०.४० ॥ प्रयाससाध्यं सुकृतं न प्रशंसन्ति पण्डिताः । शरीरं यन्ततो रक्ष्यं धर्मसाधनतत्परैः ॥ १,१०.४१ ॥ ये शरीरमुपेक्षन्ते ते स्युरात्मविघातिनः । सुखं त्वं तिष्ट सुभगे पुत्रानस्मान्न खेदय ॥ १,१०.४२ ॥ मात्रा हीना जना मातर्मृतप्राया न संशयः । गावो वा पशवो वापियत्र गावो महीरुहाः ॥ १,१०.४३ ॥ न लभन्ते सुखं किञ्चिन्मात्रा हीना मृतोपमाः । दरिद्रो वापि रोगी वा देशान्तरगतोऽपि वा ॥ १,१०.४४ ॥ मातुर्दर्शनमात्रेण लभते परमां मुदम् । अन्ने वा सलिले वापि धनादौ वा प्रियासु च ॥ १,१०.४५ ॥ कदाचिद्विमुखो याति जनो मातरि कोऽपि न । यस्य माता गृहे नास्ति यत्र धर्मपरायणा । साध्वी च स्त्री पतिप्राणा गन्तव्यं तेन वै वनम् ॥ १,१०.४६ ॥ धर्मश्च नारायणभक्तिहीनां धनं च सद्भोगविवर्जितं हि । गृहं च मार्यातनयेर्विहीनं यथा तथा मातृविहीनमर्त्यः ॥ १,१०.४७ ॥ तस्माद्देवि परित्राहि दुःखार्तानात्मजांस्तवा । इत्युक्ताप्यदितिर्दैप्यैर्न चचाल समाधितः ॥ १,१०.४८ ॥ एवमुक्त्वासुराः सर्वे हरिध्यानपरायणाम् । निरीक्ष्य क्रोधसंयुक्ता हन्तुं चक्रुर्मनोरथम् ॥ १,१०.४९ ॥ कल्पान्तमेघनिर्घोषाः क्रोधसंरक्तलोचनाः । दंष्ट्रग्रैरसृजन्वह्निं सोऽदहत्काननं क्षणात् ॥ १,१०.५० ॥ शतयोजनविस्तीर्णं नानाजीवसमाकुलम् । तेनैव दग्धा दैतेया ये प्रधर्षयितुं गताः ॥ १,१०.५१ ॥ सैवावशिष्टा जननी सुराणामब्दाच्छतादच्युतसक्तचिता । संरक्षिता विष्णुसुदर्शनेन दैत्यान्तकेन स्वजनानुकम्पिना ॥ १,१०.५२ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गात्पत्तौ बलिकृतदेवपराजयवर्णनन्नाम दशमोऽध्यायः _____________________________________________________________ नारद उवाच अहो ह्यत्यद्भुतं प्रोक्तं त्वया भ्रातरिदं मम । स वह्निरदितिं मुक्त्वा कथं तानदहत्क्षणात् ॥ १,११.१ ॥ वदादितेर्महासत्त्वं विशेषाश्चर्यकारणम् । परोपदेशनिरताः सज्जना हि मुनीश्वराः ॥ १,११.२ ॥ सनक उवाच शृणु नारद माहात्म्यं हरिभक्तिरतात्मनाम् । हरिध्यानपरान्साधून्कः समर्थः प्रबाधितुम् ॥ १,११.३ ॥ हरिभक्तिपरो यत्र तत्र ब्रह्मा हरिः शिवः । देवाः सिद्धा मुनीश्वाश्च नित्यं तिष्टन्ति सत्तमाः ॥ १,११.४ ॥ हरिरास्ते महाभाग हृदये शान्तचेतसाम् । हरिनामपराणां च किमु ध्यानरतात्मनाम् ॥ १,११.५ ॥ शिवपूजारतो वापि विष्णुपूजापरोऽपि वा । यत्र तिष्टति तत्रैव लक्ष्मीः सर्वाश्च देवताः ॥ १,११.६ ॥ यत्र पूजापरो विष्णोर्वह्निस्तत्र न बाधते । राजा वा तस्करो वापि व्याधयश्च न सन्ति हि ॥ १,११.७ ॥ प्रेताः पिशाचाः कूष्माण्डग्रहा बालग्रहास्तथा । डाकिन्यो राक्षसाश्चैव न बाधन्तेऽच्युतार्चकम् ॥ १,११.८ ॥ परपीडारता ये तु भूतवेतालकादयः । नश्यन्ति यत्र सद्भक्तो हरिलक्ष्म्यर्चने रतः ॥ १,११.९॥ट जितेन्द्रियः सर्वहितो धर्मकर्मपरायणः । यत्र तिष्टति तत्रैव सर्वतीर्थानि देवताः ॥ १,११.१० ॥ निमिषं निमिषार्द्धं वा यत्र तिष्टन्ति योगिनः । तत्रैव सर्वश्रेयांसि तत्तीर्थं तत्तपोवनम् ॥ १,११.११ ॥ यन्नामोच्चारणादेव सर्वे नश्यन्त्युपद्रवाः । स्तोत्रैर्वाप्यर्हणाभिर्वा किमु ध्यानेन कथ्यते ॥ १,११.१२ ॥ एवं तेनाग्निना विप्र दग्धं सासुरकाननम् । सादितिर्नैव दग्धाभूद्विष्णुचक्राभिर क्षिता ॥ १,११.१३ ॥ ततः प्रसन्नवदनः पह्मपत्रायतेक्षणः । प्रादुरासीत्समीपेऽस्याः शङ्खचक्रगदाधरः ॥ १,११.१४ ॥ ईषद्वास्यस्फुरद्दन्तप्रभाभाषितदिङ्मुखः । स्पृशन्करेण पुण्येन प्राह कश्यपवल्लभाम् ॥ १,११.१५ ॥ श्रीभगवाननुवाच देवमातः प्रसन्नोऽस्मि तपसाराधितस्त्वया । चिरं श्रान्तासि भद्रं ते भविशष्यति न संशयः ॥ १,११.१६ ॥ वरं वरय दास्यामि यत्ते मनसि रोचते । मा भैर्भद्रे महाभागे ध्रुवं श्रेयो भविष्यति ॥ १,११.१७ ॥ इत्युक्तादेवमाता सा देवदेवेन चक्रिणा । तुष्टाव प्रणिपत्यैनं सर्वलोकसुखावहम् ॥ १,११.१८ ॥ अदितिरुवाच नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दना । सत्त्वादिगुणभेदेन लोकव्यापारकारण ॥ १,११.१९ ॥ नमस्ते बहुपरुपायारुपाय च महात्मने । सर्वैकरुपरुपाय निर्गुणाय गुणात्मने ॥ १,११.२० ॥ नमस्ते लोकनाथाय परमज्ञानरुपिणे । सद्भक्तजनवात्सल्यशालिने मङ्गलात्मने ॥ १,११.२१ ॥ यस्यावताररुपाणि ह्यर्चयन्ति मुनीश्वराः । तमादिपुरुषं देवं नमामि ह्यर्थसिद्धये ॥ १,११.२२ ॥ श्रुतयो यं न जानन्ति न जानन्ति च सूरयः । तं नमामि जगद्धेतुं समायं चाप्यमायिनम् ॥ १,११.२३ ॥ यस्यावलोकनं चित्रं मायोपद्रवकारणम् । जगद्रूपं जगद्धेतुं तं वन्दें सर्ववन्दितम् ॥ १,११.२४ ॥ यत्पादाम्बुजकिञ्जल्कसेवारक्षितमस्तकाः । अवापुः परमां सिद्धिं तं वन्दे कमलाधवम् ॥ १,११.२५ ॥ यस्य ब्रह्मादयो देवा महिमानं न वै विदुः । अत्यासन्नं च भक्तानां तं वन्दे भक्तसंगिनम् ॥ १,११.२६ ॥ यो देवस्त्यक्तसङ्गानां शान्तानं करुणार्णवः । करोति ह्यात्मनः सङ्गं तं देवं सङ्गवर्जितम् ॥ १,११.२७ ॥ यज्ञेश्वरं यज्ञकर्मसु निष्टितम् । नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ॥ १,११.२८ ॥ अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु । प्रात्पवान्परमं धाम तं वन्दे लोकसाक्षिणम् ॥ १,११.२९ ॥ हरिरुपी महादेवः शिवरुपी जनार्दनः । इति लोकस्य नेता यस्तं नमामि जगद्गुरुम् ॥ १,११.३० ॥ ब्रह्माद्या अपि देवेशा यन्मायापाशयन्त्रिताः । न जानन्ति परं भावं तं वन्दे सर्वनायकम् ॥ १,११.३१ ॥ ह्यत्पह्मस्थोऽपिञ्योग्यानां दूरस्थ इव भासते । प्रमाणातीतसद्भावस्तं वन्दे ज्ञानसाक्षिणम् ॥ १,११.३२ ॥ यन्मुखः द्र्वाह्यणो जातो बाहुभ्यां क्षत्रियोऽजनि । ऊर्वोर्वैश्यः समुत्पन्नः पद्यां शूद्रोऽभ्यजायत ॥ १,११.३३ ॥ मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः । मुखादग्निस्तर्थेन्द्रश्च प्राणाद्वायुरजायत ॥ १,११.३४ ॥ ऋग्यजुःसामरुपाय सत्यस्वरगतात्मने । षडङ्गरुपिणे तुभ्यं भूयोभूयो नमो नमः ॥ १,११.३५ ॥ त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः । त्वमग्निर्निरृतिश्चैव वरुणस्त्वं दिवाकरः ॥ १,११.३६ ॥ देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः । गिरयः सिद्धगन्धर्वानद्यो भूमिश्च सागराः ॥ १,११.३७ ॥ त्वमेव जगतामीशो यत्रासि त्वं परात्परः । त्वद्रूपमखिलं देव तस्मान्नित्यं नमोऽस्तु ते ॥ १,११.३८ ॥ अनाथानाथ सर्वज्ञ भूतदेवेन्द्रविग्रह । दैतेयैर्बाधितान्पुत्रान्मम पाहि जनार्दन ॥ १,११.३९ ॥ इति स्तुत्वा देवमाता देवं नत्वा पुनः पुनः । उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी ॥ १,११.४० ॥ अनुग्राह्यास्मि देवेंश त्वया सर्वादिकारण । अकण्टकां श्रियां देहि मत्सुतानां दिवौकसाम् ॥ १,११.४१ ॥ अन्तर्य्यामिञ्जगद्रूप सर्वज्ञा परमेश्वर । अज्ञातं किं तव श्रीश किं मामीहयसि प्रभो ॥ १,११.४२ ॥ तथापि तव वक्ष्यामि यन्मे मनसि रोचते । वृथापुत्रास्मि देवेश दैतेयैः परिपीडिता ॥ १,११.४३ ॥ तान्न हिंसितुमिच्छामि यतस्तेऽपि सुता मम । तानहत्वा श्रियं देहि मत्सुतेभ्यः सुरेश्वर ॥ १,११.४४ ॥ इत्युक्तो देवेदेवेशः पुनः प्रीतिमुपागतः । उवाच हर्षयन्विप्र देवमातरमादरात् ॥ १,११.४५ ॥ श्रीभगवानुवाच प्रीतोऽस्मि देवि भद्रं ते भविष्यामि सुतो ह्यहम् । यतः सपन्तिपुत्रेषु वात्सल्यं देवि दुर्लभम् ॥ १,११.४६ ॥ त्वया तु यत्कृतं स्तोत्रं तत्पठान्ति नरास्तु ये । तेषां संपद्वरा पुत्रा न हीयन्ते कदाचन ॥ १,११.४७ ॥ त्वात्मजे वान्यपुत्रे वा यः समत्वेन वर्तते । न तस्य पुत्रशोकः स्यादेष धर्मः सनातनः ॥ १,११.४८ ॥ अदितिरुवाच ताह वोढुं क्षमा देव त्वामाद्यपुरुषं परम् । असंख्याताण्डरोमाणं सर्वेशं सर्वकारणम् ॥ १,११.४९ ॥ यत्प्रभावं न जानन्ति श्रुतयः सर्वदेवताः । तमहं देवदेवेशं धारयाम किथं प्रभो ॥ १,११.५० ॥ अणोरणीयांसमजं परात्परतरं प्रभुम् । धारयामि कथं देव त्वामहं पुरुषोत्तमम् ॥ १,११.५१ ॥ महायातकयुक्तोऽपि यन्नामस्मृतिमात्रतः । मुच्यते स कथं देवोग्राम्येषु जनिमर्हति ॥ १,११.५२ ॥ यथा शूकरमत्स्याद्या अवतारास्तव प्रभो । तथायमपि को वेद तव विश्वेश चेष्टितम् ॥ १,११.५३ ॥ त्वत्पादपह्मप्रणतात्वन्नामस्मृतितत्परा । त्वामेव चिन्तये देव यथेच्छासि तथा कुरु ॥ १,११.५४ ॥ सनक उवाच तयोक्तं वचनं श्रुत्वा देवदेवो जनार्दनः । दत्त्वाभयं देवमातुरिदं वचनमब्रवीत् ॥ १,११.५५ ॥ श्रीभगवानुवाच सत्यमुक्तं महाभागे त्वया नास्त्यत्र संशयः । तथापि शृणु वक्ष्यामि गुह्याद्गुह्यतरं शुभे ॥ १,११.५६ ॥ रागद्वेषविहीना ये मद्भक्ता मत्परायणाः । वंहति सततं तें मां गतासूया अदाम्भिकाः ॥ १,११.५७ ॥ परोपतापविमुखाः शिवभक्तिपरायणः । मत्कथाश्रवणासक्ता वहन्ति सततं हि माम् ॥ १,११.५८ ॥ पतिव्रताः परिप्राणाः पतिभक्तिपरायणाः । वहन्ति सततं देवि स्त्रियोऽपि त्यक्तप्रत्सराः ॥ १,११.५९ ॥ मातापित्रोश्च शुश्रूषुर्गुरुभक्तोऽतिथिप्रियः । हितकृद्वाह्यणानां यः स मां वहति सर्वदा ॥ १,११.६० ॥ पुण्यतीर्थरता नित्यं सत्सङ्गनिरतास्तथा । लोकानुग्रहशीलाश्च सततं ते वहन्ति माम् ॥ १,११.६१ ॥ परोपकारविरताः परद्रव्यपराङ्मुखाः । नषुंसकाः परस्त्रीषु ते वहन्ति च मां सदा ॥ १,११.६२ ॥ तुलस्युपासनरताः सदा नामपरायणाः । गोरक्षणपरा ये च सततं मां वहन्ति ते ॥ १,११.६३ ॥ प्रतिग्रहनिवृत्ता ये परान्नविमुखास्तथा । अन्नोदकप्रदातारो वहॄन्ति सततं हि माम् ॥ १,११.६४ ॥ त्वं तु देवि पतिप्राणा साध्वी भूतहिते रता । संप्राप्य पुत्रभावं ते साधयिष्ये मनोरथम् ॥ १,११.६५ ॥ इत्युक्त्वा देवेदेवशो ह्यदितिं देवमातरम् । दत्त्वा कण्ठगतां मालामभयं च तिरोदधे ॥ १,११.६६ ॥ सा तु संहृष्टमनसा देवसीर्दक्षनन्दिनी । प्रणम्य कमलाकान्तं पुनः स्वस्थआनमाव्रजत् ॥ १,११.६७ ॥ ततोऽदितिर्महाभागा सुप्रीता लोकवन्दिता । असूत समये पुत्रं सर्वलोकनमस्कृतम् ॥ १,११.६८ ॥ शङ्गचक्रधरं शान्तं चन्द्रमण्डलमध्यगम् । सुधाकलशदध्यन्नकरं वामनसंज्ञितम् ॥ १,११.६९ ॥ सहस्रादित्यसंकाशं व्याकोशकमलेक्षणम् । सर्वाभरणंसंयुक्तं पीताम्बरधरं हरिम् ॥ १,११.७० ॥ स्तुत्यं मुनिगणैर्युक्तं सर्वलोकैकनायकम् । आविर्भूतं हरिं ज्ञात्वा कश्यपो हर्षविह्वलः । प्रणम्य प्रञ्जलिर्भूत्व स्तोतुं समुपचक्रमे ॥ १,११.७१ ॥ कश्यप उवाच नमोनमस्तेऽखिलकारणाय नमोनमस्तेऽखैलपालकाय । नमोनमस्तेऽमरनायकाय नमोनमो दैतेयविनाशनाय ॥ १,११.७२ ॥ नमोनमो भक्तजनप्रियाय नमोनमः सज्जनरञ्जिताय । नमोनमो दुर्जननाशनाय नमोऽस्तु तस्मै जगदीश्वराय ॥ १,११.७३ ॥ नमोनमः कारणवामनाय नारायणायामितविक्रमाय । सशार्ङ्गचक्रासिगदाधाराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ १,११.७४ ॥ नमः पयोराशिनिवासनाय नमोऽस्तु सद्धृत्कमलस्थिताय । नमोऽस्तु सूर्याद्यमितप्रभाय नमोनमः पुण्यकथागताय ॥ १,११.७५ ॥ नमोनमोर्ऽकेन्दुविलोचनाय नमोऽस्तु ते यज्ञफलप्रदाय । नमोऽस्तु यज्ञाङ्गविराजिताय नमोऽस्तु ते सज्जनवल्लभाय ॥ १,११.७६ ॥ नमो जगत्कारणकारणाय नमोऽस्तु शब्दादिविवर्जिताय । नमोऽस्तु ते दिव्यसुखप्रदाय नमो नमो भक्तमनोगताय ॥ १,११.७७ ॥ नमोऽस्तु ते ध्वान्तविनाशकाय नमोऽस्तु शब्दादिविवर्जिताय । नमोऽस्तु ते ध्वान्तविनाशकाय मन्दरधारकाय । नमोऽस्तु ते यज्ञवराहनाम्ने नमो हिरण्याक्षविदारकाय ॥ १,११.७८ ॥ नमोऽस्तु ते वामनरुपभाजे नमोऽस्तु ते क्षत्रकुलान्तकाय । नमोऽस्तु ते रावणमर्दनाय नमोऽस्तु ते नन्दसुताग्रजाय ॥ १,११.७९ ॥ नमस्ते कमलाकान्त नमस्ते सुखदायिने । स्मृतार्तिनाशिने तुभ्यं भूयो भूयो नमोनमः ॥ १,११.८० ॥ यज्ञेश यज्ञविन्यास यज्ञविन्घविनाशन । यज्ञरुप यजद्रूप यज्ञाङ्गं त्वां यजाम्यहम् ॥ १,११.८१ ॥ इति स्तुतः स देवेशो वामनो लोकपावनः ॥ उवाच प्रहसन्हर्षं वर्ध्दयन्कश्यपस्य सः ॥ १,११.८२ ॥ श्रीभगवानुवाच तात तुष्टोऽस्मि भद्रं ते भविष्यति सुरार्चिता । अचिरात्साधयिष्यामि निखिलं त्वन्मनोरथम् ॥ १,११.८३ ॥ अहं जन्मद्वये त्वेवं युवयोः पुत्रघतां गतः । अस्मिञ्जन्मन्यपि तथा सादयाम्युत्तमं सुखम् ॥ १,११.८४ ॥ अत्रान्तरे बलिर्दैत्यो दीर्घसत्रं महामखम् । आरेभे गुरुणा युक्तः काव्येन च मुनीश्वरैः ॥ १,११.८५ ॥ तस्मिन्मखे समाहूतो विष्णुर्लक्ष्मीसमन्वितः । हविः स्वीकरणार्थाय ऋषिभिर्ब्रह्मवादिभिः ॥ १,११.८६ ॥ प्रवृद्धैश्वर्यर्दैत्यस्य वर्त्तमाने महाक्रतौ । आमन्त्र्य मातापितरौ स बटुर्वामनो ययौ ॥ १,११.८७ ॥ स्मितेन मोहयंल्लोकं वामनो भक्तवत्सलः । हविर्भोक्तुमिवायातो बलेः प्रत्यक्षतो हरिः ॥ १,११.८८ ॥ दुर्वृत्तो वा सुवृत्तो वा जडो वायं हितोऽपि वा । यो भक्तियुक्तस्तस्यान्तः सदा संनिहितो हरिः ॥ १,११.८९ ॥ आयान्तं वामनं दृष्ट्वा ऋषयो ज्ञानचक्षौषः । ज्ञात्वा नारायणं देवमुद्ययुः सभ्यसंयुताः ॥ १,११.९० ॥ एतज्ज्ञात्वा दैत्यगुरुरेकान्ते बलिमब्रवीत् । स्वसारमविचार्यैव खलाः कार्याणि कुर्वते ॥ १,११.९१ ॥ शुक्र उवाच भो भो दैत्यपते सौम्य ह्यपहर्ता तव श्रियम् । विष्णुर्वामनरुपेण ह्यदितेः पुत्रातां गतः ॥ १,११.९२ ॥ तवाध्वरं स आयाति त्वया तस्यासुरेश्वर । न किञ्चिदपि दातव्यं मन्मतं शृणु पण्डित ॥ १,११.९३ ॥ आत्मबुद्धिः सुखकरी गुरुबुद्धिर्विशेषतः । परबुद्धिर्विनाशाय स्त्रीबुध्दिः प्रलयङ्करी ॥ १,११.९४ ॥ शत्रूणां हितकृतद्यस्तु स हन्तव्यो विशेषतः ॥ १,११.९५ ॥ बलिरुवाच एवं गुरो न वक्तव्यं धर्ममार्गविरोधतः । यदादत्ते स्वयं विष्णुः किमस्मादधिकं वरम् ॥ १,११.९६ ॥ कुर्वन्ति विदुषो यज्ञान्विष्णुप्रीणनकारणात् । स चेत्साक्षाद्धविर्भोगी मत्तः कोऽभ्यधिको भुवी ॥ १,११.९७ ॥ दरिद्रेणापि यत्किञ्चिद्दीयते विष्णवे गुरो । तदेव परमं दानं दत्तं भवति चाक्षयम् ॥ १,११.९८ ॥ स्मृतोऽपि परया भक्त्या पुनाति पुरुषोत्तमः । येन केनाप्यर्चितश्वेद्ददाति परमां गतिम् ॥ १,११.९९ ॥ हरिर्हरति पापानिदुष्टचित्तैरपि स्मृतः । अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥ १,११.१०० ॥ जिह्वाग्रे वसते यस्य हरि रित्यक्षरद्वयम् । स विष्णुलोकमान्पोति पुनरावृत्तिदुर्लभम् ॥ १,११.१०१ ॥ गोविन्देति सदा ध्यायेद्यस्तु रागादिवर्जितः । स याति विष्णुभवनमिति प्राहुर्मनीषिणः ॥ १,११.१०२ ॥ अग्नौ वा ब्रह्मणे वापिहूयते यद्वविर्गुरो । हरिभक्त्या महाभाग तेन विष्णुः प्रसीदति ॥ १,११.१०३ ॥ अहं तु हरितुष्य्यर्थं करोम्यध्वरमुत्तमम् । स्वयमायाति चेद्विष्णुः कृतार्थोऽस्मि न संशयः ॥ १,११.१०४ ॥ एवं वदति दैत्यन्द्रे विष्णुर्वामनरुपधृक् । प्रविवेशाध्वरस्थानं हुतवह्निमनोरमम् ॥ १,११.१०५ ॥ तं दृष्ट्वा कोटिसूर्याभं योग्यावयवसुन्दरम् । वामनं सहसोत्थाय प्रत्यगृह्णात्कृताञ्जलिः ॥ १,११.१०६ ॥ दत्त्वासनं च प्रक्षाल्य पादौ वामनरुपिणम् । सकुटुंबो वहन्मूर्ध्ना परमां मुदमात्पवान् ॥ १,११.१०७ ॥ विष्णवेऽस्मै जगद्धान्मे दत्त्वार्घ्यं विधिवदूलिः । रोमाञ्चिततनुर्भूत्वा हर्षाश्रुनयनोऽब्रवीत् ॥ १,११.१०८ ॥ बलिरुवाच अद्य मे सफलं जन्म अद्य मे सफलो मरवः । जीवितं सफलं मेऽद्य कृतार्थोऽस्मि न संशयः ॥ १,११.१०९ ॥ अमोघामृतवृष्टिर्मे समायातातिदुर्लभा । त्वदागमनमात्रेण ह्यनायासो महोत्सवः ॥ १,११.११० ॥ एते च ऋषयः सर्वे कृतार्थां नात्र संशयः । यैः पूर्वं हि तपस्तप्तं तदद्य सफलं प्रभो ॥ १,११.१११ ॥ कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः । तस्मात्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥ १,११.११२ ॥ त्वदाज्ञया त्वन्नियोगं साधयामीति मन्मनः । अत्युत्साहसमायुक्तं समाज्ञापय मां प्रभो ॥ १,११.११३ ॥ एवमुर्के दीक्षितेन प्रहसन्वामनोऽब्रवीत् । देहि मे तपसि स्थातुं भूमिं त्रिपदसंमिताम् ॥ १,११.११४ ॥ एतच्छृआत्वा बलिः प्राह राज्यं याचितवान्नहि । ग्रामं वा नगरं चापि धनं वा किं कृतं त्वया ॥ १,११.११५ ॥ तन्निशम्य बलिं प्राह विष्णुः सर्वशरीरभृत् । आसन्नभ्रष्टराज्यस्य वैराग्यं जनमन्निवा ॥ १,११.११६ ॥ श्रीभगवानुवाच शृणु दैत्यन्द्र वक्ष्यामि गुह्याद्गुह्यतमं परम् । सर्वसंगविहीनानां किमर्थैः साध्यतेवद ॥ १,११.११७ ॥ अहं तु सर्वभूतानामन्तर्यामीति भावय । मयि सर्वमिदं दैत्य किमन्यैः साध्यते वद ॥ १,११.११८ ॥ रागद्वेषविहीनानां शान्तानां त्यक्तमायिनाम् । नित्यानन्दस्वरुपाणां किमन्यैः साध्यते धनैः ॥ १,११.११९ ॥ आत्मवत्सर्वभूतानि पश्यतां शान्तचेतसाम् । अभिन्नमात्मनः सर्वं को दाता दीयते च किम् ॥ १,११.१२० ॥ पृथ्वीयं क्षत्रियवशा इति शास्त्रेषु निश्चितम् । तदाज्ञायां स्थिताः सर्वे लभन्ते परमं सुखम् ॥ १,११.१२१ ॥ दातव्यो मुनिभिश्चापि षष्टांशो भूभुजे बले । महीयं ब्राह्मणानां तु दातव्या सर्व यत्नतः ॥ १,११.१२२ ॥ भूमिदानस्य माहात्म्यं न भूतं न भविष्यति । परं निर्वाणमान्पोति भूमिदो नात्र संशयः ॥ १,११.१२३ ॥ स्वल्पामपि महीं दत्त्वा श्रोत्रियायाहिताग्नये । ब्रह्मलोकमवाप्नोति पुनरावृत्तिदुर्लभम् ॥ १,११.१२४ ॥ भूमिदः सर्वदः प्रोक्तो भूमिदो मोक्षभाग्भवेत् । अतिदानं तु तज्ज्ञेयं सर्वपापप्राणाशनम् ॥ १,११.१२५ ॥ महापातकयुक्तो वा युक्तो वा सर्वपातकैः । दशहस्तां महीं दत्त्वा सर्वपापैः प्रमुच्यते ॥ १,११.१२६ ॥ सत्पात्रे भूमिदाता यः सर्वदानफलं लभेत् । भूमिदानसमं नान्यत्रिषु लोकेषु विद्यते ॥ १,११.१२७ ॥ द्विजाय वृत्तिहीनाय यः प्रदद्यान्महीं बले । तस्य पुण्यफलं वक्तुं न क्षमोऽब्दशतैरहम् ॥ १,११.१२८ ॥ सक्ताय देवपूजासु वृत्तिहीनाय दैत्यप । स्वल्पामपि महीं दद्याद्यः स विष्णुर्न संशयः ॥ १,११.१२९ ॥ इक्षुगोधूम तुवरीपूगवृक्षादिसंयुता । पृथ्वी प्रदीयते येन स विष्णुर्नात्र संशयः ॥ १,११.१३० ॥ वृत्तिहीनाय विप्राय दरिद्राय कुटुम्बिने । स्वल्पामपि महीन्दत्त्वा विष्णुसायुज्यमान्पुयात् ॥ १,११.१३१ ॥ सक्ताय देवपूजासु विप्रायाढकिकां महीम् । दत्त्वा लभेत गङ्गायां त्रिरात्रस्नानजं फलम् ॥ १,११.१३२ ॥ विप्राय वृत्तिहीनाय सदाचाररताय च । द्रोणिकां पृथिवीं दत्त्वा यत्फलं लभते शृणु ॥ १,११.१३३ ॥ गङ्गातीर्थाश्वमेधानां शतानि विधिवन्नरः । कृत्वा यत्फलमान्पोति तदाप्नोति स पुष्कलम् ॥ १,११.१३४ ॥ ददाति खारिकां भूमिं दरिद्राय द्विजाय यः । तस्य पुण्यं प्रवक्ष्यामि वदतो मे निशामय ॥ १,११.१३५ ॥ अश्वमेधसहस्राणि वाजपेयशतानि च । विधाय जाह्नवीतीरे पत्फलं तल्लभेद्धुवम् ॥ १,११.१३६ ॥ भूमिदानं महादानमतिदानं प्रकीर्त्तितम् । सर्वपापप्रशमनमपवर्गफलप्रदम् ॥ १,११.१३७ ॥ अत्रोतिहासं वक्ष्यामि शृणु दैत्यकुलेश्वर । यच्छुत्वा श्रद्धया युक्तो भूमिदानफलं लभेत् ॥ १,११.१३८ ॥ आसीत्पुरा द्विजवरो ब्राह्मकल्पे महामतिः । दरिद्रो वृत्तिहीनश्च नाम्ना भद्रमतिर्बले ॥ १,११.१३९ ॥ श्रुतानि सर्वशास्त्राणि तेन वेददिवानिशम् । श्रुतानि च पुराणानि धर्मशास्त्राणि सर्वशः ॥ १,११.१४० ॥ अभवंस्तस्य षट्पत्न्यः श्रुतिः सिन्धुर्यशोवती । कामिनी मालिनी चैव शोभा चेति प्रकीर्तिताः ॥ १,११.१४१ ॥ आसु पन्तीषु तस्यासञ्चत्वरिंशच्छतद्वयम् । पुत्राणामसुरश्रेष्ठ सर्वे नित्यं बुभुक्षिताः ॥ १,११.१४२ ॥ अकिञ्चनो भद्रमतिः क्षुधार्त्तानात्मजान्प्रियाः । पश्यन्स्वयं क्षुधार्त्तश्च विललापाकुलेन्द्रियः ॥ १,११.१४३ ॥ धिग्जन्म भाग्यरहितं धिग्जन्म धनवर्जितम् । धिग्जन्म धर्मरहितं धिग्जन्म ख्यातिवर्जितम् ॥ १,११.१४४ ॥ नरस्य बह्वपत्यस्य धिग्जन्मैश्वर्यवार्जितम् । अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले ॥ १,११.१४५ ॥ दारिद्याम्बुधिमग्नस्य सर्वमेतन्न शोभते । प्रियाः पुत्राश्चपौत्राश्च बान्धवा भ्रातरस्तथा ॥ १,११.१४६ ॥ शिष्याश्च सर्वमनुजास्त्यजन्त्यैश्वर्यवार्जितम् । चाण्डालो वा द्विजो वापि भाग्यवानेव पूज्यते ॥ १,११.१४७ ॥ दरिद्रः पुरुषो लोके शववल्लोकनिन्दितः । अहो संपत्संमायुक्तो निष्टुरो वाप्यनिष्ठुरः ॥ १,११.१४८ ॥ गुणहीनोऽपि गुणवान्मूर्खो वाप्यथ पण्डितः । ऐश्वर्यगुणयुक्तश्चेत्पूज्य एव न संशयः ॥ १,११.१४९ ॥ अहो दरिद्रता दुःखं तत्राप्याशातिदुःखदा । आशाभिभूताः पुरुषा दुःखमश्नुवतेऽक्षयम् ॥ १,११.१५० ॥ आशयादासा ये दासास्ते सर्वलोकस्य । आशा दासी येषां तेषां दासायते लोकः ॥ १,११.१५१ ॥ मानो हि महतां लोके धनमक्षयमुच्यते । तस्मिन्नाशाख्यरिपुणा माने नष्टे दरिद्रता ॥ १,११.१५२ ॥ सर्वशास्त्रार्थवेत्तापि दरिद्रो भाति मूर्खवत् । नैष्किञ्चन्यमहाग्राहग्रस्तानां को विमोचचकः ॥ १,११.१५३ ॥ अहो दुःखमहो दुःखमहो दुःखं दरिद्रता । तत्रापि पुत्रभार्याणां बाहुल्यमतिदुःखदम् ॥ १,११.१५४ ॥ एवमुक्त्वा भद्रमतिः सर्वशास्त्रार्थपारगः । अन्यमैश्वर्यदं धर्मं मनसाचिन्तयत्तदा ॥ १,११.१५५ ॥ भूमिदानं विनिश्चित्य सर्वदानोत्तमोत्तमम् । दानेन योऽनुमन्ताति स एव कृतवान्पुरा ॥ १,११.१५६ ॥ प्रापकं परमं धर्मं सर्वकामफलप्रदम् । दानानामुत्तमं दानं भूदानं परिकीर्तितम् ॥ १,११.१५७ ॥ यद्दत्त्वा समवान्पोति यद्यदिष्टतमं नरः । इति निश्चत्य मतिमान्धीरो भद्रमतिर्बले ॥ १,११.१५८ ॥ कौशाम्बींनाम नगरीं कलत्रापत्ययुग्ययौ । सुघोषनामविप्रेन्द्रं सर्वैश्वर्यसमन्वलितम् ॥ १,११.१५९ ॥ गत्वा याचितवान्भूमिं पञ्चहस्तायतां बले । सुघोषो धर्मनिरतस्तं निरीक्ष्य कुटुम्बिक्रम् ॥ १,११.१६० ॥ मनसा प्रीयमाणेन समभ्यर्च्येदमब्रवीत् । कृतार्थोऽहं भद्रमते सफलं मम जन्म च ॥ १,११.१६१ ॥ मत्कुल पावनं जातं त्वदनुग्रहतो द्विज । इत्युक्त्वा तं समभ्यर्च्य सुघोषो धर्मतत्परः ॥ १,११.१६२ ॥ पञ्चहस्तमितां भूमिं ददौ तस्मै महामतिः । पृथिवी वैष्णवी पुण्या पृथिवीं विष्णुपालिता ॥ १,११.१६३ ॥ पृथिव्यास्तु प्रदानेन प्रीयतां मे जनार्दनः । मन्त्रेणानेन दैत्येन्द्र सुघोषस्तं द्विजोत्तमम् ॥ १,११.१६४ ॥ विष्णुबुद्ध्या समभ्यर्च्य तावतीं पृथिवीं ददौ । सोऽपि भद्रमतिर्विप्रो धीमता याचितां भुवम् ॥ १,११.१६५ ॥ दत्तवान्हरिभक्ताय श्रोत्रियाय कुटुम्बिने । सुघोषो भूमिदानेन कोटिवंशसमन्वितः ॥ १,११.१६६ ॥ प्रपेदे विष्णुभवनं यत्र गत्वा न शोचति । बले भद्रमतिश्चापि यतः प्रार्थितवाञ्छ्रियम् ॥ १,११.१६७ ॥ स्थितवान्विष्णुभवने सकुटुम्बो युगायुतम् । तथैव ब्रह्मसदने स्थित्वा कोटियुगायुतम् ॥ १,११.१६८ ॥ ऐन्द्रं पदं समासाद्य स्थितवान्कल्पपञ्चकम् । ततो भुवं समासाद्य सर्वैश्वर्यसमन्वितः ॥ १,११.१६९ ॥ जातिस्मरो महाभागो बुभुजे भोगमुत्तमम् । ततो भद्रमतिर्दैत्य निष्कामो विष्णुतत्परः ॥ १,११.१७० ॥ पृथिवीं वृत्तिहीनेभ्यो ब्रह्मणेभ्यः प्रदत्तवान् । तस्य विष्णुः प्रसन्नात्मा तत्त्वैशअवर्यमनुत्तमम् ॥ १,११.१७१ ॥ कोटिवंशसमेतस्य ददौ मोक्षमनुत्तमम् । तस्माद्दैत्यपते मह्यं सर्वधर्मपरायण ॥ १,११.१७२ ॥ तपश्चरिष्येमोक्षाय देहि मे त्रिपदां महीम् । वैरोचनिस्ततो दृष्टः कलशं जलपूरितम् ॥ १,११.१७३ ॥ आददे पृथिवीं दातुं वर्णिने वामनाय । विष्णुः सर्वगतोज्ञात्वा जलधारावरोधिनम् ॥ १,११.१७४ ॥ काव्यं हस्तस्थदर्भाग्रं तच्छरे संन्यवेशयत् । दर्भाग्रेऽभून्महाशास्त्रं कोटिसूर्यसमप्रभम् ॥ १,११.१७५ ॥ अमोधं ब्रह्ममत्युग्रं काव्याक्षिग्रासलोलुपम् । आयाय भार्गवसुरानसुरानेकचक्षुषा ॥ १,११.१७६ ॥ पश्येति वान्दिदेशे च दर्भाग्रं शस्त्रसन्निभम् । बलिर्ददौ महाविष्णोर्महीं त्रिपदसंमिताम् ॥ १,११.१७७ ॥ ववृधे सोऽपि विश्वात्मा आब्रह्मभुवनं तदा । अमिमीत महीं द्वाभ्यां पद्भ्यां विश्वतनुर्हरिः ॥ १,११.१७८ ॥ स आब्रह्मकटाहान्तपदान्येतानि सप्रभः । पादाङ्कुष्टाग्रनिर्भिन्नं ब्रह्माण्डं विभिदे द्विधा ॥ १,११.१७९ ॥ तद्दारा बाह्यसलिलं बहुधारं समागतम् । धौतविष्णुपदं तोयं निर्मलं लोकपावनम् ॥ १,११.१८० ॥ अजाण्डबाह्यनिलयं धारारुपमवर्त्तत । तज्जलं पावनं श्रेष्ठं ब्रह्मादीन्पावयत्सुरान् ॥ १,११.१८१ ॥ सत्पर्षिसेवितं चैव न्यपतन्मेरुमूर्द्धनि ॥ १,११.१८२ ॥ एतद्दष्ट्वाद्भुतं कर्म ब्रह्माद्या देवतागणाः । ऋषयो मनवश्चैव ह्यस्तुवन्हर्षविह्वलाः ॥ १,११.१८३ ॥ देवा ऊचुः नमः परेशाय परात्मरुपिणे परात्परायापररुपधारिणे । ब्रह्मात्मने ब्रह्मरतात्मबुद्धये नमोऽस्तु तेऽव्याहतकर्मशीलिने ॥ १,११.१८४ ॥ परेश परमानन्द परमात्मन्परात्पर । सर्वात्मने जगन्मूर्त्ते प्रमाणातीत ते नमः ॥ १,११.१८५ ॥ विश्वतश्वक्षुषे तुभ्यं विश्वतो बाहवे नमः । विश्वतः शिरसे चैव विश्वतो गतये नमः ॥ १,११.१८६ ॥ एवंर स्तुतो महाविष्णुर्ब्रह्माद्यैः स्वर्द्दवौकसाम् । दत्त्वाभयं च मुमुदे देवदेवः सनातनः ॥ १,११.१८७ ॥ विरोचनात्मजं दैत्यं पदैकार्थं बबन्ध ह । ततः प्रपन्नं तु बलिं ज्ञात्वा चास्मै रसातलम् । ददौ तद्वारपालश्च भक्तवश्यो बभूव ह ॥ १,११.१८८ ॥ नारद उवाच रसातले महाविष्णुर्विरोचनसुतस्य वै । किं भोज्यं कल्पयामास घोरे सर्पभयाकुले ॥ १,११.१८९ ॥ सनक उवाच अमन्त्रितं हविर्यत्तु हूयते जातवेदसि । अपात्रे दीयते यच्च तद्धोरं भोगसाधनम् ॥ १,११.१९० ॥ हुतं हविरशुचिना दृत्तं सत्कर्म यत्कृतम् । तत्सर्वं तत्र भोगार्हमधः पातफलप्रदम् ॥ १,११.१९१ ॥ एवं रसातलं विष्णुर्बलये सासुराय तु । दत्त्वाभयं च सर्वेषां सुराणां त्रिदिवं ददौ ॥ १,११.१९२ ॥ पूज्यमानोऽमरगणैः स्तूयमानो महर्षिभिः । गन्धर्वैर्गीयमानश्च पुनर्वामनतां गतः ॥ १,११.१९३ ॥ एतद्दृष्ट्वा महत्कर्ममुनो ब्रह्मवादिनः । परस्परे स्मितमुखाः प्रणेभुः पुरुषोत्तमम् ॥ १,११.१९४ ॥ सर्वभूतत्मको विष्णुर्वामनत्वमुपागतः । मोहयन्निखिलं लोकं प्रपेदे तपसे वनम् ॥ १,११.१९५ ॥ एवं प्रभावा सा देवी गङ्गा विष्णुपदोद्भवा । यस्याः स्मरणमात्रेण मुच्यते सर्वपातकैः ॥ १,११.१९६ ॥ इदं तु गङ्गामाहात्म्यं यः पठे च्छृणुयादपि । देवालये नदीतीरे सोऽश्वमेधफलं लभेत् ॥ १,११.१९७ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गोत्पत्तिर्गङ्गामाहात्म्यं नामैकादशोऽध्यायः _____________________________________________________________ नातद उवाच श्रुतं तु गङ्गामाहात्म्यं वाञ्छितं पापनाशनम् । अधुना लक्षणं ब्रूहि भ्रातर्मे दानपात्रघयोः ॥ १,१२.१ ॥ सनक उवाच सर्वेषामेव वर्णानां ब्रह्मणः परमो गुरुः । तस्मै तानानि देयानि दत्तस्यानन्त्यमिच्छता ॥ १,१२.२ ॥ ब्राह्मणः प्रतिगृह्णीयात्सर्वतो भयवर्जितः । न कदापि क्षत्रविशो गृह्णीयातां प्रतिग्रहम् ॥ १,१२.३ ॥ चण्डस्य पुत्रहीनस्य दम्भाचाररतस्य च । स्वकर्मत्यागिनश्चापि दत्तं भवति निष्फलम् ॥ १,१२.४ ॥ परदाररतस्यापि परद्रव्याभिलिषिणः । नक्षत्रसूचकस्यापि दत्तं भवति निष्फलम् ॥ १,१२.५ ॥ असूयाविष्टमनसः कृतन्घस्य च मायिनः । अयाज्ययाजकस्यापि दत्तं भवति निष्फलम् ॥ १,१२.६ ॥ नित्यं याच्ञापरस्यापि हिंसकस्य खलस्य च । रसविक्रयिणश्वैव दत्तं भवति निष्फलम् ॥ १,१२.७॥ नामैका द वेदविक्रयिणश्चापि स्मृतिविक्रयिणस्तथा । धर्मविक्रयिणो विप्र दत्तं भवति निष्फलम् ॥ १,१२.८ ॥ गानेन जीविका यस्य यस्य भार्या च पुश्चली । परोपतापिनश्चापि दत्तं भवति निष्फलम् ॥ १,१२.९ ॥ असिजीवी मषीजीवी देवलो ग्रामयाजकः । धावको वा भवेत्तेषां दत्तं भवति निष्फलम् ॥ १,१२.१० ॥ पाककर्तुः परस्यार्थे कवये गदहारिणे । अभक्ष्य भक्षकस्यापि दत्तं भवति निष्फलम् ॥ १,१२.११ ॥ शूद्रान्नभोजिनश्चैव शूद्राणां शवदाहिनः । पैंश्वलान्नभुजश्चापि दत्तं भवति निष्फलम् ॥ १,१२.१२ ॥ नामविक्रयिणो विष्णोः संध्याकर्ंमोर्ज्झितस्य च । दुष्प्रतिग्रहदग्धस्य दत्तं भवति निष्फलम् ॥ १,१२.१३ ॥ दिवाशयनशीलस्य तथा मैथुनकारिणः । सध्याभोजिन एवापिदत्तं भवति निष्फलम् ॥ १,१२.१४ ॥ महापातकयुक्तस्य त्यक्तस्य ज्ञातिबान्धवैः । कुण्डस्य चापि गोलस्य दत्तं भवति निष्फलम् ॥ १,१२.१५ ॥ परिवत्तेः शठस्यापि परिवत्तुः प्रमादिनः । स्त्रीजितस्यातिदुष्टस्य दत्तं भवित निष्फलम् ॥ १,१२.१६ ॥ मद्यमांसाशिनश्चापि स्त्रीविटस्यातिलोभिनः । चौरस्य पिशुनस्यापि दत्तं भवति निष्फलम् ॥ १,१२.१७ ॥ ये केचित्पापनिरता निन्दिताः सुजनैः सदा । न तेभ्यः प्रतिगृह्णीयान्न च वद्याद्दिजोत्तम । सत्कर्मनिरतायापि देयं यत्नेन नारद ॥ १,१२.१८ ॥ यद्दानं श्रद्धया दत्तं तथा विष्णुसमर्पणम् । याचितं वापि पात्रेण भवेत्तद्दानमुत्तमम् ॥ १,१२.१९ ॥ परलोकं समुद्दश्य ह्यैहिकं वापि नारद । यद्दानं दीयते पात्रे तत्काम्यं मध्यमं स्मृतम् ॥ १,१२.२० ॥ दग्भेन चापि हिंसार्थं परस्याविधिनापि च । क्रुद्धेनाश्रद्धयापात्रे तद्दानं मध्यमं स्मृतम् ॥ १,१२.२१ ॥ अधमं बलितोषायमध्यमं स्वार्थसिद्धये । उत्तमं हरिप्रीत्यर्थं प्राहुर्वेदविदां वराः ॥ १,१२.२२ ॥ दानभोगविनाशाश्च रायः स्युर्गतयस्त्रिधा ॥ १,१२.२३ ॥ यो ददाति च नोभुक्ते तद्धनं नाशकारणम् । धनं धर्मफलं विप्र धर्मो माधवतुष्टिकृत् ॥ १,१२.२४ ॥ तरवः किं न जीवन्ति तेऽपि लोके परार्थकाः । यत्र मूलफलैर्वृक्षाः परकार्यं प्रकुर्वते ॥ १,१२.२५ ॥ मनुष्या यदि विप्राग्थ्र न परार्थास्तदा मृताः । परकार्यं न ये मर्त्याः कायेनापि धनेन वा ॥ १,१२.२६ ॥ मनसा वचसा वापि ते ज्ञेयाः पापकृत्तमाः । अत्रेतिहासं वक्ष्यामि शृणु नारद तत्त्वतः ॥ १,१२.२७ ॥ यत्र दानादिकानां तु लक्षणं परिकीर्तितम् । गङ्गामाहात्म्यसहितं सर्वपापप्रणाशनम् ॥ १,१२.२८ ॥ भगीरथस्य धर्मस्य संवादं पुण्यकारणम् । आसीद्भगीरथो राजा सगरान्वयसंभवः ॥ १,१२.२९ ॥ शशास पृथिवीं मेतां सत्पद्वीपां ससागराम् । सर्वधर्मरतो नित्यं सत्यसंधः प्रतापवान् ॥ १,१२.३० ॥ कन्दर्पसद्दशो रुपे यायजृको विचक्षणः । प्रालेयाद्रिसमो धैर्ये धर्मे धर्मसमो नृपः ॥ १,१२.३१ ॥ सर्वलक्षणसंपन्नः सर्वशास्त्रार्थपारगः । सर्वसंपत्समायुक्तः सर्वानन्दकरो मुने ॥ १,१२.३२ ॥ आतिथ्यप्रयतो नित्यं वासुदेवार्चनेरतः । पराक्रमी गुणनिधिर्मैत्रः कारुणिकः सधीः ॥ १,१२.३३ ॥ एतादृशं तं राजानं ज्ञात्वा दृष्टो भगीरथम् । धर्मराजो द्विजश्रेष्ठ कदाचिद्द्रष्टुमागतः ॥ १,१२.३४ ॥ समागतं धर्मराजमर्हयामास भूपतिः । शास्त्रदृष्टेन विधिना धर्मः प्री उवाच तम् ॥ १,१२.३५ ॥ धर्मराज उवाच राजन्धर्मविदां श्रेष्ठप्रसिद्धोऽसि जगत्त्रये । धर्मराजोऽथ कीर्तिं ते श्रुत्वा त्वां द्रष्टुमागतः ॥ १,१२.३६ ॥ सन्मार्गनिरतं सत्यं सर्वभूतहिते रतम् । द्रष्टुमिच्छन्ति विबुधारतवो त्कुष्टगुणप्रियाः ॥ १,१२.३७ ॥ कीर्तिर्नीतिश्च संपत्तिर्वर्तते यत्र भूपते । वसन्ति तत्र नियतं गुणाःसन्तश्च देवताः ॥ १,१२.३८ ॥ अहो राजन्महाभाग शोभनीचरितं तव । सर्वभूतहितत्वादि मादृशामपि दुर्लभम् ॥ १,१२.३९ ॥ इत्युक्तवन्तं तं धर्मं प्रणिपत्य भगीरथः । प्रोवाच विनयाविष्टः संहृष्टः श्लक्ष्णया गितं ॥ १,१२.४० ॥ भगीरथ उवाच भगवन्सर्वधर्मज्ञ समदर्शित्सुरेश्वर । कृपया परयाविष्टो यत्पृच्छामि वदस्व तत् ॥ १,१२.४१ ॥ धर्मा कीदृग्विधाः प्रोक्ताः के लोका धर्मशालिनाम् । कियत्यो यातनाः प्रोक्ताः केषां ताः परिकीर्तिताः ॥ १,१२.४२ ॥ त्वया संमाननीया ये शासनीयाश्च ये यथा । तत्सर्वं मे महाभाग विस्तराद्वक्तुमर्हसि ॥ १,१२.४३ ॥ धर्मराज उवाच साधु साधु महावुद्धे मतिस्ते विमलोर्जिता । धर्माधर्मान्प्रवक्ष्यामितत्त्वतः शृणु भक्तितः ॥ १,१२.४४ ॥ धर्मा बहुविधाः प्रोक्ताः पुण्यलोकप्रदायकाः । तथैव यातनाः प्रोक्ता असंख्या घोरदर्शताः ॥ १,१२.४५ ॥ विस्तराद्गदितुं नालमपि वर्षशतायुतैः । तस्मातंसमासतो वक्ष्ये धर्माधर्ममिदर्शनम् ॥ १,१२.४६ ॥ तथैव यातनां वै महापुण्यं प्रकीर्ततम् । तथैवाध्यात्मविदुषो दत्तं भवति चाक्षयम् ॥ १,१२.४७ ॥ कुटुम्बिनं या शास्त्रज्ञं श्रोत्रियं वा गुणान्वितम् । यो दत्त्वा स्यापयेदृतिं तस्य पुण्यफलं शृणु ॥ १,१२.४८ ॥ मातृताः पितृतश्चैव द्विजः कोटिकुलन्वितः । निर्विश्य विष्णुभवनं कल्पं तत्रैव मादते ॥ १,१२.४९ ॥ गण्यन्ते पांसवो भूमेर्गण्यन्ते वृष्टिविन्दवः । न गण्यन्ते विधात्रापि ब्रहह्मवृत्तिफलानि वै ॥ १,१२.५० ॥ समस्तदेवतारुपो ब्राह्मणः परिकीर्तितः । जीवनं ददतस्तस्य कः पुण्यं गदितुं क्षमः ॥ १,१२.५१ ॥ यो विप्रहितकृन्नित्यं स सर्वान्कृतवान्मखान् । स स्त्रातः सर्वतीर्थेषु तत्पं तेनाखिलं तपः ॥ १,१२.५२ ॥ यो ददस्वेति विप्राणां जीवनं प्रेरयेत्परम् । सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ॥ १,१२.५३ ॥ तडागं कारयेद्यस्तु स्वयमेवापरेण वा । वक्तुं तत्पुण्यसंख्यानं नालं वर्षशतायुषा ॥ १,१२.५४ ॥ एकश्चेदध्वगो राजंस्तडागस्य जलं पिबेत् । कत्कर्तुः सर्वपापानि नश्यन्त्येव न संशयः ॥ १,१२.५५ ॥ एकाहमषि यत्कुर्याद्भूमिस्थमुदकं नरः । स मुक्तः सर्वपापेभ्यः शतवर्षं वसेद्दिवि ॥ १,१२.५६ ॥ कर्तुं तडागं यो मर्त्यः साह्यकः शक्तितो भवेत् । सोऽपि तत्फलनाप्नोति तुष्टः प्रेरक एव च ॥ १,१२.५७ ॥ मृदं सिद्धार्थमात्रां वा तडागाद्यो वहिः क्षिपेत् । तिष्टत्यब्दशतं स्वर्गे विमुक्तः पापकोटिभिः ॥ १,१२.५८ ॥ देवता यस्य तुष्यन्ति गुरवो वा नृपोत्तम । तडागपुण्यभाक्स स्यादित्येषा शाश्वती श्रुतिः ॥ १,१२.५९ ॥ इति हासं प्रवक्ष्यामि तवात्र नृपसत्तम । यं शृत्वा सर्वपायेभ्यो मुच्यते नात्र संशयः ॥ १,१२.६० ॥ गौडदेशेऽतिविख्यातो राजासीद्वीरभद्रकः । महाप्रतीपी विद्यावान्सदा विप्रप्रपूजकः ॥ १,१२.६१ ॥ वेदशास्त्रकुलाचारयुक्तो मित्रक्विर्धनः । तस्य राज्ञी महाभागा नान्मा चम्पकमञ्जरी ॥ १,१२.६२ ॥ तस्य राज्ञो महामात्याः कृत्माकृस्यविचारणाः । धर्माणां धर्मशास्त्रेस्तु सदा कुर्वन्ति निश्चयम् ॥ १,१२.६३ ॥ प्रायश्चित्तं चिकित्त्सां च ज्योतिषे धर्मनिर्णयम् । विनाशास्त्रेण यो ब्रूयात्तमाहुर्ब्रह्मघातकम् ॥ १,१२.६४ ॥ इति निश्चित्य मनसा मन्वादीरितधर्म्कान् । आचार्येभ्यः सदा भूपः शृणोति विधिपूर्वकम् ॥ १,१२.६५ ॥ न कोऽप्यन्यायवर्ती तस्य राज्येऽवरोऽपि च । धर्मेण पाल्यमानस्य तस्य देशस्य भूपतेः ॥ १,१२.६६ ॥ जातं समत्वं स्वर्गस्य सौराज्यस्य शुभावहम् । स चैकदा तु नृपतिर्मृगयायां महावने ॥ १,१२.६७ ॥ मन्त्र्यादिभिः परिवृतो बभ्राम मध्यभास्करम् । दैवादाखेटशून्यस्य ह्यतिश्रान्तस्य तत्र वै ॥ १,१२.६८ ॥ नृपरीतस्य संजातं सरसो दर्शनं नृप । ततः शुष्कां तु सरसीं दृष्ट्वा तत्र व्यचिन्तयत् ॥ १,१२.६९ ॥ किमयं सरसीशृङ्गेभुवः केन विनिर्मिता । कथं जलं भवेदत्र येन जीवेदयं नृपः ॥ १,१२.७० ॥ ततो बुद्धिः समभवत्खाते तस्या नृपोत्तम । हस्तमात्रं ततो गर्त्तं खात्वा तोयमवात्पवान् ॥ १,१२.७१ ॥ तेन तोयेन पीतेन राज्ञस्तृत्पिरजायत । मन्त्रिणश्चापि भूमिश बुद्धिसागरसंज्ञिनः ॥ १,१२.७२ ॥ स बुद्धिसागरो भूपं प्राह धर्मार्थकोविदः । राजन्नियं पुष्करिणी वर्षाजलवती पुरा ॥ १,१२.७३ ॥ अद्यैनां बद्धवप्रां च कर्त्तुं जाता मतिर्मम । तद्भवान्मोदतां देव दत्तादाज्ञां च मेऽनघ ॥ १,१२.७४ ॥ इति श्रुत्वा वचस्तस्य मन्त्रिणो नृपसत्तमः । मुमुदेऽतितरां भूपः स्वयं कर्तुं समुद्यतः ॥ १,१२.७५ ॥ तमेव मन्त्रिणां तत्र युयोज शुभकर्मणि । ततो राजाज्ञया सोऽपि बुद्धिसागरको मुदा ॥ १,१२.७६ ॥ सरसीं सागरं कर्त्तुमुद्यतः पुण्यकृत्तमः । धनुषां चैव पञ्चाशत्सर्वतो विस्तृतायताम् ॥ १,१२.७७ ॥ सरसीं बद्धसु शिलां चकारागाधशम्बराम् । तां विनिर्माय सरसीं राज्ञे सर्वं न्यवेदयत् ॥ १,१२.७८ ॥ तस्यां ततः प्रभृति वै सर्वेऽपि वनचारिणः । पान्थाः पिपासिता भूप लभन्ते स्म जलं शुभम् ॥ १,१२.७९ ॥ कदाचित्स्वायुषश्चान्ते स मन्त्री बुद्धिसागरः । प्रमृतो गतवांल्लोकं लोकशास्तुर्मम प्रभो ॥ १,१२.८० ॥ तदर्थं तु मया पृष्टो धर्मो धर्मलिपिङ्करः । चित्रगुत्पस्तु तत्कर्म मह्यं सर्वं न्यवेदयत् ॥ १,१२.८१ ॥ उपदेष्टा स्वयं चासौ धर्मकार्यस्य भूपतेः । तस्माद्धर्मविमानं तु समारोढुमिहार्हति ॥ १,१२.८२ ॥ इत्युक्ते चित्रगुत्पेन समाज्ञत्पो मया नृप । विमानं धर्मसंज्ञं तु आरोढुं बुद्धिसागरः ॥ १,१२.८३ ॥ अथ कालान्तरे राजन्सराजा वीरभद्रकः । मृतो गतो मम स्थानं नमश्चक्रे मुदान्वितः ॥ १,१२.८४ ॥ मया तु तत्र तस्यापि पृष्टं कर्माखिलं नृप । कथितं चित्रगुत्पेन धर्मं सरसिसंभवम् ॥ १,१२.८५ ॥ तदा सम्यङ्मया राजा बोधितोऽभूद्यथाशृणु । अधित्यकायां भूपाल सैकतस्य गिरेः परा ॥ १,१२.८६ ॥ लावकेनामुनाचञ्च्वा खातं द्व्यंङ्गुप्रम्बुनि । ततः कालान्तरे तेन वाराहेण नृपोत्तम ॥ १,१२.८७ ॥ खनितं हस्तमात्रं तु जलं तुण्डेन चात्मनः । ततोऽन्यदामुया काल्याहस्त युग्ममितः कृतः ॥ १,१२.८८ ॥ खातो जले महाराज तोयं मासद्वयं स्थितम् । पीतं क्षुद्रैर्वनचरैः सत्त्वैस्तृष्णासमाकुलैः ॥ १,१२.८९ ॥ ततो वर्षत्रायान्ते तु गजतानेन सुव्रत । हस्तत्रयमितः खातः कृतस्तत्राधिकं जलम् ॥ १,१२.९० ॥ मासत्रये स्थितं तच्च पयो जीवैर्वनेचरैः । भवांस्तत्र समायातो जलशोषाद नन्तरम् ॥ १,१२.९१ ॥ मासे तत्र तु संप्रात्पं हस्तं खात्वा जलं नृप । ततस्तस्योपदेशेन मन्त्रिणो नृपते त्वया ॥ १,१२.९२ ॥ पञ्चाशद्धनुरुत्खातं जातं ततत्र महाजलम् । पुनः शिलाभिः सुदृढं बद्धं जातं महत्सरः । वृक्षाश्च रोपितास्तत्र सर्वलोकोपकारिणः ॥ १,१२.९३ ॥ तेन स्वस्वेन पुण्येन पञ्चैते जगतीपते । विमानं धर्म्यमारुढास्त्वमाण्येनं समारुह ॥ १,१२.९४ ॥ इति वाक्यं समाकर्ण्य मम राजा स भूमिप । आरुरोह विमानं तत्षष्ठो राजा समांशभाक् ॥ १,१२.९५ ॥ इति ते सर्वमाख्यातं तडागजनितं फलम् । श्रुत्वैतन्मुच्यते पापादाजन्ममरणान्तिकात् ॥ १,१२.९६ ॥ यो नरः श्रद्धयो युक्तो व्याख्यातं श्रुणुयात्पठेत् । सोऽप्याप्नोत्यखिलं पुण्यं सरोनिर्माणसंभवम् ॥ १,१२.९७ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने द्वादशोऽध्यायः _____________________________________________________________ धर्मराज उवाच देवतायतनं यस्तु कुरुते कारयत्यपि । शिवस्यापि हरेर्वापि तस्य पुण्यफलं शृणु ॥ १,१३.१ ॥ मातृतः पितृतश्चैव लक्षकोटिकुलान्वितः । कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः ॥ १,१३.२ ॥ मृदैव कुरुते यस्तु देवतायतनं निरः । मृदैव कुरुते यस्तु देवतायतनं नरः । यावत्पुण्यं भवेत्तस्य तन्मे निगदतः शृणु ॥ १,१३.३ ॥ दिव्यदेहधरो भूत्वा विमानवरमास्थितः । कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः ॥ १,१३.४ ॥ मृदैव कुरुते यस्तु देवतायतनं नरः । यावत्पुण्यं भवेत्तस्य तन्मे निगदतः शृणु ॥ १,१३.५ ॥ दिव्यदेहधरो भूत्वा विमानवरमास्थितः । कल्पत्रयं विष्णुपदे स्थित्वा ब्रह्मपुरं व्रजेत् ॥ १,१३.६ ॥ कल्पवद्वयं स्थितस्तत्र पुनः कल्पं वसेद्दिवि । ततस्तु योगिनामेव कुले जातो दयोन्विताः ॥ १,१३.७ ॥ वैष्णवं योगमास्थाय मुक्तिं व्रजति शाश्वतीम् । दारुभिः कुरुते यस्तु तस्य स्याद्दिगुणं फलम् ॥ १,१३.८ ॥ त्रिगुणं चेष्टकाभिस्तु शिलाभिस्तच्चतुर्गणम् । स्फुटिकाभिः शिलाभिस्तु ज्ञेयं दशगुणोत्तरम् ॥ १,१३.९ ॥ तान्मीभिस्तच्छतगुणं हेम्ना कोटिगुणं भवेत् । देवालयं तडागं वा ग्रामं वा पालयेत्तु यः ॥ १,१३.१० ॥ कर्तुः शतगुणं तस्य पुण्यं भवति भूपते । देवालयस्य शुश्रूषां लेपसेचनमण्डनैः ॥ १,१३.११ ॥ कुर्याद्यत्सततं भक्त्या तस्य पुण्यमनन्तकम् । वेतनाद्विष्टितो वापि पुण्यकर्मप्रवर्त्तिताः ॥ १,१३.१२ ॥ ते गच्छन्ति धराधाराः शाश्चतं वैष्णवं पदम् । ताडागार्द्धफलं राजन्कासारे परिकीर्तितम् ॥ १,१३.१३ ॥ कूपे पादफलं ज्ञेयं वाप्यां पद्माकरोन्मितम् । वापीशतगुणं प्रोक्तं कुल्यायां भूपतेः फलम् ॥ १,१३.१४ ॥ दृषद्भिस्तुधनीःकुर्यान्मृदा निष्किञ्चनो जनः । तयोः फलं समानं स्यादित्याह कमलोद्भवः ॥ १,१३.१५ ॥ दद्यादाढ्यास्तु नगरं हस्तमात्रमकिञ्चनः । भुवं तयोः समफलं प्राहुर्वेदविदो जनाः ॥ १,१३.१६ ॥ धनाढ्यः कुरुते यस्तु तडागं फलसाधनम् । दरिद्रः कुरुते कूपं समं पुण्यं प्रकीर्तितम् ॥ १,१३.१७ ॥ आश्रमं कारयेद्यस्तु बहुजन्तूपकारकम् । स याति ब्रह्मभुवनं कुलत्रयसमन्वितः ॥ १,१३.१८ ॥ धेनुर्वा ब्रह्मणो वापि यो वा को वापि भूपते । क्षणार्द्धं तस्य छायायां तिष्टन्स्वर्गं नयत्यमुम् ॥ १,१३.१९ ॥ आरामकारका राजन्देवतागृहकारिणः । तडागग्रामकर्त्तारः पूज्यन्ते हरिणा सह ॥ १,१३.२० ॥ सर्वलोकोपकारार्थं पुष्पारामं जनेश्वरा । कुर्वते देवतार्थं वा तेषां पुण्यफलं शृणु ॥ १,१३.२१ ॥ तत्र यावन्ति पर्णानि कुसुमानि भवन्ति च । तावद्वर्षाणि नाकस्थो मोदते कुलकोटिभिः ॥ १,१३.२२ ॥ प्राकारकारिणस्तस्य कण्टकावरणप्रदाः । प्रयान्ति ब्रह्मणः स्थानं युगानामेकसत्पतिम् ॥ १,१३.२३ ॥ तुलसीरोपणं ये तु कुर्तते मनुजे श्वर । तेषां पुण्यफलं राजन्वदतो मे निशामय ॥ १,१३.२४ ॥ सत्पकोटिकुलैर्युक्तो मातृतः पितृतस्तथा । वसेत्कल्पशतं साग्रं नारायणपदं नृप ॥ १,१३.२५ ॥ ऊर्द्धपुण्ड्रधरो यस्तु तुलसीमूलमृत्स्त्रया । गोपिकाचन्दनेनापि चित्रकूटमृदापि वा । गङ्गामृतिकया चैव तस्य पुण्यफलं शृणु ॥ १,१३.२६ ॥ विमानवरमारुढो गन्धर्वाप्सरसां गणैः । संगीयमानचरितो मोदते विष्णुंमदिरे ॥ १,१३.२७ ॥ पत्राणि तुलसीमूलाद्यावन्ति पतितानि वै । तावन्ति ब्रह्महत्यादिपातकानि हतानि च ॥ १,१३.२८ ॥ तुलस्यां सेचयेद्यस्तु जलं चुलुकमात्रकम् । क्षीरोदवासिना सार्द्धं वसेदाचन्द्रतारकम् ॥ १,१३.२९ ॥ ददाति ब्राह्मणानां यः कोमलं तुलसीदलम् । स याति ब्रह्मसदने कुलत्रितयतसंयुतः ॥ १,१३.३० ॥ शालप्रामेर्ऽपयेद्यस्तु तुलस्यास्तु दलानि च । स वसेद्विष्णुभवने यावदाभूतसंप्लवम् ॥ १,१३.३१ ॥ कण्टकावरणं यस्तु प्राकारं वापि कारयेत् । सोऽप्येकविंशतिकुलैर्मोदते विष्णुमन्दिरे ॥ १,१३.३२ ॥ योऽर्च्चयेद्धरिपादाब्जं तुलस्याः कोमलैर्दलैः । न तस्य पुनरावृत्तिर्विष्णुलोकान्नरेश्वर ॥ १,१३.३३ ॥ द्वादश्यां पौर्णमास्यां यः क्षीरेण स्नापयेद्धरिम् । कुलायुतयुतः सोऽपि मोदते वैष्णवे पदे ॥ १,१३.३४ ॥ प्रस्थमात्रेण पयसा यः स्नापयति केशवम् । कुलायुतायुतयुतः सोऽपि विष्णुपुरे वसेत् ॥ १,१३.३५ ॥ घृतप्रस्थेन यो विष्णुं द्वादश्यां स्नापयेन्नरः । कुलकोटियुतो राजन्सायुज्यं लभते हरेः ॥ १,१३.३६ ॥ पञ्चामृतेन यः स्नानमेकादश्यां तु कारयेत् । विष्णोः सायुज्यकं तस्य भवेत्युलशतायुतैः ॥ १,१३.३७ ॥ एकादश्यां पौर्णमास्यां द्वादश्यां वा नृपोत्तम । नालिकेरोदकैर्विष्णुं स्नापयेत्तत्फलं शृणु ॥ १,१३.३८ ॥ दशजन्मार्जितैः पापैर्विमुक्तो नृपसत्तम । शतद्वयकुलैर्युक्तो मोदते विष्णुना सह ॥ १,१३.३९ ॥ इक्षुतोयेन देवेशं यः स्नापयति भूपते । केशवं लक्षपितृभिः सार्द्धं विष्णुपदं व्रजेत् ॥ १,१३.४० ॥ पुष्पोदकेन गोविन्दं तथा गन्धोदकेन च । स्नापयित्वा हरिं भक्त्या वैष्णवं पदमान्पुयात् ॥ १,१३.४१ ॥ जलेन वस्त्रपूतेन यः स्नापयति माधवम् । सर्वपापविनिर्मुक्तो विष्णुना सह मोदते ॥ १,१३.४२ ॥ क्षीराद्यैः स्नापयेद्यस्तु रविसंक्रमणे हरिम् । स वसेद्विष्णुसदने त्रिसत्पपुरुषैः सह ॥ १,१३.४३ ॥ शुक्लपक्षे चतुर्द्दश्यामष्टम्यां पूर्णिमादिने ॥ १,१३.४४ ॥ एकादश्यां भानुवारे द्वादश्यां पञ्चमीतिथौ । सोमसूर्योपरागे च मन्वादिषुयुगादिषु ॥ १,१३.४५ ॥ अर्द्धोदये च सूर्यस्य पुष्यार्के रोहिणीबुधे । तथैव शनिरो हिण्यां भौमाश्विन्यां तथैव च ॥ १,१३.४६ ॥ शन्यां भृवभृगे चैवभृगुरेवुरेवतिसङ्गमे । तथा बुधानुराधायां श्रवणार्के तथैव च ॥ १,१३.४७ ॥ तथा च सोमश्रवणे हस्तयुक्ते बृहस्पतौ । बुधाष्टम्यां बुधाषाढे पुण्ये विने तथा ॥ १,१३.४८ ॥ स्त्रापये त्पयसा विष्णुं शान्तिमान् वाग्यतः शुचिः । घृतेन मधुना वापि दध्ना वा तत्फलं शृणु ॥ १,१३.४९ ॥ सर्वयज्ञफलं प्राप्ये सर्वपापविवपर्जितः । वसेष्टिष्णुपुरे सार्दं त्रिसत्पपुरुषैर्मृप ॥ १,१३.५० ॥ तत्रैव ज्ञानमासाद्य योगिनामपि दुर्लभम् । मोक्षमाप्रोति नृपते पुनरावृत्तिदुर्लभम् ॥ १,१३.५१ ॥ कृष्णपक्षे चतुर्दशअयां सोमवारे च भूपते । शिवं संस्त्राप्य दुग्धेन शिवसायुज्यमान्पुयात् ॥ १,१३.५२ ॥ नालिकेरोदकेनापि शिवं संस्त्राप्य भक्तितः । अष्टम्यामिन्दुवारे वा शिवसायुज्यमश्नुते ॥ १,१३.५३ ॥ शुक्लपक्षे चतुर्दश्यामष्यम्यां वापि भूपते । घृतेन मधुना स्त्राप्य शिवां तत्साम्यतां व्रजेत् ॥ १,१३.५४ ॥ तिलतैलेन संस्त्राप्य विष्णुं वा शिवमेवं च । स याति तत्तत्सारुप्यं पितृभिः सह सत्पभिः ॥ १,१३.५५ ॥ शिवमिश्रुरसेनापि यः स्नापयति भघक्तितः । शिवलोके वसेत्कल्पं ससत्पपुरुषैः सह ॥ १,१३.५६ ॥ घृतेन स्नापयेल्लिङ्गमुत्थाने द्वादशीदिने । क्षीरेण वा महाभाग तत्फलं शृणु मद्गिरा ॥ १,१३.५७ ॥ जन्मायुतकृतकैः पापैर्दर्मुक्तो मनुजो नृप । कोटि संख्यं समुद्धृकत्य स्वकुलं शिवतां व्रजेत् ॥ १,१३.५८ ॥ सम्पूज्य गन्धकुसुमैर्विष्णुं विष्णुतिथौ नृप । जन्मायुतार्जितैः पापैर्मुक्तो व्रजति तत्पदम् ॥ १,१३.५९ ॥ पद्मपुष्पेण यो विष्णुं शिवां वा पूजयेन्नरः । स याति विष्णुभवनं कुलकोटिसमन्वितः ॥ १,१३.६० ॥ हरिं च केतकीपुष्पैः शिवं धत्तूरजैर्निशि । संपूज्य पापनिर्मुक्तो वसेद्भिष्णुपुरे युगम् ॥ १,१३.६१ ॥ हरिं तु चाम्पकैः पुर्ष्पेरर्कष्पैश्च शङ्करम् । समभ्यर्च्य महाराज तत्तत्सालोक्यमान्पुयात् ॥ १,१३.६२ ॥ शङ्कर स्याथवा विष्णोर्घृतयुक्तं च गुगगुलुम् । दत्त्वा धूपे नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ १,१३.६३ ॥ तिलतैलान्वितं दीपं विष्णोर्वा शङ्करस्य वा । दत्त्वा नरः सर्वकामान्मंप्राप्नोति नृपोत्तम ॥ १,१३.६४ ॥ घृतेन दीपं यो दद्याच्छङ्करायाथ विष्णवे । स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत् ॥ १,१३.६५ ॥ ग्रामयेन वापि तैलेन राजन्नन्येन वा पुनः । दीपं तत्त्वा महाविष्णोः शिवस्यापि फलं शृणु ॥ १,१३.६६ ॥ सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः । तत्तत्सालोक्यमाप्नोति त्रिःभत्पपुरुषान्वितः ॥ १,१३.६७ ॥ यद्यदिष्टतमं भोज्यं तत्तदीशाय विष्णवे । दत्त्वा तत्तत्पदं याति चत्वारिशत्कुलान्वितः ॥ १,१३.६८ ॥ यद्यदिष्टतमं वस्तु नतद्विप्राय दापयेत् । स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ॥ १,१३.६९ ॥ भ्रूणहास्वर्णदानेन शुद्धो भवति भूपते । अन्नतोयसमन्दानं न भूतं न भविष्यति ॥ १,१३.७० ॥ अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः । सर्वदानफलं यस्मादन्नदस्य नृपोत्तम ॥ १,१३.७१ ॥ अन्नदो ब्रह्मसदनं यातिवंशायुतान्वितः । न तस्य पुनरावृत्तिरिति शास्त्रेषु निश्चितम् ॥ १,१३.७२ ॥ सद्यस्तुष्टिकरं ज्ञेयं जलदानं यतोऽधिकम् । अन्नदानान्नृपश्रेष्ठ निर्दिष्टं श्रह्मवादिभिः ॥ १,१३.७३ ॥ महापातकयुक्तो वा युक्तो वाप्युपपातकैः । जलदो मुच्यते तेभ्य इत्याह कमलोद्भवः ॥ १,१३.७४ ॥ शरीरमन्नाजं प्राहुः प्राणामप्यन्नजान्विदुः । तस्मादन्नप्रदो ज्ञेयः प्राणदः पृथिवीपते ॥ १,१३.७५ ॥ यद्यतुष्टिकरं दानं सर्वकामफलप्रदम् । तस्मादन्नसमं दानं नास्ति भूपाल भूपले ॥ १,१३.७६ ॥ अन्नदस्य कुले जाता आसहंस्त्र नृपोत्म । नपकं ते न पशअयन्ति तस्मादन्नप्रदो वरः ॥ १,१३.७७ ॥ पादाभ्यङ्गंभक्तियुक्तो योऽतिथेः कुरुते नरः । स स्नातः सर्वतीर्थेषु गङ्गास्नानपुरःसरम् ॥ १,१३.७८ ॥ तैलाभ्यङ्गं महाराज ब्राह्मणानां करोति यः । स स्त्रातोऽष्टशतं साग्रं गङ्गायां नात्र संशयः ॥ १,१३.७९ ॥ रोगितान्ब्रह्माणान्यस्तु प्रेम्णा रक्षति रक्षकः । स कोटिकुलसंयुक्तो वसेद्वूह्यपुरे युगम् ॥ १,१३.८० ॥ यो रक्षेत्पृथिवीपाल रङ्गं वा रोगिणं नरम् । तस्य विष्णुः प्रसन्नात्मा सर्वान्कामान्प्रयच्छति ॥ १,१३.८१ ॥ मनसा कर्मणा वाचा यो रक्षेदामयान्वितम् । सर्वान्कामानवान्पोति सर्वेपापविवार्जितः ॥ १,१३.८२ ॥ यो ददाति महीपाल निवासं ब्राह्मणाय वै । तस्य प्रसन्नो देवेशः स्वलोकं संप्रयच्छति ॥ १,१३.८३ ॥ ब्राह्मणायं ब्रह्मविदे यो दद्याद्गां पयस्विनीम् । स यातिब्रह्मसदनमन्येषामतिदुर्लभम् ॥ १,१३.८४ ॥ अन्येभ्यः प्रतिगृह्यापि यो द्द्याद्गां पयस्विनीम् । तस्य पुण्यफलं वक्तुं नाहं शक्तोऽस्मि पण्डित ॥ १,१३.८५ ॥ कपिलां वेदविदुषे यो ददाति पयस्विनीम् । स एव रुद्रो भूपाल सर्वपापविवर्जितः ॥ १,१३.८६ ॥ विप्राय वेदविदुषे दद्यादुभयतोमुखीम् । यस्तस्य पुण्यं संख्यातु न शक्तोऽब्दशतैरपि ॥ १,१३.८७ ॥ तस्य पुण्यफलं राजञ्शृणु वक्ष्यामि तत्त्वतः । एकतः क्रतवः सर्वे समग्रवरदक्षिणाः ॥ १,१३.८८ ॥ एकतो भयभीतस्यत प्राणिनः प्राणरक्षणम् । संरक्षति महीपाल यो विप्रं भयविह्वलम् ॥ १,१३.८९ ॥ स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । वस्त्रदो रुद्रभवनं कन्यादो ब्रह्मणः पदम् ॥ १,१३.९० ॥ हेमदो विष्णु भवनं प्रयाति स्वकुलान्वितः । यस्तु कन्यामलङ्कृत्य ददात्यध्यात्मवेदिने ॥ १,१३.९१ ॥ शतवंशसमायुक्तः स व्रजेद्रूह्यणः पदम् । कार्तिक्यां पौर्णमास्यां वा आषाढ्यां वापि भूपते ॥ १,१३.९२ ॥ वृषभं शिवतुष्ट्यर्थमुत्सृजेत्तत्फलं शृणु । सत्पजन्मार्जितैः पापैर्विमुक्तो रुद्ररुपभाक् ॥ १,१३.९३ ॥ कुलसत्पतिसंयुक्तो रुद्रेण सह मोदते । शिवलिङ्गाङ्कितं कृत्वा महिषं यः समुत्सृजेत् ॥ १,१३.९४ ॥ न तस्य यातनालोको भवेन्नृपतिसत्तम् । ताम्बूलदानं यः कुर्याच्छक्तितो नृपसत्तम ॥ १,१३.९५ ॥ तस्य विष्णुः प्रसन्नात्मा ददात्यायुर्यशः श्रियम् । क्षीरोदो घृतदश्चैव मधुदो दधिदस्तथा ॥ १,१३.९६।. दिव्याब्दायुतपर्यन्तंस्वर्गलोके महीयते । प्रयाति ब्रह्मसदनमिक्षुदाता नृपोत्तम ॥ १,१३.९७ ॥ गन्धदः पुण्यफलदः प्रयाति ब्रह्मणः पदम् । गुडेक्षुरसदश्चैव प्रयाति क्षीरसागरम् ॥ १,१३.९८ ॥ भटानां जलदो याति सूर्यलोकमनुत्तमम् । विद्यादानेन सायुज्यं माधवस्य व्रजेन्नरः ॥ १,१३.९९ ॥ विद्यादानं महीदानं गोदानं चोत्तमोत्तमम् । नरकादुद्धरन्त्येव जपवाहनदोहनात् ॥ १,१३.१०० ॥ सर्वेषामपि दानानां विद्यादानं विशिष्यते । विद्यादानेन सायुज्यं विष्णोर्याति नृपोत्तम ॥ १,१३.१०१ ॥ नरस्त्विंन्धनदानेन मुच्यते ह्युपपातकैः । शालग्रामशिलादानं महादानं प्रकीर्तितम् ॥ १,१३.१०२ ॥ यद्दत्त्वा मोक्षमान्पोति लिङ्गदानं तथा स्मृतम् । ब्रह्माण्ड कोटिदानेन यत्फलं लभते नरः ॥ १,१३.१०३ ॥ तत्फलं समवान्पोति लिङ्गदानान्न संशयः । शालग्रामशिलादाने ततोऽपि द्विगुणं फलम् ॥ १,१३.१०४ ॥ शाल ग्रामशिलारूपी विष्णुरेवेति विश्रुतः । यो ददाति नरो दानं गृहतां प्रभो ॥ १,१३.१०५ ॥ गङ्गास्त्रानफलं तस्य निश्चितं नृप जायते । रत्नान्वितसवर्णस्य प्रदानेन नृपोत्तम ॥ १,१३.१०६ ॥ भुक्तिमुक्तिमवान्पोति महादानं यतः स्मृतम् । नरो माणिक्यदानेन परं मोक्षमवान्पुयात् ॥ १,१३.१०७ ॥ घ्रुवलोकमवान्पोति वज्रदानेन मानवः । स्वर्गं विद्रुमदानेन रुद्रलोकमवान्पुयात् ॥ १,१३.१०८ ॥ प्रयाति यानदानेन मुक्तादानेन चैन्दवम् । वैडूर्यदो रुद्रलोकं पुष्परागप्रदस्तथा ॥ १,१३.१०९ ॥ पुष्परागप्रदानेन सर्वत्र सुखमश्नुते । अश्वसांनिध्यं चिरं व्रजति भूमिप ॥ १,१३.११० ॥ गजदानेन महता सर्वान्कामानवान्पुयात् । प्रयाति यानदानेन स्वर्गं स्वर्यानमास्थितः ॥ १,१३.१११ ॥ महिषीदो जयत्येव ह्यपमृकत्युं न संशयः । गवां तृणप्रदानेन रुद्रलोकमवान्पुयात् ॥ १,१३.११२ ॥ वारुणं लोकमान्पोति महीश लवणप्रदः । स्वश्रमाचारनिरताः सर्वभूतहितेरताः ॥ १,१३.११३ ॥ अदाम्भिका गतासूयाः प्रयान्ति बग्रह्मणः पदम् । परोपदेश निरता वीतरागा विमत्साराः ॥ १,१३.११४ ॥ हरिपादार्चनरताः प्रयान्ति सदनं हरेः । सत्सङ्गाह्लादनिरताः सत्कर्मसु सदोद्यताः ॥ १,१३.११५ ॥ परापवादविमुखाः प्रायान्ति हरिमन्दिरम् । नित्यं हितकरा ये तु ब्राह्मणेषु च गोषु च ॥ १,१३.११६ ॥ परस्त्रीसङ्गविमुखा न पश्यन्ति यमालयम् । जितेन्द्रिया जिताहारा गोषु क्षान्ताः सुशीलिनः ॥ १,१३.११७ ॥ ब्राह्मणेषु क्षमाशीलाः प्रयान्ति भवनं हरेः । अग्निशुश्रूषवश्चैव गुरुशुश्रूषकास्तथा ॥ १,१३.११८ ॥ पतिशुश्रूषणरता न वै संसृतिभागिनः । सदा देवार्चनरता हरिनमपरायणाः ॥ १,१३.११९ ॥ प्रतिग्रहनिवृत्ताश्च प्रयान्ति परमं पदम् । अनाथं विप्रकुणपं ये दहेयुर्नृपोत्तम ॥ १,१३.१२० ॥ अश्वमेधसहस्राणां फलमश्नुवते सदा । पत्रैः पुर्ष्पेः फलैर्वापि जलैर्वा मनुजेश्वर ॥ १,१३.१२१ ॥ पूजया रहितं लिङ्गमचर्यत्तेत्फलं शृणु । अप्सरोगणगन्धर्वैः स्तूयमानो विमानगः ॥ १,१३.१२२ ॥ प्रयाति शिवसान्निध्यमित्याह कमलोद्भवः । चुलुकोदकमात्रेण लिङ्गं संस्नाप्य भूमिप ॥ १,१३.१२३ ॥ लक्षाश्वमेधजं पुण्यं संप्रान्पोति न संशयः । पूजया रहितं लिङ्गं कुसुमैर्योर्ऽचयेत्सुधीः ॥ १,१३.१२४ ॥ अश्वमेधायुतफलं भवेत्तस्य जनेश्वर । भक्ष्यैर्भोज्यैः फलैर्वापि शून्यं लिङ्गं प्रपूज्य च ॥ १,१३.१२५ ॥ शिवसायुज्यमान्पोति पुनरावृत्तिवर्जितम् । पूजया रहितं विष्णुं योर्ऽचयेदकर्वंशज ॥ १,१३.१२६ ॥ जलेनापि स सालोक्यं विष्णोर्याति नरोत्तम । देवतायतने यस्तु कुर्यात्संमार्जनं सुधीः ॥ १,१३.१२७ ॥ यावत्पांसु युगावासं वैष्णवे मन्दिरेलभेत् । शीर्णं स्फटिकलिङ्गन्तु यः संदध्यान्नृपोत्तम ॥ १,१३.१२८ ॥ शतजन्मार्जितैः पापैर्मुच्यते स तु मानवः । यस्तु देवालये राजन्नपि गोचर्ममात्रकम् ॥ १,१३.१२९ ॥ जलेन सिञ्चिद्भूभागं सोऽपि स्वर्गं लभेन्नरः । गन्धोदकेन यः सिञ्चेद्देवतायतने भुवम् ॥ १,१३.१३० ॥ यावत्कणानुकल्पं तु तिष्ठेत देवसन्निधौ । मृदा धातुविकारैर्वा यो लिम्पेद्देवतागृहम् ॥ १,१३.१३१ ॥ स कोटिकुलमुद्धृत्य याति साम्यं मधुद्विषः । शिलाचूर्णेन यो मर्त्यो देवागारं तु लोपयेत् ॥ १,१३.१३२ ॥ स्वस्तिकादीनि वा कुर्यात्तस्य पुण्यमनन्तकम् । यः कुर्याद्दीपरचनां देवतायतने नृप ॥ १,१३.१३३ ॥ तस्य पुण्यं प्रसंख्यातुं नोत्सहेऽब्दशतैरपि । अखण्डदीपं यः कुर्याद्विष्णोर्वा शङ्करस्य च ॥ १,१३.१३४ ॥ क्षणे क्षणेऽश्वमेधस्य फलं तस्य न दुर्लभम् । अर्चितं शङ्करं दृष्ट्वा विष्णुं वापि नमेत्तु यः ॥ १,१३.१३५ ॥ स विष्णुभवनं प्राप्य मोदते च युगायुतम् । देव्याः प्रदक्षिणामेकां सत्प सूर्यस्य भूमिप ॥ १,१३.१३६ ॥ तिस्त्रो विनायकस्यापि चतस्त्रो विष्णुमन्दिरे । कृत्वा तत्तद्गृहं प्राप्य मोदते युगलक्षकम् ॥ १,१३.१३७ ॥ यो विष्णोर्भक्तिभावेन तथैव गोद्विजस्य च । प्रदक्षिणां चररेत्तस्य ह्यश्वमेधः पदे पदे ॥ १,१३.१३८ ॥ काश्यां महेश्वरं माहेश्वरं लिङ्गं संपूज्य प्रणमेत्तु यः । न तस्य विद्यते कृत्यं संसृतिर्नैव जायते ॥ १,१३.१३९ ॥ शिवं प्रदक्षिणं कृत्वा सव्येनैव विधानतः । नरो न च्यवते स्वर्गाच्छङ्करस्य प्रसादतः ॥ १,१३.१४० ॥ स्तुत्वा स्तोत्रैर्जगन्नाथं नारायणमनामयम् । सर्वान्कामानवान्पोति मनसा यद्यदिच्छति ॥ १,१३.१४१ ॥ देवतायतने यस्तु भक्तियुक्तः प्रनृत्यति । गायते वा स भूपाल रुद्रलोके च मुक्तिभाक् ॥ १,१३.१४२ ॥ ये तु वाद्यं प्रकुर्वन्ति देवतायतने नराः । ते हंसयानमारुढा व्रजन्ति ब्रह्मणः पदम् ॥ १,१३.१४३ ॥ करतालं प्रकुर्वन्ति देवतायतने तु येते । सर्वपापनिर्मुक्ता विमानस्था युगायुतम् ॥ १,१३.१४४ ॥ देवतायतने ये तु घण्टानादं प्रकुर्वते । तेषां पुण्यं निगदितुं न समर्थः शिवः स्वयम् ॥ १,१३.१४५ ॥ भेरीमृदङ्गपटहमुरजैश्व सडिण्डिमैः । संप्रीणयन्ति देवेशं तेषां पुण्यफलं शृणु ॥ १,१३.१४६ ॥ देवस्त्रीगणसंयुक्ताः सर्वकामैः समर्चिताः । स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपञ्चकम् ॥ १,१३.१४७ ॥ देवतामन्दिरे कुर्वन्नरः शङ्खरवं नृप । सर्वपापविनिर्मुक्तो विष्णुना सह मोदते ॥ १,१३.१४८ ॥ तालकांस्यादिनिनदं कुर्वन् विष्णुगृहे नरः । सर्वपापविनिर्मुक्तो विष्णुलोकमवान्पुयात् ॥ १,१३.१४९ ॥ यो देवः सर्वदृग्विष्णुर्ज्ञानरुपी निरञ्जनः । सर्वधर्मफलं पूर्णं संतुष्टः प्रददाति च ॥ १,१३.१५० ॥ यस्य स्मरणमात्रेण देवदेवस्य चक्रिणः । सफलानि भवन्त्येव सर्वकर्माणि भूपते ॥ १,१३.१५१ ॥ परमात्मा जगन्नाथः सर्वकर्ंमफलप्रदः । सत्कर्मकर्तृभिर्नित्यं स्मृतः सर्वार्तिनाशनः । तमुद्दिश्य कृतं यच्च तदानन्त्याय कल्पते ॥ १,१३.१५२ ॥ धर्माणि विष्णुश्च फलानि विष्णुः कर्माणि विष्णुश्च फलानि भोक्ता । कार्यं च विष्णुः करणानि विष्णुरस्मान्न किञ्चिव्द्यतिरिक्तमस्ति ॥ १,१३.१५३ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्मानुकथनं नाम त्रयोदशोऽध्यायः _____________________________________________________________ धर्मराज उवाच श्रुतिस्मृत्युदितं धर्मं वर्णानामनुपूर्वशः । प्रब्रवीमि नृपश्रेष्ठ तं शृणुष्व समाहितः ॥ १,१४.१ ॥ यो भुञ्जानोऽशुचिं वापि चाण्डालं पतितं स्पृशेत् । क्रोधादज्ञानतो वापिं तस्य वक्ष्यामि निष्कृतिम् ॥ १,१४.२ ॥ त्रिरात्रं वाथ षड्रात्रं यथासंख्यं समाचरेत् । स्नानं त्रिषवणं विप्रपञ्चगव्येन शुध्यति ॥ १,१४.३ ॥ भुञ्जानस्य तु विप्रस्य कदाचजित्स्त्रवते गुदम् । उच्छिष्टत्वेऽशुचित्वे च तस्य शुद्धिं वदामि ते ॥ १,१४.४ ॥ पूर्वं कृत्वा द्विजः शौचं पश्चादप उपस्पृशेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ १,१४.५ ॥ निगिरन्यदि मेहेत भुक्त्वा वा मेहने कृते । अहोरात्रोषितो भूत्वा जुहुयात्सर्पिषानलम् ॥ १,१४.६ ॥ यदा भोजनकाले स्यादशुचिर्ब्राह्मणः क्वचित् । भूमौ निधाय तं ग्रासं स्त्रात्वा शुद्धिमवान्पुयात् ॥ १,१४.७ ॥ भक्षयित्वा तु तदासमुपवालेन शुद्ध्यति । अशित्वा चैव तत्सर्वं त्रिरात्रमशुचिर्भवेत् ॥ १,१४.८ ॥ अश्रतश्चेद्वमिः स्याद्वै ह्यस्वस्थस्त्रिश्रतं जपेत् । स्वस्थस्त्रीणि सहस्राणि गायत्र्याः शोधनं परम् ॥ १,१४.९ ॥ चाण्डालैः श्वपर्चैः स्पृष्टो विण्मूत्रे च कृते द्विजः ॥ १,१४.१० ॥ त्रिरात्रं तु प्रकुर्वीत भुक्तोच्छिष्टः षहाचरेत् । उदक्यां सूतिकांवापि संस्पृशेदन्त्यजो यदि ॥ १,१४.११ ॥ त्रिरात्रेण विशुद्धिः स्यादिति शातातपोऽब्रवीत् । रजस्वला तु संस्पृष्टा श्वभिर्मातङ्गवायसैः ॥ १,१४.१२ ॥ निराहारा शुचिस्तिष्टेत्काले स्नानेन शुद्ध्यति । रजस्वले यदा नार्यावन्योन्यं स्पृशतः क्वचित् ॥ १,१४.१३ ॥ शुद्धेते ब्रह्मकूर्चेन ब्रह्मकूर्चेन चोपरि । उच्छिष्टेन च संस्पृष्टो यो न स्नानं समाचरेत् ॥ १,१४.१४ ॥ ऋतौ तु गर्भं शङ्कित्वा स्नानं मैथुनिनः स्मृतम् । अनॄतौ तु स्त्रियं गत्वा शौचं मूत्रपुरूषवत् ॥ १,१४.१५ ॥ उभावप्यशुची स्यातां दम्पती याभसंगतौ । शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ॥ १,१४.१६ ॥ भर्त्तुः शरीरशुश्रूषां दौरात्म्यादप्रकुर्वती । दण्ड्या द्वादशकं नारी वर्षं त्याज्या धनं विना ॥ १,१४.१७ ॥ त्यजन्तो पतितान्बगन्धून्दण्ड्यानुत्तमसाहसम् । पिता हि पतितः कामं न तु माता कदाचन ॥ १,१४.१८ ॥ आत्मानं घातयेद्यस्तु रज्ज्वादिभिरुपक्रमैः । मृते मेध्येन लेत्पव्यो जीवतो द्विशतं दमः ॥ १,१४.१९ ॥ दण्ड्यास्तत्पुत्रमित्राणि प्रत्येकं पाणिकं दमम् । प्रायश्चित्तं ततः कुर्युर्यथाशास्त्रप्रचोदितम् ॥ १,१४.२० ॥ जलाग्न्युद्वन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः । विषप्रपतनध्वस्ताः शस्त्रघातहताश्च ये ॥ १,१४.२१ ॥ न चैते प्रव्रत्यवसिताः सर्वलोकबहिष्कृताः । चान्द्रायणेन शुद्ध्यंन्ति तत्पकृच्छ्रद्वयेन वा ॥ १,१४.२२ ॥ उभयावसितः पापश्यामच्छबलकाच्च्युतः । चान्द्रायणाभ्यां शुद्ध्येत दत्त्वा धेनुं तथा वृषम् ॥ १,१४.२३ ॥ स्वशृगालप्लवङ्गाद्यैर्मानुषैश्च रतिं विना । स्पृष्टः स्त्रात्वा शुचिः सद्यो दिवा संध्यासु रात्रिषु ॥ १,१४.२४ ॥ अज्ञानाद्वा तु यो भुक्त्वा चाण्डालान्नं कथञ्चन । गोमूत्रयावकाहारो मासार्द्धेन विशुद्ध्यति ॥ १,१४.२५ ॥ गोब्राह्मणगृहं दग्ध्वा मृतं चोद्वन्धनादिना । पाशं छित्वा तथा तस्य कृच्छ्रमेकं चरेद्दिजः ॥ १,१४.२६ ॥ चाण्डालपुल्पसानां च भुक्त्वा हत्वा च योषितम् । कृच्छ्रार्ध्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ॥ १,१४.२७ ॥ कोपालिकान्नभोक्तृआणां तन्नारीगामिनां तथा । अगम्यागमने विप्रो मद्यगो मांसभक्षणे ॥ १,१४.२८ ॥ तत्पकृच्छ्रपरिक्षित्पो मौर्वीहोमेन शुद्ध्यति । महापातककर्त्तारश्चत्वारोऽथ विशेषतः ॥ १,१४.२९ ॥ अग्निं प्रविश्य शुद्ध्यन्तिस्थित्वावा महति क्रतौ । रहस्यकरणोऽप्येवं मासमभ्यस्य पुरुषः ॥ १,१४.३० ॥ अघमर्षणसूक्तं वा शुद्ध्येदन्तर्जले जपन् । रजकश्चर्मकारश्च नटो बुरुड एव च ॥ १,१४.३१ ॥ कैवर्त्तमेदभिल्लाश्व सत्पैते ह्यन्त्यजाः स्मृताः । भुक्त्वा चैषां स्त्रियो गत्वा पीत्वा यःप्रतिगृह्यते ॥ १,१४.३२ ॥ कृच्छ्रार्द्धमाचरेज्ज्ञानादैन्दवद्वयम् । मातरं गुरुपत्नीं च दुहितृभगिनीस्नुषाः ॥ १,१४.३३ ॥ संगम्य प्रविशेदग्निं नान्याशुद्धिर्विधीयते । राज्ञीं प्रव्रजितां धात्रीं तथावर्णोत्तमामपि ॥ १,१४.३४ ॥ गत्वाकृच्छ्रद्वयं कुर्यात्सगोत्रामभिगम्य च । अमूषु पितृगोत्रासु मातृगोत्रगतासु च ॥ १,१४.३५ ॥ पददारेषु सर्वेषु कृच्छ्रार्द्धं तपनं चरेत् । वेश्याभिगमने पापं व्यपोहन्ति द्विजा स्तथा ॥ १,१४.३६ ॥ पीत्वा सकृत्सुतत्पं च पञ्चरात्रं कुशोदकम् । गुरुतल्पगतो कुर्यार्द्बाह्मणो विधिवद्रूतम् ॥ १,१४.३७ ॥ गोन्घस्य केचिदिच्छन्ति केचिच्चैवावकीर्णिनः । दण्डादूर्ध्वं प्रहारेण यस्तु गां विनिपातयेत् ॥ १,१४.३८ ॥ द्विगुणं गोव्रतं तस्य प्रायश्चितं विशोधयेत् । अङ्गुष्ठमात्रस्थूलस्तु बाहुमात्रघप्रमाणकः ॥ १,१४.३९ ॥ सार्द्रकःसपालाश्च गोदण्डः परिकीर्त्तितः । गवां निपातने चैव गर्भोऽपि संभवेद्यदि ॥ १,१४.४० ॥ एकैकशश्वरेत्कृच्छ्रं एषा गोन्घस्य निष्कृतिः । बन्धने रोधने चैव पोषणे वा गवां रुजाम् ॥ १,१४.४१ ॥ संपद्यते चेन्मरणं निमित्तेनैव लिप्यते । मूर्च्छितः पतितो वापि दण्डेनाभिहतस्ततः ॥ १,१४.४२ ॥ उत्थाय षट्पदं गच्छेत्सत्प पञ्चदशापि वा । ग्रासं वा यदि गृह्णीयात्तोयं वापि पिबेद्यदि ॥ १,१४.४३ ॥ सर्वव्याधिप्रनष्टानां प्रायश्चित्तं न विद्यते । कष्टलोष्टाश्मभिर्गावः शस्त्रैर्वा निहता यदि ॥ १,१४.४४ ॥ प्रायश्चित्तं स्मृतं तत्र शस्त्रे निगद्यते । काष्टे सान्तपनं प्रोक्तं प्राजापत्यं तु लोष्टके ॥ १,१४.४५ ॥ तत्पकृच्छ्रं तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकम् । औषधं स्नेहमाहारं दद्याद्गोब्राह्मणेषु च ॥ १,१४.४६ ॥ दीयमाने विपत्तिः स्यात्प्रायश्चित्तं तदा नहि । तैलभेषजपाने च भेषजानां च भक्षणे ॥ १,१४.४७ ॥ निशल्यकरणे चैव प्रायश्चित्तं न विद्यते । वत्सानां कण्ठबन्धेन क्रिययाभेषजेन तु ॥ १,१४.४८ ॥ सायं संगोपनार्थं च त्वदोषो रोषबन्धयोः । पादे चैवास्य रोमाणि द्विपादे श्मश्रु केवलम् ॥ १,१४.४९ ॥ त्रिपादे तु शिखावर्तं मूले सर्वं समाचरेत् । सर्वान्केशान्समुद्धृत्य छेदयेदङ्गुलद्वयम् ॥ १,१४.५० ॥ एवमेव तु नारीणां मुण्डनं शिरसः स्मृतम् । न स्तिया वपनं कार्यं न च वीरासनं स्मृतम् ॥ १,१४.५१ ॥ न च गोष्टे निवासोऽस्ति न गच्छन्तीमनुव्रजेत् । राजा वा राजपुत्रघो वा ब्राह्मणो वा बहुश्रुतः ॥ १,१४.५२ ॥ अकृत्वा वपनं तेषां प्रायश्चित्तं विनिर्द्दिशेत् । केशानां रक्षघणार्थं च द्विगुणं व्रतमादिशेत् ॥ १,१४.५३ ॥ द्विगुणे गतु व्रते चीर्णे द्विगुणा व्रतदक्षिणा ॥ १,१४.५४ ॥ पापं न क्षीयते हन्तुर्दाता च नरकं व्रजेत् । अश्रौतस्मार्तविहितं प्रायश्चित्तं वदन्ति ये ॥ १,१४.५५ ॥ तान्धर्मविन्घकर्तॄंश्च राजा दण्डेन पीडयेत् । न चैतान्पीडयेद्राजा कथञ्चित्काममोहितः ॥ १,१४.५६ ॥ तत्पापं शतधाभूत्वा तमेव परिसर्पति । प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् ॥ १,१४.५७ ॥ विंशतिर्गा वृषं चैकं दद्यात्तेषां च दक्षिणाम् । क्रिमिभिस्तृण संभूतैर्मक्षिकादिनिपातितैः ॥ १,१४.५८ ॥ कृच्छ्रार्द्धं स प्रकुर्वीत शक्त्या दद्याञ्च दक्षिणाम् । प्रायश्चित्तं च कृत्वा वै भोजयित्वा द्विजोत्तमान् ॥ १,१४.५९ ॥ सुवर्णमानिकं दद्यात्ततः शुद्धिर्विधीयते । चाण्डालश्वपचैः स्पृष्टे निशि स्नानं विधीयते ॥ १,१४.६० ॥ न वसेत्तत्र रात्रौ तु सद्यः स्नानेन शुद्ध्यति । वसेदथ यदा रात्रावज्ञानादविचक्षणः ॥ १,१४.६१ ॥ तदा तस्य तु तत्पापं शतधा परिवर्तते । उद्गच्छन्ति च नक्षत्राण्युपरिष्टाच्च ये ग्रहाः ॥ १,१४.६२ ॥ संस्पृष्टे रश्मिभिस्तेषामुदकस्नानमाचरेत् । याश्चान्तर्जलवल्मीकमूषिकोषरवर्त्मसु ॥ १,१४.६३ ॥ श्मशाने शौचशेषे च न ग्राह्याः सत्प मृत्तिकाः । इष्टापूर्तं तु कर्त्तव्यं ब्राह्मणेन प्रयत्नतः ॥ १,१४.६४ ॥ इष्टेन लभते स्वर्गं मोक्षं पूर्त्तेन चान्पुयात् । वित्तक्षेपो भवेदिष्टं तडागं पूर्त्तमुच्यते ॥ १,१४.६५ ॥ आरामश्च विशेषेण देवद्रोण्यस्तथैव च । वापीकूपतडागानि देवतायतनानि च ॥ १,१४.६६ ॥ पतितान्युद्धरेद्यस्तु स पूर्वफलमश्नुते । शुक्लाया आहरेन्मूत्रं कृष्णाया गोः शकृत्तथा ॥ १,१४.६७ ॥ ताम्रायाश्च पयो ग्राह्यं श्वेतायाश्च दधि स्मृतम् । कपिलाया घृतं ग्राह्यं महापातकनाशनम् ॥ १,१४.६८ ॥ कुशैस्तीर्थनदीतौयैः सर्वद्रव्यं पृथक्पृथक् । आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च ॥ १,१४.६९ ॥ प्रणवेन समालोड्य प्रणवेनैव संपिबेत् । पालाशे मध्यमे पर्णे भाण्डे ताम्रमये शुभे ॥ १,१४.७० ॥ पिबेत्पुष्करपर्णे वा मृन्मये वा कुशोदकम् । सूतके तु समुत्पन्ने द्वितीये समुपस्थिते ॥ १,१४.७१ ॥ द्वितीये नास्ति दोषस्तु प्रथमेनैव शुध्यति । जातेन शुध्यते जातं मृतेन मृतकं तथा ॥ १,१४.७२ ॥ गर्भसंस्त्रवणे मासे त्रीण्यहानि विनिर्दिशेत् ॥ १,१४.७३ ॥ रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावे विशुद्ध्यति । रजस्युपरते साध्वी स्ननेन स्त्री रजस्वला ॥ १,१४.७४ ॥ स्वगोत्राद्भृश्यते नारी विवाहात्सत्पमे पदे । स्वामिगोत्रेण कर्त्तव्यास्तस्याः पिण्डोदकक्रियाः ॥ १,१४.७५ ॥ उद्देश्यं पिण्डदाने स्यात्पिण्डे पिण्डे द्विनामतः । षण्णां देयास्त्रयः पिण्डा एवं दाता न मुह्यति ॥ १,१४.७६ ॥ स्वेन भर्त्रा सहस्राब्दं माताभुक्ता सुदैवतम् । पितामह्यपि स्वेनैव स्वेनैव प्रपितामही ॥ १,१४.७७ ॥ वर्षे तु कुर्वीत मातापित्रोस्तु सत्कृतिम् । अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत् ॥ १,१४.७८ ॥ नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धमथापरम् । पार्वणं चेति विज्ञेयं श्राद्धं पञ्चविधं बुधैः ॥ १,१४.७९ ॥ ग्रहोपरागे संक्रान्तौ पर्वोत्स वमलालये । निर्वपेर्त्रीन्नरः पिण्डानेकमेव मृतेऽहनि ॥ १,१४.८० ॥ अनूढ न पृथक्कन्या पिण्डे गोत्रे च सूतके । पाणिग्रहणमन्त्राभ्यां स्वगोत्राद्भ्रश्यते ततः ॥ १,१४.८१ ॥ येन येन तु वर्णेन या कान्या परिणीयते । तत्समं सूतकं याति तथापिण्डोदकेऽपि च ॥ १,१४.८२ ॥ विवाहे चैव संवृत्ते चतुर्थेऽहनिरात्रिषु । एकत्वं सा व्रजेद्भर्तुः पिण्डे गोत्रे च सूतके ॥ १,१४.८३ ॥ प्रथमेऽङ्नि द्वितीये वा तृतीये वा चतुर्थके । अस्थिसंचयनं कार्यं बन्धुभिर्हितबुद्धिभिः ॥ १,१४.८४ ॥ चतुर्थे पञ्चमे चैव सत्पमे नवमे तथा । अस्थिसंचयनं प्रोक्तं वर्णानामनुपूर्वशः ॥ १,१४.८५ ॥ एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः । मुच्यते प्रेतलोकात्स स्वर्गलोके महीयते ॥ १,१४.८६ ॥ नाभिमात्रे जले स्थित्वा हृदयेन तु चिन्तयेत् । आगच्छन्तु मे पितरो गृह्णन्त्वेताआजाञ्जलीन् ॥ १,१४.८७ ॥ हस्तौ कृत्वा तु संयुक्तौ पूरचित्वा जलेन च । गोशृङ्गमात्रमुद्धृत्य जलमध्ये विनिः क्षिपेत् ॥ १,१४.८८ ॥ आकाशे च क्षिपेद्वारि वारिस्थो दक्षघिणामुखः । पितॄणां स्थानमाकाशं दक्षिणादिक्तथैव च ॥ १,१४.८९ ॥ आपो देवगणाः प्रोक्ता आपः पितृगणास्तथा । तस्मादस्य जलं देयं पितॄणां हितमिच्छता ॥ १,१४.९० ॥ दिवासूर्यांशुसंतत्पं रात्रौ नक्षत्रमारुतैः । मध्ययोरप्युभाभ्यां च पवित्रं सर्वदा जलम् ॥ १,१४.९१ ॥ स्वभावयुक्तमव्यक्तममेध्येन सदा शुचिः । भाण्डस्थं धरणीस्थं वा पवित्रं सर्वदा जलम् ॥ १,१४.९२ ॥ देवतानां पितॄणां च जलं दद्याज्जलाञ्जलीन् । असंस्कृतप्रमीतानां स्थले दद्याद्विचक्षणः ॥ १,१४.९३ ॥ श्रद्धे हवनकाले च दद्यादेकेन पाणिना । उभाभ्यां तर्पणे दद्यादेष धर्मो व्यवस्थितः ॥ १,१४.९४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्मशान्तिनिर्देशो नाम चतुर्दशोऽध्यायः _____________________________________________________________ धर्मराज उवाच पाप भेदान्प्रवक्ष्यामि यथा स्थूलाश्च यातनाः । शृणुष्व धैर्यमास्थाय रौद्रा ये नरका यतः ॥ १,१५.१ ॥ पापिनो ये दुरात्मानो नरकाग्निषु सन्ततम् । पच्यन्ते येषु तान्वक्ष्ये भयङ्करफलप्रदान् ॥ १,१५.२ ॥ तपनोवालुकाकुम्भौमहारौरवरौरवौ । कुम्भघीपाको निरुच्छ्वासः कालसूत्रः प्रमर्दनः ॥ १,१५.३ ॥ असिपत्रवनं घोरं लालाभक्षोहिमोत्कटः । मूषावस्था वसाकूपस्तथा वैतरणी नदी ॥ १,१५.४ ॥ भक्ष्यन्ते मूत्रपानं च पुरीषह्लद एव च । तत्पशूलं तत्पशिला शाल्मलीद्रुम एव च ॥ १,१५.५ ॥ तथा शोणितकूपश्च घोरः शोणितभोजनः । स्वमांसभोजनं चैव वह्निज्वालानिवेशनम् ॥ १,१५.६ ॥ शिलावृष्टिः शस्त्रवृष्टिर्वह्निवृष्टिस्तथैव च । क्षारोदकं चोष्णतोयं तत्पायः पिण्डभभणम् ॥ १,१५.७ ॥ अथ शिरःशोषणं च मरुत्प्रपतनं तथा । तथा पाशाणवर्णं च कृमिभोजनमेव च ॥ १,१५.८ ॥ क्षारो दपानं भ्रमणं तथा क्रकचदारणम् । पुरीषलेपनं चैव पुरीषस्य च भोजनम् ॥ १,१५.९ ॥ रेतः पानं महाघोरं सर्वसन्धिषुदाहनम् । धूमपानं पाशबन्धं नानाशूलानुलेपनम् ॥ १,१५.१० ॥ अङ्गारशयनं चैव तथा मुसलमर्द्दनम् । बहूनि काष्ठयन्त्राणि कषणं छेदनं तथा ॥ १,१५.११ ॥ पतनोत्पतनं चैव गदादण्डादिपीहनम् । गजदन्तप्रहरणं नानासर्पैश्च दंशनम् ॥ १,१५.१२ ॥ शीताम्बुसेचनं चैव नासायां च मुखे तथा । घोरक्षाराम्बुपानं च तथा लवणभक्षणम् ॥ १,१५.१३ ॥ स्त्रायुच्छेदं स्नायुबन्धमस्थिच्छेदं तथैव च । क्षाराम्बुपूर्णरन्ध्राणां प्रवेशं मांसभोजनम् ॥ १,१५.१४ ॥ पित्तपानं महाघोरं तथैवःश्लेष्मभोजनम् । वृक्षाग्रात्पातनञ्चैव जलान्तर्मज्जनं तथा ॥ १,१५.१५ ॥ पाषाणधारणं चैव शयनं कण्टकोपरि । पिपीलिकादंशनं च वृश्चिकैश्चापि पीडनम् ॥ १,१५.१६ ॥ व्याघ्रपीडा शिवापीडा तथा महिषमीडनम् । कर्द्दमे शयनं चैव दुर्गन्धपरिपूरणम् ॥ १,१५.१७ ॥ बहुशश्चार्धशयनं महातिक्तनिषेवणम् । अत्युष्णतैलपानं च महाकटुनिषेवणम् ॥ १,१५.१८ ॥ कषायोदकपानं च तत्पपाषाणतक्षणम् । अत्युष्णशीतस्नानं च तथा दशनशीर्णनम् ॥ १,१५.१९ ॥ तत्पायः शयनं चैव ह्ययोभारस्य बन्धनम् । एवमाद्यामहाभाग यातनाः कोटिकोटिशः ॥ १,१५.२० ॥ अपि वर्षसहस्रेण नाहं निगदितुं क्षमः । एतेषु यस्य यत्प्रात्पं पापिनः क्षितिरक्षक ॥ १,१५.२१ ॥ तत्सर्वं संप्रपक्ष्यामि तन्मे निगदतः शृणु । ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः ॥ १,१५.२२ ॥ महापातकिनस्त्वेते तत्संसर्गी च पञ्चमः । पन्तिभेदीवृथापाकी नित्यं ब्रह्मणदूषकः ॥ १,१५.२३ ॥ आदेशी वेदविक्रेता पञ्चैते ब्रह्मधातकाः । ब्रह्मणं यः समाहूय दास्यामीति धनादिकम् । एश्चान्नास्तीति यो ब्रुयात्तमाहुर्ब्रह्मघातिनम् ॥ १,१५.२४ ॥ स्नानार्थं पूजनार्थं वा गच्छतो ब्राह्मणस्य यः । समायात्यन्तरायत्वं तमाहुर्ब्रह्मधातिनम् ॥ १,१५.२५ ॥ पस्निन्दासु निरतश्चात्मोत्कर्षरतश्व यः । असत्यनिरतश्वचैव ब्रह्महा परिकीर्तितः ॥ १,१५.२६ ॥ अधर्मस्यानुमन्ता च ब्रह्महा परिकीर्तितः । अन्योद्वेगरतश्चैव अन्येषां दोषसूवकः ॥ १,१५.२७ ॥ दम्भाचाररतश्वैव ब्रह्महेत्यभिधीयते । नित्यं प्रतिग्रहरतस्तथा प्राणिवधे रतः ॥ १,१५.२८ ॥ अधर्मस्यानुममन्ता च ब्रह्महा परिकीर्तितः । ब्रह्महत्या समं पापमेव बहुविधं नृप ॥ १,१५.२९ ॥ सुरापानसमं पापं प्रवक्ष्यामि समासतः । गणान्नभोजनं चैव गणिकानां निषेवणम् ॥ १,१५.३० ॥ पतितान्नादनं चैव सुरापानसमं स्मृतम् । उपासमापरित्यागो देवलानां च भोजनम् ॥ १,१५.३१ ॥ सुरापयोषित्संयोगः सुरापानसमः स्मृतः । यः शूद्रेण समाहतो भोजनं कुरुते द्विजः ॥ १,१५.३२ ॥ सुरापी स हि विज्ञेयः सर्वधर्मबहिष्कृतः । यः शूद्रेणाभ्यनुज्ञातः प्रेष्यकर्म करिति च ॥ १,१५.३३ ॥ सुरापान समं पापं लभते स नराधमः । एवं बहुविधं पापं सुरापानसमं स्मृतम् ॥ १,१५.३४ ॥ हेमस्तेयसमं पापं प्रवक्ष्यामि निशामय । कन्दमूलफलानां च कस्तूरी पटवाससाम् ॥ १,१५.३५ ॥ सदा स्तेयं च रत्नानां स्वर्णस्तेयसमं स्मृतम् । ताम्रायस्त्रपुकांस्यानामाज्यस्य मधुनस्तथा ॥ १,१५.३६ ॥ स्तेयं सुगन्धद्रव्याण्णां स्वर्णस्तेयसमं स्मृतम् । क्रमुकस्यापिहरणमम्भसां चन्दनस्य च ॥ १,१५.३७ ॥ पर्णरसापहरणं स्वर्णस्तेयसमं स्मृतम् । पितृयज्ञपरित्यागो धर्मकार्यविलोपनम् ॥ १,१५.३८ ॥ यतीर्नां निन्दतं चैव स्वर्णस्तेयसमं स्मृतम् । भक्ष्याणां चापहरणं धान्यानां हरणं तथा ॥ १,१५.३९ ॥ रुद्राक्षहरणं चैव स्वर्णस्तेयसमं स्मृतम् । भागीनीगमनं चैव पुत्रस्त्रीगमनं तथा ॥ १,१५.४० ॥ रजस्वलादिगमनं गुरुतल्पसमं स्मृतम् । हीनजात्याभिगमनं मद्यपस्त्रीनिषेवणम् ॥ १,१५.४१ ॥ परस्त्रीगमनं चैव गुरुतल्पसमं स्मृतम् । भ्रातृस्त्रीगमनं चैव वयस्यस्त्रीनिषेवणम् ॥ १,१५.४२ ॥ विश्वस्तागमनं चैव गुरुतल्पसमं स्मृतम् । अकाले कर्मकरणं पुत्रीगमन मेव च ॥ १,१५.४३ ॥ धर्मलोपः शास्त्रनिन्दा गुरुतल्पसमं स्मृतम् । इत्येवमादयो राजन्महापातकसंज्ञिताः ॥ १,१५.४४ ॥ एतेष्वेकतमेनापि सङ्गकृत्तत्समो भवेत् । यथाकथञ्चित्पापानामेतेषां परमर्षिभिः ॥ १,१५.४५ ॥ शान्तैस्तु निष्कृतिर्दृष्टा प्रायश्चितादिकल्पनैः । प्रायश्चित्तविहीनानि पापानि शृणु भूपते ॥ १,१५.४६ ॥ समस्तपापतुल्यानि महानरकदानि च । ब्रह्महत्यादिपापानां कथञ्चिन्निष्कृतिर्भवेत् ॥ १,१५.४७ ॥ ब्रह्मणं द्वेष्टि यस्तस्य निष्कृतिर्नास्ति कुत्रचित् । विश्वस्तघातिनं चैव कृतन्घानां नरेश्वर ॥ १,१५.४८ ॥ शूद्रस्त्रीसङ्गिनां चैव निष्कृतिर्नास्ति कुत्रचित् । शूद्रान्नपुष्टदेहानां वेदनिन्दारतात्मनाम् ॥ १,१५.४९ ॥ सत्कथानिन्दकानाञ्च नेहामुत्रचनिष्कृतिः ॥ १,१५.५० ॥ बौद्धालयं विशेद्यस्तु महापद्यपि वैद्विजः । नतस्यनिष्कृतिर्दृष्टाप्रायश्चितशतैरपि ॥ १,१५.५१ ॥ बौद्धाः पाषंण्डिनः प्रोक्ता यतो वेदविनिन्दकाः । तस्माद्विजस्तान्नेक्षेत यतो धर्मबहिष्कृताः ॥ १,१५.५२ ॥ ज्ञानतोऽज्ञानतो वापि द्विजो बोद्धालयं विशेत् । ज्ञात्वा चेन्निष्कृतिर्नास्ति शास्त्राणामिति निश्वयः ॥ १,१५.५३ ॥ एतेषां पापबाहुल्यान्नरकं कोटिकल्पकम् । प्रायश्चित्तविहीनानि प्रोक्तान्यन्यानि च प्रभो ॥ १,१५.५४ ॥ पापानि तेषां नरकान्गदतो मे निशामय ॥ १,१५.५५ ॥ महापातकिनस्तेषु प्रत्येकं युगवासिनः । तदन्ते पृथिवीमेत्य सत्पजन्मसु गर्दभाः ॥ १,१५.५६ ॥ ततः श्वानो विद्धदेहा भवेयुर्दशजन्मसु । आशताब्दं विट्कृमयः सर्पा द्वादशजन्मसु ॥ १,१५.५७ ॥ ततः सहस्रजन्मानि मृगाद्याः पशवो नृप । शताब्दं स्थावराश्चैव ततो गोधाशरीरिणः ॥ १,१५.५८ ॥ ततस्तु सत्पजन्मानि चण्डालाः पापकारिणः । ततः षोडश जन्मानि शूद्राद्या हीनजातयः ॥ १,१५.५९ ॥ ततस्तु जन्मद्वितये दरिद्राव्याधिपीडिताः । प्रतिग्रहपरा नित्यं ततो निरयगाः पुनः ॥ १,१५.६० ॥ असूयाविष्टमनसो रौरवे नरके स्मृतम् । तत्र कल्पद्वयं स्थित्वा चाण्डालाः शतजन्मसु ॥ १,१५.६१ ॥ मा ददस्वेति यो ब्रूयाद्गवान्गिब्राह्मणेषु च । शुनां योनिशतं गत्वा चाण्डालेषूपजायते ॥ १,१५.६२ ॥ ततो विष्ठाकृतिमिश्चैव ततो व्याघ्रस्त्रिजन्मसु । तदन्ते नरकं याति युगानामेकविंशतिम् ॥ १,१५.६३ ॥ परनिन्दापरा ये च ये च निष्ठुरभाषिणः । दानानां विन्घकर्त्तारस्तेषां पापफलं शृणु ॥ १,१५.६४ ॥ मुशलोलू खलाभ्यां तु चूर्ण्यन्ते तस्करा भृशम् । तदन्ते तत्पपाषाणग्रहणं वत्सरत्रघयम् ॥ १,१५.६५ ॥ ततश्च कालसूत्रेण भिद्यन्ते सत्प वत्सरान् । शोचन्तः स्वृनिकर्माणि परद्रव्यापहारकाः ॥ १,१५.६६ ॥ कर्मणा तत्र पच्यन्ते नरकान्गिषु सन्ततम् ॥ १,१५.६७ ॥ परस्वसूचकानां च नरकं शृणु दारुणम् । यावद्युगसहस्रं तु तत्पायः पिण्डभक्षणम् ॥ १,१५.६८ ॥ संपीड्यते च रसना संदंशैर्भृशदारुणैः । निरुच्छ्वासं महाघोरे कल्पार्द्धं निवसन्ति ते ॥ १,१५.६९ ॥ परस्त्रीलोलुपानां च नरकं कथयामि ते । तत्पताम्रस्त्रियस्तेन सुरुपाभरणैर्युताः ॥ १,१५.७० ॥ यादृशीस्तादृशीस्ताश्च रमन्ते प्रसभं बहु । विद्ववन्तं भयेनासां गृह्णन्ति प्रसभं च तम् ॥ १,१५.७१ ॥ कथयन्तश्च तत्कर्म नयन्ते नरकान्क्रमात् । अन्यं भजन्ते भूपाल पतिं त्यक्त्वा च याः स्त्रियः ॥ १,१५.७२ ॥ तत्पायःपुरुशास्तास्तु तत्पायःशयनेबलात् । पातयित्वा रमन्ते च बहुकालं बलान्विताः ॥ १,१५.७३ ॥ ततस्तैर्योषितो मुक्ता हुताशनसमोज्ज्वलम् । अ यः स्तम्भं समाश्सिष्य तिष्ठन्त्यब्दसहस्रकम् ॥ १,१५.७४ ॥ ततः क्षारोदकस्नानं क्षारोदकनिषेवणम् । तदन्ते नरकान् सर्वान् भुञ्जतेऽब्दशतं शतम् ॥ १,१५.७५ ॥ यो हन्ति ब्राह्मणं गां च क्षत्रियं च नृपोत्तमम् । स चापि यातनाः सर्वा भुङ्क्ते कल्पेषु पञ्चसु ॥ १,१५.७६ ॥ यः शृणोति महन्निन्दां सादरं तत्फलं शृणु । तेषां कर्णेषु दाप्यन्ते तत्पायः कीलसंचयाः ॥ १,१५.७७ ॥ ततश्च तेषु छिद्रेषु तैलमत्युष्णमुल्बणम् । पूर्यते च ततश्चापिं कुम्भीपाकं प्रपद्यते ॥ १,१५.७८ ॥ नास्तिकानां प्रवक्ष्यामि विमुखानां हरे हरौ । अब्दानां कोटिपर्यन्तं लवणं भुञ्जते हि ते ॥ १,१५.७९ ॥ ततश्च कल्पपर्यन्तं रौरवे तत्पसैकते । भज्यन्ते पापकर्मणोऽन्येप्येवं नराधिप ॥ १,१५.८० ॥ ब्राह्मणन्ये निरीक्षन्ते कोपदृष्ट्या नराधमाः । तत्पसूचीसहस्रेण चक्षुस्तेषां प्रसूर्यते ॥ १,१५.८१ ॥ ततः क्षाराम्बुधाराभिः सेच्यन्ते नृपसत्तम । ततश्च क्रकर्चेर्घोरैर्भिद्यन्ते पापकर्ंमणः ॥ १,१५.८२ ॥ विश्वासघातिनां चैव मर्यादाभेदिनां तथा । परान्नलोल्लुपानां च नरकं शृणु दारुणम् ॥ १,१५.८३ ॥ स्वमांसभोजिनो नित्यं भक्षमाणाः श्वभिस्तु ते । नरकेषु समस्तेषु प्रत्येकं ह्यब्दवासिनः ॥ १,१५.८४ ॥ प्रतिग्रहरता ये च ये वै नक्षत्रपाठकाः । ये च देवलकान्नानां भोजिनस्ताञ्शृणुष्व मे ॥ १,१५.८५ ॥ राजन्नाकल्पपर्यन्तं यातनास्वासु दुःखिताः । पच्यन्ते सततं पापाविष्टा भोगरताः सदा ॥ १,१५.८६ ॥ ततस्तैलेन पूर्यन्ते कालसूत्रप्रपीडिताः । ततः क्षारोदकस्नानं मूत्रविष्टानिषेवणम् ॥ १,१५.८७ ॥ तदन्ते भुवमासाद्य भवन्ति म्लेच्छजातयः । अन्योद्वेगरता ये तु यान्ति वैतरणीं नदीम् ॥ १,१५.८८ ॥ त्यक्तपञ्चमहायज्ञा लालाभक्षं व्रजन्ति हि । उपासनापरित्यागी रौरवं नरकं व्रजेत् ॥ १,१५.८९ ॥ विप्रग्रामकरादानं कुर्वतां शृणु भूपते । यातनास्वासु पच्यन्ते वावदाचन्द्रतारकम् ॥ १,१५.९० ॥ ग्रामेषु भूपालवरो यः कुर्यादधिकं करम् । स सहस्रकुलो भुङ्क्तेनरकं कल्पपञ्चसु ॥ १,१५.९१ ॥ विप्रग्रामकरादाने योऽनुमन्तातु पापकृत् । स एव कृतवान् राजन्ब्रह्महत्यासहस्रकम् ॥ १,१५.९२ ॥ कालसूत्रे महाघोरे स वसेद्दिचतुर्युगम् । अयोनौ च वियोनौ च पशुयोनौ च यो नरः ॥ १,१५.९३ ॥ त्यजेद्रेतो महापापी सरेतोभोजनं लभेत् । वसाकूपं ततः प्राप्य स्थित्वा दिव्याब्दसत्पकम् ॥ १,१५.९४ ॥ रेतोभोजी भवेन्मर्त्यः सर्वलोकेषु निन्दितः । उपवासदिने राजन्दन्तधावनकृन्नरः ॥ १,१५.९५ ॥ स घोरं नरकं यातिव्याघ्रपक्षं चतुर्युगम् । यः स्वकर्मपरित्यागी पाषण्डीत्युच्यते बुधैः ॥ १,१५.९६ ॥ तत्संगकृतमोघः स्यात्तावुभावतिपापिनौ । कल्पकोटिसहस्रेषु प्रान्पुतो नरकान्क्रमात् ॥ १,१५.९७ ॥ देवद्रव्यापहर्त्तारो गुरुद्रव्यापहारकाः । ब्रह्महत्याव्रतसमं दुष्कृतं भुञ्जते नृप ॥ १,१५.९८ ॥ अनाथधनहर्त्तारो ह्यनाथं ये द्विषन्ति च । कल्पकोटिसहस्राणि नरके ते वसन्ति च ॥ १,१५.९९ ॥ स्त्रीशूद्राणां समीपे तु ये वेदाध्ययने रताः । तेषां पापफलं वक्ष्ये शृणुष्व सुसमाहितः ॥ १,१५.१०० ॥ अधःशीर्षोर्ध्वपादाश्च कीलिताः स्तम्भघकद्वये । ध्रूम्रपानरता नित्यं तिष्ठन्त्याब्रह्मवत्सरम् ॥ १,१५.१०१ ॥ जले देवालये वापि यस्त्यजेद्देहजं मलम् । भ्रूणहत्यासमं पापं संप्रान्पोत्यतिदारुणम् ॥ १,१५.१०२ ॥ दन्तास्थिकेशनखरान्ये त्यज्यन्त्यमरालये । जले वा भुक्तशेषं च तेषां पापफलं शृणु ॥ १,१५.१०३ ॥ प्रासप्रोता हलैर्भिन्ना आर्त्तरावविराविणः । अत्युष्णतैलपाकेऽतितप्यन्ते भृशदारुणे ॥ १,१५.१०४ ॥ कुर्वन्ति दुःखसंतत्पास्ततोऽन्येषु व्रजन्ति च । ब्रह्मसंहरते यस्तु गन्धकाष्टं तथैव च ॥ १,१५.१०५ ॥ स याति नरकं घोरं यावदाचन्द्रतारकम् । ब्रह्मस्वहरणं राजन्निहामात्र च दुःखदम् ॥ १,१५.१०६ ॥ इहसंपद्विनाशायपरत्रनरकाय च । कूटसाक्ष्यंवदेद्यस्तु तस्य पापफलंशृणु ॥ १,१५.१०७ ॥ स याति यातनाः सर्वा यावदिन्द्राश्चतुर्दश । इहपुत्राश्च विनश्यन्ति परघत्र च ॥ १,१५.१०८ ॥ रौरवं नरकं भुङ्क्ते ततोऽन्यानपि च क्रमात् । ये चातिकामिनो मर्त्या ये च मिथ्याप्रवादिनः ॥ १,१५.१०९ ॥ तेषां सुखे जलौका स्तु पूर्य्यन्ते पन्नगोपमाः । एवं षष्टिसहस्राब्दे ततः क्षाराम्बगुसेचनम् ॥ १,१५.११० ॥ ये वृथामांसनिरततास्ते यान्ति क्षारकर्दमम् । ततो गजैर्निपातत्यन्ते मरुत्प्रपतनं यथा ॥ १,१५.१११ ॥ तदन्ते भवमासाद्य हीनाङ्गाः प्रभवन्ति च । यस्त्वृतौ नाभिगच्छेत स्वस्त्रिंय मनुजेश्वर ॥ १,१५.११२ ॥ स याति रौरवं घोरं ब्रह्महकत्यां च विन्दति । अन्याचाररतं दृष्ट्वा यः शक्तो न निवारयेत् ॥ १,१५.११३ ॥ तत्पापं समवान्पोति नरकं तावुभावपि । पापिनां पापगणनां कृत्वान्येभ्यो दिशन्ति विन्दति ॥ १,१५.११४ ॥ अस्तित्वे तुल्यपापास्ते मिथ्यात्वे द्विगुणा नृप । अपापे पातकं यस्तु समरोप्य विनिन्दति ॥ १,१५.११५ ॥ स याति नरकं घोरं यावञ्चर्द्रार्कतारकम् । पापिनां निन्द्यमानानां पापार्द्धं क्षयमेति च ॥ १,१५.११६ ॥ यस्तु व्रतानि संगृह्य असमाप्य परित्यज्येत् । सोऽसिपत्रेऽनुभूयार्तिं हीनाङ्गोजायते भुवि ॥ १,१५.११७ ॥ अन्यैः संगृह्यमाणानांव्रतानां विन्घकृन्नरः । अतीव दुःखदंरौद्रं स याति श्लोष्मभोजनम् ॥ १,१५.११८ ॥ न्याये च धर्मशिक्षायां पक्षपातं करोति यः । न तस्य निष्कृतिर्भूयः प्रायश्चित्तायुतैरपि ॥ १,१५.११९ ॥ अभोज्यभोजी संप्राप्यं विङ्भोज्यं तु समायुतम् । ततश्चण्डालयोनौ तु गोमांसाशी सदा भवेत् ॥ १,१५.१२० ॥ अवमान्य द्विजान्वाग्भिर्ब्रह्महत्यां च विन्दति । सर्वाश्चयातना भुक्त्वा चाण्डालो दशजन्मसु ॥ १,१५.१२१ ॥ विग्राय दीयमाने तु यस्तु विन्घं समाचरेत् । ब्रह्महत्यासमं तेन कर्त्तव्यं व्रतमेव च ॥ १,१५.१२२ ॥ अपहृत्य पःस्यार्थं यः परेभ्यः प्रयच्छति । अपहर्त्ता तु निरयी यस्यार्थस्तस्य तत्फलम् ॥ १,१५.१२३ ॥ प्रतिश्रुत्याप्रदानेन लालाभक्षं व्रजेन्नरः । यतिनिन्दापरो राजन् शिलानमात्रे प्रयाति हि ॥ १,१५.१२४ ॥ आरामच्छेदिनो यान्ति युगानामेकविंशतिम् । श्वभोजनं ततः सर्वा भुञ्जते यातनाः क्रमात् ॥ १,१५.१२५ ॥ देवतागृहभेत्तारस्तडागानां च भूपते । पुष्पारामभिदश्चैव यां गतिं यान्ति तच्छृणु ॥ १,१५.१२६ ॥ यातनास्वासु सर्वासु पच्यन्ते वै पृथक्पृथक् । ततश्च विष्टाकृमयः कल्पानामेकविंशतिम् ॥ १,१५.१२७ ॥ ततश्चाण्डालयोनौ तु शतजन्मानि भूपते । ग्रामविध्वं सकानां तु दाहकानां च लुम्पताम् ॥ १,१५.१२८ ॥ महत्पापं तदादेष्टुं न क्षमोऽहं निजायुषा । उच्छिष्टभोजिनो ये च मित्रद्रोहपराश्व ये ॥ १,१५.१२९ ॥ एतेषां यातनास्तीव्रा भवन्त्याचन्द्रतारकम् । उच्छिन्नपितॄदेवेज्या वेन्दमार्गबहिःस्थिताः ॥ १,१५.१३० ॥ पापानां यातानानां च धर्माणां चापि भूपते । एवं बहुविधा भूप यातनाः पापकारिणणाम् ॥ १,१५.१३१ ॥ तेषां तासां च संख्यानं कर्त्तुं नासमहं प्रभो । पापानां यातनानां च धर्माणां चापि भूपते ॥ १,१५.१३२ ॥ संख्यां निगदितुं लोके कः क्षमो विष्णुना विना । एतेषां सर्वपापानां धर्मशास्त्रविधानतः ॥ १,१५.१३३ ॥ प्रायश्चित्तेषु चीर्णेषु पापराशिः प्रणश्यति । प्रायश्चित्तानि कार्याणि समीपे कमलापतेः ॥ १,१५.१३४ ॥ न्यूनातिरिक्तकृत्यानां संपूर्तिकरणाय च । गङ्गा चतुलसी चैव सत्सङ्गो हरिकीर्त्तनम् ॥ १,१५.१३५ ॥ अनसूया ह्यहिंसा च सर्वेप्येते हि पापहाः । विष्ण्वर्पितानि कर्माणि सफलानि भवन्ति हि ॥ १,१५.१३६ ॥ अनर्प्पितानि कर्माणि भस्मविन्यस्तद्रव्यवत् । नित्यं नैमित्तिकं काम्यं यच्चान्यन्मोक्षमाधनम् ॥ १,१५.१३७ ॥ विष्णौ समार्पितं सर्वं सात्त्विकं सफलं भवेत् । हरिभक्तिः परा नृणां सर्वं पापप्राणाशिनी ॥ १,१५.१३८ ॥ सा भक्तिद्रशधा ज्ञेया पापारण्यदवोपमा । तामसै राजसैश्वैव सात्त्विकैश्च नृपोत्तम ॥ १,१५.१३९ ॥ यच्चान्यस्य विनाशार्थं भजनं श्रीपतेर्नृप । सा तामस्यधमा भक्तिः खलभावधरा यतः ॥ १,१५.१४० ॥ योर्ऽचयेत्कैतवधिया स्वैरिणी स्वपतिं यथा । नारायणं जगन्नाथं तामसी मध्यमा तु सा ॥ १,१५.१४१ ॥ देवापूजापरान्दृष्ट्वा मात्सर्याद्योर्ऽचयेद्धीरम् । सा भक्तिः पृथिवीपाल तामसी चोत्तमा स्मृता ॥ १,१५.१४२ ॥ धनधान्यादिकं यस्तु प्रार्थयन्नर्चयेद्वरिम् । श्रद्धया परया युक्तः सा राजस्यधमा स्मृता ॥ १,१५.१४३ ॥ यः सर्वलोकविख्यातकीर्तिमुद्दिश्य माधवम् । अर्चयेत्परया भक्त्या सा मध्या राजसी मता ॥ १,१५.१४४ ॥ सालोक्यादि पदं यस्तु समुद्दिश्यार्चयेद्धरिम् । सा राजस्युत्तमा भक्तिः कीर्तिता पृथिवीपते ॥ १,१५.१४५ ॥ यस्तु स्वकृतपापानां क्षयार्थं प्रार्चयेद्वरिम् । श्रद्धया परयोपेतः सा सात्त्विक्यधमा स्मृता ॥ १,१५.१४६ ॥ हरेरिदं प्रियमिति शुश्रूषां कुरुते तु यः । श्रद्धया संयुतो भूयः सात्त्विकी मध्यमा तु सा ॥ १,१५.१४७ ॥ विधिबुद्ध्यार्चयेद्यस्तु दासवच्छ्रीपतिं नृप । भक्तीनां प्रवरा सा तु उत्तमा सात्त्विकी स्मृता ॥ १,१५.१४८ ॥ महीमानं हरेर्यस्तु किञ्चित्कृत्वा प्रियो नरः । तन्मयत्वेन संतुष्टः सा भक्तिरुत्तमोत्तमा ॥ १,१५.१४९ ॥ अहमेव परो विष्णुर्मयिसर्वमिदं जगत् । इति यः सततं पश्येत्तं विद्यादुत्तमोत्तमम् ॥ १,१५.१५० ॥ एवं दशविधा भक्तिः संसारच्छेदकारिणी । तत्रापि सात्त्विकी भक्तिः सर्वकामफल प्रदा ॥ १,१५.१५१ ॥ तस्माच्छृणुष्व भूपाल संसारविजिगीषथुणा । स्वकर्मणो विरोधेन भक्तिः कार्या जनार्दने ॥ १,१५.१५२ ॥ यः स्वधर्मं परित्यज्य भक्तिमात्रेण जीवति । न तस्य तुष्यते विष्णुराचारेणैव तुष्यते ॥ १,१५.१५३ ॥ सर्वागमानामाचारः प्रथमं परिकल्पते । आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १,१५.१५४ ॥ तस्मात्कार्या हरेर्भक्तिः स्वर्धमस्याविरोधिनी । सदाचारविहीनानां धर्मा अप्यसुखप्रदाः ॥ १,१५.१५५ ॥ स्वधर्महीना भक्तिश्वाप्यकृतैव प्रकीर्तिता । यत्तु पृष्टं त्वया भूयस्तत्सर्वं गदितं मया ॥ १,१५.१५६ ॥ तस्माद्धर्मपरो भूत्वा पूजयस्व जनार्दनम् । नारायणमणीयांसं सुखमेष्यसि शाश्वकतम् ॥ १,१५.१५७ ॥ शिव एव हरिः साक्षाद्धरिरेव शिवः स्वयम् । द्वयोरन्तरदृग्याति नरकारन्कोटिशः खलः ॥ १,१५.१५८ ॥ तस्माद्विष्णुं शिवं वापि समं बुद्धा समर्चय । भेदकृद्दुःखमाप्नोति इह लोके परत्रघ च ॥ १,१५.१५९ ॥ यदर्थमहमायातस्त्वत्समीपं जनाधिप । तत्ते वक्ष्यामि सुमते सावधानं निशामय ॥ १,१५.१५० ॥ आत्मघातकपाप्मानो दग्धाः कपिलकोपतः । वसन्ति नरके ते तु राजंस्तव पितामहाः ॥ १,१५.१६१ ॥ तानुद्धर महाभाग गङ्गानयनकर्मणा । गङ्गा सर्वाणि पापानि नाशयत्येव भूपते ॥ १,१५.१६२ ॥ केशास्थिनखदन्दाश्च भस्मापिर नृपसत्तम । नयति विष्णुसदनं स्पृष्टा गाङ्गेनर वारिणा ॥ १,१५.१६३ ॥ यस्यास्थि भस्म वा राजन् गङ्गायां क्षिप्यते नरैः । स सर्वपापनिर्मुक्तः प्रयाति भवनं हरेः ॥ १,१५.१६४ ॥ यानि कानि च पापानि प्रोक्तानि तव भूपते । तानि कर्माणिर नश्यन्ति गङ्गाबिन्द्वभिषेचनात् ॥ १,१५.१६५ ॥ सनक उवाच इत्युक्त्वा मुनिशार्दूल महाराजं भगीरथम् । धर्मात्मानं धर्मराजः सद्यश्वान्तर्दधेतदा ॥ १,१५.१६६ ॥ स तु राजा महाप्राज्ञः सर्वशास्त्रार्थपारगाः । निक्षिप्य पृथिवीं सर्वां सचिवेषु ययौ वनम् ॥ १,१५.१६७ ॥ तुहिनाद्रौ ततो गत्वा नरनारायणाश्रमात् । पश्चिमे तुहिनाक्रान्ते शृङ्गेषोडशयोजने ॥ १,१५.१६८ ॥ तपस्तप्त्वानयामास गङ्गां त्रैलोक्यपावनीम् ॥ १,१५.१६९ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने धर्मराजोपदेशेन भगीरथस्य गङ्गानयनोद्यमवर्णनं नाम पञ्चदशोऽध्यायः _____________________________________________________________ नारद उवाच हिमवद्गिरिमासाद्य किं चकार महीपतिः । कथमानीतवान्गङ्गामेतन्मे वक्तुमर्हसि ॥ १,१६.१ ॥ सनक उवाच भगीरथो महाराजो जटाचीरधरो मुने । गच्छन्हिमाद्रिं तपसे प्राप्तो गोदावरी तटम् ॥ १,१६.२ ॥ तत्रापश्यन्महारण्ये भृगोराश्रममुत्तमम् । कृष्णसारसमाकीर्णं मातङ्गगणसेवितम् ॥ १,१६.३ ॥ भ्रमद्भूमरसंघुष्टं कूजद्विहगसंकुलम् । व्रजद्वराहनिकरं चमरीपुच्छवीचितम् ॥ १,१६.४ ॥ नृत्यन्मयूरनिकरं सारङ्गादिनिषेवितम् । प्रवर्द्धितमहावृक्षं मुनिकन्याभिरादरात् ॥ १,१६.५ ॥ शालतालतमालाढ्यं नूनहिन्तालमण्डितम् । मालतीयूथिकाकुन्दचम्पकाशअवत्थभूषितम् ॥ १,१६.६ ॥ उत्पुल्लकुसुमोपेत मृषिसङ्घनिषेवितम् । वेदशास्त्रमहाघोषमाश्रमं प्राविशद्भुगोः ॥ १,१६.७ ॥ गृणन्तं परम ब्रह्म वृत्तं शिष्यगणैर्मुनिम् । तेजसा सूर्यसदृशं भृगुं तत्र ददर्श सः ॥ १,१६.८ ॥ प्रणनामाथ विप्रेन्द्रं पादसंग्रहणादिना । आतिथ्यं भृगुरप्यस्य चक्रे सन्मानपूर्वकम् ॥ १,१६.९ ॥ कृतातिथ्यक्रियो राजा भृगुणा परमर्षिणा । उवाच प्राञ्जलिर्भूत्वा विनयान्मुनिपुङ्गवम् ॥ १,१६.१० ॥ भगीरथ उवाच भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । पृच्छामि भवभीतोऽहं नृणामुद्धारकारणम् ॥ १,१६.११ ॥ भगवांस्तुष्यते येन कर्मणा मुनिसत्तम । तन्ममाख्याहि सर्वज्ञ अनुग्राह्योऽस्मि ते यति ॥ १,१६.१२ ॥ भृगुरुवाच राजंस्तवेप्सितं ज्ञातं त्वं हि पुण्यवतां वरः । अन्यथा स्वकुलं सर्वं कथमुद्धर्त्तुमर्हसि ॥ १,१६.१३ ॥ यो वा को वापि भूपाल स्वकुलं शुभकर्मणा । उद्धर्त्तकामस्तं विद्यान्नररुपधरं हरिम् ॥ १,१६.१४ ॥ कर्मणा येन देवेशो नृणामिष्टफलप्रदः । तत्प्रवक्ष्यामि राजेन्द्र शृणुष्व सुसमाहितः ॥ १,१६.१५ ॥ भव सत्यपरो राजन्न हिंसानिरतस्तथा । सर्वभूतहितो नित्यं मानृतं वद वै क्वचित् ॥ १,१६.१६ ॥ त्यज दुर्जनसंसर्गं भज साधुसमागमम् । कुरु पुण्यमहोरात्रं स्मर विष्णुं सनातनम् ॥ १,१६.१७ ॥ कुरु पूजां महाविष्णोर्याहि शान्ति मनुत्तमाम् । द्वादशाष्टाक्षरं मन्त्रं जय श्रेयो भविष्यति ॥ १,१६.१८ ॥ भगीरथा उवाच सत्यं तु कीदृशं प्रोक्तं सर्वभूतहितं मुने । अनृतं कीदृशं प्रोक्तं दुर्जनाश्चापि कीदृशाः ॥ १,१६.१९ ॥ साधवः कीदृशाः प्रोक्तास्तथा पुण्यं च कीदृशम् । स्मर्तव्यश्च कथं विष्णुस्तस्य पूजा च कीदृशी ॥ १,१६.२० ॥ शान्तिश्च कीदृशी प्रोक्ता को मन्त्रोऽष्टाक्षरो मुने । को वा द्वादशवर्णश्च मुने तत्त्वार्थकोविद ॥ १,१६.२१ ॥ कृपां कृत्वा मयि परां सर्वं व्याख्यातमर्हसि । भृगुरुवाच साधु साधुमहाप्राज्ञ तव बुद्धिरनुत्तमा ॥ १,१६.२२ ॥ यत्पृष्टोऽहं त्वया भूप तत्सर्वं प्रवदामि ते । यथार्थकथनं यत्तत्सत्यमाहुर्विपश्चितः ॥ १,१६.२३ ॥ धर्माविरोधतो वाच्यं तद्धि धर्मपरायणैः । देशकालादि विज्ञाय स्वयमस्याविरोधतः ॥ १,१६.२४ ॥ यद्वचः प्रोच्यते सद्भिस्तस्तत्यमभिधीयते । सर्वेषामेव जन्तूनामक्लेषजननं हि तत् ॥ १,१६.२५ ॥ अहिंसा सा नृप प्रोक्ता सर्वकामप्रदायिनी । कर्मकार्यसहायत्वमकार्यपरिपन्थिता ॥ १,१६.२६ ॥ सर्वलोकहितत्वं वै प्रोच्यते धर्मकोविदैः । इच्छानुवृत्तकथनं धर्माधर्मविवेकिनः ॥ १,१६.२७ ॥ अनृतं तद्धि विज्ञेय सर्वश्रेयोविरोधि तत् । ये लोके द्वेषिणो मूर्खाः कुमार्गरतबुद्धयः ॥ १,१६.२८ ॥ ते राजन्दुर्ज्जना ज्ञेयाः सर्वधर्मबहिष्कृताः । धर्माधर्मविवेकेन वेदमार्गानुसारिणः ॥ १,१६.२९ ॥ सर्वलोकहितासक्ताः साधवः परिकीर्त्तिताः । हरि भक्तिकरं यत्तत्सद्भिश्च परिरञ्चितम् ॥ १,१६.३० ॥ आत्मनः प्रीतिजनकं तत्पुण्यं परिकीर्त्तितम् । सर्वं जगदिदं विष्णुर्वष्णुः सर्वस्य कारणम् ॥ १,१६.३१ ॥ अहं च विष्णुर्यज्ज्ञानं तद्विष्णुस्म रणं विदुः । सर्वदेवमयो विष्णुर्विधिना पूजयामि तम् ॥ १,१६.३२ ॥ इति या भवति श्रद्धा सा तद्भक्तिः प्रकीर्तिताः । सर्वभूतमयो विष्णुः परिपूर्णः सनातनः ॥ १,१६.३३ ॥ इत्यभेदेन या बुद्धिः समता सा प्रकीर्त्तिता । समता शत्रुमित्रेषु वशित्वं च तथा नृप ॥ १,१६.३४ ॥ यदृच्छालाभसंतुष्टिः सा शान्तिः परिकीर्तिता । एते सर्वे समाख्यातास्तपः सिद्धिप्रदा नृणाम् ॥ १,१६.३५ ॥ समस्तपापराशीनां तरसा नाशहेतवः । अष्टाक्षरं महामन्त्रं सर्वपापप्रणाशनम् ॥ १,१६.३६ ॥ वक्ष्यामि तव राजेन्द्र पुरुषार्थैकसाधनम् । विष्णोः प्रियकरं चैव सर्वसिद्धिप्रदायकम् ॥ १,१६.३७ ॥ नमो नारायणायेति जपेत्प्रणक्पूर्वकम् । नमो भगवते प्रोच्य वासुदेवाय तत्परम् ॥ १,१६.३८ ॥ प्रणवाद्यं महाराज द्वादशार्णमुदाहृतम् । द्वयोः समं फलं राजन्नष्टद्वादशवर्णयोः ॥ १,१६.३९ ॥ प्रवृत्तौ च निवृत्तौ च साम्यमुद्दिष्टमेतयोः । शङ्खचचक्रधरं शान्तं नारायणमनामयम् ॥ १,१६.४० ॥ लक्ष्मीसंश्रितवामाङ्कं तथाभयकरं प्रभुम् । किरीटकुण्डलधरं नानामण्डनशोभितम् ॥ १,१६.४१ ॥ भ्राजत्कौस्तुभमालाढ्यं श्रीवत्साङ्कितवक्षसम् । पीताम्बरधरं देवं सुरासुरनमस्कृतम् ॥ १,१६.४२ ॥ ध्यायेदनादिनिधनं सर्वकामफलप्रदम् । अन्तर्यामी ज्ञानरुपी परिपूर्णः सनातनः ॥ १,१६.४३ ॥ एतत्सर्वं समाख्यातं यत्तु पुष्टं त्वया नृप । स्वस्ति तेऽस्तु तपः सिद्धिं गच्छ लब्धुं यथासुखम् ॥ १,१६.४४ ॥ एवमुक्तो महीपालो भृगुणा परमर्षिणा । परमां प्रीतिमापन्नः प्रपेदेतपसे वनम् ॥ १,१६.४५ ॥ हिमवद्गिरिमासाद्य पुण्यदेशे मनोहरे । नादेश्वरे महाक्षेत्रे तपस्तेपेऽतिदुश्चरम् ॥ १,१६.४६ ॥ राजा त्रिषवणस्नायी कन्दमूलफलाशनः । कृतातिथ्यर्हणश्चापि नित्यं होमपरायणः ॥ १,१६.४७ ॥ सर्वभूतहितः शान्तो नारायणपरायणः । पत्रैः पुष्पैः फलैस्तोयैस्त्रिकालं हरिपूजकः ॥ १,१६.४८ ॥ एवं बहुतिथं कालं नीत्वा चात्यन्तधैर्यवान् । ध्यायन्नारायणं देवं शीर्णपर्णाशनोऽभवत् ॥ १,१६.४९ ॥ प्राणायामपरो भूत्वा राजा परमधार्मिकः । निरुच्छ्वास स्तपस्तप्तुं ततः समुपचक्रमे ॥ १,१६.५० ॥ ध्यायन्नारायणं देवमनं तमपराजितम् । षष्टिवर्षसहस्ताणि निरुच्छ्वासपरोऽभवत् ॥ १,१६.५१ ॥ तस्य नान्मापुटाद्राज्ञो वह्निर्जज्ञं भयङ्करः । तं दृष्ट्वा देवताः सर्वे वित्रस्ता वह्निता पिताः ॥ १,१६.५२ ॥ अभिजग्मुर्महाविष्णुं यत्रास्ते जगतां पतिः । क्षीरोदस्योत्तरं तीर संप्राप्य त्रिदशेश्वराः । अस्तुवन्देवदेवेशं शरणागतपालकम् ॥ १,१६.५३ ॥ देवा ऊचुः नताः स्म विष्णुं जगदेकनाथं स्मरत्समस्तार्तिहरं परेशम् । स्वभावशुद्धं परिपूर्णभावं वदन्ति यज्ज्ञानतनुं च तज्ज्ञाः ॥ १,१६.५४ ॥ ध्येयः सदा योगिवरैर्महात्मा स्वेच्छाशरीरैः कुतदेवकार्यः । जगत्स्वरुपो जगदादिनाथस्तस्मै नताः स्मः पुरुषोत्तमाय ॥ १,१६.५५ ॥ यनन्नामसंकीर्त्तनतो खलानां समस्त पापानि लयं प्रयान्ति । तमीशमीड्यं पुरुषं पुराणं नताः स्म विष्णुं पुरुषाथसिद्ध्यै ॥ १,१६.५६ ॥ यत्तेजसा भान्ति दिवाकराद्या नातिक्रमं त्यस्य कदापि शिक्षाः । कालात्मकं तं त्रिदशाधिनाथं नमामहे वै पुरुषार्थरुपम् ॥ १,१६.५७ ॥ जगत्करोऽत्यब्जभवोऽत्ति रुद्रः पुनाति लोकाञ्श्रुतिभिश्च विप्राः । तमादिदेवं गुणसन्निधानं सर्वोपदेष्टारमिताः शरण्यम् ॥ १,१६.५८ ॥ वरं वरेण्यं मधुकैटभारिं सुरासुराभ्यर्चितपादपीठम् । ॥ सद्भक्तिसंकल्पितासिद्धिहेतुं ज्ञानैकवेद्यं प्रणताः स्म देवम् ॥ १,१६.५९ ॥ अनादिमध्यान्तमजं परेशमनाद्यविद्याख्यतमोविनाशम् । सच्चित्परानन्दघनस्वरुपं रुपादिहीनं प्रणताः स्म देवम् ॥ १,१६.६० ॥ नारायणं विष्णुमनन्तमीशं पीताम्बरं पद्मभवादिसेव्यम् । यज्ञाप्रियं यज्ञकरं विशुद्धं नताः स्म सर्वोत्तममव्ययं तम् ॥ १,१६.६१ ॥ इति स्तुतो महाविष्णुर्देवैरिन्द्रादिभिस्तदा । चरितं तस्य राजर्षेर्देवानां संन्यवेदयत् ॥ १,१६.६२ ॥ ततो देवान्समाश्वास्य दत्त्वाभयमनञ्जनः । जगाम यत्र राजर्षिस्तपस्तपति नारद ॥ १,१६.६३ ॥ शङ्खचक्रधरो देवः सच्चिदानन्दविग्रहः । प्रत्यक्षतामगात्तस्य राज्ञः सर्वजगद्गुरुः ॥ १,१६.६४ ॥ तं दुष्ट्वा पुण्डरीकाक्षं भाभासितदिगन्तरम् । अतिसीपुष्पंसंकाशं स्फुरत्कुण्डलमण्डितम् ॥ १,१६.६५ ॥ स्निग्ध कुन्तलवक्राब्जं विभ्राजन्मुकुटोज्ज्वलम् । श्रीवत्सकौस्तुमधरं वनमालाविभूषितम् ॥ १,१६.६६ ॥ दीर्घबाहुमुदाराङ्गं लोकेशार्चितपन्त्कजम् । ननाम दण्डवद्भूमौ भूपतिर्नम्रकन्धरः ॥ १,१६.६७ ॥ अत्यन्तहर्षसंपूर्णः सरोमाञ्चः सगद्गदः । कृष्ण कृष्णेति श्रीकृष्णेति समुच्चरन् ॥ १,१६.६८ ॥ तस्य विष्णुः प्रसन्नात्मा ह्यन्तर्यामी जगद्गुरुः । उवाच कृपयाविष्टो भगवान्भूतभावनः ॥ १,१६.६९ ॥ श्रीभगवानुवाच भगीरथ महाभाग तवाभीष्टं भविष्यति । आगमिष्यन्ति मल्लोकं तव पूर्वपितामहाः ॥ १,१६.७० ॥ मम मूर्त्यन्तरं शम्भुं राजन्स्तोत्रैः स्वशक्तिवः । स्तुहि ते सकलं कामं सवै सद्यः करिष्यन्ति ॥ १,१६.७१ ॥ यस्तु जग्राह शशिनं शूरणं समुपागतम् । तस्मादाराधयेशानं स्तोत्रैः स्तुत्यं सुखप्रदम् ॥ १,१६.७२ ॥ अनादिनिधनो देवः सर्वकाम फलप्रदः । त्वया संपुजितो राजन्सद्यः श्रेयो विधास्यति ॥ १,१६.७३ ॥ इत्युक्त्वा देवदेवेशो जगतां पतिरच्युतः । अन्तर्दधे मुनिश्रेष्ठ उत्तस्थौसोऽपि भूपतिः ॥ १,१६.७४ ॥ किमिदं स्मम आहोस्वित्सत्यं साक्षाद्विजोत्तम् । भूपतिर्विस्मयं प्रात्पः किं करोमीति विस्मितः ॥ १,१६.७५ ॥ अथान्तरिक्षे वागुज्चैः प्राह तं भ्रान्तचेतसम् । सत्यमेतदिति व्यक्तं न चिन्तां कर्तुमर्हसि ॥ १,१६.७६ ॥ तन्निशम्यावनीपाल ईशानं सर्वकारणम् । समस्तदेवताराजमस्तौषीद्भक्तितत्परः ॥ १,१६.७७ ॥ भगीरथ उवाच प्रणमामि जगन्नाथं प्रणतार्तिप्रणाशनम् । प्रमाणागोचरं देवमीशानं प्रणवात्मकम् ॥ १,१६.७८ ॥ जगद्रूपमजं नित्यं सर्गस्थित्यन्तकारणम् । विश्वरुपं विरुपाक्ष प्रणतोऽस्म्युग्ररेतसम् ॥ १,१६.७९ ॥ आदिमध्यान्तरहितमनन्तमजमव्ययम् । समामनन्ति योगीन्द्रा स्तं वन्दे पुष्टिवर्धनम् ॥ १,१६.८० ॥ नमो लोकाधिनाथाप वञ्चते परिवञ्चते । नमोऽस्तु नीलग्रीवाय पसूनां पतये नमः ॥ १,१६.८१ ॥ नमः कपालहस्ताय पाशपतये नमः । नमोऽकल्पप्रकल्पाय भूतानां पतये नमः ॥ १,१६.८२ ॥ नमः पिनाकहस्ताय शूलहस्ताय ते नमः । नमः कपालहस्ताय पाशमुद्गरधारिणे ॥ १,१६.८३ ॥ नमस्ते सर्वभूताय घण्टाहस्ताय ते नमः । नमः पञ्चास्यदेवाय क्षेत्राणां पतये नमः ॥ १,१६.८४ ॥ नमः समस्तभूतानामादिभृताय भूभृते । अनेकरुपरुपाय निर्गुणाय परात्मने ॥ १,१६.८५ ॥ नमो दणाधिदेवाय गणानां पतये नमः । नमो हिरण्यगर्भाय हिरण्यपतये नमः ॥ १,१६.८६ ॥ हिरण्यरेतसे तुभ्यंनमो हिरण्यबाहवे । नमो ध्यानस्वरुपाय नमस्ते ध्यानसाक्षिणे ॥ १,१६.८७ ॥ नमस्ते ध्यानसंस्थाय ध्यानगम्याय ते नमः । येनेदं विश्वमखिलं चराचरविराजितम् ॥ १,१६.८८ ॥ वर्षेवाभ्रेण जनितं प्रधानपुरुषात्मना ॥ १,१६.८९ ॥ स्वप्रकाशं महात्मानं परं ज्योतिः सनातनम् । यमामनन्ति तत्त्वज्ञाः सवितारं नृचक्षुषाम् ॥ १,१६.९० ॥ उमाकान्तनन्दिकेशन्तं नीलकण्ठं सदाशिवम् । मृत्युञ्जयं महादेवं परात्परतरं विभुम् ॥ १,१६.९१ ॥ परं शब्दब्रह्मरुपं तं वन्देऽखिलकारणम् । कपर्द्दिने नमस्तुभ्यं सद्यो जाताय वै नमः ॥ १,१६.९२ ॥ भवोद्भवाय शुद्धाय ज्येष्ठाय च कनीयसे । मन्यवे त इषे त्रघय्याः पतये यज्ञतन्तवे ॥ १,१६.९३ ॥ ऊर्जे दिशां च पतये कालायाघोररुपिणे । कृशानुरेतसे तुभ्यं नमोऽस्तु सुमाहात्मने ॥ १,१६.९४ ॥ यतः समुद्राः सरितोऽद्रयश्च गन्धर्वयक्षासुरसिद्धसङ्घाः । स्थाणु श्चरिष्णुर्महदल्पकं च असञ्च सज्जीवमजीमास ॥ १,१६.९५ ॥ नतोऽस्मि तं योगिनताङ्घ्रिपद्मं सर्वान्तरात्मानमरुपमीशम् । स्वतन्त्रमेकं गुणुनां गुणं च नमामि भूयः प्रणमामि भूयः ॥ १,१६.९६ ॥ इत्थं स्तुतो महादेवः शङ्करो लोकशङ्करः । आविर्बभूव भृपस्य संतत्पतपसोग्रतः ॥ १,१६.९७ ॥ पञ्चवक्रं दशभुजं चन्द्रार्ध्दकृतशएखरम् । त्रिलोचनमुदाराङ्गं नागयज्ञोपवीतिनम् ॥ १,१६.९८ ॥ विशालवक्षसं देवं तुहिनाद्रिसमप्रभम् । गजचर्माम्बरधरं सुरार्चितपदाम्बुजम् ॥ १,१६.९९ ॥ दृष्ट्वा पपात पादाग्रे दण्डवद्भुवि नारद । तत उत्थाय सहसा शिवाग्रे विहिताञ्जलिः ॥ १,१६.१०० ॥ प्रणनाम महादेवं कीर्तयञ्शङ्कराह्वयम् । विज्ञाय भक्तिं भूपस्य शङ्करः शशिशेखरः ॥ १,१६.१०१ ॥ उवाच राज्ञे तुष्टोऽस्मि वरं वरय वाञ्छितम् । तोषितोऽस्मि त्वया सम्यक्स्तोत्रेण तपसा तथा ॥ १,१६.१०२ ॥ एवमुक्तः स देवेन राजा संतुष्टमानसः । उवाच प्राञ्जलिर्भूत्वा जगतामीश्वरेश्वरेश्वरम् ॥ १,१६.१०३ ॥ भगीरथ उवाच अनुग्राह्योऽस्मि यदि ते वरदानान्महेश्वर । तदा गङ्गां प्रयच्छास्मत्पितॄणां मुक्तिहेतवे ॥ १,१६.१०४ ॥ श्रीशिव उवाच दत्ता गङ्गा मया तुभ्यं पितॄणां ते गतिः परा । तुभ्यं मोक्षं परश्चेति तमुक्त्वान्तर्दधे शिवः ॥ १,१६.१०५ ॥ परर्दिनो जटास्त्रस्ता गङ्गा लोकैकपाविर्नी । पावयन्ती जगत्सर्वमन्वगच्छद्भगीरथम् ॥ १,१६.१०६ ॥ ततः प्रभृति सा देवी निर्मला मलहारिणी । भागीरथीति विख्याता त्रिषु लोकेष्वभून्मुने ॥ १,१६.१०७ ॥ सगरस्यात्मजाः पूर्वं यत्र दग्धाः स्वपाप्मना । तं देशं प्लावयामास गङ्गा सर्वसरिद्वरा ॥ १,१६.१०८ ॥ यदा संप्लावितं भस्म सागराणां तु गङ्गाया । तदैव नरके मग्ना उद्धृताश्च गतैनसः ॥ १,१६.१०९ ॥ पुरा संक्रुश्यमानेन ये यमेनातिपूडिताः । त एव पूचितास्तेन गङ्गाजलपरिप्लुताः ॥ १,१६.११० ॥ गतपापान्य विज्ञाय यमः सगरसंभवान् । प्रणम्याभ्यर्च्य विधिवत्प्राह तान्प्रीतमानसः ॥ १,१६.१११ ॥ भो भो राजसुता यूयं नरकाद्भृशदारुणात् । मुक्ता विमानमारुह्य गच्छध्वं विष्णुमन्दिरम् ॥ १,१६.११२ ॥ इत्युक्तास्ते महात्मानो यमेन गतकल्मषाः । दिव्यदेहधरा भूत्वा विष्णुलोकं प्रपेदिरे ॥ १,१६.११३ ॥ एवंप्रभावा सा गङ्गा विष्णुपादाग्रसंभवा । सर्वलोकेषु विख्याता महापातकनाशिनी ॥ १,१६.११४ ॥ य इदं पुण्यमाख्यानं महापातकनाशनम् । पठेच्च शृणुयाद्वापि गङ्गास्नानफलं लभेत् ॥ १,१६.११५ ॥ यस्त्वे तत्पुण्यमाख्यानं कथयेद्र्वाह्यणाग्रतः । स याति विष्णुभवनं पुनरावृत्तिवर्जितम् ॥ १,१६.११६ ॥ इति श्रूबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्ये भगीरथगङ्गानयनं नाम षोडषोऽध्यायः _____________________________________________________________ ऋषय ऊचुः साधु सूत महाभाग त्वयातिकरुणात्मना । श्रावितं सर्वपापन्घं गङ्गामाहात्म्य मुत्तमम् ॥ १,१७.१ ॥ श्रुत्वा तु गङ्गामाहात्म्यं नारदो देवदर्शनः । किं पप्रच्छ पुनः सूत सनकं मुनिसत्तमम् ॥ १,१७.२ ॥ सूत उवाच शृणुध्वमृषयः सर्वे नारदेन सुरर्षिणा । पृष्टं पुनर्यथा प्राह प्रवक्ष्यामि तथैव तत् ॥ १,१७.३ ॥ नानाख्यानेतिहासाड्यं गङ्गामाहात्म्यमुत्तमम् । श्रुत्वा ब्रह्मसुतो भूयः पृष्टवानिदमादरात् ॥ १,१७.४ ॥ नारद उवाच अहोऽतिधन्यं सुकृतैकसारं श्रुतं मया पुण्यमसंवृतार्थम् । गाङ्गेयमाहात्म्यमघप्रणाशि त्वत्तो मुने कारुणिकादभीष्टम् ॥ १,१७.५ ॥ ये साधवः साधु भजन्ति विष्णुं स्वार्थं परार्थं च यतन्त एव । नानोपदेशैः सुविमुग्धचित्तं प्रबोधयन्ति प्रसभं प्रसन्नम् ॥ १,१७.६ ॥ ततः समाख्याहि हरेर्व्रतानि कृतैश्च यैः प्रीतिमुपैति विष्णुः । ददाति भक्तिं भजतां दयालुर्मुक्तिस्तु तस्या विदिता हि दासी ॥ १,१७.७ ॥ ददाति मुक्तिं भजतां मुकुन्दो व्रतार्चनध्यानपरायणानाम् । भक्तानुसेवासु महाप्रयासं विमृश्य कस्यापि न भक्तियोगम् ॥ १,१७.८ ॥ प्रवृत्तं च निवृत्तं च यत्कर्म हरितो षणम् । तदा ख्याहि मुनिश्रेष्ठ विष्णुभक्तोऽसि मानद ॥ १,१७.९ ॥ सनक उवाच साधु साधु मुनिश्रेष्ठ भक्तस्त्वं पुरुषोत्तमेः । भूयो भूयो यतः पुच्छेश्चरित्रं शार्ङ्गधन्वनः ॥ १,१७.१० ॥ व्रतानि ते प्रवक्ष्यामि लोकोपकृतिमन्ति च । प्रसीदति हरिर्यैस्तु प्रयच्छत्यभयं तथा ॥ १,१७.११ ॥ यस्य प्रसन्नो भगवान्यज्ञलिङ्गो जनार्दनः । इहामुत्र सुखं तस्य तपोवृद्धिश्च जायते ॥ १,१७.१२ ॥ येन केनाप्युपायेन हरिपूजापरायणाः । प्रयान्ति परमं स्थानमिति प्राहुर्महर्षयः ॥ १,१७.१३ ॥ मार्ग शीर्षे सिते पक्षे द्वादश्यां जलशायिनम् । उपोषितोऽडर्चयेत्सम्यङ्नरः श्रद्धासमन्वितः ॥ १,१७.१४ ॥ स्नात्वा शुक्लाम्बरधरो दन्तधावनपूर्वकम् । गन्धपुष्पाक्षतैर्धूपैर्दीपैर्नैवेद्यपूर्वकैः ॥ १,१७.१५ ॥ वाग्यतो भक्तिभावेन मुनिश्रेष्ठार्चयेद्धरिम् । केशवाय नमस्तुभ्यमिति विष्णुं च पूजयेत् ॥ १,१७.१६ ॥ अष्टोत्तरशतं हुत्वा वन्हौ घृततिलाहुतीः । रात्रौ जागरणं कुर्याच्छालग्रामसमीपतः ॥ १,१७.१७ ॥ स्नापयेत्प्रस्थपयसा नारायणमनामयम् । गीतैर्वाद्यैश्च नैवेद्यैर्भक्ष्यैर्भोज्यैश्च केशवम् ॥ १,१७.१८ ॥ त्रिकालं पूजयेद्भक्त्या महालक्ष्म्या समन्वितम् । पुनः कल्ये समुत्थाय कृत्वा कर्म यथोचितम् ॥ १,१७.१९ ॥ पूर्ववत्पूजयेद्वेवं वाग्यतो नियतः शुचिः । पायसं घृतसंमिश्रं नालिकेरफलान्वितम् ॥ १,१७.२० ॥ मन्त्रेणानेन विप्राय दद्याद्भक्त्या सदक्षिणम् । केशवः केशिहा देवः सर्वसंपत्प्रदायकः ॥ १,१७.२१ ॥ परमान्नप्रदानेन मम स्यादिष्टदायकः । ब्रह्मणान्भोजयेत्पश्चाच्छक्तितो बन्धुभिः सह ॥ १,१७.२२ ॥ नारायण परो भूत्वा स्वयं भुञ्जीत वाग्यतः । इति यः कुरुते भक्त्या केशवार्चनमुत्तमम् ॥ १,१७.२३ ॥ स पैण्डरीकयज्ञस्य फलमष्टगुणं लभेत् । पौषमासे सिते पक्षे द्वादश्यां समुपोषितः ॥ १,१७.२४ ॥ नमो नारायणायेति पूजयेत्प्रयतो हरिम् । पयसा स्नाप्य नैवेद्यं पायसं च समर्पयेत् ॥ १,१७.२५ ॥ रात्रौ जागरणं कुर्यात्र्रिकालार्चनतत्परः । धूपैर्दीपैश्च नैवेद्यैर्गन्धैः पुष्पैर्मनोरमैः ॥ १,१७.२६ ॥ तृणैश्च गीतवाद्याद्यैः स्तोत्रैश्चाप्यर्ययेद्धरिम् । कृशरान्नं च विप्राय दद्यात्सघृतदक्षिणम् ॥ १,१७.२७ ॥ सर्वात्मा सर्वलोकेशः सर्वव्यापी सनातनः । नारायणः प्रसन्नः स्यात्कृशरान्नप्रदानतः ॥ १,१७.२८ ॥ मन्त्रेणानेन विप्राय दत्त्वा वै दानमुत्तमम् । द्विजांश्च भोजेयच्छक्त्या स्वयमद्यात्सबान्धवः ॥ १,१७.२९ ॥ एवं संपूजयेद्भक्त्या देवं नारायणं प्रभुम् । अग्निष्टोमाष्टकफलं स संपूर्णमवाप्नुयात् ॥ १,१७.३० ॥ माघस्य शुक्लद्वादश्यां पूर्ववत्समुपोषितः । नमस्ते माधवायेति हुत्वाष्टौ च घृताहुतीः ॥ १,१७.३१ ॥ पूर्वमानेन पयसा स्नापयेन्माधवं तदा । पुष्पगन्धाक्षतैरर्चेत्सावधानेन चेतसा ॥ १,१७.३२ ॥ रात्रौ जागरणं कुर्यात्पूर्ववद्भघक्तिसंयुतः । कल्यकर्म च निर्वर्त्य माधवं पुनरर्चयेत् ॥ १,१७.३३ ॥ प्रस्थं तिलानां विप्राय दद्याद्वै मन्त्रपूर्वकम् । सदक्षिणं सवास्त्रञ्च सर्वपापविमुक्तये ॥ १,१७.३४ ॥ माधवः सर्वभूतात्मा सर्वकर्मफलप्रदः । तिलदानेन महता सर्वान्कामान्प्रयच्छतु ॥ १,१७.३५ ॥ मन्त्रेणानेन विप्राय दत्त्वा भक्तिसमन्वितः । ब्रह्मणान्भोजयेच्छक्त्या संस्मरन्माधवं प्रभुम् ॥ १,१७.३६ ॥ एवं यः कुरुते भक्त्या तिलदाने व्रतं मुने । वाजपेय शतस्यासौ संपूर्णं फलमाप्नुयात् ॥ १,१७.३७ ॥ फआल्गुनस्य सिते पक्षे द्वादश्यां समुपोषितः । गोविन्दाय नमस्तुभ्यमिति संपूजयेद्व्रती ॥ १,१७.३८ ॥ अष्टोत्तगरशतं दृत्वा घृतमिश्रतिलाहुतीः । पूर्वमानेन पयसा गोविन्दं स्नापयेच्छुचिः ॥ १,१७.३९ ॥ रात्रौ जागरणं कुर्यात्र्रिकालं पूजयैत्तथा । प्रातः कृत्यं समाप्याथ गोविन्दं पूजयेत्पुनः ॥ १,१७.४० ॥ व्रीह्याढकं च विप्राय दद्याद्वस्त्रं सदक्षिणम् । नमो गोविन्द सर्वेश गोपिकाजनवल्लभ ॥ १,१७.४१ ॥ अनेन धान्य दानेन प्रीतो भव जगद्गुरो । एवं कृत्वा व्रतं सम्यक्सर्वपापविवर्जितः ॥ १,१७.४२ ॥ गोमेधमखजं पुण्यं सम्पूर्णं लभते नरः । चैत्रमासे सिते पक्षे द्वादश्यां समुपोषितः ॥ १,१७.४३ ॥ नमोऽस्तु विष्णवे तुभ्यमिति पूर्ववदर्चयेत् । क्षीरेण स्नापयेद्विष्णुं पूर्वमानेन शक्तितः ॥ १,१७.४४ ॥ तथैव स्नापयेद्विप्र घृतप्रस्थेन सादनम् । कृत्वा जागरणं रात्रौ पूजयेत्पूर्ववद्रूती ॥ १,१७.४५ ॥ ततकः कल्ये समुत्थाय प्रातः कृत्यं समाप्य च । अष्टोत्तरशतं हुत्वा मधअवाज्यतिलमिश्रितम् ॥ १,१७.४६ ॥ सदक्षिणं च विप्राय दद्याद्वै तण्डुलाढकम् । प्राणरुपी महाविष्णुः प्राणदः सर्ववल्लभः ॥ १,१७.४७ ॥ तण्डुलाढकदानेन प्रीयतां मे जनार्दनः । एवं कृत्वा नरो भक्त्या सर्वपापविवर्जितः ॥ १,१७.४८ ॥ अत्यन्गिष्टोमयज्ञस्य फलमष्टगुणं लभेत् । वैशाखशुक्लद्वादश्यामुपोष्य मधुसूदनम् ॥ १,१७.४९ ॥ द्रोणक्षीरेण देवेशं स्नापयेद्भक्तिंसंयुतः । जागरं तत्रघ कर्त्तव्यं त्रिकालार्चनसंयुतम् ॥ १,१७.५० ॥ नमस्ते मधुहन्त्रे च जुहुयाच्छक्तितो घृतम् । अष्टोत्तरशतं प्रोर्च्य विधिवन्मधुसूदनम् ॥ १,१७.५१ ॥ विपापो ह्यश्वमेधानामष्टानां फलमान्पुयात् । ज्येष्टमासे सिते पक्षे द्वादश्यामुपवासकृत् ॥ १,१७.५२ ॥ क्षीरेणाढकमानेन स्नापयेद्यस्त्रिविक्तमम् । नमस्त्रिविक्तमायेति पूजयेद्भक्तिसंयुतः ॥ १,१७.५३ ॥ जुहुयात्पायसेनैव ह्यष्टोत्तरशताहुतीः । कृत्वा जागरणं रात्रौ पुनः पूजां प्रकल्पयेत् ॥ १,१७.५४ ॥ अपूपविंशतिं दत्त्वा ब्राह्मणाय सदक्षिणम् । देवदेव जगन्नात प्रसीद परमेश्वर ॥ १,१७.५५ ॥ उपायनं च संगृह्य ममाभीष्टप्रदो भव । ब्राह्मणान्भोजयेच्छक्त्या स्वयं भुञ्जीत वाग्यतः ॥ १,१७.५६ ॥ एवं यः कुरुते विप्र व्रतं त्रैविक्रमं परम् । सोऽष्टानां नरमेधानां विपापः फलमान्पुयात् ॥ १,१७.५७ ॥ आषाढशुक्लद्वादश्यामुपवासी जितेन्द्रियः । वामनं पूर्वमानेन स्नापयेत्पयसा व्रती ॥ १,१७.५८ ॥ नमस्ते वामनायेति दूर्वाज्याष्टोत्तरं शतम् । हुत्वा च जागरं कुर्याद्वामनं चार्चयेत्पुनः ॥ १,१७.५९ ॥ सदाक्षिणं च दध्यन्नं नालिकेरफलान्वितम् । भक्त्या प्रदद्याद्विप्राय वामनार्चनशीलिने ॥ १,१७.६० ॥ वामनो वुद्धिदो होता द्रव्यस्थो वामनः सदा । वामनस्तारकोऽस्माच्च वामनाय नमो नमः ॥ १,१७.६१ ॥ अनेन दत्त्वा दध्यन्नं शक्तितो भोजयेद्दिजान् । कृत्वै वमग्रिष्टोमानां शतस्य फलमाप्नुयात् ॥ १,१७.६२ ॥ श्रावणस्य सिते पक्षे द्वादश्यामुपवासकृत् । क्षीरेण मधुमिश्रेण स्नापयेच्छ्रीधरं व्रती ॥ १,१७.६३ ॥ नमोऽस्तु श्रीधरायेति गन्धाद्यैः पूजयेत्क्रमात् । जुहुयात्पृषदाज्येन शतमष्टोत्तरं मुने ॥ १,१७.६४ ॥ कृत्वा च जागरं रात्रौ पुनः पूजां प्रकल्पयेत् । दातव्यं चैव विप्राय क्षीराढकमनुत्तमम् ॥ १,१७.६५ ॥ दक्षिणां च सवस्त्रां वै प्रदद्याद्धेमकुण्डले । मन्त्रेणानेन विप्रेन्द्रु सर्वकामाश्रसिद्धये ॥ १,१७.६६ ॥ क्षीराब्धिशायिन्देवेश रमाकान्त जगत्पते । क्षीरदानेन सुप्रीतो भव सर्वसुखप्रदः ॥ १,१७.६७ ॥ सुखप्रदत्त्वाद्विप्रांश्च भोजयेच्छक्तितो व्रती । एव कृत्वा श्वमेधानां सहस्रस्य फलं लभेत् ॥ १,१७.६८ ॥ मासि भाद्रपदे शुक्ले द्वादश्यां समुपोषितः । स्नापयेद्द्रोणपयसा हृषीकेशं जगद्गुरुम् ॥ १,१७.६९ ॥ हृषीकेश नमस्तुभ्यमिति संपूजयेन्नरः । चरुणा मधुयुक्तेन शतमष्टोत्तरं हुनेत् ॥ १,१७.७० ॥ जागरादीनिनि निर्वर्त्य दद्यादात्मविदे ततः । सार्धाढकं च गोधूमान्दक्षिणां हेम शक्तितः ॥ १,१७.७१ ॥ हृषीकेश नमस्तुभ्यं सर्वलोकैकहेतवे । मह्यं सर्वसुखं देहि गोधूमस्य प्रदानतः ॥ १,१७.७२ ॥ भोजयेद्व्राह्माञ्शक्त्या स्वयं चाश्रीतवाग्यतः । सर्वपापविनिर्मुक्तो ब्रह्ममेधफलं लभेत् ॥ १,१७.७३ ॥ आश्विने मासिशुक्लायां द्वादश्यांसमुपोषितः । पद्मनाभं चपयसा स्नापयेद्भक्तितः शुचिः ॥ १,१७.७४ ॥ नमस्ते पद्मनाभाय होमं कुयार्त्स्वशक्तितः । तिलब्रीहियवाज्यैश्च पूजयेच्च विधानतः ॥ १,१७.७५ ॥ जामरं निशि निर्वर्त्य पुनः पूजां समाचरेत् । दद्याद्विप्राय कुडवं मधुनस्तु सदक्षिणम् ॥ १,१७.७६ ॥ पद्मनाभघ नमस्तुभ्यं सर्वलोकपितामह । मधुदानेन सुप्रीतो भवसर्वसुखप्रदः ॥ १,१७.७७ ॥ एवं यः कुरुते भक्त्या पद्मनाभव्रतं सुधीः । ब्रह्ममेधसहस्रस्य फलमान्पोति निश्चितम् ॥ १,१७.७८ ॥ द्वादश्यां कार्तिके शुक्ले उपवासी जितेन्द्रियः । क्षीरेणाकढकमानेन दन्धा वाज्येन तावता ॥ १,१७.७९ ॥ नमो दामोदरायेति स्नापयेद्भक्तिभावतः । अष्टोत्तरशतं हुत्वा मघ्वाज्याक्ततिलाहुतीः ॥ १,१७.८० ॥ जागरं नियतः कुर्यात्त्रिकालार्चनतत्परः । प्रातः संपूजयेद्देवं पद्मपुष्पैर्मनोरमैः ॥ १,१७.८१ ॥ पुनरष्टोत्तरशतं जुहुयात्सघृतै स्तिलैः । पञ्चभक्ष्ययुतं चान्नं दद्याद्विप्राय भक्तितः ॥ १,१७.८२ ॥ दामोदर जगन्नाथ सर्वकारणकारण । त्राहिमां कृपया देव शारणागतपालकः ॥ १,१७.८३ ॥ अनेन दत्त्वा दानं च श्रोत्रियाय कुटुम्बिने । दक्षिणाञ्च यथाशक्त्या ब्राह्मणांश्वापि भोजयेत् ॥ १,१७.८४ ॥ एवङ्कृत्वा व्रतं सम्यगश्रीयाद्वून्धुभिः सह । अश्वमेघ सहस्राणां द्विगुणं फलमश्नुते ॥ १,१७.८५ ॥ एवं कुर्याद्व्रती यस्तु द्वादशीव्रतमुत्तमम् । संवत्सरं मुनिश्रेष्ठ स याति परम पदम् ॥ १,१७.८६ ॥ एकमासे द्विमासे वायः कुर्याद्भक्तितत्परः । तत्तत्फलमवान्पोति प्रान्पोति च हरेः पदम् ॥ १,१७.८७ ॥ पूर्णं संवत्सरं कृत्वा कुर्यादुद्यापनं व्रती । मार्गशीर्षासिते पक्षे द्वादश्यां च मुनीश्वर ॥ १,१७.८८ ॥ स्नात्वा प्रातर्यथाचारं दन्तधावनपूर्वकम् । शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ॥ १,१७.८९ ॥ मण्डपं कारयेद्दिव्यं चतुरस्त्रं सुशीभनम् । घण्टाचामरसंयुक्तं किङ्किणीरवशोभितम् ॥ १,१७.९० ॥ अलङ्कृतं पुष्पमाल्यैर्वितानघ्वजराजितान् । छादितं शुक्लवस्त्रेण दीपमालाविभूषितम् ॥ १,१७.९१ ॥ तन्मध्ये सर्वतोभद्रं कुर्यात्सम्यगलङ्कृतम् । तस्योपरिन्यसेत्कुम्भान्द्वादशाम्बुप्रपूरितान् ॥ १,१७.९२ ॥ एकेन शुल्कवनस्त्रेण सम्यक्संशोधितेन च । सर्वानाच्छादयेत्कुम्भान्पञ्चरत्नसमन्वितान् ॥ १,१७.९३ ॥ लक्ष्मीनारायणं देवं कारयेद्भक्तिमान्व्रती । हेन्मा वा राजतेनापि तथा ताम्रेण वा द्विजा ॥ १,१७.९४ ॥ स्थापयेत्प्रतिमां तां च कुम्भोपरि सुसंयमी । तन्मूल्यं वा द्विजश्रेष्ठ काञ्चनं च स्वशक्तितः ॥ १,१७.९५ ॥ सर्वव्रतेषु मतिमान्वित्तशाठ्यं विवर्ज येत् । यदि कुर्यात्क्षयं यान्ति तस्यायुर्द्धनसंपदः ॥ १,१७.९६ ॥ अनन्तशायिनं देवं नारायणमनामयटम् । पञ्चामृतेन प्रथमं स्नापयेद्भक्तिसंयुतः ॥ १,१७.९७ ॥ नांमभिः केशवाद्यैश्च ह्युपचारान्मकल्पयेत् । रात्रौ जागरणं कुर्यात्पुराणश्रवणादिभघिः ॥ १,१७.९८ ॥ जितनिद्रो भवेत्सम्यक्सोपवासो जितेन्द्रियः । त्रिकालमर्चयेद्देवं यथाविभवविस्तरम् ॥ १,१७.९९ ॥ ततः प्रातः समुत्थाय प्रातः कृत्यं समाप्य च । तिलहोमान्व्याहृतिभिः सहस्रंर काव्येद्द्विजैः ॥ १,१७.१०० ॥ ततः संपूजयेद्देवं गन्धपुष्पादिभिः क्रमात् । देवस्य पुरतः कुर्यात्पुराणश्रवणं ततः ॥ १,१७.१०१ ॥ दद्याद्द्वादशविप्रेभ्यो दध्यन्नं पायसं पायसं तथा । अपूपैर्दश भिर्युक्तं सघृतं च सदक्षिणम् ॥ १,१७.१०२ ॥ देवदेवजगन्नाथ भक्तानुग्रहविग्रह । गृहाणोपायनं कृष्ण सर्वाभीष्टप्रदो भव ॥ १,१७.१०३ ॥ अनेनोपायनं दत्त्वा प्रार्थये माञ्जलिः स्थितः । आधाय जानुनी भूमौ विनयावननतो व्रती ॥ १,१७.१०४ ॥ नमो नमस्ते सुरराजराज नमोऽस्तुते देवं जगन्निवास । कुरुष्व संपृर्णफलं ममाद्य नमोऽस्तु तुभ्यं पुरुषोत्तमाय ॥ १,१७.१०५ ॥ इति संप्रार्थयेद्विप्रान्देवं च पुरुषोत्तमम् । दद्यादर्घ्यं च देवाय महालक्ष्मीयुताय वै ॥ १,१७.१०६ ॥ लक्ष्मीपते नमस्तुभ्यं क्षीरार्णवनिवासिने । अर्घ्यं गृहाण देवेश लक्ष्म्या च सहितः प्रक्षो ॥ १,१७.१०७ ॥ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ १,१७.१०८ ॥ इति विज्ञाप्य देवेशं तत्सर्वं संयमी व्रते । प्रतिमां दक्षिणायुक्तामाचार्याय निवेदयेत् ॥ १,१७.१०९ ॥ ब्राह्मणान्भोजयेत्पश्चीच्छक्त्या दद्याज दक्षिणाम् । भुञ्जीत वाग्यतः पश्चात्स्वयं बेवृजनैर्वृतः ॥ १,१७.११० ॥ आसायं शृदुयाद्विष्णोः कथां विद्वज्जनैः सह । इत्येवं कुरुते यस्तु मनुजो द्वादशीव्रतम् ॥ १,१७.१११ ॥ सर्वान्कामान्स आन्पोति परघत्रेह च नारद । त्रिसतकुलसंयुक्तः सर्वपापविवर्जितः । तपाति विष्णुभवनं यत्र यत्त्वा न शोचति ॥ १,१७.११२ ॥ य इदं शृणुयाद्विप्र द्वादशीव्रतमुत्तमम् । वाचयेद्वापि स नरो वाजपेयफलं लभेत् ॥ १,१७.११३ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुक्लद्वादशीव्रतकथनं नाम सत्पदशोऽध्यायः _____________________________________________________________ सनक उवाच अन्यद्व्रतवरं वक्ष्य शृणुष्व मुनिसत्तम । सर्वपापहरं पुण्यं सर्वदुःखनिबर्हणम् ॥ १,१८.१ ॥ ब्राह्मणक्षत्रियविशां शूद्राणां योषितां तथा । समस्तकामफलदं सर्वव्रतम्यफलप्रदम् ॥ १,१८.२ ॥ दुःस्वन्पनाशने धर्म्यं दुष्टग्रहनिवारणम् । सर्वलोकेषु विख्यातं पूर्णिमाव्रतमम् । येन चीर्णेन पापानां राशिकोटिःर प्रशाम्यति ॥ १,१८.३ ॥ मार्गशीर्षे सितेपक्षे पूर्णायां नियतः शुचिः । स्नानं कुर्याद्यथाचारं दन्तधावनपूर्वकम् ॥ १,१८.४ ॥ शुक्लाम्बरधरः शुद्धो गृहमागगत्य वाग्यतः । प्रक्षाल्य पादावाचम्य स्मरत्रारायणं प्रभुम् ॥ १,१८.५ ॥ नित्यं देवार्चनं कृत्वा पश्वात्संकल्पपूर्वकम् । लक्ष्मी नारायणं देवमर्चयेद्भक्तिभावतः ॥ १,१८.६ ॥ आवाहनासनाद्यैश्च गन्धपुष्पादिभिर्व्रती । नमो नारायणायेति पूजयेद्भक्तितत्परः ॥ १,१८.७ ॥ गीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः । स्तोत्रैर्वाराधयेद्देवं व्रतकृत्सुसमाहितः ॥ १,१८.८ ॥ देवस्य पुरतः कृत्वा स्थण्डिलं चतुरस्त्रकम् । अरत्निमात्रं तत्रान्गिं स्थापयेद्गृह्यमार्गतः । आज्यभागान्तर्पयन्तं कृत्वा पुरुषसूक्ततः । चरणा च तिलैश्वापि घृतेन जुहुयात्तथा ॥ १,१८.९ ॥ एकवारं द्विवारं वात्रिवारं वापि शक्तितः । होमं कुर्यात्प्रयत्नेन सर्वपापनिवृत्तये ॥ १,१८.१० ॥ प्रायश्चित्ता दिकं सर्वं स्वगृह्योक्तविधानतः । समाप्य होमं विधिवच्छान्तिसूक्तं जपेद्रुधः ॥ १,१८.११ ॥ पश्चाद्देवं समागत्य पुनः पूजां प्रकल्पयेत् । तथोपवासं देवाय ह्यर्पयेद्भक्तिसंयुतः ॥ १,१८.१२ ॥ पौर्णमास्यां निराहारः स्थित्वा देव तवाज्ञया । भोक्ष्यामि पुण्डरीकाक्ष परेऽह्लि शरणं भव ॥ १,१८.१३ ॥ इति विज्ञाप्य देवायह्यर्घ्यं दद्यात्तथैन्दवे । जानुभ्यामवनीं गगत्वा शुक्लपुष्पाक्षतान्वितः ॥ १,१८.१४ ॥ क्षीरोदार्णवसंभूत अघत्रिगोत्रसमुद्भघव । ग्रहाणार्घ्यं मया दत्तं रोहिणीनायक प्रभो । एवमर्घ्यं प्रदायेन्दोः प्रार्थयेत्प्राञ्जलिस्ततः ॥ १,१८.१५ ॥ तिष्टन्पूर्वमुखो भूत्वा पश्यन्निन्दुं च नारद ॥ १,१८.१६ ॥ नमः शुक्लांशवे तुभ्यं द्विजराजाय ते नमः । रोहिणीपतये तुभ्यं लक्ष्मीभ्रात्रे नमोऽस्तु ते ॥ १,१८.१७ ॥ ततश्च जागरं कुर्यात्पुराणश्रवणादिभिः । जितेन्द्रियश्च संशुद्धः पाषण्डालोकवर्जितः ॥ १,१८.१८ ॥ ततः प्रातः प्रकुर्वीत स्वाचारं च यथाविधि । पुनः संपूजयेद्देवं यथाविभवविस्तरम् ॥ १,१८.१९ ॥ ब्राह्मणान्भोजयेच्छक्त्या ततश्च प्रयतो नरः । बन्धुभृत्यादिभिः सार्धं स्वयं भुञ्जीत वाग्यतः ॥ १,१८.२० ॥ एवं पौषादिमासेषु पूर्णमास्यामुपोषितः । अर्चयेद्भक्तिसंयुक्तो नारायणमनायमम् ॥ १,१८.२१ ॥ एवं संवत्सरं कृत्वा कार्तिक्यां पूर्णिमादिने । उद्यापनं प्रकुर्वीत तद्विधानं वदामि ते ॥ १,१८.२२ ॥ मण्डपं कारयेद्दिव्यं चतुरस्त्रं सुमङ्गलम् । शोभितं पुष्पमालाभिर्वितानध्वजराजितम् ॥ १,१८.२३ ॥ बहुदापसमाकीर्णं किङ्किणीजालशोभितम् । दर्पंणैश्चामरैश्चैव कलशैश्च समावृतम् ॥ १,१८.२४ ॥ तन्मध्ये सर्वतोभद्रं पञ्चवर्णविराजितम् । जलपूर्णं ततः कुम्भं न्यसेत्तस्योपरि द्विज ॥ १,१८.२५ ॥ पिधाय कुम्भं वस्त्रेण सुसूक्ष्मेणाति शोभितम् । हेन्मा वा रजतेनापि तथा तान्मेण वा द्विज । लक्ष्मीनारायणं देवं कृत्वा तस्योपरि न्यसेत् ॥ १,१८.२६ ॥ पञ्चामृतेन संस्नाप्याभ्यर्च्यगन्धादिभिः क्रमात् । भक्ष्मैर्भोज्यादिनैवेद्यैर्भक्तितः संयतेन्द्रियः ॥ १,१८.२७ ॥ जागरं च तथा कुर्यार्त्सम्यक्छ्ररद्धासमन्वितः । परेऽह्नि प्रातर्विधिव त्पूर्ववद्विष्णुमर्चयेत् ॥ १,१८.२८ ॥ आचार्याय प्रदातव्या प्रतिमा दक्षघिणान्विता । ब्राह्मणान्भोजयेच्छक्त्या विभवे सत्यवारितम् ॥ १,१८.२९ ॥ तिलदानं प्रकुर्वीत यथाशक्त्या समाहितः । कुर्याद्रन्गौ च विधिवतिलहोमं विचक्षिणः ॥ १,१८.३० ॥ एवं कृत्वा नरः सम्यक्लक्ष्मीनारायणव्रतम् । इह भुक्त्वा महाभोगान्पुत्रघपौत्रघसमन्वितः ॥ १,१८.३१ ॥ सर्वपापविनिर्मुक्तः कुलायुतसमन्वितः । प्रयाति विष्णुभवनं योगिनामपि दुर्लभम् ॥ १,१८.३२ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मागशीर्षपौर्णिमायां लक्षघ्मीनारायणव्रतं नामाष्टादशोऽध्यायः _____________________________________________________________ सनक उवाच अन्यद्वूतं प्रवक्ष्यामि ध्वजारोपणसंज्ञितम् । सर्वपापहरं पुण्यं विष्णुप्रीणनकारणम् ॥ १,१९.१ ॥ यः कुर्याद्विष्णुभवने ध्वजारोपणमुत्तमम् । संपूज्यते विग्निञ्च्याद्यैः किमन्यैर्बहुभाषितैः ॥ १,१९.२ ॥ हेमभारसहस्रं तु यो ददाति कुटुम्बिने । तत्फलं तुल्यमात्रं स्याद्धूजारोपणकर्मणः ॥ १,१९.३ ॥ ध्वजारोपणतुल्यं स्याद्गङ्गास्नानमनुत्तमम् । अथवा तुलसूसेवा शिवलिङ्गप्रपूजनम् ॥ १,१९.४ ॥ अहोऽपूर्वमहोऽपूर्वमहोऽपूर्वमिदं द्विज । सर्वपाप हरं कर्म ध्वजागोपणसंज्ञितम् ॥ १,१९.५ ॥ सन्ति वै यानि कार्याणि ध्वजारोपणकर्मणि । तानि सर्वाणि वक्ष्यामि शृणुष्व गदतो मम ॥ १,१९.६ ॥ कार्तिकस्य सिते पक्षघे दशम्यां प्रयतो नरः । स्नानं कुर्यात्प्रयत्नेन दन्तधावनपूर्वकम् ॥ १,१९.७ ॥ एकाशी ब्रह्मचारी च स्वपेन्नारायणं स्मरन् । धौताम्बरधरः शुद्धो विप्रो नारायणाग्रतः ॥ १,१९.८ ॥ ततः प्रातः समुत्थाय स्नात्वाचम्य यथाविधि । नित्यकर्माणि निर्वर्त्य पश्चाद्विष्णुं समर्चयेत् ॥ १,१९.९ ॥ चतुर्भिर्ब्राह्मणैः सार्ध्दं कृत्वा च स्वस्तिवाचनम् । नान्दीश्राद्धं प्रकुर्वीत ध्वजारोपणकर्मणि ॥ १,१९.१० ॥ ध्वजस्तम्भो च गायत्र्या प्रोक्षघयेद्वस्त्रसंयुतौ । सूर्यं च वैनतेयं च हिमांशुं तत्परोर्ऽचयेत् ॥ १,१९.११ ॥ धातारं च विधातारं पूजयेद्धजदण्डके । हरिद्राक्षघतगन्धाद्यैः शुक्लपुष्पैर्विशेषतः ॥ १,१९.१२ ॥ ततो गोचर्ममात्रघं तु स्थण्डिलं चोपलिप्य वै । आधायान्गिं स्वगृह्योत्त्या ह्याज्यभागादिकं क्रमात् ॥ १,१९.१३ ॥ जुहुयात्पायसं चैव साज्यमष्टोत्तरं शतम् । प्रथमं पौरुषं सूक्तं विष्णोर्नुकमिरावतीम् ॥ १,१९.१४ ॥ ततश्च वैनतेयाय स्वाहे त्यष्टाहुतीस्तथा । सोमो धेनुमुदुत्यं च जुहुयाच्च ततो द्विज ॥ १,१९.१५ ॥ सौरमन्त्राञ्जपेत्तघत्र शान्तिसूत्कानि शक्तितः । रात्रघौ जागरणं कुर्यादुपकण्ठं हरेः शुचुः ॥ १,१९.१६ ॥ ततः प्रातः समुत्थाय नित्यकर्म समाप्य च । गन्धपुष्पादिभिर्देवमर्चयेत्पूर्ववत्क्रमात् ॥ १,१९.१७ ॥ ततो मङ्गलवाद्यैश्च सूक्तपाठैश्च शौभनम् । नृत्यैश्च रतोत्रघपठनैर्नयेद्विष्णवालये ध्वजम् ॥ १,१९.१८ ॥ देवस्य द्वारदेशे वा शिखरे वा मुदान्वितः । सुस्थुरः स्थापयेद्विप्र ध्वजं सस्तम्भसंयुतम् ॥ १,१९.१९ ॥ गन्धपुष्पाघक्षतैर्द्देवं धूपदीपर्मनोहरैः । भक्षघ्यभोज्यादिसंयुक्तैर्नैवेद्यैश्च हरिं यजेत् ॥ १,१९.२० ॥ एवं देवालये स्थाप्य शोभनं ध्वजमुत्तमम् । प्रदक्षघिणमनुव्रज्य स्तोत्रघमेतदुदूरयेत् ॥ १,१९.२१ ॥ नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ १,१९.२२ ॥ येनेदमखिलं जातं यत्र सर्वं प्रतिष्टितम् । लयमेष्यति यत्रैवं तं प्रपन्नोऽस्मि केशवम् ॥ १,१९.२३ ॥ न जानन्ति परं भावं यस्य ब्रह्मादयः सुराः । योगिनोयं न पश्यन्ति तं वन्दं ज्ञानरुपुणम् ॥ १,१९.२४ ॥ अन्तरिक्षन्तु यन्नाभिर्द्यैर्मूर्द्धा यस्य चैव हि । पादोऽभूद्यस्य पृथिवी तं वन्दे विश्वरुपिणम् ॥ १,१९.२५ ॥ यस्य श्रोत्रे दिशः सर्वा यच्चक्षुर्दिनकृचज्छशी । ऋक्सामयजुपी येन तं वन्दे ब्रह्ररुपिणम् ॥ १,१९.२६ ॥ यन्मुखाद्वाह्मणा जाता यद्वाहोरभवन्नृपाः । वैश्या यस्यो रुतो जाताः पद्भघ्यां शूद्रो व्यजायत ॥ १,१९.२७ ॥ मायासङ्गममात्रघेण वदन्ति पुरुषं त्वजम् । स्वभावविमलं शुद्धं निर्विकारं निरञ्जनम् ॥ १,१९.२८ ॥ क्षीरब्धि शायिनं देवमनन्तमपराजितम् । सद्भक्तवत्सलं विष्णुं भक्तिगम्यं नमाम्यहम् ॥ १,१९.२९ ॥ पृथिव्यादीनि भूतानि तन्मात्राणींन्द्रियाणि च । सूक्ष्मासूक्ष्याणि येनासंस्तं वन्दे सर्वतोमुखम् ॥ १,१९.३० ॥ यद्वह्य परमं धाम सर्वलोकोत्तमोत्तमम् । निर्गुणं परमं सूक्ष्मं प्रणतोऽस्ति पुनः पुनः ॥ १,१९.३१ ॥ अविकारमजं शुद्धं सर्वतोबाहुमीश्वरम् ।. यमामनन्ति योगान्द्राः सर्वकारणकारणम् ॥ १,१९.३२ ॥ यो देवः सर्वभूतानामन्तरात्मा जगन्मयः । निर्गुणः परमात्मा च स मे विष्णुः प्रसीदतु ॥ १,१९.३३ ॥ हृदयस्थोऽपि दूरस्थो मायया मोहितात्मनाम् । ज्ञानिनां सर्वगो यस्तु स मे विष्णुः प्रसीदतु ॥ १,१९.३४ ॥ चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वातार्थंभ्यां स मे विष्णुः प्रतीदतु ॥ १,१९.३५ ॥ ज्ञानिनां कर्मिणां चैव तथा भक्तिमतां नृणाम् । गतिदाता विश्वमृग्यः स मे विष्णुः प्रसूदतु ॥ १,१९.३६ ॥ जगद्धितार्थं ये देहा ध्रियन्ते लीलया हरेः । तानर्चयन्ति विबुधाः स मे विष्णुः प्रसीदतु ॥ १,१९.३७ ॥ यमामनन्तिवे सन्तः सच्चिदानन्दविग्रहम् । निर्गुणं च गुणाधारं स मे विष्णुः प्रसीदतु ॥ १,१९.३८ ॥ इति स्तुत्वा नमेद्विष्णुं ब्राह्मणांश्च प्रपूजयेत् । आचार्यं पूजयेत्पश्चाद्दक्षिणाच्छादनादिभिः ॥ १,१९.३९ ॥ ब्राह्मणान्भोजयेच्छक्त्या भक्ति भावसमन्वितः । पुत्रमत्रिकलत्राद्यैः स्वयं च सह बन्धुभिः ॥ १,१९.४० ॥ कुर्वीत पारणं विप्र नारायणपरायणः । यस्त्वेतत्कर्म कुर्वीत ध्वजारोपणमुत्तमम् । तस्य पुण्यफलं वक्ष्ये शृणुष्व सुसमाहितः ॥ १,१९.४१ ॥ पटो ध्वजस्य विप्रेन्द्र यावच्चलति वायुना । तावन्ति पापजालानि नश्यन्त्येव न संशयः ॥ १,१९.४२ ॥ महापातकयुक्तो वा युक्तो वा सर्वपातकैः । ध्वजं विष्णुगृहे कृत्वा मुच्यते सर्वपातकैः ॥ १,१९.४३ ॥ यावद्दिनानि तिष्टेत ध्वजो विष्णुगृहे द्विज । तावद्युगसहस्राणि हरिसारुप्यमश्नुते ॥ १,१९.४४ ॥ आरोपितं ध्वजं दृष्ट्वा येऽभिनन्दन्ति धार्मिकाः । तेऽपि सर्वे प्रमुच्यन्ते महापातककोटिभिः ॥ १,१९.४५ ॥ आरोपितो ध्वजो विष्णुगृहे धुन्वन्पटं स्वकम् । कर्तुः सर्वाणि पापानि धुनोति निमिषार्द्धतः ॥ १,१९.४६ ॥ यस्त्वा रोप्य गृहे विष्णोर्ध्वजं नित्यमुपाचरेत् । स देवयानेन दिवं यातीव सुमतिर्नृपः ॥ १,१९.४७ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने ध्वजारोपणन्नामैकोनविंशोऽध्यायः _____________________________________________________________ नारद उवाच भगवन्सर्वधर्मज्ञ सर्वशास्त्रार्थपारग । सर्वकर्मवरिष्टं च त्वयोक्तं ध्वजधारणम् ॥ १,२०.१ ॥ यस्तु वै सुमतिर्नाम ध्वजारोपपरो मुने । त्वयोक्तस्तस्य चरितं विस्तरेण ममादिश ॥ १,२०.२ ॥ सनक उवाच शृणुष्वैकमनाः पुण्यमितिहासं पुरातनमम् । ब्रह्मणा कथितं मह्यं सर्वपापप्रणाशनम् ॥ १,२०.३ ॥ आसीत्पुरा कृतयुगे सुमतिर्नाम भूपतिः । सोमवंशोद्भवः श्रीमान्सत्पद्वीपैकनायकः ॥ १,२०.४ ॥ धर्मात्मा सत्यसंपन्नः शुचिवंश्योऽतिथिप्रियः । सर्वलक्षणसंपन्नः सर्वसंपद्विभूषितः ॥ १,२०.५ ॥ सदा हरिकथासेवी हरिपूजापरायणः । हरिभक्तिपराणां च शुश्रूषुर्निरहॄङ्कृतिः ॥ १,२०.६ ॥ पूज्यपूजारतो नित्यं समदर्शी गुणान्वितः । सर्वभूतहितः शान्तः कृतज्ञः कीर्तिमांस्तथा ॥ १,२०.७ ॥ तस्य भार्या महाभागा सर्वलक्षणसंयुता । पतिव्रता पतिप्राणा नाम्रा सत्यमतिर्मुने ॥ १,२०.८ ॥ तादुभौ दम्पतू नित्यं हरिपूजापरायणौ । जातिस्मरौ महाभागौ सत्यज्ञौ सत्परायणौ ॥ १,२०.९ ॥ अन्नदानरतौ नित्यं जलदानपरायणौ । तडागारामवप्रादौ नसंख्यातान्वितेनतुः ॥ १,२०.१० ॥ सा तु सत्यमतिर्नित्यं शुचिर्विष्णुगृहे सती । नृत्यत्यत्यन्तसन्तुष्टा मनोज्ञा सञ्जुवादिनी ॥ १,२०.११ ॥ सोऽपि राजा महाभागो द्वादशीद्धादशीदिने । ध्वजमारोपयत्येव मनोज्ञं बहुविस्तरम् ॥ १,२०.१२ ॥ एवं हरिपरं नित्यं राजानं धर्मकोविदम् । प्रिमां मत्यमतिं चाम्य देवा अपि सदास्तुवन् ॥ १,२०.१३ ॥ त्रिलोके विश्रुतौ ज्ञात्वा दम्पती धर्मको विदौ । आययौ बहुभिः शिप्यैर्द्रष्टुकामो विभाण्डकः ॥ १,२०.१४ ॥ तमायान्तं मुनिं श्रुत्वा स तु राजा विभाण्डकम् । प्रत्युद्ययौ सपत्नीकः प्रजा भिर्बहुविस्तरम् ॥ १,२०.१५ ॥ कृतातिथ्यक्रियं शान्तं कृतासनपरिग्रहम् । नीचासनस्थितो भूयः प्राञ्जलिर्मुनिमब्रवीत् ॥ १,२०.१६ ॥ राजोवाच भगवन्कृतकृत्योऽस्मिं त्वदभ्यागमनेन वें । सतामायमनं सन्तं प्रशंसन्ति सुरवावहम् ॥ १,२०.१७ ॥ यत्र स्यान्महतां प्रेम तत्र स्युः सर्वसम्पदः । तेजः कीर्तिर्धनं पुत्रा इति प्रहुर्विपश्चितः ॥ १,२०.१८ ॥ तत्र वृद्धिमुपायान्ति थेयांस्यनुदिनं मुने । यत्र सन्तः प्रकुर्वन्ति महतीं करुणां प्रभो ॥ १,२०.१९ ॥ यो मृर्ध्नि धाग्येदूह्यन्महत्पादजलं रजः । स स्नातः सर्वतीर्थेषु पुण्यात्मा नात्र संशयः ॥ १,२०.२० ॥ मम पुत्राश्च दाराश्च संपत्त्वयि समर्पिताः । मामाज्ञापय विप्रेन्द्र किं प्रियं करवाणि ते ॥ १,२०.२१ ॥ विनञ्चवनतं भूपं स निरीक्ष्य मुनीशअवरः । स्पृशषन्करेण तं प्रीत्युवाचातिहर्षितः ॥ १,२०.२२ ॥ ऋषिरुवाच गजन्यदुक्तं भवता तत्सर्वं त्वत्कुलोचितम् । विनयावनतः सर्वो बहुश्रेयो लभेदिह ॥ १,२०.२३ ॥ धर्मश्चार्थश्च कामश्च मोक्षश्च नृपसत्तम । विनयाल्लभते मर्त्यो दुर्लभं किं महात्मनाम् ॥ १,२०.२४ ॥ प्रीतोऽस्मि तव भापाल सन्मार्गपरिवर्त्तिनः । स्वस्ति ते सततं भूयाद्यत्पृच्छामि तदुच्यताम् ॥ १,२०.२५ ॥ पूजा बहुविधाः सन्ति हस्तुष्टिविधायिकाः । तासु नित्यं ध्वजारोपे वर्त्त्से त्वं सदोद्यतः ॥ १,२०.२६ ॥ भार्यापि तव साध्वीयं नित्यं नृत्यपरायणा । किमर्थमेतद्वृत्तान्तं यथावद्वक्तुमर्हसि ॥ १,२०.२७ ॥ राजोवाच शृणुष्व भगवन्सर्वं यत्पृच्छसि वदामि तत् । आश्चर्यभूतं लोकानामावयोश्चरितं त्विह ॥ १,२०.२८ ॥ अहमासं पुरा शूद्रो मालिनिर्नाम सत्तम । कुमार्गगनिरतो नित्यं सर्वलोकाहिके रतः ॥ १,२०.२९ ॥ पिशुनो धर्मविद्वेषी देवद्रव्यापहारकः । गोध्नश्च ब्रह्महा चौरः सर्वप्राणिवधे रतः ॥ १,२०.३० ॥ नित्यं निष्ठुरवक्ता च पापी वेश्यापरायणः । एवं स्थितः कियत्कालमनाहत्यं महदृचः ॥ १,२०.३१ ॥ सर्वबन्धुपरित्यक्तो दुःखी वनमुपागतः । मृगमांसाशनो नित्यं तथा पान्थाविल्लम्पकः ॥ १,२०.३२ ॥ एकाकी दुःखबहुलो न्यवसन्निर्जने वने । एकदा क्षुत्परिश्रान्तो निदाघार्त्तः पिपासितः ॥ १,२०.३३ ॥ जीर्णं देवालयं विष्णोरपश्यं विजने वने । हंसकारण्डवाकीर्णं तत्समीपे महत्सरः ॥ १,२०.३४ ॥ पर्यन्तवनपुष्पौघच्छादितं तन्मुनीश्वर । अपिबं तत्र पानीयं तत्तीरे विगतश्रमः ॥ १,२०.३५ ॥ फलानि जग्ध्वा शीर्णानि स्वयं क्षुच्च निवारिता । तस्मिञ्जीर्णीलये विष्णोनर्निवासं कृतकवानहम् ॥ १,२०.३६ ॥ जीर्णस्फुटितसंधानं तस्य नित्यमकारिषम् । पर्णैस्तृणैश्च काष्ठैघैर्गृहं सम्यक्प्रकल्पितम् ॥ १,२०.३७ ॥ स्वसुराराथं तु तद्भमिर्मया लित्पा मुनीश्वर । तत्राहं व्याधवृत्तिस्थो हत्वा बहुविधान्मृगान् ॥ १,२०.३८ ॥ आजीवं वर्तय न्नित्यं वर्षाणां विंशतिः स्थितः । अथेयमागता साध्वी विन्ध्यदेशसमुद्भवा ॥ १,२०.३९ ॥ निषादकुलजा विप्रा नान्मा ख्याता।ञवकोकिला । बन्धुवर्गपरित्यक्ता दुःखिता जीर्णविग्रहा ॥ १,२०.४० ॥ क्षुत्तृड्घर्मपरिश्रान्ता शोचन्ती स्वकृतं ह्यघम् । दैवयोगाकत्समायाताभ्रमन्ती विजने वने ॥ १,२०.४१ ॥ ग्रीष्मतापार्द्दिता बाह्ये स्वान्ते चाधिनिपूडिता । इमां दुःखार्दितां दृष्ट्वा जाता मे विपुला दया ॥ १,२०.४२ ॥ दत्तं मया जलं चास्यै मांसं वन्यफलानि च । गतश्रमात्वियं ब्रह्मन्मया पृष्टा यथा तयम् ॥ १,२०.४३ ॥ अवेदयत्स्ववृत्तान्तं तच्छृणुष्व महामुने । नान्मावकोकिला चाहं निषादकुलसभ्भवा ॥ १,२०.४४ ॥ दारुकस्य सुता चाहं विन्ध्यपर्वतवासिनी । परस्वहारिणी नित्यं सदा पैशुन्यवादिनी ॥ १,२०.४५ ॥ पुंश्चलूत्येवमुक्त्वा तु बन्धुवर्गैः समुज्झिता । कियत्कालं ततः पत्या भृताहं लोकनिन्दिता ॥ १,२०.४६ ॥ दैवात्सोऽपि गतो लोकं यमस्यात्र विहाय माम् । कान्तारे विजने चैका भ्रमन्ती दुःखपीडिता ॥ १,२०.४७ ॥ दैवात्त्वत्सविधं प्रात्पा जीविताहं त्वयाधुना । इत्येवं स्वकृतं कर्म मह्यं सर्वं न्यवेदयत् ॥ १,२०.४८ ॥ ततो देवालये तस्मिन्दमपतीभावमाश्रितौ । स्थितौ वर्षाणि दश च आवां मांसफलाशिनौ ॥ १,२०.४९ ॥ एकदा मद्यपानेन प्रमत्तौ निर्भरैमुने । तत्र देवालये राघत्रौ मुदितौ मांसभोजनात् ॥ १,२०.५० ॥ तनुवस्त्रापरिज्ञानौ नृत्यं चकृव मोहितौ । प्रारब्धकर्म भोगान्तमावां युगपदागतौ ॥ १,२०.५१ ॥ यमदूतास्तदायाताः पाशहस्ता भयङ्कराः । नेतुमावां नृत्यरतौ सुधोरां यमयातनाम् ॥ १,२०.५२ ॥ ततः प्रसन्नो भगवान्कर्मणा मम मानद । देवावसथसंस्कारसंज्ञितेन कृतेन नः ॥ १,२०.५३ ॥ स्वदूतान्प्रेपयामास स्वभक्तावनतत्परः । ते दूता देवदेवस्य शङ्खचक्र गदाधराः ॥ १,२०.५४ ॥ सहस्रसूर्यासंकाशाः सर्वे चारुचतुर्भुजाः । किरीटकुण्डलधरा हारिणो वनमालिनः ॥ १,२०.५५ ॥ दिशो वितिमिरा विप्र कुर्वन्तः स्वेन तेजसा । भयङ्करान्याशहस्तान्दंष्ट्रिणो यमकिङ्करान् ॥ १,२०.५६ ॥ आवयोग्राहणे यत्तानृचुः कृष्णपरायणाः ॥ १,२०.५७ ॥ विष्णुदूता ऊचुः भो भो क्रूरा दूराचारा विवेकपरिवर्जिताः । मुञ्चध्वमेतौ निष्पापौ दम्पती हरिवल्लभौ ॥ १,२०.५८ ॥ विवेकस्त्रिषु लोकेषु संपदामादिकारणम् । अपापे पापधीर्यस्तु तं विद्यात्पुरुषाधमम् ॥ १,२०.५९ ॥ पापे त्वपापधीर्यस्तु तं विद्यादधमाधमम् ॥ १,२०.६० ॥ यमदूता ऊचुः युष्माभिः सत्यमेवोक्तं किं त्वेतौ पापिसत्तमौ । यमेन पापिनो दण्ड्यास्तन्नेष्यामो वयं त्विमौ ॥ १,२०.६१ ॥ श्रुतिप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः । धर्माधर्मविवेकोऽयं तन्नेष्यामो यमान्तिकम् ॥ १,२०.६२ ॥ एतच्त्छुवातिकुपिता विष्णुदूता महौजसः । प्रत्यूचूस्तान्यमभटानधर्मे धर्ममानिनः ॥ १,२०.६३ ॥ विष्णदूता ऊचुः अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् । सम्यग्विवेकशून्यानां निदानं ह्यापदां महत् ॥ १,२०.६४ ॥ तर्काणाद्यविशेषेण नरकाध्यक्षतां गताः । यूयं किमर्थमद्यापि कर्त्तुं पापानि सोद्यमाः ॥ १,२०.६५ ॥ स्वकर्मक्षयपर्यन्तं महापातकिनोऽपि च । तिष्टन्ति नरके घोरे यावच्चन्द्रार्कतारकम् ॥ १,२०.६६ ॥ पूर्वसंचितपापानामदृष्ट्वा निष्कृतिं वृथा । किमर्थं पापकर्माणि करिष्येऽथ पुनः पुनः ॥ १,२०.६७ ॥ श्रुतिप्रणिहितो धर्मः सत्यं सत्यं न संशयः । किन्त्वाभ्यां चरितान्धर्मान्प्रवक्ष्यामो यथातथम् ॥ १,२०.६८ ॥ एतौ पापविनिर्मुक्तौ हरिशुश्रूषणे रतौ । हरिणा त्रायमाणौ च मुञ्चध्वमविलम्बितम् ॥ १,२०.६९ ॥ एषा च नर्तनं चक्रे तथैव ध्वजरोषणम् । अन्तकाले विष्णुगृहे तेन निष्पापतां गतौ ॥ १,२०.७० ॥ अन्तकाले तु यन्नाम श्रुत्वोक्त्वापि च वै सकृत् । लभते परमं स्थानं किमु शूश्रूषणे रताः ॥ १,२०.७१ ॥ महापातकयुक्तो वा युक्तो वाप्युपपातकैः ।.। कृष्णसेवी नरोऽन्तेऽपि लभते परमां गतिम् ॥ १,२०.७२ ॥ यतीनां विष्णुभक्तानां परिचर्या परायणाः । ते दूताः सहसा यान्ति पापिनोऽपि परां गतिम् ॥ १,२०.७३ ॥ मुहुर्तं वा मुहुर्तार्द्धं यस्तिष्टोद्धरिमन्दिरे । सोऽपि याति परं स्थानं किमुद्वात्रघिंशवत्सरान् ॥ १,२०.७४ ॥ उपलेपनकर्त्तारौ संमार्जनपरायणौ । एतौ हरिगृहे नित्यं जीर्णशीर्णाधिरोपकौ ॥ १,२०.७५ ॥ जलसेचनकर्त्तारौ दीपदौ हरिमन्दिरे । कथमेतौ महाभागौ यातनाभोगमर्हथ ॥ १,२०.७६ ॥ इत्युक्ता विष्णुदूतास्ते च्छित्वा पाशांस्तदैव हि । आरोप्यावां विमानाग्रयं ययुर्विष्णोः परं पदम् ॥ १,२०.७७ ॥ तत्र सामीप्यमापन्नौ देवदेवस्य चक्रिणः । दिव्यान्भोगान्भुक्तवन्तौ तावत्कालं मुनीश्वर ॥ १,२०.७८ ॥ दिव्यान्भोगांस्तु तत्रापि भुक्त्वा यातौ महीमिमाम् । अत्रापि संपदतुला हरिसेवाप्रसादतः ॥ १,२०.७९ ॥ अनिच्छया कृतेनापि सेवनेन हरेर्मुने । प्रात्पमीदृक्फलं विप्र देवानामपि दुर्लभम् ॥ १,२०.८० ॥ इच्छयाराध्य विश्वेशं भक्तिभावेन माधवम् । प्राप्स्यावः परमं श्रेय इति हेतुर्निरुपितः ॥ १,२०.८१ ॥ अवशेनापि यत्कर्म कृतं स्यात्सुमहत्फलम् । जायते भूमिदेवेन्द्र किं पुनः श्रद्धया कृतम् ॥ १,२०.८२ ॥ एतदुक्तं निशम्यासौ स मुनीन्द्रो विभण्डकः । प्रशस्य दम्पती तौ तु प्रययौ स्वतपेवनम् ॥ १,२०.८३ ॥ तस्माज्जानीहि देवर्षे देवदेवस्य चक्रिणः । परिचर्या तु सर्वेषां कामधेनूपमा स्मृता ॥ १,२०.८४ ॥ हरिपूजापराणां तु हरिरेव सनातनः । ददाति परमं श्रेयः सर्वकामफलमप्रदः ॥ १,२०.८५ ॥ य इदं पुण्यमाख्यानं सर्वपापप्रणाशनम् । पठेच्च शृणुयाद्वापि सोऽपि याति परां रातिम् ॥ १,२०.८६ ॥ इति श्रबृहन्नारदीयपराणे पूर्वभागे प्रथमपादे सुमतिभूपकथावर्णनं नाम विंशऽध्यायः सनक उवाच अन्यद्वूतं प्रवक्ष्यामि शृणु नारद तत्त्वतः । दुर्लभं सर्वलोकेषु विख्यातं हरिपञ्चकम् ॥ १,२१.१ ॥ नारीणां च नराणां च सर्वदुःखनिवारणम् । धर्मकामार्थमोक्षाणां निदानं मुनिसत्तम ॥ १,२१.२ ॥ सर्वाभीष्टप्रदं चैव सर्वव्रतफलप्रदम् । मार्गशीर्षे सिते पक्षे दशम्यां नियतेन्द्रियः ॥ १,२१.३ ॥ कुर्यात्स्नानादिकं कर्म दन्तधावनपूर्वकम । कृत्वा देवार्चनं सम्यक्तथा पञ्च महाध्वरान् ॥ १,२१.४ ॥ एकाशी च भवेत्तस्मिन् दिने नियममास्थिताः । ततः प्रातः समुत्थाय ह्येकादश्यां मुनीश्वरः ॥ १,२१.५ ॥ स्नानं कृत्वा यथाचारं हरिं चैवार्यदृहे । स्नापयेद्देवदेवेशं पञ्चामृतविधानतः ॥ १,२१.६ ॥ अर्चयेत्परया भक्त्या गन्धपुष्पादिभिः ऋमात् । धूपैर्दीपेश्च नैवैद्यैस्ताम्बूलैश्च प्रदक्षिणैः ॥ १,२१.७ ॥ संपूज्य देवदेवेशमिमं मन्त्रमुदीरयेत् ।. नमस्ते घज्ञानरुपाय ज्ञानदाय नमोऽस्तुते ॥ १,२१.८ ॥ नमस्ते स्रवपरुपाय सर्वसिद्धिप्रदायिने । एवं प्रणम्य देवेशं वासुदेवं जनार्जनम् ॥ १,२१.९ ॥ वक्ष्यमाणेन मन्त्रेण ह्युपवासं समर्पयेत् । पञ्चरात्रं निराहारो ह्यद्यप्रभृति केशव ॥ १,२१.१० ॥ त्वदज्ञया जगत्स्वामिन्ममाभीष्टप्रदो भव । एवं समप्य देवस्य उपवासं जितेन्द्रियः ॥ १,२१.११ ॥ रात्रौ जागरणं कुर्यादेकादश्यामथो द्विज । द्वादश्यां च त्रयोदश्यां चतुर्दश्यां जितेन्द्रियः ॥ १,२१.१२ ॥ पौर्णनमास्यां च कर्त्तव्यमेवं विष्ण्वर्चनं मुने । एकादश्यां पौर्णमास्यां कर्त्तव्यं जागरं तथा ॥ १,२१.१३ ॥ पञ्चामृतादिपूजा तु सामान्या दिनपञ्चसु । क्षीरेण स्नापयेद्विष्णुं पौर्णमास्यां तु शक्तितः । तिलहोमश्च कर्त्तव्यस्तिलदानं तथैव च ॥ १,२१.१४ ॥ ततः षष्टे दिने प्रात्पे निर्वत्यं स्वाश्रमक्रियाम् । संप्राश्य पञ्चगव्यं च पूजयेद्विधिबद्धरिम् ॥ १,२१.१५ ॥ ब्राह्मणान्भोजयेत्पश्चाद्विभवे सत्यवारितम् । ततः स्वबन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ॥ १,२१.१६ ॥ एवं पौपादिमासेषु कार्त्तिकान्तेषु नारद । शुक्लपक्षे व्रतं कुर्यात्पूर्वमिवविधिना नरः ॥ १,२१.१७ ॥ एवं संवत्सरं कार्यं व्रतं पापप्रणाशनम् । पुनः प्रात्पे मार्गशीर्षे कुर्यादुद्यपनं व्रती ॥ १,२१.१८॥ द्विज । एकादश्यां निराहारो भवेत्पूर्वमिव द्विज । द्वादश्यां पञ्चगव्यं च प्राशयेत्सुसमाहितः ॥ १,२१.१९ ॥ गन्धपुष्पा दिभिः सम्यग्देवदेवं जनार्दनम् । अभ्यर्च्योपायनं दद्याद्रूह्यणाय जितेन्द्रियः ॥ १,२१.२० ॥ पायसं मधुसंमिश्रं घृतयुक्तं फलान्वितम् । सुगन्धज लसंयुक्तं पूर्णकुम्भं सदक्षिणम् ॥ १,२१.२१ ॥ वस्त्रेणाच्छादितं कुम्भं पञ्चरन्तसमन्वितम् । दद्यादध्यात्मविदुषे ब्राह्मणाय मुनीश्वर ॥ १,२१.२२ ॥ सर्वात्मन् सर्वभूतेश सर्वव्यापिन्सनातन । परमान्नप्रदानेन सुप्रीतो भव माधव ॥ १,२१.२३ ॥ अनेन पायसं दत्त्वा ब्राह्मणान्भोजयेत्ततः । शक्तितो बन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ॥ १,२१.२४ ॥ व्रतमेतत्तु यः कुर्याद्धरिपञ्चकसंज्ञितम् । न तस्य पुनरावृत्तिर्ब्रह्मलोकात्कदाचन ॥ १,२१.२५ ॥ व्रतमेतत्प्रकर्त्तव्य मिच्छद्भिर्मोक्षमुत्तम् । समस्तपापकान्तारदावानलसमं द्विज ॥ १,२१.२६ ॥ गवां कोटिसहस्राणि दत्त्वा यत्फलमाप्नुयात् । तत्फलं लभ्यते पुम्भिरेतस्मा दुपवासतः ॥ १,२१.२७ ॥ यस्त्वेतच्छृणुयाद्भक्त्या नारायणपरायणः । स मुच्यते महाघोरैः तापकानां च कोटिभिः ॥ १,२१.२८ ॥ इति श्रीबृहन्नांरदीयपुराणं पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुल्कैकादशीमासभ्य पौर्णिमापर्यन्तं पञ्चरात्रिव्रतं नामैकविंशोऽध्यायः _____________________________________________________________ सनक उवाच अन्यद्व्रतवरं वक्ष्ये तच्छृणुष्व समाहितः । सर्वापापहरं पुण्यं सर्वलोकोपकारकम् ॥ १,२२.१ ॥ आषाढ्रे श्रावणे वापि तथा भाद्रपदेऽपि च । तथैवाश्विनके मासे कुर्यादेतद्वतं द्विज ॥ १,२२.२ ॥ एतेष्वन्यतमे मासे शुल्कपक्षे जितेन्द्रियः । प्राशयेत्पञ्चगव्यं च स्वपेद्विष्णुसमीपतः ॥ १,२२.३ ॥ ततः प्रातः समुत्थाय नित्यकर्म समाप्य च । श्रद्धया पूजयेद्विष्णुं वशी क्रोधविवार्जितः ॥ १,२२.४ ॥ विद्वद्भिः सहितो विष्णुमर्चयित्वा यथोचितम् । संकल्पं तु ततः कुर्यास्त्वस्ति वाचनपूर्वकम् ॥ १,२२.५ ॥ मासमेकं निराहारो ह्यद्यप्रभृति केशव । मासान्तं पारणं कुर्वे देवदेव तवाज्ञया ॥ १,२२.६ ॥ तपोरुप नमस्तुभ्यं तपसां फल दायक । ममाभूष्टप्रदं देहि सर्वविन्घान्निवारय ॥ १,२२.७ ॥ एवं समर्प्य देवस्य विष्णोर्मासव्रतं शुभम् । ततः प्रभृति मासान्तं निवसेद्धरिमन्दिरे ॥ १,२२.८ ॥ प्रत्यहं स्नापयेद्देवं पञ्चामृतविधानतः । दीपं निरन्तरं कुर्यात्तस्मिन्मासे हरेर्गृहे ॥ १,२२.९ ॥ प्रत्यहं खादयेत्काष्ठं ह्यपामार्ग समुद्भवम् । ततः स्नायीत विधिन्नारायणपरायणः ॥ १,२२.१० ॥ ततः संस्नापयेद्विष्णुं पूर्ववत्प्रयतोर्ऽचयेत् । ब्राह्मणान्भोजयेच्छक्त्या भक्तियुक्तः सद क्षिणम् ॥ १,२२.११ ॥ स्वयं च बन्धुभिः सार्द्धं भुञ्जीत प्रयतेन्द्रियः । एवं मासोपवासांश्च व्रती कुर्यात्त्रयोदश ॥ १,२२.१२ ॥ वर्षान्ते वेदविदुषे गां प्रदद्यात्स दक्षिणाम् । भोजयेद्व्राह्माणांस्तत्र द्वादशैव विधानतः । शक्त्या च दक्षिणां दद्याद्रूह्यण्याभरणानि च ॥ १,२२.१३ ॥ मासोपवासत्रितयं यः कुर्यात्संयते न्द्रियः । आत्पोर्यामस्य यज्ञत्य द्विगुणं फलमश्नुते ॥ १,२२.१४ ॥ चतुः कृत्वः कृतं येन पाराकं मुनिसत्तम । स लभेत्परमं पुण्यमष्टान्गिष्टोमसंभवम् ॥ १,२२.१५ ॥ पञ्चकृत्वो व्रतमिदं कृतं येन महात्मना । अत्यन्गिष्टोमजं पुण्यं द्विगुणं प्राप्नुयान्नरः ॥ १,२२.१६ ॥ मासोपवाषट्कं यः करोति सुसमाहितः । ज्योतिष्टो स्यन्ग यज्ञस्य फलं सोऽष्टगुणं लभेत् ॥ १,२२.१७ ॥ निराहारः सत्पकृत्वो नरो मासोपवासकान् । अश्वमेधस्य यज्ञस्य फलमष्टगुणं लभेत् ॥ १,२२.१८ ॥ मासो पावासान्यः कुर्यादष्टकृत्वो मुनीश्वर । नरमेधाख्ययज्ञस्य फलं पञ्चगुणं लभेत् ॥ १,२२.१९ ॥ यस्तु मासोपवासांश्च नवकृत्वः समाचरेत् । गोमेधमखजं पुण्यं लभते त्रिगुणं नरः ॥ १,२२.२० ॥ दशकृत्वस्तु यः कुर्यात्पराकं मुनिसत्तम । स ब्रह्ममेधयज्ञस्य त्रिगुणं फलमश्नुते ॥ १,२२.२१ ॥ एकादश पराकांश्च यः कुर्यात्संयतेन्द्रियः । स याति हरिसारुप्यं सर्वभोगसमन्वितम् ॥ १,२२.२२ ॥ त्रयोदश पराकांश्च यः कुर्यात्प्रयतो नरः । स याति परमानन्दं यत्र गत्वा न शोचति ॥ १,२२.२३ ॥ मासोपवासनिरता गङ्गास्नानपरायणाः । धममागप्रवक्तारो मुक्ता एव न सशंयः ॥ १,२२.२४ ॥ अवीराभिर्यतिभिर्ब्रह्यचारिभिः । मासोपवासः कर्त्तव्यो वनस्थैश्च विशेषतः ॥ १,२२.२५ ॥ नारी वा पुरुषो वापि व्रतमेतत्सुदुर्लभम् । कृत्वा मोक्षमवान्पोति योगिनामपि दुर्लभम् ॥ १,२२.२६ ॥ गृहस्थो वानप्रस्थो वा व्रती वा भिक्षुरेव वा । मूर्खो वा पण्डितो वापि श्रुत्वैतन्मोक्षभाग्भवेत् ॥ १,२२.२७ ॥ इदं पुण्यं व्रताख्यानं नारायण परायणः । शृणुयाद्वाचयेद्वापि सर्वपापैः प्रमुच्यते ॥ १,२२.२८ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मासोपवासवर्णनं नाम द्वादशोऽध्यायः _____________________________________________________________ सनक उवाच इदमन्यत्प्रवक्ष्यामि व्रतं त्रैलोक्यविश्रुतम् । सर्वपापप्रशमनं सर्वकामफलप्रदम् ॥ १,२३.१ ॥ ब्राह्मणक्षत्रियविशां शूद्राणां चैव योपिताम् । मोक्षदं कुर्वतां भक्त्या विष्णोः प्रियतरं द्विज ॥ १,२३.२ ॥ एकादशीव्रतं नाम सर्वाभीष्टप्रदं नृणाम् ।. कर्त्तव्यं सर्वथा विप्रविष्णुप्रीतिकरं यतः ॥ १,२३.३ ॥ एकादश्यां न भुञ्जीत पक्षयोरुभयोपरि । यो भुङ्क्ते सोऽत्र पापीयान्परत्र नरकं व्रजेत् ॥ १,२३.४ ॥ उपवासफलं लिप्सुर्जह्याद्भुक्तिचतुष्टयम् । पूर्वापरदिने गत्रावहोरात्रं तु मध्यमे ॥ १,२३.५ ॥ एकादशीदिने यस्तु भोक्तुमिच्छति मानवः । स भोक्तुं सर्वलपापानि स्पृहयालुर्नसंशयः ॥ १,२३.६ ॥ भवेद्दशम्यामेकाशीद्वादश्यां च मुनीश्वर । एकादश्यां निराहारो यदि मुक्तिमभीप्सति ॥ १,२३.७ ॥ यानि कानि च पापानि ब्रह्महत्यादिकानि च । अन्नमाश्रित्य तिष्ठन्ति तानि विप्र हरेश्वर । एकादश्यां निराहारो यदि मुक्तिमभीप्सति ॥ १,२३.८ ॥ यानि कानि च पापानि ब्रह्महकत्यादिकानि च । अन्नमाश्रित्य तिष्ठन्ति तानि च मुनीश्वर । एकादश्यां निराहारो यदि मुक्तिमभीप्सति ॥ १,२३.८ ॥ यानि कानि च पापानि ब्रह्महत्यादिकानि च च ॥ अन्नमाश्रित्य तिष्टन्ति तानि विप्र हरेर्दिने ॥ १,२३.९ ॥ ब्रह्महत्यादिपापानां कथञ्चिन्निष्कृतिर्भवेत् । एकादश्यां तु यो भुङ्क्ते तस्य नैवास्ति निष्कृतिः ॥ १,२३.९ ॥ महापातकयुक्तो वायुक्तो वा सर्व पानकैः । एकादश्यां निराहारः स्थित्वा याति परां गतिम् ॥ १,२३.१० ॥ एकादशी महापुण्या विष्णोः प्रियतमा तिथिः । संसेव्या सर्वथा विप्रैः संसारच्छे दलिप्सुभिः ॥ १,२३.११ ॥ दशम्यां प्रातरुत्थाय दन्तधावनपूर्वकम् । स्नापयेद्विधिवद्विष्णुं पूजयेत्प्रयतेन्द्रियः ॥ १,२३.१२ ॥ एकादश्यां निराहारो निगृहीतेन्द्रियो भवेत् । शयीत सन्निधौ विष्णोर्नारायणपरायणः ॥ १,२३.१३ ॥ एकादश्यां तथा स्नात्वा संपूज्यच च जनार्दनम् । गन्धपुष्पादिभिः सम्यक्ततस्त्वे वसुदीरयेत् ॥ १,२३.१४ ॥ एकादश्यां निराहारः स्थित्वाद्याहं परेऽहनि । भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥ १,२३.१५ ॥ इमं मन्त्रं समुच्चार्थं देव देवस्य चक्रिणः । भक्तिभावेन तुष्टात्मा उपवासं समर्पयेत् ॥ १,२३.१६ ॥ देवस्य पुरतः कुर्याज्जागरं नियतो व्रती । गीतैर्वाद्यैशअच नृत्यैश्च पुराणश्रवणादिभिः ॥ १,२३.१७ ॥ ततः प्रातः समुत्थाय द्वादशीदिवसे व्रती । स्नात्वा च विधिवद्विष्णुं पूजयत्प्रयतेन्द्रियः ॥ १,२३.१८ ॥ पञ्चामृतेन संस्नाप्य एकादश्यां जनार्द्दनम् । द्वादश्यां पयसा विप्र हरिसारुपप्यमषश्नुते ॥ १,२३.१९ ॥ अज्ञानतिमिरान्धस्य व्रतेनानेन केशव । प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव ॥ १,२३.२० ॥ एवं विज्ञाप्य विप्रेन्द्र माधवं सुसमाहितः । ब्रह्मणान्भोजयेच्छक्त्या दद्याद्वै दक्षिणां तथा ॥ १,२३.२१ ॥ ततः स्वबन्धुभिः सार्द्धं नारायणपरायणः । कृतपञ्चमहायज्ञः स्वयं भुञ्जीत वाग्यतः ॥ १,२३.२२ ॥ एवं यः प्रयतः कुर्यात्पुण्यमेकादशीव्रतम् । स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ॥ १,२३.२३ ॥ उपवासव्रतपरो धर्मकार्यचपरायणः । चाण्डालान्पतकितांश्चैव नेक्षेदपि कदाचन ॥ १,२३.२४ ॥ नास्तिकान्भिन्नमर्योदान्निन्दकान्पिशुनांस्तथा । उपवास व्रतपरो नालपेच्च कदाचन ॥ १,२३.२५ ॥ वृषलीसूतिपोष्टारं वृषलीपतिमेव च । अयाज्ययाजकं चैव नालपेत्सर्वदा व्रती ॥ १,२३.२६ ॥ कुण्डशिनं गायकं च तथा देवलकाशिनम् । भिषजं काव्यकर्त्तारं देवद्विजविरोधिनम् ॥ १,२३.२७ ॥ परान्नलोलुपं चैव परस्त्रीनिरतं तथा । व्रतोपवासनिरतो वाङ्मात्रेणापि नार्चयेत् ॥ १,२३.२८ ॥ इत्येवमादिभिः शुद्धो वशी सर्वहिते रतः । उपवासपरो भूत्वा परां सिद्धिमवान्पुयात् ॥ १,२३.२९ ॥ नास्ति गङ्गासमं तीर्थं नास्ति मातृसमोगुरुः । नास्तु विष्णुसमं दैवं तपो नानशनात्परम् ॥ १,२३.३० ॥ नास्ति क्षमासमा माता नास्ति कीर्तिसमं धनम् । नास्ति ज्ञानसमो लाभो लाभो न च धर्म समः पिता ॥ १,२३.३१ ॥ न विवेकसमो बन्धुर्मैकादश्याः परं व्रतम् । अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ १,२३.३२ ॥ संवादं भद्रशीलस्य तत्पितुर्गुलवस्य च । पुरा हिगालवो नाम मुनिः सत्यपरायणः ॥ १,२३.३३ ॥ उवा चस नर्मदातीरेरे शान्तो दान्तस्तपोनिधिः । बहुवृक्षसमाकीर्णे गजभल्लुनिषेविते ॥ १,२३.३४ ॥ सिद्धचारणगन्धर्व यक्षविद्याधरान्विते । कन्दमूलफलैः पूर्णे मुनिवृन्दनिषेदिते ॥ १,२३.३५ ॥ गालवो नाम विप्रेन्द्रो निवासमकसेच्चिरम् । तस्याभवद्भद्रशील इति ख्यातः सुतो वशी ॥ १,२३.३६ ॥ जान्तिस्मरो महाभागो नारायणपरायणः । बालक्राडनकालेऽपि भद्रशीलो महामतिः ॥ १,२३.३७ ॥ मृदा च विष्णोः प्रतिमां कृत्वा पूजयते क्षणम् । वयस्यान्बोधयेच्चापि विष्णुः पूज्यो नरैः सदा ॥ १,२३.३८ ॥ एकादशीव्रतं चैव कर्त्तव्यमपि पण्डितैः । एवं ते बोधितास्तेन शिशवोऽपि मुनीश्वर ॥ १,२३.३९ ॥ हरिं मृदैव निर्माय पृथक्संभूय वा मुदा । अर्चयन्ति महाभागा विष्णुभक्तिपरायणाः ॥ १,२३.४० ॥ नमस्कुर्वन्भद्रमति र्विष्णवे सर्वविष्णवे । सर्वेषां जगतां स्वस्ति भूयादित्यब्रवीदिदम् ॥ १,२३.४१ ॥ क्रीडाकाले मुहूर्तं वा मुहूर्तार्द्धमथापि वा । एकादशीति संकल्प्यव्रतं यच्छति केशवे ॥ १,२३.४२ ॥ एवं सुचरितं दृष्ट्वा तनयं गालवो मुनिः । अपृच्छद्विस्मयाविष्टः समालिङ्ग्य तपोनिधिः ॥ १,२३.४३ ॥ गालव उवाच भद्रशील महाभाग भद्रशीलोऽसि सुव्रत । चरितं मङ्गलं यत्ते योगिनामपि दुर्लभम् ॥ १,२३.४४ ॥ हरिपूजापरो नित्यं सर्वभूतहितेरतः । एकादशीव्रतपरो निषिद्धाचारवर्जितः । निर्द्धन्द्वो निर्ममः शान्तो हरिध्यानपरायाणः ॥ १,२३.४५ ॥ एवमेतादृशी बुद्धिः कथं जातार्भकस्यते । विनापि महतां सेवां हरिभक्तिर्हि दुर्लभा ॥ १,२३.४६ ॥ स्वभावतो जनस्यास्य ह्यविद्याकामकर्मसु । प्रवर्त्तते मतिर्वत्स कथं तेऽलौकिकी कृतिः ॥ १,२३.४७ ॥ सत्सङ्गेऽपि मनुष्याणां पूर्वपुण्यातिरेकतः । जायते भगवद्भक्तिस्तदहं विस्मयं गतः ॥ १,२३.४८ ॥ पृच्छामि प्रीतिमापन्नस्तद्भवान्वक्तुमर्हति । भद्रशीलो मुनिश्रेष्ठः पित्रैवं सुविकल्पितैः ॥ १,२३.४९ ॥ जातिस्मरः सुकृतात्मा हृषथ्टप्रहसिताननः । स्वानभ्रुतं यथाव्रतं सर्वं पित्रे न्यवेदयत् ॥ १,२३.५० ॥ भद्रशील उवाच शृणु तात मुनिश्रेष्ठ ह्यनुभूतं मया पुरा । जातिस्मरत्वाज्जानामि यमेन परिभाषितम् ॥ १,२३.५१ ॥ एतच्छत्वा महाभागो गालवो विस्मयोन्वितः । उवाच प्रीतिमापन्नो भद्रशीलं महामतिम् ॥ १,२३.५२ ॥ गालव उवाच कस्त्वं पूर्वं महाभाग किमुक्तं च यमेन ते । कस्य वा केन वा हेतोस्तत्सर्वं वक्तुमर्हसि ॥ १,२३.५३ ॥ भद्रशील उवाच अहमासं पुरा तात राजा सोमकुलोद्भवः । धर्मकीर्तिरिति ख्यातो दत्तात्रघेयेण शासितः ॥ १,२३.५४ ॥ नव वर्षसहस्राणि महीं कृत्स्त्रमपालयम् । अधर्माश्च तथा धर्मा मया तु बहवः कृताः ॥ १,२३.५५ ॥ ततः श्रिया प्रमत्तोऽहं बह्वधर्मम कारिपम् । पापण्डजनसंसर्गात्पापण्डचरितोऽभवम् ॥ १,२३.५६ ॥ पुरार्जितानि पुण्यानि मया तु सुबहून्यपि । पापण्डैर्बाधितोऽहं तु वेदमार्गं समत्यजम् ॥ १,२३.५७ ॥ मखाश्च सर्वे विध्वस्ता कूटयुक्तिविदा मया । अधर्मनिरतं मां तु दृष्ट्वा महेशजाः ॥ १,२३.५८ ॥ सदैव दुष्कृतं चक्रुः षष्टांशस्तत्रमेऽभवत् । एवं पापसमाचारो व्यसनाभिरतः सदा ॥ १,२३.५९ ॥ मृगयाभिररतो भूत्वा ह्यकदा प्राविशं वनम् । ससैन्योऽहं वने तत्र हत्वा बहुविधान्मृगान् ॥ १,२३.६० ॥ क्षुत्तृट्परिवृतः श्रान्तो रेवातीरमुपागमम् । रवितीक्ष्णातपल्कान्तो रेवायां स्नानमाचरम् ॥ १,२३.६१ ॥ अहष्टसैन्य एकाकी पीड्यमानः क्षुधा भृशम् ॥ १,२३.६२ ॥ समेतास्तत्रघ ये केचिद्रेवातीरनिवासिनः । एकादशीव्रतपरा मया दृष्ट्वा निशामुखे ॥ १,२३.६३ ॥ निराहारश्च तत्राहमे काकी कतज्जनैः सह । जागरं कृतवांश्वापि सेनया रहितो निशि ॥ १,२३.६४ ॥ अध्वश्रमपरिश्रान्तः क्षुत्पिपासाप्रपीडितः । तत्रैव जागरान्तेऽहं तातपञ्चत्वमागतः ॥ १,२३.६५ ॥ ततो यमभटैर्बद्धो महादंष्ट्राभयङ्करैः । अनेकल्केशसंपन्नमार्गेणात्पो यमान्तिकम् । दंष्ट्राकरालवदनमपश्यं समवर्तिनम् ॥ १,२३.६६ ॥ अथ कालिश्चित्रगुत्पमाहूयेदमभाषत । अस्य शिक्षाविधानं च यथावद्वद पण्डितं ॥ १,२३.६७ ॥ एवमुक्तश्चित्रगुत्पो धर्मराजेन सत्तम । चिरं विचारयामास पुनश्चेदमभापत ॥ १,२३.६८ ॥ असौ पापरतः सत्यं तथापि शृणु धर्मप । एकादश्यां निराहारः सर्वपापैः प्रमुच्यते ॥ १,२३.६९ ॥ एष रेवातटे रम्ये निराहारो हरेर्दिने । जागरं चोपवासं च कृत्वा निषअपापतां गतः ॥ १,२३.७० ॥ यानि कानि च पापानि कृतानि सुबहूनि च । तानि सर्वाणि नष्टानि ह्युपवासप्रभावतः ॥ १,२३.७१ ॥ एवमुक्तो धर्मराजश्चित्रगुत्पेन धीमता ।ऽ नानाम दण्डवद्भूमौ ममाग्रे सोऽनुकंपितः ॥ १,२३.७२ ॥ पूजयामास मां तत्र भक्तिभावेन धैर्मराट् । ततश्च स्वभटान्सर्वानाहूयेदमुवाच ह ॥ १,२३.७३ ॥ धर्मराज उवाच शृणुध्वं मद्वचो दूता हितं वक्ष्याम्यनुत्तममम् । धर्ममार्गरता न्मर्त्यान्मानयध्वं ममान्तिकम् ॥ १,२३.७४ ॥ ये विष्णुपूजनरताः प्रयताः कृतज्ञाश्चैकादशीव्रतपरा विजितेन्द्रियाश्च । नारायणाच्युतहरे शरणं भवेति शान्ता वदन्ति सततं तरसात्यजध्वम् ॥ १,२३.७५ ॥ नारायणाच्युत जनार्दन कृष्ण विष्णो पद्मेश पद्मजपितः शिव शङ्करेति । नित्यं वदन्त्यखिललोक हिताः प्रशान्ता दूरद्भटास्त्यजता तान्न ममैषु शिक्षा ॥ १,२३.७६ ॥ नारायणार्पितकृतान्हरिभक्तिभजः स्वाचारमार्गनिरतान् गुरुसेवकांश्च । सत्पात्रदान निरतांश्च सुदीनपाल्लान्दूतास्त्यजध्वमनिशं हरिनामसक्तान् ॥ १,२३.७७ ॥ पाषण्डसङ्गरहितान्द्विजभक्तिनिष्ठान्सत्संगलोल्लुपतरांश्च तथातिथेयान् । शंभौ हरौ च समबुद्धिमतस्तथैव दूतास्त्यजध्वमुपकारपराञ्जनानाम् ॥ १,२३.७८ ॥ ये वर्जिता हरिकथामृतसेवनैश्च नारायणस्मृतिपरायणमानसैश्च ॥ विर्पन्द्रपादजलसेचनतोऽप्रहृष्टांस्तान्पापिनो मम भटा गृहमानयध्वम् ॥ १,२३.७९ ॥ ये मातृतातपरिभर्त्सनशीलिनश्च लोकद्विषो हितजनाहितकर्मणश्च । देवस्वलोभनिरताञ्जननाशकर्तृआनत्रानयध्वमपराधपरांश्च दूताः ॥ १,२३.८० ॥ एकादशीव्रतपराङ्मुखमुग्रशीलं लोकापवादनिरतं परनिन्दकं च । ग्रामस्य नाशकरमुत्तमवैरयुक्तं दूताः समानयत विप्रधनेषु लुब्धम् ॥ १,२३.८१ ॥ ये विष्णुभक्तिविमुखाः प्रणमन्ति नैव नारायणं हि शरणागतपालकं च । विष्णवालयं च नहि यान्ति नराः सुमूर्खास्तानानयध्वमतिपापरतान्प्रसाह्य ॥ १,२३.८२ ॥ एवं श्रुतं यदा तत्र यमेन परिभाषितम् । मयानुतापदग्धेन स्मृतं तत्कर्म निन्दितम् ॥ १,२३.८३ ॥ असत्कर्मानुतापेन सद्धर्मश्रवणेन च । तत्रैव सर्वपापानि निःशेषाणि गतानि मे ॥ १,२३.८४ ॥ पापशेषाद्विनिर्मुक्तं हरिसारुप्यतां गतम् । सहस्रसूर्यसंकाशं प्रणनाम यमश्च तम् ॥ १,२३.८५ ॥ एवं दृष्ट्वा विस्मितास्ते यमदूता भयोत्कटाः । विश्वासं परमं चक्रुर्यमेन परिभाषिते ॥ १,२३.८६ ॥ ततः संपूज्य मां कालो विमानशतसंकुलम् । सद्यः संप्रेषयामास तद्विष्णोः परमं पदम् ॥ १,२३.८७ ॥ विमानकोटिभिः सार्द्धं सर्वभोगसमन्वितैः । कर्मणा तेन विप्रर्षे विष्णुलोके मयोषितम् ॥ १,२३.८८ ॥ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । स्थित्वा विष्णुपदं पश्चादिन्द्रलोकमुपगमम् ॥ १,२३.८९ ॥ तत्रापि सर्वभोगाढ्यः सर्वदेवनमस्कृतः । तावत्कालं दिविस्थित्वा ततो भूमिमुपागतः ॥ १,२३.९० ॥ अत्रापि विष्णुभक्तानां जातोऽहं भवतां कुले । जातिस्मरत्वाडज्जानामि सर्वमेतन्मुनीशअवर ॥ १,२३.९१ ॥ तस्माद्विष्ण्वर्चनोद्योगं करोमि सह बालकैः । एकादशीव्रतमिदमिति न ज्ञातवान्पुरा ॥ १,२३.९२ ॥ जातिस्मृतिप्रभावेण तज्ज्ञातं सांप्रतं मया । अत्र स्वेनापि यत्कर्म कृतं तस्य फलं त्विदम् ॥ १,२३.९३ ॥ एकादशीव्रतं भक्त्या कुर्वतां किमुत प्रभो । तस्माच्चरिष्ये विप्रेन्द्र शुभमेकादशीव्रतम् ॥ १,२३.९४ ॥ विष्णुपूजां चाहरहः परमस्थानकाङ्क्षया । एकादशीव्रतं यत्तु कुर्वन्ति श्रद्धया नराः ॥ १,२३.९५ ॥ तेषां तु विष्णुभवनं परमानन्ददायकम् । एवं पुत्रवचः श्रुत्वा संतुष्टो गालवो मुनिः ॥ १,२३.९६ ॥ अवाप परमां तुष्टिं मनसा चातिहर्षितः । मज्जन्म सफलं जातं मद्धंशः पावनीकृतः ॥ १,२३.९७ ॥ यतस्त्वं मदगृहे जातो विष्णुभक्तिपरायणः । इति संतुष्टचित्तस्तु तस्य पुत्रस्य कर्मणा ॥ १,२३.९८ ॥ हरिपूजाविधानं च यथावत्समबोधयत् । इत्येतत्ते मुनिश्रेष्ठ यथावत्कथितं मया । संकोचविस्तराभ्यां च किमन्यच्छ्रोतुमिच्छसि ॥ १,२३.९९ ॥ इति श्रीबृहन्नारदीये पुराणे पूर्वभागे प्रथमपादे व्रताख्याने एकादशीव्रतमहिमानुवर्णनं नाम त्रयोविंशोऽयायः _____________________________________________________________ सूत उवाच एतन्निशम्य सनकोदितमप्रमेयं पुण्यं हरेर्दिनभवं निखिलोत्तमं च । पापौघशान्तिकरणं व्रतसारमेवं ब्रह्मात्मजः पुनरभाषत हर्षयुक्तः ॥ १,२४.१ ॥ नारद उवाच कथितं भवता सर्वं मुने तत्त्वार्थकोविद । व्रताख्यानं महापुण्यं यथावद्धरिभक्तिदम् ॥ १,२४.२ ॥ इदानीं श्रोतुमिच्छामि वर्णाचचारविधिं मुने । तथा सर्वाश्रमाचारं प्रायश्चित्तविधिं तथा ॥ १,२४.३ ॥ एतत्सर्वं महाभाग सर्वतत्त्वार्थकोविद । कृपया परया मह्यं यथावद्वक्तुमर्हसि ॥ १,२४.४ ॥ सनक उवाच शृणुष्व मुनिशार्दूल यथा भक्तप्रियङ्करः । वर्णाश्रमाचारपरैः पूज्यते हरिरव्ययः ॥ १,२४.५ ॥ मन्वाद्यैरुदितं यच्च वर्णाश्रमनिबन्धनम् । तत्ते वक्ष्यामि विधिवद्भक्तोऽसि त्वमधोक्षजे ॥ १,२४.६ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चत्वार एव ते । वर्णा इति समाख्याता एतेषु ब्राह्मणोऽधिकः ॥ १,२४.७ ॥ ब्राह्मणाः क्षत्रिया वैश्या द्विजाः प्रोक्तास्त्रयस्ताथा । मातृतश्चोपनयनाद्दि जत्वं प्राप्यते त्रिभिः ॥ १,२४.८ ॥ एतैर्वर्णैः सर्वधर्माः कार्या वर्णानुरुपतः । स्ववर्णधर्मत्यगेन पाषण्डः प्रोच्यते बुधैः ॥ १,२४.९ ॥ स्वगृह्यचोदितं कर्मद्विजः कुर्वन्कृती भवेत् । अन्यथा पतितो भूयात्सर्वधर्मबहिष्कृतः ॥ १,२४.१० ॥ युगधर्मः परिगार्या वेर्णैरेतैर्यथोचितम् । देशाचारास्तथाग्राह्याः स्मृतिधर्माविरोधतः ॥ १,२४.११ ॥ कर्मणा मनसा वाचा यत्नाद्धर्ंमं समाचरेत् । अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्नतु ॥ १,२४.१२ ॥ समुद्रयात्रास्वीकारः कमण्डलुविधारणम् । द्विजानामसवर्णासु कन्या सूपयमस्तथा ॥ १,२४.१३ ॥ देवराच्च सुतोत्पत्तिर्मधुपर्के पशोर्वधः । मांसादनं तथा श्राद्धे वानप्रस्थआश्रमस्तथा ॥ १,२४.१४ ॥ दत्ताक्षतायाः कन्यायाः पुनर्दानं वराय च । नैष्टिकं ब्रह्मचर्यं च नरमेधाश्चमेधकौ ॥ १,२४.१५ ॥ महाप्रस्थानगमनं गोमेधश्च तथा मखः । एतान्धर्मान्कलियुके वर्ज्यानाहुर्मनीषिणः ॥ १,२४.१६ ॥ देशाचाराः परिग्राह्यास्तत्तद्देशगतैर्नरैः । अन्यथा पतितो ज्ञेयः सर्वधर्मबहिष्कृतः ॥ १,२४.१७ ॥ ब्राह्मणक्षत्रियविशां शूद्राणां च द्विजोत्तमा । क्रियाः सामान्यतो वक्ष्ये तच्छृणुष्व समाहितः ॥ १,२४.१८ ॥ दानं दद्यार्द्वह्मणेभ्यस्तथा यज्ञैर्यजेत्सुरान् । वृत्त्यर्थं याचयेच्चैव अन्यानध्यापयेत्तथा ॥ १,२४.१९ ॥ याजयेद्यजने योग्यान्विप्रो नित्योदकी भवेत् । कुर्य्याच्च वेदग्रहणं तथाग्रेश्च परिग्रहम् ॥ १,२४.२० ॥ ग्राह्येर्द्व्ये च पारक्ये समबुद्धिर्भवेत्तथा । सर्वलोकहितं कृर्यान्मृदुवाक्यमुदीरयेत् ॥ १,२४.२१ ॥ ऋतावभिगमः पत्न्यां शस्यते ब्राह्मणस्य वै । न कस्याप्यहितं ब्रूयाद्विष्णुपूजापरो भवेत् ॥ १,२४.२२ ॥ दद्याद्दानानि विप्रेभ्यः क्षत्रियोऽपि द्विजोत्तम । कुर्य्याच्च वेदग्रहणं यज्ञैर्द्देवान्यजेत्तथा ॥ १,२४.२३ ॥ शस्त्राजीवी भवेच्चैव पालयेद्धर्मतो महीम् । दुष्टानां शासनं कुर्य्याच्छिष्टानां पालनं तथा ॥ १,२४.२४ ॥ पाशुपाल्यं च वाणिज्यं कृंषिश्च द्विजसत्तम । वेदस्याध्ययनं चैव वैश्यस्यापि प्रकीर्त्तितम् ॥ १,२४.२५ ॥ कुर्याच्च दारग्रहणं धर्माश्चैव समाचरेत् । क्रयविक्रयजर्वापि धनैः कारुक्रियोद्भवैः ॥ १,२४.२६ ॥ दद्याद्दानानि शूद्रोऽपि पाकयज्ञैर्यजेन्न च । ब्राह्मणक्षत्रियविशां शुश्रूषानि रतो भवेत् ॥ १,२४.२७ ॥ ऋतुकालाभिगामीच स्वदारेषु भवेत्तथा । सर्वलोकहितोषित्वं मङ्गलं प्रियवादिता ॥ १,२४.२८ ॥ अनायासो मनोहर्षस्तितिक्षा नातिमानिता । सामान्यं सर्ववर्णानां मुनिभिः परिकीर्तितम् ॥ १,२४.२९ ॥ सर्वे च मुनितां यान्ति स्वाश्रमोचितकर्मणा । ब्राह्मणः क्षत्रियाचारमाश्रयेदापदि द्विज ॥ १,२४.३० ॥ क्षत्रियोऽपि च विड्वृत्तिमत्यापदि समाश्रयेत् । नाश्रयेच्छूद्रवृत्तिं तु अत्यापद्यपि वै द्विजः ॥ १,२४.३१ ॥ यद्याश्रयेद्दिजो मूढस्तदा चाण्डासतां व्रजेत् । ब्राह्मणक्षत्रियविशां त्रयाणां मुनिसत्तम ॥ १,२४.३२ ॥ चत्वार आश्रमाः प्रोक्ताः पञ्चमो नोपपद्यते । ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्च सत्तम ॥ १,२४.३३ ॥ चतुर्भिराश्रमैरेभिः साध्यते धर्म उत्तमः । विष्णुस्तुष्यति विप्रेन्द्र कर्मयोगरतात्मनः ॥ १,२४.३४ ॥ निःस्पृहाशान्तमनसः स्वकर्मनिरतस्य च । ततो याति परं स्थानं यतो नावर्त्तते पुनः ॥ १,२४.३५ ॥ इति श्रीबृहन्नारायणपुराणे पूर्वभागे प्रथमपादे सदाचारो नाम चतुर्विशोऽध्यायः _____________________________________________________________ सनक उवाच वर्णाश्रमाचारविधिं प्रवक्ष्यामि विशेषतः । शृणुष्व तन्मुनिश्रेष्ठ सावधानेन चेतसा ॥ १,२५.१ ॥ यः स्वधर्मं परित्यज्य परधर्मं समाचरेत् । पाषण्डः स हि विज्ञेयः सर्वधर्मबहिष्कृतः ॥ १,२५.२ ॥ गर्भाधानादिसंस्काराः कार्या मन्त्रविधानतः । स्त्रीणाममन्त्रतः कार्या यथाकालं यथाविधि ॥ १,२५.३ ॥ सीमन्तकर्म प्रथमं चतुर्थे मासि शस्यते । षष्टे वा सत्पमे वापि अष्टमे वापि कारयेत् ॥ १,२५.४ ॥ जाते पुत्रे पिता स्नात्वा सचैलं जातकर्म च । कुर्य्याच्च नान्दीश्राद्धं च स्वस्तिवाचनपूर्वकम् ॥ १,२५.५ ॥ हेम्ना वा रजतेनापि वृद्धिश्राद्धं प्रकल्पयेत् । अन्नेन कारयेद्यस्तु स चण्डाल समो भवेत् ॥ १,२५.६ ॥ कृत्वाभ्युदयिकं श्राद्धं पिता पुत्रघस्य वाग्यतः । कुर्वीत नामनिर्द्देशं सूतकान्ते यथाविधि ॥ १,२५.७ ॥ अस्पष्टमर्थहीनं च ह्यतिगुर्व क्षरान्वितम् । न दद्यान्नाम विप्रेन्द तथा च विषथमाक्षरम् ॥ १,२५.८ ॥ तृतीयवर्षे चौलं च पञ्चमे षष्टसंमिते । सत्पमे चाष्टमे वापि कुर्याद्गृह्योक्तमार्गतः ॥ १,२५.९ ॥ दैवयोगादतिक्रान्ते गर्भाधानादिकर्मणि । कर्तव्यः पादकृच्छ्रो वै चौले त्वर्द्धं प्रकल्पयेत् ॥ १,२५.१० ॥ गर्भाष्टमेऽष्टमे वाब्दे बटुकस्योपनायनम् । आषोडशाब्दपर्यन्तं गौणं कालमुशन्ति च ॥ १,२५.११ ॥ गर्भैकादशमेऽब्दे तु राजन्यस्योपनायनम् । आद्वाविंशाब्दपर्यन्तं कालमाहुर्विपश्चितः ॥ १,२५.१२ ॥ वैश्वोपनयनं प्रोक्तं गर्भाद्द्वादशमे तथा । चतुर्विंशाब्दपर्यन्तं गौणमाहुर्मनीषिणः ॥ १,२५.१३ ॥ एतत्कालावधेर्यस्य द्विजस्यातिक्रमो भवेत् । सावित्रीपतितं विद्यात्तं तु नैवालपेत्कदा ॥ १,२५.१४ ॥ द्विजोपनयने विप्र मुख्यकालव्यतिक्रमे । द्वादशाब्दं चरेत्कृच्छ्रं पश्चाज्चान्द्रायणं तथा । सांतपनद्वयं चैव कृत्वा कर्म समाचरेत् ॥ १,२५.१५ ॥ अन्यथआ पतितं विद्यात्कर्त्तापि ब्रह्महा भवेत् । र्मौञ्जी विप्रस्य विज्ञेया धनुर्ज्या क्षत्त्रियस्य तु ॥ १,२५.१६ ॥ आवी वैश्यस्य विज्ञेया श्रूयतामजिने तथा । विप्रस्य चोक्तमैणेयं रौरवं क्षत्रियस्य तु ॥ १,२५.१७ ॥ आजं वेश्यस्य विज्ञेयं दण्डान्वक्ष्ये यथाक्रमम् । पालाशं ब्राह्मणस्योक्तं नृपस्यौदुम्बरं तथा ॥ १,२५.१८ ॥ बैल्वं वैश्यस्य विज्ञेय तत्प्रमाणं शृणुष्व मे । विप्रस्य केशमानं स्यादाललाटं नृपस्य च ॥ १,२५.१९ ॥ नासाग्रसंमितं दण्डं वैश्यस्याहुर्विपश्चितः । तथा वासांसि वक्षघ्यामि विप्रादीनां यथाक्रमम् ॥ १,२५.२० ॥ कषायं चैव माञ्जिष्टं हारिद्रं च प्रकीर्तितम् । उपनीतो द्विजो विप्र परिचर्यापरो गुरोः ॥ १,२५.२१ ॥ वेदग्रहणपर्यन्तं निवसेद्गुरुवेश्मनि । प्रातः स्नायी भवेद्वर्णी समित्कुशफलादिकान् ॥ १,२५.२२ ॥ गुर्वर्थमाहरेन्नित्यं कल्ये कल्ये मुनीश्वर । यज्ञोपवीतमजिनं दण्डं च मुनिसत्तम ॥ १,२५.२३ ॥ नष्टे भ्रष्टे नवं मन्त्राद्धृत्वा भ्रष्टं जले क्षिपेत् । वर्णिनो वर्त्तनं प्राहुर्भिक्षान्नेनैव केवलम् ॥ १,२५.२४ ॥ भिक्षा च श्रोत्रियागारादाहरेत्प्रयतेन्द्रियः । भवत्पूर्वं ब्राह्मणस्य भवन्मध्यं नृपस्य च ॥ १,२५.२५ ॥ भवदत्यं विशः प्रोक्तं भिक्षाहरणकं वचः । सांयप्रातर्वह्निकार्यं यथाचारं जितेन्द्रियः ॥ १,२५.२६ ॥ कुर्यात्प्रतिदिनं वर्णीं ब्रह्मयज्ञं च तर्पणम् । अग्निकार्यपरित्यागी पतितः प्रोच्यते बुधैः ॥ १,२५.२७ ॥ ब्रह्मयज्ञविहीनश्च ब्रह्महा परिकीर्तितः । देवताभ्यर्च्चनं कुर्याच्छुश्रूषानुपदं गुरोः ॥ १,२५.२८ ॥ भिक्षान्नं भोजयेन्नित्यं नैकान्नाशी कदाचन । आनीयानिन्द्यविप्राणां गृहाद्भिक्षां जितेन्द्रियः ॥ १,२५.२९ ॥ निवेद्य गुरवेऽश्रीयाद्वाग्यतस्तदनुघज्ञया । मधुस्त्रीमांसलवणं ताम्बूलं दन्तधावनम् ॥ १,२५.३० ॥ उच्छिष्टभोजनं चैव दिवास्वापं च वर्जयेत् । छात्रघपादुक गन्धांश्च तथा माल्यानुलेपनम् ॥ १,२५.३१ ॥ जलकेलिं नृत्यगीतवाद्यं तु परिवर्जयेत् । परिवादं चोपतापं विप्रलापं तथाञ्जनम् ॥ १,२५.३२ ॥ पाषण्ड जनसंयोगं शूद्रसंगं च वर्जयेत् । अभिवादनशीलः स्याद्वृद्धेषु च यथाक्रमम् ॥ १,२५.३३ ॥ ज्ञानवृद्धास्तपोवृद्धा वयोवृद्धा इति त्रयः । आध्यात्मिका दिदुःखानि निवारयति यो गुरुः ॥ १,२५.३४ ॥ वेदशास्त्रोपदेशेन तं पूर्वमभिवादयेत् । असावहमिति ब्रूयाद्दिजो वै ह्यभिवादने ॥ १,२५.३५ ॥ नाभिवाद्याश्च विप्रेण क्षघत्रियाद्याः कथञ्चन । नास्तिकं भिन्नमर्यादं कृतन्घं ग्रामयाजकम् ॥ १,२५.३६ ॥ स्तेनं च कितवं चैव कदाचिन्नाभिवादयेत् । पाषण्डं पतितं व्रात्यं तथा नक्षघत्रजीविनम् ॥ १,२५.३७ ॥ तथा पातकिनं चैव कदाचिन्नाभिवादयेत् । उन्मत्तं च शठं धूर्त्तं धावन्तमशुचिं तथा ॥ १,२५.३८ ॥ अभ्यक्तशिरसं चैव जपन्तं नाभिवादयेत् । विवादशीलिनं चञ्जं वमन्तं जलमध्यगम् ॥ १,२५.३९ ॥ भिक्षान्नधारिणं चैव शयानं नाभिवादयेत् । भर्तृन्घीं पुष्पिणीं जारां सूतिकां गर्भपातिनीम् ॥ १,२५.४० ॥ कृतन्घीं च तथा चण्डीं कदाचिन्नाभिवादयेत् । सभायां यज्ञशालायां देवतायतनेष्वपि ॥ १,२५.४१ ॥ प्रत्येकं तु नमस्कारो हॄन्ति पुण्यं पुराकृतम् । श्राद्धं व्रतं तथा दानं देवताभ्यार्चनं तथा ॥ १,२५.४२ ॥ यज्ञं च तर्पणं चैव कुर्वन्तं नाभिवादयेत् । कृतेऽभिवादने यस्तु न कुर्या त्प्रतिवादनम् ॥ १,२५.४३ ॥ नाभिवाद्यः स विज्ञेयो यया शूद्रस्तथैव सः । प्रक्षाल्य पादावाचम्य गुरोरभिमुखः सदा ॥ १,२५.४४ ॥ तस्य पादौ च संगृह्य अधीयीत विचक्षणः । अष्टकासु चतुर्दश्यां प्रतिपत्पर्वणोस्तथा ॥ १,२५.४५ ॥ महाभरण्यां विप्रेद्रं श्रवणद्वादशीदिने । भाद्रपदापरपक्षे द्वितीयायां तथैव च ॥ १,२५.४६ ॥ माघस्य शुक्लसत्पम्यां नवम्यामाश्रिनस्य च । परिवेषं गते सूर्ये श्रोत्रिये गृहमागते ॥ १,२५.४७ ॥ बन्धिते ब्रह्मणे चैव प्रवृद्धकलहे तथा । संध्यायां गर्जिते मेघे ह्यकाले परिवर्षणे ॥ १,२५.४८ ॥ उल्काशनिप्रपाते च तथा विप्रेऽवमानिते । मन्वादिषु च देवर्षे युगादिषु चतुर्ष्वपि ॥ १,२५.४९ ॥ नाधीयीत द्विजः कश्चित्सर्वकर्मफलोत्सुकः । तृतीया प्राधवे शुक्ला भाद्रे कृष्णा त्रघयोदशी ॥ १,२५.५० ॥ कार्त्तिके नवमी शुद्धा माघे पञ्चदशी तिथिः । एता युगाद्याः कथिता दत्तस्याक्षयकारिकाः ॥ १,२५.५१ ॥ मन्वादींश्च प्रवक्ष्यामि शृणुष्व सुसमाहितः । अक्षयुक्छुक्लनवमी कार्तिके द्वादशी सिता ॥ १,२५.५२ ॥ तृतीया चैघत्रमासस्य तथा भाद्रपदस्य च । आषाढशुक्लदशमी सिता माघस्य सत्पमी ॥ १,२५.५३ ॥ श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णमा । फआल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता ॥ १,२५.५४ ॥ कार्तिकी फआल्गुनी चैघत्रीं ज्यैष्ठी पञ्चदशी सिता । मन्वादयः समाख्याता दत्तस्याक्षयकारिकाः ॥ १,२५.५५ ॥ द्विजैः श्रद्धं चकर्त्तव्यं मन्वादिषु युगादिषु । श्राद्धे निमन्त्रिते चैवग्रहणे चन्द्रसूर्ययोः ॥ १,२५.५६ ॥ अयनद्वितये चैव तथा भूकंपने मुने । गलग्रहे दुर्द्दिने च नाधीयीत कदाचना ॥ १,२५.५७ ॥ एवमादिषु सर्वेषु अनध्यायेषु नारद । अधीयतां सुमूढानांप्रजांप्रज्ञांयशः श्रियम् ॥ १,२५.५८ ॥ आयुष्यं बलमारोग्यं निकृन्तति यमः स्वयम् । अनध्याये तु योऽधीते तं विद्याद्व्रह्मघातकम् ॥ १,२५.५९ ॥ न तं संभाषयेद्विप्रन तेन सह संवसेत् । कुण्डगोलकयोः केचिज्जडादीनां च नारद ॥ १,२५.६० ॥ वदन्ति चोपनयनं तत्पुत्रादिषु केचन । अनधीत्य तु यो वेदमन्यत्र कुरुते श्रमम् ॥ १,२५.६१ ॥ शूद्रतुल्यः स विज्ञेयो नरकस्य प्रियोऽतिथिः । अनधीतश्रुतिर्विप्र आचार प्रतिपद्यते ॥ १,२५.६२ ॥ नाचारफलमान्पोति यथा शूद्रस्तथैव सः । नित्यं नैमित्तिकं काम्यं यच्चान्यत्कर्म वैदिकम् ॥ १,२५.६३ ॥ अनधीतस्य विप्रस्य सर्वं भवति निष्फलम् । शब्दब्रह्ममयो विष्णुर्वेदः साक्षाद्धारि स्मृकतः ॥ १,२५.६४ ॥ वेदाध्यायी ततो विप्रः सर्वान्कामानवान्पुयात् ॥ १,२५.६५ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्ताचारेषु वर्णाश्रमधर्मेष्वध्ययनादिधर्मनिरुपणं नाम पञ्चविंशोऽध्यायः _____________________________________________________________ सनक उवाच वेदग्रहणपर्यन्तं शुश्रूषानियतो गुरोः । अनुज्ञातस्ततस्तेन कुर्यादग्निपरिग्रहम् ॥ १,२६.१ ॥ वेदाश्च धर्मशास्त्राणि वेदाङ्गान्यपि च द्विजः । अधीत्य गुरवे दत्त्वा दक्षिणां संविशेद्वृहम् ॥ १,२६.२ ॥ रुपलावण्यसंपन्नां सगुणां सुकुलोद्भवाम् । द्विजः समुद्वहेत्कन्यां सुशीलां धर्म चारिणीम् ॥ १,२६.३ ॥ मातृतः पञ्चमीं धीमान्पिततः सत्पमीं तथा । द्विजः समुद्वहेत्कन्यथा गुरुतल्पराः ॥ १,२६.४ ॥ रोगिणीं चैव वृत्ताक्षीं सरोगकुलसंभवाम् । अतिकेशामकेशामकेशां च वाचालां नोद्वहेद्वुधः ॥ १,२६.५ ॥ कोपानां वामनां चैव दीर्घदेहां विरुपिणीम् । न्यानाधिकाङ्गीमुन्मत्तां पिशुनां नोद्वहेद्बुधः ॥ १,२६.६ ॥ स्थूलगुल्फआं दीर्घजङ्घां तथैव पुरुषाकृतिम् । श्मश्रुव्यञ्जनसंयुक्तां कुब्जां चैवाद्वहेन्न च ॥ १,२६.७ ॥ वृथाहास्यमुखीं चैव सदान्यगृह वासिनीम् । विवादशीलां भ्रमितां निष्ठुरां नोद्वहेद्रुधः ॥ १,२६.८ ॥ बह्वशिनीं स्थीलदन्तां स्थूलोष्ठीं घुर्घुरस्वनाम् । अतिकृष्णां रक्तवर्णां धूर्तां नैवोद्वहे द्वुधः ॥ १,२६.९ ॥ सदा रोदनशीलां च पाण्डुराभां च कुत्सिताम् । तासश्वासादिसंयुक्तां निद्राशीलां च नोद्वहेत् ॥ १,२६.१० ॥ अनर्थभाषिणीं चैव लोकद्वेष परायणाम् । परापवादनिरतां तस्कारां नोद्वहेद्वुधः ॥ १,२६.११ ॥ दीर्घनासां च कितवां तनूरुहविभूषिगताम् । गर्वितां बकवृत्तिं च सर्वथा नोद्वहेद्वुधः ॥ १,२६.१२ ॥ बालभावादविज्ञातस्वभावामुद्वहेद्यदि । प्रगल्भां वागुणां ज्ञात्वा सर्वथा तां परित्यजेत् ॥ १,२६.१३ ॥ भर्त्तृपुत्रेषु या नारी सर्वदा निष्ठुरा भवेत् । परानुकूलिनी या च सर्वथा तां परित्यजेत् ॥ १,२६.१४ ॥ विवाहाश्चाष्टधा ज्ञेया ब्राह्माद्या मुनिसत्तम । पूर्वः पूर्वो वरो ज्ञेयः पूर्वाभावे परः परः ॥ १,२६.१५ ॥ ब्राह्नो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमो मतः ॥ १,२६.१६ ॥ ब्राह्मेण च विवाहेन वैवाह्यो वै द्विजोत्तमः । दैवेनाप्यथवा विप्र केचिदार्षं प्रचक्षते ॥ १,२६.१७ ॥ प्राजापत्यादयो विप्र विवाहाः पञ्चज गर्हिताः । अभावेषु तु पूर्वेषां कुर्यादेव परान्बुधः ॥ १,२६.१८ ॥ यज्ञोपवीतद्वितयं सोत्तरीयं च धारयेत् । सुवर्णकुण्डले चैव धौतवस्त्रद्वयं तथा ॥ १,२६.१९ ॥ अनुलेपनलित्पाङ्गः कृत्तकेशनखः शुचिः । धारयेद्वैणवं दण्डं सोदकं च कमण्डलुम् ॥ १,२६.२० ॥ उष्णीषममलं छत्रं पादुके चाप्युपानहौ । धारयेत्पुष्पमाल्ये च सुगन्धं प्रियदर्शनः ॥ १,२६.२१ ॥ नित्यं स्वाध्यायशीलः स्याद्यथाचारं समाचरेत् । परान्नं नैव भुञ्जीत परवादं च वर्जयेत् ॥ १,२६.२२ ॥ पादेन नाक्रमेत्पादमुच्छिष्टं नैव लङ्घयेत् । न संहताभ्यां हस्ताभ्यां कण्डूयेदात्मनः शिरः ॥ १,२६.२३ ॥ पूज्यं देवालयं चैव नापसव्यं व्रजेद्दिजः । देवार्चाचमनस्नानव्रतश्राद्धक्रियादिषु ॥ १,२६.२४ ॥ न भवेन्मुक्तकेशश्च नैकवस्त्रधरस्तथा । नारोहेदुष्ट्रयानं च शुष्कवादं च वर्जयेत् ॥ १,२६.२५ ॥ अन्य स्त्रियं न गच्छेच्च पैशुन्यं परिवर्जयेत् । नापसव्यं व्रजेद्विप्र गोश्चत्थानलपर्वतान् ॥ १,२६.२६ ॥ चतुष्पथं चैत्यवृक्षर्ं देवखातं नृपं तथा । असूयां मत्सरत्वं च दिवास्वापं च वर्जयेत् ॥ १,२६.२७ ॥ न वदेत्परपापानि स्वपुण्यं न प्रकाशयेत् । स्वकं नाम स्वनक्षत्रं मानं चैवातिगोपयेत् ॥ १,२६.२८ ॥ न दुर्जनैः सह वसे न्नाशास्त्रं शृणुयात्तथा । आसवद्यूतगीतेषु द्विजस्तु न रर्तिं चरेत् ॥ १,२६.२९ ॥ आर्द्रास्थि च तथोच्छिष्टं शूद्रं च पतितं तथा । सर्पं च भषणं स्पृष्ट्वा सचैलं स्नानमाचरेत् ॥ १,२६.३० ॥ चितिं च चितिकाष्टं च यूपं चाण्डालमेव च । स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत् ॥ १,२६.३१ ॥ दीपखट्वातनुच्छायाकेशवस्त्रकटोदकम् । अजामार्जंनिमार्जाररेणुर्द्दैवं शुभं हरेत् ॥ १,२६.३२ ॥ शूर्प्पवातं प्रेतधूमं तथा शूद्रान्नभोजनम् । वृषलीपतिसङ्गं च दूरतः परिवर्जयेत् ॥ १,२६.३३ ॥ असच्छार्स्त्रार्थमननं खादनं नखकेशयोः । तथैव नग्नशयनं सर्वदा परिवर्जयेत् ॥ १,२६.३४ ॥ शिरोभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् । तांबूलमशुचिं नाद्यात्तथा सुप्तं न बोधयेत् ॥ १,२६.३५ ॥ नाशुद्धोऽग्निं परिचरेत्पूजयेद्गुरुदेवताः । न वामहस्तेनैकेन पिबेद्वक्रेण वा जलम् ॥ १,२६.३६ ॥ न चाक्रमेद्गुरोश्छायां तदाज्ञां च मुनीश्वर । न निन्देद्योगिनो विप्रान्व्रतिनोऽपि यतींस्तथा ॥ १,२६.३७ ॥ परस्परस्य मर्माणि न कदापि वदेद्द्विजः । दर्शे च पौर्णमास्यां च यागं कुर्याद्यथाविधि ॥ १,२६.३८ ॥ उपसनं च होतव्यं सायं प्रातर्द्विजातिभिः । उपासनपरित्यागी सुरापीत्युच्यते बुधैः ॥ १,२६.३९ ॥ अयने विषुवे चैव युगादिषु चतुर्ष्वपि । दर्शे च प्रेतपक्षे च श्राद्धं कुर्याद्गृही द्विजः ॥ १,२६.४० ॥ मन्वादिषु मृदाहे च अष्टकासु च नारद । नावधान्ये समायाते गृही श्राद्धं समाचरेत् ॥ १,२६.४१ ॥ श्रोत्रिये गृहमायाते ग्रहणे चन्द्रसूर्योः । पुण्यक्षेत्रेषु तीर्थेषु गृही श्राद्धं समाचरेत् ॥ १,२६.४२ ॥ यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् । वृथा भवति तत्सर्वमूर्द्धपुण्ड्रं विना कृतम् ॥ १,२६.४३ ॥ उर्द्धपुण्ड्रं च तुलसीं श्राद्धे नेच्छन्ति केचन । वृथाचारः परित्याज्यस्तस्माच्छ्रेयोऽर्थिभिर्द्विजैः ॥ १,२६.४४ ॥ इत्येवमादयो धर्माः स्मृतिमार्गप्रचोदिताः । कार्या द्विजातिभिः सम्यक्सर्वकर्मफलप्रदाः ॥ १,२६.४५ ॥ सदा चारपरा ये तु तेषां विष्णुः प्रसीदति । विष्णौ प्रसन्नतां याते किमसाध्यं द्विजोत्तम ॥ १,२६.४६ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्त्तधेर्मषु वेदाध्ययनादिकस्य गृहस्थधर्मस्य च निरुपणं नाम षड्विंशोऽध्यायः _____________________________________________________________ सनक उवाच गृहस्थस्य सदाचारं वक्ष्यामि मुनिसत्तम । यद्रूतां सर्वपापानि नश्यन्त्येव न संशयः ॥ १,२७.१ ॥ ब्राह्ने मुहूर्ते चोत्थाय पुरुषार्थाविरोधिनीम् । वृत्तिं संचिन्तयेद्विप्र कृतकेशप्रसाधनः ॥ १,२७.२ ॥ दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदड्मुखः । कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ॥ १,२७.३ ॥ शिरः प्रावृत्य वस्त्रेण ह्यन्तर्द्धाय तृणैर्महीम् । वहन्काष्टं करेणैकं तावन्मौनी भवेद्द्विजः ॥ १,२७.४ ॥ पथि गोष्टे नदीतीरे तडागगृहसन्निधौ । तथा वृक्षस्य च्छायायां कान्तारे वह्निसन्निधौ ॥ १,२७.५ ॥ देवालये तथोद्याने कृष्टभूमौ चतुष्पथे । ब्राह्मणानां समीपे च तथा गोगुरुयोषिताम् ॥ १,२७.६ ॥ तुषाङ्गारकपालेषु जलमध्ये तथैव च । एवमादिषु देशेषु मलमूत्रं न कारयेत् ॥ १,२७.७ ॥ शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः । शौचाचारविहीनस्य समस्तं कर्म निष्फलम् ॥ १,२७.८ ॥ शौचं तु द्विविधं प्रोक्तं ब्राह्ममाभ्यान्तरं तथा । मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथान्तरम् ॥ १,२७.९ ॥ गृहीतशिश्रश्चोत्थाय शौचार्थं मृदमाहरेत् ।. न मूषकादिखनितां फआलोत्कृष्टां तथैव च ॥ १,२७.१० ॥ वापीकूपतडागेभ्यो नाहरेदपि मृत्तिकाम् । शौचं कुर्यात्प्रयत्नेन समादाय शुभां मृदम् ॥ १,२७.११ ॥ लिङ्गे मृदेका दातव्या तिस्रो वा मेढ्रयोर्द्वयोः । एतन्मूत्रमुत्सर्गे शौचमाहूर्मनीषिणः ॥ १,२७.१२ ॥ एका लिङ्गे गुदे पञ्च दश वामे तथोभयोः । सत्प तिस्रः प्रदातव्याः पादयोर्मृत्तिकाः पृथक् ॥ १,२७.१३ ॥ एतच्छौचं विडुत्सर्गे गन्धलेपापनुत्तये । एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणाम् ॥ १,२७.१४ ॥ त्रिगुणां तु वनस्थानां यतीनां तच्चर्गुणम् । स्वस्थाने पूर्णशौचं स्यात्पथ्यर्द्धं मुनिसत्तम ॥ १,२७.१५ ॥ आतुरे नियमो नास्ति महापदि तथैव च । गन्धलेपक्षयकरं शौर्चं कुर्याद्विचक्षणः ॥ १,२७.१६ ॥ स्त्रीणामनुपनीतानां गन्धलेपक्षयावधि । व्रतस्थानां तु सर्वेषां यतिवच्छौचमिष्यते ॥ १,२७.१७ ॥ विधवानां च विर्पेन्द्र एतदेव निगद्यते । एवं शौचं तु निर्वर्त्य पश्चाद्वै सुसमाहितः ॥ १,२७.१८ ॥ प्रागास्य उदगास्यो वाप्याचामेत्प्रयर्तेन्द्रियः । त्रिश्चतुर्धा पिबेदापो गन्धफेनादिवर्जिताः ॥ १,२७.१९ ॥ द्विर्मार्जयेत्कपोलं च तलेनोष्ठौ च सत्तम । तर्जन्यङ्गुष्ठयोगेन नासारन्ध्रद्वयं स्पृशेत् ॥ १,२७.२० ॥ अगुंष्टानामिकाभ्यां च चक्षुः श्रोत्रे यथाक्रमम् । कनिष्टाङ्गुष्टयोगेन नाभिदेशे स्पृशेद्द्विजः ॥ १,२७.२१ ॥ तलेनोरःस्थलं चैव अङ्गुल्यग्रैः शिरः स्पृशेत् । तलेन चाङ्गुलाग्रैर्वा स्पृशेदंसौ विचक्षणः ॥ १,२७.२२ ॥ एवमाचम्य विप्रेद्र शुद्धिमान्पोत्यनुत्तमाम् । दन्तकाष्टं ततः खादेत्सत्वचं शस्तवृक्षजम् ॥ १,२७.२३ ॥ बिल्वासनापामार्गणां निम्बान्मार्कादिशाखिनाम् । प्रक्षाल्य वारिणा चैव मन्त्रेणाप्यभिमन्त्रितम् ॥ १,२७.२४ ॥ आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वन्नो धेहि वनस्पते ॥ १,२७.२५ ॥ कनिष्टाग्रसमं स्थौल्ये विप्रः खादेद्दशाङ्गुलम् । नवाङ्गुलं क्षत्रियश्च वैश्यश्चाष्टाङ्गुलोन्मितम् ॥ १,२७.२६ ॥ शूद्रो वेदाङ्गुलमितं वनिता च मुनीश्वर । अलाभे दैतकाष्टानां गण्डूषैर्भानुसंमितैः ॥ १,२७.२७ ॥ मुथशुद्धिर्विधीयेत तृणपत्रसमन्वितैः । करेणादाय वामेन संचर्वेद्वामदंष्ट्रया ॥ १,२७.२८ ॥ द्विजान्संघर्ष्य गोदोहं ततः प्रक्षाल्य पाटयेत् । जिह्वामुल्लिख्य ताभ्यां तु दलुभ्यां नियतेन्द्रियः ॥ १,२७.२९ ॥ प्रक्षाल्य प्रक्षिपेदू दूरे भूयश्चाचम्य पूर्ववत् । ततः स्नानं प्रकुर्वीत नद्यादौ विमले जले ॥ १,२७.३० ॥ तटं प्रक्षाल्य दर्भाश्च विन्यस्य प्रविशेज्जलम् । प्रणम्य तत्र तीर्थानि आवाह्य रविमण्डलात् ॥ १,२७.३१ ॥ गन्धाद्यैर्मण्डलं कृत्वा ध्यात्वा देवं जनार्दनम् । स्नायान्मन्त्रान्स्मरन्पुण्यांस्तीर्थानि च विरिञ्चिज ॥ १,२७.३२ ॥ गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिंधुकावेरि जलेऽस्मिन्सन्निधिं कुरु ॥ १,२७.३३ ॥ पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा । आगच्छन्तु महाभागाः स्नानकाले सदा मम ॥ १,२७.३४ ॥ अयोध्या मथुरा माया काशीं काञ्ची ह्यवन्तिका । पुरी द्वारावती ज्ञेया सत्पैता मोक्षदायिकाः ॥ १,२७.३५ ॥ ततोऽधमर्षण जप्त्वा यतासुर्वारिसंप्लुतः । स्नानाङ्गं तर्पणं कृत्वाचम्यार्ध्यं भानवेर्ऽपयेत् ॥ १,२७.३६ ॥ ततो ध्यात्वा विवस्वन्तं जलान्निर्गत्य नारद । परिधायाहतं धौतं द्वितीयं परिवीय च ॥ १,२७.३७ ॥ कुशासने समाविश्य संध्याकर्म समारभेत् । ईशानाभिमुखो विप्र गायत्र्याचम्य वै द्विज ॥ १,२७.३८ ॥ ऋतमित्यभिमन्त्र्यार्थ पुनरेवामेद्बुधः । ततस्तु वारिणात्मानं वेष्टयित्वा समुक्ष्य च ॥ १,२७.३९ ॥ संकल्प्य प्रणवान्ते तु ऋषिच्छन्दः सुरान्स्मरन् । भूरादिभिर्व्याहृतिभिः सत्पभिः प्रोक्ष्य मस्तकम् ॥ १,२७.४० ॥ न्यासं समाचरेन्मन्त्री पृथगेव कराङ्गयोः । विन्यस्य हृदये तारं भूः शिरस्यथ विन्यसेत् ॥ १,२७.४१ ॥ भुवः शिखायां स्वश्चैव कवये भूर्भुवोऽक्षिषु । भूर्भुवः स्वस्तथात्रास्त्रं दिक्षु तालत्रयं न्यसेत् ॥ १,२७.४२ ॥ तत आवाहयेत्संध्यां प्रातः कोकनस्थिताम् । आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि ॥ १,२७.४३ ॥ गायत्रि च्छन्दसां मातर्ब्रह्मयोने नमोऽस्तु ते । मध्याह्ने वृषभारुढां शुक्लांबरसमावृताम् ॥ १,२७.४४ ॥ सावित्रीं रुद्रयोनिं चावाहयेद्रुद्रवादिनीम् । सायं तु गरुडारुढां पीतांबरसमावृत्ताम् ॥ १,२७.४५ ॥ सरस्वतीं विष्णुयोनिमाह्वयेद्विष्णुवादिनीम् । तारं च व्याहृतीः सत्प त्रिपदां च समुच्चरन् ॥ १,२७.४६ ॥ शिरः शिखां च संपूर्य कुभयित्वा विरेचयेत् । वाममध्यात्परैर्वायुं क्रमेण प्राणसंयमे ॥ १,२७.४७ ॥ द्विराचामेत्ततः पश्चात्प्रातः सूर्यश्चमेति च । आपः पुनन्तु मध्याह्ने सायमग्निश्चमेति च ॥ १,२७.४८ ॥ आपो हिष्ठेति तिसृभिर्मार्जनं च ततश्चरेत् । सुमुत्रिया न इत्युक्त्वा नासास्पृष्टजलेन च ॥ १,२७.४९ ॥ द्विषद्वर्गं समुत्सार्य द्रुपदां शिरसि क्षिपेत् । ऋतं च सत्यमेतेन कृत्वा चैवाधमर्षणम् ॥ १,२७.५० ॥ अन्तश्चरसि मन्त्रेण सकृदेव पिबेदपः । ततः सूर्याय विधिवद्गन्धं पुष्पं जलाञ्जलिम् ॥ १,२७.५१ ॥ क्षिप्त्वोपतिष्ठेद्देवर्षे भास्करं स्वस्तिकाञ्जलिम् । ऊर्द्धूबाहुरधोबाहुः क्रमात्कल्यादिके त्रिके ॥ १,२७.५२ ॥ उहुत्यं चित्रं तच्चक्षुरित्येतत्त्रितयं जपेत् । सौराञ्छैवान्वैष्णवांश्च मन्त्रानन्यांश्च नारद ॥ १,२७.५३ ॥ तेजोऽसि गायत्र्यसीति प्रार्थयेत्सवितुर्महः । ततोऽङ्गानि त्रिरावर्त्य ध्यायेच्छक्तीस्तदात्मिकाः ॥ १,२७.५४ ॥ ब्रह्मणी चतुराननाक्षवलया कुम्भं करैः स्रुक्स्त्रवौ बिभ्राणा त्वरुणेन्दुकान्तिवदना ऋग्रूपिणी बालिका । हंसारोहणकेलिखण्खण्मणेर्बिबार्चिता भूषिता गायत्री परिभाविता भवतु नः संपत्समृद्ध्यै सदा ॥ १,२७.५५ ॥ रुद्राणी नवयौवना त्रिनयना वैयाघ्नचर्मांबरा खट्वाङ्गत्रघिशिखाक्षसूत्रवलयाभीतिश्रियै चास्तु नः । विद्युद्दामजटाकलापविलसद्वार्लेदुमौलिर्मुदा सावित्री वृषवाहना सिततनुर्ध्येया यजूरूपिणी ॥ १,२७.५६ ॥ ध्येया सा च सरस्वती भगवती पीतांबरालङ्कृता श्यामा श्यामतनुर्जरोपरिलसद्गात्राञ्चिता वैष्णवी । तार्क्ष्यस्था मणिनूपुराङ्गदलसद्ग्रैवेयभूषोज्ज्वला हस्तालङ्कृतशङ्खचक्रसुगदापह्माश्रियै चास्तु नः ॥ १,२७.५७ ॥ एवं ध्यात्वा जपेत्तिष्ठन्प्रातर्मध्याह्नके तथा । सायङ्काले समासीनो भक्त्या तद्गतमानसः ॥ १,२७.५८ ॥ सहस्रपरमां देवीं शतमध्यां दशावराम् । त्रिपदां प्रणवोपेतां भूर्भुवः स्वरुपक्रमाम् ॥ १,२७.५९ ॥ षट्तारः संपुटो वापि व्रतिनश्च यतेर्जपः । गृहस्थस्य सत्तारः स्याज्जप्य एवंविधो मुने ॥ १,२७.६० ॥ ततो जप्त्वा यथाशक्ति सवित्रे विनिवेद्य च । गायत्र्यै च सवित्रे च प्रक्षिपेदञ्जलिद्रूयम् ॥ १,२७.६१ ॥ ततो विसृज्य तां विप्र उत्तरे इति मन्त्रतः । ब्रह्मणेशेन हरिणानुज्ञाता गच्छ सादरम् ॥ १,२७.६२ ॥ दिरभ्यो दिग्देवताभ्यश्च नमस्कृत्य कृताञ्जलिः । प्रातरादेः परं कर्म कुर्यादपि विधानतः ॥ १,२७.६३ ॥ प्रातर्मध्यन्दिने चैव गृहस्थः स्नानमाचरेत् । वानप्रस्थश्च देवर्षे स्नायात्र्निषवणं यतिः ॥ १,२७.६४ ॥ आतुराणां तु रोगद्यैः पान्थानां च सकृन्मतम् । ब्रह्मयज्ञं ततः कुर्याद्दर्भपाणिर्मुनीश्वर ॥ १,२७.६५ ॥ दिवोदितानि कर्माणि प्रमादादकृतानि चेत् । शर्वर्याः प्रथमे यामे तानि कुर्याद्यथाक्रमम् ॥ १,२७.६६ ॥ नोपास्ते यो द्विजः संध्यां धूर्तबुद्धिरनापदि । पाषण्डः स हि विज्ञेयः सर्वधर्मबहिष्कृतः ॥ १,२७.६७ ॥ यस्तु संध्यादिकर्माणि कूटयुक्तिविशारदः । परित्यजति तं विद्यान्महापातकिनां वरम् ॥ १,२७.६८ ॥ ये द्विजा अभिभाषन्ते त्यक्तसंध्यादिकर्मणः । ते यान्ति नरकान्घोरान्यावच्चन्द्रार्कतारकम् ॥ १,२७.६९ ॥ देवार्चनं ततः कुर्याद्वैश्वदेवं यथाविधि । तत्रात्यमतिथिं सम्यगन्नाद्यैश्च प्रपूजयेत् ॥ १,२७.७० ॥ वक्तव्या मधुरा वाणी तेष्वप्यभ्यागतेषु तु । जलान्नकन्दमूलैर्वा गृहदानेन चार्चयेत् ॥ १,२७.७१ ॥ अतिथिर्यस्य भग्नाशो गृहत्प्रतिनिवर्तिते । सतस्मैदुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ १,२७.७२ ॥ अज्ञातगोत्रनामानमन्यग्रामादुपागतम् । विपश्चितोऽतिथिं प्राहुर्विष्णुवत्तं प्रपूजयेत् ॥ १,२७.७३ ॥ स्वग्रामवासिनं त्वेकं श्रोत्रियं विष्णुतत्परम् । अन्नाद्यैः प्रत्यहं विप्रपितॄनुद्दिश्य तर्पयेत् ॥ १,२७.७४ ॥ पञ्चयज्ञपरित्यागी ब्रह्माहेत्युच्यते बुधैः । कुर्यादहरहस्तस्मात्पञ्चयज्ञान्प्रयन्ततः ॥ १,२७.७५ ॥ देवयज्ञो भूतयज्ञः तितृयज्ञस्तथैव च । नृपज्ञो ब्रह्मयज्ञश्च पञ्चयज्ञान्प्रचक्षते ॥ १,२७.७६ ॥ भृत्यमित्रादिसंयुक्तः स्वयं भुञ्जीत वाग्यतः । द्विजानां भोज्यमश्री यात्पात्रं नैव परित्यजेत् ॥ १,२७.७७ ॥ संस्थाप्य स्वासमे पादौ वस्त्रार्द्धं परिधाय च । मुखेन वमितं भुक्त्वा सुरापीत्युच्यते बुधैः ॥ १,२७.७८ ॥ खादितार्द्धं पुनः खादेन्मोदकांश्च फलानि च । प्रत्यक्षं लवणं चैव गोमांसशीति गद्यते ॥ १,२७.७९ ॥ अपोशाने वाचमने अद्यद्रव्येषु च द्विजः । शब्द न कारयेद्विप्रस्तं कुर्वन्नारकी भवेत् ॥ १,२७.८० ॥ पथ्यमन्नं प्रभुञ्जीत वाग्यतोऽन्नमसुत्सयनम् । अमृतोपस्तरणमसि अपोशानं भुजेः पुरः ॥ १,२७.८१ ॥ अमृतापिधानमसि भोज्यान्तेऽपः सकृत्पिबेत् । प्राणाद्या आहुतीर्दत्त्वाचम्य भोजनमाचरेत् ॥ १,२७.८२ ॥ ततश्चाचम्य विप्रेन्द्र शास्त्रचिन्तापरो भवेत् । रात्रावपि यथाशक्ति शयनासनभोजनैः ॥ १,२७.८३ ॥ एवं गृही सदाचारं कुर्यात्प्रतिदिनं मुने । यदाऽचारपरित्यागी प्रायश्चित्ती तदा भवेत् ॥ १,२७.८४ ॥ दूषितां स्वतनुं दृष्ट्वा पालिताद्यैश्च सत्तम । पुत्रेषु भार्यां निःक्षिप्य वनं गच्छेत्सहैव वा ॥ १,२७.८५ ॥ भवेत्रिषवणस्नायी नखश्मश्रुजटाधरः । अधः शायी ब्रह्मचारी पञ्चयज्ञपरायणः ॥ १,२७.८६ ॥ फलमूलाशनो नित्यं स्वाध्यायनिरतास्तथा । दयावान्सर्वभूतेषु नारायणपरायणः ॥ १,२७.८७ ॥ वर्जये द्ग्रामजातानि पुष्पाणि च फलानि च । अष्टौ ग्रासांश्च भुञ्जीत न कुर्याद्रात्रिभोजनम् ॥ १,२७.८८ ॥ अत्यन्तं वर्जयेत्तैलं वानप्रस्थसमाश्रमी । व्यवायं वर्जयेच्चैव निद्रालस्ये तथैव च ॥ १,२७.८९ ॥ शङ्खचक्रगदापाणिं नित्यं नारायणं स्मरेत् । वानप्रस्थः प्रकुर्वीत तपश्चान्द्रायणादिकम् ॥ १,२७.९० ॥ सहेत शीततापादिवह्निं परिचरेत्सदा । यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु ॥ १,२७.९१ ॥ तदैव संन्यसेद्विप्र पतितस्त्वन्यथा भवेत् । वेदान्ताभ्यासनिरतः शान्तो दान्तो जितेन्द्रियः ॥ १,२७.९२ ॥ निर्द्वेद्वो निरहॄङ्कारो निर्ममः सर्वदा भवेत् । शमादिगुणसंयुक्तः कामक्रोधविवर्जितः ॥ १,२७.९३ ॥ नग्नो वा जीर्णकौपीनौ भवेन्मुण्डो यतिर्द्विजः । समः शत्रौ च मित्रे च तथा मानापमानयोः ॥ १,२७.९४ ॥ एकरात्रं वसेद्ग्रामे त्रिरात्रं नगरे तथा । भैक्षेण वर्त्तयेन्नित्यं नैकान्नादीभवेद्यतिः ॥ १,२७.९५ ॥ अनिन्दितद्विजगृहे व्यङ्गारे भुक्तिवर्जिते । विवादरहिते चैव भिक्षार्थं पर्यटेद्यतिः ॥ १,२७.९६ ॥ भवेत्रिषवणस्नायी नारायणपरायणः । जपेच्च प्रणवं नित्यं जितात्मा विजितेन्द्रियः ॥ १,२७.९७ ॥ एकान्नादी भवेद्यस्तु कदाचिल्लंपटो यतिः । न तस्य निष्कृतिर्द्दष्टा प्रायश्चित्तायुतैरपि ॥ १,२७.९८ ॥ लोभाद्यदि यतिर्विप्र तनुपोषपरो भवेत् । स चण्डालसमो ज्ञेयो वर्णाश्रमविगर्हितः ॥ १,२७.९९ ॥ आत्मानां चिन्तयेद्द्रेवं नारायणमनामयम् । निर्द्वन्द्रं निर्ममंशान्तं मायातीतममत्सरम् ॥ १,२७.१०० ॥ अव्ययं परिपूर्णं च सदानन्दैकविग्रहम् । ज्ञानस्वरुपममलं परं ज्योतिः सनातनम् ॥ १,२७.१०१ ॥ अविकारमनाद्यन्तं जगच्चैतन्यकारणम् । निर्गुणं परमं ध्यायेदात्मानं परतः परम् ॥ १,२७.१०२ ॥ पठेदुपनिषद्वाक्यं वेदान्तार्थांश्च चिन्तयेत् । सहस्रशीर्षं देवं च सदा ध्यायेज्जितेन्द्रियः ॥ १,२७.१०३ ॥ एवं ध्यानपरो यस्तु यतिर्विगतमत्सरः । स याति परमानन्दं परं ज्योतिः सनातनम् ॥ १,२७.१०४ ॥ इत्येवमाश्रमाचारान्यः करोति द्विजः क्रमात् । स याति परमं स्थानं यत्र गत्वा न शोचयति ॥ १,२७.१०५ ॥ वर्णाश्रमाचाररताः सर्वपापविवर्जिताः । नारायणपरा यान्ति तद्विष्णः परमं पदम् ॥ १,२७.१०६ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सदाचारेषु गृहस्थआवानप्रस्थयतिधर्म्निरुपणं नाम सत्पविंशोऽध्यायः _____________________________________________________________ सनक उवाच शृणुष्व मुनिशार्दूल श्राद्धस्य विधिमुत्तमम् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १,२८.१ ॥ क्षयाहपूर्वदिवसे स्नात्वा चैकाशनो भवेत् । अधः शायी ब्रह्मचारी निशि विप्रान्निमन्त्रयेत् ॥ १,२८.२ ॥ दन्तधावनतांबूले तैलाभ्यङ्गं तथैव च । रत्योषधिपरान्नानि श्राद्धकर्त्ताविवर्जयेत् ॥ १,२८.३ ॥ अध्वानं कलहं क्रोधं व्यवायं च धुरं तथा । श्राद्धकर्त्ता च भोक्ता च दिवास्वापं च वर्जयेत् ॥ १,२८.४ ॥ श्राद्धे निमन्त्रितो यस्तु व्यवायं कुरुते यदि । ब्रह्महत्यामवान्पोति नरकं चापि गच्छति ॥ १,२८.५ ॥ श्राद्धे नियोजयेद्विप्रं श्रोत्रिय विष्णुतत्परम् । यथास्वाचारनिरतं प्रशान्तं सत्कुलोद्बगवम् ॥ १,२८.६ ॥ रागद्वेषविहीनं च पुराणार्थविशारदम् । त्रिमधुत्रिसुपर्णज्ञं सर्वभूतदयापरम् ॥ १,२८.७ ॥ देवपूजारतं चैव स्मृतितत्त्वविशारदम् । वेदान्ततत्त्वसंपन्नं सर्वलोकहिते रतम् ॥ १,२८.८ ॥ कृतज्ञं गुणसंपन्नं गुरुशुश्रूषणे रतम् । परोपदेशनिरतं सच्छास्त्रकथनैस्तथा ॥ १,२८.९ ॥ एते नियोजितव्या वै श्राद्धे विप्रा मुनीश्वर । श्राद्धे वर्ज्यान्मवक्ष्यामि शृणु तान्मुसमाहितः ॥ १,२८.१० ॥ न्पूनाङ्गश्चाधिकाङ्गश्च कदर्यो रोगितस्तथा । कुष्टी च कुनखी चैव लंबकर्णः क्षतव्रतः ॥ १,२८.११ ॥ नक्षत्रपाठजीवी च तथा च शवदाहकः । कुवादी परिर्वत्ता च तथा देवलकः खलः ॥ १,२८.१२ ॥ निन्दकोऽमर्षणो धूर्तस्तथैव ग्रामयाजकः । असच्छास्त्राभिनिरतः परान्ननिगतस्तथा ॥ १,२८.१३ ॥ वृषलीसूति पोष्टा च वृषलीपतिरेव च । कुण्डश्च गोलकश्चैव ह्ययाज्यानां च याजकः ॥ १,२८.१४ ॥ दंभाचारो वृथामुण्डी ह्यन्यस्त्रीधनतत्परः । विष्णुभक्तिविहीनश्च शिवभक्तिपराड्मुखः ॥ १,२८.१५ ॥ वेदविक्रयिणश्चैव व्रतविक्रयिणस्तथा । स्मृतिविक्रयिणश्चैव मन्त्रविक्रयिणस्तथा ॥ १,२८.१६ ॥ गायकाः काव्यकर्त्तारो भिषक्छास्त्रोपजीविनः । वेदनिन्दापरश्चैव ग्रामापण्यप्रदाहकः ॥ १,२८.१७ ॥ तथातिकामुकश्चैव रसविक्रयकारकः । कूटयुक्तिरतश्चैव श्राद्धे वर्ज्याः प्रयत्नतः ॥ १,२८.१८ ॥ निंमत्रयीत पूर्वेद्युस्तस्मिन्नेव दिनेऽथवा । निमन्त्रितो भवेद्विप्रो ब्रह्मचारी जितेन्द्रियः ॥ १,२८.१९ ॥ श्राद्धे क्षणस्तु कर्त्तव्यः प्रसादश्चेति सत्तम । निमन्त्रयेद्द्विजं प्राज्ञं दर्भपाणिर्जितेन्द्रियः ॥ १,२८.२० ॥ ततः प्रातः समुत्थाय प्रातः कृत्यं समाप्य च । श्राद्धं समाचरेद्विद्वान्काले कुतपसंज्ञिते ॥ १,२८.२१ ॥ दिवसस्याष्टमे काले यदा मन्दायते रविः । स कालः कुतपस्तत्र पितॄणां दत्तमक्षयम् ॥ १,२८.२२ ॥ अपराह्नः पितॄणां तु दत्तः कालः स्वयंभुवा । तत्काल एव दातव्यं कव्यं तस्माद्द्विजोत्तमैः ॥ १,२८.२३ ॥ यत्काव्यं दीयते द्वव्यैरकाले मुनिसत्तम । राक्षसं तद्धि विज्ञेयं पितॄणां नोपतिष्टति ॥ १,२८.२४ ॥ काव्यं प्रत्तं तु सायाह्ने राक्षसं तद्भवेदपि । दाता नरकमान्पोति भोक्ता च नरकं व्रजेत् ॥ १,२८.२५ ॥ क्षयाहस्य तिथैर्विप्र यदि दण्डमितिर्भवेत् । विद्धापराह्नि कायां तु श्राद्धं कार्यं विजानता ॥ १,२८.२६ ॥ क्षयाहस्य तिथिर्या तु ह्यपराह्नद्वये यदि । पूर्वा क्षये तु कर्त्तव्या वृद्वौ कार्या तथोत्तरा ॥ १,२८.२७ ॥ मुहूर्त्त द्वितये पूर्वदिने स्यादपरेऽहनि । तिथिः सायाह्नगा यत्र परा काव्यस्य विश्रुता ॥ १,२८.२८ ॥ किञ्चित्पूर्वदिने प्राहुर्मुहूर्त्तद्वितये सति । नैतन्मतं हि सर्वेषां काव्यदाने मुनीश्वर ॥ १,२८.२९ ॥ निमन्त्रितेषौ विप्रेषु मिलितेषु द्विजोत्तम । प्रायश्चित्तविशुद्धात्मा तेभ्योऽनुज्ञां समाहरेत् ॥ १,२८.३० ॥ श्राद्धार्थं समनुज्ञातो विप्रान्भूयो निमन्त्रयेत् ॥ु उभौ च विश्वेदेवार्थं पिघत्रर्थं त्रीन्यथाविधि ॥ १,२८.३१ ॥ देवतार्थं च पित्रर्थमेकैकं वा निमन्त्रयेत् । श्राद्धार्थं समनुज्ञातः कारयेन्मण्डलद्वयम् ॥ १,२८.३२ ॥ चतुरस्त्रं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य वै । वैश्यस्य वर्तुलं ज्ञेयं शूद्रस्याभ्याभ्युक्षणं भवेत् ॥ १,२८.३३ ॥ ब्राह्मणानामभावे तु भ्रातरं पुत्रमेव च । आत्मानं वा नियुञ्जीत न विप्रं वेदवर्जितम् ॥ १,२८.३४ ॥ प्रक्षाल्य विप्रपादांशअच ह्याचांनानुपवेश्य च । यथावदर्चनं कुर्यात्स्मरन्नारायणं प्रभुम् ॥ १,२८.३५ ॥ ब्राह्मणानां तु मध्ये च द्वारदेशे तथैव च । अपहता इत्यृचा वै कर्त्ता तु विकिरेत्तिलान् ॥ १,२८.३६ ॥ यवैर्दर्भघैश्च विश्वेषां देवानामिदमासनम् । दत्त्वेति भूयो दद्यच्च दैवे क्षणप्रतीक्षणम् ॥ १,२८.३७ ॥ अक्षय्यासनयोः षष्टी द्वितीयावाहने स्मृता । अन्नदाने चतुर्थी स्याच्छेषाः संपुद्धयः स्मृताः ॥ १,२८.३८ ॥ आसाद्य पात्रद्वितयं दर्भशाखासमन्वितम् । तत्पात्रे सेचयेत्तोयं शन्नोदेवीत्यृचा ततः ॥ १,२८.३९ ॥ यवोसीति ति यवान् क्षित्प्वा गन्धपुष्पे च वाग्यतः । आवाहयेत्ततो देवान्विश्वे देवाःस इत्यृचा ॥ १,२८.४० ॥ या दिव्या इति मन्त्रेण दद्यादर्घ्यं समाहितः । गन्धैश्च पत्रपुष्पैश्च धूपैर्दीपैर्यजेत्ततः ॥ १,२८.४१ ॥ देवैश्च समनुज्ञातो यजेत्पितृगणांस्तथा । तिलसंयुक्तदर्भैश्च दद्यात्तेषां सदासनम् ॥ १,२८.४२ ॥ पात्राण्यासादयेत्त्रीणि ह्यर्घाथ पूर्ववद्द्विजः । शन्नोदेव्या जलं क्षिप्त्वा तिलोसीति तिलान्क्षघिपेत् ॥ १,२८.४३ ॥ उशन्त इत्यृचावाह्य पितॄन्विप्रः समाहितः । या दिव्या इति मन्त्रेण दद्यादर्घ्यं च पूर्ववत् ॥ १,२८.४४ ॥ गन्धैश्च पत्रपुष्पैश्च धूपैर्दीपैशअच सत्तम । वासोर्भिभूषणैश्वैव यथाविभवमर्चयेत् ॥ १,२८.४५ ॥ ततोऽन्नाग्रं समादाय घृतयुक्तं विचक्षणः । अग्नौ करिष्य इत्युक्त्वा तेभ्योऽनुज्ञां समाहरेत् ॥ १,२८.४६ ॥ करवै करवाणीति चापृष्टा ब्राह्मणा मुने । कुरुष्व क्रियतां वेति कुर्विति ब्रूयुरेव च ॥ १,२८.४७ ॥ उपासनाग्निमाधाय स्वगृह्योक्तविधानतः । सामाय च पितृमते स्वधा नम इतीरयेत् ॥ १,२८.४८ ॥ अग्नये कव्यवाहनाय स्वधा नम इतीह वा । स्वाहान्तेनापि वा प्राज्ञो जुहुयात्पितृयज्ञवत् ॥ १,२८.४९ ॥ आभ्यामेवाहुतिभ्यां तु पितॄणां तृत्पिरक्षया । अग्न्यभावे तु विप्रस्य पाणौ होमो विधीयते ॥ १,२८.५० ॥ यथाचारं प्रकुर्वीत पाणावग्नौ च वा द्विज । नह्यग्निर्दूरगः कार्यः पार्वणे समुपस्थैते ॥ १,२८.५१ ॥ संधायाग्निं ततः कार्यं कृत्वा तं विसृजेत्कृती । यद्याग्निर्दूरगो विप्र पार्वणे समुपस्थिते ॥ १,२८.५२ ॥ भ्रातृभिः कारयेच्छ्राद्धं साग्निकैर्विधिवद्द्विजैः । क्षयाहे चैव संप्रात्पे स्वस्याग्निर्दूरगो यदि ॥ १,२८.५३ ॥ तथैव भ्रातरस्तत्र लौकिकाग्नावपि स्थिताः । उपासनान्गौ दूरस्थे समीपेभ्रातरि स्थैते ॥ १,२८.५४ ॥ यद्यग्नौ जुहुयाद्वापि पाणौ वा स हि पातकी । उपासनाग्ना दूरस्थे केचिदिच्छन्ति वै द्विजाः ॥ १,२८.५५ ॥ तच्छष विप्रपात्रेषु विकिरेत्संस्मरन्हरिम् । भक्ष्यैर्भोज्यैशअच लेह्यैश्च स्वाद्यैर्विप्रान्प्रपूजयत् ॥ १,२८.५६ ॥ अन्नत्यागं ततः कुर्य्यादुभयत्र समाहितः । आगच्छन्तु महाभागाविश्वेदेवा महाबलाः ॥ १,२८.५७ ॥ ये यत्र विहिताः श्राद्धे सावधानां भवन्तु ते । इति संप्रार्थयेद्देवान्ये देवास ऋचा नु वै ॥ १,२८.५८ ॥ तथासंप्रार्थयद्विप्रान्ये च हेति ऋचा पितॄन् । अमूर्तानां मूर्तानां च पितॄणां दीत्पतेजसाम् ॥ १,२८.५९ ॥ नमस्यामि सदा तेषां ध्वानिनां योगचजक्षुषाम् । एवं पितॄन्नमस्कृत्य नारायण परायणः ॥ १,२८.६० ॥ दत्तं हविश्च तत्कर्ण विष्णवे विनिवेदयेत् । ततस्ते ब्राह्मणाः सर्वे भुञ्जीरन्वाग्यता द्विजाः ॥ १,२८.६१ ॥ हसतो वदते कोऽपि राक्षघसं तद्भवेद्धविः । यथआचार प्रदेयं च मधुनांसादिकं तथा ॥ १,२८.६२ ॥ पाकादिं च प्रशंसेरन् वाग्यता धृतभघाजनाः । यदि पात्रं त्यजेत्कोऽपि ब्राह्मणः श्राद्धयोजितः ॥ १,२८.६३ ॥ श्राद्धहॄन्ता स विज्ञेयो नरकायोपपद्यते । भञ्जानेषु च विप्रेषु ह्यन्योन्यं संस्पुशेद्यदि ॥ १,२८.६४ ॥ तदन्नमत्यजन्भुक्त्वा गायत्र्यष्टशतं जपेत् । भुज्यमानेषु विप्रेषु कर्त्ता श्रद्धापरायणः ॥ १,२८.६५ ॥ स्मरेन्नारायणं देवमनन्तमपराजितम् । रक्षोघ्नान्वैष्णवांश्चैव पैतृकांश्चविशेषतः ॥ १,२८.६६ ॥ जपेच्च पौरुषं सूक्तं नाचिकेतत्रयं तथा । त्रिमधु त्रिसुपर्णं च पावमानं यजूंषि च ॥ १,२८.६७ ॥ सामान्यपितथोक्तानि वदेत्पुण्यप्रदां स्तथा । इतिहासपुराणानि धर्मशास्त्राणि चैव हि ॥ १,२८.६८ ॥ भुञ्जीरन्ब्रह्मणा यावत्तावदेताञ्जपेद्द्विज । ब्राह्मणेषु च भुक्तेषु विकिरं विक्षिपेत्तथा ॥ १,२८.६९ ॥ शेषमन्नं वदेच्चैव मधुसूक्तं च वै जपेत् । स्वयं च पादौ प्रक्षघाल्य सम्यगाचम्य नारद ॥ १,२८.७० ॥ आचान्तेषु च विप्रेषु पिण्डं निर्वापयेत्ततः । स्वस्तिवा चनकं कुर्यादक्षय्योदकमेव च ॥ १,२८.७१ ॥ दत्त्वा समाहितः कुर्यात्तथा विप्राभिवादनम् । अचालयित्वा पात्रं तु स्वस्ति कुर्वन्ति ये द्विजाः ॥ १,२८.७२ ॥ वत्सरं पितरस्तेषां भवन्त्युच्छिष्टभोजिनः । दातारो नोऽभिवर्द्धन्तामित्याद्यैः स्मृतिभाषितैः ॥ १,२८.७३ ॥ आशीर्वचो लभेत्तेभ्यो नमस्कारं चरेत्ततः । दद्याच्च दक्षिणां शक्त्या तांबूलं गन्धसंयुतम् ॥ १,२८.७४ ॥ न्युब्जपात्रमथानीय स्वधाकारमुदीरयेत् । वाजेवाजे इति ऋचा पितॄन्देवान्विसर्जयेत् ॥ १,२८.७५ ॥ भोक्ता च श्राद्धकृत्तस्यां रजन्यां मैथुनं त्यजेत् । तथा स्वाध्यायमध्वानं प्रयत्नेन परित्यजेत् ॥ १,२८.७६ ॥ अध्वगश्चातुरश्चैव विहीनश्च धनैस्तथा । आमश्राद्धं प्रकुर्वीत हेम्ना वास्तृश्यभार्यकः ॥ १,२८.७७ ॥ द्रव्याभावे द्विजाभावे ह्यन्नमात्रं च पाचयेत् । पैतृकेन तु सूक्तेन होमं कुर्याद्विचक्षणः ॥ १,२८.७८ ॥ अत्यन्त हव्यशून्यश्चैत्स्वशक्त्या तु तृणं गवाम् । स्नात्वा च विधिवद्विप्र कुर्याद्वा तिलतपर्णम् ॥ १,२८.७९ ॥ अथवा रोदनं कुर्यादत्युच्चैर्विजने वने । दरिद्रोऽहं महापापी वदन्निति विचक्षणः ॥ १,२८.८० ॥ परेद्युः श्राद्धकृन्मर्त्यो यो न तर्पयते पितॄन् । तत्कुलं नाशमायाति ब्रह्महत्यां च विन्दति ॥ १,२८.८१ ॥ श्राद्धं कुर्वन्ति ये मर्त्याः श्रद्धावन्तो मुनीश्वर । न तेषां संततिच्छेदः संपन्नास्ते भवन्ति च ॥ १,२८.८२ ॥ पितॄन्यञ्जति यें श्राद्धे तैस्तु विष्णुः प्रपूजितः । तस्मिंस्तुष्टे जगन्नाथे सर्वास्तुष्यन्ति देवताः ॥ १,२८.८३ ॥ पितरो देवताश्चैव गन्धर्वाप्सरसस्तथा । यक्षाश्च सिद्धा मनुजा हरिरेव सनातनः ॥ १,२८.८४ ॥ येनेदमखिलं जातं जगत्स्थावरजङ्गमम् । तस्माद्दाता च भोक्ता च सर्वं विष्णुः सनातनः ॥ १,२८.८५ ॥ यदस्ति विप्र यन्नास्ति दृश्यं चादृश्यमेव च । सर्वं विष्णुमयं ज्ञेयं तस्मादन्यन्न विद्यते ॥ १,२८.८६ ॥ आधारभूतो विश्वस्य सर्वभूतात्मकोऽव्ययः । अनौपम्यस्वभावश्च भगवान्हव्यकव्यभुक् ॥ १,२८.८७ ॥ परब्रह्माभिधेयो य एक एव जनार्दनः । कर्त्ता कारयिता चैव सर्वं विष्णुः सनातनः ॥ १,२८.८८ ॥ इत्येवं ते मुनिश्रेष्ठ श्राद्धास्य विधिरुत्तमः । कथितः कुर्वतामेवं पापं सद्यो विलीयते ॥ १,२८.८९ ॥ य इदं पठते भक्त्या श्राद्धकाले द्विजोत्तमः । पितरस्तस्य तुष्यन्ति संततिश्चैव वर्द्धते ॥ १,२८.९० ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे श्राद्धक्रियावर्णनं नामाष्टाविंशोऽध्यायः _____________________________________________________________ सनक उवाच तिथीनां निर्णयं वक्ष्ये प्राचश्चित्तविधिं तथा । शृणुष्व तन्मुनिश्रेष्ठ कर्मसिद्धिर्यतो भवेत् ॥ १,२९.१ ॥ श्रौतं स्मार्त्तं व्रतं दानं यच्चान्यत्कर्म वैदिकम् । अनिर्णीतासु तिथिषु न किञ्चित्फलति द्विज ॥ १,२९.२ ॥ एकादश्यष्टमी षष्टी पौर्णमासी चतुर्द्दशी । अमावास्या तृतीया च ह्युपवासव्रतादिषु ॥ १,२९.३ ॥ परविद्धाः प्रशस्ताः स्युर्न ग्राह्याः पूर्वसंयुताः । नागविद्धा तु या षष्टी शिवविद्धा तु सत्पमी ॥ १,२९.४ ॥ दशम्येकादशीविद्धा नोपोष्याः स्युः कदाचन । दर्शं च पौर्णमासीं च सत्पमीं पितृवासरम् ॥ १,२९.५ ॥ पूर्वविद्धं प्रकुर्वाणो नरकायोपद्यते । कृष्णपक्षे पूर्वविद्धां सत्पमीं च चतुर्दशीम् ॥ १,२९.६ ॥ प्रशस्तां केचिदाहुश्च तृतीयां नवमीं तथा । व्रतादीनां तु सर्वेषां शुक्लपक्षो विशिष्यते ॥ १,२९.७ ॥ अपराह्नाच्च पूर्वोह्णं ग्राह्यं श्रेष्ठत्तरं यतः । असंभवे व्रतादीनां यदि पौर्वाह्निकी तिथिः ॥ १,२९.८ ॥ मुहूर्तद्वितयं ग्राह्यं भगवत्युदिते रवौ । प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा ॥ १,२९.९ ॥ उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः । तिथिनक्षत्रसंयोगविहितव्रतकर्मणि ॥ १,२९.१० ॥ प्रदोषव्यापिनी ग्राह्या त्वन्यथा निष्फलं भवेत् । अर्द्धरात्रादधो या तु नक्षत्रव्यापिनी तिथिः ॥ १,२९.११ ॥ सैव ग्राह्या मुनिश्रेष्ठ नक्षत्रविहितव्रते । यद्यर्द्धरात्रघगयोर्व्यात्पं नक्षत्रं तु दिनद्वये ॥ १,२९.१२ ॥ तत्पुण्यं तिथिसंयुक्तं नक्षत्रं ग्राह्यमुच्यते । अर्द्धरात्रद्वये स्यातां नक्षत्रं च तिथिर्यदि ॥ १,२९.१३ ॥ क्षये पूर्वा प्रशस्ता स्याद्रृद्धौ कार्या तथोत्तरा । अर्ध्दरात्रद्वयव्यात्पा तिथिर्नक्षत्रघसंयुता ॥ १,२९.१४ ॥ ह्नासवृद्धिविशून्या चेत्ग्राह्यापूर्वा तथा परा । ज्येष्ठासंमिश्रितं मूलं रोहिणी वह्निंसंयुता ॥ १,२९.१५ ॥ मैत्रेण संयुता ज्येष्टा संतानादिविनाशैनी । ततः स्युस्तिथयः पुण्याः कर्मानुष्टानतो दिवा ॥ १,२९.१६ ॥ रात्रिव्रतेषु सर्वेषु रात्रियोगो विशिष्यते । तिथिर्नक्षघत्रयोगेन या पुण्या परिकीर्तिता ॥ १,२९.१७ ॥ तस्यां तु तद्वतं कार्यं सैव कार्या विचक्षणैः । उदयव्यापिनी ग्राह्या श्रवणद्वादशी व्रते ॥ १,२९.१८ ॥ सूर्येन्दुग्रहणे यावत्तावद्ग्राह्या जपादिषु । संक्रान्तिषु तु सर्वासु पुण्यकालोनिगद्यते ॥ १,२९.१९ ॥ स्नानदानजपादीनां कुर्वतामक्षय फलम् । तत्र कर्कटको ज्ञेयो दक्षिणायनसंक्रमः ॥ १,२९.२० ॥ पूर्वतो घटिकास्त्रिंशत्पुण्यकालं विदुर्बुधाः । वृषभे वृश्चिके चैव सिंहे कुम्भे तथैव च ॥ १,२९.२१ ॥ पूर्वमष्टमुहूर्तास्तु ग्राह्याः स्नानजपादिषु । तुलायां चैव मेषे च पूर्वतः परतस्तथा ॥ १,२९.२२ ॥ ज्ञेया दशैव घटिका दत्तस्याक्षयतावहाः । कन्यायां मिथुने चैव मीने धनुषि च द्विज ॥ १,२९.२३ ॥ घटिकाः षोडश ज्ञेया परतः पुण्यदायिकाः । माकरं संक्रमं प्राहुरुत्तरायणसंज्ञकम् ॥ १,२९.२४ ॥ परास्त्रिंशश्च घटिकाश्चत्वारिंशच्च पूर्ववत् । आदित्यशीतकिरणौ ग्राह्यावस्तङ्गतौ यदि ॥ १,२९.२५ ॥ स्नात्वा भुञ्जीत विप्रेन्द्र परेद्युः शुद्धमण्डलम् । दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूः स्मृता ॥ १,२९.२६ ॥ अमावास्या द्विधा प्रोक्ता विद्वद्भिर्धर्मालिप्सुभिः । सिनीवालीं द्विजैर्ग्राह्या साग्निकैः श्राद्धकर्मणि ॥ १,२९.२७ ॥ कहूः स्त्रीभिस्तथा शूद्रैपरि वानग्रिकैस्तथा । अपराह्नद्वयव्यापिन्यमावास्यातिथिर्यदि ॥ १,२९.२८ ॥ क्षये पूर्वा तु कर्त्तव्या वृद्धौ कार्या तथोत्तरा । अमावास्या प्रतीता चेन्मध्याह्नात्परतो यदि ॥ १,२९.२९ ॥ भूतविद्धेति विख्यातास्रद्भिः शास्त्रविशारदैः । अत्यन्तक्षयपक्षे तु परेद्युर्नापराह्नगा ॥ १,२९.३० ॥ तत्र ग्राह्या सिनीवाली सायाह्नव्यापिनी तिथिः । अर्वाचीनक्षये चचैव सायाह्नव्यापिनी तथा ॥ १,२९.३१ ॥ सिनीवाली परा ग्राह्या सर्वथा श्राद्धकर्मणि । अत्यन्ततिथिवृद्धौ तु भूतविद्धां परित्यजेत् ॥ १,२९.३२ ॥ ग्राह्या स्यादपराह्नस्था कुहूः पैतृककर्मणि । यथार्वाचीनवृद्धौ तु संत्याज्या भूतसंयुताः ॥ १,२९.३३ ॥ परेद्युर्विबुधश्रेष्ठैः कुहूर्ग्राह्या पराह्नगा । मध्याह्नद्वितये व्यात्पा ह्यमावास्या तिथिर्यदि ॥ १,२९.३४ ॥ तत्रेच्छया च संग्राह्या पूर्वा वाथ पराथवा । अन्वाधानं प्रवक्ष्यामि संतः संपूर्णवर्वणि ॥ १,२९.३५ ॥ प्रतिपद्दिवसे कुर्याद्यागं च मुनिसत्तम । पर्वणो यश्चतुर्थांश आद्याः प्रतिपदस्त्रयः ॥ १,२९.३६ ॥ यागकालः स विज्ञेयः प्रातरुक्तो मनीषिभिः । मध्याह्नद्वितये स्याताममावास्या च पूर्णिमा ॥ १,२९.३७ ॥ परेद्युरेव विप्रेन्द्र सद्यः कालो विधीयते ॥ १,२९.३८ ॥ पूर्वद्वये परेद्युः स्यात्संगवात्परतो मनीषिभिः । सद्यः कालः परेद्युः स्याज्ज्ञेयमेवं तिथिक्षये ॥ १,२९.३९ ॥ सर्वैरेकादशी ग्राह्या दशमीपरिवर्जिता । दशमीसंयुता हॄन्तिपुण्यं जन्मत्रयार्जितम् ॥ १,२९.४० ॥ एकादशी कलामात्रा द्वादश्यां तु प्रतीयते । द्वादशी च त्रयोदश्यामस्ति चेत्सा परा स्मृता ॥ १,२९.४१ ॥ संपूर्णैकादशी शुद्धा द्वादश्यां च प्रतीयते । त्रघयोदशी च रात्र्यन्ते तत्र वक्ष्यामि निर्णयम् ॥ १,२९.४२ ॥ पूर्वा गृहस्थैः सा कार्य्या ह्युत्तरा यतिभिस्तथा । गृहस्थाः सिद्धिमिच्छन्ति यतो मोक्षं यतीश्वराः ॥ १,२९.४३ ॥ द्वादश्यां तु कलायां वा यदि लभ्येत पारणा । तदानीं दशमीविद्धाप्युपोष्यैकादशी तिथिः ॥ १,२९.४४ ॥ शुल्के वा यदि वा कृष्णे भवेदेकादशीद्वयम् । गृहस्थानां तु पूर्वोक्ता यतीनामुत्तरा स्मृता ॥ १,२९.४५ ॥ द्वादश्यां विद्यते किञ्चिद्दशमीसंयुता यदि । दिनक्षये द्वितीयैव सर्वेषां परिकीर्तितां ॥ १,२९.४६ ॥ विद्धाप्येकादशी ग्राह्या परतो द्वादशी न चेत् । अविद्धापि निषिद्धैव परतो द्वादशी यदि ॥ १,२९.४७ ॥ एकादशी द्वादशी च रात्रघिशेषे त्रयोदशी । द्वादशद्वादशीपुण्यं त्रयोदश्यां तु पारणे ॥ १,२९.४८ ॥ एकादशी कलामात्रा विद्यते द्वादशीदिने । द्वादशी च त्रयोदश्यां नास्ति वा विद्यतेऽथवा ॥ १,२९.४९ ॥ विद्वाप्येकादशी तत्र पूर्वा स्याद्गृहणां तदा । यदिभिश्चोत्तरा ग्राह्या ह्यवीराभिस्तथैव च ॥ १,२९.५० ॥ संपूर्णैकादशी शुद्धा द्वादश्यां नास्ति किञ्चन । द्वादशी च त्रयोदशयामस्ति तत्र कथं भवेत् ॥ १,२९.५१ ॥ पूर्वा गृहस्थैः कार्यात्र यतिभिश्चोत्तरा तिथिः । उपोष्यैव द्वितीयेति केचिदाहुश्च भक्तितः ॥ १,२९.५२ ॥ एकादशी यदाविद्धा द्वादश्यां न प्रतीयते । द्वादशी च त्रयोदश्यामस्ति तत्रैव चापरे ॥ १,२९.५३ ॥ उपोष्या द्वादशी शुद्धा सर्वैरेव न संशयः । केचिदाहुश्च पूर्वां तु तन्मतं न समञ्जसम् ॥ १,२९.५४ ॥ संक्रातौ रविवारे च पातग्रहणयोस्तथा । पारणं चोपवासं च न कुर्यात्पुत्रवान्गृही ॥ १,२९.५५ ॥ अर्केऽह्नि पर्वरात्रघौ च चतुर्दश्यष्टमी दिवा । एकादश्यामहोरात्रं भुक्त्वा चान्द्रायणं चरेत् ॥ १,२९.५६ ॥ आदित्यग्रहणे प्रात्पे पूर्वयामत्रये तथा । नाद्याद्वै यदि भुञ्जीत सुरापेन समो भवेत् ॥ १,२९.५७ ॥ अन्वाधानेष्टिमध्ये तु ग्रहणे चन्द्रसूर्ययोः । प्रायश्चित्तं मुनिश्रेष्ठ कर्त्तव्यं तत्र याज्ञिकैः ॥ १,२९.५८ ॥ चद्रोपरागे जुहुयाद्दशमे सोम इत्यृचा । आप्यायस्व ऋचा चैव सोमपास्त इति द्विज ॥ १,२९.५९ ॥ सूर्योपरागे जुहुयादुदुत्यं जातवेदसम् । आसत्येंनोद्वयं चैव त्रयोमन्त्रा उदाहृताः ॥ १,२९.६० ॥ एवं तिथिं विनिश्चित्य स्मृतिमार्गेण पण्डितः । यः करोति व्रतादीनि तस्य स्यादक्षयं फलम् ॥ १,२९.६१ ॥ वेदप्रणिहितो धर्मो धर्मैस्तुष्यति केशवः । तस्माद्धर्मपरा यान्ति तद्विष्णोः परमं पदम् ॥ १,२९.६२ ॥ धर्मान्ये कर्त्तुमिच्छन्ति ते वै कृष्णस्वरुपिणः । तस्मात्तांस्तु भवव्याधिः कदाचिन्नैव बाधते ॥ १,२९.६३ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे तिथ्यादिनिर्णयो नाम एकोनत्रिंशोऽध्यायः _____________________________________________________________ सनक उवाच प्रायश्चित्तविधिं वक्ष्ये शृणु नारद सांप्रतम् । प्रायश्चित्तविशुद्धात्मा सर्वकर्मफलं लभेत् ॥ १,३०.१ ॥ प्रायश्चित्तविहीनैस्तु यत्कर्म क्रियते मुने । तत्सर्वं निष्फलं प्रोक्तं राक्षसैः परिसेवितम् ॥ १,३०.२ ॥ कामक्रोधविहीनैश्च धर्मशास्त्रविशारदैः । प्रष्टव्या ब्राह्मणा धर्मं सर्वधर्मफलेच्छुभिः ॥ १,३०.३ ॥ प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखैः । न निष्पुनन्ति विप्रेन्द्र सुराभाण्डमिवापगाः ॥ १,३०.४ ॥ ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः । महापातकिननस्त्वेते तत्संसर्गी च पञ्चमः ॥ १,३०.५ ॥ यस्तु संवत्सरं ह्यतैः शयनासनभोजनैः । संवसेत्सह तं विद्यात्पतितं सर्वकर्मसु ॥ १,३०.६ ॥ अज्ञानाद्वाह्मणं हत्वा चीरवासा जटी भवेत् । स्वेनैव हतविप्रस्य कपालमपि धारयेत् ॥ १,३०.७ ॥ तदभावे मुनिश्रष्ट कपालं वान्यमेव वा । तद्द्रव्यं ध्वजदण्डे तु धृत्वा वनचरो भवेत् ॥ १,३०.८ ॥ वन्याहारो वसेतत्र वारमेकं मिताशनः । सम्यक्संध्यामुपासीत त्रिकालं स्नानमाचरेत् ॥ १,३०.९ ॥ अध्ययनाध्यापनादून्वर्जयेत्संस्मरेद्धरिम् । ब्रह्मचारी भवेन्नित्यं गन्धमाल्यादि वर्जयेत् ॥ १,३०.१० ॥ तीर्थान्यनुवसेच्चैव पुण्याश्चावाश्रमांस्तथा । यदि वन्यैर्न जीवेत ग्रामे भिक्षां समाचरेत् ॥ १,३०.११ ॥ द्वादशाब्दं व्रतं कुर्यादेवं हरिपरायणः । ब्रह्महा शुद्धिमान्पोति कर्मार्हश्चैव जायते ॥ १,३०.१२ ॥ व्रतमध्ये मृगैर्वापि रोगैर्वापि निषूदितः । गोनिमित्तं द्विजार्थं वा प्राणान्वापि परित्यजेत् ॥ १,३०.१३ ॥ यद्वा दद्याद्द्विजेन्द्राणां गवामयुतमुत्तसम् । एतेष्वन्यतमं कृत्वा ब्रह्महा शुद्धिमान्पुयात् ॥ १,३०.१४ ॥ दीक्षितं क्षत्रियं हत्वा चरेद्धि ब्रह्महव्रतम् । अग्निप्रवेशनं वापि मरुत्प्रपतनं तथा ॥ १,३०.१५ ॥ दीक्षीतं ब्राह्मणं हत्वा द्विगुणं व्रतमाचरेत् । आचार्यादिवधे चैव व्रतमुक्तं चतुर्गुणम् ॥ १,३०.१६ ॥ हत्वा तु विप्रमात्रं च चरेत्संवत्सरं व्रतम् । एवं विप्रस्य गदितः प्रायश्चित्तविधिर्द्विज ॥ १,३०.१७॥ । द्विगुणं क्षत्रियस्योक्तं त्रिगुणं तु विशः स्मृतम् । ब्राह्मणं हॄन्ति यः शूद्रस्तं मुशल्यं विर्दुर्बुधाः ॥ १,३०.१८ ॥ राज्ञैव शिक्षा कर्तव्या इति शास्तेषु निश्चयः । ब्राह्मणीनां वधे त्वर्द्धं पादः स्यात्कन्यकावधे ॥ १,३०.१९ ॥ हत्वा त्वनुपनीतांश्च तथा पादव्रतं चरेत् । हत्वा तु क्षत्रियं विप्रः षडब्दं कुच्छ्रमाचरेत् ॥ १,३०.२० ॥ संवत्सरं त्रयं वेश्यं शूर्द्रं हत्वा तु वत्सरम् । दीक्षितस्य स्त्रियं हत्वा ब्राह्मणी चाष्टवत्सरान् ॥ १,३०.२१ ॥ ब्रह्महत्याव्रतं कृत्वा शुद्धो भवति निश्चितम् । प्रावश्चित्तं विधानं तु सर्वत्र मुनिसत्तम ॥ १,३०.२२ ॥ वृद्धातुरस्त्रीबालानामर्द्धमुक्तं मनीषिभिः । गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ॥ १,३०.२३ ॥ चातुर्वर्ण्यारपेया स्यात्तथा स्त्रीभिश्च नारद । क्षीरं घृतं वा गोमूत्रमेतेष्वन्यतमं मुने ॥ १,३०.२४ ॥ स्नात्वर्द्रवासा नियतो नारायणमनुस्मरन् । पक्वायसनिभं कृत्वा पिबेज्चैवोदकं ततः ॥ १,३०.२५ ॥ तत्तु लौहेन पात्रेण ह्यायसेनाथवा पिबेत् । ताम्रेण वाथं पात्रेण तत्पीत्वा मरणं व्रजेत् ॥ १,३०.२६ ॥ सुरापी शुद्धिमान्पोति नान्यथा शुद्धिरिष्यते । अज्ञानादात्मबुद्द्या तु सुरां पीत्वा द्विजश्चरेत् ॥ १,३०.२७ ॥ ब्रह्महत्याव्रतं सम्यक्तच्चिह्नपरिवर्जितः । यदि रोगानिवृत्त्यर्थमौषधार्थं सुरां पिबेत् ॥ १,३०.२८ ॥ तस्योपनयनं भूयस्तथा चान्द्रायणद्वयम् । सुरासंस्पृष्टपात्रं तु सुराभाण्डोदकं तथा ॥ १,३०.२९ ॥ सुरापानसमं प्राहुस्तथा चन्द्रस्य भक्षणम् । तालं च पानसं चैव द्राक्षं खार्जूरसंभवम् ॥ १,३०.३० ॥ माधुक शैलमारिष्टं मैरेयं नालिकेरजम् । गौडी माध्वी सुरा मद्यमेवमेकादश स्मृताः ॥ १,३०.३१ ॥ एतेष्वन्यतमं विप्रो न पिबेद्वै कदाचन । एतेष्वन्यतमं यस्तु पिवेदज्ञानतो द्विजः ॥ १,३०.३२ ॥ तस्योपनयनं भूयस्तत्पकृच्छ्रं चरेत्तथा । समक्षं वा परोक्षं वा बलाच्चौयण वा तथा ॥ १,३०.३३ ॥ परस्वानामुपादानं स्तेयमित्युच्यते बुधैः । सुवर्णस्य प्रमाणं तु मन्वाद्यैः परिभाषितम् ॥ १,३०.३४ ॥ वक्ष्ये शृणुष्व विप्रेन्द्र प्रायश्चजितोक्तिसाधनम् । गवाक्षागतमार्तण्डरश्मिमध्ये प्रदृश्यते ॥ १,३०.३५ ॥ त्रसरेणुप्रमाणं तु रज इत्युच्यते बुधैः । त्रसरेण्वष्टकं निष्कस्तत्रयं राजसर्षपः ॥ १,३०.३६ ॥ मौरसर्षपस्तर्त्रयं स्यात्तत्षट्कं यव उच्यते । यवत्रयं कृष्णलः स्यान्माषस्तत्पञ्चकं स्मृतः ॥ १,३०.३७ ॥ माषषोडषमानं स्यात्सुवर्णमिति नारद । हत्वा ब्रह्मस्वमज्ञानाद्द्वादशांब्दं तु पूर्ववत् ॥ १,३०.३८ ॥ कपालध्वजहीनं तु ब्रह्महत्याव्रतं चरेत् । गुरुणां यज्ञकतॄणां धार्मिष्टानां तथैव च ॥ १,३०.३९ ॥ श्रोत्रियाणां द्विजानां तु हृत्वा हेमैवमाचरेत् । कृतानुतापो देहे च संपूर्णे लेपयेद्धृतम् ॥ १,३०.४० ॥ करीषच्छादितो दग्धः स्तेयपापाद्विमुच्यते । ब्रह्मस्वं क्षत्रियो हृत्वा पश्चात्तापमवाप्य च ॥ १,३०.४१ ॥ पुनर्ददाति तत्रैव तद्विधानं शृणुष्व मे । तत्र सांतपनं कृत्वा द्वादशाहोपवासतः ॥ १,३०.४२ ॥ शुद्धिमाप्नोति देवर्षे ह्यन्यथा पतितो भवेत् । रन्तासनमनुष्यस्त्रीधेनुभूम्यादिकेषु च ॥ १,३०.४३ ॥ सुवर्णसहृशेष्वेषु प्रायश्चितार्द्धमुच्यते । त्रसरेणुसमं हेम हृत्वा कुर्यात्समाहितः ॥ १,३०.४४ ॥ प्राणायामद्वयं सम्यक्तेन शुद्धच्चति मानवः । प्राणायामत्रयं कुर्याद्धृत्वा निष्कप्रमाणकम् ॥ १,३०.४५ ॥ प्राणायामाश्च चत्वारो राजसर्ष पमात्रके । गौरसर्षपमानं तु हृत्वा हेम विचक्षणः ॥ १,३०.४६ ॥ स्नात्वा च विधिवज्जप्याद्गायत्र्यष्टसहस्रकम् । यवमात्रसुवर्णस्य स्तेयाच्छुद्धो भवेद्दिजः ॥ १,३०.४७ ॥ आसायं प्रातरारभ्य जप्त्वा वै वेदमातरम् । हेम कृष्णलमात्रं तु हृत्वा सांतपनं चरेत् ॥ १,३०.४८ ॥ माषप्रमाणे हेम्नस्तु प्रायश्चित्तं निगद्यते । गोमूत्रपक्वयवभुग्वर्षेणैकेन शुद्ध्यति ॥ १,३०.४९ ॥ संपूर्णस्य सुवर्णस्य स्तेयं कृत्वा मुनीश्वर । ब्रह्महत्याव्रतं कुर्याद्द्वादशाब्दं समाहितः ॥ १,३०.५० ॥ सुवर्णमानान्न्यूने तु रजतस्तेयकर्मणि । कुर्यात्सांतपनं सम्यगन्यथा पतितो भवेत् ॥ १,३०.५१ ॥ दशनिष्कान्तपर्यन्तमूर्द्धूं निष्कचतुष्टयात् । हत्वा च रजतं विद्वान्कुर्याच्चान्द्रायणं मुने ॥ १,३०.५२ ॥ दशादिशतिष्कान्तं यः स्तेयी रजतस्य तु । चान्द्रायणद्वयं तस्य प्रोक्तं पापविशोधकम् ॥ १,३०.५३ ॥ शतादूर्द्धूं सहस्रान्तं प्रोक्तं चान्द्रायणत्रयम् । सहस्रादधिकस्तेये ब्रह्महत्याव्रतं चरेत् ॥ १,३०.५४ ॥ कांस्यपित्तलमुख्येषु ह्ययस्कान्ते तथैव च । सहस्रनिष्कमाने तु पराकं परिकीर्तितम् ॥ १,३०.५५ ॥ प्रायश्चित्तं तु रन्तानां स्तेये राजतवत्स्मृतम् । गुरुतल्पगतानां च प्रायश्चित्तमुदीर्यते ॥ १,३०.५६ ॥ अज्ञानान्मातरं गत्वा तत्सपत्नीमथापि वा । स्वयमेव स्वमुष्कं तु च्छिन्द्यात्पापमुदीरयन् ॥ १,३०.५७ ॥ हस्ते गृहीत्वा मुष्कं तु गच्छन्द्वै नैऋतीं दिशम् । गच्छन्मार्गै सुखं दुःखं न कदाचिद्विचारयेत् ॥ १,३०.५८ ॥ अपश्यन्गच्छतो गच्छेत्पाणान्तं यः स शुद्ध्यति । मरुत्प्रपतनं वापि कुर्यात्पापमुदाहरन् ॥ १,३०.५९ ॥ स्ववर्णोत्तमवर्णस्त्रीगमने त्वविचारतः । ब्राह्महत्याव्रतं कुर्याद्वादशाब्दं समाहितः ॥ १,३०.६० ॥ अमत्याभ्यासतो गच्छेत्सवर्णां चोत्तमां तथा । कारीषवह्निना दग्धः शुद्धिं याति द्विजोत्तम ॥ १,३०.६१ ॥ रेतःसेकात्पूर्वमेव निवृत्तो यदि मातरि । ब्रह्महत्याव्रतं कुर्याद्रेतः सेकेऽग्निदाहनम् ॥ १,३०.६२ ॥ सवर्णोत्तमवर्णासु निवृत्तो वीर्यसेचनात् । ब्रह्महत्याव्रतं कुर्यान्नवाब्दान्विष्णुतत्परः ॥ १,३०.६३ ॥ वैश्यायां पितृपत्न्यां तु षडब्दं व्रतमाचरेत् । गत्वा शूद्वां गुरोर्भार्यां त्रिवर्षं व्रतमाचरेत् ॥ १,३०.६४ ॥ मातृष्वसारं च पितृष्वसारमाचार्यभार्यां श्वशुरस्य पत्नीम् । पितृव्यभार्यामथ मातुलानीं पुत्रीं च गच्छेद्यदि काममुग्धः ॥ १,३०.६५ ॥ दिनद्वये ब्रह्महत्याव्रतं कुर्याद्यथाविधि । एकस्मिन्नेव दिवसे बहुवारं त्रिवार्षिकम् ॥ १,३०.६६ ॥ एकवारं गते ह्यब्दंव्रतं कृत्वा विशुद्ध्यति । दिनत्रये गते वह्निदग्धः शुध्येत नान्यथा ॥ १,३०.६७ ॥ चाञ्जालीं पुष्कसीं चैव स्नुषां च भगिनीं तथा । मित्रस्त्रियं शिष्यपत्नीं यस्तु वै कामतो व्रजेत् ॥ १,३०.६८ ॥ ब्रह्महत्याव्रतं कुर्यात्स षडब्दं मुनीश्वर । अकामतो व्रजेद्यस्तु सोऽब्दकृच्छ्रं समाचरेत् ॥ १,३०.६९ ॥ महापातकिसंसर्गे प्रायश्चित्तं निगद्यते । प्रायश्चित्तविशुद्धात्मा सर्वकर्मफलं लभेत् ॥ १,३०.७० ॥ यस्य येन भवेत्संगो ब्रह्महान्दिचतुर्ष्वपि । तत्तद्व्रतं स निव्रर्त्य शुद्धिमान्पोत्यसंशयम् ॥ १,३०.७१ ॥ अज्ञानात्पञ्चरात्रं तु संगमेभिः करोतियः । कायकृच्छ्रं चरेत्सम्यगन्यथा पतितो भवेत् ॥ १,३०.७२ ॥ द्वादशाहेतु संसर्गे महासांतपनं स्मृतम् । संगङ्कृत्वार्द्धमासं तु द्वादशाहमुपावसेत् ॥ १,३०.७३ ॥ पराको माससंसर्गे चान्द्रमासत्रयेस्मृतम् । कृत्वा संगं तु षण्मासं चरेच्चान्द्रायणद्वयम् ॥ १,३०.७४ ॥ किञ्चिन्न्यूनाब्दसंगे तु षण्मासव्रतमाचरेत् । एतच्च त्रिगुणं प्रोक्तं ज्ञानात्संगे यथाक्रमम् ॥ १,३०.७५ ॥ मण्डूकं नकुलं काकं वराहं मूषकं तथा । मार्जाराजाविकं श्वानं हत्वा कुक्कुटकं तथा ॥ १,३०.७६ ॥ कृच्छ्रार्द्धमाचरेद्विप्रोऽतिकृच्छ्रं चाश्वह चरेत् । जत्पकृच्छ्रं करिवधे पराकं गोवधे स्मृतम् ॥ १,३०.७७ ॥ कामतो गोवधे नैव शुद्धिर्द्दष्टा मनीषिभिः । पानशय्यासनाद्येषु पुष्पमूलफलेषु च ॥ १,३०.७८ ॥ भक्ष्यभोज्यापहारेषु पञ्चगव्यविशोधनम् । शुष्ककाष्टतृणानां च द्रुमाणां च गुडस्य च ॥ १,३०.७९ ॥ चर्मवस्त्रामिषाणां च त्रिरात्रं स्यादभोजनम् । टिट्टिभं चक्रवाकं च हंसं कारण्डवं तथा ॥ १,३०.८० ॥ उलूकं सारसं चैव पकोतं जलपादकम् । शुकं चाषं बलाकं च शिशुमारं च कच्छपम् ॥ १,३०.८१ ॥ एतेष्वन्यतमं हत्वा द्वादशाहमभोजनम् । प्राजापत्यव्रतं कुर्याद्रेतोविण्मूत्रभोजने ॥ १,३०.८२ ॥ चान्द्रायणत्रयं प्रोक्तं शूद्रोच्छिष्टस्य भोजने । रजस्वलां च चाण्डालं महापातकिनं तथा ॥ १,३०.८३ ॥ सूतिकां पतितं चैव उच्छिष्टं रजकादिकम् । स्पृष्ट्वा सचैलं स्नायीत घृतं संप्राशेयत्तथा ॥ १,३०.८४ ॥ गायत्रीं च विशुद्धात्मा जपेदष्टशतं द्विज । एतेष्वन्यतमं स्पृष्ट्वा अज्ञानाधद्यदि भोजने ॥ १,३०.८५ ॥ त्रिरात्रो पोषणाच्छुद्ध्ये त्पञ्चगव्याशनाद्विज । स्नानदानजपादौ च भोजनादौ च नारद ॥ १,३०.८६ ॥ एषामन्यतमस्यापि शब्दं यः शृणुयाद्वदेत् । उद्वमेद्धुक्तमंन्नतत्स्त्रात्वा चोपवसेत्तथा ॥ १,३०.८७ ॥ द्वितीयेऽह्नि घृतं प्राश्य शुद्धिमान्पोति नारद । व्रतादिमध्ये यद्येषा शृणुयाद्धूनिमप्युत ॥ १,३०.८८ ॥ अष्टोत्तरसहस्रं तु जपेद्रै वेदमातरम् । पापानामधिकं पापं द्विजदैवतनिन्दनम् ॥ १,३०.८९ ॥ न दृष्ट्वा निष्कृतिस्तस्य सर्वशास्त्रेषु नारद । महापातकतुल्यानि यानि प्रोक्तानि सूरिभिः ॥ १,३०.९० ॥ प्रायश्चित्तं तु तेषां च कुर्यादेवं यथाविधि । प्रायश्चित्तानि यः कुर्यान्नारायणपरायणः ॥ १,३०.९१ ॥ तस्य पापानि नश्यन्तिह्यन्यथा पतितो भवेत् । यस्तु रागादिनिर्मुक्तो ह्यनुतापसमन्वितः ॥ १,३०.९२ ॥ सर्वभूतययायुक्तो विष्णुस्मरणतत्परः । महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥ १,३०.९३ ॥ विमुक्त एव पापेभ्यो ज्ञेयो विष्णुपरो यतः । नारायणमनान्द्यन्तं विश्वाकारमनामयम् ॥ १,३०.९४ ॥ यस्तु संस्मरते मर्त्यः स मुक्तः पापकोटिभिः । स्मृतो वा पूजितो वापि ध्यातः प्रणमितोऽपि वा ॥ १,३०.९५ ॥ नाशयत्येव पापानि विष्णुर्हृद्गमनः सताम् । संपर्काद्यदि वा मोहाद्यस्तु पूजयते हरिम् ॥ १,३०.९६ ॥ सर्वपापविनिर्मुक्तः स प्रयाति हरेः पदम् । सकृत्संस्मरणाद्विष्णोर्नश्यन्ति क्लेशसंचयाः ॥ १,३०.९७ ॥ स्वर्गादिभोगप्रात्पिस्तु तस्य विप्रानुमीयते । मानुषं दुर्लभं जन्म प्राप्यते यैर्मुनीश्वर ॥ १,३०.९८ ॥ तत्रापि हरिभक्तिस्तु दुर्लभा परिकीर्त्तिता । तस्मात्तडिल्लतालोलं मानुष्यं प्राप्य दुर्लभम् ॥ १,३०.९९ ॥ हरिं संपूजयेद्भक्त्या पशुपाशविमोचनम् । सर्वेऽन्तराया नश्यन्ति मनःशुद्धिश्च जायते ॥ १,३०.१०० ॥ परं मोक्षं लभेश्चैव पूजिते तु जनार्दने । धर्मार्थकामोक्षाख्याः पुरुषार्थाः सनातनाः ॥ १,३०.१०१ ॥ हरिपूजापराणां तु सिध्यन्ति नात्र संशयः । पुत्रदारगृहक्षेत्रधनधान्याभिधावतीम् ॥ १,३०.१०२ ॥ लब्ध्वेमां मानुषीं वृत्तिं रेरे दर्पं तु मा कृथाः । संत्यज्य कामं क्रोधं च लोभं मोहं मदं तथा ॥ १,३०.१०३ ॥ परापवादं निन्दां च भजध्वं भक्तितो हरिम् । व्यापारान्सकलांस्त्क्त्वा पूजयध्वं जनार्दनम् ॥ १,३०.१०४ ॥ निकटा एव दृश्यन्ते कृतान्तनगरद्रुमाः । यावन्नायाति मरणं यावन्नायाति वै जरा ॥ १,३०.१०५ ॥ यावन्नेन्द्रियवैकल्यं तावदेवाचर्येद्धरिम् । धीमान्नकुर्याद्विश्वासं शरीरेऽस्मिन्विनश्वरे ॥ १,३०.१०६ ॥ नित्यं सन्निहितो मृत्युः संपदत्यन्तचञ्चला । आसन्नमरणो देहस्तस्माद्दर्प्पं विमुचत ॥ १,३०.१०७ ॥ संयोगा विप्रयोगान्ताः सर्वं च घक्षणभङ्गुरम् । एतज्ज्ञात्वा महाभाग पूजयस्व जनार्दनम् ॥ १,३०.१०८ ॥ आशया व्यथते चैव मोक्षस्त्वत्यन्तदुर्लभः । भक्त्या यजति यो विष्णुं महापातकवानपि ॥ १,३०.१०९ ॥ सोऽपि याति परं स्थानं यत्रघ गत्वा न शोचति । सर्वतीर्थानि यज्ञाश्च सांगा वेदाश्च सत्तम ॥ १,३०.११० ॥ नारायणार्चनस्यैते कलां नार्हन्ति षोडशीम् । किं वै वेदैर्मखैः शास्त्रैः किंवा तीर्थनिषेवणैः ॥ १,३०.१११ ॥ विष्णुभक्तिविहीनानां किं तपोभिर्व्रतैरपि ॥ १,३०.११२ ॥ यजन्ति ये विष्णुमनन्तमृर्तिं निरीक्ष्य चाकारगतं वरेण्यम् । वेदान्तवेद्यं भवरोगवैद्यं ते यान्ति मर्त्याः पदमच्युतस्य ॥ १,३०.११३ ॥ अनादिमात्मानमनन्तशक्तिमाधारभूतं जगतः सुरेड्यम् । ज्योतिः स्वरुपं परमच्युताख्यं स्मृत्वा समभ्येति नरः सखायम् ॥ १,३०.११४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे प्रायश्चित्तविधिर्नाम घत्रिंशोऽध्यायः _____________________________________________________________ नारद उवाच कथितो भवता सम्यग्वर्णाश्रमविधिर्मुने । इदानीं श्रोतुमिच्छामि यममार्गं सुदुर्गमम् ॥ १,३१.१ ॥ सनक उवाच शृणु विप्र प्रवक्ष्यामि यममार्गं सुदुर्गमम् । सुखदं पुण्यशीलानां पापिनां भयदायकम् ॥ १,३१.२ ॥ षडशीतिसहस्राणि योजनार्निनि मुनीश्वर । यममार्गस्य विस्तारः कथैतः पूर्वसूरिभिः ॥ १,३१.३ ॥ ये नरा दानशीलास्तु ते यान्ति सुखिनो द्विज । धर्मशून्या नरा यान्ति दुःखेन भृशमर्दिताः ॥ १,३१.४ ॥ अतिभीता विवश्त्राश्च शुष्ककण्ठौष्ठतालुकाः । क्रदन्तो विस्तरं दीनाः पापिनो यान्ति तत्पथि ॥ १,३१.५ ॥ हन्यमाना यमभटैः प्रतोदाद्यैस्तथायुधैः ॥ १,३१.६ ॥ इतस्ततः प्रधावन्तो यान्ति दुःखेन तत्पथि । क्वचित्पङ्कः क्वचिदूह्निः क्वचित्सेतत्पसैकतम् । क्वचिद्वै दावरुपेणः तीक्ष्णधाराः शिलाः क्वचित् ॥ १,३१.७ ॥ क्वचित्कण्टकवृक्षाश्च दुःखारोहशिला नगाः । गाढान्धकाराशअच गुहाः कण्टकावरणं महत् ॥ १,३१.८ ॥ वप्राग्रारोहणं चैव कन्दरस्य प्रवेशनम् । शर्कराश्च तथा लोष्टाः सूचीतुल्याश्च कण्टकाः ॥ १,३१.९ ॥ शैवालं च क्वचिन्मार्गे क्वचित्कीचकपङ्क्तयः । क्वचिव्द्याव्राश्च गर्जन्ते वर्धन्ते च क्वचिज्ज्वराः ॥ १,३१.१० ॥ एवं बहुविधक्लेशाः पापिनो यान्ति नारद । क्रोशन्तश्च रुदन्तश्च म्लायन्तश्चैव पापिनः ॥ १,३१.११ ॥ पाशेन यन्त्रिताः केचित्कृष्यमाणास्तथाङ्कुशैः । शास्त्रास्त्रैस्ताड्यमानाश्च पृष्टतो यान्ति पापिनः ॥ १,३१.१२ ॥ नासाग्रपाशकृष्टाश्च केचिदन्त्रैश्च बधिताः । वहॄन्तश्चायसां भारं शिश्राग्रेण प्रयान्ति वै ॥ १,३१.१३ ॥ अयोभारद्वयं केचिन्नासाग्रेण तथापरे । कर्णाभ्यां च तथा केचिद्वहॄन्तो यान्ति पापिनः ॥ १,३१.१४ ॥ केचिच्च स्खलिता यान्ति ताड्यमानास्तथापरे । अत्यर्थोच्ङ्वसिताः केचित्केचिदाच्छत्रलोचनाः ॥ १,३१.१५ ॥ छायाजलविहीने तु पथि यान्त्यतिदुःखिताः । शोचन्तः स्वानि कर्मणि ज्ञानाज्ञानकृतानि च ॥ १,३१.१६ ॥ ये तु नारद धर्मिष्ठा दानशीला सुबुद्धयः । अतीव सुखसंपन्नास्ते यान्ति धर्ममन्दिरम् ॥ १,३१.१७ ॥ अन्नदास्तु मुनुश्रेष्ठ भुञ्जन्तः स्वादु यान्ति वै । नीरदा यान्ति सुखिनः पिबन्तः क्षीरमुत्तममम् । तक्रदा दधिदाश्चैव तत्तद्भोगं लभन्ति वै । घृतदा मधुदाश्चैव क्षीरदाश्च द्विजोत्तम ॥ १,३१.१८ ॥ सुधापानं प्रकुर्वन्तो यान्ति वै धर्ममन्दिरम् । शाकदाः पायसं भुञ्जंन्दीपदो ज्वलयन्दिशः ॥ १,३१.१९ ॥ वस्त्रदो मुनुशार्दूल याति दिव्याम्बरावृतः । पुराकरप्रदो याति स्तूयमानोऽमरैः पथि ॥ १,३१.२० ॥ गोदानेन नरो याति सर्वसौख्यसमन्वितः । भूमिदो गृहदश्चैव विमाने सर्वसंपदि ॥ १,३१.२१ ॥ अप्सरोगणसंकीर्णे क्रीडन्याति वृषालयम् । हयदो यानदश्चापि गजदश्च द्विजोत्तम ॥ १,३१.२२ ॥ धर्मालयं विमानेन याति भोगान्वितेन वै । अनडुद्दो मुनिश्रेष्ठ यानारुढः प्रयाति वै ॥ १,३१.२३ ॥ फलदः पुष्पदश्चापि याति संतोषसंयुतः । तांबूलदो नरो याति प्रहृष्टोर्धममन्दिरम् ॥ १,३१.२४ ॥ मातापित्रोश्च शुश्रूषां कृतवान्यो नरोत्तमः । स याति परितुष्टात्मा पूज्यमानो दिविस्थितैः ॥ १,३१.२५ ॥ शुश्रूषां कुरुते यस्तु यतीनां व्रतचारिणाम् । द्विजग्र्यब्राह्मणानां च स यात्वतिसुखान्वितः ॥ १,३१.२६ ॥ सर्वभूतदयायुक्तः पूज्यमानोऽमरैर्द्विजः । सर्वभोगान्वितेनासौ विमानेन प्रयाति च ॥ १,३१.२७ ॥ विद्यादानरतो याति पूज्यमानोऽब्जसूनुभिः । पुराणपठको याति स्तूयमानो मुनीश्वरैः ॥ १,३१.२८ ॥ एवं धर्मपरा यान्ति सुखं धर्मस्य मन्दिरम् । यमश्चतुर्मुखो भूत्वा शङ्खचक्रगदासिभृत् ॥ १,३१.२९ ॥ पुण्यकर्मरतं सम्यक्स्नेहान्मित्रमिवार्चति । भो भो बुद्धिमतां श्रेष्ठानरकक्लेषभीरवः ॥ १,३१.३० ॥ युष्माभिः साधितं पुण्यमत्रामुत्रसुखावहम् । मनुषथ्य जन्म यः प्राप्य सुकृतं न करोति च ॥ १,३१.३१ ॥ स एव पापिनां श्रेष्ठ आत्मघातं करोति च । अनित्यं प्राप्य मानुष्यं नित्यं यस्तु न साधयेत् ॥ १,३१.३२ ॥ स याति नरकं घोरं कोऽन्यस्तस्मादचेतनः । शरीरं यातनारुपं मलाद्यैः परिदूषितम् ॥ १,३१.३३ ॥ तस्मिन्यो याति विश्वासं तं विद्यादात्मघातकम् । सर्वेषु प्राणिनः श्रेष्ठास्तेषु वै बुद्धिजीविनः ॥ १,३१.३४ ॥ बुद्धिमस्तु नराः श्रेष्ठा नरेषु ब्राह्मणास्तथा । ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ॥ १,३१.३५ ॥ कृतबुद्धिषु कर्त्तारः कर्तृषु ब्रह्मवादिनः । ब्रह्मवादिष्वपि तथा श्रेष्ठो निर्मम उच्यते ॥ १,३१.३६ ॥ एतेभ्योऽपि परो ज्ञेयो नित्यं ध्यानपरायणः । तस्मात्सर्वप्रयत्नेन कर्त्तव्यो धर्मसंग्रहः ॥ १,३१.३७ ॥ सर्वत्र पूज्यते जन्तुर्धर्मवान्नात्र संशयः । गच्छ स्वपुण्यैर्मत्स्थानं सर्वभोगसमन्वितम् ॥ १,३१.३८ ॥ अस्ति चेद्दुष्कृतं किञ्चित्पश्चादत्रैव भोक्ष्यसे । एवं यमस्तमभ्यर्च्य प्रापयित्वा च सद्गतिम् ॥ १,३१.३९ ॥ आहूय पापिनश्चैव कालदण्डेन तर्जयेत् । प्रलयांबुदनिर्घोषो ह्यञ्जनाद्रिसमप्रभः ॥ १,३१.४० ॥ विद्युत्प्र भायुर्घोर्भीमो द्वात्रिंशद्भुजसंयुतः । योजनत्रयविस्तारो रक्ताक्षो दीर्घनासिकः ॥ १,३१.४१ ॥ दंष्ट्राकरालवदनो वापीतुल्योग्रलोचनः । मृत्युज्वरादिभिर्युक्तश्चित्रगुत्पोऽपि भीषणः ॥ १,३१.४२ ॥ सर्वे दूताश्च गर्जन्ति यमतुल्यविभीषणाः । ततो ब्रवीति तान्सर्वान्कंपमानांश्च पापिनः ॥ १,३१.४३ ॥ शोचन्तः स्वानि कर्माणि चित्रगुत्पो यमाज्ञया । भो भो पापा दुराचारा अहॄङ्कारप्रदूषिताः ॥ १,३१.४४ ॥ किमर्थमर्जितं पापं युष्माभिरविवेकिभिः । कामक्तोधादिदृष्टेन सगर्वेण तु चेतसा ॥ १,३१.४५ ॥ यद्यत्पापतरं तत्तत्किमर्थं चरितं जनाः । कृतवन्तः पुरा पापान्यत्यन्तहर्षिताः ॥ १,३१.४६ ॥ तथैव यातना भोज्याः किं वृथा ह्यतिदुरिवताः । भृत्यमित्रकलत्रार्थं दुष्कृतं चरितं यथा ॥ १,३१.४७ ॥ तथा कर्मवशात्प्रात्पा यूयमत्रातिदुःखिताः । युष्माभिः पोषिता ये तु पुत्राद्या अन्यतोगताः ॥ १,३१.४८ ॥ युष्माकमेव तत्पापं प्रात्पं किं दुःखकारणम् । यथा कृतानि पापानि युष्माभिः सुबहूनि वै ॥ १,३१.४९ ॥ तथा प्रात्पानि दुःखानि किमर्थमिह दुःखिताः । विचारयध्वं यूयं तु युष्माभिश्चारितं पुरा ॥ १,३१.५० ॥ यमः करिष्यते दण्डमिति किं न विचारितम् । दरिद्रेऽपि च मूर्खे च पण्डिते वा श्रियान्विते ॥ १,३१.५१ ॥ कान्दिशीके च वीरे च समवर्तीः यमः स्मृतः । चित्रगुत्पेरितं वाक्यं श्रुत्वा ते पापिनस्तदा ॥ १,३१.५२ ॥ शौचन्तः स्वानि कर्मणि तूष्णीं तिष्टन्ति भीषिताः । यमाज्ञाकारिणः क्रूरश्चण्डा दूता भयानकाः ॥ १,३१.५३ ॥ चण्डलाद्याः प्रसह्यैतान्नरकेषु क्षिपन्ति च । स्वदुष्कर्मफलं ते तु भुक्त्वान्ते पापशेषतः ॥ १,३१.५४ ॥ महीतलं च संप्राप्य भवन्ति स्थआवरादयः । नारद उवाच भगवन्संशयो जातो मच्चेतसि दयानिधे ॥ १,३१.५५ ॥ त्वं समर्थोऽसि तच्छेत्तुं यतो नो ह्यग्रजो भवान् । धर्माश्च विविधाः प्रोक्ताः पापान्यपि बहूनि च ॥ १,३१.५६ ॥ चिरभोज्यं फलं तेषामुक्तं बहुविदा त्वया । दिनान्ते ब्रह्मणः प्रोक्तो नाशो लोकत्रयस्य वै ॥ १,३१.५७ ॥ परार्द्धद्वितयान्ते तु ब्रह्माण्डस्यापि संक्षयः । ग्रामदानादिपुण्यानां त्वयैव विधिनन्दन ॥ १,३१.५८ ॥ कल्पकोटिसहस्रेषु महान्भोग उदाहृतः । सर्वेषामेव लोकानां विनाशः प्राकृते लये ॥ १,३१.५९ ॥ एकः शिष्यत एवेति त्वया प्रोक्तं जनार्दनः । एष मे संशयो जातस्तं भवाञ्छेत्तुमर्हति ॥ १,३१.६० ॥ पुण्यपापोपभोगानां समात्पिर्नास्य संप्लवे । सनक उवाच साधु साधौ महाप्राज्ञ गुह्याद्गुह्यतमं त्विदम् ॥ १,३१.६१ ॥ पृष्टं तत्तेऽभिधास्यामि शृणुष्व सुसमाहितः । नारायणोऽक्षरोऽनन्तः परं ज्योतिः सनातनः ॥ १,३१.६२ ॥ विशुद्धो निर्गुणो नित्यो मायामोहविवर्जितः । निर्गुणोऽपि परानन्दो गुणवानिव भाति यः ॥ १,३१.६३ ॥ ब्रह्मविष्णुशिवाद्यैस्तु भेदवानिव लक्ष्यते । गुणोपाधिकभेदेषु त्रिष्वेतेषु सनातन ॥ १,३१.६४ ॥ संयोज्य मायामखिलं जगत्कार्यं करोति च । ब्रह्मरुपेण सृजति विष्णुरुपेण पाति च ॥ १,३१.६५ ॥ अन्ते च रुद्ररुपेण सर्वमत्तीति निश्चितम् । प्रसयान्ते समुत्थाय ब्रह्मरुपी जनार्दनः ॥ १,३१.६६ ॥ चराचरात्मकं विश्वं यथापूर्वमकल्पयत् । स्थावराद्याशअच विप्रेन्द्र यत्र यत्र व्यवस्थिताः ॥ १,३१.६७ ॥ ब्रह्मा तत्तज्जगत्सर्वं यथापूर्वं करोति वै । तस्मात्कृतानां पापानां पुण्यानां चैव सत्तम ॥ १,३१.६८ ॥ अवश्यमेव भोक्तव्यं कर्मणां ह्यक्षयं फलम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ १,३१.६९ ॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । यो देवः सर्वलोकानामन्तरात्मा जगन्मयः । सर्वकर्मफलं भुक्ते परिपूर्णः सनातनः ॥ १,३१.७० ॥ योऽसौ विश्वंभरो देवो गुणमेदव्यवस्थितः । सूजत्यवति चात्त्येतत्सर्वं सर्वभुगव्ययः ॥ १,३१.७१ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे यमदूतकृत्यनिरुपणं नामैकत्रिंशोऽध्यायः _____________________________________________________________ सनक उवाच एवं कर्मपाशनियन्त्रितजन्ततवः स्वर्गादिपुण्यस्थानेषु पुण्यभोगमनुभूय यातीव दुःखतरं पापफलमनुभूय प्रक्षीणकर्मा वशेषेणामुं लोकमागत्य सर्वभयविह्वलेषु मृत्युबाधासंयुतेषुस्थावरादिषु जायते । वृक्षगुल्मलतावल्लीगिरयश्च तृणानि च । स्थावरा इति विख्याता महामोहसमावृताः ॥ १,३२.१ ॥ स्थावरत्वे पृथिव्यामुत्पबीजानि जलसेकानुपदं सुसंस्कारसामग्रीवशादन्तरुष्मप्रपाचितान्युच्छूनत्वमापद्य ततो मूलभावं तन्मूलादङ्कुरोत्पत्तिस्तस्मादपि पर्णकाण्डनालादिकं काण्डेषु च प्रसवमापद्यन्ते तेषु च पुष्पसंभवः ॥ १,३२.२ ॥ तानि पुष्पाणि कानिचिदफलानि कानिचित्फलहेतुभूतानि तेषु पुष्पेषु वृद्धभावेषु सत्सु तत्पुष्पमूलतस्तुषोत्पत्तिर्जायते तेषु तुषु भोक्तॄणां प्राणिनां संस्कारसामग्रीवशाद्धिमरश्मिकिरणासन्नतया तदोषधिरसस्तुषान्तः प्रविश्य क्षीरभावं समेत्य स्वकाले तण्डुलाकारतामुपगम्य प्राणिनां भोगसंस्कारवशात्संवत्सरे फलिनः स्युः ॥ १,३२.३ ॥ स्थावरत्वेऽपि बहुकालं वानरादिभिर्भुज्यमाना हि च्छेदनदवाग्निदहनशीतातपादिदुःखमनुभूय म्रियते । ततश्च क्रिमयो भूत्वा सदादुःखबहुलाः क्षणार्ध्दं जीवन्तः क्षणार्ध्दं म्रियमाणा बलवत्प्राणिपीडायां निवारयितुमक्षमाः शीतवातादिक्लेशभूयिष्ठा नित्यं क्षुधाक्षुधिता मलमूत्रादिषु सचरन्तो दुःखमनुभवन्ति ॥ १,३२.४ ॥ तत एव पद्मयोनिमागत्य बलवद्वाधोद्वेजिता वृथोद्वेगभूयिष्ठाः क्षुत्क्षान्ता नित्यं वनचारिणो मातृष्वपि विषयातुरा वातादिक्लेषबहुलाः कश्मिंश्चिज्जन्मनि तृणाशनाः कस्मिंश्चिज्जन्मनि मांसामेध्याद्यदनाः कस्मिंश्चिज्जन्मनि कन्दमूलफलाशना दुर्बलप्राणिपीडानिरता दुःखमनुभवन्ति ॥ १,३२.५ ॥ अण्डजत्वेऽपि वाताशनामांसामेध्याद्यशनाश्च परपीडापरायणा नित्यं दुःखबहुला ग्राम्यपशुयोनिमागता अपि स्वजातिवियोगभारोद्वहनपाशादिबन्धनताडनहलादिधारणादिसर्वदुःखान्यनुभवन्ति ॥ १,३२.६ ॥ एवं बहुयोनिषु संभ्रान्ताः क्रमेण मानुषं जन्म प्राप्नुवन्ति । केचिच्च पुण्यविशेषाद्युत्क्रमेणापि मनुष्यजन्माश्नुवते ॥ १,३२.७ ॥ मनुष्यजन्म नापि च चर्मकारचण्डालव्याधानापितरजककुंभकारलोहकारस्वर्णकारतन्तुवाचसौचिकजटिलसिद्धधावकलेखकभृतकशासनहारिनीचभृत्यद्ररिदहीनाङ्गाधिकाङ्गत्वादि दुःखबहुलज्वरतापशीतश्लेष्मगुल्मपादाक्षिशिरोगर्भपार्श्ववेदनादिदुःखमनुभवन्ति ॥ १,३२.८ ॥ मनुष्यत्वेऽपि यदा स्त्रीपुरुषयोर्व्यवायस्तत्समयेरेतो यदा जरायुं प्रविशति तदैव कर्मवशाज्जन्तुः शुक्रेण सह जरायुं प्रविश्य शुक्रशोणितकलले प्रवर्त्तते ॥ १,३२.९ ॥ तद्वीर्यं जीवप्रवेशात्पञ्चाहात्कललं भवति अर्द्धमासे । पलवलभावमुपेत्य मासे प्रादेशमात्रत्वमापद्यते ॥ १,३२.१० ॥ ततः प्रभृति वायुवशाच्चैतन्याभावेऽपि मातुरुह्ये दुःसहतापल्केशतयैकत्र स्थातुमशक्यत्वाद्भ्रमति ॥ १,३२.११ ॥ मासे द्वितीये पूर्णे पुरुषाकारमात्रतामुपगमय मासत्रितये पूर्णे करचरणाद्यवयवभावमुपगम्य चतुर्षु मासेषु गतेषु सर्वावयवानां संधिभेदपरिज्ञानं पञ्चस्वतीतेषु नखानामभिव्यञ्जककता षट्स्वतीतेषु नखसंधिपरिस्फुटतामुपगम्य नाभिसूत्रेण पुष्यमाणममेध्यमूत्रसिक्ताङ्गं जरायुणा बन्धितरक्तास्थिक्रिमिवसामज्जास्नायुकेशादिदूषिते कुत्सिते शरीरे निवासिनं स्वयमप्येवं परिदूषितदेहं मातुश्च कट्वम्ललवणात्युष्णभुक्तदह्यमात्मानं दृष्ट्वा देही पूर्वजन्मस्मरणानुभावात्पूर्वानुभूतनरकदुःथानि च स्मृत्वान्तर्दुःखेन च परिदह्यमानो मातुर्देहातिमूत्रादिरुक्षेण दह्यमान एवं मनसि प्रलयति ॥ १,३२.१२ ॥ अहोऽत्यन्तपापोऽहंपूर्वजन्मनिभृत्यापत्यमित्रयोषिद्गृहक्षेत्रधनधान्यादिष्वत्यन्तरागेण कलत्रपोषणार्थं परधनक्षेत्रादिकं पश्यतो हरणाद्युपायैरपह्यत्य कामान्धतया परस्त्रीहरणादिकमनुभूय महापापान्याचरंस्तैः पापैरहमेक एवंविधनरकाननुभूय पुनः स्थावरादिषु महादुःखमनुभूय संप्रति जरायुणा परिवेष्टितोऽन्तर्दुखेन बहिस्तापेन च दह्यामि ॥ १,३२.१३ ॥ मया पोषिता दाराश्च स्वकर्मवशादन्यतो गताः ॥ १,३२.१४ ॥ अहो दुखं हि देहिनाम् ॥ १,३२.१५ ॥ देहस्तु पापात्संजातस्तस्मात्पापं न कारयेत् । भृत्यभित्रकलत्रार्थमन्यद्द्रव्यं हृतं मया ॥ १,३२.१६ ॥ तेन पापेन दह्यामि जरायुपरिवेष्टितः । दृष्ट्वान्यस्य श्रियं पूर्वं सतत्पोऽहमसूयया खितः ॥ १,३२.१७ ॥ गर्भाग्निनानुदह्येयमिदानीमपि पापकृत् । कायेन मनसा वाचा परपीडामकारिषम्तेन पापेन दह्यामि त्वहमेकोऽतिदुःखितः ॥ १,३२.१८ ॥ एवं बहुविधं गर्भस्थो जन्तुर्विलप्य स्वयमेव वा ॥ १,३२.१९ ॥ आत्मानमाश्वास्य उत्पत्तेरनन्तरं सत्संगेन विष्णोश्चरितश्रवणेन च विशुद्धमना भूत्वा सत्कर्माणि निर्वर्त्य अखिलजगदन्तरात्मनः सत्यज्ञानानन्दमयस्य शक्तिप्रभावानुष्टितविष्टपवर्गस्य लक्ष्मीपतेर्नारायणस्य सकलसुरासुरयक्षगन्धर्वराक्षसपन्न गमुनिकिन्नरसमूहार्चितचरणकमलयुगं भक्तितः समभ्यर्च्य दुःसहः संसारच्छेदस्यकारणभूतं वेदरहस्योपनिषद्भिः परिस्फुटं सकललोकपरायणं हृदिनिधाय दुःखतरमिमं संस्कारागारमतिक्रमिष्यामीति मनसि भवयति ॥ १,३२.२० ॥ यतस्तन्मातुः प्रसूतिसमये सति गर्भस्थोदेही नारदमुने वायुनापरिपीडितो मातुश्चापि दुःखं कुर्वन्कर्मपाशेन बलाद्योनिमार्गान्निष्क्रामन्सकलयातनाभोगमेककालभवमनुभवति ॥ १,३२.२१ ॥ तेनातिक्लेशेन योनियन्त्रपूडितो गर्भान्निष्कान्तो निःसंज्ञतां याति ॥ १,३२.२२ ॥ तं तु बाह्यवायुः समुज्जीवयति । बाह्यवायुस्पर्शसमनन्तरमेव नष्टस्मृतिपूर्वानुभूताखिलदुःखानि वर्त्तमानान्यपि ज्ञानाभावदविज्ञायात्यन्तदुःखमनुभवति ॥ १,३२.२३ ॥ एवं बालत्वमापन्नो जन्तुस्तत्रापि स्वमलमूत्रलित्पदेह आध्यात्मिकादिपीड्यमानोऽपि वक्तुमशक्तक्षुत्तृषापीडितो रुदिते सति स्तनादिकं देयमिति मन्वानाः प्रयतन्ते ॥ १,३२.२४ ॥ एवमनेकं देहभोगमन्याधीनतयानुभूयमानो दंशादिष्वपि निवारयितुमशक्तः ॥ १,३२.२५ ॥ बाल्यभावमासाद्य मातापित्रोरुपाध्यायस्य ताडनं सदा पर्यटनशीलत्वं पांशुभस्मपङ्कादिषुक्रीडनं सदा कलहनियतत्वाम शुचित्वं बहुव्यापाराभासकार्यनियतत्वं तदसंभव आध्यात्मिकदुःखमेवंविधमनुभवति ॥ १,३२.२६ ॥ ततस्तु तरुणभावेन धनार्जनमर्जितस्य रक्षणं तस्य नाशव्ययादिषु चात्यन्तदुःखिता मायया मोहिताः कामक्रोधादिदुष्टमनसाः सदासूयापरायणाः परस्वपरस्त्रीहरणोपायपरायणाः पुत्रमित्रकलत्रादिभरणोपायचिन्तापरायणा वृथाहङ्कारदूषिताः पुत्रादिषु व्याध्यादि पीडितेषु सत्सु सर्वव्यात्पिं परित्यज्य रोगादिभिः क्लेशितानां समीपे स्वयमाध्यात्मिकदुःखेन परिप्लुता वक्ष्यमाणप्रकारेण चितामश्नुवते ॥ १,३२.२७ ॥ गृहक्षेत्रादिकं कम किञ्चिन्नापि विचारितम् । समृद्धस्य कुटुम्बस्य कथं भवति वर्त्तनम् ॥ १,३२.२८ ॥ मम मूलधनं नास्ति वृष्टिश्चापि न वर्षति । अश्वः पलायितः कुत्र गावः किं नागता मम ॥ १,३२.२९ ॥ बालापत्या च मे भार्या व्याधितोऽहं च निर्धनः । अविचारात्कृषिर्नष्टा पुत्रा नित्यं रुदन्ति च ॥ १,३२.३० ॥ भग्नं छिन्नं तु मे सद्म बान्धवा अपि दूरगाः । न लभ्यते वर्त्तनं च राज बाधातिदुःसहा ॥ १,३२.३१ ॥ रिपवो मां प्रधावन्ते कथं जेष्टाम्यहं रिपून् । व्यवसायाक्षमश्चाहं प्रात्पाः प्राघूर्णका अमी ॥ १,३२.३२ ॥ एवमत्यन्तचिन्ताकुलः स्वदुःखानि निवारयितुमक्षमो धिग्विधिं भाग्यहीनं मां किमर्थं विदधे इति दैवमाक्षिपति ॥ १,३२.३३ ॥ तथा वृद्धत्वमापन्नो हीयमानसारो जरापलितादिव्यात्पदेहो व्याधिबाध्यत्वादिकमापन्नः । प्रकंपमानावयवश्वासकासादिपीडितो लोलाविललोचनः श्लेष्मण्यात्पकण्ठः पुत्रदारादिभिर्भर्त्स्यमानः कदा मरणमुपयामीति चिन्ताकुलो मयि मृते सति मदर्जितं गृहक्षेत्रादिकं वस्तु पुत्रादयः कथं रक्षन्ति कस्य वा भविष्यति ॥ १,३२.३४ ॥ मद्धने परैरपहृते पुत्रादीनां कथं वर्त्तनं भविष्यतीति ममतादुःखपरिप्लुतो गाढं निःश्वस्य स्वेन वयसा कृतानि कर्माणि पुनः पुनः स्मरन् क्षणे विस्मरति च संततस्त्वासन्नमरणो ॥ १,३२.३५ ॥ व्याधिपीडितोऽन्तस्तापार्तः क्षणं शय्यायां क्षणं मञ्चे च ततस्ततः पर्यटन् क्षुत्तृटूपरिपूडितः किञ्चिन्मात्रमुदकं देहीत्यतिकार्पण्येन याचमानस्तत्रापि ज्वराविष्टानामुदकं न श्रेयस्करमिति ब्रुवतो मनसातिद्वेषं कुर्वन्मन्द चैतन्यो भवति ॥ १,३२.३६ ॥ ततश्च हस्तपादाकर्षणे न तु क्षमो रुद्रद्भिबन्धुजनैर्वेष्टितो वक्तुमक्षमः स्वार्जितधनादिकं कस्य भविष्यतीति चिन्तापरो बाष्पाविलविलोचनः कण्ठे वुरघुरायमाणे सति शरीरान्निष्क्रान्तप्राणो यमदूतैर्भर्त्स्यमानः पाशयन्त्रितो नरकादीन्पूर्ववदश्नुते ॥ १,३२.३७ ॥ आमलप्रक्षयाद्यद्वदग्नौ धाम्यन्ति धातवः । तथैव जीविनः सर्व आकर्मप्रक्षयाद्भृशम् ॥ १,३२.३८ ॥ तस्मात्संसारदावाग्नितापार्तो द्विजसत्तम । अभ्यसेत्परमं ज्ञानं ज्ञानान्मोक्षमवान्पुयात् ॥ १,३२.३९ ॥ ज्ञानशून्या नरा ये तु पशवः परिकीर्तिताः । तस्मात्संसारमोक्षाय परं ज्ञानं समभ्यसेत् ॥ १,३२.४० ॥ मानुष्यं चैव संप्राप्य सर्वकर्मप्रसाधकम् । हरिं न सेवते यस्तु कोऽन्यस्तस्मादचेतनः ॥ १,३२.४१ ॥ अहो चित्रमहो चित्रमहो चित्रं मुनीश्वराः । आस्थिते कामदे विष्णो नरा यान्ति हि यातनाम् ॥ १,३२.४२ ॥ नारायणे जगन्नाथे सर्वकामफलप्रदे । स्थितेऽपि ज्ञानरहिताः पच्यन्ते नरकेष्वहो ॥ १,३२.४३ ॥ स्त्रवन्मूत्रपुरीषे तु शरीरेऽस्मिन्नृशाश्वते । शाश्वतं भावयन्त्यज्ञा महामोहसमावृताः ॥ १,३२.४४ ॥ कुत्सितं मांसरक्ताद्यैर्देहं संप्राप्य यो नरः । संसारच्छेदकं विष्णुं न भजेत्सोऽतिपातकी ॥ १,३२.४५ ॥ अहो कष्टमहो कष्टमहो कष्टं हि मूर्खता । हरिध्यानपरो विप्र चण्डालोऽपि महासुखी ॥ १,३२.४६ ॥ स्वदेहान्निःसृतं दृष्ट्वा मलमूत्रादिकिल्बिषम् । उद्वेग मानवा मूर्खाः किं न यान्ति हि पापिनः ॥ १,३२.४७ ॥ दुर्लभं मानुषं जन्म प्रार्थ्यते त्रिदशैरपि । तल्लब्ध्वा परलोकार्थं यत्नं कुर्य्याद्विचक्षणः ॥ १,३२.४८ ॥ अध्यात्मज्ञानसंपन्ना हरिपूजापरायणाः । लभन्ते परमं स्थानं पुनरावृत्तिदुर्लभम् ॥ १,३२.४९ ॥ यतो जातमिदं विश्वं यतश्चैतन्यमश्नुते । यस्मिंश्च विलयं याति स संसारस्य मोचकः ॥ १,३२.५० ॥ निर्गुणोऽपि परोऽनन्तो गुणवानिव भाति यः । तं समभ्यर्च्य देवेशं संसारात्परिमुच्यते ॥ १,३२.५१ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे भवाटवीनिरुपणं नाम द्वात्रिंशोऽध्यायः _____________________________________________________________ नारद उवाच भगवन्सर्वमाख्यातं यत्पृष्टं विदुषा त्वया । संसारपाशबद्धानां दुःखानि सुबहूनि च ॥ १,३३.१ ॥ अस्य संसारपाशस्य च्छेदकः कतमः स्मृतः । येनोपायेन मोक्षः स्यात्तन्मे ब्रूहि तपोधन ॥ १,३३.२ ॥ प्राणिभिः कर्मजालानि क्रियन्ते प्रत्यहं भृशम् । भुज्यन्ते च मुनिश्रेष्ठ तेषां नाशः कथं भवेत् ॥ १,३३.३ ॥ कर्मणा देहमान्पोति देही कामेन बध्यते । कामाल्लोभाभिभूतः स्याल्लोभात्क्रोधपरायणाः ॥ १,३३.४ ॥ क्रोधाञ्च धर्मनाशः स्याद्धर्मनाशान्मतिभ्रमः । प्रनष्टबुद्धिर्मनुजः पुनः पापं करोति च ॥ १,३३.५ ॥ तस्माद्देहं पापमूलं पापकर्मरतं तथा । यथा देहभ्रमत्यक्त्वा मोक्षभाक्स्यात्तथा वद ॥ १,३३.६ ॥ सनक उवाच साधु साधु महाप्राज्ञ मतिस्ते विमलोर्जिता । यस्मात्संसारदुःखान्नो मोक्षोपायमभीप्ससि ॥ १,३३.७ ॥ यस्याज्ञया जगत्सर्वं ब्रह्म्ना सृजति सुव्रत । हरिश्च पालको रुद्रो नाशकः स हि मोक्षदः ॥ १,३३.८ ॥ अहमादिविशेषान्ता जातायस्य प्रभावतगः । तं विद्यान्मोक्षदं विष्णुं नारायणमनामयम् ॥ १,३३.९ ॥ यस्याभिन्नमिदं सर्वं यच्चेङ्गद्यञ्च नेङ्गति । तमुग्रमजरं देवं ध्यात्वा दुःखात्प्रमुच्यते ॥ १,३३.१० ॥ अविकारमजं शुद्धं स्वप्रकाशं निरञ्जनम् । ज्ञानरुपं सदानन्दं प्राहुर्वैमोक्षसाधनम् ॥ १,३३.११ ॥ यस्यावताररुपाणि ब्रह्माद्या देवतागणाः । समर्चयन्ति तं विद्याच्छाश्वतस्थानदं हरिम् ॥ १,३३.१२ ॥ जितप्राणा जिताहाराः सदा ध्यानपरायणाः । हृदि पश्यन्ति यं सत्यं तं जामीहि सुखावहम् ॥ १,३३.१३ ॥ निर्गुणोऽपि गुणाधारो लोकानुग्रहरुपधृक् । आकाशमध्यगः पूर्णस्तं प्राहुर्मोक्षदं नृणाम् ॥ १,३३.१४ ॥ अध्यक्षः सर्वकार्याणां देहिनो हृदये स्थितः । अनूपमोऽखिलाधारस्तां देवं शरणं व्रजेत् ॥ १,३३.१५ ॥ सर्वं संगृह्य कल्पान्ते शेते यस्तु जले स्वयम् । तं प्राहुर्मोक्षदं विष्णुं मुनयस्तत्त्वदर्शिनः ॥ १,३३.१६ ॥ वेदार्थविद्भिः कर्मज्ञैरिज्यते विविधैर्मखैः । स एव कर्मफलदो मोक्षदोऽकामकर्मणाम् ॥ १,३३.१७ ॥ हव्यकव्यादिदानेषु देवतापितृरूपधृक् । भुङ्क्ते य ईश्वरोऽव्यक्तस्तं प्राहुर्मोक्षदं प्रभुम् ॥ १,३३.१८ ॥ ध्यातः प्रणमितो वापि पूजितो वापि भक्तितः । ददाति शाश्वतं स्थानं तं दयालुं समर्चयेत् ॥ १,३३.१९ ॥ आधारः सर्वभूतानांमेको यः पुरुषः परः । जरामरणनिर्मुक्तो मोक्षदः सोऽव्ययो हरिः ॥ १,३३.२० ॥ संपूज्य यस्य पादाब्जं देहिनोऽपि मुनीश्वर । अमृतत्वं भजन्त्याशु तं विदुः पुरुषोत्तमम् ॥ १,३३.२१ ॥ आनन्दमजरं ब्रह्म परं ज्योतिः सनातनम् । परात्परतरं यञ्च तद्विष्णोः परमं पदम् ॥ १,३३.२२ ॥ अद्वयं निगुणं नित्यमद्वितीयमनौपमम् । परिपूर्णं ज्ञानमयं विदुर्मोक्षप्रताधकम् ॥ १,३३.२३ ॥ एवंभूतं परं वस्तु योगमार्गविधानतः । य उपास्ते सदा योगी स याति परमं पदम् ॥ १,३३.२४ ॥ परिसर्वसंगपरित्यागी शमादिगुणसंयुतः । कामर्द्यैवर्जितोयोगी लभते परमं पदम् ॥ १,३३.२५ ॥ नारद उवाच कर्मणा केन योगस्य सिद्धिर्भवति योगिनाम् । तदुपायं यथातत्त्वं ब्रूहि मे वदतां वर ॥ १,३३.२६ ॥ सनक उवाच ज्ञानलभ्यं परं मोक्षं प्राहुस्तत्त्वार्थचिन्तकाः । यज्ज्ञानं भक्तिमूलं च भक्तिः कर्मवतां तथा ॥ १,३३.२७ ॥ दानानि यज्ञा विविधास्तीर्थयात्रादयः कृताः । येन जन्मसहस्रेषु तस्य भक्तिर्भवेद्धरौ ॥ १,३३.२८ ॥ अक्षयः परमो धर्मो भक्तिलेशेन जायते । श्रद्धया परया चैव सर्वं पापं प्रणश्यति ॥ १,३३.२९ ॥ सर्वपापेषु नष्टेषु बुद्धिर्भवति निर्मला । सैव बुद्धिः समाख्याता ज्ञानशब्देन सूरिभिः ॥ १,३३.३० ॥ ज्ञानं च मोक्षदं प्राहुस्तज्ज्ञानं योगिनां भवेत् । योगस्तु द्विविधः प्रोक्तः कर्मज्ञानप्रभेदतः ॥ १,३३.३१ ॥ क्रियायोगं विना नॄणां ज्ञानयोगो न सिध्यति । क्रियायोगरतस्तस्माच्छ्रद्धया हरिमर्चयेत् ॥ १,३३.३२ ॥ द्विजभूम्यग्निसूर्याम्बुधातुहृञ्चित्रसंज्ञिताः । प्रतिमाः केशवस्यैता पूज्य एतासु भक्तितः ॥ १,३३.३३ ॥ कर्मणा मनसा वाचा परिपीडापराङ्मुखः । तस्मात्सर्वगतं विष्णुं पूजयेद्भक्तिसंयुतः ॥ १,३३.३४ ॥ अहिंसा सत्यमक्रोधो ब्रह्मचर्यापरिग्रहौ । अनीर्ष्या च दया चैव योगयोरूभयोः समाः ॥ १,३३.३५ ॥ चराचरात्मकं विश्वं विष्णुरेव सनातनः । इति निश्चित्य मनसा योगद्वितयमभ्यसेत् ॥ १,३३.३६ ॥ आत्मवत्सर्वभूतानि ये मन्यन्ते मनीषिणः । ते जानन्ति परं भावं देवदेवस्य चक्रिणः ॥ १,३३.३७ ॥ यदि क्रोधादिदुष्टात्मा पूजाध्यानपरो भवेत् । न तस्य तुष्यते विष्णुर्यतो धर्मपतिः स्मृतः ॥ १,३३.३८ ॥ यदि कामादिदुष्टात्मा देव पूजापरो भवेत् । दंभाचारः स विज्ञेयः सर्वपातकिभिः समः ॥ १,३३.३९ ॥ तपः पूजाध्यानपरोयस्त्वसूयारतो भवेत् । तत्तपः सा च पूजा च तद्ध्यानं हि निरर्थकम् ॥ १,३३.४० ॥ तस्मात्सर्वात्मकं विष्णुं शमादिगुणतत्परः । मुक्तयर्थमर्चयेत्सम्यक्क्रियायोगपरो नरः ॥ १,३३.४१ ॥ कर्मणा मनसा वाचा सर्वलोकहिते रतः । समर्चयति देवेशं क्रियायोगः स उच्यते ॥ १,३३.४२ ॥ नारायणं जगद्योनिं सर्वान्तयर्यामिणं हरिम् । स्तोत्राद्यैः स्तौति यो विष्णुं कर्मयोगी स उच्यते ॥ १,३३.४३ ॥ उपवासादिभिश्चैव पुराणश्रवणादिभिः । पुष्पाद्यैश्चार्चनं विष्णोः क्रियायोग उदाहृतः ॥ १,३३.४४ ॥ एवं भक्तिमतां विष्णौ क्रियायोगरतात्मनाम् । सर्वपापानि नश्यन्ति पूर्वजन्मार्जितानि वै ॥ १,३३.४५ ॥ पापक्षयाच्छुद्वमतिर्वाञ्छति ज्ञानमुत्तमम् । ज्ञानं हि मोक्षदं ज्ञेयं तदुपायं वदामि ते ॥ १,३३.४६ ॥ चराचरात्मके लोके नित्यं चानित्यमेव च । सम्यग्विचारयेद्धीमान्सद्भिः शास्त्रार्थकोविदैः ॥ १,३३.४७ ॥ अनित्यास्तु पदार्था वै नित्यमेको हरिः स्मृतः । अनित्यानि परित्यज्य नित्यमेव समाश्रयेत् ॥ १,३३.४८ ॥ इहामुत्र च भोगेषु विरक्तश्च तथा भवेत् । अविरक्तो भवेद्यस्तु स संसारे प्रवर्तते ॥ १,३३.४९ ॥ अनित्येषु पदार्थेषु यस्तु रागी भवेन्नरः । तस्य संसारविच्छित्तिः कदाचिन्नैव जायते ॥ १,३३.५० ॥ शमादिगुणसंपन्नो मुमुक्षुर्ज्ञानमभ्यसेत् । शमादिगुणहीनस्य ज्ञानं नैव च सिध्यति ॥ १,३३.५१ ॥ रागद्वेषविहीनो यः शमादिगुणसंयुतः । हरिध्यानपरो नित्यं मुमुक्षुरभिधीयते ॥ १,३३.५२ ॥ चतुर्भिः साधनैरेभिर्विशुद्धमतिरुच्यते । सर्वगं भावयेद्विष्णुं सर्वभूतदयापरः ॥ १,३३.५३ ॥ क्षराक्षरात्मकं विश्वं व्याप्य नारायणः स्थितः । इति जानाति यो विप्रतज्ज्ञानं योगजं विदुः ॥ १,३३.५४ ॥ योगोपायमतो वक्ष्ये संसारविनिवर्त्तकम् । योगो ज्ञानं विशुद्धं स्यात्तज्ज्ञानं मोक्षदं विदुः ॥ १,३३.५५ ॥ आत्मानं द्विविधं प्राहुः परापरविभेदतः । द्वे ब्रह्मणी वेदितव्ये इति चाथर्वर्णी श्रुतिः ॥ १,३३.५६ ॥ परस्तु निर्गुणः प्रोक्तो ह्यहॄङ्कारयुतोऽपरः । तयोरभेदविज्ञानं योग इत्यभिधीयते ॥ १,३३.५७ ॥ पञ्चभूतात्मके देहे यः साक्षी हृदये स्थितः । अपरः प्रोच्यते सद्भिः परमात्मा परः स्मृतः ॥ १,३३.५८ ॥ शरीरं क्षेव्रमित्याहुस्तत्स्थः क्षेत्रज्ञ उच्यते । अव्यक्तः परमः शुद्धः परिपूर्ण उदाहृतः ॥ १,३३.५९ ॥ यदा त्वभेदविज्ञानं जीवात्मपरमात्मनोः । भवेत्तदा मुनिश्रेष्ठ पाशच्छेदोऽपरात्मनः ॥ १,३३.६० ॥ एकः शुद्धोऽक्षरो नित्यः परमात्मा जगन्मयः । नृणां विज्ञानभेदेन भेदवानिव लक्ष्यते ॥ १,३३.६१ ॥ एकमेवाद्वितीयं यत्परं ब्रह्म सनातनम् । गीयमानं च वेदान्तैस्तस्मान्नास्ति परं द्विज ॥ १,३३.६२ ॥ न तस्य कर्म कार्यं वा रुपं वर्णमथापि वा । कर्त्तृत्वं वापि भोक्तृत्वं निर्गुणस्य परात्मनः ॥ १,३३.६३ ॥ निदानं सर्वहेतूनां तेजो यत्तेजसां परम् । किमप्यन्यद्यतो नास्ति तज्ज्ञेयं मुक्तिहेतवे ॥ १,३३.६४ ॥ शब्दब्रह्ममयं यत्तन्महावाक्यादिकं द्विज । तद्विचारोद्भवं ज्ञानं परं मोक्षस्य साधनम् ॥ १,३३.६५ ॥ सम्यग्ज्ञानविहीनानां दृश्यते विविधं जगतग् । परमज्ञानिनामेतत्परब्रह्मात्मकं द्विज ॥ १,३३.६६ ॥ एक एव परानन्दो निर्गुणः परतः परः । भाति विज्ञानभेदेन बहुरुपधरोऽव्ययः ॥ १,३३.६७ ॥ मायिनो मायया भेदं पश्यन्ति परमात्मनि । तस्मान्मायां त्यजेद्योगान्मुमुक्षुर्द्विजसत्तम् ॥ १,३३.६८ ॥ नासद्रूपान सद्रूपा माया नैवोभयात्मिका । अनिर्वाच्या ततो ज्ञेया भेदबुद्धिप्रदार्यिनी ॥ १,३३.६९ ॥ मायैव ज्ञानशब्देन बुद्ध्यते मुनिसत्तम । तस्मादज्ञानविच्छेदो भवेद्रौजितमायिनाम् ॥ १,३३.७० ॥ सनातनं परं ब्रह्म ज्ञानशब्देन कथ्यते । ज्ञानिनां परमात्मा वै हृदि भाति निरन्तरम् ॥ १,३३.७१ ॥ अज्ञानं नाशयेद्योगी योगेन मुनिसत्तम । अष्टाङ्गैः सिद्ध्यते योगस्तानि वक्ष्यामि तत्त्वतः ॥ १,३३.७२ ॥ यमाश्च नियमाश्चैव आसनानि च सत्तम । प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ॥ १,३३.७३ ॥ समाधिश्च मुनिश्रेष्ठ योगाङ्गानि यथाक्रमम् । एषां संक्षेपतो वक्ष्ये लक्षणानि मुनीश्वर ॥ १,३३.७४ ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । अक्रोधश्चानसूया च प्रोक्ताः संक्षेपतो यमाः ॥ १,३३.७५ ॥ सर्वेषामेव भूतानामक्लेशजननं हि यत् । अहिंसा कथिता सद्भिर्योगसिद्धिप्रदायिनी ॥ १,३३.७६ ॥ यथार्थकथनं यञ्च धर्माधर्मविवेकतः । सत्यं प्राहुर्मुनिश्रेष्ठ अस्तेयं शृणु साम्प्रतम् ॥ १,३३.७७ ॥ चौर्येण वा बलेनापि परस्वहरणं हि यत् । स्तेयमित्युच्यते सद्भिरस्तेयं तद्विपर्ययम् ॥ १,३३.७८ ॥ सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रकीर्त्तितम् । ब्रह्मचर्यपरित्यागाज्ज्ञानवानपि पातकी ॥ १,३३.७९ ॥ सर्वसंगपरित्यागी मैथुनेयस्तु वर्त्तते । स चण्डालसमो ज्ञेयः सर्ववर्णबहिष्कृतः ॥ १,३३.८० ॥ यस्तु योगरतो विप्र विषयेषु स्पृहान्वितः । तत्संभाषणमात्रेण ब्रह्महत्या भवेन्नृणाम् ॥ १,३३.८१ ॥ सर्वसंगपरित्यागी पुनः संगी भवेद्यदि । तत्संगसंगिनां संगान्महापातकदोषभाक् ॥ १,३३.८२ ॥ अनादानं हि द्रव्याणामापद्यपि मुनीश्वर । अपरिग्रह इत्युक्तो योगसंसिद्धिकारकः ॥ १,३३.८३ ॥ आत्मनस्तु समुत्कर्षादतिनिष्ठुरभाषणम् । क्रोधमाहुर्धर्मविदो ह्यक्रोधस्तद्विपर्ययः ॥ १,३३.८४ ॥ धनाद्यैरधिकं दृष्ट्वा भृशं मनसि तापनम् । असूया कीर्तिता सद्भिस्तत्त्यागो ह्यनसूयता ॥ १,३३.८५ ॥ एवं संक्षेपतः प्रोक्ता यमा विबुधसत्तम । नियमानपि वक्ष्यामितुभ्यं ताञ्छृणु नारद ॥ १,३३.८६ ॥ तपःस्वाध्यायसंतोषाः शौचं च हरिपूजनम् । संध्योपासनमुख्याश्च नियमाः परिकीर्त्तिताः ॥ १,३३.८७ ॥ चान्द्रायणादिभिर्यत्र शरीरस्य विशोषणम् । तपो निगदितं सद्भिर्योगसाधनमुत्तमम् ॥ १,३३.८८ ॥ प्रणवस्योपनिषदां द्वादशार्णस्य च द्विज । अष्टाक्षरस्य मन्त्रस्य महावाक्यचयस्य च ॥ १,३३.८९ ॥ जपः स्वाध्याय उदितो योगसाधनमुत्तमम् । स्वाध्यायं यस्त्यजेन्मूढस्तस्य योगो न सिध्यति ॥ १,३३.९० ॥ योगं विनापि स्वाध्यायात्पापनाशो भवेन्नृणाम् । स्वाध्यायैस्तोष्यमाणाश्च प्रसीदन्ति हि देवताः ॥ १,३३.९१ ॥ जपस्तु त्रिविधः प्रोक्तो वाचिकोपांशुमानसः । त्रिविधेऽपि च विप्रेन्द्र पूर्वात्पूर्वात्परो वरः ॥ १,३३.९२ ॥ मन्त्रस्योच्चारणं सम्यक्स्फुटाक्षरपदं यथा । जपस्तु वाचिकः प्रोक्तः सर्वयज्ञफलप्रदः ॥ १,३३.९३ ॥ मन्त्रस्योच्चारणे किञ्चित्पदात्पदविवेचनम् । स तूपांशुर्जपः प्रोक्तः पूर्वस्माद्द्विगुणोऽधिकः ॥ १,३३.९४ ॥ विधाय ह्यक्षरश्रेण्यां तत्तदर्थविचारणम् । स जपोमानसः प्रोक्तो योगसिद्धिप्रदायकः ॥ १,३३.९५ ॥ जपेन देवता नित्यं स्तुवतः संप्रसीदति । तस्मात्स्वाध्यायसंपन्नो लभेत्सर्वान्मनोरथान् ॥ १,३३.९६ ॥ यदृच्छालाभसंतुष्टिः संतोष इति गीयते । संतोषहीनः पुरुषो न लभेच्छर्म कुत्रचित् ॥ १,३३.९७ ॥ न जातुकामः कामानामुपभोगेन शाम्यति । इतोऽधिकं कदा लप्स्य इति कामस्तु वर्द्धते ॥ १,३३.९८ ॥ तस्मात्कामं परित्यज्य देहसंशोषकारणम् । यदृच्छालाभसंतुष्टो भवेद्धर्मपरायणः ॥ १,३३.९९ ॥ बाह्याभ्यन्तरभेदेन शौचं तु द्विविधं स्मृतम् । मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथान्तरम् ॥ १,३३.१०० ॥ अन्तःशुद्धिविहीनैस्तु येऽध्वरा विविधाः कृताः । न फलन्ति मुनीश्रेष्ठ भस्मनि न्यस्तहव्यवत् ॥ १,३३.१०१ ॥ भावशुद्धिविहीनानां समस्तं कर्मनिष्फलम् । तस्माद्रागादिकं सर्वं परित्यज्य सुखी भवेत् ॥ १,३३.१०२ ॥ मृदाभारसहस्रैस्तु कुम्भकोटिजलैस्तथा । कृतशौचोऽपि दुष्टात्मा चण्डालसदृशः स्मृतः ॥ १,३३.१०३ ॥ अन्तःशुद्धिविहीनस्तु देवपूजापरो यदि । तमेव दैवतं हॄन्ति नरकं च प्रपद्यते ॥ १,३३.१०४ ॥ अन्तःशुद्धिविहीनश्च बहिःशुद्धिं करोति यः । अलङ्कृतः सुराभाण्ड इव शान्तिं न गच्छति ॥ १,३३.१०५ ॥ मनःशुद्धिविहीना ये तीर्थयात्रां प्रकुर्वते । न तान्पुंनति तीर्थानि सुराभाण्डमिवापगा ॥ १,३३.१०६ ॥ वाचा धर्मान्प्रवलदति मनसा पापमिच्छति । जानीयात्तं मुनिश्रेष्ठ महापातकिनां वरम् ॥ १,३३.१०७ ॥ विशुद्धमानसा ये तु धर्ममात्रमनुत्तमम् । कुर्वन्ति तत्फलं विद्यादक्षयं सुखदायकम् ॥ १,३३.१०८ ॥ कर्मणा मनसा वाचा स्तुतिश्रवण पूजनैः । हरिभक्तिर्दृढा यस्य हरिपूजेति गीयते ॥ १,३३.१०९ ॥ यमाश्च नियमाश्चैव संक्षेपेण प्रबोधिताः । एभिर्विशुद्धमनसां मोक्षं हस्तगतं विदुः ॥ १,३३.११० ॥ यमैश्च नियमैश्चैव स्थिरबुद्धिर्जितेन्द्रियः । अभ्यसेदासनंसम्यग्योगसाधनमुत्तमम् ॥ १,३३.१११ ॥ पद्मकं स्वस्तिकं पीठं सैंहं कौक्कुटकैञ्जरे । कौर्मंवज्रासनं चैव वाराहं मृगचैलिकम् ॥ १,३३.११२ ॥ क्रौञ्चं च नालिकं चैव सर्वतोभद्रमेव च । वार्षभं नागमात्स्ये च वैयान्घं चार्द्धचन्द्रकम् ॥ १,३३.११३ ॥ दण्डवातासनं शैलं स्वभ्रं मौद्गरमेव च । माकरं त्रैपथं काष्ठं स्थाणुं वैकर्णिकं तथा ॥ १,३३.११४ ॥ भौमं वीरासनं चैव योगसाधनकारणम् । त्रिंशत्संख्यान्यासनानि मुनीन्द्रैः कथितानि वै ॥ १,३३.११५ ॥ एषामेकतमं बद्धा गुरुभक्तिपरायणः । उपासको जयेत्प्राणान्द्वन्द्वातीतो विमत्सरः ॥ १,३३.११६ ॥ प्राङ्मुखोदङ्मुखो वापि तथा प्रत्यङ्मुखोऽपि वा । अभ्यासेन जयेत्प्राणान्निःशब्दे जनवर्जिते ॥ १,३३.११७ ॥ प्राणो वायुः शरीरस्थ आयामस्तस्य निग्रहः । प्राणायाम इति प्रोक्तो द्विविधः स प्रकीर्त्तितः ॥ १,३३.११८ ॥ अगर्भश्च सगर्भश्च द्वितीयस्तु तयोर्वरः । जयध्यानं विनागर्भः सगर्भस्तत्समन्वितः ॥ १,३३.११९ ॥ रेचकः पूरकश्चैव कुंभकः शून्यकस्तथा । एवं चतुर्विधः प्रोक्तः प्राणायामो मनीषिभिः ॥ १,३३.१२० ॥ जन्तूनां दक्षिणा नाडी पिङ्गला परिकीर्तिता । सूर्यदैवतका चैव पितृयोनिरिति श्रुता ॥ १,३३.१२१ ॥ देवयोनिरिति ख्याता इडा नाडी त्वदक्षिणा । तत्राधिदैवत चन्द्रं जानीहि मुनिसत्तमं ॥ १,३३.१२२ ॥ एतयोरुभयोर्मध्ये सुषुम्णा नाडिका स्मृता । अतिसूक्ष्मा गुह्यतमा ज्ञेया सा ब्रह्मदैवता ॥ १,३३.१२३ ॥ वामेन रेचयेद्वायुं रेचनाद्रेचकः स्मृतः । पूरयेद्दक्षिणेनैव पूरणात्पूरकः स्मृतः ॥ १,३३.१२४ ॥ स्वदेहपूरितं वायं निगृह्य न विमृञ्चति । संपूर्णकुंभवत्तिष्टेत्कुम्भकः स हि विश्रुतः ॥ १,३३.१२५ ॥ न गृह्णाति न त्यजति वायुमन्तर्बहिः स्थितम् । विद्धि तच्छून्यकं नाम प्राणायामं यथास्थितम् ॥ १,३३.१२६ ॥ शनैःशनैर्विजेतव्यः प्राणो मत्तगजेन्द्रवत् । अन्यथा खलु जायन्ते महारोगा भयङ्कराः ॥ १,३३.१२७ ॥ क्रमेण योजयेद्वायुं योगी विगतकल्मषः । स सर्वपापनिर्मुक्तो ब्रह्मणः पदमान्पुयात् ॥ १,३३.१२८ ॥ विषयेषु प्रसक्तानि चेन्द्रियाणि मुनीश्वरः । समामाहृत्य निगृह्णाति प्रत्याहारस्तु स स्मृतः ॥ १,३३.१२९ ॥ जितेन्द्रिया महात्मानो ध्यानशून्या अपि द्विज । प्रयान्ति परमं ब्रह्म पुनरावृत्तिदुर्लभम् ॥ १,३३.१३० ॥ अनिर्जितेन्द्रियग्रामं यस्तु ध्यानपरो भवेत् । मूढात्मानं च तं विद्याद्ध्यानं चास्य न सिध्यति ॥ १,३३.१३१ ॥ यद्यत्पश्यति तत्सर्वं पश्येदात्मवदात्मनि । प्रत्याहृतानीन्द्रियाणि धारयेत्सा तु धारणा ॥ १,३३.१३२ ॥ योगाज्जितेन्द्रियग्रामस्तानि हृत्वा दृढं हृदि । आत्मानं परमं ध्यायेत्सर्वधातारमच्युतम् ॥ १,३३.१३३ ॥ सर्वविश्वात्मकं विष्णुं सर्वसोकैककारणम् । विकसत्पद्यपत्राक्षं चारुकुण्डलभूषितम् ॥ १,३३.१३४ ॥ दीर्घबाहुमुदाराङ्गं सर्वालङ्कारभृषितम् । पीताम्बरधरं देवं हेमयज्ञोपवीतिनम् ॥ १,३३.१३५ ॥ बिभ्रतं तुलसीमालां कौस्तुभेन विराजितम् । श्रीवत्सवक्षसं देवं सुरासुरनमस्कृतम् ॥ १,३३.१३६ ॥ अष्टारे हृत्सरोजे तु द्वादशाङ्गुलविस्तृते । ध्यायेदात्मानमव्यक्तं परात्परतरं विभुमट् ॥ १,३३.१३७ ॥ ध्यानं सद्भिनिर्गदितं प्रत्ययस्यैकतानता । ध्यानं कृत्वा मुहुर्त्तं वा परं मोक्षं लभेन्नरः ॥ १,३३.१३८ ॥ ध्यानात्पापानि नश्यन्ति ध्यानान्मोक्षं च विन्दति । ध्यानात्प्रसीदति हरिद्धर्यानात्सर्वार्थसाधनम् ॥ १,३३.१३९ ॥ यद्यद्रूपं महाविष्णोस्तत्तद्ध्यायेत्समाहितम् । तेन ध्यानेन तुष्टात्मा हरिर्मोक्षं ददाति वै ॥ १,३३.१४० ॥ अचञ्चलं मनः कुर्याद्ध्येये वस्तुनि सत्तम । ध्यानं ध्येयं ध्यातृभावं यथा नश्यति निर्भरम् ॥ १,३३.१४१ ॥ ततोऽमृतत्वं भवति ज्ञानामृतनिषेवणात् । भवेन्निरन्तरं ध्यानादभेदप्रतिपादनम् ॥ १,३३.१४२ ॥ सुषुत्पिवत्परानन्दयुक्तश्चोपरतेन्द्रियः । निर्वातदीपवत्संस्थः समाधिरभिधीयते ॥ १,३३.१४३ ॥ योगी समाध्यवस्थायां न शृणोति न पश्यति । न जिघ्रति न स्पृशति न किञ्चद्वक्ति सत्तम ॥ १,३३.१४४ ॥ आत्मा तु निर्मलः शुद्धः सञ्चिदानन्दविग्रहः । सर्वोपाधिविनिर्मुक्तो योगिनां भात्यचञ्चलः ॥ १,३३.१४५ ॥ निर्गुणोऽपि परो देवो ह्यज्ञानाद्गुणवानिव । विभात्यज्ञाननाशे तु यथापूर्वं व्यवस्थितम् ॥ १,३३.१४६ ॥ परं ज्योतिरमेयात्मा मायावानिव मायिनाम् । तन्नाशे निर्मलं ब्रह्म प्रकाशयति पण्डितं ॥ १,३३.१४७ ॥ एकमेवाद्वितीयं च परं ज्योतिर्निरञ्जनम् । सर्वेषामेव भूतानामन्तर्यामितया स्थितम् ॥ १,३३.१४८ ॥ अणोरणीयान्महतो महीयान्सनातनात्माखिलविश्वहेतुः । पश्यन्ति यज्ज्ञानविदां वरिष्टाः परात्परस्मात्परमं पवित्रम् ॥ १,३३.१४९ ॥ अकारादिक्षकारान्तवर्णभेदव्यवस्थितः । पुराणपुरुषोऽनादिः शब्दब्रह्मेति गीयते ॥ १,३३.१५० ॥ विशुद्दमक्षरं नित्यं पूर्णमाकाशमध्यगम् । आनन्दं निर्मलशान्तं परं ब्रह्मेति गीयते ॥ १,३३.१५१ ॥ योगिनो हृदि पश्यन्ति परात्मानं सनातनम् । अविकारमजं शुद्धं परं ब्रह्मेति गीयते ॥ १,३३.१५२ ॥ ध्यानमन्यत्प्रवक्ष्यामि शृणुष्व मुनि सत्तम । संसारतापतत्पानां सुधावृष्टिसमं नृणाम् ॥ १,३३.१५३ ॥ नारायणं परानन्दं स्मरेत्प्रणवसंस्थितम् । नादरुपमनौपम्यमर्द्धमात्रोपरिस्थितम् ॥ १,३३.१५४ ॥ अकारं ब्रह्मणो रुपमुकारं विष्णुरुपवत् । मकारं रुद्ररुपं स्यादर्ध्दमात्रं परात्मकम् ॥ १,३३.१५५ ॥ मात्रास्तिस्त्रः समाख्याता ब्रह्मविष्णु शिवाधिपाः । तेषां समुच्चयं विप्र परब्रह्मप्रबोधकम् ॥ १,३३.१५६ ॥ वाच्यं तु परमं ब्रह्म वाचकः प्रणवः स्मृतः । वाच्यवाचकसंबन्धो ह्युपचारात्तयोर्द्विजा ॥ १,३३.१५७ ॥ जपन्तः प्रणवं नित्यं मुच्यन्ते सर्वपातकैः । तदभ्यासेन संयुक्ताः परं मोक्षं लभन्ति च ॥ १,३३.१५८ ॥ जपंश्च प्रणवं मन्त्रं ब्रह्मविष्णुशिवात्मकम् । कोटिसूर्यसमं तेजो ध्यायेदात्मनि निर्मलम् ॥ १,३३.१५९ ॥ शालग्रामशिलारुपं प्रतिमारुपमेव वा । यद्यत्पापहरं वस्तु तत्तद्वा चिन्तयेद्धृदि ॥ १,३३.१६० ॥ यदेतद्दैष्णवं ज्ञानं कथितं ते मुनीश्वर । एतद्विदित्वा योगीन्द्रो लभते मोक्षमुत्तमम् ॥ १,३३.१६१ ॥ यस्त्वेतच्छृआणुयाद्वापि पठेद्वापि समाहितः । स सर्वपापनिर्मुक्तो हरिसालोक्यमान्पुयात् ॥ १,३३.१६२ ॥ इति श्रीबृन्नारदीयपुराणे पूर्वभागे प्रथमपादे योगनिरुपणं नाम त्रयस्त्रिंशोऽध्यायः _____________________________________________________________ नारद उवाच समाख्यातानि सर्वाणि योगाङ्गानि महामुने । इदानीमपि सर्वज्ञ यत्पृच्छामि तदुच्यताम् ॥ १,३४.१ ॥ योगोभक्तिमतामेव सिध्यतीति त्वयोदितम् । यस्य तुष्यति सर्वेशस्तस्य भक्तिश्च शाश्वतम् ॥ १,३४.२ ॥ यथा तुष्यति सर्वेशो देवदेवो जनार्दनः । तन्ममाख्याहि सर्वज्ञ मुने कारुण्यवारिधे ॥ १,३४.३ ॥ सनक उवाच नारायणं परं देवं सच्चिदानन्दविग्रहम् । भज सर्वात्मना विप्र यदि मुक्तिमभीप्ससि ॥ १,३४.४ ॥ रिपवस्तं न हिंसन्ति न बाधन्ते ग्रहाश्चतम् । राक्षसाश्च न चेक्षन्ते नरं विष्णुपरायणम् ॥ १,३४.५ ॥ भक्तर्दृढा भवेद्यस्य देवदेवे जनार्दने । श्रेयांसि तस्य सिध्यन्ति भक्तिमन्तोऽधिकास्ततः ॥ १,३४.६ ॥ पादौ तौ सफलौ पुंसां यौ विष्णुगृहगामिनौ । तौ करौ लफलौ ज्ञेयौ विष्णुपूजापरौ तु यौ ॥ १,३४.७ ॥ ते नेत्रे सुफले पुंसां पश्यतो ये दनार्दनम् । सा जिह्वा प्रोच्यते सद्भिर्हरिनामपरा तु या ॥ १,३४.८ ॥ सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुत्यते । तत्त्वं गुरुसमं नारित नत देवः केशवात्परः ॥ १,३४.९ ॥ सत्यं वच्मिहितं वाच्मि सारं वच्मि पुनः पुनः । असारेऽस्मिंस्त संसारे सत्यं हरिसमर्चनम् ॥ १,३४.१० ॥ संसारपाशं सुदृढं महामोहप्रदायकम् । हरिभक्तिकुटारेण च्छित्त्वात्यन्तसुखी भव ॥ १,३४.११ ॥ तन्मनः संयुतं विष्णौ सा वाणी यत्परायणा । ते श्रोत्रे तत्कथासारपूरिते लोकवन्दिते ॥ १,३४.१२ ॥ आनन्दमक्षरं शून्यमवस्थात्रितयैरपि । आकाशमध्यगं देवं भज नारद संततम् ॥ १,३४.१३ ॥ स्थानं न शक्यते यस्य स्वरुपं वा कदाचन । निर्देष्टुं मुनिशार्दूल द्रष्टुं वाप्यकृतात्मभिः ॥ १,३४.१४ ॥ समस्तैः करणैर्युक्तो वर्त्तेऽसौ यदा तदा । जाग्रदित्युच्यते सद्भिरन्तर्यामी सनातनः ॥ १,३४.१५ ॥ यदान्तः करणैर्ंयुक्तः स्वेच्छया विचरत्यसौ । स्वपन्निच्युच्यते ह्यात्मा यदा स्वापविवर्जितः ॥ १,३४.१६ ॥ न बाह्यकरणैर्युक्तो न चान्तः करणैस्तथा । अस्वरुपो यदात्मासौ पुण्यापुण्यविवर्जितः ॥ १,३४.१७ ॥ सर्वोपाधिविनिर्मुक्तो ह्यानन्दो निर्गुणो विभुः । परब्रह्ममयो देवः सुषुत्प इति गीयते ॥ १,३४.१८ ॥ भावनामयमेतद्वै जगत्स्थावरजङ्गमम् । विद्युद्विलोलं विप्रेन्द्र भघज तस्माज्जनार्दनम् ॥ १,३४.१९ ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । वर्तते यस्य तस्यैव तुष्यते जगतां पतिः ॥ १,३४.२० ॥ सर्वभघूतदयायुक्तो विप्रपूजापरायणः । तस्य तुष्टो जगन्नाथो मधुकैटभमर्द्दनः ॥ १,३४.२१ ॥ सत्कथायां च रमते सत्कथां च करोति यः । सत्सङ्गो निरहं कारस्तस्य प्रीतो रमापतिः ॥ १,३४.२२ ॥ नामसंकीर्त्तनं विष्णो क्षुत्तृट्प्रस्खलितादिषु । करोति सततं यस्तु तस्य प्रीतो ह्यधोक्षजः ॥ १,३४.२३ ॥ यातु नारीपतिप्राणा पतिपूजापरायणा । तस्यास्तुष्टो जगन्नाथो ददाति स्वपदं मुने ॥ १,३४.२४ ॥ असूयारहिता ये तु ह्यहङ्कारविवर्जिताः । देवपूजापराश्चैव तेषां तुष्यति केशवः ॥ १,३४.२५ ॥ तस्माच्छृणुष्व देवर्शे भजस्वं सततं हरिम् । मा कुरुष्व ह्यहङ्कारं विद्युल्लोलश्रिया वृथा ॥ १,३४.२६ ॥ शरीरं मृत्युसंयुक्तं जीवितं चाति चञ्चलम् । राजादिभिर्धनं बाध्यं सम्पदः क्षणभङ्गुराः ॥ १,३४.२७ ॥ किं न पश्यसि देवर्षे ह्यायुषार्द्धं तु निद्रया । हतं च भोजनाद्यैश्च कियदायुः समाहृतम् ॥ १,३४.२८ ॥ कियदायुर्बालभावात्कियद्वृथा । कियद्विषयभोगैश्च कदा धर्मान्करिष्यति ॥ १,३४.२९ ॥ बालभावे च वार्द्धक्येन घटेताच्युतार्चनम् । वयस्येव ततो धर्मान्कुरु त्वमनहङ्कृतः ॥ १,३४.३० ॥ मा विनाशं व्रज मुने मग्नः संसारगह्वरे । वरुर्विनाशनिलयमापदां परमं पदम् ॥ १,३४.३१ ॥ शरीरं भोगनिलयं मलाद्यैः परिदूषितम् । किमर्थं शाश्वतधिया कुर्यात्पापं नरो वृथा ॥ १,३४.३२ ॥ आसारभूते संसारे नानादुः खसमन्विते । विश्वासो नात्र कर्त्तव्यो निश्चितं मृत्युसंकुले ॥ १,३४.३३ ॥ तस्माच्छृणुष्व विप्रेन्द्र सत्यमेतद्व्रवीम्यहम् । देहयोगनिवृत्त्यर्थं सद्य एव जनार्दनम् ॥ १,३४.३४ ॥ मानं त्यक्त्वा तथा लोभं कामक्रोधविवर्जितः । भजस्व सततं विष्णुं मानुष्यमतिदुर्लभम् ॥ १,३४.३५ ॥ कोटिजन्मसहस्रेषु स्थावरादिषु सत्तम । संभ्रान्तस्य तु मानुष्यं कथञ्चित्परिलभ्यते ॥ १,३४.३६ ॥ तत्रापि देवताबुद्धिर्दानबुद्धिश्च सत्तम । भोगबुद्धिस्तथा नॄणां जन्मान्तरतपः फलम् ॥ १,३४.३७ ॥ मानुष्यं दुर्लभं प्राप्य यो हरिं नार्चयेत्सकृत् । मूर्खः कोऽस्ति परस्तस्माज्जडबुद्धिरचेतनः ॥ १,३४.३८ ॥ दुर्लभं प्राप्य मानुष्यं नार्चयन्ति च ये हरिम् । तेषामतीव मूर्खाणां विवेकः कुत्र तिष्ठति ॥ १,३४.३९ ॥ आराधितो जगन्नाथो ददात्यभिमतं फलम् । कस्तं न पूजयेद्विप्रसंसाराप्रिप्रदीपितः ॥ १,३४.४० ॥ चण्डालोऽपि मुनिश्रेष्ट विष्णुभक्तो द्विजाधिकः । विष्णुभक्तिविहीनश्च द्विजोऽपि श्वपचाधमः ॥ १,३४.४१ ॥ तस्मात्कामादिकं त्यक्त्वा भजेत हरिमव्ययम् । यस्मिंस्तुष्टेऽखिलं तुष्येद्यतः सर्वगतो हरिः ॥ १,३४.४२ ॥ यथा हस्तिपदे सर्वं पदमात्रं प्रलीयते । तथःा चराचरं विश्वं विष्णाविव प्रलीयते ॥ १,३४.४३ ॥ आकाशेन यथा व्यात्पं जगत्स्थावरजङ्गमम् । तथैव हरिणा व्यात्पं विश्वमेतच्चराचरम् ॥ १,३४.४४ ॥ जन्मनो मरणं नॄणां जन्म वै मृत्युसाधनम् । उभे ते निकटे विद्धि तन्नाशो हरिसेवया ॥ १,३४.४५ ॥ ध्यातः स्मृतः पूजितो वा प्रणतो वा जनार्दनः । संसारपाशविच्छेदीकस्तं न प्रतिपूजयेत् ॥ १,३४.४६ ॥ यन्नामोच्चांरणादेव महापातकनाशनम् । यं समभ्यर्च्य विप्रर्षे मोक्षभागी भवेन्नरः ॥ १,३४.४७ ॥ अहो चित्रमहो चित्रमहो चित्रमिदं द्विज । हरिनाम्नि स्थिते लोकः संसारे परिवर्त्तते ॥ १,३४.४८ ॥ भूयोभूयोऽपि वक्ष्यामि सत्यमेतत्तपोधन । नीयमानो यमभटैरशक्तो धर्मसाधनैः ॥ १,३४.४९ ॥ यावन्नेन्द्रियवैकल्यं यावद्व्याधिर्न बाधते । तावदेवार्चयेद्विष्णुं यदि मुक्तिमभीप्सति ॥ १,३४.५० ॥ मातुर्गर्भाद्विनिः मातुर्गर्भाद्विनिष्क्रान्तो यदा जन्तुस्तदैव हि । मृत्युः संनिहितो भूयात्तस्माद्धर्मपरो भवेत् ॥ १,३४.५१ ॥ अहो कष्टमहो कष्टमहोकष्टमिदं वपुः । विनश्वरं समाज्ञाय धर्मं नैवाचरत्ययम् ॥ १,३४.५२ ॥ सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । दम्भाचारं परित्यज्यं वासुदेवं समर्चयेत् ॥ १,३४.५३ ॥ भूयो भूयो हितं वच्मि भुजमुद्धृत्य नारद । विष्णुः सर्वात्मना पूज्यस्त्याज्यासूया तथानृतम् ॥ १,३४.५४ ॥ क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् । धर्मक्षयकरः क्रोधस्तस्मात्तं परिवर्जयेत् ॥ १,३४.५५ ॥ काममूलमिदं जन्म कामः पापस्य कारणम् । यशः क्षयकरः कामस्तस्मात्तं परिवर्जयेत् ॥ १,३४.५६ ॥ समस्तदुःखजालानां मात्सर्यं कारणं स्मृतम् । नरकाणां साधनं च तस्मात्तदपि संत्यजेत् ॥ १,३४.५७ ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । तस्मात्तदभिसंयोज्य परात्मनि सुखी भवेत् ॥ १,३४.५८ ॥ अहो धैर्यमहो धैर्यमहो धैर्यमहो नृणाम् । विष्णौ स्थिते जगन्नाथे न भजन्ति मदोद्धताः ॥ १,३४.५९ ॥ अनाराध्य जगन्नाथं सर्वधातारमच्युतम् । संसारसागरे मग्नाः कथं पारं प्रयान्ति हि ॥ १,३४.६० ॥ अच्युतानन्तगोविन्दनामोच्चारणभेषजात् । नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ १,३४.६१ ॥ नारायण जगन्नाथ वासुदेव जनार्द्दन । इतीरयन्ति ये नित्यं ते वै सर्वत्र वन्दिताः ॥ १,३४.६२ ॥ अद्यापि च मुनिश्रेष्ट ब्रह्माद्या अपि देवताः । यत्प्राभावं न जानन्ति तं याहि शरणं मुने ॥ १,३४.६३ ॥ अहो मौर्ख्यमहो मौर्ख्यमहो मौर्ख्यं दुरात्मनाम् । हृत्पद्मसंस्थितं विष्णुं न विजानन्ति नारद ॥ १,३४.६४ ॥ शृणुष्व मुनिशार्दूल भूयोभूयो वदाम्यहम् । हरिः श्रद्धावतां तुष्येन्न धनैर्न च बान्धवैः ॥ १,३४.६५ ॥ बन्धुमत्त्वं धनाढ्यत्वं पुत्रवत्त्वं च सत्तम । विष्णुभघक्तिमतां नॄणां भवेज्जन्मनि जन्मनि ॥ १,३४.६६ ॥ पापमूलमयं देहः पापकर्मरतस्तथा । एतद्विदित्वा सततं पूजनीयो जनार्द्दनः ॥ १,३४.६७ ॥ पुत्रमित्रकलत्राद्या बहवः स्युश्च संपदः । हरिपूजारतानां तु भवत्येन न संशयः ॥ १,३४.६८ ॥ इहामुत्र सुखप्रेप्सुः पूजयेत्सततं हरिम् । इहामुत्रासुखप्रेप्सुः परनिन्दापरो भवेत् ॥ १,३४.६९ ॥ धिग्जन्म भक्तिहीनानां देवदेवे जनार्द्दने । सत्पात्रदानशून्यं यत्तद्धनं धिक्पुनः पुनः ॥ १,३४.७० ॥ न नमेद्विष्णवे यस्य शरीरं कर्मभेदिने । पापानामाकरं तद्वै विज्ञेयं मुनिसत्तम ॥ १,३४.७१ ॥ सत्पात्रदानरहितं यद्द्रव्यं येन रक्षितम् । चौर्येण रक्षितमिव विद्धि लोकेषु निश्चितम् ॥ १,३४.७२ ॥ तडिल्लोलश्रिया मत्ताः क्षणंभयुरशालिनः । नाराधयन्ति विश्वेशं पशुपाशविमोचकम् ॥ १,३४.७३ ॥ सृष्टिस्तु द्विविधा प्रोक्ता दैवासुरविभेदतः । हरि भक्ति युता दैवी तद्धीना ह्यासुरी महा ॥ १,३४.७४ ॥ तस्माच्छृणष्व विप्रेन्द्र हरिभक्तिपरायणाः । श्रेष्ठाः सर्वत्र विख्याता यतो भक्तिः सुदुर्लभा ॥ १,३४.७५ ॥ असूयारहिता ये च विप्रत्राणपरायणाः । कामादिरहिता ये च तेषां तुष्यति केशवः ॥ १,३४.७६ ॥ संमार्जनादिना ये तु विष्णुशुश्रूषणे रताः । सत्पात्रदाननिरताः प्रयान्ति परमं पदम् ॥ १,३४.७७ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे हरिभक्तिलक्षणं नाम चतुस्त्रिंशोऽध्यायः _____________________________________________________________ सनक उवाच पुनर्वक्ष्यामि माहात्म्यं देवदेवस्य चक्रिणः । पठतां शुण्वतां सद्यः पापराशिः प्रणश्यति ॥ १,३५.१ ॥ शान्ता जितारिषड्वर्गा योगेनाप्यनहॄङ्कृताः । यजन्ति ज्ञानयोगेन ज्ञानरूपिणमव्ययम् ॥ १,३५.२ ॥ तीर्थस्नानैर्विशुद्धा ये व्रतदानतपोमखैः । यजन्ति कर्मयोगेन सर्वधातारमच्युतम् ॥ १,३५.३ ॥ लुब्धा व्यसनितोऽज्ञाश्च न यजन्ति जगत्पतिम् । अजरामरवन्मूढास्तिष्टन्ति नरकीटकाः ॥ १,३५.४ ॥ तडिल्लेखाश्रिया मत्ता वृथाहॄङ्कारद्विषिताः । न यजन्ति जगन्नाथं सर्वश्रैयोविधायकम् ॥ १,३५.५ ॥ हरिधर्मरताः शान्ता हरिपादाब्जसेवकाः । दैवात्केऽपीह जायन्ते लोकानुग्रहतत्पराः ॥ १,३५.६ ॥ कर्मणा मनसा वाचा यो यजेद्भक्तितो हरिम् । स याति परमं स्थानं सर्वलोकोत्तमोत्तमम् ॥ १,३५.७ ॥ अत्रैवोदाहरन्तीममितिहासं पुरातनम् । पठतां शृण्वतां चैव सर्वपापप्रणाशनम् ॥ १,३५.८ ॥ तत्प्रवक्ष्यामि चरितं यज्ञमालिसुमालिनोः । यस्य श्रवणमात्रेण वाचिमेध फलं लभेत् ॥ १,३५.९ ॥ कश्चिदासीत्पुरा विप्र ब्रह्मणो रैवतेंऽतरे । वेदमालिरिति ख्यातो वेदवेदाङ्गपारगः ॥ १,३५.१० ॥ सर्वभूतदयायुक्तो हरिपूजापरायणः । पुत्रमित्रकलत्रार्थं धनार्जनपरोऽभवत् ॥ १,३५.११ ॥ अपण्यंविक्रयं चक्रे तथा च रसिविक्रयम् । चण्डालाद्यैरपि तथा संभषी तत्प्रतिग्रही ॥ १,३५.१२ ॥ तपसां विक्रयं चक्रे व्रतानां विक्रयं तथा । परार्थं तीर्थगमनं कलत्रार्थमकारयत् ॥ १,३५.१३ ॥ कालेन गच्छता विप्र जातौ तस्य सुतावुभो । यज्ञमाली सुमाली च यमलावतिशोभनौ ॥ १,३५.१४ ॥ ततः पिता कुमारौ तावतिस्नेहसमन्वितः । पोषयामास वात्सल्याद्बहुभिः साधनैस्तदा ॥ १,३५.१५ ॥ वेदमालिर्बहूपायैर्धनं संपाद्य यत्नतः । स्वधनं गणयामास कियत्स्यादिति वेदितुम् ॥ १,३५.१६ ॥ निधिकोटिसहस्राणां कोटिकोटिगुणान्वितम् । विगणय्य स्वयं दृष्टो विस्मितश्चार्थचिन्तया ॥ १,३५.१७ ॥ असत्प्रतिग्रहैश्चैव अपण्यानां च विक्रयैः । मेया तपो विक्रयाद्यैरेतद्धनमुपार्जितम् ॥ १,३५.१८ ॥ नाद्यापि शान्तिमापन्ना मम तृष्णातिदुःसहा । मेरुतुल्यसुवर्णानि ह्यसंख्यातानि वाञ्छति ॥ १,३५.१९ ॥ अहो मन्ये महाकष्टं समस्तक्लेशसाधनम् । सर्वान्कामानवांप्नोति पुनरन्यञ्च काङ्क्षति ॥ १,३५.२० ॥ जीर्यन्ति जीर्यतः केशाः दन्ता जीर्यन्ति जीर्यतः । चक्षुःश्रोत्रे च जीर्येते तृष्णेका तरुणायते ॥ १,३५.२१ ॥ ममेद्रियाणि सर्वाणि मन्दभावं व्रजन्ति च । बलं हतं च जरसा तृष्णा तरुणतां गता ॥ १,३५.२२ ॥ कष्टाशा वर्त्तते यस्य स विद्रानथ पण्डितः । सुशान्तोऽपि प्रमन्युः स्याद्धीमानप्यतिमूढधीः ॥ १,३५.२३ ॥ आशा भङ्गकरी पुंसामजेयारातिसन्निभा । तस्मादाशां त्यजेत्प्राज्ञो यदीच्छेच्छाश्वतं सुखम् ॥ १,३५.२४ ॥ बलं तेजोः यशश्वैव विद्यां मानं च वृद्धताम् । तथैव सत्कुले जन्म आशा हत्यतिवेगतः ॥ १,३५.२५ ॥ नृणामाशाभिभूतानामाश्चर्यमिदसुच्यते । किञ्चिद्दातापि चाण्डालस्तस्मादधिकतां गतः ॥ १,३५.२६ ॥ आशाभिभूता ये मर्त्या महामोहा महोद्धताः । अवमानादिकं दुःखं न जानन्ति कदाप्यहो ॥ १,३५.२७ ॥ मयाप्येवं बहुक्लिशैरेतद्धनमुपार्जितम् । शरीरमपि जीर्णं च जरसापहतं बलम् ॥ १,३५.२८ ॥ इतः परं यतिष्यामि परलोकार्थमादरात् । एवं निश्चित्य विप्रेन्द्र धर्ममार्ग रतोऽभवत् ॥ १,३५.२९ ॥ तदैव तद्धनं सर्वं चतुर्द्धा व्यभजत्तथा । स्वयं तु भाग द्वितय स्वार्जितार्थादपाहरत् ॥ १,३५.३० ॥ शेषं च भागद्वितयं पुत्रयोरुभयोर्ददौ । स्वेनार्जितानां पापानां नाशं कर्तुमनास्तदा ॥ १,३५.३१ ॥ प्रपातडागारामांश्च तथा देवगृहान्बहून् । अन्नादीनां च दानानि गङ्गातीरे चकार सः ॥ १,३५.३२ ॥ एवं धनमशेषं च विश्राण्य हरिभक्तिमान् । नारनारायण स्थानं जगाम तपसे वनम् ॥ १,३५.३३ ॥ तत्रापश्यन्महारम्यमाश्रमं मुनिसेवितम् । फलितैः पुषअपितैश्चैव शोभितं वृक्षसंचयैः ॥ १,३५.३४ ॥ गृणद्भिः परमं ब्रह्म शास्त्रचिन्तापरैस्तथा । परिचर्यापरैर्वृद्धैर्मुनिभिः परिशोभितम् ॥ १,३५.३५ ॥ शिष्यैः परिवृतं तत्र मुनिं जानन्ति संज्ञकम् । गृणन्तं परमं ब्रह्म तेजोराशिं ददर्श ह ॥ १,३५.३६ ॥ शमादिगुणसंयुक्तं रागादिरहितं मुनिम् । शीर्णपर्णाशनं दृष्ट्वा वेदमालिर्ननाम तम् ॥ १,३५.३७ ॥ तस्य जानन्तिरागन्तोः कल्पयामास चार्हणम् । कन्दमूलफलाद्यैस्तु नारायणधिया मुने ॥ १,३५.३८ ॥ कृतातिथ्यक्रियस्तेन वेदमाली कृताञ्जलिः । विनयावनतो भूत्वा प्रोवाच वदतां वरम् ॥ १,३५.३९ ॥ भगवन्कृतकृत्योऽस्मि विगतं कल्मषं मम । मामुद्धर महाभाग ज्ञानदानेन पण्डित ॥ १,३५.४० ॥ एवमुक्तस्ततस्तेन जानन्तिर्मुनिसत्तमः । प्रोवाच प्रहसन्वाग्मी वेदमालिं गुणान्वितम् ॥ १,३५.४१ ॥ जानन्तिरुवाच शृणष्व विप्रशार्दूल संसारच्छेदकारणम् । प्रवक्ष्यामि समासेन दुर्लभं त्वकृतात्मनाम् ॥ १,३५.४२ ॥ भज विष्णुं परं नित्यं स्मर नारायणं प्रभुम् । परापवादं पैशुन्यं कदाचिदपि मा कृथाः ॥ १,३५.४३ ॥ परोपकारनिरतः स दा भव महामते । हरिपूजापरश्चैव त्यज मूर्खसमागमम् ॥ १,३५.४४ ॥ कामं क्रोधं च लोभं च मोहं च मदमत्सरौ । परित्यज्यात्मवल्लोकं दृष्ट्वा शान्तिं गमिष्यसि ॥ १,३५.४५ ॥ असूयां परनिन्दां च कदाचिदपि मा कुरु । द्रंभाचारमहॄङ्कारं नैष्ठुर्यं च परित्यज ॥ १,३५.४६ ॥ दयां कुरुष्व भुतेषु शुश्रूषां च तथा सताम् । त्वया कृतांश्च धर्मान्वै मा प्रकाशय पुच्छताम् ॥ १,३५.४७ ॥ अनाचारपरान्दृष्ट्वा नोपेक्षां कुरु शक्तितः । पूजयस्वातियिं नित्यं स्वकुटुंबाविरोधतः ॥ १,३५.४८ ॥ पत्रैः पुष्पैः फलैर्वापि दूर्वाभिः पल्लवैरथ । पूजयस्व जगन्नाथं नारायणमकां मतः ॥ १,३५.४९ ॥ देवानृपीन्पितॄश्चापि तर्पयस्व यथाविधि । अग्रेश्च विधिवद्वप्र परिचर्यापरो भव ॥ १,३५.५० ॥ देवतायतने नित्यं संमार्जनपरो भव । तथोपलेपनं चैव कुरुष्व सुसमाहितः ॥ १,३५.५१ ॥ शीर्णस्फटितसंधानं कुरु देवगृहे सदा । मार्गशोभां च दीपं च विष्णोरायतने कुरु ॥ १,३५.५२ ॥ कन्दमूलफलैर्वापि सदा पूजय माधवम् । प्रदक्षिणनमस्कारैः स्तोत्राणां पठनैस्तथा ॥ १,३५.५३ ॥ युराणश्रवणं चैव पुराणपठनं तथा । वेदान्तपठनं चैव प्रत्यहं कुरु शक्तितः ॥ १,३५.५४ ॥ एवं स्थिति तव ज्ञानं भघविष्यत्युत्तमोत्तमम् । ज्ञानात्समस्तपापानां मोक्षो भवति निश्चितम् ॥ १,३५.५५ ॥ एवं प्रबोधितस्तेन वेदमालिर्महामतिः । तथा ज्ञानरतो नित्यं ज्ञानलेशमवाप्तवान् ॥ १,३५.५६ ॥ वेदमालिः कदाचित्तु ज्ञानलेशप्रचोदितः । कोऽहं मम क्रिया केति स्वयमेव व्यक्तिन्तयत् ॥ १,३५.५७ ॥ मम जन्म कथं जातं रूपं कीदृग्विधं मम । एवं विचारणपरोः दिवानिशमतन्द्रितः ॥ १,३५.५८ ॥ अनिश्चितमतिर्भूत्वा वेदमालिर्द्धिजोत्तमः । पुनर्जानन्तिमागम्य प्रणम्येदमुवाच ह ॥ १,३५.५९ ॥ वेदमालिरुवाच मम चित्तमतिभ्रातं गुरो ब्रह्मविदां वर । कोऽहं मम क्रिया का च मम जन्म कथं वद ॥ १,३५.६० ॥ जानन्तिरुवाच सत्यं सत्यं महाभागं चित्तं भ्रातं सुनिश्चितम् । अविद्यानिलर्य चित्तं कथं सद्भावगगमेष्यति ॥ १,३५.६१ ॥ ममेति गदितं यत्तु तदपि भ्रान्तिरिष्यते । अहॄङ्कारो मनोधर्म आत्मनो नहि पण्डित ॥ १,३५.६२ ॥ पुनश्च कोऽहमित्युक्तं वेदमाले त्वया तु यत् । मम जात्यादि शून्यस्य कथं नाम करोम्यहम् ॥ १,३५.६३ ॥ अनौपम्यस्वभावस्य निर्गुणस्य परात्मनः । नीरूपस्याप्रमेयस्य कथं नाम करोम्यहम् ॥ १,३५.६४ ॥ परज्योतिः स्वरूपस्य परिपूर्णाव्ययात्मनः । अविच्छिन्नस्वभावस्य कथ्यते च कथं क्रिया ॥ १,३५.६५ ॥ स्वप्रकाशात्मनो विप्र नित्यस्य परमात्मनः । अनन्तस्य क्रिया चैव कथं जन्म च कथ्यते ॥ १,३५.६६ ॥ ज्ञानैकवेद्यमजरं परं ब्रह्म सनातनम् । परिपूर्णं परानन्दं तस्मान्नान्यदिह द्विज ॥ १,३५.६७ ॥ तत्त्वमस्यादिवाक्येभ्यो ज्ञानं मोक्षस्य साधनम् । ज्ञाने त्वनाहते सिद्धे सर्वं ब्रह्ममयं भवेत् ॥ १,३५.६८ ॥ एवं प्रबोधितस्तेन वेदमालिर्मुनीश्वर । मुमोद पश्यन्नात्मानमात्मन्येवाच्युतं प्रभुम् ॥ १,३५.६९ ॥ उपाधिरहितं ब्रह्म स्वप्रकाशं निरञ्जनम् । अहमेवेति निश्चित्य परां शान्तिमवाप्तवान् ॥ १,३५.७० ॥ ततश्च व्यवहारार्थं वेदमालिर्मुनीश्वरम् । गुरुं प्रणम्य जानन्ति सदा ध्यानपरोऽभवत् ॥ १,३५.७१ ॥ गते बहुतिथे काले वेदमालिर्मुनीश्व । वाराणसीपुरं प्राप्य परं मोक्षमवाप्तवान् ॥ १,३५.७२ ॥ य इमं पठतेऽध्यायं शृणुयाद्वा समाहितः । स कर्मपाशविच्छेदं प्राप्य सौख्यमवान्पुयात् ॥ १,३५.७३ ॥ इति श्रीबृहन्नारादीयपुराणे पूर्वभागे प्रथमपादे ज्ञाननिरूपण नाम पञ्चत्रिंशोऽध्यायः _____________________________________________________________ सनक उवाच वेदमालेः सुतौ प्रोक्तौ यावुभौ मुनिसत्तम । यज्ञमाली सुमाली च तयोः कर्माधुनोच्यत ॥ १,३६.१ ॥ तयोराद्यो यज्ञमाली विभेद पितृसंचितम् । धनं द्विधा कनिष्टस्य भागमेकं ददौ तदा ॥ १,३६.२ ॥ सुमाली च धनं सर्वं व्यसनाभिरकतः सदा । अपादाना दिभिश्चैव नाशयामास भो द्विज ॥ १,३६.३ ॥ गीतवाद्यरतो नित्यं मद्यपानरतोऽभवत् । वेश्याविभ्रमलुब्धोऽसौ परदारतोऽभवत् ॥ १,३६.४ ॥ सर्वस्मिन्नाशमायाते हिरण्ये पितृसंचिते । अपहृत्य परं द्रव्यं वारस्त्रीनिरतोऽभवत् ॥ १,३६.५ ॥ दृष्ट्वा सुमालिनः शूलं यज्ञमाली महामतिः । बभूव दुःखितोऽत्यर्थं भ्रातरं चेदमब्रवीत् ॥ १,३६.६ ॥ अलममत्यन्तकष्टेन वृत्तेनास्मत्कुलेऽनुज । त्वमेक एव दुष्टात्मा महापापरतोऽभवः ॥ १,३६.७ ॥ एवं निवारयन्तं तं बहुशो ज्येष्टसोदरम् । हनिष्यामीति निश्चित्य खड्गहस्तः कचेऽग्रहीत् ॥ १,३६.८ ॥ ततो महारवो जज्ञे नगरे भृशदारुणः । बबन्धुर्नागराश्चैनं कुपितास्ते सुमालिनम् ॥ १,३६.९ ॥ यज्ञमाली ह्यमेयात्मा पौरान्संप्रार्थ्य दुःखितः । बन्धनान्मोचयामास भ्रातृस्नेहविमोहितः ॥ १,३६.१० ॥ यज्ञमाली पुनश्चापि बिभिदे स्वधनं द्विधा । आददे स्वयमर्द्धं च ददावर्द्धं यवीयसे ॥ १,३६.११ ॥ सुमाली त्वतिमूढात्मा तद्धनं चापि नारद । मूर्खैः पारंवडचण्डालैर्बुभुजे च सहोद्धतः ॥ १,३६.१२ ॥ असतामुपभो गाय दुर्जनानां विभूतयः । पिचुमन्दः फलाढ्योऽपि काकैरेवोपभुज्यते ॥ १,३६.१३ ॥ भ्रात्रा दत्तं धनं तञ्च सुमाली नाशयन्मुने । मद्यपानप्रमत्तश्च गोमांसा दीन्यभक्षयत् ॥ १,३६.१४ ॥ त्यक्तो बन्धुजनैः सर्वैश्चाण्डालस्त्रीसमन्वितः । राज्ञापि बाधितो विप्रप्रपेदे निर्जनं वनम् ॥ १,३६.१५ ॥ यज्ञमाली सुधीर्विप्र सदा धर्मरतोऽभवेत् । अवारितं ददावन्नं सत्सङ्गगतकल्मषः ॥ १,३६.१६ ॥ पित्रा कृतानि सर्वाणि तडागादीनि सत्तम । अपालयत्प्रयत्नेन सदा धर्मपरायणः ॥ १,३६.१७ ॥ विश्राणितं धनं सर्वं यज्ञमालेर्महात्मनः । सत्पात्रदाननिष्टस्य धर्ममार्गप्रवर्तिनः ॥ १,३६.१८ ॥ अहो सदुपभोगाय सज्जनानां विभूतयः । कल्पवृक्षफलं सर्वममरैरेव भुज्यते ॥ १,३६.१९ ॥ धनं विश्राण्य धर्मार्थं यज्ञमाली महामतिः । नित्यं विष्णुगृहे सम्यक्परिचर्य्यापरोऽभवत् ॥ १,३६.२० ॥ कालेन गच्छता तौ तु वृद्धभावमुपागतौ । यज्ञमाली सुमाली च ह्येककाले मृतावुभौ ॥ १,३६.२१ ॥ हरिपूजारतस्यास्य यज्ञमालिमहात्मनः । हरिः संप्रेषयामास विमानं पार्षदा वृतम् ॥ १,३६.२२ ॥ दिव्यं विमानमारुह्य यज्ञमाली महामतिः । पूज्यमानः सुरगणैः स्तूयमानो मुनीश्वरैः ॥ १,३६.२३ ॥ गन्धर्वैर्गीयमानश्च सेवितश्चाप्सरोगणैः । कामधेन्वा पुष्यमाणश्चित्राभरणभूषितः ॥ १,३६.२४ ॥ कोमलैस्तुलसीमाल्यैर्भूषितस्तेजसां निधिः । गच्छन्विष्णुपदं दिव्यंमनुजं पथि दृष्टवान् ॥ १,३६.२५ ॥ ताह्यमानं यमभटैः क्षुत्तृड्भ्यां परिपीडितम् । प्रेतभूतं विवस्त्रं च दुःखितं पाशवेष्टितम् । इतस्ततः प्राधावन्तं विलपन्तमनाथवत् ॥ १,३६.२६ ॥ क्रोशन्तं च सुदन्तं च दृष्ट्वा मनसि विव्यथे ॥ १,३६.२७ ॥ यज्ञमालीदयायुक्तो विष्णुदूतान्समीपगान् । कोऽयं भटैर्बाध्यमानं इत्यपृच्छत्कृताञ्जलिः ॥ १,३६.२८ ॥ अथ ते हरिदूतास्तं यज्ञमालिमहौजसम् । असौ सुमाली भ्राता ते पापात्मेति समब्रुवन् ॥ १,३६.२९ ॥ यज्ञमाली समाकर्ण्य व्याख्यातं विष्णुकिङ्करैः । मनसा दुःखमापन्नः पुनः पप्रच्छ नारद ॥ १,३६.३० ॥ कथमस्य भवेन्मोक्षः सांचितैः पापसंचयैः । तदुपायंबदध्वं मे यूयं हि ममबान्धवाः ॥ १,३६.३१ ॥ सख्यं साप्तपदीनं स्यादित्याहुर्धर्मकोविदाः । सतां साप्तपदी मैत्री सत्सतां त्रिपदी तथा ॥ १,३६.३२ ॥ सत्सतामपि ये संतस्तेषां मैत्रघी पदे पदे ॥ १,३६.३३ ॥ तस्मान्मे बान्धवा यूयं मां नेतुं समुपागताः । यतोऽयं मम भ्रातापि मुच्यते तदिहोच्यताम् ॥ १,३६.३४ ॥ यज्ञमालिवचः श्रुत्वा विष्णुदूता दयालवः । पुनः स्मितामुखाः प्रोचुर्यज्ञमालिहरिप्रियम् ॥ १,३६.३५ ॥ विष्णुदूता ऊचुः यज्ञमालिन्महाभाग नारायणपरायण । उपायं तव वक्ष्यामः सुमालिप्रेममुक्तिदम् ॥ १,३६.३६ ॥ कृतं यत्सुमहत्कर्म त्वया प्राक्तनजन्मनि । प्रवक्ष्यामः समासेन तच्छ्रणुष्व समाहितः ॥ १,३६.३७ ॥ पुरा त्वं वैश्यजातीयो नाम्ना विश्वङ्घभरः स्मृतः । त्वया कृतानि पापानि अहन्त्यगणितानि वै ॥ १,३६.३८ ॥ सुकर्मवासनाहीनो मातापित्रोर्विरोधकृत् । एकदा बन्धुभिस्त्यक्तः शोकसंतापपीडितः ॥ १,३६.३९ ॥ क्षुधाग्निनापि संतप्तः प्राप्तवान्हरिमन्दिरम् । तदा वृष्टिरभूत्तत्र तत्स्थानं पङ्किलं ह्यभूत ॥ १,३६.४० ॥ दीरीकृतस्त्वया पङ्कस्तत्स्थाने स्थातुमिच्छया । उपलेपनतां प्राप्तं तत्स्थानं विष्णुमन्दिरे ॥ १,३६.४१ ॥ त्वयोषितं तु तद्गात्रौ तस्मिन्देवालये द्विज । दंशितश्चैव सर्पेण प्राप्तं पञ्चत्वमेव च ॥ १,३६.४२,१ ॥ तेन पुण्यप्रभावेन उपलेपकृतेन च । विप्रजन्म त्वया प्राप्तं हरि भक्तिस्तथाचला ॥ १,३६.४२,२ ॥ कल्पकोटिशतं साग्रं संप्राप्य हरिसन्निधिम् । वसाद्य ज्ञानमासाद्य परं मोक्षं गमिष्यसि ॥ १,३६.४३ ॥ अनुजं पातकिश्रेष्ठं त्वं समुद्धर्त्तमिच्छसि । उपायं तव वक्ष्यामस्तं निबोध महामते ॥ १,३६.४४ ॥ गोचर्ममात्रभूमेस्तु उपलेपनजं फलम् । दत्त्वोद्धर महाभाग भ्रातरं कृपयान्वितः ॥ १,३६.४५ ॥ एवमुक्तो विष्णुदूतैर्यज्ञमाली महापतिः । तत्फलं प्रददौ तस्मै भ्रात्रे पापविमुक्तये ॥ १,३६.४६ ॥ सुमाली भ्रातृदत्तेन पुण्येन गतकल्मषः । बभूव यमदूतास्तु तं त्यक्त्वा प्रपलायिताः ॥ १,३६.४७ ॥ विमानं चागतं सद्यः सर्वभोगसमन्वितम् । तदा सुमाली स्वर्यानमारुह्य मुमुदे मुने ॥ १,३६.४८ ॥ तावुभौ भ्रातरौ विप्र सुरवृन्दनमस्कृतौ । अवापतुर्भृशं प्रीतिं समालिङ्ग्य परस्परम् ॥ १,३६.४९ ॥ यज्ञमाली सुमाली च स्तूयमानौ महर्षिभिः । गीयमानौ च गन्धर्वैर्विष्णुलोकं प्रजग्मतुः ॥ १,३६.५० ॥ अवाप्य हरिसालोक्यं सुमाली मुनिसत्तम । यज्ञमाली चोषतुस्तौ कल्पमेकं मुदान्वितौ ॥ १,३६.५१ ॥ भुक्त्वा भोगान्बहूंस्तत्र यज्ञमाली महामतिः । तत्रैव ज्ञानसंपन्नः परं मोक्षमुपागतः ॥ १,३६.५२ ॥ सुमाली तु महाभागो विष्णुलोके मुदान्वितः । स्थित्वा भूमिं पुनः प्राप्य विप्रत्वं समुपागतः ॥ १,३६.५३ ॥ अतिशुद्धे कुले जातो गुणवान्वेदपारगः । सर्वसंपत्समोपेतो हरिभक्तिपरायणः ॥ १,३६.५४ ॥ व्याहरन्हरिनामानि प्रपेदे जाह्नवीतटम् । तत्र स्नातश्च गङ्गायां दृष्ट्वा विश्वेश्वरं प्रभुम् ॥ १,३६.५५ ॥ अवाप परमं स्थानं योगिनामपि दुर्लभम् । उपलेपनमाहात्म्यं कथितं ते मुनीश्वर ॥ १,३६.५६ ॥ तस्मात्सर्वप्रयत्नेन संपूज्यो जगतांपतिः । अकामादपि ये विष्णोः सकृत्पूजां प्रकुर्वते ॥ १,३६.५७ ॥ न तेषां भवबन्धस्तु कदाचिदपि जायते । हरिभक्तिरतान्यस्तु हरिबुद्ध्या समर्चयेत् ॥ १,३६.५८ ॥ तस्य तुष्यन्ति विप्रेन्द्र ब्रह्मविष्णुमहेश्वराः । हरिभक्तिपराणां तु संगिनां संगमात्रतः ॥ १,३६.५९ ॥ मुच्यते सर्वपापेभ्यो महापातकवानपि । हरिपूजापराणां च हरिनामरतात्मनाम् ॥ १,३६.६० ॥ शुश्रूषानिरता यान्ति पापिनोऽपि परां गतिम् ॥ १,३६.६१ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुसेवाप्रभावो नाम षट्त्रिंशोऽध्यायः _____________________________________________________________ सनक उवाच भूयः शृणुष्व विप्रेन्द्र माहात्म्यं कमलापतेः । कस्य नो जायते प्रीतिः श्रोतुं हरिकथामृतम् ॥ १,३७.१ ॥ नराणां विषयान्धानां ममताकुलचेतसाम् । एकमेव हरेर्नाम सर्वपापप्रणाशनम् ॥ १,३७.२ ॥ सकृद्वा न नमेद्यस्तु विष्णुं पापहरं नृणाम् । श्वपचं तं विजानीयात्कदाचिन्नालपेञ्च तम् ॥ १,३७.३ ॥ हरिपूजाविहीनं तु यस्य वेश्म द्विजोत्तम । श्मशानसदृशं तद्धि कदाचिदपि नो विशेत् ॥ १,३७.४ ॥ हरिपूजाविहीनाश्च वेदविद्वेषिणस्तथा । गोद्विजद्वेषनिरता राक्षसाः परिकीर्त्तिताः ॥ १,३७.५ ॥ यो वा को वापि विप्रेन्द्र विप्रद्वेषपरायणः । समर्चयति गोविन्दं तत्पूजा विफला भवेत् ॥ १,३७.६ ॥ अन्यश्रेयोविनाशार्थं येर्ऽचयन्ति जनार्दनम् । सा पूजैव महाभाग पूजकानाशु हॄन्ति वै ॥ १,३७.७ ॥ हरिपूजाकरो यस्तु यदि पापं समाचरेत् । तमेव विष्मुद्वेष्टारं प्राहुस्तत्त्वार्त्थकोविदाः ॥ १,३७.८ ॥ ये विष्णुनिरताः संति लोकानुग्रहतत्पराः । धर्मकार्यरताः शश्वद्विष्णुरुपास्तु ते मताः ॥ १,३७.९ ॥ कोटिजन्मार्दजितैः पुण्यैर्विष्णुभक्तिः प्रजायते । दृढभक्तिमतां विष्णौ पापबुद्धिः कथं भवेत् ॥ १,३७.१० ॥ जन्मकोट्यर्जितं पापं विष्णुपूजारतात्मनाम् । क्षयं याति क्षणादेव तेषां स्यात्पापधीः कथम् ॥ १,३७.११ ॥ विष्णुभक्तिविहीना ये चण्डालाः परिकीर्तिताः । चण्डाला अपि वै श्रेष्ठा हरिभक्तिपरायणाः ॥ १,३७.१२ ॥ नराणां विषयान्धानां सर्वदुःखविनाशिनी । हरिसेवेति विख्याता भुक्तिमुक्तिप्रदायिनी ॥ १,३७.१३ ॥ संगात्स्नेहाद्भयाल्लोभादज्ञानाद्वापि यो नरः । विष्णोरुपासनं कुर्यात्सोऽक्षयं सुखमश्नुते ॥ १,३७.१४ ॥ हरिपादोदकं यस्तु कणमात्रं पिबेदपि । स स्नातः सर्वतीर्थेषु विष्णोः प्रियतरो भवेत् ॥ १,३७.१५ ॥ अकालमृत्युशमनं सर्वव्याधिविनाशनम् । सर्वदुःखोपशमनं हरिपोदोदक स्मृतम् ॥ १,३७.१६ ॥ नारायणं परं धाम ज्योतिषां ज्योतिरुत्तमम् । ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्वती ॥ १,३७.१७ ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । पठतां शृण्वतां चैव सर्वपापप्रणाशनम् ॥ १,३७.१८ ॥ आसीत्पुरा कृतयुगे गुलिको नाम लुब्धकः । परदारपरद्रव्यहरणे सततोद्यतः ॥ १,३७.१९ ॥ परनिन्दापरो नित्यं जन्तूपद्रवकृत्तथा । हतवान्ब्राह्मणान् गाश्च शतशोऽथ सहस्रशः ॥ १,३७.२० ॥ देवस्वहरणे नित्यं परस्वहरणे तथा । उद्युक्तः सर्वदा विप्र कीनाशानामधीश्वरः ॥ १,३७.२१ ॥ तेन पापान्यनेकानि कृतानि सुमहान्ति च । न तेषां शक्यते वक्तुं संख्या वत्सरकोटिभिः ॥ १,३७.२२ ॥ स कदा चिन्महापापो जतृनामन्तकोपमः । सौवीरराज्ञो नगरं सर्वैश्वर्यसमन्वितम् ॥ १,३७.२३ ॥ योषिद्धिर्भूषितार्भिश्च सरोभिनिर्मलोदकैः । अलङ्कृतं विपणिभिर्ययो देवपुरोपमम् ॥ १,३७.२४ ॥ तस्योपवनमध्यस्थं रम्यं केशवमन्दिरम् । छदितं हेमकलशैर्दृष्ट्वा व्याधो मुदं ययौ ॥ १,३७.२५ ॥ हराम्यत्र सुवर्णानि बहूनीति विनिश्चितम् । जगामाभ्यन्तरं तस्य कीनाशश्चौर्यलोलुपः ॥ १,३७.२६ ॥ तत्रापश्यद्द्विजवरं शान्तं तत्त्वार्थकोविदम् । परिचर्यापरं विष्णोरुत्तङ्कं तपसां निधिम् ॥ १,३७.२७ ॥ एकाकिनं दयासुं च निस्पृहं ध्यानलोलुपम् । चौर्यान्तरायकर्तारं तं दृष्ट्वा लुब्धको मुने ॥ १,३७.२८ ॥ द्रव्यजातं तु देवस्य हर्तुकामोऽतिसाहसी । उत्तङ्कं हॄन्तुमारेभे विधृतासिर्मदोद्धतः ॥ १,३७.२९ ॥ पादेनाक्रम्य तद्वक्षो जटाः संगृह्य पाणिना । हॄन्तुं कृतमतिं व्याधमुत्तङ्कः प्रेक्ष्य चाब्रवीत् ॥ १,३७.३० ॥ उत्तङ्क उवाच भो भो साधो वृथा मां त्वं हनिष्यसि निरागसम् । मया किमपराद्धं ते तद्वदस्व महामत्ते ॥ १,३७.३१ ॥ कृतापराधिनां लोके शक्ताः शिक्षां प्रकुर्वते । नहि सौम्य वृथा घ्नन्ति सज्जना अपि पापिनः ॥ १,३७.३२ ॥ विरोधिष्वपि मूर्खेषु निरीक्ष्यावस्थितान् गुणान् । विरोधं नहि कुर्वन्ति सज्जनाः शान्तचेतसः ॥ १,३७.३३ ॥ बहुधा बोध्यमानोऽपि यो नरः क्षमयान्वितः । तमुत्तमं नरं प्राहुर्विष्णोः प्रियतरं सदा ॥ १,३७.३४ ॥ सुजनो न याति वैरं परहितबुद्धिर्वनाशकालेऽपि । छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ १,३७.३५ ॥ अहो विधिः सुबलवान्बा धते बहुधा जनान् । सर्वसंगविहीनोऽपि बाध्यते हि दुरात्मना ॥ १,३७.३६ ॥ अहो निष्कारणं लोके बाधन्ते बहुधा जनान् । सर्वसंगविहीनोऽपि बाध्यते पिशुनैर्जनैः । तत्रापि साधून्बाधन्ते न समानान्कदाचन ॥ १,३७.३७ ॥ मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तानाम् । लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ १,३७.३८ ॥ अहो बलवती माया मोहयत्यखिलं जगत् । पुत्रमित्रकलत्रार्थं सर्वं दुःखेन योजयेत् ॥ १,३७.३९ ॥ परद्रव्यापहारेण कलत्रं पोषितं त्वया । अन्ते तत्सर्वमुत्सृज्य एक एव प्रयति वै ॥ १,३७.४० ॥ मम माता मम पिता मम भार्या ममात्मजाः । ममेदमिति जन्तूनां ममता बाधते वृथा ॥ १,३७.४१ ॥ यावदर्जयति द्रव्यं बान्धवास्तावदेव हि । धर्माधर्मौं सहैवास्तामिहामुत्र न चापरः ॥ १,३७.४२ ॥ धर्माधर्मार्जितैर्द्रव्यैः पोषिता येन ये नराः । मृतमग्निमुखे हुत्वा घृतान्नं भुञ्जते हि ते ॥ १,३७.४३ ॥ गच्छन्तं परलोकं च नरं तु ह्यनुतिष्टतः । धर्माधर्मौं न च धनं न पुत्रा न च बान्धवाः ॥ १,३७.४४ ॥ कामः समृद्धिमायाति नराणां पापकर्मिणाम् । कामः संक्षयमायाति नराणां पुण्यकर्मणाम् ॥ १,३७.४५ ॥ वृथैव व्याकुला लोका धनादानां सदार्जने ॥ १,३७.४६ ॥ यद्भावि तद्भवत्येव यदभाव्यं न तद्भवेत् । इति निश्चितबुद्धीनां न चिन्ता बाधते क्वचित् ॥ १,३७.४७ ॥ र्दवाधीनमिदं सर्वं जगत्स्थावरजङ्गमम् । तस्माज्जन्म च मृत्युं च दैवं जानाति नापरः ॥ १,३७.४८ ॥ यत्र कुत्र स्थितस्यापि यद्भाव्यं तद्भवेद्ध्रुवम् । लोकस्तु तत्र विज्ञाय वृथायासं करोति हि ॥ १,३७.४९ ॥ अहो दुःखं मनुष्याणां ममताकुलचेतसाम् । महापापानि कृत्वापि परान्पुष्यान्ति यत्नतः ॥ १,३७.५० ॥ अर्जितं च धनं सर्वं भुञ्जते बान्धवाः सदा । स्वयमेकतमो मूढस्तत्पापफलमश्नुते ॥ १,३७.५१ ॥ इति ब्रवाणं तमृषिं विमुच्य भयविह्वलः । गुलिकः प्राञ्जलिः प्राह क्षमस्वेति पुनः पुनः ॥ १,३७.५२ ॥ सत्संगस्य प्रभावेण हरिसन्निधिमात्रतः । गतपापो लुबग्दकश्च ह्यनुतापीदमब्रवीत् ॥ १,३७.५३ ॥ मया कृता नि पापानि महान्ति सुबहूनि च । तानि सर्वाणि नष्टानि विप्रेन्द्र तव दर्शनात् ॥ १,३७.५४ ॥ अहोऽहं पापधीर्नित्यं महापापमुपाचरम् । कथं मे निष्कृतिर्भूयो यामि कं शरणं विभोः ॥ १,३७.५५ ॥ पूर्वजन्मार्जितैः पापैर्लुब्धकत्वमवाप्तवान् । अत्रापि पापजालानि कृत्वा कां गतिमाप्नुयाम् ॥ १,३७.५६ ॥ अहो ममायुः क्षयमेति शीघ्रं पापान्यनेकानि समर्ज्जितानि । प्रातिक्रिया नैव कृता मयैषां गतिश्च का स्यान्ममजन्म किं वा ॥ १,३७.५७ ॥ अहो विधिः पापशता कुलं मां किं सृष्टवान्पापतरं च शश्वत् । कथं च यत्पापफलं हि भोक्ष्ये कियत्सु जन्मस्वहमुग्रकर्मा ॥ १,३७.५८ ॥ एवं विनिन्दन्नात्मानमात्मना लुब्धकस्तदा । अन्तस्तापाग्निसंतप्तः सद्यः पञ्चत्वमागतः ॥ १,३७.५९ ॥ उत्तङ्कः पतितं प्रेक्ष्य लुबग्धकं तं दयापरः । विष्णुपादोदकेनैवमभ्यषिञ्चन्महामतिः ॥ १,३७.६० ॥ हरिपादोदकस्पर्शाल्लुब्धको गतकल्मषः । दिव्यं विमानमारुह्य मुनिमेतदथाब्रवीत् ॥ १,३७.६१ ॥ गुलिक उवाच उत्तङ्क मुनिशार्दूल गुरुस्त्वं मम सुव्रत । विमुक्तस्त्वत्प्रसादेन महापातककञ्चुकात् ॥ १,३७.६२ ॥ गतस्त्वदुपदेशान्मे संतापो मुनिपुङ्गव । तथैव सर्वपापानि विनष्टान्यतिवेगतः ॥ १,३७.६३ ॥ हरिपादोदकं यस्मान्मयि त्वं सिक्तवान्मुने । प्रापितोऽस्मि त्वया तस्मात्तद्विष्णोः परमं पदम् ॥ १,३७.६४ ॥ त्वयाहं तारितो विप्र पापादस्माच्छरीरतः । तस्मान्नतोऽस्मि ते विद्वन्मत्कृतं तत्क्षमस्व च ॥ १,३७.६५ ॥ इत्युक्त्वा देवकुसुमैर्मुनिश्रेष्ठं समाकिरम् । प्रदक्षिणात्रयं कृत्वा नमस्कारं चकार सः ॥ १,३७.६६ ॥ ततो विमानमारुह्य सर्वकामसमन्वितम् । अप्सरोगणसंकीर्णः प्रपेदे हरिमन्दिरम् ॥ १,३७.६७ ॥ एतद्दृष्ट्वा विस्मितोऽसौ ह्युत्तङ्कस्तपसांनिधिः । शिरस्यञ्जलिमाधाय तुष्टाव कमलापतिम् ॥ १,३७.६८ ॥ तेन स्तुतो महाविष्णुर्दत्तवान्वरमत्तमम् । वरेण तेनोक्तङ्कोऽपि प्रपेदे परमं पदम् ॥ १,३७.६९ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे विष्णुमाहात्म्ये सप्तत्रिंशोऽध्यायः _____________________________________________________________ नारद उवाच किन्तत्स्तोत्रं महाभाग कथं तुष्टो जनार्दनः । उक्तङ्कः पुण्यपुरुषः कीदृशं लब्धवान्वरम् ॥ १,३८.१ ॥ सनक उवाच उत्तङ्कस्तु तदा विप्रो हरिध्यानपरायणः । पादोदकस्य माहात्म्यं दृष्ट्वा तुष्टाव भक्तितः ॥ १,३८.२ ॥ उत्तङ्क उवाच नतोऽस्मि नारायणमादिदेवं जगन्निवासं जगदेकबन्धुम् । चक्राब्जशार्ङ्गीसिधरं महान्तं स्मृतार्तिनिघ्नं शरणं प्रपद्ये ॥ १,३८.३ ॥ यन्निभिजाब्ज प्रभवो विधाता सृजत्यमुं लोकसमुञ्चयं च । यत्क्रोधजो हॄन्ति जगञ्च रुद्रस्तमादिदेवं प्रणतोऽस्मि विष्णुम् ॥ १,३८.४ ॥ पद्मापतिं पद्मदलायताक्षं विचित्रवीर्यं निखिलैकहेतुम् । वेदान्तवेद्यं पुकुषं पुराणं तैजोनिधिं विष्णुमहं प्रपन्नः ॥ १,३८.५ ॥ आत्माक्षरः सर्वगतोऽच्युताख्यो ज्ञानात्मको ज्ञानविदां शरण्यः । ज्ञानैकवेद्यो भगवाननादिः प्रसीदतां व्यष्टिस प्रष्टिरुपः ॥ १,३८.६ ॥ अनन्तवीयो गुणजातिहीनां गुणात्मको ज्ञानविदां वरष्टः । नित्यः प्रपन्नार्ति हरः परात्मा दयांबुधिर्मे वरदस्तु भघूयात् ॥ १,३८.७ ॥ यः स्थूलसूक्ष्मादिविशेषभेदौर्जगद्यथावत्स्वकृतं प्रविष्टः । त्वमेव तत्सर्वमनन्तसारं त्वत्तः परं नास्ति यतः परात्मन् ॥ १,३८.८ ॥ अगोचरं यत्तव शुद्धरूरं मायाविहीनं गुणजातिहीनम् । निरञ्जनं निर्मलमप्रमेयं पश्यन्ति सन्तः परमार्थसंज्ञम् ॥ १,३८.९ ॥ एकेन हेम्रैव विभूषणानि यातानि भेदत्वमुपाधिभेदात् । तथैव सर्वेष्वर एक एव प्रदृश्यते भिन्न इवारिवलात्मा ॥ १,३८.१० ॥ यन्मायया मोहितचेतसस्तं पश्यन्ति नात्मानमपि प्रसिद्धम् । त एव मायारहितास्तदेव पसअयन्ति सर्वात्मकमात्मरुपम् ॥ १,३८.११ ॥ विभुं ज्योतिरनौपम्यं विष्णुसंज्ञं नमाम्यहम् । समस्तमेतदुद्भूतं यतो यत्र प्रतिष्टितम् ॥ १,३८.१२ ॥ यतश्चैतन्यमायातं यद्रूपं तस्य वै नमः । अप्रमेयमनादारमाधाराधेयरूपकम् ॥ १,३८.१३ ॥ परमानन्दचिन्मात्रं वासुदेवं नतोऽस्म्यहम् । हृद्गुहानिलयं देवं योगिभिः परिसेवितम् ॥ १,३८.१४ ॥ योगानामादिभूतं तं नमामि प्रणवस्थितम् । नादात्मकं नादबीजं प्रणवात्मकमव्ययम् ॥ १,३८.१५ ॥ सद्भघावं सञ्चिदानन्दं तं वन्दे तिग्मचक्रिणम् । अजरं साक्षिणं त्वस्य ह्यवाङ्मनसगोचरम् ॥ १,३८.१६ ॥ निरञ्जनमनन्ताख्यं विष्णुरुपं नतोऽस्म्यहम् । इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ॥ १,३८.१७ ॥ वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्र ज्ञमेव च । विद्याविद्यात्मकं प्राहुः परात्परतरं तथा ॥ १,३८.१८ ॥ अनादिनिधनं शान्तं सर्वधातारमच्युतम् । ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्वती ॥ १,३८.१९ ॥ वरं वरेण्यं वरदं पुराणं सनातनं सर्वगतं समस्तम् । नतोऽस्मि भूयोऽपि नतोऽस्मि भूयोऽपि नतोऽस्मि भूयः ॥ १,३८.२० ॥ यत्पाद तोयं भघवरोगवैद्यो यत्पादपांशुर्विमलत्वसिद्ध्यै । यन्नाम दुष्कर्मनिवारणायचय तमप्रमेयं पुरुषं भजामि ॥ १,३८.२१ ॥ सद्रूपं तमसद्रूपं सदसद्रूपमव्ययम् । तत्तद्विलक्षणं श्रेष्ठं श्रेष्ठाच्छ्रष्ठतरं भजे ॥ १,३८.२२ ॥ निरञ्जनं निराकारं पूर्णमाकाशमध्यगम् । परं च विद्याविद्याभ्यां हृदंबुजनिवासिनम् ॥ १,३८.२३ ॥ स्वप्रकाशमनिर्देष्यं महतां च महत्तरम् । अणोरणीयांसमजं सर्वोपाधिविवर्जितम् ॥ १,३८.२४ ॥ यन्नित्यं परमानन्दं परं ब्रह्म सनातनम् । विष्णुसंज्ञं जगद्धाम तमस्मि शरणं गतः ॥ १,३८.२५ ॥ यं भजन्ति क्रियानिष्टायं पश्यन्ति च योगिनः । पूज्यात्पूज्यतरं शान्तं गतोऽस्मि शरणं प्रभुम् ॥ १,३८.२६ ॥ यं न पश्यन्ति विद्वांसो य एतद्व्याव्य तिष्टति । सर्वस्मादधिकं नित्यं नतोऽस्मि विभुमव्ययम् ॥ १,३८.२७ ॥ अन्तः करणसंयोगाज्जीव इत्युच्यते च यः । अविद्याकार्य रहितः परमात्मेति गीयते ॥ १,३८.२८ ॥ सर्वात्मकं सर्वहेतुं स्रवकर्मफलप्पदम् । वरं वरेण्यमजनं प्रणतोऽस्मि परात्परम् ॥ १,३८.२९ ॥ सर्वज्ञं सर्वगं शान्तं सर्वान्तया मिणं हरिम् । ज्ञानात्मकं ज्ञाननिधिं ज्ञानसंस्थं विभुं भजे ॥ १,३८.३० ॥ नमाम्यहं वेदनिधिं मुरारिं वेदान्त विज्ञानसुनिश्चितार्थम् । सूर्येदुवत्प्रोज्ज्वलने त्रमिन्द्रं रवगस्वरुपं वपतिस्वरूपम् ॥ १,३८.३१ ॥ सर्वेश्वरं सर्वगतं महान्तं वेदात्मकं वेदविदांवरिष्टम् । तंवाङ्मनोऽचिन्त्यमनन्तशक्तिं ज्ञानैकवेद्यं पुरुषं भजामि ॥ १,३८.३२ ॥ इन्द्राग्निकालासुरपाशिवायुसोमेषमार्त्तण्डपुरन्दराद्यैः । यः पाति लोकान्परिपूर्णभावस्तमप्रमेयं शरणं प्रपद्ये ॥ १,३८.३३ ॥ सहस्रशीर्षं च सहस्रपादं सहस्रबाहुः च सहस्रनेत्रम् । समस्तयज्ञैः परिजुष्टमाद्यं नतोऽस्मि तुष्टिप्रदमुग्रवीर्यम् ॥ १,३८.३४ ॥ कालात्मकं कालविभागहेतुं गुणत्रयातीतमहं गुणज्ञम् । गुणप्रियं कामदमस्तसंगमतीन्द्रियं विश्वभघुजं वितृष्णम् ॥ १,३८.३५ ॥ निरीहमग्र्यं मनसाप्यगम्यं मनोमयं चान्नमयं निरूढम् । विज्ञानभेदं प्रतिपन्नकल्पं न वाङ्मयं प्राणमयं भजामि ॥ १,३८.३६ ॥ न यस्य रूपं न बलप्रभावो न यस्य कर्माणि न यत्प्रमाणम् । जानन्ति देवा कमलोद्भवाद्यस्तोष्याम्यहं तं कथमात्मरूपम् ॥ १,३८.३७ ॥ संसारसिधौ पतितं कदर्यं मोहाकुलं कामशतेन बद्धम् । अकीर्तिभाजं पिशुनं कृतघ्नं सदाशुचिं पापरतं प्रमन्युम् । दयांबुधे पाहि भयाकुलं मां पुनः पुनस्त्वां शरणं प्रपद्ये ॥ १,३८.३८ ॥ इति प्रसादितस्तेन दयालसुः कमलापतिः । प्रत्यक्षतामगात्तस्य भगवांस्तेजसां निधिः ॥ १,३८.३९ ॥ अतसी पुष्पसंकाशं फुल्लपङ्कजलोचनन् । किरीटिनं कुण्डलिनं हारकेयूरभूषितम् ॥ १,३८.४० ॥ श्रीवत्सकौस्तुभधरं हेमयज्ञोपवीतिननम् । नासाविन्यस्तमुक्ता भवर्धमानतनुच्छविम् ॥ १,३८.४१ ॥ पीतांबरधरं देवं वनमालाविभूषिमत् । तुलसीकोमलदलैरर्चिताङ्घ्निं महाद्युतिम् ॥ १,३८.४२ ॥ किङ्किणीनूपुरा द्यैश्च शोभितं गरुडध्वजम् । दृष्ट्वा नानाम विप्रेन्द्रो दण्डवत्क्षितिमण्डले ॥ १,३८.४३ ॥ अभ्यषिञ्चद्धरेः पादावुत्तङ्को हर्षवारिभिः । मुरारे रक्ष रक्षेति व्याहरन्नान्यधीस्तदा ॥ १,३८.४४ ॥ तमुत्थाप्य महाविष्णुरालिलिङ्ग दयापरः । वरं वृणुष्व वत्सेति प्रोवाच मुनिपुङ्गवम् ॥ १,३८.४५ ॥ असाध्यं नास्ति किञ्चित्ते प्रसन्ने मयि सत्तम । इतीरितं समाकर्ण्य ह्युत्तङ्कश्चक्रपाणिना । पुनः प्रणम्य तं प्राह देवदेवं जनार्द्दनम् ॥ १,३८.४६ ॥ किं मां मोहयसीश त्वं किमन्यैर्देव मे वरैः । त्वयि भक्तिर्दृढा मेऽस्तु जन्मजन्मान्तरेष्वपि ॥ १,३८.४७ ॥ कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षः पिशाचमनुजेष्वपि यत्र तत्रजजातस्य मे भवतु केशव ते प्रसाद्दात्त्वय्येव भक्तिरचलाव्यभिचारणी च ॥ १,३८.४८ ॥ एवमस्त्विति लोकेशः शङ्खप्रान्तेन संस्पृशन् दिव्यज्ञानं ददौ तस्मै योगिनामपिदुर्लमभघम् ॥ १,३८.४९ ॥ पुः स्तुवन्तं विप्रेन्द्रं देवदेवो जनार्द्दनः इदमाह स्मितमुखो हस्तं तच्छिरसि न्यसन् ॥ १,३८.५० ॥ श्रीभगवानुवाच आराधय क्रियायोगैर्मां सदा द्विजसत्तम् । नरनारायणस्थानं व्रज मोक्षं गमिष्यसि ॥ १,३८.५१ ॥ त्वया कृतमिदं स्तोत्रं यः पठेत्सततं नरः । सर्वान्कामानवाप्यान्ते मोक्षभागी भवेत्ततः ॥ १,३८.५२ ॥ इत्युक्त्वा भाधवो विप्रं तत्रैवान्तर्दधे मुने । नरनरायणस्थानमुत्तङ्कोऽपि ततो ययौ ॥ १,३८.५३ ॥ कस्माद्भक्तिः सदा कार्या देवदेवस्य चक्रिणः । हरिभक्तिः परा प्रोक्ता सर्वकामपलप्रदा ॥ १,३८.५४ ॥ उतङ्को भाक्तिभावेन क्रियायोगपरो मुने । पूजयन्माधयवं नित्यं नरनारायणाश्रमे ॥ १,३८.५५ ॥ ज्ञानविज्ञानसंपन्नः संच्छिन्नद्वैतसंशयः । आवाप दुरवापं वै तद्विष्णोः परमं पदम् ॥ १,३८.५६ ॥ पूजितो नमितो वापि संस्मृतो वापि मोक्षदः । नारायणो जगन्नाथो भक्तानां मानवर्द्धनः ॥ १,३८.५७ ॥ तस्मान्नारायणं देवमनन्तमपराजितम् । इहामुत्र सुखप्रेप्सुः पूजयेद्भक्तिसंयुतः ॥ १,३८.५८ ॥ यः पठेदिदमाख्यानं शृणुयाद्वासमाहितः । सोऽपि सर्वाघनिर्मुक्तः प्रयाति भवनं हरेः ॥ १,३८.५९ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्यं नामाष्टत्रिंशोऽध्यायः _____________________________________________________________ सनक उवाच भूयः शृणुष्व विप्रेन्द्र माहात्म्यं परमेष्टिनः । सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं नृणाम् ॥ १,३९.१ ॥ अहो हरिकथा लोके पापघ्नी पुण्यदायिनी । शृण्वतां वदतां चैव तद्भक्तानां विशेषतः ॥ १,३९.२ ॥ हरिभक्तिरसास्वादमुदिता ये नरोत्तमाः । नमस्करोम्यहं तेभ्यो यत्संगान्मुक्ति भाग्नरः ॥ १,३९.३ ॥ हरिभक्तिपरा ये तु हरिनामपरायणाः । दुर्वृत्ता वा सुवृत्ता वा तेभ्यो नित्यं नमोनमः ॥ १,३९.४ ॥ संसारसागरं तर्तुं य इच्छेन्मु निपुङ्गव । स भजेद्धरिभक्तानां भक्तान्वै पापहारिणः ॥ १,३९.५ ॥ दृष्टः स्मृतः पूजितो वा ध्यातः प्रणमितोऽपि वा । समुद्धरति गोविन्दो दुस्तराद्भव सागरात् ॥ १,३९.६ ॥ स्वपन्भुञ्जन् व्रजंस्तिष्टन्नतिष्टश्च वदंस्तथा । चिन्तयेद्यो हरेर्नाम तस्मै नित्यं नमो नमः ॥ १,३९.७ ॥ अहो भाग्यमहो भाग्यं विष्णु भक्तिरतात्मनाम् । येषां मुक्तिः करस्थैव योगिनामपि दुर्लभा ॥ १,३९.८ ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । वदतां शृण्वतां चैव सर्वपाप प्रणाशनम् ॥ १,३९.९ ॥ आसीत्पुरा महीपालः सोमवंशसमुद्भवः । जयध्वज इति ख्यातो नारायणपरायणः ॥ १,३९.१० ॥ विष्णोर्देवालये नित्यं संमार्जनपरायणः । दीपदानरतश्चैव सर्वभूतदयापरः ॥ १,३९.११ ॥ स कदाचिन्महीपालो रेवातीरे मनोरमे । विचित्रकुसुमोपेतं कृतवान्विष्णुमन्दिरम् ॥ १,३९.१२ ॥ स तत्र नृपशार्दूलः सदा संमार्जने रतः । दीपदानपरश्चैव विशेषेण हरिप्रियः ॥ १,३९.१३ ॥ हरिनामपरो नित्यं हरिसंसक्तमानसः । परिप्रणामनिरतो हरिभक्तजनप्रियः ॥ १,३९.१४ ॥ वीतिहोत्र इति ख्यातो ह्यासीत्तस्य पुरोहितः । जयध्वजस्य चरितं दृष्ट्वा विस्मयमागतः ॥ १,३९.१५ ॥ कदाचिदुपविष्टं तं राजानं विष्णुतत्परम् । अपृच्छद्वीतिहोत्रस्तु वेदवेदाङ्गपारगः ॥ १,३९.१६ ॥ वीतिहोत्र उवाच राजन्परमधर्मज्ञ हरिभक्तिपरायण । विष्णुभक्तिमतां पुंसां श्रेष्ठोऽसि भरतर्षभ ॥ १,३९.१७ ॥ संमार्जनपरो नित्यं दीपदानरतस्तथा । तन्मे वद महाभाग किं त्वया विदितं फलम् ॥ १,३९.१८ ॥ संपादनेन वर्त्तीनां तैलसंपलादनेन च । संयुक्तोऽसि सदा भद्रयद्विष्णोर्गृहमार्जने ॥ १,३९.१९ ॥ कर्माण्यन्यानि संत्येव विष्णोः प्रीतिकराणि च । तथापि किं महाभाग एतयोः सततोद्यतः ॥ १,३९.२० ॥ सर्वात्मना महापुण्यं नरेश विदित च यत् । तद्ब्रूहि मे गुह्यतमं प्रीतिर्मयि तवास्ति चेत् ॥ १,३९.२१ ॥ पुरोधसैवमुक्तस्तु प्रहसन्स जयध्वजः । विनयावनतो भूत्वा प्रोवाचेजं कृताञ्जलिः ॥ १,३९.२२ ॥ जयध्वज उवाच शृणुष्व विप्रशार्दूल मयैवाचरितं पुरा । जातिस्मरत्वाज्जानामि श्रोतॄणां विस्मयप्रदम् ॥ १,३९.२३ ॥ आसीत्पुरा कृतयुगे ब्रह्मन्स्वारोचिषेंऽतरे । रैवतो नाम विप्रेन्द्रो वेदवेदाङ्गपारगः ॥ १,३९.२४ ॥ अयाज्ययाजकश्चैव सदैव ग्रामयोजकः । पिशुनो निष्ठुरश्चैव ह्यपण्यानां च विक्रयी ॥ १,३९.२५ ॥ निषिद्धकर्माचरणात्परित्यक्तः स बन्धुभिः । दरिद्रो दुःखितश्चैव शीर्णाङ्गो व्याधितोऽभवत् ॥ १,३९.२६ ॥ स कदाचिद्धर्थं तु पृथिव्यां पर्यटन् द्विजः । ममार नर्मदातीरे श्वासकासप्रपीडितः ॥ १,३९.२७ ॥ तस्मिन्मृते तस्य भार्या नाम्ना बन्धुमती मुने । कामचारपरा सा तु परित्यक्ता च बन्धुभिः ॥ १,३९.२८ ॥ तस्यां जातोऽस्मि चण्डालो दण्डकेतुरिति श्रुतः । महापापरतो नित्यं ब्रह्मद्वेषपरायणः ॥ १,३९.२९ ॥ परदारपरद्रव्यलोलुपो जन्तुहिंसकः । गावश्च विप्रा बहवो निहता मृगपक्षिणः ॥ १,३९.३० ॥ मेरुतुल्यसुवर्णानि बहून्यपहृतानि च । मद्यपानरतो नित्यं बहुशो मार्गरोधकृत् ॥ १,३९.३१ ॥ पशुपक्षिमृगादीनां जन्तूनामन्तकोपमः । कदाचित्कामसंतप्तो गन्तु कामो रतिं स्त्रियः ॥ १,३९.३२ ॥ शून्यं विष्णुगृहं दृष्ट्वा प्रविष्टश्च स्त्रिया सह । निशि रामोपभोगार्थं शयितं तत्र कामिना ॥ १,३९.३३ ॥ ब्रह्मन्स्ववस्त्रप्रान्तेन कियद्देशः प्रमार्जितः । यावन्त्यः पांशुकणिकास्तत्र संमार्जिता द्विज ॥ १,३९.३४ ॥ तावज्जन्मकृतं पापं तदैव क्षयमागतम् । प्रदीपः स्थापितस्तत्र सुरतार्थं द्विजोत्तम ॥ १,३९.३५ ॥ तेनापि मम दुष्कर्म निःशेषं क्षयमागतम् । एवं स्थिते विष्णुगृहे ह्यागताः पुरपालकाः ॥ १,३९.३६ ॥ जारोऽयमिति मां तां च हतवन्तः प्रसह्य वै । आवां निहत्य ते सर्वे निवृत्ताः पुरक्षकाः ॥ १,३९.३७ ॥ यदा तदैव संप्राप्ता विष्णुदूताश्चतुर्भुजाः । किरीटकुण्डलधरा वनमालाविभूषिताः ॥ १,३९.३८ ॥ तैस्तु संप्रेरितावावां विष्णुदूतैरकल्मषैः । दिव्यं विमानमारुह्य सर्वभोगसमन्वितम् ॥ १,३९.३९ ॥ दिव्यदेहधरौ भूत्वा विष्णुलोकमुपागतौ । तत्र स्थित्वा ब्रह्मकल्पशतं साग्रं द्विजोत्तम ॥ १,३९.४० ॥ दिव्यभोगसमायुक्तौ तावत्कालं दिवि स्थितौ । ततश्च भूमिभागेषु देवयोगेषु वै क्रमात् ॥ १,३९.४१ ॥ तेन पुण्यप्रभावेण यदूनां वंशसंभवः । तेनैव मेऽच्युता संपत्तथा राज्यमकण्टकम् ॥ १,३९.४२ ॥ ब्रह्मन्कृत्वोपभोगार्थमेवं श्रेयो ह्यवाप्तवान् । भक्त्या कुर्वन्ति ये संतस्तेषां पुण्यं न वेद्यहम् ॥ १,३९.४३ ॥ तस्मात्संमार्जने नित्यं दीपदाने च सत्तम । यतिष्ये परया भक्त्या ह्यहं जातिस्मरो यतः ॥ १,३९.४४ ॥ यः पूजयेज्जगन्नाथमेकाकी विगतस्पृहः । सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ॥ १,३९.४५ ॥ अवशेनापि यत्कर्म कृत्वेमां श्रियमागतः । भक्तिभद्भिः प्रशान्तैश्च किं पुनः सम्यगर्चनात् ॥ १,३९.४६ ॥ इति भूपवचः श्रुत्वा वीतिहोत्रो द्विजोत्तमः । अनन्ततुष्टिमापन्नो हरिपूजापरोऽभवत् ॥ १,३९.४७ ॥ तस्माच्छृणुष्व विप्रेन्द्र देवो नारायणोऽव्ययः । ज्ञानतोऽज्ञानतो वापि पूजकानां विमुक्तिदः ॥ १,३९.४८ ॥ अनित्या बान्धवाः सर्वे विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥ १,३९.४९ ॥ अज्ञो लोको वृथा गर्वं करिष्यति महोद्धतः । कायः संनिहितापायो धानादीनां किमुच्यते ॥ १,३९.५० ॥ जन्मकोटिसहस्रेषु पुण्यं यैः समुपार्जितम् । तेषां भक्तिर्भवेच्छुद्धा देवदेवे जनार्दने ॥ १,३९.५१ ॥ सुलभं जाह्नवी स्नानं तथेवातिथिपूजनम् । सुलभाः सर्वयज्ञाश्च विष्णुभक्तिः सुदुर्लभा ॥ १,३९.५२ ॥ दुर्लभा तुलसीसेवा दुर्लभः संगमः सताम् । सर्वभूतदया वापि सुलभा यस्य कस्य चित् ॥ १,३९.५३ ॥ सत्संगस्तुलसीसेबा हरिभक्तिश्च दुर्लभा ॥ १,३९.५४ ॥ दुर्लभं प्राप्यं मानुष्यं न तथा गमयेद्बुधः । अर्चयेद्धि जगन्नाथं सारमेतद्द्विजोत्तम ॥ १,३९.५५ ॥ तर्त्तुं यदीच्छति जनो दुस्तरं भवसागरम् । हरिभक्तिपरो भूयादेतदेव रसायनम् ॥ १,३९.५६ ॥ भ्रातराश्रय गोविन्दं मा विलंबं कुरु प्रिय । आसन्नमेव नगरं कृतान्तस्य हि दृश्यते ॥ १,३९.५७ ॥ नारायणं जगद्योनिं सर्वकारणकारणम् । समर्चयस्व विप्रेन्द्र यदि भुक्तिमभीप्ससि ॥ १,३९.५८ ॥ सर्वाधार सर्वयोनिं सर्वान्तर्यामिणं विभुम् । ये प्रपन्ना महात्मानस्ते कृतार्था न संशयः ॥ १,३९.५९ ॥ ते वन्द्यास्ते प्रपूज्याश्च नमस्कार्या विशेषतः । येर्ऽचयन्ति महाविष्णुं प्रणतार्तिप्रणाशनम् ॥ १,३९.६० ॥ ये विष्णुभक्ता निष्कामा यञ्जति परमेश्वरम् । त्रिःसप्तकुलसंयुक्ता स्ते यान्ति हरिमन्दिरम् ॥ १,३९.६१ ॥ विष्णुभक्ताय यो दद्यान्निष्कामाय महात्मने । पानीयं वा फलं वापि स एव भगवत्प्रियः ॥ १,३९.६२ ॥ विष्णुभक्तिपराणां तु शुश्रूषां कुर्वते तु ये । ते यान्ति विष्णुभुवनं यावदाभूतसंप्लवम् ॥ १,३९.६३ ॥ ये यञ्जति स्पृहाशून्या हरिभक्तान् हरिं तथा । त एव भुवनं सर्वं पुंनति स्वाङ्घ्रिपांशुना ॥ १,३९.६४ ॥ देवपूजापरो यस्य गृहे वसति सर्वदा । तत्रैव सर्वदेवाश्च तिष्टन्ति श्रीहरिस्तथा ॥ १,३९.६५ ॥ पूज्यमाना च तुलसी यस्य तिष्टति वेश्मनि । तत्र सर्वाणि श्रेयांसि वर्द्धत्यहरहर्द्विज ॥ १,३९.६६ ॥ शालग्रामशिलारूपी यत्र तिष्टति केशवः । न बाधन्ते ग्रहास्तत्र भूतवेताल कादयः ॥ १,३९.६७ ॥ शालग्रामशिला यत्र तत्तीर्थं तत्तपोवनम् । यतः संनिहितस्तत्र भगवान्मधुसूदनः ॥ १,३९.६८ ॥ यद्गृहे नास्ति देवर्षे शालग्रामशिलार्चनम् । श्मशानसदृशं विद्यात्तद गृहं शुभवार्जितम् ॥ १,३९.६९ ॥ पुराणन्यायमीमांसा धर्मशास्त्राणि च द्विज ॥ १,३९.६९ ॥ सांगा वेदास्तथा सर्वे विष्णोरूपं प्रकीर्तितम् ॥ १,३९.७० ॥ भक्त्या कुर्वन्ति ये विष्णोः प्रदक्षिणचतुष्टयम् । तेऽपि यान्ति परं स्थानं सर्वकर्मनिबर्हणम् ॥ १,३९.७१ ॥ इति बृहन्नारदीयपुराणे पूर्वभागे प्रथम पादे विष्णुमाहात्म्यं नाम एकोनचत्वारिंशोऽध्यायः _____________________________________________________________ सनक उवाच अतः परं प्रवक्ष्यामि विभूतिं वैष्णवीं मुने । यां शृण्वतां कीर्तयतां सद्यः पापक्षयो भवेत् ॥ १,४०.१ ॥ वैवस्वतेंऽतरे पूर्वं शक्रस्य च बृहस्पतेः । संवादः सुमहानासीत्तं वक्ष्यामि निशामय ॥ १,४०.२ ॥ एकदा सर्वभोगाढ्यो विबुधैः परिवारितः । अप्सरोगणसंकीर्णो बृहस्पतिमभाषत ॥ १,४०.३ ॥ इन्द्र उवाच बृहस्पते महाभाग सर्वतत्त्वार्थकोविद । अतीतब्रह्मणः कल्पे सृष्टिः कीदृग्विधा प्रभो ॥ १,४०.४ ॥ इन्द्रस्तु कीदृशः प्रोक्तो विवुधाः कीदृशाः स्मृताः । तेषां च कीदृशं कर्म यथावद्वक्तुमर्हसि ॥ १,४०.५ ॥ बृहस्पतिरुवाच न ज्ञायते मया शक्र पूर्वेद्युश्चरितं विधेः । वर्तमानदिनस्यापि दुर्ज्ञेयं प्रतिभाति मे ॥ १,४०.६ ॥ मनवः समतीताश्च तान्वक्तुमपि न क्षमः । यो विजानाति तं तेऽद्य कथयामि निशामय ॥ १,४०.७ ॥ सुधर्म इति विख्यातः कश्चिदास्ते पुरे तव । भुञ्जानो दिव्यभोगांश्च ब्रह्मलोकादिहागतः ॥ १,४०.८ ॥ स वा एत द्विजानाति कथयामि निशामय । एवमुक्तस्तु गुरुणा शक्रस्तेन समन्वितः ॥ १,४०.९ ॥ देवतागणसंकीर्णः सुधर्मनिलयं ययौ ॥ १,४०.१० ॥ समागतं देवपतिं बृहस्पतिसमन्वितम् । दृष्ट्वा यथार्हं देवर्षे पूजयामास सादरम् ॥ १,४०.११ ॥ सुधर्मेणार्चितः शङ्क्रो दृष्ट्वा तच्छ्रियमुत्तमाम् । मनसा विस्मयाविष्टः प्रोवाच विनयान्वितः ॥ १,४०.१२ ॥ इन्द्र उवाच अतीतब्रह्मकल्पस्य वृत्तान्तं वेत्सि चेद्बुध । तदाख्याहि समायात एतत्प्रष्टुं सयाजकः ॥ १,४०.१३ ॥ गतनिद्रांश्च देवांश्च येन जानासि सुव्रत । तद्वदस्वाधिकः कस्मादस्मद्भ्योऽपि दिवि स्थितः ॥ १,४०.१४ ॥ तेजसायशसा कीर्त्या ज्ञानेन च परन्तप । दानेन वा तपोभिर्वा कथमेतादृशः प्रभो ॥ १,४०.१५ ॥ इत्युक्तो देवराजेन सुधर्मा प्रहसंस्तदा । प्रोवाच विनयाविष्टः पूर्ववृत्तं यथाविधि ॥ १,४०.१६ ॥ सुधर्म उवाच चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते । एकस्मिन् दिवसे शक्र मनवश्च चतुर्दश ॥ १,४०.१७ ॥ इन्द्राश्चतुर्दश प्रोक्ता देवाश्च विविधाः पृथक् । इन्द्राणां चैव सर्वेषां मन्वादीनां च वासव ॥ १,४०.१८ ॥ तुल्यता तेजसा लक्ष्म्या प्रभावेण बलेन च । तेषां नामानि वक्ष्यामि शृणुष्व सुसमाहितः ॥ १,४०.१९ ॥ स्वायंभुवो मनुः पूर्वं ततः स्वारोचिषस्तथा । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ १,४०.२० ॥ वैवस्वतो मनुश्चैव सूर्यसावर्णिरष्टमः । नवमो दक्षसावर्णिः सर्वदेवहिते रतः ॥ १,४०.२१ ॥ दशमो ब्रह्मसावर्णिर्द्धर्मसावर्णिकस्ततः । ततस्तु रुद्रसावर्णी रोचमानस्ततः स्मृतः ॥ १,४०.२२ ॥ भौत्यश्चतुर्दशः प्रोक्त एते हि मनवः स्मृताः । देवानिन्द्रांश्च वक्ष्यामि शृणुष्व विबुधर्षभ ॥ १,४०.२३ ॥ यामा इति समाख्याता देवाः स्वायंभुवेंऽतरे । शचीपतिः समाख्यातस्तेषामिन्द्रो महापतिः ॥ १,४०.२४ ॥ पारावताश्च तुषिता देवाः स्वारोचिषेंऽतरे । विपश्चिन्नाम देवेन्द्रं सर्वसंपत्समन्वितः ॥ १,४०.२५ ॥ सुधामानस्तथा सत्याः शिवाश्चाय प्रर्तदनाः । तेषामिन्द्रः सुशान्तिश्च तृतीये परिकीर्तितः ॥ १,४०.२६ ॥ सुताः पाराहराश्चैव सुत्याश्चासुधियस्तथा । तेषामिन्द्रः शिवः प्रोक्तः शक्रस्तामसकेंऽतरे । विभानामा देवपतिः पञ्चमः परिकीर्तितः ॥ १,४०.२७ ॥ अमिताभादयो देवाः षष्ठेऽपि च तथा शृणु । आर्याद्या विबुधाः प्रोक्तास्तेषा मिन्द्रो मनोजवः ॥ १,४०.२८ ॥ आदित्यवसुरुद्राद्या देवा वैवस्वतंऽतरे । इन्द्रः पुरन्दरः प्रोक्तः सर्वकामसमन्वितः ॥ १,४०.२९ ॥ अप्रमेयाश्च विबुधाः सुतपाद्याः प्रकीर्तिताः । विष्णुपूजाप्रभावेण तेषामिन्द्रो बलिः स्मृतः ॥ १,४०.३० ॥ पाराद्या नवमे देवा इन्द्रश्चाद्भुत उच्यते । सुवासनाद्या विबुधा दशमे परिकीर्तिताः ॥ १,४०.३१ ॥ शान्तिर्नाम च तत्रेन्द्रः सर्वभोगसमन्वितः । विहॄङ्गॄमाद्या देवाश्च तेषामिन्द्रो वृषः स्मृतः ॥ १,४०.३२ ॥ एकादशे द्वादशे तु निबोधकथायामि ते । क्रभुवनामा च देवेन्द्रो हरिनाभास्तथा सुराः ॥ १,४०.३३ ॥ सुत्रामाद्यास्तथा देवास्त्रयोदशतमेऽन्तरे । दिवस्पतिर्महावीर्यस्तेषामिन्द्रः प्रकीर्तितः ॥ १,४०.३४ ॥ चतुर्दशे चाक्षुपाद्या देवा इन्द्रः शुचिः स्मृतः । एवं ते मनवः प्रोक्ता इन्द्रा देवाश्च तत्त्वतः ॥ १,४०.३५ ॥ एकस्मिन्ब्रह्मदिवसे स्वाधिकारं प्रभुञ्जते ॥ १,४०.३६ ॥ लेकेषु सर्वसर्गेषु सृष्टिरेकविधा स्मृता । कर्त्तारो बहवः संति तत्संख्यां वेत्ति कोविदः ॥ १,४०.३७ ॥ मयि स्थिते ब्रह्मलोके ब्रह्माणां बहवो गताः । तेषां संख्या न संख्यातु शक्तोऽस्म्यद्य द्विजोत्तम ॥ १,४०.३८ ॥ स्वर्गलोकमपि प्राप्य यावत्कालं शृणुष्व मे । चत्वारो मनवोऽतीता मम श्रीश्चातिविस्तरा ॥ १,४०.३९ ॥ स्थातव्यं च मयात्रैव युगकोटिशतं प्रभो । ततः परं गमिष्यामि कर्मभूमिं शृणुष्व मे ॥ १,४०.४० ॥ मया कृतं पुरा कर्म वक्ष्यामि तव सुव्रत । वदतां शृण्वतां चैव सर्वपापप्रणाशनम् ॥ १,४०.४१ ॥ अहमांस पुरा शक्र गृध्रः पापो विशेषतः । स्थितश्च भूमिभागे वै अमेध्यामिषभोजनः ॥ १,४०.४२ ॥ एकदाहं विष्णुगृहे प्राकारे संस्थितः प्रभो । पतितो व्याधशस्त्रेण सायं विष्णोर्गृहाङ्गणे ॥ १,४०.४३ ॥ मयि कण्ठगतप्राणे भषणो मांसलोलुपः । जग्राह मां स्ववक्रेण श्वभिरन्यैश्चरन्द्रुतः ॥ १,४०.४४ ॥ वहन्मां स्वमुखेनैव भीतोऽन्यैर्भषणैस्तथा । गतः प्रदक्षिणा कारं विष्णोस्तन्मन्दिरं प्रभो ॥ १,४०.४५ ॥ तेनैव तुष्टिमापन्नो ह्यन्तरात्मा जगन्मयः । मम चापि शुनश्चापि दत्तावन्परमं पदम् ॥ १,४०.४६ ॥ प्रदक्षिणा कारतया गतस्यापीदृं फलम् । संप्राप्तं विबुधश्रेष्ठ किं पुनः सम्यगर्चनात् ॥ १,४०.४७ ॥ इत्युक्तो देवराजस्तु सुधर्मेण महात्मना । मनसा प्रीतिमापन्नो हरिपूजा रतोऽभवत् ॥ १,४०.४८ ॥ तथापि निर्जराः सर्वे भारते जन्मलिप्सवः । समर्चयन्ति देवेशं नारायणमनामयम् । तानर्चयन्ति सततं ब्रह्माद्या देवतागणाः ॥ १,४०.४९ ॥ नारायणानुस्मरणोद्यतानां महात्मनां त्यक्तपरिग्रहणाम् । कथं भवत्युग्रभवस्य बन्धस्तत्सङ्गलुब्धा यदि मुक्तिभाजः ॥ १,४०.५० ॥ ये मानवाः प्रतिदिनं परिमुक्तसङ्गा नारायणं गरुडवाहनमर्चयन्ति । ते सर्वपापनिकरैः परितो विमुक्ता विष्णोः पदं शुभतरं प्रतियान्ति हृष्टाः ॥ १,४०.५१ ॥ ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति । ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥ १,४०.५२ ॥ ये मानवा हरिकथाश्रवणास्तदोषाः कृष्णाङ्घ्रपद्मभजने रतचेतनाश्च । ते वा पुंनति च जगन्ति शरीरसंगात्संभाषणादपि ततो हरिरेव पूज्यः ॥ १,४०.५३ ॥ हरिपूजापरा यत्र महान्तः शुद्धबुद्धयः । तत्रैव सकलं भद्रं यथा निम्ने जलं द्विज ॥ १,४०.५४ ॥ हरिरेव परो बन्धुर्हरिरेव परा गतिः । हरिरेव ततः पूज्यो यतश्चेतन्यकारणम् ॥ १,४०.५५ ॥ स्वर्गापवर्गफलदं सदानन्दं निरामयम् । पृज्यस्य मुनिश्रेष्ठ परं श्रेयो भविष्यति ॥ १,४०.५६ ॥ पूजयन्ति हरिं ये तु निष्कामाः शुद्धमानसाः । तेषां विष्णुः प्रसन्नात्मा सर्वान्कामान् प्रयच्छति ॥ १,४०.५७ ॥ यस्त्वेतच्छृणुयाद्वापि पठेद्वा सुसमाहितः । स प्राप्नोत्यश्वमेधस्य फलं मुनिवरोत्तम ॥ १,४०.५८ ॥ इत्येतत्ते समाख्यातं हरिपूजाफलं द्विज । संकोचविस्तराभ्यां तु किमन्यत्कथयामि ते ॥ १,४०.५९ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्ये चत्वारिंशोऽध्यायः _____________________________________________________________ नारद उवाच आख्यातं भवता सर्वं मुने तत्त्वार्थ कोविद । इदानीं श्रोतुमिच्छामि युगानां स्थितिलक्षणम् ॥ १,४१.१ ॥ सनक उवाच साधु साधु महाप्राज्ञ मुने लोकोपकारक । युगधर्मान्प्रबक्ष्यामि सर्वलोकोपकारकान् ॥ १,४१.२ ॥ धर्मो विवृद्धिमायाति काले कस्मिंश्चिदुत्तम । तथा विनासमायाति धर्ंम एव महीतले ॥ १,४१.३ ॥ कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । दिव्यैर्द्वादशभिर्ज्ञेयं वत्सरैस्तत्र सत्तम ॥ १,४१.४ ॥ संध्यासन्ध्यांशयुक्तानि युगानि सदृशानि वै । कालतो वेदितव्यानि इत्युक्तं तत्त्वा दर्शिभिः ॥ १,४१.५ ॥ आद्ये कृतयुगं प्राहुस्ततस्त्रेताविधानकम् । ततश्च द्वापरं प्राहुः कलिमन्त्यं विदुः क्रमात् ॥ १,४१.६ ॥ देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । नासन्कृतयुगे विप्र सर्वे देवसमाः स्मृताः ॥ १,४१.७ ॥ सर्वे हृष्टाश्च धर्मिष्टा न तत्र क्रयविक्रयौ । वेदानां च विभागश्च न युगे कृतसंज्ञके ॥ १,४१.८ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्वाचारतत्पराः । सदा नारायणपरास्तपोध्यानपरायणाः ॥ १,४१.९ ॥ कामादिदोषनिर्मुक्ताः शमादिगुणतत्पराः । धर्मसाधनचित्ताश्च गतासूया अदांभिकाः ॥ १,४१.१० ॥ सत्यवाक्यरताः सर्वे चतुराश्रमधर्मिणः । वेदाध्ययनसंपन्नाः सर्वशास्त्रविचक्षणाः ॥ १,४१.११ ॥ चतुराश्रमयुक्तेन कर्मणा कालयोनिना । अकामफलसंयोगाः प्रयान्ति परमां गतिम् ॥ १,४१.१२ ॥ नारायणः कृतयुगे शुक्लवर्णः सुनिर्मलः । त्रेताधर्मान्प्रवक्ष्यामि शृणुष्व सुसमाहितः ॥ १,४१.१३ ॥ धर्मः पाण्डुरतां याति त्रेतायां मुनिसत्तम । हरिस्तु रक्तातां याति किञ्चित्क्लेशान्विता जनाः ॥ १,४१.१४ ॥ क्रियायोगरताः सर्वे यज्ञकर्मसु निष्टिताः । सत्यव्रता ध्यानपराः सदाध्यानपरायणाः ॥ १,४१.१५ ॥ द्विपादो वर्तते धर्मो द्वापरे च मुनीश्वर । हरिः पीतत्वमायाति वेदश्चापि विभज्यते ॥ १,४१.१६ ॥ असत्यनिरताश्चापि केचित्तत्र द्विजोत्तमाः । ब्राह्मणाद्याश्च वर्णाः स्युः केचिद्रागादिदुर्गुणाः ॥ १,४१.१७ ॥ केचित्स्वर्गापवर्गार्थं विप्रयज्ञान्प्रकुर्वते । केचिद्धनादिकामाश्च केचित्कल्मषचेतसः ॥ १,४१.१८ ॥ धर्माधर्मौं समौ स्यातां द्वापरे विप्रसत्तम । अधर्मस्य प्रभावेण क्षीयन्ते च प्रजास्तथा ॥ १,४१.१९ ॥ अल्पायुषो भविष्यन्ति केचिञ्चापि मुनीश्वर । केचित्पुण्यरतान् दृष्ट्वा असूयां विप्र कुर्वते ॥ १,४१.२० ॥ कलिस्थितिं प्रवक्ष्यामि तच्छृणुष्व समाहितः । धर्मः कलियुगे प्राप्ते पादेनैकेन वर्तते ॥ १,४१.२१ ॥ तामसं युगमासाद्य हरिः कृष्णत्वमेति च । यः कश्चिदपि धर्मात्मा यज्ञाचारान्करोति च ॥ १,४१.२२ ॥ यः कश्चिदपि पुण्यात्मा क्रियायोगरतो भवेत् । नरं धर्मरतं दृष्ट्वा सर्वेऽसूयां प्रकुर्वते ॥ १,४१.२३ ॥ व्रताचाराः प्रणश्यन्ति ज्ञानयज्ञादयस्तथा । उपद्रवा भविष्यन्ति ह्यधर्मस्य प्रवतनात् ॥ १,४१.२४ ॥ असूयानिरताः सर्वे दंभाचारपरायणाः । प्रजाश्चाल्पायुषः सर्वा भविष्यन्ति कलौ युगे ॥ १,४१.२५ ॥ नारद उवाच युगधर्माः समाख्यातास्त्वया संक्षेपतो मुने । कलिं विस्तरतो ब्रूहि त्वं हि धर्मविदां वरः ॥ १,४१.२६ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चमुनिसत्तम । किमाहाराः किमाचाराः भविष्यन्ति कलौ युगे ॥ १,४१.२७ ॥ सनक उवाच शृणुष्व मुनिशार्दूल सर्वलोकोपकारक । कलिधर्मान्प्रवक्ष्यामि विस्तरेण यथातथम् ॥ १,४१.२८ ॥ सर्वे धर्मा विनश्यन्ति कृष्णे कृष्णत्वमागते । तस्मात्कलिर्महाघोरः सर्वपातकसंकरः ॥ १,४१.२९ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा धर्मपराङ्मुखाः । घोरे कलियुगे प्राप्ते द्विजा वेदपराङ्मुखाः ॥ १,४१.३० ॥ व्याजधर्मरताः सर्वे असूयानिरतास्तथा । वृथाहॄङ्कारदुष्टाश्च सत्यहीनाश्च पण्डिताः ॥ १,४१.३१ ॥ अहमेवाधिक इति सर्वेऽपि विवदन्ति च । अधर्मलोलुपाः सर्वले तथा वैतंहिका नराः ॥ १,४१.३२ ॥ अतः स्वल्पायुषः सर्वे भविष्यन्ति कलौ युगे । अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं द्विज ॥ १,४१.३३ ॥ विद्याग्रहणशून्यत्वादधर्मो वर्तते पुनः । व्यात्क्रमेण प्रजाः सर्वा म्नियन्ते पापतत्पराः ॥ १,४१.३४ ॥ ब्राह्मणाद्यास्तथा वर्णाः संकीर्यन्ते परस्परम् । कामक्रोधपरा मूढा वृथासंतापपीडिताः ॥ १,४१.३५ ॥ शूद्रतुल्या भविष्यन्ति सर्वे वर्णा कलौ युगे । उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा ॥ १,४१.३६ ॥ राजनो द्रव्यनिरतास्तथा ह्यन्यायवर्त्तिनः । पीडयन्ति प्रजाश्चैव करैरत्यर्थयोजितैः ॥ १,४१.३७ ॥ शववाहाभविष्यन्ति शूद्राणां च द्विजातयः । धर्मस्त्रीष्वपि गच्छन्ति पतयो जारधर्मिणः ॥ १,४१.३८ ॥ द्विषन्ति पितरं पुत्रा भर्तारं च स्त्रियोऽखिलाः । परिस्त्रीनिरतः सर्वे परद्रव्यपरायणाः ॥ १,४१.३९ ॥ मत्स्यामिषेण जीवन्ति दुहॄन्तश्चाप्यजीविकाम् । घोरे कलियुगे विप्र सर्वे पापरता जनाः ॥ १,४१.४० ॥ सतामसूयानिरतां उपहासं प्रकुर्वते । सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः ॥ १,४१.४१ ॥ पृथ्वी निष्फलतां याति बीजं पुष्पं विनश्यति । वेश्यालावंयशीलेषु स्पृहा कुर्वन्ति योषितः ॥ १,४१.४२ ॥ धर्मविक्रयिणो विप्राः स्त्रियश्च भगविक्रयाः । वेदविक्रयकाश्चान्ये शूद्राचाररता द्विजाः ॥ १,४१.४३ ॥ साधूनां विधवानां च वित्तान्य पहरन्ति च । न व्रतानि चरिष्यन्ति ब्राह्मणा द्रव्यलोलुपाः ॥ १,४१.४४ ॥ धर्माचारं परित्यज्य वृथावादैर्विषज्जिताः । द्विजाः कुर्वन्ति दंभार्थं पितृश्राद्धादिकाः क्रियाः ॥ १,४१.४५ ॥ अपात्रेष्वेव दानानि प्रयच्छन्ति नराधमाः । दुग्धलोभनिमित्तेन गोषु प्रीतिं च कुर्वते ॥ १,४१.४६ ॥ न कुर्वन्ति तथा विप्राः स्नानशौचादिकाः क्रियाः । अपात्रेष्वेव दानानि प्रयच्छन्ति नराधमाः ॥ १,४१.४७ ॥ साधुनिन्दापराश्चैव विप्रनिन्दापरास्तथा । न कस्यापि मनो विप्र विष्णुभक्तिपरं भवेत् ॥ १,४१.४८ ॥ यज्विनश्च द्विजानैव धनार्थराजकिङ्कराः । ताडयन्ति द्विजान्दुष्टाः कृष्णे कृष्णत्वमागते ॥ १,४१.४९ ॥ दानहीना नराः सर्वे घोरे कलियुगे मुने । प्रतिग्रहं प्रकुर्वन्ति पतितानामपि द्विजाः ॥ १,४१.५० ॥ कलेः प्रथमपादेऽपि विंनिन्दन्ति हरिं नराः । युगान्ते च हरेर्नाम नैवकश्चिद्वदिष्यति ॥ १,४१.५१ ॥ शूद्रस्त्रीसंगनिरता विधवासंगलोलुपाः । शूद्रान्नभोगनिरता भविष्यन्ति कलौ द्विजाः ॥ १,४१.५२ ॥ विहाय वेदसन्मार्गं कुपथाचारसंगताः । पाषण्डाश्चभविशष्यन्तिचतुराश्रमनिन्दकाः ॥ १,४१.५३ ॥ न चद्विजा तिशुश्रूषां कुर्वन्ति चरणोद्भवाः । द्विजातिधर्मान्गृह्णन्ति पाखण्डलिङ्गिनोऽधमाः ॥ १,४१.५४ ॥ काषायपरिवीताश्च जटिला भस्मधूलिताः । शूद्राधर्मान्प्रवक्ष्यन्ती कूटयुक्तपरायणाः ॥ १,४१.५५ ॥ द्विजाःस्वाचारमुत्ःसृज्यचपरपाकान्नभोजिनः । भविष्यन्तिदुरात्मानः शूद्राः प्रव्रजितास्तथा ॥ १,४१.५६ ॥ उत्कोचजीविनस्तत्र भविष्यन्ति कलौ मुने । धर्मटीनास्तु पाषण्डा कापाला भिक्षवोऽधमाः ॥ १,४१.५७ ॥ धर्मविध्वंसशीलानां द्विजानां द्विजसत्तम । शूद्रा धर्मान्प्रवक्ष्यन्तिह्यधिरुह्योत्तमासनम् ॥ १,४१.५८ ॥ एते चान्येच बहवो नग्नरक्तपटादिकाः । पाषण्डाः प्रचारिष्यन्ति प्रायो वेदविदूषकाः ॥ १,४१.५९ ॥ गीतवादित्रकुशलाः क्षुद्रधर्मसमाश्रयाः । भविष्यन्तिकलौ प्रायो धर्मविध्वंसका नराः ॥ १,४१.६० ॥ अल्पद्रव्या वृथालिङ्गा वृथाहॄङ्कारदूषिताः । हर्तारं परवित्तानां भवितारो नराधमाः ॥ १,४१.६१ ॥ प्रतिग्रहपरा नित्यं जगदुन्मार्गशीलिनः । आत्मस्तुतिपराः सर्वे परनिन्दापरास्तथा ॥ १,४१.६२ ॥ विश्वस्तघातिनः क्रूरा दयाधर्मविवर्जिताः । भविष्यन्ति नरा विप्र कलौ चाधर्मबान्धवाः ॥ १,४१.६३ ॥ परमायुश्च भविता तदा वर्षाणि षोडश । घोरे कलियुगे विप्र पञ्चवर्षा प्रसूयते ॥ १,४१.६४ ॥ सप्तवर्षाष्टवर्षाश्च युवानोऽतः परे जरा । स्वकर्मत्यागिनः सर्वे कृतघ्नाभिन्नवृत्तयः ॥ १,४१.६५ ॥ याचकाश्चद्विजा नित्यं भविष्यन्ति कलौ युगे । परावमाननिरताः प्रहृष्टाः परवेश्मनि ॥ १,४१.६६ ॥ तत्रैव निन्दानिरता वृथाविश्रंभिणो जनाः । निदां कुर्वन्ति सततं पितृमातृसुतेषु च ॥ १,४१.६७ ॥ वदन्ति वाचा धर्मांश्च चेतसा पापलोलुपाः । धनविद्यावयोमत्ताः सर्वदुःखपरायणाः ॥ १,४१.६८ ॥ व्याधितस्करदुर्भिक्षैः पीडिता अतिमांयिनः । प्रपुष्यन्ति वृथैवामी न विचार्य च दुष्कृतम् ॥ १,४१.६९ ॥ धर्ममार्गप्रणेतारं तिरस्कुर्वन्ति पापिनः । धर्मकार्ये रतं चैव वृथाविश्रंभिणो जनाः ॥ १,४१.७० ॥ भविष्यन्ति कलौ प्राप्ते राजानो म्लेच्छजातयः । शूद्रा भैक्ष्यरताश्चैव तेषां शुश्रूषणे द्विजाः ॥ १,४१.७१ ॥ न शिष्यो न गुरुः कश्चिन्न पुत्रो लन पिता तथा । न भार्या न पतिश्चैव भवितारोऽत्र संकरे ॥ १,४१.७२ ॥ कलौ गते भविष्यन्ति धनाढ्या अपि याचकाः । रस विक्रयिणश्चापि भविष्यन्ति द्विजातयः ॥ १,४१.७३ ॥ धर्मकञ्चुकसंवीता मुनिवेषधरा द्विजाः । अपण्यविक्रयरता अगम्यागामिनस्तथा ॥ १,४१.७४ ॥ वेदनिन्दापराश्चैव धर्मशास्त्रविनिन्दुकाः । शूद्रवृत्त्यैव जीवन्ति नरकार्हा द्विजा मुने ॥ १,४१.७५ ॥ अनावृष्टभयं प्राप्ता गगनासक्तदृष्टयः । भविष्यन्ति कलौ मर्त्यासर्वे क्षुद्भयकातराः ॥ १,४१.७६ ॥ कन्दपर्णफलाहारास्तापंसा इव मानवाः । आत्मानं तारयिष्यन्ति अनावृष्ट्यातिदुखिताः ॥ १,४१.७७ ॥ कामार्ता ह्रस्वदेहाश्च लुब्धा श्चाधर्मतत्पराः । कलौ सर्वे भविष्यन्ति स्वल्पभाग्या बहुप्रजाः ॥ १,४१.७८ ॥ स्त्रियः स्वपोषणपरा वेश्या लावण्यशीलिकाः । पतिवाक्यमनादृत्य सदान्यगृहतत्पराः ॥ १,४१.७९ ॥ दुःशीला दुष्टशीलेषु करिष्यिन्ति सदा स्पृहाम् । असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥ १,४१.८० ॥ चौरादिभयभीताश्च काष्टयन्त्राणि कुर्वते । दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः ॥ १,४१.८१ ॥ गोधूमान्नयवान्नाढ्ये देशे यास्यन्ति दुःखिताः । निधाय हृद्यकर्मणि प्रेरयन्ति वचः शुभम् ॥ १,४१.८२ ॥ स्वकार्यसिद्धिपर्यन्तं बन्धुतां कुर्वते जनाः । भिक्षवश्चाव मित्रादिस्नेहसंबन्धयन्त्रिताः ॥ १,४१.८३ ॥ अन्नोपाधिनिमित्तेन शिष्यान्गृह्णन्ति भिक्षवः ॥ १,४१.८४ ॥ उभाभ्यामथ पाणिभ्यां शिरःकण्डूयनं स्त्रियः । कुर्वन्त्यो गुरुभर्तृआणामाज्ञामुल्लङ्घयन्ति च ॥ १,४१.८५ ॥ पाषण्डालापनिरताः पाषण्डजनसंगिनः । यदा द्विजा भविष्यन्ति तदा वृद्धिं कलिर्व्रजेत् ॥ १,४१.८६ ॥ यदा प्रजा न यक्ष्यन्ति न होष्यन्ति द्विजातयः । तदैव तु कलेर्वृद्धिरनुमेया विचक्षणैः ॥ १,४१.८७ ॥ अधर्मवृद्धिर्भविता बासमृत्युरपि द्विजा । सर्वधर्मेषु नष्टेषु याति निःश्रीकतां जगत् ॥ १,४१.८८ ॥ एवं कलेः स्वरूपं ते कथितं विप्रसत्तम । हरिभक्तिपरानेष न कलिर्बाधते क्वचित् ॥ १,४१.८९ ॥ ततः परं कृतयुगे त्रेतायुगे त्रेतायां ध्यानमेव च । द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥ १,४१.९० ॥ यत्कृते दशभिर्वर्षैस्त्रेतायां शरदा च यत् । द्वापरे यञ्च मासेन ह्यहोरात्रेण तत्कलौ ॥ १,४१.९१ ॥ ध्यायन्कृते जयन्यज्ञैस्त्रेतायां द्वापरेर्ऽचयन् । यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥ १,४१.९२ ॥ अहोरात्रं हरेर्नाम कीर्तयन्ति च ये नराः । कुर्वन्ति हरिपूजां वा न कलिर्बाधते च तान् ॥ १,४१.९३ ॥ नमो नारायणायेति कीर्तयन्ति च ये नराः । निष्कामा वा सकामा वा न कलिर्बाधते च तान् ॥ १,४१.९४ ॥ हरिनामपरा ये तु घोरे कलियुगे द्विज । त एव कृतकृत्याश्च न कलिर्बाधते हि तान् ॥ १,४१.९५॥. हरिपूजापरा ये च हरिनामपरायणाः । त एव शिवतुल्याश्च नात्र कार्या विचारणा ॥ १,४१.९६ ॥ समस्तजगदाधारं परमार्थस्वरुपिणम् । घोरे कलियुगे प्राप्ते विष्णुं ध्यायन्न सीदति ॥ १,४१.९७ ॥ अहो अति सुभाग्यास्ते सकृद्वै केशवार्चकाः । घोरे कलियुगे प्राप्ते सर्वधर्मविवर्जिते ॥ १,४१.९८ ॥ न्यूनातिरिक्तदोषाणां कलौ वेदोक्तकर्मणाम् । हरिस्मरणमेवात्र संपूर्णत्वविधायकम् ॥ १,४१.९९ ॥ हरे केशव गोविन्द वासुदेव जगन्मय । इतीरयन्ति ये नित्यं नहि तान्बाधते कलिः ॥ १,४१.१०० ॥ शिव शङ्कर रुद्रेश नीलकण्ठ त्रिलोचन । इति जल्पन्ति ये वापि कलिस्तान्नापि बाधते ॥ १,४१.१०१ ॥ महादेव विरूपाक्ष गङ्गाधर मृडाव्यय । इत्थं वदन्ति ये विप्र ते कृतार्था न संशयः ॥ १,४१.१०२ ॥ जनार्दन जगन्नात पीतांबरधराच्युत । इति वाप्युञ्चरन्तीह न च तेषां कलेर्भयम् ॥ १,४१.१०३ ॥ संसारे सुलभाः पुंसां पुत्रदारधनादयः । घोरे कलियुगे विप्र हरिभक्तस्तु दुर्लभा ॥ १,४१.१०४ ॥ कर्मश्रद्धाविहीना ये पाषण्डा वेदनिन्दकाः । अधर्मनिरता नैव नरकार्हा हरिस्मृतेः ॥ १,४१.१०५ ॥ वेदमार्गबहिष्टानां जनानां पापकर्मणाम् । मनः शुद्धिविहीनानां हरिनाम्नैव निष्कृतिः ॥ १,४१.१०६ ॥ दैवाधीनं जगत्सर्वमिदं स्थावरजङ्गमम् । यथाप्रेरितमेतेन तथैव कुरुतें द्विज ॥ १,४१.१०७ ॥ शक्तितः सर्वकर्माणि वेदोक्तानि विधाय च । समर्पयेन्महाविष्णौ नारायणपरायणः ॥ १,४१.१०८ ॥ समर्पितानि कर्माणि महविष्णौ परात्मनि । संपूर्णतां प्रयान्त्येव हरिस्मरणमात्रतः ॥ १,४१.१०९ ॥ हरिभक्तिरतानां च पापबन्धो न जायते । अतोऽतिदुर्लभा लोके हरिभक्तिर्दुरात्मनाम् ॥ १,४१.११० ॥ अहो हरिपरा ये तु कलौ घोरे भयङ्करे । ते सुभाग्या महात्मानः सत्संगर हिता अपि ॥ १,४१.१११ ॥ हरिस्मरणनिष्टानां शिवनामरतात्मनाम् । सत्यं समस्तकर्माणि यान्ति संपूर्णतां द्विज ॥ १,४१.११२ ॥ अहो भाग्यमहो भाग्यं हरिनाम रतात्मनाम् । त्रिदर्शेरपि ते पूज्याः किमन्यैर्बहुभाषितैः ॥ १,४१.११३ ॥ तस्मात्समस्तलोकानां हितमेव मयोच्यते । हरिनामपरान्मर्त्यान्न कलिर्बाधर्तक्वचित् ॥ १,४१.११४ ॥ हरेर्नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्येव नास्त्येव गतिरन्यथा ॥ १,४१.११५ ॥ सूत उवाच एवं स नारदो विप्राः सनकेन प्रबोधितः । परां निर्वृत्तिमापन्नः पुनरेतदुवाच ह ॥ १,४१.११६ ॥ नारद उवाच भगवन्सर्वशास्त्रज्ञ स्वयातिकरुणात्मना । प्रकाशितं जगज्ज्योतिः परं ब्रह्म सनातनम् ॥ १,४१.११७ ॥ एतदेव परं पुण्यमेतदेव परं तपः । यः स्मरेत्पुण्डरीकाक्षं सर्वपापविनाशनम् ॥ १,४१.११८ ॥ ब्रह्मन्नानाजगञ्चैतदेकचित्संप्रकाशितम् । त्वयोक्तं तत्प्रतीयेऽहं कथं दृष्टान्तमन्तरा ॥ १,४१.११९ ॥ तस्माद्येन यथा ब्रह्म प्रतीतं बोधितेन तु । तदाख्याहि यथा चित्तं सीदत्स्थितिमवाप्नुयात् ॥ १,४१.१२० ॥ एतच्छ्रुत्वा वचो विप्रा नारदस्य महात्मनः । सनकः प्रत्युवाचेदं स्मरन्नारायणं परम् ॥ १,४१.१२१ ॥ सनक उवाच ब्रह्मन्नहं ध्यानपरो भवेयं सनन्दनं पृच्छ यथाभिलाषम् । वेदान्तशास्त्रे कुशलस्तवायं निवर्तयेद्वा परमार्यवन्द्यः ॥ १,४१.१२२ ॥ इतीरितं समाकर्ण्य सनकस्य स नारदः । सनन्दनं मोक्षधर्मान्प्रष्टुं समुपचक्रमे ॥ १,४१.१२३ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे नाममहात्म्यन्नामैकचत्वारिंशोऽध्यायः _____________________________________________________________ श्रीनारद उवाच कुतः सृष्टमिदं ब्रह्मञ्जगत्स्थावरजङ्गमम् । प्रलये च कमभ्येति तन्मे ब्रूहि सनन्दन ॥ १,४२.१ ॥ ससागरः सगगनः सशैलः सबलाहकः । सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥ १,४२.२ ॥ कथं सृष्टानि भूतानि कथं वर्णविभक्तयः । शौचाशौचं कथं तेषां धर्माधर्मविधिः कथम् ॥ १,४२.३ ॥ कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः । अस्माल्लोकादमुं लोकं सर्वं शंसतु मे भवान् ॥ १,४२.४ ॥ सनन्दन उवाच शृणु नारद वक्ष्यामि चेतिहासं पुरातनम् । भृगुणाभिहितं शास्त्रं भरद्वाजाय पृच्छते ॥ १,४२.५ ॥ कैलासशिखरे दृष्ट्वा दीप्यमानं महौजसम् । भृगुमहर्षिमासीनं भरद्वाजोऽन्वपृच्छत ॥ १,४२.६ ॥ भरद्वाज उवाच कथं जीवो विचरति नानायोनिषु संततम् । कथं मुक्तिश्च संसाराज्जायते तस्य मानद ॥ १,४२.७ ॥ यश्च नारायणः स्रष्टा स्वयंभूर्भगवन्स्वयम् । सेव्यसेवकभावेन वर्तेते इति तौ सदा ॥ १,४२.८ ॥ प्रविशन्ति लये सर्वे यमीशं सचराचराः । लोकानां रमणः सोऽयं निर्गुणश्च निरञ्जनः ॥ १,४२.९ ॥ अनीर्दश्योऽप्रतर्क्यश्च कथं ज्ञायेत कैर्मुने । कथमेनं परात्मानं कालशक्तिदुरन्वयम् ॥ १,४२.१० ॥ अतर्क्यचरितं वेदाः स्तुवन्ति कथमादरात् । जीवो जीवत्वमुल्लङ्घ्य कथं ब्रह्म समन्वयात् ॥ १,४२.११ ॥ एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि कृपानिर्घ । एवं स भगवान्पृष्टो भरद्वाजेन संशयम् ॥ १,४२.१२ ॥ महर्षिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत् । भृगुरुवाच मानसो नाम यः पूर्वो विश्रुतो वे महर्षिभिः ॥ १,४२.१३ ॥ अनादिनिधनो देवस्तथा तेभ्योऽजरामरः । अव्यक्त इति विख्यातः शाश्वतोऽथाक्षयोऽव्ययः ॥ १,४२.१४ ॥ यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च । सोऽमृजत्प्रथमं देवो महान्तं नाम नामतः ॥ १,४२.१५ ॥ आकाशमिति विख्यातं सर्वभूतधरः प्रभुः । आकाशादभवद्वारि सलिलादग्निमारुतौ ॥ १,४२.१६ ॥ अग्निमारुतसंयोगात्ततः समभवन्मही । ततस्तेजो मयं दिव्यं पद्मं सृष्टं स्वयंभुवा ॥ १,४२.१७ ॥ तस्मात्पद्मात्समभवद्व्रह्मा वेदमयो विधिः । अहॄङ्कार इति ख्यातः सर्वभूतात्मभूतकृत् ॥ १,४२.१८ ॥ ब्रह्मा वै स महातेजा य एते पञ्च धातवः । शैलास्तस्यास्थिसंधास्तु मेदो मसिं च मेदिनी ॥ १,४२.१९ ॥ समुद्रास्तस्य रुधिरमाकाशमुदरं तथा । पवनश्चैव निश्वासस्तेजोऽग्निर्निम्नगाः शिराः ॥ १,४२.२० ॥ अग्नीषोमौ च चन्द्राकारै नयने तस्य विश्रुते । नभश्चोर्ध्वशिरस्तस्य क्षितिः पदौ भुजौ दिशः ॥ १,४२.२१ ॥ दुर्विज्ञेयो ह्यचिन्त्यात्मा सिद्धैरपि न संशयः । स एष भगवान्विष्णुरनन्त इति विश्रुतः ॥ १,४२.२२ ॥ सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः । अहॄङ्कारस्य यः स्रष्टा सर्वभूतभघवायवै । ततः समभवद्विश्वं पृष्टोऽहं यदिह त्वया ॥ १,४२.२३ ॥ भग्द्वाज उवाच गगनस्य दिशां चैव भूतलस्वानिलस्य च । कान्यत्र परिमाणानि संशयं छिन्धि तत्त्वतः ॥ १,४२.२४ ॥ भृगुरुवाच अनन्तमेतदाकाशं सिद्धदैवतसोवितम् । रम्यं नानाश्रयाकीर्णं यस्यां तो नाधिगम्यते ॥ १,४२.२५ ॥ ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न पश्यतः । तत्र देवाः स्वयं दीप्ता भास्कराभाग्निवर्चसः ॥ १,४२.२६ ॥ ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः । दुर्गमत्वादनन्तत्वादिति मे वद मानद ॥ १,४२.२७ ॥ उपरिष्टोपरिष्टात्तु प्ज्वलद्भिः स्वयंप्रभघैः । निरुद्धमेतदाकाशं ह्यप्रमेयं सुरैरपि ॥ १,४२.२८ ॥ प्रथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम् । तमसोंऽते जलं प्राहुर्जलस्यान्तेऽग्निरेव च ॥ १,४२.२९ ॥ रसातलान्ते सलिलं जलान्ते पन्नगाधिपाः । तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम् ॥ १,४२.३० ॥ एवमन्तं भगवतः प्रमाणं सलिलस्य च । अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि ॥ १,४२.३१ ॥ अग्निमारुततोयानां वर्णा क्षितितलस्य च । आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदशनात् ॥ १,४२.३२ ॥ पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च । त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा ॥ १,४२.३३ ॥ अदृश्यो यस्त्वगम्यो यः कः प्रमाण मुदीरयेत् । सिद्धानां देवतानां च परिमीता यदा गतिः ॥ १,४२.३४ ॥ तदागण्यमनन्तस्य नामानन्तेति विश्रुतम् । नामधेयानुरुपस्य मानसस्य महात्मनः ॥ १,४२.३५ ॥ यदा तु दिव्यं यद्रूपं ह्रसते वर्द्धते पुनः । कोऽन्यस्तद्वेदितुं शक्यो योऽपि स्यात्तद्विधोऽपरः ॥ १,४२.३६ ॥ ततः पुष्करतः सष्टः सर्वज्ञो मूर्तिमान्प्रभुः । ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः ॥ १,४२.३७ ॥ भरद्वाज उवाच पुष्करो यदि संभूतो ज्येष्टं भवति पुष्करम् । ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे ॥ १,४२.३८ ॥ भृगुरुवाच मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता । तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ॥ १,४२.३९ ॥ कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः । तस्य मध्ये स्थितो लोकान्सृजत्येष जगद्विधिः ॥ १,४२.४० ॥ भरद्वाज उवाच प्रजाविसर्गं विविधं कथं स सृजति प्रभुः । मेरुमध्ये स्थितो ब्रह्मा तद्वहिर्द्विजसत्तम ॥ १,४२.४१ ॥ भृगुरुवाच प्रजाविसर्गं विविधं मानसो मनसासृजत् । संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् ॥ १,४२.४२ ॥ यत्प्राणाः सर्वभूतानां सृष्टं प्रथमतो जलम् । यत्प्राणाः सर्वभूतानां वर्द्धन्ते येन च प्रजाः ॥ १,४२.४३ ॥ परित्यक्ताश्च न श्यन्ति तेनदं सर्वमावृत्तम् । पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे । सर्वं तद्वारुणं ज्ञेयमापस्तस्तंभिरे पुनः ॥ १,४२.४४ ॥ भरद्वाज उवाच कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ । कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान् ॥ १,४२.४५ ॥ भृगुरुवाच ब्रह्मकल्पे पुरा ब्रह्मन् ब्रह्मर्षीणां समागमे । लोकसंभवसंदेहः समुत्पन्नो महात्मनाम् ॥ १,४२.४६ ॥ तेऽतिष्टन्ध्यानमालंब्य मौनमास्थाय निश्चलाः । त्यक्ताहाराः स्पर्द्धमाना दिव्यं विर्षशतं द्विजाः ॥ १,४२.४७ ॥ तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमत् । दिव्या सरस्वती तत्र संबभूव नभस्तलात् ॥ १,४२.४८ ॥ पुरास्तिमितमाकाशमनन्तमचलोपमम् । नष्टचन्द्रार्कपवनं प्रसुप्तमिव संबभौ ॥ १,४२.४९ ॥ ततः सलिलमुत्पन्नं तमसीव तमः परम् । तस्माञ्च सलिलोत्पीडादुदतिष्टत मारुतः ॥ १,४२.५० ॥ यथाभवनमच्छिद्रं निःशब्दमिव लक्ष्यते । तञ्चाभसा पूर्यमाणं सशब्दं कुरुतेऽनिलः ॥ १,४२.५१ ॥ तथा सलिलसंरुद्धे नभसोंऽतं निरन्तरे । भित्त्वार्णवतलं वायुः समुत्पतति घोषवान् ॥ १,४२.५२ ॥ एषु वा चरते वायुरर्णवोत्पीडसंभवः । आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति ॥ १,४२.५३ ॥ तस्मिन्वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः । प्रादुरासीदूर्ध्वशिखः कृत्वा निस्तिमिरं तमः ॥ १,४२.५४ ॥ अग्निः पवनसंयुक्तः खं समाक्षिपते जलम् । तदग्निवायुसंपर्काद्धनत्वमुपपद्यते ॥ १,४२.५५ ॥ तस्याकाशं निपतितः स्नेहात्तिष्टति योऽपरः । स संघातत्वमापन्नो भूमित्वमनुगच्छति ॥ १,४२.५६ ॥ रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा । भूमिर्यो निरियं ज्ञेया यस्याः सर्वं प्रसूयते ॥ १,४२.५७ ॥ भरद्वाज उवाच य एते धातवः पञ्च रक्ष्या यानसृजत्प्रभुः । आवृता यैरिमे लोका महाभूताभिसंज्ञितैः ॥ १,४२.५८ ॥ यदासृजत्सहस्राणि भूतानां स महामतिः । पश्चात्तेष्वेव भूतत्वं कथं समुपपद्यते ॥ १,४२.५९ ॥ भृगुरुवाच अमितानि महाष्टानि यान्ति भूतानि संभवम् । अतस्तेषां महाभूतशब्दोऽयमुपपद्यते ॥ १,४२.६० ॥ चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः । पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम् ॥ १,४२.६१ ॥ इत्यतः पञ्चभिर्युक्तैर्युक्तं स्थावरजङ्गमम् । श्रोत्रे घ्राणो रसः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः ॥ १,४२.६२ ॥ भरद्वाज उवाच पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः । स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः ॥ १,४२.६३ ॥ अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः । वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः ॥ १,४२.६४ ॥ व शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः । न च स्पर्शं हि जानन्ति ते कथं पञ्च धातवः ॥ १,४२.६५ ॥ अद्रवत्वादनिग्नित्वादभूमित्वादवायुतः । आकाशस्याप्रमेयत्वादृक्षाणां नास्ति भौतिकम् ॥ १,४२.६६ ॥ भृगुरुवाच घनानामपि वृक्षणामाकाशोऽस्ति न संशयः । तेषां पुष्पपलव्यक्तिर्नित्यं समुपपद्यते ॥ १,४२.६७ ॥ ऊष्मतो म्लायते पर्णं त्वक्फलं पुष्पमेव च । म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ॥ १,४२.६८ ॥ वाय्यग्न्यशनिनिर्धोषैः फलं पुष्पं विशीर्यते । श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः ॥ १,४२.६९ ॥ वल्ली वेष्टयते वृक्षान्सर्वतश्चैव गच्छति । नह्यदृष्टश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः ॥ १,४२.७० ॥ पुण्यापुण्यैस्तथा गधैर्धूपैश्च विविधैरपि । अरोगाः पुष्पिताः संति तस्माज्जिघ्रन्ति पादपाः ॥ १,४२.७१ ॥ सुखदुःखयोर्ग्रहणाच्छिन्नस्य च विरोहणात् । जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥ १,४२.७२ ॥ तेन तज्जलमादत्ते जरयत्यग्निमारुतौ । आहारपरिणामाञ्च स्नहो वृद्धिश्च जायते ॥ १,४२.७३ ॥ जङ्गमानां च सर्वेषां शरीरे पंञ्च धातवः । प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते ॥ १,४२.७४ ॥ त्वक्च मांसं तथास्थीनि मज्जा स्नायुश्च पञ्चमः । इत्येतदिह संघातं शरीरे पृथिवीमये ॥ १,४२.७५ ॥ तेजो ह्यग्निस्तथा क्रोधश्चक्षुरुष्मा तथैव च । अग्निर्जनयते यञ्च पञ्चाग्नेयाः शरीरिणः ॥ १,४२.७६ ॥ श्रोत्रं घ्राणं तथास्यं च हृदयं कोष्टमेव च । आकाशात्प्राणिनामेते शरीरे पञ्च धातवः ॥ १,४२.७७ ॥ श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च । इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा ॥ १,४२.७८ ॥ प्राणात्प्रीणयते प्राणी व्यानाव्द्यायच्छते तथा ॥ १,४२.७९ ॥ गच्छत्यपानोऽधश्चैव समानो ह्यद्यवस्थितः । उदानादुच्छ्वसितीति पञ्च (प्रति)भदाञ्च भाषते । इत्येते वायवः पञ्च वेष्टयन्तीहदेहिनम् ॥ १,४२.८० ॥ भूमेर्गन्धगुणान्वेत्ति रसं चादूभ्यः शरीरवान् । तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान् ॥ १,४२.८१ ॥ इष्टश्चानुष्टगन्धश्च मधुरः कटुरेव च । निर्हारी संहतः स्निग्धो रुक्षो विशद एव च ॥ १,४२.८२ ॥ एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः । ज्योतिः पश्यति चक्षुर्भ्यः स्पर्शं वेत्ति च वायुना ॥ १,४२.८३ ॥ शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः । रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु ॥ १,४२.८४ ॥ रसो बहुविधः प्रोक्त ऋषिभिः प्रथितात्मभिः । मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ॥ १,४२.८५ ॥ एष षडिधविस्तारो रसो वारिमयः स्मृतः । शब्दः स्पर्शश्च रूपश्च त्रिगुणं ज्योतिरुच्यते ॥ १,४२.८६ ॥ ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् । ह्रस्वो दीर्धस्तथा स्थूलश्चतुरस्रोऽणुवृत्तवान् ॥ १,४२.८७ ॥ शुक्लः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा । कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदु दारुणः ॥ १,४२.८८ ॥ एवं षोडशविस्तारो ज्योतीरुपगुणः स्मृतः । तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् ॥ १,४२.८९ ॥ तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् । षड्जो ऋषभगान्धारौ मध्यमोधैवतस्तथा ॥ १,४२.९० ॥ पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान् । एष सप्तविधः प्रोक्तो गुण आकाशसंभवः ॥ १,४२.९१ ॥ ऐश्वर्य्येण तु सर्वत्र स्थितोऽपि पयहादिषु । मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च ॥ १,४२.९२ ॥ एवं बहुविधाकारः शब्द आकाशसंभवः । वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ॥ १,४२.९३ ॥ उष्णः शीतः सुखं दुःखं स्निग्धो विशद एव च । तथा खरो मृदुः श्लक्ष्णो लवुर्गुरुतरोऽपि च ॥ १,४२.९४ ॥ शब्दस्पर्शौ तु विज्ञेयौ द्विगुणौ वायुरित्युत । एवमेकादशविधो वायव्यो गुण उच्यते ॥ १,४२.९५ ॥ आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह । अव्याहतैश्चेतयते नवेति विषमा गतिः ॥ १,४२.९६ ॥ आप्यायन्ते च ते नित्यं धातवस्तैस्तु धातुभिः । आपोऽग्निर्मारुश्चैव नित्यं जाग्रति देहिषु ॥ १,४२.९७ ॥ मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिताः । पार्थिवं धातुमासाद्य यथा चेष्टयते बली ॥ १,४२.९८ ॥ श्रितो मूर्द्धानमग्निस्तु शरीरं परिपालयेत् । प्राणो मूर्द्धनि वाग्नौ च वर्तमानो विचेष्टते ॥ १,४२.९९ ॥ स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः । मनो बुद्धिरहॄङ्कारो भूतानि विषयश्च सः ॥ १,४२.१०० ॥ एवं त्विह स सर्वत्र प्राणैस्तु परिपाल्यते । पृष्टतस्तु समानेन स्वां स्वां गतिमुपाश्रितः ॥ १,४२.१०१ ॥ वस्तिमूलं गुदं चैव पावकं समुपाश्रितः । वहन्मूत्रं पुरीषं वाप्यपानः परिवर्तते ॥ १,४२.१०२ ॥ प्रयत्ने कर्मनियमे यच एकस्त्रिषु वर्तते । उदान इति तं प्राहुरध्यात्मज्ञानकोविदाः ॥ १,४२.१०३ ॥ संधिष्वपि च सर्वेषु संनिविष्टस्तथानिलः । शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ॥ १,४२.१०४ ॥ बाहुष्वग्निस्तु विततः समानेन समीरितः । रसान्वारु दोषांश्च वर्तयन्नति चेष्टते ॥ १,४२.१०५ ॥ अपानप्राणयोर्मध्ये प्राणापानसमीहितः । समन्वितस्त्वधिष्टानं सम्यक्पचति पावकः ॥ १,४२.१०६ ॥ आस्पंहि पायुपर्यन्तमन्ते स्याद्गुदसंज्ञिते । रेतस्तस्मात्प्रजायन्ते सर्वस्रोतांसि देहिनाम् ॥ १,४२.१०७ ॥ प्राणानां सन्निपाताश्च सन्निपातः प्रजायते । ऊष्मा चागिरीति ज्ञेयो योऽन्नं पचति देहिनाम् ॥ १,४२.१०८ ॥ अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते । स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥ १,४२.१०९ ॥ पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्मृतः । नाभिमूले शरीरस्य सर्वे प्राणाश्च संस्थिताः ॥ १,४२.११० ॥ प्रस्थिता हृदयात्सर्वे तिर्यगूर्ध्दमधस्तथा । वहॄन्त्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः ॥ १,४२.१११ ॥ एष मार्गोऽपि योगानां येन गच्छन्ति तत्पदम् । जितक्लमाः समा धीरा मूर्द्धन्यात्मानमादधन् ॥ १,४२.११२ ॥ एवं सर्वेषु विहितप्राणापानेषु देहिनाम् । तस्मिन्समिध्यते नित्यमग्निः स्थाल्यामिवाहितः ॥ १,४२.११३ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभरद्वाजसंवादे जगदुत्पत्तिवर्णनं नाम द्विचत्वारिंशोऽध्यायः _____________________________________________________________ भरद्वाज उवाच यदि प्राणपतिर्वायुर्वायुरेव विचेष्चते । श्वसित्याभाषते चैव ततो जीवो निरर्थकः ॥ १,४३.१ ॥ य ऊष्मभाव आग्नेयो वह्निनैवोपलभ्यते । अग्निर्जरयते चैतत्तदा जीवो निरर्थकः ॥ १,४३.२ ॥ जन्तोः प्रम्नियमाणस्य जीवो नैवोपलभ्यते । वायुरेव जहात्येनमूष्मभावश्च नश्यति ॥ १,४३.३ ॥ यदि वाथुमयो जीवः संश्लेषो यदि वायुना । वायुमञ्जलवत्पश्येद्गच्छेत्सह मरुद्गुणैः ॥ १,४३.४ ॥ संश्लेषो यदि वा तेन यदि तस्मात्प्रणश्यति । महार्णवविमुक्तत्वादन्यत्सलिलभाजनम् ॥ १,४३.५ ॥ कृपे वा सलिलं दद्यात्प्रदीपं वा हुताशने । क्षिप्रं प्रविश्य नश्येत यथा नश्यत्यसौ तथा ॥ १,४३.६ ॥ पञ्चधारणके ह्यस्मिञ्छरीरे जीवितं कृतम् । येषामन्यतराभावाञ्चतुर्णां नास्ति संशयः ॥ १,४३.७ ॥ नश्यन्त्यापो ह्यनाहाराद्वायुरुच्छ्वासनिग्रहात् । नश्यते कोष्टभेदार्थमग्रिर्नश्यत्यभोजनात् ॥ १,४३.८ ॥ व्याधित्रणपरिक्लेशैर्मेदिनी चैव शीर्यते । पीडितेऽन्यतरे ह्येषां संघातो याति पञ्चताम् ॥ १,४३.९ ॥ तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति । किं खेदयति वा जीवः किं शृणोति ब्रवीति च ॥ १,४३.१० ॥ एषा गौः परलोकस्थं तारयिष्यतिमामिति । यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति ॥ १,४३.११ ॥ गौश्चप्रतिग्रहीता च दाता चैव समं यदा । इहैव विलयं यान्ति कुतस्तेषां समागमः ॥ १,४३.१२ ॥ विहगैरुपभुक्तस्य शैलाग्रात्पतितस्य च । अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः ॥ १,४३.१३ ॥ छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति । जीवन्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति ॥ १,४३.१४ ॥ जीवमात्रं पुरा सृष्टं यदेतत्परिवर्तते । मृताः प्रणश्यन्ति बीजाद्बीजं प्रणश्यति ॥ १,४३.१५ ॥ इति मे संशयो ब्रह्मन्हृदये परिधावति । त निवर्तय सर्वज्ञ यतस्त्वामाश्रितो ह्यहम् ॥ १,४३.१६ ॥ सनन्दन उवाच एवं पृष्टस्तदानेन स भृगर्ब्रह्मणः सुतः । पुनराहु मुनिश्रेष्ठ तत्संदेहनिवृत्तये ॥ १,४३.१७ ॥ भृगुरुवाच न प्राणाः सन्ति जीवस्य दत्तस्य च कृतस्य च । याति देहान्तरं प्राणी शरीरं तु विशीर्यते ॥ १,४३.१८ ॥ न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति । समिधामग्निदग्धानां यथाग्रिर्द्दश्यते तथा ॥ १,४३.१९ ॥ भरद्वाज उवाच अग्नेर्यथा तस्य नाशात्तद्विनाशो न विद्यते । इन्धनस्योपयोगान्ते स वाग्निर्नोपलभ्यते ॥ १,४३.२० ॥ नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् । गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते ॥ १,४३.२१ ॥ भृगुरुवाच समिधामुपयोगान्ते स चाग्निर्नोपलभ्यते । नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् ॥ १,४३.२२ ॥ गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते । समिधामुपयोगान्ते यथाग्निर्नोपलभ्यते ॥ १,४३.२३ ॥ आकाशानुगतत्वाद्धि दुर्ग्राह्यो हि निराश्रयः । तथा शरीरसंत्यागे जीवो ह्याकाशवत्स्थितः ॥ १,४३.२४ ॥ न नश्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः । प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम् ॥ १,४३.२५ ॥ वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् । तस्मिन्नष्टे शरीराग्नौ ततो देहमचेतनम् ॥ १,४३.२६ ॥ पतितं याति भूमित्वमयनं तस्य हि क्षितिः । जगमानां हि सर्वेषां स्थावराणां तथैव च ॥ १,४३.२७ ॥ आकाशं पवनोऽन्वेति ज्योतिस्तमनुगच्छति । तेषां त्रयाणामेकत्वाद्वयं भूमौ प्रतिष्टितम् ॥ १,४३.२८ ॥ यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः । अमूर्तयस्ते विज्ञेया मूर्तिमन्तः शरीरिणः ॥ १,४३.२९ ॥ भरद्वाज उवाच यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु । जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ ॥ १,४३.३० ॥ पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंज्ञके । शरीरे प्राणिनां जीवं वेत्तुभिच्छामि यादृशम् ॥ १,४३.३१ ॥ मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये । भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते ॥ १,४३.३२ ॥ यद्यजीवशरीरं तु पञ्चभूतसमन्वितम् । शरीरे मानसे दुःख कस्तां वेदयते रुजम् ॥ १,४३.३३ ॥ शृणोति कथितं जीवः कर्णाभ्यांन शृणोति तत् । महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः ॥ १,४३.३४ ॥ सर्वे पश्यन्ति यदृश्यं मनोयुक्तेन चक्षुषा । मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति ॥ १,४३.३५ ॥ न पश्यति न चाघ्राति न शृणोति न भाषते । न च स्मर्शमसौ वेत्ति निद्रावशगतः पुनः ॥ १,४३.३६ ॥ हृष्यति क्रुद्ध्यते कोऽत्र शोचत्युद्विजते च कः । इच्छति ध्यायति द्वेष्टि वाक्यं वाचयते च कः ॥ १,४३.३७ ॥ भृगुरुवाच तं पञ्चसाधारणमत्र किञ्चिच्छरीरमेको वहतेंऽतरात्मा । स वेत्ति गन्धांश्च रसाञ्छुतीश्च स्पर्शं च रूपं च गुणांश्च येऽल्ये ॥ १,४३.३८ ॥ पञ्चात्मके पञ्चगुणप्रदर्शी स सर्वगात्रानुगतोंऽतरात्मा । सवेति दुःखानि सुखानि चात्र तद्विप्रयोगात्तु न वेत्ति देहम् ॥ १,४३.३९ ॥ यदा न रूपं न स्पर्शो नोष्यभवश्च पावके । तदा शान्ते शरीराग्नौ देहत्यागेन नश्यति ॥ १,४३.४० ॥ आपोमयमिदं सर्वमापोमूर्तिः शरीरिणाम् । तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत् ॥ १,४३.४१ ॥ आत्मानं तं विजानीहि सर्वलोकहितात्मकम् । तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे ॥ १,४३.४२ ॥ क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् । तमोरजश्च सत्त्वं च विद्धि जीवगुणानिमाम् ॥ १,४३.४३ ॥ अचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम् । अतः परं क्षेत्रविदो वदन्ति प्रावर्तयद्यो भुवनानि सप्त ॥ १,४३.४४ ॥ न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्मुन इत्यबुद्धाः । जीवस्तु देहान्तरितः प्रयाति दशार्द्धतस्तस्य शरीरभेदः ॥ १,४३.४५ ॥ एवं भूतेषु सर्वेषु गूढश्चरति सर्वदा । दृश्यते त्वग्र्या बुध्यासूक्ष्मया तत्त्वदर्शिभिः ॥ १,४३.४६ ॥ तं पूर्वापररात्रेषु युञ्जानः सततं बुधः । लब्धाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ १,४३.४७ ॥ चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते ॥ १,४३.४८ ॥ मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते । सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये ॥ १,४३.४९ ॥ असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतिः । आत्मतेजोऽभिनिर्वृत्तान्भास्कराग्निसमप्रभान् ॥ १,४३.५० ॥ ततः सत्यं च धर्मं च तथा ब्रह्म च शाश्वतम् । आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः ॥ १,४३.५१ ॥ देवदान वगन्धर्वा दैत्यासुरमहोरगाः । यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा ॥ १,४३.५२ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राणामसितस्तथा । भरद्वाज उवाच चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभिद्यते ॥ १,४३.५३ ॥ स्वेदमूत्रपुरीषाणि श्लेष्मा पित्त सशोणितम् । त्वन्तः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते ॥ १,४३.५४ ॥ जङ्गमानामसंख्येयाः स्थावराणां च जातयः । तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ॥ १,४३.५५ ॥ भृगुरुवाच न विशेषोऽस्ति वर्णानां सर्वं ब्रह्ममयं जगत् । ब्रह्मणा पूर्वसृष्टं हि कर्मणा वर्णतां गतम् ॥ १,४३.५६ ॥ कामभोगाः प्रियास्तीक्ष्णाः क्रोधताप्रियसाहसाः । त्यक्तस्वकर्मरक्ताङ्गास्ते द्विजाः क्षत्रतां गताः ॥ १,४३.५७ ॥ गोभ्यो वृत्तिं समास्थाय पीताः कृष्युपजीविनः । स्वधर्ंमन्नानुतिष्टन्ति ते द्विजा वैश्यतां गताः ॥ १,४३.५८ ॥ र्हिसानृतपरा लुब्धाः सर्वकर्मोपजीविनः । कृष्णाः शौचपारिभ्राष्टास्ते द्विजाः शूद्रतां गताः ॥ १,४३.५९ ॥ इत्येतैः कर्मभिर्व्याप्ता द्विजा वर्णान्तरं गताः । ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति ॥ १,४३.६० ॥ ब्रह्म धारयतां नित्यं व्रतानि नियभांस्तथा । ब्रह्म चैव पुरा सृष्टं येन जानन्ति तद्विदः ॥ १,४३.६१ ॥ तेषां बहुविधास्त्वन्यास्तत्र तत्र द्विजातयः । पिशाचजा राक्षसाः प्रेता विविधा म्लेच्छजातयः । सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा ॥ १,४३.६२ ॥ भरद्वाज उवाच ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम । वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर ॥ १,४३.६३ ॥ भृगुरुवाच जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः । वेदाध्ययनसंपन्नो ब्रह्मकर्मस्ववस्थितः ॥ १,४३.६४ ॥ शौचाचारस्थितः सम्यग्विद्याभ्यासी गुरुप्रियः । नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते ॥ १,४३.६५ ॥ सत्यं दानमथोऽद्रोह आनृशंस्यं कृपा घृणा । तपस्यां दृश्यते यत्र स ब्राह्मण इति स्मृतः ॥ १,४३.६६ ॥ क्षत्रजं सेवते कर्म वेदाध्ययनसंगतः । दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते ॥ १,४३.६७ ॥ विशत्याशु पशुभ्यश्च कृष्यादानरतिः शुचिः । वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः ॥ १,४३.६८ ॥ सर्वघभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः । त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः ॥ १,४३.६९ ॥ शूद्रे चैतद्भवेल्लक्ष्म द्विजे तच्च न विद्यते । न वै शूद्रो भवेच्छूद्रो ब्राह्मणो ब्राह्मणो न च ॥ १,४३.७० ॥ सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः । एतत्पवित्रं ज्ञानानां तथा चैवात्मसंयमः ॥ १,४३.७१ ॥ वर्ज्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुद्यतौ । नित्यक्रोधाच्छ्रियं रक्षेत्तपो रक्षेत्तु मत्सरात् ॥ १,४३.७२ ॥ विद्यां मानापमानाभघ्यामात्मानं तु प्रमादतः ॥ १,४३.७३ ॥ यस्य सर्वे समारंभघा निराशीर्बन्धना द्विज । त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् ॥ १,४३.७४ ॥ अहिंस्त्रः सर्वभूतानां मैत्रायण गतश्चरेत् । परिग्रहात्परित्यज्य भवेद्बद्ध्या जितेन्द्रियः ॥ १,४३.७५ ॥ अशोकस्थानमाति वेदिह चामुत्र चाभयम् । तपोनित्येन दान्तेन मुनिना संयतात्ममना ॥ १,४३.७६ ॥ अजितं जेतुकामेन व्यासंगेषु ह्यसंगिना । इन्द्रियैर्गृह्यते यद्यत्तत्तव्द्यक्तमिति स्थितिः ॥ १,४३.७७ ॥ अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् । अविश्रंभेण मन्तव्यं विश्रंभे धारयेन्मनः ॥ १,४३.७८ ॥ मनः प्राणेन गृह्णीयात्प्राणं ब्रह्मणि धारयेत् । निवेदादेव निर्वाणं न च किञ्चिद्विच्चितयेत् ॥ १,४३.७९ ॥ सुखं वै ब्रह्मणो ब्रह्मन्निर्वेदेनाधिगच्छति । शौचे तु सततं युक्तः सदाचारसमन्वितः ॥ १,४३.८० ॥ स्वनुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम् । सत्यंव्रतं तपः शौचं सत्यं विसृजते प्रजा ॥ १,४३.८१ ॥ सत्येन धार्यते लोकः स्वः सत्येनैव गच्छति । अनृतं तमसो रूपं तमसा नीयते ह्यधः ॥ १,४३.८२ ॥ तमोग्रस्तान पश्यन्ति प्रकाशन्तमसावृताः । सुदुष्प्रकाश इत्याहुर्नरकं तम एव च ॥ १,४३.८३ ॥ सत्यानृतं तदुभघयं प्राप्यते जगतीचरैः । तत्राप्येवंविधा लोके वृत्तिः सत्यानृते भवेत् ॥ १,४३.८४ ॥ धर्माधर्मौं प्रकाशश्च तमो दुःखसुखं तथा । शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः ॥ १,४३.८५ ॥ लोकसृष्टं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः । तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः ॥ १,४३.८६ ॥ सुखं ह्यनित्यं भूतानामिह लोके परत्र च । राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते ॥ १,४३.८७ ॥ तथा तमोभिभूतानां भूतानां नश्यते सुखम् ॥ १,४३.८८ ॥ तत्खलु द्विविधं सुखमुच्यचते शरीरं मानसं च । इह खल्वमुष्मिंश्च लोके वस्तुप्रवृत्तयः सुखार्थमभिधीयन्ते नहीतः परत्रापर्वगफलाद्विशिष्टतरमस्ति । स एव काम्यो गुणविशेषो धर्मार्थगुणारंभगस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजनार्थमारंभाः । भरद्वाज उवाच वदैतद्भवताभिहितं सुखानां परमा स्थितिरिति ॥ १,४३.८९ ॥ न तदुपगृह्णीमो न ह्येषामृषीणां महति स्थितानाम् ॥ १,४३.९० ॥ अप्राप्य एष काम्य गुणविशेषो न चैनमभिशीलयन्ति । तपसि श्रूयते त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्टति ब्रह्मचारी न कामसुखोष्वात्मानमवदधाति ॥ १,४३.९१ ॥ अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन सममनयत् ॥ १,४३.९२ ॥ तस्माद्भूमौ न तु महात्मभिरञ्जयति गृहीतो न त्वेष तावद्विशिष्टो गुणविशेष इति ॥ १,४३.९३ ॥ नैतद्भगवतः प्रत्येमि भवता तूक्तं सुखानां परमाः स्त्रिय इति लोकप्रवादो हि द्विविधः फलोदयः सुकृतात्सुखमवाप्यतेऽन्यथा दुःखमिति ॥ १,४३.९४ ॥ भृगुरुवाच अत्रोच्यते अनृतात्खलु तमः प्रादुर्भूतं ततस्तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मं क्रोधलोभमोहहिंसानृतादिभिखच्छन्नाः खल्वस्मिंल्लोके नामुत्र सुखमाप्नुवन्ति विविधव्याधिरुजोपतापैरवकीर्यन्ते वधबन्धनपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते वर्षवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः शौकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति यस्त्वेतैः ॥ १,४३.९५ ॥ शारीरं मानसं नास्ति न जरा न च पातकम् । नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम् ॥ १,४३.९६ ॥ नरके दुःखमेवाहुः सुखं तत्परमं पदम् । पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः ॥ १,४३.९७ ॥ पुमान्प्रजापतिस्तत्रशुक्रं तेजोमयं विदुः । इत्येतल्लोकनिर्माता धर्मस्य चरितस्य च ॥ १,४३.९८ ॥ तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च । हुतेन शाम्यते पापं स्वाध्याये शान्तिरुत्तमा ॥ १,४३.९९ ॥ दानेन भोगानित्याहुस्त पसा स्वर्गमाप्नुयात् । दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च ॥ १,४३.१०० ॥ सद्भ्यो यद्दीयते किञ्चित्तत्परत्रोपतिष्टते । असद्भ्यो दीयते यत्तु तद्दानमिह भुज्यते । यादृशं दीयते दानं तादृशं फलमश्नुते ॥ १,४३.१०१ ॥ भरद्वाज उवाच किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम् । धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति ॥ १,४३.१०२ ॥ भृगुरुवाच स्वधर्माचरणे युक्ता ये भवन्ति मनीषिणः । तेषां स्वर्गपलावाप्तिर्योऽन्यथा स विमुह्यते ॥ १,४३.१०३ ॥ भरद्वाज उवाच यदेतञ्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा । तेषां स्वे स्वे समाचारास्तन्मे वक्तुमिहार्हसि ॥ १,४३.१०४ ॥ भृगुरुवाच पूर्वमेव भगवता ब्रह्मणा लोकहितमनुतिष्टता धर्मसंरक्षणार्थमाश्रमाश्चत्वारोऽभिनिर्द्दिष्टाः ॥ १,४३.१०५ ॥ तत्र गुरुकुलवासमेव प्रथममाश्रममाहरन्ति सम्यगत्र शौचसस्कारनियमव्रतविनियतात्मा उभे संध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तद्ध्यालस्यं गुरोरभिवादनवेदाब्यासश्रवणपवित्रघीकृतान्तरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषा नित्यभिक्षाभैक्ष्यादिसर्वनिवेदितान्तरात्मा गुरुवचननिदेशानुष्टानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात् ॥ १,४३.१०६ ॥ भवति चात्र श्लोकः गुरुं यस्तु समाराध्य द्विजो वेदमावान्पुयात् । तस्य स्वर्गफलावाप्तिः सिद्ध्यते चास्य मानसम् । इति गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति ॥ १,४३.१०७ ॥ तस्य सदा चारलक्षणं सर्वमनुव्याख्यास्यामः । समावृतानां सदाचाराणां सहधर्मचर्यफलार्थिनां गृहाश्रमो विधीयते ॥ १,४३.१०८ ॥ धर्मार्थकामावाप्तिर्ह्य.त्र त्रिवर्गसाधनमपेक्ष्यागर्हितकर्मणा धनान्यादाय स्वाध्यायोपलब्धप्रकर्षेण वा ब्रह्मर्षिनिर्मितेन वा अद्भिः सागरगतेन वा द्रव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं वर्तयेत् ॥ १,४३.१०९ ॥ तद्धि सर्वाश्रमणां मूलमुदाहरन्ति गुरुकुलनिवासिनः परिव्राजका येऽन्ये संकल्पितव्रतनियमधर्मानुष्टानिनस्तेषामप्यन्तरा च भिक्षाबलिसंविभागाः प्रवर्तन्ते ॥ १,४३.११० ॥ वानप्रस्थानां च द्रव्योपस्कार इति प्रायशः खल्वेते साधवः साधुपथ्योदनाः स्वाध्यायप्रसंगिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटन्ति ॥ १,४३.१११ ॥ तेषां प्रत्युत्थानाभिगमनमनसूयावाक्यदानसुखसत्कारासनसुखशयनाभ्यवहारसत्क्रिया चेति ॥ १,४३.११२ ॥ भवति चात्र श्लोकः अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ १,४३.११३ ॥ अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते निवापेन पितरो विद्याभ्यासश्रवणधारणेन ऋषयः अपत्योत्पादनेन प्रजापतिरिति ॥ १,४३.११४ ॥ लोकौ चात्र भवतः वात्सल्याः सर्वभूतेभ्यो वायोः श्रोत्रस्तथा गिरा । परितापोदपघातश्च पारुष्यं चात्र गर्हितम् ॥ १,४३.११५ ॥ अवज्ञानमहॄङ्कारो दंभश्चैव विगर्हितः । अहिंसा सत्यमक्रोदं सर्वाश्रमगतं तपः ॥ १,४३.११६ ॥ अपि चात्र माल्याभरणवस्त्राभ्यङ्गनित्योपभोगनृत्यगीतवादित्रश्रुतिसुखनयनस्नेहरामादर्शनानां प्राप्तिर्भक्ष्यभोज्यलेह्यपेयचोष्याणामभ्यवहार्य्याणां विविधानामुपभोगः ॥ १,४३.११७ ॥ स्वविहारसंतोषः कामसुखावाप्तिरिति । त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे । स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात् ॥ १,४३.११८ ॥ उञ्छवृत्तिर्वृहस्थो यः स्वधम चरणे रतः । त्यक्तकामसुखारंभः स्वर्गस्तस्य न दुर्लभः ॥ १,४३.११९ ॥ वानप्रस्थाः खल्वपि धर्ममनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्त्रवणानि स्वभक्तेष्वरण्येषु मृगवराहमहिष शार्दूलवनगजाकीर्णेषु तपस्यन्ते अनुसंचरन्ति ॥ १,४३.१२० ॥ त्यक्तग्राम्यवस्त्राभ्यवहारोपभोगा वन्यौषधिफलमूलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनोभूपाषाणसिकताशर्करावालुकाभस्मशायिनः काशुकुशचर्मवल्कलसंवृताङ्गाः केशश्यश्रुनखरोमधारिणो नियतकालोपस्पर्शनाःशुष्कबलिहोमकालानुष्टायिनः । समित्कुशकुसुमापहारसंमार्जनलब्धविश्रामाः शीतोष्णपवनविष्टं भविभिन्नसर्वत्वचो विविधनियमयोगचर्यानुष्टानविहितपरिशुष्कमांसशोणितत्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहॄन्ते ॥ १,४३.१२१ ॥ यस्त्वेतां नियतचर्यां ब्रह्मर्षिविहितां चरेत् । स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जायान् ॥ १,४३.१२२ ॥ परिव्राजकानां पुनराचारः तद्यथा । विमुच्याग्निं धनकलत्रपरिबर्हसंगेष्वात्मानं स्नेहपाशानवधूय परिव्रजन्ति । समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वसक्तबुद्धयः ॥ १,४३.१२३ ॥ अरिमित्रोदासीनां तुल्यदर्शनाः स्थावरजरायुजाण्डजस्वेदजानां भूतानां वाङ्मनृःकर्मभिरनभिरनभिद्रोहिणोऽनिकेताः पर्वतपुलिनवृक्षमूलदेवायतनान्यनुसंचरन्तो वा सार्थमुपेयुर्नगरं ग्रामं वा न क्रोधदर्पलोभमोहकार्पण्यदंभपरिवादाभिमाननिर्वृत्तहिंसा इति ॥ १,४३.१२४ ॥ भवन्ति चात्र श्लोकाः अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः । न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥ १,४३.१२५ ॥ कृत्वाग्निहोत्रं स्वशरीरसंस्थं शरीरमग्निं स्वमुखे जुहोति । विप्रस्तु भैक्षोपगतैर्हविर्भिश्चिता ग्निना संव्रजते हि सोकान् ॥ १,४३.१२६ ॥ मोक्षाश्रमं यश्चरते यथोक्तं शुचिः स्वसंकल्पितयुक्तबुद्धिः । अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः ॥ १,४३.१२७ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभरद्वाजसंवादे ब्राह्मणाचारनिरूपणं नाम त्रिचत्वारिंशोऽध्यायः _____________________________________________________________ भरद्वाज उवाच अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते । तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति ॥ १,४४.१ ॥ मृगुरुवाच उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते । पुण्यः क्षेम्यश्च काम्यश्च स परो लोक उच्यते ॥ १,४४.२ ॥ तत्र ह्यपापकर्माणः शुचयोऽत्यन्तनिर्मलाः । लोभमोहपरित्यक्ता मानवा निरुपद्रवाः ॥ १,४४.३ ॥ स स्वर्गसदृशो देशः तत्र ह्युक्ताः शुभा गुणाः । काले मृत्युः प्रबवति स्पृशन्ति व्याधयो न च ॥ १,४४.४ ॥ न लोबः परदारेषु स्वदारनिरतो जनः । नान्यो हि वध्यते तत्र द्रव्येषु च न विस्मयः ॥ १,४४.५ ॥ परो ह्यधर्मो नैवास्ति संदेहो नापि जायते । कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते ॥ १,४४.६ ॥ यानासनाशनोपेता प्रसादभवनाश्रयाः । सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः ॥ १,४४.७ ॥ प्राणधारणमात्रं तु केषाञ्चिदुपपद्यते । श्रमेण महता केचित्कुर्वन्ति प्राणधारणम् ॥ १,४४.८ ॥ इह धर्मपराः केचित्केचिन्नैष्कृतिका नराः । सुखिता दुःखिताः केचिन्निर्धना धनिनो परे ॥ १,४४.९ ॥ इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते । लोभश्चार्थकृतो तॄणां येन मुह्यन्त्यपण्डिताः ॥ १,४४.१० ॥ यस्तद्वेदो भयं प्राज्ञः पाप्मना न स लिप्यते । सोपधे निकृतिः स्तेयं परिवादोऽभ्यसूयता ॥ १,४४.११ ॥ परोपघातो हिंसा च पैशुन्मनृतं तथा । एतान्संसेवते यस्तु तपस्तस्य प्रहीयते ॥ १,४४.१२ ॥ यस्त्वेतानाचरेद्विद्वान्न तपस्तस्य वर्द्धते । इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः ॥ १,४४.१३ ॥ कर्मभूमिरियं लोके इह कृत्वा शुभाशुभम् । शुभैः शुभमवाप्नोति तथाशुभमथान्यथा ॥ १,४४.१४ ॥ इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा । इष्टेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः ॥ १,४४.१५ ॥ उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः । इहस्थास्तत्र जायन्ते ये वै पुण्यकृतो जनाः ॥ १,४४.१६ ॥ यदि सत्कारमिच्छन्ति तिर्यग्योनिषु चापरे । क्षीणायुषस्तथा चान्ये नश्यन्ति पृथिवीतले ॥ १,४४.१७ ॥ अन्योन्यभक्षणासक्ता लोभमोहसमन्विताः । इहैव परिवर्त्तन्ते न च यान्त्युत्तरां दिशम् ॥ १,४४.१८ ॥ गुरूनुपासते ये तु नियता ब्रह्मचारिणः । पन्थानं सर्वालोकानां विजानन्ति मनीषिणः ॥ १,४४.१९ ॥ इत्युक्तोऽयं मया धर्मः संक्षिप्तो ब्रह्मनिर्मितः । धर्माधर्मौं हि लोकस्य यो वै वेत्ति स बुद्धिमान् ॥ १,४४.२० ॥ भरद्वाज उवाच ।. अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते । यदध्यात्मं यथा चैतत्तन्मे ब्रूहि तपोधन ॥ १,४४.२१ ॥ भृगुरुवाच अध्यात्ममिति विप्रर्षे यदेतदनुपृच्छसि । तद्व्याख्यांस्यामि ते तात श्रेयस्करतमं सुखम् ॥ १,४४.२२ ॥ सृष्टिप्रलयसंयुक्तमाचार्यैः परिदर्शितम् । यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति ॥ १,४४.२३ ॥ फललाभश्च तस्य स्यात्सर्वभूतहितं च तत् । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ १,४४.२४ ॥ महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ । यतः सृष्टानि तत्रैव तानि यान्ति लयं पुनः ॥ १,४४.२५ ॥ महाभूतानि भूतेभ्यः सागरस्योर्मयो यथा । प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः ॥ १,४४.२६ ॥ तद्वद्भूतानि भूतात्मा सृष्टानि हरते पुनः । महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् ॥ १,४४.२७ ॥ अकरोत्तेषु वै सम्यक्तं तु जीवो न पश्यति । शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम् ॥ १,४४.२८ ॥ वायोः स्पर्सस्तथा चेष्टा त्वक्चैव त्रितयं स्मृतम् । रूपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते ॥ १,४४.२९ ॥ रसाः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः । घ्रेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः ॥ १,४४.३० ॥ महाभूतानि पचैव षष्टं च मन उच्यते । इन्द्रियाणि मनश्चैव विज्ञातान्यस्य भारत ॥ १,४४.३१ ॥ सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः । श्रोत्रं वै श्रवणार्थाय स्पर्शनाय च त्वक्स्मृता ॥ १,४४.३२ ॥ रसादानाय रसना गन्धादानाय नासिका । चक्षुरालोकनायैव संशयं कुरुते मनः ॥ १,४४.३३ ॥ बुद्धिरध्यवसानाय क्षेत्रज्ञः साक्षिवत्स्थितः । उर्द्धं पादतलाभ्यां यदवाक्चोदक्च पश्यति ॥ १,४४.३४ ॥ एतेन सर्वमेवेदं विभुना च्याप्तमन्तरम् । पुरुषैरिन्द्रियाणीह वेदितव्यानि कृत्स्त्रशः ॥ १,४४.३५ ॥ तमो रजश्च सत्त्वं च तेऽपि भावास्तदाश्रिताः । एतां बुद्धिं नरो बुद्धा भूतानागतिं गतिम् ॥ १,४४.३६ ॥ समवेक्ष्य शनैश्चैवं लभते शममुत्तमम् । गुणैर्विनश्यते बुद्दिर्बुद्धेरेवेन्द्रियाण्यपि ॥ १,४४.३७ ॥ मनःषष्टानि भूतानि बुद्ध्यबावे कुतो गुणाः । इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम् ॥ १,४४.३८ ॥ प्रलीयते चोद्भवति तस्मान्निर्द्दिश्यते तथा । येन पश्यति तञ्चक्षुः शृणोति श्रोत्रमुच्यते ॥ १,४४.३९ ॥ जिघ्रति घ्राणमित्याहुः रसं जानाति जिह्वया । त्वचा स्पर्शयति स्पर्शं बुद्धिर्विक्रियते सकृत् ॥ १,४४.४० ॥ येन प्रार्थयते किञ्चित्तदा भवति तन्मनः । अधिष्टानात्तु बुद्धेर्हि पृथगर्थानि पञ्चधा ॥ १,४४.४१ ॥ इन्द्रियाणीति तान्याहुस्तान्यदृश्योऽधितिष्टति । पुरुषे तिष्टती बुद्धिस्त्रिषु भावेषु वर्तते ॥ १,४४.४२ ॥ कदाचिल्लभते प्रीतिं कदाचिदुपशोचति । न सुखेन न दुःखेन कदाचिदपि वर्तते ॥ १,४४.४३ ॥ एवं नराणां मनसि त्रिषु भावेषु वर्तते । सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते ॥ १,४४.४४ ॥ सरितां सागरो भर्ता वेलानामिव वारिधिः । अतिभावगता बुद्धिर्भावैर्मनसि वर्तते ॥ १,४४.४५ ॥ वर्तमानो मुनिस्त्वेवं स्वबावमनुवर्तते । इन्द्रियाणि हि सर्वाणि प्रवर्तयति सा सदा ॥ १,४४.४६ ॥ प्रीतिः सत्त्वं रजः शोकस्तमः क्रोधस्तु ते त्रयः । ये ये च भावा लोकेऽस्मिन्सर्वे प्येतेषु वै त्रिषु ॥ १,४४.४७ ॥ इति बुद्धिगताः सर्वा व्याख्यातास्तव भावनाः । इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता ॥ १,४४.४८ ॥ सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा । त्रिविश्वावेदनाश्चैव सर्वसत्त्वेषु दृश्यते ॥ १,४४.४९ ॥ सात्त्विकी राजसी चैव तामसी चेति मानद । सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः ॥ १,४४.५० ॥ तमोगुणेन संयुक्तौ भवतो व्यावहारिकौ । तव यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ॥ १,४४.५१ ॥ वर्तते सात्त्विको भाव इत्याचक्षीत तत्तथा । अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः ॥ १,४४.५२ ॥ प्रवृत्तं रज इत्येव जानीहि मुनिसत्तम । अथयन्मोहसंयुक्तमव्यक्त विषमं भवेत् ॥ १,४४.५३ ॥ अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् । प्रहर्षः प्रीतिरानन्दः सुखं वा शान्तचित्तता ॥ १,४४.५४ ॥ कथञ्चिदभिवर्तन्त इत्येते सात्त्विका गुणाः । अतुष्टिः परितापश्च शोको लोभस्तथा क्षमा ॥ १,४४.५५ ॥ लिङ्गानि रजसस्तानि दृश्यन्ते देहहेतुभिः । अपमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिते ॥ १,४४.५६ ॥ कथञ्चिदभिवर्तन्ते विविधास्तामसा गुणाः । दूषणं बहुधागामि प्रार्थनासंशयात्मकम् ॥ १,४४.५७ ॥ मनः स्वनियतं यस्य स सुखी प्रेत्यचेह च । सत्त्वक्षेत्रज्ञयोरेतदन्तरं यस्य सूक्ष्मयोः ॥ १,४४.५८ ॥ सृजतेहि गुणानेक एको न सृजते गुणान् । मशकोदुंबरौ वापि संप्रयुक्तौ यथा सदा ॥ १,४४.५९ ॥ अन्योन्यमेतौ स्यातां च सप्रंयोगस्तथोभयोः । पृथग्भूतौ प्रकृत्या तौ सप्रंयुक्तौ च सर्वदा ॥ १,४४.६० ॥ यथा मत्स्यो जलं चैव संप्रयुक्तो तथैव तौ । न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः ॥ १,४४.६१ ॥ परिद्रष्टा गुणानां तु संस्त्रष्टा मन्यते तथा । इन्द्रियस्तु प्रदीपार्थं कुरुते बुद्धिसत्तमैः ॥ १,४४.६२ ॥ निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवान् । सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति ॥ १,४४.६३ ॥ संप्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवम् । आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन ॥ १,४४.६४ ॥ सत्त्वं मनः संसृजते न गुणान्वै कदाचन । रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति ॥ १,४४.६५ ॥ तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव । त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः ॥ १,४४.६६ ॥ सर्वभूतात्मभूस्तस्मात्स गच्छेदुत्तमां गतिम् । यथा वारिचरः पक्षी सलिलेन न लिप्यते ॥ १,४४.६७ ॥ एवमेव कृतप्रज्ञो भूतेषु परिवर्तते । एवं स्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः ॥ १,४४.६८ ॥ अशोचन्नप्रहृष्यंश्च समो विगतमत्सरः । भावयुक्त्या प्रयुक्तस्तु स नित्यं सृजते गुणान् ॥ १,४४.६९ ॥ ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद्गुणाः । प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते ॥ १,४४.७० ॥ प्रत्यक्षेण परोक्षं तदनुमानेन सिद्ध्यति । एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ॥ १,४४.७१ ॥ उभयं संप्रधार्यैतद्व्यवस्येत यथामति । इतीमं हृदयग्रथिं बुद्धिचिन्तामयं दृढम् ॥ १,४४.७२ ॥ विमुच्य सुखमासीत न शोचेच्छिन्नसंशवः । मलिनाः प्राण्नुयुः शुद्धिं यथा पूर्णां नदीं नराः ॥ १,४४.७३ ॥ अवगाह्य सुविद्वांसो विद्धि ज्ञानभिदे तथा । महानद्या हि पारज्ञस्तप्यते न तरन्यथा ॥ १,४४.७४ ॥ न तु तप्यति तत्त्वज्ञः कुलज्ञस्तु तरत्युत । एवं ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमम् ॥ १,४४.७५ ॥ एवं बुद्धा नरः सर्वो भूतानामगतिं गतिम् । अवेक्ष्य च शनैर्बुद्ध्या लभते च शमं ततः ॥ १,४४.७६ ॥ त्रिवर्गो यस्य विदितः प्रेक्ष्य यश्च विमुञ्चति । अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ १,४४.७७ ॥ न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः । तत्र तत्र विसृष्टेषु दुर्वापेष्वकृतात्माभिः ॥ १,४४.७८ ॥ एतद्बुद्धा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् । विज्ञाय तद्धि मन्यन्ते कतकृत्या मनीषिणः ॥ १,४४.७९ ॥ न भवति विदुषां ततो भयं यदविदुषां सुमहद्भयं भवेत् । नहि गतिरधिकास्ति कस्यचित्सति हि गुणेप्रवदत्यतुल्यताम् ॥ १,४४.८० ॥ यः करोत्यनभिसंधिपूर्वकं तच्च निर्दहति यत्पुराकृतम् । नाप्रियं तदुभयं कुतः प्रियं तस्य तज्जनयतीह कुर्वतः ॥ १,४४.८१ ॥ लोकमायुरभिसूयते जनस्तस्य तज्जनयतीह कुर्वन्तः । तत्र पश्य कुशलान्न शोचते जायते यदि भयं पदं सदा ॥ १,४४.८२ ॥ भरद्वाज उवाच ध्यानयोगं समाचक्ष्वमह्यं तत्पदसिद्धये । यज्ज्ञात्वा मुच्यते ब्रह्मन्नरस्त्रिविधतापतः ॥ १,४४.८३ ॥ भृगुरुवाच हॄन्त ते संप्रवक्ष्यामि ज्ञानयोगं चतुर्विधम् । यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्तीह महर्षयः ॥ १,४४.८४ ॥ यथा स्वनुष्टितं ध्यानं तथा कुर्वन्ति योगिनः । महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः ॥ १,४४.८५ ॥ नावर्तन्ते पुनश्चापि मुक्ताः संसारदोषतः । जन्मदोषपारीक्षीणाः स्वभावे पर्यवस्थिताः ॥ १,४४.८६ ॥ निर्द्वन्द्वा नित्यसत्त्वस्था विमुक्ता निष्परिग्रहाः । असंगान्य विधादीनि मनः शान्तिकराणि च ॥ १,४४.८७ ॥ तत्र ध्यानेन संक्लिष्टमेकाग्रं धारयेन्मनः । पिण्डीकृत्येन्द्रियग्राममासीनः काष्टवन्मुनिः ॥ १,४४.८८ ॥ शब्दं न विन्देच्छ्रोत्रेण त्वचा स्पर्शं न वेदयेत् । रूपं न चक्षुषा विन्द्याज्जिह्वया न रसांस्तथा ॥ १,४४.८९ ॥ घ्रोयाण्यपि च सर्वाणि जह्याद्ध्यानेन तत्त्ववित् । पञ्चवर्गप्रमाथीनि नेच्छेञ्चैतानि वीर्यवान् ॥ १,४४.९० ॥ ततो मनसि संगृह्य पञ्चवर्गं विचक्षणः । समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चभिः ॥ १,४४.९१ ॥ विसञ्चारि निरालम्बं पञ्चद्वारं बलाबलम् । पूर्वध्यानपथे धीरः समादध्यान्मनस्त्वरा ॥ १,४४.९२ ॥ इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम् । एष ध्यानपथः पूर्वो भया समनुवर्णितः ॥ १,४४.९३ ॥ तस्य तत्पूर्वसंरुद्ध आत्मषष्ठमनन्तरम् । स्फुरिष्यति समुद्रान्ता विद्युदम्बुधरे यथा ॥ १,४४.९४ ॥ जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः । एवमेवास्य चित्तं च भवति ध्यानवर्त्मनि ॥ १,४४.९५ ॥ समाहितं क्षणं किञ्जिद्ध्यानवर्त्मनि तिष्टति । पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत् ॥ १,४४.९६ ॥ अनिर्वेदो गतक्लेशो गततन्द्रो ह्यमत्सरी । समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित् ॥ १,४४.९७ ॥ विचारश्च वितर्कश्च विवेकश्चोपजायते । मुनेः समाधियुक्तस्य प्रथमं ध्यानमादितः ॥ १,४४.९८ ॥ मनसा क्लिश्यमानस्तु समाधानं च कारयेत् । न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम् ॥ १,४४.९९ ॥ पांशुभस्मकरीषाणां यथा वै राशयश्चिताः । सहसा वारिणा सिक्ता न यान्ति परिभावनाः ॥ १,४४.१०० ॥ किञ्चित्स्निग्धं यथा च स्याच्छुष्कं चूर्णमभावितम् । क्रमेण तु शनैर्गच्छत्सर्वं तत्परिभावनम् ॥ १,४४.१०१ ॥ एवमेवेन्द्रियग्रामं शनैः शं परिभावयेत् । संहरेत्क्रमशश्चैव सम्यक्तत्प्रशमिष्यति ॥ १,४४.१०२ ॥ स्वयमेव मनश्चैवं पञ्चवर्गं मुनीश्वर । पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति ॥ १,४४.१०३ ॥ न तत्पुरुषकारेण न च दैवेन केनचित् । सुखमेष्यति तत्तस्य यदेवं संयतात्मनः ॥ १,४४.१०४ ॥ सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि । गच्छन्ति योगिनो ह्योवं निर्वाणं तु निरामयम् ॥ १,४४.१०५ ॥ सनन्दन उवाच इत्युक्तो भृगुणा ब्रह्मन्भरद्वाजः प्रतापवान् । भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् ॥ १,४४.१०६ ॥ एष ते प्रसवो विद्वन् जगतः संप्रकीर्तितः । निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि ॥ १,४४.१०७ ॥ इति श्रीबृहन्नारदीयपुराणे द्वितीयपादे चतुश्चत्वारिंशत्तमोऽध्यायः _____________________________________________________________ सूत उवाच सनन्दनवचः श्रुत्वा मोक्षधर्माश्रितं द्विजाः । पुनः पप्रच्छ तत्त्वज्ञो नारदोऽध्यात्मसत्कथाम् ॥ १,४५.१ ॥ नारद उवाच श्रुतं मया महाभाग मोक्षशास्त्रं त्वयोदितम् । न च मे जायते तृप्तिर्भूयोभूयोऽपि शृण्वतः ॥ १,४५.२ ॥ यथा संमुच्यते जन्तुरविद्याबन्धनान्मुने । तथा कथय सर्वज्ञ मोक्षधर्मं सदाश्रितम् ॥ १,४५.३ ॥ सनन्दन उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यथा मोक्षमनुप्राप्तो जनको मिथिलाधिपः ॥ १,४५.४ ॥ जनको जनदेवस्तु मिथिलाया अधीश्वरः । और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने ॥ १,४५.५ ॥ तस्य श्मशान माचार्या वसति सततं गृहे । दर्शयन्तः पृथग्धर्मान्नानापाषञ्जवादिनः ॥ १,४५.६ ॥ स तेषां प्रेत्यभावे च प्रेत्य जातौ विनिश्चये । आदमस्थः स भूयिष्टमात्मतत्त्वेन तुषअयति ॥ १,४५.७ ॥ तत्र पञ्चशिखो नाम कापिलेयो महामुनिः । परिधावन्महीं कृत्स्नां जगाम मिथिलामथ ॥ १,४५.८ ॥ सर्वसंन्यासधर्माणः तत्त्वज्ञानविनिश्चये । सुपर्यवसितार्थश्च निर्द्वन्द्वो नष्टसंशयः ॥ १,४५.९ ॥ ऋषीणामाहुरेकं यं कामादवसितं नृषु । शाश्वतं सुखमत्यन्तमन्विच्छन्स सुदुर्लभम् ॥ १,४५.१० ॥ यमाहुः कपिलं सांख्याः परमर्षि प्रजापतिम् । स मन्ये तेन रूपेण विख्यापयति हि स्वयम् ॥ १,४५.११ ॥ आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् । पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रकम् ॥ १,४५.१२ ॥ पञ्चस्रोतसमागम्य कापिलं मण्डलं महत् । पुरुषावस्थमव्यङ्क्तं परमार्थं न्यवेदयत् ॥ १,४५.१३ ॥ इष्टिमन्त्रेण संयुक्तो भूयश्च तपसासुरिः । क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं विबुधे देहदर्शनः ॥ १,४५.१४ ॥ यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते । आसुरिर्मण्डले तस्मिन्प्रतिपेदे तमव्ययम् ॥ १,४५.१५ ॥ तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः । ब्राह्मणी कपिली नाम काचिदासीत्कुटुम्बिनी ॥ १,४५.१६ ॥ तस्यः पुत्रत्वमागत्य स्रियाः स पिबगति स्तनौ । ततश्च कापिलेयत्वं लेभे बुद्धिं च नैष्टिकीम् ॥ १,४५.१७ ॥ एतन्मे भगवानाह कापिलेयस्य संभवम् । तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् ॥ १,४५.१८ ॥ सामात्यो जनको ज्ञात्वा धर्मज्ञो ज्ञानिनं मुने । उपेत्य शतमाचार्यान्मोहयामास हेतुभिः ॥ १,४५.१९ ॥ जनकस्त्वभिसंरक्तः कापि लेयानुदर्शनम् । उत्सृज्य शतमाचार्याम्पृष्टतोऽनुजगाम तम् ॥ १,४५.२० ॥ तस्मै परमकल्याणं प्रणताय च धर्मतः । अब्रवीत्परमं मोक्षं यत्तत्सांख्यं विधीयते ॥ १,४५.२१ ॥ जातिनिर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत् । कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत् ॥ १,४५.२२ ॥ यदर्थं धर्मसंसर्गः कर्मणां च फलो दयः । तमनाश्वासिकं मोहं विनाशि चलमध्रुवम् ॥ १,४५.२३ ॥ दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके । आगमात्परमस्तीति ब्रुवन्नपि पराजितः ॥ १,४५.२४ ॥ अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः । आत्मानं मन्यते मोहात्तदसम्यक्परं मतम् ॥ १,४५.२५ ॥ अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते । अजरोऽयममृत्युश्च राजासौ मन्यते यथा ॥ १,४५.२६ ॥ अस्ति नास्तीति चाप्येतत्तस्मिन्नसितलक्षणे । किमधिष्टाय तद्ब्रूयाल्लोकयात्राविनिश्चयम् ॥ १,४५.२७ ॥ प्रत्यक्षं ह्येतयोर्मूलं कृतान्त ह्येतयोरपि । प्रत्यक्षो ह्यागमो भिन्नः कृतान्तो वा न किञ्चन ॥ १,४५.२८ ॥ यत्र तत्रानुमानेऽस्मिन्कृतं भावयतेऽपि च । अन्योजीवः शरीरस्य नास्तिकानां मते स्थितः ॥ १,४५.२९ ॥ रेतोवटकणीकायां घृतपाकाधिवासनम् । जातिस्मृतिरयस्कान्तः सूर्यकान्तोंऽबुभक्षणम् ॥ १,४५.३० ॥ प्रेतभूतप्रियश्चैव देवता ह्युपयाचनम् । मृतकर्मनिवत्तिं च प्रमाणमिति निश्चयः ॥ १,४५.३१ ॥ नन्वेते हेतवः संति ये केचिन्मूर्तिसस्थिताः । अमूतस्य हि मूर्तेन सामान्यं नोपलभ्यते ॥ १,४५.३२ ॥ अविद्या कर्म तृष्णा च केचिदाहुः पुनर्भवम् । तस्मिन्नष्टे च दग्धे च चित्ते मरणधर्मिणि ॥ १,४५.३३ ॥ अन्योऽस्माज्जायते मोहस्तमाहुः सत्त्वसंक्षयम् । यदा सरूपतश्चान्यो जातितः श्रुततोर्ऽथतः ॥ १,४५.३४ ॥ कथमस्मिन्स इत्येव संबन्धः स्यादसंहितः । एवं सति च का प्रीहिर्ज्ञानविद्यातपोबलैः ॥ १,४५.३५ ॥ यदस्याचरितं कर्म सामान्यात्प्रतिपद्यते । अपि त्वयमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् ॥ १,४५.३६ ॥ सुखितो दुःखितो वापि दृश्यादृश्यविनिर्णयः । यथा हि मुशलैर्हन्युः शरीरं तत्पुनर्भवेत् ॥ १,४५.३७ ॥ वृथा ज्ञानं यदन्यञ्च येनैतन्नोपलभ्यते । ऋमसंवत्सरौ तिष्यः शीतोष्णोऽथ प्रियाप्रिये ॥ १,४५.३८ ॥ यथा तातानि पश्यति तादृशः सत्त्वसंक्षयः । जरयाभिपरीतस्य मृत्युना च विनाशितम् ॥ १,४५.३९ ॥ दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति । इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च ॥ १,४५.४० ॥ आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयाति च । लोकयात्राविधातश्च दानधर्मफलागमे ॥ १,४५.४१ ॥ तदर्थं वेदंशब्दाश्च व्यवहाराश्च लौकिकाः । इति सम्यङ्मनस्येते बहवः संति हेतवः ॥ १,४५.४२ ॥ ऐत दस्तीति नास्तीति न कश्चित्प्रतिदृश्यते । तेषां विमृशतामेव तत्सम्यगभिधावताम् ॥ १,४५.४३ ॥ क्वचिन्निवसते बुद्धिस्तत्र जीर्यति वृक्षवत् । एवन्तुर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः ॥ १,४५.४४ ॥ आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा ॥ १,४५.४५ ॥ अर्थास्तथा हॄन्ति सुखावहांश्च लिहत एते बहवोपशुष्काः । महत्तरं दुःखमभिप्रपन्ना हित्वामिषं मृत्युवशं प्रयान्ति ॥ १,४५.४६ ॥ विनाशिनो ह्यध्रुवजीविनः किं किं बन्धुभिर्मत्रपरिग्रहैश्च । विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च ॥ १,४५.४७ ॥ भूव्योमतोयानलवायवोऽपि सदा शरीरं प्रतिपालयन्ति । इतीदमालक्ष्य रतिः कुतो भवेद्विनाशिनाप्यस्य न शम विद्यते ॥ १,४५.४८ ॥ इदमनुपधिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकम् । नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे ॥ १,४५.४९ ॥ जनक उवाच भगवन्यदि न प्रेत्य संज्ञा भवति कस्यचित् । एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥ १,४५.५० ॥ सर्वमुच्छेदनिष्टस्यात्पश्य चैतद्द्विजोत्तम । अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥ १,४५.५१ ॥ असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु । कस्मै क्रियत कल्पेत निश्चयः कोऽत्र तत्त्वतः ॥ १,४५.५२ ॥ सनन्दन उवाच तमसा हि मतिच्छत्रं विभ्रान्तमिव चातुरम् । पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत् ॥ १,४५.५३ ॥ पञ्चशिख उवाच उच्छेदनिष्टा नेहास्ति भावनिष्टा न विद्यते । अयं ह्यपि समाहारः शरीरेद्रियचेतसाम् ॥ १,४५.५४ ॥ वर्तते पृथगन्योन्यमप्युपाश्रित्य कर्मसु । धातवः पञ्चधा तोयं खे वायुर्ज्योतिषो धरा ॥ १,४५.५५ ॥ तेषु भावेन तिष्टन्ति वियुज्यन्ते स्वभावतः । आकाशं वायुरूष्मा च स्नेहो यश्चापि पार्थिवः ॥ १,४५.५६ ॥ एष पञ्चसमाहारः शरीरमपि नैकधा । ज्ञानमूष्मा च वायुश्च त्रिविधः कायसंग्रहः ॥ १,४५.५७ ॥ इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतनामनः । प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ॥ १,४५.५८ ॥ श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च । इन्द्रियाणीति पञ्चैते चित्तपूर्वङ्गमा गुणाः ॥ १,४५.५९ ॥ तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा । सुखदुःखेति यामाहुरनदुःखासुखेति च ॥ १,४५.६० ॥ शब्दः स्पर्शश्च रूपं च मूर्त्यर्थमेव ते त्रयः । एते ह्यामरणात्पञ्च सद्गुणा ज्ञानसिद्धये ॥ १,४५.६१ ॥ तेषु कर्मणि सिद्धिश्च सर्वतत्त्वार्थनिश्चयः । तमाहुः परमं शुद्धिं बुद्धिरित्यव्ययं महत् ॥ १,४५.६२ ॥ इमं गुणसमाहारमात्मभावेन पश्यतः । असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति ॥ १,४५.६३ ॥ अनात्मेति च यदृष्टं तेनाहं न ममेत्यपि । वर्तते किमधिष्टानात्प्रसक्ता दुःखसंततिः ॥ १,४५.६४ ॥ तत्र सम्यग्जनो नाम त्यागशास्त्रमनुत्तमम् । शृणुयात्तच्च मोक्षाय भाष्यमाणं भविष्यति ॥ १,४५.६५ ॥ त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् । नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो तमः ॥ १,४५.६६ ॥ द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतानि च । सुखत्यागा तपो योगं सर्वत्यागे समापना ॥ १,४५.६७ ॥ तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः । विप्रहाणाय दुःखस्य दुर्गतिर्हि तथा भवेत् ॥ १,४५.६८ ॥ पञ्च ज्ञानेन्द्रियाण्युक्त्वा मनः षष्टानि चेतसि । बसषष्टानि वक्ष्यामि पञ्च कर्मेद्रियाणि तु ॥ १,४५.६९ ॥ हस्तौ कर्मेद्रियं ज्ञेयमथ पादौ गतीन्द्रियम् । प्रजनान दयोमेढ्रो विसर्गो पायुरिन्द्रियम् ॥ १,४५.७० ॥ वाक्च शब्दविशेषार्थमिति पञ्चान्वितं विदुः । एवमेकादशेतानि बुद्ध्या त्ववसृजन्मनः ॥ १,४५.७१ ॥ कर्णो शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे । तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः ॥ १,४५.७२ ॥ एवं पञ्च त्रिका ह्येते गुणस्तदुपलब्धये । येनायं त्रिविधो भावः पर्यायात्समुपस्थितः ॥ १,४५.७३ ॥ सात्त्विको राजसश्चापि तामसश्चापि ते त्रयः । त्रिविधा वेदाना येषु प्रसृता सर्वसाधिनी ॥ १,४५.७४ ॥ प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता । अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः ॥ १,४५.७५ ॥ अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा । लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः ॥ १,४५.७६ ॥ अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता । कथञ्चिदपि वर्तन्ते विविधास्तामसा गुणाः ॥ १,४५.७७ ॥ इमां च यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः । न लिप्यते कर्मपलैरनिष्टैः पत्रं विषस्येव जलेन सिक्तम् ॥ १,४५.७८ ॥ दृढैर्हि पाशैर्विविधैर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च । यदा ह्यसौ दुःखसौख्ये जहाति मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः ॥ १,४५.७९ ॥ श्रुतिप्रमाणगममङ्गलैश्च शेति जरामृत्युभयादतीतः । क्षीणे च पुण्ये विगते च पापे तनोर्निमित्ते च फले विनष्टे ॥ १,४५.८० ॥ अलेपमाकाशमलिङ्गमेवमास्थाय पश्यन्ति महत्यशक्ता । यथोर्णनाभिः परिवर्तमानस्तन्तुक्षये तिष्टति यात्यमानः ॥ १,४५.८१ ॥ तथा विमुक्तः प्रजहाति दुःखं विधअवंसते लोष्टमिवादिमृच्छन् । यथा रुरुः शृङ्गमथो पुराणं हित्वा त्वचं वाप्युरगो यथा च ॥ १,४५.८२ ॥ विहाय गच्छन्ननवेक्षघमाणस्तथा विमुक्तो विजहाति दुःखम् । मत्स्यं यथा वाप्युदके पतन्तमुत्सृज्य पक्षी निपतत्सशक्तः ॥ १,४५.८३ ॥ तथा ह्यसौ दुःखसौख्ये विहाय मुक्तः परार्द्ध्या गतिमेत्यलिङ्गः ॥ १,४५.८४ ॥ इदममृतपदं निशम्य राजा स्वयमिहपञ्चशिखेन भाष्यमाणम् । निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहार वीतशोकः ॥ १,४५.८५ ॥ अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाभिवीक्ष्य । न खलु मम हि दह्यतेऽत्र किञ्चित्स्वयमिदमाह किल स्म भूमिपालः ॥ १,४५.८६ ॥ इमं हि यः पठति विमोक्षनिश्चयं महामुने सततमवेक्षते तथा । उपद्रवाननुभघवते ह्यदुः खितः प्रमुच्यते कपिलमिवैत्य मैथिलः ॥ १,४५.८७ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चचत्वारिंशत्तमोऽध्यायः _____________________________________________________________ सूत उवाच तच्छृत्वा नारदो विप्रा मैथिलाध्यात्ममुत्तमम् । पुनः पप्रच्छ तं प्रीत्या सनन्दनमुदारधीः ॥ १,४६.१ ॥ नारद उवाच आध्यात्मिकादत्रिविधं तापं नानुभवेद्यथा । प्रब्रूहि तन्मुने मह्यं प्रपन्नाय दयानिधे ॥ १,४६.२ ॥ सनन्दन उवाच तदस्य त्रिविधं दुःखमिह जातस्य पण्डित । गर्बे जन्मजराद्येषुस्थानेषु प्रभविष्यतः ॥ १,४६.३ ॥ निरस्तातिशयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरैका चात्यन्तिकी मता ॥ १,४६.४ ॥ तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः । तत्प्राप्तिहेतुज्ञानं च कर्म चोक्तं महामुने ॥ १,४६.५ ॥ आगमोत्थं विवेकाञ्च द्विधा ज्ञानं तथोच्यते । शब्दब्रह्मागममयं परं ब्रह्मविवेकजम् ॥ १,४६.६ ॥ मनुरप्याह वेदार्थं स्मृत्वायं मुनिसत्तममः । तदेतच्छ्रूयतामत्र सुबोधं गदतो मम ॥ १,४६.७ ॥ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १,४६.८ ॥ द्वे विद्ये वेदितव्ये चेत्याह चाथर्वणी श्रुतिः । परमा त्वक्षरप्राप्तिरृग्वेदादिमया परा ॥ १,४६.९ ॥ यत्तदव्यक्तमजरमनीहमजमव्ययम् । अनिर्देश्यमरूपं च पाणिपादादिसंयुतम् ॥ १,४६.१० ॥ विभुं सर्वगतं नित्यं भूतयो निमकारणम् । व्याप्यं व्याप्तं यतः सर्वं तं वै पश्यन्ति सूरयः ॥ १,४६.११ ॥ तद्बूह्य तत्परं धाम तद्ध्येयं मो७ आङ्क्षिभिः । श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ १,४६.१२ ॥ तदेव भगवद्वाच्यं स्वरूपं परमात्मनः । वाचको भगवच्छब्दस्तस्योद्दिष्टोऽक्षयात्मनः ॥ १,४६.१३ ॥ एवं निगदितार्थस्य यत्तत्वं तस्य तत्त्वतः । ज्ञायते येन तज्ज्ञानं परमन्यत्रयीमयम् ॥ १,४६.१४ ॥ अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विजा । पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः ॥ १,४६.१५ ॥ शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्त्तते । भगवन्भगवच्छब्दः सर्वकारणकारणे ॥ १,४६.१६ ॥ ज्ञेयं ज्ञातेति तथा भकारोर्ऽथद्वयात्मकः । तेनागमपिता स्रष्टा गकारोऽयं तथा मुने ॥ १,४६.१६ ॥ ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ १,४६.१७ ॥ वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि । सर्वभूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ १,४६.१८ ॥ एवमेव महाशब्दो भगवानिति सत्तम । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ १,४६.१९ ॥ तत्र पूज्यपदार्थोक्तिः परिभाषासमन्वितः । शब्दोऽयं नोपचारेण चान्यत्र ह्युपचारतः ॥ १,४६.२० ॥ उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ १,४६.२१ ॥ ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ १,४६.२२ ॥ सर्वाणि तत्र भूतानि वसंति परमात्मनि । भूतेषु वसनादेव वासुदेवस्ततः स्मृतः ॥ १,४६.२३ ॥ खाण्डिक्यं जनकं प्राह पृष्टः केशिध्वजः पुरा । नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ॥ १,४६.२४ ॥ भूतेषु वसते सोंऽतर्वसंत्यत्र च तानि यत् । धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ १,४६.२५ ॥ स सर्वभूतप्रकृतिं विकारं गुणादिदोषांश्च मुने व्यतीतः । अतीतसर्वावरणोऽखिलात्मा तेनास्तृतं यद्भुवनान्तरालम् ॥ १,४६.२६ ॥ समस्तकल्याणगुणं गुणात्मको हित्वातिदुःखावृतभूतसर्गः । इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ ॥ १,४६.२७ ॥ तेजोबलैश्वर्यमहावबोधं स्ववीर्यशक्त्यादुगुणैकराशिः । परः पराणां सकला न यत्र क्लेशादयः संति परावरेशे ॥ १,४६.२८ ॥ स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः । सर्वेश्वरः सर्वनिसर्गवेत्ता समस्कशक्तिः परमेश्वराख्यः ॥ १,४६.२९ ॥ स ज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेव रूपम् । संदृश्यते चाप्यवगम्यते च तज्ज्ञानमतोऽन्यदुक्तम् ॥ १,४६.३०।. स्वाध्यायसंयमाबग्यां स दृश्यते पुरुषोत्तमः । तत्प्राप्तिकारणं ब्रह्म तवेतत्प्रतिपद्यते ॥ १,४६.३१ ॥ स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत् । स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥ १,४६.३२ ॥ तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथापरम् । न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते ॥ १,४६.३३ ॥ ॥ नारद उवाच भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद । ज्ञाते यन्नाखिलाधारं पश्येयं परमेश्वरम् ॥ १,४६.३४ ॥ सनन्दन उवाच केशिध्वजो यथा प्राह खाण्डिक्याय महात्मने । जनकाय पुरा योगं तथाहं कथयामि ते ॥ १,४६.३५ ॥ नारद उवाच खाण्डिक्यः कोऽभवद्ब्रह्मन् को वा केशिध्वजोऽभवत् । कथं तयोश्च संवादो योगसंबन्धवानभूत् ॥ १,४६.३६ ॥ सनन्दन उवाच धर्मध्वजो वै जनक तस्य पुशेऽमितध्वजः । कृतध्वजोऽस्य भ्राताभूत्सदाध्यात्मरतिर्नृपः ॥ १,४६.३७ ॥ कृतध्वजस्य पुत्रोऽभूद्धन्यः केशिध्वजो द्विजः । पुत्रोऽमितव्वजस्यापि खाण्डिक्यजनकाभिधः ॥ १,४६.३८ ॥ कर्ममार्गे हि खाण्डिक्यः स्वराज्यादवरोपितः । पुरोधसा मन्त्रिभिश्च समवेतोऽल्पसाधनः ॥ १,४६.३८ ॥ राज्यान्निराकृतः सोऽथ दुर्गारण्यचरोऽभवत् । इयाडज सोऽपि सुबहून यज्ञाञ्ज्ञानव्यपाश्रयः ॥ १,४६.३९ ॥ ब्रह्मविद्यामधिष्टाय तर्तुं मृत्युमपि स्वयम् । एकदा वर्तमानस्य यागे योगविदां वर ॥ १,४६.४० ॥ तस्य धेनुं जघानोग्रः शार्दूलो विजने वने । ततो राजा हतां ज्ञात्वा धेनुं व्याघ्रेण चर्त्विजः ॥ १,४६.४१ ॥ प्रायश्चित्तं स पप्रच्छ किमत्रेति विधीयताम् । ते चोचुर्नवयंविद्मः कशेरुः पृच्छ्यतामिति ॥ १,४६.४२ ॥ कशेरुरपि तेनोक्तस्तथेति प्राह नारद । शुनकं पृच्छ राजेन्द्र वेद स वेत्स्यति ॥ १,४६.४३ ॥ स गत्वा तमपृच्छञ्च सोऽप्याह नृपतिं मुने । न कशेरुर्नचैवाहं न चान्यः सांप्रतं भुवि ॥ १,४६.४४ ॥ वेत्त्येक एव त्वच्छत्रुः खाण्डिक्यो यो जितस्त्वया । स चाह तं व्रजाम्येष प्रष्टुमात्मरिपुं मुने ॥ १,४६.४५ ॥ प्राप्त एव मया यज्ञे यदि मां स हनिष्यति । प्रायश्चित्तं स चेत्पृष्टो वदिष्यति रिपुर्मम ॥ १,४६.४६ ॥ ततश्चाविकलो योगो मुनिश्रेष्ठ भविष्यति । इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः ॥ १,४६.४७ ॥ वनं जगाम यत्रास्ते खाण्डिक्यः स महीपतिः । तमायान्तं समालोक्य खाञ्जडिक्यो रिपुमात्मनः ॥ १,४६.४८ ॥ प्रोवाच क्रोधताम्राक्षः समारोपितकार्मुकः । खाण्डिक्य उवाच कृष्णाजिनत्वक्कवचभावेनास्मान्हनिष्यसि ॥ १,४६.४९ ॥ कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति । मृगानां वद पृष्टेषु मूढ कृष्णाजिनं न किम् ॥ १,४६.५० ॥ येषां मत्वा वृथा चोग्राः प्रहिताः शितसायकाः । स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे ॥ १,४६.५१ ॥ आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः । केशिध्वज उवाच खाण्डिक्य संशयं प्रष्टुं भवन्तमहमागतः ॥ १,४६.५२ ॥ न त्वां हॄन्तुं विचार्यतैत्कोपं बाणं च मुञ्च वा । ततः स मन्त्रिभिः सार्द्धमेकान्ते सपुरोहितः ॥ १,४६.५३ ॥ मन्त्रयामास खाण्डिक्यः सर्वैरेव महामतिः । तमूर्मन्त्रिणो वध्यो रिपुरेष वशङ्गतः ॥ १,४६.५४ ॥ हतेऽत्र पृथिवी सर्वा तव वश्या भविष्यति । खाण्डिक्यश्चाह तान्सर्वानेव मेव न संशयः ॥ १,४६.५५ ॥ हते तु पृथिवी सर्वा मम वश्या भविष्यति । परलोकजयस्तस्य पृथिवी सकला मम ॥ १,४६.५६ ॥ न हन्मि चेल्लोकजयो मम वयत्वःसुंधरा । परलोकजयोऽनन्तः स्वल्पकालो महीजयः ॥ १,४६.५७ ॥ तस्मान्नैनं हनिष्येऽहं यत्पृच्छति वदामि तत् । ततस्तमभ्युपेत्याह खाण्डिक्यो जनको रिपुम् ॥ १,४६.५८ ॥ प्रष्टव्यं यत्त्वया सर्वं तत्पृच्छ त्वं वदाम्यहम् । ततः प्राह यथावृत्तं होमधेनुवधं मुने ॥ १,४६.५९ ॥ ततश्च तं स पप्रच्छ प्रायश्चित्तं हि तद्रूतम् । स चाचष्ट यथान्यायं मुने केशिध्वजाय तत् ॥ १,४६.६० ॥ प्रायश्चित्तमशेषं हि यद्वै तत्र विधीयते । विदितार्थः स तेनैवमनुज्ञातो महात्मना ॥ १,४६.६१ ॥ यागभूमिमुपागत्य चक्रे सर्वां क्रियां क्रमत् । क्रमेण विधिवद्यागं नीत्वा सोऽवभृथाप्लुतः ॥ १,४६.६२ ॥ कृतकृत्यस्ततो भूत्वा चिन्तयामास पार्थिवः । पूजिता ऋत्विजः सर्वे सदस्या मानिता मया ॥ १,४६.६३ ॥ तथैवार्थिजनोऽप्यर्थोजितोऽभिमतैर्मया । यथाहं मर्त्यलोकस्य मया सर्वं विचष्टितम् ॥ १,४६.६४ ॥ अनिष्पन्नक्रियं चेतस्तथा न मम किं यथा । इत्थं तु चिन्तयन्नेव संमार स महीपतिः ॥ १,४६.६५ ॥ खाण्डिक्याय न दत्तेति मया वैगुरुदक्षिणा । स जगाम ततो भूयो रथमारुह्य पार्थिवः ॥ १,४६.६६ ॥ स्वायंभुवः स्थितो यत्र खाण्डिक्योऽरण्यदुर्गमम् । खाण्डिक्योऽपि पुनर्द्दष्ट्वा तमायान्तं धृतायुधः ॥ १,४६.६७ ॥ तस्थौ हॄन्तुं कृतमतिस्ममाह स पुनर्नृपः । अहं तु नापकाराय प्राप्तः खाण्डिक्य मा क्रुधः ॥ १,४६.६८ ॥ गुरोर्निष्कृतिदानाय मामवेहि सेमागतम् । निष्पादितो मया यागः सम्यक्त्वदुपदेशतः ॥ १,४६.६९ ॥ सोऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् । इत्युक्तो मन्त्रयामास स भूयो मन्त्रिभिः सह ॥ १,४६.७० ॥ गुरोर्निष्कृतिकामोऽय किमयं प्रार्थ्यतां मया । तमूचुर्मन्त्रिणो गज्यमशेषं याच्यतामयम् ॥ १,४६.७१ ॥ कृताभिः प्रार्थ्यते राज्यमनायासितसैनिकैः । प्राहस्य तानाह नृपः स खाण्डिक्यो महापतिः ॥ १,४६.७२ ॥ स्वल्पकालं महीराज्यं मादृशैः प्रार्थ्यते कथम् । एतमेतद्भंवतोऽत्र स्वार्थ साधनमन्त्रिणः ॥ १,४६.७३ ॥ परमार्थः कथं कोऽत्र यूयं नात्र विचक्षणाः । इत्युक्त्वा समुपेत्यैंनं स तु केशिध्वजं नृपम् ॥ १,४६.७४ ॥ उवाच किमवश्यं त्वं दास्यसि गुरुदक्षिणाम् । बाढमित्येव तेनोक्तः खाण्डिक्यस्तमथाब्रवीत् ॥ १,४६.७५ ॥ भवानध्यात्मविज्ञानपरमार्थविचक्षणः । यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः ॥ १,४६.७६ ॥ तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय । केशिध्वज उवाच न प्रार्थितं त्वया कस्मान्मम राज्यमकण्टकम् ॥ १,४६.७७ ॥ राज्यलाभाः द्धि नास्त्यन्यत्क्षत्रियाणामतिप्रियम् । खाण्डिक्य उवाच केशिध्वज निबोध त्वं मया न प्रार्थितं यतः ॥ १,४६.७८ ॥ राज्यमेतदशेषेण यन्न गृघ्रन्ति पण्डिताः । क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् ॥ १,४६.७९ ॥ वधश्च धर्मयुद्धेन स्वराज्यपरिपन्थिनाम् । यत्राशक्तस्य मे दोषो नैवास्त्यपकृते त्वया ॥ १,४६.८० ॥ बन्धायैव भवत्येषा ह्यविद्या चाक्रमोज्झिता । जन्मोपर्भागलिप्सार्थमियं गज्यस्पृहा मम ॥ १,४६.८१ ॥ अन्येषां दोपजानेव धर्ममेवानुरुध्यते । न याच्ञा क्षत्रबन्धूनां धर्मायैतत्सतां मतम् ॥ १,४६.८२ ॥ अतो न याचित राज्यमविद्यान्तर्गतं तव । राज्यं गृध्नन्ति विद्वांसो ममत्वाकृष्टचेतसः ॥ १,४६.८३ ॥ अहंमानमह्य पानमदमत्ता न मादृशाः । केशिध्वज उवाच अहं च विद्यया मृत्युं तर्तुकामः करोमि वै ॥ १,४६.८४ ॥ राज्यं यज्ञांश्च विविधान्भोगे पुण्यक्षयं तथा । तदिदं ते मनो दिष्ट्या विवेकैश्चर्यतां गतम् ॥ १,४६.८५ ॥ श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन । अनात्मन्यात्मबुद्धिर्या ह्यस्वे स्वविषया मतिः ॥ १,४६.८६ ॥ अविद्यातरुसंन्भूतं बीजमेतद्द्विधा स्थितम् । पञ्चभूतात्मके देहे देही मोहतमोवृत्तः ॥ १,४६.८७ ॥ अहमेतदितीत्युञ्चैः कुरुते कुमतिर्मतिम् । आकाशवाय्वग्रिजलपृथिवीभिः पृथक्स्थिते ॥ १,४६.८८ ॥ आत्मन्यात्ममयं भावं कः करोति कलेवरे । कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च यत् ॥ १,४६.८९ ॥ अदेहे ह्यात्मनि प्राज्ञो ममेदमिति मन्यते । इत्थं च पुत्रपौत्रेषु तद्देहोत्पादितेषु च ॥ १,४६.९० ॥ करोति पण्डितः स्वाम्यमनात्मनि कलेवरे । सर्वदेहोपभोगाय कुरुते कर्म मानवः ॥ १,४६.९१ ॥ देहं चान्यद्यदा पुंसःसदा बन्धाय तत्परम् । मृण्मयं हि यथा गेहं लिप्यते वै मृदं भसा ॥ १,४६.९२ ॥ पार्थिवोऽयं तथा देहो मृदंभोलेपनस्थितिः । पञ्चभोगात्मकैर्भोगैः पञ्चभोगात्मकं वपुः ॥ १,४६.९३ ॥ आप्यायते यदि ततः पुंसो गर्वोऽत्र किङ्कृतः । अनेकजन्मसाहस्त्रं ससारपदवीं व्रजन् ॥ १,४६.९४ ॥ मोहश्रमं प्रयातोऽसौ वासनारेणुगुण्ठितः । प्रक्षाल्यते यदा सौम्य रेणुर्ज्ञानोष्णवारिणा ॥ १,४६.९५ ॥ तदा संसारपान्थस्य याति मोहश्रमः शमम् । मोहश्रमे शमं याते स्वच्छान्तःकरणः पुमान् ॥ १,४६.९६ ॥ अनन्यातिशयाधारः परं निर्वाणमृच्छति । निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः ॥ १,४६.९७ ॥ दुःखाज्ञानमया धर्माः प्रकृतेस्ते तुनात्मनः । जलस्य नाग्निना संगः स्थालीसंगात्तथापि हि ॥ १,४६.९८ ॥ शब्दोद्रेकादिकान्धर्मान्करोति हि यथा बुधः । तथात्मा प्रकृतेः संगादहंमानादिदूषितः ॥ १,४६.९९ ॥ भजते प्राकृतान्धर्मान्न्यस्तस्तंभो हि सोऽव्ययः । तदेतत्कथितं बीजमविद्याया मया तव ॥ १,४६.१०० ॥ क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ॥ १,४६.१०१ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे षट्चत्वारिंशत्तमोऽध्यायः _____________________________________________________________ सनन्दन उवाच एतदध्यात्ममानाढ्यं वचः केशिध्वजस्य सः । खाण्डिक्योऽमृतवच्छ्रत्वा पुनराह तमीरयन् ॥ १,४७.१ ॥ खाण्डिक्य उवाच तद्ब्रूहि त्वं महाभाग योगं योगविदुत्तम । विज्ञातयो गशास्त्रार्थस्त्वमस्यां निमिसंततौ ॥ १,४७.२ ॥ केशिध्वज उवाच योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम । यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥ १,४७.३ ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धस्य विषयासंगि मुक्तेर्निर्विषयं तथा ॥ १,४७.४ ॥ विषयेभ्यः समाहृत्य विज्ञानात्मा बुधो मनः । चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् ॥ १,४७.५ ॥ आत्मभावं नयेत्तेन तद्ब्रीह्यध्यापनं मनः । विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा ॥ १,४७.६ ॥ आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ॥ १,४७.७ ॥ एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणम् । यस्य योगः स वै योगी मुमुक्षुरमिधीयते ॥ १,४७.८ ॥ योगयुक्प्रथमं योगी युञ्जमानोऽभिधीयते । विनिष्यन्नसमाधिस्तु परब्रह्मोपलब्धिमान् ॥ १,४७.९ ॥ यद्यन्तरायदोषेण दूष्यते नास्य मानसम् । जन्मान्तरैरभ्यसनान्मुक्तिः पूर्वस्य जायते ॥ १,४७.१० ॥ विनिष्पन्नसमाधिस्तु मुक्तिस्तत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ॥ १,४७.११ ॥ ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् । सेवेत योगी निष्कामो यिगितां स्वमनो नयन् ॥ १,४७.१२ ॥ स्वाध्यायशौचसंतोषतपांसि नियमान्यमान् । कुर्व्वीत ब्रह्मणि तथा परिस्मिन्प्रवणं मनः ॥ १,४७.१३ ॥ एते यमाश्च नियमाः पञ्च पञ्चप्रकीर्तिताः । विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ॥ १,४७.१४ ॥ एवं भद्रासनादीनां समास्थाय गुणैर्युतः । यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः ॥ १,४७.१५ ॥ प्राणाख्यमवलंबस्थमभ्यासात्कुरुते तु यत् । प्राणायामः स विज्ञेयः सबीजोऽबीज एव च ॥ १,४७.१६ ॥ परस्परेणाभिभवं प्राणापानौ यदा निलौ । कुरुतः सद्विधानेन तृतीयः संयमात्तयोः ॥ १,४७.१७ ॥ तस्य चांलबनवत्स्थूलं रूपं द्विषत्पते । आलंबनमनन्तस्य योगिनोऽभ्यसतः स्मृतम् ॥ १,४७.१८ ॥ शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्य्याञ्चित्तानुकारीणि प्रत्याहारपरायणः ॥ १,४७.१९ ॥ वश्यता परमा तेन जायते निश्चला त्मनाम् । इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ १,४७.२० ॥ प्राणायामेन पवनैः प्रत्याहरेण चेन्द्रियैः । वशीकृतैस्ततः कुर्यात्स्थिरं चेतः शुभाश्रये ॥ १,४७.२१ ॥ खाण्डिक्य उवाच कथ्यतां मे महाभाग चेतसो यः शुभाश्रयः । यदाधारमशेषं तु हॄन्ति दोषसमुद्भवम् ॥ १,४७.२२ ॥ केशिध्वज उवाच आश्रयश्चेतसो ज्ञानिन् द्विधा तञ्च स्वरूपतः । रूपं मूर्तममूर्तं च परं चापरमेव च ॥ १,४७.२३ ॥ त्रिविधा भावना रूपं विश्वमेतत्त्रिधोच्यते । ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥ १,४७.२४ ॥ कर्मभावात्मिका ह्येका ब्रह्मभावात्मिकापरा । उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥ १,४७.२५ ॥ सनकाद्या सदा ज्ञानिन् ब्रह्मभावनया युताः । कर्मभावनया चान्ये देवाद्याः स्थावराश्चराः ॥ १,४७.२६ ॥ हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा । अधिकारबोधयुक्तेषु विद्यते भावभावना ॥ १,४७.२७ ॥ अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु । विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृप ॥ १,४७.२८ ॥ प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् । वचसामात्मसंतोद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ १,४७.२९ ॥ तच्च विष्णोः परं रूपमरूपस्याजनस्य च । विश्वस्वरूपं वैरूप्यलक्षणं परमात्मनः ॥ १,४७.३० ॥ न तद्योगयुजा शक्यं नृप चिन्तयितुं यतः । ततः स्थूलं हरे रूपं चिन्त्यं यञ्चक्षुगोचरम् ॥ १,४७.३१ ॥ हिरण्यगर्भो भगवान्वासवोऽथ प्रजापतिः । मरुतो वसवो रुद्रा भास्कारास्तारका ग्रहाः ॥ १,४७.३२ ॥ गन्धर्वा यक्षदैत्याश्च सकला देवयोतयः । मनुष्याः पशवः शैलासमुद्राः सरितो द्रुमाः ॥ १,४७.३३ ॥ भूप भूतान्यशेषाणि भूतानां ये च हेतवः । प्रधानादिविशेषान्ताश्चेतनाञ्चेतनात्मकम् ॥ १,४७.३४ ॥ एकपादं द्विपादं च बहुपादमपादकम् । मूर्त्तमेतद्धरे रूपं भावनात्रितयात्मकम् ॥ १,४७.३५ ॥ एतत्सर्वमिदं विंश्वं जगदेतञ्चराचरम् । परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम् ॥ १,४७.३६ ॥ विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा । अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ १,४७.३७ ॥ येयं क्षेत्रज्ञशक्तिः सा चेष्टिता नृप कर्मजा । असारभूते संसारे प्रोक्ता तत्र महामते ॥ १,४७.३८ ॥ संसारतापानखिलानवाप्नोत्यनुसंज्ञितान् । तया तिरोहितत्वात्तु शक्तिः क्षेत्रज्ञ संज्ञिता ॥ १,४७.३९ ॥ सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते । अप्राणवत्सु खल्वल्पा स्थावरेषु ततोऽधिका ॥ १,४७.४० ॥ सरीसृपेषु तेभ्योऽन्याप्यतिशक्त्या पतत्रिशु । पतत्र्रिभ्यो मृगास्तेभ्यः स्वशक्त्या पशवोऽधिकाः ॥ १,४७.४१ ॥ पशुभ्यो मनुजाश्चातिशक्त्या पुंसःप्रभाविताः । तेभ्योऽपि नागगन्धर्वयक्षाद्या देवता नृप ॥ १,४७.४२ ॥ शक्रः समस्तदेवेभ्यस्ततश्चातिप्रजापतिः । हिरण्यगर्भोऽपि ततः पुंसः शक्त्युपलक्षितः ॥ १,४७.४३ ॥ एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव । यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ॥ १,४७.४४ ॥ द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते । अमृर्तं ब्रह्मणो रूपं यत्सदित्युच्यते बुधैः ॥ १,४७.४५ ॥ समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्टिताः । नहि स्वरूपरूपं वै रूपमन्यद्धरेर्महत् ॥ १,४७.४६ ॥ समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया ॥ १,४७.४७ ॥ जगतामुपकाराय तस्य कर्मनिमित्तजा । चेष्टा तस्याप्रमेयस्य व्यापिन्यविहितात्मिका ॥ १,४७.४८ ॥ तद्रूपं विश्वरूपाय चिन्त्यं योग युजा नृप । तस्य ह्यात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम् ॥ १,४७.४९ ॥ यथाग्निरूद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ १,४७.५० ॥ तस्मात्समस्तशक्तीनामान्द्यान्ते तत्र चेतसः । कुर्वीत संस्थितं साधु विज्ञेया शुद्धलक्षणा ॥ १,४७.५१ ॥ शुभांश्रयः सचित्तस्य सर्वगस्य तथात्मनः । त्रिभावभावनातीतो मुक्तये योगिनां नृप ॥ १,४७.५२ ॥ अन्ये तु पुरुषव्याघ्र चेतसो ये व्यापा८ आः । अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ॥ १,४७.५३ ॥ मूर्त्तं भगवतो रूपं सर्वापाश्रयनिस्पृहः । एषा वै धारणा ज्ञेया यञ्चितं तत्र धार्यते ॥ १,४७.५४ ॥ तत्र मूर्त्तं हरे रूपं यादृक्चिन्त्यं नराधिप । तच्छ्रूयता मनाधारे धारणा नोपपद्यते ॥ १,४७.५५ ॥ प्रसन्नचारुवदनं पद्मपत्रायतेक्षणम् । सुकपोलं सुविस्तीर्णं ललाटफलकोज्ज्वम् ॥ १,४७.५६ ॥ समकर्णांसविन्य स्तचारुकर्णोपभूषणम् । कम्बुग्रीवं सुविस्तीर्णश्रीवत्सांकितवक्षसम् ॥ १,४७.५७ ॥ बलित्रिंभागिना भुग्ननाभिना चोदरेण वै । प्रलंबाष्टभुजं विष्णुमथ वापि चतुर्भुजम् ॥ १,४७.५८ ॥ समस्थितोरुजघनं सुस्थिराङ्घ्रिकरांबुजंम् । चिन्तयेद्बूह्यभूतं तं पीतनिर्मलवाससम् ॥ १,४७.५९ ॥ किरीटचारुकेयूरकटकादिविभूषितम् । शार्ङ्गशङ्खगदाखड्गप्रकाशवलयाञ्चितम् ॥ १,४७.६० ॥ चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् । तावद्यावद्दृढीभूता तत्रैव नृप धारणा ॥ १,४७.६१ ॥ वदतस्तिष्टतो यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चित्तात्सिद्धां मन्येत तां तदा ॥ १,४७.६२ ॥ ततः शङ्खगदाचक्रशार्ङ्गादि रहितं बुधः । चिन्तये द्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥ १,४७.६३ ॥ सा यदा धारणा तद्वदवस्थानवती ततः । किरीटकेयूरमुखैर्भूषणै रहितं स्मरेत् ॥ १,४७.६४ ॥ तदेकावयवं चैवं चेतसा हि पुनर्बुधः । कुर्यात्ततोऽवयविनि प्राणिधानपरो भवेत् ॥ १,४७.६५ ॥ तद्रूपप्रत्यये चैकसंनतिश्चान्यनिःस्पृहा । तद्ध्यानं प्रथमैरङ्गैः षङ्भिर्निष्पाद्यते नृप ॥ १,४७.६६ ॥ तस्यैवं कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥ १,४७.६७ ॥ विज्ञानं प्रापकं प्राप्ये परं ब्रह्मणि पार्थिव । प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ॥ १,४७.६८ ॥ क्षेत्रज्ञकरणीज्ञानं करणं तेन तस्य तत् । निष्पाद्य मुक्तिकार्यं वै कृतकृत्यो निवर्तते ॥ १,४७.६९ ॥ तद्भावभावनापन्नस्ततोऽसौ परमात्मनः । भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ १,४७.७० ॥ विभेदजनके ज्ञाने नाश मात्यन्तिकं गते । आत्मनो ब्रह्मणाभेदं संमतं कः करिष्यति ॥ १,४७.७१ ॥ इत्युक्तस्ते मया योगः खाण्डिक्य परिपृच्छतः । संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ॥ १,४७.७२ ॥ खाण्डिक्य उवाच कथितो योगसद्भावः सर्वमेव कृतं मम । तवोपदेशात्सकलो नष्टश्चित्तमलो मम ॥ १,४७.७३ ॥ ममेति यन्मया प्रोक्तमसदेतन्न चान्यथा । नरेद्रं गदितुं शक्यमपि विज्ञेयवेदभिः ॥ १,४७.७४ ॥ अहं ममेत्यविद्येयं व्यवहारस्तथानयोः । परमार्थस्त्व संलाप्यो वचसां गोचरो न यः ॥ १,४७.७५ ॥ तद्गुच्छ श्रेयसे सर्वं ममैतद्भवता कृतम् । यद्विमुक्तिपरो योगः प्रोक्तः केशिद्वजाव्ययः ॥ १,४७.७६ ॥ सनन्दन उवाच यथार्हपूजया तेन खाण्डिक्येन स पूजितः । आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः ॥ १,४७.७७ ॥ खाण्डिक्योऽपि सुतं कृत्वा राजानं योगसिद्धये । विशालामगमत्कृष्णे समावेशितमानसः ॥ १,४७.७८ ॥ स तत्रैकान्तिको भूत्वा यमादिगुणसंयुतः । विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् ॥ १,४७.७९ ॥ केशिध्वजोऽपि मुक्तयर्थं स्वकर्मक्षपणोन्मुखः । बुभुजे विषयान्कर्म चक्रे चानभिसंधितम् ॥ १,४७.८० ॥ स कल्याणोपभोगैश्च क्षीणपापोऽमलस्ततः । अवाप सिद्धिमत्यन्तत्रितापक्षपणीं मुने ॥ १,४७.८१ ॥ एतत्ते कथितं सर्वं यन्मां त्वं परिपृष्टवान् । तापत्रयचिकित्सार्थं किमन्यत्कथयामि ते ॥ १,४७.८२ ॥ इति श्रूबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे सप्तचत्वारिंशत्तमोऽध्यायः _____________________________________________________________ नारद उवाच श्रुतं मया महामाग तापत्रयचिकित्सितम् । तथापि मे मनो भ्रान्तं न स्थितिं लभतेंऽजसा ॥ १,४८.१ ॥ आत्मव्यतिक्रमं ब्रह्मन्दुर्जनाचरितं कथम् । सोढुं शक्येत मनुजैस्तन्ममाख्याहि मानद ॥ १,४८.२ ॥ सूत उवाच तच्छ्रृत्वा नारदेनोक्तं ब्रह्मपुत्रः सनन्दनः । उवाच हर्षसंयुक्तः स्मरन्भघरतचेष्टितम् ॥ १,४८.३ ॥ सनन्दन उवाच अत्र ते कथयिष्यामि इतिहासं पुरातनम् । यं श्रुत्वा त्वन्मनो भ्रान्तमास्थानं लभते भूशम् ॥ १,४८.४ ॥ आसीत्पुरा मुनिश्रेष्ठ भरतो नाम भूपतिः । आर्षभो यस्य नाम्नेदं भारतं खण्डमुच्यते ॥ १,४८.५ ॥ स राजा प्राप्तराज्यस्तु पितृपैतामहं क्रमात् । पालयामास धर्मेण पितृबद्रञ्जयन् प्रजाः ॥ १,४८.६ ॥ र्द्दजे च विविधैर्यज्ञैर्भगवन्तमधोक्षजम् । सर्वदेवात्मकं ध्यायन्नानाकर्मसु तन्मतिः ॥ १,४८.७ ॥ ततः समुत्पाद्य सुतान्विरक्तो विषयेषु सः । मुक्त्वा राज्यं ययौ विद्वान्पुलस्त्यपुहाश्रमम् ॥ १,४८.८ ॥ शालग्रामं महाक्षेत्रं मुमुक्षुजनसेवितम् । तत्रासौ तापसो तापसो भूत्वा विष्णोराराधनं मुने ॥ १,४८.९ ॥ चकार भक्तिभावेन यथालब्धसपर्यया । नित्यं प्रातः समाप्लुत्य निर्मलेऽभलि नारद ॥ १,४८.१० ॥ उपतिष्टेद्रविं भक्त्या गृणन्ब्रह्माक्षरं परम् । अथाश्रमे समागत्य वासुदेवं जगत्पतिम् ॥ १,४८.११ ॥ समाहृतैः स्वयं द्रव्यैः समित्कुशमृदादिभिः । फलैः पुष्पैंस्तथा पत्रैस्तुलस्याः स्वच्छवारिभिः ॥ १,४८.१२ ॥ पूजयन्प्रयतो भूत्वा भक्तिप्रसरसंप्लुतः । सचैकदा महाभागः स्नात्वा प्रातः समाहितः ॥ १,४८.१३ ॥ चक्रनद्यां जपंस्तस्थौ मुहुर्तत्रयमंबुनि । अथाजगाम तत्तीरं जलं पातुं पिपासिता ॥ १,४८.१४ ॥ आसन्नप्सवा ब्रह्मन्नैकैव हिणी वनात् । ततः समभवत्तत्र पीतप्राये जले तया ॥ १,४८.१५ ॥ सिंहस्य नादः सुमहान् सर्वप्राणिभयङ्करः । ततः सा सिंहसन्नादादुत्प्लुता निम्नगातटम् ॥ १,४८.१६ ॥ अत्युञ्चारोहणेनास्या नद्यां गर्भः पपात ह । तमुह्यमानं वेगेन वीचिमालापरिप्लुतम् ॥ १,४८.१७ ॥ जग्राह भरतो गर्भात्पतितं मृगपोतकम् । गर्भप्रच्युतिदुःखेन प्रोत्तुङ्गाक्रणेन च ॥ १,४८.१८ ॥ मुनीन्द्र सा तु हरिणी निपपात ममार च । हरिणीं तां विलोक्याथ विपन्नां नृपतापसः ॥ १,४८.१९ ॥ मृगपोतं समागृह्य स्वमाश्रममुपागतः । चकारानुदिनं चासौ मृगपोतस्य वै नृपः ॥ १,४८.२० ॥ पोषणं पुष्यमाणश्च स तेन ववृधे मुने । चचाराश्रमपर्यन्तं तृणानि गहनेषु सः ॥ १,४८.२१ ॥ दूरं गत्वा च शार्दूलत्रासादभ्याययौ पुनः । प्रातर्गत्वादिदूरं च सायमायात्यथाश्रमम् ॥ १,४८.२२ ॥ पुनश्च भरतस्याभूदाश्रमस्योटजान्तरे । तस्यतस्मिन्मृगे दूरसमीपपरिवर्तिनि ॥ १,४८.२३ ॥ आसीञ्चेतः समासक्तं न तथा ह्यच्युते मुने । विमुक्तराज्यतनयः प्रोज्झिताशेषबान्धवः ॥ १,४८.२४ ॥ ममत्व स चकारोञ्चैस्तस्मिन्हरिणपोतके । किं वृकैभक्षितो व्याघ्नैः किं सिंहेन निपातितः ॥ १,४८.२५ ॥ चिरायमाणे निष्कान्ते तस्यासीदिति मानसम् । प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे ॥ १,४८.२६ ॥ समाधिभङ्गस्तस्यासीन्ममत्वाकृष्टमानसः । कालेन गच्छता सोऽथ कालं चक्रे महीपतिः ॥ १,४८.२७ ॥ पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः । मृगमेव तदाद्राक्षीत्त्यजन्प्राणानसावपि ॥ १,४८.२८ ॥ मृगो बभूव स मुने तादृशीं भावनां गतः । जाति स्मरत्वादुद्विग्नः संसारस्य द्विजोत्तम ॥ १,४८.२९ ॥ विहाय मातरं भूयः शालग्राममुपाययौ । शुष्कैस्तृणैस्तथा पर्णैः स कुर्वन्नात्मपोषणम् ॥ १,४८.३० ॥ मृगत्वहेतुभूतस्य कर्मणो निष्कृतिं ययौ । तत्र चोत्सृष्टदेहोऽसौ जज्ञे जातिस्मरो द्विजः ॥ १,४८.३१ ॥ सदाचारवतां शुद्धे यागिनां प्रवरे कुले । सर्वविज्ञान संपन्नः सर्वशास्त्रार्थतत्त्ववित् ॥ १,४८.३२ ॥ अपश्यत्स मुनिश्रेष्ठः स्वात्मानं प्रकृतेः परम् । आत्मनोधिगतज्ञानाद्द्वेवादीनि महामुने ॥ १,४८.३३ ॥ सर्वभूतान्यभे देन ददर्श स महामतिः । न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतम् ॥ १,४८.३४ ॥ न ददर्श च कर्माणि शास्त्राणि जगृहे न च । उक्तोऽपि बहुशः किञ्चिज्जण्ड वाक्यमभाषत ॥ १,४८.३५ ॥ तदप्यसंस्कारगुणं ग्रामभाषोक्तिसंयुतम् । अपद्धस्तवपुः सोऽपि मलिनांबरधृङ्मुने ॥ १,४८.३६ ॥ क्लिन्नदन्तान्तरः सर्वैः परिभूतः स नागरैः । संमानेन परां हानिं योगर्द्धेः कुरुते यतः ॥ १,४८.३७ ॥ जनेनावमतो योगी योगसिद्धिं च विन्दति । तस्माञ्चरेत वै योगी सतां धर्ममदूषयन् ॥ १,४८.३८ ॥ जना यथावमन्येयुर्गच्छेयुर्नैव संगतिम् । हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः ॥ १,४८.३९ ॥ आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने । भुङ्क्ते कुल्माषवटकान् शाकं त्रन्यफलं कणान् ॥ १,४८.४० ॥ यद्यदाप्नोति स बहूनत्ति वै कालसंभवम् । पितर्युपरते सोऽथ भ्रातृभ्रातृव्यबान्धवैः ॥ १,४८.४१ ॥ कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः । सरूक्षपीनावयवो जडकारी च कर्मणि ॥ १,४८.४२ ॥ सर्वलोकोपकरणं बभूवाहारवेतनः । तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम् ॥ १,४८.४३ ॥ क्षत्ता सौवीरराज्यस्य विष्टियोग्यममन्यत । स राजा शिबिकारूढो गन्तुं कृतमतिर्द्विज ॥ १,४८.४४ ॥ बभूवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम् । श्रेयः किमत्र संसारे दुःखप्राये नृणामिति ॥ १,४८.४५ ॥ प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् । उवाह शिबिकामस्य क्षत्तुर्वचनचोदितः ॥ १,४८.४६ ॥ नृणां विष्टिगृहीतानामन्येषां सोऽपि मध्यगः । गृहीतो विष्टिना विप्र सर्वज्ञानैकभाजनम् ॥ १,४८.४७ ॥ जातिस्मरोऽसौ पापस्य क्षयकाम उवाह ताम् । ययौ जडगतिस्तत्र युगमात्रावलोकनम् ॥ १,४८.४८ ॥ कुर्वन्मतिमतां श्रेष्ठस्ते त्वन्ये त्वरितं ययुः । विलोक्य नृपतिः सोऽथ विषमं शिबिकागतम् ॥ १,४८.४९ ॥ किमेतदित्याह समं गम्यतां शिबिकावहाः । पुनस्तथैव शिबिकां विलोक्य विषमां हसन् ॥ १,४८.५० ॥ नृपः किमेऽतदित्याह भवद्भिर्गम्यतेऽन्यथा । भूपतेर्वदतस्तस्य श्रुत्वेत्थं बहुशो वचः । शिबिकावाहकाः प्रोचुरयं यातीत्यसत्वरम् ॥ १,४८.५१ ॥ राजोवाच किं श्रान्तोऽस्यल्पमध्वानं त्वयोढा शिबिका मम । किमायाससहो न त्वं पीवा नासि निरीक्ष्यसे ॥ १,४८.५२ ॥ ब्राह्मण उवाच नाहं पीवा न चैवोढा शिबिका भवतो मया । न श्रान्तोऽस्मि न चायासो वोढान्योऽस्ति महीपते ॥ १,४८.५३ ॥ राजोवाच प्रत्यक्षं दृश्यते पीवात्वद्यापि शिबिका त्वयि । श्रमश्च भारो द्वहने भवत्येव हि देहिनाम् ॥ १,४८.५४ ॥ ब्राह्मण उवाच प्रत्यक्षं भवता भूप यद्दृष्टं मम तद्वद । बलवानबलश्चेति वाच्यं पश्चाद्विशेषणम् ॥ १,४८.५५ ॥ त्वयोढा शिबिका चेति त्वय्यद्यापि च संस्थिता । मिथ्या तदप्यत्र भवान् शृणोतु वचनं मम ॥ १,४८.५६ ॥ भूमौ पादयुगं चाथ जङ्घे पादद्वये स्थिते । ऊरु जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ॥ १,४८.५७ ॥ वक्षस्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ । स्कन्धाश्रितयें शिबिका ममाधारोऽत्र किङ्कृतः ॥ १,४८.५८ ॥ शिबिकायां स्थितं चेदं देहं त्वदुपलक्षितम् । तत्र त्वमहमप्यत्रेत्युच्यते चेदमन्यथा ॥ १,४८.५९ ॥ अहं त्वं च तथान्ये च भूतैरुह्याश्च पार्थिव । गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम् ॥ १,४८.६० ॥ कर्मवश्या गुणश्चैते सत्त्वाद्याः पृथिवीपते । अविद्यासंचितं कर्मतश्चाशेषेषु जन्तुषु ॥ १,४८.६१ ॥ आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृते परः । प्रवृद्ध्यपचयौ न स्त एकस्याखिलजन्तुषु ॥ १,४८.६२ ॥ यदा नोपचयस्तस्य नचैवापचयो नृप । तदापि बालिशोऽसि त्वं कया युक्त्या त्वयेरितम् ॥ १,४८.६३। भूपादजङ्घाकट्यूरुजठरादिषु संस्थिता । शिबिकेयं यदा स्कन्धे तदा भारः समस्त्वया ॥ १,४८.६४ ॥ तथान्यजन्तुभिर्भूप शिबिकोढान केवलम् । शैलद्रुमगृहोत्थोऽपि पृथिवीसंभवोऽपि च ॥ १,४८.६५ ॥ यथा पुंसः पृथग्भावः प्राकृतैः करणैर्नृप । सोढव्यः सुमहान्भारः कतमो नृप ते मया ॥ १,४८.६६ ॥ यद्द्रव्यो शिबिका चेयं तद्द्रव्यो भूतसंग्रहः । भवतो मेऽखिलस्यास्य समत्वेनोपबृंहितः ॥ १,४८.६७ ॥ सनन्दन उवाच एवमुक्त्वाभवंन्मौनी स वहञ्शिबिकां द्विजः । सोऽपि राजावतीर्योर्व्यां तत्पादौ जगृहे त्वरन् ॥ १,४८.६८ ॥ राजोवाच भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्विज । कथ्यतां को भवानत्र जाल्मरुपधरः स्थितः ॥ १,४८.६९ ॥ यो भवान्यदपत्यं वा यदागमनकारणम् । तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया ॥ १,४८.७० ॥ ब्राह्मण उवाच श्रूयतां कोऽहमित्येतद्वक्तुं भूप न शक्यते । उपयोगनिमित्तं च सर्वत्रागमनक्रिया ॥ १,४८.७१ ॥ सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ । धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देहादिमृच्छति ॥ १,४८.७२ ॥ सर्वस्यैव हि भूपाल जन्तोः सर्वत्र कारणम् । धर्माधर्मौं यतस्तस्मात्कारणं पृच्छ्यते कुतः ॥ १,४८.७३ ॥ राजोवाच धर्माधर्मौं न संदेहः सर्वकार्येषु कारणम् । उपभोगनिमित्तं च देहाद्देहान्तरागमः ॥ १,४८.७४ ॥ यत्त्वेतद्भवता प्रोक्तं कोऽहमित्येतदात्मनः । वक्तुं न शक्यते श्रोतुं तन्ममेच्चा प्रवर्तते ॥ १,४८.७५ ॥ योऽस्ति योऽहमिति ब्रह्मन्कथं वक्तुं न शक्यते । आत्मन्येव न दोषाय शब्दोऽहमिति यो द्विजा ॥ १,४८.७६ ॥ ब्राह्मण उवाच शब्दोऽहमिति दोषाय नात्मन्येवं तथैव तत् । अनात्मन्यात्मविज्ञानं शब्दो वा श्रुतिलक्षणः ॥ १,४८.७७ ॥ जिह्वा ब्रवीत्यहमिति दन्तौष्टतालुक नृप । एतेनाहं यतः सर्वे वाङ्निष्पादनहेतवः ॥ १,४८.७८ ॥ किं हेतुभिर्वदूत्येषा वागेवाहमिति स्वयम् । तथापि वागहमेद्वक्तुमित्थं न युज्यते ॥ १,४८.७९ ॥ पिण्डः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः । ततोऽहमिति कुत्रैनां संज्ञां राजन्करोम्यहम् ॥ १,४८.८० ॥ यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थिवसत्तम् । न देहोऽहमयं चान्ये वक्तुमेवमपीष्यते ॥ १,४८.८१ ॥ यदा समस्तदेहेषु पुमानेको व्यवस्थितः । तददा हि को भवान्कोऽहमित्येतद्विफलं वचः ॥ १,४८.८२ ॥ त्वं राजा शिबिका चेयं वयं वाहाः पुरः सराः । अयं च भवतो लोको न सदेतन्नृपोच्यते ॥ १,४८.८३ ॥ वृक्षाद्दारु ततश्चेयं शिबिका त्वदधिष्टिता । क्व वृक्षसंज्ञा वै तस्या दारुसंज्ञाथवा नृप ॥ १,४८.८४ ॥ वृक्षारूढो महाराजो नायं वदति ते जनः । न च दारुणि सर्वस्त्वां ब्रवीति शिबिकागतम् ॥ १,४८.८५ ॥ शिबिकादारुसंघातो स्वनामस्थितिसंस्थितः । अन्विष्यतां नृपश्रेष्ठानन्ददाशिबिका त्वया ॥ १,४८.८६ ॥ एवं छत्रं शलाकाभ्यः पृथग्भावो विमृश्यताम् । क्व जातं छत्रमित्येष न्यायस्त्वयि तथा मयि ॥ १,४८.८७ ॥ पुमान्स्त्री गौरजा बाजी कुञ्जरो विहगस्तरुः । देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ॥ १,४८.८८ ॥ पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्मयोनयः ॥ १,४८.८९ ॥ वस्तु राजेति यल्लेके यञ्च राजभटात्मकम् । तथान्यश्च नृपेत्थं तन्न सत्यं कल्पनामयम् ॥ १,४८.९० ॥ यस्तु कालान्तरेणापि नाशसंज्ञामुपैति वै । परिणामादिसंभूतं तद्वस्तु नृप तञ्च किम् ॥ १,४८.९१ ॥ त्वं राजा सर्वसोकस्य पितुः पुत्रो रिपो रिपुः । पत्न्याः पतिः पिता सूनोः कस्त्वं भूप वदाम्यहम् ॥ १,४८.९२ ॥ त्वं किमेतच्चिरः किं तु शिरस्तव तथो दरम् । किमु पादादिकं त्वेतन्नैव किं ते महीपते ॥ १,४८.९३ ॥ समस्तावयवेभ्यस्त्वं पृथग्भूतो व्यवस्थितः । कोऽहमित्यत्र निपुणं भूत्वा चिन्तय पार्थिव ॥ १,४८.९४ ॥ एवं व्यवस्थिते तत्त्वे मयाहमिति भावितुम् । पृथकूचरणनिष्पाद्यं शक्यं तु नृपते कथम् ॥ १,४८.९५ ॥ इति शृबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वि.पा.ष्टचत्वारिंशोऽध्यायः _____________________________________________________________ सनन्दन उवाच निशम्य तस्येति वचः परमार्थसमन्वितम् । प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ॥ १,४९.१ ॥ राजोवाच भगवन्यत्त्वया प्रोक्त परमार्थमयं वचः । श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः ॥ १,४९.२ ॥ एतद्विवेकविज्ञानं यदि शेषेषु जन्तुषु । भवता दर्शितं विप्र तत्परं प्रकृतेर्महत् ॥ १,४९.३ ॥ नाहं वहामि शिबिकां शिबिका मयि न स्थिता । शरीरमन्यदस्मत्तो येनेयं शिबिका धृता ॥ १,४९.४ ॥ गुण प्रवृत्तिर्भूतानां प्रवृत्तिः कर्मचोदिता । प्रवर्तन्ते गुणाश्चैते किं ममेति त्वयोदितम् ॥ १,४९.५ ॥ एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते । मनो विह्वलतामेति परमार्थार्थतां गतम् ॥ १,४९.६ ॥ पूर्वमेव महाभाग कपिलर्षिमहं द्विज । प्रष्टुमभ्युद्यतो गत्वा श्रेयः किन्त्वत्र संशये ॥ १,४९.७ ॥ तदन्तरे च भवता यदिदं वाक्यमीरितम् । तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥ १,४९.८ ॥ कपिलर्षिर्भगवतः सर्वभूतस्य वै किल । विष्णोरंशो जगन्मोहनाशाय समुपागतः ॥ १,४९.९ ॥ स एव भगवान्नूनमस्माकं हितकाम्यया । प्रत्यक्षतामनुगतस्तथैतद्भवतोच्यते ॥ १,४९.१० ॥ तन्मह्यं मोहनाशाय यच्छ्रेयः परमं द्विज । तद्वदाखिल विज्ञानजलवीच्युजधिर्भवान् ॥ १,४९.११ ॥ ब्राह्मण उवाच भूयः पृच्छसि किं श्रेयः परमार्थेन पृच्छसि । श्रेयांसि परमार्थानि ह्यशेषाण्येन भूपते ॥ १,४९.१२ ॥ देवताराधनं कृत्वा धनसंपदमिच्छति । पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ॥ १,४९.१३ ॥ विवकिनस्तु संयोगः श्रेयोऽसौ परमात्मना । कर्मयज्ञादिकं श्रेयः स्वर्लोकपलदायि यत् ॥ १,४९.१४ ॥ श्रेयः प्रधानं च फले तदेवानभिसंहिते । आत्मा ध्येयः सदा भूप योगयुक्तैस्तथा परैः ॥ १,४९.१५ ॥ श्रेय स्तस्यैव संयोगः श्रेयो यः परमात्मनः । श्रेयांस्येवमनेकानि शतशोऽथ सहस्रशः ॥ १,४९.१६ ॥ संत्यत्र परमार्थास्तु न त्वेते श्रूयतां च मे । धर्मोऽयं त्यजते किं तु परमार्थो धनं यदि ॥ १,४९.१७ ॥ व्ययश्चक्रियत कस्मात्कामप्राप्त्युपलक्षणः । मुत्रश्चेत्परमार्थाख्यः सोऽप्यन्यस्य नरेश्वर ॥ १,४९.१८ ॥ परमार्थभूतः सोऽन्यस्य परमार्थो हि नः पिता । एवं न परमार्थोऽस्ति जगत्यत्र चराचरे ॥ १,४९.१९ ॥ परमार्थो हि कार्याणि करणानामशेषतः । राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि ॥ १,४९.२० ॥ परमार्था भवन्त्यत्र न भवन्ति च वै ततः । ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव ॥ १,४९.२१ ॥ परमार्थभूतं तत्रापि श्रूयतां गदतो मम । यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया ॥ १,४९.२२ ॥ तत्कारणानुगमनाज्जायते नृप मृन्मयम् । एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः ॥ १,४९.२३ ॥ निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी । अनाशी परमार्थस्तु प्राज्ञैरभ्युपगम्यते ॥ १,४९.२४ ॥ यत्तुं नाशि न संदेहो नाशिद्रव्योपपादितम् । तदेवापलदं कर्म परमार्थो मतो मम ॥ १,४९.२५ ॥ मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् । ध्यानमेवात्मनो भूपपरमार्थार्थशब्दितम् ॥ १,४९.२६ ॥ भेदकारि परेभ्यस्तु परमार्थो न भेदवान् । परमार्थात्मनोर्योगः परमार्थ इतीष्यते ॥ १,४९.२७ ॥ मिथ्यैतदन्यद्द्रव्यं हि नैतद्द्रव्यमयं यतः । तस्माच्छ्रेयांस्यशेषाणि नृपैतानि न संशयः ॥ १,४९.२८ ॥ परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम । एको व्यापी समः शुद्धो निर्गुण प्रकृतेः परः ॥ १,४९.२९ ॥ जन्मवृद्ध्यादिरहित आत्मा सर्वगतो नृप । परिज्ञानमयो सद्भिर्नामजात्यादिभिविभुः ॥ १,४९.३० ॥ न योगवान्न युक्तोऽभून्नैव पार्थिवः योक्ष्यति । तस्यात्मपरदेहेषु सतोऽप्येकमयं हि तत् ॥ १,४९.३१ ॥ विज्ञानं परमार्थोऽसौ वेत्ति नोऽतथ्यदर्शनः । वेणुरङ्घ्रविभेदेन भेदः षङ्जादिसंज्ञितः ॥ १,४९.३२ ॥ अभेदो व्यापिनो वायोस्तथा तस्य महात्मनः । एकत्वं रूपभेदश्च वाह्यकर्मप्रवृत्तिजः ॥ १,४९.३३ ॥ देवादिभेदमध्यास्ते नास्त्येवाचरणो हि सः । शृण्वत्र भूप प्राग्वृत्तं यद्गीतमृभुणा भवेत् ॥ १,४९.३४ ॥ अवबोधं जनयतो निदाधस्य द्विजन्मनः । ऋभुर्नामाबवत्पुत्रो ब्रह्मणः परमेष्टिनः ॥ १,४९.३५ ॥ विज्ञात तत्त्वसद्भावो निसर्गादेव भूपते । तस्य शिष्यो निदाघोऽभूत्पुलस्त्यतनयः पुरा ॥ १,४९.३६ ॥ प्रादादशेषविज्ञानं स तस्मै परया मुदा । अवाप्तज्ञान तत्त्वस्य न तस्याद्वैतवासना ॥ १,४९.३७ ॥ स ऋभुस्तर्कयामास निदाघस्य नरेश्वर । देविकायास्तटे वीर नागरं नाम वै पुरम् ॥ १,४९.३८ ॥ समृद्धमतिरम्यं च पुलस्त्येन निवेशितम् । रम्योपवनपर्यन्तं स तस्मिन्पार्थवोत्तम ॥ १,४९.३९ ॥ निदाधनामायोगज्ञस्तस्य शिष्योऽभवत्पुरा । दिव्ये वर्षसहस्रे तु समतीतेऽस्य तत्पुरम् ॥ १,४९.४० ॥ जगाम स ऋभुः शिष्यं निदाघमवलोकितुम् । स तस्य वैश्वदेवन्ति द्वारालोकनगोचरः ॥ १,४९.४१ ॥ स्थित स्तेन गृहीतार्थो निजवेश्म प्रवेशितः । प्रक्षालिताङ्घ्रिपाणिं च कृतासनपरिग्रहम् ॥ १,४९.४२ ॥ उवाच स द्विजश्रेष्ठो भुज्यतामिति सादरम् । ऋभुरुवाच भो विप्रवर्य भोक्तव्यं यदत्र भवतो गृहे ॥ १,४९.४३ ॥ तत्कथ्यतां कदन्नेषु न प्रीतिः सततं मम । निदाघ उवाच सक्तुयावकव्रीहीनामपूपानां च मे गृहे ॥ १,४९.४४ ॥ यद्रोचते द्विजश्रेष्ठ तावद्भुङ्क्ष्व यथेच्छया । ऋभुरुवाच कदन्नानि दिजैतानि मिष्टमन्नं प्रयच्छ मे ॥ १,४९.४५ ॥ संयावपायसादीनि चेक्षुका रसवन्ति च । निदाघ उवाच गृहे शालिनि मद्गेहे यत्किञ्चिदति शोभनम् ॥ १,४९.४६ ॥ भोज्येषु साधनं मिष्टं तेनास्यान्नं प्रसाधय । इत्युक्ता तेन सा पत्नी मिष्टमन्नं द्विजस्य तत् ॥ १,४९.४७ ॥ प्रसाधितवती तद्वै भर्तुर्वचनगौरवात् । न भुक्तवन्तमिच्छातो मिष्टमन्नं महामुनिम् ॥ १,४९.४८ ॥ निदाघः प्राहभूपाल प्रश्रयावनतः स्थितः । निदाघ उवाच अपि ते परमा तृप्तिरुत्पन्ना पुष्टिरेव ॥ १,४९.४९ ॥ अपि ते मानसं स्वस्थमाहारेण कृतं द्विज । क्व निवासी भवान्विप्र क्व वा गन्तुं समुद्यतः ॥ १,४९.५० ॥ आगम्यते च भवता यतस्तश्च निवेद्यताम् । ऋमुरुवाच क्षुधितस्य च भुक्तेऽन्ने तृप्तिर्ब्रह्मन्विजायते ॥ १,४९.५१ ॥ न मे क्षुधा भवेत्तॄप्तिः कस्मान्मां द्विज पृच्छति । वह्निना पार्थिवेनादौ दग्धे वै क्षुरापीश्वः ॥ १,४९.५२ ॥ भवत्यंभसि च क्षीणे नृणां तृष्णासमुद्भवः । क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज ॥ १,४९.५३ ॥ ततः क्षुत्संभवाभावात्तृप्तिरस्त्येव मे सदा । मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज ॥ १,४९.५४ ॥ चेतसो यस्य यत्पृष्टं पुमानेभिर्न युज्यते । क्व निवासस्तवेत्युक्तं क्व गन्तासि च यत्त्वया ॥ १,४९.५५ ॥ कुतश्चागम्यते त्वेतात्र्रितयेऽपि निबोध मे । पुमान्सवर्गतो व्यापीत्याकाशवदयं यतः ॥ १,४९.५६ ॥ कुतः कुत्र क्व गन्तासीत्येतदप्यर्थवत्कथम् । सोऽहं गन्ता न चागन्ता नैकदेशनिकेतनः ॥ १,४९.५७ ॥ त्वं चान्ये च न च त्वं त्वं नान्ये नैवाहमप्यहम् । मिष्टन्ने मिष्टमित्येषा जिह्वा सा मे कृता तव ॥ १,४९.५८ ॥ किं वक्ष्यतीति तत्रापि श्रूयतां द्विजसत्तमा । मिष्टमेव यदामिष्टं तदेवोद्वेगकारणम् ॥ १,४९.५९ ॥ अमिष्टं जायते मिष्टं मिष्टादुद्विजते जनः । आदिमध्यावसानेषु किमन्नं रुचिकारणम् ॥ १,४९.६० ॥ मृण्मयं हि मृदा यद्वद्गृहं लिप्तं स्थिरीभवेत् । पार्थिवोऽयं तथा देहः पार्थिवैः परमाणुभिः ॥ १,४९.६१ ॥ यवगोधूममुद्गादिर्घृतं तैलं पयो दधि । गुडः फलानीति तथा पार्थिवाः परमाणवः ॥ १,४९.६२ ॥ तदेतद्भवता ज्ञात्वा मिष्टामिष्टविचारि यत् । तन्मनः शमनालबि कार्यं प्राप्यं हि मुक्तये ॥ १,४९.६३ ॥ इत्याकर्ण्य वचस्तस्य परमार्थाश्रितं नृप । प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीत् ॥ १,४९.६४ ॥ प्रसीद मद्धितार्थाय कथ्यतां यस्त्वमागतः । नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्विज ॥ १,४९.६५ ॥ ऋभुरुवाच ऋभुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज । इहागतोऽहं दास्यामि परमार्थं सुबोधितम् ॥ १,४९.६६ ॥ एक एवमिदं विद्धि न भेदि सकलं जगत् । वासुदेवाभिधेयस्य स्वरुपं परात्मनः ॥ १,४९.६७ ॥ ब्रह्मण उवाच तथेत्युक्त्वा निदाधेन प्रणिपातपुरः सरम् । पूजितः परया भक्त्यानिच्छितः प्रययौ विभुः ॥ १,४९.६८ ॥ पुनवषसहस्रन्ते समायातो नरेश्वर । निदाघज्ञानदानाय तदेव नगरं गुरुः ॥ १,४९.६९ ॥ नगरस्य बहिः सोऽथ निदाघं दृष्टवान्मुनिम् । महाबलपरीवारे पुरं विशति पार्थिवे ॥ १,४९.७० ॥ दूरस्थितं महाभागे जनसंमर्दवर्जकम् । क्षुत्क्षामकण्ठमायान्तमरण्यात्ससमित्कुशम् ॥ १,४९.७१ ॥ दृष्ट्वा निदाघं स ऋभुरुपागत्याभिवाद्य च । उवाच कस्मादेकान्तं स्थीयत भवता द्विज ॥ १,४९.७२ ॥ ॥ निदाघ उवाच भो विप्र जनसंमर्द्दो महानेष जनेश्वरे । प्रविवक्षौ पुरे रम्ये तेनात्र स्थीयते मया ॥ १,४९.७३ ॥ ऋभुरुवाच नराधिपोऽत्र कतमः कतमश्चेतरो जनः । कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो मतो मम ॥ १,४९.७४ ॥ निदाघ उवाच योऽयं गजेन्द्रमुन्मत्तमद्रिशृङ्गसमुच्छ्रयम् । अधिरुढो नरेन्द्रोऽयं परितो यस्तथेतरः ॥ १,४९.७५ ॥ ऋभुरुवाच एतौ हि गजराजानौ दृष्टौ हि युगपन्मया । भवता निर्विशेषेण पृथग्वेदोपलक्षितौ ॥ १,४९.७६ ॥ तत्कथ्यतां महाभाग विशेषो भवतानयोः । ज्ञातुमिच्छाम्यहं कोऽत्र गजः को वा नराधिपः ॥ १,४९.७७ ॥ निदाध उवाच गजोयोऽयमधो ब्रह्मन्नुपर्यस्यैष भूपतिः । वाह्यवाहकसंबन्धं को न जानाति वै द्विज ॥ १,४९.७८ ॥ ऋभुरुवाच ब्रह्मन्यथाहं जानीयां तथा मामवबोधय । अधः सत्त्वविभागं किं किं चोर्द्धमभिधीयते ॥ १,४९.७९ ॥ ब्राह्मण उवाच इत्युक्त्वा सहसारुह्य निदाघः प्राह तं ऋभुम् । श्रयतां कथयाम्येष यन्मां त्वं परिपृच्छसि ॥ १,४९.८० ॥ उपर्यहं यथा राजा त्वमधःकुञ्जरो यथा । अवबोधाय ते ब्रह्मन्दृष्टान्तो दर्शितो मया ॥ १,४९.८१ ॥ ऋभुरुवाच त्वं राजेव द्विजश्रेष्ठ स्थितोऽहं गजवद्यदि । तदेवं त्वं समाचक्ष्व कतमस्त्वमहं तथा ॥ १,४९.८२ ॥ ब्राह्मण उवाच इत्युक्तः सत्वरस्तस्य चरणावभिवन्द्य सः । निदाधः प्राह भगवन्नाचार्यस्त्वमृभुर्मम् ॥ १,४९.८३ ॥ नान्यस्याद्वै वसंस्कारसंस्कृतं मानसं तथा । यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम् ॥ १,४९.८४ ॥ ऋभुरुवाच तवोपदेशदानाय पूर्वशुश्रूषणात्तव । गुरुस्नेहादृभुर्नामनिदाघं समुपागतः ॥ १,४९.८५ ॥ तदेतदुपदिष्टं ते संक्षेपेण महामते । परमार्थसारभूतं यत्तदद्वैतमशेषतः ॥ १,४९.८६ ॥ ब्राह्मण उवाच एवमुक्त्वा ददौ विद्यां निदाघं स ऋभुर्गुरुः । निदाघोऽप्युपदेशेन तेनाद्वैतपरोऽभवत् ॥ १,४९.८७ ॥ सर्वभूतान्यभेदेन ददृशे स तदात्मनः । तथा ब्रह्मतनौ मुक्तिमवाच परमाद्विजः ॥ १,४९.८८ ॥ तथा त्वमपि धर्मज्ञ तुल्यात्मरिपुबान्धवः । भव सर्वगतं ज्ञानमात्मानमवनीपते ॥ १,४९.८९ ॥ सितनीलादिभेदेन यथैकं दृश्यते नभः । भ्रान्तदृष्टिभिरात्मापि तथैकः सन्पृथक्पृथक् ॥ १,४९.९० ॥ एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोऽन्यत् । सोऽहं स च त्वं स च सर्वमेतदात्मांस्वयं भात्यपभेदमोहः ॥ १,४९.९१ ॥ सनन्दन उवाच इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः । स चापि जातिस्मरणावबोदस्तत्रैव जन्मन्यपवर्गमाप ॥ १,४९.९२ ॥ परमार्थाध्यात्ममेतत्तुभ्यमुक्तं मुनीश्वर । ब्राह्मणक्षत्रियविशां श्रोर्तृआणां चापि मुक्तिदम् ॥ १,४९.९३ ॥ यथा पृष्टं त्वया ब्रह्मंस्तथा ते गदितं मया । ब्रह्मज्ञानमिदं शुद्धं किमन्यत्कथयामि वै ॥ १,४९.९४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वि.पा.एकोनपञ्चाशत्तमोध्यायः _____________________________________________________________ सूत उवाच श्रुत्वा सनन्दनस्येत्थं वचनं नारदो मुनिः । असंतुष्ट इव प्राह भ्रातरं तं सनन्दनम् ॥ १,५०.१ ॥ नारद उवाच भगवन्सर्वमाख्यातं यत्पृष्टं भवतो मया । तथापि नात्मा प्रीयेत शृण्वन्हरिकथां मुहुः ॥ १,५०.२ ॥ श्रूयते व्यासपुत्रस्तु शुकः परमधर्मवित् । सिद्धिं सुमहतीं प्राप्तो निर्विण्णोऽवान्तरं बहिः ॥ १,५०.३ ॥ ब्रह्मन्पुंसस्तु विज्ञानं महतां सेवनं विना । न जायते कथं प्राप्तो ज्ञानं व्यासात्मजः शिशुः ॥ १,५०.४ ॥ तस्य जन्मरहस्यं मे कमचाप्यस्य शृण्वते । समाख्याहि महाभाग मो७शास्त्रार्थविद्भवान् ॥ १,५०.५ ॥ सनन्दन उवाच शृणु विप्रप्रवक्ष्यामि शुकोत्पत्तिं समासतः । यां श्रुत्वा ब्रह्मतत्त्वज्ञो जायते मानवो मुने ॥ १,५०.६ ॥ न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः । ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ १,५०.७ ॥ नारद उवाच अनूचानः कथंब्रह्मन्पुमान्भवति मानद । तन्मे कर्म समाचक्ष्व श्रोतुं कौतूहलं मम ॥ १,५०.८ ॥ सनन्दन उवाच शृणु नारद वक्ष्यामि ह्यनूचानस्य लक्षणम् । यज्ज्ञात्वा साङ्गवेदानामभिज्ञो जायते नरः ॥ १,५०.९ ॥ शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा । छन्दःशास्त्रं षडेतानि वादाङ्गानि विदुर्बुधाः ॥ १,५०.१० ॥ ऋग्वेद्रोऽथ यदुर्वेदः सामवेदो ह्यथर्वणः । वेदाश्चत्वार एवैते प्रोक्ता धर्मनिरूपणे ॥ १,५०.११ ॥ सांगान्वेदान्गुरोर्यस्तु समधीते द्विजोत्तमः । सोऽनूचानः प्रभवति नान्यथा ग्रन्थकोटिभिः ॥ १,५०.१२ ॥ नारद उवाच अङ्गानां लक्षणं ब्रूहि वेदानां चापि विस्तरात् । त्वंमस्मासु महाविज्ञः सांगेष्वेतेषु मानद ॥ १,५०.१३ ॥ सनन्दन उवाच प्रश्नभारोऽयमतुलस्त्वया मम कृतो द्विज । संक्षेपात्कथयिष्यामि सारमेषां सुनिश्चितम् ॥ १,५०.१४ ॥ स्वरः प्रधानः शिक्षायां कीर्त्तितो मुनिभिर्दिजैः । वेदानां वेदविद्भिस्तु तच्छृणुष्व वदामि ते ॥ १,५०.१५ ॥ आर्चिकं गाथिकं चैव सामिकं च स्वरान्तरम् । कृतान्ते स्वरशास्त्राणां प्रयोक्तव्य विशेषतः ॥ १,५०.१६ ॥ एकान्तरः स्वरो ह्यप्सु गाथासुद्व्यन्तरः स्वरः । सामसु त्र्यन्तरं विद्यादेतावत्स्वरतोऽन्तरम् ॥ १,५०.१७ ॥ ऋक्सामयजुरङ्गानि ये यज्ञेषु प्रयुञ्जते । अविज्ञानाद्धि शिक्षायास्तेषां भवति विस्वरः ॥ १,५०.१८ ॥ मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिर्नास्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ १,५०.१९ ॥ उरः कण्ठः शिरश्चैव स्थानानि त्रीणि वाङ्क्ये । सवनान्याहुरेतानि साम वाप्यर्द्धतोंऽतरम् ॥ १,५०.२० ॥ उरः सप्तविवारं स्यात्तथा कण्ठस्तथा शिरः । न च शक्तोऽसि व्यक्तस्तु तथा प्रावचना विधिः ॥ १,५०.२१ ॥ कठकालापवृत्तेषु तैत्तिराह्वरकेषु च । ऋग्वेदे सामवेदे च वक्तव्यः प्रथमः स्वरः ॥ १,५०.२२ ॥ ऋग्वेदस्तु द्वितीयेन तृतीयेन च वर्तते । उच्चमध्यमसंघातः स्वरो भवति पार्थिवः ॥ १,५०.२३ ॥ तृतीय प्रथमक्रुष्टा कुर्वन्त्याह्वरकान् स्वरान् । द्वितीयाद्यास्तु मद्रान्तास्तैत्तिरीयाश्चतुःस्वरान् ॥ १,५०.२४ ॥ प्रथमश्च द्वितीयश्च तृतीयोऽथ चतुर्थकः । मन्द्रः क्रुष्टो मुनीश्वर एतान्कुर्वन्ति सामगाः ॥ १,५०.२५ ॥ द्वितीयप्रथमावेतौ नाण्डिभाल्लविनौ स्वरौ । तथा शातपथावेतौ स्वरौ वाजसनेयिनाम् ॥ १,५०.२६ ॥ एते विशेषतः प्रोक्ताः स्वरा वै सार्ववैदिकाः । इत्येतञ्चरितं सर्वं स्वराणां सार्ववैदिकम् ॥ १,५०.२७ ॥ सामवेदे तु वक्ष्यामि स्वराणां चरितं यथा । अल्पग्रन्थं प्रभूतार्थं सामवेदाङ्गमुत्तमम् ॥ १,५०.२८ ॥ तानरागस्वरग्राममूर्च्छनानां तु लक्षणम् । पवित्रं पावनं पुण्यं यथा तुभ्यं प्रकीर्तितम् ॥ १,५०.२९ ॥ शिक्षामाहुर्द्विजातीनामृग्यजुः सामलक्षणम् । सप्त स्वरास्रयो ग्रामा मृर्छनास्त्वेकविंशतिः ॥ १,५०.३० ॥ ताना एकोनपञ्चाशदित्येतःस्वरमण्डलम् । षङ्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा ॥ १,५०.३१ ॥ पञ्चमो धैवतश्चैवं निषादः सप्तमः स्वरः । षङ्जमध्यमगान्धारास्ररयो ग्रामाः प्रकीर्तिताः ॥ १,५०.३२ ॥ भूर्ल्लोकाज्जायते षङ्जो भुवर्लोकाञ्च मध्यमः । स्वर्गाभ्राञ्चैव गान्धारो ग्रामस्थानानि त्रीणि हि ॥ १,५०.३३ ॥ स्वराणां च विशेषेण ग्रामरागा इति स्मृताः । विंशतिर्मध्यमग्रामे षङ्जग्रामे चतुर्दश ॥ १,५०.३४ ॥ तानान्पं चदशेच्छन्ति गान्धारे सामगायिनाम् । नदी विशाला सुमुखी चित्रा चित्रवती मुखा ॥ १,५०.३५ ॥ बला चाप्यथ विज्ञेया देवानां सप्त मूर्छनाः । आप्यायिनी विश्वभृता चन्द्रा हेमा कपर्दिनी ॥ १,५०.३६ ॥ मैत्री च बार्हती चैव पितॄणां सप्त मूर्छनाः । षङ्जे तूत्तरमन्द्रा स्यादृषभे चाभिरूहता ॥ १,५०.३७ ॥ अश्वक्रान्ता तु गान्धारे तृतीया मूर्च्छना स्मृता । मध्यमे खलु सौवीरा हृषिका पञ्चमे स्वरे ॥ १,५०.३८ ॥ धैवते चापि विज्ञेया मूर्छना तूत्तरा मता । निषादे रजनीं विद्यादृषीणां सप्त मूर्छनाः ॥ १,५०.३९ ॥ उपजीवन्ति गन्धर्वा देवानां सप्त मूर्छनाः । पितॄणां मूर्च्छानाः सप्त तथा यक्षा न संशयः ॥ १,५०.४० ॥ ऋषीणां मूर्छनाः सप्त यास्त्विमा लौकिकाः स्मृताः । षङ्जः प्रीणाति वै देवानृषीन्प्रीणाति चर्षभः ॥ १,५०.४१ ॥ पितॄन् प्रीणाति गान्धारो गन्धर्वान्मध्यमः स्वरः । देवान्पितॄनृषींश्चैव स्वरः प्रीणाति पञ्चमः ॥ १,५०.४२ ॥ यक्षान्निषादः प्रीणाति भूतग्रामं च धैवतः । गानस्य तु दशविधा गुणवृत्तिस्तु तद्यथा ॥ १,५०.४३ ॥ रक्तं पूर्णमलङ्कृतं प्रसन्नं व्यक्तं विक्रुष्टं श्लक्ष्णं समं सुकुमारं मधुरमिति गुणास्तत्र रक्तं नाम वेणुवीणास्वराणामेकीभावं रक्तमित्युच्यते पूर्णं नाम स्वरश्रुतिपूरणाच्छन्दः पादाक्षरं संयोगात्पूर्णमित्युच्यते अलङ्कृतं नामोरसि शिरसि कण्ठयुक्तमित्यलङ्कृतं प्रसन्नं नामापगतागद्गदनिर्विशङ्कं प्रसन्नमित्युच्यते व्यक्तं नाम पदपदार्थप्रकृतिविकारागमनोपकृत्तद्धितसमासधातुनिपातोपसर्गस्वरलिङ्गं वृत्तिवार्त्तिकविभक्त्यर्थवचनानां सम्यगुपपादनं व्यक्तमित्युच्यते विक्रुष्टं नामोञ्चैरुञ्चारितं व्यक्तपदाक्षरं विक्रुष्टमित्युच्यते श्लेक्ष्णं नाम द्रुतमविलंबितमुच्चनीचप्लुतसमाहारहेलतालोपनयादिभिरुपपादनाभिः श्लक्ष्णमित्युच्यते समं नामावापनिर्वापप्रदेशे प्रत्यन्तरस्थानानां समासः सममित्युच्यते सुकुमारं नाम मृदुपदवर्णस्वरकुहगरणयुक्तं सुकुमारमित्युच्यते मधुरं नाम स्वभावोपनीतललितपदाक्षरगुणसमृद्धं मधुरमित्युच्यते एवमेतैर्दशभिर्गुणैर्युक्तं गानं भवति ॥ १॥ बवन्ति चात्र श्लोकाः शङ्कितं भीषणं भीतमुद्धुष्टमनुनासिकम् । काकस्वरं मूर्द्धगतं तथा स्थानविवर्जितम् ॥ १,५०.४४ ॥ विस्तरं विरसं चैव विश्लिष्टं विषमाहतम् । व्याकुलं तालहीनं च गीतिदोषाश्चतुर्दश ॥ १,५०.४५ ॥ आचार्याः सममिच्छन्ति पदच्छेदं तु पण्डिताः । स्रियो मधुरमिच्छन्ति विक्रुष्टमितरे जनाः ॥ १,५०.४६ ॥ पद्मपत्रप्रभः षङ्ज ऋषभः शुकपिञ्जरः । कनकाभस्तु गान्धारो मध्यमः कुन्दसन्निभः ॥ १,५०.४७ ॥ पञ्चमस्तु भवेत्कृष्णः पीतकं धैवतं विदुः । निषादः सर्ववर्णः स्यादित्येताः स्वरवर्णताः ॥ १,५०.४८ ॥ पचमो मध्यमः षङ्ज इत्येते ब्राह्मणाः स्मृताः । ऋषभो धैवतश्चापीत्येतौ वै क्षत्रियावुभौ ॥ १,५०.४९ ॥ गान्धारश्च निषादश्च वैश्यावर्द्धेन वै स्मृतो । शूद्रत्वं विधिनार्द्धेन पतितत्वान्न संशयः ॥ १,५०.५० ॥ ऋषभो मूर्छितवर्जितो धैवतसहितश्च पञ्चमो यत्र । निपतति मध्यमरागे स निषादं षाङ्जवं विद्यात् ॥ १,५०.५१ ॥ यदि पञ्चमो विरमते गान्धारश्चान्तरस्वरो भवति । ऋषभो निषादसहितस्तं पञ्चममीदृशं विद्यात् ॥ १,५०.५२ ॥ गान्धारस्याधिपत्येन निषादस्य गतागतैः । धैवतस्य च दौर्बल्यान्मध्यमग्राम उच्यते ॥ १,५०.५३ ॥ ईषत्पृष्टो निषादस्तु गान्धारश्चाधिको भवेत् । धैवतः कंपितो यत्र स षङ्गयाम ईरितः ॥ १,५०.५४ ॥ अन्तरस्वरसंयुक्तः काकलिर्यत्र दृश्यते । तं तु साधारितं विद्यात्पञ्चमस्थं तु कैशिकम् ॥ १,५०.५५ ॥ कैशिकं भावयित्वा तु स्वरैः सर्वैः समन्ततः । यस्मा त्तु मध्यमे न्यासस्तस्मात्कैशिकमध्यमः ॥ १,५०.५६ ॥ काकलिर्दृश्यते यत्र प्राधान्यं पञ्चमस्य तु । कश्यपः कैशिकं प्राह मध्यमग्रामसंभवम् ॥ १,५०.५७ ॥ गेति गेयं विदुः प्राज्ञा धेति कारुप्रवादनम् । वेति वाद्यस्य संज्ञेयं गन्धर्वस्य प्ररोचनम् ॥ १,५०.५८ ॥ यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः । यो द्वितीयः स गान्धारस्तृतीयस्त्वृषभः स्मृतः ॥ १,५०.५९ ॥ चतुर्थः षङ्ज इत्याहुः पञ्चमो धैवतो भवेत् । षष्ठो निषादो विज्ञेयः सप्तमः पञ्चमः स्मृतः ॥ १,५०.६० ॥ षङ्जं मयूरो वदति गावो रंभन्ति चर्षभम् । अजाविके तु गान्धारं क्रैञ्चो वदति मध्यमम् ॥ १,५०.६१ ॥ पुष्पसाधारणे काले कोकिला वक्ति पञ्चमम् । अश्वस्तु धैवतं वक्ति निषआदं वक्ति कुञ्जरः ॥ १,५०.६२ ॥ कण्ठादुत्तिष्टते षङ्जः शिरसस्त्वृषभः स्मृतः । गान्धारस्त्वनुनासिक्य उरसो मध्यमः स्वरः ॥ १,५०.६३ ॥ उरसः शिरसः कण्ठादुत्थितः पञ्चमः स्वरः । ललाटाद्धैवतं विद्यान्निषादं सर्वसन्धिजम् ॥ १,५०.६४ ॥ नासा कण्ठमुरस्तालुजिह्वादतांश्च संश्रितः । षङ्भिः सं जायते यस्मात्तस्मात्षङ्ज इति स्मृतः ॥ १,५०.६५ ॥ वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः । नर्दत्यृषभवद्यस्मात्तस्मादृषेर्भ उच्यते ॥ १,५०.६६ ॥ वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः । वाति गन्धवहः पुण्यो गान्धारस्तेन हेतुना ॥ १,५०.६७ ॥ वायुः समुत्थितो नाभेरुरौ हृदि समाहतः । नाभिप्राप्तो मध्यवर्ती मध्यमत्वं समर्श्नुते ॥ १,५०.६८ ॥ वायुः समुत्थितो नाभेरुरोहृत्कण्ठकाहृतः । पञ्चस्थानोत्थितस्यास्य पञ्चमत्वं विधीयते ॥ १,५०.६९ ॥ धैवतं च निषादं च वर्जयित्वा तु तावुभौ । शेषान्पञ्च स्वरांस्त्वन्ये पञ्चस्थानोत्थितान्विदुः ॥ १,५०.७० ॥ पञ्चस्थानस्थितत्वेन सर्वस्थानानि धार्यते । अग्निगीतस्वरः षङ्ज ऋषभो ब्रह्मणोच्यते ॥ १,५०.७१ ॥ सोमेन गीतो गान्धारो विष्णुना मध्यमः स्वरः । पञ्चमस्तु स्वरो गीतस्त्वयैवेति निधारय ॥ १,५०.७२ ॥ धैवतश्च निषादश्च गीतौ तुंबुरुणा स्वरौ । आद्यंस्य दैवतं ब्रह्मा षङ्जस्याप्युच्यते बुधैः ॥ १,५०.७३ ॥ तीक्ष्णदीप्तप्रकाशत्वादृषभस्य हुताशनः । गावः प्रणीते तुष्यन्ति गान्धारस्तेन हेतुना ॥ १,५०.७४ ॥ श्रुत्वा चैवोपतिष्टन्ति सौरभेया न संशयः । सोमस्तु पञ्चमस्यापि दैवतं ब्रह्मराद्रस्मृतम् ॥ १,५०.७५ ॥ निह्रासो यस्य वृद्धिश्च ग्राममासाद्य सोमवत् । अतिसंधीयते यस्मादेतान्पूर्वोत्थितान्स्वरान् ॥ १,५०.७६ ॥ तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते । निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना ॥ १,५०.७७ ॥ सर्वांश्चाभिभवत्येष यदादित्योऽस्य दैवतम् ॥ १,५०.७८ ॥ दारवी गात्रवीणा च द्वे वीणे गानजातिषु ॥ १,५०.७९ ॥ सामनी गात्रवीणा तु तस्यास्त्वं शृणु लक्षणम् । गात्रवीणा तु सा प्रोक्ता यस्यां गायन्ति सामङ्गाः ॥ १,५०.८० ॥ स्वरव्यञ्जनसंयुक्ता अङ्गुल्यङ्गुष्टरञ्जिता । हस्तौ तु संयतौ धार्यौं जानुभ्यामुपरिस्थितौ ॥ १,५०.८१ ॥ गुरोरनुकृतिं कुर्याद्यथान्या न मतिर्भवेत् । प्रणवं प्राक्प्रयुञ्जीत व्याहृतीस्तदनन्तरम् ॥ १,५०.८२ ॥ सावित्रीं चानुवचनं ततो वै गानमारभेत् । प्रसार्य चाङ्गुलीः सर्वा रोपयेत्स्वरमण्डलम् ॥ १,५०.८३ ॥ न चाङ्गुलीभिरङ्गुष्टमङ्गुष्टेनागुलीः स्पृशेत् । विरला नाङ्गुलीः कुर्यान्मूले चैतां न संस्पृशेत् ॥ १,५०.८४ ॥ अङ्गुष्ठाग्रेण ता नित्यं मध्यमे पर्वणि स्पृशेत् । मात्राद्विमात्रवृद्धानां विभागार्थे विभागवित् ॥ १,५०.८५ ॥ अङ्गुलीभिर्द्विमात्रं तु पाणेः सव्यस्य दर्शयेत् । त्रिरेखा यस्य दृश्यते सिद्धिं तत्र विनिर्दिशेत् ॥ १,५०.८६ ॥ स पर्व इति विज्ञेयः शेषमन्तरमन्तरम् । पर्वान्तरं सामसु च ऋक्षु कुर्यात्तिलान्तरम् ॥ १,५०.८७ ॥ स्वरान्मध्यमपर्वसु सुनिविष्टं निवेशयेत् । न चात्र कंपयेत्किञ्चिदङ्गस्यावयवं बुधः ॥ १,५०.८८ ॥ अधस्तनं मृदं न्यस्य हस्तमात्रे यथाक्रमम् । अभ्रमध्ये यथा विद्युदृश्यते मणिसूत्रवत् ॥ १,५०.८९ ॥ पृषच्छेदविवृत्तीनां यथा बालेषुकर्तरी । कूर्मोऽगानि च संहृत्य चेतोदृष्टिं दिशन्मनः ॥ १,५०.९० ॥ स्वस्थः प्रशान्तो निर्भीको वर्णानुञ्चारयेद्बुधः । नासिकायास्तु पूर्वेण हस्तं गोकर्णवद्धरेत् ॥ १,५०.९१ ॥ निवेश्य दृष्टिं हस्ताग्रे शास्त्रार्थमनुचिन्तयेत् । सम्यक्प्रचारयेद्वाक्यं हस्तेन च मुखेन च ॥ १,५०.९२ ॥ यथैवोच्चारयेद्वर्णांस्तथैवैनां समापयेत् । नात्याहन्यान्न निर्हण्यान्न प्रगायेन्न कंपयेत् ॥ १,५०.९३ ॥ समं सामानि गायेत व्योम्नि स्वेन गातिर्यथा । यथा सुचरतां मार्गो मीनानां नोपलभ्यते ॥ १,५०.९४ ॥ आकाशे वा विहॄङ्गानां तद्वत्स्वरगता श्रुतिः । यथा दधिनि सर्पिः स्यात्काष्टस्थो वा यथानलः ॥ १,५०.९५ ॥ प्रयत्नेनोपलभ्येत तद्वत्स्वरगता श्रुतिः । स्वरात्स्वरस्य संक्रामंस्वरसंधिमनुल्बणम् ॥ १,५०.९६ ॥ अविच्छिन्नं समं कुर्यात्सूक्ष्मच्छायातपोपमम् । अनागतमतिक्रान्तं विच्छिन्नं विषमाहतम् ॥ १,५०.९७ ॥ तन्वन्तमस्थितान्तं च वर्जयेत्कर्षणं बुधः । स्वरः स्थानाच्च्युतो यस्तु स्वं स्थानमतिवर्तते ॥ १,५०.९८ ॥ विस्तरं सामगा ब्रूयुर्विरक्तमिति वीणिनः । अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् ॥ १,५०.९९ ॥ शिष्यणामुपदेशार्थं कुर्याद्वृत्तिं विलंबिताम् । गृहीतग्रन्थ एवं तु ग्रन्थोञ्चारणशैक्षकान् ॥ १,५०.१०० ॥ हस्ते नाध्यापयेच्छिष्यान् शैक्षेण विधिना द्विजः । क्रुष्टस्य मूर्द्धनि स्थानं ललाटे प्रथमस्य तु ॥ १,५०.१०१ ॥ भ्रुवोर्मध्य द्वितीयस्य तृतीयस्य तु कर्णयोः । कण्ठस्थानं चतुर्थस्य मन्द्रस्य रसनोच्यते ॥ १,५०.१०२ ॥ अतिस्वरस्य नीचस्य हृदि स्थानं विधीयते । अङ्गुष्टस्योत्तमे व्रुष्टो ह्यङ्गुष्टं प्रथमः स्वरः ॥ १,५०.१०३ ॥ प्रदेशिन्यां तु गान्धार ऋषभस्तदनन्तरम् । अनामिकायां षङ्गस्तु कनिष्टायां तु धैवतः ॥ १,५०.१०४ ॥ तस्याधस्ताञ्च योन्यास्तु निषादं तत्र निर्दिशेत् । अपर्वत्वादमध्यत्वा दव्ययत्वाञ्च नित्यशः ॥ १,५०.१०५ ॥ मन्द्रो हि मन्दीभूतस्तु परिस्वार इति स्मृतः । क्रुष्टेन देवा जीवन्ति प्रथमेन तु मानुषाः ॥ १,५०.१०६ ॥ पशवस्तु द्वितीयेन गन्धर्वाप्सरसस्त्वनु । अन्धजाः पितरश्चैव चतुर्थस्वरजीविनः ॥ १,५०.१०७ ॥ मन्द्रत्वेनोपजीवन्ति पिशाचासुरराक्षसाः । अतिस्वरेण नीचेन जगत्स्थावरजङ्गमाः ॥ १,५०.१०८ ॥ सर्वाणि खलु भूतानि धार्यन्ते सामिकैः स्वरैः । दीप्तायताकरुणानां मृदुमध्यमयोस्तथा ॥ १,५०.१०९ ॥ श्रुतीनां यो विशेषज्ञो न स आचार्य उच्यते । दीप्ता मन्द्रे द्वितीय च प्रचतुर्थे तथैव च ॥ १,५०.११० ॥ अतिस्वरे तृतीये च क्रुष्टे तु करुणा श्रुतिः । श्रुतयो या द्वितीयस्य मृदुमध्यायताः स्मृताः ॥ १,५०.१११ ॥ तासामपि तु वक्ष्यामि लक्षणानि पृथक्पृथक् । आयतात्वं भवेन्नीचे मृदुता तु विपर्यये ॥ १,५०.११२ ॥ स्वे स्वरे मध्यमात्वं तु तत्समीक्ष्य प्रयोजयेत् । द्वितीये विरता या तु क्रुष्टश्च परतो भवेत् ॥ १,५०.११३ ॥ दीप्तां तां तु विजानीयात्प्राथम्येन मृदुः स्मृतः । अत्रैव विरता या तु चतुर्थेन प्रवर्तते ॥ १,५०.११४ ॥ तथा मन्द्रे भवेद्दीप्ता साम्नश्चैव समापने । नातितारश्रुतिं कुर्यात्स्वरयोर्नापि चान्तरे ॥ १,५०.११५ ॥ तं च ह्रस्वे च दीर्घे च न चापि घुटिसज्ञके । द्विविधा गतिः पदान्तस्थितसंधिः सहोष्मभिः ॥ १,५०.११६ ॥ स्थानेषु पञ्चस्वेतेषु विज्ञेय घुटिसंज्ञकम् । स्वरान्तराविरतानि ह्रस्वदीर्घघुटानि च ॥ १,५०.११७ ॥ स्थितिस्थानेष्वशेषाणि श्रुतिवत्स्वरतो वदेत् । दीप्तामुदात्ते जानीयाद्दीप्तां च स्वरिते विदुः ॥ १,५०.११८ ॥ अनुदात्ते मृदुर्ज्ञेया गन्धर्वाः श्रुतिसंपदे । उदात्तश्चानुदात्तश्च स्वरितप्रचिते तथा ॥ १,५०.११९ ॥ निघातश्चेति विज्ञेयः स्वरभेदश्च पञ्चधा । अत ऊर्ध्वं प्रवक्ष्यामि आचिकस्य स्वरत्रयम् ॥ १,५०.१२० ॥ उदात्तश्चानुदात्तश्च तृतीयः स्वरितः स्वरः । य एवोदात्त इत्युक्तः स एव स्वरितात्परः ॥ १,५०.१२१ ॥ प्रचयः प्रोच्यते तज्ज्ञैर्न चात्रान्यत्स्वरान्तरम् । वर्णस्वरोऽतीतस्वरः स्वरितो द्विविधः स्मृतः ॥ १,५०.१२२ ॥ मात्रिको वर्ण एवं तु दीर्घस्तूञ्चरितादनु । स तु सप्तविधो ज्ञेयः स्वरः प्रत्ययदर्शनात् ॥ १,५०.१२३ ॥ पदेन तु स विज्ञेयो भवेद्यो यत्र यादृशः । सप्तस्वरान्प्रयुञ्जीत दक्षिणं श्रवणं प्रति ॥ १,५०.१२४ ॥ आचार्यैर्विहितं शास्त्रं पुत्रशिष्यहितैषिभिः । उच्चादुञ्चतरं नास्ति नीचान्नीचतरं तथा ॥ १,५०.१२५ ॥ वैस्वर्यस्वारसंज्ञायां किंस्थानः स्वार उच्यते । उच्चनीचस्य यन्मध्ये साधारणमिति श्रुतिः ॥ १,५०.१२६ ॥ तं स्वारं स्वारसंज्ञायां प्रतिजानन्ति शैक्षिकाः । उदात्ते निषादगान्धारावनुदात्तें ऋषभधैवतो ॥ १,५०.१२७ ॥ स्वरितप्रभवा ह्येते षङ्जमध्यमपञ्चमाः । यत्र कखपरा ऊष्मा जिह्वामूलप्रयोजनाः ॥ १,५०.१२८ ॥ तानप्याज्ञापयेन्मात्राप्रकृत्यैव तु सा कला । जात्यः क्षैप्रोऽभिनिहित स्तैरव्यञ्जन एव च ॥ १,५०.१२९ ॥ तिरोविरामः प्रश्लिष्टोऽपादवृत्तश्च सप्तमः । स्वराणामहमेतेषां पृथग्वक्ष्यामि लक्षणम् ॥ १,५०.१३० ॥ उद्दिष्टानां तथा न्यायमुदाहरणमेव च । सपकारं सवं वापि ह्यक्षरं स्वरितं भवेत् ॥ १,५०.१३१ ॥ न चोदात्तं पुरो यस्य जात्यः स्वारः स उच्यते । इउवर्णो यदोदात्तावापद्येते पवौ क्वचित् ॥ १,५०.१३२ ॥ अनुदात्तं प्रत्यये तु विद्यात्क्षैप्रस्य लक्षणम् । एओ आभ्यामुदात्ताभ्यामकारो निहितश्च यः ॥ १,५०.१३३ ॥ अकारो यत्र लुंपति तमभिनिहितं विदुः । उदात्तपूर्वे यत्किञ्चिच्छन्दसि स्वरितं भवेत् ॥ १,५०.१३४ ॥ एष सर्वबहुस्वारस्तैरव्यञ्जन उच्यते । अवग्रहात्परं यत्र स्वरितं स्यादनन्तरम् ॥ १,५०.१३५ ॥ तिरोविरामं तं विद्यादुदात्तो यद्यवग्रहः । इकारं यत्र पश्येयुरिकारेणैव संयुतम् ॥ १,५०.१३६ ॥ उदात्तमनुदात्तेन प्रश्लिष्टं तं विचारय । स्वरे चेत्स्वरितं यत्र विवृता यत्र संहिता ॥ १,५०.१३७ ॥ एतत्पादान्तवृत्तस्य लक्षणं शास्त्रनोदितम् । तान्यः स्वारः स जात्येन श्रुत्यग्रे क्षैप्र उच्यते ॥ १,५०.१३८ ॥ ते मन्वताभिनितस्तैरव्यञ्जन ऊतये । तिरोविरामो विष्कषिते प्रश्लिष्टो हीईगोवर्णः ॥ १,५०.१३९ ॥ पादवृत्तः कन्दविदेस्वराः सप्तैवमादयः । उञ्चादेकाक्षरात्पूर्वात्स्वरं यद्यदिहाक्षरम् ॥ १,५०.१४० ॥ स्वाराणां जात्यवर्जानामेषा प्रकृतिरुच्यते । चत्वारस्त्वादितः स्वाराः कंषंपुंश्फुतिशास्त्रतः ॥ १,५०.१४१ ॥ उदात्ते चैकनीचे वा जुह्वोऽग्निस्तन्निदर्शनम् । इकारान्ते पदे पूर्व उकारे परतः स्थिते ॥ १,५०.१४२ ॥ ह्रस्वं कंपं विजानीयान्मेधावी नात्र संशयः । इकारान्ते पदे चैवोकारद्वयं परे पदे ॥ १,५०.१४३ ॥ दीर्घं कंपं विजानीयाच्छाग्धूष्विति निदर्शनम् । त्रयो दीर्घास्तु विज्ञेया ये च संध्यक्षरेषु वै ॥ १,५०.१४४ ॥ मन्या यथा न इन्द्राभ्यां शेषा ह्रस्वाः प्रकीर्तिताः । अनेकानामुदात्तानामनुदात्तः प्रत्ययो यदि ॥ १,५०.१४५ ॥ शिवकंपं विजानीयादुदात्तः प्रत्ययो यदि । यत्र द्विप्रभृतीनि स्युरुदात्तान्यक्षराणि तु ॥ १,५०.१४६ ॥ नीचं वोञ्चं च परतस्तत्रोदात्तं विदुर्बुधाः । न रेफे वा हकारे वा द्विर्भावो जायते क्वचित् ॥ १,५०.१४७ ॥ न च वर्गद्वितीयेषु न चतुर्थे कदाचन । चतुर्थं तु तृतीयेन द्वितीयः प्रथमेन तु ॥ १,५०.१४८ ॥ आद्यमन्त्यं च मध्यं च स्वाराक्षरेण पीडयेत् । अनन्त्यश्च भवेत्पूर्वो ह्यन्तश्च परतो यदि ॥ १,५०.१४९ ॥ तत्र मध्ये यमस्तिष्ठेत्स्ववर्णः पूर्ववणयोः । वर्गान्त्यान् शषसैः सार्द्धमन्तस्थैर्वापि संयुतान् ॥ १,५०.१५० ॥ दृष्ट्वा यमा निवर्तन्ते अदेशिकमिवाध्वगाः । तृतीयश्च चतुर्थश्च चतुर्थादिपरं पदम् ॥ १,५०.१५१ ॥ द्वौ तृतीयौ हकारश्च हकारादिपरं पदम् । अनुस्वारोपधामूला तान् क्वचित्क्रमतः परम् ॥ १,५०.१५२ ॥ रहपूर्वसंयुते चाप्युत्तरं क्रमतेऽक्षरम् । संयोगो यत्र दृश्येत र्व्यञ्जनं विरते पदे ॥ १,५०.१५३ ॥ पूर्वाङ्गमादितः कृत्वा पराङ्गादौ निवेशयेत् । संयोगे स्वरितं यत्र उद्वातः प्रतनं तथा ॥ १,५०.१५४ ॥ पूर्वाङ्गं तद्विजानीयाद्येनारंभः परं हि तत् । संयोगात्तु विजानीयात्परं संयोगनायकम् ॥ १,५०.१५५ ॥ संयुक्तस्य तु वर्णस्य तत्परं पूर्वमक्षरम् । अनुस्वारः पदान्तश्च क्रमजं प्रत्यये स्वके ॥ १,५०.१५६ ॥ स्वरभक्तिस्तथारेफः पूर्वपूर्वाङ्गमुच्यते । पादादौ चापादादौ संयोगावग्रहेषु च ॥ १,५०.१५७ ॥ यशब्द इति विज्ञेयो योऽन्यःसय इति स्मृतः । पादादावप्यविच्छेदेसंयोगान्ते च तिष्टताम् ॥ १,५०.१५८ ॥ वर्जयित्वा रहपाणामुपादेशः प्रदृश्यते । स्वसंयुक्तो गुरुर्ज्ञेयः सानुस्वारा ग्रिमः स्फुटः । अणुशेषो ह्रिगो वापि युगलादिरविस्फुटः ॥ १,५०.१५९ ॥ यदुदात्तमुदात्तं तद्यत्स्वरितं तत्पदे भवति । यन्नीचं नीचमेव तद्यत्प्रचयस्थं तदपि नीचम् ॥ १,५०.१६० ॥ अग्निः सुतो मित्रमिदं तथा वयमयावहाः । प्रियं दूतं घृतं चित्तमतिशब्दस्तु नीचतः ॥ १,५०.१६१ ॥ अक्वेष्वेव सुतेष्वेव यज्ञेषु कलशेषु च । शतेषु सपवित्रेषु नीचादुञ्चार्यते श्रुतिः ॥ १,५०.१६२ ॥ हारिवरुणवरेण्येषु धारापुरुषेषु स्वरतिरेफः । विश्वानरोनकारश्च शेषास्तुस्वरिता नराः ॥ १,५०.१६३ ॥ द्वौ वरुणौ वस्वरत उदुत्तमन्त्वं वरुणधार चौरुधारामुरुधारेस्वदोहते । मात्रिकं वा द्विमात्रं वा स्वर्यते यदिहाक्षरम् । तस्यादितोर्ऽद्धमात्रं वै शेषं तु परतो भवेत् । अदीर्घं दीर्घवत्कुर्याद्द्विस्वरं यत्प्रयुज्यते ॥ १,५०.१६४ ॥ कंपोत्स्वरिताभिगीतं ह्रस्वकर्षणमेव च । निमेषकालो मात्रा स्याद्विद्युत्कालेति चापरे ॥ १,५०.१६५ ॥ ऋक्स्वरा तुल्ययोगा वा कैश्चिदेवमुदीर्यते ॥ १,५०.१६६ ॥ समासेऽवग्रहं कुर्यात्पदं चात्रानुसंहितम् । येतीक्षरादिकरणं पदान्तस्येति तं विदुः ॥ १,५०.१६७ ॥ (सर्वत्र मित्रपुत्रसखिशब्दा अहिशतक्रतोरवग्राह्याः । आदित्यविप्रजातवेदाश्च सत्पतिगोपतिवृत्रहासमुद्राश्च । स्वरयुपुवोदेवयवश्चारितं देवतातपे ) चिकितिश्च धचैव नावगृह्णन्ति पण्डिताः । विवृतयश्चतस्रो वै विज्ञेया इति मे मतम् ॥ १,५०.१६८ ॥ अक्षराणां नियोगेन तासां नामानि मे शृणु । ह्रस्वादिवत्सानुसृता वत्सानुसारिणी चाग्रे ॥ १,५०.१६९ ॥ पाकवत्युभयोर्ह्रस्वा दीर्घा वृद्धा पिपीलिकाः । चतसृणां विवृतीना मन्तरं मात्रिकं भवेत् ॥ १,५०.१७० ॥ अर्द्धमात्रिकमन्येषामन्येषामणुमात्रिकम् ॥ १,५०.१७१ ॥ आपद्यते मकारो रेफोष्मसु प्रत्ययेऽप्यनुस्वारम् । पवेषु परसवर्णं स्पर्शेषु चोत्तमापतिम् ॥ १,५०.१७२ ॥ नकारान्ते पदा पूर्वे स्वरे च परतः स्थिते । अकारं रक्तमित्याहुस्तकारेण तु रज्यते ॥ १,५०.१७३ ॥ नकारान्ते पदे पूर्वे व्यञ्जनैश्च यवोहिषु । अर्द्धमात्रा तु पूर्वस्य रज्यते त्वणुमात्रया ॥ १,५०.१७४ ॥ नकारस्वरसंयुक्तश्चतुर्युक्तो विधीयते । रेफो रङ्गश्च लोपश्च सानुस्वरोऽपि वा क्वचित् ॥ १,५०.१७५ ॥ हृदयादुत्तिष्टतेरङ्गः कांस्येन तु समन्वितः । मृदुश्चैव द्विमात्रश्च दधन्वां इति निदर्शनम् ॥ १,५०.१७६ ॥ यथा सौराष्ट्रिका नारी अरां इत्यभिभाषते । एवं रङ्गः प्रयोक्तव्यो नारदैतन्मतं मम ॥ १,५०.१७७ ॥ स्वरा गडदबाश्चैव ङणनमाः सहोष्मभिः । चतुर्णां पदजातीनां पदान्ता दश कीर्तिताः ॥ १,५०.१७८ ॥ स्वर उच्चः स्वरो नीचः स्वरः स्वरित एव च । व्यञ्जना न तु वर्तन्ते यत्र तिष्टति स स्वरः ॥ १,५०.१७९ ॥ स्वरप्रधानं त्रैस्वर्यमाचार्याः प्रतिजानते । मणिवद्व्यञ्जनं विद्यात्सूत्र वञ्च स्वरं विदुः ॥ १,५०.१८० ॥ दुर्बलस्य यथा राष्ट्रं हरते बलवान्नृपः । दुर्बलं व्यजनं तद्वद्धरेत बलवान्स्वरः ॥ १,५०.१८१ ॥ उभावश्च विवृत्तिश्च शषसारेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ १,५०.१८२ ॥ स्वरप्रत्ययाविवृतिः संहितायां तु या भवेत् । विसर्गस्तत्र मन्तव्यरतालव्यश्चात्र जायते ॥ १,५०.१८३ ॥ संध्यक्षरे परे संधौ प्राप्तसुप्तौ यवौ यदि । व्यञ्जनाख्या विवृत्तिस्तु स्वराख्या प्रतिसंहिता ॥ १,५०.१८४ ॥ ऊष्मान्तं विरते यत्र संभावो भवति क्वचित् । विवृत्तिर्या भवेत्तत्र स्वराख्यां तां विनिर्द्दिशेत् ॥ १,५०.१८५ ॥ यद्योभावप्रसंधानमृकारादिपरं पदम् । स्वरान्तं तादृशं विद्याद्यदन्यव्द्यक्तमूष्मणः ॥ १,५०.१८६ ॥ प्रथमा उत्तमाश्चैव पदान्तेषु यदि स्थिताः । द्वितीयं स्थानमापन्नाः शषसप्रत्यया यदि ॥ १,५०.१८७ ॥ प्रथमानूष्मसंयुक्तान् द्वितीयानिव दर्शयेत् । न चैतान्प्रतिजानीयाद्यथा मत्स्यः क्षुरोप्सराः ॥ १,५०.१८८ ॥ छन्दोमानं च वृत्तं च पादस्थानं त्रिकारणम् । ऋचः स्वच्छन्दवृत्तास्तु पादास्त्वक्षरमानतः ॥ १,५०.१८९ ॥ ऋग्वर्य्यान् स्वरभक्तिं च छन्दोमानेन निर्द्दिशेत् । प्रत्ययेत सहारेफमिमीते स्वरभक्तया ॥ १,५०.१९० ॥ ऋवर्णे तु पृथग्रेफः प्रत्ययस्तु वृथा भवेत । विद्याल्लघुमृकारं तु यदि तूष्माणसंयुतः ॥ १,५०.१९१ ॥ ऊष्मणैव हि संयुक्त ऋकारो यत्र पीड्यते । गुरुवर्णः स विज्ञेयस्तृचं चात्र निदर्शनम् ॥ १,५०.१९२ ॥ ऋषभं च गृहीतं च बृहस्पतिं पृथिव्यां च । निरृतिपञ्चमा ह्यत्र ऋकारा नात्र संशयः ॥ १,५०.१९३ ॥ शषसह रादौ रेफः स्परभक्तिर्जायते द्विपदसंधौ । इउवर्णाभ्यां हीना क्वचिदेकपदाक्रमवियुक्ता ॥ १,५०.१९४ ॥ स्वरभक्तिर्द्विधा प्रोक्ताऋकारे रेफ एव च । स्वरोदा व्यञ्जनोदा च विहिताक्षरचिन्तकैः ॥ १,५०.१९५ ॥ शषसेषु स्वरोदयां हकारे व्यञ्जनोदयाम् । शषसेषु विवृतां तु हकारे संवृतां विदुः ॥ १,५०.१९६ ॥ स्वरभक्तिं प्रयुञ्जान स्रीन्दोषान्परिवर्जयेत् । इकारं चाप्युकारं ग्रस्तदोषं तथैव च ॥ १,५०.१९७ ॥ संयोगपरं छपरं विसर्जनीयं द्विमात्रकं चैव । अथ सान्तिक च नङ्मसानुस्वारं घुटतं च ॥ १,५०.१९८ ॥ यस्याः पादः प्रथमो द्वादशमात्रस्तथा तृतीयोऽपि । अष्टादशो द्वितीयः समापन्नः पञ्चदशमात्रः । यस्या लक्षणमुक्तं या त्वन्या सा स्मृता विपुला ॥ १,५०.१९९ ॥ अक्षराणां लघुह्रस्वमसंयोगपरं यदि । तत्संयोगोत्तरं विद्याद्गुरुदार्घाक्षराणि तु ॥ १,५०.२०० ॥ विवृत्तिर्यत्र दृश्यते स्वारस्यैवाग्रतः स्थितः ॥ १,५०.२०१ ॥ गुरुस्वारः सविज्ञेयः क्षैप्रस्तत्र न विद्यते ॥ अष्टप्रकारं विज्ञेयं पदानां स्वरलक्षणम् ॥ १,५०.२०२ ॥ अन्तो दात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितम् । मध्योदात्तं स्वरितं द्विरुदात्तमित्येता अष्टौ पदसंज्ञाः ॥ १,५०.२०३ ॥ अग्निः सोमः प्रवो वीर्यं हविषा स्वर्वनस्पतिः । अन्तर्मध्यमयोताम्युदमनुनिपात्य आद्यात्स्वरितमुपसर्गे द्विर्न्नीचमाख्यात इति स्वरितात्पराणि यानि स्युर्द्धारापक्षराणि तु । सर्वाणि प्रचयस्थान्युपोदात्तं निहन्यते ॥ १,५०.२०४ ॥ प्रचयो यत्र दृश्येत तत्र हन्यात्स्वरं बुधः । स्वरितः केवलो यत्र मृदुस्तत्र निपातयेत् ॥ १,५०.२०५ ॥ पञ्चविधमाचार्यकं नाम सुखं न्यासः करणं प्रतिज्ञोच्चारणा । अत्रोच्यते श्रेयः खलु वैश्याः प्रतिज्ञातोच्चारणा यस्य कस्यचिद्वर्णस्य करणं नोपलभ्यते प्रतिज्ञा तत्र वोढव्याकरणं हि तदात्मकम् ॥ १,५०.२०६ ॥ तुंबुरुभवद्विशिष्टविश्वावस्वादयश्च गन्धर्वाः । सामसु निभृतं करणं स्वरसौक्ष्म्यान्नैव जानीयुः ॥ १,५०.२०७ ॥ कौक्षेयाग्निं सदा रक्षेदश्रीपादर्शनं हेतुम् । जीर्णो हारः प्रबुद्धः खलूषसिन्ब्रह्म चिन्तयेत् ॥ १,५०.२०८ ॥ शरद्विषुवतोतीतादुषस्युत्थानमिष्यते । यावद्वासंतिकी रात्रिर्मध्यमा पर्युपस्थिता ॥ १,५०.२०९ ॥ आम्रपालाशबिल्वानामपामार्गशिरीषयोः । वाग्यतः प्रातरुत्थाय भक्षयेद्द्वतधावनम् ॥ १,५०.२१० ॥ खादिरश्च कदम्बश्च करवीरकरञ्जयोः । सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः ॥ १,५०.२११ ॥ तेनास्य करणे सौक्ष्म्यं माधुर्यं चोप जायते । वर्णांश्च कुरुते सम्यक्प्राचीनौदवतिर्यथा ॥ १,५०.२१२ ॥ त्रिफलां लवणाख्येन भक्षयेच्छिषअयकः सदा । अग्निमेधाजनन्येषा स्वरवर्णकरी तथा ॥ १,५०.२१३ ॥ कृत्वा चावश्यकान्धर्माञ्जाठरं पर्युपास्य च । पीत्वा मधुं घृतं चैव शुचिर्भूत्वा ततो वदेत् ॥ १,५०.२१४ ॥ मन्द्रेणोपक्रमेत्पूर्वं सर्वशाखास्वयं विधिः । सप्तमन्त्रानतिक्रम्य यथेष्टां वाचमुत्सृजेत् ॥ १,५०.२१५ ॥ न तां समीरयेद्वाचं न प्राणमुपरोधयेत् । प्राणानामुपरोधेन वैस्वर्यं चोपजायते । स्वरव्यण्डजनमाधुर्यं लुप्यते नात्र संशयः ॥ १,५०.२१६ ॥ कुतीर्थादागतं दग्धमपवर्णैश्च भक्षितम् ॥ १,५०.२१७ ॥ न तस्य परिमोक्षोऽस्ति पापाहेरिव किल्बिषात् ॥ १,५०.२१७ ॥ सुतीर्थादागतं जग्धुं स्वाम्नातं सुप्रतिष्टितम् । सुस्वरेण स्ववक्रेण प्रयुक्तं ब्रह्म राजति ॥ १,५०.२१८ ॥ न तकालो न लंबोष्टो न च सर्वानुनासिकः ॥ १,५०.२१८ ॥ गद्गदो बद्धजिह्वश्च प्रयोगान्वक्तुमर्हति ॥ १,५०.२१९ ॥ एकचित्तो निरुद्धान्तः स्नातो गानविवर्ज्जितः । स तु वर्णान्प्रयुञ्जीत देतोष्ठं यस्य शोभनम् ॥ १,५०.२२० ॥ पञ्चविद्यां न गृह्णन्ति चण्डा स्तब्धाश्च ये नराः । अलसाश्च सरोगाश्च येषां च विसृतं मनः ॥ १,५०.२२१ ॥ शनैर्विद्यां शनैरर्थानारोहेत्पर्वतं शनैः । शनैरध्वसु वर्तेत योजनान्न परं व्रजेत् ॥ १,५०.२२२ ॥ योजनानां सहस्रं तु शनैर्याति पिपीलिका । अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति ॥ १,५०.२२३ ॥ नहि पापहता वाणी प्रयोगान्वक्तुमर्हति । बधिरस्येव जल्पस्य विदग्धा वामलोचना ॥ १,५०.२२४ ॥ उपांशुचरितं चैव योऽधीते वित्रसन्निव । अपि रूपसहस्रेषु संदेहेष्वेव वर्तते ॥ १,५०.२२५ ॥ पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ । राजते न सभामध्येजारगर्भेव कामिनी ॥ १,५०.२२६ ॥ अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु संचयम् । अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु ॥ १,५०.२२७ ॥ यत्कीटैः पांशुभिः श्लक्ष्णैर्वल्मीकः क्रियते महान् । न तत्र बलसामर्थ्यमुद्योगस्गतत्र कारणम् ॥ १,५०.२२८ ॥ सहस्रगुणिता विद्या शतशः परिकीर्तिता । आगमिष्यति जिह्वाग्रे स्थलान्निम्नमिवोदकम् ॥ १,५०.२२९ ॥ हयनामिव जात्यानामर्द्धरात्रार्द्धशायिनाम् । नहि वाद्यार्थिनां निद्रा चिरं नेत्रेषु तिष्टति ॥ १,५०.२३० ॥ न भोजनबिलंवी स्यान्न च नारीनिवन्धनः । समुद्रमपि विद्यार्थी व्रजेद्गरुडहंसवत् ॥ १,५०.२३१ ॥ अहिरिव गणाद्भितः साहित्यान्नरकादिव । राक्षसीभ्य इव स्रिभ्यः स विद्यामधिगच्छति ॥ १,५०.२३२ ॥ न शठाः प्रान्पुवन्त्यर्थान्न क्लिबा न च मानिनः । न च लोकरवा दीना न च स्वस्वप्रतीक्षकाः ॥ १,५०.२३३ ॥ यथा खननन्खनित्रेण भूपलं वारि विन्दति । एवं गुरुगतां विद्यां शूश्रूषुरधिगच्छति ॥ १,५०.२३४ ॥ गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या ह्यन्यथा नोपपद्यते ॥ १,५०.२३५ ॥ शुश्रूषारहिता विद्या यद्यपि मेधागुणैः समुपयाति । वन्ध्येव यौवनवती न तस्य साफल्यवति भवति ॥ १,५०.२३६ ॥ इति दिङ्मात्रमुद्दिष्टं शिक्षाग्रन्थं मया तव । ज्ञात्वा वेदाङ्गमाद्यं तु ब्रह्मभूयाय कल्पते ॥ १,५०.२३७ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चाशत्तमोऽध्यायः _____________________________________________________________ अथातः संप्रवक्ष्यामि कल्पग्रन्थं मुनीश्वरर । यस्य विज्ञानमात्रेण स्यात्कर्मकुशलो नरः ॥ १,५१.१ ॥ नक्षत्रकल्पो वेदानां संहितानां तथैव च । चतुर्थः स्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः ॥ १,५१.२ ॥ नक्षत्राधीश्वराख्यानं विस्तरेण यथातथम् । नक्षत्रकल्पे निर्दिष्टं ज्ञातव्यं तदिहापि च ॥ १,५१.३ ॥ वेदकल्पे विधानं तु ऋगादी नां मुनीश्वर । धर्मार्थकाममोक्षाणां सिद्ध्यै प्रोक्तं सविस्तरम् ॥ १,५१.४ ॥ मन्त्राणामृषयश्चैव छदांस्यथ च देवताः । निर्दिष्टाः संहिताकल्पे मुनिभिस्तत्त्वदर्शिभिः ॥ १,५१.५ ॥ तथैवाङ्गिरसे कल्पे षट्कर्माणि सविस्तरम् । अभिचारविधानेन निर्दिष्टानि स्वयंभुवा ॥ १,५१.६ ॥ शान्तिकल्पे तु दिव्यानां भौमानां मुनिसत्तम । तथान्तरिक्षोत्पातानां शान्तयो ह्युदिताः पृथक् ॥ १,५१.७ ॥ संक्षेपेणैतदुद्दिष्टं लक्षणं कल्पलक्षणे । विशेषः पृथगेतेषां स्थितः शङ्खान्तरेषु च ॥ १,५१.८ ॥ गृह्यकल्पे तु सर्वेषामुपयोगितयाधुना । वक्ष्यामि ते द्विजश्रेष्ठ सावधानतया शृणु ॥ १,५१.९ ॥ ओङ्कारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गल्यकाविमौ ॥ १,५१.१० ॥ कृत्वा प्रोक्तानि कर्माणि तद्वर्द्ध्वानि करोति यः । सोऽथ शब्दं प्रंयुजीत तदानन्त्यार्थमिष्यते ॥ १,५१.११ ॥ कुशाः परिसमूहाय व्यस्तशाखाः प्रकीर्तिताः । न्यूनाधिका निष्फलाय कर्मणोऽभिमतस्य च ॥ १,५१.१२ ॥ कृमिकीटपतङ्गाद्या भ्रमन्ति वसुधातले । तेषां संरक्षणार्थाय प्रोक्तं परिसमूहनम् ॥ १,५१.१३ ॥ रेखाः प्रोक्ताश्च यास्तिस्रः कर्तव्यास्ताः समा द्विज । न्यूनाधिका न कर्त्तव्या इत्येव परिभाषितम् ॥ १,५१.१४ ॥ मेदिनी मेदसा व्याप्ता मधुकैटभदैत्ययोः । गोमयेनोपलेप्येयं तदर्थमिति नारद ॥ १,५१.१५ ॥ वन्ध्या दुष्टा च दीनाङ्गी मृतवत्सा च या भवेत् । यज्ञार्थं गोमयं तस्या नाहरेदिति भाषितम् ॥ १,५१.१६ ॥ ये भ्रमन्ति सदाऽकाशे पतङ्गाद्या भयङ्कराः । तषां प्रहरणार्थाय मतं प्रोद्धरणं द्विज ॥ १,५१.१७ ॥ स्रुवेण च कुशेनापि कुर्यादुल्लेखनं भुवः । अस्थिकण्टकसिद्ध्यर्थं ब्रह्मणा परिभाषितम् ॥ १,५१.१८ ॥ आपो देवगणाः सर्वे तथा पितृगणा द्विज । तेनाद्भिरुक्षणं प्रोक्तं मुनिभिर्विधि कोविदैः ॥ १,५१.१९ ॥ अग्नेंरानयनं प्रोक्तं सौभाग्यस्रीभिरेव च । शुभदे मृण्मये पात्रे प्रोक्ष्याद्भिस्तं निधायपयेत् ॥ १,५१.२० ॥ अमृतस्य क्षयं दृष्ट्वा ब्रह्माद्यैः सर्वदैवतैः । वेद्यां निधापितस्तस्मात्समिद्गर्भो हुताशनः ॥ १,५१.२१ ॥ दक्षिणस्यां दानवाद्याः स्थिता यज्ञस्य नारद । तेभ्यः संरक्षणार्थाय ब्रह्माणं तद्दिशि न्यसेत् ॥ १,५१.२२ ॥ उत्तरे सर्वपात्राणि प्रणीताद्यानि पश्चिमे । यजमानः पूर्वतः स्युर्द्विजाः सर्वेऽपि नारद ॥ १,५१.२३ ॥ द्यूते च व्यवहारे च यज्ञकर्मणि चेद्भवेत् । कर्तोदासीन चित्तस्तत्कर्म नश्येदिति स्थितिः ॥ १,५१.२४ ॥ ब्रह्माचार्यौं स्वशाखौ हि कर्त्तव्यौ यज्ञकर्मणि । ऋत्विजां नियमो नास्ति यथालाभं समर्चयेत् ॥ १,५१.२५ ॥ द्वे परित्रे त्र्यङ्गुले स्तः प्रोक्षिणी चतुरङ्गुला । आज्यस्थाली त्र्यङ्गुलाथ चरुस्थाली षडङ्गुला ॥ १,५१.२६ ॥ द्व्यङ्गुलं तूपयमनमेकं संमार्जनाङ्गुलम् । स्रुवं षडङ्गुल प्रोक्तं स्रुचं सार्द्धत्रयाङ्गुलम् ॥ १,५१.२७ ॥ प्रादशमात्रा समिधः पूर्णपात्रं षडङ्गुलम् । प्रोक्षिण्या उत्तरे भागे प्रणीतापात्रमष्टभिः ॥ १,५१.२८ ॥ यानि कानि च तीर्थानि समुद्राः सरितस्तथा । प्रणीतायां समासन्नास्तस्मात्तां पूरयेज्जलैः ॥ १,५१.२९ ॥ वेदिका वस्रहीना च नग्रा संप्रोच्यते द्विज । परिस्तीर्य्य ततो दर्भेः परिदध्यादिमां बुधः ॥ १,५१.३० ॥ इन्द्रवज्रं विष्णुचक्रं वामदेवत्रिशूलकम् । दर्भरूपतया त्रीणि पवित्रच्छेदनानि च ॥ १,५१.३१ ॥ प्रोक्षणी च प्रकर्तव्या प्रणीतोदकसंयुता । तेनातिपुण्यदं कर्म पवित्रमिति कीर्तितम् ॥ १,५१.३२ ॥ आज्यस्थाली प्रकर्तव्या पलमात्रप्रमाणिका । कुलालचक्रघटितं आसुरं मृण्मयं स्मृतम् ॥ १,५१.३३ ॥ तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत् । स्रुवे च सर्वकर्माणि शुभान्यप्यशुभानि च ॥ १,५१.३४ ॥ तस्य चैव पवित्रार्थं वह्नौ तापनमीरितम् । अग्रे धूतेन वैधव्यं मध्यं चैव प्रजाक्षयः ॥ १,५१.३५ ॥ मूले च म्रियते होता तस्माद्धार्यं विचार्य तत् । अग्निः सूर्यश्च सोमश्च विरिञ्चिरनिलो यमः ॥ १,५१.३६ ॥ स्रुवे षडेते देवास्तु प्रत्यङ्गुलमुपाश्रिताः । अग्निर्भघोगार्थनाशाय सूर्यो व्याधिकरो भवेत् ॥ १,५१.३७ ॥ निष्फलस्तु स्मृतः सोमो विरिञ्चिः सर्वकामदः । अनिलो वृद्धिदः प्रोक्तो यमो मृत्युप्रदो मतः ॥ १,५१.३८ ॥ संमार्जनोपयमनं कर्त्तव्यं च कुशद्वयम् । पूर्वं तु सर्वशाखं स्यात्पञ्चशाखं तथापरम् ॥ १,५१.३९ ॥ श्रीपर्णी च शमी तद्वत्खदिरश्च विकङ्कतः । पलाशश्चैव विज्ञेयाः स्रुवे चैव तथा स्रुचि ॥ १,५१.४० ॥ हस्तोन्मितं स्रुवं शस्तं त्रिन्दशाङ्गुलिकं स्रुचम् । विप्राणां चैतदाख्यातं ह्यन्येषामङ्गुलोनकम् ॥ १,५१.४१ ॥ शूद्राणां पतितानां च खरादीनां च नारद । दृष्टिदोषविनाशार्थं पात्राणां प्रोक्षणं स्मृतम् ॥ १,५१.४२ ॥ अकृते पूर्णपात्रे तु यज्ञच्छिद्रं समुद्भवेत् । तस्मिन्पूर्णीकृते विप्र यज्ञसंपूर्णता भवेत् ॥ १,५१.४३ ॥ अष्टमुष्टिर्भवेत्किञ्चित्पुष्कलं तच्चतुष्टयम् । पुष्कलानि तु चत्वारि पूर्णपात्रं विदुर्बुधाः ॥ १,५१.४४ ॥ होमकाले तु संप्राप्ते न दद्यादासनं क्वचित् । दत्ते तृप्तोभवेद्वह्निः शापं दद्याञ्च दारुणम् ॥ १,५१.४५ ॥ आधारौ नासिके प्रोक्तौ आज्यभागौ च चक्षुषी । प्राजापत्यं मुखं प्रोक्त कटिर्व्याहृतिभिः स्मृता ॥ १,५१.४६ ॥ शीर्षहस्तौ च पादौ च पञ्चवारुणमीरितम् । तथा स्विष्टकृतं विप्र श्रोत्रे पूर्णाहुतिस्तथा ॥ १,५१.४७ ॥ द्विमुखं चैकहृदयं चतुः श्रोत्रं द्विनासिकम् । द्विशीर्षकं च षण्नेत्रं पिङ्गलं सप्तजिह्वकम् ॥ १,५१.४८ ॥ सव्यभागे त्रिहिस्तं च चतुर्हस्तञ्च दक्षिणे । स्रुक्स्त्रुवौ चाक्षमाला च या शक्तिर्दक्षिणे करे ॥ १,५१.४९ ॥ त्रिमेखलं त्रिपादं च घृतपात्रं द्विचामरम् । मेषारूढं चतुःशृङ्गं बालादित्यसमप्रभम् ॥ १,५१.५० ॥ उपवीतसमायुक्तं जटाकुण्डलमण्डिमम् । ज्ञात्वैवमग्निदेहं तु होमकर्मसमाचरेत् ॥ १,५१.५१ ॥ पयो दधि घृतं चैव स्नेहपक्वं तथैव च । जुहुयाद्यस्तु हस्तेन स विप्रो ब्रह्महा भवेत् ॥ १,५१.५२ ॥ यदन्नं पुरुषोऽश्राति तदन्नं तस्य देवताः । सर्वकामसमृद्ध्यर्थं तिलाधिक्यं हविर्मतम् ॥ १,५१.५३ ॥ होमे मुद्रात्रयं प्रोक्तं मृगी हंसी च सूकरी । अभिचारे सूकरी स्यान्मृगी हंसी शुभात्मके ॥ १,५१.५४ ॥ सर्वाङ्गुलीभिः क्रौडी स्याद्धंसी मुक्तकनिष्टिका । मध्यमानामिकाङ्गुष्टैर्मृगी सुद्रा प्रकीर्तिता ॥ १,५१.५५ ॥ पूर्वप्रमाणयाहुत्या पञ्चाङ्गुलिगृहीतया । दधिमध्वाज्यसंयुक्त ऋत्विग्भिर्जुहुयात्तिलैः ॥ १,५१.५६ ॥ कुशास्त्वनामिकासक्ताः कार्याः स्युः पुण्यकर्मणि ॥ १,५१.५७ ॥ विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः । गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥ १,५१.५८ ॥ तेनोपसृष्टो यस्तस्य लक्षणानि निबोध मे । स्वमेव गाहतेत्यर्थं जलं मुण्डांश्च पश्यति ॥ १,५१.५९ ॥ कामाय वाससश्चैव क्रव्यादांश्चाधिरोहति । अन्त्यजैर्गर्द्दभैरुष्टैः सहैकत्रावतिष्टते ॥ १,५१.६० ॥ व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः विमना विफलारंभः संसीदत्यनिमित्ततः ॥ १,५१.६१ ॥ तेनोपसृष्टो लभते न राज्यं राजनन्दनः । कुमारी न च भर्तारमपत्यं गर्भमङ्गना । आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा ॥ १,५१.६२ ॥ वणिग्लाभं न चान्पोति कृषिं चापि कृषिबलः । स्नपन तस्य कर्तव्यं पुण्येऽह्रि विधिपूर्वकम् । गौरसर्ष पकल्केन स्वस्ति वाच्या द्विजैः शुभाः ॥ १,५१.६३ ॥ अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ध्रदात् । मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाशु निक्षिपेत् ॥ १,५१.६४ ॥ पात्र्याहृता ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् । चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥ १,५१.६५ ॥ सहस्राक्षं शतधार मृषिभिः पावनं कृतम् । तेन त्वामभिषिञ्चामि पावमान्याः पुंनतु ते ॥ १,५१.६६ ॥ भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः । भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥ १,५१.६७ ॥ यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि । ललाटे कर्णयोरक्ष्णोरापस्तुदन्तु सर्वदा ॥ १,५१.६८ ॥ स्नानस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु । जुहुयान्मूर्द्धनि कुशान्सव्यन परिगृह्य च ॥ १,५१.६९ ॥ मितश्च संमितश्चैव तथा शालकटङ्कटौ । कूष्माण्डो राजपुत्र श्चेत्यन्ते स्वाहासमान्वितैः ॥ १,५१.७० ॥ नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः । दद्याञ्चतुष्पथे सूर्य्ये कुशानास्तीर्य्य सर्वतः ॥ १,५१.७१ ॥ कृता कृतांस्तण्डुलीश्च पललौदनमेव च । मत्स्यान्पक्वांस्तथैवामान्मांसमेतावदेवतु ॥ १,५१.७२ ॥ पुष्पं चित्रं सुगन्धं च सुराञ्च त्रिविधामपि । मूलकं पूरिकापूपांस्तथैवोटस्रजोऽपि च ॥ १,५१.७३ ॥ दध्यन्नं पायसं चैव गुजपिष्ट समोदकम् । एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः ॥ १,५१.७४ ॥ विनायकस्य जननी मुपतिष्टेत्ततोऽम्बिकाम् । दुर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिम् ॥ १,५१.७५ ॥ रूपं देहि यशो देहि भगं भगवति देहि मे । पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥ १,५१.७६ ॥ उपस्थाय शिवां दुर्गामुमापतिमथाचेर्यत् । धूपैदर्पिश्चै नैवेद्यैर्गन्धमाल्यानुलेपनैः ॥ १,५१.७७ ॥ ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । ब्राह्मणान्भोजयेत्पश्चाद्वस्त्रयुगमं गुरोरपि ॥ १,५१.७८ ॥ एवं विनायकं पूज्य ग्रहांश्चैव प्रपूजयेत् । श्रीकामः शान्तिकामो वा पुष्टिवृद्ध्यायुर्वीर्य्यवान् ॥ १,५१.७९ ॥ सीर्य्यः सोमो महीपुत्रो बुधो जीवो भृगुः शनिः । राहुकेतू नवाप्येते नवाप्येते स्थापनीया ग्रहाः क्रमात् ॥ १,५१.८० ॥ ताम्रकाद्रजताद्रक्तचन्दनात्स्वर्णकादपि । हेम्नो रजतादयसः सीसात्कार्या शुभाप्तये ॥ १,५१.८१ ॥ स्ववर्णैर्वापटे लेख्या गन्धैर्मण्डलकेषु च । यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥ १,५१.८२ ॥ गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः । कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम् ॥ १,५१.८३ ॥ आकृष्णेन इमन्देवा अग्निर्मूर्द्धादिवः ककुत् । उद्बुधअयस्वाति यदर्यस्तथैवान्नात्परिस्रुतः ॥ १,५१.८४ ॥ शन्नोदेवीस्तथा काण्डात्केतुं कृण्वन्नकेतवः ॥ १,५१.८५ ॥ अर्कः पलाशः खदिरस्त्वपामार्गोऽथपिप्पलः । उदुंबरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥ १,५१.८६ ॥ एकैकस्मादष्टशतमष्टाविंशतिरेव च । होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा पुनः ॥ १,५१.८७ ॥ गुडौदनं पायसं च हविष्यं क्षीरष्यं क्षीरषाष्टिकम् । दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥ १,५१.८८ ॥ दद्या द्ग्रहक्रमादेतद्द्विजेभ्यो भोजनं बुधः । शक्तितोऽपि यथा लाभं सत्कृत्य विधिपूर्वकम् ॥ १,५१.८९ ॥ धेनुः शङ्खस्तथानङ्वान्हिमवासो हयः क्रमात् । कृष्णागौरायसं छाग एता वै दक्षिणाः स्मृताः ॥ १,५१.९० ॥ यस्य यस्य तु यद्द्रव्यं पलेनार्च्यः स तेन च । ब्रह्मन्नेषां वरो दत्तः पूजिताः पूजयिष्यथः ॥ १,५१.९१ ॥ ग्रहाधीना नरेद्राणां धनजात्युच्छ्रयास्तथा । भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः ॥ १,५१.९२ ॥ अदित्यस्य सदा पूजा तिलकं स्वामिनस्तथा । महागणपतेश्चैव कुर्वन्सिद्धिमवान्पुयात् ॥ १,५१.९३ ॥ कर्मणां सफलत्वं च श्रियं वाप्नोत्यनुत्तमाम् ॥ १,५१.९४ ॥ अकृत्वा मातृयागं तु यो ग्रहार्चां समारभेत् । कुप्यन्ति मातरस्तस्य प्रत्यूहं कुर्वते तथा ॥ १,५१.९५ ॥ वसोः पवित्रमन्त्रेण वसोर्द्धारां प्रकल्प्य च । गौर्याद्या मातरः पूज्या माङ्गल्येषु शुभार्थिभिः ॥ १,५१.९६ ॥ गौरी पद्म शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातृका वैधृतिर्धृतिः ॥ १,५१.९७ ॥ पुष्टिर्हृष्टिस्तथा तुष्टिरात्मदेवतया सह । गणेशेनाधिका ह्येता वृद्धौ पूज्यास्तु षोहश ॥ १,५१.९८ ॥ आवाहनं तथा पाद्यमर्ध्यं स्नानं च चन्दनम् । अक्षतांश्चैव पुष्पाणि धूपं दीपं फलानि च ॥ १,५१.९९ ॥ नैवेद्याचमनीयं च तांबूलं पूगमेव च । नीराजनं दक्षिणां च क्रमाद्दद्याञ्च तुष्टये ॥ १,५१.१०० ॥ पितृकल्पं प्रक्ष्यामि धनसंततिवर्द्धनम् । अमावस्याष्टका वृद्धिः कृष्णपक्षायनद्वयम् ॥ १,५१.१०१ ॥ द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सुर्यसंक्रमः । व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ॥ १,५१.१०२ ॥ श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीर्तिताः । अग्र्याः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा ॥ १,५१.१०३ ॥ वेदार्थविज्ज्येष्टसामा त्रिमधुस्रिसुपर्णकः । स्वस्रीय ऋत्विग्जामाता याज्यश्वशुरमातुलाः ॥ १,५१.१०४ ॥ त्रिणाचिकेतदौहित्रशिष्यसंबन्धिबान्धवाः । कर्मनिष्टास्तपोनिष्टाः पञ्चाग्निब्रह्मचारिणः ॥ १,५१.१०५ ॥ पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः । रोगी न्यूनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ॥ १,५१.१०६ ॥ अवकीर्णी कुण्डगोलौ कुनखी श्यावदङ्कः । भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ॥ १,५१.१०७ ॥ मित्रध्रुक्पिशुनः सोमविक्रयी परिविन्दकः । मातृपितृगुरुत्यागी कुण्डाशी वृषलात्मजः ॥ १,५१.१०८ ॥ परपूर्वापतिः स्तेनः कर्मभ्रष्टाश्च निन्दिताः । निमन्त्रयीत पूर्वेद्युर्ब्राह्मणानात्मवान् शुचिः ॥ १,५१.१०९ ॥ तैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः । अपराह्ने समघभ्यर्च्य स्वागतेनागतांस्तु तान् ॥ १,५१.११० ॥ पवित्रपाणिराचान्तानासने चोपवेशयेत् । विप्रान्दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च ॥ १,५१.१११ ॥ परश्रिते शुचौ देशे दक्षिणाप्रवणं तथा । द्वौ द्वैवे प्राक्त्रयः पित्रघ्ये उदगेकैकमेव च ॥ १,५१.११२ ॥ मातामहानामप्येवं तत्र वा वैश्वदैविकम् । पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि ॥ १,५१.११३ ॥ आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा । यवैरन्वावकीर्याथ भाजने सपवित्रके ॥ १,५१.११४ ॥ शन्नो देव्या अपः क्षिप्त्वा यवोऽसीति यवांस्तथा । यादिव्या इति मन्त्रेण हस्ते पाद्यं विनिःक्षिपेत् ॥ १,५१.११५ ॥ दत्त्वोदकं गन्धमाल्यं प्रदायान्नं सदीपकम् । अपसव्यं ततः तृत्वा पितॄणां सप्रदक्षिणम् ॥ १,५१.११६ ॥ द्विगुणांस्तु कुशान्दत्त्वा ह्युशन्तिस्त्वित्यृचा पितॄन् । आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ॥ १,५१.११७ ॥ यवार्थास्तु तिलैः कार्याः कुर्यादर्ध्यादि पूर्ववत् । दत्त्वार्ध्यं सयवांस्तेषां पात्रे कृत्वा विधानतः ॥ १,५१.११८ ॥ पितृभ्यः स्थानमसीति न्युब्जं पात्रं कगेत्यधः । अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् ॥ १,५१.११९ ॥ कुरुष्वेत्यभ्यनुज्ञातो दत्तावाग्नौ पितृयज्ञवत् । हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ॥ १,५१.१२० ॥ यथालाभोपपन्नेषु गैप्येषु च विशेषतः । दत्त्वान्नं पृथिवीपात्रमिति पात्रा भिमन्त्रणम् ॥ १,५१.१२१ ॥ कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्टं निवेशयेत् । सव्याहृतिकां गायत्रीं मधुवाता इति त्यृचम् ॥ १,५१.१२२ ॥ जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः । अग्नमिष्टं हविप्यं च दद्यादक्रोधनोऽत्वरः ॥ १,५१.१२३ ॥ आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा । अन्नमादाय तृप्ताःस्थ शेषं चैवानुमान्य च ॥ १,५१.१२४ ॥ तदन्नं विकिरेद्भूमौ दद्याञ्चापः सकृत्सकृत् । सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ॥ १,५१.१२५ ॥ उच्छिष्टसन्निधौ पिण्डान्दद्याद्वै पितृयज्ञवत् । मातामहानामप्येवं दद्यादाचमनं ततः ॥ १,५१.१२६ ॥ स्वस्निवाचं ततः कुर्यादक्षय्योदकमेव हि । दत्त्वा च दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ॥ १,५१.१२७ ॥ वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् । ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिंचेत्ततो जलम् ॥ १,५१.१२८ ॥ विश्वेदेवाश्वप्रीयन्तां विप्रैश्चोक्त इदं जपेत् । दातारोनोऽभिवर्द्धन्तां वेदाः संततिरेव च ॥ १,५१.१२९ ॥ श्रद्धा चनो मा व्यगमद्बहु देयं च नोऽस्त्विति । इत्युक्तो क्ताः प्रिया वाचः प्रणिपत्य विसर्जयेत् ॥ १,५१.१३० ॥ वाजेवाजे इति प्रीतः पितृपूर्वं विसर्जनम् । यस्मिंस्ते संश्रवाः पूर्वमर्ध्यपात्रे निवेशिताः ॥ १,५१.१३१ ॥ पितृपात्रं तदुत्थानं कृत्वा विप्रान्विसर्जयेत् । प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ॥ १,५१.१३२ ॥ ब्रह्मचारी भवेत्तां तु रजनीं ब्रह्मणैः सह । एवं प्रदक्षिणावृत्त्या वृद्धौ नान्दीमुखान्पितॄन् ॥ १,५१.१३३ ॥ यजेत दधिकर्कन्धुमिश्रान्पिडान्यवैः कृतान् । एकोद्दिष्टं देवहीनमेवार्ध्यैकपवित्रकम् ॥ १,५१.१३४ ॥ आवाहनाग्नौकरणरहितं ह्यपसव्यवत् । उपतिषअटतामक्षय्यस्थाने विप्रविसर्जने ॥ १,५१.१३५ ॥ अभिरण्यतामिति वदेद्ब्रूयुस्तेऽभिरताः स्म ह । गन्धोदकं तिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् ॥ १,५१.१३६ ॥ अर्ध्यार्थं पितृपात्रेषु प्रेतपात्रं प्रेसेचयेत् । ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ॥ १,५१.१३७ ॥ एतन्सपिं डीकरणमेकोष्टिद्दं स्रिया अपि । अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ॥ १,५१.१३८ ॥ तस्याप्यन्नं सोदकुंभं दद्यात्संवत्सरं द्विजे । भृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् ॥ १,५१.१३९ ॥ प्रतिसंवत्सरं चैव मासमेकादशेऽहनि । पिण्डांश्चगोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ॥ १,५१.१४० ॥ प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् । हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ॥ १,५१.१४१ ॥ मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः । ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् ॥ १,५१.१४२ ॥ मासवृद्ध्याभितृप्यन्ति दत्तैरिह पितामहाः । खड्गामिषं महाकल्पं मधु मुन्यन्नमेव च ॥ १,५१.१४३ ॥ लोहामिषं महाशाकं मांसं वार्ध्रीणसस्य च । यो ददाति गयास्थश्च सर्वमानन्त्यमश्नुते ॥ १,५१.१४४ ॥ तथा वर्षात्रयोदश्यां मघासु च विशेषतः । कल्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि ॥ १,५१.१४५ ॥ द्यूतं कृषिं च वाणिज्यं द्विशफैकशफआंस्तथा । ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकुप्यके ॥ १,५१.१४६ ॥ ज्ञातिश्रेष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा । प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ॥ १,५१.१४७ ॥ शस्त्रेण तु हताये वै तेभ्यस्तत्र प्रदीयते । स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा ॥ १,५१.१४८ ॥ पुत्रान् श्रेष्ठांश्च सौभाग्यं समृद्धिं मुख्यतां शुभम् । प्रवृत्तं चक्रतां चैव वाणिज्यप्रभृतीनि च ॥ १,५१.१४९ ॥ अरोगित्वं यशो वीतशोकतां परमां गतिम् । धनं विद्यां भिषक्सिद्धिं कुप्यङ्गा अप्यजाविकम् ॥ १,५१.१५० ॥ अश्वनायुश्च विधिवद्यः श्राद्धं संप्रयच्छति । कृत्तिकादि भरण्यन्तं सकामानाप्नुयादिमान् ॥ १,५१.१५१ ॥ आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः । वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ॥ १,५१.१५२ ॥ प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः । आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥ १,५१.१५३ ॥ प्रयच्छन्ति तथा राज्यं नृणां प्रीताः पितामहाः । इत्येवं कथितं किञ्चित्कल्पाध्याये विशेषतः ॥ १,५१.१५४ ॥ ज्ञातव्यं वैदिके तन्त्रे पुराणान्तरकेऽपि च । य इमं चिन्तयेद्विद्वान्कल्पाध्यायं मुनीश्वर ॥ १,५१.१५५ ॥ स भवेत्कर्मकुशल इहान्यत्र गतिं शुभाम् । यः शृणोति नरो भक्त्या दैवे पित्र्ये च कर्मणि ॥ १,५१.१५६ ॥ कल्पाध्यायं स लभते दैवपित्र्य क्रियाफलम् । धनं विद्यां यशः पुत्रान्परत्र च गतिं पराम् ॥ १,५१.१५७ ॥ अतः परं व्याकरणं तुभ्यं वेदमुखाभिधम् । कथयिष्ये समासेन शृणुष्व सुसमाहितः ॥ १,५१.१५८ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे एक पञ्चाशत्तमोऽध्यायः _____________________________________________________________ सनन्दन उवाच अथ व्याकरणं वक्ष्ये संक्षेपात्तव नारद । सिद्धरूपप्रबन्धेन मुखं वेदस्य सांप्रतम् ॥ १,५२.१ ॥ सुप्तिङंतं पदं विप्र सुपां सप्त विभक्तयः । स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ॥ १,५२.२ ॥ संबोधने च लिङ्गादावुक्ते कर्मणि कर्तरि । अर्थावत्प्रातिपदिकं धातुप्रत्ययवार्जितम् ॥ १,५२.३ ॥ अमौसशो द्वितीया स्यात्तत्कर्म क्रियते च यत् । द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुते ॥ १,५२.४ ॥ टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता । येन क्रियते तत्करणं सः कर्ता स्यात्करोति यः ॥ १,५२.५ ॥ ङेभ्यांभ्यसश्चतुर्थो स्यात्सं प्रदाने च कारके । यस्मै दित्सा धारयेद्वै रोचते संप्रदानकम् ॥ १,५२.६ ॥ पञ्चमी स्यान्ङसिभ्यांभ्यो ह्यपादाने च कारके । यतोऽपैति समादत्ते अपदत्ते च यं यतः ॥ १,५२.७ ॥ ङसोसामश्च षष्ठी स्यात्स्वामिसंबन्धमुख्यके । ङ्योःसुपः सप्तमी तु स्यात्सा चाधिकरणे भवेत् ॥ १,५२.८ ॥ आधारे चापि विप्रेन्द्र रक्षार्थानां प्रयोगतः । ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ॥ १,५२.९ ॥ पञ्चमी पर्यणङ्योगे इतरर्तेऽन्यदिङ्मुखे । एतैर्योगे द्वितीया स्यात्कर्मप्रवचनीयकैः ॥ १,५२.१० ॥ लक्षणेत्थंभूतोऽभिरभागे चानुपरिप्रति । अन्तरेषु सहार्थे च हीने ह्युपश्च कथ्यते ॥ १,५२.११ ॥ द्वितीया च चतुर्थी स्याञ्चेष्टायां गतिकर्मणि । अप्राणिषु विभक्ती द्वे मन्यकर्मण्यनादरे ॥ १,५२.१२ ॥ नमःस्वस्तिस्वधास्वाहालंवषड्योग ईरिता । चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ॥ १,५२.१३ ॥ तृतीया सहयोगे स्यात्कुत्सितेंऽगे विशेषणे । काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि ॥ १,५२.१४ ॥ स्वामीश्वरोधिपतिभिः साक्षिदायादसूतकैः । निर्धारणे द्वे विभक्ती षष्टी हेतुप्रयोगके ॥ १,५२.१५ ॥ स्मृत्यर्थकर्मणि तथा करोतेः प्रतियत्नके । हिंसार्थानां प्रयोगे च कृतिकर्मणि कर्तरि ॥ १,५२.१६। न कर्तृकर्मणोः षष्टी निष्टादिप्रतिपादिका । एता वै द्विविधा ज्ञेयाः सुबादिषु विभक्तिषु । भूवादिषु तिङतेषु लकारा दश वै स्मृताः ॥ १,५२.१७ ॥ तिप्त संतीति प्रथमो मध्यमः सिप्थस्थोत्तमः । मिव्वस्मसः परस्मै तु पादानां चा मपनेदम् ॥ १,५२.१८ ॥ त आतेंऽते प्रथमो मध्वः से आथे ध्वे तथोत्तमः । ए वहे मह आदेशा ज्ञेया ह्यन्ये लिङादिषु ॥ १,५२.१९ ॥ नाम्नि प्रयुज्यमाने तु प्रथमः पुरुषो भवेत् । मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि ॥ १,५२.२० ॥ भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः । लडीरितो वर्तमाने भूतेऽनद्यतने तथा ॥ १,५२.२१ ॥ मास्मयोगे च लङ्वाच्यो लोडाशिषि च धातुतः । विध्यादौ स्यादाशिषि च लिङितो द्विविधो मुने ॥ १,५२.२२ ॥ लिडतीते परोक्षे स्यात्श्वस्तने लुङ्भविष्यति । स्यादनद्यतने ळटू च भविष्यति तु धातुतः ॥ १,५२.२३ ॥ भूते लुङ्तिपस्यपौ च क्रियायां ळङ्प्रकीर्तितः । सिद्धोदाहरणं विद्धि संहितादिपुरः सरम् ॥ १,५२.२४। दण्डाग्रं च दधीदं च मधूदकं पित्रर्षभः । होतॄकारस्तथा सेयं लाङ्गलीषा मनीषया ॥ १,५२.२५ ॥ गङ्गोदकं तवल्कार ऋणार्णं च मुनीश्वर ॥ठ शीतार्तश्च मुनिश्रेष्ठ सेंद्रः सौकार इत्यपि ॥ १,५२.२६ ॥ वध्वासनं पित्रर्थो नायको लवणस्तथा । त आद्या विष्णवे ह्यत्र तस्मा अर्घो गुरा अधः ॥ १,५२.२७ ॥ हरेऽव विष्णोऽवेत्येषादसोमादप्यमी अधाः । शौरी एतौ विष्णु इमौ दुर्गे अमू नो अर्जुनः ॥ १,५२.२८ ॥ आ एवं च प्रकृत्यैते तिष्टन्ति मुनिसत्तम । षडत्र षण्मातरश्च वाक्छुरो वाग्धस्रिथा ॥ १,५२.२९ ॥ हरिःशेते विभुश्चिन्त्यस्तच्छेषो यञ्चरस्तन्था । प्रश्नस्त्वथ हरिःषष्ठः कृष्णष्टीकत इत्यपि ॥ १,५२.३० ॥ भवान्षष्ठश्च षट्सन्तः षट्ते तल्लेप एव च । चक्रिंश्छिन्धि भवाञ्छौरिर्भवाञ्शौरिरित्यपि ॥ १,५२.३१ ॥ सम्यङ्ङनन्तोङ्गच्छाया कृष्णं वन्दे मुनीश्वर । तेजांसि मंस्यते गङ्गा हरिश्छेत्ता मरःशिवः ॥ १,५२.३२ ॥ राम काम्यः कृप पूज्यो हरिः पूज्योर्ऽच्य एव हि । रोमो दृष्टोऽबला अत्र सुप्ता इष्टा इमा यतः ॥ १,५२.३३ ॥ विष्णुर्नभ्यो रविरयं गी )( फलं प्रातरच्युतः । भक्तैर्वद्योऽप्यन्तरात्मा भो भो एष हरिस्तथा । एष शार्ङ्गी सैष रामः संहितैवं प्रकीर्तिता ॥ १,५२.३४ ॥ रामेणाभिहितं करोमि सततं रामं भजे साढरम् । रामेणापहृतं समस्तदुरितं रामाय तुभ्यं नमः । रामान्मुक्तिमभीप्सिता मम सदा रामस्य दासोऽस्म्यहम् । रामे रञ्जत्मे मनः सुविशदं हे राम तुभ्यं नमः ॥ १,५२.३५ ॥ सर्व इत्यादिका गोपाः सखा चैव पतिर्हरिः ॥ १,५२.३६ ॥ सुश्रीर्भानुः स्वयंभूश्च कर्ता रौ गौस्तु नौरिति । अनङ्घान्गोधुग्लिट्च द्वे त्रयश्चत्वार एव च ॥ १,५२.३७ ॥ राजा पन्थास्तथा दण्डी ब्रह्महा पञ्च चाष्ट च । अष्टौ अयं मुने सम्राट्सविभ्रद्वपुङ्मनः ॥ १,५२.३८ ॥ प्रत्यङ्पुमान्महान् धीमान् विद्वान्षट्पिपठीश्च दोः । उशनासाविंमे पुंसि स्यारक्तलविरामकाः ॥ १,५२.३९ ॥ राधा सर्वा गतिर्गोपी स्री श्रीर्धेनुर्वधूः स्वसा । गौर्नौंरुपान् दूद्यौर्गोः क्षुत्ककुप्संवित्तु वा क्वचित् ॥ १,५२.४० ॥ रुग्विडुद्भाः स्रियास्तपः कुलं सोमपमक्षि च । ग्रामण्यंबुरवलप्वेवं कर्तृ चातिरि वातिनु ॥ १,५२.४१ ॥ स्वनहुच्च विमलद्यु वाश्वत्वारीदमेव च । एतद्ब्रह्माहश्च दण्डी असृक्किञ्चित्त्यदादि च ॥ १,५२.४२ ॥ एतद्वे भिद्गवाक्गवाङ्गोअक्गोङ्गोक्गोङ् । तिर्यग्यकृच्छकृच्चैव ददद्भवत्पचत्तुदत् ॥ १,५२.४३ ॥ दीव्यद्धनुश्च पिपठीः पयोऽदःसुमुमांसि च । गुणद्रव्य क्रियायोगांस्रिलिङ्गांश्च कति ब्रुवे ॥ १,५२.४४ ॥ शुक्तः कीलालपाश्चैव शुचिश्च ग्रामणीः सुधीः । पटुः स्वयंभूः कर्ता च माता चैव व पिता च ना ॥ १,५२.४५ ॥ सत्यानाग्यास्तथा पुंसो मतभ्रमरदीर्घपात् । धनाकृसोमौ चागर्हस्तविर्ग्रथास्वर्णन्बहू ॥ १,५२.४६ ॥ रिमपव्विषाद्वजातानहो तथा सर्वं विश्वोभये चोभौ अन्यान्तरेतराणि च ॥ १,५२.४७ ॥ उत्तरश्चोत्तमो नेमस्त्वसमोऽथ समा इषः । पूर्वोत्तरोत्तराश्चैव दक्षिणश्चोत्तराधरौ ॥ १,५२.४८ ॥ अपरश्चतुरोऽप्येतद्यावत्तत्किमसौ द्वयम् । युष्मदस्मञ्च प्रथमश्चरमोल्पस्तथार्धकः ॥ १,५२.४९ ॥ नोरः कतिपयो द्वे च त्रयो शुद्धादयस्तथा । स्वेकाभुविरोधपरि विपर्ययश्चाव्ययास्तथा ॥ १,५२.५० ॥ तद्धिताश्चाप्यपत्यार्थे पाण्डवाः श्रैधरस्तथा । गार्ग्यो नाडायनात्रेयौ गाङ्गेयः पैतृष्वस्रीयः ॥ १,५२.५१ ॥ देवतार्थे चेदमर्थे ह्यैद्रं ब्राह्मो हविर्बली । क्रियायुजोः कर्मकर्त्रोर्धैरियः कौङ्कुमं तथा ॥ १,५२.५२ ॥ भवाद्यर्थे तु कानीनः क्षत्रियो वैदिकः स्वकः । स्वार्थे चौरस्तु तुल्यार्थे चन्द्रवन्मुखमीक्षते ॥ १,५२.५३ ॥ ब्राह्मणत्वं ब्राह्मणता भावे ब्राह्मण्यमेव च । गोमान्धनी च धनवानस्त्यर्थे प्रमितौ कियान् ॥ १,५२.५४ ॥ जातार्थे तुन्दिलः श्रद्धालुरौन्नत्त्ये तु दन्तुरः । स्रग्वी तपस्वी मेधावी मायाव्यस्त्यर्थ एव च ॥ १,५२.५५ ॥ वाचालश्चैव वाचाटो बहुकुत्सितभाषिणि । ईषदपरिसमाप्तौ कल्पव्देशीय एव च ॥ १,५२.५६ ॥ कविकल्पः कविदेश्यः प्रकारवचने तथा । पटुजातीयः कुत्सायां वैद्यपाशः प्रशंसने ॥ १,५२.५७ ॥ वैद्यरूपो भूतपूर्वे मतो दृष्टचरो मुने । प्राचुर्यादिष्वन्नमयो मृण्मयः स्रीमयस्तथा ॥ १,५२.५८ ॥ जातार्थे लज्जितोऽत्यर्थे श्रेयाञ्छ्रेष्टश्च नारद । कृष्णतरः शुक्लतमः किम आख्यानतोऽव्ययान् ॥ १,५२.५९ ॥ किन्तरां चैवातितरामभिह्युच्चैस्तरामपि । परिमाणे जानुदघ्नं जानुद्वयसमित्यपि ॥ १,५२.६० ॥ जानुमात्रं च निर्द्धारे बहूनां च द्वयोः क्रमात् । कतमः कतरः संख्येयविशेषावधारणे ॥ १,५२.६१ ॥ द्वितीयश्च तृतीयश्च चतुर्थः षष्टपञ्चमौ । एतादशः कतिपयः कतिथः कति नारद ॥ १,५२.६२ ॥ विंशश्च विंशतितमस्तथा शततमादयः । द्वेधा द्वैधा द्विधा संख्या प्रकारेऽथ मुनीश्वर ॥ १,५२.६३ ॥ क्रियावृत्तौ पञ्चकृत्वो द्विस्रिर्बहुश इत्यपि । द्वितयं त्रितपं चापि संख्यायां हि द्वयं त्रयम् ॥ १,५२.६४ ॥ कुटीरश्च शमीरश्च शुण्डारोऽल्पार्थके मतः । त्रैणः पौष्णस्तुण्डिभश्च वृन्दारककृषीवलौ ॥ १,५२.६५ ॥ मलिनो विकटो गोमी भौरिकीविधमुत्कटम् । अवटीटोवनाटे निबिडं चेक्षुशाकिनम् ॥ १,५२.६६ ॥ निबिरीसमेषुकारी वित्तोविद्याञ्चणस्तथा । विद्याथुञ्चुर्बहुतिथं पर्वतः शृङ्गिणस्तथा ॥ १,५२.६७ ॥ स्वामी विषमरूप्यं चोपत्यकाधित्यका तथा । चिल्लश्च चिपिटं चिक्वं वातूलः कुतपस्तथा ॥ १,५२.६८ ॥ वल्लश्व हिमेलुश्च कहोडश्चोपडस्ततः । ऊर्णायुश्च मरूतश्चैकाकी चर्मण्वती तथा ॥ १,५२.६९ ॥ ज्योत्स्ना तमिस्राष्टीवच्च कक्षीवर्द्षमण्वती । आसंदी वञ्च चक्रीवत्तूष्णीकां जल्पतक्यपि ॥ १,५२.७० ॥ कंभश्च कंयुः कंवश्च नारदकेतिः कन्तुः कन्तकंपौ शंवस्तथैव च । शन्तः शन्तिः शंयशन्तौ शंयोहंयुः शुभंयुवत् ॥ १,५२.७१ ॥ भवति बगभूव भविता भविष्यति भवत्वभवद्भघवेच्चापि ॥ १,५२.७२ ॥ भूयादभूदभविषअयल्लादावेतानि रूपाणि । अत्ति जघासात्तात्स्यत्यत्त्वाददद्याद्द्विरघसदात्स्यत् ॥ १,५२.७३ ॥ जुहितो जुहाव जुहवाञ्चकार होता होष्यति जुहोतु । अजुहोज्जुहुयाद्धूयादहौषीदहोष्यद्दीव्यति । दिदेव देविता देविष्यति च अदीव्यद्दीव्येद्दीव्याद्वै ॥ १,५२.७४ ॥ अदेवीददेवीष्यत्सुनोति सुषाव सोता सोष्यति वै । सुनोत्वसुनोत्सुनुयात्सूयादशावीदसोष्युत्तुदति च ॥ १,५२.७५ ॥ तुतोद तोत्ता तोत्स्यति तुदत्वतुदत्तुदेत्तुद्याद्धि । अतौत्सीदतोत्स्यदिति च रुणद्धि रूरोध रोद्धा रोत्स्यति वै ॥ १,५२.७६ ॥ रुणद्धु अरुणद्रुध्यादरौत्सीदारोत्स्यञ्च । तनोति ततान तनिता तनिष्यति तनोत्वतनोत्तनुयाद्धि ॥ १,५२.७७ ॥ अतनीञ्चातानीदतनिष्यत्क्रीणाति चिक्राय क्रेता क्रेष्यति क्रीणात्विति च । अक्रीणात्क्रीणात्क्रीणीयात्क्रीयादक्रैषीदक्रेष्यञ्चोरयति चोरयामास चोरयिता चोरयिष्यति चोरयतु ॥ १,५२.७८ ॥ अचोरयञ्चोरयेच्चोर्यातचूचुरदचोरिष्यदित्येवं दश वै गणाः । प्रयोजके भावयति सनीच्छायां बुभूषति । क्रियासमभिहारे तु पण्डितो बोभूयते मुने ॥ १,५२.७९ ॥ तथा यङ्लुकि बोभवीति च पठ्यते । पुत्रीयतीत्यात्मनीच्छायां तथाचारेऽपि नारद । अनुदात्तञितो धातोः क्रियाविनिमये तथा ॥ १,५२.८० ॥ निविशादेस्तथा विप्र विजानीह्यात्मनेपदम् । परस्मैपदमाख्यातं शेषात्कर्तारि शाब्दिकैः ॥ १,५२.८१ ॥ ञित्स्वरितेतश्च उभे यक्च स्याद्भावकर्मणोः । सौकर्यातिशयं चैव यदाद्योतयितुं मुने ॥ १,५२.८२ ॥ विवक्ष्यते न व्यापारो लक्ष्ये कर्तुस्तदापरे । लभन्ते कर्तृते पश्य पच्यते ह्योदनः स्वयम् ॥ १,५२.८३ ॥ साधु वासिश्छिनत्त्येवं स्थाली पचति वै मुने । धातोः सकर्मकाद्भावे कर्मण्यपि लप्रत्ययाः ॥ १,५२.८४ ॥ तस्मै वाकर्मकाद्विप्र भावे कर्तरि कीर्तितः । फलव्यापरयोरेकनिष्टतायामकर्मकः ॥ १,५२.८५ ॥ धातुस्तयोर्द्धर्मिभेदे सकर्मक उदाहृतः । गौणे कर्मणि द्रुह्यादेः प्रधाने नीहृकृष्वहाम् ॥ १,५२.८६ ॥ बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया । प्रयोज्य कर्मण्यन्येषां ण्यन्तानां लादयो मताः ॥ १,५२.८७ ॥ फलव्यापारयोर्द्धातुराश्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिर्ङ्थस्तु विशेषणम् ॥ १,५२.८८ ॥ एधितव्यमेधनीयमिति कृत्ये निदर्शनम् । भावे कर्मणि कृत्याः स्युः कृतः कर्तरि कीर्तिताः ॥ १,५२.८९ ॥ कर्ता कारक इत्याद्या भूते भूतादि कीर्तितम् । गम्यादिगम्ये निर्दिष्टं शेषमद्यतने मतम् ॥ १,५२.९० ॥ अधिस्रीत्यव्ययीभावे यथाशक्ति च कीर्तितम् । रामाश्रितस्तत्पुरुषे धान्यार्थो यूपदारु च ॥ १,५२.९१ ॥ व्याघ्रभी राजपुरुषोऽक्षशैण्डो द्विगुरुच्यते । पञ्चगवं दशग्रामी त्रिफलेति तु रूढितः ॥ १,५२.९२ ॥ नीलोत्पलं महाषष्टी तुल्यार्थे कर्मधारयः । अब्राह्मणो न ञि प्रोक्तः कुंभकारादिकः कृता ॥ १,५२.९३ ॥ अन्यार्थे तु बहुव्रीहौ ग्रामः प्राप्तोदको द्विज । पञ्चगू रूपवद्भार्यो मध्याह्नः ससुतादिकः ॥ १,५२.९४ ॥ समुच्चये गुरुं चेशं भजस्वान्वाचये त्वट ॥ च द्वयोः क्रमात् । भिक्षामानय गां चापि वाक्यमेवानयोर्भवेत् ॥ १,५२.९५ ॥ इतरेतरयोगे तु रामकृष्णौ समाहृतौ । रामकृष्णं द्विज द्वै द्वै ब्रह्म चैकमुपास्यते ॥ १,५२.९६ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे व्याकरणनिरूपणं नाम द्विपञ्चाशत्तमोऽध्यायः _____________________________________________________________ सनन्दन उवाच निरुक्तं ते प्रवक्ष्यामि वेदं श्रोत्राङ्गमुत्तमम् । तत्पञ्चविधमाख्यातं वैदिकं धातुरूपकम् ॥ १,५३.१ ॥ क्वचिदूर्णागमस्तत्र क्वचिद्वर्णविपर्ययः । विकारः क्वापि वर्णानां वर्णनाशः क्वचिन्मतः ॥ १,५३.२ ॥ तथा विकारनाशाभ्यां वर्णानां यत्र नारद । धातोर्योगातिशयी च संयोगः परिकीर्तितः ॥ १,५३.३ ॥ सिद्धेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । गूढोत्मा वर्णविकृतेर्वर्णनांशात्पृषोदरः ॥ १,५३.४ ॥ भ्रमरादुषु शब्देषु ज्ञेयो योगो हि पञ्चमः । बहुलं छन्दसीत्युक्तमत्र वाच्यं पुनर्वसू ॥ १,५३.५ ॥ नभस्वद्वृषणश्चैवापरस्मैपदि चापि हि । परं व्यवहिताश्चापि गतिसंज्ञास्तथा हि आ ॥ १,५३.६ ॥ विभक्तीनां विपर्यासो यथा दधना जुहोति हि । अभ्युत्सादयामकेतुर्ध्वनयीत्प्रमुखास्तथा । निष्टर्क्यान्द्यास्तथोक्ताश्च गृभायेत्यादिकास्तथा ॥ १,५३.७ ॥ सुप्तिङुपग्रहलिङ्गनराणां कालहलूचूस्वरकर्तृयडां च । व्यत्ययमिच्छति शास्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन ॥ १,५३.८ ॥ रात्री विम्बी च कद्रूश्चाविष्ट्वौ वाजसनेयिनः ॥ १,५३.९ ॥ कर्णेभिश्च यशोभाग्य इत्याद्याश्चतुरक्षरम् । देवासोऽथो सर्वदेवतातित्वावत इत्यपि ॥ १,५३.१० ॥ उभयाविन माद्याश्च प्रलयाद्याश्च स्तृचं तथा । अपस्पृधेथां नो अव्यादायो अस्मान्मुखास्तथा ॥ १,५३.११ ॥ सगर्भ्योस्थापदी ऋत्व्योरजिष्टं त्रिपञ्चकम् । हिरण्ययेन नरं च परमे व्योमनित्यपि ॥ १,५३.१२ ॥ उर्विया स्वप्रया वारवध्वाददुहवैवधी । यजध्वैनमेमसि च स्नात्वी गत्वा पचास्थभौः ॥ १,५३.१३ ॥ गोनाञ्चापरिह्रवृत्ताश्चातुरिर्ग्रसितादिका । पश्येदधद्ब्रभूथापि प्रमिणान्तित्यवीवृधत् ॥ १,५३.१४ ॥ मित्रयुश्च दुरस्वा वा हात्वा सुधितमित्यपि । दधर्त्याद्या स्ववद्भिश्च ससूवेति च धिष्व च ॥ १,५३.१५ ॥ प्रप्रायं च हरिवतेक्षण्वतः सुपर्थितरः । रथीतरी नसताद्या अम्नर्भुवरथो इति ॥ १,५३.१६ ॥ ब्रूह्याद्यादेः परस्याप्यौ श्रावयेत्यादिके प्लुतः । दाश्वांश्व स्वतवान्यापौत्रिभिष्ट्वं च नृभिष्टुतः ॥ १,५३.१७ ॥ अभीषुण ऋतावाहं न्यषीदन्नृमणा अपि । चतुर्विधाद्बाहुलकात्प्रवृत्तेरप्रवृत्तितः ॥ १,५३.१८ ॥ विभाषयान्यथाभावात्सर्वं सिद्ध्येञ्च वैदिकम् । भूवाद्या धातवो ज्ञेयाः परस्मैपदिनःस्मृताः ॥ १,५३.१९ ॥ एधाद्या आत्मनेभाषा उदात्ताः षट्त्रिंशसंख्यकाः । अतादयोऽष्टत्रिंशञ्च परस्मैपदिनो मुने ॥ १,५३.२० ॥ लोकृपूर्वा द्विचत्वारिंशदुक्ता च ह्यात्मने पदे । उदात्तेतरतु पञ्चाशत्फक्काद्याः परिकीर्तिताः ॥ १,५३.२१ ॥ वर्चाद्या अनुदात्तेत एकविंशतिरीरीताः । गुपादयो द्विचत्वारिंशदुदात्तेताः समीरिताः ॥ १,५३.२२ ॥ धिण्यादयोऽनुदात्तेतो दश प्रोक्ता हि शाब्दिकैः । अणादयोप्युदात्तेतः सप्तविंशतिधातवः ॥ १,५३.२३ ॥ अमादयः समुद्दिष्टाश्चतुर्स्रिंशद्धिशाब्दिकैः । द्विसप्ततिमिता मव्यमुखाश्चोदात्तबन्धना ॥ १,५३.२४ ॥ स्वारितेद्धावुधातुस्तु एक एव प्रकीर्तितः । क्षुधादयोऽनुदात्तेतो द्विषपञ्चाशदुदाहृताः ॥ १,५३.२५ ॥ घुषिराद्या उदात्ततोऽष्टाशीतिर्धातवो मताः । द्युताद्या अनुदात्तेतो द्वाविंशतिरतो मताः ॥ १,५३.२६ ॥ षितस्रयोदश घटादिष्वेनुदत्तेत ईरितः । ततो ज्वलदुदात्तेतो द्विपञ्चाशन्मितास्तथा ॥ १,५३.२७ ॥ स्वरितेद्राजृसंप्रोक्त स्तनहेभ्राजृतस्रयः । अनुदात्तेत अख्याता भाद्युतात्ता इतः स्यमात् ॥ १,५३.२८ ॥ सहोऽनुदात्तेदेकस्तु रमैकोऽप्यात्मनैपदी । सदस्रय उदात्तेतः कुचाद्वेदा उदात्त इत् ॥ १,५३.२९ ॥ स्वरितेतः पञ्चत्रिंशद्धिक्काद्याश्च ततः परम् । स्वरितेच्छिञ्भृञाद्याश्चत्वार स्वरितेत्ततः ॥ १,५३.३० ॥ धेटः परस्मैपदिनः षट्चत्वारिंशदुदीरिताः । अष्टादशस्मिङाद्यास्तु आमनेपदिनो मताः ॥ १,५३.३१ ॥ ततस्रयोऽनुदात्तेतः पूङाद्याः परिकीर्तिताः । हृपरस्मैपदी चात्मनेभाषास्तु गुपात्रयः ॥ १,५३.३२ ॥ रभद्यब्दयनुदात्तेतो ञिक्ष्विदोतात्त इन्मतः । परस्मैपदिनः पञ्च दश स्कंम्भ्वादयस्तथा ॥ १,५३.३३ ॥ कितधातुरुदात्तेञ्च दानशानोभयात्मकौ । स्वरितेतः पचाद्यङ्काः परस्मैपदिनो मताः ॥ १,५३.३४ ॥ स्वरितेतस्त्रयश्चैतौ वदवची परिभाषिणौ । भ्वाद्या एते षडधिकं सहस्रं धातवो मताः ॥ १,५३.३५ ॥ परस्मैपदिनः प्रोक्ता वदाश्चापि हनेति च । स्वरितेतो द्विषाद्यास्तु चत्वारो धातवो मताः ॥ १,५३.३६ ॥ चक्षिङेकः समाख्यातो धातुरत्रात्मनेपदी । इरादयोऽनुदात्तेतो धातवस्तु त्रयोदश ॥ १,५३.३७ ॥ आत्मनेपदिनौ प्रोक्तौ षूङ्शीङ्द्वौ शाब्दिकैर्मुने । परस्मैपदिनः प्रोक्ता षुमुखाः सप्त धातवः ॥ १,५३.३८ ॥ स्वरितेदुर्णुञाख्यातो धातुरेको मुनीश्वर । घुमुखास्त्रय उद्दिष्टाः परस्मैपदिनस्तथा ॥ १,५३.३९ ॥ ष्टुञेकस्तु समा ख्यातः स्मृते नारद शाब्दिकैः ॥ १,५३.४० ॥ अष्टादश राप्रभृतयः परस्मैपदिनः स्मृताः । इङ्ङात्मनेपदी प्रोक्तो धातुर्नारद केवलः ॥ १,५३.४१ ॥ विदाद यस्तु चत्वारः परस्मैपदिनो मताः । ञिष्वप्शये समुद्दिष्टः परस्मैपदिकस्तथा ॥ १,५३.४२ ॥ परस्मैपदिनश्चैव ते मयोक्ताः स्यमादयः । दीधीङ्वेङ्स्मृतौ धातू आत्मनेपदिनौ मुने ॥ १,५३.४३ ॥ प्रथादयस्रयश्चापि उदात्तेतः प्रकीर्तिताः । चर्करीतं च ह्नुङ्प्रोक्तोऽनुदात्तेन्मुनिसत्तम ॥ १,५३.४४ ॥ त्रिसप्तति समाख्याता धातवोऽदादिके गणे । दादयो धातवो वेदाः परस्मैपदिनो मताः ॥ १,५३.४५ ॥ स्वरितेद्वै भृञाख्यात उदात्तेद्धाक्प्रकीर्तितः । माङ्हाङ्द्वावनुदात्तेतौ स्वरितेद्दानधातुषु ॥ १,५३.४६ ॥ वाणितिराद्यास्रयश्वापि स्वरितेत उदाहृताः । घृमुखा द्वादश तथा परस्मैपतिनो मताः ॥ १,५३.४७ ॥ द्वाविंशतिरिहोद्दिष्टा धातवो ह्वादिके गणे । परस्मैपदिनः प्रोक्ता दिवाद्याः पञ्चविंशतिः ॥ १,५३.४८ ॥ आत्मनेपदिनौ धातू षूङ्दूङ्द्वावपि नारद । ओदितः पूङ्मुखाः सप्त आत्मनेदपिनो मताः ॥ १,५३.४९ ॥ आत्मनेपदिनो विप्र दीङ्मुखास्त्विह कीर्तिताः । स्यतिप्रभृतयो वेदाः परस्मैपदिनो मताः ॥ १,५३.५० ॥ जन्यादयः पञ्चदश आत्मनेपदिनो मुने । मृषाद्याः स्वरितेतस्तु धातवः पञ्च कीर्तिताः ॥ १,५३.५१ ॥ एकादश पदाद्यास्तु ह्यात्मनेपदिनो मताः । राधोः कर्मक एवात्र वृद्धौ स्वादिचुरादिके ॥ १,५३.५२ ॥ उदात्तेतस्तुदाद्यास्तु त्रयोदश समीरिताः । परस्मैपदिनोऽष्टात्र रधाद्याः परिकीर्तिताः ॥ १,५३.५३ ॥ समाद्याश्चाप्युदात्तेतः षट्चत्वारिंशदुदीरिताः । चत्वारिशच्छतं चापि दिवादौ धातवो मताः ॥ १,५३.५४ ॥ स्वादयः स्वरितेत्तोङ्का धातवः परिकीर्तिताः । सप्ताख्यातो दुनोतिस्तु परस्मैपदिनो मुने ॥ १,५३.५५ ॥ अष्टिघावनुदात्तेतौ धातू द्वौ परिकीर्तितौ । परस्मैपदिनस्त्वत्र तिकाद्यास्तु चतुर्दश ॥ १,५३.५६ ॥ द्वात्रिंशद्धातवः प्रोक्ता विप्रेन्द्र स्वादिके गणे । स्वरितेतः षङाख्यातास्तुदाद्या मुनिसत्तम ॥ १,५३.५७ ॥ ऋष्युदात्तेज्जुषीपूर्वा अत्मनेपदिनोर्णवाः । व्रश्चादय उदात्तेतः प्रोक्ताः पञ्चाधिकं शतम् ॥ १,५३.५८ ॥ गूर्युदात्तेदिहोद्दिष्टो धातुरेको मुनीश्वर । णूमुखाश्चैव चत्वारः परस्मैपदिनो मताः ॥ १,५३.५९ ॥ कुङाख्यातोनुदात्तेञ्च कुटाद्याः पूर्तिमागताः । पृङ्मृङ्चात्मनेभाषौ षट्परस्मैपदे रिपेः ॥ १,५३.६० ॥ आत्मनेपदिनो धातू दृङ्धृङ्द्वौ चाप्युदाहृतौ । प्रच्छादिषोडशाख्याताः परस्मैपदिनो मुने ॥ १,५३.६१ ॥ स्वरितेतः षट्ततश्च प्रोक्ता मिलमुखा मुने । कृतीप्रभृतय श्चापि परस्मैपदिनस्रयः ॥ १,५३.६२ ॥ सप्त पञ्चाशदधिकास्तुदादौ धातवः शतम् । स्वरितेतो रुधोनन्दा परस्मैभाषितः कृती ॥ १,५३.६३ ॥ ञिइन्धीतोऽनुदातेतस्रयो धातव ईरिताः । उदात्तेतः शिषपिषरुधाद्याः पञ्चविंशतिः ॥ १,५३.६४ ॥ स्वरितेतस्तनोः सप्त धातवः परिकीर्तिताः । मनुवन्वात्मनेभाषौ स्वरितेत्त्कृञुदाहृतः ॥ १,५३.६५ ॥ ततो द्वौ कीर्तितौ विप्र धातवो दश शाब्दिकैः । क्याद्याः सप्तोभयेभाषाः सौत्राः स्तंभ्वादिकास्तथा ॥ १,५३.६६ ॥ परस्मैपदिनः प्रोक्ताश्चत्वारोऽपि मुनीश्वर । द्वाविंशतिरुदात्तेतः कुधाद्या धातवो मताः ॥ १,५३.६७ ॥ वृङ्ङात्मनेपदी धातुः श्रंथाद्याश्चैकविंशतिः । परस्मैपदिनश्चाथ स्वरितेद्ग्रह एव च ॥ १,५३.६८ ॥ र्क्यादिकेषु द्विपञ्चाशद्धातवः कीर्तिता बुधैः । चुराद्या धातवो ञ्यन्ता षट्र्त्रिंशदधिकः शतम् ॥ १,५३.६९ ॥ चित्याद्यष्टादशाख्याता आत्मनेपदिनो मुने । चर्चाद्या आधृषीयास्तु प्यन्ता वा परिकीर्तिताः ॥ १,५३.७० ॥ अदन्ता धातवश्चैव चत्वारिंशत्तथाष्टं च । पदाद्यास्तु दश प्रोक्ता धातवो ह्यात्मनेपदे ॥ १,५३.७१ ॥ सूत्राद्या अष्ट चाप्यत्र ञ्यन्ता प्रोक्ता मनीषिभिः । धात्वर्थे प्रातिपदिकाद्वहुलं चेष्टवन्मतम् ॥ १,५३.७२ ॥ तत्करोति तदाचष्टे हेतुमत्यपि णिर्मतः । धात्वर्थे कर्तृकरणाञ्चित्राद्याश्चापि धातवः ॥ १,५३.७३ ॥ अष्ट संग्राम आख्यातोऽनुदात्तेच्छब्दिकैर्बुधैः । स्तोमाद्याः षोडश तथा अन्दतस्यं निदर्शनम् ॥ १,५३.७४ ॥ तथा बाहुलकादन्ये सौत्रलौकिकवैदिकाः । सर्वे सर्वगणीयाश्च तथानेकार्थवाचिनः ॥ १,५३.७५ ॥ सनाद्यन्ता धातवश्च तथा वै नामधातवः । एवमानन्त्यमुद्भाव्यं धातूनामिह नारद । संक्षेपोऽयं समुद्दिष्टो विस्तरस्तत्र तत्र च ॥ १,५३.७६ ॥ ऊदृदन्तैर्यौन्ति रुक्ष्णुशूङ्स्नुनुक्षुश्चिडीङ्श्रिभिः । वृङ्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥ १,५३.७७ ॥ शक्लपच्मुचार्च्वच्विच्सिच्प्रच्छित्यज्निजिर्भजः । भञ्ज्भुज्भ्रस्ज्मत्जियज्युज्रुज्रञ्जविजिर्स्वञ्जिसञ्ज्सृजः ॥ १,५३.७८ ॥ अद्क्षुद्खिद्छिद्तुदिनुदः पद्यभिद्विद्यतिर्विनद् । शद्सदी स्विद्यतिःस्कन्दिर्हदी क्रुध्क्षुधिबुध्यती ॥ १,५३.७९ ॥ बन्धिर्युधिरुधीराधिव्यध्शुधः साधिसिध्यती । मन्यहन्नाप्क्षिप्छुपितप्तिपस्तृप्यतिदृप्यती ॥ १,५३.८० ॥ लिब्लुव्वपूशप्स्वपूसृपियभरभगम्नम्यमो रभिः । क्रुशिर्दंशिदिशी दृश्मृश्रिरुश्लिश्विश्स्पृशः कृषिः ॥ १,५३.८१ ॥ त्विष्टुष्दुष्पुष्यपिष्विष्शिष्शुष्श्लिष्यतयो घसिः । वसतिर्दहदिहिदुहो नह्मिह्रुह्लिह्वहिस्तथा ॥ १,५३.८२ ॥ अनुदात्ता हलन्तेषु धातवो द्व्यधिकं शतम् । चाद्या निपाता गवयः प्राद्या दिग्देशकालजाः ॥ १,५३.८३ ॥ शब्दाः प्रोक्ता ह्यनेकार्थाः सर्वलिङ्गा अपि द्विज । गणपाठः सूत्रपाठो धातुपाठस्तथैव च ॥ १,५३.८४ ॥ पाठोनुनासिकानां च परायणमिहोच्यते । शब्दाः सिद्धा वैदिकास्तु लौकिकाश्चापि नारद ॥ १,५३.८५ ॥ शब्दपारायणं तस्मात्कारणं शब्दसंग्रहे । लघुमार्गेण शब्दानां साधूनां संनिरूपणम् ॥ १,५३.८६ ॥ प्रकृतिप्रत्ययादेशलोपागममुखैः कृतम् ॥ १,५३.८७ ॥ इत्थमेतत्समाख्यातं निरुक्तं किञ्चिदेवते । कात्स्न्येर्न वक्तुमानन्त्यात्कोऽपिशक्तो न नारद ॥ १,५३.८८ ॥ इति श्रीबृहन्नारदीयपुराण पूर्वभागे बृहदुपाख्याने द्वितीयपादे निरुक्तलक्षणनिरूपणं नाम त्रिपञ्चाशत्तमोऽध्यायः _____________________________________________________________ सनन्दन उवाच ज्योतिषाङ्गं प्रवक्ष्यामि यदुक्तं ब्रह्मणा पुरा । यस्य विज्ञान मात्रेण धर्मसिद्धिर्भवेन्नृणाम् ॥ १,५४.१ ॥ त्रिस्कन्धं ज्यौतिषां शास्त्रं चतुर्लक्षमुदाहृतम् । गणितं जातकं विप्र संहितास्कन्धसंज्ञिताः ॥ १,५४.२ ॥ गणिते परिकर्मादि खगमध्यस्फुटक्रिंये । अनुयोगश्चन्द्रसूर्यग्रहणं तचोदस्याकम् ॥ १,५४.३ ॥ छाया शृङ्गोन्नतियुती पातसाधानमीरितम् । जातके राशिभेदाश्च ग्रहयोनिश्च योनिजम् ॥ १,५४.४ ॥ निषेकजन्मारिष्टानि ह्यायुर्दायो दशाक्रमः । कर्माजीवं चाष्टवर्गो राजयोगाश्च नाभसाः ॥ १,५४.५ ॥ चन्द्रयोगाः प्रव्रज्याख्या राशिशीलं च दृक्फलम् । ग्रहभावफलं चैवाश्रययोगप्रकीर्णके ॥ १,५४.६ ॥ अनिष्टयोगाः स्रीजन्मपलं निर्याणमेव च । नष्टजन्मविधानं च तथा द्रेष्काणलक्षणम् ॥ १,५४.७ ॥ संहिताशास्त्ररूपं च ग्रहचारोऽब्दलक्षणम् । तिथिवासरनक्षत्रयोगतिथ्यर्द्धसंज्ञकाः ॥ १,५४.८ ॥ मुहूर्तोपग्रहाः सूयसंक्रान्तिर्गोचरः क्रमात् । चन्द्रता राबलं चैव सर्वलग्रार्तवाह्वयः ॥ १,५४.९ ॥ आधानपुंससीमन्तजातनामान्नभुक्तयः । चौलङ्कर्ण्ययणं मैञ्जी क्षुरिकाबन्धनं तथा ॥ १,५४.१० ॥ समावर्तिनवैवाहप्रतिष्टासद्मलक्षणम् । यात्राप्रवेशनं सद्योवृष्टिः कर्मविलक्षणम् ॥ १,५४.११ ॥ उत्पत्तिलक्षणं चैव सर्वं संक्षेपतो ब्रुवे । एकं दश शतं चैव सहस्रायुतलक्षकम् ॥ १,५४.१२ ॥ प्रयुतं कोटिसंज्ञां चार्बुदमब्जं च रर्ववकम् । निरवर्व च महापद्मं शङ्कुर्जलधिरेव च ॥ १,५४.१३ ॥ अत्यं मध्यं परार्द्धं च संज्ञा दशगुणोत्तराः । क्रमादुत्क्रमतो वापि योगः कार्योत्तरं तथा ॥ १,५४.१४ ॥ हन्याद्गुणेन गुण्यं स्यात्तैनैवोपान्तिमादिकान् । शुद्धेद्धरोयद्गुणश्चभाज्यान्त्यात्तत्फलं मुने ॥ १,५४.१५ ॥ समाङ्कतोऽथो वर्गस्यात्तमेवाहुः कृतिं बुधाः । अन्त्यात्तु विषमात्त्यक्त्वा कृतिं मूलंन्यसेत्पृथक् ॥ १,५४.१६ ॥ द्विगुणेनामुना भक्ते फलं मूले न्यसेत्क्रमात् । तत्कृतिं च त्यजेद्विप्र मूलेन विभजेत्पुनः ॥ १,५४.१७ ॥ एवं मुहुर्वर्गमूलं जायते च मुनीश्वर । समत्र्यङ्कहतिः प्रोक्तो घनस्तत्रविधिः पदे ॥ १,५४.१८ ॥ प्रोच्यते विषमं त्वाद्यं समे द्वे च ततः परम् । विशोध्यं विषमादन्त्याद्धनं तन्मूलमुच्यते ॥ १,५४.१९ ॥ त्रिघ्नाद्भजन्मूलकृत्या समं मूले न्यसेत्फलम् । तत्कृतित्वेन निहतान्निघ्नीं चापि विशोधयेत् ॥ १,५४.२० ॥ घनं च विषमादेवं घनमूलं मुर्हुभवेत् । अन्योन्यहारनिहतौ हरांशौ तु समुच्छिदा ॥ १,५४.२१ ॥ लवा लवघ्नाश्च हरा हरघ्ना हि सवर्णनम् । भागप्रभागे विज्ञेयं मुने शास्रार्थचिन्तकैः ॥ १,५४.२२ ॥ अनुबन्धेऽपवाहे चैकस्य चेदधिकोनकः । भागास्तलस्थहारेण हरं स्वांशाधिकेन तान् ॥ १,५४.२३ ॥ ऊनेन चापि गुणयेद्धनर्णं चिन्तयेत्तथा । कार्यस्तुल्यहरां शानां योगश्चाप्यन्ततो मुने ॥ १,५४.२४ ॥ अहारराशौ रूप्यं तु कल्पयेद्धरमप्यथा । अंशाहतिश्छेदघातहृद्भिन्नगुणने फलम् ॥ १,५४.२५ ॥ छेदं चापि लवं विद्वन्परिवर्त्य हरस्य च । शेषः कार्यो भागहारे कर्तव्यो गुणनाविधिः ॥ १,५४.२६ ॥ हारांशयोः कृती वर्गे घनौ घनविधौ मुने । पदसिद्ध्यै पदे कुर्यादथोरवं सर्वतश्च रवम् ॥ १,५४.२७ ॥ छेदं गुणं गुणं छेदं वर्गं मूलं पदं कृतिम् । ऋणं स्वं स्वमृणं कुर्यादृश्ये राशिप्रसिद्धये ॥ १,५४.२८ ॥ अथ स्वांशाधिकोने तु लवाढ्यो नो हरो हरः । अंशस्त्वविकृतस्तत्र विलोमे शेषमुक्तवत् ॥ १,५४.२९ ॥ उद्दिष्टाराशिः संक्षिप्तौ हृतोंऽशै रहितो युतः । इष्टघ्नदृष्टेनैतेन भक्तराशिरनीशितः ॥ १,५४.३० ॥ योगोन्तरेणोनयुतोद्वितोराशीतसंक्रमे । राश्यन्तरहृतं वर्गोत्तरं योसुतश्च तौ ॥ १,५४.३१ ॥ गजग्रीष्टकृतिर्व्यैका दलिता चेष्टभाजिता । एकोऽस्य वर्गो दलितः सैको राशिः परो मतः ॥ १,५४.३२ ॥ द्विगुणेष्टहृतं रूपं श्रेष्ठं प्राग्रूपकं परम् । वर्गयोगान्तरे व्येके राश्योर्वर्गोस्त एतयोः ॥ १,५४.३३ ॥ इष्टवगेकृतिश्चेष्टघनोष्टग्रौ च सौककौ । एषीस्यानामुभे व्यक्ते गणिते व्यक्तमेव च ॥ १,५४.३४ ॥ गुणघ्नमूलोनयुतः सगुणार्द्धे कृतं पदम् । दृष्टस्य च गुणार्द्धो न युतं वर्गीकृतं गुणः ॥ १,५४.३५ ॥ यदा लवोनपुम्राशिर्दृश्यं भागोनयुग्भुवा । भक्तं तथा मूलगुणं ताभ्यां साध्योथ व्यक्तवत् ॥ १,५४.३६ ॥ प्रमाणेच्छे सजातीये आद्यन्ते मधअयगं फलम् । इच्छघ्नमाद्यहृत्सेष्टं फलं व्यस्ते विपर्ययात् ॥ १,५४.३७ ॥ पञ्चरास्यादिकेऽन्योन्यपक्षं कृत्वा फलच्छिदाम् । बहुराशिवधं भक्ते फलं स्वल्पवधेन च ॥ १,५४.३८ ॥ इष्टकर्मवधेमूलं च्युतं मिश्रात्कलान्तरे । मानघ्नकालश्चातीतकालाघ्नफलसंहृताः ॥ १,५४.३९ ॥ स्वयोगभक्तानिघ्नाः स्युः संप्रयुक्तदलानि च । बहुराशिपलात्स्वल्पराशिमासफलं बहु ॥ १,५४.४० ॥ चेद्राशिविवरं मासफलान्तरहृतं च यः । क्षेपा मिश्रहताः क्षेपोयोगभक्ताः फलानि च ॥ १,५४.४१ ॥ भजेच्छिदाएंशैस्तैर्मिश्रै रूपं कालश्च पूर्तिकृत् । पूर्णोगच्छेत्समेध्यव्येसमेवर्गोर्द्धितेत्यतः ॥ १,५४.४२ ॥ व्यस्तं गच्छतं फलं यद्गुणवर्गं भचहि तत् । व्येकं व्येकगुणाप्तं च प्राध्नं मानं गुणोत्तरे ॥ १,५४.४३ ॥ भुजकोटिकृतियोगमूलं कर्णश्च दोर्भवेत् । श्रुतिकृत्यन्तरपद कोटिर्दोः कर्णवर्गयोः ॥ १,५४.४४ ॥ विंवरात्तत्कर्णपदं क्षेत्रे त्रिचतुरस्रके । राश्योरन्तरवर्गेण द्विघ्ने घाते युते तयोः ॥ १,५४.४५ ॥ वर्गयोगोथ योगान्तहॄन्तिर्वर्गान्तरं भवेत् । व्यास आकृतिसंक्षण्णोव्यासास्यात्परिधिर्मुने ॥ १,५४.४६ ॥ ज्याव्यासयोगविवराहतमूलोनितोऽर्द्धितः । व्यासः शरः शरोनाञ्च व्यासाच्छरगुणात्पदम् ॥ १,५४.४७ ॥ द्विघ्नं जीवाथ जीवार्द्धवर्गे शरहृते युते । व्यासोष्टतेभवेदेवं प्रोक्तं गणितकोविदैः ॥ १,५४.४८ ॥ चापोननिघ्नः परिधिः प्रगङ्लः परिधेः कृते । तुर्यांशेन शरध्नेनाघेनिनाधं चतुर्गणम् ॥ १,५४.४९ ॥ व्यासध्नं प्रभजेद्विप्र ज्या काशं जायते स्फुटा । ज्याङ्घ्रीषुध्नोवृत्तवर्गोबग्धिघ्नव्यासाढ्यमौर्विहृत् ॥ १,५४.५० ॥ लब्धोनवृत्तवर्गाद्रिपदेर्धात्पतिते धनुः । स्थूलमध्यापृवन्नवेधो वृत्ताङ्काशेषभागिकः ॥ १,५४.५१ ॥ वृत्ताङ्गांशकृतिर्वेधनिप्रीयनकरामितौ । वारिव्यासहतं दैर्ध्यंवेधाङ्गुलहतं पुनः ॥ १,५४.५२ ॥ खरवेन्दुरामविहतं मानं द्रोणादिवारिणः । विस्तारायामवेधानांमङ्गुल्योन्यनाडिघ्नाः ॥ १,५४.५३ ॥ रसांकाभ्राब्धिभिर्भक्ता धान्ये द्रोणादिकामितिः । उत्सेधव्यासदैर्ध्याणामङ्गुल्यान्यस्य नो द्विज ॥ १,५४.५४ ॥ मिथोघ्नाति भजेत्स्वाक्षेशैर्द्रेणादिमितिर्भवेत् । विस्ताराद्यं गुलान्येवं मिथोघ्नान्यपसांभवेत् ॥ १,५४.५५ ॥ वाणेभमार्गणैर्लब्धं द्रोणाद्यं मानमादिशेत् । दीपशङ्कुतलच्छिद्रघ्नः शङ्कुर्भैवंभवेन्मुने ॥ १,५४.५६ ॥ नरोन दीपकशिखौच्यभक्तो ह्यथ भोद्वने । शङ्कौनृदीपाधश्छिद्रघ्नैर्दीपौच्च्यं नरान्विते ॥ १,५४.५७ ॥ विंशकुदीपौच्चगुणाच्छाया शङ्कूद्धृता भवेत् । दीपशङ्क्वन्तरं चाथ च्छायाग्रविवरघ्नभा ॥ १,५४.५८ ॥ मानान्तरद्रुद्भूमिः स्यादथोभूनराहतिः । प्रभाप्ता जायते दीपशिखौच्च्यं स्यात्त्रिराशिकात् ॥ १,५४.५९ ॥ एतत्संक्षेपतः प्रोक्तं गणिते परिकर्मकम् । ग्रहमध्यादिकं वक्ष्ये गणिते नातिविस्तरान् ॥ १,५४.६० ॥ युगमानं स्मृतं विप्र खचतुष्करदार्णवाः । तद्दशांशास्तु चत्वारः कृताख्यं पादमुच्यते ॥ १,५४.६१ ॥ त्रयस्रेता द्वापरः द्वौ कलिरेकः प्रकीर्तितः । मनुकृताब्दसहिता युगानामेकसप्ततिः ॥ १,५४.६२ ॥ विधेर्द्दिने स्युर्विप्रेन्द्र मनवस्तु चतुर्दश । तावत्येव निशा तस्य विप्रेन्द्र परिकीर्तिता ॥ १,५४.६३ ॥ स्वयंभुवा शरगतानब्दान्संपिण्ड्य नारद । खचरानयनं कार्यमथवेष्टयुगादितः ॥ १,५४.६४ ॥ युगे सूर्यज्ञशुक्राणां खचतुष्करदार्णवाः । पूजार्किगुरुशुक्राणां भगणापूर्वपापिनाम् ॥ १,५४.६५ ॥ इन्दोरसाग्नित्रिषु सप्त भूधरमार्गणाः । दस्रत्र्याष्टरसांकाश्विलोचनानि कुजस्य तु ॥ १,५४.६६ ॥ बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवः । बृहस्पतेः खदस्राक्षिवेदस्रङ्हूयस्तथा ॥ १,५४.६७ ॥ शितशीघ्रस्य यष्णसत्रियमाश्विस्वभूधराः । शनेर्भुजगषट्पचरसवेदनिशाकराः ॥ १,५४.६८ ॥ चन्द्रोञ्चस्याग्निशून्याक्षिवसुसर्पार्णवा युगे । वामं पातस्य च स्वग्नियमाश्विशिखिदस्रकाः ॥ १,५४.६९ ॥ उदयादुदयं भानोर्भूमैः साचेन वासराः । वसुव्द्यष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युगे ॥ १,५४.७० ॥ षड्वहित्रिहुताशाङ्कतिथयश्चाधिमासकाः । तिथिक्षयायमार्थाक्षिद्व्यष्टव्योमशराश्विनः ॥ १,५४.७१ ॥ रवचतुष्का समुद्राष्टकुर्पचरविमासकाः । षट्त्र्यग्निवेदग्निपञ्चशुभ्रांशुमासकाः ॥ १,५४.७२ ॥ प्रागातेः सूर्यमन्दस्य कल्पेसप्ताष्टवह्नयः । कौजस्य वेदस्वयमा बौधस्याष्टर्तुवह्नयः ॥ १,५४.७३ ॥ रवरवरन्ध्राणि जैवस्य शौक्रस्यार्धगुणेषवः । गोग्नयः शनिमन्दस्य पातानामथवा मतः ॥ १,५४.७४ ॥ मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः । कृताद्रिचन्द्राजैवस्य रवैकस्याग्निरवनन्दकाः ॥ १,५४.७५ ॥ शनिपातस्य भगणाः कल्पे यमरसर्तवः । वर्तमानयुगे पानावत्सराभगणाभिधाः ॥ १,५४.७६ ॥ मासीकृतायुता मासैर्मधुशुक्लादिभिर्गतैः । पृथक्त्थासिधिमासग्रासूर्यमासविभाजिताः ॥ १,५४.७७ ॥ अथाधिमासकैर्युक्ता दिनीकृत्य दिनान्विताः । द्विस्थास्तितिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः ॥ १,५४.७८ ॥ लथोनरात्रिरहितालङ्कार्यामर्द्धरात्रिकाः । सावनोद्यूगसारर्कादिर्दिनमासाब्दयास्ततः ॥ १,५४.७९ ॥ सप्तिभिः क्षपितः शेषः मूर्याद्योवासरेश्वरः । मासाब्ददिनसंख्यासंद्वित्रिघ्नं रूपसंयुतम् ॥ १,५४.८० ॥ सप्तोर्द्धनावशेषौ तौ विज्ञेयौ मासवर्षपौ । स्नेहस्य भगणाभ्यस्तो दिनराशिः कुवासरैः ॥ १,५४.८१ ॥ विभाजितो मध्यगत्या भगणादिर्ग्रहो भवेत् । एवं ह्यशीघ्रमन्दाञ्चये प्रोक्ताः पूर्वपापिनः ॥ १,५४.८२ ॥ विलोमगतयः पातास्तद्वञ्चक्राष्विशोधिताः । योजनानि शतान्यष्टौ भूकर्णौं द्विगुणाः स्मृतः ॥ १,५४.८३ ॥ तद्वर्गतो दशगुणात्पद भूपरिधिर्भवेत् । लंबज्याघ्नस्वजीवाप्तः स्फुटो भूपरिधिः स्वकः ॥ १,५४.८४ ॥ तेन देशान्तराभ्यस्ता ग्रहभुक्तिर्विभाजिता । कलादितत्फलं प्रार्च्याः ग्रहेभ्यः परिशोधयेत् ॥ १,५४.८५ ॥ रेखाप्रतीचिसंस्थाने प्रक्षिपेत्स्युः स्वदेशतः । राक्षसातपदेवौकः शैलयोर्मध्यसूत्रगाः ॥ १,५४.८६ ॥ अवन्तिकारोहतिकं तथा सन्निहितं सरः । वारप्रवृत्तिवाग्देशे क्षयार्द्धेभ्यधिको भवेत् ॥ १,५४.८७ ॥ तद्देशान्तरनाडीभिः पश्चादूने विनिर्दिशेत् । इष्टनाडीगुणा भुक्तिः षष्ट्या भक्ता कलादिकम् ॥ १,५४.८८ ॥ गते शोद्ध्यं तथा योज्यं गम्ये तात्कालिको ग्रहः । भचक्रलिप्ताशीत्यंशः परमं दक्षिणोत्तरम् ॥ १,५४.८९ ॥ विक्षिप्यते स्वपातेन स्वक्रान्त्यन्तादनुष्णगुः । तत्र वासं द्विगुणितजीवस्रिगुणितं कुजः ॥ १,५४.९० ॥ बुधशुक्रार्कजाः पातैर्विक्षिप्यन्ते चतुर्गुणम् । राशिलिप्ताष्टमो भागः प्रथमं ज्यार्द्धमुच्यते ॥ १,५४.९१ ॥ ततो द्विभक्तलब्धोनमिश्रितं तद्द्वितीयकम् । आद्येनैव क्रमात्पिण्डान्भक्ताल्लब्धोनितैर्युतान् ॥ १,५४.९२ ॥ खण्डकाः स्युश्चतुर्विशा ज्यार्द्धपिण्डाः क्रमादमी । परमा पक्रमज्या तु सप्तरन्ध्रगुणेन्दवः ॥ १,५४.९३ ॥ तद्गुमज्या त्रिजिवाप्ता तञ्चापं क्रान्तिरुच्यते । ग्रहं संशोध्य मन्दोञ्चत्तथा शीघ्नाद्विशोध्य च ॥ १,५४.९४ ॥ शेषं कन्दपदन्तस्माद्भुजज्या कोटिरेव च । गताद्भुजज्याविषमे गम्यात्कोटिः पदे भवेत् ॥ १,५४.९५ ॥ समेति गम्याद्वाहुदज्या कोटिज्यानुगता भवेत् । लिप्तास्तत्त्वयमैर्भक्ता लब्धज्यापिण्डकं गतम् ॥ १,५४.९६ ॥ गतगम्यान्तराभ्यस्तं विभजेत्तत्त्वलोचनैः । तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञके ॥ १,५४.९७ ॥ स्यात्क्रमज्याविधिश्चैवमुत्क्रमज्यागता भवेत् । लिप्तास्तत्त्वयमैर्भक्ता लब्धज्या पिण्डकं गतम् ॥ १,५४.९८ ॥ गतगम्यान्तराभ्यस्तं विभजेत्तत्त्वलोचनैः । तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञके ॥ १,५४.९९ ॥ स्यात्क्रमज्याविधिश्चैवमुक्रमज्यास्वपिस्मृतः । ज्यां प्रोह्य शेषं तत्त्वताश्वि हॄन्तं तद्विवरोद्धृम् ॥ १,५४.१०० ॥ संख्यातत्त्वाश्विसंवर्ग्यसंयोज्यं धनुरुच्यते । रवेर्मन्दपरिध्यंशा मनवः शीतगोरदाः ॥ १,५४.१०१ ॥ युग्मान्ते विषमान्ते तुनखलिप्तोनितास्तयोः । युग्मान्तेर्थाद्रयः खाग्निसुराः सूर्या नवार्णवाः ॥ १,५४.१०२ ॥ ओजेद्व्यगा च सुयमारदारुद्रागजाब्धयः । कुजादीनामतः शौघ्न्यायुग्मान्तेर्थाग्निदस्रकाः ॥ १,५४.१०३ ॥ गुणाग्निचन्द्राः खनगाद्विरसाक्षीणि गोऽग्रयः । ओजान्ते द्वित्रियमताद्विविश्वेयमपर्वताः ॥ १,५४.१०४ ॥ खर्तुदस्नाविपद्वेदाः शीघ्नकर्मणि कीर्तिताः । ओजयुग्मान्तरगुणाभुजज्यात्रिज्ययोद्धृताः ॥ १,५४.१०५ ॥ युग्मवृत्तेधनर्णश्यादोजादूनेऽधिके स्फुटम् । तद्गुणे भुजकोटिज्येभगणांशविभाजिते ॥ १,५४.१०६ ॥ तद्भुजज्याफलधनुर्मान्दं लिप्तादिकं फलम् । शैऽयकोटिफलं केन्द्रे मकरादौ धनं स्मृतम् ॥ १,५४.१०७ ॥ संशोध्यं तु त्रिजीवायां कर्कादौ कोटिजं फलम् । तद्बाहुफलवर्गैक्यान्मूलकर्णश्चलाभिधः ॥ १,५४.१०८ ॥ त्रिज्याभ्यस्तं भुजफलं मकरादौ धनं स्मृतम् । संशोध्यं तु त्रिजीवायां कर्कादौ कोटिजं फलम् ॥ १,५४.१०९ ॥ तद्बाहुफलवर्गैक्यान्मूलं कर्णश्चलाभिधः । त्रिज्याभघ्यस्तं भुजफलं पलकर्णविभाजितम् ॥ १,५४.११० ॥ लब्धस्य चापं लिप्तादि फलं शैध्र्यमिदं स्मृतम् । एतदादौ कुजादीनां चतुर्थे चैव कर्मणि ॥ १,५४.१११ ॥ मान्द्यं कर्मैकमर्केन्द्वोर्भौन्द्वोर्भौंमादीनामाथोच्यते । शैर्ध्यं माद्यं पुनर्मान्द्यं शैर्घ्यं चत्वार्यनुक्रमात् ॥ १,५४.११२ ॥ अजा दिकेन्द्रे सर्वेषां मान्द्ये शैर्घ्ये च कर्मणि । धनं ग्रहाणां लिप्तादि तुलादावृणमेव तत् ॥ १,५४.११३ ॥ अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिविभाजिताः । भचक्रकलिकाभिस्तु लिप्ताः कार्या ग्रहेर्ऽकवत् ॥ १,५४.११४ ॥ ग्रहभक्तः फलं कार्यं ग्रहवन्मन्दकर्मणि । कर्कादौ तद्धनं तत्र मकरादावृणं स्मृतम् ॥ १,५४.११५ ॥ दोर्ज्योत्तरगुणाभुक्तिस्तत्त्वनेत्रोद्धृता पुनः । स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृताःकलाः ॥ १,५४.११६ ॥ मन्दस्फुटकृता भुक्तिः शीघ्नोच्चभुक्तितः । तच्छेषं विवरेणाथ हन्यात्रिज्याङ्ककर्णयोः ॥ १,५४.११७ ॥ चक्रकर्णहृतं भुक्तौ कर्णे त्रिज्याधिके धनम् । ऋणमूनेऽधिके प्रोह्य शेषं वक्रगतिर्भवेत् ॥ १,५४.११८ ॥ कृतर्तुचन्द्रैर्वेदेन्द्रैः शून्यत्र्येकैर्गुणाष्टभिः । शररुद्रैश्चतुर्यांशुकेन्द्रांशेर्भूसुतादयः ॥ १,५४.११९ ॥ वक्रिणश्चक्रशुद्धैस्तैरंशैरुजुतिवक्रताम् । क्रमज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता ॥ १,५४.१२० ॥ त्रिज्यागुणा दिनव्यासभक्ता चापं च शत्रवः । तत्कार्मुकमुदक्रान्तौ धनहीनो पृथक्क्षते ॥ १,५४.१२१ ॥ स्वाहोरात्रचतुर्भागेदिनरात्रिदले स्मृते । याम्यक्रान्तौ विपर्यस्ते द्विगुणैते दिनक्षये ॥ १,५४.१२२ ॥ भभोगोऽष्टशतीर्लिप्ताः स्वाशिवशैलोस्तथात्तिथेः । ग्रहलिप्ता भगाभोगाभानि भुक्त्यादिनादिकम् ॥ १,५४.१२३ ॥ रवीन्दुयोगलिप्तास्तु योगाभभोगभाजिताः । गतगम्याश्च षष्टिघ्ना भुक्तियोगाप्तनाडिकाः ॥ १,५४.१२४ ॥ अर्केनचन्द्रलिप्तास्तु तिथयो भोगभाजिताः । गतगम्याश्च षष्टिघ्ना नातोभुक्ततरोद्धृताः ॥ १,५४.१२५ ॥ तिथयः शुक्लप्रतिपदो द्विघ्नाः सैका न गाहताः । शेषं बवो बालवश्च कौलवस्तैतिलो गरः ॥ १,५४.१२६ ॥ वणिजोभ्रे भवेद्विष्टिः कृष्णभूतापरार्द्धतः । शकुनिर्नागाश्च चतुष्पद किंस्तुघ्नमेव च ॥ १,५४.१२७ ॥ शिलातलेवसंशुद्धे वज्रलेपेतिवासमे । तत्र शकाङ्गुलैरिष्टैः सममण्डलमालिखेत् ॥ १,५४.१२८ ॥ तन्मध्ये स्थापयेच्छङ्कुं कल्पना द्द्वादशाङ्गुलम् । तच्छायाग्रं स्पृशेद्यत्र दत्तं पूर्वापराह्नयोः ॥ १,५४.१२९ ॥ तत्र बिन्दुं विधायोभौ वृत्ते पूर्वापराभिधौ । तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तत ॥ १,५४.१३० ॥ याम्योत्तरदिशोर्मध्ये तिमिना पूर्वपश्चिमा । दिग्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि ॥ १,५४.१३१ ॥ चतुरस्तं बहिः कुर्यात्सूत्रैर्मध्याद्विनिःसृतैः । भुजसूत्राङ्गुलैस्तत्र दत्तैरिष्टप्रभा मता ॥ १,५४.१३२ ॥ प्राङ्क्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम् । भमण्डलं च विषुवन्मण्डलं परिकीर्तितम् ॥ १,५४.१३३ ॥ रेखा प्राच्यपरा साध्या विषुवद्भाग्रया तथा । इष्टच्छायाविषुवतोर्मध्येह्यग्राभिधीयते ॥ १,५४.१३४ ॥ शङ्कुच्छायाकृतियुतेर्मूलं कर्ंणोऽय वर्गतः । प्रोह्य शङ्कुकृते मूलं छाया शेकुविपर्ययात् ॥ १,५४.१३५ ॥ त्रिंशत्कृत्योयुगे भानां चक्रं प्राक्परिलंबते । तद्गुणाद्भदिनैर्भक्त्या द्युगणाद्यदवाप्यते ॥ १,५४.१३६ ॥ तद्दोस्रिव्नादशाध्नांशा विज्ञेया अयतानिधाः । तत्संस्वकृताद्धहात्कान्तिच्छायावरदलादिकम् ॥ १,५४.१३७ ॥ शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्कभाजिते । लंबाक्षज्ये तयोश्छाये लंबाक्षौ दक्षिमौ सदा ॥ १,५४.१३८ ॥ साक्षार्कापक्रमयुतिर्द्दिक्साम्येन्तरमन्यथा । शेषह्यानांशाः सूर्यस्य तद्वाहुज्याथ कोटिजाः ॥ १,५४.१३९ ॥ शङ्कुमानाङ्गुलाभ्यस्ते भुजत्रिज्ये यथाङ्क्रमम् । कोटीज्ययाविभज्याप्ते छायाकर्माबहिर्द्दले ॥ १,५४.१४० ॥ स्वाक्षार्कनतभागानां दिक्साम्येऽतरमन्यथा । दिग्भेदोपक्रमः शेषस्तस्य ज्या त्रिज्यया हता ॥ १,५४.१४१ ॥ परमोपक्रमज्याप्त चापमेपादिगो रविः । कर्कादौ प्रोह्यचक्रार्द्धात्तुलादौ भार्द्धसंयुतात्त ॥ १,५४.१४२ ॥ मृगादौ प्रोह्यचक्रात्तु मध्याह्नेर्ऽकः स्फुटो भवेत् । तन्मन्दमसकृद्धामंफलं मध्यो दिवाकरः ॥ १,५४.१४३ ॥ ग्रहोदयाः प्राणहताः खखाष्टैकोद्धता गतिः । चक्रासवो लब्धयुती स्व्रहोरात्रासवः स्मृताः ॥ १,५४.१४४ ॥ त्रिभद्युकर्णार्द्धगुणा स्वाहोरात्रार्द्धभाजिताः । क्रमादेकद्वित्रिभघाज्या तच्चापानि पृथक्पृथक् ॥ १,५४.१४५ ॥ स्वाधोधः प्रविशोध्याथ मेषाल्लङ्कोदयासवः । स्वागाष्टयोर्थगोगैकाः शरत्र्येकं हिमांशवः ॥ १,५४.१४६ ॥ स्वदेशचरखण्डोना भवन्तीष्टोदयासवः । व्यस्ताव्यस्तैर्युतास्तैस्तैः कर्कटाद्यास्ततस्तु यः ॥ १,५४.१४७ ॥ उत्क्रमेण षडेवैते भवन्तीष्टास्तुलादयः । गतभोग्यासवः कार्याः सायनाःस्वेष्टभास्कराः ॥ १,५४.१४८ ॥ स्वोदयात्सुहता भक्ता भक्तभोग्याः स्वमानतः । अभिष्टधटिकासुभ्यो भोग्यासून्प्रविशोधयेत् ॥ १,५४.१४९ ॥ तद्वदेवैष्यलग्नासूनेवं व्याप्तास्तथा क्रमात् । शेषं त्रिंशत्क्रमाद्ध्यस्तमशुद्धेन विभाजितम् ॥ १,५४.१५० ॥ भागयुक्तं च हीनं च व्ययनांशं तनुः कुजे । प्राक्पश्चान्नतनाडीभ्यस्तद्वल्लङ्कोदयासुभिः ॥ १,५४.१५१ ॥ भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत् । भोग्यासूनूनकस्याथ भुक्तासूनधिकस्य च ॥ १,५४.१५२ ॥ सपिण्ड्यान्तरलग्नासूनेवं स्यात्कालसाधनम् । विराह्वर्कभुजांशाश्चेदिन्द्राल्पाः स्याद्ग्रहो विधोः ॥ १,५४.१५३ ॥ तेषां शिवघ्नाः शैलाप्ता व्यावर्काजः शराएङ्गुलैः । अर्कं विधुर्विधुं भूभा छादयत्यथा छन्नकम् ॥ १,५४.१५४ ॥ छाद्यछादकमानार्धं शरोनं ग्राह्यवर्जितम् । तत्स्वच्छन्नं च मानैक्यार्द्धांशषष्टं दशाहतम् ॥ १,५४.१५५ ॥ छन्नघ्नमस्मान्मूलं तु खाङ्गोनग्लौवपुर्हृतम् । स्थित्यर्द्धं घटिकादिस्याद्व्यङ्गबाह्वंशसंमितैः ॥ १,५४.१५६ ॥ इष्टैः पलैस्तदूनाढ्यं व्यगावूनेर्ऽकषङ्गुणः । तदन्यथाधिके तस्मिन्नेवं स्पष्टे सुखान्त्यगे ॥ १,५४.१५७ ॥ ग्रासेन स्वाहते च्छाद्यमानामे स्युर्विशोपकाः । पूर्णान्तं मध्यमत्र स्याद्दर्शान्तेञ्जं त्रिभोनकम् ॥ १,५४.१५८ ॥ पृथक्तत्क्रान्त्यक्षभागसंस्कृतौ स्युर्नतांशकाः । तद्दिघ्नांशकृतिद्व्यूनार्द्धार्कयुता हरिः ॥ १,५४.१५९ ॥ त्रिभानाङ्गार्कविश्लेषांशो ःंशोनघ्नाः । पुरन्दराः हराप्तालंबनं स्वर्णवित्रिभेर्काधिकोनके ॥ १,५४.१६० ॥ विश्वघ्नलंबनकलाढ्योनस्तु तिथिवद्यगुः । शरोनोलंबनषडघ्ने तल्लवाढ्योनवित्रिभात् ॥ १,५४.१६१ ॥ नतांशास्तजांसाने प्राधृतस्तद्विवर्जित । शब्देन्दुलिप्तैः षड्भिस्तु भक्तानतिर्नतिर्नतांशदिक् ॥ १,५४.१६२ ॥ तयोर्नाट्योहभिन्नैकदिक्शरः स्फुटतां व्रजेत् । ततश्छन्नस्थितिदले साध्ये स्थित्यर्द्धषट्त्रिभिः ॥ १,५४.१६३ ॥ अंशस्तैर्विन्त्रिभन्द्विस्थंलंबनेतयोः पूर्ववत् । संस्कृतेस्ताभ्यां स्थित्यर्द्धे भवतः स्फुटे ॥ १,५४.१६४ ॥ ताभ्यां हीनयुतो मध्यदर्शः कालौ मुखान्तगौ । अर्काद्यूना विश्व ईशा नवपञ्चदशांशकाः ॥ १,५४.१६५ ॥ कालांशास्तैरूनयुक्ते रवौ ह्यस्तोदयौ विधोः । दृष्ट्वा ह्यादौ खेटबिंबं दृगौञ्च्ये लंबमीक्ष्य च ॥ १,५४.१६६ ॥ तल्लुंबपापबिंबान्तर्दृणौ व्याप्तरविघ्नभाः । अस्ते सावयवा ज्ञेया गतैष्यास्तिथयो बुधैः ॥ १,५४.१६७ ॥ व्यस्ते युक्तान्तिभागैश्च द्विघ्नतिथ्याहृता स्फुटम् । संस्कारदिकलंबनमङ्गुलाद्यं प्रजायते ॥ १,५४.१६८ ॥ सेष्वशोनाः सितं तिथ्यो बलन्नाशोन्नतं विधोः । शृङ्गमन्यत्र उद्वाच्यं बलनाङ्गुललेखनात् ॥ १,५४.१६९ ॥ पञ्चत्वे गोङ्कविशिखाः शेषकर्णहताः पृथक् । विकृज्यकाङ्गसिद्धाग्निभक्तालब्धोनसंयुताः ॥ १,५४.१७० ॥ त्रिज्याधिकोने श्रवणे वपूंषि स्युर्हृताः कुजात् । ऋज्वोरनृज्वोर्विवरं गत्यन्तरविभाजितम् ॥ १,५४.१७१ ॥ वक्रर्त्वोर्गतियोगामं गम्येतीते दिनादिकम् । खनत्यासंस्कृतौव्वेषूदक्साम्येन्येन्तरं युतिः ॥ १,५४.१७२ ॥ याम्योदक्खेटविवरं मानौक्याद्धोल्पकं यदा । यदा भेदोलंबनाद्यं स्फुटार्थं सूर्यपर्ववत् ॥ १,५४.१७३ ॥ एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा । तयुते मण्डले क्रान्त्यौ तुल्यत्वे वै धृताभिधः ॥ १,५४.१७४ ॥ विपटीतायनगतौ चन्द्राकारै क्रान्तिलिप्तिकाः । समास्तदा व्यतीपातो भगणार्द्धे तपोयुतौ ॥ १,५४.१७५ ॥ भास्करेद्वोर्भचक्रान्त चक्रार्द्धावधिसंस्थयोः । दृक्कल्पसाधितांशादियुक्तयोः स्वावपक्रमौ ॥ १,५४.१७६ ॥ अथोजपदगम्येन्दोः क्रान्तिर्विक्षेपसंस्कृताः । यदि स्यादधिका भानोः क्रान्तेः पातो गतस्तदा ॥ १,५४.१७७ ॥ न्यूना चेत्स्यात्तदा भावी वामं युग्मपदस्य च । यदान्यत्वं विधोः क्रान्तिः क्षेपाच्चेद्यदि शुद्ध्यति ॥ १,५४.१७८ ॥ क्रान्त्योर्जेत्रिज्ययाभिस्ते परमायक्रमोद्धते । तच्चापान्तर्मर्द्धवायोर्ज्यभाविनशीतगौ ॥ १,५४.१७९ ॥ शोध्यं चन्द्राद्गते पाते तत्सूयगतिताडितम् । चन्द्रभुक्त्या हृतं भानौ लिप्तादिशशिवत्फलम् ॥ १,५४.१८० ॥ तदूच्छशाङ्कपातस्य फलं देयं विपर्ययात् । कर्मैतदसकृत्तावत्क्रान्ती यावत्समेतयोः ॥ १,५४.१८१ ॥ क्रान्त्योः समत्वे पातोऽथ प्रक्षिप्तांशोनिते विधौ । हीनेर्ऽद्वरात्रघिकाघतो भावी तात्कालिकेऽधिका ॥ १,५४.१८२ ॥ स्थिरीकृतार्द्धरा त्रार्द्धौ द्वयोर्विवरलिप्तकाः । षष्टिश्चाचन्द्रभुक्ताप्ता पातकालस्य नाडिकाः ॥ १,५४.१८३ ॥ रवीन्द्वोर्मानयोगार्द्धं षष्ट्या संगुण्य भाजयेत् । तयोर्भुक्तयन्तरेणाप्तं स्थित्यमर्द्धां नाडिकादिवत् ॥ १,५४.१८४ ॥ पातकालः स्फुटो मध्यः सोऽपि स्थित्यर्द्धवर्जितः । तस्य संभवकालः स्यात्तत्संयोगेक्तसंज्ञकः ॥ १,५४.१८५ ॥ आद्यन्तकालयोर्मध्ये कालो ज्ञेयोऽतिदारुणः । प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः ॥ १,५४.१८६ ॥ इत्येतद्गणितो किञ्चित्प्रोक्तं संक्षेपतो द्विज । जातकं वाच्मि समयाद्राशिसंज्ञापुरःसरम् ॥ १,५४.१८७ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे ज्योतिषवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः _____________________________________________________________ सनन्तन उवाच मूर्द्धास्यबाहुहृत्क्रोडान्तर्बस्तिव्यञ्जसोनखः । जानुजङ्घाङ्घ्नियुगलं कालाङ्गानि क्रियादयः ॥ १,५५.१ ॥ भौमास्फुजिबुधेन्दुश्च रविसौम्यसिताः कुजः । गुरुमन्दार्किगुरवो मेषादीनामधीश्वराः ॥ १,५५.२ ॥ होरे विषमभेर्केदोः समये शशिसूर्ययोः । आदिपञ्चनवाधीशाद्रेष्काणेशाः प्रकीर्तिताः ॥ १,५५.३ ॥ पञ्चेष्टाष्टाद्रिपञ्चांशा कुजार्कीज्यज्ञशुक्रगाः । ओजे विपर्ययाद्युग्मे त्रिशांशेशाः समीरिताः ॥ १,५५.४ ॥ क्रियणतौलिकर्काद्या मेषादिषु नवांशकाः । स्वभाद्द्वादशभागेशाः षर्ड्गं राशिपूर्वकम् ॥ १,५५.५ ॥ गोजाश्च कर्कयुग्मेन रात्र्याख्या पृष्टकोदयाः । शेषा दिनाख्यास्तूभयं तिमिः क्रूरः सौम्यः पुमान् ॥ १,५५.६ ॥ पुमान् स्री च क्लीबश्चरस्थिरद्विःस्वभावकाः । मेषाद्याः पूर्वतोदिक्स्थाः स्वस्वस्थानचरास्तथा ॥ १,५५.७ ॥ अजोक्षेणाङ्गनाकीटझषजूका इनादितः । उच्चानि द्वित्रिमनुयुक्तिथीषुभनखांशकैः ॥ १,५५.८ ॥ तत्तत्सप्तमनीचानि प्राङ्मध्यान्त्यांशकाः क्रमात् । वर्गोत्तमाश्चराधेषु भावाद्द्वादश मूर्तिमान् ॥ १,५५.९ ॥ सिंहोक्षाविस्रश्चतौ लिकुभाः सूर्यात्रिकोणभम् । चतुरस्रं तूर्यमृत्युत्रिकोणं नवपञ्चमम् ॥ १,५५.१० ॥ रिःफआष्टषट्कं त्रिकभं केन्द्रं प्राक्तुर्यसप्तखम् । नृपादः कीटपशवो बलाढ्याः केन्द्रगाः क्रमात् ॥ १,५५.११ ॥ केन्द्रात्परं पणफरमापोक्लिममतः परम् । रक्तः श्वेतः शुकनिभः पाटलो धूम्रपाण्डुरौ ॥ १,५५.१२ ॥ चित्रः कृष्णः पीतपिङ्गौ बभ्रुः स्वच्छः प्रभाक्रियात् । साम्याशाख्यप्लवत्वं स्याद्द्वितीये वशिरर्कभात् ॥ १,५५.१३ ॥ कालात्मार्के मनश्चद्रः कुजः सत्वं वचोबुधः । जीवो ज्ञानं सुखं शुक्रः कामो दुःखं दिनेशजः ॥ १,५५.१४ ॥ नृपौ रवीन्दू नेतासृक्कुमारो ज्ञः कवीज्यकौ । सचिवो सूर्यजः प्रेष्यो मतो ज्योतिर्विदां वरैः ॥ १,५५.१५ ॥ ताम्रशुक्लरक्तहरित्पीतचित्रासिता रवेः । वर्णा व अव्यहहरीद्रा शचीकौधिपारवेः ॥ १,५५.१६ ॥ रविशुक्रारराह्वर्केन्दुविदीज्या दिगीश्वराः । क्षीणेन्द्वर्काररविजाः पापा पापयुतो बुधः ॥ १,५५.१७ ॥ क्लिबौ बुधार्की शुक्रेन्दू स्रियौ शेषा नराः स्मृताः । शिखिभूमिपयोवारिवासिनो भूसुतादयः ॥ १,५५.१८ ॥ कवीज्यौ कुजसूर्यौं च वेदो ज्ञो वर्णपाः क्रमात् । सौराएंऽत्यजाधिपः प्रोक्तो राहुर्म्लेच्छाधिपस्तथा ॥ १,५५.१९ ॥ चन्द्रार्कजीवाज्ञसितौ कुजार्की सात्त्विकादिकाः । देवतेन्द्वग्निरैवलाभूकोसखायोपराधिपाः ॥ १,५५.२० ॥ वस्रं स्थलं नवं वह्निकहतं मद्यदं तथा । स्फुटितं रवितस्तांम्रं तारे ताम्रपुनिस्तथा ॥ १,५५.२१ ॥ हेमकांस्यायसी त्र्यंशैःशिशिराद्याः प्रकीर्तिताः । सौरशुक्रारचन्द्रज्ञगुरुषूद्यत्सु च क्रमात् ॥ १,५५.२२ ॥ त्र्याशत्रिकोणतुर्याष्टसप्तमान्येन वृद्धितः । सौरेज्यारापरे पूर्णे क्रमात्पश्यन्ति नारद ॥ १,५५.२३ ॥ अयनक्षणघस्रर्तुमासार्द्धशरदो रवेः । कटुतिक्तक्षारमिश्रमधुराम्लकषायकाः ॥ १,५५.२४ ॥ त्रिकोणात्सांत्यधाधर्मायुः सुखखोद्यपः सुहृत् । जीवो जीवज्ञौ सितज्ञौ व्यर्का व्याराः क्रमादमी ॥ १,५५.२५ ॥ वीन्द्वर्का विकुजेन्द्वर्काः सुहृदोऽन्येरवेर्धृताः । मिथोधनव्ययायत्रिबन्धुव्यापारगः सुहृत् ॥ १,५५.२६ ॥ ध्येकानुभक्ता मयान् ज्ञात्वा मिश्रीदीत्सहजान्मुने । मत्कालोधिसुहृन्मित्रपूर्वकान्कल्पयेत्पुनः ॥ १,५५.२७ ॥ स्वोच्चत्रिकोणगेहा प्रनवांशैस्थानजं बलम् । दिक्षु सौम्येज्ययोः सूर्यारयोः सौरे सिताब्जयोः ॥ १,५५.२८ ॥ रवाहृतूदगनेन्ये तु वक्रि च समागमे । उत्तरस्था दीप्तकराश्चेष्टा वीर्ययुता मताः ॥ १,५५.२९ ॥ निशीन्दुकुजसौराश्च सर्वदा क्षोह्नि चापरे । क्रूराः कृष्णे सिते सौम्याः मतं कालबलं बुधैः ॥ १,५५.३० ॥ सौरारज्ञेज्यशुक्रेन्दुसूर्याधिक्यं परस्परम् । पापास्तु बलिनः सौम्या विवक्षाः कण्टकोपगे ॥ १,५५.३१ ॥ क्लीबे तदूशनाद्वापि चन्द्रार्कांशसमं जनुः । स्वांशे पापाः परांशस्थाः सौम्यालग्नं वियोनिजम् ॥ १,५५.३२ ॥ निर्बलं च तदादेश्यं वियोनेर्जन्म पण्डितैः । शीर्षं वक्रगले पादावंसौ पृष्टमुरस्तथा ॥ १,५५.३३ ॥ पार्श्वे कुक्षी त्वपानाङ्घ्री मेढ्रमुष्कौ तथा स्फिजौ । पुच्छं चतुष्पदाङ्गेषु मेषाद्या राशयः स्मृताः ॥ १,५५.३४ ॥ लग्नांशाद्ग्रहयुग्दृष्ट्वा वर्णान्बलयुताद्वदेत् । दृक्समानप्रमाणांश्च इष्टे रेखां स्मरस्थितैः ॥ १,५५.३५ ॥ खगत्र्यंशे बलाग्नेगे चरमांशे ग्रहान्विते । वांशे स्थलांबुजः सौरेर्द्वीक्षायोगभवा द्विजाः ॥ १,५५.३६ ॥ विप्रलैस्तनुजचन्द्रेज्यार्कैस्तरूणां जनिं वदेत् । स्थलांबुभेन्दोशकृतश्चेतरेषामुदाहृतः ॥ १,५५.३७ ॥ स्थलांबु च पतिः खेटो लग्नाद्यावन्मिते गृहे । तावन्त एव तखः स्थलजा जलजास्तथा ॥ १,५५.३८ ॥ अन्तःसारा रवौ सौरे दुर्भगाः क्षीरिणो विधौ । भौमे कण्टकिनो वृक्षा ईज्ये ज्ञे सफलाफलौ ॥ १,५५.३९ ॥ पुष्पिता भार्गवे स्निग्धाश्चन्द्रेऽथ कटुकाः कुजे । अशुभर्क्षे शुभः खेटः शुभं वृक्षं कुभूमिजम् ॥ १,५५.४० ॥ कुर्याद्विलोमगो वापि स्वांशोक्तपरगैः समम् । कुजेन्दुहेतुकं स्रीणां प्रतिमासमिहार्तवम् ॥ १,५५.४१ ॥ नेष्टस्थेज्येऽन्यथास्ते स्रीयुङ्क्तासन्नरेक्षिते । पापयुक्तेक्षिते द्यूने रुषा प्रीत्या शुभग्रहैः ॥ १,५५.४२ ॥ शुक्रार्केन्दुजैः स्वांशस्थैरीज्य चाङ्गत्रिकोणगे । भवेदपत्यं विप्रेन्द्र पुंसां सद्वीर्यशालिनाम् ॥ १,५५.४३ ॥ अस्रेर्ऽकेन्दो कुजार्की चेत्पुंस्रियोरामयप्रदौ । व्ययखगो युक्तौ चैकदृष्ट्या नृत्युप्रदौ तयोः ॥ १,५५.४४ ॥ शुक्रार्क्रौ मातृपितरौ दिवा नक्तं शशीनजौ । मातृष्वसृपितृव्याख्यौ वा पद्मेजि समे शुभौ ॥ १,५५.४५ ॥ पापदृष्टे शुभे क्षीणे तुङ्गे वा लग्नगेयमे । क्षीणेन्दुकुजसंदृष्टे मृत्युमेत्य गता ध्रुवम् ॥ १,५५.४६ ॥ युगपद्वा पृथक्सस्थौ लग्नेन्दू पापमध्यगौ । यदा तदा गर्भयुता नारी मृत्युमवाप्नुयात् ॥ १,५५.४७ ॥ लग्नांञ्चद्राच्च तुर्यस्थैः पापैर्निधनगे कुजे । नष्टेन्दौ कुजरव्योश्च बन्धुरिष्पगयोर्मृतिः ॥ १,५५.४८ ॥ तन्वस्तसंस्थयोर्भौंमरव्योः शस्रभवः क्षयः । यन्मासाधिपतिर्नष्टस्तन्मासं संस्रवे त्यजेत् ॥ १,५५.४९ ॥ लग्नेन्दुगैः शुभैः खेटैस्रिकोणार्थास्तभूखगैः । पापैस्रिषष्टलाभस्थैः सुखी गर्भो रवीक्षितः ॥ १,५५.५० ॥ ओजभे पुरुषांशेर्ऽकेज्येन्दुलग्नैर्बलान्वितैः । गुर्वकारै विषमस्थौ वा युञ्जन्म प्रवदेत्तदा ॥ १,५५.५१ ॥ युग्मभांशस्थितैस्तैस्तु वक्रेन्दुभृगुभिस्तथा । यामस्थानगतैर्वाच्यं स्रियो जन्म मनीषिभिः ॥ १,५५.५२ ॥ द्व्यङ्गस्था बुधसंदृष्टाः स्वपक्षेय मलङ्कराः । लग्नं विनौजभावस्थः सौरः पुञ्जन्मकृत्तथा ॥ १,५५.५३ ॥ मिथो रवीन्दूर्ज्ञार्की वा पश्यतः समगं रविः । वक्रो वाङ्गविधू ओजे जज्ञौ युग्मौजसंस्थितौ ॥ १,५५.५४ ॥ कुजेक्षितेपुमांशेदुहिता क्लीब जन्मदा । समे सितेन्दू ओजस्था ज्ञाराङ्गोज्या नृवीक्षितौ ॥ १,५५.५५ ॥ लग्नेन्दुसमगौ युग्मस्थाने वा यमलङ्कराः । ग्रहोदयस्थान्द्यङ्गांशान्पश्यति ज्ञे स्वभागगे ॥ १,५५.५६ ॥ त्रितयं ज्ञांशकाद्युग्मममिश्रैः सममादिशेत् । लग्ने चापान्त्यभागस्थे तदंशस्थबलिग्रहैः ॥ १,५५.५७ ॥ वीर्याढ्यज्ञार्किसदृष्टैः कोशस्थावहवोगिनः । सितारेज्यार्कचन्द्रार्किज्ञाङ्गेशोर्केन्दवोऽधिपाः ॥ १,५५.५८ ॥ मासानां तत्समं वाच्यं गर्बगस्थस्य शुभाशुभम् । त्रिकोमे ज्ञे परैर्नष्टैर्द्विमुखाह्निकपान्वितः ॥ १,५५.५९ ॥ अवागावाटावशुभैर्भसंधिस्थैः प्रजायते । वीरान्सगीश्चदष्टेध्वष्टार्कातभसंहिताः ॥ १,५५.६० ॥ आरार्की चेज्यभांशस्थौ सदन्तोगर्भकस्तदाः । खर्भेजे भुविमन्दारदृष्टे कुब्जस्तु गर्भगः । पर्गुर्मीने यमेद्वारैर्दष्टेथाङ्गेभघसंधिगे ॥ १,५५.६१ ॥ पापैर्जडो विधौ गर्भः शुभदृष्टिविवर्जिते । मृगान्त्यगे वामनकः सौरेद्रर्कनिरीक्षिते । धीनयोदपगैस्त्र्यंशैः पापास्तैरसिरोह्रदाः ॥ १,५५.६२ ॥ रवीन्दुयुक्ते सिंहेङ्गे माहेयार्किनिरीक्षिते । नेत्रहीना मिश्रखेटैर्दृष्टे बुद्धुदलोचनाः । व्ययेजो वामनयनं दक्षं सूर्यो विनाशयेत् ॥ १,५५.६३ ॥ नेष्टा योगाः शुभैर्दृष्टाः पापाः स्युर्नात्र संशयः । मन्देऽस्ते मन्दभांशेङ्गे निषैकेब्दत्रये जनिः ॥ १,५५.६४ ॥ द्वादशाब्दे शशिन्येवं सुतावपि विचिन्तयेत् ॥ १,५५.६५ ॥ आधानेन्दुद्वादशांशा पापास्तद्राशिभिः पुरः ॥ १,५५.६६ ॥ शशाङ्के जन्मभागादिद्वि घ्नमिष्टकलाः स्मृताः ॥ १,५५.६७ ॥ पितुः परोक्षे जन्मस्यादिन्दौ लग्नमपश्यति ॥ १,५५.६८ ॥ मध्याद्भ्रष्टेर्के विदेशस्थे जनने नारिजन्म वै । मन्देङ्गस्थे कुजेस्ते च ज्ञोस्फुजि मध्यगे विधौ ॥ १,५५.६९ ॥ पापाङ्गेब्जे त्रिभागे लौ स्वायगैः सद्भिरुद्गतः । सूर्यस्तद्दृष्टिगो वापि ज्ञेयो ज्योतिर्विदां वरैः ॥ १,५५.७० ॥ चतुष्पदर्क्षगे भानौ शेर्षैबलयुतैः खगैः । कोशादतौ तु यमलौ जायेते मुनिसत्तम ॥ १,५५.७१ ॥ सार्क्यारसिंहोज्ञाजांसे भांशतुत्याङ्गनालयुक् । लग्नमिन्दुं च सार्केन्दुं न पश्यति यदा गुरुः ॥ १,५५.७२ ॥ सपापगोर्ऽके जायो वा परवीर्यप्रसूतिकृत् । पापभस्थौ पापखेटैः सूर्यार्घानत्रिकोणगौ ॥ १,५५.७३ ॥ विदेशगः पितावृद्धः खेवा राशिवशात्यये । पूर्ण इण्ढौ स्वभेशेज्ञे शुभे मुव्यंवुजे तनौ ॥ १,५५.७४ ॥ द्यूनस्थे वा विधौ यातेङ्गना नारी प्रसूयते । अब्धाङ्गमन्भगः पूर्णे ज्यो वा पश्यति नारद ॥ १,५५.७५ ॥ स्वबंलग्नगः सूतिः सलिले नात्र संसयः । पापदृष्टे यमे गुद्यां जन्माङ्गाजव्ययस्थिते ॥ १,५५.७६ ॥ कर्कातिलग्नगेशौरेवटे जन्माब्जवीक्षिते । मन्दे जन्मगते लग्ने बुधसूर्येन्दुवीक्षिते ॥ १,५५.७७ ॥ क्रीडास्थाने देवगेहे प्यूषरे च क्रमाज्जनिः । श्मशाने लग्नदृगसृग्राम्यस्थानेब्जभार्गवौ ॥ १,५५.७८ ॥ अग्निहोत्रगृहे जीवोर्ऽके भूषाभरणे गृहे । शिल्पालये बुधो जन्म कुर्याद्बलसमन्वितः ॥ १,५५.७९ ॥ भासमाने सरे मार्गे स्थिरे स्वर्क्षांशगे गृहे । त्रिकोणगज आरार्क्योरस्ते वा सृज्यतेऽम्बया ॥ १,५५.८० ॥ गुरुदृष्टे तु दीर्घायुः परं च प्राप्यते पुनः । पापदृष्टे विधौलग्नेऽस्तेकुजे तु विनश्यति ॥ १,५५.८१ ॥ भवे कुजार्क्योः संदृष्टे परहस्तगतः सुखी । पापेद्यतायुर्भवति मासः सार्थैः परैरपि ॥ १,५५.८२ ॥ पितृमातृगेहे जन्म तदधीशबलान्मुने । तरुगेहे शुभे नीचे नैकस्थदृष्टौ लग्नेन्दुः ॥ १,५५.८३ ॥ एतल्लक्षणसंपन्ना प्रसीतिर्विजने तदा । मन्दर्क्षांशे विधौ तुर्ये मन्ददृष्टेऽब्जगेऽपि वा ॥ १,५५.८४ ॥ मन्दार्चने वा तमसि शयनं नीचगेभुवि । शीर्षे पृष्टोदये जन्म तद्वदेव विनिर्दिशेत् ॥ १,५५.८५ ॥ चन्द्रास्तसुखगः पापैर्मातुः पीडां समादिशेत् । जीर्णोद्धृतं गृहं मन्दे सृजि दग्धं न वा विधौ ॥ १,५५.८६ ॥ काष्टाढ्यमदृढं सूय बहुशिल्पयुतं बुधे । चित्रयुक्तं नवं शुक्रे दृढे रम्ये गुरौ गृहम् ॥ १,५५.८७ ॥ धटाजकर्क्यलिघटे पूर्वे ज्ञेज्यगृहे ह्युदक् । वृषे पश्चान्मृगे सिंहे दक्षिणे वसतिर्भवेत् ॥ १,५५.८८ ॥ गृहप्राच्यादिगौ द्वौ द्वौ व्द्यङ्गाः कोणेष्वजादयः । पर्थङ्के वास्तुवत्पादास्रिषदङ्कान्त्यराशयः ॥ १,५५.८९ ॥ चन्द्रागान्तरगैः खेटैः सूतिकाः समुदाहृताः । चक्राद्धि बहिरन्तश्च दृश्यादृश्योपरेऽन्यथा ॥ १,५५.९० ॥ लग्राशयसमानाङ्गोबालिखेटंसमोपि वा । चन्द्रनन्दांशवद्वर्णः शीर्षाद्यङ्गविभाग युक् ॥ १,५५.९१ ॥ शीर्षकं दक्श्रवे नासा कपोलहनवो मुखम् । कण्ठांसपार्श्वहृद्द्वोषः क्रोडंनाभिश्च बास्तिकाः ॥ १,५५.९२ ॥ शिंश्नापाते च वृषणौ जघने जानुनी तथा । जङ्घेपादौ चोभघयत्र त्र्यंशैः समुदितैर्वदेत् ॥ १,५५.९३ ॥ पापयुक्ते व्रणस्तस्मिन्नङ्गे लक्ष्म च तद्युते । स्वर्क्षांशे स्थिरयुक्ते तु नैज आगन्तुकोऽन्यथा ॥ १,५५.९४ ॥ मन्देऽनिलाश्मजो भौमे विषशस्राग्निजो बुधे । भुजेर्ऽके काष्टपशुजो जेतुः शृङ्ग्यजयोनिजः ॥ १,५५.९५ ॥ यस्मिन्संज्ञास्रयः खेटा अङ्गेस्युस्तत्र निश्चितम् । व्रणोशुभकृतः पृष्टेतनौ राशिसमाश्रिते ॥ १,५५.९६ ॥ तिलकृन्मसकृदष्टसौम्यैर्युक्तश्च लक्ष्मवान् । चतुरस्रः पिङ्गदृक्च पैत्तिकोऽल्पकचो रविः ॥ १,५५.९७ ॥ वृतो वातकफी प्राज्ञो मन्दवाक्शुभदृक्शशी । क्रृरदृक्तरुणो भौमः पैत्तिकश्चपलस्तथा ॥ १,५५.९८ ॥ त्रिधानुपवृतिर्हास्यरुचिज्ञः श्लिष्टवाक्तथा । पिङ्गके श्लक्षणो दीर्घः कफीधीमान्गुरुर्मतः ॥ १,५५.९९ ॥ सुवपुर्लोचनः कृष्णवक्रकेशो भृगुः सुखी । दीर्घः कपिलदृड्भन्दो निलीखरकचोलसः ॥ १,५५.१०० ॥ स्नाय्वस्थिरक्तत्वक्शुक्रवसामज्जास्तु धातवः । मन्दार्कचन्द्रसोम्यास्पुजिज्जीवकुभुवः क्रमात् ॥ १,५५.१०१ ॥ चन्द्राङ्गपापैर्भान्त्यस्थैः सेंवुपापचतुष्टयैः । चक्रपूर्वापरे पापसौम्यैः कीटतनौ मृतिः ॥ १,५५.१०२ ॥ उदयास्तगतौ पापौ चन्द्रः क्रूरयुतैः शुभैः । न चेद्दृष्टस्तदा मृत्युर्जातस्य भवति ध्रुवम् ॥ १,५५.१०३ ॥ क्षीणेऽब्जे व्ययगे पापैर्लग्नाष्टस्थैः शुभा न चेत् । केन्द्रेषु वाब्जोसंयुक्तः स्मरान्त्यमृतिलग्नगः ॥ १,५५.१०४ ॥ केन्द्राद्या हस्त सन्खेटैरदृष्टो मृत्युदस्तथा । षष्टेमेब्जेऽसदृष्टेसद्यो मृत्युः शुभेक्षिते ॥ १,५५.१०५ ॥ समाष्टके मिश्रखेटैर्दृष्टे मृतिः शिशोः । क्षीणेब्जेङ्गे रन्ध्रकेन्दे पापे पापान्तरस्थिते ॥ १,५५.१०६ ॥ भूद्यूननिधने वाब्जे लग्नेऽप्येवं शिशोर्मृतिः । पापैश्चन्द्रास्तगैर्मात्रा सार्द्धं सदृष्टिमन्तरा ॥ १,५५.१०७ ॥ शुभादृष्टे भान्त्यगेब्जे त्रिकोणोपरतैः खलैः । सग्नस्थे वा विधौपापैरस्तस्थैर्मृतिमाप्नुयात् ॥ १,५५.१०८ ॥ ग्रस्तेऽब्जेऽसद्भिरष्टस्थै सृज्यवात्मजयोर्मृतिः । लग्ने रवौ तु शस्रेण सवीर्यासद्भिरष्टगैः ॥ १,५५.१०९ ॥ कर्केन्द्वीज्ययुते लग्ने केन्द्रे सौम्ये च भार्गवे । शषैस्त्र्यरीशगैरायुरमितं भवति ध्रुवम् ॥ १,५५.११० ॥ वर्ङ्गोत्तमे मीनलग्ने वृषेऽब्जे तत्त्वलिप्सिके । स्वतुङ्गस्थेष्वशेषेषु परमायुः प्रकीर्तितम् ॥ १,५५.१११ ॥ शुभैर्दृष्टः सवीर्योगे केन्द्रस्थे चायुरर्थदः । स्वच्चोब्जे स्वर्क्षगैः सौम्यैः सवीर्येङ्गाधिपे तनौ ॥ १,५५.११२ ॥ षष्ट्यब्दकेन्द्रसौम्येभेष्टशुद्धे सप्ततिर्गुरौ । मूलत्रिकोणगैः सौम्यैर्गुरो स्वोच्चसमन्विते ॥ १,५५.११३ ॥ लग्नाधिपे बलयुतशीत्यब्दं त्वायुरीरितम् । सवीर्ये सत्सु केन्द्रेषु त्रिंशच्छुद्धियुतेऽष्टमे ॥ १,५५.११४ ॥ लयेशे धर्मगेजीवेष्टस्थे क्रूरक्षिते जिताः । लग्नाष्टमेशावष्टस्थौ भाब्दमायुः करौ मतौ ॥ १,५५.११५ ॥ लग्नेऽशुभेज्यौ ग्लौदृष्टौ मृत्यौ कश्चन चाकृतिः । धर्माङ्गस्थेशनौ शुक्रे केन्द्रेऽब्जे व्ययधर्मगे ॥ १,५५.११६ ॥ शताब्दं गीष्पतौ कर्के कटकस्थसितेज्ययोः । लयेशेङ्गे शुभैर्हीनेऽष्टमे रवाब्धिमितं वयः ॥ १,५५.११७ ॥ लग्ने शेष्टमगेष्टेशे तनुस्थे पञ्चवत्सरम् । कवीज्ययोगे सौम्याब्जौ लग्ने मृत्यौ च स्वेषवः ॥ १,५५.११८ ॥ एतद्योगजमायुः स्यादथ स्पष्टमुदीयते । सूर्याधिक बले पैण्डं निसर्गाञ्च विधोर्बले ॥ १,५५.११९ ॥ अंशायुः सबले लग्ने तत्साधनमथो शृणु । गोब्जास्तत्त्वतिथी सूर्यास्तिथिः स्वर्गा नखाः क्रमात् ॥ १,५५.१२० ॥ नखा विधुर्द्वावङ्काश्च धृतिः स्वाक्षिखमार्गणाः ॥ १,५५.१२१ ॥ पिण्डे निसर्गे रवोच्चे नो ग्रहः षट्भाल्पको यदा । चक्रशुद्धस्तदा ग्राह्येस्यांशा आयुषिसंमताः ॥ १,५५.१२२ ॥ अंशोनाः शन्त्रुभे कार्या ग्रहं वक्रगतिं विना । मन्दशुक्तौ विनार्द्धोना ग्रहस्यास्तङ्गतस्य च ॥ १,५५.१२३ ॥ हानिद्वयेऽधिकाः कार्या यदा क्रूरस्तनौ तदा । विहायारीनंशाद्यैर्हन्यादायुर्लवान् भजेत् ॥ १,५५.१२४ ॥ भगणांशैर्लब्धहीनास्तेषां कार्या विचक्षणैः । पापस्यांशाः समग्रोना सौम्यस्यार्द्धविवर्जिताः ॥ १,५५.१२५ ॥ स्पष्टास्तेंशाः खषट्त्र्यासा गुणयित्वा स्वकैर्गणैः । वर्षाणि शेषमर्कध्नं हारात्संमासकाः स्मृताः ॥ १,५५.१२६ ॥ तच्छेषश्च त्रिगुणितः तेनैवाप्तं दिनानि च । शेषे षष्ट्या हते भक्ते हारेण घटिकादिकम् ॥ १,५५.१२७ ॥ हित्वा भाज्यङ्गभागादीन्कलीकृत्य खखाक्षिभिः । भजेद्वर्षाणि शेषे तु गुणिते द्वादशादिभिः ॥ १,५५.१२८ ॥ द्विसप्तांशे च मासादिलग्रायुर्जायते स्फुटम् । अशायुषी सलग्नानां खेटानामंशका हृताः ॥ १,५५.१२९ ॥ खयुगैरायुरंशाः स्युस्तत्संस्कारं वदामि ते । ग्रहनलग्नं षड्रात्यं चेत्संस्कारोऽन्यथा नहि ॥ १,५५.१३० ॥ तदंशः स्वाग्नयो भक्ता लब्धोनोभूर्गुणो भवेत् । यदैकाल्यं तदास्तांशाः स्वाग्र्याप्तोना च भूर्गुणः ॥ १,५५.१३१ ॥ सौमयस्यार्द्धेन पापस्य समग्रेणेति निश्चयः । गुमकध्नाश्चायुरंशाः संस्कारोऽयमुदाहृतः ॥ १,५५.१३२ ॥ आयुरंशकलाभक्ताद्विंशत्याब्दा इनाहतम् । शेषं द्विशतभक्तं स्युर्मासाः शेषा दिनादिकम् ॥ १,५५.१३३ ॥ लग्नायुरंशास्त्रिगुणा दिग्भिक्ता स्युः समास्ततः । शेषेर्ऽकादिगुणे भक्ते दिग्भर्मासादिकं भवेत् ॥ १,५५.१३४ ॥ सबलेङ्गेभतुल्याब्दैर्युतमायुर्भवेत्स्फुटम् । अंशद्विध्नमक्षांशं मासाः खत्र्यादिसंगुणात् ॥ १,५५.१३५ ॥ शेषा दिनादिकं योज्यं नैतत्पिण्डनिसर्गयोः । लग्नार्कचन्द्रमध्ये तु यो बली तद्दशा पुरा ॥ १,५५.१३६ ॥ ततः केन्द्रादिगानां तु द्वित्र्यादौ सबलस्य च । बह्वायुर्यो वीर्यसाम्येर्काद्युतस्य प्राक्याचकः ॥ १,५५.१३७ ॥ षड्वर्गार्द्धस्य त्रिंशस्य त्रिकोणगश्च स्मरगः । सप्तमासस्य तूर्यस्य चतुरस्रगतस्य च ॥ १,५५.१३८ ॥ क्रमः केन्द्रादिकोऽत्रापि द्वित्र्यादौ सबलस्य च । पाकपस्याब्धिनागाश्च ह्यर्णवा सहगस्य च ॥ १,५५.१३९ ॥ त्रिकोणस्थस्य चाष्टाक्षिसूर्या द्यूनगतस्य च । तुर्याष्टगस्य तु स्वर्गा गुणकाः परिकीर्तिताः ॥ १,५५.१४० ॥ दशागुणैर्हता भक्त्या गुणैक्येन समागताः । शेषेर्ऽकादिहते भक्ते मासाद्यैक्येन नारद ॥ १,५५.१४१ ॥ अन्तर्दशासु विदशास्तासु चोपदशास्तथा । दशेशमित्रस्वोच्चक्षङ्गोब्जोब्ध्येकाद्रिवृद्धिगः ॥ १,५५.१४२ ॥ शुभगो यद्भगस्तद्भिस्न्वादिस्थेन तद्धिकृत् । प्रोक्तेतरस्थानगतस्तत्तद्भावक्षयं करः ॥ १,५५.१४३ ॥ खगस्य यद्भवेद्द्रव्यं भावभे क्षणयोगजम् । जीविकादिफलं सर्वं दशायां तस्य योजयेत् ॥ १,५५.१४४ ॥ विशन्यापदशायां यो वैरिदृष्टो विपत्तिकृत् । शुभमत्रेक्षितश्चेष्टसद्वर्गस्थश्च यो ग्रहः ॥ १,५५.१४५ ॥ तत्काले बलवानापन्नाशकृत्समुदाहृतः । यस्याष्टवर्गजं चापि फलं पूर्णशुभं भवेत् ॥ १,५५.१४६ ॥ यश्च मूर्तितनुग्लावो वृद्धिगः स्वोच्चभस्थितः । स्वत्रिकोणसुहृद्भस्थस्तस्य मध्यमसत्फलम् ॥ १,५५.१४७ ॥ श्रेष्ठं शुभतरं वाच्यं विपरीतगतस्य तु । नेष्टमुत्कटमिष्टं तु स्वल्पं ज्ञात्वा बलं वदेत् ॥ १,५५.१४८ ॥ चरे सन्मध्यदुष्टाभ्यामङ्गभङ्गे विपर्ययात् । स्थिरे नेष्टष्टमध्या च होरायास्त्र्यं शकैः फलम् ॥ १,५५.१४९ ॥ स्वामीज्यज्ञयुता होरा दृष्टा वा सत्पलावहा । विनाश दृष्टयुक्ता च पापान्तरगतान्यथा ॥ १,५५.१५० ॥ प्राग्ध्वाङ्क्षा बन्धु मृत्याय तयोर्द्यूने रविः स्वभात् । वक्रात्स्वादिवसाञ्चार्के शुक्राद्यूनां तु षड्रतः ॥ १,५५.१५१ ॥ धर्मध्यायारिगो जीवादिकत्र्यारिगो विधोः । पृध्यन्त्यधीतपाः सुज्ञा ततोवृद्ध्यन्त्यबन्धुराः ॥ १,५५.१५२ ॥ वृद्धिगोङ्गात्सधनघीतपः स्वाराच्छशी शुभः । स्वदूवृध्यस्तादिषु पृधात्ससाष्टौ पञ्चयोपगः ॥ १,५५.१५३ ॥ षट्त्र्यायधीस्थो मन्दाञ्च ज्ञाद्द्वित्र्यायाष्टकेन्द्रगः । केन्द्राष्टायान्त्य इज्याद्वा ज्ञज्यायास्तत्र स्वे कवेः ॥ १,५५.१५४ ॥ वृद्धाविनात्सादिधिया मङ्गा मायारिगो विधोः । केन्द्राष्टापार्थगः स्वर्क्षान्मन्दाद्गोष्टायकेन्द्रगः ॥ १,५५.१५५ ॥ षट्त्रिधी भवतः सौम्यात्षड्वांशाष्टगो भृगोः । कर्मायव्ययषष्टस्थो जीवाद्भौमः शुभः स्मृतः ॥ १,५५.१५६ ॥ कवेर्द्ध्याषष्टमोध्याये सन्ज्ञोमन्दान्सधीत्रये । साक्षास्ते भूमिजाज्जीवाद्ययारिभवमृत्युगः ॥ १,५५.१५७ ॥ धर्मायारिसतान्त्येर्कात्साद्यत्रिस्वगता स्वभात् । षट्खायाष्टाब्धिखोष्विज्यात्सहाद्येषु विलग्नतः ॥ १,५५.१५८ ॥ दिक्वाष्टाद्यस्तबन्ध्याये कुजात्खात्सत्रिके गुरुः । सात्र्यङ्के सन् रवेः शुक्राद्धीखगो दिग्भवारिगः ॥ १,५५.१५९ ॥ चन्द्राद्वीशार्थगोस्तेषु मन्दाद्धीत्रिषडन्त्यगः । गोब्धिधीषट्खखाद्या ये ज्ञात्सद्यूने विलग्नतः ॥ १,५५.१६० ॥ आशु तेशाष्टगोष्वङ्गःत्सांतेष्वब्जात्सितः शुभः । स्वात्सज्ञेषु त्रिधीगोब्धी दिक्छिद्रासिगतोर्कजात् ॥ १,५५.१६१ ॥ रन्ध्रायव्यचगः सूर्यादोष्टधीखे सगोर्गुरो । ज्ञाब्धित्र्यायारिगोरात्रिषट्ध्यध्यान्त्यगोषु च ॥ १,५५.१६२ ॥ त्रिधीशारिषु मन्दः खात्साक्षान्त्येषु शुभो सृजः । केन्द्रायाष्टधनेष्वर्का लग्नाद्वृद्ध्याद्यबन्धुषु ॥ १,५५.१६३ ॥ गोध्वष्टापारिखान्त्येज्ञाच्चन्द्राल्लाभत्रिषद्भतः । षडष्टान्त्यगतः शुक्राद्गुरीर्द्वीशान्त्यशत्रुषु ॥ १,५५.१६४ ॥ उक्तस्थानेषु रेखादो ह्यनुक्तेषु तु बिन्दुदाः । जन्मभाद्वद्विमित्रोच्चस्वभेधिष्टं परेष्वसत् ॥ १,५५.१६५ ॥ कष्टमर्थक्षयः क्लेशः समतार्थसुखागमः । धनाप्तिः सुखमिष्टाप्तिरिति रेखाफलं क्रमात् ॥ १,५५.१६६ ॥ पितृमातृद्विषन्मित्रभ्रातृस्त्रीभृतकाद्रवेः । स्वामिलग्राजयोः स्वस्थाद्भेदर्कस्वयशोशयात् ॥ १,५५.१६७ ॥ तृणस्वर्णाश्वधोरणाद्यैरर्कांशे वृत्तिमादिशेत् । कृष्यंबुजस्रीभ्योब्जांशे कौजे धात्वस्रसाहसैः ॥ १,५५.१६८ ॥ काव्यशिल्पादिभिर्बोधे जवे देवद्विजाकरैः । शौक्रे रजतगोरत्नैर्मान्दे हिंसश्रमाधमैः ॥ १,५५.१६९ ॥ स्वोञ्चेष्वार्की तथा ज्यारैरुक्तैकाङ्गे नृ पाधिपाः । लग्रे वर्गोत्तमेऽब्जे वा चतुरादिग्रहेक्षिते ॥ १,५५.१७० ॥ द्वाविंशभूपास्तुङ्गेसृक्चापेर्केन्दूयमस्तनौ । भूपकृत्तुङ्गगोर्केगेस्तेसाजार्केखभे गुरौ ॥ १,५५.१७१ ॥ यमेन्दुतुङ्गगौ लग्ने षष्टेर्ऽकज्ञौ तुलाजगौ । सितासृजो गुरौ कर्के साराजे लग्नगे नृपाः ॥ १,५५.१७२ ॥ वृषेगेब्जेर्केज्यसौरैः सुहृज्जायाखगैर्नृपः । मन्दे मृगाङ्गेत्र्यर्यकांशस्थैरजादिभिर्नृप ॥ १,५५.१७३ ॥ सेज्याजेश्वे मृगमुखे कुजे तुङ्गेर्क्षभागेवौ । लग्नेऽथ सेज्यकर्केङ्गे ज्ञाजशुक्रैर्भवोपगैः ॥ १,५५.१७४ ॥ मेषेऽर्के भूमिपासेंदौ एषे षाङ्ग्रेर्कपपासृजः । सिंहकुंभमृगस्थाश्चेद्भूपः सारेतनावजे ॥ १,५५.१७५ ॥ आर्केजीवे तनौ वापि नृपोऽथोः कुजभास्करौ । धीस्थौ गुर्विदुकवयो भूमौ रत्र्यगे बुधैर्नृपः ॥ १,५५.१७६ ॥ मृगास्यलग्नगैः सौरेजाब्जर्क्षहरयः सयाः । कविक्षौ तुलयुरमस्थौ वै भूपः कीर्तिमान्भवेन्त् ॥ १,५५.१७७ ॥ यस्य कस्यापि तनयः प्रोक्तैर्योगैर्नृपो भवेत् । वक्ष्यमाणैर्नृपसुतो ज्ञेयो भूयो मुनीश्वर ॥ १,५५.१७८ ॥ स्वोच्चे त्रिकोणभगतेस्त्र्याद्यैर्बलयुतैर्नृपः । सिंहेर्ऽके मेषलग्नेऽजे मृगे भौमे घटेऽष्टमे ॥ १,५५.१७९ ॥ चापे धरानाथःस्यादथ स्वर्क्षगे भृगौ । पातालगे धर्मगेऽब्जे शुभदृष्टे युते मुने ॥ १,५५.१८० ॥ त्रिलग्नभवगैःशेषैर्धराधीशः प्रजायते । सौम्ये वीर्ययुतेंऽगस्थे बलाढ्येशुभगे शुभे ॥ १,५५.१८१ ॥ धर्मार्थोपचयस्थैश्चशेषैर्धर्मयुतोनृपः । मेषूरणायतनुगाः शशिसूर्यजसूरयः ॥ १,५५.१८२ ॥ ज्ञारौ धनेशितरवा हिबुके भूपतिस्तदा । वृषेंऽगेऽब्जोधनारिस्थो जीवार्की लांभगाः परे ॥ १,५५.१८३ ॥ सुखे गुरुः खेरवीन्दूयमो लग्ने भवे करै । लग्ने वक्रासितौ चन्द्रेज्यसितार्कबुधाः क्रमात् ॥ १,५५.१८४ ॥ सुखास्तु शुभखाप्तिस्थानरेशं जनयन्त्यपि । कर्मलग्नगरवेटस्य दशायां राज्यसंगतिः ॥ १,५५.१८५ ॥ प्रबलस्य दशायां वा शत्रुनीचा दिगार्तिदाः । आसन्नकेन्द्रद्वयगैर्वर्गदाख्यः सकलग्रहैः ॥ १,५५.१८६ ॥ तन्वस्तगैश्च सकटं विहगो राज्यबन्धुगैः । शृङ्गाटकं धिगौगस्थैर्लग्नायस्थैर्हलं मतम् ॥ १,५५.१८७ ॥ वर्ज्जोङ्गेस्थे सत्स्वसत्सु तुर्यखस्थैर्यवोन्यथा । विमिश्रैः कमलं प्राहुर्वायाकण्टकबाह्यगैः ॥ १,५५.१८८ ॥ लग्नाच्चतुर्भुगैर्यूपःशरस्तूर्याच्चतुर्भुगैः । द्यूनाद्वेदक्षगैः शक्तिर्ं दऽखादिचतुर्भगैः ॥ १,५५.१८९ ॥ लग्नात्क्रमात्सप्तभगैर्नोकाकूटस्तु नुर्यतः । छत्रमस्तात्स्वभाद्यायोन्यस्मादर्द्धेन्दुनामकः ॥ १,५५.१९० ॥ लग्नादेकान्तरगतैश्चक्रमर्थात्सरित्पतिः । षह्युस्थानेषु वीणाद्याः समसप्तर्क्षगैः ॥ १,५५.१९१ ॥ वीणादामपाशकेदारभूशूलयुगगोलकाः । ग्रहैःश्चरभगै राजयोगः प्रकीर्तितः ॥ १,५५.१९२ ॥ स्थिरस्थैर्यमुसलं नाम द्विशरीणतैर्नलः । भाला केन्द्रस्थितैः सौम्यैः पापैःसर्प उदाहृतः ॥ १,५५.१९३ ॥ ईर्य्युरध्वरुची रज्ज्वां मुसले धनमानयुक् । व्यङ्गा स्थिरा लोनलजो मोनीस्रग्जोहिजोर्द्दितः ॥ १,५५.१९४ ॥ वीणोद्भवोतिनिपुणागीतनृत्यरुचिर्भृशम् । दाता समृद्धो दामास्थः पाशजो धनशीलयुक् ॥ १,५५.१९५ ॥ केदारोत्थः कृषिकरः शूले शूरोक्षतो धनः । युगं पाषण्डयुर्गोले विधनो मलिनस्तथा ॥ १,५५.१९६ ॥ भूपवन्द्यपदश्चक्रे समुद्रे नृपभोगयुक् । सुभगाङ्गोर्द्धचंपात्सुखीशूरश्च चामरः ॥ १,५५.१९७ ॥ मित्रो पकारकृच्छत्रे कूटे चानृतबन्धराट् । तौजः सकीर्तिः सुखभाक्मानवो भवति ध्रुवम् ॥ १,५५.१९८ ॥ त्यागी यज्वात्मवान् यूथे हिंस्रो गुह्याधिपः शरैः । शक्तौ नीचोऽलसो निःस्वो दण्डे प्रियवियोगभाक् ॥ १,५५.१९९ ॥ व्यर्कैः स्वान्त्योभयगतैः खेटैः स्यात्सुनफआनफआ । दुरुधरा चैव विधौ ज्ञेयः केमुद्रुमोऽन्यथा ॥ १,५५.२०० ॥ स्वोपार्जितार्थभुग्दाता सुनफआयां धनी सुखी । नीरोगः शीलवान् ख्यातः सुवेषश्चानफआभवः ॥ १,५५.२०१ ॥ भोगी सुखी धनीदानीत्यागी दुरुधुरोद्भवः । केमुद्रुमेऽतिमलिनो दुःखी नीचोऽथ निर्धनः ॥ १,५५.२०२ ॥ यन्त्र्याश्मकारंशाजोको भौमपुष्करुर्ते ध्वगः सुज्ञः । सुकीर्तिर्निपुणं विद्वांसं धनिनं तथा ॥ १,५५.२०३ ॥ सेन्योन्यकार्यनिरतं सास्फुजिच्छस्रजीविनम् । समन्दो धातुकुशलं तथा भाडंविदं मुने ॥ १,५५.२०४ ॥ कूटस्न्याशवपण्याठं नसासृगिन्द्गः प्रसूद्विषम् । कुर्यात्सज्ञोर्थनिपुणं नम्रं सत्कीर्तिसंयुतम् ॥ १,५५.२०५ ॥ सज्योऽस्थिरवयं वंश्यं विक्रान्तं च समर्थिनम् । ससितोसुकवेत्तारं सार्किपोनभवं मुने ॥ १,५५.२०६ ॥ आरे सज्ञे वाहुयोधी पुराध्यक्षः सगीष्पतौ । सशुक्रे द्यूतक्रर्हेयो नृती द्यूति समन्दके ॥ १,५५.२०७ ॥ सेज्येज्ञे नृत्यगीताढ्यो मायादक्षः । सभार्गवेसमन्दे लुब्धकः क्रूरो नरो भवति नारद ॥ १,५५.२०८ ॥ सशुक्रे वाक्पतौ विद्वान्सासितेऽन्नघटङ्करः । कवौ स मन्दमन्दाक्षा व वनिश्रयवित्तवान् ॥ १,५५.२०९ ॥ एकस्थैश्चतुराद्यैस्तु खवार्थैः खचरैः पृथक् । कुजज्ञेज्याजशुक्रार्किसूर्यः परिव्रजेन्नरः ॥ १,५५.२१० ॥ शाक्याजीवकवृद्धार्थिच रकाखफलाशनः । तत्स्वामिभिः परिदजितैः प्रव्रज्याप्रच्युतिर्भवेत् ॥ १,५५.२११ ॥ अदीक्षिताल्पस्तगतैः सबलैस्तत्स्थभक्तयः । जन्मपोन्यैर्यद्यदृष्टो मन्दं पश्यति नारद ॥ १,५५.२१२ ॥ मन्दो वा जन्मपं नष्टं तथा च मन्दकागणे । भौमार्कांशे सौरदृष्टे चन्द्रे वा दीक्षितो भवेत् ॥ १,५५.२१३ ॥ सुरूपो भूषितगोऽशिन्यां दक्षः सत्यवचा यमे । बहूभुग्पदारग्नौ स्थिरधीः प्रियवाक्तथा ॥ १,५५.२१४ ॥ ब्राह्मो धनीमृगे भोगी रौद्रे हिंस्त्रः शठोऽघकृत् । दान्तो रोगी शुभोऽदित्यां पुष्यर्यजन्मा कविः सुखी ॥ १,५५.२१५ ॥ धूर्तः शठः कृतघ्नोऽहौ पापः सर्वाशनो भवेत् । पत्रे भोगी धनी भक्तो दाता प्रियवचा भगे ॥ १,५५.२१६ ॥ धनी भोगीनरोर्यमर्क्षे स्तेनो धृष्टो घृणी करे । चित्रांबरः सुदृक्त्वाष्ट्रे न च धर्मदयापरः ॥ १,५५.२१७ ॥ द्वीशे लुब्धः पटुः क्रोधी मढैयो आठनोविदेशगः । शाक्रे धर्मपरस्तुष्टो मूले मानी धनी सुखी ॥ १,५५.२१८ ॥ आप्ये मानी दृष्टो वैश्वे नम्रश्च धार्मिकः । कर्णे धनी सुखी ख्यातो दाता शूरो धनी वसौ ॥ १,५५.२१९ ॥ शेतऽरिहॄन्ता व्यसनी स्रीजितो जाहिभेदिनी । बुध्ने वक्ता सुखी कान्तः पौष्णे शूरो धनी शुचिः ॥ १,५५.२२० ॥ कामी शूरः कृतज्ञोऽजे कान्तस्त्यागी क्षमी वृषे । युग्मे स्रीद्यूतशास्रज्ञः स्रैणो ह्रस्वः स्वभे विधौ ॥ १,५५.२२१ ॥ स्रीद्विट्क्रोधी हरौ मानी विक्रान्तः स्थिरधीः सुखी । धर्मी श्लक्ष्णः सुधीः षष्टे प्राज्ञः प्रांशुर्धनी घटे ॥ १,५५.२२२ ॥ रोगी पूज्यः क्षती कारैर्प्ये कविः शिल्पीज्यभे धनी । मृगेऽलसोऽटनः स्वक्षः परदारार्थहृद्धटे ॥ १,५५.२२३ ॥ सबलेभैभयेवापिस वलेजेशिलफलम् । अन्यथा विपरीतं तत्पलंमेवं परेऽपि न । ख्यातः स्रीद्विट्धनी तीक्ष्णोज्ञः कविः शैण्डिको धनी । पूज्यो लुब्धोऽधनसखो मेषादौ भास्करे जनौ ॥ १,५५.२२४ ॥ निःस्वोर्ऽकभे भूमिपुत्रे भूमिपुत्रे धनी चान्द्रे स्वभेदनः । बौधे कृतज्ञो जैवे तु ख्यातः शौक्रेऽन्यदारिकः ॥ १,५५.२२५ ॥ मृगे बह्वात्मजधनः कुंभे दुःख्यनृती खलः । स्रीद्वेष्यः स्वजनद्वेषीनियरत्यः सधीयनः ॥ १,५५.२२६ ॥ समानार्थः सपुत्रस्रीसर्णः सूर्यादिभे बुधे । सेनानीः स्त्र्यर्थपुत्राढ्यः दक्षमैश्यः परिच्छदी ॥ १,५५.२२७ ॥ मण्डलेशः सार्थसुखः सर्णस्वाम्यर्कभाद्गुरौ । स्त्र्याप्तार्थो मन्दशोकाढ्यो बन्धुद्वेषी धनाघवान् ॥ १,५५.२२८ ॥ सार्थः प्राज्ञः समः ख्यातिः स्रीजिऽतोर्कादिभे मृगौ । व्यङ्गजार्थो खप्रसूको विधिमित्रो सुखत्रयः ॥ १,५५.२२९ ॥ सत्पुत्रस्त्रीधनो राजा ग्रामे शोकादिभेर्कजे । भूपज्ञगुणिपौरास्वादृष्टेब्जेजेसृगादिभिः ॥ १,५५.२३० ॥ निः स्वस्तेन नृपाः प्रज्ञप्रेष्यामविनृयुग्मगे । धात्वाजीवी नृपज्ञाभीतन्तुवायाधनाः स्वभे ॥ १,५५.२३१ ॥ युयुत्सुकविसूरीज्यधातुजीविदृगामयाः । ज्योतिर्ज्ञाढ्येज्यनु खलु नृपेज्ञादिकर्हरौ ॥ १,५५.२३२ ॥ षष्टे शुभैर्नृपचमूपनैपुण्यवतिताशयाः । जूके भूपस्वर्णकारवणिजः शेषदृग्युते ॥ १,५५.२३३ ॥ द्विपैतृकाब्धिध्वजिनो व्यङ्गा स्वक्षितिपा अलौ । ज्ञातिक्ष्माजनयाश्चाये सद्भिर्दर्मी शठस्तथा ॥ १,५५.२३४ ॥ भूपमण्डितसखेज्यामृगे भूयान्यदारिकौ । कुंभे शेषैश्च हास्यज्ञनृपज्ञाः सद्भिरन्त्यभे ॥ १,५५.२३५ ॥ हारेशर्क्षदलस्थैस्तु दृष्टो युक्तः शशी शुभः । त्र्यंशे तत्पतिमित्रर्क्षगतेर्युक्तेक्षितस्तथा ॥ १,५५.२३६ ॥ द्वादशांशे फलं प्रोक्तं नवांशेऽप्यथ कीर्त्यते । आरक्षेको वधरुचिर्नियुद्धकुशलोर्ऽथवान् ॥ १,५५.२३७ ॥ कलहः क्षितिजांस्थे शौक्रे मूर्खोऽन्यदारदः । कविः सुखी बुधांशे तु नटचौरज्ञशिल्पिनः ॥ १,५५.२३८ ॥ स्वांशे त्वल्पतनुः सखस्तपस्वी लोभतत्परः । क्रोधी निधीशो मात्यो वा नृपो हिंस्रो सुतो हरेः ॥ १,५५.२३९ ॥ जीवांशे हास्यविद्योधा बली मन्त्री च धार्मिकः । अल्पापत्यो दुःखितो खो दुष्टस्त्रीसौरिभागगे ॥ १,५५.२४० ॥ भानार्विद्वादिदृष्टे नु तद्वदेव फलं वदेत् । वर्गोत्तमे खे परभे पल मुक्तं शुभं क्रमात् ॥ १,५५.२४१ ॥ पुष्टं मध्यं लघु ज्ञेयं यदि चांशपतिर्बली । राशीक्षणफलं रुद्ध्वा ददात्यंशपलं स्पुटम् ॥ १,५५.२४२ ॥ शूरस्तब्धो विकलदृग्निघृणोर्ऽके तनुस्थिते । मेषे धनी तैमिरकः सिंहे रात्र्यन्ध एव च ॥ १,५५.२४३ ॥ नीचोधोस्वः कर्कगेर्ऽके उद्बुदाक्षस्तनुस्थिते । द्वितीयेर्ऽके बहुधनो नृपदण्ड्यो मुखामयी ॥ १,५५.२४४ ॥ त्रिगे बुधो विक्रमी च विमुखः पीडितो भुवि । धनापत्योक्तितो धीस्थे बली शत्रुजितोरिगे ॥ १,५५.२४५ ॥ स्त्री जितो द्यूनसंस्थे च निधनेल्पात्मजोल्पदृक् । सुतार्थसुखभा भारये दशमे श्रुतशौर्यवात् ॥ १,५५.२४६ ॥ लाभे बहुधनो मानी पतितो खोऽव्यये रवौ ।. मूकोधो बधिरः प्रेष्यो जेगे खाञ्चाजगे धनी ॥ १,५५.२४७ ॥ बुटुर्वा धनवानधे हिंस्रो विक्रमगे भवेत् । साधुभावः सुखगते धीस्थे कन्याप्रजोलसः ॥ १,५५.२४८ ॥ अल्पाग्निकामस्तीक्ष्णोरौईष्युस्तत्रिमदोज्ञरवे । व्याधिपूडान्वितो मृत्यौ भानुर्द्धनगे मित्रधनान्वितः ॥ १,५५.२४९ ॥ धर्मधीधनयुग्राज्ये ख्यातधीधनयुग्भवेत् । क्षुद्राएंऽगहीनो व्ययगे चन्द्रे प्रोक्तं फलं बुधैः ॥ १,५५.२५० ॥ लग्ने कुजे क्षततनुर्द्धनगे तु कदन्नभुक् । धर्मपापसमाचारोऽन्यत्र सूर्यसमो मतः ॥ १,५५.२५१ ॥ विद्वान् धनी च प्रवरः पण्डितः सचिवोरियुक् । धर्मज्ञो विस्तृतगुणो गाधोज्ञेयरतोर्ऽकवत् ॥ १,५५.२५२ ॥ विद्वान्स वाच्यः कृपणी सुखाक्षो रिपुगृद्धिमान् । नीचस्तपस्वी चष्णवनी लोभीदुष्टस्तनोर्गुरो ॥ १,५५.२५३ ॥ स्मरी मुखी विलग्नस्थे कलही सुरतोत्सुकः । सुखितस्तनपस्ये च भृगौ जीववदन्यतः ॥ १,५५.२५४ ॥ निःश्वो रोगी कामवशो मलिनः शैशवार्तियुक् । अलसो लग्नगे मन्दे धर्मात्स्वोञ्चगते नृपः ॥ १,५५.२५५ ॥ ग्रामाधिपः स विद्वांश्च चार्वङ्गोऽन्यत्र सूर्यवत् । पूर्णमुच्चेथ पादोनफलं मूलत्रिकोणगे ॥ १,५५.२५६ ॥ शुभग्रहेदलं स्वर्क्षे मित्रभेंऽघ्रिमितं फलम् । शत्रुभेऽल्पं तथा नीचास्तङ्गते फलशून्यता ॥ १,५५.२५७ ॥ खभराकादिके खेटे कुलतुल्यः कुलाधिकः । बन्धुपूज्योऽथधनवान्सुखी भोगी नृपः क्रमात् ॥ १,५५.२५८ ॥ परिवित्तसुहृद्वन्धुपोष्यागणबलाधिपौ । नृपश्च मित्रभास्थेषु खेटे व्रेकादिषु क्रमात् ॥ १,५५.२५९ ॥ विषमर्क्षेर्ऽकहोरायां सस्थिते शुभभेषु च । ख्यातो महोद्यमी चातितेजा धीमान्धनी बली ॥ १,५५.२६० ॥ शुभेषु चन्द्रहोरायां स्थितेषु समराशिषु । कान्तिमार्द्दवसौभाग्यभोगधीमान्भवेन्नरः ॥ १,५५.२६१ ॥ सूर्यहोरागतः पापः समभेषु तु मध्यमाः । विषमर्क्षेषु भास्कर्या सौम्या नोक्तफलप्रदाः ॥ १,५५.२६२ ॥ स्वमित्रत्र्यंशगश्चन्द्रः सुरूपं गुणिनं नरम् । करोत्यन्नगतस्तद्वत्तत्तुल्यगुणरूपिणम् ॥ १,५५.२६३ ॥ व्यालायुधे चतुष्पादांऽजेषु च त्र्यंशके च । तीक्ष्णेऽतिहिंस्रश्च भवेद्गुरुतल्पगतोटनः ॥ १,५५.२६४ ॥ स्तेनो भोक्ता सधनधीर्नृपः क्लीबश्च शत्रुहा । विष्टिकृद्दासवृत्तिश्च पापो हिंस्नोऽमतिर्भवेत् ॥ १,५५.२६५ ॥ मेषादिकोत्तमांशेषु द्वादशांशेषु राशिवत् । जायाबलविभूषाढ्यः सत्त्वयुक्तोऽतिसाहसी ॥ १,५५.२६६ ॥ तेजस्वी च नरः खाये त्रिंशांसे सृजिसंस्थिते । आमयी वा स्वभार्यायां विषमः पारदारिकः ॥ १,५५.२६७ ॥ दुःखी परिच्छदयुतो मलिनश्चार्कजे स्वके । सुखधीधनकीर्त्यालस्तेजस्वी लोकपूजितः ॥ १,५५.२६८ ॥ नीरगुह्यभवान्भोगी जीवे खत्रिंशभागगे । मेधाकलाकाव्यशिल्पविवादकपटाञ्चितः ॥ १,५५.२६९ ॥ शास्त्रार्थसाहसयुतो बुधे स्वत्रिंशभागगे । बह्वपत्सुखारौग्यरोगरूपार्थसंयुतः ॥ १,५५.२७० ॥ ललिताङ्गो विप्रकीणन्द्रियः स्याद्भार्गवे स्वके । शूरस्तब्धौ च विषमवधकौ सद्गुणान्वितौ ॥ १,५५.२७१ ॥ सुखेज्ञो चारु चेष्टाङ्गौ चन्द्रार्क्कौचेत्कुजादिगौ मूलत्रिकोणस्वर्क्षोच्चे कण्ठस्थास्तु च ये ग्रहाः ॥ १,५५.२७२ ॥ अन्योन्यकारकास्ते स्युः कर्मगस्तु विशेषतः । शुभं वर्गोत्तमे जन्म वेसिस्थाने वसद्गृहैः ॥ १,५५.२७३ ॥ अशून्येषु च केन्द्रेषु कारकाख्यगृहेषु च । गुरुजन्मेशलग्नेशाः केन्द्रस्था मध्यसौख्यादाः ॥ १,५५.२७४ ॥ पृष्टोभवकोदपर्क्षस्थितास्त्वन्त्यान्तरादुषु । प्रवेशे भास्करकुजौ भृग्वीज्यो मध्यगौ तथा ॥ १,५५.२७५ ॥ चन्द्रार्की फल दावन्त्ये सदा ज्ञः फलदायकः । लग्नात्पुत्रे कलत्रे वाब्जाच्छुभेशयुतेक्षिते ॥ १,५५.२७६ ॥ स्यात्तयोः संपदः स्वत्वमन्यथाथाङ्गतोदयः । रवौ भीनेर्ऽकजः स्रीघ्नः पुत्रस्थस्तु तथा कुजः ॥ १,५५.२७७ ॥ सिमातुर्याष्टगैः क्रूरैर्यद्वा क्रूरान्तरे सितः । सद्ग्रहायुतदृष्टश्चेदग्निपातान्मृतिः स्त्रियाः ॥ १,५५.२७८ ॥ लग्नद्य पाणिगतयोः शशिरव्योः सह स्त्रिया । एकेन यस्य जन्माहुरथ सप्तमसंस्थयोः ॥ १,५५.२७९ ॥ नवधीगतयोर्वापि विकलस्रीसितार्कयोः । कोणोदयेऽस्तां त्यसन्धौ भृगौ बन्ध्यापतेर्जनिः ॥ १,५५.२८० ॥ सुतभं चेन्न सौम्याढ्यमथान्त्यास्तोदयर्क्षगैः । पापे धीस्थे विधौ क्षीणजन्मा सुतकलत्रिणः ॥ १,५५.२८१ ॥ शनौ खगेऽस्ते सशुक्रे तदृष्टे पारदारिकः । तौ चेत्सेंदुस्रिया सार्द्धं पुंश्चलो जायते नरः ॥ १,५५.२८२ ॥ भूग्वब्जयोरस्तगयोर्नरो भार्या सुतोऽपि वा । नृस्रियो स्तु शुभैर्दृष्टौ तौ द्वौ परिणताङ्गकौ ॥ १,५५.२८३ ॥ रवास्तांबुगैरिन्दुशुक्रपापैर्वंशविनाशकः । शिल्पी त्र्येशे बुधयुते केन्द्रसंस्थार्किवीक्षिते ॥ १,५५.२८४ ॥ दास्यां जातः सौरिभागे रिःफगे भृगुनन्दने । नीचेर्ऽकेन्दोरस्तगयोर्दृष्टयोः सूर्यजेन वा ॥ १,५५.२८५ ॥ पापदृष्टौ शनिकुजावस्तगौ वातरुक्प्रदौ । कर्काल्यं शगते केन्द्रे पापयुक्ते तु गुह्यरुक् ॥ १,५५.२८६ ॥ पापातरगतेंऽगेब्जे रवौ द्यूने तु कुष्टयुक् । चन्द्रे खेऽस्ताङ्गते भौमे विकलो वेशिगेर्ऽकजे ॥ १,५५.२८७ ॥ मिथो भांशगयोः शूली रवीन्द्वोर्युतयोः कृशः । निधनारिधनान्त्यस्था रवीन्द्वारयमा यदा ॥ १,५५.२८८ ॥ चलद्ग्रहेण दोषेण कुर्वन्त्यनयनं नरम् । सौम्या दृष्टा न वायत्रिधीगताः पापखेचराः ॥ १,५५.२८९ ॥ कर्णोपघातका द्यूने रदवैकृत्यकारकाः । लग्ने गुरौ द्युने मन्दे वातरोगादितो भवेत् ॥ १,५५.२९० ॥ सुखेऽस्ते वा कुजे जीवे लग्ने वार्कियुतोदये । कुजेन वात्मजे द्यूने संज्ञेंऽत्येऽब्जे च सोन्मदः ॥ १,५५.२९१ ॥ धीधर्मार्थान्त्यगैः पापैर्भसमस्यान्निबन्धनम् । सर्पशृङ्खलया शाठ्यैर्दृक्कैर्बल्यशुभेक्षितैः ॥ १,५५.२९२ ॥ समन्देऽब्जे वक्रदृष्टे पस्मारी दुर्वचाः क्षयी । रविमन्दकुजैः रवस्थैः सौम्यदृष्टैः समण्डलैः ॥ १,५५.२९३ ॥ भृतकाः पूर्वमुदितैर्वरमध्याधमा नराः । पुञ्जनौ तु फलं पुण्यस्रीणां योग्यं वदेच्च तत् ॥ १,५५.२९४ ॥ तत्स्वामिष्वखिलं कार्यं तद्भर्तृमरणं मृतौ । लग्नेन्दुगं वपुश्चैव यादयूपपीतद्युने ॥ १,५५.२९५ ॥ युग्मेषु लग्नशशिनोर्वनिता प्रकृतिस्थिता । सच्छीलभूषणयुता शुभसंदृष्टयोस्तयोः ॥ १,५५.२९६ ॥ पुरुषाकृति शीलाढ्या तयोरोजस्थयोर्मता । अथ पापा गुणोनाश्च पापवीक्षितथोस्तयोः ॥ १,५५.२९७ ॥ कुजार्कीज्यज्ञशुक्राणां कुजर्क्षे क्रमशोऽङ्गना । बाल्यदुष्टा तथा दासी साध्वी मायावती त्वरा ॥ १,५५.२९८ ॥ दृष्टा वाकृतिशीला स्यात्तयोरोजस्थयोर्मता । अथ पापा गुणोनाश्च पापवीक्षितयोस्तयोः ॥ १,५५.२९९ ॥ दुष्णवाक्पुनर्भूः सगुणा विज्ञा ख्याता स्फुजिद्ग्रृहे । बौधे समा या क्लीवा च सती गुणवती चला ॥ १,५५.३०० ॥ द्वन्द्वभे स्वैरिणीशध्नी गुणाढ्या शिल्पिकाधमा । वाचाटा कुलटा सिंहे रागी पुन्धीरगम्यता ॥ १,५५.३०१ ॥ जैवे गुणाढ्याल्परतिर्गुणज्ञा ज्ञानिनी सती । दासी नीचरता साध्वी मान्दे दुष्टा नपत्यका ॥ १,५५.३०२ ॥ लग्नेन्दुयुक्तैस्रिंशांशैः फलमेतद्वलानुगम् । दृग्गैः मिथोंशे शुक्रार्की शौक्रे चेद्वा घटांशके ॥ १,५५.३०३ ॥ स्त्रीभिः स्त्री मैथुनं याति मदनानलदीपिता । शून्ये कापुरुषो द्यूने बले क्लीवो न सदृशि ॥ १,५५.३०४ ॥ बुधार्क्योश्चरभे नित्यं परदेशपरायणः । तत्सृष्टा मदगे सूर्ये स्त्रीबालविधवा कुजे ॥ १,५५.३०५ ॥ पापदृष्टे शनौ द्यूने कन्यैवापद्यते जराम् । आग्नेयैर्विधवास्तस्थैः पुनर्भूमिश्रकैर्भघवेत् ॥ १,५५.३०६ ॥ क्रूरे हीनबलेऽस्तस्थे पतित्यक्ता न सदृशि । मिथोंशगैः सितारौ तु कुरुतोऽन्यरतां स्त्रियम् ॥ १,५५.३०७ ॥ शीतरश्मिर्यदा द्यूने तदा भर्तुरनुसया । सौरारर्क्षे लग्नगते सेंदुशुक्रे तु वन्धकी ॥ १,५५.३०८ ॥ मात्रा सार्द्धमसद्दृष्टे तथा कौजेंशकेऽस्तगे । मन्ददृष्टे व्याधियोनिः सद्ग्रहांशे पतिप्रिया ॥ १,५५.३०९ ॥ मन्दर्क्षे वांशके द्यूने वृद्धौ मूर्खः पतिः स्त्रियाः । स्त्रीलोलः क्रोधनः कौजे बौधे विद्वांश्च नैपुणः ॥ १,५५.३१० ॥ जितेन्द्रियो गृणीजैवे चान्द्रे कामी मृदुस्तथा । शौक्रे सौभाग्ययुक्कान्तः सौरेति मृदुकर्मकृत् ॥ १,५५.३११ ॥ शुक्राब्जयोर्लग्नगयोः सुखिनीर्ष्यासमन्विता । ज्ञेद्वोः कलासु निपुणा सुखिता च गुणान्विता ॥ १,५५.३१२ ॥ शुक्रज्ञयोस्तु शुभगा कलाज्ञा रुचिराङ्गना । अनेकसौख्यार्थगुणालग्ने सौम्यत्रये स्थिते ॥ १,५५.२१३ ॥ क्रूरेऽष्टमेऽष्टमेशांशे यस्य स्यात्तद्वयः समे । वैधव्यं च मृतिस्तस्या स्वयंसत्स्वर्थगेषु तु ॥ १,५५.३१४ ॥ अल्पापत्यत्वमब्जेऽस्याः कन्यालिहरिगोषु तु । सौरे मध्यबले चन्द्रशुक्रज्ञैर्बलवर्जितैः ॥ १,५५.३१५ ॥ शेषैः सवीर्यैरोजर्क्षे लग्ने कुरूपिणी भवेत् । जीवारकविशौम्येषु बलिषु समभे तनौ ॥ १,५५.३१६ ॥ विख्यातानैकशास्त्रज्ञा वनिता ब्रह्मवादिनी । पापेऽस्ते नवमस्थस्य प्रव्रज्यामेति भामिनी ॥ १,५५.३१७ ॥ उद्वाहे वरणे प्रश्ने सर्वमेतद्विचिन्तयेत् । मृत्युस्थानं पश्यतां स्याद्वलिना धातुकोपतः ॥ १,५५.३१८ ॥ नृणां मृत्युहितं युक्तं भगात्रोस्थोपथभूरिभिः । सवीर्यैर्बहुजोऽग्न्यक्षतज्वररुगुद्भवः ॥ १,५५.३१९ ॥ तृट्क्षुद्भवश्चाष्टमस्थैः सूर्याद्यैश्च वरादिषु । परस्वाध्वप्रदेशेषु मृत्युः सूर्यमहीजयोः ॥ १,५५.३२० ॥ स्वबन्धुस्थितयोः पुंसः शैलाग्नाभिरुतस्य च । बन्ध्वस्तकर्मगैर्मन्दभूजैः प्रहौ मृतिः ॥ १,५५.३२१ ॥ स्त्रियां हिमोषअणकरयोः स्वजनात्पापदृक्तयोः । तोयमृतो रवीदृतुस्यातांया द्युभयोदये ॥ १,५५.३२२ ॥ शस्त्राग्निजोशुभान्तस्थे चन्द्रे भौमगृहगस्थिते । मृत्युश्चाथ मृगे चन्द्रे कर्के मन्दे जलोदरात् ॥ १,५५.३२३ ॥ स्त्रियामिन्दौ रक्तशौथात्सौरे वाज्वग्निपातजः । पुत्रधर्मस्थस्योर्वन्धात्पापयोः सददृष्टयोः ॥ १,५५.३२४ ॥ सथासशंयनिगडैर्दृकैर्मृत्यौ तु बन्धनैः । स्त्रियां सपापेऽब्जे द्यूने सिते मेषे रवौ तनौ ॥ १,५५.३२५ ॥ मरणं स्त्रीकृते गेहे ह्यथ तुर्ये कुजे रवौ । यमे खेंऽगत्रिकोणर्स्थेः क्षीणचन्द्रांशुभैः सकृत् ॥ १,५५.३२६ ॥ तुर्येर्ऽके खे कुजेक्षीण चन्द्रदृष्टे समिद्धतः । रन्ध्रखाङ्गजलैः क्षीणेन्द्वारार्किरविसंयुतैः ॥ १,५५.३२७ ॥ लकुटेनाथ तैरेव खाङ्काङ्गतनयस्थितैः । धूमानिबन्धनैः कार्यः कुदनैर्मरणं भवेत् ॥ १,५५.३२८ ॥ बन्ध्वस्तखस्थैर्भौंमार्कर्मदैः शस्त्राग्निंराजभिः । सौरेद्वारैः स्वांबुरवस्थैः क्षतक्रेम्यङ्गया ततः ॥ १,५५.३२९ ॥ स्वेर्ऽके तुर्ये कुजे यानपातादथ कुजेऽस्तगे । यन्त्रोसीदुनतः क्षीणचन्द्रयुक्ते मृतिर्भवेत् ॥ १,५५.३३० ॥ भौमार्किशीतकिरणैर्जूकाजशनिभस्थितेः । क्षीणेन्द्वर्ककुजैः खास्तांबुस्थैर्वारकरे मृतिः ॥ १,५५.३३१ ॥ बल्यारदृष्टे क्षीणेन्दौ मन्दे निधंनसंस्थिते । गुह्यरुक्कृमिशस्त्राग्निदारुजो मृत्युरङ्गिराः ॥ १,५५.३३२ ॥ सौरेर्ऽकेऽस्ते मृतो मन्दे क्षीणेन्दौ भुव्यसंयुते । लग्नध्यायास्त पःखार्कभौमचन्द्रनिशाकरैः ॥ १,५५.३३३ ॥ शैलशृङ्गस्वरुग्रपातौनुर्निधनं भवेत् । दृक्कोन्त्तरे तुर्द्धाविंशस्तत्पतिर्मृत्युपोपि वा ॥ १,५५.३३४ ॥ स्वगुणैर्निध न कुर्याद्बलवान्यो द्वयोर्भवेत् । लग्नांशेशसदृक्स्थाने मृत्युर्योगेक्षणादिभिः ॥ १,५५.३३५ ॥ मोदाएन्तेनुदितांशस्य तुल्यो द्विघ्नः स्वपेक्षिते । शुभेक्षिते तु त्रिगुणः कल्प्यमन्यत्स्वबुद्धितः ॥ १,५५.३३६ ॥ वह्न्यंपबुभस्मसक्लेदशोषव्यालैर्मृतिस्थितैः । बिन्दुतश्चिन्तनीयश्च यथोक्तो मत्युरङ्गिनः ॥ १,५५.३३७ ॥ गुरुः शशाङ्कशुक्रौ च सूर्यभौमौ यमेन्दुजौ । देवपित्रतिरक्तोथ नारकान्कुर्युरष्टमे ॥ १,५५.३३८ ॥ रवीन्दुबलवश्रंशनाथाच्छ्रेष्टसमाधमाः । तुङ्गगः सांदनूकेनुगतिः षड्रन्ध्रदृक्कपः ॥ १,५५.३३९ ॥ द्यूनस्थितो गुरुर्वापि रिपुकेन्द्रविनाशगः । स्वोच्चस्थोंऽगे व्यये सौम्यभागे मोक्षो बलान्यतः ॥ १,५५.३४० ॥ आधाने जन्मा ज्ञाने तु वृक्षतां लग्नतो वदेत् । पूर्वापरार्द्धैर्लग्नस्य सौम्ये वाच्यपनेजनिः ॥ १,५५.३४१ ॥ लग्नत्रिकोणे धीज्यत्र्यंशैर्विकल्पावयवाः समाः । ग्रीष्मोगेर्ऽके परै रम्यापनतांपृतुरर्कभात् ॥ १,५५.३४२ ॥ चन्द्रज्ञजीवावृत्यस्याः शुक्रारार्किभिरन्यथा । दृक्कैराद्यैः पूर्वमासस्तिथिस्तत्रानुपाततः ॥ १,५५.३४३ ॥ विलोमजन्म भागैश्च वेला रात्रिद्युसंज्ञके । त्रिकोणोत्तमवार्थन्तिलग्नं वा लभनाभने ॥ १,५५.३४४ ॥ यावदूनो विधुर्लग्नात्तावच्चन्द्राच्च जन्मभे । गोहरी युग्मवसुभे क्रियजुके मृगाङ्गने ॥ १,५५.३४५ ॥ दशाष्टसप्तविषये गुण्याः शेषाः खसंख्यया । जीवभौमकविज्ञाः स्यु राघवाद्यायरेज्ञवत् ॥ १,५५.३४६ ॥ भानां नित्यो विधिः खेटवशावद्धर्गणास्तथा । सप्तर्घ्नं भहृतं शेषमृक्षं नवधनर्णतः ॥ १,५५.३४७ ॥ द्विघ्ने समर्तुमासाः स्युः पक्षतिथ्यौ गजाहते । सप्तघ्नं होनिशार्क्षाणीषुघ्नेङ्गांशेष्टहोरिका ॥ १,५५.३४८ ॥ पुमान्परशुधृक्कृष्णो रक्तदृग्रक्षितुं क्षमः । दृष्टर्तिकपदाश्वास्या रक्तवस्त्रा घटाकृतिः ॥ १,५५.३४९ ॥ कपिलो ह्यन्धदृक्रूरो रक्तवस्त्रः क्षतव्रतः । क्षुत्तृषार्तोदुग्धपटो लूनकुञ्चितमूर्धजः ॥ १,५५.३५० ॥ मलिनः क्षुत्परोजास्यो दक्षः कृष्यादिकर्मणि । द्विपकायः सरभयात्पिंपगलो व्याकुलान्तरः ॥ १,५५.३५१ ॥ शौचिकीरूपिणी साध्वी ह्यप्रजोच्छ्रितपाणिका । उद्याने कवची धन्वी क्रीडेच्छर्गरुडाननः ॥ १,५५.३५२ ॥ नृत्यादिविद्वरुणवद्बहुरत्नोधनुर्धरः । द्विपास्यकण्ठः क्रोडास्यः काननेशरमाहिकः ॥ १,५५.३५३ ॥ आतव्यशाखां पालाशी रौति मूर्द्धाहिकर्कशा । चिपिटास्यो हि संवीतो नौस्थः रत्र्यर्थंव्रजञ्जले ॥ १,५५.३५४ ॥ श्वा नरो जंबुकं गृध्रं गृहीत्वा रौति शाल्मलौ । धन्वी कृष्णाजिनी सिंहवाश्वोन्नतमातुरः ॥ १,५५.३५५ ॥ फलामिषघ्नः कूर्जीना भल्लास्यः कपिचेष्टितः । पुष्पपूर्णच्छटाकन्याविद्येल्ला मलिनांवरा ॥ १,५५.३५६ ॥ धन्वी व्ययापकृच्छ्यामो लिपिकृद्रामशोनरः । गौरीधौतांशुकात्सुच्चाकुंभदृस्तासुरालये ॥ १,५५.३५७ ॥ मानोन्मान्पापसोतौलीभाण्डमुत्पविचिन्तकः । क्षुत्तृङ्युतो नरः कुंभीगृध्नस्य स्त्रीसुतोपगः ॥ १,५५.३५८ ॥ धन्वीकिन्तरचेष्टस्तुहैमवर्मामृगानुगः । सिंधेकूजंव्रजन्तीस्त्रीनानासर्पसित हिका ॥ १,५५.३५९ ॥ सौख्यस्पृहाह्यावृत्ताङ्गीभत्रर्थकच्छपाकृतिः । कूर्मास्यो मलये सिंहः श्वक्रोण्डमृगभीषकः ॥ १,५५.३६० ॥ वास्यः श्वकायो धानुष्को रङ्क्षस्तापसयज्ञिये । चंपकाभासने मध्या सिंधुरत्रविवर्द्धिनी ॥ १,५५.३६१ ॥ कूर्मासने चंपकाभो दण्डी कौशेयकानिनी । परमोऽथो गृध्रमुखः स्नेहमद्याशनस्पृहः ॥ १,५५.३६२ ॥ दग्धानस्था लोहधरा सभूषाभाञ्जकच्चरा । भाण्डी रोमश्चवाः श्यामः किरीटी फलयन्त्रधृक् ॥ १,५५.३६३ ॥ नौस्थोध्वोसंविभूषार्न्थ नानारत्नकराएञ्चितः । नौस्थब्धेः कूलमायान्ती सयूथां चम्पकानना ॥ १,५५.३६४ ॥ गर्ते सर्पावृतो नग्नो रुदंश्चौरानलार्दितः । एतादृशाङ्क्रियांशाः स्तु षत्रिंशदुदीताः क्रमात् ॥ १,५५.३६५ ॥ एतत्संक्षेपतः प्रोक्तं जातकं मुनिसत्तम । निबोध संहितास्कन्धं लोककृत्युपयोगिनम् ॥ १,५५.३६६ ॥ इति श्रीनारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने जातकनिरूपणन्नाम पञ्चपञ्चाशत्तमोऽध्यायः _____________________________________________________________ सनन्दन उवाच क्रमाञ्चैत्रादिमासेषु मेषाद्याः संक्रमा मताः । चैत्रशुक्लप्रतिपदि यो वारः स नृपः स्मृतः ॥ १,५६.१ ॥ मेषप्रवेशे सेनानीः कर्कटे सस्ययो भवेत् । समोद्यधीश्वरः सूर्यो मध्यमश्चोत्तमोविधुः ॥ १,५६.२ ॥ नेष्टः कुजो बुधो जीवो भृगुस्त्वतिशुभङ्करः । अधमो रविजो वाच्यो ज्ञात्वा चैषां बलाबलम् ॥ १,५६.३ ॥ दण्डाकारे कबन्धे वा ध्वाङ्क्षाकारेऽथ कीलके । दृष्टेर्ऽकमण्डले व्याधिर्भ्रान्तिश्चोरार्थनाशनम् ॥ १,५६.४ ॥ छत्रध्वजपताकाद्यसन्निभस्तिमितैर्ध्वनैः । वरिमण्डलगैर्धूम्रैः सस्फुलिङ्गैर्जगत्क्षयः ॥ १,५६.५ ॥ सितरक्तैः पीतकृष्णैर्वणैर्विप्रादिपीडनम् । घ्नन्ति द्वित्रिचतुर्वर्णैर्भुवि राजजनान्मुने ॥ १,५६.६ ॥ ऊर्द्धैर्भानुकरैस्ताम्रैर्नाश याति चमूपतिः । पीतैर्नृपसुतः श्वेतैः पुरोधाश्चित्रितैर्जनाः ॥ १,५६.७ ॥ धूम्रैर्नृपपिशङ्गैस्तु जलदाधोमुखैर्जगत् । शुभोर्ऽकः शिशिरे ताम्रः कुङ्कुमाभा वसंतिके ॥ १,५६.८ ॥ ग्रीष्मश्चापाण्डुरश्चैव विचित्रो जलदागमे । पद्मोदराभः शरदि हेमन्ते लोहितच्छविः ॥ १,५६.९ ॥ पीतः शीते वृष्टौ ग्रीष्मे लोहितभारविः । रोगानावृष्टिभयकृत्क्रमादुक्तो मुनीश्वर ॥ १,५६.१० ॥ इन्द्रचापार्द्धमूर्तिस्तु भानुर्भूपविरोधकृत् । शशरक्तनिभे भानौ संग्रामो न चिराद्भुवि ॥ १,५६.११ ॥ मयूरपत्र संकाशो द्वादशाब्दं न वर्षति । चन्द्रमासदृशो भानुः कुर्याद्भूपान्तरं क्षितौ ॥ १,५६.१२ ॥ अर्के श्यामे कीटभयं भस्माभे राष्ट्रजं तथा । छिद्रेर्ऽकमण्डले दृष्टं महाराजविनाशनम् ॥ १,५६.१३ ॥ घटाकृतिः क्षुद्भयकृत्पुरहा तोरणाकृतिः । छत्राकृते देशहतिः खण्डभानुनृपान्तकृत् ॥ १,५६.१४ ॥ उदयास्तमये काले विद्युदुल्काशनिर्यदि । तदा नृपवधो ज्ञेयस्त्वथवा राजविग्रहः ॥ १,५६.१५ ॥ पक्षं पक्षार्द्धमर्केन्दुपरिविष्टावहर्निशम् । राजानमन्यं कुरुतो लोहिताम्बुदयास्तगौ ॥ १,५६.१६ ॥ उदयास्तमये भानुराच्छिन्नः शस्त्रसन्निभेः । घनैर्युद्धं खरोष्ट्राद्यैः पापरूपैर्भयप्रदम् ॥ १,५६.१७ ॥ याम्यशृङ्गोन्नत्तश्चन्द्रः शुभदी मीनमेषयोः । सौम्यशृङ्गोन्नतः श्रेष्ठो नृयुङ्मकरयोस्तथा ॥ १,५६.१८ ॥ घटोक्ष्णस्तु समः कर्कचापयोः शरसन्निभः । चापवत्कौर्महॄर्ंयोश्च शूलबत्तुलकर्कयोः ॥ १,५६.१९ ॥ विपरीतोदितश्चन्द्रो दुर्भिक्षकलहप्रदः । आषाढद्वयमूलेन्द्रधिष्ण्यानां याम्यगः शशी ॥ १,५६.२० ॥ अग्निप्रदस्तेयचरवनसर्पविनाशकृत् । विशाखा मित्रयोर्याम्यपार्श्वगः पापगः शशी ॥ १,५६.२१ ॥ मध्यमः पितृदैवत्ये द्विदैवे सैम्यगः शशी । अप्राप्यपौष्णभाद्रामदुक्षाविशशी शुभः ॥ १,५६.२२ ॥ मध्यगोद्वारदक्षाणि अतीत्य नववासवात् । यमेन्द्राहीशनोयेशमरुतश्चार्द्धतारकाः ॥ १,५६.२३ ॥ ध्रुवादितिद्विदैवाः स्युरध्यर्द्धांश्चापराः समाः । याम्यशृङ्गोन्नतो नेष्टः शुभः शुक्ले पिपीलिका ॥ १,५६.२४ ॥ कार्यहानिः कार्यवृद्धिर्हानिर्वृद्धिर्यथाक्रमम् । सुभिक्षकृद्विशालेन्दुरविशालोघनाशनः ॥ १,५६.२५ ॥ अधोमुखे शस्त्रभयङ्कलहोदण्डसन्निभे । कुजाद्यैर्निहते शृङ्गे मण्डले वा यथाक्रमम् ॥ १,५६.२६ ॥ क्षेमाद्यं वृष्टिभूपालजननाशः प्रजायते । सत्याष्टनवमर्क्षेषु सोदयाद्विक्रिमे कुजे ॥ १,५६.२७ ॥ तद्वक्रमुष्णंसंज्ञं स्यात्प्रजापीडाग्निसंभवः । दशमैकादशे ऋक्षे द्वादशर्वाग्रतीपयः ॥ १,५६.२८ ॥ कूक्रं वक्रमुखं ज्ञेयं सस्यवृष्टिविनाशकृत् । कुजे त्रयोदशे ऋक्षे वक्रिते वा चतुर्दशे ॥ १,५६.२९ ॥ बालास्यचक्रं तत्तस्मिन्सस्यवृष्टिविनाशनम् । पञ्चदशे षोडशर्क्षे वक्रे स्याद्रुधिराननम् ॥ १,५६.३० ॥ दुर्भिक्षं क्षुद्भयं रोगान्करोति क्षितिनन्दनः । अष्टादशे सप्तदशे तद्वक्रं मुशलाह्वयम् ॥ १,५६.३१ ॥ दुर्भिक्षं धनधान्यादिनाशने भयकृत्सदा । फआल्गुन्योरुदितो भौमो वैश्वदेवे प्रतीपगः ॥ १,५६.३२ ॥ अस्तगश्चतुरास्यार्क्षे लोकत्रयविनाशकृत् । उदितः श्रवणे पुष्ये वक्तृगोश्वनहानिदः ॥ १,५६.३३ ॥ यद्दिग्गोऽभ्युदितो भौमस्तद्दिग्भूपभयप्रदः । मधामध्यगतो भौमस्तत्र चैव प्रतीपगः ॥ १,५६.३४ ॥ अवृष्टिशस्त्रभयदः पीड्यं देवा नृपन्तकृत् । पितृद्विदैवधातॄणां भिद्यन्ते गण्डतारकाः ॥ १,५६.३५ ॥ दुर्भिक्षं मरणं रोगं करोति क्षितिजस्तदा । त्रिषूत्तरासु रोहिण्यां नैरृते श्रवणे मृगे ॥ १,५६.३६ ॥ अवृषअटिदश्चरन्भौमो दक्षिणेरोहिणीस्थितः । भूमिजः सर्वधिष्ण्यानामुदगामी शुभघप्रदः ॥ १,५६.३७ ॥ याम्यगोऽनिष्टफलदो भवेद्भेदकरो नृणाम् । विनोत्पातेन शशिनः कदाचिन्नोदयं व्रजेत् ॥ १,५६.३८ ॥ अनावृष्टाग्निभयकृदनर्थनृपविग्रहऋ । वसुवैष्णवविश्वेन्दुधातृभेषु चरन्बुधः ॥ १,५६.३९ ॥ भिनत्ति यदि तत्तारां बाधावृष्टिभयङ्करः । आर्द्रादिपितृभान्तेषु दृश्यते यदि चन्द्रजः ॥ १,५६.४० ॥ तदा दुर्भिक्षकलहरोगानावृष्टिभीतिकृत् । हस्तादिषट्सु तारासु विचरन्निन्दुनन्दनः ॥ १,५६.४१ ॥ क्षेमं सुभिक्षमारोग्यं कुरुते रोगनाशनम् । अहिर्बुध्न्यार्यमाग्नेययाम्यभेषु चरन्बुधः ॥ १,५६.४२ ॥ भिषक्तरङ्गवाणिज्यवृत्तीनां नाशकृत्तादा । पूर्वात्रयेचरन्सौम्यो योगतारां भिनत्ति चेत् ॥ १,५६.४३ ॥ क्षुच्छस्त्रानलचौरेभ्यो भयदः प्राणिनां तदा । याम्याग्निधातृवायव्यधिष्णयेषु प्राकृता गतिः ॥ १,५६.४४ ॥ रौद्रेन्दुसार्पपित्र्येषु ज्ञेया मिश्राह्वया गतिः । भाग्यार्यमेज्यादितिषु संक्षिप्ता गतिरुच्यते ॥ १,५६.४५ ॥ गतितीक्ष्णाजचरणाहिर्बुध्यभाश्रिभेषुया । योमातिकातिविश्वाबुमूलमत्स्यैन्यजस्य च ॥ १,५६.४६ ॥ घोरा गतिर्हरित्वाष्ट्रवसुवारुणभेषु च । इन्द्राग्निमित्रमार्तण्डभेषु पापाह्वयागतिः ॥ १,५६.४७ ॥ प्राकृताद्यासु गति ह्युदितोऽस्तमितोपिवा । यावन्त्येव दिनान्येष दृश्यस्तावत्यदृश्यगः ॥ १,५६.४८ ॥ चत्वारिंशत्क्रमात्रिंशद्रवीन्द्र भूसुतो नव । पञ्चदशैकादशभिर्दिवसैः शशिनन्दनः ॥ १,५६.४९ ॥ प्राकृतायां गतः सौम्यः क्षेमारोग्यसुभिक्षकृत् । मिश्रसक्षिप्तयोर्मध्ये फलदोऽन्यासु वृष्टिदः ॥ १,५६.५० ॥ वैशाख श्रावणे पौषे आषाढेऽभ्युदितो बुधः । जगतां पापफलदस्त्वितरेषु शुभप्रदः ॥ १,५६.५१ ॥ इषोर्जमासयोः शस्त्रदुर्भिक्षाग्निभयप्रदः । उदितश्चन्द्रजः श्रेष्ठो रजतस्फटिकोपयः ॥ १,५६.५२ ॥ द्विभाटजोदिमास्तस्य पञ्चमैकादशास्त्रिमाधवः शुभदो ज्येष्टो नृणां मध्यफलप्रदः । शुचिर्मध्यो नभः श्रेष्ठो भाद्रः श्रेष्ठः क्वचिन्नरः ॥ १,५६.५३ ॥ कार्तिको मार्गशीर्षश्च नृणां दुष्टफलप्रदः । शुभप्रदौ पौषमाधौ मध्यमौ फआल्गुनो मधुः ॥ १,५६.५४ ॥ माधवः शुभदो ज्येष्टो नृणां मध्यफलप्रदः । शुचिर्मध्यो नभः श्रेष्ठो भाद्रः श्रेष्ठः क्वचिन्नर ॥ १,५६.५५ ॥ अतिश्रेष्ठ इषः प्रोक्तो मासानां फलमीदृशम् । सौम्ये भागे चरन्भानां क्षेमारोग्यसुभिक्षकृत् ॥ १,५६.५६ ॥ विपरीतो गुरुर्याम्ये मध्ये चरति मध्यमम् । पीताग्निश्यामहरितरक्तवर्णोगिराः क्रमात् ॥ १,५६.५७ ॥ व्याध्यग्निचौरशस्त्रास्त्रभयदः प्राणिनां भवेत् । अनावृष्टिं भूम्ननिभः करोति सुरपूजितः ॥ १,५६.५८ ॥ दिवादृष्टो नृपवध्यामयंवाराष्ट्रनाशनम् । संवत्सरशरीरं स्यात्कृत्तिका रोहिणी तथा ॥ १,५६.५९ ॥ नाभिस्त्वापाठयुगलमाद्री हृत्कुसुमं मघा । दुर्भिक्षाग्निमरुद्भीतिः शरीरं क्रूरपीडिते ॥ १,५६.६० ॥ नाभ्यां क्षुत्तृङ्भयं पुष्ये सम्यङ्मूलफलक्षयः । हृदयेशस्य निधनं शुभं स्यात्संयुतैः शुभैः ॥ १,५६.६१ ॥ शस्यवृद्धिः प्रजारोग्यं युद्धं जीवात्यवर्षणम् । इति द्विजातिमध्यां तु गोनृपस्त्रीसुखं महत् ॥ १,५६.६२ ॥ निःस्वनावृष्टिफणि भिर्वृष्टिः स्वास्थ्यं महोत्सवः । महार्घमपि संपत्तिर्देशनाशोऽतिवर्षणम् ॥ १,५६.६३ ॥ अवैरं रोगमभयं रोगभीः सस्यवर्षणे । रोगो धान्यं नभोऽदृष्टिमघाद्यृक्षगते गुरौ ॥ १,५६.६४ ॥ सौम्यमध्यमयाम्येषु मार्गेषु वीथिकात्रयम् । शुक्रस्य दस्त्रभाज्ज्ञेयं पर्यायैश्च त्रिभिस्त्रिभिः ॥ १,५६.६५ ॥ नागेभैरावताश्चैव वृषभोष्ट्रखराह्वयाः । मृगाञ्जदहनाख्याः स्युर्यामयान्ता वीथयो नव ॥ १,५६.६६ ॥ सौम्य मार्गे च तिसृषु चरन्वीथिषु भार्गवः । धान्यार्थवृष्टिसस्यानां परिपूर्ति करोति हि ॥ १,५६.६७ ॥ मध्यमार्गे च तिसृषु सर्वमप्यधमं फलम् । पूर्वस्यां दिशि मेघस्तु शुभदः पितृपञ्चके ॥ १,५६.६८ ॥ स्वातित्रये पश्चिमायां तस्यां शुक्रस्तथाविधः । विपरीते त्वनावृष्टिदृद्बुधसंयुतः ॥ १,५६.६९ ॥ कृष्णाष्टम्यां चतुर्दश्याममायां च यदा सितः । उन्दयास्तमनं याति तदा जलमयी मही ॥ १,५६.७० ॥ मिथः सप्तमराशिस्थौ पश्चात्प्राग्वीथिसंस्थितौ । गुरुशुक्रावनावृष्टिदुर्भिक्षसमरप्रदौ ॥ १,५६.७१ ॥ कुजज्ञजीवरविजाः शुक्रस्याग्रेसरा यदि । युद्धान्तिवायुर्दुर्भिक्षजलनाशकरा मताः ॥ १,५६.७२ ॥ जलमित्रार्यमाहीन्द्रनक्षत्रेषु सुभिक्षकृत् । सच्छस्त्रावृष्टिदो मूलेऽहिर्बुध्न्यभयोर्भयम् ॥ १,५६.७३ ॥ श्रवणानिलह्तार्द्राभरणीभाग्यमेषु च । चरत्र्छैश्चरो नॄणां सुभिक्षारोग्यस्यकृत् ॥ १,५६.७४ ॥ मुखे चैकं गुदे द्वे च त्रीणि के नयने द्वयम् । हृदये पञ्च ऋक्षाणि वामहस्ते चतुष्टयम् ॥ १,५६.७५ ॥ वामपादे तथा त्रीणि दक्षिणे त्रीणे भानि च । चत्वारि दक्षिणे हस्ते जन्मभाद्रविजस्थितिः ॥ १,५६.७६ ॥ रोगो लाभस्तथा हानिर्लाभः सौख्यं च बन्धनम् । आयासः श्रेष्ठयात्रा च धनलाभः क्रमात्फलम् ॥ १,५६.७७ ॥ बहुधारविजस्त्वेतद्वक्रगः फलमीदृशम् । करोत्येव समः साम्यं शीघ्रगेषूत्क्रमात्फलम् ॥ १,५६.७८ ॥ विष्णुचक्रोत्कृत्तशिराः हङ्गुः पूयूषपानतः । अमृत्युतां गतस्तत्र खेटस्तत्र खेटत्वे परिकल्पितः ॥ १,५६.७९ ॥ वरणधातुरर्केन्दू तुदतेः सर्वपर्वणि । विक्षेपावनतेर्वङ्गाद्गाहुर्दूरगतस्तयोः ॥ १,५६.८० ॥ षण्मासवृद्ध्या ग्रहणं शोधयेन्द्रविचन्द्रयोः । पर्वेशास्तु तथा सत्यदेवा ख्यादितः क्रमात् ॥ १,५६.८१ ॥ ब्रह्मेन्द्र्विन्द्रधनाधीशवरुणाग्नियमाह्वयोः । पशुसस्यद्विजातीनां वृद्धिर्ब्रह्मे तु पर्वणि ॥ १,५६.८२ ॥ तद्वदेव फलं सौम्ये श्लेष्मपीडा च पर्वणि । विरोधो भूभुजां दुःखमैन्द्रे सस्यविनाशनम् ॥ १,५६.८३ ॥ धनिनां धनहानिः स्यात्कौबेरं धान्यवर्धनम् । नृपाणामशिवं क्षेममितरेषां च वारुणे ॥ १,५६.८४ ॥ प्रवर्षणं सस्यवृद्धिः क्षेमं हौताशपर्वणि । अनावृष्टिः सस्यहानिर्दुर्भिक्षं याम्यपर्वणि ॥ १,५६.८५ ॥ वेलाहीने स्यहानिर्नृपाणां दारुणं रणम् । अतिवेले पुष्पहानिर्भयं सस्यविनाशनम् ॥ १,५६.८६ ॥ एकस्मिन्नेव मासे तु चन्द्रार्कग्रहणं यदा । विरोधो धरणीशानामर्थवृष्टिविनाशनम् ॥ १,५६.८७ ॥ ग्रस्तोदितावस्तमितौ नृपधान्यविनाशदौ । सर्वग्रस्ताविनेन्दूतु क्षुद्व्याध्यग्निभयप्रदौ ॥ १,५६.८८ ॥ सौम्यायने क्षत्रविप्रानितरांहन्ति दक्षिणे । द्विजातींश्चक्रमाद्धन्ति राहुदृष्टोरगादितः ॥ १,५६.८९ ॥ तथैव ग्रामभेदाः स्युर्मोक्षभे दास्तथा दश । नो शक्ता लक्षितुं देवाः किं पुनः प्राकृता जनाः ॥ १,५६.९० ॥ आनीय खेटान्गणितांस्तेषां वारं विचिन्तयेत् । शुभाशुभान्यैः कालस्य ग्राहयामो हि लक्षणम् ॥ १,५६.९१ ॥ तस्मादन्वेषणीयं तत्कालज्ञानाय धीमता । उत्पातरूपाः केतूनामुदयास्तमया नृणाम् ॥ १,५६.९२ ॥ दिव्यान्तरिक्षा भौमास्ते शुभाशुभफलप्रदाः । यज्ञध्वजास्त्रभवनरक्षवृद्धिङ्गजोपमाः ॥ १,५६.९३ ॥ स्तम्भशूलाङ्कुशाकारा आन्तरिक्षाः प्रकीर्तिताः । नक्षत्रसंस्थिता दिव्या भौमा ये भूमिसंस्थिताः ॥ १,५६.९४ ॥ एकोऽपि भिन्नरूपः स्याज्जन्तुर्नाम शुभाय वै । यावन्तो दिवसान्केतुर्दृश्यते विविधात्मकः ॥ १,५६.९५ ॥ तावन्मासैः फलं यच्छत्यष्टौ सारव्यवत्सरैः । ये दिव्याः केतवस्तेऽपि शश्वज्जीवफलप्रदाः ॥ १,५६.९६ ॥ ह्रस्वः स्निग्धः सुप्रसन्नः श्वेतकेतुः सुवृष्टिकृत् । क्षिप्रादस्तमयं याति दीर्घकेतु रवृष्टिकृत् ॥ १,५६.९७ ॥ अनिष्टदो धूमकेतुः शक्रचापसमप्रभः । द्वित्रिचतुःशूलरूपः स च राज्यान्तकृन्मतः ॥ १,५६.९८ ॥ मणिहारस्तुवर्णाभा दीप्तिमन्तोऽर्कसूनवः । केतवश्चोदिताः पूर्वापरयोर्नृपहानिदाः ॥ १,५६.९९ ॥ वंसुकबिंबक्षितिजच्छुकतुण्डादिसन्निभाः । हुताशनोदितास्तेऽपि केतवः फलदाः स्मृताः ॥ १,५६.१०० ॥ भूसुता जलतैलाभा वर्तुलाः क्षुद्भयप्रदाः । सुभिक्षक्षेमदाः श्वेतकेतवः सोमसूनवः ॥ १,५६.१०१ ॥ पितामहात्मजः केतुस्त्रिवर्णस्त्रिदशान्वितः । ब्रह्मदण्डाद्धूमकेतुः प्रजानामन्तकृन्मतः ॥ १,५६.१०२ ॥ ऐशान्यां भार्गवसुताः श्वेतरूपास्त्वनिष्टदाः । अनिष्टदाः पङ्गुसुता विशिखाः कमकाह्वयाः ॥ १,५६.१०३ ॥ विकचाख्या गुरुसुता वेष्टा याम्ये स्थिता अपि । सूक्ष्माः शुक्ला बुधसुताश्चौररोगभयप्रदाः ॥ १,५६.१०४ ॥ कुजात्मजाः कुङ्कुमाख्या रक्ताः शूलास्त्वनिष्टदाः । अग्निजा विश्वरूपाख्या अग्निवर्णाः सुखप्रदाः ॥ १,५६.१०५ ॥ अरुणाः श्यामलाकारा अर्कपुत्राश्च पापदाः । शुक्रजा ऋक्षसदृशाः के तवः शुभदायकाः ॥ १,५६.१०६ ॥ कृत्तिकासु भवो धूमकेतुर्नूनं प्रजाक्षयः । प्रासादवृक्षशैलेषु जातो राज्ञां विनाशकृत् ॥ १,५६.१०७ ॥ सुभिक्षकृत्कौमुदाख्यः केतुः कुमुदसन्निभः । आवर्तकेतुसंध्यायां शशिरो नेष्टदायकः ॥ १,५६.१०८ ॥ ब्रह्मदेवमनोर्मान पित्र्यं सौरं च सावनम् । चान्द्रमार्क्षं गुरोर्मानमिति मानानि वै नवः ॥ १,५६.१०९ ॥ एतेषां नवमानानां व्यवहारोऽत्र पञ्चभिः । तेषां पृथक्पृथक्कार्यं वक्ष्यते व्यवहारतः ॥ १,५६.११० ॥ ग्रहाणां निखिलश्चारो गृह्यते सौर मानतः । वृष्टेर्विधानं स्त्रीगर्भः सावनेनैव गृह्यते ॥ १,५६.१११ ॥ प्रवर्षणां समे गर्भौं नाक्षत्रेण प्रगृह्यते । यात्रोद्वाहव्रतक्षौरे तिथिवर्षेशनिर्णयः ॥ १,५६.११२ ॥ पर्ववास्तूपवासादि कृत्स्नं चान्द्रेण गृह्यते । गृह्यते गुरुमानेन प्रभवाद्यब्दलक्षणम् ॥ १,५६.११३ ॥ तत्तन्मासैर्द्वादशभिस्तत्तदष्टौ भवेत्ततः । गुरुमध्यमचारेणषष्ट्यब्दाः प्रभावादयः ॥ १,५६.११४ ॥ प्रभवो विभवः शुक्लः प्रमोदोऽथ प्रजापतिः । अङ्गिराः श्रीमुखो भावो युवा धाता तथैव च ॥ १,५६.११५ ॥ ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो वृषः । चित्रभानुःसुभानुश्च तारणः पार्थिवोऽव्ययः ॥ १,५६.११६ ॥ सर्वजित्सर्वधारी च विरोधी विकृतः खरः । नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ ॥ १,५६.११७ ॥ हेमलंबो विलंबश्च विकारी शार्वरी लवः । शुभकृच्छोभनः क्रोधी विश्वावसुपराभवौ ॥ १,५६.११८ ॥ प्लवङ्गः कीलकः सौम्यः सामाप्तश्च विरोधकृत् । परिभावी प्रमादी च आनन्दो राक्षसोऽनलः ॥ १,५६.११९ ॥ पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मतीः । दुन्दुभीरुधिरोद्गरी रक्ताक्षः क्रोधनः क्षयः ॥ १,५६.१२० ॥ नामतुल्यफलाः सर्वे विज्ञेयाः षष्टिवत्सराः । युगं स्यात्पञ्चभिर्वर्षैर्युगान्येवं तु द्वादश ॥ १,५६.१२१ ॥ तेषामीशाः क्रमाज्ज्ञेया विष्णुर्देवपुरोहितः । पुरन्दरो लोहितश्च त्वष्टाहिर्बुध्न्यसंज्ञकः ॥ १,५६.१२२ ॥ पितरश्च ततो विश्वे शशीन्द्राद्ग्नयशिनो भगः । तथा युगस्य वर्षे शास्त्वग्निनेन्दुविधीश्वराः ॥ १,५६.१२३ ॥ अथाद्वेशचमूनाथसस्यपानां बलाबलम् । तत्कालं ग्रहचारं च सम्यक्ज्ञात्वा फलं पदेत् ॥ १,५६.१२४ ॥ सौम्या यनं मासषट्कं मृगाद्यं भानुभुक्तितः । अहः सुराणां तद्रात्रिः कर्काद्यं दक्षिणायनम् ॥ १,५६.१२५ ॥ गृहप्रवेशवैवाहप्रतिष्टामैञ्जिबन्धनम् । मधादौ मङ्गलं कर्म विधेयं चोत्तरायणे ॥ १,५६.१२६ ॥ याम्यायने गर्हितं च कर्म यत्नात्प्रशस्यते । माधादि मासौ द्वौ द्वौ च ऋतवः शिशिरादयः ॥ १,५६.१२७ ॥ मृगाच्छिशिरवसंतश्च ग्रीष्माः स्युश्चोत्तरायणे । वर्षा शरश्च हेमन्तः कर्काद्वै दक्षिणायने ॥ १,५६.१२८ ॥ चान्द्रो दर्शीवधिः सौरः संक्रात्या सावनो दिनेः । त्रिंशद्भिश्चन्द्रभगणो मासो नाक्षत्रसंज्ञकः ॥ १,५६.१२९ ॥ मधुश्च माधवः शुक्रः शुचिश्चाथ नभस्ततः । नभस्य इष ऊर्जश्च सहाश्चैव सहस्यकः ॥ १,५६.१३० ॥ तपास्तपस्य क्रमशश्चैत्रादीनां समाह्वया । यस्मिन्मासे पौर्णमासी येन धिष्णेन संयुता ॥ १,५६.१३१ ॥ तन्नक्षत्राह्वयो मासः पौर्णमासी तदाह्वया । तत्पक्षौ दैव पित्राख्यौ शुक्लकृष्णौ तथापरे ॥ १,५६.१३२ ॥ शुभाशुभे कर्मणि च प्रशस्तौ भवतः सदा । क्रमात्तिथीनां ब्रह्माग्नी विरिञ्चिविष्णुशैलजाः ॥ १,५६.१३३ ॥ विनायकयमौ नागचन्द्रौ स्कन्दोर्ऽकवासवौ । महेन्द्रवासवौ नागदुर्गादण्डधराह्वयः ॥ १,५६.१३४ ॥ शिवविष्णूहरिरवीकामः सर्वः कलीततः । चन्द्रविश्वेदर्शसंज्ञतिथीशाः पितरः स्मृताः ॥ १,५६.१३५ ॥ नन्दाभद्राजयारिक्ता पूर्णाः स्युतिथयः पुनः । त्रिरावृत्त्या क्रमाज्ज्ञेया नेष्टमध्येष्टदाः सिते ॥ १,५६.१३६ ॥ कृष्णपक्षे त्विष्टमध्यानिष्टदाः क्रमशस्तदा । अष्टमी द्वादशी षष्टी चतुर्थी च चतुर्दशी ॥ १,५६.१३७ ॥ तिथयः पक्षरन्ध्राख्या ह्यतिरूक्षा प्रकीर्तिताः । समुद्रमनुरन्ध्राङ्कतत्त्वसंख्यास्तु नाडिकाः ॥ १,५६.१३८ ॥ त्याज्याः स्युस्तासु तिथिषु क्रमात्पञ्च च सर्वदा । अमावास्या च नवमी हित्वा विषमसंज्ञिका ॥ १,५६.१३९ ॥ तिथयस्तुप्रशस्तास्युर्मध्यमा प्रतिपत्सिता । षषअट्यां तैलं तथाष्टम्यां मासं क्षौरं कलेस्तिथौ ॥ १,५६.१४० ॥ पूर्णिमादर्शयोर्नारीसेवनं परिवर्जयेत् । देर्शे षष्ट्यां प्रतिपदि द्वादश्यां प्रतिपर्वसु ॥ १,५६.१४१ ॥ नवम्यां च न कुर्वीत कदाचिद्दन्तधावनम् । व्यतीपाते च संक्रान्तावेकादश्यां च पर्वसु ॥ १,५६.१४२ ॥ अर्कभौमदिने षष्ट्यां नाभ्यङ्गो वैधृतौ तथा । यः करोति दशम्यां च स्नानमामलकैर्नरः ॥ १,५६.१४३ ॥ पुत्रहानिर्भवेत्तस्य त्रंयोदश्यां धनक्षयः । अर्थपुत्रक्षयस्तस्य द्वितीयायां न संशयः ॥ १,५६.१४४ ॥ अमायां च नवम्यां च सप्तम्यां च कुलक्षयः । या पौर्णिमा दिवा चन्द्रमती सानुमती स्मृता ॥ १,५६.१४५ ॥ रात्रौ चन्द्रवती राकाप्यमावास्या तथा द्विधा । सिनीवाली चेन्दुमती कुहूर्नेन्दुमती मता ॥ १,५६.१४६ ॥ कार्तिके शुक्लनवमी त्वादिः कृतयुगस्य च । त्रेतादिर्माधवे शुक्ले तृतीया पुण्यसंज्ञिता ॥ १,५६.१४७ ॥ कृष्णा पञ्चदशी माघे द्वापरादिमुदीरिता । कल्पादिः स्यात्कृष्णपक्षे नभस्तस्य त्रयोदशी ॥ १,५६.१४८ ॥ द्वादश्यूर्जे शुक्लपक्षे नवम्यच्छेश्वयुज्यपि । चैत्रे भाद्रपदे चैव तृतीया शुक्लसंज्ञिता ॥ १,५६.१४९ ॥ एकादशी सिता पौषे ह्याषाढेर्देशमीसिता । माघे च सप्तमी शुक्ला नभस्ये त्वसिताष्टमी ॥ १,५६.१५० ॥ श्रावणे मास्यमावास्या फआल्गुने मासि पौर्णिमा । आषाढे कार्तिके मासि ज्यष्टे चैत्रे च पौर्णिमा ॥ १,५६.१५१ ॥ मन्वादयो मानवानां श्राद्धेष्वत्यन्तपुण्यदा । भाद्रे कृष्णत्रयोदश्यां मघामिन्दुः करे रविः ॥ १,५६.१५२ ॥ गजच्छाया तदा ज्ञेया श्राद्धे ह्यत्यन्तपुण्यदा । एकस्मिन्वासरे तिस्रस्तिथयः स्यात्तिथिक्षयः ॥ १,५६.१५३ ॥ तिथिर्वारत्रये त्वेका ह्यधिका द्वे च निन्दिते । सूर्यास्तमनपर्यन्तं यस्मिन्वारे तु या तिथिः ॥ १,५६.१५४ ॥ विद्यते सा त्वखण्डा स्यान्न्यूना चेत्खञ्जसंज्ञिता । तिथेः पञ्चदशो भागः क्रमात्प्रतिपदादयः ॥ १,५६.१५५ ॥ क्षणसंज्ञास्तदर्द्धानि तासामर्द्धप्रमाणतः । रविः स्थिरश्चरश्चन्द्रः क्रूरो वक्रोखिलो बुधः ॥ १,५६.१५६ ॥ लघुरीज्यो मृदुः शुक्रस्त्रीक्ष्णो दिनकरात्मजः । अभ्यक्तो भानुवारे यः स नरः क्लेशवान्भवेत् ॥ १,५६.१५७ ॥ ऋक्षेशे कान्तिभाग्भौमे व्याधि सौभाग्यमिन्दुजे । जीवे नैवं सिते हानिर्मन्दे सर्वसमृद्धयः ॥ १,५६.१५८ ॥ लङ्कोदयात्स्याद्वारादिस्त स्मादूर्ध्वमधोऽपिवा । देशान्तरस्वचरार्द्धनाडीभिरपरे भवेत् ॥ १,५६.१५९ ॥ बलप्रदस्य खेटस्य कर्म सिद्ध्यति यत्कृतम् । तत्कर्म बलहीनस्य दुःखेनापि न सिद्ध्याति ॥ १,५६.१६० ॥ इन्दुज्ञजीवशुक्राणां वासराः सर्वकर्मसु । फलदास्त्वितरे क्रूरे कर्मस्वभिमतप्रदाः ॥ १,५६.१६१ ॥ रक्तवर्णौं रविश्चन्द्रौ गौरो भौमस्तुलोहितः । दूर्वावर्णो वुधो जीवः पीतश्वेतस्तु भार्गवः ॥ १,५६.१६२ ॥ कृष्णः सौरिः स्ववारेषु स्वस्ववर्णक्रिया हिताः । अद्रिवाणाश्च यस्तर्कपातालवसुधाधराः ॥ १,५६.१६३ ॥ बाणाग्निलोचनानिह्यवेदबाहुशिलीमुखाः । त्र्येकाहयो नेत्रगोत्ररामाश्वद्ररसर्तवः ॥ १,५६.१६४ ॥ कुलिकाश्चोपकुलिका वारवेला स्तथा क्रमात् । प्रहरार्द्धप्रमाणास्ते विज्ञेयाः सूर्यवासरात् ॥ १,५६.१६५ ॥ यस्मिन्वारे क्षणो वारदृष्टस्तद्वासराधिपः । आद्यः षष्टो द्वितीयोऽस्मत्तत्षष्ठस्तुतृतीयकः ॥ १,५६.१६६ ॥ षष्टः षष्टश्चेतरेषां कालहोराधिपाः स्मृताः । सार्द्धनाडीद्वयेनैव दिवा रात्रौ यथाक्रमात् ॥ १,५६.१६७ ॥ वारप्रोक्ते कर्मकार्ये तद्ग्रहस्य क्षणेऽपि सन् । नक्षत्रेशाः क्रमाद्दस्रयमवह्निपितामहाः ॥ १,५६.१६८ ॥ चन्द्रेशादितिजीवाहिपितरो भगसंज्ञकः । अर्यमार्कत्वष्टृमरुच्छक्राग्निमित्रवासवः ॥ १,५६.१६९ ॥ नैरृत्युदकविश्वेजगोविन्दवसुतोयपाः । अजैकपादहिर्बुध्न्या पूषा चेति प्रकीर्तिताः ॥ १,५६.१७० ॥ पूर्वात्रयं मधाह्यग्निविशाखाय ममूलभम् । अधोमुखं तु नवकं भानौ तत्र विधीयते ॥ १,५६.१७१ ॥ बिलप्रवेशगणितभूतसाधनलेखनम् । शिल्पकर्मकलाकूपनिक्षेपोद्धरणादि यत् ॥ १,५६.१७२ ॥ मित्रेन्दुत्वाष्ट्रहस्तेन्द्रादितिभान्त्याश्विवायुभम् । तिर्यङ्मुखाख्यं नवकं भानौ तत्र विधीयते ॥ १,५६.१७३ ॥ हलप्रवाहगमनं गन्त्रीपत्रगजोष्ट्रकम् । खरगोरथनौयानलुलायहयकर्म च ॥ १,५६.१७४ ॥ ब्रह्मविष्णुमहेशार्यशततारावसूत्तराः । ऊर्द्धास्यं नवकं भानां प्रोक्तमत्र विधीयते ॥ १,५६.१७५ ॥ नृपाभिषेकमाङ्गल्यवारणध्वजकर्मच । प्रासादतोरणारामप्राकाराद्यं च सिद्ध्यति ॥ १,५६.१७६ ॥ स्थिरं रोहिण्युत्तराख्यं क्षिप्रं सूरयाश्विपुष्यभम् । साधारणं द्विदैवत्यं वह्निभं च प्रकीर्तितम् ॥ १,५६.१७७॥ वस्वदित्यंवुपुष्याणि विष्णुभं चरसंज्ञितम् । मृद्विन्दुमित्रचित्रान्त्यमुग्रं पूर्वामघात्रिकम् ॥ १,५६.१७८ ॥ मूलार्द्राहीन्द्रभं तीक्ष्णं स्वनामसदृशं फलम् । चित्रादित्यंबुविष्ण्वंबान्त्याधिमित्रवसूडुषु ॥ १,५६.१७९ ॥ समृगेज्येषु बालानां कर्णवेधङ्क्रिया हिता । दस्रेन्द्वदितितिष्येषु करादित्रितये तथा ॥ १,५६.१८० ॥ गजकर्माखिलं यत्तद्विधेयं स्थिरभेषु च । वाजिकर्माखिलं कार्यं सूर्यवारे विशेषतः ॥ १,५६.१८१ ॥ चित्रावरुणवैरिञ्चत्र्युत्तरासु गमागमम् । दर्शाष्टभ्यां चतुर्दश्यां पशूनां न कदाचन ॥ १,५६.१८२ ॥ मृदुध्रुवक्षिप्रचरविशाखापितृभेषु च । हलप्रवाहं प्रथमं विदध्यान्मूलभे वृषैः ॥ १,५६.१८३ ॥ हलादौ वृषानाशाय भत्रयं सूर्यमुक्तभात् । अग्रे वृद्ध्यै त्रयं लक्ष्म्ये सौम्यपार्श्वे च पञ्चकम् ॥ १,५६.१८४ ॥ शूलत्रयेपि नवकं मरणाय च पञ्चकम् । श्रियै पुष्ट्यै त्रयं श्रेष्ठं स्याच्चक्रे लाङ्गलाह्वये ॥ १,५६.१८५ ॥ मृदुध्रुवक्षिप्रभेषु पितृवायुवसूङ्षु । समूलभेषु बीजोप्तिरत्युन्त्कृष्टं फलप्रदा ॥ १,५६.१८६ ॥ भवेद्भत्रितयं मूर्घ्नि धान्यनाशाय राहुभात् । गले त्रयं कज्जलाय वृद्ध्यै च द्वादशोदरे ॥ १,५६.१८७ ॥ निस्तंहुलत्वं लाङ्गूले भचतुष्टयभीतिदम् । नाभौ वह्निः पञ्चकं यद्वीजोप्ताविति चिन्तयेत् ॥ १,५६.१८८ ॥ स्थिरेष्वदितिसार्पान्त्यपितृमारुतभेषु च । न कुर्याद्रोगमुक्तस्य स्नानमाहीं दुशुक्रयोः ॥ १,५६.१८९ ॥ उत्तरात्रयमैत्रेन्द्रवसुवारुणभेषु च । पुष्यार्कपौष्णधिष्ण्येषु नृत्यारंभः प्रशस्यते ॥ १,५६.१९० ॥ पूर्वार्द्धयुञ्जि षङ्भनि पौष्णभादुदभात्ततः । मध्ययुञ्जि द्वादशर्क्षाणीन्द्रभान्नवभानि च ॥ १,५६.१९१ ॥ परार्द्धयुञ्जि क्रमशः संप्रीतिर्दम्पतेर्मथः । जघन्यास्तोयपार्द्राहिपवनान्तकनाकपाः ॥ १,५६.१९२ ॥ क्रमादितिद्विदैवत्या बृहत्ताराः पराः समाः । तासां प्रमाणघटिकास्त्रिंशन्नवतिद्यष्टयः ॥ १,५६.१९३ ॥ क्रमादभ्युदिते चन्द्रे नयत्यर्घसमानि च । अश्वग्रीन्द्वीज्यनैरृत्यत्वाष्ट्रजत्त्युत्तराभवाः ॥ १,५६.१९४ ॥ पितृद्विदैववस्वाख्यास्ताराः स्युः कुलसंज्ञिकाः । धातृज्येष्टादितिस्वातीपौष्णार्कहरिदेवताः ॥ १,५६.१९५ ॥ अजाह्यन्त्यकभौजङ्गताराश्चैवाकुलाह्वयाः । शेषाः कुलाकुलास्तारास्तासां मध्ये कुलोडुषु ॥ १,५६.१९६ ॥ प्रयाति यदि भूपालस्तदाप्नोति पराजयम् । भेषूपकुलसंज्ञेषु जयमाप्नोति निश्चितम् ॥ १,५६.१९७ ॥ संधिर्वापि तयोः साम्यं कुलाकुलगणोडुषु । अर्कार्किभौमवारे चेद्भद्राया विषमाङ्घ्रिभम् ॥ १,५६.१९८ ॥ त्रिपुष्करं त्रिगुणदं द्विगुणं यमलाहिभम् । तद्यात्तद्दोषनाशाय गोत्रयं मूल्यमेव वा ॥ १,५६.१९९ ॥ द्विपुष्करे द्वयं दद्यान्न दोषस्त्वृक्षभोऽपि वा । क्रूरविद्धो युतो वापिपुष्यो यदि बलान्वितः ॥ १,५६.२०० ॥ विना पाणिग्रहं सर्वमङ्गलेष्विष्टदः सदा । रामाग्निऋतुबाणाग्निभूवेदाग्निशरेषु च ॥ १,५६.२०१ ॥ नेत्रबाहुशरेद्विन्दुबाहुवेदाग्निसंकराः । वेदनेत्राब्ध्यग्निशतबाहुनेत्ररदाः क्रमात् ॥ १,५६.२०२ ॥ तारासंख्याश्च विज्ञेया दस्रादीनां पृथक्पृथक् । या दृश्यन्ते दीप्तताराः स्वगणे योगतारकाः ॥ १,५६.२०३ ॥ वृषो वृक्षोश्चभायाम्यधिष्ण्येयमकरस्तरुः । उडुंबरश्चाग्निधिष्ण्ये रोहिण्यां जंबुकस्तरुः ॥ १,५६.२०४ ॥ इन्दुभात्खदिरो जातः कृष्णप्लक्षश्च रौद्रभात् । संभूतोऽदितिभाद्वंशः पिप्पलः पुष्यसंभवः ॥ १,५६.२०५ ॥ सर्वधिष्ण्यान्नागवृक्षो वटः पितृभसंभवः । पालाशो भाग्यभाज्जातः अक्षश्चार्यमसंभवः ॥ १,५६.२०६ ॥ अरिष्टवृक्षो रविभाच्छ्रीवृक्षस्त्वाष्ट्रसंभवः । स्वात्युक्षजोर्ऽजुनो वृक्षो द्विदैवत्याद्विकङ्कतः ॥ १,५६.२०७ ॥ मित्रभाद्बकुलोजातो विष्टिः पौरन्दरर्क्षजः । सर्ज्जवृक्षो मूलभाञ्च वञ्जुलो वारिधिष्ण्यजः ॥ १,५६.२०८ ॥ पनसो वैश्वभाज्जातश्चार्कवृक्षश्च विष्णुभात् । वसुधिष्ण्याच्छमीवृक्षः कदंबो वारुणर्क्षजः ॥ १,५६.२०९ ॥ अजाहेश्चूतवृक्षोभूद्बुध्न्यजः पिचुमन्दकः । मधुवृक्षः पौष्णधिष्ण्याद्धिष्ण्यवृक्षाः प्रकीर्तिताः ॥ १,५६.२१० ॥ यस्मिञ्छंनैश्वरो धिष्ण्ये तद्रृक्षोऽर्च्यः प्रयत्नतः । योगेशा यमविश्वेन्दुधातृजीवनिशाकराः ॥ १,५६.२११ ॥ इन्द्रतोयाहिवह्न्यर्कभूमिरुद्रकतोयपाः । गणेशरुद्रधनदत्वष्ट्टमित्रषडाननाः ॥ १,५६.२१२ ॥ सावत्री कमला गौरी नासत्यौ पितरोऽदितिः । वैधृतिश्च व्यतीपातो महापातावुभौ सदा ॥ १,५६.२१३ ॥ परिघस्य च पूर्वार्द्धं सर्वकार्येषु गर्हितम् । विष्कंभवज्रयोस्तिस्रः षड्वा गण्डातिगण्डयाईः ॥ १,५६.२१४ ॥ व्यागघाते नव शूले तु पञ्च नाड्यो हि गर्हिताः । अदितीन्दुमधाह्यश्वमूलमैत्रेज्यभानि च ॥ १,५६.२१५ ॥ ज्ञेयानि सहचित्राणि मूर्द्धभानि यथाक्रमम् । लिखेदूर्ध्वगतामेकां तिर्यग्रेखास्त्रयोदश ॥ १,५६.२१६ ॥ तत्र रवार्जूरिके चक्रे कथितं मूर्ध्नि भं न्यसेत् । भाज्यैकरेरवागतयोः सूर्याचन्द्रमसोर्मिथः ॥ १,५६.२१७ ॥ एकार्गलो दृष्टिपातश्चाभिजिद्वर्जितानि वै । विनाडीभिर्द्वादशभी रहितं घटिकाद्वयम् ॥ १,५६.२१८ ॥ योगं प्रकरणं योगाः क्रमात्तु सप्तविंशतिः । इन्द्रः प्रजापतिर्मित्रस्त्वष्टाभूहरितिप्रिया ॥ १,५६.२१९ ॥ कीनाशः कलिरुद्राख्यो तिथ्यर्द्धेशास्त्वहिर्मरुत् । बवादिवणिजान्तानि शुभानि करणानि षट् ॥ १,५६.२२० ॥ परीता विपरीता वा विष्यिर्नेष्टा तु मङ्गले । मुखे पञ्चगले चैका वक्षस्येकादश स्मृतः ॥ १,५६.२२१ ॥ नाभौ चतस्रः षट्कट्यां तिस्रः पुच्छाख्यनाजिकाः । कार्यहानिर्मुखे मृत्युर्गले वक्षसि निःस्वता ॥ १,५६.२२२ ॥ कट्यामुन्मत्तता नाभौ च्युतिः पुच्छे ध्रुवं जयः । स्थिराणि मध्यमान्येषां मध्यनागचतुष्पदौ ॥ १,५६.२२३ ॥ दिवामुहूर्ता रुद्राहिमित्रपितृवसूदकम् । विश्वेविधातृब्रह्मेन्द्ररुद्राग्निवसुतोयपाः ॥ १,५६.२२४ ॥ अर्यमा भगसंज्ञश्च विज्ञेया दश पञ्च च । ईशाजपादाहिर्बुध्न्यपूषाश्वियमवह्नयः ॥ १,५६.२२५ ॥ धातृ इन्द्रादितीज्याख्या विष्ण्वर्कत्वष्टृवायवः । अह्नः पञ्चदशो भागस्तथा रात्रिप्रमाणतः ॥ १,५६.२२६ ॥ मुहूर्तमानं द्वरावक्षणर्क्षाणि समेश्वरम् । अर्यमा राक्षसब्राह्नौ पित्र्याग्नेयौ तथाभिजित् ॥ १,५६.२२७ ॥ राक्षसाख्यौ ब्राह्मपित्र्यौ भर्गाजांशावलिनादिषु । वारेषु वर्जनीयास्ते मुहूर्ताः शुभकर्मसु ॥ १,५६.२२८ ॥ येषु ऋक्षेषु यत्कर्म कथितं निखिलं च तत् । तद्दैवत्ये मुहूर्तेऽपि कार्यं यात्रादिकं सदा ॥ १,५६.२२९ ॥ भूकंपः सूर्यभात्सप्तमर्क्षे विद्युञ्च पञ्चमे । शूलोऽष्टमे च दशमे शानिरष्टादशे ततः ॥ १,५६.२३० ॥ केतुः पञ्चदशे दण्ड उल्का एकोनविंशतौ । निर्घातपातसंज्ञश्च ज्ञेयः स नवपञ्चमे ॥ १,५६.२३१ ॥ मोहनिर्घातकं पाश्च कुलिशं परिवेषणम् । विज्ञेया एकविंशर्क्षादारभ्य च यथाक्रमम् ॥ १,५६.२३२ ॥ चन्द्रयुक्तेषु भेष्वेषु शुभकर्म न कारयेत् । सूर्यभात्सर्वपित्र्यर्क्षं त्वाष्ट्रमित्रप्तभेषु च ॥ १,५६.२३३ ॥ सविषअणुभेषु क्रमशो हस्तभाञ्चन्द्रसंयुतः । धिष्ण्ये तावति सत्यत्र दुष्टयोगः पतत्यसौ ॥ १,५६.२३४ ॥ चण्डीशचण्डायुधाख्यस्तस्मिन्नैवाचरेच्छुभम् । त्रयोदश स्युर्मिलनसंख्यया तिथिवारयोः ॥ १,५६.२३५ ॥ क्रकचो नाम योगोऽयं मङ्गलेष्वतिगर्द्दितः । सप्तम्यामर्कवारश्चेत्प्रतिपत्सौम्यबासरे ॥ १,५६.२३६ ॥ संवतयोगो विज्ञेयः शुभकर्मविनाशकृत् । आनन्दः कालदण्डाख्यो धूम्रधातृसुधाकराः ॥ १,५६.२३७ ॥ ध्वाङ्क्षध्वजाख्यश्रीवत्सवज्रमुद्गरछत्रकाः । मित्रमानसपद्माख्यलुम्बकोत्पातमृत्यवः ॥ १,५६.२३८ ॥ काणसिद्धिशुभा मृत्युमुशलान्तकर्कुजराः । राक्षसाख्यवरस्थैर्यवर्द्धमानाः क्रमादमी ॥ १,५६.२३९ ॥ योगाः स्वसंज्ञाफलदा अष्टाविंशतिरीरिताः । रविवारे क्रमादेव दस्रभार्दिदुभाद्विधौ ॥ १,५६.२४० ॥ सार्पाद्धौमे पुधे हस्तान्मैत्रभात्सुरमन्त्रिणि । वैश्वदेवाद्भगुसुते वारुणाद्भास्करात्मजे ॥ १,५६.२४१ ॥ हस्तर्क्षं च खार्विदौ चन्द्रभं दस्रभं कुजे । सौम्ये मित्रभमाचार्यं तिष्यः पौष्णं भृगोः सुते ॥ १,५६.२४२। रोहिणी मन्दवारे च सिद्धियोगाह्वया अमी । आदित्यभौमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः ॥ १,५६.२४३ ॥ जयासौम्ये गुरौ रिक्ता शनौपूर्णेति नो शुभाः । नन्दा तिथिः शुक्रवारे सौम्ये भद्रा कुजे जया ॥ १,५६.२४४ ॥ रिक्ता मन्दे गुरोर्वारे पूर्णा सिद्धाह्वया अमी । एकादश्यामिन्दुवारो द्वादश्यामर्कवासरः ॥ १,५६.२४५ ॥ षष्टी गुरौ तृतीया ज्ञेऽष्टमी शुक्रे शनैश्चरे । नवमी पञ्चमी भौमे दग्धयोगाः प्रकीर्तिताः ॥ १,५६.२४६ ॥ भरण्यर्कदिने चन्द्रे चित्राभौमेतु विश्वभम् । बुधे श्रविष्टार्यमभे गुरौ ज्येष्टा भृगोर्दिने ॥ १,५६.२४७ ॥ रेवती मन्दवारे तु ग्रहजन्मर्क्षनाशनम् । विशाखादिचतुर्वर्गमर्कमर्कवारादिषु क्रमात् ॥ १,५६.२४८ ॥ उत्पातमृत्युकारणाख्यसिद्धियोगाः प्रकीर्तिताः । तिथिवारोद्भवा नेष्टा योगा वारर्क्षसंभवाः ॥ १,५६.२४९ ॥ हूणवङ्गखसेष्वन्यदेशेष्वतिशुभप्रदाः । घोराष्टाक्षीमहोदर्यो मन्दा मन्दाकिनी तथा ॥ १,५६.२५० ॥ मिश्रा राक्षसिका सूर्यवारादिषु यथाक्रमम् । शूद्रतस्करवैश्यक्ष्मादेवभूपगवां क्रमात् ॥ १,५६.२५१ ॥ अनुक्तानां च सर्वेषां घोराद्याः सुखदाः स्मृताः । पूर्वाह्ने नृपतीन्हन्ति विप्रान्मध्यन्दिने विशः ॥ १,५६.२५२ ॥ अपराह्नेऽस्तगे शूद्रान्प्रदोषे च पिशाचकान् । निशि रात्रिचरान्नाट्यकारानपररात्रिके ॥ १,५६.२५३ ॥ गोपानुषसि संध्यायां लिङ्गिनो रविसंक्रमः । दिवा चेन्मेषसंक्रान्तिरनर्थकलहप्रदा ॥ १,५६.२५४ ॥ रात्रौ सुभिक्षमतुलं संध्ययोर्वृष्टिनाशनम् । हरिशार्दूलवाराहखरकुञ्जरमाहिषाः । अश्वश्पवाजवृषाः पादायुधाः करणवाहनाः ॥ १,५६.२५५ ॥ भुशुडी च गदाखड्गौ दण्ड इषअवासतोमरौ ॥ १,५६.२५६ ॥ कुन्तपाशाङ्कुशास्त्रेषून्बिभर्ति करयोस्त्विनः । अन्नं च पायसं भैक्ष्यं सयूषं च पयो दधि ॥ १,५६.२५७ ॥ मिष्टान्नं गुडमध्वाज्यशर्करा ववतो हविः । ववोवीवणिजेविश्वां बालवे गोचरस्थितौ ॥ १,५६.२५८ ॥ कौलवे शकुनौ भानुः किंस्तुघ्ने चोर्द्धसंस्थितथः । चतुः पादे तिलेनागे सुप्तः क्रान्तिं करोति हि ॥ १,५६.२५९ ॥ धर्मायुर्वृष्टिषु समं श्रेष्ठं नष्टं फलं क्रमात् । आयुधं वाहनाहारौ यज्जातीयं जनस्य च ॥ १,५६.२६० ॥ स्वापोपविष्टास्तिष्ठन्तस्ते लोकाः क्षेममाप्नुयुः । अन्धकं मन्दसंज्ञं च मध्यसंज्ञं सुलोचनम् ॥ १,५६.२६१ ॥ पपीयाद्गणयोद्भानि रोहिण्यादिचतुर्विधम् । स्थिरभेष्वर्कसंक्रान्तिर्ज्ञेया विष्णुपदाह्वया ॥ १,५६.२६२ ॥ षडशीतिमुखा ज्ञेया द्विस्वभावेषु राशिषु । तुलाघटाजयोर्ज्ञेयो विषुवत्सूर्यसंक्रमः ॥ १,५६.२६३ ॥ याम्यायने स्थिरे त्वाद्याः पराः सौम्येन्दुमूर्तिभैः । मेध्या विषुवति प्रोक्ताः पुण्यनाड्यस्तु षोडश ॥ १,५६.२६४ ॥ संध्या त्रिनाडी प्रमितार्कबिंबोर्द्धोदयास्ततः । प्राक्पश्चाद्याम्यसौम्ये चेत्पुण्यं पूर्वांपरेऽहनि ॥ १,५६.२६५ ॥ यादृशेनेन्दुना भानोः संक्रान्तिस्तादृशं फलम् । नरः प्राप्नोति तद्राशौ शीतांशोः साध्वसाधु च ॥ १,५६.२६६ ॥ संक्रान्तेः परतो भानुर्भुक्त्वा यावद्भिरंशकैः । रवेरयनसंक्रान्तिस्तदा तद्राशिसंक्रमात् ॥ १,५६.२६७ ॥ सक्रान्तिग्रहगर्क्षंवा जन्मन्युभयपार्श्वयोः । व्रतोद्वाहादिकेष्वेव द्वयं नेष्टं तु तत्क्रमात् ॥ १,५६.२६८ ॥ तिलोपरिलिखेच्चक्रं त्रित्रिशूलं त्रिकोणकम् । तत्र हेम विनिक्षिप्य दद्याद्दोषापवृत्तयेः ॥ १,५६.२६९ ॥ ताराबलेन शीतांशुर्बलवांस्तद्वशाद्रविः । बली संक्रममाणस्तु तद्वत्खेटा बलाधिकाः ॥ १,५६.२७० ॥ शुभोर्ऽके जन्मतस्त्र्यायदशषट्सु मुनीश्वर । नवपञ्चांबुरिष्फस्थैर्व्यर्किभिर्विध्यते न चेत् ॥ १,५६.२७१ ॥ शुभो जन्मर्क्षतश्चन्द्रो द्यूनाङ्गायारिस्वत्रिषु । यथेष्टान्त्यांबुधर्मस्थैविबुधैर्विध्यते न चेत् ॥ १,५६.२७२ ॥ त्र्यायारिषु कुजः श्रेष्ठो जन्मना चेन्न विध्यते । व्ययेष्वङ्कस्थितैः सौरिसौम्यसूर्यैः शुभौषधात् ॥ १,५६.२७३ ॥ ज्ञः स्वायार्यष्टरवयिषु जन्मतश्चेन्न विधअयते । धीत्र्यकादिगजान्तस्थैः शशाङ्करहितैः शुभैः ॥ १,५६.२७४ ॥ जन्मराशेर्गुरुः श्रेष्ठः स्वायगोऽध्यस्तगो न चेत् । विध्यतेन्त्याष्टरवांबुत्रिगतैः रवैटैर्मुनीश्वरा ॥ १,५६.२७५ ॥ जन्मभादासुताष्टाङ्कान्त्यायेष्विष्टो भृगोःसुतः । चेन्न विद्धोऽष्टसप्ताङ्गं रवाङ्काद्यायारिरामगैः ॥ १,५६.२७६ ॥ न ददाति शुभं किञ्चिद्गोचरे वेधसंयुते । तस्माद्वेधं विचार्याथ कथनीयं शुभाशुभम् ॥ १,५६.२७७ ॥ वामभेदविधानेन दुष्टोऽपि स्याच्छुभङ्करः । सौम्येक्षितोऽनिष्टफलः शुभदः पापवीक्षितः ॥ १,५६.२७८ ॥ निष्फलौ तौ ग्रहौ स्वेन शत्रुणा च विलोकितौ । नीचराशिगतः स्वस्य शत्रोः क्षेत्रगतोऽपि वा ॥ १,५६.२७९ ॥ शुभाशुभफलं नैव दद्यादस्तमितोपि वा । ग्रहेषु विषमस्थेषु शान्तिं कुर्यात्प्रयत्नतः ॥ १,५६.२८० ॥ हानिर्वृद्धिर्ग्रहाधीना तस्मात्पूज्यतमा ग्रहाः । मणिर्मुक्ताफलं विद्रुमाख्यं मरक तं तथा ॥ १,५६.२८१ ॥ पुष्परागं तथा वज्रं नीलं गोमेदसंज्ञितम् । दूर्य्यं भास्करादीनां तुष्ट्य धार्यं यथाक्रमम् ॥ १,५६.२८२ ॥ शुक्लपक्षादिदिवसे चन्द्रो यस्य शुभप्रदः । स पक्षस्तस्य शुभदः कृष्णपक्षोन्यथाशुभः ॥ १,५६.२८३ ॥ शुक्लपक्षे शुभश्चन्द्रो द्वितीयनवपञ्चमे । रिःफरन्ध्रांबुसंस्थैश्चैन्न विद्धो गगने चरैः ॥ १,५६.२८४ ॥ जन्म संपद्विपत्क्षेम प्रत्यरिः साधको वधः । मित्रं परममित्रं च जन्मभात्तु पुनः पुन ॥ १,५६.२८५ ॥ जन्मत्रिपञ्चसप्ताख्यास्तारा नेष्ट फलप्रदाः । शाकं गुडं च लवणं सतिलं काञ्चनं क्रमात् ॥ १,५६.२८६ ॥ अनिष्टफलनाशाय दद्यादेतद्द्विजातये । कृष्णे बलवती तारा शुक्लपक्षे बलू शशी । चन्द्रस्य द्वादशावस्था राशौराशौ यथाक्रमम् ॥ १,५६.२८७ ॥ यात्रोद्वाहादिकार्येषु नामतुल्यफलप्रदाः । षष्टिघ्नं गतचन्द्रर्क्षं तत्कालघटिकान्वितम् । वेदघ्नमिषुवेदान्त्यमवस्था भानुभागतः ॥ १,५६.२८८ ॥ प्रवासनष्टाख्यमृता जयो हास्यं रतिमुदा । शिनिभुक्तिर्ज्वरः कंपः सुस्थितिर्नामसन्निभाःृ ॥ १,५६.२८९ ॥ पट्टबन्धनयानोग्रसंधिविग्रहभूषणम् । धात्वाकरं युद्धकर्म मेषलग्ने प्रसिद्ध्यति ॥ १,५६.२९० ॥ मङ्गलानि स्थिराण्यंवुवेश्मकर्मप्रवर्तनम् । कृषिवाणिज्यपश्वादिदुष्टलग्ने प्रसिद्ध्यति ॥ १,५६.२९१ ॥ कलाविज्ञानशिल्पानि भूषणाहवसंश्रवम् । गजोद्वाहाभिषेकाद्यं कर्त्तव्यं मिथुनोदये ॥ १,५६.२९२ ॥ वापीकूपतडागादि वारिबन्धनमोक्षणम् । पौष्टिकं लिपिलेखादि कर्तव्यं कर्कटोदये ॥ १,५६.२९३ ॥ इक्षुधान्यवणिक्पण्यकृषिसेवादयःस्थिरे । साहसाहवभूपाद्यं सिंहलग्ने प्रसिद्ध्यति ॥ १,५६.२९४ ॥ विद्याशिल्पौषधं कृत्यं भूषणं च चरस्थिरम् । कन्या लग्ने विधेयं च पौष्टिकाखिलमङ्गलम् ॥ १,५६.२९५ ॥ कृषिवाणिज्ययानं च पशूद्वाहव्रतादिकम् । तुलायामखिलं कर्म तुलाभाराश्रिते च यत् ॥ १,५६.२९६ ॥ स्थिरकर्माखिलं कार्यं राजसेवाभिषेचनम् । चौर्यकर्मस्थिरारंभाः कर्तव्या वृश्चिकोदये ॥ १,५६.२९७ ॥ व्रतोद्वाहप्रयाणाश्वगजशिल्पकलादिकम् । चरस्थिरविमिश्रं च कर्तव्यं कार्मुकोदये ॥ १,५६.२९८ ॥ चापबन्धनमोक्षास्त्रकृषिगोश्वादिकं यत् । प्रस्थानं पशुदासादि कर्तव्यं मकरोदये ॥ १,५६.२९९ ॥ कृषिवाणिज्यपश्वंबुशिल्पङ्कर्मकलादिकम् । जलपात्रास्त्राशस्त्रादि कर्तव्यं कलशोदये ॥ १,५६.३०० ॥ व्रतोद्वाहाभिषेकांबुस्थापनं सन्निवेशनम् । भूषणं जलपात्राश्वकर्म मीनोदये शुभम् ॥ १,५६.३०१ ॥ मेषादिषु क्लिग्नेषु शुद्धेष्वेवं प्रसिद्ध्यति । क्रूरग्रहेक्षितेषूग्रसंयुतेषूग्रमेव हि ॥ १,५६.३०२ ॥ गोयुग्मकर्ककन्यान्त्यतुलाचापधराः शुभाः । शुभर्क्षत्वाशुभासत्य इतरा पापराशयः ॥ १,५६.३०३ ॥ ग्रहयोगावलोकाभ्यां राशिर्धत्ते ग्रहोद्भवम् । फलं ताभ्यां विहीनोऽसौ स्वभावमुपसर्पति ॥ १,५६.३०४ ॥ आदौ संपूर्णफलदं मध्ये मध्यफलप्रदम् । अन्ते तुच्छफले लग्ने सर्वस्मिन्नेवमेव हि ॥ १,५६.३०५ ॥ सर्वत्र प्रथमं लग्नं कर्तुश्चन्द्रबलं ततः । कल्प्यामदिन्दौ बलिनि सप्तमे बलिनो ग्रहाः ॥ १,५६.३०६ ॥ चन्द्रस्य वलिमाधारमाधेय चान्यखेटकम् । आधारभूतेनाधेयं धीयते परिधिष्टिनम् ॥ १,५६.३०७ ॥ चेन्दिन्दुः शुभदः सर्वे ग्रहाः शुभफलप्रदाः । अशुभश्चेदशुभदा वर्जयित्वा धनाधिपम् ॥ १,५६.३०८ ॥ लग्नस्याभ्युदिता येंशास्तेष्वंशेषु स्थितो ग्रहः । लग्नोद्भवं फलं धत्ते धनातीतो द्वितीयकम् ॥ १,५६.३०९ ॥ एवं स्थानेषु शेषेषु चैवमेवं प्रकल्पयेत् । लग्नं सर्वगुणोपेतं लभ्यतेऽल्पैर्दिनैर्नो ॥ १,५६.३१० ॥ दोषाल्पत्वं गुणाधिक्यं बहु संततमिष्यते । दोषाद्दुष्टो हि कालस्तमपि मार्ष्टुं पितामहः ॥ १,५६.३११ ॥ अप्यशौचतुणाधिक्यं दोषान्यत्ते ततो हि ते । अमारिक्ताष्टमीषष्टीद्वादशीप्रतिपत्स्वपि ॥ १,५६.३१२ ॥ परिघस्य च पूर्वार्द्धं व्यतीपाते सवैधृतौ । संध्यासूपप्लवे विष्ट्यामशुभं प्रथमार्त्तवम् ॥ १,५६.३१३ ॥ रुग्णा पतिप्रिया दुःखी पुत्रिणी भोगमी तथा । पतिव्रता केशयुक्ता सूर्यवारादिषु क्रमात् ॥ १,५६.३१४ ॥ यामाग्निरौद्रभाग्ययाहिद्वीशेन्द्रादिह्युपद्विषाः । तारका न हिता मासा मधूर्जशुचिपौषकाः ॥ १,५६.३१५ ॥ भद्रा च संक्रमोनिद्रा रात्रिश्चन्द्रार्कयोर्ग्रहः । कुलटा पापभोगेषु निन्द्यर्क्षे निन्द्यवासरे ॥ १,५६.३१६ ॥ तिलाज्यदूर्वा जुहुयाद्गायत्र्याष्टशतं बुधः । सुवर्णगोतिलान्दद्यात्सर्वदोषापनुत्तये ॥ १,५६.३१७ ॥ आद्या निशश्चतस्रस्तु त्याज्या ह्यपि समाः परैः । ओजराश्यंशगे चन्द्रे लग्ने पुङ्ग्रहवीक्षिते ॥ १,५६.३१८ ॥ उपवीती युग्मतिथावनग्नः कामयेत्स्त्रियम् । पुत्रार्थी पुरुषशस्त्यक्त्वा पौष्णमूलाहिपित्र्यभम् ॥ १,५६.३१९ ॥ प्रसिद्धे प्रथमे गर्भे तृतीये वा द्वितीयके । मासे पुंसवनं कार्यं सीमन्तं च यथा तथा ॥ १,५६.३२० ॥ चतुर्थे मासि षष्टे वाप्यष्टमे वा तदीश्वरे । बलोपपन्ने दंपत्योश्चन्द्रताराबलान्विते ॥ १,५६.३२१ ॥ अरिक्तापर्वदिवसे कुजजीवार्कवासरे । तीक्ष्णमिश्रार्कवर्ज्येषु पुंभांशेरात्रिनायके ॥ १,५६.३२२ ॥ शुद्धेऽष्टमे जन्मलग्नात्तयोर्लग्ने न नैधने । शुभग्रहयुते दृष्टे पापदृष्टिविवर्जिते ॥ १,५६.३२३ ॥ शुभग्रहेषु धीधर्मकेन्द्रेष्वरिभवे त्रिषु । पापेषु सत्सु चन्द्रेत्यनिधनाद्यरिवर्जिते ॥ १,५६.३२४ ॥ क्रूरग्रहाणामेकोपि लग्नादन्त्यात्मजाष्टगः । सीमन्तिनीं वा तद्गर्भं बली हॄन्ति न संशयः ॥ १,५६.३२५ ॥ तस्मिञ्जन्ममुहूर्तेऽपि सूतकान्तेपि वा शिशोः । जातकर्म प्रकर्तव्यं पितृपूजनपूर्वकम् ॥ १,५६.३२६ ॥ सूतकान्ते नामकर्म विधेयं तत्कुलोचितम् । नामपूर्वं प्रशस्तं स्यान्मङ्गलैः सुसमीक्षितैः ॥ १,५६.३२७ ॥ देशकालोपघाताद्यैः कालातिक्रमणं यदा । अनस्तगे भृगावीज्ये तत्कार्ये चोत्तरायणे ॥ १,५६.३२८ ॥ चरस्थिरमृदुक्षिप्रनक्षत्रे शुभवासरे । चन्द्राताराबलोपेते दिवसे च शिशोः पितुः ॥ १,५६.३२९ ॥ शुभलग्ने शुभांशे च निधने शुद्धिसंयुते । षष्टे मास्यष्टमे वापि पुंसां स्त्रीणां तु पञ्चमे ॥ १,५६.३३० ॥ सप्तमे मासि वा कार्यं नवान्नप्रशनं शुभम् । रिक्तां दिनक्षयं नन्दां द्वादशीमष्टमीमथ ॥ १,५६.३३१ ॥ त्यक्त्वान्यतिथिषु प्रोक्तं प्रशनं शुभवासरे । चरस्थिरमृदुक्षिप्रनक्षत्रे शुभनैधने ॥ १,५६.३३२ ॥ दशमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके । पूर्वार्द्धे सौम्यखेटेन संयुक्ते वीक्षितेपि वा ॥ १,५६.३३३ ॥ त्रिषष्टलाभगैः क्रूरैः केन्द्रधीधर्मगैः शुभैः । व्ययारिनिधनस्थे च चन्द्रेऽन्नप्राशनं शुभम् ॥ १,५६.३३४ ॥ तृतीये पञ्चमे चाब्दे स्वकुलाचारतोऽपि वा । बालानां जन्मतश्चौलं स्वगृह्योक्तविधानतः ॥ १,५६.३३५ ॥ सौम्यायने नास्तगयोः सुरारिसुरमन्त्रिणोः । अपर्वरिक्तातिथिषु शुक्रेज्यज्ञेन्दुवासरे ॥ १,५६.३३६ ॥ दस्रादितीज्यचन्द्रेन्द्रपूषभानि शुभानि च । चौलकर्मणि हस्तक्षार्र्त्रीणित्रीणि च विष्णुभात् ॥ १,५६.३३७ ॥ पट्टबन्धनचौलान्नप्राशने चोपनायने । शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणि ॥ १,५६.३३८ ॥ अष्टमे शुद्धिसंयुक्तें शुभलग्ने शुभांशके । जन्माष्टमे न शीतांशौ षष्टाष्टान्त्यविवर्जिते ॥ १,५६.३३९ ॥ धनत्रिकोणकेन्द्रस्थैः शुभैस्त्र्यायारिगैः परैः । अभ्यक्ते सन्ध्ययोर्नारे निशि भुक्त्वा न वाहवे ॥ १,५६.३४० ॥ नोत्कटे भूषिते नैव याने न नवमेऽह्नि च । क्षौरकर्म महीपानां पञ्चमेपञ्चमेऽहनि ॥ १,५६.३४१ ॥ कर्तव्यं क्षोरनक्षत्रेऽप्यथ वास्योदये शुभम् । नृपविप्राज्ञया यज्ञे मरणे बन्धमोक्षणेम् ॥ १,५६.३४२ ॥ उद्वाहेऽखिलवारर्क्षतिथिषु क्षौरमिष्टदम् । कर्तव्यं मङ्गलेष्वादौ मङ्गलाय क्षुरार्पणम् ॥ १,५६.३४३ ॥ नवमे सप्तमे वापि पञ्चमे दिवसेऽपि वा । तृतीये बीजनक्षत्रे शुभवारे शुभोदये ॥ १,५६.३४४ ॥ सम्यग्गृहाण्यलङ्कृत्य वितानध्वजतोरणैः । आशिषो वाचनं कार्यं पुण्यं पुण्याङ्गनादिभिः ॥ १,५६.३४५ ॥ सहवादित्रनृत्याद्यैर्गत्वा प्रागुत्तरां दिशम् । तत्र मृदततस्तीक्ष्णा गृहीत्वा पुनरागतः ॥ १,५६.३४६ ॥ मृण्ययेऽप्यथवा वैणवेऽपि पात्रे प्रपूरयेत् । अनेकबीजसंयुक्तं तोयं पुष्पाभिशोभितम् ॥ १,५६.३४७ ॥ आधानादष्टमे वर्षे जन्मतो वाग्रजन्मनाम् । राज्ञा मेकादशे मैञ्जीबन्धनं द्वादशे विशाम् ॥ १,५६.३४८ ॥ जन्मतः पञ्चमे वर्षे वेदशास्त्ररिंशारदः । उपवीती यतः श्रीमान्कार्यं तत्रोपनायनम् ॥ १,५६.३४९ ॥ बालस्य बलहीनोऽपरि सितो जीवः शुभप्रदः । यथोक्तवत्सरे कार्यमनुक्ते नोपनायनम् ॥ १,५६.३५० ॥ दृश्यमानगुरौ शुक्रे शाखेशे चोत्तरायणे । वेदानामधिपा जीवशुक्रभौमबुधाः क्रमात् ॥ १,५६.३५१ ॥ शरद्ग्रीष्मवसंतेषु व्युत्क्रमात्तु द्विजन्मनाम् । मुख्यं साधारणं तेषां तपोमासादिपञ्चसु ॥ १,५६.३५२ ॥ स्वकुलाचारधर्मज्ञो माधमासे तु फल्गुने । विधिज्ञश्चार्थवांश्चैत्रे वेदवेदाङ्गपारगः ॥ १,५६.३५३ ॥ वैशाषे धनवान्वेन्दशास्त्रविद्याविशारदः । उपनीतो बलाढ्यश्च ज्येष्ठे विधिविदां वरः ॥ १,५६.३५४ ॥ शुक्लपक्षे द्वितीया च तृतीया पञ्चमी तथा । त्रयोदशी च दशमी सप्तमी व्रतबन्धने ॥ १,५६.३५५ ॥ श्रेष्ठा त्वेकादशी षष्टी द्वादश्यन्यास्तु मध्यमाः । कृथष्णे द्वित्रीषुसंख्याश्च तिथ्योऽन्या ह्यतिनिन्दिताः ॥ १,५६.३५६ ॥ धिष्णान्यर्कत्रयान्तेज्यरुद्रादित्युत्तराणि च । विष्णुत्रयांश्विमित्राब्जयोनिभान्युपनायने ॥ १,५६.३५७ ॥ जन्मभाद्दशमं कर्म संघातर्क्षं तु षोडशम् । अष्टादशं समुदयं त्रयोविंशं विनाशनम् ॥ १,५६.३५८ ॥ मानसं मानसं पञ्चविंशर्क्षं नाचरेच्छुभमेषु तु । आचार्यसौम्यकाव्यानां वाराः शस्ताः शशीनयोः ॥ १,५६.३५९ ॥ वारौ तु मध्यमौ चैव व्रतेऽन्यौ निन्दितौ मतौ । त्रिधा विभज्य दिवसं तत्रादौ कर्म दैविकम् ॥ १,५६.३६० ॥ द्वितीये मानुषं कार्यं तृतीये ःंशे च पैतृकम् । स्वनीचगे तदंशे वा स्वारिभे वा तदंशके ॥ १,५६.३६१ ॥ गुरुशिखिनोश्च शाखेशे कलाशीलविवर्जितः । स्वाधिशत्रुगृहस्थे वा तदंशस्थेऽथ वा व्रती ॥ १,५६.३६२ ॥ शाखेशे वा गुरौ शुक्रे महापातककृद्भवेत् । स्वोच्चसंस्थे तदंशे वा स्वराशौ राशिगे गणे ॥ १,५६.३६३ ॥ शाखेशे वा गुरौ शुक्रे केन्द्रगे वा त्रिकोणगे । अतीव धनवांश्चैव वेदवेदाङ्गपारगः ॥ १,५६.३६४ ॥ परमोच्चगते जीवे शाखेशे वाथ वा सते । व्रती विशुद्धे निधने वेदशास्त्रविशारदः ॥ १,५६.३६५ ॥ स्वाधिमित्रगृहस्थे वा तस्योञ्चस्थे तदंशगे । गुरौ भृगौ वा शाखेशे विद्याधनसमन्वितः ॥ १,५६.३६६ ॥ शाखाधिपतिवारश्च शाखाधिपबलं शिशोः । शआखाधिपतिलग्नं च दुर्लभं त्रितयं व्रते ॥ १,५६.३६७ ॥ तस्माद्वेद्वांशगे चन्द्रे व्रती विद्याविशारदः । पापांशगे वा दरिद्रो नित्यदुःखितः ॥ १,५६.३६८ ॥ श्रवणादिनि नक्षत्रे कर्कांशस्थे निशाकरे । तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान् ॥ १,५६.३६९ ॥ शुभलग्ने शुभांशे च नैधने शुद्धिसंयुते । लग्ने तु निधने सौम्यैः संयुते वा निरीक्षिते ॥ १,५६.३७० ॥ इष्टैर्जीवार्कचन्द्राद्यैः पञ्चभिर्बलिभिर्ग्रहै । स्थानादिबलसंपूर्णैश्चतुर्भिर्वा शुभान्वितैः ॥ १,५६.३७१ ॥ ईक्षन्नैवात्रैकविंशमहादोषविवर्जिते । राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः ॥ १,५६.३७२ ॥ शुभनवांशकगता ग्राह्यास्ते शुभराशयः । न कदाचित्कर्कटांशशुभेक्षितयुतोऽपि वा ॥ १,५६.३७३ ॥ तस्माद्गोमिथुनांशाश्च तुलाकन्यांशकाः शुभाः । एवंविधे लग्नगते नवांशे व्रतमीरितम् ॥ १,५६.३७४ ॥ त्रिषडायगतैः पापैः षडष्टान्त्यविवर्जितैः । शुभैः षष्टाष्टलग्नान्त्यवर्जितेन हिमांशुना ॥ १,५६.३७५ ॥ स्वोञ्चसंस्थोऽपि शीतांशुर्व्रतिनो यदि लग्नगः । न करोति शिशुं निःस्वं सर्वतः क्षयरोगिणम् ॥ १,५६.३७६ ॥ स्फूर्जिते केन्द्रगे भानौ व्रतिनां पितृनाशनम् । पञ्चदोषोनितं लग्नं शुभदं चोपनायने ॥ १,५६.३७७ ॥ विना वसंतऋतुना कृष्णपक्षे गलग्रहे । अनध्याये विष्टिषष्ट्योर्न तु सस्कारमर्हति ॥ १,५६.३७८ ॥ त्रयोदश्यादिचत्वारि सप्तम्यादिदिनत्रयम् । चतुर्थी वा शुभाः प्रोक्ता अष्टावेते गलग्रहाः ॥ १,५६.३७९ ॥ क्षुरिकाबन्धं वक्ष्ये नृपाणां प्राक्करग्रहात् । विवाहोक्तेषु मासेषु शुक्लपक्षेऽप्यनस्तगे ॥ १,५६.३८० ॥ जीवे शुक्रे च भूपुत्रे चन्द्रताराबलान्विते । मैञ्जीबन्धोक्ततिथिषु कुजवर्जितवासरे ॥ १,५६.३८१ ॥ नचेन्नवांशके कर्तुरष्टमोदयवर्जिते । शुद्धेऽष्टमे विधौ लग्ने षष्टाष्टान्त्यविवर्जिते ॥ १,५६.३८२ ॥ धनत्रिकोणकेन्द्रस्थैः शुभैस्त्र्यायारिगैः परैः । क्षुरिकाबन्धनं कार्यमर्चयित्वामरान्पितॄन् ॥ १,५६.३८३ ॥ अर्चयेत्क्षुरिकां सम्यग्देवतानां च सन्निधौ । ततः सुलग्ने बध्नीयात्कट्यां लक्षणसंयुताम् ॥ १,५६.३८४ ॥ आयामार्द्धाग्रविस्तारप्रमाणेनैवच्छेदयत् । तच्छेदखण्डान्यायाः स्युर्ध्वजाये रिपुनाशनम् ॥ १,५६.३८५ ॥ घूम्राये मरणं सिंहे जयः शुनि च रोगिता । धनलाभो वृषेऽत्यन्तं दुःखी भवति गर्दभे ॥ १,५६.३८६ ॥ गजायेऽत्यन्तसंप्रीतिर्ध्वाङ्क्षे वित्तविनाशनम् । खड्गपुत्रिकयोर्मानं गणयेत्स्वाङ्गुलेन तु ॥ १,५६.३८७ ॥ मानाङ्गुलेषु पर्यायामेकादशमितां त्यजेत् । शेषाणामगुलीनां च फलानि स्युर्यथाक्रमम् ॥ १,५६.३८८ ॥ पुत्रलाभः शत्रुवधः स्त्रीलाभो गमन शुभम् । अर्थहानिश्चार्थवृद्धिः प्रीति सिद्धिजयः स्तुतिः ॥ १,५६.३८९ ॥ स्थितो ध्वजे वृषाये वा नष्टाचेत्पूर्वतो व्रणम् । सिंहेगजे मध्यभागे त्वन्तभागे श्वकाकयोः ॥ १,५६.३९० ॥ धृम्रगर्द्दभयोर्नैव व्रणं श्रयोन्त्यभागगम् । अथोत्तरायणे शुक्रजीवयोर्द्दश्यमानयोः ॥ १,५६.३९१ ॥ द्विजातीनां गुरोर्गेहान्निवृत्तानां यतात्मनाम् । चित्रोत्तरादितीज्यान्त्यहरिमित्रविधातृषु ॥ १,५६.३९२ ॥ भेष्वर्केन्दुज्ञेज्यशुक्रवारलग्नांशकेषु च । प्रतिपत्पर्वरिक्ता मा चाष्टमी च दिनत्रयम् ॥ १,५६.३९३ ॥ हित्वान्यदिवसे कार्यं समावर्तनमुण्डनम् । सर्वाश्रमाणां विप्रेन्द्र ह्युत्तमोऽयं गृहाश्रमः ॥ १,५६.३९४ ॥ सुखं तत्रापि भामिन्यां शीलवत्यां स्थितं ततः । तस्याः सच्छीलर्ला धस्तु सुलग्नवशतः खलु ॥ १,५६.३९५ ॥ पितामहोक्तं संवीक्ष्य लग्नशुद्धिं प्रवच्म्यहम् । पुण्येऽह्निलक्षणोपेतं सुखासीनं सुचेतसम् ॥ १,५६.३९६ ॥ प्रणम्य देववत्पृच्छेर्द्दैवज्ञं भक्तिपूर्वकम् । तांबूलफलपुष्पाद्यैः पूर्णाञ्जलिरुपागतः ॥ १,५६.३९७ ॥ तत्र चेल्लग्नगः क्रूरस्तस्मात्सप्तमगः कुजः । दंपत्योर्मरण वाच्य वर्षाणामष्टकात्पुरा ॥ १,५६.३९८ ॥ यदि लग्नगतश्चन्द्रस्तस्मात्सप्तमगः कुजः । विज्ञेयं भर्तृमरणमष्टवर्षान्त्तरे बुधैःझ ॥ १,५६.३९९ ॥ लग्नात्पञ्चमगः पापः शत्रुदृष्टश्च नीचगः । मृतपुत्राथ वा कन्या कुलटा वा न संशयः ॥ १,५६.४०० ॥ तृतीयपञ्चसप्तायकर्मगो वा निशाकरः । लग्नात्करोति संबन्धं दंपत्योर्गुरुवीक्षितः ॥ १,५६.४०१ ॥ तुलागोकर्कटा लग्नसंस्थः शुक्रेन्दुसंयुताः । वीक्षिताः पृच्छतां नॄणां कन्यालाभो भवेत्तदा ॥ १,५६.४०२ ॥ स्त्रीद्रेष्काणः स्त्रीनवांशे युग्मलग्नं समागतम् । वीक्षितं चन्द्रशुक्राभ्यां कन्यालाभो भवेत्तदा ॥ १,५६.४०३ ॥ एवं स्त्रीणां भर्तृलब्धिः पुंलग्ने पुंनवांशके । पृच्छकस्य भवेल्लग्नं पुङ्ग्रहैरवलोकितम् ॥ १,५६.४०४ ॥ कृष्णपक्षे प्रश्नलग्नाद्यस्य राशी यदा । पापदृष्टोऽथ वा रन्ध्रे न संबन्धो भवेत्तदा ॥ १,५६.४०५ ॥ पुण्यैर्निमित्तशकुनैः प्रश्नकाले तु मङ्गलम् । दंपत्योरशुभैरेतैरशुभं सर्वतो भवेत् ॥ १,५६.४०६ ॥ पञ्चाङ्गशुद्धिदिवसे चन्द्रताराबलान्विते । विवाहभस्योदये वा कन्यावरणमन्वयैः ॥ १,५६.४०७ ॥ भूषणैः पुष्पतांबूलफलैर्गन्धाक्षतादिभिः । शुक्लांबरैर्गीतवाद्यैंर्विघ्नाशीर्वचनैः सह ॥ १,५६.४०८ ॥ कारयेत्कन्यकागेहे वरः प्रणवपूर्वकम् । तदा कुर्यात्पिता तस्याः प्रदानं प्रीतिपूर्वकम् ॥ १,५६.४०९ ॥ कुलशीलवयोरूपवित्तविद्यायुताय च । वराय च रूपवतीं कन्यां दद्याद्यवीयसीम् ॥ १,५६.४१० ॥ संपूज्य प्रार्थयित्वा च शचीं देवीं गुणाश्रयाम् । त्रैलोक्यसुन्दरीं दिव्यगन्धमाल्यांबरावृताम् ॥ १,५६.४११ ॥ सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम् । अनर्घमणिमालाभिर्भासयन्तीं दिगन्तरान् ॥ १,५६.४१२ ॥ विलासिनीसहस्राद्यैः सेवमानामहर्निशम् । एवंविधां कुमारीं तां पूजान्ते प्रार्थयेदिति ॥ १,५६.४१३ ॥ देवीन्द्राणि नमस्तुभ्यां देवेन्द्रप्रियभामिनि । विवाहे भाग्यमारोग्यं पुत्रलाभं च देहि मे ॥ १,५६.४१४ ॥ युग्मेऽब्दे जन्मतः स्त्रीणां पीतिदं पाणिपीडनम् । एतत्पुंसामयुग्मेऽब्दे व्यत्ययेनाशनं तयोः ॥ १,५६.४१५ ॥ माघफआल्गुनवैशाखज्येष्टमासाः शुभप्रदाः । मध्यमा कार्तिको मार्गशीर्षो वै निन्दिताः परे ॥ १,५६.४१६ ॥ न कदाचिद्वशर्क्षेषु भानोरार्द्राप्रवेशनात् । विवाहो देवतानां च प्रतिष्टां चोपनायनम् ॥ १,५६.४१७ ॥ नास्तङ्गते सिते जीवे न तयोर्बालवृद्धयोः । न गुरौ सिंहराशिस्थे सिंहांशकगतेपि वा ॥ १,५६.४१८ ॥ पश्चात्प्रागुदितः शुक्रो दशत्रिदिवसं शिशुः । बुद्धः पञ्चदिनं पक्षं गुरुः पक्षं च सर्वतः ॥ १,५६.४१९ ॥ अप्रबुद्धो हृषीकेशो यावत्तावन्न मङ्गलम् । उत्सवे वासुदेवस्य दिवसे नान्यमङ्गलम् ॥ १,५६.४२० ॥ न जन्ममासे जन्मर्क्षे न जन्मदिवसेऽपि च । आद्य गर्भसुतस्याथ दुहितुर्वा करग्रहः ॥ १,५६.४२१ ॥ नैवोद्वाहो ज्येष्ठपुत्रीपुत्रयोश्च परस्परम् । ज्येष्टमासे तयोरेकज्येष्ठे श्रेष्ठश्च नान्यथा ॥ १,५६.४२२ ॥ उत्पातग्रहणादूर्द्धं सप्ताहमखिलग्रहे । नाखिले त्रिदिनं नेष्टं त्रिद्युस्पृक्च क्षयं तथा ॥ १,५६.४२३ ॥ ग्रस्तास्ते त्रिदिनं पूर्वं पश्चाद्ग्रस्तोदयेऽथवा । संध्यायां त्रिदिनं तद्वन्निशीथे सप्त एव च ॥ १,५६.४२४ ॥ मासान्ते पञ्च दिवसांस्त्यजेद्रिक्तां तथाष्टमीम् । व्यतीपातं वैधृतिं च संपूर्णं परिघार्द्धकम् ॥ १,५६.४२५ ॥ पौष्णभत्र्युत्तरामैत्रमरुञ्चन्द्रार्कपित्र्यभैः । समूलभैरविद्धैस्तैः स्त्रीकरग्रह इष्यते ॥ १,५६.४२६ ॥ विवाहे बलमावश्यं दंपत्योर्गुरुसूर्ययोः । चेत्पूजा यत्नतः कार्या दुर्बल ग्रहयोस्तयोः ॥ १,५६.४२७ ॥ गोचरं वेधजं चाष्टवर्गजं रूपजं बलम् । यथोत्तरं बलाधिक्यं स्थूलं गोचरमार्गजम् ॥ १,५६.४२८ ॥ चन्द्रताराबलं वीक्ष्य ततः पञ्चाङ्गजं बलम् । तिथिरेकगुणा वारो द्विगुणस्त्रिगुणं च भम् ॥ १,५६.४२९ ॥ योगश्चतुर्गुणः पञ्चगुणं तिथ्यर्द्धसंज्ञितम् । ततो मनहूर्तो बलवांस्ततो लग्नं बलाधिकम् ॥ १,५६.४३० ॥ ततो बलवती होरा द्रेष्काणो बलवांस्ततः । ततो नवांशो बलवान्द्वादशांशो बली ततः ॥ १,५६.४३१ ॥ त्रिंशांशो बलवांस्तस्माद्वीक्ष्यमेतद्बलाबलम् । शुभेक्षितयुताः शस्ता उद्वाहेऽखिलराशयः ॥ १,५६.४३२ ॥ चन्द्रार्केज्यादयः पच यस्य राशेस्तुखेचराः । इष्टास्तच्छुभदं लग्नं चत्वारोऽपि बलान्विताः ॥ १,५६.४३३ ॥ जामित्रशुद्ध्यैकविंशन्महादोषविवर्जितम् । एकविंशतिदोषाणां नामरूपफलानि च ॥ १,५६.४३४ ॥ वक्ष्यन्तेऽत्र समासेन शृणु नारद सांप्रतम् । पञ्चाङ्गशुद्धिराहित्यं दोषस्त्वाद्यः प्रकीर्तितः ॥ १,५६.४३५ ॥ उदयास्तशुद्धिर्हानिर्द्वितीयः सूर्यसंक्रमः । तृतीयः पापषड्वर्गो भृगुः षष्टः कुजोऽष्टमः ॥ १,५६.४३६ ॥ गण्डान्तं कर्तरी रिषअफषडष्टेन्दुगतो ग्रहः । दंपत्योरष्टमं लग्नं राशिर्विषघटी तथा ॥ १,५६.४३७ ॥ दुर्मुहीर्तो वारदोषः खार्जूरिकसमाङ्घ्रिभम् । ग्रहणोत्पातभं क्रूरविद्धर्क्षं क्रूरसंयुतम् ॥ १,५६.४३८ ॥ कुनवांशो महापातो वैधृतिश्चैकविंशतिः । तिथिवारर्क्षयोगानां करणस्य च मेलनम् ॥ १,५६.४३९ ॥ पञ्चाङ्गमस्य शुद्धिस्तु पञ्चाङ्गशुद्धिरीरिता । यस्मिन्पञ्चाङ्गदोषोऽस्ति तस्मिंल्लग्ने निरर्थकम् ॥ १,५६.४४० ॥ त्यजेत्पञ्चैष्टिकं चापि विषसंयुक्तदुग्धवत् । लग्नलग्नांशकौ स्वस्वपतिना वीक्षितौ युतौ ॥ १,५६.४४१ ॥ न चेद्वान्योन्यपतिना शुभघमित्रेण वा तथा । वरस्य मृत्युः स्यात्ताभ्यां सप्तसप्तोदयांशकौ ॥ १,५६.४४२ ॥ एवं तौ न युतौ दृष्टौ मुत्युर्वध्वाः करग्रहे । त्याज्याः सूर्यस्य संक्रान्तेः पूर्वतः परतस्तथा ॥ १,५६.४४३ ॥ विवाहादिषु कार्येषु नाड्यः षोडशषोडशा । । षड्वर्गः शुभदः श्रेष्ठो विवाहसथापनादिषु ॥ १,५६.४४४ ॥ भृगुषष्ठाह्वयो दोषो लग्नात्षष्ठगते सिते । उच्चगे शुभसंयुक्ते तल्लग्नं सर्वदा त्यजेत् ॥ १,५६.४४५ ॥ कुजोऽष्टमो महादोषो लग्नादष्टमगे कुजे । शुभत्रययुतं लग्नं न त्यजेत्तुङ्गगो यदि ॥ १,५६.४४६ ॥ पूर्णानन्दाङ्ख्ययोस्तिथ्योः संधिर्नाडीद्वयं यदा । गण्डान्तं मृत्युदं जन्मयात्रोद्वाहव्रतादिषु ॥ १,५६.४४७ ॥ कुलीरसिंहयोः कीटचापयोर्मिनमेषयोः । गण्डातंमन्तरालं स्याद्धटिकार्द्धं मृतिप्रदम् ॥ १,५६.४४८ ॥ सार्पैन्द्रपौष्णोभेष्वन्त्यषोडशेशा भसंधयः । तदग्निमेष्वाद्यपादा भानां गण्डातसंज्ञकाः ॥ १,५६.४४९ ॥ उग्रं च संधित्रितयं गण्डातं त्रिविधं महत् । लग्नाभिमुखयोः पापग्रहयोरृजुवक्रयोः ॥ १,५६.४५० ॥ सा कर्तरीति विज्ञेया दंपत्योर्गलकर्तरी । कर्तरीयोगदुष्टं यल्लग्नं तत्परिवर्जयेत् ॥ १,५६.४५१ ॥ अपि सौम्यग्रहैर्युक्त गुणैः सर्वैः समन्वितम् । षडष्टरिष्फगे चन्द्रे लग्नदोषः स्वसंज्ञकः ॥ १,५६.४५२ ॥ तल्लग्नं वर्जयेद्यत्राज्जीवशुक्रसमन्वितम् । उच्चगे नीचगे वापि मित्रभे शत्रुराशिगे ॥ १,५६.४५३ ॥ अपि सर्वगुणोपेतं दंपत्योर्निधनप्रदम् । शशाङ्के ग्रहसंयुक्ते दोषः संग्रहसंज्ञकः ॥ १,५६.४५४ ॥ तस्मिन्संग्रहदोषे तु विवाहं नैव कारयेत् । सूर्येण संयुते चन्द्रे दारिद्यं भवति स्फुटम् ॥ १,५६.४५५ ॥ कुजेन मरणं व्याधिः सौम्येन त्वनपत्यता । दौर्भाग्यं गुरुणा युक्ते सापत्यं भार्गवेण तु ॥ १,५६.४५६ ॥ प्रव्रज्या सूर्यपुत्रेण राहुणा मूलसंक्षयः । केतुना संयुते चन्द्रे नित्यं कष्टं दरिद्रता ॥ १,५६.४५७ ॥ पापग्रहयुते चन्द्रे दंपत्योर्मरणं भवेत् । शुभग्रहयुते चन्द्रे स्वोच्चस्थे मित्रराशिगे ॥ १,५६.४५८ ॥ दोषायनं भवेल्लग्नं दंपत्योः श्रेयसे सदा । स्वोच्चगो वा स्वर्क्षगो वा मित्र क्षेत्रगतोपि वा ॥ १,५६.४५९ ॥ पापग्नहयुतश्चन्द्रः करोति मरणं तयोः । दंपत्योरष्टमं लग्नमष्टमो राशिरेव च ॥ १,५६.४६० ॥ यदि लग्नगतः सोपि दंपत्योर्मरणप्रदः । स राशिः शुभसंयुक्तो लग्नं वा शुभसंयुतम् ॥ १,५६.४६१ ॥ लग्नं विवर्जयेद्यत्नात्तदंशांशतदीश्वराम् । दंपत्योर्द्वादशं लग्नं राशिर्वा यदि लग्नगः ॥ १,५६.४६२ ॥ अर्थहानिस्तयोरस्मात्तदंशस्वामिनं त्यजेत् । जन्मराश्युदयश्चैव जन्मलग्नोदयः शुभः ॥ १,५६.४६३ ॥ तयोरुपचयस्थानं लग्नेत्यन्तशुभप्रदम् । खमार्गणा वेदपक्षाः खरामा वेदमार्गणाः ॥ १,५६.४६४ ॥ वह्निचन्द्रा रूपदस्राः खरामा व्योमबाहवः । द्विरामाः स्वाग्नंयः शून्यदस्राः कुञ्जरभूमयः ॥ १,५६.४६५ ॥ रूपपक्षा व्योमदस्रा वेदचन्द्राश्चतुर्द्दश । शून्यचन्द्रा वेदचन्द्रा षडृक्षा वेदबाहवः ॥ १,५६.४६६ ॥ शून्यदस्राः शून्यचन्द्राः पूर्णचन्द्रा गतेन्द्रवः । तर्कचन्द्रा वेदपक्षाः खरामाश्चाश्विभात्क्रमात् ॥ १,५६.४६७ ॥ आभ्याः परास्तु घटिकाश्चतस्रो विषसंज्ञिताः । विवाहादिषु कार्येषु विषनाडीं विवर्जयेत् ॥ १,५६.४६८ ॥ भास्करादिषु वारेषु ये मुहूर्ताश्च निन्दिताः । विवाहादिषु ते वर्ज्या अपिलक्षगुणैर्युताः ॥ १,५६.४६९ ॥ निहितावारदोषा ये सूर्यवारादिषु क्रमात् । अपि सर्वगुणोपेतास्ते वर्ज्याः सर्वमङ्गले ॥ १,५६.४७० ॥ एकार्गलाङ्घ्रितुल्यं यत्तल्लग्नं च विवर्जयेत् । अपिशुक्रेज्यसंयुक्तं विषसंयुक्तदुग्धवत् ॥ १,५६.४७१ ॥ ग्रहणोत्पातभं त्याज्यं मङ्गलेषु ऋतुत्रयम् । यावच्च शशिना भुक्त्वा मुक्तभं दग्धकाष्टवत् ॥ १,५६.४७२ ॥ मङ्गलेषु त्यजेत्शेटैर्विद्धं च क्रूरसंयुतम् । अखिलर्क्षं पञ्चगव्यं सुराबिन्दुयुतं तथा ॥ १,५६.४७३ ॥ पाद एव शुभैर्विद्धमशुभं नैव कृत्स्त्रभम् । क्रूरविद्धं युतं धिष्ण्यं निखिलं नैव मङ्गलम् ॥ १,५६.४७४ ॥ तुलामिथुनकन्यांशा धनुरन्त्यार्द्धसंयुताः । एते नवांशाः शुभदा वृषभस्यांशकाः खलु ॥ १,५६.४७५ ॥ अन्त्यांशास्तेपि शुभदा यदि वर्गोत्तमाह्वयाः । अन्ये नवांशा न ग्राह्या यतस्ते कुनवांशकाः ॥ १,५६.४७६ ॥ कुनवांशकलग्नं यत्त्याज्यं सर्वगुणान्वितम् । यस्मिन्दिने महापातस्तद्दिनं वर्जयेच्छुभे ॥ १,५६.४७७ ॥ अपि सर्वगुणोपेतं दम्पत्योर्मृत्युदं यतः । अनुक्ताः स्वल्पदोषाः स्युर्विद्युन्नीहारवृष्टयः ॥ १,५६.४७८ ॥ प्रत्यर्कपरिवेषेन्द्रचापांबुधरगर्जनाः । लत्तोपग्रहपाताख्या मासदग्धाह्वया तिथिः ॥ १,५६.४७९ ॥ दग्धलग्नान्धबधिरपङ्गुसंज्ञाश्च राशयः । एवमाद्यास्ततस्तेषां व्यवस्था क्रियतेऽधुना ॥ १,५६.४८० ॥ अकालजा भवन्त्येते विद्युन्नीहारवृष्टयः । दोषाय मङ्गले नूनमदोषायैव कालतः ॥ १,५६.४८१ ॥ बृहस्पतिः केन्द्रगतः शुक्रो वा यदि वा बुधः । एकोऽपि दोषनिचयं हरत्येव न संशयः ॥ १,५६.४८२ ॥ तिर्यक्पञ्चोर्द्धूगाः पञ्च रेखा द्वे द्वे च कोणयोः । द्वितीये शंभुकोणेऽग्निधिष्ण्यं चक्रे प्रविन्यसेत् ॥ १,५६.४८३ ॥ भान्यत्र साभिजित्येकरेखाखेटेन विद्धभम् । पुरतः पृष्टतोर्ऽकाद्या दिनर्क्षं लत्तयन्ति यत् ॥ १,५६.४८४ ॥ अर्काकृतिगुणाद्य्नङ्गबाणाष्टनवसंख्यभम् । सूर्यभात्सार्प्पपित्र्यान्त्यत्वाष्ट्रमित्रोडुविष्णुभम् ॥ १,५६.४८५ ॥ संख्याया दिनभेतावदश्विभात्पातदुष्टभम् । सौराष्ट्रे साल्वदेशे तु लत्तितं भं विवर्जयेत् ॥ १,५६.४८६ ॥ कलिङ्गवङ्गदेशेषु पातितं न शुभप्रदम् । बाह्लिके कुरुदेशे चान्यस्मिन्देशे न दूषणम् ॥ १,५६.४८७ ॥ तिथयो मासदग्धाश्च दग्धलग्नानि यान्यपि । मध्यदेशे विवर्ज्यानि न दृष्टानीतरेषु च ॥ १,५६.४८८ ॥ षङ्ग्वं धकाणलग्नानि मासशून्याश्च राशयः । गौडमालवयोस्त्याज्या अन्यदेशे न गर्हिताः ॥ १,५६.४८९ ॥ दोषदुष्टं सदा कालं सन्निमार्ष्टुं न शक्यते । अपि धातुरतो ग्राह्यं दोषाल्पत्वं गुणाधिकम् ॥ १,५६.४९० ॥ एवं सुलग्ने दंपत्योः कारयेत्सम्यगीक्षणम् । हस्तोच्छ्रितां चतुर्हस्तैश्चतुरस्रां समन्ततः ॥ १,५६.४९१ ॥ स्तंभश्चतुर्भिः सुश्लक्ष्णैर्वामभागे तु सन्नताम् । समण्डपां चतुर्दिक्षु सोपानैरतिशोभिताम् ॥ १,५६.४९२ ॥ प्रागुदक्प्रवणां रंभास्तंभैर्हंसशुकादिभिः । विचित्रितां चित्रकुंभैर्विविधैस्तोरणाङ्कुरैः ॥ १,५६.४९३ ॥ शृङ्गारपुष्पनिचयैर्वर्णकैः समलङ्कृताम् । विप्राशीर्वचनैः पुण्यस्रीभिर्दिव्यैर्मनोरमाम् ॥ १,५६.४९४ ॥ वादित्रनृत्यगीताद्यैर्हृदयानन्दिनीं शुभाम् । एवं विधां समारोहेन्मिथुनं स्वाग्निवेदिकाम् ॥ १,५६.४९५ ॥ अष्टधा राशिकूटं च स्वादूडुगणराशयः । राशीशयोनिर्वर्णाख्यऋतवः पुत्रपौत्रदाः ॥ १,५६.४९६ ॥ एकराशौ पृथग्दिष्ण्ये दंपत्योः पाणिपीजनम् । उत्तमं मध्यमं भिन्नं राश्यैकत्वं ययोस्तयोः ॥ १,५६.४९७ ॥ एकर्क्षे त्वेकराशौ हि विवाहः प्राणहानिदः । स्त्रीधिष्ण्यादाद्यनवके स्त्रीदूरमतिनिन्दितम् ॥ १,५६.४९८ ॥ द्वितीये मध्यमं श्रेष्ठं तृतीये नवके नृभम् । तिस्रः पूर्वोत्तरा धातृयाम्यमाहेशतारकाः ॥ १,५६.४९९ ॥ इति मर्त्यगणे ज्ञेयः स्यादमर्त्यगणः परः । हर्यादित्यार्कवाय्वन्त्यमित्राश्वीज्येन्दुतारकाः ॥ १,५६.५०० ॥ रक्षोगणः पितृत्वाष्ट्रद्विदैवाग्नीन्द्रतारकाः । वसुवारीशमूलाहितारकाभिर्युतास्ततः ॥ १,५६.५०१ ॥ दंपत्योर्जन्मभे चैकगणे प्रीतिरनेकधा । मध्यमा देवमर्त्यानां राक्षसानां तयोर्मृतिः ॥ १,५६.५०२ ॥ मृत्युः षष्टाष्टके पञ्चनवमे त्वनपत्यता । नैःस्व्य द्विर्द्वादशेऽन्येषु दंपत्योः प्रीतिरुत्तमा ॥ १,५६.५०३ ॥ एकाधिपे मित्रभावे शुभदं पाणिपीडनम् । द्विर्दादशे त्रिकोणे च न कदाचित्षडष्टके ॥ १,५६.५०४ ॥ अश्वेभमेषसर्पाहिह्योतुमेषोतुमूषकाः । आखुगोमहिषव्याघ्रकालीव्याघ्रमृगद्वयम् ॥ १,५६.५०५ ॥ श्वानः कपरिर्बभ्रुयुगे कपिसिंहतुरङ्गमाः । सिंहगोदन्तिनो भानां योनयः स्युर्यथाश्विभात् ॥ १,५६.५०६ ॥ श्वैणं बभ्ररगं मेषवानरौ सिंहवारणम् । गोव्याघ्रमाखुमार्जारं महिषाश्चं च शात्रवम् ॥ १,५६.५०७ ॥ झषालिकर्कटा विप्रास्त दूर्ध्वाः क्षत्रियादयः । पुंवर्णराशेः स्त्रीराशौ सतिहीने यथाशुभम् ॥ १,५६.५०८ ॥ चतुस्त्रिव्द्यङ्घ्रिभोत्थायाः कन्यायाश्चाश्विभात्क्रमात् । वह्निभादिन्दुभान्नाडीत्रिचतुःपञ्चपर्वसु ॥ १,५६.५०९ ॥ गणयेत्संख्यया चैकनाड्यां मृत्युर्न पार्श्वयोः । प्राजापत्यब्राह्मदैवा विवाहाश्चार्षसंयुताः ॥ १,५६.५१० ॥ उक्तकाले तु कर्तव्याश्चत्वारः फलदायकाः । गन्धर्वासुरपैशाचराक्षसाख्यास्तु सर्वदा ॥ १,५६.५११ ॥ चतुर्थमभिजिल्लग्नमुदयर्क्षाञ्च सप्तमम् । गोधूलिकं तदुभयं विवाहे पुत्रपौत्रदम् ॥ १,५६.५१२ ॥ प्राच्या न च कलिङ्गानां मुख्यं गोधूलिकं स्मृतम् । अभिजित्सर्वदेशेषु मुख्यो दोषविनाशकृत् ॥ १,५६.५१३ ॥ मध्यन्दिनगते भानौ मुहूर्तोऽभिजिदाह्वयः । नाशयत्यखिलान्दोषान्पिनाकी त्रिपुरं यथा ॥ १,५६.५१४ ॥ पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुत्रये । न तयोर्व्रतमुद्वाहान्मङ्गले नान्यमङ्गलम् ॥ १,५६.५१५ ॥ विवाहश्चैकजन्यानां षण्मासाभ्यन्तरे यदि । असंशयं त्रिभिर्वर्षैस्तत्रैका विधवा भवेत् ॥ १,५६.५१६ ॥ प्रत्युद्वाहो नैव कार्यो नैकस्मै दुहितृद्वयम् । न चैकजन्ययोः पुंसोरेकजन्ये तु कन्यके ॥ १,५६.५१७ ॥ नैवं कदाचिदुद्वाहो नैकदा मुण्डनद्वयम् । दिवाजातस्तु पितरं रात्रौ तु जननीं तथा ॥ १,५६.५१८ ॥ आत्मानं संध्ययोर्हन्ति नास्ति गण्डे विपर्ययः । सुतः सुता वा नियतं श्वसुरं हॄन्ति मूलजः ॥ १,५६.५१९ ॥ तदन्त्यपादजो नैव तथाश्लेषाद्यपादजः । ज्येष्टान्त्यपादजौ ज्येष्टं बालो हॄन्ति न बालिका ॥ १,५६.५२० ॥ न बालिकांबुमूलर्क्षे मातरं पितरं तथा । सैन्द्री धवाग्रजं हॄन्ति देवरं तु द्विदैवजा ॥ १,५६.५२१ ॥ आरभ्योद्वाहदिवसात्षष्टे वाप्यष्टमे दिने । वधूप्रवेश संपत्त्यैदशमे सप्तमे दिने ॥ १,५६.५२२ ॥ हायनद्वितयं जन्मभलग्नदिवसानपि । संत्यज्य ह्यतिशुक्रेऽपि यात्रा वैवाहिकी शुभा ॥ १,५६.५२३ ॥ श्रीप्रदं सर्वगीर्वाणस्थापनं चोत्तरायणे । गीर्वाणपूर्वगीर्वाणमत्रिणोर्दृश्यमानयोः ॥ १,५६.५२४ ॥ विचैत्रेष्वेव मासेषु माघादिषु च पञ्चसु । शुक्लपक्षेषु कृष्णेषु तदादिष्वष्टसु शुभम् ॥ १,५६.५२५ ॥ दिनेषु यस्य देवस्य या तितिस्तत्र तस्य च । द्वतीयादिद्वये पञ्चम्यादितस्तिसृषु क्रमात् ॥ १,५६.५२६ ॥ दशम्यादेष्चतसृषु पौर्णमास्यां विशेषतः । त्र्युत्तरादितिचन्द्रान्त्यहस्तत्रयगुरूडुषु ॥ १,५६.५२७ ॥ साश्विधातृजलाधीशहरिमित्रवसुष्वपि । कुजवर्जितवारेषु कर्तुः सूर्ये बलप्रदे ॥ १,५६.५२८ ॥ चन्द्रताराबलोपेते पूर्वाह्ने शोभने दिने । शुभलग्ने शुभांशे च कर्त्तुर्न निधनोदये ॥ १,५६.५२९ ॥ राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः । पञ्चाष्टके शुभे लग्ने नैधने शुद्धिसंयुते ॥ १,५६.५३० ॥ लग्नस्थाश्चन्द्रसूर्यारराहुकेत्वर्कसूनवः । कर्त्तुर्मृत्युप्रदाश्चान्ये धनधान्यसुखप्रदाः ॥ १,५६.५३१ ॥ द्वितीये नेष्टदाः पापाः सौम्याश्चन्द्रश्चः वित्तदाः । तृतीये निखिलाः खेटाः पुत्रपौत्रसुखप्रदाः ॥ १,५६.५३२ ॥ चतुर्थे सुखदाः सौम्याः क्रूराः खेटाश्च दुःखदाः । ग्लानिदाः पञ्चमे क्रूराः सौम्याः पुत्रसुखप्रदाः ॥ १,५६.५३३ ॥ षष्टे शुभाः शत्रुदाः स्युः पापाः शब्रुक्षयङ्कराः । व्याधिदाः सप्तमे पापाः सौम्याः शुभफलप्रदाः ॥ १,५६.५३४ ॥ अष्टमस्थाः खगाः सर्वेकर्तुर्मृत्युप्रदायकाः । धर्मे पापा घ्नन्ति सौम्याः शुभदा मङ्गलप्रदाः ॥ १,५६.५३५ ॥ कर्मगा दुःखदाः पापा सौम्याश्चन्द्रश्च कीर्तिदाः । लाभस्थानगताः सर्वे भूरिलाभप्रदा ग्रहाः ॥ १,५६.५३६ ॥ व्ययस्थानगताः शश्वद्बहूव्ययकरा ग्रहाः । हॄन्त्यर्थहीनाः कर्तारं मन्त्रहीनास्तु ऋत्विजम् ॥ १,५६.५३७ ॥ स्रियं लक्षणहीनास्तु न प्रतिष्टासमो रिपुः ॥ गुणाधिकतरे लग्ने दोषः स्वल्पतरो यदि ॥ १,५६.५३८ ॥ सुराणां स्थापनं तत्र कर्तुरिष्टार्थसिद्धिदम् । निर्माणायतनग्रामगृहादीनां समासतः ॥ १,५६.५३९ ॥ क्षेत्रमादौ परीक्षेत गन्धवर्णरसांशकैः । मधुपुष्पाम्लपिशितगन्धं विप्रानुपूर्वकम् ॥ १,५६.५४० ॥ सितं रक्तं च हरितं कृष्णवर्णं यथाक्रमम् । मधुरं कटुकं तिक्तं कषायकरसं क्रमात् ॥ १,५६.५४१ ॥ अत्यन्तवृद्धिदं नॄणामीशानप्रागुदग्प्लवम् । अन्यदिक्षु प्लवे तेषां शश्वदत्यन्तहानिदम् ॥ १,५६.५४२ ॥ समगर्तारत्निमात्रं खनित्वा तत्र पूरयेत् । अत्यन्तवृद्धिरधिके हीने हानिः समे समम् ॥ १,५६.५४३ ॥ तथा निशादौ तत्कृत्वा पानीयेन प्रपूरयेत् । प्रातर्दृष्टे जले वृद्धिः समं पङ्के क्षयः क्षये ॥ १,५६.५४४ ॥ एवं लक्षणसंयुक्तं सम्यक्क्षेत्रं समीक्ष्यते । दिक्साधनाय तन्मध्ये समं मण्डलमालिखेत् ॥ १,५६.५४५ ॥ द्वादशाङ्गुलकं शङ्कुं स्थाप्येक्षेत्तत्र दिक्त्रमम् । चतुरस्रीकृते क्षेत्रे षड्वर्गपरिशोधिते ॥ १,५६.५४६ ॥ रेखामार्गे च कर्त्तव्यं प्राकारं सुमनोहरम् । आयामेषु चतुर्दिक्षु प्रागादिषु च सत्स्वपि ॥ १,५६.५४७ ॥ अष्टावष्टौ प्रतिदिशं द्वाराणि स्युर्यथाक्रमम् । प्रदक्षिणक्रमात्तेषाममूनि च फलानि वै ॥ १,५६.५४८ ॥ हानिर्नैः ख्यन्धनप्राप्तिर्नृपपूजा महद्वनम् । अतिचौर्यमतिक्रोधो भीतिर्दिशि शचीपतेः ॥ १,५६.५४९ ॥ निधनं बन्धनं भीतिरर्थाप्तिर्द्धनवर्द्धनम् । अनान्तकं व्याधिभयं निःसत्त्वं दक्षिणादिशि ॥ १,५६.५५० ॥ पुत्रहानिः शत्रुवृद्धिर्लक्ष्मीप्राप्तिर्द्धनागमः । सौभाग्यमतिदौर्भाग्यं दुःखं शोकश्च पश्चिमे ॥ १,५६.५५१ ॥ कलत्रहानिर्निः सत्त्वं हानिर्द्धान्यधनागमः । संपद्वृद्धिर्मासभीतिरामयं दिशि शीतगोः ॥ १,५६.५५२ ॥ एवं गृहादिषु द्वारविस्ताराद्द्विगुणोच्छ्रितम् । पश्चिमे दक्षिणे वापि कपाटं स्थापयेद्गृहे ॥ १,५६.५५३ ॥ प्राकारान्तः क्षितिं कुर्यादेकाशीतिपदं यथा । मध्ये नवपदे ब्रह्मस्थानं तदतिनिन्दितम् ॥ १,५६.५५४ ॥ द्वात्रिंशदंशाः प्राकारसमीयांशाः समन्ततः । पिशाचांशे गृहारंभे दुःखशोकभयप्रदः ॥ १,५६.५५५ ॥ शेषाशाः स्युश्च निर्माणे पुत्रपौत्रधनप्रदाः । शिराः स्युर्वास्तुनोरेखा दिग्विदिग्मध्यसंभवाः ॥ १,५६.५५६ ॥ ब्रह्मभागाः पिशाचांशाः शिराणां यत्र संहतिः । तत्र तत्र विजानीयाद्वास्तुनो मर्मसंधयः ॥ १,५६.५५७ ॥ मर्माणि संधयो नेष्टाः स्वस्थेऽप्येवं निवेशने । सौम्यफआल्गुनवैशाखमाघश्रावणकार्तिकाः ॥ १,५६.५५८ ॥ मासाः स्युर्गृहनिर्माणे पुत्रारोग्यधनप्रदाः । अकारादिषु भाग्षु दिक्षु प्रागादिषु क्रमात् ॥ १,५६.५५९ ॥ खरोश्वोथ हरिः श्वाख्यः सपोखुगजशाशकाः । दिग्वर्गाणामियं योनिः स्ववर्गात्पञ्चमो रिपुः ॥ १,५६.५६० ॥ साध्यवर्गः पुरः स्थाप्य पृष्टतः साधकं न्यसेत् । व्यत्यये नाशनं तस्य ऋणमध्यं धनाच्छुभम् ॥ १,५६.५६१ ॥ आरभ्य साधकं घिष्ण्यं साध्यं यावच्चतुर्गुणम् । विभेजेत्सप्तभिः शेषं साधकस्य धनं तदा ॥ १,५६.५६२ ॥ विस्तार आयामगुणो गृहस्य पदमुच्यते । तस्माद्धनाधनायर्क्षवारांशाः संख्यया क्रमात् ॥ १,५६.५६३ ॥ धनाधिकं गृहं वृद्ध्यै ऋणाधिकमशोभनम् । विषमायः शुभघायैव समायो निर्धनाय च ॥ १,५६.५६४ ॥ घनक्षयस्तृतीयर्क्षे पञ्चमर्क्षे परः क्षयः । आत्मक्षयः सप्तमर्क्षे भवत्येव हि भर्तृभात् ॥ १,५६.५६५ ॥ द्विर्द्वादशो निर्धनाय त्रिकोणमसुताय च । षट्काष्टकं मृत्यवे स्याच्छुभदाराशयः परे ॥ १,५६.५६६ ॥ सूर्याङ्गारकवारांशा वैश्वानरभयप्रदाः । इतरे ग्रहवारांशाः सर्वकामार्थसिद्धिदाः ॥ १,५६.५६७ ॥ नभस्यादिषु मासेषु त्रिषु त्रिषु यथाक्रमम् । पूर्वादिकशिरोवामपार्श्वेशायाप्रदक्षिणम् ॥ १,५६.५६८ ॥ चराह्वयो वास्तुपुमान् चरत्येवं महोदरः । यद्दिङ्मुखो वास्तुपुमान् कुर्यात्तद्दिङ्मुखं गृहम् ॥ १,५६.५६९ ॥ प्रतिकूलमुखं गेहं रोगशोकभयप्रदम् । सबलो मुखगेहानामेष दोषो न विद्यते ॥ १,५६.५७० ॥ वृत्येटिकां स्वर्णरेणुधान्यशैवलसंयुतम् । गृहमध्ये हस्तमात्रे गर्ते न्यासाय विन्यसेत् ॥ १,५६.५७१ ॥ वस्त्वायामदलं नाभिस्तस्मादध्यङ्गुलत्रयम् । कुक्षिस्तस्मिन्न्यसेच्छङ्कुं पुत्रपौत्रविवर्धनम् ॥ १,५६.५७२ ॥ चतुर्विशत्रयोर्विंशत्षोडशद्वादशाङ्गुलैः । विप्रादीनां कुक्षिमानं स्वर्णवस्त्राद्यलङ्कृतम् ॥ १,५६.५७३ ॥ खदिरार्जुनशालोत्थं युगयन्त्रं तरूद्भघवम् । रक्तचन्दनपालाशरक्तशानविशालजम् ॥ १,५६.५७४ ॥ शकुं त्रिधा विभज्यान्द्यं चतुरस्रं ततः परम् । अष्टास्रं च तृतीयासौ मन्वस्रं मृदुमव्रणम् ॥ १,५६.५७५ ॥ एवं लक्षणसंयुक्तं परिकल्प्य शुभे दिने । षड्वर्गशुद्धिसूत्रेण सूत्रिते धरणीतले ॥ १,५६.५७६ ॥ मृदुध्रुवक्षिप्रभेषु रिक्तामावर्जिते दिने । व्यर्कारचरलग्नेषु पापे चाष्टमवर्जिते ॥ १,५६.५७७ ॥ नैधने शुद्धिसंयुक्ते शुभघलग्ने शुभांशके । शुभेक्षितेऽथ वा युक्ते लग्ने शङ्कुं विनिक्षिपेत् ॥ १,५६.५७८ ॥ पुण्याहघोषैर्वादित्रैः पुण्यपुण्याङ्गनादिभिः । स्वत्रिकेन्द्रत्रिकोणस्थैः शुभैस्त्र्यायारिगैः परैः ॥ १,५६.५७९ ॥ लग्नांशाष्टारिचन्द्रेण दैवज्ञार्चनपूर्वकम् । एकद्वित्रिचतुःशालाः सप्त शाला दशाह्वयाः ॥ १,५६.५८० ॥ ताः पुनः षड्विधाः शालाः प्रत्येकं दशषड्विधाः । ध्रुवं धान्यं जयं नन्दं खरः कान्तं मनोरमम् ॥ १,५६.५८१ ॥ सुमुखं दुर्मुखं क्रूरं शत्रुं स्वर्णप्रदं क्षयम् । आक्रन्दं विपुलाख्य च विजयं षोडशं गृहम् ॥ १,५६.५८२ ॥ गृहाणि गणयेदेवं तेषां प्रस्तारभेदतः । गुरोरघो लघुः स्थाप्यः पुरस्तादूर्ध्ववन्न्यसेत् ॥ १,५६.५८३ ॥ गुरुभिः पूरयेत्पश्चात्सर्वलध्ववधीर्विधिः । कुर्याल्लघुपदेऽलिन्दं गृहद्वारात्प्रदक्षिणम् ॥ १,५६.५८४ ॥ पूर्वादिगेष्वलिन्देषु गृहभेदास्तु षोडश । स्नानागारं दिशि प्राच्यामाग्नेय्यां पाकमन्दिरम् ॥ १,५६.५८५ ॥ याम्यां च शयनागारं नैरृत्यां शास्रमन्दिरम् । प्रतीच्यां भोजनगृहं वा यव्यां धान्यमदिरम् ॥ १,५६.५८६ ॥ कौबेर्यां देवतागारमीशान्यां क्षिरमन्दिरम् । शय्यामूत्रास्त्रतद्विच्च भोजनं मङ्गलाश्रयम् ॥ १,५६.५८७ ॥ धान्यस्त्रीभोगवित्तं च शृङ्गारायतनानि च ॥। ईशान्यादिक्रमस्तेषां गृहनिर्माणकं शुभम् ॥ १,५६.५८८ ॥ एतेष्वेतानि शस्त्राणि स्वं स्थाप्यानि स्वदिक्ष्वपि । ध्वजो धूम्रोथ सिंहः श्वा सौरमेयः खरो गजाः ॥ १,५६.५८९ ॥ ध्वाङ्क्षश्चैव भवन्त्यष्टौ पूर्वादिपाः क्रमादमी । प्लक्षोदुंबरचूताख्या निंबस्तु हि विभीतकाः ॥ १,५६.५९० ॥ य कटका दुग्धवृक्षा वृक्षाश्वत्थकपित्थकाः । अगस्तिसिंधुवालाख्यतिन्तिडीकाश्च निन्दिताः ॥ १,५६.५९१ ॥ पित्तवाग्रजदेहस्यात्पश्चिमे दक्षिणे तथा । गृहपादागृहस्तभाः समाः शस्ताश्च नासमाः ॥ १,५६.५९२ ॥ नात्युच्छ्रितं नातिनीचं कुड्योत्सेधं यथारुचि । गृहोपरि गृहादीनामेवं सर्वत्र चिन्तयेत् ॥ १,५६.५९३ ॥ गृहादीनां गृहश्रावं क्रमशोऽष्टविधं स्मृतम् । पाञ्चालमानं वैदेहं कौरवं च कुजन्यकम् ॥ १,५६.५९४ ॥ मागधं शूरसेनं च गान्धारावतिका स्मृतम् । सचतुर्भागविस्तारमुत्सेधं यत्तदुच्यते ॥ १,५६.५९५ ॥ पाञ्चालमातुलानां च ह्युत्तरोत्तरवृद्धितः । वैदेहादीन्यशेषाणि मानानि स्युर्यथाक्रमम् ॥ १,५६.५९६ ॥ पाञ्चालमानं सर्वेषां साधारणमतः परम् । अवन्तिमानं विप्राणां गान्धारं क्षत्रियस्य च ॥ १,५६.५९७ ॥ कौजन्यमानं वैश्यानां विप्रादीनां यथोत्तरम् । यथोदितं जलस्त्राव्यं द्वित्रिभूमिकवेश्मनाम् ॥ १,५६.५९८ ॥ उष्ट्रकुञ्जरशालानां ध्वजायेप्यथा वा गजे । पशुशालाश्च शालानां ध्वजायेप्यथ वा गजे ॥ १,५६.५९९ ॥ द्वारशय्याशनामत्रध्वजाः सिंहवृषध्वजाः । वास्तुपूजाविधिं वक्ष्ये नववेश्मप्रवेशने ॥ १,५६.६०० ॥ हस्तमात्रा लिखेद्रेखा दश पूर्वा दशोत्तराः । गृहमध्ये तण्डुलोपर्येकाशीतिपदं भवेत् ॥ १,५६.६०१ ॥ पञ्चोत्तरान्वक्ष्यमाणांश्चत्वरिंशत्सुरान् लिखेत् । द्वात्रिन्द्वाह्यतः पूज्यास्तत्रान्तःस्थास्रयोदश ॥ १,५६.६०२ ॥ तेषां स्थानानि नामानि वक्ष्यामि क्रमशोधुना । ईशानकोणतो बाह्यो द्वात्रिंशत्र्रिदशा अमी ॥ १,५६.६०३ ॥ कृपीटयोनिः पर्जन्यो जयन्तः पाकशासनः । सूर्यः शशी मृगाकाशौ वायुः पूषा च नैरृतिः ॥ १,५६.६०४ ॥ गृहाक्षतो दण्डधरो गान्धर्वो भृगुराजकः । मृगः पितृगणाधिशस्ततो दौवारि काह्वयः ॥ १,५६.६०५ ॥ सामः सूर्योऽदितिदिती द्वात्रिंशत्र्रिदशा अमी । अथेशानादिकोणस्थाश्चात्वारस्तत्समीपगाः ॥ १,५६.६०६ ॥ आपः सावित्रघसंज्ञश्च जयो रुद्रः क्रमादमी । एकान्तरा स्युः प्रागाद्याः परितो ब्रह्मणः स्मृताः ॥ १,५६.६०७ ॥ अर्यमा सविता बिंबविवत्त्कान्वक्तुधाधिपः । मित्रोथ राजयक्ष्मा च तथा पृथ्वीधराह्वयः ॥ १,५६.६०८ ॥ आपवत्सोऽष्टमः पञ्चचत्वारिंशत्सुरा अमी । आपश्चैवापवत्सश्च पर्जन्योऽग्निर्दितिः क्रमात् ॥ १,५६.६०९ ॥ यद्दिक्कानां च वर्गोऽयमेवं कोणेष्वशेषतः । तन्मध्ये विंशतिर्बाह्या द्विपदास्ते तु सर्वदा ॥ १,५६.६१० ॥ अर्यमा च विवस्वांश्च मित्रः पृथ्वी धराह्वयः । ब्रह्मणः पारितो दिक्षु चत्वारस्त्रिपदाः स्मृताः ॥ १,५६.६११ ॥ ब्रह्माणं च तथैकद्वित्रिपदानर्चयेत्सुरान् । वास्तुमन्त्रेण वास्तुज्ञो दूर्वादध्यक्षतादिभिः ॥ १,५६.६१२ ॥ ब्रह्ममन्त्रेण वा श्वेतवस्त्रयुग्मं प्रदापयेत् । आवाहनादिसर्वोपचारांश्च क्रमशस्तथा ॥ १,५६.६१३ ॥ नैवेद्यं त्रिविधान्नेन वाद्यैः सहसमर्पयेत् । ताम्बूलं च ततः कर्ता प्रार्थयेद्वास्तुपूरुषम् ॥ १,५६.६१४ ॥ वास्तुपुरुष नमस्तेऽस्तु भूशय्यानिरत प्रभो ॥ मद्गृहे धनधान्यादिसमृद्धं कुरु सर्वदा ॥ १,५६.६१५ ॥ इति प्रार्थ्य यथाशक्त्या दक्षिणामर्चकाय च । दद्यात्तदग्रे विप्रेभ्यो भोजनं च स्वशक्तितः ॥ १,५६.६१६ ॥ अनेन विधिना सम्यग्वास्तुपूजां करोति यः । आरोग्यं पुत्रलाभं च धनं धान्यं लभेन्नरः ॥ १,५६.६१७ ॥ अकृत्वा वास्तुपूजां यः प्रविशेन्नवमन्दिरम् । रोगान्नानाविधान्क्लेशानश्नुते सर्वसंकटम् ॥ १,५६.६१८ ॥ अकपाटमनाच्छन्नमदत्तबलिभोजनम् । गृहं न प्रविशेदेवं विपदामाकरं हि तत् ॥ १,५६.६१९ ॥ अथो यात्रा नृपादीनामभीष्टफलसिद्धये । स्यात्तथा तां प्रवक्ष्यामि सम्यग्विज्ञातजन्मनाम् ॥ १,५६.६२० ॥ अज्ञातजन्मनां नॄणां फलाप्तिर्घुणवर्णवत् । प्रश्नोदयनिमित्ताद्यैस्तेषामपि फलोदयः ॥ १,५६.६२१ ॥ षष्ट्यष्टमीद्वादशीषु रिक्तामापूर्णिमासु च । यात्रा शुक्लप्रतिपदि निर्द्धनाय क्षयाय च ॥ १,५६.६२२ ॥ मैत्रादितीन्द्वार्कान्त्याश्विहागितिष्यवसूडुषु । असप्तपञ्चत्र्याद्येषु यात्राभीष्टफलप्रदाः ॥ १,५६.६२३ ॥ न मन्देन्दुदिने प्राचीं न व्रजेद्दक्षिणं गुरौ । सितार्कयेर्न प्रतीचीं नोदीचीं ज्ञारयोर्द्दिने ॥ १,५६.६२४ ॥ इन्द्राजपादचतुरास्यार्यमर्क्षाणि पूर्वतः । शूलानि सर्वद्वाराणि मित्रार्केज्याश्वभानि च ॥ १,५६.६२५ ॥ क्रमाद्दिग्द्वारभानि स्युः सप्तसप्ताग्निधिष्ण्यतः । परिघं लङ्घयेद्दण्डं नाग्निश्वसनर्दिग्गमम् ॥ १,५६.६२६ ॥ आग्नेयं पूर्वदिग्धिष्ण्यैर्विदिशश्चैवमेव हि । दिग्राशयस्तु क्रमशो मेषाद्याश्च पुनः पुनः ॥ १,५६.६२७ ॥ दिगीश्वरे ललाटस्थे यातुर्न पुनरागमः । लग्नस्थो भास्करः प्राच्यां दिशि यातुर्ललाटगः ॥ १,५६.६२८ ॥ द्वादशैकादशः शुक्रोऽप्याग्नेय्यान्तु ललाटगः । दशमस्थः कुजो लग्नाद्याभ्यां यातुर्ललाटगः ॥ १,५६.६२९ ॥ नवमाष्टमगो राहुर्नैऋत्यां तु ललाटगः । लग्नात्सप्तमगः सौरिः प्रतीच्यां तु ललाटगः ॥ १,५६.६३० ॥ षष्टः पञ्चमगश्चन्द्रो वायव्यां च ललाटगः । चतुर्थस्थानगः सौम्यश्चोत्तरस्यां ललाटगः ॥ १,५६.६३१ ॥ द्वित्रिस्थानगतो जीव ईशान्यां वै ललाटगः । ललाटं तु परित्यज्य जीवितेच्छुर्व्रजेन्नरः ॥ १,५६.६३२ ॥ विलोमगो ग्रहो यस्य यात्रालग्रोपगो यदि । तस्य भङ्गप्रदो राज्ञस्त द्वर्गोऽपि विलग्नगः ॥ १,५६.६३३ ॥ रवीन्द्वयनयोर्यातमनुकूलं शुभप्रदम् । तदभावे दिवारात्रौ यायाद्यातुर्वधोऽन्यथा ॥ १,५६.६३४ ॥ मूढे शुक्रे कार्यहानिः प्रतिशुक्रे पराजयः । प्रतिशुक्रकृतं दोषं हॄन्तुं शक्ता ग्रहा न हि ॥ १,५६.६३५ ॥ वासिष्टकाश्यपेयात्रिभारद्वाजाः सगौतमाः । एतेषां पञ्चगोत्राणां प्रतिशुक्रो न विद्यते ॥ १,५६.६३६ ॥ एकग्रामे विवाहे च दुर्भिक्षे राजविग्रहे । द्विजक्षोभे नृपक्षोभे प्रतिशुक्रो न विद्यते ॥ १,५६.६३७ ॥ नीचगोऽरिगृहस्थो वा वक्रगो वा पराजितः । यातुर्भङ्गप्रदः शुक्रः स्वोञ्चस्थश्चेज्जयप्रदः ॥ १,५६.६३८ ॥ स्वाष्टलग्नेष्टराशौ वा शत्रुभात्त्वष्टमेपि वा । तेषामीशस्थराशौ वा यातुर्मृत्युर्न संशयः ॥ १,५६.६३९ ॥ जन्मेषाष्टमलग्नेशौ मिथो मित्रे व्यवस्थितौ । जन्मराश्यष्टमर्क्षोत्थदोषा नश्यन्तिं भाक्तः ॥ १,५६.६४० ॥ क्रूरग्रहेक्षितो युक्तो द्विःस्वभावोऽपि भङ्गदः । याने स्थिरोदये नेष्टो भव्ययुक्तेक्षितः स्वयम् ॥ १,५६.६४१ ॥ वस्वन्त्यार्द्धादिपञ्चर्क्षे संग्रहं तृणकाष्टयोः । याम्यदिग्गमनं शय्या न कुर्याद्गेहगोपनम् ॥ १,५६.६४२ ॥ जन्मोदये जन्मभे वा तयोरीशस्यभेपि वा । ताभ्यां तयोरिकेन्द्रेषु यातुः शत्रुक्षयो भवेत् ॥ १,५६.६४३ ॥ शीर्षोदये लग्नगते दिग्लग्ने लग्नगोपि वा । शुभवार्गोथ वा लग्ने यातुः शत्रुक्षयस्तदा ॥ १,५६.६४४ ॥ शत्रुजन्मोदये जन्मराशेर्वा निधनोदये । तयोरीशस्थिते राशौ यातुः शत्रुक्षयो भवेत् ॥ १,५६.६४५ ॥ वक्रः पन्था मीनलग्ने यातुर्मीनांशकेपि वा । निन्द्यो निखिलयात्रासु घटलग्नो घटांशकः ॥ १,५६.६४६ ॥ जललग्नो जलांशो वा जलयोनेः शुभावहः । मूर्तिः कोशो धन्विनश्च वाहनं मन्त्रसंज्ञकम् ॥ १,५६.६४७ ॥ शत्रुमार्गस्तथायुश्च मनोव्यापारसंज्ञिकम् । प्राप्तिरप्राप्तिरुदयाद्भावाः स्युर्द्वादशैव ते ॥ १,५६.६४८ ॥ घ्नन्ति क्रूरास्त्र्याप्तिवर्गं भावान्सूर्यमहीसुतौ । न निघ्नतो हि व्यापारं सौम्याःढ पुष्णन्त्यरिं विना ॥ १,५६.६४९ ॥ शुक्रोऽस्तं च न पुष्णाति मूर्तिं मृत्युं च चन्द्रमाः । याम्यदिग्गमनं त्यक्त्वा सर्वकाष्ठासु यायिनाम् ॥ १,५६.६५० ॥ अभिजित्क्षणयोगोऽयमभीष्टफलसिद्धिदः । पञ्चाङ्गशुद्धिरहिते दिवसेऽपि फलप्रदः ॥ १,५६.६५१ ॥ यात्रायोगा विचित्रास्तान्योगान्वक्ष्ये यतस्ततः । फलसिद्धिर्यागलग्नाद्राज्ञां विप्रश्य धिष्ण्यतः ॥ १,५६.६५२ ॥ मुहूर्तशक्तितोऽन्येषां शकुनैस्तस्करस्य च । केन्द्रत्रिकोणे ह्येकेन योगः शुक्रज्ञसूरिणाम् ॥ १,५६.६५३ ॥ अधियेगो भवेद्द्वाभ्यां त्रिभिर्योगाधियोगकः । योगेऽपि यायिनां क्षेममधियोगे जयो भवेत् ॥ १,५६.६५४ ॥ योगाधियोगे क्षेमं च विजयार्थविभूतयः । व्यापारशत्रुमूर्तिस्थैश्चन्द्रमन्ददिवाकरैः ॥ १,५६.६५५ ॥ रणे गतस्य भूपस्य जयलक्ष्मीः प्रमाणिका । शुक्रार्कज्ञार्किभौमेषु लग्नाध्वस्तत्रिशत्रुषु ॥ १,५६.६५६ ॥ गतस्याग्रे वैरिचमृर्वह्नौ लाक्ष्वे लीयते । लग्नस्थे त्रिदशाचार्ये धनायस्थैः परग्रहैः ॥ १,५६.६५७ ॥ गतस्य राज्ञोऽरिसेना नीयते यममन्दिरम् । लग्ने शुक्रे रवौ लाभे चन्द्रे बन्धुस्थिते यदा ॥ १,५६.६५८ ॥ गतो नृपो रिपून्हॄन्ति केसरीवेभसंहतिम् । स्वोच्चसंस्थे सिते लग्ने स्वोच्चे चन्द्रे च लाभगे ॥ १,५६.६५९ ॥ हॄन्ति यातोऽरिष्टतनां केशवःपूतनामिव । त्रिकोणे केन्द्रगाः सौम्याः क्रूरास्त्र्यायारिगा यदि ॥ १,५६.६६० ॥ यस्य यातेरलक्ष्मीस्तमुपैतीवाभिसारिका । जीवार्कचन्द्रा लग्नारिरन्ध्रगा यदि गच्छतः ॥ १,५६.६६१ ॥ तस्याग्रे खलमैत्रीव न स्थिरा रिपुवाहिनी । त्रिखडायेषु मन्दारौ बलवन्तः शुभा यदि ॥ १,५६.६६२ ॥ यात्रायां नृपतस्तस्य हस्तस्था शत्रुमेदिनी । स्वोञ्चस्थे लग्नगे जीवे चन्द्रे लाभगते यदि ॥ १,५६.६६३ ॥ गतो राजा रिपून्हति पिनाकी त्रिपुरं यथा । मस्तकोदयगेशुक्र लग्नस्थे लाभगे गुरौ ॥ १,५६.६६४ ॥ गतो राजा रिपून्हॄन्ति कुमारस्तारकं यथा । जीवं लग्नगते शुक्रे केन्द्रे वापि त्रिकोणगे ॥ १,५६.६६५ ॥ गतो दहत्यरीव्राजा कृष्णवर्त्मा यथा वनम् । लग्नगे ज्ञे शुभे केन्द्रे धिष्ण्ये चोपकुले गतः ॥ १,५६.६६६ ॥ नृपाः शुष्यन्त्यरीन् ग्रीष्मे ह्रदिनीं वार्करश्मयः । शुभि त्रिकोणे केन्द्रस्थे लाभे चन्द्रेऽथवा रवी ॥ १,५६.६६७ ॥ शत्रून्हन्ति गतो राजा ह्यन्धकारं यथा रविः । स्वक्षेत्रगे शुभे कद्रे त्रिकोणोयगते गतः ॥ १,५६.६६८ ॥ विनाशयत्यरीत्राजा तृलराशिमिवानलः । इन्दौ स्वस्थे गुरौ केन्द्रे मन्त्रः सप्रणवो गतः ॥ १,५६.६६९ ॥ नॄपो हॄन्ति रिपून्सर्वान्पापान्पञ्चाक्षरो यथा । वर्गोत्तमगते शुक्रेऽप्येवस्मिन्नेव लग्नगे ॥ १,५६.६७० ॥ हरिस्मृतिर्यथाघौघान्हॄन्ति शत्रून् गतो नृपः । शुभे केन्द्रे त्रिकोणस्थे चन्द्रे वर्गोत्तमे गतः ॥ १,५६.६७१ ॥ सगोत्रारीन्नृपान् हॄन्ति यथा गोत्रांश्चगोत्रभित् । मित्रभेऽथ गुरौ केन्द्रे त्रिकोणस्थेऽथ वा सिते ॥ १,५६.६७२ ॥ शत्रून्हॄन्ति गतो राजा भुजङ्गान् गरुडो यथा । शुभकद्रत्रिकोणस्थे वर्गोत्तमगते गतः ॥ १,५६.६७३ ॥ विनाशयत्यरीन्राजा पापान्भागीरथी यथा । ये नृपा यान्त्यरीञ्जेतुं तेषां योगैर्नृपाह्वयैः ॥ १,५६.६७४ ॥ उपैति शान्तिं कोपाग्निः शत्रुयोषाश्रुबिन्दुभिः । बलक्षयपक्षदशमीमासीषे विजयाभिधा ॥ १,५६.६७५ ॥ विजयस्तत्र यातॄणां सधिर्वा न पराजयः । निमित्तशकुनादिभ्यः प्रधानं हि मनोदयः ॥ १,५६.६७६ ॥ तस्मान्मनस्विनां यत्नात्फलहेतुर्मनोदयः । उत्सवोपनयोद्वाहप्रतिष्टाशौचसूतके ॥ १,५६.६७७ ॥ असमाप्ते न कुर्वीत यात्रां मर्त्यो जिजीविषुः । महिषोन्दुरयोर्युद्धे कलत्रकलहार्त्तवे ॥ १,५६.६७८ ॥ वस्त्रादेः स्खलिते क्रोधे दुरुक्ते न व्रजेन्नृपः । घृतान्नं तिलपिष्टान्नं मत्स्यान्नं घृतपायसम् ॥ १,५६.६७९ ॥ प्रागादिक्रमशो भुक्त्वा याति राजा जयत्यरीन् । सज्जिका परमान्नं च काञ्जिक च पयो दधि ॥ १,५६.६८० ॥ क्षीरं तिलोदनं भुक्त्वा भानुवारादिषु क्रमात् । कुल्माषांश्च तिलान्नं च दधि क्षौद्रं घृतं पयः ॥ १,५६.६८१ ॥ मृगमांसं च तत्सारं पायसं च खगं मृगम् । शशमांसं च षाष्टिक्यं प्रियगुङ्कमपूपकम् ॥ १,५६.६८२ ॥ चित्राण्डजपलं कूर्मश्वाविद्गोधांश्च शास्वकम् । हविष्यं कृशरान्नं च मुद्गान्नं यवपिष्टिकम् ॥ १,५६.६८३ ॥ मत्स्यान्नं च विचित्रान्नं दध्यन्नं दस्रभात्क्रमात् । भुक्त्वा राजेभाश्वरथनरैर्याति जयत्यरीन् ॥ १,५६.६८४ ॥ हुताशनं तिलैर्हुत्वा पूजयेत दिगीश्वरम् । प्रणम्य देवभूदेवानाशीर्वादैर्नृपो व्रजेत् ॥ १,५६.६८५ ॥ यद्वर्णवस्रगन्धाद्यैस्तन्मन्त्रेण विधानतः । इन्द्रमैरावतारूढं शच्या सह विराजितम् ॥ १,५६.६८६ ॥ वज्रपाणिं स्वर्णवर्णं दिव्याभरणभूषितम् । सप्तहस्तं सप्तजिह्वं षण्मुखं मेषवाहनम् ॥ १,५६.६८७ ॥ स्वाहाप्रिये रक्तवर्णं स्रुकूस्रुवायुधधारिणम् । दण्डायुधं लोहितार्क्षं यमं महिषवाहनम् ॥ १,५६.६८८ ॥ श्यामलं सहितं रक्तवर्णैरूर्द्ध्वमुखं शुभम् । खड्गचर्मधरं नीलं निरृतिं नखाहनम् ॥ १,५६.६८९ ॥ उर्द्ध्वकेशं विरूपाक्षं दीर्घग्रीवायुतं विभुम् । नागपाशधरं पीतवर्णं मकरवाहनम् ॥ १,५६.६९० ॥ वरुणं कालिकानाथं रत्नाभरणभूषितम् । प्राणिनां प्राणरूपं तं द्विबाहुं दण्डपाणिकम् ॥ १,५६.६९१ ॥ वायुं कृष्णमृगारूढं पूजयेदञ्जनीपतिम् । अश्वारूढं कुंभपाणिं द्विबाहुं स्वर्णसन्निभम् ॥ १,५६.६९२ ॥ कुबेरं चित्रलेखेशं यक्षगन्धर्वनायकम् । पिनाकिनं वृषारूढं गौरीपतिमनुत्तम् ॥ १,५६.६९३ ॥ श्वेतवर्णं चन्द्रमौलिं नागयज्ञोपवीतिनम् । अप्रयाणे स्वयं कार्या प्रेक्षया भूभुजस्तथा ॥ १,५६.६९४ ॥ कार्यं निगमनं छत्रं ध्वजशस्त्रास्त्रवाहनैः । स्वस्थानान्निर्गमस्थानं दडानां च शतन्द्वयम् ॥ १,५६.६९५ ॥ चत्वारिंशद्द्वादशैव प्रस्थितः स स्वयं गतः । दिनान्येकत्र न वसेत्सप्तष्ट्वा परो जनः ॥ १,५६.६९६ ॥ पञ्चरात्रं च पुरतः पुनर्लग्नान्तरे व्रजेत् । अकालजेषु नृपतिर्विद्युद्गर्जितवृष्टिषु ॥ १,५६.६९७ ॥ उत्पातेषु त्रिविधेषु सप्तरात्रं तु न व्रजेत् । स्न्ताकुड्यशिवाकाककपोतानां गिरस्तथा ॥ १,५६.६९८ ॥ झझेभुखेमवक्षीरस्वराणां वामतो गतिः । पीतकारभरद्वाजपभिणां दक्षिणा गतिः ॥ १,५६.६९९ ॥ चाषं त्यक्त्वा चतुष्पात्तु शुभदावामतो मताः । कृष्णं त्यक्त्वा प्रयाणे तु कृकलासेन वीक्षितः ॥ १,५६.७०० ॥ वाराहशशगोधास्तु सर्पाणां कीर्तनं शुभम् । हृतेक्षणं नेष्टमेवाव्यपत्ययं कपिऋक्षयोः ॥ १,५६.७०१ ॥ मयूरच्छागनकुलचाषपारावताः शुभाः । दृष्टमात्रेण यात्रायां व्यस्तं सर्वं प्रवेशने ॥ १,५६.७०२ ॥ यात्रासिद्धिर्भवेद्दृष्टे शवेरादनवजिते । प्रवेशे रोदनयुतः शवः शवप्रदस्तथा ॥ १,५६.७०३ ॥ पतितक्लीबजटिलमत्तवान्तौषधादिभिः । अभ्यक्तवसास्थिचर्माङ्गारदारुणरोगिभिः ॥ १,५६.७०४ ॥ गुडकार्पासलवणरिपुप्रश्नतृणोरगैः । वन्ध्याकुञ्जककाषायमुक्तकेशबुभुक्षितैः ॥ १,५६.७०५ ॥ प्रयाणसमये नग्नैर्द्दृष्टैः सिद्धिर्न जायते । प्रज्वलाग्नीन्सुतुरगनृपासनपुराङ्गनाः ॥ १,५६.७०६ ॥ गन्धपुषअपाक्षतच्छत्रचामरान्दोलिकं नृपः । भक्ष्येक्षुफलमृत्स्नान्नमध्वाज्यदधिगोदयाः ॥ १,५६.७०७ ॥ मद्यमांससुधाधौतवस्त्रशङ्खवृषध्वजाः । पुण्यस्त्रीपुण्यकलशरत्नभृङ्गारगोद्विजाः ॥ १,५६.७०८ ॥ भेरीमृदङ्गपटहघण्टावीणादिनिःस्वनाः । वेदमङ्गलघोषाः स्युः या यिनां कार्यसिद्धिदाः ॥ १,५६.७०९ ॥ आदौ विरुद्धशकुनं दृष्ट्वा यायीष्टदेवताम् । स्मृत्वा द्वितीये विप्राणां कृत्वा पूजां निवर्तयेत् ॥ १,५६.७१० ॥ सर्वदिक्षुक्षुतं नेष्टं गोक्षुतं निधनप्रदम् । अफलं यद्बालवृद्धरोगिपैनसिकैः कृतम् ॥ १,५६.७११ ॥ परस्त्री द्विजदेवस्वं तत्रपृशेद्दिग्गजाश्वकान् । हन्यात्परपुरप्राप्तो न स्त्रीर्नित्यं निरायुधान् ॥ १,५६.७१२ ॥ आदौ सौम्यायने कार्यंनववास्तुप्रवेशनम् । विधाय पूर्वदिवसे वास्तुपूजाबलिक्रियाम् ॥ १,५६.७१३ ॥ माघफआल्गुनवैशाखज्येष्टमासेषु शोभनम् । प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः ॥ १,५६.७१४ ॥ शशीज्यान्तेषु वरुणत्वाष्ट्रमित्रस्थिरोडुषु । शुभः प्रेवशो देवेज्यशुक्रयोर्द्दृश्यमानयोः ॥ १,५६.७१५ ॥ व्यर्कारवारे तिथिषु रिक्तामावर्जितेषु च । दिवा वा यदि वा रात्रौ प्रवेशो मङ्गलप्रदः ॥ १,५६.७१६ ॥ चन्द्रताराबलोपेते पूर्वाह्ने शोभने दिने । स्थिरलग्ने स्थिरांशे च नैधने शुद्धिसंयुते ॥ १,५६.७१७ ॥ त्रिकोणकेन्द्रसंस्थैश्सौम्यैस्त्र्यायारिगैः परैः । लग्रान्त्याष्टमषष्टस्थवर्जितेन द्वियांशुना ॥ १,५६.७१८ ॥ कर्तुर्षा जन्मभे लग्ने ताभ्यामुपचयेऽपि वा । प्रवेशल्ग्ने स्यामृद्धिरन्यभेशोकनिःस्वता ॥ १,५६.७१९ ॥ दर्शनीय गृहं रम्यं विधिधैर्मङ्गलस्वनैः । कृत्वार्कं वामतो विद्वान्भृङ्गारं चाग्रतो विशेत् ॥ १,५६.७२० ॥ वर्षाप्रवेशे शशिनि जलराशिगतेपि वा । केन्द्रगे वा शुक्लपक्षे चातिवृष्टिः शुभेक्षिते ॥ १,५६.७२१ ॥ अल्पवृष्टिः पापदृष्टे प्रावृट्कालेऽचिराद्भवेत् । चन्द्रश्चेद्धार्गवे सर्वमेवंविध गुणान्विते ॥ १,५६.७२२ ॥ प्रावृषीन्दुः सितात्सप्तराशिगः शुभवीक्षितः । मन्दात्र्रिकोणसप्तस्थो यदि वा वृद्धिकृद्भवेत् ॥ १,५६.७२३ ॥ सद्यो वृष्टिकरः शुक्रो यदा बुधसमीपगः । तयोर्ंमध्यगते भानौ भवेद्ष्टिविनाशनम् ॥ १,५६.७२४ ॥ मघादिपञ्चधिष्ण्यस्थः पूर्वे स्वातित्रये परे । प्रवर्षणं भृगुः कुर्याद्विपरीते न वर्षणम् ॥ १,५६.७२५ ॥ पुरतः पृष्टतो भानोर्ग्रहा यदि समीपगाः । तदा वृष्टिं प्रकुर्वन्ति न ते चेत्प्रतिलोमगाः ॥ १,५६.७२६ ॥ वामभागस्थितः शुक्रो वृष्टिकृच्चेत्तु याम्यगः । उदयास्तेषु वृष्टिः स्याद्भानोरार्द्राप्रवेशने ॥ १,५६.७२७ ॥ संध्ययोः सस्यवृद्धिः स्यात्सर्वसंपन्नृणान्निशि । स्तोकवृष्टिरनर्घः स्यादवृष्टिः सस्यसंपदः ॥ १,५६.७२८ ॥ आद्रोदयेग्रभिन्ना चद्भवेदिति न संशयः । चन्द्रेज्ये ज्ञेथ वा शुक्रे केन्द्रेन्बीतिर्विनश्यति ॥ १,५६.७२९ ॥ पूर्वाषाढा गतो भानुर्जीमूतैः परिवेष्टितः । वर्षत्यार्द्रादिमृलान्तं प्रत्यक्षं प्रत्यहं तथा ॥ १,५६.७३० ॥ वृष्टिश्चेत्पौष्णभें तस्माद्दशर्क्षेषु न वर्षति । सिंहे भिन्ने कुजो वृष्टिरभिन्ने कर्कटे तथा ॥ १,५६.७३१ ॥ कन्योदये प्रभिन्ने चेत्सर्वदा वृष्टिरुत्तम । अहिर्बुध्न्यं पूर्वशस्यं परशस्या च रेवती ॥ १,५६.७३२ ॥ भरणी सर्वसस्या च सर्वनाशाय चाश्विनी । गुरोः सप्तमरा तिस्थः प्रत्यग्गो भृगुजो यदा ॥ १,५६.७३३ ॥ तदातिवर्षणं भूरि प्रावृट्काले बलोज्झिते । आसप्तमर्क्षंशशिनः परिवेशगतोत्तरा ॥ १,५६.७३४ ॥ विद्युत्प्रपूर्णमण्डूकास्वनावृष्टिर्भवेत्तदा । यदाप्रत्यङ्नता मघाः खसप्तोपरि संस्थिताः ॥ १,५६.७३५ ॥ पतन्ति दक्षिणस्था येभवेद्वृष्टिस्तदाचिरात् । नखैर्लिखन्तोमार्जाराश्चावनिं लोहसंयुते ॥ १,५६.७३६ ॥ रथ्यायां सेतुबन्धाः स्युर्बालानां वृष्टिहेतवः । पिपीलिकाश्रेणयश्छिन्नाः खद्योता बहवस्तदा ॥ १,५६.७३७ ॥ द्रुमादिरोहः सर्पाणां प्रीतिर्दुर्वृष्टिसूचकाः । उदयास्तमये काले विवर्णोर्ऽकेथ वा शशी ॥ १,५६.७३८ ॥ मधुवर्णोऽतिवायुश्चेदतिवृष्टिर्भवेत्तदा । प्राङ्मुखस्य तु कूर्मस्य नवाङ्गेषु धरामिमाम् ॥ १,५६.७३९ ॥ विभज्य नवधा खण्डे मण्डलानि प्रदक्षिणम् । अन्तर्वेदाश्च षाञ्चालस्तस्येदं नाभिमण्डलम् ॥ १,५६.७४० ॥ प्राच्या मागधलाटोत्था देशास्तन्मुखमण्डलम् । स्त्रीकलिङ्गकिराताख्या देशास्तद्बाहुमण्डलम् ॥ १,५६.७४१ ॥ अवन्ती द्रविडा भिल्ला देशास्तत्पार्श्वमण्डलम् । गौडकैङ्कणशाल्वान्ध्रपौड्रस्तत्पादमण्डलम् ॥ १,५६.७४२ ॥ सिंधुकाशिमहाराष्ट्रसौराष्ट्राः पुच्छमण्डलम् । पुलिन्दचीनयवनगुर्जराः पादमण्डलम् ॥ १,५६.७४३ ॥ कुरुकाश्मीरमाद्रेयमत्स्यास्तत्पार्श्वमण्डलम् । खसांगवङ्गबाह्लीकं कांबोजाः पाणिमण्डलम् ॥ १,५६.७४४ ॥ कृत्तिकादीनि धिष्ण्यानि त्रीणि त्रिणि क्रमान्न्यसेत् । नाभ्यादिषु नवाङ्गेषु पापैर्दुष्टं शुभैः शुभम् ॥ १,५६.७४५ ॥ देवता यत्र नृत्यन्ति पतन्ति प्रज्वलन्ति च । मुहू रुदन्ति गायन्ति प्रस्विद्यन्ति हसंति च ॥ १,५६.७४६ ॥ वमन्त्यग्निं तथा धूमं स्नेहं रक्तं पयो जलम् । अधोमुखाधितिष्टन्ति स्थानात्स्थानं व्रजन्ति च ॥ १,५६.७४७ ॥ एवमाद्या हि दृश्यन्ते विकाराः प्रतिमासु च । गन्धर्वनगरं चैव दिवा नक्षत्रदर्शनम् ॥ १,५६.७४८ ॥ महोत्कापतनं काष्टतृणरक्तप्रवर्षणम् । गान्धर्वं देहदिग्धूमं भूमिकंपं दिवा निशि ॥ १,५६.७४९ ॥ अनग्नौ च स्फुलिङ्गाश्च ज्वलनं च विनेन्धनम् । निशीन्द्रचापमण्डूकं शिखरे श्वेतवायसः ॥ १,५६.७५० ॥ दृश्यन्ते विस्फुलिङ्गाश्च गोगजाश्वोष्ट्रगात्रतः । जन्तवो द्वित्रिशिरसो जायन्ते वापि योनिषु ॥ १,५६.७५१ ॥ प्रातः सूर्याश्चतसृषु ह्यर्दितायुगपद्रवेः । जम्बूकग्रामसंवासः केतूनां च प्रदर्शनम् ॥ १,५६.७५२ ॥ काकानामाकुलं रात्रौ कपोतानां दिवा यदि । अकाले पुष्पिता वृक्षा दृश्यन्ते फलिता यदि ॥ १,५६.७५३ ॥ कार्यं तच्छेदनं तत्र ततः शान्तिर्मनीषिभिः । एवमाद्या महोत्पाता बहवः स्थाननाशदा ॥ १,५६.७५४ ॥ केचिन्मृत्युप्रदाः केचिच्छत्रुभ्यश्च भयप्रदाः । मध्याद्भयं यशो मृत्युः क्षयः कीर्तिः सुखासुखम् ॥ १,५६.७५५ ॥ ऐस्वर्यं धनहानिं च मधुच्छन्नं च वाल्मिकम् । इत्यादिषु च सर्वेषूत्पातेषु द्विजसत्तम ॥ १,५६.७५६ ॥ शान्तिं कुर्यात्प्रयत्नेन कल्पोक्तविधिना शुभम् । इत्येतत्कथितं विप्र ज्यौतिषं ते समासतः ॥ १,५६.७५७ ॥ अतः परं प्रवक्ष्यामि च्छन्दः शास्त्रमनुत्तमम् ॥ १,५६.७५८ ॥ इति श्रीबृहन्न.पूर्व.बृहदुपाख्याने द्वितीयपादे षट्पञ्चाशत्तमोऽध्यायः _____________________________________________________________ सनन्दन उवाच वैदिकं लौकिकं चापि छन्दो द्विविधमुच्यते । मात्रावर्णविभेदेन तच्चापि द्विविधं पुनः ॥ १,५७.१ ॥ मयौ रसौ तजौ भनौ गुरुर्लघुरपिद्विज । कारणं छन्दसि प्रोक्ताश्छन्दःशास्त्रविशारदैः ॥ १,५७.२ ॥ सर्वगो मगणः प्रोक्तो मुखलो यगणः स्मृतः । मध्यलो रगणश्वैव प्रान्त्यगः सगणो मतः ॥ १,५७.३ ॥ तगणोंऽतलघुः ख्यातो मध्यगो जो भआदिगः । त्रिलघुर्नगणः प्रोक्तस्त्रिका वर्णगणा मुने ॥ १,५७.४ ॥ चतुर्लास्तु गणाः पञ्च प्रोक्ता आर्यादिसंमताः । संयोगश्च विसर्गश्चानुस्वारो लघुतः परः ॥ १,५७.५ ॥ लघोर्दीर्घत्वमाख्याति दीर्घो गो लो लघुर्मतः । पादश्चतुर्थभागः स्याद्विच्छेदोयतिरुच्यते ॥ १,५७.६ ॥ सममर्द्धसमं वृत्तं विषमं चापि नारद । तुल्यलक्षणतः पादचतुष्के सममुच्यते ॥ १,५७.७ ॥ आदित्रिके द्विचतुर्थे सममर्द्धसमं ततम् । लक्ष्म भिन्नं यस्य पादचतुष्के विषमं हि तत् ॥ १,५७.८ ॥ एकाक्षरात्समारभ्य वर्णैकैकस्य वृद्धितः । षड्विंशत्यक्षरं यावत्पादस्तावत्पृथक्पृथक् ॥ १,५७.९ ॥ तत्परं चण्डवृष्ट्यादिदण्डकाः परिकल्पिताः । त्रिभिः षड्भिः पदैर्गाथाः शृणु संज्ञा यथोत्तरम् ॥ १,५७.१० ॥ उक्तात्युक्ता तथा मध्या प्रतिष्टान्या सुपूर्विका । गायत्र्युष्णिगनुष्टष्टप्च बृहती पङ्क्तिरेव च ॥ १,५७.११ ॥ त्रिष्टुप्च जगती चैव तथातिजगती मता । शक्करी सातिपूर्वा च अष्ट्यत्यष्टी ततः स्मृते ॥ १,५७.१२ ॥ धृतिश्च विधृतिश्चैव कृतिः प्रकृतिराकृतिः । विकृतिः संकृतिश्चैव तथातिकृतिरुत्कृतिः ॥ १,५७.१३ ॥ इत्येताश्छन्दसां संज्ञाः प्रस्ताराद्भेदभागिकाः । पादे सर्वगुरौ पूर्वील्लघुं स्थाप्य गुरोरधः ॥ १,५७.१४ ॥ यथोपरि तथा शेषमग्रे प्रारवन्न्यसेदपि । एष प्रस्तार उदितो यावत्सर्वलघुर्भवेत् ॥ १,५७.१५ ॥ नष्टाङ्कार्द्धे समे लः स्याद्विपं सैव सोर्द्धगः । उद्दिष्टे द्विगुणानाद्यादङ्गान्संमोल्य लस्थितान् ॥ १,५७.१६ ॥ कृत्वा सेकान्वदैत्संख्यामिति प्राहुः पुराविदः । वणान्सेकान्वृत्तभवानुत्तराधरतः स्थितान् ॥ १,५७.१७ ॥ एकादिक्रमतश्चैकानुपर्य्युपरि विन्यसेत् । उपान्त्यतो निवर्तेत त्यजन्नेकैकमूर्द्धतः ॥ १,५७.१८ ॥ उपर्याद्याद्गुरोरेवमेकद्व्यादिलगक्रिया । लगक्रियाङ्कसंदोहे भवेत्संख्याविमिश्रिते ॥ १,५७.१९ ॥ उद्दिष्टाङ्कसमाहारः सैको वा जनयेदिमाम् । संख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ॥ १,५७.२० ॥ इत्येतत्किञ्चिदाख्यातं लक्षणं छन्दसां नुने । प्रस्तारोक्तप्रभेदानां नामानांस्त्यं प्रगाहते ॥ १,५७.२१ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे सङ्क्षिप्तच्छन्दोवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः _____________________________________________________________ नारद उवाच अनूचानप्रसंगेन वेदाङ्गान्यखिलानि च । श्रुतानि त्वन्मुखांभोजात्समासव्यासयोगतः ॥ १,५८.१ ॥ शुकोत्पत्तिं समाचक्ष्व विस्तरेण महामते । सनन्दन उवाच मेरुशृङ्गे किल पुरा कर्णिकारवनायते ॥ १,५८.२ ॥ विजहार महोदेवो भौमैभूतगणैवृतः । शैलराजसुता चैव देवी तत्राभवत्पुरा ॥ १,५८.३ ॥ तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः । योगेनात्मानमाविश्य योगधर्मपरायणः ॥ १,५८.४ ॥ धारयन्स तपस्तेपे पुत्रार्थं सुनिसंत्तमः । अग्नेर्भूमेस्तथा वायोरन्तरिक्षस्य चाभितः ॥ १,५८.५ ॥ वीर्येण संमतः पुत्रो मम भूयादिति स्म ह । संकल्पेनाथ सोऽनेन दुष्प्रापमकगृतात्मभिः ॥ १,५८.६ ॥ वरयामास देवेशमास्थितस्तप उत्तमम् । अतिष्टन्मारुताहारः शतं किल समाः प्रभुः ॥ १,५८.७ ॥ आराधयन्महादेवं बहुरूपमुमापतिम् । तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा ॥ १,५८.८ ॥ लोकपालाश्च साध्याश्च वसुभिश्चाष्टभिः सह । आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ ॥ १,५८.९ ॥ विश्वा वसुश्च गन्धर्वः सिद्धाश्चाप्सरासांगणाः । तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् ॥ १,५८.१० ॥ धारयानः स्रजं भाति शारदीव निशाकरः । तस्निन् दिव्ये वने रम्ये देवदेवर्षिसंकुले ॥ १,५८.११ ॥ आस्थितः परमं योगं व्यासः पुत्रार्थमुद्यतः । न चास्य हीयते वर्णो न ग्लानिरुपजायते ॥ १,५८.१२ ॥ त्रयाणामपिलोकानां तदद्भुतमिवाभवत् । जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः ॥ १,५८.१३ ॥ प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः । एवं विधेन तपसा तस्य भक्त्या च नारद ॥ १,५८.१४ ॥ महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् । उवाच चैनं भगवांस्त्र्यंबकः प्रहसन्निव ॥ १,५८.१५ ॥ यथा ह्यग्नियथा वायुर्यथा भूमिर्यथा जलम् । यथा खे च तथा शुद्धो भविष्यति सुतस्तंव ॥ १,५८.१६ ॥ तद्भावभागी तद्बुद्धिस्तदात्मा तदुपाश्रयः । तेजसा तस्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम् ॥ १,५८.१७ ॥ एवं लब्ध्वा वरं देवो व्यासः सत्यवतीसुतः । अरणिं त्वथ संगृह्य ममन्थाग्निचिकीर्षया ॥ १,५८.१८ ॥ अथ रूपं परं विप्र बिभ्रतीं स्वेन तेजसा । घृताचीं नामाप्सरसं ददर्श भगवान्नृषिः ॥ १,५८.१९ ॥ स तामप्सरसं दृष्ट्वा सहसा काममोहितः । अभवद्भगवान्व्यासो वने तस्मिन्मुनीश्वर ॥ १,५८.२० ॥ सा तु कृत्वा तदा व्यासं कामसंविग्नमानसम् । शुकीभूया महारम्या घृताची समुपागमत् ॥ १,५८.२१ ॥ स तामप्सरसं दृष्ट्वा रूपेणान्येनसंवृताम् । स्मरराजेनानुगतः सर्वगात्रातिगेन ह ॥ १,५८.२२ ॥ स तु महता निगृह्णन् हृच्छयं मुनिः । न शशाक नियन्तुं तं व्यासः प्रविसृतं मनः ॥ १,५८.२३ ॥ भावित्वाञ्चैव भाव्यस्य घृताच्या वपुषा । हृतं यत्नान्नियच्छतश्चापि मुने एतञ्चिकीर्षया ॥ १,५८.२४ ॥ अरण्यामेव सहसा तस्य शुक्रमवापतत् । शुक्रे निर्मथ्यमानेऽस्यां शुको जज्ञे महातपाः ॥ १,५८.२५ ॥ परमर्षिर्महायोगी अरणीगर्भसंभवः । यथैव हि समिद्धोऽग्निर्भाति हव्यमुपात्तवान् ॥ १,५८.२६ ॥ तथा रूपः शुको जज्ञे प्रज्वलन्निव तेजसा । बिभ्रञ्चित्रं च विप्रेन्द्र रूपवर्णमनुत्तमम् ॥ १,५८.२७ ॥ तं गङ्गां सरितां श्रेष्ठां मेरुपृष्ठे स्वरूपिणीम् । अभ्येत्य स्नापयामास वारिणा स्वेन नारद ॥ १,५८.२८ ॥ कृष्णाजिनं चान्तरिक्षाच्छुकार्थे भुव्यवापतत् । जगीयन्त च गन्धर्वा ननृतुञ्चाप्सरोगणाः ॥ १,५८.२९ ॥ देवदुन्दुभयश्चैव प्रावाद्यन्त महास्वनाः । विश्वावसुश्च गन्धर्वस्तथा तुंबुरुनारदौ ॥ १,५८.३० ॥ हाहाहूहूश्च गन्धर्वौं तुष्टुवुः शुकसंभवम् । तत्र शक्रपुरोगाश्च लोकपालाः समागताः ॥ १,५८.३१ ॥ देवा देवर्षथयश्चटैव तथा ब्रह्मर्षयोऽपि च । दिव्यानि सर्वपुष्पाणि प्रववर्ष च मारुतः ॥ १,५८.३२ ॥ जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत् । तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः ॥ १,५८.३३ ॥ जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा । तस्य देवेश्वरः शक्तो दिव्यमद्भुतदर्शनम् ॥ १,५८.३४ ॥ ददौ कमण्डलुं प्रीत्या देवा वासांसि चाभितः । हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः ॥ १,५८.३५ ॥ प्रदक्षिणमवर्तन्त शुकाश्चाषाश्च नारद । आरणे यस्तदा दिव्यं प्राप्य जन्म महामुनिः ॥ १,५८.३६ ॥ तत्रैवोवास मेधावी व्रतचारी समाहितः । उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः ॥ १,५८.३७ ॥ उपतस्थुर्मुनिश्रेष्ठं यथास्य पितरं तथा । बृहस्पतिं स वव्रे च वेदवेदाङ्गभाष्यवित् ॥ १,५८.३८ ॥ उपाध्यायं द्विजश्रेष्ठ धर्ममेवानुचिन्तयन् । सोऽधीत्य वेदानखिलान्सरहस्यान्ससंग्रहान् ॥ १,५८.३९ ॥ इतिहासं च कार्त्स्न्येन वेदशास्त्राणि चाभितः । गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः ॥ १,५८.४० ॥ उग्रं तपः समारेभे ब्रह्मचारी समाहिताः । देवतानामृषीणां च बाल्येऽपि सुमहातपाः ॥ १,५८.४१ ॥ संमत्रणीयो जन्यश्च ज्ञानेन तपसा तथा । न त्वस्य रमते बुद्धि राश्रमेषु मुनीश्वर ॥ १,५८.४२ ॥ त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः । स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात् ॥ १,५८.४३ ॥ प्राहाभिवाद्य च तदा श्रेयोर्ऽथी विनयान्वितः । मोक्षधर्मेषु कुशलो भगवान् प्रब्रवीतु मे ॥ १,५८.४४ ॥ यथैव मनसः शान्तिः परमा संभवेन्मुने । शृत्वा पुत्रस्य वचनं परमर्षिरुवाच तम् ॥ १,५८.४५ ॥ अधीष्व मोक्षशास्त्रं वै धर्मांश्च विविधानपि । पितुर्निदेशाज्जग्राह शुको ब्रह्मविदां वरः ॥ १,५८.४६ ॥ योगशास्त्रं च निखिलं कापिलं चैव नारद । शतं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम् ॥ १,५८.४७ ॥ मेने पुत्रं यथा व्यासो मोक्षशास्त्रविशारदम् । उवाच गच्छेति तदा जनकं मिथिलेश्वरम् ॥ १,५८.४८ ॥ स ते वक्ष्यति मोक्षार्थं निखिलेन नराधिपः । पितुर्नियोगादगमज्जनकं मेथखिलं नृपम् ॥ १,५८.४९ ॥ प्रष्टुं धर्मस्य निष्टां वै मोक्षस्य च परायणम् । उक्तश्च मानुषेण त्वं तथा गच्छेत्यविस्मितः ॥ १,५८.५० ॥ न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै । आर्जवेनैव गन्तव्यं न सुखाय क्षणात्त्वया ॥ १,५८.५१ ॥ न द्रष्टव्या विशेषा हि विशेषा हि प्रसंगिनः । अहॄङ्कारो न कर्तव्यो याज्ये तस्मिन्नराधिपे ॥ १,५८.५२ ॥ स्थातव्यं वसथे तस्य स ते छेत्स्यति संशयम् । स धर्मकुशलो राजा मोक्षशास्त्रविशारदः ॥ १,५८.५३ ॥ यथा यथा च ते ब्रूयात्तत्कार्यमविशङ्कया । एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः ॥ १,५८.५४ ॥ पभ्द्यां शक्तोन्तरिक्षेण क्रान्तुं भूमिं ससागराम् । सगिरीं श्चाप्यतिक्रम्य भारतं वर्षमासदत् ॥ १,५८.५५ ॥ स देशान्विविधान्स्फीतानतिक्रम्य महामुनिः । विदेहान्वै समासाद्य जनकेन समागमत् ॥ १,५८.५६ ॥ राजद्वारं समासाद्य द्वारपालैर्निवारितः ॥ट तस्थौ तत्र महायोगी क्षुत्पिपासादिवर्जितः ॥ १,५८.५७ ॥ आतपे ग्लानिरहितो ध्यानयुक्तश्च नारद । तेषां तु द्वारपालानामेकस्तत्र व्यवस्थितः ॥ १,५८.५८ ॥ मध्यङ्गतमिवादित्यं दृष्ट्वा शुकमवस्थितम् । जूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः ॥ १,५८.५९ ॥ प्रावेशयत्ततः कक्षआं द्वितीयां राजवेश्मनः । तत्रान्तःपुरसंबद्धं महच्चैत्रग्थोपमम् ॥ १,५८.६० ॥ सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् । दर्शयित्वासने स्थाप्य राजानं च व्यजिज्ञपत् ॥ १,५८.६१ ॥ श्रुत्वा राजा शुकं प्राप्तं वारस्त्रीः स न्ययुङ्क्त च । सेवायै तस्य भावस्य ज्ञानाय मुनिसतम ॥ १,५८.६२ ॥ तं चारुकेश्यः शुश्रेण्यस्तरुण्यः प्रियदर्शनाः । सूक्ष्मरक्तांबरधरास्तप्तकाञ्चनभूषणाः ॥ १,५८.६३ ॥ संलापालापकुशाला भावज्ञाः सर्वकोविदाः । परं पञ्चाशतस्तस्य पाद्यादीनि व्यकल्पयन् ॥ १,५८.६४ ॥ देश कालोपपन्नेन साध्वन्नेनाप्यतर्पयन् । तस्य भुक्तवतस्तात तास्ततः पुरकाननम् ॥ १,५८.६५ ॥ सुरम्यं दर्शयामासुरेकैकत्वेन नारद । क्रीडन्त्यश्च हसंत्यश्च गायन्त्यश्चैव ताः शुकम् ॥ १,५८.६६ ॥ उदारसत्वं सत्वज्ञाःसर्वाः पर्य्यचरंस्तदा । आरणेयस्तु शुद्धात्मा जितक्रोधो जितेन्द्रियः ॥ १,५८.६७ ॥ ध्यानस्थ एव सततं न हृष्यति न कुप्यति । पादशौचं तु कृत्वा वै शुकः संध्यामुपास्य च ॥ १,५८.६८ ॥ निषसादासने पुण्ये तमेवार्थं व्यचिन्तयत् । पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः ॥ १,५८.६९ ॥ मध्यरात्रे यथान्याय्यं निद्रामाहारयत्प्रभुः । ततः प्रातः समुत्थाय कृत्वा शौचमनन्तरम् ॥ १,५८.७० ॥ स्त्रीभिः परिवृत्तो धीमान्ध्यानमेवान्वपद्यत । अनेन विधिना तत्र तदहःशेषमप्युत ॥ १,५८.७१ ॥ तां च रात्रिं नृपकुले वर्तयामास नारद ॥ १,५८.७२ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयभागे शुकप्रलोभनं नामाष्टञ्चाशत्तमोऽध्यायः _____________________________________________________________ सनन्दन उवाच ततः स राजा सहितो मन्त्रिभिर्द्विजसत्तम । पुरः पुरोहितं कृत्वा सर्वाण्यन्तः पुराणि च ॥ १,५९.१ ॥ शिरसा चार्ध्यमादाय गुरुपुत्रं समभ्यगात् । महदासनमादाय सर्वरत्नविभूषितम् ॥ १,५९.२ ॥ प्रददौ गुरुपुत्राय शुकाय परमोचितम् । तत्रोपविष्टं तं कार्ष्णिशास्त्रदृष्टेन कर्मणा ॥ १,५९.३ ॥ पाद्यं निवेद्य प्रथमं सार्घ्यं गां च न्यवेदयत् । स च तांमन्त्रतः पूजां प्रतिगृह्य द्विजोत्तमः ॥ १,५९.४ ॥ पर्यपृच्छन्महातेजाराज्ञः कुशलमव्ययम् । उदारसत्त्वाभिजनो राजापि गुरुसूनवे ॥ १,५९.५ ॥ आवेद्य कुशलं भूमौ निषसाद तदाज्ञया । सोऽपि वैयासकिं भूयः पृष्ट्वा कुशलमव्ययम् । किमागमनिमित्येव पर्यपृच्छद्विधानवित् ॥ १,५९.६ ॥ शुक उवाच पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः । विदेहराजोह्याद्योमे जनको नाम विश्रुतः ॥ १,५९.७ ॥ तत्र त्वं गच्छ तूर्णं वै स ते हृदयसंशयम् । प्रवृत्तौ च निवृत्तौ च सर्वं छेत्स्यत्यसंशयम् ॥ १,५९.८ ॥ सोऽहं पितुर्नियोगात्त्वा मुपप्रष्टुमिहागतः । तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि ॥ १,५९.९ ॥ किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः । कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा ॥ १,५९.१० ॥ जनक उवाच यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छुणु । कृतोपनयनस्तात भवेद्वेदपरायणः ॥ १,५९.११ ॥ तपसा गुरुवृत्त्या च ब्रह्मचर्येण चान्वितः । देवतानां पितॄणां च ह्यतृष्णश्चानसूयकः ॥ १,५९.१२ ॥ वेदानधीत्य नियतो दक्षिणामपवर्त्य च । अभ्यनुज्ञामनुप्राप्य समावर्तेत वै द्विजः ॥ १,५९.१३ ॥ समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् । अनसूयुर्यथान्यायमाहिताग्निरनादृते ॥ १,५९.१४ ॥ उत्पाद्य पुत्रपौत्रांश्च वन्याश्रमपदे वसेत् । तानेवाग्नीन्यथान्यायं पूजयन्नतिथिप्रियः ॥ १,५९.१५ ॥ सर्वानग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् । निर्द्वन्द्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् ॥ १,५९.१६ ॥ शुक उवाच उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शश्वते । न विना गुरुसंवासाज्ज्ञानस्याधिगमः स्मृतः ॥ १,५९.१७ ॥ किमवश्यं तु वस्तव्यमाश्रमेषु न वा नृप । एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति ॥ १,५९.१८ ॥ जनक उवाच न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत् ।. न विना गुरुसंबधाज्ज्ञानस्याधिगमस्तथा ॥ १,५९.१९ ॥ आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते । विज्ञाय कृतकृत्यस्तु तीर्णस्तत्रोभयं त्यजेत् ॥ १,५९.२० ॥ अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् । कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ॥ १,५९.२१ ॥ भावितैः कारणैश्चार्यं बहुसंसारयोनिषु । आसादयति शुद्धात्मा मोक्षं हि प्रथमाश्रमे ॥ १,५९.२२ ॥ तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः । त्रिधाश्रमेषु कोन्वर्थो भवेत्परमभीप्सतः ॥ १,५९.२३ ॥ राजसांस्तामसांश्चैव नित्यं दोषान्विसर्जयेत । सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना ॥ १,५९.२४ ॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । संपश्यन्नैव लिप्येत जले वारिचरगो यथा ॥ १,५९.२५ ॥ पक्षीवत्पवनाद्वर्ध्वममुत्रानुन्त्यश्नुते । विहाय देहं निर्मुक्तो निर्द्वन्द्वः शुभसंगतः ॥ १,५९.२६ ॥ अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना । धार्यते या द्विजैस्तात मोक्षशास्त्रविशारदैः ॥ १,५९.२७ ॥ ज्योतिश्चात्मनि नान्यत्र रत्नं तत्रैव चैव तत् । स्वयं च शक्यं तद्द्रष्टुं सुसमाहितर्चतसा ॥ १,५९.२८ ॥ न बिभेति परो यस्मान्न बिभेति पराच्च यः । यश्च नेच्छति न द्वेष्टि ब्रह्म संपद्यते स तु ॥ १,५९.२९ ॥ यदा भावं न कुरुते सर्वभूतेषु पापकम् । पूर्वैराचरितो धर्मश्चतुराश्रमसंज्ञकः ॥ १,५९.३० ॥ अनेन क्रमयोगेन बहुजातिसुकर्मणाम् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ १,५९.३१ ॥ र्सुयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम् । त्यक्त्व कामं च लोभं च ततो ब्रह्मत्वमश्नुते ॥ १,५९.३२ ॥ यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाव्ययम् । समो भवति निर्द्वुद्वो ब्रह्म संपद्यते तदा ॥ १,५९.३३ ॥ यदा स्तुति च र्निदां च समत्वेन च पश्यति । काञ्चनं चायसं चैव सुखदुःखे तथैव च ॥ १,५९.३४ ॥ शीतमुष्णं तथैवार्थमनर्न्थं प्रियमप्रियम् । जीवितं मरणं चैव ब्रह्म संपद्यते तदा ॥ १,५९.३५ ॥ प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः । तर्थेद्रियाणि मनसा संयन्तव्यानि भिक्षुणा ॥ १,५९.३६ ॥ तमः परिगतं वेश्य यथा दीपेन दृश्यते । तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ॥ १,५९.३७ ॥ एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतांवर । यञ्चान्यदपि वेत्तव्यं तत्त्वतो वेत्ति तद्भवान् ॥ १,५९.३८ ॥ ब्रह्मर्षे विदितश्वासि विषयान्तमुपागतः । गुरोश्चैव प्रसादेन तव चैवोपशिक्षया ॥ १,५९.३९ ॥ तस्य चैव प्रसादेन प्रादुर्भूतं महामुनेः । ज्ञानं दिव्यं समादीप्तं तेनासि विदितो विदितो मम ॥ १,५९.४० ॥ अर्धिकं तव विज्ञानमधि कावगतिस्तव । अधिकं च तवैश्वर्यं तञ्च त्वं नावबुध्यसे ॥ १,५९.४१ ॥ बाल्याद्वा संशयाद्वापि भयाद्वापि विमेषजात् । उत्पन्ने चापि विज्ञा ने नाधिगच्छन्ति ताङ्गतिम् ॥ १,५९.४२ ॥ व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयाः । विमुच्य हृदयग्रन्थीनार्तिमासादयन्ति ताम् ॥ १,५९.४३ ॥ मवांश्चोत्पन्नविज्ञानः स्थिरबगुद्धिरलोलुपः । व्यवसायादृते ब्रह्मन्नासादयति तत्पदम् ॥ १,५९.४४ ॥ नास्ति ते सुखदुःखेषु विशेषो नास्ति वस्तुषु । नौत्सुक्यं नृत्यगीतेषु न राग उपजायते ॥ १,५९.४५ ॥ न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम् । पश्यामित्वां महाभाग तुल्यनिन्दात्मसंस्तुतिम् ॥ १,५९.४६ ॥ अहं च त्वानुपश्यामि ये चान्येऽपि मनीषिणः । आस्थितं परमं मार्गे अक्षयं चाप्यनामयम् ॥ १,५९.४७ ॥ यत्फलं ब्राह्मणस्येह मोक्षार्थश्चापदात्मकः । तस्मिन्वै वर्तसे विप्रकिमन्यत्परिपृच्छसि ॥ १,५९.४८ ॥ सनन्दन उवाच एतच्छुत्वा तु वचनं कतात्मा कृतनिश्चयः । आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना ॥ १,५९.४९ ॥ कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुखः । शैशिरं गिरिमासाद्य पाराशर्यं ददर्श च ॥ १,५९.५० ॥ शिष्यानध्यापयन्तं च पैलादीन्वेदसंहिताः । आरर्णेयो विशुद्धात्मा दिवाकरसमप्रभः ॥ १,५९.५१ ॥ पितुर्जग्राह पादौ चज सादरं हृष्टमानसः । ततो निवेदयामास पितुः सर्वमुदारधीः ॥ १,५९.५२ ॥ शुको जनकराजेन संवादं मोक्षसाधनम् । तच्छत्वा वेदकर्तासौ प्रहृष्टेनान्तरात्मना ॥ १,५९.५३ ॥ समालिङ्ग्य सुतं व्यासः स्वपार्श्वस्थं चकार च ॥ १,५९.५४ ॥ ततः पैलादयो विप्रा वेदान् व्यासादधीत्य च । शैलशृङ्गाद्भुवं प्राप्ता याजनाध्यापने रताः ॥ १,५९.५५ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने एकोनषष्टितमोऽध्यायः _____________________________________________________________ सनदन उवाच अवतीर्णेषु विप्रेषु यासः पुत्रसहायवान् । तूर्ष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत् ॥ १,६०.१ ॥ तमुवाचाशरी री वाक्व्यासं पुत्रसमन्वितम् । भो भो महर्षे बासिष्ठ ब्रह्मघोषो न वर्तते ॥ १,६०.२ ॥ एको ध्यानपरस्तूष्णी किमाःसे चिन्तयन्निव । ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते ॥ १,६०.३ ॥ तस्मादधीष्व भगवन्सार्द्ध पुत्रेण धीमता । वेदान्वेदविदा चैव सुप्रसन्नमनाः सदा ॥ १,६०.४ ॥ तच्छुत्वा वचनं व्यासो नभोवाणीसमीरितम् । शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् ॥ १,६०.५ ॥ तयोरभ्यसतोरेवं बहुकालं द्विजोत्तम । वातोऽतिमात्रं प्रववौ समुद्रानिलवीजितः ॥ १,६०.६ ॥ ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् । शुको वारितमात्रस्तु कौतूहलसमन्वितः ॥ १,६०.७ ॥ अपृच्छत्पितरं तत्र कुतो वायुरभूदयम् । आख्यातुमर्हति भवान्सर्वं वायोर्विचैष्टितम् ॥ १,६०.८ ॥ शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः । अनध्यायनिमित्तऽस्मिन्निदं वचनं मब्रवीत् ॥ १,६०.९ ॥ दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निश्चलं मनः । तमसा रजसा चापि त्यक्तः सत्ये व्यवस्थितः ॥ १,६०.१० ॥ तस्यात्मनि स्वयं वेदान्बुद्ध्वा समनुचिन्तय । देवयानचरो विष्णोः पितृयानश्च तामसः ॥ १,६०.११ ॥ द्वावेतौ प्रत्ययं यातौ दिवं चाधश्च गच्छतः । पिथिव्यामन्तरिक्षे च यतः संयान्ति वायवः ॥ १,६०.१२ ॥ सप्त ते वायुमार्गा वै तान्निबोधानुपूर्वशः । तत्र देवगणाः साध्याः समभूवन्महाबलाः ॥ १,६०.१३ ॥ तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः । उदानस्तस्य पुत्रोऽभूव्द्यानस्तस्याभवत्सुतः ॥ १,६०.१४ ॥ अपानश्च ततो जज्ञे प्राणश्चापि ततः परम् । अनपत्योऽभवत्प्राणो दुर्द्धर्षः शत्रुमर्दनः ॥ १,६०.१५ ॥ पृथर्क्क्ंमाणि तेषां तु प्रवक्ष्यामि यथा तथा । प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक् ॥ १,६०.१६ ॥ प्रीणनाञ्चैव सर्वेषां प्राण इत्यभिधीयते । प्रेषयत्यभ्रसंघातान्धूमजांश्चोष्मजांस्तथा ॥ १,६०.१७ ॥ प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः । अंबरे स्नेहमात्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः ॥ १,६०.१८ ॥ आवहो नाम सोऽभ्येति द्वितीयः श्वसनो नदन् । उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः ॥ १,६०.१९ ॥ अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः । यश्चतुर्भ्यः समुद्रेभ्यो वायुर्द्धारयते जलम् ॥ १,६०.२० ॥ उद्धृत्य ददते चापो जीमूतेभ्यो वनेऽनिलः । योऽद्धिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छती ॥ १,६०.२१ ॥ उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः । संनीयमाना बहुधा येन नीला महाघनाः ॥ १,६०.२२ ॥ वर्षमोक्षकृतारंभास्ते भवन्ति घनाघनाः । योऽसौ वहति देवानां विमानानि विहायसा ॥ १,६०.२३ ॥ चतुर्थः संवहो नाम वायुः स गिरिमर्दनः । येन वेगवता रुग्णाः क्रियन्ते तरुजा रसाः ॥ १,६०.२४ ॥ पञ्चमः स महावेगो विवहो नाम मारुतः । यस्मिन्परिप्लवे दिव्या वहॄन्त्यापो विहायसा ॥ १,६०.२५ ॥ पुण्यं चाकाशगङ्गायास्तोयं तिष्टति तिष्टति । दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः ॥ १,६०.२६ ॥ योनिरंशुसहस्रस्य येन याति वसुंधराम् । यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च ॥ १,६०.२७ ॥ षष्ठः परिवहो नाम स वायुर्जीवतां वरः । सर्वप्राणभृतां प्राणार्न्योऽतकाले निरस्यति ॥ १,६०.२८ ॥ यस्य धर्मेऽनुवर्तेते मृत्युवेवस्वतावुभौ । सम्यगन्वीक्षता बुद्ध्या शान्तयाध्यात्मनित्यया ॥ १,६०.२९ ॥ ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते । यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे ॥ १,६०.३० ॥ दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः । येन वृष्ट्या पराभूतस्तोयान्येन निवर्तते ॥ १,६०.३१ ॥ परीवहो नाम वरो वायुः स दुरतिक्रमः । एवमेते दितेः पुत्रा मरुतः परमाद्भुताः ॥ १,६०.३२ ॥ अनारमन्तः सर्वाङ्गाः सर्वचारिणः । एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः ॥ १,६०.३३ ॥ कंपितः सहसा तेन पवमानेन वायुना । विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः ॥ १,६०.३४ ॥ सहसोदीर्यते तात जगत्प्रव्यथते तदा । तस्माद्ब्रह्मविदो ब्रह्म न पठन्त्यतिवायुतः ॥ १,६०.३५ ॥ वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत् । एतावदुक्त्वा वचनं पराशरसुतः प्रभुः ॥ १,६०.३६ ॥ उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामगात्तदा । ततो व्यासे गते स्नातुं शुको ब्रह्मविदां वरः ॥ १,६०.३७ ॥ स्वाध्यायमकरोद्ब्रह्मन्वेदवेदाङ्गपारगः । तत्र स्वाध्यायसंसक्तं शुकं व्याससुतं मुने ॥ १,६०.३८ ॥ सनत्कुमारो भगवानेकान्ते समुपागतः । उत्थाय सत्कृतस्तेन ब्रह्मपुत्रो हि कार्ष्णिना ॥ १,६०.३९ ॥ ततः प्रोवाच विप्रेन्द्र शुकं विदां वरः । किं करोषि महाभाग व्यासपुत्र महाद्युते ॥ १,६०.४० ॥ शुक उवाच स्वाध्याये संप्रवृत्तोऽहं ब्रह्मपुत्राधुना स्थितः । त्वद्दर्शनमनुप्राप्तः केनापि सुकृतेन च ॥ १,६०.४१ ॥ किञ्चित्त्वां प्रष्टुमिच्छामि तत्त्वं मोक्षार्थसाधनम् । तद्वदस्व महाभाग यथा त ज्ज्ञानमाप्नुयाम् ॥ १,६०.४२ ॥ सनत्कुमार उवाच नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः । नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥ १,६०.४३ ॥ निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता । सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम् ॥ १,६०.४४ ॥ मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति । नालं स दुःखमोक्षाय संगो वै दुःखलक्षणः ॥ १,६०.४५ ॥ सक्तस्य बुद्धर्भवति मोहजालविवर्द्धिनी । मोहजालावृतो दुःखमिहामुत्र तथाश्नुते ॥ १,६०.४६ ॥ सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः । कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ॥ १,६०.४७ ॥ नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेञ्च मत्सरात् । विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ॥ १,६०.४८ ॥ आनृशंस्यं परो धर्मः क्षमा च परमं बलम् । आत्मज्ञानं परं ज्ञानं सत्यं हि परमं हितम् ॥ १,६०.४९ ॥ येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः । इन्द्रियैरिन्द्रियार्थेभ्यश्चरत्यात्मवशैरिह ॥ १,६०.५० ॥ असज्जमानः शान्तात्मा निर्विकारः समाहितः । आत्मभूतैरतद्भूतः सह चैव विनैव च ॥ १,६०.५१ ॥ स विमुक्तः परं श्रेयो न चिरेणाधिगच्छति । अदर्शनमसंस्पर्शस्तथैवाभाषाणं सदा ॥ १,६०.५२ ॥ यस्य भूतैः सह मुने स श्रेयो विन्दते महत् । न हिंस्यात्सर्वभूतानि भूतैर्मैत्रायणश्चरेत् ॥ १,६०.५३ ॥ नेदं जन्म समासाद्य वैरं कुर्वीत केन चित् । आकिञ्चन्यं सुसंतोषो निराशिष्ट्वमचापलम् ॥ १,६०.५४ ॥ एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः । परिग्रहं परित्यज्य भव तातजितेन्द्रियः ॥ १,६०.५५ ॥ अशोकं स्थानमातिष्ट इह चामुत्र चाभयम् । निराशिषो न शोचन्ति त्यजेदाशिषमात्मनः ॥ १,६०.५६ ॥ परित्यज्याशिषं सौम्य दुःखग्रामाद्विमोक्ष्यसे । तपरोनित्येन दान्तेन मुनिना संयतात्मना ॥ १,६०.५७ ॥ अजितं जेतुकामेन भाव्यं संगेष्वसंगिना । गुणसंगेष्वेष्वनासक्त एकचर्या रतः सदा ॥ १,६०.५८ ॥ ब्राह्मणो न चिरादेव सुखमायात्यनुत्तमम् । द्वन्द्वारामेषु भूतेषु वराको रमते मुनिः ॥ १,६०.५९ ॥ किञ्चिन्प्रज्ञानतृप्तोऽसौ ज्ञानतृप्तो न शोचति । शुभैर्लभेत देवत्वं व्यामिश्रैर्जन्म मानुषम् ॥ १,६०.६० ॥ अशुभैश्चाप्यधो जन्म कर्मभिर्लभतेऽवशः । तत्र मृत्युजरादुःखैः सततं समभिद्रुतम् ॥ १,६०.६१ ॥ संसारं पश्यते जन्तुस्तत्कथं नावबुध्से । अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः ॥ १,६०.६२ ॥ अनर्थे वार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे । संवेष्ट्यमानं बहुभिर्मोहतन्तुभिरात्मजैः ॥ १,६०.६३ ॥ कोशकारवदात्मानं वेष्टितो नावबुध्यसे । अलं परिग्रहेणेह दोषवान् हि परिग्रहः ॥ १,६०.६४ ॥ कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् । पुत्रदारकुटुंबेषु सक्ताः सीदन्ति जन्तवः ॥ १,६०.६५ ॥ सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव । मोहजालसमाकृष्टान्पश्यजन्तून्सुदुःखितान् ॥ १,६०.६६ ॥ कुटुंबं पुत्रदारं च शरीरं द्रव्यसंचयम् । पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृते ॥ १,६०.६७ ॥ यदा सर्वं परित्यज्य गन्तव्यमवशेन वै । अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्टसि ॥ १,६०.६८ ॥ अविश्रान्तमनालंबमपाथेयमदैशिकम् । तमः कर्त्तारमध्वानं कथमेको गमिष्यसि ॥ १,६०.६९ ॥ नहि त्वां प्रस्थितं कश्चित्पृष्टतोऽनुगमिष्यति । सुकृतं दुष्कृतं च त्वां गच्छन्तमनुयास्यतः ॥ १,६०.७० ॥ विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् । अर्थार्थमनुशीर्यन्ते सिद्धार्थस्तु विमुच्यते ॥ १,६०.७१ ॥ निबन्धिनी रज्जुरेषा या ग्रामे वसतो रतिः । छित्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ १,६०.७२ ॥ तुल्यजातिवयोरूपान् हृतान्पस्यसि मृत्युना । न च नामास्ति निर्वेदो लोहं हि हृदयं तव ॥ १,६०.७३ ॥ रूपकूलां मनः स्रोतां स्पर्शद्वीपां रसावहाम् । गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरारुहाम् ॥ १,६०.७४ ॥ क्षमारित्रां सत्यमयीं धर्मस्थैर्यकराकराम् । त्यागवाताध्वगां शीघ्रां बुद्धिनावं नदीं तरेत् ॥ १,६०.७५ ॥ त्यक्त्वा धर्ममधर्मं च ह्युभे सत्यानृते त्यज । त्यज धर्ममसंकल्पादधर्मं चाप्यहिंसया ॥ १,६०.७६ ॥ उभे सत्यानृते बुद्धिं परमनिश्चयात् । अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ॥ १,६०.७७ ॥ धर्मावनद्धं दुर्गन्धिं पूर्णं मूत्रपुरीषयोः । जराशोकसमाविष्टं रोगायतनमस्थिरम् ॥ १,६०.७८ ॥ रजस्वलमनित्यं च भूतावासं समुत्सृज । इदं विश्वं जगत्सर्वमजगञ्चापि यद्भवेत् ॥ १,६०.७९ ॥ महाभूतात्मकं सर्वमस्माद्यत्परमाणुमत् । इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस्तथा ॥ १,६०.८० ॥ इत्येष सप्तदशको राशिख्यक्तसंज्ञकः । सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि हितम् ॥ १,६०.८१ ॥ पञ्चविंशक इत्येष व्यक्ताव्यक्तमयो गणः । एतैः सर्वैः समायुक्तमनित्यमभिधीयते ॥ १,६०.८२ ॥ त्रिवर्गोऽत्र सुखं दुःख जीवितं मरणं तथा । य इदं वेद तत्त्वेन सस वेद प्रभवाप्ययौ ॥ १,६०.८३ ॥ इन्द्रियैर्गृह्यते यद्यत्तद्व्यक्तमभिधीयते । अव्यक्तमथ तज्ज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥ १,६०.८४ ॥ इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते । लोके विहितमात्मानं लोकं चात्मनि पश्यति ॥ १,६०.८५ ॥ परावरदृशः शक्तिर्ज्ञानवेलां न पश्यति । पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ॥ १,६०.८६ ॥ ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते । ज्ञानेन विविधात्क्लेशान्न निवृत्तिश्च देहजात् ॥ १,६०.८७ ॥ लोकबुद्धिप्रकाशेन लोकमार्गो न रिष्यति । अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम् ॥ १,६०.८८ ॥ अकर्तारममूढं च भगवानाह तीर्तवित् । यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः ॥ १,६०.८९ ॥ स्वदुःखप्रतिघातार्थं हॄन्ति जन्तुरनेकधा । ततः कर्म समादत्ते पुनरन्यन्नवं बहु ॥ १,६०.९० ॥ तप्यतेऽथ पुनस्तेन भुक्त्वापथ्यमिवातुरः । अजस्रमेव मोहान्तो दुःखेषु सुखसंज्ञितः ॥ १,६०.९१ ॥ वध्यते तप्यते चैव भयवत्यर्मभिः सदा । ततो निवृत्तो बन्धात्स्वात्कर्मणामुदयादिह ॥ १,६०.९२ ॥ परिभ्रमति संसारे चक्रवद्बाहुवर्जितः । संयमेन च संबन्धान्निवृत्त्या तपसो बलात् ॥ १,६०.९३ ॥ सम्प्राप्ता बहवः सिद्धिं अव्याबाधां सुखोदयाम् ॥ १,६०.९४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने षष्टितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम् । निशम्य लभ्यते बुद्धिर्लब्धायां सुखमेधते ॥ १,६१.१ ॥ हर्षस्थानसहस्राणि शोकस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ १,६१.२ ॥ अनिष्टसंप्रंयोगाश्च विप्रयोगात्प्रियस्य च । मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः ॥ १,६१.३ ॥ द्रव्येषु समतीतेषु ये गुणास्तेन्न चिन्दयेत् । ताननाद्रियमाणश्च स्नेहबन्धाद्विमुच्यते ॥ १,६१.४ ॥ दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्त्तते । अनिष्टबुद्धितां यच्छेत्ततः क्षिप्रं विराजते ॥ १,६१.५ ॥ नार्थो न धर्मो न यशो योऽतीतमनुशोचति । अस्याभावेन युज्येतं तञ्चास्य तु निवर्तते ॥ १,६१.६ ॥ गुणैर्भूतानि युज्यन्ते तथैव च न युज्यते । सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥ १,६१.७ ॥ मृतं वा यदि वा नष्टं योऽतीतमनुशोचति । दुःखेन लभते दुःखं महानर्थे प्रपद्यते ॥ १,६१.८ ॥ दुःखोपघाते शारीरे मानसे चाप्युपस्थिते । यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुर्चितयेत् ॥ १,६१.९ ॥ भैषज्यमेतद्दःखस्य यदेतन्नानुचिन्तयेत् । चिन्त्यमानं हि न व्येति भूयश्चाभिप्रवर्द्धते ॥ १,६१.१० ॥ प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः । एतद्विज्ञाय सामर्थ्यं न वान्यैः समतामियात् ॥ १,६१.११ ॥ अनित्यं जीवितं रूपं यौवनं द्रव्यसञ्चयः । आरोग्यं प्रियसंवासं न मृध्येत्पण्डितः क्वचित् ॥ १,६१.१२ ॥ नाज्ञानप्रभवं दुःखमेकं शोचितुमर्हति । अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ॥ १,६१.१३ ॥ सुखात्प्रियतरं दुःखं जीविते नात्र संशयः । जरामरणदुःखेभ्यः प्रियमात्मानमुद्धरेत् ॥ १,६१.१४ ॥ भजन्ति हि शारीराणि रोगाः शरीरमानसाः । सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ॥ १,६१.१५ ॥ व्याधितस्य चिकित्साभिस्त्रस्यतो जीवितैषिणः । आमयस्य विनाशाय शरीरमनुकृष्यते ॥ १,६१.१६ ॥ स्रंसंति न निवर्तन्ते स्रोतांसि सरितामिव । आयुरादाय मर्त्यानां रात्र्यहानि पुनःपुनः ॥ १,६१.१७ ॥ अपयन्त्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः । जातं मर्त्यं जरयति निमिषं नावतिष्टते ॥ १,६१.१८ ॥ सुखदुःखाभिभूतानामजरो जरयत्यसून् । आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥ १,६१.१९ ॥ अदृष्टपूर्वानादाय भावानपरिशङ्कितान् । इष्टानिष्टा मनुष्याणां मतं गच्छन्ति रात्रयः ॥ १,६१.२० ॥ यो यदिच्छेद्यथाकामं कामानां तत्तदाप्नुयात् । यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ॥ १,६१.२१ ॥ संयताश्चैव तक्षाश्च मतिमन्तश्च मानवाः । दृश्यन्ते निष्फलाः संतः प्रहीनाश्च स्वकर्मभिः ॥ १,६१.२२ ॥ अपरे निष्फलाः सन्तो निर्गुणाः पुरुषाधमाः । आशाभिरण्यसंयुक्ता दृश्यन्ते सर्वकामिनः ॥ १,६१.२३ ॥ भूतानामपरः कश्चिद्धिंसायां सततोत्थितः । वञ्चनायां च लोकेषु ससुखेष्वेव जीयते ॥ १,६१.२४ ॥ अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्टति । कश्चित्कर्माणि कुरुते न प्राप्यमधिगच्छति ॥ १,६१.२५ ॥ अपराधान्समाच्ष्टुं पुरुषस्य स्वभावतः । शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति ॥ १,६१.२६ ॥ तस्य योनौ प्रसक्तस्य गर्भो भवति मानवः । आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते ॥ १,६१.२७ ॥ केषाञ्चित्पुत्रकामानामनुसन्तानमिच्छताम् । सिद्धौ प्रयतमानानां नैवाण्डमुपजायते ॥ १,६१.२८ ॥ गर्भादुद्विजमानानां क्रुद्धादशीविषादिव । आयुष्मान् जायते पुत्रः कथं प्रेतः पितेव सः ॥ १,६१.२९ ॥ देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रहेतुभिः । दशमासान्परिधृता जायते कुलपांसनाः ॥ १,६१.३० ॥ अपरे धनधान्यानि भोगांश्च पितृसंचितान् । विमलानभिजायन्ते लब्ध्वा तैरेव मङ्गलैः ॥ १,६१.३१ ॥ अन्योन्य समभिप्रेत्य मैथुनस्य समागमे । उपद्रवैवादृष्टो योनौ गर्भः प्रपद्यते ॥ १,६१.३२ ॥ स्निग्धत्वादिन्द्रियार्थेषु मोहान्मरणमप्रियम् । परित्यजति यो दुःखं सुखमप्युभयं नरः ॥ १,६१.३३ ॥ अत्येति ब्रह्म सोऽत्यन्तं सुखमप्यश्नुते परम् । दुःखमर्था हि त्यज्यन्ते पालने च न ते सुखाः ॥ १,६१.३४ ॥ श्रुत्वैव नाधिगमनं नाशमेषां न चिन्तयेत् । अन्यामन्यां धनावस्थां प्राप्य वैशेषिका नराः ॥ १,६१.३५ ॥ अतृप्ता यान्ति विध्वंसं सन्तोषं यान्ति पण्डिताः । सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ॥ १,६१.३६ ॥ संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् । अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम् ॥ १,६१.३७ ॥ तस्मात्संतोषमेवेह धनं शंसन्ति पण्डिताः । निमेषमात्रमपि हि योऽधिगच्छन्न तिष्टति ॥ १,६१.३८ ॥ सशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत् । भूतेषु भावं संचिन्त्य ये बुद्ध्या तमसः परम् ॥ १,६१.३९ ॥ न शोचन्ति गताध्वानः पश्यन्ति परमां गतिम् । संचिन्वन्नेकमेवैनं कामानावितृप्तकम् ॥ १,६१.४० ॥ व्याघ्र पशुमिवासाद्य मृत्युरादाय गच्छति । अथाप्युपायं संपश्येद्दुःखस्यास्य विमोक्षणे ॥ १,६१.४१ ॥ अशोचन्नारभेन्नैव युक्तश्चाव्यसनी भवेत् । शब्दे स्पर्शे रसे रूपे गन्धे च परमं तथा ॥ १,६१.४२ ॥ नोपभोगात्परं किञ्चिद्धनिनो वाधनस्य वा । वाक्संप्रयोगाद्भृतानां नास्ति दुःखमनामयम् ॥ १,६१.४३ ॥ विप्रयोगश्च सर्वस्य न वाचा न च विद्यया । प्रणयं परिसंहृत्य संस्तुतेष्वितरेषु च ॥ १,६१.४४ ॥ विचरेदसमुन्नद्धः स सुखी स च पण्डितः । अध्यात्मगतमालीनो निरपेक्षो निरामिषः ॥ १,६१.४५ ॥ आत्मनैव सहायेन चश्चरेत्स सुखी भवेत् । सुखदुःखविपर्यासो यदा समुपपद्यते ॥ १,६१.४६ ॥ नैनं प्रज्ञा सुनियतं त्रायते नापि पौरुषम् । स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति ॥ १,६१.४७ ॥ उपद्रव इवानिष्टो योनिं गर्भः प्रपद्यते । तानि पूर्वशरीराणि नित्यमेकं शरीरिणम् ॥ १,६१.४८ ॥ प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् । निर्दग्धं परदेहेन परदेंहं बलाबलम् ॥ १,६१.४९ ॥ विनश्यति विनाशान्ते नावि नावमिवाचलाम् । संगत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम् ॥ १,६१.५० ॥ केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि । अन्नपानानि जीर्यन्ते यत्र भक्ष्याश्च भक्षिताः ॥ १,६१.५१ ॥ तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यति । गर्भे मूत्रपुरीषाणां स्वभावनियता गतिः ॥ १,६१.५२ ॥ धारणे वा विसर्गे च न कर्तुं विद्यतेऽवशः । प्रभवन्त्युदरे गर्भा जायमानास्तथापरे ॥ १,६१.५३ ॥ आगमेन महान्येषां विनाश उपपद्यते । एतस्माद्योनिसंबन्धाद्यो जीवन्परिमुच्यते ॥ १,६१.५४ ॥ पूजां न लभते काञ्चित्पुनर्द्धन्द्वेषु मज्जति । गर्भस्य सह जातस्य सप्तमीमीदृशीं दशाम् ॥ १,६१.५५ ॥ प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः । नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः ॥ १,६१.५६ ॥ व्याधिभिश्च विवध्यन्ते व्याघ्रैः क्षुद्रमृगा इव । व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलन्धनम् ॥ १,६१.५७ ॥ वेदना नापकर्षन्ति यतमानाश्चिकित्सकाः ॥ १,६१.५८ ॥ ते चापि विविधा वैद्याः कुशला संमतौषधाः । व्याधिभिः परिकृष्यन्ते मृगा ज्याघ्रैरिवार्दिताः ॥ १,६१.५९ ॥ ते पिबन्ति कषायांश्च सर्पीषि विविधानि च । दृश्यन्ते जरया भग्ना नागैर्नागा इवोत्तमाः ॥ १,६१.६० ॥ कैर्वा भुवि चिकित्स्येन्त रोगार्त्ता मृगपक्षिणः । श्वापदाश्च दरिद्राश्च प्रायो नार्ता भवन्ति ते ॥ १,६१.६१ ॥ घोरानपि दुराधर्षान्नृपतीनुग्रतेजस । आक्रम्य रोग आदत्ते पशून्पशुपचो यथा ॥ १,६१.६२ ॥ इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् । स्रोतसा महसा क्षिप्रं ह्रियमाणं बलीयसा ॥ १,६१.६३ ॥ न धनेन न राज्येन नोग्रेण तपसा तथा । स्वभावा ह्यतिवर्तन्ते ये निर्मुक्ताः शरीरिषु ॥ १,६१.६४ ॥ उपर्यपरि लोकस्य सर्वो भवितुमिच्छति । यतते च यथाशक्ति न च तद्वर्तते तथा ॥ १,६१.६५ ॥ न म्रियेरन्नजीर्येरन्सर्वे स्युः सार्वकामिकाः । नाप्रियं प्रतिपद्येरन्नुत्थानस्य फलं प्रति ॥ १,६१.६६ ॥ ऐश्वर्यमदमत्ताश्च मानान्मयमदेन च । अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते ॥ १,६१.६७ ॥ शोकाः प्रतिनिवर्तन्ते केषाञ्चिदसमीक्षताम् । स्वं स्वं च पुनरन्येषां न कञ्चिदतिगच्छति ॥ १,६१.६८ ॥ महञ्च फलवैषम्यं दृश्यते कर्मसंधिषु । वहॄन्ति शिबिकामन्ये यान्त्यन्ये शिबिकारुहः ॥ १,६१.६९ ॥ सर्वेषामृद्धिकामानामन्ये रथपुरः सराः । मनुजाश्च गतश्रीकाः शतशो विविधाः स्त्रियाः ॥ १,६१.७० ॥ द्वन्द्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः । इदमन्यत्परं पश्य नात्र मोहं करिष्यसि ॥ १,६१.७१ ॥ धर्मं चापि त्यजा धर्मं त्यज सत्यानृतां धियम् । सर्वं त्यक्त्वा स्वरूपस्थः सुखी भव निरामयः ॥ १,६१.७२ ॥ एतत्ते परमं गुह्यमाख्यातमृषिसत्तम । येन देवाः परित्यज्य भर्त्यलोकं दिवं गताः ॥ १,६१.७३ ॥ सनन्दन उवाच इत्युक्त्वा व्यासतनयं समापृच्छ्य महामुनिः । सनत्कुमारः प्रययौ पूजितस्तेन सादरम् ॥ १,६१.७४ ॥ शुकोऽपि योगिनां श्रेष्ठः सम्यग्ज्ञात्वा ह्यवस्थितम् । ब्रह्मणः पदमन्वेष्टुमुत्सुकः पितरं ययौ ॥ १,६१.७५ ॥ ततः पित्रा समागम्य प्रणम्य च महामुनिः । शुकः प्रदक्षिणीकृत्य ययौ कैलासपर्वतम् ॥ १,६१.७६ ॥ व्यासस्तद्विरहाद्दूनः पुत्रस्नेहसमावृतः । क्षणैकं स्थीयतां पुत्र इति च क्रोश दुर्मनाः ॥ १,६१.७७ ॥ निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः । मोक्षमेवानुसंचित्य गत एव परं पदम् ॥ १,६१.७८ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे एकषष्टितमोऽध्यायः _____________________________________________________________ सूत उवाच एतच्छ्रृत्वा तु वचनं नारदो भगवानृषिः । पुनः पप्रच्छ तं विप्र शुकाभिपतनं मुनिम् ॥ १,६२.१ ॥ नारद उवाच भगवन्सर्वमाख्यातं त्वयातिकरुणात्मना । यच्छ्रृत्वा मानसं मेऽद्य शान्तिमग्र्यामुपागतम् ॥ १,६२.२ ॥ पुनश्च मोक्षशास्त्रं मे त्वमादिश महामुने । नहि सम्पूर्णतामेति तृष्णा कृष्णगुणार्णवे ॥ १,६२.३ ॥ ये तु संसारनिर्मुक्ता मोक्ष शास्त्रपरायणाः । कुत्र ते निवसंतीह संशयो मे महानयम् ॥ १,६२.४ ॥ तं छिन्धि सुमहाभागत्वत्तो नान्यो विदांवरः । सनं.उ धारयामास चात्मानं यथाशास्त्रं महामुनिः ॥ १,६२.५ ॥ पादात्प्रभृति गात्रेषु क्रमेण क्रमयोगवित् । ततः स प्राङ्मुखो विद्वानादित्येन विरोचिते ॥ १,६२.६ ॥ पाणिपादं समाधाय विनीतवदुपाविशत् । न तत्र पक्षिसंघातो न शब्दो न च दर्शनम् ॥ १,६२.७ ॥ यत्र वैयासकिर्द्धाम्नि योक्तुं समुपचक्रमे । स ददर्श तदात्मानं सर्वसंगविनिःसृतः ॥ १,६२.८ ॥ प्रजहास ततो हासं शुकः सम्प्रेक्ष्य भास्करम् । स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये ॥ १,६२.९ ॥ महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् । अन्तरीक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः ॥ १,६२.१० ॥ तमुन्द्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम् । ददृशुः सर्वभूतानि मनोमारुतरंहसम् ॥ १,६२.११ ॥ यथाशक्ति यथान्यायं पूजयाञ्चक्रिरे तथा । पुष्प वर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः ॥ १,६२.१२ ॥ तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः । ऋषयश्चैव संसिद्धाः कोऽयं सिद्धिमुपागतः ॥ १,६२.१३ ॥ ततोऽसौ स्वाह्रयं तेभ्यः कथयामास नारद । उवाच च महातेजास्तानृषीन्संप्रहर्षितः ॥ १,६२.१४ ॥ पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै । तस्मै प्रतिवचोदेयं भवद्भिस्तु समाहितैः ॥ १,६२.१५ ॥ बाढमुक्तस्ततस्तैस्तु लोकान्हित्वा चतुर्विधान् । तमो ह्यष्टविधं त्यक्त्वा जहौ पञ्चविधं रजः ॥ १,६२.१६ ॥ ततः सत्वं जहौ धीमांस्तदद्भुतमिवाभवत् । ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गपूजिते ॥ १,६२.१७ ॥ ततः स शृङ्गेऽप्रतिमे हिमवन्मेरुसन्निभे । संश्लिष्टे श्वेतपीते च रुक्मरूप्यमये शुभे ॥ १,६२.१८ ॥ शतयोजनविस्तारे तिर्यागूर्द्ध्च नारद । सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः ॥ १,६२.१९ ॥ ते शृङ्गेऽत्यन्तसंश्लिष्टे सहसैव द्विधाकृते । अदृश्येतां द्विजश्रेष्ठ तदद्भुतमिवाभवत् ॥ १,६२.२० ॥ ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः । न च प्रतिजघानास्य स गतिं पर्वतोत्तमः ॥ १,६२.२१ ॥ ततो मन्दाकिनीं दिव्या मुपरिष्टादभिव्रजन् । शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननम् ॥ १,६२.२२ ॥ तस्यां क्रीडासु निरताः स्नान्ति चैवाप्सरोगणाः । निराकारं तु साकाराददृशुस्तं विवाससः ॥ १,६२.२३ ॥ तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः । उत्तमां गतिमास्थाय पृष्टतोऽनुससार ह ॥ १,६२.२४ ॥ शुकस्तु मारुतादूर्द्ध्वं गतिं कृत्वां तरिक्षगाम् । दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा ॥ १,६२.२५ ॥ अथ योगगतिं व्यासः समास्थाय महातपाः । निमेषान्तरमात्रेण शुकाभिपतनं ययौ ॥ १,६२.२६ ॥ स ददर्श द्विधा कृत्वा पर्वताग्रं गतं शुकम् । शशंसुर्मुनयः सिद्धा गतिं तस्मै सुतस्य ताम् ॥ १,६२.२७ ॥ ततः शुकेतिशब्देन दीर्घेण क्रन्दितं तदाः । स्वयं पित्रा स्वरेणोञ्चैस्त्रींल्लोकाननुनाद्य वै ॥ १,६२.२८ ॥ शुकः सर्वगतिर्भूत्वा सर्वात्मा सर्वतोमुखः । प्रत्यभाषत धर्मात्मा भोः शब्देनानुनादयन् ॥ १,६२.२९ ॥ तत एकाक्षरं नादं भोरित्येवमुदीरयन् । प्रत्याहरज्जगत्सर्वमुञ्चैः स्थावरजङ्गमम् ॥ १,६२.३० ॥ ततः प्रभृति वाद्यापि शब्दानुञ्चारितान्पृथक् । गिरिगह्वरपृष्टेषु व्याजहार शुकं प्रति ॥ १,६२.३१ ॥ अन्तर्हितप्रभावं तं दर्शयित्वा शुकस्तदा । गुणान्संत्यज्य सत्त्वादीन्पदमध्यगमत्परम् ॥ १,६२.३२ ॥ महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः । सोऽनुनीतो भगवता व्यासो रुद्रेण नारद ॥ १,६२.३३ ॥ किमु त्वं ताम्यसि मुने पुत्रं प्रति समाकुलः । पश्यसि विप्र नायान्तं ब्रह्मभूतं निजान्तिरे ॥ १,६२.३४ ॥ इत्येवमनुनीतोऽसौ व्यासः पुनरुप्राव्रजत् । श्वाश्रमं स शुको ब्रह्मभूतो लोकांश्चचार ह ॥ १,६२.३५ ॥ तत कालान्तरे ब्रह्मन्व्यासः सत्यवतीसुतः । नरनारायणौ द्रष्टुं ययौ बदरिकाश्रमम् ॥ १,६२.३६ ॥ तत्र दृष्ट्वा तु तौ देवौ तप्यमानो महत्तपः । स्वयं च तत्र तपसि स्थितः शुकमनुस्मरन् ॥ १,६२.३७ ॥ यावत्तत्र स्थितो व्यासः शुकः परमयोगवित् । श्वेतद्वीपं गतस्तात यत्र त्वमगमः पुरा ॥ १,६२.३८ ॥ तत्र दृष्टप्रभावस्तु श्रीमान्नारायणः प्रभुः । दृष्टः श्रुतिविमृग्यो हि देवदेवो जनार्दनः ॥ १,६२.३९ ॥ स्तुतश्च शुकदेवेन प्रसन्नः प्राह नारद । श्रीभगवानुवाच त्वया दृष्टोऽस्मि योगीन्द्र सर्वदेवरहःस्थितः ॥ १,६२.४० ॥ सनत्कुमारादिष्टेन सिद्धो योगेन वाडव । त्वं सदागतिमार्गस्थो लोकान्पश्य यथेच्छया ॥ १,६२.४१ ॥ इत्युक्तो वासुदेवेन तं नत्वारणिसंभवः । वैकुण्ठं प्रययौ विप्र सर्वलोकनमस्कृतम् ॥ १,६२.४२ ॥ वैमानिकैः सुरैर्जुष्टं विरजापरिचेष्टितम् । यं भान्तमनुभान्त्येते लोकाः सर्वेऽपि नारद ॥ १,६२.४३ ॥ यत्र विदुमसोपानाः स्वर्णरत्नविचित्रिताः । वाप्य उत्पलंसंछन्नाः सुरस्त्रीक्रीडनाकुलाः ॥ १,६२.४४ ॥ दिव्यैर्हंसकुलैर्घुष्टाः स्वच्छांबुनिभृताः सदा । तत्र द्वाःस्थैश्चतुर्हस्तेनार्नाभरणभूषितैः ॥ १,६२.४५ ॥ विष्वक्सेनानुगैः सिद्धैः कुमुदाद्यैरवा रितः । प्रविश्याभ्यान्तरं तत्र देवदेवं चतुर्भुजम् ॥ १,६२.४६ ॥ शान्तं प्रसन्नवदनं पीतकौशेयवाससम् । शङ्खचक्रगदापद्मैर्मूर्तिमद्भिरुपासितम् ॥ १,६२.४७ ॥ वक्षस्थलस्थया लक्ष्म्या कौस्तुभेन विराजितम् । कटीसूत्रब्रह्मसूत्रकटकाङ्गदभूषितम् ॥ १,६२.४८ ॥ भ्राजत्किरीटवलयं मणिनूपुरशोभितम् । ददर्श सिद्धनि करैः सेव्यमानमहर्निशम् ॥ १,६२.४९ ॥ तं दृष्ट्वा भक्तिभावेन तुष्टाव मधुसूदनम् । शुक उवाच नमस्ते वासुदेवाय सर्वलोकैकसाक्षिणे ॥ १,६२.५० ॥ जगद्बीजस्वरूपाय पूर्णाय निभृतात्मने । हरये वासुकिस्थाय श्वेतद्वीपनिवासिने ॥ १,६२.५१ ॥ हंसाय मत्स्यरूपाय वाराहतनुधारिणे । नृसिंहाय ध्रुवेज्याय सांख्ययोगेश्वराय च ॥ १,६२.५२ ॥ चतुःसनाय कूर्माय पृथवे स्वसुरवात्मने । नाभेयाय जगद्धात्रे विधात्रेंऽतकारय च ॥ १,६२.५३ ॥ भार्गवेन्द्राय रामाय राघवाय पराय च । कृष्णाय वेदकर्त्रे च बुद्धकल्किस्वरूपिणे ॥ १,६२.५४ ॥ चतुर्व्युहाय वेद्याय ध्येयाय परमात्मने । नरनारायणाख्याय शिषिविष्टाय विष्णवे ॥ १,६२.५५ ॥ ऋतधाम्ने विधाम्ने च सुपर्णाय स्वरोचिषे । ऋभवे सुव्रताख्याय सुधाम्ने चाजिताय च ॥ १,६२.५६ ॥ विश्वरूपाय विश्वाय सृष्टिस्थित्यन्तकारिणे । यज्ञाय यज्ञभोक्ते च स्थविष्ठायाणवेऽर्थिने ॥ १,६२.५७ ॥ आदित्यसोमनेत्राय सहओजोबलाय च । ईज्याय साक्षिणेऽजायबहुशीर्षाङ्घ्रिबाहवे ॥ १,६२.५८ ॥ श्रीशाय श्रीनिवासाय भक्तवश्याय शार्ङ्गिणे । अष्टप्रकृत्यधीशाय ब्रह्मणेऽनन्तसक्तये ॥ १,६२.५९ ॥ बृहदारण्यवेद्याय हृषीकेशाय वेधसे । पुण्डरीकनिभाक्षाय क्षेत्रज्ञाय विभासिने ॥ १,६२.६० ॥ गोविन्दाय जगत्कर्त्रे जगन्नाथाय योगिने । सत्याय सत्यसंधाय वैकुण्ठायाच्युताय च ॥ १,६२.६१ ॥ अधोक्षजाय धर्माय वामनाय त्रिधातवे । घृतार्चिषे विष्णवे तेऽनन्ताय कपिलायय च ॥ १,६२.६२ ॥ विरिञ्चये त्रिककुदे ऋग्यजुःसामरूपिणे । एकशृङ्गाय च शुचिश्रवसे शास्त्रयोनये ॥ १,६२.६३ ॥ वृषाकपय ऋद्धाय प्रभवे विश्वकर्मणे । भूर्भुवुःस्वःस्वरूपाय दैत्यघ्ने निर्गुणाय च ॥ १,६२.६४ ॥ निरञ्जनाय नित्याय ह्यव्ययायाक्षराय च । नमस्ते पाहि मामीश शरणागतवत्सल ॥ १,६२.६५ ॥ इति स्तुतः स भगवाञ्च्छङ्खचक्रगदाधरः । आरणेयमुवाचेदं भृशं प्रणतवत्सलः ॥ १,६२.६६ ॥ श्रीभगवानुवाच व्यासपुत्र महाभाग प्रीतोऽस्मि तव सुव्रत । विद्यामाप्नुहि भक्तिं च ज्ञानी त्वं मम रूपधृक् ॥ १,६२.६७ ॥ यद्रूपं मम दृष्टं प्राक्श्वेतद्वीपे त्वया द्विज । सोऽहमेवावतारार्थं स्थितो विश्वंभरात्मकः ॥ १,६२.६८ ॥ सिद्धोऽसि त्वं महाभाग मोक्षधर्मानुनुचिन्तया । वरलोकान्यथा वायुर्यथा रवं सविता तथा ॥ १,६२.६९ ॥ नित्यमुक्तस्वरूपस्त्वं पूज्यमानः सुरैर्नरैः । भक्तिर्हि दुर्लभा लोके मयि सर्वपरायणे ॥ १,६२.७० ॥ तां लब्ध्वा नापरं किञ्चिल्लब्धव्यमवशिष्यते । आकल्पान्तः तपः संस्थौ नरनारायणावृषी ॥ १,६२.७१ ॥ तयोर्निदेशतो व्यासो जनक स्तव सुव्रतः । कर्ता भागवतं शास्त्रं तदधीष्व भुवं व्रज ॥ १,६२.७२ ॥ स तप्यति तपस्त्वद्य पर्वते गन्धमादने । त्वद्वियोगेन खिन्नात्मा तं प्रसादय मत्प्रियम् ॥ १,६२.७३ ॥ एवमुक्तः शुको विप्र नमस्कृत्य चतुर्भुजम् । यथागतं निवृत्तोऽसौ पितुरन्तिकमागमत् ॥ १,६२.७४ ॥ अथ तं स्वन्तिके दृष्ट्वा पाराशर्य्यः प्रतापवान् । पुत्रं प्राप्य प्रहृष्टात्मा तपसो निववर्त ह ॥ १,६२.७५ ॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । आरणेयसमायुक्तः स्वाश्रमं समुपागमत् ॥ १,६२.७६ ॥ नारायणनियोगात्तु त्वन्मुखेन मुनीश्वर । चकार संहितां दिव्यां नानाख्यानसमन्विताम् ॥ १,६२.७७ ॥ वेदतुल्यां भागवतीं हरिभक्तिविवर्द्धिनीम् । निवृत्तिनिरतं पुत्रं शुकमध्यापयञ्च ताम् ॥ १,६२.७८ ॥ आत्मारामोऽपि भगवान्पाराशर्यात्मजः शुकः । अधीतवान्संहितां वै नित्यं विष्णुजनप्रियाम् ॥ १,६२.७९ ॥ एवमेते समाख्याता मोक्षधर्मास्तवानध । पठतां शृण्वतां चापि हरिभक्तिविवर्द्धनाः ॥ १,६२.८० ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने मोक्षधर्ंमनिरूपणं नाम द्विषष्टितमोऽध्यायः _____________________________________________________________ समाप्तश्चायं द्वितीयः पादः । शौनक उवाच सूत साधो चिरं जीव सर्वशास्त्रविशारदः । यत्त्वया पायिता विद्वन्वयं कृष्णकथामृतम् ॥ १,६३.१ ॥ श्रुत्वा तु मोक्षधर्मान्वै नारदो भगवत्प्रियः । सनन्दनमुखोद्गीतान्किं पप्रच्छं ततः परम् ॥ १,६३.२ ॥ मानसा ब्रह्मणः पुत्राः सनकाद्या मुनीश्वराः । चरन्ति लोकानन्तसिद्धा लोकोद्धरणतत्पराः ॥ १,६३.३ ॥ नारदोऽपि महाभाग नित्यं कृष्णपरायणः । तेषां समागमे भद्रा का कथा लोकपावनी ॥ १,६३.४ ॥ सूत उवाच साधु पृष्टं महाभाग त्वया लोकोपकारिणा । कथयिष्यामि तत्सर्वं यत्पृष्ट नारदर्षिणा ॥ १,६३.५ ॥ श्रुत्वा सनन्दनप्रोक्तान्मोक्षधर्मान्सनातनान् । नारदो भार्गवश्रेष्ठ पुनः पप्रच्छ तान्मुनीन् ॥ १,६३.६ ॥ नारद उवाच सर्वदेवेश्वरो विष्णुर्वेदे तन्त्रे च कीर्तितः । समाराध्यः स एवात्र सर्वैः सर्वार्थकाङ्क्षिभिः ॥ १,६३.७ ॥ कैर्मन्त्रैर्भगवान्विष्णुः समाराध्यो मुनीश्वराः । के देवाः पूजनीयाश्च विष्णुपादपरायणैः ॥ १,६३.८ ॥ तन्त्रं भागवतं विप्रा गुरुशिष्यप्रयोजकम् । दीक्षणं प्रातराद्यं च कृत्यं स्याद्यत्तदुच्यताम् ॥ १,६३.९ ॥ यैर्मासैः कर्मभिर्यैर्वा जप्यैर्हेमादिभिस्तथा । प्रीयेत परमात्मा वै तद्ब्रूत मम मानदाः ॥ १,६३.१० ॥ सूत उवाच एतच्छ्रुत्वा वचस्तस्य नारदस्य महात्मनः । सनत्कुमारो भगवानुवाचार्कसमद्युतिः ॥ १,६३.११ ॥ सनत्कुमार उवाच शृणु नारद वक्ष्यामि तन्त्रं भागवतं तव । यज्ज्ञात्वामलया भक्त्या साधयेद्विष्णुमव्ययम् ॥ १,६३.१२ ॥ त्रिपदार्थं चतुष्पादं महातन्त्रं प्रचक्षते । भोगमोक्षक्रियाचर्याह्वया पादाः प्रकीर्तिताः ॥ १,६३.१३ ॥ पादार्थास्तु पशुपतिः पशुपाशास्त्रय एव हि । पतिस्तत्र शिवोह्येको जीवास्तु पशवः स्मृताः ॥ १,६३.१४ ॥ यावन्मोहादिसंयोगाः स्वरूपाबोधलक्षणाः । तावत्पशुत्वमेतेषां द्वैतवत्पश्य नारद ॥ १,६३.१५ ॥ पाशाः पञ्चविधास्त्वेषां प्रत्येकं तेषु लक्षणम् । पशवस्त्रिविधाश्चापि विज्ञाताः कलसंज्ञिकाः ॥ १,६३.१६ ॥ तलपाकलसंज्ञश्च सकलश्चेति नामतः । तत्राद्यो मलसंयुक्तो मलकर्मयुतः परः ॥ १,६३.१७ ॥ मलमायाकर्मयुतस्तृतीयः परिकीर्तितः । आद्यस्तु द्विविधस्तत्र समासकलुषस्तथा ॥ १,६३.१८ ॥ असमासमलश्चेति द्वितीयोऽपि पुनस्तथा । पक्वापक्वमलेनैव द्विविधः परिकीर्तितः ॥ १,६३.१९ ॥ शुद्धेऽध्वनि गतावेतौ विज्ञानप्रलयाकलौ । कलादितत्त्वनियतः सकलः पर्यटत्ययम् ॥ १,६३.२० ॥ कर्मानुगशरीरेषु तत्तद्भुवनगेषु च । पाशाः पञ्च तथा तत्र प्रथमौ मलकर्मजौ ॥ १,६३.२१ ॥ मायेयश्च तिरोधानशक्तिजो बिन्दुजः परः । एकोऽप्यनेकशक्तिर्दृक्क्रियाच्छादनकोमलः ॥ १,६३.२२ ॥ तुषकञ्चुकवद्देहनिमित्तं चात्मनामिह । धर्माधर्मात्मकं कर्म विचित्रफलभोगदम् ॥ १,६३.२३ ॥ प्रवाहनित्यं तद्बीजाङ्कुरन्यायेन संस्थितम् । इत्येतौ प्रथमौ चाथ मायेयाद्यान् शृणुद्विज ॥ १,६३.२४ ॥ सञ्चिदानन्दविभवः परमात्मा सनातनः । पतिर्जयति सर्वेषामेको बीजं विभुः परम् ॥ १,६३.२५ ॥ मनस्यति न चोदेति निवृत्तिं च प्रयच्छति । वर्वर्ति दृक्क्रियारूपं तत्तेजः शांभवं परम् ॥ १,६३.२६ ॥ शक्तो मया हरौ भुक्तो पशुगणस्य हि । तच्छक्तिमाद्यामेकान्तां विद्रूपाख्यां वदन्ति हि ॥ १,६३.२७ ॥ तया चोज्जृंभितो बिन्दुर्दिक्क्रियात्मा शिवाभिधः । अशेषतत्त्वजातस्य कारणं विभुरव्ययम् ॥ १,६३.२८ ॥ अस्मिन्निलीना निखिला इच्छायाः शक्तयः स्वकम् । कृत्यं कुर्वन्ति तेनेदं सर्वानुग्राहकं मुने ॥ १,६३.२९ ॥ चिज्जडानुग्रहार्थाय यस्य विश्वं सिसृक्षतः । आद्योन्मेषोऽस्य नादात्मा शान्त्यादिभुवनात्मकः ॥ १,६३.३० ॥ तच्छक्तितत्त्वं विप्रेन्द्र प्रोक्तं सावयवं परम् । ततो ज्ञानक्रियाशक्त्योस्तथोत्कर्षापकर्षयोः ॥ १,६३.३१ ॥ प्रसरश्चाप्यभावेन तत्त्वं चैतत्सदाशिवम् । दृक्शक्तिर्यत्र न्यग्भूता क्रियाशक्तिर्विशिष्यते ॥ १,६३.३२ ॥ ईश्वराख्यं तु तत्तत्त्वं प्रोक्तं सर्वार्थकर्तृकम् । यत्र क्रिया हि न्यग्भूता ज्ञानाख्योद्रेकमश्नुते ॥ १,६३.३३ ॥ तत्तत्त्वं चैव विद्याख्यं ज्ञानरूपं प्रकाशकम् । नादो बिन्दुश्च सकलः सदाख्यं तत्त्वमाश्रितौ ॥ १,६३.३४ ॥ विद्येशाः पुनरैशं तु मन्त्रा विद्याभिधं पुनः । इमानि चैव तत्त्वानि शुद्धाध्वेति प्रकीर्तितम् ॥ १,६३.३५ ॥ साक्षान्निमित्तमीशोऽत्रेत्युपादानसबिन्दुराट् । पञ्चानां कालराहित्याक्रमो नास्तीति निश्चितम् ॥ १,६३.३६ ॥ व्यापारवसतो ह्येषां विहिता खलु कल्पना । तत्त्वं वस्तुत एकं तु शिवाख्यं चित्रशक्तिकम् ॥ १,६३.३७ ॥ शक्तं यां वृत्तिभेदात्तुविहिताः खलु कल्पनाः । चिज्जडानुग्रहार्थाय कृत्वा रूपाणि वै प्रभुः ॥ १,६३.३८ ॥ अनादिमलरुद्धानां कुरुतेऽनुग्रहं चिताम् । मुक्तिं च विश्वेषां स्वव्यापारे समर्थेताम् ॥ १,६३.३९ ॥ विधत्ते जडवर्गस्य सर्वानुग्राहकः शिवः । शिवसामान्यरूपो हि मोक्षस्तु चिदनुग्रहः ॥ १,६३.४० ॥ सोऽनादित्वात्कर्मणो हि तत्तद्भोगं विना भवेत् । तेनानुग्राहकः शम्भुस्तद्भुक्त्यै प्रभुर्व्ययः ॥ १,६३.४१ ॥ कुरुते सूक्ष्मकरणभुवनोत्पत्तिमञ्जसा । कर्त्तोपादानकरणैर्विना कार्ये न दृश्यते ॥ १,६३.४२ ॥ शक्तयः करणं चात्र मायोपादानमिष्यते । नित्यैका च शिवा शक्त्या ह्यनादिनिधना सती ॥ १,६३.४३ ॥ साधारणी नराणां वै भुवनानां च कारणम् । स्वभावान्मोहजननी स्वचिताजनकर्मभिः ॥ १,६३.४४ ॥ विश्वी सूक्ष्मा परा माया विकृतैः परत्तु सा । कर्माण्यावेक्ष्य विद्येशो मायां विक्षोभ्य शक्तिभिः ॥ १,६३.४५ ॥ विधत्ते जीवभोगार्थं वपूंषि करणानि च । सृजत्यादो कालतत्त्वं नानाशक्तिमयी च सा ॥ १,६३.४६ ॥ भावि भूतं मवञ्चेदं जगत्कलयते लयम् । सूते ह्यनन्तरं माया शक्तिं नियमनात्मिकाम् ॥ १,६३.४७ ॥ सर्वं नियमयत्येषा तेनेयं नियतिः स्मृता । अनन्तरं च सा माया नित्या विश्वविमोहिनी ॥ १,६३.४८ ॥ अनादिनिधना तत्त्वं कलाख्यं जनयत्यपि । एकतस्तु नृणां येन कलयित्वा मलं ततः ॥ १,६३.४९ ॥ कर्तृशक्तिं व्यञ्जयति तेनेदं तु कलाभिधम् । कालेन च नियत्योपसर्गतां समुपेतया ॥ १,६३.५० ॥ व्यापारं विदधात्येषा भूपर्यन्तं स्वकीयकम् । प्रदर्शनाथ वै पुंसो विषयाणां च सा पुनः ॥ १,६३.५१ ॥ प्रकाशरूपं विद्याख्यं तत्त्वं सूते कलैव हि । विद्या त्वावरणं भित्वा ज्ञानशक्तेः स्वकर्मणा ॥ १,६३.५२ ॥ विषयान्दर्शयत्येषात्मनांशाकारणं ह्यतः । करोति भोग्यं यानासौ करणेन परेण वै ॥ १,६३.५३ ॥ उद्बुद्धशक्तिः पुरुषः प्रचोद्य महदादिकान् । भोग्ये भोगं च भोक्तारं तत्परं करणं तु सा ॥ १,६३.५४ ॥ भोग्येस्य भोग्यतिर्मासाञ्चिद्व्यक्तिर्भोग उच्यते । सुखादिरूपो विषयाकारा बुद्धिः समासतः ॥ १,६३.५५ ॥ भोग्यं भोक्तुश्च स्वेनैव विद्याख्यं करणं तु तत् । यद्यर्कवत्प्रकाशा धीः कर्मत्वाञ्च तथापि हि ॥ १,६३.५६ ॥ करणान्तरसापेक्षा शक्ता ग्राहयितुं च तम् । संबन्धात्कारणाद्यैस्तद्भोगौत्सुक्येन चोदनात् ॥ १,६३.५७ ॥ तञ्चष्टाफलयोगाञ्च संसिद्धा कर्तृतास्य तु । अकर्तृत्वाभ्युपगमे भोक्तृत्वाख्या वृथास्य तु ॥ १,६३.५८ ॥ किं च प्रधानचरितं व्यर्थं सर्वं भवेत्ततः । कर्तृत्वरहिते पुंसि करणाद्यप्रयोजके ॥ १,६३.५९ ॥ भोगस्यासंभवस्तस्मात्स एवात्र प्रवर्तकः । करणादिप्रयोक्तृआत्वं विद्ययैवास्य संमतम् ॥ १,६३.६० ॥ अनन्तरं कलारागं सूते भिद्यङ्गरूपकम् । येन भोग्याय जनिता भिद्यङ्गे पुरुषे पुनः ॥ १,६३.६१ ॥ क्रियाप्रवृत्तिर्भवति तेनेदं रागसंज्ञिकम् । एभिस्तत्त्वैश्च भोक्तृत्वदशायां कलितो यदा ॥ १,६३.६२ ॥ नित्यस्तदायमात्मा तु लभते पुरुषाभिधाम् । कलैव प्रश्चादव्यक्तं सूते भोग्याय चास्य तु ॥ १,६३.६३ ॥ सप्तग्रन्थिविधानस्य यत्तद्गौणस्यकारणम् । गुणानामविभागोऽत्र ह्याधारे क्ष्मादिभागवत् ॥ १,६३.६४ ॥ आधारोऽपि च यस्तेषां तदव्यक्तं च गीयते । त्रय एव गुणा ह्यषामव्यक्तादेव संभवः ॥ १,६३.६५ ॥ सत्त्वं रजस्तमःप्रख्या व्यापारनियमात्मिका । गुणतो धीश्च विषयाध्यवसायस्वरूपिणी ॥ १,६३.६६ ॥ गुणतस्त्रिविधा सापि प्रोक्ता कर्मानुसारतः । महत्तत्तवादहॄङ्कारो जातः संरंभवृत्तिमान् ॥ १,६३.६७ ॥ संभोदादस्य विषयः प्राप्नोति व्यवहार्यताम् । सत्त्वा द्विगुणभेदेन स पुनस्त्रिविधो भवेत् ॥ १,६३.६८ ॥ तैजसो राजसश्चैव तामसश्चेति नामतः । तत्र तैजसतो ज्ञानेन्द्रियाणि मनसा सह ॥ १,६३.६९ ॥ प्रकाशान्व यतस्तस्माद्वोधकानि भवन्ति हि । राजसाञ्च क्रियाहेतोस्तथा कर्मेन्द्रियाणि तु ॥ १,६३.७० ॥ तामसाञ्चैव जायन्ते तन्मात्रा भूतयोनयः । इच्छारूपं च संकल्पव्यापारं तत्र वै मनः ॥ १,६३.७१ ॥ द्विधाधिकारि तञ्चित्तं भोक्तृभोगोपपादकम् । बहिः करणभावेन स्वोचितेन यतः सदा ॥ १,६३.७२ ॥ इन्द्रियाणाञ्च सामर्थ्यं संकल्पेनात्मवृत्तिना । करोत्यन्तःस्थितं भूयस्ततोऽन्तः करणं मनः ॥ १,६३.७३ ॥ मनोऽहॄङ्कारबुद्ध्याख्यमस्त्यन्तः कारणं त्रिधा । इच्छासंरंभबोधाख्या वृत्तयः क्रमतोऽस्य तु ॥ १,६३.७४ ॥ ज्ञानेन्द्रियाणि श्रोत्रं त्वक्चक्षुर्जिह्वा च नासिका । ग्राह्याश्च विषया ह्येषां ज्ञेयाः शब्दादयो मुने ॥ १,६३.७५ ॥ शब्दस्पर्शरूपरसगन्धाः शब्दादयो मताः । वाक्पाणिपादपायूपस्थास्तु कर्मेन्द्रियाण्यपि ॥ १,६३.७६ ॥ वचनादानगमनोत्सर्गानन्देषु कर्मसु । करणानि च सिद्धिना न कृतिः करणैर्विना ॥ १,६३.७७ ॥ दशधा करणैश्चेष्टां कार्यमाविश्य कार्यते । चेष्टन्ते कार्यमालंब्य विभुत्वात्करणानि तु ॥ १,६३.७८ ॥ तन्मात्राणि तु खवायुस्तेजोऽम्भः क्ष्मेति पञ्च वै । तेभ्यो भूतान्येकगुणान्याख्यातानि भवन्ति हि ॥ १,६३.७९ ॥ इति पञ्चसु शब्दोऽयं स्पर्शो भूतचतुष्टये । रूपं त्रिषु रसश्चैव द्वयोर्गन्धः क्षितौ तथा ॥ १,६३.८० ॥ कार्याण्येषां क्रमेणैवावकाशो व्यूहकल्पनम् । पाकश्च संग्रहश्चैव धारणं चेति कथ्यते ॥ १,६३.८१ ॥ आशीतोष्णौ महा वाद्यौ शीतोष्णौ वारितेजसोः । भास्वदग्नौ जले शुक्लं क्षितौ शुक्लाद्यनेकधा ॥ १,६३.८२ ॥ रूपं त्रिषु रसोंऽभः सु मधुरः षडिधः क्षितौ । गन्धः क्षितावसुरभिः सुरभिश्च प्रकीर्तितः ॥ १,६३.८३ ॥ तन्मात्रं तद्भूतगुणं करणं पोषणं तथा । भूतस्य तु विशेषोऽयं विशेषरहितं तु तत् ॥ १,६३.८४ ॥ इमानि पञ्चभूतानि संनिविष्टानि सर्वतः । पञ्चभूतात्मकं सर्वं जगत्स्थावरजङ्गमम् ॥ १,६३.८५ ॥ शरीरसंनिविष्टत्वमेषां तावन्निरूप्यते । देहेऽस्थिमांसकेशत्वङ्नखदन्ताश्च पार्थिवाः ॥ १,६३.८६ ॥ मूत्ररक्तकफस्वेदशुक्रादिषु जलस्थितिः । हृदि पङ्क्तौ दृशोः पित्ते तेजस्तद्धर्मदर्शनात् ॥ १,६३.८७ ॥ प्राणादिवृत्तिभेदेन वायुश्चैवात्र संस्थितः । वियत्सर्वासु नाडीषु गर्भवृत्यनुषङ्गतः ॥ १,६३.८८ ॥ प्रयोक्त्यादिमहीप्रान्तमेतदण्डार्थसाधनम् । प्रत्यात्मनियतं भोगभेदतो व्यवसीयते ॥ १,६३.८९ ॥ तत्त्वान्येवं कलाद्यानि प्रतिपुंनियतानि हि । देहेषु कर्मवशतः सर्वेषु विचरन्ति हि ॥ १,६३.९० ॥ मायेयश्चैव पाशोऽयं येनावृतमिदं जगत् । अशुद्धाध्वामतो ह्येष धरण्यादिकलावधिः ॥ १,६३.९१ ॥ तत्र भूमण्डलस्थोऽसौ स्थावरो जङ्गमात्मकः । स्थावरा गिरिवृक्षाद्या जङ्गमस्त्रिविधः पुनः ॥ १,६३.९२ ॥ स्वेदजाश्चाण्डजाश्चैव तथैव च जरायुजाः । चराचरेषु लक्षाणां चतुराशीतियोनयः ॥ १,६३.९३ ॥ भ्रममाणस्तेषु जीवः कदाचिन्मानुषं वपुः । प्राप्नोति कर्मवशतः परं सर्वार्थसाधकम् ॥ १,६३.९४ ॥ तत्रापि भारते खण्डे ब्राह्मणादिकुलेषु च । महापुण्यवशेनैव जनिर्भवति दुर्लभा ॥ १,६३.९५ ॥ जनिश्च पुंस्त्रियोर्योगः शुक्रशोणितयोगतः । बिन्दुरेकः प्रविशति यदा गर्भे द्वयात्मकः ॥ १,६३.९६ ॥ तदा रजोऽधिके नारी भवेद्रेतोऽधिके पुमान् । मलकर्मादिपाशेन कश्चिदात्मा नियन्त्रितः ॥ १,६३.९७ ॥ जीवभावं तदा तस्मिन्सकलः प्रतिपद्यते । अथ तत्राहृतैर्मात्रा पानान्नाद्यैश्च पोषितः ॥ १,६३.९८ ॥ पक्षमासादिकालेन वर्धते वपुरत्र हि । दुःखाद्यः पीडितश्चैवाच्छन्नदेहो जरायुणा ॥ १,६३.९९ ॥ एवं तत्र स्थितो गर्भे प्राग्जन्मोत्थं शुभाशुभम् । स्मरंस्तिष्टति दुःखात्मापीड्यमानो मुहुर्मुहुः ॥ १,६३.१०० ॥ कालक्रमेण बालोऽसौ मातरं पीडयन्नपि । संपीडितो निःसरति योनियन्त्रादवाङ्मुखः ॥ १,६३.१०१ ॥ क्षणं तिष्टति निश्चेष्टस्ततो रोदितुमिच्छति । ततः क्रमेण स शिशुर्वर्धमानो दिनेदिने ॥ १,६३.१०२ ॥ बालपौगण्डभेदेन युवत्वं प्रतिपद्यते । एवं क्रमेण लोकेऽस्मिन्देहिनां देहसंभवः ॥ १,६३.१०३ ॥ मानुषं दुर्लभं प्राप्य सर्वलोकोपकारकम् । यस्तारयति नात्मानं तस्मात्पापतरोऽत्र कः ॥ १,६३.१०४ ॥ आहारश्चैव निद्रा च भयं मैथुनमेव च । पश्वादीनां च सर्वेषां च सर्वेषां साधारणमितीरितम् ॥ १,६३.१०५ ॥ चतुर्ष्वेवानुरक्तो यः स मूर्खो ह्यात्मधातकः । मनुष्याणामयं धर्मः रवबन्धच्छेदनात्मकः ॥ १,६३.१०६ ॥ पाशबन्धनविच्छेदो दीक्षयैव प्रजायते । अतो बन्धनविच्छित्त्यै मन्त्रदीक्षां समाचरेत् ॥ १,६३.१०७ ॥ दीक्षाज्ञानाख्यया शक्त्या ह्यपध्वंसितबन्धनः । शुद्धात्मतत्त्वनामासौ निर्वाणपदमश्नुते ॥ १,६३.१०८ ॥ स्वशक्त्यात्मिकया दृष्ट्या शिवं ध्यायति पश्यति । यजते शिवं मन्त्रैश्च रवपरेषां हिताय सः ॥ १,६३.१०९ ॥ शिवार्कशक्तिदीधित्या समर्थीकृतचिदृशा । शिवशक्त्यादिभिः सार्द्धं पश्यत्यात्मगतावृत्तिः ॥ १,६३.११० ॥ अन्तःकरणवृत्तिर्या बोधाख्या सा महेश्वरम् । न प्रकाशयितुं शक्ता पाशत्वान्निगडादिवत् ॥ १,६३.१११ ॥ दीक्षैव परमो हेतुः पाशविच्छेदने पुनः । अतः शास्त्रोक्तविधिना मत्रदीक्षां समाचरेत् ॥ १,६३.११२ ॥ दीक्षितस्तन्त्रविधिना स्ववर्णाचारतत्परः । अनुष्टानं प्रकुर्वीत नित्यनमित्तिकात्मकम् ॥ १,६३.११३ ॥ निजवर्णाश्रमाचारान्मनसापि न लङ्घयेत् । यो यस्मिन्नाश्रमे तिष्टन्दीक्षां प्राप्नोति मानवः ॥ १,६३.११४ ॥ स तस्मिन्नाश्रमे तिष्ठेत्तद्धर्माननुपालयेत् । कृतान्यपि न कर्माणि बन्धनाय भवन्ति हि ॥ १,६३.११५ ॥ एकं तु फलदं कर्म मन्त्रानुष्ठानसंभवम् । दीक्षितोऽभिलषेद्भोगान्यद्यल्लोकगतानसौ ॥ १,६३.११६ ॥ मन्त्राराधनसामर्थ्यात्तद्भुक्त्वा मोक्षमश्नुते । नित्यं नैमित्तिकं दीक्षां प्राप्य यो नाचरेन्नरः ॥ १,६३.११७ ॥ कञ्चित्कालं पिशाचत्वं प्राप्यान्ते मोक्षमश्नुते । तस्मात्तु दीक्षितः कुर्य्यान्नित्यनैमित्तिकादिकम् ॥ १,६३.११८ ॥ अनुष्ठानं च तेनास्य दीक्षां प्राप्यानुमीयते । नित्यनैमित्तिकाचार पालकस्य नरस्य तु ॥ १,६३.११९ ॥ दीक्षावैकल्यविरहात्सद्यो मुक्तिस्तु जायते । तत्रापि गुरुभक्तस्य गतिर्भवति नान्यथा ॥ १,६३.१२० ॥ दीक्षया गुरुमूर्तिस्थः सर्वानुग्राहकः शिवः । दृष्टाद्यर्थतया यस्य गुरुभक्तिस्तु कृत्रिमा ॥ १,६३.१२१ ॥ कृतेऽपि विफलं तस्य प्रायश्चित्तं पदे पदे । कायेन मनसा वाचा गुरुभक्तिपरस्य च ॥ १,६३.१२२ ॥ प्रायश्चित्तं भवेन्नैव सिद्धिस्तस्य पदे पदे । गुरुभक्तियुते शिष्ये सर्वस्वविनिवेदके ॥ १,६३.१२३ ॥ मिथ्याप्रयुक्तमन्त्रस्तु प्रायाश्चित्ती भवेद्गुरुः ॥ १,६३.१२४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे त्रिषष्टितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथ जीवस्य पाशौघच्छेदनायेष्टसिद्धिदम् । दीक्षाविधिं प्रवक्ष्यामि मन्त्रसामर्थ्यदायकम् ॥ १,६४.१ ॥ दिव्यं भावं यतो दद्यात्क्षिणुया द्दुरितानि च । अतो दीक्षेति सा प्रोक्ता सर्वागमविशारदैः ॥ १,६४.२ ॥ मननं सर्ववेदित्वं त्राणं संखार्यनुग्रहः । मननात्राणधर्मत्त्वान्मन्त्र इत्यभिधीयते ॥ १,६४.३ ॥ स्त्रीपुंनपुंसकात्मानस्ते मन्त्रास्तु त्रिधा मताः । स्त्रीमन्त्रास्तु द्विठान्ताः स्युः पुंमन्त्रा हुंफडन्तकाः ॥ १,६४.४ ॥ क्लीबाश्चैव नर्मोऽताः स्मुर्मन्त्राणां जातयः स्मृताः । पुन्दैवतास्तु मन्त्रा स्युर्विद्याः स्त्रीदैवता मताः ॥ १,६४.५ ॥ षट्क्रमसु प्रशस्तास्ते मनवस्त्रिविधाः पुनः । तारान्त्यरेफः स्वाहास्तु तत्राग्नेयाः समीरिताः ॥ १,६४.६ ॥ सौम्यास्तु भृगुपीयूषबीजढ्याः कथिता मुने । अग्नीषोमात्मका ह्येवं मन्त्रा ज्ञेया मनीषिभिः ॥ १,६४.७ ॥ बोधमायान्ति चाग्नेयाः श्वसने पिङ्गलाश्रिते । सौमयाश्चैव प्रबुध्यन्ते वामे वहति मारुतेः ॥ १,६४.८ ॥ सर्वे मन्त्राः प्रबुध्यन्ते वायौ नाडिद्वयाश्रिते । स्वापकाले तु मन्त्रस्य जपोऽनर्थफलप्रदः ॥ १,६४.९ ॥ प्रत्येकं मन्त्रमुञ्चार्य नाव्यानां तान्समुञ्चरेत् । अनुलोभे बिन्दुयुक्तान्विलोभे सर्गसंयुतान् ॥ १,६४.१० ॥ जप्तो यदि स वै देवं प्रबुद्धः क्षिप्रसिद्धिदः । अनया मालया जप्तो दुष्टमन्त्रोऽपि सिद्ध्यति ॥ १,६४.११ ॥ क्रूरे कर्माणि चाग्नेयाः सौम्याः सौम्य फलप्रदाः । शान्तज्ञानेतिरौद्रेयशान्तिजाति समन्वितः ॥ १,६४.१२ ॥ शान्तोऽपि रौद्रतामेति हुंफटीपल्लवयोजनात् । छिन्नादिदोषयुक्तास्ते नैव रक्षन्ति साधकम् ॥ १,६४.१३ ॥ छिन्नो रुद्धः शक्तिहीनस्ततश्चैव पराङ्मुखः । कर्महीनो नेत्रहीनः कीलितः स्तंभितस्तथा ॥ १,६४.१४ ॥ दग्धः स्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः । भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः ॥ १,६४.१५ ॥ हतवीर्यो भ्रान्तसंज्ञः प्रध्वस्तो बालकस्तथा । कुमारोऽथ युवा प्रौढो वृद्धो निस्त्रिंशकस्तथा ॥ १,६४.१६ ॥ निर्बीजः सिद्विहीनश्च मन्दः कूटो निरंशकः । सत्त्वहीनः केकरश्च बीजहीनश्च धृमितः ॥ १,६४.१७ ॥ आलिङ्गितो मोहितश्च क्षुधार्तश्चातिदीप्तकः । अङ्गहीनोऽतिक्रुद्धश्चातिक्रूरे व्रीडितस्तथा ॥ १,६४.१८ ॥ प्रशान्तमानसः स्थानभ्रष्टश्च विकलस्तथा । अतिवृद्धोऽतिनिःस्नेहः पीडितश्च तथा पुनः ॥ १,६४.१९ ॥ दोषा ह्येते समाख्याता वक्ष्याम्येषां च लक्षणम् । संयुक्तं वा वियुक्तं वा त्रिधा वा स्वरसंयुतम् ॥ १,६४.२० ॥ मनोर्यस्यादिमध्यन्ति वह्निबीजं तथोच्यते । चतुर्द्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः ॥ १,६४.२१ ॥ मनोर्यस्यादिमध्यान्ते भूबीजद्वयमुच्यते । स तु रुद्धो मनुज्ञेयो ह्यतिक्लशेन सिद्धिदः ॥ १,६४.२२ ॥ तारवर्मत्रया लक्ष्मीरेवं हीनस्तु यो मनुः । शक्तिहीनः स विज्ञेयश्चिरकालफवप्रधः ॥ १,६४.२३ ॥ कामबीजं मुखे मायाह्यन्ते चैवाङ्कुशं तथा । असौ पराङ्मुखो ज्ञेयो भजतां चिरसिद्धिदः ॥ १,६४.२४ ॥ आदिमध्यावसानेषु सकारो दृश्यते यदि । स मन्त्रो बधिरः प्रोक्तः कष्टेनाल्पफलप्रदः ॥ १,६४.२५ ॥ पञ्चार्णो यदि रेफर्कबिन्दुवर्जितविग्रहः । नेत्रहीनस्तु विज्ञेयः क्लेशेनापि न सिद्धिदः ॥ १,६४.२६ ॥ आदिमध्यावसानेषु हंसः प्रासादवाग्भवौ । हंसेंदुर्वा सकारो वा फकारो वर्म वा पुन ॥ १,६४.२७ ॥ माप्रा नमामि च पदं नास्ति यस्मिन्स कीलितः । एवं मध्ये द्वयं मूर्घ्नि यस्मिन्नस्रलकारकौ ॥ १,६४.२८ ॥ न विद्येते स मन्त्रस्तु स्तंभितः सिद्धिरोधकृत् । अग्निः पवनसंयुक्तो मनोर्यस्य तु मूर्द्धनि ॥ १,६४.२९ ॥ स सार्णो दृश्यते यस्तु स मन्त्रो दग्धसंज्ञकः । अस्रं द्वाभ्यां त्रिभिः षड्भिरष्टाभिर्दृश्यतेऽक्षरेः ॥ १,६४.३० ॥ त्रस्तः स मन्त्रो विज्ञेयो मुखे तारविवर्जितः । हकारः शक्तिरथवा भीतो मन्त्रः स एव हि ॥ १,६४.३१ ॥ मनोर्यस्यादिमध्यान्ते स्यान्मकारचतुष्टयम् । मलिनस्तु स विज्ञेयो ह्यतिक्लेशेन सिद्धिदः ॥ १,६४.३२ ॥ दार्णो यस्य मनोर्मध्ये मूर्ध्नि क्रोधयुगं तथा । अस्रं चास्ति स मन्त्रस्तु तिरस्कृत उदीरितः ॥ १,६४.३३ ॥ म्योद्वयं हृदयं शीर्षे वषड्वौषट्कमध्यमः । यस्य स्याद्भेदितो मन्त्रस्त्याज्यः क्लिष्टफलप्रदः ॥ १,६४.३४ ॥ त्र्यक्षरो हंसहीनो यः सुषुप्तः कीर्तितस्तु सः । विद्या वाप्यथवा मन्त्रो भवेत्सप्तदशाक्षरः ॥ १,६४.३५ ॥ षट्कारपञ्चकादिर्यो मदोन्मत्तस्तु स स्मृतः । यस्य मध्ये स्थितं चास्रं स मन्त्रो मूर्च्छितः स्मृतः ॥ १,६४.३६ ॥ विरामस्थानगं चास्रं हतवीर्यः स उच्यते । मन्त्रस्यादौ च मध्ये च मूर्ध्नि चास्रचतुष्टयम् ॥ १,६४.३७ ॥ ज्ञातव्यो भ्रान्त इत्येष यः स्यादष्टा दशाक्षरः । पुनर्विशतिवर्णो वा यो मन्त्रः स्मरसंयुतः ॥ १,६४.३८ ॥ हृल्लेखाकुंशबीजाढ्यः प्रध्वस्तः स कथ्यते । सप्तार्णो बालमन्त्रस्तु कुमारो वसुवर्णवान् ॥ १,६४.३९ ॥ षोडशार्णो युवा प्रौढश्चत्वारिंशतिवर्णकः । त्रिंशद्वर्णश्चतुःषष्टिवर्णश्चापि शताक्षरः ॥ १,६४.४० ॥ चतुःशताक्षरो मन्त्रो वृद्ध इत्यभिधीयते । नवार्णस्तारसंयुक्तो मन्त्रो निस्त्रिंश उच्यते ॥ १,६४.४१ ॥ यस्यान्ते हृदयं प्रोक्तं शिरोमन्त्रोऽथ मध्यगः । शिखा वर्म च यस्यान्ते नेत्रमस्रं च दृश्यते ॥ १,६४.४२ ॥ शिव शक्त्यार्णहीनो वा निर्बीजः स मनुः स्मृतः । आद्यन्तमध्ये फट्कारः षोढा यस्मिन्प्रदृश्यते ॥ १,६४.४३ ॥ स मनुः सिद्धिहीनः स्यान्मन्दः पङ्क्त्यक्षरो मनुः । कूट एकाक्षरो मन्त्रः स एवोक्तो निरंशकः ॥ १,६४.४४ ॥ द्विवर्णः सत्त्वहीनः स्यात्केकरश्चतुरक्षरः । षड्वर्णो बीजहीनो वा सार्द्धसप्ताक्षरोऽपि वा ॥ १,६४.४५ ॥ सार्द्धद्वादशवर्णो वा धूमितो र्निदितस्तु सः । सार्द्धबीजत्रययुतो मन्त्रो विंशतिवर्णवान् ॥ १,६४.४६ ॥ त्रिंशद्वर्णश्चैकविंशद्वर्णश्चार्लिङ्गितस्तु सः । यो मन्त्रो दन्तवर्णस्तु मोहितः स तु कीर्तितः ॥ १,६४.४७ ॥ चतुर्विशतिवर्णो वा सप्तविंशतिवर्णवान् । क्षुधार्तः स तु विज्ञेयो मन्त्रसिद्धिविवर्जितः ॥ १,६४.४८ ॥ एकादशाक्षरो वापि पञ्चविंशतिवर्णकः । त्रयोर्विंशतिवर्णो वा स मनुर्दृप्तसंज्ञकः ॥ १,६४.४९ ॥ षड्विंशत्यक्षरो वापि षट्त्रिंशद्वर्णङ्कोऽपि वा । एकोन त्रिंशदर्णो वा मन्त्रो हीनाङ्गकः स्मृतः ॥ १,६४.५० ॥ अष्टाविंशतिवर्णो वा तथैकत्रिंशदर्णकः । अतिक्रूरः स विज्ञेयोऽखिलकर्मसु गर्हितः ॥ १,६४.५१ ॥ चत्वारिंशत्समारभ्य त्रिषष्ट्यन्तस्तु यो मनुः । व्रीडितः स तु विज्ञेयः सर्वकर्मसु न क्षमः ॥ १,६४.५२ ॥ पञ्चषष्ट्यक्षरा मन्त्रा ज्ञेया वै शान्तमानसाः । पञ्चषषअट्यर्णमारभ्य नवनन्दाक्षरावधि ॥ १,६४.५३ ॥ ये मन्त्रास्ते तु विज्ञेयाः स्थानभ्रष्टा मुनीश्वर । त्रयोदशार्णा ये मन्त्रास्तिथ्यर्णाश्च तथा पुनः ॥ १,६४.५४ ॥ विकसास्तें समाख्याताः सर्वतन्त्रविशारदैः । शतं सार्द्धशतं वापि शतद्वयमथापि वा ॥ १,६४.५५ ॥ द्विनवत्येकहीनो वा शतत्रयमथापि वा । ये मन्त्रा वर्णसंख्याका निःस्नेहास्ते प्रकीर्तिताः ॥ १,६४.५६ ॥ चतुःशतं समारभ्य सहस्रार्णावधि द्विज । अतिवृद्धाः प्रयोगेषु शिथिलास्ते समीरिताः ॥ १,६४.५७ ॥ सहस्रवर्णदधिका मन्त्रास्ते पीडिताह्वयाः । तद्वर्द्ध्वं चैव ये मन्त्राः स्तोत्ररूपास्तु ते स्मृताः ॥ १,६४.५८ ॥ एवं विधाः समाख्याता मनवो दोष संयुताः । दोषानेतानविज्ञाय मन्त्रानेताञ्जपन्ति ये ॥ १,६४.५९ ॥ सिद्धिर्न जायते तेषां कल्पकोटिशतैरपि । छिन्नादिदोषदुष्टानां मन्त्राणां साधनं ब्रुवे ॥ १,६४.६० ॥ योनिमुद्रासने स्थित्वा प्रजपेद्यः समाहितः । यं कञ्चिदपि वा मन्त्रं तस्य स्युः सर्वसिद्धयः ॥ १,६४.६१ ॥ सव्यपाष्णि गुदे स्थाप्य दक्षिणं च ध्वजोपरि । योनिमुद्राबन्ध एवं भवेदासनमुत्तमम् ॥ १,६४.६२ ॥ अन्योऽप्यत्र प्रकारोऽस्ति योनिमुद्रानिबन्धने । तदग्रे सरहस्यं ते कथयिष्यामि नारद ॥ १,६४.६३ ॥ पारंपर्यक्रमप्राप्तो नित्यानुष्टानतत्परः । गुर्वनुज्ञारतः श्रीमानभिषेकसमन्वितः ॥ १,६४.६४ ॥ सुंदरः सुमुखः शान्तः कुलीनः सुलभो वशी । मन्त्रतन्त्रार्थतत्त्वज्ञो निग्रहानुग्रहक्षमः ॥ १,६४.६५ ॥ निरपेक्षो मुनिर्दान्तो हितवादी विचक्षणः । तत्त्वनिष्कासने दक्षो विनयी च सुवेषवान् ॥ १,६४.६६ ॥ आश्रमी ध्याननिरतः संशयच्छित्सुवुद्धिमान् । नित्यानुष्टानसंयुक्तस्त्वाचार्यः परिकीर्तितः ॥ १,६४.६७ ॥ शान्तो विनीतः शुद्धात्मा सर्वलक्षणसंयुतः । शमादिसाधनोपेतः श्रद्धावान् सुस्थिराशयः ॥ १,६४.६८ ॥ शुद्धदेहोऽन्नपानद्यैर्द्धार्मिकः शुद्धमानसः । दृढव्रतसमाचारः कृतज्ञः पापभीरुकः ॥ १,६४.६९ ॥ गुरुध्यानस्तुतिकथासेवनासक्तमानसः । एवंविधो भवेच्छिष्यस्त्वन्यथा गुरुदुःखदः ॥ १,६४.७० ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे चतुःषष्टितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच परीक्ष्य शिष्यं तु गुरुर्मन्त्रशोधनमाचरेत् । प्राक्प्रत्यग्दक्षिणोदक्चपञ्चसूत्राणि पातयेत् ॥ १,६५.१ ॥ चतुष्टयं चतुष्कानां स्यादेवं नृपकोष्टके । तत्राद्यप्रथमे त्वाद्यं द्वितीयाद्ये द्वितीयकम् ॥ १,६५.२ ॥ तृतीयाद्ये तृतीयं स्याञ्च तुर्थाद्ये तुरीयकम् । तत्तदाग्नेयकोष्टेषु तत्तत्पञ्चममक्षरम् ॥ १,६५.३ ॥ विलिख्य क्रमतो धीमान्मनुं संशोधयेत्ततः । नामाद्यक्षरमारभ्य यावन्मन्त्रादि वर्णकम् ॥ १,६५.४ ॥ चतुष्के यत्र नामार्णस्तत्स्यात्सिद्धिचतुष्ककम् । प्रादक्षिण्यात्तद्द्वितीयं साध्याख्यं परिकीर्तितम् ॥ १,६५.५ ॥ तृतीयं पुंसि सिद्धाख्यं तुरीयमरिसंज्ञकम् । द्वयोर्वर्णावेककोष्टे सिद्धसिद्धेति तन्मतम् ॥ १,६५.६ ॥ तद्द्वितीये तु मन्त्रार्णे सिद्धसाध्यः प्रकीर्तितः । तृतीये तत्सुसिद्धः स्यात्सिद्धारिस्तञ्चतुर्थके ॥ १,६५.७ ॥ नामार्णान्यचतुष्कात्तु द्वितीये मन्त्रवर्णके । चतुष्के चेत्तदा पूर्वं यत्र नामाक्षरं स्थितम् ॥ १,६५.८ ॥ तत्र तत्कोष्टमारभ्य गणयेत्पूर्ववत्क्रमात् । साध्यसिद्धः साध्यसाध्यस्तत्सुसिद्धश्च तद्रिप्रुः ॥ १,६५.९ ॥ तृतीये चेञ्चतुष्के तु यदि स्यान्मन्त्रवर्णकः । तदा पूर्वोक्तरीत्या तु क्रमाद्द्वेयं मनीषिभिः ॥ १,६५.१० ॥ सुसिद्धसिद्धस्तत्साध्यस्तत्सुसिद्धश्च तदृषिः । तुरीये चेञ्चतुष्के तु तदैवं गणयेत्सुधीः ॥ १,६५.११ ॥ अरिसिद्धोऽरिसाध्यश्च तत्सुसिद्धश्च तद्रिपुः । रिद्धसिद्धो यथोक्तेन द्विगुणात्सिद्धिसाध्यकः ॥ १,६५.१२ ॥ सिद्धः सुसिद्धोर्द्धतयात्सिद्धारिर्हति गोत्रजान् । द्विगुणात्साध्यसिद्धस्तु साध्यसाध्यो विलंबतः ॥ १,६५.१३ ॥ साध्यः सुसिद्धो द्विगुणात्साध्यारिर्हन्ति बान्धवान् । सुसिद्धसिद्धोर्द्धतया तत्साध्यो द्विगुणाज्जपात् ॥ १,६५.१४ ॥ तत्सुसिद्धप्राप्तिमात्रात्सुसिद्धारिः कुटुंबहृत् । अरिसिद्धस्तु पुत्रध्नोऽरिशाध्यः कन्यकापहः ॥ १,६५.१५ ॥ तत्सुसिद्धः कलत्रध्नः साधकध्नोरेऽप्यरिः स्मृतः । अन्येऽप्यत्र प्रकारा हि संति वै बहवों मुने ॥ १,६५.१६ ॥ सर्वेषु मुख्योऽयं तेऽत्र कथितो कथहाभिधः । एवं संशोध्य मन्त्रं तु शुद्धे काले स्थले तथा ॥ १,६५.१७ ॥ दीक्षयेञ्च गुरुः शिष्यं तद्विधानमुदीर्यते । नित्यकृत्यं विधायाथ प्रणम्यगुरुपादुकाम् ॥ १,६५.१८ ॥ प्रार्थयेत्सद्गुरुं भक्त्याभीषअटार्थमादृतः । संपूज्य वस्त्रालङ्कारगोहिरण्यधरादिभिः ॥ १,६५.१९ ॥ कृत्वा स्वस्ति विधानं तु मण्डलादि च तुष्टिमान् । गुरुः शिष्येण सहितः शुचिर्यागगृहं विशेत् ॥ १,६५.२० ॥ सामान्यार्घोदकेनाथ संप्रोक्ष्य द्वारमस्त्रतः । दिव्यानुत्सारयेद्विघ्नान्नभस्थानर्च्य वारिणा ॥ १,६५.२१ ॥ पार्ष्णिघातैस्त्रिभिर्भौंमांस्ततः कर्म समाचरेत् । वर्णकैः सर्वतोभद्रे यथोक्तपरिकल्पिते ॥ १,६५.२२ ॥ वह्निमण्डलमभ्यर्च्य तत्कलाः परिपूज्य च । अस्त्रप्रक्षालितं कुंभं यथाशक्ति विनिर्मितम् ॥ १,६५.२३ ॥ तत्र संस्थाप्य विधिवत्तत्र भानोः कलां यजेत् । विलोममातृकामूलमुञ्चरन् शुद्धवारिणा ॥ १,६५.२४ ॥ आपूर्य कुंभं तत्रार्चेत्सोमस्य विधिवत्कलाः । धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ॥ १,६५.२५ ॥ सुश्रीः सुरूपा कपिला हव्यकव्यवहा तथा । वह्नेर्दश कलाः प्रोक्ताः प्रोच्यन्तेऽथ रवेः कलाः ॥ १,६५.२६ ॥ तपिनी तापिनी धूम्रा मरीचिज्वालिनी रुचिः । सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ १,६५.२७ ॥ अथेन्द्रोश्च कला ज्ञेया ह्यमृता मानदा पुनः । पूषा तुष्टिश्च पुष्टिश्च रतिश्च धृतिसंज्ञिकाः ॥ १,६५.२८ ॥ शशिनी चन्द्रिका कातिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा । पूर्णापूर्णामृता चेति प्रोक्ताश्चन्द्रमसः कलाः ॥ १,६५.२९ ॥ वस्रयुग्मेन संवेष्ट्य तस्मिन्सर्वैषधीः क्षिपेत् । नवरत्नानि निक्षिप्य विन्यसेत्पञ्चपल्लवान् ॥ १,६५.३० ॥ पनसाम्रवटाश्वत्थवकुलेति च तान् विदुः । मुक्तामाणिक्यवैडूर्यगोमेदान्वज्रविद्रुमौ ॥ १,६५.३१ ॥ पद्मरागं मरकतं नीलं चेति यथाक्रम् । एवं रत्नानि निक्षिप्य तत्रावाह्येष्टदेवताम् ॥ १,६५.३२ ॥ संपूज्य विधिवन्मन्त्री ततः शिष्यं स्वलङ्कृतम् । वेद्यां संवेश्य संप्रोक्ष्य प्रोक्षणीस्थेन वारिणा ॥ १,६५.३३ ॥ भूतशुद्ध्यादिकं कत्वा तच्छरीरे विधानतः । न्यासजालेन संशोध्य मूर्ध्नि विन्यस्य पल्लवान् ॥ १,६५.३४ ॥ अष्टोत्तरशतेनाथ मूलमन्त्रेण मन्त्रितैः । अभिषिञ्चेत्प्रियं शिष्यं जपन्मूलमनुं हृदि ॥ १,६५.३५ ॥ शिष्टोदकेन वाचम्य परिधायांबरं शिशुः । गुरुं प्रणम्य विधिवत्संविशेत्पुरतः शुचिः ॥ १,६५.३६ ॥ अथ शिष्यस्य शिरसि हस्तं दत्वा गुरुस्ततः । जपेदष्टोत्तरशतं देयमन्त्रं विधानतः ॥ १,६५.३७ ॥ समोऽस्त्वित्यक्षरान्दद्यात्ततऋ शिष्योर्ऽचयेद्गुरुम् । ततः सचन्दनं हस्तं दत्वा शिष्यस्य मस्तके ॥ १,६५.३८ ॥ तत्कर्णे प्रवदेद्विद्यामष्टवारं समाहितः । संप्राप्तविद्यः शिष्योऽपि निपतेद्गुरुपादयोः ॥ १,६५.३९ ॥ उत्तिष्ठ वत्स मुक्तेऽसि सम्यगाचारवान्भव । कीर्तिश्रीकान्तिपुत्रायुर्बलारोग्य सदास्तु ते ॥ १,६५.४० ॥ ततः शिष्यः समुत्थाय गन्धाद्यैर्गुरुमर्चयेत् । दद्याञ्च दक्षिणां तस्मै वित्तशाठ्यविवर्जितः ॥ १,६५.४१ ॥ संप्राप्यैवं गुरोर्मन्त्रं तदारभ्य धनादिभिः । देहपुत्रकलत्रैश्च गुरुसेवापरो भवेत् ॥ १,६५.४२ ॥ स्वष्टदेवं यजेन्मध्ये दत्वा पुष्पाञ्जलिं ततः । अग्निनैरृतिवागीशान् क्रमेण परिपीजयेत् ॥ १,६५.४३ ॥ यदा मध्ये यजेद्विष्णुं बाह्यादिषु विनायकम् । रविं शिवां शिवं चैव यदा मध्ये तु शङ्करम् ॥ १,६५.४४ ॥ रविं गणेशमंबां च हरिं चाथ यदा शिवाम् । ईशं विघ्नार्कगोविन्दान्मध्ये चेद्गणनायकम् ॥ १,६५.४५ ॥ शिवं शिवां रविं विष्णुं रवौ मध्यगते पुनः । गणेषं विष्णुमंबां च शिवं चेति यथाक्रमम् ॥ १,६५.४६ ॥ एवं नित्य समभ्यर्च्य देवपञ्चकमादृतः । ब्राह्मे मुहूर्त्ते ह्युत्थाय कृत्वाचा वश्यकं बुधः ॥ १,६५.४७ ॥ अशङ्कितो वा शय्यायां स्वकीयशिरसि स्मरेत् । सहस्रदलशुक्लाब्जकार्ंणकास्थदुमण्डले ॥ १,६५.४८ ॥ अकथादित्रिकोणस्थं वराभयकरं गुरुम् । द्विनेत्रं द्विभुजं शुक्लगन्धमाल्यानुंलेपनम् ॥ १,६५.४९ ॥ वामे शक्त्या युतं ध्यात्वा मानसैरुपचारकैः । आराध्य पादुकामन्त्रं दशधाप्रजपेत्सुधीः ॥ १,६५.५० ॥ वा माया श्रीर्भगेन्द्वाढ्या वियद्धंसखकाग्नयः । हसक्षमलवार्यग्निवामकर्णैदुयुग्मरुत् ॥ १,६५.५१ ॥ ततो भृग्वाकाशरवाग्निभगेन्द्वाढ्याः परन्तिमः । सहक्षमलतोयाग्निचन्द्रशान्तियुतो मरुत् ॥ १,६५.५२ ॥ ततः श्रीश्चामुकान्ते तु नन्दनाथामुकी पुनः । देव्यंबान्ते श्रीपान्दुकां पूजयामि हृदन्तिमे ॥ १,६५.५३ ॥ अयं श्रीपादुकामन्त्रः सर्वसिद्धिप्रदो नृणाम् । गुह्येति च समर्प्याथ मन्त्रैरेतैर्नमेत्सुधीः ॥ १,६५.५४ ॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १,६५.५५ ॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ १,६५.५६ ॥ नमोऽस्तु गुरवे तस्मा इष्टदेवस्वरूपिणे । यस्य वागमृतं हॄन्ति विषं संसारसंज्ञकम् ॥ १,६५.५७ ॥ इति नत्वा पठेत्स्तोत्रं सद्यः प्रत्ययकारकम् । ओं नमस्ते नाथ भगवान् शिवाय गुरुरूपिणे ॥ १,६५.५८ ॥ विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह । नवाय तनरूपाय परमार्थैकरूपिणे ॥ १,६५.५९ ॥ सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते । स्ततन्त्राय दयाकॢप्तविग्रहाय शिवात्मने ॥ १,६५.६० ॥ परत्र त्राय भक्तानां भव्यानां भावरूपिणे । विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ॥ १,६५.६१ ॥ प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे । पुरस्तात्पार्श्वयोः पृष्टे नमस्तुभ्यमुपर्यधः ॥ १,६५.६२ ॥ सदा सञ्चित्स्वरूपेण विधेहि भवदासनम् । त्वत्प्रसादादहं देव कृताकृत्योऽस्मि सर्वतः ॥ १,६५.६३ ॥ मायामृत्युमहापाशाद्विमुक्तोऽस्मि शिवोऽस्मि वः । इति स्तुत्वा ततः सर्व गुरवे विनिवेदयेत् ॥ १,६५.६४ ॥ प्रातः प्रभृति सायान्तं सांयादिप्रातरन्ततः । यत्करोमि जगन्नाथ तदस्तु तव पूजनम् ॥ १,६५.६५ ॥ ततश्च गुरुपादाब्जगलितामृतधारया । क्षालितं निजमात्मानं लिर्मलं भावयेत्सुधीः ॥ १,६५.६६ ॥ मूलादिब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् । मूलाधारादधो भागे वर्तुलं वायुमण्डलम् ॥ १,६५.६७ ॥ तत्रस्थवायुबीजोत्थवायुना च तद्रूर्द्ध्वकम् । त्रिकोणं मण्डलं वह्नेस्तत्रस्थवह्निबीजतः ॥ १,६५.६८ ॥ उत्पन्नेनाग्निना मूलाधारावस्थितविग्रहाम् । प्रसुप्तभुजगाकारां स्वयंभूलिङ्गवेष्टिनीम् ॥ १,६५.६९ ॥ विसतन्तुनिभां कोटिविद्युदाभां तनीयसीम् । कुलकुण्डलिनीं ध्यात्वा कूर्चेनोत्थापयेञ्च ताम् ॥ १,६५.७० ॥ सुषुम्णावर्त्मनातां च षट्चक्रक्रमभेदिनीम् । गुरुपदिष्टविधिना ब्रह्मरन्ध्रं नयेत्सुधीः ॥ १,६५.७१ ॥ तत्रस्थामृतसंमग्नीकृत्यात्मानं विभावयेत् । तत्प्रभापटलव्याप्तैविमलं चिन्मयं परम् ॥ १,६५.७२ ॥ पुनस्तां स्वस्थलं नीत्वा हृदिदेवं विचिन्तयन् । दृष्ट्वा च मानसैर्द्रव्यैः प्रार्थयेन्मनुनामुना ॥ १,६५.७३ ॥ त्रैलोक्यचैत न्यमयादिदेव श्रीनाथ विष्णो भवदाज्ञयैव । प्रातः समुत्थाय तव प्रियार्थं संसारयात्रां त्वनुवर्तयिष्ये ॥ १,६५.७४ ॥ विष्णोरिति स्थले विप्र कार्य ऊहोऽन्यदैवते । तततः कुर्यात्सर्वसिद्ध्यै त्वजपाया निवेदनम् ॥ १,६५.७५ ॥ षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः । अजपाख्यां तु गायत्रीं जीवोजपति सर्वदा ॥ १,६५.७६ ॥ ऋषिर्हंसस्तथाव्यक्तगात्रीछन्द ईरितम् । देवता परमोहंसश्चाद्यन्ते बीजशक्तिकम् ॥ १,६५.७७ ॥ ततः षडङ्गं कुर्वीत सूर्यः सोमोनिरञ्जनः । निराभासश्च धर्मश्च ज्ञानं चेति तथा पुनः ॥ १,६५.७८ ॥ क्रमादेतान्हंसपूर्वानात्मनेपदपश्चिमान् । जातयुक्तान्साधकेन्द्र षडङ्गेषु नियोजयेत् ॥ १,६५.७९ ॥ हकारः सूर्यसंकाशतेजाः संगच्छते बहिः । सकारस्तादृशश्चैव प्रवेशे ध्यानमीरितम् ॥ १,६५.८० ॥ एवं ध्यात्वार्पयेद्धीमान्वह्न्यर्केषु विभागशः । मूलाधारे वादिसांतबीजयुक्ते चतुर्दले ॥ १,६५.८१ ॥ बन्धूकाभे स्वशक्त्या तु सहितापास्वगाय च । पाशाङ्कुशसुधापात्रमोदकोल्लासपाणये ॥ १,६५.८२ ॥ षट्शतं तु गणेशाय वागधीशाय चार्पयेत् । स्वाधिष्टाने विद्रुमाभे वादिलान्तार्णसंयुते ॥ १,६५.८३ ॥ वामाङ्गशक्तियुक्ताय विद्याधिपतये तथा । स्रुवाक्षमालालसितबाहवे पद्मजन्मने ॥ १,६५.८४ ॥ ब्रह्मणे षट्सहस्रं तु हंसारूढाय चार्पयेत् । विद्युल्लसितमेघाभे डादिफआन्तार्णपत्रके ॥ १,६५.८५ ॥ मणिपूरे शङ्खचक्रगदापङ्कधारिणे । सश्रिये षट्सहस्रं च विष्णवे विनिवेदयेत् ॥ १,६५.८६ ॥ अनाहतेर्ऽकपत्रे च कादिठान्तार्णसंयुते । शुक्ले शूलाभयवरसधाकलशधारिणे ॥ १,६५.८७ ॥ वामाङ्गे शक्तियुक्ताय विद्याधिपतये सुधीः । वृषारूढाय रुद्राय षट्सहस्रं निवेदयेत् ॥ १,६५.८८ ॥ विशुद्दे षोडशदले स्वराढ्ये शुक्नत्रणके । महाज्योतिप्रकाशायेन्द्रियाधिपतये ततः ॥ १,६५.८९ ॥ सहस्रमर्पयेत्प्राणशक्त्या युक्तेश्चराय च । आज्ञाचक्रे हक्षयुक्ते द्विदिलेऽब्जे सहस्रकम् ॥ १,६५.९० ॥ सदाशिवाय गुरवे पराशक्तियुताय वै । सहस्रारे महापद्मे नादबिन्दुद्वयान्विते ॥ १,६५.९१ ॥ विलसन्मातृकावर्णे वरामयकराय च । प्ररमाद्ये च गुरवे सहस्रं विनिवेदयेत् ॥ १,६५.९२ ॥ चुलुकेंऽबु पुनर्द्धृत्वा स्वभावादेव सिध्यतः । एकविंशतिसाहस्रप्रमितस्य जपस्य च ॥ १,६५.९३ ॥ षट्शताधिकसंख्यास्या दजपाया विभागशः । संकल्पेन मोक्षदाता विष्णुर्मे प्रीयतामिति ॥ १,६५.९४ ॥ अस्याः संकल्पमात्रेण महापापैः प्रमुच्यते । ब्रह्मैवाहं न संसारी नित्यमुक्तो न शोकभाक् ॥ १,६५.९५ ॥ सञ्चिदानन्दरूपोऽहमात्मानमिति भावयेत् । ततः समाचरेद्देहकृत्यं देवार्चनं तथा ॥ १,६५.९६ ॥ तद्धिधानं प्रवक्ष्यामि सदाचारस्य लक्षणम् ॥ १,६५.९७ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे पञ्चषष्टिमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच ततः श्वासानुसारेण दत्वा पादं महीतले । समुद्रमेखले देवि पर्वतस्तनमण्डले ॥ १,६६.१ ॥ विष्णुवत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे । इति भूमिं तु संप्रार्थ्य विहरेञ्च यथाविधि ॥ १,६६.२ ॥ रक्षः कोणे ततो ग्रामाद्गत्वा मन्त्रमुदीरयेत् । गच्छन्तु ऋषयो देवाः पिशाचा ये च गुह्यकाः ॥ १,६६.३ ॥ पितृभूतगणाः सर्वे करिष्ये मलमोचनम् । इति तालत्रयं दत्वा शिरः प्रावृत्य वाससा ॥ १,६६.४ ॥ दक्षिणाभिमुखं रात्रौ दिवा स्थित्वा ह्युदङ्मुखः । मलं विसृज्य सौचं तु मृदाद्भिः समुपाचरेत् ॥ १,६६.५ ॥ एका लिङ्गे गुदे तिस्रो दश वामकरे मृदः । करयोः सप्त वै दद्यात्रित्रिवरं च पादयोः ॥ १,६६.६ ॥ एवं शौचं विधायाथ गण्डूषान्द्वादशैव तु । कृत्वा वनस्पतिं चाथ प्रार्थयेन्मनुनामुना ॥ १,६६.७ ॥ आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । श्रियं प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ १,६६.८ ॥ संप्रार्थ्यैवं दन्तकाष्टं द्वादशाङ्गुलसंमितम् । गृहीत्वा काममन्त्रेण कुर्यान्मन्त्री समाहितः ॥ १,६६.९ ॥ कामदेवपदं ङेन्तं तथा सर्वजनप्रियम् । हृदन्तः कामबीजाढ्यं दन्तांश्चानेन शोधयेत् ॥ १,६६.१० ॥ जिह्वोल्लेखो वाग्भवेन मूलेन क्षालयेन्मुखम् । देवागारं ततो गत्वा निर्माल्यमपसार्य च ॥ १,६६.११ ॥ परिधायांबरं शुद्धं मङ्गलारार्तिकं चरेत् । अस्रेण पात्रं संप्रोक्ष्य मूलेन ज्वालयेञ्च तम् ॥ १,६६.१२ ॥ संपूज्य पात्रमादायोत्थाय घण्टां च वादयेत् । सुगोघृतप्रदीपेन भ्रामितेन समन्ततः ॥ १,६६.१३ ॥ वाद्यैर्गीतैर्मनोज्ञैश्च देवस्यारार्तिकं भवेत् । इति नीराजनं कृत्वा प्रार्थयित्वा निजेश्वरम् ॥ १,६६.१४ ॥ स्नातुं यायान्निम्रगादौ कीर्तयन्देवतागुणान् । गत्वा तीर्थं नमस्कृत्य स्नानीयं च निधाय वै ॥ १,६६.१५ ॥ मूलाभिमन्त्रितमृदमादाय कटिदेशतः । विलिप्यपादपर्यन्तं क्षालयेत्तीर्थवारिणा ॥ १,६६.१६ ॥ ततश्च पञ्चभिः पादौ प्रक्षाल्यान्तर्जले पुनः । प्रविश्य नाभिमात्रे तु मृदं वामकरस्य च ॥ १,६६.१७ ॥ मणिबन्धे हस्ततले तदग्रे च तथा पुनः । कृत्वाङ्गुल्या गाङ्गमृगमादायास्त्रेण तत्पुनः ॥ १,६६.१८ ॥ निजोपरि च मन्त्रज्ञो भ्रामयित्वा त्यजेत्सुधी । तलस्थां च षडङ्गेषु तन्मन्त्रैः प्रविलेपयेत् ॥ १,६६.१९ ॥ निमज्य क्षालयेत्सम्यग्मलस्नानमितीरितम् । विभाव्येष्टमयं सर्वमान्तरं स्नानमाचरेत् ॥ १,६६.२० ॥ अनन्ता दित्यसंकाशं निजभूषायुधैर्युतम् । मन्त्रमूर्तिं प्रभुं स्मृत्वा तत्पादोदकसंभवाम् ॥ १,६६.२१ ॥ धारां च ब्रह्मरन्ध्रेण प्रविशन्तीं निजां तनुम् । तया संक्षालयेत्सर्वमन्तर्द्देहगतं मलम् ॥ १,६६.२२ ॥ तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः । ततः श्रौतोक्तविधिना स्नात्वा मन्त्री समाहितः ॥ १,६६.२३ ॥ मन्त्रस्नानं ततः कुर्यात्तद्विधानमथोच्यते । देशकालौ च संकीर्त्य प्राणायामषडङ्गकैः ॥ १,६६.२४ ॥ कृत्वार्कमण्डलात्तीर्थान्याह्वयेन्मुष्टिमुद्रया । ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः ॥ १,६६.२५ ॥ तेन सत्येन मे देव देहि तीर्थं दिवाकर ॥ १,६६.२६ ॥ गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिंधुकावेरि जलेऽस्मिन्संनिधिं कुरु ॥ १,६६.२७ ॥ इत्यावाह्य जले तानि सुधाबीजेन योजयेत् । गोमुद्रयामृतीकृत्य कवचेनावगुण्ठ्य च ॥ १,६६.२८ ॥ संरक्ष्यास्त्रेण तत्पश्चाच्चक्रमुद्रां प्रदर्शयेत् । वह्न्यर्केन्दुमण्डलानि तत्र संचितयेद्रुधः ॥ १,६६.२९ ॥ मन्त्रयेदर्कमन्त्रेण सुधाबीजेन तज्जलम् । मूलेन चैकादशधा तत्र संमन्त्र्य भावयेत् ॥ १,६६.३० ॥ पूजायन्त्रं च तन्मध्ये स्वान्तादावाह्य देवताम् । स्नापयित्वार्चयेत्तां च मानसैरुपचारकैः ॥ १,६६.३१ ॥ सिंहासनस्थां तां नत्वा तज्जलं प्रणमेत्सुधीः । आधारः सर्वभातानां विष्णोरतुलतेजसः ॥ १,६६.३२ ॥ तद्रूपाश्च ततो जाता आपस्ताः प्रणमाम्यहम् । इति नत्वा समारुन्ध्य सप्तच्छिद्राणि साधकः ॥ १,६६.३३ ॥ निमज्य सलिले तस्मिन्मूलं देवाकृतिं स्मरेत् । निमज्ज्योन्मज्ज्य त्रिश्चैवं सिंचेत्कं कुंभमुद्रया ॥ १,६६.३४ ॥ त्रिर्मूलेन चतुर्मन्त्रैरभिषिञ्चेन्निजां तनुम् । चत्वारो मनवस्तेऽत्र कथ्यन्ते तान्त्रिका मुने ॥ १,६६.३५ ॥ सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजापतेः । मातरः सर्वभूतानामापो देव्यः पुनन्तु माम् ॥ १,६६.३६ ॥ अलक्ष्मीर्मलरूपा या सर्वभूतेषु संस्थिता । क्षालयन्ति च तां स्पर्शादापो देव्यः पुनन्तु माम् ॥ १,६६.३७ ॥ यन्मे केशेषु दौर्भाग्यं सीमन्ते यञ्च मूर्द्धनि । ललाटे कर्णयोरक्ष्णोरापस्तद्धन्तु वो नमः ॥ १,६६.३८ ॥ आयुरारोग्यमैश्वर्यमरिपक्षक्षयं शुभम् । सन्तोषः क्षान्तिरास्तिक्यं विद्या भवतु वो नमः ॥ १,६६.३९ ॥ विप्रपादोदकं पीत्वा शालग्रामशिलाजलम् । पिबेद्धिरुद्धं नो कुर्यादेषां तु नियतो विधिः ॥ १,६६.४० ॥ पृथिव्यां यानि तीर्थानि दक्षाङ्घ्रौ तानि भूसुरे । स्वेष्टदेवं समुद्वास्य मन्त्री मार्तण्डमण्डले ॥ १,६६.४१ ॥ ततस्तीरं समागत्यं वस्त्रं संक्षाल्य यत्नतः । वाससी परिधायाथ कुर्यात्सन्ध्यादिकं सुधीः ॥ १,६६.४२ ॥ रोगाद्यशक्तो मनुजः कुर्यात्तत्राघर्मषणम् । अथवा भस्मना स्नातो रजोभिश्चैव वाक्षमः ॥ १,६६.४३ ॥ अथ सन्ध्यादिकं कुर्यान् स्थित्वा चैवासने शुभे । केशवेन तथा नारायणेन माधवेन च ॥ १,६६.४४ ॥ संप्राश्य तोयं गोविन्दविष्णुभ्यां क्षालयेत्करौ । मधुसूदनत्रिविक्रमाभ्यामोष्ठौ च मार्जयेत् ॥ १,६६.४५ ॥ वामनश्रीधराभ्यां च मुखं हस्तौ स्पृशेत्ततः । हृषीकेशपद्मनाभाभ्यां स्पृशेञ्चरणौ ततः ॥ १,६६.४६ ॥ दामोदरेण मूर्द्धानं मुखं संकर्षणेन च । वासुदेवेन प्रद्युम्नेन स्पृशेन्नासिके ततः ॥ १,६६.४७ ॥ अनिरुद्धपुरुषोत्तमाभ्यां नेत्रे स्पृशेत्ततः । अधोक्षजनृसिंहाभ्यां श्रवणे संस्पृशेत्तथा ॥ १,६६.४८ ॥ नाभिं स्पृशेदच्युतेन जनार्दनेन वक्षसि । हरिणा विष्णुनांसौ च वैष्णवाचमनं त्विदम् ॥ १,६६.४९ ॥ प्रणवाद्यैर्ङेन्तस्वाहान्तैः केशवादिकनामभिः । मुखे नसोः प्रदेशिन्यानामया नेत्रकर्णयोः ॥ १,६६.५० ॥ कनिष्ठया नाभिदेशं सर्वत्राङ्गुष्ट्योजनम् । आत्मविद्याशिवैस्तत्त्वैः स्वाहान्तैः शैवमीरितम् ॥ १,६६.५१ ॥ दीर्घत्रयेन्दुयुग्व्योमपूर्वकैश्च पिबेज्जलम् । आत्मविद्यासिवैरेव शैवं स्वाहावसानिकैः ॥ १,६६.५२ ॥ वाग्लज्जाश्री मुखैः प्रोक्तं शाक्तं स्वाहावसानिकैः । वाग्लज्जाश्रीमुखैः प्रोक्तं द्विजाचमनमर्थदम् ॥ १,६६.५३ ॥ तिलकं च ततः कुर्याद्भाले सुष्ठु गदाकृति । नन्दकं हृदये शङ्खचक्रे चैव भुजद्वये ॥ १,६६.५४ ॥ शार्ङ्गबाणं मस्तके च विन्यसेत्क्रमशः सुधीः । कर्णमूले पार्श्वयोश्च पृष्टे नाभौ ककुद्यपि ॥ १,६६.५५ ॥ एवं तु वैष्णवः कुर्यान्मृद्भिस्तीर्थोद्भवादिभिः । अग्निहोत्रोद्भवं भस्म गृहीत्वा त्र्यंबकेण तु ॥ १,६६.५६ ॥ किंवाग्निरिति मन्त्रेणाभिमन्त्र्य पञ्चमन्त्रकैः । क्रमात्तत्पुरुषाघोरसद्योजातादिनामभिः ॥ १,६६.५७ ॥ पञ्च कुर्यात्रिपुण्ड्राणि भालांसोदरहृत्सु च । शैवं शाक्तस्त्रिकोणा भं नारीवद्वा समाचरेत् ॥ १,६६.५८ ॥ कृत्वा तु वैदिकीं संध्यां तान्त्रिकीं च समाचरेत् । आचम्य विधिवन्मन्त्री तीर्थान्यावाह्य पूर्ववत् ॥ १,६६.५९ ॥ ततस्त्रिवारं दर्भेण भूमौ तोयं विनिःभिपेत् । सप्तधा तज्जलेनाथ मूर्द्धानमभिषेचयेत् ॥ १,६६.६० ॥ ततश्च प्राणानायम्य कृत्वा न्यासं षडङ्गकम् । आदाय वामहस्तेंऽबु दक्षेणाच्छाद्य पाणिना ॥ १,६६.६१ ॥ वियद्वाय्वग्नितोयक्ष्माबीजैः संमन्त्र्य मन्त्रवित् । मूलेन तस्मात्श्चोतद्भिर्बिन्दुभिस्तत्त्वमुद्रया ॥ १,६६.६२ ॥ स्वशिरः सप्तधा प्रोक्ष्यावशिष्टं तत्पुनर्जलम् । कृत्वा तदक्षरं मन्त्री नासिकान्तिकमानयेत् ॥ १,६६.६३ ॥ जलं तेजोमयं तञ्चाकृष्यान्तश्चेडया पुनः । प्रक्षाल्यान्तर्गतं तेन कल्मषं तज्जलं पुनः ॥ १,६६.६४ ॥ कृष्णवर्णं पिङ्गलया रेचयेत्स्वाग्रतस्तथा । क्षिपेदस्त्रेण तत्पश्चात्कल्पिते कुलिशोपले ॥ १,६६.६५ ॥ एतद्ध्वि सर्वपापघ्नं प्रोक्तं चैवाघमर्षणम् । ततश्च हस्तौ प्रक्षाल्य प्राग्वदाचम्य मन्त्रवित् ॥ १,६६.६६ ॥ समुत्थाय च मन्त्रज्ञस्ताम्रपात्रे सुमादिकम् । प्रक्षिप्यार्घं प्रदद्याद्वै मूलान्तैर्मन्त्रमुच्चरन् ॥ १,६६.६७ ॥ रविमण्डलसंस्थाय देवायार्घ्यं प्रकल्पयेत् । दत्त्वार्घं त्रिरनेनाथ देवं रविगतं स्मरेत् ॥ १,६६.६८ ॥ स्वकल्पोक्तां च गायत्रीं जपेदष्टोत्तरं शतम् । अष्टांविंशतिवारं वा गुह्येतिमनुनार्पयेत् ॥ १,६६.६९ ॥ उद्यदादित्यसंकाशां पुस्तकाक्षकरांबुजाम् । कृष्णाजिनांबरां ब्राह्मीं ध्यायेत्ताराङ्कितेऽम्बरे ॥ १,६६.७० ॥ मध्याह्ने वरदां देवीं पार्वतीं संस्मरेत्पराम् । शुक्लांबरां वृषारूढां त्रिनेत्रां रविबिंबगाम् ॥ १,६६.७१ ॥ वरं पाशं च शूलं च दधानां नृकरोटिकाम् । सायाह्ने रत्नभूषाढ्यां पीतकौशेयवाससाम् ॥ १,६६.७२ ॥ श्यामरङ्गां चतुर्हस्तां शङ्खचक्रलसत्कराम् । गदापद्मधरां देवीं सूर्यासनकृताश्रयाम् ॥ १,६६.७३ ॥ ततो देवानृषींश्चैव पितॄंश्चापि विधानवित् । तर्पयित्वा स्वेष्टदेवं तर्पयेत्कल्पमार्गतः ॥ १,६६.७४ ॥ गुरुपङ्क्तिं च संतर्प्यं सांगं सावरणं तथा । सायुधं वैनतेयं संतर्पयामीति तर्पयेत् ॥ १,६६.७५ ॥ नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् । विष्वक्सेन च शैलेयं वैष्णवः परितर्पयेत् ॥ १,६६.७६ ॥ एवं संतर्प्य विप्रेन्द्र दत्त्वार्ध्यं च विवस्वते । पूजागारं समागत्य प्रक्षाल्याङ्घ्री उपस्पृशेत् ॥ १,६६.७७ ॥ अग्निहोत्रस्थितानग्नीन् हुत्वोपस्थाय यत्नतः । पूजास्थलं समागत्य द्वारपूजां समाचरेत् ॥ १,६६.७८ ॥ गणेशं चोर्द्ध्वशाखायां महालक्ष्मीं च दक्षिणे । सरस्वतीं वामभागे दक्षे विघ्नेश्वरं पुनः ॥ १,६६.७९ ॥ क्षेत्रपालं तथा वामे दक्षे गङ्गां प्रपूजयेत् । वामे च यमुनां दक्षे धातारं वामतस्तथा ॥ १,६६.८० ॥ विधातारं शङ्खपद्मनिधींश्च वामदक्षयोः । द्वारपालांस्ततोऽभ्यर्चेत्तत्तत्कल्पोदितान्सुधीः ॥ १,६६.८१ ॥ नन्दः सुनन्दश्चण्डश्च प्रचण्डः प्रचलोबलः । भद्रः सुभद्रश्चेत्याद्या वैष्णवा द्वारपालकाः ॥ १,६६.८२ ॥ नन्दी भृङ्गी रिटी स्कन्दो गणेशोमामहेश्वराः । वृषभश्च महाकालः शैवा वै द्वारपालकाः ॥ १,६६.८३ ॥ ब्राह्मयाद्या मातरोऽष्टौ तु शक्त्यो द्वाःस्थिताः स्वयम् । सेंदुः स्वनामाघर्णाद्या ङेनमोंता इमे स्मृताः ॥ १,६६.८४ ॥ ततः स्थित्वासने धीमानाचम्य प्रयतः शुचिः । दिव्यान्तरिक्षभौमांश्च विघ्नानुत्सार्य यत्नतः ॥ १,६६.८५ ॥ केशवाद्यां मातृकान्तु न्यसेद्वैष्णवसत्तमः । केशवः कीर्तिसंयुक्तः कान्त्या नारायणस्तथा ॥ १,६६.८६ ॥ माधवस्तुष्टिसहितो गोविन्दः पुष्टिसंयुतः । विष्णुस्तु धृतिसंयुक्तः शान्तियुङ्मधुसूदनः ॥ १,६६.८७ ॥ त्रिविक्रमः क्रियायुक्तो वामनो दयितायुतः । श्रीधरो मेधया युक्तो हृषीकिशश्च हर्षया ॥ १,६६.८८ ॥ पद्मनाभयुता श्रद्धा लज्जा दामोदरान्विता । वासुदेवश्च लक्ष्मीयुक्संकर्षणसरस्वती ॥ १,६६.८९ ॥ प्रद्युम्नः प्रीतिसंयुक्तोऽनिरुद्धो रतिसंयुतः । चक्री जयायुतः पश्चाद्गदी दुर्गासमन्वितः ॥ १,६६.९० ॥ शार्ङ्गी तु प्रभया युक्तः खड्गी युक्तस्तु सत्यया । शङ्खी चण्डासमायुक्तो हली वाणीसमायुतः ॥ १,६६.९१ ॥ मुसली च बिलासिन्या शूली विजययान्वितः । पाशी विरजया युक्तो कुशी विश्वासमन्वितः ॥ १,६६.९२ ॥ मुकुन्दो विनतायुक्तो नन्दजश्च सुनन्दया । निन्दी स्मृत्या समायुक्तो नरो वृद्ध्या समन्वितः ॥ १,६६.९३ ॥ समृद्धियुङ्नरकजिच्छुद्धियुक्च हरिः स्मृतः । कृष्णो बुद्ध्या युतः सत्यो भुक्त्या मुक्त्याथ सात्वतः ॥ १,६६.९४ ॥ सौरिक्षमे सूररमे उमायुक्तो जनार्दनः । भूधरः क्लेदिनीयुक्तो विश्वमूर्तिश्च क्लिन्नया ॥ १,६६.९५ ॥ वैकुण्ठो वसुधायुक्तो वसुदःपुरुषोत्तमः । बली तु परया युक्तो बलानुजपरायणे ॥ १,६६.९६ ॥ बालसूक्ष्मे वृषघ्नस्तु संध्यायुक्प्रज्ञया वृषः । हंसः प्रभासमायुक्तो वराहो निशया युतः ॥ १,६६.९७ ॥ विमलो धारया युक्तो नृसिंहो विद्युता युतः । केशवादिमातृकाया मुनिर्नारायणो मतः ॥ १,६६.९८ ॥ अमृताद्या च गायत्री छन्दो विष्णुश्च देवता । चक्राद्यायुधसंयुक्तं कुंभादर्शधरं हरिम् ॥ १,६६.९९ ॥ लक्ष्मीयुतं विद्युदाभं बहुभूषायुतं भजेत् । एवं ध्यात्वा न्यसेच्छक्तिं श्रीकामपुटिताक्षरम् ॥ १,६६.१०० ॥ वदेत्तद्विष्णुशक्तिभ्यां हृदयं प्रणवादिकम् । त्वगंसृङ्मांसमेदोऽस्थिमज्जाशुक्राण्यसून्वदेत् ॥ १,६६.१०१ ॥ प्राणं क्रोधं तथा मभ्यामन्तान्यादिदशस्वपि । एक मौलौ मुखे चैक द्विक नेत्रे द्विकं श्रुतौ ॥ १,६६.१०२ ॥ नसोर्द्वयं कपोले च द्वयं द्वे द्विरदच्छदे । एकं तु रसनामूले ग्रीवायामेकमेव च ॥ १,६६.१०३ ॥ कवर्गं दक्षिणे बाहौ चवर्गं वामबाहुके । टतवर्गौं पादयोस्तु पफौ कुङ्क्षिद्वये न्यसेत् ॥ १,६६.१०४ ॥ पृष्ठवंशे वमित्युक्तं नाभौ भं हृदये तु मम् । यादिसप्तापि धातुस्था हं प्राणे लं तथात्मनि ॥ १,६६.१०५ ॥ क्षं क्रोधे क्रमतो न्यस्य विष्णु पूजाक्षमो भवेत् । पूर्णोदर्या तु श्रीकण्ठो ह्यनन्तो विजरान्वितः ॥ १,६६.१०६ ॥ सूक्ष्मेशः शाल्मलीयुक्तो लोलाक्षीयुक्त्रिमातकः । महेश्वरो वर्तुलाक्ष्याधींशो वै दीर्घघोणया ॥ १,६६.१०७ ॥ दिर्घमुख्या भारभूतिस्तिथीशो गोमुखीयुतः । स्थावरेशो दिर्घजिह्वायुग्धरः कुडोदरीयुतः ॥ १,६६.१०८ ॥ उर्द्धकेश्या तु झिण्टीशो भौतिको विकृतास्यया । सद्यो ज्वालामुखीयुक्तोल्कामुख्यानुग्रहो युतः ॥ १,६६.१०९ ॥ अक्रूर आस्यया युक्तो महासेनो विद्यया युतः । क्रोधीशश्चमहाकाल्या चण्डेशेन सरस्वती ॥ १,६६.११० ॥ पञ्चान्तकः सिद्धगौर्या युक्तश्चाथ शिरोत्तमः । त्रैलोक्यविद्यया युक्तो मन्त्रशक्त्यैकरुद्रकः ॥ १,६६.१११ ॥ क्रूर्मेशः कमठीयुक्तो भूतमात्रैकनेत्रकः । लम्बोदर्या चतुर्वक्रो ह्यजेशो द्राविणीयुतः ॥ १,६६.११२ ॥ सर्वेशो नागरीयुक्तः सोमेशः खेचरीयुतः । मर्यादया लाङ्गलीशो दारुकेशेन रूपिणी ॥ १,६६.११३ ॥ वारुण्या त्वर्द्धनारीशो उमाकान्तो गुनीश्वरः । काकोदर्या तथाषाढी पूतनासंयुक्तो मतः ॥ १,६६.११४ ॥ दण्डीशो भद्रकालीयुत्रीशो योगिनीयुतः । मीनेशः शङ्खिनीयुक्तो मेषेशस्तर्जयनीयुतः ॥ १,६६.११५ ॥ लोहितः कालरात्र्या च शिखीशः कुजनीयुतः । छलगण्डः कपर्दिन्या द्विरण्डेशश्च वज्रया ॥ १,६६.११६ ॥ महाबलो जयायुक्तो बलीशः सुमुखेश्वरी । भुजङ्गो रेवतीयुक्तः पिनाकी माधवीयुतः ॥ १,६६.११७ ॥ खड्गीशो वारुणीयुक्तो बकेशो वायवीयुतः । श्वेतोरस्को विदारिण्या भृगुः सहजया युतः ॥ १,६६.११८ ॥ लकुलीशश्च लक्ष्मीयुक्शिवेशो व्यापिनीयुतः । संवर्तके महामाया प्रोक्ता श्रीकण्ठमातृका ॥ १,६६.११९ ॥ यत्र स्वीशपदं नोक्तं तत्र सर्वत्र योजयेत् । मुनिःस्याद्दक्षिणामूर्तिर्गायत्रीछन्द ईरितम् ॥ १,६६.१२० ॥ देवता चार्द्धनारीशो विनियोगोऽखिलाप्तये । हलो बीजानि चोक्तानि स्वराः शक्तय ईरिताः ॥ १,६६.१२१ ॥ कुर्याद्भृगुस्थाकाशेन षड्दीर्घाढ्येन चाङ्गकम् । बन्धूकस्वर्णवर्णागं वराक्षाङ्कुशपाशिनम् ॥ १,६६.१२२ ॥ अर्द्धेन्दुशेखरं त्र्यक्षं देववन्द्यं विचिन्तयेत् । ध्यात्वैवं शिवशक्तीश्च चतुर्थी हृदयान्तिम् ॥ १,६६.१२३ ॥ सौबीजमातृकापूर्वे विन्यसेन्मातृका स्थले । विघ्नेशश्च ह्रिया युक्तो विघ्नराजः श्रिया युतः ॥ १,६६.१२४ ॥ विनायकस्तथा पुष्ट्या शान्तियुक्तः शिवोत्तमः । विघ्नकृत्स्वस्तिसंयुक्तो विघ्नहर्ता सरस्वती ॥ १,६६.१२५ ॥ स्वाहया गणनाथश्च एकदन्तः सुमेधया । कान्त्या युक्तो द्विदन्तस्तु कामिन्या गजवक्रकः ॥ १,६६.१२६ ॥ निरञ्जनो मोहिनीयुक्कपर्द्दीतुनटीयुतः । दीर्घजिह्वः पार्वतीयुग्ज्वालिन्या शङ्कुकर्णकः ॥ १,६६.१२७ ॥ वृषध्वजो नन्दया च सुरेश्या गणनायकः । गजेन्दः कामरूपिण्या शूर्पकर्णस्तथोमया ॥ १,६६.१२८ ॥ विरोचनस्तेजोवत्या सत्या लम्बोदरेण च । महानन्दश्च विघ्नेश्या चतुर्मूर्तिस्वरूपिणी ॥ १,६६.१२९ ॥ सदाशिवः कामदया ह्यामोदो मदजिह्वया । दुमुखो भूतिसंयुक्तः सुमुखो भौतिकीयुतः ॥ १,६६.१३० ॥ प्रमोदधः सितया युक्त एकपादो रमायुतः । द्विजिह्वो महिषीयुक्तो जभिन्या शूरनामकः ॥ १,६६.१३१ ॥ वीरो विकर्णया युक्तः षण्मुखो भृकुटीयुतः । वरदो लज्जया वामदेवंशो दीर्घघोणया ॥ १,६६.१३२ ॥ धनुर्द्धर्या वक्रतुडो द्विंरण्डो यामिनीयुतः । सेनानी रात्रिसंयुक्तः कामान्धो ग्रामणीयुतः ॥ १,६६.१३३ ॥ मत्तः शशिप्रभायुक्तो विमत्तो लोलनेत्रया । मत्तवाहश्चञ्चलया जटी दीप्तिसमन्वितः ॥ १,६६.१३४ ॥ मुंही सुभगया युक्तः खड्गी दुर्भगया युतः । वरेण्यश्च शिवायुक्तो भगया वृषकेतनः ॥ १,६६.१३५ ॥ भक्ष्यप्रियो भगिन्या च गणेशो भगिनीयुतः । मेघनादः सुभगया व्यापी स्यात्कालरात्रियुक् ॥ १,६६.१३६ ॥ गणेश्वरः कालिङ्कया प्रोक्ता विघ्नेशमातृकाः । गणेशमातृकायास्तु गणो मुनिभिरीरितः ॥ १,६६.१३७ ॥ त्रिवृद्गायत्रिकाछन्दो देवः शक्तिगणेश्वरः । षड्दीर्घाढ्येन बीजेन कृत्वाङ्गानि ततः स्मरेत् ॥ १,६६.१३८ ॥ पांशाङ्कुशाभयवरान्दधानं कञ्जहस्तया । पत्न्याश्लिष्टं रक्ततनुं त्रिनेत्रं गणपे भवेत् ॥ १,६६.१३९ ॥ एवं ध्यात्वा न्यसेत्स्वीयबीजपूर्वाक्षरान्वितम् । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्ततेधिकाः ॥ १,६६.१४० ॥ दीपिका रेचिका चापि मोचिका च पराभिधा । सूक्ष्मासूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा ॥ १,६६.१४१ ॥ व्यापिनी व्योमरूपा चानन्ता सृष्टिः समृद्धिका । स्मृतिर्मेधा ततः कान्तिर्लक्ष्मीर्द्धृतिः स्थिरा स्थितिः ॥ १,६६.१४२ ॥ सिद्धिर्जरा पालिनी च क्षान्तिरीश्वरीका रतिः । कामिको वरदा वाथ ह्लादिनी प्रीतिसंयुता ॥ १,६६.१४३ ॥ दीर्घा तीक्ष्णा तथा रौद्रा प्रोक्ता निद्रा च तन्द्रिका । क्षुधा च क्रोधिनी पश्चाक्रियाकारी समृत्युका ॥ १,६६.१४४ ॥ पीता श्रेतारुणा पश्चादसितानन्तया युता । उक्ता कलामातृकैवं तत्तद्भक्तः समाचरेत् ॥ १,६६.१४५ ॥ कलायुङ्मातृकायास्तु मुनिः प्रोक्तः प्रजापतिः । गायत्रीछन्द आख्यातं देवता शारदाभिधा ॥ १,६६.१४६ ॥ ह्रस्वदीर्घान्तरस्थैश्च तारैः कुर्यात्षडङ्गकम् । पद्मचक्रगुणैणांश्च दधतीं च त्रिलोचनाम् ॥ १,६६.१४७ ॥ पञ्चवक्रां भारतीं तां मुक्ताभूषां भजेत्सुधीः । ध्यात्वैवं तारपूर्वां तां न्यसेन्ङन्तकलान्विताम् ॥ १,६६.१४८ ॥ ततश्च मूलमन्त्रस्य षडङ्गानि समाचरेत् । हृदयादिचतुर्थ्यन्ते जातीः संयोज्य विन्यसेत् ॥ १,६६.१४९ ॥ नमः स्वाहा वषठुं वौषट्फट्जातय ईरिताः । ततो ध्यात्वेष्टदेवं तं भूषायुधसमन्वितम् ॥ १,६६.१५० ॥ न्यस्याङ्गषट्कं तन्मूर्तौं ततः पूजनमारभेत् ॥ १,६६.१५१ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बुहदुपाख्याने तृतीयपादे संध्यादिनिरूपणं नाम षट्षष्टितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथ वक्ष्ये देवपूजां साधकाभीष्टसिद्धिदाम् । त्रिकोणं चतुरस्रं वा वामभागे प्रकल्प्य च ॥ १,६७.१ ॥ सम्पूज्या स्रेण संक्षाल्य हृदाधारं निधाय च । तत्राग्निमण्डलं चेद्वा पात्रं संक्षाल्य चास्रतः ॥ १,६७.२ ॥ आधारे नामसं स्थाप्य तत्र चेद्रविमण्डलम् । क्लिममातृका पूलमुञ्चरन्पूरपेज्जलैः ॥ १,६७.३ ॥ चत्रेञ्जुमण्डलं प्रार्च्य तीर्थान्यावाह्य पूर्ववत् । गोमुद्रयामृतीकृत्य कवचेनावगुण्ठयेत् ॥ १,६७.४ ॥ संक्षाल्यास्रेण प्रणवं तदुपर्यष्टधा जपेत् । सामान्यार्घमिदं प्रोक्तं सर्वसिद्धिकरं नृणाम् ॥ १,६७.५ ॥ तज्जलं र्किचिदुदूधृत्य प्रोक्षिण्या साधकोत्तमः । आत्मानं यागवस्तूनि तेन संप्रोक्षयेत्पुथक् ॥ १,६७.६ ॥ आत्मवामाग्रतः कुर्यात्षट्ट्कोणान्तस्रिकोणकम् । चतुरस्रेण संवेष्ट्य संक्षाल्यार्घोदकेन च ॥ १,६७.७ ॥ ततस्तु साधकश्रेष्ठः स्तंभयेच्छङ्खमुद्रया । आग्नेयादिषु कोणेषु हृदाद्यङ्गचतुष्टयम् ॥ १,६७.८ ॥ नेत्रं मध्ये दिक्षु चास्रं त्रिकोणे पूजयेत्ततः । मूलखण्डत्रयेनाथाधारशक्तिं तु मध्यगाम् ॥ १,६७.९ ॥ एवं संपूज्य विधिवदस्रंसंक्षालितं हृदा । प्रतिष्टाप्य त्रिपदिकां पूजयेन्मनुनामुना ॥ १,६७.१० ॥ मं वह्निमण्डला येति ततो देशकलात्मने । अमुकार्ध्येति पात्रान्ते सनापहृदयोंऽतिमे ॥ १,६७.११ ॥ चतुर्विंशतिवर्णोऽयमाधारस्यार्चने मनुः । स्वमन्त्रक्षालितं शरंवं संस्याप्याय समर्चयेत् ॥ १,६७.१२ ॥ तारः कार्ंममहांस्ते तु ततो जलचराय च । वर्म फठृदयं पाञ्चजन्याय हृदयं मनेः ॥ १,६७.१३ ॥ तत्रार्कमण्डलायेति द्वादशान्ते कलारमने । अमुकार्ध्येति पात्रान्ते नमोन्तस्त्र्यक्षिवर्णवान् ॥ १,६७.१४ ॥ सम्पूज्य तेन तत्रार्चेद्द्वादशार्ककलाः क्रमात् । ततः शुद्धजलैर्मूलं विलोममातृकां पठन् ॥ १,६७.१५ ॥ शङ्खमापूरयेत्तस्मिन्पूजयेन्मनुनामुना । ओं सोममण्डलायेति षोडशान्ते कलात्मने ॥ १,६७.१६ ॥ अमुकार्ध्यामृतायेति हृन्मनुश्चार्ध्यपूजने । तत्र षोडशसंख्याका यजेञ्चन्द्रमसः कलाः ॥ १,६७.१७ ॥ ततस्तु तीर्थान्यावाह्य गङ्गे चेत्यादिपूर्ववत् । गोमुद्रयामृतीकृत्याच्छादयेन्मत्स्ममुद्रया ॥ १,६७.१८ ॥ कवचेनावगुण्ठ्याथ रक्षेदस्त्रेण तत्पुनः । चिन्तयित्वेष्टदेवं च ततो मुद्राः प्रदर्शयेत् ॥ १,६७.१९ ॥ शङ्खमौशलचकाख्याः परमीकरणं ततः । महामुद्रां योनिमुद्रां दर्शयेत्क्रमतः सुधीः ॥ १,६७.२० ॥ गारुडी गालिनी चैव मुख्ये मुद्रे प्रकीर्तिते । गन्धपुष्पादिभिस्तत्र पूजयेद्देवतां स्मरनट् ॥ १,६७.२१ ॥ अष्टकृत्वो जपेन्मूलं प्रणवं चाष्टधा तथा । शङ्खाद्दक्षिणदिग्भागे प्रोक्षणीपात्रमादिशेत् ॥ १,६७.२२ ॥ प्रोक्षण्यां तज्जलं किञ्चित्कृत्वात्मानं त्रिधा ततः । आत्मतत्त्वात्मने हृञ्च विद्यातत्त्वात्मने नमः ॥ १,६७.२३ ॥ शिवतत्त्वात्मने हृञ्च इत्येतैर्मनुभिस्त्रिभिः । प्रोक्षेत्पुष्पाक्षतैश्चापि मण्डलं विधिवत्सुधीः ॥ १,६७.२४ ॥ अथवा मूलगायत्र्या पूजाद्रव्याणि प्रोक्षयेत् । पाद्यार्ध्याचमनूयार्थं मधुपर्कार्थमप्युत ॥ १,६७.२५ ॥ पात्राण्याधारयुक्तानि स्थापयेद्विधिना पुरः । पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्तजलैः स्मृतम् ॥ १,६७.२६ ॥ अर्ध्यं पुष्पाक्षतयवैः कुशाग्रतिलसर्षपैः । गन्धदूर्वादलैः प्रोक्तं ततश्चाचमनीयकम् ॥ १,६७.२७ ॥ जातीफलं च कङ्कोलं लवङ्गं च जलान्वितम् । क्षौद्राज्यदधिसंमिश्रं मधुपर्कसमीरितम् ॥ १,६७.२८ ॥ एकस्मिन्नथवा पात्रे पाद्यादीनि प्रकल्पयेत् । शङ्करार्कार्चने शङ्खमयेनैव प्रशस्यते ॥ १,६७.२९ ॥ श्वेताकृष्णारुणापीताश्यामारक्तासितासिताः । रक्तांबराभयकराध्येयाःस्पुः पीठशक्तयः ॥ १,६७.३० ॥ स्वर्णादिलिखिते यन्त्रे शालग्रामे मणौ तथा । विधिना स्थापितायां वा प्रतिमायां प्रपूजयेत् ॥ १,६७.३१ ॥ अङ्गुष्टादिवितस्त्यन्तमाना स्वर्णादिधातुभिः । निर्मिता शुभदा गेहे पूजनाय दिने दिने ॥ १,६७.३२ ॥ वक्रां दग्धां खण्डितां च भिन्नमूर्द्धदृशं पुननः । स्पष्टां वाप्य न्त्यजाद्यैश्च प्रतिमां नैव पूजयेत् ॥ १,६७.३३ ॥ बाणादिलिङ्गे वाभ्यर्चेत्सर्वलक्षणलक्षिते । मूलेन मूर्तिं संकल्प्य ध्यात्वा देवं यथोदितम् ॥ १,६७.३४ ॥ आवाहा पूजयेतस्यां परिवारगणैः सह । शालग्रामे स्थापितायां नावाहनविसर्जने ॥ १,६७.३५ ॥ पुष्पाञ्जलिं समादाय ध्यात्वा मन्त्रमुदीरयेत् ॥ १,६७.३६ ॥ आत्मसंस्थमजं शुद्धं त्वामहं परमेश्वर । अरण्यामिव हव्याशं मूर्तावावाहयाम्यहम् ॥ १,६७.३७ ॥ तवेयं हि महामूर्तिस्तस्यां त्वां सर्वगं प्रभो । भक्तिरेवहसमाकृष्टं दीपवत्स्थापयाम्यहम् ॥ १,६७.३८ ॥ सर्वान्तर्यामिणे देवं सर्वबीजमय शुभम् । रवात्मस्थआय परं शुद्धमासनं कल्पयाव्यहम् ॥ १,६७.३९ ॥ अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो । सांनिध्यं कुरु तस्यां त्वं भक्तानुग्राहकारक ॥ १,६७.४० ॥ अज्ञानाजुच मत्तत्त्वाद्वैकल्यात्साधनस्य च । यद्यपूर्णं भवेत्कल्पं कतथाप्यभिमुखो भव ॥ १,६७.४१ ॥ दृशा पूयूषवर्षिण्या पूरयन्यज्ञविष्टरे । मूर्तौं वा यज्ञसंपूर्त्यै स्थितो भव महेश्वर ॥ १,६७.४२ ॥ अभक्तवाङ्मनश्चक्षुः श्रोत्रदूरायितद्युते । स्वतेजः पञ्जरेणाशु वेष्टितो भव सर्वतः ॥ १,६७.४३ ॥ यस्य दर्शनामिच्छन्ति देवाः स्वाभीष्टसिद्धये । तस्मै ते परमेशाय स्वागतं स्वागतं च मे ॥ १,६७.४४ ॥ कृतार्थोऽनुगृहीतोऽस्मि सफलं जीवितं मम । आगतो देवदेवेशः सुखागतमिदं पुनः ॥ १,६७.४५ ॥ यद्भक्तिलेप्तसंपर्कात्परमानन्दसंभवः । तस्मै मे परणाब्जाय पाद्यं शुद्धाय कल्प्यते ॥ १,६७.४६ ॥ वेदानामपि वेदाय देवानां देवतात्मने । आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे ॥ १,६७.४७ ॥ तापत्रयहर दिव्यं परमानन्दलक्षणम् । तापत्रयविनिर्मुक्त्यै तवार्घ्यं कल्पयाम्यहम् ॥ १,६७.४८ ॥ सर्वकालुष्यहीनाय परिपूर्णसुखात्मने । मधुपर्कमिदं देव कल्पयामि प्रसीद मे ॥ १,६७.४९ ॥ अवच्छिष्टोऽप्यशुचिर्वापि यस्य स्मरणमात्रतः । शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम् ॥ १,६७.५० ॥ स्नेहं गृहाण स्नेहेन लोकनाथ महाशय । सर्वलोकेषु शुद्धात्मन्ददामि स्नेहमुत्तमम् ॥ १,६७.५१ ॥ परमानन्दबोधाब्धिनिमग्ननिजमूर्तये । सांगोपाङ्गमिदं स्नानं कल्पयाम्यहमीश ते । सहस्रं वा शतं वापि यथाशक्त्यादरेण च ॥ १,६७.५२ ॥ गन्धपुष्पादिकैरीश मनुनां चाभिषिञ्चेत् ॥ १,६७.५३ ॥ मायाचि त्रपटच्छन्ननिजगुह्योरुतेजसे । निरावरणविज्ञान वासस्ते कल्पयाम्यहम् ॥ १,६७.५४ ॥ यमाश्रित्य म हामाया जगत्संमोहिनी सदा । तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् ॥ १,६७.५५ ॥ रक्तं शक्त्यर्कविघ्नेषु पीतंविष्णौ सितं शिवे । तैलादिदूषितं जीर्णं सच्छिद्रं मलिनं त्यजेत् ॥ १,६७.५६ ॥ यस्य शक्तित्रयेणदं संप्रीतमखिलं जगत् । यज्ञसूत्राय तस्मै ते यज्ञसूत्रं प्रकल्पये ॥ १,६७.५७ ॥ स्वभावसुन्दराङ्गाय नानाशक्त्याश्रयाय ते । भूषणानि विचित्राणि कल्पयाम्यमरार्चित ॥ १,६७.५८ ॥ परमानन्दसौरभ्यपरिपूर्णदिगन्तरम् । गृहाण परम गन्ध कृपया परमेश्वर ॥ १,६७.५९ ॥ तुरीयवनसंभूतं नानागुणमनोहरम् । अमन्दसौरभपुष्पं गृह्यतामिदमुत्तमम् । जपाक्षतार्कधत्तूरान्विष्णौ नैवार्पयेत्क्वचित् ॥ १,६७.६० ॥ केतकीं कुटजं कुन्दं बन्धूकं केसरं जपाम् । मालतीपुष्पक चैव नार्पयेत्तु महेश्वरे ॥ १,६७.६१ ॥ मातुलिङ्गं च तगरं रवौ नैवार्पयेत्क्वचित् । शक्तौ दूर्वार्कमन्दारान् गणेशे तुलसीं त्यजेत् ॥ १,६७.६२ ॥ सरोजिनीदमनकौ तथा मरुबकः कुशः । विष्णुक्रान्ता नागवल्ली दूर्वापामार्गदाडिमौ ॥ १,६७.६३ ॥ धात्री मुनियुतानां च पत्रैर्देवार्चनं चरेत् । कदली बदरी धात्री तिन्तिणी बीजपूरकम् ॥ १,६७.६४ ॥ आम्रदाडिमजंबीरजंबूपनसभूरुहाः । एतेषां तु फलैः कुर्याद्देवतापूजनं बुधः ॥ १,६७.६५ ॥ शुष्कैस्तु नार्चयेद्देवं पत्रैः पुष्पैः फलैरपि ॥ १,६७.६६ ॥ धात्री खदिरबित्वानां तमालस्य दलानि च । छिन्नभिन्नान्यपि मुने न दूष्याणि जगुर्बुधाः ॥ १,६७.६७ ॥ पद्ममामलकं तिष्टेच्छुद्धं चैव दिनत्रयम् । सर्वदा तुलसी शुद्धा बिल्वपत्राणि वै तथा ॥ १,६७.६८ ॥ पलाशकाशकुसुमैस्तमालतुलसीदलैः । छात्रीदलैश्च दूर्वाभिर्नार्चयेज्जगदंबिकाम् ॥ १,६७.६९ ॥ नार्पयेत्कुसुमं पत्रं फलं देवे ह्यधोमुखम् । पुष्पपत्रादिकं विप्र यथोत्पन्नं तथार्पयेत् ॥ १,६७.७० ॥ वनस्पतिरसं दिव्यं गन्धाढ्यं सुमनोहरम् । आघ्रेयं देवदेवेश धूपं भक्त्या गृहाम मे ॥ १,६७.७१ ॥ सुप्रकाशं महादीपं सर्वदा तिमिरापहम् । घृतवर्तिसमायुक्तं गृहाण मम सत्कृतम् ॥ १,६७.७२ ॥ अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् । भक्त्या गृहाण मे देव नैवेद्यन्तुष्टिदंसदा ॥ १,६७.७३ ॥ नागवल्लीदलं श्रेष्ठं पूगखदिरचूर्णयुक् । कर्पूरादिसुगन्धाढ्यं यद्दत्तं तद्गृहाण मे ॥ १,६७.७४ ॥ दद्यात्पुष्पाञ्जलिं पश्चात्कुर्यादावरणार्चनम् ॥ १,६७.७५ ॥ यदाशाभिमुखो भूत्वा पूजनं तु समाचरेत् । सैव प्राची तु विज्ञेया ततोऽन्या विदिशो दश ॥ १,६७.७६ ॥ केशरेष्वग्निकोणादि हृदयादीनि पूजयेत् । नेत्रमग्रे दिक्षु चास्त्रं अङ्गमन्त्रैर्यथाक्रमम् ॥ १,६७.७७ ॥ शुक्लश्वेतसितश्यामकृष्णरक्तार्चिषः क्रमात् । वराभयकरा ध्येयाः स्वस्वदिक्ष्वं गशक्तयः ॥ १,६७.७८ ॥ अमुकावरणान्ते तु देवता इति संवदेत् । सालङ्कारास्ततः पश्चात्सांगाः सपरिचारिकाः ॥ १,६७.७९ ॥ सवाहनाः सायुधाश्च ततः सर्वो पचारकैः । संपूजितास्तर्पिताश्च वरदाः संत्विदं पठेत् ॥ १,६७.८० ॥ मूलान्ते च समुञ्चार्य दिवतायै निवेदयेत् । अभीष्टसिद्धिं मे देहि शरणागतवत्सल ॥ १,६७.८१ ॥ भक्तया समर्पये तुभ्यममुकावरणार्चनम् । इत्युञ्चार्य क्षिपेत्पुष्पाञ्जलिं देवस्य मस्तके ॥ १,६७.८२ ॥ ततस्त्वभ्यर्च्यनीयाः स्युः कल्पोक्ताश्चावृतीः क्रमात् । सायुधांस्तत इन्द्राद्यान्स्वस्वदिक्षु प्रपूजयेत् ॥ १,६७.८३ ॥ इद्रो वह्निर्यमो रक्षो वरुणः पवनो विधुः । ईशानोऽथ विधिश्चैवमधस्तात्पन्न गाधिपः ॥ १,६७.८४ ॥ ऐरावतस्तथा मेषो महिषः प्रेतस्तिमिर्मृगः । वाजी वृषो हंसकूर्मौं वाहनानि विदुर्बुधाः ॥ १,६७.८५ ॥ वज्रं शक्तिं दण्डखड्गौ पाशां कुशगदा अपि । त्रिशूलं पद्मचक्रे च क्रमादिन्द्रादिहेतयः ॥ १,६७.८६ ॥ समाप्यावरणार्चां तु देवतारार्तिकं चरेत् । शङ्खतोयं परिक्षिप्योद्वाहुर्नृत्यन् पतेत्क्षितौ ॥ १,६७.८७ ॥ दण्डवञ्चाप्यथोत्थाय प्रार्थयित्वा निजे श्वरम् । दक्षिणे स्थण्डिलं कृत्वा तत्र संस्कारमाचरेत् ॥ १,६७.८८ ॥ मूलेनेक्षणमस्त्रेण प्रोक्षणं ताडनं पुनः । कुशैस्तद्वर्मणाभ्युक्ष्य पूज्य तत्र न्यसेद्वसुम् ॥ १,६७.८९ ॥ प्रदाप्य तत्र जुहुयाद्ध्यात्वा चैवेष्टदेवताम् । महाव्याहृतिभिर्यस्तु समस्ताभिश्चतुष्टयम् ॥ १,६७.९० ॥ जुहुयात्सर्पिषा भक्तैस्तिलैर्वा पायसेन वा । सघृतैः साधकश्रेष्ठः पञ्चविंशतिसंख्यया ॥ १,६७.९१ ॥ पुनर्व्याहृतिभघिर्हुत्वा गन्धाद्यैः पुनरर्चयेत् । देवं संयोजयेन्मूर्तौं ततो वह्निं विसर्जयेत् ॥ १,६७.९२ ॥ भो भो वह्ने महाशक्ते सर्वकर्मप्रसाधक । कर्मान्तरेऽपि संप्राप्ते सान्निध्यं कुरु सादरम् ॥ १,६७.९३ ॥ विसृज्याग्निदेवतायै दद्यादाचमनीयकम् । अवशिष्टेन हविषा गन्धपुष्पाक्षतान्वितम् ॥ १,६७.९४ ॥ देवतापार्षदेभ्योऽपि पूर्वोक्तेभ्यो बलिं ददेत् । ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ॥ १,६७.९५ ॥ योगिन्यो ह्युग्ररूपाश्च गणानामधिपाश्च ये । विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताःग ॥ १,६७.९६ ॥ सर्वे ते प्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् । इत्यष्टदिक्षु दत्वा च पुनर्भूतबलिं चरेत् ॥ १,६७.९७ ॥ पानीयममृतीकृत्य मुद्रया धेनुसंज्ञया । देवतायाः करे दद्यात्पुनश्चाचमनीयकम् ॥ १,६७.९८ ॥ देवमुद्वास्य मूर्तिस्थं पुनस्तत्रैव योजयेत् । नैवेद्यं च ततो दद्यात्तत्तदुच्छिष्टभोजिने ॥ १,६७.९९ ॥ महेश्वरस्य चण्डेशो विष्वक्सेनस्तथा हरेः । चण्डांशुस्तरणेर्वक्ततुण्डश्चापि गणेशितुः । शक्तेरुच्छिष्टचाण्डाली प्रोक्ता उच्छिष्टभोजिनः ॥ १,६७.१०० ॥ ततो ऋष्यादिकं स्मृत्वा कृत्वा मूलषडङ्गकम् । जप्त्वा मन्त्रं यथाशक्ति देवतायै निवेदयेत् ॥ १,६७.१०१ ॥ गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थिता ॥ १,६७.१०२ ॥ ततः पराङ्मुखं चार्घं कृत्वा पुष्पैः प्रपूजयेत् । दोर्भ्यां पभ्द्यां च जानुभ्यामुरसा शिरसादृशा । मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ १,६७.१०३ ॥ बाहुभ्यां च सजानुभ्यां शिरसा वचसापि वा । पञ्चाङ्गकः प्रणामः स्यात्पूजायां प्रवरावुभौ ॥ १,६७.१०४ ॥ नत्वा च दण्डवन्मन्त्री ततः कुर्यात्प्रदक्षिणाः । विष्मुसोमार्कविघ्नानां वेदार्धेन्द्वद्रिवह्नयः ॥ १,६७.१०५ ॥ ततः स्तोत्रादिकं मन्त्री प्रपठे द्भक्तिपूर्वकम् । इतः पूर्णं प्राणबुद्धिदेहधर्माधिकारतः ॥ १,६७.१०६ ॥ जाग्रत्स्वप्नसुषुप्त्यन्तेऽवस्थासु मनसा वदेत् । वाचा हस्ताभ्यां च पद्भ्या मुदरेण ततः परम् ॥ १,६७.१०७ ॥ शिष्णान्ते यत्स्मृतं पश्चाद्यदुक्तं यत्कृतं ततः । तत्सर्वं च ततो ब्रह्मर्पणं भवतु ठद्वयम् ॥ १,६७.१०८ ॥ मां मदीयं च सकलं विष्णवे च समर्पये । तारं तत्सदतो ब्रह्मर्पणमस्तु मनुर्मतः ॥ १,६७.१०९ ॥ प्रणवाद्योऽष्टवस्वर्णो ह्यनेनात्मानमर्पयेत् । अज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्य च ॥ १,६७.११० ॥ यन्न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि । द्रव्यहीनं क्रियाहीनं मन्त्रहीनं मयान्यथा ॥ १,६७.१११ ॥ कृतं यत्तत्क्षमस्वेश कृपया त्वं दयानिधे । यन्मया क्रियते कर्म जाग्रत्स्वप्रसुषुप्तिषु ॥ १,६७.११२ ॥ तत्सर्वं तावकी पूजा भूयाद्भूत्यै च मे प्रभो । भूमौ स्खलितपादानां भूमिरेवावलंबनम् ॥ १,६७.११३ ॥ त्वयि जातापराधानां त्वमेव शरणं प्रभो । अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥ १,६७.११४ ॥ तस्मात्कारुण्यभावेन क्षमस्व परमेश्वर । अपराधसहस्राणि क्रियन्तेऽहर्न्निशं मया ॥ १,६७.११५ ॥ दासोऽयमिति मां मत्वा क्षमस्व जगतां पते । आवाहनं न जानामि न जानामि विसर्जनम् ॥ १,६७.११६ ॥ पूजां चैव न जानामि त्वं गतिः परमेश्वर । संप्रार्थ्यैवं ततो मन्त्री मूलान्ते श्लोकमुञ्चरेत् ॥ १,६७.११७ ॥ गच्छ गच्छ परं स्थानं जगदीश जगन्मय । यन्न ब्रह्मादयो देवा जानन्ति च सदाशिवः ॥ १,६७.११८ ॥ इति पुष्पाञ्जलिं दत्वा ततः संहारमुद्रया । निधाय देवं सांगं च स्वीयदृत्सरसीरुहे ॥ १,६७.११९ ॥ सुषुम्णावर्त्मना पुष्पमाघ्रायोद्वासयेद्बुधः । शङ्खचक्रशिलालिङ्गविघ्नसूर्यद्वयं तथा ॥ १,६७.१२० ॥ शक्तित्रयं न चैकत्र पूजयेद्दुःखकारणम् । अकालमृत्युहरणं सर्वव्याधिविनाशन् ॥ १,६७.१२१ ॥ सर्वपापक्षयकरं विष्णुपादोदकं शुभम् ॥ १,६७.१२२ ॥ तत्तद्भक्तैर्गृही तव्यं तन्नैवेद्यनिवेदितम् । अग्राह्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम् ॥ १,६७.१२३ ॥ शालग्रामशिलास्पर्शात्सर्वं याति पवित्रताम् । पूजा पञ्चविधा तत्र कथिता नारदाखिलैः ॥ १,६७.१२४ ॥ आतुरी सौतिकी त्रासी साधना भाविनी तथा । दौर्बोधी च क्रमादासां लक्षणानि शृणुषअव मे ॥ १,६७.१२५ ॥ रोगादियुक्तो न स्रायान्न जपेन्न च पूजयेत् । विलोक्य पूजां देवस्य मूर्तिं वा सूर्य्यमण्डलम् ॥ १,६७.१२६ ॥ प्रणम्याथ स्मरन्मन्त्रमर्पयेत्कुमाञ्जलिम् । रोगे निवृत्ते स्नात्वाथ नत्वा संपूञ्चेद्गुरुम् ॥ १,६७.१२७ ॥ त्वत्प्रसादाज्जगन्नाथ जगत्पूज्य दयानिधे । पूजाविच्छेददोषो मे मास्त्विति प्रार्थयेच्च तम् ॥ १,६७.१२८ ॥ द्विजानपि च संपूज्य यथाशक्त्या प्रतोष्य च । तेभ्यश्चाशिषमादाय देवं प्राग्वत्ततोर्ऽचयेत् ॥ १,६७.१२९ ॥ आतुरी कथिता ह्येषा सोतिक्यथ निगद्यते । सूतकं द्विविधं प्रोक्तं जाताख्यं मृतसंज्ञकम् ॥ १,६७.१३० ॥ तत्र स्नात्वा मानसीं तु कृत्वा संध्यां समाहितः । मनसैव यजेद्देवं मनसैव जपेन्मनुम् ॥ १,६७.१३१ ॥ निवृत्ते सूतके प्राग्वत्संपूज्य च गुरुं द्विजान् । तेभ्यश्चाशिषमादाय ततो नित्यक्रमं चरेत् ॥ १,६७.१३२ ॥ एषा तु सौतिकी प्रोक्ता त्रासी चाथ निगद्यते । दुष्टेभ्यस्त्रासमापन्नो यथालब्धोपचारङ्कैः ॥ १,६७.१३३ ॥ मानसैर्वै यजेद्देवं त्रासी सा परिकीर्तिता । पूजासाधनवस्तूनाम सामर्थ्ये तु सर्वतः ॥ १,६७.१३४ ॥ पुष्पैः पत्रैः फलैर्वापि मनसा वा यजेद्विभुम् । साधनाभाविनी ह्येषा दौर्बोधीं शृणु नारद ॥ १,६७.१३५ ॥ स्त्रियो वृद्धा स्तथा बाला मूर्खास्तैस्तु यथाक्रमम् । यथाज्ञानकृता सा तु दौर्बोधीति प्रकीर्तिता ॥ १,६७.१३६ ॥ एवं यथाकथञ्चित्तु पूजां कुर्याद्धि साधकः । देवपूजाविहीनो यः स गच्छेन्नरकं ध्रुवम् ॥ १,६७.१३७ ॥ वैश्वदेवादिकं कृत्वा भोजयेद्द्विजसत्तमान् । देवे निवेदितं पश्चाद्भुञ्जीत स्वगणैः स्वयम् ॥ १,६७.१३८ ॥ आचम्याननशुद्धिं च कृत्वा तिष्टेत्कियत्क्षणम् । पुराणमितिहासं च शृणुयात्स्वजनैः सह ॥ १,६७.१३९ ॥ समर्थः सर्वकल्पेषु योऽनुकल्पं समाचरेत् । न सांगशयिकं तस्य दुर्मतेर्जायते फलम् ॥ १,६७.१४० ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे देवपूजानिरूपणं नाम सप्तषष्टित्तमोऽध्यायः _____________________________________________________________ श्रीसनत्कुमार उवाच । अथ वक्ष्ये गणेशस्य मन्त्रान्सर्वेष्टदायकान् । यान्समाराध्य विप्रेन्द्र साधको भुक्तिमुक्तिमान् ॥ १,६८.१ ॥ अव्ययो विष्णुवनिता शंभुस्त्री मीनकेतनः । स्मृतिर्मांसेंदुमन्वाढ्या सा पुनश्चन्द्रशेखरा ॥ १,६८.२ ॥ ङेंतो गणपतिस्तोयं भुजङ्गो वरदेति च । सर्वान्ते जनमुञ्चार्य ततो मे वशमानय ॥ १,६८.३ ॥ वह्निः प्रियान्तो मन्त्रोऽयष्टाविंशतिवर्णवान् । गणकोऽस्य मुनिश्छन्दो गायत्री वियुदादिका ॥ १,६८.४ ॥ गणेशो देवता बीजं षष्टशक्तिस्तदादिका । श्रीमन्महागणपतिप्रीतये विनियोगकः ॥ १,६८.५ ॥ ऋषिं शिरसि वक्रे तु छन्दश्च हृदि देवताम् । गुह्ये बीजं पदोः शक्तिं न्यसेत्साधकसत्तमः ॥ १,६८.६ ॥ षड्दीर्घाढ्येन बीजेन यं च बीजादिना पुनः । षडङ्गानि न्यसेदस्य जातियुक्तानि मन्त्रवित् ॥ १,६८.७ ॥ शैवी षडङ्गमुद्राय न्यस्तव्या हि षडङ्गके । गामाद्यं चैव भूर्लोकं नाभ्यन्तं पादयोर्न्यसेत् ॥ १,६८.८ ॥ गीमाद्यं च भुवर्लोकं कण्ठान्तं नाभितो न्यसेत् । स्वर्लोकं चैव गूमाद्यं कण्ठदिमस्तकावधि ॥ १,६८.९ ॥ व्यापकं मूलमन्त्रेण न्यासोऽयं भुवनाभिधः । मूलमन्त्रं समुञ्चार्य मातृकावर्णमीरयेत् ॥ १,६८.१० ॥ तदन्तेऽपि च मूलं स्यान्नमोंऽतं मातृकास्थले । क्षान्तं विन्यस्य मूलेन व्यापकं रचयेत्सुधीः ॥ १,६८.११ ॥ वर्णन्या सोऽयमाख्यातः पदन्यासस्तथोच्यते । पञ्चत्रिबाणवह्नीन्दुचन्द्राक्षिनिगमैः क्रमात् ॥ १,६८.१२ ॥ विभक्तैर्मूलगायत्र्या हृदन्तैरष्टभिः पदैः । भालदेशे मुखे कण्ठे हृदि नाभ्यूरुजानुषु ॥ १,६८.१३ ॥ पादयोश्चैव विन्यस्य मूलने व्यापकं चरेत् । वदेत्तत्पुरुषायान्ते विद्महेति पदं ततः ॥ १,६८.१४ ॥ वक्रतुण्डाय शब्दान्ते धीमहीति समीरयेत् । तन्नो दन्तिः प्रचोवर्णा दयादिति वदेत्पुनः ॥ १,६८.१५ ॥ एषोक्ता मूलगायत्री सर्वसिद्धिप्रदायिनी । एवं न्यासविधिं कृत्वा ध्यायेदेवं हृदंबुजे ॥ १,६८.१६ ॥ उद्यन्मार्तण्डसदृशं लोकस्थित्यन्तकारणम् । सशक्तिकं भूषिताङ्गं दन्त चक्राद्युदायुधम् ॥ १,६८.१७ ॥ एवं ध्यात्वा चतुश्चत्वारिंशत्साहस्रसंयुतम् । चतुर्लक्षं जपेन्मन्त्रं अष्टद्रव्यैर्दशांशतः ॥ १,६८.१८ ॥ जुहुयाद्विधिवन्मन्त्री संस्कृते हव्यवाहने । इक्षवः सक्तवो मोचाफलानि चिपिटास्तिलाः ॥ १,६८.१९ ॥ मोदका नारिकेलानि लाजा द्रव्याष्टकं स्मृतम् । पीठमाधारशक्त्यादिपरतत्वान्तमर्चयेत् ॥ १,६८.२० ॥ षट्कोणान्तस्त्रिकोणं च बहिरष्टदलं लिखेत् । भूपुरं तद्बहिः कृत्वा गमेशं तत्र पूजयेत् ॥ १,६८.२१ ॥ तीव्राख्या ज्वालिनी नन्दा भोगदा कामरूपाणी । अग्रा तेजोवती सत्या नवमी विध्ननाशिनी ॥ १,६८.२२ ॥ सर्वादिशक्तिकमलासनाय हृदयान्तिकः । पीठमन्त्रोऽयमेतेन दद्यादासनमुत्तमम् ॥ १,६८.२३ ॥ तत्रावाह्य गणाधीशं मध्ये सम्पूज्य यत्नतः । विकोणबाह्ये पूर्वादिचतुर्दिक्षअवर्चयेत्क्रमात् ॥ १,६८.२४ ॥ श्रियं श्रियः पतिं चैव गौरीं गौरी पतिं तथा । रतिं रतिपतिं पाश्चान्महीपूर्व च पोत्रिणम् ॥ १,६८.२५ ॥ क्रमादिल्ववटाश्वत्थप्रियगूनामधोर्ऽचयेत् । रमा पद्मद्वयकरा शङ्खचक्रधरो हरिः ॥ १,६८.२६ ॥ गौरी पाशाङ्कुशधरा टङ्कशूलधरो हरः । रतिः पद्मकरा पुष्पबाणचापधरः स्मरः ॥ १,६८.२७ ॥ शूकव्रीह्यग्रहस्ता भूः पोत्री चक्रगदाधरः । देवाग्रे पूजयेल्लक्ष्मीसहितं तु विनायकम् ॥ १,६८.२८ ॥ पूजयेत्षट्सु कोणेषु ह्यामोदाद्यान्प्रियायुतान् । आमोदं सिद्धिसंयुक्तमग्रतः परिपीजयेत् ॥ १,६८.२९ ॥ प्रमोदं चाग्निकोणे तु समृद्धिसहितं यजेत् । ईशकोणे यजेत्कीर्तिसंयुतं सुमुखं तथा ॥ १,६८.३० ॥ वारुणे मदनावत्या संयुतं दुर्मुखं यजेत् । यजेन्नैरृत्यकोणे तु विघ्नं मदद्रवायुतम् ॥ १,६८.३१ ॥ द्राविण्या विघ्नकर्तारं वायुकोणे समर्चयेत् । पाशाङ्कुशाभयकरांस्तरुणार्कसमप्रभान् ॥ १,६८.३२ ॥ कपोलविगलद्दानगन्धलुब्धा लिशोभितान् । षट्कोणोभयपार्श्वे तु शङ्खपद्मनिभौ क्रमात् ॥ १,६८.३३ ॥ सहितौ निजशक्तिभ्यां ध्यात्वा पूर्ववदर्चयेत् । केशरेषु षडङ्गानि पत्रेष्वष्टौ तु मातरः ॥ १,६८.३४ ॥ इन्द्राद्यानपि वज्ज्रादीन्पूजयेद्धरणीगृहे । एवमाराध्य विघ्नेशं साधयेत्स्वमनोरथान् ॥ १,६८.३५ ॥ चतुश्चत्वारिंशताढ्यं चतुः शतमतन्द्रितः । तर्पयेदंबुभिः शुद्धैर्गजास्यं दिनशः सुधीः ॥ १,६८.३६ ॥ पद्मैस्तु वशयेद्भूपांस्तत्पत्नीश्चोत्पलैस्तथा । कुमुदैर्मन्त्रिणोऽश्वत्थसमिद्भिर्वाडवाञ्शुभैः ॥ १,६८.३७ ॥ उदुंम्बरोत्थैर्नृपतीन्वैश्यान्प्लक्षसमुद्भवैः । वटोद्भवैः समिद्भिश्च वशयेदन्तिमान्बुधः ॥ १,६८.३८ ॥ आज्येन श्रियमाप्नोति स्वर्णाप्तिर्मधुना भवेत् । गोदुग्धेन गवां लाभो दध्ना सर्वसमृद्धिमान् ॥ १,६८.३९ ॥ अन्नाप्तिरन्नहोमेन समिद्भिर्वेतसां जलम् । वासांसि लभते हुत्वा कुसुंभकुसुमैः शुभैः ॥ १,६८.४० ॥ अथ सर्वेष्टदं वक्ष्ये चतुरावृत्तितर्पणम् । मूलेनादौ चतुर्वारं प्रत्येकं च प्रतर्पयेत् ॥ १,६८.४१ ॥ पूर्वमन्त्राक्षरैर्मन्त्रैः स्वाहान्तैश्च चतुश्चतुः । मूलमन्त्रैश्चतुर्वारपूर्वकं संप्रतर्प्य च ॥ १,६८.४२ ॥ मिथुनादींस्ततः पश्चात्पूर्ववत्संप्रतर्पयेत् । देवेन सहितां शक्तिं शक्त्या च सहितं तु तम् ॥ १,६८.४३ ॥ एवञ्च षड्विंशतिधा मिथुनानि भवन्ति हि । स्वनामाद्यर्णबीजानि तानि सन्तर्पयेत्क्रमात् ॥ १,६८.४४ ॥ भवेत्संभूय सचतुश्चत्वारिंशञ्चतुः शतम् । एवं संतप्य तत्पश्चात्पूर्ववत्सोपचारकैः ॥ १,६८.४५ ॥ सर्वाभीष्टं च संप्रार्थ्य प्रणम्योद्वासयेत्सुधीः । भाद्रकृष्णचतुर्थ्यादिप्रतिमासमतन्द्रितः ॥ १,६८.४६ ॥ आरभ्यार्के दयं मन्त्री यावच्चन्द्रोदयो भवेत् । तावन्नोपविशेद्भूमौ जितवाक्क्रियामानसः ॥ १,६८.४७ ॥ ततश्चन्द्रोदये मन्त्री पूजयेद्गणनायकम् । पूर्वोक्तविधिना सम्यङ्नानापुष्पोपहारकैः ॥ १,६८.४८ ॥ एकविंशतिसंख्याकान्मोदकांश्च निवेदयेत् । तदग्रे प्रजपेन्मन्त्रमष्टोत्तरसहस्रकम् ॥ १,६८.४९ ॥ ततः कर्पूरकाश्मीररक्तपुष्पैः सचन्दनैः । अर्ध्यं दद्यात्तु मूलान्ते ङेंते गणपतिं ततः ॥ १,६८.५० ॥ इदमर्ध्यं कल्पयामि हृदन्तोर्ऽध्यमनुर्मतः । स्तुत्वा नत्वा विसृज्याथ यजेच्चन्द्रमसं पुनः ॥ १,६८.५१ ॥ अर्ध्यं दद्याञ्चतुर्वारं पूजयित्वा गुरुं ततः । निवेदितेषु विप्राय दद्यादर्धांश्च मोदकान् ॥ १,६८.५२ ॥ स्वयमर्द्धान्प्रभुञ्जीत ब्रह्मचारी जितेन्द्रियः । एवं व्रतं यः कुरुते सम्यक्संवत्सरावधि ॥ १,६८.५३ ॥ पुत्रान्पौत्रान्सुखं वित्तमारोग्यं लभते नरः । सूर्योदयादशक्तश्चेदस्तमारभ्य मन्त्रवित् ॥ १,६८.५४ ॥ चन्द्रोदयान्तं पूर्वोक्तविधिना व्रतमाचरेत् । एवं कृतेऽपि पूर्वोक्तं फलमाप्नोति निश्चितम् ॥ १,६८.५५ ॥ गणिशप्रतिमां दन्तिदन्तेन कपिनापि वा । गजभग्रेन निंबेन सितार्केंणाथवा पुनः ॥ १,६८.५६ ॥ कृत्वा तस्यां समावाह्य प्राणस्थापनपूर्वकम् । अभ्यर्च्य विधिवन्मन्त्री राहुग्रस्ते निशाकरे ॥ १,६८.५७ ॥ स्पृष्ट्रा चैव निरहारस्तां शिखायां समुद्वहन् । द्यूते विवादे समरे व्यवहारे जयं लभेत् ॥ १,६८.५८ ॥ बीजं वराहो बिन्द्धाढ्यौ मन्विन्द्वान्नौ कलौ ततः । स्मृतिर्मांसेंदुमन्वाग्रा कर्णोच्छिष्टगणे वदेत् ॥ १,६८.५९ ॥ बकः सदीर्घपवनो महायक्षाय यं बलिः । बलिमन्त्रोऽयमाख्यातो न चेद्वर्णोऽखिलेष्टदः ॥ १,६८.६० ॥ प्रणवो भुवनेशानीस्वबीजान्ते नवार्णकः । हस्तीति च पिशाचीति लिखेञ्चैवाग्रिंसुंदरी ॥ १,६८.६१ ॥ नवार्णोऽयं समुद्दिष्टो भजतां सर्वसिद्धिदः । पदैः सर्वण मन्त्रेण पञ्चाङ्गानि प्रकल्पयेत् ॥ १,६८.६२ ॥ अन्यत्सर्वं समानं स्यात्पूर्वमन्त्रेण नारद । अथाभिधास्ये विधिवद्वक्रतुण्डमनुत्तमम् ॥ १,६८.६३ ॥ तोयं विधिर्वह्नियुक्तकर्णेन्द्वाढ्यो हरिस्तथा । सदीर्घो दारको वायुर्वर्मान्तोऽयं रसार्णकः ॥ १,६८.६४ ॥ भार्गवोऽस्य मुनिश्छन्दोऽनुष्टुब्देवो गणाधिपः । वक्रतुण्डाभिधो बीजं वं शक्तिः कवचं पुनः ॥ १,६८.६५ ॥ तारदृन्मध्यगैर्मन्त्रवर्णैश्चन्द्रविभूषितैः । कृत्वा षडङ्गमन्त्रार्णान्भ्रूमध्ये च गले हृदि ॥ १,६८.६६ ॥ नामौ लिङ्गे पदे न्यस्याखिलेन व्यापकं चरेत् । उद्यदर्कद्युतिं हस्तैः पाशाङ्कुशवराभयान् ॥ १,६८.६७ ॥ दधतं गजवक्त्रं च रक्तभूषांबरं भजेत् । ध्यात्वैवं प्रजपेत्तर्कलक्षं द्रव्यैर्दशांशतः ॥ १,६८.६८ ॥ अष्टभिर्जुहुयात्पीठे तीव्रादिसहितेर्ऽचयेत् । मूर्तिं मूर्तेन संकल्प्य तस्यामावाह्य पूजयेत् ॥ १,६८.६९ ॥ षट्कोणेषु षडङ्गानि पत्रेष्वष्टौ तु शक्तयः । यजेद्विद्यां विधात्रीं च भोगदां विप्रघातिनीम् ॥ १,६८.७० ॥ निधिप्रदीपां पापघ्नीं पुण्यां पश्चाच्छशिप्रभाम् । दलाग्रेषु वक्रतुण्ड एकदंष्ट्रमहोदरौ ॥ १,६८.७१ ॥ गजास्यलंबोदरकौ विकटौ विध्नराट्तथा । धूम्रवर्णस्ततो बाह्ये लोकेशान्हेतिसंयुतान् ॥ १,६८.७२ ॥ एवमावरणैरिष्ट्वा पञ्चभिर्गणनायकम् । साधंयेदखिलान्कामान्वक्रतुण्ड प्रंसादतः ॥ १,६८.७३ ॥ लब्ध्वा गुरुमुखान्मन्त्रं दीक्षासंस्कारपूर्वकम् । ब्रह्मचारी हविष्याशी सत्यवाक्च जितेन्द्रियः ॥ १,६८.७४ ॥ जपेदर्कसहस्रं तु षण्मासं होमसंयुतम् । दारिद्षं तु पराभूय जायते धनदोपमः ॥ १,६८.७५ ॥ चतुर्थ्यादि चतुर्थ्यन्तं जपेदयुतमादरात् । अष्टोत्तरशतं नित्यं हुत्वा प्राग्वत्फलं लभेत् ॥ १,६८.७६। पक्षयोरुभयोर्मन्त्री चतुर्थ्यां जुहुयाच्छतम् । अपूपैर्वत्सरे स स्यात्समृद्धेः परमं पदम् ॥ १,६८.७७ ॥ अङ्गारकचतुर्थ्यां तु देवमिष्ट्वा विधानतः । हविषा पा यसान्नेन नैवेद्यं परिकल्पयेत् ॥ १,६८.७८ ॥ ततो गुरुं समभ्यर्न्त्य भोजयेद्विधिवत्सुधीः । निवेदितेन जुहुयात्सहरस्रं विधिवद्वसौ ॥ १,६८.७९ ॥ एवं संवत्सरं कृत्वा महतीं श्रियमाप्नुयात् । अथान्यत्साधनं वक्ष्ये लोकानां हितकाम्यया ॥ १,६८.८० ॥ इष्ट्वा गणेशं पृथुकैः पायसापूपमोदकः । नानाफलैस्ततोमन्त्री हरिद्रामथ सैन्धवम् ॥ १,६८.८१ ॥ वचां निष्कार्द्धभागं च तदर्द्धं वा मनुं जपेत् । विशोध्य चूर्णं प्रसृतौ गवां मूत्रे विनिक्षिपेत् ॥ १,६८.८२ ॥ सहस्रकृत्वो मनुना मन्त्रयित्वा प्रयत्नतः । स्नातामृतुदिने शुद्धां शुक्लांबरधरां शुभाम् ॥ १,६८.८३ ॥ देवस्य पुरतः स्थाप्य पाययेदौषधं सुधीः । सर्वलक्षणसंपन्नं वन्ध्यापि लभते सुतम् ॥ १,६८.८४ ॥ अथान्यत्संप्रवक्ष्यामि रहस्यं परमाद्भुतम् । गोचर्ममात्रां धरणीमुपलिप्य प्रयत्नतः ॥ १,६८.८५ ॥ विकीर्य धान्यप्रकरैस्तत्र संस्थापयेद्धटम् । शुद्धोदकेन संपूर्य तस्योपरि निधापयेत् ॥ १,६८.८६ ॥ कपिलाज्येन संपूर्णं शरावं नूतनं शुभम् । षडष्टाक्षरमन्त्राभ्यां दीपमारोपयेच्छुभम् ॥ १,६८.८७ ॥ दीपे देवं समावाह्य गन्धपुष्पादिभिर्यजेत् । स्नातां कुमारीमथवा कुमारं पूजयेत्सुधीः ॥ १,६८.८८ ॥ दीपस्य पुरतः स्थाप्यध्यात्वा देवं जपेन्मनुम् । प्रदीपे स्थापिते पश्येद्द्विजरूपं गणेश्वरम् ॥ १,६८.८९ ॥ पृष्टस्ततः संपदि वा नष्टं चैवाप्यनागतम् । सकलं प्रवदेदेवं कुमारी वा कुमारकः ॥ १,६८.९० ॥ षडक्षरो हृदन्तश्चेद्भवेदष्टाक्षरो मनुः । अन्येऽपि मन्त्रा देवर्षे सन्ति तन्त्रे गणेशितुः ॥ १,६८.९१ ॥ किन्त्वत्र यन्न साध्यं स्यात्र्रिषु लोकेषु साधकैः । अष्टविंशरसार्णाभ्यां तन्न पश्येदपि क्वचित् ॥ १,६८.९२ ॥ एतद्गणेशमन्त्राणां विधानं ते मयोदितम् । शठेभ्यः परशिष्येभ्यो वञ्चकेभ्योऽपि मा वद ॥ १,६८.९३ ॥ एवं यो भजते देवं गणेशंसर्वसिद्धिदम् । प्राप्येह सकलान्भोगनिन्ते मुक्तिपदं व्रजेत् ॥ १,६८.९४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे गणेशमन्त्रविधाननिरूपणं नामाष्टषष्टितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथ वक्ष्ये त्रयीमूर्तेर्विधानं त्वब्जिनीपतेः । मन्त्राणां यत्समाराध्य सर्वेष्टं प्रामुयाहृवि ॥ १,६९.१ ॥ तारो रेचिकया युक्तो मेधानेत्रयुता रतिः । ससर्गा बामकर्णोढ्यो भृगुर्वढ्यासनो मरुत् ॥ १,६९.२ ॥ शेषोदित्य इति प्रोक्तो वस्वर्णो भुक्तिमुक्तिदः । देवभागो मुनिश्छन्दो गायत्री देवता रविः ॥ १,६९.३ ॥ माया वीजं रमा शक्तिर्दृष्टादृष्टे नियोगकः । सत्याय हृदयं पश्चाद्ब्रह्मणे शिर ईरितम् ॥ १,६९.४ ॥ विष्णवे तु शिखावर्म रुद्राय परिकीर्तितम् । नेत्रं स्यादग्रये पश्चात्शर्वायास्रमुदाहृतम् ॥ १,६९.५ ॥ नेत्रो ज्वाला मनो हुं फट्स्वाहान्ता मनवो गणाः । पुनः षडर्णैर्ह्री लक्ष्म्याः कृत्वान्तः स्थैः षडङ्गकम् ॥ १,६९.६ ॥ शिष्टारौजठरे पृष्टे तयोर्ङेंताख्यया न्यसेत् । आदित्यं च रविं पश्चाद्भानुं भास्करमेव च ॥ १,६९.७ ॥ सूर्यं च मूर्ध्नि वदने हृदि गुह्ये च पादयोः । सद्यादिपञ्च ह्रस्वाद्यान्न्यसेन्ङें हृदयोंऽतिमान् ॥ १,६९.८ ॥ ह्रीं रमामध्यगामष्टौ वर्णांस्तारादिकान्न्यसेत् । मूर्द्धास्यकण्ठहृत्कुक्षिनाभिलिङ्गगुदेषु च ॥ १,६९.९ ॥ सचन्द्रस्वरपूर्वं तु ङेतं शीतांशुमण्डलम् । मूर्द्धादिकण्ठपर्यन्तं न्यसेञ्चान्द्रिमनुस्प्ररन् ॥ १,६९.१० ॥ स्पर्शान्सेंदून्समुञ्चार्य ङेंतं भास्करमण्डलम् । न्यसेत्कण्ठादिनाभ्यन्तं ध्यायन्प्रद्योतनं हृदि ॥ १,६९.११ ॥ यादीन्सचन्द्रानुञ्चार्य ङेतं च वह्निमण्डलम् । नाभ्यादिपादपर्यन्तं न्यसेद्वह्निमनुस्मरन् ॥ १,६९.१२ ॥ प्रोक्तोऽयं मण्डलन्यासो महातेजोविधायकः । आदिठान्तार्णपूर्वं ङेंनमोन्तं सोममण्डलम् ॥ १,६९.१३ ॥ मूर्द्धादिहृदयान्तं तु विन्यसेत्साधकोत्तमः । डकारादिक्षकारान्तवर्णाद्यं पह्निमण्डलम् ॥ १,६९.१४ ॥ ङेंतं हृदादिपादान्तं विन्यसेत्सुसमाहितः । अग्रीषोमात्मको न्यासः कथितः सर्वसिद्धिदः ॥ १,६९.१५ ॥ न्यसेत्सेंदून्मातृकार्णाञ्जयान्तपुरुषात्मने । नमोन्ते व्यापकं मन्त्री हंस्नयासोऽयमीरितः ॥ १,६९.१६ ॥ अष्टावष्टौ स्वराञ्शेषान्पञ्चपञ्च मितान्पुनः । उक्तादित्यमुखानेतान्विन्यसेञ्च नवग्रहान् ॥ १,६९.१७ ॥ आधारलिङ्गयोर्नाभौ हृदि कण्ठे मुखान्तरे । भ्रूमध्ये च तथा भाले ब्रह्मरङ्घ्रे न्यसेत्क्रमात् ॥ १,६९.१८ ॥ हंसाख्यमग्नीषोमाख्यं मण्डलत्रयमेव च । पुनर्न्यासत्रयं कुर्यान्मूलेन व्यापकं चरेत् ॥ १,६९.१९ ॥ एवं न्यासविधिं कृत्वा ध्यायेत्सूर्यं हृदबुजे । दानाभयाब्जयुगलं धारयन्तं करै रविम् ॥ १,६९.२० ॥ कुण्डलां गदकेयूरहारिणं च त्रयीतनुम् । ध्यात्वैवं प्रजपेन्मन्त्री वसुलक्षं दशांशतः ॥ १,६९.२१ ॥ रक्तांभोजैस्तिलैर्वापि जुहुयाद्विधिवद्वसौ । प्रथमं पीठयजने धर्मादीनां स्थले यजेत् ॥ १,६९.२२ ॥ प्रभूतं विमलं शारं समाराध्यमनन्तरम् । परमादिमुखं मध्ये खबिंबान्तं प्रपूजयेत् ॥ १,६९.२३ ॥ सोमाग्निमण्डलं पूज्यरविमण्डलमर्चयेत् । दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ॥ १,६९.२४ ॥ अमोघा विद्युता सर्वतोमुखी पीठशक्तयः । ह्रस्वत्रयोक्तिजाः क्लीबही ना वह्नीन्दुसंयुताः ॥ १,६९.२५ ॥ स्वरा बीजानि शक्तीनां तदाद्याः पूजयेत्तुः ताः । ब्रह्मविष्णुशिवात्मा ते सृष्टिः शेषान्विताप्यसौ ॥ १,६९.२६ ॥ एवं चान्ते योग पीठात्मने हृदयमीरयेत् । ताराद्योऽयं पीठमन्त्रस्त्वनेनासनमादिशेत् ॥ १,६९.२७ ॥ ध्रुवो वियद्बिन्दुयुतं खं खखोल्काय दृन्मनुः । नवार्णाय च मनवे मूर्तिं संकल्पयेत्सुधीः ॥ १,६९.२८ ॥ साक्षिणं जगतां तस्यामावाह्य विधिवद्यजेत् । ततः षडङ्गामाराध्य द्विक्ष्वष्टाङ्गं प्रपूजयेत् ॥ १,६९.२९ ॥ संपूज्य मध्ये वादित्यं रविं भानुं च भास्करम् । सूर्यं दिशासु सद्यादिपञ्च ह्रस्वादिकानिमान् ॥ १,६९.३० ॥ स्वस्वनामादिवर्णाद्याः शक्तयोर्ऽच्या विदिक्षु च । उषां प्रज्ञां प्रभां संध्यां ततो ब्रह्मादिकान्यजेत् ॥ १,६९.३१ ॥ पुरतोऽरुणमभ्यर्च्य सोमं ज्ञं च गुरुं भृगुम् । दिक्ष्वर्यमादिकानिष्ट्वा भूमिजं च शनैश्चरम् ॥ १,६९.३२ ॥ राहुं केतुं च कोणेषु पूर्ववत्परिपूजयेत् । इन्द्राद्यानपि वज्राद्यान्पूजयेत्पूर्ववत्सुधीः ॥ १,६९.३३ ॥ इत्थं संपूज्य विधिवद्भास्करं भक्तवत्सलम् । समाहितो दिनेशाय दद्यादर्ध्यं दिने दिने ॥ १,६९.३४ ॥ प्राणानायम्य सद्भूमौ न्यासान्कृत्वा पुरोदितान् । विधाय मण्डलं भानोः पीठं पूर्ववदर्चयेत् ॥ १,६९.३५ ॥ ध्यात्वार्कं प्रयजेद्द्विव्यैर्मानसैरुपचारकैः । पात्रं ताम्रमयं प्रस्थतोयग्राहि सुशोभनम् ॥ १,६९.३६ ॥ निधाय मण्डले रक्तचन्दनादिविनिर्मिते । विलोममातृकामूलमुञ्चरन्पूरयेज्जलैः ॥ १,६९.३७ ॥ सूर्यबिंबविनिर्गच्छत्सुधांबुधिविभावितैः । कुङ्कुमं रोजनां राजीं चन्दनं रक्तचन्दनम् ॥ १,६९.३८ ॥ करवीरं जपाशालिकुशश्यामाकतण्डुलान् । तिलवेणुयवांश्चैव निक्षिपेत्सलिले शुभे ॥ १,६९.३९ ॥ सांगं सावरणं तत्रावाह्यार्कं पूर्ववद्यजेत् । गन्धपुष्पधूपदीपनैवेद्याद्यै र्विधानतः ॥ १,६९.४० ॥ प्राणायामत्रयं कृत्वा कुर्यादङ्गानि पूर्ववत् । सुधाबीजं चन्दनेन दक्षे करतले लिखेत् ॥ १,६९.४१ ॥ तेनाच्छाद्यार्ध्यपात्रं च जपेन्मनुमनन्यधीः । अष्टोत्तरशतावृत्त्या पुनः संपूज्य भास्करम् ॥ १,६९.४२ ॥ हस्ताभ्यां पात्रमादाय जानुभ्यामवनीं गतः । आमूर्ध्नि पात्रमुद्धृत्यांबरेण वरणे रवेः ॥ १,६९.४३ ॥ दृष्टिं चाधाय मनसा पूजयित्वा रविं पुनः । साधकेन स्वकैक्येन मूलमन्त्रं धिया जपन् ॥ १,६९.४४ ॥ अर्ध्यं दद्याद्रविं ध्यायव्रक्तचन्दनमण्डले । दत्त्वा पुष्पाञ्जलिं भूयो जपेदष्टोत्तरं शतम् ॥ १,६९.४५ ॥ नित्यं वा तद्विनेऽप्येवमर्ध्यं दद्याद्विवस्वते । तेन तुष्टो दिनेशोऽस्मै दद्याद्वित्तं यशः सुखम् ॥ १,६९.४६ ॥ पुत्रान्पौत्रानभीष्टं च यद्यत्सर्वं प्रयच्छति । अर्ध्यदानमिदं प्रोक्तमायुरारोग्यवर्द्धनम् ॥ १,६९.४७ ॥ धनधान्यपशुक्षेमक्षेत्रमित्रकलत्रदम् । तेजोवीर्ययशःकीर्तिविद्याविभवभोगदम् ॥ १,६९.४८ ॥ गायत्र्याराधनासक्तः संध्यावन्दनतत्परः । एवं मनुं जपन्विप्रो दुःखं नैवाप्नुयात्क्वचित् ॥ १,६९.४९ ॥ विकर्तनाय निर्माल्यमेवं संपूज्य दापयेत् । वियद्वह्निमरुत्साद्यान्तार्वीसेंदुसमन्वितम् ॥ १,६९.५० ॥ मार्तण्डभैरवाख्यं हि बीजं त्रैलोक्यमोहनम् । बिंबबीजेन पुटितं सर्वकामफलप्रदम् ॥ १,६९.५१ ॥ पूर्ववत्सकलं चान्यदत्र ज्ञेयं मनीषिभिः । भृगुर्जलेन्दुमन्वाढ्यः सोमाय हृदयान्तिमः ॥ १,६९.५२ ॥ षडक्षरो मन्त्रराजो मुनिरस्य भृगुर्मतः । छन्दः पङ्क्तिस्तु सोमोऽस्य देवता परिकीर्तिता ॥ १,६९.५३ ॥ आद्यं बीजं नमः शक्तिर्विनियोगोऽखिलाप्तये । षड्दीर्घेण स्वबीजेन षडङ्गानि समाचरेत् ॥ १,६९.५४ ॥ पूर्णेद्वास्यं स्फटिकभं नीलालकलसन्मुखम् । विभ्राणमिष्टं कुमुदं ध्यायेन्मुक्तास्रजं विधुम् ॥ १,६९.५५ ॥ ऋतुलक्षं जपेन्मन्त्रं पायसेन ससर्पिषा । जुहुयात्तद्दशांशेन पीठे सोमान्तपूजिते ॥ १,६९.५६ ॥ मूर्तिमूलेन संकल्प्य पूजयेद्विधिवद्विधुम् । केसरेष्वङ्गपूजा स्यात्पत्रेष्वेताश्च शक्तयः ॥ १,६९.५७ ॥ रोहिणी कृत्तिका चैव रेवती भरणी पुरः । रात्रिरार्द्रा ततो ज्येत्स्ना कला हारसमप्रभा ॥ १,६९.५८ ॥ सुशुक्लमाल्यवसनामुक्ताहारविभूषिताः । सर्वाःस्तनभराक्रान्ता रचिताञ्जलयः शुभाः ॥ १,६९.५९ ॥ स्वप्रियासक्तमनसो मदविभ्रममन्थराः । समभ्यर्च्याः सरोजाक्ष्यः पूर्णेन्दुसदृशाननाः ॥ १,६९.६० ॥ दलाग्रेषु समभ्यर्च्यास्त्वष्टौ सूर्यादिका ग्रहाः । आदित्यभूसुतबुधमन्ददेवेज्यराहवः ॥ १,६९.६१ ॥ शुक्रकेतुयुता ह्येते पूज्याः पत्रग्रगाग्रहाः । रक्तारुणश्वेतनीलपीतधूम्रसितासिताः ॥ १,६९.६२ ॥ वामोरुन्यस्ततद्धस्ता दक्षिणेन धृताभयाः । सोकपालांस्तदस्त्राणि तद्वाह्ये पूजयेत्सुधीः ॥ १,६९.६३ ॥ एव संसाधितो मन्त्रः प्रयच्छेदिष्टमात्मनः । पौर्णमास्यां जिताहारो दद्यादर्ध्यं विधूदये ॥ १,६९.६४ ॥ मण्डलत्रितर्यं कुर्यात्प्राक्प्रत्यगायतं भुवि । पश्चिमे मण्डले स्थित्वा पूजाद्रव्यं च मध्यमे ॥ १,६९.६५ ॥ संस्थाप्य सोममन्यस्मिन्मण्डलेऽब्जसमन्विते । समभ्यर्च्यं विधानेन पीठपूजनपूर्वकम् ॥ १,६९.६६ ॥ स्थापयेद्राजतं पात्रं पुरतस्तत्र मन्त्रवित् । सुरभीपयसापूर्य्य तं स्पृशन्प्रजपेन्मनुम् ॥ १,६९.६७ ॥ अष्टोत्तरशतं पश्चाद्विद्या मन्त्रेण मन्त्रवित् । दद्यान्निशाकरायार्ध्यं सर्वाभीष्टार्थसिद्धये ॥ १,६९.६८ ॥ कुर्यादनेन विधिना प्रतिमासमतन्द्रितः । वषान्तरेण सवष्टं प्राप्नोति भुविमानवः ॥ १,६९.६९ ॥ विद्ये विद्यामालिनि स्यादन्त चन्द्रिणि कतवदेत् । चन्द्रमुखि द्विठान्तोऽयं विद्यामन्त्र उदाहृतः ॥ १,६९.७० ॥ एवं कुमुदिनीनाथमन्त्रं यो जपति ध्रुवम् । धनं धान्यं सुतान्पौत्रान्सौभाग्यं लभतेऽचिरात् ॥ १,६९.७१ ॥ अथाङ्गारकमन्त्रं तु वक्ष्ये धनसुतप्रदम् । तारो दीर्घेन्दुयुग्व्योम तदेवेन्दुयुतः पुनः ॥ १,६९.७२ ॥ षान्तः सर्गी च चण्डीशौ क्रमार्दिदुविसर्गिणै । षडर्णोऽयं महामन्त्रो मङ्गलस्याखिलेष्टदः ॥ १,६९.७३ ॥ विरूपाक्षो मुनिश्छन्दोगायत्रं देवता कुजः । मन्त्रार्णैः षड्भिरङ्गानि क्रुर्वन्ध्यायेद्धरात्मजम् ॥ १,६९.७४ ॥ मेषस्थं रक्तवस्राङ्गं शूलशक्तिगदावरान् । करैर्बिभ्राणमीशानस्वेदजं भूंसुतं स्मरेत् ॥ १,६९.७५ ॥ रसलक्षं जपेन्मन्त्रं दशांशं खदिरोद्भवैः । समिद्भिर्जुहुयादग्नौ शैवे पीठे यजेत्कुजम् ॥ १,६९.७६ ॥ प्रागङ्गानि समाराध्य ह्येकविंशतिकोष्टकम् । मङ्गलोभूमिपुत्रश्च ऋणहर्ता धनप्रदः ॥ १,६९.७७ ॥ स्थिरासनो महाकायः सर्वकर्मावरोधकः । लोहितो लोहिताक्षश्च सामगानां कृपाकरः ॥ १,६९.७८ ॥ धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः । अङ्गारको महीसूनुः सर्वरोगापहारकः ॥ १,६९.७९ ॥ वृष्टिकर्ता वृष्टिहर्ता सर्वकार्यार्थसिद्धिदः । इत्येक र्विशतिः प्रोक्ता मूर्तयो भूसुतस्य वै ॥ १,६९.८० ॥ मङ्गलादीन्यजेन्मन्त्री स्वस्वस्थानस्थितान्क्रमात् । इन्द्राद्यानपि वज्रादीनेवं सिद्धो भवेन्मनुः ॥ १,६९.८१ ॥ सुतकामा कुरङ्गाक्षी भौमव्रतमुपाचरेत् । मार्गशीर्षेऽथ वैशाखे व्रतारंभः प्रशस्यते ॥ १,६९.८२ ॥ अरुणोदयवेलायामुत्थायावश्यकं पुनः । विनिर्वर्त्य रदान्धावेदपामार्गेण वाग्यता ॥ १,६९.८३ ॥ स्नात्वा रक्तांबरधरा रक्तमाल्यविलेपना । नैवेद्यादींश्च संभारान्रक्तान्सर्वान्प्रकल्पयेत् ॥ १,६९.८४ ॥ योग्यं विप्रं समाहूय कुजमर्चेत्तदाज्ञया । रक्तगोगोमयालिप्तभूमौ रक्तासने विशेत् ॥ १,६९.८५ ॥ आचम्य देशकालौ च स्मृत्वा काम्य समुच्चरन् । मङ्गलादीनि नामानि स्वकीयाङ्गेषु विन्यसेत् ॥ १,६९.८६ ॥ मुखे प्रविन्यसेत्साध्वी सामगानां कृपाकरम् । धरात्मजं नसोरक्ष्णोः कुजं भौमं ललाटके ॥ १,६९.८७ ॥ भूमिदं तु भ्रुवोर्मध्ये मस्तके भूमिनन्दनम् । अङ्गारकं शिखायां च सर्वाङ्गे च महीसुतम् ॥ १,६९.८८ ॥ बाहुद्वये न्यसेत्पश्चात्सर्वरोगापहारकम् । मूर्द्धादि वृष्टिकर्तारमापादान्तं न्यसेत्सुधीः ॥ १,६९.८९ ॥ विन्यसेद्रृष्टिहर्तारं मूर्द्धान्तं चरणादितः । न्यसेदन्ते ततो दिक्षु सर्वकार्यार्थसिद्धिदम् ॥ १,६९.९० ॥ नाभौ हृदि शिरस्यारं वक्रे भूमिजमेव च । विन्यस्यैवं निजे देहे ध्यायेत्प्राग्वद्धरात्मजम् ॥ १,६९.९१ ॥ मानसैरुपचारैश्च संपूज्यार्ध्यं निधापयेत् । एकविंशतिकोष्ठाढ्ये त्रिकोणे ताम्रपत्रगे ॥ १,६९.९२ ॥ आवाह्याङ्गारकं तत्र रक्तपुष्पादिभिर्यजेत् । अङ्गानि पूर्वमाराध्य मङ्गलादीन्प्रपूजयेत् ॥ १,६९.९३ ॥ एकविंशतिकोष्ठेषु चक्रमारं च भूमिजम् । त्रिकोणेषु च सम्पूज्य बहिरष्टौ च मातृकाः ॥ १,६९.९४ ॥ इन्द्रादीनथ वज्रादीन्बाह्ये संपूजयेत्पुनः । धूपदीपौ समर्प्याथ गोधूमान्नं निवेदयेत् ॥ १,६९.९५ ॥ ताम्रपात्रे शुद्धतोयपूरिते रक्तचन्दनम् । रक्तपुष्पाक्षतफलान्याक्षिप्यार्ध्यं समर्पयेत् । मङ्गलाय ततो मन्त्री इदं मन्त्रद्वयं पठेत् ॥ १,६९.९६ ॥ भूमिपुत्र महातेजः स्वेदोद्भवपिनाकिनः । सुतार्थिनी प्रपन्ना त्वां गृहाणार्ध्यं नमोऽस्तु ते ॥ १,६९.९७ ॥ रक्तप्रवालसंकाश जपाकुसुमसन्निभ । महीसुत महाभाग गृहाणार्ध्यं नमोऽस्तु ते ॥ १,६९.९८ ॥ एकविंशतिपूर्वोक्तैर्ङेनमोन्तैंश्च नामभिः । ताराद्यैः प्रणमेत्पश्चात्तावत्यश्च प्रदक्षिणाः ॥ १,६९.९९ ॥ धरणीगर्भसंभूतं विद्युत्तेजः समप्रभम् । कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥ १,६९.१०० ॥ ततो रेखात्रयं कुर्यात्खदिराङ्गारकेण च । मार्जयेद्वामपादेन मन्त्राभ्यां च समाहिता ॥ १,६९.१०१ ॥ दुःखदौर्भाग्यनाशाय पुत्रसंतानहेतवे । कृतरेखात्रयं वामपादेनैतत्प्रमार्ज्म्यहम् ॥ १,६९.१०२ ॥ ऋणदुः खविनाशाय मनोभीष्टार्थसिद्धिये । मार्जयाम्यसिता रेखास्तिस्रो जन्मत्रयोद्भवाः ॥ १,६९.१०३ ॥ स्तुवीत धरणीपुत्रं पुष्पाञ्जलिकरा ततः । ध्यायन्ती तत्पदांभोजं पूजासांगत्वसिद्धये ॥ १,६९.१०४ ॥ ऋणहर्त्रे नमस्तुभ्यं दुःखदारिद्रयनाशिने । सौभाग्यसुखदो नित्यं भव मे धरणीसुत ॥ १,६९.१०५ ॥ तप्तकाञ्चनसंकाश तरुणार्कसमप्रभ । सुखसौभाग्यधनद ऋणदारिद्षनाशक ॥ १,६९.१०६ ॥ ग्रहराज नमस्तेऽस्तु सर्वकल्याणकारक । प्रसादं कुरु देवेश सर्वकल्याणभाजन ॥ १,६९.१०७ ॥ देवदानवगन्धर्वयक्षराक्षसपन्नगाः । आप्नुवन्ति शिवं सर्वे सदा पूर्णमनोरथाः ॥ १,६९.१०८ ॥ आचिरादेव लोकेऽस्मिन्यस्याराधनतो जनाः । प्राप्नुवन्ति सुखं तस्मै नमो धरणिसूनवे ॥ १,६९.१०९ ॥ यो वक्रगतिमापन्नो नृणां दुःखं प्रयच्छति । पूजितः सुखसौभाग्यं तस्मै क्ष्मासूनवे नमः ॥ १,६९.११० ॥ नभसि द्योतमानाय सर्वकल्याणहेतवे । मङ्गलाय नमस्तुभ्यं धनसंतानहेतवे ॥ १,६९.१११ ॥ प्रसादं कुरु मे भौममङ्गलप्रद मङ्गल । मेषवाहन रुद्रात्मन्देहि पुत्रान्धनं यशः ॥ १,६९.११२ ॥ एवं स्तुत्वा प्रणम्याथ विसृज्य धरणीसुतम् । यथाशक्त्या प्रदाय स्वं गृह्णीयाद्ब्रणाशिषः ॥ १,६९.११३ ॥ गुरवे दक्षिणां दत्त्वा भुञ्जीयात्तन्निवेदितम् ॥ १,६९.११४ ॥ एवमावत्सरं कुर्यात्प्रतिमङ्गलवासरम् । तिलैर्हेमं विधायाथ शतार्द्धं भोजयोद्द्विजान् ॥ १,६९.११५ ॥ भौममूर्तिं स्वर्णमयीमाचार्याय समर्पयेत् । मण्डलस्थे घटेऽभ्यर्च्येत्सुतसौभाग्यसिद्धये ॥ १,६९.११६ ॥ एवं व्रतपरा नारी प्राप्नुयात्सुभगान्सुतान् । ऋणनाशाय वित्तार्थं व्रतं कुर्यात्पुमानपि ॥ १,६९.११७ ॥ ब्राह्मणः प्रजपेन्मन्त्रंमग्निर्मूर्द्धेति वैदिकम् । अङ्गारकस्य गायत्रीं वक्ष्ये यजनसिद्धये ॥ १,६९.११८ ॥ अङ्गारकाय शब्दान्ते विद्महे पदमीरयेत् । शक्तिहस्ताय वर्णान्ते धीमहीति समुञ्चरेत् ॥ १,६९.११९ ॥ तन्नो भौमः प्रचोवर्णान्दयान्दिति च संवदेत् । भौमस्यैषा तु गायत्री जप्तुः सर्वेष्टसिद्धिदा ॥ १,६९.१२० ॥ भौमोपासनमेतद्धि बुधमन्त्रमथोच्यते । फआन्तः कर्णेन्दुसंयुक्तो बुधो ङेंते हदन्तिमः ॥ १,६९.१२१ ॥ रसाणों बुधमन्त्रोऽयं मुनिब्रह्मास्य कीर्तितः । पङ्क्तिश्छैदो देवता तु बुधः सर्वेष्टदो नृणाम् ॥ १,६९.१२२ ॥ आद्यं बीजं नमः शक्तिर्विनियोगोऽखिलाप्तये । वन्दे बुधं सदा भक्त्या पीताम्बरविभूषणम् ॥ १,६९.१२३ ॥ जानुस्थवामहस्ताढ्यं साभयेतरपाणिकम् । ध्यात्वेवं प्रजपेसहस्रं विजितेन्द्रियः ॥ १,६९.१२४ ॥ दशांशं जुहुयादाज्यैः पीठे पूर्वोदितेर्ऽचयेत् । अङ्गमातृदिशापालहेतिभिर्बुधमर्चयेत् ॥ १,६९.१२५ ॥ एवं सिद्धे मनौ मन्त्री साधयेत्स्वमनोरथान् । सहस्रं प्रजपेन्मन्त्रं नित्यं दशदिनावधि ॥ १,६९.१२६ ॥ तस्याशु ग्रहजा पीडा नश्यत्येव न संशयः । बुधस्याराधनं प्रोक्तं गुरोराराधनं शृणु ॥ १,६९.१२७ ॥ बृंहस्पतिपदं ङेंतं सेंद्वाद्यर्णाघमण्डितम् । नमोन्तो वसुवर्णोऽयं मुनिर्ब्रह्मास्य संमतः ॥ १,६९.१२८ ॥ छन्दोऽनुष्टुप्सुराचार्यो देवता बीजमादिमम् । हृच्छक्तिर्दीर्घवह्नीन्दुयुगलेनाङ्गकल्पना ॥ १,६९.१२९ ॥ न्यस्तवामकरं राशौ रत्नानां दक्षिणात्करात् । किरन्तं पीतपुष्पालङ्कारालेपांशुकार्चितम् ॥ १,६९.१३० ॥ सर्वविद्यानिधिं देवगुरुं स्वर्णद्युतिं स्मरेत् । लक्षं जपो दशांशेन घृतेनान्नेन वा हुनेत् ॥ १,६९.१३१ ॥ धर्मादिपीठे प्रयजेदङ्गदिक्पालहेतिभिः । एवं सिद्धे मनौ मन्त्री साधयेदिष्टमात्मनः ॥ १,६९.१३२ ॥ विपरोगादिपीडासु कलहे स्वजनोद्भवे । पिप्पलोत्थसमिद्भिश्च जुहुयात्तन्निवृत्तये ॥ १,६९.१३३ ॥ हुत्वा दिनत्रयं मन्त्री निशापुष्पैर्घृतप्लुतैः । स विंशतिशतं शीघ्रं वासांसि लभते महीम् ॥ १,६९.१३४ ॥ गुरोराराधनं प्रोक्तं शृणु शुक्रस्य सांप्रतम् । वस्रं मे देहि शुक्राय ठद्वयान्तो ध्रुवादिकः ॥ १,६९.१३५ ॥ रुद्रार्णोऽयं मनुर्ब्रह्मा मुनिश्छन्दो विराहुत । दैत्येज्यो देवता बीजं ध्रुवः शक्तिर्वसुप्रिया ॥ १,६९.१३६ ॥ भूनेत्र चन्द्रनेत्राग्निनेत्रार्णैः स्यात्षडङ्गकम् । शुक्लांबरालेपभूषं करेण ददतं धनम् ॥ १,६९.१३७ ॥ वामेन शुक्रं व्याख्यानमुद्रादोषं स्मरेत्सुधीः । अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयाद्घृतैः ॥ १,६९.१३८ ॥ धर्मादिपीठे प्रयजेदङ्गेन्द्रादितदायुधैः । श्वेतपुष्पैः सुगन्धैश्च जुहुयाद्भृगुवासरे ॥ १,६९.१३९ ॥ एकविंशतिवारं यो लभतेसोंऽशुकं मणीन् । मनवोऽमो सदा गोप्या न देया यस्य कस्यचित् ॥ १,६९.१४० ॥ भक्तियुक्ताय शिष्याय देया वा निजसूनवे ॥ १,६९.१४१ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे मन्त्रविधाननिरूपणं नामैकोनसप्ततितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथ वक्ष्ये महाविष्णोर्मन्त्रान्लोकेषु दुर्लभान् । यान्प्राप्य मानवास्तूर्णं प्राप्नुवन्ति निजेप्सितम् ॥ १,७०.१ ॥ येषामुञ्चारणेनेव पापसंघः प्रलीयते । ब्रह्मादयोऽपि याञ्ज्ञात्वा समर्थाः स्युर्जगत्कृतौ ॥ १,७०.२ ॥ तारहृत्पूर्वकं ङेंतं नारायणपदं भवेत् । अष्टाक्षरो मनुश्चास्य साध्यो नारायणो मुनिः ॥ १,७०.३ ॥ छन्दः प्रोक्तं च गायत्री देवता विष्णुख्ययः । ओं बीजं यं च तथा शक्तिर्विनियोगोऽखिलाप्तये ॥ १,७०.४ ॥ क्रुद्धोल्काय हृदाख्यातं महोल्काय शिरः स्मृतम् । वीरोल्काय शिखा प्रोक्ता द्युल्काय कवचं मतम् ॥ १,७०.५ ॥ महोल्कायेति चास्रं स्यादित्थं पञ्चाङ्गकल्पना । पुनः षडङ्गमन्त्रोत्थैः षड्वर्णैश्च समाचरेत् ॥ १,७०.६ ॥ अवशिष्टौ न्यसेत्कुक्षिपृष्टयोर्मन्त्रवर्णकौ । सुदर्शनस्य मन्त्रेण कुर्याद्दिग्बन्धनं ततः ॥ १,७०.७ ॥ तारो नमश्चतुर्थ्यन्तं सुदर्शनपदं वदेत् । अस्त्रायफडिति प्रोक्तो मन्त्रो द्वादशवर्णवान् ॥ १,७०.८ ॥ दशावृत्तिमय न्यासं वक्ष्ये विभूतिपञ्चरम् । मूलार्णान्स्वतनौ न्यस्येदाधारे हृदये मुखे ॥ १,७०.९ ॥ दोःपन्मूलेषु नासायां प्रथमावृत्तिरीरिता । गले नाभौ हृदि कुचपार्श्वपृष्टेषु तत्पराः ॥ १,७०.१० ॥ मूर्द्धास्यनेत्रश्रवणघ्राणेषु च तृतीयकाः । दोःपादसंध्यङ्गुलिषु वेदावृत्त्या च विन्यसेत् ॥ १,७०.११ ॥ धातुप्राणेषु हृदये विन्यसेत्तदनन्तरम् । शिरोनेत्रा स्यहृत्कुक्षिसोरुजङ्घापदद्वये ॥ १,७०.१२ ॥ एकैकशो न्यसेद्वर्णान्मन्त्रस्य क्रमतः सुधीः । न्यसेद्धृदंसोरुपदेष्वर्णान्वेदमितान्मनोः ॥ १,७०.१३ ॥ चक्रशं खगदांभोजपदेषु स्वस्वमुद्रया । शेषांश्च न्यासवर्योऽयं विभूतिपञ्जराभिधः ॥ १,७०.१४ ॥ न्यसेन्मूलार्णमेकैकं सचन्द्रं तारसम्पुटम् । अथवा वै नमोन्तेन न्यसेदित्यपरे जगुः ॥ १,७०.१५ ॥ तत्त्वन्यासं ततः कुर्याद्धिष्णुभावप्रसिद्धये । अष्टार्णोऽष्टप्रकृत्यात्मा गदितः पूर्वसूरिभिः ॥ १,७०.१६ ॥ पृथिव्यादीनि भूतानि ततोऽहॄङ्कारमेव च । महांश्च प्रकृतिश्चैवेत्यष्टौ प्रकृतयो मताः ॥ १,७०.१७ ॥ पादे लिङ्गे हृदि मुखे मूर्ध्नि वक्षसि हृत्स्थले । सर्वाङ्गे व्यापकं कुर्यादेकेन साधकोत्तमः ॥ १,७०.१८ ॥ मन्त्रार्णहृत्परायाद्यमात्मने हृदयान्तिमम् । तत्तन्नाम समुञ्चार्य्य न्यसेत्तत्तत्स्थले बुधः ॥ १,७०.१९ ॥ अयं तत्त्वाभिधो न्यासः सर्वन्यासोत्तमोत्तमः । मूर्तीन्यंसेद्द्वादश वै द्वादशादित्यसंयुताः ॥ १,७०.२० ॥ द्वादशाक्षरवर्णाद्या द्वादशादित्यसंयुताः । अष्टार्णोऽयं मनुश्चाष्टप्रकृत्यात्मा समीरितः ॥ १,७०.२१ ॥ तासामात्मचतुष्कस्य योगादर्काक्षरो भवेत् । ललाटकुक्षिहृत्कण्ठदक्षपार्श्वांसकेषु च ॥ १,७०.२२ ॥ गले च वामपार्श्वां सगलपृष्टेष्वनन्तरम् । ककुद्यपि न्यसेन्मन्त्री मूर्तीर्द्वादश वै क्रमात् ॥ १,७०.२३ ॥ धात्रा तु केशवं न्यस्यार्यम्ण नारायणं पुनः । मित्रेण माधवं न्यस्य गोविन्दं वरुणेन च ॥ १,७०.२४ ॥ विष्णुं चैवांशुना युक्तं भगेन मधुसूदनम् । न्यसेद्विवस्वता युक्तं त्रिविक्रममतः परम् ॥ १,७०.२५ ॥ वामनं च तथाद्रण पूष्णा श्रीधरमेव च । हृषीकेशं न्यसेत्पश्चात्पर्जन्येन समन्वितम् ॥ १,७०.२६ ॥ त्वष्ट्रा युतं पद्मनाभं दामोदरं च विष्णुना । द्वादसार्णं ततो मन्त्रं समस्ते शिरसि न्यसेत् ॥ १,७०.२७ ॥ व्यापकं विन्यसेत्पश्चात्किरीटमनुना सुधीः । ध्रुवःकिरीटकेयूरहारान्ते मकरेतिच ॥ १,७०.२८ ॥ कुण्डलान्ते चक्रशङ्खगदान्तेंऽभोजहस्ततः । पीतांबरान्ते श्रीवत्सां कितवक्षः स्थलेति च ॥ १,७०.२९ ॥ श्रीभूमिसहितस्वात्मज्योतिर्द्वयमतः परम् । वदेद्दीप्तिकरायान्ति सहस्रादित्यतेजसे ॥ १,७०.३० ॥ नमोन्तो बाणषङ्वर्णैः किरीटमनुरीरितः । एवं न्यासविधिं कृत्वा ध्यायेन्नारायणं विभुम् ॥ १,७०.३१ ॥ उद्यत्कोट्यर्कसदृशं शङ्खं चक्रं गदांबुजम् । दधतं च करैर्भूमिश्रीभ्यां पार्श्वद्वयाञ्चितम् ॥ १,७०.३२ ॥ श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् । हारकेयूरवलयाङ्गदं पीतांबरं स्मरेत् ॥ १,७०.३३ ॥ वर्णलक्षं जपेन्मन्त्रं विधिवन्नियतेन्द्रियः । प्रथमेन तु लक्षेण स्वात्मशुद्धिर्भवेद्ध्रुवम् ॥ १,७०.३४ ॥ लक्षद्वयजपेनाथ मन्त्रशुद्धिमवाप्नुयात् । लक्षत्रयेण जप्तेन स्वर्लोकमधिगच्छति ॥ १,७०.३५ ॥ विष्णोः समीपमाप्नोति वेदलक्षजपान्नरः । तथा च निर्मलं ज्ञानं पञ्चलक्षजपाद्भवेत् ॥ १,७०.३६ ॥ लक्षषष्टेन चाप्नोति मन्त्री विष्णौ१ थिरा मतिम् । सप्तलक्षजपान्मन्त्री विष्णोः सारूप्यमाप्नुयात् ॥ १,७०.३७ ॥ अष्टलक्षं जपेन्मन्त्री निर्वाणमधिगच्छति । एवं जप्त्वा ततः प्राज्ञो दशांशं सरसीरुहैः ॥ १,७०.३८ ॥ मधुराक्तैः प्रजुहुयात्संस्कृते हव्यवाहने । मण्डूकात्परतत्वान्तं पीठे संपूज्य यत्नतः ॥ १,७०.३९ ॥ विमलोत्कर्षिणी ज्ञाना क्रिया योगा ततः परा । प्रह्वी सत्या तथेशाननुग्रहा नवमी मता ॥ १,७०.४० ॥ तारो नमनो भगवते विष्णवे सर्वभू ततः । तात्मने वासुदेवाय सर्वात्मेति पदं वदेत् ॥ १,७०.४१ ॥ संयोगयोगपद्मान्ते पीठाय हृदयान्तिमः । षड्विंशदक्षरः पीठमन्त्रोऽनेनासनं दिशेत् ॥ १,७०.४२ ॥ मूर्तिं संकल्प्य मूलेन तस्यामावाह्य पूजयेत् । आदौ चाङ्गानि संपूज्य मन्त्राणां केशरेषु च ॥ १,७०.४३ ॥ प्रागादिदिग्दले वासुदेवं संकर्षणं तथा । प्रद्युम्नमनिरुद्धं च शक्तीः कोणेष्वथार्चयेत् ॥ १,७०.४४ ॥ शान्तिं श्रियं सरस्वत्या रतिं संपूजयेत्क्रमात् । हेमपीततमालेन्द्रनीलाभाः पीतवाससः ॥ १,७०.४५ ॥ चतुर्भुजाः शङ्खचक्रगदांभघोजधरा इमे । सितकाञ्चनगोदुग्धदूर्वावर्णाश्च शक्तयः ॥ १,७०.४६ ॥ दलाग्रेषु चक्रशङ्खगदापङ्कजकौस्तुभान् । पूजयेन्मुसलं खड्गं वनमालां यथाक्रमात् ॥ १,७०.४७ ॥ रक्ताजपीतकनकश्यामकृष्णासितार्जुनान् । कुङ्कुमाभं समभ्यर्च्येद्वहिरग्रे खगेश्वरम् ॥ १,७०.४८ ॥ पार्श्वयोः पूजयेत्पश्चाङ्खपद्मनिधी क्रमात् । मुक्तामाणिक्यसंकाशौ पश्चिमे ध्वजमपर्चयेत् ॥ १,७०.४९ ॥ रक्तं विघ्नं तथाग्नेये श्याममार्यं च राक्षसे । दुर्गां श्यामां वायुकोणे सेनान्यं पीतमैश्वरे ॥ १,७०.५० ॥ लोकेशा नायुधैर्युक्तान्बहिः संपूजयेत्सुधीः । एवमावरणैर्युक्तं योर्ऽचजयेद्विष्णुमव्ययम् ॥ १,७०.५१ ॥ भुक्त्वेहसकलान्भोगानन्ते विष्णुपदं व्रजेत् । क्षेत्रधान्यसुवर्णानां प्पाप्तये धारणीं स्मरेत् ॥ १,७०.५२ ॥ देवीं दूर्वादलश्यामां दधानां शालिमञ्जरीम् । चिन्तयेद्भारतीं देवीं वीणापुस्तकधारिणीम् ॥ १,७०.५३ ॥ दक्षिणे देवदेवस्य पूर्णचन्द्रनिभाननाम् । क्षीराब्धिफेनपुञ्जाभे वसानां श्वेतवाससी ॥ १,७०.५४ ॥ भारत्या सहितं यो वै ध्यायेद्द्वेवं परात्परम् । वेदवेदार्थतत्त्वज्ञो जायते सर्ववित्तमः ॥ १,७०.५५ ॥ नारसिंहमिवात्मानं देवं ध्यात्वातिभैरवम् । शश्त्रं संमन्त्र्य मन्त्रेण शब्रून्हत्वा निवर्तते ॥ १,७०.५६ ॥ नारसिंहेन बीजेन मन्त्रं संयोज्य साधकः । शतमष्टोत्तरं जण्त्वा वामहस्ताभिमन्त्रिताः ॥ १,७०.५७ ॥ पुनः पुनरपः सिंचेत्सर्पदष्टोऽपि जीवति । गारुडेन च संयोज्य पञ्चार्णेन जपेत्तदा ॥ १,७०.५८ ॥ निर्विषीकरणे ध्यायेद्विष्णुं गरुडवाहनम् । अशोकफलके तार्क्ष्यमालिख्याशोकसंहतौ ॥ १,७०.५९ ॥ अशोकपुष्पैः संपूज्य भगवन्तं तदग्रतः । जुहुयात्तानि पुष्पाणि त्रिसंध्यं सप्तपत्रकम् ॥ १,७०.६० ॥ प्रत्यक्षो जायते पक्षी वरमिष्टं प्रयच्छति । गाणपत्येन संयोज्य जपेल्लक्षं पयोव्रतः ॥ १,७०.६१ ॥ महागणपतिं देवं प्रत्यक्षमिह पश्यति । वाणिबीजेन संयुक्तं षण्मासं योजयेन्नरः ॥ १,७०.६२ ॥ महाकविवरो भूत्वा मोहयेत्सकलं जगत् । हुत्वा गुङ्चीशकलान्यर्द्धागुलमितानि च ॥ १,७०.६३ ॥ दधिमध्वाज्ययुक्तानि मृत्युं जयति साधकः । शनैश्वर दिने सम्यक्स्पृष्ट्वा श्वत्थं च पाणिना ॥ १,७०.६४ ॥ जप्त्वा चाष्टशतं युद्धे ह्यपमृत्युं जयत्यसौ । पञ्चविंशतिधा जप्त्वा नित्यं प्रातः पिबेज्जलम् ॥ १,७०.६५ ॥ सर्वपापविनिर्मुक्तो ज्ञानवान् रोगवर्जितः । कुंभं संस्थाप्य विधिवदापूर्य शुद्धवारिणा ॥ १,७०.६६ ॥ जप्त्वायुतं ततस्तेनाभिषेकः सर्वरोगनुत् । चन्द्रसूर्योपरागे तु ह्युपोष्याष्टसहस्रकम् ॥ १,७०.६७ ॥ स्पृष्ट्वा ब्राह्मीधृतं जप्त्वा पिबेत्साधकसत्तमः । मेधां कवित्वं वाक्सिद्धिं लभते नात्र संशयः ॥ १,७०.६८ ॥ जुहुयादयुतं विल्वैर्महाधनपतिर्भवेत् । नारायणस्य मन्त्रोऽयं सर्वमन्त्रोत्तमोत्तमः ॥ १,७०.६९ ॥ आलयः सर्वसिद्धीनां कथितस्तव नारद । नारायणाय शब्दान्ते विद्महे पदमीरयेत् ॥ १,७०.७० ॥ वासुदेवपदं ङेंतं धीमहीति ततो वदेत् । तन्नो विष्णुः प्रचोवर्णान्संवदेञ्चोदयादिति ॥ १,७०.७१ ॥ एषोक्ता विष्णुगायत्री सर्वपापप्रणाशिनी । तारो हृद्भगवान् ङेंतो वासुदेवाय कीर्तितः ॥ १,७०.७२ ॥ द्वादशार्णो महामन्त्रो भुक्तिमुक्तिप्रदायकः । स्त्रीशूद्राणां वितारोऽयं सतारस्तु द्विजन्मनाम् ॥ १,७०.७३ ॥ प्रजापतिर्मुनिश्चास्य गायत्री छन्द ईरितः । देवता वासुदेवस्तु बीजं शक्तिर्ध्रुवश्च हृत् ॥ १,७०.७४ ॥ चन्द्राक्षिवेदपञ्चर्णैः समस्तेनाङ्गकल्पनम् । मूर्ध्नि भाले दृशोरास्ये गले दोर्हृदये पुनः ॥ १,७०.७५ ॥ कुक्षौ नाभौ ध्वजे जानुद्वये पादद्वये तथा । न्यासेत्क्रमान्मन्त्रवर्णान्सृष्टिन्यासोऽयमीरितः ॥ १,७०.७६ ॥ हृदादिमस्तकान्तं तु स्थितिन्यासं प्रचक्षते । पादादारभ्य मूर्द्धानं न्यासं संहारकं विदुः ॥ १,७०.७७ ॥ तत्त्वन्यासं ततः कुर्यात्सर्वतन्त्रेषु गोपितम् । बीवं प्राणं तथा चित्तं हृत्पद्मं सूर्यमण्डलम् ॥ १,७०.७८ ॥ चन्द्राग्निमण्डले चैव वासुदेवं ततः परम् । संकर्षणं च प्रद्युम्नमनिरुद्धं ततः परम् ॥ १,७०.७९ ॥ नारायणं चक्रमतस्तत्त्वानि द्वादशैव तु । मूलार्णहृत्परायाद्यमात्मने हृदयान्तिमम् ॥ १,७०.८० ॥ तत्त्वे नाम समुञ्चर्य्य न्यसेन्मूर्द्धादिषु क्रमात् । पूर्वोक्तं ध्यानमत्रापि भानुलक्षजपो मनोः ॥ १,७०.८१ ॥ तदृशांशं तिलैराज्यलोलितैर्हवनं चरेत् । पीठे पूर्वोदिते मन्त्री मूर्ति संकल्प्य मूलतः ॥ १,७०.८२ ॥ तस्यामावाह्य देवेशं वासुदेवं प्रपूजयेत् । अङ्गानि पूर्वमभ्यर्च्य वासुदेवादिकास्ततः ॥ १,७०.८३ ॥ शान्त्यादिशक्तयः पूज्याः प्राग्वद्दिक्षु विदिक्षु च । तृतीयावरणे पूज्याः प्रोक्ता द्वादश मूर्तयः ॥ १,७०.८४ ॥ इन्द्राद्यानायुधैर्युक्तान् पूजयेद्धरणीगृहे । एवमावरणैरिष्ट्वा पञ्चभिर्विष्णुमव्ययम् ॥ १,७०.८५ ॥ प्राप्नुयात्सकलानर्थानन्ते विष्णुपदे व्रजेत् । पुरुषोत्तमसंज्ञस्य विष्णोर्भेदचतुष्टयम् ॥ १,७०.८६ ॥ त्रैलोक्यमोहनस्तेषां प्रथमः परिकीर्तितः । श्रीकरश्च हृषीकेशः कृषअणश्चात्र चतुर्थकः ॥ १,७०.८७ ॥ तारः कामो रमा पश्चान् ङेंतः स्यात्पुरुषोत्तमः । वर्मास्त्राण्यग्निप्रियान्तो मन्त्रो वह्नीन्दुवर्णवान् ॥ १,७०.८८ ॥ ब्रह्मा मुनिः स्याद्गायत्री छन्दः प्रोक्तोऽथ देवता । पुरुषोत्तमसंज्ञोऽत्र बीजशक्तीस्मरन्दिरे ॥ १,७०.८९ ॥ भूचन्द्रैकरसाक्ष्यक्षिमन्त्रवर्णोर्विभागतः । कृत्वाङ्गानि ततो ध्यायेद्विधिवत्पुरुषोत्तमम् ॥ १,७०.९० ॥ समुद्यदादित्यनिभं शङ्खचक्रगदांबुजैः । लसत्करं पीतवस्रं स्मरेच्छ्रीपुरुषोत्तमम् ॥ १,७०.९१ ॥ महारत्नौघखचितस्फुरत्तोरणमण्डपे । मौक्तिकौघशमदमविराजितवितानके ॥ १,७०.९२ ॥ नृत्यद्देवाङ्गनावृन्दक्वणात्किङ्किणिनूपुरे । लसन्माणिक्यवेद्यां तु दीत्पार्कायुततेजसि ॥ १,७०.९३ ॥ वृन्दारकव्रातकिरीटाग्ररत्नाभिचर्चिते । नवलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥ १,७०.९४ ॥ उत्फुल्लैः कमलैः पीठे पूर्वोक्ते वैष्णवेर्ऽचयेत् । एवमाराध्य देवेशं प्राप्नोति महतीं श्रियम् ॥ १,७०.९५ ॥ पुत्रान्पौत्रान्यशः कान्तिं भुक्तिं मुक्तिं च विन्दति । उत्तिष्टेति पदं पश्चाच्छ्रीकराग्निप्रियान्तिमः ॥ १,७०.९६ ॥ अष्टार्णोऽस्य मुनिर्व्यासः पङ्क्तिश्छन्द उदाहृतम् । श्रीकाराख्यो हरिः प्रोक्तो देवता सकलेष्टदः ॥ १,७०.९७ ॥ भीषयद्वितयं हृत्स्यात्त्रासयद्वितयं शिरः । शिखा प्रमर्द्दयद्वन्द्वं वर्म प्रध्वंसयद्वयम् ॥ १,७०.९८ ॥ अस्रं रक्षद्वयं सर्वे हुमन्ताः समुदीरिताः । मस्तके नेत्रयोः कण्ठहृदये नाभिदेशके ॥ १,७०.९९ ॥ ऊरूजङ्घांयुग्मेषु मन्त्रवर्णान्क्रमान्न्यतसेत् । ततः पुरुषसूक्तोक्तमन्त्रैर्न्यासं समाचरेत् ॥ १,७०.१०० ॥ मुखे न्यसेद्ब्राह्मणोऽस्य मुखमासीदिमं मनुम् । बाहुयुग्मे तथा बाहूंराजन्य इति विन्यसेत् ॥ १,७०.१०१ ॥ ऊरू तदस्य यद्वैश्य इममूरुद्वये न्यसेत् । न्यसेत्पादद्वये मन्त्री पद्भ्यां शूद्रो अजायत ॥ १,७०.१०२ ॥ चक्रं शङ्खं गदां पद्मं कराग्रेष्वथ विन्यसेत् । एवं न्यासविधिं कृत्वा ध्यायेत्पूर्वोक्तमण्डपे ॥ १,७०.१०३ ॥ अरुणाब्जासनस्थस्य तार्क्ष्यस्योपरि संस्थितम् । पूर्वोक्तरूपिणं देवं श्रीकरं लोकमोहनम् ॥ १,७०.१०४ ॥ ध्यात्वैवं पूजयेदष्टलक्षं मन्त्री दशांशतः । रक्तांबुजैः समिद्भिश्च विल्वक्षीरिद्रुमोद्भवैः ॥ १,७०.१०५ ॥ पयोऽन्नैः सर्पिषा हुत्वा प्रत्येकं सुसमाहितः । अश्वत्थोदुंबरप्लक्षवटाः क्षीरिद्रुमाः स्मृता ॥ १,७०.१०६ ॥ पूजयेद्वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः । अङ्गावरणदिक्पालहेतिभिः सहितं विभुम् ॥ १,७०.१०७ ॥ इत्थं सिद्धे मनौ मत्री प्रयोगान्पूर्ववञ्चरेत् । तारो हृद्भगवान् ङेंतो वराहेति ततः परम् ॥ १,७०.१०८ ॥ रूपाय भूर्भुवः स्वः स्याल्लोहितकामिका च ये । भूपतित्वं च मे देहि ददापय शुचिप्रिया ॥ १,७०.१०९ ॥ रामाग्निवर्णो मन्त्रोऽयं भार्गवोऽस्य मुनिर्मतः । छन्दोऽनुष्टुब्देवतादिवराहः समुदीरितः ॥ १,७०.११० ॥ एकदंष्ट्राय हृदयं व्योमोल्कायग शिरः स्मृतम् । शिखा तेजोऽधिपतये विश्वरूपाय वर्म च ॥ १,७०.१११ ॥ महादंष्ट्राय चास्त्रं स्यात्पञ्चाङ्गमिति कल्पयेत् । अथवा गिरिषट्सप्तबाणैर्वसुभिरक्षरैः ॥ १,७०.११२ ॥ विभक्तैर्मन्त्रवर्यस्य पञ्चागांनि प्रकल्पयेत् । ततौ ध्यायेदनेकार्कनिभमादिवराहकम् ॥ १,७०.११३ ॥ आं ह्रीं स्वर्णनिभं जान्वोरधो नाभेः सितप्रभम् । इष्टाभीतिगदाशङ्खचक्रशक्त्यसिखेटकान् ॥ १,७०.११४ ॥ दधतं च करैर्दंष्ट्राग्रलसद्धरणिं स्मरेत् । एवं ध्यात्वा जपेल्लक्षं दशांशं सरसीरुहैः ॥ १,७०.११५ ॥ मध्वक्तैर्जुहयात्पीठे पूर्वोक्ते वैष्णवे यजेत् । मूलेन मूर्तिं सङ्कल्प्य तस्यां सम्पूजयेद्विभुम् ॥ १,७०.११६ ॥ अङ्गावरणदिक्पालहेतियन्त्रप्रसिद्धये । जपादेवावर्नि दद्याद्धनं धान्यं महीं श्रियम् ॥ १,७०.११७ ॥ सिंहार्के सितपक्षस्याष्टम्यां गव्येषु पञ्चसु । शिलां शुद्धां विनिक्षिप्य स्पृष्ट्वा तामयुतं जपेत् ॥ १,७०.११८ ॥ उदङ्मुखस्वतो मन्त्री तां शिलां लिखनेद्भुवि । भूतप्रेताहिचौरादिकृतां बाधां निवारयेत् ॥ १,७०.११९ ॥ प्रातर्भृगुदिने साध्यभूतलान्मृदमाहरेत् । मन्त्रितां मूलमन्त्रेण विभजेत्तां त्रिधा पुनः ॥ १,७०.१२० ॥ चुल्ल्यामेकं समालिप्याप्यपरं पाकभाजने । गोदुग्धे परमालोड्य शोधितांस्तन्दुलान् क्षिपेत् ॥ १,७०.१२१ ॥ सम्यक्शुद्धे शुचिः केशे जपन्मन्त्रं पचेञ्चरुम् । अवतार्य चरुं पश्चाद्वह्नौ देयं यथाविधि ॥ १,७०.१२२ ॥ सम्पूज्य धूपदीपाद्यैः पश्चादाज्यप्लुतं चरुम् । जुहुयात्संस्कृते वह्नौ अष्टोत्तरशतं सुधीः ॥ १,७०.१२३ ॥ एवं प्रजुहुयान्मन्त्री कविवारेषु सप्तसु । विरोधो नश्यति क्षेत्रे शत्रुचौराद्युपद्रवाः ॥ १,७०.१२४ ॥ भानूदयेप्यारवारे साध्यक्षेत्रान्मृदं पुनः । आदाय पूर्वविधिना हविरापाद्य पूर्ववत् ॥ १,७०.१२५ ॥ जुहुयादेधिते वह्नौ पूर्वसंख्याकमादरात् । एवं स सप्तारवारेषु जुहुयात्क्षेत्रसिद्धये ॥ १,७०.१२६ ॥ जुहुयाल्लक्षसंख्याकं गव्यै श्चैव सपायसैः । अभीष्टभूम्याधिपत्यं लभते नात्र संशयः ॥ १,७०.१२७ ॥ उद्यद्दोः परिधं दिव्यं सितदंष्ट्राग्रभूधरम् । स्वर्णाभं पार्थिवे पीते मण्डले सुसमाहितः ॥ १,७०.१२८ ॥ ध्यात्वाप्नोति महीं रम्यां वराहस्य प्रसादतः । वारुणे मण्डले ध्यायेद्वाराहं हिमसन्निभघम् ॥ १,७०.१२९ ॥ महोपद्रवशान्तिः स्यात्साधकस्य न संशयः । वश्यार्थं च सदा ध्यायेद्वर्ह्याभं वह्निमण्डे ॥ १,७०.१३० ॥ ध्यायेदेवं रिपूञ्चाटे कृष्णाभं वायुमण्डले । ह्यमण्डलगतं स्वच्छं वाराहं सर्वसिद्धिदम् ॥ १,७०.१३१ ॥ शत्रुभूतग्रहक्ष्वेडामयपीडादिशान्तये । भग्वर्धीशयुतं व्योमबिन्दुभूषितमस्तकम् ॥ १,७०.१३२ ॥ एकाक्षरो वराहस्य मन्त्रः कल्पद्रुमोऽपरः । पूजाद्यार्ध्यादिकं सर्वमस्यां पूर्वोक्तवञ्चरेत् ॥ १,७०.१३३ ॥ सवामकर्णानिद्रास्याद्वराहाय हृदन्तिमः । ताराद्यो वसुवर्णोऽयं सर्वैश्वर्यप्रदायकः ॥ १,७०.१३४ ॥ ब्रह्मा मुनिः स्याद्गायत्री छन्दो वाराहसंज्ञकः । देवश्चन्द्रेद्वब्धिनेत्रैः सवेणाङ्गक्रिया मता ॥ १,७०.१३५ ॥ ध्यानपूजाप्रयोगादि प्राग्वदस्यापि कल्पयेत् । प्रणवादौ च ङेन्तं च भगवतीति पदं ततः । धरणिद्वितयं पश्चाद्धरेर्द्वयमुदीरयेत् ॥ १,७०.१३६ ॥ एकोनविंशत्यर्णाढ्यो मन्त्रो वह्निप्रियान्तिमः । वराहोऽस्य मुनिश्छन्दो गायत्री निवृदादिका ॥ १,७०.१३७ ॥ देवता धरणी बीजं तारःशक्तिर्वसुप्रिया । रामवेदाग्निबाणाक्षिनेत्रार्णैरङ्गरकल्पनम् ॥ १,७०.१३८ ॥ श्यामां चित्रविभूषाढ्यां पद्मस्थां तुङ्गसुस्तनीम् । नीलांबुजद्वयं शालिमञ्जरीं च शुक्रं करैः ॥ १,७०.१३९ ॥ दधतीं चित्रवसनां धरां भगवतीं स्मरेत् । एवं ध्यात्वा जपेल्लक्षं दशांशं पायसेन तु ॥ १,७०.१४० ॥ साज्येन जुहुयान्मन्त्री विष्णोः पीठ्ठे समर्चयेत् । मूर्तिं संकल्प्य मूलेन तस्यां वसुमतीं यजेत् ॥ १,७०.१४१ ॥ अङ्गानि पूर्वमाराध्य भूवह्निजलमारुतान् । दिक्पात्रेषु च सम्पूज्य कोणपत्रेषु तत्कलाः ॥ १,७०.१४२ ॥ निवृत्तिश्च प्रतिष्टा च विद्यानां तैश्च तत्कलाः । इन्द्राद्यानपि वञ्चादीन्पूजयेत्तदनन्तरम् ॥ १,७०.१४३ ॥ एवं सिद्धे मनौ मन्त्री साधयेदिष्टमात्मनः । धरणी प्रभजन्नेवं पशुरत्नांबरादिभिः ॥ १,७०.१४४ ॥ धरम्या वल्लभः स स्यात्सुखी जीवेच्छतं समा । त्रैलोक्यमोहनो मन्त्रो जगन्नाथस्य कीर्त्यते ॥ १,७०.१४५ ॥ तारः कामो रमा बीजं हृदन्ते पुरुषोत्तमः । श्रीकण्ठः प्रतिरूपान्ते लक्ष्मीति च निवासि च ॥ १,७०.१४६ ॥ सकलान्ते जगत्पश्चात्क्षोभणेति पदं वदेत् । सर्वस्त्रीहृदयान्ते तु विदारणपदं वदेत् ॥ १,७०.१४७ ॥ ततस्त्रिभुवनान्तं तु मदोन्मादकरेति च । सुरासुरान्ते मनुजसुंदरीजनवर्णतः ॥ १,७०.१४८ ॥ मनांसि तापयद्वन्द्वं दीपयद्वितयं ततः । शोषयद्वितयं पश्चान्मारयद्वितयं ततः ॥ १,७०.१४९ ॥ स्तंभयद्वितयं भूयो मोहयद्वितय ततः । द्रावयद्वितयं तावदाकर्षययुगं ततः ॥ १,७०.१५० ॥ ध्यानपूजाप्रयोगादि प्राग्वदस्यापि कल्पयेत् । प्रणवादौ च ङेन्तं च भगवतीति पदं ततः । धरणिद्वितयं पश्चाद्धरेर्द्वयमुदीरयेत् ॥ १,७०.१३६ ॥ एकोनविंशत्यर्णाढ्यो मन्त्रो वह्निप्रियान्तिमः । वराहोऽस्य मुनिश्छन्दो गायत्री निवृदादिका ॥ १,७०.१३७ ॥ देवता धरणी बीजं तारःशक्तिर्वसुप्रिया । रामवेदाग्निबाणाक्षिनेवार्णैरङ्गकल्पनम् ॥ १,७०.१३८ ॥ श्यामां चित्रविभूषाढ्यां पद्मस्थां तुङ्गसुस्तनीम् । नीलांबुजद्वयं शालिमञ्जरीञ्च शुकं करैः ॥ १,७०.१३९ ॥ दधतीं चित्रवसनां धरां भगवतीं स्मरेत् । एवं ध्यात्वा जपेल्लक्षं दशांशं पायसेन तु ॥ १,७०.१४० ॥ साज्येन जुहुयान्मन्त्री विष्णोः पीठे समर्चयेत् । मूर्तिं संकल्प्य गूलेन तस्यां वसुमतीं यजेत् ॥ १,७०.१४१ ॥ अङ्गानि पूर्वमाराध्य भूवह्निजलमारुतान् । दिक्पात्रेषु च सम्पूज्य कोणपत्रेषु तत्कलाः ॥ १,७०.१४२ ॥ निवृत्तिश्च प्रतिष्टा च विद्यानां तैश्च तत्कलाः । इन्द्राद्यानपि वज्रादीन्पूजयेत्तदनन्तरम् ॥ १,७०.१४३ ॥ पूर्नं सिद्धे मनौ मन्त्री साधयेदिष्टमात्मनः । धरणीं प्रभजन्नेवं पशुरत्नांबरादिभिः ॥ १,७०.१४४ ॥ धरण्या वल्लभः स स्यात्सुखी जीवेच्छतं समा । त्रैलोक्यमोहनो मन्त्रो जगन्नाथस्य कीर्त्यते ॥ १,७०.१४५ ॥ तारः कामो रमा बीजं हृदन्ते पुरुषोत्तमः । श्रीकण्ठः प्रतिरूपान्ते लक्ष्मीति च निवासिं च ॥ १,७०.१४६ ॥ सकलान्ते जगत्पश्चात्क्षोभणेति पदं वदेत् । सर्वस्त्रीहृदयान्ते तु विदारणपदं वदेत् ॥ १,७०.१४७ ॥ ततस्त्रिभुवनान्तं तु मदोन्मादकरेति च । सुरासुरान्ते मनुजसुंदरीजनवर्णतः ॥ १,७०.१४८ ॥ मनांसि तापयद्वन्द्वं दीपयद्वितयं ततः । शोषयद्वितयं पश्चान्मारयद्वितयं ततः ॥ १,७०.१४९ ॥ स्तंभयद्वितयं भूयो मोहयद्वितय ततः । द्रावयद्वितयं तावदाकर्षययुगं ततः ॥ १,७०.१५० ॥ समस्तपरमो येन सुभगेन च संयुतम् । सर्वसौभाग्यशब्दान्ते करसर्वपदं वदेत् ॥ १,७०.१५१ ॥ कामप्रदादमुन्ब्रह्मासेंदुर्हनुयुगं ततः । चक्रेण गदया पश्चात्खड्गेन तदनन्तरम् ॥ १,७०.१५२ ॥ सर्वबाणैर्भेदियुगं पाशेनान्ते कटद्वयम् । अङ्कुशेनेति संप्रोच्य ताडयद्वितयं पुनः ॥ १,७०.१५३ ॥ कुरुशब्दद्वयमथो किं तिष्टसि पदं वदेत् । तावद्यावत्पदस्यान्ते समाहितमनन्तरम् । ततो मे सिद्धिराभास्य भवमन्ते च वर्म फट् ॥ १,७०.१५४ ॥ हृदन्तोऽयं महामन्त्रो द्विशतार्णः समीरितः । जैमिनिर्मुनिरस्योक्तश्छन्दश्चामितमीरितम् ॥ १,७०.१५५ ॥ देवता जगतां मोहे जगन्नाथः प्रकीर्तितः । कामो बीजं रमा शक्तिर्विनियोगोऽखिलाप्तये ॥ १,७०.१५६ ॥ पुरुषोत्तमत्रिभुवनोन्मादकान्तेऽग्निवर्म च । हृदयं कीर्तितं पश्चाज्जगत्क्षोभणशब्दतः ॥ १,७०.१५७ ॥ लक्ष्मीदयितवर्मान्तः शिरः प्रोक्तं शिखा पुनः । मन्मथो तमशब्दान्ते मङ्गजे पदमीरयेत् ॥ १,७०.१५८ ॥ कामदायेति हुं प्रोच्य न्यसेद्वम ततः परम् । परमान्ते भृगुकर्णाभ्यां च सर्वपदं ततः ॥ १,७०.१५९ ॥ सौभाग्यकरवर्मान्ते कवचं पारिकीर्तितम् । सुरासुरान्ते मनुजसुंदरीति पदं वदेत् ॥ १,७०.१६० ॥ हृदयान्ते विदा पश्चाद्रणसर्वपदं वदेत् । ततः प्रहरणधरसर्वकामुकतत्पदम् ॥ १,७०.१६१ ॥ हनयुग्मं च हृदयं बन्धनानि ततो वदेत् । आकर्षयद्वयं पश्चान्महाबलपदं ततः ॥ १,७०.१६२ ॥ वर्म चास्त्रं समाख्यातं नेत्रं स्यात्तदनन्तरम् । वदेत्रिभुवनं पश्चाच्चर सर्वजनेति च ॥ १,७०.१६३ ॥ मनांसि हरयुग्मान्ते दारयद्वितयं च मे । वशमानय वर्मान्ते नेत्रमन्त्रः समीरितः ॥ १,७०.१६४ ॥ षडङ्गमन्त्रास्ताराद्याः फट्नमोन्ताः प्रकीर्तिताः । तारस्त्रैलोक्यशब्दान्ते मोहनेति पदं वदेत् ॥ १,७०.१६५ ॥ हृषीकेशेति संप्रोच्याप्रतिरूपादिशब्दतः । मम्नथानन्तरं सर्वस्त्रीणां हृदयमीरयेत् ॥ १,७०.१६६ ॥ आकर्षणपदा गच्छदागच्छहृदयान्तिमः । अनेन व्यापकं कृत्वा जगन्नाथं स्मरेत्सुधीः ॥ १,७०.१६७ ॥ क्षीराब्धेस्तु तटे रम्यं सुरद्रुमलताञ्चितम् । उद्यदर्काभुजालाभं स्वधाम्नोज्वालदिङ्मुखम् ॥ १,७०.१६८ ॥ प्रसूनावलिसौरभ्यमाद्यन्मधुकरारवम् । दिव्यवातोञ्चलत्कञ्जपरागोद्धूलितांबरम् ॥ १,७०.१६९ ॥ स्वर्वधूगीतमाधुर्याभिराम चिन्तयेद्वनम् । तदन्तर्मणिसम्पत्तिस्फुरत्तोरणमण्डपे ॥ १,७०.१७० ॥ विलसन्मौक्तिकोद्दामदामराजद्वितानके । मणिवेद्यादि वियत्किरीटाग्रसमर्चिते ॥ १,७०.१७१ ॥ दिव्यसिंहासने विप्र समासीनं स्मरेद्विभुम् । शङ्खपाशेषु चापानि मुसलं नन्दकं गदाम् ॥ १,७०.१७२ ॥ अङ्कुशं दधतं दोर्भिः श्लिष्टे कमलयोरसि । पश्यत्यङ्कस्थयांभोजश्रिया रागोल्लसदृशा ॥ १,७०.१७३ ॥ ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः । कुण्डेर्ऽद्धचन्द्रे पद्मैर्वा जातीपुष्पैश्च होमयेत् ॥ १,७०.१७४ ॥ यागभूमिं तथात्मानं यागोपकरणं तथा । पूजयिष्यन् जगन्नाथं गायत्र्या प्रोक्षयेद्वुधः ॥ १,७०.१७५ ॥ त्रैलोक्यमोहनायान्ते विद्महे पदमीरयेत् । स्मराय धीमहीत्युक्त्वा तन्नो विष्णुः प्रचोदयात् ॥ १,७०.१७६ ॥ गायत्र्येषा समाख्याता सर्वशुद्धिकरी परा । कल्पयेदासनं पीठे पूर्वोक्ते वैष्णवे सुधीः ॥ १,७०.१७७ ॥ पक्षिराजाय ठद्वन्द्वं पीठमन्त्रोऽयमीरितः । मूर्तिं संकल्पमूलेन तस्यामावाहयेदतः ॥ १,७०.१७८ ॥ व्यापकन्यासमन्त्रेण ततः सम्पूज्य भक्तितः । श्रीवत्सहृदयं तेन श्रीवत्सं स्तनयोर्यजेत् ॥ १,७०.१७९ ॥ कौस्तुभाय हृदन्तेन यजेद्वक्षसि कौस्तुभम् । पूजयेद्वनमालायै हृदन्तेन गले च ताम् ॥ १,७०.१८० ॥ कर्णिकायां ततोऽभ्यर्चयेद्विधिवञ्चाङ्गदेवताः । दलेषु पूजयेत्पश्चाल्लक्ष्म्याद्यावृत्तचामराः ॥ १,७०.१८१ ॥ बन्धूककुसुमाभासाःमुक्ताहारलसत्कुचाः । उत्फुल्लांभघोजनयना मदविभ्रममन्थराः ॥ १,७०.१८२ ॥ लक्ष्मी सरस्वती चैव धृतिः प्रीतिस्ततः परम् । कान्तिः शान्तिस्तुष्टिपुष्टिबीजाद्या ङेनमोन्तिकाः ॥ १,७०.१८३ ॥ भृगुः खड्राशचन्द्राढ्यो देव्या बीजमुदाहृतम् । ह्रस्वत्रयक्लीबसर्वरहितस्वरसंयुतम् ॥ १,७०.१८४ ॥ देव्या बीजं क्रमादासामादौ च विनियोजयेत् । दलाग्रेषु यजेच्छङ्खं शार्ङ्गं चक्रमसिं गदाम् ॥ १,७०.१८५ ॥ अङ्कुशं मुसलं पाशं स्वमुद्रामनुभिः पृथक् । महाजलचरा यान्ते वर्मास्त्रं वह्निवल्लभा ॥ १,७०.१८६ ॥ पाञ्चजन्या प्रताराद्यो नमोन्तः शङ्खपूजने । शार्ङ्गाय सशयान्ते च वर्मास्त्रं वह्निवल्लभा ॥ १,७०.१८७ ॥ शार्ङ्गाय हृदयं मन्त्रो महाद्यः शार्ङ्गपूजने । सुदर्शनमहान्ते तु चक्रराजपदं वदेत् ॥ १,७०.१८८ ॥ हययुग्मं सर्वदुष्टभयमन्ते कुरुद्वयम् । छिन्धिद्वयं ततः पश्चाद्विदारययुगं ततः ॥ १,७०.१८९ ॥ परमन्त्रान् ग्रसद्वन्द्वं भक्षयद्वितयं पुनः । भूकानि त्रासयद्वन्द्वं वर्मफड्वह्निसुंदरी ॥ १,७०.१९० ॥ सुदर्शनाय हृदयं प्रोक्तश्चक्रर्चने मनुः । महाखड्गतीक्ष्णपदाच्छिवियुग्मं समीरयेत् ॥ १,७०.१९१ ॥ हुं फट्स्वाहा च खड्गाय नमः खड्गार्चने मनुः । महाकौमोदकीत्यन्ते वदेञ्चैव महाबले ॥ १,७०.१९२ ॥ सर्वासुरान्तके पश्चात्प्रसीदयुगलेति च । वर्मास्त्रवह्निजायान्तकौमोदकि हृक्षतिमः ॥ १,७०.१९३ ॥ कौमोदक्यर्चने प्रोक्तो मन्त्रः सर्वार्थसाधकः । महाङ्कुशपदात्कुट्चयुग्मं हुंफट्वसुप्रिया ॥ १,७०.१९४ ॥ अङ्कुशाय नमः प्रोक्तो मन्त्रग्रौवाकुशर्चने । संवर्तकमहान्ते तु मुसलेति पदं वदेत् ॥ १,७०.१९५ ॥ योधयद्वितयं वर्म फडन्ते वह्निसुंदरी । मुसलाय नमः प्रोक्तो मन्त्रो सुसलपूजने ॥ १,७०.१९६ ॥ महापाश हदादघटयमाकर्षयद्वयम् । हुं फटे स्वाहा च पाशाय नमः पाशार्चने मनुः ॥ १,७०.१९७ ॥ ताराद्या मनवो ह्येते ततः शक्रादिकान्यजेत् ॥ १,७०.१९८ ॥ वज्राद्यानपि संपूज्य सर्वसिद्धीश्वरो भवेत् । मासमात्रं तु कुसुमैः पूजयित्वा हयारिजैः ॥ १,७०.१९९ ॥ कुमुदैर्वा प्रजुहुयादष्टोत्तरसहस्रकम् । मासमात्रेण वश्याःस्युस्तस्य सर्वे नृपोत्तमाः ॥ १,७०.२०० ॥ यस्य नाम युतं मन्त्रं जपेदयुतसंख्यया । स भवेद्दासवत्सद्यो मन्त्रस्यास्य प्रभावतः ॥ १,७०.२०१ ॥ बहुना किमिहोक्तेन मनुनानेन साधकः । साधयेत्सकलान्कामान्विष्णुतुल्यो न संशयः ॥ १,७०.२०२ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे सप्ततितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच शृणु नारद वक्ष्यामि दिव्यान्नरहरेर्मनून् । यान्समाराध्य ब्रह्माद्याश्चक्रुः सृष्ट्यादि कर्म वै ॥ १,७१.१ ॥ संवर्तकश्चन्द्रमौलिर्मनुर्वह्निविभूषितः । एकाक्षरः स्मृतो मन्त्रो भजतां सुरपादपः ॥ १,७१.२ ॥ मुनिरत्रिश्च जगतीं छन्दो बुद्धिमतां वर । देवता नृहरिः प्रोक्तो विनियोगोऽखिलाप्तये ॥ १,७१.३ ॥ क्षं बीजं शक्तिरी प्रोक्ता षड्दीर्घेण षडङ्गकम् । अर्केन्दुवह्निनयनं शरदिन्दुरुचं करैः ॥ १,७१.४ ॥ धनुश्चक्राभयवलरान्दधतं नृहरिं स्मरेत् । लक्षं जपस्तद्दशांशहोमश्च घृतपायसैः ॥ १,७१.५ ॥ यजेत्पीठे वैष्णवे तु केसरेष्वङ्गपूजनम् । खगेशं शङ्करं शेषं शतानन्दं दिगालिषु ॥ १,७१.६ ॥ श्रियं ह्रियं धृतिं पुष्टिं कोणपत्रेषु पूजयेत् । दन्तच्छदेषु नृहरींस्तावतः पूजयेत्क्रमात्म ॥ १,७१.७ ॥ कृष्णो रुद्रो महाघोरो भीमो भीषण उज्ज्वलःृ । करालो विकरालश्च दैत्यान्तो मधुसूदनः ॥ १,७१.८ ॥ रक्ताक्षः पिङ्गलाक्षश्चाञ्जनो दीप्तरुचिस्तथा । सुघोरकश्च सुहनुर्विश्वको राक्षसांतकः ॥ १,७१.९ ॥ विशालको धूम्रकेशो हयग्रीवो घनस्वनः । मेघवर्णः कुभघकर्णः कृतान्ततीव्रतेजसौ ॥ १,७१.१० ॥ अग्निवर्णो महोग्रश्च ततो विश्वविभूषणः । विघ्नक्षमो महासेनः सिंहा द्वात्रिंशदीरिताः ॥ १,७१.११ ॥ तद्ब्रहिः प्रार्चयेद्विद्वांल्लोकपालान्सहेतिकान् । एवं सिद्धे मनौ मन्त्री साधेयेदखिलेप्सितान् ॥ १,७१.१२ ॥ विष्णः प्रद्युम्नयुक्शार्ङ्गी महांस्ततः । विष्णुं ज्वलन्तं भृग्वीशो जलं पद्मासनं ततः ॥ १,७१.१३ ॥ हरिस्तु वासुदेवाय वैकुण्ठो विष्णुसंयुतः । गदी सेंदुनृसिंहं च भीषणं भद्वमेव च ॥ १,७१.१४ ॥ मृत्युमृत्युं ततः शौरिर्भानोर्नारायणान्वितः । नृहरेर्द्वाविंशदर्णोऽयं मन्त्रः साम्राज्यदायकः ॥ १,७१.१५ ॥ ब्रह्मा मुनिस्तु गायत्री छन्दोऽनुष्टुबुदाहृतम् । देवता नृहरिश्चास्य सर्वेष्टुफलदायकः ॥ १,७१.१६ ॥ हं बीजं इं तथा शक्तिर्विनियोगोऽखिलाप्तये । वेदैश्चतुर्भिर्वसुभिः षड्भिः षड्भिर्युगाक्षरैः ॥ १,७१.१७ ॥ षडङ्गानि विधायाथ मूर्ध्नि भाले च नेत्रयोः । मुखबाह्वङ्घ्रिसंध्यग्रेष्वथ कुक्षौ तथा हृदि ॥ १,७१.१८ ॥ गले पार्श्वद्वये पृष्टे ककुद्यर्णान्मनूद्भवान् । प्रणवान्तरितान् कृत्वा न्यसेत्साधकसत्तमः ॥ १,७१.१९ ॥ नृसिंहसांनिध्यकरो न्यासो दशविधो यथा । कराङ्घ्षष्टाद्यङ्गुलीषु पृथगाद्यन्तपर्वणोः ॥ १,७१.२० ॥ सर्वाङ्गुलीषु विन्यस्यावशिष्टं तलयोर्न्यसेत् । शिरोललाटे भ्रुमध्ये नेत्रयोः कर्णयोस्तथा ॥ १,७१.२१ ॥ कपोलकर्णमूले च चिबुकोर्द्धाधरोष्टके । कण्ठे घोणे च भुजयोर्द्दत्तनौ नाभिमण्डले ॥ १,७१.२२ ॥ दक्षान्पदोस्तले कट्यां मेढ्रोर्वोजानुजघयचोः । गुल्फे पादकराङ्गुल्योः सर्वसन्धिषु रोमसु ॥ १,७१.२३ ॥ रक्तास्थिमज्जासु तनौ न्यसेद्वर्णान्वि चक्षणः । वर्णान्पदे गुल्फजानुकटिनाभिहृदि स्थले ॥ १,७१.२४ ॥ बाह्वोः कण्ठे च चिबुके चौष्टौ गण्डे प्रविन्यसेत् । कर्णयोर्वदने नासापुटे नेत्रे च मूर्द्धनि ॥ १,७१.२५ ॥ पदानि तु मुखे मूर्ध्रि नसि चक्षुषि कर्णयोः । आस्ये च हृदय नाभौ पादान्सर्वाङ्गकेन्यसेत् ॥ १,७१.२६ ॥ अर्द्धद्वयं न्यसेन्मूर्ध्नि आहृत्पादात्तदङ्गकम् । उग्रादीनि पदानी ह मृत्युमृत्युं नमाम्यहम् ॥ १,७१.२७ ॥ इत्यन्तान्यास्यकघ्नाणचक्षुःश्रोत्रेषुपक्ष्मसु । हृदि नाभौ च कट्यादिपादान्तं नवसु न्यसेत् ॥ १,७१.२८ ॥ वीराद्यानपि तान्येव यथापूर्वं प्रविन्यसेत् । नृसिंहाद्यानि तान्येव पूर्ववद्विन्यसेत्सुधीः ॥ १,७१.२९ ॥ चन्द्राग्निवेदषड्रामनेत्रदिग्बाहुभूमितान् । विभक्ता पन्त्रवर्णांश्च क्रमात्स्थानेषु विन्यसेत् ॥ १,७१.३० ॥ मूले मूलाच्च नाभ्यन्तं नाभ्यादिहृदयावधि । हृदयाद्भ्रूयुगान्तं तु नेत्रत्रये च मस्तके ॥ १,७१.३१ ॥ बाह्वोरङ्गुलिषु प्राणेमूर्द्धादि चरणावधि । विन्यसेन्नामतो धीमान्हरिन्यासोऽयमीरितः ॥ १,७१.३२ ॥ न्यासस्यास्य तु माहात्म्यं जानात्येको हरिः स्वयम् । एवं न्यासविधिं कृत्वा ध्यायेच्च नृहरिं हृदि ॥ १,७१.३३ ॥ गलासक्तलसद्बाहुस्पृष्टकेशोऽब्जचक्रधृक् । नखाग्रभिन्नदैत्येशो ज्वालामालासमन्वितः ॥ १,७१.३४ ॥ दीप्तजिह्वस्त्रिनयनो दंष्ट्रोग्रं वदनं वहन् । नृसिंहोऽस्मान्सदा पातुस्थलांबुगगनोपगः ॥ १,७१.३५ ॥ ध्यात्वैवं दर्शयेन्मुद्रां नृसिंहस्य महात्मनः । जानुमध्यगतौ कृत्वा चिबुकोष्टौ समावुभौ ॥ १,७१.३६ ॥ हस्तौ च भूमिसंलग्नौ कंपमानः पुनः पुनः । मुखं विजृंभितं कृत्वा लेलिहानां च जिह्विकाम् ॥ १,७१.३७ ॥ एषा मुद्रा नारसिंही प्रधानेति प्रकीर्तिता । वामस्याङ्गुष्टतो बद्ध्वाकनिष्टामङ्गलीत्रयम् ॥ १,७१.३८ ॥ त्रिशूलवत्संमुखोर्द्ध्वे कुर्यान्मुद्रां नृसिंहगाम् । अङ्गुष्टाभ्यां च करयोस्तथाऽक्रम्य कनिष्टके ॥ १,७१.३९ ॥ अधोमुखाभिः शिष्टाभिः शेषाभिर्नृहरौ ततः । हस्तावधोमुखौ कृत्वा नाभिदेशे प्रसार्य च ॥ १,७१.४० ॥ तर्जंनीभ्यां नयेत्स्कन्धौ प्रोक्ता चान्त्रणमुद्रिका । हस्तावूर्द्ध्वमुखौ कृत्वा तले संयोज्य मध्यमे ॥ १,७१.४१ ॥ अनामायां तु वामायां तुवामायां दक्षिणां तु विनिक्षिपेत् । तर्जन्यौ पृष्टतो लग्नौ अङ्गुष्टौ तर्जनीश्रितौ ॥ १,७१.४२ ॥ चक्रमुद्राभवेदेषा नृहरेः संनिधौ मता । चक्रमुद्रा तथा कृत्वा तर्जनीभ्यां तु मध्यमे ॥ १,७१.४३ ॥ पीडयेद्वंष्ट्रमुद्रैषा सर्वपापप्रणाशिनी । एता मुद्रा नृसिंहस्य सर्वमन्त्रेषु संमताः ॥ १,७१.४४ ॥ वर्णलक्षं जपेन्मन्त्रं तद्दशांशं च पायसैः । घऋताक्तर्जुहुयाद्वह्नौ पीठे पूर्वोदितेर्ऽचयेत् ॥ १,७१.४५ ॥ अङ्गान्यादौ समाराध्य दिक्पत्रेषु यजेत्पुनःृ । गरडादीन् श्रीमुखांश्च विदिक्षु लोकपान्बहिः ॥ १,७१.४६ ॥ एवं संसाधितो मन्त्रः सर्वान्कामान्प्रपूरयेत् । सौम्ये कार्ये स्मरेत्सौम्यं क्रूरं क्रूरे स्मरेद्बुधः ॥ १,७१.४७ ॥ पूर्वमृत्युपदे शत्रोर्नाम कृत्वा स्वयं हरिः । निशितैर्नखदंष्ट्राग्रैः खाद्यमानं च संस्मरेत् ॥ १,७१.४८ ॥ अष्टोत्तरशतं नित्यं जपेन्मन्त्रमतन्द्रितः । जायते मण्डलादर्वाक्शत्रुर्वै शमनातिथिः ॥ १,७१.४९ ॥ ध्यानभेदानथो वक्ष्ये सर्वसिद्धिप्रदायकान् । श्रीकामः सततं ध्यायेत्पूर्वोक्तं नृहरिं सितम् ॥ १,७१.५० ॥ वामाङ्कस्थितया लक्ष्म्यालिङ्गतं पद्महस्तया । विषमृत्यूपरोगादिसर्वोपद्रवनाशनम् ॥ १,७१.५१ ॥ नरसिंहं महाभीमं कालानल समप्रभम् । आन्त्रमालाधरं रौद्रं कण्ठहारेण भूषितम् ॥ १,७१.५२ ॥ नागयज्ञोपवीतं च पञ्चाननसुशोभितम् । चन्द्रमौलिं नीलकण्ठं प्रतिवक्त्रं त्रिनेत्रकम् ॥ १,७१.५३ ॥ भुजैः परिघसंकाशैर्द्दशभिश्चोपशोभितम् । अक्षसूत्रं गदापद्मं शङ्खं गोक्षीरसन्निभम् ॥ १,७१.५४ ॥ धनुश्च मुशलं चैव बिभ्राणं चक्रसुत्तमम् । खड्गं शूलं च बाणं च नृहरिं रुद्ररूपिणम् ॥ १,७१.५५ ॥ इन्द्रगोपाभनीलाभं चन्द्राभं स्वर्णसन्निभम् । पूर्वादि चोत्तरं यावदूद्ध्वार्स्यं सर्ववर्णकम् ॥ १,७१.५६ ॥ एवं ध्यात्वा जपेन्मन्त्री सर्वव्याधिविमुक्तये । सर्वमृत्युहरं दिव्य स्मरणात्सर्वसिद्धिदम् ॥ १,७१.५७ ॥ ध्यायेद्यदा महात्कर्म तदा षोडशहस्तवान् । नृसिंहः सर्वलोकेशः सर्वाभरणभूषितः ॥ १,७१.५८ ॥ द्वौ विदारणकर्माप्तौ द्वौ चान्त्रोद्धरणान्वितौ । शङ्खचचक्रधरौ द्वौ तु द्वौ च बाणघनुर्द्धरौ ॥ १,७१.५९ ॥ खड्गखेटधरौ द्वौ च द्वौ गदापद्मधारिणौ । पाशाङ्कुशधरौ द्वौ च द्वौ रिपोर्मुकुटार्पितौ ॥ १,७१.६० ॥ इति षोडशदोर्दण्डमण्डितं नृहरिं विभुम् । ध्यायेन्नारद नीलाभमुग्रकर्ममण्यनन्यधीः ॥ १,७१.६१ ॥ ध्येयो महतमे कार्ये द्वात्रिंशद्धस्तवान्बुधैः । नृसिंहः सर्वभूतेशः सर्वसिद्धिकरः परः ॥ १,७१.६२ ॥ दक्षिणे चक्रपद्मे च परशुंपाशमेव च । हलं च मुशलं चैव अभयं चाङ्कुशं तथा ॥ १,७१.६३ ॥ पट्टिशं भिन्दिपालं च खड्गमुद्गरतोमरान् । वामभागे करैः शंङ्खं खेटं पाशं च शूलकम् ॥ १,७१.६४ ॥ अग्निं च वरदं शक्तिं कुण्डिकां च ततः परम् । कार्मुकं तर्जनीमुद्रां गदां डमरुशूर्पकौ ॥ १,७१.६५ ॥ द्वाभ्यां कराभ्यां च रिपोर्जानुमस्तकपीडनम् । ऊर्द्ध्वीकृताभ्यां बाहुभ्यां आन्त्रमालाधरं विभुम् ॥ १,७१.६६ ॥ अधः स्थिताभ्यां बाहुभ्यां हिरण्यकविदारणम् । प्रियङ्करं च भक्तानां दैत्यानां च भयङ्करम् ॥ १,७१.६७ ॥ नृसिहं तं स्मरेदित्थं महामृत्युभयापहम् । एवं ध्यात्वा जपेन्मन्त्री सर्वकार्यार्थसिद्धये ॥ १,७१.६८ ॥ अथोच्यते ध्यानमन्यन्मुखरोगहरं शुभम् । स्वर्णवर्णसुपर्णस्थं विद्युन्मालासटान्वितम् ॥ १,७१.६९ ॥ कोटिपूर्णेन्दुवर्णं च सुमुखं त्र्यक्षिवीक्षणम् । पीतवस्त्रोरुभूषाढ्यं नृसिंहं शान्तविग्रहम् । चक्रशङ्खाभयवरान्दधतं करपल्लवैः ॥ १,७१.७० ॥ क्ष्वेडरोगादिशमनं स्वैर्ध्यानैः सुखन्दितम् । शत्रोः सेनानिरोधेन यत्नं कुर्याञ्च साधकम् ॥ १,७१.७१ ॥ अक्षकाष्टैरेधितेऽग्नौ विचिन्त्य रिपुमर्दनम् । देवं नृसिंहं संपूज्य कुसुमाद्युपचारकैः ॥ १,७१.७२ ॥ समूलमूलैर्जुंहुयाच्चरैर्दशशतं पृथक् । रिपुं खादन्निव जपेन्निर्दहन्निव तं क्षिपेत् ॥ १,७१.७३ ॥ हुत्वा सप्तदिनं मन्त्री सेनामिष्टां महीपतेः । प्रस्थापयेच्छुभे लग्ने परराष्ट्रजयेच्छया ॥ १,७१.७४ ॥ तस्याः पुरस्तान्नृहरिं निघ्नन्तं रिपुमण्डलम् । स्मृत्वा जपं प्रक्लर्वीत यावदायाति सा पुनः ॥ १,७१.७५ ॥ निर्जत्य निखिलाञ्छत्रून्सह वीरश्रियासुखात् । प्रीणयेन्मन्त्रिणं राजा विभवैः प्रीतमानसः ॥ १,७१.७६ ॥ गजाश्वरथरत्नैश्च ग्रामक्षेत्रधनादिभिः । यदि मन्त्री न तुष्येत तदानर्थो महीपतेः ॥ १,७१.७७ ॥ जायते तस्य राष्ट्रेषु प्राणेभ्योऽपि महाभयम् । अष्टोत्तरशतमूलमन्त्रमन्त्रितभस्मना ॥ १,७१.७८ ॥ नाशयेन्मूषिकालूतावृश्चिकाद्युत्थितं विषम् । लिप्ताङ्गः सर्वरोगैश्च मुच्यते नात्र संशयः ॥ १,७१.७९ ॥ सेवन्तीकुसुमैर्हुत्वा महतीं श्रियमाप्नुयात् । औदुम्बरसमिद्भिस्तु भवेद्धान्यसमृद्धिमान् ॥ १,७१.८० ॥ अपूपलक्षहोमे तु भवेद्वैश्रवणोपमः । क्रुद्धस्य सन्निधौ राज्ञो जपेदष्टोत्तरं शतम् ॥ १,७१.८१ ॥ सद्यो नैर्मल्यमाप्नोति प्रसादं चाधिगच्छति । कुन्दप्रसूनैरुदयं मोचाभिर्विघ्ननाशनम् ॥ १,७१.८२ ॥ तुलसीपत्रहोमेन महतीं कीर्तिमाप्नुयात् । शाल्युत्थसक्तुहोमेन वशयेदखिलं जगत् ॥ १,७१.८३ ॥ मधूकपुष्पैरिष्टं स्यात्स्तंभनं धात्रिखण्डकैः । दधिमध्वाज्यमिश्रां तु गुडूचीं चतुरङ्गुलाम् ॥ १,७१.८४ ॥ जुहुया दयुतं योऽसौ शतं जीवति रोगजित् । शनैश्चरदिनेऽश्वत्थं स्पृष्ट्वा चाष्टोत्तरं शतम् ॥ १,७१.८५ ॥ जपेज्जित्वासोऽपमृत्युं शतवर्षाणि जीवति । अथ ते संप्रवक्ष्यामि यन्त्रं त्रैलोक्यमोहनम् ॥ १,७१.८६ ॥ यस्य संधारणादेव भवेयुःसर्वसंपदः । श्वेतभूर्ज्जे लिखेत्पद्मं द्वात्रिंशत्सिंहसंयुतम् ॥ १,७१.८७ ॥ मध्ये सिंहे स्वबीजं च लिखेत्पूर्ववदेव तु । श्रीबीजेन तु तुसंवेद्य वलयत्रयसंयुतम् ॥ १,७१.८८ ॥ पाशाङ्कुशैश्च संवेष्ट्य पूजयेद्यन्त्रमुत्तमम् । त्रैलोक्यमोहनं नाम सर्वकामार्थसाधनम् ॥ १,७१.८९ ॥ चक्रराजं महाराजं सर्वचर्केश्वरेश्वरम् । धारणाज्जयमाप्नोति सत्यं सत्यं न संशयः ॥ १,७१.९० ॥ अथ यन्त्रान्तरं वक्ष्ये शृणु नारद सिद्धिदम् । अष्टारं विलिखेद्यन्त्रं श्लक्ष्णं कर्णिकया युतम् ॥ १,७१.९१ ॥ मूलमन्त्रं लिखेत्तत्र प्रणवेन समन्वितम् । एकाक्षरं नारसिंहं मध्ये चैव ससाध्यकम् ॥ १,७१.९२ ॥ जपेदष्टसहस्रं तु सूत्रेणावेष्ट्य तद्बहिः । स्वर्णरौप्यसुताम्रैश्च वेष्टयेत्क्रमतः सुधीः ॥ १,७१.९३ ॥ लाक्षया वेष्टितं कृत्वा पुनर्मन्त्रेण मन्त्रयेत् । कण्ठे भुजे शिखायां वा धारयेद्यन्त्रमुत्तमम् ॥ १,७१.९४ ॥ नरनारीनरेद्राश्च सर्वे स्युर्वशगा भुवि । दुष्टास्तं नैव बाधन्ते पिशाचोरगराक्षसाः ॥ १,७१.९५ ॥ यन्त्रराजप्रसादेन सर्वत्र जयमाप्नुयात् । अथान्यत्संप्रवक्ष्यामि यन्त्रं सर्ववशङ्करम् ॥ १,७१.९६ ॥ द्वादशारं महाचक्रं पूर्ववद्विलिखेत्सुधीः । मात्राद्वादशसंभिन्नदलेन विलिखेद्रुधः ॥ १,७१.९७ ॥ मध्ये मन्त्रं शक्तियुक्तं श्रीबीजेन तु वेष्टयेत । कालान्तकं नाम चक्रं सुरासुखशङ्करम् ॥ १,७१.९८ ॥ चक्रमुल्लेखयेद्भूर्जे सर्वशत्रुनिवारणम् । यस्य धारणमात्रेण सर्वत्र विजयी भवेत् ॥ १,७१.९९ ॥ अथ सर्वेष्टदं ज्वालामालिसंज्ञं वदाम्यहम् । बीजं हृद्भगवान्ङेंतो नरसिंहाय तत्परम् ॥ १,७१.१०० ॥ ज्वालिने मालिने दीप्तदंष्ट्राय अग्निने पदम् । त्राय सर्वादिरक्षोघ्नाय च नः सर्वभूपदम् ॥ १,७१.१०१ ॥ हरिर्विनाशनायान्ते सर्वज्वरविनाशनः । नामान्ते दहयुग्मं च पचद्वयमुदीरयेत् ॥ १,७१.१०२ ॥ रक्षयुग्मं च वर्मास्त्रठदूयान्तो ध्रुवादिकः । अष्टषष्ट्यक्षरैः प्रोक्तो ज्वालामाली मनूत्तमः ॥ १,७१.१०३ ॥ पुण्यादिकं तु पूर्वोक्तं त्रयोदशभिरक्षरैः । पङ्क्तिभी रुद्रासंख्याकैरष्टादशभिरक्षरैः ॥ १,७१.१०४ ॥ भानुभिः करणैर्मन्त्री वरैरङ्गानि कल्पयेत् । पूर्वोक्तरूपिणं ज्वालामालिन नृहरिं स्मरेत् ॥ १,७१.१०५ ॥ लक्षं जपो दशांशं च जुहुयात्कपिलाघृतैः । रौद्रापस्मारभूतादिनाशकोऽयं मनूत्तमः ॥ १,७१.१०६ ॥ प्राणो माया नृसिंहश्च सृष्टिर्ब्रह्मास्त्रमीरितः । षडक्षरो महामन्त्रः सर्वाभीष्टप्रदायकः ॥ १,७१.१०७ ॥ मुनिर्ब्रह्मा तथा छन्दः पङ्क्तिर्देवो नृकेसरी । षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत् ॥ १,७१.१०८ ॥ पूर्वोक्तेनैव विधिना ध्यानं पूजां समाचरेत् । सिद्धेन मनुनानेन सर्वसिद्धिर्भवेन्नृणाम् ॥ १,७१.१०९ ॥ रमाबीजादिकोऽनुष्टुप्त्रयस्त्रिंशार्णवान्मनुः । प्रजापतिर्मुनिश्च्छन्दोऽनुष्टुप्लक्ष्मीनृकेसरी ॥ १,७१.११० ॥ देवता चज पदैः सर्वेणाङ्गकल्पनमीरितम् । विन्यस्यैवं तु पञ्चाङ्गं स्वात्मरक्षां समाचरेत् ॥ १,७१.१११ ॥ संस्पृशन् दक्षिणं बाहुं शरभस्य मनुं जपेत् । प्रणवो हृच्छिवार्यन्ति महते शरभाय च ॥ १,७१.११२ ॥ वह्निप्रियान्तो मन्त्रस्तु रक्षार्थे समुदाहृतः । अथवा राममन्त्रान्ते परं क्षद्वितयं पठेत् ॥ १,७१.११३ ॥ अथवा केशवाद्यैस्तु रक्षां कुर्यात्प्रयत्नतः । केशवः पातु पादौ मे जङ्घे नारायणोऽवतु ॥ १,७१.११४ ॥ माधवो मे कटिं पातु गोविन्दो गुह्यमेव च । नाभिं विष्णुश्च मे पातु जठरं मधुसूदनः ॥ १,७१.११५ ॥ ऊरू त्रिविक्रमः पातु हृदयं पातु मे नरः । श्रीधरः पातु कण्ठं च हृषीकेशो मुखं मम ॥ १,७१.११६ ॥ पद्मनाभः स्तनौ पातु शीर्षं दामोदरोऽवतु । एवं विन्यस्य चाङ्गेषु जपकाले तु साधकः ॥ १,७१.११७ ॥ निर्भयो जायते भूतवेतालग्रहराक्षसात् । पुनर्न्यसेत्प्रयत्नेन ध्यानं कुर्वन्समाहितः ॥ १,७१.११८ ॥ पुरस्तात्केशवः पातुः चक्री जांबूनदप्रभः । पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः ॥ १,७१.११९ ॥ उर्द्ध्वमिन्दीवरश्यामो माधवस्तु गदाधरः । गिविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् ॥ १,७१.१२० ॥ उत्तरे हलधृग्विष्णुः पद्मकिञ्जल्कसन्निभः । आग्नेय्यामरविन्दाक्षो मुसलीमधुसूदनः ॥ १,७१.१२१ ॥ त्रिविक्रमः खड्गपाणिर्नैरृत्यां ज्वलनप्रभः । वायव्यां माधवो वज्री तरुणादित्यसन्निभः ॥ १,७१.१२२ ॥ ऐशान्यां पुण्डरीकाक्षः श्रीधरः पट्टिशायुधः । विद्युत्प्रभो हृषीकेश उर्द्धू पातु समुद्गरः ॥ १,७१.१२३ ॥ अधश्च पद्मनाभो मे सहस्रांशुसमप्रभेः । सर्वायुधः सर्वशक्तिः सर्वाद्यः सर्वतोमुखः ॥ १,७१.१२४ ॥ इन्द्रगोपप्रभः पायात्पाशहस्तोऽपराजितः । स बाह्याभ्यन्तरे देहमव्याद्दामो दरो हरिः ॥ १,७१.१२५ ॥ एवं सर्वत्र निश्छिद्रं नाम द्वादशपञ्जरम् । प्रविष्टोऽहं न मे किञ्चिद्भयमस्ति कदाचन ॥ १,७१.१२६ ॥ एवं रक्षां विधायाथ दुर्द्धर्षो जायते नरः । सर्वेषु नृहरेर्मन्त्रवर्गेष्वेवं विधिर्मतः ॥ १,७१.१२७ ॥ पूर्वोक्तविधिना सर्वं ध्यानपूजादिकं चरेत् । जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ १,७१.१२८ ॥ नमस्तेऽस्तु हृषीकेश महापुरुष ते नमः । इत्थं संप्रार्थ्य जप्त्वा च पटित्वा विसृजेद्विभुम् ॥ १,७१.१२९ ॥ एवं सिद्धे मनौ मन्त्री जायते सम्पदां पदम् । जयद्वयं श्रीनृसिंहेत्यष्टार्णोऽयं मनूत्तमः ॥ १,७१.१३० ॥ मुनिर्ब्रह्माथ गायत्री छन्दः प्रोक्तोऽस्य देवता । श्रीमाञ्जयनृसिंहस्तु सर्वाभीष्टप्रदायकः ॥ १,७१.१३१ ॥ सेंदुगोर्विदपूर्वेण वियता सेन्दुना पुनः । षड्वीर्घाढ्ये न कुर्वीत षडङ्गानि विशालधीः ॥ १,७१.१३२ ॥ ततो ध्यायेद्धृदि विभुं नृसिंहं चन्द्रशेखरम् ॥ १,७१.१३३ ॥ श्रीमन्नृकेसरितनो जगदेकबंन्धो श्रीनीलकण्ठ करुणार्णवे सामराज । वह्नीन्दुतीव्रकरनेत्र पिनाकपाणे शीतांशुशेखर रमेश्वर पाहि विष्णो ॥ १,७१.१३४ ॥ ध्यात्वैवं प्रपेल्लक्षाष्टकं मन्त्री दशांशतः । साज्येन पायसान्नेन जुहुयात्प्राग्वदर्चनम् ॥ १,७१.१३५ ॥ तारो माया स्वबीजान्ते कर्णोग्रं वीरमीरयेत् । महाविष्णु ततो ब्रूयाज्ज्वलन्तं सर्वतोमुखम् ॥ १,७१.१३६ ॥ स्फुरद्द्वयं प्रस्फुरेति द्वयं घोरपदं ततः । वदेद्धोरतरं ते तु तनुरूपं च ठद्वयम् ॥ १,७१.१३७ ॥ प्रचटद्वयमाभाष्य कहयुग्म च मद्वयम् । बन्धद्वयं घातयेति द्वयं वर्मास्त्रमीरयेत् ॥ १,७१.१३८ ॥ नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् । पञ्चाशीत्यक्षरो मन्त्रो भजतामिष्टदायकः ॥ १,७१.१३९ ॥ ऋषी ह्यघोरब्रह्मणौ तथा त्रिष्टुबनुष्टुभौ । छन्दसी च तथा घोरनृसिंहो देवता मतः ॥ १,७१.१४० ॥ ध्यानार्चनादिकं चास्य कुर्यादानुष्टुभं सुधीः । विशेषान्मन्त्रवर्योऽयं सर्वरक्षाकरो मतः ॥ १,७१.१४१ ॥ बीजं जययुगं पश्चान्नृसिंहेत्यष्टवर्णवान् । ऋषिः प्रजापतिश्चास्यानुष्टुप्छन्द उदाहृतम् ॥ १,७१.१४२ ॥ विदारणनृसिंहोऽस्य देवता परिकीर्तितः । जं बीजं हं तथा शक्तिर्विनियोगोऽखिलाप्तये ॥ १,७१.१४३ ॥ दीर्घाढ्येन नृसिंहेन षडङ्गन्यासमाचरेत् । रौद्रं ध्यायेन्नृसिंहं तु शत्रुवक्षो विदारणम् ॥ १,७१.१४४ ॥ नखदंष्ट्रायुधं भक्ताभयद श्रीनिकेतनम् । तप्तहाटककेशान्तज्वलप्तावकलोचनम् ॥ १,७१.१४५ ॥ वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते ।. मुनिर्ब्रह्मा समाख्यातोऽनुष्टुप्छन्दः समीरितः ॥ १,७१.१४६ ॥ देवतास्य रगदार्णस्य दिव्यपूर्वो नृकेसरी । पादैश्चतुर्भिः सर्वेण पञ्चाङ्गानि समाचरेत् ॥ १,७१.१४७ ॥ ध्यानपूजादिकं सर्वं प्राग्वत्प्रोक्तं मुनीश्वर । पूर्वोक्तानि च सर्वाणि कार्याण्यायान्ति सिद्धताम् ॥ १,७१.१४८ ॥ तारो नमो भगवते नरसिंहाय हृञ्च ते । जस्तेजसे आविराविर्भव वज्रनखान्ततः ॥ १,७१.१४९ ॥ व्रजदंष्ट्रेति कर्मान्ते त्वासयाक्रन्दयद्वयम् । तमो ग्रसद्वयं पश्चात्स्वाहान्ते चाभयं ततः ॥ १,७१.१५० ॥ आत्मन्यन्ते च भूयिष्टा ध्रुवो बीजान्तिमो मनुः । द्विषष्ट्यर्मोऽस्य मुन्यादि सर्वं पूर्ववदीरितम् ॥ १,७१.१५१ ॥ तारो नृसिंहबीजं च नमो भगवते ततः । नरसिंहाय तारश्च बीजमस्य यदा ततः ॥ १,७१.१५२ ॥ रूपाय तारः स्वर्बीजं कूर्मरूपाय तारकम् । बीजं वराहरूपाय तारो बीज नृसिंहतः ॥ १,७१.१५३ ॥ रूपाय तार स्वं बीजं वामनान्ते च रूपतः । पापध्रुवत्रयं बीजं रामाय निगमादितः ॥ १,७१.१५४ ॥ बीजं कृष्णाय तारान्ते बीजं च कल्किने ततः । जयद्वयं ततः शालग्रामान्ते च निवासिने ॥ १,७१.१५५ ॥ दिव्यसिंहाय ङेन्तः स्यात्स्वयंभूः पुरुषाय हृत् । तारः स्वं बीजमित्येष महासाम्राज्यदायकः ॥ १,७१.१५६ ॥ नृसिंहमन्त्रः खाङ्कार्णो मुनिरत्रिः प्रकीर्तितः । छन्दोऽतिजगती प्रोक्तं देवता कथिता मनोः ॥ १,७१.१५७ ॥ दशावतारो नृहरिं बीजं खं शक्तिरव्ययः । षडूदीर्घाढ्येन बीजेन कृत्वाङ्गानि च भावयेत् ॥ १,७१.१५८ ॥ अनेकचन्द्रप्रतिमो लक्ष्मीमुखकृतेक्षणः । दशावतारैः सहितस्तनोतु नृहरिः सुखम् ॥ १,७१.१५९ ॥ जपोऽयुतं दशांशेन होमः स्यात्पायसेन तु । प्रागुक्ते पूजयेत्पीठे मूर्तिसंकल्प्य मूलतः ॥ १,७१.१६० ॥ अङ्गान्यादौ च मत्स्याद्यान्दिग्दलेषु ततोर्ऽचयेत् । इन्द्राद्यानपि वज्राद्यान्सम्पूज्येष्टमवाप्नुयात् ॥ १,७१.१६१ ॥ सहस्रार्णं महामन्त्रं वक्ष्ये तन्त्रेषु गोपितम् । तारो माया रमा कामो बीजं क्रोधपदं ततः ॥ १,७१.१६२ ॥ मूर्ते नृसिंह शब्दान्ते महापुरुष ईरयेत् । प्रधानधर्माधर्मान्ते निगडेतिपदं वदेत् ॥ १,७१.१६३ ॥ निर्मोचनान्ते कालेति तततः पुरुष ईरयेत् । कालान्तकसदृक्तोयं स्वेश्वरान्ते सदृग्जलम् ॥ १,७१.१६४ ॥ श्रान्तान्ते तु निविष्टेति चैतन्यचित्सदा ततः । भासकान्ते तु कालाद्यतीतनित्योदितेति च ॥ १,७१.१६५ ॥ उदयास्तमयाक्रान्तमहाकारुणिकेति च । हृदयाब्जचतुश्चोक्ता दलान्ते तु निविष्टितः ॥ १,७१.१६६ ॥ चैतन्यात्मंश्चतुरामन्द्वादशात्मंस्ततः परम् । चतुर्विंशात्मन्नन्ते तु पञ्चविंशात्मन्नित्यपि ॥ १,७१.१६७ ॥ बको हरिः सहस्रान्ते मूर्ते एह्येहि शब्दतः । भगवन्नृसिंहपुरुष क्रोधेश्वर रसा सह ॥ १,७१.१६८ ॥ स्रवन्दितान्ते पादेति कल्पान्ताग्निसहस्र च । कोट्याभान्ते महादेव निकायदशशब्दतः ॥ १,७१.१६९ ॥ शतयज्ञातलं ज्ञेयं ततश्चामलयुग्मकम् । पिङ्गलेक्षणसटादष्ट्रा दंष्ट्रायुध नखायुध ॥ १,७१.१७० ॥ दानवेन्द्रान्तकावह्निणशोणितपदं ततः । सं सक्तिविग्रहान्ते तु भूतापस्मारयातुधान् ॥ १,७१.१७१ ॥ सुरासुरवन्द्यमानपादपङ्कजशब्दतः । भगवन्व्योमचक्रेश्वरान्ते तु प्रभवाप्यय ॥ १,७१.१७२ ॥ रूपेणोत्तिष्ट चोत्तिष्ट अविद्यानिचयं दह । दह ज्ञानैश्वर्यमन्ते प्रकाशययुगं ततः ॥ १,७१.१७३ ॥ ओं सर्वज्ञ अरोषान्ते जंभाजृंभ्यवतारकम् । सत्यपुरुष शब्दान्ते सदसन्मध्य ईरयेत् ॥ १,७१.१७४ ॥ निविष्टं मम दुःस्वप्नभयं निगडशब्दतः । भयं कान्तारशब्दान्ते भयं विषपदात्ततः ॥ १,७१.१७५ ॥ ज्वरान्ते डाकिनी कृत्याध्वरेवतीभयं ततः । अशन्यन्ते भयं दुर्भिक्षभयं मारीशब्दतः ॥ १,७१.१७६ ॥ भयं मारीचशब्दान्ते भयं छायापदं ततः । स्कन्दापस्मारशब्दान्ते भयं चौरभयं ततः ॥ १,७१.१७७ ॥ जलस्वप्नाग्निभयं गजसिंहभुजङ्गगतः । भयं जन्मजरान्ते मरणादिशब्दमीरयेत् ॥ १,७१.१७८ ॥ भयं निर्मोचययुगं प्रशमययुगं ततः । ज्ञेयरूपधारणान्ते नृसिंहबृहत्सामतः ॥ १,७१.१७९ ॥ पुरुषान्ते सर्वभयनिवारणपदं ततः । अष्टाष्टकं चतुःषष्टि चेटिकाभयमीरयेत् ॥ १,७१.१८० ॥ विद्यावृतस्त्रयस्त्रिंशद्देवताकोटिशब्दतः । नमितान्ते पदपदात्पङ्कजान्वित ईरयेत् ॥ १,७१.१८१ ॥ सह स्रवदनान्ते तु सहस्रोदर संवदेत् । सहस्रेक्षणशब्दान्ते सहस्रपादमीरयेत् ॥ १,७१.१८२ ॥ सहस्रभुज संप्रोच्य सहस्रजिह्व संवदेत् । सहस्तान्ते ललाटेति सहस्रायुधतो धरात् ॥ १,७१.१८३ ॥ तमःप्रकाशक पुरमथनान्ते तु सर्व च । मन्त्रेराजेश्वरपदाद्विहायसगतिप्रद ॥ १,७१.१८४ ॥ पातालगतिप्रदान्ते यन्त्रमर्द्दन ईरयेत् । घोराट्टहासहसितविश्वावासपदं ततः ॥ १,७१.१८५ ॥ वासुदेव ततोऽक्रूर ततो हयमुखेति च । परमहंस विश्वेश विश्वान्ते तु विडंबन ॥ १,७१.१८६ ॥ निविष्टान्ते ततःप्रदुर्भावकारक ईरयेत् । हृषीकेश च स्वच्छन्द निःशेषजीव विन्यसेत् ॥ १,७१.१८७ ॥ ग्रासकान्ते महा पश्चात्पिशितासृगितीरयेत् । लंपटान्ते खेचरीति सिद्ध्यतें तु प्रदायक ॥ १,७१.१८८ ॥ अजेयाव्यय अव्यक्त ब्रह्माण्डोदर इत्यपि । ततो ब्रह्मसहस्रान्ते कोटिस्रग्रुण्डशब्दतः ॥ १,७१.१८९ ॥ माल पण्डितमुण्डेति मत्स्य कूर्मं ततः परम् । वराहान्ते नृसिंहेति वामनान्ते समीरयेत् ॥ १,७१.१९० ॥ त्रैलोक्याक्रमणान्ते तु पादशालिक ईरयेत् । रामत्रय ततो विष्णुरूपान्ते धर एव च ॥ १,७१.१९१ ॥ तत्त्वत्रयान्ते प्रणवाधारतस्तच्छिखां पदम् । निविष्टवह्निजायान्ते स्वधा चैव ततो वषट् ॥ १,७१.१९२ ॥ नेत्र वर्मास्त्रमुञ्चार्य्य प्राणाधार इतरियेत् । आदिदेवपदात्प्राणापानपश्चान्निविष्टितः ॥ १,७१.१९३ ॥ पाञ्चरात्रिक दितिज विनिधनान्ते करेति च । महामाया अमोघान्ते दर्यं दैत्यन्द्रशब्दतः ॥ १,७१.१९४ ॥ दर्यान्ते दलनेत्युक्ता तेजोराशिन् ध्रुवं स्मरः । तेजस्वरान्ते पुरुषपंङेंते सत्यपूरुष ॥ १,७१.१९५ ॥ अस्त्रतारोऽच्युतास्त्रं च तारो वाचा सुदेव फट् । तारमायामूर्तेः फट्वः कामः स्वरादिमः ॥ १,७१.१९६ ॥ मूर्तेस्त्रमव्ययोबीजं विश्वमूर्तेस्त्रिमव्ययः । मायाविश्वात्मने षट्च तारः सौचं तुरात्मने ॥ १,७१.१९७ ॥ फट्तारोहं विश्वरूपिन्नस्त्रं च तदनन्तरम् । तारौह्नैपरमान्ते तु ह्रंसफट्प्रणवस्ततः ॥ १,७१.१९८ ॥ ह्रः हिरणअयगर्भरूप धारणान्ते च फट्ध्रुवः । ह्रैं अनौपम्यरूपधारिणास्त्रं ध्रुवस्ततः ॥ १,७१.१९९ ॥ क्षैं नृसिंहरूपधारिनों क्लं श्लश्च स्वरादिकः । ष्टाङ्गविन्यासविन्य स्तमूर्तिधारिंस्ततश्च फट् ॥ १,७१.२०० ॥ ह्रौ निसर्गसिद्ध्यैकरूपधारिंस्ततश्च फट् । तारो वर्मत्रयं संकरं वं चामुकमस्तकम् ॥ १,७१.२०१ ॥ खण्डद्वयं खाद येतिद्वयं क्लीं साध्यमानय । द्वयं ततो महात्मन्स्यान्सम्यग्दर्शययुग्मकम् ॥ १,७१.२०२ ॥ षड्दीर्घाड्यां स्वबीजं च क्षपितान्ते तु कल्मष । उत्तरायं द्वयं पञ्चबाणबीजानि वोञ्चरेत् ॥ १,७१.२०३ ॥ नृसिंहान्ते ततो ज्वालात्मने स्वाहा समीरयेत् । नृसिंहान्ते ततः कालात्मने स्वाहा ध्रुवस्ततः ॥ १,७१.२०४ ॥ खबीजं कामबीजं च लक्ष्मीबीजद्वयं ततः । मायातारान्तिमो मन्त्रः सहस्राक्षरसंमितः ॥ १,७१.२०५ ॥ कपिलोऽस्य मुनिश्छन्दो जगती देवता पुनः । श्रीलक्ष्मीर्नृहरिर्बीजं क्षैं शक्तिर्वह्निवल्लभा ॥ १,७१.२०६ ॥ श्वेतो वर्ण उदात्तश्च स्वरः प्रोक्तो मनीषिभिः । क्षेत्रं च परमात्मा तु विनियोगोऽखिलात्पये ॥ १,७१.२०७ ॥ क्षः सहस्रबाहवेन्ते सहस्रायुधधराय च । नृसिंहान्तं वह्निजायास्त्रायफटू मन्त्र ईरितः ॥ १,७१.२०८ ॥ अनेन करशुद्धिं च कृत्वाङ्गानि समाचरेत् । तारः क्षां च सहस्रान्ते क्षरशब्दाद्विजृंभितम् ॥ १,७१.२०९ ॥ नृसिंहायाग्निजायान्तो हृदये मनुरीरितः । मारः क्षीं च महातेनुं प्रभान्ते विकरेति च ॥ १,७१.२१० ॥ नृसिंहायाग्निजायान्ते शिरोमन्त्रः प्रकीर्तितः । तारः क्षूं तप्तयंहायश्चादृक्केशान्त ईरयेत् ॥ १,७१.२११ ॥ ज्वलत्यावकलो मूर्मो दीर्घा वज्राधिकेति च । नख स्पर्शाद्दिव्यसिंह नमोऽस्तु भगवन् हरिः ॥ १,७१.२१२ ॥ महाध्वस्त जगद्रूप नृसिंहाय द्वयन्द्वयम् । अनेन च शिखा प्रोक्ता कवचं तदनन्तरम् ॥ १,७१.२१३ ॥ तारः क्षैं च सुवर्णं ते मदमत्तपदं ततः । विह्वलितनृसिंहाय स्वाहान्तं कवचं स्मृतम् ॥ १,७१.२१४ ॥ तारः र्क्षौ च सहस्राक्ष विश्वस्राक्ष विश्वरूपपदं वदेत् । धारणेग्नि प्रियान्तोऽयं नेत्रमन्त्रः प्रकीर्तितः ॥ १,७१.२१५ ॥ तारो क्षश्च सहस्रान्ते वारावेपदमीरयेत् । सहस्रान्ते युधायाथं नृसिंहायाग्निसुंदरी ॥ १,७१.२१६ ॥ अस्त्रमन्त्रः समाख्यातस्ततो ध्यायेन्नृकेसरी । उद्यदर्कसहस्राभं त्रीक्षणं भीसभूषणम् ॥ १,७१.२१७ ॥ सुतीक्ष्णाग्रभुजो दण्डैर्दैत्यदारणकं स्मरेत् । एवं ध्यात्वा जपेन्मन्त्री सहस्रं पायेन चग ॥ १,७१.२१८ ॥ आज्यप्लुतेन जुहुयात्सम्यक्सिद्धो भवेन्मनुः । प्रागुक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः ॥ १,७१.२१९ ॥ संपूज्य नृहरिं पश्चादादावङ्गानि पूजयेत् । चक्र शङ्खं च पाशं वाङ्कुशं कुलिशमेव च ॥ १,७१.२२० ॥ गदाकृपाणिक्ष्वेडानि दलेषु परिपूजयेत् । लोकेशानपि वज्राद्यान्पूजयेत्तदनन्तरम् ॥ १,७१.२२१ ॥ एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति । भस्माभिमन्त्रितं कृत्वा ग्रहग्रस्तं विलेपयेत् ॥ १,७१.२२२ ॥ भस्मसंलेपनादेव सर्वग्रहविनाशनम् । अनेनैव विधानेन यक्षराक्षसकिन्नरः ॥ १,७१.२२३ ॥ भूतप्रेतपिशाचाश्च नश्यन्त्येव न संशयः । पराभिचारकृत्यानि मनुनानेन मन्त्रितम् ॥ १,७१.२२४ ॥ भस्म संलेपयेत्सद्यो दुराधर्षो भवेन्नरः । सुदिने स्थापयेत्कुम्भे सर्वतोभद्रमण्डले ॥ १,७१.२२५ ॥ तीर्थतोयेन संपूर्य जपेदष्टोत्तरं शतम् । तेनाभिषिक्तो मनुजः सर्वापत्तिं तरेद्ध्रुवम् ॥ १,७१.२२६ ॥ किं बहूक्तेन सर्वेष्टदायकोऽयं मनूत्तमः । वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि । तन्नो नृसिंहः शब्दान्ते वदेंश्चैव प्रचोदयात् ॥ १,७१.२२७ ॥ एषा नृसिंहगायत्री सर्वाभीष्टप्रदायिनी । एतस्याः स्मरणादेव सर्वपापक्षयो भवेत् ॥ १,७१.२२८ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे नृसिंहोपासनामन्त्रगायत्र्यादिनिरूपणं नामैकसप्ततितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच प्रणवो हृदयं विष्णुर्नेन्तः सुरपतिस्तथा । महाबलाय स्वाहान्तो मन्त्रो वसुधराक्षरः ॥ १,७२.१ ॥ मुनिरिन्दुर्विराट्छन्दो देवता दधिवामनः । तारो बीजं तथा शक्तिर्वह्निजाया प्रकीर्तिता ॥ १,७२.२ ॥ चन्द्राक्षिरामबाणेंषु नेत्रसंख्यैर्मनूद्भवैः । वर्णैः षडङ्गं कृत्वा च मूर्ध्नि भाले च नेत्रयोः ॥ १,७२.३ ॥ कर्णयोर्घ्राणयोरोष्टतालुकण्ठभुजेषु च । पृष्टे हृद्युदरे नाभौ गुह्ये चोरुस्थले पुनः ॥ १,७२.४ ॥ जानुद्वयं जङ्घयोश्च पादयोर्विन्यसेत्क्रमात् । अष्टादशैव मन्त्रोत्थास्ततो देवं विचिन्तयेत् ॥ १,७२.५ ॥ मुक्तागौरं रत्नभूषं चन्द्रस्थं भृङ्गसन्निभैः । अलकैर्विलसद्वक्त्रं कुम्भं शुद्धांबुपूरितम् ॥ १,७२.६ ॥ दध्यन्नपूर्णचषकं दोर्भ्यां संदधनं भजेत् । लक्षत्रयं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः ॥ १,७२.७ ॥ पायसान्नैः प्रजुहुयाद्दध्यन्नेन यथाविधि । चन्द्रान्ते कल्पिते पीठे पूर्वोक्तें पूजयेञ्च तम् ॥ १,७२.८ ॥ संकल्पमूर्तिमूलेन संपूज्य च विधानतः । केसरेषु षडङ्गानि संपूज्य दिग्दलेषु च ॥ १,७२.९ ॥ वासुदेवं संकर्षणं प्रद्युम्नमनिरुद्धकम् । कोणपत्रेषु शान्तिं च श्रियं सरस्वतीं रतिम् ॥ १,७२.१० ॥ ध्वजं च वैनतेयं च कौस्तुभं वनमालिकम् । शङ्खं चक्रं गदां शार्ङ्गं दलेष्वष्टसु पूजयेत् ॥ १,७२.११ ॥ दलाग्रेषु केशवादीन्दिक्पालांस्तदनन्तरम् । तदस्त्राणि च सम्पूज्य गजानष्टौ समर्चयेत् ॥ १,७२.१२ ॥ ऐरावतः पुण्डरीको वामनः कुमुदाएंऽजनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ १,७२.१३ ॥ करिण्योऽभ्रमुकपिलोपिङ्गलानुपमाः क्रमात् । ताम्रकर्णी शुभ्रदन्ती चाङ्गना ह्यञ्जना वती ॥ १,७२.१४ ॥ एवमाराधितो मन्त्री दद्यादिष्टानि मन्त्रिणे । श्रीकामः पायसाज्येन सहस्रं जुहुयात्सुधीः ॥ १,७२.१५ ॥ महतीं श्रियमाप्नोति धान्याप्तिर्धान्य होमतः । शतपुष्पासमुत्थैश्च बीजैर्हुत्वा सहस्रतः ॥ १,७२.१६ ॥ महाभयं नाशयेद्धि नात्र कार्या विचारणा । दद्ध्योदनेन शुद्धेन हुत्वा मुच्यते दुर्गतेः ॥ १,७२.१७ ॥ ध्यात्वा त्रैविक्रमं रूपं जपेन्मन्त्रं समाहितः । कारागृहाद्भवन्मुक्तो बद्धो मन्त्रप्रभावतः ॥ १,७२.१८ ॥ भित्तौ संपाद्य देवेशं फलके वा प्रपूजयेत् । नित्यं सुगन्धकुसुमैर्महतीं श्रियमाप्नुयात् ॥ १,७२.१९ ॥ हुत्वा रक्तोत्पलैर्मन्त्री वशयेत्सकलं जगत् । अन्नाज्यैर्जुहुयान्नित्यमष्टाविंशतिसंख्यया ॥ १,७२.२० ॥ सिताज्यान्नं च विधिवत्प्राप्नुयादन्नमक्षयम् । अपूपैः षड्रसोपेतैर्हुनेद्वसुसहस्रकम् ॥ १,७२.२१ ॥ अलक्ष्मीं च पराभूय महतीं श्रियमाप्नुयात् । जुहुयादयुतं मन्त्री दध्यन्नं च सितान्वितम् ॥ १,७२.२२ ॥ यत्र यत्र वसेत्सोऽपि तत्रान्नगिरिमाप्नुयात् । पद्माक्षरैर्युतं बिल्वान्तिकस्थो जुहुयान्नरः ॥ १,७२.२३ ॥ महालक्ष्मीं स लभते तत्र तत्र न संशयः । जुहुयात्पायसैर्लक्षं वाचस्पतिसमो भवेत् ॥ १,७२.२४ ॥ लक्षं जप्त्वा तद्दशांशं पुत्रजीवफलैर्हुनेत् । तत्काष्टैरेधिते वह्नौ श्रेष्ठं पुत्रमवाप्नुयात् ॥ १,७२.२५ ॥ ससाध्यतारं विलसत्कर्णिकं च सुवर्णकैः । विलसत्केसरं मन्त्राक्षरद्वन्द्वाष्टपत्रकम् ॥ १,७२.२६ ॥ शेषयुग्मार्णान्त्यपत्रं द्वादशाक्षरवेष्टितम् । तद्बहिर्मातृकावर्णैर्यन्त्रं सम्पत्प्रदं नृणाम् ॥ १,७२.२७ ॥ रक्तं त्रिविक्रमं ध्यात्वा प्रसूनै रक्तवर्णकैः । जुहुयादयुतं मन्त्री सर्वत्र विजयी भवेत् ॥ १,७२.२८ ॥ ध्यायेञ्चन्द्रासनगतं पद्मानामयुतं हुनेत् । लभेदकण्टकं राज्यं सर्वलक्षणसंयुतम् ॥ १,७२.२९ ॥ हुत्वा लवङ्गैर्मध्वाक्तैरपामार्गदलैस्तु वा । अयुतं साध्यनामाढ्यं स वश्यो जायते ध्रुवम् ॥ १,७२.३० ॥ अष्टोत्तरशतं हुत्वा ह्यपामार्गदलैः शुभैः । तावज्जप्त्वा च सप्ताहान्महारोगात्प्रमुच्यते ॥ १,७२.३१ ॥ उहिरत्पदमाभाष्य प्रणवोहीय शब्दतः । सर्ववार्गीश्वरेत्यन्ते प्रवदेदीश्वरेत्यथ ॥ १,७२.३२ ॥ सर्ववेदमयाचिन्त्यपदान्ते सर्वमीरयेत् । बोधयद्वितवान्तोऽयं मन्त्रस्तारादिरीरितः ॥ १,७२.३३ ॥ ऋषिर्ब्रह्मास्य निर्दिष्टश्छन्दोऽनुष्टुबुदाहृतम् । देवता स्याद्धयग्रीवो वागैश्वर्यप्रदो विभुः ॥ १,७२.३४ ॥ तारेण पादैर्मन्त्रस्य पञ्चाङ्गानि प्रकल्पयेत् । तुषाराद्रिसमच्छायं तुलसीदामभूषितम् ॥ १,७२.३५ ॥ तुरङ्गवदनं वन्दे तुङ्गसारस्वतः पदम् । ध्यात्वैवं प्रजपेन्मन्त्रमयुतं तद्दशांशतः ॥ १,७२.३६ ॥ मध्वक्तैः पायसैर्हुत्वा विमलादिसमन्विते । पूजयेद्वेष्णवे पीठे मूर्तिं संकल्प्य मूलतः ॥ १,७२.३७ ॥ कर्णिकायां चतुर्दिक्षु यजेत्पूर्वादितः क्रमात् । सनन्दनं च सनकं श्रियं च पृथिवीं तथा ॥ १,७२.३८ ॥ तद्वहिर्दिक्षु वेदाश्च षट्कोणेषु ततोर्ऽचयेत् । निरुक्तं ज्योतिषं पश्चाद्यजेद्व्याकरणं ततः ॥ १,७२.३९ ॥ कल्पं शिक्षां च छन्दांसि वेदाङ्गानि त्विमानि वै । ततोऽष्टदलमूले तु मातरोऽष्टौ समर्चयेत् ॥ १,७२.४० ॥ वक्रतुण्डादिकानष्टो दलमध्ये प्रपूजयेत् । दलाग्रेष्यर्चयेत्पश्चात्साधकश्चाष्टभैरवान् ॥ १,७२.४१ ॥ असिताङ्गं रुरुं चैव भीषणं रक्तकनेत्रकम् । बटुकं कालदमनं दन्तुरं विकटं तथा ॥ १,७२.४२ ॥ तद्बहिः षोडशदलेष्ववतारान्हरेर्दश । शङ्खं चक्रं गदां पद्मं नन्दकं शार्ङ्गमेव च ॥ १,७२.४३ ॥ तद्बहिर्भूगृहे शक्रमुखान्दश दिगीश्वरान् । वज्राद्यांस्तद्बहिश्चेष्ट्वाद्वारेषु च ततः क्रमात् ॥ १,७२.४४ ॥ महागणपतिं दुर्गां क्षेत्रेशं बटुकं तथा । समस्तप्रकटाद्याश्च योगिन्यस्तद्बहिर्भवेत् ॥ १,७२.४५ ॥ तद्बहिः सप्त नद्यश्च तद्बाह्ये तु ग्रहान्नव । तद्बाह्ये पर्वतानष्टौ नक्षत्राणि च तद्बहिः ॥ १,७२.४६ ॥ एवं पञ्चदशावृत्त्या संपूज्य तुरगाननम् । वागीश्वरसमो वाचि धनैर्धनपतिर्भवेत् ॥ १,७२.४७ ॥ एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति । अष्टोत्तरसहस्रं तु शुद्धं वार्यभिमन्त्रितम् ॥ १,७२.४८ ॥ बीजेन मासमात्रं यः पिबेद्धीमान् जितन्द्रियः । जन्ममूकोऽपि स नरो वाक्सिद्धिं लभते ध्रुवम् ॥ १,७२.४९ ॥ वियद्भुगुस्थमर्धीराबिन्दुमद्बीजमीरितम् । चन्द्रसूर्योपरागे तु पात्रे रुक्ममये क्षिपेत् ॥ १,७२.५० ॥ दुग्धं वचां ततो मन्त्री कण्ठमात्रोदके स्थितः । स्पर्शाद्विमोक्षपर्यन्तं प्रजपेन्मन्त्रमादरात् ॥ १,७२.५१ ॥ पिबेत्तत्सर्वमचिरात्तस्य सारस्वतं भवेत् । ज्योतिष्मतीलताबीजं दिनेष्वेकैकवर्द्धितम् ॥ १,७२.५२ ॥ अष्टोत्तरशतं यावद्भक्षयेदभिमन्त्रितम् । सरस्वत्यवतारोऽसौ सत्यं स्याद्भुवि मानवः ॥ १,७२.५३ ॥ किर्ं बहूक्तेन विप्रेन्द्र मनोरस्य प्रसादतः । सर्ववेदागमादीनां व्याख्याता ज्ञानवान् भवेत् ॥ १,७२.५४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने सनत्कुमारविभागे तृतीयपादे हयग्रीवोपासनानिरूपणं नाम द्विसप्ततितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथ रामस्य मनवो वक्ष्यन्ते सिद्धिदायाकाः । येषामाराधनान्मर्त्यास्तरन्ति भवसागरम् ॥ १,७३.१ ॥ सर्वेषु मन्त्रवर्येषु श्रेष्ठं वैष्णवमुच्यते । गाणपत्येषु सौरेषु शाक्तशैवेष्वभीष्टदम् ॥ १,७३.२ ॥ वैष्णवेष्वपि मन्त्रेषु राममन्त्राः फलाधिकाः । गाणपत्यादिमन्त्रेभ्यः कोटिकोटिगुणाधिकाः ॥ १,७३.३ ॥ विष्णुशय्यास्थितो वह्निरिन्दुभूषितमस्तकः । रामाय हृदयान्तोऽयं महाघौधविनाशनः ॥ १,७३.४ ॥ सर्वेषु राममन्त्रषु ह्यतिश्रेष्ठः षडक्षरः । ब्रह्महत्यासहस्राणि ज्ञाताज्ञातकृतानि च ॥ १,७३.५ ॥ स्वर्णस्तेय सुरापानगुरुतल्पायुतानि च । कोटिकोटिसहस्राणि ह्युपपापानि यानि वै ॥ १,७३.६ ॥ मन्त्रस्योञ्चारणात्सद्यो लयं यान्ति न संशयः । ब्रह्मा मुनिः स्याद्गायत्री छन्दो रामश्च देवता ॥ १,७३.७ ॥ आद्यं बीजं च हृच्छक्तिर्विनियोगोऽखिलाप्तये । षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत् ॥ १,७३.८ ॥ ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्योर्गुह्यपादयोः । मन्त्रवर्णान्क्रमान्न्यस्य केशवादीन्प्रविन्यसेत् ॥ १,७३.९ ॥ पीठन्यासादिकं कृत्वा ध्यायेद्धृदि रघूत्तमम् । कालांभोधरकान्तं च वीरा सनसमास्थितम् ॥ १,७३.१० ॥ ज्ञानमुद्रां दक्षहस्ते दधतं जानुनीतरम् । सरोरुहकरां सीतां विद्युदाभां च पार्श्वगाम् ॥ १,७३.११ ॥ पश्यन्तीं रामवक्राब्जं विविधाकल्पभूषिताम् । ध्यात्वैवं प्रजपेद्वर्णलक्षं मन्त्री दशांशतः ॥ १,७३.१२ ॥ कमलैर्जुहुयाद्वह्नौ ब्राह्मणान्भोजयेत्ततः । पूजयेद्वैष्णवे पीठे विमलादिसमन्विते ॥ १,७३.१३ ॥ मूर्तिं मूलेन संकल्प्य तस्यामावाह्य साधकः । सीतां वामे समासीनां तन्मन्त्रेण प्रपूजयेत् ॥ १,७३.१४ ॥ रमासीतापदं ङेंतं द्विठान्तो जानकीमनुः । अग्रेः शार्ङ्गं च सम्पूज्य शरान्पार्श्वद्वयेर्ऽचयेत् ॥ १,७३.१५ ॥ केशरेषु षडङ्गानि पत्रेष्वेतान्समर्चयेत् । हनुमन्तं च सुग्रीवं भरतं सबिभीषणम् ॥ १,७३.१६ ॥ लक्ष्मणाङ्गदशत्रुघ्नान् जांबवन्तं क्रमात्पुनः । वाचयन्तं हनूमन्तग्रतो धृतपुस्तकम् ॥ १,७३.१७ ॥ यजेद्भरतशत्रुघ्नौ पार्श्वयोर्धृतचामरौ । धृतातपत्रं हस्ताभ्यां लक्ष्मणं पृष्टतोर्ऽचयेत् ॥ १,७३.१८ ॥ ततोऽष्टपत्रे सृष्टिं च जपन्तं विजयं तथा । सुराष्ट्रं राष्ट्रपालं च अकोपं धर्मपालकम् ॥ १,७३.१९ ॥ सुमन्तं चेति सम्पूज्य लोके शानायुधैर्युतान् । एवं रामं समाराध्य जीवन्मुक्तः प्रजायते ॥ १,७३.२० ॥ चन्दनाक्तैः प्रजुहुयाज्जातीपुष्पैः समाहितः । राजवश्याय कमलैर्धनधान्यादिसिद्धये ॥ १,७३.२१ ॥ लक्ष्मीकामः प्रजुहुयात्प्रसूनैर्विल्वसंभवैः । आज्याक्तैर्नीलकमलैर्वशयेदखिलं जगत् ॥ १,७३.२२ ॥ घृताक्तशतवर्वीभिर्दीर्घायुश्च निरामयः । रक्तोत्पलानां होमेन धनं प्राप्नोति वाञ्छितम् ॥ १,७३.२३ ॥ पालाशकुसुमैर्हुत्वा मेधावी जायते नरः । तज्जप्तांभः पिबेत्प्रातर्वत्सरात्कविराड्भवेत् ॥ १,७३.२४ ॥ तन्मन्त्रितान्नं भुञ्जीतमहारोगप्रशान्तये । रोगोक्तौषधहोमेन तद्रोगान्मुच्यते क्षणाम् ॥ १,७३.२५ ॥ नदीतीरे च गोष्ठे वा जपेल्लक्षं पयोब्रतः । पायसेनाज्ययुक्तेन हुत्वा विद्यानिधिर्भवेत् ॥ १,७३.२६ ॥ परिक्षीणाधिपत्यो यः शाकाहारो जलान्तरे । जपेल्लक्षं च जुहुयाद्विल्वपुष्पैर्दशांशतः ॥ १,७३.२७ ॥ तदैव पुनराप्नोति स्वाधिपत्यं न संशयः । उपोष्य गङ्गातीरान्ते स्थित्वा लक्षं जपेन्नरः ॥ १,७३.२८ ॥ दशांशं कमलैर्हुत्वा विल्वोत्थैर्वा प्रसूनकैः । मधुरत्रयसंयुक्तैरादज्यश्रियमवाप्नुयात् ॥ १,७३.२९ ॥ मार्गमासे जले स्थित्वा कन्दमूलफलाशनः । लक्षं जप्त्वा दशांशेन पायसैर्जुहुयाद्वसौ ॥ १,७३.३० ॥ श्रीरामचन्द्रसदृशः पुत्रः पौत्रोऽपि जायते । अन्येऽपि बहवः संति प्रयोगामन्त्रराजके ॥ १,७३.३१ ॥ किन्तु प्रयोगकर्तृआणां परलोको न विद्यते । षट्कोणं वसुपत्रं च तद्बाह्यार्कदलं लिखेत् ॥ १,७३.३२ ॥ षट्कोणेषु षडर्णानि मन्त्रस्य विलिखेद्बुधः । अष्टपत्रे तथाष्टार्णांल्लिखेत्प्रणवगर्भितान् ॥ १,७३.३३ ॥ कामबीजं रविदले मध्ये मन्त्रावृताभिधाम् । सुदर्शनावृतं बाह्ये दिक्षु युग्मावृतं तथा ॥ १,७३.३४ ॥ वज्रोल्लसद्भूमिगेहं कन्दर्पाङ्कुशपाशकैः । भूम्या च विलसत्कोणं यन्त्रराजमिदं स्मृतम् ॥ १,७३.३५ ॥ भूर्जेऽष्टगन्धैः संलिख्य पूजयेदुक्तवर्त्मना । षट्कोणेषु दलार्काब्जान्यावेष्टवृत्तयुग्मतः ॥ १,७३.३६ ॥ केशरेष्वष्टपत्रस्य स्वरद्वन्द्वं लिखेद्बुधः । बहिस्तु मातृकां चैव मन्त्रं प्राणनिधयनम ॥ १,७३.३७ ॥ यन्त्रमेतच्छुभे घस्रे कण्ठे वा दक्षिणे भुजे । मूर्ध्नि वा धारयेन्मन्त्री सर्वपापैः प्रमुच्यते ॥ १,७३.३८ ॥ सुदिने शुभनक्षत्रे सुदेशे शल्यवर्जिते । वश्याकर्षणविद्वेषद्रावणोच्चाटनादिकम् ॥ १,७३.३९ ॥ पुष्यद्वयं तथादित्यार्द्रामघासु यथाक्रमम् । दूर्वोत्था लेखनी वश्ये तथाकृष्टौ करञ्जजा ॥ १,७३.४० ॥ नरास्थिजा मारणे तु स्तंभने राजवृक्षजा । शान्तिपुष्टष्ट्यायुषां सिद्धयै सर्वापच्छमनाय च ॥ १,७३.४१ ॥ विभ्रमोत्पादने चैव शिलायां विलिखेद्बुधः । खरचर्मणि विद्वेषे ध्वजे तूञ्चाटनाय च ॥ १,७३.४२ ॥ शत्रूणां ज्वरसन्तापशोकमारणकर्मणि । पीतवस्रं लिखित्वा तु साधयेत्साधकोत्तमः ॥ १,७३.४३ ॥ वश्याकृष्टौ चाष्टगन्धैः सम्पूज्य च यथाविधि । चिताङ्गारादिना चैव ताडनोच्चाटनादिकम् ॥ १,७३.४४ ॥ विषार्कक्षीरयोगेन मारणं भवति ध्रुवम् । लिखित्वैवं यन्त्रराजं गन्धपुष्पादिभिर्यजेत् ॥ १,७३.४५ ॥ त्रिलोहवेष्टितं कृत्वा धारयेत्साधकोत्तमः । बीजं रामाय ठद्वन्द्वं मन्त्रोऽयं रसवर्णकः ॥ १,७३.४६ ॥ महासुदर्शनमनुः कथ्यते सिद्धिदायकः । सुदर्शनमहाशब्दाच्चक्रराजेश्वरेति च ॥ १,७३.४७ ॥ दुष्टान्तकदुष्टभयानकदुष्टभयङ्करम् । छिन्धिद्वयं भिन्धियुग्मं विदारययुगं ततः ॥ १,७३.४८ ॥ परमन्त्रान् ग्रसद्वन्द्वं भक्षयद्वितयं ततः । त्रासयद्वितयं वर्मास्त्राग्निजायान्तिमो मनुः ॥ १,७३.४९ ॥ अष्टषष्ट्यक्षरः प्रोक्तो यन्त्रसंवेष्टने त्वयम् । तारो हृद्भगवान् ङेंतो ङेंतो हि रघुनन्दनः ॥ १,७३.५० ॥ रक्षोघ्नविशदायान्ते मधुरादिप्रसन्न च । वरदानायामितान्ते नुतेजसेपदमीरयेत् ॥ १,७३.५१ ॥ बालायान्ते तु रामाय विष्णवे हृदयान्तिमः । सप्तचत्वारिंशदर्णो मालामन्त्रोऽयमीरितः ॥ १,७३.५२ ॥ विश्वामित्रो मुनिश्चास्य गायत्री छन्द ईरितम् । श्रीरामो देवता बीजं ध्रुवः शक्तिश्च ठद्वयम् ॥ १,७३.५३ ॥ षड्दीर्घस्वरयुग्मायाबीजेनाङ्गानि कल्पयेत् । ध्यानपूजादिकं सर्वमस्य पूर्ववदाचरेत् ॥ १,७३.५४ ॥ अयमाराधितो मन्त्रः सर्वान्कामान्प्रयच्छति । स्वकामसत्यवाग्लक्ष्मीताराढ्यः पञ्चवर्णकः ॥ १,७३.५५ ॥ षडक्षरः षड्विधः स्याञ्चतुर्वर्गफलप्रदः । ब्रह्मा संमोहनः शक्तिर्दक्षिणामूर्तिसंज्ञकः ॥ १,७३.५६ ॥ अगस्त्यः श्रीशिवः प्रोक्तास्ते तेषां मुनयः क्रमात् । अथवा कामबीजादेर्विश्वामित्रो मुनिः स्मृतः ॥ १,७३.५७ ॥ छन्दः प्रोक्तं च गायत्री श्रीरामो देवता पुनः । बीजशक्तिराधमान्त्यं मन्त्रार्णैः स्यात्षडङ्गकम् ॥ १,७३.५८ ॥ बीजैः षड्दीर्घयुक्तैर्वा मन्त्रार्णान्पूर्ववन्न्यसेत् । ध्यायेत्कल्पतरोर्मूले सुवर्णमयमण्डपे ॥ १,७३.५९ ॥ पुष्पकाख्यविमानान्तः सिंहासनपरिच्छदे । पद्मे वसुदलेदेवमिन्द्रनीलसमप्रभम् ॥ १,७३.६० ॥ वीरासनसमासीनं ज्ञानमुद्रोपशोभितम् । वामोरुन्यस्ततद्धस्तसीतालक्ष्मणसेवितम् ॥ १,७३.६१ ॥ रत्नाकल्पं विभुन्ध्यात्वा वर्णलक्षं जपेन्मनुम् । यद्वा स्मारादिमन्त्राणां जयाभं च हरिं स्मरेत् ॥ १,७३.६२ ॥ येजनं काम्यकर्माणि सर्वं कुर्यात्षडर्णवत् । रामश्च चन्द्रभ द्रान्तो ङेनमोन्तो ध्रुवादिकः ॥ १,७३.६३ ॥ मन्त्रावष्टाक्षरौ ह्येतौ तारान्त्यौ चेन्नवाक्षरौ । एतेषां यजनं सर्वं कुर्यान्मन्त्री षडर्णवत् ॥ १,७३.६४ ॥ जानकीवल्लभो ङेंतो द्विठान्तः कवचादिकः । दशार्णोऽयं महामन्त्रो विशिष्टोऽस्य मुनिः स्वराट् ॥ १,७३.६५ ॥ छन्दश्च देवता सीता पतिर्बीजं तथादिमम् । स्वाहा शक्तिश्च कामेन कुर्यादङ्गानि षट्क्रमात् ॥ १,७३.६६ ॥ शिरोललाटभ्रूमध्यतालुकण्ठेषु हृद्यपि । नाभ्यङ्घ्रिजानुपादेषु दशार्णान्विन्यसेन्मनोः ॥ १,७३.६७ ॥ अयोध्यानगरे रत्नचित्रसौवर्णमण्डपे । मन्दारपुष्पैराबद्धविताने तोरणान्विते ॥ १,७३.६८ ॥ सिंहासनसमासीन पुष्पकोपरि राघवम् । रक्षोभिर्हरिभिर्देवैः सुविमानगतैः शुभैः ॥ १,७३.६९ ॥ संस्तूयमानं मुनिभिः प्रह्वैश्च परिसेवितम् । सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपशोभितम् ॥ १,७३.७० ॥ श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् । एवं ध्यात्वा जपेन्मन्त्री वर्णलक्षं समाहितः ॥ १,७३.७१ ॥ दशांशः कमलैर्हेमो यजनं च षडर्णवत् । रामो ङेंन्तो धनुष्पाणिर्ङैतोंऽते वह्निसुंदरी ॥ १,७३.७२ ॥ दशाक्षरोऽयं मन्त्रोऽस्य मुनिर्ब्रह्मा विराट्पुनः । छन्दस्तु देवता प्रोक्तो रामो राक्षसमर्दनः ॥ १,७३.७३ ॥ आद्यं बीजं द्विठः शक्तिबीञ्जेनाङ्गानि कल्पयेत् । वर्णन्यासं तथा ध्यानं पुरश्चर्यार्चनादिकमन् ॥ १,७३.७४ ॥ दशाक्षरोक्तवत्कुर्याच्चापबाणधरं स्मरेत् । तारो नमो भगवते रामान्ते चन्द्रभद्रकौ ॥ १,७३.७५ ॥ ङेंतावर्काक्षरौ मन्त्रौ ऋषिध्यानादि पूर्ववत् । श्रीपूर्वं जयपूर्वं च तद्द्विधा रामनाम च ॥ १,७३.७६ ॥ त्रयोदशाक्षरो मन्त्रो मुनिर्ब्रह्मा विराट्स्मृतम् । छन्दस्तु देवता प्रोक्तो रामः पापौघनाशनःृ ॥ १,७३.७७ ॥ षडङ्गानि प्रकुर्वीत द्विरावृत्त्या पदत्रयैः । ध्यानार्चनादिकं सव ह्यस्य कुर्याद्दशार्णवत् ॥ १,७३.७८ ॥ तारो नमो भगवते रामायान्ते महापदम् । पुरुषाय हृदन्तोऽयं मनुरष्टादशाक्षरः ॥ १,७३.७९ ॥ विश्वामित्रो मुनिश्छदो धृती रामोऽस्य देवता । तारो बीजं नमः शक्तिश्चन्द्राक्ष्यब्ध्यग्निषड्भुजैः ॥ १,७३.८० ॥ वर्णैमन्त्रोत्थितैः कुर्यात्षडङ्गानि समाहितः । निःशाणभेरीपटहशङ्खतुर्यादिनिःस्वनैः ॥ १,७३.८१ ॥ प्रवृत्तनृत्ये परितो जयमङ्गलभाषिते । चन्दनागरुकस्तूरीकर्पूरादिसुवासिते ॥ १,७३.८२ ॥ नानाकुसुमसौरभ्यवाहिगन्धवहान्विते । देवगन्धर्वनारीभिर्गायन्तीभिरलकृते ॥ १,७३.८३ ॥ सिंहासने समासीनं पुष्पकोपरि राघवम् । सौमित्रिसीतासहितं जटामुकुटशोभितम् ॥ १,७३.८४ ॥ चापबाणधरं श्यामं ससुग्रीवविभीषणम् । हत्वा रावणमायान्तं कृतत्रैलोक्यरक्षणम् ॥ १,७३.८५ ॥ एवं ध्यात्वा जपेद्वर्णं लक्षं मत्री दशांशतः । घृताक्तैः पायसैर्हुत्वा यजनं पूर्ववञ्चरेत् ॥ १,७३.८६ ॥ प्रणवो हृदयं सीतापतये तदनन्तरम् । रामाय हनयुग्मान्ते वर्मास्त्राग्निप्रियान्तिमः ॥ १,७३.८७ ॥ एकोनविंशद्वर्णोऽयं मन्त्रः सर्वार्थसाधकः । विश्वामित्रो मुनिश्चास्यानुष्टुप्छन्द उदाहृतम् ॥ १,७३.८८ ॥ देवता रामभद्रो जं बीजं शक्तिर्नम इति । मन्त्रोत्थितैः क्रमाद्वर्णैस्ततो ध्यायेञ्च पूर्ववत् ॥ १,७३.८९ ॥ पूजनं काम्यकर्मादि सर्वमस्य षडर्णवत् । तारः स्वबीजं कमला रामभद्रेति संपठेत् ॥ १,७३.९० ॥ महेष्वासपदान्ते तु रघुवीर नृपोत्तम । दशास्यान्तकशब्दान्ते मां रक्ष देहि संपठेत् ॥ १,७३.९१ ॥ परमान्ते मे श्रियं स्यान्मन्त्रो बाणगुणाक्षरः । बीजैर्वियुक्तो द्वात्रिंशदर्णोऽयं फलदायकः ॥ १,७३.९२ ॥ विश्वामित्रो मुनिश्चास्यानुष्टुप्छन्द उदाहृतम् । देवता रामभद्रोऽत्र बीजं स्वं शक्तिरिन्दिरा ॥ १,७३.९३ ॥ बीजत्रयाद्यैः कुर्वीत पदैः सर्वेण मन्त्रवित् । पञ्चाङ्गानि च विन्यस्य मन्त्रवर्णान्क्रमान्न्यसेत् ॥ १,७३.९४ ॥ मूर्ध्नि भाले दृशोः श्रोत्रे गण्डयुग्मे सनासिके । आस्ये दोःसंधियुगले स्तनहृन्नाभिषु क्रमात् ॥ १,७३.९५ ॥ कटौ मेढ्रे पायुपादसंधिष्वर्णान्न्यसेन्मनोः । ध्यानार्चनादिकं चास्य पूर्ववत्समुपाचरेत् ॥ १,७३.९६ ॥ लक्षत्रयं पुरश्चर्यां पायसैर्हवनं मतम् । ध्यात्वा रामं पीतवर्णं जपेल्लक्षं समाहितः ॥ १,७३.९७ ॥ दशांशं कमलैर्हुत्वा धनैर्धनपतिर्भवेत् । तारो माया रमाद्वन्द्वं दाशरथाय हृञ्च वै ॥ १,७३.९८ ॥ एकादशाक्षरो मन्त्रो मुन्याद्यर्चास्य पूर्ववत् । त्रैलोक्यान्ते तु नाथाय हृदन्तो वसुवर्णवान् ॥ १,७३.९९ ॥ अस्यापि पूर्ववत्सर्वं न्यासध्यानार्चनादिकम् । आञ्जनेयपदान्ते तु गुरवे हृदयान्तिमः ॥ १,७३.१०० ॥ मन्त्रो नवाक्षरोऽस्यापि यजनं पूर्ववन्मतम् । ङेतं रामपद पश्चाद्धृदयं पञ्चवणवत् ॥ १,७३.१०१ ॥ मुनिध्यानार्चनं चास्य प्रोक्तं सर्वं षडर्णवत् । रामान्ते चन्द्रभद्रौ च ङेंतौ पावकवल्लभा ॥ १,७३.१०२ ॥ मन्त्रो द्वौ च समाख्यातौ मुन्याद्यर्चादि पूर्ववत् । वह्निः शेषान्वितश्चैव चन्द्रभूषितमस्तकः ॥ १,७३.१०३ ॥ एकाक्षरो रघुपतेर्मन्त्रः कल्पद्रुमोऽपरः । ब्रह्मा मुनिः स्याद्गायत्री छन्दो रामोऽस्य देवता ॥ १,७३.१०४ ॥ षड्दीर्घाढ्येन मन्त्रेण षडङ्गानि समाचरेत् । सरयूतीरमन्दारवेदिकापङ्कजासने ॥ १,७३.१०५ ॥ श्यामं वीरासनासीनं ज्ञानमुद्रोपशोभितम् । वामोरुन्यस्तं तद्धस्तं सीतालक्ष्मणसंयुतम् ॥ १,७३.१०६ ॥ अवेक्षणाणमात्मानं मन्मथामिततेजसम् । शुद्धस्फटिकसंकाशं केवलं मोक्षकाङ्क्षया ॥ १,७३.१०७ ॥ चिन्तयेत्परमात्मानमृतुलक्षं जपेन्मनुम् । सर्व्वं षडर्णवञ्चास्य होमनित्यार्चनादिकम् ॥ १,७३.१०८ ॥ वह्निः शेषासनो भान्तः केवलो द्व्यक्षरो मनुः । एकाक्षरोक्त वत्सर्वं मुनिध्यानार्चनादिकम् ॥ १,७३.१०९ ॥ तारमानारमानङ्गचास्त्रबीजैर्द्विवर्णकः । त्र्यक्षरो मन्त्रराजः स्यात्षड्विधः सकलेष्टदः ॥ १,७३.११० ॥ व्द्यक्षरश्चन्द्रभद्रान्तो द्विविधश्चतुरक्षरः । एकार्णोक्तवदेतेषां मुनिध्यानार्चनादिकम् ॥ १,७३.१११ ॥ तारो रामश्चतुर्थ्यन्तो वर्मास्त्रं वह्निवल्लभा । अष्टार्णोऽयं महामन्त्रो मुन्याद्यर्चा षडर्णवत् ॥ १,७३.११२ ॥ तारो मया हृदन्ते स्याद्रामाय प्रणवान्तिमः । शिवोमाराममन्त्रोऽयमष्टार्णः सर्वसिद्धिदः ॥ १,७३.११३ ॥ ऋषिः सदाशिवः प्रोक्तो गायत्री छन्द ईरितम् । शिवोमारामचन्द्रोऽत्र देवता परिकीर्तितः ॥ १,७३.११४ ॥ षड्वीर्ययामाय यातु ध्रुवपञ्चार्णयुक्तया । षडङ्गानि विधायाथ ध्यायेद्धृदि सुरार्चितम् ॥ १,७३.११५ ॥ रामं त्रिनेत्रं सोमार्द्धधारिणं शूलिनं वरम् । भस्मोद्धूलितसर्वाङ्गं कपर्द्दिनमुपास्महे ॥ १,७३.११६ ॥ रामाभिरामं सैन्दर्यसीमां सोमावतंसिनीम् । पाशाङ्कुशधनुर्बाणधरां ध्यायेत्रिलोचनाम् ॥ १,७३.११७ ॥ एवं ध्यात्वा जपेद्वर्णलक्षं त्रिमधुरान्वितैः । बिल्पपत्रैः फलैः पुष्पैस्तिलैर्वा पङ्कजैर्हुनेत् ॥ १,७३.११८ ॥ स्वयमायान्ति निधयः सिद्धयश्च सुरेप्सिताः । तारो माया च भरताग्रजराममनोभवः ॥ १,७३.११९ ॥ वह्निजायाद्वादशार्णो मन्त्रः कल्पद्रुमोऽपरः । अङ्गिराश्च मुनिश्छन्दो गायत्री देवता पुनः ॥ १,७३.१२० ॥ श्रीरामो भुवनाबीजं स्वाहाशक्तिः समीरितः । चन्द्रैकमुनिभूनेत्रैर्मन्त्रार्णैरङ्गकल्पनम् ॥ १,७३.१२१ ॥ ध्यानपूजादिकं चाश्च सर्वं कुर्यात्षडर्णवत् । प्रणवो हृदयं सीतापते रामश्च ङेंतिमः ॥ १,७३.१२२ ॥ हनद्वयान्ते वर्मास्त्रं मन्त्रः षोडशवर्णवान् । अगस्त्योऽस्य मुनिश्छन्दो बृहती देवता पुनः ॥ १,७३.१२३ ॥ श्रीरामोऽहं तथा बीजं रां शक्तिः समुदीरिता । रामाब्धिवह्निवेदाक्षिवर्णैः पञ्चाङ्गकल्पना ॥ १,७३.१२४ ॥ ध्यानपूजादिकं सर्वमस्य कुर्यात्षडर्णवत् । तारो हृञ्चैव ब्रह्मण्यसेव्याय पदमीरयेत् ॥ १,७३.१२५ ॥ रामायाकुण्ठशब्दान्तं तेजसे च समीरयेत् । उत्तमश्लोकधुर्याय स्वं भृगुः कामिकान्वितः ॥ १,७३.१२६ ॥ दण्डार्पितां प्रिये मन्त्रो रामरामाक्षरो मतः । ऋषिः शुक्रस्तथानुष्टुप्छन्दो रामोऽस्य देवता ॥ १,७३.१२७ ॥ पादैः सर्वेण पञ्चाङ्गं कुर्याच्छेषं षडर्णवत् । लक्षं जपो दशांशेन जुहुयात्पायसैः सुधीः ॥ १,७३.१२८ ॥ सिद्धमन्त्रस्य भुक्तिः स्यान्मुक्तिः पातकनाशनम् । आदौ दाशरथायान्ते विद्महे पदमुच्चरेत् ॥ १,७३.१२९ ॥ ततः सीतावल्लभाय धीमहीति समुच्चरेत् । तन्नो रामः प्रोचो वर्णो दयादिति च संवदेत् ॥ १,७३.१३० ॥ एषोक्तारा मगायत्री सर्वाभीष्टफलप्रदा । पद्मासीतापदं ङेतं ठद्वयान्तः षडक्षरः ॥ १,७३.१३१ ॥ वाल्मीकिश्च मुनिश्छन्दो गायत्री देवता पुनः । सीता भगवती प्रोक्ता श्रीं बीजं वह्निसुन्दरी ॥ १,७३.१३२ ॥ शक्तिः षड्दीर्घयुक्तेन बीजेनाङ्गानि कल्पयेत् । ततो ध्यायन्महादेवीं सीतां त्रैलोक्यपूजिताम् ॥ १,७३.१३३ ॥ तप्तहाटकवर्णाभां पद्मयुग्मं करद्वये । सद्रत्नभूषणस्फूर्जद्दिव्यदेहां शुभात्मिकाम् ॥ १,७३.१३४ ॥ नानावस्त्रां शशिमुखीं पद्माक्षीं मुदितान्तराम् । पश्यन्तीं राघवं पुण्यं शय्यार्ध्यां षड्गुणेश्वरीम् ॥ १,७३.१३५ ॥ एवं ध्यात्वा जपेद्वर्णलक्षं मन्त्री दशांशतः । जुहुयात्कमलैः फुल्लैः पीठे पूर्वोदिते यजेत् ॥ १,७३.१३६ ॥ मूर्तिं संकल्प्य मूलेन तस्यामावाह्य जानकीम् । संपूज्य दक्षिणे राममभ्यर्च्याग्रेऽनिलात्मजम् ॥ १,७३.१३७ ॥ पृषटे लक्ष्मणमभ्यर्च्य षट्कोणेष्वङ्गपूजनम् । पत्रेषु मन्त्रिमुख्यंश्च बाह्ये लोकेश्वरान्पुनः ॥ १,७३.१३८ ॥ वज्राद्यानपि संपूज्य सर्वसिद्धीश्वरो भवेत् । जातीपुष्पैश्चन्दनाक्तै राजवश्याय होमयेत् ॥ १,७३.१३९ ॥ कमलैर्धनधान्याप्तिर्नीलाब्जैर्वशयन् जगत् । बिल्वपत्रैः श्रियः प्राप्त्यै दूर्वाभीरोराशान्तये ॥ १,७३.१४० ॥ किं बहूक्तुन सौभाग्यं पुत्रान्पौत्रान्परं सुखम् । धनं धान्यं च मोक्षं च सीताराधनतो लभेत् ॥ १,७३.१४१ ॥ शक्रऋ सेंदुर्लक्ष्मणाय हृदयं सप्तवर्णवान् । अगस्त्योऽस्य मुनिश्छन्दो गायत्री देवता पुनः ॥ १,७३.१४२ ॥ लक्ष्मणाख्यो महावीरश्चाढ्यं हृद्वीजशक्तिके । षड्दीर्घाढ्येन बीजेन षडङ्गानि समाचरेत् ॥ १,७३.१४३ ॥ द्विभुजं स्वर्णरुचुरतनुं पद्मनिभेक्षणम् । धनुर्बाणकरं रामसेवासंसक्तमानसम् ॥ १,७३.१४४ ॥ ध्यात्वैवं प्रजपेद्वर्णलक्षं मन्त्री दशांशतः ॥ठ मध्वाक्तैः पायसैर्हुत्वा रामपीठे प्रपूजयेत ॥ १,७३.१४५ ॥ रामवद्यजनं चास्य सर्वसिद्धिप्रदो ह्ययम् । साकल्यं रामपूजाया यदीच्छेन्नियतं नरः ॥ १,७३.१४६ ॥ तेन यत्नेन कर्त्तव्यं लक्ष्मणार्चनमादरात् । श्रीरामचन्द्रभेदास्तु बहवः संति सिद्धिदाः ॥ १,७३.१४७ ॥ तत्साधकैः सदा कार्यं लक्ष्मणाराधनं शुभम् । अष्टोत्तरसहस्रं वा शतं वा सुसमाहितैः ॥ १,७३.१४८ ॥ लक्ष्मणस्य मनुर्जप्यो मुमुक्षुभिरतन्द्रितैः । अजप्त्वा लक्ष्मणमनुं राममन्त्रान् जपन्ति ये ॥ १,७३.१४९ ॥ न तेषां जायते सिद्धिर्हानिरेव पदे पदे । यो जपेल्लक्ष्मणमनुं नित्यमेकान्तमास्थितः ॥ १,७३.१५० ॥ मुच्यते सर्वपापेभ्यः सर्वान्कामानवाप्नुयात् । जयप्रधानो मन्त्रोऽयं राज्यप्राप्त्यैकसाधनम् ॥ १,७३.१५१ ॥ नष्टराज्याप्तये मन्त्रं जपेल्लक्षं समाहितः । सोऽचिरान्नष्टराज्यं स्वं प्राप्नोत्येव न संशयः ॥ १,७३.१५२ ॥ ध्यायन्राममयोध्यायामभिषिक्त मनन्यधीः । पञ्चायुतं मनुं जप्त्वा नष्टराज्यमवाप्नुयात् ॥ १,७३.१५३ ॥ नागपाशविनिर्मुक्तं ध्यात्वा लक्ष्मणमादरात् । अयुतं प्रजपेन्मन्त्रं निगडान्मुच्यते ध्रुवम् ॥ १,७३.१५४ ॥ वातात्मजेनानीताभिरोषधीभिर्गतव्यथम् । ध्यात्वा लक्षं जपन्मन्त्रमल्पमृत्युं जयेद्धुवम् ॥ १,७३.१५५ ॥ घातयन्तं मेघनादं ध्यात्वा लक्षं जपेन्मनुम् । दुर्जयं वापि वेगेन जयेद्रिपुकुलं महत् ॥ १,७३.१५६ ॥ ध्यात्वा शूर्पणखानासाछेदनोद्युक्तमानसम् । सहस्रं प्रजपेन्मन्त्रं पुरुहूतादिकान् जयेत् ॥ १,७३.१५७ ॥ रामपादाब्जसेवार्थं कृतोद्योगमथो स्मरन् । प्रजपल्लङ्क्षमेकान्ते महारोगात्प्रमुच्यते ॥ १,७३.१५८ ॥ त्रिमासं विजिताहारो नित्यं सप्तसहस्रकम् । अष्टोत्तरशतैः पुष्पैर्निश्छेद्रैः शातपत्रकैः ॥ १,७३.१५९ ॥ पूजयित्वा विधानेन पायसं च सशर्करम् । निवेद्य प्रजपेन्मन्त्रं कुष्टरोगात्प्रनुच्यते ॥ १,७३.१६० ॥ विजने विजिताहारः षण्मासं विधिनामुना । क्षयरोगात्प्रमुच्येत सत्यं सत्यं न संशयः ॥ १,७३.१६१ ॥ अभिमन्त्र्य जलं प्रातर्मन्त्रेण त्रिः समाहितः । त्रिसंध्यं वा पिबेन्नित्यं मुच्यते सर्वरोगतः ॥ १,७३.१६२ ॥ दारिद्रयं च पराभूतं जायते धनदोपमः । विषादिदोषसंस्पर्शो न भवेत्तु कदाचन ॥ १,७३.१६३ ॥ मनुना मन्त्रितैस्तोयैः प्रत्येहं क्षालयेन्मुखम् । मुखनेत्रादिसंभूताञ्जयेद्द्व्रोगांश्च दारुणान् ॥ १,७३.१६४ ॥ पीत्वाभिमन्त्रितं त्वंभः कुक्षिरोगान् जयेद्ध्रुवम् । लक्ष्मणप्रतिमां कृत्वा दद्याद्भक्त्या विधानतः ॥ १,७३.१६५ ॥ स सर्वेभ्योऽथ रोगेभ्यो मुच्यते नात्र संशयः । कन्यार्थी विमलापाणिग्रहणासक्तमानसः ॥ १,७३.१६६ ॥ ध्यायन् लक्षं जपेन्मन्त्री अब्जैर्हुत्वा दशांशतः । ईप्सितां लभते कन्यां शीग्रमेव न संशयः ॥ १,७३.१६७ ॥ दीक्षितं जुंभणास्त्राणां मन्त्रेषु नियतव्रतम् । ध्यात्वा च विधिवन्नित्यं जपेन्मासत्रयं मनुम् ॥ १,७३.१६८ ॥ पूजापुरःसरं सप्तसहस्रं विजितेन्द्रियः । सर्वासामपि विद्यानां तत्त्वज्ञो जायते नरः ॥ १,७३.१६९ ॥ विश्वामित्रक्रतुवरे कृताद्भुतपराक्रमम् । ध्यायंल्लक्षं जपेन्मन्त्रं मुच्यते महतो भयात् ॥ १,७३.१७० ॥ कृतनित्यक्रियः शुद्धस्त्रिकालं प्रजपेन्मनुम् । सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ॥ १,७३.१७१ ॥ दीक्षितो विधिवन्मन्त्री गुणैर्विगतकल्मषः । स्वाचारनियतो दान्तो गृहस्थो विजितेन्द्रियः ॥ १,७३.१७२ ॥ ऐहिकाननपेक्ष्यैव निष्कामो योर्ऽचयेद्विभुम् । स सर्वान्पुण्यपापौधान्दग्ध्वा निर्मलमानसः ॥ १,७३.१७३ ॥ पुनरावृत्तिरहितः शाश्वतं पदमश्वतं पदमश्नुते । सकामो वाञ्छितान् लब्ध्वा भुक्त्वा भोगान्मनोगतान् ॥ १,७३.१७४ ॥ जातिरमरश्चिरं भूत्वा याति विष्णोः परं पदम् । निद्राचन्द्रान्विता पश्चाद्भरताय हृदन्तिमः ॥ १,७३.१७५ ॥ सप्ताक्षरो मनुश्चास्य मुन्याद्यर्चादि पूर्ववत् । बकः सेंदुश्च शत्रुध्नपरं ङेतं हृदन्तिमः ॥ १,७३.१७६ ॥ सप्ताक्षरोऽयं शत्रुध्नमन्त्रः सर्वेष्टसिद्धिदः ॥ १,७३.१७७ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बुहदुपाख्याने सनत्कुमारविभागे तृतीयपादे रामाद्युपासनावर्णनं नाम त्रिसप्ततितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथोच्यन्ते हनुमतो मन्त्राः सर्वेष्टदायकाः । यान्समाराध्य विप्रेन्द्र तत्तुल्याचरणा नराः ॥ १,७४.१ ॥ मनुः स्वरेदुसंयुक्तं गगनं च भगान्विताः । हसफआग्निनिशाधीशाःद्वितीयं बीजमीरितम् ॥ १,७४.२ ॥ स्वफआग्नयो भगेन्द्वाढ्यास्तृतीयं बीजमीरितम् । वियद्भृग्वग्निमन्विन्दुयुक्तं स्याञ्च चतुर्थकम् ॥ १,७४.३ ॥ पञ्चमं भगचन्द्राढ्यावियद्भृगुस्वकाग्नयः । मन्विन्द्वाढ्यौ हसौ षष्टं ङेंतः स्याद्धनुमांस्ततः ॥ १,७४.४ ॥ हृदयान्तो महामन्त्रराजोऽयं द्वादशाक्षरः । रामचन्द्रो मुनिश्चास्य जगतीछन्द ईरितम् ॥ १,७४.५ ॥ देवता हनुमान्बीजं षष्टं शक्तिर्द्वतीयकम् । षड्बीजैश्च षडङ्गानि शिरोभाले दृशोर्मुखे ॥ १,७४.६ ॥ गलबाहुद्वये चैव हृदि कुक्षौ च नाभितः । ध्वजे जानुद्वये पादद्वये वर्णान्क्रमान्न्यसेत् ॥ १,७४.७ ॥ षड्बीजानि पदद्वन्द्वं मूर्ध्नि भाले मुखे हृदि । नाभावूर्वोर्जङ्घयोश्च पादयोर्विन्यसेत्क्रमात् ॥ १,७४.८ ॥ अञ्जनीगर्भसंभूतं ततो ध्यायेत्कपीश्वरम् । उद्यत्कोट्यर्कसंकाशं जगत्प्रक्षोभकारकम् ॥ १,७४.९ ॥ श्रीरामाङ्घ्रिध्याननिष्टं सुग्रीवप्रमुखार्चितम् । वित्रासयन्तं नादेन राक्षसान्मारुतिं भजेत् ॥ १,७४.१० ॥ ध्यात्वैवं प्रजपेद्भानुसहस्रं विजितैन्द्रियः । दशांशं जुहुयाद्बीहीन्पयोदध्याज्यमिश्रितान् ॥ १,७४.११ ॥ पूर्वोक्ते वैष्णवे पीठे मूर्त्तिं संकल्प्य मूलतः । आवाह्य तत्र संपूज्य पाद्यादिभिरुपायनैः ॥ १,७४.१२ ॥ केशरेष्वङ्गपूजा स्यात्पत्रेषु च ततोर्ऽचयेत् । रामभक्तो महातेजाः कपिराजो महाबलः ॥ १,७४.१३ ॥ द्रोणाद्रिहारको मेरुपीठकार्चनकारकः । दक्षिणाशाभास्करश्च सर्वविघ्नविनाशकः ॥ १,७४.१४ ॥ इत्थं सम्पूज्य नामानि दलाग्रेषु ततोर्ऽचयेत् । सुग्रीवमङ्गद नीलं जांबवन्तं नलं तथा ॥ १,७४.१५ ॥ सुषेणं द्विविदं मैन्दं लोकपालस्ततोर्ऽचयेत् । वज्राद्यानपि संपूज्य सिद्धश्चैवं मनुर्भवेत् ॥ १,७४.१६ ॥ मन्त्रं नवशतं रात्रौ जपेद्दशदिनावधि । यो नरस्तस्य नश्यन्ति राजशत्रूत्थभीतयः ॥ १,७४.१७ ॥ मातुलिङ्गाम्रकदलीफलैर्हुत्वा सहस्रकम् । द्वाविंशतिब्रह्मचारि विप्रान्संभोजयेच्छुचीन् ॥ १,७४.१८ ॥ एवङ्कृते भूतविषग्रहरोगाद्युपद्रवाः । नश्यन्ति तत्क्षणादेव विद्वेषिग्रहदानवाः ॥ १,७४.१९ ॥ अष्टोत्तरशतेनांबु मन्त्रितं विषनाशनम् । भूतापस्मारकृत्योत्थज्वरे तन्मन्त्रमन्त्रितैः ॥ १,७४.२० ॥ भस्मभिः सलिलैर्वापि ताडयेज्ज्वरिणं क्रुधा । त्रिदिनाज्ज्वरमुक्तोऽसौ सुखं च लभते नरः ॥ १,७४.२१ ॥ औषधं वा जलं वापि भुक्त्वा तन्मन्त्रमन्त्रितम् । सर्वान्रोगान्पराभूय सुखी भवति तत्क्षणात् ॥ १,७४.२२ ॥ तज्जप्तभस्मलिप्ताङ्गो भुक्त्वा तन्मन्त्रितं पयः । योद्धुं गच्छेच्च यो मन्त्री शस्त्रसंघैर्ंन बाध्यते ॥ १,७४.२३ ॥ शस्क्षतं व्रणस्फोटो लूतास्फोटोऽपि भस्मना । त्रिर्जप्तेन च संस्पृष्टाः शुष्यन्त्येव न संशयः ॥ १,७४.२४ ॥ जपेदर्कास्तमारभ्य यावदर्केदयो भवेत् । मन्त्रं सप्तदिनं यावञ्चादाय भस्मकीलकौ ॥ १,७४.२५ ॥ निखनेदभिमन्त्र्याशुशत्रूणां द्वार्यलक्षितः । विद्वेषं मिथ आपन्नाः पलायन्तेऽरयोऽचिरात् ॥ १,७४.२६ ॥ भस्मांबु चन्दनं मन्त्री मन्त्रेणानेन मन्त्रितम् । भक्ष्यादियोजितं यस्मै ददाति स तु दासवत् ॥ १,७४.२७ ॥ क्रूराश्च जन्तवोऽप्येवं भवन्ति वशवर्तिनः । गृहीत्वेशनदिस्कंस्थं करञ्जतरुमूलकम् ॥ १,७४.२८ ॥ कृत्वा तेनाङ्गुष्टमात्रां प्रतिमां च हनूमतः । कृत्वा प्राणप्रतिष्टां च सिंदूराद्यैः प्रपूज्य च ॥ १,७४.२९ ॥ गृहस्याभिमुखी द्वारे निखनेन्मन्त्रमुञ्चरन् । ग्रहाभिचाररोगाग्निविषचौरनृपोद्भवाः ॥ १,७४.३० ॥ न जायन्ते गृहे तस्मिन् कदाचिदप्युपद्रवाः । तद्गृहं धनपुत्राद्यैरेधते प्रत्यहं चिरम् ॥ १,७४.३१ ॥ निशि यत्र वने भस्म मृत्स्नया वापि यत्नतः । शत्रोः प्रतिकृतिं कृत्वा हृदि नाम समालिखेत् ॥ १,७४.३२ ॥ कृत्वा प्राणप्रतिष्टान्तं भिन्द्याच्छस्त्रैर्मनुं जपन् । मन्त्रान्ते प्रोञ्चरेच्छत्रोर्नाम छिन्धि च भिन्धि च ॥ १,७४.३३ ॥ मारयेति च तस्यान्ते दन्तैरोष्टं निपूड्य च । पाण्योस्तले प्रपीड्याथ त्यक्त्वा तं स्वगृहं व्रजेत् ॥ १,७४.३४ ॥ कुर्वन्सप्तदिनं चैवं हन्याच्छत्रुं न संशयः । राजिकालवणैर्मुक्तचिकुरः पितृकानने ॥ १,७४.३५ ॥ धत्तूरफलपुष्पैश्च नखरोमविषैरपि । द्विक(काक)कौशिकगृध्राणां पक्षैः श्लेष्मान्तकाक्षजैः ॥ १,७४.३६ ॥ समिद्धिस्त्रिशतं यामयदिङ्मुखो जुहुयान्निशि । एवं सप्तदिनं कुर्वन्मारयेदुद्धतं रिपुन् ॥ १,७४.३७ ॥ वित्रासस्त्रिदिनं रात्रौ श्मशाने षट्शतं जपेत् । ततो वेताल उत्थाय वदेद्भावि शुभाशुभम् ॥ १,७४.३८ ॥ किङ्करीभूय वर्त्तेत कुरुते साधकोदितम् । भास्मांबुमन्त्रितं रात्रौ सहस्रावृत्तिकं पुनः ॥ १,७४.३९ ॥ दिनत्रयं च तत्पश्चात्प्रक्षिपेत्प्रतिमासु च । यासु कासु च स्थूलासु लघुष्वपि विशेषतः ॥ १,७४.४० ॥ मन्त्रप्रभावाञ्चलनं भवत्येव न संशयः । अष्टम्यां वा चतुर्दश्यां कुजे वा रविवासरे ॥ १,७४.४१ ॥ हनुमत्प्रतिमां पट्टे माषैः स्नेहपरिप्लुतैः । कुर्याद्रम्यां विशुद्धात्मा सर्वलक्षणलक्षिताम् ॥ १,७४.४२ ॥ तैलदीपं वामभागे घृतदीपं तु दक्षिणे । संस्थाप्यावाहयेत्पश्चान्मूलमन्त्रेण मन्त्रवित् ॥ १,७४.४३ ॥ प्राणप्रतिष्टां कृत्वा च पाद्यादीनि समर्पयेत् । रक्तचन्दनपुष्पैश्च सिंदूराद्यैः समर्चयेत् ॥ १,७४.४४ ॥ धूपं दीपं प्रदायाथ नैवेद्यं च समर्पयेत् । अपूपमोदनं शाकमोदकान्वटकादिकम् ॥ १,७४.४५ ॥ साज्यं च तत्समर्प्याथ मूलमन्त्रेण मन्त्रवित् । अखण्डितान्यहिलतादलानि सप्तविंशतिम् ॥ १,७४.४६ ॥ त्रिधा कृत्वा सपूगानि मूलेनैव समर्पयेत् । एवं संपूज्य मन्त्रज्ञो जपेद्दशशन्त मनुम् ॥ १,७४.४७ ॥ कर्पूरारार्तिकं कृत्वा स्तुत्वा च बहुधा सुधीः । निजेप्सितं निवेद्याथ विधिवद्विसृजेत्ततः ॥ १,७४.४८ ॥ नैवेद्यान्नेन संभोज्य ब्राह्मणान्सप्तसंख्यया । निवेदितानि पर्णानि तेभ्यो दद्याद्विभज्य च ॥ १,७४.४९ ॥ दक्षिणां च यथा शक्ति दत्त्वा तान् विसृजेत्सुधीः । तत इष्टगणैः सार्द्धं स्वयं भुञ्जीत वाग्यतः ॥ १,७४.५० ॥ तद्दिने भूमिशय्यां च ब्रह्मचर्य्यं समाचरेत् । एवं यः कुरुते मर्त्यः सोऽचिरादेव निश्चितम् ॥ १,७४.५१ ॥ प्राप्नुयात्सकलान्कामान्कपीशस्य प्रसादतः । हनुमत्प्रतिमां भूमौ विलिखेत्तत्पुरो मनुम् ॥ १,७४.५२ ॥ साध्यनाम द्वितीयान्तं विमोचय विमोचय । तत्पूर्वं मार्जयेद्वामपाणिनाथ पुनर्लिखेत् । एवमष्टोत्तरशतं लिखित्वा मार्जयेत्पुनः ॥ १,७४.५३ ॥ एवं कृते महाकारागृहाच्छीघ्रं विमुच्यते । एवमन्यानि कर्माणि कुर्य्यान्त्पल्लवमुल्लिखन् ॥ १,७४.५४ ॥ सर्षपैर्वश्यकृद्धोमो विद्वेषे हयमारजैः । कुङ्कुमैरिध्मकाष्ठैर्वा मरीचैर्जीरकैरपि ॥ १,७४.५५ ॥ ज्वरे दूर्वागुडूचीभिर्दध्ना क्षीरेण वा घृतैः । शूले करञ्जवातारिसमिद्भिस्तैललोलितैः ॥ १,७४.५६ ॥ तैलाक्ताभिश्च निर्गुण्डीसमिद्भिर्वा प्रयत्नतः । सौभाग्ये चन्दनैश्चेन्द्रलोचनैर्वा लवङ्गकैः ॥ १,७४.५७ ॥ सुगन्धपुष्पैर्वस्त्राप्त्यै तत्तद्धान्यैस्तदाप्तये । रिपुपादरजोभिश्च राजीलवणमिश्रितैः ॥ १,७४.५८ ॥ होमयेत्सप्तरात्रं च रिपुर्याति यमालयम् । धान्यैः संप्राप्यते धान्यमन्नैरन्नसमुच्छ्रयः ॥ १,७४.५९॥ तिलाज्यक्षीरमधुभिर्महिषीगोसमृद्धये । किं बहूक्तैर्विषे व्याधौ शान्तौ मोहे च मारणे ॥ १,७४.६० ॥ विवादे स्तंभने द्यूते भूतभीतौ च संकटे । वश्ये युद्धे क्षते दिव्ये बन्धमोक्षे महावने ॥ १,७४.६१ ॥ साधितोऽयं नृणां दद्यान्मन्त्रः श्रेयः सुनिश्चितम् । वक्ष्येऽथ हनुमद्यन्त्रं सर्वसिद्धिप्रदायकम् ॥ १,७४.६२ ॥ लाङ्गूलाकारसंयुक्तं वलयत्रितयं लिखेत् । साध्यनाम लिखेन्मध्ये पाशिबीज प्रवेष्टितम् ॥ १,७४.६३ ॥ उपर्यष्टच्छदं कृत्वा पत्रेषु कवचं लिखेत् । तद्बहिर्दंहमालिख्य तद्बहिश्चतुरस्रकम् ॥ १,७४.६४ ॥ चतुरसस्रस्य रेखाग्रे त्रिशूलानि समालिखेत् । सैं बीजं भूपुरस्याष्टवज्रेषु विलिखेत्ततः ॥ १,७४.६५ ॥ कोणेष्वकुंशमालिख्य मालामन्त्रेण वेष्टयेत् । तत्सर्वं वेष्टयेद्यन्त्रवलयत्रितयेन च ॥ १,७४.६६ ॥ शिलायां फलके वस्त्रे ताम्रपत्रेऽथ कुड्यके । ताडपत्रेऽथ भूर्जे वा रोचनानाभिकुङ्कुभैः ॥ १,७४.६७ ॥ यन्त्रमेतत्समालिख्य निराहारो जितेन्द्रियः । कपेः प्राणान्प्रतिष्टाप्य पूजयेत्तद्यथाविधि ॥ १,७४.६८ ॥ अशेषदुःखशान्त्यर्थः यन्त्रं संधारयेद्बुधः । मारीज्वराभिचारादिसर्वोपद्रवनाशनम् ॥ १,७४.६९ ॥ योषितामपि बालानां धृतं जनमनोहरम् । भूतकृत्यापिशाचानां दर्शनादेव नाशनम् ॥ १,७४.७० ॥ मालामन्त्रमथो वक्ष्ये तारो वाग्विष्णुगेहिनी । दीर्घत्रयान्विता माया प्रागुक्तं कूटपञ्चकम् ॥ १,७४.७१ ॥ ध्रुवो हृद्धनुमान्ङेंतोऽथ प्रकटपराक्रमः । आक्रान्तदिग्मण्डलान्ते यशोवितानसंवदेत् ॥ १,७४.७२ ॥ धवलीकृतवर्णान्ते जगत्त्रितयवज्र च । देहज्वलदग्निसूर्य कोट्यन्ते च समप्रभ ॥ १,७४.७३ ॥ तनूरुहपदान्ते तु रुद्रावतार संवदेत् । लङ्कापुरी ततः पश्चाद्दहनोदधिलङ्घन ॥ १,७४.७४ ॥ दशग्रीवशिरः पश्चात्कृतान्तकपदं वदेत् । सीतान्ते श्वसनपदं वाय्वन्ते सुतमीरयेत् ॥ १,७४.७५ ॥ अञ्जनागर्भसंभूतः श्रीरामलक्ष्मणान्वितः । नन्दन्ति कर वर्णान्ते सैन्यप्राकार ईरयेत् ॥ १,७४.७६ ॥ सुग्रीवसख्यकादूर्णाद्रणवालिनिवर्हण । कारणद्रोणशब्दान्ते पर्वतोत्पाटनेति च ॥ १,७४.७७ ॥ अशोकवनवीथ्यन्ते दारुणाक्षकुमारक । छेदनान्ते वनरक्षाकरान्ते तु समूह च ॥ १,७४.७८ ॥ विभञ्जनान्ते ब्रह्मास्त्रब्रह्मशक्ति ग्रसेति च । लक्ष्मणान्ते शक्तिभेदनिवारणपदं वदेत् ॥ १,७४.७९ ॥ विशल्योषधिशब्दान्ते समानयन संपठेत् । बालोदित ततो भानुमण्डलग्रसनेति च ॥ १,७४.८० ॥ मेघनादहोमपदाद्विध्वंसनपदं वदेत् । इन्द्रजिदूधकारान्ते णसीतासक्षकेति च ॥ १,७४.८१ ॥ राक्षसीसंघशब्दान्ते विदारणपदं वदेत् । कुंभकर्णादिसंकीर्त्यवधान्ते च परायण ॥ १,७४.८२ ॥ श्रीरामभक्तिवर्णान्ते तत्परेति समुद्र च । व्योमद्रुमलङ्घनेति महासामर्थ्य संवदेत् ॥ १,७४.८३ ॥ महातेजःपुञ्जशब्दाद्विराजमानवोञ्चरेत् । स्वामिवचनसंपादितार्जुनान्ते च संयुग ॥ १,७४.८४ ॥ सहायान्ते कुमारेति ब्रह्मचारिन्पदंवदेत् । गंभीरशब्दोदयान्ते दक्षिणापथ संवदेत् । मार्त्ताण्डमेरु शब्दान्ते वदेत्पर्वतपीटिका ॥ १,७४.८५ ॥ अर्चनान्ते तु सकलमन्त्रान्ते मपदं वदेत् । आचार्यमम शब्दान्ते सर्वग्रहविनाशन ॥ १,७४.८६ ॥ सर्वज्वरोञ्चाटनान्ते सर्वविषविनाशन । सर्वापत्तिनिवारण सर्वदुष्टनिबर्हण ॥ १,७४.८७ ॥ सर्वव्याध्यादि सम्प्रोच्य भयान्ते च निवारण ॥ १,७४.८८ ॥ सर्वशत्रुच्छेदनेति ततो मम परस्य च ॥ १,७४.८९ ॥ ततस्त्रिभुवनान्ते तु पुंस्त्रीनपुंसकात्मकम् । सर्वजीवपदान्ते तु जातं वशययुग्मकम् ॥ १,७४.९० ॥ ममाज्ञाकारकं पश्चात्संपादय युगं पुनः । ततो नानानामधेयान्सर्वान् राज्ञः स संपठेत् ॥ १,७४.९१ ॥ परिवारान्ममेत्यन्ते सेवकान् कुरु युग्मकम् । सर्वशस्त्रवीत्यन्ते षाणि विध्वंसय द्वयम् ॥ १,७४.९२ ॥ लज्जादीर्घत्रयोपेता होत्रयं चैहि युग्मकम् । विलोमं पञ्चकूटानि सर्वशत्रून्हनद्वयम् ॥ १,७४.९३ ॥ परबलानि परान्ते सैन्यानि क्षोभयद्वयम् ॥ १,७४.९४ ॥ मम सर्वं कार्यजातं साधयेति द्वयं ततः ॥ १,७४.९५ ॥ सर्वदुष्टदुर्जनान्ते मुखानि कीलयद्वयम् । धेत्रयं वर्मत्रितयं फट्त्रयं हान्त्रयं ततः ॥ १,७४.९६ ॥ वह्निप्रियान्तो मन्त्रोऽयं मालासंज्ञोऽखिलेष्टदः ॥ १,७४.९७ ॥ वस्वष्टबाणवर्णोऽयं मन्त्रः सर्वेष्टासाधकः ॥ १,७४.९८ ॥ महाभये महोत्पाते स्मृतोऽयं दुःखनाशनः । द्वादशार्णस्य षट्कूटं त्यक्त्वा बीजं तथादिमम् ॥ १,७४.९९ ॥ पञ्चकूटात्मको मन्त्रः सर्वकामप्रदायकः । रामचन्द्रो मुनिश्चास्य गायत्री छन्द ईरितम् ॥ १,७४.१०० ॥ हनुमान्देवता प्रोक्तो विनियोगोऽखिलाप्तये । पञ्चबीजैः समस्तेन षडङ्गानि समाचरेत् ॥ १,७४.१०१ ॥ रामदूतो लक्ष्मणान्ते प्राणदाताञ्जनीसुतः । सीताशोकविनाशोऽयं लङ्काप्रासादभञ्जनः ॥ १,७४.१०२ ॥ हनुमदाद्याः पञ्चैते बीजाद्या ङेयुताः पुनः । षडङ्गमनवो ह्येते ध्यानपूजादि पूर्ववत् ॥ १,७४.१०३ ॥ प्रणवो वाग्भवं पद्मा माया दीर्घत्रयान्विता । पञ्चकूटानि मन्त्रोऽयं रुद्रार्णः सर्वसिद्धिदः ॥ १,७४.१०४ ॥ ध्यानपूजादिकं सर्वमस्यापि पूर्ववन्मतम् । अयमाराधितो मन्त्रः सर्वाभीष्टप्रदायकः ॥ १,७४.१०५ ॥ नमो भगवते पश्चादनन्तश्चन्द्रशेखरां । जनेयाय महान्ते तु बलायान्तेऽग्निवल्लभा ॥ १,७४.१०६ ॥ अष्टादशार्णो मन्त्रोऽयं सुनिरीश्वरसंज्ञकः । छन्दोऽनुष्टुप्देवता तु हनुमान्पवनात्मजः ॥ १,७४.१०७ ॥ हं बीजं वह्निवनिता शक्तिः प्रोक्ता मनीषिभिः । आञ्जनेयाय हृदयं शिरश्च रुद्रमूर्तये ॥ १,७४.१०८ ॥ शिखायां वायुपुत्रायाग्निगर्भाय वर्मणि । रामदूताय नेत्रं स्याद्बह्यास्त्रायास्त्रमीरितम् ॥ १,७४.१०९ ॥ तत्पचामीकरनिभं भीघ्नसंविहिताञ्जलिम् । चलत्कुण्डलदीप्तास्यं पद्मक्षं मारुतिं स्मरेत् ॥ १,७४.११० ॥ ध्यात्वैवमयुतं जप्त्वा दशांशं जुहुयात्तिलैः । वैष्णवे पूजयेत्पीठे प्रागुद्दिष्टेन वर्त्मना ॥ १,७४.१११ ॥ अष्टोत्तरशतं नित्यं नक्तभोजी जितेन्द्रियः । जपित्वा क्षुद्ररोगेभ्यो मुच्यते नात्र संशयः ॥ १,७४.११२ ॥ महारोगनिवृत्त्यै तु सहस्रं प्रत्यहं जपेत् । राक्षसौघं विनिघ्नन्तं कपिं ध्यात्वाधनाशनम् ॥ १,७४.११३ ॥ अयुतं प्रजपेन्नित्यमचिराज्ज यति द्विषम् । सुग्रीवेण समं रामं संदधानं कपिं स्मरन् ॥ १,७४.११४ ॥ प्रजपेदयुतं यस्तु संधिं कुर्याद्द्विपद्वयोः । ध्यात्वा लङ्कां दहॄन्तं तमयुतं प्रजपेन्मनुम् ॥ १,७४.११५ ॥ अचिरादेव शत्रूणां ग्रामान्संप्रदहेत्सुधीः । ध्यात्वा प्रयाणसमये हनुमन्तं जपेन्मनुम् ॥ १,७४.११६ ॥ यो याति सोऽचिरात्स्वेष्टं साधयित्वा गृहे व्रजेत् । हनुमन्तं सदा गेहे योर्ऽचयेज्जपतत्परः ॥ १,७४.११७ ॥ आरोग्यं च श्रियं कान्तिं लभते निरुपद्रवम् । कानने व्याघ्रचौरेभ्यो रक्षेन्मनुरयं स्मृतः ॥ १,७४.११८ ॥ प्रस्वापकाले शय्यायां स्मरेन्मन्त्रमनन्यधीः । तस्य दुःस्वप्नचौरादिभयं नैव भवेत्क्वचित् ॥ १,७४.११९ ॥ वियत्सेंदुर्हनुमते ततो रुद्रात्मकाय च । वर्मास्त्रान्तो महामन्त्रो द्वादशार्णोऽष्टसिद्धिकृत् ॥ १,७४.१२० ॥ रामचन्द्रो मुनिश्चास्य जगती छन्द ईरितम् । हनुमान्देवतां बीजमाद्यं शक्तिर्हुमीरिता ॥ १,७४.१२१ ॥ षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत् । महाशैलं समुत्पाट्य धावन्तं रावणं प्रति ॥ १,७४.१२२ ॥ लाक्षारक्तारुणं रौद्रं कालान्तकयमोपमम् । ज्वलदग्निसमं जैत्रं सूर्यकोटिसमप्रभम् ॥ १,७४.१२३ ॥ अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् । तिष्ठ तिष्ठ रणे दुष्ट सृजन्तं घोरनिः स्वनम् ॥ १,७४.१२४ ॥ शैवरूपिणमभ्यर्च्य ध्यात्वा लक्ष जपेन्मनुम् । दशांशं जुहुयाद्वीहीन्पयोदध्याज्यमिश्रितान् ॥ १,७४.१२५ ॥ पूर्वोक्ते वैष्णवे पीठे विमलादिसमन्विते । मूर्तिं संकल्प्य मूलेन पूजा कार्या हनूमतः ॥ १,७४.१२६ ॥ ध्यानैकमात्रोऽपि नृणां सिद्धिरेव न संशयः । अथास्य साधनं वक्ष्ये लोकानां हितकाम्यया ॥ १,७४.१२७ ॥ हनुमत्साधनं पुण्यं महापातकनाशनम् । एतद्गुह्यतमं लोके शीघ्रसिद्धिकरं परम् ॥ १,७४.१२८ ॥ मन्त्री यस्य प्रसादेन त्रैलोक्यविजयी भवेत् । प्रातः स्नात्वा नदीतीरे उपविश्य कुशासने ॥ १,७४.१२९ ॥ प्राणायामषडङ्गे च मूलेन सकलं चरेत् । पुष्पाञ्जल्यष्टकं दत्वा ध्यात्वा रामं ससीतकम् ॥ १,७४.१३० ॥ ताम्रपात्रे ततः पद्ममष्टपत्रं सकेशरम् । कुचन्दनेन घृष्टेन संलिखेत्तच्छलाकया ॥ १,७४.१३१ ॥ कर्मिकायां लिखेन्मन्त्रं तत्रावाह्य कपीश्वरम् । मूर्तिं मूलेन संकल्प्य ध्यात्वा पाद्यादिकं चरेत् ॥ १,७४.१३२ ॥ गन्धपुष्पादिकं सर्वं निवेद्य मूलमन्त्रतः । केसरेषु षडङ्गानि दलेषु च ततोर्ऽचयेत् ॥ १,७४.१३३ ॥ सुग्रीवं लक्ष्मणं चैव ह्यङ्गदं नलनीलकौ । जांबवन्तं च कुमुदं केसरीशं दलेर्ऽचयेत् ॥ १,७४.१३४ ॥ दिक्पालांश्चापि वज्रादीन्पूजयेत्तदनन्तरम् । एवं सिद्धे मनौ मन्त्री साधयेत्स्वेष्टमात्मनि ॥ १,७४.१३५ ॥ नदीतीरे कानने वा पर्वते विजनेऽथवा । साधयेत्साधक श्रेष्ठो भूमिग्रहणपूर्वकम् ॥ १,७४.१३६ ॥ जिताहारो जितश्वासो जितवाक्च जितेन्द्रियः । दिग्बन्ध नादिकं कृत्वा न्यासध्यानादिपूर्वकम् ॥ १,७४.१३७ ॥ लक्षं जपेन्मन्त्रराजं पूजयित्वा तु पूर्ववत् । लक्षान्ति दिवसं प्राप्य कुर्य्याञ्च पूजनं महत् ॥ १,७४.१३८ ॥ एकाग्रमनसा सम्यग्ध्यात्वा पवननन्दनम् । दिवारात्रौ जपं कुर्याद्यावत्संदर्शनं भवेत् ॥ १,७४.१३९ ॥ सुदृढं साधकं मत्वा निशीथे पवनात्मजः । सुप्रसन्नस्ततो भूत्वा प्रयाति साधकाग्रतः ॥ १,७४.१४० ॥ यथेप्सितं वरं दत्वा साधकाय कपीश्वरः । वरं लब्ध्वा साधकन्द्रो विहरेदात्मनः सुखैः ॥ १,७४.१४१ ॥ एतद्धि साधनं पुण्यं लोकानां हितकाम्यया । प्रकाशितं रहस्यं वै देवानामपि दुर्लभम् ॥ १,७४.१४२ ॥ अन्यानपिप्रयोगांश्च साधयेदात्मनो हितान् । वियदिन्दुयुतं पश्चान्ङेंतं पवननन्दनम् ॥ १,७४.१४३ ॥ वह्निप्रियान्तो मन्त्रोऽयं दशार्णः सर्वकामदः । मुन्यादिकं च पूर्वोक्तं षडङ्गान्यपि पूर्ववत् ॥ १,७४.१४४ ॥ ध्यायेद्रणे हनूमन्तं सूर्यकोटिसमप्रभम् । धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम् ॥ १,७४.१४५ ॥ लक्ष्मणं च महावीरं पतितं रणभूतले । गुरुं च क्रोधमुत्पाद्य ग्रहोतुं गुरुपर्वतम् ॥ १,७४.१४६ ॥ हाहाकारैः सदर्पैश्च कंपयन्तं जगत्त्रयम् । आब्रह्माण्डं समाख्याप्य कृत्वा भीमं कलेवरम् ॥ १,७४.१४७ ॥ लक्षं जपेद्दशांशेन जुहुयात्पूर्ववत्सुधीः । पूर्ववत्पूजनं प्रोक्तं मन्त्र स्यास्य विधानतः ॥ १,७४.१४८ ॥ एवं सिद्धे मनौ मन्त्री साधयेदात्मनो हितम् । अस्यापि मन्त्रवर्यस्य रहस्यं साधनं तु वै ॥ १,७४.१४९ ॥ सुगोप्यं सर्वतन्त्रेषु न देयं यस्य कस्यचित् । ब्राह्मे मुहूर्ते चोत्थाय कृतनित्यक्रियः शुचिः ॥ १,७४.१५० ॥ गत्वा नदीं तः स्नात्वा तीर्थमावाह्य चाष्टधा । मूलमन्त्रं ततो जप्त्वा सिंचेदादित्यसंख्यया ॥ १,७४.१५१ ॥ एवं स्नानादिकं कृत्वा गङ्गातीरेऽथवा पुनः । पर्वते वा वने वापि भूमिग्रहणपूर्वकम् ॥ १,७४.१५२ ॥ आद्यवर्णैः पूरकं स्यात्पञ्चवर्गैश्च कुम्भकम् । रेचकं च पुनर्याद्यैरेवं प्राणान्नियन्य च ॥ १,७४.१५३ ॥ विधाय भूतशुद्ध्यादि पीठन्यासावधि पुनः । ध्यात्वा पूर्वोक्तविधिना संपूज्य च कपीश्वरम् ॥ १,७४.१५४ ॥ तदग्रे प्रजपेन्नित्यं साधकोऽयुतमादरात् । सप्तमे दिवसे प्राप्ते कुर्याञ्च पूजनं महत् ॥ १,७४.१५५ ॥ एकाग्रमनसा मन्त्री दिवारात्रं जपेन्मनुम् । महाभयं प्रदत्वा त्रिभागशेषासु निश्चितम् ॥ १,७४.१५६ ॥ यामिनीषु समायाति नियतं पवनात्मजः । यथेप्सितं वरं दद्यात्साधकाय कपीश्वरः ॥ १,७४.१५७ ॥ विद्यां वापि धनं वापि राज्यं वा शत्रुनिग्रहम् । तत्क्षणादेव चाप्नोति सत्यं सत्यं न संशयः ॥ १,७४.१५८ ॥ इह लोकेऽखिलान्कामान्भुक्त्वान्ते मुक्तिमाप्नुयात् । सद्याचितं वायुयुग्मं हनूमन्तेति चोद्धरेत् ॥ १,७४.१५९ ॥ फलान्ते फक्रियानेत्रयुक्ता च कामिका ततः । धग्गन्ते धगितेत्युक्त्वा आयुरास्व पदं ततः ॥ १,७४.१६० ॥ लोहितो गरुडो हेतिबाणनेत्राक्षरो मनुः । मुन्यादिकं तु पूर्वोक्तं प्लीहरोगहरो हरिः ॥ १,७४.१६१ ॥ देवता च समुद्दिष्टा प्लीहयुक्तोदरे पुनः । नागवल्लीदलं स्थाप्यमुपर्याच्छादयेत्ततः ॥ १,७४.१६२ ॥ वस्त्रं चैवाष्टगुणितं ततः साधकसत्तमः । शकलं वंशजं तस्योपरि मुञ्चेत्कपिं स्मरेत् ॥ १,७४.१६३ ॥ आरण्यसाणकोत्पन्ने वह्नौ यष्टिं प्रतापयेत् । बदरीभूरुहोत्थां तां मन्त्रेणानेन सप्तधा ॥ १,७४.१६४ ॥ तया संताडयेद्वंशशकलं जठरस्थितम् । सप्तकृत्वः प्लीहरोगो नाशमायाति निश्चितम् ॥ १,७४.१६५ ॥ तारो नमो भगवते आञ्जनेयाय चोञ्चरेत् । अमुकस्य शृङ्खलां त्रोटयद्वितयमीरयेत् ॥ १,७४.१६६ ॥ बन्धमोक्षं कुरुयुगं स्वाहान्तोऽयं मनुर्मतः । ईश्वरोऽस्य मुनिश्छन्दोऽनुष्टुप्च देवता पुनः ॥ १,७४.१६७ ॥ शृङ्खलामोचरः श्रीमान्हनूमान्पवनात्मजः । हं बीजं ठद्वयं शक्तिर्बन्धमोक्षे नियोगता ॥ १,७४.१६८ ॥ षड्दीर्घवह्रियुक्तेन बीजेनाङ्गानि कल्पयेत् । वामे शैलं वैरिभिदं विशुद्धं टङ्कमन्यतः ॥ १,७४.१६९ ॥ दधानं स्वर्णवर्णं च ध्यायेत्कुण्डलिनं हरिम् । एवं ध्यात्वा जपेल्लक्षदशांशं चूतपल्लवैः ॥ १,७४.१७० ॥ जुहुयात्पूर्ववत्प्रोक्तं यजनं वास्य सूरिभिः । महाकारागृहे प्राप्तो ह्ययुतं प्रजपेन्नरः ॥ १,७४.१७१ ॥ शीघ्रं कारागृहान्मुक्तः सुखी भवति निश्चितम् । यन्त्रं चास्य प्रवक्ष्यामि बन्धमोक्षकरं शुभम् ॥ १,७४.१७२ ॥ अष्टच्छदान्तः षट्कोणं साध्यनामसमन्वितम् । षट्कोणेषु ध्रुवं ङेंतमाञ्जनेयपदं लिखेत् ॥ १,७४.१७३ ॥ अष्टच्छदेषु विलिखेत्प्रणवो वातुवात्विति । गोरोचनाकुङ्कुमेन लिखित्वा यन्त्रमुत्तमम् ॥ १,७४.१७४ ॥ धृत्वा मूर्ध्नि जपेन्मन्त्रमयुतं बन्धमुक्तये । यन्त्रमेतल्लिखित्वा तु मृत्तिकोपरि मार्जयेत् ॥ १,७४.१७५ ॥ दक्षहस्तेन मन्त्रज्ञः प्रत्यहं मण्डला वधि । एवं कृते महाकारागृहान्मन्त्री विमुच्यते ॥ १,७४.१७६ ॥ गगनं ज्वलनः साक्षी मर्कटेति द्वयं ततः । तोयं शशेषे मकरे परिमुञ्चति मुञ्चति ॥ १,७४.१७७ ॥ ततः शृङ्खलिकां चेति वेदनेत्राक्षरो मनुः । इमं मन्त्रं दक्षकरे लिखित्वा वामहस्ततः ॥ १,७४.१७८ ॥ दूरिकृत्य जपेन्मन्त्रमष्टोत्तरशतं बुधः । त्रिसप्ताहात्प्रबद्धोऽसौ मुच्यते नात्र संशयः ॥ १,७४.१७९ ॥ मुन्याद्यर्चादिकं सर्वमस्य पूर्ववदाचरेत् । लक्षं जपो दशांशेन शुभैर्द्रव्यैश्च होमयेत् ॥ १,७४.१८० ॥ पुच्छाकारे सुवस्त्रे च लेखन्या क्षुरकोत्थया । गन्धाष्टकैर्लिखेद्वूपं कपिराजस्य सुन्दरम् ॥ १,७४.१८१ ॥ तन्मध्येऽष्टदशार्णं तु शत्रुनामान्वितं लिखेत् । तेन मन्त्राभिजप्तेन शिरोबद्ध्वेन भूमिपः ॥ १,७४.१८२ ॥ जयत्यरिगणं सर्वं दर्शनादेव निश्चितम् । चन्द्रसूर्यो परागादौ पूर्वोक्तं लेखयेद्ध्वजे ॥ १,७४.१८३ ॥ ध्वजमादाय मन्त्रज्ञः संस्पर्शान्मोक्षणावधि । मातृकां जापयेत्पश्चाद्दशांशेन च होमयेत् ॥ १,७४.१८४ ॥ तिलैः सर्षपसंमिश्रैः संस्कृते हव्यवाहने । गजे ध्वजं समारोप्य गच्छेद्युद्ध्वाय भूपतिः ॥ १,७४.१८५ ॥ गजस्थं तं ध्वजं दृष्ट्वा पलायन्तेऽरयो ध्रुवम् । महारक्षाकरं यन्त्रं वक्ष्ये सम्यग्धनूमतः ॥ १,७४.१८६ ॥ लिखेद्वसुदलं पद्मं साध्याख्यायुतकर्णिकम् । दलेऽष्टकोणमालिख्य मालामन्त्रेण वेष्टयेत् ॥ १,७४.१८७ ॥ तद्बहिर्माययावेष्ट्य प्राणस्थापनमाचरेत् । लिखितं स्वर्णलेखन्या भूर्जपत्रे सुशोभने ॥ १,७४.१८८ ॥ काश्मीररोचनाभ्यां तु त्रिलोहेन च वेष्टितम् । सम्पातसाधितं यन्त्रं भुजे वा मूर्ध्नि धारयेत् ॥ १,७४.१८९ ॥ रणे दुरोदरे वादे व्यवहारे जयं लभेत् । ग्रहैर्विघ्नैर्विषैः शस्त्रैश्चौरैर्नैवाभिभूयते ॥ १,७४.१९० ॥ सर्वान्रो गानपाकृत्य चिरं जीवेच्छतं समाः । षड्दीर्घयुक्तं गगन वह्न्याख्यं तारसंपुटम् ॥ १,७४.१९१ ॥ अष्टार्णोऽयं महामन्त्रो मालामन्त्रोऽथ कथ्यते । प्रणवो वज्रकायेति वज्रतुण्डेति संपठेत् ॥ १,७४.१९२ ॥ कपिलान्ते पिङ्गलेति उर्द्ध्वकेशमहापदम् । बलरक्तमुखान्ते तु तडिज्जिह्व महा ततः ॥ १,७४.१९३ ॥ रौद्रदंष्ट्रोत्कटं पश्चात्कहद्वन्द्वं करालिति । महदृढप्रहारेण लङ्केश्वरवधात्ततः ॥ १,७४.१९४ ॥ वायुर्महासेतुपदं बन्धान्ते च महा पुनः । शैलप्रवाह गगनेचर एह्येहि संवदेत् ॥ १,७४.१९५ ॥ भगवन्महाबलान्ते पराक्रमपदं वदेत् । भैरवाज्ञापयैह्येहि महारौद्रपदं ततः ॥ १,७४.१९६ ॥ दीर्घपुच्छेन वर्णान्ते वदेद्वेष्टय वैरिणम् । जंभयद्वयमाभाष्य वर्मास्त्रान्तो मनुर्मतः ॥ १,७४.१९७ ॥ मालाह्वयो द्विजश्रेष्ठ शरनेत्रधराक्षरः । मालामन्त्राष्टार्णयोश्च मुन्याद्यर्चा तु पूर्ववत् ॥ १,७४.१९८ ॥ जप्तो युद्धे जयं दद्याद्व्याधौ व्याधिविनाशनः । एवं यो भजते मन्त्री वायुपुत्रं कपीश्वरम् ॥ १,७४.१९९ ॥ सर्वान्स लभते कामान्दे वैरपि सुदुर्लभान् । धनं धान्यं सुतान्पौत्रान्सौभाग्यमतुलं यशः ॥ १,७४.२०० ॥ मेधां विद्यां प्रभां राज्यं विवादे विजयं तथा । वश्याद्यानि च कर्माणि संगरे विजयं तथा ॥ १,७४.२०१ ॥ उपासितोंऽजनागर्भसंभूतः प्रददात्यलम् ॥ १,७४.२०२ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने सनत्कुमारविभागे तृतीयपादे हनुमन्मन्त्रकथनंनाम चतुःसप्ततितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथ दीपविधिं वक्ष्ये सरहस्यं हनूमतः । यस्य विज्ञानमात्रेण सिद्धो भवति साधकः ॥ १,७५.१ ॥ दीपपात्रप्रमाणं च तैलमानं क्रमेण तु । द्रव्यस्य च प्रमाणं वै तत्तु मानमनुक्रमात् ॥ १,७५.२ ॥ स्थानभेदं च मन्त्रं च दीपदानमनुं पृथक् । पुष्पवासिततैलेन सर्वकामप्रदं मतम् ॥ १,७५.३ ॥ तिलतैलं श्रियः प्राप्त्यै पथिकागमनं प्रति । अतसीतैलमुद्दिष्टं वश्यकर्मणि निश्चितम् ॥ १,७५.४ ॥ सार्षापं रोगनाशाय कथितं कर्मकोविदैः । मारणे राजिकोत्थं वा विभीतकसमुद्भवम् ॥ १,७५.५ ॥ उञ्चाटने करजोत्थं विद्वेषे मधुवृक्षजम् । अलाभे सर्वतैलानां तिलजं तैलमुत्तमम् ॥ १,७५.६ ॥ गोधूमाश्च तिला माषा मुद्गा वै तण्डुलाः क्रमात् । पञ्चधान्यमिदं प्रोक्तं नित्यदीपं तु मारुतेः ॥ १,७५.७ ॥ पञ्चधान्यसमुद्भूतं पिष्टमात्रं सुशोभनम् । सर्वकामप्रदं प्रोक्तं सर्वदा दीपदानके ॥ १,७५.८ ॥ वश्ये तडुलपिष्टोत्थं मारणे माषपिष्टजम् । उञ्चाटने कृष्णतिलपिष्टजं च प्रकीर्तितम् ॥ १,७५.९ ॥ पथिकागमने प्रोक्तं गोधूमोत्थं सतण्डुलम् । मोहने त्वाढकीजात विद्वेषे च कुलत्थजम् ॥ १,७५.१० ॥ संग्रामे केवला माषाः प्रोक्ता दीपस्य पात्रके । संधौ त्रिपिष्टजं लक्ष्मीहेतोः कस्तूरिकाभवम् ॥ १,७५.११ ॥ एलालवङ्गकर्पूरमृगनाभिसमुद्भवम् । कन्याप्राप्त्यै तथा राजवंश्ये सख्ये तथैव च ॥ १,७५.१२ ॥ अलाभे सर्ववस्तूनां पञ्चधान्यं वरं स्मृतम् । अष्टमुष्टिर्भवेत्किञ्चित्किञ्चिदष्टौ चः पुष्कलम् ॥ १,७५.१३ ॥ पुष्कलानां चतुर्णां च ह्याढकः परिकीर्तितः । चतुराढको भवेद्द्रोणः खारी द्रोणचतुष्टयम् ॥ १,७५.१४ ॥ खारीचतुष्टय प्रस्थसंज्ञा च परिकीर्तिता । अथवान्यप्रकारेण मानमत्र निगद्यते ॥ १,७५.१५ ॥ पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् । चतुर्भिः कुडवैः प्रस्थस्तैश्चतुर्भिस्तथाढकः ॥ १,७५.१६ ॥ चतुराढको भवेद्द्रोणःृ खारी द्रोणचतुष्टयम् । क्रमेणैतेन ते ज्ञेयाः पात्रे षट्कर्मसंभवे ॥ १,७५.१७ ॥ पञ्च सप्त नव तथा प्रमाणास्ते यथाक्रमम् । सौगन्धे नैव मानं स्यात्तद्यथारुचि संमतम् ॥ १,७५.१८ ॥ नित्यपात्रे तु तैलानां नियमो वार्तिकोद्भवः । सोमवारे गृहीत्वातद्ध्वान्यं तोयप्लुतं धरेत् ॥ १,७५.१९ ॥ पश्चात्प्रमाणतो ज्ञेयं कुमारीहस्तपेषणम् । तत्पिष्टं शुद्धपात्रे तु नदीतोयेन पिण्डितम् ॥ १,७५.२० ॥ दीपपात्रं ततः कुर्याच्छुद्धः प्रयतमानसः । दीपपात्रे ज्वाल्यमाने मारुतेः कवचं पठेत् ॥ १,७५.२१ ॥ शुद्धभूमौ समास्थाप्य भौमे दीपं प्रदापयेत् । मालामनूनां ये वर्णाः साध्यनामसमन्विताः ॥ १,७५.२२ ॥ वर्तिकायां प्रकर्त्तव्यास्तन्तवस्तत्प्रमाणकाः । तत्त्रिंशांशेन वा ग्राह्या गुरुकार्येऽखिलाढ्यता ॥ १,७५.२३ ॥ कूटतुल्याः स्मृता नित्ये सामान्येऽथ विशेषके । रुद्राः कूटगणाः प्रोक्ता न पात्रे नियमो मतः ॥ १,७५.२४ ॥ एकविंशतिसंख्याकास्तन्तवोऽथाध्वनि स्मृताः । रक्तसूत्रं हनुमतो दीपदाने प्रकीर्तितम् ॥ १,७५.२५ ॥ कृष्णमुञ्चाटने द्वेषेऽरुणं मारणकर्मणि । कूटतुल्यपलं तैलं गुरुकार्ये शिवैर्गुणम् ॥ १,७५.२६ ॥ नित्ये पञ्चपलं प्रोक्तमथवा मानसी रुचिः ॥ १,७५.२७ ॥ हनुमत्प्रतिमायास्तु सन्निधौ दीपदापनम् । शिवालयेऽथवा कुर्यान्नित्यनैमित्तिके स्थले ॥ १,७५.२८ ॥ विशेषोऽस्त्यत्र यः कश्चिन्मारुते रुच्यते मया ॥ १,७५.२९ ॥ प्रतिमाग्रे प्रमोदेन ग्रहभूतग्रहेषु च । चतुष्पथे तथा प्रोक्तं षट्सु दीपप्रदापनम् ॥ १,७५.३० ॥ सन्निधौ स्फआटिके लिङ्गे शालग्रामस्य सन्निधौ । नानाभोगश्रियै प्रोक्तं दीपदानं हनूमतः ॥ १,७५.३१ ॥ गणेशसन्निधौ विघ्नमहासंकटनाशने । विषव्याधिभये घोरे हनुमत्सन्निधौ स्मृतम् ॥ १,७५.३२ ॥ दुर्गायाः सन्निधौ प्रोक्तं संग्रामे दीपदापनम् । चतुष्पथे व्याधिनष्टौ दुष्टदृष्टौ तथैव च ॥ १,७५.३३ ॥ राजद्वारे बन्धमुक्तौ कारागारेऽथवा मतम् । अश्वत्थवटमूले तु सर्वकार्यप्रसिद्धये ॥ १,७५.३४ ॥ वश्ये भये विवादे च वेश्मसंग्रामसंकटे । द्यूते दृष्टिस्तंभने च विद्वेषे मारणे तथा ॥ १,७५.३५ ॥ मृतकोत्थापने चैव प्रतिमाचालने तथा । विषे व्याधौ ज्वरे भूतग्रहे क्रृत्याविमोचने ॥ १,७५.३६ ॥ क्षतग्रन्थौ महारण्ये दुर्गेव्याघ्ने च दन्तिनि । क्रूरसत्त्वेषु सर्वेषु शश्वदून्धविमोक्षणे ॥ १,७५.३७ ॥ पथिकागमने चैव दुःस्थाने राजमोहने । आगमे निर्गमे चैव राजद्वारे प्रकीर्तितम् ॥ १,७५.३८ ॥ दीपदानं हनुमतो नात्र कार्या विचारणा ॥ १,७५.३९ ॥ रुद्रैकविंशपिण्डांश्च त्रिधा मण्डलमानकम् । लघुमानं स्मृतं पञ्च सप्त वा नव वा तथा ॥ १,७५.४० ॥ क्षीरेण नवनूतेन दध्ना वा गोमयेन च । प्रतिमाकरणं प्रोक्तं मारुतेर्दीपदापने ॥ १,७५.४१ ॥ दक्षिणाभिमुखं वीरं कृत्वा केसरिविक्रमम् ॥ १,७५.४२ ॥ ऋक्षविन्यस्तपादं च किरीटेन विराजितम् । लिखेद्भित्तौ पटे वापि पीठे वा मारुतेः शुभे ॥ १,७५.४३ ॥ मालामन्त्रेण दातव्यं दीपदानं हनूमतः । नित्यदीपः प्रकर्त्तव्यो द्वादशाक्षरविद्यया ॥ १,७५.४४ ॥ विशेषस्तत्र यस्तं वै दीपदानेऽवधारय । षष्ट्यादौ च द्वितीयादाविमं दीपमितीरयेत् ॥ १,७५.४५ ॥ गृहाणेति पदं पश्चाच्छेषं पूर्ववदुञ्चरेत् । कूटादौ नित्यदीपे च मन्त्रं सूर्याक्षरं वदेत् ॥ १,७५.४६ ॥ तत्र मालाख्यमनुना तत्तत्कार्येषु कारयेत् । गोमयेनोपलिप्तायां भूमौ तद्गतमानसः ॥ १,७५.४७ ॥ षट्कोणं वसुपत्रं च भूमौ रेखासमन्वितम् । कमलं च लिखेद्भद्रं तत्र दीपं निधापयेत् ॥ १,७५.४८ ॥ शैवे वा वैष्णवे पीठे पूजयेदञ्जनासुतम् । कूटषट्कं च षट्कोणे अन्तराले परलिखेत् ॥ १,७५.४९ ॥ षट्कोणेषु षडङ्गानि बीजयुक्तानि संलिखेत् । सौम्यं मध्यगतं लेख्यं तत्र संपूज्य मारुतिम् ॥ १,७५.५० ॥ षट्कोणेषु षडङ्गानि नामानि च पुरोक्तवत् । वसुपत्रे क्रमात्पूज्या अष्टावेते च वानराः ॥ १,७५.५१ ॥ सुग्रीवायाङ्गदायाथ सुषेणाय नलाय च । नीलायाथो जांबवते प्रहस्ताय तथैव च ॥ १,७५.५२ ॥ सुवेषाय ततः पश्चाद्यजेत्षडङ्गदेवताः । आदावञ्जनापुत्राय ततश्च रुद्रमूर्तये ॥ १,७५.५३ ॥ ततो वायुसुतायाथ जानकीजीवनाय च । रामदूताय ब्रह्मास्त्रनिवारणाय तत्परम् ॥ १,७५.५४ ॥ पञ्चोपचारैः संपूज्य देशकालौ च कीर्तेत् । कुशोदकं समादाय दीपमन्त्रं समुञ्चरेत् ॥ १,७५.५५ ॥ उत्तगभिमुखो जप्त्वा साधयेत्साधकोत्तमः । तं मन्त्रं कूटधा जप्त्वा जलं भूमौ विनिक्षिपेत् ॥ १,७५.५६ ॥ ततः करपुटं कृत्वा यथाशक्ति जपेन्मनुम् । अनेन दीपवर्येण उदङ्मुखगतेन वै ॥ १,७५.५७ ॥ तथा विधेहि हनुमन्यथा स्युर्मे मनोरथआः । त्रयोदशैवं द्रव्याणि गोमयं मृत्तिका मसी ॥ १,७५.५८ ॥ अलक्तं दरदं रक्तचन्दनं चन्दनं मधु । कस्तूरिका दधि क्षीरं नवनीतं घऋतं तथा ॥ १,७५.५९ ॥ गोमयं द्विविधं तत्र प्रोक्तं गोमहिषीभवम् । पश्चाद्विनष्टद्रव्याप्तौ माहिषं गोमयं स्मृतम् ॥ १,७५.६० ॥ पथिकागमने दूरान्महादुर्गस्य रक्षणे । बालादिरक्षणे चैव चौरादिभयनाशने ॥ १,७५.६१ ॥ स्त्रीवश्यादिषु कार्येषु शस्तं गोगोमयं मने । भूमिस्पृष्टं न तद्ग्राह्यमन्तरिक्षाञ्च भाजने ॥ १,७५.६२ ॥ चतुर्विधा मृत्तिका तु श्वेता पीतारुणासिता । तत्र गोपीचन्दनं तु हरितालं च गौरिकम् ॥ १,७५.६३ ॥ मषी लाक्षारसोद्भूता सर्वं वान्यत्स्फुटं मतम् । कृत्वा गोपीचदंनेन चतुरस्रं गृहं सुधीः ॥ १,७५.६४ ॥ तन्मध्ये माहिषेणाथ कुर्यान्मूर्तिं हनूमतः । बीजं क्रोधाञ्च तत्पुच्छं लिखेन्मन्त्री समाहितः ॥ १,७५.६५ ॥ तैलेन स्नापयेन्मूर्तिं गुडेन तिलकं चरेत् । शतपत्रसमो धूपः शालनिर्याससंभवः ॥ १,७५.६६ ॥ कुर्य्याञ्च तैलदीपं तु वर्तिपञ्चकसंयुतम् । दध्योदनेन नैवेद्यं दद्यात्साधकसत्तमः ॥ १,७५.६७ ॥ वारत्रयं कण्ठदेशे सशेषविषमुञ्चरन् । एवं कृते तु नष्टानां महिषीणां गवामपि ॥ १,७५.६८ ॥ दासीदासादिकानां च नष्टानां प्राप्तिरीरिता । चौरादिदुष्टसत्त्वानां सर्पादीनां भये पुनः ॥ १,७५.६९ ॥ तालेन च चतुर्द्वारं गृहं कृत्वा सुशोभनम् । पूर्वद्वारे गजः स्थाप्यो दक्षिणे महिषस्तथा ॥ १,७५.७० ॥ सर्पस्तु पश्चिमे द्वारे व्याघ्रश्चैवोत्तरे तथा । एवं क्रमेण खड्गं च क्षुरिकादण्डमुद्गरान् ॥ १,७५.७१ ॥ विलिख्य मध्ये मूर्तिं च महिषीगोमयेन वै । कृत्वा डमरुहस्तां च चकिताक्षीं प्रयत्नतः ॥ १,७५.७२ ॥ पयसा स्नापनं रक्तचन्दनेनानुलेपनम् । जातीपुष्पैस्तु संपूज्य शुद्धधूप प्रकल्पयेत् ॥ १,७५.७३ ॥ घृतेन दीपं दत्त्वाथ पायसान्नं निवेदयेत् । गगनं दीपिकेन्द्वाढ्यां शास्त्रं च पुरतो जपेत् ॥ १,७५.७४ ॥ एवं सप्तदिनं कृत्वा मुच्यते महतो भयात् । अनयोर्भौंमवारे तु कुर्यादारंभमादरात् ॥ १,७५.७५ ॥ शत्रुसेनाभये प्राप्ते गैरिकेण तु मण्डलम् । कृत्वा तदन्तरे तालमीष्टन्नम्रं समालिखेत् ॥ १,७५.७६ ॥ तत्रावलंबमानां च प्रतिमां गोमयेन तु । वामहस्तेन तालाग्रं दक्षिणे ज्ञानमुद्रिका ॥ १,७५.७७ ॥ तालमूलात्स्वकाष्टायां मार्गे हस्तमिते गृहम् । चतुरस्र विधायाथ तन्मध्ये मूर्तिमालिखेत् ॥ १,७५.७८ ॥ दक्षिणाभमुखीं रिम्यां हृदये विहिताञ्जलिम् । तोयेन स्नानगन्धादि यथासंभवमर्पयेत् ॥ १,७५.७९ ॥ कृशारान्नं च नैवेद्यं साज्यं तस्यै निवेदयेत् । किलिद्वयं जपं प्रोक्तमेवं कुर्याद्दिने दिने ॥ १,७५.८० ॥ एवं कृते भवेच्छीघ्रं पथिकानां समागमः । श्यामपाषाणखण्डेन लिखित्वा भूपतेर्गृहम् ॥ १,७५.८१ ॥ प्राकारं तु चतुर्द्वारयुक्तं द्वारेषु तत्र वै । अन्योन्यपुच्छ रिधित्रययुक्तां हनूमतः ॥ १,७५.८२ ॥ कुर्यान्मूर्तिं गोमयेन धत्तूरकुसुमैयजेत् । जटामांसीभवं धूपं तैलाक्तघृतदीपकम् ॥ १,७५.८३ ॥ नैवेद्यं तिलतैलाक्तसक्षारा माषरोटिका । ध्येयो दक्षिणहस्तेन रोटिकां भक्षयन्हरिः ॥ १,७५.८४ ॥ वामहस्तेन पाषाणैस्त्रासयन्परसैनिकान् । प्नारयन्भ्रुकुटीं बद्ध्वा भीषयन्मथयन्स्थितः ॥ १,७५.८५ ॥ जपेञ्च भुग्भुगिति वै सहस्रं ध्यानतत्परः । एवं कृतविधानेन परसैन्यं विनाशयेत् ॥ १,७५.८६ ॥ रक्षा भवति दुर्गाणां सत्यं सत्य न संशयः । प्रायोगा बहवस्तत्र संक्षेपाद्गदिता मया ॥ १,७५.८७ ॥ प्रत्यहं यो विधानेन दीपदानं हनूमतः । तस्यासाध्यं न वै किञ्चिद्विद्यते भुवनत्रये ॥ १,७५.८८ ॥ न देयं दुष्टहृदये दुष्टचिन्तनबुद्धये । अविनीताय शिष्याय पिशुनाय कदाचन ॥ १,७५.८९ ॥ कृतघ्नाय न दातव्यं दातव्यं च परीक्षिते । बहुना किमिहोक्तेन सर्वं दद्यात्कपीश्वरः ॥ १,७५.९० ॥ अथ मन्त्रान्तरं वक्ष्ये तत्त्वज्ञानप्रदायकम् । तारो नमो हनुमते जाठरत्रयमीरयेत् ॥ १,७५.९१ ॥ दनक्षोभं समाभाष्य संहरद्वयमीरयेत् । आत्मतत्त्वं ततः पश्चात्प्रकाशययुगं ततः ॥ १,७५.९२ ॥ वर्मास्त्रवह्निजायान्तः सार्द्धूषड्विंशदर्णवान् । वसिष्ठोऽस्य मुनिश्छन्दोऽनुष्टुप्च देवताः पुनः ॥ १,७५.९३ ॥ हनुमान्मुनिसप्तर्तुवेदाष्टनिगमैः क्रमात् । मन्त्रार्णैश्च षडङ्गानि कृत्वा ध्यायेत्कपीश्वरम् ॥ १,७५.९४ ॥ जानुस्थावामबाहुं च ज्ञानमुद्रापरं हृदि । अध्यात्मचित्तमासीनं कदलीवनमध्यगम् ॥ १,७५.९५ ॥ बालार्ककोटिप्रतिमं ध्यायेज्ज्ञानप्रदं हरिम् । ध्यात्वैवं प्रजपेल्लक्षं दशांशं जुहुयात्तिलैः ॥ १,७५.९६ ॥ साज्यैः संपूजयेत्पीठे पूर्वोक्ते पूर्ववत्प्रभुम् । जप्तोऽयं मदनक्षोभं नाशयत्येव निश्चितम् ॥ १,७५.९७ ॥ तत्त्वज्ञानमवाप्नोति कपीन्द्रस्य प्रसादतः । अथ मन्त्रातरं वाक्ष्ये भूतविद्रावणं परम् ॥ १,७५.९८ ॥ तारः काशीङ्कुक्षिपरवराहश्चाञ्जनापदम् । पवनो वनपुत्रान्ते आवेशिद्वयमीरयेत् ॥ १,७५.९९ ॥ तारः श्रीहनुमत्यश्चादस्त्ररचभुजाक्षरः । ब्रह्मा मुनिः स्याद्गायत्री छन्दोऽत्र देवता पुनः ॥ १,७५.१०० ॥ हनुमान्कमला बीजं फट्शक्तिः परिकीर्तितः । षड्दीर्घाढ्येन बीजेन षडङ्गानि समाचरेत् ॥ १,७५.१०१ ॥ आञ्जनेय पाटलास्यं स्वर्णाद्रिसमविग्रहम् । पारिजातद्रुमूलस्थं चिन्तयेत्साधकोत्तमः ॥ १,७५.१०२ ॥ एवं ध्यात्वा जपेल्लक्षं दशांशं जुहुयात्तिलैः । त्रिमध्वक्तैर्यञ्जत्पीठे पूर्वोक्तेपूर्ववत्सुधीः ॥ १,७५.१०३ ॥ अनेन मनुना मन्त्री ग्रहग्रस्तं प्रमार्जयेत् । आक्रन्दंस्तं विमुच्याथ ग्रहः शीघ्रं पलायते ॥ १,७५.१०४ ॥ मनवोऽमी सदागोप्या न प्रकाश्या यतस्ततः । परीक्षिताय शिष्याय देया वा निजसूनवे ॥ १,७५.१०५ ॥ हनुमद्भजनासक्तः कार्तवीर्यार्जुनं सुधीः । विशेषतः समाराध्य यथोक्तं फलमाप्नुयात् ॥ १,७५.१०६ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दीपविधिनिरूपणं नाम पञ्चसप्ततितमोऽध्यायः _____________________________________________________________ नारद उवाच कार्तवीर्यतप्रभृतयो नृपा बहुविधा भुवि । जायन्तेऽथ प्रलीयन्ते स्वस्वकर्मानुसारतः ॥ १,७६.१ ॥ तत्कथं राजवर्योऽसौ लोकेसेव्यत्वमागतः । समुल्लङ्घ्य नृपानन्यानेतन्मे नुद संशयम् ॥ १,७६.२ ॥ सनत्कुमार उवाच शृणु नारद वक्ष्यामि संदेहविनिवृत्तये । यथा सेव्यत्वमापन्नः कार्तवीर्यार्जुनो भुवि ॥ १,७६.३ ॥ यः सुदर्शनचक्रस्यावतारः पृथिवीतले । दत्तात्रेयं समाराध्य लब्धवांस्तेज उत्तमम् ॥ १,७६.४ ॥ तस्य क्षितीश्वरेद्रस्य स्मरणादेव नारद । शत्रूञ्जयति संग्रामे नष्टं प्राप्नोति सत्वरम् ॥ १,७६.५ ॥ तेनास्य मन्त्रपूजादि सर्वतन्त्रेषु गोपितम् । तुभ्यं प्रकाशयिष्येऽहं सर्वसिद्धिप्रदायकम् ॥ १,७६.६ ॥ वह्नितारयुता रौद्री लक्ष्मीरग्नीन्दुशान्तियुक् । वेधाधरेन्दुशान्त्याढ्यो निद्रयाशाग्नि बिन्दुयुक् ॥ १,७६.७ ॥ पाशो मायाङ्कुशं पद्मावर्मास्त्रे कार्तवीपदम् । रेफोवा द्यासनोऽनन्तो वह्निजौ कर्णसंस्थितौ ॥ १,७६.८ ॥ मेषः सदीर्घः पवनो मनुरुक्तो हृदन्तिमः । ऊनर्विशतिवर्णोऽयं तारादिर्नखवर्णकः ॥ १,७६.९ ॥ दत्तात्रेयो मुनिश्चास्यच्छन्दोऽनुष्टुबुदाहृतम् । कार्तवीर्यार्जुनो देवो बीजशक्तिर्ध्रुवश्च हृत् ॥ १,७६.१० ॥ शेषाढ्यबीजयुग्मेन हृदयं विन्यसेदधः । शान्तियुक्तचतुर्थेन कामाद्येन शिराःेंऽगकम् ॥ १,७६.११ ॥ इन्द्वाढ्यं वामकर्णाद्यमाययोर्वीशयुक्तया । शिखामङ्कुशपद्माभ्यां सवाग्भ्यां वर्म विन्यसेत् ॥ १,७६.१२ ॥ वर्मास्त्राभ्यामस्त्रमुक्तं शेषार्णैर्व्यापकं पुनः । हृदये जठरे नाभौ जठरे गुह्यदेशतः ॥ १,७६.१३ ॥ दक्षपादे वामपादे सक्थ्नि जानुनि जङ्घयोः । विन्यसेद्बीजदशकं प्रणवद्वयमध्यगम् ॥ १,७६.१४ ॥ ताराद्यानथ शेषार्णान्मस्तके च ललाटके । भ्रुवोः श्रुत्योस्तथैवाक्ष्णोर्नसि वक्त्रे गलेंऽसके ॥ १,७६.१५ ॥ सर्वमन्त्रेण सर्वाङ्गे कृत्वा व्यापकमादृतः । सर्वेष्टसिद्धये ध्यायेत्कार्तवीर्यं जनेश्वरम् ॥ १,७६.१६ ॥ उद्यद्रर्कसहस्राभं सर्वभूपतिवन्दितम् । दोर्भिः पञ्चाशता दक्षैर्बाणान्वामैर्धनूंषि च ॥ १,७६.१७ ॥ दधतं स्वर्णमालाढ्यं रक्तवस्त्रसमावृतम् । चक्रावतारं श्रीविष्णोर्ध्यायेदर्जुनभूपतिम् ॥ १,७६.१८ ॥ लक्षमेकं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः । सतण्डुलैः पायसेन विष्णुपीठे यजत्तुतम् ॥ १,७६.१९ ॥ षट्कोणेषु षडङ्गानि ततो दिक्षु विविक्षु च । चौरमदविभञ्जनं मारीमदविभञ्जनम् ॥ १,७६.२० ॥ अरिमदविभञ्जनं दैत्यमदविभञ्जनम् । दुष्टनाशं दुःखनाशं दुरितापद्विनाशकम् ॥ १,७६.२१ ॥ दिक्ष्वष्टशक्तयः पूज्याः प्राच्यादिष्वसितप्रभाः । क्षेमङ्करी वश्यकरी श्रीकरी च यशस्करी ॥ १,७६.२२ ॥ आयुः करी तथा प्रज्ञाकरी विद्याकरी पुनः । धनकर्यष्टमी पश्चाल्लोकेशा अस्त्रसंयुताः ॥ १,७६.२३ ॥ एवं संसाधितो मन्त्रः प्रयोगार्हः प्रजायते । कार्तवीर्यार्जुनस्याथ पूजायन्त्रमिहोच्यते ॥ १,७६.२४ ॥ स्वबीजानङ्गध्रुववाक्कर्णिकं दिग्दलं लिखेत् । तारादिवर्मान्तदलं शेषवर्णदलान्तरम् ॥ १,७६.२५ ॥ ऊष्मान्त्यस्वरकिञ्जल्कं शेषार्णैः परिवेष्टितम् । कोणालङ्कृतभूतार्णभूगृहं यन्त्रमीशितुः ॥ १,७६.२६ ॥ शुद्धभूमावष्टगन्धैर्लिखित्वा यन्त्रमादरात् । तत्र कुंभं प्रतिष्ठाप्य तत्रावाह्यार्चयेन्नृपम् ॥ १,७६.२७ ॥ स्पृष्ट्वा कुंभं जपेन्मन्त्रं सहस्रं विजितेन्द्रियः । अभिषिं चेत्तदंभोभिः प्रियं सर्वेष्टसिद्धये ॥ १,७६.२८ ॥ पुत्रान्यशो रोगनाशमायुः स्वजनरञ्जनम् । वाक्सिद्धिं सुदृशः कुम्भाभिषिक्तो लभते नरः ॥ १,७६.२९ ॥ शत्रूपद्रव आपन्ने ग्रामे वा पुटभेदने । संस्थापंयेदिदं यन्त्रं शत्रुभीतिनिवृत्तये ॥ १,७६.३० ॥ सर्षपारिष्टलशुनकार्पासैर्मार्यते रिपुः । धत्तूरैः स्तभ्यते निम्बैर्द्वेष्यते वश्यतेंऽबुजैः ॥ १,७६.३१ ॥ उञ्चाटने विभीतस्य समिद्भिः खदिरस्य च । कटुतैलमहिष्याज्यैर्हेमद्रव्याञ्जनं स्मृतम् ॥ १,७६.३२ ॥ यवैर्हुते श्रियः प्राप्तिस्तिलैराज्यैरघक्षयः । तिलतण्डुलसिद्धार्थजालैर्वश्यो नृपो भवेत् ॥ १,७६.३३ ॥ अपामार्गार्कदूर्वाणां होमो लक्ष्मीप्रदोऽघनुत् । स्त्रीवश्यकृत्प्रियङ्गूणां मुराणां भूतशान्तिदः ॥ १,७६.३४ ॥ अश्वत्थोदुंबरप्लक्षवटबिल्वसमुद्भवाः । समिधो लभते हुत्वा पुत्रानायुर्द्धनं सुखम् ॥ १,७६.३५ ॥ निर्मोकहेमसिद्धार्थलवणैश्चौरनाशनम् । रोचनागोमयैस्तंभो भूप्राप्तिः शालिभिर्हुतैः ॥ १,७६.३६ ॥ होमसंख्या तु सर्वत्र सहस्रादयुतावधि । प्रकल्पनीया मन्त्रज्ञैः कार्य्यगौरवलाघवात् ॥ १,७६.३७ ॥ कार्तवीर्य्यस्य मन्त्राणामुच्यते लक्षणं बुधाः । कार्तवीर्यार्जुनं ङेंतं सर्वमन्त्रेषु योजयेत् ॥ १,७६.३८ ॥ स्वबीजाद्यो दशार्णोऽसौ अन्ये नवशिवाक्षराः । आद्यबीजद्वयेनासौ द्वितीयो मन्त्र ईरितः ॥ १,७६.३९ ॥ स्वकामाभ्यां तृतीयोऽसौ स्वभ्रूभ्यां तु चतुर्थकः । स्वपाशाभ्यां पञ्चमोऽसौ षष्टः स्वेन च मायया ॥ १,७६.४० ॥ स्वाङ्कुशाभ्यां सप्तमः स्यात्स्वरमाभ्यामथाष्टमः । स्ववाग्भवाभ्यां नवमो वर्मास्त्राभ्यामथान्तिमः ॥ १,७६.४१ ॥ द्वितीयादिनवान्तेषु बीजयोः स्याद्व्यतिक्रमः । मन्त्रे तु दशमे वर्णा नववर्मास्त्रमध्यगाः ॥ १,७६.४२ ॥ एतेषु मन्त्रवर्येषु स्वानुकूलं मनुं भजेत् । एषामाद्ये विराट्छदोऽन्येषु त्रिष्टुबुदाहृतम् ॥ १,७६.४३ ॥ दश मन्त्रा इमे प्रोक्ता यदा स्युः प्रणवादिकाः । तदादिमः शिवार्णः स्यादन्ये तु द्वादशाक्षराः ॥ १,७६.४४ ॥ त्रिष्टुपूछन्दस्तथाद्ये स्यादन्येषु जगती मता । एवं विंशतिमन्त्राणां यजनं पूर्ववन्मतम ॥ १,७६.४५ ॥ दीर्घाढ्यमूलबीजेन कुर्यादेषां षडङ्गकम् । तारो हृत्कार्तवीर्यार्जुनाय वर्मास्त्रठद्वयम् ॥ १,७६.४६ ॥ चतुर्दशार्णो मन्त्रोऽयमस्येज्या पूर्ववन्मता । भूनेत्रसमनेत्राक्षिवर्णेरस्याङ्गपञ्चकम् ॥ १,७६.४७ ॥ तारो हृद्भगवान् ङेंतः कार्तवीर्यार्जुनस्तथा । वर्मास्त्राग्निप्रियामन्त्रः प्रोक्तो ह्यष्टादशार्णकः ॥ १,७६.४८ ॥ त्रिवेदसप्तयुग्माक्षिवर्णैः पञ्चाङ्गकं मनोः । नमो भगवते श्रीति कार्तवीर्यार्जुनाय च ॥ १,७६.४९ ॥ सर्वदुष्टान्तकायेति तपोबलपराक्रमः । परिपालितसप्तान्ते द्वीपाय सर्वरापदम् ॥ १,७६.५० ॥ जन्यचूडा मणान्ते ये महाशक्तिमते ततः । सहस्रदहनप्रान्ते वर्मास्त्रान्तो महामनुः ॥ १,७६.५१ ॥ त्रिषष्टिवर्णवान्प्रोक्तः स्मरमात्सर्वविघ्नहृत् । राजन्यक्रवर्ती च वीरः शूरस्तृतीयकः ॥ १,७६.५२ ॥ माहिष्मतीपतिः पश्चाञ्चतुर्थः समुदीरितः । रेवांबुपरितृप्तश्च काणो हस्तप्रबाधितः ॥ १,७६.५३ ॥ दशास्येति च षड्भिः स्यात्पदैर्ङेतैः षडङ्गकम् । सिंच्यमानं युवतिभिः क्रीडन्तं नर्मदाजले ॥ १,७६.५४ ॥ हस्तैर्जलौधं रुन्धन्तं ध्यायेन्मत्तं नृपोत्तमम् । एवं ध्यात्वायुतं मन्त्रं पजेदन्यत्तु पूर्ववत् ॥ १,७६.५५ ॥ पूर्वं तु प्रजपेल्लक्षं पूजायोगश्च पूर्ववत् । कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ॥ १,७६.५६ ॥ तस्य संस्मरणादेव हृतं नष्टं च संवदेत् । लभ्यते मन्त्रवर्योऽयं द्वात्रिंशद्वर्णसंयुतः ॥ १,७६.५७ ॥ पादैः सर्वेण पञ्चाङ्गं ध्यानपूजादि पूर्ववत् । कार्तवीर्याय शब्दान्ते विद्महे पदमुञ्चरेत् ॥ १,७६.५८ ॥ महावीर्याय वर्णान्ते धीमहीति पदं वदेत् । तन्नोर्ऽजुनः प्रवर्णान्ते चोदयात्पदमीरयेत् ॥ १,७६.५९ ॥ गायत्र्येषार्जुन स्योक्ता प्रयोगादौ जपेत्तु ताम् । अनुष्टुभं मनुं रात्रौ जपतां चौरसंचयाः ॥ १,७६.६० ॥ पलायन्ते गृहाद्दूरं तर्पणाद्ध्रवनादपि । अथो दीपविधिं वक्ष्ये कार्तवीर्यप्रियङ्करम् ॥ १,७६.६१ ॥ वैशाखे श्रावणे मार्गे कार्तिकाश्विनपौषतः । माघफाल्गुनयोर्मासोर्दीपारंभं समाचरेत् ॥ १,७६.६२ ॥ तिथौ रिक्ताविहीनायां वारे शनिकुजौ विना । हस्तोत्तराश्विरौद्रेयपुष्यवैष्णववायुभे ॥ १,७६.६३ ॥ द्विदैवते च रोहिण्यां दीपारंभो हितावहः । चरमे च व्यतीपाते धृतौ वृद्धौ सुकर्मणि ॥ १,७६.६४ ॥ प्रीतौ हर्षं च सौभाग्ये शोभनायुष्मतोरपि । करणे विष्टिरहिते ग्रहणेऽर्द्धोदयादिषु ॥ १,७६.६५ ॥ योगेषु रात्रौ पूर्वाह्ने दीपारंभघः कृतः शुभः । कार्तिके शुक्लसप्तम्यां निशीथेऽतीव शोभनः ॥ १,७६.६६ ॥ यदि तत्र रवेर्वारः श्रवणं भं च दुर्लभम् । अत्यावश्यककार्येषु मासादीनां न शोधनम् ॥ १,७६.६७ ॥ आद्ये ह्युपोष्य नियतो ब्रह्मचारी सपीतकैः । प्रातः स्नात्वा शुद्धभूमौ लिप्तायां गोमयोदकैः ॥ १,७६.६८ ॥ प्राणानायम्य संकल्प्य न्यासान्पूर्वोदितांश्चरेत् । षट्कोणं रचयेद्भूमौ रक्तचन्दनतण्डुलैः ॥ १,७६.६९ ॥ अतः स्मरं समालिख्य षट्कोणेषु समालिखेत् । नवार्णैर्वेष्टयेत्तञ्च त्रिकोणं तद्बहिः पुनः ॥ १,७६.७० ॥ एवं विलिखिते यन्त्रे निदध्याद्दीपभाजनम् । स्वर्णजं रजतोत्थं वा ताम्रजं तदभावतः ॥ १,७६.७१ ॥ कांस्यपात्रं मृण्मयं च कनिष्ठं लोहजं मृतौ । शान्तये मुद्गचूर्णोत्थं संधौ गोधूमचूर्णजम् ॥ १,७६.७२ ॥ आज्ये पलसहस्रे तु पात्रं शतपलं स्मृतम् । आज्येऽयुतपले पात्रं पलपञ्चशता स्मृतम् ॥ १,७६.७३ ॥ पञ्चसप्ततिसंख्ये तु पात्रं षष्टिपलं स्मृतम् । त्रिसाहस्री घृतपले शर्करापलभाजनम् ॥ १,७६.७४ ॥ द्विसाहख्त्र्यां द्विशतमितं च भाजनमिष्यते । शतेऽक्षिचरसंश्यातमेवमन्यत्र कल्पयेत् ॥ १,७६.७५ ॥ नित्यदीपे वह्निपलं पात्रमाज्यं पलं स्मृतम् । एवं पात्रं प्रतिष्ठाप्य वर्तीः सूत्रोत्थिताः क्षिपेत् ॥ १,७६.७६ ॥ एका तिस्रोऽथवा पञ्चसप्ताद्या विषमा अपि । तिथिमानादासहस्रं तन्तुसंख्या विनिर्मिता ॥ १,७६.७७ ॥ गोघृतं प्रक्षिपेत्तत्र शुद्धवस्त्रविशोधितम् । सहस्रपलसंख्यादिदशांशं कार्यगौरवात् ॥ १,७६.७८ ॥ सुवर्णादिकृतां रम्यां शलाकां षोडशाङ्गुलाम् । तदर्द्धां वा तदर्द्धां वा सूक्ष्माग्रां स्थूलमूलिकाम् ॥ १,७६.७९ ॥ विमुञ्चेद्दक्षिणे पात्रमध्ये चाग्रे कृताग्रिकाम् । पात्रदक्षिणदिग्देशे मुक्त्वां गुलचतुष्टयम् ॥ १,७६.८० ॥ अधोग्रां दक्षिणाधारां निखनेच्छुरिकां शुभाम् । दीपं प्रज्वालयेत्तत्र गणेशस्मृतिपूर्वकम् ॥ १,७६.८१ ॥ दीपात्पूर्वत्र दिग्भागे सर्वतोभद्रमण्डले । तण्डुलाष्टदले वापि विधिवत्स्थापयेद्धूटम् ॥ १,७६.८२ ॥ तत्रावाह्य नृपाधीशं पूजयेत्पूर्ववत्सुधीः । जलाक्षतान्समादाय दीपं संकल्पयेत्ततः ॥ १,७६.८३ ॥ दीपसंकल्पमन्त्रोऽयं कथ्यते द्वीषुभूमितः । प्रणवः पाशमाये च शिखा कार्ताक्षराणि च ॥ १,७६.८४ ॥ वीर्यार्जुनाय माहिष्मतीनाथाय सहस्र च । बाहवे इति वर्णान्ते सहस्रपदमुच्चरेत् ॥ १,७६.८५ ॥ क्रतुदीक्षितहस्ताय दत्तात्रेयप्रियाय च । आत्रेयायानुसूयान्ते गर्भरत्नाय तत्परम् ॥ १,७६.८६ ॥ नमो ग्रीवामकर्णेन्दुस्थितौ पाश इमं ततः । दीपं गृहाण अमुकं रक्ष रक्ष पदं पुनः ॥ १,७६.८७ ॥ दुष्टान्नाशययुग्मं स्यात्तथा पातय घातय । शत्रून् जहिद्वयं माया तारः स्वं बीजमात्मभूः ॥ १,७६.८८ ॥ वह्नीप्रिया अनेनाथ दीपवर्येण पश्चिमा । भिमुखेनामुकं रक्ष अमुकान्ते वरप्रद ॥ १,७६.८९ ॥ मायाकाशद्वयं वामनेत्रचन्द्रयुतं शिवा । वेदादिकामचामुण्डाः स्वाहा तु पूसबिन्दुकौ ॥ १,७६.९० ॥ प्रणवोऽग्निप्रिया मन्त्रो नेत्रबाणाधराक्षरः । दत्तात्रेयो मुनिर्मालामन्त्रस्य परिकीर्तितः ॥ १,७६.९१ ॥ छन्दोऽमितं कार्तवीर्युर्जुनो देवोऽखिलाप्तिकृत् । चामुण्डया षडङ्गानि चरेत्षड्दीर्घयुक्तया ॥ १,७६.९२ ॥ ध्यात्वा देवं ततो मन्त्रं पठित्वान्ते क्षिपेज्जजलम् । गोविन्दाढ्यो हली सेंदुश्चामुण्डाबीजमीरितम् ॥ १,७६.९३ ॥ ततो नवाक्षरं मन्त्रं सहस्रं तत्पुरो जपेत् । तारोऽनन्तो बिन्दुयुक्तो मायास्वं वामनेत्रयुक् ॥ १,७६.९४ ॥ कूर्माग्नी शान्तिबिन्द्वाढ्यौ वह्नि जायाङ्कुशं ध्रुवम् । ऋषिः पूर्वोदितोनुष्टुप्छन्दोऽन्यत्पूर्ववत्पुनः ॥ १,७६.९५ ॥ सहस्रं मन्त्रराजं च जपित्वा कवचं पठेत् । एवं दीपप्रदानस्य कर्ताप्नोत्यखिलेऽप्सितम् ॥ १,७६.९६ ॥ दीपप्रबोधकाले तु वर्जयेदशुभां गिरम् । विप्रस्य दर्शनं तत्र शुभदं परिकीर्तितम् ॥ १,७६.९७ ॥ शूद्राणां प्रध्यमं प्रोक्तं म्लेच्छस्य वधबन्धनम् । आख्वोत्वोर्दर्शनं दुष्टं गवाश्वस्य सुखावहम् ॥ १,७६.९८ ॥ दीपज्वाला समा सिद्ध्यै वक्रा निशविधायिनी । शब्दा भयदा कर्तुरुज्ज्वला सुखदा मता ॥ १,७६.९९ ॥ कृष्णा शत्रुभयोत्पत्त्ये वमन्ती पशुनाशिनी । कृते दीपे यदा पात्रं भग्नं दृश्यते दैवतः ॥ १,७६.१०० ॥ पक्षादर्वाक्तदा गच्छेद्यजमानो यमालयम् । वर्त्यतरं यदा कुर्यात्कार्यं सिद्ध्येद्विलंबतः ॥ १,७६.१०१ ॥ नेत्रहीनो भवेत्कर्ता तस्मिन्दीपान्तरे कृते । अशुचिस्पर्शने व्याधिर्दीपनाशे तु चौरभीः ॥ १,७६.१०२ ॥ श्वमार्जाराखुसंस्पर्शे भवेद्भूपतितो भयम् । पात्रारंभे वसुपलैः कृतो दीपोऽखिलेष्टदः ॥ १,७६.१०३ ॥ तस्माद्दीपः प्रयत्नेन रक्षणीयोंऽतरायतः । आसमाप्तेः प्रकुर्वीत ब्रह्मचर्यं च भूशयः ॥ १,७६.१०४ ॥ स्त्रीशूद्रपतितादीनां संभाषामपि वर्जयेत् । जपेत्सहस्रं प्रत्येकं मन्त्रराजं नवाक्षरम् ॥ १,७६.१०५ ॥ स्तोत्रपाठं प्रतिदिनं निशीथिन्यां विशेषतः । एकपादेन दीपाग्रे स्थित्वा यो मन्त्रनायकम् ॥ १,७६.१०६ ॥ सहस्रं प्रजपेद्वात्रौ सोऽभीष्टं क्षिप्रमाप्नुयात् । समाप्य शोभनदिने संभोज्य द्विजसत्तमान् ॥ १,७६.१०७ ॥ कुंभोदकेन कर्तारमभिषिञ्चन्मनुं जपेत् । कर्ता तु दक्षिणां दद्यात्पुष्कलां तोषहेतवे ॥ १,७६.१०८ ॥ गुरौ तुष्टे ददातीष्टं कृतवीर्यसुतो नृपः । गुर्वाज्ञया स्वयं कुर्याद्यदि वा कारये द्गुरुः ॥ १,७६.१०९ ॥ दत्त्वा धनादिकं तस्मै दीपदानाय नारद । गुर्वाज्ञामन्तरा कुर्याद्यो दीपं स्वेष्टसिद्धये ॥ १,७६.११० ॥ सिद्धिर्न जायते तस्य हानिरेव पदे पदे । उत्तमं गोघृतं प्रोक्तं मध्यमं महषीभवम् ॥ १,७६.१११ ॥ तिलतैलं तु तादृक्स्यात्कनीयोऽजादिजं घृतम् । आस्यरोगे सुगन्धेन दद्यात्तैलेन दीपकम् ॥ १,७६.११२ ॥ सिद्ध्वार्थसंभवेनाथ द्विषतां नाशनाय च । सहस्रेण पलैर्दीपे विहिते च न दृश्यते ॥ १,७६.११३ ॥ कार्यसिद्धस्तदा कुर्यात्र्रिवारं दीपजं विधिम् । तदा सुदुर्लभमपि कार्य्यं सिद्ध्व्येन्न संशयः ॥ १,७६.११४ ॥ दीपप्रियः कार्तवीर्यो मार्तण्डो नतिवल्लभः । स्तुतिप्रोयो महाविष्णुर्गणेश स्तपर्णप्रियः ॥ १,७६.११५ ॥ दुर्गार्चनप्रिया नूनमभिषेकप्रियः शिवः । तस्मात्तेषां प्रतोषाय विदध्यात्तत्तदादरात् ॥ १,७६.११६ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यमाहात्म्यमन्त्रदीपकथनं नाम षट्सप्ततितमोऽध्यायः _____________________________________________________________ नारद उवाच साधु साधु महाप्राज्ञ सर्व तन्त्रविशारद । त्वया मह्यं समाख्यातं विधानं तन्त्रगोपितम् ॥ १,७७.१ ॥ अधुना तु महाभाग कीर्तवीर्यहनूमतोः । कवचे श्रोतुमिच्छामि तद्वदस्वकृपानिधे ॥ १,७७.२ ॥ सनत्कुमार उवाच शृणु विप्रेन्द्र वक्ष्यामि कवचं परमाद्भुतम् । कार्तवीर्यस्य येनासौ प्रसन्नः कार्यसिद्धिकृत् ॥ १,७७.३ ॥ सहस्रादित्यसंकाशे नानारत्नसमुज्ज्वंले । भास्वद्ध्वजपताकाढ्ये तुरगायुतभूषिते ॥ १,७७.४ ॥ महासंवर्तकांभोधिभीमरावविराविणि । समुद्धृतमहाछत्त्रवितानितवियत्पथे ॥ १,७७.५ ॥ महारथवरे दीप्तनानायुधविराजिते । सुस्थितं विपुलोदारं सहस्रभुजमण्डितम् ॥ १,७७.६ ॥ वामैरुद्दण्डकोदण्डान्दधानमपरैः शरान् । किरीटहारमुकुटकेयूरवलयाङ्गदैः ॥ १,७७.७ ॥ मुद्रिकोदरबन्धाद्यैर्माऐञ्जीनूपुरकादिभिः । भूषितं विविधाकल्पैर्भास्वरैः सुमहाधनैः ॥ १,७७.८ ॥ आबद्धकवचं वीरं सुप्रसन्नाननांबुजम् । धनुर्ज्या सिंहनादेन कंपयन्तं जगत्त्रयम् ॥ १,७७.९ ॥ सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् । सर्वसंपत्प्रदातारं विजयश्रीनिषेवितम् ॥ १,७७.१० ॥ सर्वसौभाग्यदं भद्रं भक्ताभयविधायिनम् । दिव्यमाल्यानुलेपाढ्यं सर्वलक्षणसंयुतम् ॥ १,७७.११ ॥ रथनागाश्वपादातवृन्दमध्यगमीश्वरम् । वरदं चक्रवर्तीनं सर्वलोकैकपालकम् ॥ १,७७.१२ ॥ समानोदितसाहस्रदिवाकरसमद्युतिम् । महायोगभवैश्वर्यकीर्त्याक्रान्तजगत्त्रयम् ॥ १,७७.१३ ॥ श्रीमञ्टतं हरेरंशादवतीर्णं महीतले । सम्यगात्मादिभेदेन ध्यात्वा रक्षामुदीरयेत् ॥ १,७७.१४ ॥ अस्याङ्गमूर्तयः पञ्च पान्तु मां स्फटिकोज्ज्वलाः । अग्नीशासुरवायव्यकोणेषु हृदयादिकाः ॥ १,७७.१५ ॥ सर्वतोस्रज्वलद्रूपा दरचर्मासिपाणयः । अव्याहतबलैश्वर्यशक्तिसामर्थ्यविग्रहाः ॥ १,७७.१६ ॥ क्षेमङ्करीशक्तियुतश्चौरवर्गविभञ्जनः । प्राचीं दिशं रक्षतु मे बाणबाणासनायुधः ॥ १,७७.१७ ॥ श्रीकरीशक्तिसहितो मारीभयविनाशकः । शरचापधरः श्रीमान् दिशं मे पातु दक्षिणाम् ॥ १,७७.१८ ॥ महावश्यकरीयुक्तः सर्वशत्रुविनाशकृत् । महेषुचापधृक्पातु मम प्राचेतसीं दिशम् ॥ १,७७.१९ ॥ यशःकर्या समायुक्तो दैत्यसंघविनाशनः । परिरक्षतु मे सम्यग्विदिशं चैत्रभानवीम् ॥ १,७७.२० ॥ विद्याकरीसमायुक्तः सुमहहुःखनाशनः । पातु मे नैरृतीं चापपाणिर्विदिशमीश्वरः ॥ १,७७.२१ ॥ धनकर्या समायुक्तो महादुरित नाशनः । इष्वासनेषुधृक्पातु विदिशं मम वायवीम् ॥ १,७७.२२ ॥ आयुःकर्या युतः श्रीमान्महाभयविनाशनः । चापेषुधारी शैवीं मे विदिशं परिरक्षतु ॥ १,७७.२३ ॥ विजयश्रीयुतः साक्षात्सहस्रारधरो विभुः । दिशमूर्द्ध्वामवतु मे सर्वदुष्टभयङ्करः ॥ १,७७.२४ ॥ शङ्खभृत्सुमहाशक्तिसंयुतोऽप्यधरां दिशम् । परिरक्षतु मे दुःखध्वान्तसम्भेदभास्करः ॥ १,७७.२५ ॥ महायोगसमायुक्तः सर्वदिक्चक्रमण्डलः । महायोगीश्वरः पातु सर्वतो मम पद्मभृत् ॥ १,७७.२६ ॥ एतास्तु मूर्तयो रक्ता रक्तमाल्यांशुकावृताः । प्रधानदेवतारूपाः पृथग्रथवरे स्थिताः ॥ १,७७.२७ ॥ शक्तयः पद्महस्ताश्चत नीलेन्दीवरसन्न्निभाः । शुक्लमाल्यानुवसनाः सुलिप्ततिलकोज्ज्वलाः ॥ १,७७.२८ ॥ तत्पार्शदेश्वराः स्वस्ववाहनायुधभूषणाः । स्वस्वदिक्षु स्थिताः पान्तु मामिन्द्राद्या महाबलाः ॥ १,७७.२९ ॥ एतस्तस्य समाख्याताः सर्वावरणदेवताः । सर्वतो मां सदा पातुं सर्वशक्तिसमन्विताः ॥ १,७७.३० ॥ हृदये चोदरे नाभौ जठरे गुह्यमण्डले । तेजोरूपाः स्थिताः पातुं वाञ्छासुखनद्रुमाः ॥ १,७७.३१ ॥ दिशं चान्ये महावर्णा मन्त्ररूपा महोज्ज्वलाः । व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् ॥ १,७७.३२ ॥ कार्तवीर्यः शिरः पातु ललाटं हैहयेश्वरः । सुमुखो मे मुखं पातु कर्णौं व्याप्तजगत्त्रयः ॥ १,७७.३३ ॥ सुकुमारो हनुं पातु भ्रूयुगं मे धनुर्धरः । नयनं पुंमडरीकाक्षगो नासिकां मे गुणाकरः ॥ १,७७.३४ ॥ अधरोष्ठौ सदा पातु ब्रह्ज्ञेयो द्विजान्कविः । सर्वशास्त्रकलाधारी जिह्वां चिबुकमव्ययः ॥ १,७७.३५ ॥ दत्तात्रेयप्रियः कण्ठं स्कन्धौ राजकुलेश्वरः । भुजौ दशास्यदर्पघ्नो हृदयं मे महाबलः ॥ १,७७.३६ ॥ कुक्षिं रक्षतु मे विद्वान् वक्षः परपुरञ्जयः । करौ सर्वार्थदः पातुकराग्राणि जगत्प्रियः ॥ १,७७.३७ ॥ रेवांबगुलीलासंहप्तो जठरं परिरक्षतु । वीरशूरस्तु मे नाभिं पार्श्वौ मे सर्वदुष्टहा ॥ १,७७.३८ ॥ सहस्रभुजनृत्पृष्टं सप्तद्वीपाधिपः कटिम् । ऊरू माहिष्मतीनाथो जानुनी वल्लभो भुवः ॥ १,७७.३९ ॥ जङ्घे वीराधिपः पातु पातु पादौ मनोजवः । पातु सर्वायुधधरः सर्वाङ्गं सर्वमर्मसु ॥ १,७७.४० ॥ सर्वदुष्टान्तकः पातु धात्वष्टककलेवरम् । प्राणादिदशजीवेशान्सर्वशिष्टेष्टदोऽवतु ॥ १,७७.४१ ॥ वशीकृतेन्द्रियग्रामः पातु सर्वेन्द्रियाणि मे । अनुक्तमपि यत्स्थान शरीरान्तर्बहिश्च यत् ॥ १,७७.४२ ॥ तत्सर्वं पातु मे सर्वलोकनाथेश्वरेश्वरः । वज्रात्सारतरं चेदं शरीरं कवचावृतम् ॥ १,७७.४३ ॥ बाधाशतविनिर्मुक्तमस्तु मे भयवर्जितम् । बद्धेदं कवचं दिव्यमभेद्यं हैहयेशितुः ॥ १,७७.४४ ॥ विचरामि दिवा रात्रौ निर्भयेनान्तरात्मना । राजमार्गे महादुर्गे मार्गे चौरा दिसंकुले ॥ १,७७.४५ ॥ विषमे विपिने घोरे दावाग्नौ गिरिकन्दरे । संग्रामे शस्त्रसंघाते सिंहव्याघ्रनिषेविते ॥ १,७७.४६ ॥ गह्वरे सर्वसंकीर्णे संध्याकाले नृपालये । विवादे विपुलावर्ते समुद्रे च नदीतटे ॥ १,७७.४७ ॥ परिपन्थिजनाकीर्णे देशे दस्युगणावृते । सर्वस्वहरणे प्राप्ते प्राप्ते प्राणस्य संकटे ॥ १,७७.४८ ॥ नानारोगज्वरावेशे पिशाचप्रेतयातने । मारीदुःस्वप्नपीडासु क्लिष्टे विश्वासघातके ॥ १,७७.४९ ॥ शारीरे च महादुःखे मानसे च महाज्वरे । आधिव्याधिभये विघ्नज्वालोपद्रवकेऽपि च ॥ १,७७.५० ॥ न भवतु भयं किञ्चित्कवचेनावृतस्य मे । आङ्गुतुकामानखिलानस्मद्वसुविलुंपकान् ॥ १,७७.५१ ॥ निवारयतु दोर्दण्डसहस्रेण महारथः । स्वकरोद्धृतसाहस्रपाशबद्धान्सुदुर्जयान् ॥ १,७७.५२ ॥ संरुद्धूगतिसामर्थ्यान्करोतु कृतवीर्यजः । सृणिसाहस्रनिर्भिन्नान्सहस्रशरखण्डितान् ॥ १,७७.५३ ॥ राजचूडामणिः क्षिप्रं करोत्वस्मद्विरोधकान् । खड्ग साहस्रदलितान्सहस्रमुशलार्दितान् ॥ १,७७.५४ ॥ चौरादि दुष्टसत्त्वौघान्करोतु कमलेक्षणः । स्वशङ्खनादसंत्रस्तान्सहस्रारसहस्रभृत् ॥ १,७७.५५ ॥ अवतारो हरेः साक्षात्पालयत्वखिलं मम । कार्तवीर्य महावीर्य सर्वदुष्टविनाशन ॥ १,७७.५६ ॥ सर्वत्र सर्वदा दुष्टचौरान्नाशाय नाशय । किं त्वं स्वपिषि दुष्टघ्न किं तिष्टसि चिरायासि ॥ १,७७.५७ ॥ उत्तिष्ठ पाहि नः सर्वभयेभ्यः स्वसुतानिव । ये चौरा वसुहर्तारो विद्विषो ये च हिंसकाः ॥ १,७७.५८ ॥ साधुभीतिकरा दुष्टाश्छद्मका ये दुराशयाः । दुर्हृदो दुष्टभू पाला दुष्टामात्याश्च पापकाः ॥ १,७७.५९ ॥ ये च कार्यविलोप्तोरो ये खलाः परिपन्थिनः । सर्वस्वहारिणां ये च पञ्च मायाविनोऽपरेः ॥ १,७७.६० ॥ महाक्लेशकरा म्लेच्छा दस्यवो वृषलाश्च ये । येऽग्निदा गरदातारो वञ्चकाः शस्त्रपाणयः ॥ १,७७.६१ ॥ ये पापा दुष्टकर्माणो दुःखदा दुष्टबुद्धयः । व्याजकाः कुपथासक्ता ये च नानाभयप्रदाः ॥ १,७७.६२ ॥ छिद्रान्वेषरता नित्यं येऽस्मान्बाधितुमुद्यताः । ते सर्वे कार्तवीर्यस्य महाशङ्खरवाहताः ॥ १,७७.६३ ॥ सहसा विलयं यान्तु दूरदिव विमोहिताः । ये दानवा महादित्या ये यक्षा ये च राक्षसाः ॥ १,७७.६४ ॥ पिशाचा ये महासत्त्वा ये भूतब्रह्मराक्षसाः । अपस्मारग्रहा ये च ये ग्रहाः पिशिताशनाः ॥ १,७७.६५ ॥ महालोहितभोक्तारो वेताला ये च गुह्यकाः । गन्धर्वाप्सरसः सिद्धा ये च देवादियोनयः ॥ १,७७.६६ ॥ डाकिन्यो द्रुणसाः प्रेताः क्षेत्रपाला विनायकाः । महाव्याघ्रमहामेघा महातुरागरूपकाः ॥ १,७७.६७ ॥ महागजा महासिंहा महामहिषयोनयः । ऋक्षवाराहशुनकवानरोलूकमूर्तयः ॥ १,७७.६८ ॥ महोष्ट्रखरमार्जारसर्पगोवृषमस्तकाः । नानारूपा महासत्त्वा नानाक्लेशसहस्रदाः ॥ १,७७.६९ ॥ नानारोगकराः क्षुद्रा महावीर्या महाबलाः । वातिकाः पैत्तिका घोरा श्लैष्मिकाः सान्निपातिकाः ॥ १,७७.७० ॥ माहेश्वरा वैष्णवाश्च वैरिञ्च्याश्च महाग्रहाः । स्कान्दा वैनायकाः क्रूरा ये च प्रमथगुह्यकाः ॥ १,७७.७१ ॥ महाशत्रुहा रौद्रा महामारीमसूरिकाः । ऐकाहिका व्द्याहिकाश्च त्र्याहिकाश्च महाज्वराः ॥ १,७७.७२ ॥ चातुर्थिकाः पाक्षिकाश्च मास्याः षाण्मासिकाश्च ये । सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः ॥ १,७७.७३ ॥ स्वाप्निका ये महोत्पाता ये च दुःस्वाप्निका ग्रहाः । कूष्माण्डा जृंभिका भौमा द्रोणाः सान्निध्यवञ्चकाः ॥ १,७७.७४ ॥ भ्रमिकाः प्राणहर्तारो ये च बालग्रहादयः । मनोबुद्वीन्द्रियहराः स्फोटकाश्च महाग्रहाः ॥ १,७७.७५ ॥ महाशना बलिभुजो महाकुणपभोजनाः । दिवाचरा रात्रिचरा ये च संध्यासु दारुणाः ॥ १,७७.७६ ॥ प्रमत्ता वाप्रमत्ता वै ये मां बाधितुमुद्यताः । ते सर्वे कार्त्तवीर्यस्य धनुर्मुक्तशराहताः ॥ १,७७.७७ ॥ सहस्रधा प्रणश्यन्तु भग्नसत्त्वबलोद्यमाः । ये सर्पा ये महानागा महागिरिबिलेशयाः ॥ १,७७.७८ ॥ कालव्याला महादंष्ट्रा महाजगरसंज्ञकाः । अनन्तशूलिकाद्याश्च दंष्ट्राविषमहाभयाः ॥ १,७७.७९ ॥ अनेकशत शीर्षाश्च खण्डपुच्छाश्च दारुणाः । महाविषजलौकाश्च वृश्चिका रुक्तपुच्छकाः ॥ १,७७.८० ॥ आशीविषाः कालकूटा महाहालाहलाह्वयाः । जलसर्पा जलव्याला जलग्राहाश्च कच्छपाः ॥ १,७७.८१ ॥ मत्स्यका विषपुच्छाश्च ये चान्ये जलवासिनः । जलजाः स्थलजाश्चैव कृत्रिमाश्च महाविषाः ॥ १,७७.८२ ॥ गुप्तरूपा गुप्तविषा मूषिका गृहगोधिकाः । नानाविषाश्च ये घोरा महोपविषसंज्ञकाः ॥ १,७७.८३ ॥ येऽस्मान्बाधितुमिच्छन्ति शरीरप्राणनाशकाः । ते सर्वे कार्तवीर्यस्य खङ्कसाहस्रदारिताः ॥ १,७७.८४ ॥ दूरादेव विनश्यन्तु प्रणष्टेन्द्रियसाहसाः । मनुष्याः पशवो त्वृक्षवानरा वनगोचराः ॥ १,७७.८५ ॥ सिंहव्याघ्रवराहाश्च महिषा ये महामृगाः । गजास्तुरङ्गा गवया रासभाः शरभा वृकाः ॥ १,७७.८६ ॥ शुनका द्वीपिनः शुभ्रा मार्जारा बिललोलुपाः । शृगालाः शशकाः श्येना गुरुत्मन्तो विहॄङ्गमाः ॥ १,७७.८७ ॥ भेरुण्डा वायसा गूध्रा हंसाद्याः पक्षिजातयः । उद्भिज्जाश्चाण्डजाश्चैव स्वेदजाश्च जरायुजाः ॥ १,७७.८८ ॥ नानाभेदकुले जाता नानाभेदाः पृथग्विधाः । येऽस्मान्बाधितुमिच्छन्ति सेध्यासु च दिवा निशि ॥ १,७७.८९ ॥ ते सर्वे कार्तवीर्यस्य गदासाहस्रदारिताः । दूरादेव विनश्यन्तु विनष्टगतिपौरुषाः ॥ १,७७.९० ॥ ये चाक्षेमप्रदातारः कूटमायाविनश्च ये । मारणोत्सादनोन्मूलद्वेषमोहनकारकाः ॥ १,७७.९१ ॥ विश्वास घातका दुष्टा ये च स्वामिद्रुहो नराः । ये चाततायिनो दुष्टा ये पापा गोप्यहारिणः ॥ १,७७.९२ ॥ दाहोपद्यातगरलशस्त्रपातातिदुःखदाः । क्षेत्रवित्तादिहरणबन्धनादिभयप्रदाः ॥ १,७७.९३ ॥ ईतयो विविधाकारो ये चान्ये दुष्टजातयः । पीडाकरा ये सततं छिद्रमिच्छन्ति बाधितुम् ॥ १,७७.९४ ॥ ते सर्वे कार्तवीर्यस्य चक्रसाहस्रदारिताः । दूरादेव क्षयं यान्तु विनष्टबलसाहसाः ॥ १,७७.९५ ॥ ये मेघा ये महावर्षा ये वाता याश्च विद्युतः । ये महाशनयो दीप्ता ये निर्घाताश्च दारुणाः ॥ १,७७.९६ ॥ उल्कापाताश्च ये घोरा ये महेन्द्रायुधादयः । सूर्येन्दुकुजसौम्याश्च गुरुकाव्यशनैश्चराः ॥ १,७७.९७ ॥ राहुश्च केतवो घोरा नक्षत्रा राशयस्तथा । तिथयः संक्रमा मासा हायना युगनायकाः ॥ १,७७.९८ ॥ मन्वन्तराधिपाः सिद्धा ऋषयो योगसिद्धयः । निधयो ऋग्यजुःसामाथर्वाणश्चैव वह्नयः ॥ १,७७.९९ ॥ ऋतवो लोकपालाश्च पितरो देवसंहतिः । विद्याश्चैव चतुःषष्टिभेदा या भुवनत्रये ॥ १,७७.१०० ॥ ये त्वत्र कीर्तिताः सर्वे चये चान्ये नानुकीर्तिताः । ते संतु नः सदा सौम्याः सर्वकालसुखावहाः ॥ १,७७.१०१ ॥ आज्ञया कार्तवीर्यस्य योगीन्द्रस्यामितद्युतेः । कार्तवीर्यार्जुनो धन्वी राजेन्द्रो हैहयेश्वरः ॥ १,७७.१०२ ॥ दशास्यदर्पहा रेवालीलादृप्तकः सुदुर्जयः । दुःखहा चौरदमनो राजराजेश्वरः प्रभुः ॥ १,७७.१०३ ॥ सर्वज्ञः सर्वदः श्रीमान् सर्वशिष्टेष्टदः कृती । राजचूडामणिर्योगी सप्तद्वीपाधिनायकः ॥ १,७७.१०४ ॥ विजयी विश्वजिद्वाग्मी महागतिरलोलुपः । यज्वा विप्रप्रियो विद्वान् ब्रह्मज्ञेयः सनातनः ॥ १,७७.१०५ ॥ माहिष्मतीपतिर्योधा महाकीर्तिर्महाभुजः । सुकुमारो महावीरो मारीघ्नो मदिरेक्षणः ॥ १,७७.१०६ ॥ शत्रुघ्नः शाश्वतः शूरः शङ्खभृद्योगिवल्लभः । महाभागवतो धीमान्महाभयविनाशनः ॥ १,७७.१०७ ॥ असाध्यी विग्रहो दिव्यो भावो व्याप्तजगत्त्रयः । जितेन्द्रियो जितारातिः स्वच्छन्दोऽनन्तविक्रममः ॥ १,७७.१०८ ॥ चक्रभृत्परचक्रघ्नः संग्रामविधिपूजितः । सर्वशास्त्रकलाधरी विरजा लोकवन्दितः ॥ १,७७.१०९ ॥ वीरो विमलसत्त्वाढ्यो महाबलपराक्रमः । विजयश्रीमहामान्यो जितारिर्मन्त्रनायकः ॥ १,७७.११० ॥ खड्गभृत्कामदः कान्तः कालघ्नः कमलेक्षणः । भद्रवादप्रियो वैद्यो विबुधो वरदो वशी ॥ १,७७.१११ ॥ महाधनो निधिपतिर्महायोगी गुरुप्रियः । योगाढ्यः सर्वरोगघ्नो राजिताखिलभूतलः ॥ १,७७.११२ ॥ दिव्यास्त्रभृदमेयात्मा सर्वगोप्ता महोज्ज्वलः । सर्वायुधधरोऽभीष्टप्रदः परपुरञ्जयः ॥ १,७७.११३ ॥ योगसिद्धो महाकायो महावृन्दशताधिपः । सर्वज्ञाननिधिः सर्वसिद्ध्विदानकृतोद्यमः ॥ १,७७.११४ ॥ इत्यष्टशतनामोत्त्या मूर्तयो दश दिक्पथि । सम्यग्दशदिशो व्याप्य पालयन्तु च मां सदा ॥ १,७७.११५ ॥ स्वस्थाः सर्वेन्द्रियाः संतुं शान्तिरस्तु सदा मम । शेषाद्या मूर्तयोऽष्टौ च विक्रमेणैव भास्वराः ॥ १,७७.११६ ॥ अग्निनिरृतिवाय्वीशकोणगाः पान्तु मां सदा । मम सौख्यमसंबाधमारोग्यमपराजयः ॥ १,७७.११७ ॥ दुःखहानिरविघ्नश्च प्रजावृद्धिः सुखो दयः । वाञ्छाप्तिरतिकल्याणमवैषम्यमनामयम् ॥ १,७७.११८ ॥ अनालस्यमभीष्टं स्यान्मृत्युहानिर्बलोन्नतिः । भयहानिर्यशः कान्तिर्विद्या ऋद्धिर्महाश्रियः ॥ १,७७.११९ ॥ अनष्टद्रव्यता चैव नष्टस्य पुनरागमः । दीर्घायुष्यं मनोहर्षः सौकुमार्यमभीप्सितम् ॥ १,७७.१२० ॥ अप्रधृष्यतमत्वं च महासामर्थ्यमेव च । संतु मे कार्तवीर्य्यस्य हैहयेन्द्रस्य कीर्तनात् ॥ १,७७.१२१ ॥ य इदं कार्तवीर्य्यस्य कवच पुण्यवर्द्धनम् । सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ॥ १,७७.१२२ ॥ सर्वशान्तिकरं गुह्यं समस्तभयनाशनम् । विजयार्थप्रदं नॄणां सर्वसंपत्प्रदं शुभम् ॥ १,७७.१२३ ॥ शृणुयाद्वा पठेद्वापि सर्वकामानवाप्नुयात् । चौरैर्हृतं यदा पश्येत्पश्वादिधनमात्मनः ॥ १,७७.१२४ ॥ सप्तवारं तदा जप्येन्निशि पश्चिमदिङ्मुखः । सप्तरात्रेण लभते नष्टद्रव्यं न संशयः ॥ १,७७.१२५ ॥ सप्तविंशतिधा जप्त्वा प्राचीदिग्वदनः पुमान् । देवासुरनिभं चापि परचक्रं निवारयेत् ॥ १,७७.१२६ ॥ विवादे कलहेघोरे पञ्चधा यः पठेदिदम् । विजयो जायते तस्य न कदाचित्पराजयः ॥ १,७७.१२७ ॥ सर्वरोगप्रपीडासु त्रेधा वा पञ्चधा पठेत् । स रोगमृत्युवेतालभूतप्रेतैर्न बाध्यते ॥ १,७७.१२८ ॥ सम्यग्द्वादशाधा रात्रौ प्रजपेद्बन्धमुक्तये । त्रिदिनान्निगडादूद्ध्वो मुच्यते नात्र संशयः ॥ १,७७.१२९ ॥ अनेनैव विधानेन सर्वसाधनकर्मणि । असाध्यमपि सप्ताहात्साधयेन्मन्त्रवित्तमः ॥ १,७७.१३० ॥ यात्राकाले पठित्वेदं मार्गे गच्छति यः पुमान् । न दुष्टचौरव्याघ्राद्यैर्भयं स्यात्परिपन्थिभिः ॥ १,७७.१३१ ॥ जपन्नासेचनं कुर्वञ्जलेनाञ्जलिना तनौ । न चासौ विषकृत्यादिरोगस्फोटैः प्रबाध्यते ॥ १,७७.१३२ ॥ कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली । सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ १,७७.१३३ ॥ रक्तगन्धोरक्तमाल्यो राजा स्मर्तुरभीष्टदः । द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ १,७७.१३४ ॥ संपदस्तस्य जायन्ते जनास्तस्य वशे सदा । यः सेवते सदा विप्र श्रीमञ्चक्रावतारकम् ॥ १,७७.१३५ ॥ तस्य रक्षां सदा कुर्याञ्चक्रं विष्णोर्महात्मनः । मयैतत्कवचं विप्र दत्तात्रेयान्मुनीश्वरात् ॥ १,७७.१३६ ॥ श्रुतं तुभ्यं निगदितं धारयस्वाखिलेष्टदम् ॥ १,७७.१३७ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यकवचकथनं नाम सप्तसप्ततितोमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच कार्तवीर्यस्य कवचं कथितं ते मुनीश्वर । मोहविध्वंसनं जैत्रं मारुतेः कवचं शृणु ॥ १,७८.१ ॥ यस्य संधारणात्सद्यः सर्वे नश्यन्त्युपद्रवाः । भूतप्रेतारिजं दुःखं नाशमेति न संशयः ॥ १,७८.२ ॥ एकदाहं गतो द्रष्टुं रामं रमयतां वरम् । आनन्दवनिकासंस्थं ध्यायन्तं स्वात्मनः पदम् ॥ १,७८.३ ॥ तत्र रामं रमानाथं पूजितं त्रिदशेश्वरैः । नमस्कृत्य तदादिष्टमासनं स्थितवान् पुरः ॥ १,७८.४ ॥ तत्र सर्वं मया वृत्तं रावणस्य वधान्तकम् । पृष्टं प्रोवाच राजेन्द्रः श्रीरामः स्वयमादरात् ॥ १,७८.५ ॥ ततः कथान्ते भगवान्मारुतेः कवचं ददौ । मह्यं तत्ते प्रवक्ष्यामि न प्रकाश्यं हि कुत्रचित् ॥ १,७८.६ ॥ भविष्यदेतन्निर्द्दिष्टं बालभावेन नारद । श्रीरामेणाञ्जनासूनासूनोर्भुक्तिमुक्तिप्रदायकम् ॥ १,७८.७ ॥ हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः । पातु प्रतीच्यामक्षघ्नः सौम्ये सागरतारकः ॥ १,७८.८ ॥ ऊर्द्ध पातु कपिश्रेष्ठः केसरिप्रियनन्दनः । अधस्ताद्विष्णुभक्तस्तु पातु मध्ये च पावनिः ॥ १,७८.९ ॥ लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् । सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ॥ १,७८.१० ॥ भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् । नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥ १,७८.११ ॥ कपोलौ कर्णमूले च पातु श्रीरामकिङ्करः । नासाग्रमञ्जनासूनुः पातु वक्त्रं हरीश्वरः ॥ १,७८.१२ ॥ पातु कण्ठे तु दैत्यारिः स्कन्धौ पातु सुरारिजित् । भुजौ पातु महातेजाः करौ च चरणायुधः ॥ १,७८.१३ ॥ नखान्नाखायुधः पातु कुक्षौ पातु कपीश्वरः । वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥ १,७८.१४ ॥ लङ्कानिभञ्जनः पातु पृष्टदेशे निरन्तरम् । नाभिं श्रीरामभक्तस्तु कटिं पात्वनिलात्मजः ॥ १,७८.१५ ॥ गुह्यं पातु महाप्रज्ञः सक्थिनी अतिथिप्रियः । ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ॥ १,७८.१६ ॥ जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः । अचलोद्धारकः पातु पादौ भास्करसन्निभः ॥ १,७८.१७ ॥ अङ्गानि पातु सत्त्वाढ्यः पातु पादाङ्गुलीः सदा । मुखाङ्गानि महाशूरः पातु रोमाणि चात्मवान् ॥ १,७८.१८ ॥ दिवारात्रौ त्रिलोकेषु सदागतिलुतोऽवतु । स्थितं व्रजन्तमासीनं पिबन्तं जक्षतं कपिः ॥ १,७८.१९ ॥ लोकोत्तरगुणः श्रीमान् पातु त्र्यंबकसंभवः । प्रमत्तमप्रमत्तं वा शयानं गहनेंऽबुनि ॥ १,७८.२० ॥ स्थलेंऽतरिक्षे ह्यग्नौ वा पर्वते सागरे द्रुमे । संग्रामे संकटे घोरे विराङ्रूपधरोऽवतु ॥ १,७८.२१ ॥ डाकिनीशाकिनीमारीकालरात्रिमरीचिकाः । शयानं मां विभुः पातु पिशाचोरगराक्षसीः ॥ १,७८.२२ ॥ दिव्यदेहधरो धीमान्सर्वसत्त्वभयङ्करः । साधकेन्द्रावनः शश्वत्पातु सर्वत एव माम् ॥ १,७८.२३ ॥ यद्रूपं भीषणं दृष्ट्वा पलायन्ते भयानकाः । स सर्वरूपः सर्वज्ञः सृष्टिस्थितिकरोऽवतु ॥ १,७८.२४ ॥ स्वयं ब्रह्मा स्वयं विष्णुः साक्षाद्देवो महेश्वरः । सूर्यमण्डलगः श्रीदः पातु कालत्रयेऽपि माम् ॥ १,७८.२५ ॥ यस्य शब्दमुपाकर्ण्य दैत्यदानवराक्षसाः । देवा मनुष्यास्तिर्यञ्चः स्थावरा जङ्गमास्तथा ॥ १,७८.२६ ॥ सभया भयनिर्मुक्ता भवन्ति स्वकृतानुगाः । यस्यानेककथाः पुण्याः श्रूयन्ते प्रतिकल्पके ॥ १,७८.२७ ॥ सोऽवतात्साधकश्रेष्ठं सदा रामपरायणमः । वैधात्रधातृप्रभृति यत्किञ्चिद्दृश्यतेऽत्यलम् ॥ १,७८.२८ ॥ विद्ध्वि व्याप्तं यथा कीशरूपेणानञ्जनेन तत् । यो विभुः सोऽहमेषोऽहं स्वीयः स्वयमणुर्बृहत् ॥ १,७८.२९ ॥ ऋग्यजुःसामरूपश्च प्रणवस्त्रिवृदध्वरः । तस्मै स्वस्मै च सर्वस्मै नतोऽस्म्यात्मसमाधिना ॥ १,७८.३० ॥ अनेकानन्तब्रह्माण्डधृते ब्रह्मस्वरूपिणे । समीरणात्मने तस्मै नतोऽस्म्यात्मस्वरूपिणे ॥ १,७८.३१ ॥ नमो हनुमते तस्मै नमो मारुतसूनवे । नमः श्रीरामभक्ताय श्यामाय महते नमः ॥ १,७८.३२ ॥ नमो वानर वीराय सुग्रीवसख्यकारिणे । संकाविदहनायाथ महासागरतारिणे ॥ १,७८.३३ ॥ सीताशोकविनाशाय राममुद्राधराय च । रावणान्तनिदानाय नमः सर्वोत्तरात्मने ॥ १,७८.३४ ॥ मेघनादमखध्वंसकारणाय नमोनमः । अशोकवनविध्वंसकारिणे जयदायिने ॥ १,७८.३५ ॥ वायुपुत्राय वीराय आकाशोदरगामिने । वनपालशिरश्छेत्रे लङ्काप्रासादभञ्जिने ॥ १,७८.३६ ॥ ज्वलत्काञ्चनवर्णाय दीर्घलाङ्गूलधारिणे । सौमित्रिजयदात्रे च रामदूताय ते नमः ॥ १,७८.३७ ॥ अक्षस्य वधकर्त्रे च ब्रह्मशस्त्रनिवारिणे । लक्ष्मणाङ्गमहाशक्तिजातक्षतविनाशिने ॥ १,७८.३८ ॥ रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय नमोनमः । ऋक्षवानरवीरौघप्रासादाय नमोनमः ॥ १,७८.३९ ॥ परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः । विषघ्नाय द्विषघ्नाय भयघ्नाय नमोनमः ॥ १,७८.४० ॥ महीरिपुभयघ्नाय भक्तत्राणैककारिण । परप्रेरितमन्त्राणां मन्त्राणां स्तंभकारिणे ॥ १,७८.४१ ॥ पयः पाषाणतरणकारणाय नमोनमः । बालार्कमण्डलग्रासकारिणे दुःखहारिणे ॥ १,७८.४२ ॥ नखायुधाय भीमाय दन्तायुधधराय च । विहॄङ्गमाय शवाय वज्रदेहाय ते नमः ॥ १,७८.४३ ॥ प्रतिग्रामस्थितायाथ भूतप्रेतवधार्थिने । करस्थशैलशस्त्राय राम शस्त्राय ते नमः ॥ १,७८.४४ ॥ कौपीनवाससे तुभ्यं रामभक्तिरताय च । दक्षिणाशाभास्कराय सतां चन्द्रोदयात्मने ॥ १,७८.४५ ॥ कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च । स्वाम्याज्ञापार्थसंग्रामसख्यसंजयकारिणे ॥ १,७८.४६ ॥ भक्तानां दिव्यवादेषु संग्रामे जयकारिणे । किल्किलावुवकाराय घोरशब्दकराय च ॥ १,७८.४७ ॥ सर्वाग्निव्याधिसंस्तंभकारिणे भयहारिणे । सदा वनफलाहारसंतृप्ताय विशेषतः ॥ १,७८.४८ ॥ महार्णवशिलाबद्ध्वसेतुबन्धाय ते नमः । इत्येतत्कथितं विप्र मारुतेः कवचं शिवम् ॥ १,७८.४९ ॥ यस्मै कस्मै न दातव्यं रक्षणीयं प्रयत्नतः । अष्टगन्धैर्विलिख्याथ कवचं धारयेत्तु यः ॥ १,७८.५० ॥ कण्ठे वा दक्षिणे बाहौ जयस्तस्य पदे पदे । किं पुनर्बहुनोक्तेन साधितं लक्षमादरात् ॥ १,७८.५१ ॥ प्रजप्तमेतत्कवचमसाध्यं चापि साधयेत् ॥ १,७८.५२ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमत्कवचनिरूपणं नामाष्टसप्ततितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथापरं वायुसूनोश्चरितं पापनाशनम् । यदुक्तं स्वासु रामेण आनन्दवनवासिना ॥ १,७९.१ ॥ सद्योजाते महाकल्पे श्रुतवीर्ये हनूमति । मम श्रीरामचन्द्रस्य भक्तिरस्तु सदैव हि ॥ १,७९.२ ॥ शृणुष्व गदतो मत्तः कुमारस्य कुमारक । चरितं सर्वपापघ्नं शृण्वतां पठतां सदा ॥ १,७९.३ ॥ वाञ्छाम्यहं सदा विप्र संगमं कीशरूपिणा । रहस्यं रहसि स्वस्य ममानन्दवनोत्तमे ॥ १,७९.४ ॥ परीतेऽत्र सखायो मे सख्यश्च विगतज्वराः । क्रीडन्ति सर्वदा चात्र प्राकट्येऽपि रहस्यपि ॥ १,७९.५ ॥ कस्मिंश्चिदवतारे तु यद्वृत्तं च रहो मम । तदत्र प्रकटं तुभ्यं करोमि प्रीतमानसः ॥ १,७९.६ ॥ आविर्भूतोऽस्म्यहं पूर्वं राज्ञो दशरथक्षये । चतुर्यूहात्मकस्तकत्र तस्य भार्यात्रये मुने ॥ १,७९.७ ॥ ततः कतिपयैरब्दैरागतो द्विजपुङ्गवः । विश्वामित्रोर्ऽथयामास पितरं मम भूपतिम् ॥ १,७९.८ ॥ यक्षरक्षोविघातार्थं लक्ष्मणेन सहैव माम् । प्रेषयामास धर्मात्मा सिद्धाश्रममरम्यकम् ॥ १,७९.९ ॥ तत्र गत्वाश्रममृबेर्दूषयन्ती निशाचरौ । ध्वस्तौ सुबाहुमारीचौ प्रसन्नोऽभूत्तदा मुनिः ॥ १,७९.१० ॥ अस्त्रग्रामं ददौ मह्यं मासं चावासयत्तथा । ततो गाधिसुतोधीमान् ज्ञात्वा भाव्यर्थमादरात् ॥ १,७९.११ ॥ मिथिलामनयत्तत्र रौद्रं चादर्शयद्ध्वनुः । तस्य कन्यां पणीभूतां सीतां सुरसुतोपमाम् ॥ १,७९.१२ ॥ धनुर्विभज्य समिति लब्धवान्मानिनोऽस्य च । ततो मार्गे भृगुपतेर्दर्प्पमूढं चिरं स्मयन् ॥ १,७९.१३ ॥ व्यषनीयागमं पश्चादयोध्यां स्वपितुः पुरीम् । ततो राज्ञाहमाज्ञाय प्रजाशीलनमानसः ॥ १,७९.१४ ॥ यौवराज्ये स्वयं प्रीत्या संमन्त्र्यात्पैर्विकल्पितः । तच्छुत्वा सुप्रिया भार्या कैकैयी भूपतिं मुने ॥ १,७९.१५ ॥ देवकार्यविधानार्थं विदूषितमतिर्जगौ । पुत्रो मे भरतो नाम यौवराज्येऽभिषिच्यताम् ॥ १,७९.१६ ॥ रामश्चतुर्दशसमा दण्डकान्प्रविवास्यताम् । तदाकर्ण्या हमुद्युक्तोऽरण्यं भार्यानुजान्वितः ॥ १,७९.१७ ॥ गन्तुं नृपतिनानुक्तोऽप्यगमं चित्रकूटकम् । तत्र नित्यं वन्यफलैर्मांसैश्चावर्तितक्रियः ॥ १,७९.१८ ॥ निवसन्नेव राज्ञस्तु निधनं चाप्यवागमम् । ततो भरतशत्रुघ्नौ भ्रातरौ मम मानदौ ॥ १,७९.१९ ॥ मान्तृवर्गयुतौ दीनौ साचार्यामात्यनागरौ । व्यजिज्ञपतमागत्यपञ्चवट्यां निजाश्रमम् ॥ १,७९.२० ॥ अकल्पयं भ्रातृभार्यासहितश्च त्रिवत्सरम् । ततस्त्रयोदशे वर्षे रावणो नाम राक्षसः ॥ १,७९.२१ ॥ मायया हृतवान्सीतां प्रियां मम परोक्षतः । ततोऽहं दीनवदन ऋष्यमूकं हि पर्वतम् ॥ १,७९.२२ ॥ भार्यामन्वेषयन्प्राप्तः सख्यं हर्यधिपेन च । अथ वालिनमाहत्य सुग्रीव स्तत्पदे कृतः ॥ १,७९.२३ ॥ सह वानरयूथैश्च साहाय्यं कृतवान्मम । विरुध्य रावणेनालं मम भक्तो विभीषणः ॥ १,७९.२४ ॥ आगतो ह्यभिषिच्याशुलङ्केशो हि विकल्पितः । हत्वा तु रावणं संख्ये सपुत्रामात्यबान्धवम् ॥ १,७९.२५ ॥ सीतामादाय संशुद्ध्वामयोध्यां समुपागतः । ततः कालान्तरे विप्रसुग्रीवश्च विभीषणः ॥ १,७९.२६ ॥ निमन्त्रितौ पितुः श्राद्ध्वे षट्कुलाश्च द्विजोत्तमाः । अयोध्यायां समाजग्मुस्ते तु सर्वे निमन्त्रिताः ॥ १,७९.२७ ॥ ऋते विभीषिणं तत्र चिन्तयाने रघूत्तमे । शंभुर्ब्राह्मणरूपेण षट्कुलैश्च सहागतः ॥ १,७९.२८ ॥ अथ पृष्टो मया शंभुर्विभीषणसमागमे । नीत्वा मां द्रविडे देशे मोचय द्विजबन्धनात् ॥ १,७९.२९ ॥ मया निमन्त्रिताः श्रद्धे ह्यगस्त्याद्या मुनीश्वराः । संभोजितास्तु प्रययुः स्वस्वमाश्रममण्डलम् ॥ १,७९.३० ॥ ततः कालान्तरे विप्रा देवा दैत्या नरेश्वराः । गौतमेन समाहूताः सर्वे यज्ञसभाजिताः ॥ १,७९.३१ ॥ ते सर्वे स्फआटिकं लिङ्गं त्र्यंबकाद्रौ निवेशितम् । संपूज्य न्यवंसस्तत्र देवदैत्यनृपाग्रजाः ॥ १,७९.३२ ॥ तस्मिन्समाजे वितते सर्वौंर्लिङ्गे समर्चिते । गौतमोऽप्यथ मध्याह्ने पूजयामास शङ्करम् ॥ १,७९.३३ ॥ सर्वे शुक्लांबरधरा भस्मोद्ध्वूलितविग्रहाः । सितेन भस्मना कृत्वा सर्वस्थाने त्रिपुण्ड्रकम् ॥ १,७९.३४ ॥ नत्वा तु भार्गवं सर्वे भूतशुद्धिं प्रचक्रमुः । हृत्पद्ममध्ये सुषिरं तत्रैव भूतपञ्चकम् ॥ १,७९.३५ ॥ तेषां मध्ये महाकाशमाकाशे निर्मलामलम् । तन्मध्ये च महेशानं ध्यायेद्दीप्तिमयं शुभम् ॥ १,७९.३६ ॥ अज्ञानसंयुतं भूतं समलं कर्मसंगतः । तं देहमाकाशदीपे प्रदहेज्ज्ञानवह्निना ॥ १,७९.३७ ॥ आकाशस्यावृत्तिं चाहं दग्ध्वाकाशमथो दहेत् । दग्ध्वाकाशमथो वायुमग्निभूतं तथा दहेत् ॥ १,७९.३८ ॥ अब्भूतं च ततो दग्ध्वा पृथिवीभूतमेव च । तदाश्रितान्गुणान्दग्ध्वा ततो देहं प्रदाहयेत् ॥ १,७९.३९ ॥ एवं प्रदग्ध्वा भूतार्दि देही तज्ज्ञानवह्निना । शिखामध्यस्थितं विष्णुमानन्दरसनिर्भरम् ॥ १,७९.४० ॥ निष्पन्नचन्द्रकिरणसंकाशकिरणं किरणं शिवम् । शिवाङ्गोत्पन्नकिरणैरमृतद्रवसंयुतैः ॥ १,७९.४१ ॥ सुशीतला ततो ज्वाला प्रशान्ता चन्द्ररश्मिवत् । प्रसारितसुधारुग्भिः सांद्रीभूतश्च संप्लवः । अनेन प्लावितं भूतग्रामं संचिन्तयेत्परम् ॥ १,७९.४२ ॥ इत्थं कृत्वा भूतशुद्धिं क्रियार्हे मर्त्यः शुद्धो जायते ह्येव सद्यः । पूजां कर्तुं जप्यकर्मापि पश्चादेवं ध्यायेद्ब्रह्महत्यादिशुद्ध्यै ॥ १,७९.४३ ॥ एवं ध्यात्वा चद्रन्दीप्तिप्रकाशं ध्यानेनारोप्याशु लिङ्गे शिवस्य । सदाशिवं दीपमध्ये विचिन्त्य पञ्चाक्षरेणार्चनमव्ययं तु ॥ १,७९.४४ ॥ आवाहनादीनुपचारांरतथापि कृत्वा स्नानं पूर्ववच्छङ्करस्य । औदुंबरं राजतं स्वर्णपीठं वस्त्रादिच्छन्नं सर्वमेवेह पीठम् ॥ १,७९.४५ ॥ अन्ते कृत्वा बुद्बुदाभ्यां च सृष्टिं पीठे पीठे नागमेकं पुरस्तात् । कुर्यात्पीठे चोर्द्ध्वके नागयुग्मं देवाभ्याशे दक्षिणे वामतश्च ॥ १,७९.४६ ॥ जपापुष्पं नागमध्ये निधाय मध्ये वस्त्रं द्वादशप्रातिगुण्ये । सुश्वेतेन तस्य मध्ये महेशं लिङ्गाकारं पीठयुक्तं प्रपूज्यम् ॥ १,७९.४७ ॥ एवं कृत्वा साधकास्ते तु सर्वे दत्त्वा दत्त्वा पञ्चगन्धाशष्टगन्धम् । पुष्पैः पत्रैः श्रीतिलैरक्षतैश्च तिलोन्मिश्रैः केवलैश्चप्रपूज्य ॥ १,७९.४८ ॥ धूपं दत्त्वा विधिवत्संप्रयुक्तं दीपं दत्त्वा चोक्तमेवोपहारम् । पूजाशेषं ते समाप्याथ सर्वे गीतं नृत्यं तत्र तत्रापि चक्रुः ॥ १,७९.४९ ॥ काले चास्मिन्सुव्रते गौतमस्य शिष्यः प्राप्तः शङ्करात्मेति नाम्ना ॥ १,७९.५० ॥ उन्मत्तवेषो दिग्वासा अनेकां वृत्तिमास्थितः । क्वचिद्द्विजातिप्रवरः क्वचिञ्चण्डालसन्निभः ॥ १,७९.५१ ॥ क्वचिच्छूद्रसमो योगी तापसः क्वचिदप्युत । गर्जत्युत्पतते चैव नृत्यति स्तौति गायति ॥ १,७९.५२ ॥ रोदिति शृणुतेऽत्युक्तं पतत्युत्तिष्ठति क्वचित् । शिवज्ञानैकसंपन्नः परमानन्दनिर्भरः ॥ १,७९.५३ ॥ संप्राप्तो भोज्यवेलायां गौतमस्यान्तिकं ययौ । बुभुजे गुरुणा साकं क्वचिदुच्छिष्टमेव च ॥ १,७९.५४ ॥ क्वचिल्लिहति तत्पात्रं तूष्णीमेवाभ्यगात्क्वचित् । हस्तं गृहीत्वैव गुरोः स्वयमेवाभुनक्क्वचित् ॥ १,७९.५५ ॥ क्वचिद्गृहान्तरे मूत्रं क्वचित्कर्दमले पनम् । सर्वदा तं गुरुर्दृष्ट्वा करमालंब्य मन्दिरम् ॥ १,७९.५६ ॥ प्रविश्य स्वीयपीठे तमुपवेश्याप्यभोजयत् । स्वयं तदस्य पात्रेण बुभुजेगौतमो मुनिः ॥ १,७९.५७ ॥ तस्य चित्तं परिज्ञातुं कदाचिदथ सुंदरी । अहल्या शिष्यमाहूय भुङ्क्ष्वेति प्राह तं मुदा । निर्दिष्टो गुरुपत्न्या तु बुभुजे सोऽविशेषतः ॥ १,७९.५८ ॥ यथा पपौ हि पानीयं तथा वह्निमपि द्विजा । कण्टकानन्नवद्भुक्त्वा यथापूर्वमतिष्ठत ॥ १,७९.५९ ॥ पुरो हि मुनिकन्याभिराहूतो भोजनाय च । दिनेदिने तत्प्रदत्तं लोष्टमंबु च गोमयम् ॥ १,७९.६० ॥ कर्दमं काष्ठदण्डं च भुक्त्वा पीत्वाथ हर्षितः । एतादृशो मुनिरसौ चण्डालसदृशाकृतिः ॥ १,७९.६१ ॥ सुजीर्णोपानहौ हस्ते गृहीत्वा प्रलपन्हसन् । अन्त्यजोचितवेषश्च वृषपर्वाणमभ्यगात् ॥ १,७९.६२ ॥ वृषपर्वेशयोर्मध्ये दिग्वासाः समतिष्टत । वृषपर्वा तमज्ञात्वा पीडयित्वा शिरोऽच्छिनत् ॥ १,७९.६३ ॥ हते तस्मिन्द्विजश्रेष्ठे जगदेतञ्चराचरम् । अतीव कलुषं ह्यासीत्तत्रस्था मुनयस्तथा ॥ १,७९.६४ ॥ गौतमस्य महाशोकः संजातः सुमहात्मनः । निर्ययौ चक्षुषो वारि शोकं संदर्शयन्निव ॥ १,७९.६५ ॥ गौतमः सर्वदैत्तयानां सन्निधौ वाक्यमुक्तवान् । किमनेन कृते पापं येन च्छिन्नमिदं शिरः ॥ १,७९.६६ ॥ मम प्राणाधिकस्येह सर्वदा शिवयोगिनः । ममापि मरणं सत्यं शिष्यच्छद्मा यतो गुरुः ॥ १,७९.६७ ॥ शैवानां धर्मयुक्तानां सर्वदा शिववर्तिनाम् । मरणं यत्र दृष्टं स्यात्तत्र नो मरणं ध्रुवम् ॥ १,७९.६८ ॥ तच्छ्रुत्वा ह्यसुराचार्यः सुक्रः प्राह विदांवरः । एनं संजीवयिष्यामि भार्गवं शङ्करप्रियम् ॥ १,७९.६९ ॥ किमर्थं म्रियते ब्रह्मन्पश्य मे तपसो बलम् । इति वादिनि विप्रेन्द्रे गौतमोऽपि ममार ह ॥ १,७९.७० ॥ तस्मिन्मृतेऽथ शुक्रोऽपि प्राणांस्तत्याज योगतः । तस्यैवं हतिमाज्ञाय प्रह्लादाद्या दितीश्वराः ॥ १,७९.७१ ॥ देवा नृपा द्विजाः सर्वे मृता आसंस्तदद्भुतम् । मृतमासीदथ बलं तस्य बाणस्य धीमतः ॥ १,७९.७२ ॥ अहल्या शोकसंतप्ता रुरोदोञ्चैः पुनःपुनः । गौतमेन महेशस्य पूजया पूजितो विभुः ॥ १,७९.७३ ॥ वीरभद्रो महायोगी सर्वं दृष्ट्वा चुकोप ह । अहो कष्टमहोकष्टं महेशा बहवो हताः ॥ १,७९.७४ ॥ शिवं विज्ञापयिष्यामि तेनोक्तं करवाण्यथ । इति निश्चित्य गतवान्मन्दराचलमव्ययम् ॥ १,७९.७५ ॥ नमस्कृत्वा विरूपाक्षं वृत्तसर्वमथोक्तवान् । ब्रह्माणं च हरिं तत्र स्थितौ प्राह शिवो वचः ॥ १,७९.७६ ॥ मद्भक्तैः साहसं कर्म कृतं ज्ञात्वा वरप्रदम् ॥। गत्वा पश्यामि हे विष्णो सर्वं तत्कृतसाहसम् ॥ १,७९.७७ ॥ इत्युक्त्वा वृषमारुह्य वायुना धूतचामरः । नन्दिकेन सुवेषेण धृते छत्रेऽतिशोभने ॥ १,७९.७८ ॥ सुश्वेते हेमदण्डे च नान्ययोग्ये धृते विभो । महेशानुमतिं लब्ध्वा हरिर्नागान्तके स्थितः ॥ १,७९.७९ ॥ आरक्तनीलच्छत्राभ्यां शुशुभे लक्ष्मकौस्तुभः । शिवानुमत्या ब्रह्मापि हंसारूढोऽभवत्तदा ॥ १,७९.८० ॥ इन्द्रगोपप्रभाकारच्छत्राभ्यां शुशुभे विधिः । इन्द्रादिसर्वदेवाश्च स्वस्ववाहनसंयुताः ॥ १,७९.८१ ॥ अथ ते निर्ययुः सर्वे नानावाद्यानुमोदिताः । कोटिकोटिगणाकीर्णा गौतमस्याश्रमं गताः ॥ १,७९.८२ ॥ ब्रह्मविष्णु महेशाना दृष्ट्वा तत्परमाद्भुतम् । स्वभक्तं जीवयामास वामकोणनिरीक्षणात् ॥ १,७९.८३ ॥ शङ्करो गौतमं प्राह तुष्टोऽहं ते वरं वृणु । तदाकर्ण्य वचस्तस्य गौतमः प्राह सादरम् ॥ १,७९.८४ ॥ यदि प्रसन्नो देवेश यदि देयो वरो मम । त्वल्लिङ्गार्चनसामर्थ्यं नित्यमस्तु ममेश्वर ॥ १,७९.८५ ॥ वृतमेतन्मया देव त्रिनेत्र शृणु चापरम् । शिष्योऽयं मे महाभागो हेयादेयादिवर्जितः ॥ १,७९.८६ ॥ प्रेक्षणीयं ममत्वेन न च पश्यति चक्षुषा । न घ्राणग्राह्यं देवेश न पातव्यं न चेतरत् ॥ १,७९.८७ ॥ इति बुद्ध्व्या तथा कुर्वन्स हि योगी महायशः । उन्मत्तविकृताकारः शङ्करात्मेति कीर्तितः ॥ १,७९.८८ ॥ न कश्चित्तं प्रति द्वेषी न च तं हिंसयेदपि । एतन्मे दीयतां देव मृतानाममृतिस्तथा ॥ १,७९.८९ ॥ तच्छ्रुत्वोमापतिः प्रीतो निरीक्ष्य हरिमव्ययः । स्वांशेन वायुना देहमाविशज्जगदीश्वरः ॥ १,७९.९० ॥ हरिरूपः शङ्करात्मा मारुतिः कपिसत्तमः । पर्यायैरुच्यतेऽधीशः साक्षाद्विष्णुः शिवः परः ॥ १,७९.९१ ॥ आकल्पतेषु प्रत्येकं कामरूपमुपाश्रितः । ममाज्ञाकारको रामभक्तः पूजितविग्रहः ॥ १,७९.९२ ॥ अनन्तकल्पमीशानः स्थास्यति प्रीतमानसः । त्वया कृतमिदं वेश्म विस्तृतं सुप्रतिष्टितम् ॥ १,७९.९३ ॥ नित्यं वै सर्वरूपेण तिष्ठामः क्षणमादरात् । समर्चिताः प्रयास्यामः स्वस्ववासं ततः परम् ॥ १,७९.९४ ॥ अथाबभाषे विश्वेशं गौतमो मुनिपुङ्गवः । अयोग्यं प्रार्थयामीश ह्यर्थी दोषं न पश्यति ॥ १,७९.९५ ॥ ब्रह्माद्यलभ्यं देवेश दीयतां यदि रोचते । अथेशो विष्णुमालोक्य गृहीत्वा तत्करं करे ॥ १,७९.९६ ॥ प्रहसन्नंबुजाभाक्षमित्युवाच सदाशिवः । क्षामोदरोऽसि गोविन्द देयं ते भोजनं किमु ॥ १,७९.९७ ॥ स्वयं प्रविश्य यदि वा स्वयं भुङ्क्ष्व स्वगेहवत् । गच्छ वा पार्वतीगेहं या कुक्षिं पूरयिष्यति ॥ १,७९.९८ ॥ इत्युक्त्वा तत्करालंबी ह्येकान्तमगमद्विभुः । आदिश्य नन्दिनं देवो द्वाराध्यक्षं यथोक्तवत् ॥ १,७९.९९ ॥ स गत्वा गौतमं वाथ ह्युक्तवान्विष्णुभाषणम् । संपादयान्नं देवेशा भोक्तुकामा वयं मुने ॥ १,७९.१०० ॥ इत्युक्त्वैकान्तमगमद्वासुदेवेन शङ्करः । मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ ॥ १,७९.१०१ ॥ अन्योन्यं भाषणं कृत्वा प्रोत्तस्थतुरुभावपि । गत्वा तडागं गंभीरं स्रास्यन्तौ देवसत्तमौ ॥ १,७९.१०२ ॥ करांबुपातमन्योन्यं पृथक्कृत्वोभयत्र च । मुनयो राक्षसाश्चैव जलक्रीडां प्रचक्रिरे ॥ १,७९.१०३ ॥ अथ विष्णुर्महेशश्च जलपानानि शीघ्रतः । चक्रतुः शङ्करऋ पद्मकिञ्जल्काञ्जलिना हरेः ॥ १,७९.१०४ ॥ अवाकिरन्मुखे तस्य पद्मोत्फुल्लविलोचने । नेत्रे केशरसंपातात्प्रमीलयत केशवः ॥ १,७९.१०५ ॥ अत्रान्तरे हरेः स्कन्धमारुरोह महेश्वरः । हर्युत्तमाङ्गं बाहुभ्यां गृहीत्वा संन्यमज्जयत् ॥ १,७९.१०६ ॥ उन्मज्जयित्वा च पुनः पुनश्चापि पुनःपुनः । पीडितः स हरिः सूक्ष्मं पातयामास शङ्करम् ॥ १,७९.१०७ ॥ अथ पादौ गृहीत्वा तं भ्रामयन्विचकर्ष ह । अताडयद्ध्वरेर्वक्षः पातयामास चाच्युतम् ॥ १,७९.१०८ ॥ अथोत्थितो हरिस्तोयमादायाञ्जलिना ततः । शीर्षे चैवाकिरच्छंभुमथ शंभुरथो हरिः ॥ १,७९.१०९ ॥ जलक्रीडैवमभवदथ चर्षिगणान्तरे । जलक्रीडासंभ्रमेण विस्रस्तजटबन्धनाः ॥ १,७९.११० ॥ अथ संभ्रमतां तेषामन्योन्यजटबन्धनम् । इतरे तरबद्ध्वासु जटासु च मुनीश्वराः ॥ १,७९.१११ ॥ शक्तिमन्तोऽशक्तिमत आकर्षन्ति च सव्यथम् । पातयन्तोऽन्यतश्चापि क्त्रोशन्तो रुदतस्तथा ॥ १,७९.११२ ॥ एवं प्रवृत्ते तुमुले संभूते तोयकर्मणि । आकाशे वानरेशस्तु ननर्त च ननाद च ॥ १,७९.११३ ॥ विपञ्चीं वादयन्वाद्यं ललितां गीतिमुज्जगौ । सुगीत्या ललिता यास्तु आगायत विधा दश ॥ १,७९.११४ ॥ शुश्राव गीतिं मधुरां शङ्करो लोकभावतः । स्वयं गातुं हि ललितं मन्दंमन्दं प्रचक्रमे ॥ १,७९.११५ ॥ स्वयं गायति देवेशे विश्रामं गलदेशिकम् । स्वरं ध्रुवं समादाय सर्वलक्षणसंयुतम् ॥ १,७९.११६ ॥ स्वधारामृतसंयुक्तं गानेनैवमपोनयन् । वासुदेवो मर्दलं च कराभ्यामप्यवादयत् ॥ १,७९.११७ ॥ अम्बुजाङ्गश्चतुर्वक्रस्तुंबुरुर्मुखरो बभौ । तानका गौतमाद्यास्तु गयको वायुजोऽभवत् ॥ १,७९.११८ ॥ गायके मधुरं गीतं हनूमति कपीश्वरे । म्लानमल्मानमभवत्कृशाः पुष्टास्तदाभवन् ॥ १,७९.११९ ॥ स्वां स्वां गीतिमतः सर्वे तिरस्कृत्यैव मूर्च्छिता । तूष्णीभूतं समभवद्देवर्षिगणदानवम् ॥ १,७९.१२० ॥ एकः स हनुमान् गाता श्रोतारः सर्व एव ते । मध्याह्नकाले वितते गायमाने हनूमति । स्वस्ववाह नमारुह्य निर्गताः सर्वदेवताः ॥ १,७९.१२१ ॥ गानप्रियो महेशस्तु जग्राह प्लवगेश्वरम् । प्लवग त्वं मयाज्ञप्तो निःशङ्को वृषमारुह ॥ १,७९.१२२ ॥ मम चाभिमुखो भूत्वा गायस्वानेकगायनम् । अथाह कपिशार्दूलो भगवन्तं महेश्वरम् ॥ १,७९.१२३ ॥ वृषभारोहसामर्थ्यं तव नान्यस्य विद्यते ष ॥ तव वाहनमारुह्य पातकी स्यामहं विभो ॥ १,७९.१२४ ॥ मामेवारुह देवेश विहॄङ्गः शिवधारणः । तव चाभिमुखं गानं करिष्यामि विलोकय ॥ १,७९.१२५ ॥ अथेश्वरो हनूमन्तमारुरोह यथा वृषम् । आरूढे शङ्करे देवे हनुमत्कन्धरां शिवः ॥ १,७९.१२६ ॥ छित्वा त्वचं परावृत्य सुखं गायति पूर्ववत् । शृण्वन्गीतिसुधां शंभुर्गौन्त मस्य गृहं ततः ॥ १,७९.१२७ ॥ सर्वे चाप्यागतास्तत्र देवर्षिगणदानवाः । पूजिता गौतमेनाथ भोजनावसरे सति ॥ १,७९.१२८ ॥ यच्छुष्कं दारुसंभूतं गृहो पकरणादिकम् । प्ररूढमभवत्सर्वं गायमाने हनूमति ॥ १,७९.१२९ ॥ तस्मिन्गाने समस्तानां चित्रं दृष्टिरतिष्टत ॥ १,७९.१३० ॥ द्विबाहुरीशस्य पदाभिवं दनः समस्तगात्राभरणोपपन्नः । प्रसन्नमूर्तिस्तरुणः सुमध्ये विन्यस्तमूर्द्ध्वाञ्जलिभिः शिरोभिः ॥ १,७९.१३१ ॥ शिरः कराभ्यां परिगृह्य शङ्करो हनूमतः पूर्वमुखं चकार । पद्मासनासीनहनूमतोंऽजलौ निधाय पादं त्वपरं मुखे च ॥ १,७९.१३२ ॥ पादाङ्गुलीभ्यामथ नासिकां विभुः स्नेहेन जग्राह च मन्दमन्दम् । स्कन्धे मुखे त्वंसतले च कण्ठे वक्षस्थले च स्तनमध्यमे हृदि ॥ १,७९.१३३ ॥ ततश्च कुक्षावथ नाभिमण्डलं पादं द्वितीयं विदधाति चाञ्जलौ । शिरो गृहीत्वावनमय्य शङ्करः पस्पर्श पृष्ठं चिबुकेन सोऽध्वनि ॥ १,७९.१३४ ॥ हारं च मुक्तापरिकल्पितं शिवो हनूमतः कण्ठगतं चकार ॥ १,७९.१३५ ॥ अथ विष्णुर्महेशानमिह वचनमुक्तवान् । हनूमता समो नास्ति कृत्स्नब्रह्माण्डमण्डले ॥ १,७९.१३६ ॥ श्रुतिदेवाद्यगम्यं हि पदं तव कपिस्थितम् । सर्वोपनिषदव्यक्तं त्वत्पदं कपिसर्वयुक् ॥ १,७९.१३७ ॥ यमादिसाधनैर्ंयोगैर्न क्षणं ते पदं स्थिरम् । महायोगिहृदंभोजे परं स्वस्थं हनूमति ॥ १,७९.१३८ ॥ वर्षकोटिसहस्रं तु सहस्राब्दैरथान्वहम् । भक्त्या संपूजितोऽपीश पादो नो दर्शितस्त्वया ॥ १,७९.१३९ ॥ लोके वादो हि सुमहाञ्छंभुर्नारायणप्रियः । हरिप्रियस्तथा शंभुर्न तादृग्भाग्यमस्ति मे ॥ १,७९.१४० ॥ तच्छ्रुत्वा वचनं शंभुर्विष्णोः प्राह मुदान्वितः । न त्वया सदृशो मह्यं प्रियोऽन्योऽस्ति हरे क्वचित् ॥ १,७९.१४१ ॥ पार्वती वा त्वया तुल्या वर्तते नैव भिद्यते । अथ देवाय महते गौतमः प्राणिपत्य च ॥ १,७९.१४२ ॥ व्यजिज्ञपदमेयात्मज्देवैर्हि करुणानिधे । मध्याह्नोऽयं व्यतिक्रान्तो भुक्तिवेलाखिलस्य च ॥ १,७९.१४३ ॥ अथाचम्य महादेवो विष्णुना सहितो विभुः । प्रविश्य गौतमगृहं भोजनायोपचक्रमे ॥ १,७९.१४४ ॥ रत्नाङ्गुलीयैरथनूपुराभ्यां दुकूलबन्धेन तडित्सुकाञ्च्या । हारैरनेकैरथ कण्ठनिष्कयज्ञोपवीतोत्तरवाससी च ॥ १,७९.१४५ ॥ विलंबिचञ्चन्मणिकुण्डलेन सुपुष्पधंमिल्लवरेण चैव । पञ्चाङ्गगन्धस्य विलेपनेन बाह्वङ्गदैः कङ्कणकाङ्गुलीयैः ॥ १,७९.१४६ ॥ अथो विभूषितः शिवो निविष्ट उत्तमासने । स्वसंमुखं हरिं तथा न्यवेशयद्वरासने ॥ १,७९.१४७ ॥ देवश्रेष्ठौ हरीशौ तावन्योन्याभिमुखस्थितौ । सुवर्णभाजनस्थान्नं ददौ भक्त्या स गौतमः ॥ १,७९.१४८ ॥ त्रिंशत्प्रभेदान्भक्ष्यांस्तु पायसं च चतुर्विधम् । सुपक्वं पाकजातं च कल्पितं यच्छतद्वयम् ॥ १,७९.१४९ ॥ अपक्कं मिश्रकं तद्वत्त्रिंशतं परिकल्पितम् । शतं शतं सुकन्दानां शाकानां च प्रकल्पितम् ॥ १,७९.१५० ॥ पञ्चविंशतिधा सर्पिःसंस्कृतं व्यञ्जनं तथा । शर्कराद्यं तथा चूतमोचाखर्जूरदाडिमम् ॥ १,७९.१५१ ॥ द्राक्षेक्षुनागरङ्गं च मिष्टं पक्वं फलोत्करम् । प्रियालक्रञ्जम्बुफलं विकङ्कतफलं तथा ॥ १,७९.१५२ ॥ एवमादीनि चान्यानि द्रव्याणीशे समर्प्य च । दत्त्वापोशानकं विप्रो भुञ्जध्वमिति चाब्रवीत् ॥ १,७९.१५३ ॥ भुञ्जानैषु च सर्वेषु व्यजनं सूक्ष्मविस्तृतम् । गौतमः स्वयमादाय शिवविष्णू अवीजयत् ॥ १,७९.१५४ ॥ परिहासमथो कर्तुमियेष परमेश्वरः । पश्य विष्णो हनूमन्तं कथं भुङ्क्ते स वानरः ॥ १,७९.१५५ ॥ वानरं पश्यति हरौ मण्डकं विष्णुभाजने । चक्षेप मुनिसंषेषु पश्यत्स्वपि महेश्वरः ॥ १,७९.१५६ ॥ हनूमते दत्तवांश्च स्वोच्छिष्टं पायसादिकम् । त्वदुच्छिष्टभोज्यं तु तवैव वचनाद्विभो ॥ १,७९.१५७ ॥ अनर्हं मम नैवेद्यं पत्रं पुष्पं फलादिकम् । मह्यं निवेद्य सकलं कूप एव विनिःक्षिपेत् ॥ १,७९.१५८ ॥ अभुक्ते त्वर्द्वञ्चो नूनं भुक्ते चापि कृपा तव । बाणलिङ्गे स्वयंभूते चन्द्रकान्ते हृदि स्थिते ॥ १,७९.१५९ ॥ चान्द्रायण समं ज्ञेयं शम्भोर्नैवेद्यभक्षणम् । भुक्तिवेलेयमधुना तद्वैरस्यं कथान्तरात् ॥ १,७९.१६० ॥ भुक्त्वा तु ककथयिष्यामि निर्विशङ्कं विभुङ्क्ष्व तत् । अथासौ जलसंस्कारं कृतवान् गौतमो मुनिः ॥ १,७९.१६१ ॥ आरक्तसुस्निगन्धसुसूक्ष्मगात्राननेकधाधौतसुशोभिताङ्गान् । तडागतोयैः कतबीजघर्षितैर्विशौधितैस्तैः करकानपूरयत् ॥ १,७९.१६२ ॥ नद्याः सैकतवेदिकां नवतरां संछाद्य सूक्ष्मांबरैः,शुद्ध्वैः श्वेततरैरथोपरि घटांस्तोयेन पूर्णान्क्षिपेत् । लिप्त्वा नालकजातिमास्तपुटकं तत्कौलकं कारिकाचूर्णं चन्दनचन्द्ररश्मिविशदां मालां पुटान्तं क्षिपेत् । यामस्यापि पुनश्च वारिवसनेनाशोध्य कुम्भेन तञ्चन्द्प्रन्थिमथो निधाय बकुलं क्षिप्त्वा तथा पाटलम् ॥ १,७९.१६३ ॥ शेफआलीस्तबकमथो जलं च तत्र,विन्यस्य प्रथमत एव तोयशुद्धिम् । कृत्वाथो मृदुतरं सूक्ष्मवस्त्रखण्डेनावेष्टेत्सृणिकमुखं च सूक्ष्मचन्द्रम् ॥ १,७९.१६४ ॥ अनातपप्रदेशे तु निधाय करकानथ । मन्दवातसमोपेते सूक्ष्मव्यजनवीजेते ॥ १,७९.१६५ ॥ सिंचेच्छीतैर्जलैश्चापि वासितैः सृणिकामपि । संस्कृताः स्वायतास्तत्र नरा नार्योऽथवा नृपाः ॥ १,७९.१६६ ॥ तत्कन्या वा क्षालिताङ्गा धौतपादाःसुवाससः । मधुर्पिगमनिर्यासमसांद्रमगुरूद्भवम् ॥ १,७९.१६७ ॥ बाहुमूले च कण्ठे च विलिप्यासांद्रमेव च । मस्तके जापकं न्यस्य पञ्चगन्धविलेपनम् ॥ १,७९.१६८ ॥ पुष्पनद्ध्वसुकेशास्तु ताः शुभाः स्युः सुनिर्मलाः । एवमेवार्चिता नार्य आप्तकुङ्कुमविग्रहाः ॥ १,७९.१६९ ॥ युवत्यश्चारुसर्वाङ्ग्यो नितरां भूषणैरपि । एतादृग्वनिताभिर्वा नरैर्वा दापयेज्जलम् ॥ १,७९.१७० ॥ तेऽपि प्रादानसमये सूक्ष्मवस्त्राल्पवेष्टनम् । अथवामकरे न्यस्य करकं प्रेक्ष्य तत्र हि ॥ १,७९.१७१ ॥ दोरिकान्यस्तमुन्मुच्य ततस्तोयं प्रदापयेत् । एवं स कारयामास गौतमो भगवान्मुनिः ॥ १,७९.१७२ ॥ महेशादिषु सर्वेषु भुक्तवत्सु महात्मसु । प्रक्षालिताङ्घ्रिहस्तेषु गन्धोद्वर्तितपाणिषु ॥ १,७९.१७३ ॥ उञ्चासनसमासीने देवदेवे महेश्वरे । अथ नीचसमासीनादेवाः सर्षिगणास्तथा ॥ १,७९.१७४ ॥ मणिपात्रेषु संवेष्ट्थ पूगखण्डान्सुधूपितान् । अकोणान्वर्तुलान्स्थूलानसूक्ष्मानकृशानपि ॥ १,७९.१७५ ॥ श्वेतपत्राणि संशोध्य क्षिप्त्वा कर्पूरखण्डकम् । चूर्णं च शङ्करायाथ निवेदयति गौतमे ॥ १,७९.१७६ ॥ गृहाण देव तांबूलमित्युक्तवचने मुनौ । कपे गृहाण तांबूलं प्रयच्छ मम खण्डकान् ॥ १,७९.१७७ ॥ उवाच वानरो नास्ति मम शुद्धिर्महेश्वर । अनेकफलभोक्तृआत्वाद्वानरस्तु कथं शुचिः ॥ १,७९.१७८ ॥ तच्छ्रुत्वा तु विरूपाक्षाः प्राह वानरसत्तमम् । मद्वाक्यादखिलं शुद्ध्येन्मद्वाक्यादमृतं विषम् ॥ १,७९.१७९ ॥ मद्वाक्यादखिला वेदा मद्वाक्याद्देवतादयः । मद्वाङ्क्याद्ध्वर्मविज्ञानं मद्वाक्यान्मोक्ष उच्यते ॥ १,७९.१८० ॥ पुराणान्यागमाश्चैव स्मृतयो मम वाक्यतः । अतो गृहाण तांबूलं मम देहि सुखण्डकान् ॥ १,७९.१८१ ॥ हरिर्वामकरेणाधात्तांबूलं पूगखण्डकम् । तततः पत्राणि संगृह्य तस्मै खण्डान्समर्पयत् ॥ १,७९.१८२ ॥ कर्पूरमग्रतो दत्तं गृहीत्वाभक्षयच्छिवः । देवे तु कृततांबूले पार्वती मन्दराचलात् ॥ १,७९.१८३ ॥ जयाविजययोर्हस्तं गृहीत्वायान्मुनेर्गृहम् । देवपादौ ततो नत्वा विनम्रवदनाभवत् ॥ १,७९.१८४ ॥ उन्नमय्य मुखि तस्या इदमाह त्रिलोचनः । त्वदर्थं देवदेवेशि अपराधः कृतो मया ॥ १,७९.१८५ ॥ यत्त्वां विहाय भुक्तं हि तथान्यच्छृणु सुंदरि । यत्त्वां स्वमन्दिरे त्यक्त्वा महदेनो मया कृतम् ॥ १,७९.१८६ ॥ क्षन्तुमर्हसि देवेशि त्यक्तकोपा विलोकय । न बभाषेऽप्येवमुक्ता सारुन्धत्या विनिर्ययौ ॥ १,७९.१८७ ॥ निर्गच्छन्तीं मुनिर्ज्ञात्वा दण्डवत्प्रणनाम ह । अथोवाच शिवा तं चगौतम त्वं किमिच्छसि ॥ १,७९.१८८ ॥ अथाह गौतमो देवीं पार्वतीं प्रेक्ष्य सस्मिताम् । कृतकृत्यो भवेयं वै भुक्तायां मद्गृहे त्वयि ॥ १,७९.१८९ ॥ ततः प्राह शिवा विप्रं गौतमं रचिताञ्जलिम् । भोक्ष्यामि त्वद्गृहे विप्र शङ्करानुमतेन वै ॥ १,७९.१९० ॥ अथ गत्वा शिवं विंशे लब्धानुज्ञस्त्वरागतः । भोजयामास गिरिजां देवीं चारुन्धतीं तथा ॥ १,७९.१९१ ॥ भुक्त्वाथ पार्वती सर्वगन्धपुष्पाद्यलङ्कृता । सहानु चरकन्याभिः सहस्राभिर्हरं ययौ ॥ १,७९.१९२ ॥ अथाहर्शकरो देवी गच्छ गौतममन्दिरम् । संध्योपास्तिमहं कृत्वा ह्यागमिष्ये तवान्तिकम् ॥ १,७९.१९३ ॥ इत्युक्त्वा प्रययौ देवी गौतमस्यैव मदिरम् । संध्यावदनकामास्तु सर्व एव विनिर्गताः ॥ १,७९.१९४ ॥ कृतसंध्यास्तडागे तु महेशाद्याश्च कृत्स्नशः । अथोत्तरमुखः शंभुर्न्यास कृत्वा जजाप ह ॥ १,७९.१९५ ॥ अथ विष्णुर्महातेजा महेशमिदमब्रवीत् । सर्वैर्नमस्यते यस्तु सर्वैरेव समर्च्यते ॥ १,७९.१९६ ॥ हूयतं सर्वयज्ञेषु स भवान्किं जपिष्यति । रचिताञ्जलयः सर्वे त्वामेवैकमुपासिते ॥ १,७९.१९७ ॥ स भवान्देवदेवेशः कस्मै विरचिताञ्जलिः । नमस्कारादिपुण्यानां फलदस्त्वं महेश्वरर ॥ १,७९.१९८ ॥ तव कः फलदो वन्द्यः को वा त्वत्तोऽधिको वद । तच्छ्रुत्वा शङ्करः प्राह देवदेवं जनार्दनम् ॥ १,७९.१९९ ॥ ध्याये न किञ्चिद्गोविन्दनमस्ये ह न किञ्चन । किन्तु नास्तिकजन्तूनां प्रवृत्त्यर्थमिदं मया ॥ १,७९.२०० ॥ दर्शनीयं हरे चैतदन्यथा पापकारिणः । तस्माल्लोकोपकारार्थमिदं सर्वं कृतं मया ॥ १,७९.२०१ ॥ ओमित्युक्त्वा हरिरथ तं नत्वा समतिष्टत । अथ ते गौतमगृहं प्राप्ता देवर्षयस्तदा ॥ १,७९.२०२ ॥ सर्वे पूजामथो चक्रुर्देवदेवाय शूलिने । देवो हनूमता सार्द्ध्वं गायन्नास्ते मुनीश्वर ॥ १,७९.२०३ ॥ पञ्चाक्षरीं महाविद्यां सर्वे एव तदाजपन् । हनुमत्करमालंब्य देवाभ्यां संगतो हरः ॥ १,७९.२०४ ॥ एकशय्यासमांसीनौ तावुभौ देवदंपती । गायन्नास्ते च हनुमांस्तुंबुरुप्रमुखास्तथा ॥ १,७९.२०५ ॥ नानाविधविलासांश्च चकार परमेश्वरः । आहूय पार्वतीमीश इदं वाक्यमुवाच ह ॥ १,७९.२०६ ॥ रचयिष्यामि धंमिल्लमेहि मत्पुरतः शुभे । देव्याह न च युक्तं तद्भर्त्त्रा शुश्रूषणं स्त्रियः ॥ १,७९.२०७ ॥ केशप्रसाधनकृतावनर्थान्तरमापतेत् । केशप्रसाधने देव तत्त्वं सर्वं न चेप्सितम् ॥ १,७९.२०८ ॥ अथ बन्धेकृते पश्चादंसप्रान्तप्रमार्जनम् । ततश्चरमसंलग्न केशपुष्पादिमार्जनम् ॥ १,७९.२०९ ॥ एतस्मिन्वर्तमाने तु महात्मानो यदागमन् । तदा किमुत्तरं वाच्यं तव देवादिवन्दित ॥ १,७९.२१० ॥ नायान्ति चेदथ विभो भीतिर्नाशमुपैष्यति । एवं हि भाषमाणां तां करेणाकृष्य शङ्करः ॥ १,७९.२११ ॥ स्वोर्वोः संस्थापयित्वैव विस्रस्य कचबन्धनम् । विभज्य च कराभ्यां स प्रससार नखैरपि ॥ १,७९.२१२ ॥ विष्णुदत्तां पारिजातस्रजं कचगतामपि । कृत्वा धंमिल्लमकरोदथ मालां करागताम् ॥ १,७९.२१३ ॥ मल्लिकास्रजमादाय बबन्ध कचबन्धने । कल्पप्रसूनमालां च ब्रह्मदत्तां महेश्वरः ॥ १,७९.२१४ ॥ पार्वतीवसने गूढगन्धाढ्ये च समाददात् । अथांसपृष्ठ संलग्नमार्जनं कृतवान् विभुः ॥ १,७९.२१५ ॥ श्लथन्नीवेरधो देव्या वस्त्रवेष्टादधोगतः । किमिदं देवि चेत्युक्त्वा नीवीबन्धं चकार ह ॥ १,७९.२१६ ॥ नासाभूषणमेतत्ते सत्यमेव वदामि ते । ततः प्राह शिवा शंभुं स्मित्वा पर्वतनन्दिनी ॥ १,७९.२१७ ॥ अहो त्वन्मन्दिरे शंभो सर्ववस्तु समृद्धिमत् । पूर्वमेव मया सर्वं ज्ञातप्रायमभूत्किल ॥ १,७९.२१८ ॥ सर्वद्रविणसंपत्तिर्भूषणैखगम्यते । शिरो विभूषितं देव ब्रह्मशीर्षस्य मालया ॥ १,७९.२१९ ॥ नरकस्य तथा माला वक्षस्थलविभूणम् । शेषश्च वासुकिश्चैव सविषौ तव कङ्कणौ ॥ १,७९.२२० ॥ दिशोंऽबरं जटाः केशा भसित चाङ्गरागकम् । महोक्षो वाहनं गोत्रं कुलं चाज्ञातमेव च ॥ १,७९.२२१ ॥ ज्ञायेते पितरौ नैव विरूपाक्षं तथा वपुः । एवं वदन्तीं गिरिजां विष्णुः प्राहातिकोपनः ॥ १,७९.२२२ ॥ किमर्थं निन्दसेदेवि देवदेवं जगत्पतिम् । दुष्प्राणा न प्रिया भद्रे तव नूनमसंयमात् ॥ १,७९.२२३ ॥ यत्रेशनिन्दनं भद्रे तत्र नो मरणव्रतम् । इत्युक्त्वाथ नखाभ्यां हि हरिश्छेत्तुं शिरो गतः ॥ १,७९.२२४ ॥ महेशस्तत्करं गृह्य प्राह मा साहसं कृथाः । पार्वतीवचनं सर्वं प्रियं मम न चाप्रियम् ॥ १,७९.२२५ ॥ ममाप्रियं हृषीकेश कर्तुं यत्किञ्चिदिष्यते । ओमित्युक्त्वाथ भगवांस्तूष्णींभूतोऽभवद्ध्वरिः ॥ १,७९.२२६ ॥ हनुमानथ देवाय व्यज्ञापयदिदं वचः । अर्थयामि विनिष्कामं मम पूजाव्रतं तथा ॥ १,७९.२२७ ॥ पूजार्थमप्यहं गच्छे मामनुज्ञातुमर्हसि । तच्छ्रत्वा शङ्करो देवः स्मित्वा प्राह वपीश्वरम् ॥ १,७९.२२८ ॥ कस्य पूजा क्व वा पूजा किं पुष्पं किं दलं वद । को गुरुः कश्च मन्त्रस्ते कीदृशं पूजन तथा ॥ १,७९.२२९ ॥ एवं वदति देवैशे हनुमान्नीतिसंयुतः । वेपमानसमस्ताङ्ग स्तोतुमेवं प्रचक्रमे ॥ १,७९.२३० ॥ नमो देवाय महते शङ्करायामितात्मने । योरिने योगधात्रे च योगिनां गुरवे नमः ॥ १,७९.२३१ ॥ योगगम्याय देवाय ज्ञानिनां पतये नमः । वेदानां पतये तुभ्यं देवानां पतये नमः ॥ १,७९.२३२ ॥ ध्यानाय ध्यानगम्याय ध्यातॄणां गुरवे नमः । अष्टमूर्ते नमस्तुभ्यं पशूनां पतये नमः ॥ १,७९.२३३ ॥ अंबकाय त्रिनेत्राय सोमसूर्याग्निचक्षुषे । सुभृङ्गराजधत्तूरद्रोणपुष्पप्रियस्य ते ॥ १,७९.२३४ ॥ बृहतीपूग पुन्नागचपकादिप्रियाय च । नमस्तेऽस्तु नमस्तेऽस्तु भूय एव नमोनमः ॥ १,७९.२३५ ॥ शिवो हरिमथ प्राह मा भैषीर्वद मेऽखिलम् । ततस्त्यक्त्वा भयं प्राह हनुमान् वाक्यकोविदः ॥ १,७९.२३६ ॥ शिवलिङ्गार्चनं कार्यं भस्मोद्ध्वूलितदेहिना । दिवा संपादितैस्तैयैः पुष्पाद्यैरपि तादृशैः ॥ १,७९.२३७ ॥ देव विज्ञापयिष्यामि शिवपूजविधिं शुभम् । सायङ्काले तु संप्राप्ते अशिरःस्नानमाचरेत् ॥ १,७९.२३८ ॥ क्षालितं वसनं शुष्कं धृत्वाचम्य त्रिरन्यधीः । अथ भस्म समादाय आग्नेयं स्नानमाचरेत् ॥ १,७९.२३९ ॥ प्रणवेन समामन्त्र्य अष्टवारमथांपि वा । पञ्चाक्षरेण मन्त्रेण नाम्ना वा येन केनचित् ॥ १,७९.२४० ॥ सप्ताभिमन्त्रितं भस्म दर्भपाणिः समाहरेत् । ईशानः सर्वविद्यानामुक्त्वा शिरसिपातयेत् ॥ १,७९.२४१ ॥ तत्पुरुषाय विद्महे मुखे भस्म प्रसेचयेत् । अघोरेभ्योऽथ घोरेभ्यो भस्म वक्षसि निक्षिपेत् ॥ १,७९.२४२ ॥ वामदेवय नमः इति गुह्यस्थाने विनिक्षिपेत् । सद्योजातं प्रपद्यामि निक्षिपेदथ पादयोः ॥ १,७९.२४३ ॥ उद्ध्वूलयेत्समस्ताङ्गं प्रणवेन विचक्षणाः । त्रैवर्णिकानामुदितऋ स्नानादिविधिरुत्तमः ॥ १,७९.२४४ ॥ शूद्रादीनां प्रवक्ष्यामि यदुक्तं गुरुणा तथो । शिवेति पदमुञ्चार्य भस्म संमन्त्रयेत्सुधीः ॥ १,७९.२४५ ॥ सप्त वारमथादाय शिवायेति शिरस्यथ । शङ्कराय मुखे प्रोक्तं सर्वज्ञाय हृदि क्षिपेत् ॥ १,७९.२४६ ॥ स्थाणवे नम इत्युक्त्वा मुखे चापि स्वयंभुवे । उच्चार्य पादयोः क्षिप्त्वा भस्म शुद्ध्वमतः परम् ॥ १,७९.२४७ ॥ नमः शिवायेत्युच्चार्य सर्वाङ्गोद्ध्वूलनं स्मृतम् । प्रक्षाल्य हस्तावाचम्य दर्भपाणिः समाहितः ॥ १,७९.२४८ ॥ दर्भाभावे सुवर्णं स्यात्तदभावे गवालुकाः । तदभावे तु दूर्वाः स्युस्तदभावे तु राजतम् ॥ १,७९.२४९ ॥ संध्योपास्तिं जपं देव्याः कृत्वा देवगृहं व्रजेत् । देववेदीमथो वापि कल्पितं स्थण्डिलं तु वा ॥ १,७९.२५० ॥ मृण्मयं कल्पितं शुद्धूं पद्मादिरचनायुतम् । चातुर्वर्णकरं गैश्च श्वेतेनैकेन वा पुनः ॥ १,७९.२५१ ॥ विचित्राणि च पद्मानि स्वस्तिकादि तथैव च । उत्पलादिगदाशङ्खत्रिशूलडमरूंस्तथा ॥ १,७९.२५२ ॥ शरोक्तपञ्चप्रासादं शिवलिङ्गमथैव च । सर्वकामफलं वृक्षं कुलकं कोलकं तथा ॥ १,७९.२५३ ॥ षट्कोणं च त्रिकोणं च नवकोणमथापि वा । कोणे द्वादशकान्दोलापादुकाव्यजनानि च ॥ १,७९.२५४ ॥ चामरच्छत्त्रयुगलं विष्णुब्रह्मादिकांस्तथा । चूर्णैविरचयेद्वेद्यां धीमान्देवालयेऽपि वा ॥ १,७९.२५५ ॥ यत्रापि देवपूजा स्यात्तत्रैवं कल्पयेद्बुधः । स्वहस्तरचितं मुख्यं क्रीतं चैव तु मध्यमम् ॥ १,७९.२५६ ॥ याचितं तु कनिष्टं स्याद्बलात्कारमथोऽधमम् । अर्हेषु यत्त्वनर्हेषु बलात्कारात्तु निष्फलम् ॥ १,७९.२५७ ॥ रक्तशालिजपाशाणकलमासितरक्तकैः । तन्दुलैर्वीहिमात्रोत्थैः कणैश्चैव यथाक्रमम् ॥ १,७९.२५८ ॥ उत्तमैर्मध्यमैश्चैव कनिष्ठैरधमैस्तथा । पद्मादिस्थापनैरेव तत्सम्यग्यागमाचरेत् ॥ १,७९.२५९ ॥ प्रागुत्तरमुखो वापि यदि वा प्राङ्मुखो भवेत् । आसनं च प्रवक्ष्यामि यथादृष्टं यथा श्रुतम् ॥ १,७९.२६० ॥ कौशं चार्मं चैलतल्पे दारवं तालपत्रकम् । कांबलं काञ्चनं चैव राजतं ताम्रमेव च ॥ १,७९.२६१ ॥ गोकरीपार्कजैर्वापि ह्यासनं परिकल्पयेत् । वैयाघ्रं रौरवं चैव हारिण मार्गमेव च ॥ १,७९.२६२ ॥ चार्मं चतुर्विधं ज्ञेयमथ बन्धुकमेव च । यथासंभवमेतेषु ह्यासनं परिकल्पयेत् ॥ १,७९.२६३ ॥ कृतपद्मासनो वापि स्वस्तिकासन एव च । दर्भभस्मसमासीनः प्राणानायम्य वाग्यन्तः ॥ १,७९.२६४ ॥ तावत्स देवतारूपो ध्यानं चान्तः समाचरेत् । शिखान्ते द्वादशाङ्गुल्ये स्थितं सूक्ष्मतनुं शिवम् ॥ १,७९.२६५ ॥ अन्तश्चरन्तं भूतेषु गुहायां विश्वतोमुखम् । सर्वाभरणसंयुक्तमिमादिगुणान्वितम् ॥ १,७९.२६६ ॥ ध्यात्वा तं धारयेञ्चित्ते तद्दीप्त्या पूरयेत्तनुम् । तया दीप्त्या शरीरस्थं पापं नाशमुपागतम् ॥ १,७९.२६७ ॥ स्वर्णपादैरसंपर्काद्रक्तं श्वेतं यथा भवेत् । तद्द्वादशदलावृत्तमष्ट पञ्च त्रिरेव वा ॥ १,७९.२६८ ॥ परिकल्प्यासनं शुद्धवं तत्र लिङ्गं निधाय च । गुहास्थितं महेशानं र्लिङ्गेशं चिन्तयेत्था ॥ १,७९.२६९ ॥ शोधिते कलशे तोयं शोधितं गन्धवासितम् । सुगन्धपुष्पं निक्षिप्य प्राणवेनाभिमन्त्रितम् ॥ १,७९.२७० ॥ प्राणायामश्च प्रणवः शूद्रेषु न विधीयते । प्राणायामपदे ध्यानं शिवेत्योङ्कारमन्त्रितम् ॥ १,७९.२७१ ॥ गन्धपुष्पाक्षतादीनि पूजाद्रव्याणि यानि च । तानि स्थाप्य समीपे तु ततः संकल्प माचरेत् ॥ १,७९.२७२ ॥ शिवपूजां करिष्यामि शिवतुष्ट्यर्थमेव च । इति संकल्पयित्वा तु तत आवाहनादिकम् ॥ १,७९.२७३ ॥ कृत्वा तु स्नानपर्यन्तं ततः स्नानं प्रकल्पयेत् । नमस्तेत्यादिमन्त्रेण शतरुद्रविधानतः ॥ १,७९.२७४ ॥ अविच्छिन्ना तु या धारा मुक्तिधारेति कीर्तिता । तया यः स्नापयेन्मांस जपचुद्रमुखांश्च चा ॥ १,७९.२७५ ॥ एकवारं त्रिवारं च पञ्च सप्त नवापि वा । एकादश तथा वारमथैकादशधान्वितम् ॥ १,७९.२७६ ॥ मुक्तिस्नानमिदं ज्ञेयं मासं मोक्षप्रदायकम् । शैवयाविद्यया स्नानं केवलं प्रणवेन वा ॥ १,७९.२७७ ॥ मृण्ययैर्नालिकेरस्य शकलैश्चोर्मिभिस्तथा । कांस्येन मुक्ताशुक्त्या च पुष्पादिकेसरेण वा ॥ १,७९.२७८ ॥ स्नापयेद्देवदेवेशं यथासंभवमीरितैः । शृङ्गस्य च विधिं वक्ष्ये स्नानयोग्यं यथा भवेत् ॥ १,७९.२७९ ॥ पूर्वमन्तस्तु संशोध्य बहिरन्तस्तु शोधयेत् । सुग्रिग्धं लघु कृत्वाथ नाङ्गं छिन्द्यात्कथञ्चन ॥ १,७९.२८० ॥ नीचैकदेशविन्यस्तद्वारद्रोण्या सुहृत्तया । कृशानुयुक्तं स्नानं तु देवाय परिकल्पयेत् ॥ १,७९.२८१ ॥ एवं गवयशृङ्गस्य जलपूर्तिरथोच्यते । द्वारे निषिद्धलोहार्द्धसंधिद्वारासमन्विते ॥ १,७९.२८२ ॥ योगवक्रं नागदण्डं नागाकारं प्रकल्पंयेत् । फलस्थाने तु चषकं दण्डेन समरन्ध्रकम् ॥ १,७९.२८३ ॥ तत्रैव पातयेत्तोयं मूर्द्ध्वयन्त्रघटे स्थितम् । पातयेदथ चान्येन वामेनैव करेण वा ॥ १,७९.२८४ ॥ मुक्तिधारा कृता तेन पवित्र पापनाशनम् । एवं संस्नाप्य देवेशं पञ्चगव्यैस्तथैव च ॥ १,७९.२८५ ॥ पञ्चामृतैरथ स्नाप्य मधुरत्रितयेन च । विभूष्य भूषणैर्देवं पुनः स्नाप्यमहेश्वरम् ॥ १,७९.२८६ ॥ शीतोपचारं कृत्वाथ तत आचमनादिकम् । वस्त्रं तथोपवीतं च गन्धद्रव्यकमेव च ॥ १,७९.२८७ ॥ कर्पूरमगरुं चापि पाटीरमथवा भवेत् । उभयमिश्रितं चापि शिवलिङ्गं प्रपूजयेत् । कृत्स्नं पीठं गन्धपूर्णं यद्वा विभवसारतः । तूष्णीमथोपचारं वा कालीयं पुष्पमेव च ॥ १,७९.२८८ ॥ श्रीपन्नमरुचित्याज्यं यथाशक्तखिलं यथा । अनेकद्रव्यधूपं च गुग्गुलं केवलं तथा ॥ १,७९.२८९ ॥ कपिलाघृतसंयुक्तं सर्वधूपं प्रशस्यते । धूपं दत्वा यथाशक्ति कपिलाघृतदीपकान् ॥ १,७९.२९० ॥ अथवा पूजामात्रेण दीपान्दत्वोपहारकम् । नैवेद्यमुपपन्नं च दत्वा पुष्पसमन्वितम् ॥ १,७९.२९१ ॥ मुखशुद्धिं ततः कृत्वा दत्त्वा तांबूलमादरात् । प्रदक्षिणनमस्कारौ पूजैवं हि समाप्यते ॥ १,७९.२९२ ॥ गीत्यङ्गपञ्चकं पश्चात्तानि विज्ञापयामि ते । गीतिर्वाद्यं पुराणं च नृत्यं हासोक्तिरेव च ॥ १,७९.२९३ ॥ नीराजनं च पुष्पाणामञ्जलिश्चाखिलार्पणम् । क्षमापनं चोद्रसनं प्रोक्तं पञ्चोपचारकम् ॥ १,७९.२९४ ॥ भूषणं च तथा छत्रं चामरव्यजने अपि । उपवीत च कैकर्यं षोडशानुपचारकान् ॥ १,७९.२९५ ॥ द्वात्रिंशदुपचारैस्तु यः समाराधयेच्छिवम् । एकेनाह्ना समस्तानां पातकानां क्षयो भवेत् ॥ १,७९.२९६ ॥ एतच्छ्रुत्वा हनुमतो वचनं प्राह शङ्करः । एवमेतत्कपिश्रेष्ठ युदुक्तं पूजनं मम ॥ १,७९.२९७ ॥ सारभूतमहं तुभ्यमुपदेक्ष्यामि सांप्रतम् । आराधनं यथालिङ्गे विस्तरेण त्वयोदितम् ॥ १,७९.२९८ ॥ मत्पादयुगलं प्रार्च्य पूजाफलमवाप्नुहि । ततः प्राह कपिश्रेष्ठो देवदेवमुमापतिम् ॥ १,७९.२९९ ॥ गुरिणा लिङ्गपूजैव नियता परिकल्पिता । तां करोमि पुरा देव पश्चात्त्वत्पादपूजनम् ॥ १,७९.३०० ॥ इत्युक्त्वेश नमस्कृत्य शिवलिङ्गार्चनाय च । सरसस्तीरमागत्य कृत्वा सैकतवेदिकाम् ॥ १,७९.३०१ ॥ तालपत्रैर्विरचितमासनं पर्यकल्पयत् । प्रक्षाल्य पादौ हस्तौ च समाचम्य समाहितः ॥ १,७९.३०२ ॥ भस्मस्नानमथो चक्रे पुनराचम्य वाग्यतः । देववेद्यामथो चक्रे पद्मं च सुमनोहरम् ॥ १,७९.३०३ ॥ अनन्तरं तालपत्रे पद्मासनगतः कपिः । प्राणानायम्य संन्यस्य शुल्कध्यानसमन्वितः ॥ १,७९.३०४ ॥ प्रणम्य गुरुमीशानं जपन्नासीदतः परम् । अथ देवार्यनं कर्त्तुं यत्नमास्थितवान्कपिः ॥ १,७९.३०५ ॥ पलाशपत्रपुटकद्वयानीतजलं शुचि । शिरः कमण्डलुगतं निधायाग्निनिमन्त्रितम् ॥ १,७९.३०६ ॥ आवाहनादि कृत्वाथ स्नानपर्यन्तमेव च । अथ स्नापयितुं देवमादाय करसंपुटे ॥ १,७९.३०७ ॥ कृत्वा निरीक्षणं देवपीठं नो दृष्टवान्कपिः । लिङ्गमात्रं करगतं दृष्ट्वा भीतिसमन्वितः ॥ १,७९.३०८ ॥ इदमाह महायोगी किंवा पापं मया कृतम् । यदेतत्पीठरहितं शिवलिङ्गं करस्थितम् ॥ १,७९.३०९ ॥ ममाद्य मरणं सिद्धं न पीठं चागमिष्यति । अथ रुद्रं जपिष्यामि तदायति महेश्वरः ॥ १,७९.३१० ॥ इति निश्चित्य मनसा जजाप शतरुद्रियम् । यदा तु न समायातो महेशोऽथ कपीश्वरः ॥ १,७९.३११ ॥ रुद्रं न्यपातयद्भूमौ वीरभद्रः समागतः । किमर्थं रुद्यते भद्र रुदिते कारणं वद ॥ १,७९.३१२ ॥ तच्छ्रुत्वा प्राह हनुमान्वीरभद्रं मनोगतम् । पीठहीनमिदं लिङ्गं पश्य मे पापसंचयम् ॥ १,७९.३१३ ॥ वीरभद्रस्ततः प्राह श्रुत्वा कपिसमीरितम् । यदि नायाति पीठं ते लिङ्गे मा साहसं कुरु ॥ १,७९.३१४ ॥ दाहयिष्याम्यहं लोकान्यदि नायाति पीठकम् । पश्य दर्शय मे लिङ्गं पीठं चात्रागतं न वा ॥ १,७९.३१५ ॥ अत दृष्ट्वा वीरभद्रो लिङ्गे पीठमनागतम् । दग्धुकामोऽखिलांल्लोकान्वीरभद्रः प्रातापवान् ॥ १,७९.३१६ ॥ अनलं भुवि चिक्षेप क्षणाद्दग्धा मही तदा । अथ सप्ततलान्दग्ध्वा पुनरूर्द्ध्वमवर्तत ॥ १,७९.३१७ ॥ पञ्चोर्द्ध्वलोकानदहज्जनलोकनिवासिनः । ललाटनेत्रसंभूतं नखेनादाय चानलम् ॥ १,७९.३१८ ॥ जंबीरफलसंकाशं कृत्वा करतले विभुः । तपः सत्यं च संदग्धुमुद्यतोऽभून्मुनीश्वरः ॥ १,७९.३१९ ॥ ततस्तु मुनयो दृष्ट्वातपोलोकनिवासिनः । दग्धुकामं वीरभद्रं गौतमाश्रममागताः ॥ १,७९.३२० ॥ न दृष्ट्वा तत्र देवेशं शङ्करं स्वात्मनि स्थितम् । अस्तुवन्भक्तिसंयुक्ताः स्तोत्रैर्वेदसमुद्भवैः ॥ १,७९.३२१ ॥ ओं वेदवेद्याय देवाय तस्मै शुद्धप्रभाचिन्त्यरूपाय कस्मै । ब्रह्माद्यधीशाय सृष्ट्यादिकर्त्रे,विष्णुप्रियायार्तिहॄन्त्रेंऽतकर्त्रे ॥ १,७९.३२२ । नमस्तेऽखिलाधीश्वरायांबराय नमस्ते चरस्थावरव्यापकाय । नमो वेदगुह्याय भक्तप्रियाय नमः पाकभोक्त्रे मखेशाय तुभ्यम् ॥ १,७९.३२३ ॥ नमस्ते शिवायादिदेवाय कुर्मो नमो व्यालयज्ञोपवीतप्रधर्त्ने । नमस्ते सुराबिन्दुवर्षापनाय त्रयीमूर्तये कालकालाय नाथ ॥ १,७९.३२४ ॥ धरित्रीमरुद्व्योमतोयेन्दुवह्निप्रभामण्डलात्माष्टधामूर्ति धर्त्रे । शिवायाशिवघ्नाय वीराय भूयात्सदा नः प्रसन्नो जगन्नाथकेज्यः ॥ १,७९.३२५ ॥ कलानाथभालाय आत्मा महात्मा मनो ह्यग्रयानो निरूप्यो न वाग्भिः । जगज्जाड्यविध्वंसनोभुक्तिमुक्तिप्रदः स्तात्प्रसन्नः सदा शुद्ध कीर्तिः ॥ १,७९.३२६ ॥ यतः संप्रसूतं जगज्जातमीशात्स्थितं येन रक्षावता भावितं च । लयं यास्यते यत्र वाचां विदूरे स वै नः प्रसन्नोऽस्तु कालत्रयात्मा ॥ १,७९.३२७ ॥ यदार्दि च मध्यं तथान्तं न केऽपि विजानन्ति विज्ञा अपि स्वानुमानाः । स वै सर्वमूर्तिः सदा नो विभूत्येप्रसन्नोऽस्तु किं ज्ञापयामोऽत्र कृत्यम् ॥ १,७९.३२८ ॥ एतां स्तुतिमथाकर्ण्य भगनेत्रप्रदः शिवः । विष्णुमाह मुनीनेतानानयस्व मदन्तिकम् ॥ १,७९.३२९ ॥ अथ विष्णुः समागत्य तपोलोकनिवासिनः । मुनीन्सांत्वय्य विश्वेशं दर्शयामास शङ्करम् ॥ १,७९.३३० ॥ तानाह शङ्करो वाक्यं किमर्थं यूयमागताः । तपोलोकाद्भूमिलोकं मुनयो मुक्तकिल्बिषाः ॥ १,७९.३३१ ॥ तच्छ्रुत्वा शूलिनो वाक्यं प्रोचुस्ते मुनिसत्तमाः । देव द्वादशलोकानां दृश्यन्ते भस्मराशयः ॥ १,७९.३३२ ॥ स्थितमेकं वनमिदं पश्य तल्लोकसंक्षयम् । तच्छ्रुत्वा गिरिशः प्राह तान्मुनीनूर्द्धरेतसः ॥ १,७९.३३३ ॥ भूर्लोकस्य तु संदाहे पातालानां तथैव च । सन्देहो नास्ति मुनयः स्थितानां नो रहःस्थले ॥ १,७९.३३४ ॥ ऊर्द्धपञ्चकलोकानां दाहे संदेह एव नः । कथमङ्गारवृष्टिश्च कथं नो वा महाध्वनिः ॥ १,७९.३३५ ॥ तदाकर्ण्य विभोर्वाक्यं शङ्करस्य मुनीश्वराः । प्रोचुः प्राञ्जलयो देवं ब्रह्मादिसुरसंगतम् ॥ १,७९.३३६ ॥ भीतिरस्माकमधुना वर्तते वीरभद्रतः । स एवाङ्गार वृष्टिं च पिपासुरपिबद्विभोः ॥ १,७९.३३७ ॥ देवोऽथ वीरमाहूय किं वीरेत्यब्रवीद्वचः । वीरोऽप्याह कपेर्लिङ्गे पीठाभावादिदं कृतम् ॥ १,७९.३३८ ॥ तच्छ्रुत्वाह शिवो देवो मुनींस्तान्भयविह्वलान् । कपेश्चित्तं परिज्ञातुं मया कृतमिदं द्विजाः ॥ १,७९.३३९ ॥ मा भैष्ट भवतां सौख्यं सदा संपादयाम्यहम् । इत्युक्त्वा तु यथापूर्वं देवदेवः कृपानिधिः ॥ १,७९.३४० ॥ दग्धानप्यखिलांल्लोकान्पूर्वतः शोभनान्विभुः । कल्पयामास विश्वात्मा वीरभद्रमथाब्रवीत् ॥ १,७९.३४१ ॥ साधु वत्स यतो भद्रं भक्तानामीहसे सदा । ततस्ते विपुला कीर्तिर्लोके स्थास्यति शाश्वती ॥ १,७९.३४२ ॥ इत्युक्त्वालिङ्ग्य शिरसि समाघ्राय महेश्वरः । तांबूलं वीरभद्राय दत्तवान्प्रीतमानसः ॥ १,७९.३४३ ॥ अथासौ हनुमानीपूजनं कृतवान्यथा । समाप्तायां तु पूजायां हनुमान्प्रीतमानसः ॥ १,७९.३४४ ॥ एकं वनचरं तत्र गन्धर्वं सविपञ्चकम् । ददर्श तमथाभ्याह वीणा मे दीयतामिति ॥ १,७९.३४५ ॥ गन्धर्वोऽप्याह न मया त्याज्या वीणा प्रिया मम । ममापीष्टेहं गन्धर्व वीणेत्याह कपीश्वरः ॥ १,७९.३४६ ॥ यदा न दत्ते गन्धर्वो वल्लकीं कपये प्रियाम् । तदा मुष्टिप्रहारेण गन्धर्वः पातितः क्षितौ ॥ १,७९.३४७ ॥ वीणामादाय महतीं स्वरतन्तुसमन्विताम् । हनुमान्वानरश्रेष्ठो गायन्प्रागाच्छिवान्तिकम् ॥ १,७९.३४८ ॥ ततो गानेन महता प्रसाद्य जगदीश्वरम् । बृहतीकुसुमैः शुद्धैर्देवपादावपूजयत् ॥ १,७९.३४९ ॥ ततः प्रसन्नो विश्वात्मा मुनीनां सन्निधौ तदा । दैत्यानां देवतानां च नृपाणां शङ्करोऽपि च ॥ १,७९.३५० ॥ तस्मै वरमथ प्रादात्कल्पान्तं जीवितं पुनः । समुल्लङ्घने शक्तिं शास्त्रज्ञत्वं बलोन्नतिम् ॥ १,७९.३५१ ॥ एवं दत्तं वरं प्राप्य महेशेन महात्मना । प्रत्यक्षं मम विप्रेन्द्र हनुमान्हर्षमागगतः ॥ १,७९.३५२ ॥ समस्तभूषासु षिताङ्गः स्वदीप्तिर्मदीकृतदेवदीप्तिः । प्रसन्नमूर्तिस्तरुणः शिवांशः संभावयामास समस्तदेवान् ॥ १,७९.३५३ ॥ आज्ञप्तो हनुमांस्तत्र मत्सेवायै मुनीश्वरः । महेशेनाहमप्येनं शशिमौलिमवैमि च ॥ १,७९.३५४ ॥ किं बहूक्तेन विप्रर्षे यादृशो वानरेश्वरः । बुद्धौ न्याये च वै धैर्ये तादृगन्योऽस्ति न क्वचित् ॥ १,७९.३५५ ॥ इति ते सर्वमाख्यातं चरितं पापनाशनम् । पठतां शृण्वतां चैव गच्छ विप्र यथासुखम् ॥ १,७९.३५६ ॥ तच्छ्रुत्वा रामभद्रस्य रघुनाथस्य धीमतः । वचनं दक्षिणीकृत्य नत्वा चागां यथागतः ॥ १,७९.३५७ ॥ एतत्तेऽभिहितं विप्र चरितं च हनूमतः । सुखदं मोक्षदं सारं किमन्यच्छ्रोतुमिच्छसि ॥ १,७९.३५८ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमच्चरित्रं नाम एकोनाशीतितमोऽध्यायः _____________________________________________________________ सूत उवाच श्रुत्वा तु नारदो विप्राः कुमारवचनं मुनिः । यत्पप्रच्छ पुनस्तच्च युष्मभ्यं प्रवदाम्यहम् ॥ १,८०.१ ॥ कार्तवीर्यस्य कवचं तथा हनुमतोऽपि च । चरितं च महत्पुण्यं श्रुत्वा भूयोऽब्रवीद्वचः ॥ १,८०.२ ॥ नारद उवाच साधु साधु मुनिश्रेष्ठ त्वयातिकरुणात्मना । श्रावितं चरितं पुण्यं शिवस्य च हनूमतः ॥ १,८०.३ ॥ तन्त्रस्यांस्य क्रमप्राप्तं कथनीयं च यत्त्वया । तत्प्रब्रूहि महाभाग किं पृष्ट्वान्यद्विदांवर ॥ १,८०.४ ॥ सनत्कुमार उवाच अथ वक्ष्ये कृष्णमन्त्रान्भुक्तिमुक्तिफलप्रदान् । ब्रह्माद्या यान्समाराध्य सृष्ट्यादिकरणे क्षमाः ॥ १,८०.५ ॥ कामः कृष्णपदं ङतं गोविन्दं च तथाविधम् । गोपीजनपदं पश्चाद्वल्लभायाग्निसुंदरी ॥ १,८०.६ ॥ अष्टादशार्णो मन्त्रोऽयं दुर्गाधिष्ठातृदैवतः । नारदोऽस्य मुनिश्छन्दो गायत्री देवता पुनः ॥ १,८०.७ ॥ श्रीकृष्णः परमात्मा च कामो बीजं प्रकीर्तितम् । स्वाहा शक्तिर्नियोगस्तु चतुर्वर्गप्रसिद्धये ॥ १,८०.८ ॥ ऋषिं शिरसि वक्त्रे तु छन्दश्च हृदि देवताम् । गुह्ये बीजं पदोः शक्तिं न्यसेत्साधकसत्तमः ॥ १,८०.९ ॥ युगेवदाब्धि निगमैर्द्वाभ्यां वर्णैर्मनूद्भवैः । पञ्चाङ्गानि प्रविन्यस्य तत्त्वन्यासं समाचरेत् ॥ १,८०.१० ॥ हृदन्तिमादिकान्तार्णमपराद्यानि चात्मने । मत्यन्तानि च तत्वानि जीवाद्यानि न्यसेत्क्रमात् ॥ १,८०.११ ॥ जीवं प्राणं मतिमहॄङ्कारं मनस्तथैव च । शब्दं स्पर्शं रूपरसौ गन्धं श्रोत्रं त्वचं तथा ॥ १,८०.१२ ॥ नेत्रं च रसनाङ्घ्राणं वाचं पाणिं पदेन्द्रियम् । पायुं शिश्नमथाकाशं वायुं वह्निं जलं महीम् ॥ १,८०.१३ ॥ जीवं प्राणं च सर्वागे मत्यादित्रितयं हृदि । मूर्द्धास्यहृद्गुह्य पादेष्वथ शब्दादिकान्न्यसेत् ॥ १,८०.१४ ॥ कर्णादिस्वस्वस्थानेषु श्रोत्रादीनीन्द्रियाणि च । तथा वागादीन्द्रियाणि स्वस्वस्थानषु विन्यसेत् ॥ १,८०.१५ ॥ मूद्धस्यहृद्गुह्यपादेष्वाकाशादीन्न्यसेत्ततः । हृत्पुण्डरीकमर्केन्दुह्निबिंबान्यनुक्रमात् ॥ १,८०.१६ ॥ द्विषठ्यष्टदशकलाव्याप्तानि च तथा मतः । भूताष्टां गाक्षिपदगैर्वर्णैः प्रग्विन्न्यसेद्धृदि ॥ १,८०.१७ ॥ अथाकाशादिस्थलेषु वासुदेवादिकांस्ततः । वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ १,८०.१८ ॥ नारायणश्च क्रमशः परमेष्ठ्यादिभिर्युताः । परमेष्ठिपुमाञ्च्छौ चविश्वनिवृत्तिसर्वकाः ॥ १,८०.१९ ॥ श्वेतानिलाग्न्यंबुभूमिवर्णैः प्राग्वत्प्रविन्यसेत् । स्वबीजाद्यं कोपतत्वं नृसिंहं व्यापकेन च ॥ १,८०.२० ॥ प्राग्वद्विन्यस्य सर्वागे तत्त्वन्यासोऽयमीरितः । मकाराद्या आद्यवर्णाः सर्वे स्युश्चन्द्रभूषिताः ॥ १,८०.२१ ॥ वासुदेवादिका ज्ञेया ङेंताः साधकसत्तमैः । प्राणायामं ततः कृत्वा पूरकुम्भकरेचकैः ॥ १,८०.२२ ॥ चतुर्भिः षड्भर्द्वाभ्यां च मूलमन्त्रेण मन्त्रवित् । केचिदाहुरिहाचार्याः प्राणायामोत्तरं पुनः ॥ १,८०.२३ ॥ पीठन्यासं विधायाथ न्यासानन्यान्समाचरेत् । दशतत्त्वादि विन्यस्य वक्ष्यमाणविधानतः ॥ १,८०.२४ ॥ मूर्तिपञ्जरनामानं पूर्वोक्तं विन्यसेद्बुधः । सर्वाङ्गे व्यापकं कृत्वा किरीटमनुना सुधीः ॥ १,८०.२५ ॥ ततस्तारपुटं मन्त्रं व्यापय्य करयोस्त्रिशः । पञ्चाङ्गुलीषु करयोः पञ्चाङ्गं विन्यसेत्ततः ॥ १,८०.२६ ॥ त्रिशो मूलेन मूर्द्धादिपादान्तं व्यापकं न्यसेत् । सकृद्व्यापय्य तारेण मन्त्रन्यासं ततश्चरेत् ॥ १,८०.२७ ॥ शिरोललाटे भ्रूमध्ये कर्णयोश्चक्षुषोस्तथा । घ्राणयोर्वदने कण्ठे हृदि नाभौ तथा पुनः ॥ १,८०.२८ ॥ कट्यां लिङ्गे जानुनोश्च पादयोर्विन्यसेत्क्रमात् । हृदन्तान्मन्त्रवर्णांश्च ततो मूर्ध्नि ध्रुवं न्यसेत् ॥ १,८०.२९ ॥ पुनर्नयनयोरास्ये हृदि गुह्ये च पादयोः । विन्यसेद्धृदयान्तानि मनोः पञ्चपदानि च ॥ १,८०.३० ॥ भूयो मुन्यादिकं न्यस्य पञ्चाङ्गं पूर्ववन्न्यसेत् । अथ वक्ष्ये महागुह्यं सर्वन्यासोत्तमोत्तमम् ॥ १,८०.३१ ॥ यस्य विज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः । अणिमाद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः ॥ १,८०.३२ ॥ यस्याराधनतो मन्त्री कृष्णसंनिध्यतां व्रजेत् । ताराद्याभिर्व्याहृतिभिः संपुटं विन्यसेन्मनुम् ॥ १,८०.३३ ॥ मन्त्रेण पुटितांश्चापि प्रणवाद्यांस्ततो न्यसेत् । गायत्र्या पुटुतं मन्त्रं विन्यसेन्मातृकास्थले ॥ १,८०.३४ ॥ मन्त्रेण पुटितां तां च गायत्रीं विन्यसेत्क्रमात् । मातृकापुटितं मूलं विन्यसेत्साधकोत्तमः ॥ १,८०.३५ ॥ मूलेन पुटितां चैव मातृकां विन्यसेत्क्रमात् । तृचं न मातृकावर्णान्पूर्वं तत्तत्स्थले सुधीः ॥ १,८०.३६ ॥ विन्यसेन्न्यासषट्कं च षोढा न्यासोऽयमीरितः । अनेन न्यासवर्येण साक्षात्कृष्णसमो भवेत् ॥ १,८०.३७ ॥ न्यासेन पुटितं दृष्ट्वा सिद्धगन्धर्वकिन्नराः । देवा अपि नमन्त्येनं किंपुनर्मानवा भुवि ॥ १,८०.३८ ॥ सुदर्शनस्य मन्त्रेण कुर्याद्दिग्बन्धनं ततः । देवं ध्यायन्स्वहृदये सर्वाभीष्टप्रदायकम् ॥ १,८०.३९ ॥ उत्फुल्लकुसुमव्रातनम्रशाखैर्वरद्रुमैः । सस्मेयमञ्जरीवृन्दवल्लरीवेष्टितैः शुभैः ॥ १,८०.४० ॥ गलत्परागधूलिभिः सुरभीकृतदिङ्मुखः । स्मरेच्छिशिरितं वृन्दावनं मन्त्रीसमाहितः ॥ १,८०.४१ ॥ उन्मीलन्नवकञ्जालिविगलन्मधुसंचयैः । लुब्धान्तः करणैर्गुञ्जद्द्विरेफपटलैः शुभम् ॥ १,८०.४२ ॥ मरालपरभृत्कीरकपोतनिकरैर्मुहुः । मुखरीकृतमानृत्यन्मायूरकुलमञ्जुलम् ॥ १,८०.४३ ॥ कालिन्द्या लोलकल्लोलविप्रुषैर्मन्दवाहिभिः । उन्निद्रांबुरुहव्रातरजोभिर्धूसरैः शिवैः ॥ १,८०.४४ ॥ प्रदीपित स्मरैर्गोष्ठसुंदरीमृदुवाससाम् । विलोलनपरैः संसेवितं वा तैर्निरन्तरम् ॥ १,८०.४५ ॥ स्मरेत्तदन्ते गीर्वाणभूरुहं सुमनोहरम् । तदधः स्वर्णवेद्यां च रत्नपीठमनुत्तमम् ॥ १,८०.४६ ॥ रत्नकुट्टिमपीठेऽस्मिन्नरुणं कमलं स्मरेत् । अष्टपत्रं च तन्मध्ये मुकुन्दं संस्मरेत्स्थितम् ॥ १,८०.४७ ॥ फुल्लेन्दीवरकान्तं च केकिबर्हावतंसकम् । पीतांशुकं चन्द्रमुखं सरसीरुहनेत्रकम् ॥ १,८०.४८ ॥ कौस्तुभोद्भासिताङ्गं च श्रीवत्सांकं सुभूषितम् । व्रजस्त्रीनेत्रकमलाभ्यर्चितं गोगणावृतम् ॥ १,८०.४९ ॥ गोपवृन्दयुतं वंशीं वादयन्तं स्मरेत्सुधीः । एवं ध्यात्वा जपेदादावयुतद्वितयं बुधः ॥ १,८०.५० ॥ जुहुयादरुणांभोजैस्तद्दशांशं समाहितः । जपेत्पश्चान्मन्त्रसिद्ध्यै भूतलक्षं समाहितः ॥ १,८०.५१ ॥ अरुणैः कमलैहुत्वा सर्वसिद्धीश्वरो भवेत् । पूर्वोक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः ॥ १,८०.५२ ॥ तस्यामावाह्य चाभ्यर्चेद्गोपीजनमनोहरम् । मुखे वेणुं समभ्यर्च्य वनमालां च कौस्तुभम् ॥ १,८०.५३ ॥ श्रीवत्सं च हृदि प्रार्च्य ततः पुष्पाञ्जलिं क्षिपेत् । ततः श्वेतां च तुलसीं शुक्लचन्दनपङ्किलाम् ॥ १,८०.५४ ॥ रक्तां च तुलसीं रक्तञ्चदनाक्तां क्रसात्सुधीः । अर्पयेद्दक्षिणे जद्वयमश्वारियुग्मकम् ॥ १,८०.५५ ॥ हयमारद्वयेनैव हृदि मूर्ध्नि तथा पुनः । पद्मद्वयं च विधिवत्ततः शीर्षे समर्पयेत् ॥ १,८०.५६ ॥ तुलसीद्वयमंभोजद्वयमश्वारियुग्मकम् । ततः सर्वाणि पुष्पाणि सर्वाङ्गेषु समर्पयेत् ॥ १,८०.५७ ॥ दक्षिणे वासुदेवाख्यं स्वच्छं चैतन्यमव्ययम् । वामे च रुक्मिणीं तदून्नित्यां रक्तां रजोगुणाम् ॥ १,८०.५८ ॥ एवं संपूज्य गोपालं कुर्यादावरणार्चनम् । यजेद्दामसुदामौ च वसुदामं च किङ्किणीम् ॥ १,८०.५९ ॥ पूर्वाद्याशासु दामाद्या ङेंनमोन्तध्रुवादिकाः । अग्निनैरृतिवाय्वीशकोणेषु हृदयादिकान् ॥ १,८०.६० ॥ दिक्ष्वस्त्राणि समभ्यर्च्य पत्रेषु महिषीर्यजेत् । रुक्मिणी सत्यभामा च नाग्नजित्यभिधा पुनः ॥ १,८०.६१ ॥ सुविन्दा मित्रविन्दा च लक्ष्मणा चर्क्षजा ततः । सुशीला च लसद्रम्यचित्रितांबरभूषणा ॥ १,८०.६२ ॥ ततो यजेद्दलाग्रेषु वसुदेवञ्च देवकीम् । नन्दगोपं यशोदां च बलभद्रं सुभद्रिकाम् ॥ १,८०.६३ ॥ गोपानूगोपीश्च गोविन्दविलीनमतिलोचनान् । ज्ञानमुद्राभयकरौ पितरौ पीतपाण्डुरौ ॥ १,८०.६४ ॥ दिव्यमाल्यांबरालेपभूषणे मातरौ पुनः । धारयन्त्यौ चरुं चैव पायसीं पूर्णपात्रिकाम् ॥ १,८०.६५ ॥ अरुणश्यामले हारमणिकुं डलमण्डिते । बलः शङ्खेन्दुधवलो मुशलं लाङ्गलं दधत् ॥ १,८०.६६ ॥ हालालोलो नीलवासा हलवानेककुण्डलः । कला या श्यामला भद्रा सुभद्रा भद्रभूषणा ॥ १,८०.६७ ॥ वराभययुता पीतवसना रूढयौवना । वेणुवीणाहेमयष्टिशङ्खशृङ्गादिपाणयः ॥ १,८०.६८ ॥ गोपा गोप्यश्च विविधप्राभृतान्नकरांबुजाः । मन्दारदींश्च तद्बाह्ये पूजयेत्कल्पपादपान् ॥ १,८०.६९ ॥ मन्दारश्च तथा संतानको वै पारिजातकः । कल्पद्रुमस्ततः पश्चाद्ध्वरिचन्दनसंज्ञकः ॥ १,८०.७० ॥ मध्ये दिक्षु समभ्यर्च्य बहिः शक्रादिकान्यजेत् । तदस्त्राणि च संपूज्य यजेत्कृष्णाष्टकेन च ॥ १,८०.७१ ॥ कृष्णं च वासुदेवं च देवकीनन्दनं तथा । नारायणं यदुश्रेष्ठं वार्ष्णेयं धर्मपालकम् ॥ १,८०.७२ ॥ असुराक्रान्तभूभारहारिणं पूजयेत्ततः । एभिरावरणैः पूजा कर्तव्यासुखैरिणः ॥ १,८०.७३ ॥ संसारसागरोत्थीर्त्यै सर्वकामाप्तये बुधः । एवं पूजादिभिः सिद्धा भवद्वैश्रवणो यमः ॥ १,८०.७४ ॥ त्रिकालपूजनं चास्य वक्ष्ये सर्वार्थसिद्धिदम् । श्रीमदुद्यानसंवीतिहेमभूरत्नमण्डपे ॥ १,८०.७५ ॥ लसत्कल्पद्रुमाधस्थरत्नाब्जपीठसंस्थितम् । सुत्रामरत्नसंकाशं गुडस्निग्धालकं शिशुम् ॥ १,८०.७६ ॥ चलत्कनककुण्डलोल्लसितचारुगण्डस्थलं सुघोणधरमद्भुतस्मितमुखांवुतं सुन्दरम् । स्फुरद्विमलरत्नयुक्कनकसूत्रनद्ध दधत्सुवर्णपरिमण्डितं सुभगपैण्डरीकं नखम् ॥ १,८०.७७ ॥ समुद्धूसरोरस्थले धेनुधूल्या सुपुष्टाङ्गमष्टापदाकल्पदीप्तम् । कटीलस्थले चारुजङ्घान्तयुग्मं पिनद्धं क्वणत्किङ्किणीजालदाम्ना ॥ १,८०.७८ ॥ हसन्तं हसद्वन्धुजीवप्रसूनप्रभापाणिपादांबुजोदारकान्त्या । दधानं करो दक्षिणे पायसान्न सुहैयङ्गवीनं तथा वामहस्ते ॥ १,८०.७९ ॥ लसद्गोपगोपीगवां वृन्दमध्ये स्थितं वासवाद्यैः सुरैरर्चितान्ध्रिम् । महाभारभूतामरारातियूथांस्ततः पूतनादीन्निहॄन्तुं प्रवृत्तम् ॥ १,८०.८० ॥ एवं ध्यात्वार्च्चयेद्देवं पूर्ववत्स्थिरमानसः । दध्ना गुडेन नैवेद्यं दत्वा दशशतं जपेत् ॥ १,८०.८१ ॥ मध्यन्दिने यजेदेवं विशिष्यरूपधारिणम् । नारदाद्यैर्मुनिगणैः सुरवृन्दैश्च पूजितम् ॥ १,८०.८२ ॥ लसद्गोपगोपीगवां वृन्दमध्यस्तितं सांद्रमेघप्रभंसुंन्दराङ्गम् । शिखण्डिच्छदापीडमब्जायताक्षं लसञ्चिल्लिकं पूर्णचद्राननं च ॥ १,८०.८३ ॥ चलत्कुण्डलोल्लासिगण्डस्थलश्रीभरं सुन्दरं मन्दहासं सुनासम् । सुकार्तस्वराभांबरं दिव्यभूषं क्वणत्किङ्किणीजालमत्तानुलेपम् ॥ १,८०.८४ ॥ वेणुं धमन्तं स्वकरे दधानं सव्ये दरं यष्टिमुदारवेषम् । दक्षे तथैवेप्सितदानदक्षं ध्यात्वार्चयेन्नन्दजमिन्दिराप्त्यै ॥ १,८०.८५ ॥ एवं ध्यात्वार्चयेत्कृष्णं पूर्ववद्वैष्णवोत्तमः । अपूपपायसान्नाद्यैर्नैवैद्यं परिकल्पयेत् ॥ १,८०.८६ ॥ हुत्वा चाष्टत्तरशतं पयोऽनैः सर्पिषाप्लुतैः । स्वस्वदिक्षु बलिं दद्याद्दिशेदाचमनं ततः ॥ १,८०.८७ ॥ अष्ट्त्तरसहस्रं च प्रजपेन्मन्त्रमुत्तमम् । अह्नो मध्ये यजेदेवं यः कृष्णं वैष्णवोत्तमः ॥ १,८०.८८ ॥ देवाः सर्वे नमस्यन्ति लोकानां वल्लभो नरः । मेधायुःश्रीकान्तियुक्तः पुत्रैः पौत्रैश्च वर्द्धते ॥ १,८०.८९ ॥ तृतीयकालपूजायामस्ति कालविकल्पना । सायाह्ने निशि वेत्यत्र वदन्त्येके विपश्चितः ॥ १,८०.९० ॥ दशाक्षरेण चेद्रात्रौ सायाह्नेऽष्टादशार्णतः । उभयीमुभयेनैव कुर्यादित्यपरे जगुः ॥ १,८०.९१ ॥ सायाह्ने द्वारवत्यां तु चित्रोद्यानोपशोभिते । अष्टसाहस्रसंख्यातैर्भवनैरुपमण्डिते ॥ १,८०.९२ ॥ हंससारससंकीर्णकमलोत्पलशालिभिः । सरोभिर्नीलांभोभिः परीते भवनोत्तमे ॥ १,८०.९३ ॥ उद्यत्प्रद्योतनोद्योतद्युतौ श्रीमणिमण्डले । हेमांभोजासनासीनं कृष्णं त्रैलोक्यमोहनम् ॥ १,८०.९४ ॥ मुनिवृन्दैः परिवृतमात्मतत्त्वविनिर्णये । तेभ्यो मुनिभ्यः स्वं धाम दिशन्तं परमक्षरम् ॥ १,८०.९५ ॥ उन्निद्रेदीवरश्यामं पद्मपत्रायतेक्षणम् । स्निग्धं कुन्तलसंभिन्नकिरीटवनमालिनम् ॥ १,८०.९६ ॥ चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् । श्रीवत्सवक्षसं भ्राजत्कौस्तुभं सुमनोहरम् ॥ १,८०.९७ ॥ काश्मीरकपिशोरस्कं पीतकौशेयवाससम् । हारकेयूरकटककटिसूत्रैरलङ्कृतम् ॥ १,८०.९८ ॥ हृतविश्वंभराभूरिभारं मुदितमानसम् । शङ्खचक्रगदापद्मराजद्भुजचतुष्टयम् ॥ १,८०.९९ ॥ एवं ध्यात्वार्चयेन्मन्त्री स्यादङ्गैः प्रथमावृत्तिः । द्वितीया महिषीभिस्तु तृतीयायां समर्चयेत् ॥ १,८०.१०० ॥ नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् । विष्वक्सेनं च शैनेयं दिक्ष्वग्रे विनतासुतम् ॥ १,८०.१०१ ॥ लोकपालैश्च वज्राद्यैः पूजयेद्वैष्णवोत्तमः । एवं संपूज्य विधिवत्पायसं विनिवेदयेत् ॥ १,८०.१०२ ॥ तर्पयित्वा खण्डमिश्रदुग्धबुद्ध्या जलैरिह । जपेदष्टशतं मन्त्री भावयन्पुरुषोत्तमम् ॥ १,८०.१०३ ॥ पूजासु होमं सर्वासु कुर्यान्मध्यन्दिनेऽथवा । आसनादर्घ्यपर्यन्तं कृत्वा स्तुत्वा नमेत्सुधीः ॥ १,८०.१०४ ॥ समर्थात्मानमुद्वास्य स्वीयहृत्सरसीरुहे । विन्यस्य तन्मयो भूत्वा पुनरात्मानमर्चयेत् ॥ १,८०.१०५ ॥ सायाह्ने वासुदेवं यो नित्यमेवं समर्चयेत् । सर्वान्कामानवाप्यान्ते स याति परमां गतिम् ॥ १,८०.१०६ ॥ रात्रौ चेन्मदनाक्रान्तचेतसं नन्दनन्दनम् । यजेद्रासपरिश्रान्तं गोपीमण्डलमध्यगम् ॥ १,८०.१०७ ॥ विकसत्कुन्दकह्लारमल्लिकाकुसुमोद्गतैः । रजोभिर्धूसरैर्मन्दमारुतैः शिशिरीकृते ॥ १,८०.१०८ ॥ उन्मीलन्नवकैरवालिविगलन्माध्वीकलब्धान्तरं भ्राम्यन्मत्तमिलिन्दगीतललिते सन्मल्लिकोज्जृम्भिते । पीयूषांशुकरैर्विशालितहरित्प्रान्ते स्मरोद्दीपने कालिन्दीपुलिनाङ्गणे स्मितमुखं वेणुं रणन्तं मुहुः ॥ १,८०.१०९ ॥ अन्तस्तोयलसन्नवांबुदघटासंघट्टकारत्विषं चञ्चञ्चिल्लिकमंबुजायतदृशं बिम्बाधरं सुन्दरम् । मायूरच्छदबद्धमौलिविलसद्धंमिल्लमालं चलं दीप्यत्कुण्डलरत्नरश्मिविलसद्गण्डद्वयोद्बासितम् ॥ १,८०.११० ॥ काञ्चीनूपुरहारकङ्कणलसत्केयूरभूषान्वितं गोपीनां द्वितयां तरे सुललितं वन्यप्रसूनस्रजम् । अन्योन्यं विनिबद्धगोपदयितादोर्वल्लिवीतं लसद्रासक्रीडनलोलुपं मनसिजाक्रान्तं मुकुन्दं भवेत् ॥ १,८०.१११ ॥ विविधश्रुतिभिन्नमनोज्ञतरस्वरसप्तकमूर्छनतानगणैः । भ्रममाणममूभिरुदारमणिस्फुटमण्डनसिंजितचारुतनुम् ॥ १,८०.११२ ॥ इतरेतरबद्धकरप्रमदागणकल्पितरासविहारविधौ । मणिशङ्कुगमप्यमुना वपुषा बहुधा विहितस्वकदिव्यतनुम् ॥ १,८०.११३ ॥ एवं ध्यात्वार्चयेन्मन्त्री स्यादङ्गैः प्रथमावृतिः । श्रीकामः सस्वराद्यानि कलाब्जैर्वैष्णवोत्तमः ॥ १,८०.११४ ॥ यजेत्केशवकीर्त्यादिमिथुनानि च षोडश । इन्द्राद्यानपि वज्रादीन्पूजयेत्तदनन्तरम् ॥ १,८०.११५ ॥ पृन्थु सुवृत्तं मसृणं वितस्तिमात्रोन्नतं कौ विनिखन्य शङ्कुम् । आक्रम्य पद्भ्यामितरेतरैस्तु हस्तैर्भ्रमोऽयं खलु रासगोष्ठी ॥ १,८०.११६ ॥ सपूज्यैवं च पयसा ससितो पलसर्पिषा । नैवेद्यमर्चयित्वा तु चषकैर्नृपसंख्यकैः ॥ १,८०.११७ ॥ सततं पापप्ते (?) मन्त्री मिथुनेष्वर्पयेत्क्रमात् । विधाय पूर्ववच्छेषं सहस्रं प्रजपेन्मनुम् ॥ १,८०.११८ ॥ स्तुत्वा नत्वा च संप्रार्थ्य पूजाशेषं समापयेत् । एवं यः पूजयेत्कृष्णं स सस्मृद्धेः पदं भवेत् ॥ १,८०.११९ ॥ अणिमाद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः । भुक्त्वेह विविधान्भोगानन्ते विष्णुपदं व्रजेत् ॥ १,८०.१२० ॥ एवं पूजादिभिः सिद्धे मनौकाम्यानि साधयेत् । अष्टाविंशतिवारं वा त्रिकालं पूजयेत्सुधीः ॥ १,८०.१२१ ॥ स्वकालविहितान् भूयः परिवारांश्च तर्पयेत् । प्रातर्द्दध्ना गुडाक्तेन मध्याह्ने पयसा पुनः ॥ १,८०.१२२ ॥ नवनीतयुतेनाथ सायाह्ने तर्पयेत्पुनः । ससितोपलमिश्रेण पयसा वैष्णवोत्तमः ॥ १,८०.१२३ ॥ तर्पयामिपदं योज्यं मन्त्रान्ते स्वेषु नामसु । द्वितीयान्तेषु तु पुनः पूजाशेषं समापयेत् ॥ १,८०.१२४ ॥ अभ्युक्ष्यतत्प्रसादाद्भिरात्मानं प्रपबेदपः । तत्तृत्पस्तमथोद्वास्य तन्मयः प्रजपेन्मनुम् ॥ १,८०.१२५ ॥ अथ द्रव्याणि काम्येषु प्रोच्यन्ते तर्पणेषु च । तानि प्रोक्तविधानानामाश्रित्यान्यतमं भजेत् ॥ १,८०.१२६ ॥ पायसं दाधिकं चाज्यं गौडान्नं कृसरं पयः । दधीनि कदली मोचा चिञ्चा रजस्वला तथा ॥ १,८०.१२७ ॥ अपूपा मोदका लाजाः पृथुका नवनीतकम् । द्रव्यषोडशकं ह्येतत्कथितं पद्मजादिभिः ॥ १,८०.१२८ ॥ लाजान्ते पृथुकं प्राक्च समर्प्य च सितोपलम् । चतुःसप्ततिवारं यः प्रातरेवं प्रतर्पयेत् ॥ १,८०.१२९ ॥ ध्यात्वा कृष्णपदं मत्री मण्डलादिष्टमाप्नुयात् । धारोष्णपक्कपयसा नवनीतं दधीनि च ॥ १,८०.१३० ॥ दौग्धाम्रामाज्यं मत्स्यण्डी क्षौद्रं कीलालमेव च । पूजयेन्नवभिर्द्रव्यैः प्रत्येकं रविसंख्यया ॥ १,८०.१३१ ॥ एवमष्टोतरशतंसंख्याकं तर्पणं पुनः । यः कुर्याद्वैष्णवश्रेष्ठः पूर्वोक्तं फलमाप्नुयात् ॥ १,८०.१३२ ॥ किं बहूक्तेन सर्वेष्टदायकं तर्पणं त्विदम् । ससितोपलधारोष्णदुग्धबुद्ध्या जलेन वै ॥ १,८०.१३३ ॥ कृष्णं प्रतपर्यन् ग्रामं व्रजन्प्राप्नोति साधकः । धनवस्त्राणि भोज्यं च परिवारगणैः सह ॥ १,८०.१३४ ॥ यावत्संतर्पयेन्मन्त्री तावत्संख्यं जपेन्मनुम् । तर्पणेनैव कार्याणि साधयेदखिलान्यपि ॥ १,८०.१३५ ॥ काम्यहोममथो वक्ष्ये साधकानां हिताय च । श्रीपुष्पैर्जुहुयान्मन्त्री श्रियमिच्छन्निनिन्दिताम् ॥ १,८०.१३६ ॥ साज्येनान्नेन जुहुयात्घृतान्नस्य समृद्धये । वन्यपुष्पैर्द्विजान् जातीपुष्पैश्च पृथिवीपतीन् ॥ १,८०.१३७ ॥ असितैः कुसुमैर्वैश्यान् शूद्रान्नीलोत्पलैस्तथा । वशयेल्लवणैः सर्वानंबुजैर्युवतीजनम् ॥ १,८०.१३८ ॥ गोशालासु कृतो होमः पायसेन ससर्पिषा । गवां शान्तिं करोत्याशु गोपालो गोकुलेश्वरः ॥ १,८०.१३९ ॥ शिक्षावेषधरं कृष्णं किङ्किणीजालशोभितम् । ध्यात्वा प्रतर्पयेन्मन्त्री दुग्धबुद्ध्या शुभैर्जलैः ॥ १,८०.१४० ॥ धनं धान्यं सुतान्कीर्तिं प्रीतस्तस्मै ददाति सः । ब्रह्मवृक्षसमिद्भिर्वा कुशैर्वा तिलतन्दुलैः ॥ १,८०.१४१ ॥ जुहुयादयुतं मन्त्री त्रिमध्वाक्तैर्हुताशने । वशये द्ब्राह्मणांश्चाथ राजवृक्षसमुद्भवैः ॥ १,८०.१४२ ॥ प्रसूनैः क्षत्रियान्वैश्यान्कुरण्डकुसुमैस्तथा । पाटलोत्थैश्च कुसुमैर्वशयेदन्तिमान्सुधीः ॥ १,८०.१४३ ॥ श्वेतपद्मै रक्तपप्दैश्चंपकैः पाटलैः क्रमात् । हुत्वायुतं त्रिमध्वाक्तैर्वशयेत्तद्वराङ्गनाः ॥ १,८०.१४४ ॥ नित्यं हयारिकुसुमौर्निशीथे त्रिमधुप्लुतैः । वरस्त्रीर्वशयेत्प्राज्ञः सम्यग्धृत्वा दिनाष्टकम् ॥ १,८०.१४५ ॥ अयुतत्रितयं रात्रौ सिद्धार्थैस्त्रिमधुप्लुतैः । प्रत्यहं जुह्वतो मासात्सुरेशोऽपि वशीभवेत् ॥ १,८०.१४६ ॥ आहृत्य बल्लवीवस्त्राण्यारूढं नीपभूरुहे । स्मरेत्कृष्णं जपेद्रात्रौ सहस्रं खेन्दूहात्सुधीः ॥ १,८०.१४७ ॥ हठादाकर्षयेच्छीघ्रमुर्वशीमपि साधकः । बहुना किमिहोक्तेन मन्त्रोऽयं सर्ववश्यकृत् ॥ १,८०.१४८ ॥ रहस्यं परमं चाथ वक्ष्ये मोक्षप्रदं नृणाम् । ध्यायेत्स्वहृत्सरसिजे देवकीनन्दनं विभुम् ॥ १,८०.१४९ ॥ श्रीमत्कुन्देन्दुगौरं सरसिजनयनं शङ्खचक्रे गदाब्जे बिभ्राणं हस्तपद्मैर्नवनलिनलसन्मालयादीप्यमानम् । वन्दे वेद्यं मुनीन्द्रैः कणिकमुनिलसद्दिव्यभूषाभिरामं दिव्याङ्गालेपभासं सकलभयहरं पीतवस्त्रं नुरारिम् ॥ १,८०.१५० ॥ एवं ध्यात्वा पुमांसं स्फुटहृदयसरोजासनासीनमाद्यं सांद्रांभोदाच्छबिंबाद्भुतकनकनिभं संजपेदर्कलक्षम् । मन्वोरेकं द्वितारान्तरितमथः हुनेदर्कसाहस्रमिध्मैः क्षीरिद्रूत्थर्यथोक्तैः समधुघृतसितेनाथवा पायसेन ॥ १,८०.१५१ ॥ एवं लोकेश्वराराध्यं कृष्णं स्वहृदयांबुजे । ध्यायन्ननुदिनं मन्त्री त्रिसहस्रं जपेन्मनुम् ॥ १,८०.१५२ ॥ सायाह्नोक्तेन विधिना संपूज्य हवनं पुनः । कृत्वा पूर्वोक्तविधिना मन्त्री तद्गतमानसः ॥ १,८०.१५३ ॥ एवं यो भजते नित्यं विद्वान् गोपालनन्दनम् । समुत्तीर्य भवांभोधिं स याति परमं पदम् ॥ १,८०.१५४ ॥ मध्ये केणेषु बाह्येष्वनलपुरपुटस्यालिखेत्कर्णिकायां कन्दर्पं साध्ययुक्तं विवरगतषडर्णद्विषः केशरेषु । शक्तिः श्रीपूर्विकाणिद्विनवलिपिमनोरक्षराणिच्छदानां मध्ये वर्णान्दशान्तो दशलिपिमनुवर्यस्य वैकैकशोऽब्जम् ॥ १,८०.१५५ ॥ भूसद्मनाभिवृतमस्रगमन्मथेन गोरोचनाविलिखितं तपनीयसूच्या । पट्टे हिरण्यरचिते गुलिकीकृतं तद्गोपालयन्त्रमखिलार्थदमेतदुक्तम् ॥ १,८०.१५६ ॥ संयातसिक्तमभिजप्तमिमं महद्भिर्धार्यं जगत्त्रयवशीकरणैकदक्षम् । रक्षायशः सुतमहीधनधान्यलक्ष्मीसौभाग्यलिप्सुभिरजस्रमनर्घ्यवीर्यम् ॥ १,८०.१५७ ॥ स्मरस्त्रिविक्रमाक्रान्तश्चाक्रीष्ट्याय हृदित्यसौ । षडक्षरोऽयं संप्रोक्तः सर्वसिद्धिकरो मनुः ॥ १,८०.१५८ ॥ क्रोडः शान्तीन्दुवह्न्याढ्यो माया बीज प्रकीर्ततम् । गोविन्दवह्निचन्द्राढ्यो मनुः श्रीबीजमीरितम् ॥ १,८०.१५९ ॥ आभ्यामष्टादशक्लिपः स्याद्विंशत्यक्षरो मनुः । शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु वा ॥ १,८०.१६० ॥ नित्यं पूजा हरेः कार्या न तु केवलभूतले । एवं यो भजन्ते कृष्णं स याति परमां गतिम् ॥ १,८०.१६१ ॥ विंशार्णस्य मुनिर्ब्रह्मा गायत्री छन्द ईरितम् । कृष्णश्च देवता कामो बीजं शक्तिर्द्विठो बुधैः ॥ १,८०.१६२ ॥ रामाग्निवेदवेदाब्धेर्नेत्रार्णैरङ्गकल्पनम् । मूलेन व्यापकं कृत्वा मनुना पुटितानथ ॥ १,८०.१६३ ॥ मातृकार्णान्न्यसेत्तत्तत्स्थानेषु सुसमाहितः । दशतत्त्वानि विन्यस्य मूलेन व्यापकं चरेत् ॥ १,८०.१६४ ॥ मन्त्रन्यासं ततः कुर्याद्देवताभावसिद्धये । शीर्षे ललाटे भ्रूमध्ये नेत्रयोः कर्णयोस्तथा ॥ १,८०.१६५ ॥ नसोर्वक्रे च चिबुके कण्ठे दोर्मूलके हृदि । उदरे नाभिदेशे च लिङ्गे मूलसरोरुहे ॥ १,८०.१६६ ॥ कट्यां जान्वोर्जङ्घयोश्च गुल्फयोः पादयोः क्रमात् । न्यसेद्धृदन्तान्मन्त्राणां सृष्टिन्यासोऽयमीरितः ॥ १,८०.१६७ ॥ हृदये चोदरे नाभौ लिङ्गे मूलसरोरुहे । कट्यां जान्वोर्जङ्घयोश्च गुल्फयोः पादयोस्तथा ॥ १,८०.१६८ ॥ मूर्ध्नि कपोले भ्रूमध्ये नेत्रयोः कर्णयोर्नसोः । वदने चिबुके कण्ठे दोर्मूले विन्यसेत्क्रमात् ॥ १,८०.१६९ ॥ नमोतान्मन्त्रवर्णांश्च स्थितिन्यासोऽयमीरितः । पादयोर्गुल्फयोश्चैव जङ्घयोर्जानुनोस्तथा ॥ १,८०.१७० ॥ कट्यां मूले ध्वजे नाभौ जठरे हृदये पुनः । दोर्मूले कण्ठदेशे च चिबुके वदने नसोः ॥ १,८०.१७१ ॥ कर्णयोर्नेत्रयोश्चैव भ्रूमध्ये निटिले तथा । मूर्ध्नि न्यसेन्मन्त्रवर्णान्संहाराख्योऽयमीरितः ॥ १,८०.१७२ ॥ पुनः सृष्टिस्थितिन्यासौ विधाय वैष्णवोत्तमः । मूर्तिपञ्जरनामानं विन्यसेत्पूर्ववत्ततः ॥ १,८०.१७३ ॥ पुनः षडङ्गं कृत्वाथ ध्यायेत्कृष्णं हृदंबुजे । द्वारवत्यां सहस्रार्कभास्वरैर्भवनोत्तमैः ॥ १,८०.१७४ ॥ अनल्पैः कल्पवृक्षैश्च परीते मणिमण्डपे । ज्वलद्रत्न मयस्तंभद्वारतोरणकुड्यके ॥ १,८०.१७५ ॥ फुल्लप्रफुल्लसञ्चित्रवितानालंबिमौक्तिके । पद्मरागस्थलीराजद्रत्नसंघैश्च मध्यतः ॥ १,८०.१७६ ॥ अनारतगलद्रत्नधाराढ्यस्वस्तस्तरोरधः । रत्नप्रदीपावलिभिः प्रदीपितदिगन्तरे ॥ १,८०.१७७ ॥ उद्यदादित्यसंकाशमणिसिंहासनांबुजे । समासीनोऽच्युतो ध्येयो द्रुतहाटकसन्निभः ॥ १,८०.१७८ ॥ समानोदितचन्द्रार्कतडित्कोटिसमद्युतिः । सर्वाङ्गसुंदरः सौम्यः सर्वाभरणभूषितः ॥ १,८०.१७९ ॥ पीतवासाः शङ्खचक्रगदांभोजलसत्करः । अनाहतोच्छलद्रत्नधारौघकलशं स्पृशन् ॥ १,८०.१८० ॥ वामपादांबुजाग्रेण मुष्णता पल्लवच्छविम् । रुक्मिणीसत्यभामेऽस्य मूर्ध्नि रत्नौघधारया ॥ १,८०.१८१ ॥ सिंचन्त्यौ दक्षवामस्थे स्वदोस्थकलशोत्थया । नाग्नजिती सुनन्दा च दिशन्त्यौ कलशौ तयोः ॥ १,८०.१८२ ॥ ताभ्यां च दक्षवामस्थमित्रविन्दासुलक्ष्मणे । रत्ननद्याः समुद्धृत्य रत्नपूर्णौं घटौ तयोः ॥ १,८०.१८३ ॥ जांबवती सुशीला च दिशन्त्यौ दक्षवामके । बहिः षोडश साहस्रसंख्याकाः परितः प्रियाः ॥ १,८०.१८४ ॥ ध्येयाः कनकरत्नौघधारायुक्कलशोज्वलाः । तद्बहिश्चाष्टनिधायः पूरयन्तो धनैर्धराम् ॥ १,८०.१८५ ॥ तद्बहिर्वृष्णयः सर्वे पुरोवच्च स्वरादयः । एवं ध्यात्वा जपेल्लक्षपञ्चकं तद्दशांशतः ॥ १,८०.१८६ ॥ अरुणैः कमलैर्हुत्वा पीठे पूर्वोदिते यजेत् । विलिप्य गन्धपङ्केन लिखेदष्टदलांबुजम् ॥ १,८०.१८७ ॥ कर्णिकायां च षट्कोणं ससाध्यं तत्र मन्मथम् । शिष्टैस्तु सप्तदशभिरक्षरैर्वेष्टयेत्स्वरम् ॥ १,८०.१८८ ॥ प्राग्रक्षोऽनिलकोणेषु श्रियं शिष्टेषु संविदम् । षट्सु संधिषु षट्कर्णे केसरेषु त्रिशस्त्रिशः ॥ १,८०.१८९ ॥ विलिखेत्स्मरगायत्रीं मालामन्त्रं दलाष्टके । षटूषः संलिख्य तद्बाह्ये वेष्टयेन्मातृकाक्षरैः ॥ १,८०.१९० ॥ भूबिंबं च लिखेद्बाह्ये श्रीमायादिग्विदिक्ष्वपि । भूग्रहं चतुरस्रं स्यादष्टवज्रविभूषितम् ॥ १,८०.१९१ ॥ एतद्यन्त्रं हाटकादिपट्टेष्वालिख्य पूर्ववत् । संस्कृतं धारयेद्यो वै सोर्ऽच्यते त्रिदशैरपि ॥ १,८०.१९२ ॥ स्याद्गायत्री वामदेवपुष्पबाणौ तु ङेंतिमौ । विद्महेधीमहियुतौ तन्नोऽनङ्गः प्रचोदयात् ॥ १,८०.१९३ ॥ जप्या जपादौ गोपालमनूनां जनरञ्जनी । हृदयं कामदेवाय ङेंतं सर्वजनप्रियम् ॥ १,८०.१९४ ॥ उक्त्वा सर्वजनान्ते तु संमोहनपदं तथा । ज्वल ज्वल प्रज्वलेति प्रोच्य सर्वजनस्य च ॥ १,८०.१९५ ॥ हृदयं मम च ब्रूयाद्वशङ्कुरुयुगं शिरः । प्रोक्तो मदनमन्त्रोऽष्टचत्वारिंशद्भिरक्षरैः ॥ १,८०.१९६ ॥ जपादौ स्मरबीजाद्यो जगत्त्रयवशीकरः । पीठ प्राग्वत्समभ्यर्च्य मूर्ति संकल्प्य मूलतः ॥ १,८०.१९७ ॥ तत्रावाह्याच्युतं भक्त्या सकलीकृत्य पूजयेत् । आसनादिविभूषान्तं पुनर्न्यासक्रमाद्यजेत् ॥ १,८०.१९८ ॥ सृष्टिं स्थितिं षडङ्गं च किरीटं कुण्डलद्वयम् । शङ्खं चक्रं गदां पद्मं मालां श्रीवत्सकौस्तुभौ ॥ १,८०.१९९ ॥ गन्धपुष्पैः समभ्यर्च्य मूलेन वैष्णवोत्तमः । षट्कोणेषु षडङ्गानि दिग्दलेषु क्रमाद्यजेत् ॥ १,८०.२०० ॥ वासुदेवादिकान्कोणेषु तु शान्त्यादिकांस्ततः । पत्राग्रगा महिष्योऽष्टौ यजेत्साधकसत्तमः ॥ १,८०.२०१ ॥ ततः षोडशसाहस्रं सकृदेवार्चयेत्प्रियाः । इन्द्रनीलमुकुन्दांश्च करालानन्दकच्छपान् ॥ १,८०.२०२ ॥ शङ्खपद्मौ ततः पद्मान्निधीनष्टौ क्रमाद्यजेत् । तद्बहिर्लोकपालांश्च वज्राद्यानपि पूजयेत् ॥ १,८०.२०३ ॥ एवं सप्तावृत्तिवृतं कृष्णमभ्यर्च्य चादरात् । प्रीणयेद्दधिखण्डाज्यमिश्रेण तु पयोंऽधसा ॥ १,८०.२०४ ॥ दिव्योपचारं दत्वाथ स्तुत्वा नत्वा च केशवम् । उद्वासयेत्स्वहृदये परिवारगणैः सह ॥ १,८०.२०५ ॥ न्यस्यात्मानं समभ्यर्च्य तन्मयो विहरेत्सुधीः । रत्नाभिषेकध्यानेज्या विंशत्यर्णाश्रिते रिता ॥ १,८०.२०६ ॥ एवं यो भजते मन्त्रं स समृद्धेः पदं भवेत् । जपहोमार्चनध्यानैर्यो मनुं प्रजपेदमुम् ॥ १,८०.२०७ ॥ तद्वेश्म पूर्यते रत्नैः रवर्णधान्यैरनारतम् । पृथ्वी पृथ्वी करे तस्य सर्वसस्यसमाकुला ॥ १,८०.२०८ ॥ पुत्रैर्मित्रैः सुसंपन्नः प्रयात्यन्ते परां गतिम् । वह्नावभ्यर्च्य गोविन्दं शुक्लपुष्पैः सतन्दुलैः ॥ १,८०.२०९ ॥ आज्याक्तैरयुतं हुत्वा भस्म तन्मूर्ध्नि धारयेत् । तस्यान्नादिसमृद्धिः स्यात्तदूशे सर्वयोषितः ॥ १,८०.२१० ॥ रक्तांभोजैस्त्रिमध्वक्तैर्हुनेल्लक्षं समाहितः । श्रिया तस्यैन्द्रमैश्वर्यं तृणलेशायते ध्रुवम् ॥ १,८०.२११ ॥ त्रिमध्वक्तैः सितैः पुष्पैरष्टोत्तरसहस्रकम् । यो हुनेत्प्रत्यहं मासात्पुरोधा नृपतेर्भवेत् ॥ १,८०.२१२ ॥ एवमादिप्रयोगांश्च साधयेन्मनुनामुना । मन्त्रराजमथो वक्ष्ये दशार्णं सर्वसिद्धिदम् ॥ १,८०.२१३ ॥ स्मृतिः सद्यान्विता साक्षिर्लोहितो जनवल्लभा । पवनोऽग्निप्रियान्तोऽयं दशार्णो मन्त्र ईरितः ॥ १,८०.२१४ ॥ नारदोऽस्य मुनिश्छन्दो विराट्कृष्णोऽस्य देवता । कामो बीजं वह्निजाया शक्तिः प्रोक्ता मनीषिभिः ॥ १,८०.२१५ ॥ आचक्रं च विचक्रं च सुचक्रं तदनन्तरम् । त्रैलोक्यरक्षणं चक्रमसुरान्तकगचक्रकम् ॥ १,८०.२१६ ॥ एतैर्ङेठद्वयान्तैश्च चक्रैः पञ्चाङ्गकं मनोः । ततस्तारपुटं मन्त्रं व्यापय्य करयोस्त्रिशः ॥ १,८०.२१७ ॥ सेंदून्हृदन्तान्मन्त्रार्णान्प्रणवान्तरितान्न्यसेत् । दक्षाङ्गुष्ठाच्च वामाङ्गुष्ठान्तमङ्गुलिपर्वसु ॥ १,८०.२१८ ॥ सृष्टिन्यासोऽयमुदितः स्थितिन्यासोऽधुनोच्यते । न्यसेद्वामकनिष्ठादिकनिष्टान्तं स्थितौ सुधीः ॥ १,८०.२१९ ॥ वामाङ्गुष्ठान्न्यसेद्दक्षां गुष्ठान्तं संहृतौ तथा । संहृतिर्देषसंघातहारिणी परिकीर्तिता ॥ १,८०.२२० ॥ विद्याप्रदश्च सृष्ट्यन्तो वर्णिनां शुद्धचेतसाम् । स्थित्यन्तः स्याद्गृहस्थानामेवं काम्यादिरूपतः ॥ १,८०.२२१ ॥ संहारान्ते मुनीन्द्राणां विरक्तानां च सर्वशः । पुनः स्थितिक्रमेणार्णान्मनोरङ्गुलिषु न्यसेत् ॥ १,८०.२२२ ॥ पुनश्चक्रैश्च पूर्वोक्तैः पञ्चागं करयोर्न्यसेत् । ततो मूलेन पुटितान्मातृकार्णान्सबिन्दुकान् ॥ १,८०.२२३ ॥ विन्यसेन्मातृकान्यासस्थानेषु प्रणतः सुधीः । ततस्तारपुटं मूलं व्यापकत्वेन विन्यसेत् ॥ १,८०.२२४ ॥ संहारसृष्टिभेदेन दशतत्त्वानि विन्यसेत् । नमोन्तमूलमन्त्रार्णपदायाम्यानि चात्मने ॥ १,८०.२२५ ॥ मत्यन्तानि च तत्त्वानि पृथिव्याद्यानि च क्रमात् । पृथ्वी जलं तथा वह्निर्वायुराकाशमेव च ॥ १,८०.२२६ ॥ अहॄङ्कारो महत्तत्वं प्रकृतिं पुरुषं परम् । प्रविन्यसेन्मस्तके च नेत्रयोः श्रोत्रयोर्नसोः ॥ १,८०.२२७ ॥ वदने हृदये नाभौ लिङ्गे जान्वोश्च पादयोः । प्रणवान्तरितान्वर्णान्हृदन्तान्विज्यसेन्मनोः ॥ १,८०.२२८ ॥ सृष्टिन्यासोऽयमाख्यातः स्थितिन्यासं शृणु द्विज । हृदि नाभौ ध्वजे जान्वोः पादयोर्मस्तके पुनः ॥ १,८०.२२९ ॥ नेत्रयोः कर्णयोर्घ्राणे वदने विन्यसेत्क्रमात् । पदोर्जान्वोर्लिङ्गदेशे नाभौ हृदि मुखे नसोः ॥ १,८०.२३० ॥ कर्णयोर्नेत्रयोर्मूर्ध्नि संहाराख्योऽयमीरितः । सृष्ट्यन्तो वर्णिनांन्यासः स्थित्यन्तोगृहमेधिनाम् ॥ १,८०.२३१ ॥ यतेर्वैराग्ययुक्तस्य संहारान्तः प्रकीर्तितः । चतुर्द्धा वर्णिनां चैव गृहस्थानां च पञ्चधा ॥ १,८०.२३२ ॥ यतीनां च त्रिधा न्यासः प्रोक्तोऽयं क्रमतः शुभः । केचिद्विरक्ते गृहगे संहारान्तं विदुर्बुधाः ॥ १,८०.२३३ ॥ विभूतिपञ्जरं न्यासं कुर्यादिष्टाप्तये ततः । मनोर्दशावृत्तिमयं कृष्णसांनिध्यकारकम् ॥ १,८०.२३४ ॥ आधारे च ध्वजे नाभौ हृदि कण्ठे मुखे शये । ऊर्वोश्च कन्धरायां च नाभौ कुक्षौ तथा हृदि ॥ १,८०.२३५ ॥ स्तनयोः पार्श्वयोः श्रोण्योर्मस्तकेवदनेतथा । नेत्रयोः कर्णयोर्नासापुटयोश्च कपोलयोः ॥ १,८०.२३६ ॥ एवं दक्षिणदोर्मूससंध्यग्रेष्वङ्गुलीषु च । ततः शिरसि तत्पूर्वाद्यांशासु स्वकलासु च ॥ १,८०.२३७ ॥ दोष्णोः सक्थ्नोः शिरोक्ष्यास्यकण्ठहृज्जठरेषु च । मूलाधारे लिङ्गदेशे जानुनोः पादयोस्तथा ॥ १,८०.२३८ ॥ श्रोत्रगण्डांसवक्षोजपार्श्वलिङ्गेषु विन्यसेत् । ऊर्वोर्जान्वोर्जङ्घयोश्च पादयोर्विन्यसेत्क्रमात् ॥ १,८०.२३९ ॥ विभूतिपञ्जराख्योऽयं न्यासः सर्वार्थसिद्धिदः । अनेन न्यासवर्येण साक्षात्कृष्णतनुर्भवेत् ॥ १,८०.२४० ॥ मूर्ति पञ्जरनामानं न्यासं पूर्वोदितं न्यसेत् । ततो दशाङ्गपञ्चाङ्गौ न्यासवर्यौं न्यसे क्रमात् ॥ १,८०.२४१ ॥ हृदि मूर्ध्नि शिखायां च सर्वाङ्गे दिक्षु पार्श्वयोः । कट्यां पृष्ठे तथा मूर्ध्नि विन्यसेद्वैष्णवोत्तमः ॥ १,८०.२४२ ॥ पञ्चाङ्गानि न्यसेद्भूयश्चक्रैः प्राग्वत्समाहितः । अन्योऽप्यष्टादशार्णोक्तः कर्तव्यो न्याससंचयः ॥ १,८०.२४३ ॥ ततः किरीटमन्त्रेण व्यापकं रचयेत्सुधीः । वेणुबिल्वादिमुद्रांश्च दर्शयेत्साधकोत्तमः ॥ १,८०.२४४ ॥ सुदर्शनस्य मन्त्रेण कुर्याद्दिग्बन्धनं ततः । अनङ्गुष्ठाश्च ऋजवः करशाखा भवन्ति चेत् ॥ १,८०.२४५ ॥ हृन्मुद्रेयं समाख्याता शिरोमुद्रा तथा भवेत् । अधोङ्गुष्ठा तु या मुष्टिः शिखामुद्रेयमीरिता । प्रसारितकराङ्गुल्योर्वर्ममुद्रेयमीरिता ॥ १,८०.२४६ ॥ नाराचमुष्ट्या धृतबाहुयुग्मः अङ्गुष्ठतर्जन्युदितो ध्वनिस्तु । विष्वग्विमुक्ता कथितास्त्रमुद्रा यत्राक्षिणी तर्जनिमध्यमे च ॥ १,८०.२४७ ॥ ओष्ठे वामकराङ्गुष्टो लग्नस्तस्य कनिष्टिका । दक्षिणाङ्गुष्टसंसक्ता तत्कनिष्ठा प्रसारिता ॥ १,८०.२४८ ॥ तर्जनी मध्यमानामा किञ्चित्सकुञ्च्य चालिता । वेणुमुद्रेयमुदिता सुगुप्ता प्रेयसी हरेः । नोच्यन्ते तत्र सिद्धत्वान्मालाश्रीवत्सकौस्तुभाः ॥ १,८०.२४९ ॥ वामाङ्गुष्ठं समुद्रं तमपरकराङ्गुष्ठकेनाथ बद्ध्वा संपीड्याग्रं च दक्षाङ्गुलिभिरपि च तां वामहस्ताङ्गुलीभिः । गाढं बद्ध्वा स्वकीये हृदयसरसिजे स्थापयेत्कामबीजं प्रोच्चार्यैषा तु गोप्या सकलसुखकरी विल्वमुद्रा मुनीन्द्रैः ॥ १,८०.२५० ॥ कायेन मनसा वाचा यत्पापं समुपार्जितम् । मुद्राया ज्ञान मात्रेण सर्वं नाशमुपैष्यति ॥ १,८०.२५१ ॥ ध्यानं जपस्त्रिकालार्चा कार्या पूर्वोदिता मनोः । सर्वेष्वेकः क्रमः प्रोक्तो दशार्णाष्टादशार्णयोः ॥ १,८०.२५२ ॥ एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति । उद्दण्डबाहुदोर्दंहधृतगोवर्द्धनाचलम् ॥ १,८०.२५३ ॥ अन्यहस्तागुलीव्यक्तस्वरवंशार्पिताननम् । ध्यायन्कृष्णं जपेन्मन्त्रं व्रजेच्छत्रं विना सुधीः ॥ १,८०.२५४ ॥ वर्षवाताशनिभ्योऽपि भयं तस्य न जायते । मोघमेधौघव्राताद्गगतेन्द्रं तं स्मरन्हुनेत् ॥ १,८०.२५५ ॥ लोणैरयुतसंख्यैः स्यादनावृष्टिर्न संशयः । क्रीडन्तमर्कजातीरे मज्जनस्नापनादिभिः ॥ १,८०.२५६ ॥ तच्छीकरजलासारैः सिच्यमानं प्रियाजनैः । ध्यात्वायुतं पयः सिक्तैर्हुनेद्वा नीरतर्पणैः ॥ १,८०.२५७ ॥ वृष्टिर्भवत्यकालेऽपि महती नात्र संशयः । सदाहमोहैरार्तस्य विस्फोटकज्वरादिभिः ॥ १,८०.२५८ ॥ अमुमेव स्मरन्मूर्ध्नि जपेच्छान्तिर्भवेत्क्षणात् । अथवा गरुडारूढं प्रद्युम्नबलसंयुतम् ॥ १,८०.२५९ ॥ निजज्वरनिष्पिष्टज्वराभिष्टुतमच्युतम् । ध्यात्वा मूर्ध्नि जपेन्मन्त्रं ज्वरमुक्तो भवेज्ज्वरी ॥ १,८०.२६० ॥ ध्यात्वैवमग्नावभ्यर्च्य यथोक्तैश्चतुरङ्गुलैः । जुहुयादमृताखण्डैरयुतं ज्वरशान्तये ॥ १,८०.२६१ ॥ शिलीमुखविनिर्भिन्नभीष्मतापहरं हरिम् । ध्यात्वा जपेत्स्पृशन्नार्तं पाणिभ्यां ज्वरशान्तये ॥ १,८०.२६२ ॥ सांदीपनाय ददतं पुत्रं ध्यात्वायुतं हुनेत् । यथोक्तैरमृताखण्डैरपमृत्युनिवृत्तये ॥ १,८०.२६३ ॥ सपार्थं मृतपुत्रायार्पयन्तं च द्विजन्मने । सुतं ध्यात्वा जपेल्लक्षं पुत्रपौत्रादिवृद्धये ॥ १,८०.२६४ ॥ पुत्रजीवफलैर्हुत्वायुतं मधुरसंप्लुतैः । तत्काष्ठैरेधिते वह्नौ सुतान्दीर्घायुषो लभेत् ॥ १,८०.२६५ ॥ क्षीरद्रुक्त्वाथसंपूर्णमभ्यर्च्य कलशं निशि । प्रातर्ज्जप्त्वायुतं नारीमभिषिञ्चेद्दिषड्दिनम् ॥ १,८०.२६६ ॥ एवं कृते तु वन्ध्यापि लभेत्पुत्रांश्चिरायुषः । प्रातर्वाचंयमाश्वत्थदलसंपुटकं जलम् ॥ १,८०.२६७ ॥ अष्टोत्तरशतं जप्तं मासं पुत्रार्थिनी पिबेत् । सर्वलक्षणसंपन्नं वन्ध्यापि लभते सुतम् ॥ १,८०.२६८ ॥ जित्वा कृत्यां काशिराजप्रेषितां च निजारिणः । तेजसा तस्य नगरं दहॄन्तं भावयन्हरिम् ॥ १,८०.२६९ ॥ हुनेत्सप्तदिनं मन्त्री सुस्नेहाक्तैश्च सर्षपैः । कृत्याकर्तारमेवास्मै कुपिता नाशयेद्ध्रुवम् ॥ १,८०.२७० ॥ बदरीद्रुमसंकीर्णे स्थितं दिव्याश्रमे शुभे । स्पृशन्तं करपद्माभ्यां घण्टाकर्णकलेवरम् ॥ १,८०.२७१ ॥ ध्यात्वैवं जुहुयाल्लक्षं तिलैस्त्रिमधुराप्लुतैः । महापापयुतोऽप्येवं पूतो भवति तत्क्षणात् ॥ १,८०.२७२ ॥ द्यूतासक्तौ रुक्मिबलौ द्वेषयन्तं हरिं स्मरन् । जुहुयादिष्टयोर्द्विष्ट्यै गुलिका गोमयोद्भवाः ॥ १,८०.२७३ ॥ नित्यं सहस्रं सप्ताहान्मिथो विद्वेषयेदरीन् । वर्षन्तं गरुडारूढं ज्वलदग्निमुखैः शरैः ॥ १,८०.२७४ ॥ धावन्तं रिपुसंघातमनुधावतमच्युतम् । ध्यात्वा सप्तसहस्रं तु जपेन्मन्त्रमनन्यधीः ॥ १,८०.२७५ ॥ उच्चाटनं भवत्येव शत्रूणां सप्तभिर्दिनैः । ध्यायन्नुत्क्षिप्तवत्सं तु कपित्थफलहारिणम् ॥ १,८०.२७६ ॥ प्रजपेदयुतं शत्रुमुञ्चाटयति तत्क्षणात् । आत्मानं कंसमथनं ध्यायन्मञ्चान्निपातितम् ॥ १,८०.२७७ ॥ कंसात्मानं व्यकर्षन्तं गतासुं तं जपेन्मनुम् । रिपुजन्मर्क्षवृक्षोत्थसमिद्भिरयुतं निशि ॥ १,८०.२७८ ॥ जुहुयादेवमुग्रोऽपि सपत्नो निधनं व्रजेत् । अथवा निंबतैलाक्तैर्हुनेधोभिरक्षजैः ॥ १,८०.२७९ ॥ अयुतं नियतो रात्रौ मारयेदचिरादरीन् । निशादिष्टदलव्योषकार्पासास्थिकरैर्निशि ॥ १,८०.२८० ॥ हुनेदेरण्डतैलाक्तैः श्मशाने रिपुशान्तये । न शस्तं मारणं कर्म कुर्य्याञ्चेदयुतं हुनेत् ॥ १,८०.२८१ ॥ पायसैर्वा हुनेत्तावच्छान्तये शान्तमानसः । पारिजातहरं कृष्णं ध्यायन् लक्षं जपेन्मनुम् ॥ १,८०.२८२ ॥ सर्वत्रैव जयस्तस्य न कदापि पराजयः । व्याख्यामुद्राकरं कृष्णं रथस्थं भावयञ्जपेत् ॥ १,८०.२८३ ॥ पार्थे दिशन्तं गीतार्थं धर्मवृद्ध्यै सुमानवः । पावाशपुष्पैर्मध्वक्तैर्लक्षं विद्याप्तयेहुनेत् ॥ १,८०.२८४ ॥ राष्ट्रपूर्ग्रामवस्तूनां शरीरस्यापि रक्षणे । विश्वरूपधर प्रोद्यद्भानुकोटिसमप्रभम् ॥ १,८०.२८५ ॥ अग्रीषोमात्मकं कृष्णं द्रुतचामीकरप्रभम् । अर्काग्निद्योतितास्याङ्घ्रिंप्रङ्कज दिव्यभूषणम् ॥ १,८०.२८६ ॥ नानायुधधरं प्राप्तं विश्वाकाशावकाशकम् । ध्यात्वा लक्ष जपेन्मन्त्रं रक्षणाय समाहितः ॥ १,८०.२८७ ॥ रक्तैर्वन्यप्रसूनैर्यो दिनादौ पूजयेद्धरिम् । दिनमध्योक्तविधिना जपेदष्टोत्तरं शतम् ॥ १,८०.२८८ ॥ सहस्रमण्डलान्मन्त्री वशयेन्मुखरान्द्विजान् । जातिपुष्पैः क्षत्रियांश्च गोपवेषधरं स्मरन् ॥ १,८०.२८९ ॥ ध्यायन् क्रीडारतं कृष्णं रक्तैरश्वारिपुष्पकैः । वशयेद्वैश्यजातीयान् शूद्रान्नीलोत्पलैः स्मरन् ॥ १,८०.२९० ॥ गीतनृत्यरतं श्वेतपुष्पैः साज्यैश्च तन्दुलैः । हुत्वान्वहं सप्तदिनं भस्म भाले च मूर्द्धनि ॥ १,८०.२९१ ॥ धारयन्वशयेत्कान्तां सापि तद्वत्पतिं ध्रुवम् । तांबूलं कुसुमं वासोंऽजनं चन्दनमेव च ॥ १,८०.२९२ ॥ सहस्रं मनुना जप्तं दद्याद्यस्मै नराय च । सोऽचिरादेष वशगः सपुत्रपशुबान्धवः ॥ १,८०.२९३ ॥ वृन्दारण्यस्थितं ध्यायन्बल्लवीसंयुतं हरिम् । अपामार्गसमिद्भिस्तु हुत्वा तु वशयेज्जगत् ॥ १,८०.२९४ ॥ संप्राप्य सद्गुरोर्दीक्षां कृष्णं यो विधिनामुना । अर्चयेद्वैष्णवश्रेष्ठः सोऽष्टसिद्धीश्वरो भवेत् ॥ १,८०.२९५ ॥ तस्य दर्शनमात्रेण वादिनो निष्प्रभाः स्मृताः । वसेत्सरस्वती वक्रे गृहे चापि सभासदः ॥ १,८०.२९६ ॥ भुक्त्वा नानाविधान्भोगानन्ते विष्णुपदं व्रजेत् ॥ १,८०.२९७ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे तृतीयपादे कृष्णमन्त्रनिरूपणं नामाशीतितमोऽध्यायः _____________________________________________________________ श्रीसनत्कुमार उवाच । अथ कृष्णस्य मन्त्राणां वक्ष्ये भेदान्मुनीश्वर । यान्समाराध्य मनुजाः साधयन्तीष्टमात्मनः ॥ १,८१.१ ॥ शक्तिश्रीमारपूर्वश्च श्रीशक्तिस्मरपूर्वकः । मारशक्तिरमापूर्वो दशार्णा मनवस्त्रयः ॥ १,८१.२ ॥ मुनिः स्यान्ना रदच्छन्दो गायत्री देवता पुनः । कृष्णो गोविन्दनामात्र सर्वकामप्रदो नृणाम् ॥ १,८१.३ ॥ चक्रैः पूर्ववदङ्गानि त्रयाणामपि कल्पयेत् । ततः किरीटमनुनाव्यापकं हि समाचरेत् ॥ १,८१.४ ॥ सुदर्शनस्य मनुना कुर्याद्दिग्बन्धनं तथा । विंशत्यर्णोक्तवत्कुर्यादाद्ये ध्यानार्चनादिकम् ॥ १,८१.५ ॥ द्वितीये तु दशार्णोक्तं ध्यानपूजादिकं चरेत् । तृतीये तु हरिं ध्यायेत्समाहितमनाः सुधीः ॥ १,८१.६ ॥ शखचक्रधनुर्बाणपाशाङ्कुशधरारुणम् । दोर्भ्यां धृतं धमन्तं च वेणुं कृष्णदिवाकरम् ॥ १,८१.७ ॥ एवं ध्यात्वा जपेन्मन्त्रान्पञ्चलक्षं पृथक्सुधीः । जुहुयात्तद्दशांशेन पायसेन ससर्पिषा ॥ १,८१.८ ॥ एवं सिद्धे मनौ मन्त्री कुर्यात्काम्यानि पूर्ववत् । श्रीशक्तिकामः कृष्णाय गोविन्दायाग्निसुन्दरी ॥ १,८१.९ ॥ रत्र्यर्णो ब्रह्मगायत्रीकृष्णा ऋष्यादयोऽस्य तु । बीजैरमाब्धियुग्मार्णैः षडङ्गानि प्रकल्पयेत् ॥ १,८१.१० ॥ विंशत्यर्णोदितजपध्यानहोमार्चनादिकम् । किं बहूक्तेन मन्त्रोऽयं सर्वाभीष्टफलप्रदः ॥ १,८१.११ ॥ श्रीशक्तिस्मरपूर्वोगजन्मा शक्तिरमान्तिकः । दशाक्षरः स एवादौ प्रोक्तः शक्तिरमायुतः ॥ १,८१.१२ ॥ मन्त्रौ षोडशरव्यार्णौं चक्रैरङ्गानि कल्पयेत् । वरदाभयहस्ताभ्यां श्लिष्यन्तं स्वाङ्गके प्रिये ॥ १,८१.१३ ॥ पद्मोत्पलकरे ताभ्यां श्लिष्टं चक्रदरोज्वलम् । ध्यात्वैवं प्रजपेल्लक्षदशकं तद्दशांशतः ॥ १,८१.१४ ॥ आज्यैर्हुत्वा ततः सिद्धौ भवेतां मन्त्रनायकौ । सर्वकामप्रदौ सर्वसंपत्सौभगाग्यदौ नृणाम् ॥ १,८१.१५ ॥ अष्टादशार्णः कामान्तो मनुः सुतधनप्रदः । नारदोऽस्य मुनिश्छन्दो गायत्री देवता मनोः ॥ १,८१.१६ ॥ कृष्णः कामो बीजमुक्तं शक्तिर्वह्निप्रिया मता । षड्वीर्याढ्येन बीजेन षडङ्गानि समाचरेत् ॥ १,८१.१७ ॥ पाणौ पायसपक्वं च दक्षे हैयङ्गवीनकम् । वामे दधद्दिव्यदिगंबरो गोपीसुतोऽवतु ॥ १,८१.१८ ॥ ध्यात्वैवं प्रजपेन्मन्त्रं द्वात्रिंशल्लक्षमानतः । दशांशं जुहुयादग्नौ सिताढ्येन पयोंऽधसा ॥ १,८१.१९ ॥ पूर्वोक्तवैष्णवे पीठे यजेदष्टादशार्णवत् । पद्मस्थं कृष्णमभ्यर्च्य तर्पयेत्तन्मुखांबुजे ॥ १,८१.२० ॥ क्षीरेण कदलीपक्कैर्दध्ना हैयङ्गवेन च । पुत्रार्थी तर्पयेदेवं वत्सराल्लभते सुतम् ॥ १,८१.२१ ॥ यद्यदिच्छति तत्सर्वं तर्पणादेव सिद्ध्यति । वाक्कामो ङेयुतं कृष्णपदं माया ततः पगरम् ॥ १,८१.२२ ॥ गोविन्दाय रमा पश्चाद्दशार्णं च समुद्धरेत् । मनुस्वरयुतौ सर्गयुक्तौ भृगुतदूर्द्धूगौ ॥ १,८१.२३ ॥ द्वाविंशत्यक्षरो मन्त्रो वागीशत्वप्रदायकः । ऋषिः स्यान्नारदश्छन्दो गायत्री देवता पुनः ॥ १,८१.२४ ॥ विद्याप्रदश्च गोपालः कामो बीजं प्रकीर्तितम् । शक्तिस्तु वाग्भवं विद्याप्राप्तये विनियोजना ॥ १,८१.२५ ॥ वामोर्द्ध्वहस्ते दधतं विद्यापुस्तकमुत्तमम् । अक्षमालां च दक्षोर्द्ध्वस्फआटिकीं मातृकामयीम् ॥ १,८१.२६ ॥ शब्दब्रह्म मयं वेणुमधः पाणिद्वये पुनः । गायत्रीगीतवसनं श्यामलं कोमलच्छविम् ॥ १,८१.२७ ॥ बर्हावतंसं सर्वज्ञं सेवितं मुनिपुङ्गवैः । ध्यात्वैवं प्रमदावेशविलासं भुवनेश्वरम् ॥ १,८१.२८ ॥ वेदलक्षं जपेन्मन्त्रं किंशुकैस्तद्दशांशतः । हुत्वा तु पूजयेन्मन्त्री विंशत्यर्णविधानतः ॥ १,८१.२९ ॥ एवं यो भजते मन्त्रं भवेद्वागीश्वरस्तु सः । अदृष्टान्यपि शास्त्राणि तस्य गङ्गातरङ्गवत् ॥ १,८१.३० ॥ तारः कृष्णयुगं पश्चान्महाकृष्ण इतीरयेत् । सर्वज्ञ त्वंप्रशंशब्दान्ते सीदमेऽग्निश्च मारम् ॥ १,८१.३१ ॥ णान्ति विद्येश विद्यामाशु प्रयच्छ ततश्च मे । त्रयस्त्रिंशदक्षरोऽयं महाविद्याप्रदोमनुः ॥ १,८१.३२ ॥ नारदोऽस्य मुनिश्छन्दोऽनुष्टुं कृष्णोऽस्य देवता । पादैः सर्वेण पञ्चाङ्गं कृत्वा ध्यायेत्ततो हरिम् ॥ १,८१.३३ ॥ दिव्योद्याने विवस्वत्प्रतिममणिमये मण्डपे योगपीठे मध्ये यः सर्ववेदान्तमयसुरतरोः संनिविष्टो मुकुन्दः । वेदैः कल्पद्रुरूपैः शिखरिशतसमालंबिकोशैश्चतुर्भिर्न्यायैस्तर्कैपुराणैः स्मृतिभिरभिवृतस्तादृशैश्चामराद्यैः ॥ १,८१.३४ ॥ दद्याद्बिभ्रत्कराग्रैरपि दरमुरलीपुष्पबाणेक्षुचापानक्षस्पृक्पूर्णकुंभौ स्मरललितवपुर्दिव्यभूषाङ्गरागः । व्याख्यां वामे वितन्वन् स्फुटरुचिरपदो वेणुना विश्वमात्रे शब्दब्रह्मोद्भवेन श्रियमरुणरुचिर्बल्लवीवल्लभो नः ॥ १,८१.३५ ॥ एवं ध्यात्वा जपेल्लक्षं दशांशं पायसैर्हुनेत् । अष्टादशार्णवत्कुर्याद्यजनं चास्य मन्त्रवित् ॥ १,८१.३६ ॥ तारो नमो भगवते नन्दपुत्राय संवदेत् । आनन्दवपुषे दद्यादृशार्णं तदनन्तरम् ॥ १,८१.३७ ॥ अष्टाविंशतिवर्णोऽयं मन्त्रः सर्वेष्टदायकः । नन्दपुत्रपदं ङेंतं श्यामलाङ्गपदं तथा ॥ १,८१.३८ ॥ तथा बालवपुःकृष्णं गोविन्दं च तथा पुनः । दशार्णोऽतो भवेन्मन्त्रो द्वात्रिंशदक्षरान्वितः ॥ १,८१.३९ ॥ अनयोर्नारदऋषिश्छन्दस्तूष्णिगनुष्टुभौ । देवता नन्दपुत्रस्तु विनियोगोऽखिलाप्तये ॥ १,८१.४० ॥ चक्रैः पञ्चाङ्गमर्चास्यादङ्गदिक्पालहेतिभिः । दक्षिणे रत्नचषकं वामे सौवर्णनेत्रकम् ॥ १,८१.४१ ॥ करे दधानं देवीभ्यां श्लिष्टं संचिन्तयेद्विभुम् । लक्षं जपो दशांशेन जुहुयात्पायसेन तु ॥ १,८१.४२ ॥ एताभ्यां सिद्धमन्त्राभ्यां मन्त्री कुर्याद्यथेप्सितम् । प्रणवः कमला माया नमो भगवते ततः ॥ १,८१.४३ ॥ नन्दपुत्राय तत्पश्चाद्बालान्ते वपुषे पदम् । ऊनविंशतिवर्णोऽयं मुनिर्ब्रह्मा समीरितः ॥ १,८१.४४ ॥ छन्दोऽनुष्टुप्देवता च कृष्णो बालवपुः स्वयम् । मन्त्रोऽयं सर्वसंपत्तिसिद्धये सेव्यते बुधैः ॥ १,८१.४५ ॥ तारो ह्यद्भगवानङेंतो रुक्मिणीवल्लभाय च । वह्निजायावधिः प्रोक्तो मन्त्रः षोडशवर्णवान् ॥ १,८१.४६ ॥ नारदोऽस्य मुनिश्छन्दोऽनुष्टुप्च देवता मनोः । रुक्मिणीवल्लभश्चन्द्रदृग्वेदाङ्गाक्षिवर्णकैः । पञ्चाङ्गानि प्रकुर्वीत ततो ध्यायेत्सुरेश्वरम् ॥ १,८१.४७ ॥ तापिच्छच्छविरङ्कगां प्रियतमां स्वर्णप्रभामंबुजप्रोद्यद्दामभुजां स्ववामभुजयाश्लिष्यन्स्वचित्ताशया । श्लिष्यन्तीं स्वयमन्यहस्तविलत्सौवर्णवेत्रश्चिरं पायान्नः सुविशुद्धपीतवसनो नानाविभूषो हरिः ॥ १,८१.४८ ॥ ध्यात्वैवं प्रजपेल्लक्षं रक्तैः पद्मैर्दशांशतः ॥ १,८१.४९ ॥ त्रिमध्वक्तैर्हुनेत्पीठे पूर्वोक्ते पूजयेद्धरिम् । अङ्गैर्नारदमुख्यैश्च लोकेशैश्च तदायुधैः ॥ १,८१.५०॥ एवं सिद्धो मनुर्दद्यात्सर्वान्कामांश्च मन्त्रिणे । लीलादण्डपदाब्जोऽपि जनसंसक्तदोः पदम् ॥ १,८१.५१ ॥ दण्डान्ते वा धरावह्निरधीशाढ्योऽथ लोहितः । मेघश्यामपदं पश्चाद्भगवान् सलिलंसदृक् ॥ १,८१.५२ ॥ विष्णो इत्युक्त्वा ठद्वयं स्यादेकोनत्रिंशदर्णवान् । नारदोऽस्य मुनिश्छन्दोऽनुष्टुप्च देवता मनोः ॥ १,८१.५३ ॥ लीलादण्डहरिः प्रोक्तो मन्वब्धधियुगवह्निभिः । वेदैः पञ्चां गकं भागैर्मन्त्रवर्णोत्थितैः क्रमात् ॥ १,८१.५४ ॥ संमोहयंश्च निजवामकरस्थलीलादण्डेन गोपयुवतीः परसुंदरीश्च । दिश्यन्निजप्रियसखांसगन्दक्षहस्तो देवश्रियं निहतकंस उरुक्रमो नः ॥ १,८१.५५ ॥ लक्षं जपो दशांशेन जुहुयात्तिलतण्डुलैः । त्रिमध्वक्तैस्ततोऽभ्यर्चेदङ्गं दिक्पालहेतिभिः ॥ १,८१.५६ ॥ लीलादण्ड हरिं यो वै भजते नित्यमादरात् । स सर्वैः पूज्यते लोकैस्तस्य गेहे स्थिरा रमा ॥ १,८१.५७ ॥ सद्यारूढा स्मृतिस्तोयं केशवाढ्यधरायुगम् । भयाग्निवल्लभामन्त्रः सप्तार्णः सर्वसिद्धिदः ॥ १,८१.५८ ॥ ऋषिः स्यान्नारदश्छन्दो उष्णिग्गोवल्लमस्य तु । देवतापूर्ववच्चक्रैः पञ्चाङ्गानि तु कल्पयेत् ॥ १,८१.५९ ॥ ध्येयो हरिः सकपिलागणमध्यसंस्थस्ता आह्वयन्दधद्दक्षिणदोस्थवेणुम् । पाशं सयष्टिमपरत्र पयोदनीलः पीताम्बराहिरिपुपिच्छकृतावतंसः ॥ १,८१.६० ॥ सप्तलक्षं जपेन्मन्त्रं दशांशं जुहुयात्ततः । गोदुग्धैः पूजयेत्पीठे स्यादङ्गैः प्रथमावृतिः ॥ १,८१.६१ ॥ सुवर्णपिङ्गलां गौरपिङ्गलां रक्तपिङ्गलाम् । गुडपिङ्गां बभ्रुवर्णां चोत्तमां कपिलां तथा ॥ १,८१.६२ ॥ चतुष्कपिङ्गलां पीतपिङ्गलां चोत्तमां शुभाम् । गोगणाष्टकमभ्यर्च्य लोकेशानुयुधैर्युतान् ॥ १,८१.६३ ॥ संपूज्यैवं मनौ सिद्धे कुर्यात्काम्यानि मन्त्रवित् । अष्टोत्तरसहस्रं यः पयोभिर्दिनशो हुनेत् ॥ १,८१.६४ ॥ पक्षात्सगोगणो मुक्तो दशार्णे चाप्ययं विधिः । तारो हृद्भगवान् ङेंतः श्रीगोविन्दस्तथा भवेत् ॥ १,८१.६५ ॥ द्वादशार्णो मनुः प्रोक्तो नारदोऽस्य मुनिर्मतः । छन्दः प्रोक्तं च गायत्री श्रीगोविन्दोऽस्य देवता । चन्द्राक्षियुगभूतार्णैः सर्वैः पञ्चाङ्गकल्पनम् ॥ १,८१.६६ ॥ ध्यायेत्कल्पद्रुमूलाश्रितमणिविलसद्दिव्यसिंहासनस्थं मेघश्यामं पिशङ्गांशुकमतिसुभगं शङ्खरेत्रे कराभ्याम् ॥ १,८१.६७ ॥ बिभ्राणं गोसहस्रैर्वृतममरपतिं प्रौढहस्तैककुंभप्रश्चोतत्सौधधारास्नपितमभिनवांभोजपत्राभनेत्रम् ॥ १,८१.६८ ॥ रविलक्षं जपेन्मन्त्रं दुग्धैर्हुत्वा दशांशतः । यजेच्च पूर्ववद्गोष्ठस्थितं वा प्रतिमादिषु ॥ १,८१.६९ ॥ पूर्वोक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः । तत्रावाह्य यजेत्कृष्णं गुरुपूजनपूर्वकम् ॥ १,८१.७० ॥ रुक्मिणीं सत्यभामां च पार्श्वयोरिन्द्रमग्रतः । पृष्ठतः सुरभिं चेष्ट्वा केसरेष्वङ्गपूजनम् ॥ १,८१.७१ ॥ कालिं द्याद्या महिष्योऽष्टौ वसुपत्रेषु संस्थिताः । पीठकोणेषु बद्ध्वादिकिङ्कणीं च तथा पुनः ॥ १,८१.७२ ॥ दामानि पृष्ठयोर्वेणुं पुरः श्रीवत्सकौस्तुभौ । अग्रतो वनमासादिर्दिक्ष्वष्टसु तथा स्थिताः ॥ १,८१.७३ ॥ पाञ्चजन्यं गदा चक्रं वसुदेवश्च देवकी । नन्दगोपो यशोदा च सगोगोपालगोपिकाः ॥ १,८१.७४ ॥ इन्द्राद्याश्च स्थिता बाह्ये वज्राद्याश्च ततः परम् । कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ॥ १,८१.७५ ॥ शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्टितः । विष्वक्सेनश्च संपूज्यः स्वात्मा चार्च्यस्ततः परम् ॥ १,८१.७६ ॥ एककालं त्रिकालं वा यो गोविन्दं यजेन्नरः । स चिरायुर्निरातङ्को धनधान्यपतिर्भवेत् ॥ १,८१.७७ ॥ स्मृतिः सद्यान्विता चक्री दक्षकर्णयुतोधरा । नाथाय हृदयान्तोऽयं वसुवर्णो महामनुः ॥ १,८१.७८ ॥ मुनिर्ब्रह्मास्य गायत्री छन्दः कृष्णोऽस्य देवता । वर्णद्वन्द्वैश्च सर्वेण पञ्चाङ्गान्यस्य कल्पयेत् ॥ १,८१.७९ ॥ पञ्चवर्षमतिलोलमङ्गणे धावमानमतिचञ्चलेक्षणम् । किङ्किणीवलयहारनूपुरै रञ्जितं नमत गोपबालकम् ॥ १,८१.८० ॥ एवं ध्यात्वा जपेदष्टलक्षं मन्त्री दशांशतः । ब्रह्मवृक्षसमिद्भिश्च जुहुयात्पायसेन वा ॥ १,८१.८१ ॥ प्रागुक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः । तत्रावाह्यार्चयेत्कृष्णं मन्त्री वै स्थिरमानसः ॥ १,८१.८२ ॥ केसरेषु चतुर्दिक्षु विदिक्ष्वङ्गानि पूजयेत् । वासुदेवं बलं दिक्षु प्रद्युम्नमनिरुद्धकम् ॥ १,८१.८३ ॥ विदिक्षु रुक्मिणीसत्यभामे वै लक्ष्यणर्क्षजे । लोकेशान्सायुधान्बाह्ये एवं सिद्धो भवेन्मनुः ॥ १,८१.८४ ॥ तारः श्रीभुवनाकामो ङेंतं श्रीकृष्णमीरयेत् । श्रीगोविन्दं ततः प्रोच्य गोपीजनपदं ततः ॥ १,८१.८५ ॥ वल्लभाय ततः पद्मात्रयं तत्वाक्षरो मनुः । मुन्यादिकं च पूर्वोक्तं सिद्धगोपालकं स्मरेत् ॥ १,८१.८६ ॥ माधवीमण्डपासीनौ गरुडेनाभिपालितौ । दिव्यक्रीडासु निरतौ रामकृष्णौ स्मरन् जपेत् ॥ १,८१.८७ ॥ पूजनं पूर्ववच्चास्य कर्तव्यं वैष्णवोत्तमैः । चक्री मुनिस्वरोपेतः सर्गी चैकाक्षरो मनुः ॥ १,८१.८८ ॥ कृष्णेति द्व्यक्षरः प्रोक्तः कामादिः स्यात्त्रिवर्णकः । सैव ङेंतो युगार्णः स्यात्कृष्णाय नम इत्यपि ॥ १,८१.८९ ॥ पञ्चाक्षरश्च कृष्णाय कामरुद्धस्तथा परः । गोपालायाग्निजायान्तो रसवर्णः प्रकीर्तितः ॥ १,८१.९० ॥ कामः कृष्णपदं ङेंतं वह्निजायान्तकः परः । कृष्णगोविन्दकौ ङेंतौ सप्तार्णः सर्वसिद्धिदः ॥ १,८१.९१ ॥ श्रीशक्तिकामाः कृष्णाय कामः सप्ताक्षरः परः । कृष्णगोविन्दकौ ङेंतौ हृदन्तोऽन्यो नवाक्षरः ॥ १,८१.९२ ॥ ङेंतौ च कृष्णगोविन्दौ तथा कामः पुटः परः । कामः शार्ङ्गी धरासंस्थो मन्विन्द्वाढ्यश्च मन्मथः ॥ १,८१.९३ ॥ श्यामलाङ्गाय हृदयं दशार्णः सर्वसिद्धिदः । बालान्ते वपुषे कृष्णायाग्निजायान्तिमोऽपरः ॥ १,८१.९४ ॥ द्विठान्ते बालवपुषे कामः कृष्णाय संवदेत् । ततो ध्यायन्स्वहृदये गोपीजनमनोहरम् ॥ १,८१.९५ ॥ श्रीवृन्दाविपिनप्रतोलिषु नमत्संफुल्लवल्लीततिष्वन्तर्जालविघट्टैनः सुरभिणा वातेन संसेविते । कालिन्दीपुलिने विहारिणमथो राधैकजीवातुकं वन्दे नन्दकिशोरमिन्दुवदनं स्निग्धांबुदाडंबरम् ॥ १,८१.९६ ॥ पूर्वाक्तवर्त्मना पूजा ज्ञेया ह्येषां मुनीश्वर । देवकीसुतवर्णान्ते गोविन्दपदमुच्चरेत् ॥ १,८१.९७ ॥ वासुदेवपदं प्रोच्य संबृद्ध्यन्तं जगत्पतिंम् । देहि मे तनयं पश्चात्कृष्ण त्वामहमीरयेत् ॥ १,८१.९८ ॥ शरणं गत इत्यन्तो मन्त्रो द्वात्रिंशदक्षरः । नारदोऽस्य मुनिश्छन्दो गायत्री चाप्यनुष्टुभम् । देवः सुतप्रदः कृष्णः पादैः सर्वेण चाङ्गकम् ॥ १,८१.९९ ॥ विजयेन युतो रथस्थितः प्रसमानीय समुद्रमध्यतः । प्रददत्तनयान् द्विजन्मने स्मरणीयो वसुदेवनन्दनः ॥ १,८१.१०० ॥ लक्षं जपोऽयुतं होमस्तलैर्मधुरसंप्लुतैः । अर्चा पूर्वोदिते पीठे अङ्गलोकेश्वरायुधैः ॥ १,८१.१०१ ॥ एवं सिद्धे मनौ मन्त्री वन्ध्यायामपि पुत्रवान् । तारो माया ततः सांतसेंदुष्वान्तश्च सर्ववान् ॥ १,८१.१०२ ॥ सोऽहं वह्निप्रियान्तोऽयं मन्त्रो वस्वक्षरः परः । पञ्चब्रह्मात्मकस्यास्य मन्त्रस्य मुनि सत्तमः ॥ १,८१.१०३ ॥ ऋषिर्ब्रह्मा च परमा गायत्रीछन्द ईरितम् । परञ्ज्योतिः परं ब्रह्म देवता परिकीर्तितम् ॥ १,८१.१०४ ॥ प्रणवो बीजमाख्यातं स्वाहा शक्तिरुदाहृता । स्वाहेति हृदयं प्रोक्तं सोऽहं वेति शिरो मतम् ॥ १,८१.१०५ ॥ हंसश्चेति शिखा प्रोक्ता हृल्लेखा कवचं स्मृतम् । प्रणवो नेत्रमाख्यातमस्त्रं हरिहरेति च ॥ १,८१.१०६ ॥ स ब्रह्मा स शिवो विप्र स हरिः सैव देवराट् । स सर्वरूपः सर्वाख्यः सोऽक्षरः परमः स्वराट् ॥ १,८१.१०७ ॥ एवं ध्यात्वा जपेदष्टलक्षहोमो दशांशतः । पूजाप्रणवपीठेऽस्य सांगावरणकैर्मता ॥ १,८१.१०८ ॥ एवं सिद्धे मनौ ज्ञानं साधकेन्द्रस्य नारद । जायते तत्त्वमस्यादिवाक्योक्तं निर्विकल्पकम् ॥ १,८१.१०९ ॥ कामो ङेंतो हृषीकेशो हृदयान्तो गजाक्षरः । ऋषिर्ब्रह्मास्य गायत्री छन्दो गायत्रमीरितम् ॥ १,८१.११० ॥ देवता तु हृषीकेशो विनियोगोऽखिलाप्तये । कामो बीजं तथायेति शक्तिरस्य ह्युदाहृता ॥ १,८१.१११ ॥ बीजेनैव षडङ्गानि कृत्वा ध्यानं समाचरेत् । पुरुषोत्तममन्त्रोक्तं सर्वं वास्य प्रकीर्तितम् ॥ १,८१.११२ ॥ लक्षं जपोऽयुतं होमो घृतेनैव प्रकीर्तितः । तर्पणं सर्वकामाप्त्यै प्रोक्तं संमोहिनीसुमैः ॥ १,८१.११३ ॥ श्रीबीजं शक्तिरापेति बीजेनैव षडङ्कस्तथा । त्रैलोक्यमोहनः शब्दो नमोंऽतो मनुरीरितः ॥ १,८१.११४ ॥ ऋषिर्ब्रह्मा च गायत्री छन्दः श्रीधरदेवता । श्रीबीजं शक्तिरापेति बीजेनैव षडङ्गकम् ॥ १,८१.११५ ॥ पुरुषोत्तमवद्ध्यानपूजादिकमिहोदितः । लक्षं जपस्तथा होम आज्येनैव दशांशतः ॥ १,८१.११६ ॥ सुगन्धश्वेतपुष्पैस्तु पूजां होमादिकं चरेत् । एवं कृते तु विप्रेन्द्र साक्षात्स्याच्छ्रीधरः स्वयम् ॥ १,८१.११७ ॥ अच्युतानन्तगोविन्दपदं ङेंतं नमोन्तिमम् । मन्त्रोऽस्य शौनकऋषिर्विराट्छन्दः प्रकीर्तितम् ॥ १,८१.११८ ॥ एषां पराशरव्यासनारदा ऋषयः स्मृताः । विराट्छन्दः समाख्यातं परब्रह्मात्मको हरिः ॥ १,८१.११९ ॥ देवताबीजशक्ती तु पूर्वोक्ते साधकैर्मते । शङ्खचक्रधरं देवं चतुर्बाहुं किरीटिनम् ॥ १,८१.१२० ॥ सर्वैरप्यायुधैर्युक्तं गरुडोपरि संस्थितम् । सनकादिमुनीन्द्रैस्तु सर्वदेवैरुपासितम् ॥ १,८१.१२१ ॥ श्रीभूमिसहितं देवमुदयादित्यसन्निभम् । प्रातरुद्यत्सहस्रांशुमण्डलोपमकुण्डलम् ॥ १,८१.१२२ ॥ सर्वलोकस्य रक्षार्थमनन्तं नित्यमेव हि । अभयं वरदं देवं प्रयच्छन्तं मुदान्वितम् ॥ १,८१.१२३ ॥ एवं ध्यात्वार्चयेत्पीठे वैष्णवे सुसमाहितः । आद्यावरणसंगैः स्याच्चक्रशङ्खगदासिभिः ॥ १,८१.१२४ ॥ मुशलाढ्यधनुः पाशाङ्कुशैः प्रोक्तं द्वितीयकम् । सनकादिकशाक्तेयव्यासनारदशौनकैः ॥ १,८१.१२५ ॥ तृतीयं लोकपालैस्तु चतुर्थं परिकीर्तितम् । लक्षं जपो दशांशेन घृतेन हवनं स्मृतम् ॥ १,८१.१२६ ॥ एवं सिद्धे मनौ मन्त्री प्रयोगानप्युपाचरेत् । श्रीवृक्षमूले देवेशं ध्यायन्वैरोगिणं स्मरन् ॥ १,८१.१२७ ॥ स्पृष्ट्वा जप्त्वायुतं साध्यं स्मृत्वा वा मनसा द्विज । रोगिणां रोगनिर्मुक्तिं कुर्यान्मन्त्री तु मण्डलात् ॥ १,८१.१२८ ॥ कन्यार्थी जुहुयाल्लाजैर्बिल्वैश्चापि धनाप्तये । वस्त्रार्थी गन्धकुसुमैरारोग्याय तिलैर्हुनेत् ॥ १,८१.१२९ ॥ रविवारे जले स्थित्वा नाभिमात्रे जपेत्तु यः । अष्टोत्तरसहस्रं वै स ज्वरं नाशयेद्ध्रुवम् ॥ १,८१.१३० ॥ विवाहार्थं जपेन्मासं शशिमण्डलमध्यगम् । ध्यात्वा कृष्णं लभेत्कन्यां वाञ्छितां चापि नारद ॥ १,८१.१३१ ॥ वसुदेवपदं प्रोच्य निगडच्छेदशब्दतः । वासुदेवाय वर्मास्त्रे स्वाहान्तो मनुरीरितः ॥ १,८१.१३२ ॥ नारदोऽस्य ऋषिश्छन्दो गायत्री कृष्णदेवता । वर्म बीजं शिरः शक्तिरन्यत्सर्वं दशार्णवत् ॥ १,८१.१३३ ॥ बालः पवनदीर्घैदुयुक्तो झिण्टीशयुर्जलम् । अत्रिर्व्यासाय हृदयं मनुरष्टाक्षरोऽवतु ॥ १,८१.१३४ ॥ ब्राह्मानुष्टुप्मुनिश्छन्दो देवः सत्यवतीसुतः । आद्यं बीजं नमः शक्तिदीर्घाढ्यो नादिनाङ्गकम् ॥ १,८१.१३५ ॥ व्याख्यामुद्रिकया लसत्करतलं सद्योगपीठस्थितं वामे जानुतले दधानमपरं हस्तं सुविद्यानिधिम् । विप्रव्रातवृतं प्रसन्नमनसं पाथोरुहाङ्गद्युतिं पाराशर्य्यमतीव पुण्यचरितं व्यासं स्मरेत्सिद्धये ॥ १,८१.१३६ ॥ जपेदष्टसहस्राणि पायसैर्हेममाचरेत् । पूर्वोक्तपीठे व्यासस्य पूर्वमङ्गानि पूजयेत् ॥ १,८१.१३७ ॥ प्राच्यादिषु यजेत्पैलं वैशंपायनजैमिनी । सुमंप्तुं कोणभागेषु श्रीशुकं रोमहर्षणम् ॥ १,८१.१३८ ॥ उग्रश्रवसमन्यांश्च मुनीन्सेंद्रादिकाययुधान् । एवं सिद्धमनुर्मन्त्री कवित्वं शोभनाः प्रजाः ॥ १,८१.१३९ ॥ व्याख्यानशक्तिं कीर्तिं च लभते संपदां चयम् । नृसिंहो माधवो दृष्टो लोहितो निगमादिमः ॥ १,८१.१४० ॥ कृशानुजाया पञ्चार्णो मनुर्विषहरः परः । अनन्तपङ्क्तिपक्षीन्द्रा मुनिश्छन्दः सुरा मताः ॥ १,८१.१४१ ॥ तारवह्निप्रिये बीजशक्ती मन्त्रस्य कीर्तिते । ज्वलज्वल महामन्त्री स्वाहा हृदयमीरितम् ॥ १,८१.१४२ ॥ गरुडेति पदस्यान्ते चूडाननशुचिप्रिया । शिरोमन्त्रो गरुडतः शिखे स्वाहा शिखा मनुः ॥ १,८१.१४३ ॥ गरुडेति पदं प्रोच्य प्रभञ्जययुगं वदेत् । प्रभेदययुगं पश्चाद्वित्रासय विमर्दय ॥ १,८१.१४४ ॥ प्रत्येकं द्विस्ततः स्वाहा कवचस्य मनुर्मतः । उग्ररूपधरान्ते तु सर्वविषहरेति च ॥ १,८१.१४५ ॥ भीषयद्वितयं प्रोच्य सर्वं दहदहेति च । भस्मीकुरु ततः स्वाहा नेत्रमन्त्रोऽयमीरितः ॥ १,८१.१४६ ॥ अप्रतिहतवर्णान्ते बलाय प्रहतेति च । शासनान्ते तथा हुं फट्स्वाहास्त्रमनुरीरितः ॥ १,८१.१४७ ॥ पादे कटौ हृदि मुखे मूर्ध्निं वर्णान्प्रविन्यसेत् ॥ १,८१.१४८ ॥ तप्तस्वर्णनिभं फणीन्द्रनिकरैःकॢप्ताङ्ग भूषंप्रभुं स्तर्तृआणां शमयन्तमुग्रमखिलं नॄणां विषं तत्क्षणात् । चञ्च्वग्रप्रचलद्भुजङ्गमभयं पाण्योर्वरं बिभ्रतं पक्षोच्चारितसामगीतममलं श्रीपक्षिराजं भजे ॥ १,८१.१४९॥ पञ्चलक्षं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः । पूजयेन्मातृकापीठे गरुडं वेदविग्रहम् ॥ १,८१.१५० ॥ चतुर्थ्यन्तः पक्षिराजः स्वाहा पीठमनुः स्मृतः । दृष्ट्वाङ्गं कर्णिकामध्ये नागान्यन्त्रेषु पूजयेत् ॥ १,८१.१५१ ॥ तद्बिहिर्लोकपालांश्च वज्राद्यैर्विलसत्करान् । एवं सिद्धमनुर्मन्त्री नाशयेद्गरलद्वयम् । देहान्ते लभते चापिश्रीविष्णोः परमं पदम् ॥ १,८१.१५२ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कृष्णादिमन्त्रभेदनिरूपणं नामैकाशीतितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच किं त्वं नारद जानासि पूर्वजन्मनि यत्त्वया । प्राप्तं भगवतः साक्षाच्छूलिनो युगलात्मकम् ॥ १,८२.१ ॥ कृष्णमन्त्ररहस्यं च स्मर विस्मृतिमागतम् । सूत उवाच इत्युक्तो नारदो विप्राः कुमारेण तु धीमता ॥ १,८२.२ ॥ ध्याने विवेदाशु चिरं चरितं पूर्वजन्मनः । ततश्चिरं ध्यानपरो नारदो भगवत्प्रियः ॥ १,८२.३ ॥ ज्ञात्वा सर्वं सुवृत्तान्तं सुप्रसन्नाननोऽब्रवीत् । भगवन्सर्ववृत्तान्तः पूर्वकल्पसमुद्बवः ॥ १,८२.४ ॥ मम स्मृतिमनुप्राप्तो विना युगललंभनम् । तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ॥ १,८२.५ ॥ सनत्कुमारो भगवान् व्याजहार यथातथम् । सनत्कुमार उवाच शृणु विप्र प्रवक्ष्यामि यस्मिञ्जन्मनि शूलिनः ॥ १,८२.६ ॥ प्राप्तं कृष्णरहस्यं वै सावधानो भवाधुना । अस्मात्सारस्वतात्कल्पात्पूर्वस्मिन्पञ्चविंशके ॥ १,८२.७ ॥ कल्पे त्वं काश्यपो जातो नारदो नाम नामतः । तत्रैकदा त्वं कैलासं प्राप्तः कृष्णस्य योगिनः ॥ १,८२.८ ॥ संप्रष्टुं परमं तत्वं शिवं कैलासवासिनम् । त्वया पृष्टो महादेवो रहस्यं स्वप्रकाशितम् ॥ १,८२.९ ॥ कथयामास तत्वेन नित्यलीलानुगं हरेः । ततस्तदन्ते तु पुनस्त्वया विज्ञापितो हरः ॥ १,८२.१० ॥ नित्यां लीलां हरेर्द्रष्टुं ततः प्राह सदाशिवः । गोपीजनपदस्यान्ते वल्लभेति पदं ततः ॥ १,८२.११ ॥ चरणाच्छरणं पश्चात्प्रपद्ये इति वै मनुः । मन्त्रस्यास्य ऋषिः प्रोक्तो सुरभिश्छन्द एव च ॥ १,८२.१२ ॥ गायत्री देवता चास्य बल्लवीवल्लभो विभुः । प्रपन्नोऽस्मीति तद्भक्तौ विनियोग उदाहृतः ॥ १,८२.१३ ॥ नास्य सिद्धादिकं विप्र शोधनं न्यासकल्पनम् । केवलं चिन्तनं सद्यो नित्यलीलाप्रकाशकम् ॥ १,८२.१४ ॥ आभ्यन्तरस्य धर्मस्य साधनं वच्मि सांप्रतम् ॥ १,८२.१५ ॥ संगृह्य मन्त्रं गुरुभक्तियुक्तो विचिन्त्य सर्वं मनसा तदीहितम् । कृपां तदीयां निजधर्मसंस्थो विभावयन्नात्मनि तोषयेद्गुरुम् ॥ १,८२.१६ ॥ सताः शिक्षेत वै धर्मांन्प्रपन्नानां भयापहान् । ऐहिकामुष्मिकीचिन्ताविधुरान् सिद्धिदायकान् ॥ १,८२.१७ ॥ स्वेष्टदेवधिया नित्यं तोषयेद्वैष्णवांस्तथा । भर्त्सनादिकमेतेषां न कदाचिद्विचिन्तयेत् ॥ १,८२.१८ ॥ पूर्वकर्मवशाद्भव्यमैहिकं भोग्यमेव च । आयुष्यकं तथा कृष्णः स्वयमेव करिष्यति ॥ १,८२.१९ ॥ श्रीकृष्णं नित्यलीलास्थं चिन्तयेत्स्वधियानिशम् । श्रीमदर्चावतारेण कृष्णं परिचरेत्सदा ॥ १,८२.२० ॥ अनन्यचिन्तनीयोऽसौ प्रपन्नैः शरणार्थिभिः । स्थेयं च देहगेहादावुदासीनतया बुधैः ॥ १,८२.२१ ॥ गुरोरवज्ञां साधूनां निन्दां भेदं हरे हरौ । वेदनिन्दां हरेर्नामबलात्पापसमीहनम् ॥ १,८२.२२ ॥ अर्थवादं हरेर्नाम्नि पाषण्डं नामसंग्रहे । अलसे नास्तिके चैव हरिनामोपदेशनम् ॥ १,८२.२३ ॥ नामविस्मरणं चापि नाम्न्यनादरमेव च । संत्यजेद्दूरतो वत्स दोषानेतान्सुदारुणान् ॥ १,८२.२४ ॥ प्रपन्नोऽस्मीति सततं चिन्तयेद्धृद्गतं हरिम् । स एव पालनं नित्यं करिष्यति ममेति च ॥ १,८२.२५ ॥ तवास्मि राधिकानाथ कर्मणा मनसा गिरा । कृष्णकान्तेति चैवास्मि युवामेव गतिर्मम ॥ १,८२.२६ ॥ दासाः सखायः पितरः प्रेयस्यश्च हरेरिह । सर्वे नित्या मुनिश्रेष्ठ चिन्तनीया महात्मभिः ॥ १,८२.२७ ॥ गमनागमने नित्यकरोति वनगोष्टयोः । गोचारणं वयस्यैश्च विनासुरविघातनम् ॥ १,८२.२८ ॥ सखायो द्वादशाख्याता हरेः श्रीदामपूर्वकाः । राधिकायाः सुशीलाद्याः सख्यो द्वात्रिंशदीरिताः ॥ १,८२.२९ ॥ आत्मानं चिन्तयेद्वत्स तासां मध्ये मनोरमाम् । रूपयौवनसंपन्नां किशोरीं च स्वलङ्कृताम् ॥ १,८२.३० ॥ नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् । तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम् ॥ १,८२.३१ ॥ ब्राह्मं मुहूर्तमारभ्य यावदर्धनिशा भवेत् । तावत्परिचरेत्तौ तु यथाकालानुसेवया ॥ १,८२.३२ ॥ सहस्रं च तयोर्न्नाम्नां पठेन्नित्यं समाहितः । एतसाधनमुद्दिष्टं प्रपन्नानां मुनीश्वर ॥ १,८२.३३ ॥ नाख्येयं कस्यचित्तुभ्यं मया तत्त्वं प्रकाशितम् । सनत्कुमार उवाच ततस्त्वं नारद पुनः पृष्टवान्वै सदाशिवम् ॥ १,८२.३४ ॥ नाम्नां सहस्रं तच्चापि प्रोक्तवां स्तच्छृणुष्व मे । ध्यात्वा वृन्दावने रम्ये यमुनातीरसंगतम् ॥ १,८२.३५ ॥ कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् । पठेन्नामसहस्रं तु युगलाख्यं महामुने ॥ १,८२.३६ ॥ देवकीनन्दनः शौरिर्वासुदेवो बलानुजः । गदाग्रजः कंसमोहः कंससेवकमोहनः ॥ १,८२.३७ ॥ भिन्नर्गलः भिन्नलोहः पितृबाह्यः पितृस्तुतः । मातृस्तुतः शिवध्येयो यमुनाजलभेदनः ॥ १,८२.३८ ॥ व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः । लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः ॥ १,८२.३९ ॥ गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः । बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः ॥ १,८२.४० ॥ बलदोलाशयशयः श्यामलः सर्वसुंदरः । पद्मनाभो हृषीकेशः क्रीडामनुजबालकः ॥ १,८२.४१ ॥ लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः । यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः ॥ १,८२.४२ ॥ नित्यं मधुवनावासी वैकुण्ठः संभवः क्रतुः । रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः ॥ १,८२.४३ ॥ माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः । बृहद्वनमहालीलो नन्दसूनुर्महासनः ॥ १,८२.४४ ॥ तृणावर्तप्राणहारी यशोदाविस्मयप्रदः । त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः ॥ १,८२.४५ ॥ ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् । अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥ १,८२.४६ ॥ वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् । गोपीकरावलंबी च गोपबालकसुप्रियः ॥ १,८२.४७ ॥ बालानुयीयी बलवान् श्रीदामप्रिय आत्मवान् । गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः ॥ १,८२.४८ ॥ नवनीतहरो बालो नवनीतप्रियाशनः । बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः ॥ १,८२.४९ ॥ यशोदातर्जितः कंपी मायारुदितशोभनः । दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः ॥ १,८२.५० ॥ सुबद्धोलूखले नम्रशिरा गोपीकदर्थितः । वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः ॥ १,८२.५१ ॥ देवर्षिवचनश्लाघी भक्तवात्सल्यसागरः । व्रजकोलाहलकरो व्रजानदविवर्द्धनः ॥ १,८२.५२ ॥ गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् । वत्सपालो वत्सपतिर्गोपदारकमण्डनः ॥ १,८२.५३ ॥ बालक्रीडो बालरतिर्बालकः कनकाङ्गदी । पीताम्बरो हेममाली मणिमुक्ताविभूषणः ॥ १,८२.५४ ॥ किङ्किणीकटकी सूत्री नूपुरी मुद्रि कान्वितः । वत्सासुरपतिध्वंसी बकासुरविनाशनः ॥ १,८२.५५ ॥ अघासुरविनाशी च विनिद्रीकृतबालकः । आद्य आत्मप्रदः संगी यमुनातीरभोजनः ॥ १,८२.५६ ॥ गोपालमण्डलीमध्यः सर्वगोपालभूषणः । कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः ॥ १,८२.५७ ॥ कृतबाहुशृङ्गयष्टिगुञ्जालङ्कृतकण्ठकः । मयूरपिच्छमुकुटो वनमालाविभूषितः ॥ १,८२.५८ ॥ गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः । कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः ॥ १,८२.५९ ॥ आजानुबाहुर्भगवान्निद्रारहितलोचनः । कोटिसागरगाभीर्यः कालकालः सदाशिवः ॥ १,८२.६० ॥ विरञ्चिमोहनवपुर्गोपवत्सवपुर्द्धरः । ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः ॥ १,८२.६१ ॥ ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः । गिरिपूजोपदेष्टा च धृतगोवर्द्धनाचलः ॥ १,८२.६२ ॥ पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः । सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः ॥ १,८२.६३ ॥ कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् । धेनुकारिः प्रलंबारिर्वृषासुरविमर्दनः ॥ १,८२.६४ ॥ मायासुरात्मजध्वंसी केशिकण्ठविदारकः । गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ॥ १,८२.६५ ॥ गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः । यज्ञपत्न्यन्नभोजी च मुनिमानापहारकः ॥ १,८२.६६ ॥ जलेशमानमथनो नन्दगोपालजीवनः । गन्धर्वशापमोक्ता च शङ्खचूडशिरोहरः ॥ १,८२.६७ ॥ वंशी वटी वेणुवादी गोपीचिन्तापहारकः । सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः ॥ १,८२.६८ ॥ व्यङ्गधर्मप्रवक्ता च गोपीमण्डलमोहनः । रासक्रीडारसास्वादी रसिको राधिकाधवः ॥ १,८२.६९ ॥ किशोरीप्राणनाथश्च वृषभानसुताप्रियः । सर्वगोपीजनानन्दी गोपीजनविमोहनः ॥ १,८२.७० ॥ गोपिकागीतचरितो गोपीनर्तनलालसः । गोपीस्कन्धाश्रितकरो गोपिकाचुंबनप्रियः ॥ १,८२.७१ ॥ गोपिकामार्जितमुखो गोपीव्यञ्जनवीजितः । गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ॥ १,८२.७२ ॥ गोपिकाहृदयालंबी गोपीवहनतत्परः । गोपिकामदहारी च गोपिकापरमार्जितः ॥ १,८२.७३ ॥ गोपिकाकृतसंनीलो गोपिकासंस्मृतप्रियः । गोपिकावन्दितपदो गोपिकावशवर्तनः ॥ १,८२.७४ ॥ राधा पराजितः श्रीमान्निकुञ्जेसुविहारवान् । कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥ १,८२.७५ ॥ यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः । शशिसंस्तंभनः शूरः कामी कामविमोहनः ॥ १,८२.७६ ॥ कामाद्याः कामनाथश्च काममानसभेदनः । कामदः कामरूपश्च कामिनीकामसंचयः ॥ १,८२.७७ ॥ नित्यक्रीडो महालीलः सर्वः सर्वगतस्तथा । परमात्मा पराधीशः सर्वकारणकारणः (म्) ॥ १,८२.७८ ॥ गृहीतनारदवचा ह्यक्रूरपरिचिन्तितः । अक्रूरवन्दितपदो गोपिकातोषकारकः ॥ १,८२.७९ ॥ अक्रूरवाक्यसंग्राही मथुरावासकारणः (म्) । अक्रूरतापशमनो रजकायुःप्रणाशनः ॥ १,८२.८० ॥ मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः । कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ॥ १,८२.८१ ॥ सुदामगृहगामी च सुदामपरिपूजितः । तन्तुवाय कसंप्रीतः कुब्जाचन्दनलेपनः ॥ १,८२.८२ ॥ कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः । सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः ॥ १,८२.८३ ॥ कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः । सर्वदुःखप्रशमनो धनुभर्ङ्गी महोत्सवः ॥ १,८२.८४ ॥ कुवलयापीडहॄन्ता दन्तस्कन्धबलाग्रणीः । कल्परूपधरोधीरो दिव्यवस्त्रानुलेपनः ॥ १,८२.८५ ॥ मल्लरूपो महाकालः कामरूपी बलान्वितः । कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा ॥ १,८२.८६ ॥ चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः । वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः ॥ १,८२.८७ ॥ देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः । यादवेन्द्रः सतांनाथो यादवारिप्रमर्द्दनः ॥ १,८२.८८ ॥ शौरिशोकविनाशी च देवकीतापनाशनः । उग्रसेनपरित्राता उग्रसेनाभिपूजितः ॥ १,८२.८९ ॥ उग्रसेनाभिषेकी च उग्रसेनदया परः । सर्वसात्वतसाक्षी च यदूनामभिनन्दनः ॥ १,८२.९० ॥ सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः । सर्वगोपालधनदो गोपीगोपाललालसः ॥ १,८२.९१ ॥ शौरिदत्तोपवीती च उग्रसेनदयाकरः । गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥ १,८२.९२ ॥ संकर्षणसहाध्यायी सुदामसुहृदेव च । विद्यानिधिः कलाकोशो मृतपुत्रदस्तथा ॥ १,८२.९३ ॥ चक्री पाञ्चजनी चैव सर्वनारकिमोचनः । यमार्चितः परो देवो नामोच्चारवसो (शो)ऽच्युतः ॥ १,८२.९४ ॥ कुब्जा विलासी सुभगो दीनबन्धुरनूपमः । अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः ॥ १,८२.९५ ॥ जरासंधजयी विद्वान् यवनान्तो द्विजाश्रयः । मुचुकुन्दप्रियकरोजरासंधपलायितः ॥ १,८२.९६ ॥ द्वारकाजनको गूढो ब्रह्मण्यः सत्यसंगरः । लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः ॥ १,८२.९७ ॥ रुक्मिणीप्रियसंदेशो रुक्मशोकविवर्द्धनः । चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥ १,८२.९८ ॥ रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः । बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः ॥ १,८२.९९ ॥ रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् । भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः ॥ १,८२.१०० ॥ शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः । सत्राजित्तनयाकान्तो मित्रविन्दापहारकः ॥ १,८२.१०१ ॥ सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः । नरका सुरघातीं च लीलाकन्याहरो जयी ॥ १,८२.१०२ ॥ मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः । वैनतेयी स्वर्गगामी अदित्य कुण्डलप्रदः ॥ १,८२.१०३ ॥ इन्द्रार्चितो रमाकान्तो वज्रिभार्याप्रपूजितः । पारिजातापहारी च शक्रमानापहारकः ॥ १,८२.१०४ ॥ प्रद्युम्नजनकः सांबतातो बहुसुतो विधुः । गर्गाचार्यः सत्यगतिर्धर्माधारो धारधरः ॥ १,८२.१०५ ॥ द्वारकामण्डनः श्लोक्यः सुश्लोको निगमालयः । पैण्ड्रकप्राणहारी च काशीराजशिरोहरः ॥ १,८२.१०६ ॥ अवैष्णवविप्रदाही सुदक्षिणभयाबहः । जरासंधविदारीं च धर्मनन्दनयज्ञकृत् ॥ १,८२.१०७ ॥ शिशुपालशिररश्चेदी दन्तवक्रविनाशनः । विदूरथांसकः श्रीशः श्रीदो द्विविदनाशनः ॥ १,८२.१०८ ॥ रुक्मिणीमानहारी च रुक्मिणीमानवर्द्धनः । देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः ॥ १,८२.१०९ ॥ दुर्वासो भयहाति व पाञ्चालीस्मरणागतः । पार्थदूतः पार्थमन्त्री पार्थदुःखौधनाशनः ॥ १,८२.११० ॥ पार्थमानापहारी च पार्थजीवनदायकः । पाञ्चाली वस्त्रदाता च विश्वपालकपालकः ॥ १,८२.१११ ॥ श्वेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः । सत्यसंधः सत्यरतिः सत्यप्रिय उदारधीः ॥ १,८२.११२ ॥ महासेनजयी चैव शिवसैन्यविनाशननः । बाणासुरभुजच्छेत्ता बाणबाहुवरप्रदः ॥ १,८२.११३ ॥ तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्द्धनः । रामस्वरूपधारी च सत्यभामामुदावहः ॥ १,८२.११४ ॥ रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः । स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः ॥ १,८२.११५ ॥ वीरायुधहरः कालः कालिकेशो महाबलः । वर्वरीषशिरोहारी वर्वरीषशिरःप्रदः ॥ १,८२.११६ ॥ धर्मपुत्रजयी शूरदुर्योधनमदान्तकः । गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः ॥ १,८२.११७ ॥ राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः । सदामधुवनानन्दी सदावृन्दावनप्रियः ॥ १,८२.११८ ॥ अशोकवनसन्नद्धः सदातिलकसंगतः । सदागोवर्द्धनरतिः सदा गोकुलवल्लभः ॥ १,८२.११९ ॥ भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः । नन्दग्रामकृतावासो वृषभानुग्रहप्रियः ॥ १,८२.१२० ॥ गृहीतकामिनीरूपो नित्यं रासिविलासकृत् । वल्लवीजनसंगोप्ता वल्लवीजनवल्लभः ॥ १,८२.१२१ ॥ देवशर्मकृपाकर्ता कल्पपादपसंस्थितः । शिलानुगन्धनिलयः पादचारी घनच्छविः ॥ १,८२.१२२ ॥ अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः । त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः ॥ १,८२.१२३ ॥ षड्धुरध्वंसकर्ता च निकुंभप्राणहारकः । वज्रनाभपुरध्वंसी पैण्ड्रकप्राणहारकः ॥ १,८२.१२४ ॥ बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः । शिवसंकटहारी च वृकासुरविनाशनः ॥ १,८२.१२५ ॥ भृगुसत्कारकारी च शिवसात्त्विकताप्रदः । गोकर्णपूजकः सांबकुष्ठविध्वंसकारणः ॥ १,८२.१२६ ॥ वेदस्तुतो वेदवेत्ता यदुवंशविवर्द्धनः । यदुवंशविनाशी च उद्धवोद्धारकारकः ॥ १,८२.१२७ ॥ राधा च राधिका चैव आनन्दा वृषभानुजा । वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी ॥ १,८२.१२८ ॥ प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी । ललिता मधुरा माध्वी किशोरी कनकप्रभा ॥ १,८२.१२९ ॥ जितचन्द्रा जितमृगा जितसिंहा जितद्विपा । जितरंभा जितपिका गोविन्दहृदयोद्भवा ॥ १,८२.१३० ॥ जितबिंबा जितशुका जितपद्मा कुमारिका । श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी ॥ १,८२.१३१ ॥ नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा । आमोदिनी मोदवती नन्दनन्दनभूषिता ॥ १,८२.१३२ ॥ दिव्यांबरा दिव्यहारा मुक्तामणिविभूषिता । कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका ॥ १,८२.१३३ ॥ चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा । श्रीकृष्णवेणुसंगीता मुरलीहारिणी शिवा ॥ १,८२.१३४ ॥ भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया । कृष्णरतिः श्रीकृष्णसहचारिणी ॥ १,८२.१३५ ॥ वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी । भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी ॥ १,८२.१३६ ॥ श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी । श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी ॥ १,८२.१३७ ॥ वैकुण्ठजनसंसेव्या कोटिलक्ष्मी सुखावहा । कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा ॥ १,८२.१३८ ॥ भक्तिग्राह्या भक्तिरूपा लावण्यसरसी उमा । ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता ॥ १,८२.१३९ ॥ नित्यलीला नित्यकामा नित्यशृङ्गारभूषिता । नित्यवृन्दावनरसा नन्दनन्दनसंयुता ॥ १,८२.१४० ॥ गोपगिकामण्डलीयुक्ता नित्यं गोपालसंगता । गोरसक्षेपणी शूरा सानन्दानन्ददायिनी ॥ १,८२.१४१ ॥ महालीला प्रकृष्टा च नागरी नगचारिणी । नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥ १,८२.१४२ ॥ पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा । कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा ॥ १,८२.१४३ ॥ शीलसैन्दर्यनिलया नन्दनन्दनलालिता । अशोकवनसंवासा भाण्डीरवनसङ्गता ॥ १,८२.१४४ ॥ कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया । अजागम्या भवागम्या गोवर्द्धनकृतालया ॥ १,८२.१४५ ॥ यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी । शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता ॥ १,८२.१४६ ॥ कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया । देवद्रुमफला सेव्या वृन्दावनरसालया ॥ १,८२.१४७ ॥ कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा । कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया ॥ १,८२.१४८ ॥ मनसा शशिलेखा च श्रीकोटिसुभगानघा । कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी ॥ १,८२.१४९ ॥ तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी । त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ॥ १,८२.१५० ॥ दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका । देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका ॥ १,८२.१५१ ॥ शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका । कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी ॥ १,८२.१५२ ॥ कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता । विश्वाधारा कृपाधारा जीवधारातिनायिका ॥ १,८२.१५३ ॥ शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः । दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥ १,८२.१५४ ॥ दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना । परब्रह्मावृता ध्येया महारूपा महोज्ज्वला ॥ १,८२.१५५ ॥ कोटिसूर्यप्रभा कोटिचन्द्रबिंबाधिकच्छविः । कोमलामृतवागाद्या वेदाद्या वेददुर्लभा ॥ १,८२.१५६ ॥ कृष्णासक्ता कृष्णभक्ता चन्द्रावलिनिषेविता । कलाषोडशसंपूर्णा कृष्णदेहार्द्धधारिणी ॥ १,८२.१५७ ॥ कृष्णबुद्धिः कृष्णसाराकृष्णरूपविहारिणी । कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी ॥ १,८२.१५८ ॥ कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा । सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता ॥ १,८२.१५९ ॥ कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा । नगधात्री यशोठात्री महादेवी शुभङ्करी ॥ १,८२.१६० ॥ श्रीशेषदेवजननी अवतारगणप्रसूः । उत्पलाङ्कारविन्दाङ्का प्रसादाङ्का द्वितीयका ॥ १,८२.१६१ ॥ रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता । छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च ॥ १,८२.१६२ ॥ दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता । कृष्णात्रहारपाका च वृन्दाकुञ्जविहारिणी ॥ १,८२.१६३ ॥ कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी । पद्मकेसरमध्यस्था संगीतागमवेदिनी ॥ १,८२.१६४ ॥ कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता । सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता ॥ १,८२.१६५ ॥ अणिमादिगुणैश्वर्या देववृन्दविमोहिनी । सस्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः ॥ १,८२.१६६ ॥ कृष्णाभिसारसंकेता मालिनी नृत्यपण्डिता । गोपीसिंधुसकाशाह्वां गोपमण्डपशोभिनी ॥ १,८२.१६७ ॥ श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता । श्रीकृष्णालिङ्गनरता गोविन्दविरहाक्षमा ॥ १,८२.१६८ ॥ अनन्तगुणसंपन्ना कृष्णकीर्तनलालसा । बीजत्रयमयी मूर्तिः कृष्णानुग्रहवाञ्छिता ॥ १,८२.१६९ ॥ विमलादिनिषेव्या च ललिताद्यार्चिता सती । पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता ॥ १,८२.१७० ॥ वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा । दुर्लभा सांद्रसौख्यात्मा श्रेयोहेतुः सुभोगदा ॥ १,८२.१७१ ॥ सारङ्गा शारदा बोधा सद्वृन्दावनचारिणी । ब्रह्मानन्दा चिदानन्दा ध्यानान्दार्द्धमात्रिका ॥ १,८२.१७२ ॥ गन्धर्वा सुरतज्ञा च गोविन्दप्राणसंगमा । कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता ॥ १,८२.१७३ ॥ श्रीकृष्णहृदयावासमुक्ताकनकनालि (सि) का । सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता ॥ १,८२.१७४ ॥ स्वर्णनूपुरसंपन्ना स्वर्णकिङ्किणिमण्डिता । अशेषरासकुतुका रंभोरूस्तनुमध्यमा ॥ १,८२.१७५ ॥ पराकृतिः पररानन्दा परस्वर्गविहारिणी । प्रसूनकबरी चित्रा महासिंदूरसुन्दरी ॥ १,८२.१७६ ॥ कैशोरवयसा बाला प्रमदाकुलशेखरा । कृष्णाधरसुधा स्वादा श्यामप्रेमविनोदिनी ॥ १,८२.१७७ ॥ शिखिपिच्छलसच्चूडा स्वर्णचंपकभूषिता । कुङ्कुमालक्तकस्तूरीमण्डिता चापराजिता ॥ १,८२.१७८ ॥ हेमहरान्वितापुष्पा हाराढ्या रसवत्यपि । माधुर्य्यमधुरा पद्मा पद्महस्ता सुविश्रुता ॥ १,८२.१७९ ॥ भ्रूभङ्गाभङ्गकोदण्डकटाक्षशरसंधिनी । शेषदेवाशिरस्था च नित्यस्थलविहारिणी ॥ १,८२.१८० ॥ कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी । अष्टभाषवती चाष्टनायिका लक्षणान्विता ॥ १,८२.१८१ ॥ सुनूतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी । रजोगुणेश्वरी चैव जरच्चन्द्रनिभानना ॥ १,८२.१८२ ॥ केतकीकुसुमाभासा सदा सिंधुवनस्थिता । हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता ॥ १,८२.१८३ ॥ स्तनकुभी नराढ्या च क्षीणापुण्या यशस्वनी । वैराजसूयजननी श्रीशा भुवनमोहिनी ॥ १,८२.१८४ ॥ महाशोभा महामाया महाकान्तिर्महास्मृतिः । महामोहा महाविद्या महाकीर्र्तिंमहारतिः ॥ १,८२.१८५ ॥ महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः । महागौरी महासंपन्महाभोगविलासिनी ॥ १,८२.१८६ ॥ समया भक्तिदाशोका वात्सल्यरसदायिनी । सुहृद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी ॥ १,८२.१८७ ॥ भावभक्तिप्रदा शुद्धप्रेमभक्तिविधायिनी । गोपरामाभघिरामा च क्रीडारामा परेश्वरी ॥ १,८२.१८८ ॥ नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी । एकानैकजगद्व्याप्ता विश्वलीलाप्रकाशिनी ॥ १,८२.१८९ ॥ सरस्वकती शा दुर्गेशा जगदीशा जगद्विधिः । विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा ॥ १,८२.१९० ॥ विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा । आरामस्था वनस्था च सूर्य्यपुत्र्यवगाहिनी ॥ १,८२.१९१ ॥ प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा । स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी ॥ १,८२.१९२ ॥ अमृता ह्यद्भुता श्रीमन्नारायणसमीडिता । अक्षरापि च कूटस्था महापुरुषसंभवा ॥ १,८२.१९३ ॥ औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी । शिरीषपुष्पमृदुला गाङ्गेयमुकुरप्रभा ॥ १,८२.१९४ ॥ नीलोत्पलजिताक्षी च सद्रत्नकवरान्विता । प्रेमपर्यकनिलया तेजोमण्डलमध्यगा ॥ १,८२.१९५ ॥ कृष्णाङ्गगोपनाभेदा लीलावरणनायिका । सुधासिंधुसमुल्लासामृतास्यन्दविधायिनी ॥ १,८२.१९६ ॥ कृष्णचित्ता रासचित्ता प्रेमचित्ता हरिप्रिया । अचिन्तनगुणग्रामा कृष्णलीला मलापहा ॥ १,८२.१९७ ॥ राससिंधुशशाङ्का च रासमण्डलमण्डीनी । नतव्रता सिंहरीच्छा सुमीर्तिः सुखन्दिता ॥ १,८२.१९८ ॥ गोपीचूडामणिर्गोपीगणेड्या विरजाधिका । गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥ १,८२.१९९ ॥ गोपधामा सुदामांबा गोपाली गोपमोहिनी । गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका ॥ १,८२.२०० ॥ वीणादिघोषनिरता रासोत्सवविकासिनी । कृष्णचेष्टा परिज्ञाता कोटिकन्दर्पमोहिनी ॥ १,८२.२०१ ॥ श्रीकृष्ण गुणनागाढ्या देवसुंदरिमोहिनी । कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी ॥ १,८२.२०२ ॥ कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवाञ्छिता । क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ॥ १,८२.२०३ ॥ प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता । कृपाकटाक्षा बिंबोष्टी रंभा चारुनितंबिनी ॥ १,८२.२०४ ॥ स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता । हेमाद्रिकान्तिरुचिरा प्रेमाद्या मदमन्थरा ॥ १,८२.२०५ ॥ कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा । रासचिन्ता भावचिन्ता शुद्धचन्ता महारसा ॥ १,८२.२०६ ॥ कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मिविनिन्दिनी । कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी ॥ १,८२.२०७ ॥ रासभावा प्रियाश्लिष्टा प्रेष्ठा प्रथमनायिका । शुद्धादेहिनी च श्रीरामा रसमञ्जरी ॥ १,८२.२०८ ॥ सुप्रभावा शुभाचारा स्वर्णदी नर्मदांबिका । गोमती चन्द्रभागेड्या सरयूस्ताम्रपर्णिसूः ॥ १,८२.२०९ ॥ निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना । एतन्नामसहस्रं तु युग्मरूपस्य नारद ॥ १,८२.२१० ॥ पठनीयं प्रयत्नेन वृन्दावनरसावहे । महापापप्रशमनं वन्ध्यात्वविनिवर्तकम् ॥ १,८२.२११ ॥ दारिद्रय शमनं रोगनाशनं कामदं महत् । पापापहं वैरिहरं राधामाधवभक्तिदम् ॥ १,८२.२१२ ॥ नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । राधासंगसुधासिंधौ नमो नित्यविहारिणे ॥ १,८२.२१३ ॥ राधादेवी जगत्कर्त्री जगत्पालनतगत्परा । जगल्लयविधात्री च सर्वेशी सर्वसूतिका ॥ १,८२.२१४ ॥ तस्या नामसहस्रं वै मया प्रोक्तं मुनीश्वर । भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ १,८२.२१५ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधाकृष्ण सहस्रनामकथनं नाम व्द्यशीतितमोऽध्यायः _____________________________________________________________ श्रीशौनक उवाच साधु सूत महाभागः जगदुद्धारकारकम् । महातन्त्रविधानं नः कुमारोक्तं त्वयोदितम् ॥ १,८३.१ ॥ अलभ्यमेतत्तन्त्रेषु पुराणेष्वपि मानद । यदिहोदितमस्मभ्यं त्वयातिकरुणात्मना ॥ १,८३.२ ॥ नारदो भगवान्सूत लोकोद्धरणतत्परः । भूयः पप्रच्छ किं साधो कुमारं विदुषां वरम् ॥ १,८३.३ ॥ सूत उवाच श्रुत्वा स नारदो विप्राः युग्मनामसहस्रकम् । सनत्कुमारमप्याह प्रणम्य ज्ञानिनां वरम् ॥ १,८३.४ ॥ नारद उवाच ब्रह्मंस्त्वया समाख्याता विधयस्तन्त्रचोदिताः । तत्रापि कृष्णमन्त्राणां वैभवं ह्युदितं महत् ॥ १,८३.५ ॥ या तत्र राधिकादेवी सर्वाद्या समुदाहृता । तस्या अंशावताराणां चरितं मन्त्रपूर्वकम् ॥ १,८३.६ ॥ तन्त्रोक्तं वद सर्वज्ञ त्वामहं शरणं गतः । शक्तेस्तन्त्राण्यनेकानि शिवोक्तानि मुनीश्वर ॥ १,८३.७ ॥ यानि तत्सारमुद्धृत्य साकल्येनाभिधेहि नः । तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ॥ १,८३.८ ॥ सनत्कुमारः प्रोवाच स्मृत्वा राधापदांबुजम् । सनत्कुमार उवाच शृणु नारद वक्ष्यामि राधांशानां समुद्भवम् ॥ १,८३.९ ॥ शक्तीनां परमाश्चर्यं मन्त्रसाधनपूर्वकम् । या तु राधा मया प्रोक्ता कृष्णार्द्धाङ्गसमुद्भवा ॥ १,८३.१० ॥ गोलोकवासिनी सा तु नित्या कृष्णसहायिनी । तेजोमण्डलमध्यस्था दृश्यदृश्यस्वरूपिणी ॥ १,८३.११ ॥ कदाचित्तु तया सार्द्धं स्थितस्य मुनिसत्तम । कृष्णस्य वामभागात्तु जातो नारायणः स्वयम् ॥ १,८३.१२ ॥ राधिकायाश्च वामाङ्गान्महालक्ष्मीर्बभूव ह । ततः कृष्णो महालक्ष्मीं दत्त्वा नारायणाय च ॥ १,८३.१३ ॥ वैकुण्ठे स्थापयामास शश्वत्पालनकर्मणि । अथ गोलोकनाथस्य गोम्नां विवरतो मुने ॥ १,८३.१४ ॥ जातुश्चासंख्यगोपालास्तेजसा वयसा समाः । प्राणतुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः ॥ १,८३.१५ ॥ राधाङ्गलोमकूपेभ्ये बभूवुर्गोपकन्यकाः । राधातुल्याः सर्वतश्च राधादास्यः प्रियंवदाः ॥ १,८३.१६ ॥ एतस्मिन्नन्तरे विप्र सहसा कृष्णदेहतः । आविर्बभूव सा दुर्गा विष्णुमाया सनातनी ॥ १,८३.१७ ॥ देवीनां बीजरूपां च मूलप्रकृतिरीश्वरी । परिपूर्णतमा तेजः स्वरूपा त्रिगुणात्मिका ॥ १,८३.१८ ॥ सहस्रभुजसंयुक्ता नानाशस्त्रा त्रिलोचना । या तु संसारवृक्षस्य बीजरूपा सनातनी ॥ १,८३.१९ ॥ रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः । एतस्मिन्नन्तरे तत्र सस्त्रीकस्तु चतुर्मुखः ॥ १,८३.२० ॥ ज्ञानिनां प्रवरः श्रीमान् पुमानोङ्कारमुच्चरन् । कमण्डलुधरो जातस्तपस्वी नाभितो हरेः ॥ १,८३.२१ ॥ स तु संस्तूय सर्वेशं सावित्र्या भार्यया सह । निषसादासने रम्ये विभोस्तस्याज्ञया मुने ॥ १,८३.२२ ॥ अथ कृष्णो महाभाग द्विधारूपो बभूव ह । वामार्द्धाङ्गो महादेवो दक्षार्द्धो गोपिकापतिः ॥ १,८३.२३ ॥ पञ्चवक्त्रस्त्रिनेत्रोऽसौ वामार्द्धागो मुनीश्वः । स्तुत्वा कृष्णं समाज्ञप्तो निषसाद हरेः पुरः ॥ १,८३.२४ ॥ अथ कृष्णश्चतुर्वक्त्रं प्राह सृष्टिं कुरु प्रभो । सत्यलोके स्थितो नित्यङ्गच्छ मांस्मर सर्वदा ॥ १,८३.२५ ॥ एवमुक्तस्तु हरिणा प्रणम्य जगदीश्वरम् । जगाम भार्यया साकं स तु सृष्टिं करोति वै ॥ १,८३.२६ ॥ पितास्माकं मुनिश्रेष्ठ मानसीं कल्पदैहिकीम् । ततः पश्चात्पञ्चवक्त्रं कृष्णं प्राह महामते ॥ १,८३.२७ ॥ दुर्गां गृहाण विश्वेश शिवलोके तपश्वर । यावत्सृष्टिस्तदन्ते तु लोकान्संहर सर्वतः ॥ १,८३.२८ ॥ सोऽपि कृष्णं नमस्तृत्य शिवलोकं जगाम ह । ततः कालान्तरे ब्रह्मन्कृष्णस्य परमात्मनः ॥ १,८३.२९ ॥ वक्त्रात्सरस्वती जाता बीणापुस्तकधारिणी । तामादिदेश भघगवान् वैकुण्ठं गच्छ मानदे ॥ १,८३.३० ॥ लक्ष्मीसमीपे तिष्ठ त्वं चतुर्भुजसमाश्रया । सापि कृष्णं नमस्कृत्य गता नारायणान्तिकम् ॥ १,८३.३१ ॥ एवं पञ्चविधा जाता सा राधा सृष्टिकारणम् । आसां पूर्णस्वरूपाणां मन्त्रध्यानार्चनादिकम् ॥ १,८३.३२ ॥ वदामि शृणु विप्रेद्रं लोकानां सिद्धिदायकम् । तारः क्रियायुक्प्रतिश्ठा प्रीत्याढ्या च ततः परम् ॥ १,८३.३३ ॥ ज्ञानामृता क्षुधायुक्ता वह्निजायान्तकतो मनुः । सुतपास्तु ऋषिश्छन्दो गायत्री देवता मनोः ॥ १,८३.३४ ॥ राधिका प्रणवो बीजं स्वाहा शक्तिरुदाहृता । षडक्षरैः षडङ्गानि कुर्याद्विन्दुविभूषितैः ॥ १,८३.३५ ॥ ततो ध्यायन्स्वहृदये राधिकां कृष्णभामिनीम् । श्वेतचंपकवर्णाभां कोटिचन्द्रसमप्रभाम् ॥ १,८३.३६ ॥ शरत्पार्वणचन्द्रास्यां नीलेन्दीवरलोचनाम् । सुश्रोणीं सुनितंबां च पक्वबिंबाधरांबराम् ॥ १,८३.३७ ॥ मुक्ताकुन्दाभदशनां वह्निशुद्धांशुकान्विताम् । रत्नकेयूरवलयहारकुण्डलशोभिताम् ॥ १,८३.३८ ॥ गोपीभिः सुप्रियाभिश्च सेवितां श्वेतचामरैः । रासमण्डलमध्यस्थां रत्नसिंहासनस्थिताम् ॥ १,८३.३९ ॥ ध्यात्वा पुष्पाञ्जलिं क्षिप्त्वा पूजयेदुपचारकैः । लक्षषट्कं जपेन्मन्त्रं तद्दशांशं हुनेत्तिलैः ॥ १,८३.४० ॥ आज्याक्तैर्मातृकापीठे पूजा चावरणैः सह । षट्कोणेषु षडङ्गानि तद्बाह्येऽष्टदले यजेत् ॥ १,८३.४१ ॥ मालावतीं माधवीं च रत्नमालां सुशीलिकाम् । ततः शशिकलां पारिजातां पद्मावतीं तथा ॥ १,८३.४२ ॥ सुंदरीं च क्रमात्प्राच्यां दिग्विदिक्षु ततो बहिः । इन्द्राद्यान्सायुधानिष्ट्वा विनियोगांस्तु साधयेत् ॥ १,८३.४३ ॥ राधा कृष्णप्रिया रासेश्वरी गोपीगणाधिपा । निर्गुणा कृष्णपूज्या च मूलप्रकृतिरीश्वरी ॥ १,८३.४४ ॥ सर्वेश्वरी सर्वपूज्या वैराजजननी तथा । पूर्वाद्याशासु रक्षन्तु पान्तु मां सर्वतः सदा ॥ १,८३.४५ ॥ त्वं देवि जगतां माता विष्णुमाया सनातनी । कृष्णमायादिदेवी च कृष्णप्राणाधिके शुभे ॥ १,८३.४६ ॥ कष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे । इति सम्प्रार्थ्य सर्वेशीं स्तुत्वा हृदि विसर्जयेत् ॥ १,८३.४७ ॥ एवं यो भजते राधां सर्वाद्यां सर्वमङ्गलाम् । भुक्त्वेह भोगानखिलान्सोऽन्ते गोलोकमाप्नुयात् ॥ १,८३.४८ ॥ अथ तुभ्यं महालक्ष्म्या विधानं वच्मि नारद । यदाराधनतो भूयात्साधको भुक्तिमुक्तिमान् ॥ १,८३.४९ ॥ लक्ष्मीमायाकामवाणीपूर्वा कमलवासिनी । ङेंता वह्निप्रियान्तोऽयं मन्त्रकल्पद्रुमः परः ॥ १,८३.५० ॥ ऋषिर्नारायणश्चास्य छन्दो हि जगती तथा । देवता तु महालक्ष्मीर्द्विद्विवर्णैः षडङ्गकम् ॥ १,८३.५१ ॥ श्वेतचंपकवर्णाभां रत्नभूषणभूषिताम् । ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकातराम् ॥ १,८३.५२ ॥ बिभ्रतीं रत्नमालां च कोटिचन्द्रसमप्रभाम् । ध्यात्वा जपेदर्कलक्षं पायसेन दशांशतः ॥ १,८३.५३ ॥ जुहुयादेधिते वह्नौ श्रीदृकाष्टैः समर्चयेत् । नवशक्तियुते पीठे ह्यङ्गै रावरणैः सह ॥ १,८३.५४ ॥ विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिश्च सन्नतिः । व्याष्टिरुत्कृष्टिरृद्धिश्च संप्रोक्ता नव शक्तयः ॥ १,८३.५५ ॥ अत्रावाह्य च मूलेन मूर्तिं संकल्प्य साधकः । षट्कोणेषु षडङ्गानि दक्षिणे तु गजाननम् ॥ १,८३.५६ ॥ वामे कुसुमधन्वानं वसुपत्रे ततो यजेत् । उमां श्रीं भारतीं दुर्गां धरणीं वेदमातरम् ॥ १,८३.५७ ॥ देवीमुषां च पूर्वादौ दिग्विदिक्षु क्रमेण हि । जह्नुसूर्यसुते पूज्ये पादप्रक्षालनोद्यते ॥ १,८३.५८ ॥ शङ्खपद्मनिधी पूज्यौ पार्श्वयोर्घृतचामरौ । धृतातपत्रं वरुणं पूजयेत्पश्चिमे ततः ॥ १,८३.५९ ॥ संपूज्य राशीन्परितो यथास्थानं नवग्रहान् । चतुर्दन्तैरावतादीन् दिग्विदिक्षु ततोर्ऽचयेत् ॥ १,८३.६० ॥ तद्बहिर्लोकपालांश्च तदस्त्राणि च तद्बहिः । दूर्वाभिराज्यसिक्ताभिर्जुहुयादायुषे नरः ॥ १,८३.६१ ॥ गुडूचीमाज्यसंसिक्तां जुहुयात्सप्तवासरम् । अषअटोत्तरसहस्रं यः स जीवेच्छरदां शतम् ॥ १,८३.६२ ॥ हुत्वा तिलान्घृताभ्यक्तान्दीर्घमायुष्यमाप्नुयात् । आरभ्यार्कदिनं मन्त्री दशाहं घृतसंप्लुतः ॥ १,८३.६३ ॥ जुहुयादर्कसमिधः शरीरारोग्यसिद्धये । शालिभिर्जुह्वतो नित्यमष्टोत्तरसहस्रकम् ॥ १,८३.६४ ॥ अचिरादेव महती लक्ष्मी संजायते ध्रुवम् । उषाजा जीनालिकेररजोभिर्गृतमिश्रितैः ॥ १,८३.६५ ॥ हुनेदष्टोत्तरशतं पायसाशी तु नित्यशः । मण्डलाज्जायते सोऽपि कुबेर इव मानवः ॥ १,८३.६६ ॥ हविषा गुडमिश्रेण होमतो ह्यन्नवान्भवेत् । जपापुष्पाणि जुहुयादष्टोत्तरसहस्रकम् ॥ १,८३.६७ ॥ तांबूलरससंमिश्रं तद्भस्मतिलकं चरेत् । चतुर्णामपि वर्णानां मोहनाय द्विजोत्तमः ॥ १,८३.६८ ॥ एवं यो भजते लक्ष्मीं साधकेन्द्रो मुनीश्वर । सम्पदस्तस्य जायन्ते महालक्ष्मीः प्रसीदति ॥ १,८३.६९ ॥ देहान्ते वैष्णवं धाम लभते नात्र संशयः । या तु दुर्गा द्विजश्रेष्ठ शिवलोकं गता सती ॥ १,८३.७० ॥ सा शिवाज्ञामनुप्राप्य दिव्यलोकं विनिर्ममे । देवीलोकेति विख्यातं सर्वलोकविलक्षणम् ॥ १,८३.७१ ॥ तत्र स्थिता जगन्माता तपोनियममास्थिता । विविधान् स्वावतारान्हि त्रिकाले कुरुतेऽनिशम् ॥ १,८३.७२ ॥ मायाधिका ह्लादिनीयुक्चन्द्राढ्या सर्गिणी पुनः । प्रतिष्ठा स्मृतिसंयुक्ता क्षुधया सहिता पुनः ॥ १,८३.७३ ॥ ज्ञानामृता वह्निजायान्तस्ताराद्यो मनुर्मतः । ऋषिः स्याद्वामदेवोऽस्य छन्दो गायत्रमीरितम् ॥ १,८३.७४ ॥ देवता जगतामादिर्दुर्गा दुर्गतिनाशिनी । ताराद्येकैकवर्णेन हृदयादित्रयं मतम् ॥ १,८३.७५ ॥ त्रिभिर्वर्मेक्षण द्वाभ्यां सर्वैरस्त्रमुदीरितम् । महामरकतप्रख्यां सहस्रभुजमण्डिताम् ॥ १,८३.७६ ॥ नानाशस्त्राणि दधतीं त्रिनेत्रां शशिशेखराम् । कङ्कणाङ्गदहाराढ्यां क्वणन्नूपुरकान्विताम् ॥ १,८३.७७ ॥ किरीटकुण्डलधरां दुर्गां देवीं विचिन्तयेत् ॥ १,८३.७८ ॥ वसुलक्षं जपेन्मन्त्रं तिलैः समधुरैर्हुनेत । पयोंऽधसा वा सहस्रं नवपद्मात्मके यजेत् ॥ १,८३.७९ ॥ प्रभा माया जया सूक्ष्मा विशुद्धानं दिनी पुनः । सुप्रभा विजया सर्वसिद्धिदा पीठशक्तयः ॥ १,८३.८० ॥ अद्भिर्ह्रस्वत्रयक्लीबरहितैः पूजये दिमाः । प्रणवो वज्रनखदंष्ट्रायुधाय महापदात् ॥ १,८३.८१ ॥ सिंहाय वर्मास्त्रं हृञ्च प्रोक्तः सिंहमनुर्मुने । दद्यादासनमेतेन मूर्तिं मूलेन कल्पयेत् ॥ १,८३.८२ ॥ अङ्गावृर्त्तिं पुराभ्यार्च्य शक्तीः पत्रेषु पूजयेत् । जया च विजया कीर्तिः प्रीतिः पश्चात्प्रभा पुनः ॥ १,८३.८३ ॥ श्रद्धा मेधा श्रुतिश्चैवस्वनामाद्यक्षरादिकाः । पत्राग्रेष्वर्चयेदष्टावायुधानि यथाक्रमात् ॥ १,८३.८४ ॥ शङ्खचक्रगदाखड्गपाशाङ्कुशशरान्धनुः । लोकेश्वरांस्ततो बाह्ये तेषामस्त्राण्यनन्तरम् ॥ १,८३.८५ ॥ इत्थं जपादिभिर्मन्त्री मन्त्रे सिद्धे विधानवित् । कुर्यात्प्रयोगानमुना यथा स्वस्वमनीषितान् ॥ १,८३.८६ ॥ प्रतिष्ठाप्य विधानेन कलशान्नवशोभनान् । रत्नहेमादिसंयुक्तान्घटेषु नवसु स्थितान् ॥ १,८३.८७ ॥ मध्यस्थे पूजयेद्देवीमितरेषु जयादिकाः । संपूज्य गन्धपुष्पाद्यैरभिषिञ्चेन्नराधिपम् ॥ १,८३.८८ ॥ राजा विजयते शत्रून्योऽधिको विजयश्रियम् । प्राप्नोत्रोगो दीर्घायुः सर्वव्याधिविवर्जितः ॥ १,८३.८९ ॥ वन्ध्याभिषिक्ता विधिनालभते तनयं वरम् । मन्त्रेणानेन संजप्तमाज्यं क्षुद्रग्रहापहम् ॥ १,८३.९० ॥ गर्भिणीनां विशेषेण जप्तं भस्मादिकं तथा । जृंभश्वासे तु कृष्णस्य प्रविष्टेराधिकामुखम् ॥ १,८३.९१ ॥ या तु देवी समुद्भूता वीणापुस्तकधारिणी । तस्या विधानं विप्रेन्द्र शृणु लोकोपकारकम् ॥ १,८३.९२ ॥ प्रणवो वाग्भवं माया श्रीः कामः शक्तिरीरिता । सरस्वती चतुर्थ्यन्ता स्वाहान्तो द्वादशाक्षरः ॥ १,८३.९३ ॥ मनुर्नारायण ऋषिर्विराट्छन्दः समीरितम् । महासरस्वती चास्य देवता परिकीर्तिता ॥ १,८३.९४ ॥ वाग्भवेन षडङ्गानि कृत्वा वर्णान्न्यसेद्बुधः । ब्रह्मरन्ध्रे न्यसेत्तारं लज्जां भ्रूमध्यगां न्यसेत् ॥ १,८३.९५ ॥ मुखनासादिकर्णेषु गुदेषु श्रीमुखार्णकान् । ततो वाग्देवतां ध्यायेद्वीणापुस्तकधारिणीम् ॥ १,८३.९६ ॥ कर्पूरकुन्दधवलां पूर्णचन्द्रोज्ज्वलाननाम् । हंसाधिरूढां भालेन्दुदिव्यालङ्कारशोभिताम् ॥ १,८३.९७ ॥ जपेद्द्वादशलक्षाणि तत्सहस्रं सितांबुजैः । नागचंपकपुष्पैर्वा जुहुयात्साधकोत्तमः ॥ १,८३.९८ ॥ मातृकोक्ते यजेत्पीठे वक्ष्यमाणक्रमेण ताम् । वर्णाब्जेनासनं दद्यान्मूर्तिं मूलेन कल्पयेत् ॥ १,८३.९९ ॥ देव्या दक्षिणतः पूज्या संस्कृता वाङ्मयी शुभा । प्राकृता वामतः पूज्या वाङ्मयीसर्वसिद्धिदा ॥ १,८३.१०० ॥ पूर्वमङ्गानि षट्कोणे प्रज्ञाद्याः प्रयजेद्बहिः । प्रज्ञा मेधा श्रुतिः शक्तिः स्मृतिर्वागीश्वरी मतिः ॥ १,८३.१०१ ॥ स्वस्तिश्चेति समाख्याता ब्रह्माद्यास्तदनन्तरम् । लोकेशानर्चयेद्भूयस्तदस्त्राणि च तद्बहिः ॥ १,८३.१०२ ॥ एवं संपूज्य वाग्देवीं साक्षाद्वाग्वल्लभो भवेत् । ब्रह्मचर्यरतः शुद्धः शुद्धदन्तनखा दिकः ॥ १,८३.१०३ ॥ संस्मरन् सर्ववनिताः सततं देवताधिया । कवित्वं लभते धीमान्मासैर्द्वादशभिर्ध्रुवम् ॥ १,८३.१०४ ॥ पीत्वा तन्मन्त्रितं तोयं सहस्रं प्रत्यहं मुने । महाकविर्भवेन्मन्त्री वत्सरेण न संशयः ॥ १,८३.१०५ ॥ उरोमात्रोदके स्थित्वा ध्यायन्मार्तण्डमण्डले । स्थितां देवीं प्रतिदिनं त्रिसहस्रं जपेन्मनुम् ॥ १,८३.१०६ ॥ लभते मण्डलात्सिद्धिं वाचामप्रतिमां भुवि । पालाशबिल्वकुसुमैर्जुहुयान्मधुरोक्षितैः ॥ १,८३.१०७ ॥ समिद्भिर्वा तदुत्थाभिर्यशः प्राप्नोति वाक्पतेः । राजवृक्षसमुद्भूतैः प्रसूनैर्मधुराप्लुतैः ॥ १,८३.१०८ ॥ सत्समिद्भिश्च जुहुयात्कवित्वमतुलं लभेत् । अथ प्रवक्ष्ये विप्रेन्द्र सावित्रीं ब्रह्मणः प्रियाम् ॥ १,८३.१०९ ॥ यां समाराध्य ससृजे ब्रह्मा लोकांश्चराचरान् । लक्ष्मी माया कामपूर्वा सावित्री ङेसमन्विता ॥ १,८३.११० ॥ स्वाहान्तो मनुराख्यातः सावित्र्या वसुवर्णवान् । ऋषिर्ब्रह्मास्य गायत्री छन्दः प्रोक्तं च देवता ॥ १,८३.१११ ॥ सावित्री सर्वदेवानां सावित्री परिकीर्तिता । हृदन्तिकैर्ब्रह्म विष्णुरुद्रेश्वरसदाशिवैः ॥ १,८३.११२ ॥ सर्वात्मना च ङेयुक्तैरङ्गानां कल्पनं मतम् । तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा ॥ १,८३.११३ ॥ ग्रीष्ममध्याह्नमार्तण्डसहस्रसमविग्रहाम् । ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ॥ १,८३.११४ ॥ बह्निशुद्धांशुकाधानां भक्तानुग्रहकातराम् । सुखदां मुक्तिदां चैव सर्वसंपत्प्रदां शिवाम् ॥ १,८३.११५ ॥ वेदबीजस्वरूपां च ध्यायेद्वेदप्रसूं सतीम् । ध्यात्वैवं मण्डले विद्वान् त्रिकोणोज्ज्वलकर्णिके ॥ १,८३.११६ ॥ सौरे पीठे यजेद्देवीं दीप्तादिनवशक्तिभिः । मूलमन्त्रेण कॢप्तायां मूर्तौं देवीं प्रपूजयेत् ॥ १,८३.११७ ॥ कोणेषु त्रिषु संपूज्या ब्राहृयाद्याः शक्तयो बहिः । आदित्याद्यास्ततः पूज्या उषादिसहिताः क्रमात् ॥ १,८३.११८ ॥ तततः षडङ्गान्यभ्यर्च्य केसरेषु यथाविधि । प्रह्लादिनीं प्रभां पश्चान्नित्यां विश्वंभरां पुनः ॥ १,८३.११९ ॥ विलासिनीप्रभावत्यौ जयां शान्तां यजेत्पुनः । कान्तिं दुर्गासरस्वत्यौ विद्यारूपां ततः परम् ॥ १,८३.१२० ॥ विशालसंज्ञितामीशां व्यापिनीं विमलां यजेत् । तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् ॥ १,८३.१२१ ॥ पद्नालयां परां शोभां ब्रह्मरूपां ततोर्ऽचयेत् । ब्राह्म्याद्याः शारणा बाह्ये पूजयेत्प्रोक्तलक्षणाः ॥ १,८३.१२२ ॥ ततोऽभ्यर्च्येद्ग्रहान्बाह्ये शक्राद्यानयुधैः सह । इत्थमावरणैर्देवीः दशभिः परिपूजयेत् ॥ १,८३.१२३ ॥ अष्टलक्षं जपेन्मन्त्रं तत्सहस्रं हुनेत्तिलैः । सर्वपापुविनिर्मुक्तो दीर्घमायुः स विन्दति ॥ १,८३.१२४ ॥ अरुणाब्जैस्त्रिमध्वक्तैर्जुहुयादयुतं ततः । महालक्ष्मीर्भवेत्तस्य षण्मासान्नात्र संशयः ॥ १,८३.१२५ ॥ ब्रह्मवृक्षप्रसूनैस्तु जुहुयाद्बाह्यतेजसे । बहुना किमिहोक्तेन यथावत्साधिता सती ॥ १,८३.१२६ ॥ साधकानामियं विद्या भवेत्कामदुधा मुने । अथ ते संप्रवक्ष्यामि रहस्यं परमाद्भुतम् ॥ १,८३.१२७ ॥ सावित्रीपञ्जरं नाम सर्वरक्षाकरं नृणाम् । व्योमकेशार्लकासक्तां सुकिरीटविराजिताम् ॥ १,८३.१२८ ॥ मेघभ्रुकुटिलाक्रान्तां विधिविष्णुशिवाननाम् । गुरुभार्गवकर्णान्तां सोमसूर्याग्निलोचनाम् ॥ १,८३.१२९ ॥ इडापिङ्गलिकासूक्ष्मावायुनासापुटान्विताम् । संध्याद्विजोष्ठपुटितां लसद्वागुपजिह्विकाम् ॥ १,८३.१३० ॥ संध्यासूर्यमणिग्रीवां मरुद्बाहुसमन्वितान् । पर्जन्यदृदयासक्तां वस्वाख्यप्रतिमण्डलाम् ॥ १,८३.१३१ ॥ आकाशोदरविभ्रान्तां नाभ्यवान्तरवीथिकाम् । प्रजापत्याख्यजघनां कटीन्द्राणीसमाश्रिताम् ॥ १,८३.१३२ ॥ ऊर्वोर्मलयमेरुभ्यां शोभमानां सरिद्वराम् । सुजानुजहुकुशिकां वैश्वदेवाख्यसंज्ञिकाम् ॥ १,८३.१३३ ॥ पादाङ्घ्रिनखलोमाख्यभूनागद्रुमलक्षिताम् । ग्रहराश्यर्क्षयोगादिमूर्तावयवसंज्ञिकाम् ॥ १,८३.१३४ ॥ तिथिमासर्तुपक्षाख्यैः संकेतनिमिषात्मिकाम् । मायाकल्पितवैचित्र्यसंध्याख्यच्छदनावृताम् ॥ १,८३.१३५ ॥ ज्वलत्कालानलप्रख्यों तडित्कीटिसमप्रभाम् । कोटिसूर्यप्रतीकाशां शशिकोटिसुशीतलाम् ॥ १,८३.१३६ ॥ सुधामण्डलमध्यस्थां सांद्रानन्दामृतात्मिकाम् । वागतीतां मनोऽगर्म्या वरदां वेदमातरम् ॥ १,८३.१३७ ॥ चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् । ध्यात्वा स्वात्माविभेदेन सावित्रीपञ्जरं न्यसेत् ॥ १,८३.१३८ ॥ पञ्चरस्य ऋषिः सोऽहं छंन्दो विकृतिरुच्यते । देवता च परो हंसः परब्रह्मादिदेवता ॥ १,८३.१३९ ॥ धर्मार्थकाममोक्षाप्त्यै विनियोग उदाहृतः । षडङ्गदेवतामन्त्रैरङ्गन्यासं समाचरेत् ॥ १,८३.१४० ॥ त्रिधामूलेन मेधावी व्यापकं हि समाचरेत् । पूर्वोक्तां देवातां ध्यायेत्साकारां गुणसंयुताम् ॥ १,८३.१४१ ॥ त्रिपदा हरिजा पूर्वमुखी ब्रह्मास्त्रसंज्ञिका । चतुर्विशतितत्त्वाढ्या पातु प्राचीं दिशं मम ॥ १,८३.१४२ ॥ चतुष्पदा ब्रह्मदण्डा ब्रह्माणी दक्षिणानना । षड्विंशतत्त्वसंयुक्ता पातु मे दक्षिणां दिशम् ॥ १,८३.१४३ ॥ प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी । पातु प्रतीचीमनिशं मम ब्रह्मशिराएङ्किता ॥ १,८३.१४४ ॥ सौम्यास्या ब्रह्मतुर्याढ्या साथर्वाङ्गिरसात्मिका । उदीचीं षट्पदा पातु षष्टितत्त्वकलात्मिका ॥ १,८३.१४५ ॥ पञ्चाशद्वर्णरचिता नवपादा शताक्षरी । व्योमा संपातु मे वोर्द्ध्वशिरो वेदान्तसंस्थिता ॥ १,८३.१४६ ॥ विद्युन्निभा ब्रह्मसन्ध्या मृगारूढा चतुर्भुजा । चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ॥ १,८३.१४७ ॥ ब्रह्मी कुमारी गायत्री रक्ताङ्गी हंसवाहिनी । बिभ्रत्कमण्डलुं चाक्षं स्रुवस्रुवौ पातु नैरृतिम् ॥ १,८३.१४८ ॥ शुक्लवर्णा च सावित्री युवती वृषवाहना । कपालशूलकाक्षस्रग्धारिणी पातु वायवीम् ॥ १,८३.१४९ ॥ श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना । शङ्खचक्राभयकरा पातु शैवीं दिशं मम ॥ १,८३.१५० ॥ चतुर्भुजा देवमाता गौराङ्गी सिंहवाहना । वराभयखड्गचर्मभुजा पात्वधरां दिशम् ॥ १,८३.१५१ ॥ तत्तत्पार्श्वे स्थिताः स्वस्ववाहनायुधभूषणाः । स्वस्वदिक्षुस्थिताः पातुं ग्रहशक्त्यङ्गसंयुताः ॥ १,८३.१५२ ॥ मन्त्राधिदेवतारूपा मुद्राधिष्ठातृदेवताः । व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् ॥ १,८३.१५३ ॥ इदं ते कथितं सत्यं सावित्रीपञ्जरं मया । संध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ॥ १,८३.१५४ ॥ पठनीयं प्रयत्नेन भुक्तिं मुक्तिं समिच्छता । भूतिदा भुवना वाणी महावसुमती मही ॥ १,८३.१५५ ॥ हिरण्यजननी नन्दा सविसर्गा तपस्विनी । यशस्विनी सती सत्या वेदविच्चिन्मयी शुभा ॥ १,८३.१५६ ॥ विश्वा तुर्या वरेण्या च निसृणी यमुना भुवा । मोदा देवी वरिष्ठा च धीश्च शान्तिर्मती मही ॥ १,८३.१५७ ॥ धिषणा योगिनी युक्ता नदी प्रज्ञाप्रचोदनी । दया च यामिनी पद्मा रोहिणी रमणी जया ॥ १,८३.१५८ ॥ सेनामुखी साममयी बगला दोषवार्जिता । माया प्रज्ञा परा दोग्ध्री मानिनी पोषिणी क्रिया ॥ १,८३.१५९ ॥ ज्योत्स्ना तीर्थमयी रम्या सौम्यामृतमया तथा । ब्राह्मी हैमी भुजङ्गी च वशिनी सुंदरी वनी ॥ १,८३.१६० ॥ ओङ्कारहसिनी सर्वा सुधा सा षड्गुणावती । माया स्वधा रमा तन्वी रिपुघ्नी रक्षणणी सती ॥ १,८३.१६१ ॥ हैमी तारा विधुगतिर्विषघ्नी च वरानना । अमरा तीर्थदा दीक्षा दुर्धर्षा रोगहारिणी ॥ १,८३.१६२ ॥ नानापापनृशंसघ्नी षट्पदी वज्रिणी रणी । योगिनी वमला सत्या अबला बलदा जया ॥ १,८३.१६३ ॥ गोमती जाह्नवी रजावी तपनी जातवेदसा । अचिरा वृष्टिदा ज्ञेया ऋततन्त्रा ऋतात्मिका ॥ १,८३.१६४ ॥ सर्वकामदुधा सौम्या भवाहॄङ्कारवर्जिता । द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा ॥ १,८३.१६५ ॥ अष्टापदी नवपदी सहस्राक्षाक्षरात्मिका । अष्टोत्तरशतं नाम्नां सावित्र्या यः पठेन्नरः ॥ १,८३.१६६ ॥ स चिरायुः सुखी पुत्री विजयी विनयी भवेत् । एतत्ते कथितं विप्र पञ्चप्रकृतिलक्षणम् ॥ १,८३.१६७ ॥ मन्त्राराधनपूर्वं च विश्वकामप्रपूरणम् ॥ १,८३.१६८ ॥ इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे पञ्चप्रकृतिमन्त्रादिनिरूपणं नाम त्र्यशीतितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच कलिकल्पान्तरे ब्रह्मन् ब्रह्मणोऽव्यक्तजन्मनः । लोकपद्मे तपस्थस्य सृष्ट्यर्थं संबभूवतुः ॥ १,८४.१ ॥ विष्णुकर्णमलोद्भूतावसुरौ मधुकैटभौ । तौ जातमात्रौ पयसि लोकप्रलयलक्षणे ॥ १,८४.२ ॥ जानुमात्रे स्थितौ दृष्ट्वा ब्रह्मणं कमलस्थितम् । प्रवृत्तावत्तुमालक्ष्य तुष्टाव जगदंबिकाम् ॥ १,८४.३ ॥ ततो देवी जगत्कर्त्री शैवी शक्तिरनुत्तमा । नारायणाक्षिसंस्थाना निद्रा प्रीता बभूव ह ॥ १,८४.४ ॥ तस्या मन्त्रादिकं सर्वं कथयिष्यामि तच्छृणु । सारुणा क्रोधनी शान्तिश्चन्द्रालङ्कृतशेखरा ॥ १,८४.५ ॥ एकाक्षरीबीज मन्त्रऋषिः शक्तिरुदाहृता । गायत्री च भवेच्छन्दो देवता भुवनेश्वरी ॥ १,८४.६ ॥ षड्दिर्घयुक्तबीजेन कुर्यादङ्गानि षट्क्रमात् । संहारसृष्टिमार्गेण मातृकान्यस्तविग्रहः ॥ १,८४.७ ॥ मन्त्रन्यासं ततः कुर्याद्देवताभावसिद्धये । हृल्लेखां मूर्ध्नि वदने गगनां हृदयांबुजे ॥ १,८४.८ ॥ रक्तां करालिकां गुह्ये महोच्छुष्मां पदद्वये । ऊर्द्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषूत्तरेऽपि च ॥ १,८४.९ ॥ सद्यादिह्रस्वबीजाद्यान्वस्तव्या भूतसप्रभाः । अङ्गानि विन्यसेत्पश्चाज्जातियुक्तानि षट्क्रमात् ॥ १,८४.१० ॥ ब्रह्माणं विन्यसेद्भाले गायत्र्या सह संयुतम् । सावित्र्या सहितं विष्णुं कपोले दक्षिणे न्यसेत् ॥ १,८४.११ ॥ वागीश्वर्या समायुक्तं वामगण्डे महेश्वरम् । श्रिया धनपतिं न्यस्य वामकर्णाग्रके पुनः ॥ १,८४.१२ ॥ रत्या स्मरं मुखे न्यस्य पुण्यागणपतिं न्यसेत् । सव्यकर्णोपरि निधाकर्णगण्डान्तरालयोः ॥ १,८४.१३ ॥ न्यस्तव्यं वदने मूलं भूपश्चैत्रांस्ततो न्यसेत् । कण्ठमूले स्तनद्वन्द्वे वामांसे हृदयांबुजे ॥ १,८४.१४ ॥ सव्यांसे पार्श्वयुगले नाभिदेशे च देशिकः । भालांश्च पार्श्वजठरे पार्श्वांसापरके हृदि ॥ १,८४.१५ ॥ ब्रह्माण्याद्यास्तनौ न्यस्य विधिना प्रोक्तलक्षणाः । मूलेन व्यापकं देहे न्यस्य देवीं विचिन्तयेत् ॥ १,८४.१६ ॥ उद्यद्दिवाकरनिभां तुङ्गोरोजां त्रिलोचनाम् । । स्मरास्यामिन्दुमुकुटां वरपाशाङ्कुशाभयाम् ॥ १,८४.१७ ॥ रदलक्षं जपेन्मन्त्रं त्रिमध्वक्तैर्हुनेत्ततः । अष्टद्रव्यैर्दशांशेन ब्रह्मवृक्षसमिद्वरैः ॥ १,८४.१८ ॥ द्राक्षाखर्जूरवातादशर्करानालिकेरकम् । तन्दुलाज्यतिलं विप्र द्रव्याष्टकमुदाहृतम् ॥ १,८४.१९ ॥ दद्यादर्ध्यं दिनेशाय तत्र संचिन्त्य पार्वतीम् । पद्ममष्टदलं बाह्ये वृत्तं षोडशभिर्द्दलैः ॥ १,८४.२० ॥ विलिखेत्कणिङ्क्रामध्येषड्कोणमतिसुन्दरम् । ततः संपूजयेत्पीठं नवशक्तिसमन्वितम् ॥ १,८४.२१ ॥ जयाख्या विजया पश्चादजिताह्वापराजिता । नित्या विलासिनी गोग्धीत्यघोरा मङ्गला नव ॥ १,८४.२२ ॥ बीजाढ्यमासनं दत्त्वा मूर्तिं तेनैव कल्पयेत् । तस्यां संपूजयेद्देवीमावाह्यावरणैः क्रमात् ॥ १,८४.२३ ॥ मधेयपाग्याम्यसौम्येषु पूजयेदङ्गदेवताः । षट्कोणेषु यजेन्मन्त्री पश्चान्मिथुनदेवताः ॥ १,८४.२४ ॥ इन्द्रकोणं लसद्दण्डकुण्डिकाक्षगुणाभयाम् । गायत्रीं पूजयेन्मत्री ब्रह्माणमपि तादृशम् ॥ १,८४.२५ ॥ रक्षः कोणे शङ्खचक्रगदापङ्कजधारिणीम् । सावित्रीं पीतवसनां यजेद्विणुं च तादृशम् ॥ १,८४.२६ ॥ वायुकोणे परश्वक्षमाला भयवरान्विताम् । यजेत्सरस्वतीमच्छां रुद्रं तादृशलक्षणम् ॥ १,८४.२७ ॥ वह्निकोणे यजेद्रत्नकुंभं मणिकरण्डकम् । कराभ्यां बिभ्रतीं पीतां तुन्दिलं धनदायकम् ॥ १,८४.२८ ॥ आलिङ्ग्य सव्यहस्तेन वामे तांबूलधारिणीम् । धनदाङ्कसमारूढां महालक्ष्मीं प्रपूजयेत् ॥ १,८४.२९ ॥ पश्चिमे मदनं बाणपाशाङ्कुशशरासनाम् । धारयन्तं जपारक्तं पूजयेद्रक्तभूषणम् ॥ १,८४.३० ॥ सव्येन पतिमाश्लिष्य वामेनोत्पलधारिणीम् । पाणिना रमणाङ्कस्थां रतिं सम्यक्समर्चयेत् ॥ १,८४.३१ ॥ ऐशान्ये पूजयेत्सम्यक्विघ्नराजं प्रियान्वितम् । सृणिपाशधरं कान्तं वराङ्गासृक्कलाङ्गुलिम् ॥ १,८४.३२ ॥ माध्वीपूर्णकपालाढ्यं विघ्नराजं दिगंबरम् । पुष्करे विगलद्रत्नस्फुरच्चषकधारिणम् ॥ १,८४.३३ ॥ सिंदूरसदृशाकारामुद्दाममदविभ्रमाम् । धृतरक्तोत्पलामन्यपाणिना तु ध्वजस्पृशाम् ॥ १,८४.३४ ॥ आश्लिष्टकान्तामरुणां पुष्टिमर्चेद्दिगंबराम् । कर्णिकायां निधी पूज्यौ षट्कोणस्याथ पार्श्वयोः ॥ १,८४.३५ ॥ अङ्गानि केसरेष्वेताः पश्चात्पत्रेषु पूजयेत् । अनङ्गकुसुमा पश्चाद्द्वितीयानङ्गमेखला ॥ १,८४.३६ ॥ अनङ्गगमना तद्वदनङ्गमदनातुरा । भुवनपाला गगनवेगा षष्ठी चैव ततः परम् ॥ १,८४.३७ ॥ शशिलेखा गगनलेखा चेत्यष्टौ यत्र शक्तयः । खड्गखेटकधारिण्यः श्यामाः पूज्याश्च मातरः ॥ १,८४.३८ ॥ पद्माद्बहिः समभ्यर्च्याः शक्तयः परिचारिकाः । प्रथमानङ्गद्वयास्यादनङ्गमदना ततः ॥ १,८४.३९ ॥ मदनातुरा भवनवेगा ततो भुवनपालिका । स्यात्सर्वशिशिरानङ्गवेदनानङ्गमेखला ॥ १,८४.४० ॥ चषकं तालवृन्तं च तांबूलं छत्रमुज्ज्वलम् । चामरे चांशुकं पुष्पं बिभ्राणाः करपङ्कजैः ॥ १,८४.४१ ॥ सर्वाभरणसंदीप्तान् लोकपालान्बहिर्यजेत् । वज्रादीन्यपि तद्बाह्ये देवीमित्थं प्रपूजयेत् ॥ १,८४.४२ ॥ मन्त्री त्रिमधुरोपेतैर्हुत्वाश्वत्थसमिद्वरैः । ब्राह्मणान्वशयेच्छीघ्रं पार्थिवान्पद्महोमतः ॥ १,८४.४३ ॥ पलाशपुष्पैस्तत्पत्नीं मन्त्रिणः कुसुदैरपि । पञ्चविंशतिधा जप्तैर्जलैः स्नानं दिने दिने ॥ १,८४.४४ ॥ आत्मानमभिषिञ्चेद्यः सर्वसौभाग्यवान्भवेत् । पञ्चविंशतिधा जप्तं जलं प्रातः पिबेन्नरः ॥ १,८४.४५ ॥ अवाप्य महतीं प्रज्ञां कवीनामग्रणीर्भवेत् । कर्पूरागरुसंयुक्तकुङ्कुमं साधु साधितम् ॥ १,८४.४६ ॥ गृहीत्वा तिलकं कुर्याद्राजवश्यमनुत्तमम् । शालिपिष्टमयीं कृत्वा पुत्तलीं मधुरान्विताम् ॥ १,८४.४७ ॥ जप्तां प्रतिष्ठितप्राणां भक्षयेद्रविवासरे । वशं नयति राजानं नारीं वा नरमेव च ॥ १,८४.४८ ॥ कण्ठमात्रोदके स्थित्वा वीक्ष्य तोयोद्गतं रविम् । त्रिसहस्रं जपेन्मन्त्रं कन्यामिष्टां लभेत्ततः ॥ १,८४.४९ ॥ अन्नं तन्मन्त्रितं मन्त्री भुञ्जीत श्रीप्रसिद्धये । लिखितां भस्मना मायां ससाध्यां फलकादिषु ॥ १,८४.५० ॥ तत्कालं दर्शयेद्यन्त्रं सुखं सूयेत गर्भिणी । भुवनेशीयमाख्याता सहस्रभुजसंभवा ॥ १,८४.५१ ॥ भुक्तिमुक्तिप्रदा नॄणां स्मर्तृआणां द्विजसत्तम । ततः कल्पान्तरे विप्र कदाचिन्महिषासुरः ॥ १,८४.५२ ॥ बभूव लोकपालांस्तु जित्वा भुङ्क्ते जगत्त्रयम् । ततस्त्पीडिता देवा वैकुण्ठं शरणं ययुः ॥ १,८४.५३ ॥ ततो देवी महालक्ष्मीश्चक्राद्याङ्गोत्थतेजसा । श्रीर्बभूवमुनिश्रेष्ठ मूर्ता व्याप्तजगत्त्रया ॥ १,८४.५४ ॥ स्वयं सा महिषादींस्तु निहत्य जगदीश्वरी । अरविन्दवनं प्राप्ता भजतामिष्टदायिनी ॥ १,८४.५५ ॥ तस्याः समर्चनं वक्ष्ये संक्षेपेण शृणु द्विज । मृत्युक्रोधेन गुरुणा बिन्दुभूषितमस्तका ॥ १,८४.५६ ॥ बीजमन्त्रः श्रियः प्रोक्तो भजतामिष्टदायकः । ऋषिर्भृगुर्निवृच्छन्दो देवता श्रीः समीरिता ॥ १,८४.५७ ॥ षड्दीर्घयुक्तबीजेन कुर्यादङ्गानि षट्क्रमात् । ततो ध्यायेज्जगद्वेद्यां श्रियं संपत्तिदायिनीम् ॥ १,८४.५८ ॥ काञ्चनाभां गजैः श्वेतैश्चतुर्भिः स्वकरोद्धृतैः । हिरण्मयामृतघटैः सिच्यमानां सरोजगाम् ॥ १,८४.५९ ॥ वराभयाब्जस्रग्धस्तां क्षौमवस्त्रां किरीटिनीम् । सिद्धलक्षं जपेन्मन्त्रं तत्सहस्रं हुनेत्तथा ॥ १,८४.६० ॥ सुगन्धकुसुमैरिष्ट्वा कमलैर्मधुरप्लुतैः । महालक्ष्म्युदिते पीठे मूर्तिं मूलेन कल्पयेत् ॥ १,८४.६१ ॥ यजेत्पूर्ववदङ्गानि दिग्दलेष्वर्चयेत्ततः । वासुदेवं संकर्षणं प्रद्युम्नमनिरुद्धकम् ॥ १,८४.६२ ॥ हिमपीततमालेन्द्रनीलाभान्पीतवाससः । शङ्खचक्रगदापद्मधारिणस्तांश्चतुर्भुजान् ॥ १,८४.६३ ॥ विदिगन्तेषु पत्रेषु दमकादीन्यजेद्गजान् । दमकं पुण्डरीकं च गुग्गुलं च कुरण्टकम् ॥ १,८४.६४ ॥ यजेच्छङ्खनिधिं देव्या दक्षिणे प्रमदान्वितम् । मुक्तामाणिक्यसंकाशौ किञ्चित्स्मितमुखांबुजौ ॥ १,८४.६५ ॥ अन्योन्यालिङ्गनपरौ शङ्खपङ्कजधारिणौ । विगलद्रत्नवर्षाभ्यां शङ्खभ्या मूर्ध्नि लाञ्छितौ ॥ १,८४.६६ ॥ तुन्दिलं कंबुकनिधिं वसुधारां घनस्तनीम् । वामतः पङ्कजनिधिं प्रियया सहितं यजेत् ॥ १,८४.६७ ॥ सिंदूराभौ भुजश्लिष्टौ रक्तपद्मोत्पलान्वितौ । निःसरद्रत्नवर्षाभ्यां पद्माभ्यां मूर्ध्नि लाञ्छितौ ॥ १,८४.६८ ॥ तुन्दिलं पङ्कजनिधिं तत्त्वां वसुमतीमपि । दलाग्रेषु यजेदेताबलाक्याद्याः समन्ततः ॥ १,८४.६९ ॥ बलाकी विमला चैव कमला वनमालिका । विभीषिका मालिका च शाङ्करी वसुमालिका ॥ १,८४.७० ॥ पङ्कजद्वयधारिण्यो मुक्ताहारसमप्रभाः । लोकेशान्पूजयेदन्ते वज्राद्यास्त्राणि तद्बहिः ॥ १,८४.७१ ॥ इत्थं यो भजते देवीं विधिना साधकोत्तमः । धनधान्यसमृद्धः स्याच्छ्रियमाप्नोत्यनिन्दिताम् ॥ १,८४.७२ ॥ वक्षःप्रमाणसलिले स्थित्वा मन्त्रमिमं जपेत् । त्रिलक्षमर्कगं ध्यायन्स भवेत्कमलालयः ॥ १,८४.७३ ॥ विष्णुगेहस्थबिल्वस्य मूले लक्षत्रयं जपेत् । साधको यः स लभते वाञ्छितं धनसंचयम् ॥ १,८४.७४ ॥ अशोकवह्नावाज्याक्तैस्तण्डुलैर्वशयेज्जगत् । होमेनखादिरे वह्नौ तण्डुलेर्मधुरोक्षितैः ॥ १,८४.७५ ॥ राजा वश्यो भवेच्छीघ्रं महालक्ष्मीश्च वर्द्धते । बिल्वच्छायामधिवसन्बिल्वमिश्रहविष्यभुक् ॥ १,८४.७६ ॥ संवत्सरत्रयं हुत्वा तत्फलैरथवांबुजैः । साधकेन्द्रो महालक्ष्मीं चक्षुषा पश्यति ध्रुवम् ॥ १,८४.७७ ॥ अथ कल्पान्तरे ब्रह्मन्देवराज्यविलुंपकौ । जातौ शुभनिशुंभौ द्वावसुरौ लोककण्टकौ ॥ १,८४.७८ ॥ ततो भ्रष्टाधिकारैस्तु शक्राद्यैः संस्तुता मुने । महासरस्वती देवी तदा चावततार ह ॥ १,८४.७९ ॥ हिमालये महापुण्ये शैलोद्देशेऽतिशोभने । ततः शुम्भादिकान्हत्वा दैवतैः परिपूजिता ॥ १,८४.८० ॥ वरं दत्त्वाविशद्देवी मानसं नाम वै सरः । तस्या मन्त्रं प्रवक्ष्यामि शृणुष्वावहितो मुनने ॥ १,८४.८१ ॥ ज्ञानामृता शशधरा क्रान्तभालोपशोभिता । वाग्बीजं तेन चाङ्गानि कल्पयेत्साधकोत्तमः ॥ १,८४.८२ ॥ ऋषिः सदाशिवश्चास्य छन्दोऽनुष्टुबुदाहृतम् । देवता वाक्समाख्याता भजतामिष्टदायिनी ॥ १,८४.८३ ॥ श्वेतांबरां विसश्वेतां वीणापुस्तकधारिणीम् । दिव्यैराभरणैर्युक्तां ध्यायेद्देवीं निरन्तराम् ॥ १,८४.८४ ॥ महासरस्वतीपीठे मूर्तिं मूलेन कल्पयेत् । देवीं संपूजयेत्तस्यामङ्गाद्यावरणैः सह ॥ १,८४.८५ ॥ आदावङ्गावृतिः पश्चादंबिकाद्याःसमीरिताः । द्वितीया मातृभिः प्रोक्ता तृतीयाद्यष्टशक्तिभिः ॥ १,८४.८६ ॥ चतुर्थी पञ्चमी प्रोक्ता द्वात्रिंशच्छक्तिभघिः पुनः । चतुःषष्ट्या स्मृता षष्ठी शक्तिभिर्लोकनायकैः ॥ १,८४.८७ ॥ सप्तमी पुनरेतेषामस्त्रैः स्यादष्टमावृतिः । एवं पूज्या जगद्धात्री श्रीमती वाग्भवाभिधा ॥ १,८४.८८ ॥ स्थानेषु पूर्वमुक्तेषु यजेदङ्गानि साधकः । अम्बिका वाग्भवा दुर्गा श्रीशक्तिश्चोक्तलक्षणा ॥ १,८४.८९ ॥ ब्रह्माद्याश्च ततः पूज्याः कराली विकराल्युमा । सरस्वती श्रीर्दुर्गा च लक्ष्मीश्चैव धृतिः स्मृतिः ॥ १,८४.९० ॥ श्रद्धा मेधा रतिः कान्तिरार्या षोडश शक्तयः । खड्गखेटकधारिण्यः श्यामाः पूज्याः स्वलङ्कृताः ॥ १,८४.९१ ॥ विषघ्नी पुष्टयः प्रज्ञा सिनीवाली कुहूः पुनः । रुद्रवीर्या प्रभा नन्दा पोषणा वृद्धिदा शुभा ॥ १,८४.९२ ॥ कालरात्रिर्महारात्रिर्भद्रकाली कपार्दिनी । विकृतिर्दण्डिमुण्डिन्यौ सेंदुखण्डा शिखण्डिनी ॥ १,८४.९३ ॥ निशुम्भमथनी चण्डमुण्डविनाशिनी । इन्द्राणी चैव रुद्राणी शङ्करार्द्धशरीरिणी ॥ १,८४.९४ ॥ नारी नारायणी चैव त्रिशूलिन्यपि पालिनी । अम्बिका ह्रदिनी चैव द्वात्रिंशच्छक्तयः सिताः ॥ १,८४.९५ ॥ चक्रहस्ताः पिशाचास्याः संपूज्याश्चारुभूषणाः । पिङ्गलाक्षी विशालाक्षी समृद्धिर्बुद्धिरेव च ॥ १,८४.९६ ॥ श्रद्धा स्वाहा स्वधा भिक्षा माया संज्ञा वसुंधरा । त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी ॥ १,८४.९७ ॥ सरूपा बहुरूपा च स्कन्दमाता श्रुतप्रिया । विमला कमला पश्चादरुणी पुनरारुणी ॥ १,८४.९८ ॥ प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च । सन्ध्या माता सती हंसी मर्दिका वज्रिका परा ॥ १,८४.९९ ॥ देवमाता भगवती देवकी कमलासना । त्रिमुखी सप्तवदना सुरासुरविमर्द्दिनी ॥ १,८४.१०० ॥ लंबोष्ठी चोर्द्द्वकेशी च बहुशिश्ना वृकोदरी । रथरेखाह्वया पश्चाच्छशिरेखा तथापरा ॥ १,८४.१०१ ॥ गगनवेगा पवनवेगा वेगा च तदनन्तरम् । ततो भुवनपालाख्या ततः स्यान्मदनातुरा ॥ १,८४.१०२ ॥ अनङ्गानङ्गवदना तथैवानङ्गमेखला । अनङ्गकुसुमा विश्वरूपा सुरभयङ्करी ॥ १,८४.१०३ ॥ अक्षोभ्या सप्तवाहिन्या वज्रारूपा शुचिव्रताः । वरदाख्याथ वागीशी चतुःषष्टिःसमीरिताः ॥ १,८४.१०४ ॥ चापबाणधराः सर्वा ज्वालाजिह्वा महाप्रभाः । दंष्ट्रिण्यश्चोर्द्ध्वकेश्यस्ता युद्धोपक्रान्तमानसाः ॥ १,८४.१०५ ॥ सर्वाभरणसंदीप्ता पूजनीयाः प्रयत्नतः । लोकेशाः पूर्ववत्पूज्यास्तद्वद्वज्रादिकान्यपि ॥ १,८४.१०६ ॥ जपेत्षोडशलक्षं च तद्दशांशं हुनेत्सुधीः । आज्येन खादिरे वह्नौ ततः सिद्धो भवेन्मनुः ॥ १,८४.१०७ ॥ कमलैरयुतं हुत्वा राजानं वशमानयेत् । उत्पलैर्जुह्वतो नूनं महालक्ष्मीः प्रजायते ॥ १,८४.१०८ ॥ पलाशकुसुमैर्हुत्वा वत्सरेण कंविर्भवेत् । राजीलवणहोमेन वनितां वशमानयेत् ॥ १,८४.१०९ ॥ भूमौ भोगांस्तु भुक्त्वान्ते विष्णुलोकमवाप्नुयात् । वाणीबीजजपाशक्तो नात्र कार्या विचारणा ॥ १,८४.११० ॥ इति श्रीबृहन्नारदीचयपुरणे पूर्वभागे बृहदुपाख्याने तृतीयपादे देवीमन्त्रनिरूपणं नाम चतुरशीतितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच वाग्देवता वतारोऽन्यः कालिकेति प्रकीर्तिता । तस्या मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं नृणाम् ॥ १,८५.१ ॥ सृष्टिक्रियान्विता शान्तिर्बिद्वाढ्या च त्रिधा पुनः । अरुणाक्ष्यादीपिका च बिन्दुयुक्ता द्विधा ततः ॥ १,८५.२ ॥ मायाद्वयं ततः पश्चाद्दक्षिणे कालिके पदम् । पुनश्च सप्तबीजानि स्वाहान्तोऽयं मनूत्तमः ॥ १,८५.३ ॥ भैरवोऽस्य ऋषिश्छन्द उष्णिक्काली तु देवता । बीजं मायादीर्घवर्त्म शक्तिरुक्ता मुनीश्वर ॥ १,८५.४ ॥ षड्दीर्धाढ्ये बीजेन विद्याया अङ्गमीरितम् । मातृकार्णान्दश दश हृदये भुजयोः पदोः ॥ १,८५.५ ॥ विन्यस्य व्यापकं कुर्यान्मूलमन्त्रेण साधकः । शिरः कृपाणमभयं वरं हस्तैश्च बिभ्रतीम् ॥ १,८५.६ ॥ मुण्डस्रङ्मस्तकां मुक्तकेशां पितृवनस्तिताम् । सर्वालङ्कृतवर्णां च श्यामाङ्गीं कालिकां स्मरेत् ॥ १,८५.७ ॥ एवं ध्यात्वा जपेल्लक्षं जुहुयादयुतं ततः । प्रसूनैः करवीरोत्थैः पूजायन्त्रमथोच्यते ॥ १,८५.८ ॥ विलिख्य पूर्वं षट्कोणं त्रिकोणत्रितयं ततः । पद्ममष्टदलं बाह्ये भूपुरं तत्र पूजयेत् ॥ १,८५.९ ॥ जया च विजया चापि अजिता चापराजिता । नित्या विलासिनी वापि दोग्ध्यघोरा च मङ्गला ॥ १,८५.१० ॥ पीठस्य शक्तयो मायात्मने हृत्पीठमन्त्रकः । शिवरूपशवश्थां च शिवाभिर्दिक्षु वेष्टिताम् ॥ १,८५.११ ॥ महाकालरतासक्तां ध्यात्वाङ्गान्यर्चयेत्पुरा । कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् ॥ १,८५.१२ ॥ विप्रचित्तां च षट्कोणे नवकोणे ततोर्ऽचयेत् । उग्रामुष्णप्रभां दीप्तां नीलाधानां बलाकिकाम् ॥ १,८५.१३ ॥ मात्रां मुद्रां तथा मित्रां पूज्याः पत्रेषु मातरः । पद्मस्यास्य सुयत्नेन ब्राह्मी नारायणीत्यपि ॥ १,८५.१४ ॥ माहेश्वरी च चामुण्डा कौमारी चापराजिता । वाराही नारसिंहा च पुनरेतास्तु भूपुरे ॥ १,८५.१५ ॥ भैरवीं महदाद्यां तां सिंहाद्यां धूम्रपूर्विकाम् । भीमोन्मत्तादिकां चापि वशीकरणभैरवीम् ॥ १,८५.१६ ॥ मोहनाद्यां समाराध्य शक्रादीन्यायुधान्यपि । एवमाराधिता काली सिद्धा भवति मन्त्रिणाम् ॥ १,८५.१७ ॥ ततः प्रयोगान्कुर्वीत महाभैरवभाषितान् । आत्मनो वा परस्यार्थं क्षिप्रसिद्धिप्रदायकान् ॥ १,८५.१८ ॥ स्त्रीणां प्रहारं निन्दां च कौटिल्यं वाप्रियं वचः । आत्मनो हितमन्विच्छन् कालीभक्तो विवर्जयेत् ॥ १,८५.१९ ॥ सुदृशो मदनावासं पश्यन्यः प्रजपेन्मनुम् । अयुतं सोऽचिरादेव वाक्पतेः समतामियात् ॥ १,८५.२० ॥ दिगम्बरो मुक्तकेशः श्मशानस्थोऽधियामिनि । जपेद्योऽयुतमेतस्य भवेयुः सर्वसिद्धयः ॥ १,८५.२१ ॥ शवस्य हृदये स्थित्वा निर्वासाः प्रेतभूमिगः । अर्कपुष्पसहस्रेणाभ्यक्तेन स्वीयरेतसा ॥ १,८५.२२ ॥ देवीं यः पूजयेद्भक्त्या जपन्नेकैकशो मनुम् । सोऽचरेणैव कालेन धरणीप्रभुतां व्रजेत् ॥ १,८५.२३ ॥ रजः कीर्णं भगं नार्या ध्यायन्यो ह्ययुतं जपेत् । सकवित्वेन रम्येण जनान्मोहयति ध्रुवम् ॥ १,८५.२४ ॥ त्रिपञ्चारे महापीठे शिवस्य हृदि संस्थिताम् । महाकालेन देवेन मारयुद्धं प्रकुर्वतीम् ॥ १,८५.२५ ॥ तां ध्यायन्स्मेरवदनां विदधत्सुरतं स्वयम् । जपेत्सहस्रमपि यः स शङ्करसमो भवेत् ॥ १,८५.२६ ॥ अस्थिलोमत्वचायुक्तं मांसं मार्जारमेषयोः । उष्ट्रस्य महिषस्यापि बलिं यस्तु समर्पयेत् ॥ १,८५.२७ ॥ भूताष्टम्योर्मध्यरात्रे वश्याः स्युस्तस्य जन्तवः । विद्यालक्ष्मीयशःपुत्रैः स चिरं सुखमेधते ॥ १,८५.२८ ॥ यो हविष्याशनरतो दिवा देवीं स्मरन् जपेत् । नक्तं निधुवनासक्तो लक्षं स स्याद्धरापतिः ॥ १,८५.२९ ॥ रक्तांभोजैर्हुनेन्मन्त्री धनैर्जयति वित्तपम् । बिल्वपत्रैर्भवेद्राज्यं रक्तपुष्पैर्वशीकृतिः ॥ १,८५.३० ॥ असृजी महिषादीनां कालिकां यस्तु तर्पयेत् । तस्य स्युरचिरादेव करस्थाः सर्वसिद्धयः ॥ १,८५.३१ ॥ यो लक्षं प्रजपेन्मन्त्रं शवमारुह्य मन्त्रवित् । तस्य सिद्धो मनुः सद्यः सर्वेप्सितफलप्रदः ॥ १,८५.३२ ॥ तेनाश्वमेधप्रमुखैर्यागौरिष्टं सुजन्मना । दत्तं दानं तपस्तप्तं उपास्ते यस्तु कालिकाम् ॥ १,८५.३३ ॥ ब्रह्मा विष्णुः शिवो गौरी लक्ष्मीर्गणपती रविः । पूजिताः सकला देवा यः कालीं पूजयेत्सदा ॥ १,८५.३४ ॥ अथापरः सरस्वत्या ह्यवतारो निगद्यते । यां निषेव्य नरा लोके कृतार्थाः स्युर्न संशयः ॥ १,८५.३५ ॥ आप्यायिनी चन्द्रयुक्ता माया च वदनान्तरे । सकामिका क्रुधा शान्तिश्चन्द्रालङ्कृतमस्तका ॥ १,८५.३६ ॥ दीपिका सासना चन्द्रयुगस्त्रं मनुरीरितः । मुनिरक्षोभ्य उद्दिष्टश्छन्दस्तु बृहती मतम् ॥ १,८५.३७ ॥ ताराख्या देवता बीजं द्वितीयञ्च चतुर्थकम् । शक्तिः षड्दीर्घयुक्तेन द्वितीयेनाङ्गकल्पनम् ॥ १,८५.३८ ॥ षोढा न्यासं ततः कुर्यात्तारायाः सर्वसिद्धिम् । श्रीकण्ठादीन्न्यसेद्रुद्रान्मातृकावर्णपूर्वकान् ॥ १,८५.३९ ॥ मातृकोक्तस्थले माया तृतीयक्रोधपूर्वकान् । चतुर्थीनमसायुक्तान्प्रथमो न्यास ईरितः ॥ १,८५.४० ॥ शवपीठसमासीनां नीलकान्तिं त्रिलोचनाम् । अर्द्धेन्दुशेखरां नानाभूषणाढ्यां स्मरन्न्यसेत् ॥ १,८५.४१ ॥ द्वितीये तु ग्रहन्यासं कुर्यात्तां समनुस्मरन् । त्रिबीजस्वरपूर्वं तु रक्तसूय हृदि न्यसेत् ॥ १,८५.४२ ॥ तथा पवर्गपूर्वं तु शुक्लं लोमं भ्रुवोद्वेये । कवर्गपूर्वं रक्ताभं मङ्गलं लोचनत्रयम् ॥ १,८५.४३ ॥ चवर्गाद्यं बुधं श्यामं न्यसेद्वक्षघस्थले बुधः । ढवर्गाद्यं पीतवर्णं कठ्णकूपे बृहस्पतिम् ॥ १,८५.४४ ॥ तवर्गाद्यं श्वेतवर्णं घटिकायां तु भार्गवम् । नीलवर्णं पवर्गाद्यं नाभिदेशे शनैश्चरम् ॥ १,८५.४५ ॥ शवर्गाद्यं धूम्रवर्णं ध्यात्वा राहुं मुखे न्यसेत् । त्रिबीजपूर्वकश्चैवं ग्रहन्यासः समीरितः ॥ १,८५.४६ ॥ तृतीयं लोकपालानां न्यासं कुर्यात्प्रयत्नतः । मायादिबीजत्रितयपूर्वकं सर्वसिद्धये ॥ १,८५.४७ ॥ स्वमस्तके ललाटादि दिक्ष्वष्टस्वधौर्द्ध्वतः । ह्रस्वदीर्घकादिकाष्टवर्गपूर्वान्दिशाधिपान् ॥ १,८५.४८ ॥ शिवशक्त्यभिधे न्यासं चतुर्थे तु समाचरेत् । त्रिबीजपूर्वकान्न्यस्येत्षट्शिवाञ्छक्तिसंयुतान् ॥ १,८५.४९ ॥ आधारादिषु चक्रेषु स्वचक्रवर्णपूर्वकान् । ब्रह्माणं डाकिनीयुक्तं वादिसांतार्णपूर्वकम् ॥ १,८५.५० ॥ मूलाधारे विन्यसेच्च चतुर्द्दलसमन्वितम् । श्रीविष्णुं राकिणीयुक्तबादिलान्तार्णपूर्वकम् ॥ १,८५.५१ ॥ स्वाधिष्ठनाभिधे चक्रे लिङ्गस्थे षड्दले न्यसेत् । रुद्रं तु डाकिनीयुक्तं डादिफआन्तार्णपूर्वकम् ॥ १,८५.५२ ॥ चक्रे दशदले न्यस्येन्नाभिस्थे मणिपूरके । ईश्वरं कादिठान्तार्णपूर्वकं शाकिनीयुतम् ॥ १,८५.५३ ॥ विन्यसेद्द्वादशदलेहृदयस्थे त्वनाहते । सदाशिवं शाकिनीं च षोडशस्वरपूर्वकम् ॥ १,८५.५४ ॥ कण्ठस्थे षोडशदले विशुद्धाख्ये प्रविन्यसेत् । आज्ञाचक्रे परशिवं हाकिनीसंयुतं न्यसेत् ॥ १,८५.५५ ॥ लक्षार्णपूवं भ्रूमध्यसंस्थितेऽतिमनोहरे । तारादिपञ्चमं न्यासं कुर्यात्सर्वेष्टसिद्धये ॥ १,८५.५६ ॥ अष्टौ वर्गान्स्वरद्वन्द्वपूर्वकान् बीजसंयुतान् । ताराद्या न्यासपूर्वाश्च प्रयोज्या अष्टशक्तयः ॥ १,८५.५७ ॥ ताराथोग्रा महोग्रापि वज्रा काली सरस्वती । कामेश्वरी च चामुण्डा इत्यष्टौ तारिकाः स्मृताः ॥ १,८५.५८ ॥ ब्रह्मरन्ध्रे ललाटे च भ्रूमध्ये कण्ठदेशतः । हृदि नाभौ फले मूलाधारे चेताः क्रमान्न्यसेत् ॥ १,८५.५९ ॥ अङ्गन्यासं ततः कुर्यात्पीठाख्यं सर्वसिद्धिदम् । आधारे कामरूपाख्यं बीजं ह्रस्वार्णपूर्वकम् ॥ १,८५.६० ॥ हृदि जालन्धरं बीजं दीर्घपूर्वं प्रविन्यसेत् । ललाटे पूर्णगिर्याख्यं कवर्गाद्यं न्यसेत्सुधीः ॥ १,८५.६१ ॥ उड्डीयानं चवर्गाद्यं केशसन्धौ प्रविन्यसेत् । कण्ठे तु मथुरापीठं दशम यादिकं न्यसेत् ॥ १,८५.६२ ॥ षोढा न्यासस्तु तारायाः प्रोक्तोऽभीष्टप्रदायकः । हृदि श्रीमदेकजटां तारिणीं शिरसि न्यसेत् ॥ १,८५.६३ ॥ वज्रोदके शिखां पातु उग्रतारां तु वर्मणि । महोग्रा वत्सरे नेत्रे पिङ्गाग्रैकजटास्त्रके ॥ १,८५.६४ ॥ षड्रदीर्गयुक्तमायाया एतान्यष्टौ षडङ्गके । अङ्गुष्ठादिष्वङ्गुलीषु पूर्वं विन्यस्य यत्नतः ॥ १,८५.६५ ॥ तर्जनीमध्यमाभ्यां तु कृत्वा तालत्रयं ततः । छोटिकामुद्राया कुर्याद्दिग्बन्धं देवतां स्मरन् ॥ १,८५.६६ ॥ विद्यया तारपुटया व्यापकं सप्तधा चरेत् । उग्रतारां ततो ध्यायेत्सद्यो वादेऽतिसिद्धिदाम् ॥ १,८५.६७ ॥ लयाब्धावंबुजन्मस्थां नीलाभां दिव्यभूषणाम् । कम्बुं खड्गं कपालं च नीलाब्जं दधतीं करैः ॥ १,८५.६८ ॥ नागश्रेष्ठालङ्कृताङ्गीं रक्तनेत्रत्रयां स्मरेत् । जपेल्लक्षचतुष्कं हि दशांशं रक्तपद्मकैः ॥ १,८५.६९ ॥ हुनेत्क्षीराज्यसंमिश्रैः शङ्खं संस्थाप्य संजपेत् । नारीं पश्यन्स्पृशन्गच्छन्महानिशि बलिं चरेत् ॥ १,८५.७० ॥ श्मशाने शून्यसदने देवागारेऽथ निर्जने । पर्वते वनमध्ये वा शवमारुह्य मन्त्रवित् ॥ १,८५.७१ ॥ समरे शत्रुनिहतं यद्वा षाण्यासिकं शिशुम् । विद्यां साधयतः शीघ्रं साधितैवं प्रसिद्ध्यति ॥ १,८५.७२ ॥ मेधा प्रज्ञा प्रभा विद्या धीवृत्तिस्मृतिबुद्धयः । विश्वेश्वरीति संप्रोक्ताः पीठस्य नव शक्तयः ॥ १,८५.७३ ॥ भृगुमन्विन्दुसंयुक्तं मेघवर्त्म सरस्वती । योगपीठात्मने हार्द्दं पीठस्य मनुरीरितः ॥ १,८५.७४ ॥ दत्त्वानेनासनं मूर्तिं मूलमन्त्रेण कल्पयेत् । पूजयेद्विधिवद्देवीं तद्विधानमथोच्यते ॥ १,८५.७५ ॥ तारो माया भगं ब्रह्मा जटे सूर्यः सदीर्घकम् । यक्षाधिपतये तन्द्रीसोपनीतं बलिं ततः ॥ १,८५.७६ ॥ गृहयुग्मं शिवा स्वाहा बलिमन्त्रोऽयमीरितः । दद्यान्नित्यं बलिं तेन मध्यरात्रे चतुष्पथे ॥ १,८५.७७ ॥ जलदानादिकं मन्त्रैर्विदध्याद्दशभिस्ततः । ध्रुवो वज्रोदके वर्म फट्सप्तार्णो जलग्रहे ॥ १,८५.७८ ॥ ताराद्या वह्निजायान्ता माया हि क्षालने मता । तारो मायाः भृगुः कर्णोविशुद्धं धर्मवर्मतः ॥ १,८५.७९ ॥ सर्वपापानि शाम्यन्ते छेतो नेत्रयुतं जलम् । कल्पान्तनयनस्वाहा मन्त्र आचमने मतः ॥ १,८५.८० ॥ ध्रुवो मणिधरीत्यन्ते वज्रिण्यक्षियुता मृतिः । खरिविद्यायुग्रिजश्व सर्ववान्ते बकोऽब्जवान् ॥ १,८५.८१ ॥ कारिण्यन्ते दीर्घवर्म अस्त्रं वह्निप्रियान्तिमः । त्रयोविंशतिवर्णात्मा शिखाया बन्धने मनुः ॥ १,८५.८२ ॥ प्रणवो रक्षयुगलं दीर्घवर्मास्त्रठद्वयम् । नवार्णेनामुना मन्त्री कुर्याद्भूमिविशोधनम् ॥ १,८५.८३ ॥ नारान्ते सर्वविघ्नानुत्सारयेति पदं ततः । हुं फट्स्वाहा गुणेन्द्वर्णो मनुर्विघ्ननिवारणम् ॥ १,८५.८४ ॥ मायाबीजं जपापुष्पनिभं नाभौ विचिंयेत् । तदुत्थेनाग्निना देहं दहेत्साद्धस्वपाप्मना ॥ १,८५.८५ ॥ ताराबीजं सुवर्णाभं चिन्तयेद्धृदि मन्त्रवित् । पवनेन तदुत्थेन पापभस्म क्षिपेद्भुवि ॥ १,८५.८६ ॥ तुरीयं चन्द्रकुन्दाभं बीजं ध्यात्वाललाटतः । तदुत्थसुधयादे हं स्वयं वै देवतानिभम् ॥ १,८५.८७ ॥ अनया भूतशुद्ध्या तु देवीसादृश्यमाप्नुयात् । तारोऽनन्तो भगुः कर्णो पद्मनाभयुतो बली ॥ १,८५.८८ ॥ खे वज्ररेखे क्रोधाख्यं बीजं पावकल्लभा । अमुना द्वादशार्णेन रचयेन्मण्डलं शुभम् ॥ १,८५.८९ ॥ तारो यथागता निद्रा सदृक्षेकभृगुर्विषम् । सदीर्घस्मृतिरौ साक्षौ महाकालो भगान्वितः ॥ १,८५.९० ॥ क्रोधोऽस्त्रं मनुवर्णोऽयं मनुः पुष्पादिशोधने । तारः पाशः परा स्वाहा पञ्चार्णश्चित्तशोधने ॥ १,८५.९१ ॥ मनवो दश संप्रोक्ता अर्ध्यस्थापनमुच्यते । सेंदुभ्यां मासतो माया भुवं संसृज्य भूगृहम् ॥ १,८५.९२ ॥ वृतं त्रिकोणसंयुक्तं कुर्यान्मण्डलमन्त्रतः । यजेत्तत्राधारशक्तिं वह्निमण्डलमध्यगाम् । वह्निमण्डलमभ्यर्च्य महाशङ्खं निधापयेत् ॥ १,८५.९३ ॥ वामकर्णेन्दुयुक्तेन फडन्तेन विहायसा । प्रक्षालितं भृगुर्दण्डी त्रिमूर्तीन्तुयुतं पठेत् ॥ १,८५.९४ ॥ ततोर्ऽचयेन्महाशङ्खं जपन्मन्त्रचतुष्टयम् । दीर्घत्रयान्विता माया काली सृष्टिः सदीर्घसः ॥ १,८५.९५ ॥ प्रतिमासंयुतं मासं यवनं हृदयं ततः । एकाधशार्णः प्रथमो महाशङ्खार्चने मनुः ॥ १,८५.९६ ॥ हंसो हरिभुजङ्गेशयुक्तो दीर्घन्त्रयेन्दुयुक् । तारिण्यन्ते कपालाय नमोन्तो द्वादशाक्षरः ॥ १,८५.९७ ॥ स्वं दीर्घत्रयमन्वाढ्यमेषो वामदगन्वितः । लोकपालाय हृदयं तृतीयोऽयं शिवाक्षरः ॥ १,८५.९८ ॥ मायास्त्रीबीजमर्द्धैदुयुतं स्वं स्वर्गखादिमः । पालाय सर्वाधाराय सर्वः सर्वोद्भवस्तथा ॥ १,८५.९९ ॥ सर्वशुद्धिमयश्चेति ङेंताः सर्वासुरान्तिकम् । रुधिरा रतिदीर्घा च वायुः शुभ्रानिलः सुरा ॥ १,८५.१०० ॥ भाजनाय भगी सत्या विकपालाय हृन्मनुः । तुर्यो रसेषु वर्णोऽयं महाशङ्खप्रपूजने ॥ १,८५.१०१ ॥ नवार्कमण्डलं चेष्ट्वा सलिलं मूलमन्त्रतः । प्रपूरयेत्सुधाबुद्ध्या गन्धपुष्पाक्षतादिभिः ॥ १,८५.१०२ ॥ मुद्रां त्रिखण्डां संदर्श्य पूजयेच्चन्द्रमण्डलम् । वाक्सत्यपद्मागगने रेफआनुग्रहबिन्दुयुक् ॥ १,८५.१०३ ॥ मूलमन्त्रो विपद्ध्वंसमनुसर्गसमन्वितम् । अष्टकृत्वोऽमुना मन्त्री मन्त्रयेत्प्रयतो जलम् ॥ १,८५.१०४ ॥ मायया मदिशं क्षिप्त्वा खं योनिं च प्रदर्शयेत् । तत्र वृत्ताष्टषट्कोणं ध्यात्वा देवीं विचिन्तयेत् ॥ १,८५.१०५ ॥ पूर्वोक्तां पूजयेत्त्वेनां मूलेनाथ प्रतर्पयेत् । तर्जनूमध्यमानामाकनिष्ठाभिर्महेश्वरीम् ॥ १,८५.१०६ ॥ सांगुष्ठानिश्चुतुर्वारं महाशङ्खस्थिते जले । खंरेफमनुबिन्द्वाढ्यां भृगुमन्विन्दुयुक्तया ॥ १,८५.१०७ ॥ ध्रुवाद्येन नमोन्तेन तर्प्यादानन्दभैरवम् । ततस्तेनार्धतोयेन प्रोक्षेत्पूजनसाधनम् ॥ १,८५.१०८ ॥ योमिमुद्रां प्रदर्श्यापि प्रणमेद्भवतारिणीम् । विधानमर्घे संप्रोक्तं सर्वसिद्धिप्रदायकम् ॥ १,८५.१०९ ॥ पूर्वोक्ते पूजयेत्पीठे पद्मे षट्कोणकर्णिके । धरागृहावृते रम्ये देवीं रम्योपचारकैः ॥ १,८५.११० ॥ महीगृहे चतुर्दिक्षु गणेशादीन्प्रपूजयेत् । पाशाङ्कुशौ कपालं च त्रिशूलं दधतं करैः ॥ १,८५.१११ ॥ अलङ्कारचयोपेतं गणेशं प्राक्तमर्चयेत् । कपालशूले हस्ताभ्यां दधतं सर्पभूषणम् ॥ १,८५.११२ ॥ स्वयूथवेष्टितं रम्यं बटुकं दक्षिणेर्ऽचयेत् । असिशूलकपालानि डमरुं दधतं करैः ॥ १,८५.११३ ॥ कृष्णं दिगंबरं क्रूरं क्षेत्रपालं च पश्चिमे । कपालं डमरुं पाशं लिङ्गं शंबिभ्रतीं करैः ॥ १,८५.११४ ॥ अध्याकन्या रक्तवस्त्रा योगिनीरुत्तरे यजेत् । अक्षोभ्यं प्रयजेन्मूर्ध्नि देव्या मन्त्रऋषिं शुभम् ॥ १,८५.११५ ॥ अक्षोभ्यं वस्त्रपुष्पं च प्रतीच्छानवल्लभा । अक्षोभ्यपूजने मन्त्रः षट्कोगकम् ॥ १,८५.११६ ॥ वैराचनं चामिताभं पद्मनाभिभिधं तथा । शङ्खं पाण्डुरसंज्ञं च दिग्दलेषु प्रपूजयेत् ॥ १,८५.११७ ॥ लाभकां मानकां चैव पाण्डुरां तारकां तथा । विदिग्गताब्जपत्रेषु पूजयेदिष्टसिद्धये ॥ १,८५.११८ ॥ बिन्दुनामादिवर्णाद्याः संबुद्ध्यन्तास्तथाभिधाः । व्रजपुष्पं प्रतीच्छाग्निप्रियान्ताः प्रणवादिकाः ॥ १,८५.११९ ॥ वैराचनादि पूजायां मनवः परिकीर्तिताः । भूधरश्च चतुर्द्वार्षु पद्मान्तकयमान्तकौ ॥ १,८५.१२० ॥ विद्यान्तकाभिधः पश्चान्नरान्तक इमान्यजेत् । शक्रादींश्चैव वज्रादीन्प्रजपेत्तदनन्तरम् ॥ १,८५.१२१ ॥ एवं संपूजयन्देवीं पाण्डित्यं धनमद्भुतम् । पुत्रान्पौत्राञ्छुभां कीर्तिं लभते जनवश्यताम् ॥ १,८५.१२२ ॥ तारो माया श्रीमदकजटे नीलसरस्वती । महोप्रतारे देवासः सनेत्रो गदियुग्मकम् ॥ १,८५.१२३ ॥ सर्वदेवपिशाकर्मो दीर्घोग्रिर्मरुसान्मस । अभ्रगुमम जाड्यं च छेदयद्वितयं रमा ॥ १,८५.१२४ ॥ मायास्त्राग्निप्रियान्तोऽयं द्विपञ्चाशल्लिपिर्मनुः । अनेन नित्यं पूजतिऽन्वहं देव्यै बलिं हरेत् ॥ १,८५.१२५ ॥ एवं सिद्धे मनौ मन्त्री प्रयोगान्विदधाति च । जातमात्रस्य बालस्य दिवसत्रितयादधः ॥ १,८५.१२६ ॥ जिह्वायां विलिखेन्मन्त्रं मध्वाज्याभ्यां शलाकया । सुवर्ण कृतया यद्वा मन्त्री धवलदूर्वया ॥ १,८५.१२७ ॥ गतेऽष्टमेऽब्दे बालोऽपि जायते कविरद्बुतम् । तथापरैरजेयोऽपि भूपसंघैर्द्धनार्चितः ॥ १,८५.१२८ ॥ उपरागे दतानीव नरदारुसरोजले । निर्माय कीलकं तेन तैलमध्वमृतैर्लिखेत् ॥ १,८५.१२९ ॥ सरोजिनीदले मन्त्रं वेष्टयेन्मातृकाक्षरैः । निखाय तदलं कुण्डे चतुरस्रे समेखले ॥ १,८५.१३० ॥ संस्थाप्य पावकं तत्र जुहुयान्मनुनामुना । सहस्रं रक्तपद्मानां धेनुदुग्धजलाप्लुतम् ॥ १,८५.१३१ ॥ होमान्ते विवधै रत्नैः पलैरपि बलिं हरेत् । बलिं मन्त्रेण विधिवद्बलिमन्त्रः प्रकाश्यते ॥ १,८५.१३२ ॥ तारः पद्मे युग तन्द्री वियद्दीर्घं च लोहितः । अत्रिर्विषभगारूढो वदत्पद्मावतीपदम् ॥ १,८५.१३३ ॥ झिण्टीशाढ्योनिलस्वाहा षोडशार्णो बलेर्मनुः । ततो निशीथे च बलिं पूर्वोक्तमनुना हरेत् ॥ १,८५.१३४ ॥ एवं कृते पण्डितानां स जयी कविराड्भवेत् । निवासो भारतीलक्ष्म्योर्जनतारञ्जनक्षमः ॥ १,८५.१३५ ॥ शताभिजप्त्या यो मन्त्री रोचनां मस्ताके धरेत् । यं यं पश्यति तस्यासौ दासवज्जायते क्षणात् ॥ १,८५.१३६ ॥ श्मशानाङ्गारमाश्रित्य पूर्वायां कुजवासरे । तेन मत्रेण संवेष्ट्य निबद्धं रक्ततन्तुभिः ॥ १,८५.१३७ ॥ शताभिजप्तं मूलेन निक्षिपेद्वैरिवेश्मनि । उच्चाटयति सप्ताहात्सकुण्टुबान्विरोधिनः ॥ १,८५.१३८ ॥ क्षीराढ्यया निशामन्त्रं लिखित्वा पौरुषेऽस्थनि । रविवारे निशीथिन्यां सहस्रमभिमन्त्रयेत् ॥ १,८५.१३९ ॥ तत्क्षिप्तं शत्रुसदने मण्डलाद्भ्रंशकं भवेत् । क्षेत्रे क्षिप्तं सस्यहान्योजवहृत्तुरमालयेत् ॥ १,८५.१४० ॥ षट्कोणान्तर्लिखेन्मूलं साध्यार्णं केशरे स्वरैः । बाह्येऽष्टवर्गयुक्पत्रं पद्मभूमिपरावृतम् ॥ १,८५.१४१ ॥ यन्त्रं भूर्जे जहुरसैर्लिखेत्पूताम्बरावृतम् । पट्टसूत्रेण सन्नद्धं शिशुकण्ठगतं ध्रुवम् ॥ १,८५.१४२ ॥ भूतभीतिहरं वामवाहौ स्त्रीणां च पुत्रदम् । नृणां दक्षिणबाहुस्थं निर्धनानां धनप्रदम् ॥ १,८५.१४३ ॥ ज्ञानदं ज्ञानमिच्छूनां राज्ञां तु विजयप्रदम् ॥ १,८५.१४४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रभेदनिरूपणं नाम पञ्चाशीतितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच सरस्वत्यवतारास्ते कथिताः सिद्धिदा नृणाम् । अथ लक्ष्म्यवतारांस्ते वक्ष्ये सर्वार्थसिद्धिदान् ॥ १,८६.१ ॥ वाणीमन्मथशक्त्याख्यं बीजत्रितयमीरितम् । ऋषिः स्याद्दक्षिणामूर्तिः पङ्क्तिश्छन्दः प्रकीर्तितम् ॥ १,८६.२ ॥ देवता त्रिपुरा बाला मध्यान्ते शक्तिबीजके । नाभेरापादमाद्यं तु नाभ्यन्तं हृदयात्परम् ॥ १,८६.३ ॥ मृर्ध्नो ह्रदन्तं तर्तीयं क्रमाद्देहेषु विन्यसेत् । आद्यं वामकरे दक्षकरे तदुभयोः परम् ॥ १,८६.४ ॥ पुनर्बीजत्रयं न्यस्य मूर्ध्नि गुह्ये च वक्षसि । नव योन्पाभिधं न्यासे नवकृत्वो मनुं न्यसेत् ॥ १,८६.५ ॥ कर्णयोश्चिबुके न्यस्येच्छङ्खयोर्मुखपङ्कजे । नेत्रयोर्नासिकायां च स्कन्धयोरुदरे तथा ॥ १,८६.६ ॥ न्यसेत्कूर्परयोर्नाभौ जानुनोर्लिङ्गमस्तके । पादयोरपि गुह्ये च पार्श्वयोर्हृदये पुनः ॥ १,८६.७ ॥ स्तनयोः कण्ठदेशे च वामाङ्गादिषु विन्यसेत् । वाग्भवाद्यां रतिं गुह्ये प्रीतिमत्यादिकां हृदि ॥ १,८६.८ ॥ कामबीजादिकान्पश्येद्भूमध्ये तु मनोभवाम् । पुनर्वागकात्ममाद्यास्तिस्रएव च विन्यसेत् ॥ १,८६.९ ॥ अमृतेशीं च योगेशीं विश्वयोनिं तृतीयकाम् । मूर्ध्निं वक्त्रे हृदि न्यस्येद्गुह्ये चरणयोरपि ॥ १,८६.१० ॥ कामेशी पञ्चबीजाढ्यां स्मरात्पञ्चन्यसेत्क्रमात् । मायाकामौ च वाग्लक्ष्मी कामेशी पञ्चबीजकम् ॥ १,८६.११ ॥ मनोभवश्च मकरध्वजकन्दर्पमन्मथाः । कामदेवः स्मरः पञ्च कीर्तितान्याससिद्धिदाः ॥ १,८६.१२ ॥ शिरःपन्मुखागुह्येषु हृदये बाणदेवताः । द्राविण्याद्याः क्रमान्न्यस्येद्वाणेशीबीजपूर्वकः ॥ १,८६.१३ ॥ द्रान्द्रीं क्लीञ्जूंस इति वैबाणेशबीजकं च कम् । द्राविणी क्षोभिणी वशीकरण्याङ्कर्षणी तथा ॥ १,८६.१४ ॥ संमोहनी च बाणानां देवताः पञ्च कीर्तिताः । तार्तीयवाग्मध्यगेन कामेन स्यात्षडङ्गकम् ॥ १,८६.१५ ॥ षड्दीर्घस्वरयुक्तेन ततो देवीं विचिन्तयेत् । ध्यायेद्रक्तसरोजस्थां रक्तवस्त्रां त्रिलोचनम् ॥ १,८६.१६ ॥ उद्यदर्कनिभां विद्यां मालाभयवरोद्वहाम् । लक्षत्रयं जपेन्मन्त्रं दशांशं किंशुकोद्भवैः ॥ १,८६.१७ ॥ पुष्पैर्हयारिजैर्वापि जुहुयान्मधुरान्वितैः । नवयोन्यात्मकं यन्त्रं बहिरष्टदलावृतम् ॥ १,८६.१८ ॥ केसरेषु स्वरान्न्यस्येद्वर्गानष्टौदलेष्वपि । दलाग्रेषु त्रिशूलानि पद्म तु मातृकावृतम् ॥ १,८६.१९ ॥ एवं विलिखिते यन्त्रे पीठशक्तीः प्रपूजयेत् । इच्छा ज्ञाना क्रिया चैव कामिनी कामदायिनी ॥ १,८६.२० ॥ रती रतिप्रिया नन्दा मनोन्मन्यपि चोदिताः । पीठशक्तीरिमा इष्ट्वा पीठं तन्मनुना दिशेत् ॥ १,८६.२१ ॥ व्योमपूर्वे तु तार्तीयं सदाशिवमहापदम् । प्रेतपद्मासनं ङेंतं नमोन्तः पीठमन्त्रकः ॥ १,८६.२२ ॥ षोडशार्णस्ततो मूर्तौं कॢप्तायां मूलमन्त्रतः । आवाह्य प्रजपेद्देवीमुपचारैः पृथग्विधैः ॥ १,८६.२३ ॥ देवीमिष्ट्वा मध्ययोनौ त्रिकोणे रतिपूर्विकाम् । वामकोणे रतिं दक्षे प्रीतिमग्रे मनोभवाम् ॥ १,८६.२४ ॥ योन्यन्तर्वह्निकोणादवङ्गान्यग्नेर्विदिक्ष्वपि । मध्ययोमेर्हहिः पूर्वादिषु चाग्रे स्मरानपि ॥ १,८६.२५ ॥ वाणदेवीस्तद्वदेव शक्तीरष्टसु योनिषु । सुभगाख्या भागा पश्चात्तृतीया भगसर्पिणी ॥ १,८६.२६ ॥ भगमाला तथानङ्गा नगाद्या कुसुमापरा । अनङ्गमेखलानङ्गमदनेत्यष्टशक्तयः ॥ १,८६.२७ ॥ पद्मकेशरगा ब्राह्मी मुखाः पत्रेषु भैरवाः । दीर्घाद्या मातरः पूज्या ह्रस्वाद्याश्चाष्टभैरवाः ॥ १,८६.२८ ॥ दलाग्रेष्वष्टपीठानि कामरूपाख्यमादिमम् । मलयं कोल्लगिर्य्याख्यं चौहाराख्यं कुलान्तकम् ॥ १,८६.२९ ॥ जालन्धरं तथोन्नासं कोटपीठमथाष्टमम् । भूगृहे दशदिक्ष्वर्चेद्धेतुकं त्रिपुरान्तकम् ॥ १,८६.३० ॥ वैतालमग्नि जिह्वं च कमलान्तकालिनौ । एकपादं भीमरूपं विमलं हाटकेश्वरम् ॥ १,८६.३१ ॥ शक्राद्यानायुधैः सार्द्धं स्वस्वदिक्षु समर्चयेत् । तद्बहिर्दिक्षु बटुकं योगिनीं क्षेत्रनायकम् ॥ १,८६.३२ ॥ गणेशं विदिशास्वर्चेद्वसून्सूर्याच्छिवांस्तथा । भूतांश्चेत्थं भजन्बालामीशः स्याद्धनविद्ययोः ॥ १,८६.३३ ॥ रक्तांभोजैर्हुतेर्नार्योवश्याः स्युः सर्षपैर्नृपाः । नन्द्यावर्तै राजवृक्षैः कुन्दैः पाटलचंपकैः ॥ १,८६.३४ ॥ पुष्पैर्बिल्वफलैर्वापि होमाल्लक्ष्मीः स्थिरा भवेत् । अपमृत्युं जयेन्मन्त्री गुडूच्या दुग्धयुक्तया ॥ १,८६.३५ ॥ यथोक्तदूर्वाहोमेन नीरोगायुः समश्नुते । ज्ञानं कवित्वं लभते चन्द्रागुरुसुरैर्हुतैः ॥ १,८६.३६ ॥ पलाशपुष्पैर्वाक्सिद्धिरन्नाप्तिश्चान्नहोमतः । सुरभिक्षीरदध्यक्तांल्लाजान्हुत्वा रुजो जयेत् ॥ १,८६.३७ ॥ रक्तचन्दनकर्पूरकर्चूरागुरुरोचनाः । चन्दनं केशरं मांसीं क्रमाद्भागैनिंयोजयेत् ॥ १,८६.३८ ॥ भूमिचन्द्रैकनन्दाब्धिदिक्सप्तनिगमोन्मितैः । श्मशाने कृष्णभूतस्य निशि नीहारपाथसा ॥ १,८६.३९ ॥ कुमार्या पेषयेत्तानि मन्त्रेणाथाभिमन्त्र्य च । विदद्ध्यात्तिलकं तेन दर्शनाद्वशयेज्जनान् ॥ १,८६.४० ॥ गजसिंहादिभूतानि राक्षसाञ्छाकिनीरपि । प्रयोजनानां सिद्ध्यै तु देव्याः शापं निवर्त्य च ॥ १,८६.४१ ॥ विधायोत्कीलितां पश्चाज्जपमस्य समाचरेत् । यो जपेदादिमे बीजे वराहभृगुपावकान् ॥ १,८६.४२ ॥ मध्यमादौ नभोहंसौ मध्यमान्ते तु पावकम् । आदावन्ते च तार्तूयक्रमात्स्वं धूम्रकेतनम् ॥ १,८६.४३ ॥ एवं जप्त्वा शतं विद्या शापहीना फलप्रदा । यद्वाद्ये चरमे बीजे नैव रेफं वियोजयेत् ॥ १,८६.४४ ॥ शापोद्धारप्रकारोऽन्यो यद्वायं कीर्तितो बुधैः । आद्यमाद्यं हि तार्तीयं कामः कामोऽथ वाग्भवम् ॥ १,८६.४५ ॥ अन्त्यमन्त्थमनङ्गश्च नवार्णः कीर्तितो मनुः । जप्तोऽयं शतधा शापं बालाया विनिवर्तयेत् ॥ १,८६.४६ ॥ चैतन्याह्लादिनूमन्त्रौ जप्तौ निष्कीलताकरौ । त्रिस्वराश्चेतनं मन्त्री धरः शान्तिरनुग्रहः ॥ १,८६.४७ ॥ तारादिहृदयान्तः स्यात्काम आह्लादिनीमनुः । तथा त्रयाणां बीजानां दीपनैर्मनुभिस्त्रिभिः ॥ १,८६.४८ ॥ सुदीप्तानि विधायादौ जपेत्तानीष्टसिद्धये । वदयुग्मं सदीर्घांबु स्मृतिवालावनङ्गतौ ॥ १,८६.४९ ॥ सत्यः सनेत्रो नस्तादृग्वा वाग्वर्णाद्यदीपिनी । क्लिन्ने क्लेदिनि वैकुण्ठो दीर्घं स्वं सद्यगोन्तिमः ॥ १,८६.५० ॥ निद्रा सचन्द्रा कुर्वीत शिवार्णा मध्यदीपिनी । तारो मोक्षं च कुरुते नायं वर्णास्यदीपिनी ॥ १,८६.५१ ॥ दीपिनीमन्तरा बाला साधितापि न सिद्ध्यति । वागन्त्यकामान् प्रजयेदरीणा क्षोभहेतवे ॥ १,८६.५२ ॥ कामवागन्त्यबीजानि त्रैलोक्यस्य वशीकृतौ । कामान्त्यवाणीबीजानि मुक्तये नियतो जपेत् ॥ १,८६.५३ ॥ पूजारंभे तु बालायास्त्रिविधानर्चयेद्गुरून् । दिव्यौघश्चैव सिद्धौघो मानवौघ इति त्रिधा ॥ १,८६.५४ ॥ परप्रकाशः परमे शानः परशिवस्तथा । कामेश्वरस्ततो मोक्षः षष्ठः कामोऽमृतोंऽतिमः ॥ १,८६.५५ ॥ एते दप्तैव दिव्यौघा आनन्दपदपश्चिमाः । ईशानाख्यस्तत्पुरुषोऽघोराख्योवामदेवकः ॥ १,८६.५६ ॥ सद्योजात इमे पञ्च सिद्धौधाख्याः स्मृता मुने । मानवौघाः परिज्ञेयाः स्वगुरोः सम्प्रदायतः ॥ १,८६.५७ ॥ नवयोन्यात्मके यन्त्रे विलिखेन्मध्ययोनितः । प्रादक्षिण्येन बीजानि त्रिवारं साधकोत्तमः ॥ १,८६.५८ ॥ त्रींस्त्रीन्वर्णांस्तु गायत्र्या अष्टपत्रेषु संलिखेत् । बहिर्मातृकयाऽवेष्ट्य तद्बहिर्भूपुरद्वयम् ॥ १,८६.५९ ॥ कामबीजलसत्कोणन व्यतिभिन्नं परस्परम् । पत्रे त्रैपुरमाख्यातं जपसंपातसाधितम् ॥ १,८६.६० ॥ बाहुना विधृते दद्याद्धनं कीर्तिं सुखं सुतान् । कामान्ते त्रिपुरा देवी विद्महे कविषं भहिम् ॥ १,८६.६१ ॥ बकः खड्गी समारूढः सनेत्रोऽग्निश्च धीमहि । तत्र क्लिन्ने प्रचोदान्ते यादित्येषा प्रकीर्तिता ॥ १,८६.६२ ॥ गायत्री त्रैपुरा सर्सिद्धिदा सुरसेविता । अथ लक्ष्म्यवतारोऽन्यः कीर्त्यते सिद्धिदो नृणाम् ॥ १,८६.६३ ॥ वेदादिर्गिरिजा पद्मा मन्यथो हृदयं भृगुः । भगवति माहेश्वरी ङेन्तेऽन्नपूर्णे दहनाङ्गना ॥ १,८६.६४ ॥ प्रोक्ता विंशतिवर्णेयं विद्या स्याद्द्रुहिणो मुनिः । धृतिश्छन्दोऽन्नपूर्णेशी देवता परिकीर्तिता ॥ १,८६.६५ ॥ षड्दीर्घाढ्येन हृल्लेखाबीऽजेन स्यात्षडङ्गकम् । मुखनासाक्षिकर्णांसगुदेषु नवसु न्यसेत् ॥ १,८६.६६ ॥ पदानि नव तद्वर्णसंख्येदानीमुदीर्यते । भूमिचन्द्रधरैकाक्षिवेदाब्धियुगबाहुभिः ॥ १,८६.६७ ॥ पदसंख्यामिता वर्णैस्ततो ध्यायेत्सुरेश्वरीम् । स्वर्णाभाङ्गां त्रिनयनां वस्त्रालङ्कारशोभिताम् ॥ १,८६.६८ ॥ भूरमासं युतां देवीं स्वर्णामत्रकरांबुजाम् । लक्षं जपोऽयुतं होमो घृताक्तचरुणा तथा ॥ १,८६.६९ ॥ जयादिनवशक्तयाढ्ये पीठे पूजा समीरिता । त्रिकोणा वेदपत्राष्टपत्रषोडशपत्रके ॥ १,८६.७० ॥ भूपुरेण युते यन्त्रे प्रदद्यान्मायया मनुम् । अग्न्यादिकोणत्रितये शिववाराहमाधवान् ॥ १,८६.७१ ॥ अचर्ययेत्स्वस्वमन्त्रैस्तु प्रोच्यन्ते मनवस्तु ते । प्रणवो मनुचन्द्राढ्यं गगनं हृदयं शिवा ॥ १,८६.७२ ॥ मारुतः शिवमन्त्रोऽयं सप्तार्णः शिवपूजने । वाराहनारायणयोर्मन्त्रौ पूर्वमुदीरयेत् ॥ १,८६.७३ ॥ षडङ्गानि ततोऽभ्यर्च्य वामे दक्षे धरां रमाम् । यजेत्स्वस्वमनुभ्यां तु तावुच्येते मुनीश्वर ॥ १,८६.७४ ॥ अन्नं मह्यन्नमित्युक्त्वा मे देह्यन्नाधिपोर्णकाः । नयेममन्नं प्राणान्ते दापयानलसुंदरी ॥ १,८६.७५ ॥ द्वाविंशत्यक्षरो मन्त्रो भूमीष्टौ भूमिसंपुटः । लक्ष्मीष्टौ श्रीपुटो विप्र स्नृतिर्लभनुचन्द्रयुक् ॥ १,८६.७६ ॥ भुवो बीजमिति प्रोक्तं श्रीबीजं प्रागुदाहृतम् । मन्त्रादिस्थचतुर्बीजपूर्विकाः परिपूजयेत् ॥ १,८६.७७ ॥ शक्तीश्चतस्रो वेदास्रे परा च भुवनेश्वरी । कमला सुभगा चति ब्राह्म्याद्या अष्टपत्रगाः ॥ १,८६.७८ ॥ षोडशारे स्मृते चव मानदातुष्टिपुष्टयः । प्रीती रतिर्ह्नीः श्रीश्चापि स्वधा स्वाहा दशम्यथ ॥ १,८६.७९ ॥ ज्योत्स्ना हैमवती छाया पूर्णिमा संहतिस्तथा । अमावास्येति संपूज्या मन्त्रेशे प्राणपूर्विका ॥ १,८६.८० ॥ भूपुरे लोकपालाः स्युस्तदस्त्राणि तदग्रतः । इत्थं जपादिभिः सिद्धे मन्त्रेऽस्मिन्धनसंचयैः ॥ १,८६.८१ ॥ कुबेरसदृशो मन्त्री जायते जनवन्दितः । अथ लक्ष्म्यवतारोऽन्यः कीर्त्यते मुनिसत्तम ॥ १,८६.८२ ॥ प्रणवः शान्तिररुणाक्रियाढ्याचन्द्रभूषिताः । बगलामुखसर्वान्ते इन्धिकाह्रादिनीयुता ॥ १,८६.८३ ॥ पीताजरायुक्प्रतिष्ठा पुनर्दीर्धोदसंयुता । वाचं मुखं पदं स्तंभयान्ते जिह्वापदं वदेत् ॥ १,८६.८४ ॥ कीलयेति च बुद्धिं विनाशयान्ते स्वबीजकम् । तारोऽग्निसुंदरी मन्त्रो बगलायाः प्रकीर्तितः ॥ १,८६.८५ ॥ मुनिस्तु नारदश्छदो बृहती बगलामुखी । देवता नेत्रपञ्चेषुनवपञ्चदिगर्णकैः ॥ १,८६.८६ ॥ अङ्गानि कल्पयित्वा च ध्यायेत्पीताम्बरां ततः । स्वर्णासनस्थां हेमाभां स्तंभिनीमिन्दुशेखराम् ॥ १,८६.८७ ॥ दधतीं मुद्गरं पाशं वज्रं च रसनां करैः । एवं ध्यात्वाजपेल्लक्षमयुतं चंपकोद्भवैः ॥ १,८६.८८ ॥ कुसुमैर्जुहुयात्पीठे बालायाः पूजयेदिमाम् । चन्दनागुरुचन्द्राद्यैः पूजार्थं यन्त्रमालिखेत् ॥ १,८६.८९ ॥ त्रिकोणषड्दलाष्टास्रषोडशारे यजेदिमाम् । मङ्गला स्तंभिनी चैव जृंभिणी मोहिनी तथा ॥ १,८६.९० ॥ वश्या चला बलाका च भूधरा कल्मषाभिधा । धात्री च कलना कालकर्षिणी भ्रामिकापि च ॥ १,८६.९१ ॥ मन्दगापि च भोगस्था भाविका षोडशी स्मृता । भूगृहस्य चतुर्दिक्षु पूर्वादिषु यजेत्क्रमात् ॥ १,८६.९२ ॥ गणेशं बटुकं चापि योगिनीः क्षेत्रपालकम् । इन्द्रादींश्च ततो बाह्ये निजायुधसमन्वितान् ॥ १,८६.९३ ॥ इत्थं सिद्धे मनौ मन्त्री स्तंभयेद्देवतादिकान् । पीतवस्त्रपदासीनः पीतमाल्यानुलेपनः ॥ १,८६.९४ ॥ पीतपुष्पैर्यजेद्देवीं हरिद्रोत्थस्रजा जपेत् । पीतां ध्यायन्भगवतीं पयोमध्येऽयुतं जपेत् ॥ १,८६.९५ ॥ त्रिमध्वा ज्यतिलैर्हेमो नॄणां वश्यकरो मतः । मधुरत्रितयाक्तैः स्यादाकर्षो लवर्णैर्ध्रुवम् ॥ १,८६.९६ ॥ तैलाभ्यक्तैर्निम्बपत्रैर्हेमो विद्वेषकारकः । ताललोणहरिद्राभिर्द्विषां संस्तंभनं भवेत् ॥ १,८६.९७ ॥ आगारधूमं राजीश्च माहिषं गुग्गुलं निशि । श्मशाने पावके हुत्वा नाशयेदचिरादरीन् ॥ १,८६.९८ ॥ गरुतो गृध्रकाकानां कटुतैलं विभीतकम् । गृहधूमं चितावह्नौ हुत्वा प्रोच्चाटयेद्रिपून् ॥ १,८६.९९ ॥ दूवार्गुडूचीलाजान्यो मधुरत्रितयान्वितान् । जुहोति सोऽखिलान् रोगान् शमयेद्दर्शनादपि ॥ १,८६.१०० ॥ पर्वताग्रे महारण्ये नदीसंगे शिवालये । ब्रह्मचर्यरतो लक्षं जपेदखिलसिद्धये ॥ १,८६.१०१ ॥ एक वर्णगवीदुग्धं शर्करामधुसंयुतम् । त्रिशतं मन्त्रितं पीतं हन्याद्विषपराभवम् ॥ १,८६.१०२ ॥ श्वेतपालशकाष्ठेन रचिते रम्यपादके । अलक्तरञ्जिते लक्षं मन्त्रयेन्मनुनामुना ॥ १,८६.१०३ ॥ तदारूढः पुमान् गच्छत्क्षणेन शतयोजनम् । पारदं च शिलां तालं पिष्टं मधुसमन्वितम् ॥ १,८६.१०४ ॥ मनुना मन्त्रयेल्लक्षं लिंपेत्तेनाखिलां तनुम् । अदृश्यः स्यान्नृणामेष आश्चर्य्यं दृश्यतामिदम् ॥ १,८६.१०५ ॥ षट्कोणं विलिखद्बीजं साध्यनामान्वितं मनोः । हरितालनिशाचूर्णैरुन्मत्तुरससंयुतैः ॥ १,८६.१०६ ॥ शेषाक्षरैः समानीतं धरागेहविराजितम् । तद्यन्त्रं स्थापितप्राणं पीतसूत्रेण वेष्टयेत् ॥ १,८६.१०७ ॥ भ्राम्यत्कुलालचक्रस्थां गृहीत्वा मृत्तिकां तथा । रचयेदृषभं रम्यं यन्त्रं तन्मध्यतः क्षिपेत् ॥ १,८६.१०८ ॥ हरितालेन संलिप्य वृषं प्रत्यहमर्चयेत् । स्तंभयेद्विद्विषां वाचं गतिं कार्यपरंपराम् ॥ १,८६.१०९ ॥ आदाय वामहस्तेन प्रेतभूस्थितकर्परम् । अङ्गारेण चितास्थेन तत्र यन्त्रं समालिखेत् ॥ १,८६.११० ॥ मन्त्रितं निहितं भूमौ रिपूणां स्तंभयेद्गतिम् । प्रेतवस्त्रे लिखेद्यन्त्रं अङ्गारेणैव तत्पुनः ॥ १,८६.१११ ॥ मण्डूकवदने न्यस्येत्पीतसूत्रेण वेष्टितम् । पूजितं पीतपुष्पैस्तद्वाचं संस्तंभयेद्द्विषाम् ॥ १,८६.११२ ॥ यद्भूमौ भविता दिव्यं तत्र यन्त्रं समालिखेत् । मार्जितं तद्द्विषां पात्रैर्दिव्यस्तम्भनकृद्भवेत् ॥ १,८६.११३ ॥ इन्द्रवारुणिकामूलं सप्तशो मनुमन्त्रितम् । क्षिप्तं जले दिव्यकृतं जलस्तंभनकारकम् ॥ १,८६.११४ ॥ किं बहूक्त्या साधकेन मन्त्रः सम्यगुपासितः । शत्रूणां गतिबुद्ध्यादेः स्तंभनो नात्र संशयः ॥ १,८६.११५ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रसाधननिरूपणं नाम षडशीतितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अवतारत्रयं लक्ष्म्याः कथित ते द्विजोत्तम । दुर्गायाश्चाभिधास्यामि सर्वलोकोपकारकान् ॥ १,८७.१ ॥ प्रणवः श्रीः शिवायुग्मं वाणीवैरोचनीपदम् । वज्राद्यं क्षुधिता सूक्ष्मा मृता स्वाग्नीन्दुसंयुता ॥ १,८७.२ ॥ प्रतिष्ठाप्य शिवा फट्च स्वाहान्तोऽत्यष्टिवर्णवान् । भैरवोऽस्य मुनिः सम्राट्छन्दो मन्त्रस्य देवता ॥ १,८७.३ ॥ छिन्नमस्ता रमा बीजं स्वाहा शक्तिरुदीरिता । आं खड्गाय हृदाख्यातमीं खड्गाय शिरः स्मृतम् ॥ १,८७.४ ॥ ओं वज्राय शिखा प्रोक्ता ऐं पाशाय तनुच्छदम् । औमङ्कुशाय नेत्रं स्याद्विसर्गो वसुरक्षयुक् ॥ १,८७.५ ॥ मायायुग्मं चास्त्रमङ्गं मनवः प्रणवादिकाः । स्वाहान्ताश्चैवमङ्गानि कृत्वा ध्यायेद्थांबिकाम् ॥ १,८७.६ ॥ भानुमण्डलसंस्थानां प्रविकीर्णालकं शिरः । छिन्नं स्वकं स्फआरमुखं स्वरक्तं प्रपिबद्गलत् ॥ १,८७.७ ॥ उपरिस्थां रतासक्तरतिमन्मथयोर्निजे । डाकिनीवर्णिनीसख्यौ दृष्ट्वा मोदभराकुलाम् ॥ १,८७.८ ॥ ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः । पालाशैर्विल्वजैर्वापि जुहुयात्कुसुमैः फलैः ॥ १,८७.९ ॥ आधारशक्तिमारभ्य परतत्त्वान्तपूजिते । पीठे जयाख्या विजया जिता चापि पराजिता ॥ १,८७.१० ॥ नित्या विलासिनी षष्ठी दोग्ध्य घोरा च मङ्गला । दिक्षु मध्ये च संपूज्या नव पीठस्य शक्तयः ॥ १,८७.११ ॥ सर्वबुद्धिप्रदे वर्णनीये सर्वभृगुः सदृक् । सिद्धिप्रदे डाकिनीये तारो वज्रः सभौतिकः ॥ १,८७.१२ ॥ खड्गीशो रोचनीयेन्ते भगं धेहि नमोन्तकः । तारादिपीठमन्त्रोऽयं वेदरामाक्षरो मतः ॥ १,८७.१३ ॥ समर्प्यासनमेतेन तत्र संपूजयेच्छिवाम् । त्रिकोणमध्यषट्कोणपद्मभूपुरमध्यतः ॥ १,८७.१४ ॥ बाह्यावरणमारभ्य पूजयेत्प्रतिलोमतः । भूपुरे बाह्यभागेषु वज्रादीनि प्रपूजयेत् ॥ १,८७.१५ ॥ तदन्तः सुरराजादीन्पूजयेद्धरितां पतीन् । भूपुरस्य चतुर्द्वार्षु द्वारपालान्यजेदथ ॥ १,८७.१६ ॥ करालविकरालाख्यावतिकालस्तृतीयकः । महाकालश्चतुर्थः स्यादथ पद्मेष्टशक्तयः ॥ १,८७.१७ ॥ एकलिङ्गा योगिनी च डाकिनी भैरवी तथा । महाभैरवकेन्द्राक्षी त्वसिताङ्गी तु सप्तमी ॥ १,८७.१८ ॥ संहारिण्यष्टमी चेति षट्कोणेष्वङ्गमूर्तयः । त्रिकोणगा छिन्नमस्ता पार्श्वयोस्तु सखीद्वयम् ॥ १,८७.१९ ॥ डाकिनीवर्णनीसंज्ञं तारावाग्भ्यां प्रपूजयेत् । एवं पूजादिभिः सिद्धे मन्त्रे मन्त्री मनोरथान् ॥ १,८७.२० ॥ प्राप्नुयान्निखिलान्सद्यो दुर्लभांस्तत्प्रसादतः । श्रीपुष्पैर्लभते लक्ष्मीं तत्फैलश्च समीहितम् ॥ १,८७.२१ ॥ वाक्सिद्धिं मालतीपुष्पैश्चंपकैर्हवनात्सुखम् । घृताक्तं छागमांसं यो जुहुयात्प्रत्यहं शतम् ॥ १,८७.२२ ॥ मासमेकं तु वशगास्तस्य स्युः सर्वपार्थिवाः । करवीरसुमैः श्वतैर्लक्षसंख्यैर्जुहोति यः ॥ १,८७.२३ ॥ रोगजालं पराभूय सुखी जीवेच्छतं समाः । रक्तौ स्तत्संख्यया हुत्वा वशयेन्मन्त्रिणो नृपान् ॥ १,८७.२४ ॥ फलैर्हुत्वामुयाल्लक्ष्मीमुदुंबरपलाशजैः । गोमायुमांसैस्तामेव कवितां पायसांधसा ॥ १,८७.२५ ॥ बन्धूककुसुमैर्भाग्यं कर्मिकारैः समीहितम् । तिलतण्डुलहोमेन वशयेन्निखिलाञ्जनान् ॥ १,८७.२६ ॥ नारीरजोभिराकृष्टैर्मृगमांसैः समीहितम् । स्तंभनं माहिषैर्मांसैः पङ्कजैः सघृतैरपि ॥ १,८७.२७ ॥ चिताग्नौ परभृत्पक्षैर्जुर्हुयादरिमृत्यवे । उन्मत्तकाष्ठदीप्तेऽग्नौ तत्फलं वायसच्छदैः ॥ १,८७.२८ ॥ द्यूते वने नृपद्वारे समरे वैरिसंकटे । विजयं लभते मन्त्री ध्यायन्देवीं जपन्मनुम् ॥ १,८७.२९ ॥ भुक्त्यै मुक्त्यै सितां ध्यायेदुच्चाटे नीलरोचिषम् । रक्तां वश्ये मृतौ धूम्रां स्तंभने कनकप्रभाम् ॥ १,८७.३० ॥ निशि दद्याद्बलिं तस्यै सिद्धये मदिरादिना । गोपनीयः प्रयोगोऽय प्रोच्यते सर्वसिद्धिदः ॥ १,८७.३१ ॥ भूताहे कृष्णपक्षस्य मध्यरात्रे तमोघने । स्नात्त्वा रक्ताम्बरधरो रक्तमाल्यानुलेपनः ॥ १,८७.३२ ॥ आनीय पूजयेन्नारीं छिन्नमस्तास्वरूपिणीम् । सुन्दरीं यौवनाक्रान्तां नरपञ्चकगामिनीम् ॥ १,८७.३३ ॥ सुस्मितां मुक्तकबीरीं भूषादानप्रतोषिताम् । विवस्त्रां पूजयित्वैनामयुतं प्रजपेन्मनुम् ॥ १,८७.३४ ॥ बलिं दत्त्वा निशां नीत्वा संप्रेष्य धनतोषिताम् । भोजयेद्विविधैरन्नैर्ब्राह्मणान्भोजनादिना ॥ १,८७.३५ ॥ अनेन विधिना लक्ष्मीं पुत्रान्पौत्रान्धनं यशः । नारीमायुः सुखं धर्ममिष्टं च समवाप्नुयात् ॥ १,८७.३६ ॥ तस्यां रात्रौ व्रतं कार्यं विद्याकामेन मन्त्रिणा । मनोरथेषु चान्येषु गच्छेत्तां प्रजपन्मनुम् ॥ १,८७.३७ ॥ उषस्युत्थाय शय्यायामुपविष्टो जपेच्छतम् । षण्मासाभ्यन्तरेमन्त्री कवित्वेन जयेत्कविम् ॥ १,८७.३८ ॥ शिवेन कीलिता चेयं तदुत्कीलनमुच्यते । मायां तारपुटां मन्त्री जपेदष्टोत्तरं शतम् ॥ १,८७.३९ ॥ मन्त्रस्यादौ तथैवान्ते भवेत्सिद्धिप्रदा तु सा । उदिता छिन्नमस्तेयं कलौ शीघ्रमभीष्टदा ॥ १,८७.४० ॥ अवतारान्तरं देव्या वच्मि ते मुनिसत्तम । ज्ञानामृतारुणा श्वेताक्रोधिनीन्दुसमन्विता ॥ १,८७.४१ ॥ शान्तिस्तथाविधा चापि नीचसर्गान्वितास्तथा । वाग्भवं कामराजाख्यं शक्तिबीजाह्वयं तथा ॥ १,८७.४२ ॥ त्रिभिर्बीजैः पञ्चकूटात्मिका त्रिपुरभैरवी । ऋषिः स्याद्दक्षिणामूर्तिश्छन्दः पङ्क्तिरुदीरिता ॥ १,८७.४३ ॥ देवता देशिकैरुक्ता देवी त्रिपुरभैरवी । नाभेराचरणं न्यस्य वाग्भवं मन्त्रवित्पुनः ॥ १,८७.४४ ॥ हृदयान्नाभिपर्यन्तं कामबीजं प्रविन्यसेत् । शिरसो हृत्प्रदेशान्तं तार्तीयं विन्यसेत्ततः ॥ १,८७.४५ ॥ आद्यं द्वितीयं करयोस्तार्तीयमुभयं न्यसेत् । मूलाधारे हृदि न्यस्य भूयो बीजत्रयं क्रमात् ॥ १,८७.४६ ॥ नवयोन्यात्मकं न्यासं कुर्याद्बीजैस्त्रिभिः पुनः । बालोदितप्रकारेण मूर्तिन्यासमथाचरेत् ॥ १,८७.४७ ॥ स्वस्वबीजादिकं पूर्वं मूर्ध्नीशानमनोभवम् । न्यसेद्वक्त्रे तत्पुरुषं मकरध्वजमात्मवित् ॥ १,८७.४८ ॥ हृद्यघोरकुमारादिकन्दर्प्पं तदनन्तरम् । गुह्यदेशे प्रविन्यस्येद्वामदेवादिमन्मथम् ॥ १,८७.४९ ॥ सद्योजातं कामदेवं पादयोर्विन्यसेत्ततः । ऊर्द्ध्वंप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु तान् ॥ १,८७.५० ॥ प्रविन्यसेद्य धापूर्व भृगुर्व्योमाग्निसंस्थितः । सद्यादिपञ्चह्रस्वाद्या बीजमेषां प्रकीर्तितम् ॥ १,८७.५१ ॥ षड्दीर्घयुक्तेनाद्येन बीजेनाङ्गक्रिया मता । पञ्चबाणांस्ततो न्यस्येन्मन्त्री त्रैलोक्यमोहनान् ॥ १,८७.५२ ॥ द्रामाद्यां द्राविणीं मूर्ध्निं द्रामाद्यां क्षोभणी पदे । क्लींवशीकरणीं वक्त्रे गुह्ये बॢं बीजपूर्विकाम् ॥ १,८७.५३ ॥ आकर्षणीं हृदि पुनः सर्वान्तभृगुसंस्थिताम् । संमोहनीं क्रमादेवं बाणन्यासोऽयमीरितः ॥ १,८७.५४ ॥ भालभ्रूमध्यवदने घण्टिकाकण्ठहृत्सु च । नाभ्यधिष्ठानयोः पञ्च ताराद्याः सुभगादिकाः ॥ १,८७.५५ ॥ मस्तकाविधि नाभेश्च मन्त्रिणा सुभगा भगा । भगसर्पिण्यथ परा भगमालिन्यनन्तरम् ॥ १,८७.५६ ॥ अनङ्गानङ्गकुसुमा भूयश्चानङ्गमेखला । अनङ्गमदना सर्वा मदविभ्रममन्थरा ॥ १,८७.५७ ॥ प्रधानदेवता वर्णभूषणाद्यैरलङ्कृताः । अक्षस्रक्पुस्तकाभीतिवरदाढ्यकरांबुजाः ॥ १,८७.५८ ॥ वाक्कामब्लूं स्त्रीं सरान्ते ताराः पञ्च प्रकीर्तिताः । ततः कुर्याद्भूषणाख्यं न्यासमुक्तदिशा मुने ॥ १,८७.५९ ॥ एवं न्यस्तशरीरोऽसौ ध्यायेत्त्रिपुरभैरवीम् । सहस्रभानुसंकाशामरुणक्षौमवाससीम् ॥ १,८७.६० ॥ शिरोमालामसृग्लिप्तस्तनीं जपवटीं करैः । विद्यामभीतिं च वरं दधतीं त्रीक्षणाननाम् ॥ १,८७.६१ ॥ दीक्षां प्राप्य जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः । पुष्पैर्भानुसहस्राणि जुहुयाद्बह्मवृक्षजैः ॥ १,८७.६२ ॥ त्रिमध्वक्तैः प्रसूनैर्वा करवीरसमुद्भवैः । पद्मं वसुदलोपेतं नवयोन्यष्टकर्णिकम् ॥ १,८७.६३ ॥ इच्छादिशक्तिभिर्युक्तं भैरव्याः पीठमर्चयेत् । इच्छा ज्ञाना क्रिया पश्चात्कामिनी कामदायिनी ॥ १,८७.६४ ॥ रतिप्रिया मदानन्दा नवमी स्यान्मनोन्मनी । वरदाभयधारिण्यः संप्रोक्ता नव शक्तयः ॥ १,८७.६५ ॥ वाग्भवं लोहितो रायै श्रीकण्ठो लोहितोऽनलः । दीर्घवान्यै परा पश्चादपरायौ हसौ युतः ॥ १,८७.६६ ॥ सदाशिवमहाप्रेतङेंतं पद्मासनं नमः । अनेन मनुना दद्यादासनं श्रीगुरुक्रमम् ॥ १,८७.६७ ॥ प्राङ्मध्ययोन्यन्तराले पूजयेत्कल्पयेत्ततः । पञ्चभिः प्रणवैर्मूर्तिं तस्यामावाह्य देवताम् ॥ १,८७.६८ ॥ पूजयेदगमोक्तेन विधानेन समाहितः । तारावाक्छक्तिकमला हसखूफ्रें हसौः स्मृताः ॥ १,८७.६९ ॥ वामकोणे यजेद्देव्या रतिमिन्दुसमप्रभाम् । सृणिपाशधरां सौम्यां मदविभ्रमविह्वलाम् ॥ १,८७.७० ॥ प्रीतिं तक्षिणकोणस्थां तप्तकाञ्चनसन्निभाम् । अङ्कुशं प्रणतं दोभ्यां धारयन्तीं समर्चयेत् ॥ १,८७.७१ ॥ अग्रे मनोभवां रक्तां रक्तपुष्पाद्यलङ्कृताम् । इक्षुकार्मुकपुष्पेषुधारिणीं सस्मिताननाम् ॥ १,८७.७२ ॥ अङ्गान्यभ्यर्चयेत्पश्चाद्यथापूर्वं विधानवित् । दिक्ष्वग्रे च निजैर्मन्त्रैः पूजयेद्बाणदेवताः ॥ १,८७.७३ ॥ हस्ताब्जैर्धृतपुष्पेषुप्रणामामृतसप्रभाः । अष्टयोनिष्वष्टशक्तीः पूजयेत्सुभगादिकाः ॥ १,८७.७४ ॥ मातरो भैरवाङ्कस्था मदविभ्रमविह्वलाः । अष्टपत्रेषु संपूज्या यथावत्कुसुमादिभिः ॥ १,८७.७५ ॥ लोकपालांस्ततो दिक्षु तेषामस्त्राणि तद्बहिः । पूर्वजन्मकृतैः पुण्यैर्ज्ञात्वैनां परदेवताम् ॥ १,८७.७६ ॥ यो भजेदुक्तमार्गेण स भवेत्संपदां पदम् । एवं सिद्धमनुर्मन्त्री साधयेदिष्टमात्मनः ॥ १,८७.७७ ॥ जुहुयादरुणांभोञ्जैरदोषैर्मधुराप्लुतैः । लक्षसंख्यं तदर्द्धं वा प्रत्यहं भोजयेद्द्विजान् ॥ १,८७.७८ ॥ वनिता युवती रम्याः प्रीणयेद्देवताधिया । होमान्ते धनधान्याद्यैस्तोषयेद्गुरुमात्मनः ॥ १,८७.७९ ॥ एवं कृते जगद्वश्यो रमाया भवनं भवेत् । रक्तोत्पलैस्त्रिमध्वक्तैररुणैर्वा हयारिजैः ॥ १,८७.८० ॥ पुष्पैः पयोन्नैः सघृतैर्हेमाद्विश्वं वशं नयेत् । वाक्सिद्धं लभते मन्त्री पलाशकुसुमैर्हुतैः ॥ १,८७.८१ ॥ कर्पूरागुरुसंयुक्तं गुग्गुलं जुहुयात्सुधीः । ज्ञानं दिव्यमवाप्नोति तेनैव स भवेत्कविः ॥ १,८७.८२ ॥ क्षीराक्तैरमृताखण्डैर्हेमः सर्वापमृत्युजित् । दूर्वाभघिरायुषे होमः क्षीराक्ताभिर्दिनत्रयम् ॥ १,८७.८३ ॥ गिरिकर्णीभवैः पुष्पैर्ब्राह्मणान्वशयेद्धुतैः । कह्लारैः पार्थिवान्पुष्पैस्तद्वधूः कर्णिकारजैः ॥ १,८७.८४ ॥ मल्लिकाकुसुमैर्हुत्वा राजपुत्रान्वशं नयेत् । कोरण्टकुसुमैर्वैंश्यान्वृषलान्पाटलोद्भवैः ॥ १,८७.८५ ॥ अनुलोमां विलोमान्तस्थितसाध्याह्वयान्वितम् । मन्त्रमुच्चार्य जुहुयान्मन्त्री मधुरलोलितैः ॥ १,८७.८६ ॥ सर्षपैर्मधुसंमिश्रैर्वशयेत्पार्थिवान् क्षणात् । अनेनैव विधानेन तत्पत्नीस्तत्सुतानपि ॥ १,८७.८७ ॥ जातिबिल्वभवैः पुष्पैर्मधुरत्रयसंयुतैः । नरनारीनरपतीन्होमेन वशयेत्क्रमात् ॥ १,८७.८८ ॥ मालतीबकुलोद्भूतैः पुष्पैश्चन्दनलोलितैः । जुहुयात्कवितां मन्त्री लभते वत्सरान्तरे ॥ १,८७.८९ ॥ मधुरत्रघयसंयुक्तैः फलैर्बिल्वसमुद्भवैः । जुहुयाद्वाशयेल्लोकं श्रियं प्राप्नोति वाञ्छिताम् ॥ १,८७.९० ॥ साज्यमन्नं प्रजुहुयाद्भवेदन्नसमृद्धिमान् । कस्तूरीकुङ्कुमोपेतं कर्पूरं जुहुयाद्वशी ॥ १,८७.९१ ॥ कन्दर्पादधिकं सद्यः सैन्दर्यमधिगच्छति । लाजान्प्रजुहुयान्मन्त्री दधिक्षीरमधुप्लुतान् ॥ १,८७.९२ ॥ विजित्य रोगानखिलान्स जीवेच्छरदां शतम् । पादद्वयं मलयजं पादं कुङ्कुमकेसरम् ॥ १,८७.९३ ॥ पादं गोरोचनान्तानि त्रीणि पिष्ट्वाहिमांभसा । विदध्यात्तिलकं भाले यान्पश्येद्यैर्विलोक्यते ॥ १,८७.९४ ॥ यान्स्पृशेत्स्पृश्यते यैर्वा वश्याः स्युस्तस्य तेऽचिरात् । कर्पूरकपिचोराणि समभागानि कल्पयेत् ॥ १,८७.९५ ॥ चतुर्भुजा जटामांसी तावती रोचना मता । कुङ्कुमं समभागं स्याद्दिग्भातं चन्दनं मतम् ॥ १,८७.९६ ॥ अगुरुर्नवभागं स्यादितिभागक्रमेण च । हिमाद्भिः कन्यया पिष्टमेतत्सर्वं सुसाधितम् ॥ १,८७.९७ ॥ आदाय तिलकं भाले कुर्य्याद्भूमिपतीन्नरान् । वनितामदगर्वाढ्या मदोन्मत्तान्मतन्दजान् ॥ १,८७.९८ ॥ सिंहव्याघ्रान्महासर्पान्भूतवेतालराक्षसान् । दर्शनादेव वशयेत्तिलकं धारयन्नरः ॥ १,८७.९९ ॥ इत्येषा भैरवी प्रोक्ता ह्यवतारान्तरं शृणु । वाङ्माया कमला तारो नमोन्ते भगवत्यथ ॥ १,८७.१०० ॥ श्रीमातङ्गेश्वरि वदेत्सर्वजनमनोहरि । सर्वादिसुखराज्यन्ते सर्वादिसुखरञ्जनी ॥ १,८७.१०१ ॥ सर्वराजवशं पश्चात्करिसर्वपदं वदेत् । स्त्रीपुरुषवशं सृष्टिविद्याक्रोधिनिकान्विता ॥ १,८७.१०२ ॥ सर्वं दुष्टमृगवशं करिसर्वपदं ततः । सर्वसत्त्ववशङ्करिसर्वलोकं ततः परम् ॥ १,८७.१०३ ॥ अमुकं मे वशं पश्चादानयानलसुन्दरी । अष्टाशीत्यक्षरो मन्त्रो मुन्याद्या भैरवीगताः ॥ १,८७.१०४ ॥ न्यासान्मन्त्री तनौ कुर्याद्वक्ष्यमाणान्यथाक्रमम् । शिरोललाटभ्रूमध्ये तालुकण्ठगलोरसि ॥ १,८७.१०५ ॥ अनाहते भुजद्वन्द्वे जठरे नाभिमण्डले । स्वाधिष्ठाने गुप्तदेशे पादयोर्दक्षवामयोः ॥ १,८७.१०६ ॥ मूलाधारे गुदे न्यस्येत्पदान्यष्टादश क्रमात् । गुणैकद्विचतुः षड्भिर्वसुपर्वनवाष्टभिः ॥ १,८७.१०७ ॥ नन्दपङ्क्त्यष्टवेदाग्निचन्द्रयुग्मगुणा क्षिभिः । यदुकॢप्तिरियं प्रोक्ता मन्त्रवर्णैर्यथाक्रमम् ॥ १,८७.१०८ ॥ रत्याद्या मृलहृदयभ्रुमध्येषु विचक्षणः । वाक्शक्तिलक्ष्मीबीजाद्या मातङ्ग्यन्ताः प्रविन्यसेत् ॥ १,८७.१०९ ॥ शिरोवदनहृद्गुह्यपादेषु विधिना न्यसेत् । हृल्लेखां गगनां रक्तां भूयो मन्त्री करालिकाम् ॥ १,८७.११० ॥ महोच्छुष्मां स्वनामादिवर्णबीजपुरः सराः । मातङ्ग्यन्ताः षडङ्गानि ततः कुर्वीत साधकः ॥ १,८७.१११ ॥ वर्णैश्चतुर्विंशतिभिर्हृत्त्रयोदशभिः शिरः । शिखाष्टादशभिः प्रोक्ता वर्म तावद्भिरक्षरैः ॥ १,८७.११२ ॥ स्यात्त्रयोदशभिर्नेत्रं द्वाभ्यामस्त्रं प्रकीर्तितम् । बाणन्यासं ततः कुर्याद्भैरवीप्रोक्तवर्त्मना ॥ १,८७.११३ ॥ मातङ्गीपदयोश्चान्यं मन्मथान्वदनांशयोः । पार्स्वकट्योर्नाभिदेशे कटिपार्श्वांशके पुनः ॥ १,८७.११४ ॥ बीजत्रयादिकान्मन्त्री मन्मथं मकरध्वजम् । मदनं पुष्पधन्वानं पञ्चमं कुसुमायुधम् ॥ १,८७.११५ ॥ षष्ठं कन्दर्पनामानं मनोभवरतिप्रियौ । मातङ्ग्यन्तास्ततो न्यस्येत्स्थानेष्वेतेषु मन्त्रवित् ॥ १,८७.११६ ॥ कुसुमा मेखला चैव मदना मदना तुरा । मदनवेगा सम्भवा च भुवनपालेन्दुरेखिका ॥ १,८७.११७ ॥ अनङ्गपदपूर्वाश्च मातङ्ग्यन्ताः समीरिताः । विन्यस्तव्यास्ततो मूलेऽधिष्ठाने मणिपूरके ॥ १,८७.११८ ॥ हृत्कण्ठास्ये भ्रुवोर्मध्ये मस्तके चापि मत्रिणा । आद्ये लक्ष्मीसरस्वत्यौ रतिः प्रीतिश्च कृत्तिका ॥ १,८७.११९ ॥ शान्तिः पुष्टिः पुनस्तुष्टिमार्तगंपदशेखरा । मूलमन्त्रं पृथङ्न्यस्येन्निजमूर्द्धनि मन्त्रवित् ॥ १,८७.१२० ॥ आधारदेशेऽधिष्ठाने नाभौ पश्चादनाहते । कण्ठदेशे भ्रवोर्मध्ये बिन्दौ भूयः कला पदोः ॥ १,८७.१२१ ॥ निरोधिकायामर्द्धेन्दुनादे नादान्तयोः पुनः । उन्नतांसेषु वक्त्रे च ध्रुवमण्डलके शिवे ॥ १,८७.१२२ ॥ मातङ्ग्यन्ताः प्रविन्यस्ये द्वामां ज्येष्ठमतः परम् । रौद्रीं प्रशान्तां श्रद्धाख्यां पुनर्माहेश्वरीमथ ॥ १,८७.१२३ ॥ क्रियाशक्तिं सुलक्ष्मीं च सृष्टिं संज्ञां च मोहिनीम् । प्रमथाश्वासिनीं विद्युल्लतां चिच्छक्तिमप्यथ ॥ १,८७.१२४ ॥ ततश्च सुन्दरीं निन्दां नन्दबुद्धिमिमाः क्रमात् । शिरोभालहृदाधारेष्वेता बीजत्रयाधिकाः ॥ १,८७.१२५ ॥ मातङ्ग्याद्याः प्रविन्यस्येद्यथावद्देशिकोत्तमः । मातङ्गीं महदाद्यां तां महालक्ष्मीपदादिकाम् ॥ १,८७.१२६ ॥ सिद्धलक्ष्मीपदाद्यां च मूलमाधारमण्डलम् । न्यसेत्तेनैव कुर्वीत व्यापकं देशिकोत्तमः ॥ १,८७.१२७ ॥ एवं न्यस्तशरीरोऽसौ चिन्तयेन्मन्त्रदेवताम् । श्यामां शुकोक्तिं शृण्वन्तीं न्यस्तैकाङ्घ्रिशिरोरुहाम् ॥ १,८७.१२८ ॥ शशिखण्डधरां वीणां वादयन्तीं मधून्मदाम् । रक्तांशुकां च कह्लारमालाशोभितचूलिकाम् ॥ १,८७.१२९ ॥ शङ्खपत्रां तु मातङ्गीं चित्रकोद्भासिमस्तकाम् । अयुतं प्रजपेन्मन्त्रं तद्दशांशं मधूकजैः ॥ १,८७.१३० ॥ पुष्पैस्त्रिमधुरोपेतैर्जुहुयान्मन्त्रसिद्धये । त्रिकोणकर्णिकं पद्ममष्टपत्रं प्रकल्पयेत् ॥ १,८७.१३१ ॥ अष्टपत्रावृतं बाह्ये वृतं षोडशभिर्दलैः । चतुरस्रीकृतं बाह्ये कान्त्या दृष्टिमनोहरम् ॥ १,८७.१३२ ॥ एतस्मिन्पूजयेत्पीठे नवशक्तीः क्रमादिमाः । विभूतिपूर्वाः पूर्वोक्ता मातङ्गीपदपश्चिमाः ॥ १,८७.१३३ ॥ सर्वान्ते शक्तिकमलासनाय नम इत्यथ । वाक्सत्यलक्ष्मी बीजाद्य उक्तः पीठार्चने मनुः ॥ १,८७.१३४ ॥ मूलेन मूर्तिं संकल्प्य तस्यामावाह्य देवताम् । अर्चयेद्विधिनानेन वक्ष्यमाणेन मन्त्रवित् ॥ १,८७.१३५ ॥ रत्याद्यास्त्रिषु कोणेषु पूजयेत्पूर्ववत्सुधीः । हृहृल्लेखाः पञ्चपूज्या मध्ये दिक्षु च मन्त्रिणा ॥ १,८७.१३६ ॥ पाशाङ्कुशाभयाभीष्टधारिण्यो भूतसप्रभाः । अङ्गानि पूजयेत्पश्चाद्यथापूर्वं विधानवित् ॥ १,८७.१३७ ॥ बाणानभ्यर्चयेद्दिक्षु पञ्चमं पुरतो यजेत् । दलमध्येऽथ संपूज्या अनङ्गकुसुमादिकाः ॥ १,८७.१३८ ॥ पाशाङ्कुशाभयाभीष्टधारिण्योऽरुणविग्रहाः । पत्राग्रेषु पुनः पूज्या लक्ष्म्याद्या वल्लकीकराः ॥ १,८७.१३९ ॥ बहिरष्टदलेष्वर्च्या मन्मथाद्या मदोद्धताः । अपराङ्गा निषङ्गाद्याः पुष्पास्त्रेषुधनुर्द्धराः ॥ १,८७.१४० ॥ पत्रस्था मातरः पूज्या ब्राह्माद्याः प्रोक्तलक्षणाः । तदग्रेष्वर्चयेद्विद्वानसिताङ्गादिभैरवान् ॥ १,८७.१४१ ॥ पुनः षोडश पत्रेषु पूज्याः षोडश शक्तयः । वामाद्याः कलवीणाभिर्गायन्त्यः श्यामविग्रहाः ॥ १,८७.१४२ ॥ चतुरस्रे चतुर्दिक्षु चतस्रः पूजयेत्पुनः । मातङ्ग्याद्यामदोन्मत्ता वीणोल्लसितपाणयः ॥ १,८७.१४३ ॥ आग्नेयकोणे विघ्नेशं दुर्गां नैशाचरेः यजेत् । वायव्ये बटुकान् पश्चादीशाने क्षेत्रपं यजेत् ॥ १,८७.१४४ ॥ लोकपाला बहिः पूज्या वज्राद्यैरायुधैः सह । मन्त्रेऽस्मिन्संधिते मन्त्री साधयेदिष्टमात्मनः ॥ १,८७.१४५ ॥ मल्लिकाजातिपुन्नागैर्हेमाद्भाग्यालयो भवेत् । फलौर्बिल्यसमुद्भूतैस्तत्पत्रैर्वा हुताद्भवेत् ॥ १,८७.१४६ ॥ राजपुत्रस्य राज्याप्तिः पङ्कजैः श्रियमाप्नुयात् । उत्पलैर्वशयेद्विश्वं क्षारैर्मध्वाश्रितैः स्त्रियम् ॥ १,८७.१४७ ॥ वञ्जुलस्य समिद्भोमो वृष्टिं वितनुतेऽचिरात् । क्षीराक्तैरमृताखण्डैर्हेमान्नाशयति ज्वरम् ॥ १,८७.१४८ ॥ दूर्वाभिरायुराप्नोति तन्दुलैर्धनवान्भवेत् । कदंबैर्वश्यमाप्नोति सर्वं त्रिमधुरप्लुतम् ॥ १,८७.१४९ ॥ नन्द्यावर्तभवैः पुष्पैर्हेमो वाक्सिद्धिदायकः । निंबप्रसूनैर्जुहुयादीप्सितश्रीसमृद्धये ॥ १,८७.१५० ॥ पलाशकुसुमैर्हेमात्तेजस्वी जायते नरः । चन्दनागुरुकस्तूरी चन्द्रकुङ्कुमरोचनाः ॥ १,८७.१५१ ॥ वश्याय च प्रियत्वाय हुताश्च तिलकीकृताः । निर्गुण्डीमूलहोमेन निगडान्मुच्यते नरः ॥ १,८७.१५२ ॥ निंबतैलान्वितैर्लोणैर्हेमः शत्रुविनाशनः । हरिद्राचूर्णसंमिश्रैर्लवणैः स्तंभयेज्जगत् ॥ १,८७.१५३ ॥ मातङ्गीसिद्धविद्यैषा प्रोक्ता ते द्विजसत्तम । अवतारान्तरं भूयो वर्णयामि निशामय ॥ १,८७.१५४ ॥ दीपकाप्रीतिचन्द्राढ्या द्विधा चेद्रञ्जितापुनः । वतिवह्निप्रियामन्त्रो धूमावत्या गजाक्षरः ॥ १,८७.१५५ ॥ पिप्पलादो मुनिश्छन्दो निवृद्धूमावतीश्वरी । बीजेन षड्दीर्घजातियुक्तेन परिकल्पयेत् ॥ १,८७.१५६ ॥ ततो धूमावतीं ध्यायेच्छत्रुनिग्रहकारिणीम् । विवर्णां चञ्चलां दुष्टां दीर्घां च मलिनांबराम् ॥ १,८७.१५७ ॥ विमुक्तकुन्तलां सूक्ष्मां विधवां विरलद्विजाम् । कङ्कध्वजरथारूढां प्रलंबितपयोधरम् ॥ १,८७.१५८ ॥ सूर्यहस्तां निरुक्षाङ्कधृतहस्तांबरान्विताम् । प्रवृद्धलोमां तु भृशं कुटिलाकुटिलेक्षणाम् ॥ १,८७.१५९ ॥ क्षुत्पिपासार्दितां नित्यं भयदां कलहप्रियाम् । एवंविधां तु संचिन्त्य नमः स्वाहा फडन्तकम् ॥ १,८७.१६० ॥ बीजं साध्योपरि न्यस्य तस्मिन्स्थाप्य शवं जपेत् । अवष्टभ्य शवं शत्रुनाम्नाथ प्रजपेन्मनुम् ॥ १,८७.१६१ ॥ सोष्णीषकञ्चुको विद्वान्कृष्णे भूते दिवानिशम् । उपवासी श्मशाने वा विपिने शून्यमन्दिरे ॥ १,८७.१६२ ॥ मन्त्रस्य सिद्ध्यै यतवाग्ध्यायन्देवीं निरन्तरम् । सहस्रादूर्द्धूतः शत्रुर्ज्वरेण परिगृह्यते ॥ १,८७.१६३ ॥ पञ्चगव्येन शान्तिः स्याज्ज्वरस्य पयसापि वा । मन्त्राद्या क्षरमालिख्य शत्रूनाम ततः परम् ॥ १,८७.१६४ ॥ द्वितीयं मनुवर्णं च शत्रुनामैवमालिखेत् । सर्वं मनुदिक्सहस्रजपाच्छवमृतिर्भवेत् ॥ १,८७.१६५ ॥ दग्ध्वा कङ्कं श्यशानाग्नौ तद्भस्मादाय मन्त्रवित् । विरोधिनाम्नाष्टशतं जप्तमुच्चाटनं रिपोः ॥ १,८७.१६६ ॥ श्मशानभस्मना कृत्वा शवं तस्योपरि न्यसेत् । विरोधिनामसंरुद्धं कृष्णे पक्षे समुच्चरेत् ॥ १,८७.१६७ ॥ महिषीक्षीरधूपं च दद्याच्छत्रुविपत्करम् । एवं संक्षेपतः प्रोक्तं अवतारचतुष्टयम् ॥ १,८७.१६८ ॥ दुर्गाया जगदंबायाः किं पुनः प्रष्टुमिच्छसि ॥ १,८७.१६९ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दुर्गामन्त्रचतुष्टयवर्णनं नाम सप्ताशीतितमोऽध्यायः _____________________________________________________________ सूत उवाच श्रुत्वेत्थं यजनं विप्रा मन्त्रध्यानपुरःसरम् । सर्वासामवताराणां नारदो देवदर्शनः ॥ १,८८.१ ॥ सर्वाद्याया जगन्मातुः श्रीराधायाः समर्चनम् । अवतारकलानां हि पप्रच्छ विनयान्वितः ॥ १,८८.२ ॥ नारद उवाच धन्योऽस्मिकृतकृत्योऽस्मि जातोऽहं त्वत्प्रसादतः । पज्जगन्मातृमन्त्राणां वैभवं श्रुतवान्मुने ॥ १,८८.३ ॥ यथा लक्ष्मीमुखानां तु अवताराः प्रकीर्तिताः । तथा राधावताराणां श्रोतुमिच्छामि वैभवम् ॥ १,८८.४ ॥ यत्संख्याकाश्च यद्रूपा यत्प्रभावा विदांवर । राधावतारास्तान्सत्यं कीर्तयाशेषसिद्धिदान् ॥ १,८८.५ ॥ एतच्छुत्वा वचस्तस्य नारदस्य विधेः सुतः । सनत्कुमारः प्रोवाच ध्यात्वा राधापदांबुजम् ॥ १,८८.६ ॥ सनत्कुमार उवाच शृणु विप्र प्रवक्ष्यामि रहस्यातिरहस्यकम् । राधावतारचरितं भजतामिष्टिसिद्धिदम् ॥ १,८८.७ ॥ चन्द्रावली च ललिता द्वे सख्यौ सुप्रिये सदा । मालावतीमुखाष्टानां चन्द्रावल्यधिपास्मृता ॥ १,८८.८ ॥ कलावतीमुखाष्टानामीश्वरी ललिता मता । राधाचरणपूजायामुक्ता मालावतीमुखाः ॥ १,८८.९ ॥ ललिताधीश्वरीणां तु नामानि शृणु सांप्रतम् । कलावती मधुमती विशाखा श्यामलाभिधा ॥ १,८८.१० ॥ शैब्या वृन्दा श्रीधराख्या सर्वास्तुत्तुल्यविग्रहाः । सुशीलाप्रमुखा श्चान्याः सख्यो द्वात्रिंशदीरिताः ॥ १,८८.११ ॥ ताः शृणुष्व महाभाग नामतः प्रवदामि ते । सुशीलां शशिलेखा च यमुना माधवी रतिः ॥ १,८८.१२ ॥ कदम्बमाला कुन्ती च जाह्नवी च स्वयंप्रभा । चन्द्रानना पद्ममुखी सावित्री च सुधामुखी ॥ १,८८.१३ ॥ शुभा पद्मा पारिजाता गौरिणी सर्वमङ्गला । कालिका कमला दुर्गा विरजा भारती सुरा ॥ १,८८.१४ ॥ गङ्गा मधुमती चैव सुन्दरी चन्दना सती । अपर्णा मनसानन्दा द्वात्रिंशद्राधिकाप्रियाः ॥ १,८८.१५ ॥ कदाचिद्छलिला देवी पुंरूपा कृष्णविग्रहा । ससर्ज षोडशकलास्ताः सर्वास्तत्समप्रभाः ॥ १,८८.१६ ॥ तासा मन्त्रं तथा ध्यानं यन्त्रार्चादिक्रमं तथा । वर्णये सर्वतन्त्रेषु रहस्यं मुनिसत्तम ॥ १,८८.१७ ॥ वातो मरुच्चाग्रिवह्नी धराक्ष्मे जलचारिणी । विमुखं चरशुचिविभू वनस्वशक्तयः स्वराः ॥ १,८८.१८ ॥ प्राणस्तेजः स्थिरा वायुर्वायुश्चापि प्रभा तथा । ज्यकुमभ्रं तथा नादो दावकः पाथ इत्यथ ॥ १,८८.१९ ॥ व्योमरयः शिखी गोत्रा तोयं शून्यजवीद्युतिः । भूमी रसो नमो व्याप्तं दाहश्चापि रसांबु च ॥ १,८८.२० ॥ वियत्स्पर्शश्च हृद्धंसहलाग्रासो हलात्मिकाः । चन्द्रावली च ललिता हंसेला नायके मते ॥ १,८८.२१ ॥ ग्रासस्थिता स्वयं राधा स्वयं शक्तिस्वरूपिणी । शेषास्तु षोडशकला द्वात्रिंशत्तत्कलाः स्मृताः ॥ १,८८.२२ ॥ वाङ्मयं निखिलं व्याप्तमाभिरेव मुनीश्वर । ललिताप्रमुखाणां तु षोडशीत्वमुपागता ॥ १,८८.२३ ॥ श्रीराधा सुन्दरी देवी तान्त्रिकैः परिकीर्त्यते । कुरुकुल्ला च वाराही चन्द्रालिललिते उभे ॥ १,८८.२४ ॥ संभूते मन्त्रवर्गं तेऽभिधास्येऽहं यथातथम् । हृत्प्राणेलाहंसदावह्निस्वैर्ललितेरिता ॥ १,८८.२५ ॥ त्रिविधा हंसभेदेव शृणु तां च यथाक्रमम् । हंसाद्ययाद्या मध्या स्यादादिमध्यस्थहंसया ॥ १,८८.२६ ॥ तृतीया प्रकृतिः सैव तुर्या तैरन्त्यमायया । आसु तुर्याभवन्मुक्त्यै तिस्रोऽन्याः स्युश्चसंपदे ॥ १,८८.२७ ॥ इति त्रिपुरसुंदर्या विद्या सरुमतसमीरिता । दाहभूमीरसाक्ष्मास्वैर्वशिनीबीजमीरितम् ॥ १,८८.२८ ॥ प्राणो रसाशक्तियुतः कामेश्वर्यक्षरं महत् । शून्यमंबुरसावह्निस्वयोगान्मोहनीमनुः ॥ १,८८.२९ ॥ व्याप्तं रसाक्ष्मास्वयुतं विमलाबीजमीरितम् । ज्यानभोदाहवह्निस्वयोगैः स्यादरुणामनुः ॥ १,८८.३० ॥ जयिन्यास्तु समुद्दिष्टः सर्वत्र जयदायकः । कं नभोदाहसहितं व्याप्तक्ष्मास्वयुतं मनुः ॥ १,८८.३१ ॥ सर्वेश्वर्याः समाख्यातः सर्वसिद्धिकरः परः । ग्रासो नभोदाहवह्निस्वैर्युक्तः कौलिनीमनुः ॥ १,८८.३२ ॥ एतैर्मनुभिरष्टाभिः शक्तिभिर्वर्गसंयुक्तैः । वाग्देवतान्तैर्न्यासः स्याद्येन देव्यात्मको भवेत् ॥ १,८८.३३ ॥ रन्ध्रे भाले तथाज्ञायां गले हृदि तथा न्यसेत् । नाभावाधारके पादद्वये मूलाग्रकावधि ॥ १,८८.३४ ॥ षड्दीर्घाढ्येन बीजेन कुर्याश्चैव षडङ्गकम् । लोहितां ललितां बाणचापपाशसृणीः करैः ॥ १,८८.३५ ॥ दधानां कामराजाङ्के यन्त्रीतां मुदुतां स्मरेत् । मध्यस्थदेवी त्वेकैव षोडशाकारतः स्थाता ॥ १,८८.३६ ॥ यतस्तस्मात्तनौ तस्यास्त्वन्याः पञ्चदशार्चयेत् । ऋषिः शिवश्छन्द उक्ता देवता ललितादिकाः ॥ १,८८.३७ ॥ सर्वासामपि नित्यानामावृतीर्नामसंचये । पटले तु प्रयोगांश्च वक्ष्याम्यग्रे सविस्तरम् ॥ १,८८.३८ ॥ अथ षोडशनित्यासु द्वितीया या समीरिता । कामेश्वरीति तां सर्वकामदां शृणु नारद ॥ १,८८.३९ ॥ शुचिः स्वेन युतस्त्वाद्यो ललिता स्याद्द्वितीयकः । शून्यमग्नियुतं पश्चाद्रयोव्याप्तेन संयुतम् ॥ १,८८.४० ॥ प्राणो रसाग्निसहितः शून्ययुग्मं चरान्वितम् । नभोगोत्रा पुनश्चैषां दाहेन समयोजिता ॥ १,८८.४१ ॥ अंबु स्याच्चरसंयुक्तं नवशक्तियुतं च हृत् । एषा कामेश्वरी नित्या कामदैकादशाक्षरी ॥ १,८८.४२ ॥ मूलविद्याक्षरैरेव कुर्यादङ्गानि षट्क्रमात् । एकेन हृदयं शीर्षं तावताथो द्वयं द्वयात् ॥ १,८८.४३ ॥ चतुर्भिर्नयनं तद्वदस्त्रमेकेन कीर्तितम् । दृक्श्रोत्रनासाद्वितये जिह्वाहृन्नाभिगुह्यके ॥ १,८८.४४ ॥ व्यापकत्वेन सर्वाङ्गे मूर्द्धादिप्रपदावधि । न्यसेद्विद्याक्षराण्येषु स्थानेषु तदनन्तरम् ॥ १,८८.४५ ॥ समस्तेन व्यापकं तु कुर्यादुक्तक्रमेण तु । अथ ध्यानं प्रवक्ष्यामि नित्यपूजासु चोदितम् ॥ १,८८.४६ ॥ येन देवी सुप्रसन्ना ददातीष्टमयत्नतः । बालार्ककोटिसंकाशां माणिक्यमुकुटोज्ज्वलाम् ॥ १,८८.४७ ॥ हारग्रैवेयकाञ्चीभिरूर्मिकानूपुरादिभिः । मण्डितां रक्तवसनां रत्नाभरणशोभिताम् ॥ १,८८.४८ ॥ षड्भुजां त्रीक्षणामिन्दुकलाकलितमौलिकाम् । पञ्चाष्टषोडशद्वन्द्वषट्कोणचतुरस्रगाम् ॥ १,८८.४९ ॥ मन्दस्मितलसद्वक्त्रां दयामन्थरवीक्षणाम् । पाशाङ्कुशौ च पुण्ड्रेक्षुचापं पुष्पशिलीमुखम् ॥ १,८८.५० ॥ रत्नपात्रं सीधुपूर्णं वरदं बिभ्रतीं करैः । ततः प्रयोगान्कुर्वीत सिद्धे मत्रे तु साधकः ॥ १,८८.५१ ॥ तृतीयामथ वक्ष्यामि नाम्ना तु भगमालिनी । कामेश्वर्यादिरादिः स्याद्रसश्चापस्थिरारसः ॥ १,८८.५२ ॥ धरायुक्सचरा पश्चात्स्थिरा पश्चाद्रसः स्मृतः । स्थिराशून्येऽग्निसंयुक्ते रसः स्यात्तदनन्तरम् ॥ १,८८.५३ ॥ स्थिरा भूसहिता गोत्रा सदाहोऽग्निरसः स्थिरा । नभश्च मरुता युक्तं रसवर्णसमन्वितम् ॥ १,८८.५४ ॥ ततो रसः स्थिरा पश्चान्मरुता सह योजिता । अंबहंसचरोऽथिक्तो रसोऽथ स्यात्स्थिरा पुनः ॥ १,८८.५५ ॥ स्थिराधरान्विता हंसो व्याप्तेन च चरेण च । रसः स्थिरा ततो व्याप्तं भूयुतं शून्यमग्नियुक् ॥ १,८८.५६ ॥ रसः स्थिरा ततः साग्निशून्यं तवियुतो मरुत् । रयः शून्यं चाग्नियुतं हृदाहंसाच्च तत्परम् ॥ १,८८.५७ ॥ रसः स्थिरांबु च वियत्स्वयुतं प्राण एव च । दाहोऽग्रियुग्रसस्तस्मास्थिराक्ष्मा दाहसंयुता । सचरः स्याज्जवीपूर्वविद्या तर्तीयतः क्रमात् ॥ १,८८.५८ ॥ चतुष्टयमथार्णानां रसस्तदनु च स्थिरा । हृदंबुयुक्क्ष्मया दाहः सचरः स्याज्जवी च हृत् ॥ १,८८.५९ ॥ दाहोऽंबुमरुता युक्तो व्योम्नि साग्निरसस्तुतः । स्थिरा तु मरुता युक्ता शून्यं साग्निनभश्चरौ ॥ १,८८.६० ॥ हंसो व्याप्तमरुद्युक्तः शून्यं व्याप्तमतोंऽबु च । दाहो गोत्राचरयुता तथा दाहस्तथा रयः ॥ १,८८.६१ ॥ हृद्धरासहितं दाहरयौ चरसमन्वितौ । रसः स्थिरा ततः प्राणो रसाग्निसहितो भवेत् ॥ १,८८.६२ ॥ शून्ययुग्मं चरयुतं ततः पूर्वमतः परम् । शून्ययुग्मं च गोत्रा स्याद्वाहयुक्तांबुना चरः ॥ १,८८.६३ ॥ प्राणो रसा चरयुतो गोत्रव्यसिमतः परम् । गोत्रादाहमरुद्युक्ता त्वंबुन्यासमतो भवेत् ॥ १,८८.६४ ॥ युक्तोनांभश्च भूयुक्तं वाश्चरेण समन्वितम् । ग्रासो धरायुतः पश्चाद्रसः शक्त्या समन्वितः ॥ १,८८.६५ ॥ ग्रासो भूसहितो विप्र रसो व्याप्तं ततश्च हृत् । दाहोनांबु च हृत्पश्चाद्रयेंऽबुमरुदन्वितः ॥ १,८८.६६ ॥ शून्यं च केवलं चैव रसश्च सचरस्थिरा । वियदंबुयुतं दाहस्त्वग्नियुक्सयुतः शुचिः ॥ १,८८.६७ ॥ भूमी रसाक्ष्मास्वयुता पञ्चैकान्तरिताः स्थिराः । तदन्तरित बीजानि स्वसंयुक्तानि पञ्च वै ॥ १,८८.६८ ॥ तानि क्रमाज्ज्यासचरो रसो भूश्च नभोयुता । हंसश्चरयुतो द्विः स्यात्ततः प्राणो रसाग्नियुक् ॥ १,८८.६९ ॥ शून्ययुग्मं चरयुतं हृद्दाहोऽम्बुमरुद्युतः । व्योमाग्निसहितं पश्चाद्रसश्च मरुता स्थिरा ॥ १,८८.७० ॥ शून्यं साग्निनभश्चैव चरेण सहितं तथा । अंबु पश्चाद्वियत्तस्मान्नभश्च मरुदन्वितम् ॥ १,८८.७१ ॥ शून्यं व्याप्तं च दद्युक्तं रयदाहस्ववह्निभिः । हंसः सदाहोऽम्बगुरसा चरस्वैः संयुतो भवेत् ॥ १,८८.७२ ॥ हंसः सदाहवह्निस्वैर्युक्तमन्त्यमुदीरितम् । सप्तत्रिंशच्छतार्णैः स्यान्नित्या सौभागमालिनी ॥ १,८८.७३ ॥ अङ्गानि मन्त्रवर्णैः स्युराद्येन हृदुदीरितम् । ततश्चतृर्भिः शीर्षं स्याच्छिखा त्रिभिरुदीरिता ॥ १,८८.७४ ॥ गुणवेदाक्षरैः शेषाण्यङ्गानि षडिति क्रमात् । अरुणामरुणाकल्पां सुंदरीं सुस्मिताननाम् ॥ १,८८.७५ ॥ त्रिनेत्रां बाहुभिः षड्भिरुपेतां कमलासनाम् । कह्लारपाशपुण्ड्रेक्षुकोदण्डान्वामबाहुभिः ॥ १,८८.७६ ॥ दधानां दक्षिणैः पद्ममङ्कुशं पुष्पसायकम् । तथाविधाभिः परितो युतां शक्तिगणैः स्तुतैः ॥ १,८८.७७ ॥ अक्षरोक्ताभिरन्याभिः स्मरोन्मादमदात्मभिः । एषा तृतीया कथिता वनिता जनमोहिनी ॥ १,८८.७८ ॥ चतुर्थीं शृणु विप्रेन्द्र नित्यक्लिन्नासमाह्वयाम् । हंसस्तु दाहवह्निस्वैर्युक्तः प्रथममुच्यते ॥ १,८८.७९ ॥ कामेश्वर्यास्तृतीयादिवर्णानामष्टकं भवेत् । हृदंबुमरुता युक्तः स एवैकादशाक्षरः ॥ १,८८.८० ॥ एकादशाक्षरी चेयं विद्यार्णैरङ्गकल्पनम् । आद्येन मन्त्रवर्णेन हृदयं समुदीरितम् ॥ १,८८.८१ ॥ द्वाभ्यां द्वाभ्यां तु शेषाणि अङ्गानि परिकल्पयेत् । न्यसेदङ्गुष्ठमूलादिकनिष्ठाग्रान्तमूर्द्ध्वगम् ॥ १,८८.८२ ॥ शेषं तद्वलये न्यस्य हृद्दृक्छ्रोत्रे नसोर्द्वयोः । त्वचि ध्वजे च पायौ च पादयो रर्णकान्न्यसेत् ॥ १,८८.८३ ॥ अरुणामरुणाकल्पामरुणांशुकधारिणीम् । अरुणस्रग्विलेपां तां चारुस्मेरमुखांबुजाम् ॥ १,८८.८४ ॥ नेत्रत्रयोल्लसद्वक्त्रां भालेघर्मांबुमौक्तिके । विराजमानां मुकुटलसदर्द्धेन्दुशेखराम् ॥ १,८८.८५ ॥ चतुर्भिर्बाहुभिः पाशमङ्कुशं पानपात्रकम् । अभयं बिभ्रतीं पद्ममध्यासीनां मदालसाम् ॥ १,८८.८६ ॥ ध्यात्वैवं पूजयेन्नित्यक्किन्नां नित्यां स्वशक्तिभिः । पुण्या चतुर्थी गदिता नित्याक्किन्नाह्वया मुने ॥ १,८८.८७ ॥ वनिता नवनीतस्य दाविकाग्निर्जयादिना । भूः स्वेन युक्ता प्रथमं प्राणो दाहेन तद्युतः ॥ १,८८.८८ ॥ रसो दाहेन तद्युक्तं प्रभादाहेन तद्युता । ज्या च दाहेन तद्युक्ता नित्याक्लिन्नान्तगद्वयम् ॥ १,८८.८९ ॥ एषा नवाक्षरी नित्या भेरुण्डा सर्वसिद्धिदा । प्रणवं ठद्वयं त्यक्त्वा मध्यस्थैः षड्भिरक्षरैः ॥ १,८८.९० ॥ षडङ्गानि प्रकुर्वीत वर्णन्यासं ततः परम् । रन्ध्राद्यामुखकण्ठेषु हन्नाभ्यां धारयद्वयम् ॥ १,८८.९१ ॥ न्यसेन्मन्त्रार्णनवकं मातृकान्यासपूर्वकम् । अथ ध्यानं प्रवक्ष्यामि देव्याः सर्वार्थसिद्धिदम् ॥ १,८८.९२ ॥ तप्तकाञ्चनसंकाशदेहां नेत्रत्रयान्विताम् । चारुस्मितां चितमुखीं दिव्यालङ्कारभूषिताम् ॥ १,८८.९३ ॥ ताटङ्कहारकेयूररत्नस्तबकमण्डिताम् । रसनानूपुरोर्म्यादिभूषणैरतिसुन्दरीम् ॥ १,८८.९४ ॥ पाशाङ्कुशौ चर्मखङ्गौ गदावह्निधनुःशरान् । करैर्दधानामासीना पूजायां मत्पसस्थिताम् ॥ १,८८.९५ ॥ शक्तीश्च तत्समाकारतेजोहेतिभिरन्विताः । पूजयेत्तद्वदभितः स्मितास्या विजयादिकाः ॥ १,८८.९६ ॥ पञ्चमीय समाख्याता भेरुण्डाख्या मुनीश्वर । यस्याः स्मरणतो नश्येद्गरलं त्रिविधं क्षणात् ॥ १,८८.९७ ॥ या तु षष्ठी द्विजश्रेष्ठ सा नित्या वह्निवासिनी । तद्विधानं शृणुष्वाद्य साधकानां सुसिद्धिदम् ॥ १,८८.९८ ॥ भेरुण्डाद्यमिहाद्यं स्यान्नित्यक्लिन्नाद्यनन्तरम् । ततोंऽबुशून्ये हंसाग्निह्युत्तमंबुमरुद्युतम् ॥ १,८८.९९ ॥ हृदग्निना युतं शून्यं व्याप्तेन शुचिना च युक् । शून्यं नभः शक्तियुतं नवार्णेयमुदाहृता ॥ १,८८.१०० ॥ विद्या द्वितीयबीजेन स्वरान्दीर्घान्नियोजयेत् । मायान्तान्षड्भिरेवां गान्याचरेत्सकराङ्गयोः ॥ १,८८.१०१ ॥ नवाक्षराणि विद्याया नवरन्ध्रेषु विन्यसेत् । व्यापकं च समस्तेन कुर्यादेवात्मसिद्धये ॥ १,८८.१०२ ॥ सर्वास्वपि च विद्यासु व्यापकन्यासमाचरेत् । तप्तकाञ्चनसंकाशां नवयौवनसुन्दरीम् ॥ १,८८.१०३ ॥ चारुस्मेरमुखांभोजां विलसन्नयनत्रयाम् । अष्टाभिर्बाहुभिर्युक्तां माणिक्याभरणोज्ज्वलाम् ॥ १,८८.१०४ ॥ पद्मरागकिरीटांशुसंभेदारुणितांबराम् । पीतकौशेयवसनां रत्नमञ्जीरमेखलाम् ॥ १,८८.१०५ ॥ रक्तमौक्तिकसकंभिन्नस्तबकाभरणोज्ज्वलाम् । रत्नाब्जकंबुपुण्ड्रेक्षुचापपूर्णेन्दुमण्डलम् ॥ १,८८.१०६ ॥ दधानां बाहुभिर्वामैः कह्लारं हेमशृङ्गकम् । पुष्पेषुं मातुलिङ्गं च दधानां दक्षिणैः करैः ॥ १,८८.१०७ ॥ स्वस्वनामाभिरभितः शक्तिभिः परिवारिताम् । एवं ध्यात्वार्चयेद्वह्निवासिनीं वह्निविग्रहम् ॥ १,८८.१०८ ॥ यस्याः स्मरपतो वश्यं जायते भुवनत्रयम् । अथ या सप्तमी नित्या महावज्रेश्वरी मुने ॥ १,८८.१०९ ॥ तस्या विद्यां प्रवक्ष्यामि साधकानां सुसिद्धिदाम् । द्वितीयं वह्विवासिन्या नित्यक्लिन्ना चतुर्थकम् ॥ १,८८.११० ॥ पञ्चमं भगमालाद्यं भेरुण्डाया द्वितीयकम् । नित्यक्लिन्नाद्वितीयं च तृतीयं षष्ठसप्तमौ ॥ १,८८.१११ ॥ अष्टमं नवमं चापि पूर्वं स्यादन्तिमं पुनः । द्वयमेकैकमथ च द्वयद्वयमथ द्वयम् ॥ १,८८.११२ ॥ मायया पुटितं कृत्वा कुर्यादङ्गानि षट्क्रमात् । प्रत्येकं शक्तिपुटुतैर्मन्त्रार्णैर्दशभिर्न्यसेत् ॥ १,८८.११३ ॥ दृक्छ्रोत्रनासावाग्वक्षोनाभिगुह्येषु च क्रमात् । रक्तां रक्तांबरां रक्तगङ्घमालाविभूषणाम् ॥ १,८८.११४ ॥ चतुर्भुजां त्रिनयनां माणिक्यमुकुटोज्ज्वलाम् । पाशाङ्कुशामिक्षुचापं दाडिमीशायकं तथा ॥ १,८८.११५ ॥ दधानां बाहुभिर्नेत्रैर्दयासुप्रीतिशीतलैः । पश्यन्ती साधके अस्त्रषट्कोणाब्जमहीपुरे ॥ १,८८.११६ ॥ चक्रमध्ये सुखासीनां स्मेरवक्त्रसरोरुहाम् । शक्तिभिः स्वस्वरूपाभिरावृतां पीतमध्यगाम् ॥ १,८८.११७ ॥ सिंहासनेऽभितः प्रेङ्खत्पोतस्थाभिश्च शक्तिभिः । वृतां ताभिर्विनोदानि यातायातादिभिः सदा ॥ १,८८.११८ ॥ कुर्वाणामरुणांभोधौ चिन्तयेन्मन्त्रनायकम् । एषा तु सप्तमीप्रोक्ता दूतिं चाप्यष्टमीं शृणु ॥ १,८८.११९ ॥ वज्रेश्वर्याद्यमाद्यं स्याद्वियदग्नियुतं ततः । अंबु स्यान्मरुता युक्तं गोत्रा क्ष्मासंयुता ततः ॥ १,८८.१२० ॥ रयोव्यासेन शुचिना युतः स्यात्तदनन्तरम् । अत्यार्णां वह्निवासिन्या दूती नित्या समीरिताः ॥ १,८८.१२१ ॥ षड्दीर्घस्वरयुक्तेन विद्यायाः स्यात्षडङ्गकम् । तेनैव पुटितैरर्णैर्न्यसेच्छ्रोत्रादिपञ्चसु ॥ १,८८.१२२ ॥ षष्ठकं नसि विन्यस्य व्यापकं विद्यया न्यसेत् । निदाघकालमध्याह्नदिवाकरसमप्रभाम् ॥ १,८८.१२३ ॥ नवरत्नकिरीटां च त्रीक्षणामरुणांबराम् । नानाभरणसंभिन्नदेहकान्तिविराजिताम् ॥ १,८८.१२४ ॥ शुचिस्मितामष्टभुजा स्तूयमानां महर्षिभिः । पाशं खेटं गदां रत्नचषकं वामबाहुभिः ॥ १,८८.१२५ ॥ दक्षिणैरङ्कुशं खड्गं कट्टारं कमलं तथा । दधानां साधकाभीष्टदानोद्यमसमन्विताम् ॥ १,८८.१२६ ॥ ध्यात्वैवं पृनयेद्देवीं दूतीं दुर्न्नीतिनाशिनीम् । इत्येषा कथिता तुभ्यं समस्तापन्निवारिणी ॥ १,८८.१२७ ॥ श्रीकरी शिवतावासकारिणी सर्वसिद्धिदा । अथ ते नवमीं नित्यां त्वरितां नाम नारद ॥ १,८८.१२८ ॥ प्रवक्ष्यामि यशोविद्याधनारोग्यसुखप्रदाम् । आद्यं तु वह्निवासिन्या दूत्यादिस्तदनन्तरम् ॥ १,८८.१२९ ॥ हंसो धरा स्वयं युक्तस्तेजश्चरसमन्वितम् । वायुः प्रभाचरयुता ग्रासशक्तिसमन्वितः ॥ १,८८.१३० ॥ हृदार येण दाहेन वह्निस्वाष्टमं तथा । हंसः क्ष्माखंयुतो ग्रासश्चरयुक्तो द्वितीयकः ॥ १,८८.१३१ ॥ द्वितिर्नादयुता नित्या त्वरिता द्वादशाक्षरी । विद्या चतुर्थवर्णादिसप्तभिस्त्वक्षरैस्तथा ॥ १,८८.१३२ ॥ कुर्यादङ्गानि युग्मार्णैः षट्क्रमेण कराङ्गयोः । शिरोललाटकण्ठेषु हृन्नाभ्याधारके तथा ॥ १,८८.१३३ ॥ ऊरुयुग्मे तथा जानुद्वये जङ्घाद्वये तथा । पादयुग्मे तथा वर्णान्मन्त्रजान्दश विन्यसेत् ॥ १,८८.१३४ ॥ द्वितीयोपान्त्यमध्यस्थैर्मन्त्रार्णैरितरैरपि । ताराद्यैः शृणु तद्ध्यानं सर्वसिद्धिविधायकम् ॥ १,८८.१३५ ॥ श्यामवर्णशुभाकारां नवयौवनशोभिताम् । द्विद्विक्रमादष्टनागैः कल्पिताभरणोज्ज्वलैः ॥ १,८८.१३६ ॥ ताटङ्कमङ्गदं तद्वद्रसना नूपुरं च तैः । विप्रक्षत्रियविट्शूद्रजातिभिर्भीमविग्रहैः ॥ १,८८.१३७ ॥ पल्लवांशुकसंवीतां शिखिपिच्छकृतैः शुभैः । वलयैर्भूषितभुजां माणिक्यमुकुटोज्ज्वलाम् ॥ १,८८.१३८ ॥ बर्हिबर्हिकृतापीडां तच्छत्रां तत्पताकिनीम् । गुञ्जागुणलसद्वक्षः कुचकुङ्कुममण्डलाम् ॥ १,८८.१३९ ॥ त्रिनेत्रां चारुवदनां मन्दस्मितमुखांबुजाम् । पाशाङ्कुशवराभीतिलसद्भुजचतुष्टयाम् ॥ १,८८.१४० ॥ ध्यात्वैवं तोतलां देवीं पूजयेच्छक्तिभिर्वृताम् । तदग्रस्था लु फट्कारी शरचापकरोज्ज्वला ॥ १,८८.१४१ ॥ प्रसीदेत्फलदाने च साधकानां त्वरान्वितां । एषा तु नवमी नित्या त्वरितोक्ता मुनीश्वर ॥ १,८८.१४२ ॥ विध्नदुःस्वप्रशमनी सर्वाभीष्टप्रदायिनी । शुचिः स्वेन युतस्त्वाद्यो रसावह्निसमन्वितः ॥ १,८८.१४३ ॥ प्राणो द्वितीयः स्वयुतो वनदुच्छक्तिभिः परः । इतीरिता त्र्यक्षराख्या नित्येयं कुलसुंदरी ॥ १,८८.१४४ ॥ यस्याः स्मरण मात्रेण सर्वज्ञत्वं प्रजायते । त्रिभिस्तैरुदितैर्मूलवर्णैः कुर्य्यात्षडङ्गकम् ॥ १,८८.१४५ ॥ आदिमध्यावसानेषु पूजाजपविधिक्रमात् । प्रत्येक तैस्त्रिभिर्बीजैर्दीर्घस्वरसमन्वितैः ॥ १,८८.१४६ ॥ कुर्यात्कराङ्गवक्त्राणां न्यासं प्रोक्तं यथाविधि । ऊर्द्ध्वप्राग्दक्षिणोदक्च पश्चिमाधस्नाग्नभिः ॥ १,८८.१४७ ॥ सुविनद्यन्तरस्थैस्तन्नदात्मसु यथाक्रमम् । आधाररन्ध्रहृत्स्वेकं द्वितीयं लोचनत्रये ॥ १,८८.१४८ ॥ तृतीयं श्रोत्रचिबुके चतुर्थं घ्राणतालुषु । पञ्चमं चांसनाभीषु ततः पाणिपदद्वये ॥ १,८८.१४९ ॥ मूलमध्याग्रतो न्यस्येन्नवधा मूलवर्णकैः । लोहितां लोहिताकारशक्तिंबृदनिषेविताम् ॥ १,८८.१५० ॥ लोहितांशुकभूषास्रग्लेपनां षण्मुखांबुजाम् । अनर्ध्यरत्नघटितमाणिक्यमुकुटोज्वलाम् ॥ १,८८.१५१ ॥ रत्नस्तबकसंभिन्नलसद्वक्षःस्थलां शुभाम् । कारुण्यानन्दपरमा मरुणांबुजविष्टराम् ॥ १,८८.१५२ ॥ भुजैर्द्वादशभिर्युक्तां सर्वेषां सर्ववाढ्मयीम् । प्रवालाक्षस्रजं पद्मं कुण्डिकां रत्ननिर्मिताम् ॥ १,८८.१५३ ॥ रत्नपूर्णं तु चषकं लुङ्गीं व्याख्यानमुद्रिकाम् । दधानां दक्षिणैर्वामैः पुस्तकं चारुणोत्पलम् ॥ १,८८.१५४ ॥ हैमीं च लेखनीं रत्नमालां कंबुवरं भुजैः । अभितः स्तूयमानां च देवगन्धर्वकिन्नरैः ॥ १,८८.१५५ ॥ यक्षराक्षसदैत्यर्षिसिद्धविद्याधरादिभिः । ध्यात्वैवमर्चन्नित्यां वाग्लक्ष्मीकान्तिसिद्धये ॥ १,८८.१५६ ॥ सितां केवलवाक्सिद्ध्यै लक्ष्म्यै हेमप्रभामपि । धूमाभां वैरिविद्विष्ट्यै मृतये निग्रहाय च ॥ १,८८.१५७ ॥ नीलां च मूकीकरणे स्मरेत्तत्तदपेक्षया । इत्येषा दशमी नित्याप्रोक्ता ते कुलसुन्दरी ॥ १,८८.१५८ ॥ नित्यानित्यां तु दशमीं त्रिकुटां वच्मि सांप्रतम् । हंसश्च हृत्प्राणरसादाहकर्णैः समन्वितः ॥ १,८८.१५९ ॥ विद्यया कुलसुंदर्या योजितः संप्रदायतः । नित्यानित्यत्रिवर्णेयं षड्भिः कूटाक्षरैर्युता ॥ १,८८.१६० ॥ प्रतिलोमादिभी रूपैर्द्विसप्ततिभिदा मता । यस्या भजनतः सिद्धो नरः स्यात्खेचरः सुखी ॥ १,८८.१६१ ॥ निग्रहानुग्रहौ कर्तुं क्षमः स्याद्भुवनत्रये । दीर्घस्वरसमेताभ्यां हंसहृभ्द्यां षडङ्गकम् ॥ १,८८.१६२ ॥ भ्रूमध्ये कण्ठहृन्नाभिगुह्याधारेषु च क्रमात् । विद्याक्षराणि क्रमशो न्यसेद्विन्दुयुतानि च ॥ १,८८.१६३ ॥ व्यापकं च समस्तेन विधाय विधिना पुनः । ध्यायेत्समस्तसंपत्तिहेतोः सर्वात्मिकां शिवाम् ॥ १,८८.१६४ ॥ उद्यद्भास्करबिंबाभां माणिक्यमुकुटोज्ज्वलाम् । पद्मरागकृताकल्पामरुणांशुकधारिणीम् ॥ १,८८.१६५ ॥ चारुस्मितलसद्वक्त्रषट्सरोजविराजिताम् । प्रतिवक्त्रं त्रिनयनां भुजैर्द्वादशभिर्युताम् ॥ १,८८.१६६ ॥ पाशाक्षगुणपुण्ड्रेक्षुचापखेटत्रिशूलकान् । करैर्वामैर्दधानां च अङ्कुशं पुस्तकं तथा ॥ १,८८.१६७ ॥ पुष्पेषुमंबुजं चैव नृकपालाभये तथा । दधानां दक्षिणैर्हस्तैर्ध्यायेद्देवीमनन्यधीः ॥ १,८८.१६८ ॥ इत्येषैका दशी प्रोक्ता द्वादशीं शृणु नारद । त्वरितोयान्त्यमाद्यं स्याद्युतिदोहचरस्वयुक् ॥ १,८८.१६९ ॥ हृञ्च दाहक्ष्मास्वयुतं वज्रेशीपञ्चमं तथा । मरुत्स्वयुक्तो मध्याढ्यो दशम्याः परतः पुनः ॥ १,८८.१७० ॥ भूमी रसाक्ष्मास्वयुता वज्रेशीत्यष्टमः क्रमात् । षडक्षराणि त्वरिता तृतीयं तदनन्तरम् ॥ १,८८.१७१ ॥ द्युतिर्दाहचरस्वेन अस्या आद्यमनन्तरम् । उक्ता नीलपताकाख्या नित्या सप्तदशाक्षरी ॥ १,८८.१७२ ॥ द्विद्विपक्षाक्षिषड्वर्णैर्मन्त्रोत्थैरङ्गकल्पनम् । श्रोत्रादिनासायुगले वाचि कण्ठे हृदि क्रमात् ॥ १,८८.१७३ ॥ नाभावाधारकेऽथापि पादसंधिषु च क्रमात् । मन्त्राक्षराणि क्रमशो न्यसेत्सप्तदशापि च ॥ १,८८.१७४ ॥ व्यापकं च समस्तेन विदध्याञ्च यथाविधि । इन्द्रनीलनिभां भास्वन्मणिमौलिविराजिताम् ॥ १,८८.१७५ ॥ पञ्चवक्त्रां त्रिनयनामरुणांशुकधारिणीम् । दशहस्तां लसन्मुक्तामण्याभरणमण्डिताम् ॥ १,८८.१७६ ॥ रत्नस्तबकसंपन्नदेहां चारुस्मिताननाम् । पाशं पताकां चर्मापि शार्ङ्गचापं वरं करैः ॥ १,८८.१७७ ॥ दधानां वामपार्श्वस्थैः सर्वाभरणभूषितैः । अङ्कुशे च तथा शर्क्ति खङ्गं बाणं तथाभयम् ॥ १,८८.१७८ ॥ दधानां दक्षिणैर्हस्तैरासीनां पद्मविष्टरे । स्वाकारवर्णवेषास्यपाण्यायुधविभूषणैः ॥ १,८८.१७९ ॥ शक्तिवृन्दैर्वृतां ध्यायेद्देवीं नित्यार्चनक्रमे । त्रिषट्कोणयुतं पद्ममष्टपत्रं ततो बहिः ॥ १,८८.१८० ॥ अष्टास्रं भूपुरद्वन्द्वावृतं तत्पुरयुग्मकम् । चतुर्द्वारयुतं दिक्षु शाखाभिश्च समन्वितम् ॥ १,८८.१८१ ॥ कृत्वा नामावृतां शक्तिं गणैस्तत्रार्चयेच्छिवाम् । एषा ते द्वादशी नित्या प्रोक्ता नीलपताकिनी ॥ १,८८.१८२ ॥ समरे विजयं खङ्गपादुकाञ्जनसिद्धिदा । वेतालयक्षिणीचेटपिशाचादिप्रसाधिनी ॥ १,८८.१८३ ॥ निधानबिलसिद्धान्नसाधिनी कामचोदिता । अथ त्रयोदेशीं नित्यां वक्ष्यामि शृणु नारद ॥ १,८८.१८४ ॥ रसो नभस्तथा दाहो व्याप्तक्ष्मावनपूर्विका । खेन युक्ता भवेन्नित्या विजयैकाक्षरा मुने ॥ १,८८.१८५ ॥ विद्याया व्यञ्जनैर्दीर्घस्वरयुक्तैश्चतुष्टयम् । शेषाभ्यां च द्वयं कुर्यात्षडङ्गानि कराङ्गयोः ॥ १,८८.१८६ ॥ ज्ञानेन्द्रियेषु श्रोत्रादिष्वथ चित्ते च विन्यसेत् । अक्षराणि क्रमाद्बिन्दुयुतान्यन्यत्तु पूर्ववत् ॥ १,८८.१८७ ॥ पञ्च वक्त्रां दशभुजां प्रतिवक्त्रं त्रिलोचनाम् । भास्वन्मुकुटविन्यासचन्द्रलेखाविराजिताम् ॥ १,८८.१८८ ॥ सर्वाभरणसंयुक्तां पीतांबरसमुज्ज्वलाम् । उद्यद्भास्वद्बिंबतुल्यदेहकान्तिं शुचिस्मिताम् ॥ १,८८.१८९ ॥ शङ्खं पाशं खेटचापौ कह्लारं वामबाहुभिः । चक्रं तथाङ्कुशं खङ्गं सायकं मातुलुं गकम् ॥ १,८८.१९० ॥ दधानां दक्षिणैर्हस्तैः प्रयोगे भीमदर्शनाम् । उपासनेति सौम्यां च सिंहोपरि कृतासनाम् ॥ १,८८.१९१ ॥ व्याघ्रारूढाभिरभितः शक्तिभिः परिवारिताम् । समरे पूजनेऽन्येषु प्रयोगेषु सुखासनाम् ॥ १,८८.१९२ ॥ शक्तयश्चापि पूजायां सुखासनसमन्विताः । सर्वा देव्याः समाकारमुखपाण्यायुधा अपि ॥ १,८८.१९३ ॥ चतुरस्रद्वयं कृत्वा चतुर्द्वारोपशोभितम् । शाखष्टकसमोपेतं तत्र प्राग्वत्समर्चयेत् ॥ १,८८.१९४ ॥ तदन्तर्वृतयुग्मान्तरष्टकोणं विधाय तु । तदन्तश्च तथा पद्मं षोडशच्छदसंयुतम् ॥ १,८८.१९५ ॥ तथैवाष्टच्छद पद्मं विधायावाह्य तत्र ताम् । तत्तच्छक्त्या वृतां सम्यगुपचारैस्तथार्चयेत् ॥ १,८८.१९६ ॥ एषा त्रघयोदशी प्रोक्ता वादेयुद्धे जयप्रदा । चतुर्दशीं प्रवक्ष्येऽथ नित्यां वै सर्वमङ्गलाम् ॥ १,८८.१९७ ॥ हृदंबुवनयुक्तं खं नित्या स्यात्सर्वमङ्गला ॥ १,८८.१९८ ॥ एकाक्षर्यनया सिद्धो जायते खेचरः क्षणात् । षड्दीर्घाढ्यां मूलविद्यां षडङ्गेषु प्रविन्यसेत् ॥ १,८८.१९९ ॥ तां नित्यां जातरूपाभां मुक्तामाणिक्यभूषणाम् । माणिक्यमुकुटां नेत्रद्वयप्रेङ्खद्दयापराम् ॥ १,८८.२०० ॥ द्विभुजां शासनां पद्मे त्वष्टषोडशतद्द्वयैः । पत्रैरुपेते सचतुद्वारंभूसद्मयुग्मके ॥ १,८८.२०१ ॥ मातुलुङ्गफलं दक्षे दधानां करपङ्कजे । वामेन निजभक्तानां प्रयच्छन्तीं धनादिकम् ॥ १,८८.२०२ ॥ स्वसमानाभिरभितः शक्तिभिः परिवारिताम् । षट्सप्तातीभिरन्याभिरप्सरोत्थाभिरन्विताम् ॥ १,८८.२०३ ॥ प्रयोगेष्वन्यदा नित्यं सपर्यासूक्तशक्तिकाम् । एषा चतुर्दशी प्रोक्ता तथा पञ्चदशीं शृणु ॥ १,८८.२०४ ॥ भूः शून्यं नभसा भूश्च रसश्चाथ स्थिरांबु च । रयोग्निना युतीज्यांबुमरुद्युक्तारसा मरुत् ॥ १,८८.२०५ ॥ नभश्च मरुता युक्तं रसा शून्येऽपि संयुते । गोत्रा चरेण सहिता अंबुपूर्वाक्षरस्तथा ॥ १,८८.२०६ ॥ अंब्वग्नी हृञ्च दाहांबुरसक्ष्मारयहृत्स्वयुक् । हंसश्च मरुता दाहः प्राणश्च मरुता युतः ॥ १,८८.२०७ ॥ दाहः साग्निप्राणचरौ ज्यामरुत्सहितारयः । चरेणांबु च गोत्राहृत्साग्निर्ज्यांबुरसा स्वयुक् ॥ १,८८.२०८ ॥ रयः साग्निर्ज्यांबुरसा पुनरेते जवी ततः । दाहेनानेन ते द्विः स्याद्भस्वो दाहमरुत्स्वयुक् ॥ १,८८.२०९ ॥ हंसः सदाहवह्निस्वो दाहक्ष्मास्वयुतश्च सः । सप्तदाहास्ततोऽस्याः स्युरष्टमाद्यास्तु पञ्च ते ॥ १,८८.२१० ॥ उपान्त्याधः स्थितं नीलपताकाया अनन्तरम् । त्वरिता त्वं च भेरुण्डाष्टमं च नवनं तथा ॥ १,८८.२११ ॥ सा ज्वालामालिनीनित्या त्रिषष्ट्यर्णा समीरिता । एकद्वयचतुःपञ्चचतुष्टयदशाक्षरैः ॥ १,८८.२१२ ॥ कुर्यादङ्गानि मूलार्णैरादितः षट्कराङ्गयोः । शेषैस्तु व्यापकं कुर्यात्ततो ध्यायेत्सनातनीम् ॥ १,८८.२१३ ॥ ज्वलज्ज्वलनसंकाशां माणिक्यमुकुटोज्ज्वलाम् । षड्वक्त्रां द्वादशभुजां सर्वाभरणभूषिताम् ॥ १,८८.२१४ ॥ पाशाङ्कुशौ खङ्गखेटौ चापबाणौ गदादरौ । शूलवह्नी वराभीती दधानां कपपङ्कजैः ॥ १,८८.२१५ ॥ स्वप्रमाणाभिरभितः शक्तिभिः परिवारिताम् । चारुस्मितलसद्वक्त्र सरोजां त्रीक्षणान्वताम् ॥ १,८८.२१६ ॥ ध्यात्वैवमुपचारैस्तैरर्चयेत्तां तु नित्यशः । चतुरस्रद्वयं कृत्वा चतुर्द्वारसमन्वितम् ॥ १,८८.२१७ ॥ सशाखमष्टपत्राब्जमन्तरा त्र्यस्रकं ततः । षट्कोणं मध्यतस्त्र्यस्रं विधायात्र शिवां जयेत् ॥ १,८८.२१८ ॥ एषा पञ्चदशी प्रोक्ता षोडशीं शृणु नारद । वायुप्रणवतत्त्वैस्तु चित्रास्यादक्षरद्वया ॥ १,८८.२१९ ॥ या सिद्धा धनधान्यात्मनिधिलाभाय कल्प्यते । विद्याद्यवायुना कुर्याद्दीर्घस्वरयुजा क्रमात् ॥ १,८८.२२० ॥ षडङ्गानि यथापूर्वं मातृकां विद्यया न्यसेत् । उद्यदादित्यबिंबाभां नवरत्नविभूषणाम् ॥ १,८८.२२१ ॥ नवरत्नकिरीटां च चित्रपट्टांशुकोज्ज्वलाम् । चतुर्भुजां त्रिनयनां शुचिस्मितलसन्मुखीम् ॥ १,८८.२२२ ॥ सर्वानन्दमयीं नित्यां समस्तेप्सितदायिनीम् । चतुर्भुजेषु वै पाशमङ्कुशं वरदाभये ॥ १,८८.२२३ ॥ दधानां मङ्गलां पद्मकर्णिकायोनिमध्यगाम् । तच्छक्तिभिश्च तच्चक्रे तथैवार्चनमीरितम् ॥ १,८८.२२४ ॥ प्राणदाहौ धरायुक्तो पुनराद्यं रसे मरुत् । व्यासं मरुच्छक्तियुतं भूः स्वयुक्ता ततस्त्रयम् ॥ १,८८.२२५ ॥ अस्या आद्यां रसायुग्मं चरणेन प्रयोजितम् । दाहेन वह्निशक्तिभ्यां युतो हंसस्ततः परम् ॥ १,८८.२२६ ॥ नभोदिर्हृत्सदाहांबुज्या शून्यं स्वेन संयुतम् । अंबु पश्चाद्विषयुक्तं मरुता तु नभोयुतम् ॥ १,८८.२२७ ॥ शून्यं व्याप्तं भुवा हंसः पूर्वान्त्यौ स्यान्मनुत्रयम् । अस्याः षष्ठादिपञ्चार्णा दैत्यास्यादाद्य ईरितः ॥ १,८८.२२८ ॥ एकादशाक्षरादन्त्या द्वितीयः खण्ड ईरितः । तृतीयः पञ्चविंशार्णः प्रोक्ता मन्त्रा इति क्रमात् ॥ १,८८.२२९ ॥ बाला बीजत्रयाद्यैर्द्विस्त्रिभिर्मन्त्रैः षडगङ्कम् । विकीर्णकुन्तलां नग्रां रक्तामानन्दविग्रहाम् ॥ १,८८.२३० ॥ दधानां चिन्तयेद्बाणचापपाशसृणीकरैः । तत्समानायुधाकारवर्णा देव्यास्तु वा ॥ १,८८.२३१ ॥ ऋतुस्राताः स्फुरद्योन्यः सदानन्दारुणेक्षणाः । इत्येषा कुरुकुल्लान्ते प्रोक्ता चन्द्रावलीस्वयम् ॥ १,८८.२३२ ॥ वाराहीमभिधास्यामि ललितायाः परा तनुः । शुचिः स्वेनाथ शून्यं स्यान्नभसाभ्ररसिस्थिरा ॥ १,८८.२३३ ॥ अंबु पश्चाद्रयः साग्निर्मरुतांबुरयौ तथा । इलसायुतोऽग्निरेतानि पुनरंबुमरुद्युतम् ॥ १,८८.२३४ ॥ दाहांबुमरुताहंसस्त्वग्निनैतत्त्रयं पुनः । अम्बुदाहौ मरुद्युक्तौ हंसोऽथ धरया नभः ॥ १,८८.२३५ ॥ तेजोग्निना पुनः पञ्च वातः स्वेन समायुतः । तोयं चरेण तत्पूर्वं तोयमग्नियुतं ततः ॥ १,८८.२३६ ॥ शून्यं व्याप्तेन शुचिना शून्यं शक्त्या नभो युतम् । दाहो धरा स्वसहरितस्तोयं चरसमन्वितम् ॥ १,८८.२३७ ॥ एतत्पूर्वमधुः प्रोक्तं चतुष्टयमतः परम् । ज्याख्येन युक्ता सचरो रभश्चैतस्य पूर्वकम् ॥ १,८८.२३८ ॥ रसोऽग्निना पुनः प्रोक्तं चतुष्का अपयं ततः । शुभोभ्रता चरेणापि हंसः स्वेन सपूर्वकम् ॥ १,८८.२३९ ॥ हंसोऽग्निना प्राक्त्रितयं हृदयं स्वसमायुतम् । रसश्चरेण तत्पूर्वमग्निना च रसो युतः ॥ १,८८.२४० ॥ पश्चादुक्तस्त्रयं वातो धरया च नभोन्वितम् । प्राणः स्वेन युतः पश्चाद्धृदयस्वयुतं रसः ॥ १,८८.२४१ ॥ व्याप्तमेतत्त्रयं पश्चाद्दाहेनांबु समन्वितम् । गोत्राभरायुता स्पर्शो नादयुक्तो जवीयुतः ॥ १,८८.२४२ ॥ दाहेन पूर्वपूर्वं च पूर्वं च मरुता युतम् । शून्यं मरुत्स्वसहितं हृद्दाहेनांबुना चरः ॥ १,८८.२४३ ॥ स्पर्शो मरुत्स्वसहितो हृद्दाहेनांबुसंयुतम् । ज्याग्निः स्वसंयुतो हंसस्तथांबु मरुता सह ॥ १,८८.२४४ ॥ हृद्रूप्रेण स्वेन युतं रसश्च स्वेन संयुतः । प्राणदाहौ धरायुक्तौ पुनस्तौ वह्निना वियत् ॥ १,८८.२४५ ॥ वार्द्दाहयुक्तमंबु स्यादिषष्ट्यासस्वसंयुतम् । पूर्वद्विरुक्तवर्णौ च शुद्धिः स्वेन युतस्तथा ॥ १,८८.२४६ ॥ स्थिरा रसा वतस्वेन दावौ हंसौ धरा स्वयुक् । युतिर्नादवती पश्चाद्धृदंबुमरुता युतम् ॥ १,८८.२४७ ॥ हंसश्च मरुता विद्यः दशोत्तरशताक्षरी । वाराही पञ्चमी विश्वविजया भद्रकौमुदी ॥ १,८८.२४८ ॥ वार्तालीति च विख्याता स्तंभनाद्यखिलेष्टदा । अङ्गानि कुर्यान्मन्त्रार्णैः सप्तभिषड्भिरेव च ॥ १,८८.२४९ ॥ दशभिः सप्तभिः सप्तसंख्यैर्जातिभिर्दिताः । त्रिकोणवृत्तषट्कोणवृत्तद्वयसमन्वितम् ॥ १,८८.२५० ॥ विधाय चक्रं तत्रैव स्वनामालिख्यपूजयेत् । ध्यायेच्च देवीं कीलास्यां ततः काञ्चनसन्निभाम् ॥ १,८८.२५१ ॥ आकण्ठं वनितारूपां ज्वलत्पिङ्गसरोरुहाम् । त्रिनेत्रामष्टहस्तां च चक्रं शङ्खमथाङ्कुशम् ॥ १,८८.२५२ ॥ पाशं च मुशलं शीर्षमभयं वरदं तथा । दधानां गरुडस्कन्धे सुखासीनां विचिन्तयेत् ॥ १,८८.२५३ ॥ नित्यपूजासु तच्छक्तीस्तत्समानाः स्मरेन्मुने । प्रयोगेषु स्मरेद्देवीं सिंहस्थां व्याघ्रगामपि ॥ १,८८.२५४ ॥ गजारूढां हयारूढां तर्श्यारूढां च शक्तिभिः । श्यामामप्यरुणां पीतामसितांभोजविग्रहाम् ॥ १,८८.२५५ ॥ तत्तत्त्प्रयोगेषु तथा ध्यायेत्तत्तदवाप्तये । अरुणां पञ्चमीं वश्ये पीतां स्तंभनके स्मरेत् ॥ १,८८.२५६ ॥ श्यामां च दुर्गमे मार्गे सितां युद्धेऽरिनष्टये । धूम्रामुच्चाटने ध्यायेत्साधको द्विजसत्तमः ॥ १,८८.२५७ ॥ एताः षोडश नित्यास्ते संक्षपात्समुदीरिताः । भजतामिष्टदाः सद्यः सर्वपापक्षयङ्कराः ॥ १,८८.२५८ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधादिमन्त्रनिरूपणं नामाष्टाशीतितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथासामावृतिस्थानां शक्तीनां समयेन च । नाम्नां सहस्रं वक्ष्यामि गुरुध्यानपुरः सरम् ॥ १,८९.१ ॥ नाथा नव प्रकाशाद्याः सुभगान्ताः प्रकीर्तिताः । भूम्यादीनिशिवान्तानि विद्धि तत्त्वानि नारद ॥ १,८९.२ ॥ गुरुजन्मादिपर्वाणि दर्शान्तानि च सप्त वै । एतानि प्राहमनोवृत्त्या चिन्तयेत्साधकोत्तमः ॥ १,८९.३ ॥ गुरुस्तोत्रं जपेच्चापि तद्गतेनान्तरात्मना । नमस्ते नाथ भगवञ्शिवाय गुरुरूपिणे ॥ १,८९.४ ॥ विद्यावतारसंसिद्ध्यै स्वौकृतानेकविग्रह । नवाय नवरूपाय परमार्थैकरूपिणे ॥ १,८९.५ ॥ सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते । स्वतन्त्राय दयाकॢप्तविग्रहाय शिवात्मने ॥ १,८९.६ ॥ परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे । विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ॥ १,८९.७ ॥ प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे । पुरस्तात्पार्श्वयोः पृष्ठे नमः कुर्यामुपर्यधः ॥ १,८९.८ ॥ सदा मञ्चित्तसदने विधेहि भवदासनम् । इति स्तुत्वा गुरुं भक्त्या परां देवीं विचिन्तयेत् ॥ १,८९.९ ॥ गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् । देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम् ॥ १,८९.१० ॥ प्रणमामि महादेवीं मातृकां परमेश्वरीम् । कालहृल्लोहोलोल्लोहकलानाशनकारिणीम् ॥ १,८९.११ ॥ यदक्षरै कमात्रेऽपि संसिद्धे स्पर्द्धते नरः । रवितार्क्ष्येन्दुकन्दर्पैः शङ्करानलविष्णुभिः ॥ १,८९.१२ ॥ यदक्षरशशिज्योत्स्नामण्डितं भुवनत्रयम् । वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम् ॥ १,८९.१३ ॥ यदक्षरमहासूत्रप्रोतमेतज्जगत्त्रयम् । ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम् ॥ १,८९.१४ ॥ यदेकादशमाधारं बीजं कोणत्रयोद्भवम् । ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते ॥ १,८९.१५ ॥ अकचादिटतोन्नद्धपयशाक्षरवर्गिणीम् । ज्येष्ठाङ्गबाहुहृत्कण्ठकटिपादनिवासिनीम् ॥ १,८९.१६ ॥ नौमीकाराक्षरोद्धारां सारात्सारां परात्पराम् । प्रणमामि महादेवीं परमानन्दरूपिणीम् ॥ १,८९.१७ ॥ अथापि यस्या जानन्ति न मनागपि देवताः । केयं कस्मात्क्व केनेति सरूपारूपभावनाम् ॥ १,८९.१८ ॥ वन्दे तामहमक्षय्यां क्षकाराक्षररूपिणीम् । देवीं कुलकलोल्लोलप्रोल्लसन्तीं शिवां पराम् ॥ १,८९.१९ ॥ वर्गानुक्रमयोगेन यस्याख्योमाष्टकं स्थितम् । वन्दे तामष्टवर्गोत्थमहासिद्ध्यादिकेश्वरीम् ॥ १,८९.२० ॥ कामपूर्णजकाराख्य सुपीठान्तर्न्निवासिनीम् । चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम् ॥ १,८९.२१ ॥ एतत्स्तोत्रं तु नित्यानां यः पठेत्सुसमाहितः । पूजादौ तस्य सर्वाता वरदाः स्युर्न संशयः ॥ १,८९.२२ ॥ अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम् । येन देवासुरनरजयी स्यात्साधकः सदा ॥ १,८९.२३ ॥ सर्वतः सर्वदात्मानं ललिता पातु सर्वगा । कामेशी पुरतः पातु भगमाली त्वनन्तरम् ॥ १,८९.२४ ॥ दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा । नित्यक्लिन्नाथं भेरुण्डादिशं मे पातु कौणपीम् ॥ १,८९.२५ ॥ तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी । महावज्रेश्वरी नित्या वायव्ये मां सदावतु ॥ १,८९.२६ ॥ वामपार्श्वं सदा पातु इतीमेलरिता ततः । माहेश्वरी दिशं पातु त्वरितं सिद्धिदायिनी ॥ १,८९.२७ ॥ पातु मामूर्ध्वतः शश्चद्दैवताकुलसुंदरी । अधो नीलपताकाख्या विजया सर्वतश्च माम् ॥ १,८९.२८ ॥ करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला । देहॄन्द्रियमनः प्राणाञ्ज्वालामालिनिविग्रहा ॥ १,८९.२९ ॥ पालयत्वनिशं चित्ता चित्तं मे सर्वदावतु । कामात्क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥ १,८९.३० ॥ पापान्मां सर्वतः शोकात्संक्षयात्सर्वतः सदा । असत्यात्क्रूरचिन्तातोहिंसातश्चौरतस्तथा । स्तैमित्याच्च सदा पान्तु प्रेरयन्त्यः शुभं प्रति ॥ १,८९.३१ ॥ नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः । तथा हयसमारूढाः पान्तु मां सर्वतः सदा ॥ १,८९.३२ ॥ सिंहारूढास्तथा पान्तु पान्तु ऋक्षगता अपि । रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे ॥ १,८९.३३ ॥ तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगताश्च ताः । भूतगाः सर्वगाः पान्तु पान्तु देव्यश्च सर्वदा ॥ १,८९.३४ ॥ भूतप्रेतपिशाचाश्च परकृत्यादिकान् गदान् । द्रावयन्तु स्वशक्तीनां भूषणैरायुधैर्मम ॥ १,८९.३५ ॥ गजाश्वद्वीपिपञ्चास्यतार्क्ष्यारूढाखिलायुधाः । असंख्याः शक्तयो देव्यः पान्तु मां सर्वतः सदा ॥ १,८९.३६ ॥ सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् । कदाचिन्नाशुभं पश्येत्सर्वदानन्दमास्थितः ॥ १,८९.३७ ॥ इत्येतत्कवचं प्रोक्तं ललितायाः शुभावहम् । यस्य शन्धारणान्मर्त्यो निर्भयो विजयी सुखी ॥ १,८९.३८ ॥ अथ नाम्नां सहस्रं ते वक्ष्ये सावरणार्चनम् । षोडशानामपि मुने स्वस्वक्रमगतात्मकम् ॥ १,८९.३९ ॥ ललिता चापि वा कामेश्वरी च भगमालिनी । नित्यक्लिन्ना च भेरुण्डा कीर्तिता वह्निवासिनी ॥ १,८९.४० ॥ वज्रेश्वरी तथा दूती त्वरिता कुलसुंदरी । नित्या संवित्तथा नीलपताका विजयाह्वया ॥ १,८९.४१ ॥ सर्वमङ्गलिका चापि ज्वालामालिनिसंज्ञिता । चित्रा चेति क्रमान्नित्याः षोडशपीष्टविग्रहाः ॥ १,८९.४२ ॥ कुरुकुल्ला च वाराही द्वे एते चेष्टविग्रहे । वशिनी चापि कामेशी मोहिनी विमलारुणा ॥ १,८९.४३ ॥ तपिनी च तथा सर्वेश्वरी चाप्यथ कौलिनी । मुद्राणन्तनुरिष्वर्णरूपा चापार्णविग्रहा ॥ १,८९.४४ ॥ पाशवर्णशरीरा चाकुर्वर्णसुवपुर्द्धरा । त्रिखण्डा स्थापनी सन्निरोधनी चावगुण्ठनी ॥ १,८९.४५ ॥ सन्निधानेषु चापाख्या तथा पाशाङ्कुशाभिधा । नमस्कृतिस्तथा संक्षोभणी विद्रावणी तथा ॥ १,८९.४६ ॥ आकर्षणी च विख्याता तथैवावे शकारिणी । उन्मादिनी महापूर्वा कुशाथो खेचरी मता ॥ १,८९.४७ ॥ बीजा शक्त्युत्थापना च स्थूलसूक्ष्मपराभिधा । अणिमा लघिमा चैव महिमा गरिमा तथा ॥ १,८९.४८ ॥ प्राप्तिः प्रकामिता चापि चेशिता वशिता तथा । भुक्तिः सिद्धिस्तथैवेच्छा सिद्धिरूपा च कीर्तिता ॥ १,८९.४९ ॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराहीन्द्राणी चामुण्डा महालक्ष्मीस्वरूपिणी ॥ १,८९.५० ॥ कामा बुद्धिरहॄङ्कारशब्दस्पर्शस्वरूपिणी । रूपरूपा रसाह्वा च गन्धवित्तधृतिस्तथा ॥ १,८९.५१ ॥ नाभबीजामृताख्या च स्मृतिदेहात्मरूपिणी । कुसुमा मेखला चापि मदना मदनातुरा ॥ १,८९.५२ ॥ रेखा संवेगिनी चैव ह्यङ्कुशा मालिनीति च । संक्षोभिणी तथा विद्राविण्याकर्षणरूपिणी ॥ १,८९.५३ ॥ आह्लादिनीति च प्रोक्ता तथा समोहिनीति च । स्तंभिनीजंभिनीचैव वशङ्कर्यथ रञ्जिनी ॥ १,८९.५४ ॥ उन्मादिनी तथैवार्थसाधिनीति प्रकीर्तिता । संपत्तिपूर्णा सा मन्त्रमयी द्वन्द्वक्षयङ्करी ॥ १,८९.५५ ॥ सिद्धिः संपत्प्रदाचैव प्रियमङ्गलकारिणी । कामप्रदा निगदिता तथा दुःखविमोचिनी ॥ १,८९.५६ ॥ मृत्युप्रशमनीचैव तथा विघ्ननिवारिणी । अङ्गसुंदरिका चैव तथा सौभाग्यदायिनी ॥ १,८९.५७ ॥ ज्ञानैश्वर्यप्रदा ज्ञानमयी चैव च पञ्चमी । विन्ध्यवासनका घोरस्वरूपा पापहारिणी ॥ १,८९.५८ ॥ तथानन्दमयी रक्षा रूपेप्सितफलप्रदा । जयिनी विमला चाथ कामेशी वज्रिणी भहगा ॥ १,८९.५९ ॥ त्रैलोक्यमोहना स्थाना सर्वाशापरिपूरणी । सर्वसक्षोभणगता सौभाग्यप्रदसंस्थिता ॥ १,८९.६० ॥ सर्वार्थसाधकागारा सर्वरोगहरास्थिता । सर्वरक्षाकरास्थाना सर्वसिद्धिप्रदस्थिता ॥ १,८९.६१ ॥ सर्वानन्दमयाधारबिन्दुस्थानशिवात्मिका । प्रकृष्टा च तथा गुप्ता ज्ञेया गुप्ततरापि च ॥ १,८९.६२ ॥ संप्रदायस्वरूपा च कुलकौलनिगर्भगा । रहस्यापरापरप्राकृत्तथैवातिरहस्यका ॥ १,८९.६३ ॥ त्रिपुरा त्रिपुरेशी च तथैव पुरवासिनी । श्रीमालिनी च सिद्धान्ता महात्रिपुरसुंदरी ॥ १,८९.६४ ॥ नवरत्नमयद्वीपनवखण्डविराजिता । कल्पकोद्यानसंस्था च ऋतुरूपेन्द्रियार्चका ॥ १,८९.६५ ॥ कालमुद्रा मातृकाख्या रत्नदेशोपदेशिका । तत्त्वाग्रहगाभिधा मूर्तिस्तथैव विषयद्विपा ॥ १,८९.६६ ॥ देशकालाकारशब्दरूपा संगीतयोगिनी । समस्तगुप्तप्रकटसिद्धयोगिनिचक्रयुक् ॥ १,८९.६७ ॥ वह्निसूर्येन्दुभूताह्वा तथात्माष्टाक्षराह्वया । पञ्चधार्यास्वरूपा च नानाव्रतसमाह्वया ॥ १,८९.६८ ॥ निषिद्धाचाररहिता सिद्धचिह्नस्वरूपिणी । चतुर्द्धा कूर्मभागस्था नित्याद्यर्चास्वरूपिणी ॥ १,८९.६९ ॥ दमनादिसमभ्यर्चा षट्कर्मसिद्धिदायिनी । तिथिवारपृथग्द्रव्यसमर्चनशुभावहा ॥ १,८९.७० ॥ वायोश्यनङ्गकुसुमा तथैवानङ्गमेखला । अनङ्गमदनानङ्गमदनातुरसाह्वया ॥ १,८९.७१ ॥ मददेगिनीका चैव तथा भुवनपालिनी । शशिलेखा समुद्दिष्टा गतिलेखाह्वया मता ॥ १,८९.७२ ॥ श्रद्धा प्रीति रतिश्चैव धृतिः कान्तिर्मनोरमा । मनोहरा समाख्याता तथैव हि मनोरथा ॥ १,८९.७३ ॥ मदनोन्मादिनी चैव मोदिनी शङ्खिनी तथा । शोषिणी चैव शङ्कारी सिंजिनी सुभगा तथा ॥ १,८९.७४ ॥ पूषाचेद्वासुमनसा रतिः प्रीतिर्धृतिस्तथा । ऋद्धिः सौम्या मरीचिश्च तथैव ह्यंशुमालिनी ॥ १,८९.७५ ॥ शशिनी चाङ्गिरा छाया तथा संपूर्णमण्डला । तुष्टिस्तथामृताख्या च डाकिनी साथ लोकपा ॥ १,८९.७६ ॥ बटुकेभास्वरूपा च दुर्गा क्षेत्रेशरूपिणी । कामराजस्वरूपा च तथा मन्मथरूपिणी ॥ १,८९.७७ ॥ कन्दर्प्परूपिणी चैव तथा मकरकेतना । मनोभवस्वरूपा च भारती वर्णरूपिणी ॥ १,८९.७८ ॥ मदना मोहिनी लीला जंभिनी चोद्यमा शुभा । ह्लादिनी द्राविणी प्रीती रती रक्ता मनोरमा ॥ १,८९.७९ ॥ सर्वोन्मादा सर्वमुखा ह्यभङ्गा चामितोद्यमा । अनल्पाव्यक्तविभवा विविधाक्षोभविग्रहा ॥ १,८९.८० ॥ रागशक्तिर्द्वेषशक्तिस्तथा शब्दादिरूपिणी । नित्या निरञ्जना क्लिन्ना क्लेदेनी मदनातुरा ॥ १,८९.८१ ॥ मदद्रवा द्राविणी च द्रविणी चैति कीर्तिता । मदाविला मङ्गला च मन्मथानी मनस्विनी ॥ १,८९.८२ ॥ मोहा मोदा मानमयी माया मन्दा मितावती । विजया विमला चैव शुभा विश्वा तथैव च ॥ १,८९.८३ ॥ विभूतिर्विनता चैव विविधा विनता क्रमात् । कमला कामिनी चैव किराता कीर्तिरूपिणी ॥ १,८९.८४ ॥ कुट्टिनी च समुद्दिष्टा तथैव कुलसुंदरी । कल्याणी कालकोला च डाकिनी शाकिनी तथा ॥ १,८९.८५ ॥ लाकिनी काकिनी चैव राकिनी काकिनी तथा । इच्छाज्ञाना क्रियाख्या चाप्यायुधाष्टकधारिणी ॥ १,८९.८६ ॥ कपर्दिनी समुद्दिष्टा तथैव कुलसुंदरी । ज्वालिनी विस्फुलिङ्गा च मङ्गला सुमनोहरा ॥ १,८९.८७ ॥ कनका किनवा विद्या विविधा च प्रकीर्तिता । मेषा वृषाह्वया चैव मिथुना कर्कटा तथा ॥ १,८९.८८ ॥ सिंहा कन्या तुला कीटा चापा च मकरा तथा । कुम्भा मीना च सारा च सर्वभक्षा तथैव च ॥ १,८९.८९ ॥ विश्वात्मा विविधोद्भूतचित्ररूपा च कीर्तिता । निःसपत्ना निरातङ्का याचनाचिन्त्यवैभवा ॥ १,८९.९० ॥ रक्ता चैव ततः प्रोक्ताविद्याप्राप्तिस्वपिणी । हृल्लेखा क्लेदिनी क्लिन्ना क्षोभिणी मदनातुरा ॥ १,८९.९१ ॥ निपन्दना रागवती तथैव मदनावती । मेखला द्राविणी वेगवती चैव प्रकीर्तिता ॥ १,८९.९२ ॥ कमला कामिनी कल्पा कला च कलिताद्भुता । किरता च तथा काला कदना कौशिका तथा ॥ १,८९.९३ ॥ कंबुवादनिका चैव कातरा कपटा तथा । कीर्तिश्चापि कुमारी च कुङ्कुमा परिकीर्तिता ॥ १,८९.९४ ॥ भञ्जिनी वेगिनी नागा चपला पेशला सती । रतिः श्रद्धा भोगलोला मदोन्मत्ता मनस्विनी ॥ १,८९.९५ ॥ विह्वला कर्षिणी लोला तथा मदनमालिनी । विनोदा कौतुका पुण्या पुराणा परिकीर्तिता ॥ १,८९.९६ ॥ वागीशी वरदा विश्वा विभवाविघ्नकारिणी । बीजविघ्नहरा विद्या सुमुखी सुंदरी तथा ॥ १,८९.९७ ॥ सारा च सुमना चैव तथा प्रोक्ता सरस्वती । समया सर्वगा विद्धा शिवा वाणी च कीर्तिता ॥ १,८९.९८ ॥ दूरसिद्धा तथा प्रोक्ताथो विग्रहगवती मता । नादा मनोन्मनी प्राणप्रतिष्ठारुणवैभवा ॥ १,८९.९९ ॥ प्राणापाना समाना च व्यानोदाना च कीर्तिता । नागा कूर्मा तच कृकला देवदत्ता धनञ्जया ॥ १,८९.१०० ॥ फट्कारी किङ्कराराध्या जया च विजया तथा । हुङ्कारी खेटचरी चण्डाछेदिनी क्षपिणी तथा ॥ १,८९.१०१ ॥ स्त्रीहुङ्कारी क्षेमकारी चतुरक्षररूपिणी । श्रीविद्यामतवर्णाङ्गी काली याम्या नृपार्णका ॥ १,८९.१०२ ॥ भाषा सरस्वती वाणी संस्कृता परा । बहुरूपा चित्तरूपा रम्यानन्दा च कौतुका ॥ १,८९.१०३ ॥ त्रयाख्या परमात्माख्याप्यमेयविभवा तथा । वाक्स्वरूपा बिन्दुसर्गरूपा विश्वात्मिका तथा ॥ १,८९.१०४ ॥ तथा त्रैपुरकन्दाख्या ज्ञात्रादित्रिविधात्मिका । आयुर्लक्ष्मीकीर्तिभोगसैन्दर्यारोग्यदायिका ॥ १,८९.१०५ ॥ ऐहिकामुष्मिकज्ञानमयी च परिकीर्तिता । जीवाख्या विजयाख्या च तथैव विश्वविन्मयी ॥ १,८९.१०६ ॥ हृदादिविद्या रूपादिभामुरूपाः जगदूपुः । विश्वमो हनिका चैव त्रिपुरामृतसंज्ञिका ॥ १,८९.१०७ ॥ सर्वाप्यायनरूपा च मोहिनी क्षोभणी तथा । क्लेदिनी च समाख्याता तथैव च महोदया ॥ १,८९.१०८ ॥ संपत्करी हलक्षार्णा सीमामातृतनू रतिः । प्रीतिर्मनोभवा वापि प्रोक्ता वाराधिपा तथा ॥ १,८९.१०९ ॥ त्रिकूटा चापि षट्कूटा पञ्चकूटा विशुद्धगा । अनाहत गता चैव मणिपूरकसंस्थिता ॥ १,८९.११० ॥ स्वाधिष्ठानसमासीनाधारस्थाज्ञासमास्थिता । षट्त्रिंशत्कूटरूपा च पञ्चाशन्मिथुनात्मिका ॥ १,८९.१११ ॥ पादुकादिकसिद्धीशा तथा विजयदायिनी । कामरूपप्रदा वेतालरूपा च पिशाचिका ॥ १,८९.११२ ॥ विचित्रा विभ्रमा हंसी भीषणी जनरञ्जिका । विशाला मदना तुष्टा कालकण्ठी महाभया ॥ १,८९.११३ ॥ माहेन्द्री शङ्खिनी चैन्द्री मङ्गला वटवासिनी । मेखला सकला लक्ष्मीर्मालिनीविश्वनायिका ॥ १,८९.११४ ॥ सुलोचना सुशोभा च कामदा च विलासिनी । कामेश्वरी नन्दिनी च स्वर्णरेखा मनोहरा ॥ १,८९.११५ ॥ प्रमोदा रागिणी सिद्धा पद्मिनी च रतिप्रिया । कल्याणदा कलादक्षा ततश्च सुरसुन्दरी ॥ १,८९.११६ ॥ विभ्रमा वाहका वीरा विकला कोरकाकविः । सिंहनादा महानादा सुग्रीवा मर्कटा शठा ॥ १,८९.११७ ॥ बिडालाक्षा बिडालास्या कुमारी खेचरी भवा । मयूरा मङ्गला भीमा द्विपवक्त्रा खरानना ॥ १,८९.११८ ॥ मातङ्गी च निशाचारा वृषग्राहा वृकानना । सैरिभास्या गजमुखा पशुवक्त्रा मृगानना ॥ १,८९.११९ ॥ क्षोभका मणिभद्रा च क्रीडका सिंहचक्रका । महोदरा स्थूलशिखा विकृतास्या वरानना ॥ १,८९.१२० ॥ चपला कुक्कुटास्या च पाविनी मदनालसा । मनोहरा दीर्घजङ्घा स्थूलदन्ता दशानना ॥ १,८९.१२१ ॥ सुमुखा पण्डिता क्रुद्धा वराहास्या सटामुखा । कपटा कौतुका काला किङ्करा कितवा खला ॥ १,८९.१२२ ॥ भक्षका भयदा सिद्धा सर्वगा च प्रकीर्तिता । जया च विजया दुर्गा भद्रा भद्रकरी तथा ॥ १,८९.१२३ ॥ अम्बिका वामदेवी च महामायास्वरूपिणी । विदारिका विश्वमयी विश्वा विश्वविभञ्जिता ॥ १,८९.१२४ ॥ वीरा विक्षोभिणी विद्या विनोदा बीजविग्रहा । वीतशोका विषग्रीवा विपुला विजयप्रदा ॥ १,८९.१२५ ॥ विभवा विविधा विप्रा तथैव परिकीर्तिता । मनोहरा मङ्गली च मदोत्सिक्ता मनस्विनी ॥ १,८९.१२६ ॥ मानिनी मधुरा माया मोहिनी च तथा स्मृता । भद्रा भवानी भव्या च विशालाक्षी शुचिस्मिता ॥ १,८९.१२७ ॥ ककुभा कमला कल्पा कलाथो पूरणी तथा । नित्या चाप्यमृता चैव जीविता च तथा दया ॥ १,८९.१२८ ॥ अशोका ह्यमला पूर्णा पूर्णा भाग्योद्यता तथा । विवेका विभवा विश्वा वितता च प्रकीर्तिता ॥ १,८९.१२९ ॥ कामिनी खेचरी गर्वा पुराणापरमेश्वरी । गौरी शिवा ह्यमेया च विमला विजया परा ॥ १,८९.१३० ॥ पवित्रा पद्मिनी विद्या विश्वेशी शिववल्लभा । अशेषरूपा ह्यानन्दांबुजाक्षी चाप्यनिन्दिता ॥ १,८९.१३१ ॥ वरदा वाक्यदा वाणी विविधा वेदविग्रहा । विद्या वागीश्वरी सत्या संयता च सरस्वती ॥ १,८९.१३२ ॥ निर्मलानन्दरूपा च ह्यमृता मनिदा तथा । पूषा चैव तथा पुष्टिस्तुष्टिश्चापि रतिर्धृतिः ॥ १,८९.१३३ ॥ शशिनी चैद्रिका कान्तिज्योत्स्ना श्रीः प्रीतिरङ्गगदा । पूर्णा पूर्णामृता कामदायिनीन्दुकलात्मिका ॥ १,८९.१३४ ॥ तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः । सुषुम्णा भोगदा विश्वा बाधिनी धारिनी धारिणी क्षमा ॥ १,८९.१३५ ॥ धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी । सुश्रीः स्वरूपा कपिला हव्यकव्यवहा तथा ॥ १,८९.१३६ ॥ घस्मरा विश्वकवला लोलाक्षी लोलजिह्विका । सर्वभक्षा सहस्राक्षी निःसंगा च गतिप्रिया ॥ १,८९.१३७ ॥ अर्चित्याचाप्रमेया च पूर्णरूपा दुरासदा । सर्वा संसिद्धिरूपा च पावनीत्येकरूपिणी ॥ १,८९.१३८ ॥ तथा यामलवेधाख्या शाक्ते वेदस्वरूपिणी । तथा शांभववेधा च भावनासिद्धिसृचिनी ॥ १,८९.१३९ ॥ वह्निरूपा तथा दस्रा ह्यमाविघ्ना भुजङ्गमा । षण्मुखा रविरूपा च माता दुर्गा दिशा तथा ॥ १,८९.१४० ॥ धनदा केशवा चापि यमी चैव हरा शशा । अश्विनी च यमी वह्नि रूपा धात्रीति कीर्तिता ॥ १,८९.१४१ ॥ चन्द्रा शिवादितिर्जीवा सर्पिणी पितृरूपिणी । अर्यम्णा च भगा सूर्या त्वाष्ट्रिमारुतिसंज्ञिका ॥ १,८९.१४२ ॥ इन्द्राग्निरूपा मित्रा चापीन्द्राणी निरृतिर्जला । वैश्वदेवी हरितभूर्वासवी वरुणा जया ॥ १,८९.१४३ ॥ अहिर्बुध्न्या पूषणी च तथा कारस्करामला । उदुंबरा जंबुका च खदिरा कृष्णारूपिणी ॥ १,८९.१४४ ॥ वंशा च पिप्पला नागा रोहिणा च पलाशका । पक्षका च तथाम्बष्ठा बिल्वाचार्जुनरूपिणी ॥ १,८९.१४५ ॥ विकङ्कता च ककुभा सरला चापि सर्जिका । वञ्जुला पनसार्का च शमी हलिप्रियाम्रका ॥ १,८९.१४६ ॥ निम्बा मधूकसंज्ञा चाप्यश्वत्था च गजाह्वया । नागिनी सर्पिणी चैव शुनी चापि बिडालिकी ॥ १,८९.१४७ ॥ छागी मार्जारिका मूषी वृषभा माहिषी तथा । शार्दूली सैरिभी व्याघ्री हरिणी च मृगी शुनी ॥ १,८९.१४८ ॥ कपिरूपा च गोघण्टा वानरी च नराश्विनी । नगा गौर्हस्तिनी चेति तथा षट्चक्रवासिनी ॥ १,८९.१४९ ॥ त्रिखण्डा तीरपालाख्या भ्रामणी द्रविणी तथा । सोमा सूर्या तिथिर्वारा योगार्क्षा करणात्मिका ॥ १,८९.१५० ॥ यक्षिणी तारणा व्योमशब्दाद्याप्रांणिनी च धीः । क्रोधिनी स्तंभिनी चण्डोञ्चण्डा ब्राह्मादिरूपिणी ॥ १,८९.१५१ ॥ सिंहस्था व्याघ्रगा चैव गजाश्वगरुडस्थिता । भौमाप्या तैजसीवायुरूपीणी नाभसा तथा ॥ १,८९.१५२ ॥ एकावक्त्रा चतुर्वक्त्रा नवक्त्रा नववक्त्रा कलानना । पञ्चविंशतिवक्त्रा च षड्विंशद्वदना तथा ॥ १,८९.१५३ ॥ ऊनपञ्चाशदास्या च चतुःषष्टि मुखा तथा । एकाशीतिमुखा चैव शताननसमन्विता ॥ १,८९.१५४ ॥ स्थूलरूपा सूक्ष्मरूपा तेजोविग्रहधारिणी । वृणावृत्तिस्वरूपा च नाथावृत्तिस्वरूपिणी ॥ १,८९.१५५ ॥ तत्त्वावृत्तिस्वरूपापि नित्यावृत्तिवपुर्द्धरा ॥ १,८९.१५६ ॥ अङ्गावृत्तिस्वरूपा चाप्यायुधावृत्तिरूपिणी । गुरुपङ्क्तिस्वरूपा च विद्यावृत्तितनुस्तथा ॥ १,८९.१५७ ॥ ब्रह्माद्यावृत्तिरूपा च परा पश्यतिका तथा । मध्यमा वैखरी शीर्षकण्ठताल्वोष्ठदन्तगा ॥ १,८९.१५८ ॥ जिह्वामूलगता नासागतोरः स्थलगामिनी । पदवाक्यस्वरूपा च वेदभाषास्वरूपिणी ॥ १,८९.१५९ ॥ सेकाख्या वीक्षणाख्या चोपदेशाख्या तथैव च । व्याकुलाक्षरसंकेता गायत्री प्रणवादिका ॥ १,८९.१६० ॥ जपहोमार्चनध्यानयन्त्रतर्पणरूपिणी । सिद्धसारस्वता मृत्युञ्जया च त्रिपुरा तथा ॥ १,८९.१६१ ॥ गारुडा चान्नपूर्णा चाप्यश्वरूढा नवात्मिका । गौरी च देवी हृदया लक्षदा च मतङ्गिनी ॥ १,८९.१६२ ॥ निष्कत्रयपदा चेष्टा वादिनी च प्रकीर्तिता । राजलक्ष्मीर्महालक्ष्मीः सिद्धलक्ष्मीर्गवानना ॥ १,८९.१६३ ॥ इत्येवं ललितादेव्या दिव्यं नामसहस्रकम् । सर्वार्थसिद्धिदं प्रोक्तं चतुर्वर्गफलप्रदम् ॥ १,८९.१६४ ॥ एतन्नित्यमुषःकाले यो जपेच्छुद्धमानसः । स यो गी ब्रह्मविज्ज्ञानी शिवयोगी तथात्मवित् ॥ १,८९.१६५ ॥ द्विरावृत्त्या प्रजपतो ह्यायुरारोग्यसंपदः । लोकानुरञ्जनं नारीनृपावर्जनकर्म च ॥ १,८९.१६६ ॥ अपृथक्त्वेन सिद्ध्यन्ति साधकस्यास्य निश्चितम् । त्रिरावृत्त्यास्य वै पुंसो विश्वं भूयाद्वशेऽखिलम् ॥ १,८९.१६७ ॥ चतुरावृत्तितश्चास्य समीहितमनारतम् । फलत्येव प्रयोगार्हे लोकरक्षाकरो भवेत् ॥ १,८९.१६८ ॥ पञ्चावृत्त्या नरा नार्यो नृपा देवाश्च जन्तवः । भजन्त्येनं साधकं च देव्यामाहितचेतसः ॥ १,८९.१६९ ॥ षडावृत्त्या तन्मयः स्यात्साधकश्चास्य सिद्धयः । अचिरेणैव देवीनां प्रसादात्संभवन्ति च ॥ १,८९.१७० ॥ सप्तावृत्त्यारिरोगादिकृत्यापस्मारनाशनम् । अष्टावृत्त्या नरो भूपान्निग्रहानुग्रहक्षमः ॥ १,८९.१७१ ॥ नवावृत्त्या मन्मथाभो विक्षोभयति भूतलम् । दशावृत्त्या पठेन्नित्यं वाग्लक्ष्मीकान्तिसिद्धये ॥ १,८९.१७२ ॥ रुद्रावृत्त्याखिलर्द्धिश्च तदायत्तं जगद्भवेत् । अर्कावृत्त्या सिद्धिभिः स्याद्दिग्भिर्मर्त्यो हरोपमः ॥ १,८९.१७३ ॥ विश्वावृत्त्या तु विजयी सर्वतः स्यात्सुखी नरः । शक्रावृत्त्याखिलेष्टाप्तिः सर्वतो मङ्गलं भवेत् ॥ १,८९.१७४ ॥ तिथ्यावृत्त्याखिलानिष्टानयन्तादाप्नुयान्नरः । षोडशावृत्तितो भूयान्नरः साक्षान्महेश्वरः ॥ १,८९.१७५ ॥ विश्वं स्रष्टुं पालयितुं संहतु च क्षमो भवेत् । मण्डलं मासमात्रं वा यो जपेद्यद्यदाशयः ॥ १,८९.१७६ ॥ तत्तदेवाप्नुयात्सत्यं शिवस्य वचनं यथा । इत्येतत्कथितं विप्र नित्यावृत्त्यर्चनाश्रितम् ॥ १,८९.१७७ ॥ नाम्नां सहस्रं मनसोऽभीष्टसंपादनक्षमम् ॥ १,८९.१७८ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे ललितास्तोत्र कवचसहस्रनामकथनं नामैकोननवतितमोऽध्यायाः ॥ ८९ ॥ _____________________________________________________________ सनत्कुमार उवाच अथातो विप्र नित्यानां प्रयोगादिसमन्वितम् । पटलं तेऽभिधास्यामि नित्याभ्यर्चनदीपकम् ॥ १,९०.१ ॥ ललितायास्त्रिभिवर्णैः सकलार्थोऽभिधीयते । शेषेण देवीरूपेण तेन स्यादिदमीरितम् ॥ १,९०.२ ॥ अशेषतो जगत्कृत्स्नं हृल्लेखात्मकमुच्यते । तस्याश्चार्थस्तु कथितः सर्वतन्त्रेषु गोपितः ॥ १,९०.३ ॥ व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना । तयोर्विमर्श ईकारो बिन्दुना तन्निफआलनम् ॥ १,९०.४ ॥ पिण्डकर्तरि बीजाख्या मन्त्रा मालाभिधाः क्रमात् । एकार्णवन्तो द्व्यर्णाश्च त्रिदिङ्मुखार्णकाः ॥ १,९०.५ ॥ वृत्तिजार्णांल्लिखेदङ्कैर्व्यत्यस्तक्रमयोगतः । तैर्भेदयो जनं कुर्यात्संदर्भाणामशेषतः ॥ १,९०.६ ॥ देव्यात्मकं समुदयं विश्रान्तिं च शिवात्मकम् । उभयात्मकमप्यात्मस्वरूपं तैश्च भावयेत् ॥ १,९०.७ ॥ कालेनान्यञ्च दुःखार्त्तिवासनानाशनो ध्रुवम् । पराहॄन्तामयं सर्वस्वरूपं चात्मविग्रहम् ॥ १,९०.८ ॥ सदात्मकं स्फुरताख्यमरोषोपाधिवर्जितम् । प्रकाशरूपमात्मत्वे वस्तु तद्भासते परम् ॥ १,९०.९ ॥ यत एवमतो लोके नास्त्यमन्त्रं यदक्षरम् । यद्विद्येति समाख्यातं सर्वथा सर्वतः सदा ॥ १,९०.१० ॥ वासरेषु तु तेष्वेवं सर्वापत्तारकं भवेत् । तद्विधानं च वक्ष्यामि सम्यगासवकल्पनम् ॥ १,९०.११ ॥ गौडी पैष्टी तथा माध्वीत्येवं तत्त्रिविधं स्मृतम् । गतुडमुष्णोदके क्षिप्त्वा समालोड्य विनिक्षिपेत् ॥ १,९०.१२ ॥ घटे काचमये तस्मिन् धातकीसुमनोरजः । खात्वा भूमौ संध्ययोस्तु करैः संक्षोभ्य भूयसा ॥ १,९०.१३ ॥ मासमात्रे गते तस्मिन्निमग्ने रजसि द्रुतम् । संशोध्य पूजयेत्तेन गौडी सा गुडयोगतः ॥ १,९०.१४ ॥ एवं मधुसमायोगान्माध्वी पैष्टीं शृणु प्रिय । अध्यर्द्धद्विगुणे तोये श्रपयेत्तन्दुलं शनैः ॥ १,९०.१५ ॥ दिनत्रयोषिते तस्मिन्धात्र्यङ्कुररजः क्षिपेत् । दिनमेकं धृते वाते निवाते स्थापयेत्ततः ॥ १,९०.१६ ॥ उदकैर्लिलितं पश्चाद्गलितं पैष्टिकं मधु । वृक्षजं फलजं चेति द्विविधं क्रियते मधु ॥ १,९०.१७ ॥ तन्निर्माणं शृणुष्वाद्य यदास्वादान्मनोलयः । मृद्वीकांवाथ खर्जूरफलं पुष्पमथापि वा ॥ १,९०.१८ ॥ मधूकस्यांभसि क्षिप्त्वा शतृमर्द्धावशेषितम् । प्राक्सृतासवलेशेन मिलितं दिवसद्वयात् ॥ १,९०.१९ ॥ गालितं स्वादु पूजार्हं मनोलयकरं शुभम् । वार्क्षं तु नालिकेरं स्याद्धिन्तालस्याथ तालतः ॥ १,९०.२० ॥ फलकाण्डात्स्नुतं दुग्धं नीतं सद्यो रसावहम् । नालिके रफलान्तस्थसलिले शशिना युते ॥ १,९०.२१ ॥ अर्द्धपूगफलोत्थं तु रमं संक्षिप्य तापयेत् । आतपे सद्य एवैतदासवं देवताप्रियाम् ॥ १,९०.२२ ॥ आसवैरेभिरुदितैरर्ध्यं देव्यै निवेदयेत् । देवैः कृत्वा ततः सद्यो दद्यात्तत्सिद्धये द्वयम् ॥ १,९०.२३ ॥ साधको नियताहारः समाधिस्थः पिबेत्सदा । न कदाचित्पिबोत्सिद्धो देव्यर्थमनिवेदितम् ॥ १,९०.२४ ॥ पानं च तावत्कुर्वीत यावता स्यान्मनोलयः । ततः करोति चेत्सद्यः पातकी भवति ध्रुवम् ॥ १,९०.२५ ॥ देवतागुरुशिष्टान्यं पिबन्नासवमाशया । पातकी राजदण्ड्यश्च रिक्थोपासक एव ॥ १,९०.२६ ॥ साध्यसाधकयोरेतत्काम्य एव समीरितम् । सिद्धस्य सर्वदा प्रोक्तं यतोऽसौ तन्मयो भवेत् ॥ १,९०.२७ ॥ पूजयेत्प्रोक्तरूपस्तु प्रोक्तरूपाश्च ताः क्रमात् । उपचारैरासवैश्च मत्स्यैर्मांसैस्तु संस्कृतैः ॥ १,९०.२८ ॥ अथ काम्यार्चनं वक्ष्ये प्रयोगांश्चापि नारद । येषामाचरणात्सिद्धिं साधको लभते ध्रुवम् ॥ १,९०.२९ ॥ चैत्रे दमनकैरर्चेत्पूर्णायां मदनोत्सवम् । वैशाखे मासि पूर्णायां पूजयेद्धेमपुष्पकैः ॥ १,९०.३० ॥ ज्यैष्ठ्यां फलैर्यजेन्द्देवीं कदलीपनसाम्नजैः । आषाढ्यां चन्दनैरेलाजातीकङ्कोलकुङ्कुमैः ॥ १,९०.३१ ॥ श्रावण्यामागमोक्तेन विधिनार्चेत्पवित्रकैः । प्रौष्ठपद्यां गन्धपुष्पैर्यजेद्वा केतकीसुमैः ॥ १,९०.३२ ॥ आश्वायुज्यां कन्यकार्चा भूषावस्त्रधनादिभिः । कार्तिक्यां कुङ्कुमैश्चैव निशि दीपगणैरपि ॥ १,९०.३३ ॥ सचन्द्रैर्मार्गशीर्ष्यां तु नालिकेरैरपूपकैः । पौष्यां सशर्करगुडैर्गवां दुग्धैः समर्चयेत् ॥ १,९०.३४ ॥ स्वर्णरौप्यैः पङ्कजैस्तु माघ्यां सौगन्धिकादिभिः । फआल्गुन्यां विविधैर्द्रव्यैः फलैः पुष्पैः सुगन्धिभिः ॥ १,९०.३५ ॥ पर्वताग्रे यजेद्देवीं पलाशकुसुमैर्निशि । सिद्धद्रव्यैश्च सप्ताहात्खेचरीमेलनं भवेत् ॥ १,९०.३६ ॥ अरण्ये वटमूले वा कुञ्जे वा धरणीभृताम् । कदम्बगजातिपुष्पाभ्यां सिद्धद्रव्यैः शिवां यजेत् ॥ १,९०.३७ ॥ मासेन सिद्धा यक्षिण्यः प्रत्यक्षा वाञ्छितप्रदाः । केतकीकुसुमैः सिद्धाश्चेटका वारिधेस्तटे ॥ १,९०.३८ ॥ आज्ञामभीष्टां कुर्वन्ति रणे मायां महाद्भुताम् । वसूनि मालां भूषां च दद्युरस्येहयानिशम् ॥ १,९०.३९ ॥ पीठमृक्षद्रुमैः कृत्वा तत्र देवीं यजेन्निशि । शाल्मलैः कुसुमैः सिद्धद्रव्यैर्मासं तु निर्भयम् ॥ १,९०.४० ॥ श्यशानदेशे विप्रेन्द्र सिद्ध्यन्त्यस्य पिशाचकाः । अश्मपातप्रहाराद्यैर्जीयादाभिर्द्विषश्चिरम् ॥ १,९०.४१ ॥ निर्जने विपिने रात्रौ मासमात्रं तु निर्भयः । यजेद्देवीं चक्रगतां सिद्धद्रव्यसमन्विताम् ॥ १,९०.४२ ॥ मालतीजातपुन्नागकेतकीमरुभिः क्रमात् । तेन सिद्ध्यन्ति वेतालास्तानारुह्येच्छया चरेत् ॥ १,९०.४३ ॥ श्मशाने चण्डिकागेहे निर्जने विपिनेऽपि वा । मध्यरात्रे यजेद्देवीं कृष्णवस्त्रविभूषणैः ॥ १,९०.४४ ॥ कृष्णचक्रेऽतिकृष्णां तामतिक्रुद्धाशयो यजेत् । साध्य योनिं तदग्रे तु बलिं छिन्दन्निवेदयेत् ॥ १,९०.४५ ॥ सिद्धद्रव्यसमेतं तु मासात्तद्भाललोचनात् । जायन्ते भीषणाः कृत्यास्ताभ्यः सिद्धिं निवेदयेत् ॥ १,९०.४६ ॥ विश्वसंहारसंतुष्टाः पुनरेत्य निजेच्छया । देव्या ललाटनेत्रे स्युः प्रार्थिते तु तिरोहिताः ॥ १,९०.४७ ॥ रक्तभूषांबरालेपमालाभूषितविग्रहाः । उद्याने निर्जने देवीं चक्रे संचिन्त्य पूजयेत् ॥ १,९०.४८ ॥ कह्लारचंपकाशोकपाटलाशतपत्रकैः । सिद्धद्रव्यसमोपेतैर्मायाः सिद्ध्यन्ति मासतः ॥ १,९०.४९ ॥ यासां प्रसादलाभेन कामरूपो भवेन्नरः । याभिर्विश्वजयी विश्वचारी विश्वविनोदवान् ॥ १,९०.५० ॥ षडाधाराब्जमध्ये तु चक्रं संछित्य पूजयेत् । चन्द्रचन्दनकस्तूरीमृगनाभिमहोदयैः ॥ १,९०.५१ ॥ त्रिकालज्ञो भवेद्देवीं तेषु सम्यग्विचिन्तयेत् । पूर्णप्रतीतौ भव्यानि विकलेऽभव्यमीरितम् ॥ १,९०.५२ ॥ देवीं चक्रेण सहितां स्मरेद्भक्तियुतो नरः । विवेका विभवा विश्वा वितता च प्रकीर्तिता ॥ १,९०.५३ ॥ कामिनी खेचरी गर्वा पुराणा परमेश्वरी । गौरी शिवा ह्यमेया च विमला विजया परा ॥ १,९०.५४ ॥ पवित्रा पीडनी विद्या विश्वेशी शिववल्लभा । अशेषरूपा स्वानन्दांबुजाक्षी चाप्यनिन्दिता ॥ १,९०.५५ ॥ वरदा वाक्यदा वाणी विविधा वेदविग्रहा । विद्या वागीश्वरी सत्या संयता च सरस्वती ॥ १,९०.५६ ॥ निर्मलानन्दरूपा च ह्यमृता मानदा तथा । पूषा चैव तथा तुष्टिः पुष्टिश्चापि रतिर्धृतिः ॥ १,९०.५७ ॥ शाशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा । देवीनामानि चैतानि चुलुके सलिले स्मरन् ॥ १,९०.५८ ॥ मातृकासहितां विग्नां त्रिरावृत्त्यामृतात्मिकाम् । ताडीं सारस्वतीं जिह्वां दीपाकारां स्मरन्पिबेत् ॥ १,९०.५९ ॥ अब्दाञ्चतुर्विधं तस्य पाण्डित्यं भुवि जायते । एवं नित्यमुषः काले यः कुर्याच्छुद्धमानसः ॥ १,९०.६० ॥ स योगी ब्रह्मविज्ञानी शिवयोगी तथात्मवित् । अनुग्रहोक्तचक्रस्थां देवीं ताभिर्वृतास्मरेत् ॥ १,९०.६१ ॥ चंपकेन्दीवरैर्मासादारोग्यमुपजायते । ज्वरभूतग्रहोन्मादशीतकाकामलाक्षिहृत् ॥ १,९०.६२ ॥ दन्तकर्णज्वरशिरः शूलगुल्मादि कुक्षिजाः । व्रणप्रमेहच्छर्द्यर्शोग्रहण्यामत्रिदोषजाः ॥ १,९०.६३ ॥ सर्वे तथा शमं यान्ति पूजया परमेश्वरी । द्रव्यं चक्रस्य निर्माणे काश्मीरं समुदी रितम् ॥ १,९०.६४ ॥ सिंदूरं गैरिकं लाक्षा दरदं चन्दनद्वयम् । बिलद्वारे लिखेत्त्र्यस्रं षोडशत्र्यस्रसंयुतम् ॥ १,९०.६५ ॥ दरदेनास्य मध्यस्थां पूजयेत्परमेश्वरीम् । ताभिस्तच्छक्तिभिः साकं सिद्धद्रव्यैः सुगन्धिभिः ॥ १,९०.६६ ॥ कुसुमैर्मासमात्रेण नागकन्यासमन्वितम् । पातालादिषु लोकेषु रमयत्यनिशं चिरम् ॥ १,९०.६७ ॥ यक्षराक्षसगन्धर्वसिद्धविद्याधराङ्गनाः । पिशाचा गुह्यका वीराः किन्निरा भुजगास्तथा ॥ १,९०.६८ ॥ सिद्ध्यन्ति पूजनात्तत्र तथा तत्प्रोक्तकालतः । किंशुकैर्भूषणावाप्तौ पाटलैर्गजसिद्धये ॥ १,९०.६९ ॥ रक्तोत्पलैरश्वसिद्धौ कुमुदैश्चरसिद्धये । उत्पलैरुष्ट्रसंसिद्ध्यै तगरैः पशुसिद्धये ॥ १,९०.७० ॥ जंबीरैर्महिषावाप्त्यै लकुचैरजसिद्धये । दाडिमैर्निधिसंसिद्ध्यै मधुकैर्गानसिद्धये ॥ १,९०.७१ ॥ बकुलैरङ्गनासिद्ध्यै कह्लारैः पुत्रसिद्धये । शतपत्रैर्जयावाप्त्यै केतकैर्वाहनाप्तये ॥ १,९०.७२ ॥ सौरभाढ्यैः प्रसूनैस्तु नित्यं सौभाग्यसिद्धये । पूजयेन्मासमात्रं वा द्विगुणं त्रिगुणं तु वा ॥ १,९०.७३ ॥ यावत्फलावाप्तिकाङ्क्षी शर्कराघृतपायसैः । सचक्रपरिवारां तां देवीं सलिलमध्यगाम् ॥ १,९०.७४ ॥ तर्प्पयेत्कुसुमैः सार्ध्यैः सर्वोपद्रवशान्तये । घृतैः पूर्णायुषः सिद्ध्यै क्षौद्द्रैः सौभाग्यसिद्धये ॥ १,९०.७५ ॥ दुग्धैरारोग्यसंसिद्ध्यै त्रिभिरैश्वर्यसिद्धये । नालिकेरोदकैः प्रीत्यै हिमतोयैर्नृपाप्तये । सर्वार्थसिद्धय तौर्यैरभिषिञ्चेन्महेश्वरीम् ॥ १,९०.७६ ॥ पूगोद्याने यजेद्देवीं सिद्धद्रव्यैर्दिवानिशम् । निवसंस्तत्र तत्पुष्पैर्जायते मन्मथोपमः ॥ १,९०.७७ ॥ पूर्णासु नियत्तं देवीं कन्यकायां समर्चयन् । कृत्याः परेरिता मन्त्रा विमुखांस्तान् ग्रसंति वै ॥ १,९०.७८ ॥ लिङ्गत्रयमयीं देवीं चक्रस्थाभिश्च शक्तिभिः । पूजयन्निष्टमखिलं लभतेऽत्र परत्र च ॥ १,९०.७९ ॥ शतमानकृतैः स्वर्णपुष्पैः सौरभ्यवासितैः । पूजयन्मासमात्रेण प्राग्जन्माद्यैर्विमुच्यते ॥ १,९०.८० ॥ तथा रत्नैश्च नवभिर्मासं तु यदि पूजयेत् । विमुक्तसर्वपापौघैस्तां च पश्यति चक्षुषा ॥ १,९०.८१ ॥ अंशुकैरर्चयेद्देवीं मासमात्रं सुगन्धिभिः । मुच्यते पापकृत्यादिदुःखौघैरितरैरपि ॥ १,९०.८२ ॥ देवीरूपं स्वमात्मानं चक्रं शक्तीः समन्ततः । भावयन्विषयैः पुष्पैः पूजयंस्तन्मयो भवेत् ॥ १,९०.८३ ॥ षोडशानां तु नित्यानां प्रत्येक तिथयः क्रमात् । तत्तित्तिथौ तद्भजनं जपहोमादिकं चरेत् ॥ १,९०.८४ ॥ घृतं च शर्करा दुग्धमपूपं कदलीपलम् । क्षौद्रं गुडं नालिकेरफलं लाजा तिलं दधि ॥ १,९०.८५ ॥ पृथुकं चणकं मुद्गपायसं च निवेदयेत् । कामेश्वर्यादिशक्तीनां सर्वासामपि चोदितम् ॥ १,९०.८६ ॥ आद्याया ललितायास्तु सर्वाण्येतानि सर्वदा । निवेदयेञ्च जुहुयाद्वह्नौ दद्यान्नृणामपि ॥ १,९०.८७ ॥ तत्तद्विद्याक्षरप्रोक्तमौषधं तत्प्रमाणतः । संपिष्य गुटिकीकृत्य ताभिः सर्वं च साधयेत् ॥ १,९०.८८ ॥ रविवारेऽरुणांभोजैः कुमुदैः सोमवारके । भौमे रक्तोत्पलैः सौम्ये वारे तगरसंभवैः ॥ १,९०.८९ ॥ गुरुवारे सुकह्लारैः शुक्रवारे सितांबुजैः । नीलोत्पलैर्मन्दवारे पूजयेदिष्टमादरात् ॥ १,९०.९० ॥ निवेदयेत्क्रमात्तेषु रविवारादिषु क्रमात् । पायसं दुग्धकदलीनवनीतसिताघृतम् ॥ १,९०.९१ ॥ एवमिष्टं समाराध्य देवीं गन्धादिभिर्यजेत् । ग्रहपीडां विजित्याशुसुखानि च समश्नुते ॥ १,९०.९२ ॥ अर्धरात्रे तु साध्यां स्त्रीं स्मरन्मदनवह्निना । दह्यमानां हृतस्वान्तां मस्तकस्थापिताञ्जलिम् ॥ १,९०.९३ ॥ विकीर्णकेशीमालोललोचनामरुणारुणाम् । वायुप्रेङ्खत्पताकास्थपदा पद्मकलेवराम् ॥ १,९०.९४ ॥ विवेकविधुरां मत्तां मानलज्जाभयातिगाम् । चिन्तयन्नर्चयेञ्चक्रं मध्ये देवीं दिगंबराम् ॥ १,९०.९५ ॥ जपादाडिमबन्धूककिंशुकाद्यैः समर्चयेत् । अन्यैः सुगन्धिशेफआलीकुसुमाद्यैः समर्चयेत् ॥ १,९०.९६ ॥ त्रिसप्तरात्रादायाति प्रोक्तरूपा मदाकुला । यावच्छरीरपातः स्याच्छापो वानपगास्य सा ॥ १,९०.९७ ॥ पद्मैरक्तैस्त्रिमध्वक्तैर्हेमाल्लक्ष्मीमवाप्नुयात् । तथैव कैरवै रक्तैरङ्गनाः स्ववशं नयेत् ॥ १,९०.९८ ॥ समानरूपवत्सायाः शुक्लाया गोः पयःप्लुतैः । मल्लिकामालतीजातीशतपत्रैर्हुतैर्भवेत् ॥ १,९०.९९ ॥ कीर्तिविद्याधनारोग्यसौभाग्यवित्तपादिकम् । आरग्वधप्रसूनैस्तु क्षौद्राक्तैर्हवनाद्भवेत् ॥ १,९०.१०० ॥ स्वर्णादिस्तं भनं शत्रोर्नृपादीनां क्रुधोऽपि च । आज्याक्तैः करवीरोत्थैः प्रसूनैररुणैर्हुतैः ॥ १,९०.१०१ ॥ रक्तांबराणि वनिता भूपामात्यवशं तथा । भूषावाहनवाणिज्यसिद्धयश्चास्य वाञ्छिताः ॥ १,९०.१०२ ॥ लवणैः सर्षर्पैरैरितरैर्वाथ होमतः । सतैलाक्तैर्निशामध्ये त्वानयेद्वाञ्छितां वधूम् ॥ १,९०.१०३ ॥ तैलाक्तैर्जुहुयात्कृष्णदरपुष्पैर्निशातरे । मासादरातेस्तस्यार्तिर्ज्वरेण भवति ध्रुवम् ॥ १,९०.१०४ ॥ आरुष्करैर्धृताभ्यक्तैस्तद्बीजैर्निशि होमतः । शत्रोर्द्दाहव्रणानि स्युर्दुःसाध्यानि चिकित्सकैः ॥ १,९०.१०५ ॥ तथा तत्तैलसंसिक्तैर्बीजैरङ्कोलकैरपि । मरिचैः सर्षपाज्याक्तौनशि होमानुसारतः ॥ १,९०.१०६ ॥ वाञ्छितां वनितां कामज्वरार्तामानयेद्द्रुतम् । शालिभिश्चाज्यसंसिक्तैर्हेमाच्छालीनवाप्नुयात् ॥ १,९०.१०७ ॥ मुद्गैर्मुद्गं घृतैराज्यं सिद्धैरित्थं हुतैर्भवेत् । साध्यर्क्षवृक्षसंभूतां पिष्टपादरजःकृताम् ॥ १,९०.१०८ ॥ राजीमरीचिलोणोत्थां पुत्तलीं जुहुयान्निशि । प्रपदाभ्यां च जङ्घाभ्यां जानुभ्यामुरुयुग्मतः ॥ १,९०.१०९ ॥ नाभेरधस्ताद्धृदयाद्भिन्नेनाकण्ठस्तथा । शिरसा च सुतीक्ष्णेन च्छित्वा शस्त्रेण वै क्रमात् ॥ १,९०.११० ॥ एवं द्वादशधा होमान्नरनारीनराधिपाः । वश्या भवन्ति सप्ताडाज्ज्वरार्त्तीश्चास्य वाञ्छया ॥ १,९०.१११ ॥ पिष्टेन गुडयुक्तेन मरिचैर्जीरकैर्युताम् । कृत्वा पुत्तलिकां साध्यनामयुक्तामथो हृदि ॥ १,९०.११२ ॥ सनामहोमसंपातघृतेपाच्यतां पुनः । स्पृशन्निजकराग्रेण सहस्रं प्रजपेन्मनुम् ॥ १,९०.११३ ॥ अभ्यर्च्य तद्घृताभ्यक्तं भक्षयेत्तद्धिया जपन् । नरनारीनृपास्तस्य वश्याः स्युर्मरणावधिं ॥ १,९०.११४ ॥ शक्तयष्टगन्धं संपिष्य कन्यया शिशिरे जले । तेन वै तिलकं भाले धारयन्वशयेज्जगत् ॥ १,९०.११५ ॥ शालितन्दुलमादाय प्रस्थं भाण्डे नवे भिपेत् । समानवर्णेवत्साया रक्ताया गोः पयस्तथा ॥ १,९०.११६ ॥ द्वुगुणं तत्र निक्षिप्य श्रपयेत्संस्कृतेऽनले । घृतेन सिक्तं सिक्थं तु कृत्वा तत्ससितं करे ॥ १,९०.११७ ॥ विधाय विद्यामष्टोर्द्धूशतं जस्वा हुनेत्ततः । एवं होमो महालक्ष्मीमावहेत्प्रतिपत्कृतः ॥ १,९०.११८ ॥ शुक्रवारेष्वपि तथा वर्षान्नृपसमो भवेत् । पञ्चम्यां तु विशेषेण प्राग्वद्धोमं समाचरेत् ॥ १,९०.११९ ॥ तस्यां तिथौ त्रिमध्वक्तैर्मल्लिकाद्यैः सितैर्हुनेत् । अन्नाज्याभ्यां च नियतं हुत्वान्नाढ्यो भवेन्नरः ॥ १,९०.१२० ॥ यद्यद्धि वाञ्छितं वस्तु तत्तत्सर्वं तु सर्वदा । घृतहोमादवाप्नोति तथैव तिलतन्दुलैः ॥ १,९०.१२१ ॥ अरुणैः पङ्कजैर्हेमं कुर्वंस्त्रिमधुराप्लुतैः । मण्डलाल्लभते लक्ष्मीं महतीं श्लाध्यविग्रहाम् ॥ १,९०.१२२ ॥ कह्लारैः क्षौद्रसंसिक्तैः पूर्णाद्यं तद्दिनावधि । जुहुयान्नित्यशो भक्त्या सहस्रं विकचैः शुभैः ॥ १,९०.१२३ ॥ स तु कीर्तिं धनं पुत्रान्प्राप्नुयान्नात्र संशयः । चंपकैः क्षौद्रसंसिक्तैः सहस्रहवनाद्ध्रुवम् ॥ १,९०.१२४ ॥ लभते स्वर्णनिष्काणां शतं मासेन नारद । पाटलैर्घृतसंसिक्तैस्त्रिसहस्रं हुतैस्तथा ॥ १,९०.१२५ ॥ दर्शादिमासाल्लभते चित्राणि वसनानि च । कर्पूरचन्दनाद्यानि सुगन्धानि तु मासतः ॥ १,९०.१२६ ॥ वस्तूनि लभते हृद्यैरन्यैर्भोगोपयोगिभिः । शालिभिः क्षीरसिक्ताभिः सप्तमीषु शतं हुतम् ॥ १,९०.१२७ ॥ तेन शालिसमृद्धिः स्याज्मासैः षड्रभिरसंशयम् । तिलैर्हुतैस्तु दिवसैर्वर्षादारोग्यमाप्नुयात् ॥ १,९०.१२८ ॥ स्वजन्मर्क्षत्रिषु तथा दूर्वाभिर्ज्जुहुयान्नरः । निरातङ्को महाभोगः शतं वर्षाणि जीवति ॥ १,९०.१२९ ॥ गुडूचीतिलदूर्वाभिस्त्रिषु जन्मसु वा हुनेत् । तेनायुःश्रीयशोभोगपुण्यनिध्यादिमान्भवेत् ॥ १,९०.१३० ॥ घृतपायसदुग्धैस्तु हुतैस्तेषु त्रिषु क्रमात् । आयुरारोग्यविभवैर्नृपामात्यो भवेत्तथा ॥ १,९०.१३१ ॥ सप्तम्यां कदलीहोमात्सौभाग्यं लभतेऽन्वहम् । दूर्वात्रिकैस्तु प्रादेशमानैस्त्रिस्वादुसंयुतैः ॥ १,९०.१३२ ॥ जुहुयाद्दिनशो घोरे सन्निपातज्वरे तथा । तद्दिनेषु जपेद्विद्यां नित्यशः सलिलं स्पृशन् ॥ १,९०.१३३ ॥ सहस्रवारं तत्तोयैः स्नानं पानं समाचरेत् । पाकाद्यमपि तैरव कुर्याद्रोगविमुक्तये ॥ १,९०.१३४ ॥ साध्यर्क्षवृक्षसंचूर्णं त्र्यूषणं सर्षपं तिलम् । पिष्टं च साध्यपादोत्थरजसा च समन्वितम् ॥ १,९०.१३५ ॥ कृत्वा पुत्तलिकां सम्यग्धृदये नामसंयुताम् । प्राग्वच्छित्वायसैस्तीक्ष्णैः शस्त्रैः पुत्तलिकां हनेत् ॥ १,९०.१३६ ॥ एवं दिनैः सप्तभिस्तु साध्यो वश्यो भवेद्दृढम् । तथाविधां पुत्तलिकां कुण्डमध्ये निखन्य च ॥ १,९०.१३७ ॥ उपर्यग्निं निधायाथ विद्यया दिनशो हुनेत् । त्रिसहस्रं त्रियमायां सर्षपैस्तद्रसाप्लुतैः ॥ १,९०.१३८ ॥ शतयोजनदूरादप्यानयेद्वनितां बलात् । वशयेद्वनितां हाएंमात्कौशिकैर्मधुमिश्रितैः ॥ १,९०.१३९ ॥ नालिकेरफलोपे तैर्गुडैर्लक्ष्मीमवाप्नुयात् । तथाज्यसिक्तैः कह्लारैः क्षीराक्तैररुणोत्पलैः ॥ १,९०.१४० ॥ त्रिमध्वक्तैश्चंपर्कश्च प्रसूनैर्बकुलोद्भवैः । मधूकजैः प्रसूनैश्च हुतैः कन्यामवाप्नुयात् ॥ १,९०.१४१ ॥ पुन्नागजैर्हुतैर्वस्त्राण्याज्यैरिष्टमवाप्नुयात् । माहिषैर्महिषीराजैरजान् गव्यैश्च गास्तथा ॥ १,९०.१४२ ॥ अवाप्नोति हुतैराज्यैः रत्नै रत्नं च साधकः । शालिपिष्टमयीं कृत्वा पुत्तलीं ससितां ततः ॥ १,९०.१४३ ॥ हृद्देशन्यस्तनामार्णां पचेत्तैलाज्ययोर्निशि । तन्मनाश्च दिवारात्रौ विद्याजप्तां तु भक्षयेत् ॥ १,९०.१४४ ॥ सप्तरात्रप्रयोगेण नरो नारी नृपोऽपि वा । दासवद्वशमायाति चित्तप्राणादि चार्पयेत् ॥ १,९०.१४५ ॥ हयारिपुष्पैररुणैः सितैर्वा जुहुयात्तथा । त्रिसप्तरात्रान्महतीमवाप्नोति श्रियन्नरः ॥ १,९०.१४६ ॥ छागमांसैस्त्रिमध्वक्तैर्हेमात्स्वर्णमवाप्नुयात् । क्षीराक्तैः सस्यसंपन्नां भुवमाप्नोति मण्डलात् ॥ १,९०.१४७ ॥ पद्माक्षैर्हवनाल्लक्ष्मीमवाप्नोति त्रिभिर्दिनैः । बिल्वैर्दशांशं जुहुयान्मन्त्राद्यैः साधने जपे ॥ १,९०.१४८ ॥ एवं संसिद्धमन्त्रस्तु मन्त्रितैश्चुलुकोदकैः । फणिदष्टमृतानां तु मुखे संताड्य जीवयेत् ॥ १,९०.१४९ ॥ तत्कर्णयोर्जपन्विद्यां यष्ट्या वा जपसिद्धया । संताड्यशीर्षं सहसा मृतमुत्थापयेदिति ॥ १,९०.१५० ॥ कृत्वा योनिं कुण्डमध्ये तत्राग्नौ विधिवद्ध्रुनेत् । तिलसर्षपगोधूमशालिधान्ययवैर्हुनेत् ॥ १,९०.१५१ ॥ त्रिमध्वक्तैरेकशो वा समेतैर्वा समृद्धये । बकुलैश्चंपकैरब्जैः कह्लारैररुणोत्पलैः ॥ १,९०.१५२ ॥ कैरवैर्मल्लिकाकुन्दमधूकैरिन्दिराप्तये । अशोकैः पाटलैर्विल्वैर्जातीविकङ्कतैः सितैः ॥ १,९०.१५३ ॥ नवनीलोत्पलैरश्वरिपुजैः कर्णिकारजैः । होमाल्लक्ष्मीं च सौभाग्यं निधिमायुर्यशो लभेत् ॥ १,९०.१५४ ॥ दूर्वां गुडूचीमश्वत्थं वटमारग्वधं तथा । सितार्कप्लक्षजं हुत्वा चिरान्मुच्येत रोगतः ॥ १,९०.१५५ ॥ इक्षुजंबूनालिकेरमोचागुडसितायुतैः । अचलां लभते लक्ष्मीं भोक्ता च भवति ध्रुवम् ॥ १,९०.१५६ ॥ सर्षपाज्यैर्हुते मृत्युः काष्ठाग्नौ वैरिमृत्यवे । चतुरङ्गुलजैर्हेमाञ्चतुरङ्गबले रिपोः ॥ १,९०.१५७ ॥ सप्ताहाद्रोगदुःखार्तिर्भवत्येव न संशयः । नित्यं नित्यार्चनं कुर्यात्तथा होमं घृतेन वै ॥ १,९०.१५८ ॥ विद्याभिमन्त्रितं तोयं पिबेत्प्रातस्तदाप्तये । चन्दनोशीरकर्पूरकस्तूरीरोचनान्वितैः ॥ १,९०.१५९ ॥ काश्मीरकालागुरुभिर्मृगस्वेदमयैरपि । पूजयेच्च शिवामेतैर्गन्धैः सर्वार्थसिद्धये ॥ १,९०.१६० ॥ सर्वाभिरपि नित्याभिः प्रातर्मातृकया समम् । त्रिजप्ताभिः पिबेत्तोयं तथा वाक्सिद्वये शिवम् ॥ १,९०.१६१ ॥ विदध्यात्साधनं प्राग्वद्वर्णलक्षं पयोव्रतः । त्रिस्वादुसिक्तैररुणैरंबुजैर्हवनं चरेत् ॥ १,९०.१६२ ॥ जपतर्पणहोमार्चासेकसिद्धमनुर्नरः । कुर्यादुक्तान्प्रयोगांश्च न चेत्तन्मनुदेवताः ॥ १,९०.१६३ ॥ प्राणांस्तस्य ग्रसंत्येव कुपितास्तत्क्षणान्मुने । अनया विद्यया लोके यदसाध्यं न तत्क्वचित् ॥ १,९०.१६४ ॥ अरण्यवटमूले च पर्वताग्रगुहासु च । उद्यानमध्यकान्तारे मातृपादपमूलतः ॥ १,९०.१६५ ॥ सिंधुतीरे वने चैता यक्षिणीः साधयेन्नरः । कमलैः कैरवै रक्तैः सितैः सौगन्धिकोत्पलैः ॥ १,९०.१६६ ॥ सुगन्धिशिफआलिकया त्रिमध्वक्तैर्यथाविधि । होमात्सप्तसु वारेषु तन्मण्डलत एव वै ॥ १,९०.१६७ ॥ विजयं समवाप्रोति समरे द्वन्द्वयुद्धके । मल्लयुद्धे शस्त्रयुद्धे वादे द्यूतह्नयेऽपि च ॥ १,९०.१६८ ॥ व्यवहारेषु सर्वत्र जयमाप्नोति निश्चितम् । चतुरङ्गुलजैः पुप्पैर्हेमात्संस्तंभयेदरीन् ॥ १,९०.१६९ ॥ तथैव कर्णिकारोत्थैः पुन्नागोत्थैर्नमेरुजैः । चंपकैः केतकै राजवृक्षजैर्माधवोद्भवैः ॥ १,९०.१७० ॥ प्राग्वद्दारेषु जुहुयात्क्रमात्पुष्पैस्तु सप्तभिः । प्रोक्तेषु स्तंभनं शत्रोर्भङ्गो वा भवति ध्रुवम् ॥ १,९०.१७१ ॥ शत्रोर्नक्षत्रवृक्षाग्नौ तत्समिद्धिस्तु होमतः । सर्षपाज्यप्लुताभिस्ते प्रणमन्त्येव पादयोः ॥ १,९०.१७२ ॥ मृत्युकाष्ठानले मृत्युपत्रपुष्पफलैरपि । समिद्भिर्जुहुयात्सम्यग्वारे शार्चनपूर्वकम् ॥ १,९०.१७३ ॥ अरातेश्चतुरङ्गं तु बलं रोगार्द्दितं भवेत् । तेनास्य विजयो भूयान्निधनेनापि वा पुनः ॥ १,९०.१७४ ॥ अर्कवारेर्ऽकजैरिध्मैः समिद्धेऽग्नौ तदुद्भवैः । पत्रैः पुष्पैः फलैः काण्डैर्मूलैश्चापि हुनेत्क्रमात् ॥ १,९०.१७५ ॥ सवर्णारुणवत्साया घृतसिक्तैस्तु मण्डलात् । अरातिदिङ्मुखो भूत्वा कुण्डे त्र्यस्रे विधानतः ॥ १,९०.१७६ ॥ पलायते वा रोगार्तः प्रणमेद्वा भयान्वितः । पलाशेध्मानले तस्य पञ्चाङ्गैस्तद्घृताप्लुतैः ॥ १,९०.१७७ ॥ होमेन सोमवारे च भवेत्प्राग्वन्न संशयः । खादिरेध्मानले तस्य पञ्चाङ्गैस्तद्घृताप्लुतैः ॥ १,९०.१७८ ॥ वारे भौमस्य हवनात्तदाप्नोति सुनिश्चितम् । अपामार्गस्य सौम्येऽह्नि पिप्पलस्य गुरोर्दिने ॥ १,९०.१७९ ॥ उदुंबरस्य भृगुजे शम्या मान्देऽह्नि गोघृतैः । शुभ्रपीतसितश्यामवर्णाद्याः पूर्ववत्तथा ॥ १,९०.१८० ॥ तत्फलं समवाप्नोति तत्समिद्दीपितेऽनले । प्रतिपत्तिथिमारभ्य पञ्चम्यन्तं क्रमेण वै ॥ १,९०.१८१ ॥ शालीचणकमुद्गैश्च यवमाषैश्च होमतः । माहिषाज्यप्लुतैस्ताभिस्तिथिभिः समवाप्नुयात् ॥ १,९०.१८२ ॥ षष्ठ्यादिसप्तम्यन्तं तु चाजाभवघृतैस्तथा । प्रागुक्तैर्निस्तुषैर्हेमात्प्रागुक्तफलमाप्नुयात् ॥ १,९०.१८३ ॥ तद्वर्द्धं पञ्चके त्वेतैः समस्तैश्च तिलद्वयैः । सितान्नैः पायसैः सिक्तैराविकैस्तु घृतैस्तथा ॥ १,९०.१८४ ॥ हवनात्तदवाप्नोति यदादौ फलमीरितम् । एवं नक्षत्रवृक्षोत्थवह्नौ तैस्तैर्मधुप्लुतैः ॥ १,९०.१८५ ॥ हवनादपि तत्प्राप्तिर्भवत्येव न संशयः । विद्यां संसाध्य पूर्वं तु पश्चादुक्तानशेषतः ॥ १,९०.१८६ ॥ प्रयोगान्साधयेद्धीमान्मङ्गलायाः प्रसादतः । संपूज्य देवतां विप्रकुमारीं कन्यकां तु वा ॥ १,९०.१८७ ॥ सशुभावयवां मुग्धां स्नातां धौतांबरां शुभाम् । तथाविधं कुमारं वा संस्थाप्यभ्यर्च्य विद्यया ॥ १,९०.१८८ ॥ स्पृष्टशीर्षो जपेद्विद्यां शतवारं तथार्चयेत् । प्रसूनैररुणैः शुभ्रैः सौरभाढ्यैरथापि वा ॥ १,९०.१८९ ॥ दद्याद्गुग्गुलधूपं च यावत्कर्मावसानकम् । ततो देव्या समाविष्टे तस्मिन्संपूज्य भक्तितः ॥ १,९०.१९० ॥ ततस्तामुपचारैस्तैः प्रागुक्तैर्विद्यया व्रती । प्रजपंस्तां ततः पृच्छेदभीष्टं कथयेच्च सा ॥ १,९०.१९१ ॥ भूतं भवद्भविष्यं च यदन्यन्मनसि स्थितम् । जन्मान्तराण्यतीतानि सर्वं सा पूजिता वदेत् ॥ १,९०.१९२ ॥ ततस्तां प्राग्वदभ्यर्च्य स्वात्मन्युद्वास्य तां जपेत् । सहस्रवारं स्थिरधीः पूर्णात्मा विचरेत्सुखी ॥ १,९०.१९३ ॥ मधुरत्रयसंसिक्तैररुणैरंबजैः श्रियम् । प्राप्नोति मण्डलं होमात्सितैश्च महद्यशः ॥ १,९०.१९४ ॥ क्षौद्राक्तैरुप्तलै रक्तैर्हवनात्प्रोक्तकालतः । सुवर्णं समवाप्नोति निधिं वा वसुधां तु वा ॥ १,९०.१९५ ॥ क्षीराक्तैः कैरवैर्हेमात्प्रोक्तं काममवाप्नुयात् । धान्यानि विविधान्याशु सुभगः स भवेन्नरः ॥ १,९०.१९६ ॥ आज्याक्तैरुत्पलैर्हेमाद्वाञ्छितं समवाप्नुयात् । तदक्तैरपि कह्लारैर्हवनाद्राजवल्लभः ॥ १,९०.१९७ ॥ पलाशपुष्पैस्त्रिस्वादुयुक्तैस्तत्कालहोमतः । चतुर्विधं तु पाण्डित्यं भवत्येव न संशयः ॥ १,९०.१९८ ॥ लाजैस्त्रिमधुरोपेतैस्तत्कालहवनेन वै । कन्यकां लभते पत्नीं समस्तगुणसंयुताम् ॥ १,९०.१९९ ॥ नालिकेरफलक्षोदं ससितं सगुडं तु वा । क्षौद्राक्षं जुहुयात्तद्वदयत्नाद्धनदोपमः ॥ १,९०.२०० ॥ तथैवान्नाज्यहोमेन सतन्दुलतिलैरपि । प्रसूनैररुणैस्तद्वत्तथा बन्धूकसंभवैः ॥ १,९०.२०१ ॥ सितैः प्रसूनर्वाक्सिद्धिं हवनात्समवाप्नुयात् । सितरक्तैस्तुमिलितैरायुरारोग्यमाप्नुयात् ॥ १,९०.२०२ ॥ दूर्वात्रिकैस्त्रिमध्वक्तैर्हवनात्तु जयेच्च तान् । तथा गुडूच्या होमेन पायसेन तिलेन च ॥ १,९०.२०३ ॥ श्रीखण्डपङ्ककर्पूरमिलितैः शतपत्रकैः । हवनाच्छ्रियमाप्नोति यावदन्वयगा भवेत् ॥ १,९०.२०४ ॥ कुङ्कुमं हिमतोयेन पिष्ट्वा कर्पूरसंयुतम् । तत्पङ्क मर्द्दितैर्हेमात्कह्लारैर्विकचैः सुमैः ॥ १,९०.२०५ ॥ राजकल्पः श्रिया भूयाज्जीवेद्वर्षशतं भुवि । निःसपत्नो निरातङ्को निर्द्रन्दो निर्मलाशयः ॥ १,९०.२०६ ॥ इक्षुकाण्डस्य शकलैर्हवनाद्वस्त्रमाप्नुयात् । तथैव करवीरोत्थैः प्रसूनैररुणैः सितैः ॥ १,९०.२०७ ॥ क्षौद्राक्तैः पाटलापुष्पैर्हवनाद्वशयेद्वधूः । तथैव पङ्कजैर्हेमाद्रूपाजीवां वशं नयेत् ॥ १,९०.२०८ ॥ सरूपवत्सासितगोक्षीराक्तसितहोमतः । लभतेऽनुपमां लक्ष्मीमपि पापिष्ठचेतनः ॥ १,९०.२०९ ॥ सौवीराक्तैस्तु कार्पासबीजस्तत्कालहोमतः । अर्द्धेन्दुकुण्डे नियतं वशगा रिपवो मुने ॥ १,९०.२१० ॥ अरिष्टपत्रैस्तद्बीजैस्तद्वह्नौ तैस्तथा हुतैः । मृत्युबीजैर्निम्बतैलसिक्तैर्हेमान्निहॄन्ति तान् ॥ १,९०.२११ ॥ रोगार्तांस्तुरगांस्तद्वत्पञ्चगव्यैर्हुतैर्ध्रुवम् । अक्षबीजैस्तु तैलाक्तैर्हेमः सर्वविनाशनः ॥ १,९०.२१२ ॥ करञ्जबीजैः संसिक्तैर्हेमाद्वैरी पिशाचवान् । तथैवाक्षतरूद्भूतपञ्चाङ्गहवनादपि ॥ १,९०.२१३ ॥ निंबतैलान्वितैरक्षद्रुमबीजैस्तु होमतः । तद्दिने स्यादपस्मारी वैरी भवति निश्चितम् ॥ १,९०.२१४ ॥ अरातेर्जन्मनक्षत्रवृक्षेन्धनगतेऽनले । तद्योनिपिशितैस्तैश्च हवनान्मृत्युकृद्रिपोः ॥ १,९०.२१५ ॥ पद्माक्षबीजैः सर्षपतैलाक्तैर्हवनात्तथा । जायन्ते वैरिणः कुष्ठरोगा देहविलोपकाः ॥ १,९०.२१६ ॥ मरिचैः सर्षपैर्हेमात्तैलाक्तैर्मध्यराजके । दाहज्वरेण ग्रस्तः स्यादरातिस्तद्दिने ध्रुवम् ॥ १,९०.२१७ ॥ एवं निग्रहहोमेषु स्वरक्षायै तथान्वहम् । स्निग्धैः संप्राप्तसद्विद्यैर्जपहोमादि कारयेत् ॥ १,९०.२१८ ॥ मृत्युञ्जयेन वा तत्तत्प्रयोगस्थाभिरेव वा । विद्याभिरन्यथासिद्धमन्त्रमस्याशु नाशयेत् ॥ १,९०.२१९ ॥ लक्षत्रयं कृते प्रोक्तं त्रेतायां द्विगुणं तथा । द्वापरे त्रिगुणं प्रोक्तं कलौतत्तु चतुर्गुणम् ॥ १,९०.२२० ॥ दशांशं हवनं कार्यं तर्पणं तद्दशांशतः । तद्दशांशं मार्जनं स्याद्दशांशं द्विजभोजनम् ॥ १,९०.२२१ ॥ एवं क्रमेण सर्वासां या या संख्या जपस्य सा । कार्या सिद्ध्यै तु विद्यायास्ततः कुर्यात्प्रयोगकान् ॥ १,९०.२२२ ॥ द्विगुणो हि जपः कार्यः कामेश्वर्या मुनीश्वर । सिद्धे मन्त्रे प्रयोगांस्तु विदधीत यथा तथा ॥ १,९०.२२३ ॥ जपो लक्षं समाख्यातो होमादिस्तद्धशांशतः । कर्तव्यो भगमालाया विद्यासिद्ध्यैमुनीश्वर ॥ १,९०.२२४ ॥ नित्यक्लिन्नाजपः प्रोक्तो लक्षं होमो हशांशतः । कार्यः सिद्ध्यै तु विद्यायाः प्रयोगान्साधयेत्ततः ॥ १,९०.२२५ ॥ ततो मौनी पयोभक्षः प्रजपेन्नवलक्षकम् । भेरुडामन्त्रमुक्तं तु शेषं कुर्यात्प्रयत्नतः ॥ १,९०.२२६ ॥ लक्षत्रयं जपो वह्निवासिन्याः समुदीरितः । अन्यत्सर्वं पुरावच्च कार्य्यं साधकसत्तमैः ॥ १,९०.२२७ ॥ महावज्रेश्वरीविद्याजपो लक्षत्रयो मतः । हवनादि दशांशेन कार्यं प्रोक्तक्रमेण हि ॥ १,९०.२२८ ॥ अतन्द्रितो जपेल्लक्षमितं दूतीमनुं मुने । तद्दशांशक्रमेणैव होमादिः प्रोक्तमार्गतः ॥ १,९०.२२९ ॥ त्वरितां प्रजपेल्लक्षप्रमितां तद्दशांशतः । कृत्वा होमादिकं सर्वं विद्यासिद्धियैमुनीश्वर ॥ १,९०.२३० ॥ जपो लक्षं समाख्यातो होमादिस्तद्दशांशतः । विद्यायाः कुलसुन्दर्याः कर्तव्यो द्विजसत्तम ॥ १,९०.२३१ ॥ नित्यानित्याजपो विप्रत्रिलक्षप्रमितो मतः । होमादिस्तद्दशांशेन प्रोक्तः प्रोक्तविधानतः ॥ १,९०.२३२ ॥ त्रिपञ्चाशल्लक्षमुक्तो नियमेन मुनीश्वर । जपो नित्यपताकाया होमादिस्तद्दशांशतः ॥ १,९०.२३३ ॥ विजयाया जयः प्रोक्तो लक्षमानेन नारद । अन्यत्पूर्ववदाख्यातं विद्यासिद्ध्यै तु साधनम् ॥ १,९०.२३४ ॥ दन्तलक्षप्रमाणेन सर्वमङ्गालिकां जपेत् । तद्दशांशक्रमेणैव होमादि समुदीरितम् ॥ १,९०.२३५ ॥ अष्टलक्षं हविष्याशी ज्वालामालिनिकां जपेत् । होमादिस्तद्दशांशेन प्रोक्तद्रव्यैः समीरितः ॥ १,९०.२३६ ॥ चित्राया भूपलक्षं तु जपो होमादिकस्ततः । प्रोक्तेन विधिना कार्यो विद्यासिद्ध्यै मुनीश्वर ॥ १,९०.२३७ ॥ एतत्संक्षेपतः प्रोक्तं नित्यापटलमादित । ज्ञातव्यं सर्वमेवात्र यन्त्रसाधनपूर्वकम् ॥ १,९०.२३८ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे नित्यापटलकथनं नाम नवतितमोऽध्यायः _____________________________________________________________ सनत्कुमार उवाच अथ वक्ष्ये महेशस्य मन्त्रं सर्वार्थसाधकम् । यं समाराध्य मनुजो भुक्तिं मुक्तिं च विन्दति ॥ १,९१.१ ॥ हृदयं सबकः सूक्ष्मो लान्तोऽनन्तान्वितो मरुत् । पञ्चाक्षरो मनुः प्रोक्तस्ताराद्योऽयं षडक्षरः ॥ १,९१.२ ॥ वामदेवी मुनीश्छन्दः पङ्क्तिरीशोऽस्य देवता । षड्भिर्वर्णैः षडङ्गानि कुर्यान्मन्त्रेण देशिकः ॥ १,९१.३ ॥ मन्त्रवर्णादिकान्न्यस्येन्मन्त्रमूर्तिर्यथाक्रमम् । तर्जनीमध्ययोरन्त्यानामिकाङ्गुष्ठके पुनः ॥ १,९१.४ ॥ ताः स्युस्तत्पुरुषाघोरभववामेशसंज्ञिकाः । वक्त्रहृत्पादगुह्येषु निजमूर्द्धनि ताः पुनः ॥ १,९१.५ ॥ प्राग्याम्यवारुणोदीच्यमध्यवक्त्रेषु पञ्चसु । मन्त्राङ्गानिन्यसेत्पश्चाज्जातियुक्तानि षट्क्रमात् ॥ १,९१.६ ॥ कुर्वीत गोलकन्यासं रक्षायै तदनन्तरम् । हृदि वक्त्रेंऽसयोरूर्वोः कण्ठे नाभौ द्विपार्श्वयोः ॥ १,९१.७ ॥ पृष्ठे हृदि तथा मूर्ध्नि वदने नेत्रयोर्नसोः । दोःपत्संधिषु साग्रेषु विन्यसेत्तदनन्तरम् ॥ १,९१.८ ॥ शिरोवदनहृत्कुक्षिसोरुपादद्वये पुनः । हृदि वक्त्रांबुजे टङ्कमृगा भयवरेष्वथ ॥ १,९१.९ ॥ वक्त्रांसहृत्सपादोरुजठरेषु क्रमान्न्यसेत् । मूलमन्त्रस्य षड वर्णान्यथावद्देशिकोत्तमः ॥ १,९१.१० ॥ मूर्ध्नि भालोदरांसेषु हृदये ताः पुनर्न्यसेत् । पश्चादनेन मन्त्रेण कुर्वीत व्यापकं सुधीः ॥ १,९१.११ ॥ नमोस्त्वनन्तरूपाय ज्योतिर्लिङ्गामृतात्मने । चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शंभवे ॥ १,९१.१२ ॥ एवं न्यस्तशरीरोऽसौ चिन्तयेत्पार्वतीपतिम् । ध्यायेन्नित्यं महेशानं रौप्यपर्वतसन्निभम् ॥ १,९१.१३ ॥ चारुचन्द्रावतंसं च रत्नाकल्पोज्ज्वलाङ्गकम् । परश्वधवराभीतिमृगहस्तं शुभाननम् ॥ १,९१.१४ ॥ पद्मासीनं समन्तात्तु स्तुतं सुमनसां गणैः । व्याघ्रकृतिं वसानं च विश्वाद्यं विश्वरूपकम् ॥ १,९१.१५ ॥ त्रिनेत्रं पञ्चवक्त्रं च सर्वभीतिहरं शिवम् । तत्त्वलक्षं जपेन्मन्त्रं दीक्षितः शैववर्त्मना ॥ १,९१.१६ ॥ तावत्संख्यसहस्राणि जुहुयात्पायसैः शुभैः । ततः सिद्धो भवेन्मन्त्रः साधकाभीष्टसिद्धिदः ॥ १,९१.१७ ॥ देवं संपूजयेत्पीठे वामादिनवशक्तिके । वामा ज्येष्ठा तथा रौद्री काली कलपदादिका ॥ १,९१.१८ ॥ विकारिण्याह्वया प्रोक्ता बलाद्या विकरिण्यथ । बलप्रमथनी पश्चात्सर्वभूतदमन्यथ ॥ १,९१.१९ ॥ मनोन्मनीति संप्रोक्ताः शैवपीठस्य शक्तयः । नमो भगवते पश्चात्सकलादि वदेत्ततः ॥ १,९१.२० ॥ गुणात्मशक्तिभक्ताय ततोऽनन्ताय तत्परम् । योगपीठात्मने भूयो नमस्तारादिको मनुः ॥ १,९१.२१ ॥ अमुना मनुना दद्यादासनं गिरिजापतेः । मूर्तिं मूलेन संकल्प्य तत्रावाह्य यजेच्छिवम् ॥ १,९१.२२ ॥ कर्णिकायां यजेन्मूर्तिरीशमीशानदिग्गजम् । शुद्धस्फटिकसंकाशं दिक्षु तत्पुरुषादिका ॥ १,९१.२३ ॥ पीताञ्जनश्वेतरक्ताः प्रधानसदृशायुधाः । चतुर्वक्त्रसमायुक्ता यथावत्ताः प्रपूजयेत् ॥ १,९१.२४ ॥ कोणेष्वर्चेन्निवृत्त्याद्यास्तेजोरूपाः कलाः क्रमात् । अङ्गानि केसरस्थानि विघ्नेशान्पन्नगान्यजेत् ॥ १,९१.२५ ॥ अनन्तं सुखनामानं शिवोत्तममनन्तरम् । एकनेत्रमेकरुद्रं त्रिमूर्तिं तदनन्तरम् ॥ १,९१.२६ ॥ पश्चाच्छीकण्ठनामानं शिखण्डिनमिति क्रमात् । रक्तपीतसितारक्तकृष्णरक्ताञ्जनासितान् ॥ १,९१.२७ ॥ किरीटार्पितबालेन्दून्पद्मस्थान्भूषणान्वितान् । त्रिनेत्राञ्छूलवज्रास्त्रचापहस्तान्मनोरमान् ॥ १,९१.२८ ॥ उत्तरादि यजेत्पश्चाद्रुद्रं चण्डेश्वरं पुनः । ततो नन्दिमहाकालौ गणेशं वृषभं पुनः ॥ १,९१.२९ ॥ अथ भृङ्गिं रिटिं स्कन्दमेतान्पद्मासनस्थितान् । स्वर्णतोयारुणश्याममुक्तेन्दुसितपाटलान् ॥ १,९१.३० ॥ इन्द्रादयस्ततः पूज्या वज्राद्यायुधसंयुताः । इत्थं संपूजयेद्देवं सहस्रं नित्यशो जपेत् ॥ १,९१.३१ ॥ सर्वपापविनिर्मुक्तः प्राप्नुयाद्वाञ्छितं श्रियम् । द्विसहस्रं जपन् रोगान्मुच्यते नात्र संशयः ॥ १,९१.३२ ॥ त्रिसन्मन्त्रं जपन्मन्त्रं दीर्घमायुरवाप्नुयात् । सहस्रवृद्धया प्रजपन्सर्वकामानवाप्नुयात् ॥ १,९१.३३ ॥ आज्यान्वितैस्तिलैः शुद्धैर्जुहुयाल्लक्षमादरात् । उत्पातजनितान् क्लेशान्नाशयेन्नात्र संशयः ॥ १,९१.३४ ॥ शतलक्षं जपन्साक्षाच्छिवो भवति मानवः । षडक्षरः शक्तिरुद्धः कथितोऽष्टाक्षरो मनुः ॥ १,९१.३५ ॥ ऋषिश्छन्दः पुरा प्रोक्तो देवता स्यादुमापतिः । अङ्गानि पूर्वमुक्तानि सौम्यमीशं विचिन्तयेत् ॥ १,९१.३६ ॥ बन्धूकाभं त्रिनेत्रं च शशिखण्डधरं विभुम् । स्मेरास्यं स्वकरैः शूलं कंपालं वरदाभये ॥ १,९१.३७ ॥ वहॄन्तं चारुभूपाढ्यं वामोरुस्थाद्रिकन्यया । भुजेनाश्लिष्टदेहं तं चिन्तयेन्मनसा हृदि ॥ १,९१.३८ ॥ मनुलक्षं जपेन्मन्त्रं तत्सहस्रं यथाविधि । जुहुयान्मान्मधुससिक्तैरारग्वधसमिद्वरैः ॥ १,९१.३९ ॥ प्राक्प्रोक्ते पूजयेत्पीठे गन्धपुष्पैरुमापतिम् । अङ्गावृतैर्बहिः पूज्या हृल्लेखाद्या यथापुरा ॥ १,९१.४० ॥ मध्यप्राग्दक्षिणोदीच्यपश्चिमेषु विधानतः । यजेत्पूर्वादिपत्रेषु वृषभाद्याननुक्रमात् ॥ १,९१.४१ ॥ शूलटङ्काक्षवलयकमण्डलुलसत्करम् । रक्ताकारं त्रिनयनं चण्डेशमथ पूजयेत् ॥ १,९१.४२ ॥ चक्रशङ्खाभयाभीष्टकरां मरकतप्रभाम् । दुर्गां प्रपूजयेत्सौम्यां त्रिनेत्रां चारुभूषणाम् ॥ १,९१.४३ ॥ कल्पशाखान्तरे घण्टां दधानं द्वादशेक्षणम् । बालार्काभं शिशुं कान्तंषण्मुखं पूजयेत्ततः ॥ १,९१.४४ ॥ नन्दितं च यजेत्सौम्यां रत्नभूषणमण्डितम् । परश्वधवराभीतिटङ्किनं श्यामविग्रहम् ॥ १,९१.४५ ॥ पाशाङ्कुशवराभीष्टधारिणं कुङ्कुमप्रभम् । विघ्ननायकमभ्यर्चेच्चन्द्रार्द्धकृतशेखरम् ॥ १,९१.४६ ॥ श्यामं रक्तोत्पलकरं वामाङ्कन्यस्ततत्करम् । द्विनेत्रं रक्तवस्त्राढ्यं सेनापतिमथार्चयेत् ॥ १,९१.४७ ॥ ततोऽष्टमातरः पूज्या ब्राह्माद्याः प्रोक्तलक्षणाः । इन्द्रादिकान्लोकपालान्स्वस्वदिक्षु समर्चयेत् ॥ १,९१.४८ ॥ वज्रादीनि तदस्त्राणि तद्बहिः क्रमतोर्ऽचयेत् । एवं यो भजते मन्त्री देवं शंभुमुमापतिम् ॥ १,९१.४९ ॥ स भवेत्सर्वलोकानां सौभाग्यश्रेयसां पदम् । सांतसद्यान्तसंयुक्तो बिन्दुभूषितमस्तकः ॥ १,९१.५० ॥ प्रासादाख्यो मनुः प्रोक्तो भजतां सर्वसिद्धिदः । षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ॥ १,९१.५१ ॥ षडर्णवत्तु मुन्याद्याः प्रोक्ताश्चास्यापि नारद । ईशानाद्या न्यसेन्मूर्तीरङ्गुष्ठादिषु देशिकः ॥ १,९१.५२ ॥ ईशानाख्यं तत्पुरुषमघोरं तदनन्तरम् । वामदेवाह्वयं सद्योजातबीजं क्रमाद्विदुः ॥ १,९१.५३ ॥ उकाराद्यैः पञ्चह्रस्वौर्विलोमान्संयुतं च यत् । तत्तदङ्गुलिभिर्भूयस्तत्तदिकान्न्यसेत् ॥ १,९१.५४ ॥ शिरोवदनहृद्गुह्यपाददेशे यथाक्रमात् । उर्द्धप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु च ॥ १,९१.५५ ॥ ततः प्रविन्यसेद्विद्वानष्टत्रिंशत्कलास्तनौ । ईशानाद्या ऋचः सम्यगङ्गुलीषु यथाक्रमात् ॥ १,९१.५६ ॥ अङ्गुष्ठादिकनिष्ठान्तं न्यसेद्देशिकसत्तमः । मूर्द्धास्यहृदयांभोजगुह्यपादे तु ताः पुनः ॥ १,९१.५७ ॥ वक्त्रे मूर्धादिषु न्यस्य भूयोऽङ्गानि प्रकल्पयेत् । तारपञ्चकमुच्चार्य सर्वज्ञाय हृदीरितम् ॥ १,९१.५८ ॥ अमृते तेजो मालिनि तृप्तायेति पदं पुनः । तदन्ते ब्रह्मशिःसे शिरोगं ज्वलितं ततः ॥ १,९१.५९ ॥ शिखिं शिखाय परतोऽनादिबोधाय तच्छिखा । वज्रिणे वज्रहस्ताय स्वतन्त्राय तनुच्छदम् ॥ १,९१.६० ॥ सैं सैं हौमिति संभाष्य परतो तों गुह्यशक्तये । नेत्रमुक्तं श्लीपशुं हुं फडन्ते नेत्रं शक्तये ॥ १,९१.६१ ॥ अस्त्रमुक्तं षडङ्गानि कुर्यादेवं समाहितः । पूर्वदक्षिणपश्चात्प्राक्सौम्यमध्येषु पञ्चसु ॥ १,९१.६२ ॥ वक्त्रेषु पञ्च विन्यस्येदीशानस्य कलाः क्रमात् । ईशानः सर्वविद्यानां शशिनी प्रथमा कला ॥ १,९१.६३ ॥ ईश्वरः सर्वभूतानां मङ्गला तदनन्तरम् । ब्रह्माधिपतिः शब्दान्ते ब्रह्मणोऽधिपतिः पुनः ॥ १,९१.६४ ॥ ब्रह्मेष्टदा तृतीयास्याच्छिवो मे अस्तु तत्परा । मरीचिः कथिता विप्र चतुर्थी च सदाशिवे ॥ १,९१.६५ ॥ अंशुमालिन्यथ परा प्रणवाद्या नमोन्विताः । पूर्वपश्चिमयाम्योदग्वक्त्रेषु तदनन्तरम् ॥ १,९१.६६ ॥ चतस्रो विन्यसेन्मन्त्री पुरुषस्य कलाः क्रमात् । आद्या तत्पुरुपायेति विद्महे शान्तिरीरिता ॥ १,९१.६७ ॥ महादेवाय शब्दान्ते धीमहि स्यात्ततः परम् । विद्या द्वितीया कथिता तन्नो रुद्रः पदं ततः ॥ १,९१.६८ ॥ प्रतिष्ठा कथिता पश्चात्तृतीया स्यात्प्रचोदयात् । निवृत्तिस्तत्परा सर्वा प्रणवाद्या नमोन्विता ॥ १,९१.६९ ॥ हृदि चांसद्वये नाभिकुक्षौ पृष्ठेऽथ वक्षसि । अथोरसि कला न्यस्येदष्टौ मन्त्री यथाविधि ॥ १,९१.७० ॥ अघोरेभ्यस्तथा पूर्वमीरिता प्रथमा कला । अथ घोरेभ्य इत्यन्ते मोहास्यात्तदनन्तरम् ॥ १,९१.७१ ॥ अघोरान्ते क्षमा पश्चात्तृतीया परिकीर्तिता । घोरतरेभ्यो निद्रा स्यात्सर्वेभ्यः सर्वतत्परा ॥ १,९१.७२ ॥ व्याधिस्तु पञ्चमी प्रोक्ता शर्वेभ्यस्तदनन्तरम् । मृत्युर्निगदिता षष्ठी नमस्ते अस्तु तत्परम् ॥ १,९१.७३ ॥ क्षुधा स्यात्सप्तमी रुद्ररूपेभ्यः कथिता तृषा । अष्टमी कथिता एताध्रुवाद्या नमसान्विताः ॥ १,९१.७४ ॥ गुह्ययुग्मोरुयुग्मेषु जानुजङ्घास्फिजोः पुनः । कट्यां पार्श्वद्वये वामकला न्यस्येत्त्रयोदश ॥ १,९१.७५ ॥ प्रथमा वामदेवाय नमोन्ते स्याद्रुजा कला । स्याज्ज्येष्ठाय नमो रक्षा द्वितीया परिकीर्तिता ॥ १,९१.७६ ॥ कलकामा पञ्चमी स्यात्ततो विकरणाय च । नमः संयमनी षष्ठी कथिता तदनन्तरम् ॥ १,९१.७७ ॥ बलक्रिया सप्तमीष्टा कला विकरणाय च । नमो वृद्धिस्त्वष्टमी स्याद्बलान्ते च स्थिरा कला ॥ १,९१.७८ ॥ पश्चात्प्रमथनायान्ते नमो रात्रिरुदीरिता । सर्वभूतदमनाय नमोन्ते भ्रामणी कला ॥ १,९१.७९ ॥ नमोन्ते मोहिनी प्रोक्ता मन्त्रज्ञैर्द्वादशी कला । मनोन्मन्यै नमः पश्चाज्ज्वरा प्रोक्ता त्रयोदशी ॥ १,९१.८० ॥ प्रणवाद्याश्चतुर्थ्यन्ता नमोन्तास्तु प्रकीर्तिताः । पाददोस्तननासासु मूर्ध्नि बाहुयुगे न्यसेत् ॥ १,९१.८१ ॥ सद्योजातभवाः सम्यगष्टौ मन्त्राः कलाः क्रमात् । सद्योजातं प्रपद्यामि सिद्धिः स्यात्प्रथमा कला ॥ १,९१.८२ ॥ सद्योजाताय वै भूयो नमः स्याद्वृद्धिरीरिता । भवेद्युतिस्तृतीया स्यादभवे तदनन्दरम् ॥ १,९१.८३ ॥ लक्ष्मी चतुर्थी कथिता ततो नातिभवेपदम् । मेधा स्यात्पञ्चमी प्रोक्ता कलाभूयो भवस्व माम् ॥ १,९१.८४ ॥ प्राज्ञा समीरिता षष्ठी भवान्ते स्यात्प्रभा कला । उद्भवाय नमः पश्चात्सुधा स्यादष्टमी कला ॥ १,९१.८५ ॥ प्रणवाद्याश्चतुर्थ्यन्ता कलाः सर्वा नमोन्विताः । अष्टात्रिंशत्कलाः प्रोक्ताः पञ्च ब्रह्मपदादिकाः ॥ १,९१.८६ ॥ इति विन्यस्तदेहोऽसौ भवेद्गङ्गाधरः स्वयम् । ततः समाहितो भूत्वा ध्यायेदेवं सदाशिवम् ॥ १,९१.८७ ॥ सितपीतासितश्वेतजपाभैः पञ्चभिर्मुखैः । अक्षैर्युतं ग्लौमुकुटं कोटिपूर्णेन्दुसंप्रभम् ॥ १,९१.८८ ॥ शूलं टङ्कं कृपाणं च वज्राग्न्यहिपतीन्करैः । दधानंभूषणोद्दीप्तं घण्टापाशवराभयान् ॥ १,९१.८९ ॥ एवं ध्यात्वा जपेन्मन्त्रं पञ्चलक्षं मधुप्लुतैः । प्रसूनैः करवीरोत्थैर्जुहुयात्तहृशांशतः ॥ १,९१.९० ॥ पूर्वोदिते यजेत्पीठे मर्तिं मूलेन कल्पयेत् । आवाह्य पूजयेत्तस्यां मूर्तावावरणैः सह ॥ १,९१.९१ ॥ शक्तिं डमरुकाभीतिवरान्संदधतं करैः । ईशानं त्रीक्षणं शुभ्रमैशान्यां दिशि पूजयेत् ॥ १,९१.९२ ॥ परश्वेणवराभीतीर्दधानं विद्युदुज्ज्वलम् । चतुर्मुखं तत्पुरुषं त्रिनेत्रं पूर्वन्तोर्ऽचयेत् ॥ १,९१.९३ ॥ अक्षस्रजं वेदपाशौ ऋषिण्डमरुकं ततः । खट्वाङ्गं निशितं शूलं कपालं बिभ्रतं करैः ॥ १,९१.९४ ॥ अञ्जनाभं चतुर्वक्त्रं भीमदन्तं भयावहम् । अघोरं त्रीक्षणं याम्ये पूजयेन्मन्त्रवित्तमः ॥ १,९१.९५ ॥ कुङ्कुमाभचतुर्वक्त्रं वामदेवं त्रिलोचनम् । हरिणाक्षगुणाभीतिवरहस्तं चतुर्मुखम् ॥ १,९१.९६ ॥ बालेन्दुशेखरोल्लासिमुकुटं पश्चिमे यजेत् । कर्पूरेदुनिभं सौम्यं सद्योजातं त्रिलोचनम् ॥ १,९१.९७ ॥ वराभयाक्षवलयकुठारान्दधतं करैः । विलासिनं स्मेरवक्त्रं सौम्ये सम्यक्समर्चयेत् ॥ १,९१.९८ ॥ कोणेष्वर्चेन्निवृत्त्याद्यास्तेजोरूपाः कलाः क्रमात् । विघ्नेश्वराननन्ताद्यान्पत्रेषु परितो यजेत् ॥ १,९१.९९ ॥ उमादिकास्ततो बाह्ये शक्राद्यानायुधैः सह । इति संपूज्य देवेशं भक्त्या परमया युतः ॥ १,९१.१०० ॥ प्रणीयेन्नृत्यगीताद्यैः स्तोत्रमैर्त्रीं मनोहरैः । तारो मायावियद्बिन्दुमनुस्वरसमन्वितः ॥ १,९१.१०१ ॥ पञ्चाक्षरसमायुक्तो वसुवर्णो मनुर्मतः । पञ्चाक्षरोक्तवत्कुर्यादङ्गन्यासादिकं बुधः ॥ १,९१.१०२ ॥ सिंदूराभं लसद्रत्नमुकुटं चन्द्रमौलिनम् । दिव्यभूषाङ्गरागं च नागयज्ञोपवीतिनम् ॥ १,९१.१०३ ॥ वामोरुस्थप्रियोरोजन्यस्तहस्तं च बिभ्रतम् । वेदटङ्केष्मभयं ध्यायेत्सर्वेश्वरं शिवम् ॥ १,९१.१०४ ॥ अष्टलक्षं जपेन्मन्त्रं तत्सहस्रं घृतान्वितैः । पायसैर्जुहुयात्पीठेमूर्तिं संकल्प्य मूलतः ॥ १,९१.१०५ ॥ अङ्गैरावरणं पूर्वमनन्ताद्यैरनन्तरम् । उमादिभिः समुद्दिष्टं तृतीयं लोकनायकैः ॥ १,९१.१०६ ॥ चतुर्थं पञ्चमं तेषामायुधैः परिकीर्तितम् । एवं प्रतिदिनं देवं पूजयेत्साधकोत्तमः ॥ १,९१.१०७ ॥ पुत्रपौत्रादिगां लक्ष्मीं संप्राप्यह्यत्र मोदते । तारः स्थिरा सकर्णेन्दुर्भघृगुः सर्गसमन्वितः ॥ १,९१.१०८ ॥ अक्षरात्मा निगदितो मन्त्रो मृत्युञ्जयात्मकः । ऋषैः कहोलो देव्यादिगायत्री छन्द ईरितम् ॥ १,९१.१०९ ॥ मृत्युञ्जयो महादेवो देवतास्य समीरितः । भृगुणा दीर्घयुक्तेन षडङ्गानि समाचरेत् ॥ १,९१.११० ॥ चन्द्रार्कहुतभुङ्नेत्रं स्मितास्यं युग्मपद्मगम् । मुद्रापाशैणाक्षसूत्रलसत्पाणिं शशिप्रभम् ॥ १,९१.१११ ॥ भालेन्दुविगलन्त्पीयूषप्लुताङ्गमलङ्कृतम् । हाराद्यैर्निजकान्त्या तु ध्यायेद्विश्वविमोहनम् ॥ १,९१.११२ ॥ गुणलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्सुधीः । अमृताशकलैः शुद्धदुग्धाज्यसमभिप्लुतैः ॥ १,९१.११३ ॥ शैवे संपूजयेत्पीठे मूर्तिं संकल्पमूलतः । अङ्गावरणमाराध्यपश्चाल्लोकेश्वरान्यजेत् ॥ १,९१.११४ ॥ तदस्त्राणि ततो बाह्ये पूजयेत्साधकोत्तमः । जपपूजादिभिः सिद्धे मन्त्रेऽस्मिन्मुनिसत्तम ॥ १,९१.११५ ॥ कुर्यात्प्रयोगान्कल्योक्तानभीष्टफलसिद्धये । दुग्धसिक्तैः सुधाखण्डैर्हुत्वा प्रत्यहमादरात् ॥ १,९१.११६ ॥ सहस्रमासपर्यन्तं लभेदायुर्धनं सुतान् । सुधावटतितान्पूर्वा पयः सर्पिः पयो हविः ॥ १,९१.११७ ॥ सप्त द्रव्याणि वारेषु क्रमाद्दशशतं हुनेत् । सप्ताधिकान् द्विजान्नित्यं भोजयेन्मधुरान्वितम् ॥ १,९१.११८ ॥ ऋत्विग्भ्यो दक्षिणां दद्यादरुणां गां पयस्विनीम् । गुरुं संप्रीणयेत्पश्चाद्धनाद्यैर्देवताधिया ॥ १,९१.११९ ॥ अनेन विधिना साध्यः कृत्याद्रोहज्वंरादिभिः । विमुक्तः सुचिरं जीवेच्छरदां शतमञ्जसा ॥ १,९१.१२० ॥ अभिचारे ज्वरे स्तंभघोरोन्मादे शिरोगदे । असाध्यरोगे क्ष्वेडार्तौं मोहे दाहे महाभये ॥ १,९१.१२१ ॥ होमोऽयं शान्तिदः प्रोक्तः सर्वाभयप्रदायकः । द्रव्यैरेतैः प्रजुहुयात्त्रिजन्मसु यथाविधि ॥ १,९१.१२२ ॥ भोजयेन्मधुरैर्भोज्यैर्ब्राह्मणान्वेदपारगान् । दीर्घमायुरवाप्नोति वाञ्छितां विन्दति श्रियम् ॥ १,९१.१२३ ॥ एकादशाहुतीर्नित्यं दूर्वाभिर्जुहुयाद्बुधः । अपमृत्युजिदेव स्यादायुरारोग्यवर्द्धनम् ॥ १,९१.१२४ ॥ त्रिजन्मसु सुधावल्लीकाश्मीरीबकुलोद्भवैः । समिद्वरैः कृतो होमः सर्वमृत्युगदापहः ॥ १,९१.१२५ ॥ सिद्धार्थैर्विहितो होमो महाज्वरविनाशनः । अपामार्गसमिद्धोमः सर्वामयनिषूदनः ॥ १,९१.१२६ ॥ दक्षिणामूर्तये पूर्वं तुभ्यं पदमनन्तरम् । वटमूलपदस्यान्ते प्रवदेच्च निवासिने ॥ १,९१.१२७ ॥ ध्यानैकनिरताङ्गाय पश्चाद्ब्रूयान्नमः पदम् । रुद्राय शंभवे तारशक्तिरुद्धोऽयमीरितः ॥ १,९१.१२८ ॥ षट्त्रिंशदक्षरो मन्त्रः सर्वकामफलप्रदः । मुनिः शुकः समुद्दिष्टश्छन्दोऽनुष्टुप्प्रकीर्तितम् ॥ १,९१.१२९ ॥ देवता दक्षिणामूर्तिर्नाम्ना शंभुरुदीरितः । तारशक्तियुक्तैः पूर्वं ह्रीमाद्यन्तैश्च मन्त्रजैः ॥ १,९१.१३० ॥ षट्षष्ठाष्टेषु वह्न्यर्णैर्हृदयाद्यङ्गकल्पनम् । मूर्ध्नि भाले दृशोः श्रोत्रे गण्डयुग्मे सनासिके ॥ १,९१.१३१ ॥ आस्यदोःसंधिषु गले स्तनहृन्नाभिमण्डले । कट्यां गुह्ये पुनः पादसंधिष्वर्णान्न्यसेन्मनोः ॥ १,९१.१३२ ॥ व्यापकं तारशक्तिभ्यां कुर्याद्देहे ततः परम् । हिमाचलतटे रम्ये सिद्धिकिन्नरसेविते ॥ १,९१.१३३ ॥ विविधद्रुमशाखाभिः सर्वतो वारितातपे । सुपुष्पितैर्लताजालैराश्लिष्टकुसुमद्रुमे ॥ १,९१.१३४ ॥ शिलाविवरनिर्गच्छन्निर्झरानिलशीतले । गायद्देवाङ्गनासंघे नृत्यद्बर्हि कदम्बके ॥ १,९१.१३५ ॥ कूजत्कोकिलसंघेन मुखरीकृतदिङ्मुखे । परस्परविनिर्मुक्तमात्सर्यमृगसेविते ॥ १,९१.१३६ ॥ जलजैः स्थलजैः पुष्पैरामोदिभिरलङ्कृते । आद्यैः शुकाद्यैर्मुनिभिरजस्रसुखसेविते ॥ १,९१.१३७ ॥ पुरन्दरमुखैर्देवैः सांगनाद्यैर्विलोकिते । वटवृक्षं महोच्छ्रायं पद्मरागफलोज्ज्लम् ॥ १,९१.१३८ ॥ गारुत्मतमयैः पत्रैर्निबिडैरुपशोभितम् । नवरत्नमयाकल्पैर्लंबमानैरलङ्कृतम् ॥ १,९१.१३९ ॥ संसारतापविच्छेदकुशलच्छायमद्भुतम् । तस्य मूले सुसंकॢप्तरत्नसिंहासने शुभे ॥ १,९१.१४० ॥ आसीनमसिताकल्पं शरच्चन्द्रनिभाननम् । कैलासाद्रिनिभं त्र्यक्षं चन्द्राङ्कितकपर्दकम् ॥ १,९१.१४१ ॥ नासाग्रालोकनपरं वीरासनसमास्थितम् । भद्राटके कुरङ्गाढ्यजानुस्थकरपल्लवम् ॥ १,९१.१४२ ॥ कक्षाबद्धभुजङ्गं च सुप्रसन्नं हरं स्मरेत् । अयुतद्वयसंयुक्तगुणलक्षं जपेन्मनुम् ॥ १,९१.१४३ ॥ तद्दशांशं तिलैः शुद्धैर्जुहुयात्क्षीरसंयुतैः । पञ्चाक्षरोदिते पीठे तद्विधानेन पूजयेत् ॥ १,९१.१४४ ॥ भिक्षाहारो जपेन्मासं मनुमेनं जितेन्द्रियः । नित्यं सहस्रमष्टार्द्धं परां विन्दति वाक्छ्रियम् ॥ १,९१.१४५ ॥ त्रिवारं जप्तमेतेन पयस्तु मनुना पिबेत् । दक्षिणामूर्तिंसंध्यानाच्छास्त्रव्याख्यानकृद्भवेत् ॥ १,९१.१४६ ॥ प्रणवो हृदयं पश्चाद्वदेद्भगवतेपदम् । ङेयुतं दक्षिणामूर्तिं मह्यंमेधामुदीरयेत् ॥ १,९१.१४७ ॥ प्रयच्छ ठद्वयान्तोऽयं द्वाविंशत्यक्षरो मनुः । मुनिश्चतुर्मुखश्छन्दो गायत्री देवतोदिता ॥ १,९१.१४८ ॥ ताररुद्धैः स्वरैर्दीर्घैः षड्भिरङ्गानि कल्पयेत् । पदैर्मन्त्रभवैर्वापिध्यानाद्यं पूर्ववन्मतम् ॥ १,९१.१४९ ॥ लोहितोग्र्यासनः सद्यो बिन्दुमान्प्रथमं ततः । द्वितीयं वह्निबीजस्था दीर्घा शान्तीन्दुभूषिता ॥ १,९१.१५० ॥ तृतीया लाङ्गलीशार्णमन्त्रो बीजत्रयान्वितः । नीलकण्ठात्मकः प्रोक्तो विषद्वयहरः परः ॥ १,९१.१५१ ॥ हरद्वयं वह्निजाया हृदयं परिकीर्तितम् । कपर्द्दिने पदयुगं शिरोमन्त्र उदाहृतः ॥ १,९१.१५२ ॥ नीलकण्ठाय ठद्वन्द्वं शिखामन्त्रोऽयमीरितः । कालकूटपदस्यान्ते विषभक्षणङेयुतम् ॥ १,९१.१५३ ॥ हुं फट्कवचमुद्दिष्टं नीलकण्ठिन इत्यतः । स्वाहान्तमस्त्रमेतानि पञ्चागानि मनोर्विदुः ॥ १,९१.१५४ ॥ मूर्ध्नि कण्ठे हृदंभोजे क्रमाद्वीजत्रयं न्यसेत् । बालार्कायुतवर्चस्कं जटाजूटेन्दुशोभितम् ॥ १,९१.१५५ ॥ नागाभूषं जपवटीं शूलं ब्रह्मकपालकम् । खट्वाङ्गं दधतं दोर्भिस्त्रिनेत्रं चिन्तयेद्धरम् ॥ १,९१.१५६ ॥ लक्षत्रयं जपेन्मन्त्रं तद्दशांशं ससर्पिषा । हविषा जुहुयात्सम्यक्संस्कृते हव्यवाहने ॥ १,९१.१५७ ॥ शैवं पीठे यजेद्देवं नीलकण्ठं समाहितः । मृत्युं जयविधानेन विषद्वयविनाशनम् ॥ १,९१.१५८ ॥ अग्निः संवर्तकादित्यरानिलौ षष्टिबिन्दुमान् । चिन्तामणिरिति ख्यातं बीजं सर्वसमृद्धिदम् ॥ १,९१.१५९ ॥ कश्यपो मुनिराख्यातश्छन्दोऽनुष्टुबुदाहृतम् । अर्द्धनारीश्वरः प्रोक्तो देवता जगतां पतिः ॥ १,९१.१६० ॥ रेफआदिव्यञ्जनैः षड्भिः कुर्यादङ्गानि षट्क्रमात् । त्रिनेत्रं नीलमणिभं शूलपाशं कपालकम् ॥ १,९१.१६१ ॥ रक्तोत्पलं च हस्ताब्जैर्दधतं चारुभूषणम् । बालेन्दुबद्धमुकुटमर्द्धनारीश्वरं स्मरेत् ॥ १,९१.१६२ ॥ एकलक्षं जपेन्मन्त्रं त्रिशतं मधुराप्लुतैः । तिलैर्हुनेद्यजेत्पीठे शैवेङ्गावरणैः सह ॥ १,९१.१६३ ॥ वृषाद्यैर्मातृभिः पश्चाल्लोकपालैस्तदायुधैः । प्रासादाद्यं जपेन्मन्त्रमयुतं रोगशान्तये ॥ १,९१.१६४ ॥ स्वाहावृत्तमिदं बीजं विगलत्परमामृतम् । चन्द्रबिंबस्थितं मूर्ध्नि ध्यातं क्ष्वेडगदापहम् ॥ १,९१.१६५ ॥ प्रतिलोमस्वराढ्या च बीजं वह्निगृहे स्थितम् । रेफआदिव्यञ्जनोल्लासिषट्कोणाभिवृतं बहिः ॥ १,९१.१६६ ॥ भूतार्तस्य स्मृतं मूर्ध्नि भूतमाशु विनाशयेत् । पीडिताङ्गे स्मृतं तत्तत्पीडां शमयति ध्रुवम् ॥ १,९१.१६७ ॥ प्रणवो हृदयं पश्चान् ङेंतः पशुपतिः पुनः । तारो नमो भूतपदं ततोऽधिपतये ध्रुवम् ॥ १,९१.१६८ ॥ नमोरुद्राय युगलं खड्गरावण शब्दतः । विहरद्वितयं पश्चान्नरीनृत्ययुगं पृथक् ॥ १,९१.१६९ ॥ श्मशानभस्माचितान्ते शरण्याय ततः परम् । घण्टाकपालमालादिधरायेति पदं पुनः ॥ १,९१.१७० ॥ व्याघ्रचर्मपदस्यान्ते परिधानाय तत्परम् । शशाङ्ककृतशब्दान्ते शेखराय ततः परम् ॥ १,९१.१७१ ॥ कृष्णसर्पपदात्पश्चाद्वदेद्यज्ञोपवीतिने । बलयुग्मं चलायुग्ममनिवर्तकपालिने ॥ १,९१.१७२ ॥ हनुयुग्मं ततो भूतांस्त्रासयद्वितयं पुनः । भूयो मण्डलमध्ये स्यात्कटयुग्मं ततः परम् ॥ १,९१.१७३ ॥ रुद्राङ्कुशेन शमय प्रवेशययुगं ततः । आवेशययुगं पश्चाञ्चण्डासिपदमीरयेत् ॥ १,९१.१७४ ॥ धाराधिपतिरुद्रोऽयं ज्ञापयत्यग्निसुंदरी । खड्गरावणमन्त्रोऽयं सप्तत्यूर्द्धशताक्षरः ॥ १,९१.१७५ ॥ भूताधिपतये स्वाहा पूजामन्त्रोऽयमीरितः । सिद्धमन्त्रोऽयमुदितो जपादेव प्रसिद्ध्यति ॥ १,९१.१७६ ॥ अयुतद्वितयात्पश्चाद्भूतादिग्रहणे क्षमः । माया स्फुरद्वयं भूयः प्रस्फुरद्वितयं पुनः ॥ १,९१.१७७ ॥ घातयद्वितयं वर्मफडन्तः समुदीरितः । एकपञ्चाशदर्णोऽयमघोरास्त्रं महामनुः ॥ १,९१.१७८ ॥ अघोरोऽस्य नुनिः प्रोक्तस्त्रिवृच्छन्दं उदाहृतम् । अघोररुद्रः संदिष्टो देवता मन्त्रनायकः ॥ १,९१.१७९ ॥ हृदयं पञ्चभिः प्रोक्तं शिरः षड्भिरुदाहृतम् । शिखा दशभिराख्याता नवभिः कवचं मतम् ॥ १,९१.१८० ॥ वसुवर्णैः स्मृतं नेत्रं दशार्णैरस्त्रमीरितम् । मूर्ध्नि नेत्रास्यकण्ठेषु हृन्नाभ्यामूरुषु क्रमात् ॥ १,९१.१८१ ॥ जानुजङ्घापदद्वन्द्वे रुद्रभिन्नाक्षरैर्न्यसेत् । पञ्चषट्काष्टवेदाङ्गद्विव्द्यब्धिरसलोचनैः ॥ १,९१.१८२ ॥ श्यामं त्रिनेत्रं सपार्ढ्यं रक्तवस्त्राङ्गराङ्गकम् । नानाशस्त्रधरं ध्यायेनदघोराख्यं सदाशिवम् ॥ १,९१.१८३ ॥ भूतवेतालकादीनां क्षयोऽयं निग्रहे मनुः । तारो वान्तो धरासंस्थो वामनेत्रेन्दुभूषितः ॥ १,९१.१८४ ॥ पाशी बकः कर्णनेत्रवर्मास्त्रान्तः षडक्षरः । मनुः पाशुपतास्त्राख्यो ग्रहक्षुद्रनिवारणः ॥ १,९१.१८५ ॥ षड्भिर्वर्णैः षडङ्गानि हुंफडन्तैः सजातिभिः । मध्याह्नार्कप्रभं भीमं त्र्यक्षं पन्नगभूषणम् ॥ १,९१.१८६ ॥ नानाशस्त्रं चतुर्वक्त्रं स्मरेत्पशुपतिं हरम् । वर्णलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥ १,९१.१८७ ॥ गव्येन सर्पिषा मन्त्रो संस्कृते हव्यवाहने । शैवे पीठे यजेदङ्गमातृलोकेश्वरायुधैः ॥ १,९१.१८८ ॥ अनेन मन्त्रितं तोयं भूतग्रस्तमुखे क्षिपेत् । सद्यः स मुञ्चति क्रन्दान्महामन्त्रप्रभावतः ॥ १,९१.१८९ ॥ अनेन मन्त्रितान्बाणान्विसृजेद्युधि यो नरः । जयेत्क्षणेन निखिलाञ्छत्रून्पार्थ इवापरः ॥ १,९१.१९० ॥ वर्णान्तिमो बिन्दुयुतः क्षेत्रपालाय हृन्मनुः ॥ १,९१.१९१ ॥ ताराद्यो वसुवर्णोऽयं क्षेत्रपालस्य कीर्तितः । षड्दीर्घयुक्तबीजेन षडङ्गं न्यस्य चिन्तयेत् ॥ १,९१.१९२ ॥ नीलाचलाभं दिग्वस्त्रं सर्पभूषं त्रिलोचनम् । पिङ्गोर्ध्वकेशान्दधतं कपालं च गदां स्मरेत् ॥ १,९१.१९३ ॥ लक्षमेकं जपेन्मन्त्रं जुहुयात्तद्दशांशतः । चरुणा घृतसिक्तेन ततः क्षेत्रे समर्चयेत् ॥ १,९१.१९४ ॥ धर्मादिकल्पिते पीठे सांगावरणमादरात् । तस्मै सपरिवाराय बलिमेतेन निर्हरेत् ॥ १,९१.१९५ ॥ पूर्वमेहिद्वयं पश्चाद्विद्विषं पुरुषं द्वयम् । भञ्जयद्वितयं भूयो नर्तयद्वितयं पुनः ॥ १,९१.१९६ ॥ ततो विघ्नपदद्वन्द्वं महाभैरव तत्परम् । क्षेत्रपालबलिं गृह्णद्वयं पावकसुन्दरी ॥ १,९१.१९७ ॥ बलिमन्त्रोऽयमाख्यातः सर्वकामफलप्रदः । सोपदेशं बृहत्पिण्डे कृत्वा रात्रिषु साधकः ॥ १,९१.१९८ ॥ स्मृत्वा यथोक्तं क्षेत्रेशं तस्य हस्ते बलिं हरेत् । बलिनानेन सन्तुष्टः क्षेत्रपालः प्रयच्छति ॥ १,९१.१९९ ॥ कान्तिं मेधां बलायोग्यं तेजः पुष्टिं यशः श्रियम् । उद्धरेद्बटुकं ङेंतमापदुद्धारणं तथा ॥ १,९१.२०० ॥ कुरुद्वयं ततः पश्चाद्वटुकं ङेंतमुच्चरेत् । शक्तिरुद्धो ध्रुवादिश्च द्वाविंशत्यक्षरो मनुः ॥ १,९१.२०१ ॥ द्विचतुःसप्तवेदाब्धिचन्द्रार्णैरङ्गकं मनोः । बालं स्फटिकसंकाशं तल्लोललसिताननम् ॥ १,९१.२०२ ॥ दिव्याकल्पैः प्रदीप्ताङ्गं त्र्यक्षं दण्डत्रिशूलिनम् । सुप्रसन्नं स्मरेद्धक्त्या भक्तानामभयङ्करम् ॥ १,९१.२०३ ॥ वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः । तद्दशांशं प्रजुहुयान्त्तिलैर्मधुरसंयुतैः ॥ १,९१.२०४ ॥ धर्मादिकल्पिते पीठे पङ्कजे चातिशोभने । षट्कोणान्तस्त्रिकोणस्थव्योमपङ्कजसंयुते ॥ १,९१.२०५ ॥ बटुकं पूजयेद्देवं सांगावरणकं क्रमात् । शत्रुपक्षस्य रुधिरं पिशिन्त च दिनेदिने । भक्षयस्व गणैः सार्द्धं सारमेयसमन्वितः ॥ १,९१.२०६ ॥ बलिमन्त्रोऽयमाख्यातः शत्रुनाम्ना विदर्भितः । अनेन बलिना हृष्टो बटुकः परसैन्यकम् ॥ १,९१.२०७ ॥ छित्वा गणेभ्यो विभजेदामिषं क्रुद्धमानसः । अङ्कशो वह्निशिखरो लान्तदान्त इतीरितः ॥ १,९१.२०८ ॥ फडन्तश्चण्डमन्त्रोऽयं त्रिवर्णात्मा समीरितः । अस्य त्रितो मुनिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् ॥ १,९१.२०९ ॥ चण्डेशो देवता प्रोक्ता वक्ष्यतेंऽगप्रकल्पनम् । हृदयं दीप्तफट्प्रोक्तं ज्वलफट्शिर ईरितम् ॥ १,९१.२१० ॥ शिखाज्वालिनि फट्प्रोक्ता वहफट्कवचं मतम् । हलफट्नेत्रमाख्यातं सर्वज्वानिनिफट्परम् ॥ १,९१.२११ ॥ विन्यस्यैवं षडङ्गानि ततो देवं विचिन्तयेत् । चण्डेश्वरं रक्ततनुन्त्र्यक्षं रक्तांबरावृतम् ॥ १,९१.२१२ ॥ दधतं च त्रिशूलाक्षमालाटं ककमण्डलून् । वर्णलक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः ॥ १,९१.२१३ ॥ मधुरत्रयसंयुक्तैर्विशुद्धैस्तिलतण्डुलैः । पञ्चाक्षरोदिते पीठे मूर्तिं मूलेन कल्पयेत् ॥ १,९१.२१४ ॥ कूर्मेशो बिन्दुसंयुक्तस्ततश्चण्डेश्वराय च । हृदयं मनुराख्यातश्चण्डेशस्य प्रपूजने ॥ १,९१.२१५ ॥ अङ्गैर्मातृभिराशेशैर्वज्राद्यैरावृतिर्भवेत् । शैवमन्त्रेषु निष्णातश्चण्डेश्वरमनुं जपेत् ॥ १,९१.२१६ ॥ सर्वान्कामानवाप्नोति परत्रेह च नन्दति । शृणु नारद वक्ष्यामि दिव्यं माहेश्वरं स्तवम् ॥ १,९१.२१७ ॥ यस्य पाठेन पूजायां सिद्ध्यन्ति मनवोऽखिलाः ॥ १,९१.२१८ ॥ धराम्ब्वग्निमरुव्द्योममखेशेन्द्वर्कमूर्तये । सर्वभूतान्तरस्थाय शङ्कराय नमोनमः ॥ १,९१.२१९ ॥ श्रुत्यं तकृतवासाय श्रुतये श्रुतिजन्मने । अतीन्द्रियाय महसे शाश्वताय नमोनमः ॥ १,९१.२२० ॥ स्थूलसूक्ष्मविभागाभ्यामनिर्देश्याय शंभवे । भवाय भवसंभूतदुःखहन्त्रे नमोनमः ॥ १,९१.२२१ ॥ तर्कमार्गातिदूराय तपसां फलदायिने । चतुर्वर्गवदान्याय सर्वज्ञाय नमोनमः ॥ १,९१.२२२ ॥ आदिमध्यान्तशून्याय निरस्ताशेषभीतये । योगिध्येयाय महते निर्गुणाय नमोनमः ॥ १,९१.२२३ ॥ विश्वात्मने विविक्ताय विलसच्चन्द्रमौलये । कन्दर्प्पदर्प्पनाशाय कालहॄन्त्रे नमोनमः ॥ १,९१.२२४ ॥ विषाशनाय विहरद्वृषस्कन्धमुपेयुषे । सरिद्दामसमाबद्धकपदार्य नमोनमः ॥ १,९१.२२५ ॥ शुद्धाय शुद्धभावा शुद्धानामन्तरात्मने । पुरान्तकाय पूर्णाय पुण्यनाम्नो नमोनमः ॥ १,९१.२२६ ॥ भक्ताय निजभक्तानां भुक्तिमुक्तिप्रदायिने । विवाससे निवासाय विश्वेषां पतये नमः ॥ १,९१.२२७ ॥ त्रिमूर्तिमूलभूताय त्रिनेत्राय त्रिशूलिने । त्रिधाम्ने धामरूपाय जन्मदाय नमोनमः ॥ १,९१.२२८ ॥ देवासुरशिरोरत्नकिरीटारुणिताङ्घ्रये । कान्ताय निजकान्तायै दत्तार्द्धाय नमोनमः ॥ १,९१.२२९ ॥ एतत्स्तोत्रं महेशस्य प्रोक्तं सर्वाघनाशनम् । शिवसान्निध्यदं विप्र सर्पतन्त्रप्रकाशकम् ॥ १,९१.२३० ॥ एतत्ते सुमहत्तन्त्रें सर्वदेवप्रकाशकम् । लोकाभिलाषसंपूर्तिक्रियासाधनसंगतम् ॥ १,९१.२३१ ॥ ये तु सामान्यतः प्रोक्तास्तन्त्रेऽस्मिन्मनवो द्विज । ते तु लोकोपकाराय ज्ञातव्याः सिद्धिदायकाः ॥ १,९१.२३२ ॥ विशेषतो वैष्णवा ये मन्त्राः सर्वोत्तमोत्तमाः । त एव साधनीयाः स्युश्चतुर्वर्गफलाप्तये ॥ १,९१.२३३ ॥ राममन्त्राः कृष्णमन्त्राः सांगा रासेशिमन्त्रकाः । शाक्ताः सौराश्च गाणेशाः शैवाः प्रोक्ताः शुभावहाः ॥ १,९१.२३४ ॥ तेषु स्वात्मप्रकाशाय भजेन्मुक्तिफलप्रदान् । एतत्ते सर्वमाख्यातं यत्त्वयाभ्यर्थितं मुने । देवताराधनं भक्त्या किं भूयः श्रोतुमिच्छसि ॥ १,९१.२३५ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे महेशमन्त्रकथनं नामैकनवतितमोऽध्यायः इति तृतीयः पादः _____________________________________________________________ सूत उवाच एतच्छ्रुत्वा नारदस्तु कुमारस्य वचो मुदा । पुनरप्याह सुप्रीतो जिज्ञासुः श्रेय उत्तमम् ॥ १,९२.१ ॥ नारद उवाच साधु साधु महाभाग सर्वलोकोपकारकम् । महातन्त्रं त्वया प्रोक्तं सर्वतन्त्रोत्तमोत्तमम् ॥ १,९२.२ ॥ अधुना श्रोतुमिच्छामि पुराणाख्यानमुत्तमम् । यस्मिन्यस्मिन्पुराणे तु यद्यदाख्यानकं मुने । तत्सर्वं मे समाचक्ष्व सर्वज्ञस्त्वं यतो मतः ॥ १,९२.३ ॥ सूत उवाच तच्छ्रुत्वा वचनं विप्रा नारदस्य शुभावहम् । पुराणाख्यानसंप्रश्नं कुमारः प्रत्युवाच ह ॥ १,९२.४ ॥ सनत्कुमार उवाच पाराणाख्यानकं विप्र नानाकल्पसमुद्भवम् । नानाकथासमायुक्तमद्भुतं बहुविस्तरम् ॥ १,९२.५ ॥ ऋषिः सनातनश्चायं यथा वेद तथापरः । न वेद तस्मात्पृच्छ त्वं बहुकल्पविदां वरम् ॥ १,९२.६ ॥ श्रुत्वेत्थं नारदो वाक्यं कुमारस्य महात्मनः । प्रणम्य विनयोपेतः सनातनमथाब्रवीत् ॥ १,९२.७ ॥ नारद उवाच ब्रह्मन्पुराणविच्छ्रेष्ठ ज्ञानविज्ञानतत्पर । पुराणानां विभागं मे साकल्ये नानुकीर्तय ॥ १,९२.८ ॥ यस्मिञ्श्रुते श्रुतं सर्वं ज्ञातं कृते कृतम् ॥ १,९२.९ ॥ वर्णाश्रमाचारधर्मं साक्षात्कारमुपैष्यति । कियन्ति च पुराणानि कियत्संख्यानि मानतः ॥ १,९२.१० ॥ किङ्किमाख्यानयुक्तानि तद्वदस्व मम प्रभो । चातुर्वर्ण्याश्रया नानाव्रतादीनां कथास्तथा ॥ १,९२.११ ॥ सृष्टिक्रमेण वंशानां कथाः सम्यक्प्रकाशय । त्वत्तोऽधिको न चान्योऽस्ति पुराणाख्यानवित्प्रभो ॥ १,९२.१२ ॥ तस्मादाख्याहि मह्यं त्वं सर्वसन्देहभञ्जनम् । सूत उवाच ततः सनातनो विप्राः श्रुत्वा नारदभाषितम् ॥ १,९२.१३ ॥ नारायणं क्षणं ध्यात्वा प्रोवाचाथ विदां वरः । सनातन उवाच साधु साधु मुनिश्रेष्ठ सर्वलोकोपकारिका ॥ १,९२.१४ ॥ पुराणाख्यानविज्ञाने यज्जाता नेष्ठिकी मतिः । तुभ्यं समभिधास्यामि यत्प्रोक्तं ब्रह्मणा पुरा ॥ १,९२.१५ ॥ मरीच्यादिऋषिभ्यस्तु पुत्रस्नेहावृतात्मना । एकदा ब्रह्मणः पुत्रो मरीचिर्नाम विश्रुतः ॥ १,९२.१६ ॥ स्वाध्यायश्रुतसंपन्नो वेदवेदागपारगः । उपसृत्य स्वपितरं ब्रह्मणं लोकभावनम् ॥ १,९२.१७ ॥ प्रणम्य भक्त्या पप्रच्छ इदमेव मुनिश्वर । पुराणाख्यानममलं यत्त्वं पृच्छसि मानद ॥ १,९२.१८ ॥ मरीचिरुवाच भगवन्देवदेवेश लोकानां प्रभवाप्यय । सर्वज्ञ सर्वकल्याण सर्वाध्यक्ष नमोऽस्तु ते ॥ १,९२.१९ ॥ पुराणबीजमाख्यहि मह्यं शुश्रूषवे पितः । लक्षणं च प्रमाणं च प्रमाणं चं वक्तारं पृच्छकं तथा ॥ १,९२.२० ॥ ब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि पुराणानां समुच्चयम् । यस्मिञ्ज्ञाते भवेज्ज्ञातं वाङ्मयं सचराचरम् ॥ १,९२.२१ ॥ पुराणमेकमेवासीत्सर्वकल्पेषु मानद । चतुर्वर्गस्य बीजं च शतकोटिप्रविस्तरम् ॥ १,९२.२२ ॥ प्रवृत्तिः सर्वशास्त्राणां पुराणादभवत्ततः । कालेनाग्रहणं दृष्ट्वा पुरामस्य महामतिः ॥ १,९२.२३ ॥ हरिर्व्यासस्वरूपेण जायते च युगे युगे । चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा ॥ १,९२.२४ ॥ तदष्टादशधा कृत्वा भूर्लोके निर्द्दिशत्यपि । अद्यापि देवलोके तु शतकोटिप्रविस्तरम् ॥ १,९२.२५ ॥ अस्त्येव तस्य सारस्तु चतुर्लक्षेण वर्ण्यते । ब्राह्मं पाद्मं वैष्णवं च वायवीयं तथैव च ॥ १,९२.२६ ॥ भागवतं नारदीयं मार्कण्डेयं च कीर्तितम् । आग्नेयं च भविष्यं च ब्रह्मवैवर्त्तलिङ्गके ॥ १,९२.२७ ॥ वाराहं च तथा स्कान्दं वामनं कूर्मसंज्ञकम् । मात्स्यं च गारुडं तद्वद्ब्रह्माण्डाख्यमिति त्रिषट् ॥ १,९२.२८ ॥ एकं कथानकं सूत्रं वक्तुः श्रोतुः समाह्वयम् । प्रवक्ष्यामि समासेन निशामय समाहितः ॥ १,९२.२९ ॥ ब्रह्मं पुराणं तत्रादौ सर्वलोकहिताय वै । व्यासेन वेदविदुषा समाख्यातं महात्मना ॥ १,९२.३० ॥ तद्वै सर्वपुराणाग्र्यं धर्मकामार्थमोक्षदम् । नानाख्यानेतिहासाढ्यं दशसाहस्रमुच्यते ॥ १,९२.३१ ॥ देवानां च सुराणां च यत्रोत्पत्तिः प्रकीर्तिता । प्रजापतीनां च तथा दक्षादीनां मुनीश्वर ॥ १,९२.३२ ॥ ततो लोकेश्वरस्यात्र सूर्यस्य परमात्मनः । वंशानुकीर्तनं पुण्यं महापातकनाशनम् ॥ १,९२.३३ ॥ यत्रावतारः कथितः परमानन्दरूपिणः । श्रीमतो रामचन्द्रस्य चतुर्व्यूहावतारिणः ॥ १,९२.३४ ॥ ततश्च सोमवंशस्यं कीर्तनं यत्र वर्णितम् । कृष्णस्य जगदीशस्य चरितं कल्मषापहम् ॥ १,९२.३५ ॥ द्वीपानां चैव सर्वेषां वर्षाणां चाप्यशेषतः । वर्णनं यत्र पातालस्वर्गाणां च प्रदृश्यते ॥ १,९२.३६ ॥ नरकाणां समाख्यानं सूर्यस्तुतिकथानकम् । पार्वत्याश्च तथा जन्म विवाहश्च निगद्यते ॥ १,९२.३७ ॥ दक्षाख्यानं ततः प्रोक्तमेकाम्रक्षेत्रवर्णनम् । पूर्वभागोऽयमुदितः पुराणस्यास्य नारद ॥ १,९२.३८ ॥ अस्योत्तरे विभागे तु पुरुषोत्तमवर्णनम् । विस्तरेण समाख्यातं तीर्थयात्राविधानतः ॥ १,९२.३९ ॥ अत्रैव कृष्णचरितं विस्तरात्समुदीरितम् । वर्णनं यमलोकस्य पितृश्राद्धविधिस्तथा ॥ १,९२.४० ॥ वर्णाश्रमाणां धर्माश्च कीर्तिता यत्र विस्तरात् । विष्णुधर्मयुगाख्यानं प्रलयस्य च वर्णनम् ॥ १,९२.४१ ॥ योगानां च समाख्यानं सांख्यानां चापि वर्णनम् । ब्रह्मवादसमुद्देशः पुराणस्य प्रशंसनम् ॥ १,९२.४२ ॥ एतद्ब्रह्मपुराणं तु भागद्वयसमन्वितम् । वर्णितं सर्वपापघ्नं सर्वसौख्यप्रदायकम् ॥ १,९२.४३ ॥ सूतशौनकसंवादं भुक्तिमुक्तिप्रदायकम् । लिखित्वेतत्पुराणं यो वैशाख्यां हेमसंयुतम् ॥ १,९२.४४ ॥ जलधेनुयुतं चापि भक्त्या दद्याद्द्विजातये । पौराणिकाय संपूज्य वस्त्रभोज्यविभूषणैः ॥ १,९२.४५ ॥ स वसेद्ब्रह्मणो लोके यावच्चन्द्रार्कतारकम् । यः पठेच्छृणुयाद्वापि ब्राह्मानुक्रमणीं द्विज ॥ १,९२.४६ ॥ सोऽपि सर्वपुराणस्य श्रोतुर्वक्तुः फलं लभेत् । शृणोति यः पुराणं तु ब्रह्मं सर्वं जितेन्द्रियः ॥ १,९२.४७ ॥ हविष्याशी च नियमात्स लभेद्ब्रह्मणः पदम् । किमत्र बहुनोक्तेन यद्यदिच्छति मानवः । तत्सर्वं लभते वत्स पुराणस्यास्य कीर्तनात् ॥ १,९२.४८ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्राह्मपुराणेतिहासकथनं नाम द्विनवतितमोऽध्यायः _____________________________________________________________ ब्रह्मोवाच शृणु पुत्र प्रवक्ष्यामि पुराणं पद्मसंज्ञकम् । महत्पुण्यप्रदं नॄणां शृण्वतां पठतां मुदा ॥ १,९३.१ ॥ यथा चञ्चेन्द्रियः सर्वः शरीरीति निगद्यते । तथेदं पञ्चभिः खण्डैरुदितं पापनाशनम् ॥ १,९३.२ ॥ पुलस्त्येन तु भीष्माय सृष्ट्यादिक्रमतो द्विज । नानाख्यानेतिहासाद्यैर्यत्रोक्तो धर्मविस्तरः ॥ १,९३.३ ॥ पुष्करस्य च माहात्म्यं विस्तरेण प्रकीर्तितम् । ब्रह्मयज्ञविधानं च वेदपाठादिलक्षणम् ॥ १,९३.४ ॥ दानानां कीर्तनं यत्र व्रतानां च पृथक्पृथक् । विवाहः शैलजायाश्चतारकाख्यानकं महत् ॥ १,९३.५ ॥ माहात्म्यं च गवादीनां कीर्तितं सर्वपुण्यदम् । कालकेयादिदैत्यानां वधो यत्र पृथक्पृथक् ॥ १,९३.६ ॥ ग्रहाणामर्चनं दानं यत्र प्रोक्तं द्विजोत्तम । तत्सृष्टिखण्डमुद्दिष्टं व्यासेन सुमहात्मना ॥ १,९३.७ ॥ पितृमात्रादिपूज्यत्वे शिवशर्मकथा पुरा । सुव्रतस्य कथा पश्चाद्वृत्रस्य च वधस्तथा ॥ १,९३.८ ॥ पृथोर्वैनस्य चाख्यानं सुनूथायाः कथा तथा । सुकलाख्यानकं चैव धर्माख्यानं ततः परम् ॥ १,९३.९ ॥ पितृशुश्रूषणाख्यानं नहुषस्य कथा ततः । ययातिचरितं चैव गुरुतीर्थनिरूपणम् ॥ १,९३.१० ॥ राज्ञा जैमिनिसंवादो बह्वाश्चर्य्यकथायुतः । कथा ह्यशोकसुंदर्याहुण्डदैत्यवधान्विता ॥ १,९३.११ ॥ कामोदाख्यानकं तत्र विहुण्डवधसंयुतम् । कुञ्जलस्य च संवादश्च्यवनेन महात्मना ॥ १,९३.१२ ॥ सिद्धाख्यानं ततः प्रोक्तं खण्डस्यास्य फलोहनम् । सूतशौनकसंवादं भूमिखण्डमिदं स्मृतम् ॥ १,९३.१३ ॥ ब्रह्माण्डोत्पत्तिरुदिता यत्रर्षिभिश्च सौतिना । सभूमिलोकसंस्थानं तीर्थाख्यानं ततः परम् ॥ १,९३.१४ ॥ नर्मदोत्पत्तिकथनं तत्तीर्थानां कथाः पृथक् । कुरुक्षेत्रादितीर्थानां कथा पुण्या प्रकीर्तिता ॥ १,९३.१५ ॥ कालिन्दीपुण्यकथनं काशीमाहात्म्यवर्णनम् । गयायाश्चैव माहात्म्यं प्रयागस्य च पुण्यकम् ॥ १,९३.१६ ॥ वर्णाश्रमानुरोधेन कर्मयोगनिरूपणम् । व्यासजमिनिसंवादः पुण्यकर्मकथान्वितः ॥ १,९३.१७ ॥ समुद्रमथनाख्यानं व्रताख्यानं ततः परम् । ऊर्ज्जपञ्चाहमाहाम्यं स्तोत्रं सर्वापराधनुत् ॥ १,९३.१८ ॥ एतत्स्वर्गाभिधं विप्र सर्वपातकनाशनम् । रामाश्वमेधं प्रथमं रामराज्याभिषेचनम् ॥ १,९३.१९ ॥ अगस्त्याद्यागमश्चैव पौलस्त्यान्वयकीर्त्तनम् । अश्वमेधोपदेशश्च हयचर्या ततः परम् ॥ १,९३.२० ॥ नानाराजकथाः पुण्या जगन्नाथानुवर्णनम् । वृन्दावनस्य माहात्म्यं सर्वपापप्रणाशनम् ॥ १,९३.२१ ॥ नित्यलीलानुकथनं यत्र कृष्णावतारिणः । माधवस्नानमाहात्म्यं स्नानदानार्चने फलम् ॥ १,९३.२२ ॥ धरावराहसंवादो यमब्रह्मणयोः कथा । संवादो राजदूतानां कृष्णस्तोत्रनिरूपणम् ॥ १,९३.२३ ॥ शिवशंभुसमायोगी दधीचाख्यानकं ततः । भस्ममाहात्म्यमतुलं शिवमाहात्म्यमुत्तमम् ॥ १,९३.२४ ॥ देवरातसुताख्यानं पुराणज्ञप्रशंसनम् । गौतमाख्यानकं चैव शिवगीता ततः स्मृता ॥ १,९३.२५ ॥ कल्पान्तरे रानकथा भारद्वाजाश्रमस्थिता । पातालखण्डमेतद्धि शृण्वतां पठतां सदा ॥ १,९३.२६ ॥ सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम् । पर्वताख्यानकं पूर्वं गौर्थै प्रोक्तं शिवेन वै ॥ १,९३.२७ ॥ जालन्धरकथा पश्चाच्छ्रीशैलाद्यनुकीर्तनम् । सगरस्य कथा पुण्या ततः परमुदीरितम् ॥ १,९३.२८ ॥ गङ्गाप्रयागकाशीनां गयायाश्चाधिपुण्यकम् । अन्नादि दानमाहात्म्यं तन्महाद्वादशीव्रतम् ॥ १,९३.२९ ॥ चतुर्विंशैकादशीनां माहात्म्यं पृथगीरितम् । विष्णुधर्मसमाख्यानं विष्णुनामसहस्रकम् ॥ १,९३.३० ॥ कार्तिकव्रतमाहात्म्यं माघस्नानफलं ततः । जम्बृद्वीपस्य तीर्थानां माहात्म्यं पापनाशनम् ॥ १,९३.३१ ॥ साभ्रमत्याश्च माहात्म्यं नृसिंहोत्पत्तिवर्णनम् । देवशर्मादिकाख्यानं गीतामाहात्म्यवर्णनम् ॥ १,९३.३२ ॥ भक्त्याख्यानं च माहात्म्यं श्रीमद्भागवतस्य ह । इन्द्रप्रस्थस्य माहात्म्यं बहुतीर्थकथान्वितम् ॥ १,९३.३३ ॥ मन्त्ररत्नाभिधानं च त्रिपाद्भूत्यनुवर्णनम् । अवतारकथाः पुण्या मत्स्यादीनामतः परम् ॥ १,९३.३४ ॥ रामनामशतं दिव्यं तन्माहात्म्यं च वाडव । परीक्षणं च भृगुणा श्रीविष्णोर्वैभवस्य च ॥ १,९३.३५ ॥ इत्येतदुत्तरं खण्डं पञ्चमं सर्वपुण्यदम् । पञ्चखण्डयुतं पाद्मं यः शृणोति नरोत्तमः ॥ १,९३.३६ ॥ स लभेद्वैष्णवं धाम भुक्त्वा भोगानिहेप्सितान् । एतद्वै पञ्चपञ्चाशत्सहस्रं पद्मसंज्ञकम् ॥ १,९३.३७ ॥ पुराणं लेखयित्वा वै ज्येष्ठ्यां स्वर्णाब्जसंयुतम् । यः प्रदद्यात्सुसत्कृत्य पुराणज्ञाय मानद ॥ १,९३.३८ ॥ स याति वैष्णवं धाम सर्वदेवनमस्कृतः । पद्मानुक्रमणीमेतां यः पठेच्छृणुयात्तथा ॥ १,९३.३९ ॥ सोऽपि पद्मपुराणस्य लभेच्छ्रवणजं फलम् ॥ १,९३.४० ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे पद्मपुराणानुक्रमणिकावर्णनं नाम त्रिनवतितमोऽध्यायः _____________________________________________________________ श्रीब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि पुराणं वैष्णवं महत् । त्रयोविंशतिसहस्रं सर्वपातकनाशनम् ॥ १,९४.१ ॥ यत्रादिभागे निर्विष्टाः षडंशाः शक्तिजेन ह । मैत्रेयायादिमे तत्र पुराणस्यावतारिकाम् ॥ १,९४.२ ॥ आदिकारणसर्गश्च देवादीनां च संभवः । समुद्रमथनाख्यानं दक्षादीनां ततोऽन्वयः ॥ १,९४.३ ॥ ध्रुवस्य चरितं चैव पृथोश्चरितमेव च । प्रचेतसं तथाख्यानं प्रह्लादस्य कथानकम् ॥ १,९४.४ ॥ पृथग्राज्याधिकाराख्या प्रथमोंऽशैतीरितः । प्रियव्रतान्वयाख्याख्यानं द्वीपवर्षनिरूपणम् ॥ १,९४.५ ॥ पातालनरकाख्यानं सप्तस्वर्गनिरूपणम् । सूर्यादिवारकथनं पृथग्लक्षणसंयुतम् ॥ १,९४.६ ॥ चरितं भरतस्याथ मुक्तिमार्गनिदर्शनम् । निदाघऋभुसंवादो द्वितीयोंश उदाहृतः ॥ १,९४.७ ॥ मन्वन्तरसमाख्यानं वेदव्यासावतारकम् । नरकोद्धारकं कर्म गदितं च ततः परम् ॥ १,९४.८ ॥ सगरस्यौर्वसंवादे सर्वधर्मनिरूपणम् । श्राद्धकल्पं तथोद्दिष्टं वर्णाश्रमनिबन्धनम् ॥ १,९४.९ ॥ सदाचारश्च कथितो मायामोहकथा ततः । तृतीयोंऽशोऽयमुदितः सर्वपापप्रणाशनः ॥ १,९४.१० ॥ सूर्यवंशकथ पुण्या सोमवंशानुकीर्तनम् । चतुर्थेंऽशेमुनिश्रेष्ठ नानाराजकथान्वितम् ॥ १,९४.११ ॥ कृष्णावतारसंप्रश्नो गोकुलीया कथा ततः । पूतनादिवधो बाल्ये कौमारेऽघादिहिंसनम् ॥ १,९४.१२ ॥ कैशोरे कंसहननं माथुरं चरितं तथा । ततस्तु यौवने प्रोक्ता लीला द्वारवतीभवा ॥ १,९४.१३ ॥ सर्वदैत्यवधो यत्र विवाहाश्च पृथग्विधाः । यत्र स्थित्वाजगन्नाथः कृष्णो योगेश्वरेश्वरः ॥ १,९४.१४ ॥ भूभारहरणं चक्रे परेषां हननादिभिः । अष्टावक्रीयमाख्यानं पञ्चमोंऽश इतीरितः ॥ १,९४.१५ ॥ कलिजं चरितं प्रोक्तं चातुर्विध्यं लयस्य च । ब्रह्मज्ञानसमुद्देशः खाण्डिक्यस्य निरूपितः ॥ १,९४.१६ ॥ केशिध्वजेन चेत्येष षष्ठाएंऽशः परिकीर्तितः । अतः परं तु सूतेन शौनकादिभिरादरात् ॥ १,९४.१७ ॥ पृष्टेन चोदिताः शश्वद्विष्णुधर्मोत्तराह्वयाः । नानाधर्मकथाः पुण्या व्रतानि नियमा यमाः ॥ १,९४.१८ ॥ धर्मशास्त्रं चार्थशास्त्रं वेदान्तं ज्योतिषं तथा । वंशाख्यानं प्रकरणात्स्तोत्राणि मनवस्तथा ॥ १,९४.१९ ॥ नानाविद्यास्तथा प्रोक्ताः सर्वलोकोपकारिकाः । एतद्विष्णुपुराणं वै सर्वशास्त्रार्थसंग्रहम् ॥ १,९४.२० ॥ वाराहकल्पवृत्तान्तं व्यासेन कथितं त्विह । यो नरः पठते भक्त्या यः शृणोति च सादरम् ॥ १,९४.२१ ॥ तावुभौ विष्णुलोकं हि व्रजेतां भुक्तभोगकौ । तल्लिखित्वा च यो दद्यादाषाढ्यां घृतधेनुना ॥ १,९४.२२ ॥ सहितं विणुभक्ताय पुराणार्थविदेद्विज । स याति वैष्णवं धाम विमानेनार्कवर्चसा ॥ १,९४.२३ ॥ यश्च विष्णुपुराणस्य समनुक्रमणीं द्विज । कथयेच्छृणुयाद्वापि स पुराणफलं लभेत् ॥ १,९४.२४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे विष्णुपुराणानुक्रमणीनिरूपणं नाम चतुर्नवतितमोऽध्यायः _____________________________________________________________ ब्रह्मोवाच शृणु विप्र प्रवक्ष्यामि पुराणं वायवीयकम् । यस्मिञ्च्छ्रुते लभद्धाम रुद्रस्य परमात्मनः ॥ १,९५.१ ॥ चतुर्विंशतिसाहस्रं तत्पुराणं प्रकीर्तितम् । श्वेतकल्पप्रसंगेन धर्मानत्राह मारुतः ॥ १,९५.२ ॥ तद्बायवीयनुदितं भागद्वयसमन्वितम् । सर्गादिलक्षणं यत्र प्रोक्तं विप्र सविस्तरम् ॥ १,९५.३ ॥ मन्वन्तरेषु वंशाश्च राज्ञां ये यत्र कीर्तिताः । गयासुरस्य हननं विस्तराद्यत्र कीर्तितम् ॥ १,९५.४ ॥ मासानां चैव माहात्म्यं माघस्योक्तं फलाधिकम् । दानधर्मा राजधर्मा विस्तरेणोदिता स्तथा ॥ १,९५.५ ॥ भूपातालककुब्व्योमचारिणां यत्र निर्णयः । व्रतादीनां च पूर्वोऽयं विभागः समुदाहृतः ॥ १,९५.६ ॥ उत्तरे तस्य भागेतु नर्मदातीर्थवर्णनम् । शिवस्य संहितोक्ता वै विस्तरेण मुनीश्वर ॥ १,९५.७ ॥ यो देवः सर्वदेवानां दुर्विज्ञेयः सनातनः । स तु सर्वात्मना यस्यास्तीरे तिष्ठति संततम् ॥ १,९५.८ ॥ इदं ब्रह्मा हारीरिदं साक्षाच्चेदं परो हरः । इदं ब्रह्म निराकारं कैवल्यं नर्मदाजलम् ॥ १,९५.९ ॥ ध्रुवं लोकहितार्थाय शिवेन स्वशरीरतः । शक्तिः कापि सरिदृपा रेवेयमवतारिता ॥ १,९५.१० ॥ ये वसंत्युत्तरे कूले रुद्रस्यानुचरा हि ते । वसंति याम्यतीरे ये लोकं ते यान्ति वैष्णवम् ॥ १,९५.११ ॥ ओङ्कारेश्वरमारभ्ययावत्पश्चिमसागरः । संगमाः पञ्च च त्रिंशन्नदीनां पापनाशनी ॥ १,९५.१२ ॥ दशैकमुत्तरे तीरे त्रयोविंशतिर्दक्षिणे । पञ्चत्रिंशत्तमः प्रोक्तो रेवासागरसगमः ॥ १,९५.१३ ॥ संगमैः सहितान्येव रेवातीरद्वयेऽपि च । चतुःशतानि तीर्थानि प्रसिद्धानि च संति हि ॥ १,९५.१४ ॥ षष्टितीर्थसहस्राणि षष्टिकोट्यो मुनीश्वर । संति चान्यानि रेवायास्तीरयुग्मे पदे पदे ॥ १,९५.१५ ॥ संहितेयं महापुण्या शिवस्य परमात्मनः । नर्मदाचरितं यत्र वायुना परिकीर्तितम् ॥ १,९५.१६ ॥ लिखित्वेदं पुराणं तु गुडधेनुसमन्वितम् । श्रावण्यां यो ददेद्भक्त्या ब्राह्मणाय कुटुंबिने ॥ १,९५.१७ ॥ रुद्रलोके वसेत्सोऽपि यावदिन्द्राश्चतुर्द्दश । यः श्रावयेद्वा शृणुयाद्वायवीयमिदं नरः ॥ १,९५.१८ ॥ नियमेन हविष्याशी स रुद्रो नात्र संशयः । यश्चानुक्रमणीमेतां शृणोति श्रावयेत्तथा ॥ १,९५.१९ ॥ सोऽपि सर्वपुराणस्य फलं श्रवणजं लभेत् ॥ १,९५.२० ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वायुपुराणानुक्रमणीनिरूपणं नाम पञ्चनवतितमोऽध्यायः _____________________________________________________________ ब्रह्मोवाच मरीचे शृणु वक्ष्यामि वेदव्यासेन यत्कृतम् । श्रीमद्भागवतं नाम पुराणं ब्रह्मसंमितम् ॥ १,९६.१ ॥ तदष्टादशसाहस्रं कीर्तितं पापनाशनम् । सुरपादपरूपोऽयं स्कन्धैर्द्वादशभिर्युतः ॥ १,९६.२ ॥ भगवानेव विप्रेन्द्र विश्वरूपीसमीरितः । तत्र तु प्रथमस्कन्धे सूतर्षीणां समागमे ॥ १,९६.३ ॥ व्यासस्य चरितं पुण्यं पाण्डवानां तथैव च । परीक्षितमुपाख्यानमितीदं समुदाहृतम् ॥ १,९६.४ ॥ परीक्षिच्छुकसंवादे सृष्टिद्वयनिरूपणम् । ब्रह्मनारदसंवादे देवताचरितामृतम् ॥ १,९६.५ ॥ पुराणलक्षणं चैव सृष्टिकारणसंभवः । द्वितीयोऽयं समुदितः स्कन्धो व्यासेन धीमता ॥ १,९६.६ ॥ चरितं विदुरस्याथ मैत्रेयेणास्य संगमः । सृष्टिप्रकरणं पश्चाद्बह्मणः परमात्मनः ॥ १,९६.७ ॥ कापिलं सांख्यमप्यत्र तृतीयोऽयमुदाहृतः । सत्याश्चरितमादौ तु ध्रुवस्य चरितं ततः ॥ १,९६.८ ॥ पृथोः पुण्यसमाख्यानं ततः प्राचीनबर्हिषम् । इत्येष तुर्यो गदितो विसर्गे स्कन्ध उत्तमः ॥ १,९६.९ ॥ प्रियव्रतस्य चरितं तद्वंश्यानां च पुण्यदम् । ब्रह्माण्डान्तर्गतानां च लोकानां वर्णनं ततः ॥ १,९६.१० ॥ नरकस्थितिरित्येष संस्थाने पञ्चमो मतः । अजामिलस्य चरितं दक्षसृष्टिनिरूपणम् ॥ १,९६.११ ॥ वृत्राख्यानं ततः पश्चान्मरुतां जन्म पुण्यदम् । षष्ठोऽयमुदितः स्कन्धोव्यासेन परिपोषणे ॥ १,९६.१२ ॥ प्रह्लादचरितं पुण्यं वर्णाश्रमनिरूपणम् । सप्तमो गदितो वत्स वासनाकर्मकीर्तने ॥ १,९६.१३ ॥ गजेन्द्रमोक्षणाख्यानं मन्वन्तरनिरूपणे । समुद्रमथनं चैव बलिवैभवबन्धनम् ॥ १,९६.१४ ॥ मत्स्याक्तारचरितमष्टमोऽयं प्रकीर्तितः । सूर्यवंशसमाख्यानं सोमवंशनिरूपणम् ॥ १,९६.१५ ॥ वंश्यानुचरिते प्रोक्तो नवमोऽयं महामते । कृष्णस्य बालचरितं कौमारं च व्रजस्थितिः ॥ १,९६.१६ ॥ कैशोरं मथुरास्थानं यौवनं द्वारकास्थितिः । भूभारहरणं चात्र निरोधे दशमः स्मृतः ॥ १,९६.१७ ॥ नारदेन तु संवादो वसुदेवस्य कीर्तितः । यदोश्च दत्तात्रेयेण श्रीकृष्णोनोद्धवस्य च ॥ १,९६.१८ ॥ यादवानां मिथोन्तश्च मुक्तावेकादशः स्मृतः । भविष्यकलिनिर्द्देशो मोक्षो राज्ञः परीक्षितः ॥ १,९६.१९ ॥ वेदशाखाप्रणयनं मार्कण्डेयतपःक्रिया । सौरी विभूतिरुदिता सात्वती च ततः परम् ॥ १,९६.२० ॥ पुराणसंख्याकथनमाश्रये द्वादशो ह्ययम् । इत्येवं कथितं वत्स श्रीमद्भागवतं तव ॥ १,९६.२१ ॥ वक्तुः श्रोतुश्चोपदेष्टुरनुमोदितुरेव च । साहाय्यकर्तुर्गदितं भक्तिभुक्तिविमुक्तिदम् ॥ १,९६.२२ ॥ प्रौष्ठपद्यां पूर्णिमायां हेमसिंहसमन्वितम् । देयं भागवतायेदं द्विजायप्रीतिपूर्वकम् ॥ १,९६.२३ ॥ संपूज्य वस्त्रहेमाद्यैर्भगवद्भक्तिमिच्छता । योऽप्यनुक्रमणीमेतां श्रावयेच्छृणुयात्तथा । स पुराणश्रवणजं प्राप्नोति फलमुत्तमम् ॥ १,९६.२४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे श्रीमद्भागवतानुक्रमणीनिरूपणं नाम षण्णवतितमोऽध्यायः _____________________________________________________________ श्रीब्रह्मोवाच शृणु विप्र प्रवक्ष्यामि पुराणं नारदीयकम् । पञ्चविंशतिसाहस्रं बृहत्कल्पकथाश्रयम् ॥ १,९७.१ ॥ सूतशौनकसंवादः सृष्टिसंक्षेपवर्णनम् । नानाधर्मकथाः पुण्याः प्रवृत्ते समुदाहृताः ॥ १,९७.२ ॥ प्राग्भागे प्रथमे पादे सनकेन महात्मना । द्वितीये मोक्षधर्माख्ये मोक्षोपायनिरूपणम् ॥ १,९७.३ ॥ वेदाङ्गानां च कथनं शुकोत्पत्तिश्च विस्तरात् । सनन्दनेन गदिता नारदाय महात्मने ॥ १,९७.४ ॥ महातन्त्रे समुद्दिष्टं पशुपाशविमोक्षणम् । मन्त्राणां शोधनं दीक्षामन्त्रोद्धारश्च पूजनम् ॥ १,९७.५ ॥ प्रयोगाः कवचं नामसहस्रं स्तोत्रमेव च । गणेशसूर्यविष्णूनां शिवशक्त्योरनुक्रमात् ॥ १,९७.६ ॥ सनत्कुमारमुनिना नारदाय तृतीयके । पुराणलक्षणं चैव प्रमाणं दानमेव च ॥ १,९७.७ ॥ पृथक्पृथक्समुद्दिष्टं दानकालपुरःसरम् । चैत्रादिसर्वमासेषु तिथीनाञ्चपृथक्पृथक् ॥ १,९७.८ ॥ प्रोक्तं प्रतिपदादीनां व्रतं सर्वाघनाशनम् । सनातनेन मुनिना नारदाय चतुर्थके ॥ १,९७.९ ॥ पूर्वभागोऽयमुदितो बृहदाख्यानसंज्ञितः । अस्योत्तरे विभागे तु प्रश्न एकादशीव्रते ॥ १,९७.१० ॥ वसिष्ठेनाथ संवादो मान्धातुः परिकीर्तितः । रुक्माङ्गदकथा पुण्यामोहिन्युत्पत्तिकर्म च ॥ १,९७.११ ॥ वसुशापश्च मोहिन्यै पश्चादुद्धरणक्रिया । गङ्गाकथा पुण्यतमा गयायात्रानुकीर्तनम् ॥ १,९७.१२ ॥ काश्या माहात्म्यमतुलं पुरुषोत्तमवर्णनम् । यात्राविधानं क्षेत्रस्य बह्वाख्यानसमन्वितम् ॥ १,९७.१३ ॥ प्रयागस्याथ माहात्म्यं कुरुक्षेत्रस्य तत्परम् । हरिद्वारस्य चाख्यानं कामोदाख्यानकं तथा ॥ १,९७.१४ ॥ बदरीतीर्थमाहात्म्यं कामाक्षायास्तथैव च । प्रभासस्य च माहात्म्यं पुष्कराख्यानकं ततः ॥ १,९७.१५ ॥ गौतमाख्यानकं पश्चाद्वेदपादस्तवस्ततः । गोकर्णक्षेत्रमाहात्म्यं लक्ष्मणाख्यानकं तथा ॥ १,९७.१६ ॥ सेतुमाहात्म्यकथनं नर्मदातीर्थवर्णनम् । अवन्त्याश्चैव माहात्म्यं मधुरायास्ततः परम् ॥ १,९७.१७ ॥ बृन्दावनस्य महिमा पशोर्ब्रह्मान्तिके गतिः । मोहिनीचरितं पश्चादेवं पश्चादेवं वै नारदीयकम् ॥ १,९७.१८ ॥ यः शृणोति नरो भक्त्याश्रावयेद्वा समाहितः । स याति ब्रह्मणो धाम नात्र कार्या विचारणा ॥ १,९७.१९ ॥ यस्त्वेतदिषुपूर्णायां धेनूनां सप्तकान्वितम् । प्रदद्याद्दिजर्ंयाय संलभेन्मोक्षमेव च ॥ १,९७.२० ॥ यश्चानुक्रमणीमेतां नारदीयस्य वर्णयेत् । शृणुयद्वैकचित्तेन सोऽपि स्वर्गगतिं लभेत् ॥ १,९७.२१ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे नारदीयपुराणानुक्रमणीकथनं नाम सप्तनवतितमोऽध्यायः _____________________________________________________________ श्रीब्रह्मोवाच अथ ते संप्रवक्ष्यामि मार्कण्डेयाभिधं मुने । पुराणं सुमहत्पुण्यं पठतां शृण्वतां सदा ॥ १,९८.१ ॥ यत्राधिकृत्य शकुनीन्सर्वधर्मनिरूपणम् । मार्कण्डेयपुराणं तन्नवसाहस्रमीरितम् ॥ १,९८.२ ॥ मार्कण्डेयमुनेः प्रश्नो जैमिनेः प्राक्समीरितः । पक्षिणां धर्मसंज्ञानं ततो जन्मनिरूपणम् ॥ १,९८.३ ॥ पूर्वजन्मकथा चैषां विक्रिया चा दिवस्पतेः । तीर्थयात्रा बलस्याथ द्रौपदेयकथानकम् ॥ १,९८.४ ॥ हरिश्चन्द्रकथा पुण्या युद्धमाडीबकाभिधम् । पितापुत्रसमाख्यानं दत्तात्रेयकथ ततः ॥ १,९८.५ ॥ हैहसस्याथ चरितं महाख्यानसमन्वितम् । मदालकसाकथा प्रोक्ता ह्यलर्कचरितान्विता ॥ १,९८.६ ॥ सृष्टिसंकीर्तनं पुण्यं नवधापारिकीर्तितम् । कल्पान्तकालनिर्देशो यक्षसृष्टिनिरूपणम् ॥ १,९८.७ ॥ रुद्रादिसृष्टिरप्युक्ता द्वीपचर्यानुकीर्तनम् । मनूनां च कथा नानाकीर्तिताः पापहारिकाः ॥ १,९८.८ ॥ तासु दुर्गाकथात्यन्तं पुण्यदा चाष्टमेंऽतरे । तत्पश्चात्प्रणवोत्पत्तिस्त्रयीतेजः समुद्भवा ॥ १,९८.९ ॥ मार्तण्डस्य च जन्माख्यातन्माहात्म्यसमन्विता । वैवस्वतान्वयश्चापि वत्सप्रीश्चरितं ततः ॥ १,९८.१० ॥ खनित्रस्य ततः प्रोक्ता कथा पुण्या महात्मनः । अविक्षिच्चरितं चैव किमिच्छव्रतकीर्त्तनम् ॥ १,९८.११ ॥ नरिष्यन्तस्य चरितं इक्ष्वाकुचरितं ततः । नलस्य चरितं पश्चाद्रामचन्द्रस्य सत्कथा ॥ १,९८.१२ ॥ कुशवंशसमाख्यानं सोमवंशानुकीर्त्तनम् । पुरुरवः कथा पुण्या नहुषस्य कथाद्भुता ॥ १,९८.१३ ॥ ययातिचरितं पुण्यं यदुवंशानुकीर्त्तनम् । श्रीकृष्णबालचरितं माथुरं चरितं ततः ॥ १,९८.१४ ॥ द्वारकाचरितं चाथ कथा सर्वावतारजा । ततः सांख्यसमुद्देशः प्रपञ्चासत्त्वकीर्तनम् ॥ १,९८.१५ ॥ मार्कण्डेयस्य चरितं पुराणश्रवणे फलम् । यः शृणोति नरो भक्त्या पुराणमिदमादरात् ॥ १,९८.१६ ॥ मार्कण्डेयाभिधं वत्स स लभेत्परमां गतिम् । यस्तु व्याकुरुते चैतच्छैवं स लभते पदम् ॥ १,९८.१७ ॥ तत्प्रयच्छेल्लिखित्वा यः सौवर्णकरिसंयुतम् । कार्तिक्यां द्विजवर्याय स लभेन्द्ब्रह्मणः पदम् ॥ १,९८.१८ ॥ शृणोति श्रावयेद्वापि यश्चानुक्रमणीमिमाम् । मार्कण्डेयपुराणस्य स लभेद्वाञ्छितं फलम् ॥ १,९८.१९ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे मार्कण्डेयपुराणानुक्रमणीनिरूपणं नामाष्टनवतितमोऽध्यायः _____________________________________________________________ श्रीब्रह्मोवाच अथातः संप्रवक्ष्यामि तवाग्नेयपुराणकम् । ईशानकल्पवृत्तान्तं वसिष्ठायानलोऽब्रवीत् ॥ १,९९.१ ॥ तत्पञ्चदशसाहस्रं नाना चरितमद्भुतम् । पठतां शृण्वतां चैव सर्वपापहरं नृणाम् ॥ १,९९.२ ॥ प्रश्नः पूर्वं पुराणस्य कथा सर्वावतारजा । सृष्टिप्रकरणं चाथ विष्णुपूजादिकं ततः ॥ १,९९.३ ॥ अग्निकार्यं ततः पश्चान्मन्त्रमुद्रादिलक्षणम् । सर्वदीक्षाविधानं च अभिषेकनिरूपणम् ॥ १,९९.४ ॥ लक्षणं मण्डलादीनां कुशापामार्जनं ततः । पवित्रारोपणविधिर्देवालयविधिस्ततः ॥ १,९९.५ ॥ शालग्रामादिपूजा च मूर्तिलक्ष्म पृथक्पृथक् । न्यासादीनां विधानं च प्रतिष्ठापूर्तकं ततः ॥ १,९९.६ ॥ विनायकादिपूजा च नानादीक्षाविधिः परम् । प्रतिष्ठा सर्वदेवानां ब्रह्मण्डस्य निरूपणम् ॥ १,९९.७ ॥ गङ्गादितीर्थमाहात्म्यं द्वीपवर्षानुवर्णनम् । ऊर्द्ध्वाधोलोकरचना ज्योतिश्चक्रनिरूपणम् ॥ १,९९.८ ॥ ज्योतिषं च ततः प्रोक्तं शास्त्रं युद्धजयार्णवम् । षट्कर्म च ततः प्रोक्तं मन्त्रमन्त्रौषधीगणः ॥ १,९९.९ ॥ कुब्जिकादिसमर्चत्वं षोढा न्यासविधिस्तथा । कोटिहोमविधानं च मन्वन्तरनिरूपणम् ॥ १,९९.१० ॥ ब्रह्मचर्यादिधर्मांश्च श्राद्धकल्पविधिस्ततः । ग्रहयज्ञस्ततः प्रोक्तोवैदिकस्मार्तकर्म च ॥ १,९९.११ ॥ प्रायश्चित्तानुकथनं तिथीनां च व्रतादिकम् । वारव्रतानुकथनं नक्षत्रव्रतकीर्तनम् ॥ १,९९.१२ ॥ मासिकव्रतनिर्द्देशो दीपदानविधिस्तथा । नवव्यूहार्चनं प्रोक्तं नरकाणां निरूपणम् ॥ १,९९.१३ ॥ व्रतानां चापि दानानां निरूपणमिहोदितम् । नाडीचक्रसमुद्देशः संध्याविधिरनुत्तमः ॥ १,९९.१४ ॥ गायत्र्यर्थस्य निर्द्देशो लिङ्गस्तोत्रं ततः परम् । राज्याभिषेकमन्त्रोक्तिर्द्धर्मकृत्यं च भूभुजाम् ॥ १,९९.१५ ॥ स्वप्नाध्यायस्ततः प्रोक्तः शकुनादिनिरूपणम् । मण्डलादिकनिर्द्देंशो रत्नदीक्षाविधिस्ततः ॥ १,९९.१६ ॥ रामोक्तनीतिनिर्द्देशो रत्नानां लक्षणं ततः । धनुर्विद्या ततः प्रोक्ता व्यवहारप्रदर्शनम् ॥ १,९९.१७ ॥ देवासुरविमर्दाख्या ह्यायुर्वेदनिरूपणम् । गजादीनां चिकित्सा च तेषां शान्तिस्ततः परम् ॥ १,९९.१८ ॥ गोनरादिचिकित्सा च नानापूजास्ततः परम् । शान्तयश्चापि विविधाश्छन्दः शास्त्रमतः परम् ॥ १,९९.१९ ॥ साहित्यं च ततः पश्चादेकार्णादिसमाह्वयाः । सिद्धशब्दानुशिष्टिश्चकोशः सर्गादिवर्गकः ॥ १,९९.२० ॥ प्रलयानां लक्षणं च शारीरकनिरूपणम् । वर्णनं नरकाणां च योगाश्त्रमतः परम् ॥ १,९९.२१ ॥ ब्रह्मज्ञानं ततः पश्चात्पुराणश्रवणे फलम् । एतदाग्नेयकं विप्र पुराणं परिकीर्तितम् ॥ १,९९.२२ ॥ तल्लिखित्वा तु यो दद्यात्सुवर्णकलमान्वितम् । तिलधेनु युतं चापि मार्गशीर्ष्यां विधानतः ॥ १,९९.२३ ॥ पुराणार्थविदे सोऽथ स्वर्गलोके महीयते । एषानुक्रमणी प्रोक्ता तवाग्नेयस्य मुक्तिदा ॥ १,९९.२४ ॥ शृण्वतां पठतां चैव नृणां चेह परत्र च ॥ १,९९.२५ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादेऽग्निपुराणानुक्रमणीनिरूपणं नामैकोनशततमोऽध्यायः _____________________________________________________________ श्रीब्रह्मोवाच अथ ते संप्रवक्ष्यामि पुराणं सर्वसिद्धिदम् । भविष्यं भवतः सर्वलोकाभीष्टप्रदायकम् ॥ १,१००.१ ॥ यत्राहं सर्वदेवानामादिकर्ता समुद्गतः । सृष्ट्यर्थं तत्र संजातो मनुः स्वार्यभुवः पुरा ॥ १,१००.२ ॥ स मां प्रणम्य पप्रच्छ धर्मं सर्वाथसाधकम् । अहं तस्मै तदा प्रीतः प्रावोचं धर्मसंहिताम् ॥ १,१००.३ ॥ पुराणानां यदा व्यासो व्यासं चक्त्रे महामतिः । तदा तां संहितां सर्वां पञ्चधा व्यभजन्मुनिः ॥ १,१००.४ ॥ अधोरकल्पवृत्तान्तं नानाश्चर्यकथन्वितम् । तत्रादिमं स्मृतं पर्वं ब्राह्मं यत्रास्त्युपक्रमः ॥ १,१००.५ ॥ सूतशौनकसंवादे पुराणप्रश्नसंक्रमः । आदित्यचरितप्रायः सर्वाख्यानसमन्वितः ॥ १,१००.६ ॥ सृष्ट्यादिलक्षणोपेतः शास्त्रसर्वस्वरूपकः । पुस्तलेखकलेखानां लक्षणं च ततः परम् ॥ १,१००.७ ॥ संस्काराणां च सर्वेषां लक्षणं चात्र कीर्तितम् । पक्षस्यादितिथीनां च कल्पाः सप्त च कीर्तिताः ॥ १,१००.८ ॥ अष्टम्याद्याः शेषकल्पा वैष्णवे पर्वणि स्मृताः । शैवे च कायतो भिन्नाः सौरे चान्त्यकथान्वयः ॥ १,१००.९ ॥ प्रतिसर्गाह्वयं पश्चान्नानाख्यानसमन्वितम् । पुराणस्योपसंहारसहितं पर्व पञ्चमम् ॥ १,१००.१० ॥ एषु पञ्चसु पूर्वस्मिन् ब्रह्मणो महिमाधिकाः । धर्मे कामे च मोक्षे तु विष्णोश्चापि शिवस्य च ॥ १,१००.११ ॥ द्वितीयं च तृतीये च सौरे वर्गचतुष्टये । प्रतिसर्गाह्वयं त्वन्त्यं प्रोक्तं सर्वकथान्वितम् ॥ १,१००.१२ ॥ सभविष्यं विनिर्द्दिष्टं पर्व व्यासेन धीमता । चतुर्द्दशसहस्रं तु पुराणं परिकीर्तितम् ॥ १,१००.१३ ॥ भविष्यं सर्वदेवानां साम्यं यत्र प्रकीर्तितम् । गुणानां तारतम्येन समं ब्रह्मेति हि श्रुतिः ॥ १,१००.१४ ॥ तं लिखित्वा तु यो दद्यात्पौष्यां विद्वान्विमत्सरः । गुडधेनुयुतं हेमवस्त्रमाल्यविभूषणैः ॥ १,१००.१५ ॥ वाचकं पुस्तकं चापि पूजयित्वा विधानतः । गन्धाद्यैर्भोज्यभक्ष्यैश्च कृत्वा नीराजनादिकम् ॥ १,१००.१६ ॥ यो वै जितेन्द्रियो भूत्वा सोपवासः समाहितः । अथ वैकहविष्याशी कीर्तयेच्छृणुयादपि ॥ १,१००.१७ ॥ स मुक्तः पातकैर्घोरैः प्रयाति ब्रह्मणः पदम् । योऽप्यनुक्रमणीमेतां भविष्यस्य निरूपिताम् ॥ १,१००.१८ ॥ पठेद्वा शृणुयाच्चैतां भुक्तिं मुक्तिं च विन्दति ॥ १,१००.१९ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे भविष्यपुराणानुक्रमणी निरूपणं नाम शततमोऽध्यायः _____________________________________________________________ श्रीब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि पुराणं दशमं तव । ब्रह्मवैवर्तकं नाम वेदमार्गानुदर्शकम् ॥ १,१०१.१ ॥ सावर्णिर्यत्र भगवान्साक्षाद्देवर्षये स्थितः । नारदाय पुराणार्थं प्राह सर्वमलौकिकम् ॥ १,१०१.२ ॥ धर्मार्थकाममोक्षाणां सारः प्रीतिर्हरौ हरे । तयोरभेदसिद्ध्यर्थं ब्रह्मवैवर्तमुत्तमम् ॥ १,१०१.३ ॥ रथन्तरस्य कल्पस्य वृत्तान्तं यन्मयोदितम् । शतकोटिपुराणे तत्संक्षिप्य प्राह वेदवित् ॥ १,१०१.४ ॥ व्यासश्चतुर्द्धा संव्यस्य ब्रह्मवैवर्तसंज्ञिते । अष्टादशसहस्रं तत्पुराणं परिकीर्तितम् ॥ १,१०१.५ ॥ ब्रह्मप्रकृतिविघ्नेशकृष्णखण्डसमन्वितम् । तत्र सूतर्षिसंवादे पुराणोपक्रमस्ततः ॥ १,१०१.६ ॥ सृष्टिप्रकरणं त्वाद्यं ततो नारदवेधसोः । विवादः सुमहान्यत्र द्वयोरासीत्पराभवः ॥ १,१०१.७ ॥ शिवलोकगतिः पश्चाज्ज्ञानलाभः शिवात्मने । शिववाक्येन तत्पश्चान्मरीचेर्नारदस्य तु ॥ १,१०१.८ ॥ गमनं चैव सावर्णेर्ज्ञानार्थं सिद्धसेविते । आश्रमे सुमहापुण्ये त्रैलोक्याश्चर्यकारिणी ॥ १,१०१.९ ॥ एतद्धि ब्रह्मखण्डं हि श्रुतं पापविनाशनम् । ततः सावर्णिसंवादो नारदस्य समीरितः ॥ १,१०१.१० ॥ कृष्णमाहात्म्यसंयुक्तो नानाख्यानकथोत्तरम् । प्रकृतेरंशभूतानां कलानां चापि वर्णितम् ॥ १,१०१.११ ॥ माहात्म्यं पूजनाद्यं च विस्तरेण यथास्थितम् । एतत्प्रकृतिखण्डं हि श्रुतं भूतिविधायकम् ॥ १,१०१.१२ ॥ गणेशजन्मसंप्रश्नः सपुण्यकमहाव्रतम् । पार्वत्याः कार्तिकेयेन सह विघ्नेशसंभवम् ॥ १,१०१.१३ ॥ चरितं कार्तवीर्यस्य जामदग्र्यस्य चाद्भुतम् । विवादः सुमहानासीज्जामदग्र्यगणेशयोः ॥ १,१०१.१४ ॥ एतद्विघ्नेशखण्डं हि सर्वविघ्नविनाशनम् । श्रीकृष्णजन्मसंप्रश्नो जन्माख्यानं ततोऽद्भुतम् ॥ १,१०१.१५ ॥ गोकुले गमनं गश्चात्पूतनादिवदाद्भूताः । बाल्यकौमारजा लीला विविधास्तत्र वर्णिताः ॥ १,१०१.१६ ॥ रासक्रीडा च गोपीभिः शारदी समुदाहृता । रहस्ये राधया क्रीडा वर्णिता बहुविस्तरा ॥ १,१०१.१७ ॥ सहाक्रूरेण तत्पश्चान्मथुरागमनं हरेः । कंसादीनां वधे वृत्ते कृष्णस्य द्विजसंस्कृतिः ॥ १,१०१.१८ ॥ काश्यसांदीपनेः पश्चाद्विद्योपादानमद्भुतम् । यवनस्य वधः पश्चाद्द्वारकागमनं हरेः ॥ १,१०१.१९ ॥ नरकादिवधस्तत्र कृष्णेन विहितोऽद्भुतः । कृष्णखण्डमिदं विप्र नृणां संसारखण्डनम् ॥ १,१०१.२० ॥ पठितं च श्रुतं ध्यातं पूजितं चाभिवन्दितम् । इत्येतद्ब्रह्मवैवर्तपुराणं चात्यलौकिकम् ॥ १,१०१.२१ ॥ व्यासोक्तं चादि संभूतं पठञ्छृण्वन्विमुच्यते । विज्ञानाज्ञानशमनाद्धोरात्संसारसागरात् ॥ १,१०१.२२ ॥ लिखित्वेदं च यो दद्यान्माध्यां धेनुसमन्वितम् । ब्रह्मलोकमवाप्नोति स मुक्तोऽज्ञानबन्धनात् ॥ १,१०१.२३ ॥ यश्चानुक्रमणीं चापि पठेद्वा शृणुयादपि । सोऽपि कृष्णप्रसादेन लभते वाञ्छितं फलम् ॥ १,१०१.२४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने ब्रह्मवैवर्तपुराणानुक्रमणीनिरूपणं नामैकोत्तरशततमोऽध्यायाः ॥ १०१ ॥ _____________________________________________________________ ब्रह्मोवाच शृणु पुत्र प्रवक्ष्यामि पुराणं लिङ्गसंज्ञितम् । पठतां शृण्वतां चैव भुक्तिमुक्तिप्रदायकम् ॥ १,१०२.१ ॥ यच्च लिङ्गाभिधं तिष्ठन्वह्निलिङ्गे हरोऽभ्यधात् । मह्यं धर्मादिसिद्ध्यर्थं मग्निकल्पकथाश्रयम् ॥ १,१०२.२ ॥ तदेव व्यासदेवेन भागद्वयसमन्वितम् । पुराणं लिङ्गमुदितं बह्वाख्यानविचित्रितम् ॥ १,१०२.३ ॥ तदेकादशसाहस्रं हरमाहात्म्यसूचकम् । परं सर्वपुराणानां सारभूतं जगत्त्रये ॥ १,१०२.४ ॥ पुराणोपक्रमे प्रश्नः सृष्टिः संक्षेपतः पुरा । योगाख्यानं ततः प्रोक्तं कल्पाख्यानं ततः परम् ॥ १,१०२.५ ॥ लिङ्गोद्भवस्तदंबा च कीर्तिता हि ततः परम् । सनत्कुमारशैलादिसंवादश्चाथ पावनः ॥ १,१०२.६ ॥ ततो दाधीचचरितं युगधर्मनिरूपणम् । ततो भुवन कोशाख्या सूर्यसोमान्वयस्ततः ॥ १,१०२.७ ॥ ततश्च विस्तरात्सर्गस्त्रिपुराख्यानकं तथा । लिङ्गप्रतिष्ठा च ततः पशुपाशविमोक्षणम् ॥ १,१०२.८ ॥ शिवव्रतानि च तथा सदाचारनिरूपणम् । प्रायश्चितान्यरिष्टानि काशीश्रीशैलवर्णनम् ॥ १,१०२.९ ॥ अन्धकाख्यानकं पश्चाद्वाराहचरितं पुनः । नृसिंहचरितं पश्चाज्जलन्धरवधस्ततः ॥ १,१०२.१० ॥ शैवं सहस्रनामाथ दक्षयज्ञविनाशनम् । कामस्य दहनं पश्चाद्गिरिजायाः करग्रहः ॥ १,१०२.११ ॥ ततो विनायकाख्यानं नृपाख्यानं शिवस्य च । उपमन्युकथा चापि पूर्वभाग इतीरितः ॥ १,१०२.१२ ॥ विष्णुमाहात्म्यकथनमंबरीषकथा ततः । सनत्कुमारनन्दीशसंवादश्च पुनर्मुने ॥ १,१०२.१३ ॥ शिवमाहा त्म्यसेयुक्तः स्त्रानयागादिकं ततः । सूर्यपूजाविधिश्चैव शिवपूजा च मुक्तिदा ॥ १,१०२.१४ ॥ दानानि बहुधाक्तानि श्राद्धप्रकरणं ततः । प्रतिष्ठातं त्रमुदितं ततोऽघोरस्य कीर्तनम् ॥ १,१०२.१५ ॥ वज्रेश्वरी महाविद्या गायत्रीमहिमा ततः । त्र्यंबकस्य च माहात्म्यं पुराणश्रवणस्य च ॥ १,१०२.१६ ॥ एवं चोपरिभागस्ते लैङ्गस्य कथितो मया । व्यासेन हि निबद्धस्य रुद्रामाहात्म्यसूचितः ॥ १,१०२.१७ ॥ लिखित्वैतत्पुराणं तु तिलधेनुसमन्वितम् । फआल्गुन्यां पूर्णिमायां यो दद्याद्भक्त्या द्विजातये ॥ १,१०२.१८ ॥ स लभेच्छिवसायुज्यं जरामरणवर्जितम् । यः पटेच्छृणुयाद्वापि लैङ्गं पापापहं नरः ॥ १,१०२.१९ ॥ स भुक्तभोगो लोकेऽस्मिन्नन्ते शिवपुरं व्रजेत् । लिङ्गानुक्रमणीमेतां पठेद्यः शृणुयात्तथा ॥ १,१०२.२० ॥ तावुभौ शिवभक्तौ तु लोकद्वितयभोगिनौ । जायतां गिरिजाभर्तुः प्रसादान्नात्र संशयः ॥ १,१०२.२१ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे लिङ्गपुराणानुक्रमणीनिरूपणं नाम द्व्युत्तरशततमोऽध्यायः _____________________________________________________________ ब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि वाराहं वै पुराणकम् । भागद्वययुतं शश्वद्विष्णुमाहात्म्यसूचकम् ॥ १,१०३.१ ॥ मानवस्य तु कल्पस्य प्रसंगं मत्कृतं पुरा । निबबन्ध पुराणेऽस्मिंश्चतुर्विंशसहस्रके ॥ १,१०३.२ ॥ व्यासो हि विदुषां श्रेष्ठः साक्षान्नारायणो भुवि । तत्रादौ शुभसंवादः स्मृतोभूमिवराहयोः ॥ १,१०३.३ ॥ अथादिकृतवृत्तान्ते रंभस्य चरितं ततः । दुर्जयस्य च तत्पश्चाच्छ्राद्धकल्प उदीरितः ॥ १,१०३.४ ॥ महातपस आख्यानं गौर्युत्पत्तिस्ततः परा । विनायकस्य नागानां सेनान्यादित्ययोरपि ॥ १,१०३.५ ॥ गणानां च तथा देव्या धनदस्य वृषस्य च । आख्यानं सत्यतपसो व्रताख्यानसमन्वितम् ॥ १,१०३.६ ॥ अगस्त्यगीता तत्पश्चाद्रुद्रगीता प्रकीर्तिता । महिषासुरविध्वंसमाहात्म्यं च त्रिशक्तिजम् ॥ १,१०३.७ ॥ पर्वाध्यायस्ततः श्वेतोपाख्यानं गोप्रदानिकम् । इत्यादि कृतवृत्तान्तं प्रथमे दर्शितं मया ॥ १,१०३.८ ॥ भगवद्धर्मके पश्चाद्वततीर्थकथानकम् । द्वात्रिंशदपराधानां प्रायश्चित्तं शरीरगम् ॥ १,१०३.९ ॥ तीर्थानां चापि सर्वेषां माहात्म्यं पृथगीरितम् । मथुराया विशेषेण श्राद्धादीनां विधिस्ततः ॥ १,१०३.१० ॥ वर्णनं यमलोकस्य ऋषिपुत्रप्रसंगतः । विपाकः कर्मणां चैव विष्णुव्रतनिरूपणम् ॥ १,१०३.११ ॥ गोकर्णस्य च माहात्म्यं कीर्तितं पापनाशनम् । इत्येवं पूर्वभागोऽयं पुराणस्य निरूपितः ॥ १,१०३.१२ ॥ उत्तरे प्रविभागे तु पुलस्त्यकुरुराजयोः । संवादे सर्वतीर्थानां माहात्म्यं विस्तरात्पृथक् ॥ १,१०३.१३ ॥ अशेषधर्माश्चाख्याताः पौष्करं पुण्यपर्व च । इत्येवं तव वाराहं प्रोक्तं पापविनाशनम् ॥ १,१०३.१४ ॥ पठतां शृण्वतां चैव भगवद्भक्तिवर्धनम् । काञ्चनं गरुड कृत्वा तिलधेनुसमन्वितम् ॥ १,१०३.१५ ॥ लिखित्वैतच्च यो दद्याच्चैत्र्यां विप्राय भक्तितः । स लभेद्वैष्णवं धाम देवर्षिगणवन्दितः ॥ १,१०३.१६ ॥ यो वानुक्रमणीमेन्तां शृणोत्यपि पठत्यपि । सोऽपि भक्तिं लभेद्विष्णौ संसारोच्छेदकारिणीम् ॥ १,१०३.१७ ॥ इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वाराहपुराणानुक्रमणीवर्णनं नाम त्र्युत्तरशततमोऽध्यायः _____________________________________________________________ ब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि पुराणं स्कन्दसंज्ञकम् । यस्मिन्प्रतिपदं साक्षान्महादेवो व्यवस्थितः ॥ १,१०४.१ ॥ पुराणे शतकोटो तु यच्छैवं वर्णितं मया । लक्षं तस्यार्थं जातस्य सारो व्यासेन कीर्तितः ॥ १,१०४.२ ॥ स्कन्दाह्वयस्तत्र खण्डाः सप्तैव परिकल्पिताः । एकाशीतिसहस्रं तु स्कान्दं सर्वोघकृतंनम् ॥ १,१०४.३ ॥ यः शृणोति पठेद्वापि स तु साक्षाच्छिवः स्थितः । यत्र माहेश्वरा धर्माः षण्मुखेन प्रकाशिताः ॥ १,१०४.४ ॥ कल्पे तत्पुरुषे वृत्ताः सर्वसिद्धिविधायकाः । तस्य माहेश्वरश्चाथ खण्डः पापप्रणाशनः ॥ १,१०४.५ ॥ किञ्चिन्न्यूनार्कसाहस्रो बहुपुण्यो बृहत्कथः । सुचरित्रशतैर्युक्तः स्कन्दमाहात्म्यसूचकः ॥ १,१०४.६ ॥ यत्र केदारमाहात्म्ये पुराणोपक्रमः पुरा । दक्षयज्ञकथा पश्चाच्छिवलिङ्गार्चने फलम् ॥ १,१०४.७ ॥ समुद्रमथनाख्यानं देवेन्द्रचरितं ततः । पार्वत्याः समुपाख्यानं विवाहस्तदनन्तरम् ॥ १,१०४.८ ॥ कुमारोत्पत्तिकथनं ततस्तारकसंगरः । ततः पाशुपताख्यानं चण्डाख्यानसमन्वितम् ॥ १,१०४.९ ॥ द्यूतप्रवर्तनाख्यानं नारदेन समागमः । ततः कुमारमाहात्म्ये पञ्चतीर्थकथानकम् ॥ १,१०४.१० ॥ धर्मवर्मनृपाख्यानं नदीसागरकीर्तनम् । इन्द्रद्युम्नकथा पश्चान्नाडीजङ्घकथान्वितम् ॥ १,१०४.११ ॥ प्रादुर्भावस्ततो मह्याः कथा दमनकस्य च । महीसागरसंयोगः कुमारेशकथा ततः ॥ १,१०४.१२ ॥ ततस्तारकयुद्धं च नानाख्यानसमन्वितम् । वधश्च तारकस्याथ पञ्चलिङ्गनिवेशनम् ॥ १,१०४.१३ ॥ द्वीपाख्यानं ततः पुण्यमूर्द्धलोकव्यवस्थितिः । ब्रह्माण्डस्थितिमानं च वर्करेशकथानकम् ॥ १,१०४.१४ ॥ महाकालसमुद्भूतिः कथा चास्य महाद्भुता । वासुदेवस्य माहात्म्यं कोटितीर्थं ततः परम् ॥ १,१०४.१५ ॥ नानातीर्थसमाख्यानं गुप्तक्षेत्रे प्रकीर्तितम् । पाण्डवानां कथा पुण्या महाविद्याप्रसाधनम् ॥ १,१०४.१६ ॥ तीर्थयात्रासमाप्तिश्च कौमारमिदमद्भुतम् । अरुणाचलमाहात्म्यं सनकब्रह्मसंकथा ॥ १,१०४.१७ ॥ गौरीतपः समाख्यानं तत्तत्तीर्थनिरूपणम् । माहिषासुरमाख्यानं वधश्चास्य महाद्भुतः ॥ १,१०४.१८ ॥ द्रोणाचले शिवास्थानं नित्यदापरिकीर्तितम् । इत्येष कथितः स्कान्दे खण्डो माहेश्वरोऽद्भुतः ॥ १,१०४.१९ ॥ द्वितीयो वैष्णवः खण्डस्तस्याख्यानानि मे शुणु । प्रथमं भूमिवाराहसमाख्यानं प्रकीर्तितम् ॥ १,१०४.२० ॥ यत्र वेङ्कटकुध्रस्य माहात्म्यं पापनाशनम् । कमलायाः कथा पुण्या श्रीनिवासस्थितिस्ततः ॥ १,१०४.२१ ॥ कुला लाख्यानकं चात्र सुवर्णमुखरी कथा । नानाख्यानसमायुक्ता भारद्वाजकथाद्भुता ॥ १,१०४.२२ ॥ मतङ्गाञ्जनसंवादः कीर्तितः पापनाशनः । पुरुषोत्तममाहात्म्यं कीर्तितं चोत्कले ततः ॥ १,१०४.२३ ॥ मार्कण्डेयसमाख्यानमंबरीषस्य भूपतेः । इन्द्रद्युम्नस्य चाख्यानं विद्यापतिकथा शुभा ॥ १,१०४.२४ ॥ जैमिनेः समुपाख्यानं नारदस्यापि वाडव । नीलकण्ठसमाख्यानं नरसिंहोपवर्णनम् ॥ १,१०४.२५ ॥ अश्वमेधकथा राज्ञो ब्रह्मलोकगतिस्तथा । रथयाव्राविधिः पश्चाज्जन्मस्थानविधिस्तथा ॥ १,१०४.२६ ॥ दक्षिणामूर्त्युपाख्यानं गुण्डिवाख्यानकं ततः । रथरक्षाविधानं च शयनोत्सवकीर्तनम् ॥ १,१०४.२७ ॥ श्वेतोपाख्यानमत्रोक्तं पृथुत्सवनिरूपणम् । दोलोत्सवो भगवतो व्रतं सांवत्सराभिधम् ॥ १,१०४.२८ ॥ पूजा चाकामिका विष्णोरुद्दालकनियोगतः । योगसाधनमत्रोक्तं नानायोगनिरूपणम् ॥ १,१०४.२९ ॥ दशावतारकथनं स्रानादिपरिकीर्तनम् । ततो बदरिकायाश्च माहात्म्यं पापनाशनम् ॥ १,१०४.३० ॥ अग्न्यादितीर्थमाहात्म्यं वैनतेयशिलाभवम् । कारणं भगवद्वासे तीर्थं कापालमोचनम् ॥ १,१०४.३१ ॥ पञ्चधाराभिधं तीर्थं मेरुसंस्थापनं तथा । ततः कार्तिकमाहात्म्ये माहात्म्यं मदनालसम् ॥ १,१०४.३२ ॥ धूम्रकेशसमाख्यानं दिनकृत्यानि कर्तिके । पञ्चभीष्मव्रताख्यानं कीर्तितं भुक्तिमुक्तिदम् ॥ १,१०४.३३ ॥ ततो मार्गस्य माहात्म्ये विधानं स्नानजं तथा । पुण्ड्रादिकीर्तनं चात्र मालाधारणपुण्यकम् ॥ १,१०४.३४ ॥ पञ्चामृतस्नानपुण्यं घण्टानादादिजं फलम् । नानापुष्पार्चनफलं तुलसीदलजं फलम् ॥ १,१०४.३५ ॥ नैवेद्यस्य च माहात्म्यं हरिवासरकीर्तनम् । अखण्डैकादशीपुण्यं तथा जागरणस्य च ॥ १,१०४.३६ ॥ यस्योत्सवविधानं च नाममाहात्म्यकीर्तनम् । ध्यानादिपुण्यकथनं माहात्म्यं मथुराभवम् ॥ १,१०४.३७ ॥ मथुरातीर्थमाहात्म्यं पृथगुक्तं ततः परम् । वनानां द्वादशानां च माहात्म्यं कीर्तितं ततः ॥ १,१०४.३८ ॥ श्रीमद्भागवतस्यात्र माहात्म्यं कीर्तितं परम् । वज्रशाण्डिल्यसंवाद अन्तर्लीलाप्रकाशकम् ॥ १,१०४.३९ ॥ ततो माघस्य माहात्म्यं स्नानदानजपोद्भवम् । नानाख्यानसमायुक्तं दशाध्यायैर्निरूपितम् ॥ १,१०४.४० ॥ ततो वैष्णवमाहात्म्ये शय्यादानादिजं फलम् । जलदा नादिविधयः कामाख्यानमतः परम् ॥ १,१०४.४१ ॥ श्रुतदेवस्य चरितं व्याधोपाख्यानमद्भुतम् । तथाक्षयतृतीयादेर्विशेषात्पुण्यकीर्तनम् ॥ १,१०४.४२ ॥ ततस्त्वयोध्यामाहात्म्ये चक्रब्रह्माह्वतीर्थके । सुरापापविमोक्षाख्ये तथाधारसहस्रकम् ॥ १,१०४.४३ ॥ स्वर्गद्वारं चन्द्रहरिधर्महर्युपवर्णनम् । स्वर्णवृष्टेरुपाख्यानं तिलोदासरयूयुतिः ॥ १,१०४.४४ ॥ सीताकुण्डं गुप्तहरिसरंयुघर्घरान्वयः । गोप्रतारं च दुग्धोदं गुरुकुण्डादिपञ्चकम् ॥ १,१०४.४५ ॥ सोमार्का दीनि तीर्थानि त्रयोदश ततः परम् । गयाकूपस्य माहात्म्यं सर्वाघविनिवर्तकम् ॥ १,१०४.४६ ॥ माण्डव्याश्रमपूर्वाणि तीर्थानि तदनन्तरम् । अजितादि मानसादितीर्थानि गदितानि च ॥ १,१०४.४७ ॥ इत्येष वैष्णवः खण्डो द्वितीयः परिकीर्तितः । अतः परं ब्रह्मखण्डं मरीचे शृणु पुण्यदम् ॥ १,१०४.४८ ॥ यत्र वै सेतुमाहात्म्ये फलं स्नाने क्षणोद्भवम् । गालवस्य तपश्चर्या राक्षसाख्यानकं ततः ॥ १,१०४.४९ ॥ चक्रतीर्थादिमाहात्म्यं देवीपत्तनसंयुते । वेतालतीर्थमहिमा पापनाशादिकीर्तनम् ॥ १,१०४.५० ॥ मङ्गलादिकमाहात्म्यं ब्रह्मकुण्डादिवर्णनम् । हनुमत्कुण्डमहिमागस्त्यतीर्थभवं फलम् ॥ १,१०४.५१ ॥ रामतीर्थादिकथनं लक्ष्मीतीर्थनिरूपणम् । शङ्खादितीर्थमहिमा तथा साध्यामृतादिजः ॥ १,१०४.५२ ॥ धनुष्कोट्यादिमाहात्म्यं क्षीरकुण्डादिजं तथा । गायत्र्यादिकतीर्थानां माहात्म्यं चात्र कीर्तितम् ॥ १,१०४.५३ ॥ रामनाथस्य महिमा तत्त्वज्ञानोपदेशनम् । यात्राविधानकथनं सेतै मुक्तिप्रदं नृणाम् ॥ १,१०४.५४ ॥ धर्मारण्यस्य माहात्म्यं ततः परमुदीरितम् । स्थाणुः स्कन्दाय भगवान्यत्र तत्त्वमुपादिशत् ॥ १,१०४.५५ ॥ धर्मारण्यसुसंभूतिस्तत्पुण्यपरिकीर्त्तनम् । कर्ंमसिद्धेः समाख्यानं ऋषिवंशनिरूपणम् ॥ १,१०४.५६ ॥ अप्सरस्तीर्थमुख्यानां माहात्म्यं यत्र कीर्तितम् । वर्णानामाश्रमाणां च धर्मतत्त्वनिरूपणम् ॥ १,१०४.५७ ॥ दिवः स्थानविभागश्च बकुलार्ककथा शुभा । छत्रानन्दा तथा शान्ता श्रीमाता च मतङ्गिनी ॥ १,१०४.५८ ॥ पुण्यदा च समाख्याता यत्र देव्यः समास्थिताः । इन्द्रेश्वरादिमाहात्म्यं द्वारकादिनिरूपणम् ॥ १,१०४.५९ ॥ लोहासुरसमाख्यानं गङ्गाकूपनिरूपणम् । श्रीरामचरितं चैव सत्यमन्दिरवर्णनम् ॥ १,१०४.६० ॥ जीर्णोद्धा रस्य कथनमासनप्रतिपादनम् । जातिभेदप्रकथनं स्मृतिधर्मनिरूपणम् ॥ १,१०४.६१ ॥ ततस्तु वैष्णवा धर्मा नानाख्यानैरुदीरिताः । चातुर्मास्ये ततः पुण्ये सर्वधमनिरूपणम् ॥ १,१०४.६२ ॥ दानप्रशंसा तत्पश्चाद्व्रतस्य महिमा ततः । तपश्चैव पूजायाः सच्छिद्रकथनं ततः ॥ १,१०४.६३ ॥ तद्वृत्तीनां भिदाख्यानं शालग्रामनिरूपणम् । भारकस्य वधोपायो वृक्षाचामहिमा तथा ॥ १,१०४.६४ ॥ विष्णोः शापश्च वृक्षत्वं पार्वत्यनुतपस्ततः । हरस्य ताण्डवं नृत्यं रामनामनिरूपणम् ॥ १,१०४.६५ ॥ हरस्य लिङ्गपतनं कथा बैजवनस्य च । पार्वतीजन्मचरितं तारकस्य वधोऽद्भुतः ॥ १,१०४.६६ ॥ प्रणवैश्वर्यकथनं तारकाचरितं पुनः । दक्षयज्ञसमाप्तिश्च द्वादशाक्षरभूषणम् ॥ १,१०४.६७ ॥ ज्ञानयोगसमाख्यानं महिमा द्वादशाक्षरेः । श्रवणादिकपुण्यं च कीर्तितं शर्मदं नृणाम् ॥ १,१०४.६८ ॥ ततो ब्राह्मोत्तरे भागे शिवस्य महिमाद्भुतः । पञ्चाक्षरस्य महिमा गोकर्णमहिमा ततः ॥ १,१०४.६९ ॥ शिवरात्रैश्च महिमा प्रदोषव्र तकीर्तनम् । सोमवारव्रतं चापि सीमन्तिन्याः कथानकम् ॥ १,१०४.७० ॥ भद्रायुत्पत्तिकथनं सदाचारनिरूपणम् । शिववर्मसमुद्देशो भद्रायूद्वाहवर्णनम् ॥ १,१०४.७१ ॥ भद्रायुमहिमा चापि भस्ममाहात्म्यकीर्तनम् । शबराख्यानकं चैव उमामाहेश्वरं व्रतम् ॥ १,१०४.७२ ॥ रुद्राक्षस्य च माहात्म्यं रुद्राध्यायस्य पुण्यकम् । श्रवणादिकपुण्यं च ब्रह्मखण्डोऽयमीरितः ॥ १,१०४.७३ ॥ अतः परं चतुर्थं तु काशीखण्डमनुत्तमम् । विन्ध्यनारदयोर्यत्र संवादः परिकीर्तितः ॥ १,१०४.७४ ॥ सत्यलोकप्रभावश्चागस्त्यावासे सुरागमः । पतिव्रताचरित्रं च तीर्थयात्रा प्रशंसनम् ॥ १,१०४.७५ ॥ ततश्च सप्तपुर्याख्या संयमिन्या निरूपणम् । बुधस्य च तथेन्द्राग्न्योर्लोकाप्तिः शिवशर्मणः ॥ १,१०४.७६ ॥ अग्नेः समुद्भवश्चैव क्रव्याद्वरुणसंभवः । गन्धवत्यलकापुर्योरीश्वर्याश्च समुद्भवः ॥ १,१०४.७७ ॥ चन्द्रार्कबुधलोकानां कुजेज्यार्कभुवां क्रमात् । मम विष्णोर्ध्रुवस्यापि तपोलोकस्य वर्णनम् ॥ १,१०४.७८ ॥ ध्रुवलोककथा पुण्या सत्यलोकनिरीक्षणम् । स्कन्दागस्त्यसमालापो मणिकर्णीसमुद्भवः ॥ १,१०४.७९ ॥ प्रभावश्चापि गङ्गाया गङ्गानामसहस्रकम् । वाराणसीप्रशंसा च भैरवाविर्भवस्ततः ॥ १,१०४.८० ॥ दण्डपाणिज्ञानवाप्योरुद्भवः समनन्तरम् । ततः कलावत्याख्यानं सदाचारनिरूपणम् ॥ १,१०४.८१ ॥ ब्रह्मचारिसमाख्यानं ततः स्त्रीलक्षणानि च । कृत्याकृत्यविनिर्देशो ह्यविमुक्तेशवर्णनम् ॥ १,१०४.८२ ॥ गृहस्थयोगिनो धर्माः कालज्ञानं ततः परम् । दिवोदासकथा पुण्या काशिकावर्णनं ततः ॥ १,१०४.८३ ॥ मायागणपतेश्चाथ भुवि प्रादुर्भवस्ततः । विष्णुमायाप्रपञ्चोऽथ दिवोदासविमोक्षणम् ॥ १,१०४.८४ ॥ ततः पञ्चनदोत्पर्त्तिर्बिन्दुमाधवसंभवः । ततो वैष्णवतीर्थाख्या शूलिनः काशिकागमः ॥ १,१०४.८५ ॥ जैगीषव्येन संवादो ज्येष्ठेशाख्या महेशितुः । क्षेत्राख्यानं कन्दुकेशः व्याघ्रेश्वरसमुद्भवः ॥ १,१०४.८६ ॥ शैलेशरत्नेश्वरयोः कृत्तिवासस्य चोद्भवः । देवतानामधिष्टानं दुर्गासुरपराक्रमः ॥ १,१०४.८७ ॥ दुर्गाया विजयश्चाथ ओङ्कारेशस्य वर्णनम् । पुनराएङ्कार माहात्म्य त्रिलोचोनसमुद्भवः ॥ १,१०४.८८ ॥ केदाराख्या च धर्मेश कथा विष्णुभुजोद्भवा । वीरेश्वरसमाख्यानं गङ्गामाहात्म्यकीर्तनम् ॥ १,१०४.८९ ॥ विश्वकर्मेशमहिमा दक्षयज्ञोद्भवस्तथा । सतीशस्यामृतेशादेर्भुजस्तंभः पराशरे ॥ १,१०४.९० ॥ क्षेत्रतीर्थकदंबश्च मुक्तिमडपसंकथा । विश्वेशविभवश्चाथ ततो यात्रापरिक्रमः ॥ १,१०४.९१ ॥ अतः परं त्ववन्त्याख्यं शृणु खण्ड च पञ्चमम् ॥। महाकालवनाख्यानं ब्रह्मशीर्षच्छिदा ततः ॥ १,१०४.९२ ॥ प्रायश्चित्तविधिश्चाग्नेरुत्पत्तिश्च सुरागमः । देवदीक्षा शिवस्तोत्रं नानापातकनाशनम् ॥ १,१०४.९३ ॥ कपोलमोचनाख्यानं महाकालवनस्थितिः । तीर्थं कनखलेशस्य सर्वपापप्रणाशनम् ॥ १,१०४.९४ ॥ कुण्डमप्सरसंज्ञं च सरो रुद्रस्य पुण्यदम् । कुडवेशं च विद्याध्रं मर्कटेश्वरतीर्थकम् ॥ १,१०४.९५ ॥ स्वर्गद्वारचतुःसिंधुतीर्थं शङ्करवापिका । शङ्कराक गन्धवतीतीर्थं पापप्रणाशनम् ॥ १,१०४.९६ ॥ दशाश्वमेधिकानंशतीर्थे च हरिसिद्धिदम् । पिशाचकादियात्रा च हनुमत्कवचेश्वरौ ॥ १,१०४.९७ ॥ महाकालेशयात्रा च वल्मीकेश्वरतीर्थकम् । शुक्रे च पञ्चमे चाख्ये कुशस्थल्याः प्रदक्षिणाः ॥ १,१०४.९८ ॥ अक्रूरसंज्ञकन्त्वेकपादं चन्द्रार्कवैभवम् । करभेशाख्यतीर्थं च लटुकेशादितीर्थकम् ॥ १,१०४.९९ ॥ मार्कण्डेशं यज्ञवापी सोमेशं नरकान्तकम् । केदारेश्वररामेशसौभाग्येशनरार्ककम् ॥ १,१०४.१०० ॥ केशवार्कं शक्तिभेदं स्वर्णसारमुखानि च । ओङ्कारेशादितीर्थानि अन्धकश्रुतिकीर्तनम् ॥ १,१०४.१०१ ॥ कालारण्ये लिङ्गसंख्या स्वर्णशृङ्गाभिधानकम् । कुशस्थल्या अवन्त्याश्चोज्जयिन्या अभिधानकम् ॥ १,१०४.१०२ ॥ पद्मावतीवै कुमुद्वत्यमरावतिनामकम् । विशालाप्रतिकल्पाभिधानं च ज्वरशान्तिकम् ॥ १,१०४.१०३ ॥ शिवानामादिकफलं नागोद्गीता शिवस्तुतिः । हिरण्याक्षवधाख्यानं तीर्थं सुंदरकुण्डकम् ॥ १,१०४.१०४ ॥ नीलगङ्गापुष्कराख्यं विन्ध्यवासनतीर्थकम् । पुरुषोत्तमाभिधानं तु तत्तीर्थं चाघनाशनम् ॥ १,१०४.१०५ ॥ गोमती वामनं कुण्डो विष्णोर्नामसहस्रकम् । वीरेश्वरसरः कालभैरवस्य च तीर्थकम् ॥ १,१०४.१०६ ॥ महिमा नागपञ्चम्या नृसिंहस्य जयन्तिका । कुटुम्बेश्वरयात्रा च देवसाधककीर्तनम् ॥ १,१०४.१०७ ॥ कर्कराजाख्यतीर्थं च विघ्नेशादिसुरोहनम् ॥ रुन्द्रकुण्डप्रभृतिषु बहुतीर्थनिरूपणम् ॥ १,१०४.१०८ ॥ यात्राष्टतीर्थजा पुण्या रेवामाहात्म्यमुच्यते । धर्मपुत्रस्य वैराग्यो मार्कण्डेयेन संगमः ॥ १,१०४.१०९ ॥ प्राग्रीयानुभवाख्यानममृतापरिकीर्त्तनम् । कल्पे कल्पे पृथङ्नाम नर्मदायाः प्रकीर्तितम् ॥ १,१०४.११० ॥ स्तवमार्षं नामेदं च कालरात्रिकथा ततः । महादेवस्तुतिः पश्चात्पृथक्कल्पकथाद्भुता ॥ १,१०४.१११ ॥ विशल्याख्यानकं पश्चाज्जालेश्वरकथा तथा । गोरीव्रत समाख्यानं त्रिपुरज्वालनं ततः ॥ १,१०४.११२ ॥ देहपातविधानं च कावेरीसंगमस्ततः । दारुतीर्थं ब्रह्मावर्तं यत्रेश्वरकथानकम् ॥ १,१०४.११३ ॥ अग्नितीर्थं रवितीर्थं मेघनादादिदारुकम् । देवतीर्थं नर्मदेशं कपिलाख्यं करञ्जकम् ॥ १,१०४.११४ ॥ कुण्डलेशं पिप्पलादं विमलेशं च शूलभित् । शचीहरणमाख्या नमभ्रकस्य वधस्ततः ॥ १,१०४.११५ ॥ शूलभेदोद्भवो यत्र दानधर्माः पृथग्विधाः । आख्यानं दीर्घतपस ऋष्यशृङ्गकथा ततः ॥ १,१०४.११६ ॥ चित्रसेनकथापुण्या काशिराज्यस्य लक्षणम् । ततो देवशिलाख्यानं शबरीतीर्थकान्वितम् ॥ १,१०४.११७ ॥ व्याधाख्यानं ततः पुण्यं पुष्करिण्यर्कतीर्थकम् । आप्रेत्येश्वरतीर्थं च शक्रतीर्थं करोटिकम् ॥ १,१०४.११८ ॥ कुमारेशमगस्त्येशमानन्देशं च मातृजम् । लोकेशं धनदेशं च मङ्गलेशं च कामजम् ॥ १,१०४.११९ ॥ नागेशं चापि गोपारं गौतमं शङ्खचूडकम् । नारदेशं नन्दिकेशं वरुणेश्वरतीर्थकम् ॥ १,१०४.१२० ॥ दधिस्कन्दादितीर्थानि हनूमतेश्वरं ततः । रामेश्वरादि तीर्थानि सोमेशं पिङ्गलेश्वरम् ॥ १,१०४.१२१ ॥ ऋणमोक्षं कपिलेशं पूतिकेशं जलेशयम् । चण्डार्कं यमतीर्थं च काल्होडीशं वनादिके ॥ १,१०४.१२२ ॥ नारायणं च कोटीशं व्यासतीर्थं प्रभासकम् । नागेशसंकर्षणकं प्रश्रयेश्वरतीर्थकम् ॥ १,१०४.१२३ ॥ ऐरण्डीसंगमं पुण्यं सुवर्णशिलतीर्थकम् । करञ्जं कामहं तीर्थं भाण्डीरो रोहिणीभवम् ॥ १,१०४.१२४ ॥ चक्रतीर्थं दौतपापं स्कन्दमाङ्गिरसाह्वयम् । कोटितीर्थमयोन्यख्यमङ्गाराख्यं त्रिलोचनम् ॥ १,१०४.१२५ ॥ इन्द्रेशं कंबुकेशं च सोमेशं कोहनं शकम् । नार्मदं चार्कमाग्नेयं भार्गवेश्वरमुत्तमम् ॥ १,१०४.१२६ ॥ ब्राह्मं दैवं च मार्गेशमादिवाराहकेश्वरम् । रामेशमथ सिद्धेशमाहल्यं कङ्कटेश्वरम् ॥ १,१०४.१२७ ॥ शाक्रं सौम्यं च नादेशं तोयेशं रुक्मिणीभवम् । योजनेशं वराहेशं द्वादशीशिवतीर्थकम् ॥ १,१०४.१२८ ॥ सिद्धेशं मङ्गलेशं च लिङ्गवाराहतीर्थकम् । कुण्डेशं श्वेतवाराहं गर्भावेशं रवीश्वरम् ॥ १,१०४.१२९ ॥ शुक्लादीनि च तीर्थानि हुङ्कारस्वामितीर्थकम् । संगमेशं नहुषेशं मोक्षणं पञ्चगोपकम् । नागशावं च सिद्धेशं मार्कण्डाङ्क्रूरतीर्थके ॥ १,१०४.१३० ॥ कामोदशूलारोपाख्ये माण्डव्यं गोपकेश्वरम् । कपिलेशं पिङ्गलेशं भूतेशं गाङ्गगौतमे ॥ १,१०४.१३१ ॥ आस्वमेधं भृगुकच्छं केदारेशं च पापनुत् । कलकलेशं जालेशं शालग्रामं वराहकम् ॥ १,१०४.१३२ ॥ चन्द्रप्रभासमादित्यं श्रीपत्याख्यं च हंसकम् । मूल्यस्थानं च शूलेशमुग्राख्यं चित्रदैवकम् ॥ १,१०४.१३३ ॥ शिखीशं काण्टितीर्थं च दशकन्यं सुवणकम् । ऋणमोक्षं भारभूति पुङ्खां मुडिं च डिण्डिमम् ॥ १,१०४.१३४ ॥ आमलेशं कपालेशं शृङ्गैरण्डीभवं ततः । कोटितीर्थं लोटणेषं फलस्तुतिरतः परम् ॥ १,१०४.१३५ ॥ दृमिजङ्गलमाहात्म्ये रोहिताश्वकथा ततः । धुन्धुमारसमाख्यानं वधोपायस्ततोऽस्य वै ॥ १,१०४.१३६ ॥ वधौ धुन्धोस्ततः पश्चात्ततश्चित्रवहोद्भवः । महिमास्य ततश्चडीशप्रभावो रतीश्वरः ॥ १,१०४.१३७ ॥ केदारेशो लक्षतीर्थं ततो विष्णुपदीभवम् । मुखारं च्यवनान्धास्यं ब्रह्मणश्च सरस्ततः ॥ १,१०४.१३८ ॥ चक्राख्यं ललिताख्यानं तीर्थं च बहुगोमयम् । रुद्रावर्तं च मर्कण्डं तीर्थं पापप्रणाशनम् ॥ १,१०४.१३९ ॥ श्रवणेशं शुद्धपटं देवान्धुप्रेततीर्थकम् । जिह्वोदतीर्थंसंभूतिः शिवोद्भन्दं फलस्तुतिः ॥ १,१०४.१४० ॥ एष खण्डो ह्यवन्त्याख्यः शृण्वतां पापनाशनः । अतः परं नागराख्यः खण्डः षष्ठोऽभिधीयते ॥ १,१०४.१४१ ॥ लिङ्गोत्पत्तिसमाख्यानं हरिश्चन्द्रकथा शुभा । विश्वामित्रस्य माहात्म्यं त्रिशङ्कुस्वर्गतिस्तथा ॥ १,१०४.१४२ ॥ हाटके श्वरमाहात्म्ये वृत्रासुरवधस्तथा । नागबिलं शङ्खतीर्थमचलेश्वरवर्णनम् ॥ १,१०४.१४३ ॥ चमत्कारपुराख्यानं चमत्कारकरं परम् । गयशीर्षं बालशाख्यं वालमण्डं मृगाह्वयम् ॥ १,१०४.१४४ ॥ विष्णुपादं च गोकर्णं युगरूपं समाश्रयः । सिद्धेश्वरं नागसरः सप्तार्षेयं ह्यगस्त्यकम् ॥ १,१०४.१४५ ॥ भ्रूणगर्तं नलेशं च भैष्मं वैडुरमर्ककम् । शारमिष्ठं सोमनाथं च दौर्गमातर्जकेश्वरम् ॥ १,१०४.१४६ ॥ जामदग्न्यवधाख्यानं नैःक्षत्रियकथानकम् । रामह्रदं नागपुरं षआड्लिङ्गं चैव यज्ञभूः ॥ १,१०४.१४७ ॥ मुण्डीरादित्रिकार्कं च सतीपरिणयाह्वयम् । रुद्रशीर्षं च यागेशं वालखिल्यं च गारुडम् ॥ १,१०४.१४८ ॥ लक्ष्मीशापः सप्तविंशसोमप्रासादमेव च । अंबाबद्धं पाण्डुकाख्यमाग्नेयं ब्रह्मकुण्डकम् ॥ १,१०४.१४९ ॥ गोमुखं लोहयष्ट्याख्यमजापालेश्वरी तथा । शानैश्चरं राजवापी रामेशो लक्ष्मणेश्वरः ॥ १,१०४.१५० ॥ कुशेशाख्यं लवेशाख्यं लिङ्गं सर्वोत्तमोत्तमम् । अष्टषष्टिसमाख्यानं दमयन्त्यास्त्रिजातकम् ॥ १,१०४.१५१ ॥ ततो वै रेवती चात्र भक्तिकातीर्थसंभवः । क्षेमङ्करी च केदारं शुक्लतीर्थमुखारकम् ॥ १,१०४.१५२ ॥ सत्यसंधेश्वराख्यानं तथा कर्णोत्पलाकथा । अटेश्वरं याज्ञवल्क्य गौर्यं गाणेशमेव च ॥ १,१०४.१५३ ॥ ततो वास्तुपदाख्यानमजागृहकथानकम् । सौभाग्यान्धुश्च शुलेशं धर्मराजकथानकम् ॥ १,१०४.१५४ ॥ मिष्टान्नेदश्वराख्यानं गाणापत्यत्रयं ततः । जाबालिचरितं चैव मकरेशकथा ततः ॥ १,१०४.१५५ ॥ कालेश्वर्यन्धकाख्यानं कुण्डमाप्यरसं तथा । पुष्यादित्यं रौहिताश्वं नागरोत्पत्तिकीर्त्तनम् ॥ १,१०४.१५६ ॥ भार्गवं चरितं चैव वैश्वामैत्रं ततः परम् । सारस्वतं पैप्पलादं कंसारीशं च पैण्डकम् ॥ १,१०४.१५७ ॥ ब्रह्मणो यज्ञचरितं सावित्र्याख्यानसंयुतम् । रैवतं भार्तयज्ञाख्यं मुख्यतीर्थनिरीक्षणम् ॥ १,१०४.१५८ ॥ कौरवं हाटकेशाख्यं प्रभासं क्षेत्रकत्रयम् । पौष्करं नैमिषं धार्ममरण्य त्रितयं स्मृतम् ॥ १,१०४.१५९ ॥ वाराणसी द्वारकाख्यावन्त्याख्येति पुरीत्रयम् । बृन्दावनं खाण्डवाख्यमद्वैकाख्यं वनत्रयम् ॥ १,१०४.१६० ॥ कल्पः शालस्तथा नन्दिग्रामत्रयमनुत्तमम् । असिशुक्लपितृसंज्ञं तीर्थत्रयमुदाहृतम् ॥ १,१०४.१६१ ॥ र्श्यर्बुदौ रैवतश्चैव पर्वतत्रयमुत्तमम् । नदीनां त्रितयं गङ्गा नर्मदा च सरस्वती ॥ १,१०४.१६२ ॥ सार्द्धकोटित्रयफलमेकैकं चैषु कीर्त्तितम् । कूषिका शङ्खतीर्थं चामरकं बालमण्डनम् ॥ १,१०४.१६३ ॥ हाटकेशक्षेत्रफलप्रदं प्रोक्तं चतुष्टयम् । सांबादित्यं श्राद्धकल्पं यौधिष्ठिरमथान्धकम् ॥ १,१०४.१६४ ॥ जलशायि चतुर्मासमशून्यशयनव्रतम् । मङ्कणेशं शिवरात्रिस्तुलापुरुषदानकम् ॥ १,१०४.१६५ ॥ पृथ्वीदानं वानकेशं कपालमोचनेश्वरम् । पापपिण्डं मासलैङ्गं युगमानादिकीर्तनम् ॥ १,१०४.१६६ ॥ निंवेशशाकंभर्याख्या रुद्रैकादशकीर्तनम् । दानमाहात्म्यकथनं द्वादशादित्यकीर्तनम् ॥ १,१०४.१६७ ॥ इत्येषनागरः खण्डः प्रभासाख्योऽधुनोच्यते । सोमेशो यत्र विश्वेशोर्ऽकस्थलं पुण्यदं महत् ॥ १,१०४.१६८ ॥ सिद्धेश्वरादिकाख्यानं पृथगत्र प्रकीर्तितम् । अग्नितीर्थं कपद्दर्शिं केदारेशं गतिप्रदम् ॥ १,१०४.१६९ ॥ भीमभैरवचण्डीशभास्करेन्दुकुजेश्वराः । बुधेज्यभृगुसौरागुशिरवीशा हरविग्रहाः ॥ १,१०४.१७० ॥ सिद्धेश्वराद्याः पञ्चान्ये रुद्रास्तत्र व्यवस्तत्र व्यवस्थिताः । वरारोहा ह्यजा पाला मङ्गला ललितेश्वरी ॥ १,१०४.१७१ ॥ लक्ष्मीशो वाडवेशश्चोर्वीशः कामेस्वरस्तथा । गौरीशवरुणेशाख्यं दुर्वासेशं गणेश्वरम् ॥ १,१०४.१७२ ॥ कुमारेशं चण्डकल्पं शकुलीश्वरसंज्ञकम् । ततः प्रोक्तोऽथ कोटीशबालब्रह्मादिसत्कथा ॥ १,१०४.१७३ ॥ नरकेशसंवर्त्तेशनिधीश्वरकथा ततः । बलभद्रेश्वरस्याथ गङ्गाया गणपस्य च ॥ १,१०४.१७४ ॥ जांबवत्याख्यसरितः पाण्डुकूपस्य सत्कथा । शतमेधलक्षमेधकोटिमेधकथा तथा ॥ १,१०४.१७५ ॥ दुर्वासार्कघटस्थानहिरण्यासंगमोत्कथा । नगरार्कस्य कृष्णस्य संकर्षणसमुद्रयोः ॥ १,१०४.१७६ ॥ कुमार्याः क्षेत्रपास्य ब्रह्मेशस्य कथा पृथक् । पिङ्गलासंगमेशस्य शङ्करार्कघटेशयोः ॥ १,१०४.१७७ ॥ ऋषितीर्थस्य नन्दार्कत्रितकूपस्य कीर्तनम् । ससोपानस्य पर्णार्कन्यङ्कुमत्योः कथाद्भुता ॥ १,१०४.१७८ ॥ वाराहस्वामिवृत्तान्तं छायालिङ्गाख्यगुल्फयोः । कथा कनकनन्दायाः कुतीगङ्गेशयोस्तथा ॥ १,१०४.१७९ ॥ चमसोद्बेदविदुरत्रिलोकेशकथा ततः । मङ्कणेशत्रैपुरेशषण्डतीर्थकथास्तथा ॥ १,१०४.१८० ॥ सूर्यप्राची त्रीक्षणयोरुमानातकथा तथा । भूद्धारशूलस्थलयोश्च्यवनार्केशयोस्तथा ॥ १,१०४.१८१ ॥ अजापालेशबालार्ककुबेरस्थलजा कथा । ऋषितोया कथा पुण्या संगालेश्वरकीर्तनम् ॥ १,१०४.१८२ ॥ नारदादित्यकथनं नारायणनिरूपणम् । तप्तकुण्डस्य माहात्म्यं मूलचण्डीशवर्णनम् ॥ १,१०४.१८३ ॥ चतुर्वक्त्रगणाध्यक्षकलंबेश्वरयोः कथा । गोपालस्वामिव कुलस्वामिनोर्मरुतां कथा ॥ १,१०४.१८४ ॥ क्षेमार्केन्नतविघ्नेशजलस्वामिकथा ततः । कालमेघस्य रुक्मिण्या दुर्वासेश्वरभद्रयोः ॥ १,१०४.१८५ ॥ शङ्खावर्तमोक्षतीर्थगोष्पदाच्युतसद्मनाम् । जालेश्वरस्य हुङ्कारेश्वरचण्डीशयोः कथा ॥ १,१०४.१८६ ॥ आशापुरस्थविघ्नेशकलाकुण्डकथाद्भुता । कपिलेशस्य च कथा जरद्गवशिवस्य च ॥ १,१०४.१८७ ॥ नलकर्केटेश्वरयोर्हाटकेश्वरजा कथा । नारदेशयन्त्रभूषादुर्गकूटगणेशजा ॥ १,१०४.१८८ ॥ सुपर्णैलाख्यभैरव्योर्भल्लतीर्थभवा कथा । कीर्तनं कर्दमालस्य गुप्तसोमेश्वस्य च ॥ १,१०४.१८९ ॥ बहुस्वर्णेशशृङ्गेशकोटीश्वरकथा ततः । मार्कण्डेश्वरकोटीशदामोदरगृहोत्कथा ॥ १,१०४.१९० ॥ स्वर्णरेखा ब्रह्मकुण्डं कुन्तीभीमेश्वरौ तथा । मृगीकुण्डं च सर्वस्वं क्षेत्रे वस्त्रापथे स्मृतम् ॥ १,१०४.१९१ ॥ दुर्गाभिल्लेशगङ्गेशरैवतानां कथाद्भुता । ततोर्ऽबुदेश्वर कथा अचलेश्वरकीर्तनम् ॥ १,१०४.१९२ ॥ नागतीर्थस्य च कथा वसिष्टाश्रमवर्णनम् । भद्रकर्णस्य माहात्म्यं त्रिनेत्रस्य ततः परम् ॥ १,१०४.१९३ ॥ केदारस्य च माहात्म्यं तीर्थाङ्गमनकीर्तनम् । कोटीश्वररूपतीर्थहृषीकेशकथारस्ततः ॥ १,१०४.१९४ ॥ सिद्धेशशुक्रेश्वरयोर्मणिकर्णीशकीर्तनम् । पङ्गुतीर्थयमतीर्थवाराहतीर्थवर्णनम् ॥ १,१०४.१९५ ॥ चन्द्रप्रभासर्पिडोदश्रीमाताशुक्लतीर्थजम् । कात्यायन्याश्च माहात्म्यं ततः पिण्डारकस्य च ॥ १,१०४.१९६ ॥ ततः कनखलस्याथ चक्रमानुषतीर्थयोः । कपिलाग्नितीर्थकथा तथा रक्तानुबन्धजा ॥ १,१०४.१९७ ॥ गणेशपार्थेश्वरयोर्यान्त्रायामुज्ज्वलस्य च । चण्डीस्थाननागोद्भवशिवकुण्डमहेशजा ॥ १,१०४.१९८ ॥ कामेश्वरस्य मार्कण्डेयोत्पत्तेश्च कथा ततः । उद्दालकेशसिद्धेशगततीथकथा पृथक् ॥ १,१०४.१९९ ॥ श्रीदेवरवातोत्पत्तिश्च व्यासगौतमतीर्थयोः । कुलसंतारमाहात्म्यं रामकोट्याह्वतीर्थयोः ॥ १,१०४.२०० ॥ चन्द्रोद्भेदेशानशृङ्गब्रह्मस्थानोद्भवोऽद्भुतम् । त्रिपुष्कररुद्रह्रदगुहेश्वर कथा शुभा ॥ १,१०४.२०१ ॥ अविमुक्तस्य माहात्म्यमुमामाहेश्वरस्य च । महौजसः प्रभावश्च जंबूतीर्थस्य वर्णनम् ॥ १,१०४.२०२ ॥ गङ्गाधरमिश्रकयोः कथा वाथफलस्तुतिः । द्वारकायाश्च माहात्म्ये चन्द्रशर्मकथानकम् ॥ १,१०४.२०३ ॥ जागराद्यर्चनाद्याख्या व्रतमेकादशीभवम् । महाद्वादशिकाख्यानं प्रह्लादर्षिसमागमः ॥ १,१०४.२०४ ॥ दुर्वासस उपाख्यानं यात्रोपक्रमकीर्तनम् । गोमत्युत्पत्तिकथनं तस्यां स्नानादिजं फलम् ॥ १,१०४.२०५ ॥ चक्रतीर्थस्य माहात्म्यं गोमत्युदधिसंगमः । सनकादिह्रदाख्यानं नृगतीर्थकथा ततः ॥ १,१०४.२०६ ॥ गोप्रचारकथा पुण्या गोपीनां द्वारकागमः । गोपीसरः समाख्यानं ब्रह्मतीर्थादिकीर्तनम् ॥ १,१०४.२०७ ॥ पञ्चनद्यागमाख्यानं नानाख्यानसमन्वितम् । शिवलिङ्गगदातीर्थकृष्णपूजादिकीर्तनम् ॥ १,१०४.२०८ ॥ त्रिविक्रमस्य मूर्ताख्या दुर्वासःकृष्णसंकथा । कुशदैत्यवधोञ्चारविशेषार्चनजं फलम् ॥ १,१०४.२०९ ॥ गोमत्यां द्वारकायां च तीर्थागमनकीर्तनम् । कृष्णमन्दिरसंप्रेक्षा द्रारवत्यभिषेचनम् ॥ १,१०४.२१० ॥ तत्रतीर्थावासकथा द्वारकापुण्यकीर्तनम् । इत्येष सप्तमः प्रोक्तः खण्डः प्राभासिको द्विजाः ॥ १,१०४.२११ ॥ स्कान्देसर्वोत्तरकथे शिबमाहात्म्यवर्णने । लिखित्वैतत्तु यो दद्याद्धेमशूलसमन्वितम् ॥ १,१०४.२१२ ॥ माध्यां सत्कृत्य विप्राय स शैवे मोदते पदे ॥ १,१०४.२१३ ॥ इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे स्कन्दपुराणानुक्रमणीवर्णनं नाम चतुरधिकशततमोऽध्यायः _____________________________________________________________ ब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि पुराणं वामनाभिधम् । त्रिविक्रमचरित्राढ्यं दशसाहस्रसंख्यकम् ॥ १,१०५.१ ॥ कूर्मकल्पसमाख्यानं वर्गत्रयकथानम् । भागद्वयसमायुक्तं वक्तृश्रोतृशुभावहम् ॥ १,१०५.२ ॥ पुराणप्रश्नः प्रथमं ब्रह्मशीर्षच्छिदा ततः । कपालमोचनाख्यानं दक्षयज्ञविहिंसनम् ॥ १,१०५.३ ॥ हरस्य कालरूपाख्या कामस्य दहनं ततः । प्रह्लादनारायणयोर्युद्धं देवासुराहवः ॥ १,१०५.४ ॥ सुकेश्यर्कसमाख्यानं ततो भुवनकोशकम् । ततः काम्यव्रताख्यानं श्रीदुर्गाचरितं ततः ॥ १,१०५.५ ॥ तपतीचरितं पश्चात्कुरुक्षेत्रस्य वर्णनम् । सत्यामाहात्म्यमतुलं पार्वतीजन्मकीर्तनम् ॥ १,१०५.६ ॥ तपस्तस्या विवाहश्च गौर्युपाख्यानकं ततः । ततः कौशिक्युपाख्यानं कुमारचरितं ततः ॥ १,१०५.७ ॥ ततोऽन्धकवधाख्यानंसाध्योपाख्यानकन्ततः । जाबालिचरितं पश्चादरजायाः कथाद्भुता ॥ १,१०५.८ ॥ अन्धकेशरयोर्युद्धं गणत्वं चान्धकस्य च । मरुतां जन्मकथनं बलेश्च चरितं ततः ॥ १,१०५.९ ॥ ततस्तु लक्ष्म्याश्चरितं त्रैविक्रममतः परम् । प्रह्लादतीर्थयात्रायां प्रोच्यन्तेऽथ कथाः शुभाः ॥ १,१०५.१० ॥ ततश्च धुन्धु चरितं प्रेतोपाख्यानकं ततः । नक्षत्रपुरुषाख्यानं श्रीदामचरितं ततः ॥ १,१०५.११ ॥ त्रिविक्रमचरित्रान्ते ब्रह्मप्रोक्तः स्तवोत्तमः । प्रह्लादबलिसंवादे सुतले हरिशंसनम् ॥ १,१०५.१२ ॥ इत्येष पूर्वभागोऽस्य पुराणस्य तवोदितः । शृण्णतोऽस्योत्तरं भागं बहद्वामनसंज्ञकम् ॥ १,१०५.१३ ॥ माहेश्वरी भागवती सौरी गाणेश्वरी तथा । चतस्रः संहिताश्चात्र पृथक्साहस्रसंख्यया ॥ १,१०५.१४ ॥ माहेश्वर्यां तु कृष्णस्य तद्भक्तानां च कीर्तनम् । भागवत्यां जगन्मातुखतारकथाद्भुता ॥ १,१०५.१५ ॥ सौर्यां सूर्यस्य महिमा गदितः पापनाशनः । गाणेश्वर्यां गणेशस्य चरितं च महेशितुः ॥ १,१०५.१६ ॥ इत्येतद्वामनं नाम पुराणं सुविचित्रकम् । पुलस्त्येन समाख्यातं नारदाय महात्मने ॥ १,१०५.१७ ॥ ततो नारदतः प्राप्तं व्यासेन सुमहात्मना । व्यासात्तु लब्धवांश्चैतत्तच्छिष्यो रोमहर्षणः ॥ १,१०५.१८ ॥ स चाख्यास्यति विप्रेभ्यो नैमिषीयेभ्य एव च । एवं परंपराप्राप्तं पुराणं वामनं शुभम् ॥ १,१०५.१९ ॥ ये पठन्ति च शृण्वन्ति तेऽपि यान्ति परां गतिम् । लिखित्वैतत्पुराणं तु यः शरद्विषुवेर्ऽपयेत् ॥ १,१०५.२० ॥ विप्राय वेदविदुषे घृतधेनुसमन्वितम् । स समुद्धृत्य नरकान्नयेत्स्वर्गं पितॄन्स्वकान् ॥ १,१०५.२१ ॥ देहान्ते भुक्तभोगोऽसौ याति विष्णोः परं पदम् ॥ १,१०५.२१ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वामनपुराणानुक्रमणीवर्णनं नाम पञ्चाधिकशततमोऽध्यायः _____________________________________________________________ ब्रह्मोवाच शृणु वत्स मरीचे त्वं पुराणं कूर्मसंज्ञकम् । लक्ष्मीकल्पानुचरितं यत्र कूर्मवपुर्हरिः ॥ १,१०६.१ ॥ धर्मार्थकाममोक्षाणां माहात्म्यं च पृथक्पृथक् । इन्द्रद्युम्नप्रसंगेन प्राहर्षिभ्यो दयान्वितः ॥ १,१०६.२ ॥ तत्सप्तदशसाहस्रं सुचतुः संहितं शुभम् । यत्र ब्राह्माः पुरा प्रोक्ता धर्मा नानाविधा मुने ॥ १,१०६.३ ॥ नाननाकथाप्रसंगेन नृणां सद्गतिदायकाः । तत्र पूर्वविभागे तु पुराणोपक्रमः पुरा ॥ १,१०६.४ ॥ लक्ष्मीन्द्रद्युम्नसंवादः कूर्ंमर्षिगणसंकथा । वर्णाश्रमाचारकथा जगदुत्पत्तिकीर्तनम् ॥ १,१०६.५ ॥ कालसंख्या समासेन लयान्ते स्तवनं विभोः ॥ ततः संक्षेपतः सर्गः शाङ्करं चरितं तथा ॥ १,१०६.६ ॥ सहस्रनाम पार्वत्या योगस्य च निरूपणम् । भृगुवंशसमाख्यानं ततः स्वायम्भुवस्य च ॥ १,१०६.७ ॥ देवादीनां समुत्पत्तिर्दक्षयज्ञाहतिस्ततः । दक्षसृष्टिकथा पश्चात्कश्यपान्वयकीर्तनम् ॥ १,१०६.८ ॥ आत्रेयवंशकथनं कृष्णस्यं चरितं शुभम् । मार्तण्डकृष्णसंवादो व्यासपाण्डवसंकथा ॥ १,१०६.९ ॥ युगधर्मानुकथनं व्यासजैमिनिकीर्तनम् । वाराणस्याश्च माहात्म्यं प्रयागस्य ततः परम् ॥ १,१०६.१० ॥ त्रैलोक्यवर्णनं चैव वेदशाखानिरूपणम् । उत्तरेऽस्या विभागे तु पुरा गीतैश्वरी ततः ॥ १,१०६.११ ॥ व्यासगीता ततः प्रोक्ता नानाधर्मप्रबोधिनी । नानाविधानां तीर्थानां माहात्म्यं च पृथक्ततः ॥ १,१०६.१२ ॥ प्रतिसर्गप्रकथनं ब्राह्मीयं संहिता स्मृता । अतः परं भागवतीसंहितार्थ निरूपणम् ॥ १,१०६.१३ ॥ कथिता यत्र वर्णानां पृथक्वृत्तिरुदाहृता । पादऽस्याः प्रथमे प्रोक्ता ब्राह्मणानां व्यवस्थितिः ॥ १,१०६.१४ ॥ सदा चागत्मिका वत्स भोगसौख्यविवर्द्धनी । द्वितीये क्षत्त्रियाणां तु वृत्तिः सम्यक्प्रकीर्तिता ॥ १,१०६.१५ ॥ यया त्वाश्रितया पापं विधूयेह व्रजेद्दिवम् । तृतीये वैश्यजातीनां वृत्तिरुक्ता चतुर्विधा ॥ १,१०६.१६ ॥ यया चरितया सम्यग्लभे गतिमुत्तमाम् । चतुर्थेऽस्यास्तथा पादे शूद्रवृत्तिरुदाहृता ॥ १,१०६.१७ ॥ यया संतुष्यति श्रीशो नृणां श्रेयोविवर्द्धनः । पञ्चमेऽस्यास्ततः पादे वृत्तिः संकरजोदिता ॥ १,१०६.१८ ॥ यया चरितयाप्नोति भाविनीं गतिमुत्तमाम् । इत्येषा पञ्चपद्युक्ता द्वितीया संहिता मुने ॥ १,१०६.१९ ॥ तृतीयात्रोदिता सौरी नॄणां कार्यविधायिनी । षोढा षट्कर्मसिर्द्धि बोधयन्ती च कामिनाम् ॥ १,१०६.२० ॥ चतुर्थीवैष्णवो नाम मोक्षदा परिकीर्तिता । चतुष्पदी द्विजातीनां साक्षाद्ब्रह्मस्वरूरिणी ॥ १,१०६.२१ ॥ ताः क्रमात्षट्चतुर्द्वीषुसाहस्राः परिकीर्तिताः ॥ १,१०६.२२ ॥ एतत्कूर्मपुराणं तु चतुर्वर्गफलप्रदम् । पठतां शृण्वतां नॄणां सर्वोत्कृष्टगतिप्रदम् ॥ १,१०६.२३ ॥ लिखित्वैतत्तु यो भक्त्या हेमकूर्मसमन्वितम् । ब्राह्मणाया यने दद्यात्स याति परमां गतिम् ॥ १,१०६.२४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे कूर्मपराणानुक्रमणीकथनं नाम षडुत्तरशततमोऽध्यायः _____________________________________________________________ ब्रह्मोवाच अथ मात्स्यं पुराणं ते प्रवक्ष्ये द्विजसत्तम । यत्रोक्तं सप्तकल्पानां वृत्तं संक्षिप्य भूतले ॥ १,१०७.१ ॥ व्यासेन वेदविदुषा नारसिंहोपवर्णने । उपक्रम्य तदुद्दिष्टं चतुर्द्दशसहस्रकम् ॥ १,१०७.२ ॥ मनुमत्स्यसुसंवादो ब्रह्माण्डकथनं ततः । ब्रह्मदेवासुरोत्पत्तिर्मारुतोत्पत्तिरेव च ॥ १,१०७.३ ॥ मदनद्वादशी तद्वल्लोकपालाभिपूजनम् । मन्वन्तरसमुद्देशो वैश्यराज्याभिवर्णनम् ॥ १,१०७.४ ॥ सूर्यवैवस्वतोत्पत्तिर्बुधसंगमनं तथा । पितृवंशानुकथनं श्रद्धाकालस्तथैव च ॥ १,१०७.५ ॥ पितृतीर्थप्रचारश्च सोमोत्पत्तिस्तथैव च । कीर्तनं सोमवंशस्य ययातिचरितं तथा ॥ १,१०७.६ ॥ पितृवंशानुकथनं सृष्टवंशानुकीर्तनम् । भृगुशापस्तथा विष्णोर्दशधा जन्मने क्षितौ ॥ १,१०७.७ ॥ कीर्त्तनं पूरुवंशस्य वंशो हौताशनः परम् । क्रियायोगस्ततः पश्चात्पुराणपरिकीर्तनम् ॥ १,१०७.८ ॥ व्रतं नक्षत्रपुरुषं मार्तण्डशयनं तथा । कृष्णाष्टमीव्रतं तद्वद्रोहिणीचन्द्रसंज्ञितम् ॥ १,१०७.९ ॥ तडागविधि माहात्म्यं पादपोत्सर्ग एव च । सौभाग्यशयनं तद्वदगस्त्यव्रतमेव च ॥ १,१०७.१० ॥ तथानन्ततृतीयाया रसकल्याणिनीव्रतम् । तथैवानं दकर्याश्च व्रतं सारस्वतं पुनः ॥ १,१०७.११ ॥ उपरागाभिषेकश्च सप्तमीशनं तथा । भीमाख्या द्वादशी तद्वदनङ्गशयनं तथा ॥ १,१०७.१२ ॥ अशून्यशयनं तद्वत्तथैवाङ्गारकव्रतम् । सप्तमीसप्तकं तद्वद्विशोकद्वादशीव्रतम् ॥ १,१०७.१३ ॥ मेरुप्रदानं दशधा ग्रहशान्तिस्तथैव च । ग्रहस्वरूपकथनं तथा शिवचतुर्दशी ॥ १,१०७.१४ ॥ तथा सर्वफलत्यागः सूर्यवारव्रतं तथा । संक्रान्तिस्नपनं तद्वद्विभूतिद्वादशीव्रतम् ॥ १,१०७.१५ ॥ षष्टीव्रतानां माहात्म्यं तथा स्नानविधिकमः । प्रयागस्य तु माहात्म्यं द्वीपलोकानुवर्णनम् ॥ १,१०७.१६॥ तथान्तरिक्षचारश्च ध्रुवमाहात्म्यमेव च । भवनानि सुरेद्राणां त्रिपुरोद्योतनं तथा ॥ १,१०७.१७ ॥ पितृप्रवरमाहात्म्यं मन्वन्तरविनिर्णयः । चतुर्युगस्य संभूतिर्युगधर्मनिरूपणम् ॥ १,१०७.१८ ॥ वज्राङ्गस्य तु संभूति स्तारकोत्पत्तिरेव च । तारकासुरमाहात्म्यं ब्रह्मदेवानुकीर्तनम् ॥ १,१०७.१९ ॥ पार्वतीसंभवस्तद्वत्तथा शिवतपोवनम् । अनङ्गदेहदाहश्च रतिशोकस्तथैव च ॥ १,१०७.२० ॥ गौरीतपोवनं तद्वच्छिवेनाथ प्रसादनम् । पार्वतीऋषिसंवादस्तथैरोद्वाहमङ्गलम् ॥ १,१०७.२१ ॥ कुमारसंभवस्तद्वत्कुमारविजयस्तथा । तारकस्य वधो घोरो नरसिंहोपवर्णनम् ॥ १,१०७.२२ ॥ पद्मोद्भवविसर्गस्तु तथैवान्धकघातनम् । वाराणस्यास्तु माहात्म्यं नर्मदायास्तथैव च ॥ १,१०७.२३ ॥ प्रवरानुक्रमस्तद्वत्पितृगाथानुकीर्तनम् । तथोभयमुखीदानं दानं कृष्णाजिनस्य च ॥ १,१०७.२४ ॥ ततः सावित्र्युपाख्यानं राजधर्मास्तथैव च । विविधोत्पातकथनं ग्रहणान्तस्तथैव च ॥ १,१०७.२५ ॥ यात्रानिमित्तकथनं स्वप्नमङ्गलकीर्तने । वामनस्य तु माहात्म्यं वाराहस्य ततः परम् ॥ १,१०७.२६ ॥ समुद्रमथनं तद्वत्कालकूटाभिशान्तनम् । देवासुरविमर्दश्च वास्तुविद्या तथैव च ॥ १,१०७.२७ ॥ प्रतिमालक्षणं तद्वद्देवतायतनं तथा । प्रासादलक्षणं तद्वन्मण्डपान च लक्षणम् ॥ १,१०७.२८ ॥ भविष्यराज्ञामुद्देशो महादानानुकीर्तनम् । कल्पानुकीर्तनं तद्वत्पुराणेऽस्मिन्प्रकीर्तितम् ॥ १,१०७.२९ ॥ पवित्रमेतत्कल्याणमायुः कीर्तिविवर्द्धनम् । यः पठेच्छृणुयाद्वापि स याति भवनं हरेः ॥ १,१०७.३० ॥ लिखित्वैतत्तु यो दद्याद्धेममत्स्यगवान्वितम् । विप्रायाभ्यर्च्य विषुवे स याति परमं पदम् ॥ १,१०७.३१ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे मत्स्यपुराणानुक्रमणीकथनं नाम सप्तोत्तरशततमोऽध्यायः _____________________________________________________________ ब्रह्मोवाच मरीचे शृणु वक्ष्याभि पुराणं गारुडं शुभम् । गरुडायाब्रवीत्पृष्टो भगवान्गरुडासनः ॥ १,१०८.१ ॥ एकोनविंशसाहस्रं तार्क्ष्यकल्पकथान्वितम् । पुराणोपक्रमप्रश्नः सर्गः संक्षेपतस्ततः ॥ १,१०८.२ ॥ सूर्यादिपूजनविधिर्दीक्षाविधिरतः परम् । श्राद्धपूजा ततः पश्चान्नवव्यूहार्चनं द्विज ॥ १,१०८.३ ॥ पूजाविधानं च तथा वैष्णवं पञ्जरं ततः । योगाध्यायस्ततो विष्णोर्नामसाहस्रकीर्तनम् ॥ १,१०८.४ ॥ ध्यानं विष्णोस्ततः सूर्यपूजा मृत्युञ्जयार्चनम् । मालामन्त्रः शिवार्चाथ गणपूजा ततः परम् ॥ १,१०८.५ ॥ गोपालपूजा त्रैलोक्यमोहनश्रीधरार्चनम् । विष्ण्वर्चा पञ्चतत्त्वार्चा चक्रार्चा देवपूजनम् ॥ १,१०८.६ ॥ न्यासादिसंध्योपास्तिश्च दुर्गार्चाथ सुरार्चनम् । पूजा माहेश्वरी चातः पवित्रारोपणार्चनम् ॥ १,१०८.७ ॥ मूर्तिध्यांनवास्तुमानं प्रासादानां च लक्षणम् । प्रतिष्ठा सर्वदेवानां पृथक्पूजा विधानतः ॥ १,१०८.८ ॥ योगोऽषटाङ्गो दानधर्माः प्रयश्चित्तविधिक्रिया । द्वीपेशनरकाख्यानं सूर्यव्यूहश्च ज्योतिषम् ॥ १,१०८.९ ॥ सामुद्रिकं स्वरज्ञानं नवरत्नपरीक्षणम् । माहात्म्यमथ तीर्थानां गयामाहात्म्यमुत्तमम् ॥ १,१०८.१० ॥ ततो मन्वन्तराख्यानं पृथक्पृथग्विभागशः । पित्राख्यानं वर्णधर्मा द्रव्यशुद्धिः समर्पणम् ॥ १,१०८.११ ॥ श्राद्धं विनायकस्यार्चा ग्रहयज्ञस्तथआ श्रमाः । जननाख्यं प्रेतशौचं नीतिशास्त्रं व्रतोक्तयः ॥ १,१०८.१२ ॥ सूर्यवंशः सोमवंशोऽवतारकथनं हरेः । रामायणं हरेर्वंशो भारताख्यानकं ततः ॥ १,१०८.१३ ॥ आयुर्वेदनिदानं प्राक्चिकिकत्सा द्रव्यजा गुणाः । रोगघ्नं कवचं विष्णोर्गारुडं त्रैपुरो मनुः ॥ १,१०८.१४ ॥ प्रश्नचूडामणिश्चान्तो हयायुर्वेदकीर्तनम् । ओषघीनाम कथनं ततो व्याकरणोहनम् ॥ १,१०८.१५ ॥ छन्दः शास्त्रं सदाचारस्ततः स्नानविधिः स्मृतः । तर्पणं वैश्वदेवं च संध्या पार्वणकर्म च ॥ १,१०८.१६ ॥ नित्यश्राद्धं सर्पिडाख्यं धर्मसारोऽघनिष्कृतिः । प्रतिसंक्रम उक्ताः स्म युगधर्माः कृतेः फलम् ॥ १,१०८.१७ ॥ योगशास्त्रं विष्णुभक्तिर्नमस्कृतिफलं हरेः । माहात्म्यं वैष्णवं चाथ नारसिंहस्तवोत्तमम् ॥ १,१०८.१८ ॥ ज्ञानामृतं गुहुष्टकं स्तोत्रं विष्ण्वर्चनाह्वयम् । वेदान्तसांख्यसिद्धान्तो ब्रह्मज्ञानं तथाल्मकम् ॥ १,१०८.१९ ॥ गीतासारः फलोत्कीर्तिः पूर्वखण्डोऽयमीरितः । अथास्यैवोत्तरे खण्डे प्रेतकल्पः पुरोदितः ॥ १,१०८.२० ॥ यत्र तार्क्ष्येण संपृष्टो भगवानाह वाडवाः । धर्मप्रकटनं पूर्वं योगिनां गतिकारणम् ॥ १,१०८.२१ ॥ दानादिकं फलं चापि प्रोक्तमन्त्रोर्द्धदैहिकम् । यमलोकस्थमार्गस्य वर्णन च तः परम् ॥ १,१०८.२२ ॥ षोडशश्राद्धफलको वृत्तान्तश्चात्र वर्णितः । निष्कृतिर्यममार्गस्य धर्मराजस्य वैभवम् ॥ १,१०८.२३ ॥ प्रेतपीडांविनिर्द्देशः प्रेतचिह्ननिरूपणम् । प्रेतानां चरिताख्यानं कारणं प्रेततां प्रति ॥ १,१०८.२४ ॥ प्रेतकृत्यविचारश्च सर्पिडीकरणोक्तयः । प्रेतत्वमोक्षणाख्यानं दानानि च विमुक्तये ॥ १,१०८.२५ ॥ आवश्यकोत्तमं दानं प्रेतसौख्यकरोहनम् । शारीरकविनिर्देशो यमलोकस्य वर्णनम् ॥ १,१०८.२६ ॥ प्रेतत्वोद्धारकथनं कर्मकृर्त्तृविनिर्णयः । मृत्योः पूर्वक्रियाख्यानं पश्चात्कर्मनिरूपणम् ॥ १,१०८.२७ ॥ मध्यषोडशकश्राद्धं स्वर्गप्राप्तिक्रियोहनम् । सूतकस्याथ संख्यांनं नारायणबलिक्रिया ॥ १,१०८.२८ ॥ वृषोत्सर्गस्य माहात्म्यं निषिद्धपरिवर्जनम् । अपमृत्युक्रियोक्तिश्च विपाकः कर्मणां नृणाम् ॥ १,१०८.२९ ॥ कृत्याकृत्यविचारश्च विष्णुध्यानविमुक्तये । स्वर्गतौ विहिताख्यानं स्वर्गसौख्यनिरूपणम् ॥ १,१०८.३० ॥ भूर्लोकवर्णनं चैव सप्ताधोलोकवर्णनम् । पञ्चोर्द्ध्वलोककथनं ब्रह्माण्डस्थितिकीर्तनम् ॥ १,१०८.३१ ॥ ब्रह्माण्डानेकचरितं ब्रह्मजीवनिरूपणम् । आत्यन्तिकं लयाख्यानं फलस्तुति निरूपणम् ॥ १,१०८.३२ ॥ इत्येतद्गारुडं नाम पुराणं भुक्तिमुक्तिदम् । कीर्तितं पापशमनं पठतां शृण्वतां नृणाम् ॥ १,१०८.३३ ॥ लिखित्वैतत्पुराणं तु विषुवे यः प्रयच्छति । सौवर्णहंसयुग्माढ्यं विप्राय स दिवं व्रजेत् ॥ १,१०८.३४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे गारुडानुक्रमणीवर्णनं नामाष्टोत्तरशततमोऽध्यायः _____________________________________________________________ ब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि ब्रह्माण्डाख्यं पुरातनम् । यच्च द्वादशसाहस्रमादिकल्पकथायुतम् ॥ १,१०९.१ ॥ प्रक्रियाख्योऽनुषङ्गाख्य उपोद्घातस्तृतीयकः । चतुर्थ उपसंहारः पादाश्चत्वार एव हि ॥ १,१०९.२ ॥ पूर्वपादद्वयं पूर्वो भागोऽत्र समुदाहृतः । तृतीयो मध्यमो भागश्चतुर्थस्तूत्तरो मतः ॥ १,१०९.३ ॥ आदौ कृत्यसमुद्देशो नैमिषाख्यानकं ततः । हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव च ॥ १,१०९.४ ॥ एष वै प्रथमः पादो द्वितीयं शृणु मानद । कल्पमन्वन्तराख्यानं लोकज्ञानं ततः परम् ॥ १,१०९.५ ॥ मानसीसृष्टिकथनं रुद्रप्रसववर्णनम् । महादेवविभूतिश्च ऋषिसर्गस्ततः परम् ॥ १,१०९.६ ॥ अग्नीनां विजयश्चाथ कालसद्भाववर्णनम् । प्रियव्रतान्वयोद्देशः पृथिव्यायामविस्तरः ॥ १,१०९.७ ॥ वर्णनं भारतस्यास्य ततोऽन्येषां निरूपणम् । जम्ब्वादिसप्तद्वीपाख्या ततोऽधोलोकवर्णनम् ॥ १,१०९.८ ॥ उर्द्ध्वलोकानुकथनं ग्रहचारस्ततः परम् । आदित्यव्यूहकथनं देवग्रहानुकीर्तनम् ॥ १,१०९.९ ॥ नीलकण्ठाह्वयाख्यानं महादेवस्य वैभवम् । अमावास्यानुकथनं युगतत्त्वनिरूपणम् ॥ १,१०९.१० ॥ यज्ञप्रवर्तनं चाथ युगयोरन्त्ययोः कृतिः । युगप्रजालक्षणं च ऋषिप्रवरवर्णनम् ॥ १,१०९.११ ॥ वेदानां व्यसनाख्यानं स्वायम्भुवनिरूपणम् । शेषमन्वन्तराख्यानं पृथिवीदोहनं ततः ॥ १,१०९.१२ ॥ चाक्षुषेऽद्यतने सर्गे द्वितीयोऽङ्घ्रिः पुरोदले । अथोपोद्घातपादे तु सप्तर्षिपरिकीर्तनम् ॥ १,१०९.१३ ॥ प्रजापत्यन्वयस्तस्माद्देवादीनां समुद्भवः । ततो जयाभिलाषश्च मरुदुत्पत्तिकीर्तनम् ॥ १,१०९.१४ ॥ काश्यपेयानुकथनं ऋषिवंशनिरूपणम् । पितृकल्पानुकथनं श्राद्धकल्पस्ततः परम् ॥ १,१०९.१५ ॥ वैवस्वतसमुत्पत्तिः सृष्टिस्तस्य ततः परम् । मनुपुत्रान्वयश्चान्तो गान्धर्वस्य निरूपणम् ॥ १,१०९.१६ ॥ इक्ष्वाकुवंशकथनं वंशोऽत्रेः सुमहात्मनः । अमावसोरन्वयश्च रजेश्चरितमद्भुतम् ॥ १,१०९.१७ ॥ ययातिचरितं चाथ यदुवंशनिरूपणम् । कार्तवीर्यस्य चरितं जामदग्न्यं ततः परम् ॥ १,१०९.१८ ॥ वृष्णिवंशानुकथनं सगरस्याथ संभवः । भार्गवस्यानुचरितं पितृकार्यवधाश्रयम् ॥ १,१०९.१९ ॥ सगरस्याथ चरितं भार्गवस्य कथा पुनः । देवासुराहवकथा कृष्णाविर्भाववर्णनम् ॥ १,१०९.२० ॥ इन्द्रस्य तु स्तवः पुण्यः शुक्रेण परिकीर्तितः । विष्णुमाहात्म्यकथनं बलिवंशनिरूपणम् ॥ १,१०९.२१ ॥ भविष्यराजचरितं संप्राप्तेऽथ कलौ युगे । समुपोद्धातपादोऽयं तृतीयो मध्यमे दले ॥ १,१०९.२२ ॥ चतुर्थमुपसंहारं वक्ष्ये खण्डे तथोत्तरे । वैवस्वतान्तराख्यानं विस्तरेण यथातथाम् ॥ १,१०९.२३ ॥ पूर्वमेव समुद्दिष्टं संक्षेपादिह कथ्यते । भविष्याणां मनूनां च चरितं हि ततः परम् ॥ १,१०९.२४ ॥ कल्पप्रलयनिर्देशः कालमानं ततः परम् । लोकाश्चतुर्द्दश ततः कथिताः प्राप्तलक्षणैः ॥ १,१०९.२५ ॥ वर्णनं नरकाणां च विकर्माचरणैस्ततः । मनोमयपुराख्यानं लयः प्राकृतिकस्ततः ॥ १,१०९.२६ ॥ शैवस्याथ पुरस्यापि वर्णनं च ततः परम् । त्रिविधा गुणसंबन्धाज्जन्तूनां कीर्तिता गतिः ॥ १,१०९.२७ ॥ अनिर्देश्याप्रतर्क्यस्य ब्रह्मणः परमात्मनः । अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम् ॥ १,१०९.२८ ॥ इत्येष उपसंहारपादो वृत्तः सहोत्तरः । चतुष्पादं पुराणं ते ब्रह्माण्डं समुदाहृतकम् ॥ १,१०९.२९ ॥ अष्टादशमनौपम्यं सारात्सारतरं द्विज । ब्रह्माण्डं यच्चतुर्लक्षं पुराणं येन वठ्यते ॥ १,१०९.३० ॥ तदेतदस्य गदितमत्राष्टादशधा पृथक् । पासशर्येण मुनिना सर्वेषामपि मानद ॥ १,१०९.३१ ॥ वस्तुतस्तूपदेष्ट्राथ मुनीनां भावितात्मनाम् । मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे ॥ १,१०९.३२ ॥ मुनयो धर्मशीलास्ते दीनानुग्रहकारिणः । मयाचेदं पुराणं तु वसिष्टाय पुरोदितम् ॥ १,१०९.३३ ॥ तेन शक्तिसुतायोक्तं जातूकर्ण्याय तेन च । व्यासो लब्ध्वा ततश्चैतत्प्रभञ्जनमुखोद्गतम् ॥ १,१०९.३४ ॥ प्रमाणीकृत्य लोकेऽस्मिन्प्रावर्तयदनुत्तमम् । य इदं कीर्तयेद्वत्स शृणोति च समाहितः ॥ १,१०९.३५ ॥ स विधूयेह पापानि याति लोकमनामयम् । लिखित्वैतत्पुराणं तु स्वर्णसिंहासनस्थितम् ॥ १,१०९.३६ ॥ वस्त्रेणाच्छादितं यस्तु ब्राह्मणाय प्रयच्छति । स यादि ब्रह्मणो लोकं नात्र कार्या विचारणा ॥ १,१०९.३७ ॥ मरीचेऽष्टादशैतानि मया प्रोक्तानि यानि ते । पुराणानि तु संक्षेपाच्छ्रोतव्यानि च विस्तरात् ॥ १,१०९.३८ ॥ अष्टादश पुराणानि यः शृणोति नरोत्तमः । कथयेद्वा विधानेन नेह भूयः स जायते ॥ १,१०९.३९ ॥ सूत्रमेतत्पुराणानां यन्मयोक्तं तवाधुना । तन्नित्यं शीलनीयं हि पुराणफलमिच्छता ॥ १,१०९.४० ॥ न दांभिकाय पापाय देवगुर्वनुसूयवे । देयं कदापि साधूनां द्वेषिणे न शठाय च ॥ १,१०९.४१ ॥ शान्ताय शमचित्ताय शुश्रूषाभिरताय च । निर्मत्सराय शुचये देयं सद्वैष्णवाय च ॥ १,१०९.४२ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्रह्माण्डपुराणानुक्रमणीनिरूपणं नाम नवोत्तरशततमोऽध्यायः _____________________________________________________________ नारद उवाच पुराणसूत्रमखिलं श्रुतं तव मुखाद्विभो । मरूचये यथा प्रोक्तं ब्रह्मणा परमेष्ठिना ॥ १,११०.१ ॥ अधुना तु महाभाग तिथीनां वै कथानकम् । क्रमतो मह्यमाख्याहि यथा स्याद्वतनिश्चयः ॥ १,११०.२ ॥ यस्मिन्मासे तु या पुण्या तिथिर्येन उवासिता । यद्विधानं च पूजादेस्तत्सर्वं वद सांप्रतम् ॥ १,११०.३ ॥ सनातन उवाच शृणु नारद वक्ष्यामि तिथीनां ते व्रतं पृथक् । तिथीशानुक्रमादेव सर्वसिद्धिविधायकम् ॥ १,११०.४ ॥ चैत्रे मासि जगद्ब्रह्मा ससज प्रथमेऽहनि । शुक्लपक्षे समग्रं वै तदा सूर्योदये सति ॥ १,११०.५ ॥ वत्सरादौ वसंतादौ बलिराज्ये तथैव च । पूर्वविद्धैव कर्तव्या प्रतिपत्सर्वदा बुधैः ॥ १,११०.६ ॥ तत्र कार्या महाशान्तिः सर्वकल्मषनाशिनी । सर्वोत्पातप्रशमनी कलिदुष्कृतहारिणी ॥ १,११०.७ ॥ आयुः प्रदापुष्टिकरी धनसौभाग्यवर्द्धिनी । मङ्गल्या च पवित्रा च लोकद्वयमुखावहा ॥ १,११०.८ ॥ तस्यामादौ तु संपूज्यो ब्रह्मा वह्निवपुर्धरः । पाद्यार्ध्यपुष्पधूपैश्च वस्त्रालङ्कारभोजनैः ॥ १,११०.९ ॥ होमैर्बल्युपहारैश्च तथा ब्राह्मणतर्पणैः । ततः क्रमेण देवेभ्यः पूजा कार्या पृथक्पृथक् ॥ १,११०.१० ॥ कृत्वोङ्कार नमस्कारं कुशोदकतिलाक्षतैः । सवस्त्रं सहिरण्यं च ततो दद्याद्दिजातये ॥ १,११०.११ ॥ दक्षिणां वेदविदुषे व्रतसंपूर्तिहेतवे । एवं पूजाविशेषेण व्रतं स्यात्सौरिसंज्ञकम् ॥ १,११०.१२ ॥ आरोग्यदं नृणां विप्र तस्मिन्नेव दिने मुने । विद्याव्रतमपि प्रोक्तमस्यामेव तिथौ मुने ॥ १,११०.१३ ॥ तिलकं नाम च प्रोक्तं कृष्णेनाजातशत्रवे । अथ ज्येष्ठे सिते पक्षे पक्षत्यां दिवसोदये ॥ १,११०.१४ ॥ देवोद्यानभवं हृद्यं करवीरं समर्चयेत् । रक्ततन्तुरीधानं गन्धधूपविलेपनैः ॥ १,११०.१५ ॥ प्ररूढसप्तधान्यैश्च नारगैर्बीजपूरकैः । अभ्युक्ष्याक्षततोयेन मन्त्रेणेत्थं क्षमापयेत् ॥ १,११०.१६ ॥ करवीर वृषावास नमस्ते भानुवल्लभ । दंभोलिमृडदुर्गादिदेवानां सततं प्रिय ॥ १,११०.१७ ॥ आकृष्णेनेति वेदोक्तमन्त्रेणेत्थं क्षमापयेत् । एवं भक्त्या समभ्यच्य दत्त्वा विप्राय दक्षिणाम् ॥ १,११०.१८ ॥ प्रदक्षिणं ततः कुर्यात्पश्चात्स्वभवनं व्रजेत् । नभः शुक्ले प्रतिपदि लक्ष्मीबुद्धिप्रदायकम् ॥ १,११०.१९ ॥ धर्मार्थकाममोक्षाणां निदानं परमं व्रतम् । सोमवारं समारभ्य सार्धमासत्रयं द्विज ॥ १,११०.२० ॥ कार्तिकासितभूतायामुपोष्यं व्रततत्परः । पूर्णायां शिवमभ्यर्च्य सुवण वंशसंयुतम् ॥ १,११०.२१ ॥ वायनं सुमहत्पुण्यं देवताप्रीतिवर्धकम् । दद्याद्विप्राय संकल्प्य धनवृद्ध्यै मुनीश्वर ॥ १,११०.२२ ॥ भाद्रशुक्लप्रतिपदि व्रतं नाम्ना महत्तमम् । व्रतं मौनाह्वयं केचित्प्राहुरत्र शिवोर्ऽच्यते ॥ १,११०.२३ ॥ नैवेद्यं तु पचेन्मौनी षोडशत्रिगुणानि च । फलानि पिष्टपक्वानि दद्याद्विप्राय षोडश ॥ १,११०.२४ ॥ देवाय षोडशान्यानि भुज्यन्ते षोडशात्मना । सौवर्णं शिवमभ्यर्च्य कुम्भोपरि विधानवित् ॥ १,११०.२५ ॥ तत्सर्वं धेनुसहितमाचार्य्याय प्रदापयेत् । इदं कृत्वा व्रतं विप्र देव देवस्य शूलिनः ॥ १,११०.२६ ॥ चतुर्दशाब्दं देहान्तं भुक्तभोगः शिवं व्रजेत् । आश्विने सितपक्षत्यां कत्वाशोकव्रतं नरः ॥ १,११०.२७ ॥ अशोको जायते विप्रधनधान्यसमन्वितः । अशोकपूजनं तत्र कार्यं नियमतत्परैः ॥ १,११०.२८ ॥ व्रतान्ते द्वादशे वर्षे मूर्तिं चाशोकशाखिनः । समर्प्य गुरवे भक्त्या शिवलोके महीयते ॥ १,११०.२९ ॥ अस्यामेव प्रतिपदि नवरात्रं समारभेत् । पूर्वाह्ने पूजयेद्देवीं घटस्थापनपूर्वकम् ॥ १,११०.३० ॥ अङ्कुरारोपणं कृत्वा यवैर्गोधूममिश्रितैः । ततः प्रतिदिनं कुर्यादेकभुक्तमयाचितम् ॥ १,११०.३१ ॥ उपवासं यथाशक्ति पूजापाठजपादिकम् । मार्कंण्डेय पुराणोक्तं चरितत्रितयं द्विज ॥ १,११०.३२ ॥ पठनीयं नवदिनं भुक्तिमुक्ती अभीप्सता । कुमारीपूजनं तत्र प्रशस्तं भोजनादिभिः ॥ १,११०.३३ ॥ इत्थं कृत्वा व्रतं विप्र सर्वसिद्ध्यालयो नरः । जायते भुवि दुर्गायाः प्रसादान्नात्र संशयः ॥ १,११०.३४ ॥ अथोर्जसितपक्षत्यां नवरात्रोदितं चरेत् । विशेषादन्नकूटाख्यं विष्णुप्रीतिविवर्धनम् ॥ १,११०.३५ ॥ सर्वपाकैः सर्ददोहैः सर्वैः सर्वार्थसिद्धये । कर्तव्यमन्नकूटं तु गोवर्द्धनसमर्चने ॥ १,११०.३६ ॥ सायं गोभिः सह श्रीमद्गोवर्द्धनधराधरम् । समर्च्य दक्षिणीकृत्य भुक्तिमुक्ती समाप्नुयात् ॥ १,११०.३७ ॥ अथ मार्गसिताद्यायां धनव्रतमनुत्तमम् । नक्तं विष्ण्वर्चनं होमैः सौवर्णीं हुतभुक्तनुम् ॥ १,११०.३८ ॥ रक्तवस्त्रयुगाच्छन्नां द्विजाय प्रतिपादयेत् । एवं कृत्वा धनैर्धान्यैः समृद्धो जायते भुवि ॥ १,११०.३९ ॥ वह्निना दग्धपापस्तु विष्णुलोके महीयते । पौषशुक्लप्रतिपदि भानुमभ्यर्च्य भक्तितः ॥ १,११०.४० ॥ एकभक्तव्रतो मर्त्यो भानुलोकमवाप्नुयात् । माघशुक्लाद्यदिवसे वह्निं साक्षान्महेश्वरम् ॥ १,११०.४१ ॥ समभ्यच्य विधानेन समृद्धो जायते भुवि । अथ फआल्गुनशुक्लादौ देवदेवं दिगंबरम् ॥ १,११०.४२ ॥ धूलिधूसरसर्वाङ्गं जलैरुक्षेत्समन्ततः । कर्मणा लौकिकेनापि संतुष्टो हि महेश्वरः ॥ १,११०.४३ ॥ स्वसायुज्यं प्रदिशति भक्त्या सम्यक्समर्चितः । वैशाखे तु सिताद्यायां विष्णुं विश्वविहारिणम् ॥ १,११०.४४ ॥ समभ्यर्च्य विधानेन विप्रान्संभोजयेद्वती । एवं शुचिसिताद्यायां ब्रह्माणं जगतां गुरुम् ॥ १,११०.४५ ॥ विष्णुना सहितो ब्रह्मा सर्वलोकेश्वरेश्वरः । स्वसायुज्यं प्रदिशति सर्वसिद्धिमवाप्नुयात् ॥ १,११०.४६ ॥ आसु द्वादशमासानां प्रतिपत्सु द्विजोत्तम । व्रतानि तुभ्यं प्रोक्तानि भुक्तिमुक्तिप्रदानि च ॥ १,११०.४७ ॥ व्रतेष्वेतेषु सर्वेषु ब्रह्मचर्यं विधीयते । भोजने तु हविष्यान्नं सामान्यत उदाहृतम् ॥ १,११०.४८ ॥ इति श्रीबृहन्ननारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासप्रतिपद्व्रतनिरूपणं नाम दशोत्तरशततमोऽध्यायः _____________________________________________________________ सनातन उवाच शृणु विप्र प्रवक्ष्यामि द्वितीयाया व्रतानि ते । यानि कृत्वा नरो भक्त्या ब्रह्मलोके महीयते ॥ १,१११.१ ॥ चैत्रशुक्लद्वितीयायां ब्रह्मणं च सशक्तिकम् । हविष्यान्नेन गन्धाद्यैः स्तोष्य सर्वक्रतूद्भवम् ॥ १,१११.२ ॥ फलं लब्ध्वाखिलान्कामानन्ते ब्रह्मपदं लभेत् । अस्मिन्नेव दिने विप्र बालेन्दुमुदितं परे ॥ १,१११.३ ॥ समभ्यर्च्य निशारंभे भुक्तिमुक्तिफलं भवेत् । अथ वास्मिन्दिने भक्त्या दस्रावभ्यर्च्य यत्नतः ॥ १,१११.४ ॥ सुवर्णरजते नेत्रे प्रदद्याच्च द्विजातये । पूर्णयात्राव्रते ह्यस्मिन्दध्ना वापि घृतेन च ॥ १,१११.५ ॥ नेत्रव्रतं द्वादश वत्सरान्वै कृत्या भवेद्भूमिपतिर्द्विजेन्द्र । सुरूपरूपोऽरिगणप्रतापी धर्माभिरामो नृपवर्गमुख्यः ॥ १,१११.६ ॥ राधशुक्लद्वितीयायां ब्रह्मणं विष्णुरूपिणम् । समर्च्य सप्तधान्यान्याढ्यकुंभोपरि विधानतः ॥ १,१११.७ ॥ विष्णुलोकमवाप्नोति भुक्त्वा भोगान्मनोरमान् । ज्येष्ठशुक्लद्वितीयायां भास्करं भुवनाधिपम् ॥ १,१११.८ ॥ चतुवक्त्रस्वरूपं च समभ्यर्च्य विधानतः । भोजयित्वा द्विजान् भक्त्या भास्करं लोकमाप्नुयात् ॥ १,१११.९ ॥ आषाढस्य सिते पक्षे द्वितीया पुण्यसंयुता । तस्यां रथं समारोप्य रामं सह सुभद्रया ॥ १,१११.१० ॥ द्विजादिभिर्व्रती सार्धं परिक्रम्य पुरादिकम् । जलाशयान्तिकं गत्वा कारयेच्च महोत्सवम् ॥ १,१११.११ ॥ तदन्ते देवभवने निवेश्य च यथाविधि । ब्राह्मणान्भोजयेच्चैव व्रतस्यास्य प्रपूर्तये ॥ १,१११.१२ ॥ नभः शुक्लद्वितीयायां विश्वकर्मा प्रजापतिः । स्वपितीति तिथिः पुण्या ह्यशोकशयनाह्वया ॥ १,१११.१३ ॥ सशक्तिक तु शय्यास्थं पूजयित्वा चतुर्मुखम् । इममुच्चारयेन्मन्त्रं प्रणम्य जगतां पतिम् ॥ १,१११.१४ ॥ श्रीवत्सधारिञ्छ्रीकान्त श्रीवास श्रीपते प्रभो । गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामद ॥ १,१११.१५ ॥ चन्द्रार्द्धदानमत्रोक्तं सर्वसिद्धिविधायकम् । भाद्रशुक्लद्वितीयायां शक्ररूपं जगद्विधिम् ॥ १,१११.१६ ॥ पूजयित्वा विधानेनन सर्वक्रतुफलं लभेत् । आश्विने मासि वै पुण्या द्वितीया शुक्लपक्षगा ॥ १,१११.१७ ॥ दानं प्रदत्तमेतस्यामनन्तफलमुच्यते । ऊर्ज्जशुक्लद्वितीयायां यमो यमुनया पुरा ॥ १,१११.१८ ॥ भोजितः स्वगृहे तेन द्वितीयैषा यमाह्वया । पुष्टिप्रवर्द्धनं चात्र भगिन्या भोजनं गृहे ॥ १,१११.१९ ॥ वस्त्रालङ्कारपूर्वं तु तस्मै देयमतः परम् ॥ १,१११.२० ॥ यस्यां तिथौ यमुनया यमराजदेवः संभोजितो निजकरात्स्वसृसौहृदेन । तस्यां स्वसुः करतलादिह यो भुनक्ति प्राप्नोति रत्नधनधान्यमनुत्तमं सः ॥ १,१११.२१ ॥ मार्गशुक्लद्वितीयायां श्राद्धेन पितृपूजनम् । आरोग्यं लभते चापि पुत्रपौत्रसमन्वयः ॥ १,१११.२२ ॥ पौषशुक्लद्वितीयायां गोशृङ्गोदकमार्जनम् । सर्वकामप्रदं नॄणामास्ते बालेन्दुदर्शनम् ॥ १,१११.२३ ॥ योर्ऽघ्यदानेन बालेन्दुं हविष्याशी जितेन्द्रियः । पूजयेत्साज्यसुमनेधर्मकामार्थसिद्धये ॥ १,१११.२४ ॥ माघशुक्लद्वितीयायां भानुरूपं प्रजापतिम् । समभ्यर्च्य यथान्यायं पूजयेद्रक्तपुष्पकैः ॥ १,१११.२५ ॥ रक्तैर्गंवैस्तथा स्वर्णमूर्तिं निर्माय शक्तितः । ततः पूर्णं ताम्रपात्रं गाघृमैर्वापितण्डुलैः ॥ १,१११.२६ ॥ समर्प्य देवे भक्त्यैव स मूर्तिं प्रददेद्द्विजे । एवं कृते व्रते विप्र साक्षात्सूर्य इवोदितः ॥ १,१११.२७ ॥ दुरासदो दुराधर्षो जायते भुविमानवः । इह कामान्वराम्भुक्त्वा यात्यन्ते ब्रह्मणः पदम् ॥ १,१११.२८ ॥ सर्वदेवस्तुतोऽभीक्ष्णं विमानवरमास्थितः । अथ फआल्गुनशुक्लाया द्वितीयायां द्विजोत्तमः ॥ १,१११.२९ ॥ पुष्पैः शिवं समभ्यर्च्य सुश्वेतैश्च सुगन्धिभः । पुष्पैर्वितानकं कृत्वा पुष्पालङ्करणैः शुभैः ॥ १,१११.३० ॥ नैवेद्यैर्विविधैर्धूपैर्दीपर्नीराजनादिभिः । प्रसाद्य प्रणमेच्चैव साष्टाङ्गं पतितो भुवि ॥ १,१११.३१ ॥ एवमभ्यर्च्य देवेशं मर्त्यो व्याधिविवर्जितः । धनधान्यसमायुक्तो जीवेद्विर्षशतं ध्रुवम् ॥ १,१११.३२ ॥ यद्विधानं द्वितीयासु शुक्लपक्षगतासु वा । प्रोक्तं तदेव कृष्णासु कर्त्तव्यं विधिकोविदैः ॥ १,१११.३३ ॥ वह्निरेव पृथङ्माःसु नानारूपवपुर्द्धरः । पूज्यते हि द्वितीयासु ब्रह्मचर्य्यादि पूर्ववत् ॥ १,१११.३४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासद्वितीयाव्रतनिरूपणं नामैकादशाधिकशततमोऽध्यायः _____________________________________________________________ सनातन उवाच शृणु नारद वक्ष्यामि तृतीयाया व्रतानि ते । यानि सम्यग्विधायाशु नारी सौभाग्यमाप्नुयात् ॥ १,११२.१ ॥ चैत्रशुक्लतृतीयायां गौरीं कृत्वा सभर्तृकाम् । सौवर्णा राजतीं वापि ताम्नीं वा मृण्ययीं द्विज ॥ १,११२.२ ॥ अभ्यर्च्य गन्धपुष्पाद्यैर्वस्त्रैराभरणैः शुभैः । दूर्वाकाण्डैश्च विधिवत्सोपवासा तु कन्यका ॥ १,११२.३ ॥ वरार्थिनी च सौभाग्यपुत्रभर्त्रर्थिनी तथा । द्विजभार्या भर्तृमतीः कन्यकां वा सुलक्षणाः ॥ १,११२.४ ॥ सिंदूराञ्जनवस्त्राद्यैः प्रतोष्य प्रीतमानसा । रात्रौ जागरणं कुर्याद्व्रतसंपूर्तिकाम्यया ॥ १,११२.५ ॥ ततस्तां प्रतिमां विप्र गुरवे प्रतिपादयेत् । धातुजां मृन्मयीं वा तु निक्षिपेच्च जलाशये ॥ १,११२.६ ॥ एवं द्वादशवर्षाणि कृत्वा गौरीव्रतं शुभम् । धेनुद्वादशसंकल्पं दद्यादुत्सर्गसिद्धये ॥ १,११२.७ ॥ किमत्र बहुनोक्तेन गौरी सौभाग्यदायिनी । स्त्रीणां यथा तथा नान्या विद्यते भुवनत्रये ॥ १,११२.८ ॥ धनं पुत्रान्पतिं विद्यामाज्ञासिद्धिं यशः सुखम् । लभते सर्वमेवेष्टं गौरीमभ्यर्च्य भक्तितः ॥ १,११२.९ ॥ राधशुक्लतृतीया या साक्षया परिकीर्तिता । तिथिस्त्रोतायुगाद्या सा कृतस्याक्षयकारिणी ॥ १,११२.१० ॥ द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः । शुक्ले पूर्वाह्निके ग्राह्ये कृष्णे चैव तपस्तथ ॥ १,११२.११ ॥ द्वापरं हि कलिर्भाद्रे प्रवृत्तानि युगानि वै । तत्र राधतृतीयायां श्रीसमेतं जगद्गुरुम् ॥ १,११२.१२ ॥ नारायणं समभ्यर्चेत्पुष्पधूपविलेपनैः । यद्वा गङ्गांभसि स्नातो मुच्यते सर्वकिल्बिषैः ॥ १,११२.१३ ॥ अक्षत्नैः पूजयेद्विष्णुं स्नायादप्यक्षतैर्नरः । सक्तून्संभोजयेद्विप्रान्स्वयमभ्यवहरेच्च तान् ॥ १,११२.१४ ॥ एवं कृतविधिर्विप्र नरो विष्णुपरायणः । विष्णुलोकमवाप्नोति सर्वदेवनमस्कृतः ॥ १,११२.१५ ॥ अथ ज्येष्ठतृतीया तु शुक्ला रंभेति नामतः । तस्यां सभार्यं विधिवत्पूजयेद्वाह्मणोत्तमम् ॥ १,११२.१६ ॥ गन्धपुष्पांशुकाद्यैस्तु नारी सौभाग्यकाम्यया । रंभाव्रतमिदं विप्र विधिवत्समुपाश्रितम् ॥ १,११२.१७ ॥ ददाति वित्तं पुत्रांश्च मतिं धर्मे शुभावहाम् । अथाषाढतृतीयायां शुक्लायां शुक्लवाससा ॥ १,११२.१८ ॥ केशवं तु सलक्ष्मीकं सस्त्रीके तु द्विजेर्ऽचयेत् । भोजनैः सुरभीदानैर्वस्त्रैश्चापि विभूषणैः ॥ १,११२.१९ ॥ प्रियेर्वाक्यैर्भृशं प्रीता नारी सौभाग्यवाञ्छया । समुपास्य व्रतं चैतद्धनधान्यसमन्विता ॥ १,११२.२० ॥ देवदेवप्रसादेन विष्णुलोकमवाप्नुयात् । नभः शुक्लतृतीयायां स्वर्णगौरीव्रतं चरेत् ॥ १,११२.२१ ॥ उपचारैः षोडशभिर्भवानीमभिपूजयेत् । पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते ॥ १,११२.२२ ॥ अन्यांश्च सर्वकामान्मे देहि देहि नमोऽस्तु ते । एवं संप्रार्थ्य देवेशीं भवानीं भवसंयुताम् ॥ १,११२.२३ ॥ व्रतसंपूर्तिकामा तु वायनं दापयेत्तथा । एवं षोडशवर्षाणि कृत्वा नारी व्रतं शुभम् ॥ १,११२.२४ ॥ उद्यापनं चरेद्भक्त्या वित्तशाठ्यविवर्जिता । मण्डपे मण्डले शुद्धे गणेशादिसुरार्चनम् ॥ १,११२.२५ ॥ कृत्वा ताम्रमयं पात्रं कलशोपरिविन्यसेत् । सौवर्णीं प्रतिमां तत्र भवान्याः प्रतिपूजयेत् ॥ १,११२.२६ ॥ गन्धपुष्पादिभिः सम्यक्ततो होमं समाचरेत् । वेणुपात्रैः षोडशभिः पक्वान्नपरिपूरितैः ॥ १,११२.२७ ॥ समर्प्य देव्यै नैवेद्यं द्विजेष्वेतन्निवेदयेत् । वायनं च ततः पश्चाद्दद्यात्संबन्धिबन्धुषु ॥ १,११२.२८ ॥ प्रतिमां गुरवे दत्त्वा द्विजेभ्यो दक्षिणां तथा । पूर्णं लभेत्फलं नारी व्रताचरणतत्परा ॥ १,११२.२९ ॥ भाद्रशुक्लतृतीयायां व्रतं वै हारितालकम् । कुर्याद्भक्त्या विधानेन पाद्यार्ध्यार्चन पूर्वकम् ॥ १,११२.३० ॥ ततस्तु काञ्चने पात्रे राजते चापि ताम्रके । वैणवे मृन्मये वापि विन्यस्यान्नं सदक्षिणम् ॥ १,११२.३१ ॥ सफलं च सवस्त्रं च द्विजाय प्रतिपादयेत् । तदन्ते पारणं कुर्यादिष्टबन्धुजनैः सह ॥ १,११२.३२ ॥ एवं कृतव्रता नारी भुक्त्वा भोगान्मनोरमान् । व्रतस्यास्य प्रभावेण गौरीसहचरीभवेत् ॥ १,११२.३३ ॥ सौभाग्यद्रव्यवस्त्राणि वंशपात्राणि षोडश । दातव्यानि प्रयत्नेन ब्राह्मणेभ्यो यथाविधि ॥ १,११२.३४ ॥ अन्येभ्यो विप्रवर्येभ्यो दक्षिणां च प्रयत्नतः । भूयसीं च ततो दद्याद्विप्रेभ्यो देवितुष्टये ॥ १,११२.३५ ॥ एवं या कुरुते नारी व्रतं सौभाग्यवर्द्धनम् । सा तु देवीप्रसादेन सौभाग्यं लभते ध्रुवम् ॥ १,११२.३६ ॥ यदा तृतीया भाद्रे तु हस्तर्क्षसहिता भवेत् । हस्तगौरीव्रतं नाम तदुद्दिष्टं हि शौरिणा ॥ १,११२.३७ ॥ तथा कोटीश्वरी नाम व्रतं प्रोक्तं पिनाकिना । लक्षेश्वरी चैव तथा तद्विधानमुदीर्यते ॥ १,११२.३८ ॥ अस्यां व्रतं तु संग्राह्यं यावद्वर्षचतुष्टयम् । उपवासेन कर्तव्यं वर्षे वर्षे तु नारद ॥ १,११२.३९ ॥ अखण्डानां तण्डुलानां तिलानां वा मुनीस्वर । लक्षमेकं विशोध्याथ क्षिपेत्पयसि संसृते ॥ १,११२.४० ॥ तत्पक्केन तु निर्माय देव्या मूर्तिं सुशोमनाम् । प्रकरे गन्धपुष्पाणां पुष्पमालाविभूषिताम् ॥ १,११२.४१ ॥ संस्थाप्य पार्वतीं तत्र पूजयेद्भक्तिभावितः । गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यविस्तरैः ॥ १,११२.४२ ॥ विविधैश्च फलैर्विप्र नमस्कृत्य क्षमापयेत् । ततो विसर्जयद्देवीं जलमध्येऽथ दक्षिणाम् ॥ १,११२.४३ ॥ दत्त्वा विधिज्ञविप्रेभ्यो भुञ्जीयाच्च परे दिने । इति ते कथितं विप्र कोटिलक्षेश्वरीव्रतम् ॥ १,११२.४४ ॥ गौरीलोकं प्रयात्यन्ते व्रतस्यास्य प्रभावतः । इषशुक्लतृतीयायां बृबद्गौरीव्रतं चरेत् ॥ १,११२.४५ ॥ पञ्चवर्षं विधानेन पूर्वोक्तेनैव नारद । आचार्यं पूजयेदन्ते विप्रानन्यान्धनादिभिः ॥ १,११२.४६ ॥ सुवासिनीः पञ्च पूज्या वस्त्रालङ्कारचन्दनैः । कञ्चुकैश्चैव ताटङ्कैः कण्ठसूत्रैर्हरिप्रियाः ॥ १,११२.४७ ॥ वंशपात्राणि पञ्चैव सूत्रैः संवेष्टितानि च । सिंदूरं जीरकं चैव सौभाग्यद्रव्यसंयुतम् ॥ १,११२.४८ ॥ गोधीमपिष्टजातं च नवापूपं फला दिकम् । वायनानि च पञ्चैव ताभ्यो दद्याच्च भोजयेत् ॥ १,११२.४९ ॥ अर्घं दत्त्वा वायनानि पश्चाद्भुञ्जीत वाग्यता । तत्फलं धारयेत्कण्ठे सर्वकामसमृद्धये ॥ १,११२.५० ॥ ततः प्रातः समुत्थाय सालङ्कारा सखीजनैः । गीतवाद्ययुता नद्यां गौरीं तां तु विसर्जयेत् ॥ १,११२.५१ ॥ आहूतासि मयाभद्रे पूजिता च यथा विधि । मम सौभाग्यदानाय यथेष्टं गम्यतां त्वया ॥ १,११२.५२ ॥ एवं कृत्वा व्रतं भक्त्या द्विज देवीप्रसादतः । भुक्त्वा भोगांस्तु देहान्ते गौरीलोकमवाप्नुयात् ॥ १,११२.५३ ॥ ऊर्जशुक्लतृतीयायां विष्णुगौरीव्रतं चरेत् । पूजयित्वा जगद्वन्द्यामुपचारैः पृथग्विधैः ॥ १,११२.५४ ॥ सुवासिनीं भोजयित्वा मङ्गलद्रव्यपूजिताम् । विसर्जयेत्प्रणम्यैनां विष्णुगौरीप्रतुष्टये ॥ १,११२.५५ ॥ मार्गशुक्लतृतीयायां हरगौरीव्रतं शुभम् । कृत्वा पूर्वविधानेन पूजयेज्जगदंबिकाम् ॥ १,११२.५६ ॥ एतद्व्रतप्रभावेण भुक्त्वा भोगान्मनोरमान् । देवीलोकं समासाद्य मोदते च तया सह ॥ १,११२.५७ ॥ पौषशुक्लतृतीयायां ब्रह्मगौरीव्रतं चरेत् । पूर्वोक्तेन विधानेन पूजितापि द्विजोत्तम ॥ १,११२.५८ ॥ ब्रह्मगौरीप्रसादेन मोदते तत्र संगता । माघशुक्लतृतीयायां पूज्या सौभाग्यसुंदरी ॥ १,११२.५९ ॥ पूर्वोक्तेन विधानेन नालिकेरार्घ्यदानतः । प्रसन्ना दिशति स्वीयं लोकं तु व्रततोषिता ॥ १,११२.६० ॥ फआल्गुनस्य सिते पक्षे तृतीया कुलसौख्यदा । पूजिता गन्धपुष्पाद्यैः सर्वमङ्गलदा भवेत् ॥ १,११२.६१ ॥ सर्वासु च तृतीयासु विधिः साधारणो मुने । देवीपूजा विप्रपूजा दानं होमो विसर्जनम् ॥ १,११२.६२ ॥ इत्येवं कथितानीह तृतीयाया व्रतानि ते । भक्त्या कृतानि चेष्टांस्तु कामान्दर्द्युमनोगतान् ॥ १,११२.६३ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासतृतीयाव्रतकथनं नाम द्वादशाधिकशततमोऽध्यायः _____________________________________________________________ सनातन उवाच शृणु विप्रं प्रवक्ष्यामि चतुर्थ्यास्ते व्रतान्यहम् । यानि कृत्वा नरा नार्योऽभीष्टान्कामानवाप्नुयुः ॥ १,११३.१ ॥ चैत्रमासचतुर्थ्यां तु वासुदेवस्वरूपिणम् । गणपं सम्यगभ्यर्च्य दत्त्वा काञ्चनदक्षिणाम् ॥ १,११३.२ ॥ विप्राय विष्णुलोकं तु गच्छेद्देवनमस्कृतः । वैशाखस्य चतुर्थ्यां तु प्रार्थ्यं संकर्षणाह्वयम् ॥ १,११३.३ ॥ गृहस्थद्विजमुख्येभ्यः शङ्खं दत्त्वा विधानवित् । प्राप्य संकर्षणं लोकं मोदते बहुकल्पकम् ॥ १,११३.४ ॥ ज्येष्ठमासचतुर्थ्यां तु प्रार्च्य प्रद्युम्नरूपिणम् । फलं मूलं च युथेभ्यो दत्त्वा स्वर्गं लभेन्नरः ॥ १,११३.५ ॥ आषाढस्य चतुर्थ्यां तु संप्रपूज्यानिरुद्धकम् । यतिभ्योऽलाबुपात्राणि दत्त्वाभीष्टं लभेन्नरः ॥ १,११३.६ ॥ चतुर्मूर्तिव्रतान्येवं कृत्वा द्वादशवत्सरम् । उद्यापनं विधानेन कर्तव्यं फलमिच्छता ॥ १,११३.७ ॥ अन्यज्ज्येष्ठचतुर्थ्यां तु सतीव्रतमनुत्तमम् । कृत्वा गणपतेर्मातुर्लोके मोदेत तत्समम् ॥ १,११३.८ ॥ तथाऽषाढचतुर्थ्यां तु व्रतमन्यच्छुभावहम् । रथन्तराह्वकल्पस्य ह्यादिभूतं दिनं यतः ॥ १,११३.९ ॥ श्रद्धापूतेन मनसा गणेशं विधिना नरः । पूजयित्वा लभेच्चापि फलं देवादिदुर्गमम् ॥ १,११३.१० ॥ श्रावणस्य चतुर्थ्यां तु जाति चन्द्रोदये मुने ॥ १,११३.११ ॥ गणेशाय प्रदद्याच्च ह्यर्घ्यं विधिविदांवरः । लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तवर्णकम् ॥ १,११३.१२ ॥ नानारत्नविभूषाढ्यं प्रसन्नास्यं विचिन्तयेत् । आवाहनादिभिः सर्वैरुपचारैः समर्चयेत् ॥ १,११३.१३ ॥ नैवेद्यं मोदकं दद्याद्गणेशप्रीतिदायकम् । एवं व्रतं विधायाथ भुक्त्वा मोदकमेव च ॥ १,११३.१४ ॥ सुखं स्वप्यान्निशायां तु भूमावेव कृतार्चनः । व्रतस्यास्य प्रभावेण कामान्मनसि चिन्तितान् ॥ १,११३.१५ ॥ लब्ध्वा लेके परं चापि गणेशपदमाप्नुयात् । नानेन सदृशं चान्यद्व्रतमस्ति जगत्त्रये ॥ १,११३.१६ ॥ तस्मात्कार्यं प्रयत्नेन सर्वान्कामानभीप्सता । अथास्मिन्नेव दिवसे दूर्वागणपति व्रतम् ॥ १,११३.१७ ॥ केचिदिच्छन्ति देवर्षे तद्विधानं वदामि ते । हैमं निर्माय गणपं ताम्रपात्रोपरि स्थितम् ॥ १,११३.१८ ॥ वेष्टितं रक्तवस्त्रेण सर्वतोभद्रमण्डले । पूजयेद्रक्तकुसुमैः पत्रिकाभिश्च पञ्चभिः ॥ १,११३.१९ ॥ बिल्वपत्रमपामार्गं शमी दूर्वा हरिप्रिया । आभिरन्यश्च कुसुमैरभ्यर्च्य फलमोदकैः ॥ १,११३.२० ॥ आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेत् । उपहारं प्रकल्प्याथ दद्यादर्घं समुद्यते । ततः संप्रारथ्य विघ्नेशमूर्तिं सोपस्करां मुने ॥ १,११३.२१ ॥ आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेत् । कृत्वैवं पञ्च वर्षाणि समुपास्य यथाविधि ॥ १,११३.२२ ॥ भुक्त्वेह भोगानखिलान् लोकं गणपतेर्व्रजेत् । अथ भाद्रचतुर्थ्यां तु बहुलाधेनुसंज्ञकम् ॥ १,११३.२३ ॥ पूजनी योऽत्र यत्नेन स्रग्गन्धयवसादिभिः । ततः प्रदक्षिणीकृत्य शक्तश्चेद्दानमाचरेत् ॥ १,११३.२४ ॥ अशक्तः पुरेतां तु नमस्कृत्य विसर्जयेत् । पञ्चाब्दं वादशाब्दं वा षोडशाब्दमथापि वा ॥ १,११३.२५ ॥ व्रतं कृत्वा समुद्याप्य धेनुं दद्यात्पयस्विनीम् । प्रभावेण व्रतस्यास्य भुक्त्वा भोगान्मनोरमान् ॥ १,११३.२६ ॥ सत्कृतो देवतावृन्दैर्गोलोकं समवाप्नुयात् । अथ शुक्ल चतुर्थ्यां तु सिद्धवैनायकव्रतम् ॥ १,११३.२७ ॥ आवाहनादिभिः सर्वैरुपचारैः समर्चनम् । एकाग्रमानसो भूत्वा ध्यायेत्सिद्धिविनायकम् ॥ १,११३.२८ ॥ एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् । पाशाङ्कुशधरं देवं तप्तकाञ्चनसन्निभम् ॥ १,११३.२९ ॥ एकविंशति पत्राणि चैकविंशतिनामभिः । समर्पयेद्भक्तियुक्तस्तानि नामानि वै शृणु ॥ १,११३.३० ॥ सुमुखाय शमीपत्रं गणाधीशाय भृङ्गजम् । उमापुत्राय बैल्वं तु दूर्वां गजमुखाय च ॥ १,११३.३१ ॥ लंबोदराय बदरीं धत्तूरं हरसूनवे । शूर्पकर्णाय तुलसीं वक्रतुण्डाय शिंबिजम् ॥ १,११३.३२ ॥ गुहाग्रजायापामार्गमेकदन्ताय बार्हतम् । हेरम्बाय तु सिंदूरं चतिर्हेत्रे च पत्रजम् ॥ १,११३.३३ ॥ सर्वेश्वरायागस्त्यस्य पत्रं प्रीतिविवर्द्धनम् । दूर्वायुग्मं ततो गृह्य गन्धपुष्पाक्षतैर्युतम् ॥ १,११३.३४ ॥ पूजां निवेदयेद्भक्तियुक्तो मोदकपञ्चकम् । आचमय्य नमस्कृत्य संप्रार्थ्य च विसर्ज्जयेत् ॥ १,११३.३५ ॥ विनायकस्य प्रतिमां हैमीं सोपस्करां मुने । निवेदयेच्च गुरवे द्विजेभ्यो दक्षिणां ददेत् ॥ १,११३.३६ ॥ एवं कृतार्चनो भक्त्या पञ्च वर्षाणि नारद । उपास्य लभते कामानैहिकामुष्मिकान् शुभान् ॥ १,११३.३७ ॥ अस्यां चतुर्थ्यां शशिनं न पश्येच्च कदाचन । पश्यन्मिथ्याभिशाप तु लभते नात्र संशयः । अथ तद्दोषनाशाय मन्त्रं पौराणिकं पठेत् ॥ १,११३.३८ ॥ सिंहः प्रसेनममधीत्सिंहो जांबवता हतः । सकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ १,११३.३९ ॥ इषशुक्लचतुर्थ्यां तु कपर्द्दीशं विनायकम् ॥ १,११३.४० ॥ पौरुषिण तु सूक्तेन पूजयेदुपचारकैः । अकारणान्मुष्टिगतांस्तण्डुलान्सकपर्द्दिकान् ॥ १,११३.४१ ॥ विप्राय बटवे दद्याद्गन्धपुष्पार्चिताय च । तण्डुला वैश्वदैवत्या हरदैवत्यमिश्रिताः ॥ १,११३.४२ ॥ कपर्दिगणनाथोऽसौ प्रीयतां तैः समर्पितैः । चतुर्थ्यां कार्तिके कृष्णे करकाख्यं व्रतं स्मृतम् ॥ १,११३.४३ ॥ स्त्रीणामेवाधिकारोऽत्र तद्विधानमुदीर्यते । पूजयेच्च गणाधीशं स्नाता स्त्रीसमलङ्कृता ॥ १,११३.४४ ॥ तदग्रे पूर्णपक्वान्नं विन्यसेत्करकान्दश । समर्प्य देवदेवाय भक्त्या प्रयतमानसा ॥ १,११३.४५ ॥ देवो मे प्रीयतामेवमुच्चार्य्याथ समर्पयेत् । सुवासिनीभ्यो विप्रेभ्यो यथाकामं च सादरम् ॥ १,११३.४६ ॥ ततश्चन्द्रोदये रात्रौ दत्त्वार्घं विधिपूर्वकम् । भुञ्जीत मिष्टमन्नं च व्रतस्य परिपूर्तये ॥ १,११३.४७ ॥ यद्वा क्षीरेण करकं पूर्णं तोयेन वा मुने । सपूगाक्षतरत्नाढ्यं द्विजाय प्रतिपादयेत् ॥ १,११३.४८ ॥ एतत्कृत्वा व्रतं नारी षोडशद्वादशाब्दकम् । उपायनं विधायाथ व्रतमेतद्विसर्ज्जयेत् ॥ १,११३.४९ ॥ यावज्जीवं तु वा नार्या कार्य्यं सौभाग्यवाञ्छया । व्रतेनानेन सदृशं स्त्रीणां सौभाग्यदायकम् ॥ १,११३.५० ॥ विद्यते भुवनेष्वन्यत्तस्मान्नित्यमिति स्थितिः । ऊर्ज्जशुक्लचतुर्थ्यां तु नागव्रतमुदाहृतम् ॥ १,११३.५१ ॥ प्रातर्व्रतं तु संकल्प्य धेनुशृञ्जगलं शुचि । पीत्वा स्नात्वाथ मध्याह्ने शङ्खपालादिपन्नगान् ॥ १,११३.५२ ॥ शेषं चाह्वामपूर्वैस्तु पूजयेदुपचारकैः । क्षीरेणाप्यायनं कुर्यादेतन्नागव्रतं स्मृतम् ॥ १,११३.५३ ॥ एवङ्कृते तु विप्रेन्द्र नृभिर्नागव्रते शुभे । विषाणि नश्यन्त्यचिरान्न दशन्ति च पन्नगाः ॥ १,११३.५४ ॥ मार्गशुक्लचतुर्थ्यां तु वर्षं यावन्मुनीश्वरा । क्षपयेदेकभक्तेन नक्तेनाथ द्वितीयकम् ॥ १,११३.५५ ॥ अयाचितोपवासाभ्यां तृतीयकचतुर्थके । एवं क्रमेण विधिवच्चत्वार्यब्दानि मानवः ॥ १,११३.५६ ॥ समाप्य च ततोऽस्यान्ते व्रतस्नातो महाव्रती । कारयेद्धेमघटितं भूगणेर्मूषकं रथम् ॥ १,११३.५७ ॥ अशक्तो वर्णकैरेव शुभ्रं चाब्जं सुपत्रकम् । तस्योपरि घटं स्थाप्य ताम्रपात्रेण संयुतम् ॥ १,११३.५८ ॥ पूरयेत्तण्डलैः शुभ्रैस्तस्योपरि गणेश्वरम् । न्यसेद्वस्त्रयुगाच्छन्नं गन्धाद्यैः पूजयेच्च तम् ॥ १,११३.५९ ॥ नैवेद्यं मोदकं कल्प्यं गणेशः प्रीयतामिति । जागरैर्शीतवाद्याद्यैः पुराणाख्यानकैश्चरेत् ॥ १,११३.६० ॥ प्रभाते विमले स्नात्वा होमं कृत्वा विधानतः ।ऽ तिलव्रीहियवश्वेतसुर्षपाज्यैः सखण्डकैः ॥ १,११३.६१ ॥ गणो गणाधिपश्चैव कूष्माण्डस्त्रिपुरान्तकः । लंबोदरैकदन्तौ च रुक्मदंष्ट्रश्च विघ्नपः ॥ १,११३.६२ ॥ ब्रह्मा यमोऽथ वरुणः सोमसूर्यहुताशनाः । गन्धमादी परमेष्ठीत्येवं षोडशनामभिः ॥ १,११३.६३ ॥ प्रणवाद्यैर्ङेंनमोंऽतैः प्रत्येकं दहने हुनेत् । वक्रतुण्डेति ङेंतेन बर्मान्तेनाष्टयुक्छतम् ॥ १,११३.६४ ॥ ततो व्याहृतिभिः शक्त्या हुत्वा पूर्णाहुतिं चरेत् । दिक्पालान्पूजयित्वा च ब्राह्मणान्भोजयेत्ततः ॥ १,११३.६५ ॥ चतुत्विंशतिसंख्याकान्मोदकैः पायसैस्तथा । सवत्सां गां ततो दद्यादाचार्याय सदक्षिणाम् ॥ १,११३.६६ ॥ अन्योभ्योऽपि यथाशक्ति भूयसीं च ततो ददेत् । प्रणम्य दक्षिणीकृत्य प्रविसृज्य द्विजोत्तमाम् ॥ १,११३.६७ ॥ बन्धुभिः सह भुञ्जीत स्वयं च प्रीतमानसः । एतद्व्रतं नरः कृत्वा भुक्त्वा भोगानिहोत्तमान् ॥ १,११३.६८ ॥ सायुज्यं लभते विष्णोर्गणेशस्य प्रसादतः । केचिद्वरव्रतं नाम प्राहुरेतस्य नारद ॥ १,११३.६९ ॥ विधानमेतदेवापि फलं चापीह तत्समम् । पौषमासचतुर्थ्यां तु विघ्नेशं प्रार्थ्य भक्तितः ॥ १,११३.७० ॥ विप्रैकं भोजयेच्चैवं मोदकैर्दक्षिणां ददेत् । एवं कृते मुने भूयाद्व्रती संपत्तिभाजनम् ॥ १,११३.७१ ॥ माघकृष्णचतुर्थ्यां तु संकष्टव्रतमुच्यते । तत्रोपवासं संकल्प्य व्रती नियमपूर्वकम् ॥ १,११३.७२ ॥ चन्द्रोदयमभिव्याप्य तिष्ठेत्प्रयतमानसः । ततश्चन्द्रोदये प्राप्ते मृन्मयं गणनायकम् ॥ १,११३.७३ ॥ विधाय विन्यसेत्पीठे सायुधं च सवाहनम् । उपचारैः षोडशभिः समभ्यर्च्य विधानतः ॥ १,११३.७४ ॥ मोदकं चापि नैवेद्यं सगुडं तिलकुट्टकम् । ततोर्ऽघ्यं ताम्रजे पात्रे रक्तचन्दनमिश्रितम् ॥ १,११३.७५ ॥ सकुशं च सदूर्वं च पुष्पाक्षतसमन्वितम् । सशमीपत्रदधि च कृत्वा चन्द्राय दापयेत् ॥ १,११३.७६ ॥ गगनार्णवमाणिक्य चन्द्र दाक्षायणीपते । गृहाणार्घ्यं मया दत्तं गणेशप्रतिरूपक ॥ १,११३.७७ ॥ एवं दत्त्वा गणेशाय दिव्यार्घ्यं पापनाशनम् । शक्त्या संभोज्य विप्राग्र्यान्स्वयं भुञ्जीत चाज्ञया ॥ १,११३.७८ ॥ एवं कृत्वा व्रतं विप्र संकष्टाख्यं शूभावहम् । समृद्धो धनधान्यैः स्यान्न च संकष्टमाप्नुयात् ॥ १,११३.७९ ॥ माघशुक्लचतुर्थ्यां तु गौरीव्रतमनुत्तमम् । तस्यां तु गौरी संपूज्या संयुक्ता योगिनीगणैः ॥ १,११३.८० ॥ नरैः स्त्रीभिर्विशेषेण कुन्दपुष्पैः सकुङ्कुमैः । रक्तसूत्रे रक्तपुष्पैस्तथैवालक्तकेन च ॥ १,११३.८१ ॥ धूपैर्दीपंश्च बलिभिः सगुडैनार्द्रकेण च । पयसा पायसेनापि लवणेन च पालकैः ॥ १,११३.८२ ॥ पूज्याश्चाविधवा नार्यस्तथा विप्राः सुशोभनाः । सौभाग्यवृद्धये देयो भोक्तव्यं बन्धुभिः सह ॥ १,११३.८३ ॥ इदं गौरीव्रतं विप्र सौभाग्यारोग्यवर्द्धनम् । प्रतिवर्षं प्रकर्त्तव्यं नारीभिश्च नरैस्तथा ॥ १,११३.८४ ॥ ढुण्ढिव्रतं परैः प्रोक्तं कैश्चित्कुण्डव्रतं स्मृतम् । ललिताव्रतमित्यन्यैः शान्तिव्रतमथापरैः ॥ १,११३.८५ ॥ स्नानं दानं जपो होमः सर्वमस्यां कृतं मुने । भवेत्सह स्रगुणितं प्रसादाद्दन्तिनः सदा ॥ १,११३.८६ ॥ चतुर्थ्यां फआल्गुने मासि ढुण्ढिराजव्रतं शुभम् । तिलषिष्टैर्द्विजान् भोज्य स्वयं चाश्नीत मानवः ॥ १,११३.८७ ॥ गणेशाराधनपरो दानहोमप्रपूजनैः । तिलैरेव कृतैः सिद्धिं प्राप्नुयात्तत्प्रसादतः ॥ १,११३.८८ ॥ सौवर्णं गजवक्त्रं च कृत्वा संपूज्य यत्नतः । द्विजाग्र्याय प्रदातव्यं सर्वसंपत्समृद्धये ॥ १,११३.८९ ॥ यस्मिन्कस्मिन्भवेन्मासि चतुर्थी रविवारयुक् । सांगारका वा विप्रेन्द्र सा विशेषफलप्रदा ॥ १,११३.९० ॥ सर्वासु च चतुर्थीषु शुक्लास्वप्यसितासु च । विघ्नेश एव देवेशः संपूज्यो भक्तितत्परैः ॥ १,११३.९१ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वाद्शनास चतुर्थीव्रतानिरूपणं नाम त्रयोदशाधिकसततमोऽध्यायः _____________________________________________________________ सनातन उवाच शृणु विप्र प्रवक्ष्यामि पञ्चम्यास्ते व्रतान्यहम् । यानि भक्त्या समास्थाय सर्वान्कामानवाप्नुयात् ॥ १,११४.१ ॥ प्रोक्ता मत्स्यजयन्ती तु पञ्चमी मधुशुक्लगा । अस्यां मत्स्यावतारार्चा भक्तैः कार्या महोत्सवा ॥ १,११४.२ ॥ श्रीपञ्चमीति चैषोक्ता तत्र कार्यं श्रियोर्ऽचनम् । गन्धाद्यैरुपचारैस्तु नैवेद्यैः पायसादिभिः ॥ १,११४.३ ॥ यो लक्ष्मीं पूजयेच्चात्र तं वै लक्ष्मीर्न मुञ्चति । पृथ्वीव्रतं तथा चान्द्रं हयगरीवव्रतं तथा ॥ १,११४.४ ॥ कार्यं तत्तद्विधानेन तत्तत्सिद्धिमभीप्सुभिः । अथ वैशाखपञ्चम्यां शेषं चाभ्यर्च्य मानवः ॥ १,११४.५ ॥ सर्वैर्नागगणैर्युक्तमभीष्टं लभते फलम् । तथा ज्येष्ठस्य पञ्चम्यां पितॄनभ्यर्चयेत्सुधीः ॥ १,११४.६ ॥ सर्वकामफलावाप्तिर्भवेद्वै विप्रभोजनैः । अथाषाढस्य पञ्चम्यां वायुं सर्वगतं मुने ॥ १,११४.७ ॥ ग्रामाद्बहिर्विनिर्गत्य धरोपस्थे समास्तितः । ध्वजं च पञ्चवर्णं तु वंशदण्डाग्रसंस्थितम् ॥ १,११४.८ ॥ समुच्छ्रितं निदध्यात्तु कल्पिताब्जे तु मध्यतः । ततस्तन्मूलदेशे तु दिक्षु सर्वासु नारद ॥ १,११४.९ ॥ लोकपालान्समभ्यर्च्य कुर्याद्वायुपरीक्षणम् । प्रथमादिषु यामेषु यो यो वायुः प्रवर्तते ॥ १,११४.१० ॥ तस्मै तस्मै दिगीशाय पूजां सम्यक्प्रकल्पयेत् । एवं स्थित्वा निराहारस्तत्र यामचतुष्टयम् ॥ १,११४.११ ॥ सायमागत्य गेहं स्वं भुक्त्वा स्वल्पं समाहितः । लोकपालान्नमस्कृत्य स्वप्याद्भूमितले शुचौ ॥ १,११४.१२ ॥ यः स्वप्नो जायते तस्यां रात्रौ यामे चतुर्थके । स एव भविता नूनं स्वप्न इत्याह वै शिवः ॥ १,११४.१३ ॥ अशुभे तु समुत्पन्ने शिवपूजापरायणः । सोपवासो नयेदष्टयामं तद्दिनमेव वा ॥ १,११४.१४ ॥ भोजयित्वा द्विजानष्टौ ततः शुभफलं लभेत् । व्रतमेतत्समुदितं शुभाशुभनिदर्शनम् ॥ १,११४.१५ ॥ नृणां सौभाग्यजनकमिह लोके परत्र च । श्रावणे कृष्णपञ्चम्यां व्रतं ह्यन्नसमृद्धिदम् ॥ १,११४.१६ ॥ चतुर्थ्यां दिनशेषे तु सर्वाण्यन्नानि नारद । पृथक्पात्रेषु संस्थाप्य जलैराप्लावयेत्सुधीः ॥ १,११४.१७ ॥ ततो पात्रान्तरे तत्तु निष्कास्यांबु निधापयेत् । प्रातर्भानौ समुदिते पितॄंश्चैव तथा ऋषीन् ॥ १,११४.१८ ॥ देवांश्चाभ्यर्च्य सुस्नातं कृत्वा नैवेद्यमग्रतः । तदन्नं याचकेभ्यस्तु प्रयच्छेत्प्रीतमानसः ॥ १,११४.१९ ॥ सर्वं दिनं क्षिपेदेवं प्रदोषे तु शिवालये । गत्वा संपूजयेद्देवं लिङ्गरूपिणमीश्वरम् ॥ १,११४.२० ॥ गन्धपुष्पादिभिः सम्यक्पूजयित्वा महेश्वरम् । जपेत्पञ्चाक्षरी विद्यां शतं चापि सहस्रकम् ॥ १,११४.२१ ॥ जपं निवेद्य देवाय भवाय भवरूपिणे । स्तुत्वा सर्वैर्वौन्दिकैश्च पौराणैश्चाप्यनाकुलः ॥ १,११४.२२ ॥ प्रार्थयेद्देवमीशानं शश्वत्सर्वान्नसिद्धये । शारदीयानि चान्नानि तथा वासंतिकान्यपि ॥ १,११४.२३ ॥ यानि स्युस्तैः समृद्धोऽहं भूयां जन्मनि जन्मनि । एवं संप्रार्थ्य देवेशं गृहमागत्य वै स्वकम् ॥ १,११४.२४ ॥ दत्वान्नं ब्राह्मणादिभ्यः पक्वं भुञ्जीत वाग्यतः । एतदन्नव्रतं विप्र विधिनाऽचरितं नृभिः ॥ १,११४.२५ ॥ सर्वान्नसंपज्जनकं परलोके गतिप्रदम् । श्रावणे शुक्लपञ्चजम्यां नृभिरास्तिक्यतत्परैः ॥ १,११४.२६ ॥ द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः । गन्धाद्यैः पूजयेत्तांश्च तथेन्द्राणीमनन्तरम् ॥ १,११४.२७ ॥ संपूज्य स्वर्णरूप्यादिदध्यक्षतकुशांबुभिः । गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यसंचयैः ॥ १,११४.२८ ॥ ततः प्रदक्षिणीकृत्य तद्द्रव्यं संप्रणम्य च । संप्रार्थ्य भक्तिभावेन विप्राग्र्येषु समर्पयेत् ॥ १,११४.२९ ॥ यदिदं स्वर्णरौप्यादि द्रव्यं वै विप्रसात्कृतम् । तदनन्तफलं भूयान्मम जन्मनि जन्मनि ॥ १,११४.३० ॥ इत्येवं ददतो द्रव्यं भक्तिभावेन नारद । प्रसन्नः स्याद्धनाध्यक्षः स्वर्णादिकसमृद्धिदः ॥ १,११४.३१ ॥ एतद्व्रतं नरः कृत्वा विप्रान्संभोज्य भक्तितः । पश्चात्स्वयं च भुञ्जीत दारापत्यसुहृद्दृतः ॥ १,११४.३२ ॥ भाद्रे तु कृष्णपञ्चम्यां नागान् क्षीरेण तर्पयेत् ॥ १,११४.३३ ॥ यस्तस्याऽसप्तमं यावत्कुलं सर्पात्सुनिर्भयम् । भाद्रस्य शुक्लपञ्चम्यां पूजयेदृषिसत्तमान् ॥ १,११४.३४ ॥ प्रातर्नद्यादिके स्नात्वा कृत्वा नित्यमतन्द्रितः । गृहमागत्य यत्नेन वेदिकां कारयेन्मृदा ॥ १,११४.३५ ॥ गोमयेनोपलिप्याथ कृत्वा पुष्पोपशोभिताम् । तत्रास्तीर्य कुशान्विप्रऋषीन्सप्त समर्चयेत् ॥ १,११४.३६ ॥ गन्धैश्च विविधैः पुष्पैर्धूपैर्दीपैः सुशोभनेः । कश्यपोऽत्रिर्भरद्वाजौ विश्वामित्रोऽथ गौतमः ॥ १,११४.३७ ॥ जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः । एतैभ्योऽघ्य च विधिवत्कल्पयित्वा प्रदाय च ॥ १,११४.३८ ॥ नैवेद्यं विपचेद्वीमान्श्यामाकाद्यैरकृष्टकैः । तन्निवेद्य विसृज्येमान्स्वयं चाद्यात्तदेव हि ॥ १,११४.३९ ॥ अनेन विधिना सप्त वर्षाणि प्रतिवत्सरम् । कृत्वा व्रतान्ते वरयेदाचार्यान् सप्त वैदिकान् ॥ १,११४.४० ॥ प्रतिमाः सप्तकुर्वीन्त सुवर्णेन स्वशक्तितः । जटिलाः साक्षसूत्राश्च कमण्डलुसमन्विताः ॥ १,११४.४१ ॥ संस्थाप्य कलशेष्वेतांस्ताम्रेषु मृन्मयेषु वा । स्नापयेद्विधि वद्भक्त्या पृथक्पञ्चामृतैरपि ॥ १,११४.४२ ॥ उपचारैः षोडशभिस्ततः संपूज्य भक्तितः । अर्घ्यं दत्वा ततो होमं तिलव्रीहियवादिभिः ॥ १,११४.४३ ॥ ठसहस्तोमाऽइति ऋखा नामनन्त्रैस्तु वा पृथक् । पुण्यैर्मन्त्रैस्तथैवान्यैर्हुत्वा पूर्णाहुतिं चरेत् ॥ १,११४.४४ ॥ ततस्तु सप्त गा दद्याद्वस्त्रालङ्कारसंयुताः । आचार्यं पूजयेज्जैव वस्त्रालङ्कारभूषणैः ॥ १,११४.४५ ॥ अनुज्ञया गुरोः पश्चान्मूर्तीर्विप्रेषु चार्पयेत् । भोजयित्वा तु तान्भक्त्या प्रणिपत्य विसर्जयेत् ॥ १,११४.४६ ॥ ततश्चेष्टैः सहासीनः स्वयं ब्राह्मणशेषितम् । भुङ्क्त्वा वै षड्रसोपेतं प्रमुद्यात्सह बन्धुभिः ॥ १,११४.४७ ॥ एतत्कृत्वा व्रतं गाङ्गं भोगान्भुक्त्वाथ वाञ्छितान् । सप्तर्षीणां प्रसादेन विमानवरगो भवेत् ॥ १,११४.४८ ॥ आश्विने शुक्लपञ्चम्यामुपाङ्गललिताव्रतम् ॥ १,११४.४९ ॥ तस्याः स्वर्णमयीं मूर्तिं शक्त्या निर्माय नारद । उपचारैः षोडशभिः पूजयेत्तां विधानतः ॥ १,११४.५० ॥ पक्वान्नं फलसंयुक्तं सघृतं दक्षिणान्वितम् । द्विजवर्याय दातव्यं व्रतसंपूर्तिहेतवे ॥ १,११४.५१ ॥ "सवाहना शक्तियुता वरदा पूजिता मया । मातर्मामनुगृह्याथ गम्यतां निजमन्दिरम् ॥ १,११४.५२ ॥ कार्तिके शुक्लपञ्चम्यां जयाव्रतमनुत्तमम् । कर्तव्यं पापनाशाय श्रद्धया द्विजसत्तम ॥ १,११४.५३ ॥ पूजयित्वा जयां विप्र यथाविधि समाहितः । उपचारैः षोडशभिस्ततः शुचिरलङ्कृतः ॥ १,११४.५४ ॥ विप्रैकं भोजयेच्चापि तस्मै दत्त्वा च दक्षिणाम् । विसर्जयेत्ततः पश्चात्स्वयं भुञ्जीत वाग्यतः ॥ १,११४.५५ ॥ यस्तु वै भक्तिसंयुक्तः स्नानं कुर्याज्जयादिने । नश्यन्ति तस्य पापानि सिंहाक्रान्ता मृगा यथा ॥ १,११४.५६ ॥ यदश्वमेधावभृथे फलं स्नानेन कीर्तितम् । तत्फलं प्राप्यते विप्रस्नानेनापि जयादिने ॥ १,११४.५७ ॥ अपुत्रो लभते पुत्रं वन्ध्या गभ च विन्दति । रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ १,११४.५८ ॥ मार्गशुक्ले च पञ्चम्यां नागानिष्ट्वा विधानतः । नागेभ्यो ह्यभयं लब्ध्वा मोदते सह बान्धवैः ॥ १,११४.५९ ॥ पौषेऽपि शुक्लपञ्चम्यां सम्पूज्य मधुसूदनम् । लभते बाञ्छितान्कामान्नात्र कार्या विचारणा ॥ १,११४.६० ॥ पञ्चम्यां प्रतिमासे तु शुक्ले कृष्णे च नारद । पितॄणां पूजनं शस्तं नागानां चापि सर्वथा ॥ १,११४.६१ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थपञ्चमीव्रतनिरूपणं नाम चतुर्दशाधिकशततमोऽध्यायः _____________________________________________________________ सनातन उवाच शृणु विप्र प्रवक्ष्यामि षष्ठ्याश्चैव व्रतानि ते । यानि सम्यग्विधायात्र लभघेत्सर्वान्मनोरथान् ॥ १,११५.१ ॥ चैत्रमासे शुक्लषष्ठ्यां कुमारव्रतमुत्तमम् । तत्रेष्ट्वा षण्मुखं देवं नानापूजा विधानतः ॥ १,११५.२ ॥ पुत्रं सर्वगुणोपेतं प्राप्नुयाच्चिरजीविनम् । वैशाखशुक्लषष्ठ्यां च पूजयित्वा च कार्तिकम् ॥ १,११५.३ ॥ लभते मातृजं सौख्यं नात्र कार्या विचारणा । ज्येष्ठमासे शुक्लषष्ठ्यां विधिनेष्ट्वा दिवाकरम् ॥ १,११५.४ ॥ लभते वाञ्छितान्कामांस्तत्प्रसादान्न संशयः । आषाढशुक्लषष्ठ्यां वै स्कन्दव्रतमनुत्तमम् ॥ १,११५.५ ॥ उपोष्य पूजयित्वैनं शिवोमाप्रियमात्मजम् । लभतेऽभीप्सितान्कामान्पुत्रपौत्रादिसंततीः ॥ १,११५.६ ॥ श्रावणे शुक्लषष्ठ्यां तु शरजन्मानमर्चयेत् । उपचारैः षोडशभिर्भक्त्या परमयान्वितः ॥ १,११५.७ ॥ लभतेऽभीप्सितानर्थान्षण्मुखस्य प्रसादतः । भाद्रमासे कृष्णषष्ट्यां ललिताव्रतमुच्यते ॥ १,११५.८ ॥ प्रातः स्नात्वा विधानेन नारी शुक्लाम्बरावृता । शुक्तमाल्ययधरा वापि नद्याः संगमवालुकाम् ॥ १,११५.९ ॥ गृहीत्वा वंशपात्रे तु धृत्वा पिण्डाकृतिं च ताम् । पञ्चधा ललितां तत्र ध्यायेद्वनविलासिनीम् ॥ १,११५.१० ॥ पङ्कजं करवीरं च नेपालीं मालतीं तथा । नीलोत्पलं केतकीं च संगृह्य तगरं तथा ॥ १,११५.११ ॥ एकैकाष्टशतं ग्राह्यमष्टाविंशतिरेव च । अक्षताः कलिका गृह्य ताभिर्देवीं प्रपूजयेत् ॥ १,११५.१२ ॥ प्रार्थयेदग्रतः स्थित्वा देवीं तां गिरिशप्रियाम् । गङ्गाद्वारे कुशावर्त्ते विल्वके नीलपर्वते ॥ १,११५.१३ ॥ स्नात्वा कनखले देवि हररिं लब्धवती पतिम् । ललिते सुभगं देवि सुखसौभाग्यदायिनि ॥ १,११५.१४ ॥ अनतं दहि सौभाग्येमह्यं तुभ्यं नमोऽनमनः । मन्त्रेणानेन कुसुमैश्वंपकस्य सुशोभनैः ॥ १,११५.१५ ॥ अभ्यर्च्य विधिवत्तस्या नवैद्यं पुरतो न्यसेत् । त्रपुषैरपि कूष्माण्डैर्नालिकेरैः सुदाडिमैः ॥ १,११५.१६ ॥ बीजपूरैः सुतुडीरैः कारवल्लैः सचिर्भटैः । फलैस्तत्कालसंभूतैः कृत्वा शोभां तदग्रतः ॥ १,११५.१७ ॥ विरूढधान्याङ्कुरकैः सुदीपावलिभिस्तथा । साद्धै सर्गणकैधूपः सौहालककरञ्जकैः ॥ १,११५.१८ ॥ गुडपुष्पैः कर्णवेष्टडैर्मोदकैरुपमोदकैः । बहुप्रकारैर्नैवेद्यैर्यथा विभवसारतः ॥ १,११५.१९ ॥ एवमभ्यर्च्य विधिवद्रात्रौ जागरणोत्सवम् । गीतवाद्यनटैर्नृत्यैः प्रोक्षणीयैरनेकधा ॥ १,११५.२० ॥ सखीभिः सहिता साध्वी तां रात्रिं प्रसभं नयेत् । न च संमीलयेन्नेत्रे नारीयामचतुष्टयम् ॥ १,११५.२१ ॥ दुर्भगा दुष्कृता वन्ध्या नेत्रसंमीलनाद्भवेत् । एवं जागरणं कृत्वा सप्तम्यां सरितं नयेत् ॥ १,११५.२२ ॥ गन्धपुष्पैस्तथाभ्यर्च्य गीतवाद्यपुरःसरैः । तच्च दद्याद्द्विजेन्द्राय नैवेद्यादि द्विजोत्तम ॥ १,११५.२३ ॥ स्नात्वा गृहं समागत्य हुत्वा वैश्वानरं ततः । देवान्पितॄन्मनुष्यांश्च पूजयित्वा सुवासिनीः ॥ १,११५.२४ ॥ कन्यकाश्चैव संभोज्य ब्राह्मणान्दश पञ्च च । भक्ष्यभोज्यैर्बहुविधैर्दत्वा दानानि भूरिशः ॥ १,११५.२५ ॥ ललिता मेऽस्तु सुप्रीता इत्युक्त्वा तान्विसर्जयेत् । यः कश्चिदाचरेदेतद्व्रतं सौभाग्यदं परम् ॥ १,११५.२६ ॥ नरो वा यदि वा नारी तस्य पुण्यफलं शृणु । यद्व्रतैश्च तपोभिश्च दानैर्वा नियमैरपि ॥ १,११५.२७ ॥ तदेतेनेह लभ्येत किं बहूक्तेन नारद । मृतेरनन्तरं प्राप्य शिवलोकं सनातनम् ॥ १,११५.२८ ॥ मोदते ललितादेव्या शैवे वै सखिवच्चिरम् । नभस्ये मासि या शुक्ला षष्ठी सा चन्दनाह्वया ॥ १,११५.२९ ॥ तस्यां देवीं समभ्यर्च्य लभते तत्सलोकताम् । रोहिणी पातभौमैस्तु संयुता कपिला भवेत् ॥ १,११५.३० ॥ तस्यां रविं समभ्यर्च्य व्रती नियमतत्परः । लभते वाञ्छितान्कामान्भास्करस्य प्रसादतः ॥ १,११५.३१ ॥ अन्नदानं जपो होमं पितृदेवर्षितर्पणम् । सर्वमेवाक्षयं ज्ञेयं कृतं देवर्षिसत्तम ॥ १,११५.३२ ॥ कपिलां धेनुमभ्यर्च्य वस्त्रमाल्यानुले पनैः । प्रदद्याद्वेदविदुषे द्वादशात्मप्रतुष्टये ॥ १,११५.३३ ॥ अथेषुशुक्लषष्ठ्यां तु पूज्या कात्यायनी द्विज । गन्धाद्यैर्मङ्गलद्रव्यैर्नैवेद्यैर्विविधैस्तथा ॥ १,११५.३४ ॥ ततः क्षमाप्य देवेशीं प्रणिपत्य विसर्जयेत् । पूज्यात्र सैकती मूर्तिर्यद्वा द्विजसती मुदा ॥ १,११५.३५ ॥ वस्त्रालङ्करणैर्भव्यैः कात्यायिन्याः प्रतुष्टये । कन्या वरं प्राप्नुयाच्च वाञ्चितं पुत्रमङ्गना ॥ १,११५.३६ ॥ कात्यायिनीप्रसादाद्वै नात्र कार्या विचारणा । कार्तिके शुक्लषष्ठ्यां तु षण्मुखेन महात्मना ॥ १,११५.३७ ॥ देवसेना महाभागा लब्धा सर्वुसुरार्पिता । अतस्तस्यां सुरश्रेष्ठां देवसेनां च षण्मुखम् ॥ १,११५.३८ ॥ संपूज्य निखिलैरेव उपचारैर्मनोहरैः । प्राप्नुयादतुलां सिद्धिं मनोभीष्टां द्विजोत्तम ॥ १,११५.३९ ॥ अत्रैव वह्निपूजोक्तां तां च सम्पक्समाचरेत् । विविधद्रव्यहोमैश्च वह्निपूजापुरः सरम् ॥ १,११५.४० ॥ मार्गशीर्षे शक्लषष्ठ्यां निहतस्तारकासुरः । स्कन्देन सत्कृतिः प्राप्ता ब्रहमाद्यैः परिकल्पिता ॥ १,११५.४१ ॥ ततोऽस्यां पूजयेत्स्कन्दं गन्धपुष्पाक्षतैः फलैः । वस्त्रैराभूषणश्चापि नैवेद्यैर्विविधैस्तथा ॥ १,११५.४२ ॥ रविवारेण संयुक्ता तथा शतभिषान्विता । यदि चेत्सा समुद्दिष्टा चंपाह्वा मुनिसत्तम ॥ १,११५.४३ ॥ तस्यां विश्वेश्वरो देवो द्रष्टव्यः पापनाशनः । पूजनीयो वेदनीयः स्मर्तव्यः सौख्यमिच्छता ॥ १,११५.४४ ॥ स्नानदानादिकं चात्र सर्वमक्षय्यमुच्यते । पौषमासे शुक्लषष्ठ्यां देवो दिनपतिर्द्विज ॥ १,११५.४५ ॥ विष्णुरूपी जगत्त्राता प्रदुर्भूताः सनातनः ॥ १,११५.४६ ॥ स तस्मात्पूजनीयोऽस्यां द्रव्यैर्गन्धपुरस्कृतैः । नैवेद्यैर्वस्त्त्रभूषाद्यैः सर्वसौख्यमभीप्सुभिः ॥ १,११५.४७ ॥ माघमासे सिता षष्ठी वरुणाह्वा स्मृता तु सा । तस्यां वरुणमभ्यर्च्येद्विष्णुरूपं सनातनम् ॥ १,११५.४८ ॥ रक्तैर्गन्धांशुकैः पुष्पैर्नैवेद्यैर्धूपदीपकैः । एवमभ्यर्च्य विधिवद्यद्यच्चाभिलषेन्नरः ॥ १,११५.४९ ॥ तत्तच्च फलतो लब्ध्वा मोदते तत्प्रसादतः । फआल्गुने शुक्लषष्ठ्यां तु देवं पशुपतिं द्विज ॥ १,११५.५० ॥ मृन्मयं विधिना कृत्त्वा पूजयेदुपचारकैः । संस्नाप्य शतरुद्रेण पृथक्पञ्चामृतैर्जलैः ॥ १,११५.५१ ॥ गन्धैरालिप्य सुश्वेतैरक्षतैः श्वेतपुष्पकैः । बिल्वपत्रैश्च धत्तूरकुसुमैश्च फलैस्तथा ॥ १,११५.५२ ॥ सम्पूज्य नानानैवेद्यैर्नीराज्य विधिवत्ततः । क्षमाप्य प्रणिपत्यैनं कैलासाय विसर्जयेत् ॥ १,११५.५३ ॥ एवं कृत शिवार्चस्तु नरो नार्यथवा मुने । इह भुक्त्वा वरान्भोगानन्ते शिवगतिं लभेत् ॥ १,११५.५४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितषष्ठीव्रतनिरूपणं नाम पञ्चदशाधिकशततमोऽध्यायः _____________________________________________________________ सनातन उवाच शृणु नारद वक्ष्यामि सप्तम्यास्ते व्रतान्यहम् । यानि कृत्वा नरो भक्त्या सूर्यसायुज्यमाप्नुयात् ॥ १,११६.१ ॥ चैत्रे तु शुक्लसप्तम्यां बहिः स्नानं समाचरेत् । स्थण्डिले गोमयालिप्ते गौरमृत्तिकयास्तृते ॥ १,११६.२ ॥ लिखित्वाष्टदलं पद्मं कर्णिकायां विभावम् । विन्यसेत्पूर्वपत्रे तु देवौ द्वौ कृतधातुकौ ॥ १,११६.३ ॥ आग्नेयं च न्यसेन्पत्रे गन्धर्वौं कृतकारकौ । दक्षिणे च न्यसेत्पत्रे तथैव राक्षसद्वयम् ॥ १,११६.४ ॥ आकृतौ द्वौ न्यसेत्पत्रे नैरृते मुनिसत्तम । काद्रवेयौ महानागौ पश्चिमे कृतचारकौ ॥ १,११६.५ ॥ वायव्य यातुधानौ द्वौ उत्तरे च ऋषिद्वयम् । ऐशान्ये विन्यसेत्पत्पे ग्रहमेको द्विजोत्तम ॥ १,११६.६ ॥ तेषां संपूजनं कार्यं गन्धमाल्यानुलेपनैः । दीपैर्धूपैः सनैवेद्यैस्तांबूलक्रमुकादिभिः ॥ १,११६.७ ॥ एवं संपूज्य होमं तु घृतेनाष्टशतं चरेत् । सूर्यस्याष्टाष्ट चान्येषां प्रदद्यादाहुतीः क्रमात् ॥ १,११६.८ ॥ नाममन्त्रेण वेद्यां वा ततः पूर्णाहुतिं ददेत् । दक्षिणा च ततो देया द्विजेभ्यः शक्तितो द्विज ॥ १,११६.९ ॥ एतत्कृत्वा विधआनं तु सर्वसौख्यमवाप्नुयात् । देहान्ते मण्डलं भानोर्भत्त्वा गच्छेत्परं पदम् ॥ १,११६.१० ॥ वैशाखशुक्लसप्तम्यां जह्नुना जाह्नवी स्वयम् । क्रोधात्पीता पुनस्त्यक्ता कर्णरन्ध्रात्तु दक्षिणात् ॥ १,११६.११ ॥ तां तत्र पूजयेत्स्नात्वा प्रत्यूषे विमले जले । गन्धपुष्पाक्षताद्यैश्च सर्वैरेवोपचारकैः ॥ १,११६.१२ ॥ ततो घटसहस्रं तु देयं गङ्गाव्रते त्विदम् । भक्त्या कृतं सप्तकुलं नयेत्स्वर्गमसंशयः ॥ १,११६.१३ ॥ कमलव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते । तिलमात्रं तु सौवर्णं विधाय कमलं शुभम् ॥ १,११६.१४ ॥ वस्त्रयुग्मावृतं कृत्वा गन्धधूपादिनार्चयेत् । नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे ॥ १,११६.१५ ॥ दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते । इति संप्रार्थ्य देवेशं सूर्ये चास्तमुपागते ॥ १,११६.१६ ॥ सोदकुंभं तु तत्पद्मं कपिलां च द्विजेर्ऽपयेत् । तद्दिने तूपवस्तव्यं भोक्तव्यं च परेऽहनि ॥ १,११६.१७ ॥ संभोज्य ब्राह्मणान्भक्त्या व्रतसाकल्यमाप्नुयात् । निबव्रतं च तत्रेव तद्विधानं शृणुष्व मे ॥ १,११६.१८ ॥ निंबपत्रैः स्मृता पूजा भास्करस्य द्विजोत्तम । खखोल्कायेति मन्त्रेण प्रणवाद्येन नारद ॥ १,११६.१९ ॥ निंबपत्रं ततोऽश्नीयाच्छयेद्भूमौ च वाग्यतः । द्विजान्परेऽह्नि संभोज्य स्वयं भुञ्जीत बन्धुभिः ॥ १,११६.२० ॥ निंबपत्रव्रतं चैतत्कर्तृआणां सर्वसौख्यदम् । सप्तमी शर्कराख्यैषा प्रोक्ता तच्चापि मे शृणु ॥ १,११६.२१ ॥ अमृतं पिबतो हस्तात्सूर्यस्यामृतबिन्दवः । निष्पेतुर्भुवि चोत्पन्नाः शालिमुद्गयवेक्षवः ॥ १,११६.२२ ॥ शर्करा च ततस्तस्मादिक्षुसारामृतोपमा । इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः ॥ १,११६.२३ ॥ शर्करासप्तमी चैव वाजिमेधपलप्रदा । सर्वदुःखोपशमनी पुत्रसंततिवर्धिनी ॥ १,११६.२४ ॥ अस्यान्तु शर्करादानं शर्कराभोजनं तथा । कर्तव्यं हि प्रयत्नेन व्रतमे तद्रविप्रियम् ॥ १,११६.२५ ॥ यः कुर्यात्पराया भक्त्या स वै सद्गतिमाप्नुयात् । ज्येष्ठे तु शुक्लसप्तम्यां जात इन्द्रो रविः स्वयम् ॥ १,११६.२६ ॥ तं संपूज्य विधानेन सोपवासो जितेन्द्रियः । स्वर्गतिं लभते विप्र देवेन्द्रस्य प्रसादतः ॥ १,११६.२७ ॥ आषाढशुक्लसप्तम्यां विवस्वान्नाम भास्करः । जातस्तं तत्र संप्रार्च्य गन्धपुष्पादिभिः पृथक् ॥ १,११६.२८ ॥ लभते सूर्यसायुज्यं विप्रेन्द्रात्र न संशयः । श्रावणे शुक्लसप्तम्यामव्यङ्गाख्यं व्रतं शुभम् ॥ १,११६.२९ ॥ कार्पासं तु चतुर्हस्तं सार्द्ध वस्त्रं हि गोपतेः ॥। पूजान्ते प्रीतये देयं व्रतमेतच्छुभावहम् ॥ १,११६.३० ॥ यदि चेद्धस्तयुक्तेयं तदा स्यात्पापनाशिनी । अस्यां दानं जपो होमः सर्वं चाक्षय्यतां व्रजेत् ॥ १,११६.३१ ॥ भाद्रे तु शुक्लसप्तम्याममुक्ताभरणव्रतम् । सोमस्य तु महेशस्य पूजनं चात्र कीर्तितम् ॥ १,११६.३२ ॥ गङ्गादिभिः षोडशभिरुपचारैः समर्चनम् । प्रार्थ्य प्रणम्य विसृजेत्सर्वकामसमृद्धये ॥ १,११६.३३ ॥ फलसप्तमिका चेयं तद्विधानमुदीर्यते । नालिकेरं च वृन्ताकं नारङ्गं बीजपूरकम् ॥ १,११६.३४ ॥ कूष्माण्डं बृहतीपूगमिति सप्त फलानि वै । महादेवस्य पुरतो विन्यस्यापरदोरकम् ॥ १,११६.३५ ॥ सप्ततन्तुकृतं सप्तग्रन्थियुक्तं द्विजोत्तम । संपूज्य परया भक्त्या धारयेद्वामके करे ॥ १,११६.३६ ॥ स्त्री नरो दक्षिणे चैव यावद्वर्षं समाप्यते । संभोज्य विप्रान्सप्तैव पायसेन विसृज्यस तान् ॥ १,११६.३७ ॥ स्वयं भुञ्जीत मतिमान् व्रतसंपूर्तिहेतवे । फलानि तानि देयानि सप्तस्वपि द्विजेषु च ॥ १,११६.३८ ॥ एवं तु सप्त वर्षाणि कृत्वोपास्य यथाविधि । सायुज्यं लभते विप्र महादेवस्य तद्व्रती ॥ १,११६.३९ ॥ आश्विने शुक्लपक्षे तु विज्ञेया शुभसप्तमी । तस्यां कृतस्नानपूजो वाचयित्वा द्विजोत्तमान् ॥ १,११६.४० ॥ आरभ्य कपिलाङ्गां च संपूज्य प्रार्थयेत्ततः । त्वामहं दद्मि कल्याणि प्रीयतामर्यमा स्वयम् ॥ १,११६.४१ ॥ पालय त्वं जगत्कत्स्नं यतोऽसि धर्मसम्भवा । इत्युक्त्वा वेदविदुषे दत्त्वा कृत्वा च दक्षिणाम् ॥ १,११६.४२ ॥ नमस्कृत्य स्वयं विप्र विसृजेत्प्राशयेत्वरवयम् । पचगव्यं व्रतं चेत्थं विधाय श्वो द्विजोत्तमान् ॥ १,११६.४३ ॥ भोजयित्वा स्वयं चाद्यात्तदन्नं द्विजशेषितम् । कृतं ह्येतद्गतं विप्र सुभाष्यं श्रद्धयान्वितः ॥ १,११६.४४ ॥ देवदेवप्रसादेन भुक्तिमुक्तिमवाप्नुयात् । अथ कार्तिकशुक्लायां शाकाख्यं सप्तमीव्रतम् ॥ १,११६.४५ ॥ तस्यां तु सप्तशाकानिसस्वर्णकमलानि च । प्रदद्यात्सप्तविप्रेभ्यः शाकाहारस्ततः स्वयम् ॥ १,११६.४६ ॥ द्वितीयेऽह्नि द्विजान्भोज्य दत्वा तेभ्योऽन्नदक्षिणाम् । विसृज्य बन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ॥ १,११६.४७ ॥ मार्गस्य सितसप्तम्यां मित्रव्रतमुदाहृतम् । यद्विष्णोर्दक्षिणं नेत्रं तदेव कृतवानिह ॥ १,११६.४८ ॥ अदित्यां कश्यपाज्जज्ञे मित्रो नामा दिवाकरः । अतोऽस्यां पूजनं तस्य यथोक्तविधिना द्विज ॥ १,११६.४९ ॥ कृत्वा द्विजान्भोजयित्वा सप्तैव मधुरादिना । सुवर्णदक्षिणां दत्वा विसृज्याश्नीत च स्वयम् ॥ १,११६.५० ॥ कृत्वैतद्विधिना लोकं सृर्य्यस्य व्रजति ध्रुवम् । द्विजोब्राह्मं तथा शूद्रः सत्कुलेजन्म चाप्नुयात् ॥ १,११६.५१ ॥ पौषस्य शुक्लसप्तम्यां व्रतं चाभयसंज्ञितम् । उपोष्य भानुं त्रिःसन्ध्यं समभ्यर्च्य धरास्थितः ॥ १,११६.५२ ॥ क्षीरसिक्तान्नसंबद्धं मोदकं प्रस्थसंमितम् । द्विजाय दत्वा भोज्यान्यान्सप्ताष्टभ्यश्च दक्षिणाम् ॥ १,११६.५३ ॥ पृथवी वा सुवर्णं वा विसृज्याश्नीत च स्वयम् । अभयाख्यं व्रतं त्वेतत्सर्वस्याभयदं स्मृतम् ॥ १,११६.५४ ॥ मार्तण्डाख्यं व्रतं नाम कथयन्ति द्विजाः परे । एकमेवेति च प्रोक्तमेकदैवतया बुधैः ॥ १,११६.५५ ॥ माघे तु कृष्णसप्तम्यां व्रतं सर्वाप्तिसंज्ञकम् । समुपोष्य दिने तस्मिन्सम्पूज्यादित्यबिम्बकम् ॥ १,११६.५६ ॥ सौवर्णं गन्धपुष्पाद्यैः कृत्वा रात्रौ च जागरम् । परेऽह्नि विप्रान्सम्भोज्य पायसेन तु सप्त वै ॥ १,११६.५७ ॥ दक्षिणां नालिकेराणि तेभ्यो दत्वा गुरुं ततः । सौवर्णं तु रवेर्बिम्बं युक्तं दक्षिणया न्यया ॥ १,११६.५८ ॥ समर्प्य च भृशं प्रार्थ्य विसृज्याद्यात्स्वयं ततः । एतत्सर्वाप्तिदं नाम संप्रोक्तं सार्वकामिकम् ॥ १,११६.५९ ॥ व्रतस्यास्य प्रभावेण द्वैतं सिध्येद्धि सर्वथा । माघस्य शुक्लसप्तम्यामचलाख्यं व्रतं स्मृतम् ॥ १,११६.६० ॥ त्रिलोचनजयन्तीयं सर्वपापहरा स्मृता । रथाख्या सप्तमी चेयं चक्रवर्तित्वदायिनी ॥ १,११६.६१ ॥ अस्यां समर्च्य सवितुः प्रतिमां तु हैमीं हैमाश्वयुक्तरथगां तु ददेत्सहेभाम् । यो भावभक्तिसहितः स गतो हि लोकं शम्भोः स मोदत इहापि च भुक्तभोगः ॥ १,११६.६२ ॥ भास्करी सप्तमी चेयं कोटिभास्वद्ग्रहोपमा । अरुणोदयवेलायामस्यां स्नानं विधीयते ॥ १,११६.६३ ॥ अर्कस्य च बदर्याश्च सप्त सप्त दलानि वै । निधाय शिरसि स्नायात्सप्तजन्माघशान्तये ॥ १,११६.६४ ॥ पुत्रप्रदं व्रतं चात्र प्राहादित्यः स्वयं प्रभुः । यो माघसितप्तम्यां पूजयेन्मां विधानतः ॥ १,११६.६५ ॥ तस्याहं पुत्रतां यास्ये स्वांशेन भृशतोषितः । तस्माज्जितेन्द्रियो भूत्वा समुपोष्य दिवानिशम् ॥ १,११६.६६ ॥ पूजयेदपरे चाह्नि होमं कृत्वा द्विजां स्ततः । दध्योदनेन पयसा पायसेन च भोजयेत् ॥ १,११६.६७ ॥ अनेन विधिना यम्तु कुरुते पुत्रसप्तमीः । लभते स तु सत्पुत्रं चिरायुषमनामयम् ॥ १,११६.६८ ॥ तपस्यशुक्लसप्तम्यां व्रतमर्कपुटं चरेत् ॥ अर्कपत्रैर्यजेदर्कमर्कपत्राणि चाश्नुयात् ॥ १,११६.६९ ॥ अर्कनाम जपेच्छश्वदित्थं चार्कपुटव्रतम् । धनदं पुत्रदं चैतत्सर्वपापप्रणाशनम् ॥ १,११६.७० ॥ त्रिवर्गदामिति प्राहुः केचिदेतद्वतं द्विज । यज्ञव्रतं तथाप्यन्ये विधिवद्धोमकर्मणा ॥ १,११६.७१ ॥ सर्वासु सर्वमासेषु सप्तमीषु द्विजोत्तमः । भास्कराराधनं प्रोक्तं सर्वकामिकमित्यलम् ॥ १,११६.७२ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितसप्पमीव्रतनिरूपणं नाम षोडशाधिकशततमोऽध्यायः _____________________________________________________________ सनातन उवाच शुक्लाष्टम्यां चैत्रमासे भवान्याः प्रोच्यते जनिः । प्रदक्षिणशतं कृत्वा कार्यो यात्रामहोत्सवः ॥ १,११७.१ ॥ दर्शनं जगदम्बायाः सर्वानन्दप्रदं नृणाम् । अत्रैवाशो ककलिकाप्राशनं समुदाहृतम् ॥ १,११७.२ ॥ अशोककलिकाश्चाष्टौ ये पिबन्ति पुनर्वसौ । चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ॥ १,११७.३ ॥ महाष्टमीति च प्रोक्ता देव्याः पूजाविधानतः । वैशाखस्य सिताष्टम्यां समुपोष्यात्र वारिणा ॥ १,११७.४ ॥ स्नात्वापराजितां देवीं मांसीबालकवारिभिः । स्नापयित्वार्च्य गन्धाद्यैर्नैवेद्यं शर्करामयम् ॥ १,११७.५ ॥ कुमारीर्भोजयेच्चापि नवम्यां पारणाग्रतः । ज्योतिर्मयविमानेन भ्राजमानो यथा रविः ॥ १,११७.६ ॥ लोकेषु विचरेद्विप्र देव्याश्चैव प्रसादतः । कृष्णाष्टम्यां ज्येष्ठमासे पूजयित्वा त्रिलोचनम् ॥ १,११७.७ ॥ शिवलोके वसेत्कल्पं सर्वदेवनमस्कृतः । ज्येष्ठशुक्ले तथाष्टम्यां यो देवीं पूजयेन्नरः ॥ १,११७.८ ॥ स विमानेन चरति गन्धर्वाप्सरसां गणैः । शुक्लाष्टम्यां तथाऽषाढे स्नात्वा चैव निशांबुना ॥ १,११७.९ ॥ तेनैव स्नापयेद्देवीं पूजयेच्च विधानतः । ततः शुद्धजलैः स्नाप्य विलिंपेत्सेंदुचन्दनैः ॥ १,११७.१० ॥ नैवेद्यं शर्करोपेतं दत्वाऽचमनमर्पयेत् । भोजयित्वा ततो विप्रान्दत्वा स्वर्णं च दक्षिणाम् ॥ १,११७.११ ॥ विसृज्य च ततः पश्चात्स्वयं भुञ्जीत वाग्यतः । एतद्व्रतं नरः कृत्वा देवीलोकमवाप्नुयात् ॥ १,११७.१२ ॥ नभःशुक्लेतथाष्टम्यां देवीमिष्ट्वा विधानतः । क्षीरेण स्नापयित्वा च मिष्टान्नं विनिवेदयेत् ॥ १,११७.१३ ॥ ततो द्विजान् भोजयित्वा परेऽह्नि स्वयमप्युत । भुक्त्वा समापयेदद्व्रतं संततिवर्धनम् ॥ १,११७.१४ ॥ नभोमासे सिताष्टम्यां दशाफलमिति व्रतम् । उपवासं तु संकल्प्य स्नात्वा कृत्वा च नैत्यिकम् ॥ १,११७.१५ ॥ तुलस्याः कृष्णावर्णाया दलैर्दशभिरर्चयेत् । कृष्णं विष्णुं तथानन्तं गोविन्दं गरुडध्वजम् ॥ १,११७.१६ ॥ दामोदरं हृषीकेशं पद्मनाभं हरिं प्रभुम् । एतैश्च नामभिर्नित्यं कृष्णदेवं समर्चयेत् ॥ १,११७.१७ ॥ नमस्कारं ततः कुर्यात्प्रदक्षिणसमन्वितम् । एवं दशदिनं कुर्याद्व्रतानामुत्तमं व्रतम् ॥ १,११७.१८ ॥ आदौ मध्ये तथा चान्ते होमं कुर्याद्विधानतः । कृष्णमन्त्रेण जुहुयाच्चरुणाष्टोत्तरं शतम् ॥ १,११७.१९ ॥ होमान्ते विधिना सम्यगाचार्य्यं पूजयेत्सुधीः । सौवर्णे ताम्रपात्रे वा मृन्मये वेणुपात्रके ॥ १,११७.२० ॥ तुलसीदलं सुवर्णेन कारयित्वा सुलक्षणम् । हैमीं च प्रतिमां कृत्वा पूजयित्वा विधानतः ॥ १,११७.२१ ॥ निधाय प्रतिमां पात्रे ह्याचार्याय निवेदयेत् । दातव्या गौः सवत्सा च वस्त्रालङ्कारभूषिता ॥ १,११७.२२ ॥ दशाहं कृष्णदेवाय पूरिका दश चार्पयेत् । ताश्च दद्याद्विधिज्ञाय स्वयं वा भक्षयेद्व्रती ॥ १,११७.२३ ॥ शयनं च प्रदातव्यं यथाशक्ति द्विजोत्तम । दशमेऽह्नि ततो मूर्तिं सद्रव्यां गुरवेर्ऽपयेत् ॥ १,११७.२४ ॥ व्रतान्ते दशविप्रेभ्यः प्रत्येकं दश पूरिकाः । दद्यादेव दशाब्दं तु कृत्वा व्रतमनुत्तमम् ॥ १,११७.२५ ॥ उपोष्य विधिना भूयात्सर्वका मसमन्वितः । अन्ते कृष्णस्य सायुज्यं लभते नात्र संशयः ॥ १,११७.२६ ॥ कृष्णजन्माष्टमी चेयं स्मृता पापहरा नृणाम् । केवलेनोपवासेन तस्मिञ्जन्मदिने हरेः ॥ १,११७.२७ ॥ सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः । उपवासी तिलैः स्नातो नद्यादौ विमले जले ॥ १,११७.२८ ॥ सुदेशे मण्डपे कॢप्ते मण्डलं रचयेत्सुधीः । तन्मध्ये कलशं स्थाप्य ताम्रजं वापि मृन्मयम् ॥ १,११७.२९ ॥ तस्योपरि न्यसेत्पात्रं ताम्रं तस्योपरि स्थिताम् । हैमीं वस्त्रयुगाच्छन्नां कृष्णस्य प्रतिमां शुभम् ॥ १,११७.३० ॥ पाद्याद्यैरुपचारैस्तु पूजयेत्स्निग्धमानसः । देवकीं वसुदेवं च यशोदां नन्दमेव च ॥ १,११७.३१ ॥ व्रजं गोपांस्तथा गोपीर्गाश्च दिक्षु समर्चयेत् । तत आरार्तिकं कृत्वा क्षमाप्यानम्य भक्तितः ॥ १,११७.३२ ॥ तिष्ठेत्तथैवार्द्धरात्रे पुनः संस्नापयेद्धरिम् । पञ्चामृतैः शुद्धजलैर्गन्धाद्यैः पूजयेत्पुनः ॥ १,११७.३३ ॥ धान्याकं च यवानीं च शुण्ठीं खण्डं च नारद । साज्यं रौप्ये धृतं पात्रे नैवेद्यं विनिवेदयेत् ॥ १,११७.३४ ॥ पुनरारार्तिकं कृत्वा दशधा रूपधारिणम् । विचिन्तयन्मृगाङ्काय दद्यादर्घ्यं समुद्यते ॥ १,११७.३५ ॥ ततः क्षमाप्य देवेशं रात्रिखण्डं नयेद्व्रती । पौराणिकैः स्तोत्रपाठैर्गीतवाद्यैरनेकधा ॥ १,११७.३६ ॥ ततः प्रभाते विप्रग्र्यान्भोजयेन्मधुरान्नकैः । दत्वा च दक्षिणां तेभ्यो विसृजेत्तुष्टमानसः ॥ १,११७.३७ ॥ ततस्तां प्रतिमां विष्णोः स्वर्णधेनुधरान्विताम् । गुरवे दक्षिणां दत्वा विसृज्याश्रीत च स्वयम् ॥ १,११७.३८ ॥ दारापत्यसुहृद्भृत्यरेवं कृत्वा व्रत नरः । साक्षाद्गोकमाप्नोति विमानवरमास्थितः ॥ १,११७.३९ ॥ नैतेन सदृशं चान्यद्व्रतमस्ति जगत्त्रये । कृतेन येन लभ्येत कोट्यैकादशकं फलम् ॥ १,११७.४० ॥ शुक्लाष्टम्यां नभस्यस्य कुर्याद्राधाव्रतं नरः । पूर्ववद्राधिकां हैमीं कलशस्थां प्रपूजयेत् ॥ १,११७.४१ ॥ मध्याह्ने पूजयित्वेनामेकभक्तं समापयेत् । शक्तो भक्तश्चोपवासं परेऽह्नि विधिना ततः ॥ १,११७.४२ ॥ सुवासिनीर्भोजयित्वा गुरवे प्रतिमार्पणम् । कृत्वा स्वयं च भुञ्जीतं व्रतमेवं समापयेत् ॥ १,११७.४३ ॥ व्रतेनानेन विप्रर्षे कृतेन विधिना व्रती । रहस्यं गोष्ठजं लब्ध्वा राधापरिकरे वसेत् ॥ १,११७.४४ ॥ दूर्वाष्टमीव्रतं चात्र कथितं तच्च मे शृणु । शुचौ देशे प्रजातायां द्वर्वायां द्विजसत्तम ॥ १,११७.४५ ॥ स्थाप्य लिङ्गं ततो गन्धैः पुष्पैर्धूपैश्च दीपकैः । नैवेद्यैरर्चयेद्भक्त्या दध्यक्षतफलादिभिः ॥ १,११७.४६ ॥ अर्घ्यं प्रदद्यात्पूजान्ते मन्त्राभ्यां सुसमाहितः । त्वं दूर्वेऽमृतजन्मासि सुरासुरनमस्कृते ॥ १,११७.४७ ॥ सौभाग्यं संततिं देहि सर्वकार्यकरी भव । यथा शाखा प्रशाखाभिर्विस्तृतासि महीतले ॥ १,११७.४८ ॥ तथा विस्तृतसंतानं देहि मेऽप्यजरामरम् । ततः प्रदक्षिणीकृत्य विप्रान्संभोज्य तत्र वै ॥ १,११७.४९ ॥ भुक्त्वा स्वयं गृहं गच्छेदत्वा विप्रेषु दक्षिणाम् । फलानि च प्रशस्तानि मिष्टानि सुरभीणि च ॥ १,११७.५० ॥ एवं पुण्या पापहरा नृणा दूर्वाष्टमी द्विज । चतुर्णामपि वर्णानां स्त्रीजनानां विशेषतः ॥ १,११७.५१ ॥ या न पूजयते दूर्वा नारी मोहाद्यथाविधि । जन्मानि त्रीणि वैधव्यं लभते सा न संशयः ॥ १,११७.५२ ॥ यदा ज्येष्ठर्क्षसंयुक्ता भवेच्जैवाष्टभी द्विज । ज्येष्ठा नाम्नी तु सा ज्ञेया पूजिता पापनाशिनी ॥ १,११७.५३ ॥ अथैनां तु समारभ्य व्रतं षोडशवासरम् । महालक्ष्म्याः समुद्दिष्टं सर्वसंपद्विवर्धनम् ॥ १,११७.५४ ॥ करिष्येऽहं महालक्ष्मीव्रतं ते त्वत्परायणः । तदविघ्नेन मे यातु समाप्तिं त्वत्प्रसादतः ॥ १,११७.५५ ॥ इत्युच्चार्य ततो बद्धा डोरक दक्षिणे करे । षोडशग्रन्थिसहितं गुणैः षोडशभिर्युतम् ॥ १,११७.५६ ॥ ततोऽन्वहं महालक्ष्मीं गन्धाद्यैरर्च्चयेद्व्रती । यावत्कृष्णाष्टमी तत्र चरेदुद्यापनं सुधीः ॥ १,११७.५७ ॥ वस्त्रमण्डपिकां कृत्वा सर्वतोभद्रमण्डले । कलशं सुप्रतिष्ठाप्य दीपमुद्द्योतयेत्ततः ॥ १,११७.५८ ॥ उत्तार्य डोरकं बाहोः कुंभस्याधो निवेदयेत् । चतस्रः प्रतिमाः कृत्वा सौवर्णीस्तत्स्वरूपिणीः ॥ १,११७.५९ ॥ स्नपनं कारयेत्तासाः जलैः पञ्चामृतैस्तथा । उपचारैः षोडशभिः पूजयित्वा विधानतः ॥ १,११७.६० ॥ जागरस्तत्र कर्तव्यो गीतवादित्रनिः स्वनैः । ततो निशीथे संप्राप्तेऽभ्युदितेऽमृतदीधितौ ॥ १,११७.६१ ॥ दत्वार्घ्यं बन्धनं द्रव्यैः श्रीखण्डाद्यैर्विधानतः । चन्द्रमण्डलसंस्थायै महालक्ष्यै प्रदापयेत् ॥ १,११७.६२ ॥ क्षीरोदार्णवसंभूत महालक्ष्मीसहोदर । पीयूषधाम रोहिण्याः सहितार्ऽघ्यं गृहाण मे ॥ १,११७.६३ ॥ क्षीरोदार्णवसम्भूते कमले कमलालये । विष्णुवक्षस्थलस्थे मे सर्वकामप्रदा भव ॥ १,११७.६४ ॥ एकनाथे जगन्नाथे जमदग्निप्रियेऽव्यये । रेणुके त्राहि मां देवि राममातः शिवं कुरु ॥ १,११७.६५ ॥ मन्त्रैरेतैर्महालक्ष्मीं प्रार्थ्य श्रोत्रिययोषितः । सम्यक्संपूज्य ताः सम्यग्गन्धयावककज्जलैः ॥ १,११७.६६ ॥ संभोज्य जुहुयादग्नौ बिल्वपद्मकपायसैः । तदलाभे घृतैर्विप्र गृहेभ्यः समिधस्तिलान् ॥ १,११७.६७ ॥ मृत्युञ्जयाय च परं सर्वरोगप्रशान्तये । चन्दनं तालपत्रं च पुष्पमालां तथाक्षतान् ॥ १,११७.६८ ॥ दुर्वां कौसुम्भसूत्रं च युगं श्रीफलमेव वा । भक्ष्याणि च नवे शूर्पे प्रतिद्रव्यं तु षोडश ॥ १,११७.६९ ॥ समाच्छाद्यान्यशूर्पेण व्रती दद्यात्समन्त्रकम् । क्षीरोदार्णवसंभूता लक्ष्मीश्चन्द्रसहोदरा ॥ १,११७.७० ॥ व्रतेनानेन संतुष्टा भवताद्विष्णुवल्लभा । चेतस्रः प्रतिमास्तास्तु श्रोत्रियेभ्यः समर्पयेत् ॥ १,११७.७१ ॥ ततस्तु चतुरो विप्रान् षोडशापि सुवासिनीः । मिष्टान्नेनाशयित्वा तु विसृजेत्ताः सदक्षिणाः ॥ १,११७.७२ ॥ समाप्तिनियमः पश्चाद्भञ्जीतेष्टैः समन्वितः । एतद्व्रतं महालक्ष्म्याः कृत्वा विप्र विधानतः ॥ १,११७.७३ ॥ भुक्त्वेष्टानैहिकान् कामांल्लक्ष्मीलोके वसेच्चिरम् । एषाषोकाष्टमी चोक्ता यस्यां पूर्णं रमाव्रतम् ॥ १,११७.७४ ॥ अत्राशोकस्य पूजा स्यादेकभक्तं तथा स्मृतम् । कृत्वाशोकव्रतं नारी ह्यशोका शोकजन्मनि ॥ १,११७.७५ ॥ यत्र कुत्रापि संजाता नात्र कार्या विचारणा । आश्विने शुक्लपक्षे तु प्रोक्ता विप्र महाष्टमी ॥ १,११७.७६ ॥ तत्र दुर्गाचनं प्रोक्तं सव्रैरप्युपचारकैः । उपवासं चैकभक्तं महाष्टम्यां विधाय तु ॥ १,११७.७७ ॥ सर्वतो विभवं प्राप्य मोदते देववच्चिरम् । ऊर्ज्जे कृष्णादिकेऽष्टम्यां करकाख्यं व्रतं स्मृतम् ॥ १,११७.७८ ॥ तत्रोमासहितः शंभुः पूजनीयः प्रयत्नतः । चन्द्रोदयेर्ऽघदानं च विधेयं व्रतिभिः सदा ॥ १,११७.७९ ॥ पुत्रं सर्वगुणोपेतमिच्छद्भिर्विविधं सुखम् । गोपाष्टमीति संप्रोक्ता कार्तिके धवले दले ॥ १,११७.८० ॥ तत्रकुर्याद्गवां पूजां गोग्रासं गोप्रदक्षिणाम् । गवानुगमनं दानं वाञ्छन्सर्वाश्च संपदः ॥ १,११७.८१ ॥ कृष्णाष्टम्यां मार्गशीर्षे मिथुनं दर्भनिर्मितम् । अनघां चानघां तत्र बहुपुत्रसमन्वितम् ॥ १,११७.८२ ॥ स्थापयित्वा शुभे देशे गोमयेनोपलेपिते । पूजयेद्गन्धपुष्पाद्यैरुपचारैः पृथग्विधैः ॥ १,११७.८३ ॥ संभोज्य द्विजदांपत्यं विसृजेल्लब्धदक्षिणम् । व्रतमेतन्नरः कृत्वा नारी वा विधिपूर्वकम् ॥ १,११७.८४ ॥ पुत्रं सल्लक्षणोपेतं लभते नात्र संशयः ॥ १,११७.८५ ॥ मार्गाशीर्षसिताष्टम्यां कालभैरवसन्निदौ । उपोष्य जागरं कृत्वा महापापैः प्रमुच्यते ॥ १,११७.८६ ॥ यत्किञ्चिदशुभं कर्म कृतं मानुषजन्मनि । तत्सर्वं विलयं याति कालभैरवदर्शनात् ॥ १,११७.८७ ॥ अथ पौषसिताष्टम्यां श्राद्धमष्टकसंज्ञितम् । पितॄणां तृप्तिदं वर्षं कुलसन्ततिवर्द्धनम् ॥ १,११७.८८ ॥ शुक्लाष्टम्यां तु पौषस्य शिवं सम्पूज्य भक्तितः । भुक्तिमुक्तिमवाप्नोति भक्तिमेकां समाचरन् ॥ १,११७.८९ ॥ कृष्णाष्टम्यां तु माघस्य भद्रकालीं समर्चयेत् । भक्तितो वैरिवृन्दघ्नीं सर्वकामप्रदायिनीम् ॥ १,११७.९० ॥ माघमासे सिताष्टम्यां भीष्मं संतर्पयद्द्विज । संततिं त्वव्यवच्छिन्नामिच्छंश्चाप्यपराजयम् ॥ १,११७.९१ ॥ फआल्गुने त्वसिताष्टम्यां भीप्रां देवीं समर्चयेत् । तत्र व्रतपरो विप्र सर्वकामसमृद्धये ॥ १,११७.९२ ॥ शुक्लाष्टम्यां फआल्गुनस्य शिवं चापि शिवां द्विज । गन्धाद्यैः सम्यगभ्यर्च्य सर्वसिद्धीश्वरो भवेत् ॥ १,११७.९३ ॥ फआल्गुनापरपक्षे तु शीतलामष्टमीदिने । पूजयेत्सर्ववपक्कानैः सप्तम्यां विधिवत्कृतैः ॥ १,११७.९४ ॥ शीतले त्वं जगन्माता शीतले त्वं जगत्पिता । शीतले त्वं जगद्वात्री शीतलायै नमोनमः ॥ १,११७.९५ ॥ वन्देऽहं शीतलां देवीं रासभस्थां दिगंबराम् । मार्जनी कलशोपेतां विस्फोटकविनाशिनीम् ॥ १,११७.९६ ॥ शीतले शीतले चेत्थं ये जपन्ति जले ल्थिताः ॥ठ तेषां तु शीतला देवी स्याद्विस्फोटकशान्तिदा ॥ १,११७.९७ ॥ इत्येवं शीतलामन्त्रैर्यः समर्चयते द्विज । तस्य वर्षं भवेच्छान्तिः शीतलायाः प्रसादतः ॥ १,११७.९८ ॥ सर्वमासोभये पक्षे विधिवच्चाष्टमीदिने । शिवां वापिशिवं प्रार्च्यलभते वाञ्छितं फलम् ॥ १,११७.९९ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थिताष्टमीव्रतकथनं नाम सप्तदशाधिकशततमोऽध्यायः _____________________________________________________________ सनातन उवाच अथ वक्ष्यामि विप्रेन्द्र नवम्यास्ते व्रतानि वै । यानि कृत्वा नरा लोके लभन्ते वाञ्छितं फलम् ॥ १,११८.१ ॥ चैत्रस्य शुक्लपक्षे तु श्रीरामनवमीव्रतम् । तत्रोपवासं विधिवच्छक्तो भक्तः समाचरेत् ॥ १,११८.२ ॥ अशक्तश्चैकभक्तं वै मध्याह्नोत्सवतः परम् । विप्रान्संभोज्य मिष्टान्नै रामप्रीति सुमाचरेत् ॥ १,११८.३ ॥ गोभूतिलहरिरण्याद्येर्वस्त्रालङ्करणेस्तथा । एव यः कुरुते भक्त्या श्रीरामनवमीव्रतम् ॥ १,११८.४ ॥ विधूय चेहपापानि व्रजे द्विष्णोः परं पदम् । उक्तं मातृव्रतं चात्र भैरवेण समन्विताः ॥ १,११८.५ ॥ स्रग्गन्धवस्रनमनैवेद्यैश्चतुःष्टिस्तु योगिनीः । अत्रैव भद्रकालो तु योगिनीनां महाबला ॥ १,११८.६ ॥ ब्राह्मणश्रेष्ठः सर्वासामाधिपत्येऽभिषेचिता । तस्मात्तां पूजयेच्चात्र सोपवासो जितेन्द्रियः ॥ १,११८.७ ॥ राधे नवम्यां दलयोश्चण्डिकां यस्तु पूजयेत् । विधिना स विमानेन देवतैः सह मोदते ॥ १,११८.८ ॥ ज्येष्ठशुक्लनवम्यां तु सोपवासो नरोत्तमः । उमां संपूज्य विधिवत्कुमारीर्भोजयेद्द्विजान् ॥ १,११८.९ ॥ स्वभक्त्या दक्षिणां दत्वा शाल्यन्नं पयसाश्नुयात् । उमाव्रतमिदं विप्र यः कुर्याद्विधिवन्नरः ॥ १,११८.१० ॥ स भुक्त्वेह वरान्भोगानन्ते स्वर्गगतिं लभेत् । आषाढे मासि विप्रेन्द्र यः कुर्यात्पक्षयोर्द्विज ॥ १,११८.११ ॥ नक्तं चैन्द्रीं समभ्यर्च्येदैरावतगतां सिताम् । स भवेद्वै वलोके तु भोगभारग्देवयानगः ॥ १,११८.१२ ॥ श्रावणे मासि विप्रेन्द्र यः कुर्यान्नक्तभोजनम् । पक्षयोरुपवासं वा कौमारीं चण्डिकां यजेत् ॥ १,११८.१३ ॥ एवं पापहरां गन्धैः पुष्पैर्धूपैश्च दीपकैः । नैवेद्यैर्विविधैश्चैव कुमारीभोजनैस्तथा ॥ १,११८.१४ ॥ एवं यः कुरुते भक्त्या कौमारीव्रतमुत्तमम् । स विमानेन गच्छेद्वै देवीलोकं सनातनम् ॥ १,११८.१५ ॥ भाद्रे तु नवमी शुक्ला नन्दाह्वा परिकीर्तिता । तस्यां यः पूजयेद्दुर्गां विधिवच्चोपचारकैः ॥ १,११८.१६ ॥ सोऽश्वमेधफलं लब्ध्वा विष्णुलोके महीयते । आश्विने शुक्लनवमी महापूर्वा प्रकीर्तिता ॥ १,११८.१७ ॥ अपराह्ने शमीपूजा कार्यास्यां प्राग्दिशि द्विज । ततो निशायां प्राग्यामे खड्गं धनुरिषून्गदाम् ॥ १,११८.१८ ॥ शूलं शक्तिं च परशुं छिरिकां चर्म खेटकम् । छत्रं ध्वजं गजं चाश्व गोवृषं पुस्तकं तुलाम् ॥ १,११८.१९ ॥ दण्डं पाशं चक्रशङ्खौ गन्धाद्यैरुपचारकैः । संपूज्य महिषं तत्र भद्रकाल्यै समालभेत् ॥ १,११८.२० ॥ एवं बलिं विधायाथ भुक्त्वा पक्कान्न मेव च । द्विजेभ्यो दक्षिणां दत्वा व्रतं तत्र समापयेत् ॥ १,११८.२१ ॥ एवं यः पूजयेद्दुर्गां नॄणां दुर्गतिनाशिनीम् । इह भुक्त्वा वरान्भोगानन्ते स्वर्गतिमाप्नुयात् ॥ १,११८.२२ ॥ कार्तिके शुक्लनवमी याक्षया सा प्रकीर्तता । तस्यामश्वत्थमूले वै तर्प्पणं सम्यगाचरेत् ॥ १,११८.२३ ॥ देवानां च ऋषीणां च पितॄणां चापि नारद । स्वशाखोक्तैस्तथा मन्त्रैः सूर्यायार्घ्यं ततोर्ऽपयेत् ॥ १,११८.२४ ॥ ततो द्विजान्भोजयित्वा मिष्टान्नेन मुनूश्वर । स्वयं भुक्त्वा च विहरेद्द्विजेभ्यो दत्तदक्षिणः ॥ १,११८.२५ ॥ एवं यः कुरुते भक्त्या जपदानं द्विजार्चनम् । होमं च सर्वमक्षय्यं भवेदिति विधेर्वयः ॥ १,११८.२६ ॥ मार्गे तु शुक्लनवमी नन्दिनी परिकीर्तिता । तस्यामुपोषितो यस्तु जगदंबां प्रपूजयेत् ॥ १,११८.२७ ॥ गन्धाद्यैः सोऽश्वमेधस्य फलभाङ्नात्र संशयः । पौषे शुक्लनवम्यां तु महामायां प्रपूजयेत् ॥ १,११८.२८ ॥ एकभक्तपरो विप्र वाजपेयफलाप्तये । माघमासे तु वा शुक्ला नवमी लोकपूजिता ॥ १,११८.२९ ॥ महानन्देति सा प्रोक्ता सदानन्दकरी नृणाम् । तस्यां स्नानं तथा दानं जपो होम उपोषणम् ॥ १,११८.३० ॥ सर्वमक्षयतां याति नात्र कार्या विचारणा । फआल्गुनामलपक्षस्य नवमी या द्विजोत्तम ॥ १,११८.३१ ॥ आनन्दा सा महापुण्या सर्वपापहरा स्मृता । सोपवासोर्ऽचयेत्तत्र यस्त्वानन्दां द्विजोत्तम ॥ १,११८.३२ ॥ स लभेद्वाञ्छितान्कामान्सत्यं सत्यं मयोदितम् ॥ १,११८.३३ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितनवमीव्रतकथनं नामाष्टादशाधिकशततमोऽध्यायः _____________________________________________________________ सनातन उवाच अथ तेऽहं प्रवक्ष्यामि दशम्या वै व्रतानि च । यानि कृत्वा नरो भक्त्या धर्मराजप्रियो भवेत् ॥ १,११९.१ ॥ चैत्रशुक्लद शम्यां तु धर्मराजं प्रपूजयेत् । तत्कालसंभवैः पुष्पैः फलैर्गन्धादिभिस्तथा ॥ १,११९.२ ॥ सोपवासो वैकभक्तो भोजयित्वा द्विजोत्तमान् । चतुर्द्दशततस्तेभ्यः शक्त्या दद्याच्च दक्षिणाम् ॥ १,११९.३ ॥ एवं यः कुरुते विप्र धर्मराजप्रपूजनम् । स धर्मस्याज्ञयागच्छेद्देवैः साधर्म्यमच्युतः ॥ १,११९.४ ॥ दशम्यां माधवे शुक्ले विष्णुमभ्यर्च्य मानवः । गन्धाद्यैरुपचारैश्च श्वेतपुष्पैः सुगन्धिभिः ॥ १,११९.५ ॥ शतं प्रदक्षिणाः कृत्वा विप्रन्संभोज्य यत्नतः । लभते वैष्णवं लोकं नात्र कार्या विचारणा ॥ १,११९.६ ॥ ज्येष्ठे शुक्लदशम्यां तु जाह्नवी सरितां वरा । समायाता धरां स्वर्गात्तस्मात्सा पुण्यदा स्मृता ॥ १,११९.७ ॥ ज्येष्ठः शुक्लदलं हस्तो बुधश्च दशमीः तिथिः । गरानन्दव्यतीपाताः कन्येन्दुवृषभास्कराः ॥ १,११९.८ ॥ दशयोगः समाख्यातो महापुण्यतमो द्विज । हरते दश पापानि तस्माद्दशहरः स्मृतः ॥ १,११९.९ ॥ अस्यां यो जाह्नवीं प्राप्य स्नाति संप्रीतमानसः । विधिना जाह्नवीतोये स याति हरिमन्दिरम् ॥ १,११९.१० ॥ आषाढशुक्लदशमी पुण्या मन्वा दिकैः स्मृता । तस्यां स्नानं जपो दानं होमो वा स्वर्गतिप्रदाः ॥ १,११९.११ ॥ श्रावणे शुक्लदशमी सर्वाशापरिपूर्तिदा । अस्यां शिवार्चनं शस्तं गन्धाद्यै रुपचारकैः ॥ १,११९.१२ ॥ तत्रोपवासो नक्तं वा द्विजानां भोजनं जपः । हेम्नो दान च धेन्वादेः सर्वपापप्रणाशनम् ॥ १,११९.१३ ॥ अथो नभस्यशुक्लायां दशम्यां द्विजसत्तम । व्रतं दशावताराख्यं तत्र स्नानं जलाशये ॥ १,११९.१४ ॥ कृत्वा संध्यादिनियमं देवर्षिपितृतर्पणम् । ततो दशावताराणि समभ्यर्चेत्स माहितः ॥ १,११९.१५ ॥ मत्स्यं कूर्मं वराहं च नरसिंहं त्रिविक्रमम् । रामं रामं च कृष्णं च बौद्धं कल्किनमेव च ॥ १,११९.१६ ॥ दशमूर्तिस्तु सौवर्णीः पूजयित्वा विधानतः । दशभ्यो विप्रवर्येभ्यो दद्यात्सत्कृत्य नारद ॥ १,११९.१७ ॥ उपवासं चैकभक्तं कृत्वा संभोज्य वाडवान् । विसृज्य पश्चाद्भुञ्जीत स्वयं स्वेष्टैः समाहितः ॥ १,११९.१८ ॥ भक्त्या कृत्वा व्रतं त्वेतद्भुक्त्वा भोगानिहोत्तमान् । विमानेन व्रजेदन्ते विष्णुलोकं सनातनम् ॥ १,११९.१९ ॥ आश्विने शुक्लदशमी विजया सा प्रकीर्तिता । चतुर्गोमयपिण्डानि प्रातर्न्यस्य गृहाङ्गणे ॥ १,११९.२० ॥ चक्रवालस्वरूपेण तन्मध्ये रामलक्ष्मणौ । तथा भरतशत्रुघ्नौ पूजयेच्चतुरोऽपि हि ॥ १,११९.२१ ॥ सपिधानासु पात्रीषु गोमयीषु चतसृष्ट । किन्नं धान्यं सरौप्यं तु धृत्वा धौतांशुकावृतम् ॥ १,११९.२२ ॥ पितृमातृभ्रातृपुत्रजाया भृत्यसमन्वितम् । संपूज्यं गन्धपुष्पाद्यैर्नैवेद्यैश्च विधानतः ॥ १,११९.२३ ॥ नमस्कृत्याथ भुञ्जीत द्विजान्संभोज्य पूजितान् । एवं कृत्वा विधानं तु नरो वर्षं सुरवान्वितः ॥ १,११९.२४ ॥ धनधान्यसमृद्धश्च निश्चितं जायते द्विज । अथापाराह्नसमये नवम्यां संनिमन्त्रिताम् ॥ १,११९.२५ ॥ पूर्वदिक्षु शमीं विप्र गत्वा तन्मूलजां मृदम् । गृहीत्वा स्वगृहं प्राप्य गीतवादित्रनिःस्वनैः ॥ १,११९.२६ ॥ संपूज्य तां विधानेन सज्जीकृत्य स्वकं बलम् । निर्गत्य पूर्वद्वारेण ग्रामाद्ब्रहिरनाकुलः ॥ १,११९.२७ ॥ ततः शत्रुप्रतिकृतिं निर्मितां पत्रकादिभिः । मनसा कल्पितां वापि स्वर्णं पुंरवंशरेण वै ॥ १,११९.२८ ॥ विध्येदिति भृशं प्रीतः प्राप्नुयात्स्वगृहं निशि । एवं कृतविधिर्वापि गच्छेद्वा शत्रुनिग्रहे ॥ १,११९.२९ ॥ एषैवं दशमी विप्र विधिनाऽचरिता सदा । धनं जयं सुतान् गाश्च गजाश्वं वाप्यजाविकम् ॥ १,११९.३० ॥ दद्यादिह शरीरान्ते स्वर्गतिं चापि नारद । दशम्यां कार्तिके शुक्ले सार्वभौमव्रतं चरेत् ॥ १,११९.३१ ॥ कृतोपवासो वैकाशी निशीथेऽपूपकादिभिः । दशदिक्षु बलिं दद्याद्गृहद्वापि पुराद्ब्रहिः ॥ १,११९.३२ ॥ मण्डलेऽष्टदले कॢप्ते गोविड्लिप्तधरातले । मन्त्रैरेभिर्द्विजश्रेष्ठ गणेशादिकृतार्चनः ॥ १,११९.३३ ॥ यो मे पूर्वगतः पाप्मा पापकेनेह कर्मणा । तमिन्द्रो देवरा जोऽद्य नाशयत्वखिलेष्टदः ॥ १,११९.३४ ॥ यो मे वह्निगतः पाप्मा पापकेनेह कर्मणा । तेजोराजोऽथ वह्निस्तं नाशयत्वखिलेष्टदः ॥ १,११९.३५ ॥ यो मे दक्षगतः पाप्मा पापकेनेह कर्मणा । तं यमः प्रेतराजो वै नाशयत्वखिलेष्टदः ॥ १,११९.३६ ॥ यो मे नैरृतिगः पाप्मा पापकेनेह कर्मणा । रक्षोराजो नैरृतिस्तं नाशयत्वखिलेष्टदः ॥ १,११९.३७ ॥ यो मे पश्चिमगः पाप्मा पापकेनेहकर्मणा । यादः पतिस्तं वरुणो नाशयत्वखिलेष्टदः ॥ १,११९.३८ ॥ यो मे वायुगतः पाप्मा पापकेनेह कर्मणा । वायुस्तं मरुतां राजो नाशयत्वखिलेष्टदः ॥ १,११९.३९ ॥ यो मे सौम्यगतः पाप्मा पापकेनेह कर्मणा । सोमस्तमृक्षयक्षेशो नाशयत्वखिलेष्टदः ॥ १,११९.४० ॥ यो म ईशगतः पाप्मा पापकेनेह कर्मणा । ईशानो भूतनाथस्तं नाशयत्वखिलेष्टदः ॥ १,११९.४१ ॥ यो मं ऊर्द्ध्वगतः पाप्मा पापकेनेह कर्मणा । ब्रह्मा प्रजापतीशस्तं नाशयत्वखिलेष्टदः ॥ १,११९.४२ ॥ यो मेऽधःसंस्थितः पाप्मा पापकेनेह कर्मणा । अनन्तो नागराजस्तं नाशयत्वखिलेष्टदः ॥ १,११९.४३ ॥ इत्येवं दिक्षु दशसु बलिं दत्वा समाहितः । क्षेत्रपालाय तद्बाह्ये क्षिपेद्बलिमतन्द्रितः ॥ १,११९.४४ ॥ एवं कृतविधिः शेषं निशायां निनयेत्सुधीः । गीतैः सुमङ्गलप्रायैः स्तवपाठैर्जपादिभिः ॥ १,११९.४५ ॥ प्रातः स्नात्वा समभ्यर्च्य लोकपालान् द्विजोत्तमान् । द्वादशाभ्यर्च्य संभोज्य शक्तितो दक्षिणां ददेत् ॥ १,११९.४६ ॥ इत्थं कृत्वा व्रतं विप्र भोगान्भुक्तैहिकाञ्छुभान् । युगं स्वर्गसुखं भुक्त्वा सार्वभौमो नृपो भवेत् ॥ १,११९.४७ ॥ मार्गशुक्लदशम्यां तु चरेदा रोग्यकं व्रतम् । गन्धाद्यैरर्चयेद्विप्रान् दश तच्चरणोदकम् ॥ १,११९.४८ ॥ पीत्वाथ दक्षिणां दत्वा विसूजेदेकभोजनं । एतत्कृत्वा व्रतं विप्र ह्यारोग्यं प्राप्य भूतले ॥ १,११९.४९ ॥ धर्मराजप्रसादेन मोदते दिवि देववत् । पौषे दशम्यां शुक्लायां विश्वेदेवान् समर्चयेत् ॥ १,११९.५० ॥ ऋतुं दक्षं वसू६ सत्यं कालं कामं मुनिं गुरुम् । विप्रं रामं च दशधा केशवस्तान्समास्थितः ॥ १,११९.५१ ॥ स्वापयित्वा दर्भमयानासनेषु च संस्थितान् । गन्धैर्धूपैस्तथा दीपैर्नैवेद्यैश्चापि नारद ॥ १,११९.५२ ॥ प्रत्येकं दक्षिणां दत्वा प्रणियत्य विसर्जयेत् । दक्षिणां तां द्विजाग्र्येभ्यो गुरवे वा समर्पयेत् ॥ १,११९.५३ ॥ एवं कृतविधि श्चैकभक्तो भोगी व्रती भवेत् । लोकद्वयस्य विप्रर्षे नात्र कार्या विचारणा ॥ १,११९.५४ ॥ माघशुक्लदशम्यां तु सोपवासो जितेन्द्रियः ॥। देवांनगिरसो नाम दश सम्यक्समर्चयेत् ॥ १,११९.५५ ॥ कृत्वा स्वर्णमयान्विप्र गन्धाद्यैरुपचारकैः । आत्मा ह्यायुर्मनो दक्षो मदः प्राणस्तथैव च ॥ १,११९.५६ ॥ बर्हिष्मांश्च गविष्ठश्च दत्तः सत्यश्च ते दश । दश विप्रान्भोजयित्वा मधुरान्नेन नारद ॥ १,११९.५७ ॥ मूर्तीस्तेभ्यः प्रदद्यात्ताः स्वर्गलोकाप्तये क्रमात् । अन्त्यशुक्लदशम्यां तु चतुर्दशं यमान्यजेत् ॥ १,११९.५८ ॥ यमश्च धर्मराजश्च मृत्युश्चैवान्तकस्तथा । वैवस्वतश्च कालश्च सर्वभूतक्षयस्तथा ॥ १,११९.५९ ॥ औदुम्बरश्च दघ्नश्च द्वौ नीलपरमेष्ठिनौ । वृकोदरश्चचित्रश्च चित्रगुप्तश्चतुर्दश ॥ १,११९.६० ॥ गन्धाद्यैरुपचारैश्च समभ्यर्च्याथतर्पयेत् । तिलांबुमिश्राञ्जलिभिर्दर्भैः प्रत्येकशस्त्रिभिः ॥ १,११९.६१ ॥ ततश्च दद्यात्सूर्यार्घं ताम्रपात्रेण नारद । रक्तचन्दनसंमिश्रतिलाक्षतयवांबुभिः ॥ १,११९.६२ ॥ एहि सूर्यसहस्रांशो तेजोराशे जगत्पते । गृहाणार्घ्यं मया दत्तं भक्त्या मामनुकंपय ॥ १,११९.६३ ॥ इति मन्त्रेण दत्वार्घ्यं विप्रान्भोज्य चतुर्द्दश । रौप्यां सुदक्षिणां दत्वा विसृज्याश्नीत च स्वयम् ॥ १,११९.६४ ॥ एवं कृतविधिर्विप्र धर्मराजप्रसादतः । भुक्त्वा भोगांश्च पुत्रार्थानैहिकान्देवदुर्लभान् ॥ १,११९.६५ ॥ विमानवरमास्थाय देहान्ते विष्णुलोकभाक् ॥ १,११९.६६ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितदशमीव्रतनिरूपणं नामैकोनविंशत्यधिकशततमोऽध्यायः _____________________________________________________________ सनातन उवाच एकादश्यां तु दलयोर्निराहारः समाहितः । नानापुष्पैर्मुने कृत्वा विचित्रं मण्डपं शुभम् ॥ १,१२०.१ ॥ स्रात्वा सम्यग्विधानेन सोपवासो जितेन्द्रियः । संपूज्य विधिवद्विष्णुं श्रद्धया सुसमाहितः ॥ १,१२०.२ ॥ उपचारैर्बहुविधैर्जपैर्हेमैः प्रदक्षिणैः । स्तोत्रपाठैर्बहुविधैर्गीतवाद्यैर्मनोहरैः ॥ १,१२०.३ ॥ दण्डवत्प्रणिपातैश्च जयशब्दैर्मनोहरैः । रात्रौ जागरणं कृत्वा याति विष्णोः परं पदम् ॥ १,१२०.४ ॥ चैत्रस्य शुक्लैकादश्यां सोपवासो नरोत्तमः । कृत्वा च नियमान्सर्वान्वक्ष्यमाणान्दिनत्रये ॥ १,१२०.५ ॥ द्वादश्यामर्चयेद्भक्तया वासुदेवं सनातनम् । उपचारैः षोडशभिस्ततः संभोज्य बान्धवान् ॥ १,१२०.६ ॥ दत्वा च दक्षिणां तेभ्यो विसृज्याश्नीत च स्वयम् ॥। इयं तु कामदा नाम सर्वपातकनाशिनी ॥ १,१२०.७ ॥ भुक्तिमुक्तिप्रदा विप्र भक्त्या सम्यगुपोषिता । वैशाखकृष्णैकादश्यां समुपोष्य विधानतः ॥ १,१२०.८ ॥ वरूथिनीं परदिने पूजयेन्मृधुसूदनम् । स्वर्णान्नकन्याधेनूनां दानमत्र प्रशस्यते ॥ १,१२०.९ ॥ वरूथिनीव्रतं कृत्वा नरो नियमतत्परः । सर्वपाप विनिर्मुक्तो वैष्णवं लभते पद्वम् ॥ १,१२०.१० ॥ वैशाखशुक्लैकादश्यां समुपोष्य च मोहिनीम् । स्नात्वा परेऽह्नि संपूज्य गन्धाद्यैः पुरुषोत्तमम् ॥ १,१२०.११ ॥ संभोज्य विप्रान्मुच्येत पातकेभ्यो न संशयः । जेष्ठस्य कृष्णकादश्यां समुपोष्य परां नृप ॥ १,१२०.१२ ॥ द्वादश्यां नैत्यिकं कृत्वा समभ्यर्च्य त्रिविक्रमम् । ततो द्विजाग्र्यान्संभोज्य दत्वा तेभ्यश्च दक्षिणाम् ॥ १,१२०.१३ ॥ सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः । ज्येष्ठस्य शुक्लैकादश्यां निर्जलां समुपोष्य तु ॥ १,१२०.१४ ॥ उदयादुदयं यावद्भास्करस्य द्विजोत्तम । प्रभाते कृतनित्यस्तु द्वादश्यामुपचारकैः ॥ १,१२०.१५ ॥ ह्यषीकेशं समभ्यर्च्य विप्रान् संभोज्य भक्तितः । चतुर्विंशैकादशीनां फलं यत्तत्समाप्नुयात् ॥ १,१२०.१६ ॥ आषाढकृष्णैकादश्यां योगिनीं समुपोष्य वै । नारायणं समभ्यर्च्य द्वादश्यां कृतनित्यकः ॥ १,१२०.१७ ॥ ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम् । सर्वदानफलं प्राप्य मोदते विष्णुमन्दिरे ॥ १,१२०.१८ ॥ आषाढशुक्लैकादश्यां यद्बिधानं शृणुष्व तत् । उपोष्य तस्मिन् दिवसे विधिवन्मण्डपे शुभे ॥ १,१२०.१९ ॥ स्थापयेत्प्रतिमां विष्णोः शङ्खचक्रगदांबुजैः । लसच्चतुर्भुजामग्र्यां काञ्चनीं वाथ राजतीम् ॥ १,१२०.२० ॥ पीतांबरधरां शुभ्रे पर्य्यङ्के स्वास्तृते द्विज । ततः पञ्चामृतैः स्नाप्य मन्त्रैः शुद्धजलेन च ॥ १,१२०.२१ ॥ पौरुषेणैव सूक्तेन ह्युपचारान् प्रकल्पयेत् । नीराजनान्तान्पाद्यादींस्ततः संप्रार्थयेद्धरिम् ॥ १,१२०.२२ ॥ सुप्ते त्वयि जगन्नाथ जगत्सुप्तं भवेदिदम् । विबुद्धे त्वयि बुद्धं च जगत्सर्वं चराचरम् ॥ १,१२०.२३ ॥ इति संप्रार्थ्य देवाग्रे चातुर्मास्यप्रचोदितान् । नियमांस्तु यथाशक्ति गृह्णीयाद्भक्तिमान्नरः ॥ १,१२०.२४ ॥ ततः प्रभाते द्वादश्यां समर्चेच्छेषशायिनम् । उपचारैः षोडशभिस्ततः संभोज्य वाडवान् ॥ १,१२०.२५ ॥ प्रतोष्य दभिणाभिश्च स्वयं भुञ्जीत वाग्यतः । ततः प्रभृति विप्रेन्द्र गन्धाद्यैः प्रत्यहं यजेत् ॥ १,१२०.२६ ॥ कृत्वैवं विधिना विप्र देवस्य शयनीव्रतम् । भुक्तिमुक्तियुतो मर्त्यो भवेद्विष्णोः प्रसादतः ॥ १,१२०.२७ ॥ श्रावणे कृष्णपक्षे तु एकादश्यां द्विजोत्तम । कामिकां समुपोष्यैव नियमेन नरोत्तम ॥ १,१२०.२८ ॥ द्वादश्यां कृतनित्यस्तु श्रीधरं पूजयेद्धरिम् । उपचारैः षोडश भिस्ततः संभोज्य वै द्विजान् ॥ १,१२०.२९ ॥ दत्वा च दक्षिणां तेभ्यो विसृज्याश्नीत बान्धवैः । एवं यः कुरुते विप्रकामिकाव्रतमुत्तमम् ॥ १,१२०.३० ॥ स सर्वकामांल्लब्ध्वेह याति विष्णोः परं पदम् । एकादश्यां नभःशुक्ले पवित्रां समुपोष्य वै ॥ १,१२०.३१ ॥ द्वादश्यां नियतो भूत्वा पूजयेच्च जनार्दनम् । उपचारैः षोडशभिस्ततः संभोज्य वाडवान् ॥ १,१२०.३२।. दत्वा च दक्षिणां तेभ्यः पुत्रं प्राप्येह सद्गुणम् । याति विष्णोः पदं साक्षात्सर्वदेवनमस्कृतः ॥ १,१२०.३३ ॥ नभस्यकृष्णैका दश्यामजाख्यां समुपोष्य वै । अर्चेदुर्पेन्द्रं द्वादश्यामुपचारैः पृथग्विधैः ॥ १,१२०.३४ ॥ विप्रान्संभोज्य मिष्टान्नैर्विसृजेत्प्राप्तदक्षिणान् । एवं कृतव्रतो विप्रभक्त्याजायाः समाहितः ॥ १,१२०.३५ ॥ भुक्त्वेह भोगानखिलान्यात्यन्ते वैष्णवं क्षयम् । नभस्यशुक्लैकादश्यां पद्माख्यां समुपोष्य वै ॥ १,१२०.३६ ॥ कृत्वा नित्यार्चनं तत्र कटिदानमथाचरेत् । पूर्वं संस्थापितायास्तु प्रतिमाया द्विजोत्तम ॥ १,१२०.३७ ॥ समुत्सवविधानेन नीत्वा तां सलिलाशये । कृतांबुस्पर्शनां तत्र संप्रपूज्य विधानतः ॥ १,१२०.३८ ॥ आनीय मण्डपे तस्मिन् वामपार्श्वेन शाययेत् । ततः प्रभाप्ते द्वादश्यां गन्धाद्यैरर्च्य वामनम् ॥ १,१२०.३९ ॥ संभोज्य वाडवान्दत्वा दक्षिणां च विसर्जयेत् । एवं यः कुरुते विप्र पद्माव्रतमनुत्तमम् ॥ १,१२०.४० ॥ भुक्तिं प्राप्येह मुक्तिं तु लभतेंऽते प्रपञ्चतः । इषस्य कृष्णैका दश्यामिन्दिरां समुपोष्य वै ॥ १,१२०.४१ ॥ शालग्रामशिलाग्रे तु मध्याह्ने श्राद्धमाचरेत् । विष्णोः प्रीतिकरं विप्र ततः प्रातर्हरेर्दिने ॥ १,१२०.४२ ॥ पद्ननाभं समभ्यर्च्य भूदेवान्भोजयेत्सुधीः । विसृज्य दक्षिणां दत्वा तांस्ततोऽश्नीत च स्वयम् ॥ १,१२०.४३ ॥ एवं कृतव्रतो मर्त्यो भुक्त्वा भोगानिहेप्सितान् । पितॄणां कोटिमुद्धृत्य यात्यन्ते वैष्णवं गृहम् ॥ १,१२०.४४ ॥ एकादश्यामिषे शुक्ले विप्र पाशाङ्कुशाह्वयाम् । उपोष्य विधिवद्विष्णोर्दिने विष्णुं समर्चयेत् ॥ १,१२०.४५ ॥ ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम् । भक्त्या प्रणम्य विसृजेदश्नीयाच्च स्वयं ततः ॥ १,१२०.४६ ॥ एवं यः कुरुते भक्त्या नरः पाशाङ्कुशाव्रतम् । स भुक्त्वेह वरान्भोगान्याति विष्णोः सलोकताम् ॥ १,१२०.४७ ॥ कार्तिके कृष्णपक्षे तु एकादश्यां द्विजोत्तम । रमामुपोष्य विधिवद्द्वादश्यां प्रातरर्चयेत् ॥ १,१२०.४८ ॥ केशवं केशिहॄन्तारं देवदेवं सनातनम् । भोजयेच्च ततो विप्रान्विसृजेल्लब्धदक्षिणान् ॥ १,१२०.४९ ॥ एवं कृतव्रतो विप्र भोगान्भुक्त्वेह वाञ्छितान् । व्योमयानेन सांनिध्यं लभते च रमापतेः ॥ १,१२०.५० ॥ ऊर्जस्य शुक्लैकादश्यां समुपोष्य प्रबोधिनीम् । केशवं बोधयेद्रात्रौ सुप्तं गीतादिमङ्गलैः ॥ १,१२०.५१ ॥ ऋग्यजुःसाममन्त्रैश्च वाद्यैर्नानाविधैरपि । द्राक्षेक्षुदाडिमैश्चान्यै रंभाशृङ्गाटकादिभिः ॥ १,१२०.५२ ॥ समर्पणैस्ततो रात्र्यां व्यतीतायां परेऽहनि । स्नात्वा नित्यक्रियां कृत्वा गदादामोदरं यजेत् ॥ १,१२०.५३ ॥ उपचारैः षोडशभिः पौरुषेणापि सूक्ततः । संभोज्य विप्रान्विसृजेद्दक्षिणाभिः प्रतोषितान् ॥ १,१२०.५४ ॥ ततस्तां प्रतिमां हैमीं सधेनुं गुरवेर्ऽपयेत् । एवं यः कुरुते भक्त्या बोधिनीव्रतमादृतः ॥ १,१२०.५५ ॥ स भुक्त्वेह वरान्भोगान्वैष्णवं लभते पदम् । मार्गस्य कृष्णैकादश्यामुत्पन्नां समुपोष्य वै ॥ १,१२०.५६ ॥ द्वादश्यां कृष्णमभ्यर्चेद्गन्धाद्यैरुपचारकैः । ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम् ॥ १,१२०.५७ ॥ विसृज्य पश्चाद्भुञ्जीत स्वयमिष्टैः समाहितः । एवं यो भक्तिभावेन उत्पन्नाव्रतमाचरेत् ॥ १,१२०.५८ ॥ स विमानं समारुह्य यात्यन्ते वैष्णवं पदम् । मार्गस्य शुक्लैकादश्यां मोक्षाख्यां समुपोष्य वै ॥ १,१२०.५९ ॥ द्वादश्यां प्रातरभ्यर्च्य ह्यनन्तं विश्वरूपकम् । सर्वैरेवोपचारैस्तु विप्रान्संभोजयेद्द्विजः ॥ १,१२०.६० ॥ विसृज्य दक्षिणां दत्वा स्वयं भुञ्जीत बान्धवैः । एवं कृत्वा व्रतं विप्र भुक्त्वा भोगानिहेप्सितान् ॥ १,१२०.६१ ॥ दश पूर्वान्दश परान्समुद्धृत्य व्रजेद्धरिम् । पौपस्य कृष्णैकादश्यां सफलां समुपोष्य वै । द्वादश्यामच्युतं प्रार्च्य सर्वैरेवोपचारकैः ॥ १,१२०.६२ ॥ संभोज्य विप्रान्मधुरैर्विसृजेल्लब्धदक्षिणान् । एवं कृत्वा व्रतं विप्र सफलाया विधानतः ॥ १,१२०.६३ ॥ भुक्त्वेह भोगानखिलान्यात्यन्ते वैष्णवं पदम् । पौषस्य शुक्लैकादश्यां पुत्रदां समुपोष्य वै ॥ १,१२०.६४ ॥ द्वादश्यां चक्रिणं प्रार्येदर्घाद्यैरुपचारकैः । ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यस्तु दक्षिणाम् ॥ १,१२०.६५ ॥ विसृज्य स्वयमश्नीयाच्छेषान्नं स्वेष्टबान्धवैः । एवं कृतव्रतो विप्र भुक्वा भोगानिहेप्सितान् ॥ १,१२०.६६ ॥ विमानवरमारुह्य यात्यन्ते हरिमन्दिरम् । माघम्य कृष्णैकादश्यां षट्तिलां समुपोष्य वै ॥ १,१२०.६७ ॥ स्नात्वा दत्वा तर्पयित्वा हुत्वा भुक्त्वा समर्च्य च । तिलैरेव द्विजश्रेष्ठ द्वादश्यां प्रातरेव हि ॥ १,१२०.६८ ॥ वैकुण्ठं सम्यगभ्यर्व्य सर्वैरेवोपचारकैः । द्विजान्संभोज्य विसृजेद्दत्वा तेभ्यश्च दक्षिणाम् ॥ १,१२०.६९ ॥ एवं कृत्वा व्रतं विप्र विधिना सुसमाहितः । भुक्त्वेह वाञ्छितान्भोगानन्ते विष्णुपदं लभेत् ॥ १,१२०.७० ॥ माघस्य शुक्लैकादश्यां समुपोष्य जयाह्वयाम् । प्रातर्हरि दिनेऽभ्यर्च्चेच्छ्रीपतिं पुरुषं द्विज ॥ १,१२०.७१ ॥ भोजयित्वा दक्षिणां च दत्वा विप्रान्विसृज्य च । स्वयं भुञ्जीत तच्छेषं प्रयतो निजबान्धवैः ॥ १,१२०.७२ ॥ य एवं कुरुते विप्र व्रतं केशवतोषणम् । स भुक्त्वेह वरान्भोगानन्ते विष्णोः पदं व्रजेत् ॥ १,१२०.७३ ॥ तपस्यकृष्णैकादश्यां विजयां समुपोष्य वै । द्वादश्यां प्रातरभ्यर्च्य योगीशं गन्धपूर्वकैः ॥ १,१२०.७४ ॥ ततः संभोज्य भूदेवान्दक्षिणाभिः प्रतोष्य तान् । विसृज्य बान्धवैः सार्द्धं स्वयमश्नीत वाग्यतः ॥ १,१२०.७५ ॥ एवं कृतव्रतो मर्त्यो भुक्त्वा भोगानिहेप्सितान् । देहान्ते वैष्णवं लोकं याति देवैः सुसत्कृतः ॥ १,१२०.७६ ॥ फआल्गुनस्य सिते पक्षे एकादश्यां द्विजोत्तम । उपोष्यामलकीं भक्त्या द्वादश्यां प्रातरर्चयेत् ॥ १,१२०.७७ ॥ पुण्डरीकाक्षमखिलैरुपचारैस्ततो द्विजान् । भोजयित्वा वरान्नेन दद्यात्तेभ्यस्तु दक्षिणाम् ॥ १,१२०.७८ ॥ एवं कृत्वा विधानेनामलक्यां पूजनादिकम् । सितैकादश्यां तपस्ये व्रजेद्विष्णोः परं पदम् ॥ १,१२०.७९ ॥ चैत्रस्य कृष्णैकादशीं पापमोचनिकां द्विज । उपाष्य द्वादश्यांप्रातर्गोविन्दं पूजयेत्तथा ॥ १,१२०.८० ॥ उपचारैः षोडशभिर्द्विजान्संभोज्य दक्षिणाम् । दत्वा तेभ्यो विसृज्याथ स्वयं भुञ्जीत बान्धवैः ॥ १,१२०.८१ ॥ एव यः कुरुते विप्र पापमोचनिकाव्रताम् । स याति वैष्णवं लोकं विमानेन तु भास्वता ॥ १,१२०.८२ ॥ इत्थं कृष्णो तथा शुक्ले व्रतं चैकादशीभवम् । मोक्षदं कीर्तितं विप्र नास्त्यस्मिन्संशयः क्वचित् ॥ १,१२०.८३ ॥ यतस्त्रिदिनसंसाध्यं कीर्तिनं पापनाशनम् । सर्वव्रतोत्तमं विप्र ततो ज्ञेयं महाफलम् ॥ १,१२०.८४ ॥ त्यजेच्चत्वारि भुक्तानि नारदै तद्दिनत्रये । आद्यन्तयोरेकमेकं मध्यमे द्वयमेव हि ॥ १,१२०.८५ ॥ अथ ते नियमान्वच्मि व्रते ह्यस्मिन्दिनत्रये । कांस्यं मांसं मसूरान्नं चणकान्कोद्रवांस्तथा ॥ १,१२०.८६ ॥ शाकं मधु परान्नं च पुनर्भोजनमैथुने । दशम्यां दश वस्तूनि वर्जयेद्वैष्णवऋ सदा ॥ १,१२०.८७ ॥ द्यूतक्रीडां च निद्रां च तांबूलं दन्तधावनम् । परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ॥ १,१२०.८८ ॥ कोपं ह्यनृतवाक्यं च एकादश्यां विवर्ज्जयेत् । कांस्यं मांसं सुरां क्षौद्रं तैलं विण्म्लेच्छभाषणम् ॥ १,१२०.८९ ॥ व्यायामं च प्रवासं च पुनर्भोजनमैथुने । अस्पृश्यस्पर्शमाशूरे द्वादश्यां द्वादश त्यजेत् ॥ १,१२०.९० ॥ एवं नियमकृद्विप्र उपवासं समाचरेत् । शक्तोऽशक्तुस्तु मतिमानेकभुक्तं न नक्तकम् ॥ १,१२०.९१ ॥ अयाचितं वापि चरेन्न त्यजेद्व्रतमीदृशम् ॥ १,१२०.९२ ॥ इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थभागे द्वादशमासस्तितैकादशीव्रतकथनं नाम विंशत्यधिकशततमोऽध्यायः _____________________________________________________________ सनातन उवाच अथ व्रतानि द्वादश्याः कथयामि तवानघ । यानि कृत्वा नरो लोके विष्णोः प्रियतरो भवेत् ॥ १,१२१.१ ॥ चैत्रस्य शुक्लद्वादश्यां मदनव्रतमाचरेत् । स्थापयेदव्रणं कुंभं सिततन्दुलपूरितम् ॥ १,१२१.२ ॥ नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम् । सितवस्त्रयुगच्छन्नं सितचन्दनचर्च्चितम् ॥ १,१२१.३ ॥ नानाभक्ष्यसमोपेतं सहिरण्यं स्वशक्तितः । ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत् ॥ १,१२१.४ ॥ तत्र संपूजयेद्देवं कामरूपिणमच्युतम् । गन्धाद्यैरुपचारैस्तु सोपवासो परेऽहनि ॥ १,१२१.५ ॥ पुनः प्रातः समभ्यर्च्य ब्राह्मणाय निवेदयेत् । ब्रह्मणान्भोजयेच्चैव तेभ्यो दद्याच्च दक्षिणाम् ॥ १,१२१.६ ॥ वर्षमेवं व्रतं कृत्वा घृतधेनुसमन्विताम् । शय्यां तु दद्याद्गुरवे सर्वोपस्करसंयुताम् ॥ १,१२१.७ ॥ काञ्चनं कामदेवं च शुक्तां गां च पयस्विनीम् । वासोभिर्द्विजदांपत्यं पूजयित्वा समर्पयेत् ॥ १,१२१.८ ॥ प्रीयतां कामरूपी मे हरिरित्येवमुच्चरन् । यः कुर्याद्विधिनानेन मदनद्वादशीव्रतम् ॥ १,१२१.९ ॥ स सर्वपापनिर्भुक्तः प्राप्नोति हरिसाम्यताम् । अस्यामेव समुद्दिष्टं भर्तृद्वादशिकाव्रतम् ॥ १,१२१.१० ॥ स्वास्तृतां तत्र शय्यां तु कृत्वात्र श्रीयुतं हरिम् । संस्थाप्य मण्डपं पुष्पैस्तदुपर्प्युपकल्पयेत् ॥ १,१२१.११ ॥ ततः संपूज्य गन्धाद्यैर्व्रती जागरणं निशि । नृत्यवादित्रगीताद्यैस्ततः प्रातः परेऽहनि ॥ १,१२१.१२ ॥ सशय्यं श्रीहरिं हैमं द्विजग्र्याय निवेदयेत् । द्विजान्संभोज्य विसृजद्दक्षिणाभिः प्रतोषितान् ॥ १,१२१.१३ ॥ एवं कृतव्रतस्यापि दांपत्यं जायते स्थिरम् । सप्तजन्मसु भुङ्क्ते च भोगान् लोकद्वयेप्सितान् ॥ १,१२१.१४ ॥ वैशाखशुक्लद्वादश्यां सोपवासो जितेन्द्रियः । संपूज्य माधवं भक्त्या गन्धाद्यैरुपचारकैः ॥ १,१२१.१५ ॥ पक्कान्नं तृप्तिजनकं मधुरं सोदकुंभकम् । विप्राय दद्याद्विधिवन्माधवः प्रीयतामिति ॥ १,१२१.१६ ॥ द्वादश्यां ज्येष्ठशुक्लायां पूजयित्वा त्रिविक्रमम् । गन्धाद्यैर्मधुरान्नाढ्यं करक विनिवेदयेत् ॥ १,१२१.१७ ॥ व्रती द्विजाय तत्पश्चादेकभक्तं समाचरेत् । व्रतेनानेन संतुष्टो देवदेवस्त्रिविक्रमः ॥ १,१२१.१८ ॥ ददाति विपुलान्भोगानन्ते मोक्षं च नारद । आषाढशुक्लद्वादश्यां द्विजान्द्वादश भोजयेत् ॥ १,१२१.१९ ॥ मधुरान्नेन तान्पूज्य पृथग्गन्धादिकैः क्रमात् । तभ्यो वासांसि दण्डांश्च ब्रह्मसूत्राणि मुद्रिकाः ॥ १,१२१.२० ॥ पात्राणि च ददेद्भक्त्या विष्णुमें प्रीयतामिति । द्वादश्यां तु नभःशुक्ले श्रीधरं पूजयेद्व्रती ॥ १,१२१.२१ ॥ गन्धाद्यैस्तत्परो भक्त्या दधिभक्तैर्द्विजोत्तमान् । संभोज्य दक्षिणा रौप्यां दत्वा नत्वा विसर्ज्जयेत् ॥ १,१२१.२२ ॥ व्रतेनानेन देवेशः श्रीधरः प्रीयतामिति । द्वादश्यां नभस्यशुक्ले व्रती संपूज्य वामनम् ॥ १,१२१.२३ ॥ तदग्रे भोजयेद्विप्रान्पायसैर्द्वादशैव च । सौवर्णी दक्षिणां दत्वा विष्णुप्रीतिकरो भवेत् ॥ १,१२१.२४ ॥ द्वादश्यामिषशुक्लायां पद्मनाभं समर्चयेत् । गन्धाद्यैरुपचारैस्तु तदग्रे भोजयेद्द्विजान् ॥ १,१२१.२५ ॥ मधुरान्नेन वस्त्राढ्यां सौवर्णीं दक्षिणां ददेत् । व्रतेनैतेन संतुष्टः पद्मनाभो द्विजोत्तम ॥ १,१२१.२६ ॥ श्वेतद्वीपगतिं दद्याद्देहभोगांश्च वाञ्छितान् । कार्तिके कृष्णपक्षे तु गोवत्सद्वादशीव्रतम् ॥ १,१२१.२७ ॥ तत्र वत्सयुतां गां तु समालिख्य सुगन्धिभिः । चन्दनाद्यैस्तथा पुष्पमालाभिः प्रार्च्य ताम्रके ॥ १,१२१.२८ ॥ पात्रे पुष्पाक्षततिलैरर्घ्यं कृत्वा विधानतः । प्रदद्यात्पादमूलेऽस्या मन्त्रेणानेन नारद ॥ १,१२१.२९ ॥ क्षीरोदार्णवसंभूते सुरासुरनमस्कृते । सर्वदेवमये देवि सर्वदेवैरलङ्कृते ॥ १,१२१.३० ॥ मातर्मातर्गवां मातर्गृहाणार्घ्यं नमोऽस्तु ते । ततो माषादिसंसिद्धान्वटकांश्च निवेदयेत् ॥ १,१२१.३१ ॥ एवं पञ्च दशैकं वा यथाविभवमात्मनः । सुरभि त्वं जगन्माता नित्यं विष्णुपदे स्थिता ॥ १,१२१.३२ ॥ सर्वदेवमये ग्रासं मया दत्तमिमं ग्रस । सर्वदेवमये देवि सर्वदेवैरलङ्कृते ॥ १,१२१.३३ ॥ मातर्ममाभिलषितं सफलं कुरु नन्दिनी । तद्दिने तैलपक्वं च स्थालीपक्वं द्विजोत्तम ॥ १,१२१.३४ ॥ गोक्षीरं गोघृतं चैव दधि तक्रं च वर्जयेत् । द्वादश्यामूर्जशुक्लायां देवं दामोदरं द्विज ॥ १,१२१.३५ ॥ समभ्यर्च्योपचारैस्तु गन्धाद्यैः सुसमाहितः । तदग्रे भोजयेद्विप्रान्पक्वान्नेनार्कसंख्यकान् ॥ १,१२१.३६ ॥ ततः कुंभानपांपूर्णान्वस्त्राच्छन्नान्समर्चितान् । सपूगमोदकस्वर्णांस्तेभ्यः प्रीत्या समर्पयेत् ॥ १,१२१.३७ ॥ एवं कृते प्रियो विष्णोर्जायतेऽखिलभोगभुक् । देहान्ते विष्णुसायुज्यं लभते नात्र संशयः ॥ १,१२१.३८ ॥ नीराजनव्रतं चात्र गदितं तन्निबोध मे । सुप्तोत्थितं जगन्नाथमलङ्कृत्य निशागमे ॥ १,१२१.३९ ॥ अलङ्कृतो नवं वह्निमुत्पाद्याभ्यर्च्य मन्त्रतः । हुत्वा तत्र समुद्दीप्ते रौप्य दीपिकया मुने ॥ १,१२१.४० ॥ गन्धपुष्पाद्यर्चितया जनैर्नीराजयेद्धरिम् । तत्रैवानुगतां लक्ष्मीं ब्रह्माणीं चण्डिकां तथा ॥ १,१२१.४१ ॥ आदित्यं शङ्करं गौरीं यक्षं गणपतिं ग्रहान् । मातॄः पितॄन्नगान्नागान्सर्वान्नीराजयेत्क्रमात् ॥ १,१२१.४२ ॥ गवां नीराजनं कुर्यान्महिष्यादेश्च मण्डलम् । नमो जयेति शब्दैश्च घण्टाशङ्खा दिनिःस्वनैः ॥ १,१२१.४३ ॥ सिंदूरालिप्तशृङ्गाणां चित्राङ्गाणां च वर्णकैः । गवां कोलाहले वृत्ते नीराजनमहोत्सवे ॥ १,१२१.४४ ॥ तुरगांल्लक्षणोपेतां गजांश्च मदविप्लुतान् । राजचिह्नानि सर्वाणि च्छत्रादीनि च नारद ॥ १,१२१.४५ ॥ राजा पुरोधसा सार्धं मन्त्रिभृत्यपरः सरः । पूजयित्वा यथान्यायं नीरज्य स्वयमादरात् ॥ १,१२१.४६ ॥ शङ्खतूर्यादिघोषैश्च नानारत्नविनिर्मिते । सिंहासने नवे कॢप्ते तिष्ठेत्सम्यगलङ्कृतः ॥ १,१२१.४७ ॥ ततः सुलक्षणैर्युक्ता वेश्या वाथ कुलाङ्गना । शीर्षोपरि नरेद्रस्य तया नीराजयेच्छनैः ॥ १,१२१.४८ ॥ एवमेषा महासांतिः कर्तव्या प्रतिवत्सरम् । राज्ञा वित्तवतान्येन वर्षमारोग्यमिच्छता ॥ १,१२१.४९ ॥ येषां राष्ट्रे पुरे ग्रामे क्रियते शान्तिरुत्तमा । नीराजनाभिधा विप्र तद्रोगा यान्ति संक्षयम् ॥ १,१२१.५० ॥ द्वादश्यां मार्गशुक्लायां साध्यव्रतमनुत्तमम् । मनोभवस्तथा प्राणो नरो यातश्च वीर्यवान् ॥ १,१२१.५१ ॥ चितिर्हयो नृपश्चैव हंसो नारायणस्तथा । विभुश्चापि प्रभुश्चैव साध्या द्वादश कीर्तिताः ॥ १,१२१.५२ ॥ पूजयेद्गन्धपुष्पाद्यैरेतांस्तन्दुलकल्पितान् । ततो द्विजाग्र्यान्संभोज्य द्वादशात्र सुदक्षिणाः ॥ १,१२१.५३ ॥ दत्वा तेभ्यस्तु विसृजेत्प्रीयान्नारयणस्त्विति । एतस्यामेव विदितं द्वादशादित्यसंज्ञितम् ॥ १,१२१.५४ ॥ व्रतं तत्रार्चयेद्धीमानादित्यान्द्वादशापि च । धातामित्रोर्ऽयमा पूषा शक्रोंऽशो वरुणो भगः ॥ १,१२१.५५ ॥ त्वष्टा विवस्वान्सविता विष्णुर्द्वादश ईरिताः । प्रतिमासं तु शुक्लायां द्वादश्यामर्च्य यत्नतः ॥ १,१२१.५६ ॥ वर्षं नयेद्व्रतान्ते तु प्रतिमा द्वादशापि च । हैमीः संपूज्य विधिना भोजयित्वा द्विजोत्तमान् ॥ १,१२१.५७ ॥ मधुरान्नैः सुसत्कृत्य प्रत्येकं चार्पयेद्व्रती । एव व्रतं नरः कृत्वा द्वादशादित्यसंज्ञकम् ॥ १,१२१.५८ ॥ सूर्यलोकं समासाद्य भुक्त्वा भोगांश्चरं ततः । जायते भुवि धर्मात्मा मानुष्ये रोगवर्जितः ॥ १,१२१.५९ ॥ ततो व्रतस्य पुण्येन पुनरेव लभेद्व्रतम् । तत्पुण्येन रवेन्भित्वा मण्डलं द्विजसत्तम ॥ १,१२१.६० ॥ निरञ्जनं निरा कारं निर्द्वन्द्वं ब्रह्म चाप्नुयात् । अत्रैवाखण्डसंज्ञं च व्रतमुक्त द्विजोत्तम ॥ १,१२१.६१ ॥ मूर्तिं निर्माय सौवर्णीं जनार्दनसमाह्वयाम् । अभ्यर्च्य गन्धपुष्पाद्यैस्तदग्रे भोजयेद्द्विजान् ॥ १,१२१.६२ ॥ द्वादश प्रतिमासं तु नक्ताशीः स्याज्जितेन्द्रियः । ततः समान्ते तां मूर्तिं समभ्यर्च्य विधानतः ॥ १,१२१.६३ ॥ गुरवे धेनुसहितां दद्यात्संप्रार्थयेत्तथा । शतजन्मसु यत्किञ्चिन्मयाखण्डव्रतं कृतम् ॥ १,१२१.६४ ॥ भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे । ततः संभोज्य विप्राग्र्यान्सखण्डाढ्यैस्तु पायसैः ॥ १,१२१.६५ ॥ द्वादशैव हि सौवर्णीं दक्षिणां प्रददेन्नमेत् । इति कृत्वा व्रतं विप्र प्रीणयित्वा जनार्दनम् ॥ १,१२१.६६ ॥ सौवर्णेन विमानेन याति विष्णोः परं पदम् । पौषस्य कृष्णद्वादश्यां रूपव्रतमुदीरितम् ॥ १,१२१.६७ ॥ दशम्यां विधिवत्स्नात्वा गृह्णीयाद्गोमयं व्रती । श्वेताया वैकवर्णाया अन्तरिक्षगतं द्विज ॥ १,१२१.६८ ॥ अष्टोत्तरशतं तेन पिण्डिकाः कल्प्य नारद । शोषयेदातपे धृत्वा पात्रे ताम्रेऽथ मृन्मये ॥ १,१२१.६९ ॥ एकादश्यां सोपवासः समभ्यर्च्य विधानतः । सौवर्णीं प्रतिमां विष्णोर्निशायां जागरं चरेत् ॥ १,१२१.७० ॥ सुमङ्गलैर्गीतवाद्यैः स्तोत्रपाठैर्जपादिभिः । ततः प्रभाते द्वादश्यां तिलपात्रोपरि स्थिताम् ॥ १,१२१.७१ ॥ अंबुपूर्णे घटे न्यस्य पूजयेदुपचारकैः । ततोऽग्निं नवमुत्पाद्य काष्ठसंघर्षणादिभिः ॥ १,१२१.७२ ॥ तं समभ्यर्च्य विधिवदेकैकां पिण्डिकां सुधीः । होमयेत्सतिलाज्यां च द्वादशाक्षरविद्यया ॥ १,१२१.७३ ॥ वैष्णव्याथ च पूरणां च शतमष्टोत्तर ततः । भोजयेत्पायसैर्विप्रान्प्रीत्या सुस्निग्धमानसः ॥ १,१२१.७४ ॥ सहितां च घटेनैव प्रतिमां गुरवऽपेयेत् । विप्रेभ्यो दक्षिणां शक्त्या दत्वा नत्वा विसर्जयेत् । नरो वा यदि वा नारी व्रतं कृत्वैवमादरात् ॥ १,१२१.७५ ॥ लभते रूपसौभाग्यं नात्र कार्या विचारणा । सहस्ये शुक्लपक्षे तु सुजन्मद्वादशीव्रतम् ॥ १,१२१.७६ ॥ स्नात्वा विधानेन गृह्णोयाद्वार्षिकव्रतम् । पीत्वा गशृङ्गवार्यादौ तां च कृत्वा प्रदक्षिणम् ॥ १,१२१.७७ ॥ प्रतिमासं ततः शुक्लेद्वादश्यां दानमाचरेत् । घृतप्रस्थं तच्चतुष्कं क्रमाद्वीहेर्यवस्य च ॥ १,१२१.७८ ॥ द्विरक्तिकं हेम तिलाढकार्द्धं पयसां घटम् । रौप्यस्य माषमेकं च तृप्तिकृन्मिष्टपक्वकम् ॥ १,१२१.७९ ॥ छत्रं माषार्धहेम्नश्च प्रस्थं फआणितमुत्तमम् । चन्दनं पलिकं वस्त्रं पञ्चहस्तोन्मितं तनुम् ॥ १,१२१.८० ॥ एवं तु मासिकं दानं कृत्वा प्राश्य यथाक्रमम् । गोमूत्रं जलमाज्यं वा पक्त्वा शाकं चतुर्विधम् ॥ १,१२१.८१ ॥ दधियुक्तं च यावान्नं तिलाज्यं शर्करान्विताम् । दर्भांबुक्षीरमुदितं प्राशनं प्रतिमासिकम् ॥ १,१२१.८२ ॥ एवं कृतव्रतो वर्षं सौवर्णीं प्रतिमां रवेः । कृत्वा वै ताम्रपात्रस्थां न्यस्याभ्यर्च्य विधानतः ॥ १,१२१.८३ ॥ गुरवे धेनुसहितां प्रत्यर्प्य प्रणमेत्पुरः । विप्रान्द्रादश संभोज्य तेभ्यो दद्याच्च दक्षिणाम् ॥ १,१२१.८४ ॥ एवं कृतव्रतो विप्र जन्माप्नोत्युत्तमे कुले । निरोगो धनधान्याढ्यो भवेच्चाविकलेद्रियः ॥ १,१२१.८५ ॥ माघस्य शुक्लद्वादश्यां शालग्रामशिलां द्विज । अभ्यच्य विधिवद्भक्त्या सुवर्णं तन्मुखे न्यसेत् ॥ १,१२१.८६ ॥ तां स्थाप्य रौप्यपात्रे तु सितवस्त्रयुगावृताम् । प्रदद्याद्वेदविदुषे तं हि संभोजयेत्ततः ॥ १,१२१.८७ ॥ पायसान्नेन खण्डाज्यसहितेन हितेन च । एवं कृत्वैकभक्तः सन्विष्णु चिन्तनतत्परः ॥ १,१२१.८८ ॥ वैष्णवं लभते धाम भुक्त्वा भोगानिहेप्सितान् । अन्त्ये सितायां द्वादश्यां सौवर्णीं प्रतिमां हरेः ॥ १,१२१.८९ ॥ अभ्यर्च्य गन्धपुष्पाद्यैर्दद्याद्वेदविदे द्विज । द्विषट्कसंख्यान्विप्रांश्च भोजयित्वा च दक्षिणाम् ॥ १,१२१.९० ॥ दत्वा विसर्जयेत्पश्चात्स्वयं भुञ्जीत बान्धवैः । त्रिस्पृशोन्मीलिनी पक्षवर्द्धिनी वञ्जुली तथा ॥ १,१२१.९१ ॥ जया च विजया चैव जयन्ती चापराजिता । एता अष्टौ सदोपोष्या द्वादश्यः पापहारिकाः ॥ १,१२१.९२ ॥ श्रीनारद उवाच कीदृशं लक्षणं ब्रह्मन्नेतासां किं फलं तथा । तत्सर्वं मे समाचक्ष्व याश्चन्याः पुण्यदायुकाः ॥ १,१२१.९३ ॥ सूत उवाच इत्थं सनातनः पृष्टो नारदेन द्विजोत्तमः । प्रशस्य भ्रातरं प्राह महाभागवतं मुनिः ॥ १,१२१.९४ ॥ सनातन उवाच साधु पृष्टं त्वया भ्रातः साधूनां संशयच्छिदा । वक्ष्ये महाद्वादशीनां लक्षणं च फलं पृथक् ॥ १,१२१.९५ ॥ एकादशी निवृत्ता चेत्सूर्यस्योदयतः पुरा । तदा तु त्रिस्पृशा नाम द्वादशी सा महाफला ॥ १,१२१.९६ ॥ अस्यामुपोष्य गोविन्दं यः पूजयति नारद । अश्वमेधसहस्रस्य फलं लभते ध्रुवम् ॥ १,१२१.९७ ॥ यदारुणोदये विद्धा दशम्यैकादशी तिथिः । तदा तां संपरित्यज्य द्वादशीं समुपोषयेत् ॥ १,१२१.९८ ॥ तत्रेष्ट्वा वासुदेवाख्यं सम्यक्पूजाविधानतः । राजसूयसहस्रस्य फलमुन्मीलिते लभेत् ॥ १,१२१.९९ ॥ यदोदये तु सवितुर्याम्या त्वेकादशीं स्पृशेत् । तदा वञ्जुलिकाख्यां तु तां त्यक्त्वोपोषयेत्सदा ॥ १,१२१.१०० ॥ अस्यां संकर्षणं देवं गन्धाद्यैरुपचारकैः । पूजयेत्सततं भक्त्या सर्वस्याभयदं परम् ॥ १,१२१.१०१ ॥ एषा महाद्वादशी तु सर्वक्रतुफलप्रदा । सर्वपापहरा प्रोक्ता सर्वसंपत्प्रदायिनी ॥ १,१२१.१०२ ॥ कुहूराके यदा वृद्धे स्यातां विप्र यदा तदा । पक्षवर्द्धनिका नाम द्वादशी सा महाफला ॥ १,१२१.१०३ ॥ तस्यां संपूजयेद्देवं प्रद्युम्नं जगतां पतिम् । सर्वैश्वर्य्यप्रदं साक्षात्पुत्र पौत्रविवर्धनम् ॥ १,१२१.१०४ ॥ यदा तु धवले पक्षे द्वादशी स्यान्मधान्विता ॥ठ तदा प्रोक्ता जया नाम सर्वशत्रुविनाशिनी ॥ १,१२१.१०५ ॥ अस्यां संपूजयेद्देव मनिरुद्धं रमापतिम् । सर्वकामप्रदं नॄणां सर्वसौभाग्यदायकम् ॥ १,१२१.१०६ ॥ श्रवणर्क्षयुता चेत्स्याद्द्वादशी धवले दले । तदा सा विजया नाम तस्यामचेद्गदाधरम् ॥ १,१२१.१०७ ॥ सर्वसौख्यप्रदं शश्वत्सर्वभोगपरायणम् । सर्वतीर्थफलं विप्र तां चोपोष्याप्नुयान्नरः ॥ १,१२१.१०८ ॥ यदा स्याच्च सिते पक्षे प्राजापत्यर्क्षसंयुता । द्वादशी सा महापुण्या जयन्ती नामतः स्मृता ॥ १,१२१.१०९ ॥ यस्यां समर्च्चयेद्देवं वामनं सिद्धिदं नृणाम् । उपोषितैषा विप्रेन्द्र सर्वव्रतफलप्रदा ॥ १,१२१.११० ॥ सर्वदानफला चापि भुक्तिमुक्तिप्रदायिनी । यदा तु स्यात्सिते पक्षे द्वादशी जीवभान्विता ॥ १,१२१.१११ ॥ तदापराजिता प्रोक्ता सर्वज्ञा नप्रदायिनी । अस्यां समर्चयेद्देवं नारायणमनामयम् ॥ १,१२१.११२ ॥ संसारपाशविच्छित्तिकारकं ज्ञानसागरम् । अस्यास्तूपोषणादेव मुक्तः स्याद्विप्र भोजनः ॥ १,१२१.११३ ॥ यदा त्वाषाढशुक्लायां द्वादश्यां मैत्रभं भवेत् । तदा व्रतद्वयं कार्य्यं न दोषोऽत्रैकदैवतम् ॥ १,१२१.११४ ॥ श्रवणर्क्षयुतायां च द्वादश्यां भाद्रशुक्लके । ऊर्ज्जे सितायां द्वादश्यामन्त्यभे च व्रतद्वयम् ॥ १,१२१.११५ ॥ एताभ्योऽन्त्र विप्रेन्द्र द्वादश्यामेकभुक्तकम् । निसर्गतः समुद्दिष्टं व्रतं पातकनाशनम् ॥ १,१२१.११६ ॥ एकादश्या व्रतं नित्यं द्वादश्याः सहितं यतः । नोद्यापनमिहोद्दिष्टं कर्त्तव्यं जीविताविधि ॥ १,१२१.११७ ॥ इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने पूर्वभागे चतुर्थपादे द्वादशमासस्य द्वादशीव्रतनिरूपणं नामैकविंशत्यधिकशततमोऽध्यायः _____________________________________________________________ सनातन उवाच अथातऋ संप्रवक्ष्यामि त्रयोदश्या व्रतानि ते । यानि कृत्वा नरो भक्त्या सुभगो जायते भुवि ॥ १,१२२.१ ॥ मधौ शुक्लत्रयोदश्यां मदनं चन्दनात्मकम् । कृत्वा संपूज्य यत्नेन वीजेयव्द्यजनेन च ॥ १,१२२.२ ॥ ततः संक्षुधितः कामः पुत्रपौत्रविवर्द्धनः । अनङ्गपूजाप्यत्रोक्ता तां निबोध मुनीश्वर ॥ १,१२२.३ ॥ सिन्दूररजनीरागैः फलकेऽनङ्गमालिखेत् । रतिप्रीतियुतं श्लक्ष्णं पुष्पचापेषुधारिणम् ॥ १,१२२.४ ॥ कामदेवं वसन्तं च वाजिवक्त्रं वृषध्वजम् । मध्याह्ने पूजयेद्भक्त्या गन्धस्रग्भूषणांशुकैः ॥ १,१२२.५ ॥ क्षभ्यैर्नानाविधैश्चापि मन्त्रेणानेन नारद । नमो माराय कामाय कामदेवस्य मूर्त्तये ॥ १,१२२.६ ॥ ब्रह्मविष्णुशिवेन्द्राणां मनःभोभकराय वै । तत्तस्याग्रतो भक्त्या पूजयेदङ्गनापतिम् ॥ १,१२२.७ ॥ वस्त्रमाल्याविभूषाद्यैः कामोऽयमिति चिन्तयेत् । संपूज्य द्विजदांपत्यं गन्धवस्त्रविभूषणैः ॥ १,१२२.८ ॥ एवं यः कुरुते विप्र वर्षे वर्षे महोत्सवम् । वसंतसमये प्राप्ते हृष्टः पुष्टः सदैव सः ॥ १,१२२.९ ॥ प्रतिमासं पूजयेद्वा यावद्वर्षं समाप्यते । मदनं हृद्भवं कामं मन्मथं च रतिप्रियम् ॥ १,१२२.१० ॥ अनङ्गं चैव कन्दर्पं पूजयेन्मकरध्वजम् । कुसुमायुधसंज्ञं च ततः पश्चान्मनोभवम् ॥ १,१२२.११ ॥ विषमेषु तथा विप्र मालर्ताप्रियमित्यपि । अजाया दानमप्युक्तं स्नात्वा नद्या विधानतः ॥ १,१२२.१२ ॥ अजाः पयस्विनीर्दद्याद्दरिद्राय कुटुंबिने । भूयस्त्वनेन दानेन स लोके नैव जायते ॥ १,१२२.१३ ॥ यदीयं शनिना युक्ता सा महावारुणी स्मृता । गङ्गायां यदि लभ्येत कोटिसूर्यग्रहाधिका ॥ १,१२२.१४ ॥ शुभयोगः शतर्क्षं च शनौ कामे मधौ सिते । महामहेति विख्याता कुलकोटिविमुक्तिदा ॥ १,१२२.१५ ॥ राधशुक्लत्रयोदश्यां कामदेवव्रतं स्मृतम् । तत्र गन्धादिभिः कामं पूजयेदुपवासवान् ॥ १,१२२.१६ ॥ प्रतिमासं ततः पश्चात्त्रयोदश्यां सिते दले । एवमेव व्रतं कार्यं वर्षान्ते गामलङ्कृताम् ॥ १,१२२.१७ ॥ दद्याद्विप्राय सत्कृत्य व्रतसांगत्वसिद्धये । ज्येष्ठशुक्लत्रयोदश्यां दौर्भाग्यशमनं व्रतम् ॥ १,१२२.१८ ॥ तत्र स्नात्वा नदीतोये पूजयेच्छुचिदेशजम् । श्वेतमन्दारमर्कं वा करवीरं च रक्तकम् ॥ १,१२२.१९ ॥ निरीक्ष्य गगने सूर्यं प्रार्थयेन्मन्त्रतस्तदा । मन्दारकरवीरार्का भवन्तो भास्करांशजाः ॥ १,१२२.२० ॥ पूजिता मम दौर्भाग्यं नाशयन्तु नमोऽस्तु वः । इत्थं योर्ऽचयते भक्त्या वर्षे वर्षे द्रुमत्रयम् ॥ १,१२२.२१ ॥ नश्यते तस्य दौर्भाग्यं नात्र कार्या विचारणा । शुचिशुक्लत्रयोदश्यामेकभक्तं समाचरेत् ॥ १,१२२.२२ ॥ पूजयित्वा जगन्नाथावुमामाहेश्वरी तनूः । हैम्यौ रौप्यौ च मृन्मप्यौ यथाशक्त्या विधाय च ॥ १,१२२.२३ ॥ सिंहोक्षस्थे देवगृहे गोष्ठे ब्राह्मणवेश्मनि । स्थापयित्वा प्रतिष्ठाप्य दैवमन्त्रेण नारद ॥ १,१२२.२४ ॥ ततः पञ्चदिनं पूजा चैकभक्तं व्रतं तथा । तृतीयदिवसे प्रातः स्नात्वा संपूज्य तौ पुनः ॥ १,१२२.२५ ॥ समर्पणीयौ विप्राय वेदवेदाङ्गशालिने । वर्षे वर्षे ततः पश्चाद्विधेयं वर्षपञ्चकम् ॥ १,१२२.२६ ॥ तदन्ते धेनुयुग्मेन सहितौ तौ प्रदापयेत् । इत्थं नरो वा नारी वा कृत्वा व्रतमिदं शुभम् ॥ १,१२२.२७ ॥ नैव दांपत्यविच्छेदं लभते सप्तजन्मसु । नभः शुक्लत्रयोदश्यां रतिकामव्रतं शुभम् ॥ १,१२२.२८ ॥ वैधव्यवारणं स्त्रीणां तथा संतानवर्धनम् । कृतोपवासा कन्यैव नारी वा द्विजसत्तम ॥ १,१२२.२९ ॥ ताम्रे वा मृन्मये वापि सौवर्णे राजते तथा । रतिकामौ प्रविन्यस्य गन्धाद्यैः सम्यगर्चयेत् ॥ १,१२२.३० ॥ ततस्तु द्विजदांपत्यं चतुर्दश्यां निमन्त्र्य च । सतकृत्य भोज्य प्रतिमे दद्यात्ताभ्यां सदक्षिणे ॥ १,१२२.३१ ॥ एवं चतुर्दशाब्दं च कृत्वा व्रतमनुत्तमम् । धेनुयुग्मान्विते देये व्रतसंपूर्तिहेतवे ॥ १,१२२.३२ ॥ भाद्रशुक्लत्रयोदश्यां गोत्रिरात्रव्रतं स्मृतम् । लक्ष्मीनारायणं कृत्वा सौवर्णं वापि राजतम् ॥ १,१२२.३३ ॥ पञ्चामृतेन संस्नाप्य मण्डलेऽष्टदले शुभे । पीठे विन्यस्य वस्त्राढ्यं गन्धाद्यैः परिपूजयेत् ॥ १,१२२.३४ ॥ आरार्तिकं ततः कृत्वा दद्यात्सान्नोदकं घटम् । एवं दिनत्रयं कृत्वा व्रतान्ते मासमर्च्य च ॥ १,१२२.३५ ॥ सम्यगर्थं च संपाद्य दद्यान्मन्त्रेण नारद । पञ्चगावः समुत्पन्ना मथ्यमाने महोदधौ ॥ १,१२२.३६ ॥ तासां मध्ये तु या नन्दा तस्यै धेन्वै नमो नमः । प्रदक्षिणीकृत्य ततो दद्याद्विप्राय मन्त्रतः ॥ १,१२२.३७ ॥ गावो ममाग्रतः सन्तु गावो मे संतु पृष्ठतः । गावो मे पार्श्वतः संतु गवां मध्ये वसाम्यहम् ॥ १,१२२.३८ ॥ ततश्च द्विजदांपत्यं सम्यगभ्यर्च्य भोजयेत् । लक्ष्मीनारायणं तस्मै सत्कृत्य प्रतिपादयेत् ॥ १,१२२.३९ ॥ अश्वमेधसहस्राणि राजसूयशतानि च । कृत्वा यत्फलमाप्नोति गोत्रिरात्रव्रताच्च तत् ॥ १,१२२.४० ॥ इषे शुक्लत्रयोदश्यां त्रिरात्रशोककव्रतम् । हैमं ह्यशोकं निर्माय पूजयित्वा विधानतः ॥ १,१२२.४१ ॥ उपवासपरा नारी नित्यं कुर्यात्प्रदक्षिणाः । अष्टोत्तरशतं विप्र मन्त्रेणानेन सादरम् ॥ १,१२२.४२ ॥ हरेण निर्मितः पूर्वं त्वमशोक कृपालुना । लोकोपकारकरणस्तत्प्रसीद शिवप्रिय ॥ १,१२२.४३ ॥ ततस्तृतीये दिवसे वृक्षे तस्मिन्वृषध्वजम् । समभ्यर्च्य विधानेन द्विजं संभोज्य दापयेत् ॥ १,१२२.४४ ॥ एवं कृतव्रता नारी वैधव्यं नाप्नुयात्क्वचित् । पुत्रपौत्रादि सहिता भर्तुश्च स्यात्सुवल्लभा ॥ १,१२२.४५ ॥ ऊर्ज्जकृष्णत्रयोदश्यामेकभक्तः समाहितः । प्रदोषे तैलदीपं तु प्रज्वाल्याभ्यर्च्य यत्नतः ॥ १,१२२.४६ ॥ गृहद्वारे बहिर्दद्याद्यमो मे प्रीयतामिति । एवं कृते तु विप्रेन्द्र यमपीडा न जायते ॥ १,१२२.४७ ॥ ऊर्ज्शुक्लत्रयोदश्यामेकभोजी द्विजोत्तम । पुनः स्नात्वा प्रदोषे तु वाग्यतः सुसमाहितः ॥ १,१२२.४८ ॥ प्रदीपानां सहस्रेण शतेनाप्यथवा द्विज । प्रदीपयेच्छिवं वापि द्वात्रिंशद्दीपमालया ॥ १,१२२.४९ ॥ घृतेन दीपयेद्द्वीपान्गन्धाद्यैः पूजयेच्छिवम् । फलैर्नानाविधैश्चैव नैवेद्यैरपि नारद ॥ १,१२२.५० ॥ ततः स्तुवीत देवेशं शिवं नाम्नां शतेन च । तानि नामानि कीर्त्यन्ते सर्वाभीष्टप्रदानि वै ॥ १,१२२.५१ ॥ नमो रुद्राय भीमाय नीलकण्ठाय वेधसे । कपर्द्दिने सुरेशाय व्योमकेशाय वै नमः ॥ १,१२२.५२ ॥ वृषध्वजाय सोमाय सोमनाथाय वै नमः । दिगंबराय भृङ्गाय उमाकान्ताय वर्द्धिने ॥ १,१२२.५३ ॥ तपोमयाय व्याप्ताय शिपिविष्याय वै नमः । व्यालप्रियाय व्यालाय व्यालानां पतये नमः ॥ १,१२२.५४ ॥ महीधराय व्योमाय पशूनां पतये नमः । त्रिपुरघ्नाय सिंहाय शार्दूलायार्षभाय च ॥ १,१२२.५५ ॥ मिताय मितनाथाय सिद्धाय परमेष्ठिने । वेदगीताय गुप्ताय वेदगुह्याय वै नमः ॥ १,१२२.५६ ॥ दीर्घाय दीर्घरूपाय दीर्घार्थाय महीयसे । नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः ॥ १,१२२.५७ ॥ कल्याणाय विशिष्याय शिष्टाय परमात्मने । गजकृत्ति धरायाथ अन्धकासुरभेदिने ॥ १,१२२.५८ ॥ नीललोहितशुक्लाय चडमुण्डप्रियाय च । भक्तिप्रियाय देवाय यज्ञान्तायाव्ययाय च ॥ १,१२२.५९ ॥ महेशाय नमस्तुभ्यं महादेवहराय च । त्रिनेत्राय त्रिवेदाय वेदाङ्गाय नमो नमः ॥ १,१२२.६० ॥ अर्थायार्थस्वरूपाय परमार्थाय वै नमः । विश्वरूपाय विश्वाय विश्वनाथाय वै नमः ॥ १,१२२.६१ ॥ शङ्कराय च कालाय कालावयवरूपिणे । अरूपाय विरूपाय सूक्ष्मसूक्ष्माय वै नमः ॥ १,१२२.६२ ॥ श्मशानवासिने तुभ्यं नमस्ते कृत्तिवाससे । शशाङ्कशेखरायाथ रुद्रभूमिश्रिताय च ॥ १,१२२.६३ ॥ दुर्गाय दुर्गपाराय दुर्गावयवसाक्षिणे । लिङ्गरूपाय लिङ्गाय लिङ्गानपतये नमः ॥ १,१२२.६४ ॥ नमः प्रभावरूपाय प्रभावार्थाय वै नमः ॥ १,१२२.६५ ॥ नमो नमः कारणकारणाय ते मृत्युञ्जयायात्मभवस्वरूपिणे । त्रियंबकाय शितिकण्ठभार्गिणे गौरीयुजे मङ्गलहेतवे नमः ॥ १,१२२.६६ ॥ नाम्नां शतमिदं विप्र पिनाकिगुणकीर्तनम् । पठित्वा दक्षिणीकृत्य प्रायान्निजनिकेतनम् ॥ १,१२२.६७ ॥ एवं कृत्वा व्रतं विप्र महादेवप्रसादतः । भुक्त्वेह भोगानखिलानन्ते शिवपदं लभेत् ॥ १,१२२.६८ ॥ मार्गशुक्लत्रयोदश्यां योऽनङ्गं विधिना यजेत् । त्रिकालमेककालं वा शिवसंगमसंभवम् ॥ १,१२२.६९ ॥ गन्धाद्यैरुपचारैस्तु पूजयित्वा विधानतः । घटे मङ्गलपट्टे वा भोजयेद्द्विजदंपती ॥ १,१२२.७० ॥ ततश्च दक्षिणां दत्वा स्वयमेकाशनं चरेत् । एवं कृते तु विधिवद्व्रती सौभाग्यभाजनः ॥ १,१२२.७१ ॥ जायते भुवि विप्रेन्द्र महादेवप्रसादतः ॥ १,१२२.७१ ॥ पौषशुक्लत्रयोदश्यां समभ्यर्च्याच्युतं हरिम् । घृतपात्रं द्विजेन्द्राय प्रदद्यात्सर्वसिद्धये ॥ १,१२२.७२ ॥ माघशुक्लत्रयोदश्यां समारभ्य दिनत्रयम् । माघस्नानव्रतं विप्र नानाकामफलावहम् ॥ १,१२२.७३ ॥ प्रयागे माघमासे तु त्र्यहं स्नातस्य यत्फलम् । नाश्वमेघसहस्रेण तत्फलं लभते भुवि ॥ १,१२२.७४ ॥ तत्र स्नानं जपो होमो दानं चानन्त्यमश्नुते । फआल्गुने तु सिते पक्षे त्रयोदश्यामुपोषितः ॥ १,१२२.७५ ॥ नमस्कृत्य जगन्नाथं प्रारंभे धनदव्रतम् । महाराजं यक्षपतिं गन्धाद्यैरुपचारकैः ॥ १,१२२.७६ ॥ लिखितं वर्णकैः पट्टे पूजयेद्भक्तिभावतः । एवं शुक्लत्रयोदश्यां प्रतिमासं द्विजोत्तम ॥ १,१२२.७७ ॥ संपूजयेत्सोपवासश्चैकभुक्तो भवेन्नरः । ततो व्रतान्ते तु पुनः सौवर्णं धननायकम् ॥ १,१२२.७८ ॥ विधाय निधिभिः सार्द्धं सौवर्णाभिर्द्विजोत्तम । उपचारैः षोडशभिः स्नानैः पञ्चामृतादिभिः ॥ १,१२२.७९ ॥ नैवेद्यैर्विविधैर्भक्त्या पूजयेत्तु समाहितः । ततो धेनुमलङ्कृत्य वस्त्रस्रग्गन्धभूषणैः ॥ १,१२२.८० ॥ सवत्सां दापयेद्विप्र सम्यग्वेदविदे शुभाम् । संभोज्य विप्रान्मिष्टान्नैर्द्वादशाथ त्रयोदश ॥ १,१२२.८१ ॥ गुरुं समर्च्य वस्त्राद्यैः प्रतिमां तां निवेदयेत् । द्विजेभ्यो दक्षणां शक्त्या दत्वा नत्वा विसृज्य च ॥ १,१२२.८२ ॥ स्वयं भुञ्जीत मतिमानिष्टैः सह समाहितः । एवं कृते व्रते विप्र निर्धनः प्राप्य वैभवम् ॥ १,१२२.८३ ॥ मोदते भुवि विख्यातो राजराज इवापरः ॥ १,१२२.८४ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वादशमासस्थितत्रयोदशीव्रतकथनं नाम द्वाविंशदधिकशततमोऽध्यायः _____________________________________________________________ सनातन उवाच शृणु नारद वक्ष्यामि चतुर्दश्या व्रतानि ते । यानि कृत्वा नरो लोके सर्वान्कामानवाप्नुयात् ॥ १,१२३.१ ॥ चैत्रशुक्ल चतुर्दश्यां कुङ्कुमागरुचन्दनैः । गन्धाद्यैर्वस्त्रमणिभिः कार्यार्या महती शिवे ॥ १,१२३.२ ॥ वितानध्वजछत्राणि दत्वा पूज्याश्च मातरः । एवं कृत्वार्चनं विप्र सोपवासोऽथवैकभुक् ॥ १,१२३.३ ॥ अश्वमेधाधिकं पुण्यं लभते मानवो भुवि । अत्रैव दमनार्चां च कारयेद्गन्धपुष्पकैः ॥ १,१२३.४ ॥ समर्पयेत्सुपूर्णायां शिवाय शिवरूपिणे । राधकृष्णच तुर्द्दश्यां सोपवासो निशागमे ॥ १,१२३.५ ॥ लिङ्गमभ्यर्चयेच्चैवं स्नात्वा धौतांबरः सुधीः । गन्धाद्यैरुपचारैश्च बिल्वपत्रैश्च सर्वतः ॥ १,१२३.६ ॥ दत्वा मन्त्रं द्विजाग्र्याय भुञ्जीत च परेऽहनि । एवमेव तु कृष्णासु सर्वासु द्विजसत्तम ॥ १,१२३.७ ॥ शिवव्रतं प्रकर्तव्यं धनसंतानमिच्छता । राधशुक्लचतुर्दश्यां श्रीनृसिंहव्रतं चरेत् ॥ १,१२३.८ ॥ उपवासविधानेन शक्तोऽशक्तस्तथैकभुक् । निशागमे तु संपूज्य नृसिंहं दैत्यसूदनम् ॥ १,१२३.९ ॥ उपचारैः षोडशभिः स्नानैः पञ्चामृतादिभिः । ततः क्षमापयेद्देवं मन्त्रेणानेन नारद ॥ १,१२३.१० ॥ तत्पहाटककेशान्त ज्वलत्पावकलोचन । वज्राधिकनखस्पर्शदिव्यसिंह नमोऽस्तु त ॥ १,१२३.११ ॥ इति संप्रार्थ्य देवेशं व्रती स्यात्स्थण्डिलेशयः । जितेन्द्रियो जितक्रोधः सर्वभोगविवर्ज्जितः ॥ १,१२३.१२ ॥ एवं यः कुरुते विप्र विधिवद्व्रतमुत्तमम् । वर्षे वर्षे स लभते भुक्तभोगो हरेः पदम् ॥ १,१२३.१३ ॥ ओङ्कारेश्वरयात्रा च कार्यात्रैव मुनीश्वर । दुर्लभं वार्चनं तत्र दर्शनं पापनाशनम् ॥ १,१२३.१४ ॥ किमत्र बहुनोक्तेन पूजाध्यानजपेक्षणम् । यद्भवेत्तत्समुद्दिष्टं ज्ञानमोक्षप्रदं नृणाम् ॥ १,१२३.१५ ॥ अत्र लिङ्गव्रतं चापि कर्त्तव्यं पापनाशनम् । पञ्चामृतैस्तु संस्नाप्य लिङ्गमालिप्य कुङ्कुमैः ॥ १,१२३.१६ ॥ नैवेद्यैश्च फलैर्धूपैर्दीपैर्वस्त्रविभूषणैः । एवं यः पूजयेत्पैष्टं लिङ्गं सर्वार्थसिद्धिदम् ॥ १,१२३.१७ ॥ भुक्तिं मुक्तिं स लभते महादेवप्रसादतः । ज्येष्ठशुक्लचतुर्दश्यां दिवा पञ्चतपा निशः ॥ १,१२३.१८ ॥ मुखे ददेद्धेमधेनुं रुद्रव्रतमिदं स्मृतम् । शुचिशुक्लचतुर्दश्यां शिवं संपूज्य मानवः ॥ १,१२३.१९ ॥ देशकालोद्भवैः पुष्पैः सर्वसंपदमाप्नुयात् । नभः शुक्लचतुर्दश्यां पवित्रारोपणं मतम् ॥ १,१२३.२० ॥ तत्स्वशाखोक्तविधिना कर्तव्यं द्विजसत्तम । शताभिमन्त्रितं कृत्वा ततो देव्यै निवेदयेत् ॥ १,१२३.२१ ॥ पवित्रारोपणं कृत्वा नरो नार्यथवा यदि । महादेव्याः प्रसादेन भुक्तिं मुक्तिमवाप्नुयात् ॥ १,१२३.२२ ॥ भाद्रशुक्लचतुर्दश्यामनन्तव्रतमुत्तमम् । कर्त्तव्यमेकभुक्तं हि गोधूमप्रस्थपिष्टकम् ॥ १,१२३.२३ ॥ विपाच्य शर्कराज्याक्तमनन्ताय निवेदयेत् । गन्धाद्यैः प्राक्समभ्यर्च्यः कार्पासं पट्टजं तु वा ॥ १,१२३.२४ ॥ चतुर्दशग्रन्थियुतं सूत्रं कृत्वा सुशोभनम् । ततः पुराणमुत्तार्य सूत्रं क्षिप्त्वा जलाशयें ॥ १,१२३.२५ ॥ निबघ्नीयान्नवं नारी वामे दक्षे पुमान्भुजे । विपाच्य पिष्टपक्वं तत्प्रदद्याद्दक्षिणान्वितम् ॥ १,१२३.२६ ॥ स्वयं च तन्मितं चाद्यादेवं कुर्याद्व्रतोत्तमम् । द्विसप्तवर्षपर्यन्तं तत उद्यापयेत्सुधीः ॥ १,१२३.२७ ॥ मण्डलं सर्वतोभद्रं धान्यवर्णैः प्रकल्प्य च । सुशोभने न्यसेत्तत्र कलशं ताम्रजं मुने ॥ १,१२३.२८ ॥ तस्योपरि न्यसेद्धैमीमनन्तप्रतिमां शुभाम् । पीतपट्टांशुकाच्छन्नां तत्र तां विधिना यजेत् ॥ १,१२३.२९ ॥ गणेशं मातृकाः खेटांल्लोकपांश्च यजेत्पृथक् । ततो होमं हविष्येण कृत्वा पूर्णाहुतिं चरेत् ॥ १,१२३.३० ॥ शय्यां सोपस्करां धेनुं प्रतिमां च द्विजोत्तम । प्रदद्याद्गुरवे भक्त्या द्विजानन्यांश्चतुर्दश ॥ १,१२३.३१ ॥ संभोज्य मिष्टपक्वान्नैर्दक्षिणाभिः प्रतोषयेत् । एवं यः कुरुतेऽनन्तव्रतं प्रत्यक्षमादरात् ॥ १,१२३.३२ ॥ सोऽप्यनन्तप्रसादेन जायते भुक्तिमुक्तिभाक् । कदलीव्रतमप्यत्र तद्विधानं च मे शृणु ॥ १,१२३.३३ ॥ नरो वा यदि वा नारी रंभामुपवनस्थिताम् । स्नात्वा संपूजयेद्गन्धपुष्पधान्याङ्कुरादिभिः ॥ १,१२३.३४ ॥ दधिदूर्वाक्षतैर्द्द्वीपैर्वस्त्रपक्कान्नसं चथैः । एवं संपूज्य मन्त्रेण ततः संप्रार्थयेर्द्वती ॥ १,१२३.३५ ॥ अप्सरो मरकन्याभिर्नागकन्याभिरार्चिते । शरीरारोग्यलावण्यं देहि देवि नमोऽस्तु ते ॥ १,१२३.३६ ॥ इति संप्रार्थ्यं कन्यास्तु चतस्रो वा सुवासिनीः । संभोज्यां शुकसिद्वरकज्जलालक्तचर्चिताः ॥ १,१२३.३७ ॥ नमस्कृत्य निजं गेहं समाप्य नियमं व्रजेत् । एवं कृते व्रते विप्र लब्ध्वा सौभाग्यमुत्तमम् ॥ १,१२३.३८ ॥ इह लोके विमानेन स्वर्गलोके व्रजेत्परम् । इषकृष्णचतुर्द्दश्यां विषशस्त्रांबुवह्निभिः ॥ १,१२३.३९ ॥ सर्पश्वापदवज्राद्यैर्हतानां ब्रह्मघातिनाम् । चतुर्द्दश्यां क्रियाश्राद्धमेकोद्दिष्टविधानतः ॥ १,१२३.४० ॥ कर्तव्यं विप्रवर्गं च भोजयेन्मिष्टपक्वकैः । तर्पणं च गवां ग्रासं बलिं चैव श्वकाकयोः ॥ १,१२३.४१ ॥ कृत्वा चम्य स्वयं पश्चाद्भुञ्जीयाद्बन्धुभिः सह । एवं यः कुरुते विप्र श्राद्धं संपन्नदक्षिणम् ॥ १,१२३.४२ ॥ स उद्धृत्य पितॄन्गच्छेद्देवलोकं सनातनम् । इषशुक्ल चतुर्द्दश्यां धर्मराजं द्विजोत्तम ॥ १,१२३.४३ ॥ गन्धाद्यैः सम्यगभ्यर्च्य सौवर्णं भोज्य वाङवम् । दद्यात्तस्मै धर्मराजस्त्रायते भुवि नारद ॥ १,१२३.४४ ॥ एवं यः कुरुते धर्मप्रतिमादानमुत्तमम् । स भुक्त्वेह वरान्भोगान्दिवं धर्माज्ञया व्रजेत् ॥ १,१२३.४५ ॥ ऊर्ज्जकृष्णचतुर्द्दश्यां तैलाभ्यङ्गं विधूदये । कृत्वा स्नात्वार्चयेद्धर्मं नरकादभयं लभेत् ॥ १,१२३.४६ ॥ प्रदोषे तैलदीपांस्तु दीपयेद्यमतुष्टये । चतुष्पथे गृहाद्ब्राह्मप्रदेशे वा समाहितः ॥ १,१२३.४७ ॥ वत्सरे हेमलंब्याख्ये मासि श्रीमति कार्तिके । शुक्लपक्षे चतुर्द्दश्यामरुणाभ्युदयं प्रति ॥ १,१२३.४८ ॥ स्नात्वा विश्वेश्वरो देवो देवैः सह मुनीश्वर । मणिकर्णिक तीर्थे च त्रिपुण्ड्रं भस्मना दधत् ॥ १,१२३.४९ ॥ स्वात्मानं स्वयमभ्यर्च्य चक्रे पाशुपतव्रतम् । ततस्तत्र महापूजां लिङ्गे गन्धादिभिश्चरेत् ॥ १,१२३.५० ॥ द्रोणपुष्पैर्बिल्वदलैरर्कपुष्पैश्च केतकैः । पुष्पैः फलैर्मिष्टपक्वैर्नैवेद्यैर्विविधैरपि ॥ १,१२३.५१ ॥ एवं कृत्वैकभुक्तं तु व्रतं विश्वेशतोषणम् । लभते वाञ्छितान्कामानिहामुत्र च नारद ॥ १,१२३.५२ ॥ ब्रह्मकूर्चव्रतं चात्र कर्तव्यमृद्धिमिच्छता । सोपवासः पञ्चगव्यं पिबेद्रात्रौ जितेन्द्रियः ॥ १,१२३.५३ ॥ कपिलायास्तु गोमूत्रं कृष्णाया गोमयं तथा । श्वेतायाः क्षीरमुदितं रक्तायाश्च तथा दधि ॥ १,१२३.५४ ॥ गृहीत्वा कर्बुरायाश्च घृतमेकत्र मेलयेत् । कुशां बुना ततः प्रातः स्नात्वा सन्तर्प्यं देवताः ॥ १,१२३.५५ ॥ ब्रह्मणांस्तोषयित्वा च भुञ्जीयाद्वाग्यतः स्वयम् । ब्रह्मकूर्चव्रतं ह्येतत्सर्वपातकनाशनम् ॥ १,१२३.५६ ॥ यच्च बाल्ये कृतं पापं कौमारे वार्द्धकेऽपि यत् । ब्रह्मकूर्चोपवासेन तत्क्षणादेव नश्यति ॥ १,१२३.५७ ॥ पाषाणव्रतमप्यत्र प्रोक्तं तच्छृणु नारद । सोपवासो दिवा नक्तं पाषाणाकारपिष्टचकम् ॥ १,१२३.५८ ॥ प्रार्च्य गन्धादिभिर्गौंरीं घृतपङ्क्वमुपाहरेत् । व्रतमेतच्चरित्वा तु यथोक्तं द्विजसत्तम ॥ १,१२३.५९ ॥ ऐश्वर्यसौख्यसौभाग्यरूपाणि प्राप्नुयान्नरः । मार्गशुक्लचतुर्दश्यामेकभुक्तः पुरोदितम् ॥ १,१२३.६० ॥ निराहारो वृषं स्वर्णं प्रार्च्य दद्याद्द्विजातये । परेऽह्नि प्रातरुत्थाय स्नात्वा सोमं महेश्वरम् ॥ १,१२३.६१ ॥ पूजयेत्कमलैः पुष्पैर्गन्धमाल्यानुलेपनैः । द्विजान्सम्भोज्य मिष्टान्नौस्तोषयेद्दक्षिणादिभिः ॥ १,१२३.६२ ॥ एतच्छिवव्रतं विप्र भुक्तिमुक्तिप्रदायकम् । कर्तृआणामुपदेष्टृआणां साह्यानामनुमोदिनाम् ॥ १,१२३.६३ ॥ पौषशुक्लचतुर्दश्यां विरूपाक्षव्रतं स्मृतम् । कपर्दीश्वरसांनिध्यं प्राप्स्याम्यत्र विचिन्त्य च ॥ १,१२३.६४ ॥ स्नात्वागाधजले विप्र विरूपाक्षं शिवं यजेत् । गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥ १,१२३.६५ ॥ तत्स्थं द्विजातये दत्त्वा मोदते दिवि देववत् । माघकृष्णचतुर्द्दश्यां यमतर्पणमीरितम् ॥ १,१२३.६६ ॥ अनर्काभ्युदिते काले स्नात्वा संतर्पयेद्यमम् । द्विसप्तनामभिः प्रोक्तैः सर्वपापविमुक्तये ॥ १,१२३.६७ ॥ तिलदर्भांबुभिः कार्यं तर्प्पणं द्विजभोजनम् । कृशरान्नं स्वयं चापि तदेवाश्नीत वाग्यतः ॥ १,१२३.६८ ॥ अन्त्यकृष्णचतुर्दश्यां शिवरात्रिव्रतं द्विज । निर्जलं समुपोष्यात्र दिवानक्तं प्रपूजयेत् ॥ १,१२३.६९ ॥ स्वयंभुवादिकं लिङ्गं पार्थिवं वा समाहितः । गन्धाद्यैरुपचारैश्च सांबुबिल्वदलादिभिः ॥ १,१२३.७० ॥ धूपैर्दीपैश्च नैवेद्यैः स्तोत्रपाठैर्जपादिभिः । ततः परेऽह्नि संपूज्य पुनरेवोपचारकैः ॥ १,१२३.७१ ॥ संभोज्य विप्रान्मिष्टान्नैर्विसृजेल्लब्धदक्षिणान् । एवं कृत्वा व्रतं मर्त्यो महादेवप्रसादतः ॥ १,१२३.७२ ॥ अमर्त्यभोगान् लभते दैवतैः सुसभाजितः । अन्त्यशुक्लचतुर्दश्यां दुर्गां संपूज्य भक्तितः ॥ १,१२३.७३ ॥ गन्धाद्यैरुपचारैस्तु विप्रान्संभोजयेत्ततः । एवं कृत्वा व्रतं विप्र दुर्गायाश्चैकभोजनः ॥ १,१२३.७४ ॥ लभते वाञ्छितान्कामानिहामुत्र च नारद । चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च ॥ १,१२३.७५ ॥ केदारोदकपानेन वाचिमेधफलं भवेत् । उद्यापने तु सर्वांसां सामान्यो विधिरुच्यते ॥ १,१२३.७६ ॥ कुंभाश्चतुर्दशैवात्र सपूगाक्षतमोदकाः । सदक्षिणांशुकास्ताम्रामृन्मयाश्चाव्रणा नवाः ॥ १,१२३.७७ ॥ तावन्तो वशदण्डाश्च पवित्राण्यासनानि च । पात्राणि यज्ञसूत्राणि तावत्येव हि कल्पयेत् ॥ १,१२३.७८ ॥ शेषं प्रागुक्तवत्कुर्याद्वित्तशाठ्यविवर्ज्जितः ॥ १,१२३.७९ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थभागे द्वादशमासस्थितचतुर्दशीव्रतवर्णनं नाम त्रयोविंशत्यधिकशततमोऽध्यायः _____________________________________________________________ सनातन उवाच अथ नारद वक्ष्यामि शृणु पूर्णाव्रतानि ते । यानि कृत्वा नरो नारी प्राप्नुयात्सुखसंततिम् ॥ १,१२४.१ ॥ चैत्रपूर्णा तु विप्रेन्द्र मन्वादिः समुदाहृता । अस्यां सान्नोदकं कुंभं प्रदद्यात्सोमतुष्टये ॥ १,१२४.२ ॥ वैशाख्यामपि पूर्णायां दानं सर्वस्य सर्वदम् । यद्यद्द्रव्यं ददेद्विप्रे तत्तदाप्नोति निश्चितम् ॥ १,१२४.३ ॥ धर्मराजव्रतं चात्र कथितं तन्निशामय । शृतान्नमुदकुंभं च वैशाख्यां वै द्विजोत्तमे ॥ १,१२४.४ ॥ दद्याद्गोदानफलदं धर्मराजस्य तुष्टये । अत्र कृष्णाजिनं दद्यात्सखुरं च सशृङ्गकम् ॥ १,१२४.५ ॥ तिलैः सहसमाच्छाद्य वस्त्रैर्हेम्ना द्विजातये । यस्तु कृष्णाजिनं दद्यात्सत्कृत्य विधिपूर्वकम् ॥ १,१२४.६ ॥ सर्वशास्त्रविदे सप्तद्वीपभूमिप्रदः स वै । मोदते विष्णु लोके हि यावच्चन्द्रार्कतारकम् ॥ १,१२४.७ ॥ कुंभान्स्वच्छजलैः पूर्णान्हिरण्येन समन्वितान् । यः प्रदद्याद्द्विजाग्र्येभ्यः स न शोचति कर्हिचित् ॥ १,१२४.८ ॥ अथ ज्येष्टस्य पूर्णायां वटसावित्रिकं व्रतम् । सोपवासा वटं सिंचेत्सलिलैरमृतोपमैः ॥ १,१२४.९ ॥ सृत्रेण वेष्टयेच्चैव सशताष्टप्रदक्षिणम् । ततः संप्रार्थद्दैवीं सावित्रीं सुपतिव्रताम् ॥ १,१२४.१० ॥ जगत्पूज्ये जगन्मातः सावित्रि पतिदैवते । पत्या सहावियोगं मे वटस्थे कुरु ते नमः ॥ १,१२४.११ ॥ इति सप्रार्थ्य या नारी भोजयित्वा परेऽहनि । सुवासिनीः स्वयं भुञ्ज्यात्सा स्यात्सौभाग्यभागिनी ॥ १,१२४.१२ ॥ आषाढस्य तु पूर्णायां गोपद्मव्रतमुच्यते । चतुर्भुजं महाकायं जांबूनदसमप्रभम् ॥ १,१२४.१३ ॥ शङ्खचक्रगदापद्मरमागरुडशोभितम् । सेवितं मुनिभिर्देवैर्यक्षगन्धर्वकिन्नरैः ॥ १,१२४.१४ ॥ एवंविधं हरिं तत्र स्नात्वा पूजां समाचरेत् । पौरुषेणैव सूक्तेन गन्धाद्यैरुपचारकैः ॥ १,१२४.१५ ॥ आचार्यं वस्त्रभूषाद्यैस्तोषयेत्स्निग्धमानसः । भोजयेन्मिष्टपक्वान्नैर्द्विजानन्यांश्च शक्तितः ॥ १,१२४.१६ ॥ एवं कृत्वा व्रतं विप्र प्रसादात्कमलापतेः । ऐहिकामुष्मिकान्कामांल्लभते नात्र संशयः ॥ १,१२४.१७ ॥ कोकिलाव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते । पूर्णिमायां समारभ्य व्रतं स्नायाद्ब्रहिर्जले ॥ १,१२४.१८ ॥ पूर्णान्तं श्रावणे मासि गौरीरूपां च कोकिलाम् । स्वर्णपक्षां रत्ननेत्रां प्रवालमुखपङ्कजाम् ॥ १,१२४.१९ ॥ कस्तूरीवर्णसंयुक्तामुत्पन्नां नन्दने वने । चूतचंपकवृक्षस्थां कलगीतनिनादिनीम् ॥ १,१२४.२० ॥ चिन्तयेत्पार्वतीं देवीं कोकिलारूपधारिणीम् । गन्धाद्यैः प्रत्यहं प्रार्च्चेल्लिखितां वर्णकैः पटे ॥ १,१२४.२१ ॥ ततो व्रतान्ते हैमीं वा तिलपिष्टमयीं द्विज । दद्याद्विप्राय मन्त्रेण भक्त्या सस्वर्णदक्षिणाम् ॥ १,१२४.२२ ॥ देवीं चैत्ररथोत्पन्ने कोकिले हरवल्लभे । संपूज्य दत्ता विप्राय सर्वसौख्यकरी भव ॥ १,१२४.२३ ॥ द्विजं सुवासिनीस्त्रिंशदेकां वा भोजयेत्ततः । वस्त्रादिदक्षिणां शक्त्या दत्वा नत्वा विसर्जयेत् ॥ १,१२४.२४ ॥ एवं या कुरुते नारी कोकिलाव्रतमुत्तम् । सा लभेत्सुखसौभाग्यं सप्तजन्मसुनारद ॥ १,१२४.२५ ॥ अथ श्रावणपूर्णायां वेदोपाकरणं स्मृतम् । यजुर्भिस्तत्र कर्त्तव्यं देवर्षिपितृतर्पणम् ॥ १,१२४.२६ ॥ ऋषीणां पूजनं चापि स्वशाखोक्तविधानतः । बहवृचैस्तु चतुर्द्वश्यां सामगैर्भाद्रगे करे ॥ १,१२४.२७ ॥ रक्षाविधानं च तथा कर्तव्यं विधिपूर्वकम् ॥ १,१२४.२८ ॥ सिद्धार्थाक्षतराजिकाश्च विधृता रक्तांशुकांशे सिताः कौसुंभेन च तन्तुनाथ सलिलैः प्रक्षाल्य कांस्ये धृताः । गन्धाद्यैरभिपूज्य देवनिकरान्संप्रार्थ्य विष्ण्वादिकान्बध्नीयाद्द्विजहस्ततः प्रमुदितो नत्वा प्रकोष्ठे स्वके ॥ १,१२४.२९ ॥ ततस्तु दक्षिणां दत्वा द्विजेभ्योऽध्यायमाचरेत् । विसृज्य च ऋषीन्सप्त धारयेद्ब्रह्मसूत्रकम् ॥ १,१२४.३० ॥ रञ्जितं कुङ्कुमाद्यैश्च नवीनं निर्मितं स्वयम् । शक्त्या संभोज्य विप्राग्र्यानेकभुक्तं समाचरेत् ॥ १,१२४.३१ ॥ कृते ह्यस्मिन्व्रते विप्र वार्षिकं कर्मं वैदिकम् । विस्मृतं विधिहीनं च न कृतं सुकृतं भवेत् ॥ १,१२४.३२ ॥ प्रौष्ठपद्यां पौर्णमास्यामुमामाहेश्वरव्रतम् । एकभुक्तश्च यस्तां तु शिवं संपूज्य यत्नतः ॥ १,१२४.३३ ॥ कृताञ्जलिः प्रार्थयेच्छ्वः करिष्ये च व्रतं प्रभो । एवं विज्ञाप्य देवं तु गृह्णीयाद्व्रतमुत्तमम् ॥ १,१२४.३४ ॥ रात्रौ देवान्तिके सुप्त्वा उत्थायापरयामके । कृतमैत्रादिनित्यस्तु भस्मरुद्राक्षधृक्ततः ॥ १,१२४.३५ ॥ पूजयेच्छङ्करं सम्यगुपचारैः पृथग्विधैः । बिल्वपत्रैः सुगन्धाढ्येर्ंनैवेद्यैर्धूपदीपकैः ॥ १,१२४.३६ ॥ ततश्चोपवसेद्विद्वानाप्रदोषं विन्धूदये । पुनः संपूज्य तत्रैव रात्रौ जागरणं चरेत् ॥ १,१२४.३७ ॥ एवं पञ्चदशाब्दान्तं कृत्वा व्रतमतन्द्रितः । वर्षे वर्षे तदुत्सर्गे विदध्याद्विधिपूर्वकम् ॥ १,१२४.३८ ॥ उमायाश्च महेशस्य सौवर्णी प्रतिमाद्वयम् । हैमा रौप्या मृन्मयाश्च घटाः पञ्चदशोत्तमाः ॥ १,१२४.३९ ॥ तत्रैकस्मिन्घटे स्थाप्यं सवस्त्रं प्रतिमाद्वयम् । पञ्चामृतेन संस्राप्य जलैः शुद्धैस्ततोर्ऽचयेत् ॥ १,१२४.४० ॥ उपचारैः षोडशभिस्ततः पञ्चदश द्विजान् । भोजयेच्चैव मिष्टान्नैर्दद्यात्तेभ्यश्च दक्षिणाम् ॥ १,१२४.४१ ॥ कुंभमेकैकमीशस्य मूर्त्याढ्यं गुरवेर्ऽपयेत् । एवं कृत्वा व्रतं चैव उमामाहेश्वराभिधम् ॥ १,१२४.४२ ॥ जायते भुवि विख्यातो निधानं सर्वसंपदाम् । अथास्मिन्नेव दिवसे शक्रव्रतमपि स्मृतम् ॥ १,१२४.४३ ॥ प्रातः स्नात्वा विधानेन संपूज्य सुरनायकम् । गन्धाद्यैंरुपचारैस्तु नैवेद्यानां च राशिभिः ॥ १,१२४.४४ ॥ ततो निमन्त्रितान्विप्रान्संभोज्य विधिवद्द्विज । समागतांस्तथैवान्यान्दीनानाथांश्च भोजयेत् ॥ १,१२४.४५ ॥ एतच्छक्रव्रतं विप्र कर्तव्यं प्रतिवार्षिकम् । राज्ञा वा धनिनान्येन धान्यनिष्पत्तिमिच्छता ॥ १,१२४.४६ ॥ आश्विने मासि पूर्णायां व्रतं कोजागराभिधम् । तेन स्नात्वा विधानेन सोपवासो जितेन्द्रियः ॥ १,१२४.४७ ॥ लक्ष्मीमभ्यर्च्य सौवर्णीं घटे संस्थाप्य ताम्रजे । मृन्मये वा सवस्त्रान्तामुपचारैः पृथग्विधम् ॥ १,१२४.४८ ॥ ततः सायन्तने कालेऽभ्युदिते तारकाधिपे । हैमान्रौप्यान्मृन्मयान्वा घृतपूर्णान्प्रदीपयेत् ॥ १,१२४.४९ ॥ लक्षं तदर्धमयुतं सहस्रं शतमेव वा । घृतशर्करसंमिश्रं विपाच्य बहु पायसम् ॥ १,१२४.५० ॥ बहुपात्रेषु संस्थाप्य कौमुद्यां शीतदीधितेः । याममात्रे गते रात्र्या लक्ष्म्यै तद्विनिवेदयेत् ॥ १,१२४.५१ ॥ ततः संभोजयेत्तेन विप्रान्भक्त्या ततश्च तैः । सहैव जागरं कुर्य्यान्नृत्यगीतसुमङ्गलैः ॥ १,१२४.५२ ॥ ततोऽरुणोदये स्नात्वा तां मूर्तिं गुरवेर्ऽपयेत् । अस्यां रात्रौ महालक्ष्मीर्वराभयकरांबुजा ॥ १,१२४.५३ ॥ निशीथे चरते लोके को जागर्तिं धरातले । तस्मै वित्तं प्रयच्छामि जाग्रते पूजकाय मे ॥ १,१२४.५४ ॥ वर्षे वर्षे कृतं चैतद्व्रतं लक्ष्मीप्रतोषणम् । समृद्धिमैहिकीं दद्याद्द्वेहान्ते पारलौकिकीम् ॥ १,१२४.५५ ॥ कार्तिक्यां पूर्णिमायां तु कुर्यात्कार्तिकदर्शनम् । विप्रत्वलब्धये भूयः सर्वशत्रुजयाय च ॥ १,१२४.५६ ॥ अत्रैव दीपदानेन विधेयस्त्रिपुरोत्सवः । निशामुखे द्विजश्रेष्ठ सर्वजीवसुखावहः ॥ १,१२४.५७ ॥ कीटाः पतङ्गा मशकाश्च वृक्षा जले स्थले ये विचरन्ति जीवाः । दृष्ट्वा प्रदीपान्नहि तेऽपि जन्मिनः पुनश्च मुक्तिं हि लभन्त एव च ॥ १,१२४.५८ ॥ अत्र चन्द्रोदये विप्र संपूज्याः कृत्तिकाश्च षट् ॥ १,१२४.५९ ॥ कार्तिकेयस्तथा खड्गी वरुणश्च हुताशनः । गन्धपुष्पैस्तथा धूपदीपैर्नैवेद्येविस्तरैः ॥ १,१२४.६० ॥ परमान्नैः फलैः शाकैर्वह्निब्राह्मणतर्पणैः । एवं देवान्समभ्यर्च्य दीपो देयो गृहाद्बहिः ॥ १,१२४.६१ ॥ दीपोपान्ते तथा गर्तश्चतुरस्रो मनोहरः । चतुर्द्दंशाङ्गुलः कार्यः सेच्यश्चदनवारिणा ॥ १,१२४.६२ ॥ गवां क्षीरेण संपूर्य हैमं तत्र विनिक्षिपेत् । मुक्तानेत्रसमायुक्तं मत्स्यं सर्वाङ्गशोभनम् ॥ १,१२४.६३ ॥ महामत्स्याय च नम इति मन्त्रं समुच्चरन् । गन्धाद्यैस्तत्र संपूज्य द्विजाय प्रतिपादयेत् ॥ १,१२४.६४ ॥ क्षीरसागरदानं ते मयोक्तं द्विजसत्तम । दानस्यास्य प्रभावेण मोदते हरिसन्निधौ ॥ १,१२४.६५ ॥ अत्र कृत्त्वा वृषोत्सर्गं व्रतं नक्तं च नारद । रुद्रलोकमवाप्नोति नात्र कार्या विचारणा ॥ १,१२४.६६ ॥ मार्गशीर्ष्या पूर्णिमायां स्वर्णाढ्यं लवणाढकम् । देवं विप्राय शान्ताय सर्वकामसमृद्धये ॥ १,१२४.६७ ॥ इदं जगत्पुरा लक्ष्म्या त्यक्तमासीत्ततो हरिः । पुरन्दरश्च सोमश्च तथा तिष्यो बृहस्पतिः ॥ १,१२४.६८ ॥ पञ्चैते पुष्ययुक्तायां पौर्णमास्यां जगद्बलात् । अलङ्कृतं पुनश्चकुः सौभाग्योत्सवकेलिभिः ॥ १,१२४.६९ ॥ तस्मान्नरः पुष्ययोगे सर्वसौभाग्यवृद्धये । गौरसर्षपकल्केन समालभ्य स्वकां तनुम् ॥ १,१२४.७० ॥ स्नायात्सर्वौंषधिजलैर्धारयेच्च नवांशुके । दृष्ट्वा च मङ्गलं द्रव्यं स्पृष्ट्वा नत्वा ततोर्ऽचयेत् ॥ १,१२४.७१ ॥ हरिशक्रेन्दुपुष्येज्यान्गन्धाद्यरुपचारकैः । विधाय होमं विप्रांश्च तर्पयेत्पायसाशनैः ॥ १,१२४.७२ ॥ एतत्कृत्वा व्रतं विप्र रमाप्रीतिविवर्द्धनम् । अलक्ष्मीनाशनं चैव मोदतेह परत्र च ॥ १,१२४.७३ ॥ पौर्णमास्यां ततो माध्यां तिलकार्पासकंबलम् । रत्नानि कञ्चुकोष्णीषपादत्राणानि वा धनम् ॥ १,१२४.७४ ॥ दत्वा प्रमोदते स्वर्गे दानं वित्तानुसारतः । यस्त्वत्र शङ्करं देवं पूजयेद्विधिपूर्वकम् ॥ १,१२४.७५ ॥ सोऽश्वमेधफलं प्राप्यविष्णुलोके महीयते । फआल्गुने पूर्णिमायां तु होलिकापूजनं मतम् ॥ १,१२४.७६ ॥ संचयं सर्वकाष्ठानामुपलानां च कारयेत् । तत्राग्निं विधिवद्ध्रुत्वा रक्षोघ्नैर्मन्त्रविस्तरैः ॥ १,१२४.७७ ॥ "असृक्पाभयसंत्रस्तैः कृता त्वं होलि बालिशैः । अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव" ॥ १,१२४.७८ ॥ इति मन्त्रेण सन्दीप्य काष्ठादिक्षेपणैस्ततः । परिक्रम्योत्सवः कार्य्यो गीतवादित्रनिःस्वनैः ॥ १,१२४.७९ ॥ होलिका राक्षसी चेयं प्रह्लादभयदायिनी । ततस्तां प्रदहॄन्त्येवं काष्ठाद्यैर्गीतमङ्गलैः ॥ १,१२४.८० ॥ संवत्सरस्य दाहोऽयं कामदाहो मतान्तरे । इति जानीहि विप्रेन्द्र लोके स्थितिरनेकधा ॥ १,१२४.८१ ॥ पक्षान्ते द्वे पृथग्वैवे ततोऽमाव्रतमुच्यते । पृथक्छृणुष्व मे विप्र पितॄणामतिवल्लभम् ॥ १,१२४.८२ ॥ चैत्रवैशाखयोस्तत्र दर्शे पितृसमर्चनम् । पार्वणेन विधानेन श्राद्धं वित्तानुसारतः ॥ १,१२४.८३ ॥ द्विजानां भोजनं दानं गवादीनां विशेषतः । सर्वमासेष्वमायां वै बहुपुण्यप्रदं यतः ॥ १,१२४.८४ ॥ ज्येष्ठामायां व्रतं प्रोक्तं सावित्र्याः कस्य नारद । विधानं ज्येष्ठपूर्णावदिहापि परिकीर्तितम् ॥ १,१२४.८५ ॥ शुचौ नभसि भाद्रे च मासे पूर्णान्तिके द्विज । पितृश्राद्धं दानहोमसुरार्चानन्त्यश्नुते ॥ १,१२४.८६ ॥ भाद्रदर्शेऽपराह्ने तु तिलक्षेत्रसमुद्भवान् । विरिञ्चिमनुनामन्त्र्य हुंफट्छिन्नान्कुशान् द्विज ॥ १,१२४.८७ ॥ सर्वदा सर्वकार्येषु योजयेदेकदापरान् । इषामायां विशेषण पितॄणां श्राद्धतर्पणम् ॥ १,१२४.८८ ॥ विधेयं जाह्नवीतोये मुक्तिदं च गयास्थले । ऊर्ज्जामायां दीपदानं देवा गारगृहेषु च ॥ १,१२४.८९ ॥ नद्यारामतडागेषु चैत्यगोष्ठापणेषु च । समर्चनं तथा लक्ष्म्याः स्वर्णरौप्ये कृताकृते ॥ १,१२४.९० ॥ द्यूतं च वर्षफलदं जये चापिपराजये । गवां पूजात्र विहिता शृङ्गाद्यङ्गानुरञ्जनैः ॥ १,१२४.९१ ॥ यवसान्नादिदानैश्च नमस्कारप्रदक्षिणैः । मार्गेऽपि पितृपूजा स्याच्छ्रद्धैर्ब्राह्मणभोजनैः ॥ १,१२४.९२ ॥ ब्रह्मचर्यादि नियमैर्जपहोमार्चनादिभिः । पौषे माघे च विप्रेन्द्र पितृश्राद्धं फलाधिकम् ॥ १,१२४.९३ ॥ अमायां कर्णपातार्कयुक्तायां तु गयाधिकम् । फआल्गुने केवलं श्राद्धं द्विजानां भोजनं तथा ॥ १,१२४.९४ ॥ दानादि सर्वफलदं दर्शे सोमेऽधिकं फलम् । इत्थं संक्षेपतः प्रोक्तं तिथिकृत्यं मुने तव ॥ १,१२४.९५ ॥ सर्वत्रापि विशेषोऽस्ति स पुराणान्तरे स्थितः ॥ १,१२४.९६ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितपौर्णमास्य मावास्याव्रतकथनं नाम चतुर्विंशत्यधिकशतमोऽध्यायः _____________________________________________________________ सूत उवाच इत्येवमुक्त्वा मुनिना हि पृष्टास्ते वै कुमाराः किल नारदेन । संपूजिताः शास्त्रविदां वरिष्ठाः कृताह्निका जग्मुरुमेशलोकम् ॥ १,१२५.१ ॥ तत्रेशमग्र्यर्कनिभैर्मुनीन्द्रैः श्रीवामदेवादिभिरर्चिताङ्घ्रिम् । सुरासुरेन्द्रैरभिवन्द्यमुग्रं नत्वाज्ञया तस्य निषेदुरुर्व्याम् ॥ १,१२५.२ ॥ श्रुत्वाथ तत्राखिलशास्त्रसारं शिवागमं ते पशुपाशमोक्षणम् । जग्मुस्ततो ज्ञानघनस्वरूपा नत्वा पुरारिं स्वपितुर्निकाशम् ॥ १,१२५.३ ॥ तत्पादपद्मे प्रणतिं विधाय पित्रापि सत्कृत्य सभाजितास्ते । लब्ध्वाशिषोऽद्यापि चरन्ति शश्वल्लोकेषु तीर्थानि च तीर्थभूताः ॥ १,१२५.४ ॥ जग्मुस्ततो वै बदरीवनान्ते सुरेन्द्रवर्गैरुपसेव्यमानम् । दध्युश्चिरं विष्णुपदाब्जमव्ययं ध्यायन्ति यद्यतयो वीतरागाः ॥ १,१२५.५ ॥ नारदोऽपि ततो विप्रा कुमारेभ्यः समीहितम् । लब्ध्वा ज्ञानं सविज्ञानं भृशं प्रीतमना ह्यभूत् ॥ १,१२५.६ ॥ स तस्मात्स्वर्णदीतीरादागत्य पितुरन्तिके । प्रणम्य सत्कृतः पित्रा ब्रह्मणा निषसाद च ॥ १,१२५.७ ॥ कुमारेभ्यः श्रुतं यच्च ज्ञानं विज्ञानसंयुतम् । वर्णयामास तत्त्वेन सोऽपि श्रुत्वा मुमोद च ॥ १,१२५.८ ॥ अथ प्रणम्य शिरसा लब्धाशीर्मुनिसत्तमः । आजगाम च कैलासं मुनिसिद्धनिषेवितम् ॥ १,१२५.९ ॥ नानाश्चर्यमयं शश्वत्सर्वर्त्तुकुसुमद्रुमैः । मन्दारैः पारिजातैश्च चंपकाशोकवञ्जुलैः ॥ १,१२५.१० ॥ अन्यैश्च विविधैर्वृक्षैर्नानापक्षिगणावृतैः । वातोद्धूतशिखैः पान्थानाह्वयद्भिरिवावृतम् ॥ १,१२५.११ ॥ नानामृगगणाकीर्णं सिद्धकिन्नरसंकुलम् । सरोभिः स्वच्छसलिलैर्लसत्काञ्चनपङ्कजैः ॥ १,१२५.१२ ॥ शोभितं सारसैर्हंसैश्चक्राह्वाद्यैर्निनादितम् । स्वर्द्धनीपातनिर्घृष्टं क्रीडद्भिश्चाप्सरोगणैः ॥ १,१२५.१३ ॥ सलिलेऽलकनन्दायाः कुचकुङ्कुमपिङ्गले । आमोदमुदितैर्नागैः सलिलैः पुष्करोद्धृतैः ॥ १,१२५.१४ ॥ स्नापयद्भिः करेणूश्च कलभांश्च समाकुले । अथ श्वेताभ्रसदृशे शृङ्गे तस्य च भूभृतः ॥ १,१२५.१५ ॥ वटं कालाभ्रसदृशं ददर्श शतयोजनम् । तस्याधस्तात्समासीनं योगिमण्डलमध्यगम् ॥ १,१२५.१६ ॥ कपर्दिनं विरूपाक्ष व्याघ्रचर्मांबरावृतम् । भूतिभूषितसर्वाङ्गं नागभूषणभूषितम् ॥ १,१२५.१७ ॥ रुद्राक्षमालया शश्वच्छोभितं चन्द्रशेखरम् । तं दृष्ट्वा नारदो विप्रा भक्तिनम्रात्मकन्धरः ॥ १,१२५.१८ ॥ ननां शिरसा तस्य पादयोर्जगदीशितुः । ततः प्रसन्नमनसा स्तुत्वा वाग्भिर्वृषध्वजम् ॥ १,१२५.१९ ॥ निषसादाज्ञया स्थाणोः सत्कृतो योगिभिस्तदा । अथापृच्छच्च कुशलं नारदं जगतां गुरुः ॥ १,१२५.२० ॥ स च प्राह प्रसादेन भवतः सर्वमस्ति मे । सर्वेषां योगिवर्याणां शृण्वतां तत्र वाडवाः ॥ १,१२५.२१ ॥ पप्रच्छ शांभिवं ज्ञानं पशुपाशविमोक्षणम् । स शिवः सादरं तस्य भक्त्या संतुष्टमानसः ॥ १,१२५.२२ ॥ योगमष्टाङ्गसंयुक्तं प्राह प्रणतवत्सलः । स लब्ध्वा शांभवं ज्ञानं शङ्कराल्लोकशङ्करात् ॥ १,१२५.२३ ॥ सुप्रसन्नमना नत्वा ययौ नारायणान्तिकम् । तत्रापि नारदोऽभीक्ष्णं गतागतपरायणः ॥ १,१२५.२४ ॥ सेवितं योगिभिः सिद्धैर्नारायणमतोषयत् । एतद्वः कीर्तितं विप्रा नारदीयं महन्मया ॥ १,१२५.२५ ॥ उपाख्यानं वेदसमं सर्वशास्त्रनिदर्शनम् । चतुष्पादसमायुक्तं शृण्वतां ज्ञानवर्द्धनम् ॥ १,१२५.२६ ॥ य एतत्कीर्तयेद्विप्रा नारदीयं शिवालये । समाजे द्विजमुख्यानां तथा केशवमन्दिरे ॥ १,१२५.२७ ॥ मथुरायां प्रयागे च पुरुषोत्तमसन्निधौ । सेतौ काञ्च्यां कुशस्थल्यां गङ्गाद्वारे कुशस्थले ॥ १,१२५.२८ ॥ पुष्करेषु नदीतीरे यत्र कुत्रापि भक्तिमान् । स लभेत्सर्वय ज्ञानां तीर्थानां च फलं महत् ॥ १,१२५.२९ ॥ दानानां चापि सर्वेषां तपसां वाप्यशेषतः । उपवासपरो वापि हविष्याशी जितेन्द्रियः ॥ १,१२५.३० ॥ श्रोता चैव तथा वक्ता नारायणपरायणः । शिवभक्तिरतो वापि शृण्वन् सिद्धिमवाप्नुयात् ॥ १,१२५.३१ ॥ अस्निन्नशेषपुण्यानां सिद्धीनां च समुद्भवः । कथितः सर्वपापघ्नः पठतां शृण्वतां सदा ॥ १,१२५.३२ ॥ कलिदोषहरं पुंसां सर्वसंपत्तिवर्द्धनम् । सर्वेषामीप्सितं चेदं सर्वज्ञानप्रकाशकम् ॥ १,१२५.३३ ॥ शैवानां वैष्णवानां च शाक्तानां सूयसेविनाम् । तथैव गाणपत्यानां वर्णाश्रमवतां द्विजाः ॥ १,१२५.३४ ॥ तपसां च व्रतानां च फलानां संप्रकाशकम् । मन्त्राणां चैव यन्त्राणां वेदाङ्गानां विभागशः ॥ १,१२५.३५ ॥ तथागमानां सांख्यानां वेदानां चैव संग्रहम् । य एतत्पठते भक्त्या शृणुयाद्वा समाहितः ॥ १,१२५.३६ ॥ स लभेद्वाञ्छितान्कामान्देवादिष्वपि दुर्लभान् । श्रुत्वेदं नारदीयं तु पुराणं वेदसंमितम् ॥ १,१२५.३७ ॥ वाचकं पूजयेद्भक्त्या धनरत्नांशुकादिभिः । भूमिदानैर्गवां दानै रत्नदानैश्च संततम् ॥ १,१२५.३८ ॥ हस्त्यश्वरथदानैश्च प्रीणयेत्सततं गुरुम् । यस्तु व्याकुरुते विप्राः पुराणं धर्मसंग्रहम् ॥ १,१२५.३९ ॥ चतुर्वर्गप्रदं नॄणां कोऽन्यस्तत्सदृशो गुरुः । कायेन मनसा वाचा धनाद्यैरपि संततम् ॥ १,१२५.४० ॥ प्रियं समाचरेत्तस्य गुरोर्द्धर्मोपदेशिनः । श्रुत्वा पुराणं विधिवद्धोमं कृत्वा सुरार्चनम् ॥ १,१२५.४१ ॥ ब्राह्मणान्भोजयेत्पश्चाच्छतं मिष्टान्नपायसैः । दक्षिणां प्रददेच्छक्त्या भक्त्या प्रीयेत माधवः ॥ १,१२५.४२ ॥ यथा श्रेष्ठा नदी गङ्गा पुष्करं च सरो यथा । काशी पुरी नगो मेरुर्देवो नारायणो हरिः ॥ १,१२५.४३ ॥ कृतं युगं सामवेदो धेनुर्विप्रोऽन्नमंबु च । मार्गो मृगेन्द्रः पुरुषोऽश्वत्थः प्रह्लाद आननम् ॥ १,१२५.४४ ॥ उच्चैः श्रवा वसंतश्च जपः शेषोर्ऽयमा धनुः । पावको विष्णुरिन्द्रश्च कपिलो वाक्पतिः कविः ॥ १,१२५.४५ ॥ अर्जुनो हनुमान्दर्भश्चित्तं चित्ररथोंऽबुजम् । उर्वशी काञ्चनं यद्वच्छ्रेष्टाश्चैते स्वजातिषु ॥ १,१२५.४६ ॥ तथैव नारदीयं तु पुराणेषु प्रकीर्तितम् । शान्तिरस्तु शिवं चास्तु सर्वेषां वो द्विजोत्तमाः ॥ १,१२५.४७ ॥ गमिष्यामि गुरोः पार्ंश्वं व्यासस्यामिततेजसः । इत्युक्त्वाभ्यर्चितः सूतः शौनकाद्यैर्महात्मभिः ॥ १,१२५.४८ ॥ आज्ञप्तश्च पुनः सर्वैर्दर्शनार्थं गुरोर्ययौ । तेऽपि सर्वे द्विजश्रेष्ठाः शौनकाद्याः समाहिताः । श्रुतं सम्यगनुष्ठाय तत्र तस्थुश्च सत्रिणः ॥ १,१२५.४९ ॥ कलिकल्मषविषनाशनं हरिं यो जपपूजनविधिभेषजोपसेवी । स तु निर्विषमनसा समेत्य यागं लभते सतमभीप्सितं हि लोकम् ॥ १,१२५.५० ॥ इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने चतुर्थपादे पुराणमहिमावर्णनं नाम पञ्चविंशोत्तरशततमोऽध्यायः समाप्तोयं बृहन्नारदीयपुराणस्य पूर्वभागः उत्तरभागः श्रीगणेशाय नमः श्रीकृष्णाय नमः पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः । त्रैलोक्यमण्डपस्तंभाश्चत्वारो हरिबाहवः ॥ २,१.१ ॥ सुरद सुरशिरोरत्ननिघृष्टमणिरञ्जितम् । हरिपादांबुजद्वन्द्वमभीष्टप्तदमस्तु नः ॥ २,१.२ ॥ मान्धातोवाच पापेन्धनस्य घोरस्य शुष्कार्द्रस्य द्विजोत्तम । कोवह्निर्दहते तस्य तद्भवान्वक्तुमर्हति ॥ २,१.३ ॥ नाज्ञातं त्रिषु लोकेषु चतुर्मुखसमुद्भव । विद्यते तव विप्रेन्द्र त्रिविधस्य सुनिश्चितम् ॥ २,१.४ ॥ अज्ञातं पातकं शुष्कं ज्ञातं चार्द्रमुदाहृतम् । भाव्यं वाप्यथवातीतं वर्तमान वदस्व नः ॥ २,१.५ ॥ वह्निनो केन तद्भस्म भवेदेतन्मतं मम । वसिष्टं उवाच श्रूयतां नृपशार्दूल वह्निना येन तद्भवेत् ॥ २,१.६ ॥ भस्म शुष्कं तथार्द्रं च पापमस्य ह्येशेषतः ॥ २,१.७ ॥ अवाप्य वासरं विष्णोर्यो नरः संयतेन्द्रियः । उपवासपरो भूत्वा पूजयेन्मधुसूदनम् ॥ २,१.८ ॥ स धात्रीस्नानसहितो रात्रौ जागरणान्वितः । विशोधयति पापानि कितवो हि यथा धनम् ॥ २,१.९ ॥ एकदाशीसमाख्येन वह्निना पातकेन्धनम् । भस्मतां याति राजेन्द्र अपि जन्मशतोद्भवम् ॥ २,१.१० ॥ नेदृश पावनं किञ्चिन्नाराणां भूप विद्यते । यादृशं पद्मनाभस्य दिनं पातकहानिदम् ॥ २,१.११ ॥ तावत्पापानि देहेऽस्मिंस्तिष्ठन्ति मनुजाधिप । यावन्नोपवसेज्जन्तुः पद्मनाभदिमं शुभम् ॥ २,१.१२ ॥ अश्वमेधसहस्राणि राजसूयशतानि च । एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ॥ २,१.१३ ॥ एकादशेन्द्रियैः पापं यत्कृतं भवति प्रभो । एकादश्युपवासेन तत्सर्वं विलयं व्रजेत् ॥ २,१.१४ ॥ एकादशीसमं किञ्चित्पापनाशं न विद्यते । व्याजेनापि कृता राजन्न दर्शयति भास्करिम् ॥ २,१.१५ ॥ स्वर्गमोक्षप्रदा ह्येषा राज्यपुत्रप्रदायिनी । सुकलत्रप्रदा ह्येषा शरीरारोग्यदायिनी ॥ २,१.१६ ॥ न गङ्गा न गया भूप न काशी न च पुष्करम् । न चापि कैरवं क्षेत्रं न रेवा न च देविका ॥ २,१.१७ ॥ यमुना चन्द्रभागा च पुण्या भूप हरेर्दिनात् । अनायासेन राजेन्द्र प्राप्यते हरिमन्दिरम् ॥ २,१.१८ ॥ रात्रौ जामरण कृत्वा समुपोष्य हरेर्दिनम् । सर्वपापविनिर्मुक्तो विष्णुलोके व्रजेन्नरः ॥ २,१.१९ ॥ दशैव मातृके पक्षे दश राजेन्द्र पैतृके । भार्याया दश पक्षे च पुरुषानुद्धरेत्तथा ॥ २,१.२० ॥ आत्मानमपि राजेन्द्र स नयेद्वैष्णवं पुरम् । चिन्तामणिसमा ह्येषा अथवापि निधेः समा ॥ २,१.२१ ॥ संकल्पपादपप्रख्या वेदवाक्योपमाथवा । द्वादशीं ये प्रपन्ना हि नरा नरवरोत्तम ॥ २,१.२२ ॥ ते द्वन्द्वबाहवो जाता नागारिकृतवाहनाः । स्रग्विणः पीतवस्त्राश्च प्रयान्ति हरिमन्दिरम् ॥ २,१.२३ ॥ एष प्रभावो हि मया द्वादश्याः परिकीर्तितः । पापेन्धनस्य घोरस्य पावकाख्यो महीपते ॥ २,१.२४ ॥ हरेर्द्दिनं सदोपोष्यं नरैर्धर्मपरायणैः । इच्छद्भिर्विपुलान्योगान्पुत्रपौत्रादिकांस्तथा ॥ २,१.२५ ॥ हरिदिनमिह मर्त्यो यः करोत्यादरेण नरवर स तु कुक्षिं मातुराप्नोति नैव । बहुवृजिनसमेतोऽकामतः कामतो वा व्रजति पदमनन्तं लोकनाथस्य विष्णोः ॥ २,१.२६ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे द्वादशीमाहात्म्यवर्णनं नाम प्रथमोऽध्यायः _____________________________________________________________ वसिष्ट उवाच इममेवार्थमुद्दिश्य नैमिषारण्यवासिनः । पप्रच्छुर्मुनयः सूतं व्यासशिष्यं महामतिम् ॥ २,२.१ ॥ स तु पृष्टो महाभाग एकादश्याः सुविस्तरम् । माहात्म्यं कथयामास उपवासविधिं तथा ॥ २,२.२ ॥ तद्वाक्यं सूतपुत्रस्य श्रुत्वा द्विजवरोत्तमाः । माहात्म्यं चक्रिणश्चापि सर्वपापौघ शान्तिदम् ॥ २,२.३ ॥ पुनः पप्रच्छुरमलं सूतं पौराणिकं नृप । अष्टादश पुराणानि भवान् जानाति मानद ॥ २,२.४ ॥ कानीनस्य प्रसादेनः महाभारतमप्युत । तन्नास्ति यन्न वेत्सि त्वं पुराणेषु स्मृतिष्वपि ॥ २,२.५ ॥ चरिते रघुनाथस्य शतकोटिप्रविस्तरे । अस्माकं संशयः कश्चिद्धृदये संप्रवर्तते ॥ २,२.६ ॥ तं भवानर्हति च्छेत्तुं याथार्थ्येन सुविस्तरात् । तिथेः प्रान्तमुपोष्यं स्यादाहोस्विन्मूलमेव च ॥ २,२.७ ॥ दैवे पैत्र्ये समाख्याहि नावेद्यं विद्यते तवल । सौतिरुवाच तिथेः प्रान्तं सुराणां हि उपोष्यं प्रीतिवर्द्धनम् ॥ २,२.८ ॥ मूलं तिथेः पितॄणां तु कालज्ञैः प्रियमीरितम् । अतः प्रान्तमुपोष्यं हि तिथेर्दशफलेप्सुभिः ॥ २,२.९ ॥ मूलं हि पितृतृप्त्यर्थं विज्ञेयं धर्मकाङ्क्षिभिः । पूर्वविद्धा न कर्तव्या द्वितीया चाष्टमी तथा ॥ २,२.१० ॥ षष्ठी चैकादशी भूप धर्मकामार्थलिप्सुभिः । पूर्वविद्धा द्विजश्रेष्ठाः कर्तव्या सप्तमी सदा ॥ २,२.११ ॥ दर्शश्च पौर्णमासश्च पितुः सांवत्सरं दिनम् । पूर्वविद्धानिमांस्त्यक्त्वा नरकं प्रतिपद्यते ॥ २,२.१२ ॥ हानिं च संततेर्भूपदौर्भाग्यं समवाप्नुयात् । एतच्छ्रुतं मया विप्राः कृष्णद्वैपायनात्पुरा ॥ २,२.१३ ॥ आदित्योदयवेलायां यास्तोकापि तिथिर्भवेत् । पूर्वविद्धा तु मन्तव्या प्रभूता नोदयं विना ॥ २,२.१४ ॥ पारणे मरणे नॄणां तिथिस्तात्कालिकी स्मृता । पित्र्येऽस्तमनवेलायां स्पर्शे पूर्णा निगद्यते ॥ २,२.१५ ॥ न तत्रोदयिनी ग्राह्या दैवस्योदयिकी तिथिः । प्रत्यहं शोधयेत्प्राज्ञस्तिथिं दैवज्ञचिन्तकात् ॥ २,२.१६ ॥ तिथिप्रमाणं विप्रेन्द्राः क्षपाकरदिवाकरौ । चन्द्रार्कचारविज्ञानात्कालं कालविदो विदुः ॥ २,२.१७ ॥ पूर्वायाः संगदोषेण न योग्यास्ताः प्रपूजने । वर्जयन्ति नरास्तज्ज्ञा यामांश्च चतुरो द्विजाः ॥ २,२.१८ ॥ अत ऊर्द्ध्वं प्रवक्ष्यामि स्नानपूजाविधिक्रमम् । न दिवा शुद्धिमाप्नोति तदा रात्रौ विधीयते ॥ २,२.१९ ॥ दिनकार्यमशेषं हि कर्तव्यं शर्वरीमुखे । विधिरेष मया ख्यातो नराणामुपवासिनाम् ॥ २,२.२० ॥ अल्पायामथ विप्रेन्द्रा द्वादश्यामरुणोदये । स्नानार्चनक्रिया कार्य्या दानहोमादिसंयुता ॥ २,२.२१ ॥ त्रयोदश्यां पारणे पृथिवीफलम् । शतयज्ञाधिकं वापि नरः प्राप्नोत्यसंशयम् ॥ २,२.२२ ॥ एतस्मात्कारणाद्विप्राः प्रत्यूषे स्नानमाचरेत् । पितृतर्पणसंयुक्तं न दृष्ट्वा द्वादशीदिनम् ॥ २,२.२३ ॥ महाहानिकरा ह्येषा द्वादशी लङ्घिता नृभिः । करोति धर्महरणमस्नातेव सरस्वती ॥ २,२.२४ ॥ क्षये वाप्यथवा वृद्धौ संप्राप्ते वा दिनोदये । उपोष्या द्वादशी पुण्या पूर्वविद्धां विवर्जयेत् ॥ २,२.२५ ॥ ब्राह्मण उवाच यदा च प्राप्यते सूत द्वादश्यां पूर्वसंभवा । तदोपवासो हि कथं कर्तव्यो मानवैर्वद ॥ २,२.२६ ॥ उपवासदिनं विद्धं यदा भवति पूर्वया । द्वितीयेऽह्नि यदा न स्यात्स्वल्पाप्येकादशी तिथिः ॥ २,२.२७ ॥ तत्रोपवासो विहितः कथं तद्वद सूतज । सौतिरुवाच यदा न प्राप्यते विप्रा द्वादश्यां पूर्वसम्भवम् ॥ २,२.२८ ॥ रविचन्द्रार्कजाहं तु तदोपोष्यं परं दिनम् । बह्वा गमविरोधेषु ब्राह्मणेषु विवादिषु ॥ २,२.२९ ॥ उपोष्या द्वादशी पुण्या त्रयोदश्यां तु पारणम् । एकादश्यां तु विद्धायां संप्राप्ते श्रवणे तथा ॥ २,२.३० ॥ उपोष्या द्वादशी पुण्या पक्षयोरुभयोरपि । एष वो निर्णयः प्रोक्तो मया शास्त्रविनिर्णयात् ॥ २,२.३१ ॥ किमन्यच्छ्रोतुकामा हि तद्भवन्तो ब्रुवन्तु मे । ऋषय ऊचुः युगादीनां वदविधिं सौते सम्यग्यथातथम् ॥ २,२.३२ ॥ रविसंक्रातिकादीनां नावेद्यं विद्यते तव । सौतिरुवाच द्वे शुक्ले द्वे तथा कृष्णे युगाद्याः कवयो विदुः ॥ २,२.३३ ॥ शुक्ले पूर्वाह्णिके ग्राह्ये कृष्णे ग्राह्येऽपराह्णिके । अयनं दिनभागाढ्यं संक्रमः षोडशः पलः ॥ २,२.३४ ॥ पूर्वे तु दक्षिणे भागे व्यतीते चोत्तरो मतः । मध्यकाले तु विषुवे त्वक्षया परिकीर्तिता ॥ २,२.३५ ॥ ज्ञात्वा विप्रास्तिथिं सम्यक्सांवत्सरसमीरिताम् । कर्तव्यो ह्युपवासस्तु अन्यथा नरकं व्रजेत् ॥ २,२.३६ ॥ पूर्वविद्धां प्रकुर्वाणो नरो धर्मं निकृन्तति । संततेस्तु विनाशाय संपदां हरणाय च ॥ २,२.३७ ॥ पलवेधेऽपि विप्रेन्द्रा दशम्या वर्जयेच्छिवाम् । सुराया बिन्दुना स्पृष्ट यथा गङ्गाजलन्त्यजेत् ॥ २,२.३८ ॥ श्वहतं पञ्चगव्यं च दशम्या दूषितां त्यजेत् । एकादशीं द्विजश्रेष्ठाः पक्षयोरुभयोरपि ॥ २,२.३९ ॥ पूर्वविद्धा पुरा दत्ता सा तिथिर्यदुमौलिना । दानवेभ्यो द्विजश्रेष्ठाः प्रीणनार्थं महात्मनाम् ॥ २,२.४० ॥ अकाले यद्धनं दत्तमपात्रेभ्यो द्विजोत्तमाः । संक्रुद्वैरपि यद्दत्तं यद्दत्तं चाप्यसत्कृतम् ॥ २,२.४१ ॥ पूर्वविद्धतिथौ दत्तं तद्दत्तमसुरेष्वथ । यदुच्छिष्टेन दत्तं तु यद्दत्तं पतितेष्वपि ॥ २,२.४२ ॥ स्त्रीजेतेषु च यद्दत्तं यद्दत्तं जलवर्जितम् । पुनः कीर्तनसंयुक्तं तद्दत्तमसुरेषु वै ॥ २,२.४३ ॥ तस्माद्विप्रा न कर्त्व्या विद्धाप्येकादशी तिथिः । यथा हन्तिपुरा पुण्यं श्राद्धं च वृषलीपतिः ॥ २,२.४४ ॥ दत्तं जप्तं हुतं स्नातं तथा पूजा कृता हरेः । तिथौ विद्धे क्षयं याति तमः सूर्योदये यथा ॥ २,२.४५ ॥ जीर्णं पतिं यौवनगर्विता यथा त्यजन्ति नार्यो झषकेतुनार्दिताः । तथा हि वेधं विबुधास्त्यजन्ति तिथ्यन्तरं धर्मविवृद्धये सदा ॥ २,२.४६ ॥ श्रीबृहन्नारदीयपुरणोत्तरभागे तिथिविचारो नाम द्वितीयोऽध्यायः _____________________________________________________________ ऋषय ऊचुः विस्तरेण समाख्या हि विष्णोराराधनक्रियाम् । यया तोषं समायाति प्रददाति समीहितम् ॥ २,३.१ ॥ लक्ष्मीभर्ताजगन्नाथोह्यशेषाघौघनाशनः । कर्मणा केन स प्रीतो भवेद्यः सचराचरः ॥ २,३.२ ॥ सौतिरुवाच भक्तिग्राह्यो हृषीकेशो न धनैर्द्धरणीधर । भक्त्या संपूजितो विष्णुः प्रददाति मनोरथम् ॥ २,३.३ ॥ तस्माद्विप्राः सदा भक्तिः कर्त्तव्या चक्रपाणिनः । जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत् ॥ २,३.४ ॥ परितोषं व्रजत्याशुतृषितस्तु जलैर्यथा । अत्रापि श्रूयते विप्रा आख्यानं पापनाशनम् ॥ २,३.५ ॥ रुक्माङ्गदस्य संवादमृषिणा गौतमेन हि । आसीद्ग्रुक्माङ्गदो राजा सार्वभौमः क्षमान्वितः ॥ २,३.६ ॥ क्षीरशायिप्रियो भक्तो हरिवासरतत्परः । नान्यं पश्यति देवेशात्पद्मनाभान्महीपतिः ॥ २,३.७ ॥ पटहं वारणे धृत्वा वादयेद्धरि वासरे । अष्टवर्षाधिको यस्तु पञ्चाशीत्यूनवर्षकः ॥ २,३.८ ॥ भुनक्ति मानवो ह्यद्य विष्णोरहनि मन्दधीः । स मे दण्ड्यश्चग वध्यश्च निर्वास्यो नगराद्बहिः ॥ २,३.९ ॥ पिता च यदि वा भ्राता पुत्रो भार्या सुहृन्मम । पद्मनाभदिने भोक्ता निग्राह्यो दस्युवद्भवेत् ॥ २,३.१० ॥ ददघ्वंम विप्रमुख्यभ्यो मज्जध्वं जाह्नवीजले । ममेद वचनं शृत्वा राज्यं भुञ्जीत मामकम् ॥ २,३.११ ॥ वासरे वासरे विष्णोः शुक्लपक्षे महीपतिः । अशुक्ले तु विशेषेण पटहे हेमसंपुटे ॥ २,३.१२ ॥ एवं प्रघुष्टे भूपेन सर्वभूमौ द्विजोत्तमाः । गच्छिद्भिः संकुलो मार्गः कृतो कृतो लोकैर्हरेर्द्विजाः ॥ २,३.१३ ॥ ये केचिन्निधनं यान्ति भूपालविषये नराः । ज्ञानात्प्रमादतो वापि ते यान्ति हरिमन्दिरम् ॥ २,३.१४ ॥ अवश्यं वैष्णवो लोकः प्राप्यते मानवैर्द्विजाः । व्याजेनापि प्रकुर्वाणैर्द्वादशीं पापनाशिनीम् ॥ २,३.१५ ॥ सोऽश्नाति पार्थिवं पापं योऽश्नाति हरिवासरे । स प्राप्नोति धराधर्मं यो नाश्नाति हरेर्दिने ॥ २,३.१६ ॥ ब्राह्मणो नैव हन्तव्य इत्येषा वैदिकी स्मृतिः । एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥ २,३.१७ ॥ वैलक्ष्यमगमद्राजा रविसूनुर्द्विजोत्तमाः । लेख्यकर्मणि विश्रान्तश्चित्रगुप्तोऽभवत्तदा ॥ २,३.१८ ॥ संमार्जितानि लेख्यानि पूर्वकर्मोद्भवानि च । गच्छन्ति वैष्णवं लोकं स्वधर्मैर्मानवाः क्षणात् ॥ २,३.१९ ॥ शून्या स्तु निरयाः सर्वे पापप्राणिविवर्जिताः । भग्नो याम्योऽभवन्मार्गो द्वादशादित्यतापितः ॥ २,३.२० ॥ सर्वे हि गरुडारूढा जना यान्ति हरेः पदम् । देवा नामपि ये लोकास्ते शून्या ह्यभवंस्तथा ॥ २,३.२१ ॥ उत्सन्नाः पितृदेवेज्यास्तीर्थदानादिसत्क्रियाः । मुक्त्वैकां द्वादशीं मर्त्या नान्यं जानन्ति ते व्रतम् ॥ २,३.२२ ॥ शून्ये त्रिविष्टपे जाते शून्ये च नरके तथा । नारदो धर्मराजानं गत्वा चेदमुवाच ह ॥ २,३.२३ ॥ नारद उवाच नाक्रन्दः श्रूयते राजन् प्राङ्गणे नरकेष्वथ । न चापि क्रियते लेख्यं किञ्चिद्दुष्कृतकर्मणाम् ॥ २,३.२४ ॥ चित्रगुप्तो मुनिरिव स्थितोऽयं मौनसंयुतः । कारणं किं न चायान्ति पापिनो येन ते गृहम् ॥ २,३.२५ ॥ मायादंभसमाक्रान्ता दुष्टकर्मरतास्तथा । एवमुक्ते तु वचने नारदेन महात्मना ॥ २,३.२६ ॥ प्राह वैवस्वतो राजा किञ्चिद्दैन्यसमन्वितः । यम उवाच योऽयं नारद भूपालः पृथिव्यां सांप्रतं स्थितः ॥ २,३.२७ ॥ स हि भक्तो हृषीकेशे पुराणपुरुषोत्तमे । प्रबोधयति राजेन्द्रः स जनं पटहेन हि ॥ २,३.२८ ॥ न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे । ये केचिद्भुञ्जते मर्त्यास्ते मे दण्डेषु यान्ति हि ॥ २,३.२९ ॥ तद्भयाद्धि जनाः सर्वे द्वादशीं समुपासते । व्याजेनापि मुनुश्रेष्ठ द्वादश्यां समुपोषिताः ॥ २,३.३० ॥ प्रयान्ति वैष्णवं लोकं दाहप्रलयवर्जितम् । द्वादशीसेवनाल्लोकाः प्रायान्ति हरिमन्दिरम् ॥ २,३.३१ ॥ तेन राज्ञा द्विजश्रेष्ठ मार्गा लुप्ता ममाधुना । कृत हि नरकाः शून्या लोकाश्चापि दिवौकसाम् ॥ २,३.३२ ॥ विश्रान्तं लेखकेर्लेख्यं लिखितं मार्जितं जनैः । एकादश्युपवासस्य माहात्म्येन द्विजोत्तम ॥ २,३.३३ ॥ ब्रह्महत्यादिपापानि अभुक्त्वैव जना द्विज । समुपोष्य दिनं विष्णोः प्रयान्ति हरिमन्दिरम् ॥ २,३.३४ ॥ सोऽहं काषाटमृगेणैव तुल्यो जातो महामुने । नेत्रहीनः कर्णहीनः संध्याहीनो द्विजो यथा ॥ २,३.३५ ॥ स्त्रीजितो वा पुमान्यद्वत्षण्ढो वा प्रमदापतिः । त्यक्तकामस्त्वहं ब्रह्मंल्लोकपालत्वमीदृशम् ॥ २,३.३६ ॥ यास्यामि ब्रह्मलोके वै दुःखं ज्ञापयितुं स्वकम् । निर्व्यापारो नियोगी तु नियोगे यस्तु तिष्ठति ॥ २,३.३७ ॥ स्वामिवित्तं समश्नाति स याति नरकं ध्रुवम् । सौतिरुवाच एवमुक्त्वा यमो विप्रा नारदेन समन्वितः ॥ २,३.३८ ॥ ययौ विरञ्चिसदनं चित्रचिसदनं चित्रगुप्तेन चान्वितः । स ददर्श समासीनं मूर्तामूरतजनावृतम् ॥ २,३.३९ ॥ वेदाश्रयं जगद्बीजं सर्वेषां प्रपितामहम् । स्वभवं भूतनिलयमोङ्काराख्यमकल्मषम् ॥ २,३.४० ॥ शुचिं शुचिपदं हंसं ब्रह्माणं दर्भलाञ्छनम् । उपास्यमानं विविधैर्लोकपालैर्दिगीश्वरैः ॥ २,३.४१ ॥ इतिहासपुराणैश्च वेदौर्वेग्रहसंस्थितैः । मूर्तिमद्भिः समुद्रैश्य नदीभिश्च सरोवरैः ॥ २,३.४२ ॥ देहधृग्भिस्तथा वृक्षैरश्वत्थाद्यैर्विशेषतः । वापीकूपतडागाद्यैर्मूर्तिमद्भिश्च पर्वतैः ॥ २,३.४३ ॥ अहोरात्रैस्तथा पक्षैर्मासैः संवत्सरैर्द्विजाः । कलाकाष्ठानिमेषैश्च ऋतुभिश्चायनैर्युगैः ॥ २,३.४४ ॥ मन्वन्तरैस्तथा कल्पैर्निमेषैरुन्मिषैरपि । ऋक्षैर्योगैश्च करणैः पौर्णमासेंदुसंक्षयैः ॥ २,३.४५ ॥ सुखैर्दुःखैस्तथा द्वन्द्वैर्लाभालाभैर्जयाजयैः । सत्यानृतैश्च देवेशो वेष्टितो धर्मपावकः ॥ २,३.४६ ॥ कर्मविद्भिश्च पुरुषैरनुपैरुपास्यते । सत्त्वेन रजसा चैव तमसा च पितामहः ॥ २,३.४७ ॥ शान्तमूढातिघोरैश्च विकारैः प्राकृतैर्विभुः । वायुना श्लेष्मपित्ताभ्यां मूर्तैरातङ्कनामभिः ॥ २,३.४८ ॥ आनन्देन च विश्वात्मा परधर्मं समाश्रितः । अनुक्तैरपि भूतैश्च संवृतो लोककृत्स्वयम् ॥ २,३.४९ ॥ दुरुक्तैः कटुवाक्याद्यैर्मूर्तिमद्भिरुपास्यते । तेषां मध्येऽविशत्सौरिः सव्रीडेव वधूर्यथा ॥ २,३.५० ॥ विलोकयन्नधोभागं नम्रवक्त्रो व्यदर्शयत् । ते प्रविष्टं यमं दृष्ट्वा सकायस्थं सनारदम् ॥ २,३.५१ ॥ विस्मिताक्षा मिथः प्रोचुः किमयं भास्करिस्त्विह । संप्राप्तो हि लोककरं द्रष्टुं देवं पितामहम् ॥ २,३.५२ ॥ निर्व्यापारः क्षणं नास्ति योऽयं व्यग्रो रवेः सुतः । सोऽयमभ्यागतः कस्मात्कञ्चित्क्षेमं दिवौकसाम् ॥ २,३.५३ ॥ आश्चर्यातिशयं मन्ये यन्मार्जितपटस्त्वयम् । लेखकः समनुप्राप्तो दैन्येन महतान्वितः ॥ २,३.५४ ॥ न केनचित्पटो ह्यस्य मार्जितोऽभूच्च धर्मिणा । यन्न दृष्टं श्रुन्त वापि तदिहैव प्रदृश्यते ॥ २,३.५५ ॥ एवमुच्चरतां तेषां भूतानां कृतशासनः । निपपाताग्रतो विप्रा ब्रह्मणो रविनन्दनः ॥ २,३.५६ ॥ मूलच्छिन्नो यथा शाखी त्राहि त्राहीति संरुदन् । परिभूतोऽस्मि देवेश यन्मार्जितपटः कृतः ॥ २,३.५७ ॥ त्वया नाथेन विधुरं पश्यामि कमलासन । एवं ब्रुवन्स निश्चेष्टो बभूव द्विजसंत्तमाः ॥ २,३.५८ ॥ ततो हलहलाशब्दः सभायां समवर्तत । योर्ऽथं रोदयते लोकान्सर्वान्स्थावरज गमान् ॥ २,३.५९ ॥ सोऽयं रोदिति दुःखार्तः कस्माद्वैवस्वतो यमः । अथवा सत्यगाथेयं लौकिकी प्रतिभाति नः ॥ २,३.६० ॥ जनसन्तापकर्ता यः सोऽचिरेणोपतप्यते । नहि दुष्कृतकर्मा हि नरः प्राप्नोति शोभनम् ॥ २,३.६१ ॥ ततो निवारयामास वायुस्तेषां वचस्तदा । लोकानां समचित्तानां मतं ज्ञात्वा हि वेधसः ॥ २,३.६२ ॥ निवार्य शङ्कां मार्तण्डिं शनैरुत्थापयन् विभुः । भुजाभ्यां साधुपीनाभ्यां लोकमूर्तिरुदारधीः ॥ २,३.६३ ॥ विह्वलं तं पलायन्तमासने संन्यवेशयत् । सकायस्थमुवाचेदं व्योममूर्तिं रवेः सुतम् ॥ २,३.६४ ॥ केन त्वमभिभूतोऽसि केन स्थानाद्विवासितः । केनापमार्जितो देवपटो लोकपटस्तव ॥ २,३.६५ ॥ ब्रूहि सर्वमशेषेण कुशकेतुर्वदत्वयम् । यः प्रभुस्तात सर्वेषां स ते कर्ता समुन्नतिम् । अपनेष्यति मार्तण्डे दुःखं हृदयसंस्थितम् ॥ २,३.६६ ॥ स एवमुक्तस्तु प्रभञ्जनेन दिनेशसूनुस्तमथो बभाषे । विलोक्य वक्त्रं कुशकेतुसूनोः सगद्गदं मन्दमुदीरयन्वचः ॥ २,३.६७ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरे भागे यमस्य ब्रह्मलोकगमनं नाम तृतीयोऽध्यायः _____________________________________________________________ यम उवाच शृणु मे वचनं नाथ पितामह पितामह । मरणादधिकं देव यत्प्रतापस्य खण्डनम् ॥ २,४.१ ॥ निस्पृहो नाचरेद्यस्तु नियोगं पद्मसंभव । अन्धकूपे निपतति स चाशु नरके ध्रुवम् ॥ २,४.२ ॥ नियोगी न नियोगं यः करोति कमलासन । प्रभोर्वित्तं समश्नाति स भवेत्काष्ठकीटकः ॥ २,४.३ ॥ योऽश्नाति लोभाद्वित्तानि प्रजाभ्यो वा महीपतेः । नियोगी नरकं याति यावत्कल्पशतत्रयम् ॥ २,४.४ ॥ आत्मकार्यपरो यस्तु स्वामिनं च विलुंपति । भवेद्वेश्मनि मन्दात्मा आखुः कल्पशतत्रयम् ॥ २,४.५ ॥ नियोगी यस्तु वै भूत्वा आत्मवेश्मनि भोक्ष्यति । भृत्यान्वै कर्मकरणे राज्ञो मार्जारतां व्रजेत् ॥ २,४.६ ॥ सोऽहं देव तवादेशात्प्रजा धर्मेण शासयन् । पुण्येन पुण्यकर्तारं पापं पापेन कर्मणा ॥ २,४.७ ॥ सम्यग्विचार्य मुनिभिर्घर्मशास्त्रादिभिर्विभो । कल्पादौ वर्तमानस्य यावद्यावद्दिनं तव ॥ २,४.८ ॥ सोऽहं त्वदीयेन विभो नियोगेनैव शक्नुयाम् । कर्तुं रुक्माङ्गदेनाद्य पराभूतो हि भूभुजा ॥ २,४.९ ॥ भयाद्यस्य जगन्नाथ पृथिवी सागरांबरा । न भुङ्क्ते वासरे विष्णोः सर्वपापप्रणाशने ॥ २,४.१० ॥ विहाय सर्वधर्मांस्तु विहाय पितृपूजनम् । विहाय देवपूजां च तीर्थस्नानादिकस्त्रियाम् ॥ २,४.११ ॥ योगसांख्यावुभौ त्यक्त्वा ज्ञानं ज्ञेयं च मानद । त्यक्त्वा स्वाध्यायहोमांश्च कृत्वा पापानि भूरिशः ॥ २,४.१२ ॥ प्रयान्ति वैष्णवं लोकमुपोष्य हरिवासरम् । मनुजाः पितृभिः सार्द्धं तथैव च पितामहैः ॥ २,४.१३ ॥ तेषामपीह पितरः पितॄणां पितरस्तथा । तथा मातामहा यान्ति मातुर्ये जनकादयः ॥ २,४.१४ ॥ तेषामपि जनेतारो जनितॄणां हि पूर्वजाः । एतद्दुःखं पुनर्देव मम मर्मविभेदनम् ॥ २,४.१५ ॥ प्रियायाः पितरो यान्ति मार्जयित्वा लिपिं मम । पितॄणां बीजतो यस्माद्धात्र्या कुक्षौ धृतो यतः ॥ २,४.१६ ॥ यदेकः कुरुते कर्म तदेकेनैव भुज्यते । ततोऽन्यस्य कृतं ब्रह्मन्बीजं धात्रीसमुद्भवम् ॥ २,४.१७ ॥ तारयेत्स उभौ पक्षौ यत्पिण्डो यस्य विग्रहः । न भार्याया भवेद्वीजं न भार्या कुक्षिधारिणी ॥ २,४.१८ ॥ कथं तस्या जगन्नाथ पक्षो याति परं पदम् । जामातुः पुण्यमाहात्म्यत्तिन मे शिरसो रुजा ॥ २,४.१९ ॥ न मे प्रयोजनं देव नियोगेनेदृशेन वै । एकादश्युपवासी यः स मां त्यक्त्वा व्रजेद्धरिम् ॥ २,४.२० ॥ कुलत्रयं समुद्धृत्य आत्मना सह पद्मज । त्यक्त्वा तु मामकं मार्गं प्रयाति हरिमन्दिरम् ॥ २,४.२१ ॥ न यज्ञैस्तादृशैर्देव गतिं प्राप्नोति मानवः । न तीर्थैर्नापि दानैर्वा न व्रतैर्विष्णुवर्जितैः ॥ २,४.२२ ॥ न जले पावके वापि मृतः प्राप्नोति तां गतिम् । योगेन संप्रणष्टो वा भृगुपातेन वा विधे ॥ २,४.२३ ॥ तादृशीं न गतिं याति यादृशीं वैष्णवव्रती । गतिं मतिमतां श्रेष्ठ सत्यमेतदुदीरितम् ॥ २,४.२४ ॥ हरेर्दिने धातृफलाङ्गलिप्तो विमुक्तवाञ्छारसभोजनो नरः । प्रयाति लोके धरणीधरस्य विदुष्टकर्मापि मनुष्यजन्मा ॥ २,४.२५ ॥ सोऽहं निराशो भुवि हीनकर्मा तवागतः पादसरोजयुग्मम् । विज्ञप्ति मात्राभयदाप्तिकालं कुरुष्व सर्गस्थितिनासहेतोः ॥ २,४.२६ ॥ मास्युस्तदा पापकृतो विहीना यन्मामकैर्भूतगणैर्मनुष्याः । नियन्त्रिताः शृङ्खलरज्जुबन्धनैः समीपगा मे वशगा भवेयुः ॥ २,४.२७ ॥ भग्नस्तु मार्गो रवितापयुक्तो यद्विष्णुसंघैरतितीव्रहस्तैः । विमुच्य कुंभीं सकलो जनौघः प्रयाति तद्धाम परात्परस्य ॥ २,४.२८ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे यमवाक्यं नाम चतुर्थोऽध्यायः _____________________________________________________________ यम उवाच घृष्टतां समनुप्राप्तः पन्था देवस्य चक्रिणः । अच्छिद्रैर्गम्यनानैश्च नरैस्त्रिभुवनार्चित ॥ २,५.१ ॥ अप्रमाणमहं मन्ये लोकं विष्णोर्जगत्पते । यो न पूर्यति लोकैघैः सर्वसत्वसरोरुहैः ॥ २,५.२ ॥ माधवावसथैनैव समस्तेन पितामह । स्वकर्मस्था विकर्मस्थाः शुचयोऽशुचयोऽपि वा ॥ २,५.३ ॥ उपोष्य वासरं विष्णोर्लोकं यान्ति नृपाज्ञया । सोऽस्माकं हि महान् शत्रुर्भवतां च विशेषतः ॥ २,५.४ ॥ निग्राह्यो जगतांनाथ भवेन्नास्त्यत्र संशयः । तेन वर्षसहस्रेण शासितं क्षितिमण्डलम् ॥ २,५.५ ॥ अप्रमेयो जनो नीतो वैष्णवं हरिवल्लभम् । आरोपयित्वा गरुडे कृत्वा रूपं चतुर्भुजम् ॥ २,५.६ ॥ पीतवस्त्रसुसंवीतं स्रग्विणं चारुलोपनम् । यदि स्थास्यति देवेश माधव्यां माधवप्रियः ॥ २,५.७ ॥ समस्तं नेष्यते लोकं विष्णोः पदमनामयम् । एष दण्डः पटो ह्येष तव पद्भ्यां विसर्जितः ॥ २,५.८ ॥ लोकपालत्वमतुलं मार्जित तेन भूभुजा । रुक्माङ्गदेन देवेश धन्या सा स धृतो यया ॥ २,५.९ ॥ सर्वदुःखविनाशाय मात्रृजातो गुणाधिकः । किमपत्येन जातेन मातुः क्लेशकरेण हि ॥ २,५.१० ॥ यो न तापयते शत्रून् ज्येष्ठे मासि यथा रविः । वृथाशूला हि जननी जाता देव कुपुत्रिणी ॥ २,५.११ ॥ यस्य न स्फुरते कीर्तिर्घनस्थेव शतह्रदा । यः पितुर्नोद्धरेत्पक्षं विद्यया वा बलेन वा ॥ २,५.१२ ॥ मातुर्जठरजो रोगः स प्रसूतो धरातले । धर्मे चार्थे च कामे च प्रतीपो यो भवेत्सुतः ॥ २,५.१३ ॥ मातृहा प्रोच्यते सद्भिर्वृथा तस्यैव जीवितम् । एका हि वीरसूरेव विरञ्चे नात्र संशयः ॥ २,५.१४ ॥ यया रुक्माङ्गदो जातो मल्लिपेमर्ज्जनाय वै । नेदं व्यवस्थितं देव क्षितौ केनापि भूभुजा ॥ २,५.१५ ॥ पुराणेऽपि जगन्नाथ न श्रुतं पटमार्जनम् । सोऽहं न जां मि कदाचिदाश दृष्ट्वा क्षिरीशं हरिसेवने स्थितम् । प्रवादमानं पटहं सुघोरं प्रलोपमानं ममविश्ममार्गम् ॥ २,५.१६ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे यमविलापनं नाम पञ्चमोऽध्यायः _____________________________________________________________ ब्रह्मोवाच किमाश्चर्यं त्वया दृष्टं कथं वा खिद्यते भवान् । सद्गुणेषु च संतापः स तापो मरणान्तिकः ॥ २,६.१ ॥ यस्योच्चारणमात्रेण प्राप्यते परमं पदम् । तमुपोष्य कथं सौरे न गच्छति नरस्त्विति ॥ २,६.२ ॥ एको हि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म कष्णप्रणामी न पुनर्भवाय ॥ २,६.३ ॥ कुरुक्षेत्रेण किं तस्य किं काश्या विरजेन वा । जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ २,६.४ ॥ ब्राह्मणः श्वपचीं गच्छन् विशेषेण रजस्वलाम् । अन्नमश्नन्सुरापक्वं मरणे यो हरिं स्मरेत् ॥ २,६.५ ॥ अभक्ष्यागम्ययोर्जातं विहाय पापसंचयम् । स याति विष्णुसायुज्यं विमुक्तो भवबन्धनैः ॥ २,६.६ ॥ यन्नामोच्चारणान्मोक्षः कथं न तदुपोषणे । यस्मिन्संगीयते सोऽपि चिन्त्यते पुरुषोत्तमः ॥ २,६.७ ॥ लीलया चोच्चरेद्देवं शृणुयाच्च जनार्दनम् । गङ्गांभः पूतपुण्यत्वे स नरः समतां व्रजेत् ॥ २,६.८ ॥ अस्माकं जगतांनाथो जन्मदः पुरुषोत्तमः । कथं शासति दुर्मेधास्तस्य वासरसेविनम् ॥ २,६.९ ॥ यस्त्वं न चूर्णितस्तैस्तु यस्त्वं बद्धो न तैर्दृढम् । तदस्माकं कृतं मानं मे तत्त्वं नावबुध्यसे ॥ २,६.१० ॥ यो नियोगी न जानाति नृपभक्तान्वरान् क्षितौ । कृत्स्नायासेन संयुक्तः स तैर्निग्राह्यते पुनः ॥ २,६.११ ॥ राजेष्टा न नियोक्तव्याः सापराधा नियोगिना । स्वामिप्रसादात्सिद्धास्ते विनिन्युर्व्वै नियोगिनम् ॥ २,६.१२ ॥ एवं हि पापकर्तारः प्रणता ये जनार्दने । कथं संयमिता तेषां बाल्याद्भास्करनन्दन ॥ २,६.१३ ॥ शैवैर्भास्करभक्तैर्वा मद्भक्तैर्वा दिवाकरे । करोमि तव साहाय्यं हरिभक्तैर्न भास्करे ॥ २,६.१४ ॥ सर्वेषामेव देवानामादिस्तुपुरुषोत्तमः ॥ २,६.१५ ॥ मधुसूदनभक्तानां निग्रहो नोपपद्यते । व्याजेनापि कृता यैस्तु द्वादशी पक्षयोर्द्वयोः ॥ २,६.१६ ॥ तैः कृते अवमाने तु तव नाहं सहायवान् । कृते सहाये तव सूर्यसूनो भवेदनीतिर्मम देहघातिनी । विपर्ययो ब्रह्मपदात्सुपुण्यात्कृतेव मार्गे सह विष्णुभक्तैः ॥ २,६.१७ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे ब्रह्मवाक्यं नाम षष्ठोऽध्यायः _____________________________________________________________ प्राप्तं तात मया सार्द्धं वेदाङ्घ्रिनमने हितम् । नाहं गच्छामि योगान्तं पुनरेव जगत्पते ॥ २,७.१ ॥ प्रशासति महीं भूपेहाटकाङ्गदसंज्ञके । तमेकं देवताश्रेष्ठं संप्राप्ते हरिवासरे ॥ २,७.२ ॥ यदि चालयसे धैर्यात्ततोऽहं तव किङ्करः । स मे शत्रुर्महान्देव तेन लुप्तः पटो मम ॥ २,७.३ ॥ तमेकं भोजयित्वा तु कार्ष्णेऽहनि महीपतिम् । कृतकृत्यो भविष्यामि गयापिण्डप्रदो यथा ॥ २,७.४ ॥ अद्य प्रभृति देवेशोयैर्नरैः संस्मृतो हरिः । उपोषितः स्तुतोवापि न नियम्या मया हि ते ॥ २,७.५ ॥ हरिरिति सहसा ये संगृणन्तिच्छलेन जननिजठरमार्गात्ते विमुक्ते विमुक्ता हि मर्त्याः । मम पटविलिपिं ते नो विशन्ति प्रवीणा दिविचरवरसंघैस्ते नमस्या भवन्ति । सौतिरुवाच ॥ २,७.६ ॥ वैवस्वतस्य कार्येण तत्सम्मानचिकीर्षयया । र्चितयामास देवेशो विरिञ्चिः कुशलाञ्छनः ॥ २,७.७ ॥ चिन्तयित्वा क्षणं देवः सर्वभूतैश्च भूषितः । भूतत्रासनमात्रं तु रूपं स जगृहे विभुः ॥ २,७.८ ॥ तस्मिन्नुत्पादयामास प्रमदां लोकमोहिनीम् । सर्वयोषिद्वरा देवीमनसा निर्भिता बभौ ॥ २,७.९ ॥ सा बभूवाग्रतस्तस्य सर्वालङ्कारभीषिता । दृष्ट्वा पितामहस्तां तु रूपद्रविणसंयुताम् ॥ २,७.१० ॥ प्राहेमान् पश्यतो ह्येतां स्वकान्वै काममोहितान् । प्रत्यवायभयाद्ब्रह्या चक्षुषी संन्यमीलयत् ॥ २,७.११ ॥ सरागेणेह मनसा सरागेणेह चक्षुषा । चिन्तयेद्वीक्षयेद्वापि जननीं वा सुतामपि ॥ २,७.१२ ॥ वधूं वा भ्रातृजायां वा गुरोभार्यां नृपस्त्रियम् । स याति नरकं घोरं संचिन्त्य श्वपचीमपि ॥ २,७.१३ ॥ दृष्ट्वा हि प्रमदा ह्येता यः क्षोभं व्रजते नरः । तस्य जन्मकृतं पुण्यं वृथा भवति नान्यथा ॥ २,७.१४ ॥ प्रसंगे दशसाहस्रं पुण्यमायाति संक्षयम् । पुण्यस्य संक्षयात्पापी पाषाणाखुर्भवेद्ध्रुवम् ॥ २,७.१५ ॥ तस्मान्न चिन्तये त्प्राज्ञो ह्येता रागेण चक्षुषा । जनन्या अपि पादौ तु नादेयौ द्वादशाब्दिकैः ॥ २,७.१६ ॥ सुतैस्त्वभ्यङ्गकरणे पुनर्यौवनसंस्थितैः । षष्ट्यतीतां सुतोऽभ्यङ्गे नियुञ्जीत विचक्षणः ॥ २,७.१७ ॥ वृद्धो वापि युवा वापि न पादौ धावयेद्वधूम् । उभयोः पतनं प्रोक्तं रौरवेऽङ्गारसंचये ॥ २,७.१८ ॥ या वधूर्दर्शयेदङ्गं विवृतं श्वशुरस्य हि । पाणिपादाहता राजन् क्रिमिभक्ष्या भवेत्तु सा । वधूहस्तेन यः पापः पादशौचं करोति हि ॥ २,७.१९ ॥ स्नानं वाप्यथवाभ्यङ्गं तस्याप्येवंविधा गतिः । सूचीमुखैः कृष्णवक्त्रोर्भुज्यते कल्पसंस्थितिम् ॥ २,७.२० ॥ तस्मान्न वीक्षयेन्नारीं सुतां वापि वधूं नरः । साभिलाषेण मनसा तत्क्षणात्पतते नरः ॥ २,७.२१ ॥ एवं संचिन्तयित्वा च सूक्ष्मां दृष्टिं चकार ह । यदिदं वर्तुलं वक्त्रं सोन्नतं दृश्यते शुभम् ॥ २,७.२२ ॥ अस्थिपञ्जरमेतद्धि चर्ममांसावृतं त्विति । वसा मेदोऽथ नयने सोज्वले स्त्रीषु संस्थिते ॥ २,७.२३ ॥ अत्युच्छ्रितमिदं मांसं स्तनयोः समवस्थितम् । निम्नांशतां दर्शयति त्रिवली जठरस्थिता ॥ २,७.२४ ॥ पुनरेवाधिकं क्षिप्तं मांसं जघनवत्मनि । मूत्रद्वारमिदं गुह्यं यत्र मुग्धं जगत्त्रयम् ॥ २,७.२५ ॥ अपानवायुना जुष्टं सदैव प्रतिकुत्सितम् । भस्त्रावर्गाधिकं क्षिप्तं मांसं जघनवर्त्मनि ॥ २,७.२६ ॥ कृतं यद्विद्द्विधा काष्ठं तद्वज्जङ्घा द्विधा ध्रुवम् । शुक्रास्थिपूरितं मांसैः कथं सुन्दरतां व्रजेत् ॥ २,७.२७ ॥ मांसमेदोवसासारे किं सारं देहिनां वद । विष्ठामूत्रमलैः पुष्टे को देहे रज्यते नरः ॥ २,७.२८ ॥ एवं विचार्य बहुधा विरिञ्चिर्ज्ञानचक्षुषा । धैर्यं कृत्वा व नारीं तामुवाच गजगामिनीम् ॥ २,७.२९ ॥ यथाहि मनसा सृष्टा मया त्वं वरवर्णिनी । तथा भूतासि चार्वङ्गि मानसोन्मादकारिणी ॥ २,७.३० ॥ तमुवाच तदा सा तु प्रणम्य चतुराननम् । पश्य मूच्छान्वतनाथ जगत्स्थावरजङ्गमम् ॥ २,७.३१ ॥ मोहितं मम रूपेण सयोगि यदकल्मषम् । स नास्ति त्रिषु लोकेषु यः पुमान्मम दर्शनात् ॥ २,७.३२ ॥ भवन्त मादितः कृत्वा न क्षोभं याति पद्मज । आत्मस्तुतिर्न कर्तव्या केनचिच्छुभमिच्छता ॥ २,७.३३ ॥ स्तवनान्नरकं याति विशुद्धोऽपि च मानवः । तथापि स्तवनं ब्रह्मन् कर्तव्यं कार्यहेतुना ॥ २,७.३४ ॥ साहं सृष्टा त्वया ब्रह्मन् कस्यचित्क्षोभणाय वै । तमादिश जगन्नाथ क्षोभयिष्ये न संशयः ॥ २,७.३५ ॥ मां दृष्ट्वापि क्षितौ देव भूधरश्चापि मुह्यति । किं पुनश्चेतनोपेतः श्वासोच्छासी नरस्त्विति ॥ २,७.३६ ॥ तथा चोक्तं पुराणेषु नारीवीक्षणवर्णनम् । उन्मादकरणं नॄणां दुश्चरव्रतनाशनम् ॥ २,७.३७ ॥ सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालंबते तावदेव । भ्रूचापाक्षेपयुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ २,७.३८ ॥ धिक्तस्य मूढमनसः कुकवेः कवित्वं यः स्त्रीमुखं च शशिनं च समीकरोति । भ्रूक्षेपविस्मितकटाक्षनिरीक्षनिरीक्षितानि कोपप्रसादहसितानि कुतः शशाङ्के ॥ २,७.३९ ॥ पीतं हि मद्यं मनुजेन नाथ करोति मोहं सुविचक्षणस्य । स्मृता च दृष्टा युवती नरेण विमोहयेदेव सुराधिका हि ॥ २,७.४० ॥ मोहनार्थं त्वया सृष्टा नराणां प्रपितामह । तमादिशजगन्नाथ त्रैलोक्यं मोहयाम्यहम् ॥ २,७.४१ ॥ ब्रह्मोवाच सत्यमुक्तं त्वया देवि नासाध्यं भुवनत्रये । नागनासोरु सुभगे मत्तमातङ्गगामिनि ॥ २,७.४२ ॥ या त्वं दूषयसे चेतो ममापि वरवर्णिनि । तन्मया सुगृहीतं तु कृतं ज्ञानाङ्कुशेन हि ॥ २,७.४३ ॥ सा त्वं कथं न लोकानां चेतांस्यपहरिष्यसि । सत्यमेतद्विशालाक्षि तव रूपं विमोहनम् ॥ २,७.४४ ॥ सामरं हि जगत्सर्वं निश्चेष्टमपि लक्षये । यन्निमित्तं मया सृष्टा तत्साधय वरानने ॥ २,७.४५ ॥ वैदिशे नगरे राजा नाम्ना रुक्माङ्गदः क्षितौ । यस्य सन्ध्यावली भार्या तव रूपोपमा शुभे ॥ २,७.४६ ॥ यस्यां धर्माङ्गदो जातो पितुरत्यधिकः सुतः । दशनागायु तबलः प्रतापेन रविर्यथा ॥ २,७.४७ ॥ यः क्षान्त्या धरया तुल्यो गांभीर्ये सांगरोपमः । तेजसा वह्निवद्द्वीप्तः क्रोधे वैवस्वतोपमः ॥ २,७.४८ ॥ त्यागे वैरौचनिर्यद्वद्गतौ हि पवनोपमः । सौम्यत्वे शशितुल्यस्तु रूपवान्मन्मथो यथा ॥ २,७.४९ ॥ जीवभार्गवयोस्तुल्यो यो नीतौ राजनन्दनः । पित्रा भुक्तं समस्तैकं जंबूद्वीपं वरानने ॥ २,७.५० ॥ धर्माङ्गदेन द्वीपानि संजितान्यपराण्यपि । पित्रोस्तु व्रीडया येन न ज्ञातं प्रमदासुखम् ॥ २,७.५१ ॥ स्वयं प्राप्ताः परित्यक्ता येन भार्याः सहस्रशः । यो न वाक्याद्विचलते सहैव हि पितुर्गृहे ॥ २,७.५२ ॥ यस्य वै त्रीणि सुभगे मातॄणां चारुहासिनि । शतानि कनकाभासे त्वविशेषेण पश्यति ॥ २,७.५३ ॥ चस्य धर्मप्रधानस्य पुत्ररत्नाञ्चितस्य च । समीपं गच्छ चार्वङ्गि मन्दरे पर्वतोत्तमे ॥ २,७.५४ ॥ तत्र वत्स्यति राजा वै तुरगेणातिवाहितः । तव गीतेन चार्वङ्गि मोहितोऽश्वं विहाय चकत ॥ २,७.५५ ॥ अधिरुह्य गिरेः पृष्ठं स संगं यास्यति त्वया । तत्र देवि त्वयावाच्यं मिलित्वा भूभुजा त्विह ॥ २,७.५६ ॥ अहं भार्या भविष्यामि तव राजन्न संशयः । यद्ब्रवीमि ह्यहं नाथ तत्कार्यं हि त्वया ध्रुवम् ॥ २,७.५७ ॥ मोहितस्तव रूपेण तथैव प्रतिपद्यते । यतस्तं शपथैर्धृत्वा दक्षिणेन करेण वै ॥ २,७.५८ ॥ वाच्यः कतिपयैः सुभ्रु दिनैरपगतैस्त्विति । सुरते तव चार्वङ्गि यदा मुग्धो हि लक्ष्यते ॥ २,७.५९ ॥ तदा प्रहस्य राज्ञो वै स्मारणीयं पुरा वचः । यस्त्वया शपथो राजन्कृतो मद्वाक्यपालने ॥ २,७.६० ॥ तत्पालयमहीपाल मन्येऽहं समयस्त्विति । एवमुक्ते त्वया मुग्धो राजा वै सत्यगौरवात् ॥ २,७.६१ ॥ पालयामि न संदेहो ब्रूहि किं ते ददाम्यहम् । एवमुक्ते तु वचने त्वया वाच्यो वरानने ॥ २,७.६२ ॥ रुक्माङ्गदो महीपालो धर्माङ्गदपिता शुभे । नोपवासस्त्वया कार्यो जातु वै हरिवासरे ॥ २,७.६३ ॥ सुरतस्रं सकारी मे ह्युपवासो भवेत्प्रिय । सुमुग्धां यौवनोपेतां स्वभार्यां यो न सेवते ॥ २,७.६४ ॥ पर्वापेक्षी दुराचारः स याति नरकं ध्रुवम् । त्रिरात्रमपविद्धाहं त्वया भूप उपोषणात् ॥ २,७.६५ ॥ नाहं निमेषमप्येकं स्थातुं शक्ता त्वया विना । श्राद्धकाले तु संप्राप्ते उपाविष्टैर्द्विजैः किल ॥ २,७.६६ ॥ याचते संगमं भार्या यदि भोग्या तदैव सा । एवं संबोध्यमानोऽपि यदा राजा वचस्तव ॥ २,७.६७ ॥ न करिष्यति चार्वङ्गि तदा वाच्यं परं वचः । यदि न त्यजसे राजन्नुपवासं हरेर्दिने ॥ २,७.६८ ॥ स्वहस्तेन शिरश्च्छित्वा स्वपुत्रस्य वरासिना । धर्माङ्गदस्य राजेन्द्र ममोत्संगेक्षिप स्वयम् ॥ २,७.६९ ॥ यद्येतन्मत्प्रियं त्वं हि न करोषि महीपते । धर्मक्षीणो भवान् गन्ता नरके नात्र संशयः ॥ २,७.७० ॥ श्रुत्वा त्वदीयं वचनं वराङ्गने न हिंस्यते प्राणसमं च पुत्रम् । संगृह्य वाक्यं वसुधामराणां सम्भोक्ष्यते माधववासंरेऽसौ ॥ २,७.७१ ॥ ततो जनो यास्यति पूर्ववच्च यमान्तिकं किङ्करपाशबद्धः । लिपिप्रमाणं नरकाधिवासी भविष्यते साधु कृतं त्वया हि ॥ २,७.७२ ॥ अथ यदि निहन्ति तनयं राजा सत्येन संयुतः श्रीमान् । निःशेषामरपूज्यं व्रजति पदं पद्मनाभस्य ॥ २,७.७३ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीं प्रति ब्रह्मवाक्यं नाम सप्तमोऽध्यायः _____________________________________________________________ सौतिरुवाच सास श्रुत्वा ब्रह्मणो वाक्यं नारी कमललोचना । उवाच नाम मेदेहि येन गच्छामि मन्दिरम् ॥ २,८.१ ॥ पित्रा नाम प्रकर्तव्यमपत्यानां जगत्पते । नाम पापहरं प्रोक्तं तत्कुरुष्व कुशध्वज ॥ २,८.२ ॥ ब्रह्मोवाच यस्मादिदं जगत्सर्वं त्वया सुंदरि मोहितम् । मोहिनी नाम ते देवि सगुणं हि भविष्यति ॥ २,८.३ ॥ दशावस्थागतः सम्यग्दर्शनात्ते भविष्यति । यदि प्राप्नोति वै सुभ्रु त्वत्संपर्कं सुखावहम् ॥ २,८.४ ॥ एवमुक्ता वरारोहा प्रणम्य कमलासनम् । वीक्ष्यमाणामरैर्मार्गे प्रतस्थे मन्दराचलम् ॥ २,८.५ ॥ तृतीयेन मुहूर्तेन संप्राप्ता गिरिमस्तकम् । यस्य संवेष्टने नागो वासुकिर्नहि पूर्यते ॥ २,८.६ ॥ यो धृतो हरिणा पूर्वं मथितो देवदानवैः । षड्लक्षयोजनः सिंधुर्यस्यासौ गह्वरो भवेत् ॥ २,८.७ ॥ कूर्मदेहेन संपृक्तो यो न भिन्नो गिरिर्महान् । पतता येन राजेन्द्र सिंधोर्गुह्यं प्रदर्शितम् ॥ २,८.८ ॥ गतं ब्रह्माण्डमार्गेण पयो यस्माद्गिरेर्द्विजाः । कूर्मास्थिघर्षता येन पावको जनितो महान् ॥ २,८.९ ॥ यस्मिन्स वसते देवः सह भूतैर्दिगंबरः । न देवैर्दानवैर्वापि दृष्टो यो हि द्विजोत्तमाः ॥ २,८.१० ॥ दशवर्षसहस्राख्ये काले महति गच्छति । केयूरघर्षणे येन कृतं देवस्य चक्रिणः ॥ २,८.११ ॥ रत्नानां मन्दिरं ह्येष बहुधातुसमन्वितः ॥ २,८.१२ ॥ क्रीडाविहारोऽपि दिवौकसां यस्तपस्विना यस्तपसोऽपि हेतुः । सुराङ्गनानां रतिवर्द्धनो यो रत्नौषधीनां प्रभवो गिरिर्महान् ॥ २,८.१३ ॥ दशैकसाहस्रमितश्च मूले तत्संख्यया विस्तरतां गतोऽसौ । दैर्घ्येण तावन्ति हि योजनानि त्रैलोक्ययष्टीव समुच्छ्रितोऽसौ ॥ २,८.१४ ॥ सकाञ्चनै रत्नमयैश्च शृङ्गैः प्रकाशयन्भूमितलं वियच्च । यस्मिन्गतः कश्य पनन्दनो वै विरश्मितामेति विनष्टतेजाः ॥ २,८.१५ ॥ काञ्चनाकारभूताङ्गं सप्राप्ता काञ्चनप्रभा । सूर्यतेजोनिहन्तारं मन्दरं तेजसा स्वयम् ॥ २,८.१६ ॥ कुर्वती नृपकामार्थमुपविष्टा शिलातले । नीलकान्तिमये दिव्ये सप्तयोजनविरतृते ॥ २,८.१७ ॥ तस्यां शिलायां राजेन्द्र लिगं तिष्ठति कौलिशम् । दशहस्त प्रमाणं हि विस्तरादूर्द्ध्वसंख्यया ॥ २,८.१८ ॥ वृषलिङ्गेति विख्यातं प्रासादाभ्रसमं परम् । तस्मिन्बाला द्विजश्रेष्ठाश्चक्रे संगीतमुत्तमम् ॥ २,८.१९ ॥ तन्त्रीता लसमायुक्तं क्लमहानिकरं परम् । समीपवर्तिनी तस्य भूत्वा लिङ्गस्य भामिनी ॥ २,८.२० ॥ मूर्च्छनातालसहितं गान्धारध्वनिसंयुतम् । तस्मिन्प्रवृत्ते राजेन्द्रगीते मन्मथवर्द्धने ॥ २,८.२१ ॥ बभूव स्थावराणां हि स्पृहा तस्मिन्मुनीश्वराः । न च दैवं न चादैवं गीतं तादृग्बभूव ह ॥ २,८.२२ ॥ मोहिनीमुखनिर्गीतं गीतं सत्वविमोहनम् ॥ २,८.२३ ॥ श्रुत्वैव गीतं हि दिगम्बरस्तु तेनैव रूपेण वराङ्गनायाः । कामातुरो भोक्तुमनाश्चचाल तां मोहिनीं पार्वतिदृष्टिलज्जः ॥ २,८.२४ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते मन्दखर्णनं नामाष्टमोऽध्यायः _____________________________________________________________ सौतिरुवाच रुक्माङ्गदस्तु राजेन्द्रो भुक्त्वा भोगांस्तुमानुषान् । संपूज्य बहुशो देवं पीतांबरधरं हरम् ॥ २,९.१ ॥ दत्वा मूर्ध्नि पदं विप्राः शत्रीणां रणशालिनाम् । कृत्वा शून्यं यमपथं जित्वा वैवस्वतं यमम् ॥ २,९.२ ॥ वैकुण्ठस्य तु पन्थानं संपूर्णं मानवैः कृतम् । आहूय तनयं काले धर्माङ्गदमभाषत ॥ २,९.३ ॥ एतां वसुमतीं पुत्र वसुपूर्णां समन्ततः । परिपालय वीर्येण स्वधर्मे कृतनिश्चयः ॥ २,९.४ ॥ पुत्र समर्थे जाते यो राज्यं न प्रतिपादयेत् । तस्य धर्मस्तथा कीर्तिर्विनस्यति न संशयः ॥ २,९.५ ॥ समर्थेन च पुत्रेण यो न याति पिता सुखम् । अवश्य पातकी सोऽपि विज्ञेयो भुवनत्रये ॥ २,९.६ ॥ पितुर्भारक्षमः पुत्रो भारं नोद्वहते तु यः । मातुरुच्चारवज्जातो द्विजिह्वो विषवर्जितः ॥ २,९.७ ॥ स पुत्रो योऽधिकख्यातः पितुर्भवति भूतले । प्रकाशयति सर्वत्र स्वकरैरिव भास्करः ॥ २,९.८ ॥ पुत्रापनयजैर्दुःखै रात्रौ जागर्तिं यत्पिता । स पुत्रो नरकं याति यावदाभूतसंप्लवम् ॥ २,९.९ ॥ पितुर्वचनमादृत्य सर्वं यः कुरुते गृहे । स याति देव सायुज्यं स्तूयमानो दिवि स्थितैः ॥ २,९.१० ॥ सोऽहं प्रजाकृते पुत्र आसक्तः कर्मभिः क्षितौ । न भुक्तं नैव सुप्तं तु स्वेच्छया पालने स्थितः ॥ २,९.११ ॥ असमर्थे त्वयि सुत न प्राप्तं हि मया सुखम् । विष्णुवासरभोक्तॄणां निग्रहे कृतबुद्धिना ॥ २,९.१२ ॥ केचिच्छैवे स्थिता मार्गे सौरे केचिद्व्यवस्थिताः । विरिञ्चिमार्गगाश्चान्ये पार्वत्याश्च स्थिताः परे ॥ २,९.१३ ॥ सायं च प्रातरासीना अग्निहोत्रे व्यवस्थिताः । बालो युवा वा वृद्धो वा गुर्विणी वा कुमारिका ॥ २,९.१४ ॥ सरोगो विकलो वापि न शक्नोति ह्युपोषितुम् । इत्येवं जल्पितं यैस्तु तान्निरस्य समन्ततः ॥ २,९.१५ ॥ वचोभिस्तु पुराणोक्तैर्वासरैर्बहुभिस्त्वहम् । संबोधयित्वा बहुशः प्रजानां सुखहेतवे ॥ २,९.१६ ॥ निगृह्य तान्हरिदिने निराहारान्करोमि च । शास्त्रदृष्ट्या तु विदुषो मूर्खान्दण्डनपूर्वकम् ॥ २,९.१७ ॥ शासयित्वा कृताः सर्वे निराहारा हरेर्दिने । तेन मे न सुखं किञ्चिदवलीढं धरातले ॥ २,९.१८ ॥ कच्चिन्न दुःखेन जनान्योजयेत्किल पुत्रक । स्वेभ्यो वापि परेभ्यो वा या रक्षेच्च प्रजा नृपः ॥ २,९.१९ ॥ तस्यामी ह्यक्षया लोकाः पुराणेषु प्रकीर्तिताः । सोऽहं प्रजाकृते सौम्य संस्थितो नात्मनः क्वचित् ॥ २,९.२० ॥ सौख्यमिच्छाम्यहं भोक्तुं मृगयादिसमुद्भवम् । न पानद्यूतजं पुत्र कामयेऽहं कदाचन ॥ २,९.२१ ॥ एषु सक्तोऽचिरात्पुत्र विनाशं याति पार्थिवः । त्वत्प्रसादादहं पुत्र मृगयाव्याजतोऽधुना ॥ २,९.२२ ॥ गिरीन्वनानि सरितः सरांसि विविधानि च । भोक्तुकामः प्रियान्कामांस्त्वयि भारं निवेश्य च ॥ २,९.२३ ॥ एतत्सर्वं समाख्यातं यत्स्थितं हृदये मम । कृते तव महाकीर्तिरकृते नरकस्थितिः ॥ २,९.२४ ॥ धर्माङ्गद उवाच सर्वमेतत्करिष्यामि भुङ्क्ष्व भोगान्मनोऽनुगान् । गुर्वीं राज्यधुरं तात त्वदीयामुद्धराम्यहम् ॥ २,९.२५ ॥ नहि मेऽन्यः स्मृतो धर्मस्त्वद्वाक्यकरणं विना । पितुर्वाक्यमकुर्वाणः कुर्वन्धर्मानधो व्रजेत् ॥ २,९.२६ ॥ तस्मात्करिष्ये वचनं त्वदीयं प्राञ्जलिः स्थितः । एवमुक्ते तु वचने राजा हृष्टो बभूव ह ॥ २,९.२७ ॥ गन्तुकामो मृगान्भूयोलब्ध्वा ज्ञात्वा वनं ततः । धर्माङ्गदोऽपि दृष्टात्मा प्रजा आहूय चाब्रवीत् ॥ २,९.२८ ॥ पित्रा नियुक्तो भवतां पालनाय हिताय च । पितुर्वाक्यं मया कार्यं सर्वथा धर्ममिच्छता ॥ २,९.२९ ॥ नान्यो हि धर्मः पुत्रस्य पितुर्वाक्यं विना प्रजाः । मयि दण्डधरे शास्ता न यमो भवति क्वचित् ॥ २,९.३० ॥ एवं ज्ञात्वा तु युष्माभिः स्मर्तव्यो गरुडध्वजः । ब्रह्मार्पणप्रयोगेण यजनीयो जनार्दनः ॥ २,९.३१ ॥ ममत्वं हि परित्यज्य स्वजातिविहितेन च । येन वो ह्यक्षया लोका भवेयुर्नात्र संशयः ॥ २,९.३२ ॥ पितृमार्गाधिको ह्येष भवतां दर्शितः प्रजाः । ब्रह्मार्पणक्रियायुक्ता भवन्तु ज्ञानकोविदाः ॥ २,९.३३ ॥ न भोक्तव्यं हरिदिने पैत्रो मार्गस्तु शाश्वतः । विशेषो हि मयाख्यातो भवतां ब्रह्मसंस्थितिः ॥ २,९.३४ ॥ प्रयोक्तव्या च तत्त्वज्ञैः पुनरावृत्ति दुर्लभा । यदुपोष्यं हरिदिनं तदवश्यमिति स्थितिः ॥ २,९.३५ ॥ अनुनीय प्रजाः सर्वाः समाश्वात्यत पुनः पुनः । न दिवा न च शर्वर्यां शेते धर्मां गदः सदा ॥ २,९.३६ ॥ सर्वत्र भ्रमते शौर्यात्कुर्वन्निष्कण्टकां क्षितिम् । पटहो रटते नित्यं मृगारिरिपुमस्तके ॥ २,९.३७ ॥ अभुक्त्वा द्वादशीं लोका ममत्वेन विवर्जिताः । त्रिविधेषु च कार्येषु देवेशश्चिन्त्यतां हरिः ॥ २,९.३८ ॥ हव्यकव्यवहो देवः स एव पुरुषोत्तमः । सूर्ये यो हि कृशाकाशे विसर्गे जगतां पतिः ॥ २,९.३९ ॥ स्मर्त्तव्यो मनुजैः सर्वैर्धर्मकामार्थकामुकैः । स्वजातिविहितोऽप्येवं सन्मार्गे चैव माधवः ॥ २,९.४० ॥ स एव भोक्ता भोक्तव्यः स एव पुरुषोत्तमः । विनियोगस्तु तस्यैव सर्वकर्मसु युज्यते ॥ २,९.४१ ॥ एवं रटन्ति विप्रेन्द्राः पटहे मेघनिःस्वने । एवं धर्ममवाप्याथ पितां धर्माङ्गदस्य हि ॥ २,९.४२ ॥ ज्ञात्वा पुत्रं क्रियोपेतमात्मनो ह्यधिकं द्विजाः । उवाच भार्यां संहृष्टः स्थितां लक्ष्मीमिवापराम् ॥ २,९.४३ ॥ संध्यावलि ह्यहं धन्यस्त्वं चापि वरवर्णिनी । उभयोर्जनितः पुत्रः शशाङ्कधवलः क्षितौ ॥ २,९.४४ ॥ कर्णाभ्यां श्रूयते मोक्षो न दृष्टः केनचित्क्वचित् । सोऽस्माभिरधिकं प्राप्तो मोक्षः सत्पुत्रसंभवः ॥ २,९.४५ ॥ पुत्रे विनयसंपन्ने वृत्ताशौर्यसमन्विते । प्रतापिनि वरारोहे पितुर्मोक्षो गृहे ध्रुवम् ॥ २,९.४६ ॥ आनन्दं ब्रह्मणो रूपं शतानन्दः सुतेन यः । पिता भवति चार्वङ्गि सत्कर्मकरणैः शुभैः ॥ २,९.४७ ॥ नैतत्साम्यं भवेद्देवि लोके स्थावरजङ्गमे । सत्पुत्रः पितुरादाय भारमुद्वहते तु यः ॥ २,९.४८ ॥ सोऽहं गमिष्यामि वनाय हृष्टो विहारशीलो मृगहिंसनाय । स्वेच्छाचरश्चाथ विशालनेत्रे विमुक्तपापो जनरक्षणाय ॥ २,९.४९ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरेभागे रुक्माङ्गदधर्माङ्गदसंवादो नाम नवमोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच ततः प्राह विशालाक्षी भर्तुर्वाक्यं निशम्य सा । सत्यमुक्तं त्वया राजन्पुत्रसौख्यात्परं सुखम् ॥ २,१०.१ ॥ न भवेदिह राजेन्द्र मुनीनां भाषितं यथा । तुल्यं भवति लोकेऽस्मिन् विष्ण्वाख्यस्य परस्य हि ॥ २,१०.२ ॥ पुत्रे भारस्त्वया न्यस्तः सप्तद्वीपसमुद्भवः । मार्गी हिंसां परित्यज्य यज्ञैरिष्ट्वा जनार्दनम् ॥ २,१०.३ ॥ भोगस्पृहां परित्यज्य सेवस्य सुरनिम्नगाम् । एतन्न्याय्यं भवति भो न न्याय्यो मृगनिग्रहः ॥ २,१०.४ ॥ हृदये नखपातो हि वृद्धाया भूपते यथा । तथा विषयसेवा हि पितॄणां पुत्रिणां विदुः ॥ २,१०.५ ॥ गृहे वापि हृषीकेशं पूजयस्व महीपते । निर्देषमृगयूथानां न युक्तं सूदनं तव ॥ २,१०.६ ॥ अहिंसा परमो धर्मः पुराणे परिकीर्तितः । हिंसया वर्तमानस्य व्यर्थो धर्म्मोभवेदिति । कुर्वन्नपि वृथा धर्मान्यो हिंसामनुवर्तते ॥ २,१०.७ ॥ परैरुपहतां भूप नोपभुञ्जन्ति साधवः । षड्विधं नृप ते प्रोक्तं विद्वद्भिर्जीवघातनम् ॥ २,१०.८ ॥ अनुमोदयिता पूर्वं द्वितीयो घातकः स्मृतः । विश्वासकस्तृतीयोऽपि चतुर्थो भक्षकस्तथा । पञ्चमः पाचकः प्रोक्तः षष्ठो भूपात्र विग्रही । हिं सया संयुतं धर्ममधर्मं च विदुर्बुधाः ॥ २,१०.९ ॥ न पापं कुरुते भूप पुत्रे भारं निवेश्य वै । धर्मं समाश्रयमन्सम्यक्संजातपलितः पिता ॥ २,१०.१० ॥ परित्यज्य इमं भावं मृगहिंसासमुद्भवम् । मृगशीला हि राजानो विनष्टाः शतशो नप ॥ २,१०.११ ॥ तस्माद्दुष्टं हि तन्मन्ये यत्र मृगपातनम् । दया वरा मृगे रीज्ञां धर्मिणामपि दृश्यते ॥ २,१०.१२ ॥ निवारितो मया हि त्वं हितबुद्ध्या पुनः पुनः । एवं ब्रुवाणां तां भार्यां नृपो वचनमब्रवीत् ॥ २,१०.१३ ॥ नहिर्हिसे मृगान्देवि मृगव्याजेन कानने । पर्य्यटिष्ये धनुष्पाणिः कुर्वन्कण्टकशोधनम् ॥ २,१०.१४ ॥ जनमध्ये सुतो मेऽस्तु काननेऽहं वरानने । श्वापदेभ्यश्च दस्युभ्यः प्रजा रक्ष्या महीभृता ॥ २,१०.१५ ॥ आत्मनावाथ पुत्रेण गोपनीयाः प्रजा शुभे । प्रजा अरक्षन्नृपतिः सधर्म्मोऽपि व्रजत्यधः ॥ २,१०.१६ ॥ सोऽहं रक्षणमुद्दिश्यगमिष्यामि वनं प्रिये । विमुक्तभावोऽहमिति मेरुशृङ्गे रविर्यथा ॥ २,१०.१७ ॥ एवमुद्दिश्य तां राजा आरुरोह हयोत्तमम् । दोषापतिसमप्रख्यं निर्देषं क्षितिभूषणम् ॥ २,१०.१८ ॥ देववाहसमं रूपे प्रभञ्जनसमं जवे । धरामादृत्य भूपालो दत्वा तं दक्षिणं करम् ॥ २,१०.१९ ॥ सहस्रकोटिदातारं कामिनीकुचपीडनम् । अशोकपल्लवाकारं वज्राङ्कुशविरोहणम् ॥ २,१०.२० ॥ संप्रतस्थे महीपालश्चालयानो महीतलम् । साधयानो ययौ देशान्काननं स नृपोत्तमः ॥ २,१०.२१ ॥ वाजिवेगेन निर्द्धूता वारणाः स्यन्दना हयाः । पदातयो निपेतुस्ते मूर्च्छिताः क्षितिमण्डले ॥ २,१०.२२ ॥ स राजा सहसा प्राप्तो मुनीनामाश्रमं परम् । योजनानां समुत्तीर्य शतमष्टोत्तरं नृप ॥ २,१०.२३ ॥ प्रविवेशाश्रमं रम्यं कदलीखण्डमण्डितम् । अशोकबकुलोपेतं पुन्नागसरलावृतम् ॥ २,१०.२४ ॥ मातुलिङ्गैः कपित्थैश्च खर्जूरैः पनसादिभिः । नारिकेलैस्तथा तालैः केतकैः सिंदुवारकैः ॥ २,१०.२५ ॥ चन्दनैः सतमालैश्च सालैः पिप्पलचंपकैः । क्रमुकैर्दाडिमैश्चैव धात्रीवृक्षैः सहस्रशः ॥ २,१०.२६ ॥ निम्बवृक्षैश्च बहुशस्तथाम्रैर्लोध्रपादपैः । परिपक्वफलैर्नम्रैः खगारूढैः समावृतम् ॥ २,१०.२७ ॥ ह्यद्येन वायुना युक्तं पुष्पगन्धावृतेन हि । पश्यमानो मुनिं राजा ददर्श हुतभुक्प्रभम् ॥ २,१०.२८ ॥ वामदेवं द्विजवरं बहुशिष्यसमावृतम् । अवरुह्य हयाद्दृष्ट्वा प्रणनाम च सादरम् ॥ २,१०.२९ ॥ तेनापि मुनिना राजा ह्यर्घाद्यैरभिपूजितः । उपविश्यासने कौशे प्राह संहृष्टया गिरा ॥ २,१०.३० ॥ अद्य मे पातकं क्षीणं संप्राप्तं कर्मणः फलम् । दृष्ट्वा तव पदांभोजं सम्यग्ध्यानपरस्य च ॥ २,१०.३१ ॥ तच्छ्रुत्वा वचनं तस्य रुक्माङ्गदमहीपतेः । संपृष्ट्वा कुशलं प्राह वामदेवो मुदान्वितः ॥ २,१०.३२ ॥ राजंस्त्वयातिपुण्येन विष्णुभक्तेन वीक्षितः । ममाश्रमो महाभाग पुण्यो जातो धरातले ॥ २,१०.३३ ॥ कस्तेऽन्यस्तुल्यतामेति पार्थिवो धरणीतले । येन वैवस्वतो माग्रो भग्नो निर्जित्य वै यमम् ॥ २,१०.३४ ॥ प्रापितः सकलो लोको वैकुण्ठं पदमव्ययम् । उपोषयित्वा नृपतेद्वादशीं पापनाशिनीम् ॥ २,१०.३५ ॥ चतुर्भिः शोभनोपायैः प्रजाः सयम्य भूतले । स्वकर्मस्था विकर्मस्था नीता मधुभिदः पदम् ॥ २,१०.३६ ॥ सोऽस्माकं द्रष्टुकामानां संप्राप्तो दर्शनं नृप । श्वपचोऽपि महीपाल विष्णुभक्तो द्विजाधिकः ॥ २,१०.३७ ॥ विष्णुभक्तिविहीनस्तु द्विजोऽपि श्वपचाधिकः । दुर्लभा भूप राजानो विष्णुभक्ता महीतले ॥ २,१०.३८ ॥ नावैष्णवो भवेद्राजा क्षितिलक्ष्मीप्रसाधकः । यो न राजा रहेर्भक्तो देवेष्वन्येषु भक्तिमान् ॥ २,१०.३९ ॥ यथा जारे पतिं त्यक्त्वा रता स्त्री स तथा नृपः । एवं व्यतिक्रमस्तस्य नृपतेर्भवति ध्रुवम् ॥ २,१०.४० ॥ धर्मस्यार्थस्य कामस्य प्रज्ञायाश्च गतेरपि । तत्त्वया न्यायविहितं कृतं विष्णोः प्रपूजनम् ॥ २,१०.४१ ॥ तेन धन्योऽसि नृपते वयं धन्यास्तवेक्षणात् । इत्येवं भाषमाणं तु वामदेवं नृपोत्तमः ॥ २,१०.४२ ॥ उवाचावनतो भूत्वा प्रकृत्या विनयान्वितः । क्षामये त्वा द्विजश्रेष्ठ नाहमेतादृशो विभो ॥ २,१०.४३ ॥ त्वत्पादपांसुना तुल्यो नाहं विप्र भवामि हि । न विप्रेभ्योऽधिका देवा भवन्तीह कदाचन ॥ २,१०.४४ ॥ परितुष्टैर्द्विजैर्भक्तिर्जन्तोर्भवति माधवे । द्वेष्यो भवति तै रुष्टैः सत्यमेतन्मयेरितम् ॥ २,१०.४५ ॥ तमाह वामदेवस्तु ब्रूहि किं ते ददाम्यहम् । नादेयं विद्यते राजन्गृहायातस्य तेऽधुना ॥ २,१०.४६ ॥ अभीष्टं हि महीपाल यो ददाति महीतले । पटहं वासरे विष्णोः प्रजाभोजनवारणम् ॥ २,१०.४७ ॥ तमाह नृपतिर्विप्रं कृताञ्जलिपुटस्तदा । प्राप्तमेव मया सर्वं त्वदङ्घ्रियुगलेक्षणात् ॥ २,१०.४८ ॥ ममैकः संशयो ब्रह्मन् वर्तते बहुकालतः । तं पृच्छामि द्विजाग्र्यं त्वां सर्वसंदेहभञ्जनम् ॥ २,१०.४९ ॥ त्रैलोक्यसुन्दरी भार्या मम केन सुकर्मणा । या विलोकयते दृष्ट्या मां सदा मन्मथाधिकम् ॥ २,१०.५० ॥ यत्र यत्र पदं देवी ददाति वरवर्णिनी । तत्र तत्र निधानानि प्रकाशयति मेदिनी ॥ २,१०.५१ ॥ यस्याश्चाङ्गं जराहीनं वलीपलितवर्जितम् । सदा भाति मुनिश्रेष्ठ शारदेन्दुप्रभा यथा ॥ २,१०.५२ ॥ विनाग्निनापि सा विप्र साधयत्येव षड्रसम् । अन्नं पचति यत्स्वल्पं तस्मिन्भुञ्जन्ति कोटयः ॥ २,१०.५३ ॥ पितव्रता दानशीला सर्वभूतसुखावहा । नावज्ञा क्रियते ब्रह्मन् वाक्येनापि प्रसूप्तया ॥ २,१०.५४ ॥ यस्यां जातस्तु तनयो ममाज्ञायां स्थितः सदा । अहमेव धरापृष्ठे पुत्री द्विजवरोत्तम ॥ २,१०.५५ ॥ यस्य पुत्रः पितुर्भक्तो ह्यधिको गुणसंचयैः । एकद्वीपपतिश्चाहं विदितो धरणीतले ॥ २,१०.५६ ॥ पुत्रो ममाधिको जातः सप्तद्वीपप्रपालकः । मदर्थे येन विप्रेन्द्र समानीता नृपात्मजा ॥ २,१०.५७ ॥ विद्युल्लेखेति विख्याता रणे जित्वा महीभुजः । अथ तेनाधिपतिना रूपद्रविणशालिना ॥ २,१०.५८ ॥ षण्मासेन रणे जित्वा कृत्वा सर्वान्निरायुधान् । यो गत्वा प्रमदाराज्यं जित्वा ताः प्रमदा रणे ॥ २,१०.५९ ॥ आजहार शुभास्तासां मध्यादष्टौ वराङ्गनाः । प्रददौ मयि ताः सर्वाः प्रणम्य च पुनः पुनः ॥ २,१०.६० ॥ यानि वासांसि दिव्यानि यानि रत्नानि भूतले । तानि मे प्रददौ पुत्रो जनन्या तूपवर्णितः ॥ २,१०.६१ ॥ एकाह्ना पृथिवीं सर्वामतीत्य बहुयोजनाम् । पुनरायाति शर्वर्यां मत्पादाभ्यङ्गकारणात् ॥ २,१०.६२ ॥ निशीथेंऽगानि संवाह्य द्वारि तिष्ठति दंशितः । प्रबोधयन्प्रेष्यजनान्निद्रया संकुलेन्द्रियान् ॥ २,१०.६३ ॥ तथायं मे मुनिश्रेष्ठ देहो रोगविवर्जितः । अप्रमेयं मम सुखं वशगा हि प्रिया गृहे ॥ २,१०.६४ ॥ वाजिनो वारणाश्चैव धनधान्यमनन्तकम् । वर्तते हि जनः सर्वो ममाज्ञापालकः क्षितौ ॥ २,१०.६५ ॥ केन कर्मप्रभावेण ममेदं सांप्रतं सुखम् । इह जन्मकृतं वापि परजन्मकृतं तथा ॥ २,१०.६६ ॥ मम पुण्यं वद ब्रह्मन् विचार्य स्वमनीषया ॥ २,१०.६७ ॥ देहे न रोगो वशगाप्रिया च गृहे विभूतिर्नृहरौ च भक्तिः । विद्वत्सु पूजा द्विजदानशक्तिर्मन्येऽहमेतत्सुकृतप्रसूतम् ॥ २,१०.६८ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे रुक्माङ्गद वामदेवसंवादो नाम दशमोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच तच्छ्रुत्वा नृपतेर्वाक्यं महाज्ञानी मुनीश्वरः । चिन्तयित्वा क्षणं ज्ञात्वा कारणं तमुचाव ह ॥ २,११.१ ॥ वामदेव उवाच पुरा त्वमवनीपाल शूद्रजातिसमुद्भवः । दारिर्द्येण पराभूतो दुष्टया भार्यया तथा ॥ २,११.२ ॥ परसेवनया चैव वेतनेन भुजिक्रिया । निवसन्दुःखसंतप्तो बहुवर्षाणि पार्थिव ॥ २,११.३ ॥ कदाचिद्द्विजसंसर्गात्तीर्थयात्रां गतो भवान् । ततः सर्वाणि तीर्थानि परक्रम्य महीपते ॥ २,११.४ ॥ द्विजसेवापरो जातो मथुरां पुण्यरूपिणीम् । तत्र स्नातं त्वया विप्रसंगेन यमुनाजले ॥ २,११.५ ॥ विश्रान्तिसंज्ञके तीर्थे सर्वतीर्थोत्तमोत्तमे । मन्दिरे च वराहस्य कथ्यमानां कथां नृप ॥ २,११.६ ॥ पुराणोक्तां च शुश्राव अशून्यशयनव्रतम् । चतुर्भिः पारणैर्यस्य निष्पत्तिस्तु विधीयते ॥ २,११.७ ॥ येन चीर्णेन देवेशो जीमूताभः प्रसीदति । लक्ष्मीभर्ता जगन्नाथो निःशेषाघौघनाशनः ॥ २,११.८ ॥ तत्कृतं भवता राजन्पुनरभ्येत्य मन्दिरम् । अशून्यशयनं पुण्यं गृहे वृद्धिकरं परम् ॥ २,११.९ ॥ अकृत्वेदं महाराज व्रतं पातकनाशनम् । गार्हस्थ्यमनुतिष्ठेत वन्ध्यावन्निष्फलो भवेत् । सुखमीदृग्विधं लोके दुर्लभं प्रतिभाति मे ॥ २,११.१० ॥ श्रावणस्य तु मासस्य द्वितीययां महीपते । ग्राह्यमेतद्व्रतं पुण्यं जन्ममृत्युजरापहम् ॥ २,११.११ ॥ लक्ष्मीयुक्तो जगन्नाथः पूजनीयोऽत्र पार्थिव । फलैः पुष्पैस्तथा धूपैश्चारुरक्तानुलेपनैः । शय्यादानैर्वस्त्रदानैस्तथा ब्राह्मणभोजनैः ॥ २,११.१२ ॥ तत्त्वया सर्वमेतद्धिकृतं राजन्सुदुस्तरम् । तस्यैव कर्मणः पुष्टिरशून्यस्य महीपते । इमानेवाग्रतः पुण्यास्त्वयोक्तान्विस्तराच्छृणु ॥ २,११.१३ ॥ नाप्रसन्नें जगन्नाथे भवेयुरिति निश्चितम् । पूर्वजन्मनि देवेशस्त्वयाशून्येन पूजितः ॥ २,११.१४ ॥ इह जन्मनि राजेन्द्र द्वादश्यार्चयसे हरिम् । अवश्यं प्राप्यसे राजन् विष्णोः सायुज्यतां ध्रुवम् ॥ २,११.१५ ॥ एष प्रश्नो मया राजन्व्याख्यातस्ते सुमङ्गलः । संपदां प्रभवोपेतो ज्ञातेरुत्कर्षणार्थकः ॥ २,११.१६ ॥ किमन्यत्ते महीपाल ददामीह करोमि च । अवश्यं सर्वयोग्योऽसि भक्तोऽसि त्वं जनार्दने ॥ २,११.१७ ॥ राजोवाच उत्सुकोऽहं द्विजश्रेष्ठ मन्दरं पर्वतं प्रति । तत्राश्चर्याण्यनेकानि द्रष्टुकामस्तवाज्ञया ॥ २,११.१८ ॥ लघुर्भूत्वा गुरुं त्यक्त्वा पुत्रोपरि द्विजोत्तम । राज्यशासनजं भारं दुर्वहं यच्च भूमिपैः ॥ २,११.१९ ॥ सोऽहं स्वेच्छाचरो यातो मत्कृत्यं तनयश्चरेत् । तच्छत्वा वचनं राज्ञो वामदेवोऽब्रवीदिदम् ॥ २,११.२० ॥ एतद्धि परमं कृत्यं पुत्रस्य नृपपुङ्गवं । यत्क्लेशात्पितरं प्रेम्णा विमोचयति सर्वदा ॥ २,११.२१ ॥ पितुर्वचनकारी च मनोवाक्कायशक्तितः । तस्य भागीरथीस्नानमहन्यहनि जायते ॥ २,११.२२ ॥ निरस्य पितृवाक्यं तु व्रजेत्स्नातुं सुरापगाम् । नो शुद्धिस्तस्य पुत्रस्य इतीत्थं वैदिकी श्रुतिः ॥ २,११.२३ ॥ स त्वं गच्छ यथाकामं कृतकृत्योऽसि भूपते । हरिप्रसादात्ते जातो वंशे पुत्रः स पुण्यकृत् ॥ २,११.२४ ॥ एवमुक्ते तु मुनिना समारुह्य तुरङ्गमम् । ययौ शीघ्रगतिः श्रीमान्सदागतिरिव स्वयम् ॥ २,११.२५ ॥ वीक्ष्यमाणो गिरीन्सर्वान्वनानि सरितस्तथा । सर्वाश्चर्याणि राजेन्द्रः सरांस्युपवनानि च ॥ २,११.२६ ॥ सोऽचिरेणैव कालेन संप्राप्तो मन्दराचलम् । भ्रामयित्वा गिरिं श्वेतं गन्धमादनमेव च ॥ २,११.२७ ॥ अतीत्य च महामेरुं दृष्ट्वा चैवोत्तरान्कुरून् । शतसूर्यप्रतीकाशं सर्वतः काञ्चनावृतम् ॥ २,११.२८ ॥ संघृष्टं हरिबाहुभ्यां स्रवन्तं काञ्चनं रसम् । तद्भूभागं नगाकीर्णं बहुधातुविभूषितम् ॥ २,११.२९ ॥ बहुनिर्झरसंयुक्तं बहुकन्दरभूषितम् । निम्नागायुतसंपूर्णं धौतं गङ्गाजलैः शुभैः ॥ २,११.३० ॥ विश्वस्तैर्युवतीवृन्दैः कान्ताशर्मोपसेविभिः । घटप्रमाणैर्नृपते परिपक्वैः सुगन्धिभिः ॥ २,११.३१ ॥ फलैर्युवतिसंभूतैः कुचैरिव विभूषितम् । द्विरेफध्वनिसंयुक्तं कोकिलस्वरनादितम् ॥ २,११.३२ ॥ अनेकसत्त्वविरुतैः समन्तान्नादितं गिरिम् । संपश्यमानो नृपतिर्विवेश स महागिरिम् ॥ २,११.३३ ॥ आरोढुकामस्तु कुतूहलात्तमन्वेषयन्केन पथा प्ररोहम् । स वीक्षते यावदसौ समन्तात्तावत्समस्तं द्रुमपक्षिसंघम् ॥ २,११.३४ ॥ विसर्पमाणं ध्वनिना गृहीतं विमोहिनीवक्त्रसमुद्भवेन । उपप्लवन्तं तरसा महीपस्तेनैव सार्द्धं स जगाम तूर्णम् ॥ २,११.३५ ॥ तस्यापि कर्णे ध्वनिराविवेश विमोहिनीवक्त्रसमुद्भवो यः । विमोहितो येन विमुच्य वाहं त्रिविक्रमेणेव विलङ्घ्यमानम् ॥ २,११.३६ ॥ मार्गं गिरेर्मोहिनिगीतमुग्धं क्षणेन राजा सहसा ददर्श । गिरौ स्थितां तप्तसुवर्णभासं कामस्य यष्टीमिव निर्मितां च ॥ २,११.३७ ॥ शक्रस्य लिङ्गं गगने प्रसक्तं संपूजयन्तीमिव लोकसूत्यै । क्षमास्वरूपामिव वै रसाया गिरेः सुताया इव रूपराशिम् ॥ २,११.३८ ॥ सिंधोस्तु वेलामिव रूपयुक्तां तस्यास्तनुं वै रतिमन्दिराख्याम् । विकर्षमाणां सहसा त्रिनेत्रं लिङ्गाश्रयं देवविनोदनार्थम् ॥ २,११.३९ ॥ तत्पुण्यकर्त्तुर्मनसाभिलाषां व्यवस्थितो मोहिनिरूपदर्शी । विमोहितोऽसौ निपपात राजा विमोहिनीकामशरेण विद्धः ॥ २,११.४० ॥ ज्वरेण तीव्रेण गृहीतदेहः समीपमस्याः स ससर्प शीघ्रम् । विसर्पिणं भूमिपतिं सुनेत्रा विलोकयामास कटाक्षदृष्ट्या ॥ २,११.४१ ॥ विमुच्य वीणां विरराम गीतात्पाप्तं च कार्यं सहसैव मेने । विधूनयन्ती मृगपक्षिसघान्सुवाससा गण्डभुजौ निवार्य ॥ २,११.४२ ॥ शिलीमुखान् श्वाससुगन्धमुग्धान् जगाम देवी नृपतेः समीपम् । त्यक्त्वा हरं पूज्यतमं सुलिङ्गं गगत्वा तु पार्श्वे तमुदारचेष्टा ॥ २,११.४३ ॥ विमोहिनी नीररजपत्रनेत्रा उवाच वाक्यं मधुरं मनोज्ञम् । रुक्माङ्गदं कामशराभितप्तमुत्तिष्ठ राजन्वशगा तवाहम् ॥ २,११.४४ ॥ किं मूर्च्छया देहमिमं क्षिणोषि यस्त्वं धराभारमिमं महान्तम् । तृणीकृतं भूप समुद्वहेथा यन्मामकं रूपमवेक्ष्य हारि ॥ २,११.४५ ॥ किं मुह्यसे दुर्बलगौरिवेह पङ्के निमग्ना भव त्वम् । धीरोऽसि विडंबयेथाः किमर्थमात्मानमुदारचेष्टम् ॥ २,११.४६ ॥ यद्यस्ति वाञ्छा तव भूपतीश ममानुकूले सुरतेऽतिहृद्ये । प्रदाय दानं च सुधर्ममुक्तं भुङ्क्ष्व स्वदासीमिव मां रतिज्ञाम् ॥ २,११.४७ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरेभागे मोहिनीदर्शनं नाम एकादशोऽध्यायः _____________________________________________________________ वसिष्ट उवाच व्याहृते शोभने वाक्ये मोहिन्या नृपतिस्तदा । उन्मील्य नेत्रे राजेन्द्र शतपत्रनिभे तथा ॥ २,१२.१ ॥ सगद्गदमुवाचेदं मुग्धो मोहिनिदर्शनात् । मया बाले सुबहुशः पूर्णचन्द्रनिभाननाः ॥ २,१२.२ ॥ दृष्टास्तथानुभूताश्च नेदृग्दृष्टं वपुः क्वचित् । यादृशं त्वं धारयसे रूपं लोकविमोहनम् ॥ २,१२.३ ॥ सोऽहं दर्शनमात्रेण त्वदीयेन वरानने । मनोभवशरैर्विद्धः पतितः सहसा क्षितौ । अजल्पितवचो देवि मोहितस्तव तेजसा ॥ २,१२.४ ॥ कुरु प्रसादं करभोरु मह्यं दास्यामि सर्वं तव चित्तसंस्थम् । नादेयमस्तीह जगत्त्रयेऽपि तवानुरागेण निबद्धचेतसः ॥ २,१२.५ ॥ इमां धरां भूधरभूषिताङ्गीं समुद्रवस्त्रां शशिसूर्यनेत्राम् । घनस्तनीं व्योमसुबद्धदेहां निष्काननां सुंदरि वामशीलाम् ॥ २,१२.६ ॥ पातालगुह्यां बहुवृक्षरोम्णीं सप्ताधरां सुभ्रु तवास्मि दाता । सकोशबद्धां गजवाजिपूर्णां समन्त्रिहृद्यां नगरैः समेताम् ॥ २,१२.७ ॥ आत्मानमपि दास्यामि तवा चार्वङ्गि संगमे । किं पुनर्द्धनरत्नादि प्रसीद मम मोहिनि ॥ २,१२.८ ॥ नृपस्य वचनं श्रुत्वा मोहिनी मधुराक्षरम् । समुवाच स्मितं कृत्वा तमुत्थाप्य नृपं तदा ॥ २,१२.९ ॥ न धरां भूधरोपेतां वरये वसुधाधिप । यद्विदिष्याम्यहं काल तत्कार्यमविशङ्कया ॥ २,१२.१० ॥ भजिष्यामि न संदेहः कुरुष्व समयं मम । राजोवाच येन संतुष्यसे देवि समयं तं करोम्यहम् ॥ २,१२.११ ॥ दशावस्थां गतो देहो मम त्वत्संगमं विना ॥ २,१२.१२ ॥ मोहिन्युवाच दीयतां दक्षिणो हस्तो बहुधर्मकरस्तव । येन मे प्रत्ययो राजन् वचने तावके भवेत् ॥ २,१२.१३ ॥ राजा त्वं धर्मशीलोऽसि सत्यकीर्तिर्जगत्त्रये । न वक्तास्यनृतं काले मार्गायं लौकिकः कृतः ॥ २,१२.१४ ॥ एवं ब्रवाणां राजेन्द्रो मोहिनीं हृच्छयातुरः । अब्रवीन्नृपतिस्तां तु सुप्रसन्नमना नृप ॥ २,१२.१५ ॥ जन्मप्रभृति वामोरु नानृतं भाषितं मया । स्वैरेष्वपि विहारेषु कदापि वरवाणिंनि ॥ २,१२.१६ ॥ अथवा व्याहृतैर्वाक्यैः किमेभिः प्रत्ययाक्षरैः । दतो ह्येष मया हस्तो दक्षिणः पुण्यलाञ्छनः ॥ २,१२.१७ ॥ यन्मया सुकृतं किञ्चित्कृतमाजन्म सुन्दरि । तत्सर्वं तव वामोरु यदि कुर्यान्न ते वचः ॥ २,१२.१८ ॥ अन्तरे ह्येष दत्तो मे धर्मो भार्या भवाङ्गने । तव रूपेण मे क्षोभः सहसा प्रत्युपस्थितः ॥ २,१२.१९ ॥ ऋतध्वजसुतश्चाहं नाम्ना रुक्मां गदो नृपः । इक्ष्वाकुवशसंभूतः सुतो धर्माङ्गदो मम ॥ २,१२.२० ॥ मृगव्याजेन गहनं प्रविष्टश्चारुलोचने । ततो दृष्टो वने हृद्यो वामदेवाश्रमो मया ॥ २,१२.२१ ॥ मुनिना जल्पितं तत्र किञ्चित्तेन विसर्जितः । आरुह्य वाहनश्रेष्ठंमन्दरं द्रष्टुमागतः ॥ २,१२.२२ ॥ भ्रममाणो गिरिवरं कुतूहलमनास्तदा । प्राप्तं मच्छ्रवणे गीतं तव वक्त्रविनिर्गतम् ॥ २,१२.२३ ॥ तेन गीतेन चाकृष्टस्त्वत्समीपमुपागतः । दृष्टेः पथमनुप्राप्ता मम त्वं चारुलोचने ॥ २,१२.२४ ॥ ततोऽहं मूर्च्छितो देवि विसंज्ञः पतितः क्षितौ । सांप्रतं चेतनायुक्तस्तव वाक्यामृतेन हि ॥ २,१२.२५ ॥ पुनर्जातमिवात्मानं मन्येऽहं लोकमोहिनि । प्रत्युत्तरप्रदानेन प्रसादं कर्त्तुमर्हसि ॥ २,१२.२६ ॥ नृपेणैव समुद्दिष्टा मोहिन्याहोत्तरं वचः । अहं ब्रह्मभवा राजंस्त्वदर्थं समुपागता ॥ २,१२.२७ ॥ श्रुत्वा कीर्ति स्मरोपेता मन्दरं कनकाचलम् । परित्यज्य सुरान्सर्वान्विश्वंभरपुरोगमान् ॥ २,१२.२८ ॥ समाहितमनास्त्वत्र तपस्यानिरता स्थिता । संपूजयन्ती देवेशं गीतदानेन शङ्करम् ॥ २,१२.२९ ॥ गीतदानमहं मन्ये सुराणामतिवल्लभम् । सर्वदानाधिकं भूप ह्यनन्तगतिदायकम् ॥ २,१२.३० ॥ येन तुष्टः पशुपतिः सद्यः प्रत्युपकारकः । ईप्सितोऽयं मया प्राप्तो भवानवनिपालकः ॥ २,१२.३१ ॥ अभिप्रीतोऽसि मे राजन्नभिप्रीता ह्यहं तव ॥ २,१२.३२ ॥ तमेवं मुक्त्वा द्विजराजवक्त्रा करं गृहीत्वा नृपतेस्तु वेगात् । उत्थापयामास धराशयानमिन्द्रस्य यष्टीमिव मोहिनी सा ॥ २,१२.३३ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे समयकरणं नाम द्वादशोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच उत्थापयित्वा राजानं मोहिनी वाक्यमब्रवीत् । मा शङ्कां कुरु राजेन्द्र कुमारीं विद्ध्यकल्मषाम् ॥ २,१३.१ ॥ उद्वहस्व महीपाल गृह्योक्तविधिना हि माम् । अनूढा कन्यका राजन् यदि गर्भं बिभर्ति हि ॥ २,१३.२ ॥ प्रसूयति दिवाकीर्तिं सर्ववर्णविगर्हितम् । चाण्डालयोनयस्तिस्रः पुराणे कवयो विदुः ॥ २,१३.३ ॥ कुमारीसंभवात्वेका सगोत्रापि द्वितीयका । ब्राह्मण्यां शूद्रजनिता तृतीया नृपपुङ्गव ॥ २,१३.४ ॥ एतस्मात्कारणाद्राजन् कुमारीं मां समुद्वह । ततस्तां चपलापाङ्गीं नृपो रुक्माङ्गदो गिरौ ॥ २,१३.५ ॥ उद्वाह्य विधिना युक्तस्तस्थौ राजा हसन्निव । राजोवाच न तथा त्रिदिवप्राप्तिः प्रीणयेन्मां वरानने ॥ २,१३.६ ॥ तवप्राप्तिर्यथा देवि मन्दरेऽस्मिन्सुखाय वै । मन्ये पुरन्दराद्देवि ह्यात्मानमधिकं क्षितौ ॥ २,१३.७ ॥ त्रैलोक्यसुन्दरीं प्राप्य भार्यां त्वां चारुलोचने । तस्माद्यदनुकूलं ते तत्करोमि प्रशाधि माम् ॥ २,१३.८ ॥ इहैव रमसे बाले अथवा मन्दिरे मम । मलये मेरुशिखरे वने वा नन्दने वद ॥ २,१३.९ ॥ तच्छ्रुत्वा नृपतेर्वाक्यं मोहिनी मधुरं नृप । उवाचानुशयं राजन्वचनं प्रीतिवर्द्धनम् ॥ २,१३.१० ॥ सपत्नीनां कटाक्षाणां क्षतानि नगरे मम । भविष्यन्ति महीपाल कथं गच्छामि ते पुरम् ॥ २,१३.११ ॥ मास्म सीमन्तिनी काचिद्भवेद्धि क्षितिमण्डले । यस्याः सपत्नीप्रभवं दुःखमामरणं भवेत् ॥ २,१३.१२ ॥ साहं लब्धा महीपाल मनसा वशगा तव । ज्ञात्वा सपत्नीप्रभवं दुःखं भर्ता कृतो मया ॥ २,१३.१३ ॥ वत्स्यामि पर्वतश्रेष्ठे बह्वाश्चर्यसमन्विते । न त्वं वससि राजेन्द्र संध्यावल्या विना क्वचित् ॥ २,१३.१४ ॥ तस्यास्त्वं विरहे दुःखी सपुत्राया भविष्यसि । दुःखेन भवतो राजन्भूरि दुःखं भवेन्मम ॥ २,१३.१५ ॥ यत्रैव भवतः सौख्यं तत्राहमपि संस्थिता । यत्र त्वं रंस्यसे राजंस्तत्र मे मन्दरो गिरिः ॥ २,१३.१६ ॥ भर्तृस्थाने हि वस्तव्यमृद्धिहीनेऽपि भार्यया । स मेरुः काञ्चनमयः सन्निधाने प्रचक्षते ॥ २,१३.१७ ॥ मनोरथो नाम मेरुर्यत्र त्वं रमसे विभो । भर्तृस्थानं परित्यज्य स्वपितुर्वापि वर्जितम् ॥ २,१३.१८ ॥ पितृस्थानाश्रयरता नारी तमसि मज्जति । सर्वधर्मविहीनापि नारी भवति सूकरी ॥ २,१३.१९ ॥ एवं जानाम्यहं दोषं कथं वत्स्यामि मन्दरे । ममिष्यामित्वया सार्द्धमीशस्त्वं सुखदुःखयोः ॥ २,१३.२० ॥ मोहिन्यास्तद्वचः श्रुत्वा राजा संहृष्टमानसः । परिष्वज्य वरारोहामिदं वचनमब्रवीत् ॥ २,१३.२१ ॥ भार्याणां मम सर्वासामुपरिष्टाद्भविष्यसि । मा शङ्कां कुरु वामोरु यतो दुःखं भविष्यति ॥ २,१३.२२ ॥ जीवितादधिका सुभ्रु भविष्यसि गृहे मम । एहि गच्छाव तन्वङ्गि सुखाय नगरं प्रति ॥ २,१३.२३ ॥ भुङ्क्ष्व भोगान्मया सार्द्धं तत्रस्था स्वेच्छया प्रिये ॥ २,१३.२४ ॥ सा त्वेवमुक्ता शशिगौरवक्त्रा रुक्माङ्गदेनात्मविनाशनाय । संप्रस्थिता नूपुरगोषयुक्ता विकर्षयन्ती गिरिजातशोभाम् ॥ २,१३.२५ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीसंमोहनं नाम त्रयोदशोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच संप्रस्थितावुभौ राजन्गिरिशीर्षाद्धरातलम् । पश्यमानौ बहून्भावान्गिरिजातान्मनोहरमनोहरान् ॥ २,१४.१ ॥ केचिद्विद्रुमसंकाशाः केचिद्रजतसन्निभाः । केचिन्नीलसमप्रख्याः केचित्काञ्चनसत्विषः ॥ २,१४.२ ॥ केचित्स्फाटिकवर्णाभा हरितालनिभाः परे । अन्योन्यश्लेषतां प्राप्तौ सकलैः स्थावरैरिव ॥ २,१४.३ ॥ सप्राप्य वसुधां भूपो ह्यपश्यद्वाजिनां वरम् । खन्यमानं खुरेणोर्वी कुलिशाभेन वेगिना ॥ २,१४.४ ॥ तस्य दारयतः पृथ्वीं सुतीक्ष्णेन खुरेण हि । गृहगोधाभवत्तस्मिन् भूभागान्तर्गता किल ॥ २,१४.५ ॥ निर्गच्छमाना नृपते खुरेण विदलीकृता । विदीर्यमाणां नृपतिरपश्यत्स दयापरः ॥ २,१४.६ ॥ अभ्यधावत वेगेन हा हतेति प्रियां वदन् । ततः स वृक्षपत्रेण कोमलेन महीपतिः ॥ २,१४.७ ॥ उत्सार्य तां खुरादाशु प्राक्षिपत्तृणशाद्वले । ततस्तु मोहिनीं प्राह प्रेक्ष्य मूर्च्छागतां हि ताम् ॥ २,१४.८ ॥ शीघ्रमाहर चार्वङ्गिजलं जलजलोचने । येन मूर्च्छागतां सिंचे गृहगोधां विमर्द्दिताम् ॥ २,१४.९ ॥ सा भर्तुर्वचनाच्छीघ्रमानयच्छीतलं जलम् । तेनाभ्यषिं चन्नृपतिर्गृहगोधां विमूर्च्छिताम् ॥ २,१४.१० ॥ अवाप चेतनां राजन् शीतलाज्जलसेचनात् । अभिघातेषु सर्वेषु शस्तं वारिप्रसेचनम् ॥ २,१४.११ ॥ अथवा क्लिन्नवस्त्रेण सहसा बन्धनं हितम् । संप्राप्तचेतना भूप गोधा वचनमब्रवीत् ॥ २,१४.१२ ॥ राजानमग्रतो वीक्ष्य वेदनार्ता शनैः शनैः । रुक्माङ्गद महाबाहो निबोध मम चेष्टितम् ॥ २,१४.१३ ॥ शाकले नगरे रम्ये भार्याहं ह्यग्रजन्मनः । रूपयौवनसंपन्ना तस्य नातिप्रिया विभो ॥ २,१४.१४ ॥ सदा विद्वेषसंयुक्तो मयि निष्ठुरजल्पकः । नान्यस्य कस्यचिद्द्वेष्टा स तु मे नृपते पतिः ॥ २,१४.१५ ॥ ततोऽह क्रोधसंयुक्ता वशीकरणलंभनात् । अपृच्छं प्रमदा राजन्यास्त्यक्ताः पतिभिः किल ॥ २,१४.१६ ॥ ताभिरुक्ता ह्यहं भूप वश्यो भर्ता भविष्यति । अस्माकं प्रत्ययो जातो भर्तृत्यागावमाननात् ॥ २,१४.१७ ॥ प्रव्रज्याभेषजैर्वश्या जाता हि पतयस्तु नः । त्वं पृच्छ तां वरारोहे दास्यते भेषजं शुभम् ॥ २,१४.१८ ॥ न विकल्पस्त्वया कार्यो भविता दासवत्पतिः । ततोऽहं त्वरितं गत्वा तासां वाक्येन भूपते ॥ २,१४.१९ ॥ प्रासादः कथितस्तस्याः पृच्छन्त्या मम मानवैः । शतस्तंभसमायुक्तः कान्तिमत्सुधया युतः ॥ २,१४.२० ॥ प्रविश्य तं सुतेजस्कामपश्यं ब्रह्यचारिणीम् । प्रावृतां दीर्घवस्त्रेण सन्ध्यारागसवर्णिनीम् ॥ २,१४.२१ ॥ दीर्घाभिः सा जटाभिस्तु संवृता दीप्तिसयुता । परिचारकैस्तु संयुक्ता वीज्यमाना शनैः शनैः ॥ २,१४.२२ ॥ अक्षसूत्रकरा सा तु जपन्ती भगमालिनी । सर्ववश्यकरं मन्त्रं क्षोभकं प्रत्ययावहम् ॥ २,१४.२३ ॥ ततोऽहं प्रणता भूत्वा पद्भ्यां न्यस्याङ्गलीयकम् । मृदुकाञ्चनसंभूतं अतिरिक्तप्रभान्वितम् ॥ २,१४.२४ ॥ ततो हृष्टाभवद्दृष्ट्वा पदस्थं चाङ्गुलीयकम् । अपृष्टया तया ज्ञातं मम भर्त्तुर्विमाननम् ॥ २,१४.२५ ॥ तयोक्ताहं ततो भूप तापस्या प्रणता स्थिता । चूर्णो रक्षान्वितो ह्येष सर्वभूतवशानुगः ॥ २,१४.२६ ॥ त्वया भर्तरि संयोज्यो रक्ष्यं ग्रीवाशयाङ्कुरम् । भविष्यति पतिर्वश्यो नान्यां यास्यति सुन्दरीम् ॥ २,१४.२७ ॥ चूर्णरक्षां गृहीत्वाहं प्राप्ताभर्तृगृहं पुनः । प्रदोषे पयसा युक्तश्चूर्णो भर्तरि योजितः ॥ २,१४.२८ ॥ ग्रीवायां हि कृता रक्षा न विचारो मया कृतः । यदा स पीतचूर्णस्तु भर्ता नृपवरोत्तमा ॥ २,१४.२९ ॥ तदहः क्षयरोगोऽभूत्पतिः क्षीणो दिने दिने । गुह्ये तु क्रिमयो जाताः क्षतदुष्टव्रणोद्भवाः ॥ २,१४.३० ॥ दिनैः कतिपयैर्जातैर्दीपवद्रविदर्शनात् । हततेजास्तथा भर्त्ता मामुवाचाकुलेन्द्रियः ॥ २,१४.३१ ॥ क्रन्दमानो दिवा रात्रौ दासोऽस्मि तव शोभने । त्राहि मां शरणं प्राप्तं न गच्छेयं परिस्त्रियम् ॥ २,१४.३२ ॥ तत्तस्य रुदितं श्रुत्वा भयभीता महीपते । तस्यां निवेदितं सर्वं कथं भर्ता भवेत्सुखी ॥ २,१४.३३ ॥ तयापि भेषजं दत्तं द्वितीयं दाहशान्तये । दत्ते तु भेषजे तस्मिन्सुस्थोऽभूत्तत्क्षणात्पतिः ॥ २,१४.३४ ॥ पूर्वचूर्णोद्भवो दाहः शान्तस्तेनौषधेन ह । ततः प्रभृति मे भर्ता वश्योऽभूद्वचने स्थितः ॥ २,१४.३५ ॥ कालेन पञ्चतां प्राप्ता गता नरकयातनाम् । ताम्रभ्राष्ट्रे ह्यहं दग्धा युगानि दश पञ्च च ॥ २,१४.३६ ॥ सूक्ष्माणि तिलमात्राणि कृत्वा खण्डान्यनेकशः । किञ्चित्पातकशेषेण धरायामवतारिता ॥ २,१४.३७ ॥ गृहगोधामयं रूपं कृतं भास्करजेन मे । साहमत्र स्थिता भूप वर्षाणामयुतं पुरा ॥ २,१४.३८ ॥ यान्यापि युवतिर्भूप भर्तुर्वश्यं समाचरेत् । वृथाधर्मा दुराचारा दह्यते ताम्रभ्राष्ट्रके ॥ २,१४.३९ ॥ भर्ता नाथो गतिर्भर्ता दैवतं गुरुरेव च । तस्य वश्यं चरेद्या तु सा कथं सुखमाप्नुयात् ॥ २,१४.४० ॥ तिर्यग्योनिशतं याति क्रिमिकुष्ठसमन्विता । तस्माद्भूपाल कर्तव्यं स्त्रीभिर्भर्तृवचः सदा ॥ २,१४.४१ ॥ साहं यास्ये पुनर्योनिं कुत्सितां पातकान्विताम् । यदि नोद्धरसे राजन्नद्य मां शरणागताम् ॥ २,१४.४२ ॥ सुकृतस्य प्रदानेन विजयाजनितेन हि । या त्वया संगमे पुण्ये कृता श्रवणद्वादशी ॥ २,१४.४३ ॥ सरय्वाश्चैव गङ्गायाः पापनाशविधायके । प्रेतनिर्यातनी पुण्या मानसेप्सितदायिनी ॥ २,१४.४४ ॥ यस्यां गृहेऽपि भूपाल संस्मृतो मनुजैर्हरिः । सर्वतीर्थफलावाप्तिं कुरुते नात्र संशयः ॥ २,१४.४५ ॥ दत्तं जप्तं हुतं यच्च कृतं देवार्चनादिकम् । सर्वं तदक्षयं भूप यत्कृतं विजयादिने ॥ २,१४.४६ ॥ एवंविधं फलं यस्यास्तद्देहि सुकृतं मम । द्वादश्यामुपवासेन त्रयोदश्यां तु पारणे ॥ २,१४.४७ ॥ द्वादशाब्दोपवासस्य फलं प्राप्तोत्युपोषणे । दयां कृत्वा महीपाल धर्ममूर्तिर्भवान् क्षितौ ॥ २,१४.४८ ॥ वैवस्वतपथध्वंसी परित्राहि सुदुःखिताम् । गृहगोधावचः श्रुत्वा मोहिनी वाक्यमब्रवीत् ॥ २,१४.४९ ॥ स्वकृतं तु जनोऽश्नाति सुखदुःखात्मकं बिभो । तस्मात्किमनया कार्यं पापया भर्तुदुष्टया ॥ २,१४.५० ॥ यया भर्ता वशं नीतो रक्षाचूर्णादिभिर्नृप । साधुभ्यो यत्कृतं राजन्यशःस्वर्गकरं भवेत् ॥ २,१४.५१ ॥ उभयोर्भ्रं शतामेति पापेभ्यो यत्कृतं भवेत् । शर्करामिश्रितं क्षीरं काद्रवेये नियोजितम् ॥ २,१४.५२ ॥ विषवृद्धिं करोत्येव तद्वत्पापकृतं भवेत् । परित्यजेमां त्वं पापां गच्छावो नगराय वै ॥ २,१४.५३ ॥ जन्मव्यापारसक्तानामात्मसौख्यं विनश्यति । रुक्माङ्गद उवाच ब्रह्मात्मजे कथं वाक्यमीदृशं व्याहृतदं त्वया । न साधूनामिदं वृत्तं भवतीति वरानने ॥ २,१४.५४ ॥ आत्मसौख्यकराः पापा भवन्ति परतापिनः । विप्रपन्ना वरारोहे परोपकरणाय वै ॥ २,१४.५५ ॥ शशी सूर्योऽथ पर्जन्यो मेदिनी हुतभुग्जलम् । चन्दनं पादपाः संतः परोपकरणाय वै ॥ २,१४.५६ ॥ श्रूयते किल राजासीद्धरिश्चन्द्रो वरानने । चाण्डालमन्दिरावासी भार्यातनयविक्रयी ॥ २,१४.५७ ॥ असत्यवचनाद्भीतो दुःखाद्दुःखतरं गतः । तस्य सत्येन संतुष्टादेवाः शक्रपुरोगमाः ॥ २,१४.५८ ॥ वरेण छन्दयाञ्चक्रुर्हरिश्चन्द्रं महीपतिम् । तेन सत्यवता चोक्ता देवा ब्रह्मपुरोगमाः । यदि तुष्टा हि विबुधा वरं मे दातुमर्हथ ॥ २,१४.५९ ॥ एषा हि नगरी सर्वा सद्रुमा ससरीसृपा । सबालवृद्धतरुणा सनारी सचतुष्पदा ॥ २,१४.६० ॥ प्रयातु कृतपापापिस्वर्गतिं नगरी मम । अयोध्यापातकं गृह्य गन्ताहं नरकं ध्रुवम् ॥ २,१४.६१ ॥ एकाकी नहि गच्छामि परित्यज्य जनं क्षितौ । स्वर्गं विबुधशार्दूलाः सत्यमेतन्मयेरितम् ॥ २,१४.६२ ॥ तस्य तां स्थिरतां ज्ञात्वा सह तेनैव सा पुरी । जगाम स्वर्गलोकं च इन्द्रादीनामनुज्ञया ॥ २,१४.६३ ॥ सोऽपि स्वर्गे स्थितो राजा स्वपुरेण समन्वितः । कामगेन विमानेन पूज्यमानोऽमरैरपि ॥ २,१४.६४ ॥ अस्थिदानं कृतं देवि कृपया हि दधीचिना । देवानामुपकारार्थं श्रुत्वा दैत्यैः पराजितान् ॥ २,१४.६५ ॥ कपोतार्थं स्वमांसानि शिबिना भूभुजा पुरा । प्रदत्तानि वरारोहे श्येनाय क्षुधिताय वै ॥ २,१४.६६ ॥ जीमूतवाहनो राजा पुरासीत्क्षितिमण्डले । तेनापि जीवितं दत्तं पन्नगाय वरानने ॥ २,१४.६७ ॥ तस्माद्दयालुना देवि भवितव्यं महीभुजा । शुचावमेध्येऽपि शुभे समं वर्षति वारिदः ॥ २,१४.६८ ॥ चाण्डालपतितौ चन्द्रो ह्लादयेच्च निजैः करैः । तस्मादिमां वरारोहे गृह गोधां सुदुःखिताम् ॥ २,१४.६९ ॥ उद्धरिष्ये निजैः पुण्यैर्दैहित्रैर्नाहुषो यथा । विमोहिनीं तिरस्कृत्य गृहगोधामुवाच ह ॥ २,१४.७० ॥ दत्तं दत्तं मया पुण्यं विजयासंभवं तव । गच्छ विष्णुगतांल्लोकान्विधूताशेषकल्मषा ॥ २,१४.७१ ॥ तद्वाक्यात्सहसा भूप दिव्याभरणभूषिता । विमुच्य देहं तज्जीर्णं गृहगोधासमुद्भवम् ॥ २,१४.७२ ॥ जगामामन्त्र्य तं भूपं द्योतयन्ती दिशो दश । सीमन्तमिव कुर्वाणा वैष्णवं पदमुद्भुतम् ॥ २,१४.७३ ॥ यद्योगिगम्यं हुतभुक्प्रकाशं वरं वरेण्यं परमात्मभूतम् । तम्मादियं चैव शिखिप्रदीपा जगत्प्रकाशाय नृपप्रसूता ॥ २,१४.७४ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे गोधाविमुक्तिर्नाम चतुर्दशोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच विमोच्य पातकाद्राजा गृहगोधां हसन्निव । उवाच मोहिनीं हृष्टः शीघ्रमारुह्यतां हयः ॥ २,१५.१ ॥ योजनायुतगामी च क्षणात्कृष्णहयो यथा । तदाकर्ण्य वचो राज्ञो मोहिनी मदलालसा ॥ २,१५.२ ॥ आरुरोह समं भर्त्रा तं हयं वातवेगिनम् । उवाच च वचो भूपं भर्तारं चारुहासिनी ॥ २,१५.३ ॥ प्रचोदयेममर्वाणं स्वपुराय महीपते । पुत्रवक्त्रं स्पृहा द्रष्टुं लंपटा तव वर्तते ॥ २,१५.४ ॥ तवाधीना नृपश्रेष्ठ गम्यतां यत्र ते मनः । मोहिन्या वचनं श्रुत्वा तप्रस्थे नगरं प्रति ॥ २,१५.५ ॥ पश्यमानः सुसंहृष्टः पादपान्पर्वतान्नदीः । वनानि सुविचित्राणि मृगान्बहुविधानपि ॥ २,१५.६ ॥ ग्रामान्दुर्गांस्तथा देशान्नगराणि शुभानि च । सरांसि च विचित्राणि भूभागान्सुमनोहरान् ॥ २,१५.७ ॥ अचिरेणाश्रमं दृष्ट्वा वामदेवस्य भूपते । आकाशस्थो महीपालो नमस्कृत्य त्वरान्वितः ॥ २,१५.८ ॥ पुनरेव ययौ राजा वायुवेगेन वाजिना । पश्यमानो बहून्देशान्धनधान्यसमन्वितान् ॥ २,१५.९ ॥ आससाद पुरं राजा वैदिशं स्ववशं च तत् । तमायान्तं नृपं श्रुत्वा चारैर्द्धर्माङ्गदः सुतः ॥ २,१५.१० ॥ पितरं हर्षसंयुक्तो भूपालान्वाक्यमब्रवीत् । एषा प्कराशमायाति उदीची दिङ्नृपोत्तमाः ॥ २,१५.११ ॥ मत्पितुर्वाजिनाक्रान्ता तत्तेजः परिरञ्जिता । तस्माद्गच्छामहे सर्वे संमुखं ह्यवनीपतेः ॥ २,१५.१२ ॥ पितुरागतमात्रस्य संमुखं न सुतो व्रजेत् । स याति नरकं घोरं यावदिन्द्राश्चतुर्द्दशा ॥ २,१५.१३ ॥ संमुखं व्रजमानस्य पुत्रस्य पितरं प्रति । पदे पदे यज्ञफलं प्रोचुः पौराणिका द्विजाः ॥ २,१५.१४ ॥ उत्तिष्ठध्वं व्रजाम्येष भवद्भिः परिवारितः । अभिवादयितुं प्रेम्णा एष मे देवदेवता ॥ २,१५.१५ ॥ तथोत्युक्तैस्तुतैः सर्वैर्भूमिपालैर्नृपात्मजः । जगाम संमुखं पद्भ्यां क्रोशमात्रं पितुस्तदा ॥ २,१५.१६ ॥ ततो राजसहस्रेण मूर्तिमानिव मन्मथः । स गत्वा दूरमध्वानमाससादनृपं पथि ॥ २,१५.१७ ॥ संप्राप्य पितरं स्त्रेहाज्जगाम धरणीं तदा । शिरसा राजभिः सार्द्धं प्रणाममकरोत्तदा ॥ २,१५.१८ ॥ प्रेम्णा समागतं प्रक्ष्य तं पतन्तं नृपैः सह । अवरुह्य हयाद्राजा समुत्थाप्य सुतं विभो ॥ २,१५.१९ ॥ भुजाभ्यां साधु पीनाभ्यां पर्यष्वञ्जत भूपतिः । मूर्ध्नि चैवमुपाघ्राय उवाच तनयं तदा ॥ २,१५.२० ॥ कच्चित्पासि प्रजाः सर्वाः कच्चिद्दण्डयसे रिपून् । न्यायागतेन वित्तेन कोशं पुत्र बिभर्षि च ॥ २,१५.२१ ॥ कच्चिद्विप्रेष्वत्यधिका वृत्तिर्दत्ता नपायिनी । कच्चित्ते कान्तशीलत्वं कच्चिद्वक्ताः न निष्ठुरम् ॥ २,१५.२२ ॥ कच्चिद्गावो न दुह्यन्ते पुत्र चाण्डलवेश्मानं । कच्चिद्वचनकर्तारस्तनयाश्च पितुः सदा ॥ २,१५.२३ ॥ कच्चिद्वधूः श्वश्रूवाक्ये वर्तते भर्तरि क्वचित् । कच्चिद्विवादान्विप्रेस्तु समं नेक्षस आत्मज ॥ २,१५.२४ ॥ कच्चिद्गावो न रुध्यन्ते विषये विविधैस्तृणैः । तुलामानानि सर्वाणि ह्यन्नादीनां सदेक्षसे ॥ २,१५.२५ ॥ कुटुंबिनं करैः पुत्र नात्यर्थमभिदूयसे । कच्चिन्न द्यूतपानादि वर्तते विषये तव ॥ २,१५.२६ ॥ कच्चिद्भिन्नरसैर्लोका भिन्नवाक्यैः पुरे तव । न दानैर्जीर्णवस्त्रैश्च नोपजीवन्ति मानवाः ॥ २,१५.२७ ॥ कच्चिदृष्ट्वा स्वयं पुत्र हस्त्यश्वं परिरक्षसि । कच्चिच्च मातरः सर्वा ह्यविशेषेण पश्यसि ॥ २,१५.२८ ॥ कच्चिन्न वासरे विष्णोर्नरा भुञ्जन्ति पुत्रक । शशिनि क्षीणतां प्राप्ते कच्चिच्छ्राद्धपरो नरः ॥ २,१५.२९ ॥ कच्चिच्चापररात्रेषु सदा निद्रां विमुञ्चसि । निद्रा मूलमधर्मस्य निद्रा पापविवर्द्धिनी ॥ २,१५.३० ॥ निद्रा दारिद्यजननी निद्रा श्रेयोविनाशिनी । नहि निद्रान्वितो राजा चिरं शास्ति वसुंधराम् ॥ २,१५.३१ ॥ पुंश्चलीव सदा भर्तुर्लोकद्वयविनाशिनी । एवमुच्चरमाणं तं तनयो वाक्यमब्रवीत् ॥ २,१५.३२ ॥ धर्माङ्गदो महीपालं प्रणम्य च पुनः पुनः । सर्वमेतत्कृतं तात पुनः कर्तास्मि ते वचः ॥ २,१५.३३ ॥ पितुर्वचनकर्तारः पुत्रा धन्या जगत्त्रये । किं ततः पातकं राजन्यो न कुर्यात्पितुर्वचः ॥ २,१५.३४ ॥ पितृवाक्यमनादृत्य व्रजेत्स्नातुं त्रिमार्गगाम् । न तत्तीर्थफलं भुङ्क्ते यो न कुर्यात्पितुर्वचः ॥ २,१५.३५ ॥ त्वदधीनं शरीरं मे त्वदधीनं हि जीवितम् । त्वदधीनो हि मे धर्मस्त्वं च मे दैवतं परम् ॥ २,१५.३६ ॥ त्रैलोक्यस्यापि दानेन न शुद्ध्येत ऋणात्सुतः । किं पुनर्देहवित्ताभ्यां केशदानादिभिर्विभो ॥ २,१५.३७ ॥ एवं ब्रुवाणं तनयं बहुभूपालसंवृतम् । रुक्माङ्गदः परिष्वज्य पुनराह सुतं वचः । सत्यमेतत्त्वया पुत्र व्याहृतं धर्मवेदिना ॥ २,१५.३८ ॥ पितुरभ्यधिकं किञ्चिद्दैवतं न सुतस्य हि । देवाः पराङ्मुखास्तस्य पितरं योऽवमन्यते ॥ २,१५.३९ ॥ सोऽहं मूर्ध्नात्वया पुत्र धृतस्तत्क्षितिरक्षणात् । जित्वा द्वीपवतीं पृथ्वीं बहुभूपालसंवृताम् ॥ २,१५.४० ॥ एतत्सौख्यं परं लोके एतत्स्वर्गपदं ध्रुवम् । पितुरभ्यधिकः पुत्रो यद्भवेत्क्षितिमण्डले ॥ २,१५.४१ ॥ सोऽहं पुत्र कृतार्थस्तु कृतः सद्गुणवर्त्मना । त्वया साधयता भूपान्यथा हरिदिनं शुभम् ॥ २,१५.४२ ॥ तत्पितुर्वचनं श्रुत्वा पुत्रो धर्माङ्गदोऽब्रवीत् । क्क गतस्तु भवांस्तात निवेश्य मयि संपदः ॥ २,१५.४३ ॥ कस्मिन्स्थाने त्वियं प्राप्ता सूर्यायुतसमप्रभा । मन्ये निर्वेदमापन्न इमां सृष्ट्वा प्रजापतिः ॥ २,१५.४४ ॥ नैतद्रूपा महीपालनारी त्रैलोक्यमध्यतः । मन्ये भूधरजातेयमथवा सागरोद्भवा ॥ २,१५.४५ ॥ माया वा मयदैत्यस्य प्रमदारूपसंस्थिता । अहो सुनुपुणो धाता येनेयं निर्मिता विभो । बालाग्रशतभागो हि व्यलीको नोपपद्यते ॥ २,१५.४६ ॥ इयं हि योग्या कनकावदाता गृहाय तुभ्यं जगतीपतीश । एवं विधा मे जननी यदि स्यात्कोऽन्योऽस्ति मत्तः सुकृती मनुष्यः ॥ २,१५.४७ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते पितापुत्रसंवादो नाम पञ्चदशोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच धर्माङ्गवदचः श्रुत्वा हृष्टो रुक्माङ्गदोऽब्रवीत् । सत्य ते जननी पुत्र संप्राप्ता मन्दरे मया ॥ २,१६.१ ॥ वेदाश्रयसुता बाला मदर्थं कृतनिश्चया । कुर्वन्ती दारुणं पुत्र तपो देवगिरौ पुरा ॥ २,१६.२ ॥ इतः पञ्चदशादह्नो हयगामी गतो ह्यहम् । मन्दरे पर्वतश्रेष्ठे बहुधातुसमन्विते ॥ २,१६.३ ॥ तस्य मूर्द्धनि बालेयं तोषयन्ती महेश्वरम् । स्थिता गानपरा दृष्टा मया तत्र सुदर्शना ॥ २,१६.४ ॥ ततोऽहं मूर्च्छया युक्तः पतितो धरणीतले । अनङ्गबाणसंविद्धो व्याधविद्धो यथा मृगः ॥ २,१६.५ ॥ ततोऽहमनया देव्या चालितश्चारुनेत्रया । वृतश्चैवापि भर्तृत्वे किञ्चित्प्रार्थनया सह ॥ २,१६.६ ॥ मया चापि प्रतिज्ञातं स्वदक्षिणकरान्वितम् । सेयं भार्या विशालाक्षी कृता भूधरमस्तके ॥ २,१६.७ ॥ अवरुह्य धरापृष्टे समारुह्य तुरङ्गमम् । दिनत्रयेण त्वरितः संप्राप्तस्तव सन्निधौ ॥ २,१६.८ ॥ पश्यमानो गिरीन्देशान्सरांसिसरितस्तथा । इयं हि जननी पुत्र तव प्रीतिविवर्द्धिनी ॥ २,१६.९ ॥ अभिवादय चार्वङ्गीं त्वं निजामिव मातरम् । तत्पितुर्वचनं श्रुत्वा हयसंस्थामरिन्दमः ॥ २,१६.१० ॥ शिरसा धरणीं गत्वा इदं वचनमब्रवीत् । प्रसीद देवि मातस्त्वं भृत्यो दासः सुतस्तव ॥ २,१६.११ ॥ नमस्करोमि जननीं बहुभूपालसंयुतः । तं पुत्रमवनीं प्राप्तं मोहिनी प्रेक्ष्य भूपते ॥ २,१६.१२ ॥ भर्तुर्दाक्षिण्ययोगाच्च अवतीर्य तुरङ्गमात् । अवागूहत बाहुभ्यामुत्थाप्य पतितं सुतम् ॥ २,१६.१३ ॥ परिष्वक्तस्तदा मात्रा पुनरेवाभ्यनन्दयत् । ततस्तां सुमनोज्ञैस्तु चारुवस्त्रैस्च भूषणैः ॥ २,१६.१४ ॥ भूषयित्वा समारोप्य पुनरेव हयोत्तमम् । स्वपृष्ठे चरणं कृत्वा तस्या राजीवलोचनः ॥ २,१६.१५ ॥ तेनैव विधिना भूप पितरं चान्वरोहयत् । भूपालैः संवृतो गच्छन्पभ्द्यां धर्माङ्गदः सुतः ॥ २,१६.१६ ॥ प्रहर्षपुलको ह्यासीज्जननीं प्रेक्ष्य मोहिनीम् । स्तूयमानः स्वयं चापि मेघगंभीरया गिरा ॥ २,१६.१७ ॥ धन्यः स तनयो लोके मातरो यस्य भूरिशः । नवा नवतरा भार्याः पितुरिष्टा मनोहराः ॥ २,१६.१८ ॥ यस्यैका जननी लोके पिता तस्यैव दुःखभाक् । पितुर्दुःखेन किं सौख्यं पुत्रस्य हृदि वर्तते ॥ २,१६.१९ ॥ एकस्या वन्दने मातुः पृथिवीफलमश्नुते । मातॄणां वन्दने मह्यं गहत्पुण्यं भविष्यति ॥ २,१६.२० ॥ तस्मादभ्यधिकं पुण्यं भविष्यति दिने दिने । एकमुच्चरमाणोऽसौ राजभिः परिवारितः ॥ २,१६.२१ ॥ प्रविष्टो नगरं रम्यं वैदिशं ऋद्धिसंयुतम् । हयस्थः प्रययौ राजा मोहिन्या सह तत्क्षणात् ॥ २,१६.२२ ॥ ततो गृहवरं प्राप्य पूज्यमानो जनैर्नृपः । अवरुह्य हयातस्मामोहिनीं वाक्यमब्रवीत् ॥ २,१६.२३ ॥ धर्माङ्गदस्य पुत्रस्य गृहे गच्छ मनोहरे । एष ते गुरुशुश्रूषां करिष्यति यथा गुणम् ॥ २,१६.२४ ॥ न सखी नैव दासी ते शुश्रूषामाचरेदिति । सा चैवमुक्ता पत्या तु प्रस्थिता सुतमन्दिरम् ॥ २,१६.२५ ॥ धर्माङ्गदेन सा दृष्टा गच्छन्ती मन्दिराय वै । आत्मनो भर्तृवाक्येन परित्यज्य महीपतीन् ॥ २,१६.२६ ॥ तिष्ठध्वं पितुरादेशादिमां शुश्रूषये ह्यहम् । स एवमुक्त्वा गत्वा तु बाहुभ्यां परिगृह्य वै । क्रमे पञ्चदशे प्राप्ते पर्यङ्के त्ववरोपयत् ॥ २,१६.२७ ॥ काञ्चने पट्टसूत्रेण रचिते कोमले दृढे । मृद्वास्तरणसंयुक्ते मणिरत्नविभूषिते ॥ २,१६.२८ ॥ रत्नदीपैश्च बहुशः खचिते सूर्यसप्रभे । ततः पादोदकं चक्रे मोहिन्या धर्मभूषणः ॥ २,१६.२९ ॥ सन्ध्यावल्या गुरुत्वेन ह्यपश्यत्तां नृपात्मजः । नैवमस्याभवद्दुष्टं मनस्तां मोहिनीं प्रति ॥ २,१६.३० ॥ सुकुमारोऽपि तन्वङ्गीं पीनोरुजघनस्तनीम् । मेने वर्षायुतसमामात्मानं च त्रिवत्सरम् ॥ २,१६.३१ ॥ प्रक्षाल्य चरणौ तस्यास्तज्जलं शिरसि न्यधात् । उवाचावनतो भूत्वा सुकृती मातरस्म्यहम् ॥ २,१६.३२ ॥ इत्युक्त्वा नरनारीभिः स्वयं च श्रमनाशनम् । चकार सर्वभोगैस्तां युयोज च मुदान्वितः ॥ २,१६.३३ ॥ धीरोदमथने जाते कुण्डले चामृतस्रवं । ये लब्धे दानवाञ्चित्वा पाताले धर्ममूर्त्तिना ॥ २,१६.३४ ॥ मोहिन्या कर्णयोश्चक्रे स्वयमेव वृषाङ्गदः । अष्टोत्तरसहस्रैश्च धात्रीफलनिभैः शुभैः ॥ २,१६.३५ ॥ मौक्तिकै रचितैः शुभ्रैर्हारो देव्याः कृतो हृदि । निष्कं पलशतं स्वर्णं कुलिशायुतभूषितम् ॥ २,१६.३६ ॥ हार लघूत्तरं चक्रे मातुर्नृपसुतस्तदा । वलया वज्रखचिता द्विरष्टौ करयोर्द्वयोः ॥ २,१६.३७ ॥ एकैके निष्ककोटीभिर्मूल्यविद्भिर्नरैः कृताः । केयूरनूपुरौ तस्या अनर्घौ स नृपात्मजः ॥ २,१६.३८ ॥ प्रददौ पितुरिष्टाया भूषणार्थं रविप्रभौ । कटिसूत्रं तु शर्वाण्या यदासीत्पावकप्रभम् ॥ २,१६.३९ ॥ तद्भ्रष्टं भयभीतायाः संग्रामे तारकामये । कालनेमौ स्थिते राज्ये पतितं मूलपाचने ॥ २,१६.४० ॥ तद्गृहीतं तु दैत्येन मयेन लोकमायिना । तं हत्वा मलये दैत्यं दैत्यकोटिसमावृतम् ॥ २,१६.४१ ॥ संवत्सररणे घोरे पितुर्वचनकारणात् । अवाप कटिसूत्रं तु दैत्यराजप्रियास्थितम् ॥ २,१६.४२ ॥ तद्ददौ पितुरिष्टायाः सानन्दपुलको नृपः । हिरण्यकशिपोः पूर्वं या भार्या लोकसुन्दरी ॥ २,१६.४३ ॥ तस्याः सीमन्तकश्चासीत्सौदामिनिसमप्रभः । सा प्रविष्टा समं पत्या यदा पावकमङ्गला ॥ २,१६.४४ ॥ समुद्रे क्षिप्य सीमन्तं दुःखेन महतान्विता । सागरस्तत्तु संगृह्य रत्नश्रेष्ठयुगं किल ॥ २,१६.४५ ॥ ददौ धर्माङ्गदायाथ तस्य वीर्येण तोषितः । जनन्याः प्रददौ हृष्टः सूर्यकोटिसमप्रभम् ॥ २,१६.४६ ॥ अग्निशौचे शुभे वस्त्रे कञ्चुके सुमनोहरे । सहस्रकोटिमूल्ये ते मोहिन्याः संन्यवेदयत् ॥ २,१६.४७ ॥ देवमाल्यं सुगन्धाढ्यं तथा देवविलेपनम् । सर्वदेवगुरोः पूर्वं सिद्धहस्तात्सुदुर्लभम् ॥ २,१६.४८ ॥ धर्माङ्गदेन वीरेण द्वीपानां विजये तथा । लब्धं तत्प्रददौ देव्या मोहिन्याः कामवर्द्धनम् ॥ २,१६.४९ ॥ संभूष्य परया भक्त्या पश्चात्षड्रसभोजनम् । आनीतं मातृहस्तेन भोजयामास भूमिप ॥ २,१६.५० ॥ पुरस्तादेव जननीं वाक्यैः संबोध्य भूरिशः । मया त्वया च कर्तव्यं राज्ञो वाक्यं न संशयः ॥ २,१६.५१ ॥ या इष्टा नृपतेर्देवि सास्माकं हि गरीयसी । इष्टा या भूपतेर्भर्तुस्तस्या या दुष्टमाचरेत् ॥ २,१६.५२ ॥ सा पत्नी नरकं याति यावदिन्द्राश्चतुर्दश । सापत्नभावं या कुर्याद्भर्तृस्नेहेष्टया सह ॥ २,१६.५३ ॥ तस्याः स्नेहवियोगार्थं तप्यते ताम्रभ्राष्टके । यथा सुखं भवेद्भर्तुस्तथा कार्यं हि भार्यया ॥ २,१६.५४ ॥ अनुकूलं हितं तस्या इष्टाया भर्तुराचरेत् । यथा भर्ता तथा तां हि पश्येत वरवर्णिनि ॥ २,१६.५५ ॥ हीनायाश्चापि शुश्रूषां कृत्वा याति त्रिविष्टपम् । पश्चात्स्थाने भवेत्सापि मनसा याभवत्प्रिये ॥ २,१६.५६ ॥ सर्वान्भोगानवाप्नोति भर्तुरिष्टं प्रगृह्य हि । इर्ष्याभावपरित्यागात्सर्वेश्वरपदं लभेत् ॥ २,१६.५७ ॥ सपत्नी या सपत्न्यास्तुःशुश्रूषां कुरुते सदा । भर्तुरिष्टां संनिरीक्ष्य तस्या लोकोऽक्षयो भवेत् ॥ २,१६.५८ ॥ भर्तुरिष्टा पुरा वेश्या ह्यभवत्सा कुलेषु वै । शूद्रजातेः सुदुष्टस्य परित्यक्तक्रियस्य तु ॥ २,१६.५९ ॥ आचरद्वेश्यया सार्द्धं सा भार्या पतिरञ्जिनी । प्रक्षालनं द्वयोः पादौ द्वयोरुच्छिष्टभोजिनी ॥ २,१६.६० ॥ उभयोरप्यधः शेते उभयोर्वै हितं रता । वेश्यया वार्यमाणापि सदाचारपथे स्थिता ॥ २,१६.६१ ॥ एवं शुश्रीषयन्त्या हि भर्तारं वेश्यया सह । जगाम सुमहान्कालो वर्तन्त्या दुःखसागरे ॥ २,१६.६२ ॥ अपरस्मिन्दिने भर्ता माहिषं मूलकान्वितम् । अभक्षयत निष्पावं दुर्मेधास्तैलमिश्रितम् ॥ २,१६.६३ ॥ तदपथ्यभुजस्तस्य अवमन्य पतिव्रताम् । अभवद्दारुणो रोगो गुदे तस्य भगन्दरः ॥ २,१६.६४ ॥ संदह्यमानोऽतितरां दिवा रात्रौ स भूरिशः । तस्य गेहे स्थितं वित्तं समादाय जगाम सा ॥ २,१६.६५ ॥ वेश्यान्यस्मैददौ प्रीत्या यूने कामपरायणा । ततः स दीनवदनो व्रीडया च समन्वितः ॥ २,१६.६६ ॥ उवाच प्ररुदन्भार्यां शूद्रो व्याकुलचेतनः । परिपालय मां देवि वेश्यासक्तं सुनिष्ठुरम् ॥ २,१६.६७ ॥ न मयोपकृतं किञ्चित्तव सुंदरि पापिना । रमते वेश्यया सार्द्धं बहूनब्दान्सुमध्यमे ॥ २,१६.६८ ॥ यो भार्यां प्रणतां पापोनानुमन्येत गर्वितः । सोऽशुभानि समाप्नोति जन्मानि दश पञ्च च ॥ २,१६.६९ ॥ दिवाकीर्तिगृहे तस्माद्योनिं प्राप्स्यामि गर्हिताम् । तवापमानतो देवि मनो न कलुषीकृतम् ॥ २,१६.७० ॥ इति भर्तृवचः श्रुत्वा भार्या भर्तारमब्रवीत् । पुराकृतानि पापानि दुःखानि प्रभवन्ति हि । तानि सक्षमते विद्वान् स विज्ञेयो नृणां वरः ॥ २,१६.७१ ॥ तन्मया पापया पापं कृतं वै पूर्वजन्मनि । तद्भजन्त्या न मे दुःखं न विषादः कथञ्चन ॥ २,१६.७२ ॥ एवमुक्त्वा समाश्वास्य भर्तारमनुशास्य च । अनीतं जनकाद्वित्तं बन्धुभ्यो वरवर्णिनी ॥ २,१६.७३ ॥ क्षीरोदनिलयावासं मन्यते स्म सती पतिम् । दिवा दिवा त्रिर्यत्नेन रात्रौ गुह्यविशोधनम् ॥ २,१६.७४ ॥ रजनीकरवृक्षोत्थं गृह्य निर्यासमञ्जसा । नखेन पातयेद्भर्तुः क्रिमीन्कुष्ठाच्छनैः शनैः ॥ २,१६.७५ ॥ मयूरपुच्छसंयुक्तं पवनं चाकरोत्तदा । न देवि रात्रौ स्वपिति न दिवा च वरानना ॥ २,१६.७६ ॥ भर्तृदुःखेन संतप्ता अपश्यज्ज्वलितं जगत् । यद्यस्ति वसुधा देवी पितरो देवतास्तथा ॥ २,१६.७७ ॥ कुर्वन्तु रोगहीनं मे भर्तारं गतकल्मषम् । चण्डिकायै प्रदास्यामि रक्तं मांससमुद्भवम् ॥ २,१६.७८ ॥ नृच्छागमहिषोपेतं भर्तुरारोग्यहेतवे । सादरं कारयिष्यामि उपवासान्दशैव तु ॥ २,१६.७९ ॥ शरीरं स्थापयिष्येऽहं सूक्ष्मकण्टकसंस्तरे । नोपभोक्ष्यामि मधुरं नोपभोक्ष्यामि वै घृतम् ॥ २,१६.८० ॥ बाह्याभ्यङ्गविहीनाहं संस्थास्ये दिनसंचयम् । जीवतां रोगहीनो हि भर्ता मे शरदां शतम् ॥ २,१६.८१ ॥ एवं प्रव्याहरन्ती सा वासरे वासरे गते । अथ कालेन चाल्पेन त्रिदोषोऽस्य व्यजायत ॥ २,१६.८२ ॥ त्रिकटुं प्रददौ भर्तुर्यत्नेन महता तदा । शीतार्तः कंपमानोऽसौ पत्न्यङ्गुलिमखण्डयत् ॥ २,१६.८३ ॥ उभयोर्दतयोः श्लेषः सहसा समपद्यत । तत्खण्डमङ्गुलेर्वक्त्रे स्थितं नृपतिवल्लभे ॥ २,१६.८४ ॥ अथ विक्रीय वलयं क्रीत्वा काष्ठानि भूरिशः । चितां सार्पिर्युतां चक्रे मध्ये धृत्वा पतिं तदा ॥ २,१६.८५ ॥ अवरुह्य च बाहुभ्यां पादेनाकृष्य पावकम् । मुखे सुखं समाधाय हृदये हृदयं तथा ॥ २,१६.८६ ॥ जघने जघनं देवि आत्मनः संनिवेश्य वै । दाहयामास कल्याणी भर्तुर्देहं रुजान्वितम् ॥ २,१६.८७ ॥ आत्मना सह चार्वङ्गी ज्वलिते जातवेदसि ॥ २,१६.८८ ॥ वुमुच्य देहं सहसा जगाम पतिं समादाय च देवलोकम् । विशोधयित्वा बहुपापसंघान्स्वकर्मणा दुष्करसाधनेन ॥ २,१६.८९ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे पतिव्रतोपाख्यानं नाम षोडशोऽध्यायः _____________________________________________________________ पुत्र उवाच तस्मादीर्ष्यां परित्यज्य मोहिनीमनुभोजय । न मातरीदृशो धर्मो लोकेषु त्रिषु लभ्यते ॥ २,१७.१ ॥ स्वहस्तेन प्रियां भर्तुर्भार्यां या तु प्रभोजयेत् । सपत्नीं तु सपत्नी हि किञ्चिदन्नं ददाति च ॥ २,१७.२ ॥ तदनन्तं भवेद्देवि मातरित्याह नाभिजः । कुरु वाक्यं मयोक्तं हि स्वामिनि त्वं प्रसीद मे ॥ २,१७.३ ॥ तातस्य सौख्यं कर्तव्यमावाभ्यां वरवर्णिनी । भवेत्पापक्षयः सम्यक्स्वर्गप्राप्तिस्तथाक्षया ॥ २,१७.४ ॥ पुत्रस्य वचनं श्रुत्वा देवी संध्यावली तदा । अभिमन्त्र्य परिष्वज्य तनयं सा पुनः पुनः ॥ २,१७.५ ॥ मूर्ध्नि चैनमुपाघ्राय वचनं चेदमब्रवीत् । करिष्ये वचनं पुत्र त्वदीयं धर्मसंयुतम् ॥ २,१७.६ ॥ इर्ष्यां मानं परित्यज्य भोजयिष्यामि मोहिनीम् । शतपुत्रा ह्यहं पुत्र त्वयैकेन सुतेन हि ॥ २,१७.७ ॥ नियमैर्बहुभिर्जातो देहक्लेशकरैर्भवान् । व्रतराजेन चीर्णेन प्राप्तस्त्वमचिरात्सुतः ॥ २,१७.८ ॥ नहीदृशं व्रतं लोके फलदायि प्रदृश्यते । सद्यः प्रत्ययकारीदं महापातकनाशनम् ॥ २,१७.९ ॥ किं जातैर्बहुभिः पुत्रैः शोकसंतापकारकैः । वरमेकः कुलालंबी यत्र विश्रमते कुलम् ॥ २,१७.१० ॥ त्रैलोक्यादुपरिष्ठाहं त्वां प्राप्य जठरे स्थितम् । धन्यानि तानि शूलानि यैर्जातस्त्वं सुतोऽनघ ॥ २,१७.११ ॥ सप्तद्वीपपतिः शूरः पितुर्वचनकारकः । आह्लादयति यस्तातं जननीं वापि पुत्रकः ॥ २,१७.१२ ॥ तं पुत्रं कवयः प्राहुर्वाख्यमपरं सुतम् । एवमुक्त्वा तु वचनं देवी संध्यावली तदा ॥ २,१७.१३ ॥ वीक्षां चक्रेऽथ भाण्डानि षड्रसस्य तु हेतवे । तस्या वीक्षणमात्रेण परिपूर्णानि भूपते ॥ २,१७.१४ ॥ षड्रसत्य सुखोष्णस्य मोहिनीभोजनेच्छया । अमृतस्वादुकल्पस्य जनस्य तु महीपते ॥ २,१७.१५ ॥ ततो दर्वीं समादाय काञ्चनीं रत्नसंयुताम् । परिवेषयदव्यग्रा मोडिन्याश्चारुहासिनी ॥ २,१७.१६ ॥ काञ्चने भाजने श्लेक्ष्णे मानभोजनवेष्टिते । शनैः शनैश्च बुभुजे इष्टमन्नं सुसंस्कृतम् ॥ २,१७.१७ ॥ उपविश्यासने देवी शातकौभमये शुभे । वीज्यमाना वरारोहा व्याजनेन सुगीतिना ॥ २,१७.१८ ॥ धर्माङ्गदगृही तेन शिखिपुच्छभवेन तु । सा भुक्ता ब्रह्मतनया तदन्नममृतोपमम् ॥ २,१७.१९ ॥ चतुर्गुणेन शीतेन कृत्वा शौचमथात्मनः । जगृहे पुत्रदत्तं तु तांबूलं तत्सुगन्धिमत् ॥ २,१७.२० ॥ वरचन्दनयुक्तेन हस्तेन वरवर्णिनी । ततः प्रहस्य शनकैः प्राह संध्यावलीं नृप ॥ २,१७.२१ ॥ जननी किं तु देवि त्वं वृषाङ्गदनृपस्य तु । न मया हि परिज्ञाता श्रमस्वेदितया शुभे ॥ २,१७.२२ ॥ वदत्येवं ब्रह्मसुता यावत्संध्यावलीं नप । तावत्प्रणम्य नृपतेः पुत्रो वचनमब्रवीत् ॥ २,१७.२३ ॥ उदरे ह्यनया देव्या घृतः संवत्सरत्रयम् । तव भर्तुः प्रसादेन वृद्धिं संप्राप्तवानहम् ॥ २,१७.२४ ॥ संत्यनेकानि मातॄणां शतानि मम सुंदरि । अस्याः पीतं पयो भूरि कुचयोः स्नेहसंप्लुतम् ॥ २,१७.२५ ॥ अनया सा रुजा तीव्रा विधृता प्रायशो जरा । इयं मां जनयित्वैव जाता शिथिलबन्धना ॥ २,१७.२६ ॥ तन्नास्ति त्रुषु लोकेषु यद्दत्वा चानृणो भवेत् । मातुः पुत्रस्य चार्वङ्गि सत्यमेतन्मयेरितम् ॥ २,१७.२७ ॥ सोऽहं धन्यतरो लोके नास्ति मत्तोऽधिकः पुमान् । उत्संगे वर्तयिष्यामि मातृसंघस्य नित्यशः ॥ २,१७.२८ ॥ नोत्संगे चेज्जनन्या हि तनयो विशति क्वचित् । मातृसौख्यं न जानाति कुमारी भर्तृजं यथा ॥ २,१७.२९ ॥ मातुरुत्संगमारूढः पुत्रो दर्पान्वितो भवेत् । हारमुत्तमदेहस्थं हस्तेनाहर्तुमिच्छति ॥ २,१७.३० ॥ पाल्यमानो जनन्या हि पितृहीनोऽपि दर्पितः । समीहते जगद्धर्तुं सवीर्यं मातृजं पयः ॥ २,१७.३१ ॥ एतज्जठरसंसर्गि भवत्युत्संगशङ्कितः । अस्याश्चैवापराणां च विशेषो यदि मे न चेत् ॥ २,१७.३२ ॥ तेन सत्येन मे तातो जीवताच्छरदां शतम् । एवं ब्रुवाणे तनये मोहिनी विस्मयं गता ॥ २,१७.३३ ॥ कथमस्य प्रहर्तव्यं मया निर्घृणशीलया । विनीतस्य ह्यपापस्य औचित्यं पापिनो गृहे ॥ २,१७.३४ ॥ पितुः शुश्रूषणं यस्य न तस्य सदृशं क्षितौ । एवं गुणाधिकस्याहं कर्तुं कर्म जुगुप्सिताम् ॥ २,१७.३५ ॥ पुत्रस्य धर्मशीलस्य भूत्त्वा तु जननी क्षितौ । एवं विमृश्य बहुधा मोहिनी लोकसुंदरी ॥ २,१७.३६ ॥ उवाच तनयं बाला शीघ्रमानय मे पतिम् । न शक्नोमि विना तेन मुहूर्तमपि वर्तितुम् ॥ २,१७.३७ ॥ ततः स त्वरितं गत्वा प्रणम्य पितरं नृप । कनिष्ठा जननी तात शीघ्रं त्वां द्रष्टुमिच्छति ॥ २,१७.३८ ॥ प्रसादः क्रियतां तस्याः पूज्यतां ब्रह्मणः सुता । पुत्रवाक्येन नृपतिरतत्क्षणाद्गन्तुमुद्यतः ॥ २,१७.३९ ॥ प्रहृष्टवदनो भूत्वा संध्यावल्या निवेशनम् । संप्रविश्य गृहे राजा ददर्श शयनस्थिताम् ॥ २,१७.४० ॥ मोहिनीं मोहसंयुक्तां तप्तकाञ्चनसप्रभाम् । उपास्य मानां प्रियया संध्यावल्या शनैः शनैः ॥ २,१७.४१ ॥ पुत्रवाक्यात्परित्यज्य क्रोधं सापत्न्यजं तथा । दृष्ट्वा रुक्माङ्गदं प्राप्तं शयने मोह्य सुंदरी ॥ २,१७.४२ ॥ प्रहृष्टवदना प्राह राजानं भूरिदक्षिणम् । इहोपविश्यतां कान्त पर्यङ्के मृदुतूलके ॥ २,१७.४३ ॥ सर्वं निरीक्षितं भूप राज्यतन्त्रं त्वया चिरम् । अद्यापि नहि ते वाञ्छा राज्ये परिनिवर्तते ॥ २,१७.४४ ॥ मन्ये दुष्कृतिनं भूप त्वामत्र धरणीतले । यः समर्थं सुतं ज्ञात्वा स्वयं पश्येन्नृपश्रियम् ॥ २,१७.४५ ॥ तस्मात्त्वत्तोऽधिको नास्ति दुःखी लोकेषु कश्चन । सुपुत्राणां पितॄणां हि सुखं याति क्षणं नृप ॥ २,१७.४६ ॥ दुःखेन पापभोक्तॄणां विषयासक्तचेतसाम् । सर्वाश्च प्रकृती राजंस्तवेष्टाः पूर्णपुण्यजाः ॥ २,१७.४७ ॥ धर्माङ्गदे पालयाने कथं त्वं वीक्षसेऽधुना । परित्यज्य प्रियासौख्यं कीनाश इव दुर्बलः ॥ २,१७.४८ ॥ यदि पालयसे राज्यं मया किं ते प्रयोजनम् । निष्प्रयोजनमानीता क्षीरसागरमस्तकात् ॥ २,१७.४९ ॥ विड्भोज्या हि भविष्यामि पक्षिणामामिषं यथा । यो भार्यां यौवनोपेतां न सेवेदिह दुर्मतिः ॥ २,१७.५० ॥ कृत्याचरणसक्तस्तु कुतस्तस्य भवेत्प्रिया । असेविता व्रजेद्भार्या अदत्तं हि धनं व्रजेत् ॥ २,१७.५१ ॥ अरक्षितं व्रजेद्राज्यं अनभ्यस्तं श्रुतं व्रजेत् । नालसैः प्राप्यते विद्या न भार्या व्रतसंस्थितैः ॥ २,१७.५२ ॥ नानुष्ठानं विना लक्ष्मीर्नाभक्तैः प्राप्यते यशः । नोद्यमी सुखमाप्नोति नाभार्यः संततिं लभेत् ॥ २,१७.५३ ॥ नाशुचिर्द्धर्ममाप्नोति न विप्रोऽप्रियवाग्धनम् । अपृच्छन्नैव जानाति अगच्छन्न क्वचिद्व्रजेत् ॥ २,१७.५४ ॥ अशिश्यो न क्रियां वेत्ति न भयं वेत्ति जागरी । कस्माद्भूपाल मां त्यक्त्वा धर्माङ्गदगृहे शुभे ॥ २,१७.५५ ॥ वीक्ष्यसे राज्यपदवीं समर्थे तनये विभो ॥ २,१७.५६ ॥ एवं ब्रुबाणां तनयां विधेस्तु रतिप्रियां चारुविशालनेत्राम् । व्रीडान्वितः पुत्रसमीपवर्ती प्रोवाच वाक्यं नृपतिः प्रियान्ताम् ॥ २,१७.५७ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते मोहिनीवचनं नाम सप्तदशोऽध्यायः _____________________________________________________________ राजोवाच नाधिकारो मया मीरु कृतो नृपपरिग्रहे । श्रमातुरस्य निद्रा मे प्रवृत्ता मुखदायिनी ॥ २,१८.१ ॥ धर्माङ्गदं समाभाष्य मोहिनीं नय मन्दिरम् । पूजयस्व यथान्या ममेषा पत्नी प्रिया मम ॥ २,१८.२ ॥ निजं कमलपत्राक्ष सर्वरत्नविभूषितम् । निर्वातवातसंयुक्तं सर्वर्तुसुखदायकम् ॥ २,१८.३ ॥ एवमादिश्य तनयमहं निद्रामुपागतः । शयनं प्राप्य कष्टात्ते अभाग्यो हि धनं यथा ॥ २,१८.४ ॥ विबुद्धमात्रः सहसा त्वत्समीपमुपागतः । यद्व्रवीषि वचो देवि तत्करोमि न संशयः ॥ २,१८.५ ॥ मोहिन्युवाच परिसांत्वय राजेन्द्र इमान्दारान्सुदुःखितान् । ममोद्वाहेन निर्विण्णान्निराशान्कामभोगयोः ॥ २,१८.६ ॥ ज्येष्ठानां रूपयुक्तानां कलत्राणां विशांपते । मूर्घ्नि कीलं कनिष्ठाख्यं यो हि राजन्निखानयेत् ॥ २,१८.७ ॥ न सद्गतिर्भवेत्तस्य न त सा विन्दते परम् । पतिव्रताश्रुदग्धायाः का शान्तिर्मे भविष्यति ॥ २,१८.८ ॥ जनितारं हि मे भस्म कुर्य्युर्देव्यः पतिव्रताः । किं पुनः प्राकृतं भूप त्वादृशीं तथा ॥ २,१८.९ ॥ संध्यावलीसमा नारी त्रैलोक्ये नास्ति भूमिप । तव स्नेहनिबद्धाङ्गी संभोजयति षड्रसैः ॥ २,१८.१० ॥ प्रियाणि चाटुवाक्यानि वदती तव गौववात् । एवंविधा हि शतशो नार्यः संति गृहे तव ॥ २,१८.११ ॥ यासां न पादरजसा तुल्याहं भूपते क्वचित् । मोहिनी वचनं श्रुत्वा व्रीडितो ह्यभवन्नृपः ॥ २,१८.१२ ॥ सपुत्रायाः समीपे तु ज्येष्ठाया नृपतिस्तदा । इङ्गितज्ञः सुतो ज्ञात्वा दशावस्थागतां नृपम् ॥ २,१८.१३ ॥ पितरं कामसंतप्तं मोहिन्यर्थे विमोहितम् । मातृः सर्वाः समाहूय संध्यावलिपुरोगमाः ॥ २,१८.१४ ॥ कृताञ्जलिपुटो भूत्वा एवमाह प्रिय वचः । विमोहिनी मे जननी नवोढा ब्राह्मणः सुता ॥ २,१८.१५ ॥ सा च प्रार्थयते देव्यो राजानं रहसिस्थितम् । आत्मना सह खेलार्थं तन्मोदध्वं सुहर्षिताः ॥ २,१८.१६ ॥ मातर ऊचुः कोऽनुमोदयते पुत्र सर्पभक्षणमात्मनः । को हि दीपयते वह्निं स्वदेहे देहिनां वर ॥ २,१८.१७ ॥ को भक्षयेद्विषं घोरं कश्छिन्द्यादात्मनः शिरः । कस्तरेत्सागरं बद्ध्वा ग्रीवायां दारुणां शिलाम् ॥ २,१८.१८ ॥ को गच्छेद्द्वीपिवदनं कः केशान्सुहरेर्हरेत् । को निषीदति धारायां खङ्गस्या काशभासिनः ॥ २,१८.१९ ॥ कानुमोदयते भर्त्रा सपत्न्याः क्रीडनं किल । सर्वस्यापि प्रदानेन नैतन्मनसि वर्तते ॥ २,१८.२० ॥ वरं हि छेदनं मूर्ध्नस्तत्क्षणात्तु वरासिना । का दृष्ट्या दयितं कान्तं निरीक्षेदन्ययाहृतम् ॥ २,१८.२१ ॥ का सा सीमन्तिनी लोके भवेदेतादृशी क्वचित् । आत्मप्राणसमं कान्तमन्यस्त्रीकुचपीडनम् ॥ २,१८.२२ ॥ संश्रुत्य सहते या तु किं पुनः स्वेन चक्षुषा । सर्वेषामेव दुःखानां दुःखमेतदनन्तकम् ॥ २,१८.२३ ॥ यद्भर्तान्याङ्गनासंक्तो दृश्यटते स्वेन चक्षुषा । वरं सर्वा मृताः पुत्र युगपन्मातरस्तव ॥ २,१८.२४ ॥ न तु मोहिनिसंयुक्तो दृश्योऽयं नृपतिः पतिः । धर्माङ्गद उवाच यदि मे न पितुः सौख्यं करिष्यथ शुभाननाः ॥ २,१८.२५ ॥ विषमालोड्य पास्यामि युष्मत्सौख्यं मृते मयि । कर्मणा मनसा वाचा या पितुर्दुःखमाचरेत् ॥ २,१८.२६ ॥ सा मे शत्रुर्वधार्हास्ति यदि संध्यावली भवेत् । सर्वासां साधिका देवी मोहिनी जनकप्रिया ॥ २,१८.२७ ॥ क्रीडार्थमागता बाला मन्दराचलमन्दिरात् । तत्पुत्रवचनं श्रुत्वा वेपमाना हि मातरः ॥ २,१८.२८ ॥ ऊचुः सगद्गदां वाचं हितार्थं तनयस्य हि । अवश्यं तव वाक्यं हि कर्तव्यं न्यायसंयुतम् ॥ २,१८.२९ ॥ किं तु दानप्रदो भूत्वा मोहिनीं यातु ते पिता । यो भार्यामुद्वहेद्भर्ता द्वितीयामपरामपि ॥ २,१८.३० ॥ ज्येष्ठायै द्विगुणं तस्या दद्यच्चैवान्यथा ऋणी । अनुज्ञाप्य यदा भार्ता ज्येष्ठामन्यां समुद्वहेतक् ॥ २,१८.३१ ॥ तदा ज्येष्ठाभिलषितं देयमाहुः पुराविदः । ज्येष्ठया सहितः कुर्यादिष्टापूर्तं नरोत्तमः ॥ २,१८.३२ ॥ एष धर्मोऽन्यथान्यायो जायते धर्मसंक्षयः । श्रुत्वा तु मातृवचनं प्रहष्टेनान्तरात्मनो ॥ २,१८.३३ ॥ एकैकस्यै ददौ साग्रां कोटिं कोटिं सुतस्तदा । सहस्रं नगराणां च ग्रामाणां प्रददौ तथा ॥ २,१८.३४ ॥ चतुरश्वतरीभिश्चपृथग्युक्ता नृपात्मजः । एकैकस्य ददावष्टौ रथान्काञ्चनमालिनः ॥ २,१८.३५ ॥ वाससामयुतं प्रादाद्येषां मूल्यं शताधिकम् । शुद्धस्य मेरुजातस्य अक्षयस्य नुपात्मजः ॥ २,१८.३६ ॥ काञ्चनस्य ददौ लक्षमेकैकं प्रतिमातरम् । दासानां च शतं साग्रं दासीनां च नृपात्मजः ॥ २,१८.३७ ॥ धेनूनां घटदोग्ध्रीणामेकैकस्यै तथायुतम् । युगन्धराणां भद्राणां शतानि दश वै पृथक् ॥ २,१८.३८ ॥ दशप्रकारं नृपते धान्यं च प्रददौ सुतः । वाटीनां तु सहस्राणां शतं प्रादाद्धसन्निव ॥ २,१८.३९ ॥ कुंभायुतं सर्पिषस्तु तैलस्य च पृथग्ददौ । अजाविकमसंख्यातमेकैकस्यै न्यवेदयत् ॥ २,१८.४० ॥ सहस्रेण सहस्रेण सुवर्णस्य व्यभूषयत् । आखण्डलास्त्रयुक्तरथ भूषणस्य सुभक्तिमान् ॥ २,१८.४१ ॥ धात्रीप्रमाणैर्हरिश्च मौक्तिकैर्दीप्तिसंयुतैः । प्रददौ संहतान्कृत्वा वलयान्पञ्च सप्त च ॥ २,१८.४२ ॥ पञ्चाशच्च शते द्वे तु भौक्तिकानि महीपते । संध्यावल्यां स्थितानीह शीतांशुप्रतिमानि च ॥ २,१८.४३ ॥ एकैकस्यै ददौ पुत्रोस हारयुग्मं मनोहरम् । कुङ्कुमं चन्दनं भूरि कर्पूरं प्रस्थसंख्यया ॥ २,१८.४४ ॥ कस्तूरिकां तथा ताभ्यो भूयसीं प्रददौ सुतः । मातॄणामविशेषेण पितुः सुखमभीप्सयन् ॥ २,१८.४५ ॥ भाजनानि विचित्राणि जलपात्राण्यनेकशः । घृतक्षीरस्य पात्राणि पेयस्य विविधस्य च ॥ २,१८.४६ ॥ चतुर्द्दशशतं प्रादात्सहस्रेण समन्वितम् । स्थालीनां काञ्चनीनां हि सकुंभानां नृपात्मजः ॥ २,१८.४७ ॥ एकैकस्यै ददौ भूप शतानि त्रीणि पञ्च च । करेणूनां सवेगानां मांसविक्रान्तकन्धराम् ॥ २,१८.४८ ॥ विंशतिं विंशतिं प्रादादुष्ट्रीणां च शतं शतम् । शिबिकानां सवेषाणां पुंसां पीवरगामिनाम् ॥ २,१८.४९ ॥ प्रददौ दश सप्ताश्वान्मातॄणां सुखयायिनः । एवं दत्वा बहुधनं बह्वीभ्यो नृपनन्दनः ॥ २,१८.५० ॥ धन्यो धनपतिप्रख्यश्चक्रे तासां प्रदक्षिणाः । कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् ॥ २,१८.५१ ॥ ममोपरोधात्प्रणतस्य मूर्ध्नापतिं समुद्दिश्य यथा भवत्यः । ब्रुवन्तु सर्वाः पितरं ममाद्य स्वैरेण संभुङ्क्ष्व नरेशं मोहिनीम् ॥ २,१८.५२ ॥ न चास्मदीया भवता किलेर्ष्या स्वल्पापि कार्या मनसि प्रतीता । विमोहिनीं ब्रह्मसुतां सुशीलां रमस्व सौख्येन रहः शतानि ॥ २,१८.५३ ॥ तत्पुत्रवाक्यं हि निशम्य सर्वाः संहृष्टलोम्न्यो नृपनाथमूचुः । स्वभूदुहित्रा सुचिरं रमस्व विदेहपुत्र्येव रघुप्रवीरः ॥ २,१८.५४ ॥ न शल्यभूता कुशकेतुपुत्री त्वत्संगमाद्विद्वि न संशयोऽत्र । पुत्रौजसा दुःखविमुक्तभावात्समीरितं वाक्यमिदं प्रतीहि ॥ २,१८.५५ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मातृसन्मानं नाम अष्टादशोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच सोऽनुज्ञातो महीपालः प्रियाभिः प्रियकामुकः । प्रहर्षमतुलं लेभे धर्माङ्गदमुवाच ह ॥ २,१९.१ ॥ एतां द्वीपवतीं पृथ्वीं परिपालय पुत्रक । कृत्वा दुष्टवधं त्वादावप्रमत्तः सदोद्यतः ॥ २,१९.२ ॥ सदावसरसंयुक्तः सदाचारनिरीक्षकः । सदा चेतनसंयुक्तः सदा वाणिज्यवल्लभः ॥ २,१९.३ ॥ सदा भ्रमणशीलश्च सदा दानरतिर्भव । सदा कौटिल्यहीनश्च सदाचाररतः सदा ॥ २,१९.४ ॥ अपरं शृणु मे पुत्र यत्कर्त्तव्यं त्वयाधुना । अविश्वासस्तु सर्वत्र भूमिपानां प्रशस्यते ॥ २,१९.५ ॥ कोषस्य च परिज्ञानं जनानां जनवल्लभ । रसवद्द्रव्यमाकर्षेः पुष्पेभ्य इव षट्पदः ॥ २,१९.६ ॥ त्वया पुत्रेण संप्राप्तं पुनरेवेह यौवनम् ॥ २,१९.७ ॥ इमामपूर्वां वररूपमोहिनीं संप्राप्य भार्यां द्विजराजवक्त्राम् । सुखेन संयोज्य च तेऽद्य भारं सप्तोदधिद्वीपभवं प्ररंस्ये ॥ २,१९.८ ॥ व्रीडाकरस्तात मनुष्यलोके समर्थपुत्रे सुरताभिकामी । भवेत्पिता चेद्ब्रलिभिश्च युक्तो जीर्णद्विजः श्वेतशिरोरुहश्च ॥ २,१९.९ ॥ जीर्णोऽप्यजीर्णस्तव सौख्यवृद्धो वाञ्छे इमां लोकवरां वरार्हाम् । संत्यज्य देवान्मम हेतुमागतामनङ्गबाणाभिहतां सुनेत्राम् ॥ २,१९.१० ॥ कामं रमिष्ये द्रुतकां चनाभां ह्येकान्तशीलः परिपूर्णचेताः । भूत्वा तु गुप्तो वननिर्झरेषु रम्येषु दिव्येषु नदीतटेषु ॥ २,१९.११ ॥ इयं पुरन्ध्री मम जीविताधिका सुखेन धार्या त्रिदिवैकनारी । अस्यास्तु हेतोर्विबुधा विमूढा यथा रमायै धरणीशसंघाः ॥ २,१९.१२ ॥ तद्वाक्यमाकर्ण्य पितुः सुबुद्धिः प्रणम्य भक्त्या जननीसमेतम् । नृपोत्तमं तं नृपनन्दनोऽसौ दिदेश भोगार्थमनेकवित्तम् ॥ २,१९.१३ ॥ आज्ञाविधेयांस्तु पितुर्नियोज्य दासांश्च दासीश्च हिरण्यकण्ठीः । मत्स्यध्वजार्त्तस्य सुखाय पुत्रस्ततो महीरक्षणमाचचार ॥ २,१९.१४ ॥ नृपैस्तुतो धर्मविभूषणोऽसौ समावृतो द्वीपवतीं समग्राम् । तस्येत्थमुर्वीं चरतश्च भूप न पापबुद्धिं कुरुते जनैघः ॥ २,१९.१५ ॥ न चापि वृक्षः फलपुष्पहीनो न क्षेत्रमासीद्यवशालिहीनम् । स्रवन्ति गावो घटपूरदुग्धं घृताधिकं शर्करवत्सुमिष्टम् ॥ २,१९.१६ ॥ क्षीरं सुपेयं सकलार्तिनाशनं पापापहं पुष्टिविवर्धनं च । जनो न कश्चिद्विभवस्य गोप्ता भर्तुहिं भार्या न कटूक्तिवादिनी ॥ २,१९.१७ ॥ पुत्रो विनीतः पितृशासने रतो वधूः स्थिता हस्तपुटे च श्वश्रोः । द्विजोपदेशे हि जनो व्यवस्थितो वेदोक्तधर्माचरणाद्द्विजोत्तमाः ॥ २,१९.१८ ॥ न भुञ्जते माधववासरे जना न यान्ति शोषं भुविः निम्नगास्तु । संभुज्य माना नहि यान्ति संपदः संभोगयुक्तैरपि मानवैः क्षयम् ॥ २,१९.१९ ॥ विवृद्धिमायान्ति जलैरिवोर्द्ध्वं दूर्वातृणं शाद्वलतामुपैति । कृती च लोको ह्यभवत्समस्तो धर्माङ्गदे पालनसंप्रवृत्ते ॥ २,१९.२० ॥ भुक्त्वा तु सौख्यानि च यान्ति मानवा हरेः पदं तद्दिनसेवनेन । द्वाराणि सध्वान्तनिशासु भूप गुप्तानि कुर्वन्ति न दस्यु भीताः ॥ २,१९.२१ ॥ न चापि गोपेषु ददन्ति वृत्तिं स्वेच्छाचरा मन्दिरमाव्रजन्ति । क्षीरं क्षरन्त्यो घटवत्सुभूरिशो वत्सप्रियाः शान्तिकराश्च गावः ॥ २,१९.२२ ॥ अकृष्टपच्या धरणी समस्ता प्ररूढसस्या किल लाङ्गलं विना । मातुः पयोभिः शिशवः सुपुष्टा भर्तुः प्रयोगैः प्रमदाः सुपुष्टाः ॥ २,१९.२३ ॥ नृपैः सुगुप्तास्तु जनाः सुपुष्टाः सत्याभियुक्तो हि वृषः सुपुष्टः । एवं विधे धर्मरतिप्रधाने जने प्रवृत्ते हरिभक्तियुक्ते । संरक्ष्यमाणे हि नृपात्मजेन जगाम कालः सुखहे तुभूतः ॥ २,१९.२४ ॥ निरामयो भूतिसमन्वितश्च सभूरिवर्षोत्सवकारकश्च । पृथ्वीपतिश्चातिविमोहितश्च विमोहिनीचेष्टितसौख्ययुक्तः ॥ २,१९.२५ ॥ दिनं न जानाति न चापि रात्रिं मासं च पक्षं च स वत्सरं च । अतीव मुग्धः सुरतेन तस्या विरञ्चिपुत्र्याः शुभचेष्टितायाः ॥ २,१९.२६ ॥ विमोहिनीसंगमने नृपस्य बभूव शक्तिस्त्वधिका मनोजे । यथा यथा सेवत एव भूपस्तथा तथा वृद्धिमियर्ति वीर्यम् । पक्षेषु शुक्लेष्विव शीतभानुर्न क्षीयते संततसेवनेन ॥ २,१९.२६ ॥ वृन्दारकः पीतसुधारसो यथा संस्पृश्य संस्पृश्य पुनर्नवोऽसौ । पिबंस्तु पानं सुमनोहरं हि शृण्वंस्तु गीतं सुपदप्रयुक्तम् ॥ २,१९.२७ ॥ पश्यंश्च रूपं स नितंबिनीनां स्पृशन्स्पृशन्मोहिनिवक्त्रचन्द्रम् । विमर्द्दमानस्तु करेण तुङ्गौ सुखेन पीनौ पिशितोपरूढौ ॥ २,१९.२९ ॥ घनस्तनौ काञ्चनकुंभतुल्यौ प्रच्छादितौ हारविभूषणेन । वलित्रयं नातिविवर्द्धमानं मनोहरं लोमशराजिशोभम् ॥ २,१९.३० ॥ स्तनस्य रूपं परितो विलोक्य दध्रे वराङ्ग्याः शुभलोचनायाः । नहीदृशं चारुतरं नितान्तं नितंबिनीनां मनसोऽभिरामम् ॥ २,१९.३१ ॥ यादृग्विधं मोहिनमोहनार्थं विनिर्मितं यद्विधिना स्वरूपम् । मृगेन्द्रशत्रोःकरसन्निकाशे जङ्घे विलोमे द्रुतकाञ्चनाभे ॥ २,१९.३२ ॥ शशाङ्ककान्तिर्द्दशनस्य पङ्क्तिर्निगूढगुल्फे जनमोहनार्थम् । आपादशीर्षं किल तत्स्वरूपं संपश्यतच्चारुविशालनेत्र्याः ॥ २,१९.३३ ॥ मेने सुराणामधिकं हि राजा कृतार्थमात्मानमतीव हर्षात् । अहो सुतन्वी विपुलेक्षणेयं याचिष्यते यच्च तदेव देयम् ॥ २,१९.३४ ॥ अस्यास्तु रम्ये सुरते शुभाया दास्यामि चान्ते निजवित्तजातम् । सुदुर्लभं देयमदेयमन्यैर्दास्यामि चास्या यदि वाप्यदेयम् ॥ २,१९.३५ ॥ यद्यप्यदेयं मम जीवितं हि याचिष्यते चेद्यदि हेमवर्णा । दास्यामि चेदं न विचारयिष्ये पुत्रं विना नास्ति नदेयमस्याः ॥ २,१९.३६ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीप्रणयवर्णनं नामैकोनविंशोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच एवं सुरतमूढस्य राज्ञो रुक्माङ्गदस्य च । त्रीणि पञ्च च वर्षाणि व्यतीतानि सुखेन वै ॥ २,२०.१ ॥ संप्राप्ते नवमे वर्षे पुत्रो धर्माङ्गदो बली । जित्वा विद्याधरान्पञ्च मलये पर्वतोत्तमे ॥ २,२०.२ ॥ आजहार मणीन्पञ्च सर्वकामप्रदान् शुभान् । एकं काञ्चनदातारं कोटिकोटिगुणं शुभम् ॥ २,२०.३ ॥ द्वितीयं वस्त्रभूषादिलक्षकोटिप्रदं तथा । तृतीयममृतस्रावि पुनर्यौवनकारकम् ॥ २,२०.४ ॥ सभागृहप्रकर्तारं चतुर्थं चान्नसाधकम् । पञ्चमं व्योभगतिदं त्रैलोक्यपरिसर्पणम् ॥ २,२०.५ ॥ तान्मणीन्गृह्य मनसा विद्याधरसमन्वितः । स्त्रीभिर्विद्याधराणां च साश्रुनेत्राभिरावृतः ॥ २,२०.६ ॥ ववन्दे चरणौ मातुः पितू रुक्माङ्गदस्य च । मणीन्पञ्च समर्प्याथ पादयोः प्राह संनतः ॥ २,२०.७ ॥ इमे जिता मया तात पञ्च विद्याधरा रणे । मलये भूधरश्रेष्ठे वैष्णवास्त्रेण भूपते ॥ २,२०.८ ॥ इमे ते भृत्यतां प्राप्ताः सस्त्रीका नृपसत्तम । मणीन्प्रयच्छ मोहिन्यै भुजभूषणहेतवे ॥ २,२०.९ ॥ सर्वकामप्रदा ह्येते पुनर्यौवनकारिणः । जीर्णदन्ताः पुनर्बाला भवन्ति मणिधारणात् ॥ २,२०.१० ॥ वस्त्रहर्म्यसुवर्णानां स्वर्गतेरमृतस्य च । दातारो मासयुद्धेन साधितास्तव तेजसा ॥ २,२०.११ ॥ साधितानि मया कृच्छ्रात्सप्तद्वीपानि भूपते । करदानिसमस्तानि कृतानि तव तेजसा ॥ २,२०.१२ ॥ समुद्रे च प्रविष्टस्य गतः संवत्सरो मम । जिता भोगवती तात मया नागसमावृता ॥ २,२०.१३ ॥ आहृता नागकन्याश्च मया चायुतसंख्यकाः । तत्रापि हाररत्नानि सुबहून्याहृतानि च ॥ २,२०.१४ ॥ पुनश्चाहं गतस्तात दानवानां पुरं महत् । तान्निर्जित्यं च कन्यानां सुरूपाणां सुवर्चसाम् ॥ २,२०.१५ ॥ आहृतानि मया त्रीणि सहस्राणि च पञ्च च । दशकोट्यस्तु रत्नानां दीपकर्म निशागमे ॥ २,२०.१६ ॥ कुर्वतां ते महीपाल आनीतास्तव मन्दिरे । ततोऽहं वारुणं लोकं रसातलतलस्थितम् ॥ २,२०.१७ ॥ गतो वीर्यबलोत्सिक्तस्त्वदङ्घ्रियुगसेवकः । तत्रोक्तो वरुणो देवः स्थीयतां मत्पिन्तुर्वशे ॥ २,२०.१८ ॥ रुक्माङ्गदस्य नृपतेर्यदि जीवितुमिच्छसि । कुपितो मम वाक्येन वरुणो योद्धुमागतः ॥ २,२०.१९ ॥ तेन संवत्सरं युद्धं घोरं जातं रसातले । जितो नारायणास्त्रेण मया स जलनायकः ॥ २,२०.२० ॥ न हतः प्रमदावाक्यैस्तस्य जीवितरक्षणे । निर्जितेनायुतं दत्तं वाजिनां वातरंहसाम् ॥ २,२०.२१ ॥ एकतः श्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् । तृणतोयविहीना ये जीवन्ति बहुशः समाः ॥ २,२०.२२ ॥ एकां कन्यां सुरूपां मे पुरस्कृत्य स्वलङ्कृताम् । भार्यार्थे वरुणः प्रादात्साप्यानीता मया शुभा ॥ २,२०.२३ ॥ कुमारी तु समानीताः बहुवित्तसमन्विता । तन्निस्ति त्रिषु लोकेषु स्थानं तात सुदुर्गमम् ॥ २,२०.२४ ॥ यन्मया न जितं ह्यस्ति तवाङ्घ्रिपरिसेवनात् । तदुत्तिष्ठ परीक्षस्व त्वत्प्रसादार्जितां श्रियम् ॥ २,२०.२५ ॥ अहं च संपदः सर्वास्त्वदधीना विशांपते । यः पुत्रस्तात वदति मया लक्ष्मीः समर्जिता ॥ २,२०.२६ ॥ न देया भूमिदेवेभ्यः सोऽपि वै नरकं व्रजेत् । आत्मसंभावनं तात न कर्तव्यं सुतेन हि ॥ २,२०.२७ ॥ कुठारदात्रसदृशः पुत्रः संपत्समुच्चये । पितुः शौर्येण पुत्रस्य वर्द्धते धनसंचयः ॥ २,२०.२८ ॥ तैजसं दात्रमादाय लुनाति तृणसंचयान् । वायुना पूरितं वस्त्रं तारयेन्नौगतं जले ॥ २,२०.२९ ॥ यथा दारुमयी योषा चेष्टते कुहकेच्छया । तथाहि पितृवीर्येण पुत्रास्तेजोबलान्विताः ॥ २,२०.३० ॥ तस्मादियं माधवदेववल्लभा विलोकयस्वाद्य मयोपनीता । आत्मेच्छया यच्छतु रक्षताद्वा स्वसंपदो मातृसमूहवर्याः ॥ २,२०.३१ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे धर्माङ्गददिग्विजयो नाम विंशोऽध्यायः _____________________________________________________________ मान्धातोवाच पुत्रस्य वचनं श्रुत्वा किं चकार महीपतिः । सा चापि मोहिनी ब्रह्मन्प्रिया राज्ञो विधेः सुता ॥ २,२१.१ ॥ आश्चर्यरूपं कथितमाख्यानं तु सुधोपमम् । विशेषतस्त्वया पुण्यं सर्वसंदेहभञ्जनम् ॥ २,२१.२ ॥ वसिष्ठ उवाच तत्पुत्रवचनं श्रुत्वा प्रहृष्टो नृपपुङ्गवः । उदतिष्ठत्प्रियायुक्तस्ताः श्रियश्चावलोकयत् ॥ २,२१.३ ॥ क्षणं हर्षान्वितो भूप राजा विष्णुपरायणः । नागकन्यास्तु ताः सर्वा वारुणीसहिता मुदा ॥ २,२१.४ ॥ प्रददौ तनये प्रेम्णा भार्यार्थं धर्मभूषणे । शेषं दानवनारीभिर्बहुरत्नसमन्वितम् ॥ २,२१.५ ॥ मोहिन्यै प्रददौ राजा कामबाणप्रपीडितः । संविभज्य पिता वित्तं धर्माङ्गदसमाहृतम् ॥ २,२१.६ ॥ पुरोहितमुवाचेदं काले चाहूय भूपतिः । सर्वासां मत्सुतो ब्रह्मन्पाणीन्गृह्णातु धर्मतः ॥ २,२१.७ ॥ कुमारीणां कुमारोऽयं मद्वाक्ये संस्थितः सदा । वैवाह्यलग्ने नक्षत्रे मुहूर्ते सर्वकामदे ॥ २,२१.८ ॥ वाचयित्वा द्विजान्स्वस्ति गोस्वर्णांबरतोषितान् । विवाहं कुरु पुत्रस्य मम धर्माङ्गदस्य वै ॥ २,२१.९ ॥ यः पुत्रस्य पितोद्वाहं न करोतीह मन्दधीः । सस मज्जेन्नरके घोरे ह्यप्रतिष्ठे युगायुतम् ॥ २,२१.१० ॥ तस्माच्चोद्वाहयेत्पुत्रं पिता धर्मसमन्वितः । आत्मा संस्थापितस्तेन येन संस्थापितः सुतः ॥ २,२१.११ ॥ सर्वक्रतुफलं तस्य पुत्रोद्वाहे कृते भवेत् । पुत्रस्य गुणयुक्तस्य निर्गुणस्यापि भूसुर ॥ २,२१.१२ ॥ पित्रा कारयितव्यो हि विवाहो धर्ममिच्छता । यो न दारैश्च वित्तैश्च पुत्रान्संयोजयेत्पिता ॥ २,२१.१३ ॥ न पुमान्स तु विज्ञेय इहामुत्र विगर्हितः । तस्माद्वृत्तियुताः कार्याः पुत्रा दारैः समन्विताः ॥ २,२१.१४ ॥ यथा रमन्ते ते तुष्टाः सुखं पुत्राः सुमानिताः । तच्छ्रुत्वा वचनं राज्ञो द्विजस्तस्य पुरोहितः ॥ २,२१.१५ ॥ धर्माङ्गदविवाहार्थमुद्यतो हर्षसंयुतः । स युवानिच्छमानोऽपि स्त्रीसौख्यं लज्जाया सुतः ॥ २,२१.१६ ॥ स्वीचकार पितुर्वाक्याद्दारसंग्रहणं तदा । वरुणात्मजया सार्द्धं नागकन्या मनोहराः ॥ २,२१.१७ ॥ उपयेमे महाबाहू रूपेणाप्रतिमा भुवि । उद्वाहयित्वा सर्वास्ता विधिदृष्टेन कर्मणा ॥ २,२१.१८ ॥ वसुगोरत्नदानानि विप्रेभ्यः प्रददौ मुदा । कृतदारो ववन्देऽथ पादान्मातुः पितुर्मुदा ॥ २,२१.१९ ॥ ततः संध्यावलीदेवीमाह धर्माङ्गदः सुतः । पितुर्वाक्येन मे देवि संजातो दारसंग्रहः ॥ २,२१.२० ॥ एतन्मे नास्ति मनसि यत्पित्रोद्वाहितो ह्यहम् । अव्ययं पितरं विज्ञं देवि शुश्रूषये ह्यहम् ॥ २,२१.२१ ॥ दिव्यैर्भोगैर्न मे किञ्चित्स्वर्गेणापि प्रयोजनम् । कार्या मे पितृशुश्रूषा तव चैव दिवानिशम् ॥ २,२१.२२ ॥ संध्यावल्युवाच चिरं जीव सुखं पुत्र भुङ्क्ष्व भोगान्मनोऽनुगान् । पितुः प्रसादाद्दीर्घोयुर्मनो नन्दय मे सुत ॥ २,२१.२३ ॥ त्वया सुपुत्रिणी पुत्र जाता गुणवता क्षितौ । सपत्नीनां च सर्वासां हृदये संस्थिता ह्यहम् ॥ २,२१.२४ ॥ एवमुक्त्वा परिष्वज्य मूर्द्धन्याघ्राय चासकृत् । व्यसर्जयत्ततः पुत्रं राज्यतन्त्रावलोकने ॥ २,२१.२५ ॥ विसर्जितस्तदा मात्रा मातॄरन्याः प्रणम्य च । राज्यतन्त्रं तदखिलं चक्रे पितृवचः स्थितः ॥ २,२१.२६ ॥ दुष्टनिग्रहणं चक्रे शिष्टानां परिपालनम् । अटनं सर्वदेशेषु वीक्षणं सर्वकर्मणाम् ॥ २,२१.२७ ॥ चक्रे सर्वत्र कार्याणां मासि मासि निरीक्षणम् । हस्त्यश्वपोषणं चक्रे चारचक्रेक्षणं तथा ॥ २,२१.२८ ॥ वादसंवीक्षणं चक्रे तुलामानं दिने देने । गृहे गृहे नराणां च चक्रे संरक्षणं नृपः ॥ २,२१.२९ ॥ स्तनन्धयी क्वचिद्बालः स्तनहीनो न रोदिति । श्वश्रूर्वध्वा न कुत्रापि प्ररोदित्यवमानिता ॥ २,२१.३० ॥ क्वचित्समर्थस्तनयः पितरं नहि याचते । न वर्णसंकरो राज्ये केषाञ्चिदभवत्पुनः ॥ २,२१.३१ ॥ न गूढविभवो लोको धर्मे वदति दूषणम् । न कञ्चुकविहीना तु भवेन्नारी सभर्तृका ॥ २,२१.३२ ॥ गृहान्निष्क्रमणं स्त्रीणां मास्तु राज्ये मदीयके । मा सकेशा हि विधवा मास्त्वकेशा मभर्तृका ॥ २,२१.३३ ॥ मा व्रतीह सदाक्रोशी मारण्या नगराश्रयाः । सामान्यवृत्त्यदाता मे राज्येऽवसतु निर्घृणः ॥ २,२१.३४ ॥ गोपालो नगराकाङ्क्षी निर्गुणस्तूपदेशकः । ऋत्विग्वा शास्त्रहीनश्च मा मे राज्ये वसेदिह ॥ २,२१.३५ ॥ यो हि निष्पादयेन्नीलीं नीलीरङ्गातिसेचकः । निर्वास्यौ तावुभौ पापौ यो वै मद्यं करोति च ॥ २,२१.३६ ॥ वृथा मांसं हि योऽश्नाति पृष्ठमांसप्रियो हि यः । तस्य वासो न मे राज्ये स्वकलत्रं त्यजेच्च यः ॥ २,२१.३७ ॥ विष्णुं परित्यज्य वरं सुराणां संपूजयेद्योऽन्यतमं हि देवम् । गच्छेत्सगर्भां युवतीं प्रसूतां दण्ड्यश्च वध्यश्च स चास्मदीयैः ॥ २,२१.३८ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे शिक्षानिरूपणं नामैकविंशोऽध्यायः _____________________________________________________________ वसिष्ट उवाच एवं धर्माङ्गदो राज्यं चकार वसुधातले । पितुर्ननियोगाद्राजेन्द्र पालयन् हरिवासरम् ॥ २,२२.१ ॥ न बभूव जनः कश्चिद्यो न धर्मे व्यवस्थितः । नासुखी नाप्रजः कश्चिन्न वा फुष्ठी महीपते ॥ २,२२.२ ॥ हृष्टपुष्ट जने तस्मिन् क्ष्मा चैव निधिदायिनी । घटदोग्ध्रीषु नृपते तृप्तवत्सासु धेनुषु ॥ २,२२.३ ॥ पुटके कुटके क्षौद्रं द्रोणमात्रं द्रुमे द्रुमे । प्रहृष्टायां तु मेदिन्यां सर्वधान्यसमुद्भवः ॥ २,२२.४ ॥ कृतस्य स्पर्द्धिनि युगे त्रेतान्ते द्वापरे युगे । व्यतीते जलदापाये निर्मले चांबरे गृहे ॥ २,२२.५ ॥ सुगन्धिशालिपक्वाढ्ये कुंभोद्भवविलोकिते । मध्यप्रवाहयुक्तासु निम्नगासु समन्ततः ॥ २,२२.६ ॥ तीरोत्थैः काशपुष्पैश्च शुक्लकेशैरिवाङ्गना । चन्द्रांशुधवले लोके नातितीव्रे दिवाकरे ॥ २,२२.७ ॥ तस्मिन्मनुष्यबहुलैर्जलस्नानविचित्रितैः । यत्रोत्सुकैः प्रयातैस्तु भूमिपालैः समन्ततः ॥ २,२२.८ ॥ प्रबोधसमये विष्णोराश्विनान्ते जगद्गुरोः । मोहिनी रमयामास तत्काले हृच्छयार्दिता ॥ २,२२.९ ॥ राजानं विविधैः सौख्यैः सर्वभावेन सुंदरी । वनेषु गिरिशृङ्गेषु नदीनां संगमेषु च ॥ २,२२.१० ॥ पद्मिनी कुसुमाढ्येषु सरःसु विविधेषु च । मलये मन्दरे विन्ध्ये महेन्द्रे विबुधालये ॥ २,२२.११ ॥ सह्ये प्रालेयसंज्ञे च दिगंबरगिरौ शुभे । अन्येषु चैव राजानं स्वर्गस्थानादिकेषु च ॥ २,२२.१२ ॥ रमेयायास राजेन्द्र दिव्यरूपा दिने दिने । राजापि मोहिनीं प्राप्य सर्वं कृत्यं परित्यजन् ॥ २,२२.१३ ॥ त्यक्तं न वासरं विष्णोर्जन्ममृत्युनिकृन्तनम् । व्रतं नोपेक्षते तत्तु अतिमुग्धोऽपि पार्थिवः ॥ २,२२.१४ ॥ क्रीडां त्यजति भूपालो दशम्यादिदिनत्रये । एवं प्रकीडतस्तस्य पूर्णे संवत्सरे गते ॥ २,२२.१५ ॥ काले कालविदां श्रेष्ठः संप्राप्तः कार्तिकः शुभः । निद्राछेदकरो विष्णोः स मासः पुण्यदायकः ॥ २,२२.१६ ॥ यस्मिन्कृतं हि सुकृतं वैष्णवैर्मनुजैर्नृप । अक्षयं हि भवेत्सर्वं विष्णुलोकप्रदायकम् ॥ २,२२.१७ ॥ न कार्तिकसमो मासो न कूतेन समं युगम् । न धर्मस्तु दया तुल्यो न ज्योतिश्चक्षुषा समम् ॥ २,२२.१८ ॥ न वेदेन समं शास्त्रं न तीर्थं गङ्गया समम् । न भूम्या सदृशं दानं न सुखं भार्यया समम् ॥ २,२२.१९ ॥ न कृष्या तु समं वित्तं न लाभः सुरभीसमः । न तपोऽनशनादन्यन्न दमेन समं शिवम् ॥ २,२२.२० ॥ तृप्तिर्न रसनातुल्या न समोऽन्यो द्विजेन च । न धर्मेण समं मित्रं न सत्येन समं यशः ॥ २,२२.२१ ॥ नारोग्यसममैश्वर्यं न देवः केशवात्परः । न कार्तिकसमं लोके पावनं कवयो विदुः ॥ २,२२.२२ ॥ कार्तिकः प्रवरो मासो विष्णोश्चापि प्रियः सदा । अव्रतो हि क्षिपेद्यस्तु मासं दामोदरप्रियम् ॥ २,२२.२३ ॥ तिर्यग्योनिमवाप्नोति सर्वधर्मबहिष्कृतः ॥ २,२२.२४ ॥ मान्धातोवाच संप्राप्य कार्तिके मासे राजा रुक्माङ्गदो मुने । मोहिनीं मोहसंयुक्तां कथं स बुभुजे वद ॥ २,२२.२५ ॥ विष्णुभक्तः श्रुतिपरः प्रवरः स महीक्षिताम् । तस्मिन्पुण्यतमे मासे किं चकार नृपोत्तमः ॥ २,२२.२६ ॥ वसिष्ठ उवाच संप्राप्तं कार्तिकं दृष्ट्वा प्रबोधकरणं हरेः । अतिप्रमुग्धो राजेन्द्रो मोहिनीं वाक्यमब्रवीत् ॥ २,२२.२७ ॥ रतं देवि त्वया सार्द्धं मया संवत्सरान्बहून् । तवापमानभीतेन नोक्तं किञ्चिदपि क्वचित् ॥ २,२२.२८ ॥ सांप्रतं वक्तुकामोऽहं तन्निबोध शुभानने । त्वय्यासक्तस्य मे देवि बहवः कार्तिका गताः ॥ २,२२.२९ ॥ न व्रती कार्तिके जातो मुक्त्वैकं हरिवासरम् । सोऽहं कार्तिकमिच्छामि व्रते न पर्य्युपासितुम् ॥ २,२२.३० ॥ अव्रतेन गतो येषां कार्तिको मर्त्यधर्मिणाम् । इष्टापूर्तौ वृथा तेषां धर्मो द्रुहिणसंभवे ॥ २,२२.३१ ॥ मांसाशिनोऽपि भूपाला अत्यर्थं मृगयारताः । ते भांसं कार्तिके त्यक्त्वा गता विष्ण्वालयं शुभे ॥ २,२२.३२ ॥ प्रवृत्तानां हि भक्ष्याणां कार्तिके नियमे कृते । अवश्यं विष्णुरूपत्वं प्राप्यते साधकेन हि ॥ २,२२.३३ ॥ तिष्ठन्तु बहुवित्तानि दानानि वरवर्णिनि । हृदयायासकर्तॄणि दीपदानाद्दिवं व्रजेत् ॥ २,२२.३४ ॥ तस्याप्यभावात्सुभगे परदीपप्रबोधनम् । कर्तव्यं भक्तिभावेन सर्वदानाधिकं च तत् ॥ २,२२.३५ ॥ एकतः सर्वदानानि दीपदानं हि चैकतः । कार्तिकेन समं प्रोक्तं दीपदानात्प्रबोधनम् ॥ २,२२.३६ ॥ कर्तव्यं भक्तिभावेन सर्वदानाधिकं स्मृतम् । कार्तिकीं च तिथिं कृत्वा विष्णोर्नाभिसरोरुहे ॥ २,२२.३७ ॥ आजन्मकृतपापात्तु मुच्यते नात्रसंशयः । व्रतोपवासनियमैः कार्तिको यस्य गच्छति ॥ २,२२.३८ ॥ देवो वैमानिको भूत्वा स याति परमां गतिम् । तस्मान्मोहिनि मोहं त्वं परित्यज्य ममोपरि ॥ २,२२.३९ ॥ आज्ञां विधेहि तत्कालं करिष्ये कार्त्तिकव्रतम् । तव वक्षोजपूजाया विरतो नीरजेक्षमे ॥ २,२२.४० ॥ अहं व्रतधरश्चैव भविष्ये हरिपूजने । मोहिन्युवाच विस्तरेण समाख्याहि माहात्म्यं कार्तिकस्य च ॥ २,२२.४१ ॥ सर्वपुण्याकरः प्रोक्तो मासोऽयं राजसत्तमा । विशेषात्कुत्र कथितस्तदादिश महामते ॥ २,२२.४२ ॥ श्रुत्वा कार्त्तिकमाहात्म्यं करिष्येऽहं यथेप्सितम् ॥ २,२२.४३ ॥ रुक्माङ्गद उवाच माहात्म्यमभिधास्यामि मासस्यास्य वरानने । येन भक्तिर्भवित्री ते प्रकर्तुं हरिपूजनम् ॥ २,२२.४४ ॥ कार्त्तिके कृच्छ्रसेवी यः प्राजापत्यचरोऽपि वा । एकान्तरोपवासी वा त्रिरात्रोपोषितोऽपि वा ॥ २,२२.४५ ॥ यद्वा दशाहं पक्षं वा मासं वा वरवर्णिनि । क्षपयित्वा नरो याति स विष्णोः परमं पदम् ॥ २,२२.४६ ॥ एकभक्तेन नक्तेन तथैवायाचितेन च । अस्मिन्नरैर्धरा चैव प्राप्यते द्वीपमालिनी ॥ २,२२.४७ ॥ विशेषात्पुष्करे तीर्थे द्वारावत्यां च शौकरे । मासोऽयं भक्तिदः प्रोक्तो व्रतदानार्चनादिभिः ॥ २,२२.४८ ॥ तस्निन्हरि दिनं पुण्यं तथा वै भीष्मपञ्चकम् । प्रबोधिनीं नरः कृत्वा जागरेण समन्विताम् ॥ २,२२.४९ ॥ न मातुर्जठरे तिष्ठेदपि पापान्वितो नरः । तस्मिन्दिने वरारोहे मण्डलं यस्तु पश्यति ॥ २,२२.५० ॥ विना सांख्येन योगेन स याति परमं पदम् । कार्तिके मण्डलं दृष्ट्वा शौकरेः सूकरं शुभे ॥ २,२२.५१ ॥ दृष्ट्वा कोकवराहं वा न भूयस्तनयो भवेत् । त्रिविधस्यापि पापस्य दृष्ट्वा मुक्तिर्भवेन्नृणाम् ॥ २,२२.५२ ॥ मण्डलं चपलापाङ्गि श्रीधरं कुब्जके तथा । कार्तिके वर्जयेत्तैलं कार्त्तिके वर्जयेन्मधु ॥ २,२२.५३ ॥ कार्तिके वर्जयेन्मांसं कार्तिके वर्जयेत्स्त्रियः । निष्पावान्कार्तिके देवि त्यञ्जेद्विष्णुतत्परः ॥ २,२२.५४ ॥ संवत्सरकृतात्पापाद्ब्रहिर्भवति तत्क्षणात् । प्राप्नोति राजकीं योनिं सकृद्भक्षणसंभवात् ॥ २,२२.५५ ॥ कार्तिके शौकरमांसं यस्तु भुञ्जीत दुर्मतिः । षष्टिवर्षसहस्राणि रौरवे परिपच्यते ॥ २,२२.५६ ॥ तन्मुक्तो जायते पापी विष्ठाशी ग्राम्यसूकरः । मात्स्यं मांसं न भुञ्जीत न कौर्मं नापि हारिणम् ॥ २,२२.५७ ॥ चाण्डालो जायते देवि कार्तिके मांसभक्षणात् । कार्तिकः सर्वपापघ्नः किञ्चिद्व्रतधरस्य हि ॥ २,२२.५८ ॥ कार्तिके तु कृतादीक्षा नृणां जन्मनिकृन्तनी । तस्मात्सर्वप्रयत्नेन दीक्षां कुर्वीत कार्तिके ॥ २,२२.५९ ॥ अदीक्षितस्य वामोरु कृतं सर्वं निरर्थकम् । पशुयोनिमवाप्नोति दीक्षया रहितो नरः ॥ २,२२.६० ॥ न गृहे कार्तिकं कुर्याद्विशेषेण तु कार्तिकीम् । तीर्थे हि कार्तिकीं कुर्वन्नरो याति हरेः पदम् ॥ २,२२.६१ ॥ कार्तिके शुक्लपक्षस्य कगृत्वा ह्येकादशीं नरः । प्रातर्दत्वा शुभान्कुंभान्प्रयाति हरिमन्दिरम् ॥ २,२२.६२ ॥ संवत्सरव्रतानां हि समाप्तिः कार्तिकं स्मृता । विवाहा यत्र दृश्यन्ते विष्णोर्नाभिसरोरुहे ॥ २,२२.६३ ॥ दिनानि तत्र चत्वारि यथैकं वरावर्णिनि । विनोत्तरायणे कालं लग्नशुद्धिं विनापि च ॥ २,२२.६४ ॥ दृश्यन्ते यत्र सम्बन्धाः पुत्रपौत्रविवर्द्धनाः । तस्मान्मोहिनि कर्तास्मि कार्तिके व्रतसेवनम् ॥ २,२२.६५ ॥ अशेषपापनाशाय तव प्रीतिविवृद्धये । मोहिन्युवाच अहो माहात्म्यमतुलं कार्तिकस्य त्वयोरितम् ॥ २,२२.६६ ॥ चातुर्मास्यव्रतानां हि विधिमुद्यापनं वद । पूर्णता येन भवतगि व्रतानां पृथिवीपते ॥ २,२२.६७ ॥ अवैकल्यं भवेच्चैव व्रतं पुण्यफलस्य तु । राजोवाच नक्तव्रती षड्रसेन ब्राह्मणं भोजयेत्प्रिये ॥ २,२२.६८ ॥ अयाचिते त्वनङ्काहं सहिरण्यं प्रदापयेत् । अमांसाशीभवेद्यस्त्तु गां प्रदद्यात्सदक्षिणाम् ॥ २,२२.६९ ॥ धात्रीस्नाने नरो दद्याद्दधिपायसमेव च । फलानां नियमे सुभ्रु फलदानं समाचरेत् ॥ २,२२.७० ॥ तैलत्यागे घृतं दद्या द्धृतत्यागे पयस्तथा । धान्यानां नियमे शालींस्तत्तद्धान्यमथापि वा ॥ २,२२.७१ ॥ दद्याद्भूशयने शय्यां तूलिकागण्डकान्विताम् । पत्रभोजी नरोदद्याद्भाजनं घृतसंयुतम् ॥ २,२२.७२ ॥ मौने घण्टां तिलान्वापि सहिरण्यान्प्रदापयेत् । दंपत्योर्भोजनं कार्यमुभयोः शयनान्वितम् ॥ २,२२.७३ ॥ संभोगं दक्षिणोपेतं व्रतस्य परिपूर्तये । प्रातः स्नाने हयं दद्यान्निःस्नेहे घृतसक्तुकान् ॥ २,२२.७४ ॥ नखराणां च केशानां धारणे दर्पणं ददेत् । उपानहौ प्रदद्यात्तु पादत्राणविवर्जने ॥ २,२२.७५ ॥ लवणस्य तु संत्यागे दातव्या सुरभिस्तथा । आमिषस्य परित्यागे सवत्सां कपिलां ददेत् ॥ २,२२.७६ ॥ नित्यं दीपप्रदो यस्तु व्रतेऽभीष्टे सुरालये । स काञ्चनं तथा ताम्रं सघृतं दीपकं प्रिये ॥ २,२२.७७ ॥ प्रदद्याद्वाससा छत्रं वैष्णवे व्रतपूर्तये । एकान्तरोपवासी तु क्षौमवस्त्रं प्रदापयेत् ॥ २,२२.७८ ॥ त्रिरात्रे काञ्चनोपेतां दद्याच्छय्यां स्वलङ्कृताम् । षड्ररात्राद्युपवासेषु शिबिकां छत्रसंयुताम् ॥ २,२२.७९ ॥ सवाहपुरुषं पीनमनङ्वाहमथार्पयेत् । अजाविकं त्वेकभक्ते फलाहारे सुवर्णकम् ॥ २,२२.८० ॥ शाकाहारे फलं दद्यात्सौवर्णं घृतसंयुतम् । रसानां चैव सर्वेषां त्यागेऽनुक्तस्य वापि च ॥ २,२२.८१ ॥ दातव्यं राजतं पात्रं सौवर्ण वापि शक्तितः । यथोक्तस्याप्रदाने तु यथोक्ताकरणेऽपि वा ॥ २,२२.८२ ॥ विप्रवाक्यं चरेत्सुभ्रु विष्णुस्मरणपूर्वकम् । वृथा विप्रवचो यस्तु मन्यते मनुजः शुभे ॥ २,२२.८३ ॥ दक्षिणां नैव दद्याद्वा स याति नरकेध्रुवम् । व्रतवैकल्यमासाद्य कुष्ठी चान्धः प्रजायते ॥ २,२२.८४ ॥ धरामराणां वचने व्यवस्थिता दिवौकसस्तीर्थगणा मखाश्च । को लङ्घयेत्सुभ्रु वचो हि तेषां श्रेयोभिकामो मनुजस्तु विद्वान् ॥ २,२२.८५ ॥ इदं मया धर्मरहस्ययुक्तं विरञ्चये श्रीपतिना यथोक्तम् । प्रकाशितं तुभ्यमनन्यवाच्यं फलप्रदं माधवतुष्टिहेतुम् ॥ २,२२.८६ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे कार्तिकमाहात्म्यं नाम द्वाविंशोऽध्यायः _____________________________________________________________ मोहिन्युवाच वाक्यमुक्तं त्वया साधु कार्तिके यदुपोषणम् । व्रतादिकरणं राज्ञां नोक्तं क्वापि निदर्शने ॥ २,२३.१ ॥ मुक्त्वैकं ब्राह्मणं लोके नोक्तं शूद्रविशोरपि । दानं हि पालनं युद्धं तृतीयं भूभुजां स्मृतम् ॥ २,२३.२ ॥ न व्रतं हि त्वया कार्यं यदि मामिच्छसि प्रियाम् । मुहूर्तमपि राजेन्द्र न शक्नोमि त्वया विना ॥ २,२३.३ ॥ स्थातुं कमलगर्भाभ किं पुनर्माससंख्यया । यत्रोपवासकरणं मन्यसे वसाधाधिप ॥ २,२३.४ ॥ तत्र वै भोजनं देयं विप्राणां च महात्मनाम् । अथवा ज्येष्ठपत्नी या सा करोतु व्रतादिकम् । एवमुक्ते तु वचने मोहिन्या रुक्मभूषणः ॥ २,२३.५ ॥ आजुहाव प्रियां भार्यां नाम्ना संध्यावलिंशुभाम् । आहूता तत्क्षणात्प्राप्ता राजानं भूरिदक्षिणम् ॥ २,२३.६ ॥ आशीनं शयने दिव्ये मोहिनीबाहुसंवृतम् । संघृष्टं हि कुचाग्रेण स्वर्णकुंभनिभेन हि ॥ २,२३.७ ॥ शयने वामनेत्रायाः सकामाया महीपते । कृतां जलिपुटा भूत्वा भर्तुर्नमितकन्धरा ॥ २,२३.८ ॥ संध्यावली प्राह नृपं किमाहूता करोम्यहम् । तव वाक्ये स्थिता कान्त दुःसापत्न्यविवर्जिता ॥ २,२३.९ ॥ यथा यथा हि रमसे मोहिन्या सहह भूपते । तथा तथा मम प्रीतिर्वर्द्धते नात्र संशयः ॥ २,२३.१० ॥ भर्तुः सौख्येन या नारी दुःखयुक्ता प्रजायते । सा तु श्येनी भवेद्राजंस्त्रीणि वर्षाणि पञ्च च ॥ २,२३.११ ॥ आज्ञां मे देहि राजेन्द्र मा व्रीहां कामिकां कुरु ॥ २,२३.१२ ॥ रुक्माङ्गद उवाच जानामि तव शीलं तु कुलं जानामि भामिनि । तव वाक्येन हि चिरं मोहिनी रमिता मया ॥ २,२३.१३ ॥ रममाणस्य सुचिरं बहवः कार्तिका गताः । प्रिया सौख्येन मुग्धस्य न गतो हरिवासरः ॥ २,२३.१४ ॥ सोऽहं तृप्तिमनुप्राप्तः कामभोगात्पुनः पुनः । ज्ञातोऽयं कार्तिको मासः सर्वपापक्षयङ्करः ॥ २,२३.१५ ॥ कर्तुकामो व्रतं देवि कार्तिकाख्यं सुपुण्यदम् । इयं वारयते मां च व्रताद्ब्रह्मसुता शुभे ॥ २,२३.१६ ॥ अस्या न विप्रियं कार्यं सर्वथा वरवर्णिनि । मामकं व्रतमाधत्स्व कृच्छ्राख्यं कायशोषकम् ॥ २,२३.१७ ॥ सा चैवमुक्ता नवहेमवर्णा भर्त्रा तदा पीनपयोधरङ्गी । उवाच वाक्यं द्विजराजकक्त्राव्रतं चरिष्ये तव तुष्टिहेतोः ॥ २,२३.१८ ॥ येनैव कीर्तिस्तु यशो भवेच्च तथैव सौख्यं तव कीर्तियुक्तम् । करोमि सौम्यं नरदेवनाथ क्षिपामि देहं ज्वलनेत्वदर्थम् ॥ २,२३.१९ ॥ अकार्यमेतन्नहि भूमिपाल वाक्येन ते हन्मि सुतं स्वकीयम् । किन्त्वेवमेतद्व्रतकर्म भूयः करोमि सौम्यं नरदेवनाथ ॥ २,२३.२० ॥ इत्येवमुक्त्वा रविपुत्रशत्रुं प्रणम्य तं चारुविशालनेत्रा । व्रतं चकाराथ तदा हि देवी ह्यशेषपापौघविनाशनाय ॥ २,२३.२१ ॥ व्रते प्रवृत्ते वरकृच्छ्रसंज्ञे प्रियाकृते हर्षमवाप राजा । उवाच वाक्यं कुशकेतुपुत्रीं कृतं वचः सुभ्रु समीहितं ते ॥ २,२३.२२ ॥ रमस्व कामं मय सन्निविष्टसंपूर्णवाञ्छा करभोरु हृष्टा । विमुक्तकार्यस्तव सुभ्रु हेतोर्नान्यास्ति नारी मम सौख्यहेतुः ॥ २,२३.२३ ॥ सा त्वेवमुक्ता निजनायकेन प्रहर्षमभ्येत्य जगाद भूपम् । ज्ञात्वा भवन्तं बहुकामयुक्तं त्रिविष्टपान्नाथ समागताहम् ॥ २,२३.२४ ॥ त्यक्त्वामरान्दैत्यगणांश्च सर्वान्गन्धर्वयक्षोरगराक्षसांश्च । संदृश्यमानान्मम नाथ हेतोः स्नेहान्विताहं तव मन्दराद्रौ ॥ २,२३.२५ ॥ एतत्कामफलं लोके यद्द्वयोरेकचित्तता । अन्यचेतः कृतः कामः शवयोरिव संगमः ॥ २,२३.२६ ॥ सफलं हि वपुर्मेऽद्य सफलं रूपमेव हि । त्वया कामवता कान्त दुर्ल्लभं यज्जगत्त्रये ॥ २,२३.२७ ॥ प्रोन्नताभ्यां कुचाभ्यां हि कामिनो हृदयं यदि । संश्लिष्टं नहि शीर्येत मन्ये वज्रसमं दृढम् । तदेव चामृतं लोके यत्पुरन्ध्र्यधरासवम् ॥ २,२३.२८ ॥ कुचाभ्यां हृदि लीनाभ्यां मुखेन परिपीयते । एवमुक्त्वा परिष्वज्य राजानं रहसि स्थितम् ॥ २,२३.२९ ॥ रमयामास तन्वङ्गी वात्स्यायनविधानतः । तस्यैवं रममाणस्य मोहिन्या सहितस्य हि ॥ २,२३.३० ॥ रुक्माङ्गदस्य कर्णाभ्यां पटहध्वनिरागतः । मत्तेभकुंभसंस्थस्तु धर्माङ्गदनिदेशतः ॥ २,२३.३१ ॥ प्रातर्हरिदिनं लोकास्तिष्ठध्वं त्वेकभोजनाः । अक्षारलवणाः सर्वे हविष्यान्ननिषेविणः ॥ २,२३.३२ ॥ अवनीतल्पशयनाः प्रियासंगविवर्जिताः । स्मरध्वं देवदेवेशं पुराणं पुरुषोत्तमम् ॥ २,२३.३३ ॥ सकृद्भोजनसंयुक्ता उपवासं करिष्यथ । अकृतश्राद्धनिचया अप्राप्ताः पिण्डमेव च ॥ २,२३.३४ ॥ गयामगतपुत्राश्च गच्छध्वं श्रीहरेः पदम् । एषा कार्तिकशुक्ला वै हरेर्निद्राव्यपोहिनी ॥ २,२३.३५ ॥ प्रातरेकादशी प्राप्ता मा कृथा भोजनं क्वचित् । ब्रह्महत्यादिपापानि कामकारकृतानि च ॥ २,२३.३६ ॥ तानि यास्यन्ति सर्वाणि उपोष्येमां प्रबोधिनीम् । प्रबोधयेद्धर्म्मपरान्न्यायाचार समन्वितान् ॥ २,२३.३७ ॥ हरेः प्रबोधमाधत्ते तेनैषा बोधिनी स्मृता । सकृच्चोपोषितां चेमां निद्राच्छेदकरीं हरेः ॥ २,२३.३८ ॥ तनयो न भवेन्मर्त्यो न गर्भे जायते पुनः । रुरुध्वं चक्रिणः पूजामात्मवित्तेन मानवाः ॥ २,२३.३९ ॥ वस्त्रैः पुष्पैर्धूपदीपैर्वरचन्दनकुङ्कुमैः । सुहृद्यैश्च फलैर्गन्धैर्यजध्वं श्रीहरेः पदम् ॥ २,२३.४० ॥ यो न कुर्याद्वचो मेऽद्य धर्म्यं विष्णुगतिप्रदम् । स मे दण्ड्यश्च वाध्यश्च निर्वास्यो विषयाद्ध्रुवम् ॥ २,२३.४१ ॥ एवंविधे वाद्यमाने पटहे मेघनिःस्वने । हस्ता दमुञ्च तांबूलं सकर्पूरं नृपोत्तमः ॥ २,२३.४२ ॥ मोहिनीकुचयोर्लग्नं हृदयं स विकृष्य वै । उदत्तिष्ठन्महीपालः शय्यायां रतिवर्द्धनः ॥ २,२३.४३ ॥ मोहिनीं मोहकामार्त्तां सत्वियन् श्लक्ष्णया गिरा । देवि प्रातर्हरिदिनं भविष्यत्यधनाशनम् ॥ २,२३.४४ ॥ संयतोऽहं भविष्यामि क्षम्यतां क्षम्यतामिति । तवाज्ञया मया कृच्छ्रं सन्ध्यावल्या तु कारितम् ॥ २,२३.४५ ॥ इयमेकादशी कार्या प्रबोधकरणी मया । अशेषपापबन्धस्य छेदनी गतिदायिनी ॥ २,२३.४६ ॥ त्रयाणामपि लोकानां महोत्सवविधायिनी । तस्माद्धविष्यं भोक्ष्येऽहं नियतो मत्तगामिनी ॥ २,२३.४७ ॥ मया सह विशालाक्षि त्वं चापि तमधोक्षजम् । आराधय हृषीकेशमुपवासपरायणा । येन यास्यसि निर्वाणं दाहप्रलयवर्जितम् ॥ २,२३.४८ ॥ मोहिन्युवाच साधूक्तं हि त्वया राजन्पूजनं चक्रपाणिनः । जन्ममृत्युजराछेदि करिष्येऽहं तवाज्ञया ॥ २,२३.४९ ॥ प्रतिज्ञा या त्वया पूर्वं कृता मन्दरमस्तके । करप्रदानसहिता भवता सुकृताङ्किता ॥ २,२३.५० ॥ तस्यास्तु समयः प्राप्तो दीयतां स हि मे त्वया । जन्मप्रभृति यत्पुण्यं त्वया यत्नेन संचितम् ॥ २,२३.५१ ॥ तत्सर्वं नश्यति क्षिप्रं न ददासि वरं यदि । रुक्माङ्गद उवाच एहि चार्वङ्गि कर्त्तास्मि यत्ते मनसि वर्तते ॥ २,२३.५२ ॥ नादेयं विद्यते किञ्चित्तुभ्यं मे जीवितावधि । किं पुनर्ग्रामवित्तादि धरायुक्तं च भामिनि ॥ २,२३.५३ ॥ मोहिन्युवाच नाथ कान्त विभो राजन् जीवितेश रतिप्रिय । नोपोष्यं वामरं विष्णोर्भोक्तव्या यद्यहं प्रिया ॥ २,२३.५४ ॥ न च तेऽहं प्रिया राजन् सुहूर्तमपि कामये । त्वत्संयोगं विना भूता भविष्यामि वरं विना ॥ २,२३.५५ ॥ तस्मान्मां यदि वाञ्छेथा भोक्तुं सत्यपरायण । तदा त्यजोपवासं हि भुज्यतां हरिवासरे ॥ २,२३.५६ ॥ एष एव वरो देयो यो मया प्रार्थितः पुरा । न चेद्दास्यसि राजेन्द्र भूत्वानृतवचाभवान् ॥ २,२३.५७ ॥ यास्यते नरके घोरे यावदाभूतसंप्लवम् । राजोवाच मैवं त्वं वद कल्याणि नेदं त्वय्युपपद्यते ॥ २,२३.५८ ॥ विधेश्च तनया भूत्वा धर्मविघ्नं कोरोषि किम् । जन्मप्रभृत्यहं नैव भुक्तवान्हरिवासरे ॥ २,२३.५९ ॥ स चाद्याहं कथं भोक्ता संजातपलितः शुभे । यौवनातीतमर्त्यस्य क्षीणेन्द्रियबलस्य च ॥ २,२३.६० ॥ स्वर्णदीसेवनं युक्तमथवा हरिपूजनम् । न कृतं यन्मया बाल्ये यौवने न कृतं च यत् ॥ २,२३.६१ ॥ तदहं क्षीणवीर्योऽद्य कथं कुर्यां जुगुप्सितम् । प्रसीद चपलापाङ्गि प्रसीद वरवर्णिनि ॥ २,२३.६२ ॥ मा कुरुष्व व्रते भङ्गं दाताहं राज्यसंपदाम् । अथवा नेच्छसि त्वं तत्करोम्यन्यत्सुलोचने ॥ २,२३.६३ ॥ आरोपयित्वा शिबिकां विमानप्रतिमां शुभाम् । यत्रेच्छसि नयिष्यामि पादचारी कलत्रयुक् ॥ २,२३.६४ ॥ यदि तच्चापि नेच्छेस्त्वं विमानं हि कृतं मया । तर्हि स्वर्णमयौ स्तंभौ कृत्वा विद्रुमभूषितौ ॥ २,२३.६५ ॥ मुक्ताफलमयीं दोलां करिष्ये त्वत्कृते प्रिये । तत्र त्वां दोलयिष्यामि बहून्मासानहर्निशम् ॥ २,२३.६६ ॥ व्रतभङ्गं वरारोहे मा कुरुष्व मम प्रिये । वरं श्वपचमांसं हि श्वमांसं वा वरानने ॥ २,२३.६७ ॥ आत्मनो वा नरैर्भुक्तं यैर्भुक्तं हरिवासरे । त्रैलोक्यघातिनः पापं मैथुने शशिनः क्षये ॥ २,२३.६८ ॥ नरस्य संचरेत्पापं भूतायां क्षौरकर्मणि । भोजने वासरे विष्णोस्तैले षष्ट्यां व्यवस्थिते ॥ २,२३.६९ ॥ लवणे तु तृतीयायां सप्तम्यां पिशिते शुभे । आज्येषु पौर्णमास्यां वै सुरायां रविसंक्रमे ॥ २,२३.७० ॥ गोचारस्य प्रलोपे च कूटसाक्ष्यप्रदायके । निक्षेपहारके वापि कुमारीविघ्नकारके ॥ २,२३.७१ ॥ विश्वस्तघातके चापि मृतवत्साप्रदोग्धरि । ददामीति द्विजाग्र्याय प्रतिश्रुत्य न दातरि ॥ २,२३.७२ ॥ मणिकूटे तुलाकूटे कन्यानृतगवानृते । यत्पातकं तदन्ने हि संस्थितं हरिवासरे ॥ २,२३.७३ ॥ तद्विद्वांश्चारुनयने कथं भोक्ष्यामि तापकम् । मोहिन्युवाच एकभुक्तेन नक्तेन तथैवायाचितेन च ॥ २,२३.७४ ॥ उपवासेन राजेन्द्र द्वादशीं न हि लङ्घयेत् । गुर्विणीनां गृहस्थानां क्षीणानां रोगिणां तथा ॥ २,२३.७५ ॥ शिशूनां वलिगात्राणां न युक्तं समुपोषणम् । यज्ञभोगोद्यतानां च संग्रामक्षितिसेविनाम् ॥ २,२३.७६ ॥ पतिव्रतानां राजेन्द्र न युक्तं समुपोषणम् । एतन्मे गौतमः प्राह स्थिताया मन्दराचले ॥ २,२३.७७ ॥ नाव्रतेन दिनं विष्णोर्नेयं मनुजसत्तम । ते गृहस्था द्विजा ज्ञेया येषामग्निपरिग्रहः ॥ २,२३.७८ ॥ राजानस्ते तु विज्ञेया ये प्रजापालने स्थिताः । गुर्विणी ह्यष्टममासीया शिशवश्चाष्टवत्सराः ॥ २,२३.७९ ॥ अतिलङ्घनिनः क्षीणा वलिगात्रास्तु वार्द्धकाः । ये विवाहादिमाङ्गल्यकर्मव्यग्रा महोत्सवाः ॥ २,२३.८० ॥ निवृत्ताश्च प्रवृत्तेभ्यो यज्ञानां चोद्यता हि ते । त्रिविधेन पुराणेन भर्त्तुर्या स्त्री हिते रता ॥ २,२३.८१ ॥ पतिव्रता तु सा ज्ञेया योनिसंरक्षणा तथा । किमन्यैर्बहुभिर्भूप वाक्यालापकृतैर्मया ॥ २,२३.८२ ॥ भोजने तु कृते प्रीतिरेकादश्यां त्वया मम । न प्रीतिर्यदि मे छित्वा शिरः स्वं हि प्रयच्छसि ॥ २,२३.८३ ॥ न करिष्यसि चेद्राजन् भोजनं हरिवासरे । तदा ह्यसत्यवचसो देहं न स्पर्शयामि ते ॥ २,२३.८४ ॥ वर्णानामाश्रमाणां हि सत्यं राजेन्द्र पूज्यते । विशेषाद्भूमिपालानां त्वद्विधानां महीपते ॥ २,२३.८५ ॥ सत्येन सूर्यस्तपति शशी सत्येनराजते । सत्ये स्थिता क्षितिर्भूप सत्यं धारयते जगत् ॥ २,२३.८६ ॥ सत्येन वायुर्वहति सत्येन ज्वलते शिखी । सत्या धारमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ २,२३.८७ ॥ न सत्याच्चालते सिंधुर्न विन्ध्यो वर्द्धते नृप । न गर्भं युवती धत्ते वेलातीतं कदाचन ॥ २,२३.८८ ॥ सत्ये स्थिता हि तरवः फलपुष्पप्रदर्शिनः । दिव्यादिसाधनं नॄणां सत्याधारं महीपते ॥ २,२३.८९ ॥ अश्वमेधसहस्रेभ्यः सत्यमेव विशिष्यते । मदिरापानतुल्येन कर्मणा लिप्यसेऽनृतात् ॥ २,२३.९० ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे रुक्माङ्गदसंलापो नाम त्रयोविंशोऽध्यायः _____________________________________________________________ राजोवाच यत्त्वया व्याहृतं वाक्यं ममेदं गौतमेरितम् । मन्दरे पर्वतश्रेष्ठे हरिवासरभोजनम् ॥ २,२४.१ ॥ अमतेन पुराणानां व्याहृतं यद्द्विजन्मना । क्षुद्रशास्त्रोपदेशेन लोलुपेन वरानने ॥ २,२४.२ ॥ पुराणे निर्णयो ह्येष विद्वद्भिः समुदाहृतः । न शङ्खेन पिबेत्तोयं न हन्यात्कूर्मसूकरौ ॥ २,२४.३ ॥ एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि । अगम्यागमने देवि अभक्ष्यस्य च भक्षणे ॥ २,२४.४ ॥ अकार्यकरणे जन्तोर्गोसहस्रवधः स्मृतः । जानन्नपि कथं देवि भोक्ष्येऽहं हरिवासरे ॥ २,२४.५ ॥ पुरोडाशोऽपि वामोरु संप्राप्ते हरिवासरे । अभक्ष्येण समः प्रोक्तः किं पुनश्चात्तनक्रिया ॥ २,२४.६ ॥ अनुकूलं नृणां प्रोक्तं क्षीणानां वरवर्णिनि । मूलं फलं पयस्तोयमुपभोज्यं मुनीश्वरैः ॥ २,२४.७ ॥ नत्वत्र भोजनं कैश्चिदेकादश्यां प्रदर्शितम् । ज्वरिणां लङ्घनं शस्तं धार्मिकाणामुपोषणम् ॥ २,२४.८ ॥ शुभं गतिप्रदं प्रोक्तं संप्राप्ते हरिवासरे । ज्वरमध्ये कृतं पथ्यं निधनाय प्रकल्पते ॥ २,२४.९ ॥ वैष्णवे तु दिने भुक्तं नरकायैव केवलम् । माग्रहं कुरु वामोरु व्रतभङ्गो भवेन्मम ॥ २,२४.१० ॥ यदन्यद्वोचते तुभ्यं तत्कर्तास्मि न संशयः । मोहिन्युवाच न चान्यद्रोचते राजन्विना वै भोजनं तव ॥ २,२४.११ ॥ जीवितस्यापि दानेन न मे किञ्चित्प्रयोदजनम् । न च वेदेषु दृष्टोऽयमुपवासो हरेर्दिने ॥ २,२४.१२ ॥ अग्निमन्तो न विप्रा हि मन्यन्ते समुपोषणम् । वेदबाह्य कथं धर्मं भवांश्चरितुमिच्छति ॥ २,२४.१३ ॥ वचो निशम्य मोहिन्या राजा वेदविदां वरः । उवाच मानसे क्रुद्धः प्रहसन्निव भूपते ॥ २,२४.१४ ॥ शृणु मोहिनि मद्वाक्यं वेदोऽयं बहुधा स्थितः । यज्ञकर्मक्रिया वेदः स्मृतिर्वेदो गृहाश्रमे ॥ २,२४.१५ ॥ स्मृतिर्वेदः क्रियावेदः पुराणेषु प्रतिष्ठितः । पुराणपुंरुषाज्जातं यथेदं जगदद्भुतम् ॥ २,२४.१६ ॥ तथेदं वाङ्मयं जातं पुराणेभ्यो न संशयः । वेदार्थादधिकं मन्ये पुराणार्थं वरानने ॥ २,२४.१७ ॥ वेदाः प्रतिष्ठिताः सर्वे पुराणेष्वेव सर्वदा । बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥ २,२४.१८ ॥ न वेदे ग्रहसंचारो न शुद्धिः कालबोधिनी । तिथिवृद्धिक्षयो वापि पर्वग्रहविनिर्णयः ॥ २,२४.१९ ॥ इति हासपुराणैस्तु निश्चयोऽयं कृतः पुरा । यन्न दृष्टं हि वेदेषु तत्सर्वं लक्ष्यते स्मृतौ ॥ २,२४.२० ॥ उभयोर्यन्न दृष्टं हि तत्पुराणैः प्रगीयते । प्रायश्चित्तं तु हत्यायामातुरस्यौषधं प्रिये ॥ २,२४.२१ ॥ न चापि पापशुद्धिः स्यादात्मनश्च परस्य वा । यद्वेदैर्गीयते सुभ्रु उपाङ्गैर्यत्प्रगीयते ॥ २,२४.२२ ॥ पुराणैः स्मृतिभिश्चैव वेद एव निगद्यते । रटन्तीह पुराणानि भूयो भूयो वरानने ॥ २,२४.२३ ॥ न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे । पुराणमन्यथा मत्वा तिर्यग्योनिमवाप्नुयात् ॥ २,२४.२४ ॥ संस्रातोऽपि सुदान्तोऽपि न गतिं प्राप्नुयादिति । पितरं को न वन्देत मातरं को न पूजयेत् ॥ २,२४.२५ ॥ को न गच्छेत्सरिच्छ्रेष्ठां को भुङ्क्ते हरिवासरे । को हि दूषयते वेदं ब्राह्मणं को निपातयेत् ॥ २,२४.२६ ॥ को गच्छेत्परदारान् हि को भुङ्क्ते हरिवासरे ॥ २,२४.२७ ॥ नहीदृशं पापमिहास्ति जन्तोर्विमूढचित्तस्य दिने हरेः प्रिये । यद्भोजनेनात्मनिपातकारिणा यमस्य रवातेषु चिरं सुलोचने ॥ २,२४.२८ ॥ मोहिन्युवाच शीघ्रमानय विप्रांस्त्वं घूर्णिके वेदपारगान् । येषां वाक्येन युक्तोऽयं राजा कुर्याद्धि भोजनम् ॥ २,२४.२९ ॥ सा तद्वाक्यमुपाकर्ण्य ब्राह्मणान्वेदशालिनः । गौतमादीन्समाहूय मोहिनीपार्श्वमानयत ॥ २,२४.३० ॥ तान्विप्रानागतान्दृष्ट्वा वेदवेदाङ्गपारगान् । मोहिनी सहिता राज्ञा ववन्दे कार्यतत्परा ॥ २,२४.३१ ॥ उपविष्टास्तु ते सर्वे शातकैंभमयेषु च । आसनेषु महीपाल ज्वलदग्निसमप्रभाः ॥ २,२४.३२ ॥ तेषां मध्ये वयोवृद्धो गौतमो वाक्यमब्रवीत् । वयं समागता देवि नानाशास्त्रविशारदाः ॥ २,२४.३३ ॥ सर्वसंदेहहर्तारो यदर्थं ते समाहुताः । तच्छत्वा वचनं तेषां मोहिनी ब्रह्मणः सुता ॥ २,२४.३४ ॥ सर्वासाध्यकृतं कर्तुं प्रवृत्तांस्तानुवाच ह । मोहिन्युवाच संदेहस्तु जडौ ह्येष स्वल्पो वा स्वमतिर्यथा ॥ २,२४.३५ ॥ सोऽयं वदति राजा वै नाहं भोक्ष्ये हरेर्दिने । अन्नाधारमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ २,२४.३६ ॥ मृता ह्यपि तथान्नेन प्रीयन्ते पितरो दिवि । कर्कन्धुमात्रं प्रहुतं पुरोडाशं हि देवताः ॥ २,२४.३७ ॥ कामयन्ति द्विजश्रेष्ठास्ततोऽन्नं ह्यमृतं परम् । पिपीलिकापि क्षुधिता मुखेनादाय तण्डुलम् ॥ २,२४.३८ ॥ बिलं व्रजति दुःखेन कस्यान्नं नहि रोचते । अयं खादति नान्नाद्यं संप्राप्ते हरिवासरे ॥ २,२४.३९ ॥ निजधर्मं परित्यज्य परधर्मे व्यवस्थितः । विधावानां यतीनां च युज्यते व्रतसेवनम् ॥ २,२४.४० ॥ परधर्मरतो यः स्यात्स्वधर्मविमुखो नरः । सोंऽधे तमसि मज्जेत यावदिन्द्राश्चतुर्द्दश ॥ २,२४.४१ ॥ उपवासादिकरणं भूभुजां नोदितं क्वचित् । प्रजासंरक्षणं त्यक्त्वा चतुर्वर्गफलप्रदम् ॥ २,२४.४२ ॥ नारीणां भर्तृशूश्रूषा पुत्राणां पितृसेवनम् । शूद्राणां द्विजसेवा च लोकरक्षा महीभृताम् ॥ २,२४.४३ ॥ स्वकं कर्म परित्यज्य योऽन्यत्र कुरुते श्रमम् । अज्ञानाद्वा प्रमादाच्च पतितः स न संशयः ॥ २,२४.४४ ॥ सोऽयमद्य महीपालो यतिधर्म्मे व्यवस्थितः । सुबुद्ध्याचारशीलश्च वेदोक्तं त्यजति द्विजाः ॥ २,२४.४५ ॥ स्वेच्छाचारा तु या नारी योऽविनीतः सुतो द्विजाः । एकान्तशीलो नृपतिर्भृत्यः कर्मविवर्जितः ॥ २,२४.४६ ॥ सर्वे ते नरकं यान्ति ह्यप्रतिष्ठश्च यो द्विजाः । अयं हि नियमोपेतो हरिपूजनतत्परः ॥ २,२४.४७ ॥ आक्रन्दे वर्त्तमाने तु न यद्येष प्रधावति । व्यपोह्य हरिपूजां वै ब्रह्महत्यां तु विन्दति ॥ २,२४.४८ ॥ क्षीणदेहे हरिदिने कथं संयमयिष्यति । अन्नात्प्रभवति प्राणः प्राणाद्देहविचेष्टनम् ॥ २,२४.४९ ॥ चेष्टया रिपुनाशश्च तद्धीनः परिभूयते । एवं ज्ञात्वा मया राजा बोध्यमानो न बुद्ध्यति ॥ २,२४.५० ॥ एतदेव व्रतं राज्ञो यत्प्रजापालनं चरेत् । न व्रतं किञ्चिदस्त्यन्यन्नृपस्य द्विजसत्तमाः ॥ २,२४.५१ ॥ किं देव कार्येण नराधिपस्य कृत्वा हि मन्युं विषयस्थितानाम् । तद्देवकार्यं स च यज्ञहोमो यद्रक्तपातो न भवेत्स्वराष्ट्रे ॥ २,२४.५२ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीप्रश्नो नाम चतुर्विंशोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच तद्वाक्यं ब्राह्मणाः श्रुत्वा मोहिन्या समुदीरितम् । तथ्यमित्येवमुक्त्वा तु राजानं वाक्यमब्रुवन् ॥ २,२५.१ ॥ ब्राह्मणा ऊचुः यस्त्वया नृपते पुण्यः कृतोऽयं शपथः किल । एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥ २,२५.२ ॥ न कृतः शास्त्रदृष्ट्या तु स्वबुद्ध्यैव प्रकल्पितः । साग्रीनां प्राशनं प्रोक्तमुभयोः संध्ययोः किल ॥ २,२५.३ ॥ होमोच्छिष्टप्रभोक्तारस्त्रयो वर्णाः प्रकीर्तिताः । विशेषाद्भूमिपालानां कथं युक्तमुपोषणम् ॥ २,२५.४ ॥ सर्वदोद्यतशस्त्राणां दुष्टसंयमिनां विभो । शास्त्रतोऽशास्त्रतो वापि यस्त्वया शपथः कृतः ॥ २,२५.५ ॥ परिपूर्णो भवत्यद्य वाक्येन हि द्विजन्मनाम् । व्रतभङ्गो न तेऽस्तीह भुक्ष्वं विप्रसमन्वितः ॥ २,२५.६ ॥ परितापो न ते कार्यो विप्रवाक्यं महत्तरम् । योऽन्यथा मन्यते वाक्यं विप्राणां नृपसत्तम ॥ २,२५.७ ॥ स याति राक्षसीं योनिं जन्मानि दश पञ्च च । तच्छ्रुत्वा वचनं रोद्रं राजा कोपसमन्वितः ॥ २,२५.८ ॥ उवाच स्फुरमाणौष्टस्तान्विप्रान्श्लक्ष्णया गिरा । सर्वेषामेव भूतानां भवन्तो मार्गदर्शिनः ॥ २,२५.९ ॥ यतीनां विधवानां च श्लोकोऽयं पठ्यते द्विजाः । विमार्गगामिनां चैतन्मतं न सात्वतां क्वचित् ॥ २,२५.१० ॥ यद्भवद्भिः समुद्दिष्टं राज्ञां नोपोषणं स्मृतम् । तत्र वाक्यानि शृणुत वैष्णवा चारलक्षणे ॥ २,२५.११ ॥ न शङ्खेन पिबेत्तोयं न हन्यात्कूर्मसूकरौ । एका दश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥ २,२५.१२ ॥ न पातव्यं हि मद्य तु न हन्तव्यो द्विजः क्वचित् । क्रीडेन्नाक्षैस्तु धर्मज्ञो नाश्नीयाद्धरिवासरे ॥ २,२५.१३ ॥ अभक्ष्य भक्षणं पापं परदाराभिमर्शनम् । एकादश्यां भोजनं च पतनस्यैव कारणम् ॥ २,२५.१४ ॥ अकार्यकरणं कृत्वा किं जीवेच्छरदां शतम् । को हि संचेष्टमानस्तु भुनक्ति हरिवासरे ॥ २,२५.१५ ॥ चतुष्पदेभ्योऽपि जनैर्नान्नं देयं हरेर्दिने । उत्तराशास्थितैर्विप्रैर्विष्णुधर्मपरायणैः ॥ २,२५.१६ ॥ सोऽहं कथं करोम्यद्य अभक्ष्यस्य तु भक्षणम् । नोपक्षीणशरीरोऽहं नामयावी द्विजोत्तमाः ॥ २,२५.१७ ॥ स कथं हि व्रतं त्यक्षे विमार्गस्थद्विजोक्तितः । धर्मभूषणसंज्ञेन रक्ष्यमाणे धरातले ॥ २,२५.१८ ॥ न च रक्षाविहीनोऽहं शत्रुः कोऽपिन मेऽस्ति च । एवं ज्ञात्वा द्विजश्रेष्ठा वैष्णवव्रतशालिनः ॥ २,२५.१९ ॥ भवद्भिर्नोचितं वक्तुं प्रतिकूलं व्रतापहम् । असंपरीक्ष्य ये दद्युः प्रायश्चित्तं द्विजातयः ॥ २,२५.२० ॥ तेषामेव हि तत्पापं स्मृतिवैकल्यसम्भवम् । देवो वा दानवो वापि गन्धर्वो राक्षसोऽपि वा ॥ २,२५.२१ ॥ सिद्धो वा ब्राह्मणो वापि पितास्माकं स्वयं वदेत् । हरिर्वापि हरो वापि मोहिनीजनकोऽपि वा ॥ २,२५.२२ ॥ दिनकृल्लोकपालो वा नो भोक्ष्ये हरिवासरे । यो हि रुक्माङ्गदो राजा विख्यातो भूतले द्विजाः ॥ २,२५.२३ ॥ सत्यप्रतिज्ञां विफलां न कदाचित्करोति हि । द्युपतेः क्षीयते तेजो हिमवान्परिवर्त्तते ॥ २,२५.२४ ॥ जलधिः शोषमायाति पावकश्चोष्णतां त्यजेत् । तथापि न त्यजे विप्रा व्रतमेकादशीदिने ॥ २,२५.२५ ॥ प्रसिद्धिरेषा भुवनत्रयेऽपि आरट्यते मे पटहेन विप्राः । ग्रामेषु देशेषु परेषु वापि ये भुञ्जते रुक्मविभूषणस्य ॥ २,२५.२६ ॥ दण्ड्याश्च वध्याश्च सपुत्रकास्ते न चापि वासो विषये हि तेषाम् । हरेर्दिने सर्वमखप्रधाने पापापहे धर्मविवर्द्धने च ॥ २,२५.२७ ॥ मोक्षप्रदे जन्मनिकृन्तनाख्ये तेजो निधौ सर्वजनप्ररूढे । एंवविधे प्रोद्गत एव शब्दे यद्यस्मि भोक्ता वृजिनस्य कर्त्ता ॥ २,२५.२८ ॥ अमेध्यलिप्तः पटहो भवेत्तदा संछादितो नीलमयेन वाससा । उत्पाद्य कीर्तिं स्वयमेव जतुर्निकृन्तति प्राणभयाच्च पापात् ॥ २,२५.२९ ॥ यस्तस्य वासो निरये युगानां षष्टिर्भवेद्वा क्रिमिदंशसंज्ञे । वृथा हि सूता मम सा जनित्री भवेन्निराशा द्विजपितृदेवाः ॥ २,२५.३० ॥ वैवस्वतो हर्षमुपाश्रयेच्च सलेखको मे व्रतभङ्ग एव । किं तेन जातेन दुरात्मना हि ददाति हर्षं रिपुसुंदरीणाम् ॥ २,२५.३१ ॥ कुकर्मणा पापरतिः कुजातिः सर्वस्य नाशी त्वशुचिस्स मूढः । न मन्यते वेदपुराणशास्त्रानन्ते पुरीं याति दिनेशसूनोः ॥ २,२५.३२ ॥ कृत्वैव वान्तिं पुनरत्ति तां यस्तद्वत्प्रतिज्ञाव्रतभङ्गकारी । वेदा न शास्त्रं न च तत्पुराणं न चापि सन्तः स्मृतयो न च स्युः ॥ २,२५.३३ ॥ ये माधवस्य प्रियकृत्ययोग्ये वदन्ति शुद्धेऽह्नि भुजिक्रियां तु । श्राद्धेन तेनापि न चास्ति तृप्तिः पितुश्च चीर्णेन हरेर्दिने तु ॥ २,२५.३४ ॥ व्रतेन यद्विष्णुपदप्रदेन साकं क्षयाहेन वदन्तु मूढाः ॥ २,२५.३५ ॥ एतच्छ्रुत्वा तु तद्वाक्यं मोहिनी ज्वलितान्तरा । कोपसंरक्तनयना भर्तारं पर्यभाषत् ॥ २,२५.३६ ॥ करोषि चेन्न मे वाक्यं धर्मबाह्यो भविष्यसि । धर्मबाह्यो हि पुरुषः पांशुना तुल्यतां व्रजेत् ॥ २,२५.३७ ॥ पांशुना पूर्यते गर्तः स गर्तखनको भवेत् । त्वया ममार्पितः पाणिर्वराय पृथिवीपते ॥ २,२५.३८ ॥ तामुल्लङ्घ्य प्रतिज्ञां स्वां पालयिष्यासि नो यदि । कृतकृत्या तदा यास्ये प्राप्तो धर्मो मया तव ॥ २,२५.३९ ॥ न चाहं ते प्रिया भार्या न च त्वं मे पतिर्नृप । उपधानं करिष्यामि स्वकं बाहुं न ते युधि ॥ २,२५.४० ॥ धिक्त्वां धर्मक्षयकरं स्ववचोलोपकारकम् । म्लेच्छेष्वपि न दृश्येत त्वादृशो धर्मलोपकः ॥ २,२५.४१ ॥ सत्याच्चलितमद्यत्वां परित्यक्ष्ये सुपापिनम् । एवमुक्त्वा वरारोहा ह्युदतिष्ठत्त्वरान्विता ॥ २,२५.४२ ॥ यथा सती हरं त्यक्त्वा दिव्याभरणभूषिता । प्रस्थिता सा तदा तन्वी भूसुरैश्च समन्विता ॥ २,२५.४३ ॥ वरं मद्यस्य संस्पर्शो नास्य संगो नृपस्य वै । वरं नीलांबरस्पर्शो नास्य धर्मच्युतस्य हि ॥ २,२५.४४ ॥ एवं हि मोहिनी रुष्टा प्रलपन्ती तदा भृशम् । गौतमादिसमायुक्ता निर्जगाम गृहाद्ब्रहिः ॥ २,२५.४५ ॥ हा तात हा जगन्नाथ सृष्टिस्थित्त्यन्तकारक । इत्येव शब्दं क्रोशन्ती ब्रह्मणोमानसोद्भवा ॥ २,२५.४६ ॥ एतस्मिन्नेव काले तु वाजिराजं समास्थितः । अटित्वा सकलामुर्वीं संप्राप्तो धर्मभूषणः ॥ २,२५.४७ ॥ संमुखोऽभूज्जनन्यास्तु त्वरायुक्तो विमत्सरः । कर्णाभ्यां तस्य शब्दोऽसौ विश्रुतः पितृवत्सलः ॥ २,२५.४८ ॥ मोहिनीवक्त्रसंभूतो विप्रवाक्योपबृंहितः । धर्माङ्गदो धर्ममूर्तिः रुक्मागदसुतस्तदा ॥ २,२५.४९ ॥ अवरुह्य हयात्तूर्णं ययौ तातपदान्तिके । पुनरुत्थाय विप्रेन्द्रान्ननाम विहिताञ्जलिः ॥ २,२५.५० ॥ ततः शीघ्रगतिं दृष्ट्वा मोहिनीं रुष्टमानसाम् । आलक्ष्य तरसा मातः प्राह राजन् कृताञ्जलिः ॥ २,२५.५१ ॥ केनावमानिता देवि कथं रुष्टा पितुः प्रिये । एतैर्द्विजेन्द्रैः सहिता क्व त्वं संप्रस्थिताधुना ॥ २,२५.५२ ॥ धर्माङ्गदवचः श्रुत्वा मोहिनी वाक्यमब्रवीत् । पिता तवानृती पुत्र करो येन वृथा कृतः ॥ २,२५.५३ ॥ यः कर्त्ता सुकृतं भूरि रक्ताशोकाकृतिः स्थितः । ध्वजाङ्कुशाङ्कितः श्रीमान्दक्षिणः कनकाङ्गदः ॥ २,२५.५४ ॥ रुक्माङ्गदेन ते पित्रा न चाहं वस्तुमुत्सहे ॥ २,२५.५५ ॥ धर्माङ्गद उवाच यद्ववीषि वचो देवि तत्कर्त्ताहं न संशयः । मा कोपं कुरु मातस्त्वं निवर्त्ततस्व पितुः प्रिये ॥ २,२५.५६ ॥ मोहिन्युवाच अनेन समयेनाहं त्वत्पित्रा मन्दराचले । कृता भार्या शिवः साक्ष्ये स्थितो यत्र सुराधिपः ॥ २,२५.५७ ॥ समयात्स च्युतः सम्यक्पिता ते रुक्मभूपणः । न प्रयच्छति मे देयं तस्य वृद्धिं विचिन्तये ॥ २,२५.५८ ॥ न याचे काञ्चनं धान्यं हस्त्यश्वं ग्रामवाससी । येन तस्य भवेद्धानिर्न याचे तन्नृपात्मज ॥ २,२५.५९ ॥ येनासौ प्रीणयेद्देहं स्वकीयं देहिनां वर । तन्मया प्रार्थितं पुत्र स मोहान्न प्रयच्छति ॥ २,२५.६० ॥ तस्यैव चोपकाराय शरीरस्य नृपात्मज । याचितः सुखहेतोस्तु मया नृपतिसत्तमः ॥ २,२५.६१ ॥ स्थितः सोऽद्यानृते घोरे सुरापानसमे विभुः ॥ २,२५.६२ ॥ सत्यच्युतं निष्ठुरवाक्यभाषिणं विमुक्तधर्मं त्वनृतं शठं च । परित्यजेयं जनकं तवाधमं नैव स्थितिर्मे भविता हि तेन ॥ २,२५.६३ ॥ तच्छ्रुत्वा मोहिनीवाक्यं पुत्रो धर्माङ्गदोऽब्रवीत् । मयि जीवति तातो मे न भवेदनृती क्वचित् ॥ २,२५.६४ ॥ निवर्तस्व वरारोहे करिष्येऽहं तवेप्सितम् । पित्रा मे नानृतं देवि पूर्वमुक्तं कदाचन ॥ २,२५.६५ ॥ स कथं मयि जाते तु वदिष्यति महीपतिः । यस्य सत्ये स्थिता लोकाः सदेवासुरमानुषाः ॥ २,२५.६६ ॥ वैवस्वतगृहं येन कृतं शून्यं हि पापिभिः । विजृंभते यस्य कीर्तिर्व्याप्तं ब्रह्माण्डमण्डलम् ॥ २,२५.६७ ॥ स कथं जायते भूपो मिथ्यावचनसंस्थितः । अश्रुतं भूपतेर्वाक्यं परोक्षे श्रद्दधे कथम् ॥ २,२५.६८ ॥ ममोपरि दयां कृत्वा निवर्तस्व शुभानने । एतद्धर्माङ्गदेनोक्तं वाक्यमाकर्ण्य मोहिनी ॥ २,२५.६९ ॥ न्यवर्तत महीपालपुत्रस्कन्धावलंबिनी । यत्र रुक्माङ्गदः शेते मृतकल्पो रविप्रभः ॥ २,२५.७० ॥ तस्मिन्निवेशयामास शयने काञ्चनान्विते । दीपरत्नैः सुप्रकाशे विद्रुमैश्चित्रिते वरे ॥ २,२५.७१ ॥ आखण्डलास्त्रमणिभिः कृतपादे सुकोमले । दीर्घविस्तारसंयुक्ते ह्यनौपम्ये मनोहरे ॥ २,२५.७२ ॥ ततः कृताञ्जलिः प्राहपितरं श्लक्ष्णया गिरा । तातैषा जननी मेऽद्य त्वां वदत्यनृती त्विति ॥ २,२५.७३ ॥ कस्मात्त्वमनृती भूप भविष्यसि महीतले । सकोषरत्ननिचये गजाश्वरथसंयुते ॥ २,२५.७४ ॥ राज्ये प्रशास्यमाने तु सप्तोदधिसमन्विते । प्रदेहि सकलं ह्यस्यै यत्त्या श्रावितं विभो ॥ २,२५.७५ ॥ मयि चापधरे तात को व्यलीकं चरेत्तव । देहि शक्रपदं देव्यै जितं विद्धि पुरन्दरम् ॥ २,२५.७६ ॥ वैरिञ्च्यं दुर्ल्लभं यच्च योगिगम्यं निरञ्जनम् । तच्चाप्यहं प्रदास्यामि तपसा तोष्य पद्मजम् ॥ २,२५.७७ ॥ समीहते यज्जननी मदीया रसातले वापि धरातले वा । त्रिविष्टपे वापि परे पदे वा दास्यामि जित्वा नरदेवदानवान् ॥ २,२५.७८ ॥ अहं हि दासस्तव भूप यस्माद्विक्रीयतां मामथवा तृणाय । हस्ते हि पापस्य दिवाप्रकीर्तेर्वत्स्यामि तत्कर्मकरः सुभुक्तः ॥ २,२५.७९ ॥ यद्दुष्करं भूमिपते त्रिलोक्यां नादेयमस्तीह तदिष्टंभावात् । तच्चापि राजेन्द्र ददस्व देव्यै मज्जीवितं मज्जननीभवं वा ॥ २,२५.८० ॥ तेनैव सद्यो नृपनाथ लोके सत्कीर्तियुक्तो भव सर्वदैव । विराजयित्वा स्वगुणैर्नृपौघान्करैरिवात्मप्रभवैः खशोभैः ॥ २,२५.८१ ॥ कीर्तिप्रभङ्गे वृजिनं भविष्यति प्रजावधे यन्मनुराह सत्यम् । संमार्जयित्वा विमलं यशः स्वं कथं सुखी स्यां नृपते ततः क्षमः ॥ २,२५.८२ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते पञ्चविंशोऽध्यायः _____________________________________________________________ राजोवाच कीर्तिर्नश्यतु मे पुत्र ह्यनृती वा भवाम्यहम् । गतो वा नरकं घोरं कथं भोक्ष्ये हरेर्दिने ॥ २,२६.१ ॥ ब्रह्मणो निलयं यातु देवीयं मोहिनी सुत । भूयो भूयो वदति मां दुर्मेधाश्च सुबालिशा ॥ २,२६.२ ॥ नापरं कामये राज्यं वसुधां वसु किञ्चन । मुक्त्वैवं वासरे विष्णोर्भोजनं पापनाशने ॥ २,२६.३ ॥ यद्यहं कुत्सितां योनिं व्रजेयं क्रिमिसंज्ञिताम् । तथापि नैव कर्ताहं भोजनं हरिवासरे ॥ २,२६.४ ॥ एषा गुरुतरा भूत्वा लोकानां शिक्षयान्विता । दुन्दुभी कुर्वती नादं सा कथं वितथा भवेत् ॥ २,२६.५ ॥ अभक्ष्यभक्षणं कृत्वा अगम्यागमनं तथा । अपेयं चैव पीत्वा तु किं जीवेच्छरदः शतम् ॥ २,२६.६ ॥ असत्यं वापि कृत्वाहं त्यक्तराज्यनयः क्षितौ । धिक्कृतोऽपि जनैः सर्वैर्न भोक्ष्ये हरिवासरे ॥ २,२६.७ ॥ वियोगे चपलापाङ्ग्या यदि चेन्मरणं मम । तच्चापि वरमेवात्र न भोक्ष्ये हरिवासरे ॥ २,२६.८ ॥ कथं हर्षमहं कर्ता मार्तण्डतनयस्य वै । व्रजद्भिर्मनुजैर्मार्गे निरयस्यातिदुःखितैः ॥ २,२६.९ ॥ यास्तु शून्याः कृतास्तात मया नरकपङ्क्तयः । जनैः पूर्णा भविष्यन्ति मयि भुक्ते तु ताः सुत ॥ २,२६.१० ॥ मास्म सीमन्तिनी पुत्र कुक्षौ संधारयेत्सुतम् । समर्थो यस्तु शत्रूणां हर्षं संजनयेद्भुवि ॥ २,२६.११ ॥ भोजनं वासरे विष्णोरेतदेव हियाचते । तन्न दास्यामि मोहिन्या याचितोऽपि सुरासुरैः ॥ २,२६.१२ ॥ पिबेद्विषं विशेद्वह्निं निपतेत्पर्वताग्रतः । आकाशभासा स्वशिरश्छिन्द्यादेव वरासिना ॥ २,२६.१३ ॥ न भोक्ष्यते हरिदिने राजा रुक्माङ्गदः क्षितौ । रुक्माङ्गदेति मन्नाम प्रसिद्धं भुवनत्रये ॥ २,२६.१४ ॥ एकादश्युपवासेन तन्मया संचितं यशः । स कथं भोजनं कृत्वा नाशये स्वकृतं यशः ॥ २,२६.१५ ॥ म्रियते यदि वा गच्छति निपतति नश्येच्च खण्डशो वापि । विरमति तदपि न चेतो मामकमिति मोहिनीहेतोः ॥ २,२६.१६ ॥ परित्यजाम्येष निजं हि जीवितं लोकैः समेतः सहदारभृत्यैः । न त्वेव कुर्यां मधुसूदनस्य दिने सुपुण्येऽन्ननिषेवणं हि ॥ २,२६.१७ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते षड्वविंशोऽध्यायः _____________________________________________________________ अदस्तदा । आहूय जननीं शीघ्रं नाम्ना संध्यावलीं शुभाम् ॥ २,२७.१ ॥ सूर्यायुत समप्रख्यां तेजसा रुचिरस्तनाम् । पालयन्तीं धरां सर्वां पादविन्यासविक्रमैः ॥ २,२७.२ ॥ पुत्रस्य वचनात्प्राप्ता तत्क्षणं नृपसन्निधौ । श्राविता मोहिनी वाक्यं पितुर्वाक्यं तथैव च ॥ २,२७.३ ॥ उभयोः संविदं कृत्वा परिसांत्वय्य मोहिनीम् । भोजनाय स्थितामेनां नृपस्य हरिवासरे ॥ २,२७.४ ॥ यथा नो च्यवते सत्याद्यथा भुङ्क्ते न मे पिता । तथा विधीयतामेवं कुशलं चोभयोर्भवेत् ॥ २,२७.५ ॥ तत्पुत्रवचनं श्रुत्वा देवी संध्यावली नृप । मोहिनीं श्लक्ष्णया वाचा प्राह ब्रह्मसुता तदा ॥ २,२७.६ ॥ माग्रहं कुरु वामोरु कथञ्चिदपि भूपतिः । नास्वादयति पापान्न संप्राप्ते हरिवासरे ॥ २,२७.७ ॥ अनुवर्तय राजान गुरुरेष सनातनः । सदा भवति या नारी भर्तुर्वचनकारिणी ॥ २,२७.८ ॥ तस्याः स्युरक्षयया लोकाः सावित्र्यास्तु यथामलाः । यद्यनेन पुरा देवि तव दत्तः करो गिरौ ॥ २,२७.९ ॥ कामार्तेन विमूढेन तन्न योऽग्यं विचिन्तितम् । यद्देयं तद्ददात्येष ह्यदेयं प्रार्थयस्व मा ॥ २,२७.१० ॥ विपत्तिरपि भद्रैव सन्मार्गे संस्थितस्य तु । न भुक्तं येन सुभगे शैशवेऽपि हरेर्दिने ॥ २,२७.११ ॥ स कथं भोक्ष्यते पुण्ये माधवस्य दिनेऽधुना । कामं वरय वामोरुवरमन्यं सुदुर्लभम् ॥ २,२७.१२ ॥ तं ददात्येव भूपालो निवृत्ता भव भोजने । मन्यसे यदि मां देवि धर्माङ्गदविरोहिणीम् ॥ २,२७.१३ ॥ अस्मज्जीवितसंयुक्तं राज्यं वरय सुव्रते । सप्तद्वीपसमेतं हि ससरिद्वनपर्वतम् ॥ २,२७.१४ ॥ कनिष्ठाया वरिष्ठाहं करिष्ये पादवन्दनम् । भर्तुरर्थे विशालाक्षि प्रसीद तनुमध्यमे ॥ २,२७.१५ ॥ वाचा शपथदोषैस्तु संनिरुध्य पतिं हि या । अकार्यं कारयेत्पापा सा नारी निरये वसेत् ॥ २,२७.१६ ॥ सा च्युता नरकाद्धोरात्सप्तजन्मानि पञ्च च । सूकरीं योनिमाप्नोति चाण्डालीं च ततः परम् ॥ २,२७.१७ ॥ एवं ज्ञात्वा मया देवि विक्रियां पापसंभवाम् । निवारितासि वामोरु सखीभावेन सुंदरि ॥ २,२७.१८ ॥ विपक्षस्यापि सद्बुद्धिर्दातव्या धर्ममिच्छता । किं पुनः सखिसंस्थायास्तव पद्मनिभानने ॥ २,२७.१९ ॥ संध्या वलीवचः श्रुत्वा मोहिनी मोहकारिणी । उवाच कनकाभां तां भर्तुर्ज्येष्ठां प्रियां तदा ॥ २,२७.२० ॥ माननीयासि मे सुभ्रु करोमि वचनं तव । विद्वद्भिर्मुनिभिर्य्यत्तु गीयते नारदादिभिः ॥ २,२७.२१ ॥ यदि तन्नाचरेद्राजा भोजनं हरिवासरे । क्रियतामपरं देवि मरणादधिकं तव ॥ २,२७.२२ ॥ ममापि दुःखदंह्येतद्दैवाज्जल्पाम्यहं शुभे । कस्येष्टमात्महननं कस्येष्टं विषभक्षणम् ॥ २,२७.२३ ॥ पतनं वा गिरेर्मूर्ध्रः क्रीडा वापि बिलेशयैः । व्याघ्रसिंहाभिगमनं समुद्रतरणं तथा ॥ २,२७.२४ ॥ दरुक्तानृतवाक्यं वा परदाराभिमर्शनम् । अपथ्यभक्षणं लोके तथाभक्ष्यस्य भक्षणम् ॥ २,२७.२५ ॥ मृगाटनमथाक्षैर्वा क्रीडनं साहसं तथा । छेदनं तृणकाष्ठानां लोष्टानामवमर्द्दनम् ॥ २,२७.२६ ॥ हिंसनं सूक्ष्मदेवानां जलपावकखेलनम् । दैवाविष्टो वरारोहे नरः सर्वं करोति वै ॥ २,२७.२७ ॥ त्रिवर्गविच्युतं घोरं यशोदेहहरं क्षितौ । नरकार्हे नरो देवि करोत्यशुभकर्म तत् ॥ २,२७.२८ ॥ साहं पापा दुराचारा वक्तुकामा सुनिर्घृणम् । यादृशेन हि भावेन योनौ शुक्रं समुत्सृजेत् ॥ २,२७.२९ ॥ तादृशेन हि भावेन संतानं संभवेदिति । साहं विवादभावेन राज्ञो रुक्माङ्गदस्य हि ॥ २,२७.३० ॥ जाता जलजजातेन स्त्रीरूपा वरवर्णिनी । दुष्टभावा तथा जाता कर्त्री दुष्टं नृपस्य तु ॥ २,२७.३१ ॥ न लग्नं न ग्रहा देवि न होरा पुण्यदर्शिनी । तत्कालभावना ग्राह्या तद्भावो जायते सुतः ॥ २,२७.३२ ॥ तेन भावेन जातस्य दाक्षिण्यं नोपपद्यते । न च व्रीडा न च स्नेहो न धर्मो देवि विद्यते ॥ २,२७.३३ ॥ जानन्नपि यथायुक्तस्तं भावमनुवर्तते ॥ २,२७.३४ ॥ वक्ष्ये वचः प्राणहरं तवाधुना भर्तुः सलोकस्य वधूजनस्य । धर्मापहं वाच्यकरं ममापि कर्तुं न शक्यं मनसापि भीरु ॥ २,२७.३५ ॥ करोषि वाक्यं यदि मामकं हि भवेच्च कीर्तिर्महतीह लोके । भर्तुर्यशः स्यात्त्रिदिवे गतिस्ते पुत्रे प्रशंसा मम धिग्विवादः ॥ २,२७.३६ ॥ वसिष्ठ उवाच मोहिनीवचनं श्रुत्वा देवी संध्यावली विभो । धैर्यमालंब्य तां तन्वीं ब्रूहि ब्रूहीत्यचोदयत् ॥ २,२७.३७ ॥ कीदृशं वदसे वाक्यं येन दुःखं भवेन्मम । भर्तुर्मे सत्यकरणे न दुःखं जायते क्वचित् । आत्मनो निधने वापि पुत्रस्य निधनेऽपि वा । भर्तुरर्थे प्रकुर्वन्त्या राज्यनाशे न मे व्यथा ॥ २,२७.३८ ॥ यस्या दुःखी भवेद्भर्ता भार्याया वरवार्णिनी । समृद्धायाः सपापायास्तस्याः प्रोक्ता ह्यधोगतिः ॥ २,२७.३९ ॥ सा याति नरकं पापा पूयाख्यं युगसप्ततिम् । ततश्छुछुन्दरी स्याच्च सप्त जन्मानि भारते ॥ २,२७.४० ॥ ततः काकी ततः श्याली गोधा गोत्वेन शुद्ध्यति । भर्तुरर्थे तु या वित्तें विद्यमानं न यच्छति ॥ २,२७.४१ ॥ जीवितं वा वरारोहे विष्ठायां सा भवेत्क्रिमिः । क्रिमियोनिविनिर्मुक्ता काष्ठीला जायते शुभे ॥ २,२७.४२ ॥ मम कौमारभावे तु मत्पितुः काष्ठपाटकः । अग्निप्रज्वालनाथ हि काष्ठं पाटयते चिरम् ॥ २,२७.४३ ॥ सखीभिः सहिता चाहं क्रीडासंसक्तमानसा । काष्ठं पाटयतस्तस्य समीपमगमं तदा ॥ २,२७.४४ ॥ तत्र दृष्टा मया सुभ्रु काष्ठीला दारुनिर्गता । नवनीतनिभं देहं बिभ्राणा चाञ्जनत्विषम् ॥ २,२७.४५ ॥ कनिष्ठिकाङ्गुलिसमा स्थौल्ये ह्यङ्गुलिमानिका । तां दृष्ट्वा पतितां भूमौ हन्तुं ध्वाङ्क्षः समागतः ॥ २,२७.४६ ॥ यावद्गृह्णाति वक्त्रेण काष्ठीलां क्षुधितः स तु । तावन्निवारितः सद्यो मया लोष्टेन तत्क्षणात् ॥ २,२७.४७ ॥ सा मुक्ता ताडितेनेत्थं वायसेन वरानने । सक्षता तुण्डसंस्पृष्टा न च शक्ता पलायितुम् ॥ २,२७.४८ ॥ ततः सा वेपमाना तु प्राणत्यागमुपागमत् । सिक्ता किञ्चिज्जलैनैव ततः स्वास्थ्यमुपागता ॥ २,२७.४९ ॥ तततः सा मानुषीवाचा मामाह वरवर्णिनी । संध्यावलीति संबोध्य सखीमध्यसमास्थिताम् ॥ २,२७.५० ॥ सुमन्तुनाम्नो हि मुनेः सर्वज्ञस्य सुताभवम् । पूर्वजन्मनि पत्नी च कैण्डिन्यस्य शुभानने ॥ २,२७.५१ ॥ न्यवसं कान्यकुब्जे तु सुसमृद्धा सुदर्पिता । जनन्या बन्धुवर्गस्य पितुरिष्टतमा ह्यहम् ॥ २,२७.५२ ॥ पित्रा दत्ता ततश्चाहं कैण्डिन्याय महात्मने । कुलीनाय सरूपाय स्त्रीसंगरहिताय च ॥ २,२७.५३ ॥ शयनीयादिकं दत्तं यौतुकं जनकेन मे । श्वशुरेणापि मे दत्तं सुवर्णस्यायुतं पुरा ॥ २,२७.५४ ॥ पितृश्वशूरवित्ताभ्यां परिपूर्णाभवं तदा । गोमहिष्यादिसंयुक्ता धनधान्यसमन्विता ॥ २,२७.५५ ॥ इष्टा श्वशुरयोश्वाहं सौशीन्येन जनस्य च । कालेन पञ्चतां प्राप्तः श्वशुरो वेदतत्त्ववित् ॥ २,२७.५६ ॥ तं मृतं पतिमादाय श्वश्रूरग्निं विवेश सा । ततो भर्ताञ्जलिं दत्वा पित्रोः श्राद्धमथाकरोत् ॥ २,२७.५७ ॥ गते मासद्वये देवि भर्ता मे राजमन्दिरम् । गतः कौतुकभावेनहृच्छयेन प्रपीडितः ॥ २,२७.५८ ॥ तत्र वेश्याः सुरूपाढ्या यौवनेन समन्विताः । प्रविशत्यां नृपगृहे दृष्टास्तेन द्विजन्मना ॥ २,२७.५९ ॥ तासां मध्यात्तु द्वे गृह्यवित्तदानेन भूरिणा । स्वगृहे धारयामास क्रीडार्थं दुर्मतिः पतिः ॥ २,२७.६० ॥ ताभ्यां वित्तमशेषं तु क्षयं नीतं निषेवणात् । वर्षत्रये गते देवि निस्वो जातः पतिर्मम ॥ २,२७.६१ ॥ तता मां प्रार्थयामास देहि मेऽङ्गविभूषणम् । तन्मया नहि दत्तं तु भर्त्रे व्यसनिने तदा ॥ २,२७.६२ ॥ सुभगे सर्वमादाय गताहं मन्दिरं पितुः । ततः पितृगृहे वित्तं भृत्यादिकमशेषतः ॥ २,२७.६३ ॥ विक्रीय दत्तं वैश्याभ्यां तच्चापि क्षयमागतम् । क्षेत्रधान्यादिकं यच्च सभाण्डं सपरिच्छदम् ॥ २,२७.६४ ॥ स्वल्पमूल्येन विक्रीयगतो नदनदीपतिम् । नावमारुह्य मे भर्ता विवेशान्तर्महोदधेः ॥ २,२७.६५ ॥ स गतो दूरमध्वानं पश्यमानोऽद्भुतानि च । शुभे समुद्रजातानि जीवचेष्ठाङ्कितानि च ॥ २,२७.६६ ॥ प्रभञ्जनवशं प्राप्ता सा नौका शतयोजनम् । गता विशीर्णतां तत्र मृतास्ते नावमाश्रिताः ॥ २,२७.६७ ॥ मत्पतिर्दैवयोगेन दीर्घ काष्ठं समाश्रितः । वायुना नीयमानोऽसौ प्राचीनेन स्वकर्मणा ॥ २,२७.६८ ॥ आससादाचलं देवि रत्नशृङ्गविभूषितम् । बहुनिर्झरणोपेतं बहुपक्षिसमन्वितम् ॥ २,२७.६९ ॥ बहुवृक्षैः समाकीर्णं नानापुष्पफलोपगैः । उल्लिखन्तं हि शिखरैः खमध्यं स्वात्मनस्त्रिभिः ॥ २,२७.७० ॥ तं दृष्ट्वा पर्वतं दिव्यं त्यक्त्वा नौकाष्ठमद्भुतम् । आरुरोह मुदायुक्तो वित्ताकाङ्क्षी सुलोचने ॥ २,२७.७१ ॥ विशश्राम मुहूर्तं तु क्षुत्पिपासासमन्वितः । तत उत्थाय भक्ष्यार्थं वृक्षांस्तत्र व्यलोकयत् ॥ २,२७.७२ ॥ सुपक्वास्तत्र मृद्वीका दृष्ट्वा भुक्त्वा मुदान्वितः । शान्तिं प्राप्तस्ततोऽपश्यत्सालमेकं सुनिर्मलम् ॥ २,२७.७३ ॥ घनच्छायं मेघनिभं पञ्चाशत्पुरुषोच्छ्रयम् । तस्याधस्तात्स सुष्वाप स्वोत्तरीयं प्रसार्य च ॥ २,२७.७४ ॥ मोहिन्या निद्रया चैव संप्रघूर्णितलोचनः । तावत्सुप्तोऽतिखिन्नोऽसौ यावत्सूर्योऽस्ततां गतः ॥ २,२७.७५ ॥ सूर्येऽस्तं समनुप्राप्ते समायाते निशामुखे । अभ्यगाद्राक्षसो घोरो गर्जमानो यथा घनः ॥ २,२७.७६ ॥ अङ्केनादाय तन्वङ्गीं सीतामिव दशाननः । शुभां काशीपतेः पुत्रीं नाम्ना रत्नावलीं शुभाम् ॥ २,२७.७७ ॥ अधौतपादां सुश्रोणीं सौम्यदिक्छीर्षशायिनीम् । पतिकामा कुमारी सा नाविन्दत्सदृशं पतिम् ॥ २,२७.७८ ॥ सर्वयोषिद्वरा बाला रुदती निद्रयाकुला । पिता तस्याः प्रदाने तु चिन्ताविष्टो ह्यहर्न्निशम् ॥ २,२७.७९ ॥ दीपच्छायाश्रिते तन्वि शयने सा व्यवस्थिता । अटमानेन पापेन दृष्टा सा रूपशालिनी ॥ २,२७.८० ॥ दीपरत्नैः सुखचिते धारयन्ती च कङ्कणे । उभयोर्दश रत्नानि निष्के च दशपञ्च च ॥ २,२७.८१ ॥ सीमन्ते सप्त रत्नानि केयूरेऽष्टौ च पञ्च च । एवं रत्नाचितां बालां शातकुम्भसमप्रभाम् ॥ २,२७.८२ ॥ जहार राजभवनात्तां तदा चारुहासिनीम् । वायुमार्गं समाश्रित्य क्षणात्प्राप्तः स्वमालयम् ॥ २,२७.८३ ॥ तं पर्वतं स यत्रास्ते पतिर्मेशालमाश्रितः । तत्र तस्य गुहां दृष्ट्वा सुवर्णसदृशप्रभाम् ॥ २,२७.८४ ॥ तद्भयस्यासहा तत्र प्रविवेशास्य पश्यतः । अनेकैर्मणिविन्यासैः संयुक्तां चित्रमन्दिराम् ॥ २,२७.८५ ॥ नानाद्रव्यसमाकीर्णां शयनासनसंयुताम् । भोजनैः पानपात्रैश्च भक्ष्यभोज्यैरनेकधा ॥ २,२७.८६ ॥ प्रविश्य तत्र शय्यायां मुमोचोत्पललोचनाम् । रुदतीमतिसंत्रस्तां पीनश्रोणिपयोधराम् ॥ २,२७.८७ ॥ तस्यास्तु रुदितं श्रुत्वा तस्य भार्या हि राक्षसी । आजगाम त्वरायुक्ता यत्रासौ राक्षसः स्थितः ॥ २,२७.८८ ॥ तां दृष्ट्वा चारुसर्वाङ्गीं तप्तकाञ्चनसप्रभाम् । पप्रच्छ निजभर्तारं क्रुद्धा निर्भर्त्सती सती ॥ २,२७.८९ ॥ किमर्थमाहृता चेयं जीवन्त्यां मयि निर्घृणं । अन्यां समीहसे भार्यां नाहं भार्यां भवामि ते ॥ २,२७.९० ॥ एवं ब्रुवाणां तां भर्ता राक्षसीमसितेक्षणाम् । उवाच राक्षसो हर्षात्स्वां प्रियां चारुलोचनाम् ॥ २,२७.९१ ॥ त्वदर्थमाहृतं भक्ष्यं मया कोश्याः शुभानने । दैवोपपादितं द्वारि द्वितीयं मम तिष्ठति ॥ २,२७.९२ ॥ शालवृक्षाश्रितः शेते विप्रश्चैको वरानने । तमानय त्वरायुक्ता येनाहं भक्ष्यमाचरे ॥ २,२७.९३ ॥ राक्षसस्य वचः श्रुत्वा कुमारी साब्रवीदिदम् । मिथ्या राक्षसि भर्ता ते भाषते त्वद्भयादयम् ॥ २,२७.९४ ॥ ज्ञात्वा त्वां जरयोपेतां विरूपामतिजिह्यगाम् । सुप्तां पितृगृहे रात्रौ मां समासाद्य कामतः ॥ २,२७.९५ ॥ अनूढां रुदतीं भद्रे भार्यार्थं समुपानयत् । इतीरितमुपाकर्ण्य वचनं राजकन्यया ॥ २,२७.९६ ॥ क्रोधयुक्तातिमात्रं वै बभूव क्षिपती वचः । तस्याश्च रूपमालोक्य सत्यमेवावधारयत् ॥ २,२७.९७ ॥ चिन्तयामास चाप्येवं भार्यार्थे ह्याहृतेति च । अवश्यं मूर्घ्निं कीलं मे रोषयिष्यति राक्षसः ॥ २,२७.९८ ॥ मास्म सीमन्तिनी काचिद्भेवत्सा भुवनत्रये । या सापत्न्येन दुःखेन पीड्यमाना हि जीवति ॥ २,२७.९९ ॥ सर्वेषामेव दुःखानां महच्चेदं न संशयः । सामान्यद्रव्यभोगादि निष्ठा चैवापरा भवेत् ॥ २,२७.१०० ॥ एवं सा बहु संचिन्त्य भर्तारं वाक्यमब्रवीत् । मदीया मम भक्ष्यार्थं त्वयानीता सुलोचना ॥ २,२७.१०१ ॥ तं विप्रमानयिष्यामि भक्ष्यार्थं तव सुव्रत । ततः स राक्षसः प्राह गच्छगच्छेति सत्वरम् ॥ २,२७.१०२ ॥ सृक्किणी स्रवतेऽत्यर्थं तस्य भक्षणकाम्यया । ततः सा राक्षसी घोरा श्रुत्वा पतिसमीरितम् ॥ २,२७.१०३ ॥ निर्जगाम दुरन्ताशा ददर्श द्विजसत्तमम् । रूपयौवनसंयुक्तं विद्यारत्नविभूषितम् ॥ २,२७.१०४ ॥ तं दृष्ट्वा मायया भूत्वा सुंदरी षोडशाब्दिका । हृच्छयेन समाविष्टा तदन्तिकमुपागमत् ॥ २,२७.१०५ ॥ अब्रवीत्सा पृथुश्रोणी तं विप्रं प्रीतिसंयुता । कस्त्वं कस्मादिहायतः किमर्थमिह तिष्ठसि ॥ २,२७.१०६ ॥ पृच्छामि पतिकामाहं राक्षसी हृच्छयातुरा । स्वभर्त्राहं परित्यक्ता त्वां पतिं कर्तुमागता ॥ २,२७.१०७ ॥ तच्छ्रुत्वा वचनं तस्या भर्ता मे भयसंयुतः । उवाच वचनं प्राज्ञो धैर्यमालंब्य तां शुभे ॥ २,२७.१०८ ॥ रक्षोमानुषसंयोगः कथं राक्षसि संभवेत् । मानुषास्तु स्मृता भक्ष्या राक्षसानां न संशयः ॥ २,२७.१०९ ॥ तच्छ्रुत्वा वचनं सा तु पुनस्तं प्राह सादरम् । असंभाव्यं च जगति संभवेद्दैवयोगतः ॥ २,२७.११० ॥ पुराणे श्रूयते ह्येतद्भविष्यं भारते स्थितम् । हिडंबा राक्षसी विप्र भीमभार्या भविष्यति ॥ २,२७.१११ ॥ मानुषोत्पादितः पुत्रो भविष्यति घटोत्कचः । अवध्यः सर्वशस्त्राणां शक्त्या मृत्युमवाप्स्यति ॥ २,२७.११२ ॥ तस्माद्विषादं मा विप्रकुरु त्वं दैवयोगतः । भार्या तवाहं संजाता दव हि बलवत्तरम् ॥ २,२७.११३ ॥ मर्त्यलोकं गते शक्त्रे वैरोचनिनिरीक्षणे । तदन्तरं समासाद्य भर्ता मे घोरराक्षसः ॥ २,२७.११४ ॥ तद्गृहाच्छक्तिमहरद्दीप्तामग्रिशिखामिव । सेयं समाश्रिता चात्र शालवृक्षे तु वासवी ॥ २,२७.११५ ॥ अहत्वैकं द्विजश्रेष्ठ नगच्छति पुरन्दरम् । यद्वधाय प्रक्षिपेत्तां सोऽमरोऽपि विनश्यति ॥ २,२७.११६ ॥ साहमारुह्य शालाग्रं शक्तिमानीय भास्वराम् । त्वत्करे संप्रदास्यामि भर्तुर्निधनकाम्यया ॥ २,२७.११७ ॥ यदि त्वमनया शक्त्या न हिंससि निशाचरम् । खादयिष्यति दुर्मेधास्त्वां च मां च न सशयः ॥ २,२७.११८ ॥ तव शत्रुर्महानेष ममापि च परन्तप । येनाहृता कुमारीह भार्यार्थं मन्दबुद्धिना ॥ २,२७.११९ ॥ सपत्नभावो जनितो मम भर्त्रा दुरात्मना । व्यापादितेऽस्मिन्नुभयोः क्रीडनं संभविष्यति ॥ २,२७.१२० ॥ यद्यन्यथा वदेर्वाक्यं त्वामहं रतिवर्द्धन । तदात्मकगृतपुण्यस्य न भवेयं हि भागिनी ॥ २,२७.१२१ ॥ या गतिर्ब्रह्महत्यायां कुत्सिता प्राप्यते नरैः । तां गतिं हि प्रपद्येऽहं यद्येतदनृतं भवेत् ॥ २,२७.१२२ ॥ मद्यं हि पिबतो ब्रह्मन् ब्राह्मणस्य दुरात्मनः । या गतिर्विहिता घोरा तां गतिं प्राप्नुयाम्यहम् ॥ २,२७.१२३ ॥ गुरुदारप्रसक्तस्य जतोः पापनिषेविणः । या गतिस्तां द्विजश्रेष्ठ मिथ्या प्रोच्य समाप्नुयाम् ॥ २,२७.१२४ ॥ स्वर्णन्यासापहरणे मेदिनीहरणे च या । आत्मनो हनने या हि विहिता मुनिभिर्द्विज ॥ २,२७.१२५ ॥ गतिस्तामनुगच्छामि यद्येतदनृतं वदे । पञ्चम्यां च तथाष्टम्यां यत्पापं मांसभक्षणे ॥ २,२७.१२६ ॥ स्त्रीसंगमे तरुच्छेदे यत्पापं शशिनः क्षये । यदुच्छिष्टे घृतं भोक्तुर्मैथुनेन दिवा च यत् ॥ २,२७.१२७ ॥ वैश्वदेवमकर्तुश्च गृहिणो हि द्विजस्य यत् । भिक्षामदातुर्भिक्षुभ्यो विधवाया द्विभोजनात् ॥ २,२७.१२८ ॥ तैलं भोक्तुश्च संक्रान्तौ गोभिस्तीर्थं च गच्छतः । तथा मृदमनुद्धृत्य स्नातुः परजलाशये ॥ २,२७.१२९ ॥ निषिद्धवृक्षजनितं दन्तकाष्ठं च खादतः । गामसेवयतो बद्ध्वा पाखण्डपथगामिनः ॥ २,२७.१३० ॥ पितृदेवार्चनं कर्तुः काष्ठग्रावस्थितस्य यत् । गोहीनां महिषीं धर्तुर्भिन्नकांस्ये च भुञ्जतः ॥ २,२७.१३१ ॥ अधौतभिन्नपारक्यवस्त्रसंवीतकर्मिणः । नग्रस्त्रीप्रेक्षणं कर्तुरभक्ष्यस्य च भोजिनः ॥ २,२७.१३२ ॥ कथायां श्रीहरेर्विघ्नं कर्तुर्यत्पातकं द्विज । तेन पापेन लिप्येऽहं यदि वच्मि तवानृतम् ॥ २,२७.१३३ ॥ उक्तान्येतानि पापानि यान्यनुक्तान्यपि द्विज । सर्वेषां भागिनी चाहं यद्येतदनृतं वदे ॥ २,२७.१३४ ॥ एवं संबोधितो देवि भर्ता मे पापया तया । तथेति निश्चयं चक्रे भवितव्येन मोहितः ॥ २,२७.१३५ ॥ निर्द्रव्यो व्ययसनासक्तो मद्वाक्यकलुषीकृतः । उवाच राक्षसीं वाक्यं सर्वंसिद्धिप्रदायकम् ॥ २,२७.१३६ ॥ शीघ्रमानय तां शक्तिं करोमि वचनं तव । सर्वमेतत्प्रदेयं हि त्वया मे राक्षसे हते ॥ २,२७.१३७ ॥ द्रव्याशया प्रविष्टोऽहं सागरं तिमिसंकुलम् । तच्छ्रुत्वा राक्षसी शक्तिं समानीय नगस्थिताम् ॥ २,२७.१३८ ॥ ददौ मद्भर्तृसिद्ध्यर्थं विमुञ्चन्तीं महार्चिषम् । एतस्मिन्नेव काले तु राक्षसः काममोहितः ॥ २,२७.१३९ ॥ गमनायोद्यतः कन्यां सा भीता वाक्यमब्रवीत् । कुमारीसेवने रक्षो महापापं विधीयते ॥ २,२७.१४० ॥ छलेनाहं हृता काश्याः सुप्ता पितृगृहात्वया । तव दोषो न चेहास्ति भवितव्यं ममेदृशम् ॥ २,२७.१४१ ॥ गुहामध्यगतायास्तुको मे त्राता भविष्यति । विधियोगाद्भवेद्भर्ता विधियोगाद्भवेत्प्रिया ॥ २,२७.१४२ ॥ भवेद्विधिवशाद्विद्या गृहं सौख्यं धनं कुलम् । विधिना प्रेर्यमाणस्तु जनः सर्वत्र गच्छति ॥ २,२७.१४३ ॥ अवश्यं भविता भर्ता त्वमेव रजनीचर । विधैना विहिते मार्गे किं करिष्यति पण्डितः ॥ २,२७.१४४ ॥ तस्मादानयत विप्रं शालवृक्षाश्रित त्विह । घृतं जलं कुशानग्निं विवाहं विधिना कुरु ॥ २,२७.१४५ ॥ विनापि दर्भतोयाग्नीन्न्यथोक्तविधिमतरा । ब्राह्मणस्यैव वाक्येन विवाहः सफलो भवेत् ॥ २,२७.१४६ ॥ न हतो यदि विप्रस्तु भार्यया तव राक्षस । वृत्ते होमस्य कार्ये तु तं भवान् भक्षयिष्यति ॥ २,२७.१४७ ॥ एवमुक्ते तु वचने तया वै राजकन्यया । विश्वस्तमानसो दर्पान्निर्जगाम स राक्षसः ॥ २,२७.१४८ ॥ सत्वरं हृच्छयाविष्टस्तमानेतुं बहिः स्थितः ॥ २,२७.१४९ ॥ तस्य निर्गच्छतो देवि क्षुतमासीत्स्वयं किल । सव्यं चाप्यस्फुरन्नेत्रं स्ववस्त्रं स्खलितं तथा ॥ २,२७.१५० ॥ अनाहृत्य तु तत्सर्वं निर्गतोऽसौ दरीमुखात् । बिभ्राणां मानुषं रूपं स्वामपश्यन्नितंबिनीम् ॥ २,२७.१५१ ॥ घटयन्तीं तु संबन्धं भार्याभर्तृसमुद्भवम् । परित्यजामि त्वां पापं राक्षसं क्रूरकर्मिणम् ॥ २,२७.१५२ ॥ मानुषीप्रमदासक्तं मच्छरीरस्य दूषकम् । तच्छ्रुत्वा दारुणं वाक्यं भार्यया समुदीरितम् । ईर्ष्याकोपसमायुक्तस्त्वभ्यधावन्निशाचरः ॥ २,२७.१५३ ॥ उत्क्षिप्य बाहू प्रविदार्य वक्त्रं संप्रस्थितो भक्षयितुं स चोभौ । कालेन वेगात्पवनो यथैव समुच्चरन्वाक्यमनर्थयुक्तम् ॥ २,२७.१५४ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्यानं नाम सप्तविंशोऽध्यायः _____________________________________________________________ काष्ठीलोवाच राक्षसं धावमानं तु कालान्तकयमोपमम् । दृष्ट्वा सा राक्षसी प्राह भर्तारं मम शङ्किता ॥ २,२८.१ ॥ प्रक्षिपस्वानलप्रख्यां शक्तिं हेमविभूषिताम् । ममायं पञ्चतां यातु दिगंबररिपुप्रिय ॥ २,२८.२ ॥ तस्या वाक्यान्मम पतिः पौरुषे तु व्यवस्थितः । मुमोच विपुलां शक्तिं रक्षोवक्षस्थल प्रति ॥ २,२८.३ ॥ ज्वलन्ती ज्वलनप्रख्या द्योतयन्ती दिशो दश । दिव्यांशुतीक्ष्ण वक्त्राता किङ्किणीशतनादिता ॥ २,२८.४ ॥ रक्तचन्दनलिप्ताङ्गी रक्तवस्त्रोपशोभिता । हृदि तस्य निपत्यासौ शक्तिर्विप्रकरच्युता ॥ २,२८.५ ॥ कृत्वा भस्मावशेषं तु राक्षसं गगनं ययौ । पातयित्वा स्वभर्तारं विप्रहस्तेन राक्षसी ॥ २,२८.६ ॥ कृतकृत्यमिवात्मानं मेने हृष्टतनूरुहा । अथोवाच द्विजं हृष्टा राक्षसी शुभलोचनम् ॥ २,२८.७ ॥ एहि कान्त गुहां रम्यां प्रविश त्वं यदृच्छया । भुङ्क्ष्व भोगान्मया सार्द्धं ये दिव्या ये च मानुषाः ॥ २,२८.८ ॥ तथेति प्राणनाथो मे प्राहहृष्टवपुस्तदा । ततः सादाय मे कान्तं स्वां प्रविष्टा गुहां मुदा ॥ २,२८.९ ॥ असंवीक्ष्यैव तद्भस्म भर्तृदेहसमुद्भवम् । कुचाभ्यामुन्नताभ्यां सा मद्भर्तारमपीडयत् ॥ २,२८.१० ॥ दर्शयामास तां तन्वीं कुमारीं शयने स्थिताम् । इयं तेनासितापाङ्गी बिम्बोष्ठी काञ्चनप्रभा ॥ २,२८.११ ॥ भार्यार्थे समुपानीता वाराणस्या द्विजोत्तम । यस्याः सीमां न लङ्घन्ति पातकानि ह्यशेषतः ॥ २,२८.१२ ॥ शक्तिक्षेत्रं च तां प्राहुः पुण्यं पापक्षयङ्करम् । या गृहं त्रिपुरारेश्च पञ्चगव्यूतिसंस्थिता ॥ २,२८.१३ ॥ यस्यां मृताः पुनर्मर्त्या गर्भवासं विशन्ति न । स त्वमस्या गृहं पित्र्यं पुनर्नय सुलोचनाम् ॥ २,२८.१४ ॥ इमानि तव रत्नानि शयनान्यासनानि च । मया सह समस्तानि विक्रीणीहि निजेच्छया ॥ २,२८.१५ ॥ त्वदर्थे राक्षसो घोरो मया ब्रह्मन्निषूदितः । मुग्धया तव रूपेण प्रेषितो यमसादनम् ॥ २,२८.१६ ॥ तस्मान्ममोपिरि विभो कृत्वा विश्वासमात्मना । भजस्व मां विशालाक्ष भक्तां वै कामरूपिणीम् ॥ २,२८.१७ ॥ एतच्छ्रुत्वा तु वचनं भर्ता मे चारुलोचने । राक्षस्याः कामतप्तायाः कुमार्याः सन्निधौ शुभे ॥ २,२८.१८ ॥ उवाच राक्षसीं तां तु सशङ्को मधुरं वचः । सुभगे नीतिशास्त्रेषु विश्वस्तव्या न योषितः ॥ २,२८.१९ ॥ कौमारं या पतिं हन्ति सा कथं मां न हिंसति । मत्तो रूपाधिकं मत्वा परं पुरुषलंपटा ॥ २,२८.२० ॥ सोऽहं विश्वासभावेन विश्वस्तस्ते वरानने ॥ २,२८.२१ ॥ अद्य वाथ परेद्युर्वा पक्षे मासेऽथ वत्सरे । व्यापादय यथेच्छं वा त्वां प्रपन्नोऽस्मि भामिनि ॥ २,२८.२२ ॥ एवमेव त्वया कार्यं नाद्य चोपकृतं तव । आत्मा ते सर्वथा देयः प्रतीकारस्य हेतवे ॥ २,२८.२३ ॥ मदर्थे निहतो भर्ता त्वया निःशङ्कया यतः । ततोऽहं नोत्तरं वच्मि परं किञ्चित्सुलोचने ॥ २,२८.२४ ॥ तच्छ्रुत्वा वचनं तस्य मद्भर्तुः साब्रवीदिदम् । विश्वस्तहिंसनं ब्रह्मन् ब्रह्महत्या समं भवेत् ॥ २,२८.२५ ॥ यद्येवं राक्षसीं क्रूरां मन्यसे पतिघातिनीम् । पतिं तथापि गर्हेयं विश्वस्तं घातये कथम् ॥ २,२८.२६ ॥ सूक्ष्मा हि धर्मस्य गतिर्न ज्ञायेत कथञ्चन । केनापि कुत्रचिद्देवदैत्यराक्षसकादिना । केचिन्मनुष्याः पटवो धर्मसूक्ष्मत्वचिन्तने ॥ २,२८.२७ ॥ येऽनित्येन शरीरेण नैष्कर्म्यं साधयन्त्युत । श्रूयते च पुराणेषु किञ्चिदत्र निगद्यते ॥ २,२८.२८ ॥ धर्मस्यैवानुकूल्येन विष्णुना प्रभविष्णुना । दशावतारग्रहणे दुःखं प्राप्तमनेकधा ॥ २,२८.२९ ॥ क्व सीतार्थं श्रीनिवासो रामो लक्ष्मणसंयुतः । विलापं कुरुते नागपाशबन्धादिकर्मसु ॥ २,२८.३० ॥ क्व देवदेवो वसुदेवसूनुर्विज्ञानरूपो निखलप्रपञ्ची । हा कष्टमित्यस्रदृगादिचेष्टः पार्थोग्रसनादिकभृत्यकृत्यः ॥ २,२८.३१ ॥ ईशस्य कृत्यं द्विज दुर्विभाव्यं धर्मानुकूल्येन समास्थितस्य । व्यासः स्वयं वेदविभागकर्त्ता पाराशरिस्तत्त्वदृगिज्यमूर्तिः । कन्यात्वविध्वसकवीर्यजन्मा कानीनसंज्ञोऽनुजदारगामी ॥ २,२८.३२ ॥ परिवेत्ता च दिधिषूः शन्तनुः स्वःसरित्पत्तिः । दिधिषू तनयः साक्षाद्वसुः स्त्रीवादमृत्युभाक् ॥ २,२८.३३ ॥ ये गोलकसुताः कुण्डाः पाण्डवाः समयोनिगाः । तेषां संकीर्तनं पुण्यं पवित्रं पापनाशनम् ॥ २,२८.३४ ॥ यं ध्यायन्ति स्मरन्त्यद्धा योगमूर्तिः सनातनः ॥ २,२८.३५ ॥ विष्णुर्वेश्यासमासक्तः प्रह्लादाद्युपदेशकृत् । श्रीनृसिंहोऽसुरध्वंसी देवदेवाधिदैवतम् ॥ २,२८.३६ ॥ संसारवासनाध्वंसी देवदेवाधिदैवतम् । संसारवासनाध्वंसी स्वर्णाक्षभवनस्थितिः ॥ २,२८.३७ ॥ जामदग्न्यः स्वयं सिद्धस्तपसा दग्धकिल्बिषः । ईश्वरः क्षत्रसंहारभ्रूणहत्यादिकर्मकृत् ॥ २,२८.३८ ॥ स्वयमेवर्षभो योगी लोकशिक्षापरो द्विजः । लोकग्लानिकरो जातः कुर्वन्धर्मानुरोधतः ॥ २,२८.३९ ॥ नारदो नारदो भूयो भूयो भूयोऽपि नारदः । नारायणपरो नारो नरो नरहितोऽमरः ॥ २,२८.४० ॥ गौतमो गौतमो विप्र गोपचेष्टापरायणः । वेदबाह्यार्थसंयुक्तशास्त्री वेदोपकार कृत् ॥ २,२८.४१ ॥ वसुष्ठश्चोर्वशीजातोऽगस्त्योऽपि स्वयमीश्वरौ । येन लोकोपकारार्थं वासिष्ठं शास्त्रमुत्तमम् ॥ २,२८.४२ ॥ कृतं यस्मिन्पुराणानि वेदाः साम्यत्वमागताः । यः स्वयं रामचन्द्रस्य गुरुः सर्वेश्वरस्य च ॥ २,२८.४३ ॥ स कथं गाधिजाशप्तस्तिर्यग्योनिमुपागमत् । यो दमित्वा विभुर्विन्ध्यं वातापिं सागरं स्थितः ॥ २,२८.४४ ॥ स कथं मृतकादाता दुष्करं समुपासते । यो विधिः कर्मसाक्ष्यादिवन्द्यो मान्यः पितामहः ॥ २,२८.४५ ॥ मोहिनीमोहितो देहमुत्ससर्ज कथं स च । यः शिवः शिवदः साक्षात्प्रकृतीशः परात्परः ॥ २,२८.४६ ॥ स कथं देवपत्नीगः श्मशानाशुभचेष्टितः । तस्माद्द्विज सदाचारो निषेव्यो विधिना विधिः ॥ २,२८.४७ ॥ तमहंभावनायुक्तो नो हेयाद्यो विदां वरः । स शान्तिमाप्नुयादग्र्यां धम्यामुभयसंस्थिताम् ॥ २,२८.४८ ॥ आपवर्ग्यः स्मृतो धर्मो धनं धर्मैकसाधनम् । तन्मया साधितो धर्मः सर्वोत्तमधनात्मना ॥ २,२८.४९ ॥ शृणु विप्रात्र धर्मस्य गतिं सूक्ष्मां वदाम्यहम् । यदा समागतो भर्ता मम कन्यां समाहरन् ॥ २,२८.५० ॥ त्वां पश्यन्निजकर्मस्थं कोऽपि दोषो न तस्य वै । मया पृष्टः कथं नाम कन्येयं समुपाहृता ॥ २,२८.५१ ॥ तदा तेन मृषा वाक्यमुक्तं मद्भक्षणार्थकम् । तन्निशम्याह मां बद्धा स्वयं चास्थानि दर्शनात् ॥ २,२८.५२ ॥ ये वदन्ति च दांपत्ये भार्या मोक्षविरोधिनी । न ते तत्त्वदृशो ज्ञेया न सा भार्या विरोधिनी ॥ २,२८.५३ ॥ भार्या समुद्धरेत्पापात्पतन्तं निरये पतिम् । सा भार्यान्या कर्मवल्लीरूपा संसारदायीनी ॥ २,२८.५४ ॥ पापं किमत्र तन्मत्तः सम्यक्छृणु स्वयं वर । अलीकं नैव वक्तव्यं प्राणैः कण्ठगतैरपि ॥ २,२८.५५ ॥ सत्यमेवाचरेत्सत्ये साक्षाद्धर्मे व्यवस्थितः । सत्ये समास्थितो ब्रह्मा सत्ये सन्तः समास्थिताः ॥ २,२८.५६ ॥ सत्ये समास्थितं विश्वं सर्वदा सचराचरम् । सत्यं ब्रूयादिति वचो वेदान्तेषु प्रगीयते ॥ २,२८.५७ ॥ सत्यं ब्रह्मस्वरूपं हि तत्सत्यमभिधीमहि । सत्यं तु सर्वदा विप्र मङ्गलं मङ्गलप्रदम् ॥ २,२८.५८ ॥ असत्यमात्मक्षयदं सद्यः प्रत्ययकारकम् । स्त्रीषु सत्यं न वक्तव्यं तत्रापि शृणु कारणम् ॥ २,२८.५९ ॥ निधिं स्त्रियै न कथयेदित्यादौ दोषवारणम् । उक्तं तद्धर्मजनकं धर्मसूक्ष्मत्वदर्शकम् ॥ २,२८.६० ॥ कुशा द्विजा जलं वह्निर्वेदा भूकालदिक्सुराः । साक्ष्ये यत्र विवाहेषु दांपत्यं तदुदीरितम् ॥ २,२८.६१ ॥ समङ्गीकरणं कर्म विवाहे तु विधीयते । स्त्रीपुंसोर्द्विजसंस्कारे निर्दिष्टं गुरुशिष्ययोः ॥ २,२८.६२ ॥ तस्मात्परस्परं ज्ञेयो गुरुशिष्यौ वधूवरौ । नानयोरणुमात्रोऽपि भेदो बोध्यो विजानता ॥ २,२८.६३ ॥ तत्तत्कर्मानुरूपत्वात्प्राधान्यस्त्रीनियोज्ययोः । क्वचिद्व्यत्ययदोषश्चेद्दैवमेवात्र कारणम् ॥ २,२८.६४ ॥ दैवाधीनं जगत्सर्वं सदेवासुरमानुषम् । दैवं तत्पूर्वजन्मानि संचिताः कर्मवासनाः ॥ २,२८.६५ ॥ प्राप्तं निषेवन्नन्योन्यं वर्तते कामकारकम् । शुभं वाप्यशुभं विप्र तं तु शान्तं विदुर्बुधाः ॥ २,२८.६६ ॥ शान्तः सत्यसमाचारो जन्तुर्लोकप्रतारकः । एवमादि विदित्वा तु नायं भर्ता निपातितः ॥ २,२८.६७ ॥ कन्यात्वध्वंसकात्पापात्पूतो मदुपकारतः । गतिं प्रयातः कृतिनां त्वद्धस्तविनिपातितः ॥ २,२८.६८ ॥ मया तूपकृतं पत्ये जानन्त्या धर्मसूक्ष्यताम् । त्वत्प्राणरक्षणे धर्मो ममाभूद्द्विजसत्तम ॥ २,२८.६९ ॥ तेन धर्मेण किं प्राप्तमिति सम्यङ्निबोध मे । राक्षसीं योनिमापन्ना राक्षसस्य प्रिया ह्यहम् ॥ २,२८.७० ॥ कामरूपा ब्राह्मणी तु संजाता धर्मकारणात् । धर्मकामदुघा धेनुः संतोषो नन्दनं वनम् ॥ २,२८.७१ ॥ विद्या मोक्षकरी प्रोक्ता तृष्णा वैतरणी नदी । वैतरण्यां पतन्भर्ता मयोद्धृत इहाभवत् ॥ २,२८.७२ ॥ अस्याश्चोपकृतं विप्र वर्णोत्तमनिवेशनात् । इयं त्वसंगिनी भार्या भविष्यति पितुर्गृहे ॥ २,२८.७३ ॥ अहं तवास्याश्च सदा रक्षिका धर्मबोधिनी । मत्संगमात्पूर्वमेव या भार्या विप्र तेऽभवत् ॥ २,२८.७४ ॥ इयं त्वत्संगिनी भार्या भविष्यति वरानना । सापि तिर्यग्गतिं प्राप्य मुच्यते मदनुग्रहात् ॥ २,२८.७५ ॥ अहं पुरा भवेऽभूवं रमणी लोकसुन्दरी । कन्दलीति च विख्याता तनयौर्वमुनेर्द्विज ॥ २,२८.७६ ॥ तपः प्रभावात्संजाता यमला मिथुनन्धरा । पुरुषो मे सहभवो दमितो धर्मकारणात् ॥ २,२८.७७ ॥ तेनैवौर्वेण शिष्टाहं दत्ता दुर्वाससे भवम् । तं पतिं प्राप्य विप्रेन्द्र प्राक्कर्मवशागा ह्यहम् ॥ २,२८.७८ ॥ कलहाभिरता पत्या शप्ता भस्मत्वमागता । किञ्चित्पापावशेषेण राक्षसीं योनिमागता ॥ २,२८.७९ ॥ तत्र योनौ मया लब्धो भर्तायं राक्षसाधिपः । गोभिलो नाम तेजस्वी स त्वया विनिपातितः ॥ २,२८.८० ॥ शोपोऽस्य पूर्ववयसिबभूव द्विजसत्तम । कस्याश्चिद्राजकन्यायाः स्त्रियाऽरब्धा मृतिस्तव ॥ २,२८.८१ ॥ अहं तु राक्षसीभावरहिता पूर्वकर्मणः । शुभस्य बलमापन्ना जाता तव सहायिनी ॥ २,२८.८२ ॥ दुःखिताहं कृता भर्त्रा कुमार्याहरणात्पुरा । भार्याथ पापिना ब्रह्मंस्तेन व्यापादितो मया ॥ २,२८.८३ ॥ विश्वस्तो हि यतस्त्वं वै मम सर्वेण चेतसा । ततस्त्वां गोपयिष्यामि सर्वभावेन कामुक ॥ २,२८.८४ ॥ एष ते शपथः सत्यः पञ्चभूतोपसाक्षिकः । कृत्स्नस्य पुरुषस्येह सन्निधौ व्याहृतो मया ॥ २,२८.८५ ॥ न करोषि द्विजश्रेष्ठ संविदं ह्यन्यथा क्वचित् । मद्वाक्ये भवता स्थेयं सर्वकृत्येषु मानद ॥ २,२८.८६ ॥ एतच्छ्रुत्वा तु वचनं राक्षस्या परिभाषितम् । प्रतिपेदे वचः सर्वं यत्कृतं हि तया तदा ॥ २,२८.८७ ॥ ततः सा राक्षसी सर्वं संप्रगृह्य गुहाधनम् । करेणुरूपिणी भूत्वा पृष्ठे कृत्वा पतिं मम ॥ २,२८.८८ ॥ तया सह विशालाक्ष्या रत्नावल्या मुदान्विता । ययावाकाशमार्गेण काशीमभि मुलोचने ॥ २,२८.८९ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्यानं नामाष्टाविंशोऽध्यायः _____________________________________________________________ काष्ठीलोवाच एवं सा राक्षसी सुभ्रु हस्तिनीरूपधारिणी । त्रिभिर्मुहूर्तैः संप्राप्ता काशीं विश्वेशमन्दिरम् ॥ २,२९.१ ॥ उवाच तां पुरीं प्राप्य भर्तारमसितेक्षणा । इयं पापतरोः कान्त कुठारा परिकीर्तिता ॥ २,२९.२ ॥ षडूर्मिकाञ्चनस्यैषा कान्त प्रोक्ता दुरोदरी । कर्मबीजोपशमनी सर्वेषां गतिदायिका ॥ २,२९.३ ॥ आद्यं हि वैष्णवं स्थानं पुराणाः संप्रचक्षते । नावैष्णवे स्थले मुक्तिः सर्वस्य तु कदाचन ॥ २,२९.४ ॥ माधवस्य पुरी चेयं पूर्वमासीद्द्विजोत्तम । मुक्तिदा सर्वजन्तूनां सर्वपापप्रणाशिनी ॥ २,२९.५ ॥ एकदा शङ्करो देवो द्रष्टुं प्रागात्पितामहम् । सर्वलोकैककर्तारं भ्राजमानं स्वतेजसा ॥ २,२९.६ ॥ गत्वा तत्र महादेवो ब्रह्माणं जगतां गुरुम् । नमस्कृत्य स्थितो ह्यग्रे वेदपाठं निशामयन् ॥ २,२९.७ ॥ चतुर्भिरद्भुतैवक्त्रैश्चतुरो निगमान्मुदा । उद्गिरन्तं जगन्नाथं दृष्ट्वा प्रीतोऽभवत्तदा ॥ २,२९.८ ॥ अथ तत्पञ्चमं वक्त्रं ब्रह्मणो भूतनायकः । प्रगल्भं तमुपालक्ष्य क्षणाज्जातः समत्सरः ॥ २,२९.९ ॥ स क्रोधजन्मा विप्रेन्द्र तस्य प्रागल्भ्यमक्षमन् । चकर्त तन्नखाग्रेण खस्थं वक्त्रं त्रिलोचनः ॥ २,२९.१० ॥ तच्छिन्नं ब्रह्मणः शीर्षं संलग्नं करपल्लवे । वामे निर्धूतमानिशं न निवृत्तं द्विजोत्तम ॥ २,२९.११ ॥ ब्रह्मा तु दुःखितो भूत्वा तस्थौ स्थाणुं व्यलोकयन् । रुद्रोऽपि लज्जितो भूत्वा निर्ज्जगाम त्वरान्वितः ॥ २,२९.१२ ॥ बहुधा यतमानोऽपि तच्छिरः क्षेप्तुमातुरः । न शशाक परित्यक्तुं तदद्भुतमभून्महत् ॥ २,२९.१३ ॥ चिन्तया व्याकुलो भूत्वा सस्मार गरुडध्वजम् । तेन संस्मृतमात्रस्तु शीघ्रमाविरभूच्च सः ॥ २,२९.१४ ॥ तं दृष्ट्वा देवदेवेशं विष्णुं सर्वगतं द्विज । ननाम शिरसा नम्रो निष्प्रभो वृषभध्वजः ॥ २,२९.१५ ॥ तं तथातुरमालक्ष्य भीतं ब्रह्मद्रुहं हरिः । समाश्वास्या ब्रवीद्वाक्यं तत्तोषपरिकारकम् ॥ २,२९.१६ ॥ शंभो त्वया कृतं पापं यच्चिन्नं ब्रह्मणः शिरः । तत्फलं भुङ्क्ष्व सर्ंवज्ञ कियत्कालं कृतं स्वयम् ॥ २,२९.१७ ॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म ह्यपि जन्मशतैः प्रिय ॥ २,२९.१८ ॥ किं करोमि क्व गच्छामि त्वां दृष्ट्वा दुःखितं हरम् । प्राणा विकलतां यान्ति मम त्वद्दुःखदर्शनात् ॥ २,२९.१९ ॥ यानि कानि च पापानि महान्ति महतां गते । न तानि ब्रह्महत्यायाः समानीति मतिर्मम ॥ २,२९.२० ॥ यस्त्वं सर्वस्य लोकस्य गुरुर्धर्मोपदेशकः । ब्रह्महत्याभिभूतस्तु क्षणं स्थातुं न च क्षमः ॥ २,२९.२१ ॥ एषा घोरतरा हत्या मीनगन्ध्या जरातुरा । लेलिहाना सुरेशान ग्रहीतुं त्वानुधावति ॥ २,२९.२२ ॥ तस्मान्नैकत्र भवता स्थेयं द्वादशबत्सरम् । अटनीयं हितार्थाय पापनाशाभिकाम्यया ॥ २,२९.२३ ॥ अटित्वा द्वादशाब्दानि तीर्थेषु सकलेषु च । प्रक्षालयन्करं वामं भिक्षां गृह्णन्कपालके ॥ २,२९.२४ ॥ शुद्धिं यास्यसि देवेश पापादस्मात्सुदारुणात् । इत्युक्तो विष्णुना विप्र स्थाणुः सर्वगतोऽभवत् ॥ २,२९.२५ ॥ कपालमोचनार्थं हि पाणिं प्रक्षालयन् जले । वर्षत्रयं भ्रमित्वा तु प्राप्तो बदरिकाश्रमम् ॥ २,२९.२६ ॥ भिक्षार्थं देवदेवस्य धर्मपुत्रस्य मानद । द्वारस्थो देहि भिक्षां मे विष्णो इत्यवदन्मुहुः ॥ २,२९.२७ ॥ ततो नारायणो देवो दृष्ट्वा द्वारि स्थितं हरम् । गृहाण भिक्षामित्युक्त्वा प्रददौ दक्षिणं करम् ॥ २,२९.२८ ॥ ततो हरो हरिं दृष्ट्वा भिक्षां दातुं समुद्यतम् । प्राहरद्दक्षिणं पाणिं त्रिशूलेन द्विजोत्तम ॥ २,२९.२९ ॥ तत्त्रिशूलक्षताद्धारास्तिस्रो लोकभयङ्कराः । प्रस्थद्वादशहस्ताश्च निर्गताश्चित्रवर्णिकाः ॥ २,२९.३० ॥ एका क्षतजधारा तु कपाले न्यपतत्तदा । द्वितीया तन्मुखे प्राप्ता पयस्याथ तृतीयका ॥ २,२९.३१ ॥ जलधारा शिवं प्राप्ता हरस्य हेतुरग्रतः । ता धारास्त्रीणि वर्षाणि संसेव्य विधिवद्धरः ॥ २,२९.३२ ॥ किञ्चित्प्रीतो ययौ क्षेत्रं कुरोः पुण्यकरं द्विज । तत्र गत्वा हरः स्थाणुर्भूतस्तत्र पपात च ॥ २,२९.३३ ॥ ब्रह्मह्रदे त्रिवर्षाणि मग्रो ब्रह्मह्रदांबुनि । वर्षत्रये गते तत्र क्षतार्द्धाङ्गो विनिःसृतः ॥ २,२९.३४ ॥ चिरं तुष्टाव देवेशं विष्णुं सर्वगुहाशयम् । ततस्तुष्टो जगन्नाथो वरं तस्मै ददौ तु सः ॥ २,२९.३५ ॥ गच्छ काशीमितो भ्रान्त्वा तीर्थानि बहुशो हर । ततो हरिं नमस्कृत्य परीत्य बहुधा तथा ॥ २,२९.३६ ॥ क्रमात्तीर्थाटनं कुर्वन्नविमुक्तपुरीं गतः । अविमुक्तस्य सीमायां प्राविशद्वीक्ष्तय धूर्जटिः ॥ २,२९.३७ ॥ नापश्यत्तामनुप्राप्तां ब्रह्महत्यां बहिः स्थिताम् । ततोऽसौ वैष्णवं ज्ञात्वा क्षेत्रं दुरितनाशनम् । तुष्टाव प्रयतो भूत्वा माधवं वन्द्यमीश्वरम् ॥ २,२९.३८ ॥ जय जय जगदीश नाथ विष्णो जगदानन्दनिधान वेदवेद्य । मधुमथन नृसिंह पीतवासो गरुडाधिष्ठित माधवादिदेव ॥ २,२९.३९ ॥ व्रजरमण रमेश राधिकेश त्रिदशेशाखिलकामपूर कृष्ण । सुरवरकरुणार्णवार्तिनाशिन्नलिनाक्षाधिपते विभो परेश ॥ २,२९.४० ॥ यदुकु लतिलकाब्धिवास शौरे कुधरोद्धारविधानदक्ष धन्विन् । कलिकलुषहराङ्घ्रिपद्मयुग्म गृणदात्मप्रद कूर्म कश्यपोत्थ ॥ २,२९.४१ ॥ कुकुपतिवनपावकाखिलेज्यास्रपकालासितवस्त्र बुद्ध कल्किन् । भवभयहर भक्तवश्य गोप प्रणत्तोद्धारक पुण्यकीर्तिनाम् ॥ २,२९.४२ ॥ धरणिभरहरासुरारिपूज्य प्रकृतीशेश जगन्निवास राम । गुणगणविलसच्चराचरेश त्रिगुणातीत सनातनाग्रपूज्य । निजजनपरिरक्षितान्तकारे कमलाङ्घ्रे कमनीय पद्मनाभ । कमलकर कुशेशया धिवास प्रियकामोन्मथन त्र्यधीशवन्द्य ॥ २,२९.४३ ॥ अघहर रघुनाथ यादवेश प्रियभूदेव परात्परामरेज्य । हलधर दुरितापह प्रणम्य त्रिगुणव्याप्त जगत्त्रिकालदक्ष ॥ २,२९.४४ ॥ दनुजकुलविनाशनैककर्मन्ननघारूढफणीश कंसकाल । रविशशिनयन प्रगल्भचेष्ट प्रधुतध्वान्त नवांबुदाभ मेश ॥ २,२९.४५ ॥ मख मखधर मातृबद्धदामन्नवनीतप्रिय बल्लवीगणेश । अघबकवृषकेशिपूतनान्त त्रिशिरोवालिदशास्यभेदकारिन् ॥ २,२९.४६ ॥ नरकमुरविनाश बाणदोः कृत्त्रिपुरारीज्य सुदाममित्र सेव्य । भवतरणिवहित्रपादपद्म प्रकटैश्वर्य पुराण पूर्णबाहो ॥ २,२९.४७ ॥ बहुजनिसुकृताप्य मङ्गलार्ह श्रुतिवेद्य श्रुतिधाम शान्तशुद्ध । तव वरद वरेण्यमङ्घ्रियुग्मं शरणं प्राप्तमघार्दितं प्रपाहि ॥ २,२९.४८ ॥ नहि मम गतिदं पुराणपुंसोऽन्यदिति प्रार्थनया प्रसीदऽमेद्य ॥ २,२९.४९ ॥ इति स्तुतो जगन्नाथो भक्त्या देवेन शंभुना । आविर्बभूव सहसा माधवो भक्तवत्सलः ॥ २,२९.५० ॥ तं दृष्ट्वा दण्डवद्भूमौ निपपात हरो हरिम् । पुनरुत्थाय विप्रेन्द्र ननाम विधृताञ्जलिः ॥ २,२९.५१ ॥ तमुवाच हृषीकेशः प्रणतं भूतनायकम् । वरं वृणु प्रदास्येऽहं संतुष्टः स्तोत्रतस्तव ॥ २,२९.५२ ॥ तच्छ्रुत्वा भगवद्वाक्यं भूतेशो ब्रह्यहत्यया । पीडितात्मा जगादेदं भुक्तिमुक्तिप्रदं हरिम् ॥ २,२९.५३ ॥ इच्छामि वसितुं क्षेत्रे तव चक्रगदाधर । त्वत्क्षेत्रसीमाबाह्यस्था ब्रह्महत्या यदीक्ष्यते ॥ २,२९.५४ ॥ क्षेत्रदानेन कारुण्यं कुरु मे गरुडध्वज । मम निर्गमने ब्रह्महत्या मां पुनरेष्यति ॥ २,२९.५५ ॥ त्वत्क्षेत्रे संस्थितोऽहं तु पूजां प्राप्स्ये जगत्त्रये । इत्युक्त्वा ह्यभवत्तूष्णीं देवदेवं वृषध्वजः ॥ २,२९.५६ ॥ तथेति प्रतिपेदे च क्षीरसागरजाप्रियः । ततः प्रभृति विप्रेन्द्र शैवं क्षेत्रं निगद्यते ॥ २,२९.५७ ॥ क्षेत्रं तु केशवस्येदं पुराणं कवयो विदुः । कृपया संपरीतस्य माधवस्य द्विजोत्तम ॥ २,२९.५८ ॥ नेत्राभ्यां निर्गतं वारि तेन बिन्दुसरोऽभवत् । माधवस्याज्ञया तत्र सस्नौ देवो वृषध्वजः ॥ २,२९.५९ ॥ स्नातमात्रे हरे तत्तु कपालं पाणितोऽपतत् । कपालमोचनं नाम तत्तीर्थं ख्यातिमागतम् ॥ २,२९.६० ॥ बिन्दुमाधवनामासौ दत्वा स्वं धाम शूलिने । भक्तिभावेन शंभुस्तु निबद्धस्तत्र संस्थितः ॥ २,२९.६१ ॥ यं तु ब्रह्मादयो देवाः स्वःस्थाः पश्यति सर्वदा । सूर्यायुतसमप्रख्य दिगंबरनिषेवितम् ॥ २,२९.६२ ॥ विघ्नानि शूलिना कान्त कृतान्यस्य निषेवणे । यैर्विघ्नैरभिभूतास्तु स्तुत्वा विष्णुं शिवार्चकाः ॥ २,२९.६३ ॥ सर्वे लोकाः स्थिता ह्यत्र शिवः काशीति चिन्तकाः । शिवस्य चिन्तनाद्विप्र शैवाः सर्वे निराकुलाः ॥ २,२९.६४ ॥ प्रयान्ति शिवलोकं वैजरामृत्युविवर्जितम् । बहुपुण्ययुताः संतो निवसंत्तयत्र नीरुजः ॥ २,२९.६५ ॥ यज्ञशिष्टाशिनः काशीकान्त ऋद्धिसमन्विताः । नात्र स्नानं प्रशंसंति न जपं न सुरार्चनम् ॥ २,२९.६६ ॥ नापि दानं द्विजश्रेष्ठ मुक्त्वैकं देहपातनम् । मृत्युं प्रात्युं नरः कामं कृतकृत्यो भवेद्ध्रुवन् ॥ २,२९.६७ ॥ सेयमासादिता विप्रर पुरी प्रासादसंकुला । भोगिनीमपि मोक्षाय किं पुनर्व्रतधारिणाम् ॥ २,२९.६८ ॥ निक्षिप्यतामियं बाला काशीशस्येह मन्दिरे । वियोजिता तु या पूर्वं तेन दुष्टेन रक्षसा ॥ २,२९.६९ ॥ आत्मनः सुरतार्थाय कुमारी नियमान्विता । एष प्रभावोऽपि हितः क्षेत्रस्यास्य द्विजोत्म ॥ २,२९.७० ॥ विनश्यन्तीह कर्माणि शुभान्यप्यशुभानि च । भूतव्यभविष्याणि ज्ञानाज्ञानकृतानि च ॥ २,२९.७१ ॥ एषा पुरी कर्मविनाशनाय कृष्णेन पूर्वं हि विनिर्मिताभूत् । यस्यां मृता दुःखमनन्तमुग्रं भुञ्जन्ति मर्त्या यमयातनां नो ॥ २,२९.७२ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्याने राक्षसीचरिते काशीवर्णनं नाम एकोनत्रिंशोऽध्यायः _____________________________________________________________ काष्ठीलोवाच भार्यायास्तद्वचः श्रुत्वा राक्षस्या धर्मसंमितम् । पृष्ठात्करोणुरूपिण्याः सकन्योऽवातरद्द्विजः ॥ २,३०.१ ॥ अवतीर्णे द्विजे साभूत्सुरूपा प्रमदा पुनः । क्षपाचरी क्षपानाथवक्त्रा पीनोन्नतस्तनी ॥ २,३०.२ ॥ सा कुमारी ततः प्राप्य नगरं स्वपितुः शुभम् । बाह्यरक्षास्थित प्राप्तं पुरपालमुवाच ह ॥ २,३०.३ ॥ गच्छ त्वं नृपतेः पार्श्वं पितुर्मम पुराधिप । ब्रूहि मां समनुप्राप्तां रत्नशालां पुरा हृताम् ॥ २,३०.४ ॥ रत्नावलिं रत्नभूतां सुद्युम्नस्य महीक्षितुः । तल्पस्था रक्षसा रात्रौ स्वपुरस्था हृता द्विज ॥ २,३०.५ ॥ पुनः सा समनुप्राप्ता जीवमानाक्षता पितः । समाश्वसिहि शोकं त्वं मा कृथा मत्कृते क्वचित् ॥ २,३०.६ ॥ अविप्लुतास्मि राजेन्द्र गाङ्गा आप इवामलाः । तव कीर्तिकरी तद्वन्मातुः सौशील्यसूचिका ॥ २,३०.७ ॥ तत्कुमारीवचः श्रुत्वा पुरापालस्त्वरान्वितः । अबाहुरिति विख्यातः प्राप्तः सुद्युम्रसन्निधौ ॥ २,३०.८ ॥ कृतप्रणामः संपृष्टः प्राह राजानमादरात् । राजन्नुपागता नष्टा दिहिता तव मानद ॥ २,३०.९ ॥ रत्नावलीति विख्याता सस्त्रीकद्विदजसंयुता । पुरबाह्ये स्थिता दृष्टा मया ज्ञाता न चाभवत् ॥ २,३०.१० ॥ तयाहं प्रेरितः प्रागां त्वां विज्ञापयितुं प्रभो । अविप्लुताहं वदति मां जानातु समागताम् ॥ २,३०.११ ॥ पितरं मम सत्कृत्यै नात्र कार्या विचारणा । तदद्भुतं वचः श्रुत्वा पुरपालस्य तत्क्षणात् ॥ २,३०.१२ ॥ सामात्यः सकलत्रस्तु सद्विजो निर्ययौ नृपः । स तु गत्वा पुराद्ब्राह्ये गङ्गातीरे व्यवस्थिताम् ॥ २,३०.१३ ॥ अपश्यद्भास्कराकारां सस्त्रीकद्विजसंयुताम् । सहजे नैव वेषेण भूषितां भूषणप्रियाम् ॥ २,३०.१४ ॥ अम्लानकुसुमप्रख्यां तत्पकाञ्चनसुप्रभाम् । दूराद्दृष्ट्वान्तिकं गत्वा पर्यष्वजत भूपतिः ॥ २,३०.१५ ॥ पितरं सापि संहृष्टा समाश्लिष्य ननाम ह । ततश्च मात्रा संगम्य हृष्टया हर्षितान्तरा ॥ २,३०.१६ ॥ प्राह वाक्यं विशालाक्षी संबोध्य पितरं नृपम् । सुप्ताहं रत्नशालायां सखीभिः परिवारिता ॥ २,३०.१७ ॥ उदकूकृत्वा शिरस्ताताधौताङ्घ्रिर्मञ्चकोपरि । चिन्तयत्नी भर्तृयोगं निशीथे रक्षसा हृता ॥ २,३०.१८ ॥ स मां गृहीत्वा स्वपुरं प्रागादर्णवगे गिरौ । नानारत्नमये तत्र गुहायां स्थापिता ह्यहम् ॥ २,३०.१९ ॥ स तत्रोद्वहनोपायचिन्तयान्तर्व्यवस्थितः । तस्य भार्या त्वियं सुभ्रूर्या तिष्ठति सुमध्यमा ॥ २,३०.२० ॥ बिभ्रती मानुषं रूपं राक्षसी राक्षसप्रिया । अनया बुद्धियोगेन शक्त्या शक्रस्य भूपते ॥ २,३०.२१ ॥ घातितो विप्रहस्तेन क्रूरकर्मा पतिः स्वकः । पुरैव मम तं शैलं प्राप्तो देवेन भूसुरः ॥ २,३०.२२ ॥ इयं तु राक्षसी दृष्ट्वा पतिं स्वं धर्मदूषकम् । विप्रेण संविदं कृत्वा दांपत्ये निजकर्मणा ॥ २,३०.२३ ॥ रूपेणाप्यस्य संमुग्धा घातयामास राक्षसम् । एवं कृत्वा पतिं विप्रं हस्तिनीरूपधारिणी ॥ २,३०.२४ ॥ गृहीत्वा वास्तुकं वित्तं पृष्ठमारोप्य मामपि । समायातात्र भूपाल मामत्तुं तव मन्दिरम् ॥ २,३०.२५ ॥ अनया रक्षिता राजन् राक्षस्याराक्षसात्ततः । तस्मादिमां पूजयस्व सत्कृत्याग्रजसंयुताम् ॥ २,३०.२६ ॥ अस्या एवामुमत्या मां देह्यस्मै ब्राह्मणाय हि । अनेनैकासनगता जाता भर्ता स मे भवत् ॥ २,३०.२७ ॥ येनैकासनगा नारी भवेद्भर्ता स एव हि । नान्य इत्थं पुराणेषु श्रूयते ह्यागमेष्वपि ॥ २,३०.२८ ॥ अस्याः पृष्ठे निविष्टाहं प्रीत्या सह द्विजन्मना । धर्मत स्तेन मद्भर्ता भवेदेषा मतिर्मम ॥ २,३०.२९ ॥ तस्मादिमां सांत्वयित्वा शास्त्रागमविधानतः । देहि विप्राय मां तात पितमन्यं वृणे न च ॥ २,३०.३० ॥ तच्छ्रुत्वा दुहितुर्वाक्यं सुद्युम्नो भूपतिस्तदा । सांत्वयामास तन्वङ्गीं राक्षसीं प्रश्रयानतः ॥ २,३०.३१ ॥ सुतैषा धर्मभीता मे त्वामेव शरणं गता । यदर्थं निहतः कान्तस्त्वया पूर्वतरः सति ॥ २,३०.३२ ॥ त्वदधीना ततो भद्रे जातेयं मत्सुता किल । इममिच्छति भर्तारं योऽयं भर्ता कृतस्त्वया ॥ २,३०.३३ ॥ मया प्रणामदानाभ्यां याचिता त्वं निशाचरि । अनुमोदय साहाय्ये सुतां मम सुलोचने ॥ २,३०.३४ ॥ त्वद्वाक्याद्भवतु प्रेष्या मत्सुता ब्राह्मणस्य तु । सापत्नभावं त्यक्त्वा तु सुतां मे परिपालय ॥ २,३०.३५ ॥ सुताया मम भार्याया मद्बलस्य जनस्य च । पुरस्य विषयस्यापि स्वामिनी त्वं न संशयः ॥ २,३०.३६ ॥ तव वाक्ये स्थिता ह्येषा सदैवापि भविष्यति । एतच्छ्रुत्त्वा तु वचनं सुद्युम्नस्य निशाचरी ॥ २,३०.३७ ॥ अन्वमोदत शुद्धेन चेतसा सहचारिणी । उवाच च धरापालं प्रदानाय कृतोद्यमम् ॥ २,३०.३८ ॥ यदर्थं प्रणतस्त्वं मां सद्भावेन नृपोत्तम । तस्माद्द्वितीया भार्येयं भवत्वस्य द्विजन्मनः ॥ २,३०.३९ ॥ अहं च भवता पूज्या कृत्वार्चां देवमन्दिरे । सर्वैश्च नागरैः सार्द्धं फाल्गुने धवले दले ॥ २,३०.४० ॥ सप्ताहमुत्सवः कार्यो ह्यष्टम्या आचतुर्दशीम् । नटनर्तकयुक्तेन गीतवाद्येन भूरिणा ॥ २,३०.४१ ॥ मैरेयमांसरक्तादिबलिभिश्चापि पूजया । एवं प्रकुर्वते तुभ्यं सदा क्षेमकरी ह्यहम् ॥ २,३०.४२ ॥ भवेयं नृपशार्दूल स्वं वचः प्रतिपालय । तच्छ्रुत्वा वचनं तस्याः सुद्युम्नो नृपतिस्तदा ॥ २,३०.४३ ॥ अङ्गीचकार तत्सर्वं यदुक्तं प्रीतया तया । प्रतिपन्ने तु वचसि राज्ञा तुष्टा तु राक्षसी ॥ २,३०.३४ ॥ उवाच ब्राह्मणं प्रेम्णा कुरु भार्यामिमामपि । राजकन्यां द्विजश्रेष्ठ गृह्योक्तविधिना शुभाम् ॥ २,३०.४५ ॥ ईर्ष्यां त्यक्त्वा विशालाक्ष्या भवाम्येषा सहोदरी । राक्षस्या वचनेनेह परिणीय नृपात्मजाम् ॥ २,३०.४६ ॥ बहुवित्तयुतां विप्रो महोदयपुरं ययौ । आरुह्य करिणीरूपां राक्षसीं क्षणमात्रतः ॥ २,३०.४७ ॥ ततो मया श्रुतं देवि भर्ता ते समुपागतः । धनरत्नसमायुक्तो भार्याद्वयसमन्वितः ॥ २,३०.४८ ॥ ततोऽहं बन्धुवर्गेण पितृभ्यां च सखीगणैः । बहुशो भर्त्सिता रूक्षैर्वचनैर्मर्मभेदिभिः ॥ २,३०.४९ ॥ कथं यास्यसि भर्तारं धनलुब्धे श्रिया वृतम् । यस्त्वया निर्द्धनः पूर्वं परित्यक्तः सुदीनवत् ॥ २,३०.५० ॥ चञ्चलानीह वित्तानि पित्र्याणि किल योषिताम् । कान्तार्जितानि सुभगे स्थिराणीति निगद्यते ॥ २,३०.५१ ॥ परुषैर्वचनैर्यस्तु क्षिप्तस्तद्भाषणं कथम् । भविष्यति प्रवेशोऽपि दुष्करस्तस्य वेश्मनि ॥ २,३०.५२ ॥ गताया अपि ते तत्र शयनं पतिना सह । भविष्यति दुराचारे सुखदं न कदाचन ॥ २,३०.५३ ॥ लोकापवादाद्यदि चेद्ग्रहीष्यति पतिस्तव । त्वां स्नेहहीनचित्तस्तु न कदाचिन्मिलिष्यति ॥ २,३०.५४ ॥ नेदृशं दुःखदं किञ्चिद्यादृशं दूरचित्तयोः । दंपकत्योर्मिलनं लोके वैकल्यकरणं महत् ॥ २,३०.५५ ॥ एवं बहुविधा वाचः शृण्वाना बन्धुभाषिताः । अधोमुख्यस्रुपूर्णाक्षी बभूवाहं सुदुःखिता ॥ २,३०.५६ ॥ चेतसार्चितयं चाहं पूर्वलोभेन मुह्यती । न दत्तं कङ्कणं पाणेर्न दत्तं कटिसूत्रकम् ॥ २,३०.५७ ॥ न चापि नूपुरे दत्ते येन तुष्टिं व्रजेत्पतिः । धनजीवितयोः स्वामी भर्ता लोकेषु गीयते ॥ २,३०.५८ ॥ तन्मयापहृतं वित्तं भवित्री का गतिर्मम । कथं यास्यामि तद्वेश्म कथं संभाषये पुनः ॥ २,३०.५९ ॥ यो मया दुष्टया त्यक्तः स प्रत्येति कथं हि माम् । एवं विचिंये यादद्धृदयेन विदूयता ॥ २,३०.६० ॥ वेष्टिता बन्धुवर्गेण तावद्दोला समागता । छत्रेण शशिवर्णेन शोभमाना सुकोमला ॥ २,३०.६१ ॥ आस्तृता राङ्कवैः पीनैः पुरुषोर्विधृतांसकैः । ते समागत्य पुरुषाः प्रोचुर्मामसकृच्छभे ॥ २,३०.६२ ॥ आकारितासि पत्या ते व्रज शीघ्रं मुदान्विता । धनरत्नयुतो भर्ता सद्धिभार्यः समागतः ॥ २,३०.६३ ॥ प्रविष्टमात्रेण गृहे त्वामानेतुं वरानने । प्रेषिताः सत्वरं पत्या संस्थितां पितृवेश्मनि ॥ २,३०.६४ ॥ ततोऽहं व्रीडिता देवि भर्तुस्तद्वीक्ष्य चेष्टितम् । नैवोत्तरमदां तेभ्यः किञ्चिन्मौनं समास्थिता ॥ २,३०.६५ ॥ ततोऽहं बन्धुवर्गेण भूयोभूयः प्रबोधिता । आहूता स्वामिना गच्छ सम्मानेन तदन्तिकम् ॥ २,३०.६६ ॥ स्वामिनाकारिता पत्नी या न याति तदन्तिकम् । सा तु ध्वाङ्क्षी भवेत्पुत्रि जन्मानि दश पञ्च च ॥ २,३०.६७ ॥ एवमुक्त्वा समाश्वास्य मां गृहीत्वा त्वरान्विताः । दोलामारोप्य गच्छेति प्रोचुः स्निग्धा मुहुर्मुर्हुः ॥ २,३०.६८ ॥ ततस्ते पुरुषा दोलां निधायांसेषु सत्वरम् । जग्मुर्महोदयपुरं यत्र तिष्ठति मे पतिः ॥ २,३०.६९ ॥ दृष्टं मया गृहं तस्य सर्वतः काञ्चनावृतम् । आसनीयैश्च भोज्यैश्च धनैर्वस्त्रैर्युतं ततः ॥ २,३०.७० ॥ अथ सा राक्षसी देवी सा चापि नृपनन्दिनी । प्रीत्या च भक्त्या कुरुतां प्रणतिं मम सुन्दरि ॥ २,३०.७१ ॥ ततस्ताभ्याममहं प्रेम्णा यथार्हमभिपूजिता । भर्तृवाक्येन संप्रीता स्नात्वाभुजं तथाहृता ॥ २,३०.७२ ॥ ततोऽस्तसमयात्पश्चाद्भर्ता चाहूय सत्वरम् । परिष्वज्य चिरं दोर्भ्यां पर्यङ्के संन्यवेशयत् ॥ २,३०.७३ ॥ ततो निशाचरीं राजपुत्रीं चाहूय सोऽब्रवीत् । भक्त्या युवाभ्यां कर्तव्यमस्याश्चरणसेवनम् ॥ २,३०.७४ ॥ इयं प्राक्कालिकी भार्या ज्येष्ठा च युवयोर्द्भुवम् । पत्युर्वाक्यात्ततस्ताभ्यां गृहीतौ चरणौ मम ॥ २,३०.७५ ॥ सापत्नभावजामीर्ष्यां परित्यज्य सुलोचने । ततः प्रेष्यान्समाहूय भर्ता मे वाक्यमब्रवीत् ॥ २,३०.७६ ॥ यत्किञ्चिद्रक्षसः पार्श्वान्मया प्राप्तं पुरा वसु । सुतामुद्वहतो राज्ञो यच्च लब्धं मयाखिलम् ॥ २,३०.७७ ॥ तत्सर्वं भक्तिभावेन समानयत मा चिरम् । इयं हि स्वामिनी प्राप्ता तस्य वित्तस्य किङ्कराः ॥ २,३०.७८ ॥ तद्वाक्यात्सहसा प्रेष्यैः समानीतं धनं शुभे । भर्ता समर्पयामास प्रीत्या युक्तोऽखिलं तदा ॥ २,३०.७९ ॥ सत्कृत्य भूषणैर्वस्त्रैख्यलीकेन चेतसा । उभयोस्तत्र पश्यन्त्यो राक्षसीराजकन्ययोः ॥ २,३०.८० ॥ पर्यङ्कस्थां परिष्वज्य मां चुञ्चुबाधरे शुभे । तद्दृष्ट्वा चाद्भुतं भर्तुर्देहवित्तसमर्पणम् ॥ २,३०.८१ ॥ उल्लासकरण वाक्यं करेण कुचपीडनम् । छिन्ना गौरिव खङ्गेन गताः प्राणा ममाभवन् ॥ २,३०.८२ ॥ ततोऽहं यमनिर्द्दिष्टां प्राप्ता नरकयातनाम् । तामतीत्य सुदुःखार्ता काष्ठीला चाभवं शुभे ॥ २,३०.८३ ॥ यास्यामि पुनरेवाहं तिर्यग्योनिं सहस्रशः । या भर्तुर्नापयेद्वित्तं जीवितं च शुभानने ॥ २,३०.८४ ॥ सापीदृशीमवस्था वै यास्यत्येव न संशयः । एवं ज्ञात्वानिशं रक्षेत्पत्युर्वित्तं च जीवितम् ॥ २,३०.८५ ॥ पतिर्माता पिता वित्तं जीवितं च गुरुर्गतिः ॥ २,३०.८६ ॥ प्रयाति नारी बहुभिः सुपुण्यैः सहैव भर्त्रा स्वशरीरदाहात् । विष्णोः पदं वित्तशरीरलुब्धा प्रयाति यामीं च कुयोनिपीडाम् ॥ २,३०.८७ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलाचरितं नाम त्रिंशत्तमोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच तच्छ्रुत्वा वचनं तस्याः काष्ठीलायाः शुचिस्मिते । सन्ध्यावली नाम भृशं तामुवाच ह सादरम् ॥ २,३१.१ ॥ त्वद्वाक्याद्विस्मयो जातः काष्ठीले सांप्रतं मम । कथं दृष्टा मया त्वं च यास्यन्ती कुत्सितां गतिम् ॥ २,३१.२ ॥ कर्मणा केन ते मुक्तिर्भवेत्कुत्सितयोनितः । तन्मे वद विशालाङ्गे त्वां दृष्ट्वा दुःखिता ह्यहम् ॥ २,३१.३ ॥ मांसपिण्डोपमं श्लक्ष्णं नवनीतोपमं शुभे । शरीरं तव संवीक्ष्य तया मे जायते हृदि ॥ २,३१.४ ॥ काष्ठीलोवाच पृथिवीं दास्यसे सुभ्रु सकलामपि मत्कृते । तथापि नैव मुच्येयं सद्यः कुत्सितयोनितः ॥ २,३१.५ ॥ येन पुण्येन सुभगे मुच्येयं कर्मबन्धनात् । तन्निर्दिशामि सुमहद्गतिदं त्वं निशामय ॥ २,३१.६ ॥ यश्चायं माघमासस्तु सर्वमासोत्तमः स्मृतः । यस्मिन् क्रोशन्ति पापानि ब्रह्महत्यादिकानि च ॥ २,३१.७ ॥ दुर्लभो माघमासो वै दुर्ल्लभं जन्म मानुषम् । दुर्ल्लभं चोषसि स्नानं दुर्लभं कृष्णसेवनम् ॥ २,३१.८ ॥ दुर्लभो वासरो विष्णोर्विधिना समुपोषितः । देवैस्तेजः परिक्षिप्तं माघमासे स्वकं जले ॥ २,३१.९ ॥ तस्माज्जलं माघमासे पावनं हि विशेषतः । नेदृशी संगरे शूरैर्गतिः प्राप्येत सौख्यदा ॥ २,३१.१० ॥ यादृशी प्लवने प्रातः प्राप्यते नियमस्थितैः । सरित्तडागवापीषु स्नाने सत्तममीरितम् ॥ २,३१.११ ॥ कूपभाण्डजलैर्मध्यं जघन्यं वह्नितापितैः । न सौख्यैर्लभ्यते पुण्यं दुःखैरेवाप्यते तु तत् ॥ २,३१.१२ ॥ धर्म्मसेवार्थकं स्नानं नाङ्गनैर्मल्यहेतुकम् । होमार्थं सेवनं वह्नेर्न च शीतादिहानये ॥ २,३१.१३ ॥ यावन्नोदयते सूर्यस्तावत्स्नानं विधीयते । आच्छादिते घनैर्व्योम्नि ह्युद्गमिष्यन्तमर्थयेत् ॥ २,३१.१४ ॥ अभावे सरिदादीनां नवकुंभस्थितं जलम् । वायुना ताडितं रात्रौ स्नाने गङ्गासमं विदुः ॥ २,३१.१५ ॥ माघस्नायी वरारोहे दुर्गतिं नैव पश्यति । तन्नास्ति पातकं यत्तु माघस्नानं न शोधयेत् ॥ २,३१.१६ ॥ अग्निप्रवेशादधिकं माघोषस्येव मज्जनम् । जीवता भुज्यते दुःखं मृतेन बहुलं सुखम् ॥ २,३१.१७ ॥ एतस्मात्कारणाद्भद्रे माघस्नानं विशिष्यते । अहन्यहनि दातव्यास्तिलाः शर्करयान्विताः ॥ २,३१.१८ ॥ मेघपुंष्पोपपन्नेन सहान्नेन सुमध्यमे । यावकैश्चैव होतव्या गव्यसर्पिः समन्वितैः ॥ २,३१.१९ ॥ माध्यां स्नानसमाप्तै तु दद्याद्विप्राय षड्रसम् । सूर्यो मे प्रीयतां देवो विष्णुमूर्तिर्निरञ्जनः ॥ २,३१.२० ॥ वासांसि द्विजयुग्माय स सप्तान्नानि चार्पयेत् । त्रिंशच्च मोदका देयास्तिलान्नाः शर्करामयाः ॥ २,३१.२१ ॥ भागास्त्रयस्तिलानां तु चतुर्थः शर्करांशकः । तांबूलादीनि भोग्यानि भक्त्यादकद्याद्विधानवित् ॥ २,३१.२२ ॥ स्रोतोमुखः सरिति चान्यत्र भास्करसंमुखः । स्नायादावाह्य तीर्थानि गङ्गादीन्य कर्मण्डलात् ॥ २,३१.२३ ॥ यदनेकजनुर्जन्यं यज्ज्ञानाज्ञानतः कृतम् । त्वत्तेजसा हतं चास्तु तत्तु पापं सहस्रधा ॥ २,३१.२४ ॥ दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते । परिपूर्णं कुरुष्वेदं माघस्नानं ममाच्युत ॥ २,३१.२५ ॥ तीर्थस्नायी वरारोहे माघस्नायी फलाल्पकः । तीर्थस्नानादियात्स्वर्गं माघस्नानात्परं पदम् ॥ २,३१.२६ ॥ माघस्य धवले पक्षे भवेदेकादशी तु या । रविवारेण संयुक्ता महापातकनाशिनी ॥ २,३१.२७ ॥ विनापि ऋक्षसंयोगं सा शुक्लैकादशी नृणाम् । विनिर्दहति पापानि कुनृपो विषयं यथा ॥ २,३१.२८ ॥ कुपुत्रस्तु कुलं यद्वत्कुभार्या च पतिं यथा । अधर्मस्तु यथा धर्मं कुमन्त्री नृपतिं यथा ॥ २,३१.२९ ॥ अज्ञानं च यथा ज्ञानं कुशौचं शुचितां यथा । यथा हन्त्यनृतं सत्यं वादस्संवादमेव च ॥ २,३१.३० ॥ उष्णं हिममनर्थोर्ऽथं पापं कीर्तिं स्मयस्तपः । यथा रसा महारोगाञ्छ्राद्धं संकेत एव च ॥ २,३१.३१ ॥ तथा दुरितसंघं तु द्वादशी हन्ति साधिता । ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥ २,३१.३२ ॥ महान्ति पातकान्येतान्याशु हन्ति हरेर्दिनम् । समवेतानि चैतानि न शामयति पुष्करम् ॥ २,३१.३३ ॥ न चापि नैमिषारण्यं न क्षेत्रं कुरुसंज्ञितम् । प्रभासो न गया देवि न रेवा न सरस्वती ॥ २,३१.३४ ॥ न गगा यमुना चैव प्रयागो न च देवका । न सरांसि नदाश्चान्ये होमदानतपांसि च ॥ २,३१.३५ ॥ न चान्यत्सुकृतं सुभ्रु पुराणे पठ्यते स्फुटम् । पापसंघविनाशाय मुक्त्वैकं हरिवासरम् ॥ २,३१.३६ ॥ उपोषणात्सकृद्देवि विनश्यन्त्यघराशयः । एकतः पृथिवीदानमेकतो हरिवासरम् ॥ २,३१.३७ ॥ न समं ब्रह्मणा प्रोक्तमधिकं हरिवासरम् । तस्मिन्वराहवपुषं कृत्वा देवं तु हाटकम् ॥ २,३१.३८ ॥ घटोपरि नवे पात्रे धृत्वा ताम्रमये शुभे । सर्वबीजान्विते चैव सितवस्त्रावगुण्ठिते ॥ २,३१.३९ ॥ सहिरण्ये सुदीपाढ्ये कृतपुष्पावतंसके । विधिना पूजयित्वा चकुर्याज्जागरणं व्रती ॥ २,३१.४० ॥ प्रातर्विप्राय दद्याच्च वैष्णवाय कुटुंबिने । तत्कुंभक्रोडसंयुक्तं सनैवेद्यपरिच्छदम् ॥ २,३१.४१ ॥ पश्चाच्च पारणं कुर्याद्द्विजान्भोज्य सुहृद्वृतः । एवं कृते वरारोहे न भूयो जायते क्वचित् ॥ २,३१.४२ ॥ बहुजन्मार्ज्जितं पापं ज्ञानाज्ञानकृतं च यत् । तत्सर्वं नाशमायाति तमः सूर्योदये यथा ॥ २,३१.४३ ॥ यथाशास्त्रं मया तुभ्यं वर्णिता द्वादशी शुभे । या सा कृता त्वया पूर्वमासीद्देव्यन्यजन्मनि ॥ २,३१.४४ ॥ यस्यास्तवातुला पुष्टिर्वर्तते वर्तयिष्यति । भर्त्तुस्तव च पुत्रस्य सर्वदा सुखदायिनी ॥ २,३१.४५ ॥ तस्यास्त्वया तुरीयांशो देयश्चेन्मह्यमादरात् । तदा प्रीता गमिष्यामि तद्विष्णोः परमं पदम् ॥ २,३१.४६ ॥ वित्ताह्रुतिजं पापं यद्भूतं मम सुंदरि । तस्य पावनहेतुं च तुरीयांशं प्रयच्छ मे ॥ २,३१.४७ ॥ जीवितेनापि वित्तेन भर्तारं वञ्चयेत्तु या । कृमियोनिशतं गत्वा पुल्कसी जायते तु सा ॥ २,३१.४८ ॥ सुरतं याचमानाय पत्ये वित्तं च मानिनि । या न यच्छति दुर्बुद्धिः काष्ठीला जायते ध्रुवम् ॥ २,३१.४९ ॥ तत्पातकविशुद्ध्यर्थं देहि मे द्वादशीभवम् । तुरीयांशमितं पुण्यं यद्यस्ति मयि ते घृणा ॥ २,३१.५० ॥ एतच्छ्रुत्वा वचस्तस्याः काष्ठीलायाः सुलोचने । पुण्यं दत्तवती तस्यै पाणौ वारि प्रगृह्य च ॥ २,३१.५१ ॥ यत्कृतं हि मया पूर्वमेकादश्या मुपोषणम् । तत्तुरीयांशपुण्येन काष्ठीलेयं विमुच्यताम् ॥ २,३१.५२ ॥ पूर्वजन्मकृतात्पापात्सत्यं सत्यं मयोदितम् । एवमुक्ते तु वचने मया विद्युत्समप्रभा ॥ २,३१.५३ ॥ दृष्टा दिव्यविमानस्था गच्छन्ती वैष्णवं पदम् । पतिर्हि दैवतं लोके वञ्चनीयो न भार्यया ॥ २,३१.५४ ॥ देहेन चापि वित्तेन यदीच्छेच्छोभनां गतिम् । सा त्वं ब्रूहि प्रदास्यामि भर्तुरर्थे तवेप्सितम् ॥ २,३१.५५ ॥ वित्तं देहं तथा पुत्रं यच्चान्यद्वा वरानने । किमन्यद्दैवतं लोके स्त्रीणामेकं पतिं विना ॥ २,३१.५६ ॥ तस्यार्थे वा त्यजेद्वित्तं जीवितं वा सुलोचने । कल्पकोटिशतं साग्रं विष्णुलोके महीयते ॥ २,३१.५७ ॥ अग्न्यादिसाक्ष्ये वृतमीक्ष्य निष्ठुरा युक्तं सुधोरैर्व्यसनैर्द्विजात्मजा । पतिं ददौ नैव च याचिता धनं तेनैव पापेन बभूव कीटा ॥ २,३१.५८ ॥ एतन्मया दुष्टमनङ्गयष्टि कौमारभावे पितृवेश्मवासे । ज्ञात्वा हितं तथ्यमिदं स्वभर्तुर्ददामि सर्वं च गृहाण सुभ्रु ॥ २,३१.५९ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्याने माघमाहात्म्यं नामैकत्रिंशोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच संध्यावलीवचः श्रुत्वा मोहिनी दुहिता विधेः । उवाच तत्परा स्वीये कार्ये मोहकरण्डिका ॥ २,३२.१ ॥ यद्येवं त्वं विजानासि धर्माधर्मगतिं शुभे । भर्तुरर्थे प्रदात्री च धनजीवितयोरपि ॥ २,३२.२ ॥ तदाहं याचये वित्तं जीवितादधिकं शुभे । देहि पुत्रशिरोः मह्यं यदिष्टं हृदयाधिकम् ॥ २,३२.३ ॥ यदि नो भोजनं कुर्यात्संप्राप्ते हरिवासरे । तदा स्वहस्ते संगृह्य खड्गं राजा पतिस्तव ॥ २,३२.४ ॥ धर्माङ्गदशिरश्चारु चन्द्रबिंबोपमं शुभम् । अजातश्मश्रुकं चैव कुण्डलाभ्यां विभूषितम् ॥ २,३२.५ ॥ छित्वा शीघ्रं पातयतु ममोत्संगे सुलोचने । एतद्वा कुरुतद्भद्रे यदान्नं न भुनक्ति च ॥ २,३२.६ ॥ दिने माधवदेवस्य पापसंघविनाशने । तच्छ्रुत्वा वचनं तस्या मोहिन्याः कटुकाक्षरम् ॥ २,३२.७ ॥ प्रचकंपे क्षणं देवी शीतार्ता कदली यथा । संध्यावली ततो धैर्यमास्थाय वरवार्णिनी ॥ २,३२.८ ॥ उवाच मोहिनीं वाक्यं सुमुखी प्रहसंत्यपि । श्रूयन्ते हि पुराणेषु गाथाः सुभ्रु समीरिताः ॥ २,३२.९ ॥ द्वादशी प्रति संबद्धाः स्वर्गमोक्षप्रदायिकाः । धनं त्यजेत्त्यजेद्दाराञ्जीवितं च गृहं त्यजेत् ॥ २,३२.१० ॥ त्यजेद्देशं तथा भूपं स्वर्गं मित्रं गुरुं त्यजेत् । त्यजेत्तीर्थं त्यजेद्धर्मं त्यजेदत्यन्तसुप्रियम् ॥ २,३२.११ ॥ त्यजेद्योगं त्यजेद्दानं ज्ञानं पुण्यक्रिया त्यजेत् । तपस्त्यजेत्त्यजेद्विद्यां सिद्धिं मोक्षं त्यजेच्छुभे ॥ २,३२.१२ ॥ न त्यजेद्द्वादगशीं पुण्यां पक्षयोरुभयोरपि । इह संबन्धिनः सर्वे पुत्रभ्रातृसुहृत्प्रियाः ॥ २,३२.१३ ॥ ऐहिकामुष्मिके देवि साधनी द्वादशी स्मृता । द्वादश्यास्तु प्रभावेण सर्वं क्षेमं भविष्यति ॥ २,३२.१४ ॥ दापये तव तुष्ट्यर्थं धर्माङ्गदशिरः शुभे । विश्वासं कुरु मे वाक्ये सुखिनी भव शोभने ॥ २,३२.१५ ॥ इहार्थं श्रूयते भद्रे इतिहासः पुरातनः । कथयिष्यामि ते भद्रे सावधाना श्रुणुष्व मे ॥ २,३२.१६ ॥ आसीद्विरोचनः पूर्वं दैत्यो धर्मपरायणः । तस्य भार्या विशालाक्षी द्विजपूजनतत्परा ॥ २,३२.१७ ॥ नित्यमेकमृषिं प्रातः पूजयित्वा यथाविधि । पादोदकं तस्य सुभ्रु भक्त्या पिबति हृष्टधीः ॥ २,३२.१८ ॥ प्राह्लादिशङ्किता देवा आसन्पूर्वं मृते सति । हिरण्यकशिपौ राज्यं शासति ह्युग्रतेजसि ॥ २,३२.१९ ॥ प्राह्लादौ ह्लादसंयुक्ते चेरुर्व्यग्रा महीतले । एकदा शक्रमुख्यास्ते देवाः समन्त्र्य वाक्पतिम् ॥ २,३२.२० ॥ प्रोचुः किं कार्यमधुनास्माभिः शत्रु प्रतापितैः । तच्छ्रुत्वा वचनं तेषां देवानां गुरुरब्रवीत् ॥ २,३२.२१ ॥ विष्णुर्विज्ञापनीयोऽद्य दुःखं प्राप्तैः सुरव्रजैः । तच्छ्रुत्वा भाषितं तस्य गुरोरमिततेजसः ॥ २,३२.२२ ॥ विरोचनप्राणहत्यै जग्मुर्वैकुण्ठमन्तिके । तत्र गत्वा सुरश्रेष्ठं वैकुण्ठं तुष्टुवुः स्तवैः ॥ २,३२.२३ ॥ देवा ऊचुः नमो देवाधिदेवाय विष्णवेऽमिततेजसे । भक्तविघ्नविनाशाय वैकुण्ठाय नमो नमः ॥ २,३२.२४ ॥ हरयेऽद्भुतसिंहाय वामनाय महात्मने । क्रोडरूपाय मत्स्याय प्रलयाब्धिनिवासिने ॥ २,३२.२५ ॥ कूर्माय मन्दरधृते भार्गवायाब्धिशायिने । रामायाखिलनाथाय विश्वेशाय च साक्षिणे ॥ २,३२.२६ ॥ दत्तात्रेयाय शुद्धाय कपिलायार्तिहारिणे । यज्ञाय धृतधर्माय सनकादिस्वरूपिणे ॥ २,३२.२७ ॥ ध्रुवस्य वरदात्रे च पृथवे भूरिकर्मणे । ऋषभाय विशुद्धाय हयशीर्षभृतात्मने ॥ २,३२.२८ ॥ हंसायागमरूपायामृतकुम्भविधारिणे । कृष्णांय वासुदेवाय संकर्षणवपुर्धृते ॥ २,३२.२९ ॥ प्रद्युम्नायानिरुद्धाय ब्रह्मणे शङ्कराय च । कुमाराय गणेशाय नन्दिने भृङ्गिणे नमः ॥ २,३२.३० ॥ गन्धमादनवासाय नरनारायणाय च । जगन्नाथाय नाथाय नमो रामेश्वराय च ॥ २,३२.३१ ॥ द्वारकावासिने चैव तुलसी वनवासिने । नमः कमलनाभाय नमस्ते पङ्कजाङ्घ्रये ॥ २,३२.३२ ॥ नमः कमलहस्ताय कमलाक्षाय ते नमः । कमलाप्रतिपालाय केशवाय नमो नमः ॥ २,३२.३३ ॥ नमो भास्कररूपाय शशिरूपधराय च । लोकपालस्वरूपाय प्रजापतिवपुर्धृते ॥ २,३२.३४ ॥ भूतग्रामस्वरूपाय जीवरूपाय तेजसे । जयाय जयिने नेत्रे नियमाय क्रियात्मने ॥ २,३२.३५ ॥ निर्गुणाय निरीहाय नीतिज्ञायाक्रियात्मने । बुद्धाय कल्किरूपाय क्षेत्रज्ञायाक्षराय च ॥ २,३२.३६ ॥ गोविन्दाय जगद्भर्त्रेऽनन्तायाद्याय शार्ङ्गिणे । शङ्खिने गदिने चैव नमश्चक्रधराय च ॥ २,३२.३७ ॥ खड्गिने शूलिने चैव सर्वशस्त्रास्त्रघातिने । शरण्याय वरेण्याय पराय परमात्मने ॥ २,३२.३८ ॥ हृषीकेशाय विश्वाय विश्वरूपाय ते नमः । कालनाभाय कालाय शशिसूर्य्यदृशे नमः । पूर्णाय परिसेव्याय परात्परतराय च ॥ २,३२.३९ ॥ जगत्कर्त्रे जगद्भर्त्रे जगद्धात्रेंऽतकाय च । मोहिने क्षोभिने कामरूपिणेऽजाय सूरिणे ॥ २,३२.४० ॥ भगवंस्तव संप्राप्ताः शरणं दैत्यतापिताः । तद्विधत्स्वाखिलाधार यथा हि सुखिनो वयम् ॥ २,३२.४१ ॥ पुत्रमित्रकलत्रादिसंयुता विहरामहे । तच्छ्रुत्वा स्तवनं तेषां वैकुण्ठः प्रीतमानसः ॥ २,३२.४२ ॥ प्रददौ दर्शनं तेषां दैत्यसं संतापितात्मनाम् । ते दृष्ट्वा देवदेवेशं वैकुण्ठं स्निग्धमानसम् ॥ २,३२.४३ ॥ विरोचनवधायाशु प्रार्थयामासुरादरात् । तच्छ्रुत्वा शक्रमुख्यानां कार्यं कार्यविदां वरः ॥ २,३२.४४ ॥ समाश्वास्य सुरान्प्रीत्या विससर्ज मुदान्वितान् । गतेषु देववर्गेषु सर्वोपायविदांवरः ॥ २,३२.४५ ॥ वृद्धब्राह्मणरूपेण विरोचनगृहं ययौ । द्विजपूजनकाले तु संप्राप्तः कार्यसाधकः ॥ २,३२.४६ ॥ तं तु दृष्ट्वा विशालाक्षी ब्राह्मणं हृष्टमानसा । अपूर्वं भक्तिभावेन ददौ सत्कृत्य चासनम् ॥ २,३२.४७ ॥ सोऽनङ्गीकृत्य तद्दत्तमासनं प्राह तां शुभे । नाहं समाददे देवि त्वद्दत्तं परमासनम् ॥ २,३२.४८ ॥ शृणु मे कार्यमतुलं यदर्थमहमागतः । यन्मे मनोगतं कार्यं तद्विज्ञाय च मानिनि ॥ २,३२.४९ ॥ योंऽगीकरोति तत्पूजां ग्रहीष्यामि वरानने । तच्छ्रुत्वा वृद्धविप्रस्य वाक्यं वाक्यविशारदा ॥ २,३२.५० ॥ मायया मोहिता विष्णोः स्त्रीत्वाच्चाहातिहर्षिता । विशालाक्ष्युवाच यत्ते मनोगतं विप्र तद्दास्यामि गृहाणमे ॥ २,३२.५१ ॥ आसनं पादसलिलं देहि मे वाञ्छितार्थदम् । इत्युक्तः स द्विजः प्राह न प्रत्येमि स्त्रिया वचः ॥ २,३२.५२ ॥ तव भर्ता यदि वदेत्तदा मे प्रत्ययो भवेत् । तदाकर्ण्य द्विजेनोक्तं विरोचनगृहेश्वरी ॥ २,३२.५३ ॥ पतिमाकारयामास तत्रैव द्विजसन्निधौ । स प्राप्तो दूतवाक्येन प्राह्लादिर्हृष्टमानसः ॥ २,३२.५४ ॥ अन्तःपुरं यत्र भार्या विशालाक्षी समास्थिता । तमागतं समालोक्य पतिं धर्मपरायणा ॥ २,३२.५५ ॥ उत्थाय नत्वा विप्राग्र्यमासनं पुनरर्पयत् । यदा तु जगृहे नैव दत्तमासनमादरात् ॥ २,३२.५६ ॥ राजानं कथयामास दैत्यानां पतिमात्मनः । तद्दृत्तान्तमुपाज्ञाय दैत्यराट्स विरोचनः ॥ २,३२.५७ ॥ भार्यास्नेहेन मुग्धात्मा तत्तदाङ्गीचकार ह । अङ्गीकृते तु दैत्येन तद्विज्ञाय च मानसम् ॥ २,३२.५८ ॥ उवाच ब्राह्मणो हृष्टः स्वमायुर्मम कल्पय । ततस्तु दंपती तत्र मुग्धौ स्वकृतया शुचा ॥ २,३२.५९ ॥ मुहूर्तं ध्यानमास्थाय करौ बद्धोचतुर्द्विजम् । गृहाण जीवितं विप्र देहि पादोदकं मम ॥ २,३२.६० ॥ त्वयोक्तं वचनं सत्यं कुर्वः प्रीतिमवाप्नुहि । ततस्तु विप्रः प्रोतात्मा तदङ्गीकृत्य चासनम् ॥ २,३२.६१ ॥ पादोदकं ददौ तस्यै भक्त्या प्रीतो जनार्दनः । प्रक्षाल्य पादौ विप्रस्य विशालाक्षी मुदान्विता ॥ २,३२.६२ ॥ पत्या सह दधौ मूर्ध्नि अपः पादावनेजनीः । ततस्तु सहसा सुभ्रु दंपती दिव्यरूपिणौ ॥ २,३२.६३ ॥ विमानवरमारुह्य जग्मतुर्वैष्णवं पदम् । ततः प्रसन्नो भगवान् देवशल्यं विमोच्य सः ॥ २,३२.६४ ॥ ययौ वैकुण्ठभवनं सर्वैर्देवगणैः स्तुतः । एवं मयापि दातव्यं तव देवि प्रतिश्रुतम् ॥ २,३२.६५ ॥ न सत्याच्चालये देवि पतिं रुक्माङ्गदाभिधम् । सत्तयमेव मनुष्याणां गतिदं परिकीर्तितम् ॥ २,३२.६६ ॥ सत्याच्च्चुतं मनुष्यं हि श्वपाकादधमं विदुः ॥ २,३२.६७ ॥ इत्येवमुक्त्वा कनकावदाता सा मोहिनीं पङ्कजजन्मजाताम् । जग्राह भर्तुश्चरणौ सुताम्नौ रक्ताङ्गुली पाणियुगेन सुभ्रूः ॥ २,३२.६८ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते संध्यावलीकथनं नाम द्वात्रिंशत्तमोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच संध्यावली ततः पादौ भर्तुः संगृह्य भूपते । उवाच वचनं देवी धर्मां गदविनाशनम् ॥ २,३३.१ ॥ बहुधाप्यनुशिष्टेयं मया भूप यथा त्वया । मोहिन्या मोहरूपाया नान्यत्संरोचतेऽधुना ॥ २,३३.२ ॥ भोजनं वासरे विष्णोर्वधं वा तनयस्य वै । धर्मत्यागाद्वरं नाथ पुत्रस्य विनिपातनम् ॥ २,३३.३ ॥ यादृशी हि जनन्यास्तु पीडा भवति भूपते । पुत्रस्योत्पादने तीव्रातादृशी न भवेत्पितुः ॥ २,३३.४ ॥ गर्भसंधारणे राजन् खेदः स्नेहोऽधिको यथा । मातुर्भवति भूपाल तथा नहि भवेत्पितुः ॥ २,३३.५ ॥ बीजनिर्वाषकः प्रोक्तः पिता राजेन्द्र भूतले । जननी धारिणी क्लिष्टा वर्द्धने पालनेऽधिका ॥ २,३३.६ ॥ पितुः शतगुणः स्नेहो मातुः पुत्रे प्रवर्तते । स्नेहाधिक्यं तु संप्रेक्ष्य मातरं महतीं विदुः ॥ २,३३.७ ॥ साहं जाता गतस्नेहा परलोकजिगीषया । पुत्रस्य नृपशार्दूल सत्यवाक्यस्य पालनात् ॥ २,३३.८ ॥ व्यापादय सुतं भूप स्नेहं त्यक्त्वा सुदूरतः । मा सत्यलङ्घनं कार्षीः शापितोऽसि मयात्मना ॥ २,३३.९ ॥ निकषेषु ह्यषीकेशो भविष्यति फलप्रदः । यस्मिंश्चीर्णे रुजा देहे नाल्पापि नृप जायते ॥ २,३३.१० ॥ अधर्मान्मानवोऽवश्यं स्वर्गभ्रष्टो न संशयः । प्राणानादाय पुत्रं वा सर्वस्वं वा महीपते ॥ २,३३.११ ॥ यश्चानुवर्तते दैवं स पुमान् गीयते महान् । ता आपदोऽपि भूपाल धन्या याः सत्यकारिकाः ॥ २,३३.१२ ॥ सत्तयसंरक्षणार्थत्वान्नृणां स्युर्मोक्षदायिकाः । कीर्तिसंस्तरणार्थाय कर्त्तव्यं मनुजैः सदा ॥ २,३३.१३ ॥ कर्म भूपाल शास्त्रोक्तं स्नेहद्वेषविवर्जितम् । तदलं परितापेन सत्यं पालय भूपते ॥ २,३३.१४ ॥ सत्यस्य पालनाद्राजन्विष्णुदेहेन युज्यते । देवैरुत्पादिता ह्येषा निकषा ते विमोहिनी ॥ २,३३.१५ ॥ मन्ये भूपाल सा पत्न्या कृता तां त्वं न बुध्यसे । पुत्रव्य पादनाद्देवा भविष्यन्ति ह्यवाङ्मुखाः ॥ २,३३.१६ ॥ तेषां दत्वा पदं मूर्ध्नि यास्यसे परमं पदम् । विष्णोरुद्वहतां भक्तिं देवताः परिपन्थिनः ॥ २,३३.१७ ॥ भविष्यत्यन्धता लोके तदेव प्रकटीकृतम् । विरुद्धा विबुधा भूप सेश्वरास्तव चेष्टितैः ॥ २,३३.१८ ॥ मोक्षमार्गप्रभेत्तारस्तव निश्चया लोपकाः । स त्वं भूप दृढो भूत्वा घातयस्व सुतं प्रियम् ॥ २,३३.१९ ॥ मोहिन्याः कुरु वाक्यं तु आत्मनः सत्यपालनात् ॥ २,३३.२० ॥ लुप्तेऽपि वाक्ये भविता नृपेश पापं समं ब्रह्मवधेन घोरम् । तन्तासि लोके शमनस्य भूप यशःप्रणो भविता धरायाम् ॥ २,३३.२१ ॥ वसिष्ठ उवाच भार्याया वचनं श्रुत्वा राजा रुक्माङ्गदस्तदा । संध्यावलीमुवाचेदं मोहिन्याः सन्निधौ नृप ॥ २,३३.२२ ॥ पुत्रहत्या महाहत्या ब्रह्महत्याधिका प्रिये । घातयित्वा सुतं लोके का गतिर्म्मे भविष्यति ॥ २,३३.२३ ॥ क्व गतो मन्दरं शैलं क्व प्राप्ता मोहिनी मया । धर्माङ्गदविनाशाय देवि कालप्रिया त्वियम् ॥ २,३३.२४ ॥ धर्मज्ञं विनयोपेतं प्रजारञ्जनकारकम् । अप्रजं च सुतं हत्वा का गतिर्मे भविष्याति ॥ २,३३.२५ ॥ कुपुत्रस्यापि हननाद्देवि दुःखं भवेत्पितुः ॥ २,३३.२६ ॥ किं पुनर्द्धर्मशीलस्य गुरुसेवाविधायिनः । जम्बूद्वीपमिदं भुक्तं मया तु वरवर्णिनि ॥ २,३३.२७ ॥ द्वीपानि सप्त भुक्तानि तनयेन तवाधुना । विष्णोरंशो वरारोहे पितुरप्यधिको भवेत् ॥ २,३३.२८ ॥ पुराणेषु वरारोहे कविभिः परिकीर्तितः । योऽयमत्यधिकः पुत्रो धर्माङ्गद इति क्षितौ ॥ २,३३.२९ ॥ मम वंशस्य चार्वङ्गि किं पुनर्मम मानदः । अहो दुःखमनुप्राप्तं पुत्रादप्यधिकं मया ॥ २,३३.३० ॥ पुनरेव वरारोहे ब्रूहि त्वं वचनैः शुभैः । मोहिनीं मोहसंप्राप्तां मम दुःखप्रदायिनीम् ॥ २,३३.३१ ॥ एवमुक्त्वा तु नृपतिः प्रियां सन्ध्यावलीं तदा । समीपमागत्य नृपो मोहिनीक्षिदमब्रवीत् ॥ २,३३.३२ ॥ न भोक्ष्ये वासरे विष्णोर्न हिंस्ये तनयं शुभे । आत्मानं दारयिष्यामि देवीं सन्ध्यावलीं तथा ॥ २,३३.३३ ॥ अन्यद्वा दारुणं कर्म करोमि तव शासनात् । दुष्टाग्रहमिमं सुभ्रु परित्यज सुतं प्रति ॥ २,३३.३४ ॥ किं फलं भविता तुभ्यं हत्वा धर्माङ्गदं सुतम् । भोजयित्वा दिने विष्णोः को लाभो भविता वद ॥ २,३३.३५ ॥ दासोऽस्मि तव भृत्योऽस्मि वशगोऽस्मि वरानने । अन्यं याचस्व सुभगे वरं त्वां शरणं गतः ॥ २,३३.३६ ॥ रक्ताशोकसमानाभ्यां तव चार्वङ्गिसर्वशः । अन्यत्प्रयोजनं किञ्चित्कर्त्तास्मि वशगस्तव ॥ २,३३.३७ ॥ प्रसादं कुरु मे देवि पुत्रभिक्षां प्रयच्छ मे । दुर्लभो गुणवान्पुत्रो दुर्लभो हरिवासरः ॥ २,३३.३८ ॥ दुर्लभः जाह्नवीतोयं दुर्लभा जननी क्षितौ । दुर्लभं हि कुले जन्म दुर्लभा वंशजा प्रिया ॥ २,३३.३९ ॥ दुर्लभं काञ्चनं दानं दुर्लभं हरिपूजनम् । दुर्लभा वैष्णवी दीक्षा दुर्लभः स्मृतिसंग्रहः ॥ २,३३.४० ॥ दुर्लभः शौकरे वासो दुर्लभं हरिचिन्तनम् । दुर्लभो जागरो विष्णोर्दुर्लभा ह्यात्मसत्क्रिया ॥ २,३३.४१ ॥ दुर्लभा पुत्रसंप्राप्तिर्दुर्लभं पौष्करं जलम् । दुर्लभः शिष्टसंसर्गो दुर्लभा भक्तिरुच्यते ॥ २,३३.४२ ॥ दुर्लभं कपिलादानं दुर्लभं नीलमोक्षणम् । कृतं श्राद्धं त्रयोदश्यां दुर्लभं वरवर्णिनि ॥ २,३३.४३ ॥ दुर्लभा वसुधा चीर्णं व्रतं पातकनाशनम् । धेनुस्तिलमयी सुभ्रु दुर्लभा विप्रगामिनी ॥ २,३३.४४ ॥ धात्रीस्नानं वरारोहे दुर्लभो हरिवासरः । दुर्लभं पर्वकाले तु स्नानं शीतलवारिणा ॥ २,३३.४५ ॥ माघमासे विशेषेण प्रत्यूषसमये शुभे । यथाशास्त्रोदितं कर्म तद्देवि भुवि दुर्लभम् ॥ २,३३.४६ ॥ दुर्लभं कुशलं पथ्यं दुर्लभं चौषधं तथा । व्याधेर्विघातकरणं दुर्लभं शास्त्रमार्गतः ॥ २,३३.४७ ॥ दुर्लभं स्मरणं विष्णोर्मरणे वरवर्णिनि । एवं वचो वरारोहे कुरु मे धर्मरक्षकम् ॥ २,३३.४८ ॥ किं वधेनेवै चार्वङ्गि प्रसादं कर्तुमर्हसि । सेविता विषयाः सम्यक्कृतं राज्यमकण्टकम् ॥ २,३३.४९ ॥ मया मूर्घ्नि पदं दत्तं देवगोविप्ररक्षिणाम् । अदृष्टविषयं पुत्रं नाहं हिंस्ये कदाचन ॥ २,३३.५० ॥ स्वहस्तेनेह चार्वङ्गि किं नु पापमतः परम् । मोहिन्युवाच धर्माङ्गदो न मे शत्रुर्नाहं हन्मि सुतं तव ॥ २,३३.५१ ॥ पूर्वमेव मया प्रोक्तं भुङ्क्ष्वत्वं हरिवासरे । वसुधां स्वेच्छया राजंस्त्वं शाधि बहुवत्सरम् ॥ २,३३.५२ ॥ नाहं व्यापादये पुत्रमर्थसिद्धिस्तु भोजने । मम भूमिपते कार्यं न पुत्रनिधने तव ॥ २,३३.५३ ॥ यदि पुत्रः प्रियो राजन्भुज्यतां हरिवासरे । किं विलापैर्महीपाल एतैर्द्धर्मबहिष्कृतैः ॥ २,३३.५४ ॥ सत्यं संरक्ष यत्नेन कुरुष्व वचनं मम । एवं ब्रुवाणां तां राजन्मोहिनीं तनुमध्यमाम् ॥ २,३३.५५ ॥ धर्माङ्गदः प्रत्युवाच दृष्ट्वा नत्वाग्रतः स्थितः । एतदेव गृहाण त्वं मा शङ्कां कुरु भामिनि ॥ २,३३.५६ ॥ गृहीत्वा निर्मलं खङ्गं विन्यस्य नृपतेः पुरः । आत्मानं च प्रत्युवाच सत्यधर्मव्यवस्थितः ॥ २,३३.५७ ॥ न विलंबः पितः कार्यस्त्वया मम निपातने । मन्मातुर्वचनं सत्यं कुरु भूप प्रतिश्रुतम् ॥ २,३३.५८ ॥ आत्मा रक्ष्यो धनैर्दारैरथवापि निजात्मजैः । अपत्यं धर्मकामार्थं श्रेयस्कामस्य भूपतेः ॥ २,३३.५९ ॥ त्वदर्थे मरणं मह्यमक्षय्य गतिदायकम् । तवापि निर्मना लोकाः स्ववाक्यपरिपालनात् ॥ २,३३.६० ॥ परित्यज्य परं दुःखं पुत्रव्यापादनोद्भवम् । देहत्यागे ममारंभो नरदेहे भविष्यति ॥ २,३३.६१ ॥ सर्वामयविनिर्मुक्ते शतक्रतुसमे विभो । पितुरर्थे हता ये तु मातुरर्थे हतास्तथा ॥ २,३३.६२ ॥ गवार्थे ब्राह्यणार्थे वा प्रमदार्थे महीपते । भूम्यर्थे पार्थिवार्थे वा देवतार्थे तथैव च ॥ २,३३.६३ ॥ बालार्थे विकलार्थे च यान्ति लोकान्सुभास्वरान् । तदलं परितापेन जहि मां त्वं वरासिना ॥ २,३३.६४ ॥ सत्यं पालय राजेन्द्र मा भुङ्क्ष्व हरिवासरे । धर्मार्थे तनयं हन्याद्भार्यां वापि महीपते ॥ २,३३.६५ ॥ श्रूयते वेदवाक्येषु पुत्रं हन्यान्मखस्थितः । अश्वमेघे मखवरे न दोषो जायते नृप ॥ २,३३.६६ ॥ यद्ब्रवीति महीपाल मोहिनी जननी मम । तत्त्वया ह्यविचारेण कर्त्तव्यं वचनं ध्रुवम् ॥ २,३३.६७ ॥ प्रसीद राजेन्द्र कुरुष्व वाक्यं मयेरितं चात्मवधाय सत्यम् । विमोचयेथा नृपते सुघोराद्वाक्यानृतान्मोहिनिहस्तयोगात् ॥ २,३३.६८ ॥ वधेन ते भूमिपते सुतस्य यशः प्रकाशं गमयिष्यते च । यशः प्काशाद्भविता हि कीर्तिस्तथाक्षया तात न संशयोऽत्र ॥ २,३३.६९ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते धर्माङ्गदोक्तिर्नाम त्रयस्त्रिंशोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच तत्पुत्रवचनं श्रुत्वा राजा रुक्माङ्गदस्तदा । संध्यावलीमुखं प्रेक्ष्य प्रहृष्टकमलोपमम् ॥ २,३४.१ ॥ मोहिनीवचनं शृण्वन्भुङ्क्ष्व मा हन देहजम् । मा भुङ्क्ष्व तनयं हिंस चेत्याग्रहसमन्वितम् ॥ २,३४.२ ॥ एतस्मिन्नेव काले तु भगवान्कमलेक्षणः । अन्तर्द्धानगतस्तस्थौ व्योम्नि धैर्यावलोककः ॥ २,३४.३ ॥ त्रयाणां नृपशार्दूल मेघश्यामो निरञ्जनः । धर्माङ्गदस्य वीरस्य तस्य रुक्माङ्गदस्य तु ॥ २,३४.४ ॥ संध्यावल्या समेतस्य वीशसंस्थो जनार्दनः । वचने भुङ्क्ष्व भुङ्क्ष्वेति मोहिन्या व्याहृते तदा ॥ २,३४.५ ॥ जग्राह विमलं खङ्गं हन्तुं धर्माङ्गदं सुतम् । सुप्रहर्षेण मनसा प्रणम्य गरुडध्वजम् । तं दृष्ट्वा खङ्गहस्तं तु पितरं धर्म्मंभूषणः ॥ २,३४.६ ॥ प्रणम्य मातापितरौ देवं चक्रधरं तथा । वदनं प्रेक्ष्य चादीनं जनन्या नृपपुङ्गवः ॥ २,३४.७ ॥ वृषाङ्गदेन तु तदा स्वग्रीवोर्वीतले कृता । कंबुग्रीवां समानां तु सुवर्णा सुकोमलाम् ॥ २,३४.८ ॥ बहुरेखमथ स्थूलां खङ्गमार्गे ज्यदर्शयत् । पितृभक्त्या युतेनैव मातृभक्त्याधिकेन वै ॥ २,३४.९ ॥ ग्रीवाप्रदाने तनयस्य भूप हर्षाकुले चारुसुधांशुवक्त्रे । गृहीतखङ्गे जगदीशनाथे चचाल पृथ्वीं सनगा समग्रा ॥ २,३४.१० ॥ सिंधुः प्रवृद्धश्च बभूव सद्यो निमज्ज नार्थं भुवनत्रयस्य । निपेतुरुल्काः शतशो धरायां निर्घातयुक्ताः सतडित्खमध्यात् ॥ २,३४.११ ॥ विवर्णरूपा च बभूव मोहिनी न देवकार्यं हि कृतं मयेति । निरर्थकं जन्म ममाधुनाभूत्कृतं तु दैवेन दजगद्विधायिना ॥ २,३४.१२ ॥ विमोहनं रूपमिदं विडंबनं यद्भूमिपालेन न भुक्तमन्नम् । हरेर्दिने पापभयापहे तु तृणैः समाहं भविता त्रिविष्टपे ॥ २,३४.१३ ॥ सत्वाधिको यास्यति मोक्षमार्गं गन्तास्मि पाप नरकं सुदारुणम् ॥ २,३४.१४ ॥ समुद्यते तदा खङ्गे नृपेण नृपपुङ्गव । मोहिनी मोहसंयुक्ता पपात धरणीतले ॥ २,३४.१५ ॥ राजापि तेन खङ्गेन भ्राजमानः समुद्यतः । ग्रीवायाश्छेदनार्थाय वृषाङ्गदसुतस्य तु ॥ २,३४.१६ ॥ सकुण्डलं चारु शशिप्रकाशं भ्राजिष्णु वक्त्रं तनयस्य भूपः । प्रचिच्छिदे यावदतीव हर्षाद्धैर्यान्वितो रुक्मविभूषणोऽसौ ॥ २,३४.१७ ॥ तावद्गृहीतः स्वकरेण भूपः क्षीराब्धिकन्यापतिना महीपः । तुष्टोऽस्मि तुष्टोऽस्मि न संशयोऽत्र गच्छस्व लोकं मम लोकनाथ ॥ २,३४.१८ ॥ प्रियान्वितश्चात्मजसंयुतश्च कीर्तिं समाधाय महीतले तु । त्रैलोक्यपूज्यां विमलां च शुक्लां कृत्वा पदं मूर्ध्नि यमस्य भूप ॥ २,३४.१९ ॥ प्रयाहि वासं मम देहसंज्ञं स चक्रिणो भूमिपतिः करेण । संस्पृष्टमात्रो विरजा बभूव प्रियासमेतस्तनयेन युक्तः ॥ २,३४.२० ॥ उपेत्य वेगेन जगाम देहं देवस्य दिव्यं स नृपो महात्मा । विहाय लक्ष्मीमवनीप्रसूतां विहाय दासीःसुधनं स कोशम् ॥ २,३४.२१ ॥ विहाय नागांस्तुरगान्रथांश्च स्वदारवर्गं स्वजनादिकांश्च । जगाम देहं मधुसूदनस्य ततोंऽबरात्पुष्पचयः पपात ॥ २,३४.२२ ॥ संहृष्टसिद्धैः सुरलोकपालैः संताडिता दुन्दुभयो विनेदुः । राजन् जगुर्गीतमतीव रम्यं देवाङ्गनाः संननृतुर्मुदान्विताः ॥ २,३४.२३ ॥ गन्धर्वकन्या नृपकर्मतुष्टास्तदद्भुतं प्रेक्ष्य दिनेशसूनुः । हरेस्तनौ भूमिपतिं प्रविष्टं सदारपुत्रं स्वलिपिं प्रमार्ज्य ॥ २,३४.२४ ॥ लोकांश्च सर्वान्नृपदिष्टमार्गे कृत्वा कृतज्ञान्हरिलोकमार्गान् । भीतः पुनः प्राप्य पितामहान्तिकं प्रोवाच देवं चतुराननं रुदन् ॥ २,३४.२५ ॥ नाहं नियोगी भविता हि देव आज्ञाविहीनः सुरलोकनाथ । विधेहि चान्यत्प्रकरोमि तात निदेशनं मास्तु मदीय दण्डम् ॥ २,३४.२६ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते सुतवधोद्यतस्य रुक्माङ्गदस्य भगवद्दर्शनं नाम चतुस्त्रिंशत्तमोऽध्यायः _____________________________________________________________ यम उवाच विबुधेश जगन्नाथ चराचरगुरो प्रभो । मोहिनी निष्फला जाता वन्ध्या स्त्री जनने यथा ॥ २,३५.१ ॥ रुक्माङ्गदप्रणीतेन मार्गेण कुशलाञ्छन । लोकः प्रयाति वैकुंण्ठं न मां कश्चित्प्रपद्यते ॥ २,३५.२ ॥ गतेऽपि भूमिनाथेशे देहं देवस्य चक्रिणः । तथापि सर्वभूतानां न बुद्धिः परिवर्तते ॥ २,३५.३ ॥ उपोष्य वासरं विष्णोराकुमारात्तु मानवाः । प्रयान्ति परमं लोकं लुप्तपापाः पितामह ॥ २,३५.४ ॥ पुत्री ते व्रीडिता देवी मोहिनी मोहमागता । नायाति तव सामीप्यं न भुङ्क्ते लोकगर्हिता ॥ २,३५.५ ॥ निर्व्यापारस्त्वहं जातः किं करोमि प्रशाधि माम् । रविपुत्रवचः श्रुत्वा प्रोवाच कमलासनः ॥ २,३५.६ ॥ गच्छामः सहिताः सर्वे मोहिनीं प्रतिबोधितुम् । मोहिन्यां प्रतिबुद्धायां करिष्यामो दिवाकरे ॥ २,३५.७ ॥ तव कार्यं न संदेहः संभ्रमस्त्यज्यतामयम् । ततो देव गणाः सर्वे शतक्रतुपुरोगमाः ॥ २,३५.८ ॥ ब्रह्मणा सहिताः पृथ्वीं विमानैः सूर्यसप्रभैः । समायाता महीपाल नारीं तां प्रतिबोधितुम् ॥ २,३५.९ ॥ ते विमानैः समन्तात्तु परिवार्य शुभाननाम् । तेजोहीनां निरानन्दां शुष्कतोयां नदीमिव ॥ २,३५.१० ॥ शशिहीनां निशां भूप ऋत्विग्घीनां क्रियामिव । पराजितो यथा मर्त्यः प्रल्मानकुसुमं यथा ॥ २,३५.११ ॥ निवृत्तोत्सववेदीव विद्रुमं धवलं यथा । गतशालिस्तु केदारो निष्प्र यथा ॥ २,३५.१२ ॥ मण्ड वा गतोद्वा यथा सरः । मन्थानं नवनीते वा उद्धृते धरणीपते ॥ २,३५.१३ ॥ असंस्कृता यथा वाणी मर्दिता च यथा चमूम् । हत नाथां तु युवतीं धान्यहीनां प्रजां यथा ॥ २,३५.१४ ॥ मन्त्रहीनविधिं युद्धं धर्मं च दयया विना । पृथ्वीं भूपालहीना वा मन्त्रही यथा नृप ॥ २,३५.१५ ॥ धनधान्यविहीनं वा गृहं नृपवरोत्तम । जलहीनं यथा कुंभं पङ्कस्थं गोपतिं यथा ॥ २,३५.१६ ॥ गृहस्थं भार्यया हीनं राष्ट्रभ्रष्टं च भूपतिम् । भग्नक्रियं यथा वैद्यं भग्नशाखं यथा द्रुमम् ॥ २,३५.१७ ॥ तेजोहीनं यथागारं निर्जलं वा घनं यथा । विधूम इव सप्तार्चिर्विरश्मिरिव भास्करः ॥ २,३५.१८ ॥ मतिभ्रष्टो यथा मर्त्यः पर्वसंगी यथा नरः । अतृप्तः कान्तया कान्तः पन्नगश्च विषोज्झितः ॥ २,३५.१९ ॥ लूनपक्षो यथा पक्षी वृत्तिहीनो यथा द्विजः । शिरोभ्रष्टा यथा माला पर्वतो धातुवर्जितः ॥ २,३५.२० ॥ प्रभ्रष्टलिपि शास्त्रं वा ऋग्यजुर्विस्वरं यथा । स्वरहीनं यथा साम पद्महीनं यथा सरः ॥ २,३५.२१ ॥ यथा मार्गं तृणै रुद्धं पद्मं पत्रविवर्जितम् । ज्ञानं ममत्वसंयुक्तं पुमांसं प्रकृतिं विना ॥ २,३५.२२ ॥ सांख्यानि तत्त्वहीनानि धर्मं दंभान्वितं यथा । तेजोहीनां तथापश्यन्मोहिनीं ते दिवौकसः ॥ २,३५.२३ ॥ ध्यायमानां निरुत्साहां दृश्यमानां जनैः प्रभो । आक्रोशवचनैः क्रूरैः पुत्रहत्यासमन्विताम् ॥ २,३५.२४ ॥ दुःशीलां धर्मसंत्यक्तां तद्वाक्यपरिमोषिताम् । स्ववाक्यपालनां चण्डामुचुर्देवाः समागताः ॥ २,३५.२५ ॥ मां शोकं कुरु वामोरु पौरुषं हि त्वया कृतम् । नहि माधवभक्तानां विद्यते मानखण्डनम् ॥ २,३५.२६ ॥ सा त्वं हरिणशावाक्षि देवकार्यार्थमागता । तन्न सिद्धं वरारोहे स प्रयातोऽधुनाभवम् ॥ २,३५.२७ ॥ विघ्नविध्वंसिनीं पूर्वं कृता रुक्माङ्गदेन हि । एकादशी महापुण्या मोहिनी माधवे सिते ॥ २,३५.२८ ॥ संवत्सरं विशालाक्षि कृच्छ्रपादप्रपूजिता । तस्यैवाध्युष्टिरतुला यत्सत्याचच्चलितो न हि ॥ २,३५.२९ ॥ विघ्नराज्ञी तु वै नारी लोकेषु परिगीयते । कर्मणा मनसा वाचा पुत्रव्यापादने मतिम् ॥ २,३५.३० ॥ कृत्वा चोद्धृत्य खङ्गं च त्यक्त्वा स्नेहं सुदूरुरतः । तादृशं निकषं प्रोक्ष्य भगवान्मधुसूदनः ॥ २,३५.३१ ॥ हनिष्यति प्रियं पुत्रं न भुङ्क्ते हरिवासरे । पुत्रस्य च प्रियायाश्च भावं प्रेक्ष्य नृपस्य च ॥ २,३५.३२ ॥ विष्णुना परेतुष्टेन नीताः स्वभवने त्रयः । सदेहाः क्षीणकर्माणोह्यङ्गारोऽग्निरिवाहितः ॥ २,३५.३३ ॥ फलं कर्मणि चारब्धे यदि देवी न सिद्ध्यति । सर्वयत्नेन सुभगे दोषः कोऽत्र तवाधुना ॥ २,३५.३४ ॥ एतस्माद्वरदाः सर्वे संप्राप्ता विबुधाः शुभे । सिद्धौ वाप्यथ वासिद्धौ कर्मकृत्स्याद्दृथा न हि ॥ २,३५.३५ ॥ भर्तव्यो भृत्यवर्गश्च भूभुजा धर्ममिच्छता । सद्भावे घटमानस्य यदि कर्म न सिद्ध्यति ॥ २,३५.३६ ॥ देयं वेतनमात्रं तु न च तुष्टिफलं भवेत् । यो न तस्मै प्रयच्छेत जीवनं जीवनाय वै ॥ २,३५.३७ ॥ गोवधं समवाप्नोति स नरो नात्र संशयः । तस्माद्देयं वरारोहे अभीष्टं वरसुन्दरि ॥ २,३५.३८ ॥ सद्भावेन कृते सम्यग्विघ्नं कार्यं दिवौकसाम् । किं न कुर्वन्ति विबुधास्त्वया सह वरानने ॥ २,३५.३९ ॥ द्वादश्यास्ते जसा भग्ना यामाहुर्विघ्रनाशिनीम् । विबुधैरेवमुक्ता तु मोहिनी लोकमोहिनी ॥ २,३५.४० ॥ उवाच सा निरानन्दा पतिहीनातिदुःखिता । धिगिदं जीवितं मह्यं येन कार्यं न साधितम् ॥ २,३५.४१ ॥ न कृतो जनसंबाधो यममार्गोऽमराधिपाः । न तु लुप्तं हरिदिनं न भुक्तं हरिवासरे ॥ २,३५.४२ ॥ भूभुजा तेन वीरेण कृतः पुत्रवधो मुदा । गतो मूर्ध्नि पदं दत्वा मम रुक्माङ्गदो हरिम् ॥ २,३५.४३ ॥ अप्रमेयगुणं विष्णुं निर्मलं निर्मलाश्रयम् । हंसं शुचिपदं व्योम प्रणवं बीजमव्ययम् ॥ २,३५.४४ ॥ निराकारं निराभासं निष्प्रपञ्चं निरञ्जनम् । शून्यं वियत्स्वरूपं च ध्येयध्यानविवर्जितम् ॥ २,३५.४५ ॥ अस्ति नास्तीति यं प्राहुर्न दूरे नापि चान्तिके । परं धाम मनोग्राह्यं पुरुषाख्यं जगन्मयम् ॥ २,३५.४६ ॥ हृत्पङ्कजसमासीनं तेजोरूपंसनातनम् । तस्मिंल्लयमनुप्राप्ते किं नु मे जीविते फलम् ॥ २,३५.४७ ॥ असाधिते तु यः कार्ये नरो गृह्णाति वेतनम् । स्वामिनं तु परित्यज्य प्रयाति नरकं ध्रुवम् ॥ २,३५.४८ ॥ न साधयन्ति ये कार्यं स्वामिनां तु दिवौकसः । भृत्या वेतनभोक्तारो जायन्ते भूतले हयाः ॥ २,३५.४९ ॥ असाधिनीयं कार्यस्य भर्तृपुत्रविनाशिनी । कथं वरं तु गृह्णामि भवतां नाकवासिनाम् ॥ २,३५.५० ॥ देवा ऊचुः ब्रूहि मोहिनि दास्यामि यत्ते हृदि समीहितम् । अनृणास्तु भविष्यामः कृत्वा चोपकृतिं तव ॥ २,३५.५१ ॥ परिश्रमः कृतो देवि त्वया राजप्रयोजने । तस्य त्वं फलभाग्देवि तादृशार्थे कृतस्य तु ॥ २,३५.५२ ॥ एवमुच्चरमाणानां देवतानां महीपते । नृपतेराजगामाथ पुरोधाः पावकप्रभः ॥ २,३५.५३ ॥ उषितो जलमध्ये तु प्राणायामरतो मुनिः । द्वादशाब्दे ततः पूर्णे निर्गतो जलमध्यतः ॥ २,३५.५४ ॥ निर्गतेन श्रुतं तेन मोहिनीचेष्टितं नृप । सक्रोधो मुनिशार्दूलो देववृन्दमुपागतः ॥ २,३५.५५ ॥ उवाच विबुधान्सर्वान्मोहिनीवरदायिनः । धिगिमां धिग्देवसंघं कर्म धिक्पापसंज्ञितम् ॥ २,३५.५६ ॥ भवतां भावनाशाय पुरुषार्थे प्ररोहकम् । भवन्तो यच्च दातारो मोहिन्या वाञ्छितं वरम् ॥ २,३५.५७ ॥ हत्यायुता भर्तृसुतोपघातिनी विहिनवृत्तिश्च मराशिरूपा । नास्मा हि लोके भवतीह शुद्धिः समिद्धवह्नौ पतनेऽपि देवाः ॥ २,३५.५८ ॥ "हत्यायुतं भर्तृवधो निरर्थकमेतत्समं विप्रवरैः पुराकृतम् । न चापि चास्या भवतीह शुद्धिः समिद्भवह्नौ पतनेऽपि देवाः" ॥ २,३५.५९ ॥ विमोयित्वा वचनैः सुधामयैरुक्माङ्गदं धर्मंविभूषणं च । प्रियायुतं मोक्षपदं निहत्य चकार भूमिं नृपवर्जितां च ॥ २,३५.५९ ॥ न चापि वासो नरकेषु देवा अस्याः स्थितिः क्क त्रिदिवेऽल्पबुद्धेः । न चापि राज्ञो निकटे च देवा नाप्येतु विष्णोः पदमव्ययं यत् ॥ २,३५.६० ॥ न लोकवादेन विदूषिताया लोकेषु कुत्रापि भवेच्च वासः । धिरजीवनं कर्ग्मविगर्हिताया देवाः सदा पापसमारतायाः ॥ २,३५.६१ ॥ पतिं हत्वा सुतं हत्वा सपत्नीं जननीसमाम् । हत्वा धरां समस्तां वा कां गतिं यास्यते सुराः ॥ २,३५.६२ ॥ इयं पापतरा देवा धर्मविध्वंसिनी हरेः । सर्वदाप्यनया प्रोक्तं भुज्यतां हरिवासरे ॥ २,३५.६३ ॥ प्राणसंवर्द्धनार्थाय तेषामेवाप्यधोगतिः । भुज्यतां वासरे विष्णोर्हन्यतां गौर्द्विजान्विता ॥ २,३५.६४ ॥ अपेयं पीयता मुक्त्वा कथं वासं लभेद्दिवि । एतदज्ञानिनां प्रोक्तं ज्ञाननां तु न निर्णयः ॥ २,३५.६५ ॥ अज्ञानाव्द्याहृते वाक्ये भुज्यतां हरिवासरे । तस्यापि शुद्धिर्गदिता प्राणायामशतेन हि ॥ २,३५.६६ ॥ अथवाप्युपवासेन एकादश्या दिवौकसः । ऋक्षेण संयुतायास्तु ज्येष्ठकुण्डाप्लवेन वा ॥ २,३५.६७ ॥ शौकरस्पर्शना द्वापि नरो देवार्चनेन वा । व्याहृते कथितं विप्रैः सेयमद्य सुनिष्ठुरा ॥ २,३५.६८ ॥ भोजने पापनिरता दिने विष्णोर्दुरासदे । भर्तुर्वाक्यं व्यपोह्यैव घातयित्वा सुतं प्रियम् ॥ २,३५.६९ ॥ वाक्यज्ञं वाक्यनिरतं मातॄणां तु हिते रतम् । विष्णुधर्मप्रलोप्त्रीयं बहुपापसमन्विता ॥ २,३५.७० ॥ नैषा स्पृश्यास्ति देवेशाः कथमस्या वरप्रदाः । भवन्तो न्याययुक्तेषु धर्मयुक्तेषु तत्पराः ॥ २,३५.७१ ॥ पालनं पापयुक्तस्य न कुर्वन्ति दिवौकसः । धर्माधाराः स्मृता देवा धर्मो वेदेसमास्थितः ॥ २,३५.७२ ॥ वेदैः शुश्रूषणं भर्तुः स्त्रीणां धर्मः प्रकीर्तितः । यद्ब्रवीति पतिः किञ्चित्तत्कार्यमाविशङ्कया ॥ २,३५.७३ ॥ शुक्लं शुक्लमिति ब्रूयात्कृष्णं कृष्णेति चामराः । शुश्रूषा सा हि विज्ञेया न शुश्रूषा हि सेवनम् ॥ २,३५.७४ ॥ भर्तुराज्ञा हता देवा आत्माज्ञास्थापनेच्छया । तस्मात्पापा न संदेहो मोहिनी सर्वयोषिताम् । सत्यस्य साधनार्थाय शपथैर्यन्त्रितो नृपः ॥ २,३५.७५ ॥ उवाच विविधं वाक्यं सा नैच्छत्पुत्रघातिनी । तेन मोक्षं गतो राजा पापमस्यां विसृज्य च ॥ २,३५.७६ ॥ सेयं पापशरीरा हि हत्यायुतसमन्विता ॥ २,३५.७७ ॥ दातारं सर्वदानानां ब्रह्मण्यं हरिदैवतम् । प्रजारञ्जनशीलं च हरिवासरसेविनम् ॥ २,३५.७८ ॥ परदारेषु निःस्नेहं विषये विगतस्पृहम् । परार्थत्यक्तकामं च सदा मखनिषेविणम् ॥ २,३५.७९ ॥ सदैव दुष्टदमने वर्तमानं धरातले । व्यसनैः सप्तभिर्घोरैरनाक्रान्तं महीपतिम् ॥ २,३५.८० ॥ संनिरस्य दुराचारा वरयोग्या कथं भवेत् । योऽस्याः पक्षेतु वर्तेत देवो वा दानवोऽपि वा ॥ २,३५.८१ ॥ तं चापि भस्मसात्कुर्यां क्षणेन सुरसत्तमाः । मोहिन्या रक्षणे यस्तु प्रयत्नं कुरुते सुराः ॥ २,३५.८२ ॥ तस्य तज्जायते पापं यन्मोहिन्यां व्यवस्थितम् ॥ २,३५.८३ ॥ स एवमुक्त्वा नृपते द्विजेन्द्रः संगृह्य पाणौ सलिलं च तीव्रम् । क्रोधेन संवीक्ष्य विधिप्रसूतां चिक्षेप तन्मूर्घ्न्यनलप्रकाशम् ॥ २,३५.८४ ॥ निक्षिप्तमात्रे सलिले महीप सद्यः प्रजज्वाल च तच्छरीरम् । संपश्यतां नाकनिवासिनां तु तृण्या यथा वह्निशिखावलीढा ॥ २,३५.८५ ॥ कोपं विभो संहर संहरेति यावद्गिरः खे मरुतां बभूवुः । तावत्स वह्निर्द्विजवाक्यमृष्टो भस्मावशेषां प्रमदां चकार ॥ २,३५.८६ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनी चरिते शापप्राप्तिर्नाम पञ्चत्रिंशोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच मोहिनी मोहमुत्सृज्य गता विबुधमन्दिरम् । भर्त्सिता देवदूतेन स्थितिस्तेऽत्र न पापिनी ॥ २,३६.१ ॥ पापशीले सुदुर्मेधे भर्तृनिन्दापरायणे । हरिवासरलोपिन्यां वासस्ते न त्रिविष्टपे ॥ २,३६.२ ॥ धर्मतो विमुखानां च नरके वास इष्यते । एवमुक्त्वा तु तां वायुः क्रूरं वचनपद्भुतम् ॥ २,३६.३ ॥ ताडयित्वा च दण्डेन प्रेरयामास यातनाम् । एवं संताडिता राजन् देवदूतेन मोहिनी ॥ २,३६.४ ॥ ब्रह्मदण्डपराभूता संप्राप्ता नरकं नृप । तत्र धर्माज्ञया सा तु दूतैः संताडिता चिरम् ॥ २,३६.५ ॥ सर्वेषु क्रमशो गत्वा नरकेषु निपातिता । पापे धर्माङ्गदः पुत्रो घातितः पतिपाणिना ॥ २,३६.६ ॥ त्वया यतस्ततो भुङ्क्ष्व कृतकर्मफलं त्विह । प्रजाहितं स्थिरप्रज्ञं महेन्द्रवरुणोपमम् ॥ २,३६.७ ॥ सप्तद्वीपाधिपं पुत्रं हत्वेदृक्फलभोगिनी । प्राकृतस्यापि पुत्रस्य हिंसायां ब्रह्महा भवेत् ॥ २,३६.८ ॥ किं पुनर्द्धर्मयुक्तस्य पापे धर्माङ्गदस्य च । एवं निर्भत्सिता दूतैर्यमस्य नृपसत्तम ॥ २,३६.९ ॥ बुभुजे यातनाः सर्वाः क्रमशः शमनोदिताः । ब्रह्मदण्डहतायास्तु देहस्पर्शेन यातनाः ॥ २,३६.१० ॥ ज्वलिताङ्गा बभूवुस्ता धारणाय न तु क्षमाः । ततस्ते नरका राजन् धर्मराजमुपागताः ॥ २,३६.११ ॥ प्रोचुः प्राञ्जलयो भीतास्तदङ्गस्पर्शपीडिताः । देवदेव जगन्नाथ धर्मराज दयां कुरु ॥ २,३६.१२ ॥ इमां निःसारयाशु त्वं यातनाभ्यः सुखाय नः । यस्याः स्पर्शनतो नाथ भस्मभूताः क्षणादहो ॥ २,३६.१३ ॥ भविष्यामस्ततस्त्वेनां नरकेभ्यो विवासय । तच्छ्रुत्वा वचनं तेषां धर्मराजोऽतिविस्मितः ॥ २,३६.१४ ॥ दूतान्स्वान्प्रत्युवाचेयं निःसार्या मम मन्दिरात् । यो ब्रह्मदण्डनिर्दग्धः पुमान् स्त्री वा च तस्करः ॥ २,३६.१५ ॥ तस्य पापस्य संस्पर्शं नेच्छति यातना मम । तस्मादिमां महापापां भर्तुर्वचनलोपिनीम् ॥ २,३६.१६ ॥ पुत्रघ्नीं धर्महन्त्रीं च ब्रह्मदण्डहतामपि । निःसारयत मे बापि देहो ज्वलति दर्शंनात् ॥ २,३६.१७ ॥ इत्युक्तास्ते तदा दूता धर्मराजेन भूपते । प्रहरन्तोऽस्त्रशस्त्रैश्च बहिश्चक्रुर्यमक्षयात् ॥ २,३६.१८ ॥ ततः सा दुःखिता राजन्मोहिनी मोहसंयुता । पातालं प्रययौ तत्र पातालस्थैर्निवारिता ॥ २,३६.१९ ॥ ततस्तु व्रीडितात्यर्थः मोहिनी ब्रह्मणः सुता । जनकस्यान्तिकं गत्वा दुःखं स्वं संन्यवेदयत् ॥ २,३६.२० ॥ तात तन्नास्ति मे स्थानं त्रैलोक्ये सचरा चरे । यत्र यत्र तु गच्छामि तत्र तत्र क्षिपन्ति माम् ॥ २,३६.२१ ॥ अहं निर्वासिता लोकैर्घातयित्वायुधैर्दृढम् । भवदाज्ञां समादाय गता रुक्मविभूषणम् ॥ २,३६.२२ ॥ मया व्यवसितं चेदं सर्वलोकविगर्हितम् । क्लेशयित्वा तु भर्तारं पुत्रं हत्वा वरासिना ॥ २,३६.२३ ॥ संध्यावलीं क्षोभयित्वा पितः प्राप्ता दशा मिमाम् । न गतिर्विद्यते देव पापाया मम सांप्रतम् ॥ २,३६.२४ ॥ विशेषाद्द्विजशापेन जाताहं दुःखभागिनी । विप्रवाक्यहताना च दग्धानां चित्रभानुना ॥ २,३६.२५ ॥ दिवाकीर्तिहतानां च भक्षितानां मृगादिभिः । शतह्रदाविपन्नानां मुक्तिदा स्वर्णदी पितः ॥ २,३६.२६ ॥ यदि त्वं त्रिदशैः सार्द्धं विप्रं तं शापदायिनम् । प्रसादयसि मत्प्रीत्या तर्हि मे विहिता गतिः ॥ २,३६.२७ ॥ तां तथावादिनीं राजन् ब्रह्मा लोकपितामहः । शिवेन्द्रधर्मसूर्याग्निदेवेशैर्मुनिभिर्युतः ॥ २,३६.२८ ॥ मोहिनीमग्रतः कृत्वा जगाम द्विजसन्निधौ । तत्र गत्वा महीपाल ब्रह्मा देवादिभिर्वृतः ॥ २,३६.२९ ॥ महता गौरवेणापि नमश्चक्रे स्वयं विधिः । भूप रुद्रादिदेवैस्तु पूज्यो मान्यः पितामहः ॥ २,३६.३० ॥ मोहिनीप्रीतये मुग्धः स्वयं चक्रे नमस्क्रियाम् । कार्ये महति संप्राप्ते ह्यसाध्ये भुवनत्रये ॥ २,३६.३१ ॥ न दूषितं भवेद्भूप यविष्ठस्याभिवादनम् । स द्विजो वेदवेदाङ्गपरगस्तपसि स्थितः ॥ २,३६.३२ ॥ संप्रेक्ष्य लोककर्तारं देवैः सह समागतम् । समुत्थाय नमश्चक्रे ब्रह्माणं तान्मुनीन्सुरान् ॥ २,३६.३३ ॥ वासयामास भक्त्या च स्तुतिं चक्रेऽब्जजन्मनः । ततः प्रसन्नो भगवान् लोककर्त्ता जगद्गुरुः ॥ २,३६.३४ ॥ ते द्विजं प्रार्थयामासुर्मोहिन्यर्थे नृपार्चितम् । तात विप्र सदाचार परलोकोपकारक ॥ २,३६.३५ ॥ कृपां कुरु कृपासिंधो मोहिनीगतिदो भव । मया संप्रेषिता ब्रह्मन् रुक्माङ्गदविमोहने ॥ २,३६.३६ ॥ सुता मे यमलोकं तु शून्यं दृष्ट्वा च मानद । वैकुण्ठं संकुलं प्रेक्ष्य लोकैः सर्वैर्नि राकुलैः ॥ २,३६.३७ ॥ मनसोत्पादिता देवी देवानां हितकारिणी । निशामय धरादेव यद्ब्रवीमि तवाग्रतः ॥ २,३६.३८ ॥ गतिं धर्मस्यातिसूक्ष्मां लोककल्याणकारिणीम् । अनया निकषाश्याङ्ग्या परीक्ष्य स्वर्णभूषणः ॥ २,३६.३९ ॥ सदारः ससुतो ब्रह्मन्प्रापितो हरिमन्दिरम् । राज्ञाप्रहतया भक्त्या हरिवासरपालनात् ॥ २,३६.४० ॥ कृतं शून्यं यमस्थानं लिपिमार्जनकर्मणा । देवापकारो विप्रर्षे न क्षमो बाहुजन्मना ॥ २,३६.४१ ॥ भूसुराणां विशेषेणं यातास्ते तत्सहायकाः ॥ २,३६.४२ ॥ न प्राप्यते साङ्घ्यविदा तु यच्च नाष्टाङ्गयोगेन तु भक्तिगम्यम् । तत्प्रापितं भूसुर भूपभर्तुर्निजस्य पुत्रस्य तथा सपत्न्याः ॥ २,३६.४३ ॥ यत्पुण्यशीलस्य नृपस्य भूपशिरोमणेराचरितं प्रतीपम् । तत्पापवेगेन बभूव विद्रुता भस्मावशेषा तव शापदग्धा ॥ २,३६.४४ ॥ देवार्थमेषा भववर्द्धनार्थं नृपोपकाराय च संप्रवृत्ता । न स्वार्थकामा लभतेऽवमानं कथं द्विजातोऽपकृतिं क्षमस्व ॥ २,३६.४५ ॥ दयां कुरुष्व प्रशमं भजस्व पिष्टस्य पेषो नहि नीतियुक्तः । शापप्रदानेननिपातितेयं कुरु प्रसादं गतिदो भवत्वम् । यस्मिन्कृते ब्राह्मण मोहिनीयं बुद्धिं त्यजेत्क्रूरतरां त्वयीज्ये ॥ २,३६.४६ ॥ स एवमुक्तः कमलासनेन विमृश्य बुद्ध्या विससर्ज कोपम् । उवाच देवं त्रिदशाधिनाथं विमोहिनीदेहकृतं द्विजेन्द्रः ॥ २,३६.४७ ॥ बहुपापयुता देव मोहिनी तनया तव । न लोकेषु स्थितिस्तस्मात्प्राणिभिः संकुलेषु च ॥ २,३६.४८ ॥ मया विमृश्य सुचिरं मोद्दिन्यर्थं विचिन्तितम् । तद्दास्यमि तव प्रीत्या त्वं हि पूज्यतरो मम ॥ २,३६.४९ ॥ यथा तव वचः सत्यं मम चापि सुरेश्वर । देवकार्यं च भविता मोहिनीकृतत्यमेव च ॥ २,३६.५० ॥ यन्नाक्रान्तं हि भूतौघैस्तत्स्थाने मोहिनीस्थितिः । जङ्गमाजङ्गमैर्भूमिर्व्याप्ता द्वीपवती सदा ॥ २,३६.५१ ॥ तलानि चापि दैत्याद्यैराकाशः पक्षिपूर्वकैः । नाकः सुकृतिभिर्जीवैर्नरकाः पापकर्मभिः ॥ २,३६.५२ ॥ झषाद्यैः सागरा व्याप्ता नैष्वस्पृष्यास्थितिस्ततः । ततो ब्रह्मा सुरैः सर्वैः संमन्त्र्य नृपसत्तम ॥ २,३६.५३ ॥ उवाच मोहिनीं देवीं नास्ति स्थानं तव क्वचित् । तच्छ्रुत्वा मोहिनी वाक्यं पितुराज्ञाविधायिनी ॥ २,३६.५४ ॥ उवाच प्रणता सर्वान् हरिवासरनाशिनी । पुरोधसा समेतानो देवानां लोकसाक्षिणाम् ॥ २,३६.५५ ॥ भवतां त्रिदशश्रेष्ठा एष बद्धो मयाञ्जलिः । प्रणिपातशतेनापि प्रसन्नेन हृदा सुराः ॥ २,३६.५६ ॥ दातव्यं याचितं मंह्यं सर्वेषां प्रीतिकारकम् । एकादश्याः प्रभावेण सर्वेषां पापिनां गतिः ॥ २,३६.५७ ॥ साध्यते तां सुरश्रेष्ठा वर्धितुं मे प्रयोजनम् । पतिः सपत्नी पुत्रश्च मया वैकुण्ठगाः कृताः ॥ २,३६.५८ ॥ भूर्लोके विधवाद्याहं वर्तामि भवतां कृते । यथा हरिदिनं दुष्टं जायते मम मानदाः ॥ २,३६.५९ ॥ एतत्प्रयाचे ददत स्वार्थार्थं तद्धि नान्यथा ॥ २,३६.६० ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते षट्त्रिंशत्तमोऽध्यायः _____________________________________________________________ मोहिन्युवाच एकादशीसमं देवाः पावनं नापरं भवेत् । यया पूता महापापा गच्छन्ति हरिमन्दिरम् ॥ २,३७.१ ॥ तत्समीपे मम स्थानं युक्तं भाति विचार्यताम् । देवा ऊचुः वेधो निशीथे देवानामुपकाराय मोहिनी ॥ २,३७.२ ॥ सूर्योदये सुराणां च हरिणा परिकल्पितः । पारणं च त्रयोदश्यामुपवासविनाशनम् ॥ २,३७.३ ॥ महाद्वादशिका ह्यष्टौ याः स्मृता वैष्णवागमे । तास्तु ह्येकादशीभिन्ना उपोष्यन्ते च वैष्णवैः ॥ २,३७.४ ॥ एकादशीव्रतं भिन्नं वैष्णवानां महात्मनाम् । नित्यं पक्षद्वये प्रोक्तं विधिना त्रिदिनात्मके ॥ २,३७.५ ॥ सायं प्रातस्त्यजेद्भुक्तिं क्रमात्पूर्वापराह्णयोः । एकादशी यदा भिन्ना उपोष्या हि परेऽहनि । द्वादश्यां हि व्रतं कार्यं निरंबु समुपोषणम् ॥ २,३७.६ ॥ लङ्घने त्वसमर्थानां जलं शाकं फलं पयः । नैवेद्यं वा हरेः प्रोक्तं स्वाहारात्पादसंमितम् ॥ २,३७.७ ॥ स्वाती सूर्योदये विद्धो त्यजन्त्यकादशीं सति । निष्कामा मध्यरात्रे च विद्धां मुञ्चन्ति याम्यया ॥ २,३७.८ ॥ सर्वेष्वपि तु लोकेषु विदिता दशमी तिथिः । यमस्य तस्याः प्रान्ति तु स्थितिः कार्या त्वयानघे ॥ २,३७.९ ॥ एतेन देवकार्यं च सिद्धं भवति शोभने । सूर्येन्दुचारा तिथ्यास्तु दशम्याः प्रान्तगामिनी ॥ २,३७.१० ॥ भुवि तीर्थानि चैव त्वं स्वाघनाशाय संचर । अरुणोदयमारभ्य यावत्सूर्योदयो भवेत् ॥ २,३७.११ ॥ तदन्तस्त्वं व्रते प्राप्ता लभस्वैकादशीफलम् । यः कश्चित्कुरुते विद्धं त्वया ह्येकादशीव्रतम् ॥ २,३७.१२ ॥ स तीपकारकस्तुभ्यं भविष्यति सुरप्रिये । मुहूर्तद्वयमात्रं तु ज्ञेयं चात्रारुणोदयम् ॥ २,३७.१३ ॥ मूहूर्ताः पञ्चदश च स्मृता रात्रेर्दिनस्य च । ज्ञेयास्ते ह्रस्वदीर्घत्वे त्रैराशिक विधानतः ॥ २,३७.१४ ॥ त्रयोदशान्मुहूर्तान्त्तु रात्रैरूर्द्ध्वा समागता । सब्ध्वोपवासिनां पुण्यं स्वस्था भव शुचिस्मिते ॥ २,३७.१५ ॥ यमसंस्थापनार्थाय वैकुण्ठध्वंसनाय च । पाखण्डानां विवृद्ध्यर्थं पापसंचनाय च ॥ २,३७.१६ ॥ दत्तं ते मोहिनि स्थानं प्रत्यूषसमयाङ्कितम् ॥ २,३७.१७ ॥ विद्धं त्वयैकादशिकाव्रतं ये कुर्वन्ति कर्तार इह प्रयत्नात् । तेषां भवेद्यत्सुकृतं शुभे फलं भुङ्क्ष्व प्रसन्ना भव भूसुरे त्वम् ॥ २,३७.१८ ॥ एवं प्रदिष्टा कमलासनाद्यैः सा मोहिनी हृष्टतरा बभूव । मेने कृतार्थं निजजीवितं च स्वपापतीर्थाभिनिषेवणेन ॥ २,३७.१९ ॥ संसाधितं कार्यमिदं सुराणां भस्मावशेषं हि गतेऽपि देहे । चैतन्यमात्रे पवनात्मकेऽस्मिन् संमार्जितो भूपकृतस्तु पन्थाः ॥ २,३७.२० ॥ नीतं मया चात्मकृतं हि वाक्यं प्रहृष्टया वै यदुदाहृतं हि । एवं विमृश्य क्षिप्तिपालदे वान्प्रणम्य हृष्टा च पुरोधसं स्वम् ॥ २,३७.२१ ॥ प्रान्ते स्थिता सूर्यविहीनसंज्ञे काले दशम्या जनमोहनाय । कृच्छ्रान्तरूपा च दिनं च भुङ्क्ते प्रकृष्टरूपा नरकाय नॄणाम् ॥ २,३७.२२ ॥ प्रान्तस्थितां तां रविजो निरीक्ष्य प्रहृष्टवक्त्रो वचनं जगाद । त्वया प्रतिष्ठा मम चारुनेत्रे कृतात्र लोके पुनरेव सम्यक् । विभोदितो रुक्मविभूषणस्य मत्तेभसंस्थः पटहः सुघैषः ॥ २,३७.२३ ॥ दृष्टे कार्ये जनः सर्वः प्रत्ययं कुरुते त्विति ॥ २,३७.२४ ॥ सूर्योदय स्पृषा ह्येषा दशमी गर्हिता सदा । अस्पृष्टमुदयं नॄणां मोहनाय भविष्यति ॥ २,३७.२५ ॥ विहाय तां यत्प्रिययोगभुक्तिं पादस्थिता सापि ह्यदृष्यरूपा । सत्यं हि ते नाम विशालनेत्रे यन्मोहिनीत्येव जनो ब्रवीति ॥ २,३७.२६ ॥ विमोहयित्वा हि जनं समस्तं पटे मदीये लिखितं करोषि । इत्येव मुक्त्वा तनयो विवस्वतः प्रणम्य तां ब्रह्मसुतां प्रहृष्टः ॥ २,३७.२७ ॥ जगाम देवैः सह नाकलोकं करे गृहीत्वा लिपिलेखितारम् । गतेषु देवेषु विमोहिनी सा ब्रह्माणमासाद्य सुरासुरेशम् ॥ २,३७.२८ ॥ विज्ञापयामास पितः पुरोधा ममायमत्युग्रतरश्च कोपात् । दग्धं शरीरं मम लोकनाथ पुनः प्रपत्स्येऽथ तथा कुरुष्व ॥ २,३७.२९ ॥ विमोहितं चैव जगन्मयेदं प्रान्ते समास्थाय यमस्य तिथ्याः । जितो हि राज्ञा शमनः पुराद्य कृतो जयी तात तव प्रभावात् ॥ २,३७.३० ॥ तव कृत्यमिदं तात यत्पुनर्देहधारिणी । भूयामहं जगन्नाथ ब्रह्मणं सांत्ययस्व भोः ॥ २,३७.३१ ॥ तच्छ्रुत्वा मोहिनीवाक्यं ब्रह्मा लोकविधानकृत् । ब्राह्मणं सांत्वयामास पुनरेव सुताकृते ॥ २,३७.३२ ॥ वसो तात निबोधेदं यद्ब्रवीमि हितावहम् । तव चास्या महाभाग सर्वलोकहिताय च ॥ २,३७.३३ ॥ त्वयेयं मोहिनी कोपात्कृता भस्मावशेषिता । पुनः शरीरं याचेत तदाज्ञां देहि मानद ॥ २,३७.३४ ॥ मत्पुत्री तव याज्येयं दुर्गतिं तात गच्छति । त्वया मया च सपाल्या कृतकार्या तपस्विनी ॥ २,३७.३५ ॥ यदि त्वं शुद्धभावेन मां ज्ञापयसि मानद । तातोऽहमस्या भूयोऽपि देहमुत्पादयाम्यहम् ॥ २,३७.३६ ॥ किन्तु विष्णुदिनस्यैषा वैरिणी पापकारिणी । यथा शुद्ध्येति विप्रेन्द्र तथैवाशु विधीयताम् ॥ २,३७.३७ ॥ तच्छ्रुत्वा वचनं तस्य ब्रह्मणः स पुरोहितः । याज्याया देहयोगार्थमादिदेश मुदान्वितः ॥ २,३७.३८ ॥ विप्रवाक्यं समाकर्ण्य ब्रह्मा लोकपितमहः । कमण्डलुजलेनौक्षन्मोहिन्या देहभस्म तत् ॥ २,३७.३९ ॥ समुक्षिते ब्रह्मणा लोककर्त्रा सा मोहिनी देहयुता बभूव । प्रणम्य तातं च वसोः पुरोधसो जग्राह पादौ विनयेन नत्वा ॥ २,३७.४० ॥ ततो वसुर्याजक एव राज्ञो मुदान्वितो याज्यनितंबिनीं ताम् । विमोहिनीं स्वामिसुतोञ्ज्झितां च जगाद वाक्यं विदुतामवीराम् ॥ २,३७.४१ ॥ वसुरुवाच क्रोधस्त्यक्तो मया देवि ब्रह्मणो वचनादथ । गतिं ते कारयिष्यामि तीर्थस्नानादिकर्मणा ॥ २,३७.४२ ॥ इत्युक्त्वा मोहिनीं विप्रो ब्रह्माणां जगतां पतिम् । विससर्ज नमस्कृत्य मोहिनीपितरं मुदा ॥ २,३७.४३ ॥ मोहिन्या वसुना चैव प्रीत्या ब्रह्मा विसर्जितः । जगाम लोकं तमसः परमव्यक्तवर्त्मना ॥ २,३७.४४ ॥ स वसुर्ब्राह्मणश्रेष्ठो रुक्माङ्गदपुरोहितः । मोहिनीं समनुग्राह्यां मत्वा हृदि विचारयन् ॥ २,३७.४५ ॥ मुहूर्त्तं ध्यानमापन्नो बुबुधे कारणं गतेः ॥ २,३७.४६ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते सप्तत्रिंशोऽध्यायः _____________________________________________________________ वसिष्टं उवाच स वसुर्नृपशार्दूल मोहिनीं याज्यकामिनीम् । उवाच श्लक्ष्णया वाचा सर्वलोकहिते रतः ॥ २,३८.१ ॥ वसुरुवाच शृणु मोहिनी वक्ष्यामि तीर्थानां लक्षणं पृथक् । येन विज्ञातमात्रेण पापिनां गतिरुत्तमा ॥ २,३८.२ ॥ सर्वेषामपि तीर्थानां श्रेष्ठा गंमा धरातले । न तस्या सदृशं किञ्चिद्विद्यते पापनाशनम् ॥ २,३८.३ ॥ तच्छ्रुत्वा वचनं तस्य वसोः स्वस्य पुरोधसः । प्रणता मोहिनी प्राह गङ्गास्नानकृतादरा ॥ २,३८.४ ॥ मोहिन्युवाच भगवन्वाडवश्रेष्ठ गङ्गामाहात्म्यमुत्तमम् । सर्वेषां च पुराणानां संमतं वद सांप्रतम् ॥ २,३८.५ ॥ श्रुत्वा माहात्म्यमतुलं गङ्गायाः पापनाशनम् । पश्चात्पापविनाशिन्यां स्नातुं यास्ये त्वया सह ॥ २,३८.६ ॥ तच्छ्रुत्वा मोहिनीवाक्यं वसुः सर्वपुराणवित् । माहात्म्यं कथयामास गङ्गायाः पापनाशनम् ॥ २,३८.७ ॥ वसुरुवाच ते देशास्ते जनपदास्ते शैला स्तेऽपि चाश्रमाः । येषां भागीरथी पुण्या समीपे वर्तते सदा ॥ २,३८.८ ॥ तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः । तां गतिं न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ॥ २,३८.९ ॥ पूर्वे वयसि पापानि कृत्वा कर्माणि ये नराः । शेषे गङ्गां निषेवन्ते तेऽपि यान्ति परां गतिम् ॥ २,३८.४० ॥ तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् । मासमेकं तु गङ्गायां स्नातस्तुल्यफलावुभौ ॥ २,३८.११ ॥ तिष्ठेतार्वाक्छिरा यस्तु युगानामयुतं पुमान् । तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते ॥ २,३८.१२ ॥ भूतानामिह सर्वेषां दुःखोपहतचेतसाम् । गतिमन्वेषमाणानां न गङ्गासदृशी गतिः ॥ २,३८.१३ ॥ प्रकृष्टैः पातकैर्घोरैः पापिनः पुरुषाधमान् । प्रसह्य तारयेद्गुङ्गा गच्छतो निरयेऽशुचौ ॥ २,३८.१४ ॥ ते समानास्तु मुनिभिर्नूनं देवैः सवासवैः । येऽभिगच्छन्ति सततं गङ्गामभिमतां सुरैः ॥ २,३८.१५ ॥ अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा संपावयेद्बृहती विश्वरूपा । देवैः सेंद्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकालं समृद्ध्ये ॥ २,३८.१६ ॥ पक्षादौ कृष्णपक्षे तु भूमौ संनिहिता भवेत् । यावत्पुण्या ह्यमावास्या दिनानि दश मोहिनि ॥ २,३८.१७ ॥ शुक्लप्रतिपदादेश्च दिनानि दश संख्यया । पाताले सन्निधानं तु कुरुते स्वयमेव हि ॥ २,३८.१८ ॥ आरभ्य शुक्लैकादश्या दिनानि दश यानि तु । पञ्चम्यं तानि सा स्वर्गे भवेत्सन्निहिता सदा ॥ २,३८.१९ ॥ कृते तु सर्वतीर्थानि त्रेतायां पुष्करं परम् । द्वापरे तु कुरुक्षेत्रं कलौ गङ्गा विशिष्यते ॥ २,३८.२० ॥ कलौ तु सर्वतीर्थानि स्वं स्वं वीर्यं स्वभावतः । गङ्गायां प्रतिमुञ्चन्ति सा तु देवी न कुत्रचित् ॥ २,३८.२१ ॥ गङ्गांभः कणदिग्धस्य वायोः संस्पर्शनादपि । पापशीला अपि नराः परां गतिमवाप्नुयुः ॥ २,३८.२२ ॥ योऽसौ सर्वगतो विष्णुश्चित्स्वरूपी जनार्दनः । स एव द्रवरूपेण गङ्गांभो नात्र संशयः ॥ २,३८.२३ ॥ ब्रह्महा गुरुडा गोघ्नः स्तेयी च गुरुतल्पगः । गङ्गांभसा च पूयन्ते नात्र कार्या विचारणा ॥ २,३८.२४ ॥ क्षेत्रस्थमृद्धृतं वापि शीतमुष्णमथापि वा । गाङ्गेयं तु हरेत्तोयं पापमामरणान्तिकम् ॥ २,३८.२५ ॥ वर्ज्यं पर्युषितं तोयं वर्ज्यं पुर्युषितं दलम् । न वर्ज्यं जाह्नवीतोयं न वर्ज्यं तुलसीदलम् ॥ २,३८.२६ ॥ मेरोः सुवर्णस्य च सर्वरत्नैः संख्योपलानामुदकस्य वापि । गङ्गाजलानां न तु शक्तिरस्ति वक्तुं गुणाख्यापरिमाणमत्र ॥ २,३८.२७ ॥ तीर्थयात्राविधिं कृत्स्नमकुर्वाणोऽपि यो नरः । गङ्गातोयस्य माहात्म्यात्सोऽप्यत्र फलभाग्भवेत् ॥ २,३८.२८ ॥ चिन्तामणिगुणाच्चापि गङ्गायास्तोयबिन्दवः । विशिष्टा यत्प्रयच्छन्ति भक्तेभ्यो वाञ्छितं फलम् ॥ २,३८.२९ ॥ गण्डूषमात्रतो भक्त्या सकूद्गङ्गांभसा नरः । कामधेनु स्तनोद्भूतान्भुङ्क्ते दिव्यरसान्दिवि ॥ २,३८.३० ॥ शालग्रामशिलायां यस्तु गङ्गाजलं क्षिपेत् । अपहत्य तमस्तीव्रं भाति सूर्यो यथोदये ॥ २,३८.३१ ॥ मनोवाक्कायजैर्ग्रस्तः पापैर्बहुविधैरपि । वीक्ष्य गङ्गां भवेत्पूतः पुरुषो नात्र संशयः ॥ २,३८.३२ ॥ गङ्गातोयाभिषिक्तां तु भिक्षामश्नाति यः सदा । सर्पवत्कञ्चुकं मुक्त्वा पापहीनो भवेत्स वै ॥ २,३८.३३ ॥ हिमवद्विन्ध्यसदृशा राशयः पापकर्मणाम् । गङ्गांभसा विनश्यन्ति विष्णुभक्त्या यथापदः ॥ २,३८.३४ ॥ प्रवेशमात्रे गङ्गायां स्नानार्थं भक्तितो नृणाम् । ब्रह्महत्यादिपापानि हाहेत्युक्त्वा प्रयान्त्यलम् ॥ २,३८.३५ ॥ गङ्गातीरे वसेन्नित्यं गङ्गातोयं पिबेत्सदा । यः पुमान्स विमुच्येत पातकैः पूर्वसंचितैः ॥ २,३८.३६ ॥ यो वै गङ्गां समाश्रित्य नित्यं तिष्ठति निर्भयः । स एव देवैर्मर्त्यैश्च पूजनीयो महर्षिभिः ॥ २,३८.३७ ॥ किमष्टाङ्गेन योगेन किं तपोभिः किमध्वरैः । वास एव हि गङ्गायां सर्वतोऽपि विशिष्यते ॥ २,३८.३८ ॥ किं यज्ञैर्बहुभिर्जाप्यैः किं तपोभिर्धनार्पणैः । स्वर्गमोक्षप्रदा गङ्गा सुखसेव्या यतः स्थिता ॥ २,३८.३९ ॥ यज्ञैर्यमैश्च नियमैर्दानैः संन्यासतोऽपि वा । न तत्फलमवाप्रोति गङ्गां सेव्य यदाप्नुयात् ॥ २,३८.४० ॥ प्रभासे गोसहस्त्रेण राहुग्रस्ते दिवाकरे । यत्फलं लभते मर्त्यो गङ्गायां तद्दिनेन वै ॥ २,३८.४१ ॥ अन्योपायांश्च यस्त्यक्त्वा मीक्षकामः सुनिश्चितः । गङ्गातीरे सुखं तिष्ठेत्स वै मोक्षस्य भाजनम् ॥ २,३८.४२ ॥ वाराणस्यां विशेषण गङ्गा सद्यस्तु मोक्षदा । प्रतिमासं चतुर्दश्यामष्टम्यां चैव सर्वदा ॥ २,३८.४३ ॥ गङ्गातीरे निवासश्च यावज्जीवं च सिद्धिदः । कृच्छ्राणि सर्वदा कृत्वा यत्फलं सुखमश्नुते ॥ २,३८.४४ ॥ सदा चान्द्रायणं चैव तल्लभेज्जाह्नवीतटे । गङ्गासेवापरस्येह दिवसार्द्धेन यत्फलम् ॥ २,३८.४५ ॥ न तच्छक्यं ब्रह्मसुते प्राप्तुं क्रतुशतैरपि । सर्वयज्ञतपोदानयोगस्वाध्यायकर्मभिः ॥ २,३८.४६ ॥ यत्फलं तल्लभेद्भक्त्या गङ्गातीरनिवासतः । यत्पुण्यं सत्यवचनैर्नैष्ठिकब्रह्मचारिणाम् ॥ २,३८.४७ ॥ यदग्निहोत्रिणां पुण्यं तत्तु गङ्गानिवासतः । समातृपितृदाराणां कुलकोटिमनन्तकम् ॥ २,३८.४८ ॥ गङ्गाभक्तिस्तारयते संसारार्णवतो ध्रुवम् । संतोषः परमैश्वर्यं तत्त्वज्ञानं सुखात्मनाम् ॥ २,३८.४९ ॥ विनयाचारसंपत्तिर्गङ्गाभक्तस्य जायते । कृतकृत्यो भवेन्मर्त्यो गङ्गां प्राप्यैव केवलम् ॥ २,३८.५० ॥ तद्भक्तस्तत्परश्च स्यान्मृतो वापि न संशयः । भक्त्या तज्जलसंस्पर्शी तज्जलं पिबते च यः ॥ २,३८.५१ ॥ अनायासेन हि नरो मोक्षो पायं स विन्दति । दीक्षितः सर्वयज्ञेषु सोमपानं दिने दिने ॥ २,३८.५२ ॥ सर्वाणि यंषां गङ्गायास्तोयैः कृत्यानि सर्वदा । देहं त्यक्त्वा नरास्ते तु मोदन्ते शिवसन्निधौ ॥ २,३८.५३ ॥ देवाः सोमार्कसंस्थानि यथा शक्रादयो मुखैः । अमृतान्युपभुञ्जन्ति तथा गङ्गाजलं नराः ॥ २,३८.५४ ॥ कन्यादानैश्च विधिवद्भूमिदानैश्च भक्तितः । अन्नदानैश्च गोदानैः स्वर्णदानादिभिस्तथा ॥ २,३८.५५ ॥ रथाश्वगजदानैश्च यत्पुण्यं परिकीर्तितम् । ततः शतगुणं पुण्यं गङ्गांभश्चुलुकाशनात् ॥ २,३८.५६ ॥ चान्द्रायणसहस्राणां यत्फलं परिकीर्तितम् । ततोऽधिकफलं गङ्गातोयपानादवाप्यते ॥ २,३८.५७ ॥ गण्डूषमात्रपाने तु अश्वमेधफलं लभेत् । स्वच्छन्दं यः पिबेदंभस्तस्य मुक्तिः करे स्थिता ॥ २,३८.५८ ॥ त्रिभिः सारस्वतं तोयं सप्तभिस्त्वथ यामुनम् । नार्मदं दशभिर्मासैर्गाङ्गं वर्षेण जीर्यति ॥ २,३८.५९ ॥ शास्त्रेणाकृततोयानां मृतानां क्वापि देहनाम् । तदुत्तरफलावाप्तिर्गङ्गायामस्थियोगतः ॥ २,३८.६० ॥ चान्द्रायणसहस्रं तु यश्चरेत्कायशोधनम् । यः पिबेत्तु यथेष्ठं हि गङ्गाम्भः स विशिष्यते ॥ २,३८.६१ ॥ गङ्गां पश्यति यः स्तौति स्नाति भक्त्या पिबेज्जलम् । स स्वर्गं ज्ञानममलं योगं मोक्षं च विन्दति ॥ २,३८.६२ ॥ यस्तु सूर्य्यांशुनिष्टप्तं गाङ्गेयं पिबते जलम् । गोमूत्रयावकाहाराद्गाङ्गपानं विशिष्यते ॥ २,३८.६३ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्यवर्णनं नामाष्टत्रिंशत्तमोऽध्यायः _____________________________________________________________ वसुरुवाच शृणु मोहिनि वक्ष्यामि गङ्गाया दर्शने फलम् । यदुक्तं हि पुराणेषु मुनिभिस्तत्त्वदर्शिभिः ॥ २,३९.१ ॥ भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दश नात् । गङ्गासंदर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ॥ २,३९.२ ॥ सप्तावरान् सप्तपरान् पितृंस्तेभ्यश्च ये परे । पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च ॥ २,३९.३ ॥ दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् । पुमान्पुनाति पुरुषाञ्छतशोऽथ सहस्रशः ॥ २,३९.४ ॥ ज्ञानमैश्वर्यमतुलं प्रतिष्ठायुर्यशस्तथा । शुभानामाश्रमाणां च गङ्गादर्शनजं फलम् ॥ २,३९.५ ॥ सर्वेन्द्रियाणां चाञ्चल्यं व्यसनानि च पातकम् । निर्घृणत्वं च नश्यन्ति गङ्गादर्शन मात्रतः ॥ २,३९.६ ॥ परहिंसा च कौटिल्यं परदोषाद्यवेक्षणम् । दांभिकत्वं नृणां गङ्गादर्शनादेव नश्यति ॥ २,३९.७ ॥ मुहुर्मुहुस्तथा पश्येत्स्पृशेद्वापि मुहुर्मुहुः । भक्त्या यदिच्छति नरः शाश्वतं पदमव्ययम् ॥ २,३९.८ ॥ वापीकूपतडागादिप्रपासत्रादिभिस्तथा । अन्यत्र यद्भवेत्पुण्यं तद्गङ्गादर्शनाद्भवेत् ॥ २,३९.९ ॥ यत्फलं जायते पुंसां दर्शने परमात्मनः । तद्भवेदेव गङ्गाया दर्शनाद्भक्तिभावतः ॥ २,३९.१० ॥ नैमिषे च कुरुक्षेत्रे नर्मदायां च पुष्करे । स्नानात्संस्पर्शना सेव्य यत्फलं लभते नरः ॥ २,३९.११ ॥ तद्गङ्गादर्शनादेव कलौ प्राहुर्महर्षयः । अथ ते स्मरणस्यापि गङ्गाया भूपभामिनि ॥ २,३९.१२ ॥ प्रवक्ष्यामि फलं यत्तु पुराणेषु प्रकीर्तितम् । अशुभैः कर्मभिर्युक्तान्मज्जमानान्भवार्णवे ॥ २,३९.१३ ॥ पततो नरके गङ्गा स्मृता दूरात्समुद्धरेत् । योजनानां सहस्रेषु गङ्गां स्मरति यो नरः ॥ २,३९.१४ ॥ अपि दुष्कृतकर्मा हि लभते परमां गतिम् । स्मरणादेव गङ्गायाः पापसंघातपञ्जरम् ॥ २,३९.१५ ॥ भेदं सहस्रधा याति गिरिर्वज्रहतो यथा । गच्छंस्तिष्ठन्स्वपन्ध्यायञ्जाग्रद्भुञ्जन् हसन् रुदन् ॥ २,३९.१६ ॥ यः स्मरेत्सततं गङ्गां स च मुच्येत बन्धनात् । सहस्रयोजनस्थाश्च गङ्गां भक्त्या स्मरन्ति ये ॥ २,३९.१७ ॥ गङ्गागङ्गेति चाक्रुश्य मुच्यन्ते तेऽपि पातकात् । ये च स्मरन्ति वै गङ्गां गङ्गाभक्तिपराश्च ये ॥ २,३९.१८ ॥ तेऽप्यशेषैर्महापापैर्मुच्यन्ते नात्र संशयः । भवनानि विचित्राणि विचित्राभरणाः स्त्रियः ॥ २,३९.१९ ॥ आरोग्यं वित्त्रसंपत्तिर्गङ्गास्मरणञ्ज फलम् । मनसा संस्मरेद्यस्तु गङ्गां दूरस्थितो नरः ॥ २,३९.२० ॥ चान्द्रायणसहस्रस्य स फलं लभते ध्रुवम् । गङ्गा गङ्गा जपन्नाम योजनानां शते स्थितः ॥ २,३९.२१ ॥ मुच्यते सर्वपापेभ्यो विष्णुलोकं च गच्छति । कीर्तनान्मुच्यते पापाद्दर्शनान्मङ्गलं लभेत् ॥ २,३९.२२ ॥ अवगाह्य तथा पीत्वा पुनात्यासप्तमं कुलम् । सप्तावपरान्परान्सप्त सप्ताथ परतः परान् ॥ २,३९.२३ ॥ गङ्गा तारयते पुंसां प्रसंगेनापि कीर्तिता । अश्रद्धयापि गङ्गाया यत्तु नामानुकीर्तनम् ॥ २,३९.२४ ॥ करोति पुण्यवाहिन्याः सोऽपि स्वर्गस्य भाजनम् । सर्वावस्थां गतो वापि सर्वधर्मविवर्जितः ॥ २,३९.२५ ॥ गङ्गायाः कीर्तनेनैव शुभां गतिमवाप्नुयात् । ब्रह्महा गुरुहागोघ्नः स्पृष्टो वा सर्वपातकैः ॥ २,३९.२६ ॥ गङ्गातोयं नरः स्पृष्ट्वा मुच्यते सर्वपातकैः । कदा द्रक्ष्यामि तां गङ्गां कदा स्नानं लभे ह्यहम् ॥ २,३९.२७ ॥ इति पुंसाभिलषिता कुलानां तारयेच्छतम् । अथ स्नानफलं देवि गङ्गायाः प्रवदामि ते ॥ २,३९.२८ ॥ यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः । स्नातस्य गङ्गासलिले सद्यः पापं प्रणश्यति ॥ २,३९.२९ ॥ अपूर्वपुण्यप्राप्तिश्च सद्यो मोहिनि जायते । स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् ॥ २,३९.३० ॥ व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि । अपहत्य तमस्तीव्रं यथा भात्युदये रविः ॥ २,३९.३१ ॥ तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः । एकेनैवापि विधिना स्नानेन नृपसुन्दरि ॥ २,३९.३२ ॥ अश्वमेधफलं मर्त्यो गङ्गायां लभते ध्रुवम् । अनेकजन्मसंभूतं पुंसः पापं प्रणश्यति ॥ २,३९.३३ ॥ स्नानमात्रेण गङ्गायाः सद्यः स्यात्पुण्यभाजनम् । अन्यस्थानकृतं पापं गङ्गातीरे विनश्यति ॥ २,३९.३४ ॥ गङ्गातीरे कृतं पापं गङ्गास्नानेन नश्यति । रात्रौ दिवा च संध्यायां गङ्गायां तु प्रयत्नतः ॥ २,३९.३५ ॥ स्नात्वाश्वमेधजं पुण्यं गृहेऽप्युद्धृतततज्जलैः । सर्वतीर्थेषु यत्पुण्यं सर्वेष्टायतनेषु च ॥ २,३९.३६ ॥ तत्फलं लभते मर्त्यो गङ्गास्नानान्न संशयः । महापातकसंयुक्तो युक्तो वा सर्वपातकैः ॥ २,३९.३७ ॥ गङ्गास्नानेन विधिवन्मुच्यते सर्वपातकैः । गङ्गा स्नानात्परं स्नानं न भूतं न भविष्यति ॥ २,३९.३८ ॥ विशेषतः कलियुगे पापं हरति जाह्नवी । निहत्य कामजान्दोषान्कायवाक्चित्तसंभवान् ॥ २,३९.३९ ॥ गङ्गास्नानेन भक्त्या तु मोदते दिवि देववत् । वर्षं स्नाति च गङ्गायां यो नरो भक्तिसंयुतः ॥ २,३९.४० ॥ तस्य स्याद्वैष्णवे लोके स्थितिः कल्पं न संशयः । आमृत्युं स्नाति गङ्गायां यो नरो नित्यमेव च ॥ २,३९.४१ ॥ समस्तपापनिमुक्तः समस्तकुलसंयुतः । समस्तभोगसंयुक्तो विष्णुलोके महीयते ॥ २,३९.४२ ॥ परार्द्धद्वितयं यावन्नात्र कार्या विचारणा । गङ्गायां स्नाति यो मर्त्यो नैरन्तर्येण नित्यदा ॥ २,३९.४३ ॥ जीवन्मुक्तः स चात्रैव मृतो विष्णुपदं व्रजेत् । प्रातःस्नानाद्दशगुणं पुण्यं मध्यन्दिने स्मृतम् ॥ २,३९.४४ ॥ सायङ्काले शतगुणमनन्तं शिवसन्निधौ । कपिलाकोटिदानाद्धि गङ्गास्नानं विशिष्यते ॥ २,३९.४५ ॥ कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता । हरिद्वारे प्रयागे च सिंधुसंगे फलाधिका ॥ २,३९.४६ ॥ ये मदीयांशुसंतप्ते जले ते स्नान्ति जाह्नवि । ते भित्वा मण्डलं यान्ति मोक्षं चेति रवेर्वचः ॥ २,३९.४७ ॥ यो गृहे स्वे स्थितोऽपि त्वां स्नाने संकीर्तयिष्यति । सोऽपि यास्यति नाकं वै इत्याह वरुणश्च ताम् ॥ २,३९.४८ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते गङ्गास्नानमाहात्म्यं नामैकोनचत्वारिंशोऽध्यायः _____________________________________________________________ वसुरुवाच अथ कालविशेषे तु गङ्गास्नानस्य ते फलम् । कीर्तयिष्यामि वामोरु सावधाना निशामय ॥ २,४०.१ ॥ नैरन्तर्येण गङ्गाया माघे स्नाति च यो नरः । सशक्रलोके सुचिरं कालं तिष्ठेत्सगोत्रजः ॥ २,४०.२ ॥ ततो ब्रह्मपुरं याति कल्पकोटिशतायुतैः । नैरन्तर्येण विधिवद्गङ्गायां स्नाति यो नरः ॥ २,४०.३ ॥ षण्मास मेककालाशी सकृदेवोत्तरायणे । सोऽपि विष्णुपदं याति कुलानां शतमुद्धरन् ॥ २,४०.४ ॥ संक्रान्तिषु तु सर्वासु स्नात्वा गङ्गाजले नरः । विमानेनार्कवर्णेन स व्रजेद्विष्णुमन्दिरम् ॥ २,४०.५ ॥ विषुवेऽयनसंक्रान्तौ विशेषात्फलमीरितम् । तपःसमं कार्तिकेऽपि गङ्गास्नाने फलं विदुः ॥ २,४०.६ ॥ मेषप्रवेशार्ककाले कार्तिक्यां वापि मोहिनि । माघस्नानाधिकं प्राहुः कमलासनपूर्वकाः ॥ २,४०.७ ॥ संवत्सरस्नानजन्यं फलमक्षयके तिथौ । कार्तिके वापि वैशाखे इति प्राह पिता तव ॥ २,४०.८ ॥ मन्वादौ च युगादौ यत्प्रोक्तं गङ्गाजले फलम् । स्नानैन याज्यवनिते त्रिमास्यापि च तत्फलम् ॥ २,४०.९ ॥ द्वादश्यां श्रवणर्क्षे च अष्टभ्यां पुष्ययोगतः । आर्द्रायां च चतुर्दश्यां गङ्गास्नानं सुदुर्लभम् ॥ २,४०.१० ॥ पूर्णिमा माधवे पुण्या तथा कार्तिकमाघयोः । अमावस्यास्तथैतेषां गङ्गास्नाने सुदुर्लभाः ॥ २,४०.११ ॥ कृष्णाष्टम्यां सहस्रं तु शतं स्यात्सर्वपर्वसु । अमायां च तथाष्टम्यां माघासितदले सति ॥ २,४०.१२ ॥ अर्धोदयं तदा पर्वकिञ्चिन्न्यूनं महोदयः । महोदये शतगुणं लक्षमर्द्धोदये स्मृतम् ॥ २,४०.१३ ॥ स्नानं गङ्गाजले देवि ग्रहणाच्चन्द्रसूर्ययोः । मासत्रयस्नानफलं फाल्गुनाषाढ मासयोः ॥ २,४०.१४ ॥ जन्मर्क्षे तु कृते स्नाने गङ्गायां भक्तिभावतः । जन्मप्रभृति पापं वै संचितं हि विनश्यति ॥ २,४०.१५ ॥ चतुर्दश्यां माघकृष्णे व्यतीपातश्च दुर्लभः । कृष्णाष्टम्यां विशेषेण वैधृतिर्जाह्नवीजले ॥ २,४०.१६ ॥ माघं सकलमेवापि नरो यो विधिपूर्वकम् । अरुणोदयके स्नायी स तु जातिस्मरो भवेत् ॥ २,४०.१७ ॥ सर्वशास्त्रार्थविज्ज्ञानी नीरोगश्च भवेद्भ्रुवम् । संक्रान्त्यां पक्षयोरन्ते ग्रहणे चन्द्रसूर्ययोः ॥ २,४०.१८ ॥ गङ्गास्नातो नरः कामाद्ब्रह्मणः सदनं लभेत् । इन्दोर्लक्षगुणं प्रोक्तं रवेर्दशगुणं ततः ॥ २,४०.१९ ॥ गङ्गातीरे तु संप्राप्ता इन्दोः कोटी रवेर्दश । वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी । गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा ॥ २,४०.२० ॥ ज्येष्ठे मासि क्षितिसुतदिने शुक्लपक्षे दशम्यां हस्ते शैलादवतरदसौ जाह्नवी मर्त्यलोकम् । पापान्यस्यां हरति हि तिथौ सा दशैषाद्यगङ्गा पुण्यं दद्यादपि शतगुणं वाजिमेधक्रतोश्च ॥ २,४०.२१ ॥ महापातकसंघानि यानि पापानि संति मे । गोविन्दद्वादशीं प्राप्य तानि मे हन जाह्नवि ॥ २,४०.२२ ॥ मघासंज्ञेन ऋक्षेण चन्द्रः संपूर्णमण्डलः । गुरुणा याति संयोगं तन्महत्वं तिथेः स्मृतम् ॥ २,४०.२३ ॥ गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा । अथ देशविशेषेण स्नानस्य फलमुच्यते ॥ २,४०.२४ ॥ कुरुक्षेत्राद्दशगुणा यत्र तत्रावगाहिता । कुरुक्षेत्राच्छतगुणा यत्र विन्ध्येन संयुता ॥ २,४०.२५ ॥ विन्ध्याच्छतगुणा प्रोक्ता काशीपुर्यां तु जाह्नवी । सर्वत्र दुर्लभा गङ्गा त्रिषु स्थानेषु चाधिका ॥ २,४०.२६ ॥ गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे । एषु स्नाता दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ २,४०.२७ ॥ गङ्गाद्वारे कुशावर्ते स्नाने पुण्यफलं शृणु । सप्तानां राजसूयानां फलं स्यादश्वमेधयोः ॥ २,४०.२८ ॥ उषित्वा तत्र मासार्द्धं षण्णां विश्वजितां फलम् । दशायुतानां तु गवां दानपुण्यं विदुर्बुधाः ॥ २,४०.२९ ॥ सरोत्तमेऽथ गोविन्दं रुद्रं कनखले स्थितम् । स्नात्वा वाप्येषु गङ्गायां पुण्यमक्षयमाप्नुयात् ॥ २,४०.३० ॥ तीर्थं च सौकरं नाम महापुण्यं शुभे शृणु । यस्मिन्नाविरभूत्पूर्वं वाराहाकृतिरच्युतः ॥ २,४०.३१ ॥ शतस्याग्निचितां पुण्यं ज्योतिष्टोमद्वयस्य च । अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः ॥ २,४०.३२ ॥ तत्रैव ब्रह्मणस्तीर्थे ज्योतिष्टोमायुतस्य च । अश्वमेधत्रयस्यापि स्नातः पुण्यं लभेन्नरः ॥ २,४०.३३ ॥ कुब्जाख्यं तीर्थमनघं यत्र च व्याधयोऽखिलाः । नश्यन्ति सर्वजन्मोत्थं पातकं चापि मोहिनि ॥ २,४०.३४ ॥ अत्रान्यत्कापिलं तीर्थं यत्र स्नातो नरः शुभे । कपिलाष्टायुतस्यापि दानतुल्यफलं लभेत् ॥ २,४०.३५ ॥ गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते । तीर्थे कनखले स्नात्वा धूतपापो व्रजेद्दिवम् ॥ २,४०.३६ ॥ पवित्रार्थं ततस्तीर्थं सर्वतीर्थोत्तमोत्तमम् । द्वयोर्विश्वजितोस्तत्र स्नानात्पुण्यं लभेन्नरः ॥ २,४०.३७ ॥ वेणीराज्यं ततस्तीर्थं सरयूर्यत्र गङ्गया । सुपुण्यया महापुण्या स्वसा स्वस्रेव संगता ॥ २,४०.३८ ॥ हरेर्दक्षिणपादाब्जक्षालनादमरापगा । वामपादोद्भवा वापि सरयूर्मानसप्रसूः ॥ २,४०.३९ ॥ तीर्थे तत्रार्चयन् रुद्रं विष्णुं विष्णुत्वमाप्नुयात् । पञ्चाश्वमेधफलदं स्नानं तत्र प्रकीर्तितम् ॥ २,४०.४० ॥ ततस्तु गाण्डवं तीर्थं गण्डकी यत्र संगता । गोसहस्रस्य दानं च तत्र स्नानं समं द्वयम् ॥ २,४०.४१ ॥ रामतीर्थं ततः पुण्यं वैकुण्ठं यत्र सन्निधौ । सोमतीर्थं ततः पुण्यं यत्रासौ नकुलो मुनिः ॥ २,४०.४२ ॥ समभ्यर्च्य शिवं ध्यायन्गणतां तु समाययौ । चंपकाख्यं पुण्यतीर्थं यद्गङ्गोत्तरवाहिनी ॥ २,४०.४३ ॥ मणिकर्णिकया तुल्यं महापातकनाशनम् । कलशाख्यं ततस्तीर्थं कलशादुत्थितो मुनिः ॥ २,४०.४४ ॥ अगस्त्यः पूजयन्यत्र रुद्रं मुनिवरोऽभवत् । सोमद्वीपं महापुण्यं तीर्थं वाराणसीसमम् ॥ २,४०.४५ ॥ सोमो यत्रार्चयन्नीशं रुद्रेण शिरसा धृतः । विश्वामित्रस्य भगिनी गङ्गया यत्र संगता ॥ २,४०.४६ ॥ तत्राप्लुतो नरो भूयाद्वासवस्य प्रियोऽतिथिः । जह्नुह्रदे महातीर्थे स्नातो मर्त्यो हि मोहिनि ॥ २,४०.४७ ॥ एकविंशतिकुल्यानां तारको भवति ध्रुवम् । तस्माददितितीर्थं च यत्रावापादितिर्हरिम् ॥ २,४०.४८ ॥ कश्यपात्तत्र सुभगे स्नानमाहुर्महोदयम् । शिलोच्चयं महातीर्थं यत्र तप्त्वा तपः प्रजाः ॥ २,४०.४९ ॥ तृणादिभिः सह स्वर्गं यान्ति तीर्थगणाश्रयात् । इन्द्राणीनामतीर्थं स्याद्यत्रेन्द्राणी तु वासवम् ॥ २,४०.५० ॥ तपस्तप्त्वा पतिं लेभे सेव्यमेतत्प्रयागवत् । पुण्यदं स्नातकं तीर्थं विश्वामित्रस्तपश्चरन् ॥ २,४०.५१ ॥ यत्र ब्रह्मर्षितां लेभे क्षत्त्रियस्तीर्था सेवया । प्रद्युम्नतीर्थं तपसा ख्यातं यत्र स्मरो हरेः ॥ २,४०.५२ ॥ प्रद्युम्ननामा पुत्रोऽभूत्परं तत्र महोदयम् । ततो दक्षप्रयागं तु गङ्गातो यमुनागत ॥ २,४०.५३ ॥ स्नात्वा तत्राक्षयं पुण्यं प्रयाग इव लभ्यते ॥ २,४०.५४ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्ये स्थलविशेषस्नानफलकथनं नाम चत्वारिंशत्तमोऽध्यायः _____________________________________________________________ वसुरुवाच अथावगाहनादीनां कर्मणां फलमुच्यते । सावधाना शृणुष्व त्वं ब्रह्मपुत्रि नृपप्रिये ॥ २,४१.१ ॥ यैः पुण्यवाहिनी गङ्गा सकृद्भक्त्यावगाहिता । तेषां कुलानां लक्षं तु भवात्तारयते शिवा ॥ २,४१.२ ॥ सामान्यस्थानतो देवि तत्र संध्या ह्युपासिता । पुण्यं लक्षगुणं कर्तुं समर्था द्विजपावनी ॥ २,४१.३ ॥ दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धयान्वितैः । अक्षयां तु प्रकुर्वन्ति तृप्तिं मोहिनि दुर्लभाम् ॥ २,४१.४ ॥ यावन्तश्च तिला मर्त्यार्गृहीताः पितृकर्मणि । तावद्वर्षसहस्राणि पितरः स्वर्गवासिनः ॥ २,४१.५ ॥ पितृलोकेषु ये केचित्सर्वेषां पितरः स्थिताः । तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः ॥ २,४१.६ ॥ य इच्छेत्सफलं जन्म संततिं वा शुभानने । स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा ॥ २,४१.७ ॥ ये मता दुर्गता मर्त्यास्तर्पितास्तत्कुलोद्भवैः । कुशैस्तिलैर्गाङ्गजलैस्ते प्रयान्ति हरेः पदम् ॥ २,४१.८ ॥ स्वर्गसस्थाश्च ये केचित्पितरः पुण्यशीलिनः । ते तर्पिता गाङ्गजलैर्मोक्षे यान्ति विधेर्वचः ॥ २,४१.९ ॥ मासं तर्पणमात्रेण पिण्डसंपातनेन च । गङ्गायां पितरः सर्वे सुप्रीताः सूर्यवर्चसः ॥ २,४१.१० ॥ अप्सरो गणणसंयुक्तान्हेमरत्नविभूषितान् । मुक्ताजालपरिच्छन्नान्वेणुवीणानिनादितान् ॥ २,४१.११ ॥ भेरीशङ्खमृदङ्गादिनिर्घोषान्स्रग्विभूषितान् । गन्धर्वदेहरुचिरान्दिव्यभोगसमन्वितान् ॥ २,४१.१२ ॥ ॥ आरुह्य तु विमानाग्र्यान्ब्रह्यलोकं प्रयान्ति हि । गङ्गायां तु नरः स्नात्वा यो नित्यं लिङ्गमर्चयेत् ॥ २,४१.१३ ॥ एकेन जन्मना मोक्षं परमान्पोति स ध्रुवम् । अग्निहोत्राणि वेदाश्च यज्ञाश्च बहुदक्षिणाः ॥ २,४१.१४ ॥ गङ्गायां लिङ्गपूजायाः कोट्यंशेनापि नो समाः । पितॄनुदिश्य वा देवान्गङ्गांभिभिः प्रसिंचयेत् ॥ २,४१.१५ ॥ तृप्ताः स्युस्तस्य पितरो नरकस्थाश्च तत्क्षणात् । मृत्कुंभात्ताम्रकुंभैस्तु स्नानं दशगुणं स्मृतम् ॥ २,४१.१६ ॥ रौप्यैः शतगुणं पुण्यं हेमैः कोटिगुणं स्मृतम् । एवमर्घे च नैवेद्ये बलिपूजादिषु क्रमात् ॥ २,४१.१७ ॥ पात्रां तरविशेषेण फलं चैवोत्तरोत्तरम् । विभवे सति यो मोहान्न कुर्याद्विधिविस्तरम् ॥ २,४१.१८ ॥ न स तत्कर्मफलभाग्देवद्रोही प्रकीर्त्यते । देवानां दर्शनं पुण्यं दर्शनात्स्पर्शनं वरम् ॥ २,४१.१९ ॥ स्पर्शनादर्चनं श्रेष्ठं घृतस्नानमतः परम् । प्राहुर्गङ्गाजलैः स्नानं घृतस्नानसमं बुधाः ॥ २,४१.२० ॥ अर्घ्यं द्रव्यविशेषेण गङ्गातोयेन यः सकृत् । मागधप्रस्थमात्रेण ताम्रपात्रस्थितेन च ॥ २,४१.२१ ॥ देवताभ्यः प्रदद्यात्तु स्वकीयपितृभिः सह । पुत्रपौत्रैश्च संयुक्तः स च वै स्वर्गमाप्नुयात् । आपः क्षीरं कुशाग्राणि घृतं दधि तथा मधु ॥ २,४१.२२ ॥ रक्तानि करवीराणि तथा वै रक्तचन्दनम् । अष्टाङ्गैरेष युक्तोर्ऽघो भानवे परिकीर्तितः ॥ २,४१.२३ ॥ विष्णोः शिवस्य सूर्य्यस्य दुर्गाया ब्रह्मणस्तथा । गङ्गातीरे प्रतिष्ठां तु यः करोति नरोत्तमः ॥ २,४१.२४ ॥ तथैवायतनान्येषां कारयत्यपि शक्तितः । अन्यतीर्थेषु करणात्कोटिगुणं भवेत् ॥ २,४१.२५ ॥ गङ्गातीरसमुद्भूतमृदा लिगानि शक्तितः । सलक्षणानि कृत्वा तु प्रतिष्ठाप्य दिने दिने ॥ २,४१.२६ ॥ मन्त्रेश्च पत्रपुष्पाद्यैः पूजयित्वा च शक्तितः । गङ्गायां निक्षिपेन्नित्यं तस्य पुपयमनन्तकम् ॥ २,४१.२७ ॥ सर्वानन्दप्रदायिन्यां गङ्गायां यो नरोत्तमः । अष्टाक्षरं जपेद्भक्त्य मुक्तिस्तस्य करे स्थिता ॥ २,४१.२८ ॥ नमो नारायणायेति प्रणवाद्यं नियम्य च । षण्मासं जपतः सर्वा ह्युपतिष्ठन्ति सिद्धयः ॥ २,४१.२९ ॥ नमः शिवायेति मन्त्रं सतारं विधिना तु यः । चतुर्विशतिलक्षं वै जपेत्साक्षात्सशङ्करः ॥ २,४१.३० ॥ पञ्चाक्षरी सिद्धविद्या शिव एव न संशयः । अपवित्रः पवित्रो वा जपन्निष्पातको भवेत् ॥ २,४१.३१ ॥ पूजितायां तु गङ्गायां पूजिताः सर्व देवताः । तस्मात्सर्वप्रयत्नेन पूजयेदमरापगाम् ॥ २,४१.३२ ॥ चतुर्भुजां त्रिनेत्रां च सर्वावयवशोभिताम् । रत्नकुंभसितांभोजवराभयकरं शुभाम् ॥ २,४१.३३ ॥ श्वेतवस्त्रपरीधानां मुक्तामणिविभूषिताम् । सुप्रसन्नां सुवदनां करुणार्द्रहृदंबुजाम् ॥ २,४१.३४ ॥ सुधाप्लावितभूपृष्ठां त्रैलोक्यनमितां सदा । ध्यात्वा जलमयीं गङ्गां पूजयन्पुण्यभाग्भवेत् ॥ २,४१.३५ ॥ मासार्द्धमपि यस्त्वेवं नैरन्तर्येण पूजयेत् । स एव देवसदृशो बहुकाले फलाधिकः ॥ २,४१.३६ ॥ वैशाखशुक्लसप्तम्यां जह्नुना जाह्नवी पुरा । क्रोधात्पीता पुनस्त्यक्ता कर्णरङ्घ्रात्तु दक्षिणात् ॥ २,४१.३७ ॥ तां तत्र पूजयेद्देवीं गङ्गां गगनमेखलाम् । अक्षयायां तु वैशाखे कार्तिकेऽपि शुभानने ॥ २,४१.३८ ॥ रात्रौ जागरणं कृत्वा यवान्नैश्च तिलैस्तथा । विष्णुं गङ्गां च शंभुं च पूजयेद्भक्ति भावतः ॥ २,४१.३९ ॥ तथा सुगन्धैः कुसुमैः कुङ्कुमागरुमन्दनैः । तुलसीबिल्वपत्राद्यैर्मातुलुङ्गफलादिभिः ॥ २,४१.४० ॥ धूपैर्दीपैश्च नैवेद्यैर्यथा विभवविस्तरैः । कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ २,४१.४१ ॥ दिव्यं विमानमास्थाय विष्णुलोके महीयते । ततो महीतलं प्राप्य राजा भवति धार्मिकः ॥ २,४१.४२ ॥ भुक्त्वा विविधसौख्यानि रूपशीलगुणान्वितः । देहान्ते ज्ञानवान्भूत्वा शिवसायुज्यमाप्नुयात् ॥ २,४१.४३ ॥ यज्ञो दानं तपो जप्यं श्राद्धं च सुरपूजनम् । गङ्गायां तु कृतं सर्वं कोटिकोटिगुणं भवेत् ॥ २,४१.४४ ॥ यस्त्वक्षयतृतीयायां गङ्गातीरे ददाति वै । घृतधेनुं विधानेन तस्य पुण्यफलं शृणु ॥ २,४१.४५ ॥ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । सहस्रादित्यसंकाशः सर्वकामसमन्वितः ॥ २,४१.४६ ॥ हेमरत्न मये चित्रे विमाने हंसभूषिते । स्वकीयपितृभिः सार्द्धं ब्रह्मलोके महीयते ॥ २,४१.४७ ॥ ततस्तु जायते विप्रो गङ्गातीरे धनान्वितः । अन्ते तु ब्रह्मविद्भूत्वा मोक्षमाप्नोत्यसंशयः ॥ २,४१.४८ ॥ तथैव गोप्रदानं च विधिना कुरुते तु यः । गोलोमसंख्यवर्षाणि स्वर्गलोके महीयते ॥ २,४१.४९ ॥ जायते च कुले पश्चाद्धनधान्यसमाकुले । रत्नकाञ्चनभूपूर्णे शीलविद्यायशोन्विते ॥ २,४१.५० ॥ स भुक्त्वा विपुलान्भोगान्पुत्रपौत्रसमन्वितः । मोक्षभागी भवेन्नृनं नात्रकार्या विचारणा ॥ २,४१.५१ ॥ कपिला यदि दत्ता स्याद्विधिना वेदपारगे । नरकस्थान्पितॄन्सर्वान्स्वर्गं नयति वै तदा ॥ २,४१.५२ ॥ भूमिं निवर्तनमितां गङ्गातीरे ददाति यः । भूमिरेणुप्रमाणाब्दं ब्रह्मविष्णुशिवातिगः ॥ २,४१.५३ ॥ जायते च पुनर्भूमौ सप्तद्वीपपतिर्भवेत् । भेरीशङ्खादिनिर्घोषैर्गीतवादित्रनिःस्वनैः ॥ २,४१.५४ ॥ स्तुतिभिर्मागघानां च सुप्तोऽसौ प्रतिबुध्यते । सर्वसौख्यान्यवाप्येह सर्वधर्मपरायणः ॥ २,४१.५५ ॥ नरकस्थान्पितॄन्सर्वान्प्रापयित्वा दिवं तथा । स्वर्गस्थितान्मोक्षयित्वा स्वयं ज्ञानी च मोहिनि ॥ २,४१.५६ ॥ अन्ते ज्ञानासिना छित्वा अविद्यां पञ्चपर्विकाम् । परं वैराग्यमापन्नः परं ब्रह्माधि गच्छति ॥ २,४१.५७ ॥ सप्तहस्तेन दण्डेन त्रिंशद्दण्डा निवर्तनम् । त्रिभागहीनं गोचर्म मानमाह विधिः स्वयम् ॥ २,४१.५८ ॥ ग्रामं गङ्गातटे यो वै ब्राह्मणेभ्यः प्रयच्छति । ब्रह्मविष्णुशिवप्रीत्ये दुर्गाया भास्करस्य च ॥ २,४१.५९ ॥ सर्वदानेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् । तपोव्रतेषु पुण्येषु यत्फलं परिकीर्तितम् ॥ २,४१.६० ॥ सहस्रगुणितं तत्तु विज्ञेयं ग्रामदायिनः । सूर्यकोटिप्रतीकाशे विमाने वैष्णवे पुरे ॥ २,४१.६१ ॥ क्रीडते शाङ्करे वापि स्तुतो देवादिभिर्मुदा । भूमिरेण्वब्दसंख्याकं कालं स्थित्वा च तत्र सः ॥ २,४१.६२ ॥ अणिमादिगुणैर्युक्ते योगिनां जायते कुले । अक्षयायां तु यो देवि स्वर्णं षोडशमासिकम् ॥ २,४१.६३ ॥ ददाति द्विजमुख्याय सोऽपि लोकेषु पूज्यते । अन्नदानाद्विष्णुलोकं शैवं वै तिलदानतः ॥ २,४१.६४ ॥ ब्राह्मं रत्नप्रदानेन गोहिरण्येन वासवम् । गान्धर्वं स्वर्णवासोभिः कीर्तिं कन्याप्रदानतः ॥ २,४१.६५ ॥ विद्यया मुक्तिदं ज्ञानं प्राप्य यायान्निरञ्जनम् । गंमातीरे नरो यस्तु नानावृक्षैः समन्वितम् ॥ २,४१.६६ ॥ आरामं कारयेद्भक्त्या गृहं चोपवनान्वितम् । कदलीनारिकेरैश्च कपित्थाशोकचंपकैः ॥ २,४१.६७ ॥ पनसैर्बिल्ववृक्षैश्च कदंबाश्वत्थपाटलैः । आम्रैस्तालैर्नागरङ्गैर्वृक्षैरन्यैश्च संयुतम् ॥ २,४१.६८ ॥ जातीविजयसंयुक्तं तथा पाटलराजितम् । निचितं कारयित्वैवमावासं पुष्पशोभितम् ॥ २,४१.६९ ॥ शिवाय विष्णवे वापि दुर्गायै भास्कराय च । प्रयच्छति तथा भक्त्या सर्वार्थं परिकल्प्य च ॥ २,४१.७० ॥ तस्य पुण्यफलं वक्ष्ये संक्षेपान्नतु विस्तरात् । यावन्ति तेषां वृक्षाणां पुष्पमूलफलानि च ॥ २,४१.७१ ॥ बीजानि च विचित्राणि तेषां मूलानि वै तथा । तावत्कल्पसहस्राणि तेषां लोकेषु संस्थितिः ॥ २,४१.७२ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्ये दानादिविधिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः _____________________________________________________________ मोहिन्युवाच धन्याहं कृतकृत्याहं सफलं जीवितं मम । यच्छ्रुतं त्वन्मुखांभोजाद्गामाहात्म्यमुत्तमम् ॥ २,४२.१ ॥ अहो गङ्गासमं तीर्थं नास्ति किञ्चिद्धरा तले । यस्याः संदर्शनादीनामीदृशं पुण्यमीरितम् ॥ २,४२.२ ॥ गुडधेन्वादिधेनूनां विधानं च यथाक्रमम् । तथा कथयविप्रेन्द्र भक्ताहं तव सर्वदा ॥ २,४२.३ ॥ वसिष्ठ उवाच तच्छ्रुत्वा मोहिनीवाक्यं वसुस्तस्याः पुरोहितः । वेदागमानां तत्त्वज्ञः स्मयमान उवाच ह ॥ २,४२.४ ॥ वसुरुवाच शृणु मोहिनि वक्ष्यामि यत्पृष्टं हि त्वया मम । गुडधेनुविधानं च यथा शास्त्रे प्रकीर्तितम् ॥ २,४२.५ ॥ कृष्णाजिनं चतुर्ग्रीवं विन्यसेद्भुवि । गोमयेनोपलिप्तायां कुशानास्तीर्य यत्नतः ॥ २,४२.६ ॥ प्रङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्सकाम् । उत्तमा गुडधेनुस्तु चतुर्भारैः प्रकीर्तिता ॥ २,४२.७ ॥ वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता । अर्द्धभारेण वत्सः स्यात्कनिष्ठा भारकेण तु ॥ २,४२.८ ॥ चतुर्थांशेन वत्सः स्याद्गृहवित्तानुसारतः । प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तयेत् ॥ २,४२.९ ॥ न सांपरायिकं तस्य दुर्मतेर्जायते फलम् । धेनुवत्सौ घृतस्यैतौ सितश्लक्ष्णांबरावृतौ ॥ २,४२.१० ॥ शुक्तिकर्णाविक्षुपादौ शुद्धमुक्तालेक्षणौ । सितसूत्रशिरालौ च सितकंबलकंबलौ ॥ २,४२.११ ॥ ताम्रगण्डूकपृष्ठौ तौ सितचामरलोमकौ । विद्रुमक्रमगो पेतौ नवनीतस्तनान्वितौ ॥ २,४२.१२ ॥ कांस्यदोहाविन्द्रनीलमणिकल्पिततारकौ । सुवर्णशृङ्गाभरणौ शुद्धरौप्यखुरावुभौ ॥ २,४२.१३ ॥ नानाफलं समायुक्तौ घ्राणगन्धकरण्डकौ । इत्येवं रचयित्वा तु धूपदीपैरथार्चयेत् ॥ २,४२.१४ ॥ या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता । धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु ॥ २,४२.१५ ॥ देहस्था या च रुद्राणां शङ्करस्य सदा प्रिया । धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥ २,४२.१६ ॥ विष्णोर्वक्षसि या लक्ष्मीः स्वाहारूपा विभावसोः । चन्द्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये ॥ २,४२.१७ ॥ चतुर्मुखस्य या लक्ष्मीर्लक्ष्मीर्या धनदस्य च । लक्ष्मीर्या लोकपालानां सा धेनुर्वरदास्तु मे ॥ २,४२.१८ ॥ स्वधा या पितृमुख्यानां स्वाहा यज्ञमुजा च या । सर्वपापहरा धेनुः सा मे शान्तिं प्रयच्छतु ॥ २,४२.१९ ॥ एवमांमत्र्य तां धेनुं ब्राह्मणाय निवेदयेत् । विधानमेतद्धेनूनां सर्वासामिह पठ्यते ॥ २,४२.२० ॥ यास्तु पापर्विनाशिन्यः कीर्तिता दशधेनवः । तासां स्वरूपं वक्ष्यामि शास्त्रोकं शृणु मोहिनि ॥ २,४२.२१ ॥ प्रथमा गुडधेनुः स्याद्घृतधेनुरथापरा । तिलधेनुस्तृतीया च चतुर्थी जलसंज्ञिता ॥ २,४२.२२ ॥ पञ्चमी क्षीरधेनुश्च षष्ठी मधुमयी स्मृता । सप्तमी शर्कराधेनुर्दधिधेनुस्तथाष्टमी ॥ २,४२.२३ ॥ रत्नधेनुश्च नवमी दशमी तु स्वरूपतः । कुंभाः स्युर्द्रवधेनूनां चेतरासां तु राशयः ॥ २,४२.२४ ॥ सुर्वणधेनुमप्यत्र केचिदिच्छन्ति सूरयः । नवनीतेन तैलेन तथा केऽपि महर्षयः ॥ २,४२.२५ ॥ एतदेव विधानं स्यादेत एव ह्युपस्कराः । मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि ॥ २,४२.२६ ॥ यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः । अनेकयज्ञफलदाः सर्वपापहराः शुभाः ॥ २,४२.२७ ॥ अयने विषुवे पुण्ये व्यतीपातेऽथवा पुनः । युगादौ चैव मन्वादौ चोपरागादिपर्वसु ॥ २,४२.२८ ॥ गुडधेन्वादयो देया भक्तिश्रद्धासमन्वितैः । तीर्थेषु स्वगृहे वापि गङ्गातीरे विशेषतः ॥ २,४२.२९ ॥ एवं दत्वा विधानेन धेनुं द्विजवराय च । प्रदक्षिणीकृत्य विप्रं दक्षिणाभिः प्रतोष्य च ॥ २,४२.३० ॥ ऋत्विजः प्रीतिसंयुक्तो नमस्कृत्य विसर्जयेत् । ततः संपूजयेद्गङ्गां विधिना सुसमाहितः ॥ २,४२.३१ ॥ अष्टमूर्तिधरां देवीं दिव्यरूपां निरीक्ष्य च । शालितन्दुलप्रस्थेन द्विप्रस्थपयसा तथा ॥ २,४२.३२ ॥ पायसं कारयित्वा च दत्वा मधु घृतं तथा । प्रत्येकं पलमात्रं च भक्तिभावेन संयुतः ॥ २,४२.३३ ॥ तत्पायसमपूपांश्च मोदका मण्डलानि च । तथा गुञ्जार्द्धमात्रं च सुवर्णं रूप्यमेव च ॥ २,४२.३४ ॥ चन्दनागरुकर्पूरकुङ्कुमानि च गुग्गुलम् । बिल्वपत्राणि दूर्वाश्च रोचना सितचन्दनम् ॥ २,४२.३५ ॥ नीलोत्पलानि चान्यानि पुष्पाणि सुरभीणि च । यथाशक्ति महाभक्त्या गङ्गायां चैव निक्षिपेत् ॥ २,४२.३६ ॥ मन्त्रेणानेन सुभगे पुराणोक्तेन चापि हि । ओङ्गङ्गायै नारायण्यै शिवायै च नमोनमः ॥ २,४२.३७ ॥ एतदेव विधानं तु मासि मासि च मोहिनि । पौर्णमास्यामपायां वा कार्यं प्रातः समाहितैः ॥ २,४२.३८ ॥ वर्षं यस्तु नरो भक्त्या यथा शक्त्यर्चयन्मुदा । हविष्याशी मिताहारो ब्रह्मचर्यसमन्वितः ॥ २,४२.३९ ॥ दिने वापि तथा रात्रा नियमेन च मोहिनि । संवत्सरान्ते तस्येषा गङ्गा दिव्यवपुर्द्धरा ॥ २,४२.४० ॥ दिव्यमाल्यांबरा चैव दिव्यरत्नविभूषिता । प्रत्यक्षरूपा पुरतस्तिष्टत्येव वरप्रदा ॥ २,४२.४१ ॥ एवं प्रत्यक्षरूपां तां गङ्गां दिव्यवपुर्द्धराम् । दृष्ट्वा स्व चक्षुषा मर्त्यः कृतकृत्यो भवेच्छुभे ॥ २,४२.४२ ॥ यान्यान्कामयते मर्त्यः कामांस्तांस्तानवाप्नुयात् । निष्कामस्तु लभेन्मोक्षं विप्रस्तेनैव जन्मना ॥ २,४२.४३ ॥ एतद्धिधानं च मयोदितं ते पृष्टं हि सर्वं गुडधेनुपूर्वम् । गङ्गार्चनं मुक्तिकरं व्रतं त्त सांवत्सरं श्रीपतितुष्टिदं हि ॥ २,४२.४४ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्ये गुडधेनुविधिकथनं नाम द्विचत्वारिंशत्तमोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच वसोर्वचनमाकर्ण्य गङ्गामाहात्म्यसूचकम् । पुनः पप्रच्छ राजेन्द्रं तं विप्रं स्वपुरोहितम् ॥ २,४३.१ ॥ मोहिन्युवाच श्रुतं विप्र मया सर्वं गोदानादि शुभावहम् । अधुना श्रोतुमिच्छामि गङ्गाव्रतमनुत्तमम् ॥ २,४३.२ ॥ गङ्गादीनां पूजनं च स्थापनं तत्र वा द्विज । किं फलं वद सर्वज्ञ त्वामहं शरणं गता ॥ २,४३.३ ॥ अधुना गतिदाता त्वं वर्जितायाश्च बन्धुभिः । पत्या विरहिता चाहं पुत्रहीना विदांवर ॥ २,४३.४ ॥ त्वामेव शरणं प्राप्ता पितुर्वचनगौरवात् । तद्भवान्प्रणताया मे गङ्गामाहात्म्यंसंयुतम् । देवताराधनं ब्रूहि यच्छ्रुत्वा मुच्यते ह्यघात् ॥ २,४३.५ ॥ वसिष्ठ उवाच तच्छ्रुत्वा मोहिनीवाक्यं वसुर्विप्रः प्रतापवान् । सभाज्य मोहिनीं भूप प्राह वेदविदां वरः ॥ २,४३.६ ॥ वसुरुवाच साधु पृष्टं त्वया देवि लोकानां हितकाम्यया ॥ २,४३.७ ॥ गङ्गामाहात्म्यमखिलं महापापप्रणाशनम् । वृषध्वजेन कथितं शिवेन दयया पुरा ॥ २,४३.८ ॥ प्रीत्या देव्याभि पृष्टेन गङ्गातीरनिवासिना । देवैस्तु भुक्तं पूर्वाह्णे मध्याह्ने ऋषिभिस्तथा ॥ २,४३.९ ॥ अपराह्णे च पितृभिः शर्वर्ंयां गुह्यकादिभैः । सर्वा वेला अतिक्रम्य नक्तभोजनमुत्तमम् ॥ २,४३.१० ॥ उपवासाद्वारं भैक्ष्यं भैक्ष्याद्वरमयाचितम् । अयाचिताद्वारं नक्तं तस्मान्नक्तं समाचरेत् ॥ २,४३.११ ॥ हविष्यभोजनं स्नानं सत्यमाहारलाघवम् । अग्निकार्य्यमधःशय्यां नक्ताशी षट्समाचरेत् ॥ २,४३.१२ ॥ गङ्गातीरे माघमासे यः कुर्यान्नक्तभोजनम् । शिवायतनपार्श्वे तु कृशरं घृतसंयुतम् ॥ २,४३.१३ ॥ नैवेद्यं च निवेद्यैव कृशरान्नं शिवस्य तु । काष्ठमौनेन भुञ्जानो जिह्वालौल्यं विवर्जयेत् ॥ २,४३.१४ ॥ पलाशपत्रे भुञ्जानः शिवं स्मृत्वा जितेन्द्रियः । धर्मराजस्य देव्याश्च पृथक्पिण्डं प्रकल्पयेत् ॥ २,४३.१५ ॥ सोपवासश्चतुर्द्दश्यां भवेदुभयपक्षयोः । पौर्णमास्यां तु गन्धैश्च गङ्गायाः सलिलैस्तथा ॥ २,४३.१६ ॥ शिवं संस्नाप्य पयसा मध्वाज्यदधिभिः पृथक् । तथैव हेमपुष्पं च लिङ्गमूर्ध्नि विनिक्षिपेत् ॥ २,४३.१७ ॥ ततो दद्यात्तु शक्त्यैवापूपञ्च घृतपाचितम् । तिलाढकं प्रगृह्याथ शिवलिङ्गोपरि क्षिपेत् ॥ २,४३.१८ ॥ नीलोत्पलैश्च सर्वेशं पूजयेत्पङ्कजैरपि । तदलाभे तु सौवर्णैः पङ्कजैः पूजयेद्धरम् ॥ २,४३.१९ ॥ पायसं चात्र मध्वक्तं घृतयुक्तं च गुग्गुलम् । घृतदीपं तथा चैव चन्दनाद्यैर्विलेपनम् ॥ २,४३.२० ॥ दद्याद्भक्त्या महेशाय तथा पत्रफलानि च । कृष्णगोमिथुनं चैव सरूपं च निवेदयेत् ॥ २,४३.२१ ॥ भोजयेद्ब्राह्मणानष्टौ मासांते तु सदक्षिणान् । वर्जयेन्मधु मांसं च तं मासं ब्रह्मचर्यवान् ॥ २,४३.२२ ॥ एवं कृत्वा यथोद्दिष्टमेकवारमिदं व्रतम् । यमैश्च नियमैर्युक्तः श्रद्धाभक्तिपरायणः ॥ २,४३.२३ ॥ इह भोगानवाप्नोति प्रेत्य चानुत्तमां गतिम् । इन्द्रनीलप्रतीकाशैर्विमानैः शिखिसंयुक्तैः ॥ २,४३.२४ ॥ दिव्यरत्नमयैश्चैव दिव्यभोगसमन्वितैः । गत्वा शिवपुरं रम्यं सर्वस्वकुलसंयुतः ॥ २,४३.२५ ॥ सुहृद्भिर्विविधैश्चैव विविधानप्यभीप्सितान् । भुक्त्वा भोगानशेषांश्च यावदाभूतसंप्लवम् ॥ २,४३.२६ ॥ ततो भवति धर्मात्मा जंबूद्वीपपतिस्तथा । तत्र भुङ्क्ते समस्तांश्च भोगान्विगतकल्मषः ॥ २,४३.२७ ॥ सुरूपः सुभगश्चैव तथा विहितशासनः । सर्वरोगविनिर्मुक्तः सोऽप्येतत्फलभाग्भवेत् ॥ २,४३.२८ ॥ वैशाखे शुक्लपक्षे वा चतुर्दश्यां समाहितः । शाल्यन्नं क्षीरसंयुक्तं यः कुर्यान्नक्तभोजनम् ॥ २,४३.२९ ॥ शिवं संपूज्य पुष्पाद्यैर्भोज्यं तु संनिवेद्य च । काष्ठमौनेन भुञ्जानो वटकाष्टेन वै तथा ॥ २,४३.३० ॥ मौनेन प्रयतो भूत्वा कुर्याद्वै दन्तधावनम् । शिवलिङ्गसमीपे तु गङ्गातीरे निशि स्वपेत् ॥ २,४३.३१ ॥ पौर्णमास्यां प्रभाते तु गङ्गायां विधिना तथा । स्नात्वोपवासं संकल्प्य कुर्य्याज्जागरणं निशि ॥ २,४३.३२ ॥ लिङ्गं घृतेन संस्नाप्य पुष्पगन्धादिभिस्तथा । नैवेद्यधूपदीपैश्च संपूज्य वृषभं शुभम् ॥ २,४३.३३ ॥ सुश्वेतपुष्पवस्त्राद्यैर्हारिद्रैश्चन्दनैस्तथा । अलङ्कृत्य विधानेन शिवाय विनिवेदयेत् ॥ २,४३.३४ ॥ ब्राह्मणांश्च यथाशक्ति पायसेन तु भोजयेत् । एवं सकृच्च यो भक्त्या करोति श्रद्धयान्वितः ॥ २,४३.३५ ॥ लभते दैवपादोनयुगानां द्विसहस्रकम् । तपः कृत्वा तु नियमाद्यत्पुण्यं तदसंशयम् ॥ २,४३.३६ ॥ हंसकुन्दप्रभायुक्तैर्विमानैश्चन्द्रसन्निभैः । सुश्वेतवृषयुक्तैश्च मुक्ताजालविभूषितैः ॥ २,४३.३७ ॥ स्वकीयपितृभिः सार्द्धं प्रयातीश्वरमन्दिरम् । नीलोत्पलसुंगन्धाभिः सुरूपाभिः समन्ततः ॥ २,४३.३८ ॥ कान्ताभिर्दिव्यरूपाभिर्भुक्त्वा भोगाननेकशः । अनन्तकालमैश्वर्ययुक्तो भूत्वा ततो भुवि ॥ २,४३.३९ ॥ जायते स महीपालः कीर्त्यैश्वर्यसमन्वितः । एकच्छत्रेण स महीं पालयत्याज्ञया सह ॥ २,४३.४० ॥ अन्ते वैराग्यसंपन्नो गङ्गां स लभते पुनः । स तया श्रद्धया युक्तो गङ्गायां मरणं लभेत् ॥ २,४३.४१ ॥ तथा तत्र स्मृतिं लब्ध्वा मोक्षमाप्नोति स ध्रुवम् । ज्येष्ठे मासि सिते पक्षे दशम्यां हस्तसंयुते ॥ २,४३.४२ ॥ गङ्गातीरे तु पुरुषो नारी वा भक्तिभावतः । निशायां जागरं कृत्वा गङ्गां दशविधैस्ततः ॥ २,४३.४३ ॥ पुष्पैर्गन्धैश्च नैवेद्यैः फलैश्च दशसंख्याया । तथैव दीपैस्तांबूलैः पूजयेच्छ्रद्धयान्वितः ॥ २,४३.४४ ॥ स्नात्वा भक्त्या तु जाह्नव्यां दशकृत्वो विधानतः । दशप्रसृति कृष्णंश्च तिलान्सर्पिश्च वै जले ॥ २,४३.४५ ॥ सक्तुपिण्डान्गुडपिण्डान्दद्याच्च दशसंख्यया । ततो गङ्गातटे रम्ये हेम्ना रूप्येण वा तथा ॥ २,४३.४६ ॥ गङ्गायाः प्रतिमां कृत्वा वक्ष्यमाणस्वरूपिणीम् । पद्मस्वस्तिकचिह्नस्य संस्थितस्य तथोपरि ॥ २,४३.४७ ॥ वस्त्रस्रग्दामकण्ठस्य पूर्णकुंभस्य चोपरि । संस्थाप्य पूजयेद्देवीं तदलाभे मृदादि वा ॥ २,४३.४८ ॥ अथ तत्राप्यशक्तश्चेल्लिखेत्पिष्टेन वै भुवि । चतुर्भुजां सुनेत्रां च चन्द्रायुतसमप्रभाम् ॥ २,४३.४९ ॥ चामरैर्वीज्यमानां च श्वेतच्छत्रोपशिभिताम् । सुप्रसन्नां च वरदां करुणार्द्रनिजान्तराम् ॥ २,४३.५० ॥ सुधाप्लावितभूपृष्ठां देवादिभिरभिष्टुताम् । दिव्यरत्नपरीतां च दिंव्यमाल्यानुलेपनाम् ॥ २,४३.५१ ॥ ध्यात्वा जले यथाप्रोक्तां तत्रार्चायां तु पूजयेत् । वक्ष्यमाणेन मन्त्रेण कुर्यात्पूजां विशेषतः ॥ २,४३.५२ ॥ पञ्चामृतेन च स्नानमर्चायां तु विशिष्यते । प्रतिमाग्रे स्थण्डिले तु गोमयेनोपलेपयेत् ॥ २,४३.५३ ॥ नारायणं महेशं च ब्रह्माणं भास्करं तथा । भगीरथं च नृपतिं हिमवन्तं नगेश्वरम् ॥ २,४३.५४ ॥ गन्धपुष्पादिभिश्चैव यथाशक्ति प्रपूजयेत् । दशप्रस्थां स्तिलान्दद्याद्दश विप्रेभ्य एव च ॥ २,४३.५५ ॥ दशप्रस्थान्यवान्दद्याद्दश गव्यैर्यथाहितान् । मत्स्यकच्छपमण्डूकमरादिजलेचरान् ॥ २,४३.५६ ॥ कारितान्वै यथाशक्ति स्वर्णेन रजतेन वा । तदलाभे पिष्टमयानभ्यर्च्य कुसुमादिभिः । गङ्गायां प्रक्षिपेत्पूर्व्वं मन्त्रेणैव तु मन्त्रवित् ॥ २,४३.५७ ॥ रथयात्रादिने तस्मिन्विभवे सति कारयेत् । रथारूढप्रतिकृतिं गङ्गायास्तूत्तरामुखाम् ॥ २,४३.५८ ॥ भ्रमन्त्या दर्शनं लोके दुर्लभं पापकर्मणाम् । दुर्गाया रथयात्रास्ति तथैवात्रापि कारयेत् ॥ २,४३.५९ ॥ एवं कृत्वा विधानेन वित्तशाठ्यविवर्जितः । दशपापैर्वक्ष्यमाणैः सद्य एव विमुच्यते ॥ २,४३.६० ॥ अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिकं त्रिबिधं स्मृतम् ॥ २,४३.६१ ॥ पांरुष्यमनृतं वापि पैशुन्यं चापि सर्वशः । असंबद्धप्रलापश्च वाचिकं स्याच्चतुर्विधम् ॥ २,४३.६२ ॥ परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् । वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ॥ २,४३.६३ ॥ एतैर्दशविधैः पापैः कोटिजन्मसमुद्भवैः । मुच्यते नात्र संदेहो ब्रह्मणो वचनं यथा ॥ २,४३.६४ ॥ दश त्रिंशच्च तान्पूर्वान्पितॄनेव तथापरान् । उद्धरत्येव संसारान्मन्त्रेणानेन पूजिता ॥ २,४३.६५ ॥ ओं नमो दशहरायै नारायण्यै गङ्गायै नमः । इति मन्त्रेण यो मर्त्यो दिने तस्मिन्दिवानिशम् ॥ २,४३.६६ ॥ जपेत्पचसहस्राणि दशधर्मफलं लभेत् । उद्दरेद्दश पूर्वाणि पराणि च भवार्णवात् ॥ २,४३.६७ ॥ वक्ष्यमाणमिदं स्तोत्रं विधिना प्रतिगृह्य च । गङ्गाग्रे तद्दिने जप्यं विष्णुपूजां प्रवर्तयेत् ॥ २,४३.६८ ॥ ओं नमः शिवायै गङ्गायै शिवदायै नमोऽस्तु ते । नमोऽस्तु विष्णुरूपिण्यै गङ्गायै ते नमो नमः ॥ २,४३.६९ ॥ सर्वदेवस्वरूपिण्यै नमो भेषजमूर्तये । सर्वस्य सर्वव्याधीनां भिषक्श्रेष्ठे नमोऽस्तु ते ॥ २,४३.७० ॥ स्थाणुजङ्गमसंभूतविषहन्त्रि नमोऽस्तु ते । संसारविषनाशिन्यै जीवनायै नमोनमः ॥ २,४३.७१ ॥ तापत्रितयहन्त्र्यै च प्राणेश्वर्यै नमोनमः । शान्त्यै संतापहारिण्यै नमस्ते सर्वमूर्तये ॥ २,४३.७२ ॥ सर्वसंशुद्धिकारिण्यै नमः पापविमुक्तये । भुक्तिमुक्तिप्रदायिन्यै भोगवत्यै नमोनमः ॥ २,४३.७३ ॥ मन्दाकिन्यै नमस्तेऽस्तु स्वर्गदायै नमोनमः । नमस्त्रैलोक्यमूर्तायै त्रिदशायै नमोनमः ॥ २,४३.७४ ॥ नमस्ते शुक्लसंस्थायै क्षेमवत्यै नमोनमः । त्रिदशासनसंस्थायै तेजोवत्यै नमोऽस्तु ते ॥ २,४३.७५ ॥ मन्दायै लिङ्गधारिण्यै नारायण्यै नमोनमः । नमस्ते विश्वमित्रायै रेवत्यै ते नमोनमः ॥ २,४३.७६ ॥ बृहत्यै ते नमो नित्यं लोकधात्र्यै नमोनमः । नमस्ते विश्वमुख्यायै नन्दिन्यै ते नमोनमः ॥ २,४३.७७ ॥ पृथ्व्यै शिवामृतायै च विरजायै नमोनमः । परावरगताद्यैयै तारायै ते नमोनमः ॥ २,४३.७८ ॥ नमस्ते स्वर्गसंस्थायै अभिन्नायै नमोनमः । शान्तायै ते प्रतिष्ठायै वरदायै नमोनमः ॥ २,४३.७९ ॥ उग्रायै नुखजल्पायै संजीविन्यै नमोनमः । ब्रह्मगायै ब्रह्मदायै दुरितघ्न्यै नमोनमः ॥ २,४३.८० ॥ प्रणतार्तिप्रभञ्जिन्यै जगन्मात्रे नमोनमः । विलुषायै दुर्गहन्त्र्यै दक्षायै ते नमोनमः ॥ २,४३.८१ ॥ सर्वापत्प्रतिपक्षायै मङ्गलायै नमोनमः । परापरे परे तुभ्य नमो मोक्षप्रदे सदा । गङ्गा ममाग्रतो भूयाद्गङ्गा मे पार्श्वयोस्तथा ॥ २,४३.८२ ॥ गङ्गा मे सर्वतो भूयात्त्वयि गङ्गेऽस्तु मे स्थितिः । आदौ त्वमन्ते मध्ये च सर्वा त्वं गाङ्गते शिवे ॥ २,४३.८३ ॥ त्वमेव मूलप्रकृतिस्त्वं हि नारायणः प्रभुः । गङ्गे त्वं परमात्मा च शिवस्तुभ्यं नमोनमः ॥ २,४३.८४ ॥ इतीदं पठति स्तोत्रं नित्यं भक्तिपरस्तु यः । शृणोति श्रद्धया वापि कायवाचिकसंभवैः ॥ २,४३.८५ ॥ दशधा संस्थितैर्देषैः सर्वैरेव प्रमुच्यते । रोगी प्रमुच्यते रोगान्मुच्येतापन्न आपदः ॥ २,४३.८६ ॥ द्विषभ्द्यो बन्धनाच्चापि भयेभ्यश्च विमुच्यते । सर्वान्कामानवाप्नोति प्रेत्य ब्रह्मणि लीयते ॥ २,४३.८७ ॥ इदं स्तोत्रं गृहे यस्य लिखितं परिपूज्यते । नाग्निचौरभयं तत्र पापेभ्योऽपि भयं नहि ॥ २,४३.८८ ॥ तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः । जपंस्तु दशकृत्वश्च दरिद्रो वापि चाक्षमः ॥ २,४३.८९ ॥ सोऽपि तत्फलमाप्नोति गङ्गां संपूज्य भक्तितः । पूर्वोक्तेन विधानेन फलं यत्परिकीर्तितम् ॥ २,४३.९० ॥ यथा गौरी तथा गङ्गा तस्माद्गौर्यास्तु पूजने । विधिर्यो विहितः सम्यक्सोऽपि गङ्गाप्रपूजने ॥ २,४३.९१ ॥ यथा शिवस्तथा विष्णुर्यथा विष्णुस्तथा ह्युमा । उमा यथा तथा गङ्गा चात्र भेदो न विद्यते ॥ २,४३.९२ ॥ विष्णुरुद्रान्तरं यश्च गगागौर्यन्तरं तथा । लक्ष्मीगौर्यतरं यश्च प्रब्रूते मूढधीस्तु सः ॥ २,४३.९३ ॥ शुक्लपक्षे दिवा भूमौ गङ्गायामुत्तरायणे । धन्या देहं विमुञ्चन्ति हृदयस्थे जनार्दने ॥ २,४३.९४ ॥ ये मुञ्चन्ति नराप्राणान् गङ्गायां विधिनं दिनि । ते विष्णुलोकं गच्छन्ति स्तूयमाना दिविस्थितैः ॥ २,४३.९५ ॥ अर्द्धोदकेन जाह्नव्यां म्नियतेऽनशनेन यः । स याति न पुनर्जन्म ब्रह्मसायुज्यमेति च ॥ २,४३.९६ ॥ या गतिर्योगयुक्तस्य सात्विकस्य मनीषिणः । सा गेतिस्त्यजतः प्राणान् गङ्गायां तु शरीरिणः ॥ २,४३.९७ ॥ अनशनं गृहीत्वा यो गङ्गातीरे मृतो नरः । सत्यमेव परं लोकमाप्नोति पितृभिः सह ॥ २,४३.९८ ॥ गङ्गायां मरणात्प्राणान्योः प्राज्ञस्त्यक्तुमिच्छति । गतानि बहुजन्मानि यत्र यत्र मृतानि च ॥ २,४३.९९ ॥ महांश्चापि गतः कालो यत्र तत्रापि गच्छतः । अत्रदूरे समीपे च सदृशं योजनद्वयम् ॥ २,४३.१०० ॥ गङ्गायां मरणेनेह नात्र कार्या विचारणा । ज्ञानतोऽज्ञानतो वापि कामतोऽपि वा ॥ २,४३.१०१ ॥ गङ्गायां तु मृतो मर्त्यः स्वर्गं मोक्षं च विन्दति । प्राणेषूत्सृज्यमानेषु यो गङ्गां संस्मरेन्नरः ॥ २,४३.१०२ ॥ स्पृशेद्वा पापशीलोऽपि स वै याति परां गतिम् ॥ २,४३.१०३ ॥ गङ्गां गत्वा यैः शरीरं विसृष्टं प्राप्ता धीरास्ते तु देवैः समत्वम् । तस्मात्सुर्वान्प्रोह्य मुक्तिप्रदान्वै सेवेद्गङ्गामा शरीरस्य पातम् ॥ २,४३.१०४ ॥ अन्तरिक्षे क्षितौ तोये पापीयानपि यो मृतः । ब्रह्मविष्णुशिवैः पूज्यं पदमक्षय्यमश्नुते ॥ २,४३.१०५ ॥ यो धर्मिश्टश्च सप्राणः प्रयतः शिष्टसंमतः । चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत् ॥ २,४३.१०६ ॥ यत्र तत्र मृतो वापि मरणे समुपस्थिते । भक्त्या गङ्गां स्मरन्याति शैवं वा वैष्णवं पुरम् ॥ २,४३.१०७ ॥ शंभोर्जटाकलापात्तु विनिष्क्रान्तातिकर्कशात् । प्लावयित्वा दिवं निन्ये या पापान्यगरात्मजान् ॥ २,४३.१०८ ॥ यावन्त्यस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य वै । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ २,४३.१०९ ॥ गगातोये तु यस्यास्थि नीत्वा प्रक्षिप्यते नरैः । तत्कालमादितः कृत्वा स्वर्गलोके भवेत्स्थितिः ॥ २,४३.११० ॥ गङ्गातोये तु यस्यास्थि प्राप्यते शुभकर्मणः । न तस्य पुनरावृत्तिर्ब्रह्मलोकात्कथञ्चन ॥ २,४३.१११ ॥ दशाहाभ्यन्तरे यस्य गङ्गातोयेऽस्थि संगतम् । गङ्गायां मरणे यादृक्तादृक्फलमवाप्नुयात् ॥ २,४३.११२ ॥ स्नात्वा ततः पञ्चगव्येन सिक्त्वा हिरण्यमध्वाज्यतिलैर्नियोज्य । तदस्थिपिण्डं पुटके निधाय पश्यन् दिशं प्रेतगणोपगूढाम् ॥ २,४३.११३ ॥ नमोऽस्तु धर्माय वदन्प्रविश्य जलं स मे प्रीत इति क्षिपेच्च । स्नात्वा ततस्तीर्थवटाक्षयं च दृष्ट्वा प्रदद्यादथ दक्षिणां तु ॥ २,४३.११४ ॥ एवं कृत्वा प्रेतपुरे स्थितस्य स्वर्गे गतिः स्यात्त महेन्द्रतुल्या ॥ २,४३.११५ ॥ प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् । तत्र नारायणः स्वामी नान्यः स्वामी कदाचन ॥ २,४३.११६ ॥ न तत्र प्रतिगृह्णीयात्प्राणैः कण्ठगतैरपि । भाद्रशुक्लचतुर्दश्यां यावदाक्रमते जलम् ॥ २,४३.११७ ॥ तावद्गभं विजानीयात्तद्दूरं तीरमुच्यते । सार्द्धहस्तशतं यावद्गर्भस्तीरं ततः परम् ॥ २,४३.११८ ॥ इति केषां मतं देवि श्रुतिस्मृतिषु संमतम् । तीराद्गव्यूतिमात्रं तु परितः क्षेत्रमुच्यते ॥ २,४३.११९ ॥ तीरं त्यक्त्वा वसेत्क्षेत्रे तीरे वासो न चेष्यते । एकयोजनविस्तीर्णा क्षेत्रसीमा तटद्वयात् ॥ २,४३.१२० ॥ गङ्गासीमां न लघन्ति पापान्यप्यखिलान्यपि । तां तु दृष्ट्वा पलायन्ते यथा सिंहं वनौकसः ॥ २,४३.१२१ ॥ यत्र गङ्गा महाभागे रामशंभुतपोवनम् । सिद्धक्षेत्रं तु तज्ज्ञेयं समन्तात्तु त्रियोजनम् ॥ २,४३.१२२ ॥ तीर्थे न प्रतिगृह्णीयात्पुण्येष्वायतनेषु च । निमित्तेषु च सर्वेषु तन्निवृत्तो भवेन्नरः ॥ २,४३.१२३ ॥ तीर्थे यः प्रतिगृह्णाति पुण्येष्वायतनेषु च । निष्फलं तस्य तत्तीर्थं यावत्तद्धनमुच्यते ॥ २,४३.१२४ ॥ गङ्गाविक्रयाणाद्देवि विष्णोर्विक्रयणं भवेत् । जनार्दने तु विक्रीते विक्रीतं भुवनत्रयम् ॥ २,४३.१२५ ॥ गङ्गा तीरसमुद्भूतां मदं मूर्घ्ना बिभर्ति यः । बिभर्ति रूपं सोर्ऽकस्य तमोनाशाय केवलम् ॥ २,४३.१२६ ॥ गङ्गापुलिनजां धूलिमास्तीर्याथ निजान् पितॄन् । प्रीणयन्यो नरः पिण्डान्दद्यात्तान् स्वर्नयेदपि ॥ २,४३.१२७ ॥ इदं तेऽभिहितं भद्रे गङ्गामाहात्म्यमुत्तमम् । पठन् शृण्वन्नरो ह्येति तद्विष्णोः परमं पदम् ॥ २,४३.१२८ ॥ नित्यं जप्यमिदं भक्त्या प्रयतैः श्रद्धयान्वितैः । वैष्णवीं गतिमिच्छद्भिः शैवीं वा विधिनन्दिनि ॥ २,४३.१२९ ॥ इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्ये पूजादिकथं नाम त्रिचत्वारिंशत्तमोऽध्यायः